प्रथमो ऽध्यायः
कल्याणानि ददातु वो गणपतिर् यस्मिन्न् अतुष्टे सति
क्षोदोयस्य् अपि कर्मणि प्रभवितुं ब्रह्मापि जिह्यायते ।
जाते तच्चरणप्रणामसुलभे सौभाग्यभाग्योदये
रङ्गस्याङ्कम् अनङ्कुशा निविशते देवेन्द्रलक्ष्मीर् अपि ॥ १ ॥
शश्वत् पुण्यहिरण्यगर्भरसनासिंहासनाध्यासिनौ
सेयं वाग् अधिदेवता वितरतु श्रेयांसि भूयांसि वः ।
यत्पादामलकोमलाङ्गुलिनखज्योत्स्नाभिर् उद्वेलितः
शब्दब्रह्मसुधाम्बुधिर्व्व्युधमनस्युच्छृङ्खलं खेलति ॥ २ ॥
रागः कृष्ण नवस्तबश्रुतिर् इयं चेतश्चमत्कारिणी
मुग्धेबेस्य यथा मया शुभरते वैदग्धाम् आविष्कृतम् ।
जानीते दयितैव सा शुभरते यद् यद् विधत्ते भवन्
इत्य् उक्तो मधुजिन् निरुत्तरमुखः श्लिष्यन् प्रियां पातु वः ॥ ३ ॥
संसक्तो धरणीधरेश्वरभुवि क्रीडन् भृगाङ्कानन-
श्रेणीम् आकलयन् गुणान्वयमिलत् पञ्चाननख्यातिमान् ॥ ४ ॥
अथ दानप्रशमा तावद् अभिधीयते । तत्र व्यासः ।
[५] वर्णानाम् आश्रमाणां च चातुर्वर्ण्ये युधिष्ठिर ।
दानधर्मं प्रवक्ष्यामि यथा देवेन भाषितम् ॥
नन्दिपुराणे ।
दानं परं प्रशंसन्ति दानम् एव परायणम् ।
दानं बन्धुर् मनुष्याणां दानं कोषो ह्य् अनुत्तमम् ॥
दानं तन्त्रः परं द्रव्यं दानं मात्रा पिता यथा ।
दानेन न विना किञ्चित् प्रार्थितं फलम् आप्यते ॥
अपि वालाग्रमात्रस्य तुला तस्य न विद्यते ।
न दानशीलिनाम् पत् तस्माद् दानं समाश्रयेत् ॥
हारनूपुरसङ्घोषपूरितोत्तममन्दिरः ।
लावण्यगुणसम्पत्तिर् दानाद् एव हि लभ्यते ॥
सौरपुराणे ।
न दानाद् अधिकं किञ्चिद् दृश्यते भुवनत्रये ।
दानेन प्राप्यते स्वर्गः श्रीर् दानेनैव लभ्यते ॥
दानेन शत्रून् जयति व्याधिर् दानेन नश्यति ।
दानेन लभ्यते विद्या दानेन युवतीजनः ॥
धर्मार्थमाममोक्षाणां साधनं परमं स्मृतम् ॥
उशना ।
दानाद् ऋते नोपचारो विद्यते धनिनो ऽपरः ।
दीयमानं हि तत् तस्य भूय एवाभिवर्धते ॥
आह वेदव्य्सः ।
यद् ददासि विशिष्टेभ्यो यच् चाश्नासि दिने दिने ।
तत् ते वित्तम अहं मन्ये शेषं कस्यापि रक्षति ॥
यद् ददाति यद् अश्नाति तद् एव धनिनो धनं ।
अन्ये मृतस्य क्रीडन्ति दारैर् अपि धनैर् अपि ॥
[६] बृहस्पतिः ।
तपो धर्मः कृतयुगे ज्ञानं त्रेतायुगे स्मृतम् ।
द्वापरे चाध्वराः प्रोक्ताः कलौ दानं दया दमः ॥
अत्रार्थे शतपथश्रुतिः ।
तद् एतत् त्रयं शिक्षेत् दमं दानं दयाम् इति ।
दानेन भोगी भवति मेधावी वृद्धसेवया ॥
अहिंसया च दीर्घायुर् इति प्राहुर् मनीषिणः ।
यमः ।
यतीनां तु शमो धर्मस् त्व् अनाहारो वनौकसाम् ।
दानम् एव गृहस्थानां शुश्रूषा ब्रह्मचारिणाम् ॥
पापकर्मसमायुक्तं पतन्तं नरके नरम् ।
त्रायते दानम् एकं तु पात्रभूते द्विजे कृतम् ॥
तथा न्यायेनार्जनम् अर्थाणां वर्धनं चाभिरक्षणम् ।
सत्पात्रप्रतिपत्तिश् च सर्वशास्त्रेषु पठ्यते ॥
कूर्मपुराणम् ।
दानधर्मात् परो धर्मो भूतानां नेह विद्यते ।
तस्माद् विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः ॥
द्विजातिभिर् इत्य् उपलक्ष्ण्ं दानस्य सर्वसाधारणत्वात् । महाभारते ।
आयासशतलब्धस्य प्राणेभ्यो ऽपि गरीयसः ।
गतिर् एकैव वित्तस्य दानम् अन्या विपत्तयः ॥
ब्राह्मणायाभिरूपाय यो दद्याद् अर्थम् अर्थिने ।
निदधाति निधिश् चेष्टं पारलौकिकम् आत्मनः ॥
कूर्मपुराणे ।
न हि दानात् परतरम् अन्यद् अस्तीति मे मतिः ।
धनधान्यवतः किञ्चिद् अहार्यं राजतस्करैः ॥
वह्निपुराणे ।
तपःसु चैव तीर्थेषु व्रतेषु नियमेषु च ।
सम्यक् चीर्णेषु विप्रर्षे पश्चाद् दानं समाचरेत् ॥
[७] यस्य वित्तं न दानाय नोपभोगाय देहिनाम् ।
नापि कीर्त्ये न धर्माय तस्य वित्तं निरर्धकम् ॥
तस्माद् दत्तं समासाद्य दैवाद् वा पौरुषादयः ।
दद्यात् सम्यग् द्विजातिभ्यः कीर्तनानि च कारयेत् ॥
व्यासः ।
अहन्य् अहनि याचन्तम् अहं मन्ये गुरुं यथा ।
मार्जनं दर्पणस्यैव यः करोति दिने दिने ॥
किं धनेन करिष्यन्ति देहिनो भङ्गुराश्रयाः ।
यदर्थं धनम् इच्छन्ति तच्छरीरम् अशाश्वतम् ॥
यदि नाम न धर्म्याय न कामाय न कीर्तये ।
यत् परित्यज्य गन्तव्यं तद् धनं किन्न दीयते ॥
इच्छानुरूपो विभ्रवः कदा कस्य भविष्यति ।
अदाता पुरुषस् त्यागी धनं सन्त्यज्य गच्छति ॥
दातारं कृपणं मन्ये मृतो ऽप्य् अर्थं न मुञ्चति ।
मनुः ।
दानधर्मं निषेवेत नित्यम् ऐष्टिकपौर्तिकम् ।
परितुष्टेन भावेन पात्रम् आसाद्य शक्तितः ॥
इष्टे यज्ञे यद् दीयते दक्षिणादि तद् ऐष्टिकं ।
बहिर्वेदि च यद् दानं दीयत् तत् पूर्तिकम् ॥
यत् किञ्चिद् अपि दातव्यं याचितेनानसूयया ।
उत्पत्स्यते हि तत् पात्रं यत् तारयति सर्वतः ॥
स्वर्गायुर्भूतिकामेन तथा पापोपशान्तये ।
मुमुक्षुणा च दातव्यं ब्राह्मणेभ्यस् तथान्वहम् ॥
विण्डुधर्मात् ।
न ददाति च दानानि मोधं तस्य धनार्जनम् ।
[८] उप्त्यायोप्त्याय दातव्यं ब्राह्मणेभ्यो युधिष्ठिर ॥
वह्निपुराणे ।
अन्नं मूलं फलं शाकम् उदपात्रं तपोधनाः ।
दानं विभवतोदत्वा नराः स्वर्य्यान्ति धर्मिणः ॥
तथा ।
यद् यजन्ति ददन्तोह भोगान् भुञ्जन्ति नित्यशः ।
माम् उदिश्य न ते मूढा इहैव सुखिनः परे ॥
याज्ञवल्क्यः ।
दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ।
यावितेनापि दातव्यं श्रद्धापूतं तु शैक्तितः ॥
मत्स्यपुराणे ।
उक्तसर्वगुणोपेतम् उक्तदोषैर् विवर्जितम् ।
कामधुक् धेनुवद् दानं फलत्य् आत्मेप्सितं फलम् ॥
इह कीर्तिं वदान्याख्यां स्फीतान् भोगांस् त्रिपिष्टपे ।
दानं श्रद्धां तृतीये ऽपि जन्मनि प्रभवोत्तमे ॥
वदान्यो बहुप्रदः ।
दानम् एव परो धर्मो दानम् एव परन्तपः ।
न हि दानात् परतरम् इह लोके परत्र च ॥
दानेन भोगान् आप्नोति दानेनायुश् च विन्दति ।
नरः स्वर्गापवर्गौ च दानेनैव समश्नुते ॥
मार्कण्डेयपुराणे ।
कुटुम्बं पीडयित्वापि ब्राह्मणाय महात्मने ।
दातव्यं भिक्षवे ऽन्यन्नम् (?) आत्मनो भूतिम् इच्छता ॥
देवलः ।
दुर्लभं भारते वर्षे जन्म तस्मान् मनुष्यता ।
मानुष्याद् ब्राह्मणत्वं च दुर्लभं सुतरां मतम् ॥
विप्रत्वे सति दुष्प्राया विद्यादिगुणयोगिता ।
[९] तत्र न्यायार्जितार्थाप्तिस् ततो भक्त्याप्तिर् इष्यते ॥
लब्ध्वैतद् गुणसंयोगं तीर्थं पात्रं च पर्व च ।
दानानि ये प्रयच्छन्ति कृतार्थास् ते नरा भुवि ॥
अगस्त्यः ।
गोभिर् विप्रैश् च वेदैश् च सतीभिः सत्यवादिभिः ।
अलुब्धैर् दानशीलैश् च सप्तभिर् दार्यते मही ॥
यैर् न भुक्तं न च हुतं न तीर्थे मरणं कृतम् ।
हिरण्यम् अन्नम् उदकं ब्राह्मणेभ्यो न चार्चितम् ॥
दीना विवसना रुक्षाः कपालाङ्कितपाणयः ।
दृश्यन्ते हि महाराज जायमानाः पुनः पुनः ॥
विष्णुधर्मात् ।
सीदते द्विजमुख्याय यो ऽर्थिने न प्रयच्छति ।
सामर्थ्ये सति दुर्बुद्धिर् नरकायोपपद्यते ॥
कूर्मपुराणे ।
यस् तु द्रव्यार्जनं कृत्वा नार्चयेत् ब्राह्मणान् सुरान् ।
सर्वस्वम् अपहृत्यैनं राजा राष्ट्रात् प्रवासयेत् ॥
ब्रह्मपुराणे ।
सदाचाराः कुलीनाश् च रूपवन्त प्रियंवदाः ।
बहुश्रुताश् च धर्मज्ञा याचमानाः पराद् गृहात् ॥
दृश्यन्ते दुःखिनः सर्वे प्राणिनः सर्वदा मुने ।
अदत्तदानाज् जायन्ते परभाग्योपजीविनः ॥
व्यासः ।
अक्षरद्वयम् अभ्यस्तं नास्ति नास्तीति यत् पुरा ।
तद् इदं देहि देहीति विपरीतम् उपस्थितम् ॥
स्कन्दपुराणे ।
बोधयन्ति न याचन्ते देहीति कृपणं जनाः ।
अवस्थेयम् अदानस्य मा भूद् एवं भवन् अपि ॥
[१०] देहीत्य् एवं ब्रुवन्न् अर्थी जनं बोधयतीव सः ।
यद् इदं कष्टम् अर्थित्वं प्रागदानफलं हि तत् ॥
एकेन तिष्ठताधस्ताद् अन्येनोपरितिष्ठता ।
दातृयाचकयोर् भेदः कराभ्याम् एव सूचितः ॥
दीयमानं तु यो मोहाद् गोविप्राग्निसुरेषु च ।
निवारयति पापात्मा तिर्यग्योनिं व्रजेत् तु सः ॥
ऽदीयमानऽं तदुद्देशेन त्यज्यमानम् इत्य् अर्थः । शातातपः ।
माददस्वेति यो ब्रूयाद् गव्य् अग्नौ ब्राह्मणेषु च ।
तिर्यग्योनिशतं गत्वा चाण्डालेष्व् अभिजायते ॥
यमः ।
कन्याप्रदाने यज्ञे वा यस्मिन् वा धर्मसङ्कटे ।
विघ्नम् आचरेत् यस् तु तम् आहुर् ब्रह्मघातकम् ॥
तस्माद् विभूतिम् अन्विच्छन्न् अदाने विघ्नम् आचरेत् ।
दद्याद् अहर् अहः पात्रे लोकद्वयजिगीषया ॥
माहाभारते ।
अर्हताम् अनुरूपाणां नादेयं ह्य् अस्ति किञ्चन ।
उच्चैः स्रवसम् अप्य् अश्वं प्रापणीयं सतां विदुः ॥
अनुनीय यथाकामं सत्यसन्धो महाव्रतः ।
स्वैः प्राणैर् ब्राह्मणः प्राणान् परित्राय दिवं गतः ॥
रन्तेइदेवश् च साङ्कृत्यो वशिष्टाय महात्मने ।
अपः प्रदाय शीताश् च नाकपृष्ठम् इतो गतः ॥
आत्रेयचन्द्रदमयोर् अर्हतोर् विधिवद् धनम् ।
दत्वा लोकान् ययौ धीमान् अनन्तान् स महीपतिः ॥
शिविरीशीनराङ्गानि पुत्रं च प्रियम् औरस् अम् ।
ब्राह्मणार्थम् उपाकृत्य नाकपृष्ठम् उपागतः ॥
[११] प्रतर्दनः काशपतिः प्रदाय नयने स्वके ।
ब्राह्मणायातुलां कीर्तिम् इह चामुत्र चाश्नुते ॥
दिव्यं मृष्टशलाकां तु सौवर्णं परमर्द्धि तत् ।
छत्रं देवमृधो दत्वा सराष्ट्रो ऽभ्यपतद् दिवम् ॥
मृष्टशलाकम् उज्ज्वलपञ्जरम् ।
सङ्कृतिश् च तथात्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् ।
उपदिश्य महातेजा गतो लोकान् अनुत्तमान् ॥
अम्ब्रीषो गवोर् दत्वा ब्राह्मणेभ्यः प्रतापवान् ।
अर्बुदानि दशैकं च सराष्ट्रो ऽभ्यपतद् दिवम् ॥
सावित्रो कुण्डले दिव्ये शरीरं जनमेजयः ।
रम्यम् आवसथां चैव दत्वामुं लोकम् आस्थितः ॥
ब्राह्मणार्थे परित्यज्य जग्मतुर् लोकम् उत्तमम् ।
सर्वरत्नं वृषा दर्भा युवानो ऽश्वाः प्रियास् त्रयः ॥
रम्यम् आवसथं चैव दत्वामुं लोकम् आस्थितः ।
निमिराष्ट्रं च वैदेहो जामदग्न्यो वसुन्धराम् ॥
ब्राह्मणेभ्यो ददौ चापि गयश् चोर्वीं सपत्तनाम् ।
अवर्षिणि च पर्यन्ये सर्वभूतानि चासकृत् ॥
राजा मित्रसहश्रश् च वशिष्ठाय महात्मने ।
मदयन्तीं प्रियां दत्वा तया सह दिवङ्ग्तः ॥
सहस्रजिच् च राजर्षिः प्राणानिष्टान् महायशाः ।
ब्राह्मणार्थे परित्यज्य गतो लोकान् अनुत्तमान् ॥
सर्वकामैश् च सम्पूर्णं दत्त्वा वेश्मं हिरण्मयम् ।
मुद्गलाय गतः स्वर्गं शतद्यन्मो महामतिः ॥
[१२] नाम्ना च द्युतिमान् नाम शाल्वराजः प्रतापवान् ।
दत्वा राज्यम् ऋचीकाय गतो लोकान् अनुत्तमान् ॥
मदिराश्वश् च राजर्षिर् दत्वा कन्यां सुमध्यमाम् ।
सुवर्णहस्ताय गतो लोकान् देवैर् अभिष्टुतान् ॥
लोमपादश् च राजर्षिः स तां दत्वा सुतां प्रभुः ।
ऋष्यशृङ्गाय विपुलैः सर्वकामैर् अयुज्यत ॥
दत्वा शतसहस्रं तु गवां राजा प्रसेनजित् ।
सवत्सानां महातेजा गतो लोकान् अनुत्तमान् ॥
एते चान्ये च बहवो दानेन तपसा सह ।
महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः ॥
तेषां प्रतिष्ठिता कीर्तिर् यावत् स्थास्यति मेदिनी ।
दानयज्ञप्रजासर्गैर् एके हि दिवम् आप्नुयुः ॥
दानेन भूता वशीभ्वन्ति दानेन वैरान्य् अपि यान्ति नाशम् । परो ऽपि बन्धुत्वम् उपैति दानात् दानं हि सर्वव्यसनानि हन्ति ।
इति श्रीमहाराजाधिराज-श्रीमहादेवस्य समस्तकरणाधीश्वरसकल-
**विद्याविशारदश्रीहेमादिविरचिते चतुर्वर्गचिन्तामणौ **
दानखण्डे दानप्रशंसाप्रकरणम्
[१३]
द्वितीयो ऽध्यायः
अथ दानस्वरूपम् उपवर्ण्यते
प्राचाम् आचारभाजां धुरम् अनुसरता येन मृष्टैर् विशिष्टैर्
इष्टापूर्तै रणार्हीकृतकृतिनिवहैर् विश्वम् आस्थां समेति ।
सो ऽस्य हेमादिसूरिर् विविधबुधमनश् चित्रमैत्रीपवित्रं
नानादानस्वरूपप्रकरणम् अधुना वक्ति निर्मुक्तदोषः ॥
तत्र देवलः ।
अर्थानाम् उदिते पात्रे श्रद्धया प्रतिपादनम् ।
दान मित्य् अभिनिर्दिष्टं व्याख्यानं तस्य् अकथ्यते ॥
उदिते शास्त्रनिरूपिते । अर्थानां प्रतिपादनं नाम पात्रं प्रति**स्वामिभावापादनपर्यन्तस् त्यागः ।
द्विहेतु षडधिष्ठानं षडङ्गं षड्विपाकयुक् ।
चतुःप्रकारं त्रिविधं त्रिनाशं दानम् उच्यते ॥
अस्य विवरणं तेनैवोक्तम् । तत्र द्विहेत्व् इति ।
नाल्पत्वं वा बहुत्वं वा दानस्याभ्युदयावहम् ।
श्रद्धा भक्तिश् च दानानां वृद्धिक्षयकरे स्मृते ॥
श्रद्धा आस्तिक्यबुद्धिः । स्नेहपूर्वम् अभिध्यानं भक्तिः । शक्तिर् इति पाठे शाङ्तिर् औदार्यम् । षड् अधिष्ठानम् इति । षड् अधिष्ठानानि आश्रयाः निमित्तत्वेन यस्य तत् तथा । तान्य् आह ।
धर्मम् अर्थञ्च कामं च व्रीडाहर्षभयानि च ।
अधिष्ठानानि दानानां षड् एतानि प्रचक्षते ॥
[१४] तानि विविनक्ति ।
पात्रेभ्यो दीयते नित्यम् अनपेक्ष्य प्रयोजनम् ।
केवलं त्यागबुद्ध्या यद् धर्मदानं तद् उच्यते ॥
ऽप्रयोजनम् अनपेक्ष्यऽ दृष्टफलाननुसन्धानेनेत्य् अर्थः ।
प्रयोजनम् अपेक्ष्यैव प्रसङ्गाद् यत् प्रदीयते ।
तद् अर्थदानम् इत्य् आहुर् ऐहिकं फलहेतुकम् ॥
स्त्रीपानमृगयाक्षाणां प्रसङ्गाद् यत् प्रदीयते ।
अनर्हेषु च रागेण कामदानं तद् उच्यते ॥
संसदि व्रीड्या स्तुत्याचार्यो ऽर्थिभ्यः प्रयाचितः ।
प्रदीयते च तद् दानं व्रीडादानम् इति स्मृतम् ॥
दृष्ट्वा प्रियाणि श्रुत्वा वा हर्षवद् यद् प्रदीयते ।
हर्षदानम् इति प्राहुर् दानं तद् धर्मचिन्तकाः ॥
आक्रोशानर्थहिंसानां प्रतीकाराय यद् भवेत् ।
दीयते तापकर्तृभ्यो भयदानं तद् उच्यते ॥
षडङ्गम् इति ।
दाता प्रतिग्रहीता च श्रद्धादेयं च धर्मयुक् ।
देशकालौ च दानानाम् अङ्गान्येतानि षड् विदुः ॥
तानि विवृणोति ।
अपापरोगी धर्मात्मा दित्सुर् अव्यसनः शुचिः ।
अनिन्द्याजीवकर्मा च षड्बिर् दाता प्रशस्यते ॥
अपापरोगी राजयक्ष्मादिरोगरहितिअः ।
त्रिशुक्तः कृश्वृत्तिश् च घृणालुः सकलेन्द्रियः ।
विमुक्तो योनिदोषेभ्यो ब्राह्मणः पात्रम् उच्यते ॥
त्रिशुक्त इति । त्रीणि विद्यान्वयवृत्तानि शुक्तानि विशुद्धानि यस्य स तथा । घृणालुः कृपालुः । सकलेन्द्रियः अविकलेन्द्रियः ।
[१५] सौमुख्याद्यतिसम्प्रीतिर् अर्थिनां दर्शने सदा ।
सत्कृतिश् चानसूया च तदा श्रद्धेति कीर्त्यते ॥
अपराबाधम् अक्लेशं प्रयत्नेनार्जनं दनम् ।
स्वल्पं वा विपुलं वापि देयम् इत्य् अभिधीयते ॥
यद् यत्र दुर्लभं भद्रं यस्मिन् कले ऽपि वा पुनः ।
दानार्हौ देशकालौ तौ स्यातां श्रेष्ठौ न तान् यथा ॥
अवस्था देशकालानां पात्रदात्रोश् च सम्पदा ।
हीनं वापि भवेच् छ्रेष्ठण्ण् श्रेष्ठं वाप्य् अन्यथा भवेत् ॥
षड्विपाकत्व्म् आह । दुष्फलं निष्फलं हीनं तुल्यं विपुलम् अक्षयम् ।
षड् विपाकयुग् उद्दिष्टं षड् एतानि विपाकतः ॥
तानि व्याचष्टे ।
नास्तिकस्तेन्हिंस्रेभ्यो जाराय पतिताय च ।
पिशुनभ्रूणहतृभ्यां प्रदत्तं दुष्फलं भवेत् ॥
दुष्फलं विरीतफलम् ।
महद् अप्य् अफलं दानं श्रद्धया परिवर्जितम् ।
परबाधाकरं दानं परम् अप्य् ऊनतां व्रजेत् ॥
निष्फलम् अपकृष्टफलम् । अत्यन्ताफलत्वे तु यद् एव श्रद्धया करोति तद् एव वीर्यवत्तरं भवतीतीतरार्थो ऽनुपपन्नाह् स्यात् फलवचनविपाकशब्दविरोधश् च । परं श्रेष्ठम् । ऊनत्वं च किञ्चिन्न्यूनाभिप्रायम् । अन्यथा पूर्वेण पौनरुक्त्यप्रसङ्गात् ।
यथोक्तम् अपि यद् दत्तं चित्तेन कलुषेण तु ।
तत् तु सङ्कल्पदोषेण दानतुल्यफलं भवेत् ॥
युक्ताङ्गैः सकलैः षड्भिर् दानं स्यात् विपुलोदयम् ।
[१६] अनुक्रोशवशाद् दत्तं दानम् अक्षयतां व्रजेत् ॥
अनुक्रोशः दया । चतुःप्रकारम् आह ।
ध्रुवम् आजस्रिकं काम्यं नैमित्तिकम् इति क्रमात् ।
वैदिको दानमार्गो ऽयं चतुर्धा वर्ण्यते द्विजैः ॥
प्रपारामतडागादि सर्वकामफलं ध्रुवम् ।
तद् आजस्रिकम् इत्य् आहुर् दीयते यद् दिने दिने ॥
अपत्यविजयैश्वर्यस्त्रीबालार्थं यद् इष्यते ।
इच्छासंस्थं तु तद् दानं काम्यम् इत्य् अभिधीयते ॥
कालापेक्षं क्रियापेक्षम् अर्थापेक्षम् इति स्मृतम् ।
त्रिधा नैमित्तिकं प्रोक्तं सहोमं होमवर्जितम् ॥
त्रैविध्यम् आह ।
नवोत्तमानि चत्वारि मध्यमानि विधानतः ।
अधमानीति शेषाणि त्रिविधत्वम् इदं विदुः ॥
तद् एव विविनक्ति ।
अम्लं दधि मधुत्राणं गोभूरुक्माश्वहस्तिनः ।
दानान्य् उत्तमदानानि उत्तमद्रव्यदानतः ॥
विद्यादानाद् अनावासपरिभोगौषधानि च ।
दानानि मध्मानीह मध्यमद्रव्यदानतः ॥
परिभोग इति परिभोगसाधनं खट्वासनादि ।
उपानत्प्रेङ्खयानानि छत्रपानासनानि च ।
दोषकाष्ठफलादीनि चरमं बहुवार्षिकम् ॥
बहुत्वाद् अर्थजातानां सङ्ख्या शेषेषु नेष्यते ।
अधमान्य् अवशिष्टानि सर्वदानान्य् अतो विदुः ॥
बहुवार्षिकं बहूनि वर्षाणि प्राप्तं पुरातनम् इति यावत् । एतेनोत्तमम् अपि हस्त्यश्वादि, जीर्णतां प्राप्तम् अधमं भवति । [१७] विनाशत्वम् आह ।
इष्टं दत्तम् अधीतं वा विनश्यत्य् अनुकीर्तनात् ।
श्लाघानुशोचनाभ्यां च भग्नतेजो विपद्यते ॥
तस्माद् आत्मकृतं पुण्यं न वृथा परिकीर्तयेत् ।
भुक्तवान् इति तत् प्राहुस् तम् एव कृतवादिनम् ॥
श्लाधा प्रशंसा, वृथा रक्षादिप्रयोजनव्यतिरेकेण । कूर्मपुराणात् ।
नित्यं नैमित्तिकं काम्यं विमलं चेति कथ्यते ।
अहन्य् अहनि यत् किञ्चिद् दीयते ऽनुपकारिणे ॥
अनुद्दिश्य फलं तत् स्यात् ब्राह्मणाय तु नित्यकम् ।
यत् तु पपोपशान्त्यर्थं दीयते विदुषां करे ॥
नैमित्तिकं तद् उद्दिष्टं दानं सद्भिर् अनुष्ठितम् ।
पापोपशान्त्या इति नियतनिमित्तोपलक्षणम् ।
अपत्यविजयैश्वर्यस्वर्गार्थं यत् प्रदीयते ।
दानं तत् काम्यम् आख्यातम् ऋषिभिर् धर्मचिन्तकैः ॥
यद् ईश्वरप्रीणनार्थं ब्रह्मवित्सु प्रदीयते ।
चेतसा भुक्तियुक्तेन दानं तद् विमलं शिवम् ॥
मनुः ।
येन येन हि भावेन यद् यद् दानं प्रयच्छति ।
तेन तेन हि भावेन तत् प्राप्नोति हि पूजितः ॥
“येन येन हि भावेन” सात्विकराजसादिना । तद् उक्तं भगवद्गीतासु ।
दातव्यम् इति यद् दानं दीयते ऽनुपकारिणे ।
देशे काले च पात्रे च तद् दानं सात्विकं स्मृतम् ॥
यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम् ॥
[१८] अदेशकाले यद् दानम् अपात्रेभ्यश् च दीयते ।
असंस्कृतम् अवज्ञानं तत् तामसम् उदाहृतम् ॥
विष्णुधर्मोत्तरात् ।
कृतानि विधिहीनानि वञ्चनार्थं परस्य च ।
क्रोधलोभाभिभूतेन तामसानि विनिर्दिशेत् ॥
सात्विकानि फलं भुङ्क्ते तिर्यक्त्वे मानवः सदा ।
वर्णसंस्कारभावेन वार्द्धके यदि वा पुनः ॥
बाल्ये वा दासभावे वा नात्र कार्या विचारणा ।
अतो ऽन्यथा तु मानुष्ये राजसानां फलं भवेत् ॥
सात्विकानां फलं भुङ्क्ते देवत्वे नात्र संशयः ॥
मत्स्यपुराणात् ।
येषां पूर्वकृतं कर्म सात्विकं मनुजोत्तम ।
पौरुषेण विना तेषां केषाञ्चिद् दृश्यते फलम् ॥
कर्मणा प्राप्यते लोके राजसस्य तथा फलम् ।
कृच्छ्रेण कर्मणा विद्धि तामसस्य तथा फलम् ॥
गारुडपुराणात् ।
कायिकं वाचिकं दानं माससं च त्रिधा मतम् ।
अर्हते यत् सुवर्णादिदानं तत् कायिकं मतम् ॥
आर्तानाम् अभयं दद्मीत्य् एतद् वै वाचिकं स्मृतम् ।
विद्यया स्याद् यया योगि तद्दानं मानसं द्विजाः ॥
हारीतः ।
असद्द्रव्यप्रदानम् अस्वर्ग्यम् । यच् च दत्त्वा परितप्यते तर्ह्य् अदानम् अफलम् । यच् चोपकारिणे ददाति तन्मात्रं परिशिष्टम् । यच् च सोपधं ददाति अभ्याचितम् अल्पफलम् । यच् चापात्राय ददाति अनिष्टदानं स्रवति । यच् च दत्त्वा परिकीर्त्यते यच् च स्मयदानम् आसुरं । यच् चाश्रद्धया ददाति क्रोधाद् राक्षसं । यच् चाक्रुश्य ददाति दत्त्वा च क्रोशति असत्कृतं पैशाचम् । यच् चावज्ञातं ददाति दत्त्वा चावजानीते मुमूर्षोस् तामसम् । यच् चाप्राकृतो ददाति । एते दानोपसर्गा यैर् उपसृष्टं दानम् असिद्धम् असम्बद्धम् अस्वर्ग्यम् अयशस्यम् अध्रुवम् अफलं वा ।
तर्ह्य् अदानं तस्मिन्न् एव सङ्कल्पकाले दीयमानद्रव्यासमर्पणम् । उपकारिणे प्रत्युपकारसमीहयेत्य् अर्थः । तन्मात्रं यावद् दत्तं तावन्मात्रम् । सोपधं स्नेहाद्युपाधिसहितम् । अभ्याचितं लोकप्रतिपत्त्यर्थं ख्यापितम् । अनिष्टदानं शत्रवे दानम् । स्मयदानं मादृशो ऽन्यो दातास्तीत्य् एवंविधो भावविशेषः स्मयः, तेन यद्दानम् । अप्राकृतः, मत्तादिः ।1 भविष्यपुराणे ।
महादानानि वै विद्याद् अतिदानानि सर्वदा ।
पुण्यम् इष्टं च वृथा दानं च यत्नतः ॥
महादानानि वक्ष्यमाणानि षोडश तुलापुरुषादीनि ।
कनकाश्वतिलानागा दासीरथमहीगृहाः ।
कन्य च कपिला धेनुर् महादानानि वै दश ॥
सामवेदोपनिषदि ।
त्रीण्य् आहुर् अतिदानानि गावः पृथ्वी सरस्वती ।
नरकाद् उद्धरन्त्य् एव जपवापनदोहनात् ॥
शङ्खः ।
इष्टिभिः पशुबन्धैश् च चातुर्मास्यैर् यजेत् तु यः ।
[२०] अग्निहोमादिभिर् यज्ञैर् यजेत च स इष्टवान् ॥
अग्निहोत्रं तपः सत्यं वेदानां चैव पालनम् ।
आतिथ्यं वैश्वदेवं च इष्टम् इत्य् अभिधीयते ॥
एकाग्निकादौ यत् कर्म त्रेतायां यच् च हूयते ।
अन्तर्वेद्यां च यद् दानं इष्टं तद् अभिधीयते ॥
शङ्खः ।
रोगिणां परिचर्या च पूर्तम् इत्य् अभिनिर्दिशेत् ॥
व्यासः ।
पुष्करिण्यस् तथावाप्यो देवतायतनानि च ।
अन्नदानम् अथारामाः पूर्तम् इत्य् अभिधीयते ॥
नारदः ।
ग्रहोपरागे यद् दानं सूर्यसङ्क्रमणेषु च ।
द्वादश्यादौ तु यद् दानं तद् एतत् पूर्तम् उच्यते ॥
इति श्रीमहाराजाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वरसकल-
विद्याविशारदश्रीहेमाद्रिविरचिते चतुर्वर्गचिन्तामणौ
दानखण्डे दानस्वरूपप्रकरणम् ॥ २ ॥
[२१]
तृतीयो ऽध्यायः
** अथ दानाङ्गनिरूपणम् —**
तानि च द्रव्यकालश्रद्धासञ्ज्ञकानि । तद् उक्तं भविष्यपुराणे ।
प्रतिग्रहीता द्रव्यं च कालो देशश् च पावनः ।
श्रद्धा च सात्विको ज्ञेयं दानानाम् अङ्गपञ्चकम् ॥
तत्र पात्रनिरूपणम् । स्कन्दपुराणे देवीं प्रति ईश्वरवचनम् ।
श्रुतीनाम् आकरा ह्य् एते रत्नानाम् इव सागराः ।
विप्रा विप्राधिपमुखे पूजनीयाः प्रयत्नतः ॥
विप्राधिपः चन्द्रः तद्वन् मुखं यस्याः सा तथा देवीसम्बोधनम् एतत् ।
यत्र वेदविदो विप्रा न प्राश्नन्त्य् उत्तमं हविः ।
न तत्र देव देवेशि हविर् अश्नन्ति कर्हिचित् ॥
तथा च तैत्तिरीयश्रुतिः। “यावतोर्व्यै देवत स्ताः सर्वा वेदविदि ब्राह्मणे वसन्तीत्यादि” ।
वियद् इत्य् उच्यते व्योम प्रकारः प्रापणे स्मृतः ।
दिवं सम्प्रापयन्त्ये (?) ते दातॄन् विप्रास् ततः स्म्र्ताः ॥
अपि नारायणो ऽनन्तो ब्रह्म स्कन्दो ऽनिलः शिखी ।
तज्ज्ञानं नाभिनन्दन्ति यत्र विप्रा न पूजिताः ॥
येषां प्रसादसुलभम् आयुर् धर्मः सुखं धनम् ।
श्रीर् यशः स्वर्गवासश् च तान् विप्रान् अर्चयेद् बुधः ॥
विष्णुधर्मोत्तरे श्रीभवान् उवाच ।
[२२] ब्राह्मणैः पूजितैर् नित्यं पूजितो ऽहं न संशयः ।
निर्भत्सितैश् च निर्भत्स्ये तैर् अहं सर्वकर्मसु ॥
विप्राः परा गतिर् मह्यं यस् तान् पूजयते नृप ।
तम् अहं स्वेन रूपेण प्रपश्यामि युधिष्ठिर ॥
काणाः कुण्ट्ःआश् च षण्ढाश् च दरिद्रा व्याधिताश् च ये ।
एवंरूपाश् च ये विप्राः पश्य रूपं ममैव ते ॥
एतत् तु ब्राह्मणजातिमात्रस्तुतिपरं । याज्ञवल्क्यः ।
तपस् तप्त्वासृजद् ब्रह्म ब्राह्मणान् वेदगुप्तये ।
तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥
मत्स्यः ।
नास्ति विप्रसमो देवो नास्ति विप्रसमो गुरुः ।
नास्ति विप्रात् परः शत्रुर् नास्ति विप्रात् परो विधिः ॥
वह्निपुराणात् ।
न जातिर् न कुलं राजन् अन् स्वाध्यायः श्रुतं न च ।
कारणानि द्विजत्वस्य वृत्तम् एवत् उ कारणम् ॥
किं कुलं वृत्तहीनस्य करिष्यति दुरात्मनः ।
कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ॥
नैकम् एकान्ततो ग्राह्यं पठनं हि विशाम्यते ।
वृत्तम् अन्विष्यतां तत रक्षोभिः किं न पठ्यते ॥
बहुना किम् अधीतेन नटस्येव दुरात्मनः ।
तेनाधीतं श्रुतं वापि यः क्रियाम् अनुतिष्ठति ॥
कपालस्थं यथा तोयं स्वदते च यथा पयः ।
दूर्ष्यं स्यात् स्थानदोषेण वृत्तहीनं तथा श्रुतम् ॥
तस्माद् विद्धि महाराज वृत्तं ब्राह्मणलक्षणम् ।
चतुर्वेदो ऽपि दुर्वृत्तः (?) शूद्राद् अल्पतरः स्मृतः ॥
[२३] सत्यं दमस् तपो दानम् अहिंसेन्द्रियनिग्रहः ।
दृश्यन्ते यत्र राजेन्द्र स ब्राह्मण इति स्मृतः ॥
वसिष्ठः ।
यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् ।
न सुवृत्तं न दुर्वृत्तं वेद कश्चित् स ब्राह्मणः ॥
सन् विशिष्टः, असन् तद्विपरीतः । अत्र चात्मोत्कर्षप्रकाशनं यो न करोति स पात्रम् इति तात्पर्यम् इति । यमः ।
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ।
स्वदारनिरतो दाता सव् ऐ ब्राह्मण उच्यते ॥
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा ।
असम्भिन्नार्यमर्यादः स वै ब्राह्मण उच्यते ॥
आशिषो ऽर्थार्थं पूजां च प्रसङ्गान् न करोति यः ।
निवृत्तो लोभमोहाभ्यां तं देव ब्राह्मणं विदुः ॥
आशिषः आशीर्वादान्, अर्थार्थं धनलाभाय । प्रसङ्गह् अत्यासत्तिः ।
सव्यं दानं क्षमा शीलम् आनृशंस्यं दया घृणा ।
दृश्यन्ते यत्र लोके ऽस्मिंस् तं देव ब्राह्मणं विदुः ॥
यमशातापौ ।
तपो धर्मो दया दानं सत्यं शौचं श्रुतं घृणा ।
विद्या विजानम् आस्तिकय्म् एतद् ब्राह्मणलक्षणम् ॥
बौधायनः ।
विद्या तपश् च योनिश् च एतद् ब्राह्मणलक्षणम् ।
विद्यातपोभ्यां यो हीनो जातिब्राःमण एव सः ॥
वसिष्ठः ।
ये क्षान्तदान्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः प्राणीवधे निवृत्ताः ।
प्रतिग्रहे भङ्गचित्ताग्रहस्तास् ते ब्राह्मणास् तारयितुं समर्थाः ॥
[२४] यमः ।
विद्यावन्तश् च ये विप्राः सुव्रताश् च तपस्विनः ।
सत्यसंयमसंयुक्ता ध्यानयुक्ता जितेन्द्रियाः ॥
पुनन्ति दर्शनं प्राप्ताः किं पुनः सङ्गतिं गताः ।
तेषां दत च भुक्त्या च प्राप्नुयुः परमां गतिम् ॥
दत्वा द्विजाय शुद्धाय दाता याति शुभां गतिम् ॥
विद्यातपःशीलवांश् च स च तारयते नरः ॥
कूर्मपुराणे ।
स्वाध्यायवन्तो ये विप्रा विद्यावन्तो जितेन्द्रियाः ।
सत्यसंयमयुक्ताश् च तेभ्यो दद्यात् द्विजोत्तमाः ॥
श्रोत्रियाय कुलीनाय विनीताय तपस्विने ।
व्रतस्थाय दरिद्राय प्रदेयं शक्तिपूर्वकम् ॥
संवर्तः ।
श्रोत्रियाय द्रिद्राय अर्थिने च विशेषतः ।
यद् दानं दीयते तस्मै तद् दानं शुभकारकम् ॥
श्रोतिर्यस् तु यमेनोक्तः ।
ओङ्कारपूर्विकास् तिस्रः सावित्रीर् यश् च विन्दतिः (?) ।
चरितब्रह्मचर्यश् च सव् ऐ श्रोत्रिय उच्यते ॥
ओङ्कारपूर्विका महाव्याहृतीर् इति शेषः । याज्ञवल्क्यः ।
सर्वस्य प्रभवो विप्राः श्रुताध्ययनशालिनः ।
तेभ्यः क्रियापराः श्रेष्ठास् तेभ्यो ऽप्य् अध्यात्मवित्तमाः ॥
पद्मपुराणे ।
यथा हि सर्वदेवानां ज्येष्ठः श्रेष्ठः पितामहः ।
तथा ज्ञानी सदा पूज्यो निर्ममो निष्परिग्रहः ॥
मत्स्यपुराणे ।
शीलं संवसता ज्ञेयं शौचं संव्यवहारतः ।
प्रज्ञा सङ्कथनाज् ज्ञेया त्रिभिः पत्रं परीक्ष्यते ॥
भविष्यपुराणे ।
क्षान्तिः स्पृहा दया सत्यं दानं शीलं तपः श्रुतम् ।
[२५] एतद् अष्टाङ्गम् उद्दिष्टं परमं पात्रलक्षणम् ॥
वसिष्ठः ।
स्वाध्याढ्यं योनिमन्तं प्रशान्तं
वैतानस्थं पापभीरुं बहुज्ञम् ।
स्त्रीषु क्षान्तं धार्मिकं गोशरण्यं
व्रतैः क्लान्तं तादृशं पात्रम् आहुः ॥
योनिमान् प्रशस्तकुलोद्भवः । वैतानस्थः अग्निहोत्रादिकर्मपरः । स्त्रीषु क्षान्तः स्त्रीविषये क्षान्तः । गोशरण्यः गोशुश्रूषारतः । यमः ।
विद्यायुक्तो धर्मशीलः प्रशान्तः
क्षान्तो दान्तः सत्यवादी कृतज्ञः ।
वृत्तिग्लानो गोहितो गोशरण्यो दाता
यज्वा ब्राह्मणः पात्रम् आहुः ॥
स्वाध्यायवान् नियमवांस् तपस्वी ध्यानविच् च यः ।
क्षान्तो दान्तः सत्यवादी विप्रः प्रातम्। इहोच्यते ॥
महाभारते ।
साङ्गांस् तु चतुरो वेदान् यो ऽधीते वै द्विजर्षभः ।
षड्भ्यो ऽनिवृत्तः कर्मभ्यस् तं पात्रम् ऋषयो विदुः ॥
पात्रं पात्रतमम् इत्य् अर्थः । वसिष्ठः ।
किञ्चिद् वेदमयं पात्रं किञ्चित् पात्रं तपोमयं ।
पात्राणाम् अपि तत् पात्रं शूद्रान्नं यस्य नोदरे ॥
बृहस्पतिः ।
किञ्चिद् वेदमयं पात्रं किञ्चिद् पात्रं तपोमयम् ।
आगमिष्यति यत् पात्रं तत् पात्रं तारयिष्यति ॥
ब्रह्मचारी भवेत् पात्रं पात्रं वेदस्य् पारगः ।
पात्राणाम् उत्तमं पात्रं शूद्रान्नंयस्य नोदरे ॥
व्यासः ।
किञ्चिद् वेदमयं पात्रं किञ्चित् पात्रं तपोमयम् ।
असम्कीर्णं च यत् पात्रं तत् पात्रं तारयिष्यति ॥
असङ्कीर्णं योन्यादिसङ्कररहितम् । [२६] याज्ञवल्क्यः ।
न विद्यया केवलया तपसा वापि पात्रता ।
यत्र वृत्तिम् इमे चोभे तद् धि पात्रं प्रकीर्तितम् ॥
देवलः ।
मात्रश् च ब्राह्मणश् चैव श्रोत्रियश् च ततः परः ।
अनूचानस् तथा भ्रूणऋषिकल्पऋषिर् मुनिः ॥
इत्य् एते ऽष्टौ समुद्दिष्टा ब्राह्मणाः प्रथमं स्तुतौ ।
तेषां परः परः श्रेष्ठो विद्यावृत्तविशेषतः ॥
ब्राह्मणानां कुले जातो जातिमात्रो यदा भवेत् ।
अनुपेतः क्रियाजीनो मात्र इत्य् अभिधीयते ॥
अनुपेतः उपनयनरहितः ।
एकदेशम् अतिक्रम्य वेदस्याचरवान् ऋजुः ।
स ब्राह्मण इति प्रोक्तो निभृतः सत्यवाग् घृणी ॥
एकदेशातिक्रमः वेदस्य किञ्चिन्न्यूनस्याध्ययनम् । निभृतः शान्तः ।
एकां शाखां सकल्पां वा षड्भिर् अङ्गैर् अधीत्य वा ।
षट्कर्मनिरतो विप्रः श्रोत्रियो नाम् धर्मवित् ॥
वेदवेदाङ्गतत्त्वज्ञः शुद्धात्मा पापवर्जितः ।
शेषं श्रोत्रियवत् प्राप्तः सो ऽनूचान इति स्मृतः ॥
अनूचानगुणोपेतो यज्ञस्वाध्यायमन्त्रितः ।
भ्रूण इत्य् उच्यते शिष्टैः शेषभोजी जितेन्द्रियः ॥
वैदिकं लौकिकं चैव सर्वं ज्ञानम् अवाप्य यः ।
आश्रमस्थो वशी नित्यम् ऋषिकल्प इति स्मृतः ॥
लौकिकम् अर्थार्जनादिज्ञानम् ।
ऊर्ध्वरेतास् तपस्य् अग्रे नियताशी न संशयी ।
[२७] शापानुग्रहयोः शक्तः सत्यसन्धो भवेद् ऋषिः ॥
निवृत्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः ।
ध्यानस्थो निष्क्रियो दान्तस् तुलयमृत्काञ्चनो मुनिः ॥
निवृत्तः निषिद्धकाम्यकर्मभ्यः । निष्क्रियः अर्थार्जनादिक्रियारहितः ।
एवम् अन्वयविद्याभ्यां वृत्तेन च समुच्छिर्ताः ।
त्रिशुक्ता नाम विप्रेन्द्राः पूज्यन्ते सवनादिषु ॥
सवनादिषु यज्ञादिषु ।
प्रतिग्रहसमर्थो ऽपि कृत्वा विप्रो यथाविधि ।
निस्तारयति दातारम् आत्मानं च स्वतेजसा ॥
समर्थो ऽपि समर्थ एवेत्य् अर्थः ।
न लोके ब्राह्मणेभ्यो ऽन्यत् पवित्रं पुण्यम् एव वा ।
अशक्यश् च द्विजेन्द्राणां नास्ति वृत्तवताम् इति ॥
योक्तव्यो हव्यकव्येषु त्रिशुक्तो ब्राह्मणो द्विजैः ।
अभिभूतश् च पूर्वोक्तैर् दोषैः स्पृष्टश् च नेष्यते ॥
अभिभूतः अपकृष्टः । पूर्वोक्तैः कुलविद्याचारैः । दोषैः उपपातकादिभिः । मनुः ।
पात्रस्य हि विशेषेण श्रद्धधानस् तथैव च ।
अल्पं वा बहु वा प्रेत्य दानस्य प्राप्यते फलम् ॥
दक्षः ।
समं द्विगुणसाहस्रम् अनन्तं च यथाक्रमम् ।
दाने फलविशेषः स्याद् धि सायाम् एवम् एव हि ॥
शतम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
सहस्रगुणम् आचार्ये अनन्तं वेदपारगे ॥
[२८] अब्राह्मणः राजभृतादिः । यद् आह शातातपः ।
अब्राह्मणास् तु षट् प्रोक्ता ऋषिः शातातपो ऽब्रवीत् ।
आद्योर् राजभृतस् तेषां द्वितीयः क्रयविक्रयी ॥
तृतीयो बहुयाज्यः स्याच् चतुर्थो ग्रामयाजकः ।
बहवो याज्या यस्य स बहुयाज्यः ।
पञ्चमस् तु भृतस् तेषां ग्रामस्य नगरस्य वा ।
ग्रामस्य नगरस्य भृत इत्य् अन्वयः ।
अनागतां तु य पूर्वां सादितां चैव पश्चिमाम् ।
नोपादीत द्विजः सन्ध्यां स षष्ठो ऽब्राह्मणः स्मृतः ॥
ब्रह्मणब्रुवस् तु पुरस्ताद् अपात्रेषु व्याख्यास्यते । आचार्यस् तु महाभारते ।
अध्यापयेत् तु यः शिष्यं कृतोपनयनं द्विजः ।
सरहस्यं च सकलं वेदं भरतसत्तम ॥
तम् आचार्यं महाभाहो प्रवदन्ति मनीषिणः ।
एकदेशं तु वेदस्य वेदाङ्गान्य् अपि वा पुनः ॥
यो ऽध्यापयति वृत्त्यर्थम् उपाध्यायः स उच्यते ।
निषेकादीनि कर्माणि यः करोति नृपोत्तम ॥
सम्भावयति चान्नेन स विप्रो गुरुर् उच्यते ।
अग्न्याधेयं पाकयज्ञान् अग्निष्टोमादिकं यथा ॥
यः करोति वृतो नूनं सत् उ स्याद् ऋत्विजो द्विजः ॥
[२९] यमः ।
समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
प्राधीते शतसाहस्रम् अनन्तं वेदपारगे ॥
प्राधीतः प्रारब्धाध्ययनः ।
उत्पत्तिं प्रलयं चैव भूतानां आगतिं गतिम् ।
वेत्ति विद्याम् अविद्यां च स भवेद् वेदपारगः ॥
बृहस्पतिः ।
शूद्रे समगुणं दानं वैश्ये तु द्विगुणं स्मृतम् ।
क्षत्रिये त्रिगुणं प्राहुः षड्गुणं ब्राह्मणे स्मृतम् ॥
श्रोत्रिये चैव साहस्रम् आचार्ये द्विगुणं ततः ।
आत्मज्ञे शत्साहस्रम् अनन्तं त्व् अग्निहोत्रिणि ॥
विष्णुधर्मोत्तरे ।
अमानुषे समं दानं गोषु ज्ञेयं फलम् तथा ।
द्विगुणं च तद् एवोक्तं तथा त्रैवर्णसङ्करे ॥
शूद्रे चतुर्गुणं प्रोक्तं विशि चाष्टगुणं भवेत् ।
क्षत्रिये षोडशगुणं ब्रह्मबन्धौ तद् एव तु ॥
शतघ्नं तद् विनिर्दिष्टं प्राधीते लक्षसम्मितम् ।
अनन्तञ्च तद् एवोक्तं ब्राह्मणे वेदपारगे ॥
एतेषु केषाञ्चिद् अब्राह्मणब्राःमणब्रुवादीनाम् अपात्राणाम् अपि पात्रत्वनिरूपणं मन्त्रवद् गवादिदानव्यतिरिक्तदानविषयम् । मन्त्रपूर्वं च यद् दानम् अपात्राय प्रदीयते दातुर् निकृत्य हस्तं तद्भोक्तुर् जिह्वां निकृन्तति शातातपवचनात् ।
उपरुदन्ति दातारं गौर् अश्वः काञ्चनं क्षितिः ।
अश्रोत्रियस्य विप्रस्य हस्तं दृष्ट्वा निराकृतेः ॥
इति वसिष्ठवचनाच् च । मन्त्रपूर्वं गवादिदानानाम् अपात्रप्रति**[३०]**पादकानिषेधात् शूद्रादीनाम् तु पात्रत्वनिरूपणं अन्नदानविषयम् । “कृतान्नम् इतरेभ्यः” इति गौतमवचनात् । “अन्नं सर्वत्र दातव्यम्” इति वक्ष्यमाणत्वाच् च । दक्षः ।
व्यसनापदृणार्थं च कुटुम्बार्थं च याचते ।
एवम् अन्विष्य दातव्यं सर्वदानेष्व् अयं विधिः ॥
व्यसनं राजचौराद्युपद्रवः । आपद् दुर्भिक्षादिपीडा । आद्यो ऽर्थशब्दो निवृत्तिवचनः ।
मनुः ।
सान्तानिकं यक्ष्यमाणम् अध्वगं सार्ववेदसम् ।
गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्य् उपतापिनः ॥
नवैतान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभिक्षुकान् ।
सान्तानिकः सन्तानप्रयोजनविवाहार्थीत्य् अर्थः । अध्वगः अत्र धर्मार्थं प्रचलितः । (सार्ववेदसः) सर्वस्वदक्षिणयज्ञकृत् । उपतापो व्याधिपीडितः ।
निःस्वेभ्यो देयम् एतेभ्यो दानं विद्याविशेषतः ॥
एतेभ्यो हि द्विजाग्रेभ्यो देयम् अन्नं सदक्षिणम् ।
इतरेभ्यो बहिर्वेदि कृतान्नं तु विधीयते ॥
विद्याविशेषत इति, अल्पविद्याय अल्पं बहिविद्याय बह्व् इत्य् अर्थः ।
बौधायनः ।
सुब्राह्मणश्रोत्रियवेदपारगेभ्यो गुर्वर्थनिवेशौषधार्थवृत्तिक्षीण-यक्ष्यमाणाध्ययनाध्वसंयोगवैश्वजितेषु द्रव्यविभागो यथाशक्ति कार्यो बहिर्वेदि भिक्षमानेषु कृतान्नम् इतरेषु ॥
निवेशः विवाहः । वैश्वजितः सर्वस्वदक्षिणया कृतविश्वजित्द्यागः । बहिर्वेदिग्रहणाद् एतेभ्यो बहिर्वेद्य् अपि धनम् अवश्यं देयम् अन्येभ्यस् तु अन्तर्वद्य् एव धनदाननियमः । बहिर्विदि तु कृतान्नस्यैव ।
**[३१] **आपस्तम्बः ।
भिक्षमाणो निमित्तम् आचार्यो विवाहो यज्ञो मातापित्रोर् बुभूर्षार्हतश् च नियमादिलोपः । तत्र गुणान् समीक्ष्य यथा देयम् इन्द्रियप्रीत्यर्थस्य तु भिक्षमाणम् अनिमित्तं न तथाद्रियेत । [आप्ध् २.१०.१–३]
बुभूर्षा मरणेच्छा । अर्हतश् च नियमादिलोप इति, अधिकारिण आवश्यककर्मविधिलोपप्रसङ्गः । यमः ।
वेदेन्धन्समृद्धेषु हुतं विप्रमुखास्निषु ।
सन्तारयति दातारं महतः किलिबिषाद् अपि ॥
पद्मपुराणे ।
एकं वेदान्तगं विप्रं बोजयेत् श्रद्धयान्वितः ।
तस्य भुक्त्वा स वै कोटिविप्राणां नात्र संशयः ॥
शातातपः ।
वेदपूर्णमुखं विप्रं सुभक्तम् अपि भोजयेत् ।
न तु मूर्खं निराहारं षड्रात्रम् उपवासिनम् ॥
व्यासः ।
यत् सिक्थं वेदविद् भुङ्क्ते षट्कर्मनिरतः शुचिः ।
दातुः फलम् असङ्ख्येयं जन्म जन्म तद् अक्षयम् ॥
वेदविद्याव्रतस्नाते श्रोत्रिये गृहम् आगते ।
क्रीडन्त्य् औषधयः सर्वा यास्यामः परमां गतिम् ॥
ओषधयः अन्नानि । महाभारते ।
तद्भक्तास् तद्धना राजंस् तद्गृहास् तद्व्यपाश्रयाः ।
अर्थिनश् च भवन्त्य् अर्थे तेषु दत्तं महाफलम् ॥
(अत्र) तच्छब्देन पूर्वोक्ताः पितरो देवताश् च परामृश्यन्ते । अथ वा, तद् एव दीयमानं भक्तम् अदनीयं येषां ते तथा । एवं तद्धनादिशब्दा अपि ।
तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिष्ठित ।
अर्थिनो भोक्तुम् इच्छन्ति तेषु दत्तं महाफलम् ॥।
[३२] हृतस्वा हृतदाराश् च ये विप्रा देशसम्प्लवे ।
अर्थार्थम् अभिगच्छन्ति तेषु दत्तं महाफलम् ॥
चारित्रनियता राजन् ये कृशाः कृशवृत्तयः ।
अर्थिनश् चोपगच्छन्ति तेषु दत्तं महाफलम् ॥
अव्युत्क्रान्ताः स्वधर्मेषु पाषण्डसमयेषु च ।
कृशपाणाः कृशाहारास् तेषु दत्तं महाफलम् ॥
तपस्विनस् तपोनिष्ठास् तथा भैक्ष्यचराश् च ये ।
अर्थिनः कश्चिद् इच्छन्ति तेषां दत्तं महाफलम् ॥
आदित्यपुराणत् ।
अक्रोधना धर्मपराः शान्ता दमदमे रताः ।
तादृशाः साधवो (?) विप्रास् तेभ्यो दत्तं महाफलम् ।
हतसर्वस्वहरणा निर्दोषा प्रभविष्णुभिः ।
स्पृहयन्ति सुभक्तानां तेषु दत्तं महाफलम् ॥
अथ शातातप-पराशरौ ।
सन्निकृष्टम् अधीयानं ब्राह्मणं यो व्यतिक्रमेत् ।
भोजने चैव दाने च दहत्य् आ सप्तमं कुलम् ॥
भविष्यपुराणे ।
यस् त्व् आसन्नम् अतिक्रम्य ब्राह्मणं पतिताद् ऋते ।
दूरस्थं भोजयेन् मूढो गुणाढ्यं नरकं व्रजेत् ॥
तस्मान् नातिक्रमेत् प्राज्ञो ब्राह्मणान् प्रातिवेशिकान् ।
प्रातिवेशिकान् स्वगृहाद् अदूरवर्त्तिगृहान् ।
सम्बन्धिनस् तथा सर्वान् दौहित्रं विट्पतिं तथा ।
भागिनेयं विशेषेण तथा बन्धून् गृहाधिप ॥
नातिक्रमेन् नरस् त्व् एतान् सुमूर्खान् अपि गोपते ।
[३३] अतिक्रम्य महारौद्रं रौरवं नरकं व्रजेत् ॥
विट्पतिः जामाता । सुमूर्खान् अपि नातिक्रमेद् इत्य् एतत्, अन्नदानविषयम्, हिरण्यादिदाने तु सन्निहितमूर्खव्यतिक्रमे दोषाभावात् । तद् उक्तं व्यास-वसिष्ठ-बौधायन-शातातप-पाराशरौ ।
यस्य चैको गृहे मूर्खो दूरे चापि बहुश्रुतः ।
बहुश्रुताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥
ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते ।
ज्वलन्तम् अग्निम् उत्सृज्य न हि भस्मनि हूयते ॥
महाभारते ।
यदि स्याद् अधिको विप्रो दूरे वृत्तादिभिर् युतः ।
तस्मै यत्नेन दातव्यम् ऐक्रम्यापि सन्निधिम् ॥
विष्णुः- “पुरोहितस् त्व् आत्मन एव पात्रं स्वसृदुहितृपुत्रजामातरः” इति ।
यस्यैते पुरोहितादयः तस्यैव ते अन्यगुणरहिता अपि पुरोहितादित्वेनैव पात्राणि ।
व्यासः ।
मातापितृषु यद् दत्तं भ्रातृषु स्वसुतासु च ।
जायापत्योस् तु यद् दत्तं सो ऽनिन्द्यः स्वस्तिसङ्क्रमः ॥
पितुः शतगुणं दानं सहस्रं मातुर् उच्यते ।
अनन्तं दुहितुर् दानं सोदर्ये दत्तम् अक्षयम् ॥
विष्णुधर्मोत्तरात् ।
आत्मनस् तु भवेत् पात्रं नान्यस्य स्यात् पुरोहितः ।
पुरोहिते तु स्वे दत्तं दानम् अक्षय्यम् उच्यते ॥
उपाध्यायर्त्विजोश् चैव गुराव् अपि च मानवैः ।
[३४] वर्षापेक्षा न कर्तव्या मातरं पितरं प्रति ॥
वर्णापेक्षा न कर्तव्या मातरं पितरं प्रति ॥
उपाध्यायादयस् तु पूर्वम् एव व्याख्याताः । तथा ।
मातृष्वसा स्वसा चैव तथैव च पितृष्वसा ।
मातामही भागिनेयी भागिनेयस् तथैव च ॥
दौहित्रो विट्पतिश् चैव तेषु दत्तश् च अक्षयम् ।
श्रीभ्रष्टे यत् तथा दत्तं तद् अप्य् अक्षयम् उच्यते ॥
मातापित्रोर् गुरौ मित्र विनीते चोपकारिणि ।
दीनानाथविशिष्टेभ्यो दातव्यं भूतिम् इच्छता ॥
अदत्तदानाज् जायन्ते परभाग्योपजीविनः ॥
उपकारिणि परोपकारपरे । विशिष्टाः गुणातिशयशालिनः । ब्रह्मपुराणे ।
यत् कन्यासु पिता कुर्याद् दानं पूजनम् अर्चनम् ।
यत् कृतं सुकृतं विद्यात् तासु दत्तं तद् अक्षयम् ।
यद् दत्तं तासु कन्यासु तद् दानं पुण्यम् एव च ॥
कालिकापुराणात् ।
यद् दत्तं वेदविद्विप्रे यद् दत्तं ब्रह्मचारिणि ।
तपोनिधेस् तु यद् दत्तं कारूण्येन च यत् सदा ॥
तत् सर्वम् अक्षयं दानं वैमल्येन विधाय यत् ॥
विष्णुधर्मोत्तरात् ।
अन्नदाने न कर्तव्यं पात्रापेक्षणम् अण्व् अपि ।
अन्नं सर्वत्र दातव्यं धर्मकामेन वै द्विज ॥
सदोषे ऽपि तु निर्दोषं सगुणे ऽपि गुणावहम् ।
तस्मात् सर्वप्रयत्नेन देयम् अन्नं सदैव तु ॥
विद्याध्ययनसक्तानाम् अन्नदानं महाफलम् ॥
तथा ।
दत्वा नृपतिभीतानां धनिनां च तथा धनम् ।
[३५] तस्करेभ्यश् च भीतानां फलम् अक्षयम् उच्यते ॥
यियक्षतां तथा दत्तं व्यसनं तर्तुम् इच्छताम् ।
दुःखान्वितानां दीनानाम् अक्षयं परिकीर्तितम् ॥
विवाहमेखलाबन्धप्रतिष्ठादिषु कर्मसु ।
आपन्नेषु तु यद् दत्तम् अक्षयं तद् उदाहृतम् ॥
संवर्तः ।
दानान्य् एतानि देयानि तथान्यानि च सर्वशः ।
दीनान्धकृपणार्थिभ्यः श्रेयःकामेन धीमता ॥
पद्मपुराणे ।
दीनान्धकृपणानाथवाग्विहीनेष् यत् तथा।
विकलेषु तथान्येषु जडवामनपङ्गुषु ।
रोगार्तेषु च यद् दत्तं तत् स्याद् बहुफलं धनम् ॥
अथ अपात्रनिरूपणम् —
तत्र मनुः ।
गोरक्षान् वाणिजकांस् तथा कारुकुशीलवान् ।
प्रैष्यान् वार्दुषिकांश् चैव विप्रान् शूद्रवद् आचरेत् ॥
ये व्यपेताः स्वकर्मभ्यः परपिण्डोपजीविनः ।
द्विजत्वम् अभिकाङ्क्षन्ति तांश् च शूद्रवद् आचरेत् ॥
नानृग् ब्राह्मणो भवति न वणिग् न कुशीलवः ।
न शूद्रप्रेषणं कुर्वन् न स्तेनो न चिकित्सकः ॥
अव्रता ह्य् अनधीयाना यत्र भैक्ष्यचरा द्विजाः ।
तं ग्रामं दण्डयेद् राजा चोरभक्तप्रदो हि सः ॥
वसिष्ठः ।
उदक्यान्वासते येषां ये च केचिद् अनग्नयः ।
कुलं वाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः ॥
अन्वासते कर्मकाले समीप एव तिष्ठति । विष्णुः ।
नादनं यशसे दद्यान् न भयान् नोपकारिणि ।
[३६] न नृत्यगीतशीलेभ्यो धर्मार्थम् इत् निश्चयः ॥
उपकारिणि आत्मोपकारपरे, प्रत्युपकारसमीहयेत्य् अर्थः । महाभारते ।
यस् तु प्रेष्तान् द्विजान् मूढो योजयेद् धव्यकव्ययोः ।
न भवेत् तत्फलं तस्य वैदिकीयं तथा श्रुतिः॥
यमः ।
अव्रतानाम् अमन्त्राणां जातिमात्रोपजीविनाम् ।
नैषां प्रैग्रहो देयो न शिला तारयेच् छिलाम् ॥
अपविद्धाग्निहोत्रस्य गुरोर् विप्रियकारिणः ।
द्रविणं नैव दातव्यं सततं पापकर्मणः ॥
न प्रतिग्रहम् अर्हन्ति वृषलाध्यापका द्विजाः ।
शूद्रस्याध्यापनाद् विप्रः पतत्य् अत्र न संशयः ॥
तथा ।
राजधानी तथा शून्या यथा कूपं च निर्जलः ।
यथा हुतम् अनग्नौ च तथा दत्तं द्विजे ऽनृचे ॥
वसिष्ठः ।
यथा काष्ठमओ हस्ती यथा चर्ममयो मृगः ।
यश् च विप्रो ऽनधीयानस् त्रयस् ते नामधारकाः ॥
विद्वद्भोज्यान्य् अविद्वांसो येषु राष्ट्रेषु भुञ्जते ।
अप्य् अनावृष्टिम् इच्छन्ति महद् वा जायते भयम् ॥
व्यास-शातातपौ ।
नष्टशौचे व्रतभ्रष्टे विप्रे वेदविवर्जिते ।
रोदित्य् अन्नं दीयमानं किं मया दुष्कृतं क्र्तम् ॥
शौचहीनास् तु ये विप्रा न च यज्ञोपवीतिनः ।
हुतं दत्तं तपस् तेषां नश्यत्य् अत्र न संशयः ॥
[३७] ऊषरे वापितं बीजं यच् च भस्मनि हूयते ।
क्रियाहीनेषु यद् दत्तं त्रिषु नाशो विधीयते ॥
प्रस्तरे पतितं बीजं भिन्नभाण्डे च दोहनम् ।
भस्मन्य् अपि हुतं द्रव्यं तद्वद् दानम् असाधुषु ॥
पूर्वत्र पात्रगुणकथने कृते ऽपि पुनर् दोषवचनम् एवंविधदोषभाग्जनप्रतिषेधार्थम् ।
मनुः ।
पात्रभूतो हि यो विप्रः प्रतिगृह्य प्रतिग्रहम् ।
असत्सु विनियुञ्जीत तस्य देयं न किञ्चन ॥
सञ्चयं कुरुते यश् च प्रतिगृह्य समन्ततः ।
धर्मार्थं नोपयुङ्क्ते यो न तं तस्करम् अर्चयेत् ॥
असत्सु निषिद्धेषु द्यूतादिषु । दक्षः ।
विधिहीने तथापात्रे यो ददाति प्रतिग्रहम् ।
न केवलं हि तद् याति शेषम् अप्य् अस्य नश्यति ॥
मनुः ।
अनर्हते यद् ददाति न ददाति यद् अर्हह्ते ।
अर्हानर्हापरिज्ञानाद् धनाद् धर्माच् च हीयते ॥
यमः ।
यस् तु निङ्ग्यच्युतां वृत्तिम् अलिङ्गेभ्यः प्रयच्छति ।
घोरायां ब्रह्महत्यायां पच्यते नात्र संशयः ॥
भविष्यपुराणे ।
नाब्राह्मणाय दातव्यं न देयं ब्राह्मणाक्रिये ।
न ब्राह्मणब्रुवे चैव न च दुर्ब्राह्मणे धनम् ॥
व्यासः ।
ब्रह्मबीजसमुत्पन्नो मन्त्रसंस्कारवर्जितः ।
जातिमात्रोपवीजी च भवेद् अब्राह्मणः सत् उ ॥
गर्भाधानादिभिर् युक्तस् तथोपनयनेन च ।
न कर्मविन् न चाधीते स भवेद् ब्राह्मणाक्रियः ॥
[३८] वाराहपुराणे ।
अव्रतौ वैश्यराजन्यौ शूद्रस्याब्राह्मणास् त्रयः ।
वेदव्रतविहीनश् च ब्राह्मणो ब्राह्मणब्रुवः ॥
यमः ।
यस्य विदश् च वेदी च विच्छिद्येते त्रिपौरुषम् ।
सव् ऐ दुर्ब्राःमणो नाम यश् चैव वृषलीपतिः ॥
कूर्मपुराणे ।
न वार्य् अपि प्रयच्छेत नास्तिके हैतुके ऽपि वा ।
न पाषण्डिषु सर्वेषु नावेदविदि धर्मवित् ॥
नास्तिकः परलोकवासनशून्यः । हैतुअकः हेतुभिः परलोकं निराकरिष्णुः । स्
मनु-विष्णुश् च ।
न वार्य् अपि प्रच्छेत बैडालव्रतिके द्विजे ।
न बकव्रतिके पापे नावेदविदि धर्मवित् ॥ [म्ध् ४.१९२]
त्रिष्व् अप्य् एतेषु दत्तं हि विधिनोपार्जितं धनम् ।
दातुर् भवत्य् अनर्थाय परत्रादातुर् एव च ॥ [म्ध् ४.१९३]
अनर्थः प्रत्यवायः ।
यथा प्लवेनौपलेन निमज्जत्य् उदके तरन् ।
दातृप्रग्रहीतारौ तथैवाज्ञु निमज्जतः ॥ [म्ध् ४.१९४]
यमः ।
यः कारणं पुरस्कृत्य व्रतचर्यां निषेवते ।
पापं व्रतेन प्रच्छाद्य बैडालं नाम तद् व्रतम् ॥ [=म्ध् ४.१९६]
अर्थं च विपुलं गृह्य दत्वा लिङ्गं विवर्जयेत् ।
आश्रमान्तरितं रक्षेद् बैडालं नाम तद् व्रतम् ॥
यतीनाम् आश्रमं गत्वा प्रत्यवस्येत् तु यः पुनः ॥
यतिधर्मविलोपेन बैडालं नाम तद् व्रतम् ॥
विष्णुः ।
धर्मवर्जी सदा लुब्धः शूद्रिको लोकदम्भकः ।
[३९] बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः ॥
यश् च धर्मध्वजो नित्यं सुराध्वज इवोच्छ्रितः ।
प्रच्छन्नानि च पापानि बैडालं नाम तद् व्रतम् ॥
अधोदृष्टिर् नैकृतिकः स्वार्थसाधनतत्परः ।
शठी मिथ्याविनीतश् च बकव्रतचरो द्विजः ॥
ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः ।
ते पतन्त्य् अन्धतामिश्रे तेन पापेन कर्मणा ॥ [=म्ध् ४.१९५–९७]
चतुर्विंशतिमतात् ।
रोदित्य् अन्नं दीयमानं किं मया दुष्कृतं कृतम् ।
अश्रोत्रियस्य विप्रस्य हस्तं दृष्ट्वा निराकृतेः ॥
कात्यायनस् त्व् अन्यथाह ।
यः स्वाध्यायाग्निमलः स्याद् देवादीन् नैभिर् इष्टवान् ।
निराकर्तामरादीनां स विज्ञेयो निराकृतिर् इति ॥
शातातपः ।
नेष्टं देव्लके दत्तम् अप्रतिष्ठं च वार्धुषौ ।
यच् च वाणिज्यके दत्तं न च तत् प्रेत्य नो इह ॥
दक्षः ।
धूर्ते बन्दिनि मल्ले च कुवैद्ये कितवे शठे ।
चाटचारणचौरेभ्यो दत्तं भवति निष्फलम् ॥
स्कन्दपुराणे ।
देवपितृविहीने यद् ईश्वरेभ्यश् च दीयते ।
दत्वा तु कीर्तितं यच् च वेदाग्नित्यागिने तथा ॥
अन्यायोपार्जितधनैर् दत्तम् अब्राह्मणे च यत् ।
गुरवे ऽनृतवक्त्रे च स्तेनाय पतिताय च ॥
कृतघ्नाय च यद् दत्तं सर्वदा ब्रह्मविद्विषे ।
याजकाय च सर्वस्य वृषल्याः पतये तथा ॥
[४०] परिचाराय भृत्याय सर्वस्य पिशुनाय च ।
इत्य् एतानि च राजेन्द्र वृथादानानि षोडश ॥
गर्भस्थो ऽज्ञानबालो ऽपि भुङ्क्ते वृद्धो न यौवने ।
तद् दत्तस्येह नाशो ऽस्ति सर्वथा रिपुसूदन ॥
तदीयफलम् इति शेषः । विष्णुधर्मात् ।
परस्थाने वृथा दानं सदोषं परिकीर्तितम् ।
आरूढपतिते चैव अन्यायात् तैर् धनैश् च यत् ॥
व्यर्थं हि ब्राह्मणे दानं पतिते तस्करे तथा ।
गुरोश् चाप्रीतिजनके कृतघ्ने ग्रामयाजके ॥
वेदविक्रायके चैव यस्य चोपपतिर् गृहे ।
स्त्रीभिर् जितेषु यद् दत्तं व्यालग्राहे तथैव च ॥
ब्रह्मबन्धौ च यद् दत्तं यद् दत्तं वृषलीपतौ ।
परिचारके च यद् दत्तं वृथा दानानि षोडश ॥
महाभारते ।
पङ्ग्वन्धबधिरा मूका व्याधिनोपहताश् च ये ।
भर्तव्यास् ते महाराज न तु देयः प्रतिग्रहः ॥
इति प्रतिग्रहीतृनिरूपणम् ।
** अथ द्रव्याख्यं दानाङ्गम् उच्यते —**
भविष्यपुराणे ।
यद् यद् इष्टं विशिष्टं च न्यायप्राप्तं च यद् भवेत् ।
तत् तद् गुणवते देयम् इत्य् एतद् दानलक्षणम् ॥
वह्निपुराणे ।
सुभोपात्तेन यत् किञ्चित् करोति लघुना नरः ।
अनन्तं फलम् आप्नोति मुद्गलो ऽपि यथा पुरा ॥
सुभोपात्तेन न्यायोपार्जितेन । लघुना स्वल्पेन द्रव्येणेति शेषः ।
देवीपुराणे ।
न्यायतो यानि प्राप्तानि शाकान्य् अपि नृपोत्तम ।
तानि देयानि देव्यास् तु कन्यकायोषितां सदा ॥
तद्भुक्तेषु च विप्रेषु अपरेषु च नित्यशः ॥
विष्णुपुराणे ।
यद् यद् इष्टतमं लोके यच् चास्य दयितं गृहे ।
तत् तद् गुणवते देयं तद् एवाक्षयम् इच्छता ॥
महाभारते ।
विशेषतो महाराज तस्य न्यायार्जितस्य च ।
श्रद्धया विधिवत् पात्रे दत्तस्यान्तो न विद्यते ॥
गौतमः- “स्वामी ऋक्थक्रयसंविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोः” इति । अप्रतिबन्धः दायः तत्र ऋक्थम् । संविभागः सप्रतिबन्धो दायः । परिग्रहः जलतृणकाष्ठादेर् अनन्यपूर्वस्य स्वीकारः । अधिगमः निध्यादेः प्राप्तिः । एषु निमित्तेषु स्वामी भवति । अधिकम् असाधारणम् । निर्विष्टम् कृष्यादिना द्विजशुश्रूषादिना च यल् लब्धम् । “निर्वेशो भृतिभोगयोः” इति स्मरणात् [अमर ३.३.८०१] । मनुः ।
सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः ।
प्रयोगः कर्मयोगश् च सत्प्रतिग्रह एव च ॥
न्यायोपचयार्थं द्रव्यप्रयोगः । कर्मयोगः आर्त्विज्यम् । नारदः ।
धनमूलाः क्रियाः सर्वा यत्नस् तस्यार्जने मतः ।
रक्षणं वर्धनं भोग इति तस्य विधिः क्रमात् ॥
तत् पुनस् त्रिविधं ज्ञेयं शुक्लं शबलम् एव च ।
कृष्णं च तस्य विज्ञेयो विभागः सप्तधा पुनः ॥ [न्स्म् १.३०–४०]
[४२] एकैकस्य शुक्लादेः सप्त सप्त भेदाः भवन्तीत्य् अर्थः ।
श्रुतशौर्यतपःकन्यायाज्यशिष्यान्वयागतम् ।
धनं सप्तविधं शुक्लम् उदयो ऽप्य् अस्य तद्विधः ॥ [न्स्म् १.४१]
आगतशब्दः श्रुतादिभिः प्रत्येकं सम्बध्यते । कन्यागतम् आर्षविवाहे वराद् गृहीतं गोमिथुनादि । याज्यागतम् आर्त्विज्यादिलब्दम् । शिष्यागतम् गुरुदक्षिणादि । अत्र च यथाधिकारं शुक्लत्वम् अवधेयम् । उदयः फलं तद् अप्य् अस्य शुद्धम् इत्य् अर्थः ।
कुशीदकृषिवाणिज्यशिल्पशुल्कानुवृत्तितः ।
कृतोपकाराद् आप्तं च शबलं समुदाहृतम् ॥
न्यायोपचयार्थं द्रव्यप्रयोगः कुशीदम् । शिल्पं कारुकादिकर्म । आकरादिभ्यो द्रव्योदयः शुल्कम् । अनुवृत्तिः सेवा ।
पार्श्वकद्यूतचौर्यार्तिप्रतिरूपकसाहसैः ।
व्याजेनोपार्जितं यत् तत् सर्वेषां कृष्णम् उच्यते ॥
पार्श्वकोपार्जितम् उत्कोचादिलब्धम् । आर्त्युपार्जितम् परपीडया लब्धम् । प्रतिरूपकं मणिसुवर्णादेः प्रतिरूपकरणम् । साहसं स्वप्राणात्ययाङ्गीकारेण पश्यतो हरत्वादिकम् । व्याजः दम्भेन तपःप्रभृति ।
तेन क्रयो विक्रयश् च दानं ग्रहणम् एव च ।
विविधाश् च प्रवर्तन्ते क्रियाः सम्भोग एव च ॥
यथाविधेन द्रव्येण यत् किञ्चित् कुरुते नरः ।
तथाविधम् अवाप्नोति सफलं प्रेत्य चेह च ॥
यथाविधेन शुक्लेन कृष्णेन शबलेन वा दानादि कुरुते तथाविधं फलम् आप्नोतीति, शुक्लेन शुद्धं दुःखरहितम् । [४३] शबलेन मिश्रम् । कृष्णेन असुखोदयम् ।
पद्मपुराणे ।
शुक्लेन वित्तेन कृतं पुण्यं बहुफलं भवेत् ।
शबलं मध्यमफलं कृष्णं हीनधनं फलम् ॥
ब्रह्मप्रोक्ते ।
शुक्लवित्तेन यो धर्मं प्रकुर्यात् श्रद्धयान्वितः ।
तीर्थं पात्रं समासाद्य देवत्वे तत् समश्नुते ॥
राजसेन च भावेन वित्तेन शबलेन च ।
दद्याद् दानम् अतिथिभ्यो मानुषत्वे तद् अश्नुते ॥
तमोवृत्तस् तु यो दद्यात् कृष्णवित्तेन मानवः ।
तिर्यक्त्वे तत्फ्लं प्रेत्य समश्नाति नराधमः ॥
नारदः ।
तत् पुनर् द्वादशविधं प्रतिवर्णाश्रयात् स्मृतम् ।
साधारणं स्यात् त्रिविधं शेषं नवविधं स्मृतम् ॥
धर्म्यम् इति शेषः । प्रतिवर्णाश्रयान् नवविधं साधारणं त्रिविधम् इत्य् एवं द्वादशविधम् इत्य् अर्थः ।
क्रमागतं प्रीतिदायः प्राप्तं च सह भार्यया ।
अविशेषेण सर्वेषां वर्णानां त्रिविधं धनम् ॥
वैशेषिकं धनं ज्ञेयं ब्राह्मणस्य त्रिलक्षणम् ॥
प्रतिग्रहेण संसब्धं याज्यतः शिष्यतस् तथा ॥
त्रिविधं क्षत्रियस्यापि प्राहुर् वैशेषिकं धनम् ।
युद्धोपलब्धं काराच् च दण्डाच् च व्यवहारतः ॥
कारः बल्यादिः ।
वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रिलक्षणम् ।
कृषिगोरक्षवाणिज्यैः शूद्रस्यैभ्यस् त्व् अनुग्रहात् ॥
एभ्यः ब्राह्मणादिभ्यः ।
[४४] सर्वेषाम् एव वर्णानाम् एवं धर्मो धनागमः ।
विपर्ययाद् अधर्मः स्यान् न चेद् आपद् गरीयसी ॥
(एवं धर्मसाधनं द्रव्यं निरुप्य तच् च कियद् देयं किं देयम् इत्य् अपेक्षायाम्)
याज्ञवल्क्यः ।
स्वं कुटुम्बाविरोधेन देयं दारसुताद् ऋते ।
नान्वये सति सर्वस्वं यच् चान्यस्मै प्रतिश्रुतम् ॥
अन्वये सन्ताने । प्रतिश्रुतं प्रतिज्ञातम् । कुटुम्बाविरोधस् तु व्याख्यातो बृहस्पतिना ।
कुटुम्बभक्तवसनाद् देयं यद् अतिरिच्यते ।
मध्वास्वादो विषं पश्चाद् दातुर् धर्मो ऽन्यथा भवेत् ॥
भक्तम् अन्नम् । वसनं वस्त्रम् । (यावता द्रव्येण कुटुम्बस्य वस्त्रम् अन्नं सम्पद्यते तदतिरिक्तं देयम्, इतरत् तु न देयम् इत्य् अर्थः) ।
मनुः ।
शक्तः परजने दाता स्वजने दुःखजीविनि ।
मधापानो विषास्वादः स धर्मप्रतिरूपकः ॥
कात्यायनः ।
सर्वस्वं गृहवर्जं तु कुटुम्बभरणाधिकम् ।
यच् च द्रव्यं स्वकं देयम् अदेयं स्याद् अतो ऽन्यथा ॥
तथा ।
सप्तरात्राद् गृहक्षेत्रात् यद् यत् क्षेत्रं प्रचीयते ।
पित्रा वाथ स्वयं प्राप्तं तद् दातव्यं विवक्षितम् ॥
(सप्तरात्रादिभ्यो यत् प्रचीयते, अधिकं भवति, तद् दातव्यम् इति विवक्षितम् इत्य् अर्थः) ।
शिवधर्मात् ।
तस्मात् त्रिभागं वित्तस्य जीवनाय प्रकल्पयेत् ।
भागद्वयं तु धर्मार्थम् अनित्यं जीवितं यतः ॥।
[४५] (अशेषवित्तस्य भागपञ्चकं परिकल्प्य भागत्रयं जीवनाय संरक्ष्य भागद्वयं धर्माय कल्पयेद् इत्य् अर्थः) । महाभारते ।
एकां गां दशगुर् दद्याद् दश् दद्याच् च गोशती ।
शतं सहस्रगुर् दद्यात् सर्वे तुल्यफलाः स्मृताः ॥
(* नन्व् एतद् वचनद्वयोपात्तयोर् वित्तगोशब्दयोर् उपलक्षणार्थत्वेन देयमात्रपरत्वाद् विषमभागपरिकल्पनं विरुद्धं यथाश्रुतगोवित्तपरत्वेनाविरोधे दशगुर् एकां गां दद्याद् इति वचनाद् दशावरगोर् धनिनो ऽपि गोदानानधिकारः स्यात् दशधेनुग्रहणयोग्य-धनपरत्वे तु उपलक्षणपक्षाङ्गीकाराद् विरोधताद् अवस्थ्यं तस्मान् न्यूनाधिककल्पयोः कृपणोदाराधिकारिविषयतयैव व्यवस्थेति सुस्थम् । *)
(* कुटुम्बाविरोधेन देयम् इत्य् उक्तम् । ) तस्यापवादम् आह व्यासः ।
कुटुम्ब्ं पीडयित्वापि ब्राह्मणाय महात्मने ।
दातव्यं भिक्षवे चान्नम् आत्मनो भूतिम् इच्छता ॥
(* यत्यतिथ्यादिविषयम् एतत् । ) कात्यायनः ।
स्वेच्छादेयं स्वयं प्राप्तं बन्धाचारेण बन्धकम् ।
वैवाहिकक्रमायाते सर्वदानं न विद्यते ॥
बन्धकम् आधिः तद् बन्धाचारेणाधिरूपेणैव देयम् । यद् विवाहलब्धं तत् तस्यां भार्यायां सत्यां सर्वम् अदेयम् । यच् च पितामहादिक्रमायातं तत्र पुत्रे सति न देयम् ।
सौदायिकं क्रमायातं शौर्यप्राप्तं च यद् भवेत् ।
स्त्रीज्ञातिस्वाम्यनुज्ञातं दत्तं सिद्धिम् अवाप्नुयात् ॥
सौदायिकं विवाहलब्धं तद्भार्ययानुज्ञातम् । [४६] क्रमायातम् अविभक्तधनैर् ज्ञातिभिर् अनुज्ञातम् । भृतेन सता युद्धेन लब्धं स्वामिनानुज्ञातम् इत्य् अर्थः । याज्ञवल्क्यः ।
देयं प्रतिश्रुतं चैव दत्वा नापहरेत् पुनः ।
यमः ।
यच् च वाचा प्रतिज्ञातं कर्मणा नोपपादितम् ।
तद् धनम् ऋणसंयुक्तम् इह लोहे परत्र च ॥
ऋणसंयुक्तम् ऋणासमर्पणजन्यदोषसंयुक्तम् इत्य् अर्थः ।
सप्ताजातान् नरो हन्याद् वर्तमानांस् तु सप्त च ।
अतिक्रान्तान् सप्त हन्याद् अप्रयच्छन् प्रतिश्रुतम् ॥
प्रतिश्रुताप्रदानेन दत्तस्य हरणेन च ।
जन्मप्रभृति यत् पुण्यं तत् सर्वं सम्प्रणश्यति ॥
महाभारते ।
ब्राह्मणं स्वयम् आहूय भिक्षार्थे कृशवर्तिनम् ।
पश्चान् नास्तीति यो भ्रूयात् तं विद्याद् ब्रह्मघातकम् ॥
तथा ।
संश्रुत्य यो न दित्सेत याचित्वा यस्य नेष्यति ।
उभाव् अनृतिकाव् एतौ मृषा पापम् अवाप्नुतः ॥
तथा ।
यो न दद्यात् प्रतिश्रुत्य स्वल्पं वा यदि वा बहु ।
आशास् तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् ॥
यं निरीक्षेत सङ्क्रुद्ध आशया पूर्वजातया ।
प्रदहेत् हितं राजन् कङ्कम् अक्षयभुग् यथा ।
तस्माद् दातव्यम् एवेह प्रतिश्रुत्य युधिष्ठिर ॥
नारदः ।
ब्राह्मणस्य च यद् देयं सान्वयस्य च नास्ति कः ।
सकुल्ये तस्य निनयेत् तद् अभावे ऽस्य बन्धुषु ॥ [न्स्म् १.९९]
[४७] यदा तुन् अ सकुल्यः स्यान् न च सम्बन्धिबान्धवाः ।
दद्यात् सजातिशिष्येभ्यस् तदभावे ऽप्सु निक्षिपेत् ॥
गौतमः- “प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात्” । कात्यायनः ।
प्राणसंशयम् आपन्नं यो माम् उत्तारयेद् इतः ।
सर्वस्व् अन्ते प्रदास्यामीत्य् उक्ते ऽपि न तथा भवेत् ॥
अथ फलातिशयप्रतिपादनार्थं पात्रविशेषेण देयविशेषाः । भविष्यपुराणे ।
गोभूतिलहिरण्यादि दद्यान् नित्यम् अतन्द्रितः ।
तथा द्रव्यवेशेषांश् च दद्यात् पात्रविशेषतः ॥
आर्तानाम् अन्नदानं च गोनानं च कुटुम्बिनाम् ।
तथा प्रतिष्ठाहीनानां क्षेत्रदानं प्रशस्यते ॥
सवर्णं याज्ञिकानां च विद्यां चैवोर्द्ध्वरेतसाम् ।
कन्यां चैवानपत्यानां ददतां गतिर् उत्तमा ॥
विष्णुधर्मोत्तरात् ।
युद्धोपकरणं द्रव्यं क्षत्रिये द्विजपुङ्गवाः ।
पण्योपयोगि तद् वैश्ये शूद्रे शिल्पोपयोगि च ॥
यस्योपयोगि यद् द्रव्यं देयं तस्यैव तद् भवेत् ।
येन येन च भाण्डेन यस्य वृत्तिर् उदाहृता ॥
तत् तत् तस्यैव दातव्यं पुण्यकामेन धीमता ।
दण्डं कृष्णाजिनं चैव तथा विप्राः कमण्डलुम् ॥
धीरं पुण्यम् अवाप्नोति दत्वैतान् ब्रह्मचारिणः ।
वस्त्रं शय्यासनं धान्यं वेश्म वेश्मपरिच्छदम् ॥
गृहस्थाय तु तद् दत्तं ज्ञेयं बहुफलं सदा ।
नीवारं वल्कलं शाकं फलं मूलं च गोरसम् ॥
[४८] वानप्रस्थाय यद् दत्तम् अनन्तं परिकीर्तितम् ।
भिक्षाप्रदानं यतये पात्रदानं तथाहितम् ॥
गन्धमङ्गल्यताम्बूलरक्तवस्त्रादिकं स्त्रियः ।
स्त्रीणां प्रदानं दातव्यं भर्तृहस्ते तु नान्यथा ॥
प्रोक्तं सङ्ग्रहणं ह्य् एतद् गुप्तं भर्तुः प्रयच्छतः ।
अन्नं प्रतिश्रयं चैव पान्थे दत्तं महाफलम् ॥
विवाहादिक्रियाकाले तत् क्रियासिद्धिकारणम् ।
यः प्रयच्छति धर्मज्ञः सो ऽश्वमेधम् अवाप्नुयात् ॥
आतुरेभ्यो धनं दत्वा दानं बहुफलं भवेत् ।
बालक्रीडनकं दत्वा मृष्टम् अन्नं तथैव च ॥
फलं मनोहरं वापि अग्निष्टोमफलं लभेत् ।
मृष्टान्नं मानवो दत्वा मृष्टान्नानि तु काङ्क्षताम् ॥
अक्षयं फलम् आप्नोति स्वर्गलोकं च गच्छति ।
श्रीविहीने तथा दत्वा भोजनं द्विजसत्तम ॥
वस्त्रं शुभ्रम्बा धर्मज्ञः पुण्यं महद् उपाश्रते ।
कृपास्थानं परं विप्रा विच्युताः पुरुषाः श्रिया ॥
तस्यानुकम्पा कर्तव्या सतां वर्त्मनि तिष्ठता ।
कार्यो सत्यद्यमं कृत्वा परेषां समुपस्थिते ॥
अक्षयं फलम् आप्नोति नात्र कार्या विचारणा ।
यवसानां प्रदानेन धेनुमत्सु द्विजातिषु ॥
लवणानां च धर्मज्ञाः फलम् अक्षयम् अश्नुते ।
प्रसवेषु तु यद् दत्तं व्यसनार्तिभयेषु च ॥
तद् दानम् अक्षयं प्रोक्तं पुरुषस्य विपश्चितः ।
[४९] दत ब्राह्मणशार्दूल जलपात्रम् अथार्थिने ॥
फलम् अक्षयम् आप्नोति नात्र कार्या विचारणा ॥
अङ्गिराः ।
देवतानां गुरूणां च मातापित्रोस् तथैव च ।
पुण्यं देयं प्रयत्नेन नापुण्यं नोदितं क्वचित् ॥
नन्दिपुराणे ।
पापदः पापम् आप्नोति नरो लक्षगुणं सदा ।
पुण्यदः पुण्यम् आप्नोति शतशो ऽथ सहस्रशः ॥
तथा पात्रविशेषेण दानं स्याद् उत्तरोत्तरम् ।
पितृमातृगुरुब्रह्मवादिनां दीयते तु यत् ॥
तल् लक्षगुणितं विद्यात् पुण्यस्वा पापम् एव वा ॥
वह्निपुराणे ।
द्वाव् इमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ।
दातान्नस्य च दुर्भिक्षे सुभिक्षे हेमवस्त्रदा ॥
अथ अदेयनिरूपणम् । देवलः ।
अन्यायाधिगतां दत्वा सकलां पृथिवीम् अपि ।
श्रद्धावर्जम् अपात्राय न काञ्चिद् भूतिम् आप्नुयात् ॥
वह्निपुराणात् ।
अन्यायोपगतं द्रव्यं गृहीत्वा यो ह्य् अपण्डितः ।
धर्माभिकाङ्क्षी यजते न धर्मफलम् अश्नुते ॥
धर्मवैतंसिको यस् तु पापात्मा पुरुषस् तथा ।
ददाति दानं विप्रेभ्यो लोकविश्वासकारणम् ॥
पापेन कर्मणा विप्रो धनं लब्ध्वा निरंशकः ।
रागमोहान्वितस्वान्तः कलुषां योनिम् आप्नुयात् ॥
अर्थसञ्चयबुद्धिर् हि लोभमोहवशङ्गतः ।
उद्वेजयति भूतानि हिंसया पापचेतनः ॥
एवं लब्ध्वा धनं लोभाद् यजते यो ददाति च ।
[५०] स पापकर्मणा तेन् अन सिध्यति पुरागमात् ॥
तथा ।
एतैर् अन्यैश् च बहुभिर् अन्यायोपार्जितैर् धनैः ।
आरभ्यन्ते क्रिय यास् तु पिशाचास् तत्र दैवतम् ॥
वृद्धशातातपः ।
द्रव्येणान्यायलब्धेन यः करोत्य् और्ध्वदेहिकम् ।
न स तत् फलम् आप्नोति तस्यार्थस्य दुरागमात् ॥
स्कन्दपुराणे ।
देवद्रव्यं गुरुद्रव्यं द्रव्यं चण्डेश्वरस्य च ।
त्रिविधं पतनं दृष्टं दानलङ्घनभक्षणात् ॥
यमः ।
अपहृत्य परस्यार्थं दानं यस् तु प्रयच्छति ।
स दाता नरकं याति यस्यार्थस् तस्य तत्फलम् ॥
तथा ।
परिभुक्तम् अवज्ञातम् अपर्याप्तम् असंस्कृतम् ।
यः प्रयच्छति विप्रेभ्यस् तद् भस्मन्य् अवतिष्ठते ॥
परिभुक्तं गृहीतोपयोगं वस्त्रादि । अपर्याप्तं स्वकार्याक्षमं जरद्गवादि । शातातपः ।
वेदविक्रयनिर्दिष्टं स्त्रीषु यच् चार्जितं धनम् ।
अदेयं पितृदेवेभ्यो यच् च क्लीबाद् उपागतम् ॥
(वेदविक्रयो निर्दिश्यते व्यपदिश्यते यत् तत् तथा । निर्विष्टम् इति पाठे वेदविक्रयाल् लब्धम् इत्य् अर्थः) । स्त्रीषु यच् चार्जितम् इति स्त्रीव्यापारोपजिवनेन यल् लब्धम् । स्त्रीषु विक्रीतास्व् इति केचित् ।
दक्षः ।
सामान्यं याचितं न्यास आधिर् दाराश् च तद्धनम् ।
अन्वाहितं च निक्षेपः सर्वस्वं चान्वये सति ॥
आपत्स्व् अपि न देयानि नव वस्तूनि पण्डितैः ।
यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः ॥
[५१] सामान्यं अनेकस्वामिकम् । याचितं संव्यवहारार्थं याचित्वानीतं वस्त्रालङ्कारादि । गृहस्वामिने अदर्शयित्वा तत्परोक्षम् एव गृहस्वामिने अर्पणीयम् इति गृहजनहस्ते स्थापितं द्रव्यं न्यासः । आधिः प्रसिद्धा । दाराः कलत्रम् । तद्धनं दारधनम् । तच् च व्याख्यातं मनुना ।
अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥ [म्ध् ९.१९४]
अध्यग्नि अग्निसमक्षं यत् स्त्रियै दत्तम् । अध्यावाहनिकं विवाहकाले पित्रादिदत्तम् । प्रीतिकर्मणि स्त्रीपुंसम्बन्धेन भर्तार्पितम् । विवाहोत्तरकाले ऽपि भ्रात्रादिभ्यः प्राप्तम् ।
याज्ञवल्क्यो ऽप्य् आह ।
भ्रातृमातृपितृपतिप्राप्तम् अध्यग्न्युपागतम् ।
आधिवेदनिकं चैव स्त्रीधं परिकीर्तितम् ॥
दारान्त्रम् इच्छता भर्त्रा यद् दत्तं तद् आधिवेदनिकम्, एवम्प्रकारं स्त्रीधनं न देयम् इति । अन्वाहितं यद् एकस्य हस्ते निहितं द्रव्यं तेनाप्य् अनु पश्चाद् अन्यस्य हस्ते स्वामिने देहीति निहितम् । गृहस्वामिसमक्षं स्थापितं द्रव्यं निक्षेपः । कात्यायनः ।
विक्रयं चैव दानं च न नेयाः स्युर् अनिच्छवः ।
दाराः पुत्राश् च सर्वस्वम् आत्मनैव तु योजयेत् ॥
आपत्काले तु कर्तव्यं दानं विक्रय एव वा ।
अन्यथा न पर्वर्तन्त इति शास्त्रस्य निश्चयः ॥
(* आपत्काले तु कर्तव्यं दानं विक्रय एव वेति स्वकीयदानविक्रयेच्छुदारादिविषयम्) ।
[५२] यत् तु दाराणाम् आपत्स्व् अपि न देयानीति दक्षेणादेयत्वम् उक्तं तत् स्वदानविक्रयानिच्छु-दारादिविषयम् । वसिष्ठः- “शुक्रशोणितसम्भवः पुरुषो मातापितृनिमित्तिकस् तस्य प्रदानविक्रयप्ररित्यागेषु मातापितरौ प्रभवतः न त्व् एकं पुत्रं दद्यात् प्रतिगृह्नीयाद् वा अन्यत्रानुज्ञानाड् भर्तुः” [वध् १५.१–५] । बृहस्पतिः ।
कस्मैचिद् याचमानाय दत्तं धर्माय यद् भवेत् ।
पश्चाच् च न तथा तत् स्यान् न देयं तस्य तद् भवेत् ॥
(* धर्मं कर्तुं याचमानाय यद् दत्तं तेन् अचेद् असौ धर्मं न कुर्यात् तदा तत् तस्मै न देयम् इत्य् अर्थः) । अङ्गिराः ।
बहुभ्यो न प्रदेयानि गौर् गृहं शयनं स्त्रियः ।
विभक्तदक्षिणा ह्य् एता दातारं तारयन्ति हि ॥
एका एकस्य दातव्या न बहुभ्यः कथञ्चन ।
दातुर् विक्रयम् आपन्ना दहत्य् आ सप्तमं कुलम् ॥
(* विक्रेतुर् एवैतद् दोषप्रदर्शनं न प्रकृतस्य दातुर् इति) । औपकायनः ।
कन्याशय्यागृहं चैव देयं यद् गोस्त्रियादिकम् ।
तद् एकस्मै प्रदातव्यं न बहुभ्यः कथञ्चन ॥
व्यासः ।
न व्यङ्गा रोहिणीं वन्ध्यां न कृशां मृतवत्सकाम् ।
न वामनां वेहतं च दद्याद् विप्राय गां नरः ॥
वेहत् गर्भोपघातिनी । देवलः ।
विवत्सां रोगिणीं रूक्षां स्थविरां शृङ्गभीषणीम् ।
क्षीणक्षीरशरीराङ्गां दत्वा दोषम् अवाप्नुयात् ॥
कात्यायनः ।
न चोषरां न निर्दग्धां महीं दद्यात् कथञ्चन ।
[५३] न श्मशानपरीतां च न च पापनिषेविताम् ॥
पापाः हिंश्रप्राणिनो व्याघ्रादयः । विष्णुधर्मोत्तरे ।
सोशीरां तस्कराकीर्णां तथा व्यालवतीं भुवम् ।
न दद्यात् तु द्विजश्रेष्ठी या च सन्धिषु संस्थिता ॥
स्कन्दपुराणे ।
पापदः पापम् आप्नोति नरो लक्षगुणं सदा ।
तस्मान् न दद्यान् मेधावी पातकं जातु कस्यचित् ॥
महाभारते ।
दुःखितेभ्यो हि भूतेभ्यो मृत्युरोगजरादिभिः ।
भूयः को दुःखम् अपरं सघृणो दतुम् अर्हति ॥
दुःखं ददाति यो ऽन्यस्य ध्रुवं दुःखं स विन्दति ।
तस्मान् न कस्यचिद् दुःखं दातव्यं दुःखभीरुणा ॥
अथ पात्रविशेषेण देयम् उच्यते । यमः ।
सुवर्णं रजतं ताम्रं यतिभ्यो यः प्रयच्छति ।
न तत्फलम् अवाप्नोति तत्रैव परिवर्तते ॥
परिवर्तः विपर्ययः, एवशब्दः अप्यर्थः तेन तत्र तस्मिन् दतर्य् अपि परिवर्तते, धर्मविपरीतं धर्मं जनयतीत्य् अर्थः । तथा चोक्तम् ।
यतये काञ्चनं दत्वा दातापि नरकं व्रजेत् ॥ इति ।
देवलः ।
पक्वम् अन्नं गृहस्थस्य वानप्रस्थस्य गोरसः ।
वृत्तिं च भिक्षुवृत्तिभ्यो न देयं पुण्यम् इच्छता ॥
वृत्तिः भिक्षातिरिक्तं वर्तनम् । तथा ।
न शूद्राय हविर् दद्यात् स्वस्ति क्षीरं तिलान् मधु ।
न शूद्रात् प्रतिगृह्णीयात् तेषाम् अन्यन् निवेदयेत् ॥
गोरसं काञ्चनं क्षेत्रं गास् तिला मधुसर्पिषी ।
तथा सर्वान् रसांश् चापि चण्डालेभ्यो न दीयते ॥
[५४] स्वस्ति न दद्याद् इति प्रणामम् अन्तरेण शूद्रस्य स्वस्तीति न ब्रूयाद् इत्य् अर्थः । तेषाम् इति क्षीरादीनां क्रयार्थम् अन्यद् द्रव्यं निवेदयेद् इत्य् अर्थः । शङ्खलिखितौ- “कृशरं पायसं यावं दधिमधुकृष्णाजिनानि शूद्रेभ्यो न दद्यान् नोपाकृतं किञ्चित्” । विष्णुधर्मोत्तरात् ।
भुवं धेनुम् अथाश्वं च रत्नानि कनकं तथा ।
तिलांश् च कुञ्जरं दद्यान् नाविज्ञाय गुणागुणान् ॥
अथ ग्राह्यम् उच्यते । तत्र व्यासः ।
कुटुम्बार्थं हि सच्छूद्रात् प्रतिग्राह्यम् अयाचितम् ।
वृत्त्यर्थम् आत्मने चैव न हि याचेत कर्हिचित् ॥
स्कन्दपुराणे ।
दुर्भिक्षे दारुणे प्राप्ते कुटुम्बे सोदति क्षुधा ।
असाधोर् अपि गृह्णीयात् प्रतिग्रहम् अतन्द्रितः ॥
ऋणापाकरणार्थं च प्रतिग्राह्यं द्विजोत्तमैः ।
चिकीर्षया तु यज्ञस्य मातापित्रर्थम् एव च ॥
गृह्णीयाद् ब्राह्मणाद् एव नित्यम् आचारवर्तिनः ।
श्रद्धया विमलं दत्तं तथा धर्मो न हीयते ॥
अब्राह्मणकृताद् दानाद् विशुद्धाद् अपि सर्वतः ।
ब्राह्मणेन कृतं ग्राह्यं निषिद्धम् अपि जानता ॥
निषिद्दम् अपि अनापदि निषिद्धं कृष्णाजिनादि । ब्रह्माण्डपुराणात् ।
अनापद्यतिधर्मेण याज्यतः शिष्यतस् तथा ।
गृह्णन् प्रतिग्रहं विप्रो न धर्मात् परिहीयते ॥
समाषण्मासमासैकषडहस्त्रिदिनक्षमम् ।
एकाग्निकं वा धर्माय गृह्णीयाद् उत्तरोत्तरम् ॥
[५५] गरुडपुराणात् ।
यावता पञ्चयज्ञानां कर्तुं निर्वहणं क्षमः ।
तावद् एव हि गृह्णीयात् कुटुम्बस्यात्मनस् तथा ॥
यद् गृहीतम् अनिन्द्येभ्यः श्रद्धापूतं च यद् भवेत् ।
द्रव्यराशिर् अपि श्रेयान् अनिन्द्यात् प्रतिगृह्णताम् ॥
निन्द्यस्य द्रव्यलेशो ऽपि निरवायैव जायते ॥
बृहस्पतिः ।
अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः ।
पृथिवीं नान्यद् इच्छन्ति पावनं ह्य् एतद् उत्तमम् ॥
ब्रह्मवैवर्तात् ।
पितृमातृगुरोर् अर्थे विवाहार्थं च धर्मतः ।
अध्वरार्थं च विदुषा ग्रहीतव्यं धनं सदा ॥
गृह्णन् गोभूहिरण्यादि तथा नैव विचारयेत् ।
कृतान्नं तु ग्रहीतव्यं बहुशः सुपरीक्षितम् ॥
संवर्तः ।
गृहस्थस् तु सदा युक्तो धर्मम् एवानुचिन्तयेत् ।
पोष्यवर्गार्थसिद्ध्यर्थं धनम् इच्छेत बुद्धिमान् ॥
तथा ।
अयाचिताहृतं ग्राह्यम् अपि दुष्कृतकर्मणः ।
अन्यत्र कुलटाषण्डपतितेभ्यस् तथा द्विषः ॥
याज्ञवल्क्यः ।
राजान्तेवासियाज्येभ्यः सीदन्न् इच्छेद् धनं क्षुधा ।
दम्भिहैतुकपाषण्डिबकवृत्तींश् च वर्जयेत् ॥
तथा ।
देवातित्यर्चनकृते गुरुभृत्यादिवृत्तये ।
सर्वतः प्रतिगृह्णीयाद् आत्मवृत्त्यर्थम् एव च ॥
सर्वतः शूद्रादेर् अपि । आत्मवृत्तिः शरीरधारणमात्रं न तु तृप्तिः । तथा विष्णुः ।
गुरून् भृत्यांश् चोच्चिहीर्षन्न् अर्चिष्यन् देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयात् न तु तृप्येत् स्वयं ततः ॥
[५६] अङ्गिराः ।
गुर्वर्थम् अतिथीनां वा भृत्यानां च विशेषतः ।
शूद्रान् न प्रतिगृह्णीयान् न तु भुङ्क्ते स्वयं ततः ॥
मनुः ।
आहूताम् उद्यतां भिक्षां पुरस्ताद् अप्रचोदिताम् ।
मेने प्रजापतिर् ग्राह्याम् अपि दुष्कृतकर्मणः ॥
नाश्नन्ति पितरस् तस्य दशवर्षाणि पञ्च च ।
न च हव्यं वहत्य् अग्निर् यस् ताम् अभ्यवमन्यते ॥
याज्ञवल्क्यः ।
कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः ।
मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥
मनुः ।
शय्यां गृहान् कुशान् गन्धान् पयः पुष्पं महीं दधि ।
मत्स्या धानाः पयो मांसं शाकं चैव न निर्लुठेत् ॥
तथा ।
एधोदकं मूलफलम् अन्नम् अभ्युद्यतं च यत् ।
सर्वतः प्रतिगृह्णीयान् मधु चाभयदक्षिणाम् ॥
एधः काष्ठम् । अभ्युद्यतम् अयाचितागतम् । अङ्गिराः ।
खलक्षेत्रगतं धान्यं वापिकूपगतं जलम् ।
अददद्भ्यो ऽपि तद् ग्राह्यं यच् च गोष्ठगतं पयः ॥
पक्वान्नवर्जं विप्रेभ्यो गोधान्यं क्षत्रियाद् अपि ।
वैश्यात् तु सर्वधान्यानि शूद्राद् ग्राह्यं न किञ्चन ॥
(अभोज्यान्नविप्रादिविषयम् एतत्)
यत् तु क्षेत्रगतं धान्यं खले वाथ गृहाद् बहिः ।
सर्वकालं ग्रहीतव्यं शूद्रभ्यो ऽप्य् अङ्गिरोमतम् ॥
[५७] संस्कारैः शुध्यति ह्य् एतद् धान्यं तेन शुचि स्मृतम् ।
तस्माद् दानं ग्रहीतव्यं मृतसूत्यन्तरेष्व् अपि ॥
मृतसूत्यन्तरेष्व् अपीति तद् आपद्विषयम् ।
आममांसं मधुघृतं धानाः क्षीरम् अथोदितम् ।
गुडं तक्रं च सङ्ग्राह्यं निवृत्तिर् नापि शूद्रतः ॥
शाकमत्स्यारनालानि कन्तुकाः सक्तवस् तिलाः ।
इक्षुः फलानि पिण्याकं प्रतिग्राह्याणि सर्वतः ॥
कन्तुकाः कन्थाः । बृहस्पतिः ।
विवाहोत्सवयज्ञेषु त्व् अन्तरामृतसूतके ।
सर्वं सङ्कल्पितं ग्राह्यं न दोषः परिकीर्तितः ॥
शङ्खः- “कुमारप्रसवे नाड्याम् अच्छिन्नायां गुडतिलहिरण्यवस्त्रगोधान्यप्रतिग्रहेष्व् अदोषः । तदह इत्य् एके” । आह प्रचेताः- “सर्वेषां सकुल्यानां द्विपदचतुष्पदधान्य-वासीदक्षिणाप्रतिग्रहेष्व् अदोषः” । विष्णुधर्मोत्तरात् ।
ग्राह्यं प्राणप्रदानं तु चण्डालात् पुक्वसाद् (?) अपि ।
जीवन् सर्वम् अवाप्नोति जीवन् धर्मं करोति च ।
शरीरं धर्मसर्वस्वं रक्षणीयं प्रयत्नतः ॥
अथाग्र्ह्यम् उच्यते । ब्रह्मपुआणे ।
ब्राह्मणः प्रतिगृह्णीयात् वृत्त्यर्थं साधुतः सदा ।
अव्यश्वमणिमातङ्गतिललोहांश् च वर्जयेत् ॥
कृष्णाजिनतिलग्राही न भूयः पुरुषो भवेत् ।
शय्यालङ्गारवस्त्राणि प्रतिगृह्य मृतस्य च ॥
[५८] नरकान् न निवर्तेत धेनुं तिलमहीं तथा ।
बहुशो द्विजवित्तानाम् अपि स्तेयं तरिष्यति ॥
आतुराद् यद् गृहीतं तु तत् कथं निस्तरिष्यति ॥
आतुरात् मुमूर्षोः । वह्निपुराणात् ।
हस्त्यश्वरथयानानि मृतशय्यासनादि यत् ।
कृष्णाजिनं च गृह्णाति अनापत्सु गतो द्विजः ॥
तथोभयमुखीं घोरां सशैलां मेदिनीं द्विजः ।
कुरुक्षेत्रे च यद् दानं चण्डालात् पतितात् तथा ॥
मासिके ऽपि नवश्राद्धे बुञ्जन् प्रेतत्वम् आप्नुयात् ।
स्कन्दपुराणे ।
अजिनं मृतशय्यां च शृङ्गीं चोभयतोमुखीम् ।
कुरुक्षेत्रे च गृह्णानो न भूयः पुरुषो भवेत् ॥
पद्मपुराणे ।
ब्रह्माण्डं भूमिदानं च ग्राह्यं नैकेन तद् भवेत् ।
गृह्णन् दोषम् अवाप्नोति ब्रह्महत्यां न संशयः ॥
भूमिदानम् इति षोडशमहादानान्तर्गतकाञ्चनमेदिनीदानविषयम् एतत् । वसिष्ठः- “शस्त्रं विषं सुरा वा प्रतिग्राह्याणि ब्राह्मणस्य” ।
भिक्षाग्रहणम् अधिकृत्य मनुः ।
चिकित्सककृतघ्नानां शल्यकर्तुश् च वार्धुषेः ।
षण्डस्य कुलटायाश् च उद्यताम् अपि वर्जयेत् ॥
(भिक्षाम् इति शेषः) । चिकित्सको ऽत्र कुवैद्यः । षण्डः क्लीबः । कुलटा पुंश्चली । यमः ।
चिकित्सकस्य मृगयोर् वेश्यायाः कितवस्य च ।
षण्डनर्तकयोश् चैव उद्यतां परिवर्जयेत् ॥
[५९] मृगयुः मृगहन्ता । आह वसिष्ठः ।
चिकित्सकस्य मृगयोः शल्यकर्तुश् च पाशिनः ।
षण्डस्य कुलटायाश् च उद्यतापि न गृह्यते ॥
चिकित्सकस्य शल्यकर्तुर् मृगयोः पाशिन इति यत्राक्रमं विशेषणद्वयं योजनीयम् इति केचित् ।
विष्णुः ।
एतेष्व् अपि च कार्येषु समर्थः सन् प्रतिग्रहे ।
नादद्यात् कुलटाषण्डपतितेभ्यस् तथा द्विषः ॥
एतेष्व् इति पूर्वोक्तेषु गुरुदेवतातिथिपूजादिष्व् इत्य् अर्थः । मनुः ।
नेहेतार्थं प्रसङ्गेन न विरुद्धेन कर्मणा ।
न विद्यमानेष्व् अर्थेषु नार्त्याम् अपि यतस् ततः ॥
याज्ञवल्क्यः ।
न स्वाध्यायविरोध्यर्थम् ईहेत न यतस् ततः ।
न विरुद्धप्रसङ्गेन सन्तोषी च भवेत् सदा ॥ [य्ध् १.१२९]
तथा ।
प्रतिग्रहे सूनीचक्रीध्वजीवेश्यानराधिपाः ।
दुष्टा दशगुणं पूर्वपूर्वाद् एको [एते?] यथोत्तरम् ॥ य्ध् १.१४१]
सूना प्राणिहिंसा सा विद्यते यस्यासौ सूनी प्राणिहिंसापरः । चक्री तैलिकः । ध्वजी सुरायाः कर्ता ।
संवर्तः ।
राजप्रतिग्रहो घोरो मध्यास्वादो विषोपमः ।
पुत्रमांसं वरं भुक्तं न तु राजपरिग्रहः ॥
स्कन्दपुराणे ।
राजप्रतिग्रहप्लुष्टः पुनर्जन्म न विन्दति ।
ब्राह्मणं यः परित्यज्य द्रव्यलोभेन मोहितः ॥
विषयामिषलुब्धस् तु कुर्याद् राजप्रतिग्रहम् ।
नरके रौरवे घोरे तस्येह पतनं ध्रुवम् ॥
[६०] वृक्षा दावाग्निना दग्धाः प्ररोहन्ति घनागमे ।
राजप्रतिग्रहैर् दग्धा न प्ररोहन्ति कर्हिचित् ॥
तथा ।
राजप्रतिग्रहो घोरो रौद्रः पापो भयानकः ।
नरके यातनां घोरां कः सोढुं शक्तिमान् भवेत् ॥
तथा ।
ब्रह्मर्षिगालवश् चाहं कुरुक्षेत्रे पुरा स्थितः ।
अश्वप्रतिग्रहान् न्यूनम् अश्वयोनिं समाश्रितः ॥
दावाग्निना च यो दग्ध उदकात् स प्ररोहति ।
प्रतिग्रहेण यो दग्धः स दग्धो न प्ररोहति ॥
मनुः ।
न यज्ञार्थं धनं शूद्राद् भिक्षुर् भिक्षेत कर्हिचित् ।
भिक्षित्वा यजमानो हि चण्डालः प्रेत्य जायते ॥
ये शूद्राद् अधिगम्यार्थम् अग्निहोत्रम् उपासते ।
सर्वे ते ब्राह्मणा निन्द्या ब्रह्मवादिषु गर्हिताः ॥
तथा ।
हिरण्यं भूमिम् अश्वं गाम् अन्नं वासस् तिलान् घृतम् ।
अविद्वान् प्रतिगृह्णानो भस्मी भवति दारुवत् ॥
अतपास् त्व् अन्धीयानः प्रतिग्रहरुचिर् द्विजः ।
अम्भस्य् अश्मप्लवेनेव सह तेनैव मज्जति ॥
तस्माद् अविद्वान् भिभ्याद् यस्मात् कस्मात् प्रतिग्रहात् ।
स्वल्पकेनाप्य् अद्विद्वान् हि पङ्के गौर् इव सीदति ॥
याज्ञवल्क्यः ।
विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः ।
गृह्णन् प्रदातारम् अधो नयत्य् आत्मानम् एव च ॥
(ततश् च विद्यातपोरहितेनावसीदतापि बहुहिरण्यादिव्यति**[६१]**रेकेण कुटुम्बभरण-मात्रोपयिकाल्पद्रव्यप्रतिग्रहः कर्तव्यो न तु तत्रातिप्रशक्तिर् इति गम्यते । विष्णुधर्मोत्तरात् ।
प्रतिग्रहसमर्थो ऽपि प्रसङ्गं तत्र वर्जयेत् ।
प्रतिग्रहेण विप्राणां ब्रह्मतेजो विनश्यति ॥
न द्रव्याणाम् अविज्ञाय विधिं धर्म्यं प्रतिग्रहे ।
प्राज्ञः प्रतिग्रहं कुर्याद् अवसीदन्न् अपि क्षुधा ॥
विधिः मन्त्रेतिकर्तव्यताप्रकारलक्षणः । याज्ञवल्क्यः ।
प्रतिग्रहसमर्थो ऽपि नादत्ते यः प्रतिग्रहम् ।
ये लोका दानशीलानां स तान् आप्नोति शाश्वतान् ॥
इति द्रव्यनिरूपणम् ।
अथ कालाख्यं दानाङ्गम् अभिधीयते ।
तत्र पुण्यकालस् तावत् । देवीपुराणे ।
नित्यो विभुः स्थितः कालो ह्य् अवस्था तस्य हेतुजा ।
निमित्तादिविशेषैः स लोके पुण्यफलप्रदः ॥
श्रीमार्कण्डेयपुराणे ।
निमेषैर् दशभिः काष्ठाः साष्टभिश् च कला पुनः ।
त्रिंशत्काष्ठा कलाभिश् च त्रिंशद्भिः स्यान् मुहूर्तकम् ॥
अहोरात्रं मुहूर्तास् तु नृणां त्रिंशत् तु वै स्मृतम् ।
त्रिंशता तैर् अहोरात्रैः पक्षौ द्वौ मास उच्यते ॥
तैः षड्भिः तुरयनं वर्षं द्वे ते दक्षिणोत्तरे ।
तद् देवानाम् अहोरात्रं दिनं तत्रोत्तरायणम् ॥
साष्टाभिर् दशभिः अष्टादशभिर् इत्य् अर्थः । आह दक्षः ।
देवकार्याणि पूर्वाह्णे मनुष्याणां च मध्यमे ।
[६२] पितॄणाम् अपराह्णे च कार्यानीति विनिश्चयः ॥
अत्र तिथिकालः प्रथमम् उच्यते । भविष्यपुराणे ।
तिथीनां प्रवरा यस्माद् ब्रह्मणा समुदाहृता ।
प्रतिपादिता पदे पूर्वे प्रतिपत्तेन चोच्यते ॥
स्नानं दानं शतगुणं कार्तिके या तिथिर् भवेत् ॥
स्कन्दपुराणे ।
आश्विने मासि सम्प्राप्ते द्वितीया शुक्लकृष्णजा ।
दानं प्रदत्तं यत् तस्याम् अनन्तफलम् उच्यते ॥
पद्मपुराणे ।
वैशाखमासे या पुण्या तृतीया शुक्लपक्षजा ।
अनन्तफलदा दातुः स्नानदानादिकर्मसु ॥
भविष्यपुराणे ।
शिवा शान्ता सखा राजंश् चतुर्थी त्रिविधा स्मृता ।
मासि भाद्रपदे शुक्ला शिवलोकेषु पूजिता ॥
तस्यां स्नानं तथा दानम् उपवासो जपस् तथा ।
भवेत् सहस्रगुणितं प्रसादाद् दन्तिनो नृप ॥
माघमासि तथा शुक्ला या चतुर्थी महीपते ।
सा शान्ता शान्तिदा नित्यं शान्तिं कुर्यात् सदैव हि ॥
स्नानदानादिकं सर्वम् अस्याम् अक्षयम् उच्यते ।
यदा शुक्लचतुर्थ्यां तु वारो भौमस्य वै भवेत् ॥
तदा सा सुखदा ज्ञेया सुखानाम् एति कीर्थिता ।
स्नानदानादिकं सर्वम् अस्याम् अक्षयम् उच्यते ॥
स्कन्दपुराणे ।
शुक्ला मार्गशिरे मासि श्रावणे या च पञ्चमी ।
स्नानदाने बहुफला नागलोकप्रदायिनी ॥
भविष्यपुराणे ।
येयं भाद्रपदे मासि षष्ठी च भरतर्षभ ।
स्नानदानादिकं सर्वम् अस्याम् अक्षयम् उच्यते ॥
[६३] तथा ।
शुकपक्षस्य सप्तम्यां सूर्यवारो भवेद् यदि ।
सप्तमी विजया नाम तत्र दत्तं महाफलम् ॥
शुक्लपक्षस्य सप्तम्यां नक्षत्रं पञ्चतारकम् ।
यदा च स्यात् तदा ज्ञेया जयानामेति सप्तमी ॥
स्नानदानादिकं तस्यां भवेत् शतगुणं विभो ॥
पञ्च तारकम् इति रोहिण्यश्लेषामघाहस्तस्य ।
या मार्गशीर्षमासस्य शुक्लपक्षे तु सप्तमी ।
नन्दा सा कथिता वीर सर्वानन्दकरी स्मृता ॥
स्नानदानादिकं सर्वम् अस्याम् अक्षयम् उच्यते ॥
आदिपुराणे ।
रेवती यत्र सप्तम्याम् आदित्यदिवसे भवेत् ।
तद्दानं शतसाहस्रम् इति प्राह दिवाकरः ॥
भविष्यपुराणे ।
पौषे मासि यदा देवि शुक्लाष्टम्यां बुधो भवेत् ।
तदा तु सा महापुण्या महारुदेति कीर्तिता ॥
तस्यां स्नानं महादानं तर्पणं विप्रभोजनम् ।
मत्प्रीतये कृतं देवि शतसाहस्रिकं भवेत् ॥
महाभारते ।
अष्टकासु च यद् दत्तं तद् अनन्तम् उदाहृतम् ॥
आश्वलायनः- “हेमन्तशिशिरयोश् चतुर्णाम् अपरपक्षाणाम् अष्टमीष्व् अष्टका” इति । तथा शातपथश्रुतिः- “द्वादशपौर्णमास्यो द्वादशाष्तका द्वादशामावास्या” इति । द्वादशापि कृष्णाष्टम्य इत्य् अर्थः । देवीपुराणे ।
आश्विनस्य तु मासस्य नवमी शुक्लपक्षजा ।
जायते कोटिगुणितं दानं तस्यां नराधिप ॥
[६४] गरुडपुराण्ē ।
ज्यैष्ठस्य शुक्लदशमी संवत्सरमुखी स्मृता ।
तस्यां स्नानं प्रकुर्वीत दानं चैव विशेषतः ॥
एकादश्यां सिते पक्षे पुष्यर्क्षं यत्र सत्तम ।
तथौ भवति सा प्रोक्ता विष्णुना पापनाशिनी ॥
दानं यद् दीयते किञ्चित् समुद्दिश्य जनार्दनम् ।
होमो न क्रियते तस्याम् अक्षयं कथितं फलम् ॥
मासि भाद्रपदे शुक्ला द्वादशी श्रवान्विता ।
महती द्वादशी ज्ञेया उपवासे महाफला ॥
फलं दत्तहुतानां च तस्यां लक्षगुणं भवेत् ॥
विष्णुधर्मोत्तरात् ।
भाग्यर्क्षसंयुता चैत्रे द्वादशी स्यान् महाफला ॥
भाग्यर्क्षं पूर्वफल्गुनी ।
हस्तयुक्ता तु वैशाखे ज्यैष्ठे तु स्वातिसंयुता ।
ज्येष्ठायां च तथाषाढे मूलोपेता च वैप्लवे ॥
वैप्लवे श्रावणे मासि ।
तथा भाद्रपदे मासि श्रवणेन तु संयुता ।
आश्विने द्वादशी पुण्या भवत्य् आजर्क्षसंयुता ॥
आजर्क्षः पूर्वभाद्रपदाः ।
कार्तिके रेवतीयुक्ता सौम्ये कृत्तिकया तथा ।
सौम्यः मार्गशीषः ।
पौषे मृगशिरोपेता माघे चादित्यसंयुता ।
आदित्यः पुनर्वसुः ।
फाल्गुने पुष्यसहिता द्वादशी पावनी परा ।
नक्षत्रयुक्तास्व् एतासु स्नानं दानम् उपोषितम् ॥
[६५] सकृत्कृतं मनुष्याणाम् अक्षय्यफलदायकम् ।
स्कन्दपुराणे ।
यस् तु चैत्रत्रयोदश्यां स्नानं दानं समाचरेत् ।
फलं शतगुणं तस्य कर्मणो लभते नरः ॥
ज्योतिःशास्त्रे ।
कृष्णपक्षे त्रयोदश्यां मधास्व् इन्दुः करे रविः ।
यदा तदा गजछाया श्राद्धे पुण्यैर् अवाप्यते ॥
चैत्रे चतुर्दशी शुक्ला श्रावणप्रोष्ठपादयोः ।
माघस्य या कृष्णपक्षे दाने बहुफला हि सा ॥
विष्णुधर्मोत्तरात् ।
वैशाखी कार्तिकी माघी पौर्णिमा तु महाफला ।
पौर्णमासीषु सर्वासु मासर्क्षसहितासु च ॥
स्नानानाम् इह दानानां फलं दशगुणं भवेत् ।
यस्यां पूर्णेन्दुना योगं याति जीवो महाबलः ॥
पौर्णमासी तु सा ज्ञेया महापूर्वा द्विजोत्तम ।
स्नानं दानं तथा जाप्यम् अक्षय्यं तत् तदा स्मृतम् ॥
ब्रह्मपुराणे ।
आग्नेयं तु यदा ऋक्षं कार्तिक्यां भवति क्वचित् ।
महती सा तिथिर् ज्ञेया स्नानदानेषु चोत्तमा ॥
आग्नेयम् ऋक्षं कृत्तिका ।
यदा याम्यं तु भवति ऋक्षं तस्यां तिथौ क्वचित् ।
तिथिः सापि महापुण्या ऋषिभिः परिकीर्तिता ॥
याम्यं ऋक्षं भरणी ।
प्राजापत्यं यदा ऋक्षं तिथौ तस्यां नराधिप ।
सा महाकार्तिकी प्रोक्ता देवानाम् अपि दुर्लभा ॥
प्रायापत्यम् ऋक्षं रोहिणी । [६६]
व्यासः ।
अमा वै सोमवारेण रविवारेण सप्तमी ।
चतुर्थी भौमवारेण विषुवत्सदृशं फलम् ॥
शङ्खो ऽपि ।
अमावास्या तु सोमे तु सप्तमी भानुना सह ।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी ॥
चतस्रस् तिथयस् त्व् एतास् तुल्याः स्युर् ग्रहणादिभिः ।
सर्वम् अक्षयम् अत्रोक्तं स्नानदानजपादिकम् ॥
महाभारते ।
अमा सोमे तथा भौमे गुरुवारे यदा भवेत् ।
तत् पर्व पुष्करं नाम सूर्यपर्वशताधिकम् ॥
शातातपः ।
अमावास्या सोमवारे सूर्यवारे च सप्तमी ।
अङ्गारकदिने प्राप्ते चतुर्थी वा चतुर्दशी ॥
तत्र यः कुरुते कर्म शुभं वा यदि वाशुभम् ।
षष्टिवर्षसहस्राणि कर्ता तत् फलम् अश्नुते ॥
विष्णुपुराणे ।
अमावस्या यदा मैत्र विशाखाऋक्षयोगिनी ।
श्राद्धे पितृगणस् तृप्तिं तद् आप्नोत्य् अष्टवार्षिकीम् ॥
अमावस्या यदा पुष्ये रौदर्क्षे वा पुनर्वसौ ।
द्वादशाब्दीन् तथा तृप्तिं प्रयान्ति पितरो ऽर्चिताः ॥
रौद्रर्क्षं आर्द्रा ।
वासवाजैकपादर्क्षे पितॄणां तृप्तिम् इच्छता ।
वारुणे वाप्यदैवत्ये देवानाम् अपि दुर्लभा ॥
वासवं धनिष्ठा । अजैकपादं पूर्वाभाद्रपदा । वारुणं शततारका । आप्यं पूर्वाषाढा ।
माघासिते पञ्चदशी कदाचिद् उपैति योगं यति वारुणेन ।
ऋक्षेण कालः स परः पितॄणां नह् य् अल्पपुण्यैर् नृप लभ्यते ऽसौ ॥
[६७] वारुणं शततारा ।
अथ युगादिप्रभृतयः । तत्र स्कन्दपुराणे ।
नवम्यां शुक्लपक्षस्य कार्तिके निरगात् कृतम् ।
त्रेअत् सिततृतीयायां वैशाखे समपद्यते ॥
दर्शे तु माघमासस्य प्रवृत्तं द्वापरं युगम् ।
कलिः कृष्णत्रयोदश्यां लभस्ये मासि निर्गतः ।
युगादयः स्मृता ह्य् एते दत्तस्याक्षयकारकाः ॥
ब्रह्मपुराणे ।
युगारम्भास् तु तिथयो युगाद्यास् तेन कीर्तिताः ।
फलं दत्तहुतानां च तास्व् अनन्तं प्रकीर्तितम् ॥
तथा ।
एताश् चतस्रस् तिथयो युगाद्या दत्तं हुतं चाक्षयम् आशु विन्द्यात् ।
युगे युगे वर्षशतेन यत् तपो युगादिकाले दिवसेन तद् भवेत् ॥
तथा ।
सूर्यस्य संहसङ्क्रान्त्याम् अन्तः कृतयुगस्य च ।
तथा वृश्चिकसङ्क्रान्त्याम् अन्तस् त्रेतायुगस्य च ॥
ज्ञेयस् तु वृशसङ्क्रान्त्यां द्वापरान्तस् तु सङ्ख्यया ।
तथा च कुम्भसङ्क्रान्त्याम् अन्तः कलियुगस्य च ॥
आदित्यपुराणे ।
दिनर्क्षं रेवती यत्र गमनं चैव राशिषु ।
युगान्तदिवसं विद्धि तत्र दानम् अनन्तकम् ॥
ग्रहोपरागे विषुवे सौम्ये वा मिहिरोपदिः ।
सप्तमी शुक्ला कृष्णा वा युगान्तदिवसं विदुः ॥
मिहितोपदिः सूर्यग्रहः । मनुः ।
सहस्रगुणितं दानं भवेद् दत्तं युगादिषु ।
[६८] कर्मश्राद्धादिकं चैतत् तथा मन्वतरादिषु ॥
मत्स्यपुराणे ।
अश्वयुक्शुक्लनवमी द्वादशी कार्तिकस्य तु ।
चैत्रस्य तु तृतीया या तथा भाद्रपदस्य तु ॥
फाल्गुनस्य त्व् अमावास्या पौषस्यैकादशी तथा ।
श्रावणस्याष्टमी कृष्णा तथाषाढस्य पौर्णिमा ॥
आषाढस्य तु दशमी माघमासस्य सप्तमी ।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठे पञ्चदशी तथा ॥
मन्वतरादयश् चैता दत्तस्याक्षयकारकाः ।
स्नानं दानं जपो होमः स्वाध्यायपितृतर्पणम् ॥
सर्वम् एवाक्षयं विन्द्यात् कृतं मन्वन्तरादिषु ॥
(अत्रामावस्याष्टमीव्यतिरेकेण सर्वाः शुक्ला एव) । (पुराणान्तरेण तु श्रावणस्यामावस्या भाद्रपदस्य कृष्णाष्टमी मन्वतरादिर् इति प्रतिपादितम्) । तद् यथा ।
आश्विने शुक्लनवमी द्वादशी कार्तिके तथा ।
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥
श्रावणस्याप्य् अमावास्या पौषस्यैकादशी तथा ।
आषाढस्यापि दशमी माघमासस्य सप्तमी ॥
नभस्यस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा ।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चमी तथा ॥
मन्वन्तरादयश् चैता दत्तस्याक्षयकारकाः ।
अथ व्यतीपातादिकालाः । [६९]
याज्ञवल्क्यः ।
शतम् इन्दुक्षये दानं सहस्रं तु दिनक्षये ।
विषुवे शतसाहस्रं व्यतीपाते त्व् अनन्तकम् ॥
वाराहपुराणे ।
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये ।
शतघ्नं तस्य सङ्क्रान्तौ शतघ्नं विषुवे ततः ॥
युगादौ तच्छतगुणम् अयने तच्छताहतम् ।
सोमग्रहे तच्छतघ्नं तच्छतघ्नं रविग्रहे ॥
असङ्ख्येयं व्यतीपाते दानं वेदविदो विदुः ॥
शतघ्नं शतगुणम् इत्य् अर्थः । तथा ।
उत्पत्तौ लक्षगुणं कोटिगुणं भ्रमणनाडिकायां तु ।
उत्पत्त्यादिमानम् उक्तं ज्योतिःशास्त्रे ।
पतने दशनाड्यस् तु पतते सप्त नाडिकाः ॥
(व्यतीपातो ऽत्र विष्कुम्भादियोगेषु सप्तदशयोगः) । (वृद्धमनुना तु प्रकारान्तरेण व्यतीपातो दर्शितः) ।
श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तके ।
यद् यमा रविवारेण व्यतीपातः स उच्यते ॥
नागदैवतम् अश्लेषा । मस्तकं प्रथमचरणाः । (मस्तक इति श्रवणादिभिः प्रत्येकं सम्बध्यते) । (शास्त्रान्तरे ऽन्यो ऽपि व्यतीपात उक्तः) ।
पञ्चाननस्थौ गुरुभूमिपुत्रौ मेषे रविः स्याद् यदि शुक्लपक्षे ।
[७०] पाशाभिधाना करभेण युक्ता तिथिर् व्यतीपात इतीह योगः ॥
अस्मिन् हि गोभूमिहिरण्यवस्त्रदानेन सर्वं परिहाय पापम् ।
शूरत्वम् इन्द्रत्वम् अनामयत्वं मन्वाधिपत्यं लभते मनुष्यः ॥
पञ्चाननः सिंहः । गुरुभूमिपुत्रौ बृहस्पत्यङ्गारकौ । पाशाभिधाना द्वादशी । करभं हस्तनक्षत्रम् इति । (ज्योतिःशास्त्रे तु रविचन्द्रयोः सङ्क्रान्तिसाम्ये सूक्ष्मौ वैधृतव्यतीपातौ दर्शितौ) । तद् आह गालवः ।
चन्द्रार्कयोर् नयनवीक्षणजातमूर्तिः
कालानलद्युतिनिभः पुरुषो ऽतिरौद्रः ।
अस्त्रोद्यतो भुवि पतंश् च निरीक्षमाणः
कङ्घातये ऽहम् इति च व्यतिपातयोगः ॥
आह भृगुः ।
क्रान्तिसाम्यसमयः समीरितः सूर्यपर्वसदृशो मुनीश्वराः ।
तत्र दत्तहुतजप्तपूजनं कोटिकोटिगुणम् आह भार्गवः ॥
(अयम् अर्थः सूर्याचन्द्रसमोः क्रान्तिसाम्ये पुण्यकालद्वयं सम्भवति) । एकः व्यतीपाताख्यः । अपरः वैधृताख्यः । (तत्र सङ्क्रान्तिसाम्यलक्षणस्य व्यतीपातस्य गण्डोत्तरार्धाद् आरभ्य सार्धेषु संयोगेषु सम्भवो ऽस्ति वैधृते व्यतीपाते दत्तम् अक्षयकृद् भवति) । भरद्वाजः ।
व्यतीपाते वैधृते च दत्तस्यान्तो न विद्यते ।
व्यतीपाते विशेषेण स हि सूक्ष्मः प्रकीर्तितः ॥
(स्थूलप्रकारेण प्रसिद्धस् तु सप्तविंशतितमो योगो वैधृत इति) ।
[७१]
अथोपरागकालः ।
पद्मपुराणे ।
चन्द्रस्य यदि वा भानो राहुणा सह सङ्गमः ।
उपराम इति ख्यातस् तत्रानन्तफलं स्मृतम् ॥
इन्दोर् लक्षगुणं पुण्यं रवेर् देशगुणं भवेत् ।
गङ्गातीरे तु सम्प्राप्ते इन्दोः कोटी रवेर् दश ॥
रवेर् दशगुणम् इति लक्षगुणाद् दशगुणम् इत्य् अर्थः । एवम् उत्तरत्रापि । तथा ।
रविवारे रवेर् ग्रासः सोमे सोमग्रहस् तथा ।
चूडामणिर् इति ख्यातस् तत्रानन्तं फलं स्मृतम् ॥
भरद्वाजः ।
चन्द्रसूर्योपरागे च यत् कर्तव्यं तद् उच्यते ।
सर्वं हेममयं दानं सर्वे ब्रह्मसमा द्विजाः ॥
सर्वं गङ्गासं तोयं राहुग्रस्ते दिवाकरे ॥
ऋष्यशृङ्गः ।
राहग्रस्तो यदा सूर्यो यस् तु श्राद्धं समाचरेत् ।
तेनैव सकला पृथ्वी दत्ता विप्रस्य वै करे ॥
शातातपः ।
अयनेषु सदा देयं विशिष्टं स्वगृहेषु यत् ।
षडशीतिमुखे चैव विमोक्षे चन्द्रसूर्ययोः ॥
विमोक्षे वर्तमाने न तु विमुक्तयोर् इत्य् अर्थः, “उपरागे तु तत् कलम्” इति स्मरणात् । तथा च वसिष्ठः ।
नाड्यः षोडश् पूर्वेण सङ्क्रान्तेस् तु परेण च ।
राहोर् दर्शनमात्रेण पुण्यकालः प्रकीर्तितः ॥
जाबालिर् अपि ।
सङ्क्रान्तौ पुण्यकालस् तु षोडशोभयतः कलाः ।
चन्द्रसूर्योपरागे तु यावद् दर्शनगोचरः ॥
अथ सङ्क्रान्तिकालाः । [७२]
आह शातातपः ।
सङ्क्रान्तौ यानि दत्तानि हव्यकव्यानि दातृभिः ।
तानि नित्यं ददात्य् अर्कः पुनर् जन्मनि जन्मनि ॥
रविसङ्क्रमणे पुण्ये न स्नायद् यो हि मानवः ।
सप्तजन्मान्तरं योगी दुःखभागी सदा भवेत् ॥
वृद्धवसिष्ठः ।
अयने द्वे च विषुवे चतस्रः षडशीतयः ।
चतस्रो विष्णुपद्यश् च सङ्क्रान्त्यो द्वादश स्मृताः ॥
झषकर्कटसङ्क्रान्तो द्वे तूदग्दक्षिणायने ।
विषुवे च तुलामेषे गोलमध्ये ततो पराः ॥
झषः मकरः । गोलः राशिचक्रम् ।
कन्यायां मिथने (मिथुन?) मीने धनुष्य् अपि रवेर् गतिः ।
षडशीतिमुखा प्रोक्ता षडशीतिगुणा फलैः ॥
वृषवृश्चिककुम्भेषु सिंहे चैव यदा रविः ।
एतद् विष्णुपदं नाम विषुवाद् अधिकं फले ॥
गालवः ।
मध्ये विषुवति दानं विष्णुपदे दक्षिणायने चादौ ।
षडशीतिमुखे ऽतीते तथोदगयनं भूरि फलम् ॥
(एतच् च फलाधिक्यप्रतिपादनार्थम् उक्तम्) ।
पर्वकालस् तु सङ्क्रान्तेः प्राग् ऊर्ध्वं च भवेद् इति ।
तद् आह देवलः ।
सङ्क्रान्तिसमयः सूक्ष्मो दुर्ज्ञेयः पिशितक्षणैः ।
तद्योगश् चाप्य् अधश् चोर्ध्वं त्रिंशन्नाड्यः पवित्रिताः ॥
आसन्नसङ्क्रमं पुण्यं दिनार्धं स्नानदानयोः ।
रात्रौ सङ्क्रमणे भानोर् विषुवत्य् अयने दिने ॥
यायाः सनिहिता नाड्यस् तास् ताः पुण्यतमाः स्मृताः ।
[७३] (अयम् अर्थः सर्वास्व् अपि सङ्क्रान्तिषु अतीतत्वम् अनागतत्वं चानादृत्य अत्र दिनार्धे अतीतानागता वा सङ्क्रान्तिः सन्निहिता भवति तत्र स्नानदानादिकं कार्यम् इति) । वसिष्ठस् तु विशेषम् आह ।
त्रिंशत्कर्कटके नाड्यो मकरे विंश्तिः स्मृताः ।
वर्तमाने तुलमेषे नाड्यस् तूभयतो दश ॥
(अत्र वर्तमान उभयत इति च सर्वैर् एव कर्कटकादिभिः सम्बध्यते) ।
षडशीत्यां व्यतीतायाम् अष्टिर् उक्तास् तु नाडिकाः ।
पुण्याख्ह्या विष्णुपद्याश् च प्राक् पश्चाद् अपि षोडश ॥
अष्टिः षोडश । षडशीत्याम् अतीतायाम् इति पुण्यभूयस्त्वाभिप्रायेणैतत् । (षडशीतिमुखे ऽपि पूर्वम् अपि पुण्यकालस्य प्रतिपादितत्वात्) । तद् उक्तं स्मृत्यन्तरे ।
विष्णुपद्यां धनुर् मीननृयुक्कन्यासु वै यदा ।
पूर्वोत्तरगतो रात्रौ भानोः सङ्क्रमणं भवेत् ॥
पूर्वाह्णे तु पञ्चैव श्रौते स्मार्ते च कर्मणि ।
(अनेन रात्रौ षडशीत्याम् अतीतायाम् उत्तरदिने पूर्वाह्णे पञ्चनाद्यः पुण्या भवन्ति) । भाविन्यां च पूर्वदिवसे अपराह्णे पञ्चनाड्यः पुण्या भवन्तीत्य् उच्यते । नृयुक् मिथुनराशिः ।
अह्नि सङ्क्रमणे पुण्यम् अहः कृत्स्नं प्रकीर्तितम् ॥
[७४] रात्रौ सङ्क्रमणे पुण्यं दिनार्धं स्नानदानयोः ।
ऊर्ध्वं सङ्क्रमणे चोर्ध्वम् उदयात् प्रहरद्वयम् ॥
पूर्णे चेद् अर्धरात्रे तु यदा सङ्क्रमते रविः ।
प्राहुर् दिनद्वयं पुण्यं मुक्त्वा मकरकर्कऋऔ ॥
अयम् अर्थः पूर्वरात्रसङ्क्रमणे पूर्वस्याह्न उत्तरार्धे दानादिक्रिया । अपररात्रसङ्क्रमणे तु उत्तरदिवसस्य पूर्वाह्णे दानादि क्रिय । अयनरात्रसङ्क्रमे तु उत्तरदिवसस्य पूर्वाह्णे दानादि क्रिय । मध्यरात्रसङ्क्रमे तु दिनद्वयं पुण्यम् । रात्रौ स्नानदानादि प्रतिषेधात् । यस् तु संश्रूयते । सङ्क्रान्त्यादिषु रात्राव् अपि स्नानदानादिकं कुर्याद् इति तद् दक्षिणोत्तरायणविषयम् । अत एवोक्तम् मुक्त्वा मकरकर्कटाव् इति । ततश् च मकरकर्कटयो रात्राव् अपि स्नानदानानुग्रहे या याः सन्निहिता नाड्य इत्य् अवधेयम् । रात्रौ स्नानदानादिप्रतिषेधस् तु सङ्क्रान्त्यन्तरे व्यतिष्ठत एवेति ।
विषुवादिषु सूक्ष्मपुण्यकालम् आह गालवः ।
विषुवे षण्मुहूर्तं स्यात् षडशीतिमुखे द्वयम् ।
तथा विष्णुपदे त्रीणि पुण्यानि मुनयो विदुः \
फलम् आह भरद्वाजः ।
षडशीत्यां तु यद् दानं यद् दानं विषुवे द्वये ।
दृश्यते सागरस्यान्तस् तस्यान्तो नैव विद्यते ॥
विष्णुपदादिसूक्ष्मतमं पुण्यकालम् आह गालवः ।
स्थिरभे विष्णुपदं डडशीतिमुखं द्वितनुभे तुलामेषे ।
विषुवन्तुर्ये दक्षायनं मृगे सौभ्यकं सूर्ये ॥
[७५] पूर्वश्लोकैर् व्याख्यातम् एतत् ।
अयनांशकतुल्येन कालेनैतत् स्फुटं भवेत् ।
सर्वविष्णुपदाद्युक्तभेदादि ह्य् अयने ऽन्यथा ॥
मृगकर्कादिगे सूर्ये याम्योदगयने सति ।
तदा सङ्क्रान्तिदाने स्युर् उक्ता विष्णुपदादयः ॥
अयम् अर्थः । राशिं प्रति त्रिंशदंशका भवन्ति सूर्यश् च प्रतिदिनम् एकैकम् अंशं भुङ्क्ते तत्र यावद्भिर् अंशैर् अयनच्युतिर् भवति तावता सूर्यस्य भोग्यकालेन भाविनां विष्णुपदादिकानां च्युतिर् भवतीति ततश् च यदा द्वादशभिर् अयनच्युतिर् भवति तदाभाविन्याः सङ्क्रान्तेर् द्वादशभिर् दिनैर् अर्वाक् पुण्यकालो भवति तस्मिंश् च तच्छान्तिनिमित्तं दानादि कर्तव्यम् इति एवं न्यूनातिरिक्तेष्व् अपि बोद्धव्यम् । न केवलम् आदित्यस्यैव सङ्क्रमसमये पुण्यकालः किं तु सर्वेषाम् अपि ग्रहाणां नक्षत्रराशिसङ्क्रमे पुण्यकालो भवतीति ॥ तद् उक्तं ज्योतिःश्रास्त्रे ।
नक्षत्ररास्यो रविसङ्क्रमे स्युर् अर्वाक्परत्रापि रसेन्दुनाड्यः ।
पुण्यास् तथेन्दोस् त्रिधरापलैर् युगा एकैव नादी मुनिभिः सुभोक्ता ॥
माड्यश् चतस्रः सपला कुजस्य बुधस्य तिस्रः पलविश्वयुक्ताः ।
आद्यर्धनाड्यः पलसप्तयुक्ता गुरोस् तु शुक्रे सपलाश् चतस्रः ॥
द्विनागनाड्यः पलसप्तयुक्ता शनैश्चरस्वाभिहिताः सुपुण्याः ।
आद्ये तु मध्ये जपदानहोमं कुर्वन्न् अवाप्नोति सुरेन्द्रधाम ॥
अस्यार्थः । आदित्यस्य राशिनक्षत्रगमने अर्वाक् परतश् च षोडश् घटिकाः पुण्यकालः । तथा चन्द्रस्यापि राशिनक्षत्रगमने घटिकैका पलानि [७६] त्रयोदश अर्वाक् परतश् च पुण्यकालः । एवं मङ्गलस्य घटिकाश् चतस्रः पलम् एकं च पुण्यकालः । तथा बुधस्य तिस्रो घटिकाश् चतुर्दशपलानि पुण्यकालः । बृहस्पतेर् अपि सार्धाश् चतस्रो घटिकाः सप्तपलानि पुण्यकालः । शुक्रस्य चतस्रो घटिकाः पलम् एकं च पुण्यकालः । शनैश्चरस्यापि द्वाशीतिघटिकाः सप्तपलानि पुण्यकाल इति ।
अथ प्रकीर्णकालाः ।
आह विष्णुः ।
अमावास्या व्यतीपातो ग्रहणं चन्द्रसूर्ययोः ।
मन्वादयो युगादिश् च सङ्क्रान्तिर् वैधृतिस् तथा ॥
दिनक्षयं दिनच्छिद्रम् अवमञ् च तथा परम् ।
द्वे ऽयने विषुवद् युग्मं षडशीतिमुखं तथा ॥
चतस्रो विष्णुपद्यश् च पुत्रजन्मादि चापरम् ।
आदित्यादिग्रहाणां च नक्षत्रैः सह सङ्गमे ॥
विज्ञेयः पुण्यकालो ऽयं ज्योतिर्विद्भिर् विचार्य च ।
तत्र दानादिकं कुर्याद् आत्मनः पुण्यवृद्धये ॥
अमावास्यादीनि प्रसिद्धानि । दिनक्षयम् उक्तक् पद्मपुराणे ।
द्वौ तिथ्यन्ताव् एकवारे यस्मिन् स स्याद् दिनक्षयः ।
वसिष्ठो ऽप्य् आह ।
एकस्मिन् सावने त्व् अह्नि तथीनां त्रितयं यदा ।
तदा दिनक्षयः प्रोक्तस् तत्र साहस्रिकं फलम् ॥
दिनछिद्रलक्षणम् आह भृगुः ।
तिथ्यर्धतिथियोगर्क्षछेदादौ शशिपर्वणः ।
सदृशो दिवसछिद्रसमाख्यौ प्राह भार्गवः ॥
(अयम् अर्थः । तिथ्यर्धं करणं करणतिथियोगनक्षत्राणाम् [७७] अन्ते आदौ च पर्वकालः सोमग्रहणतुल्यः स च दिनछिद्रसञ्ज्ञ इति) । कालमानम् अप्य् उक्तं तेनैव ।
छेदादिकालः कथितस् तिथिकृत्योर् घतीद्वयम् ।
नागवह्निपलोपेतं तद्भे (?) तत्त्वपलैर् युतम् ॥
पलैः शोडशभिर् युक्तं नाडिकाद्वितयं युतेः ।
छेदादिसमयः प्रोक्तो दाने ऽनन्तफलप्रदः ॥
कृतिः करणम् । नागः अष्टौ । वह्नयः त्रयः । भं नक्षत्रम् । तत्त्वं पञ्चविंशतिः । युतिः योगः । तद् अयम् अर्थः सिद्धो भवति । (तिथिकरणयोर् आद्यन्ते घटिकाद्वयम् अष्टत्रिंशत्पलानि पुण्यकालः) ।
(नक्षत्रस्य तु पञ्चविंशतिपलैर् युक्तं घटिकाद्वयम्) ।
योगस्यापि षोडशभिः पलैर् युक्तं घटिकाद्वयम् इति) ॥
अवमलक्षणम् आह विष्णुः ।
तिथित्रयं स्पृशत्य् एको वारः स्याद् अवमं हि तत् ।
त्रिवारस्पृक् तिथिर् यत्र दिनस्पृक् च तद् उच्यते ॥
(अत्र दिनत्रयावमयोर् इयान् भेदः) ।
यत्र तिथिद्वयावसाने वारावसानं स दिनक्षयः ।
यत्र तिथिद्वयावसाने ऽपि वारानुवृत्तिः सो ऽवम इति ।
ब्रह्मप्रोक्त ।
एकादश्य् अप्य् अमावस्या पूर्णिमा पुत्रजन्म च ।
वैधृतिश् च व्यतीपातो भद्रा चावमवासरः ॥
****न्यादयस् ते स्युर् इन्द्रपर्वसमानकाः ।
क्रान्तिसाम्यं दिनछिद्रं ग्रहाणां भगमस् तथा ॥
[७८] भगमः राशिनक्षत्रेषु गमनम् । देवीपुराणे ।
व्यतीपातो विष्णुपदं शडशीतिमुखं तथा ।
क्रान्तिसाम्यम् अमावास्या ग्रहणं चैधृतिश् च यः ॥
इत्यादि पुण्यकालस् तु होमदानादिकर्मणः ॥
सकन्दपुराणे ।
ग्रहणं चन्द्रसूर्याभ्याम् उत्तरायणम् उत्तमम् ।
विषुवं सव्यतीपातं षडशीतिमुकं तथा ॥
दिनछिद्राणि सङ्क्रान्तिर् ज्ञेयं विष्णुपदं पुनः ।
इति कालः समाख्यातः पुंसां पुण्यविवर्धनः ॥
अस्मिन् दत्तानि दानानि स्नानहोमतपांसि च ।
अनन्तफलदानि स्युः स्वर्गमोक्षप्रदान्य् अपि ॥
आह च्यवनः- “अमावास्यासङ्क्रान्तिव्यतीपातविषुवायनषडशीतिमुखविष्णुपदादिवैधृति-ग्रहणान्तं स एव पुण्यकालः” ।
अयने षडशीतौ च चन्द्रसूर्यग्रहे तथा ।
युगादौ वैधृतौ चैव दत्तं भवति चाक्षयम् ॥
आह शातातपः ।
अयनेषु तु यद् दत्तं षडशीतिमुखेषु च ।
चन्द्रसूर्योपरागे च दत्तं भवति चाक्षयम् ॥
नारदः ।
विशाखासु यदा भानुः कृत्तिकासु च चन्द्रमाः ।
स योगः पद्मको नाम पुष्करेष्व् इति दुर्लभः ॥
अथ निषिद्धकालाः । तत्र शङ्खलिखितौ ।
आहारं मैथुनं निद्रां सम्ध्याकाले तु वर्जयेत् ।
[७९] कर्म चाध्ययनं चैव तथा दानप्रतिग्रहौ ॥
स्कन्दपुराणे ।
रात्रौ दानं न कर्तव्यं कदाचिद् अपि केनचित् ।
हरन्ति राक्षसा यस्मात् तस्माद् दातुर् भयावहम् ॥
विशेषतो निशीथे तुन् अ शुभं कर्म शर्मणे ।
अतो निवर्जयेत् प्राज्ञो दादादिषु महानिशाम् ॥
तथा स्नानं चैव महादानं स्वाध्यायं तुन् अ तर्पणम् ।
प्रथमे ऽब्दे न कुर्वीत महागुरुनिपातने ॥
आह ज्योतिःपराशरः ।
अग्न्याधेयं प्रतिष्टां च यज्ञदानाद्यभिग्रहान् ।
माङ्गल्यम् अभिषेकं च मलमासे विवर्जयेत् ॥
वापीकूपतडागादिप्रतिष्ठोदङ्मुखे रवौ ।
दक्षिणाशामुखे कुर्वन् न तत्फलम् अवाप्नुयात् ॥
बाले वा यदि वा वृद्धे शुक्रे वास्तम् उपागते ।
मलमास एवैतानि वर्जयेद् यत्नतः ससा ॥
मलमासः अधिकमासः । तल्लक्षणम् आह प्रचेताः ।
एकराशिस्थिते सूर्ये यदा दर्शद्वयं भवेत् ।
हव्यकव्यक्रियाहन्ता तदा ज्ञेयो ऽधिमासकः ॥
पैठीनसिः ।
वत्सरान्तर्गतः पापो यज्ञानां फलनाशकृत् ।
मलिम्लुचम् असङ्क्रान्तं सूर्यसङ्क्रान्तिवर्जितम् ।
अधिमासं विजानीयात् सर्वकर्मसु गर्हितम् ॥
[८०] तथा ।
श्रौतस्मार्तक्रियाः सर्वा द्वादशे मासि कीर्तिताः ।
त्रयोदशे तु ताः सर्वा निष्फला इति सञ्ज्ञिताः ॥
तस्मात् त्रयोदशे मासि न कुर्यात् ताः कथञ्चन ।
कुर्वन्न् अनर्थम् एवाशु कुर्याच् चात्मविनाशनम् ॥
हारीतः ।
इन्द्राग्नी यत्र हूयेते मासादिः स प्रकीर्तितः ।
अग्नीसोमौ स्थितौ मध्ये समाप्तौ पितृसोमकौ ॥
तम् अतिक्रम्य तु यदा रविर् गच्छेत् कदाचन ।
आद्यो मलिम्लुचो ज्ञेयो द्वितीयः प्राकृतः स्मृतः ॥
तस्मिंस् तु प्राकृते मासि कुर्याच् छ्राद्धं यथाविधि ।
तथैवाभ्युदयं कार्यं नित्यम् एकं हि सर्वदा ॥
व्यासः ।
भानुना लङ्घितो मासो ह्य् अनर्हः सर्वकर्मसु ।
षष्टिभिर् दिवसैर् मासः कथितो वादरायणैः ॥
पूर्वार्धं तु परित्यज्य उत्तरार्धं प्रशस्यते ।
उपाकर्म च हव्यं च कव्यं पर्वोत्सवस् तथा ॥
उत्तरे नियतिः कुर्यात् पूर्वे तन् निष्फलं भवेत् ॥
पाराशरः ।
उपाकर्म तथोत्सर्गः प्रसवाहोत्स्वाष्टकाः ।
मासवृद्धौ पराः कार्याः वर्जयित्वा तु पैतृकम् ॥
तथा ज्योतिःशास्त्रे ।
धटकन्यागते शूर्ये वृश्चिके वाथ धन्विनि ।
मकरे वाथ वा कुम्भ नाधिमासो विधीयते ॥
माण्डव्यः ।
गर्भे वार्धुषिके प्रेते भूते नित्ये तु मासिके ।
[८१] प्रथमे चाब्दिके चैव नाधिमासो विधीयते ॥
अथ निषिद्धस्यापि धर्म्विशेषेण पुण्यकालत्वम् अभिधीयते४ । देवलः ।
राहुदर्शणसङ्क्रान्तिविवाहात्ययवृद्धिषु ।
स्नानदानादिकं कुर्युर् निशि काम्यव्रतेषु च ॥
वृद्धवसिष्ठः ।
ग्रहण्ōद्वाहसङ्क्रान्तियात्रादिप्रसवेषु च ।
दानं नैमित्तिकं ज्ञेयं रात्राव् अपि तद् इष्यते ॥
विष्णुधर्मोत्तरे ।
पूजनं त्व् अतिथीनां च पान्थानाम् अपि पूजनम् ।
तच् च रात्रौ तथा ज्ञेयं गवामुक्तं च पूजनम् ॥
महाभारते ।
रात्रौ दानं प्रशंसन्ति विना त्व् अभयदक्षिणाम् ।
विद्यां कन्यां द्विजश्रेष्ठा दीपम् अन्नं प्रतिश्रयम् ॥
श्रीमार्कण्डेयपुराणे ।
महानिशा तु विज्ञेया मध्यस्थं प्रहरद्वयम् ।
स्नानं तत्र न कुर्वीत काम्यनैमित्तिकाद् ऋते ॥
विश्वामित्रः ।
महानिशा द्वे घटिके रात्रौ मध्यमयामयोः ।
नैमित्तिकं तथा कुर्यान् नित्यन्तु न मनाग् अपि ॥
अथ निमित्तानुरोधेन सदा पुण्यकालाः । विष्णुधर्मोत्तरे ।
कालः सर्वो ऽपि निर्दिष्टः पात्रं सर्वम् उदाहृतम् ।
अभयं च प्रदाने तु नात्र कार्या विचारणा ।
तदैव दानकालस् तु यदा भयम् उपस्थितम् ॥
तथा ।
न कालनियमो दृष्टो दीयमाने प्रतिश्रये ।
तदैव दानम् अस्योक्तं यदा पान्थसमागमः ॥
न हि कालं प्रतीक्षेत जलं दातुं तृषान्विते ।
[८२] अन्नोदकं सदा देयम् इत्य् आह भगवान् मनुः ॥
स्कन्दपुराणे ।
अर्हप्रसूतां गां दद्यात् कालादि न विचारयन् ।
कालः स एव ग्रहणे यदा सा द्विमुखी तु गौः ॥
व्यासः ।
आसन्नमृत्युना देया गौः सवत्सा तु पूर्ववत् ।
तदभावे तु गौर् एव नरकोद्धरणाय वै ॥
तदा यदि न शक्नोति दातुं वैतरणीं तु गाम् ।
शक्तो ऽन्यो ऽरुङ्तदा दत्वा श्रेयो दद्यान् मृतस्य च ॥
वाराहपुराणे ।
व्यतीपातो ऽथ सङ्क्रान्तिस् तथैव ग्रहणं रवेः ।
पुण्यकालास् तदा सर्वे यदा मृत्युर् उपस्थितः ॥
तदा गोभूहिरण्यादि दत्तम् अक्षयताम् इयात् ॥
तथा ।
यावत् कालं सुते जाते न गाडी छिद्यते नृप ।
चन्द्रसूर्योपरागेण तम् आहुः समयं समम् ॥
विष्णुधर्मोत्तरे ।
अच्छिन्ननाड्यां यद् दत्तं पुत्रे जाते द्विजोत्तमाः ।
संस्कारेषु च पुत्रस्य तद् अक्षय्यं प्रकीर्तितम् ॥
मत्स्यपुराने ।
यदा वा जायते वित्तं चित्तं श्रद्धासमन्वितम् ।
तदैव दानकालः स्याद् अतो ऽनित्यं हि जीवितम् ॥
** इति कालनिरूपणम् ॥**
** अथ देशाख्यं दानाङ्गम् उपवर्ण्यते ।**
तत्र देवीपुराणे ।
सर्वे शिवाश्रमाः पुण्याः सर्वा नद्यः शुभप्रदाः ।
दानस्नानोपवासादिफलदाः सततं नृणाम् ॥
आह विष्नुः ।
चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते ।
स म्लेच्छदेशो विज्ञेय आर्यदेशस् ततः परः ॥
[८३] भविष्यपुराणे ।
न् हीयते यत्र धर्मस् चतुष्पात् सकलो द्विज ।
स देशः परमो नित्यं सर्वपुण्यतमो मम ॥
तद्वद्भिः सेवितो यश् च यस्मिन् देशे प्रवर्तते ।
शास्त्रोक्तश् चापि विप्रेन्द्र स देशः परमो मतः ॥
याज्ञवल्क्यः ।
यस्मिन् देशे मृगः कृष्णस् तस्मिन् धर्मान् निबोधत ॥
श्रीमार्कण्डेयपुराणे ।
स ह्य् अस्य चोत्तरो यस्त (यस्य?) यत्र गोदावरी नदी ।
पृथिव्याम् अपि कृत्स्नायां स प्रदेशो ऽतिपावनः ॥
व्यासः ।
गङ्गाद्वारे प्रयागे च अविमुक्ते च पुष्करे ।
नगरे चाट्टहासे च गङ्गासागरसङ्गमे ॥
कुरुक्षेत्रे गयायां च तीर्थे वामरकण्टके ।
एवमादिषु तीर्थेषु दत्तम् अक्षयताम् इयात् ॥
सर्वतीर्थमयी गङ्गा तत्र दत्तं महाफलम् ॥
स्कन्दपुराणे ।
वाराणसी कुरुक्षेत्रं प्रयागः पष्कराणि च ।
गङ्गासमुद्रतीर्थं च नैमिषामरकण्टकम् ॥
श्रीपर्वतमहाकालं गोकर्णं वेदपर्वतम् ।
इत्याद्याः कीर्तिता देशाः सुरसिद्धनिषेविताः ॥
सर्वे शिलोच्चयाः पुण्याः सर्वा नद्यः ससागराः ।
गोसिद्धमुनिवासाश् च देशाः पुण्याः प्रकीर्तिताः ॥
एषु तीर्थेषु यद् दत्तं फलस्यानन्त्यकृद् भवेत् ॥
पद्मपुराणे ।
गङ्गा चोदङ्मुखी यत्र यत्र प्राची सरस्वती ।
तत्र क्रतुशतं पुण्यं स्नानदानेषु सुव्रत ॥
लिङ्गं वा प्रतिमा वापि दृश्यते यत्र कुत्रचित् ।
[८४] तत् सर्वं पुण्यतां याति दानेषु च महाफलम् ॥
ब्रह्मप्रोक्ते ।
नदीतीरे गवां गोष्ठे ब्राह्मणानां च वेश्मनि ।
दत्तं शतगुणं प्राहुर् लक्षम् आदित्यसन्निधौ ॥
शुवस्य विष्णोर् वह्नेश् च सम्निधौ दत्तम् अक्षयम् ॥
तथा ।
अग्निहोत्रे गवां गोष्ठे वेदघोषपवित्रिते ।
शिवायतनसंस्थाने यद् अल्पम् अपि दीयते ॥
तद् अनन्तफलं ज्ञेयं शिवक्षेत्रानुभावतः ॥
मत्स्यपुराणे ।
शालग्रामसमुद्भूतः शैलश् चक्राङ्कमण्डितः ।
यत्र तिष्ठति वसुधे तत् क्षेत्रं योजनत्रयम् ॥
द्वारवत्याः शिला देवि मुद्रिता मम मुद्रया ।
यत्रापि नीयते तत् स्यात् तीर्थं द्वादशयोजनम् ॥
तथा ।
प्रयागादिषु तीर्थेषु पुण्येष्व् आयतनेषु च ।
दत्वा चाक्षयम् आप्नोति नदीपुण्यवनेषु च ॥
आयतने शङ्करादिक्षेत्रे । तद् उक्तं भविष्यपुराणे ।
क्रोशमात्रं भवेत् क्षेत्रं शिवस्य परमात्मनः ।
प्राणिनां तत्र पञ्चत्वं शिवसायुयकारणम् ॥
फलं दत्तहुतानां च अनन्तं परिकीर्तितम् ।
मनुजैः स्थापिते लिङ्गे क्षेत्रे मानम् इदं स्मृतम् ।
स्वयम्भुवि सहस्रं स्याद् आर्षे चैव तदर्धकम् ॥
अथ श्राद्धाक्यं दानाङ्गम् उच्यते ।
स्कन्दपुराणे ।
दानं दद्यात् प्रयत्नेन श्रद्धापूतम् अतन्द्रितः ।
श्रद्धाकृतं स्वल्पम् अपि दानम् आनन्त्यम् अश्नुते ॥
[८५] अश्रद्धयापि यद् दत्तं सर्वस्वम् अपि सत्तम ।
न तत् फलाय भवति तस्माच् छ्रद्धां समाश्रयेत् ॥
देवलः ।
प्रदाय शाकमुष्टिं वा श्रद्धाभक्तिसमुद्यतम (?) ।
महते पात्रभूताय सर्वाभ्युदयम् आप्नुयात् ॥
महाभारते ।
श्रद्धया साध्यते धर्मो महद्भिर् नार्थराशिभिः ।
निष्किञ्चनास् तु मुनयः श्रद्धावन्तो दिवं गताः ॥
धर्मार्थकाममोक्षाणां श्रद्धा परमकारणम् ।
पुंसाम् अश्रद्दधानानां न धर्मो नापि तत्फलम् ॥
वह्निपुराणात् ।
श्रद्धापूर्वाः सर्वधर्माः श्रद्धामध्यान्तसंस्थिताः ।
श्रद्धानिष्ठाः प्रतिष्ठाश् च धर्माः श्रद्धैव कीर्तिताः ॥
श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः ।
श्रद्धामात्रेण गृह्यन्ते न वाक्येन न चक्षुषा ॥
कायक्लेशैर् न बहुभिर् न चैवार्थस्य राशिभिः ।
धर्मः सम्प्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैर् अपि ॥
श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः ।
श्रद्धास्वर्गश् च मोक्षश् च श्रद्धा सर्वम् इदं जगत् ॥
सर्वस्वं जीवितं चापि दद्याद् अश्रद्धया यदि ।
नाप्नुयात् सकलं किञ्चित् श्रद्दधानस् ततो भवेत् ॥
वेदव्यासः ।
श्रद्धा वै सात्विकी देवी सूर्यस्य दुहिता नृप ।
सवित्री प्रसवित्री च जीवविश्वासिनी तथा ॥
वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च भारत ॥
महाभारते ।
क्रियावान् श्रद्दधानश् च दाता प्राज्ञो ऽनसूयकः ।
धर्माधर्मविशेषज्ञः सर्वं तरत दुस्तरम् ॥
[८६] स्कन्दपुराणे ।
श्रद्धा मातेव जननी ज्ञानस्य सुकृतस्य च ।
तस्माच् छ्रद्धां समुत्पाद्य ज्ञानं सुकृतम् अर्जयेत् ॥
मनुः ।
श्रद्धयेष्टं च पूर्तं च नित्यं कुर्यात् प्रयत्नतः ।
श्रद्धाकृते ह्य् अक्षये ते भवतः स्वागतैर् धनैः ॥
याज्ञवल्क्यः ।
दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ।
याचितेनापि दातव्यं श्रद्धापुतं तु शक्तितः ॥
बृहस्पतिः ।
मन्त्राज्यदोषाद् धोमे तु तपसीन्द्रियदोषतः ।
न्यूनता स्यान् न दाने तु श्रद्धायुक्ते भवेत् क्वचित् ॥
(* एतच् च देशनिरूपणं च पूर्वं व्रतखण्डादाव् एव प्रपञ्चितम्, इह तु पात्रादिदानाङ्गनिरूपणप्रतिज्ञानिर्वहणार्थं दिङ्मानम् एव प्रदर्शितम् । न चात्र भविष्यपुराणमतेन दानाङ्गपञ्चके निरूप्यमाणे दानाङ्गभूतस्यापि दातुः कथं पृथग् अनुपादानम् (?) इति शङ्कनीयं दानस्य दातृव्यतिरेकेणानुपपत्तेस् तेनैव तदाक्षेपात् एवं तर्हि देशकालादेर् अप्य् अनुपादानं स्यात् ।
अथ सामान्येनैव तदाक्षेपे ऽपि ब्रह्मावर्तादिविशेषलाभार्थं तन्निरूपणम् इति दातापि तर्हि शुचित्वादिविशेषलाभार्थं निरूपणीयः स्यात् — उच्यते तत्तद्विधायकवाक्यगताख्यात-प्रत्ययोपात्तत्वाद् एव तदनिरूपणं न त्व् आक्षेपात् शुचित्वादिविशेषलाभस् तु वाक्यान्तराद् इति कर्त्रनभिधानपक्षे तु प्रत्ययोपात्तभावनयैवासाधारण्येन तदाक्षेपान् न देशादि साम्यम् । एवमादिक्लेशपर्यालोचनया षडङ्गदानम् इति वदता देवलेन तु निरूप्यत एव **) । तथा हि ।
दाता प्रतिग्रहीता च श्रद्धा देयं च धर्मयुक् ।
देशकालौ च दानानाम् अङ्गान्य् एतानि षड् विदुः ॥ इति ।
[८७] (*तल्लक्षणं तु प्राग् अभिहितम् इति तु न पुनर् आद्रियामहे । न तु श्रद्धादिवदितिकर्तव्यतापि दानाङ्गम् इत्य् अतः प्रतिदानीयैव) ॥ यद् आह याज्ञवल्क्यः ।
देशकालौपायेन द्रव्यं श्रद्धासमन्वितम् ।
पात्रे प्रदीयते यत् तत् सकलं धर्मलक्षणम् ॥ इति ।
उपायः इतिकर्तव्यता । अत्रोच्यते । (* इतिकर्तव्यताविशेषास् तावत् तत्र दानविशेषेष्व् एव प्रतिपादयिष्यन्ते तेषाम् इह प्रतिपादयितुम् अशक्यत्वात् सामान्येनेतिकर्तव्यता पुनर् अवश्यं वक्तव्येति तदर्थम् इदं प्रकरणम् आरभ्यते । इति श्रद्धानिरूपणम् *) ।
अथ दानसामान्यविधिर् उच्यते । तत्र दातृधर्माः ।
भविष्यपुराणे ।
सम्यक् संसाधनं कर्म कर्तव्यम् अधिकारिणा ।
निष्कामेन महावीर काम्यं कामान्वितेन च ॥
आचारयुक्तः श्रद्धावान् प्राज्ञो यो ऽध्यात्मवित्तमः ।
कर्मणां फलम् आप्नोति न्यायार्जितधनश् च यः ॥
सम्यक् प्रथमकल्पादिना । संसाधनं यथाविहितसाधनम् । अधिकारिणा अर्थिना समर्थेन विदुषा च । अध्यात्मवित्तमः परलोकफलभागिन्य् आत्मनि दृढप्रत्ययवान् । न्यायार्जितधनः स्ववृत्त्यर्जितधनः । आपस्तम्बः- “प्रयोजयितानुमन्ता कर्तेति स्वर्गनरकफलेषु भागिनः यो भूय आरभते तस्मिन् फलविशेषः” । याज्ञवल्क्यः ।
विधिदिष्टं तु यत् कर्म करोत्य् अविधिना तु यः ।
[८८] फलं न किञ्चिद् आप्नोति क्लेशमात्रं हि तस्य तत् ॥
मनुः ।
प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेन वर्तते ।
न साम्परायिकं तस्य दुर्मतेर् विद्यते फलम् ॥
साम्परायिकं पारलौकिकम् । योगियाज्ञवल्क्यः ।
श्रद्धाविधिसमायुक्तं कर्म यत् क्रियते नृभिः ।
सुविशुद्धेन भावेन तद् आनन्त्याय कल्पते ॥
विधिहीनं भावदुष्टं कृतम् अश्रद्धया च यत् ।
तद् धरन्त्य् असुरास् तस्य मूढस्य ह्य् अकृतात्मनः ॥
भविष्योत्तरे ।
काम्यो दानविधिः पार्थ क्रियमाणो यथातथम् ।
फलाय मुनिभिः प्रोक्तो विपरीतो भयावहः ॥
गारुडपुराणे ।
प्रशस्तदेशकाले च पात्रे दत्तं तद् अक्षयम् ।
कोटिजन्मार्जितं पापं ददतस् त्व् अस्य नश्यति ॥
सकलाङ्गो ऽपि सन् भारो यस्य दानक्रियाविधौ (?) ।
सम्भवेद् अपि पापीयान् स सद्यो मुक्तिम् इष्यते ॥
देवीपुराणे ।
शुचिना भावपूतेन क्षान्तिसत्यव्रतादिना ।
अपि सर्षपमात्रो ऽपि दातारं तारयेद् इह ॥
दक्षः ।
दानं च विधिवद् देयं कले पात्रे गुणान्विते ॥
यमः ।
सर्वत्र गुणवद् दानं श्वपाकादिष्व् अपि स्मृतम् ।
देशे कले विधानेन पात्रे दत्तं विशेषतः ॥
गुणवत् उत्तमफलम् । तथा ।
दानं हि बहुमानाद् यो गुणवद्भ्यः प्रयच्छति ।
स तु प्रेत्य धनं लब्ध्वा पुत्रपौत्रैः सहाश्नुते ॥
परं चानुपहत्येह दानं दत्वा विचक्षणः ।
[८९] सुखोदयं सुखोदर्कं प्रेत्य वै लभते धनम् ॥
अनुपहत्य पीडाम् अनुत्पाद्य । सुखोदर्कं सुखोत्तरफलम् । रामायणे ।
नावज्ञया प्रदातव्यं किञ्चिद् वा केनचित् क्वचित् ।
अवज्ञया हि यद् दत्तं दातुस् तद् दोषं आवहेत् ॥
शातातपः ।
अभिगम्य तु यद् दानं यच् च दानम् अयाचितम् ।
विद्यते सागरस्यान्तस् तस्यान्तो नैव विद्यते ॥
प्रच्छन्नानि च दानानि ज्ञानं च निरहङ्कृतम् ।
तपांसि च सुतप्तानि तेषां फलम् अनन्तकम् ॥
ब्रह्मप्रोक्ते ।
गुप्ताध्यायी गुप्तदाता गुप्तपूजाग्निसत्क्रियः ।
पूज्यते सर्वलोकेषु सर्वदेवैः शतक्रतुः ॥
व्यासः ।
स्वयं नीत्वा तु यद् दानं भक्त्या पात्राय दीयते ।
तत् सहस्रगुणं भूत्वा दातारम् उपतिष्ठति ॥
बृहस्पतिः ।
कृते प्रदीयते गत्वा त्रेतायां दीयते गृहे ।
द्वापरे च प्रार्थयति कलुअ चानुगमान्विते ॥
(* प्रतिग्रहीतृगृहं गत्वा यद् दीयते तत् कृते युगे ।
दत्तं भवति) प्रतिग्रहीतारं स्वगृहम् आहूय यद् दीयते ।
तत् त्रेतायुगे दत्तं बहतीत्य् अर्थः । एवम् उत्तरत्रापि । वह्निपुराणे ।
तमोवृतस् तु यो दद्याद् भयात् क्रोधात् तथैव च ।
नृप दानं तु तत् सर्वं भुङ्क्ते गर्भस्य एव च ॥
ईर्षामन्धुमनाश् चैव दम्भार्थं चार्थकारणात् ।
यो ददाति द्विजातिभ्यः स बालत्वे तद् अश्नुते ॥
देशे कले च पात्रे च यो ददाति द्विजातिषु ।
परितुष्टेन मनसा यौवने तु तद् अश्नुते ॥
[९०] वैश्वदेवविहीनं च सन्ध्योपासनवर्जितम् ।
यद् दानं दीयते तत् तु वृद्धकाले समश्नुते ॥
आह मनुः ।
न विस्मयेत तपसा वदेद् इष्ट्वा न चानृतम् ।
नार्तो विप्रवदेद् विप्रान् न दत्वा परिकीर्तयेत् ॥
यज्ञो ऽनृतेन क्षरति तपः क्षरति विस्मयात् ।
आयुर् विप्रापवादेन दानं तु परितीर्तनात् ॥
यमः ।
आशां कृत्वा ह्य् अदातारं दानकाले निवेधकम् ।
दत्वा सन्तप्यते यस् तु तम् आहुर् ब्रह्मघातकम् ॥
हारीतः ।
दानं ज्ञानं तपस् त्यागो मन्त्रकर्मविधिक्रियाः ।
मङ्गलाचारनियमाः शौचभ्रष्टस्य निष्फलाः ॥
आह प्रचेताः ।
स्नातो ऽधिकारो भवति दैवे पित्र्ये च कर्मणि ।
पवित्राणां तथा जाप्ये दाने च विधिचोदिते ॥
वायुपुराणे ।
क्रियां यः कुरुते मोहाद् अनाचम्येह नास्तिकः ।
भवन्ति न तथा तस्य क्रियाः सर्वा न संशयः ॥
शाट्यायनः ।
दानम् आचमनं होमं भोजनं देवतार्चनम् ।
प्रौढपादेन कुर्वीत स्वाध्यायं पितृतर्पणम् ॥
आसनारूढपादस् तु जान्वोर् वा जङ्घयोस् तथा ।
कृतावसक्थिको यश् च प्रौढपादः स उच्यते ॥
वसिष्ठः ।
यज् जले शुष्कवस्त्रेण स्थले चैवार्द्रवाससा ।
जपो होमस् तथा दानं तत् सर्वं निष्फलं भवेत् ॥
विष्णुपुराणे ।
होमदेवार्चनाद्यासु क्रियास्व् आचमने तथा ।
नैकवस्त्रः प्रवर्तेत द्विजवाचनके जपे ॥
द्विजवाचनके द्विजस्वस्तिवाचनादौ । [९१] शातातपः ।
सव्याद् अंसात् परिभ्रष्टकटिदेशभृताम्बरः ।
एकवस्त्रं तु तं विद्यात् दैवे पित्र्ये च वर्जयेत् ॥
श्लोकगौतमः ।
स्नाने दाने जपे होमे दैवे पित्र्ये च कर्मणि ।
बध्नीयान् नासुरीं कक्षां शेषकाले यथा रुचिः ॥
याज्ञवल्क्यः ।
परिधानाद् बहिः कक्षा निबद्धा ह्य् आसुरी भवेत् ।
धर्मकर्मणि तद्विद्भिर् वर्जनीया प्रयत्नतः ॥
बहिः कक्षा बहिर्निर्गता कक्षेत्य् अर्थः । मनुः ।
न कुर्यात् कस्यचित् पीडां कर्मणा मनसा गिरा ।
आचरन्न् अभिषेकं तु कर्माण्य् अप्य् अन्यथा चरन् ॥
सन्ध्ययोर् उभयोर् जप्ये भोजने दन्तधावने ।
पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः ॥
गुरूणां सन्निधौ दाने योगे चैव विशेषतः ।
एषु मौनं समातिष्ठन् स्वर्गं प्राप्नोति मानवः ॥
पराशरः ।
स्नाने दाने जपे होमे दैवे पित्र्ये च कर्मणि ।
सव्यापसव्यौ कर्तव्यौ सपवित्रौ करौ द्विजैः ॥
लघुहारीतः ।
जपे होमे तथा दाने स्वाध्याये पितृतर्पणे ।
अशून्यं तु करं कुर्यात् सुवर्णरजतैः कुशैः ॥
दर्भहीना तु या सन्ध्या यच् च दानं विनोदकम् ।
असङ्ख्यातं च यज् जप्तं तत् सर्वं निष्प्रयोजकम् ॥
हारीतः ।
देवाश् च पितरश् चैव तपोयज्ञदानानाम् ईशते मन्तारः सर्वकार्यसाधनानाम् आर्तिभयोपसर्गेभ्यो रक्षितारो भवन्ति, मन्त्र देवतास् तदा एवं सिद्धमन्त्रवत् करोति, देववत् करोति, यद् ददाति देवताभिर् एव तद् ददाति, यत् प्रतिगृह्णाति देवताभिर् एव तत् प्रति**[९२]**गृह्णाति, तस्मान् नामन्त्रवत् प्रतिगृह्णीयात् यत् त्व् अमन्त्रतः प्रतिपादिता हि देवतास् तूष्णीं प्रतिगृह्णीयुर् हि शठा भवन्ति तस्मान् मन्त्रवद् अद्भिर् अवोक्ष्य दद्याद् आलभ्य वा ।
अवोक्ष्य प्रोक्षणं कृत्वा । आलभ्य सोदव्येन पाणिना स्पृष्ट्वा ।
आपस्तम्बः- “सर्वाण्य् उदकपूर्वाणि दानानि । यथाश्रुति विहारे” । विहारे, यज्ञे अन्वाहार्यदानादौ यथाश्रुति यावद् एव श्रुतं तावद् एव कुर्यान् नोदकपूर्वतादिनियम इत्य् आर्थः । वराहपुराणे ।
तोयं दद्याद् द्विजकरे दाने विधिर् अयं स्मृतः ।
सकुशोदकहस्तश् च ददामीति तथा वदेत् ॥
गौतमः ।
अन्तर्जानु करं क्र्त्वा सकुशं तु तिलोदकम् ।
फलान्य् अपि च सन्धाय प्रदद्यात् श्रद्धयान्वितः ॥
(* पात्रासन्निधाने तु नारदीयपुराणे विशेष उक्तः) ।
मनसा पात्रम् उद्दिश्य जलं भूमौ विनिक्षिपेत् ।
विद्यते सागरस्यान्तो दानस्यान्तो न विद्यते ॥
धौम्यः ।
दानकाले तु सम्प्राप्ते पात्रस्यासन्निधौ जलम् ।
अन्यविप्रकरे दत्वा दानं पात्रे निधीयते ॥
षट्त्रिंशन्मतात् ।
पात्रं मनसि सञ्चिन्त्य क्रियावन्तं गुणान्वितम् ।
देशे कले च सम्प्राप्ते देयम् अप्सु विनिक्षिपेत् ॥
(* उभयासन्निधाने तु विशेषस् तत्रैवोक्तम्) ।
द्रव्यपात्रविकर्षश् चेत् परोक्षं दतुम् उद्यतः ।
तत् यायाद् वै भुवं पात्रं द्रव्यम् आदित्यदैवतम् ॥
**[९३] **धौम्यः ।
परोक्षे ऽपि तु यद् दत्तं तीर्थे स्नाने न सोदकम् ।
तद् दानं सोदकं प्राहुर् अनन्तफलदायकम् ॥
परोक्षे कल्पितं दानं पात्राभावे कथं भवेत् ।
गोत्रजेभ्यस् तथा दद्यात् तदभावे स्वबन्धुषु ॥
परोक्षे ऽपि च यद् दत्तं भावपूर्वेण चेतसा ।
गुरुमित्रद्विजातिभ्यस् तत् तु दानम् अनन्तकम् ॥
परोक्षे खलु यद् दत्तं स्वस्त्यक्षरविवर्जितम् ।
दृश्यते सागरस्यान्तस् तस्यान्तो नैव दृश्यते ॥
आपस्तम्बः ।
तस्माद् ॐ इत्य् उदाहृत्य यज्ञदानतपःक्रियाः ।
पर्वर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनः ॥
त्रिमात्रस् तु प्रयोक्तव्यः सततं ब्रह्मवादिनः ।
तिश्रः सार्धास् तु कर्तव्या मात्रास् तत्वार्थचिन्तकैः ।
देवताध्यानकाले न प्लुतं कुर्यात् न संशयः ॥
वृद्धवसिष्ठः ।
नामगोत्रे समुच्चार्य सम्प्रदानस्य चात्मनः ।
सम्प्रदेयं प्रयच्छन्ति कन्यादाने तु पुंस्त्रयम् ॥
(* पुंस्त्रयम् इति प्रपितामहादिपुरुषत्रयम् इत्य् अर्थः) । तद् उक्तम् ।
नान्दीमुखे विवाहे च प्रपितामहपूर्वकम् ।
नाम सङ्कीर्तयन् विद्वान् अन्यत्र पितृपूर्वकम् ॥
तथा दानहोमजपान् कुर्वन्न् आसीनः कुशसंस्तरे ।
एषां फलम् अनन्तं तु लभते प्राङ्मुखो नरः ॥
स्मृत्यन्तरात् ।
नामगोत्रे समुच्चार्य सम्यक् श्रद्धान्वितो ददेत् ।
सङ्कीर्त्य देशकालादि तुभ्यं सम्प्रददे इति ॥
न ममेति स्वस्वत्वस्य निवृत्तिम् अपि कीर्तयेत् ।
[९४] षट्त्रिंशन्मतात् ।
प्रणीते तु समिद्धे ऽग्नौ जुहुयाद् व्याहृतित्रयम् ।
उदगग्रेषु दर्भेषु पात्रं तेषूपपादयेत् ॥
प्रागग्रेषु स्वयं स्थित्वा दाता च परमेश्वरम् ।
ध्यात्वा स्वपुण्यम् उद्दिश्य दक्षिणां प्रतिपादयेत् ॥
समस्ता व्याहृतीर् हुत्वा तत्रोपरि समापयेत् ।
ब्राह्मणं प्रतिपत्याथ ततः पात्रं विसर्जयेत् ॥
अनेन विधिना दानं दातव्यं होमपूर्वकम् ।
तत् कर्म दक्षिणावर्जं होमवर्जं च नार्हति ॥
एतं च विहिताङ्गभूतहोमकेषु होमानुवादपुरःसरम् उपदर्शितं तत्तद्गुणविधिपरम्, अन्यथा ह्य् अतथादृष्टशिष्टाचारेषु ताम्बूलादिदानेष्व् अपि प्रसङ्गः स्यात् ।
अथ प्रतिग्रहीतृधर्माः ।
ब्रह्माण्डपुराणे ।
शुचिः पवित्रपाणिश् च गृह्णीयाद् उत्तरामुखः ।
अभीष्टदेवतां ध्यायन् मनसा विजितेन्द्रियः ॥
कृतोत्तरीयको नित्यम् अन्तर्जानुकरस् तथा ।
दातुर् इष्टम् अभिद्यायन् प्रह्णीयात् (?) प्रयतः शुचिः ॥
आपस्तम्बः ।
आर्द्रवासास् तु यः कुर्यात् जपहोमं प्रतिग्रहम् ।
सर्वं तद् राक्षसं विन्देत् बहिर्जानु च यत् कृतम् ॥
बोधायनः ।
काषायवासा कुरुते जपहोमप्रतिग्रहान् ।
तद् देवगमं भवति हव्यकव्यं स्वधा हविः ॥
छगलेयः ।
हस्तमध्ये ब्रह्मतीर्थं दक्षिणाग्रहणे न तु ॥
आह प्रचेताः- “दक्षिणमध्यहस्ते ब्राह्मणस्याग्नेयं तीर्थम् आग्नेयेन प्रतिगृहीयात्” इति ।
[९५] गारुडपुराणे ।
स्नातः सम्यग् उपस्पृश्य दधानो धौतवाससी ।
सपवित्रकरश् चैव प्रतिगृह्णीत धर्मवित् ॥
विष्णुधर्मोत्तरे ।
मृतके सूतके विप्रा न तु ग्राह्यः प्रतिग्रहः ।
तत्रापि च तथा ग्राह्या नरैर् अभयदक्षिणा ॥
कालः स एव ग्रहणे यदा भयम् उपस्थितम् ।
प्रतिग्रहास् तथान्ये तु ग्राह्या नाशुचिना द्विजाः ॥
अभ्यक्तेन च धर्मज्ञास् तथा मुक्तशिखेन च ।
स्नातः सम्यग् उपस्पृश्य गृह्णीयात् प्रयतः शुचिः ॥
प्रतिग्रहीता सवित्रीं सर्वत्रैवानुकीर्तयेत् ।
ततस् तु कीर्तयेत् सार्धं द्रव्येण द्रव्यदेवताम् ॥
समापयेत् ततः पश्चात् कामस्तुया प्रतिग्रहम् ।
तदन्ते कीर्तयेत् स्वस्ति प्रतिग्रहविधिस् त्व् अयम् ॥
सावित्री सवितृदेवत्या ऋक् देवस्यत्वेत्यादिप्रसिद्धा । द्रव्यदेवताम् अभयं सर्वदैवत्यम् इत्यादिवक्ष्यमाणाम्, कामस्तुत्या को ऽदात् कमा अदाद् इतिमन्त्रेण, शाखान्तरे तु कामः कामायेत्यादि प्रसिद्धा । आदित्यपुराणे ।
ओङ्कारम् उच्चरन् प्राज्ञो द्रविणं स कुशोदकम् ।
गृह्णीयाद् दक्षिणे हस्ते तदन्ते स्वस्ति कीर्तयेत् ॥
तथा ।
प्रतिग्रहं पठेद् उच्चैः प्रतिगृह्य द्विजोत्तमान् ।
मन्त्रं पठेत् तु राजन्ये उपांशु च तथा विशि ॥
मनसा तु तथा शूद्रे स्वस्तिवाचनम् एव च ।
सोङ्कारं ब्राह्मणे कुर्यान् निरोङ्कारं महीपतौ ॥
[९६] उपांशु च तथा वैश्ये मनसा स्वस्ति शूद्रजे ।
प्रतिग्रहं प्रतिग्रहमन्त्रः । मन्त्रं मध्यमस्वरम् । ब्राह्मणे दातरि सोङ्कारं स्वस्तिवाचनं कुर्यात् । एवं क्षत्रियादिषु॥ विष्णुधर्मोत्तरे ।
अभयं सर्वदैवत्यं भूमिर् वै विष्णुदेवता ।
कन्या दासस् तथा दासी प्राजापत्याः प्रकीऋतिताः ॥
तथा चैकशकं सर्वं कथितं यमदैवतम् ।
महिषश् च तथा याम्य उष्ट्रो वै नैरृतो भवेत् ॥
रौद्री धेनुर् विनिर्दिष्टा छागम् आग्नेयम् आदिशेत् ।
मेषं तु वारुणं विन्द्याद् वराहं वैष्णवं तथा ॥
आरण्याः पशवः सर्वे कथिता वायुदेवताः ।
जलाशयानि सर्वाणि वारिधानीं कमण्डलुम् ॥
कुम्भं च करकं चैव वारुणानि निबोधत ।
समुद्रजानि रत्नानि वारुणानि द्विजोत्तमाः ॥
आग्नेयं कनकं प्रोक्तं सर्वलोहानि चाप्य् अथ ।
प्राजापत्यानि सर्वाणि पक्वान्नम् अपि च द्विजाः ॥
ज्ञेयाश् च सर्वगन्धास् तु गान्धर्वा वै विचक्षणैः ।
बार्हस्पत्यं स्मृतं वासः सौम्या ज्ञेया रसास् तथा ॥
पक्षिणस् तु तथा सर्वे वायव्याः परिकीर्तिताः ।
विद्या ब्राह्मी विनिर्दिष्टा विद्योपकरणानि च ॥
सारस्वतानि ज्ञेयानि पुस्तकादीनि पण्डितैः ।
सर्वेषां शाल्यभाण्डानां विश्वकर्मानुदैवतः ॥
द्रुमाणाम् अथ पुष्पाणां शाकैर् हरितकैः सह ।
[९७] फलानाम् अपि सर्वेषां तथा ज्ञेयो वनस्पतिः ॥
मत्स्यमांसे विनिर्दिष्टे प्राजापत्ये तथैव च ।
छत्रं कृष्णाजिनं शय्यां रथम् आसनम् एव च ॥
उपानहौ तथा यानं यच् चान्यत् प्राणिवर्जितम् ।
तत् तु चाङ्गिरसत्वेन प्रतिगृह्णीत मानवः ॥
शूरोपयोगि यत् सर्वं शास्त्रधर्मध्वजादिकम् ।
रणोपकरणं सर्वं विज्ञेयं सर्वदैवतम् ॥
गृह्णन्तु शक्रदैवत्यं यद् अनुक्तं द्विजोत्तमाः ।
तज् ज्ञेयं विष्णुदैवत्यं सर्वं वा द्विजसत्तमाः ॥
द्रव्याणाम् अथ सर्वेषां देवसंश्रयणान् नरः ।
वाचयेज् जलम् आदाय करेणाथ प्रतिग्रहम् ॥
दतुम् अत्र प्रयोगान्ते ह्य् अमुकस्मै सुराय वै ।
इदम् ॐ प्रतिगृह्णामितदन्ते स्वस्ति कीर्तयेत् ॥
तद् यथा- अग्नये हिरण्यं प्रतिगृह्णामीति ।
द्रव्याण्य् अथाव्यथादस्य (?) स्पृष्ट्वा तान् ब्राह्मणः पठेत् ।
कन्यादाने तुन् अ पठेद् द्रव्याणां तु पृथक् पृथक् ॥
प्रतिग्रहे द्विजा श्रेष्ठास् तथैवान्तर्भवन्ति ते ।
प्रतिग्रहस्य यो धर्म्यं न जानाति द्विजो विधिम् ॥
द्रव्यस्तैन्यसमायुक्तो नरकं प्रतिपद्यते ।
विधिं तु धर्म्यं विज्ञाय ब्राह्मणस् तु प्रतिग्रहे ॥
दात्रा सह तरत्य् एव महादुर्गाण्य् असौ ध्रुवम् ।
[९८] तस्माद् उक्तं विधिं कृत्वा ब्राह्मणस् तु प्रतिग्रहे ॥
आत्मनः श्रेयसो योगं कुर्याद् दानं तथैव च ।
तस्मात् सर्वप्रयत्नेन विधिर् ज्ञेयः प्रतिग्रहे ॥
तथा ।
भूमेः प्रतिग्रहं कुर्याद् भूमिं कुर्वन् प्रदक्षिणम् ।
करे गृहीत्वा कन्यां तु दासदास्यौ द्विजोत्तमः ॥
करन्तु हृदि विन्यस्य धर्म्यो ज्ञेयः प्रतिग्रहः ।
प्रतिग्रहं स्वीकारम् ।
आरुह्य च गजस्योक्तः कर्णे चाश्वस्य कीर्तितः ॥
तथा चैकशफानां तु सर्वेषां वा विशेषतः ।
प्रतिगृह्णीत तान् शृङ्गे पुच्छे कृष्णाजिनं तथा ॥
(* सामान्येनैकशफानां कर्णे प्रतिग्रहः उक्तः, ये त्व् एकशफाः शृङ्गिणः, तान् विशेषतः शृङ्गे प्रतिगृह्णीतेत्य् अर्थः ) ।
कर्णजाः पशवः सर्वे ग्राह्या पुच्छे विचक्षणैः ।
गृह्णीयान् महिषं शृङ्गे खरं वै पृष्ठदेशतः ॥
प्रतिग्रहम् अथोष्ट्रस्य यानानां चाधिरोहणात् ।
बीजानां मुष्टिम् आदाय रत्नान्य् आदाय सर्वतः ॥
वस्त्रं दशान्ताद् आदद्यात् परिधायाथ वा पुनः ।
आरुह्योपानहौ मञ्चम् आरुह्यैव च पादुके ॥
धर्मध्वजौ च संस्पृष्ट्वा प्रविश्य च तथा गृहम् ।
अवतीर्य च सर्वाणि जलस्थानानि वै द्विजाः ॥
ईषायां तु रथो ग्राह्यः छत्रं दण्डं तथैव च ।
द्रुमांश् च प्रतिगृह्णीयान् मूलन्यस्तकरो द्विजः ॥
[९९] आयुधानि समादाय तथामुच्य विभूषणम् ॥
ईषायां दण्डाग्रे । आमुच्य वध्वेत्य् अर्थः । परिशिष्टे ।
परिगृह्णीत गां पुच्छे कर्णे वा हस्तिनं करे ।
मूर्ध्नि दासीम् अजाञ् चैव पृष्ठे ऽश्वतरगर्दभौ ॥
अश्वं कर्णे शटे वापि अन्तम् उद्दिश्य धारयेत् ।
शय्यासनगृहक्षेत्रं संस्पृश्यादाय काञ्चनम् ॥
उष्ट्रं च ककुदि स्पृष्ट्वा मृगांश् च महिषादिकान् ।
गोधामखविधानेन पुच्छे संस्पृश्य पक्षिणः ॥
दंष्ट्रिणो दंशितं चैव तथा क्षुद्रमृगांश् च ये ।
अजादीनां तु सत्त्वानाम् एष एव विधिः स्मृतः ॥
छत्रं दण्डे तरून् मूले फलं सङ्गृह्य गौरवात् ।
प्रगृह्योपानहौमञ् च वाचयेत् प्रतिमुच्य वै ॥
वासस् त्व् अथ समादाय कन्याशीर्षे ऽथ वा करे ।
ऋतौ भार्यां परपूर्वां प्रतिग्गृह्णीत चाक्षताम् ॥
पुत्रम् उत्सङ्गम् आरोप्य प्रतिगृह्णीत दत्तकम् ।
रथं रथमुखे स्पृष्ट्वा प्रतिगृह्णीत कूवरे ॥
कूवरः युगाधारकाष्ठम् ।
युग्यकाञ्चनवस्त्राणां नाङ्गयुक्ते प्रतिग्रहः ॥
अथोभयधर्माः । गरुडपुराणे ।
दैवं वा कर्म पित्र्यं वा नाशुचिः करुम् अर्हसि ।
स्नानम् एव द्विजातीनां परं शुद्धिकरं स्मृतम् ॥
अतः स्नातो ऽर्हताम् एति दाने चैव प्रतिग्रहे ।
कृतम् अस्नायिना कर्म राक्षसत्वाय कल्पते ॥
[१००] प्रजापतिः कर्मगुप्तेः पवित्रम् असृजत् पुरा ।
रक्षोघ्नम् एतत् परमं मुनिभिः कल्पितं सवे ॥
तस्मात् तत् करयोर् धार्यं ददता प्रतिगृह्णता ।
स्नानहोमजपादीनि कुर्वता च विशेषतः ॥
सन्त्यज्य वैष्णवं मार्गं ब्रह्ममार्गविनिर्गतम् ।
सकृत् प्रदक्षिणीकृत्य पवित्रम् अभिधीयते ॥
वायुपुराणे ।
दानं प्रतिग्रहो होमो भोजनं बलिर् एव च ।
साङ्गुष्ठेन सदा कार्यम् असुरेभ्यो ऽन्यथा भवेत् ॥
साङ्गुष्ठेन अङ्गुलीसङ्गताङ्गुष्ठेन ।
एतान्य् एव च कार्याणि दानादीनि विशेषतः ।
अन्तर्जानु विधेयानि तद्वद् आचमनं नृप ॥
बोधायनः ।
भोजनं हवनं दानम् उपहारः प्रतिग्रहः ।
बहिर्जानु न कार्याणि तद्वद् आचमनं स्मृतम् ॥
ब्रह्माण्डपुराणे ।
नाधिकारी मुक्तकच्छो मुक्तचूडस् तथैव च ।
दाने प्रतिग्रहे यज्ञे ब्रह्मयज्ञादिकर्मसु ॥
देवाः समेत्य वस्त्रं हि तच् च पुंसाम् अकल्पयन् ।
ततश् च वाससा हीनम् असम्पूर्णं प्रचक्षते ॥
सोत्तरीयस् ततः कुर्यात् सर्वकर्माणि भाविनः ।
अधौतं काकधौतं च परिदध्यान् न वाससी ॥
ददानः प्रतिगृह्णंश् च दध्याद् अहतम् एव च ॥
वाराहपुराणे ।
सुस्नातः सम्यग् आचान्तः कृतसन्ध्यादिकक्रियः ।
कामक्रोधविहीनश् च पाषण्डस्पर्शवर्जितः ॥
जितेन्द्रियः सत्यवादी पात्रं दाता च शस्यते ॥
[१०१] तथा ।
प्रमीते गोत्रपुरुषे सूतके वा समागमे ।
दशरात्रम् अनर्हः स्यात् कर्तुं दानप्रतिग्रहौ ॥
पिण्डोदकादि मृतके दातुं प्रेताय युज्यते ।
आच्छिन्नायां तथा नाड्यां दानार्हो मृतसूतके ॥
विष्णुधर्मोत्तरे ।
शुचिर् वाप्य् अशुचिर् वापि दद्याद् अभयदक्षिणाम् ।
शुचिनाशुचिना वापि ग्राह्योभयम् उपस्थितम् ॥
छन्दोगपरिशिष्ठम् । तत्र कात्यायनः ।
कुशोपरि निविष्टेन तथा यज्ञोपवीतिना ।
देयं प्रतिग्रहीतव्यम् अन्यथा विफलं हि तत् ॥
आह जातूकर्ण्यः- “ओङ्कारेण दद्यात् प्रतिगृह्णीयाच् च” ।
स्कन्दपुराणे ।
प्रणवो जगतां बीजं वेदानाम् आदिर् एव च ।
एष एव परं ब्रह्म पवित्रमयम् उत्तमम् ॥
तस्मात् प्रणवम् उच्चार्य कार्यौ दानप्रतिग्रहौ ॥
यमः ।
यो ऽर्चितं प्रतिगृह्णाति यो ऽर्चयित्वा प्रयच्छति ।
ताव् उभौ गच्छतः स्वर्गे विपरीते विपर्ययः ॥
लिङ्गपुराणे ।
दद्याद् दानं यथा शक्त्या सदाभ्यर्चनपूर्वकम् ।
ब्राह्मणश् चापि गृह्णीयाद् भक्त्या दत्तं प्रतिग्रहम् ॥
शातातपः ।
प्रश्नपूर्वं तु यो दद्याद् ब्राह्मणाय प्रतिग्रहम् ।
स पूर्वं नरकं याति ब्राह्मणस् तदनन्तरम् ॥
प्रश्नपूर्वम् इति । एतम् अध्यायं एतम् अनुवाकं वा यदि त्वम् अस्खलितं पठसि तदा त एतावद् ददामीत्य् उक्त्वा तथा कृते यद् दीयते तत् प्रश्नपूर्वकम् । व्यासः ।
अवमानेन यो दद्याद् गृह्णीयाद् यः प्रतिग्रहम् ।
ताव् उभौ नरके मग्नौ वसेतां शरदां शतम् ॥
[१०२] शातातपः ।
कार्यलोभेन यो दद्याद् गृह्णीयाद् यः प्रतिग्रहम् ।
दाताग्रे नरकं याति ब्राह्मणस् तदनन्तरम् ॥
विष्णुधर्मोत्तरे ।
प्रतिग्रहो यो विधिना प्रदत्तः
प्रतिग्रहो यो विधिना गृहीतः ।
द्वयोः प्रयोगश् चरमं तु कार्यः
श्रेयस् तथाप्नोति न संशयो ऽत्र ॥
अथ मिश्रधर्माः । नन्दिपुराणे ।
दाने विधिम् अविज्ञाय न हि तद् दतुम् अर्हति ।
प्रतिग्रहानभिज्ञश् च गृह्णन् निरयम् अश्नुते ॥
सावज्ञं प्रतिगृह्णानो ग्रहीताप् पतत्य् अधः ।
किं त्वं वेत्सीति वक्तव्यो न दात्रा ब्राह्मणः क्वचित् ॥
सो ऽपि पृष्टः स्वयं तेन दानार्थं तं न कीर्तयेत् ।
यदि त्वम् एतत् पठसि तदा तुभ्यम् एतद् ददामीति साक्षात् परीक्षणम् अत्र विषिध्यते, पात्रत्वबोधार्थम् उपायान्तरेण परीक्षणत्वम् अनुमतम् एव ॥
तद् उक्तं यमेन ।
शीलं संवसनाज् ज्ञ्ēयं शौचं संव्यवहारतः ।
प्रज्ञा सङ्कथनाज् ज्ञेया त्रिभिः पात्रं परीक्ष्यते ॥
सङ्कथनं शुद्धभावेन विद्याकथा । वाराहपुराणे ।
अपि सर्षपमात्रं हि न देयं विचिकित्सता ।
मनसा ह्य् अननुज्ञातः प्रतिगृह्णीत नैव हि ॥
ददानः प्रतिगृह्णंश् च यतो लोभभयादिना ।
नाप्नोति श्रेयसा योगं निरयं चैव गच्छति ॥
नारदीयपुराणे ।
देशकालविधानाद्यैर् हीनं दानं भयावहम् ।
[१०३] दातुः प्रतिग्रहीतुश् च गृहीतम् असतः सदा ॥
षट्त्रिंशण्मतात् ।
नामगोत्रे समुच्चार्य प्राङ्मुखो देयकीर्तनात् ।
उदङ्मुखाय विप्राय दत्वान्ते स्वस्ति वाचयेत् ॥
(* देयकीर्तनाद् इति, देयकीर्तनोत्तरकालं दत्वेत्य् अर्थः) ।
प्राक्प्रत्यगास्या वोद्वाहे दातृग्राहकयोः स्थितिः ।
दद्यात् पूर्वमुखो द्रव्यम् एष एव विधिः सदा ॥
(* यत् तु कीर्तयन्ति, “प्राङ्मुखस् तु गृह्णीयाद् दिवाहे तु विपर्ययः” इति, तस्य समूलत्वे सिद्धे अनुष्ठानविकल्पः, तत्राप्य् उदङ्मुखसम्प्रदानवैशिष्ट्यस्मृतेस् तद् एवानुष्ठेयम्) ।
तद् उक्तं स्मृत्यन्तरे ।
दद्यात् पूर्वमुखो दानं गृह्णीयाद् उत्तरामुखः ।
आयुर् विवर्धते दातुर् ग्रहीतुः क्षीयते तु तत् ॥
इति श्रीमहाराजाधिराज-श्रीमहादेवस्य समस्तकरणाधीश्वरसकल-
**विद्याविशारद-श्रीहेमादिविरचिते चतुर्वर्गचिन्तामणौ **
दानखण्डे दानाङ्गप्रकरणम्
अथ परिभाषाः
सन्धौ दुर्धरकालकूटकुटिले पीयूषशङ्कैव का
कान्तानां मधुराधरासवरसम्म्पर्धा सुनिर्धारिता ॥
इद्रं निन्दितम् आह राहुरसनायोगो वियोगोत्तरस्
तन्निःसीमसुधानिधानम् अधुना हेमाद्रिसूरेर् गिरः ॥
अनेन सामान्यतया प्रतीयते महीतलम् ।
[१०४] अनेन सामान्यतया परिभाषेह कथ्यते ॥
तत्राह याज्ञवल्क्यः ।
आर्षं छन्दश् च दैवत्यं विनियोगस् तथैव च ।
वेदितव्यं प्रयत्नेन ब्राह्मणेन विशेषतः ॥
अविदित्वा तु यः कुर्याद् याजनाध्ययनं जपम् ।
होमम् अन्तर्जलादीनि तस्य चाल्पफलं भवेत् ॥
तथा ।
यश् च जानाति तत्त्वेन आर्षं छन्दश् च दैवतम् ।
विनियोगं ब्राह्मणं च मन्त्रार्थं ज्ञानकर्म च ॥
एकैकस्य ऋषेः सो ऽपि वन्द्यो ह्य् अतिथिवद् भवेत् ।
देवतायाश् च सायुज्यं गच्छत्य् अत्र न संशयः ॥
पूर्वोक्तेन प्रकारेण ऋष्यादीन् वेत्ति यो द्विजः ।
अधिकारी भवेत् तस्य रहस्यादिषु कर्मसु ॥
तथा ।
येन यद् ऋषिणा दृष्टं सिद्धिः प्राप्ता च येन वै ।
मन्त्रेण तस्य तत् प्रोक्तम् ऋषिभिर् भावस् तद् आर्षकम् ॥
छन्दसा छद उद्दिष्टं वाससी इव चाकृते ।
आत्मा सञ्च्छादितो देवैर् मृत्योर् भीतैस् तु वै पुरा ॥
आदित्यैर् वसुभी रुद्रैस् तेन छन्दांसि तानि वै ।
यस्य यस्य तु मन्त्रस्य उद्दिष्टा देवत तु या ॥
तदाकारं भवेत् तस्य देवत्वं देवतोच्यते ।
पुराकल्पे समुत्पन्ना मन्त्राः कर्मार्थ एव च ॥
अनेन चेदं कर्तव्यं विनियोगः स उच्यते ।
नैरुक्तं यच् च मन्त्रस्य विनियोगप्रयोजनम् ॥
प्रतिष्ठानं स्तुतिश् चैव ब्राह्मणं तद् इहोच्यते ।
[१०५] एवं पञ्चविधं योगं जयार्थं गृह्य् अनुस्मरेत् ॥
होमे चान्तर्जले योगे स्वाध्याये याजते तथा ॥
छन्दोगपरिशिष्टम् । तत्र कात्यायनः ।
अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कामकारिणाम् ।
अक्रिया च परोक्ता च तृतीया वायथाक्रिया ॥
स्वशाखाशेषम् उत्सृज्य परशाखाश्रयं च यः ।
कर्तुम् इच्छति दुर्मेधा मोघं तत् तस्य यत् फलम् ॥
यन् नाम्नातं स्वशाखायां पारक्यम् अविरोधि यत् ।
विद्वद्भिस् तद् अनुष्ठेयम् अग्निहोत्रादिकर्मवत् ॥
अग्निहोत्रं यजुअर्वेदशाखासु विहितं, यथा छन्दोगादिभिर् अनुष्ठीयते ।
गृह्यपरिशिष्टकारः ।
बह्व् अल्पं वा स्वगृह्योक्तं यस्य कर्म प्रकीर्तितम् ।
तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत् ॥
प्रवृत्तम् अन्यथा कुर्याद् यदि मोहात् कथञ्चन ।
यतस् तद् अन्यथाभूतं तत एव समापयेत् ॥
प्रवृत्तम् आरब्धम् । अन्यथाभूतं क्रमाद्यन्यत्वेन यद् वैपरीत्यम् आपन्नम् ।
समाप्ते यद् विजानीयान् मयैतद् अयथाकृतम् ।
तावद् एव पुनः कुर्यान् नावृत्तिः सर्वकर्मणः ॥
(* एतत् तु कर्मसमाप्ताव् अन्यथाकरणताविषयम्) ।
प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः ।
[१०६] तदङ्गक्रियायां तु नावृत्तिर् न च तत् क्रिया ॥
यत्र प्रधानकर्माकरणं तत् साङ्गम् एव पुनः कर्तव्यम्, तद् अङ्गाकरणे पुनर् न साङ्गप्रधानावृत्तिर् नापि तावन्मात्रस्याङ्गस्य करणं किं तु प्रायश्चित्तम् एव कार्यम् ।
गृह्यपरिशिष्टे ।
दर्भाः कृष्णाजिनं मन्त्र ब्राह्मणा हविर् अग्नयः ।
अयातयामान्य् एतानि नियोज्यानि पुनः पुनः ॥
मरीचिः ।
मासे नभस्य् अमावास्या तस्यां दर्भचयो मतः ।
अयातयामास् ते दर्भा विनियोज्याः पुनः पुनः ॥
छन्दोगपरिशिष्टम् । कात्यायनः ।
हरिता यज्ञिया दर्भा पीतकाः पञ्चयज्ञियाः ।
समूलाः पितृदैवत्याः कल्माषा वैश्वदेविकाः ॥
ह्रस्वाः प्रवरणीञाः स्युः कुशा दीर्घाश् च बर्हिषः ।
पञ्चयज्ञियाः पञ्चयज्ञार्हाः । प्रवरणम् अनुष्ठानम्, तदर्हाः प्रवरणीयाः ।
लघुहारीतः ।
चितौ दर्भाः पथि दर्भा ये दर्भा यज्ञभूमिषु ।
स्तरणासनपिण्डेषु षट्कुशान् परिवर्जयेत् ॥
पिण्डार्थं ये कृता दर्भा यैः कृतं पितृतर्पणम् ।
मूत्रोच्छिष्टधृता ये च तेषां त्यागो विधीयते ॥
नीवीमध्येषु ये दर्भा ब्रह्मसूत्रे च ये कृताः ।
पवित्रांस् तान् विजानीयाद् यथा कायस् तथा कुशाः ॥
अनन्तगर्भिणं साग्रं कौशं द्विदलम् एव च ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥
[१०७] तद् एव दर्भपिञ्जल्या लक्षणं समुदाहृतम् ।
आज्यस्योत्पवनार्थं यत् तद् अप्य् एतावद् एवत् उ ॥
आपस्तम्बः ।
देवागारे तथा श्राद्धे गवां गोष्ठे तथाध्वरे ।
सन्ध्ययोश् च द्वयोः साधुसङ्गमे गुरुसन्निधौ ॥
अग्न्यागारे विवाहेषु स्वाध्याये भोजने तथा ।
उद्धरेद् दक्षिणं पाणिं ब्राह्मणानां क्रियापथे ॥
(* उद्धरेद् धक्षिणं पाणिम् इति सव्यांशे वस्त्रं निधाय दक्षिणं बाहुम् उत्तरीयाद् बहिःकुर्याद् इत्य् अर्थः) । याज्ञवल्क्यः ।
रौद्रपित्रासुरान् मन्त्रांस् तथा दैवाभिचारिकान् ।
व्याहृत्यालभ्य चात्मानम् अपः स्पृष्ट्वान्यद् आचरेत् ॥
छन्दोगपरिशिष्टम् । कात्यायनः ।
पित्रमन्त्रप्रवरणे आत्माम्भे अवेक्षणे ।
अधोवायुसमुत्सर्गे प्रहासे ऽनृतभाषणे ॥
मार्जारमूषिकस्पर्शे आक्रुष्टे क्रोधसम्भवे ।
निमित्तेष्व् एषु सर्वत्र कर्म कुर्वन्न् अपः स्पृशेत् ॥
आत्मालम्भे हृदयस्पर्शे यज्ञादौ विहिते, अवेक्षणम् अपि यज्ञादिविहितम् एव ग्राह्यम् ।
याज्ञवल्क्यः ।
यदि वाग्यमलोपः स्याज् जपादिषु कथञ्चन ।
व्याहरेद् वैष्णवं मन्त्रं स्मरेद् वा विष्णुम् अव्ययम् ॥
अज्ञानाद् यदि वा मोहात् प्रच्यवेताध्वरेषु यत् ।
स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्याद् इति श्रुतिः ॥
तथा शतपथश्रुतिः- “अर्थं यद् वाचंयमो व्याहरति तस्माद् उ हैष विसृजो यज्ञः पराङ् **[१०८] **आवर्तते, तत्र वैष्णवीम् ऋचं वा यजुर् वा जपेद्” इत्यादि । छन्दोगपरिशिष्टम् । कात्यायनः ।
यत्रोपदिश्यते कर्म कर्तुर् अङ्गं न सूच्यते ।
दक्षिणस् तत्र विज्ञेयः कर्मणां पारगः करः ॥
यत्र दिङ्नियमो नास्ति जपहोमादिकर्मसु ।
तिस्रस् तत्र दिशः प्रोक्ता ऐन्द्री सौम्यापराजिता ॥
ऐन्द्री प्राची । सौम्या उत्तरा । अपराजिता ईशानदिक् ।
आसीन ऊर्ध्वः ब्रह्मो वा नियमो यत्र नेदृशः ।
तदासीनेन कर्तव्यं न प्रह्वेन न तिष्ठता ॥
ब्रह्मः प्रणतजानुकः । प्रह्वेण निम्रेण । तिष्ठता ऊर्ध्वेण । वसिष्ठः ।
जपहोमोपवासेषु धौतवस्त्रधरो भवेत् ।
अलङ्कृतः शुचिर् मौनी श्रद्धावान् विजितेन्द्रियः ॥
कात्यायनः ।
सदोपवीतिना भाव्यं सदा बद्धशिखेन तु ।
विशिखो ऽनुपवीतश् च यत् करोति न तत् कृतम् ॥
निगमपरिशिष्टे- “वामस्कन्धे यज्ञोपवीतम्, दैवे प्राचीनावीत्म् इतरथा पितृयज्ञे नाभ्यां द्विकण्ठासक्तम् उत्सर्गे निवीतं पृष्ठदेशावलम्बि ग्राम्यधर्मेषु” । ग्राम्यधर्मः स्त्रीसंयोगः । बौधायनः- “कर्मयुक्तो लाभेर् अधःस्पर्शं वर्जयेत्” । आह मनुः ।
चण्डालश् च वराहश् च कुक्कुटः श्वा तथैव च ।
रजस्वला च षण्डश् च नेक्षेरन्न् अश्नतो द्विजान् ॥
होमे प्रदाने भोज्ये च यद् एभिर् अभिवीक्ष्यते ।
दैवे हविषि पित्रे वा तद् गच्छत्य् अयथातथम् ॥
[१०९] स्कन्दपुराणे ।
पाषण्डिनश् च पतिता ये च वै नास्तिका जनाः ।
पुण्यकर्मणि तेषां वै सन्निधिर् नेष्यते क्वचित् ॥
अथ विज्ञानललितात् ।
पृथिव्यप्तेजसां वायोर् मण्डलानि क्रमेण तु ।
पीतं वक्ति चतुष्कोणं पार्थिवं शक्रदैवतम् ॥
तार्थम् आप्यं पद्माकं शुक्तं वरुणदैवतम् ।
अस्रं स्वस्तिकसंयुक्तं तैजसं वह्निदैवतम् ॥
वृत्तं विन्दवृतं वायुदैवतम् कृष्णमानिलम् ॥
गरुडपुराणे ।
कस्तूरिकाया द्वौ भागौ चत्वारश् चन्दनस्य च ।
कुङ्कुमस्य त्रयश् चैका शशिनः स्याच् चतुःसमम् ॥
कर्पूरश् चन्दनं दर्भकुङ्कुमं च समांशकम् ।
सर्वगन्धम् इति प्रोक्तं समस्तसुरवल्लभम् ॥
तथा ।
कर्पूरम् अगुरुश् चैव कस्तूरीचन्दनं तथा ।
कक्कोलञ् च भवेद् एभिः पञ्चभिर् यक्षकर्दमः ॥
शिवधर्मे ।
पञ्चामृतं दधि क्षीरं सिता मधु घृतं नृप ॥
स्कन्दपुराणे ।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
पञ्चगव्यम् इति प्रोक्तं सर्वपातकनाशनम् ॥
ब्रह्माण्डपुराणे ।
अश्वत्थोदुम्बरप्लक्षचूतन्यग्रोधपल्लवाः ।
पञ्चभङ्गा इति प्रोक्ताः सर्वकर्मसु शोभनाः ॥
पञ्चरात्रे ।
रजांसि पञ्चवर्णानि मण्डालार्थं हि कारयेत् ।
शालितण्डुलचूर्णेन शुक्तं वा यवसम्भवम् ॥
रक्तं कुसुम्भसिन्दूरगैरिकादिसमुद्भवम् ।
हरितालोद्भवं पीतं रजनीसम्भवं क्वचित् ॥
[११०] कृष्णैर् द्रव्यैर् वै हरितं पीतकृष्णविमिश्चितम् ।
रजनी हरिद्रा । आदित्यपुराणे ।
अभावे सर्वरत्नानां हेम सर्वत्र योजयेत् ।
रुद्रबीजं परं पूतं यतस् तस्यैव सर्वदा ॥
भविष्यपुराणे ।
अनुक्तद्रव्यतत्सङ्ख्यादेवताप्रतिमा नृप ।
सौवर्णी राजती ताम्री वृक्षजा मार्तिकी तथा ॥
चित्रजा पिष्टलेपोत्था निजवित्तानुरूपतः ।
आमाषात् पलपर्यन्तं कर्तव्या शाठ्यवर्जितैः ॥
सुवर्णं रजतं ताम्रमारकूटं तथैव च ।
लोहं त्रपु तथा सीसं धातवः परिकीर्तिताः ॥
तथा ।
आपः क्षीरं कुशाग्राणि दध्यक्षततिलास् तथा ।
यवाः सिद्धार्थकाश् चैवम् अर्घो ऽष्टाङ्गः प्रकीर्तितः ॥
तथा ।
दूर्वा यवाङ्कुराश् चैव वालकं चूतपल्लवाः ।
हरिद्राद्वयसिद्धार्थशिखिपत्रोरगत्वचः ॥
कङ्कणौषधयश् चैताः कौतुकाख्या नव स्मृताः ॥
छन्दोगपरिशिष्टे ।
कुष्ठं मांसी हरिद्रे द्वे सुरा शैलेयचन्दनम् ।
[१११] वचा चम्पकमुस्तं च सर्वौषध्यो दश स्मृताः ॥
आवाहनासनार्धं पाद्याचमनमधुपर्कस्नानापश् च ॥
वासोभूषणगन्धसुमनोयुतधूपदीपभोज्यानि प्रादक्षिण्यं नतिर् इति कथयन्त्य् उपचारषोडशकम् ।
विष्णुधर्मोत्तरे ।
हैमराजतताम्रा वा मृण्मया लक्षणान्विताः ।
यात्रोद्वाहप्रतिष्ठादौ कुम्भाः स्युर् अभिषेचने ॥
पञ्चाशाङ्गुलवैपुल्या उत्सेधे षोडशाङ्गुला ।
द्वादशाक्गुलकं मूलं मुखम् अष्टाङ्गुलं भवेत् ॥
पञ्चाशाक्गुलेति, आशा दिशः, ताश् च दशसङ्ख्यावाचकत्वेन ज्योतिःशास्त्रादौ प्रषिद्धाः । पञ्च च आशाश् च पञ्चाशाः । तावन्ति अङ्गुलानि वैपुल्यं येषां ते तथाभूताः । मध्यप्रदेशे तिर्यङ्मानेन पञ्चदशाङ्गुला इत्य् अर्थः । अथ वा बाह्यप्रदेशे बलयाकृतिना सूत्रेण नीयमाना मध्यस्थाने पञ्चाशदङ्गुला इत्य् अर्थः । अस्मिन् पक्षे पञ्चाशाङ्गुलेति छान्दसः प्रयोगः, इति सङ्कीर्णविधिः ।
अथ दक्षिणादिनिर्णयः ।
तत्र शतपथश्रुतिः- “स एष यज्ञो ऽहतो नादक्षत देवादक्षिणाभिर् अदक्षयंस् तद् यद् एनं दक्षिणाभिर् अदक्षयंस् तस्माद् दक्षिणानामेति” । भविष्यपुराणे ।
अदत्तदक्षिणं दानं व्रतं चैव नृपोत्तम ।
विफलं तद् विजानीयाद् भस्मनीव हुतं हविः ॥
षट्त्रिंशन्मतात् ।
श्रद्धायुक्तः शुचिर् दान्तो दानं दद्यात् सदक्षिणम् ।
[११२] अदक्षिणं तु यद् दानं तत् सव्यं निष्फलं भवेत् ॥
मैत्रायणीयपरिशिष्टम्- “दक्षिणालाभे मूलानां भक्ष्याणां ददाति न त्व् एवं यजेत्” । तथा च शतपथश्रुतिः- “तस्मान् नादक्षिणं हविः स्यात्” इति । भविष्योत्तरे ।
काम्यं यद् दीयते किञ्चित् तत् समग्रं सुखावहम् ।
असमग्रं तु दोषाय भवतीह परत्र च ॥
तस्मान् न दक्षिणाहीनं विधानविकलं न च ।
देयं दानं महाराज समग्रफलकाङ्क्षया ॥
अन्यथा दीयमानं तद् अपकाराय केवलम् ।
प्रत्यक्षतश् चार्थहानिर् न च तत् फलदं भवेत् ॥
आह भगवान् व्यासः ।
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा ।
सर्वेषाम् एव दानानां सुवर्णं दक्षिणेष्यते ॥
एतच् च, विशेषविहितगोवस्त्रादिदक्षिणकदानवर्जं सामान्यविहितदक्षिणेषु दानेषु व्यवतिष्ठते तत्रापि पराश्रेष्ठतमेति प्राशस्त्यं दर्शयति न त्व् अन्यां दक्षिणां निराचष्टे आनन्त्यार्थत्वाद् दक्षिणायाः सुवर्णस्य प्रकृष्टत्वात् सर्वदानेषु सुवर्णं दक्षिणेति वचनार्थः अन्यद् अपि पुरुषस्याहारोपयिकं तण्डुलादिकं दक्षिणार्थेन योज्यम् । यत् तु श्रूयते-
अन्येषां चैव दानानां सुवर्णं दक्षिणा स्मृता ।
सुवर्णे दीयमाने तु रजतं दक्षिणेष्यते ॥
इति, तद् एतच् छ्रोतः स्तण्यं (?) परिज्ञाय श्रद्धातव्यम् ।
सुवर्णं रजतं ताम्रं तण्डुला धान्यम् एव च ।
नित्यश्राद्धं देवपूजा सर्वम् एव सदक्षिणम् ॥
[११३] स्कन्दपुराणे ।
देयद्रव्यतृतीयांशं दक्षिणां परिकल्पयेत् ।
अनुक्तदक्षिणे दाने दशांशं वापि शक्तितः ॥
तुलापुरुषादिदानानि अधिकृत्य लिङ्गपुराणे ।
दक्षिणा च शतं चार्धं तदर्धं वा प्रदापयेत् ।
ऋत्विजां चैव सर्वेषां दश् निष्कान् प्रदापयेत् ॥
भविष्योत्तरे ।
ज्ञेयं निष्कशतं पार्थ दानेषु विधिर् उत्तमः ।
मध्यमस् तु तदर्धेन तदर्धेनाधमः स्मृतः ॥
मेष्यां च कालपुरुषे तथान्येषु महत्स्व् अपि ।
एवं वृक्षे तथेद्धे च धेनोः कृष्णाजिनस्य च ॥
अशक्तस्यापि कॢप्तो ऽयं पञ्चसौवर्णिको विधिः ।
अतो ऽप्य् अल्पेन यो दद्यान् महादानं नराधमः ॥
प्रतिगृह्णाति वा तस्य दुःखशोकावहं भवेत् ॥
जयाभिषेकम् उदाहृत्य लिङ्गपुराणे ।
अष्टषष्टिपलोन्मानं दद्याद् वै दक्षिणां गुरोः ।
होतॄणां चैव सर्वेषां त्रिंशत्पलम् उदाहृतम् ॥
अध्येतॄणां तदर्धेन द्वारपानं तदर्धतः ॥
एतेनान्यत्रापि गुरोर् वृद्धऋत्विजां तदर्धं जापकानां तदर्धं द्वारपालानाम् इति दक्षिणाविभागो ऽवमन्तव्यः । ब्रह्मवैवर्ते सुबाहुर् उवाच ।
देवानां प्रतिमां विप्र गृहीत्वा ब्राह्मणः स्वयम् ।
आत्मोपयोगं कुरुते विक्रीत्वा वा विभज्य वा ॥
[११४] तिलधेन्वादयश् चैव कथं भक्ष्या विजानता ।
धेनुत्वाद् भक्षणं शस्तं न शस्त्रं चेति संशयः ॥
विश्वामित्र उवाच ।
धर्मं च मूलं प्रथमं श्रुतिं वेदविदो जगुः ।
श्रुतिर् मूलं स्मृतीनां तु पुराणं सेतिहासकम् ॥
श्रुतिमूलं समाख्यातं तदुक्तं नैव चालयेत् ।
दानकाले तु देवत्वं प्रतिमानां प्रकीर्तितम् ॥
धेनूनाम् अपि धेनुत्वं श्रुत्युक्तं दानयोगतः ।
दातुर् वै दानकाले तु धेनवः परिकीर्तिताः ॥
विप्रस्य व्ययकाले तु द्रव्यं तद् इति निश्चयः ।
दानसम्बन्धिविप्रेण द्रव्यम् आगच्छता गृहम् ॥
तत् सर्वं विदुषा तेन विक्रेयं स्वेच्छया विभो ।
कुटुम्बभरणं कार्यं धर्मकार्यं च सर्वशः ॥
अन्यथा नरकं यातीत्य् एवम् आह पितामहः ।
कथं तिलानां धेनुत्वं देवत्वं प्रतिमासु च ॥
उभयोः शास्त्रतो विद्याद् धेनुत्वं देवतां तथा ।
शास्त्रं प्रमाणं परमं प्रमाणानाम् इति स्थितिः ॥
आगमाद् एव लोकस्य प्रतीतिर् नान्यतः कुतः ।
पुराणं मानवो धर्मः साङ्गो वेदश् चिकित्सितम् ॥
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥
अथ द्रव्यदानम् । ब्रह्मपुराणे ।
धर्मशास्त्रेषु मानार्थं याः सञ्ज्ञा मुनिभिः स्मृताः ।
ताः सर्वा व्यवहारार्थं बोद्धव्याः सम्प्रदायतः ॥
[११५] मनुः ।
लोकसंव्यवहारार्थं याः सञ्ज्ञाः प्रथिता भुवि ।
ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्य् अशेषतः ॥
जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।
परमं तत् पर्माणानां त्रसरेणुः प्रचक्ष्यते ॥
त्रसरेण्वष्तकं ज्ञेया लिक्षैका परमाणुतः ।
ता राजसर्षपस् तिस्रस् ते त्रयो गौरसर्षपः ॥
सर्षपाः षट् यवो मध्यस् त्रियवं त्व् एककृष्णतः (-लः) ।
पञ्चकृणलको माषस् ते सुवर्णस् तु षोडश ॥
पलं सुवर्णाश् चत्वारः पलानि धरणं दश ।
द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः ॥
ते षोडश स्याद् धरणं पुराणश् चैव राजतः ।
कार्षापणस् तु विज्ञेयस् ताम्रिकः कार्षिकः पणः ॥
धरणानि दश ज्ञेयः शतमानस् तु राजतः ।
चतुःसौवर्णिको निष्को विज्ञेयस् तु प्रमाणतः ॥
याज्ञवल्क्यः ।
जालसूर्यमरीचिस्थं त्रसरेणुरजः स्मृतः ।
ते ऽष्टौ लिक्षा तु तास् तिस्रो राजसर्षप उच्यते ॥
गौरस् तुत् ए त्रयः षट् ते यवो मध्यस् तु ते त्रयः ।
कृष्णलः पञ्च ते माषस् ते सुवर्णस् तु षोडश ॥
पलं सुवर्णाश् चत्वारः पञ्च वापि प्रकीर्तितम् ।
[११६] द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते ॥
शतमानं तु दशभिर् धरणैः फलम् एव च ।
निष्कः सुवर्णाश् चत्वारः कार्षिकस् ताम्रिकः पणः ॥
आह विष्णुः ।
जालस्थानमरीचिगतं रजः त्रसरेणुसञ्ज्ञम्, तदष्टकं लिक्षा, तत्त्रयो राजसर्षपः, तत्त्रयं गौरसर्षपः, ते षट् यवः, तत्त्रयं कृष्णलम्, तत्पञ्चकं माषः, तत्द्वादशकम् अक्षार्धम्, सचतुर्माषकं सुवर्णः, तच्चतुःसौवर्णिको निष्कः द्वे कृष्णले रूप्यमाषकः, ते षोडश धरणम् । ताम्रिकः कार्षापणः ।
कात्यायनः ।
माषो विंशतिभागश् च ज्ञेयः कार्षापणस्य तु ।
काकिणौ तु चतुर्भागो माषस्य च पणस्य च ॥
पञ्चनद्याः प्रदेशे तु सञ्ज्ञेयं व्यावहारिकी ।
कार्षापणप्रमाणं तु तन्निबद्धम् इहैव या ॥
कार्षापणस्यैका ज्ञेया ताश् चतस्रस् तु धानकः ।
ते द्वादश सुवर्णस् तु दीनारस् तु त्रिकः स्मृतः ॥
नारदः ।
कार्षापणो दक्षिण्स्यां दिशि रौप्यः प्रवर्तते ।
पणैर् निबद्धः पूर्वस्यां षोडशैव पणस्य तु ॥
अगस्तिप्रोक्ते ऽपि ।
यवः स्यात् सर्षपैः षड्भिर् गुञ्जा च स्यात् त्रिभिर् यवैः ।
गुञ्जाभिः पञ्चभिश् चैको माषकः परिकीरितः ॥
भवेत् षडशभिर् माषैः सुवर्णस् तैः पुनः स्मृतम् ।
चतुर्भिः पलम् एकस्य दशसो धरणं विदुः ॥
अष्टभिर् भवति व्यक्तैस् तण्डुलो गौरसर्षपैः ।
[११७] स वैणवो यवः प्रोक्तो गोधूमं चापरे जगुः ॥
विष्णुगुप्तः ।
पञ्च गुञ्जा भवेन् माषः शाणस् तैश् च चतुर्गुणैः ।
कणजो धरणं प्राहुर् मणिमानविशारदाः ॥
मज्जाटिका कणजविशेषस् तौल्ये गुञ्जाद्वयं विदुः ।
मज्जाटिकाविंशतिस् तु धरणं तद्विदां मतम् ॥
स्थूलमध्यातिसूक्ष्माणां सुसूक्ष्माणाम् अपि स्मृतम् ।
माषकैः पद्मरागः स्याद् इन्द्रनीलादिषु स्मृतम् ॥
कुहुस् तत्र प्रयोक्तव्यो न यस्मिन् मानम् ईरितम् ।
दीनारो रौपकैर् अष्टाविंशत्या परिकीर्तितः ॥
सुवर्णस्य सप्ततिमो भागो रोपक इष्यते ॥
प्रकारान्तरेणाप्य् आह ।
सुक्षेत्रे यथावन् मध्यपाककाले निष्पन्ना धान्यमाषा दश् सुवर्णमाषः, पञ्च वा गुञ्जाः सुवर्णमाषकः ते षोडश सुवर्णः, एवं प्रमाणसिद्धस्य द्वितीया सञ्ज्ञा कर्ष इति । चतुष्कर्षं पलम्, पलानां शतेन तुला, विंशतितौलिको भारः, अस्यैव भारस्य उदतौलिक इति द्वितीया सञ्ज्ञा ।
ब्रह्मप्रोक्ते ।
पलानां विंशतिर् वीशः पञ्चवीशास् तुला मता ।
उदतौलिकः स एव स्याद् भारो विंशतितौलिकः ॥
विष्णुगुप्तः ।
रूप्यस्य सुवर्णाद् भिन्नमानम् अभिधीयते अष्टाशीति गौरसर्षपा रूप्यमाषकः ते षोडश धरणं निप्पावा (?) विंशतिर् वा रूप्यपलं च दशधरणकं तत्पलानां शतं तुला तत्तुलाविंशतिर् भार हति विंशत्या व्रीहितण्डुलैस् तुलायां विधृतैर् व्यज्राख्यरत्नस्य धरणं भवति । अष्टभिर् गौरसर्षपैस् तण्डुलं कल्पयेद् इति <u>केचित्</u> । तथा निर्घण्टौ ।
मानं तुलाङ्गुलिप्रस्थैर् गुञ्जाः पञ्चाद्यमाषकः ।
[११८] ते षोडशाक्षः कर्षोस्त्री पलं कर्षचतुष्टयम् ॥
सुवर्णविस्ती हेम्नोक्षे कुरुविस्तस् तु तत्पले ।
तुला स्त्रियां पलशतं भारः स्याद् विंशतिस् तुलाः ॥
आचितं दश भाराः स्युः शाकटो भार आचितः ।
कार्षापणः कार्षिकः स्यात् कार्षिकस् ताम्रिकः पणः ॥
आदित्यपुराणे ।
एकं दश् शतं चैव सहस्रं चेति सत्तम ।
यथोत्तरं दशगुणं सहस्राणि दशायुतम् ॥
शताहतं सहस्रं तु प्रोच्यते नियुतं बुधैः ।
तथा शतसहस्राणि दश प्रयुतम् उच्यते ॥
शतं शतसहस्राणि कोटिर् इत्य् अभिधीयते ।
अर्बुदं दशकोट्यस् तु वृण्दङ्कोटिशतं विदुः ॥
सहस्रं कोटयश् चापि खर्वम् आहुश् च तद्विदः ।
दशकोटिसहस्राणां शङ्कुर् इत्य् अभिधीयते ॥
सहस्रं कोटयश् चापि पद्ममात्रं तु तद् विदुः ।
सहस्रं तु सहस्राणां क्ōटीनां दशधा पुनः ॥
गणितं तु समुद्रं वै प्राहुः सङ्ख्याविदो जनाः ॥
अथ धान्यमानम् । श्रीमार्कण्डेयपुराणे ।
यज्ञिरे तानि बीजानि ग्राम्यारण्याभिधानि च ।
ओषध्यः फलपाकान्ताः शतं सप्तदश स्मृताः ॥
व्रीहयश् च यवाश् चैव गोधूमाः कङ्गुकास् तिलाः ।
प्रियङ्गवः कोविदाराः कोरदूषाः सचीनकाः ॥
[११९] माषा मुद्गा मसूराश् च निष्पावाः सकुलोत्थकाः ।
आटक्यश् चणकाश् चैव शणः सप्तदश स्मृताः ॥
इत्य् एता ओषधीनां तु ग्राम्याणां जातयः स्मृताः ।
ओषध्यो यज्ञिया ज्ञेया ग्राम्यारण्याश् चतुर्दश ॥
व्रीहयश् च यवाश् चैव गोधूमाः कङ्गुसर्षपाः ।
माषा मुद्गाः सप्तमाश् च अष्टमाश् च कुलोत्थिकाः ॥
श्यामाकाश् चैव नीवारा जर्तिलाः स गवेधुकाः ।
कोविदारसमायुक्तास् तथा वेणुयवाश् च ये ।
ग्राम्यारण्याः स्मृता ज्य् एता ओषध्यश् च चतुर्दश ॥
स्कन्दपुराणे ।
यवगोधूमधान्यानि तिलाः कङ्गुकुलोत्थिकाः ।
माषा मुद्गा मसूराश् च निष्पावाः श्यामसर्षपाः ॥
गवेधुकाश् च नीवारा आढक्यो ऽथ सतीनकाः ।
चणकाश् चीनकाश् चैव धान्यान्य् अष्टादशैव तु ॥
धान्यानि व्रीहयः । गवेधुकाः कसकाः । नीवाराः आरण्यव्रीहयः । सतीनका वर्तुलकलायाः । चीनकाः षष्टिकविशेषाः । षट्त्रिंशन्मतात् ।
यवा गोधूमधान्यानि तिलाः कङ्गुस् तथैव च ।
श्यामाकं चीनकं चैव सप्तधान्यम् उदाहृतम् ॥
भविष्यपुराणे ।
पलद्वयं तु प्रसृतं द्विगुणं कुड्वं मतम् ।
चतुर्भिः कुड्वैः प्रस्थः प्रस्थाश् चत्वार आढकः ॥
आढकैस् तैश् चतुर्भिश् च द्रोणस् तु कथितो बुधैः ।
कुम्भो द्रोणद्वयं सूर्पखारी द्रोणास् तु षोडश ॥
विष्णुधर्मोत्तरे ।
पलं च कुडवः प्रस्थ आढको द्रोण एव च ।
[१२०] धान्यमानेषु बोद्धव्याः क्रमशो ऽमी चतुर्गुणाः ॥
द्रोणैः षोडशभिः खारी विंश्त्या कुम्भ उच्यते ।
कुम्बैस् तु दशभिर् बाधो धान्यसङ्ख्याः प्रकीर्तिताः ॥
वाराहपुराणे ।
पलद्वयं तु प्रसृतं मुष्टिर् एकं पलं स्मृतम् ।
अष्टमुष्टिर् भवेत् कुञ्चिः कुञ्चयोष्टौ तु पुष्कलम् ॥
पुष्कलानि च चत्वारि आढकः परिकीर्तितः ।
चतुराढको भवेत् द्रोण इत्य् एतन् मानलक्षणम् ॥
चतुर्भिः सेतिकाभिस् तु प्रथ एकः प्रकीर्तितः ।
(* मुष्टिः यजमानस्येति केचित्) । “मुष्टिर् एकं पलं स्मृतम्” इति प्रोक्तं सेतिकेति कुडवः ।
पाद्मे ।
चतुर्भिः कुडवैः प्रस्थः पस्थैश् चतुर्भिर् आढकः ।
चतुराढको भवेद् द्रोण इत्य् एतन् मानलक्षणम् ॥
अथ गोपथब्राह्मणे ।
पञ्चकृष्णलको माषस् तैश् चतुःषष्टिभिः पलम् ।
पलैर् द्वात्रिंशद्भिः प्रस्थो द्रोणः स्याच् चतुराढकः ॥
द्रवद्रव्यविषये स्कन्दपुराणे ।
पलद्वयेन प्रसृतम् द्विगुणं कुडवं मतम् ।
चतुर्भिः कुडवैः प्रस्थ आढकस् तैश् चतुर्गुणैः ॥
चतुर्गुणो भवेद् द्रोण इत्य् एतत् द्रवमानकम् ॥
अथ भूमानम् । आदित्यपुराणे ।
जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।
प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥
त्रसरेणुस् तु विज्ञेयो अष्टौ ये परमाणवः ।
[१२१] त्रसरेणवस् तुत् ए ह्य् अष्टौ रथरेणुस् तु स स्मृतः ॥
रथरेणवस् ते ह्य् अष्टौ वालाग्रं तत् स्मृतं बुधैः ।
वालाग्राण्य् अष्ट लिक्षा तु यूका लिक्षाष्टकं बुधैः ॥
अष्टौ यूका यवं प्राहुर् अङ्गुलं तु यवाष्टकम् ।
द्वादशाङ्गुलमात्रो वै वितस्तिस् तु प्रकीर्तितः ॥
अङ्गुष्ठस्य प्रदेशिन्या न्यासः प्रादेश उच्यते ।
तालः स्मृतो मध्यमया लोकर्णश् चाप्य् अनामया ।
कनिष्ठया वितस्तिस् तु द्वादशाङ्गुलिका स्मृता ॥
रत्निस् त्व् अङ्गुलपर्वाणि विज्ञेयस् त्व् एकविंशतिः ।
चत्वारि विंशतिश् चैव हस्तः स्याद् अङ्गुलानि तु ॥
किष्कुः स्मृतो द्विरत्निस् तु द्विचत्वारिंशद् अङ्गुलः ।
षण्णवत्याङ्गुलैश् चैव धनुर्दण्डः प्रकीर्तितः ॥
धनुर्दण्डयुगं नालिर् ज्ञेयो ह्य् एते यवाङ्गुलेः ।
धनुषा त्रिंशता नल्वम् आहुः सङ्ख्याविदो जनाः ॥
धनुःसहस्रे द्वे चापि गव्यूतिर् उपदिश्यते ।
अष्टौ धनुःसहस्राणि योजनं तु प्रकीर्तितम् ॥
मार्कण्डेयपुराणे ।
परमाणुः परं सूक्ष्मं त्रसरेणुर् महीरजः ।
वालाग्रं चैव लिक्षा च यूका चाथ यवो ऽङ्गुलम् ॥
क्रमाद् अष्टगुणान्य् आहुर् यवान् अष्ट ततो ऽङ्गुलम् ।
षडङ्गुलं पदं प्राहुर् वितस्तिर् द्विगुणं स्मृतम् ॥
द्वौ वितस्ती ततो हस्तो ब्रह्मतीर्थं द्विचेष्टनैः ।
चतुर्हस्तो धनुर्दण्डो नालिका तद्युगेन तु ॥
कोशो धनुःसहस्रे द्वे गव्यूतिश् च चतुर्गुणा ।
[१२२] द्विगुणं योजनं तस्मात् प्रोक्तं सङ्ख्यातकोविदैः ॥
बृहस्पतिः ।
दशहस्तेन दण्डेन त्रिंशद् दण्डा निवर्तनम् ।
दश तान्य् एव गोचर्म ब्राह्मणेभ्यो ददाति यः ॥
वसिष्ठः ।
दशहस्तेन वंशेन दशवंशान् समन्ततः ।
पञ्च चाभ्यधिकान् दद्याद् एतद् गोचर्म चोच्यते ॥
विष्णुधर्मोत्तरे ।
यद् उत्पन्नम् अथाश्नाति नरःसंवत्सरं द्विजः ।
एकं गोचर्ममात्रं तु भुवः प्रोक्तं विचक्षणैः ॥
मत्स्यपुराणे ।
दण्डेन सप्तहस्तेन त्रिंशद् दण्डा निवर्तनम् ।
त्रिभागहीनं गोचर्म मानम् आह प्रजापतिः ॥
वृद्धवसिष्ठः ।
गवां शतं वृषश् चैको यत्र तिष्ठेद् अयन्त्रितः ।
एतद् गोचर्ममात्रं तु प्राहुर् वेदविदो जनाः ॥
अथ मण्डपादिलक्षणम् । बौधायनः- “मध्याङ्गुलीकूर्परयोर् मध्ये प्रामाणिकः करः” । छन्दोगपरिशिष्टे ।
अङ्गुष्ठाङ्गुलमानं तु यत्र यत्रोपदिश्यते ।
तत्र तत्र बृहत्पर्वग्रन्थिभिर् मिनुयाद् बुधः ॥
अथ पञ्चरात्रे ।
कुर्याद् वैष्णवयागेषु चतुर्द्वारांश् च मण्डपान् ।
सारदारुभवान् स्तम्भान् दृढान् कुर्याद् ऋजून् समान् ॥
मण्डपार्होच्छ्रितान् वेदसङ्ख्यांश् चूडान्वितांस् तथा ।
वलिकामूर्धतस् तेषां स्तम्भद्वादशकं पुनः ॥
बाह्ये पीठप्रमाणेन तत्र सूत्रविभागतः ।
मध्यमोत्तमयोर् वेदी तत्र सूत्रविभागतः ॥
चतुर्थांशोच्छ्रितस् तस्यास् त्रिसप्तपञ्चतो ऽपि वा ।
नवैकादशहारं वा इष्टकाभिः प्रकल्पयेत् ॥
[१२३] कनीयान् दशहस्तः स्यान् मध्यमो द्वादशोन्मितः ।
तथा षोडशभिर् हस्तैर् मण्डपः स्याद् इहोत्तमः ॥
वेदसङ्ख्यान् चतुःसङ्ख्यान् इत्य् अर्थः । चूडा शिखा, सा च स्तम्भशिरसि उपरितनस्रन्ध्रवलिकाप्रवेशनार्थं क्रियते । बाह्य इति अन्तर्विन्यस्तस्तम्भ-चतुष्ठयापेक्षया बाह्यत्वम् । अयम् अर्थः । पूर्वं मध्यस्तम्भचतुष्टयं विन्यस्य ततो बाह्यपरिधौ स्तम्भद्वादशकं विन्यसेत् एवं च षोडशस्तम्भो मण्डपः सम्प्रपद्यते । सूत्रविभागत इति, प्राक् पश्चिमायतस्य दक्षिणोत्तरायतस्य वा क्षेत्रसूत्रस्य तृतीयांशपरिमितम् अन्तरालं विहाय स्तम्भा निवेशनीया इत्य् अर्थः । कन्यसे द्विकरम् इति, कन्यसे मण्डपे द्विहस्तविस्तारं द्वारं कार्यम् । मध्यमोत्तमयोस् तु चतुरङ्गुलाभिवृद्ध्या विधेयम् ।
विश्वन्भरवास्तुशास्त्रे ।
मण्डपान्तरम् उत्सृज्य कर्तव्यं पण्डपद्वयम् ।
धाम्नो धाम्नान्तरं त्यक्त्वा धामाग्रे यज्ञमण्डपः ॥
दशद्वादशहस्तो वा कलाहस्तो ऽथ वा पुनः ।
यदा मण्डपद्वयं क्रियते तदा प्रथममण्डपपरिमितम् अन्तरं त्यक्त्वा द्वितीयमण्डपं कुर्यात् । यदा तु धामाग्रे मण्डपः क्रियते तदा तद्धामपरिमाणम् अन्तरं त्यक्त्वा परतो मण्डपं कुर्याद् इत्य् अर्थः । कलाहस्तः षोडशहस्तः ।
करैः षड्भिस् तु सञ्छाद्या विजयाद्यास् तु मण्डपाः ।
अश्वत्थोडुम्बरप्लक्षवटशाखाकृतानि तु ॥
[१२४] मण्डपस्य प्रतिदिशं द्वाराण्य् एतानि कारयेत् ।
पञ्चहस्तप्रमाणास् ते विस्तारेण द्विहस्तकः ॥
षडङ्गुलाभिवृद्धास् तु सप्तहस्ता यथोत्तमे ॥
पञ्चहस्तेति, कन्यसे मण्डपे पञ्चहस्ताः । मध्यमे षढस्ताः । उत्तमे सप्तहस्ताः द्वारशाखा विधेयाः । तथा हि । हस्तात् प्रभृति षडङ्गुलाभिवृद्धा विस्तारो विधेयः ।
मस्तके द्वादशांशेन शखचक्रगदाम्बुजम् ।
प्रागादिक्रमयोगेन न्यसेत् तेषां सदारुजम् ।
पञ्चमांशं न्यसेद् भूमौ सर्वसाधारणो विधिः ॥
तत्र सङ्ग्रहे ।
प्रतिकुण्डं पताकास् तु प्रोक्ताः शास्त्रार्थकोविदैः ।
सप्तहस्ताः पताकाः स्युः सप्तमांशेन विस्तृताः ॥
लोकपालानुवर्णेन षडभीतु हिमप्रभा ।
पीतरक्तादिवर्णाश् च पञ्चहस्ता ध्वजाः स्मृताः ॥
द्विपञ्चहस्तैर् दण्डैस् तैर् वंशजैः संयुता मताः ॥
द्विपञ्चहस्तैः दशहस्तैः । गरुडपुराणे ।
पञ्चहस्ता ध्वजाः कार्या वैपुल्येन द्विहस्तकाः ।
सप्तहस्ताः पताकाः स्युर् विंशत्यङ्गुलविस्तृताः ॥
दशहस्ताः पताकानां दण्डाः पञ्चाशवेशिताः ।
सिन्दूराः कर्वुरा धूम्रा धूसरा मेघसन्निभाः ॥
हरिताः पाण्डुवर्णाश् च शुभ्राः पूर्वादितः क्रमात् ।
एवंवर्णाः शुभाः कार्याः पताकाः पाकशातनः ॥
[१२५] भविष्यत्पुराणे ।
वेदिपादान्तरं त्यक्त्वा कुण्डानि नव पञ्च वा ।
वेदास्त्राण्य् एव तानि स्युर् तुलान्य् अथ वा क्वचित् ॥
वेदास्त्राणि चतुरस्त्राणि । आम्नायरहस्ये ।
कुण्डानि चतुरस्राणि वृत्तनालाकृतनीनि वा ।
नव पञ्चाथ चैकं वा कर्तव्यं लक्षणान्वितम् ॥
नवकुण्डविधाने तु दिक्षु कुण्डाष्टके स्थिते ।
नवमं कारयेत् कुण्डं पूर्वेशानदिगन्तरे ।
विधाने पञ्च कुण्डानाम् ईशाने पञ्चमं भवेत् ॥
ज्ञानरत्नावल्याम् ।
दिक्षु वेदास्रवृत्तानि पञ्चमं त्व् ईशगोचरे ।
नारदीये ऽपि ।
यत्रोपदिश्यते कुण्डचतुष्कं तत्र कर्मणि ।
वेदास्रम् अर्हचन्द्रं च वृत्तं पद्मनिभं तथा ॥
कुर्यात् कुण्डानि चत्वारि प्राच्यादिषु विचक्षणः ।
कुण्डवेद्यन्तरं चैव सपादकरसम्मितम् ।
पीठवद्धन्तु यत् कुण्डं सप्रमाणं सुवर्तकम् ॥
बह्वृचपरिशिष्टे ।
भूक्तौ मुक्तौ तथा पुष्टौ जीर्णोद्धारे विशेषतः ।
सदा होमे तथा शान्तौ वृत्तं वरुणदिग्गतम् ॥
कामिके तु तत्तद्दिक्षु तत् तत् फलार्थं कुण्डोक्तिर् यथा ।
ऐन्द्र्यां स्तम्भे चतुष्कोणे अग्नौ भोगे भगाकृतिः ।
चन्द्रार्धं मारणे याम्ये नैरृते द्वित्रिकोणकम् ॥
वारुण्यां शान्तिके वृत्तं षट्सु उच्चाटने ऽनले ।
उदीच्यां पौष्टिके पद्मं रौद्र्याम् अष्टास्रमुक्तिदम् ॥
सर्वेषु चैतेषु होमानुसारेण हस्तादिमात्रं क्षेत्रफलम् उपकल्पनीयम् । [१२६] तद् उक्तं भविष्यपुराणे ।
मुष्टिमानं शतार्धे तु शते चारत्निमात्रिकम् ।
सहस्रे त्व् अथ होतव्ये कुर्यात् कुण्डं करात्मकम् ॥
द्विहस्तम् अयुते तच् च लक्षहोमे चतुःकरम् ।
अष्टहस्तात्मकं कुण्डं कोटिहोमेषु नाधिकम् ॥
मुष्टिमानम् इति बद्धमुष्टिहस्तमात्रम् इत्य् अर्थः । इदानीं चतुरस्रादिकुण्डानाम् उद्धारक्रमो ऽभिधीयते । चतुरस्रं तावद् आह विश्वकर्माह् ।
कृत्वा प्राक् सूत्रम् अर्धाङ्गं दक्षिणोत्तरमत्स्ययोः ।
न्यस्य सूत्रं ततः कोणैर् अङ्क्तैश् चौत्रस्रकम् ॥
पूर्वाङ्केनाप्य् उपायेन प्राचीं निश्चित्य प्राक्पश्चिमायातां रेखाम् आलिख्य ताम् अर्धभागे लाञ्छयित्वा दक्षिणोत्तरदिशोर् मत्स्यद्वयं कुर्यात् सूत्रोपरि सूत्रान्तरनिपातनात् स्वस्तिकमध्याकृतिः शिल्पशास्त्रेषु मत्स्य इत्य् उच्यते । मत्स्यद्वयनिष्पत्तिश् चात्रैवं कार्या । पूर्वोक्तरेखापरिमितस्य सूत्रस्यादिम्, तस्या एव रेखाया मूले निधाय तत्सूत्रान्तरं परिभ्रम्य वृत्तं रचयेत् तस्या एव रेखाया अपरप्रान्ते तस्यैव सूत्रस्यादिं निधाय तत्सूत्रान्तं परिभ्रम्य द्वितीयन्तं कुर्यात् एवं वृत्ते द्वये कृते दक्षिणोत्तरदिशोर् मत्स्यद्वयं निष्पद्यते अथ मत्स्यद्वये पूर्वोक्तरेखालाञ्छने चैकं सूत्रं निष्पात्य दक्षिणोत्तरायतां रखां लिखेत् । एवं दिक्षु साधितासु विदिक्साधनार्थं कोणान् लाञ्छयेत् । तत्रायं प्रकारः । पूर्वनिष्पन्नप्रेखाप्रान्तचतुष्टयस्य प्रत्येकं पार्श्वद्वये चिकीर्षितपरिमाणस्यार्धम् अधं निधाय तत्सन्धौ कोणलाञ्छनानि कुर्यात् ततः लोणलाञ्छनेषु सूत्रचतुष्टयनिपातनात् पूर्वनिश्य् उदङ्मुखयो**[१२७]**निकं चतुरस्रं कुण्डं कुर्यात् । योन्याकारादीनाम् उद्धारश् चतुरस्रप्रकृतिकस् तु कामिकशास्त्रात् ।
पञ्चमांशं पुरोन्यस्य मध्ये वेदांशमानतः ।
भ्रमाद् अश्वत्थपत्राभं कुण्डम् आग्नेयम् उच्यते ॥
क्षेत्रस्य पञ्चमभागं पुरप्राच्यां दिशि विन्यस्य मध्ये कोणसूत्रस्येति शेषः । वेदांशः तुरीयांशश् । भ्रमात्, सूत्रान्तपरिभ्रमणेन अश्वत्थपत्राकारं कुण्डम् आग्नेयदिशि कुर्याद् इति । तत्रायं निर्माणप्रकारः । पूर्वोक्तन्यायेन समचतुरस्रीकृतस्य क्षेत्रस्य पश्चिमरेखामध्यात् पूर्वरेखामध्यभेदिनीं क्षेत्रसूत्रपञ्चमांशाधिकां गर्भरेखाम् आलिख्य नैरृत्यदेशे कोणसूत्रान्तरीयांशे लाञ्छयित्वा तल्लाञ्छनोपरि विन्यस्तादेः सूत्रस्य पूर्वोक्तगर्भरेखामूलावन्यस्तं प्रान्तं परिभ्रम्य बहिर्वृत्तार्धं निष्पाद्य वायव्यकोणे ऽप्य् एवम् एव वृत्तार्धं रचयेत् । ततो गर्भरेखाप्रान्तात् वृत्तद्वयप्रान्तस्पर्शिसूत्रद्वयं निपात्य पिप्पलपत्राकारम् आग्नेयदिष्य् उदङ्मुखयोनिकं योनिकुण्डं विदध्यात् । चतुरस्रे ग्रहैर् भक्ते त्यक्त्वाद्यन्तौ तदंशकौ मध्यसप्तांशमाने तु कुण्डं खण्डेन्दुवत् क्रमात् । चतुरस्रे क्षेत्रे ग्रहैर् नवभिर् विभक्ते आद्यन्तौ त्यक्त्वा अवशिष्टसप्तमांशमानेन सूत्रभ्रमणात् खण्डेन्दुसदृशं कुण्डं कुर्यात् । अत्रैवं कृतिः । चतुरस्रं क्षेत्रं नवधा विभज्य तत्र प्रथमो ऽन्तिमश् चेति भागद्वयं परिमृज्य अवशिष्टसप्तभागादिमरेखागर्भदेशे सूत्रादिं निधाय तस्यैव भागसप्तकस्यान्तिमरेखागर्भदेशे सूत्रान्तं निवेश्य तत्सूत्रपरिभ्रमणेन प्रथमरेखातुल्यं विश्रान्तप्रान्तवृत्तार्धं विरचयेत् । अथ प्रथमरेखाप्रान्तद्वयम् अपि वृत्तार्धे संयोज्य दक्षिणदिगवस्थितम् उत्तराशाभिमुखयो**[१२८]निकं खण्डं चन्द्रखण्डं विदध्यात् । त्रिभागवृद्धितो मत्स्यैस् त्रिभिर् नैशाचरं भवेत् । स्थानत्रये तृतीयांशत्रयं वृद्ध्या मत्स्यत्रयेण नैशाचरं नैरृत्यदिक्सम्बन्धि कुण्डं कुर्यात् । इहायं सम्प्रदायः । पूर्ववत्सम् अचतुरस्रं क्षेत्रं निर्माय तत्तिरश्चीनपश्चिमरेखामध्यात् तिर्यगवस्थितपूर्वरेखामध्यभेदिनीं क्षेत्रसूत्रतृतीयभागाधिकां गर्भरेखाम् आलिख्य पूर्वोक्तपश्चिमरेखाप्रान्तद्वयम् अपि क्षेत्रसूत्रतृतीयभागाधिकं कुर्यात् । ततो गर्भरेखाप्रान्तात् पूर्वोक्तपश्चिमरेखाप्रान्तद्वयस्पर्शिसूत्रद्वयं निपात्य नैरृत्यदिशि पूर्वाभिमुखयोनिकं त्रिकोणं कुण्डम् उत्पादयेत् । एवं च विधीयमाने स्थानत्रये तृतीयांशत्रयवृद्धिस् तत्रैव मत्स्यत्रयम् अपि निष्पद्यत इति । कर्मार्धाष्टांशसन्न्यासाद् वृत्तं कुण्डम् इहोदितम् । कर्मसूत्रार्धस्य यो ऽष्टमांशस् तस्य सन्न्यासात् सम्यक् न्यासात् वृत्तं कुण्डं स्याद् इति । अत्रैवं रचनाप्रकारः । चतुरस्रे क्षेत्रे कोणात् कोणान्तरकामिनः सूत्रस्यार्धं कोणार्धशब्दवाच्यम् अष्टधा विभज्य यावान् अष्टमो भागस् तावन्तं भागं चतुर्दिक्षु बहिर् विन्यसेत् । ततः क्षेत्रगर्भदेशे सूत्रादिं निधाय बहिःस्थिताष्टमभागविन्यस्तं तस्यैव सूत्रस्य प्रान्तं सर्वतः परिभ्रम्य पश्चिमदिशि पूर्वाभिमुखयोनिकं वृत्तकुण्डं कुर्यात् । षड्भागवृद्धितो मत्स्यैश् चतुर्भिः स्यात् षडस्रकम् । क्षेत्रप्रार्श्वयोः प्रत्येकं षष्ठभागवृद्धं कृत्वा अवशिष्टदिशीर् मत्स्यचतुष्टयम् उत्पद्य सूत्रषट्कपातात् षडस्रकुण्डनिष्पत्तिर् इति । अत्रैवं सम्प्रदायः । समचतुरस्रं क्षेत्रं षोढा विभज्य यावान् षष्ठो भागस् तावता मानेन क्षेत्रस्य दक्षिणोत्तरपार्श्वे समन्ताद् वर्धयित्वा तद् एव क्षेत्रम् आयत[१२९]**चतुरस्रं सम्पादयेत् । अथानन्तरोक्तपार्श्वद्वयरेखास्पर्शिनीं दक्षिणोत्तरायतां गर्भरेखां रचयेत् । ततः क्षेत्रमध्याद् उत्तरपार्श्वरेखामध्याच् च पूर्वोक्तगर्भरेखार्धपरिमितम् एकैकं सूत्रं निपात्य पूर्वेशानदिशोर् अन्तराले मत्स्यम् उत्पाद्य तेनैव प्रकारेण पश्चिमवायव्ययोर् अन्तराले मत्स्यं कुर्यात् । अथ भूयो ऽपि क्षेत्रमध्याद् दक्षिणपार्श्वरेखामध्याच् च प्रागुक्तगर्भरेखाप्रान्तद्वयात् लाञ्छनचतुष्टयस्पर्शिसूत्रचतुष्टयं निपातयेत् । एवं लाञ्छान्नानन्तरालस्थितसूत्रद्वयेन सह सूत्रषट्कप्रयोगाद् वायव्यदिशि प्राङ्मुखयोनिकं षट्कोणकुण्डं कुर्यात् ।
चतुरस्राष्टभागेन कर्णिका स्याद् विभागशः ।
तद्बहिस् त्व् एकभागेन केसराणि प्रकल्पयेत् ॥
तृतीये दलमध्यानि तुरीये दलकोटयः ।
भ्रमणात् पद्मदलं स्याद् दलाग्रं दर्शयेद् बहिः ॥
चतुरस्रस्य अष्टधा विभक्तस्य मध्ये अष्टमभागेन कर्णिका स्यात् कर्णिकाया बहिः परिधिस्थे द्वितीये अष्टमभागविन्यासे केसराणि स्युः केसराद् बहिः परिधिस्थिते तृतीये अष्टमभागे केसराणि स्युः केसराद् बहिः परिधिस्थिते तृतीये अष्टमभागे विन्यासे दलमध्यानि कल्पयित्वा चतुर्थे दलकोटीं विधाय चतुरस्राद् बहिर् दलाग्राणि स्पर्शयेत् । अत्राप्य् अष्टमभागेनेति सम्बध्यते । विभागशः विभागे विभागे सर्वदिग्भागेष्व् इत्य् अर्थः । भ्रमणात् सूत्रस्येति शेषः । एतच् च सर्वत्र योजनीयम् ।
अयम् अर्थः । चतुरस्रं क्षेत्रं प्रागग्राभिर् उदगग्राभिश् च रेखाभिर् अष्टधा विभज्य मध्यदेशे लाञ्छयित्वा क्षेत्राद् बहिश् चतुर्दिक्षु समन्ताद् अपरम् अष्टभागं विन्यसेत् सत्य् एवं लाञ्छनात् परितः प्रतिदिशं [१३०] पञ्चपञ्चाष्टमभागावधिरेखा भवन्ति । ततः पूर्वोक्तलाञ्छनोपरि विन्यस्तादेस् तत्तद्रेखाविन्यस्तप्रान्तस्य च सूत्रस्य परिभ्रमणात् पञ्चवृत्तानि सम्पाद्य वृत्तातिरिक्तरेखाः परिमार्जयेत् ततः प्रथमे वृत्ते कर्णिका । द्वितीये केसराणि । तृतीये दलमध्यानि । चतुर्थे दलकोटयः । पञ्चमे दलाग्रानीति कृत्वा अष्टदलं पूर्वाभिमुखयोनिकं पद्मकुण्डम् उत्तरदिशि कुर्यात् ।
इदानीम् एत देव कुण्डं प्रकारान्तरेणोच्यते
वृत्तकुण्डं समं चान्यद् अथ वान्यप्रकारतः ।
वृत्तकुण्डं पुरा कृत्वा चतुर्धा मेखलां भजेत् ॥
उत्सेधं च तथा कृत्वा कर्णिका सार्धिका भवेत् ।
अवशिष्टं दलं वेददलम् अष्टदलं तु वा ॥
यथा प्रतीच्यां दिशि वृत्तकुण्डम् अभिहितम् इहापि तथैव कृत्वा तन्मध्ये यथाविभागं पद्मकुण्डं कुर्याद् इति । अथ वेत्यादिना तृतीयः प्रकार उच्यते । पूर्वं वृत्तकुण्डम् एव आमेखलं मेखलाम् अवधीकृत्य वृत्तत्रयस्य करणाच् चतुर्थक्षेत्रविभागः कार्य इत्य् अर्थः । ततः क्षेत्रमध्ये सार्धभागेन विस्तृता कर्णिका विधेया । उत्सेधं च तथा कृत्वेति, कर्णिकाया उच्छ्रयम् अपि सार्धभागेन कृत्वेत्य् अर्थः । अवशिष्टेन सार्धभागद्वयेन केसरव्यतिरिक्तानि दलान्य् एव कुर्यात् । एवं चतुर्दलम् अष्टदलं वा पद्मकुण्डं कुर्यात् ।
क्षेत्राद् द्वादशमं भागं चतुर्दिक्षु तदन्तरे ।
विन्यस्य तत्प्रमाणेन तुर्यांशम् अपरं नयेत् ॥
तस्य कर्णप्रमाणेन तद्भजास्व् अपि लाञ्छयेत् ।
[१३१] तत्राष्टसूत्रसंयोगाद् अष्टास्रं कुण्डम् उच्यते ॥
द्वादशधा विभक्तस्य क्षेत्रस्य यावान् द्वादशो भागस् तावन्तं भागं चतुर्दिक्षु विन्यस्य, तदन्तरे तस्य क्षेत्रस्य अन्तरे बहिःप्रदेशे अन्तरं बहिर् योगोपसंव्यानयोर् इति ज्ञापकाद् अन्तरशब्दो ऽत्र बहिर्वचनः । तत्प्रमाणेनेति तस्य बहिर्विन्यस्तद्वादशभागस्य परिमाणेन अपरं द्वितीयं द्वितीयं तुर्यास्रं चतुरस्रं नयेत् प्रणयेत् कुर्यात् इति यावत् । तुर्यास्रम् इति स्वार्थिको ऽत्र पूरणप्रत्ययः । तस्य कर्णप्रमाणेनेति । कोणात् कोणान्तरस्पर्शिसूत्रं शिप्लशास्त्रेषु कर्ण इति प्रसिद्धम् । इह तु क्षेत्रगर्भाद् आरभ्य चतुष्कोणगामिनः पृथव् एव चत्वारः कर्णा इत्य् अभिप्रायेण कर्णार्धम् अपि कर्णशब्देनोक्तम् । तेनायम् अर्थः ।
बाह्यस्थितचतुरस्रस्य गर्भदेशावधिर् यावान् कर्णस् तावता मानेन तद्भुजासु तस्य कर्णस्य भुजासु लाञ्छयेत् । अत्र बाह्यचतुरस्रसूत्राण्य् एव कर्णोभयपार्श्ववर्तीनि निजभुजाकारतया भुजाशब्देनोच्यन्ते । अयम् आशयः । बाह्यचतुरस्रसम्बन्धिन्य् एकस्मिन् कोणे कर्णार्धपरिमितस्य सूत्रस्यादिं निधाय तत्सूत्रं चतुरस्ररेखोपरि प्रसार्य सूत्रप्रान्ते लाञ्छयेत् । एवं प्रतिकोणं सूत्रादिं निधाय प्रातिलोम्यानुलोम्येन सूत्रप्रसारणात् तत्तत्प्रान्ते लाञ्छयन् प्रदिदिशं [प्रतिदिशं?] लाञ्छनद्वयकरणाद् दिक्चतुष्टयेन लाञ्छनेषु सूत्राष्टकनिपातनाद् अष्टास्रकुण्डं कुर्याद् इति ।
अयम् इह् निर्माणप्रकारः ।
पूर्ववच् चतुरस्रीकृतस्य क्षेत्रस्य बहिश् चतुर्दिक्षु द्वादशमं भागं विन्यस्य तत्परिमाणेन अपरं चतुरस्रं कुर्यात् । अथ तदीय**[१३२]**कर्णार्धपरिमितस्य सूत्रस्य प्रतिकोणम् आदिं निधाय चतुरसरेखोपरि प्रसारणात् तत्तत्प्रान्तेषु लाञ्छयन् दिक्चतुष्टयेन लाञ्छनाष्तकं कृत्वा तल्लाञ्छनोपरि सूत्राष्टकनिपातनाद् ऐशानदिशि पूर्वाभिमुखयोनिकम् अष्टाश्रकुण्डं कुर्यात् । इदानीं दिग्नियमम् अन्तरेणैव तत्तत्कर्मोपयोगितया विज्ञानललितोपदिष्टं कुण्डद्वयम् उच्यते ।
सप्तमांशं बहिर् न्यस्य कृत्वा वृत्तम् इह भ्रमात् ।
चतुर्थभागान् न्यूनेन पूर्वक्षेत्रे च [पूर्वक्षेत्रेण?] सम्मितैः ॥
धनुर्ज्याकृतिभिः पञ्चसूत्रैः पञ्चास्रकुण्डकम् ।
होमे प्रशस्यते भूतशाकिनी ग्रहनिग्रहे ॥
चतुरस्रस्य क्षेत्रस्य बहिःप्रदेशे चतुर्दिक्षु क्षेत्रसप्तमांशं विन्यसेत् । ततः क्षेत्रगर्भविन्यस्तादेः बाह्यस्थितसप्तमांशोपरि विन्यस्तप्रान्तस्य सूत्रस्य सर्वतः परिभ्रमणात् वृत्तं निष्पादयेत् । पूर्वक्षेत्रेणेति, बहिःस्थितवृत्तापेक्षया पूर्वक्षेत्रशब्देन आन्तरं चतुरस्रक्षेत्रम् एवोच्यते ।
ततश् चायम् अर्थः । आन्तरचतुरस्रस्य यद् दैर्घ्यं तत् स्वकीयचतुर्थभागन्यूनं कृत्वा यन् मानं भवति तावता मानेन परिमितं सूत्रं विधाय तादृशानि पञ्चसूत्राणि बाह्यवृत्तस्यान्तर्विन्यस्य सूत्रसन्धौ कोणं कुर्यात् । तानि च पञ्च सूत्राणि प्रेत्येकं प्रान्तद्वयसंस्पृष्टवृत्तत्वात् धनुर्ज्याकृतीनि धनुरारूढमौर्वीसदृशानि स्युः । ततः पञ्चसूत्रातिरिक्तं सर्वं परिमृज्य पञ्चास्रकुण्डं रचयेत् । तच् च ग्रहनिग्रहादिहोमे प्रयोज्यम् ।
दशमांसं बहिर् न्यस्य कृत्वा वृत्तम् इह भ्रमात् ।
भिक्ताक्षेत्रं चतुःषष्ट्या तद्भागैः त्रिंशता त्रिभिः ॥
समायसूत्रं तादक्षात् सप्तास्रं सूत्रसप्तकात् ।
अभिचारोपशान्त्यर्थं होमकुण्डम् इति स्मृतम् ॥
इहापि चतुरस्रस्य क्षेत्रस्य दशमभागं चतुर्दिक्षु बहिर् विन्यस्य पूर्ववत् वृत्तं कुर्यात् । अथ पूर्वक्षेत्रं चतुःषष्ट्या विभज्य तेषां चतुःषष्टिसङ्ख्यानां भागानां मध्ये त्रयस् त्रिंशत्सङ्ख्यैर् भागैः परिमितं सूत्रं कृत्वा तादृशानि सप्तसूत्रानि वृत्तस्यान्ते विन्यस्य सप्तास्रं कुण्डं कुर्यात् । अत्रापि सूत्राणां धनुर्ज्याकारत्वं सूत्रसन्धौ कोणनिर्माणं सप्तसूत्रातिरिक्तपरिमार्जनं चेति पूर्ववद् एव वेदितव्यम् । एतच् च कुण्डम् अभिचारदोषोपशमनहोमेषु प्रयोज्यम् । आह विश्वकर्मा ।
यावन्मात्रः कुण्डविस्तार उक्तस्
तावत्खातस्यापि मानं प्रदिष्टम् ।
यादृक्कुण्डस्याकृतिः सम्प्रदिष्टा
तादृग्रूपं मेखलाया विदध्यात् ॥
स्थापने सर्वकुण्डानां ध्वजाय सर्वसिद्धदः ॥
सर्वेषु चैतेषु प्रोक्तमानाद्वद्धाङ्गुलयवादि न्यूनम् अतिरिक्तं वा विधाय ज्वजायः साधनीयः । विस्तारे दैर्घ्यगुणिते अष्टभिर् विभक्ते यद्य् एकः परिशिष्यते तदा ध्वजाय इति ।
खाते ऽधिके भवेद् रोगी हीने धेनुधनक्षयः ।
वक्रकुण्डे तु सन्तापो मरणं भिन्नमेखने ॥
मेखलारहिते शोको ऽभ्यधिके वित्तसङ्क्षयः ।
[१३४] भार्याविनाशनं प्रोक्तं कुण्डे योन्या विना कृते ॥
अपत्यध्वंसनं प्रोक्तं कुण्डं यत् कण्ठवर्जितम् ॥
खातहीने भवेद् रोग इत्यादिना खातादिलक्षणरहितस्य कुण्डस्यानिष्टफ्लत्वदर्शनादिदानीं खातादीनाम् एव लक्षणम् अभिधीयते । तद् यथा मोहचूडोत्तरशास्त्रे ।
चतुर्विंशतिमं भागं अङ्गुलं परिकल्प्य तु ।
चतुर्विंशाङ्गुलं हस्तं कुण्डानां परिकल्पयेत् ।
हस्तमात्रं खनेत् तिर्यग् ऊर्ध्वं मेखलया सह ॥
मुष्टिमानं शतार्धम् इत्यादिना प्रसिद्धेनैव हस्ताङ्गुलव्यवहारेण होमानुसारात् कुण्डमानम् उक्तम् । इयं तु खातादिमानकथनार्थं परिभाषा क्रियते । चिकीर्षितकुण्डक्षेत्रं चतुर्विंशतिधा विभज्य यावान् चतुर्विंशतितमो भागस् तावत् परिमाणम् अङ्गुलं परिकल्प्य चतुर्विंशत्या अङ्गुलैर् हस्तं परिकल्पयेत् । ततस् तेन हस्तेन परिमितं सर्वकुण्डानां तिर्यक्कातमानं विधायमेखलासहितस्य खातस्य तेनैव हस्तेन परिमितम् ऊर्द्ध्वमानं विदध्यात् । प्रथमेषु उक्तम् । कुण्डं जिनाङ्गुलं तिर्यगूर्ध्वं मेखलया सह । जिनाङ्गुलं चतुर्विंशत्यङ्गुलम् । प्रतिष्ठासारसङ्ग्रहे ऽपि ।
पञ्चत्रिमेखलोच्छ्रायां ज्ञात्वा शेषम् अधः खनेत् ।
विश्वकर्मणाप्य् उक्तम् ।
व्यासात् खातः करः प्रोक्तो निम्नस् तिथ्यङ्गुलेन तु ।
तिथ्यङ्गुलानि पञ्चदशाङ्गुलानि खातस्य निम्रत्वम् । उन्नता सा नवाङ्गुलैर् इति, वक्ष्यमाणत्वान् मेखलात्रयपक्षे नवाङ्गुलं प्रथममेखलयोत्सेध इत्य् उभयोश् चतुर्विंशत्यङ्गुलत्वम् । **[१३५] **कण्ठमानम् उक्तं कालोत्तरे ।
खाताद् बाह्ये ऽङ्गुलः कण्ठः सर्वकुण्डेष्व् अयं विधिः ।
खातमेखलयोर् अन्तराले अङ्गुलमानेन कण्ठम् ओष्ठापरपर्यायं (?) कुर्यात् । सारसमुच्चये ।
खाताद् बाह्याङ्गुलः कण्ठस् तद् बाह्ये मेखला क्रमात् ।
मेखलालक्षणम् उक्तं कामिके ।
क्षेत्रार्कांशेन तस्योष्ठः स्यात् तद् वेदर्तुभागतः ।
मेखला पृथुतोच्छ्रायः कुण्डाकारा तु मेखलाः ।
सर्वेषां तु प्रकर्तव्या मेखलैकात्र लाघवात् ॥
क्षेत्रस्य, अर्कांशेन, द्वादशांशेन कुण्डस्यौष्ठः कण्ठशब्दवाच्यः स्यात् तद् वेदभागतः कुण्डचतुर्थांशतो मेखलायाः पृथुता विस्तारः । तथा ऋतुभागतः षष्ठभागेन मेखलोच्छ्रायः कार्यः । पिङ्गलामते ऽपि ।
खाताद् एकाङ्गुलं त्यज्य मेखलानां स्थितिर् भवेत् ।
मेखलैकाथ वा तिस्रो भूतसङ्ख्याथ वा प्रिये ॥
भूतसङ्ख्याः पञ्चसङ्ख्याः । उक्तं च प्रथमे ।
कण्ठाङ्गुलाद् बहिः कार्या मेखलैका षडङ्गुला ।
चतुस्त्रिद्व्यङ्गुला यद् वा तिस्रः सर्वत्र शोभनाः ॥
यदा एका मेखला तदा सा विस्तारोत्सेधाभ्यां षडङ्गुला विधेया,
एका षडङ्गुलोत्सेधविस्तारा मेखला मता ।
इति पिङ्गलोक्तेः । यदा तु मेखलात्रयपक्षस् तदा क्रमेण चतुस्त्रिद्व्यङ्गुलमानाः कर्तव्याः । मोहचूद्रोत्तरे ।
मेखलात्रितयं कार्यं कोणरामयमाङ्गुलैः ।
कोणाः चत्वारः । रामाः [१३६] त्रयः । यमौ द्वौ । तत्र सर्वान्तिमा द्व्यङ्गुला । मध्यस्थाः त्र्यङ्गुलाः । कुण्डकण्ठसन्निहिता चतुरङ्गुला इति । सत्य् एवं प्रथममेखलायाः कुण्डकण्ठाद् आरब्य नवाङ्गुल उत्सेधः स्यात् । लक्षणसङ्ग्रहे ऽपि ।
प्रथमाष्टाङ्गुला व्यासाद् उन्नता सा नवाङ्गुलैः ।
मध्यात् तु त्र्यङ्गुला बाह्ये तृतीया तु यमाङ्गुला ॥
मेखलाः पञ्च वा कार्याः षट्पञ्चाब्दित्रिपक्षकैः ॥
प्रथमकुण्डसन्निहिता आन्तरोत्सेधनवाङ्गुला बाह्ये तु चतुरङ्गुलैव । अष्टाङ्गुला चतुरङ्गुला । अब्दयः चत्वारः । पक्षौ द्वौ । योनिलक्षणम् उक्तं स्वायम्भुवे ।
मेखला मध्यतो योनिः कुण्डार्द्धा त्र्यंशविस्तृता ।
अङ्गुष्ठमनोष्ठकण्ठा कार्या श्वत्यदलाकृतिः (?) ॥
प्रागग्नियाम्यकुण्डानां प्रोक्ता योनिर् उदङ्मुखा ।
पूर्वामुखाः स्मृताः शेषा यथा शोभं समन्विताः ॥
मेखलाया गर्भदेशे कुण्डार्धदीर्घा कुण्डतृतीरांशविस्तृता योनिः कार्याः । अत्रोष्टशब्देन योन्यग्रम् उच्यते । कण्ठशब्देन च योनिमेखला । अङ्गुष्ठशब्दः अङ्गुलपर्यायः । एकाङ्गुलपरिमाण्ēन योनेर् अग्रमेखलां च कुर्याद् इत्य् अर्थः,
विस्तारो ऽष्टाङ्गुलो योनेर् अग्रम् अङ्गुलसम्मितम् ।
इति पिङ्गलोक्तेः । नारदीये ।
कुण्डत्र्यंशप्रविस्तारा योनिर् उच्छ्रयताङ्गुलम् ।
कुण्डार्धेन तु दीर्घा स्यात् कुण्डोष्ठी बोधिपत्रवत् ॥
कुण्डोष्ठीति यथा कुण्डे द्वादशांशेन ओष्ठो विहित एवं [१३७] योनेर् अपि द्वादशभागेन ओष्ठः कार्य इत्य् अर्थः । यथा कुण्डे प्रविष्ट ओष्ठो यस्या इति । बोधिपत्रम् अश्वत्थपत्रम् । त्रैलोक्यसारे ।
दीर्घात् सूर्याङ्गुलानाभिस् त्र्यंशोना विस्तरेण तु ।
एकाङ्गुलोच्छ्रिता सा तु प्रविष्टाभ्यन्तरे तथा ॥
कुम्भद्वयसमायुक्ता चाश्वत्थदलवन् मता ।
अङ्गुलमेखला युक्ता मध्ये त्व् आज्यघृतिस् तथा ॥
दक्षस्था पूर्वयाम्ये तु जलस्था पश्चिमोत्तरे ।
नवमास्यापि कुण्डस्य योनिर् दक्षदलस्थिता ॥
सूर्याङ्गुलाः द्वादशाङ्गुलाः । त्र्यंशोनेति दैर्घतृतीयांशन्यूनविस्तारा । एकेनाङ्गुलेनोच्छ्रिता तथा एकेनाङ्गुलेन कुण्डमध्ये प्रविष्टा । कुम्भद्वयसमायुक्तेति पूर्वोक्ताग्नेयकुण्डस्य तुल्याकृतेर् योनेर् बुध्नदेशस्थितं वृत्तद्वयम् एव गजकुम्भाकृतित्वात् कुम्भशब्देनोक्तम् । तेनात्र कुम्भस्थलाकृतिर् घटद्वयं मृत्पिण्डद्वयं वा स्थाप्यम् इति तद् ग्राह्यम् । अङ्गुष्ठमेखलेनेति एकाङ्गुलमानया मेखलया परिवेष्टितेत्य् अर्थः । मध्ये त्व् इति, यथा स्रुचि घृतधारणाय बलिं क्रियते तथा योनिमधे ऽपि बिलं कर्तव्यम् इत्य् अभिप्रायः । दकस्थेति, पूर्वाग्नेययाम्यकुण्डेषु दक्षिणभाग्रे उत्तराभिमुखा योनिः कार्या नैरृत्यादिकुण्डेषु तु पश्चिमभागे प्राङ्मुखा विधेयाः । नवम इति, अष्टदिक्षु कुण्डेष्व् एवं विधाय पूर्वेशानदिशोर् अन्तराले यन् नवमं कुण्डं चतुर्दिक्षु वा कुण्डचतुष्टयम् [१३८] कृत्वा ईशानदिशि यत् पञ्चमं कुण्डं तयोर् अपि दक्षिणभागे ऽपि योनिः कार्येत्य् अर्थः । बह्वृचपरिशिष्टे ।
अथाबुधः स धूमे तु जुहुयाद् यो हुताशने ।
यजमानो भवेद् अन्धः सपुत्र इति च श्रुतिः ॥
छन्दोगपरिशिष्टे कात्यायनः ।
पाण्याहुतिर् द्वादश पर्व पूर्विका
रम्भादिना चेत् स्रुचि पर्वपूरिका ।
दैवेन तीर्थेन च हूयते हविः
स्वङ्गारिणि स्वर्विषि तच् च पावके ॥
यो नर्चिषि जुहोत्य् अग्नौ व्यङ्गारिणि च मानवः ।
मन्दाग्निर् आमयावी च दरिद्रश् चैव जायते ॥
तस्मात् समिद्धे होतव्यं नासमिद्धे कथञ्चन ।
आरोग्यम् इच्छतायुश् च श्रियं आत्यन्तिकीं तथा ॥
जुहूयुश् च हुते चैवे पाणिसूर्पस्रुचादिभिः ।
न कुर्याद् अग्निधमनं कुर्यात् तु व्यजनादिना ॥
सुखेनैव धमेद् अग्निं मुखाद्ध्येषोभ्याजायत ।
नाग्निं मुखेनेति तु यल् लौकिके योजयन्ति तत् ॥
भविष्यपुराणे ।
भूमौ स्थितेन पात्रेण विष्टब्देन च पाणिना ।
वामेन यदुर्शार्दूल नान्तरीक्षे तु हूयते ॥
धनायुर् दाररेखासु सोमतीर्थं तु मध्यमम् ।
लाजादिहवनं तेन कर्तव्यं वपनं तथा ॥
वपनं व्रीह्यादिनिर्वापः । वायुपुराणे ।
कण्डनं पेषणं चैव तथैवोल्लखनं सदा ।
[१३९] सकृद् एव पितॄणां स्याद् देवानां तत् त्रिर् उच्यते ॥
मरीचिः ।
प्रागग्राः समिधो ग्राह्या अखर्वानौष्ठपाटिताः ।
काम्येषु वशकर्मादौ विपरीता जिघांसति ॥
विशीर्णा विदला ह्रस्वा वक्रा बहुशिराः कृशाः ।
समिद् इत्य् अनुवृत्तौ ब्रह्मपुराणे ।
शमीपलाशन्यग्रोधप्लक्षवैकङ्कतोद्भवा ।
अश्वत्थोडुम्बरौ बिल्वश् चन्दनः सरलास् तथा ॥
शालश् च देवदारुश् च खदिरश् चेति याज्ञिकाः ॥
छन्दोगपरिशिष्टे कात्यायनः ।
नाङ्गुष्ठाद् अधिका कार्या समित् स्थूलतया क्वचित् ।
न वियुक्तार्जवा चैव न सकीटा न पाटिता ॥
प्रादेशान् नाधिकान्यूना न तथा स्याद् विशाखिका ।
न सपर्णा समित् कार्या होमकर्मसु जानता ॥
तथा ।
यथोक्तवस्त्वसम्पन्ने ग्राह्यं तदनुकारि यत् ।
यवानाम् इव गोधूमा व्रीहीणाम् इव शालयः ॥
आज्यं द्रव्यम् अनादेशे जुहोतिषु विधीयते ।
मन्त्रस्य देवतायाश् च प्रजापतिर् इति स्थितिः ॥
अनादेशे अविधाने । मन्त्रस्य देवतायाश् च अनादेशे प्रजापतिर् देवत प्राजापत्यो मन्त्रः समस्ता व्याहृतयश् च । यत्र तु देवतोक्ता मन्तस् च नास्ति तत्र मूलमन्त्रो वेदितव्यः ।
[१४०] स चोक्तो गरुडपुराणे ।
प्रणवादि नमोऽन्तं च चतुर्थ्यन्तं च सत्तम ।
देवतायाः स्वकं नाम मूलमन्त्रः प्रकीर्तितः ॥
विष्णुधर्मोत्तरे ।
दध्यलाभे पयः कार्यं मध्वलाभे तथा गुडः ।
घृतप्रतिनिधिं कुर्यात् पयो वा दधि वा नृप ॥
पैठीनसिः- “काण्डमूलपर्णपुष्पफलप्ररोहरसगन्धादीनां सादृश्येन प्रतिनिधिं कुर्यात् सर्वालाभे यवः प्रतिनिधिर् भवति” । मैत्रायणीयपरिशिष्टे ।
दर्भाभावे काशः प्रतिनिधिः अद्येध्माः पलाशाश्वत्थखदिररोहितकोदुम्ब-राणां तदलाभे सर्ववनस्पतीनां तिलकनीपनिम्बराजवृक्षशान्मन्यरलूक-कपित्थकोविदारविभीतकश्लेष्मान्तकसर्वकण्ठकिवर्जम् । घृतम् अन्यार्थे प्रतिनिधिस् तदलाभे दधि पयो वा ।
इति मण्डपादिलक्षणम् ॥
अथ वृद्धिश्राद्धम् ।
आह शातातपः ।
नानिष्ट्वा पितृयज्ञेन वैदिकं किञ्चिद् आचरेत् ।
तत्रापि मातरः पूर्वं पूजनीयाः प्रयत्नतः ॥
अकृत्वा मातृयागं तु वैदिकं यः समाचरेत् ।
तस्य क्रोधसमाविष्टा हिंसाम् इच्छन्ति मातरः ॥
मातृगणास् तु भविष्यपुराणे निरूपिताः ।
गौरीपद्माशचीमेधासावित्रीविजयाजया ।
देवसेनास्वधास्वाहामातान्या लोकमातृकाः ॥
हृष्टिः पुष्टिस् तथा तुष्टिर् आत्मदेवतयाहस ।
[१४१] पूज्या चित्रे ऽथ वार्चायां वरदाभयप्राणयः ॥
विष्णुपुराणे ।
कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनः ।
शुभकर्माणि वालानां चूडाकर्मादिके तथा ॥
सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने ।
नान्दीमुखान् पितॄन् आदौ तर्पयेत् प्रयतो गृही ॥
जाबालः ।
यज्ञोद्वाहप्रतिष्ठासु मेक्षलावन्धमोक्षयोः ।
पुत्रजन्मवृषोत्सर्गे वृद्धिश्राद्धं समाचरेत् ॥
तेन वैदिकहोमाङ्गकेषु दर्शपूर्णमासादिषु अन्त्येषु च वचनविशेषितेषु कर्मसु वृद्धिश्राद्धम् आचणीयम् (आचरणीयम् ?) ।
तथा तुलापुरुषासीनाम् अपि यागसंशब्दनात् लोकपालावाहनमन्त्रेषु च सर्वेषु ममाध्वरम्पाहियज्ञं (?) रक्षेत्यादिशब्दप्रयोगात् सत्य् अपि दानरूपत्वे यागधर्मैर् आभवितव्यम् इति तत्रापि वृद्धिश्राद्धम् कर्तव्यम् । एवम् एव सहोमकेषु धान्यपर्वतादिष्व् अपि अनुसन्धेयाः ।
तस्य विधिम् आह कात्यायनः ।
आभ्युदिके प्रदक्षिणम् उपचारः पूर्वाह्णे ऽपि अमन्त्रपर्वं जपं ऋजवो दर्भा यवैस् तिलार्थः सम्पन्नम् इति तृप्तिप्रश्नः सुसम्पन्नम् इत्य् अनुज्ञातो दधिबदराक्षतमिश्राः पिण्डा नान्दीमुखान् पितॄन् वाचयिष्ये इति पृच्छति, वाच्यताम् इत्य् अनुज्ञातो नान्दीमुखान् पितॄन् आवाहयिष्ये इति पृच्छत्य् आवाहयेत्य् अनुज्ञातो नादीमुखाः पितरः प्रीयन्ताम् इत्य् अन्तक्षय्यस्थाने नान्दीमुखाः पितरः पितामहाः मातरो मातामहाश् च प्रीयन्ताम् इति, न स्वधां प्रयुञ्जीत युग्मान् आशयेत् । इति ।
[१४२] निगदव्याख्यातम् एतत् । श्रीमार्कण्डेयपुराणे ।
नान्दीमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् ।
प्राजापत्येन तीर्थेन यच् च किञ्चित् प्रजायते ॥
** अथ मधुपर्कः **
आह जाबालः ।
वैवाह्यम् ऋत्विजं चैव श्रोत्रियं गृहम् आगतम् ।
अर्हयेन् मधुपर्केण स्नातकं गृहम् एव वा ॥
विश्वामित्रः ।
सम्पूज्य मधुपर्केण ऋत्विजः कर्म कारयेत् ।
अपूज्य कारयेत् कर्म किन्विषेणैव युज्यते ॥
तद्विधिस् तु कात्यायनसूत्रे ।
षड् अर्घ्या भवन्त्य् आचार्या ऋत्विग्वैवाह्या राजा प्रियः स्नातक इति प्रतिसंवत्सरान् अर्हयेयुर् यक्षमाना ऋत्विजः ।
आसनम् आहार्याह । साधुभावानास् तां अर्चयिष्यामीभवन्त्म् इत्य् आहरन्ति विष्टरं पाद्यं पादार्घ्यम् उदकम् अर्घम् आचमनीयं मधुपर्कदधिमधुगृह्तम् कांस्ये कांश्येनान्यस् त्रिस् त्रिः प्राह विष्टरादीनि विष्टरं प्रतिगृह्णाति वर्ष्मोस्मि समानाम् उद्यताम् असूर्यः ।
इमन्तम् अभितिष्टामि यो माकश् चाभिदा सतीत्य् एनम् अब्युपविशति पादयोर् अन्यंविष्टर आसीनाय सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयति ब्राह्मणश् चेद् दक्षिणं प्रथमं विराजो दोहसि विराजो दोहम् अशीयमयि पाद्यायै विराजो दोह इत्य् अर्घ्यं प्रतिगृह्णात्य् आपस्थ युष्माभिः सर्वान् कामान् अवाप्नवानीति विनयन्न् अभिमन्त्रयते समुद्रं वः प्रहिणोमि स्वां योनिम् अभिगच्छत ।
अरिष्टा अस्माकं वीराणाम् आपरा सेचिमत्पय इत्य् आचामत्य् आमागन्य**[१४३]**साममीयसा सृजवर्चसा तं मां कुरुप्रियं प्रजानाम् अधिपतिं पशूनाम् अरिष्टं तनूनाम् इति मन्त्रस्य त्वेति मधुपर्कं प्रतीक्षते देवस्य त्वेति प्रतिगृह्णाति तम् । सवे पाणौ कृत्वा दक्षिणस्यानामिकया त्रिः प्रयौति नमः स्यावास्यावान्यशनेया विद्धं तत् ते निष्क्रानामीत्य् अनामिकाङ्गुष्टेन च त्रिर् निरुक्षयति तस्य त्रिः प्राश्नाति यन् मधुनो मधव्यं परमम् ॐ रूपम् अन्नाद्यन्तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्यो ऽन्नादो ऽसानीति मधुमतीभिर् वा प्रत्यृच्यं पुत्रायान्ते वासिनोवान्तरत आसीनायोच्छिष्टं दद्यात् सर्वं वा प्राश्नीयात् प्राग् वा सञ्चरेति नयेद् आचम्य प्राणान् सम्मृशति वाङ्म आस्येनसोः प्राणोक्ष्योश् चक्षुः कर्णयोः श्रोत्रं बाह्वोर् बलम् उर्वो रोजो रिष्टानि मेङ्गानि तनुस् तत्वामे महेत्याचान्तोदकाय शसेमा दायगौर् इति त्रिः प्राह प्रत्याह माता रुद्राणां दुहितावसूनां । स्वसापानाम् अमृतस्य नाभिः प्रनुवोचं चिकितुषे जनाय मागाम् अनागामद् इति वधिष्ठेति मम चमुष्य पाप्मानं । हतोमीति यद्य् आलभैताव्ययद्युत्सिसृक्षेन् मम चामुष्य च पाप्माहतम् उत्सृजत तृणान्यत्त्व् इति ब्रूयान् न त्वेवामां । सौर्धः स्याद् दधियज्ञम् अधिविवाहं कुरुतेत्य् एव ब्रूयाद् यद्य् अप्य् असकृत् संवत्सरस्य सोमे न यजेत कृतार्घ्या एवैनं याजयेयुर् नाकृतार्घ्या इति श्रुतेः ।
अस्यार्थः । आसनम् आहार्येत्यन्तं सुबोधाः । साधुभवान् इत्यादिम् अर्घ्यं प्रत्यध्येषणम् । आहरन्त्य् अर्घ्यं पितृसम्बन्धि पुरुषाभिप्रायेण बहुवचनम् । विष्टरोच्छिन्नाग्रपञ्चविंशतिकुशपत्रकृतः ।
तथा च परिशिष्टे ।
कतिभिस् तु भवेद् ब्रह्म कतिभिर् विष्टरो मतः ।
पञ्चाषद्भिर् भवेद् ब्रह्म तदर्धेन तु विष्टरः ॥
[१४४] ऊर्ध्वकेशो भवेद् ब्रह्म लम्बकेशस् तु विष्टरः ।
दक्षिणावर्तको ब्रह्म वामावर्तस् तु विष्टरः ॥
प्रथमो विष्टर उपवेशनार्थम् । पाद्यम् इति, पादार्घ्यं द्वितीयं विष्टरम् । पादार्घम् उदकं सुखोष्णम् । अर्घो व्याख्यातः । आचमनीयम् उदकम् एव मधुपर्कं दधिमधुघृतं कांशभाजने तेनैवाफिहितम् । अर्घार्घपितृव्यतिरिक्तो ऽन्य एव विष्टरादीनि त्रिस् त्रिः प्राह, विष्टरो विष्टरो विष्टरः प्रतिगृह्यताम् इत्य् एवम् । अर्घस् तो तुष्णीम् एव विष्टरं प्रतिगृह्य वर्ष्मोऽस्मीति मन्त्रेण तत्रोपविशति । पादयोर् अन्यम् इति, पादार्घेण बाध्यते ।
ततश् च पादप्रक्षालनानन्तरं द्वितीयविष्टरदानम् । तथा चोत्तरसूत्रे विष्टर आसीनाय सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयतीति, एकस्मिन् विष्टर आसीनस्य पादप्रक्षालनम् उपदिश्यते । ब्राह्मणश् चेद् अर्घो भवति तदा दक्षिणपादं प्रथमं प्रक्षालयेत् । विराजो दोहो ऽसीति मन्त्रेण जलं गृहीत्वा प्रक्षालयत्य् अर्घ्य एव, आपस्थ इति मन्त्रेण अर्घं प्रतिगृह्णाति, अर्घ्योदकं निनयत् समुद्रं व इति जपति, आचामयन्न् इति मन्त्रेणाचमति मित्रस्य स्वेति (त्वेति?) मन्त्रेण, मधुपर्कम् ईक्षते देवस्य त्वेत्य् मन्त्रेण मधुपर्कं प्रतिगृह्णाति । सर्वेषु चैतेषु त्रिस् त्रिर् एतानि द्रव्याण्य् अभिधाय प्रतिगृह्यताम् इत्य् अर्थ्यम् आहान्यः ।
अथार्घ्यो मधुपर्कपात्रं सत्ये पाणौ कृत्वा दक्षिणस्यानामिकया नमःस्यावेति मन्त्रेण मधुपर्कं त्रिः प्रयौति, मिश्रयतीत्य् अर्थः । [१४५] अनामिकाङ्गुष्ठेन च तूष्णीं त्रिर् निरूक्षति निषिञ्चतीत्य् अर्थः । चशब्दात् प्रयौति च । अतश् च प्रतियुवनम्, निरूक्षणम् एवं च निरूक्षणव्यवधानात् समन्त्रकं त्रिः प्रयुवनं विधेयम् इति सिद्ध्यति ।
यन् मधुन इति मधुमतीभिर् वा मधुपर्कं त्रिः प्राश्नीयात् । मधुपर्के च सोमे च नोच्छिष्टो भवतीति स्मरणात्, उच्छिष्टस्यैव मन्त्रपाठः । अथाचम्य वाङ्म आस्य इत्यादिभिर् मन्त्रैः प्राणायतनानि संस्पृशन् अत्र साकाङ्क्षत्वाद् अस्तीत्य् अध्याहारः । स इति च सर्वत्रानुषङ्गः ।
अरिष्टानि मेङ्गानि तनुर् इत् यत्र, सन्त्व् इत्य् अध्याहारः । आचान्तोदकाय शासम् आदाय गौर् इति त्रिः प्राहेति, आचान्तोदकग्रहणात् पुनर् आचमनम् इति केचित् । अपरे त्व् आहुः । आचान्तम् उदकं येन स आचान्तोदकः तदर्थं शस्त्रादानम् इति तादर्थ्यं च पश्वालम्भस्य तदर्थत्वाद् एतच् चार्घ्यकर्त्रा वाच्यम् । ततो माता रुद्राणाम् इति मन्त्रम् अर्घ्यः प्रतिब्रूयात् ।
अमुच्येति चार्घ्ययितुर् नाम ग्रहणम्, यद्य् आलभेत पाप्मानं घातयामीति प्रयोगः । अथ यद्य् उत्सिसृक्षेन् मम चामुष्य च पाप्माहतम् उत्सृजत तृणान्यत्व् इति ब्रूयात् ।
अत्राप्य् अर्घयितुर् नामादेशः । ॐ उत्सृजत तृणान्य् अत्तीति ब्रूयाद् इति, निगदो ऽयम् । न त्व् एवामां सोऽ र्घः स्याद् अधियज्ञम् अधिविवाहं कुरुते इत्य् एवं ब्रूयात् शेषं सुगमम् ।
अथ पुण्याहवाचनम् । आह वेदन्यासः ।
सम्पूज्य गन्धमाल्याद्यैर् ब्राह्मणान् स्वस्ति वाचयेत् ।
[१४६] धर्मकर्मणि माङ्गल्ये सङ्ग्रामाद्भुतदर्शने ॥
यमः ।
पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते ।
एत देव निरोङ्कारं कुर्यात् क्षत्रियवैश्ययोः ॥
कश्यपः- “लोके भूतिकर्मसु वै तदादीन्य् एव वाक्यानि स्युर् यथा पुण्याहं सुसमृद्धम्” इति । भूतिकर्मसु सम्पत्करकर्मसु, स्वस्तिवाचनादिष्व् इति यावत् । एतदादीनि प्रणवादीनि । पुण्याहवाचनम् उक्तं बह्वृचपरिशिष्टे ।
अवनिकृतजानुमण्डलं कमलमुकुलसदृशम् अञ्जलिं शिरस्याधाय, दक्षिणेन पाणिना सुवर्णपूर्णकलशं धारयित्वा, दीर्घानागानद्योगिरयस् स्त्रीणि विष्णुपदानि च तेन आयुःप्रमाणेन पुण्याहं दीर्घम् आयुर् अस्तु, शिवा आपः सन्तु, सौमस्यम् अस्तु, अक्षतं चारिष्टं चास्तु, गन्धाः पान्तु, माङ्गल्यं चास्तु, पुष्पाणि पान्तु, सश्रियम् अस्तु, अक्षतानि पान्तु, आयुष्यम् अस्तु, ताम्बूलानि पान्तु, ऐश्वर्यम् अस्तु, दक्षिणाः पान्तु, आरोग्यम् अस्तु, दीर्घम् आयुः शान्तिः पुष्टितुष्टिः त्रीर् यशो विद्या विनयो वित्तं बहुपुत्रं चायुष्यं चास्तु, यं कृत्वा सर्ववेदीयज्ञक्रियाकरणकर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते, तम् अहम् ओङ्कारम् आदिं कृत्वा ऋग्यजुःसामाशीर्वचनं बहुऋषिमतं समनुज्ञातभवद्भिर् अनुज्ञातः पुण्यम्, पुण्याहं वाचयिष्ये, वाच्यतां द्रविणोदा द्रविणम् अस्तु, अस्य सवितापश्चातान् नवो नवो भवति, जायमानोच्चा दिवि दक्षिणावन्तो अस्थुर् इत्य् एता ऋचः पुण्याहे ब्रूयात्, व्रतनियमतपः-स्वाध्यायशत्रुदमदानविशिष्टानां सर्वेषां ब्राह्मणानां मनः समाधीयताम्, **[१४७]** समाहितमनसः स्मः । प्रसीदन्तु भवन्तः प्रसन्नाः स्मः शान्तिर् अस्तु, पुष्टिर् अस्तु, तुष्टिर् अस्तु, वृद्धिर् अस्तु, अविघ्नम् अस्तु, आयुषम् अस्तु, आरोग्यम् अस्तु, शिवं कर्मास्तु, कर्मसिद्धिर् अस्तु, पुत्रसमृद्धिर् अस्तु, धनधान्यस्मृद्धिर् अस्तु, इष्टसम्पद् अस्तु, अनिष्टनिरसनम् अस्तु, यत् पापं तत् प्रतिहतम् अस्तु, यच् छ्रेयस् तद् अस्तु, उत्तरे कर्मण्य् अविघ्नम् अस्तु, उत्तरोत्तरम् अहर् अहर् अभिवृद्धिर् अस्तु, उत्तरोत्तरक्रियाः शुभाः सम्पद्यन्ताम्, तिथिकरण-मुहूर्तनक्षत्रसम्पद् अस्तु, तिथिकरणमुहूर्तनक्षत्रग्रहलग्नाधिदेवताः प्रीयन्ताम्, तिथिकरणे मुहूर्ते नक्षत्रे सग्रहे दैवते प्रीयेताम्, दुर्गापाञ्चाल्यौ प्रीयेताम्, अग्निपुरोगा विश्वेदेवाः प्रीयन्ताम्, इन्द्रपुरोगा मरुद्गणाः प्रीयन्ताम्, वसिष्ठपुरोगा ऋषिगणाः प्रीयन्ताम्, महेश्वरपुरोगा उमा मातरः प्रीयन्ताम्, अरुन्धतीपुरोगा एकपत्न्यः प्रीयन्ताम्, विष्णुपुरोगाः सर्वे देवाः प्रीयन्ताम्, ब्रह्मपुरोगाः सर्वे वेदाः प्रीयन्ताम् ।
ब्रह्म च ब्राह्मणाश् च प्रीयन्ताम्, सरस्वत्यः प्रीयन्ताम्, श्रद्धामेधे प्रीयेताम्, भगवई काअत्यायनी प्रीयताम्, भगवती माहेश्वरी प्रीयताम्, भगवतो ऋद्धिकरी प्रीयताम्, भगवती वृद्धिकरी प्रीयताम्, भगवती पुष्टिकरी प्रीयताम्, भगवती तुष्टिकरी प्रीयताम्, भवन्तौ विघ्नविन्यकौ प्रीयेताम्, सर्वाः कुलदेवताः प्रीयन्ताम्, सर्वाः ग्रामदेवताः प्रीयन्ताम्, हताश् च ब्रह्मद्विषः,
हता विद्विषः, हताः परिपन्थिनः, हताश् च विध्नकर्तारः, हताश् च विघ्नकराः, शत्रवः पराभवं यान्तु, शाम्यन्तु घोराणि, शाम्यन्तु पापानि, शाम्यन्तु ईतयः शुभानि वर्धन्ताम्, शिवा आपः सन्तु शिवा ऋतवः सन्तु, शिवा अग्नयः सन्तु, शिवा आहुतयः सन्तु, शिवा वन**[१४८]**स्पतयः सन्तु, शिवा आपः सन्तु, अहोरात्रे शिवे स्यातां निकामे, निकामे, नः पर्जन्यो वर्षतु । फलवत्यो न ओषधयः पच्यतां योगक्षेमो नः कल्पताम्, शुक्राङ्गारकबुध-बृहस्पतिश्नैश्वरराहुकेतुसोमसहिता आदित्यपुरोगाः सर्वे ग्रहाः प्रीयन्तां, भगवान् नारायणः प्रीयताम्, भगवान् पजन्यः प्रीयताम्, भगवान् स्वामी महासेनः प्रीयतां पुण्याहकालं वचयिष्ये, वाच्यताम् उद्गातेव शकुने सामगायसि याज्यया यजति यत् पुण्यं नक्षत्रं तद्वद् अकुवीतोपन्यूषं यदा वै सूर्य उदेति अधनक्षत्रं नैति यावति तत्र सूर्यो गच्छेत् यत्र जघन्यं पश्येत् तावत् कुर्वीत यत् कारीस्यात् पुण्याह एवं कुरुते तानि यानि एतानि यमनक्षत्राणि यान्य् एव देवनक्षत्राणि तेषु कुर्वीत यत् कारीस्यात् पुण्याह एवं कुरुते पुण्याहं भवन्तो ब्रूवन्तु औम् पुण्याहं स्वस्तये वायुम् उपब्रुवामहे आदित्य उदितीय, स्वस्तिन इन्द्रो वृद्धश्रवाः स्वस्तिनः पूषा विश्ववेदाः स्वस्तिनस् तार्क्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ।
अष्टौ देव वसवः सोम्यासः चतस्रो देव्योरजसा श्रविष्टाः ते यज्ञं पान्तु रजसः पुरस्तात् संवत्सरीणम् अमृतं स्व्स्ति ।
स्वस्ति भवन्तो ब्रुवन्तु । आयुष्मते स्वस्ति ऋद्ध्यामस्तोमं सर्वाम् ऋद्धिम् ऋद्ध्यास्म हव्यैर् न्भसोपसद्यमित्रं देवं मित्रधेयन्नो असु अनुराधानहविषा वर्धयन्तः शतं जीवेम शरदः सनीलास् त्रीणि त्रीणि वै देवानाम् र्द्ध्यानि त्रीणि छन्दांसि त्रीणि सवनानि त्रय इमे लोकासद्व्याम् एव तद्वीर्य एषु लोकेषु प्रतितिष्ठति ऋद्धिं भवन्तो ब्रुवन्तु ऋद्ध्यतां श्रिये जातः श्रिय एत्विनं यस्मिन् ब्रह्माध्यजयत् सर्वम् एतद् अमुं च लोकम् इदम् ऊचसर्वं तन् नो न**[१४९]**क्षत्रम् अभिजिद्विजित्यश्रियं दधात्व् अरुणीयमान अदबुध्नीयमन्त्रं मे गोपाय यम् ऋषयस् त्रयीविदो विदुः यजुः ऋचः सामानि यजूंषि सा हि श्रीर् अमृतायतां श्रीर् अस्त्व् इति भवन्तो ब्रुवन्तु अस्तु श्रीः पुण्याहसमृद्धिर् अस्तु भगवान् प्रजापतिः प्रीयताम् ।
इति श्रीमहाराजाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वरसकल-
विद्याविशारदश्रीहेमाद्रिविरचिते चतुर्वर्गचिन्तामणौ
दानखण्डे परिभाषाप्रकरणम् ॥
[१५०]
चतुर्थो ऽध्यायः
अथ दानफलानि
आचारैः स्पृहणीयतां गमयता जन्म द्विजन्मान्वयं
कीर्तेः सर्वपथीनतां रचयता तैस् तैर् गुणानां गणैः ।
तत् किञ्चित् परमं महः कलयता मीमांसया छन्दसां
येनोच्चैःफलदायिदानमहिमन्य् आत्मेव दृष्टान्त्यते ॥
यो हेमादिः शिवं स्तौति सर्वदानागमोदितम् ।
सो ऽद्य दानफलं प्राह सर्वदानागमोदितम् ॥
तत्र सामवेदोपनिषदि ।
दानेन सर्वान् कामान् अवाप्नोति, चिरजीवित्वं ब्रह्मचारी (?) रूपवान् अहिंस्र उपपद्यते, स्वर्गं पर्णाशनात् द्विचरः पद्यो भक्षस्थानवीरासनाद् वित्तवान् पितृमातृगुरुशुश्रूषाध्यानवान् स्वर्गीयः काञ्चनदानेन । इति ।
आह भगवान् ऋग्वेदः ।
उच्चा दिवि दक्षिणावन्तो अस्थुर् ये अश्वदाः सह ते सूर्येण ।
हिरण्यदा अमृतत्वं भजन्ते वासोदाः सोम प्रतिरन्त आयुः ॥ इति ।
हारीतः ।
आपो ददत् तृषम् अभिजयत्य् आत्मानं च निष्क्रीणाति । **[१५१]** अन्नदानाद् असून् निष्क्रीणाति अन्नवान् अन्नादो ऽन्नपतिश् च भवति । वस्त्रदानाद् वचो निष्क्रीणाति सुरूपो ऽनग्नो वस्त्रभाग् भवति । हिरण्यप्रदानात् तेजो निष्क्रीणाति सुतेजाः श्रीमान् हिरण्यबाग् भवति । गोप्रदानाद् वाचो निक्रीणाति सुवाग् विपाप्मा गोभाक् च भवति । अनडुत्प्रदानात् प्राणान् निष्क्रीणात्य् अरोगो बलवान् धुर्यभाक् च भवति । रथप्रदानाच् छरीरं निष्क्रीणाति भृत्यविविधविमानभाग् भवति । शय्याप्रदानात् सुखं निष्क्रीणाति यानशयनासनविविधसुखश्रीभाग् भवति । अपरिमितप्रदानाद् अप्रिमिततोषं पुष्णाति अपरिमितान् कामान् अवाप्नोति ।
तद् द्विविधं भवति अविज्ञातदानं च विज्ञातदानं च । यद् अविज्ञातविदुषे तद् अविज्ञातं दानम् । अथ यद् विज्ञातविदुषे सब्रह्मचारिणे वैश्वानरम् आददानाय यद् ददाति प्रतिगृह्णाति च तद् विज्ञातदानम् । तद् अप्य् एतद् यजुष्युक्तम् (इदं कस्मा अदाद् इति) ।
आत्मानं निष्क्रीणाति आत्मानम् एव ददातीत्य् अर्थः । अनेन प्रकारेण जलादिदानम् एव स्तूयते ।
विष्णुः-
तैजसानां पात्राणां प्रदानेन पात्री भवति कामानाम् । मधुघृततैल-दानेनारोग्यम्, औषधप्रदानेन च । धान्यप्रदानेन तुष्टिः, सस्यदानेन च तथा । इन्धनप्रदानेन दीप्ताग्निर् भवति, सङ्ग्रामे सज्जयम् आप्नोति । आसनदानेन स्थानम् । शय्यादानेन भार्याम् । उपानत्प्रदानेनाश्वतरीयुतं रथम् । क्षेत्रप्रदानेन स्वर्गम् । लातवृन्तचामरप्रदानेनादुःखित्वम् । पुष्पप्रकानेन ज्यायान् भवति । अनुलेपनप्रदानेन कीर्तिमान् भवति ॥ [विध् ९२.१५–३०]
[१५२] आह मनुः ।
वारिदस् तृप्तिम् आप्नोति सुखम् अक्षय्यम् अन्नदः ।
तिलप्रदः प्रजाम् इष्टां दीपदश् चक्षुर् उत्तमम् ॥
भूमिदः सर्वम् आप्नोति दीर्घम् आयुर् हिरण्यदः ।
गृहदो ऽग्राणि वेश्मानि रूप्यदो रूपम् उत्तमम् ॥
वासोदश् चन्दसालोक्यम् अश्विसालोक्यम् अश्वदः ।
अनडुद्दः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥
यानशय्याप्रदो भार्याम् ऐश्वर्यम् अभयप्रदः ।
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम्॥
ब्रह्मसार्ष्टितां ब्रह्मसमानगतित्वम् । याज्ञवल्क्यः ।
भूदीपाश्वान्नवस्त्राम्भस्तिलसर्पिःप्रतिश्रयान् ।
नैवेशिकस्वर्णधूर्यान् दत्वा स्वर्गे महीयते ॥
गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् ।
यानं वृक्षं श्रियं शय्यां दत्वात्यन्तं सुखी भवेत् ॥
प्रतिश्रयः प्रवासिनाम् आश्रयः । नैवेशिकं विवाहप्रयोजनकं द्रव्यम् । तथा ।
श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् ।
पादशौचं द्विजोच्छिष्टमार्जनं गोप्रदासमम् ॥
यमः ।
दत्वा प्रतिश्रयं लोके तथा दत्वैव चाभयम् ।
तथा दत्वा क्षितिं विपेर् ब्रह्मलोके महीयते ॥
छत्रदो गृहम् आप्नोति गृहदो नगरं तथा ।
तथोपानत्प्रदानेन रथम् आप्नोत्य् अनुत्तमम् ॥
इन्धनानां प्रदानेन दीप्ताग्निर् भुवि जायते ।
गवां ग्रामप्रदानेन सर्वपापैः प्रमुच्यते ॥
[१५३] रुक्मदः सर्वम् आप्नोति रूप्यदो रूपम् उत्तमम् ।
वासोदश् चन्द्रसालोक्यं सूर्यसालोक्यम् अश्वदः ॥
राजोपकरणं दत्वा रत्नानि विविधानि च ।
नगरं च तथा दत्वा राजा भवति भूतले ॥
तथा ।
देवमाल्यापनयनं देवागारसमूहनम् ।
अर्चनं चैव विप्राणां द्विजोच्छिष्टापकर्षणम् ॥
पादशौचप्रदानं च प्रकल्प्य परिचारणम् ।
पादाभ्यङ्गप्रदानं च श्रान्तसंवाहनं तथा ॥
गवां कण्डूयनं चैव ग्रासदानाभिवन्दने ।
भिक्षादीपप्रदानं च तथैवातिथिपूजनम् ॥
एकैकस्य फलं प्राह गोप्रदानसमं यमः ।
यस् तु सम्भृत्य सम्भारं ब्राह्मणेभ्यः प्रयच्छति ॥
तस्य पुण्यकृतान् लोकान् न वक्तुं प्रभवाम्य् अहम् ॥
सम्भारो यज्ञविवाहाद्युपकरणद्रव्यम् ।
फलमूलानि पानानि शाकानि विविधानि च ।
यानानि दत्वा विप्रेभ्यो मुदायुक्तः सदा भवेत् ॥
तथा ।
धान्योदकप्रदायी च सर्पिर्दः सुखम् अश्नुते ।
विप्रेभ्यः पादुके दद्याच् छयनान्य् आसनानि च ॥
विविधानि च दानानि दत्वा च नृपतिर् भवेत् ॥
तथा ।
अन्नदस् तु भवेच् छ्रीमान् सुतृप्तः कीर्तिमान् अपि ।
तैलम् आमलकं यच्छन् पादाभ्यङ्गं तथैव च ।
नरः सुतृप्तस् तेजस्वी सुखवांश् चैव जायते ॥
[१५४] तथा ।
मृत्तिकां गोशकृद् दर्भान् उपवीतं तथोत्तरम् ।
दत्वा गुणवते विपेर् कुले जायेत चोत्तमे ॥
सुखवासं तु यो दद्याद् दन्तधावनम् एव च ।
शुचिः स्यात् सुभवो वाग्मी सुखी चैव सदा भवेत् ॥
पादशौचं तथा यानं शौचं च गुदलिङ्गयोः ।
यः प्रयच्छति विप्राय शुचिः शुद्धः सदा भवेत् ॥
गन्धौषधम् अथाभ्यङ्गं माक्षिकं लवणं तथा ।
यः प्रयच्छति विप्राय सौभाग्यं सत् उ विन्दति ॥
अत्रिः ।
दुर्भिक्षे अन्नदाता च सभिक्षे च हिरण्यदः ।
पानीयदस् त्व् अरण्ये च ब्रह्मलोके महीयते ॥
देवलः ।
श्रान्तायान्नप्रदः स्वर्गं विमानेनाधिरोहति ।
प्राप्नोति दशगोदानफलं रोगिप्रतिक्रियः ॥
प्रक्षाल्य पादौ विप्राय लभेत् गोदानजं फलम् ।
चन्दनं तालवृन्तं च फलानि कुसुमानि च ॥
ताम्बूलम् आसनं शय्यां दत्वात्यन्तसुखी भवेत् ॥
कात्यायनः ।
पादाभ्यङ्गैः शिरोभ्यङ्गैर् दानमानार्चनादिभिः ।
मृष्टवाक्यैर् विशेषेण पूजनीया द्विजोत्तमैः ॥
वायुपुराणे ।
चन्दनानां प्रदातारः शङ्खानां मौक्तिकस्य च ।
पापकर्तॄन् अपि पितॄंस् तारयन्ति यथाश्रुतिः ॥
महाभारते ।
दासीं दासम् अलङ्कारं क्षेत्राणि च गृहाणि च ।
ब्रह्मदेयां सुतां दत्वा स्वर्गम् आप्नोत्य् असंशयम् ॥
लभते च शिवस्थानं बलिपुष्पप्रदो नरः ।
[१५५] तथा ।
धुर्यप्रदानेन गवां तथाश्वैर्
लोकान् अवाप्नोति नरो वसूनाम् ।
छत्रप्रदानेन गृहं वरिष्ठं
यानं तथोपानहसम्प्रदानात् ॥
वस्त्रप्रदानेन फलं सुरूपं
गन्धप्रदानात् सुरभिर् नरः स्यात् ।
भिक्षान्नपानीयरसप्रदाता
प्राप्नोति सर्वांश् च रसान् प्रकामान् ॥
प्रतिश्रयाच्छादनसप्रदाता
प्राप्नोति तान्य् एव न संशयो ऽत्र ।
स्रग्धूपगन्धानुविलेपनानि
स्नानि माल्यानि च मानवो यः ॥
दद्याद् द्विजेभ्यः स भवेद् अरोगस्
तथाभीरूपश् च नरेन्द्रलोके ॥
तथा ।
चन्दनागुरुधूपांश् च विप्रेभ्यो यः प्रयच्छति ।
ताम्बूलं च स्रजं चैव स स्वर्गं प्रव्रजेन् नरः ॥
तिलान् ददच् च पानीयं दीपम् अन्नप्रतिश्रयम् ।
सतां स्वर्गेप्सुनाम् एतत् सूनृतानि वचांसि च ॥
सान्त्वदः सर्वम् आप्नोति सर्वशोकैर् विमुच्यते ।
प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति ॥
आदित्यपुराणे ।
धर्मशास्त्रप्रदातारः सत्रदानरताश् च ये ।
तीर्थतडागकूपादिनौकासेतुप्रदाश् च ये ॥
स्कन्धेन तारयेद् यस् तु तृषार्तानां जलप्रदः ।
पक्वान् ददाति केदारान् सफलांश् चैव पादपान् ॥
षष्टिकोटिसहस्राणि अर्बुदानां च वै त्रयम् ।
क्रीडन्ति ते स्वर्गपुरे एतद् उक्तं द्विजोत्तम ॥
तथा ।
अश्वं वा यदि वा युग्यं शोभने वाथ पादुके ।
ददाति यः प्रदानं वै ब्राह्मणेभ्यः सुसंयतः ॥
तस्य दिव्यानि यानानि रथा ध्वजपताकिनः ।
दुष्टः पन्था न चैवेह भविष्यति कथञ्चन ॥
[१५६] अन्नपानाश्वगोवस्त्रछत्रशय्यासनानि च ।
प्रेतलोके प्रशस्तानि दानान्य् अष्टौ विशेषतः ॥
लिङ्गपुराणे ।
वस्त्रं जलं पवित्रं च दत्वाथ शिवयोगिने ।
स महाभोगम् आप्नोति अन्ते योगं च शाश्वतम् ॥
आसनं शयनं यानं यो ददाति यशस्विने ।
समं सर्वेषु भूतेषु तस्य दुःखं न विद्यते ॥
कालिकापुराणे ।
अभ्यङ्गम् इन्धनं नीरं शयनासनम् एव च ।
दद्याद् गवाह्निकं चैव तम् उद्दिश्य दिने दिने ॥
कायिनाम् अन्नदानं तु तद् उद्दिश्य निवेदयेत् ।
अथ वा किं प्रलापेन यत् किञ्चित् सुकृतं भुवि ॥
कुर्वंस् तत् पदम् आप्नोति शिवम् उद्दिश्य लीलया ॥
देवीपुराणे ।
द्रव्यं भूहेमगोधान्यं तिलवस्त्रघृतादिकम् ।
विधिना चोपवासेन एकान्ननक्तभोजनात् ॥
शुचिना भावपूतेन क्ष्यान्त्या(?) सत्यव्रतादिना ।
अपि सर्षपमात्रस्य दातारं तारयेद् ददत् ॥
आदित्यपुराणे ।
अथान्नदानाद् भूदानात् प्रीतो भवति केशवः ।
गुडक्षीरघृतैर् वस्त्रैः प्रीतो भवति चन्द्रमाः ॥
जलदानाच् च वरुणः सुप्रसन्नो भवेत् सदा ।
रजतेन च दत्तेन प्रीतः स्याच् च महेश्वरः ॥
सुवर्णेन तु दत्तेन वह्निर् नित्यं प्रसीदति ।
हस्त्यश्वरथयानैश् च मघवान् आसनैस् तथा ॥
शयनैर् वेश्मभिर् धर्मस्(स्?)ऊत्रेणोष्णांशुर् एव च ।
उपानद्भ्यां यमो गोभिः सौरभेयः कपर्दिनः ॥
[१५७] पादुकाभ्यां प्रदत्ताभ्यां पद्मयोनिः प्रतुष्यति ।
अलङ्कारैस् तथामान्यैर् जगन्माता च पार्वती ॥
स्कन्दपुराणे ।
यो गां च महिषीं दद्यात् सालङ्कारां पयस्विनीम् ।
कांश्यवस्त्रादिभिर् युक्तां स कामान् लभते ऽखिलान् ॥
सौरपुराणे ।
कृष्णाजिनं च महिषीमेषौ च दशधेनवः ।
ब्रह्मलोकप्रदायिन्यस् तुलापुरुष एव च ॥
वह्निपुराणे ।
यानम् अश्वम् अनड्वाहं हेमरूप्यमणींस् तिलान् ।
ये प्रयच्छन्त्य् (?) अपापेषु निरताः सर्वदा मुने ॥
न तेषां भैरवः पन्था कदाचिद् अपि जायते ॥
विष्णुधर्मोत्तरे हंस उवाच ।
नरस् त्व् आसनदानेन स्थानं सर्वत्र निन्दति ।
शय्यादानेन चाप्नोति भार्यां ब्राह्मणसत्तमाः ॥
दत्वा द्विजाय शयनं स्वास्तीर्णं चोत्तरछदम् ।
कुले महति सम्भूतिं रूपद्वविणसंयुताम् ॥
तथा पक्षवतीं भार्यां प्राप्नोति वशगां तथा ।
अनेनैव प्रेअदानेन भार्या पतिम् अवाप्नुयात् ॥
वितानकप्रदानेन सर्वपापैः प्रमुच्यते ।
छत्रदश् च तथा विप्रो नात्र कार्या विचारणा ॥
छत्रं शतशलाकं च वृष्टेर् आतपवारणम् ।
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥
याम्यं मार्गं तथा याति सुखेन द्विजसत्तम ।
उपानहौ तथा दत्वा श्लक्ष्णस्नेहसमन्विते ॥
रथम् अश्वतरीयुक्तं त्रिदिवं प्रतिपद्यते ।
[१५८] सर्वपापविनिर्मुक्तो याम्यं मार्गं सुखं व्रजेत् ॥
तालवृन्तप्रदानेन सर्वपापैः प्रमुच्यते ।
तथा चामरदानेन सर्वदुःखैर् विमुच्यते ॥
पादुकानां प्रदानेन गतिम् आप्नोति शोभनाम् ।
पादपीठप्रदानेन स्थानं सर्वत्र विन्दति ॥
स्नानम् एव तथाप्नोति दण्डं दत्वा द्विजातये ।
यज्ञोपवीतदानेन वस्त्रदानफलं लभेत् ॥
उष्णीषदानस्य तथा फलम् एतद् उदाहृतम् ।
दन्तकाष्ठप्रदानेन सौभाग्यं महद् आप्नुयात् ॥
मृत्तिकायाः प्रदानेन शुचिः सर्वत्र जायते ।
शौचस्नानोदकं दत्वा विरोगस् त्व् अभिजायते ॥
रोगनाशम् अवाप्नोति तथाभ्यङ्गप्रदः सदा ।
तथैवौषधदानेन रोगनाशम् अथाश्नुते ॥
स्नानीयानि सुगन्धीनि दत्वा सौभाग्यम् अश्नुते ।
अनुलेपनदानेन रूपवान् अभिजायते ॥
कायाग्निदीप्तिप्राकास्याङ्गगिं चैव तथोत्तमाम् ।
यस् तु संसाधनार्थाय ब्राह्मणाय प्रयच्छति ॥
स याति वह्निसालोक्यं शत्रुनाशं च विन्दति ।
तैजसानि तु पात्राणि दत्वा सलवणानि च ॥
तैजसानि तु पात्राणि सतैलानि प्रयच्छतः ।
आरोग्यम् उत्तमं प्रोक्तं लावण्यम् अपि चोत्तमम् ॥
तथा ।
समुद्रजानां भाण्डानां शङ्खादीनि प्रदायकः ।
पात्री भवति कामानां यशसश् च न संशयः ॥
[१५९] कङ्कतस्य प्रदानेन परां बाधां प्रमुञ्चति ।
शय्याप्रदानं लोकेषु तथा स्नानकरं परम् ॥
दत्वानुलेपनं माल्यं परां लक्ष्मीम् उपाश्नुते ॥
तथा ।
नृवाह्यं पुरुषो यस् तु द्विजे सम्यक् प्रयच्छति ।
अश्वमेधफलं तस्य कथितं द्विजसत्तमाः ॥
शिविकायाः प्रदानेन वह्निष्टोमफलं भवेत् ।
स याति शक्रसालोक्यं यस् तु योधं प्रयच्छति ॥
यस् तु कर्मकरीं दासीं ब्राह्मणाय प्रयच्छति ।
लोकास् तु सुलभास् तस्य वसूनां समुदाहृताः ॥
तरुणीं रूपसम्पन्नां दासीं यस् तु प्रयच्छति ।
सो ऽप्सरोभिर् मुदायुक्तः क्रीडते नन्दते वने ॥
उष्ट्रं वा गर्दभं वापि यः प्रयच्छति तु द्विजाः ।
अलकां च समासाद्य यक्षेन्द्रैः सह मोदते ॥
दानानाम् उत्तमं प्रोक्तं प्रदानं तुरगस्य च ।
वडवायाः प्रदानं तु तथा बहुफलं स्मृतम् ॥
तुरगान् यः प्रयच्छन्ति सूर्यलोकं व्रजन्ति ते ।
यावन्ति तस्य रोमाणि तावद् वर्षशतानि च ॥
शुक्लं तुरङ्गमं दत्वा फलं दशगुणं भवेत् ।
गौर् यथा कपिला श्रेष्ठा तथैव तुरगः सितः ।
तुरङ्गमं सुपर्वाणं सालङ्कारं प्रयच्छतः ॥
पुण्डरीकफलं प्रोक्तं नात्र कार्या विचारणा ।
चतुर्भिस् तुरगैर् युक्तं सर्वोपकरणैर् युतम् ॥
रथं द्विजातये दत्वा राजसूयफलं लभेत् ।
[१६०] प्रदाय करिणीं सम्यग् एत देव फलं लभेत् ॥
कुञ्जरस्य प्रदानेन मनुष्यः स्वर्गविच्युतः ।
राजा भवति लोके ऽस्मिन् यशोविक्रमसंयुतः ॥
सुवर्णकक्षं मातङ्गं दत्वा विप्राय वै द्विजाः ।
राजसूयाश्वमेधाभ्यां फलं विन्दत्य् असंशयम् ॥
चतुर्भिः कुञ्जरैर् युक्तं रथं दत्वा द्विजातये ।
समग्रभूमिदानस्य फलं प्राप्नोत्य् असंशयम् ॥
तथा ।
यथोक्तविधिना दद्यात् क्रीत्वा तु कपिलां नरः ।
सर्वकामसमृद्धश् च स यज्ञफलम् अश्नुते ॥
गवां लोकम् अवाप्नोति कुलम् उद्धरति स्वकम् ।
वारुणं लोकम् आप्नोति दत्वा च महिषीं ततः ॥
अलङ्कृतां तु तां दत्वा गोदानफलम् आप्नुयात् ।
अजाम् अलङ्कृतां दत्वा वह्निलोके महीयते ॥
तम् एव लोकम् आप्नोति दत्वाजं विधिवन् नरः ।
महिषस्य प्रदानेन याम्ये लोके महीयते ॥
वारुणं लोकम् आप्नोति दत्वा रत्नं नृपोत्तम ।
घृष्टिप्रदानाच् तथा तद् एव फलम् अश्नुते ॥
आरण्यपशुदानेन वायुलोके महीयते ।
एत देव फलं प्रोक्तं प्रदानेन च पक्षिणाम् ॥
ब्रह्मपुराणे ।
लोके श्रेष्ठतमं सर्वम् आत्मनश् चापि यत् प्रियम् ।
सर्वं पितॄणां दातव्यं तेषाम् एवाक्षयार्थिना ॥
जाम्ग्रनदमयं दिव्यं विमानं सूर्यसन्निभम् ।
दिव्याप्सरोभिः सम्पूर्णम् अन्नदो लभते ऽक्षयम् ॥
[१६१] आच्छादनं तु यो दद्याद् अहतं श्राद्धकर्मणि ।
आयुःप्रकाशम् ऐश्वर्यं रूपं च लभते शुभम् ॥
यज्ञोपवीतं यो दद्यात् पादुके श्राद्धकर्मणि ।
शोभनं लभते यानं पादयोः सुखम् एव च ॥
व्यजनं तालवृन्तं च दत्वा विप्राय सत्कृतम् ।
प्राप्नुयात् तल्पसंयुक्तं शयनीयं सुखावहम् ॥
श्राद्देषूपानहौ दत्वा ब्राह्मणेषु सदा भुवि ।
दिव्यं स लभते चक्षुर् वाजियुक्तं रथं तथा ॥
श्रेष्ठं छत्रं च विमलं पुष्पमालाविभूषितम् ।
प्रासादस् तूत्तमो भूत्वा गच्छन्तम् अनुगच्छति ॥
शरणं रत्नसम्पूर्णं सशय्यासनभाजनम् ।
श्राद्धे दत्वा पितृभ्यस् तु नाकपृष्ठे महीयते ॥
मुक्तावैदूर्यवासांसि रत्नानि विविधानि च ।
लवणानां सुपूर्णानि श्राद्धे पात्राणि यो ददेत् ॥
रसास् तम् अनुतिष्टन्ति आयुः सौभाग्यम् एव च ।
पात्रं वै तैजसं दत्वा मनोज्ञं श्राद्धकर्मणि ॥
पात्रं भवति कामानां विद्यानां च धनस्य च ।
राजतं काञ्चनं चैव दद्याच् छ्राद्धे तु कर्मणि ॥
प्रभूतं लभते दाता प्राकाम्यां धनम् एव च ।
धेनुं श्राद्धेषु यो दद्याद् गृष्टिं कुम्भोपदोहनाम् ॥
गावस्तम् अनुतिष्ठन्ति गवां पुष्टिस् तथैव च ।
गन्धवन्ति विचित्राणि स्नानानि सुरभीणि च ॥
पूजयित्वा तु पात्राणि श्राद्धे सत्कृत्य दापयेत् ।
[१६२] गन्धवहा महानद्यः सुखानि विविधानि च ॥
दातारम् उपतिष्ठन्ति पुनन्त्य् अश्वपतिव्रताः ।
शयनासनयानानि भूमयो वाहनानि च ॥
दातारस् उपतिष्ठन्ति तथा स्वर्गे महीयते ।
श्राद्धेष्व् एतानि यो दद्यात् सो ऽश्वमेधफलं लभेत् ॥
सर्पिःपूर्णानि पात्राणि श्राद्धे सत्कृत्य दापयेत् ।
कुम्भदोहनक्षीराणां सहस्रं लभते गवाम् ॥
रम्यान् आवसथान् दत्वा राजसूयफलार्धभाक् ।
तथाभरणसम्पूर्णां सोपधानां स्वलङ्कृताम् ॥
शय्यां च विविधां दत्वा द्विजो ऽग्निष्टोमभाग् भवेत् ।
दासीं दासं च विविधं तथैवोष्ट्रम् अजाविकम् ॥
हस्त्यश्वरथयानं च श्राद्धकर्मणि नित्यशः ।
तिलांश् च विविधान् दत्वा लभते फलम् अक्षयम् ॥
पितृकर्मणि युक्तस् तु शालिशोभनपुण्यकृत् ।
घनपुष्पं फलोपेतं दत्वा शोभनम् अश्नुते ॥
कूपारामतडागानि क्षेत्रयोषगृहाणि च ।
दत्वा तु मोदते स्वर्गे नित्यम् आचन्द्रतारकम् ॥
स्वास्तीर्णं शयनं दत्वा श्राद्धे रत्नविभूषितम् ।
पितरस् तस्य तुष्यन्ति स्वर्गे चानन्त्यम् अश्नुते ॥
पदकौशेयपत्रोर्णं तथा प्रच्छादकम्बलम् ।
अजिनं रौरवपदं पावनं मृगरोमजम् ॥
दत्वा चैतानि विप्रेभ्यो भोजयित्वा यथाविधि ।
प्राप्नोति श्रद्दधानस् तु हयमेधस्य यत् फलम् ॥
[१६३] कौशेयक्षौममार्गं च दुकूलम् अहतं तथा ।
श्राद्धेष्व् एतानि यो दद्यात् कामान् प्राप्नोत्य् अनुत्तमान् ॥
पक्वान्नानि करम्भं च मिष्टान्नघृतशर्कराः ।
कुशरा मधुपर्कं च पयः पायसम् एव च ।
स्निग्धम् उष्णं च यो दद्याज् जोतिष्टोमफलं लभेत् ॥
महाभारते ।
वस्त्राभरणदातारो भक्तपानान्नदास् तथा ।
कुटुम्बान्नप्रदातारः पुरुषाः स्वर्गगामिनः ॥
सहस्रपरिवेष्टरः तथैव च सहस्रदाः ।
त्रातारश् च सहस्राणां ते नराः स्वर्गगामिनः ॥
सुवर्णस्य च दातारो गवां च भरतर्षभ ।
यानानां च प्रदातारस् ते नराः स्वर्गगामिनः ॥
वैवाहिकानां प्रेङ्खाणां प्रेक्ष्याणां च युधिष्ठिर ।
दातारो वाससां चैव पुरुषाः स्वर्गगामिनः ॥
विहारावसतोद्यानकूपारामसदप्रदाः ।
प्रपाणां चैव कर्तारस् ते नराः स्वर्गगामिनः ॥
नयेत् पातात् तथा वाधाद् दारिद्र्याद् व्याधिधर्षणात् ।
यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः ॥
शुश्रूषाभिस् तपोभिश् च कृतम् आदाय भारत ।
ये प्रतिग्रहनिस्नेहास् ते नराः स्वर्गगामिनः ॥
सर्वहिंसानिवृत्ताश् च नराः सर्वसहाश् च ये ।
सर्वस्याश्रयभूताश् च ते नराः स्वर्गगामिनः ॥
आढ्याश् च बलवन्तश् च यौवनस्थाश् च भारत ।
ये वै जितेन्द्रिया धीरास् ते नराः स्वर्गगामिनः ॥
[१६४] नारसिंहपुराणे ।
एकविंशत्यमी स्वर्गा निविष्टा मेरुमूर्धनि ।
अहिंसादानकर्तारो यज्ञानां तपसां तथा ॥
एतेषु निवसन्ति स्म जनाः क्रोधविवर्जिताः ।
एकविंशतिस्वर्गा अनन्तरम् एव वक्ष्यमाणा आनन्दप्रभृतयः ।
जलप्रवेशी चानन्दं प्रमोदं वह्निसाहसे ।
भृगुप्रपाते सौरव्यं रण्ē चैवातिनिर्मलम् ॥
अनशने चाथ सन्न्यासे मृतो गच्छेत् त्रिपिष्टपम् ।
क्रतुयाजी नाकपृष्ठम् अग्निहोत्री च निर्वृतिम् ॥
क्रतुयाजी सोमयागकर्ता ।
तडागकूपकर्ता च लभते पौष्टिकं द्विज ।
सुवर्णदायी सौम्भाग्यं लभते स्वर् महातपाः ॥
शीतकाले महावह्निं प्रज्वालयति यो नरः ।
सर्वसत्वहितार्थाय स स्वर्गं चाप्सरं लभेत् ॥
हिरण्यगोभूदानेन निरहङ्कारम् आप्नुयात् ।
भूदानेन तु सुद्धेन लभते शान्तिकं पदम् ॥
गोप्रदानेन स्वर्गं तु निर्मलं लभते नरः ।
अश्वदानेन पुण्याहं कन्यादानेन मङ्गलम् ॥
द्विजेभ्यस् तर्पणं कृत्वा दत्वा वस्त्राणि भक्तितः ।
श्वेतं तु लभते स्वर्गं यत्र गत्वा न शोचति ॥
कपिला गोप्रदानेन परमार्थे महीयते ।
एकान्नभोजी यो मर्त्यो नक्तभोजी च नित्यशः ॥
उपवासी त्रिरात्राद्यैर् अन्ते स्वर्गसुखं लभेत् ।
[१६५] एकान्नभोजी एकभक्तव्रतः ।
सरित्स्नायी जितक्रोधो ब्रह्मचारी दृढव्रतः ।
निर्मलः सुखम् आप्नोति तथा भूतहिते रतः ॥
विद्यादानेन मेधावी निरहङ्कारम् आप्नुयात् ॥
ब्रह्मपुराणे ।
कर्पूरागुरुकस्तूरीचन्दनानि द्विजातये ।
दत्वा सम्यग् अवाप्नोति भोगम् अप्सरसां शुभम् ॥
रत्नालङ्कारवासांसि शयनासनभाजनम् ।
बहुभाग्यः सुखी चैव प्रदत्वा जायते नरः ॥
यो ददाति महासत्वतुरङ्गरथदन्तिनः ।
स विमानवरारूढः प्रजापतिपुरं व्रजेत् ॥
उष्ट्रोरभ्राजमहिषीं यो ददाति महायशाः ।
स नैव नरके वासम् आसादयति जातुचित् ॥
नारसिंहपुराणे ।
यस् तु सर्वाणि दानानि ब्राह्मणेभ्यः प्रयच्छति ।
स प्राप्य न निवर्तेत देवं शान्तम् अनामयम् ॥
विष्णुधर्मोत्तरे ।
किं स्वित् स्वकैः पूजनैर् ब्राह्मणानां
लोकं गत्वा ब्राह्मणं ब्राह्मणेन्द्राः ।
देवैर् विप्रैः पूज्यमानः सुखी स्यात्
तस्माद् देयं प्रार्थितं ब्राह्मणेभ्यः ॥
इति श्रीमहाराजाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वरसकल-
विद्याविशारदश्रीहेमाद्रिविरचिते चतुर्वर्गचिन्तामणौ
दानखण्डे दानफलप्रकरणम् ॥
[१६६]
पञ्चमो ऽध्यायः
अथ दानानि प्रतिपाद्यन्ते
तत्र प्रथमं विशिष्टतया तुलापुरुआदिषोडशमहादानानि ।
जाताः सन्ति पुरा भवन्ति बहवो ये दानशौण्डा नरा ।
स्तान् कल्पद्रुमकामधेनुतुलया स्तोतुं समर्था जनाः ।
तां धेनुम् अपि तद्रुमम् भुविमहादानच्छालाद् यच्छतः ।
हेमाद्रेर् उपमानवस्तनि पुनः पुष्नाति तूष्णीं न कः ॥
तुलापुरुषमुख्यनाम् अपि येन सहासहा ।
तुलापुरुषमुख्यानां दानानां विधिम् आह सः ॥
तत्र तुलापुरुषदानं तावद् अभिधीयते । मत्स्यपुराणे सूत उवाच ।
अथातः सम्प्रवक्ष्यामि महादानानुकीर्तनम् ।
दानधर्मे ऽपि यत् प्रोक्तं विष्णुना प्रभविष्णुना ॥
सर्वपापक्षयकरं नृणां दुःखविनाशनम् ।
यत् तत् षोडशधा प्रोक्तं वासुदेवेन भूतले ॥
पुण्यं पवित्रम् आयुष्यं सर्वपापहरं शुभम् ।
पूजितं देवताभिश् च ब्रह्मविष्णुशिवादिभिः ॥
पाद्यं तु सर्वदानानां तुलापुरुषसञ्ज्ञितम् ।
[१६७] हिरण्यगर्भदानं च ब्रह्माण्डं तदनन्तरम् ॥
कल्पपादपदानं च गोसहस्रं च पञ्चमम् ।
हिरण्यकामधेनुश् च हिरण्याश्वस् तथैव च ॥
हिरण्याश्वरथस् तद्वद् धेमहस्तिरथस् तथा ।
पञ्चनाङ्गलकं तद्वद् वरादानं तथैव च ॥
द्वादशं विश्वचक्रञ्च ततः कल्पलतात्मकम् ।
सप्तसागरदानं च रत्नधेनुस् तथैव च ॥
महाभूतधटस् तद्वत् षोडशः परिकीर्तितः ।
सर्वाण्य् एतानि कृतवान् पुरा शम्बरसूदनः ॥
वासुदेवश् च भगवान् अम्बरोष्ō ऽथ पार्थिवः ।
कार्तवीर्यार्जुनो नाम प्रह्लादः पृथुर् एव च ॥
चक्रुर् अन्ये महीपालाः केचिच् च भरतादयः ।
यस्माद् विघ्नसहस्रेभ्यो महादानानि सर्वदा ॥
रक्षन्ति देवताः सर्वा एकैकम् अपि भूतले ।
एषाम् अन्यतमं कुर्याद् वासुदेवप्रसादतः ॥
न शक्यम् अन्यथा कर्तुम् अपि शक्रेण भूतले ।
तस्माद् आराध्य गोविन्दम् उमापतिविनायकौ ॥
महादानमखं कुर्याद् विप्रैश् चैवानुमोदितः ।
एतद् एवाह मनवे परितुष्टो जनार्दनः ।
यथा तद् अनुवक्ष्यामि शृणुध्वम् ऋषिसत्तमाः ॥
मनुर् उवाच ।
महादानानि यानीह पवित्राणि शुभानि च ।
रहस्यानि प्रदेयानि तानि मे कथयाच्युत ॥
[१६८] मत्स्य उवाच ।
नोक्तानि यानि गुह्यानि महादानानि शोडश ।
तानि ते सम्प्रवक्ष्यामि यथावद् अनुपूर्वशः ।
तुलापुरुषयोगो ऽयं येषाम् आद्यो ऽभिधीयते ॥
आद्यः प्रकृतिभूतः ।
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।
युगादिषूपरागेषु तथा मन्वन्तरादिषु ॥
सङ्क्रान्तौ वैधृतिदिने चतुर्दश्यष्टमीषु च ।
सितपञ्चदशीपर्वद्वादशीष्व् अष्टकासु च ॥
यज्ञोत्सवविवाहेषु दुःस्वप्नाद्भुतदर्शने ।
द्रव्यब्राह्मणलाभे च श्रद्धा वा यत्र जायते ॥
तीर्थे वायतने गोष्ठे कूपारामसरित्सु च ।
गृहे वाथ वने वापि तडागे रुचिरे तथा ॥
महादानानि देयानि संसारभभीरुणा ।
अनित्यं जीवितं यस्माद् वसु चातीवञ्चलम् ॥
केशेष्व् इव गृहीतस् तु मृत्युना धर्मम् आचरेत् ।
पुण्यां तिथिम् अथासाद्य कृत्वा ब्रह्मणवाचनम् ॥
वक्ष्यमाणं मण्डपादिं कारयेद् इत्य् अन्वयः । तिथिम् इत्य् उपलक्षणम् । पूर्वाह्णे पुण्यमुहूर्तादौ चेति वेदितव्यम्, ब्राह्मणवाचनं ब्राह्मणैः पुण्याहादिशब्दवाचनम्, तद्विधानं तु परिभाषायां प्राग् अभिहितम् ।
इह चायं प्रयोगक्रमः । उक्तकालान्यतमदानप्रतिपादनदिनात् पूर्वेद्युः प्रातः सुस्नातः [१६९] श्वोभूते ऽहम् अमुकदानं प्रतिपादयिष्ये, इति यजमानः सङ्कल्पं विधाय, प्रत्यूहसमूहविघाताय शिवविष्णुविनायकान् सम्पूज्य, ब्राह्मणानुज्ञातः कर्म समारभेत्, अथ वृद्धिश्राद्धं कृत्वा तदनन्तरम् ऋत्विग्वरणं विधाय, तांश् च मधुपर्कविधिना सम्पूज्य, पश्चिमद्वारमण्डपं प्रविश्यापराह्णे ऽधिवासनं विदध्यात्, मधुपर्कविधिकुण्डमण्डपादिलक्षणानि परिभाषायां द्रष्टव्यानि । विशेषस् तु वक्ष्यते ।
षोडशारत्निमात्रं च दश द्वादश वा करान् ।
मण्डपं कारयेद् विद्वांश् चतुर्भद्राननं बुधः ॥
यजमानस्यैकविंशत्यङ्गुलः, अरत्निः चतुर्विंशत्यङ्गुलः, करः । एतच् च मानत्रयम् उत्तममध्यमाधमभेदेन विज्ञेयम् । चतुर्भद्राननम् इति चत्वारि भद्रयुक्तानि आननानि द्वाराणि यस्य स तथा । यद् आह दानसभाम् अधिकृत्य विश्वकर्मा ।
द्वारैश् चतुर्भिः परिनिर्गतैर् या
विभूषिता सुन्दरमूर्तिरूपा ।
रत्नोद्भवा सा कथिता सभेद्यं
भद्रं ह्य् अनिन्द्यं करणीयम् अस्याः ॥ इति ।
मत्स्यपुराणे ।
सप्तहस्ता भवेद् वेदी मध्ये पञ्चकराथ वा ।
तन्मध्ये तोरणं कुर्यात् सारदारुमयं शुभम् ॥
उत्तमं मण्डपे सप्तकरा वेदी, इतरयोस् तु पञ्चकरेति व्यवस्थितो विकल्पः, सा चेष्ट्कामयी चतुर्थांशोच्छ्रिता विधेया ।
तन्मध्ये तुलावलम्बानार्थं तोरणाकृतित्वात् तोरणम्, सारदारूणि, शाकेङ्गुदीत्यादि, वक्ष्यमाणानि ।
कुर्यात् कुण्डानि चत्वारि चतुर्दिक्षु विचक्षणः ।
[१७०] सुमेखलायोनियुतानि तद्वत्
सम्पूर्णकुम्भानि महासनानि ।
सताम्रपात्रद्वयसंयुतानि
सयज्ञपात्राणि सविष्टराणि ॥
हस्तप्रमाणानि तिलाज्यधूप-
पुष्पोपहाराणि सुशोभनानि ॥
चतुर्दिषु वेद्या इति शेषः । सपादहस्तसम्मितं च कुण्डवेद्योर् अन्तरं विधेयम् । पूर्णकुम्भः जलपूर्णकलशः । ताम्रपात्रद्वयं हवनीयहव्याधारभूतम् । यज्ञपात्राणि स्रुक्स्रुवादीनि । विष्टरः छिन्नाग्रपञ्चविंशतिकुशपत्रनिर्मितः । धूपः गुग्गुलप्रभृतिः । उपहारः फलान्नादिः ।
पूर्वोत्तरे हस्तमिताथ वेदी
ग्रहादिदेवेश्वरपूजनाय ।
अर्चार्चनं ब्रह्मशिवाच्युतानां
तथैव कार्यं फलमाल्यवस्त्रैः ॥
पूर्वोत्तरे ईशानभागे । आयामतो विस्तारतश् च हस्तसम्मिता वितस्तिमात्रोच्छ्रया च वेदी कार्या । तत्र मध्ये सूर्यं स्थापयेत् । आग्नेये सोमम्, दक्षिणतो भौमम्, ईशाने बुधम्, उत्तरे गुरुम्, पूर्वे भार्गवम्, पश्चिमतः शनिम्, नैरृत्यभागे राहुम्, वायव्यतः केतून् इति ।
आदिशब्दोपात्ताश् चैते, ईश्वरगौरीस्कन्दविष्णुब्रह्मशक्रयमकालचित्रगुप्ता इत्य् अधिदेवताः ।
अग्निजलभूमिविष्णुशक्रशचीप्रजापतिसर्पब्रह्माण इति प्रत्यधिदेवता एते स्वस्वग्रहणसन्निधौ स्थाप्याः ।
तथा । विनायको दुर्गा वायुर् आकाशम् अश्विनौ चेति शनिसूर्ययोर् उत्तरभागे राहुकेत्वोश् च दक्षिणे दुर्गाप्रभृतीनां स्थापनम् । तथा लोकपालादीनाम् अप्य् अत्र स्थापनम् । तेषाम् उत्तरत्र देवतात्वेनाभिधानात् ।
[१७१] तद् उक्तं स्मृत्यन्तरे ।
इन्द्रः पूर्वे तु संस्थाप्यः प्रेतेशं दक्षिणे तथा ।
वरुणं पश्चिमे भागे कुबेरं चोत्तरे न्यसेत् ॥
इन्द्रः पीतो यमः श्यामो वरुणः स्फटिकप्रभः ।
कुबेरस् तु सुवर्णाभो अग्निश् चापि सुवर्णभः ॥
तथैव निरृतिः श्यामो वायुर् धूम्रः प्रशस्यते ।
ईशानस् तु भवेद् रक्त एवं ध्यायेत् क्रमादिमान् ॥
इन्द्रस्य दक्षिणे पार्श्वे वसून् आवाहयेद् बुधः ।
ध्रुवोध्वरस् तथा सोम आपश् चैवानिलो ऽनलः ॥
प्रत्यूषश् च प्रभासश् च वसवो ऽष्टौ प्रकीर्तिताः ।
देवेशेशानयोर् मध्ये आदित्यानां तथायनम् ॥
धातार्यमा च मित्रश् च वरुणो ऽंशोभगस् तथा ।
इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः ॥
ततस् त्वष्टा ततो विष्णुर् अजघन्यो ऽजघन्यजः ।
इत्य् एते द्वादशादित्या नामभिः परिकीर्तिताः ॥
अग्नेः पश्चिमतो भागे रुद्राणाम् अयनं विदुः ।
वीरभद्रश् च शम्भुश् च गिरीशश् च महायशाः ॥
अजैकपाद् अहिर्ब्रध्न्यः पिनाकी चापराजितः ।
भूवनाधीश्वरश् चैव कपाली च विशाम्पतिः ॥
स्थाणुर् भगश् च भगवान् रुद्रास् त्व् एकादश स्मृताः ।
[१७२] प्रेतेशरक्षसोर् मध्ये मातृस्थानं प्रकल्पयेत् ॥
मातृनामानि परिभाषाप्रकरणे दर्शितानि गौरीपद्मादीनि ।
निरृतेर् उत्तरे भागे गणेशायतनं विदुः ।
कुबेरमरुतोर् मध्ये मरुतां स्थानम् उच्यते ॥
मरुतो नाम ते देव गणा वै सप्तसप्तकाः ।
आवहः प्रवहश् चैव उद्वहः संवहस् तथा ॥
विवहः प्रवहश् चैव तथा परिवहो ऽनिलः ॥ इति ।
एते सूर्यादयो ग्रहयज्ञोक्तविधिना पूजनीयाः, अनुक्तमन्त्रकाणां तु, प्रणवादिभिश् चतुर्थ्यन्तैर् नामभिर् नमोन्तैः स्थापनादि विधेयम् ॥
अथ तत्रैव ब्रह्मशिवाच्युतानाम् अर्चनं प्रतिमापूजनं च कर्तव्यम् । तल्लक्षणं ब्रह्माण्डदाने वक्ष्यते । मत्स्यपुराणे ।
लोकेशवर्णाः परितः पताका
मध्ये ध्वजः किङ्कणिकायुतः स्यात् ।
द्वारेषु कार्याणि च तोरणानि
चत्वार्य् अपि क्षीरवनस्पतीनाम् ॥
द्वारेषु कुम्भद्वयम् अत्र कार्यं
स्रग्गन्धधूपाम्बररत्नयुक्तम् ॥
लोकेशवर्णाः, इन्द्रः पीतो यमः श्याम इत्यादिनिरन्तरोक्तलोकपालसमानवर्णाः । परितः, मण्डपस्य पूर्वादिसर्वदिक्षु । किङ्किणिकाः, क्षुद्रघण्टिकाः । क्षीरवनस्पतीनाम्, अश्वत्थोदुम्बरप्लक्षन्यग्रोधानां पूर्वदक्षिणपश्चिमोत्तरद्वारेषु यथाक्रमं मस्तके दारुमयशङ्खचक्रगदापद्मचिह्नितानि तोरणानि कुर्यात् । [१७३] रत्नानि कनकप्रभृतीनि परिभाषायाम् उक्तानि ।
शाकेङ्गुदीचन्दनदेवदारु-
श्रीपर्णिविबिल्वप्रियकाञ्ज्नोत्थम् ।
स्तम्भद्वयं हस्तयुगावखातं
कृत्वा दृढं पञ्चकरोच्छितं वा ॥
तदनन्तरं हस्तचतुष्टयं स्यात्
तथोत्तराङ्गं चतुरस्रम् एव ।
शाकः वृक्षविशेषः, महाराष्ट्रे साध इति प्रसिद्धः । श्रीपर्णी भद्रपर्णी तरुः । प्रियकः बीजकः । स्तम्भद्वयं चतुरश्रीकृत्य वेदिमध्ये पूर्वपश्चिमभागयोर् निधेयम् । उत्तराङ्गं स्तम्भद्वयोर् उपरिकाष्ठम् । तच् च पञ्चकरोच्छ्रितयोः स्तम्भयोर् हस्तचतुष्टयाद् उपरि निधेयम् । अथोत्तराङ्गं च तदङ्गम् एवेति पाठे तदीयम् इति स्तम्भसजातीयकाष्ठेत्य् अर्थः ।
समानजातिश् च तुलावलम्ब्या
हैमेन मध्ये पुरुषेण युक्ता ।
दैर्घ्येण सा हस्तचतुष्टयं स्यात्
पृथुत्वम् अस्यास् तु दशाङ्गुलानि ॥
सुवर्णभद्राभरणा तु कर्या
सलोहपाशद्वयशृङ्खलाभिः ।
युता सुवर्णेन च रत्नमाला
विभूषिता माल्यविलेखनाभाः ॥
समानजातिः तोरणसमानजातिः तुलोत्तराङ्गमध्ये द्वादशभिर् अङ्गुलैर् अधस्ताद् उदगग्रा अवलम्भ्या । पुरुषेण विष्णुना । शृङ्खलावलम्बितया सुवर्णनिर्मितया । तत्प्रतिमालक्षणम् उक्तं पञ्चरात्रे ।
अधश् चक्रं गदाम् ऊर्ध्वे वामयोः करयोः क्रमात् ।
ऊर्ध्वे शङ्खम् अधः पद्मं गोविन्दः कपिलाङ्गकः ॥
हस्तचतुष्टयदीर्घं तु प्रान्तद्वयन्यस्तयोर् लोहपाशयोर् वह्निः स्थितमण्डलषट्कं विहाय विज्ञेयम् ।
[१७४] समस्ततुलाया अष्टोत्तरशताङ्गुलमितत्वात् पृथुत्वं चास्या दशाङ्गुलपरिमितेन वलयाकृतिना सूत्रेण सम्मितं विधेयम् इत्य् अर्थः । स च नोहपाशद्वयशृङ्खलाभिर् युतेति, सुवर्णधारणार्थं फलकधारिणीभिर् लोहपाशद्वयावलम्बितशृङ्खलाभिर् युक्ता कार्येत्य् अर्थः । वह्निपुराणे ।
आश्वत्थीं खादिरीं वापि पालाशीं वा सुवृक्षजाम् ।
चतुर्हस्तपर्माणेन सुश्लक्ष्णाः सुदृढां नवाम् ॥
सुवर्तुलां समां तद्वत् स्निग्धां छिद्रत्रयान्विताम् ।
मौञ्जशिक्योभयोपेतां बद्धां स्तम्भे तु यज्ञिये ॥
आह नारदः ।
चतुरस्रा तुला कार्या पादौ चापि तथा विधौ ।
चतुर्ष्व् अपि च पार्श्वेषु मानं स्याच् चतुरङ्गुलाम् ॥
मुक्त्वा तावत् तु कटकान् अन्तयोर् विन्यसेद् बुधः ।
चतुर्हस्ताधरतुला मध्ये च शृङ्खलान्विता ॥
शिक्यं हस्तत्रयं कुर्यात् कटकं चतुरङ्गुलम् ॥ इति ।
यद् आह विश्वकर्मा ।
विशेषदानं कथितं तुलादि
तस्मात् तुलालक्षणम् उच्यते प्राक् ।
तुलाप्रमाणं स्मृतम् अङ्गुलानि
दैर्घ्ये खिलेषर्ण्णवतिप्रमाणैः (?) ॥
प्रान्तद्वये ऽप्य् अङ्गुलषट्कम् उक्तं
शतं तुलाष्टोत्तरम् अङ्गुलानाम् ।
स्युर् विंशतिः पञ्च च धातुबन्धा
बन्धेष्व् अधिष्ठातृसुरां निवेश्याः ॥
ईशः शशी मारुतरुद्रसूर्याः
स्याद् विश्वकर्मा गुरुर् अङ्गिरोऽग्नी ।
प्रजापतिर् विश्वजगद्विधाता
पर्जन्यशम्भूपितृदेवताश् च ॥
सौम्यश् च धर्मामरराजमखि-
जलेश मित्रावरुणौ मरुद्गणाः ।
[१७५] धनेशगन्धर्वजलेशविष्णुर्
एते चतुर्विंशतिर् एव देवाः ॥
स्यात् पञ्चविंशः पुरुषः स एको
यस् तोल्यमानस् तुलया महत्म ।
एता विधेयास् तपनीयमध्ये
रत्नाचिता दैवतभूर्तयस् [मूर्तयस्?] ताः ॥
षडङ्गुलः स्याच् चतुरस्रपिण्डः
प्रान्तद्वये विष्णुर् अनन्तनामा ।
तुलोर्धभागे कलशद्वयं स्यात्
तथाङ्कुटद्वन्द्वम् अधस् तुलान्ते ॥
षडङ्गुलोत्थं कटकश् च पिण्डो ऽप्य्
एकाङ्गुलो विष्णुर् अनन्तनामा ।
पार्श्वद्वयं तच्चतुरङ्गुलं स्याद्
एवं मया ते कथितं प्रमाणम् ॥
मध्याङ्कुटे सङ्कलिकाङ्गुलानि
पञ्चाशताविंशतिर् एव दैर्द्यै (?)।
एकाङ्गुलो ऽस्या भवतीह पिण्डस्
तत्राधिदेवः किल वासुकिः स्यात् ॥
एकैकरज्जुर् लभते ऽङ्गुलानि
त्रिःसप्ततिः पिण्डगताङ्गुला च ।
तच्चेलकद्वन्द्वम् अथाङ्गुलानि
त्रिंशत् तथा पञ्चदशाधिका स्यात् ॥
तदनुबद्धं शुभकाष्टघाटं
पिण्डेऽङ्गुलद्वन्द्वम् अथो विधेयम् ।
ओध्वाद्यर्येत्सून्य् (?)अधिदेवता स्यात्
तुलान्तरे भूमिपतिर् निवेश्या ॥ इति ।
ईशः शशीत्यादि । अत्रेश्वरचन्द्रमारुतसूर्यदेवराजजलेशानां ब्रह्माण्डदाने लक्षणं वक्ष्यते । रुद्रस्य विश्वचक्रे । विश्वकर्मरूपनिर्माणम् उक्तं विष्णुधर्मोत्तरे ।
विश्वकर्मा तु कर्तव्यः श्मश्रुलो रस्तनाधरः (?) ।
सन्दंशपाणिर् द्विभुजस् तेजोमूर्तिधरो महान् ॥
गुरुसौम्ययोः स्वरूपं नवग्रहदाने वक्ष्यते । अङ्गिरो ऽग्निमूर्तिम् आह विश्वकर्मा ।
कमण्डलुं स्रुवं चैव शक्तिं दर्भम् अपि क्रमात् ।
[१७६] कलयन्त्य् अङ्गिरो नाम्ना कराग्राणि समन्ततः ॥
पाणयश् चाग्निना सो ऽपि कलयन्ति जपस्रजम् ।
शक्तिं च पुस्तकं चैव क्रमाद् एव कमण्डलुम् ॥
एतयोश् च मिलितयोर् देवतात्वम् । प्रजापतिस्वरूपम् उक्तं सिद्धार्तसंहितायाम् ।
यज्ञोपवीती हंसस्य एकवक्त्रश् चतुर्भुजः ।
अक्षं श्रुचं स्रुवं धत्ते कुण्डिकां च प्रजापतिः ॥
विश्वदेवलक्षणं विश्वम्भरदाने वक्ष्यते । विधातृरूपं प्रजापतितुल्यम् एव, किं त्व् असौ चतुर्व्यक्तो विधेयः । पर्जन्यलक्षणम् उक्तं सिद्धार्थसंहितायाम् ।
पर्जन्यनाम विज्ञेयो गजवक्त्रत्रयान्वितः ।
यो धत्ते सर्वजीवात्मा वरं बीजं च शङ्खकम् ॥
कुठारं च पयोजं च चिन्तारत्नं महाशुचिः ।
पाशं चक्रं किशलयं कुण्डो च दशभिः करैः ॥
शम्भुः पूर्ववत्, एतयोर् अपि मिलितयोर् देवतात्वम् । पितृलक्षणम् उक्तं मयदीपिकायाम् ।
कुशपिष्टरपद्मस्थाः पितरः पिण्डपात्रिणः ।
धर्ममुर्तिर् विष्णुधर्मोत्तरे ।
चतुर्वक्त्रश् चतुष्पादश् चतुर्बाहुः सिताम्बरः ।
सर्वाभरणवान् स्वेतो धर्मः कार्यो विजानता ॥
दक्षिणे चाक्षमाला च तस्य वामे तु पुस्तकम् ।
आश्विनोर् लक्षणं हिरण्याश्वरथदाने वक्ष्यते । मित्रमूर्तिम् आह विश्वकर्मा ।
[१७७] मित्रः कमलपाणिश् च कमलासनसंस्थितः ।
द्विभुजः श्वेतमूतिश् च सर्वभूतहिते रतः ॥
वरुणस् तु पूर्ववत्, अत्रापि मिलितयोर् देवतात्वम् । मरुद्गणरूपं मरुद्गणदाने द्रष्टव्यम् । धनेशलक्षणं धान्याचलदाने । गन्धर्वरूपम् आह यमः ।
वरदो भक्तलोकानां किरीटी कुण्डलो गदी ।
कार्यः सुरूपो गन्धर्वो वीणावाद्यरतस् तथा ॥
विष्णुलक्षणम् आह विश्वकर्मा ।
प्रदक्षिणं दक्षिणाधः कराद् आरभ्य नित्यशः ।
विष्णुः कौमोदकीपद्मशाङ्खचक्रैर् अलङ्कृतः ॥
पाशीद्वयं लोहमयं च चेलकद्वयं च भूमेः पादेशमात्राद् ऊर्ध्वम् अवमलम्ब्यम् । अथ मत्स्यपुराणे ।
चक्रं लिखेद् वारिजगर्भय्क्तं
नानारजोभिर् भुवि पुष्पकीर्णम् ।
वितानकं चोपरि पञ्चवर्णं
संस्थापयेत् पुष्पफलोपशोभम् ॥
चक्रं द्वादशारं वारिवारिजगर्भयुक्तम्, मध्ये पद्मयुक्तम् । भुवि वेदिमध्ये । नानारजोभिः सितपीतादिचूर्णैः ।
अथर्त्विजो वेदविदश् च कार्याः
सुरूपवेशान्वयशीलयुक्ताः ।
विधानदक्षाः पटवो ऽनुकूला
ये चार्यदेशप्रभवा द्विजेन्द्राः ॥
गुरुश् च वेदार्थविद् आर्यदेशसमुद्भवः शीलकुलाभिरूपः ।
[१७८] कार्यः पुराणाभिरतो ऽतिदक्षः
प्रसन्नगम्भीरसरस्वतीकः ।
सिताम्बरः कुण्डलहेमसूत्र-
केयूरकण्ठाभरणाभिरामः ॥
पटवो रागरहिताः । आर्यदेशो व्याख्यातः । तत्राष्टौ ऋत्विजः, अष्टौ द्वारपालाः । जापकाश् चाष्टौ, गुरुस् चेति वरणीयाः । तथा मत्स्यपुराणे एवोक्तम् ।
शुभास् तत्राष्टहोतारो द्वारपालास् तथाष्ट वै ।
अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः ।
हेमालङ्कारिणः कार्या द्विजा वै पञ्च्विंशतिः ॥
तत्रायं प्रयोगः । अद्य अमुकदानस्य यज्ञेनाहं यक्ष्ये तत्र तदङ्गभूतहोमादि कर्म कर्तुम् अमुकसगोत्रं अमुकशर्माणम् अमुकवेदाध्यायिनम् ऋत्विजं त्वाम् अहं वृणे । तथा अद्य अमुकमहादानयज्ञेनाहं यक्ष्ये । तत्र तदङ्गभूतसकलकर्म कर्तुं कारयितुं च अमुकसगोत्रम् अमुकशर्माणम् अमुकवेदाध्यायिनम् आचार्यं त्वाम् अहं वृणे इत्यादि ज्ञेयम् । वृतो ऽस्मीति सर्वत्र प्रतिवचनम् । तद्विनियोगं च तत्रैव दर्शितः ।
गन्धपुष्पैर् अलङ्कृत्य द्वारपालान् समन्ततः ।
पठध्वम् इति तान् ब्रूयाद् आचार्यस् त्व् अभिपूजयन् ॥
यजध्वम् इति च ब्रूयाद् होतृकान् पुर एव तु ॥
उत्कृष्टमन्त्रजाप्येन तिष्ठध्वम् इति जापकान् इति ।
पूर्वेण ऋग्वेदविदौ भवेतां
यजुर्वेदौ दक्षिणतश् च कार्यौ ।
[१७९] स्थप्यौ द्विजौ सामवेदौ च पश्चाद्
आथर्वणाव् उत्तरतश् च कार्यौ ॥
विनायकादिग्रहलोकपाल-
वस्वष्टकादिव्यमरुद्गणानाम् ।
ब्रह्माच्युतेशार्कवनस्पतीनां
समन्त्रतो होमचतुष्टयं स्यात् ॥
जप्यानि सूक्तानि तथैव चैषाम्
अनुक्रमेणैव यथास्वरूपम् ॥
अयं च पूर्वादिदिग्नियमो ऋगादिवेदविदाम् ऋत्विजां द्वारपालानां च वेदितव्यः ।
विनायकादीत्यादिशब्देन, एकादशरुद्रा नवग्रहाधिदेवताः प्रत्यधिदेवता दुर्गा वायुर् आकाशाश्विनौ चेति, स्वमन्त्रतः, स्वस्ववेदमन्त्रैर् होमचतुष्टयम् इति, वेदचतुष्टयसम्बन्धाद् होमानां चतुष्टयम् । ततो गुरुणाग्निस्थापने क्र्ते स्वे स्वे कुण्डे द्वौ द्वाव् ऋत्विजौ स्वशाखोक्तमन्तैर् एकैकस्य विनायकादेर् द्वादश् द्वादश तिलाज्याहुतीर् जुहुयाताम् ।
इह तावद् द्वात्रिंशद्विनायकादयो देवाः दशलोकपालाः वस्वष्टकम् एकादशरुद्राः द्वादशादित्याः सप्त सप्त मरुद्गणाः पण्च ब्रह्मादय इत्य् एवं पञ्चाशीतिसङ्ख्येभ्यो देवेभ्यः प्रतिकुण्डं विंशत्यधिकाहुतिनियमानुपपत्तेः । तच् च परिभाषायां दर्शितम् ।
होमावसाने कृततूर्यनादो
गुरुर् गृहीत्वा बलिपुष्पधूपम् ।
आवाहयेल् लोकपतीन् क्रमेण
मन्त्रैर् अमीभिर् यजमानयुक्तः ॥
एह्य् एहि सर्वामरसिद्धसाध्यैर्
अभिष्टुतो वज्रधरामरेश ।
संवीज्यमानो ऽस्परसाङ्गणेन
रक्षाध्वरं नो भगवन् नमस् ते ॥
ॐ इन्द्राय नमः ॥
एह्य् एहि सर्वामरहव्यवाह
मुनिप्रवीरैर् अभितो ऽभितुष्टः ।
तेजोवता लोकगणेन सार्धं
ममाध्वरं रक्षतु तेन् अमस् ते ॥
[१८०] ॐ अग्नये नमः ।
एह्य् एहि वैवस्वत धर्मराज
सर्वामरैर् अर्चितधर्ममूर्ते ।
शुभाशुभानन्दशुचाम् अधीश
शिवाय नः पाहि मखं नमस् ते ॥
ॐ यमाय नमः ।
एह्य् एहि रक्षोगणनायकस् त्वं
विशालवेतालपिशाचसङ्गैः ।
ममाध्वरं पाहि शुभाधिनाथ
लिकेश्वरस् त्वं भगवन् नमस् ते ॥
ॐ निरृताय नमः ।
एह्य् एहि यादोगणवारिधीनां
गणेन पर्जन्यसहाप्सरोभिः ।
विद्याधरेन्द्रामरगीयमानः
पाहि त्वम् अस्मान् भगवन् नमस् ते ॥
ॐ वरुणाय नमः ।
एह्य् एहि यज्ञेश्वर रक्षणाय
मृगाधिरूढः सह सिद्धसङ्गैः ।
प्राणाधिपः कालकवेः सहाय
गृहाण पूजां भवन् नमस् ते ॥
ॐ वायवे नमः ।
एह्य् एहि यज्ञेश्वर यज्ञरक्षां
विधत्स्व नक्षत्रगणेन सार्धम् ।
सर्वौषधीभिः पितृभिः सहैव
गृहाण पूजां भगवन् नमस् ते ॥
ॐ सोमाय नमः ।
एह्य् एहि विश्वेश्वर नस् त्रिसुल-
कपालखट्वाङ्गधरेण सार्धम् ।
लोकेन भूतेश्वर यज्ञसिद्ध्यै
गृहाण पूजां भगवन् नमस् ते ॥
ॐ ईशानाय नमः ।
एह्य् एहि विश्वाधिपतेर् सुरेन्द्र
लोकेन सार्धं पितृदेवताभिः ।
[१८१] सर्वस्य धातास्य् अमितप्रभावो
विशाध्वरन् नः सततं शिवाय ॥
ॐ ब्रह्मणे नमः ।
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ।
ब्रह्मविष्णुशिवैः सार्धं रक्षां कुर्वन्तु तानि मे ॥
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
ऋषयो मुनयो गावो देवमातर एव च ॥
एते ममाध्वरे रक्षां प्रकुर्वन्तु मुदान्विताः ।
इत्य् आवाह्य सुरान् दद्याद् ऋत्विग्भ्यो हेमभूषणम् ॥
कुण्डलानि च सूत्राणि हैमानि कटकानि च ।
अथाङ्गुलीयं चित्राणि वासांसि शयनानि च ॥
द्विगुणं गुरवे दद्याद् भूषणाच्छादनादिकम् ।
जपेयुः शान्तिकाध्यायं जापकाः सर्वतोदिशम् ॥
उपोषितास् ततः सर्वे कृत्वैवम् अधिवासनम् ।
आदाव् अन्ते च मध्ये च कुर्याद् ब्राह्मणवाचनम् ॥
शान्तिकाध्यायः शन्न इन्द्राग्नी भवता भवोभिर् इत्यादिकः । उपवासाशक्तौ नक्तम् उक्तम् पद्मपुराणे ।
उपवासो भवेद् एव अशक्तौ नक्तम् इष्यते । इति ।
एवं पूर्वेद्युर् अधिवासनं कृत्वा सर्वे तत्रैव वसेयुः । ततः अन्येद्युर् दानकालसमीपे ब्राह्मणवाचनं विधाय पूर्णाहुतिप्रभृतिकर्मसमाप्तिं कुर्यात् । आत्ययिककार्यापत्तौ सद्यो वाधिवासनविधिः । तद् उक्तम् ।
सद्यो ऽधिवासनं वाथ कुर्याद् यो विकलो नरः । इति ।
[१८२] अथाथर्वणगोपथब्राह्मणे ।
ऋत्विग्यजमानौ केशश्मश्रुनखानि वापयित्वा सम्भारानुकल्पद्रव्यं तत् तद् आज्यभागन्तं कृत्वा अयं नो अग्निर् इति महाव्याहृतयो ब्रह्मयज्ञानम् अग्ने गोभिर् अग्नेभ्यावर्तिनग्नेः प्रजातं यदाबध्रन्नितिशान्त्युदकेन सम्पातमानीय स्नातकलशेषु निर्वपेद् इदम् आप आपोहिष्ठा बाहुभ्याम् अभिषेचयेद् यथोक्तम् अञ्जनाभ्यञ्जनानुलेपनं कारयित्वा वासो गन्धान् स्रजं चावध्याभिजिन् मुहूर्ते तुलां हिरण्यवर्णैः स्रजं चावध्याभिजिन् मुहूर्ते तुलां हिरण्यवर्णैः पवित्रैर् अभ्युक्ष्य गन्धपुष्पधूपैर् अर्चयित्वा उपहारांश् च दत्वा राजानम् आहूयार्धं दत्वा तुलाम् आरोपयेत् ।
मत्स्यपुराणे ।
ततो मङ्गलशब्देन स्वापितो वेदपुङ्गवैः ।
त्रिः प्रदक्षिणम् आवृत्य गृहीतकुसुमाञ्जलिः ॥
शुक्लमाल्याम्ब्रधरो तां तुलाम् अभिमन्त्रयेत् ॥
स्नपन्तु, कुण्डसमीपस्थितकलशोदकैः कर्तव्यम् । स्नपनमन्त्राश् च, सुरास् त्वाम् अभिशिञ्चन्त्व् इत्यादयो ग्रहयज्ञोक्ता वेदितव्याः ।
नमस् ते सर्वदेवानां शक्तिस् त्वं सर्वम् आश्रिता ।
साक्षिभूता जगद्धात्री निर्मिता विश्वयोनिना ॥
एकतः सर्वसत्यानि तथानृतशतानि च ।
धर्माधर्मकृतां मध्ये स्थापितासि जगत्प्रिये ॥
तव्ं तुले सर्वभूतानां प्रमाणम् इह कीर्तितम् ।
मां तोलयन्ती संसाराद् उद्धरस्व नमो ऽस्तु ते ॥
यो ऽसौ तत्वाधिपो देवः पुरुषः पञ्चविंशकः ।
म एषो ऽधिष्ठितो देवि त्वयि तस्मान् नमो नमः ॥
नमो नमस् ते गोविन्द तुलापुरुषसञ्ज्ञकः ।
[१८३] त्वं हरे ताययस्वास्मान् अस्मात् संसारसागरात् ॥
पुण्यकालं समासाद्य कृत्वैवम् अधिवासनम् ।
पुनः प्रदक्षिणं कृत्वा तुलां ताम् आरुहेद् बुधः ॥
सखड्गचर्मकवचः सर्वाभरणभूषितः ।
धर्मराजम् अथादाय हैमसूर्येण संयुतः ॥
कराभ्यां बद्धमुष्टिभ्याम् आस्ते पश्यन् हरेर् मुखम् ॥
धर्मराजस् तु, महिषारूढश् चतुर्भुजो दण्डापाशपाणिः कर्तव्यः । सूर्यो ऽपि सुवर्णमयः पद्मासनः पद्मधरः कार्यः । तौ च दक्षिणवाममुष्टिथौ विधाय हरेस् तुलामध्यस्थितस्य मुखं पश्येद् इत्य् अर्थः ।
ततो ऽपरि तुलाभागे न्यसेयुर् द्विजपुङ्गवाः ।
समाद् अभ्यधिकं यावत् काञ्चनं चातिनिर्मलम् ॥
पुष्टिकामस् तु कुर्वीत भूमिसंस्थं नराधिप ॥
पुष्टिकाम इति गुणफलसम्बन्धो गोदोहनेन पशुकामस्य प्रणयेद् इति तद् अवगन्तव्यम् । इह तावद् आदौ राज्ञस् तुलाधिरोहणं पश्चात् सुवर्णन्यास इत्य् उक्तम् । गोपथब्राह्मणे तु सखड्गः सशिरस्त्राणः सर्वाभरणभूषणः ।
तपनीयम् अग्रतः कृत्वा पश्चात् तोल्यो नराधिप ।
दक्षिणेन तु सुवर्णेन सुवर्णं स्याद् उत्तरेण नराधिप ॥ इति ।
ततश् चेतिहासपुराणं पञ्चमो वेद इति । तुल्यवलत्वे अनुष्ठानविकल्पः । ये तु मन्यन्ते स्मृतिवत् पुराणानीति तन्मते पूर्वं सुवर्णारोपणम् । [१८४] पश्चाद् राजारोपणम् इति ।
क्षणमात्रं ततः स्थित्वा पुनर् एवम् उदीरयेत् ।
नमस् ते सर्वभूतानां साक्षिभूते सनातनि ॥
पितामहेन देवि त्वं निर्मिता परमेष्ठिना ।
त्वया धृतं जगत् सर्वं वहिस्थावरजङ्गमम् ॥
सर्वभूतात्मभूतस्थे नमस् ते विश्वधारिणि ॥
वह्निपुराणे ।
कृत्वा तु विधिवद् धोमं सुस्नातस् तीर्थवारिणा ।
तुलां पूज्यविधानेन ब्राह्मैर् मन्त्रैश् च वैदिकैः ॥
ससुपोष्याच् अर्चयेद् देवं पीताम्बरधरं हरिम् ।
पश्चात् तद् आरुहेच् छिक्यं प्राङ्मुखोदङ्मुखो ऽथ वा ॥
जाम्बूनदेन शुद्धेन पूरयित्वा तुलां पृथक् ।
सर्वाभरणपूर्णाङ्गः सवस्त्रासनसंयुतः ॥
तत्र स्थित्वा मुहूर्तं स द्रव्यात् तिष्ठेत् समुन्नतिम् ।
जपेत् मन्त्रस् च पौराणं पुनन्तुम् इति वा तृय्चम् ॥
यथापवित्रम् अतुलम् अपत्यं जातवेदसः ।
तथा स्वेन पवित्रेण सुवर्णं हि पुनातु माम् ॥
रुद्रस्य सुमहत्तेजः कार्तिकेयस्य सम्भवः ।
तथा स्वेन पवित्रेण सुवर्णं हि पुनातु माम् ॥
यथाग्निर् देवताः सर्वाः सुवर्णं च तदात्मकम् ।
तथा स्वेन पवित्रेण सुवर्णं हि पुनातु माम् ॥
यत् कृतं मे स्वकायेन मनसा वचसा तथा ।
दुष्कृतं तत् सुवर्णस्थं पातु मुक्तिः परा शुभा ॥
इत्य् उक्त्वा तद् ऋत्विजे च दद्याच् छिष्यः स्वम् एव हि ।
[१८५] समुत्तीर्याङ्गदन्तं च गृह्णीयाद् अपरं ततः ॥
मत्स्यपुराणे ।
ततो ऽवतीर्य गुरवे पूर्वम् अर्धं निवेदयेत् ।
ऋत्विग्भ्यो ऽपरम् अर्हन्तु दद्याद् उदकपूर्वकम् ॥
गुरवे ग्रामरत्नाति ऋत्विग्भ्यश् च निवेदयेत् ॥
तत्रायं प्रयोगः ।
ॐ अद्य अमुकस्मिन् देशे अमुकस्मिन् कले अमुकसगोत्राय अमुकशर्मणे ब्राह्मणाय अनुकसगोत्रः अमुकशर्मा इदं तुलापुरुषसुवरार्धम् अमुककामस् तुल्यम् अहं सम्प्रददे नमः, एतद् दानप्रतिष्ठार्थम् इमां दक्षिणां तुल्यम् अहं सम्प्रददे नम्ः, एतद् उदकपूर्व्कं पूर्वार्धं गुरवे दद्यात्, ऋत्विग्भ्यो ऽप्य् एवम् अपरम्,
अदक्षिणं तु यद् दानं तत् सर्वं निष्फलं भवेत् ।
इति वचनाद् इह दक्षिणाप्रेक्षायां गुरवे ग्रामरत्नादीनि श्रुतं दक्षिणात्वेन सम्बध्यते ।
अथ गोपथब्राह्मणे ।
अच्युताद्योर् इति चतसृभिर् अवरोहयेत् तां तुलाम् उपसंस्कृत्य महाव्याहृतिसावित्रीशान्तिभिरहोमुपयैर् आज्यं हुत्वा सर्वस्यावृतम् इति प्रदक्षिणम् आवृत्यात्मालङ्कारं कर्त्रे दद्यात् सहस्रं दक्षिणां ग्रामवरं च । इति ।
कर्त्रे आचार्याय ऋत्विजे च ।
तत्रार्धम् आचार्यस्यार्धम् ऋत्विजाम् इति, सहस्रं दक्षिणाम् इत्, सहस्रशब्दस्यानुपात्त-सङ्ख्येयविशेषतया, मत्स्यपुराणे च रत्नानीत्य् अत्र सङ्ख्याविशेषानुपादानात् शाखान्तरे च वररत्नानां दक्षिणास्थानश्रुतेः रत्नसहस्रम् एव न्याय्यम् । तत् तु यथाशक्ति यथालाभं मुक्तादीनाम् **[१८६]** अन्यतमस्य सहस्रम् अवगम्यते, दक्षिणाधिकरणन्यायेन गवाम् इव समानजातीयानाम् एव सङ्ख्यासम्बन्धात् \
ग्रामवरं ग्रामश्रेष्टम् ।
केचित् तु गुरवे ग्रामरत्नानीत्य् अत्रापि श्रेष्टतावचनो रत्नशब्द इति व्याचक्षते । तेषां मते सर्वेषाम् एव दानानां सुवर्णं दक्षिणा स्मृतेति वचनात्, सहस्रं दक्षिणाम् इत् यत्र सुवर्णम् एव दक्षिणेत्य् अवगन्तव्यम् । सहस्रसङ्ख्याव्यवच्छेदश् च तस्य कृष्णलातप्रभृति यथाशक्ति सम्पादनीय इति ।
प्राप्य तेषाम् अनुज्ञां च तथानेभ्यो ऽपि दापयेत् ।
दीनानाथविशिष्टादीन् पूजयेत् ब्राह्मणैः सह ॥
अत्रान्यशब्देन जापका उच्यन्ते ।
विशिष्टा अब्राह्मणा अपि पितृशुश्रूषादिगुणयुक्ताः । इह तावद् अर्धं गुरवे, अर्धम् ऋत्विग्भ्यः, समस्ततुलापुरुषद्रव्यं देयम् इत्य् एकः पक्षः ।
अस्मिन् पक्षे जापकेभ्यो अन्यैव दक्षिणा दातव्या, गुर्वादीनाम् अनुज्ञया अन्येभ्यो ऽपि दद्याद् इति अपरः पक्षः ।
तत्र गुर्वादीनां प्रदेयद्रव्यपरिमाणानिर्देशे धरार्द्ध (?)
चतुर्भागं गुरवे विनिवेदयेद् इति विकृतिभूतपृथिव्यादिदानप्रकरणश्रुतं देयद्रव्यसङ्ख्यानियमो न्याय्यः ।
येन वा तुष्यते गुरुर् इति सामान्योपदिष्टम् आचरणीयं तथा दीनानाथविशिष्टेभ्यो ऽपि देयम् इति तृतीयः पक्षः ।
[१८७] अत्र यद्य् अपि विकल्पवाची शब्दो नास्ति तथापि पक्षान्तरश्रयणेनार्थाद् विकल्पः सम्पद्यते । मत्यपुराणे ।
न चिरं धारयेद् गेहे सुवर्णं प्रोक्षितं बुधः ।
तिष्ठद् भयावहं यस्माच् छोकव्याधिकरं नृणाम् ।
शीघ्रं परस्वीकरणाच् छ्रेयः प्राप्नोति पुष्कलम् ॥
ततः प्राग्वत् पुण्याहवाचने कृते देवतावेदिसमीपं गत्वा पूर्वे च देवतानां पूजादि यजमानः कुर्यात् । आचार्यस् तु –
यान्तु देवगणाः सर्वे पूजाम् आदाय पार्थिवात् ।
इष्टकाम् अप्रदानार्थं पुनर् आगमनाय च ॥
इत्य् अनेन मन्त्रेण देवतानां विसर्जनं कुर्यात् ।
अनेन विधिना यस् तु तुलापुरुषम् आचरेत् ।
प्रतिलोकाधिपस्थाने प्रतिमन्वन्तरे वसेत् ॥
विमानेनार्कवर्णेन किङ्किणीजालमालिना ।
पूज्यमानो ऽप्सरोभिश् च ततो विष्णुपुरं व्रजेत् ।
कल्पकोटिशतं यावत् तस्मिंल् लोके महीयते ॥
कर्मक्षयाद् इह पुनर् भुवि राजराजः
भूपालमौलिमणिरञ्जितपादपीठः ।
श्रद्धान्वितो भवति यज्ञसहस्रयाजी
दीप्तप्रतापजितसर्वमहीपलोकः ॥
यो दीयमानम् अपि पश्यति भक्तियुक्तः
कालान्तरे स्मरति याचयतीह लोके ।
यो वा शृणोति पठतीन्द्रमानरूपः
[१८८] प्राप्नोति धाम स पुरन्दरदेवजुष्टम् ॥
वह्निपुराणे ।
एवं दत्वा सुवर्णं च ब्रह्महत्यादिकं तु तत् ।
पापान् निहत्य पुरुषः स्वर्गलोकं च गच्छति ॥
तत्र स्थित्वा चिरं राजन् यद् आयाति महीतले ।
राजराजेश्वरः श्रीमान् वीतशोको निरामयः ॥
रूपसौभाग्यसम्पन्नो नित्यं धर्मपरायणः ।
पुनर् विष्णुपदं याति यत्र गत्वा न शोचति ॥
इति तुलापुरुषदानविधिः ।
सनत्कुमार उवाच ।
राज्ञां षोडशदानानि नन्दिन कथितानि च ।
धर्मकामार्थमुक्त्यर्थं कर्मणैव महात्मनाम् ॥
तुलाधिरोहणाद्यानि शृणु तानि यथातथं ।
ग्रहणादिषु कालेषु शुभे देशे सुशोभने ॥
विंशहस्तप्रमाणेन मण्डपं कूटम् एव वा ।
अथाष्टादशहस्तेन कलाहस्तेन वा पुनः ॥
कृत्वा वेदिं तथा मध्ये नवहस्तप्रमाणतः ।
अष्टहस्तेन वा कुर्यात् सप्तहस्तेन वा पुनः ॥
द्विहस्ताधर्धहस्ता वा वेदिका चातिश्ōभना ।
द्वादशस्तम्भसंयुक्ता साधुरम्याग्रमस्तका ॥
परितो नव कुण्डानि चतुरस्राणि कारयेत् ।
इन्द्र-ईशानयोर् मध्ये प्रधानं ब्रह्मणः सुतः ॥
अथ वा चतुरस्रं च योन्याकारम् अतः परम् ।
[१८९] स्त्रीणां कुण्डानि विप्रेन्द्र यान्याकाराणि कारयेत् ॥
अर्धचन्द्रं त्रिकोणं च वर्तुलं कुण्डम् उत्तमम् ।
षडस्रं सर्वतो वापि त्रिकोणं पद्मसन्निभम् ॥
अष्टास्रं सर्वमार्गेषु स्थण्डिलं केवलं तु वा ।
चतुर्द्वारसमोपेतं चतुस्तोरणभूषितम् ॥
दिग्गजाष्टकसंयुक्तं दर्भमालासमाश्रितम् ।
अष्टमङ्गलसंयुक्तं वितानोपरि शोभितम् ॥
तुलायाश् च द्रमाश् चाथ बिल्वाद्याश् च विशेषतः ।
बिल्वाश्वत्थपलाशाद्याः केवलं खदिरं तु वा ॥
एवं स्तम्भाः कृता येन तेन सर्वं तु कारयेत् ।
अथ वा मिश्रमार्गेण वेणना वा प्रकल्पयेत् ॥
अष्टहस्तप्रमाणं तु हस्तद्वयसमायतम् ।
तुलास्तम्भस्य विष्कम्भो नाहस्तत्रिगुणो मतः ॥
द्व्यङ्गुलेन विहीनं तु सुवृत्तं निर्व्रणं तथा ।
उभयोर् अन्तरं चैव षढस्तं नृपतेः स्मृतम् ॥
द्वयोश् चतुर्हस्तकृतम् अन्तरं स्तम्भयोर् अपि ।
षढस्तम् अन्तरं ज्ञेयं तयोर् उपरि संस्थितम् ॥
वितस्तिमात्रविस्तारं विष्कम्भस् तावद् अङ्गुलः ।
स्तम्भयोस् तु प्रमाणेन उत्तरं द्वारसम्मितम् ॥
षट्त्रिंशमात्रसंयुक्तं व्यायामं तु तुलात्मकम् ।
विष्कम्भम् अष्टमात्रं तु यवपञ्चकसंयुतम् ॥
षट्त्रिंशमात्रनालं स्यान् निर्व्रणं वर्तुलंशुभम् ।
विंशहस्तेत्यादि । कूटः मण्डापविशेषः । [१९०] कलाहस्तेन षोडशहस्तैः, विंशतिहस्तादि-मण्डलत्रये क्रमान् नवादिहस्तविस्तारस्य वेदित्रयस्य द्विहस्तो ऽध्यर्धहस्तो हस्तश् चेत्य् उच्छ्रयो विधेयः ।
विधाय मण्डपं तत्र तन्मध्ये वेदिकान् नयेत् ।
नवाष्टसप्तहस्तेन द्विहस्ताध्यर्धहस्ततः ॥
विस्तारेणोच्छ्रयेणापि द्वादशस्तम्भसंयुताम् ।
इति कामिकोक्तेः । साधुरम्याग्रमस्तकेति, समचतुरस्रत्वं समतलत्वं चोपरिभागस्य विधेयम् इत्य् अर्थः । अथ वा चतुरस्रम् इति पूर्वादिकुण्डानां क्रमाच् चतुरस्रादयो नव सन्निवेश्याः, स्त्रीणां तु यजमानत्वेन योन्याकाराण्य् एव । अथ वा यथोक्ताकारत्वेन स्थण्डिलत्वेन सर्वत्र हस्तमात्रं क्षेत्रं क्षेत्रफलं समम् एव साध्यं तच् च परिभाषायाम् उपपादितम् । वटोदुम्बराश्वत्थप्लक्षजानि चत्वाइ तोरणानि दिग्गजाष्टकं तत्तद्दिक्कालवर्णपताकाः, अष्टमङ्गलानि विश्वचक्रदाने वक्ष्यन्ते । अष्टहस्तप्रमाणं तुलास्तम्भयोर् आयतम् । आयामः, दैर्घ्यम् इत्य् अर्थः । हस्तद्वयसः [हस्तद्वयसमायतम्?], हस्तपरिमाणः तुलास्तम्भयोर् विष्कम्भ इत्य् अन्वयः । तस्मात् त्रिगुणः परिमाणः । द्व्यङ्गुलेन हीन इति, स एव परिणाहः । क्रमहान्या अग्रे अङ्गुलद्वयहीनः सम्पादनीयः । कामिके तु ।
सप्तषट्पञ्चहस्तैस् तु पार्स्वस्तम्भोच्छ्रयो मतः ।
अष्टहस्तादितश् चाथ द्विपञ्चद्वयसाङ्गुलः ॥
तुलास्तम्भस्य विष्कम्भो नाहस्तत्रिगुणो मेने ।
[१९१] द्वयाङ्गुलविहीनं तु सुवृत्तं निर्व्रणं तथा ॥
इति द्विपञ्चद्वयसाङ्गुलो दशाङ्गुलमानो विष्कम्भः । त्रिंशदङ्गुलः परिणाहः । स च क्रमहान्या अग्रे अष्टाविंशत्यङ्गुल इत्य् अर्थः । स्तम्भयोर् अनन्तरं षढस्तं चतुर्हस्तं वा दृश्यस्तम्भोच्छ्रयानुरूपं विधेयम् । षढस्तस्तम्भयोर् अन्तरालं गुणदैर्घ्यस्योपलक्षणम् । उत्तरं च विस्तारोसेधाभ्यां द्वादशाङ्गुलम् । तत् प्रान्तरन्ध्रयोः स्तम्भाग्रशिखरे प्रवेश्य तोरणं निष्याद्यम् ।
अथ तुलादण्डस्य मानम् आह । षट्त्रिंशन्मानम् इत्यादि । व्यायामो नाम प्रसारितसबाहुहस्त-द्वयस्य तिर्यगन्तरालबाह्वोः करसंयुतयोः व्यायामस् तिर्यगन्तरन्तयोर् इत्य् अभिधानात् ।
ततः षट्त्रिंशदङ्गुलान्वितव्यायाममात्रं तुलादण्डे दैर्घ्यम्, विष्कम्भम् अष्टमात्रम् इति, अष्टाङ्गुलः सपञ्चयवस् तुलादण्डप्रान्तयोर् न्यासः ।
तत्रार्थाद् यवोनषट्त्रिंशदङ्गुलः परिणाहः । षट्त्रिंशन्मानमात्रम् इति, तुलादण्डमध्ये षट्त्रिंशदङ्गुलः परिणाहः । तत्रार्थात् द्वादशाङ्गुलो न्यासः ।
अष्टाङ्गुलेन विस्तारस् त्व् अग्रे भूतयवान्वितः ।
षट्त्रिंशन्मात्रनाहस् तु मध्यमे तु विधीयते ॥
इति कामिकोक्तेः ।
अग्रे मूले च मध्ये च हेमपट्टेन बन्धयेत् ।
पट्टमध्ये प्रकर्तव्यम् अवलम्बनकत्रयम् ॥
ताम्रेण वाप्य् अरूप्येण आयसेनैव कारयेत् ।
[१९२] मध्ये चोर्ध्वमुखं कार्यम् अवलम्बं सुशोभनम् ॥
रश्मिभिस् तोरणाग्रे वा बन्धयेच् च विधानतः ।
जिह्वाम् एकां तुलामध्ये तोरणं च विधीयते ॥
उत्तरस्य तु मध्ये ऽथ शङ्कुद्वयम् अनुत्तमम् ।
वितानेनोपरिछाद्य दृढं सम्यक् प्रयोजयेत् ॥
सदृढं च तुलामध्ये मानम् अङ्गुलमानतः ।
पट्टस्यैव तु विस्तारः पञ्चमात्रप्रमाणतः ॥
बध्नीयाच् चक्रपाशं च अवलम्बेन सुस्थितम् ।
शुल्बजौ च दृढौ विद्वान् बन्धनेन तु कारयेत् ॥
शिक्यो [शिक्यौ?] ऽधस्तात् प्रकर्तव्यौ पञ्चप्रदेशविस्तरौ ।
सहस्रेण तु कर्तव्यौ पञ्चप्रादेशविस्तरौ ॥
सहस्रेण तु कर्तव्यौ पलेनाधारकामुकौ ।
शताष्टकेन वा कुर्यात् पलानां षट्शतेन वा ॥
चतुस्तालविस्तारं मध्यमं परिकीर्तितम् ।
सार्धत्रितालविस्तारो नियमश् च विधीयते ॥
पञ्चमात्रं चतुर्मात्रं त्रिमात्रं फलम् उच्यते ।
चतुर्द्वारसमोपेतं द्वारम् अङ्गुलिनाथ वा ॥
कुण्डलैश् च समोपेतं श्लक्ष्णस्वच्छसमन्वितैः ।
कुण्डले कुण्डले कार्यं शृङ्खलापरिमण्डलम् ॥
शृङ्खलाधारवलयम् अवलम्बेन योजयेत् ।
प्रादेशं वा चतुर्मात्रं भूमिं त्यक्त्वावलम्ब्धयेत् ॥
धटो पुरुषमात्रो तु कर्तव्यो शोभनाव् उभौ ।
द्विहस्तवालुकापूर्णे शिले तत्र विनिक्षिपेत् ॥
[१९३] द्विहस्तमात्रम् अवटो स्थापनीयौ प्रयत्नतः ।
शेषं सम्पूरयेद् विद्वान् बालुकाभिः समन्ततः ।
येन निश्चलतां गच्छेत् तेन मार्गेण कारयेत् ॥
अग्रे मूल इत्यादि, अवलम्बनकीलकप्रवेशार्थवेधनिघातादिना यथा तुला न शीर्येत तथा हेमादिना पट्टबन्धस् तुलायाः कार्यः ।
अवलम्बनम्, समशृङ्खलादिसंश्लिष्टबलयाधारोच्छ्रकतुण्डाकारोभ्याग्रलम्बनं काऋयम् । अथ वा तुलाम् अध्यावलम्बनस्थाने ऊर्ध्वमुखं ताम्रादिकीलकं निधाय तन्मूलच्छिद्रप्रोततिर्यक्कीलकस्थितं मध्यकीलकोभयपार्श्वस्थायि ताम्रादिमयं तोरणं कृत्वा तदग्रवलयबन्धरश्मिभिर् उत्तराधोऽवलम्बितम्बलयं संयोजयेत् । जिह्वाम् एकाम् इति, पूर्वोक्त एव तुलामध्यवर्ती ऊर्ध्वमुखः कटकाख्यः कीलकः, जिह्वातोरणम् इति प्राग् उक्तम् एव, एतच् च सुवर्णकारादिलघुतुलासु दृश्यते । उत्तरस्य त्व् इति, उत्तरमध्यावलम्बितकुण्डलाग्रो ऽयःशङ्कुर् ऊर्ध्वमुखस् तस्य मूले उत्तरोपरिचितानवद्विततं लोहपट्टं निधाय तदुपरि तन्मूलं द्विधाभूतं तिर्यग्वितत्य घटयेत् ।
शङ्कुः सुधिरसम्पन्न इति, कुण्डलिताग्रे उत्तममध्यावलम्बिते ऽधोमुखशङ्कौ तुलामधोर्ध्वमुखालम्बनशङ्की चैकं बलयम् अङ्गुष्ठस्थूलं नियोजयेत् शङ्कुः सुषिरसम्पन्नो वलयेन समन्वित इति कामिकोक्तेः । पट्टस्येति, पूर्वोक्तपट्टस्येयं मानोक्तिः, पञ्चमात्रं यवाङ्गुलं बध्नीयाद् इति, तुलाप्रान्तावलम्बाभ्यां तत्तच्छिक्यशृङ्खलाधारं चक्रपाशाख्यं बलयं योजयेत् । शुल्वं ताम्रम् । आधाराव् [१९४] इति, ताम्रपलानां दशाष्टषट्शतैः क्रमात् पञ्चादिप्रादेशविस्तारौ पञ्चचतुस्त्र्यङ्गुलोच्छ्रितप्रान्ताव् अङ्गुलचतुःछिद्रप्रोतचतुर्वलयान्वितौ यजमानद्रव्यधाराधारकौ कार्यौ । तद्वलयचतुष्काश्लिष्टशृङ्गलाचतुष्कं शिक्याख्यम् उपरिविरचितवलयद्वयं तुलाग्राधोऽवलम्बको योजयेत् । धताख्यम् उपरिविरचितवलयद्वयं तुलाग्राधोऽवलम्बकौ योजयेत् । धटाख्याधाररन्ध्रचतुष्कं मधूच्छिष्टेन संश्लिष्टं कार्यम्, आधारौ च भूमेर् उपरि । चतुर्ङ्गुलम् इति, प्रादेशमात्रे चान्तरिक्षे ऽवलम्ब्यौ । अवटौ तु दक्षिणोत्तरस्तम्भनिखनार्थौ । अत्र स्तम्भयोः दक्षिणोत्तरत्वं तुलायाश् च प्राक्पञ्चिमायतत्वम् अवधेयम् । स्वमेयं चैन्द्रदिग्भागे सुवर्णं तत्र निक्षिपेद् इति वक्ष्यमाणत्वात् । द्विहस्तवालुका पूर्णे तत्र शिऌए पट्टशिलाख्ये निधाय वालुकाभिः प्रपूर्य दृढयेत् ।
श्रूयतां परमं गुह्यं वेदिकोपरि मण्डलम् ।
अष्टमङ्गलसंयुक्तम् अङ्गुलाङ्कुशशोभितम् ॥
फलपुष्पसमाकीर्णे धूपदीपसमन्विते ।
वेदीमध्ये प्रकर्तव्यं दर्पणोदरसन्निभे ॥
आलिखेन् मण्डलं पूर्वं चतुर्द्वारसमन्वितम् ।
शोभोपशोभासंयुक्तं कर्णिकाकेसरान्वितम् ॥
चुल्लिजातिसमोपेतं पञ्चवर्णं च कारयेत् ।
वज्रं भागुत्तरे भागे आग्नेय्यां शक्तिम् उज्वलाम् ॥
आलिखेद् दक्षिणे दण्डं नैरृत्यां खड्गाम् आलिखेत् ।
पाशं च वारुणे लेख्यं ध्वजं च वायुगोचरे ॥
कौवेर्यां च गदां लेख्य ईशान्यां शूलम् आलिखेत् ।
शूलस्य वामदेशे तु चक्रं पद्मं च दक्षिणे ॥
[१९५] एवं लिखित्वा पश्चाच् च होमकर्म समारभेत् ।
प्रधानहोमं गायत्र्या स्वाहा शक्राय वह्नये ॥
यमाय देवराजाय वरुणाय च वायवे ।
कुबेराय तथेशाय विष्णवे ब्रह्मणे पुनः ॥
स्वाहान्तं प्रणवेनैव होतव्यं विधिपूर्वकम् ।
स्वशाखाग्निमुखेनाथ जयादि प्रति संयुतम् ॥
स्विष्टान्तं सर्वकार्याणि कारयेद् वेदवित्तमः ।
सर्वहोमाग्रहोमे च समित्पालाश्य् अथोच्यते ॥
एकविंशतिसङ्ख्याकं मन्त्रेणानेन होमयेत् ॥
अयं न इध्म आत्मा जातवेदस् तेन द्व्यस्व (?) वर्धस्व चेद् उवर्धय चास्मान् प्रजया पशुभिर् ब्रह्मवर्चसेनान्नाद्येन समेधयः स्वाहा, भूः स्वाहा, भुवः स्वाहा, स्वः स्वाहा, भूर् भुवः स्वः स्वाहा ।
समिद्धोमश् चरूणां च घृतस्य च यथाक्रमम् ।
शुक्रान्नं पायसं चैव मुद्गानां चरवः स्मृताः ।
सहस्रं म्बा तदर्धं म्भा शतम् अष्टोत्तरं तु वा ।
अग्न आयूंषि पवस आशुवोर् जमिषं च नः आरेवाधस्व दुत्सुनां अग्निर् ऋषिः पवमानः पाञ्चजन्यः पुरोहितः तमोमहे महामयं अग्नेपवस्व स्वपा अस्मे वर्चः सुवीर्यं दधद् रायंयमि पोषम् । प्रजापते न त्व् एतान्य् अन्यो विश्वाजातानि परिता बभूव यत्कामास् ते, जुहुमस् त्वन् नो अस्त्व् अयम् अमुष्य पितासावस्य पिता वयं स्यामः पतयोरैणां स्वाहा ।
तत् सर्वं सर्वहोमे तु सामान्यं विधिपूर्वकम् ।
गायत्र्या च प्रधानस्य समिद्धोमस् तथैव च ॥
[१९६] चरूणां च तथाज्यस्य शक्रादीनां च होमयेत् ।
वज्रादीनां च होतव्यं सहस्राद्यं ततः क्रमात् ॥
ब्रह्मयज्ञान् अमन्त्रेण ब्रह्मणे विष्णवे नमः ॥
नारायणाय विद्महे वासुदेवाह धीमहि ।
तन् नो विष्णुः प्रचोदयात् ॥
अयं विशेषः कथितो होममार्गः सुशोभनः ।
दूर्वयाक्षीरसिक्तेन पञ्चविंशत् पृथक् पृथक् ॥
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धन्म् ।
उर्वारुकम् इव बन्ध्नान् मृत्यो मुक्षीयम् अमृतात् स्वाहा ॥
दूर्वाहोमः प्रशस्तो ऽयं वास्तुहोमश् च सर्वथा ।
प्रायश्चित्तम् अघोरेण वास्तुहोमश् च सर्वथा ॥
प्रायश्चित्तम् अघोरेण सर्पिषा च शतं शतम् ।
श्रूयताम् इत्यादि पूर्वोक्तवेदिमधे सर्वतोभद्राख्यं मण्डलं लेख्यं, तच् च शोभोपशोभाशब्दात् पञ्चसारोक्तं दीक्षामण्डलं ग्राह्यम्, एतयोर् लक्षणम् उपवर्णितं परिभाषायाम् । वज्रम् इति । मण्डलाद् बहिर् दिक्षु दिक्पालायुधानि लेख्यानि, गायत्र्यारौद्र्याः प्रधानकुण्डे होमः, तत्पुरुषाय विद्महे महादेवाय धीमहि तन् नो रुद्रः प्रचोदयाद् इति रुद्रगायत्री ।
स्वाहा शक्रायेत्यादि, प्रणवादिभिश् चतुर्थीयुक्तैः स्वाहान्तैः शक्रादिलोकपालनामभिः प्राच्यादिकुण्डाष्टके होमः ब्रह्मविष्ण्वोर् अपोशानकुण्डे होमः कार्यः, स्वशाखाग्निमुखेन समिद्धे ऽग्नौ प्रधानहोमानन्तरम् आज्येन जयाद्युपहोमाः कार्याः । उक्तं ह्य् आपस्तम्बेन यथा प्रदेशं प्रधानाहुतीर् हुत्वा जयाभ्यातान्राष्ट्रभृतः प्राजापत्यान्ता व्याहृतिर् विहिता सौविष्टकृतिम् इत्य् उपजुहोति । इयं च जयाद्यक्तिः स्वस्वगृह्योक्तोपरिष्टात् तत्रोपलक्षणार्था ।
[१९७] सर्वहोमः प्रधानहोमः । तत्रापि पालाशी समित् । अत्र होमः अन्वाधानेध्मानादिरूपः । सर्वहोमाग्रहोमे च समित् पालाश्य् अथोच्यते, एकविंशतिसङ्ख्याकम् इत्य् एतत् पृथक् वाक्यम् । तत्र व्याहृतिभिर् अन्वाधाने चतस्र समिधो होतव्याः, अयं ते इति मन्त्रेण, परिधाद्यारानुयाजादिविनियुक्तावशिष्टेध्माधानं कार्यम् । इदं च स्वगृह्योक्तपूर्वतन्त्रोपलक्षणम् । अथ समिदादिहोमः कर्तव्यः । तत्र चरवः शुद्धान्नाद्या इत्थं समिदादिपञ्चद्रव्याणि होम्यानि, अग्ने आयूंशीत्यादिमन्त्रचतुष्केणाज्य-होमः प्रधानहोमात् पूर्वं कार्यः, रुद्रगायत्र्यैव प्रधानकुण्डे समिदाज्यचरुहोमः इन्द्रादिदिङ्पालानां स्वस्वमन्त्रेण तत्र कुण्डेषु सहस्रसङ्ख्यः पञ्चशतसङ्ख्यो वाज्यहोमः प्रतिकुण्डं चाम्बकेन पञ्चविंशतिसङ्ख्यो दूर्वाहोमो वास्तोष्पते इति मन्त्रेण वस्तुहोमश् च विधेयः । शिखिपर्जन्यादितत्तद्देवतानामभिर् वास्तुहोमः तानि च गृहदानप्रकरणे वक्ष्यन्ते, आज्येन शतसङ्ख्यः प्रायश्चित्तहोमः, अयम् इह सर्वो ऽपि होमः सपरिवारेश्वरपूजनानन्तरं कार्यः, मध्यमे देवदेवेशं वामे गौरीसमायुतम् इत्यादिना देवपूजाम् उक्त्वा ततो होमः प्रकर्तव्य इति कामिकोक्तेः ।
ब्रह्माणं दक्षिणे वामे विष्णुं विश्वगुरुं शिवम् ।
मध्ये वेद्या महादेवं इन्द्रादिगणसंवृतम् ॥
आदित्यं भास्करं भानुं रविं देवं दिवाकरम् ।
ऊषां प्रभां तथा प्रज्ञां सन्ध्यां सावित्रिकाम् अपि ॥
छायां पुष्टिं धृतिं तुष्टिं शाखोक्ताय महात्मने ।
विस्तरां शुभगां चैव बोधनीं च प्रदक्षिणम् ॥
[१९८] आप्यायिनीं च सम्पूज्य देवं पद्मासने रविम् ।
प्रभूतं प्राक् प्रकर्तव्यं विमलं दक्षिणे तथा ॥
सारं पश्चिमभागे च आराध्यं चोत्तरे यजेत् ।
मध्ये सुखं विजानीयात् केसरेषु यथाक्रमम् ॥
दीप्तां सूक्ष्मां जयां भद्रां विभूतिं विमलां क्रमात् ।
आमोघां विद्युतां चैव मध्यतः सर्वतोमुखीम् ॥
सोमम् अङ्गारकं चैव बुधं जीवम् अनुक्रमात् ।
भार्गवं च तथा मन्दं राहुं केतुं समन्ततः ॥
पूजयेद् धोमयेद् अर्घ्यं दापयेच् च विशेषतः ।
ब्राह्मणान् भोजयेत् [?] तत्र वेदवेदाङ्गपारगान् ॥
विद्याध्ययनसम्पन्नान् क्र्त्वैवं विधिविस्तरम् ।
होमे प्रवर्तमाने च पूर्वदिक्स्थानमध्यमे ॥
आरोहयेद् विधानेन रुद्राध्यायेन वै नृपम् ।
धारयेत् तत्र यज्वानं घटिकैकाविधानतः ॥
यजमानो जपेन् मन्त्रं रुद्रगायत्रिसञ्ज्ञकम् ।
घटिकार्धं तदर्धं वा तत्रैवासनम् आरभेत् ॥
आलोक्य वसनं धीमान् कूर्चहतः समाहितः ।
नृपश् च भूषणयुतः खड्गखेटकधारकः ॥
स्वस्तिऋद्ध्यादिभिश् चादाव् अन्ते चैव विशेषतः ।
पुण्याहं ब्राह्मणैः कार्यं वेदवेदाङ्गपारगैः ॥
जयमङ्गलशब्दादिब्रह्मघोषैः सुशोभनैः ।
नृत्यवाद्यादिभिर् गीतैः सर्वशोभासमन्वितैः ॥
******** ऐन्द्रदिग्भागे सुवर्णं तत्र निक्षिपेत् ।
[१९९] तुलाधारौ समौ वृत्तौ तुलाभारस् तदा भवेत् ॥
ब्रह्माणम् इत्य् आदि, मध्ये ब्रह्मादिदेवतापरिवृतम् ईश्वरं सम्पूज्य ततः सूर्यं पूजयेत् । मण्डलात् प्राक् कल्पितकर्णिकामध्ये ऊषादित्यौ पूज्यौ ततः प्रभाभास्करौ प्रज्ञाभानूदेवहुत्यादिमिथुनचतुष्कम् आग्नेयादिकोणेषु पूज्यम्, छायादिशक्तिचतुष्टयं तु प्राच्यादिदिक्षु पूजनीयं विस्ताराद्यास् त्व् आग्नेयादिष्व् आसनपादेषु, प्रभूतादयस् तु पूर्वादिष्व् आसनगात्रेषु परमसुखा तु मध्ये रवेर् आस्तरणं स्थापनीयं तदुपरि पूर्वोक्तं रविम् आदित्याख्यं पद्मोपरि पूजयेत् । दीप्ताद्यास् तु केसरस्थाः शक्तयः तत्रापि सर्वतोमुखी कर्णिकायां पूज्या, ततो बहिर् दलाग्रेषु सोमाध्याः पूज्याः । एवं शिवसूर्यौ समाराध्य शिवाग्नौ शैवोक्तम् अग्निकार्यं च कृत्वा सूर्यायार्धं दत्वा होमम् उपक्रम्य ब्राह्मणान् भोजयित्वा पूर्णाहुत्याः पूर्वं पुण्याहं तुलारोहणाङ्गं वाचयित्वा तुलारोहणं कारयेत् ।
शतनिष्काधिकं श्रेष्ठं तदर्धं मध्यमं स्मृतम् ।
तस्याप्य् अर्धं कनिष्ठं स्यात् त्रिविधिं (?) तत्र कल्पितम् ॥
वस्त्रयुग्मं तथोष्णीषं कुण्डलं कण्ठभूषणम् ।
अङ्गुलीभूषणं चैव मणिबन्धस्य भूषणम् ॥
एतानि चैव सर्वाणि प्रारम्भे धर्मकर्मणि ।
पुरोहिताय दत्वाथ ऋत्विग्भ्यः सम्प्रदापयेत् ॥
पूर्वोक्तभूषणं सर्वं सोष्णीषं वस्त्रसंयुतम् ।
दद्याद् एतत् प्रयोक्तभ्यः (?) कुण्डलाच्छादनं बुधः ॥
[२००] दक्षिणां च शतं चार्धं विप्राय प्रतिदापयेत् ।
ऋत्विजां चैव सर्वेषां दशनिष्कान् प्रदापयेत् ॥
यागोपकरणं द्रव्यम् आचार्याय प्रदापयेत् ।
इतरेषां द्विजातान् तु पृथग् इष्टं प्रदापयेत् ॥
दक्षिणां च पुरोहितद्विजेभ्यो दापयेत् स्वयम् ।
आचार्येषु प्रदातव्यं श्रोत्रियेभ्यो विशेषतः ॥
वन्दीकृतांश् च विसृजेत् कारागृहनिवेशितान् ।
सहस्रकलसेनैव स्नापयेत् परमेश्वरम् ॥
घृतेन केवलेनापि देवदेवम् उमापतिम् ।
पयसा वाथ दध्ना वा सर्वद्रव्यैर् अथापि वा ॥
ब्रह्मकूर्चेण वा देयं पञ्चगव्येन वा पुनः ।
गायत्र्या चैव गोमूत्रं गोमयं प्रणवेन च ॥
आप्यायस्वेति वै क्षीरं दधिक्राव्नेति वै दधि ।
तेजो ऽसीत्य् आज्यम् ईशानं मन्त्रेणैवाधिषिञ्चयेत् ॥
देवस्य त्वेति देवेशं कुशाम्बुकलसैर् नवैः ।
रुद्राध्यायेन सर्वेशं स्नापयेत् परमेश्वरम् ॥
सहस्रकलसैः शम्भोर् नाम्नां चैव सहस्रकैः ।
विष्णुना कथितैर् वाथ नन्दिन कतिथैस् तु वा ॥
दक्षेण मुनिमुख्येन कीर्तितेनापि वा बुधः ।
महापूजा च कार्तव्या महादेवस्य भक्तितः ॥
शिवार्चकय दातव्या दक्षिणार्धा गुरोः शुभा ।
देवार्चकानां सर्वेषां दक्षिणा च यथाक्रमम् ॥
[२०१] दीनान्धकृपणानाथबालवृद्धकृशातुरान् ।
भोजयेच् च विधानेन दक्षिणाम् अपि दापयेत् ॥
वस्त्रयुग्मम् इत्यादि, वस्त्रयुग्मोष्णीषकुण्डलादीनि तु प्रारम्भ एव वरणान्तरं कृतमधुपर्केभ्यः पुरोहितब्रह्मर्त्विक्सदस्येभ्यो दद्यात्, आचार्याय द्विगुणम्,
द्विगुणं गुरवे दद्यात् भूषणाच्छादनादिकम् ।
इति मत्स्योक्तेः । एतत् प्रयोक्तृभ्यः शतादिनिष्कनिर्मितं प्रागुक्तभूषणं च दद्यात् । दक्षिणां चेति, शतादिदक्षिणाम् आचार्याय दत्वा ऋत्विग्भ्यो ऽस्तु दशनिष्कानि, इतरेषां परिचारकाणां तु निष्कमात्रम्,
यत्र कर्मकरास् तेभ्यः पृथक् निष्कं प्रदापयेत् ।
इति कामिकोक्तेः । तुलाधिरूढं द्रव्यम् अन्येभ्य एव दातव्यम् इति कामिकमतम्,
तुलाधिरोहितं वित्तं ब्राह्मणेभ्यः प्रदापयेत् ।
मद्भक्तेभ्यो विशेषेण मदर्थं वापि कल्पयेत् ।
देशिकेभ्यो विशेषेण दद्यात् श्रद्धासमन्वितः ॥ इति ।
अथ महाभिषेकपूजातत्कर्तृदक्षिणा च कार्येत्य् आह, सहस्रकलशेत्यादिना, सर्वद्रव्यैः सुवर्णफलरत्नोदकपञ्चामृताद्यैः, अर्धा दक्षिणेति, तुलारोहणाचार्यदक्षिणाप्रमाणार्धम्, शिवार्चकादिभ्यो दक्षिणादानम् इति । कामिके तु महाभिषेकपूजानन्तरं तुलारोहणम् उक्तम्,
यत् मण्डले पूजितान् सर्वान् देवान् अभ्य्र्व्य होमयेत् ।
पूर्णाहुत्यादि चैवैनां क्रियाम् अत्र समापयेत् ॥
स्हस्रकलशाद्यैश् च संस्नाप्य परमेश्वरम् (?) ।
महापूजा च कर्तव्या प्रभूतहरिषान्विता ॥
पञ्चामृतैः पञ्चगव्यैः क्षीराद्यैः स्नपनं तु वा ।
ब्राह्मणान् भोजयेत् पश्चात् तुलारोहणम् आचरेत् ॥
[२०२] अथ दक्षिणादानान्तरं पूर्णाहुत्याद्य् उत्तरतन्त्रसमापनं पुण्याहवाचनं च कार्यम् इति सिद्धिः सहस्रकलशैः सहस्रनामभिर् ईशानं स्नापयेद् इत्य् अभिहितम् तद् उक्तं लिङ्गपुराणोक्तम् एव । नामसहस्रम् आलिख्यते ।
ऋषय ऊचुः ।
नाम्नां सहस्रं रुद्रस्य नन्दिन ब्रह्मयोनिना ।
कथितं ब्रह्मदेवार्थं सकलं सूत सुव्रत ॥
नाम्नां सहस्रं विप्राणां वक्तुम् अर्हसि शोभनम् ।
सूत उवाच ।
सर्वभूतात्मभूतस्य हरस्यामिततेजसः ।
अष्टोत्तरसहस्रं तु नाम्नां सर्वस्य सुव्रत ॥
यज् जप्त्वा च मुनिश्रेष्ठो गाणापत्यम् अवाप्नुयात् ।
तद् अहं सम्प्रवक्ष्यामि सर्वपापप्रणाशनम् ॥
ॐ स्थिरः स्थाणुः प्रभुर् भानुः प्रभवो वरदो वरः ।
सर्वात्मा सर्वविख्यातः सर्वकर्मकरो भवः ॥
जटी चर्मी शिखण्डी च सर्वगः सर्वभावनः ।
हरिश् च दक्षिणाख्यश् च सर्वभूतहरप्रभुः ॥
प्रवृत्तिश् च निवृत्तिश् च नियन्ताचामनोद्भवः ।
श्मशानचारी भगवान् खचरो गोवरोदनः ॥
अभिवाद्यो महाकर्मा तपस्वी भूतधारणः ।
उन्मत्तवेषः प्रच्छन्नः सर्वलोकप्रजापतिः ॥
महारूपो महाकायः सर्वरूपो महायशाः ।
महत्म सर्वभूतश् च विरूपो वामनोनतः ॥
लोकपालो ऽन्तर्हितात्मा प्राभासो भवनो रुचिः ।
पवित्रश् च महाश् चैव नियमो नियमाश्रितः ॥
[२०३] सर्वकर्मादिकर्माणा मादिरादिकरो निधिः ।
सहस्राक्षो विशालाक्षः सोमो दक्षः सुधाकरः ॥
चन्द्रसूर्यासनः केतुर् ग्रहो ग्रहपतिर् मतिः ।
आदिराज्यो भयङ्कर्ता मृगवाणार्पणो ऽनघः ॥
महातपो घोरतपा आदर्शो नैकसाधकः ।
संवत्सराकृतो मन्त्रः प्रमाणं परमं तपः ॥
योगाचार्यो महाबिम्बो महारेता महाबलः ।
सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः ॥
दशबाहुस् त्व् अनिमिषो नीलकण्ठ उमापतिः ।
विश्वरूपस् तपश्रेष्ठो बलवीरो बलाग्रणीः ॥
गणकर्ता गणपतिर् दिग्वासा काम्य एव च ।
मन्त्रवित् परमो मन्त्रः सर्वभावकरो हरः ॥
कमण्डलुधरो धन्वी बहुहस्तः कपालवान् ।
अशनीशः शतघ्नीशः खड्गबाणायुधो महान् ॥
अजश् च मृगरूपश् च तेजस् तेजःकरो विधेः ।
उष्णीषो वस्त्रवल्कश् च उद्वक्त्रो विनतस् तथा ॥
दीर्घश् च हरिकेशश् च सुतीर्थः कृष्ण एव च ।
शृगालरूपः सर्वार्थो मुण्डः सर्वशुभङ्करः ॥
सिंहशार्दूलरूपश् च गान्धारो च कपर्द्य् अपि ।
ऊर्ध्वरेता ऊर्ध्वलिङ्गी ऊर्ध्वशायी नभस्तुलः ॥
त्रिजटी चीरवासाश्च रुद्रः सेनापतिर् भुवः ।
[२०४] अहोरात्रश् च रक्तश् च त्रिवृन् मन्युः सुवर्चसः ॥
गन्धर्वहा दैत्यहा च कालधानो गुणाकरः ।
सिंहशार्दूलरूपाणाम् अर्हचन्दनधरो हरः ॥
निशाचरः प्रेतचारी भूतचारी महेश्वरः ।
बहुरूपो बहुधनः सर्वसारो मृतो हरः ॥
नित्यप्रियो नित्यमृत्युर् निर्तनः सर्वलोलुपः ।
सकार्मुको महाबाहुर् महाघोरो महातपाः ॥
महासारो महापाशो नित्यो गिरिकरो नतः ।
सहस्रहस्तो विजयो व्यवसायोर्यनन्दितः ॥
अमर्षणो ऽथ धर्मात्मा वज्रहा कामनाशनः ।
दक्षहा परिचारी च प्रसहो मध्यमस् तथा ॥
तेजोपहारी बलवान् विदितो ऽभ्युच्छ्रितो वहः ।
गम्भीरघोषनम्भीरो गम्भीररववाहनः ॥
न्यग्रोधरूपो न्यग्रोधो विश्वकर्मा विभुर् वहुः ।
तीक्ष्णोपायश् च हर्यश् च रुद्रो यः कर्मकायवित् ॥
विष्णुप्रसादितो यज्ञः सुमुखो वडवामुखः ।
हुताशनसहायश् च प्रशान्तात्मा हुताशनः ॥
उग्रतेजा महातेजा विजयो जयकालवित् ।
ज्योतिषो नयनः सिद्धिः सिद्धविग्रह एव च ॥
खड्गी दण्डी जटी लाली वर्हनो व्यधनो बली ।
चीणी विपणचीनालि वली कलकदुस् तथा ॥
[२०५] शवरूपो निनादी च सर्वथा ह्य् अपरिग्रहः ।
व्यालरूपो विलावासी इहापालस् तरङ्गवित् ॥
देशश्रीमालवृक्षर्मा सर्वाबलविमोचनः ।
बन्धनश् चासुरेन्द्राणां युधि शत्रुविनाशनः ॥
सद्यः प्रमोदो दुर्वापः सर्वायुधनिषेवितः ।
प्रस्कन्दो ऽथ विभागश् च अतुल्यो यज्ञमानवित् ॥
सर्ववासः सर्वधारो दुर्वासा वासनो नरः ।
हैमी हैमकरो यज्ञः सर्वधारी धरोधमः ॥
आकारो ह्य् अध्वनि वहो मरुत्सङ्गः प्रतापवान् ।
भिक्षुश् च भिक्षारूपी च रौद्ररूपः सुरासवी ॥
वसुयशो वसुवर्चा वसुवेगो वसुप्रदः ।
सर्वावासी त्रयीवासी स्वपदेशकरो वरः ॥
मुनिर् आत्मा मुनेर् लोकसभाज्यश् च सहस्रभुक् ।
पक्षी च पक्षिरूपश् च आदिदीपो विशाम्पतिः ॥
समीरो दमनो ऽङ्गारो ह्य् अर्थो ह्य् अर्थकरो वरः ।
वासुदेवश् च वामश् च वामदेवश् च वामनः ॥
सिद्धयोगोपहारी च सिद्धः सर्वार्थसाधकः ।
अक्षुणः क्षुण्णरूपश् च वृषणो मृदुर् अव्ययः ॥
महासेनो विशाखश् च षष्टिभागो गवाम्पतिः ।
शुक्लहस्तस् तु विष्टम्भीवकस्तम्भन एव च ॥
श्रुतावृतत्कलस्नातो ह्य् अकर्मा सुकरो भवः ।
वानस्पत्यो वाजसनो नित्यम् आश्रमपूजितः ॥
ब्रह्मचारी लोकचारी सर्व्चारः सचारवित् ।
[२०६] ईशान ईश्वरकरो निश्चारो ह्य् अनेकधृत् ॥
निमित्तस्थो निमित्तं च नन्दीनन्दिकरोहती ।
नन्दीश्वरश् च नन्दीत्त नन्दनेमित्पर्वर्धनः ॥
भगहारी निहन्ता च लोकालोकपितामः ।
चतुर्मुखो महालिङ्गश् चारुलिङ्गस् तथैव च ॥
लिङ्गाध्यक्षो वराध्यक्षः कालाध्यक्षो युगावहः ।
बीजाध्यक्षो बीजकर्ता बुद्ध्यात्मानुगतो बलः ॥
अतिहासश् च कल्पश् च दमनो जगदीश्वरः ।
दम्भोदम्भकराम्भो वंशो वंशकरः कली ॥
लोककर्ता पशपतिः महाकर्ता ह्य् अधोक्षजः ।
अक्षरं परमं ब्रह्म बलवान् शुक्र एव च ॥
नित्योद्यम् ईशः शुद्धात्मा सिद्धो मानो गतिर् हविः ।
प्रसादस्तवनो दीर्घो दर्प्यणो हव्यम् इन्द्रजित् ॥
वेदाकारः सूत्रकारो विद्धांश् च परमर्दनः ।
महामेघनिवासी च महाघोरो वशीकरः ॥
अग्निज्यालो महाज्वालो अभिधूम्रावृतो रविः ।
ब्राह्मणः शङ्करो नित्यो वर्चस्वी धूम्रकेतनः ॥
नीलस् तथाङ्गलुप्तश् च शोभनो निरवग्रहः ।
स्वस्त्यस्वस्तिविभावश् च भाषीभागकरो लघुः ॥
उत्सङ्गश् च महागर्भः परायणपरायवान् ।
कृष्णः कर्णः सुवर्णश् च इन्द्रियः सहवाणिकः ॥
महापादो महाहस्तो मायाकायो महायशाः ।
[२०७] महास्पर्शो महामात्रो महानेत्रो विशालयः ॥
महास्कन्धो महाकर्णो महोष्ठश् च महाहनुः ।
महानासो महाकम्बुर् महाग्रीवः श्मशानवान् ॥
महावक्षा महातेजाः कन्दरात्मा मृगालयः ।
लवनो लवनोद्यश् च मामयश् च पयोनिधिः ॥
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ।
महानलो महारोमा महाकेशो महारजाः ॥
अशपलप्रसादश् च प्रत्ययोगी च साधकः ।
प्रसेवनो अपानश् च आदिकर्मा महामुनिः ॥
वृषको वृषकेतुश् च अनलो वायुवाहनः ।
मण्डलो मेरुवासश् च देववाहन एव च ॥
अथर्वशीर्षो सोमो ऽर्धभुक् सहस्रोजिनौकसः ।
यज्ञपादभुजो गुह्यः प्रकाशोजास् तथैव च ॥
अमोघार्थप्रमादश् च अन्तर्भाव्यः सुदर्शनः ।
उपहारप्रियः सर्वः कनकः काञ्चनस्थिरः ॥
नाभितुण्डकरो हिण्यः पुष्करः स्थावरः स्थिरः ।
द्वादशास्त्रो धनंवाह्यो यज्ञो यज्ञसमाहितः ॥
नक्तो नीलः कविः कालो मकरः कालपूजितः ।
शुक्लः स्त्रीरूपकुतपः शुचिर् भूतनिषेवितः ॥
आश्रमस्थः कपोतस्थो विश्वकर्मा पवित्रराट् ।
विशालः शालस् ताम्रोष्ठो ह्य् अम्बुजातः सुनिश्चयः ॥
कपिलः कलशः शूलश् चायुधश् चैव रोमसः ।
गन्धर्वो ह्य् अदितिस् तार्क्ष्यो ह्य् अविज्ञेयः सुसारदः ॥
[२०८] परस्वधायुधो देवो ह्य् अर्थकारी सुवान्धवः ।
जतुवीणो महाकोप ऊर्ध्वरेता जलेशयः ॥
उग्रवंशकरो वंशी वंशवन्द्यो ह्य् अनिन्दितः ।
सर्वाङ्गरूपी मायावी सुहृदो ह्य् अनिलोनलः ॥
बन्धनो बन्धकर्ता च सबन्धनविमोचनः ।
राक्षसादिश् च कामारिर् महादंष्ट्रसमायुधः ॥
बहुत्वनिन्दितः सर्वशङ्करः स्थाय्य् अकोपनः ।
अमरेश्ō महाघोरो विश्वदेवः सुरारिहा ॥
अहिर्बुध्नातिरन्तिश् च चेकितानो हली तथा ।
अजैकपाच् च कामाली शङ्करो ऽजो महाधरः ॥
धन्वन्तरिर् धूमकेतुः शून्यो वैश्रवणस् तथा ।
धाता विष्णुश् च शङ्कुश् च तर्यो त्वष्टा धरो ध्रुवः ॥
प्रभासः सर्वतोवायुर् अर्यमा सविता रविः ।
धृतिश् चैव विधाता च मान्धाता भूतवाहनः ॥
तीरस् तीव्रश् च भीमश् च सर्वकर्मा गुणोद्वहः ।
पद्मगर्भो महागर्भश् चन्द्रवक्त्रो नभोनयः ॥
फलपाशोपशान्तश् च पुराणः पुण्यकृत्तमः ।
क्रूरकर्ता क्रूरवासी धनुरात्मा महौषधम् ॥
सर्वायशः सर्वचारी प्राणेशः प्राणिनाम्पतिः ।
देवदेवसुरोत्सिक्तः सदसत् सर्वरत्नवित् ॥
कैलासादिगुहावासी हिमवह्निरसंश्रियः ।
कुलहारी कुलङ्कर्ता बहुभिन्नो बहुप्रजः ॥
प्राणेशो वर्धकी वृक्षावकुलश् चादकिस् तथा ।
[२०९] सारग्रीवो महाजत्रुर् विलोकश् च महौषधी ॥
सिद्धानकारो सिद्धान्तश् छन्दोव्याकरणोत्तरः ।
सिंहनादः जगत्कालः कालकम्पो तनूतनुः ॥
सारङ्गो भूतवक्राङ्गः केतुमाली भवेन् धनम् ।
भूतालयो भूतपतिर् अहोरात्रो पलो मलः ॥
अस्त्रहृत् सर्वभूतानां निश्चलश् चलविद् बुधः ।
अमोघः संयमो हृष्टो भोजनः प्राणधारणः ॥
धृतिमान् नतिमांस् त्र्यक्षः सकृतस् तु युगाधिपः ।
गोपालो गोयुवाग्रामोगो चर्मवसनो हरः ॥
हिरण्यवायुश् च तथा गुहावासः प्रवेशनः ।
महामन्ता महाकालो जितकमो जितेन्द्रियः ॥
गान्धारश् च सुरापश् च तापकर्मरतो हितः ।
महाभूतो भूतवृतो ह्य् अस्पर्शो गणसेवितः ॥
महाकेतुधरो धाता नैकतानरतश् च सः ।
अवेदनीय आवेद्यः सर्वगश् च सुखावहः ॥
तोरणस् तरणो धातुः परिधापत्तिर् ऊर्जितः ।
संयोगवर्धनो वृद्धो गुणिको ऽथ गुणाधिपः ॥
नित्यो धाता सहायश् च देवासुरपतिः पतिः ।
अविमुक्तश् च वाहश् च सदेवो ऽपि सुपर्वणः ॥
[२१०] आषाढश् च सुषाढश् च सकन्ददो हैर्दो हरः ।
वपुरावर्तमानान्यो वपुःश्रेष्ठो महावपुः ॥
शिरोहरो ऽपि मर्षण्यः सर्वलक्षणलक्षितः ।
अक्षयो रथगीतश् च सर्वभोगी महाबलः ॥
समायोज्यमहामायस् तीर्थदेवो महापथः ।
निर्जीवो जीवनो मन्त्रः सुभगो बहुकर्तृकः ॥
रत्नभूतो ऽथ रथ्नाङ्गो महार्णवनिनादभृत् ।
मूलो विशाखो ह्य् अमृतो व्यक्ताव्यक्तस् तपोनिधिः ॥
आरोहणो ऽतिरोहश् च शीलधारी महातपाः ।
महाकण्ठो महायोगी युगो युगकरो हरिः ॥
युगरूपो महारूपो ऽवनतो गहनाञ्चनः ।
न्यायनिर्वापणः पादः पण्डितो ह्य् अवलो यमः ॥
बहुमालो महामालः शिपिविष्टः सुलोचनः ।
विस्तारो लवनं रूपं कुसुमांशः पलोदयः ॥
वृषभो वृषभाङ्गाङ्गो मणिबिम्बो जटाधरः ।
इन्दुर् विसर्गः सुमुखः शरसर्वायुधैः सह ॥
निवेदनः सुधाता च स्वर्गहारो महाधनः ।
गन्धमाली च भगवान् नर्तनः सर्वलक्षणः ॥
सन्तानबाहुः सकलः सर्वमङ्गलवाचनः ।
चलस्ताली करस्ताली उद्वंशः संयमी युवा ॥
यन्त्रतन्त्रसुविख्यातो लोकसर्वाश्रयो मृदुः ।
[२११] मुण्डो विरूपो विकृतो दीप्ततेजाः सहस्रपात् ॥
सर्वमूर्धा सर्वदेवः सर्वदेवमयो गुरुः ।
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोकधृक् ॥
काष्टा कला मुहूर्तं वा मात्रा वा पक्षपक्षकः ।
विश्वक्षेत्रप्रदो बीजं लिङ्गमध्यस् तु निर्मलः ॥
सदसद्व्यक्तधीनामा माता भ्राता पितामहः ।
स्वर्गद्वारं मोक्षद्वारं सुखद्वारं त्रिविष्टपम् ॥
निर्वाणहृदयश् चैव ब्रह्मलोकः परा मतिः ।
देवासुरविनिर्माता देवासुरगणाधिपः ॥
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।
देवाधिदेवो देवर्षिर् देवासुरसुधाप्रदः ॥
देवासुरेश्वरो विष्णुर् देवासुरमहेश्वरः ।
सर्वदेवमयो ऽचिन्त्यो देवतात्मात्मसम्भवः ॥
उद्गतस् त्रिक्रमो वैद्यो विराजो वीरजो वरः ।
ईढ्यो हस्तिपुरव्याघ्रो देवसिंहो मरप्रभुः ॥
विबुधश् च सुरश्रेष्ठः स्वर्गदेवतपोधनः ।
संयुक्तो शोभनो वक्त्वा आशायां प्रभवो ऽव्ययः ॥
गुरुः कान्तो निजः सर्गः पवित्रं सर्ववाहनः ।
शृङ्गी शृङ्गप्रियो ब्रभ्रू राजराजो निराश्रयः ॥
अविरामः संस्मरणो निरामः सर्वसाधनः ।
[२१२] ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः ॥
स्थावराणां पतिश् चैव नियमेन्द्रियवर्धनः ।
सिद्धार्थः सर्वभूतार्थो चिन्त्यसत्यव्रतः शुचिः ॥
व्रताधिपः परं ब्रह्म मुक्तानां परमा गतिः ।
विमुक्तो मुक्ततेजश् च श्रीमान् श्रीवर्धनो जगत् ॥
यथाप्रधानम्भगवान् इति भक्त्या स्तुतो मया ।
भक्तिम् एवं पुरस्कृत्य महायज्ञपतिर् विभुः ॥
ततो ऽभ्यनुज्ञां प्राप्यैवं सूतो गतिमतां गतिः ।
अश्वमेधसहस्रस्य फलं प्राप्य महायशाः ॥
गाणपत्यं परं प्राप्य प्रसादात् तस्य यत् प्रभोः ।
यः पठेच् छ्रुणुयाद् वापि श्रावयेद् ब्राह्मणान् अपि ॥
अश्वमेधसहस्रस्य फलं प्राप्नोति वै द्विजः ।
ब्रह्मघ्नश् च सुरापश् च स्तेयी च गुरुतल्पगः ॥
शरणागतघाती च मित्रविश्रम्भघातकः ।
मातृहा पितृहा चैव वीरहा भ्रूणहा तथा ॥
संवत्सरं क्रमाज् जप्त्वा त्रिसन्ध्यं शङ्कराश्रमे ।
देवम् इष्ट्वा त्रिसन्ध्यं च सर्वपापैः प्रमुच्यते ॥
इति लिङ्गपुराणोक्तस् तुलापुरुषदानविधिः ।
श्रीशङ्कर उवाच ।
तुलादानं प्रवक्ष्यामि सर्वपापविनाशनम् ।
यद् गौर्या चरितं पूर्वं लक्ष्म्या नारायणेन च ॥
पुण्यं दिनम् अथासाद्य तृतीयायां विशेषतः ।
गोमयेनानुलिप्तायां भूमौ कुर्याद् धटं शुभम् ॥
[२१३] दारवं शुभवृक्षस्य चतुर्हस्तप्रमाणतः ।
सुवर्णं तत्र बध्नीयात् स्वशक्त्या घटितं धटे ॥
सौवर्णं स्थापयेत् तत्र वासुदेवं चतुर्भुजम् ।
शक्त्या द्वयं तु बध्नीयात् स्थापयेत् पटके ततः ॥
तत्रारुहेत् सवस्त्रास्त्रः पुष्पालङ्कारभूषितः ।
अभीष्टां देवतां गृह्य स्नापयित्वा घृतादिभिः ॥
तुलादानस्य सर्वस्य विधिर् एषः प्रकीर्तितः ।
प्रथमा तु घृतस्योक्ता तेजोवृद्धिकरी तुला ॥
माक्षिकेन तु सोभाग्यं तैलेन बहुलाः प्रजाः ।
वस्त्रस्य दिव्यवस्त्राणि प्राप्नोति तुलया ध्रुवम् ॥
लवणस्य तु लावण्यम् अरोगित्वं गुडस्य तु ।
असपत्नी शर्करया सुरूपा चन्दनेन च ॥
अवियुक्ता भवेद् भर्त्रा तुलायाः कुङ्कुमस्य च ।
न सन्तापो हृदि भवेत् क्षीरस्य तुलया सदा ॥
सर्वकामप्रदाः सर्वाः सर्वपापक्षयङ्कराः ।
यो ददाति तुलाः सर्वाः स गौर्यालयम् आप्नुयात् ॥
मन्त्रेण दद्याद् अभिमन्त्रितां तु
सकृत् तुला भेकतमां द्विजेभ्यः ।
स याति गौर्याः सदनं सुपुण्यैर्
न शोकदीर्गत्यम् उपाश्नुते पुमान् ॥
त्वं तुले सर्वभूतानां प्रमाणं परिकीर्तिता ।
मां तोलयन्ती संसाराद् उद्धरस्व नमो ऽस्तु ते ॥
इत्य् आरुह्य क्षणं स्थित्वा चिन्तयित्वा हरिप्रियाम् ।
अवरुह्य ततो दद्याद् अर्धं पादम् अथापि वा ॥
गुरुं सम्पूज्य विधिवत् सर्वालङ्कारभूषणैः ।
[२१४] विसर्जयेन् नमस्कृत्य भोजयित्वा विधानतः ॥
शेषं द्विजेभ्यो दातव्यं स्त्रीभ्यो ऽन्येभ्यस् तथैव च ।
इष्टबन्धुविशिष्टानाम् आश्रितानां कुटुम्बिनाम् ॥
कदलीदलसंस्थां तु पञ्चपिण्डां हिमादिर्जाम् ।
कर्पूरस्य तुला पूज्या कुङ्कुमेनालभेत् तु ताम् ॥
अवरुह्य तुलायास् तु गुरवे तां निवेदयेत् ।
विधिनानेन यो दद्यात् तुलादानं विमत्सरम् ॥
स लोकम् एति पार्वत्याः सेव्यमानो ऽप्सरोगणैः ।
तत्रोष्य कालं सुचिरम् इह लोके नृपो भवेत् ॥
इति विष्णुधर्मोत्तरोक्तो घृतादितुलापुरुषदानविधिः ।
कृष्ण उवाच ।
अनेनैव विधानेन केचिद् रूप्यमयं पुनः ।
कर्पूरेण तथेच्छन्ति किञ्चिद् ब्राह्मणपुङ्गवाः ॥
अनेनेति, मुख्यतुलापुरुषदानकथितेनेत्य् अर्थः ।
तथा सिततृतीयायां नार्यः सौभाग्यदर्पिताः ।
कुङ्कुमेन प्रयच्छन्ति लवणेन गुडेन वा ॥
तत्र मन्त्रा न होमा वा एवम् एव प्रदापयेत् ॥
आह विश्वामित्रः ।
आदित्ये राहुणा ग्रस्ते सुवर्णैस् तोलयेत् तनुम् ।
सोमग्रहे तु रूप्येण यथा दानं तथा शृणु ॥
प्रवर्ग्यस्य मुखे युक्त उत्यन्नपत्रदेहतः ।
सर्वपापहरायैतद् ददामि प्रीयतां विधुः ॥
इत्य् उच्चार्य जलं त्व् अप्सु निक्षिपेद् द्विजसत्तमः ।
प्रीयन्ते पितरः कांस्ये ताम्रे चैव पितामहाः ॥
[२१५] लवणे सिन्धुजे लक्ष्मीः प्रीयते पार्वती गुडे ।
गन्धैर् गुडो वा वासोभिः सौभाग्यं लवणे वरम् ॥
प्रीयतां विश्वधाप्रीतिर् दानमन्त्रो ऽभिधीयते ।
तुलापुरुषतो राजन् याहि तत् परमं पदम् ॥
सर्वपापविशुद्धात्मा मुक्तिं यान्त्य् अपुनर्भवाम् ।
हत्वा तु ब्राह्मणं भूयस् तोलयेद् आत्मनस् तनुम् ॥
सुवर्णेनात्मतुल्येन ब्रह्महत्यां व्यपोहति ॥
इति रूप्यादितुलापुरुषः ।
अथ गारुडपुराणे ।
सनत्कुमार उवाच ।
तुलापुरुषदानं तु शृणु मृत्युञ्जयोद्भवम् ।
अष्टलोहं प्रदातव्यं सर्वरोगोपशान्तये ॥
कांस्यं च यक्ष्मणे देयं त्रपु चार्शोविकारके ।
अपस्मारे च मीसं स्यात् ताम्रं कुष्ठे सुदारुणे ॥
पैत्तलं रक्तपित्ते च रूप्यं प्रदरमेहयोः ।
सौवर्णं सर्वरोगेषु प्रदद्यान् मृत्फलोदनम् ॥
फलोद्भवं तथा दद्याद् ग्रहणे दीर्घदारुणे ।
गौडं भस्मकरोगेषु योगं तु गण्डमालके ॥
जाङ्गलं चाग्निनां मान्द्ये रोमोत्पाते तु पौष्यकम् ।
जाङ्गलं काष्ठजम् इति ।
मधूद्भवं तथा देयं काशश्वासजलोदरे ॥
घृतोद्भवं तथा देयं छर्दिरोगोपशान्तये ।
क्षीरं पित्तविनाशाय दाधिकं भगदारणे ॥
[२१६] लावणं बलनाशाय पैष्टं दद्रुविनाशने ।
अन्नं च सव्यरोगस्य नाशने स्मृतम् एव च ॥
अधिदैवतं लोहे च महाभैरव उच्यते ।
कांस्ये तु पूषाश्विनौ च वायश् च सैसके स्मृतः ॥
ताम्रे तु सूर्यस् तथा प्रोक्तः पैत्तले तु कुजस् तथा ।
रूप्ये च पितरो ज्ञेयाः सुवर्णे सर्वदेवताः ॥
फले सोमो गुडे चापस् ताम्बूल तु विनायकः ।
गन्धर्वाः कुसुमे चैव जाङ्गले ऽग्निस् तथा स्मृतः ॥
मधौ यक्षाः प्रयत्नेन घृते मृत्युञ्जयः स्मृतः ।
क्षीरे तारागणाः सर्वे दध्नः सर्पाः प्रकीर्तिताः ॥
पिष्ठे प्रजापतिर् देवो अन्ने सर्वाश् च देवताः ।
आर्तो यदा स्यात् पात्रं वा प्राप्नुयात् पुण्यदेशतः ॥
मृत्युमृत्युञ्जयप्राप्तविधिना यत् प्रदीयते ।
तद् एव सर्वशान्त्यर्थं भवतीह न संशयः ॥
मृत्युञ्जयप्राप्तविधिना, मृत्युञ्जयं पूजयेद् इत्य् अर्थः ।
मृत्युञ्जयपूजाविधिश् च देवीपुराणे ।
ॐ जुंस इति मन्त्रेण देवो ऽयं चतुर्भुजस् त्रिनेत्रकः ।
अक्षमालाधरो देवो दक्षिणेन तु पाणिना ॥
वामेनामृतकूण्डी च धारयन्न् अमृतान्विताम् ।
वरदाभयपाणिश् च दिव्याभरणभूषितः ॥
शुक्लः सनीलवासाश् च पद्मस्योपरिसंस्थितः ।
जाती तस्य श्रा ज्ञेयं जवंवाश्व शिखा स्मृता। ॥
यो वौषड् इति कवचं जैनेत्रे च प्रकीर्तिताः ।
[२१७] जःफडस्त्रं भवेत् सदा । ओङ्कारः आवाहनमन्त्रः ॥
ओङ्कारो वै विसर्जने, अष्टशक्तवः पञ्चाक्षरसम्मिताः ।
जया च विजया चैव अजिता चापराजिता ॥
भद्रकाली कपाली च क्षेम्यामृतपराजिता ।
ॐ जुंसमन्त्रप्रयोगेन पूज्यो मृत्युञ्जयः शिवः ॥
गन्धादिभिर् यथान्यायं यथा ब्राह्मणपूजनम् ।
मृत्युञ्जयोक्तदानेषु सर्वेष्व् एवं विधिः स्मृतः ॥
जप्तव्यः ।
ॐ जूंस इति वै दातुं कामोघं साधयेत् सदा ।
लोहे तदा मन्त्रम् अमुं ग्रहीतुर् हृदि रोपयेत् ॥
शिरोललाटदेशे च जिह्वामूले च गण्डयोः ।
माभौ च ब्रह्मगुह्ये च एतद् अङ्गाष्टकं न्यसेत् ॥
अरत्निहस्तमात्रं च सारं तस्य प्रकीर्तितम् ।
यथेच्छया प्रयोगेण यथावत् कर्तुर् इच्छया ॥
षष्टिपलैः सङ्घटितम् अज्ञातपलिकं भवेत् ।
लोहं च तिष्पन्नम् एव तत्र अन्नेन मिश्रितम् ॥
पञ्चाशत्पलसंयुक्तं दण्डं वायससञ्ज्ञकम् ।
वस्त्रैर् आच्छद्य दानेन यमदण्डो न विद्यते ॥
इति नानारोगघ्नतुलापुरुषदानविधिः ।
आत्मानं तोलयित्वा तु दद्याल् लोहं च तत्समम् ।
द्विजाय शिवभक्ताय यद् वान्यस्मै द्विजातये ॥
पादुकोपानहछत्रचामरासनसंयुतम् ।
अयने विषुवे पुण्ये व्यतीपातादिपर्वसु ॥
[२१८] श्रद्धायुक्तः सुचौ देशे विशेषाद् उत्तरायणे ।
पञ्चामृतेन संस्नाप्य देवदेवम् उमापतिम् ॥
केवलेन घृतेनाथ प्रथमात्रेण धूर्जटिम् ।
सुगन्धिचन्दनजलैस् ततः संस्रापयेद् विभुम् ॥
चन्दनागुरुकर्पूरकङ्कोलमृगनाभिभिः ।
विलिप्य परमेशानं सुमनोभिर् अथार्चयेत् ॥
भक्त्या निवेद्य नैवेद्यम् अनवद्येन चेतसा ।
ततः प्रणम्य जगताम् ईश्वरं प्रार्थयेद् इति ॥
देवदेव जगन्नाथ कृपालो परमेश्वर ।
माम् उद्धरस्व संसारपङ्कसङ्कोचदुःथितम् ॥
इति सम्प्रार्थ्य यो दद्याल् लोहम् आत्मसमं नरः ।
स याति शिवसालोक्यं यावद् इन्द्राश् चतुर्दश ॥
ततः पुनर् इहायातः पृथिव्याम् एकराड् भवेत् ॥
सर्वेषु चैतेषु सुवर्णं दक्षिणा, अनुक्तदक्षिणेषु दानेषु तस्य यथाशक्ति विहितत्वात् ।
इति स्कन्दपुराणोक्तो लोहतुलापुरुषदानविधिः । अथ हिरण्यगर्भाख्यण्ण् द्वितीयं महादानम् उच्यते । मत्स्यपुराणे मत्स्य उवाच ।
अथातः सम्प्रवक्ष्यामि महादानम् अनुत्तमम् ।
हेम्ना हिरण्यगर्भाख्यं महापातकनाशनम् ॥
पुण्यं दिनम् अथासाद्य तुलापुरुषदानवत् ।
ऋत्विग्मण्डपसम्भारभूषणाच्छादनादिकम् ॥
कुर्याद् उपोषितस् तद्वल् लोकेशावाहनं धःवि (?) ।
[२१९] पुण्याहवाचनं कृत्वा तद्वत् कृत्वाधिवासनम् ॥
अत्र देशकालवृद्धिश्राद्धशिवादिपूजाब्राह्मणवाचनगुरुऋत्विग्वरणमधुपर्कदानकुण्ड-मण्डपवेदिसम्भारहोमाधिवासनादि सर्वं हिरण्यगर्भादिपञ्चदशमहादानप्रकृति-भूतं मत्स्यपुराणोक्ततुलापुरुषदानिविहितं वेदितव्यम् ।
ब्राह्मणिअर् आनयेत् कुण्डं तपनीयम् अयं शुभम् ।
द्वासप्त अङ्गुलोच्छ्रायं हेमपङ्कजगर्भवत् ॥
त्रिभागहीनविस्तारं प्रशस्तं मुरजाकृति ॥
कुण्डम् इति, हिरण्यगर्भाख्यं पात्रं, तपनीयम् अयम्, स्वर्णमयं हेमपङ्कजम् अष्टदलं तद् एव नाभिशब्दवाच्यम्, त्रिभागहीनविस्तारम् इति, अष्टाचत्वारिंशदङ्गुलविस्तारम् इत्य् अर्थः । मुरजाकृति, मृदङ्गाकृति । आज्यक्षीराभिपूरितम् इति क्वचित् पाठः । तत्र घृतक्षीरे तुल्यपरिमाणे, यद्य् अपि चातिपूरितम् इत् उच्यते तथापि यजमानप्रवेशेन यथा तन् न बहिर् उच्छलति तथा पूरणीयम् ।
दशान्त्राणि सरत्नानि दात्रं सूचीं तथैव च ।
हेमनालं सपटिकं बहिर् आदित्यसंयुतम् ॥
तथैवावरणं नाभेर् उपवीतं च काञ्चनम् ।
पार्श्वतः स्थापयेत् तद्वद् धेमदण्डं कमण्डलुम् ॥
दशान्त्राणि, दशखण्डानि, अभ्राणीति क्वचित् पाठः । तानि काञ्चनानि अभ्राकारतया, अभ्राणीति । अभ्रं खनित्रम् इति केचित्, रत्नानि पञ्च प्रसिद्धानि, सपिटकम्, मज्ञुपान्वितं, बहिर् इति, हेमकूण्डाद् बाह्यप्रदेशे पार्श्वतः स्थापयेद् इत्य् अनेन सम्बन्धः । वह्निर् आदित्यसंयुतम् इति पाठान्तरम् । [२२०] वह्निभास्करयोर् लक्षणं ब्रह्माण्डदाने वक्ष्यते । वह्निम् अप्ययसंयुतम् इति, तदा अप्ययः, वरुणः । तल्लक्षणम् अपि तत्रैव, नाभेर् आवरणम् इति, नाभ्यावरणार्थं सौवर्णं वस्त्रं दात्रादीन्य् अपि सुवर्णमयान्य् एव कार्याणि ।
पद्माकारं विधानं स्यात् समन्ताद् अङ्गुलाधिकम् ।
मुक्तावलीसमोपेतं पद्मरागदलान्वितम् ॥
तिलद्रोणोपरि गतं वेदीमध्ये ततो ऽर्चयेत् ॥
द्रोणः परिभाषायां व्याख्यातः \
इह खलु हिरण्यगर्भनिर्माणसुवर्णपरिमाणस्यानाम्नानात् यावता यजमानस्य प्रवेशधारणोपायिकं कुण्डं भवति तावता धटनीयम्, तच् च वेदिकामध्ये लिखितचक्रस्योपरि तिलद्रोणं निधाय तदुपरि संस्थाप्य पूजयेत् । अथ तुलापुरुषदान-तदधिवासनदिनाद् अन्येद्युर् ब्राह्मणवाचनं विधाय पूर्णाहुतिप्रभृतिकर्मशेषसमाप्तिं कुर्यात् । ततश् च कुण्डसमीपवर्तिकलशजलैः पूर्ववद् अभिषेकः । तद् उच्यते ।
ततो मङ्गलशब्देन ब्रह्मघोषरवेण च ।
सर्वौषध्योदकस्नानं स्नापितो वेदपुङ्गवैः ॥
सर्वौषध्यः व्याख्याताः ।
शुक्लमाल्याम्बरधरः सर्वाभरणभूषितः ।
इमम् उच्चारयेन् मन्त्रं गृहीतकुसुमाञ्जलिः ॥
नमो हिरण्यगर्भाय हिरण्यकवचाय च ।
सप्तलोकसुराध्यक्ष जगद्धात्रे नमो नमः ॥
भूर्लोकप्रमुखा लोकास् तव गर्भे व्यवस्थिताः ।
[२२१] ब्रह्मादयस् तथा देव नमस् ते विश्वधारिणे ॥
नमस् ते भुवनाधार नमस् ते भुवनाश्रय ।
नमो हिरण्यगर्भाय गर्भे यस्य पितामहः ॥
यतस् त्वम् एव भूतात्मा भूतमूते(?) व्यवस्थिताः ।
तस्मान् माम् उद्धरशेषदुःखसंसारसागरात् ॥
एवम् आमन्त्र्य तन्मध्यम् आविश्यास्त उदङ्मुखः ।
मुष्टिभ्यां परिसङ्गृह्य धर्मराजचतुर्मुखौ ।
जानुमध्ये शिरः कृत्वा तिष्ठेद् उच्छासपञ्चकम् (?) ॥
धर्मराजो ऽत्र सुवर्णमयः, तल्लक्षणं च तुलापुरुषे ऽभिहितं चतुर्मुखो ऽपि सौवर्णः, तल्लक्षणं ब्रह्माण्डदाने वक्ष्य्ते, तत्र दक्षिणमुष्टौ धर्मराजः, वाममुष्टौ चतुर्मुख इति ।
गर्भादानं पुंसवनं सीमन्तोन्नयनं तथा ।
कुर्युर् हिरण्यगर्भस्य ततस् ते द्विजपुङ्गवाः ॥
अनवलोभनम् अप् यत्र विज्ञेयम्, एतेषु गर्भाधानादिषु वक्ष्यमाणेषु जातकर्मादिषु, मन्त्रयुक्तम् अनुध्यानमात्रम् अत्राचरणीयम् ।
गीतमङ्गलघोषेण गुरुं सन्तोषयेत् ततः ।
जातकर्मादिकाः कुर्यात् क्रियाः षोडश चापराः ॥
ताश् चाभिधीयन्ते । जातकर्म (१) नामकरणम् (२) निष्क्रमणम् (३) अन्नप्राशणम् (४) चूडाकरणम् (५) उपनयनम् (६) प्राजापत्यम् (७) ऐन्द्रम् (८) आग्नेयम् (९) सौम्यम् (१०) इति, चत्वारि वेदव्रतानि गोदानं केशान्तश् चेति द्वादश, पूर्वाश् चतस्र इत्य् उभयेषु षोडशत्वम् ।
सूच्यादिकं च गुरवे दत्वा मन्त्रम् इमं जपेत् ।
नमो हिरण्यगर्भाय वि*गर्भाय (?) ते नमः ॥
[२२२] चराचरस्य जगतो गृहभूताय वै नमः ।
मन्त्रो ऽहं जनितः पूर्वं मर्त्यधर्मा द्विजोत्तमः ॥
त्वद्गर्भसम्भवाद् एष दिव्यदेहो भवाम्य् अहं ।
चतुर्भिः कलशैर् भूयस् ततस् ते द्विजपुङ्गवाः ॥
स्नानं कुर्युः प्रसन्नाश् च सर्वाभरणभूषिताः ॥
कलशैः कुण्डसमीपस्थितैर् एव, स्नानं कुर्युर् यजमानस्येति शेषः ।
देवस्य त्वेति मन्त्रेण स्थितस्य कनकासने ।
अद्यजातस्य ते ऽङ्गानि अभिषेक्ष्यामहे वयम् ॥
दिव्येनानेन वपुषा चिरञ्जीव सुखी भव ।
ततो हिरण्यगर्भं तं तेभ्यो दद्याद् विचक्षणः ॥
अत्र दानवाक्यादिप्रयोगो द्रव्यविभागश् च ऋत्विगाचार्याणां तुलापुरुषवद् वेदितव्यः ।
ते पूज्याः सर्वभावेन बहवो वा तदाज्ञया ।
तत्रोपकरणं सर्वं गुरवे विनिवेदयेत् ॥
पादुकोपानहछत्रचामरासनभाजनम् ।
ग्रामं वा विषयं वापि यच् चान्यद् अपि सम्भवेत् ॥
विषयः ग्रामसमूहः । अन्यत्, रत्नादि । अत्राप्य् आत्मालङ्कारं गुरवे दद्यात् ग्रामादयश् च दक्षिणात्वेनैव सम्बध्यते, प्रकृतौ तथा दर्शनात्, ततः पूर्ववत् पुण्याहवाचने कृते देवतापूजाविस्रजनादि विधेयम् ।
अथ हिरण्यगर्भविधिं व्याख्यामः । सर्वपापापनोदन उदगयन आपूर्यमाणे पक्षे श्वः पुण्ये नक्षत्रे [२२३] ऋत्विग्यजमानौ कॢप्तश्मश्रुरोमनखो स्यातां अथ कुत्विक्(?) प्राग् अस्तं गमनाद् आश्वत्थावरण्या वादाय जायस्वाग्ने ऽश्वत्थाद् इति द्वाभ्यां मथ्यमानम् अनुमन्त्रयते तृतीयया जातं चतुर्थोपसमादधाति शुचि दूरिशं परिधाप्य यथोक्तम् आञ्जनाभ्यञ्जनानुलेपनं कारयित्वा वासोगन्धान् हिरण्यस्रजश् च आवध्याग्निम् उपसमाधायालभ्याज्यं जुहुयात्, हिरण्यगर्भाय स्वाहा, ब्रह्मणे स्वाहा विष्णवे स्वाहा प्रजापतये स्वाहा परमेष्ठिने स्वाहा कस्मै स्वाहेति च श्रावयित्वा तैर् एवोपस्थाय अग्नेः प्रजातं परियद्धिरण्यं यदा बध्रन्न् इति हिरण्यस्रजम् आग्रथ्य रक्षन्तु त्वा अग्नय इति चतसृभी रक्षां कृत्वा दर्भान् संस्तीर्याधःशय्यासनौ स्यातां श्वोभूते ऽभिजिन्मुहूर्ते हिरण्यमयं मण्डलाकृतिनाभिमात्रं पात्रम् आधाय सापिधानं श्रुचाज्यस्थाल्युदकपात्राण्य् आत्मालङ्कारं चेति हिरण्यमयानि राजानं हिरण्यवतीभिः स्नापयित्वा हिरण्यकलसैस् तस्मिन् पात्रे पयोगणेन पयश्रासीभ्यां होमुचेन शान्तो तोयेन हिरण्यगर्भसूत्रेण पञ्चभिश् च नामभिः सम्पातान् आनीय सस्यावृत्विजापयेद् राजा हिरण्यगर्भत्वम् ईप्सति तस्मै भगवन्तो मनुजान् ईशेति तैर् अनुज्ञातात् तु देहि वाजिन्न् इति द्वाभ्यां प्रवेशयेत् त्रयस् त्रिंशद् देव इत्य् अपिधाय तम् अनुपिधाय तम् अनुशास्ति वाचं नियम्य प्रति संहृतेन्द्रियाणि विशेषेभ्यो मनसा च भगवन्तं हिरण्यगर्भं परमेष्ठिनं ध्यायन्न् आस्तेति तथेइ तत् प्रतिपद्यते सप्तदशमात्रान्तरम् आस्ते सप्तदशो वै प्रजापतिः प्रजापतेर् आवृतम् इत्य् उद्धरेद् धनेनम् (?) इति च तैर् अनुज्ञाप्य तम् उद्धरेत् तथैव सदस्याननुज्ञाप्योद्धरेद् धिरण्येन चक्रेणेत्य् अपावृत्य मते प्राण इत्य् उद्धरेद् उद्धतं हिरण्यनाम्ना प्रतिमुच्ययस् त्वा मृत्युर् इत्य् उपस्येत् सम्प**[२२४]**श्यमाना इत्य् अवेक्षितावेक्षितो ब्राह्मणान् स्वस्तिवाच्य नमस् कुर्यात् हिरण्यगर्भायेत्य् एवमादिभिर् एते वै हिरण्यगर्भस्य प्रीतमानास् तं ब्राह्मणा ब्रूयुर् उत्तिष्ठ हिरण्यगर्भानुगृहीतो ऽसीत्य् अप्रतिरथेनेति हुत्वा संस्थाप्य अप्सु ते राजा वरुण इति वरुणम् अभिष्टयावभृतम् उपेत्य स्नात्वा पवित्रैर् अभ्युक्ष्यालङ्कृत्यादित्यम् उपतिष्ठेत ।
हिरण्यं तव यद् गर्भो हिरण्यस्यापि गर्भजः ।
हिरण्यगर्भस् तस्मात् त्वं माम् पाहि महतो भयात् ॥ इति ।
सूर्यस्यावृत्तम् इति, प्रदक्षिणम् आवृत्य ग्रहा नौमीति ग्रहान् प्रतिपद्य त्वम् अग्ने प्रमिनिर् इत्य् अग्निम् उपस्थाप्योत्सृजेद् द्विजेभ्यः शतसहस्रं दक्षिणाग्रामवरं च स्रुक्श्रुवाज्यस्थाण्युदकपात्रात्मालङ्कारं चेद् दद्यात् सदस्येभ्यो यावद् वा तुष्येरंस् तावद् वा देयं यथा कामम् अन्नेन ब्राह्मणान् परिचरेत् । तत्र श्लोकाः ।
वेदानां पारगा यत्र चतुर्णां ब्रह्मवित्तमाः ।
तुष्टा यस्याशिषो ब्रूयुस् तस्येज्या सकला भवेत् ॥
ब्राह्मणानां प्रसादेन सूर्यो दिवि विराजते ।
इन्द्रो ऽप्य् एषां प्रसादेन देवान् अतिविराजति ॥
हिरण्यदानस्य फलम् अमृतत्वम् इति श्रुतिः ।
श्रूयते ह्य् अस्य दाता यः सो ऽमृतत्वं समश्नुते ॥
य इक्ष्वाकुप्रभृतयः पुरा राजर्षयो ऽमलाः ।
दत्वा हिरण्यं विप्रेभ्यो ज्योतिर् भूत्वा दिवि स्थिताः ॥
य एवं संस्कृतो राजा विधिना ब्रह्मवादिना ।
प्रजानाम् इह साम्राज्यं ज्यैष्ठ्यं श्रैष्ठ्यं स गच्छति ॥
**[२२५] **अमुस्मिन् ब्रह्मणा सार्धम् आनन्दम् अनुभूय वै ।
ज्योतिर्मयात् सत्यलोकान् न चेहावर्तते पुनः ॥
इति ब्राह्मणम् । मत्स्यपुराणे ।
अनेन विधिना यस् तु पुण्ये ऽह्नि विनिवेदयेत् ।
हिरण्यगर्भदानं स ब्रह्मलोके विधीयते ॥
पुरेषु लोकपालानां प्रतिमन्वन्तरे वसेत् ।
कल्पकोटिशतं यावद् ब्रह्मलोके महीयते ॥
कलिकलुषविमुक्तः पूजितः सिद्ध्यसाध्यै ।
रमचरममालावीज्यमानो ऽप्सरोभिः ॥
पितृशतम् अथ बन्धून् पुत्रपौत्रप्रपौत्रान् [-प्रपौत्रकान्?] ।
अपि नरकनिमग्नांस् तारयेद् एक एव ॥
इति पठति य इत्थं यः शृणोतीह सम्यक्
मधुपुररिपुलोके पूज्यते सो ऽपि सिद्धैः ।
मतिम् अपि च जनानां यो ददाति प्रियार्थं
विभ्धपतिजनानां नायकः स्याद् अमोघम् ॥
इति हिरण्यगर्भदानविधिः ।
श्रीभगवान् उवाच ।
दानधर्मेषु यद् दानं दानधर्मोत्तरं शृणु ।
यत् कृत्वा पातकैः सर्वैर् मुच्यन्ते जन्तवः सदा ॥
यो ददाति च विप्रेभ्यस् तस्य स्वर्गो ऽप्य् अदूरतः ।
हिरण्यगर्भं तं कुर्याद् धिरण्याष्टतुलाकृतम् ॥
सप्तषट्पञ्चचत्वारि तुलाया वृद्धिर् एकतः ।
[२२६] शातकुम्भमयं कुण्डं कृत्वारत्नित्रयोन्नतम् ॥
द्व्यङ्गुलं वर्तुलं भद्रं नानारत्नैर् अलङ्क्र्तम् ।
शुचिदेशे समे देशे सौवर्णं पङ्कजं लिखेत् ॥
चतुरस्रं चतुर्हस्तं चतुर्द्वारं च मण्डलम् ।
मध्ये पद्मं समालिख्य रत्नकीर्णं तु कारयेत् ॥
पद्मे संस्थापितं कुण्डं हेमगर्भस् तु सञ्ज्ञितम् ।
प्रादेशद्वयविस्तीर्णं चतुःप्रादेशम् आयतम् ॥
चारु कृत्वा तु सौवर्णं नाभिं कनकसूत्रितम् ।
कृत्वा हतप्रमाणं तु कुण्डस्याभ्यन्तरे यदि ॥
तत् कुण्डं पूरयेत् क्षीरैर् गन्धपुष्पैः समर्चयेत् ।
कुण्डस्योपरि पार्श्वे च ब्रह्मविष्णुमहेश्वरान् ॥
सूर्यं ग्रहांश् च सौवर्णान् लोकपालांश् च कारयेत् ।
शुचिः स्नात्वा नरः सम्यक् पूजयेत् सर्वदेवताः ॥
स्थण्डिलं तत्र कुर्वीत होमययुर् द्विजातयः ।
क्रतुसंवेशनं कृत्वा तत् कुण्डं परिवेष्टयेत् ॥
वासोभिः परितः सर्वं यावत् कर्म समाप्यते ।
गर्भाधानं पुंसवनं सीमन्तोन्नयनादि च ॥
कृत्वा पश्चाद् विनिष्क्रम्य तत्कुण्डान्तरसंवृतम् ।
नाभिं नाभिप्रदेशे च कण्ठे कनकसूत्रिकाम् ॥
गृहीत्वा कर्षयेद् विप्रान् दाता स्वर्गान् महीं व्रजेत् ।
शङ्खतूर्यनिनादोच्चैर् उछित्यार्कम् उदीरयेत् ॥
[२२७] नमो हिरण्यगर्भाय मन्त्रम् एतम् उदाहरेत् ।
यावत् षोडशसंस्कारान् जातकर्मादि कारयेत् ॥
यथोक्तं वैदिकं कर्म मन्त्रवित् कारयेद् द्विजान् ।
तत् क्षीरपायसं सिद्धं भोजयेद् ऋत्विजस् तदा ॥
तद् एवात्मनि युञ्जीयात् भुक्तशेषं द्विजोत्तमैः ।
हिरण्यगर्भचारुं च नाभिं सौवर्णिकान्वितम् ॥
तत् सर्वं ब्राह्मणे दद्याद् इष्टापूर्तानि ऋत्विजे ।
नरो वा यदि वा नारी एवं ब्रह्मात्मसम्भवम् ॥
यः करोति महापुण्यं तस्यापि शृणु यत् फलम् ।
मृतो ब्रह्मत्वम् आप्नोति हंसयानं रविप्रभम् ॥
ब्रह्मकन्याभिः संसेव्यो ब्रह्मलोकं स गच्छति ।
ब्रह्मवत् क्रीडते तत्र ब्रह्मसंवत्सरत्रयम् ॥
ब्रह्मलोकावतीर्णश् च इन्द्रलोके महीयते ।
इन्द्रलोके रमित्वा तु वर्षकोटिशतत्रयम् ॥
ब्रह्मणस् तु पुरे रमिए क्रीडित्वाथ तदोपमम् ।
विध्याधरो ऽथ गान्धर्वो वर्षकोटिं पृथक् पृथक् ॥
इह लोके तु सम्प्राप्ते राजराजोत्तमः प्रभुः ।
शतयोजनविस्तीर्णे त्रिगुणे वाथ मण्डले ॥
रूपसौभाग्यवान् वीरो जायते हि न संशयः ।
यावद् वर्षशतं राज्यं सुसम्पन्नम् अकण्टकम् ॥
तेजस्वी सुखभाग् नित्यं धर्मवान् विजितेन्द्रियः ॥
इति विष्णुधर्मोक्तो हिरण्यगर्भदानविधिः ।
सनत्कुमार उवाच ।
तुलैका कथिता ह्य् एषाम् आद्याम् आसाद्य रूपिणीम् ।
[२२८] हिरण्यगर्भं वक्ष्यामि द्वितीयं सर्वसिद्धिदम् ॥
अधःपात्रं सहस्रेण हिरण्येन विधीयते ।
ऊर्ध्वपात्रं तदर्धेन मुखसंवेशमात्रकम् ॥
फलाम् एवं शुभां कुर्यात् सर्वालङ्कारसंयुताम् ।
अधःपात्रे स्मरेद् द्वियां गुणत्रयसमन्विताम् ॥
चतुर्विंशतिकां देवीं ब्रह्मविष्न्वग्निरूपिणीम् ।
ऊर्ध्वपात्रे गुणातीते षट्त्रिंशकम् उमापतिम् ॥
आत्मानं पुरुषं ध्यायेत् पञ्चविंशकम् अब्जकम् ।
पूर्वोक्तस्थानमधे तु वेदिकोपरिमण्डले ॥
शालिमध्ये क्षिपेन् नीत्वा नववस्त्रैश् च वेष्टितम् ।
माषकल्केन चालिप्य पञ्चगव्येन पूरयेत् ॥
ईशानाद्यैर् यथान्यायं पञ्चभिः परिपूजयेत् ।
पूर्ववच् चैव पूजा च होमश् चैव यथाक्रमम् ॥
आद्या हिरण्यगर्भादिदानानां प्रकृतिभूता तुला पुरुषोक्तक्रिया, अतः सा नान्यरूपिणी, हिरण्यगर्भादीन् (?) प्रातिस्विकविशेषैः सह तुलापुरुषोक्तं मण्डपादिऋत्विग्दक्षिणान्तं सामान्यं समुच्चयम् इत्य् अर्थः, सहस्रेणा कर्षणम् इत्य् अवधेयम् ।
कुर्यात् सहस्रकर्षेण अधःपात्रं हिरण्यतः ।
तद् अर्धेन्ōर्ध्वपात्रं तु सहस्रेण द्वयं तु वा ॥
द्विपादं वा त्रिपादं वा सपादं सार्धम् एव वा ।
द्विगुणं वा प्रकर्तव्यं यथा लाभं तु वा भवेत् ॥
सद्वृक्षजं वा तं कृत्वा स्वर्णपट्टैस् तु वेष्टयेत् ॥
इति कामिकोक्तेः । [२२९] एतच् च स्वल्पदानाधिकारिविषयम् । आढ्यविषये तु तुलातन्त्रोक्तं यथा ।
चत्वारिंशत् षडधिकैः सहस्त्रैर् गर्भम् उत्तमम् ।
पञ्चविंशसहस्त्रैस् तु मध्यमं समुदाहृतम् ।
देवीम् उपापतिं च स्मरेद् इति, तयोः प्रतिमां कृत्वेत्य् अवधेयम् । वातुले ऽपि ।
अधः पात्रे तु कर्तव्यम् उमारूपं प्रसन्नकम् ।
ऊर्ध्वपात्रे तु कर्तव्यो महेशस्य तु विग्रहः ॥
अथ वा शक्तिभागे तु लक्ष्मीं वै तत्र कारयेत् ।
ऊर्ध्वपात्रे तु कर्तव्यं विष्णुरूपं परं शुभम् ॥
एतेषां लक्षणम्, ब्रह्माण्डदाने वक्ष्यते । आत्मानम् इति, यजमानम् ईश्वरेण निषिक्तं गर्भस्थं पुरुषत्वेन स्मरेत् ततो मण्डलान्तस्थपद्मं कर्णिकामध्ये धान्यराशौ हिरण्यगर्भसञ्ज्ञां फलाञ् चेन् निक्षिपेत् । माषकल्कः अयःफलकसम्बन्धी नीरन्ध्रतार्थः । पञ्चगव्यपूरणम् उक्तं वातुले ।
गोमूत्रं द्विगुणं क्षीरात् क्षीरार्धं दधि कथ्यते ।
तदर्धं गोमयं ज्ञेयं गोमयार्हं घृतं भवेत् ॥
हिं कृण्वतीत्य चा तत्र गोमूत्रं तु विनिक्षिपेत् ।
शकमयम् इत्य् ऋचा तत्र गोमयं परिकल्पयेत् ॥
आप्यायस्वेति मन्त्रेण क्षीरं तत्र प्रकल्पयेत् ।
दधिक्राव्नेति मन्त्रेण दधि तत्र प्रयोजयेत् ॥
घृतं मिमिक्षे मन्त्रेण घृतं तत्र विलोडयेत् ।
[२३०] एवम् आपूरयेद् यत्नाज् जानुदध्नं तु देशिकः ॥
सम्यग् आपूरयेद् विद्वान् ब्रह्मजज्ञानकेन वै ।
प्रविशेत् प्राङ्मुखो विद्वान् आविश्यास्त उदङ्मुखः ॥ इति ।
ईशानादिमन्त्रास् तु तैत्तिरीयकश्रुतौ ।
ईशानः सर्वविद्यानाम् ईश्वरः सर्वभूतानां ब्रह्माधिपतिर् ब्रह्मणो ऽधिपतिः ब्रह्मा शिवो मे ऽस्तु सदाशिवो सद्योजातं प्रपद्यामि सद्योजाताय वै नमः, भवे भवेनाति भवे भजस्व मां भवोद्भवाय नमः, वामदेवाय नमः, ज्येष्ठाय नमः, श्रेष्ठाय नमः, बलविकरणाय नमः, बलप्रमथनाय नमः, सर्वभूतदमनाय नमः, मनोन्मनाय नमः अघोरेभ्यो ऽथ घोरेभ्यो घोरघोरतरेभ्यश् च सर्वतः सर्वसर्वदेवेभ्यो नमस् ते ऽस्तु रुद्ररूपेभ्यः, तत्पुरुषाय विद्महे महादेवाह धीमहि तन् नो रुद्रः प्रचोदयाद् इति ॥
पूर्ववद् इति लिङ्गपुराणोक्ततुलापुरुषदानवद् इत्य् अर्थः ।
गौरीगायत्रिकाम् जप्त्वा प्रविशेत् प्राङ्मुखः स्वयम् ।
सुभगायै विद्महे यशीमालिन्यै धीमहि ।
तन् नो गौरी प्रचोदयात् ।
इति गौरीगायत्री ।
विधिनैव ततः पश्चाद् गर्भाधानादिकाः क्रियाः ।
कृत्वा षोडशमार्गेण विधिना ब्राह्मणोत्तमः ॥
दूर्वारसेन कर्तव्यं सेचनं दक्षिणे पुटे ।
उदुम्बरफलैः सार्धम् एकविंशत्कुशांस् तदा ॥
शक्त्याथ तावद् एवात्र कुर्यात् सीमन्तकर्मणि ।
उद्वाहे कन्यकां कृत्वा त्रिंशन्निष्केन शोभनम् ॥
अलङ्कृत्य तथा हुत्वा शिवाय विनिवेदयेत् ।
[२३१] अन्नप्राशनके विद्वान् भोजयेत् पायसादिभिः ॥
एवं विश्वजिदन्ताश् च गर्भाधानादिकाः क्रियाः ।
शक्तिबीजेन कर्तव्या ब्राह्मणैर् वेदपारगैः ॥
शेषं सर्वं च विधिना तुलादानवद् आचरेत् ॥
विधिनेत्यादि, गर्भादानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणोपनिष्क्रमणान्न-प्राशनचौडोपनयनवेदव्रतचतुष्कगोदानसमावर्तनविवाहाख्याः षोडशक्रियाः, तत्र निषेकपुंसवने यजमानस्य मातापितृस्थानीयमिथुनम् आनीय तत्र पुंसा स्त्रिया वा च उपरिपात्रनासारन्ध्रस्थापनीये छिद्रद्वये, दक्षिणपुटे दूर्वारसं सेचयेद् आचार्यः ।
कर्तारं भार्यया युक्तं सर्वालङ्कारशोभितम् ।
आनीय कुर्यात् तत्स्थस्य गर्भाधानादिकाः क्रियाः ॥
भार्यादक्षपुटे दूर्वारससेचनम् आचरेद् इति कामिकोक्तेः ।
प्रजावज् जीवपुत्राभ्यां सेचनं तत आचरेत् ।
दूर्वारसेन कर्तव्यं व्याहृत्या च घृताहुतिः ॥
इति वातुलोक्तेश् च । उदुम्बरफलैः सह एकविंशत् कुशान् हृदाहुल्लेखाख्येन शक्तिबीजेन सीमन्तकर्म कुर्यात् ।
एकविंशतिसङ्ख्यातान् उदुम्बरफलान्वितान् ।
कुशान् आनीय शक्त्याथ कुर्यात् सीमन्तकर्म चेति कामिकोक्तेः । निषेकादित्रयं च, गर्भान्तःस्थे कार्यम्, निष्कान्ते त्व् इतराणीति, एवम् एताह् षोडशक्रियाः, तदुपरि पञ्चमहायज्ञधर्मा अर्यमान्तास् चतुर्विंशतिः, एवं चत्वारिंशत्संस्कारकर्माणि गौतमादिस्मृतानि [२३२] विश्वजिद्यागसहितानि कार्याणि इत्य् अर्थः । शेषम् इति, ऋत्विगाचार्यदक्षिणादिकं सर्वेभ्यो हिरण्यगर्भद्रव्यदानं तदनुमत्या चान्येभ्यो ऽपि श्रोत्रियादिभ्यो दानम् इति लिङ्गपुराणोक्ततुलापुरुषदानवद् अनुविधेयम् ।
इति श्रीलिङ्गपुराणोक्तो हिरण्यगर्भदानविधिः ।
अथ ब्रह्माण्दाभिधानं तृतीयं महादानं लिख्यते । मत्स्यपुराणे ।
अथातः सम्प्रवक्ष्यामि ब्रह्माण्डं विधिपूर्वकम् ।
यच् छ्रेष्टं सर्वभूतानां महापातकनाशनम् ॥
पुण्यं दिनम् अथासाद्य तुलापुरुषदानवत् ।
ऋत्विग्मण्डपसम्भारभूषणाच्छादनादिकम् ॥
लोकेशावाहनं तद्वद् अधिवासनकं तथा ॥
तुलापुरुषदानवद् इति, कालदेशवृद्धिश्राद्धशिवादिपूजाब्राह्मणवाचनगुरुऋत्विग्वरण-मधुपर्कदानकुण्डमण्दपवेदिकासम्भारलोकेशावाहनाधिवासनादि सर्वं मत्यपुराणोक्ततुलापुरुषदानविहितं वेदितव्यम् इत्य् अर्थः ।
कुर्याद् विंशत्पलाद् ऊर्ध्वम् आ सहस्राच् च शक्तितः ।
शकलद्वयसंयुक्तं ब्रह्माण्डं काञ्चनं बुधः ॥
शकलद्वयम्, खण्डद्वयम् । तल्लक्षणं तु ब्रह्माण्डपुराणे ।
कुम्भछाया भवेद् यादृक् प्रतीच्यां दिशि चन्द्रमाः ।
उदितः शुक्लपक्षादौ वपुर् अण्डस्य तादृशम् ॥ इति ।
कुम्भछाया इति, कुम्भछाया ग्रीवाहीनकुम्भाद् इत्य् अवधेयम् ।
दिग्गजाष्टकसंयुक्तं वडदाङ्गसमन्वितम् ।
[२३३] लोकपालाष्टकोपेतं मध्यस्थितचतुर्मुखम् ॥
शिवाच्युतार्कशिखरम् उमालक्ष्मीसमन्वितम् ।
वस्वादित्यमरुद्गर्भं महारत्नसमन्वितम् ॥
अथैतेषां दिग्गजप्रभृतीनां क्रमेण लक्षणान्य् उच्यते । आदित्यपुराणे ।
शुभ्राभ्रं च चतुर्दंष्ट्रः श्रीमान् ऐरावतो गजः ।
पुष्पदन्तो बृहत्साभ्रः षड्दन्तः पुष्पदन्तवान् ॥
सामान्यगजरूपेण शेषा दिक्करिणः स्मृताः ॥
तन्नामानि शास्त्रान्तरे ।
ऐरावतः पुण्डरीको वामनः कुमुदोञ्जनः ।
पुष्पदन्तः सार्वभोमः सुप्रतीकश् च दिग्गजाः ॥
वेदाङ्गानि स्कन्दपुराणे ।
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां चितिः।
धन्दोगश् चेति षड् एतानि वेदाङ्गानि प्रचक्षते ॥
मूर्तानि ब्रह्मणो लोके साक्षसूत्राणि तानि तु ।
द्विजातिषु शुभास्यानि वसे दधति कुण्डिकाम् ॥
तानि च पश्चिमदिशि वेदसन्निधो (धौ?) निवेशनीयानि । दिग्विशेषानाम्नानात् प्रधानं नीयमानं हि तत्राङ्गान्य् अपकर्षतीति न्यायात्, वक्ष्यते च पश्चिमे चतुरो वेदान् इति । लोकपालरूपाण्य् आह विश्वकर्मा ।
चतुर्दन्तो गजारूढो वज्रपाणिः पुरन्दरः ।
प्राचीपतिः प्रकर्तवो नानाभरणभूषितः ॥
[२३४] पिङ्गभ्रूश्मश्रुकेशाक्षः पीनाङ्गजठरोरुणः ।
छागस्थः साक्षसूत्रस्थसप्तार्चिः शक्तिधारकः ॥
ईषत्पीनो यमः कार्यो दण्डहस्तो विजानना ।
रक्तदृक् पाशधृक् क्रुद्धो निरृतिर् विकृताननः ॥
पुंस्थितः खड्गहस्तश् च भूतवान् राक्षसावृतः ।
वरुणः पाशभृत् सौम्यः प्रतीच्यां मकराश्रयः ॥
धावन् हरिणपृष्टस्थो ध्वजधारी समीरणः ।
दशाश्वरथगः सोमो गदापाणिर् वरप्रदः ॥
शशकवाह इत्य् आगमान्तरम् ।
पूर्वोत्तरे त्रिनेत्रश् च वृषभस्थस् त्रिशूलभृत् ।
कपालपाणिश् चन्द्रार्धभूषणः परमेश्वरः ॥
चतुर्मुखरूपं तु विष्णुधर्मोत्तरात् ।
पद्मपत्रासनस्थश् च ब्रह्म कार्यश् चतुर्मुखः ।
अक्षमालास्रजं बिभ्रत् पुस्तकं च कमण्डलुम् ॥
वासः कृष्णाजिनं तस्य पार्श्वे हंसस् तथैव च ॥
शिवलक्षणम् उक्तं वायुपुराणे ।
पञ्चवक्त्रो वृषारूढः प्रतिवक्त्रं त्रिलोचनः ।
कपालशूलखट्वाङ्गी चन्द्रमोलिः (?) सदाशिवः ॥
विष्णुलक्षणम् उक्तं तुलापुरुषदाने । सूर्यलक्षणम् उक्तं विष्णुधर्मोत्तरे ।
रविः कार्यः शुभश्मश्रुः सिन्दरारुणसुप्रभः ।
पद्मासनः पद्मकरो भूषितो रशनाधरः ॥
उमालक्ष्मीसमन्वितम् इत् यत्र, शिवाच्युतयोः । [२३५] सन्निहिते उमालक्ष्म्यौ विदेह्यौ । उमालक्षणम् उक्तं देविपुराणे ।
गौरीं शङ्खेन्दुवर्णाभां शर्वरोशनिषेविताम् ।
वृत्तपद्मासनासीनां साक्षसूत्रकमण्डलम् ॥
वरदोद्यतरूपाढ्यां सर्वमाल्यफलप्रियाम् ।
वरदोद्यतरुपाढ्याम्, वरदाभयपाणिकाम् इत्य् अर्थः । लक्ष्मीलक्षणम् उक्तं पञ्चरात्रे ।
पद्मासनस्थां कुर्वीत श्रियं त्रैलोक्यमातरम् ।
गौरवर्णां सुरूपाञ्च सर्वालङ्कारभूषिताम् ॥
रौक्मपद्मकरव्यग्राम् वरदां दक्षिणेन तु ।
वस्वादिरूपाणि नारदीये ।
प्रसन्नवदनाः सौम्या वरदाः शक्तिपाणयः ।
पद्मासनस्था द्विभुजाः कर्तव्या वसवः सदा ॥
पट्टासनस्था द्विभुजाः पद्मगर्भान्तकान्तयः ।
करादिस्कन्धपर्यन्तनालपङ्कजधारिणः ॥
अधःसंस्थितमेषादिराशयः प्रावृताङ्घ्रिकाः ।
इन्द्राद्या द्वादशादित्यास् तेजोमण्डलमध्यगाः ॥
तथा ।
वायुतुल्येन रूपेण मरुतो नाम देवताः ।
कर्तव्या इति शेषः, वस्वादिनामानि, तुलापुरुषोक्तानि वेदितव्यानि, महारत्नसमन्वितम् इति, महारत्नानि परिभाषायाम् उक्तानि, अनन्तमिथुनान्वितम् इति क्वचित् पाठः । [२३६] फणासप्तान्वितो ऽनन्तः पृथ्वो स्वीरूपधारिणीत्य् अनन्तमिथुनम् । अथ प्रकृतम् उच्यते ।
वितस्तेर् अङ्गुलशतं यावद् आयामविस्तरम् ।
कोशेयवस्त्रसंवीतं तिलद्रोणोपरि न्यसेत् ।
तथाष्टादशधान्यानि समन्तात् परिकल्पयेत् ॥
वितस्तेर् अङ्गुलशतम् इति, द्वादशाङ्गुलम् आरभ्य अङ्गुलशतं यावच् छक्त्यनुसारेण कार्यम् इत्य् अर्थः । द्रोणमानम् अष्टादशधान्यानि च परिभाषायां द्रष्टव्यानि, स च तिलद्रोणो वेदिकायां लिखितचक्रस्योपरि स्थापनीयः ।
पूर्वेणानन्तशयनं प्रद्युम्नं पूर्वदक्षिणे ।
प्रकृतिर् दक्षिणे देशे सङ्कर्षणम् अतः परम् ॥
पश्चिमे चतुरो वेदान् अनिरुद्धम् अतः परम् ।
अग्निम् उत्तरतो हैमं वासुदेवम् अतः परम् ॥
समन्ताद् गुणपीठस्थान् अर्चयेत् काञ्चनान् बुधः ।
स्थापयेद् वस्त्रसंवीतान् पूर्णकुम्भान् दशैव तु ॥
पूर्वेणेत्यादि, ब्रह्माण्डात् पूर्वदेशे अनन्तशयनं शेष शायिनं गुणपीठे स्थापयेत्, तन् मुर्तिलक्षणम् । विष्णुधर्मोतरात् ।
देवदेवश् च कर्तव्यः शेषसुप्तश् चतुर्भुजः ।
एकपादो ऽस्य कर्तव्यो लक्ष्युत्सङ्गगतः प्रभुः ॥
तथापरश् च कर्तव्यः शेषभोगाङ्कसंस्थितः ।
एको भुजो ऽस्य कर्तव्यस् तत्र जानौ प्रसारितः ॥
कर्तव्यो नाभिदेशस्थस् तथा तस्यापरः करः ।
[२३७] तथैवान्यः करः कार्यो देवस्य तु शिरोधरः ॥
सन्तानमञ्जरीधारी तथावास्य करः परः ।
नाभिसम्भूतकमले सुखासीनः पितामहः ॥
नाललग्नौ तु कर्तव्यौ पद्मस्थौ मधुकैटभौ ।
शङ्खचक्रगदादीनि मूर्तानि परतो न्यसेत् ॥ इति ।
प्रद्युम्नलक्षणं पञ्चरात्रादिषु ।
दक्षिणोर्ध्वकरे पद्मं दद्याच् छङ्खम् अधः करे ।
चक्रम् ऊर्ध्वे ततो वामे गदां दद्यात् तथा द्विज ।
चापेषुधृग् वा प्रद्युम्नो रूपवान् विश्वमोहकः ॥ इति ।
अत्र यद्य् अपि प्रकृतेर् अव्यक्तरूपतया विधानम् अश्क्यं तथापि लक्ष्यादिशब्दव्यपदेश्यं सुकरम् अस्ति तद् रूपभित्यतस् तदन्यतमरूपनिर्माणम् एव न्याय्यम् । तद् उक्तं मार्कण्डेयपुराणे ।
सर्वस्याद्या महालक्ष्मीस् त्रिगुणा परमेश्वरी ।
मातुलिङ्गगदाखेटं पानपात्रं च बिभ्रतौ ।
नागयोनिं च लिङ्गं च बिभ्रतौ नृप मूर्धनि ॥ इति ।
सङ्कर्षणरूपम् विष्णुधर्मोत्तरे ।
वासुदेवस्य रूपेण कार्यः सङ्कर्षणः प्रभुः ।
सत् उ शुक्लवपुः कार्यो नीलवासा यदूत्तमः ॥
गदास्थाने च मुशलं चक्रस्थाने च लाङ्गलम् ॥ इति ।
वेदमूर्तयो भूतघ्टे वक्ष्यन्ते । अनिरुद्धरूपं नारदीये ।
कृष्णं चतुर्भुजं दक्षे शरं खड्गं तदुत्तरे ।
धनुः खेटधरं वीरम् अनिरुद्धं प्रचक्षते ॥
[२३८] अग्निलक्षणम् उक्तम् । वासुदेवरूपम् अपि नारदीये ।
वासुदेवः शिवः शान्तः सिताब्जश् च चतुर्भुजः ।
योगमूर्द्ध्वोर्धशङ्खश् च हृद्देशार्पितहस्तकः ।
धारयेद् उत्तरे चक्रं करे वै दक्षिणे गदाम् ॥ इति ।
एते च देवताविशेषाः, ब्रह्माण्डनिर्माणवत् कृप्तसुवर्णात् पृथक्सुवर्णेनैव घटनीया ब्रह्माण्डस्य किलविंशतिपलात् प्रभृति पलसहस्रावधिर् इह नियमः, पुराणेषु दृश्यते ततो ऽवकृष्यमाणकाञ्चने तस्मिन् न्यूनसङ्ख्यत्वाद् यथावद्विहितत्वम् आपद्यते न च दिग्गजाष्टकसंयुक्तं लोकपालोपेतम् इत्यादिना एक एव तावद्भिर् अङ्गैर् अङ्गी निष्पाद्यत इति ब्रह्माण्डवत् कॢप्तसुवर्णेनैव दिग्गजादिप्रतिमानिर्मितौ न कश्चिद् वाध इति वाच्यम्, काञ्चनान् कारयेद् इति पुनः काञ्चनोपदेशानार्थक्यापत्तेः अश्रूयमाणपरिमाणानां प्रतिमानाम् अङ्गुष्ठपर्वप्रभृतिवितस्तिपर्यन्तं यथाशक्ति परिमाणं कल्पनीयम् । पूर्णकुम्भान् स्थापयेद् इत् यत्र समताद् इति योज्यम् ।
दशैव धेनवो देया सहेमाम्बरदोहनाः ।
पादुकोपानहछत्रतामरासनदर्पणैः ॥
भक्षभोज्यान्नदीपेक्षुफलमाल्यानुलेपनैः ।
होमाधिवासनान्ते च स्थापितो वेदपुङ्गवैः ॥
इत्य् इत्थम् उच्चारयेन् मन्त्रं त्रिः कृत्वाथ प्रदक्षिणम् ॥
सहेमाम्बरदोहना इति, हेमशृङ्ग्यः ताम्रदोहनाः सवस्त्राः पार्शतो दक्षिणार्थम् उपकल्पनीयाः तत्राचार्याश् च द्वे ऋत्विग्भ्यो ऽन्याः [२३९] सम्प्रदेया, जापकादीनां अन्यैव यथाशक्ति दक्षिणेति, भविष्योत्तरे तु ज्ञेयं निष्कशतं पार्थेत्यादिना सुवर्णम् एव दक्षिनार्थम् उपकल्पनीयम् इत्य् उक्तम्, श्राद्धाधिवासनदिनाद् अन्येदुर् अग्निकुण्डेषु ऋत्विगुपदेशनादिकर्मशेषसमाप्तौ तुलापुरुषदानवद् विहितायां पूर्ववद् एव स्नापितः शुक्लमाल्यां शुक्लमाल्यां वरधरो गृहीतकुसुमाञ्जलिर् यजमानो ब्रह्माण्डं त्रिः प्रदक्षिणीकृत्य मन्त्रम् उच्चारयेत् । मन्त्रः ।
नमो ऽस्तु विश्वेश्वरविश्वधामजगत्सवित्रे भगवन् नमस् ते ।
सप्ताधिलोकामरभूतलेण गर्भेण सार्धं वितराभिर् अक्षाम् ॥
ये दुःखितास् ते सुखिनो भवन्तु प्रयान्तु पापानि चराचराणाम् ।
त्वद्दानशस्त्राहतपातकानां ब्रह्माण्डदोषाः प्रलयं व्रजन्तु ॥
एवं प्रणम्यामरविश्वगर्भं दद्याद् द्विजेभ्यो दशधा विभज्य ।
भागद्वयं तत्र गुरोः प्रकल्पा समं भजेच् छेशम् अतः क्रमेण ।
दानवाक्यं तुलापुरुषवद् वेदितव्यं तच् च दशधा विभज्य गुरोर् भागद्वयं प्रकल्प्य अविशिष्टाष्टभागानाम् एकैकं भागं त्रिधा विभज्य चतुर्विंशतिसङ्ख्येभ्य ऋत्विगादिभ्यः समं दद्यात्, तदनुज्ञयान्येभ्यो ऽपि ब्राह्मणेभ्यो दद्यात् ।
स्वल्पहोमं गुरुर् एक एव कुर्याद् अथैकाग्निविधानयुक्त्या ।
स एव सम्पूज्यतमो ऽल्पवित्तैर् यथोक्तवस्ताभरणदिकेन ॥
विंशतिपलाद् आरभ्य पलसहस्रावधिद्रव्ये ब्रह्माण्डे सहस्रतदर्धाद् इत्य् उत्तममध्यमादित्रैविध्यकल्पनायां कनीयोभागस्यालप्त्वम् अवधेयम्, विंशतिपलनिर्मितस्यैवाल्पत्वम् इत्य् एके, उक्तं विंशतिपलाद् अर्वाक् यथाशक्ति विधाने स्वल्पत्वम् अवगन्तव्यम् इत् केचित्, एकाग्निविधानम् एकस्मिन्न् एव कुण्डे होमकरणम्,
[२४०] कुण्डम् अपि वरुणदिग्भागस्थितं वृत्ताकारं च कार्यम्, तद् एतत् परिभाषायाम् उपपादितम्, अथ पुण्याहवाचने कृते देवतावेदीसमीपं गत्वा पूर्ववद् यजमानेन देवतापूजायां विहितायाम् आचार्यो विसर्जनं विदध्यात् ।
इत्थं य एतद् अखिलं पुरुषो ऽत्र कुर्याद्
ब्रह्माण्डदानम् अधिगम्य महद्विमानम् ।
निर्धूतकल्मषविशुद्धतनुर् मुरारेर्
आनन्दकृत् पदम् उपैति सहाप्सरोभिः ॥
सन्तारयेत् पितृपितामहपुत्रपौत्र-
बन्धुपिर्यातिथिकलत्रशताष्टकं यः ।
ब्रह्माण्डदानशकलीकृतपातकौघम्
आनन्दयेच् च जननीकुलम् अप्य् अशेषम् ॥
इति पठति शृणोति वा य् अएतत्
सुरभवनेषु गृहेषु धार्मिकाणाम् ।
मतिम् अपि च ददाति मोदते सा
मरपतिभवने सहाप्सोरोभिः ॥
इति मत्स्यपुराणोक्तो ब्रह्माण्डदानविधिः ।
राजोवाच ।
विधिं ब्रह्माण्डदानस्य कृत्वायं मोक्षभाग् भवेत् ।
कालं देशं द्विजं तीर्थं सर्वम् एतद् वदस्व मे ॥
कृतेन येन सर्वस्य फलभागो भवाम्य् अहम् ।
कुत्सितस्यास्य भावस्य मोक्षः स्याद् अचिराच् च मे ॥
[२४१] वसिष्ठ उवाच ।
एवं श्रुत्वा ततो राजन् पुरोधास् तस्य तं द्विजः ।
ब्रह्माण्डं कारयामास सौवर्णं सर्वधातुभिः ॥
पीठं निष्कसहस्रेण पद्मं तत्र प्रकल्पयेत् ।
तत्र ब्रह्म तस्य मध्ये पद्मरागैर् अलङ्क्र्तः ॥
सावित्र्या चैव गायत्र्या ऋषिभिर् मुनिभिः सह ।
नारदाद्यैः सुतैः सर्वैऋ इन्द्राद्यैश् च सुरैस् तथा ॥
सौवर्णविग्रहाः सर्वे ब्रह्मणस् तु पुरःसराः ।
वाराहरूपो भगवान् लक्ष्म्या सह सनातनः ॥
नीलान् मरकतांश् चैव भूषायाम् तस्य कारयेत् ।
रजतस्य विशुद्धस्य देहं रुद्रस्य कारयेत् ॥
यो मौक्तिकैस् तस्य शोभां कारयेद् अत्र बुद्धिमान् ।
मौक्तिकैश् चापि सोमस्य शोभां वल्कैर् दिवाकरैः ॥
सावित्रीगायत्र्यौ तु ब्रह्मणः पार्श्वभागे स्थापनीयौ । तद् आह नारदः ।
सावित्री दक्षिणे पार्श्वे गयत्रि नाम वामतः ।
विलोकयन्त्यौ ब्रह्माणं साक्षसूत्रकमण्डलुम् ॥
ऋषयः सप्त गौतमाद्याः । तद् उक्तम् आदित्यपुराणे ।
गौतमश् च भरद्वाजो विश्वामित्रश् च काश्यपः ।
जमदग्निर् वसिष्ठो ऽत्रिः सप्त वैवस्वते ऽन्तरे ॥
[२४२] सप्तर्षिलक्षणम् आह यमः ।
सप्तर्षयस् त(?) जटिलाः कमण्डल्वक्षसूत्रिणः ।
ध्याननिष्ठा वसिष्ठस् तु कार्यो भार्यासमन्वितः ॥
मुनयो वानप्रस्थाः, नारदाद्यैर् इति तेषां विशेषणम् । तान् आह मनुः ।
अहं पर्जाः सिसृक्षुस् तु तपस् तप्त्वा सुदुस्तरम् ।
पतीन् प्रजानाम् असृजं महर्षीन् आदितो दश ॥
मरीचिम् अत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुं ।
प्रचेतसं वसिष्ठं च भृगुं नारदम् एव च ॥
तल्लक्षणम् आह विश्वकर्मा ।
जटिलाः श्मश्रुलाः शान्ता दशाधमनिसन्तताः ।
कुसुम्भाक्षधराः कार्या मुनयो द्विभुजाः सदा ॥
तेषु सव्यभुजामूलश्लिष्टधीरस् तु नारदः ।
कर्पूरगौरदेहश् च साक्षसूत्रकमण्डलुः ॥
इन्द्रादिरूपाण्य् अपि प्राग् अभिहितानि । वाराहरूपं विष्णुधर्मोत्तरे ।
वाराहरूपः कार्यस् तु शेषोपरिगतः प्रभुः ।
शेषश् चतुर्भुजः कार्यश् चारुरत्नफणान्वितः ॥
कर्तव्यौ शीरमुशलौ करयोस् तस्य यादव ।
सर्परूपश् च कर्तव्यस् तथैव रचिताञ्जलिः ॥
आलीटस्थानसंस्थानस् तत्पृष्ठे भगवान् भवेत् ।
वामारतिगता तस्य योषिद्रूपा वसुन्धरा ॥
नमस्कारपरा तस्य कर्तव्या द्वुभुजा शुभा ।
[२४३] यस्मिन् भुजे धरा देवी तत्र शङ्खः करे भवेत् ॥
अन्ये तस्य कराः कार्याः पद्मचक्रगदाधराः ।
पद्मासनस्थां कुर्वीत श्रियं त्रैलोक्यमातरम् ॥
गौरवर्णां सुरूपां च सर्वालङ्कारभूषिताम् ।
रौक्मपद्मकरव्यग्रां वरदां दक्षिणेन तु ॥
रुद्ररूपं प्रागभितम्, ग्रहलक्षणानि तद्वर्णाश् च नवग्रहदाने वक्ष्यन्ते, सर्ववर्णानि, ग्रहसमानवर्णानि, रत्नानि भूषणार्थं दापयेद् इत्य् अर्थः । सर्वधातुभिः ब्रह्माण्डं कर्तव्यम् इत्य् उक्तम्, तत्र सुवर्णस्य पीठनिर्माणादिविनियोगम् अभिधायेदानीं धात्वन्तरैः कर्तव्यम्, तद् उच्यते ।
पीठात् सप्तगुणं रौप्यं रौप्यात् ताम्रं तथाविधम् ।
ताम्रात् सप्तगुणं कार्यं कांस्यम् अत्र नराधिप ॥
त्रपुणः परतः सीमं तावल् लोहं च कारयेत् ।
सप्तद्वीपाः समुद्राश् च सप्तैव कुलपर्वताः ॥
अनया सङ्ख्यया ज्ञात्वा निपुणैः शिल्पिभिः कृताः ॥
तथाविधं सप्तगुण्म् इत्य् अर्थः, सप्तद्वीपा इत्यादि एतेषाम् एकैकधातुना एकैकं द्वीपं समुद्रं कुलाचलं च रचयेद् इत्य् अर्थः ।
यादृशानि च भूतानि राजतान्य् एव कारयेत् ।
अरण्यानि च सत्वानि सौवर्णानि च कारयेत् ॥
वृक्षान् वनस्पतींश् चात्र तृणवल्लीः सवीरुधः ।
यादृशानि, जलसम्भवानि, पुष्पफलवन्तो वृक्षाः, अपुष्पाः फलिनो वनस्पतयः, वीरुधो गुच्छगुल्मादयः ।
सर्वं प्रकल्प्य विधिवत् तीर्थे देयं विचक्षणैः ।
कुरुक्षेत्रे गयायां च प्रयागे ऽमरकण्टके ॥
[२४४] द्वारवत्यां प्रभासे च गङ्गाद्वारे च पुष्करे ।
तीर्थेष्व् एतेषु वै देयं ग्रहणे सोमसूर्ययोः ॥
दिनछिद्रेषु सर्वेषु अयने दक्षिणोत्तरे ।
व्यतीपाते बहुगुणं विषुवे च विशेषतः ॥
दातव्यम् एतद् राजेन्द्र विचारं नैव कारयेत् ।
बालाग्निहोत्रिणं विप्रं सुरूपं च गुणान्वितम् ॥
सपत्नीकं च सम्पूज्य भूषयित्वा विभूषणैः ।
पुरोहितं मुख्यतमं कृत्वान्यांश् च तथर्त्विजः ॥
चतुर्विंशद्गुणोपेतान् सपत्नीकान् निमन्त्रितान् ।
अहताम्बसुच्छन्नान् स्रग्विनः सुविभूषितान् ॥
अङ्गुलीयकरत्नानि कर्णवेष्टांश् च दापयेत् ।
एवंविधांश् च सम्पूज्य तेषाम् अग्रे स्वयं स्थितः ॥
अष्टाङ्गप्रणिपातेन प्रणम्य च पुनः पुनः ।
पुरोहिताय पुरतः कृत्वा वै करसम्पुटम् ॥
यूयं वै ब्राह्मणा धात्रा मैत्रत्वेनानुगृह्यते ।
सौमुख्येनेह भवतां भवेत् पूतो नरः स्वयम् ॥
भवतां प्रीतियोगेन स्वयं प्रीतः पितामहः ।
ब्रह्माण्डेन तु दत्तेन तेषां मतिजनार्दनः ॥
पिनाकपाणिर् भगवान् शक्रश् च त्रिदशेश्वरः ।
एते वै तोषम् आयान्ति अनुध्याता द्विजोत्तमैः ॥
एवं स्तुत्वा ततो राजा ब्राह्मणान् वेदपारगान् ।
[२४५] ब्रह्माण्डं गुरवे प्रादात् सविधानं पुनः पुनः ॥
सर्वकामैस् ततस् तप्तो स ययौ स्वर्गं नराधिप ।
तेनापि गुरुणा तच् च विभक्तं ब्राह्मणैः सह ॥
दत्तस् तैर पि चान्येभ्यो ब्रह्माण्डांशो नराधिपः ।
ब्रह्माण्डं भूमिदानं च ग्राह्यं नैकेन तद् भवेत् ॥
गृह्णन् दोषम् अवाप्नोति ब्रह्महत्यां न संशयः ।
सर्वेषां चैव प्रत्यक्षं दातव्यं (?) तं नराधिपः ॥
दीयमानं च पश्यन्ति ते ऽपि पूता भवन्ति हि ।
दर्शनाद् एव ते पूता भवेयुर् नात्र संशयः ॥
भीमद्वादशी वात्रोक्ता स्वर्णनाभिमृगाजिनम् ।
एतानि गत्वा पश्येत् तु दृष्टैर् एतैः क्रियाफलम् ॥
अयत्नाद् एव लभ्येत कर्तुश् चैव सलोकताम् ।
इति पद्मपुराणे ब्राह्माण्डदानविधिः ।
अथ कल्पपादपसञ्ज्ञं चतुर्थं महादानम् आरभ्यते ।
मत्स्य उवाच ।
कल्पपादपदानाख्यम् अतः परम् अनुत्तमम् ।
महादानं प्रवक्ष्यामि सर्वपातकनाशनम् ॥
पुण्यं दिनम् अथासाद्य तुलापुरुषदानवत् ।
पुण्याहवाचनं कुर्याल् लोकेशावाहनं तथा ॥
ऋत्विग्मण्डपसम्भारभूषणाच्छादनादिकम् ॥
आदिशब्देन कालदेशवृद्धिश्राद्धशिवादिपूजागुरुऋत्विग्चतुष्टयवरणमधुपर्कदानहोम-वेदिकोपरिचक्रलेखनपञ्चवर्ण**[२४६]**वितानपताकातोरणादि मत्स्यपुराणोक्ततुलापुरुष-दानवद् वेदितव्यम् ।
काञ्चनान् कारयेद् वृक्षान् नानाफलसमन्वितान् ।
नानाविहारवस्त्राणि भूषणानि च कारयेत् ॥
नानाफलानि, स्त्रीपुरुषगोगजवाजिमणिवज्रकनकरजतभक्ष्यफलादीनि ।
शक्तितस् त्रिपलाद् ऊर्ध्वम् आ सहस्रात् प्रकल्पयेत् ।
अर्धात् कॢप्तसुवर्णस्य कारयेत् कल्पपादपम् ॥
गुडप्रस्थोपरिष्टाच् च सितवस्त्रयुगावृतम् ।
ब्रह्मविष्णुशिवोपेतं पञ्चशङ्खं सभास्करम् ॥
कामदेवम् अधस्ताच् च सकलत्रं प्रकल्पयेत् ॥
अर्धात् कॢप्तसुवर्णस्येति, यथाशक्तिदानवकॢप्तसुवर्णस्यार्धेन ब्रह्मादिप्रतिमासहितं कल्पपादपं कुर्यात्, द्वितीयम् अप्य् अर्धं चतुर्धा विभज्य एकैकांशेन वक्ष्यमाण-स्वस्वदेवतासहितान् सन्तानादीन् विदध्यात्, गुडप्रस्थो ऽत्र द्वात्रिंशत्पलपरिमितः, तथा चोक्तम्, द्वात्रिंशत्पलकः प्रस्थः पुराणे परिकीर्तित इति, ब्रह्मादिलक्षणम् उक्तं ब्रह्माण्डदाने, कामदेवरूपं तु विष्णुधर्मोत्तरात् ।
कामदेवस् तु कर्तव्यो रूपेणाप्रतिमो भुवि ।
अष्टबाहुः प्रकर्तव्यः शङ्खपद्मविभूषणः ॥
चापवाणकरश् चैव मदाद् अञ्चितलोचनः ।
रतिः प्रीतिस् तथा शक्तिर् भार्याश् चैतास् तथोज्वलाः ॥
चतस्रस् तस्य कर्तव्याः पत्न्योरूपमनोहराः ।
चत्वारश् च करास् तस्य कर्या भार्या स्तनोपगाः ॥
[२४७] केतुश् च मकरः कार्यः पञ्चवाणमुखो महान् ॥ इति ।
अधस्ताद् इति ब्रह्मादिभिर् अपि सम्बध्यते । अथ प्रकृतौ परिमाणाभावात् पुरुषेच्छया प्रतिमादिपरिमाणनियमः । सन्तानं पूर्ववत् तद्वत् तुरीयांशेन कल्पयेत् ।
तुरीयांशेन, द्वितीयार्धचतुर्थांशेनेत्य् अर्थः । तद्वत् कल्पवृक्षवत्, पञ्चशाखं गुडप्रस्थोपरिगतं ब्रह्मादिप्रतिमान्वितं कुर्याद् इत्य् अर्थः । केचित् तु कामदेवम् अधस्तात् प्रकल्पयेद् इति सन्तानवृक्षे योजयन्ति, तन्मते तत्प्रतिमैव कर्तव्या ।
मन्दारं दक्षिणे पार्श्वे श्रिया सार्धं घृतोपरि ।
पश्चिमे परिभद्रं तु सावित्र्या सह जीरके ॥
सुरभिसंयुतं तद्वद् विलेप्य हरिचन्दनम् ।
तुरीयांशेन कुर्वीत सौम्येन फलसंयुतम् ॥
श्रीलक्षणम् उक्तं ब्रह्माण्दे । सावित्रीलक्षणम् आह नारदः ।
पद्मासना च सावित्री साक्षसूत्रकमण्डलुः ॥
सुरभिलक्षणं ब्रह्माण्डपुराणे । सवत्सा सुरभी, देनुर् आगता प्रस्त्नुतस्नतीति ।
सौम्येन उत्तरेण । घृतादीनां अपि परिमाणापेक्षायां तद्वद् इति वचनात् । सन्निधानाच् च प्रस्थपरिमाणत्वम् अवधेयम् ।
कौशेयवस्त्रसंयुक्तान् इक्षुमाल्यफलान्वितान् ।
तथाष्टौ पूर्णकलशान् पादुकासनभाजनम् ॥
दीपकोपानहछत्रचामरासनसंयुतम् ।
फलमाल्ययुतं तद्वद् उपरिष्टाद् विनायकम् ॥
[२४८] तथाष्टादशधान्यानि समन्तात् परिकल्पयेत् ।
अशनभाजनम्, भोज्यान्वितभाजनं वितानं पञ्चवर्णम् । अथ पूर्ववत् पूर्वेदुर् अधिवासनं विधाय श्वोभूते ब्राह्मणवाचनादिपूर्णाहुतिपर्यन्तं कर्मशेषं समापयेत् ।
होमाधिवासनान्ते च स्नापितो वेदिपुङ्गवैः ।
त्रिः प्रदक्षिणम् आवृत्य मन्त्रम् एतम् उदीरयेत् ॥
नमस् ते कल्पवृक्षाय चिन्तितार्थप्रदायिने ।
विश्वम्भराय देवाय नमस् ते विश्वमूर्तये ॥
यस्मात् त्वम् एव विश्वात्मा ब्रह्म स्थाणुर् दिवाकरः ।
मूर्तामूर्तपरं बीजम् अतः पाहि सनातनः ॥
त्वम् एवामृतसर्वस्वम् अनन्तः पुरुषो ऽव्ययः ।
सन्तानाद्यैर् उपेतः सन् पाहि संसारसागरात् ॥
अमृता देवाः तेषां सर्वस्वम्, अमृतसर्वस्वम् ।
एवम् आमन्त्र्य तं दद्यात् गुरवे कल्पपादपम् ।
चतुर्भ्यश् चापि ऋत्विग्भ्यः सन्तानादीन् प्रकल्पयेत् ॥
दानवाक्यम् अत्र, तुलापुरुषोक्तम् ऊहनीयम्, चतुर्भ्यः प्रकल्पयेद् इत्य् एकैकस्मै दद्याद् इत्य् अर्थः, चतुर्भ्य इति वचनाद् अत्र चतुर्णाम् एव ऋत्विजां वरणम् इति गम्यते, ऋत्विगष्टकपक्षेषु ऋत्विग्भ्य इति ऋत्विग्युग्मेभ्य इत्य् अर्थः, एतस्मिंश् च पक्षे जापकादिभ्यो अन्यैव दक्षिणा दातव्या, वेदचतुष्टयापेक्षयायां चतुःसङ्ख्यत्वम् इदम् ऋत्विजाम् इति केचित् इहापि । प्राप्य तेषाम् अनुज्ञां च तथान्येभ्यो ऽपि दापयेद् इति बोद्धव्यम् । दक्षिणानिर्णयश् च पूर्ववत्, स्वल्पेष्व् एकाग्निवत् कुर्याद् गुरुवे (गुरवे?) [२४९] वाभिपूजनं न वित्तशाठ्यं कुर्वीत न च विस्मयवान् भवेत् । स्वल्पत्वविवरणम् उक्तं ब्रह्माण्डे, ततः पुण्याहवाचने कृते वेदिसमीपं गत्वा कृतदेवपूजो यजमानो गुरुः पूर्ववद् एव (?) देवताविसर्जनं कुर्यात् ।
अनेन विधिना यस् तु महादानं निवेदयेत् ।
सर्वपापविनिर्मुक्तः सो ऽश्वमेधफलं लभेत् ॥
अप्सरोभिः परिवृतः सिद्धचारणपन्नगैः ।
भूतान् भव्यांश् च मनुजांस् तारयेद् रोमसम्मितान् ॥
स्तूयमानो दिवः पृष्ठे पितृपुत्रप्रपौत्रकान् ।
विमानेनार्कवर्णेन विष्णुलोकं स गच्छति ॥
दिवि कल्पशतं तिष्ठेद् राजराजो भवेत् ततः ।
नारायणवलोपेतो नारायणपरायणः ॥
नारायणकथासक्तो नारायणपुरं व्रजेत् ॥
यो वा पठेत् सकलकल्पतरुप्रदानं
यो वा शृणोति पुरुषो ऽल्पधनः स्मरेद् वा ।
सो ऽपीन्द्रलोकम् अधिगम्य सहाप्सरोभिर्
मन्वन्तरं वसति पापविमुक्तदेहः ॥
इति मत्स्यपुराणोक्तकल्पतरुदानविधिः । लिङ्गपुराणे ।
सनत्कुमार उवाच ।
अथान्यत् सम्प्रवक्ष्यामि कल्पपादपम् उत्तमम् ।
शतनिष्केण कर्तव्यं सर्वशाखासमन्वितम् ॥
सर्वशाखाः सर्वदिगन्तशाखाः ।
शाखायां विधिना कृत्वा मुक्तादामप्रलम्बितम् ।
[२५०] दिव्यैर् मरकतैश् चैव चाङ्कुराणि प्रविन्यसेत् ॥
दिव्यैः, उत्कृष्टैर् इत्य् अर्थः ।
प्रवालङ्कारयेद् धीमान् प्रवालेन द्रुमस्य च ।
प्रवालेन प्रवालङ्कारयेद् इति, द्रुमैर् व्यालपल्लवान् कारयेत्य् अर्थः ।
फलानि पद्मरागैश् च पारिजातस्य शोभनम् ।
मूलदण्डं च नीलेन वज्रेण स्कन्धम् उत्तमम् ॥
वैदूर्येण द्रुमाग्रं च पुष्परागेण मस्तकम् ।
स्कन्धाद् ऊर्ध्वभागो मस्तकम्, तदूर्ध्वम्, द्रुमाग्रम् ।
गोमेदकेन वै स्कन्धं सूर्यकान्तेन सुव्रतः ।
चन्द्रकान्तेन वा वेदिं द्रुमस्य स्फटिकेन वा ॥
वितस्तिमात्र आयामो वृक्षस्य परिकीर्तितः ।
शाखाष्टकसमानं च विस्तारं चोर्धतस् (?) तथा ॥
शाखाव्यतिरिक्तस्य वृक्षस्य वितस्तिमात्रः, उच्छ्रायः कार्यः, उर्धतस् (?) तथेति, स्कन्धाद् उर्धमुखी नवमी या मध्यमशाखा तस्या अपि वितस्तिमात्र उच्छ्रायः, शाखाष्टकसमानं विस्तारम् इति, अष्टदिग्मुखीनाम् अष्टशाखानां विस्तारं तिर्यग्व्याप्तिवितस्तिमात्रम् एव कुर्याद् इत्य् अर्थः ।
तन्मूले स्थापयेल् लिङ्गं लोकपालसमावृतम् ।
पूर्वोक्तवेदिमध्ये तु मण्डले स्थाप्य पादपम् ॥
पूजयेद् देवम् ईशानं लोकपालांश् च यत्नतः ।
पूर्ववज् जपहोमाद्यं तुलाभारवद् आचरेत् ॥
निवेदयेद् द्रुमं शम्भोर् ब्राह्मणायाथ वा नृप ।
ब्राह्मणेभ्यो ऽथ वा राजा सार्वभौमो भविष्यति ॥
[२५१] तुलाभारवद् आचरेद् इत्य् अत्र लिङ्गपुराणोक्ततुलापुरुषदानविहितं विधिम् आचरेद्
इत्य् अर्थः । कालोत्तरे ।
पलानां तु सहस्रेण कल्पयेत् कल्पपादपम् ।
समूलदण्डपत्रं च फलपुष्पसमन्वितम् ॥
पञ्चस्कन्धं तु सङ्कल्प्य पञ्चानां स्थापयेत् सुधीः ।
सद्योजातेन मन्त्रेण देयं ग्राह्यं शिवाग्रतः ॥
दिव्यैर् विमानैर् देहान्ते शिवलोके महीयते ।
पितरस् तस्य मोदन्ते सत्यलोके महीपते ॥
इति शैवकल्पतरुदानविधिः ।
अथ गोसहस्राख्यं पञ्चमं महादानम् उच्यते ।
मत्स्य उवाच ।
अथातः सम्प्रवक्ष्यामि महादानम् अनुत्तमम् ।
गोसहस्रप्रदानाख्यं सर्वपापहरं परम् ॥
पुण्यं तिथिम् अथासाद्य युगमन्वन्तरादिकम् ।
पयोव्रतस् त्रिरात्रं स्याद् एकरात्रम् अथापि वा ॥
लोकेशावाहनं कुर्यात् तुलापुरुषदानवत् ।
पुण्याहवाचनं कुर्याद् धोमः कर्यस् तथैव च ॥
ऋत्विग्मण्डपसम्भारभूषणाच्छादनादिकम् ।
वृषं लक्षणसंयुक्तं वेदिमध्ये ऽधिवासयेत् ॥
गोसहस्राद् विनिष्क्रम्य गवां दशकम् एव च ।
[२५२] पयोव्रतस् त्रिरात्रम् इति, दानदिनात् पूर्वं त्रिरात्रं पयोव्रतः स्याद् इत्य् अर्थः, अत्रादिशब्देन देशकालवृद्धिश्राद्धशिवादिपूजागुरुऋत्विग्वरणमधुपर्कदानकुण्डवेदिका-वितानचक्रलेखनपताकादीनि मत्स्यपुराणोक्ततुलापुरुषदानविहितानि गृह्यन्ते, वृषं लक्षणसंयुक्तम्, वृषलक्षणानि, उन्नतस्कन्धककुदम् उज्वलायतकम्बलम् इत्यादीनि वृषोत्सर्गप्रकरणे मत्स्यपुराणोक्तान्य् एव वेदितव्यानि, गोसहस्राद् विनिष्क्रम्येति दशोत्तरगोसहस्राद् इति वेदितव्यम्, अग्रे दशाधिकगोसहस्रविनियोगदर्शनात्, यद्य् अपि गवां दशकम् इत् यत्र गोमात्रप्रतीतिः तथापि उत्तरत्र ऋत्विग्भ्यो धेनुम् एकैकां दशकाद् विनिवेदयेद् इति, धेनुसंशब्दनात्, पुराणान्तरे
गोसहस्राद् विनिष्क्रम्य सवत्सं दशकं गवाम् ।
इति श्रवणाच् च देहुदशकम् एवाधिवासनीयम् । इतरासु पुनर् नावश्यं धेनुरूपत्वादरः ।
गोसहस्रं बहिः कुर्याद् वस्त्रमाल्यविभूषितम् ।
सुवर्णशृङ्गाभरणं रौप्यपादसमन्वितम् ॥
अतः प्रवेश्य दशकं वस्त्रमाल्यैस् तु पूजयेत् ।
सुवर्णघण्टिकायुक्तं माल्यगन्धसमन्वितम् ॥
हेमरत्नयुतैः शृङ्गैश् चामरैश् चापि शोभितम् ।
पादुकोपानहछत्रभाजनासनसंयुतम् ॥
[२५३] दशसौवर्णिके शृङ्गे, खुराः पञ्चपलाः । पञ्चाशत्पलदोहनकः अन्यत्र तथाभिधानात् घण्टिकादिसुवर्णशब्दो ऽत्र षोडशमाषपरिमितहिरण्यवचनः, सकृदुच्चरितसुवर्ण-शब्दावगतपरिमाणपरित्यागानुपपत्तेः । पादुके, काष्ठमय्यौ, चर्मकृते उपानहाव् इति भेदः ।
गवां दशकमध्ये स्यात् काञ्चनो निन्दिकेश्वरः ।
कौशेयवस्त्रसंवीतो नानाभ्रणभूषितः ॥
लवणद्रोणशिखरे माल्येक्षुफलसंयुतः ।
कुर्यात् पलश्रताद् ऊर्ध्वं सर्वम् एतद् अशेषतः ॥
भक्तितः पलसाहस्रत्रितयं यावद् एव तु ।
गोशते वै दशांशेन सर्वम् एतत् प्रकल्पयेत् ॥
लवणद्रोणशिखरे, लवणद्रोणोपरीत्य् अर्थः । नन्दिकेश्वरलक्षणं ललितविजयात् ।
ऊर्ध्वस् त्रिनेत्रो द्विभुजः सौम्यास्यो ननिकेश्वरः ।
वामे तु शूलभृद् दक्षे चाक्षमालासमन्वितए ॥ इति ।
ऊर्ध्व इति, अशयानानुपविष्ट इत्य् अर्थः । पलशताद् ऊर्ध्वं पलसहस्रत्रितयं यावद् इति, साभरणनन्दिके श्वरविषयम् एतत् आनन्तर्यात्, गोशते वै दशांशेनेति, गोशते देये गाम् एकाम् एकं च वृषभं वेदिमध्ये ऽधिवासयेत पलदशकाद् ऊर्ध्वं पलशतत्रयं यावद् इति साभरणनन्दिकेश्वररचनादिकं कुर्याद् इत्य् अर्थः ।
पुण्यं कलम् अथासाद्य गीतमङ्गलनिःस्वनैः ।
सर्वौषध्युदकस्नानस्नापितो वेदिपुङ्गवैः ॥
[२५४] इमम् उच्चारयेन् मन्त्रं गृहीतकुसुमाञ्जलिः ॥
अत्रापि पूर्ववत् पूर्वेद्युर् अधिवासनं विधाय द्वितीयदिवसे ब्राह्मणवाचनानन्तरम् अग्निकुण्डेषु ऋत्विगुपवेशनादिपूर्णाहुतिपर्यन्तं कर्मशेषं गुरुः समापयेत् । ततः पुण्यकालम् आत्मानुकूललग्नमुहूर्तादिलक्षणम् आसाद्य कुण्डसमीपस्थितकलशोदकेन ब्राह्मणैः स्नापितः शुक्लमाल्याम्बरधरो यजमानो वक्षमाणमन्त्रान् उदीरयेत् ।
नमो वो विश्वमूर्तिभ्यो विश्वमातृभ्य एव च ।
लोकाधिवासिनीभ्यश् च रोहिणीभ्यो नमो नमः ॥
गवाम् अङ्गेषु तिष्ठन्ति भुवनान्य् एकविंशतिः ।
ब्रह्मादयस् तथा देव रोहिण्यः पान्तु मातरः ॥
गावो मे अग्रतः सन्तु गावो मे सन्तु पृष्ठतः ।
गावः शिरसि मे नित्यं गवां मध्ये वसाम्य् अहम् ॥
यस्मात् त्वं वृषरूपेण धर्म एव सनातनः ।
इत्यामन्त्रा तु यो दद्याद् गुरवे नन्दिकेश्वरम् ॥
सर्वोपकरणोपेतं गोयुगं च विचक्षणः ।
ऋत्विग्भ्यो धेनुम् एकैकां दशकाद् विनिवेदयेत् ॥
गवां शतम् अथैकैकं तदर्धं चाथ विंशतिः ॥
दशपञ्चाशद् वाधिकस् तदनुज्ञया ।
दानवाक्यम् अत्र तुलापुरुषवद् वेदितव्यम् । एते च शतप्रभृति पञ्चपर्यन्ता विकल्पा ऋत्विग्विषयाः तदानन्तर्यात्, ततश् चायम् अर्थः सिद्धो भवति गोदशकमध्यान् नन्दिकेश्वरयुतं गोयुगं गुरवे प्रतिपाद्या**[२५५]**शेषाणाम् अष्टानां गवाम् एकैकाम् एकैकस्मै ऋत्विजे दद्यात्, तथा गोसहस्रमध्यात् शतद्वयं गुरवे प्रदाय एकैकं शतम् ऋत्विग्भ्यो दद्यात् । अथ वा शतं गुरवे पञ्चाशतम् ऋत्विग्भ्यः । अथ वा चत्वारिंशतं गुरवे विंशतिं विंशतिम् ऋत्विग्भ्यः विंशतिम् वा गुरवे दश दश ऋत्विग्भ्यः, दश वा गुरवे पञ्च पञ्च ऋत्विग्भ्यो दद्यात् । शेषा गास् तदनुज्ञया अन्येभ्यो ऽपि दद्यात् । दक्षिणां चात्र पूर्ववद् एव दद्यात् । अनुक्तदक्षिणाषु सुवर्णदक्षिणेति वचनात् यथाशक्ति सुवर्णं वा, ततः पूर्ववद् एव पुण्याहवाचनदेवतापूजनविसर्जनादि कुर्यात् ।
नैका बहुभ्यो दातव्या यतो दोषकरी भवेत् ।
बह्व्यश् चैकस्य दातव्या श्रीमदारोग्यवृद्धये ।
पयोव्रतः पुनस् तिष्ठेद् एकाहं गोसहस्रदः ॥
इदं च पयोव्रतानुष्ठानं शक्त्यापेक्ष्ययम् (?), अशक्तौ नक्तम् इष्यत इति वचनात् ।
श्रावयेत् शृणुयाद् वापि महादानानुकीर्तनम् ।
तद्दिनं ब्रह्मचारी स्याद् यदीच्छेद् विपुलां श्रियम् ॥
आथर्वणगोपथब्राह्मणे ।
अथातो गोसहस्रविधिः । गोष्ठ उदकान्ते शुचौ देशे प्राञ्चम् इध्मम् उपसमाधाय अन्वालभ्याथ जुहुयात् । आगावसूक्तेनाद्यं जुहुयात् । महाव्रीहीणाम् ऐन्द्रं चरुं सौम्यं च सहस्रं तस्याः पयसि श्रपयित्वा गाव इति, एवम् उभय इत्य् एतेन जुहुयात् । पश्चाद् अग्नेस् तीर्थोदकपूर्णकलशम् अवस्थाप्याहिसंवोगेष्ठेनेति दशगाः स्नापयेत् त्वरमाणीन्याः समभ्युक्ष्य सहस्रं तस्याः स्नानोदकेनेमम् इन्द्रं वर्धय क्षत्रियं म इति, राजानम् अभिषिच्येमा आप इति, षड्भिर् यथोक्तम् अञ्जनाभ्यञ्जनानुलेपनं कृत्वा सहस्रतमीं प्रथमाम् **[२५६]** अलङ्कृत्य गावो माम् उपतिष्ठत प्रजावती सूयवासाद् इति च सर्यासयेत् प्रियम् अशनं दत्वा द्वितृणम् अघ्न्य(?) इति सहस्रतमीम् आलभ्य जपेत् मया गावोपतिना सवद्धम् इति मन्त्रेणानेनार्घं दत्वा सहस्रतमीं पुनर् उपसङ्गृह्य भूमिष्टा प्रतिगृह्णात्व् इति जपेत् सहस्रं तस्याः पृष्ठतो व्रजन् सर्वाः प्रदक्षिणीकृत्य नमस्कृत्य स्वस्ति वाच्य ब्राह्मणेभ्यो निवेद्य दशगा दक्षिणा कर्त्रे सहस्रतमां वस्त्रयुग्मं च तद् अपि ।
श्लोकाः ।
सप्तजन्मानुगं पापं पुरुषैः सप्तभिः कृतम् ।
तत् क्षणाद् विधिनानेन नाशयेद् गोप्रदो नरः ॥
सर्वेषाम् इह दानानां फलं यत् परिकीर्तितम् ।
तद् अवाप्नोति विप्रेभ्यो गोसहस्रप्रदो नरः ॥
अश्वमेधं वृषोत्सर्गं गोसहस्रत्रयं तु यः ।
दद्यान् मादाय इत्य् आहुः परितस् तर्पयन्ति हि ॥
अस्माद् अनेन विधिना गोसहस्रं तु यो नरः ।
प्रदद्यात् स विशुद्धात्मा याति तत् परमं पदम् ॥ इति ।
मत्स्यपुराणे ।
अनेन विधिना यस् तु गोसहस्रप्रदो भवेत् ।
सर्वपापविनिर्मुक्तः सिद्धचारणसेवितः ॥
विमानेनार्कवर्णेन किङ्कणीजालमालिना ।
सर्वेषां लोकपालानां लोके सम्पूज्यते नरेः (?) ॥
[२५७] प्रतिमन्वन्तरे तिष्ठेद् राजराजो भवेत् पुनः ।
अश्वमेधशतं कुर्याच् छिवध्यानपरायणः ॥
वैष्णवं लोकम् आस्थाय ततो मुच्येत बन्धनात् ।
पितरश् चाभिनन्दन्ति गोसहस्रप्रदं शुभम् ॥
अपि स्यात् स कुले ऽस्माकं पुत्रो दौहित्र एव च ।
गोसहस्रप्रदो भूत्वा नरकाद् उद्धरिष्यति ॥
तत् स कर्मकरो वा स्याद् अपि द्रष्टा तथैव च ।
संसारसागराद् अस्माद् यो ऽस्मान् सन्तारयिष्यति ॥
इति पठति य एतद् गोसहस्रप्रदानम्
सुरभुवनम् उपेयात् संस्मरेद् वापि पश्येत् ।
अनुभवति सुखं वा वाच्यमानो निकामम्
प्रहतकलुषदेहः सो ऽपि यातीन्द्रलोकम् ॥
इति गोसहस्रदानविधिः ।
सनत्कुमार उवाच ।
गोसहस्रप्रनानं च वदामि शृणु सिद्धये ।
गवां सहस्रम् आदाय सवत्सं सगुणं शुभम् ॥
ताश् चाभ्यर्च्य यथाशास्त्रम् अष्टौ सम्यक् प्रयत्नतः ।
तासां शृङ्गाणि हेम्नाथ प्रतिशृङ्गेण बन्धयेत् ॥
खुरांश् च राजतेनैव बन्धयेत् कण्ठदेशतः ।
प्रतिनिष्केण कर्तव्यं कथं वक्त्रेण शोभनम् ॥
[२५८] गवां सहस्रम् आदायेति, अष्टाधिकं गोसहस्रम् इत्य् ज्ञेयम्,
ताश् चान्याश् च महाभाग अष्टौ सङ्गृह्य यत्नतः ।
इति वातुलोक्तेः । बन्धयेत् कण्ठदेशत इत् यत्र वस्तम् इति शेषः,
वस्त्रं बध्वा गले गाश् च विप्रेभ्यो दापयेत् क्रमात् ।
निष्कं स्वर्णमयं कृत्वा पट्टं कण्ठे च बन्धयेत् ॥
इति कामिकोक्तेः ।
विप्रेभ्यो दापयेद् गावो दक्षिणां च पृथक् पृथक् ।
दशनिष्कं तदर्धं वा तदर्धार्धम् अथापि वा ॥
यथाविभवविस्तारं निष्कमानम् अथापि वा ।
वस्त्रयुग्मं च दातव्यं पृथग् विप्रेषु शोभनम् ॥
गावश् चाराध्य् यत्नेन दातव्याः सुमनोरमाः ।
एवं दत्वा विधानेन शिवम् अभ्यर्च्य शङ्करम् ॥
जपेद् अग्रे यथान्यायं गवां स्तवम् अनुत्तमम् ।
गावो ममाग्रतो नित्यं गावो मे सन्तु पृष्ठतः ॥
हृदये नः सदा गावो गवां मध्ये वसाम्य् अहम् ।
एवं स्तुत्वा द्विजाग्रेभ्यो दत्वा गास् ताः सदक्षिणाः ॥
तद्रोमसङ्ख्यावर्षाणि स्वर्गलोके महीयते ॥
पूर्ववद् अधिवासनं शिवस्य सहस्रकलशाद्यभिषेचनं कृत्वा गोस्तवम् उच्चार्य प्रेत्येकं गोदानं कार्यम्, आचार्यादिदक्षिणा च प्राग्वत् ।
इति लिङ्गपुराणोक्तो गोसहस्रदानविधिः ।
अतः परं स्मृतं दानं ये न रोहन्ति देहिनः ।
दुर्लभं तत् परं धाम तृप्ता कामैर् अशेषतः ॥
[२५९] सहस्रं तु वत्सानां धेनूनां यः शिवाय वै ।
स्नानार्थं विधिवद् दद्यात् सो ऽपि तत् पदम् आप्नुयात् ॥
तद्गोसहस्रक्षीरेण तथा दध्ना च शङ्करम् ।
सर्पिषा च समग्रेण स्नाप्य वाद्यादिमङ्गलैः ।
दद्यात् सरसिजं रौक्मं लिङ्गं सम्पूज्य यत्नतः ॥
रौक्मं सौवर्णम् ।
तदन्ते वात पुष्पैस् तु आपीठान्तं सुशोभनम् ।
वितानहेमघण्टादीन् युग्मं चैव निवेदयेत् ॥
आपीठान्तं पुष्पैः पूरयेद् इति शेषः ।
दीपदर्पणनैवेद्यं हेमदण्डं च चामरम् ।
अग्निं सन्तर्प्य चाज्येन मन्त्रविच् छ्रोत्रियेण च ।
हेमवस्त्रयुगेनैव भूषितेन द्विजेन वै ॥
आज्येनेत्यादि, आज्येन द्रव्येण श्रोत्रियेण ऋत्विग्यूतेन सन्तर्पयेद् इत्य् अर्थः । हेमवस्त्रयुगेनेति हेम्ना शोभनवस्त्रयुग्मेनेत्य् अर्थः ।
ततो ब्रह्मरवेणैव शुक्ला गौस् तत्र या शूभा ।
वितानं चोच्छयेत् तस्या गच्छेत् प्राग्दक्षिणं पुनः ॥
हराय चापराः सर्वा गास् तास् तद् अनुचालयेत् ।
मण्डिता हेमवस्त्राद्यैर् महावादित्रनिःस्वनैः ॥
प्रदक्षिणं ततो देवं कृत्वा गावस् तदग्रतः ।
स्थापयित्वा तु ताः सर्वा यजमानः प्रदक्षिणम् ॥
सुरभीया च या मुख्या तस्यास् त्व् अग्रे च कारयेत् ।
[२६०] सर्वं तत् गोसहस्रं तु महाब्रह्मरवेण वै ॥
ततस् तु पुच्छम् आदाय तिलहोमयवाक्षतैः ।
सपुष्पोदकहस्ताभ्यां शङ्कराय निवेदयेत् ॥
यवाक्षतैः अक्षतयवैः ।
ततस् त्व् एकादशभ्यस् तु ब्राह्मणेभ्यस् तथापराः ।
गावो वत्सान्विता दद्यात् तेभ्यो देयं विचिन्त्य च ॥
अव्रतान् सुव्रतांस् तत्र ब्राह्मणांश् च विशेषतः ।
दीनान् सुदुःखितांश् चैव भोजयेद् अनिवारितान् ॥
विधिनानेन ये भक्त्या स्वर्जिता गोसवेन तु ।
उद्दिश्य शङ्करं देवं मुच्यते भवबन्धनात् ॥
स्वर्जिद्गोसवौ दृष्टान्तः । अथ वान्यत् प्रकारेण दद्याद् गोशतम् उत्तमम् इति । शतशब्दो बहुवाची, स चात्र सहस्रपरः, अग्रे सहस्रविनियोगदर्शनात् ।
एकादशाधिकं रुद्रे चिच्छक्तये मिताय च ।
सम्पूर्णं पूर्ववत् कृत्वा चिधिम् आदौ प्रयत्नतः ॥
होमपूजादिसंयुक्तं दद्यात् तत्रैव शम्भवे ।
दीक्षितानां शतं ह्य् एकम् आह्र्त्य शिवमन्दिरे ॥
ततः पूज्य यथान्यायं दद्यात् तेभ्यो यथा शृणु ।
दशकं दशकं चैव एकैकस्य पृथक् पृथक् ॥
हृदि शम्भुं गवां चैव ध्यात्वा तेषां निवेदयेत् ।
अधिकं दशकं यत्र नीलकण्ठेन्दुशेखरे ॥
[२६१] दद्यात् पूर्वविधानेन देनूनां च सवत्सकम् ॥
दीक्षितानां शतम् इत्यादि शम्भुप्रीतये शम्भूं ध्यात्वा दीक्षितानां सम्प्रदानभूतानां दद्याद् इत्य् अर्थः । पूर्वविधानेन स्रपणप्रकारेण ।
अथ वा श्रोत्रियान् विप्रान् वेदवेदाङ्गपारगान् ।
आहृत्य द्विगुणं तेभ्यः पञ्च पञ्च ददेत् सुधीः ॥
कृत्वा विधिम् इमं जन्तुः न शोच्यः स्यात् कदाचन ।
गर्भागारज्वरे भूयः परिक्रामति नैव सः ॥
गर्भागारज्वरे गर्भवासक्लेशे ।
इति कालिकापुराणोक्तत्रिःप्रकारगोसहस्रदानविधिः ।
अगस्त्य उवाच ।
दानमन्त्रं प्रवक्ष्यामि गोसहस्राख्यम् उत्तमम् ।
यत् कृत्वा नर्मदातीरे मुच्यते भवबन्धनात् ॥
शैवानां वैष्णवानाĕ च सहस्रं भोजयेत् तथा ।
ततः सहस्रं दोग्स्त्रीणां(?) शुक्लानां च गवां तथा ॥
गर्भिणीधेनुसम्मिश्रं वृषभैर् दशभिर् युतम् ।
अर्चितं गन्धपुष्पाद्यैर् हैमवस्त्रैर् अलङ्कृतम् ॥
प्रदक्षिणम् उपक्रम्य मन्त्रेणानेन भक्तितः ॥
ॐ नमो भगवत वासुदेवायेति मन्त्रः ।
वेदविद्भिः समाकीर्णे विष्णोर् आयतने शुभे ।
नर्मदातोयम् आसाद्य दीपमालां प्रबन्धयेत् ॥
गावो ममाग्रतो नित्यं गावस्पृष्ठत एव च ।
[२६२] गावो मे हृदये चापि गवां मध्ये वसाम्य् अहम् ॥
गवां मन्त्रं समुच्चार्य जपेद् आसां पुरःस्थितः ।
गन्धतोयाक्षतैर् युक्तं गृहीत्वा ताम्रभाजनम् ॥
गवां पुच्छाम्भसा स्नातः शुक्लवस्त्रसमन्वितः ।
सर्वकल्मषनिर्मुक्तः शुद्धः शुचिमनास् ततः ॥
स्नापयित्वा तु गास् तत्र ताविप्रानर्मदाजले ।
पञ्चदश्यां पूर्णचन्द्रे राहुसोमसमागमे ॥
तैर् एव सार्धं विप्रेन्द्रैर् अभिपूज्य हरिं स्मरेत् ।
भृत्यपुत्रकलस्त्राद्यैर् युक्तः स्वजनबान्धवैः ॥
निवेदयेत् तु विप्रेभ्यो मन्त्रेण श्रद्धयान्वितः ।
श्राद्धे दाने च होमे च विवाहे मङ्गले तथा ॥
गोमातरस्थिता नित्यं विष्णुलोके शिवप्रिया ।
शिवायैता मया दत्ता विष्णवे च महात्मने ॥
एवं विप्राय यो दद्याद् यज्ञार्थं समलङ्कृताः ।
विनिवेद्य च शर्वाय गोसहस्रम् अलङ्कृतम् ॥
प्राप्नोति परमं स्थानं यद् गत्वा न निवर्तते ।
कुलानि त्रिंशद् उत्तार्य नरकाद् भृत्यबान्धवान् ॥
स्थापयेद् वैष्णवे लोके शिवस्य च महात्मनः ।
सर्वज्ञः परिपूर्णश् च शुद्धः सर्वगतः प्रभुः ॥
संसारसागरण् मुक्तो हरितुल्यः प्रजायते ।
अनेनैव विधानेन गृहस्था मोक्षम् आप्नुयुः ॥
विनापि ज्ञानयोगेन गोसहस्रप्रदानतः ।
तस्मात् त्वम् अपि राजेन्द्र गोसहस्रप्रदो भव ॥
[२६३] देववद् दिवि मोदन्ते येन् अते पितरः सदा ।
इति स्कन्दपुराणोक्तो गोसहस्रदानविधिः ।
आदित्यपुराणे ।
अथ प्रयच्छेद् विप्रेषु गोसहस्रं महामुने ।
अर्चयेद् गन्धपुष्पैस् तु पट्टैः सर्वाः समर्चयेत् ॥
पट्टैः वस्त्रैः ।
सर्वाः कनकशृङ्गास् ताः सर्वा रौप्यखुरार्चिताः ।
हीनाङ्गा न ददेत् गावः कृशा वृद्धातुरास् तथा ॥
एकाङ्गाम् अर्चयेत् तासां शेषाणां च विधिं शृणु ।
तिलानां तु शतं ह्य् एषां दद्याद् विप्रेषु दक्षिणाम् ॥
पाद्येन विधिना चैव तर्पयित्वा द्विजांस् तथा ।
तिलानां शतम्, तिलानां द्रोणशतम् इत्य् अर्थः । पाद्येन पाद्यार्घादिना ।
शुचिः शुद्धमना भूत्वा यो ऽर्चयेच् च जनार्दनम् ॥
प्रणम्य शिरसा देवं दत्वा गावश् च सत्वरम् ।
तेन ता अर्चिताः सर्वा भविष्यन्ति न संशयः ॥
वेदशास्त्रार्थतत्त्वज्ञाः संहिताध्यापका द्विजाः ।
अग्निहोत्ररता ये च स्वाध्यायनिरताश् च ये ॥
एतान् विप्रान् परीक्षेत गोप्रदाने महामुने ।
ईदृशानां तु यद् दत्तं तच् चानन्तम् इहोच्यते ॥
अनन्तस्य तदा दानम् इति सत्यं महामुने ।
उपोष्य विधिवच् चैव प्रसन्नमना सेन्द्रियः ॥
[२६४] उपेत्य ब्राह्मणेभ्यश् च दद्याद् गावश् च सत्वरः ।
स्पर्शयित्वा तु तां गावः सुमनाः सुसमाहितः ॥
स्पर्शयित्वा दत्वा ।
न चैतास् ताडयेद् दण्डैर् न हस्तेन् अन लेष्टुना ।
यथोक्तं गोसहस्रं तु यः प्रयच्छति वै द्विजः ॥
सर्वक्लेशान् परित्यज्य विष्णुलोके महीयते ॥
तथा ।
तिलानां तु शतं यस् तु विना गोभ्यः प्रयच्छति ॥
पलम् एकं सुवर्णस्य गोसहस्राद् विशिष्यते ।
यथोक्तं गोसहस्रं तु प्रयच्छेत् तु द्विजातिषु ॥
तत्फलं लभते दाता सद्यः पापात् प्रमुच्यते ।
यस् तु पश्यति पापात्मा सो ऽपि पापात् प्रमुच्यते ॥
एकविंशतिम् उद्धृत्य ये च पूर्वे व्यवस्थिताः ।
तारयन्ति नराः क्षिप्रं कुनान्य् एकोत्तरं शतम् ॥
अलाभे गोसहस्रस्य सुवर्णं दतुम् अर्हति ।
सहस्रार्धं शतं न्यूनं द्विजानां च तिलैः सह ॥
तथा च लभते नित्यं सम्पूर्णं द्विजसत्तम ।
अर्चितानां सहस्राणां फलं प्राप्नोति मानवः ॥
सम्पूर्णदक्षिणं विप्र गोसहस्रं प्रकीर्तितम् ।
तिलानां तु शतं ह्य् एकं गवां दानेन तत्समम् ॥
सहस्रार्धं सुवर्णस्य, षोडशमाषपरिमितस्येति शेषः । महाभारते ।
सर्वत्र विजयं चापि लभते मनुजाधिप ।
[२६५] दशगोसहस्रदो नित्यं शक्रेण सह मोदते ॥
अक्षयान् लभते लोकान् नरः शतसहस्रशः ॥
सुवर्णशृङ्गैस् तु विराजितानां
गवां सहस्रस्य पुनः प्रदाता ।
प्राप्नोति पुण्यं दिवि शक्रलोकम्
इत्य् एवम् आहुर् मुनिवेदसङ्घाः ॥
इति गोसहस्रदानविधिः ।
अथ हिरण्यकामधेनुसञ्ज्ञं षष्ठं महादानम् उच्यते ।
मत्स्य उवाच ।
अथातः सम्प्रवक्ष्यामि कामधेनुविधिं परम् ।
सर्वकामप्रदं नृणां महापातकनाशनम् ॥
लोकेशावाहनं तद्वद् धोमः कार्यो ऽधिवासनम् ।
तुलापुरुषवत् कुर्यात् कुण्डमण्डपवेदिकाः ॥
स्वल्पेष्व् एकाग्निवत् कुर्याद् गुरुर् एव समाहितः ।
कुण्डमण्डपवेदिका इत्य् उपलक्षणम् । इह हि देशकालवृद्धिश्राद्धशिवादिपूजाब्राह्मण-वाचनगुरुऋत्विग्वरणमधुपर्कदानवेदिकोपरिचक्रलेखनपञ्चवर्णवितानतोरण-पताकादिसर्वम् उक्तं मत्स्यपुराणोक्ततुलापुरुषदानविहितं वेदितव्यम् । स्वल्पेष्व् एकाग्निवद् इति, एकाग्निवत् करणं व्याख्यातम् ।
काञ्चनस्यातिशुद्धस्य धेनुं वत्सं च कारयेत् ।
उत्तमा पलसहस्रैस् तदर्धेन तु मध्यमा ॥
कनीयसो तदर्धेन कामधेनुः प्रकीर्तिता ।
शक्तितस् त्रिपलाद् ऊर्ध्वम् अशक्तो ऽपीह कारयेत् ॥
[२६६] अत्र यद्य् अपि वत्सपरिमाणम् अनुक्तं तथापि कामधेनुविधानवत् तप्तकाञ्चन-चतुर्थांशेन वत्सः कल्पनीयः, समस्तधेनुपरिमितद्रव्यनिष्कृष्टवत्सनिर्माणव्याप्ति-दर्शनाद् इहापि धेनुदान्त्वाविशेषात् तथैव निश्चीयते । तथा च गुडधेन्वादिषु तच्चतुर्थांशेन वत्सः स्याद् इति तत्र तत्र वक्ष्यते ।
वेद्यां कृष्णाजिनं तस्य गुडप्रस्थसमन्वितम् ।
न्यसेद् उपरि तां धेनुं महारत्नैर् अलङ्कृताम् ॥
कुम्भाष्टकसमोपेतां नानाफलसमन्विताम् ॥
कल्पतरुदाने प्रस्थो व्याख्यातः । महारत्नानि, पद्मरागप्रभृतीनि । “वत्सं दक्षे तु विन्यसेद्” इति क्वचित् पाठः । नानाफलानि, गोगजवाजिस्त्रीपुरुषप्रभृतीनि । सौवर्णानि कल्पतरुदानोक्तानि ।
तथाष्टादशधान्यानि समन्तात् परिकल्पयेत् ।
इक्षुदण्डाष्टकं तद्वन् नानाफलसमन्वितम् ॥
भाजनं चासनं तद्वत् ताम्रदोहनकं तथा ॥
अष्टादशधान्यानि परिभाषायां द्रष्टव्यानि । नानाफलानि, मातुलिङ्गादीनि ।
कौशेयवस्त्रद्वयसम्प्रयुक्ताम्
दीपातपत्राभरणाभिरामाम् ।
स चामरां कुण्डलिनीं सघण्टां
गणित्रिकापादुकरौप्यपादाम् ॥
रसैश् च सर्वैः परितो ऽभिजुष्टां
हरिद्रया (?) पुष्पफलैर् अनेकैः ।
अजाजिकुस्तुम्बुरुशर्कराभिः
[२६७] वितानकं चोपरि पञ्चवर्णम् ॥
स्नातस् ततो मङ्गलवेदघोषैः
प्रदक्षिणीकृत्य सपुष्पहस्तः ।
आवाहयेत् ताङ्गुडधेनुमन्त्रैः
द्विजाय दद्याद् अथ दर्भपाणिः ॥
अघण्टागणत्रिकेत्यादि घण्टागणत्रिकापादुकाभिः सह वर्तत इति सघण्टागणत्रिकापादुका साचासो रौप्यपादा चेति विग्रहः । गणनासाधनत्वाद् गणत्रिका, अक्षमालागणत्रिकेति क्वचित् पाठः । तत्र गणत्रिका कण्ठभूषणं केचित्, केचित् तु गलन्तिकेति पठित्वा जलपूर्वाकर्करीति व्याचक्षते । रसाः परिभाषायाम् उक्ताह् अजाजीरकम्, कुस्तुम्बुरुर् धान्यकम्, एवम् उपकल्पितसम्भारः पूर्ववद् अधिवासनं विधाय तदन्यदिवसे प्रातः कृतपुण्याहवाचनो ऽग्निकुण्डेषु ऋत्विगुपवेशनादिपूर्णाहुतिपर्यन्तकर्मशेषसमाप्तिं कृत्वा सर्वौषधिजलस्नातः शुक्लमाल्याम्बरो गृहीतकुसुमाञ्जलिर् यजमानस् त्रिः प्रदक्षिणम् आवृत्य गुडधेनुमन्त्रैस् ताम् आवाहयेत् । गुडधेनुमन्त्राः — या लक्ष्मीः सर्वभूतानाम् इत्यादयः तत्प्रकरणे द्रष्टव्याः, आवाहनानन्तरं वक्ष्यमाणमन्त्रेणामन्त्रयेत् ।
त्वं सर्वदेवगनमन्दिरसङ्घभूता
विश्वेश्वरत्रिपथगोदधिपर्वतानाम् ।
त्वद्दानशस्त्रसकलीकृतपातकौघः
प्राप्तो ऽस्मि निर्वृतिम् अतीव परां नमामि ॥
लोके यथेप्सितफलर्धिविधायिनीन्त्वाम्
[२६८] आसाद्य को हि भवदुःखम् उपैति मर्त्यः ।
संसारदुःखशमनाय यतस्व कामं
त्वां कामधेनुर् इति देवगणा वदन्ति ॥
आमन्त्र्य शीलकुलरूपगुणान्विताय
विप्राय यः कनकधेनुम् इमां प्रदद्यात् ॥
प्राप्नोति धाम सपुरन्दरदेवजुष्टं
कन्यागणैः परिवृतं पदम् इन्दुमौलेः(?) ॥
दानवाक्यम् अत्र तुलापुरुषोक्तम् ऊहनीयम् । विप्रायेत्य् एकवचनम् एकाग्निविधानपक्षे । अनेकाग्निविधानपक्षे तु पकृतिभूततुलापुरुषदानवद् आचार्यादीनां विभागव्यवस्था तदनन्तरं पुण्याहवाचनवेदिस्थितदेवतापूजनविसर्जनानि कुर्यात् दक्षिणाविचारश् च पूर्ववत् ।
इति मत्स्यपुराणोको हिरण्यकामधेनुदानविधिः ।
व्यास उवाच ।
राजन्न् इहैकाम् अपि कामधेनुं
दद्यात् समुद्दिश्य तु केशवं त्वाम् ।
विप्राय वै सर्वगुणोपपन्नां
कृत्वा व्रतं कृच्छ्रमनोहरैस् तु ॥
सम्यक् प्रदत्तैस् तु गवां सहस्रैः
सवत्सवस्त्रैः सहितैश् च हेम्ना ।
कले फलं यल् लभते मनुष्यो
न कामधेनोश् च समं द्विजेभ्यः ॥
शतैः सहस्रैश् च तथा हयानां
[२६९] सम्यक् प्रदत्तैश् च महाद्विपानाम् ।
कन्यारथैर् वा करवाजियुक्तैः ।
शतैः सहस्रैः सततं द्विजेभ्यः ॥
दत्तैः फलैर् यल् लभते मनुष्यः
समं तथा स्यान् न तु कामधेनोः ।
यो जाह्नवीतीरगतो हिमाद्रौ
सन्तप्यते ऽतीव तपः सदा वै ॥
ब्राह्मं पदं गन्तुमना द्विजेन्द्रो
नैतत् फलं तच् च हि कामधेनोः ।
चान्द्रायणैः कृच्छ्रमहापराकैः
संशुध्यते पापयुतो मनुष्यैः ॥
कार्तिके कृष्णपक्षे तु नरः प्रयतमानसः ।
एकादश्याम् उपोष्याथ नरो दिनचतुष्टयम् ॥
घृतेन स्नापयेद् विष्णुं गव्येन पयसापिवा ।
नक्ताशी गोरसैर् हव्यैः पूजयेन् मधुसूदनम् ॥
गन्धपुष्पैः सुनैवेद्यैर् वस्त्राभरणकुण्डलैः ॥
शङ्खासिचक्रोद्यतबाहुविष्णोर्
गदाञ्जहस्तस्य तु शार्ङ्गपाणेः ।
अर्धं प्रयच्छामि जनार्दनस्य
श्रिया युतस्यापि धराधरस्य ॥
श्रियः पतिं श्रीधरम् एककान्तं
[२७०] श्रियः सखायं हि श्रियोनुकूलम् ।
नमाम्य् अहं श्रीधरसन्निवासम्
समर्चितो मे प्रददातु कामान् ॥
एवं पूज्य विधानेन श्रियायुक्तैस् तु नामभिः ।
पृथक् जागरणं कुर्यात् श्रिया सार्धं जगत्पतेः ॥
या देवी भार्गवं भेजे कुलं सर्वत्र पूजिता ।
आयातु सा गृहे नन्दा सुप्रीता वरदा मम ॥
याङ्गिरसं सदा देवो सुनन्दा प्रत्युपस्थिता ।
आयातु मे गृहे सा तु सुप्रीता वरदा सती ॥
सुरभी या भरद्वाजं कामधेनुः सुकामदा ।
सदा भवेद् गृहं सात्र ममायातु सुरार्चिता ॥
सुशीला कश्यपं या तु भेजे सर्वत्र कामदा ।
सा मे भवतु सुप्रीता कामधेनुर् गृहे सदा ॥
सुमना या वसिष्ठं तु सम्प्राप्य मुमुदे शुभा ।
सा मे भवेतु सुप्रीता कामधेनुर् गृहे सदा ॥
सा मे गृहं सदायातु कामदा वरपूजिता ॥
एवं पूज्य विधानेन प्रभाते विमले शुभे ।
शुक्लाम्बरधरः स्नातः शुक्लमाल्यानुलेपनः ॥
कृतनित्यक्रियो हृष्टः कुण्डलाङ्गदभूषितः ।
अनुलिप्ते महीपृष्ठे कृष्णाजिनसुसंसृते ॥
तिलप्रस्थेन वाकीर्णे चतुःवर्णविभूषिते ।
क्षौमवस्त्रान्विते शुभ्रे मध्वाज्यपात्रसंयुते ॥
[२७१] शुभवस्त्रैः समावृत्य सर्वरत्नैर् अलङ्कृताम् ।
सुवर्णशृङ्गीं सखुरां चतुष्कर्षां मनोरमाम् ॥
क्षीराब्धिपयसोपेतां धेनुमन्त्रैस् तु पूजयेत् ।
या धेनुः सर्वदेवानाम् ऋषीणां भावितात्मनाम् ॥
क्षीराब्धिनिर्गता या च सा मे भवतु सुस्थिरा ।
घृतक्षीराभिषेकं च कृत्वा विष्णोः प्रयत्नतः ॥
समभ्यर्च्य यथा ज्ञेयं गन्धपुष्पादिभिः क्रमात् ।
गावो ममाग्रतः सन्तु गावः पार्श्वे तु पृष्ठतः ॥
गावो मे हृदये नित्यं गवां मध्ये वसाम्य् अहम् ।
प्राङ्मुखोदङ्मुखीं वापि सितयज्ञोपवासिनीम् ॥
इमान् त्वं प्रतिगृह्णीष्व देव देव जगत्पते ।
सवत्सालङ्कृतां धेनुं गोविन्दः प्रीयताम् इति ॥
एवं विप्राय तान् दद्यात् कृत्वा चैव प्रदक्षिणम् ।
अनुव्रजच् च गच्छन्तं पदान्य् अष्टौ नराधिप ॥
अनेन विधिना यस् तु कामधेनुं प्रयच्छति ।
सर्वकामसमृद्ध्यर्थः स्वर्गलोके स गच्छति ॥
यद् दत्वा सकलां पृथ्वीं राहुग्रस्ते दिवाकरे ।
तत्फलं प्राप्यते राजन् कामधेन्वा न संशयः ॥
चिन्तामणिः कामधेनुस् तथा भद्रघटो नृप ।
त्रीणि समफलान्य् आहुर् दानानि मुनिसत्तमाः ॥
सप्तावरान् सप्तपरान् आत्मानं चैव मानवः ।
शतजन्मकृतात् पापान् मोचयत्य् अवनीपते ॥
पदे पदे ऽश्वमेधस्य फलं प्राप्नोति मानवः ।
[२७२] दानानाम् एव सर्वेषाम् उत्तमं परिकीर्तितम् ॥
सर्वकामप्रदन्ध्यन्यं(?) पापघ्नं सर्वदं शुभम् ।
सर्वेषाम् एव पापानां जातानां महत्म अपि ॥
प्रायश्चित्तम् इदं शस्तं कथितं ब्रह्मणा नृप ।
ब्रह्मविट्क्षत्रशूद्राणां कर्तव्या यत्नतो नृप ॥
सर्वकामफलार्थाय कामधेनुर् इयं सताम् ।
वृषाज्यतिलहोमेन कामधेनुं प्रयत्नतः ॥
सकलं प्रतिपाद्येह सर्वपृथ्वीप्रदो भवेत् ॥
इति वह्निपुराणोक्तकामधेनुदानविधिः ।
अथ लिङ्गपुराणे ।
सनत्कुमार उवाच ।
अथातः सम्प्रवक्ष्यामि हेमधेनुविधिं क्रमात् ।
सर्वपापप्रशमनं देशदुर्भिक्षनाशनम् ॥
उपसर्गविनाशं च सर्वव्याधिनिवारणम् ।
निष्काणां तु सहस्रेण सुवर्णेन तु कारयेत् ॥
तदर्धेनापि वा सम्यक् तदर्धार्धेन वा पुनः ।
शतेन वा प्रकर्तव्यं सर्वकार्येषु सुव्रतः ॥
सर्वकार्येष्व् इत् अव्यक्तेषु अनुक्तमानेषु सौवर्णसम्प्रदेयेषु सहस्रादिशतावरमानत्वम् अवदेयम् इति इयं चोक्तिः प्रासङ्गिकी वातुलेमानान्तरम् उक्तम् । त्रिपलादिसहस्रान्तं हेम्ना धेनुं प्रकल्पयेद् इति ।
[२७३] शिवाग्रकामधेनुं तु पलानां पञ्चभिः शतैः ।
यो ददाति महासेन राहुग्रस्ते दिवाकरे ।
तेन दत्तं भवेत् सर्वम् आब्रह्मभुवनान्तिकम् ॥
इति कालोत्तरमतम् ।
गोरूपं सखुरं दिव्यं सर्वलक्षणसंयुतम् ।
खुराग्रे विन्यसेद् वज्रं शृङ्गे वै पद्मरागकम् ॥
भुवोर् [भ्रुवोर्?] मध्ये न्यसेद् दिव्यं मौक्तिकं मुनिसत्तम ।
वैदूर्येण स्तनान् कुर्याल् लाङ्गूलं नीलनिर्मितम् ॥
दन्तस्थाने प्रकर्तव्यं सर्वरत्नविभूषितम् ।
पशुवत् कारयित्वा तु वत्सं कुर्यात् सुशोभनम् ॥
दशांशकेन कर्तव्यं सर्वरत्नविभूषितम् ॥
कामिके तु तुरीयांशेन वत्स इत्य् उक्तम् ।
पूर्वोक्तवेदिकामध्ये मण्डलं च प्रकल्पयेत् ।
तन्मध्ये सुरभिं स्थाप्य् सर्वतः सर्वरत्नकाम् ॥
सवत्सां सुरभिं तत्र वस्त्रयुग्मेन वेष्टयेत् ।
सम्पूजयेत् तु गायत्र्या सवत्सां सुरभिं पुनः ॥
अथैकाग्निविधानेन होमं कुर्याद् यथाविधि ।
समिदं त्व् आज्यभागेन पूर्ववत् शेषम् आचरेत् ॥
शिवपूजा प्रकर्तव्या लिङ्गं स्नाप्य घृतादिभिः ।
गाम् आलभ्य् च गायत्र्या विप्रेभ्यो दापयेच् च ताम् ॥
दक्षिणा च प्रदातव्या त्रिंशन् निष्कं महामते ॥
गायत्र्या गोसावित्र्याख्यस्तोत्रमन्त्रेणेत्य् अर्थः।
गोसावित्रीति मन्त्रेण च मन्त्रयीत विचक्षणः ।
[२७४] इति वातुलोक्तेः । कामिके तु ।
घृताद्यैः पूजयेद् देवं सहस्रकलशादिभिः ।
गाम् आराध्य तु गायत्र्या विप्रेभ्यो दापयेच् च ताम् ॥
आचार्यं पूजयेत् पूर्वं केयूरकटकादिभिः ।
वस्त्रयुग्मं च दत्वा तु विज्ञाप्य विधिपूर्वकम् ॥
दक्षिणा तु प्रदातव्या त्रिंशन्निष्का महातपः ॥
त्रिंशन् निष्कदक्षिणादानं तु एकाग्निपक्षविषयम् । अनेकाग्निपक्षे तुलापुरुषवद् दक्षिणा । तद् उक्तं शैवे ।
अथैकाग्निविधानं वा समिद् आज्यं हविष्ययुक् ।
त्रिंशन्निष्कावरा देया गुरोर् एकाग्निकल्पते ॥ इति ।
एकाग्निपक्षश् च स्वल्पवित्तविषयः । पूर्ववच् छेषम् इति, शेषम् अनुक्तं किञ्चित् तद् अखिलं लिङ्गपुराणोक्ततुलापुरुषविहितम् आचरेद् इत्य् अर्थः । कालोत्तरे ।
एतस्यास्तु प्रदाता यस् तेन दत्तं चराचरम् ।
त्रिःसप्तकुलसंयुक्तो विमानैर् दिव्यवर्चसैः ॥
शिवलोकम् अवाप्नोति यावद् इन्द्राश् चतुर्दश ।
तदन्ते चक्रवर्ती स्यात् ज्ञानवांस् तु शिवं व्रजेत् ॥
इति नानाशास्त्रीयकामधेनुदानम् ।
अथ हिरण्याश्वाभिधानं सप्तमं महादानम् आलिख्यते ।
मत्स्य उवाच ।
अथातः सम्प्रवक्ष्यामि हिरण्याश्वविधिं परम् ।
[२७५] यस्य प्रसादाद् भुवनम् अनन्तफलम् अश्नुते ॥
पुण्यं तिथिम् अथासाद्य कृत्वा ब्राह्मणवाचनम् ।
लोकेशावाहनं कुर्यात् तुलापुरुषदानवत् ॥
ऋतिविग्मण्डपसम्भारभूषणाच्छादनादिकम् ।
स्वल्पेष्व् एकाग्निवत् कुर्याद् धेमवाजिमखं बुधः ॥
अत्रादिशब्देन देशकालवृद्धिश्राद्धशिवादिपूजागुरुऋत्विग्वरणमधुपर्कदानवेदिकोपरि-चक्रलेखनवितानतोरणपताकाधिवासनादि मत्स्यपुराणोक्ततुलापुरुषदानविहितं सङ्गृह्यते, स्वल्पेष्व् एकाग्निवद् इति व्याख्यातम्, स्थापयेद् वेदिमध्ये तु कृष्णाजिनतिलोपरि कृष्णाजिननिहितद्रोणपरिमिततिलोपरीति विज्ञेयम् ।
कौशेयवस्त्रसंवीतं कारयेद् धेमवाजिनम् ।
शक्तितस् त्रिपलाद् ऊर्ध्वम् आ सहस्रपलाद् बुधः ॥
पादुकोपानहछत्रचामरासनभाजनैः ।
पूर्णकुम्भाष्टकोपेतं माल्येक्षुफलसंयुतम् ॥
शय्योपस्करा विविधास्तरनोपधानवस्त्रफलपुष्पकुङुमकर्पूरागुरुचन्दनताम्बूल-दर्प्यणकङ्कतिकाचामरव्यजनासन एतद् अग्रस्थितपात्रासि मुद्रिकोपानहयुगलताम्र-घटिकादिजलपात्रदीपिकावितानादयः, मार्तण्डसंयुतम् इति, उपर्यारूढसौवर्णं सूर्याश्वं कुर्याद् इत्य् अर्थः । [२७६] सूर्यलक्षणम् उक्तं ब्रह्माण्डे ।
ततः सर्वौषधिस्नानस्नापितो वेदपुङ्गवैः ।
इमम् उच्चारयेन् मन्त्रं गृहीतकुसुमाञ्जलिः ॥
इहापि पूर्वे द्युर् अधिवासनं विधाय द्वितीयदिवसे पूर्ववत् पुण्याहवाचनादिपूर्णाहुति-पर्यन्तं कर्म, गुरुः समापयेत् ।
अथ सर्वौषदिजलस्नातः शुक्लाम्बरो यजमानस् त्रिः प्रदक्षिणीक्र्त्य वक्ष्यमाणमन्त्रम् उदीरयेत् ।
नमस् ते सर्वदेवेश देवाहरणलम्पट ।
वाजिरूपेण माम् अस्मात् पाहि संसारसागरात् ॥
त्वम् एव सप्तधा भूत्वा छन्दोरूपेण भास्करम् ।
यस्माद् भ्रामयसे लोकान् अतः पाहि सनातनः ॥
एवम् उच्चार्य गुरवे तम् अश्वं विनिवेदयेत् ।
दत्वा पापक्षयाद् भानोर् लोकम् अभ्येति शाश्वतम् ॥
गोभिर् विभवतः सर्वान् ऋत्विजश् चाभिपूजयेत् ।
सर्वधान्योपकरणं गुरवे विनिवेदयेत् ॥
सर्वं शय्यादिकं कृत्वा भुञ्जीतातैलम् एव हि ।
पुराणश्रवणं तद्वत् कारयेद् भोजनाद् अनु ॥
दानवान् त्वम् अत्र पूर्ववद् अनुसन्धेयम्, अनुक्तदक्षिणेषु सुवर्णं दक्षिणेति, यथाशक्ति सुवर्णदक्षिणा, विभवतां स्वविभवानुसारेण सर्वान् सदस्यादीन् ऋत्विजश् च गोभिः पूजयेत् । सर्वधान्योपकरणम् इति विनियोगात् पूर्वं धान्यसादनं गम्यते । गुरवे निवेदयेद् इति स्वल्पद्रव्यदाने आचार्यायैव अश्वं प्रदाय ऋत्विग्भ्यो यथाशक्ति सुवर्णादि दद्यात् सहस्रपलादिद्रव्यदाने तु प्रकृतिवद् व्यवस्था, [२७७] स्वल्पतरेष्व् एकाग्निपक्षे ऽपि द्रष्टव्या ततश् च पूर्ववत् पुण्याहवाचनदेवतापूजनविस्र्जनानि कुर्यात् ।
इमं हिरण्याश्वविधिं करोति यः
सम्पूज्य्मानो दिवि देवतेन्द्रैः ।
विमुक्तपापः स पुरं मुरारेः
प्राप्नोति सिद्धैर् अभिपूजितः सन् ॥
इति पठति य एतद् धेमवाजिप्रदानम्
सकलकलुषमुक्तः सो ऽश्वमेधेन भूपः ।
कनकमयविमानेनार्कलोकं प्रयाति
त्रिदशपतिवधूभिः पूज्यते यो ऽथ पश्येत् ॥
यो वा शृणोति पुरुषो ऽल्पधनः स्मरेद् वा
हेमाश्वदानम् अभिनन्दयतीह लोके ।
सो ऽपि प्रयाति हतकल्मषशुद्धदेहः
स्नानं पुरन्दरमहेश्वरदेवजुष्टम् ॥
इति मत्स्यपुराणोक्तो हिरण्याश्वदानविधिः ।
सनत्कुमार उवाच ।
हिरण्याश्वप्रदानं च वदामि विजयावहम् ।
अश्वमेधायुतश्रेष्ठं रहस्यं शृणु सुव्रत ॥
अष्टोत्तरसहस्रेण अष्टोत्तरशतेन वा ।
कृत्वाश्वं लक्षणैर् युक्तं सर्वालङ्कारसंयुतम् ॥
शतसहस्रशब्दौ विहितोपलक्षणपरौ ।
शक्तितस् त्रिपलाद् ऊर्ध्वम् आसहस्रपलाव् अपि ।
[२७८] अल्पे त्व् एकाग्निवत् कुर्याद् धेमवाजिमखं बुधः ॥
इति वातुलोक्तेः ।
पञ्चकल्याणकं सम्यक् रजतेन तु कारयेत् ।
चतुर्षु पदेषु मुखे च श्वेतो हयः पञ्चकल्याणक उच्यते ॥
सर्वलक्षणसंयुक्तं सर्वाङ्गैश् च समन्वितम् ।
सर्वायुधसमोपेतं इन्द्रवाहनम् अव्ययम् ॥
तं मध्यदेशे संस्थाप्य तुरङ्गं सद्गुणान्वितम् ।
उच्चैःश्रवःसमं ज्ञात्वा आनीयैव समर्चयेत् ॥
मध्यदेशे संस्थाप्येति, एतद् दानप्रकृतिभूतलिङ्गपुराणोक्ततुलापुरुषदानविहिइतवेदिका-मण्डलमध्ये तिलोपरि तम् अश्वं संस्थाप्य् उच्चैःश्रवसम् अनुध्यायन् पूजयेत् ।
तस्य पूर्वदिशो भागे ब्राह्मणंवेदपारगम् ।
सुरेन्द्रबुद्ध्या सम्पूज्य पञ्चनिष्कान् प्रदापयेत् ॥
तम् अश्वं ब्राह्मणे ऽभ्यर्च्य प्रदद्याद् विधिनैव तु ।
सुवर्णाश्वं प्रदद्यात् तु आचार्यम् अथ पूजयेत् ॥
यथा विभवविस्तारं पञ्चनिष्कैर् अथापि वा ।
दीनान्धकृपणानाथबालवृद्धकृशातुरान् ।
तोषयेद् अन्नदानेन ब्राह्मणांश् च विशेषतः ॥
घृतेन स्नापयेद् देवं लिङ्गं मूर्तिमहेश्वरम् ।
सङ्ख्यापलशतं तस्य पयसा त्व् एवम् एव हि ॥
ब्रह्मकूर्चेन संस्थाप्य विलेप्यागुरुचन्दनैः ।
सम्पूज्य प्रणिपत्याथ देवदेवं क्षमापयेत् ॥
एतद् यः कुरुते भक्त्या दानम् **** मानवः ।
[२७९] ऐन्द्रांल् लोकांश् चिरं भुक्त्वा भुवि राजेश्वरो भवेत् ॥
इन्द्रबुद्ध्या आराधितविप्राय पञ्चनिष्कान् दत्वा श्रोत्रियादिभ्यो हिरण्याश्वं दत्वा आचार्यं **आभ्यर्च्य तस्मै निष्कपञ्चकं दद्यात् शिवस्नपनादिपूर्वोत्तरतन्त्रं सर्वं पूर्ववत् । मत्स्यपुराणादौ तु आचार्यायैवाश्वदानम् उक्तं । कामिके तु ।
गन्धादिभिस् तम् अभ्यर्च्य विप्रेभ्यो विनिवेदयेत् ।
सुरेन्द्रबुद्ध्या सम्पूज्य पञ्चनिष्कान् प्रदाय च ॥
मण्डलाभ्यर्चनं होमं कलशस्थापनं तथा ।
दक्षिणां देशिकादीनां तुलाभारवद् आचरेत् ॥
इति लिङ्गपुराणोक्तो हिरण्याश्वदानविधिः ।
अथ हिरण्याश्वनामधेयम् अष्टमं महादानम् उपक्रम्यते । मत्स्यपुराणे ।
मत्स्य उवाच ।
अथातः सम्प्रवक्ष्यामि महादानम् अनुत्तमम् ।
पुण्यम् अश्वरथं नाम महापातकनाशनम् ॥
पुण्यं दिनम् अथासाद्य कृत्वा ब्राह्मणवाचनम् ।
लोकेशावाहनं कुर्यात् तुलापुरुषदानवत् ॥
ऋत्विग्मण्डपसम्भारभूषणाच्छादनादिकम् ॥
तुलापुरुषदानवद् इति, मत्स्यपुराणोक्ततुलापुरुषवद् वेदितव्यम्, आदिशब्दस्यापि पूर्ववद् एव व्याख्या ।
कृष्णाजिने तिलान् कृत्वा काञ्चनं कारयेद् रथम् ।
अष्टाश्वं चतुरश्वं वा चतुश्चक्रं सङुवरम् ॥
[२८०] इन्द्रनीलेन कुम्भेन ध्वजरूपेण संयुतम् ।
लोकपालाष्टकोपेतं पद्मरागदलान्वितम् ॥
अत्र तिलानां रथस्य च परिमाणापेक्षायां पुरुषेच्छया नियमः प्रकृतौ परिमाणाश्रवणात्, केचित् तु सन्निधानात् सुवर्णहस्तिरथादिदानस्थितं तिलानां द्रोणपरिमाणत्व इह वदन्ति । कूवरो युगादारकाष्ठम् । ध्वजो दण्डः, स च रथस्य सौवर्णत्वात् सौवर्ण एव तथा चोपरिस्थितेन इन्द्रनीलमणिमयेन कलशेन युक्तः कर्तव्यः । लोकपाललक्षणम् उक्तम् ब्राह्मण्डे ।
चत्वारः पूर्णकलशा धान्यान्य् अष्टौ दशैव तु ।
कौशेयवस्त्रसंयुक्तम् उपरिष्टाद् वितानकम् ॥
माल्ये क्षुपलसंयुक्तं पुरुषेण समन्वितम् ।
यो यद्भक्तः पुमान् कुर्यात् शतनाम्नाधिवासनम् ॥
वितानम् अत्र पञ्चवर्णम्, पुरुष इष्टदेवताकारः सौवर्णरथे स्थापनीयः, स्वस्त्रोपानहपादुकाः ।
गोभिर् विभवतः सर्धं दद्याच् च शयनासनम् ।
आभारात्रिपलाद् ऊर्ध्वं शक्तितः कारेयद् बुधः ॥
भारः पलसहस्रद्वयम् । एतच् च सुवर्णमानं ध्वजपुरुषलोकपालाश्वचक्ररक्षक-सहितस्य वेदितव्यम् ।
अष्टभी रथसंयुक्तं चतुर्भी रथवाजिभिः ।
द्वाभ्याम् अथ युतं दद्याद् हेमसिंहध्वजान्वितम् ॥
हैमेन सिंहाङ्कितेन युक्तम् इति अष्टाश्वपक्षे, चतुरश्वपक्षे च इन्द्रनीलमयुकुम्बो ध्वजे कार्यः, अश्वद्वयपक्षे हेमसिंह इति व्यवस्था ।
[२८१] चक्ररक्षाव् उभौ तस्य तुरगस्थाव् अथाश्विनौ ।
पुण्यं कालं ततः प्राप्य पूर्ववत् स्नापितो द्विजैः ॥
शुक्लमाल्याम्बरो दद्याद् इमं मन्त्रम् उदीरयेत् ॥
चक्ररक्षौ चक्रसमीपे अश्वारूढाव् अश्विनीकुमारौ कार्यौ । तल्लक्षणम् आह गोभिलः ।
द्विबुजौ देवभिषजौ कर्तव्याव् अश्ववाहनौ ।
तयोर् ओषधयः कार्या दिव्या दक्षिणहस्तयोः ।
वामयोः पुस्तकौ कर्यौ दर्शनीयौ तथा द्विज ॥ इति ।
पुण्यकालं यजमानानुकूलं लग्नमुहूर्तादिकम् । अत्रापि पूर्ववद् अधिवासनदिनाद् अन्यदिवसे पुण्याहवाचनादिसकलकर्मसमाप्तौ सर्वौपधिजलस्नातो गृहीतकुसुमाञ्जलिः यजमानस् त्रिः प्रदक्षिणीकृत्य वक्ष्यमाणं मन्त्रम् उदाहरेत् ।
नमो नमः पापविनाशनाय
विश्वात्मने वेदतुरङ्गमाय ।
धाम्नाम् अधीशाय भवाभवाय
पापौघदावानल देहि शान्तिम् ॥
वस्वष्टकादित्यमरुद्गणानाम्
त्वम् एव धाता परमं निधानम् ।
यतस् ततो मे हृदयं प्रयातु
धर्मौकतानत्वम् अघौघनाशात् ॥
इहापि दानप्रयोगसुवर्णदक्षिणादानऋत्विगाचार्यद्रव्यविभागस्वल्पैकाग्निविधानादि पूर्ववद् अनुसन्धेयम् । ततः पुण्याहवाचनदेवतापूजनविसर्जनादि कुर्यात् ।
अथाथर्वणीपथब्राह्मणे ।
ॐ अथातो अश्वरथविधिम् अनुक्रमिष्यामः । सर्वपापापनोदन उदगयन आपूर्यमाणपक्षे ऽश्वः पुण्ये नक्षत्रे श्रद्धाप्रेरितो ग्रहयुक्तो ग्रहणकाले वा अथ ऋत्विक् प्रदानकालात् सुवर्णं रथम् आनीय सर्वं शान्त्युदकेनाभ्युक्ष्य यथोक्तमाञ्चनाभ्यञ्चनानुलेपनं कारयित्वा, वासोगन्धान् स्रजश् चावध्य अग्निम् उपसमाधाय अन्वालभ्याथ जुहुयाद् उद् एहि वाजिन्न् इति द्वाभ्याम्, सूर्यं चरुं श्रपयित्वा विषासहिं सहमानम् इत्य् अभिमन्त्र्यान्वालभ्याथ जुहुयात् ।
रथं योक्त्रं युगम् अश्वौ च सर्वं शान्त्युदकेनाप्लाव्य वा तुरङ्गम् वाजिन् इत्य् अश्वयोर् मूर्ध्नि सम्पातान् स्थालीपाकाद् यजेत् । उदयते नम इति नवबिर् मन्त्रैः नमस्कृत्य द्विजान् अन्ते तर्पयेत् ।
तत्र श्लोकौ ।
सर्वेषाम् एव दानानां फलं यत् तत् प्रकीर्तितम् ।
तत् तद् आप्नोति विप्रेभ्यो विधिनाश्वरथं ददत् ॥
अनामयं स्थानम् अवाप्य देवैर्
अलङ्घनीयं सुकृतं हिरण्मयम् ।
सुवर्णतेजाः प्रविमुक्तपापो
रथैश् चरन् द्वियति सूर्यलोके ॥
मत्स्यपुराणे ।
इति तुरगरथप्रदानम् एतद्
भवभयसूदनम् अत्र यः करोति ।
सकलकलुषपटखैर् विमुक्तदेहः
परमम् उपैति पदं पिनाकपाणेः ॥
[२८३] देदीप्यमानवपुषा विजितप्रभागम्
आक्रम्य मण्डलम् अखण्डलचण्डभानोः ।
सिद्धाङ्गनानयनषट्पदपीयमानो
वक्त्राम्बुजाम्बुजभवेन चिरं सहास्ते ॥
इति पठति शृणोति वा य इत्तम्
कनकतुरङ्गमरथप्रदानम् एव ।
न स नरकपुरं व्रजेत् कदाचिन्
नरकरिपोर् भवनं प्रयाति भूयः ॥
इति हिरण्याश्वरथदानविधिः ।
अथ हेमहस्तिरथाभिधानं नवमम् महादानम् आरभ्यते । मात्यपुराणे ।
मत्स्य उवाच ।
अथातः सम्प्रवक्ष्यामि हेमहस्तिरथं शुभम् ।
यस्य प्रदानाद् भवनं वैष्णवं याति मानवः ॥
पुण्यां तिथिम् अथासाद्य तुलापुरुषदानवत् ।
विप्रवाचनकं कुर्याल् लोके शावाहनं बुधः ॥
ऋत्विग्मण्डपसम्भारभूषणाच्छादनादिकम् ।
अत्राप्य् उपोषितं तद्वद् ब्राह्मणैः सह भोजनम् ॥
इहाप्य् आदिशब्देन देशकालवृद्धिश्राद्धादिसर्वम् अनुक्तं मत्स्यपुराणोक्ततुलापुरुषस्थितं वेदितव्यम् । उपोषितम् इति, उपवासाशक्तौ नक्तम् अपि वेदितव्यम् ।
कुर्यात् पुष्परथाकारं काञ्चनं मणिमण्डितम् ।
वलभीभिर् विचित्राभिश् चतुश्चक्रसमन्वितम् ॥
लोकपालाष्टकोपेतं शिवार्कब्रह्मसंयुतम् ।
[२८४] मध्ये नारायणोपेतं लक्ष्मीपुष्टिसमन्वितम् ॥
पुष्परथः, क्रीडार्थो रथः । स चतुष्किकाकारेणोपर्याच्छादितो भवति वलयेभ्यो लोकपालाश्रयः, लोकपालब्रह्मशिवार्कलक्षणम् उक्तं ब्रह्माण्डे । मध्यशब्दः पूर्वापराभ्यां सम्बध्यते, शिवादीनाम् अपि स्थानापेक्षायास् तेनैव निवृत्तेः । नारायणादिलक्षणं पञ्चरात्रात् ।
नारायणो चतुर्बाहुः शङ्खं चक्रं तथोत्तरे ।
दक्षिणे तु महापद्मं मीलञ्जीभूतसन्निभे ।
वामे श्रीर् वल्लकीहस्ता मुष्टिः पद्मकरा परा ॥ इति ।
कृष्णाजिने तिलद्रोणे कृत्वा संस्थापयेद् रथम् ।
तथाष्टादशधान्यानि भाजनासनचन्दनैः ॥
दीपिकोपानहछत्रपादुकादर्पणान्वितम् ।
ध्वजे तु गरुडं कुर्यात् कूवाराग्रे विनायकम् ॥
नानाफलसमायुक्तम् उपरिष्टाद् वितानकम् ।
कौशेयं पञ्चवर्णं च अम्लानकुसुमान्वितम् ॥
चतुर्भिः कलशैः सार्धं गोभिर् अष्टाभिर् अन्वितम् ।
चतुर्भिर् हयमातङ्गैर् मुक्तादामविभूषितैः ॥
स्वरूपतः करिभ्यां च युक्तं कृत्वा निवेदयेत् ।
कुर्यात् पञ्चपलाद् ऊर्ध्वम् आभाराद् अपि शक्तितः ॥
ध्वजे तु गरुडं कुर्याद् इत्यादि ध्वजो दण्डः । गरुडलक्षणम् उक्तं नारदीये ।
ॐ ऐन्द्रस्याग्रतः पक्षी गुडाकेशः कृताञ्जलिः ।
सव्यजानुगतो भूमौ मूर्धा च फणिमण्डितः ॥
[२८५] पक्षिजङ्घो नरग्रीवस् तुङ्गनासो नराङ्गकः ।
द्विबाहुः पक्षयुक्तश् च कर्तव्यो विनतासुतः ॥
अथ विनायकस्य ।
चतुर्भुजस् त्रिनेत्रश् च कर्तव्यो ऽत्र गजाननः ।
नागयज्ञोपवीतश् च शशाङ्ककृतशेखरः ॥
दन्तं दक्षकरे दद्याद् द्वितीये चाक्षसूत्रकम् ।
तृतीये परशुं दद्याद् चतुर्थे मोदकं तथा ॥
उपर्यधोहस्तयोर् दन्तादि, देयम् इति, कूवरो व्याख्यातः । अम्लानकुसुमं पुष्पविशेषः, रूढिर् यौगिकम् उपहरतीत्य् न्यायात् । महासहेति प्रसिद्धम् एव गृह्यते भारो व्याख्यातः । ध्वजगतदेवताश् च पञ्चपलादिपरिमितेन रथवत् कृतसुवर्णेनैव निष्पादनीयाः एवं सम्भारानुपकल्पा पूर्ववद् अधिवासनं विधाय दिवसेषु पुण्याहवाचनादिसकलं कर्मकाण्डं समाप्य सर्वौषधिजलैर् आचार्यो यजमानस्य स्नपनं कुर्यात् ।
ततो मङ्गलशब्देन स्नापितो वेदपुङ्गवैः ।
त्रिः प्रदक्षिणम् आवृत्य गृहीतकुसुमाञ्जलिः ॥
इमम् उच्चारयेन् मन्त्रं ब्राह्मणेभ्यो निवेदयेत् ॥
नमो नमः शङ्करपद्मजार्कलोकेशविद्याधरवासुदेवैः ।
त्वं सेव्यसे देव पुराणयज्ञतेजोमयस्पन्दन पाहि यस्मात् ॥
यत् तत् पदं गुह्यतमं सुरारेर् आनन्दहेतुगुणरूपमन्तः ।
योगैकमानसदृशो मुनयः समाधौ पश्यन्ति तत्त्वम् असि नाथ रथे ऽधिरूढः।
[२८६] यस्मात् त्वम् एव भवसागरसंश्रितानाम्
आनन्दभाण्डभृतम् अध्वरपानपात्रम् ।
तस्माद् अघौघशमनेन कुरु प्रसादं
चामीकरेभरथसाधवसम्प्रदानात् ॥
मन्त्रेणानेन प्रणम्य यथाशक्ति सुवर्णदक्षिणाम् उपकल्पापूर्ववत् प्रयोगम् उच्चार्य तं गजरथं प्रत्यक्षगजसंयुतं ब्राह्मणेभ्यः प्रतिपादयेत्, आचार्यादीनाम् अर्धचतुर्भागादिव्यवस्था तदनुज्ञया चान्येभ्यो ऽपि दानम्, दीनानाथपूरणं चेति, प्रकृतिवद् आचरणीयम्, ततः पुण्याहवाचने कृते यजमानो वेदिसमीपं गत्वा देवतापूजां विदध्यात् । आचर्यस् तु विसर्ययेच् च । आथर्वणगोपथब्राह्मणे ।
अथातो हस्तिरथदानविधिं वक्ष्ये ।
जातरूपमयं कृत्वा रथं चक्रसुशोभनम् ।
हस्तिभिः सप्तभिर् युक्तम् अर्चयित्वा यथाविधि ॥
अथ वा चतुर्भिर् युक्तं हैमं राजतम् एव वा ।
अस्पृष्टं दारुजं वापि सर्वसम्भारपूरितम् ॥
हस्तियुग्मेन संवीतं सौरभेययुगेन वा ।
भुङ्क्ते सप्तैव जन्मानि सप्तद्वीपां ससुन्धराम् ॥
हस्तियुक्ते चन्द्रमसि पौर्णमास्यमावास्ययोर् अन्यस्मिन् पुण्ये तिथाव् अह्नि हस्ति वा शुचौ देशे तन्त्रम् इत्य् उक्तं प्राञ्चम् इध्मम् अग्निम् उपसमाधायान्वाराभ्याथ जुहुयात् । सवित्रे स्वाहा पतङ्गाय स्वाहा पावकाय स्वाहा सहस्ररश्मये स्वाहा मार्तण्डाय स्वाह विष्णवे स्वाह प्रजापतये स्वाह् परमेष्ठिने स्वाहेत्य् हुत्वा हस्तिवर्चसप्रथतां [२८७] बृहद्यश इति कलशे सम्पातान् आनीय युगं योक्त्रं रथम् इति सर्वं सम्प्रोक्ष्य यज्ञस्य त्वाम् अनसा युनज्मीति योजयेत् । अश्रान्तस्य त्वाम् अनसा युनज्मि प्रधमस्य च उक्तम् उद्वहो । भवोदुह्य धावतां युक्तायार्घं दद्यात् स्यावैर् (?) युक्तः सितपाहिरण्मयो यस्य रथः पथिभिर् वर्तते शिवैः शन्तो अग्ने वसुविदा हिरण्यकृद् विरण्यपाणिः सविता नो ऽभिरक्षतु ।
बृहद्धस्तिरथं युक्तं हस्तेन तुददन्तरः ।
सवितुः स्थानम् आप्नोति दिव्यां कामजवां शुभाम् ॥
मत्स्यपुराणे ।
इत्थं प्रणम्य कनकेन रथप्रदानम् ।
यः कारयेत् सकलपापविमुक्तदेहः ॥
विद्याधरामरमुनीन्द्रगणाभिजुष्टम् ।
प्राप्नोत्य् असौ पदम् अतीन्द्रियम् इन्दुमौलेः ॥
कृतदुरितवितानप्रोर्ज्वलद् वह्निजाल-
व्यतिकरकृतदाहोद्वेगभाजो ऽपि बन्धून् ।
नयति च पितृपौत्रान् रौरवाद् अप्य् अशेषान्
कृतगजरथदानः शाश्वतं सद्म विष्णोः ॥
इति हेमहस्तिरथदानविधिः ।
अथ पञ्चलाङ्गलाख्यं दशमं महादानम् उपपाद्यते ।
मत्य्स उवाच ।
अथातः सम्प्रवक्ष्यामि महादानम् अनुत्तमम् ।
पञ्चलाङ्गलकं नाम महापातकनाशनम् ॥
पुण्यां तिथिम् अथासाद्य युगादिग्रहणादिकाम् ।
भूमिदानं नरो दद्यात् पञ्चलाङ्गलकान्वितम् ॥
[२८८] कर्वटं खेटकं वापि ग्रामं वा सस्यशालिनम् ।
निवर्तनं शतं वापि तदर्धं वापि शक्तितः ॥
सारदारुमयान् कृत्वा हलान् पञ्च विचक्षणः ।
सर्वोपकरणैर् युक्तांस् तथान्यान् पञ्च काञ्चनान् ॥
कर्वटादिस्वरूपं मार्कण्डेयपुराणे ।
सोत्सेधवप्राकारं सर्वतः खातकावृतम् ।
योजनार्धार्धविष्कम्भम् अष्टभागायतं पुरम् ॥
तदर्धेन तथा खेटं तत्पादेन च कर्वटम् ।
तथा शुद्धजनप्रायाः सुसमृद्धकृषीवलाः ॥
क्षेत्रोपभागभूमध्ये वसति ग्रामसञ्ज्ञिता ॥ इति ।
निवर्तमानं तु सप्तहस्तेन दण्डेनेत्यादि वक्ष्यति । सारदारूणि शाकेङ्गुदीचन्दनप्रभृतीनि, उपकरणानि युगयोक्त्रफालरज्जुप्राजनादीनि ।
वृषान् लक्षणसंयुक्तान् दशैव च धुरन्धरान् ।
सुवणशृङ्गाभरणान् मुक्तालाङ्गूलभूषणान् ॥
रौप्यपादाग्रतिलकान् रक्तकोशेयभूषितान् ।
स्रग्दामचन्दनयुतान् शालायाम् अधिवासयेत् ॥
वृषलक्षणानि सुशीलत्वं त्वरुणत्वम् इन्द्रियत्वम् अरोगित्वम् क्लेशसहत्वम् इत्यादीनि । अग्रं ललाटदेशः, ततश् च रौप्यपादान् रौप्यललाटतिलकाश् चेति ।
पर्जन्यादित्यरुद्रेभ्यः पायसं निर्वपेच् चरुम् ।
एकस्मिन्न् एव कुण्डे तु चरुम् अस्मै निवेदयेत् ॥
[२८९] पलाशसमिधस् तद्वद् आज्यं कृष्णतिलांस् तथा ॥
इहापि पूर्ववद् अधिवासनादि विधाय तदन्यदिवसे पुण्याहवाचनं कृत्वा अग्निकुण्डेषु ऋत्विगुपवेशनादिकर्मशेषं समापयेत् । किं त्व् अपरो ऽयं विशेषः, तुलापुरुषोक्तहोमे विहितशेषाणाम् ऋत्विजाम् अन्यतमं गुरुर् आदिशेत् स एक एव ऋत्विग् एकस्मिन्न् एव कुण्डे पर्जन्यादित्यरुद्रेभ्यस् तल्लिङ्गमन्त्रैः पायसचरुप्रभृतिद्रव्येनाष्टोत्तरसहस्रं जुहुयात् ।
तुलापुरुषवत् कुर्याल् लोकेशावाहनं बुधः ।
ततो मङ्गलशब्देन शुक्लमाल्याम्बरो बुधः ॥
आहूय द्विजदम्पत्यं हेमसूत्राङ्गुलीयकैः ।
कौशेयवस्त्रकटकैर् मणिभिश् च विभूषयेत् ॥
शय्यां सोपस्करान् दद्याद् धेनुम् एकां पयस्विनीम् ।
तथाष्टादशधान्यानि समन्ताद् अधिवासयेत् ॥
ततः प्रदक्षिणीकृत्य गृहीतकुसुमाञ्जलिः ।
इमम् उच्चारयेन् मन्त्रम् अथ सर्वं निवेदयेत् ॥
लोकेशावाहनम् इत्य् उपलक्षणम् । अत्र हि देशकालवृद्धिश्राद्धशिवादिपूजा ब्राह्मणवाचन-गुरुऋत्विग्वरणमधुपर्कदानकुण्डमण्डपवेदिकावितानचक्रलेखनतोरणपताकादि मत्स्यपुराणोक्ततुलापुरुषविहितं गृह्यते । तत इति, होमानन्तरं सर्वौषधिजलस्नातः शुक्लाम्बरधरो दद्याद् इत्य् अन्वयः । आहूय द्विजदम्पत्यम् इति, सकलकर्मनियुक्तस्य गुरोर् दक्षिणान्तराप्रतीतेः सन्निहितपरित्यागे कारणाभावात् द्विजशब्दस्याविरोधाच् च सकलत्रस्य गुरोर् एव दातव्यम् इति गम्यते, [२९०] तदनुज्ञया चान्येभ्यो ऽपि देयम् इति, स्वल्पेष्व् एकाग्निविधानम् अपि बोद्धव्यम्, शय्योपस्करा हिरण्याश्वदाने व्याख्याताः । अथ मन्त्रः ।
यस्माद् देवगणाः सर्वं स्थावराणि चराणि च ।
धुरन्दराङ्गे तिष्ठन्ति तस्माद् भक्तिः शिवे ऽस्तु मे ॥
यस्माच् च भूमिदानस्य कलान् नाहर्हन्ति षोडशीम् ।
दानान्य् अन्यानि मे भक्तिर् धर्म एव दृढा भवेत् ॥
इति मन्त्रम् उच्चार्य यथाशक्ति दक्षिणाम् उपकल्पा पूर्वप्रयोगेण प्रतिपादयेत्, ततश् च पुण्याहवाचनदेवतापूजनविसर्जनानि ।
दण्डेन सप्तहस्तेन त्रिंशद् दण्डा निवर्तनम् ।
त्रिभागहीनं गोचर्ममानम् आह प्रजापतिः ।
मानेनानेन यो दद्यान् निवर्तनशतं बुधः ।
विधिनानेन तस्याशु क्षीयते पापसंहतिः ॥
तदर्धम् अपि वा दद्याद् अपि गोचर्ममात्रकम् ।
भवनस्थानमात्रं वा सो ऽपि पापैः प्रमुच्यते ॥
यावन्ति लाङ्गलकमार्गमुखानि भूमेर्
भाषाम्पतेर् दुहितुर् अङ्गजरोमकाणि ।
तावन्ति शङ्करपुरे स समा हि तिष्ठेद्
भूमिप्रदानम् इह यः कुरुते मनुष्यः ॥
गन्धर्वकिन्नरसुरासुरसिद्धसङ्घैर्
आधूतचामरम् उपेत्य महद् विमानम् ।
सम्पूज्यते पितृपितामहबन्धुयुक्तः
[२९१] शम्भोः पुरं व्रजति चामरनायकः सन् ॥
इन्द्रत्वम् अप्य् अधिगतं क्षयम् अभ्युपैति
गोभूमिलाङ्गलधुरन्धरसम्प्रदानात् ।
तस्माद् अघौघपठ्लक्षयकारि भूमेर्
दानं विधेयम् अप्य् अतिभूतिभवोद्भवाय ॥
इति श्रीमत्स्यपुराणोक्तः पञ्चलाङ्गलदानविधिः ।
श्रीभगवान् उवाच ।
अतः परं प्रवक्ष्यामि दानम् अप्य् अद्भुतं तव ।
येन दानेन राजेन्द्र सर्वदानप्रदो भवेत् ॥
सर्वपापप्रशमनं सर्वसौख्यप्रदायकम् ।
संयुक्तहलपङ्क्त्याख्यदानं सर्वफलप्रदम् ॥
पङ्क्तिर् दशहला प्रोक्ता हलस्य स्याच् चतुर्युगम् ।
सारदारुमयान्य् आहुर् दलानि दश् पण्डिताः ॥
सौवर्णपट्टनद्धानि रत्नवन्ति शुभानि च ।
युवानो बलिनो भव्यान्नाङ्गहीनान् स्वलङ्कृतान् ॥
वस्त्रकाञ्चनपुष्पैस् तु चन्दनादिग्धमस्तकान् ।
भद्राङ्गान् योजयेत् तेषु लाङ्गलेषु वृषान् पुमान् ॥
योक्त्राणि युगलग्नानि सवृषाणि च कारयेत् ।
प्रतोदकीलिकाबन्धसर्वोपकरणानि च ॥
एवम्विधैर् हलैः कुर्यात् संयुक्तां दलपङ्क्तिकाम् ।
खेटिकं कर्वटं वापि ग्रामं वा सस्यशालिनम् ॥
[२९२] निवर्तनशतं वापि तदर्धं वापि कल्पयेत् ।
एवंविधां पर्वकाले दद्यात् प्रयतमानसः ॥
कार्त्तिक्यां वाथ वैशाख्याम् उत्तरे त्व् अयने तथा ।
जन्मर्तौ ग्रहणे वापि विषुवे चाथ दापयेत् ॥
ब्राह्मणान् वेदसम्पन्नान् अव्यङ्गाङ्गान् स्वलङ्कृतान् ।
श्रोतिर्यांश् च विनीतांश् च दलसङ्ख्यान् निमन्त्रयेत् ॥
दशहस्तप्रमाणेन कारयेन् मण्डपं बुधः ।
पूर्वेद्युः कुण्डम् एकं च हस्तमात्रं च शोभनम् ॥
तत्र व्याहृतिभिर् होमं कुर्युस् ते द्विजसत्तमाः ।
पर्जन्यादित्यरुद्रेभ्यः पायसं निर्वपेच् चरुम् ॥
पलाशसमिधस् तद्वद् आज्यं कृष्णतिलांस् तथा ।
आवास्य च ततः पङ्क्तिं धान्यमध्यगतां शुभाम् ॥
ततः सर्मसमीपे तु स्नातः शुक्लाम्बरः शुचिः ।
हलपङ्क्तिं योजयित्वा यजमानः समाहितः ॥
शङ्कतूर्यनिनादैश् च ब्रह्मघोषैः सपुष्कलैः ।
इमम् उच्चारयेन् मन्त्रं गृहीतकुसुमाञ्जलिः ॥
यस्माद् देवगणाः सर्वे हले तिष्ठन्ति सर्वदा ।
वृषस्कन्धे सन्निहितास् तस्माद् भक्तिः शिवे ऽस्तु मे ॥
यस्माच् च भूमिदानस्य कलां नार्हन्ति षोडशीम् ।
दानान्य् अन्यानि मे भक्तिर् धर्मे चास्तु सदा दृढा ॥
एवम् उक्ते ततः पङ्क्तिं प्रेरयेद् यो द्विजोत्तमः ।
बीजानि सर्वरत्नानि सुवर्णं रजतं तथा ॥
स्वयं पश्चाद् गले लग्नो विप्रहस्तेषु निर्वपेत् ।
[२९३] यायान् निवर्तनं यावत् ततस् तु विरमेद् बुधः ॥
प्रदक्षिणं ततः कृत्वा विप्राणां प्रतिपाद्य च ।
सदक्षिणविधानेन प्रणिपत्य विसर्जयेत् ॥
अनेन विधिना यस् तु दानम् एतत् प्रयच्छति ।
एकविंशत्कुलोपेतः स्वर्गलोके महीयते ॥
सप्तजन्मानि दारिद्र्यं दौर्भाग्यं व्याधयस् तथा ।
न पश्यति च भूमेश् च तथैवाधिपतिर् भवेत् ॥
दृष्ट्वा तु दीयमानं तु दानम् एव युधिष्ठिर ।
आजन्मनः कृतात् पापात् मुच्यते नात्र संशयः ॥
दानम् एतत् पुरा दत्तं दिलीपेन ययातिना ।
शिबिना निमिना चैव बरतेन च धीमता ॥
ते ऽद्यापि दिवि मोदन्ते दानस्यास्य प्रभावतः ।
प्रयत्नेन महीपाल दानम् एतन् नृपोत्तम ॥
दातव्यं भक्तियुक्तेन स्त्रिया वा पुरुषेण वा ।
यदि पङ्क्तिर् न विद्येत पञ्चचत्वारि वा नृप ।
एकम् अप्य् उक्तविधिना हलं देयं विचक्षणैः ॥
यावन्ति लाङ्गलमुखोत्थमृदां रजांसि
यावन्ति चात्र सुधुरन्धररोमकाणि ।
तावन्ति शङ्खरपुरे स युगानि निष्ठेत्
पङ्क्तिप्रदानम् इह यः कुरुते मनुष्यः ॥
युक्तां वृषैर् अतिबलैर् हलपङ्क्तिम् एनाम्
पुण्ये ऽह्नि भक्तिसहितां द्विजपुङ्गवानाम् ।
[२९४] इच्छन्ति ये सुकृतिनो वसुधासमेतास्
ते भूभुजा मुखम् उपेत्य भवन्ति भव्याः ॥
इति भविष्योत्तरोक्तो हलपङ्क्तिदानविधिः ।
अथैकादशधराधानसञ्ज्ञं महादानम् उपवर्ण्यते । श्रीमत्स्यपुराणे ।
मत्स्य उवाच ।
अथातः सम्प्रवक्ष्यामि धरादानम् अनुत्तमम् ।
पापक्षयकरं नृणाम् अमङ्गल्यविनाशनम् ॥
कारयेत् पृथिवीं हैमीं जम्बुद्वीपानुकारिणीम् ।
मर्यादापर्वतवतीं मध्ये मेरुसमन्विताम् ॥
लोकपालाष्टकोपेतां नववर्षसमन्विताम् ।
नदीनदशतोपेताम् अन्ते सागरवेष्टिताम् ॥
अनुकारिणीम् सदृशीम् इत्य् अर्थः । इह हि जम्बुद्वीपसदृशीं कुर्याद् इत्य् उक्ते निखिलनगनगरसरो-वरवनाद्यन्वितमहीसादृश्यप्राप्ती मर्यादापर्वतवतीम् इत्यादिना तावन्मात्रान्वितधरण्यनुकार इति गम्यते । इतरथा सामान्येनैव तदवगतेर् विशेषानर्थक्यप्रसङ्गात् । तद् अयम् अर्थः हैमीं पृथ्वीं कुर्याद् इत्य् उक्ते सप्तद्वीपवत्याः प्रसङ्गे जम्बुद्वीपानुकारिणीम् इत्य् उच्यते । तत्रापि नानापर्वतान्वितानुकारप्रसङ्गे मर्यादापर्वतवतीम् इति । तथा सति मेरोर् अनुकरणप्राप्तौ मध्ये मेरुसमन्विताम् इति नानादेवगणानिवृत्त्यर्थं लोकपालाष्टकोपेताम् इत् । एवं च सङ्ख्येयपक्षाश्रयणे पुराणा- [२९५] न्तरोपदर्शितवर्षचतुष्टयादिपक्षपरिग्रहशङ्कानिवृत्त्यर्थं नववर्षसमन्विताम् इत्य् उच्यते । तत्र जम्बुद्वीपम् उपवर्णितं विष्णुपुराणे ।
नववर्षं तु मैत्रेय जम्बुद्वीपम् इदं मया ।
लक्षयोजनविस्तारं सङ्क्षेपात् कथितं तव ॥
जम्बुद्वीपं समावृत्य लक्षयोजनविस्तरः ।
मैत्रेय वलयाकारः स्थितः क्षीरोदधिर् बहिः ॥
जम्बुद्वीपः समस्तानां द्वीपानां मध्यतः स्थितः ।
तस्यापि मेरुर् मैत्रेय मध्ये कनकपर्वतः ॥
चतुरशीतिसाहस्रयोजनैर् अस्य चोच्छ्रयः ।
प्रतिष्ठा षोडशाद् धस्ताद् द्वात्रिंशन् मूर्ध्नि विस्तृतः ॥
मूले षोडशसाहस्रो विस्तारस् तस्य सर्वतः ।\
पुराणान्तरे तु अष्टषष्टियोजनोच्छ्रय इत्य् उक्तम् । तथा ।
मेरोश् चतुर्दिशं तत्र नवसाहस्रविस्तृतम् ।
इलावृतं महाभागश् चत्वारश् चानुपर्वताः ॥
पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ।
वैभ्राजः पश्चिमे पार्श्वे सुपार्श्वश् चोत्तरे स्मृतः ॥
मर्यादापर्वतास् तु ब्रह्माण्डे पुराणे दर्शिताः ।
जाठरो देवकूटश् च पूर्वस्यां दिशि पर्वतौ ।
तौ दक्षिणोत्तरायाम् आवानीलनिषधायतौ ॥
[२९६] कैलासो हिमवांश् चैव दक्षिणे वरपर्वतौ ।
पूर्वपश्चायताव् एताव् अर्णवान्तव्यवस्थितौ ॥
त्रिशृङ्गो जारुधिश् चैव उत्तरौ वरपर्वतौ ।
पूर्वपञ्चायताव् एताव् अर्णवान्तव्यवस्थितौ ॥
निषधः पारिजातश् च पश्चिमौ वरपर्वतौ ।
तौ दक्षिणोत्तरायाम् आवानीलनिषधायतौ ॥
नीलनिषधपर्वतौ तु अग्रे वक्ष्येते । लोकपालाष्टकोपेताम् इति, लोकपाला इन्द्रादयो ऽष्टौ, तेषां लक्षणं पूर्वम् उक्तं ब्रह्माण्द्दाने, तत्सन्निवेशाश् च मेरोर् उपरि प्रदक्षिणक्रमेण पूर्वादिदिक्षु कर्तव्याः, नववर्षसमन्विताम् इति । वर्षोपवर्णनं च ब्रह्माण्डपुराणे ।
उत्तरं यत् समुद्रस्य हिमाद्रेश् चैव दक्षिणम् ।
एतद् वै भारतं नाम भारती यत्र सन्ततिः ॥
भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् ।
हरिवर्षं तथैवान्यं मेरोर् दक्षिणतो द्विज ॥
रम्यकं चोत्तरे वर्षं तस्यैवानु हिरण्मयम् ॥
उत्तराः कुरवश् चैव यथा वै भारतं तथा ।
मेरोः पूर्वेण भद्राश् च केतुमालं च पश्चिमे ॥
वर्षे द्वे तु समाख्याते तयोर् मध्यमिलावृतम् ।
नवसहस्रम् एतेषाम् एकैकं द्विजसत्तमाः ॥
[२९७] तथा ।
हिमवान् हेमकूटश् च निषधश् चैव दक्षिणे ।
नीलः श्वेतश् च शृङ्गी च उत्तरे वर्षपर्वताः ॥
सहस्रद्वितयोच्छायास् तावद् विस्तारिणश् च ते ।
लक्षप्रमाणौ द्वौ मध्ये दशहीनास् तथापरे ॥
लक्षप्रमाणाव् इत्यादि, इलावृतस्योभयपार्श्ववर्तिनौ नीलनिषधौ द्वौ पर्वतौ दैर्घ्येण लक्षगुणौ विज्ञेयौ, तद्वाह्यवर्तिनौ श्वेतहेमकूटौ नवतिसहस्रयोजनप्रमाणौ विज्ञेयौ, तथा तद्वाह्यस्थितौ शृङ्गीहिमवन्तौ अशीतिसहस्रयोजनप्रमाणाव् इत्य् अर्थः । अत्र युक्तिर् उक्ता मत्स्यपुराणे, द्वीपस्य द्वीपस्य मण्डलीभावात् ह्रासवृद्धिः प्रकीर्तितेति ।
ब्रह्माण्डपुराणे ।
मेरोस् तु पश्चिमे भागे नवसाहस्रसम्मिते ।
चतुस्त्रिंशत्सहस्राणि गन्धमादनपर्वतः ॥
चत्वारिंशत्सहस्राणि परिवृद्धो महीतलात् ।
सहस्रम् अवगाहे तु सति द्विगुणविस्तरः ।
पूर्वेण माल्यवान् शैलस् तत्प्रमाणः प्रकीर्तितः ॥
अत्र शतसहस्रादियोजनपरिमाणानां पृथिव्यादीनां कर्तुम् अशक्यत्वात् योजनसहस्रस्थाने अर्धाङ्गुलादिमानं परिकल्प्य यथोक्तसङ्ख्यातारतम्यम् अनुष्ठेयम् । नदीनदशतोपेतम् इति, नद्यो भागीरथीप्रभृतिकाः, नदाः शोणादयः, तेषां साकल्येन विधातुम् अशक्यत्वाद् यावच्छक्यम् अनुकारः कर्तव्यः । अन्ते सागरवेष्टिताम् इति, यद्य् अपि यावत्परिमाणा पृथ्वी तावान् एव सागरः तथाप्य् अनुकारमात्रोपदेशात् शक्यानुकारमात्रम् आचरणीयम् ।
[२९८] महारत्नसमाकीर्णां वसुरुद्रार्कसंयुताम् ।
हेम्नः पलसहस्रेण तदर्धं वाथ शक्तितः ॥
शतत्रयेण वा कुर्याद् द्विशतेन शतेन वा ।
कुर्यात् पञ्चपलाद् ऊर्ध्वम् अशक्तो ऽपि विचक्षणः ॥
तुलापुरुषवत् कुर्यात् लोकेशावाहनं बुधः ।
ऋत्विग्मण्डपसम्भारभूषणाच्छादनादिकम् ॥
वेद्यां कृष्णाजिनं कृत्वा तिलानाम् उपरि न्यसेत् ।
तथाष्टादश धान्यानि रसांश् च लवणादिकान् ॥
तथाष्टौ पूर्णकलशान् समन्तात् परिकल्पयेत् ।
वितानकं च कौशेयं फलानि विविधानि च ॥
तथांशुकानि रम्याणि श्रीखण्डशकलानि च ।
इत्य् एवं रचयित्वा ताम् अधिवासनपूर्वकम् ॥
शुक्लमाल्याम्बरधरः शुक्लाभरणभूषितः ।
प्रदक्षिणं ततः कृत्वा गृहीतकुसुमाञ्जलिः ॥
महारत्नेत्यादि, महारत्नानि, माणिक्यप्रभृतीनि परिभाषायां दर्शितानि, वसुरुद्रार्करूपम् उक्तं ब्रह्माण्डदाने, आच्छादनादिकम् इत्यादिकशब्देन देशकालवृद्धिश्राद्धशिवादिपूजा-ब्राह्मणवाचनाधिवासनादिसर्वं तुलापुरुषोक्तम् अनुष्ठेयम्, पूर्णकलशान् स्रग्गन्धपञ्चरत्नदूर्वाङ्कुरचूतपल्लवान्वितान् इत्य् अवधेयम्, वितानं पञ्चवर्णम् इति, प्रदक्षिणं कृत्वेति, त्रिः प्रदक्षिणम् आवृत्येत्य् अर्थः, प्रदक्षिणादिकं च द्वितीयदिवसे पूर्णाहुत्यन्तकर्मशेषसमाप्तौ सर्वौषधिस्नानानन्तरम् अनुसन्धेयम् ।
पुण्यकालम् अथासाद्य मन्त्रान् एतान् उदाहरेत् ।
[२९९] नमस् ते सर्वदेवानां त्वम् एकं भवनं यतः ।
धात्री च सर्वभूतानाम् अतः पाहि वसुन्धरे ॥
वसून् धारयसे यस्माद् वसुचातीव निर्मलं ।
वसुन्धरा ततो जाता तस्मात् पाहि भयाद् अलम् ॥
चतुर्मुखो ऽपि नो गच्छेद् यस्माद् अन्तं तवाचले ।
अनन्तायै नमस् तस्मात् पाहि संसारकर्दमात् ॥
त्वम् एव लक्ष्मीर् गोविन्दे शिवे गौरीति संस्थिता ।
गयत्रि ब्रह्मणः पार्श्वे ज्योत्स्ना चन्द्रे रवौ प्रभा ॥
बुद्धिर् बृहस्पतौ ख्याता मेधा मुनिषु संस्थिता ।
विश्वं व्याप्य स्थिता यस्मात् ततो विश्वम्भरा मता ॥
धृजिः क्षितिः क्षमा क्षौणी पृथी वसुमतौ रसा ।
एताभिर् मूर्तिभिः पाहि देवि संसारसागरात् ॥
एवम् उच्चार्य तां देवीं ब्राह्मणेभ्यो निवेदयेत् ।
धरार्धं वा चतुर्भागं गुरवे प्रतिपादयेत् ॥
शेषं चैवाथ ऋत्विग्भ्यः प्रणिपत्य विसर्जयेत् ॥
अत्रापि पूर्ववद् दानवक्यम् उच्चार्य जलपूर्वं दानम् आचार्यानुज्ञया अन्येभ्यो ऽपि दानं दीनानाथपूरणम्, स्वल्पे त्व् एकाग्निविधानम्, भूमिपतिकर्तव्ये कर्मणि ग्रामादिदक्षिणादानम् अशक्तकर्तृके यथाशक्ति सुवर्णदक्षिणादानम् इत्य् अनुसन्धेयम्, अथ ब्राह्मणवाचनानन्तरं देवतापुजनविसर्जनानि कुर्यात् । आथर्वणगोपथब्राह्मणे ।
अथ रोहिण्यां सकलाम् उपोषितो ब्रह्म यथाबीजरसरत्नगन्धावकीर्ण- **[३००] **तीर्थोदकपूर्णकलशम् अभिमृष्टाभिषेकमन्त्रैर् यथोक्तैर् दातारम् अभिषिञ्चति व्रतेन त्वं व्रतपत इति व्रतम् उपैत्यायाचिताशनावधःशायिनौ भवतो व्रतोपचारं यथाशक्त्य् एकरात्रं पञ्चरात्रं वा द्वादशरात्रं व्रतं चरित्वा श्वोभूते तन्त्रम् आज्यभागान्तं कृत्वान्वारभ्याथाज्यं जुहुयात् कामसूक्तं काससूक्तं पुरुषसूक्तम् इत्य् अथ सुवर्णमयीं भूमिं भूमेः प्रतिकृतिं गोचर्ममात्रां कृत्वानीय वेद्युत्तरतो ऽस्यां वेदिम् इत्य् उपस्थाप्य गिरयस् ते पर्वता इति पर्वतान् अवस्थाप्य हिरण्यरजतमणिमुक्ताप्रवालकादिभिर् उपशोभयेद् यद् अहः सम्प्रयतीर् इति सामन्दसानेति नदीः कल्पयित्वा रसैश् च परिपूरयेत् अपरम् अग्रम् असि समुद्रं त्वाभ्यवसृजामीति समुद्रान् वनस्पतिः सह देवैर् न श्रायगन्न् इति बृहस्पतिर् नेति वनस्पतीन् अन्यांश् च यज्ञे त्वा मनसा सङ्कल्पयेन् मनसा सङ्कल्पवतीह भवति निधौ बिभर्तीति नमस्कारयित्वा सत्यं बृहस्पत्यनुवाको ये देवासो दिव्व्य् एकादशस्थेति पुण्याहं वाचयेत् संस्थापयेन् न च दिवो देवज्ञतेनेत्य् अभिमन्त्रा ब्राह्मणेभ्यो दद्याद् दातुर् एषास्मै रोहिणीकामं निकामं वा दुःख इति ।
यथा रोहन्ति बीजानि हलाकृष्टे महीतले ।
एवं कामाः प्ररोहन्ति प्रेत्य हि मनसा सदा ॥
सर्वेषाम् एव दानानां यत् फलं समुदाहृतम् ।
तत् प्राप्नोति च विप्रेभ्यो दत्वा भूमिं यथाविधि ॥
अथ मत्स्यपुराणे ।
अनेन विधिना यस् तु दद्याद् धेमधरां शुभाम् ।
पुण्यकालेति सम्प्राप्ते स पदं याति वैष्णवम् ॥
[३०१] विमानेनार्कवर्णेन किङ्कणीजालमालिना ।
नारायणपुरं गत्वा कल्पत्रयम् अथो वसेत् ॥
पुत्रपौत्रप्रपौत्रांश् च तारयेद् एकविंशतिम् ।
इति पठति य इत्थं यः शृणोति प्रसङ्गाद्
अपि कलुषविमानैर् मुक्तदेहः समन्तात् ।
दिवम् अमरवधूभिर् याति सम्प्रार्थ्यमानः ।
पदम् अमरसहस्रैः सेवितं चन्द्रमौलेः ॥
इति धरादानविधिः ।
लिङ्गपुराणे ।
सनत्कुमार उवाच ।
सुवर्णमेदिनीदानं प्रवक्ष्यामि समासतः ।
पूर्वोक्तदेशकाले तु कारयेन् मुनिभिः सह ॥
लक्षणेन यथापूर्वं कूपे वा मण्डपे ऽथ वा ।
मेदिनीं कारयेद् दिव्यां सहस्रेणापि वा पुनः ॥
एकहस्तेन कर्तव्या चतुरस्रा सुशोभना ।
सप्तदीपसमुद्राद्यैः पर्वतैर् अपि संयुता ॥
सर्वतीर्थनगोपेता मध्ये मेरुसमन्विता ।
अथ वा मध्यतो द्वीपं नवखण्डं प्रकल्पयेत् ॥
पूर्ववन् निखिलं कृत्वा मण्डले वेदिमध्यतः ।
सप्तभागैकभागेन सहस्राद् विधिपूर्वकम् ॥
ब्राह्मणेभ्यः प्रदातव्या दक्षिणा पूर्वचोदिता ।
सहस्रकलशाद्यैश् च शङ्करं पूजयेच् छिवम् ॥
सुवर्णमेदिनी प्रोक्ता लिङ्गे ऽस्मिन् पर्वतं मतम् ॥
मुनिभिः, नियतात्मभिर् विप्रैः सहेत्य् अर्थः । [३०२] सहस्रेण, पलानाम् इति ज्ञेयम्, हेम्नः पलसहस्रेणेत्यादि पञ्चपलाद् ऊर्ध्वं कुर्याद् इति मत्स्योक्तेः । सा च एकहस्तमिता चतुरस्रा सप्तद्वीपवती कार्या । अथ वेति पक्षान्तरम्, स्वल्पद्रव्याभिप्रायं तद् एवाह सप्तभागैकभागेन, सहस्राद् इति सहस्रसप्तमांशेन, नवखण्डं जम्बुद्वीपमात्रां कल्पयेद् इत्य् अर्थः । ब्राह्मणेभ्य इति, बहुत्वम् अनेकाग्निपक्षविषयम् । पूर्ववद् इति, लिङ्गपुराणोक्ततुलापुरुषदानवद् इत्य् अर्थः । कालोत्तरे ।
पृथिवीदानम् एवात्र शृणु लेशेन षण्मुख ।
उत्तमा मध्यमा कन्य पृथिवी त्रिविधा मता ॥
शतार्धकोटिविस्ताया तूत्तमा परिकीर्तिता ।
सप्तद्वीपावसाना तु मध्यमा समुदाहृता ॥
जम्बुद्वीपावधिः कन्य त्रिविधां परिकल्पयेत् ।
उत्तमाः पञ्चभिर् भारैः काञ्चनेन प्रकल्पयेत् ॥
सहस्रद्वितयेनैव कन्य द्वादशपर्वताः ।
तदर्धात् तारजं कूर्मं तथा पद्मं समादिशेत् ॥
द्वादशपर्वतास् तु कालोत्तरोक्तरत्नमेरुदाने द्रष्टव्याः, तारजं रूप्यकृतम् ।
उत्तमा कथिता पृथ्वी त्र्यंशेन मध्यमा मता ।
कन्यकात्र त्रिभागेन त्रिहान्या कूर्मपङ्कजे ॥
ऋग्यजुःसामगानान् तु शिवभक्तेषु निक्षिपेत् ।
चतुष्पादषट्पदार्थसंहितापाठकाय च ॥
तस्य पादः प्रदातव्यः पृथी कूर्मकजेषु च ।
शेषेषु च यथान्यायं ज्ञानं ज्ञात्वा निवेदयेत् ॥
सूर्यस्य ग्रहणे वत्सं शिवस्याग्रे निवेदयेत् ।
[३०३] मेरुवत् कल्पयेत् तत्र पर्वतांश् च त्रयोदश ॥
सहस्रेण पलानान् तु तत्र मेरुं प्रकल्पयेत् ।
सहस्रद्वितयेनैव कल्प्या द्वादशपर्वताः ॥
चतुःशतसमायुक्ताः प्रत्येकं तु ग्रहाः स्मृताः ।
तथैव राशयः कल्प्या नक्षत्राणि तदर्धतः ॥
द्वीपां च ग्रहवत् कल्प्या जम्बुसञ्ज्ञादिकास् ततः ।
क्षाराद्यस् तु तथा सप्त देवयोन्यष्टकं तथा ॥
मृगाद्याश् च यथा यद्वद् भुवो ब्रह्मादयस् तथा ।
पातालसप्तकं कल्प्यं भूर्लोका दिवसप्तकम् ॥
सहस्रखण्डं कूर्मं च नवखण्डं कजोद्भवम् ।
एवं कल्प्य शिवस्याग्रे शिवविप्रेषु दापयेत् ॥
सुव्रतेष्व् अहताङ्गेषु वेदसिद्धान्तवेदिषु ।
दातव्या पृथिवी तेषां बहुरूपं स्मरंस् तथा ॥
बहूनि अघोरवीरतराणि रूपाणि यस्यासौ बहुरूपो अघोरमन्त्रः ।
अधोरेभ्यो ऽथ घोरेभ्यो घोरघोरतरेभ्यः ।
सर्वतः शर्वसर्वेभ्यो नमस् ते अस्तु रुद्ररूपेभ्यः ॥
राहुणा गृह्यमाणे तु सूर्यबिम्बे तु निर्वपेत् ।
एवं सङ्कल्प्य विधिवच् छिवस्याग्रे प्रदापयेत् ॥
परमाणवो यावन्तो ब्रह्माण्डस्य भवन्ति हि ।
तावत् कल्पसहस्राणि शिवलोके महीयते ॥
पितरस् तस्य नन्दन्ति वलन्ति च यथासुखम् ।
रुद्रायुर् यावद् अन्ते च रुद्रलोके वसन्ति च ॥
[३०४] महीभुजस् तदन्ते तु शिवभक्त्या भवन्ति हि ।
मोक्षः प्रजायते तेषां शिवभावानुदीक्षया ॥
इति सुवर्णपृथिवीदानविधिः ।
सूत उवाच ।
अतः परं प्रवक्ष्यामि युष्माकं मुनिसत्तमाः ।
जम्बुद्वीपप्रदानाख्यं दानानाम् उत्तमोत्तमम् ॥
यस्य प्रदानान् मनुजो वैष्णवं लोकम् आप्नुयात् ।
सर्वपापक्षयकरं सर्वमङ्गलकारकम् ॥
आरोग्यश्रीकं चैवम् आयुर्वर्धनम् उत्तमम् ।
भुक्तिदं मुक्तिदं नृणाम् अभीष्टफलदं शुभम् ॥
यथाह भगवान् शम्भुः पृष्टः पर्वतकन्यया ।
तथेदं सम्प्रवक्ष्यामि युष्माकं मुनिसत्तमाः ॥
ईशम् आसीनम् एकान्ते कैलासे हिमवत्सुता ।
प्रणिपत्य जगन्नाथं पर्यपृच्छत सादरा ॥
भगवन् किं नरैः कार्यं सर्वदुःखनिवारणम् ।
अनायासेन देवेश सर्वमङ्गलकारकम् ॥
इत्य् एवमुक्तः पार्वत्या पिनाकी वृषभध्वजः ॥
यथाह भववान् देव्यै तत् सर्वं कथयामि वः ॥
ईश्वर उवाच ।
शृणु देवि महादानं जम्बुद्वीपाह्वयं तु तत् ।
यथाह भगवान् अद्य पद्मयोनिर् जनार्दनः ॥
पुण्यि ऽह्नि पुण्यनक्षत्रे पुण्यकाले तु सर्वतः ।
विषुवत्य् अयनादौ च ग्रहणे चन्द्रसूर्ययोः ॥
[३०५] व्यतीपाते ऽथ वा कुर्याज् जन्मर्क्षे वा विशेषतः ।
अष्टम्यां पञ्चदश्यां वा नित्यं वा दानम् आचरेत् ॥
पुण्यदेशेषु सर्वेषु नदीदेवालयादिषु ।
दानं गृहे वा दातव्यं श्रद्धा वा यत्र जायते ॥
विप्रं तु वेदविदुषं गुरुं सम्पूज्य यत्नतः ।
भूलेपनादि यत् कार्यं सर्वं विप्रेण कारयेत् ॥
विलेपयेत् सर्वभूमिं गोमयेन सवारिणा ।
तत्र विंशतिहस्तं तु लेपयेत् परिमण्डलम् ॥
लवणेनोदधिं तत्र परितः परिकल्पयेत् ।
प्रादेशमात्रं विस्ताराद् अष्टद्रोणेन पार्वति ॥
तत्राक्षतान् निर्विकिरेत् श्वेतपुष्पैः समन्ततः ।
तन्मध्ये कारयेन् मेरुं धान्यभारत्रयेण वै ॥
मेरुर् महाव्रीहिमयस् तु मध्ये
सुवर्णकल्पद्रुमसंयुतः स्यात् ।
पूर्वेण मुक्ताफलवज्रयुक्तो
याम्येन गोमेदकपुष्परागैः ॥
पश्चाच् च गारुत्मतनीलरत्नैः
सौम्येन वैदूर्यसरोजरागैः ।
श्रीखण्डखण्डैर् अभितः प्रवाल-
लतान्वितः शुक्तिशिलातलः स्यात् ॥
शुक्लाम्बराण्य् अम्बुधरावली स्यात्
पूर्वेण पीतानि च दक्षिणे तु ।
वासांसि पश्चाद् अथ कर्बुराणि
[३०६] रक्तानि चैवोत्तरतोघनालौ ॥
ब्रह्म तु मध्ये कमलासनस्थश्
चतुर्मुखः काञ्चननिर्मिताङ्गः ।
चतुर्भुजश् चात्र निवेशनीयो
दधत् स्रुचं चात्र कमण्डलुं च ॥
तथाक्षसूत्रं जपसाधनं च
कृष्णाजिनं चोपरितश् च बिभ्रत् ।
गङ्गां चतुर्धा पतितान् निधाय
चतुर्दिशं चोदकपूर्णरूपाम् ॥
रौप्यान् महेन्द्रप्रभृतीन् अथाष्टौ
संस्थाप्य लोकाधिपतीन् क्रमेण ।
नानाद्विजौघानि च राजतानि
मृगाश् च सर्वत्र निवेशनीयाः ॥
पूर्वेण मन्दरगिरिर् यवतण्डुलाभ्याम्
शुक्लाम्बरेण परितः परिवेष्टितान्तः ।
प्लक्षेण काञ्चनमयेन वृषेण तद्वद्
राउप्येण वृक्षमृगपक्षियुतो विधेयः ॥
याम्येन जम्बुतरुणा च हिरण्मयेन
मुद्गैश् च जम्बुतरुणा च हिरण्मयेन ।
हैमेन यक्षपतिना च विराजमानः
पीताम्बरेण परितः परिवेष्टितश् च ॥
पश्चात् तिलाचलम् अथोपरि कर्बुराभं
वासः सपिप्पलहिरण्मयहंसयुक्तम् ।
[३०७] आकारयेद् विपुलमन्द्रसुगन्धपुष्पम्
रौप्येण शक्तिघटितेन विराजमानम् ॥
संस्थाप्य तं विपुलशैलम् अथोत्तरेण
शैलं सुपार्श्वम् अपि माषमयं सुवस्त्रम् ।
न्यग्रोधवृक्षं अपि हेममयं सुधेनुम्
रौप्यैश् च शक्तिघटितैश् च सुभं विधाय् ॥
मेरोश् च पुष्पाभरणं च कार्यम्
घृतोदकं प्रश्रवणं च दिक्षु ।
क्षीराज्यदध्ना मधुना सरांसि
प्रागादि तेषां च यथाक्रमेण ॥
हिमहेमकूटनिषधाः क्रमश् च याज्ये
सौम्ये च नीलसितशृङ्गयुताः क्रमेण ।
प्रादेशमात्रं परिनिसृतास् ते
प्रागायता ह्य् उपरि वस्त्रयुताश् च सर्वे ॥
प्रत्येकम् अत्र वर्षच्छदपर्वतानाम्
भारेण धान्यपरिमाणम् उशन्ति सन्तः ।
शक्त्या च रौप्यकृतपक्षियुताश् च सर्वे
सौगन्धिपुष्पफलवस्त्रयुगा विधेयाः ॥
आनीलनिषधायासौ माल्यवद् गन्धमादनौ ।
तेषां मध्यगतो मेरुस् तौ च धान्यविनिर्मितौ ॥
निषधः पारिजातश् च मर्यादापर्वताव् इमौ ।
मेरोः पञ्चमभागेन यथा तौ गन्धमादनौ ॥
[३०८] गन्धमादनशैलो ऽसौ पूर्वपश्चाद् यथाविधौ ।
श्वेततण्डुलनिर्माणौ दक्षिणोत्तरतः स्थितौ ॥
सितान्तःप्रमुखाः सर्वे दक्षिणे ककुभादयः ।
शङ्खकूटादयश् चैव उत्तरे परिकीर्तिताः ॥
तांस् त्रीन् केशरशैलांश् च कृत्वा धान्यमयान् शुभान् ।
वस्त्रैर् आवेष्ट्य शैलेन्द्रं मेरुमन्यांश् च वेष्टयेत् ॥
दक्षिणं भारतं वर्षं तत् किम्पुरुषसंवृतम् ।
हरिवर्षं ततः प्रोक्तं मेरोर् दक्षिणतस् ततः ॥
इलावृतं वृतं मेरोश् चतुर्थं वृषभं तथा ।
रम्यं हिरण्मयं तस्मात् कुरवश् चेति चोत्तराः ॥
भद्राश्वः केतुमालश् च पूर्वपश्चिमतः स्थितौ ।
प्रोक्तानि नववर्षाणि जम्बुद्वीपे तु नामतः ॥
हिमाद्रिमध्ये देवेशं श्रियं च विनिवेशयेत् ।
प्रासादाभिमुखाव् एतौ काञ्चनेन विनिर्मितौ ॥
शङ्खचक्रपाणिं पीतवाससम् अच्युतम् ।
किरीटकेयूरधरं श्रीवत्साङ्कितवक्षसम् ॥
पद्मासने समासीनां पद्महस्तां सुलोचनाम् ।
प्रसन्नवदनां देवीं तस्य दक्षिणतो न्यसेत् ॥
कैलासमध्यतो माञ्च त्वां चैव विनिवेशयेत् ।
मां च शङ्करनामानं त्वां च गौरीं वरानने ॥
चतुर्भुजं वृषस्थं च जटिलं चन्द्रमौलिनम् ।
खट्वाङ्गशूलवरदाभयहतं च मां न्यसेत् ॥
मदुत्सङ्गगतां त्वां च दर्पणे दीवरान्विताम् ।
[३०९] भद्रासने भगवन्तं हयरूपमुखं हरिम् ॥
सौवर्णं स्थापयेद् देवं भारते कूर्मरूपिणम् ।
वाराहं केतुमालं वै मत्स्यं कुरुषु चोत्तरे ॥
सौवर्णान्न् अथ वा रौप्यान् स्थापयेत् तु यथाक्रमम् ।
एवं जम्ब्वाह्वयं द्वीपं कृत्वा चैव यथाविधि ॥
अर्धपाद्यासनं स्नानं यथावत् स्थापनं क्रमात् ।
ब्रह्मादयस् तथा देवाः शैलाः कल्पद्रुमास् तथा ॥
स्वनाममन्त्रैः पूजार्हा नमस्कारान्तदीपितैः ।
गन्धपुष्पनमस्कारधूपदीपफलैस् तथा ॥
तथोपहरणाद्यैश् च पूजयित्वा प्रयत्नतः ।
भद्राश्ववर्षे होमं तु सर्पिषा च समाचरेत् ॥
स्वनाममन्त्रैर् होतव्यं स्वाहाकारसमायुतैः ।
दशोत्तरशतं हुत्वा ब्रह्मणे मेरवे तथा ॥
इतरेषां च सर्वेषाम् अष्टोत्तरशताहुतीह् ।
स्नानार्थं यजमानस्य पुरतः कलशं न्यसेत् ॥
आढकोदरपूर्णं तु स्वकूर्चं वस्त्रवेष्टितम् ।
गन्धाः सुमनसस् तस्य कुशाग्रान् विनिवेशयेत् ॥
याश् च श्रेयो विधास्यन्ति ताश् चात्रावाहयेत् ततः ।
गङ्गाद्याः सरितः सर्वाः समुद्राश् च सरांसि च ॥
आयान्तु यजमानस्य दुरितक्षयकारकाः ।
इत्य् आवाह्य ततस् तस्य कलशं विमलोदकम् ॥
[३१०] अभ्यर्च्य गन्धपुष्पाद्यैः स्थापयेत् प्रीतिपूर्वकम् ।
स्नापयेत् प्राङ्मुखं तत्र दातारं कलशोदकैः ॥
ऋग्भिर् वरुणदेवीभिः पावमानीभिर् एव च ।
दानकाले च सम्प्राप्ते दाता नारी नरो ऽथ वा ॥
स्नापितो गुरुणा तेन सार्धं दानं समाचरेत् ।
त्रिः प्रदक्षिणम् आवृत्य गृहीतकुसुमाञ्जलिः ॥
प्रत्येकं पर्वान् सर्वान् प्रणिपत्य पुरःसरम् ।
मध्यमं गुरवे दद्याद् इमं मन्त्रम् उदीरयेत् ॥
अन्यस्मै वा प्रदातव्यं तस्यानुज्ञाम् अवाप्य च ।
यथा च भूरादिसमस्तलोकास्
त्वयि स्थिता भूधरराज नित्यम् ।
अमी सुरा असुरा लोकनाथा
ब्रह्मादयो देवगणाश् च नित्यम् ॥
त्वत्सम्प्रदानाद् अहम् अप्य् अशेषैः
पापैर् विमुक्तस् तु यथा भवेयम् ।
श्रेयस् तथा पर्वतराजमह्यं
कुरु प्रभो देववरैश् च सार्धम् ॥
इतीदम् उक्त्वा प्रददेत् तु मेरुं
सकाञ्चनं राजतवस्त्रयुग्मम् ।
प्रत्येकम् एकं द्विजपुङ्गवानाम्
प्रागादि दद्याद् इतरान् क्रमेण ॥
सुरासुराणाम् अमृतार्थकृत्यै
त्वया कृतं मन्दरशैल सत्य ।
[३११] तथा च मां रक्ष च सर्वतस् त्वं
तव प्रसादाद् विजरा यथाहम् ॥
गन्धाद्रिमादन इतीरितभूधरेन्द्र
वेदे तवापि गरुडाय नमो ऽस्तु तुभ्यम् ।
त्वत्सम्प्रदानहतपापसमस्तदोषं
छायाधिशैलवर रक्ष च माम् अजस्रम् ॥
देवालयाय विपुलाय नमो ऽचलाय
हंसाय वेदपुरुषाय नमो ऽच्युताय ।
युष्मत्प्रदाननिहताखिलपापराशिं
हंसेन सार्धम् अमराचल पाहि मां त्वम् ॥
वन्दे सुपार्श्वम् अमराचलम् अप्रमेयं
धेनुं च देवसुरभिं प्रणतो ऽस्मि नित्यम् ।
त्वद्दानभक्तियुतसत्क्रिययाहम् अद्य
त्वाम् एव यामि शरणार्थम् अवैहि मां त्वम् ॥
श्रीवत्सवक्षसम् अनादिम् अजं समस्त-
लोकाधिपं सकलकारणम् अच्युतं च ।
नारायणं शरणम् एमि धराधरेन्दैः
सार्धं श्रिया हिमवतः स्थितिम् आदिम् ईडे ॥
देवाय देवगणपूजितपादपद्म-
युग्माय भक्तजनदुःखविनाशनाय ।
कैलाशशैलनिलयाय भवाय नित्यं
गौरीप्रियाय वर्दाय नमः शिवाय ॥
चक्री त्व् अनादिनिधनः शरणागतं मां
[३१२] भद्राश्वनामनिगतो हरिर् अच्युतो ऽसौ ।
आस्ते ह नाथ न वपुःसनकादियोगि-
पूगैर् अभिष्टुतपुरातनकीर्तियुक्तः ॥
मध्ये महार्णवहिमाचलयोर् निषन्न-
कूर्माकृतिं शरणम् एमि भवाभवाय ।
पारावरं मथितम् अत्र सदा दधाति
यस् त्वं नमामि सुरपूजितम् अप्रमेयम् ॥
वाराहरूपिणम् अनन्तम् अनन्तकेतुम्
लोकस्वरूपिणम् अनेकशिरोक्षिपादम् ।
वन्दे महीधरम् अमेयम् अपारकीर्तिं
यज्ञेशम् एमि शरणं हरम् ईशितारम् ॥
देवस् तथोत्तरकुरुष्व् अपि नित्यम् आस्ते
मत्स्यः सुरेन्द्रगणपूजितपादपद्म ।
रक्ष त्व् अशेषजगतां पतिर् अच्युतो ऽसौ
संसारदुःखचलितं शरणागतं माम् ॥
उक्त्वैव मात्रम् अघनाशनदानमन्त्रं
प्रत्येकम् एकं द्विजपुङ्गवानाम् ।
भुक्त्वा शुभानि मनसेच्छति यानि वासौ
गच्छेच् च यत्र न निवर्तयतीह मर्त्यः ॥
गुरवे दक्षिणां दद्यात् सुवर्णं चैव वाससी ।
यागोपकरणं सर्वं गुरवे विनिवेदयेत् ॥
इत्य् आह भगवान् प्रीतः पार्वत्या परमेश्वरः ।
अहम् अप्य् अब्रुवै सर्वं युष्माकं मुनिसत्तमाः ॥
**[३१३] **
इति ब्रह्माण्डपुराणोक्तो जम्बुद्वीपदानविधिः
ब्रह्मा उवाच ।
शृणु देव मुने दानं सप्तद्वीपाह्वयं च तत् ।
तत् कृत्वा पृथिवीदानफलं सर्वम् उपाश्नुते ॥
पुण्यकालेषु सर्वेषु चन्द्रसूर्यग्रहादिषु ।
देवागारादिदेशेषु पुण्येष्व् आयतनेषु च ॥
विप्रं गुरुं वेदविदं च दक्षं
विद्याप्रदं वृणुयात् तत्र पूर्वम् ।
स कारयेच् छैवतदङ्गकार्यम्
ऋते दानं गुरुणानेन सर्वम् ॥
समां भूमिं लिम्पयेद् गोमयेन
सवारिणा शुचि तत्रापि मध्ये ।
कृत्वा द्वीपं जम्बुसञ्ज्ञं यथावत्
तद्बाह्ये च प्लक्षनामा निबद्धः ॥
अम्बुप्लक्षाह्वयो द्वीपो शाल्मलश् च तथापरः ।
कुशः क्रौञ्चश् च शाकश् च पुष्करश् चैव सप्तमः ॥
एते द्वीपाः समुद्रैश् च सप्तसप्तभिर् आवृताः ।
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम् ॥
जम्बुद्वीपः समस्तानाम् एतेषां मध्यमः स्मृतः ।
तस्यापि मेरुर् देवर्षे मध्ये कनकपर्वतः ॥
प्लक्षद्वीपस्य विस्तारः षोडशाङ्गुल इष्यते ।
पादाधिकस् तथान्येषाम् उत्तरोत्तरम् उच्यते ॥
षोडशद्रोणधान्यैश् च प्लक्षद्वीपं प्रकल्पयेत् ।
[३१४] ततः पादाधिकं प्रोक्तम् अन्येषाम् उत्तरोत्तरम् ॥
विस्तार एष द्वीपानाम् उदधीनां च सर्वशः ॥
प्लक्षादिपञ्चद्वीपेषु वर्षभूधरनिम्नगाः ।
प्रत्येकं सप्त सप्त स्युः श्वेततण्डुलनिर्मिताः ॥
पुष्करे भूधरं त्व् एकं मध्यतो वलयाकृतिम् ।
वर्षद्वयं तथा चान्यन् नामतः श्रूयतां मुने ॥
प्लक्षे शान्तमयं वर्षं शिशिरं सुखदं तथा ।
आनन्दं च शिवं चैव क्षेमकृत् सुखम् एव च ॥
गोमेदपर्वतश् चान्द्रो नारदो दुन्दुभिस् तथा ।
सोमकः सुमनाश् चैव वैभ्राजः सप्त पर्वताः ॥
अनुतप्ता शिवा चापि अम्बिका त्रिदिवी क्रमात् ।
अमृता सुकृता चैव सप्तैतास् तत्र निम्नगाः ॥
प्लक्षं तु प्रथमे वर्षे मध्यतो विनिवेशयेत् ।
पलेन वा यथाशक्ति तदर्धेन विनिर्मितम् ॥
तत्पार्श्वे देवदेवेशं सर्वलोकगुरुं हरिम् ।
सोमरूपधरं देवं सौवर्णं विनिवेशयेत् ॥
श्वेतौ हरितलीभूतौ रोहितो वैद्युतस् तथा ।
नर्मतः सुप्रभः सप्त वर्षाण्य् एते च पर्वताः ॥
कुमुदश् चोदनश् चैव तृतीयश् च वलाहकः ।
कङ्कश् च महिषश् चैव ककुद्मान् सप्तमो गिरिः ॥
योनिस् तोया वितृष्णा च चन्द्रा शुक्ला च मोचनी ।
विवृत्तिः सप्त नद्यश् च शाल्मले परिकीर्तिताः ॥
उद्भिदो वेणुमांश् चैव सुरत्नो लवणो धृतिः ।
[३१५] प्रभाकरश् च कपिलः पर्वतान् शृणु नारद ॥
मणिद्रुमो हैमशैलो द्युतिमान् पुष्पवांस् तथा ।
कुशोघमश् च हरितो मन्दरः सप्तमस् तथा ॥
धूतपापा शिवा चापि पवित्रा शमिता तथा ।
द्युदम्भा महिषी चैव सर्वपापहरा तथा ॥
कुशस्तम्बं कुशद्वीपे क्रौञ्चे चैतान् निबोध मे ।
वर्षाणि भूधराश् चैव विष्णुश् च पर एव च ॥
अन्धकारो मुनिश् चैव दन्दुभिः सप्तमस् तथा ।
क्रौञ्चश् च वामनश् चैव अन्धकारो ऽथ पञ्चमः ॥
पुण्डरीको दुन्दुभिश् च सप्तैते स्युर् इहाचलाः ।
गौरी कुमारी सन्ध्या च रात्रिश् चैव मनोजवा ॥
यक्षादिः पुण्डरीकश् च सप्त सप्त उदाहृताः ।
शाकमध्ये शाकवृक्षो वर्षप्लक्षे च निम्नगाः ॥
सप्त सप्त च देवर्षे श्रूयतां गदतो मम ।
जलदश् च कुमारश् च सुकुमारो मणीचकः ॥
कुसुमोत्तममोदश् च सप्तमश् च महाद्रुमः ।
उदयो जलधारश् च रैवतश् चानुपर्वताः ॥
पञ्चमो ऽभ्रगिरिः शैलो अम्बिका केसरी तथा ।
सुकुमारी कुमारी च नलिनी वेणुका तथा ॥
इन्दुका रेणुका चैव गभस्तिः सप्तमी तथा ।
पुष्करे तु महापद्मो धातकीति प्रकीर्तितौ ॥
मध्यतो वलयाकारौ मानसो ऽत्र च पर्वताः ।
न्यग्रोधवृक्षः पूर्वेषु ब्रह्मणः स्थानम् उच्यते ॥
[३१६] सप्तमः पुष्करद्वीपः तद्वद् एव समावृतः ।
एवं द्वीपाः समुद्रैश् च सप्तसप्तभिर् आवृताः ॥
द्वीपैश् चैव समुद्रैश् च समाना द्विगुणा परे ।
द्वीपमानान् द्रुमान् सर्वान् राजतान् विनिवेशयेत् ॥
तथा पक्षिमृगान् मत्स्यान् पर्वतोदधिष् क्षिपेत् ।
जम्बुद्वीपाधिपं विष्णुं तत्र चैव निवेशयेत् ॥
प्लक्षे सोमं शाल्मले वायुरूपं
कुशद्वीपे ब्रह्मरूपं पुराणम् ।
क्रौञ्चे रुद्रं शाकसञ्ज्ञे ऽथ सूर्यं
ब्राह्मं रूपं पुष्करे देव देवं ॥
कृत्वा चैकं बहुधा चारुमूर्तिं
हिरन्यजं जगताम् ईशम् आद्यम् ।
प्रक्षाल्य पूतेन जलेन मन्त्रैः
सम्प्रोक्ष्य दर्भैश् च निधाय देवान् ॥
संवेष्ट्य वस्त्रैश् च धराधरेन्द्रान्
समन्ततो विकिरेत् पुष्पवृष्ट्या ।
अर्घादिभिर् हव्ययुतैश् च हस्तैः
सम्पूज्य मेरुं प्रमथांश् च सर्वान् ॥
स्वनाममन्त्रैश् च नमोयुतैश् च
स्वाहायुतैः पूर्ववद् धोममन्त्रः ।
यथा पुरो तत्र तथैव कुर्याद्
एवाधिशैलेन्द्रवनस्पतीनाम् ॥
पूर्वेद्युर् एव विधिना समाप्य
[३१७] गुरुस् च तत्राधिवसेन् निशायाम् ।
निशासु वेदानुमतस् तथैव
वस्त्रादिदानं च ततः क्रमेण ॥
ततः प्रभाते विमले तु दान-
कले तदा स्नापितो धौतवस्त्रः ।
यथा पूर्वं जम्बुसञ्ज्ञस्य चोक्तं
तथा दानं सादरं कारयित्वा ॥
ततो विप्रान् पूज्य तेषां क्रमेण
तां दापयेन् मन्त्रपूर्वं तथैव ।
सोमं वायुं ब्रह्मरूपं च चन्द्रं
तथा सूर्यं ब्रह्मणो रूपम् आद्यम् ॥
वीरुधौषधिवृक्षाणां मृगाणां जगतां प्रभोः ।
आह्नाद् अजननो यस्मात् तस्मात् त्वं पाहि मां सदा ॥
अन्तर् बहिश् च तत् सर्वं व्याप्य योजयति स्थितः ।
सदा गतिर् अमेयात्मा रक्ष त्वं व्याहृतस् तु माम् ॥
यः कर्ता जगतां पाता ब्रह्मलोकपितामहः ।
त्वत्सम्प्रदानाद् देवेश श्रेयश् चास्तु सदा मम ॥
रक्षार्थं देवदेवानां जगताम् अपि शङ्कर ।
त्वया तु त्रिपुरं दग्धं सदा मे सम्प्रसीद तत् ॥
उदेत्य् अस्तमनं याति नित्यं पाति जगत्त्रयम् ।
प्रत्यक्षं सर्वलोकानां यो ऽसौ मे सम्प्रसीदतु ॥
सृष्टिस्थितिविनाशानां कारणं जगताम् असौ ।
हिरण्यगर्भो भगवान् सदा मे सम्प्रसीदतु ॥
[३१८] इत्य् एवम् एव विधिभिर् द्विज पुङ्गवानाम्
प्रत्येकम् एकं च यथा क्रमेण ।
दद्यात् तदा गुरवे दक्षिणां च
वासः सुवर्णाद् अधिकं सुवर्णम् ॥
कृत्वा सप्तद्वीपपर्यन्तभूमिं
दत्वा देवान् जातरूपान् क्रमेण ।
दद्यात् तस्मै गुरवे दानशेषं
साङ्गो ऽपाङ्गन् धान्यवस्त्रादि सर्वम् ॥
आदाव् अन्ते पञ्चभिर् विप्रवर्यैः
पुण्याहं च स्वस्तिम् ऋद्धिं च वाच्यम् ।
दद्यात् तेभ्यो दक्षिणां जातरूपं
वासोधान्यं भोजयेद् ब्राह्मणांश् च ॥
सप्तद्वीपाह्वयं दानम् एवं कृत्वाथ नारद ।
नारी वा पुरुषो वाथ वैरिञ्चिं लोकम् आप्नुयात् ॥
उवाच नारदायैवं भगवान् लोकभावनः ।
यथा मयापि तत् सर्वं प्रोक्तं वै मुनिसत्तमाः ॥
इति ब्रह्माण्डपुराणोक्तः सप्तद्वीपदानविधिः ।
पुलस्त्य उवाच ।
तत्रासीना मुनयः शौनकाद्यास्
ते चारण्ये नैमिषे सत्रयागे ।
सुखासीनं सूतसूनिं तदानीम्
गत्वापृच्छन् यज्ञकर्मावसाने ॥
उग्रस्रवः परिपृच्छामहे त्वाम्
[३१९] किं कृत्वासौ पुरुषो वाथ नारी ।
आयुश् च सर्वं लभते ऽथ रोगैर्
विमुच्यते भूतिम् उपैति चाग्र्याम् ॥
दुःखप्रनाशं ग्रहभीतिनाशम्
दृष्टं तथा त्रिविधे चाद्भुते वा ।
अथान्यद् वा भयदोषप्रशान्तिम्
अभीष्टसिद्धिं प्रददाति कर्तुः ॥
दानं व्रतं देवताभ्यर्चनं वा
किं तत् कृत्वा कृतकृत्यो भवेत् ताः ।
शुश्रुषवस् तव वाकां च यत् तु
वदास्माकं सूतदानातिविद्वन् ॥
इत्य् एवम् उक्तो मुनिभिस् तदानीम्
उग्रश्रवाः प्रत्युवाचाथ तेषाम् ।
शृणुध्वं वः कथयिष्याम्य् अहं तत्
त्व् एवम्भूतं पृथिवीपद्मदानम् ॥
देवागारे नदनद्योस् तु तिरे
गृहे ऽन्यस्मिन् पुण्यदेशे च कुर्यात् ।
तडागे वा नन्दने वाथ कुर्याद्
आरामे वा रमते यत्र चेतः ॥
विप्रं गुरुं वेदपुराणदक्षं
सङ्गृह्य वैतानि क्रमादरेण ।
दद्यात् तु तस्मै गुरवे ऽथ वासो
[३२०] युगं शुभं काञ्चनभूषणानि ॥
अलङ्कृतो ऽसौ प्रकरोति सर्वम्
ऋते दानं किञ्चिद् इहास्ति कार्यम् ।
गव्येन भूमिं शकृता जलेन
चालेपयेद् विंशतिहस्तमात्राम् ॥
कूटं वर्षातपत्राणां समं प्राक् प्लवम् एव वा ।
षोडशारत्निमात्रं तु चतुरस्रं प्रकल्पयेत् ॥
यथेष्टं तत्र कुर्याद् वै स्तम्भांश् च परिकल्पयेत् ।
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥
दर्भमालापरिवृतं मङ्गलाङ्कुरशोभितम् ।
वितानेनोपरिच्छन्नं शुभेन सितरूपिणा ॥
परितो लोकपालानां ध्वजाश् च परिकल्पयेत् ।
वस्त्रैर् आवेष्टयेत् स्तम्भान् चतुर्दिक्षु विचक्षणः ॥
लम्बयेत् पुष्पमालाश् च सर्वतः स्तम्भसन्धिषु ।
प्रागुदक्प्रवणां भूमिं गोमयेनोपलेपयेत् ॥
एवं कूट्प्रपां चाथ पटं वा परिकल्पयेत् ।
मध्ये व्रीहिमयं शैलं महामेरुं प्रकल्पयेत् ॥
मध्यमं दशभारेण तुरीयांशेन चेतरान् ।
मन्दरं पुरतः कृत्वा दक्षिणे गन्धमादनम् ॥
विपुलं पश्चिमे शैलं सुपार्श्वं चोत्तरे ऽचलम् ।
विष्कम्भपर्वतौ द्वौ तु पूर्वपश्चिमभागयोः ॥
परितश् चान्तरे वर्षपर्वताः समुदाहृताः ।
[३२१] विष्कम्भवर्वतौ, मन्दरगन्धमादनाव् एवाभिप्रेतौ, वर्षपर्वतास् तु धरादानोपदिष्टा द्रष्टव्याः ।
जम्बुप्लक्षाह्वयौ द्वीपौ शाल्मलश् च तथापरः ।
कुशं क्रौञ्चश् च शाकश् च पुष्करं चैव सप्तमम् ॥
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम् ।
एवं द्वीपाः समुद्रैश् च सप्तसप्तभिर् आवृताः ॥
एवं व्रीहिमयाञ् छैलान् पत्रिणः कारयेत् तथा ।
भारार्धेनाथ वा शैलान् इतरान् परिकल्पयेत् ॥
इतरान्, वर्षपर्वतान् इत्य् अर्थः ।
संवेष्ट्य शैलान् वासोभिः सर्वान् एव महोदधीन् ।
चतुरश् चतुरः पात्रान् तत्तद्द्रव्येण संविशेत् ॥
मन्दारं पारिजातं च सन्तानं हरिचन्दनम् ।
मेरोर् उपरि सौवर्णान् चतुर्दिषु निवेशयेत् ॥
तन्मध्ये कल्पवृक्षं च सौवर्णं कमलासनम् ।
ब्रह्माणं द्विभुजं देवं प्राङ्मुखं विनिवेशयेत् ॥
मेरुशृङ्गाणि चत्वारि राजतानि प्रकल्पयेत् ।
सौवर्णं मादनं प्लक्षं मन्दरे विनिवेशयेत् ॥
हिरण्यं गरुडं जम्बुगन्धमादनपर्वते ।
सौवर्णं च पुरोहंसम् अश्वत्थं परिकल्पयेत् ॥
सुपार्श्वे सुरभीं हैमीं न्यग्रोधं च निवेशयेत् ।
राजतान् अपि सर्वेषु मृगपक्षिमहीरुहः ॥
इक्षुचन्दनखण्डानि सर्वेषु विनिवेशयेत् ॥
द्वारेषु मुम्बौ जलवस्त्रयुक्तौ
[३२२] फलैर् युतौ चन्दनखण्डयुक्तौ ।
कोणेषु पूर्णं कलशं तथैव
चतुर्दिशम् इक्षुरसं निधाय ॥
कृत्वैव मद्रिप्रवरांश् च देवान्
आरादयन् चन्दनपुष्पधूपैः ।
स्वनाममन्त्रैश् च नमोऽन्तरूपैर्
अभ्यर्च्य सर्वान् अथ विप्रमुख्यान् ॥
सार्धं तथा गुरुणा पञ्चभिस् तैः
पुण्याहकं स्वस्तिम् ऋद्धिं च वाच्यम् ।
ततो ऽत्र होमं गुरु एव कुर्यात्
पूर्वोत्तरस्यान् दिशि भूधराणाम् ॥
अग्निं समाधाय घृतेन दध्ना
जुहोति देवाय न नाम चोक्त्वा ।
तथा गिरीणाम् अपि नाममन्त्रैर्
दशाहुतीर् अधिकं चैवम् एकम् ॥
पूर्वेद्युर् एवं गुरुर् एव कृत्वा
निशां तथा जागरणं च कुर्यात् ।
रक्षोघ्नमन्त्रांश् च जपन् स आस्ते
ततः प्रभाते विमले प्रकर्ता ॥
प्राप्ते पुण्ये दानकाले प्रदाता
कुशोदकैस् तिलमिश्रैश् च विद्वान् ।
स्नात्वा शुचिर् गुरुणा प्रोक्षितो ऽसौ
तथा मन्त्रैर् वारुणैः पावमानैः ॥
[३२३] दद्यात् पुष्पाञ्जलिं तत्र मेरोः कृत्वा प्रदक्षिणम् ।
सम्पूज्य दद्याद् विप्राय गुरवे वाहिताग्नये ॥
यस्मात् त्वं लोकपालानां ब्रह्मणः परमेष्ठिनः ।
आवासः सर्वदेवानां तस्मान् मां पाहि सर्वतः ॥
यस्मात् त्वं क्षितिपद्मस्य कर्णिकारं महीधर ।
तस्मात् त्वं सर्वदा ह्य् अस्मच्छ्रेयांसि प्रददस्व वै ॥
इति दद्यान् महामेरुं विप्राय विदुषे ततः ।
प्रागाद्युत्तरपर्यन्तान् विप्रेभ्यः प्रतिपादयेत् ॥
प्रत्येकम् एकं विदुषां चतुर्णां प्रतिकल्पयेत् ।
दद्यात् पुष्पाञ्जलिं चैव कृत्वा चापि प्रदक्षिणम् ॥
यस्मात् त्वं मदनावासो देवानाम् अपि पर्वत ।
सम्प्रीयतां मे भगवान् मन्दरः पर्वतोत्तमः ॥
यस्मात् त्वं गरुडावासः सदा देवालयाचलः ।
सम्प्रीयतां मे भगवान् गन्धमादनपर्वतः ॥
यस्मिन्न् अश्वत्थवृक्षस्थो हंसरूपी सदा वसेत् ।
तस्मात् सम्प्रीयतां मह्यं विपुलः पर्वतोत्तमः ॥
सुरभिस् तिष्ठते नित्यं न्यग्रोधो मस्तके तव ।
आरामो देवतानां त्वं सुपार्श्व प्रीतिमान् भव ॥
इत्य् एवं पृथिवीपद्मदानं दानोत्तमं तथा ।
दत्वा भुङ्क्ते ऽधिकान् भोगान् ब्रह्मसालोक्यम् आप्नुयात् ॥
पुण्याहं स्वस्तिम् ऋद्धिं च वाअयेद् गुरुणा सह ।
विद्वद्भिः पञ्चभिर् विप्रैर् दद्यात् तेषां तु दक्षिणाम् ॥
दानोपदेष्ट्रे गुरवे दक्षिणां प्रतिपादयेत् ।
[३२४] उपदेष्टात्र षष्ठो ऽभिप्रेतो वैतानिकस्य तु ।
गुरोस् तेषां च दद्यात् तु दक्षिणाम् इत्य् अनेन च ॥
दक्षिणादानसिद्धेः ।
दानमानसमं निष्कं जातरूपं विधानतः ।
आसनं शयनं वस्त्रं पात्रं भोजनसाधनम् ।
पानीयसाधनं कांश्यं गुरवे प्रतिपादयेत् ॥
एतद् दाने ऽप्य् उपयुक्तं समस्तं
दद्यात् तस्मै गुरवे वस्त्रजातम् ।
स्वयं भुङ्क्ते स घृतं पाणिनोक्तं
गुरून् विप्रान् भोजयेद् वेष्टवर्गान् ॥
एवं पुरा ऋषये नारदाय
जगत्कर्ता वाब्रवीत् पद्मयोनिअः ।
मया चोक्तं पृथिवीपद्मदानम्
ततः किं च प्रव्रवीमि द्विजेन्द्राः ॥
इति ब्रह्माण्द्पुराणोक्तः पृथिवीपद्मदानविधिः ।
शौनक उवाच ।
अन्त्यजागमने मर्त्यः पाण्दुरोगी प्रजायते ।
वक्ष्यामि तत् प्रतीकारं दानहोमादिकर्मणा ॥
पलत्रयेण कुर्वीत राजतेन वसुन्धराम् ।
तदर्धेनाथ वा कुर्याद् वित्तशाठ्यं न कारयेत् ॥
सपर्वतवनां कृत्स्नां समुद्रपरिवेष्टिताम् ।
नवरत्नानि निक्षिप्य श्वेतवस्त्रेण वेष्टयेत् ॥
कांस्यपात्रे विनिक्षिप्य पलाष्टकविनिर्मिते ।
[३२५] देवीम् आवाहयेत् तत्र सर्वाधारां हरिप्रियाम् ॥
एह्य् एहि देवि धात्रो त्वं रूपे ऽस्मिन् सम्यग् आविश ।
सहिता पर्वतैर् द्वीपः समुद्रैः सुमना भव ॥
आवाहनमन्त्रः ।
एवम् आवाह्यतां देवीं गन्धमाल्यैः समर्चयेत् ।
उपचारैः षोडशभिर् आचार्यः सर्वशाश्त्रवित् ॥
होमं चापि प्रकुर्वीत समिदाज्यतिलैर् अथ ।
भूमिर् भूमीति मन्त्रेण समिद्धोमः प्रकीर्तितः ॥
तथा ।
भूमिर् भूमिम् अगात् माना माता मातरम् इत्य् अपि ।
मन्त्रः प्रकीर्तितश् चाग्नौ तिलाज्याहुतिभिर् हुनेत् ॥
अग्नेर् उत्तरतश् चापि कुम्भं वस्त्रेण वेष्टितम् ।
स्थापयेद् अव्रणं शुभ्रम् अश्वस्थानादिमृत्तिकाः ॥
प्रक्षिपेच् च ततः शुद्धवारिणा परिपूरिते ।
पवमानादिभिर् मन्त्रैर् अभिषेकं च कारयेत् ॥
शन् नो देव्य् अनुवाकेन शान्तिं चापि प्रकल्पयेत् ।
अभिषिक्तस्य चाङ्गानि वस्त्रेण परिमार्जयेत् ॥
अक्ष्ōभ्यम् अनुवाकेन यथालिङ्गं सदर्भकम् ।
आचार्याय च तां पृथ्वीं दद्याद् रोगी समाहितः ॥
मन्त्रेणानेन विधिवत् प्राङ्मुखाय ह्य् उदङ्मुखः ।
धात्री धरित्री भूतानां वराहेणोद्धृता प्रिया ॥
रत्नगर्भसमुद्रैकवसना सर्वशोभना ।
दानेनानेन सुप्रीता प्राण्डुरोगं व्यपोहतु ॥
दानमन्त्रः ।
अनेन विधिना दत्वा पृथ्वीदानं प्रयत्नतः ।
[३२६] यद् दानं वै कृतं मर्त्ये अन्त्यजागमनेन तु ॥
तत् सर्वं नाशम् आयाति पाण्डुरोगादिकं महत् ।
शान्त्यर्थं ब्राह्मणैः सार्धं कुर्यात् पुण्याहवाचनम् ॥
इति पद्मपुराणोक्तः पाण्डुरोगहरः पृथिवीदानविधिः ।
अथ विश्वचक्रशब्दितं द्वादशं महादानम् आख्यायते । मत्यपुराणे ।
मत्स्य उवाच ।
अथातः सम्प्रवक्ष्यामि महादानम् अनुत्तमम् ।
विश्वचक्रम् इति ख्यातं सर्वपापप्रनाशनम् ॥
तपनीयस्य शुद्धस्य विषुवादिषु कारयेत् ।
ज्येष्ठं पलसहस्रेण तदर्धेन तु मध्यमम् ॥
तस्यार्धेन कनिष्ठं स्याद् विश्वचक्रम् उदाहृतम् ।
अन्यद् विंशपलाद् ऊर्ध्वम् अशक्तो ऽपि निवेदयेत् ॥
षोडशारन्ततश् चक्रं भ्रमन् नेम्यष्टकावृतम् ।
नाभिमध्ये स्थितं विष्णुं योगारूढं चतुर्भुजम् ।
शङ्खचक्रे ऽस्य पार्श्वे तु देव्यष्टकसमावृतम् ॥
अरोनाम, नाभ्यन्तोपक्रमान्तगामिशलाकाकृतिर् अवयवविशेषः । नेमयः प्रधयः भ्रमन्त्यो वलयाकारेणावस्थिताः । तासाम् अष्टकेन तुल्यान्तरालेनावृतम् । वेष्टितम्, नाभिपद्मे स्थितम् इति । अष्टदलपद्माकारा नाभिः तत्कर्णिकायां योगारूढम् इति हृद्देशावस्थापितहस्तद्वयं पार्श्वस्थितशङ्खचक्रं विष्णुं विन्यस्य दलाष्टकं(?) पूर्वादिक्रमेण शक्त्यष्टकं प्रतिष्ठापयेत् । तल्लक्षणं तु नारदीये ।
[३२७] विमलोत्कर्षिणी ज्ञाना क्रिय योग तथापरा ।
प्रज्ञा सत्या तथेशाना नवमी वाप्य् अनुग्रहेति ॥
सर्वा दक्षिणाहस्तेन वरदेन विराजिता ।
सव्येन चक्रे धारिण्यः स्त्रीरूपाश् चारुभूषणा इति ॥
अत्र देव्यष्टकसमावृतम् इति वचनान् नवम्या अनुपयोगः ।
द्वितीयावरणे तद्वत् पूर्वतो जलशायिनः ।
अत्रिर् भृगुर् वसिष्ठश् च ब्रह्म कश्यप एव च ॥
मत्स्यः कूर्मो वराहश् च नरसिंहो ऽथ वामनः ।
रामो रामश् च कृष्णश् च बुद्धः कल्कीति च क्रमात् ॥
जलशायिप्रभृतीनां, लक्षणम् उक्तं ब्रह्माण्डदानद्वये । मत्यादीनां चु पञ्चरात्रे ।
वामे शङ्खं गदां दक्षे द्विभुजो मत्स्यरूपधृक् ।
नराङ्घ्रिर् मत्स्यरूपी वा मत्स्यरूपी जनार्दनः ॥
एतद् एव कूर्मलक्षणं मत्स्यपदस्थाने कूर्मपदप्रयोगे सति ।
मधुपिङ्गलवर्णं च चतुर्वाह्वायुधैर् युतम् ।
नराङ्गं शूकरास्यं च मनाक्पीनं सुभीषणम् ॥
श्रीर् वामकूर्परस्था तु धरानन्तौ पदानुगौ ।
एतद् रूपधरं देवं वराहं भुक्तिमुक्तिदम् ॥
ज्वलदग्निसमाकारं सिंहवक्त्रं नराङ्गकम् ।
दंष्ट्राकरालव्दनं ललज्जिह्वं सुभीषण्म् ॥
वृत्ताक्षं जटिलं क्रुद्धं आलीढं पीनवक्षसम् ।
अभेद्यतीव्रनखरं वामानुकृतदानवम् ॥
तद्वक्षोदारयन्तं च कराभ्यां नखैर् भृशम् ।
[३२८] गदाचक्रधरं द्वाभ्यां नरसिंहं जगत्प्रभुम् ॥
कुण्डी छत्रधरो द्विर्द्योर् वामनः परिकीर्तितः ।
क्षत्रान्तकरणं घोरम् उद्वहन् परशुं करे ॥
जामदग्न्यः प्रकर्तव्यो रामो रोषारुणेक्षणः ।
युवा प्रसन्नवदनः सिंहस्कन्धो महाबलः ॥
आजानुबाहुः कर्तव्यो रामो बाणधनुर्धरः ।
शङ्खचक्रधरः कार्यो नीलोत्पलदलच्छविः ॥
कृष्णो दीर्घद्विबाहुश् च सर्वदैत्यक्षय्ङ्करः ।
काषायवस्त्रसंवीतः स्कन्धसंसक्तचीवरः ॥
पद्मानस्थो द्विभुजो ध्यायी बुद्धः प्रकीर्तितः ।
खड्गोद्यतकरः क्रुद्धो हयारूढो महाबलः ॥
म्लेच्छोच्छेदकरः कल्पी द्विभुजः परिकीर्तितः । इति ।
तृतीयावरणे गौरी मातृभिर् वसुभिर् युताः ॥
गौरीलक्षणम् उक्तं ब्रह्माण्डपुराणे ।
ब्रह्माण्याड्याः सप्तमातरः ।
तासां च लक्षणम् उक्तं लक्षणसङ्ग्रहे ।
गौरी चतुर्मुखी वीरा अक्षमाला स्रुचान्विता ।
कुण्डाज्यपात्रिणी वामे ब्रह्माणी हंससंस्थिता ॥
गौरी नैरवर्णा ब्रह्माणीविशेषणम् एतत् ।
त्रिनेत्रा शूलहस्ता च जटाखण्डेन्दुमण्डिता ।
कपालमालिनी शुक्ला रुद्राणी वृषसंस्थिता ॥
रक्ता शक्तिधरा देवी रक्तमाल्याम्बरान्विता ।
[३२९] शिखिपृष्ठसमारूढा कौमारी स्कन्दरूपिणी ॥
शङ्खचक्रगदाशार्ङ्गखड्गहस्ता च तार्क्षगा ।
श्यामा चतुर्भुजा देवी वैष्णवी वनमालिनी ॥
कृष्णा पीनोदरा क्रूरा शूकराश्यानुकारिणी ।
सवस्त्रा यौवनोद्भिन्ना नर्य् आभरणभूषिता ॥
वाराही महिषस्था तु मदिरा दण्डधारिणी ।
खड्गखेटकसंयुक्ता अथ वापि चतुर्भुजा ॥
सहस्राक्षा गजारूढा हेमाभा वज्रधारिणी ।
इन्द्राणी सर्वसिद्धार्था सर्वाभरणभूषिता ॥
गर्ताक्षी क्षीणदेहा तु क्षामकुक्षिभयङ्करी ।
विवृतास्या च दंष्ट्रोग्रा शिवे वा कौशिके स्थिता ॥
लेलिहाना विमुक्ताक्षी ज्वलत्केशाहिमण्डिता ।
द्वीपिचर्माम्बरा क्रुद्धा चामुण्डा मुण्डमालिनी ॥
जटिला वर्तुला त्र्यक्षा चतुर्बाहुषु बिभ्रती ।
कपालकर्तरी याम्ये पाशं शूलं च वामतः ॥ इति ।
वस्वष्टकलक्षणम् उक्तं ब्रह्माण्डदाने ।
चतुर्थे द्वादशादित्या वेदाश् चत्वार एव च ।
पञ्चमे पञ्चभूतानि रुद्राश् चैकादशैव तु ॥
लोकपालाष्टकं षष्ठे दिङ्मातङ्गास् तथैव च ।
सप्तमे ऽस्त्राणि सर्वाणि मङ्गल्यानि च कारयेत् ।
अन्तरान्तरतो देवान् विन्यसेद् अष्टमे पुनः ॥
[२३०] आदित्यलोकपालादिगजानां लक्षणम् उक्तम् ब्रह्माण्डदाने । वेदस्वरूपाणि महाभूतघटदाने वक्ष्यन्ते । पञ्चभूतानि पृथिव्यादीनि । तल्लक्षणम् उक्तं विष्णुधर्मोत्तरे ।
शुभवर्णा मही कार्या दिव्याभरणभूषिता ।
चतुर्भुजा सौम्यवपुश्चन्द्रांशुसदृशाम्बरा ॥
रत्नपात्रं सस्यपात्रं पात्रम् औषधसंयुतम् ।
पद्मं करे च कर्तव्यं भुवो यादवनन्दन ॥
दिग्गजानां चतुर्णां सा कार्या पृष्ठगता तथा ।
सर्वौषधियुता देवी शुक्लवर्णा ततः स्मृता ॥
अपां रूपम् उक्तं स्कन्दपुराणे ।
तस्य ध्यानवतः पूर्वम् आपः प्रत्यक्षतां ययुः ।
स्त्रीरूपाः शुभ्रवर्णाश् च द्विभुजाः श्वेतवाससः ॥
दधानाः पाशकलशौ करयोर् मकरासना ।
तजस् त्व् अग्निः । तस्य रूप्म् उक्तं ब्रह्माण्डदाने ।
वायीश् च आकाशरूपम् उक्तं विष्णुधर्मोत्तरे ।
नीलोत्पलाभं गगनं तद्वर्णाम्बरधारि च ।
चन्द्रार्कहस्तं कर्तव्यं द्विभुजं सौम्यदर्शनम् ॥
द्विरष्टवर्षाकारं च स्त्रीपुंसव्यञ्जनोज्झितम् ॥
रुद्रलक्षणम् उक्तं विश्वकर्मणा ।
रक्तवर्णास् त्रिनयना द्विभुजा चन्द्रमौलयः ।
जटिलाश् च प्रकर्तव्या रुद्रा बाणधनुर्हराः ॥ इति ।
सप्तमे ऽस्त्राणि, सर्वाणीति, अत्र सत्य् अपि सर्वशब्दे षोडशकोष्ठ**[३३१]**सन्निवेशोपयोगित्वाद् अष्टाव् अस्त्राणि मङ्गल्यानि चाष्टाव् इत्य् एतावताम् एव परिग्रहो न्याय्यः । अस्त्राण्य् उक्तानि गरुडपुराणे ।
खड्गशूलगदाशक्तिकुन्ताङ्कुशधनूंषि च ।
स्वधितिश् चेति शस्त्राणि तेषु चापं प्रशस्यते ॥ इति ।
मङ्गल्याण्य् आह पराशरः ।
दक्षिणावर्तशङ्घाश् च रोचना चन्दनं तथा ।
मुक्ताफलं हिरण्यं च छत्रं चामरम् एव च ।
आदर्शश् चेति विज्ञेयं मङ्गल्यं मङ्गलावहम् ॥
अन्तरान्तर इति पूर्वोक्तिः, सर्वैर् एव सम्बध्यते अन्तराणाम् अन्तरो मध्यदेश इत्य् अर्थः अष्टमावरणे तु पूर्वोक्तान् ब्रह्मादीन् षोडशदेवान् विन्यसेद् इति दानविवेककारः । अभीष्टदेवान् विन्यसेद् इति केचित् । एते च देवताविशेषा विश्वचक्रनिर्माणार्थम् अवकॢप्तस्यैव सुवर्णस्य मध्यतश् चक्रारूढा निष्पादनीयाः न पृथक् सुवर्णेन तथाविधस्यैव चक्रस्य कार्यतयोपदेशात् ।
तुलापुरुषवच् छेषं समन्तात् परिकल्पयेत् ।
ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् ॥
विश्वचक्रं ततः कुर्यात् कृष्णाजिनतिलोपरि ।
तथाष्टादशधान्यानि रसांश् च लवणादिकान् ॥
पूर्णकुम्भाष्टकं चैव वस्त्राणि विविधानि च ।
माल्येक्षुफलरत्नानि वितानं वापि कारयेत् ॥
अत्रादिशब्देन वृद्धिश्राद्धशिवादिपूज**[३३२]**ब्राह्मणवाचनाधिवासनादीनि सङ्गृह्यन्ते ।
भविष्योत्तरे ।
अधिवास्य ततश् चक्रं पश्चाद् धोमं समाचरेत् ।
चातुश्चरणिकासूत्रब्राह्मणाश् चतुरो ऽष्ट वा ॥
होमं कुर्युर् यतात्मानो वस्त्राभरणभूषिताः ।
होमद्रव्यसमोपेताः स्रुक्स्रुवैस् ताम्रभाजनैः ॥
चक्रप्रतिष्ठितानां तु सुराणां होम इष्यते ।
तल्लिङ्गैर् जुहुयान् मन्त्रैः सर्वोपद्रवशान्तये ॥
मत्स्यपुराणे ।
ततो मङ्गलशब्देन स्नातः शुक्लाम्बरो गृही ।
होमाधिवासनान्तेषु गृहीतकुसुमाञ्जलिः ॥
इमम् उच्चारयेन् मन्त्रं त्रिः कृत्वा तु प्रदक्षिणम् ।
नमो विश्वमायायेति विश्वचक्रात्मने नमः ॥
परमानन्दरूपी त्वं पाहि संसारकर्दमात् ।
तेजोमयम् इदं यस्मात् सदा पश्यन्ति योगिनः ॥
हृदि तत्त्वं गुणातीतं विश्वचक्रं नमाम्य् अहम् ।
वासुदेवे स्थितं चक्रं चक्रमध्ये च माधवः ॥
अन्योन्याधाररूपेण प्रणमामि स्थिताव् इह ।
विश्वचक्रम् इदं यस्मात् सर्वपापहरं परम् ॥
आयुधं चाधिवासस्य भवाद् उद्धर माम् अतः ।
इत्य् आमन्त्र्य च यो दद्याद् विश्वचक्रं विमत्सरः ॥
विमुक्तः सर्वपापेभ्यो विष्णुलोके महीयते ।
[३३३] वैकुण्ठलोकं समासाद्य चतुर्बाहुः सनातनः ।
सेव्यते ऽप्सरसां सङ्घैस् तिष्ठेत् कल्पशतत्रयम् ॥
अत्रापि पूर्ववद् दानवाक्यम् अभिधाय, यथाशक्ति सुवर्णदक्षिणासहितं जलपूर्णम् आचार्यासिभ्यः सम्प्रदानप्रतिपादनं तदनुज्ञयान्येभ्यो ऽपि दानम् दीनानाथतर्पणं स्वल्पे त्व् एकाङ्निविधानम् ऋत्विगाचार्याणां विभागव्यवस्था चेति सर्वं प्रकृतिवद् अनुष्ठेयम्, ततः पुण्याहवाचनदेवतापूजनविसर्जनानि कुर्यात् ।
प्रणमेद् वा स्वयं कृत्वा विश्वचक्रं दिने दिने ।
तस्यायुर् वर्धते नित्यं लक्ष्मीश् च विपुला भवेत् ॥
इति सकलजगत्सुराधिवासम्
वितरति यस् तपनीयषोडशारम् ।
हरिभुवनम् उपागतः ससिद्धैश्
चिरम् अधिगम्य नमस्यते शिरोभिः ॥
असुदर्शनतां प्रयाति शत्रोर्
मदनसुदर्शनां च कामिनीनाम् ।
ससुदर्शनकेशवानुरूपः
कनकसुदर्शनदानदग्धपापः ॥
कृतगुरुदुरितानि षोडशार-
प्रवरसुदर्शनान्ता निरस्य ।
व्रजति च समुरारिधाम भित्त्वा
भवमतित्य भुवने भत्वा न (?) भूयः ॥
इति मत्स्यपुराणोक्तो विश्वचक्रदानविधिः ।
[३३४]
अथ कल्पलताभिधानं त्रयोदं महादानम् उपवर्ण्यते ।
मत्स्य उवाच ।
अथातः सम्प्रवक्ष्यामि महादानम् अनुत्तमम् ।
महाकल्पलता नाम महापातकनाशनम् ॥
पुण्यां तिथिम् अथासाद्य कृत्वा ब्राह्मणवाचनम् ।
ऋत्विग्मण्डपसम्भारभूषणाच्छादनादिकम् ।
तुलापुरुषवत् कुर्यात् लोकेशावाहनादिकम् ॥
आदिशब्दव्याख्यानं पूर्ववत् ।
चामीकरमयीः कुर्यात् दशकल्पलताः शुभाः ।
नानापुष्पफलोपेता नानांशुकविभूषिताः ॥
विद्याधरसुपर्णानां मिथुनैर् उपशोभिताः ।
हरोनादित्सुभिः सिद्धैः फलानि च विहङ्गमैः ॥
नानाफलानि, पुंस्त्रीगोगजवाजिप्रभृतीनि, स्वरूपपुष्पफलानां तुलनार्थत्वेनैवोपपत्तेः । अंशुकानि वस्त्राणि । सुपर्णाः पक्षिणः । एवं दशकल्पलतां विधाय वेदिकायाम् लिखितचक्रस्योपरि मध्ये द्वयं पूर्वादिदिषु चाष्टौ स्थापयेत् ।
लोकपालानुसारिण्यः कर्तव्यास् तासु देवताः ।
ब्राह्मीम् अनन्तशक्तिं च लवणस्योपरि न्यसेत् ।
अधस्ताच् च तयोर् मध्ये पद्मशङ्खकरे शुभे ॥
[३३५] लोकपालानुसारुण्यो देवताः, लोकपालशक्तय इत्य् अर्थः । अधस्ताच् च तयोर् इति, मध्यस्थापितयोः कल्पलतयोर् अधस्तात् पद्माकारां ब्राह्मीम्, शङ्हधराम् अनन्तशक्तिं च स्थापयेत् । लवणादिपरिमाणं च, परिमाणविशेषानिर्देशात् पुरुषेच्छया नियम्यते । लवणं स्तूपयोर् न्यस्येद् इति क्वचिद् पाठः तत्र स्तूपो राशिः द्विवचनं राशिद्व्यापेक्षयेति ।
इभासनस्था तु गुडे पूर्वतः कुलिशायुधा ।
रजन्यजस्थिताग्नेयोस्तुहीपाणिरथानले (?) ॥
पाम्यामहिषम् (?) आरूढा गदिनी तन्दुलोपरि ।
घृतेन नैरृतौ स्थाप्या सखड्गा दक्षिणापरे ॥
वारुणे वारुणी क्षीरे झषस्था नागपाशिणी ।
पताकिनी च वायव्ये मृगस्था शर्करोपरि ॥
सौम्यानिलेषु संस्थाप्या शङ्खिनी निधिसंस्थिता ।
माहेश्वरी वृषगता त्वीशपाणिः त्रिशूलिनी ॥
इभो गजः स च चतुर्दनो विधेयः, कुलिशं वज्रम्, रजन्यजस्थितेति, रजनी हरिद्रा, अजः छागः, हरिद्रोपरिस्थापिता छागवाहनेत्य् अर्थः, अनले आग्नेयदिग्भागे, दक्षिणापरे नैरृतदिग्भागे नैऋतीप्रेतवाहनेत्य् अवधेयं जषस्थामकरवाहनेत्य् अर्थः । निधिसंस्थितेति निधिरूपं कलशानुकारि ।
मौलिन्यो वरदास् तद्वत् कर्तव्या वालिकान्विताः ।
शक्त्या पञ्चपलाद् ऊर्ध्वम् आ सहस्रात् प्रकल्पयेत् ॥
सर्वासाम् उपरिष्टाच् च पञ्चवर्णं वितानकम् ।
धेनवो दशकुम्भाश् च वस्त्रयुग्मानि चैव हि ॥
[३३६] मौलिन्यो मुकुतधराः, वरदा इति, यथोक्तायुधधारिणः करादितरेण करेण वरदमुद्रान्विता इत्य् अर्थः । वालिका कर्णभूषणं, वालकान्विता इति क्वचित्पाठः । तदा वामोत्सङ्गस्थितवालका इति व्याख्या । एतच् च पञ्चपलादिपरिमितकल्पलताकरणोप-कॢप्तसुवर्णेनैव विभज्य सर्वं कर्तव्यम्, पृथक्द्रव्येण कर्तव्यानुपदेशात् ।
मध्यमद्वे तु गुरवे ऋत्विग्भ्यो ऽन्यास् तथैव च ।
ततो मङ्गलशब्देन स्नातः शुक्लाम्बरो बुधः ।
त्रिः प्रदक्षिणम् आवृत्य मन्त्रान् एतान् उदीरयेत् ॥
तत इति होमाधिवासनपुण्याहवाचनादिपूर्वोक्तकर्मकलापानन्तर्यम् उच्यते । स्नात इति कुण्डसमीपवर्तिकलशस्थितसर्वौषधिजलेन ऋत्विग्भिः स्नापितः, गृहीतकुसुमाञ्जलिर् इत्य् अपि ज्ञेयम् । अथ मन्त्रः ।
नमो नमः पापविनाशिणीभ्यो
ब्रह्माण्डलोकेश्वरपालनीभ्यः ।
आशंसिताधिक्यफलप्रदाभ्यो
दिग्भ्यस् तथाकल्पलतावधूभ्यः ॥
अथ पूर्ववत् प्रयोगम् उच्चार्य मध्यमे द्वे देवतादिसहिते कल्पलते गुरवे प्रतिपाद्य शेषा ऋत्विग्भ्यः प्रतिपादयेत् । तदनुज्ञया अन्येभ्यो ऽपि दानं दीना नाथ पूरणम्, स्वल्पे त्व् एकाग्निविधानं चेति पूर्वोक्तम् अनुसन्धेयम् । ततः पुण्याहवाचनदेवतापूजनविसर्जनानि कुर्यात् ।
इति सकलदिगङ्गनाप्रदानं
भवभयसूदनकारि यः करोति ।
[३३७] अभिमतफलदे न नाकलोके
वसति पितामहवत्सराणि त्रिंशत् ॥
अभिमतफलदे इष्टफलदायिनि ।
पितृशतम् अवतारयेद् भवाब्धेः
स च दुरितौघविनाशशुद्धदेशः ।
सुरपतिवनितासहस्रसङ्ख्यैः
परिवृतम् अम्बुजसंसदाभिवन्द्यः ॥
इति विधानम् इदं सदिगङ्गना
कनककल्पलताविनिवेदने ।
पठति यः स्मरतीह तदीक्षते
स पदम् एति पुरन्दरसेवितम् ॥
इति मत्स्यपुरानोक्तः कल्पलतादानविधिः ।
अथ सप्तसागरसञ्ज्ञं चतुर्दशं महादानम् आख्यायते ।
मत्स्य उवाच ।
अथातः सम्प्रवक्ष्यामि महादानम् उत्तमम् ।
सप्तसागरकं नाम महापातकनाशनम् ॥
पुण्यं दिनम् अथासाद्य कृत्वा ब्राह्मणवाचनम् ।
तुलापुरुषवत् कुर्याल् लोकेशावाहनं बुधः ॥
ऋत्विग्मण्डपसम्भारभूषणाच्छादनादिकम् ।
आदिशब्देन वृद्धिश्राद्धपुण्याहवाचनादि ।
कारयेत् सप्तकुण्डानि काञ्चनानि विचक्षणः ।
प्रादेशमात्राणि तथारत्निमात्राणि वा पुनः ॥
[३३८] कुर्यात् सप्त्पलाद् ऊर्ध्वम् आ सहस्राच् च शक्तितः ।
संस्थाप्यानि च सर्वाणि कृष्णाजिनतिलोपरि ॥
कुण्डानि भाण्डानि, प्रादेशादिपरिमाणम्, तिर्यागूर्ध्वपरिज्ञेयम् । एक्विंशत्यङ्गुष्ठपर्व-परिमितो ऽरत्निः तदर्धं प्रादेशः, तिला द्रोणपरिमाणाः सौवर्णसम्प्रदेयाशयाणां कृष्णाजिनसम्बन्धिनां तेषां तथा व्याप्तिदर्शनात् ।
प्रथमं पूरयेत् कुण्डं लवणेन विचक्षणः ।
द्वितीयं पयसा तद्वत् तृतीयं सर्पिषा पुनः ॥
चतुर्थं तु गुडेनैव दध्ना पञ्चमम् एव च ।
षष्ठं शर्करया तद्वत् सप्तमं तीर्थवारिणा ॥
स्थापयेल् लवणस्यान्ते ब्रह्माणं काञ्चनं शुभम् ।
केशवं क्षीरमध्ये तु घृतमध्ये महेश्वरम् ॥
भास्करं गुडमध्ये तु दधिमध्ये सुराधिपम् ।
शर्करायां न्यसेल् लक्ष्मीं जलमध्ये तु पार्वतीम् ॥
सर्वेषु सर्वरत्नानि धान्यानि च समन्ततः ।
ब्रह्मादिप्रतिमालक्षणम् उक्तं ब्रह्माण्डदाने सर्वरत्नानि सर्वधान्यानि च परिभाषायाम् ।
तुलापुरुष्वच् छेषम् अत्रापि परिकल्पयेत् ।
ततो वारुणहोमान्ते स्नापितो वेदपुङ्गवैः ।
त्रिः प्रदक्षिणम् आवृत्य मन्त्रान् एतान् उदाहरेत् ॥
शेषशब्देन पुण्याहवाचनम् आचार्यादिभ्यो जलपूर्वोक्तं दानम् । तदनुज्ञयात्रान्येभ्यो ऽपि दानं दीनानाथतर्पणम्, स्वल्पेष्व् एकाग्निविधानम् इत्याद्य् अनुसन्धेयम् । अयं विशेषः, द्वितीयदिवसे तुलापुरु**[३३९]**षोक्तकर्मशेषसमाप्तौ पूर्णाहुतेः पूर्वम् आज्यतिलैस् तल्लिङ्गमन्त्रेण सहस्रसङ्ख्यो वारुणहोमः कर्तव्यः ।
नमो वः सर्वसिन्धूनाम् आधारेभ्यः सनातनः ।
जन्तूनां प्राणदेभ्यश् च समुद्रेभ्यो नमो नमः ॥
क्षीरोदकाज्यदधिमाधवलावणेक्षु-
सारामृतेन भुवनत्रयजीवसङ्घान् ।
आनन्दयन्ति वसुभिश् च यतो भवन्तस्
तस्मान् ममाप्य् अघविनाशम् अलंविदध्वम् ॥
यस्मात् समस्तभुवनेषु भवन्त एव
तीर्थामरासुरसुबद्धमणिप्रतानम् ।
पापक्षयाम्बरविलेपनभूषणाय
लोकस्य बिभ्रति तद् अस्तु ममापि लक्ष्मीः ॥
ततो यथा शक्तिदक्षिणासहितसम्प्रदानान्ते पूर्ववत् पुण्याहवाचनदेवतापूजनविसर्जनानि कुर्यात् ।
इति ददति रसामरसंयुतान्
सुचिरविस्मयवान् इह सागरान् ।
अमलकाञ्चनवर्णमयान् असौ
पदम् उपैति हरेर् अमरावृतः ॥
सकलपापविघातविराजितः
पितृपितामहपुत्रकलत्रकम् ।
नरकलोकसमाकुलम् अप्य् अलम्
ऋग् इति सो ऽर्पयते शिवमन्दिरम् ॥
इति मत्स्यपुराणोक्तः सप्तसागरदानविधिः ।
[३४०]
अथ रत्नधेनुसमाख्यं पञ्चदशमहाचनं प्रतिपाद्यते । मत्स्यपुराणे ।
मत्स्य उवाच ।
अथातः सम्प्रवक्ष्यामि महादानम् अनुत्तमम् ।
रत्नधेनु इति ख्यातं गोलोकफलं नृणाम् ॥
पुण्यां तिथिम् अथासाद्य तुलापुरुषदानवत् ।
लोकेशावाहनं कृत्वा ततो धेनुं प्रकल्पयेत् ॥
भूमौ कृष्णाजिनं कृत्वा लवणद्रोणसंयुतम् ।
धेनुं रत्नमयीं कुर्यात् सङ्कल्प्य विधिपूर्वकम् ॥
लोकेशावाहनम् इत्य् उपलक्षणम् । अत्र हि देशकालवृद्धिश्राद्धशिवादिपूजाब्रह्मणवाचन-गुरुऋत्विग्वरणमधुपर्कदानकुण्डमण्डपवेदिकाचक्रलेखनवितानतोरणपताकादिकं मत्स्यपुराणोक्ततुलापुरुषविहितं सङ्गृह्यते धेनुं प्रकल्पयेद् इति लवणाद्रोणोपरि प्राङ्मुखीम् उदक्यादारेखाभिः सवत्साङ्गवाकृतिं रचयेद् इत्य् अर्थः ।
स्थापयेत् पद्मरागाणाम् एकाशीतिं मुखे बुधः ।
पुष्परागशतं तद्वद् घोणायां परिकल्पयेत् ।
ललाटे हेमतिलकं मुक्ताफलशतं दृशोः ॥
घोणायां नासिकाग्रभागे, हेमतिलकादिषु, सारतः, परिमाणतश् च फलविशेषे इति न्यायात् ज्ञायते, यथाशक्त्य् अनुष्ठानं मुक्ताफलशतं नेत्रद्वये विभज्य स्थापनीयम् ।
भ्रूयुगे विद्रुमशतं शुक्ती कर्णद्वये स्थिते ।
काञ्चनानि च शृङ्गाणि शिरो वज्रशतात्मकम् ॥
शृङ्गाणीति वत्सशृङ्गापेक्षया बहुचवनम् ।
[३४१] ग्रीवायां नेत्रपट्टकं गोमेदकशतात्मकम् ।
इन्द्रनीलशतं पृष्ठे वैदूर्यशतपार्श्वके ॥
स्फटिकैर् उदरं तद्वत् सौगन्धिकशतात् कटिम् ।
खुरा हेममयाः कार्याः पुच्छकं मुक्तावलीमयम् ॥
स्फटिकैर् इत् यत्र साहचर्यात् तद्वद् इति वचनाच् छतसङ्ख्यैर् इत्य् अवधेयम्, सौगन्धिकम्, माणिक्यविशेषः, मुक्ताफलानाम् अपि शतसङ्ख्यत्वम् अवधेयम् ।
सूर्यकान्तेन्दुकन्तौ च घ्राणे कर्पूरचन्दनम् ।
कुङ्कुमानि च रोमाणि रौप्यां नाभिं च कारयेत् ॥
गारुत्मतशतं तद्वद् अपाने परिकल्पयेत् ।
तथान्यानि च रत्नानि स्थापयेत् सर्वसन्धिषु ॥
अन्यानि माणिक्यादीनि यथाशक्ति यथालाभं स्थापयेत् ।
कुर्यात् शर्करया जिह्वां गोमयं च गुडात्मकम् ।
गोमूत्रम् आज्येन तथा दधिदुग्धं स्वरूपतः ॥
पुच्छाग्रे चामरं दद्यात् समीपे ताम्रदोहनम् ।
कुण्डलानि च हैमानि भूषणानि च शक्तितः ।
कारयेद् एवम् एवं तु चतुर्थांशेन वत्सकम् ॥
एवम् एवम् इति एतैर् एव धेनूक्तै रत्नादिद्रव्यैर् इत्य् अर्थः ।
तथा सर्वाणि धान्यानि पादाश् चेक्षुमयाः स्मृताः ।
नानाफलानि सर्वाणि पञ्चवर्णवितानकम् ॥
एवं विरचनां कृत्वा तद्वद् धोमाधिवासनम् ।
ऋत्विग्भ्यो दक्षिणां दत्वा धेनुम् आमन्त्रयेद् बुधः ॥
गुडधेनुवद् आमन्त्र्य इदं चोदहरेत् ततः ॥
[३४२] तद्वद् इति मत्यपुराणोक्ततुलापुरुषदानवद् इत्य् अर्थः । सर्वौषधिस्नानादिकम् अपि तद्वद् एव ज्ञेयं दक्षिणां दत्वेति क्रमो ऽत्राविवक्षितः, दक्षिणा चात्र यथाशक्ति सुवर्णम्, नृपकर्तृके तु दाने ग्रामरत्नादय इति गुडधेनुवद् या लक्ष्मीर् इत्यादिमन्त्रैः ।
त्वां सर्वदेवगणधाम यतह् पठन्ति
रुद्रेन्द्रविष्णुकमलासनवासुदेवाः ।
तस्मात् समस्तभुवनत्रयदेवयुक्ता
मां पाहि देवि भवसागरपीड्यमानम् ॥
आमन्त्र्य वेत्थम् अभितः परिवृत्य भक्त्या
दद्याद् द्विजाय गुरवे जलपूर्वकन्ताम् ।
यः पुण्यम् आप्य दिनम् अत्र कृतोपवासः
पापैर् विमुक्ततनुर् एति पदं मुरारेः ॥
परिवृत्य, पदक्षिणीकृत्य गृहीतकुसुमाञ्जलिर् इत्य् अपि ज्ञेयम् । कृतोपवासत्वम् अधिवासनदिने, अशक्तौ तु नक्तम् इत्य् उक्तं गुरवे दद्याद् इत्य् एकाग्निपक्षविषयम् । अनेकाग्निपक्षे तु तुलापुरुषवद् व्यवस्था दानानानन्तरं पूर्ववत् पुण्याहवाचनदेवतापूजनविसर्जनानि कुर्यात् ।
इति सकलविधिज्ञो रत्नधेनुप्रदानम्
वितरति स विमानं प्राप्य देदीप्यमानम् ।
सकलकलुषमुक्तो बन्धुभिः पुत्रपौत्रैः
सहमदनसुरूपः स्थानम् अभ्येति शम्भोः ॥
इति मत्स्यपुराणोक्तो रत्नधेनुदानविधिः ।
अथ महाभूतघटशब्दितं षोडशं महादानम् इह निरूप्यते ।
[३४३] मत्स्य उवाच ।
अथातः सम्प्रवक्ष्यामि महादनम् अनुत्तमम् ।
महाभूतघटं नाम महापातकनाशनम् ॥
पुण्यां तिथिमथासाद्य कृत्वा ब्राह्मणवाचनम् ।
ऋत्विग्मण्डपसम्भारभूषणाच्छादनादिकम् ।
तुलापुरुषवत् कुर्यात् लोकेशावाहनादिकम् ॥
आदिशब्दस् तु पूर्वव्द् एव व्याख्येयम् ।
कारयेत् काञ्चनं कुम्भं महारत्नाचितं बुधः ।
प्रादेशाद् अङ्गुलशतं यावत् कुर्यात् प्रमाणतः ॥
क्षीराज्यपूरितं तद्वत् कल्पवृक्षसमन्वितम् ।
क्षीरघृते गव्ये, समपरिमाणे च स्थापनीये कल्पवृक्षलक्षणं पञ्चशाखत्वादिकल्पतरु-दाने द्रष्टव्यम् ।
पद्मासनगतांस् तद्वद् ब्रह्मविष्णुमहेश्वरान् ।
वहाहेणोद्धृतां तद्वत् कुर्यात् पृथ्वीं सपङ्कजाम् ॥
वरुणं चासनगतं काञ्चनं मकरोपरि ।
हुताशनं मेषगतं वायुं कृतमृगासनम् ॥
तथाकाशाधिपं कुर्यात् मूषकस्थं विनायकम् ।
विन्यसेद् घटमध्ये तान् वेदपञ्चकसंयुतान् ॥
ब्रह्मादिलक्षणं वरुणादिलक्षणं च मत्स्यपुराणोक्तब्रह्माण्डदानविहितं वेदितव्यम्, वराहलक्षणं तु पद्मपुराणोक्तब्रह्माण्डे । विनायकस्वरूपं हस्तिरथ इति ।
ऋग्वेदस्याक्षसूत्रं तु यजुर्वेदस्य पङ्कजम् ।
सामवेदस्य वीणा स्याद् वीणां दक्षिणतो न्यसेत् ॥
[३४४] अथर्ववेदस्य पुनः स्रुक्स्रुवौ कमलं करे ।
पुराणवेदो वरदः साक्षसूत्रकमण्डलुः ॥
परितः सर्वधान्यानि चामरासनदर्पणम् ।
पादुकोपानहच्छत्रदीपिकाभूषणानि च ॥
शय्या च जलकुम्भाश् च पञ्चवर्णवितानकम् ।
स्नात्वाधिवासनान्ते तु मन्त्रम् एतम् उदीरयेत् ॥
पादुका काष्ठकृता, जलकुम्भाः षोडश, प्रकृतौ तथादर्शनात् । अधिवासनान्ते स्नात्वेति पूर्वस्मिन् दिने अधिवासनं विधाय द्वितीयदिवसे पुण्याहवाचनादिपूर्णाहुत्पर्यन्तं कर्मशेषं समाप्य सर्वौषधिजलैः पूर्ववद् ऋत्विग्भिः स्नापितो यजमानस् त्रिः “प्रदक्षिणम् आवृत्य गृहीतकुसुमाञ्जलिः” वक्ष्यमानं मन्त्रम् उदाहरेत् ।
नमो वः सर्वदेवानाम् आधारेभ्यश् चराचरे ।
महाभूताधिदेवेभ्यः शान्तिर् अस्तु शिवं मम ॥
यस्मान् न किञ्चिद् अप्य् अस्ति महाभूतैर् विना कृतम् ।
ब्रह्माण्डे सर्वभूतेषु तस्मात् श्रीरक्षयास्तु मे ॥
इत्य् उच्चार्य महाभूतघऋअं यो विनिवेदयेत् ।
सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥
विमानेनार्कवर्णेन पितृबन्धुसमन्वितः ।
स्तूयमानो ऽमरस्त्रीभिः पदम् अभ्येति वैष्णवम् ॥
अत्र च जलपूर्वं ब्राह्मणेभ्यः प्रदेये (?) । प्रतिपादिते तुलापुरुषवद् विभागव्यवस्था तदनुज्ञया चान्येभ्यो ऽपि दानं दीनानाथपूरणं च कर्तव्यम् अदक्षिणस्य कर्मणो निष्फलत्वात् । [३४५] यथाशक्ति गुर्वादिभ्यो भूमिसुवर्णादिकं दक्षिणेति स्वल्पे त्व् एकाग्निविधानम् अप्य् अवगन्तव्यं तदनन्तरं पूर्ववत् पुण्याहवाचनदेवतापूजन-विसर्जनानि ।
षोडशैतानि यः कुर्यान् महादानानि मानवः ।
न तस्य पुनरावृत्तिर् इह लोमे ऽभिजायते ॥
इति पठति य इत्थं वासुदेवस्य पार्श्वे
ससुतपितृकलत्रः संशृणोतीह सम्यक् ।
पुररिपुभवने वा मन्दिरे वार्कलक्ष्मीश्
चिरम् अमरवधूभिर् मोदते सो ऽपि कल्पम् ॥
इति मत्स्यपुराणोक्तो महाभूतघटदानविधिः ।
इति श्रीमहाराजाधिराज-श्रीमहादेवस्य समस्तकरणाधीश्वरसकल-
**विद्याविशारदश्रीहेमादिविरचिते चतुर्वर्गचिन्तामणौ **
दानखण्डे षोडशप्रदानविधिः
[३४६]
अथ षष्ठाध्यायः
अथ पर्वतदानविधिः
अयं लोकालोकः परमहिमवान् शश्वद् उदयः
सुपार्श्वस्थायिश्रीः कलितविपुलाभोगसुभगः ।
इति प्रत्यक्षे ऽपि स्फुरदखिलशैलेन्द्रविभवः
परं हेमाद्रित्वं प्रकटयति विश्रान्तविबुधः ॥
धान्यशैलादिदानानाम् इह हेमाद्रिसूरिणा ।
विचित्रविधिविस्तारः प्रस्तावः क्रियते ऽधुना ॥
तत्र दान्यपर्वतदानं तावद् उच्यते । तद् एव पद्मपुराणे ।
भीष्म उवाच ।
भगवन् श्रोतुम् इच्छामि दानमाहात्म्यम् उत्तमम् ।
यद् अक्षयं परे लोके देवर्षिगणपूजितम् ॥
पुलस्त्य उवाच ।
मेरोः प्रदानं वक्ष्यामि दशधा मुनिसत्तम ।
यत् प्रसादान् नरो लोकान् आप्नोति सुरपूजितान् ॥
पुराणेषु च देवेषु यज्ञेष्व् आयतनेषु च ।
[३४७] न तत् फलम् अधीतेषु कृतेष्व् इह यद् आश्नुते ॥
“पुराणेषु वेदेषु यज्ञेष्व् आयतनेषु च”, कृतेषु न तत् फलम् इति सम्बन्धः ।
तस्माद् विधानं वक्ष्यामि पर्वतानाम् अनुत्तमम् ।
प्रथमो धान्यशैलः स्याद् द्वितीयो लवनाचलः ॥
गुडाचलस् तृतीयस् तु चतुर्थो हेमपर्वतः ।
पञ्चमस् तिलशैलः स्यात् षष्ठः कार्पासपर्वतः ॥
सप्तमो घृतशैलश् च रत्नशैलस् तथाष्टमः ।
राजतो नमस् तद्वद् दशमः शर्कराचलः ॥
वक्ष्ये विधानम् एतेषां यथावद् अनुपूर्वशः ।
अयने विषुवे चैव व्यतीपाते दिनक्षये ॥
शुक्लपक्षे तृतीयायाम् उपरागे शशिक्षये ।
विवाहोत्सवयज्ञे वा द्वादश्याम् अथ वा पुनः ॥
शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे च विधानतः ।
धान्यशैलादयो देया यथाश्रद्धं विधानतः ॥
तीर्थे वायतने वापि गोष्ठे वापि भवाङ्गणे ।
मण्डपं कारयेद् भक्त्या चतुरस्रम् उदङ्मुखम् ॥
प्रागुदक्प्रवणं तद्वत् प्राङ्मुखो वा विधानतः ।
मण्डपलक्षणं तु परिभाषायां प्रतिपादितम् । अत्र चायं विधानक्रमः दानदिवसात् पूर्वेद्युः पूर्वाह्णे कृतस्नातादिक्रियो यजमानो अमुकपर्वतदानम् अहं श्वः करिष्ये इति कृतसङ्कल्पो वृद्धिश्राद्धम् आभ्युदयिकं विधाय पूर्ववत् पुण्याहवाचनं कुर्यात्, तदनन्तरं तु अद्य अमुकस्मिन् देशे अमुकस्मिन् कले [३४८] अमुकपर्वतदानेनाहं यक्ष्ये तत्र तदङ्गभूतहोमादिके अमुकशर्माणम् अमुकवेदाध्यायिनम् ऋत्विजं त्वाम् अहं वृण्ē इति ।
पुराणवेदविदां चतुर्णाम् ऋत्विजाम् वरणम्, तथा ॐ अद्य अमुकस्मिन् देशे अमुकस्मिन् कले अमुकपर्वतदानेहाहं यक्ष्ये तत्र तदक्गभूतानि कर्माणि कर्तुं कारयितुं च अमुकसगोत्रं अमुकशर्माणम् अमुकवेदाध्यायिनं गुरुं त्वाम् अहं वृणे इत्याचार्यं वृणुयात् वृतो ऽस्मीति सर्वत्र प्रतिवचनं तत्र तावन् मधुपर्केणार्चयेद् इति सर्वपर्वतदान-साधारणो ऽयं विधिः ।
गोमयेनोपलिप्तायां भूमाव् आस्तीर्य वै कुशान् ।
तन्मध्ये पर्वतं कुर्याद् विष्कम्भपर्वतान्वितम् ॥
धान्यद्रोणसहस्रेण भवेद् गिरिर् इहोत्तमः ।
मध्यमः पञ्चशतिकः कनिष्ठः स्यात् त्रिभिः शतैः ॥
द्रोणलक्षणम् उक्तं परिभाषायाम् ।
प्रमाणस्थकरचरणस्य पुंसो द्वादशभिः प्रसृतिभिः कुडवो भवति । अनेन कुडवेन चतुर्गुणोत्तरं प्रथाढकद्रोणा भवन्ति अतः चतुर्द्रोषष्ट्या (?) कुडवैःणो (?) भवतीति कलपतरुणा व्याख्यातम् ।
मेरुर् महाव्रीहिमयस् तु मध्ये
सुवर्णवृक्षत्रयसंयुक्तः स्यात् ।
पूर्वेण मुक्ताफलवज्रयुक्तो
याम्येन गोमेदकपुष्परागैः ॥
पश्चाच् च गारुत्मतनीलरत्नैः
सौम्येन वैदूर्यसरोजरागैः ।
[३४८] श्रीखण्डखण्डैर् अभितः प्रवाल-
लतान्वितः शुक्तिशिलातलः स्यात् ॥
ब्रह्माथ विष्णुर् भगवान् मुरारिर्
दिवाकरो ऽप्य् अत्र हिरण्मयः स्यात् ।
मूर्धव्यवस्था गतमत्सरेण
कार्याः सुवर्णेन तथा द्विजौघाः ॥
चत्वारि शृङ्गाणि च राजतानि
नितम्बभागेष्व् अपि राजतः स्यात् ।
आर्द्रेक्षुवंशावृतकन्दरस् तु
घृतोदकः प्रश्रवणश् च दिक्षु ॥
शुक्लाम्बराण्य् अम्बुधरावली स्यात्
पूर्वेण पीतानि च दक्षिणेन ।
वासांशि पश्चाद् अथ कर्वुराणि
रक्तानि चैवोत्तरतो घनाली ॥
रौप्यान् महेन्द्रप्रमुखान् अथाष्टौ
संस्थाप्य लोकाधिपतीन् क्रमेण ।
नानाफलाली च समन्ततः स्यात्
मनोरमं माल्यविलेपनं च ॥
वितानकं चोपरि पञ्चवर्णम्
अम्लानपुष्पाभरणं सितं च ॥
मेरुर् इत्यादि महाव्रीहयो, राजान्नशालयः, वृक्षत्रसंयुत इति दक्षिणे मन्दारः, उत्तरे पारिजातो, मध्ये कल्पतरुर् इति वृक्षत्रयम्, तथा पूर्वतो हरिचन्दनम्, पश्चिमे सन्तान इति तरुद्वयं च [३५०] कुर्यात् । एते सर्ववर्वतेषु कर्तव्या इति शर्कराचले वक्ष्यमाणत्वात् सर्वेषां च पञ्चशाखत्वम् अवधेयम् इति । वज्रं होरकम् । गारुत्मतं मरकतम् । सरोजरागः पद्मरागः । मुक्ताफलादीनि च यथादिशं वक्ष्यमाणराजतशृङ्गेषु निवेशनीयानि । मुरारिः (?) महेश्वरः । ब्रह्मादिलक्षणम् उक्तं ब्रह्माण्डदाने । मूर्धव्यवस्था उपरिदेशस्थिता । गतमत्सरेण वित्तशाठारहितेन । द्विजौघाः पक्षिसमूहाः । दिवीशा इति क्वचित् पाठः ।
तत्र आदित्यावसवो रुद्रा दिवीशाः तेषु, वस्वादिलक्षणम् उक्तं ब्रह्माण्डदाने, रुद्रलक्षणम् विश्वचक्रे, इक्षुर् एव वंशः, घृतम् एवोदकम्, वस्त्राण्य् एव मेघसमूहाः कर्वुराणि, चित्राणि । लोकपाललक्षणम् उक्तं ब्रह्माण्डदाने ।
इत्थं निवेश्यामरशैलम् अग्र्यं
मेरोश् च विष्कम्भगिरीन् क्रमेण ।
तुरीयभागेन चतुर्दिशं तु
संस्थापयेत् पुष्पविलेपनाट्यान् ॥
पूर्वेण मन्दरम् अनेकफलैश् च युक्तं
युक्तं गणैः कनकभद्रकदम्बचिह्नम् ।
कामेन काञ्चनमयेन विराजमानम्
आकारयेत् कुसुमवस्त्रविलेपनाट्यम् ॥
क्षीरारुणोदसरसाथ वनेन चैव
[३५१] रप्येण शक्तिघटितेन विराजमानम् ।
याम्येन गन्धमदनश् च निवेशनीयो
गोधूमसञ्चयमयः कलधौतजं वा ॥
हैमेन यक्षपतिना घृतमानसेन
वस्त्रैश् च राजतवनेन च संयुतः स्यात् ।
पश्चात् तिलाचलम् अनेकसुगन्धिपुष्प-
सौवर्णपिप्पलहिरण्मयहंसयुक्तम् ॥
आकारयेद् रजतपुष्पवनेन तद्वद्
वस्वन्वितं दधिसितोदरसस् तथाग्रे ।
संस्थाप्य तं विपुलशैलम् अथोत्तरेण
शैलं सुपार्श्वम् अपि माषमयं सवस्त्रम् ॥
पुष्पैश् च हेमवटपादपशेखरन्तम्
आकारयेत् कनकधेनुविराजमानम् ।
साक्षीकभद्रसरसा च वनेन तद्वद्
रौप्येण भास्करवता च युतं विधाय ॥
इत्थं निवेश्येत्यादि, एवं मेरुं निवेश्य तच्चतुर्थभागपरिमितेन पृथक्द्रव्येण एकैकं विष्कम्भगिरिं कुर्यात् न तु चतुर्थभागेन चतुरो ऽपीति, तथा च लवणाचले वक्ष्यति चतुर्थांशेन विष्कम्भपर्वतान् कारयेत्, पृथग् इति, पूर्वेण मन्दरम् इति, सन्निधानान् मन्दरो ऽपि व्रीहिमय एव, गणैर् युक्तम् इति, पुरुषाकृतिगणत्रयान्वितम् इत्य् अर्थः । अनेकफलाली युक्तं यवैर् इति क्वचित् पाठः । तस्य सभूलत्वे (?) यवानुष्ठानम् अपि कार्यम् । [३५२] कनकघटितेन भद्रकदम्बाख्येन वृक्षेण लक्षितम् । कामलक्षणम् आह विश्वकर्मा ।
चापबाणधरः कामो रतिप्रेयान् सुमध्यमः ।
आलीढो नन्दनो राजी रूपवान् विश्वमोदकः ॥ इति ।
क्षीरपूरितेन, अरुणोदसञ्ज्ञिकेन रूप्यघटितेन सरसा वनेनापि रूप्यघटितेन विराजमानम् इति सम्बन्धः । याम्येनत्यादि, गन्धमदनी गन्धमादनः । कलधोतजम्बेति सुवर्णजम्बुवृक्षेण । यक्षपतिरूपम् उक्तं श्रीप्रश्ने ।
ह्रस्वम् आपिङ्गनेत्रं च गदिनं पीतविग्रहम् ।
पुष्पकस्थं धनाध्यक्षं ध्यायेत् शिवसखं सदा ॥ इति ।
घृतमानसेनेति घृतपूरितेन मानसाभिधानेन राजतेन सरसा । पश्चाद् इति, पश्चिमदेशे दधिपूरितसितोदं नाम रजतनिर्मितं सर इति, विपुलशैलं विपुलं नाम पर्वतं माक्षीकभद्रसरसेति, माक्षिकं मधु मधुपूरितेन रजतमयेन भद्राभिधानेन सरसा युतम् इत्य् अर्थः ।
अत्र च कामदेवस्य प्रत्यङ्मुखत्वं हंसस्य प्राङ्मुखत्वं कनकधेनोर् दक्षिणामुखत्वं च शर्कराचलस्थितदिग्वेशेषसापेक्ष्यम् दैवतेषु सर्वशैलेषु वेदितव्यम्, चर्मव्यवस्था कुतो ऽपि शास्त्राद्यवस्थितिर् इति । एते च कामदेवादयः कदम्बादीनां निजपर्वतीतवृक्षाणाम् अधस्तात् कर्तव्याः ।
होमैश् चतुर्भिर् अथ वेदपुआणविद्भिर्
दान्तैर् अनिन्द्यचरिताकृतिभिर् द्विजेन्द्रैः ।
[३५३] पूर्वेण हस्तमितम् अत्र विधाय कुण्डं
कार्यस् तिलैर् यवघृतेन समित्कुशैश् च ॥
रात्रौ च जागरम् अनुद्धतगीततूर्यैर्
आवाहनं च कथयामि शिलोच्चयानाम् ॥
पूर्वेणेत्यादि मण्डपस्य पूर्वभागे हस्तमात्रं कुण्डं विधाय तस्य पूर्वोत्तरदिग्विभागे तुलापुरुषोक्तलक्षणां देवतावेदिं कृत्वा तत्र विनायकादिदेवताभ्यः पूर्ववत् पूजां विदध्यात् । अनन्तरम् ऋत्विजो ऽग्निस्थापनान्ते ग्रहाणां लोकपालानाम् इत्यादिवक्ष्यमाण-देवताब्यस् तल्लिङ्गमन्त्रैस् तिलादिद्रव्येण होमं कुर्युः । सहस्रे त्व् अथ होतव्ये कुर्यात् कुण्डं करात्मकम् इत्य् उक्तेर् अत्र हस्तपरिमितकुण्डोपदेशाद् आहुतिसहस्रं होतव्यम् इति दानविवेककारः ।
अत्र विनायकादयो द्वात्रिंशद्देवाः, द्वादशादित्याः, एकादशरुद्राः, दशलोकपालाः, अष्टौ वसवः, ब्रह्मविष्णुशिवसूर्याश् चत्वारः, कामधनदहंसकामधेनवश् चत्वारः, इत्य् एवम् एकाशीतिसङ्ख्येभो देवेभ्यः ग्रहाणां प्रतिदैवतं त्रयोदशाहुतिहोमे त्रिपञ्चाशदधिकम् आहुतिसहस्रं सम्पद्यते अष्टशतं तु होतव्यम् इति ब्रह्माण्डपुराणे वक्ष्यति तिलादीनि चत्वार्य् एव । हविर्द्रव्याणि घृताक्तानीत्य् अवगन्तव्यं समिधः, साधारण्याद् उदुम्बरस्य होमान्तरं पुष्पोपहारान् आदाय वक्ष्यमाणमन्त्रैर् यथाक्रमं पर्वतान् आवाहयेत्, तत्र मेरोर् आवाहनमन्त्रः ।
त्वं सर्वदेवगणधामनिधेर् विरुद्धम्
अस्मद्गृहे ऽप्य् अमरपर्वतं नाशयाशु ।
क्षेमं विधत्स्व कुरु शान्तिम् अनुत्तमां नः
[३५४] सम्पूजितः परमभक्तिमता मया हि ॥
त्वम् एव भगवान् ईशो ब्रह्म विष्णुर् दिवाकरः ।
मूर्तामूरपरं बीजमतः पाहि सनातनः ॥
यस्मात् त्वं लोकपालानां विश्वमूत्रेश् च मन्दिरम् ।
रुद्रादित्यवसूनाञ्च तस्माच् छान्तिं प्रयच्छ मे ॥
यस्माद् अशून्यम् अमरैर् नारीभिश् च समस् तथा ।
तस्मान् माम् उद्धराशेषदुःखसंसारसारगात् ।
एवम् अभ्यर्च्य तं मेरुं मन्द्रं चाभिपूजयेत् ॥
अथ मन्दरस्य ।
यस्माच् चैत्ररथेन त्वं भद्राश्वेन वर्षेण च ।
शोभसे मन्दरक्षिप्रमलं पुष्टिकरो भव ॥
अथ गन्धमादनस्य ।
तस्माच् चूडामणिर् जम्बुद्वीपे त्वं गन्धमादन ।
गन्धर्वनशोभावान् अतः कीर्तिर् दृढास् तु मे ॥
अथ विपुलपर्वस्य ।
यस्मात् त्वं केतुमालेन वैभ्राजेन वनेन च ।
हिरण्मयाश्वत्थशिखस् तस्मात् पुष्टिर् ध्रुवः अस्तु मे ॥
अथ सुपार्श्वस्य ।
उत्तरैः कुरुभिर् यस्मात् सावित्रेण वनेन च ।
सुपार्श्व राजसे नित्यम् अतः श्रीरक्षयास्तु मे ॥
एवम् आमन्त्र्य तान् सर्वान् प्रभाते विमले पुनः ।
स्नात्वाथ गुरवे दद्यान् मध्यमं पर्वतोत्तमम् ॥
[३५५] विष्कम्भपर्वतान् दद्याद् ऋत्विग्भ्यः क्रमशो नृप ।
गावो दद्याच् चतुर्विंशद् अथ वा दश पार्थिव ॥
शक्तितः सप्त वाष्टौ वा पञ्च दद्याद् अशक्तिमान् ।
एकां वा गुरवे दद्यात् कपिलां च पयस्वनीम् ॥
एवम् आमन्त्र्येति, दानदिनात् पूर्वदिवसे सर्वम् इदम् आमन्त्रणादि विधाय गीतवादित्रादिभिर् निशाम् अतिवाह्य ततः प्रभाते गुरुप्रभृतयो विहितस्नानादिक्रियाः पूर्णाहुतिपर्यन्तं सकलकर्मशेषं समाप्य कुण्डसमीपस्थापितकलशजलेन पूर्ववद् यजमानं स्नापयेयुः । यजमानो ऽपि शुक्लाम्बरपरिधानः प्रदक्षिणीक्र्त्य वक्ष्यमाणमन्त्रेण यथाक्रमं पर्वतात् प्रतिपादयेत् । तत्र प्रयोगः ।
ॐ अद्य अमुकस्मिन् कले अमुकसगोत्राय अमुकशर्मणे ब्राह्मणाय एतम् अमुकपर्तं सोपस्करम् अमुकसगोत्रो ऽहम् अमुकशर्मा अमुककामस् तुभ्यम् अहं सम्प्रददे नमः, अमुकसगोत्राय अमुकशर्मणे ब्राह्मणाय एतत् पर्वतदानप्रतिष्ठार्थम् इमां दक्षिणां तुभ्यम् अहं सम्प्रददे, अत्र च दक्षिणापेक्षायाम् अश्रुतदक्षिणान्तर-कल्पनानुपपत्तेर् गवो दद्याद् इत्य् श्रुतम् एव दक्षिणात्वेन सम्बध्यते विनापि दक्षिणासंशब्दनम् अस्त्य् एव दक्षिणात्वम् इति केचित्, सहस्रदक्षिणां कृत्वेत्यादि ब्रह्माण्डपुराणे वक्ष्यमानदक्षिणाग्रहणं तु युक्तम् इति ।
पर्वतानाम् अशेषाणाम् एष एव विधिः स्मृतः ।
त एव पूजने मन्त्रस् त एवोपस्कराः स्मृताः ॥
ग्रहाणां लोकपालानां ब्रह्मादीनां च सर्वशः ।
[३५६] स्वमन्त्रेणैव सर्वेषु होमः शैलेषु पठ्यते ।
उपवासी भवेन् नित्यम् अशक्तो नक्तम् इष्यते ॥
सर्वत्राक्षारलवणम् अश्नीयाद् इति वक्ष्यमाणत्वाद् अक्षारलवणं नक्तं वेदितव्यम् ।
विधानं सर्वशैलानां क्रमशः शृणु पार्थिव ।
दानकालेषु ये मन्त्राः पर्वतेषु च यत् फलम् ।
अथ मन्त्रः ।
अन्नं ब्रह्म यतः प्रोक्तम् अन्ने प्राणाः प्रतिष्ठिताः ।
अन्नाद् भवन्ति भूतानि जगद् अन्नेन वर्तते ॥
अन्नम् एव यतो लक्ष्मीर् अन्नम् एव जनार्दनः ।
धान्यपर्वतरूपेण पाहि तस्मान् नमो नमः ॥
एवम् आचार्यादीन् सम्पूज्य तदनुज्ञया अन्येभ्यो ऽपि दद्यात् । ततो यजमानो वेद्यां पूर्ववद् देवताः सम्पूज्य नमस् कुर्यात् । गुरुस् तान् विसर्जयेत् । ततो यथाशक्ति ब्राह्मणभोजनम् कृतोपवासस्य यजमानस्य दानदिने क्षारलवणवर्जनं सर्वपर्वतोपस्कराणां च ब्राह्मणगृहप्रापणं शर्कराचलोक्तं सर्वत्रे द्रष्टव्यम् ।
अनेन विधिना यस् तु दद्याद् धान्यमयं गिरिम् ।
मन्वन्तरशतं सार्धं देवलोके महीयते ॥
अप्सरोगणगन्धर्वैर् आकीर्णेन विराजितः ।
विमानेन दिवः पृष्ठम् आयाति सुरसेवितः ॥
कर्मक्षयाद् राजराज्यं प्राप्नोतीह न संशयः ॥
अथ ब्रह्माण्दपुराणात् ।
[३५७] श्रीभगवान् उवाच ।
अतः परं प्रवक्ष्यामि धान्यपर्वतम् उत्तमम् ।
यं दत्वा सर्वदानानां फलं प्राप्नोति मानवः ॥
नद्यास् तिरे गृहे वापि देवतायतने तथा ।
मण्डपं कारयित्वा च विधानं परिकल्पयेत् ॥
कार्तिक्याम् अयने चैव ग्रहणे वापि कृत्स्नशः ।
अन्येष्व् अपि च कालेषु यदा श्रद्धाभिजायते ॥
महाप्रीतिकरं कुर्यात् पर्वतं शुभलक्षणम् ।
साहस्रिको भवेच् छ्रेष्ठस् तदर्धेन तु मध्यमः ॥
त्रिभिः शतैः कनिष्ठस् तु द्रोणानां नृपसत्तम ।
अलाभे वा यथाशक्त्या कारयेच् छ्रद्दयान्वितः ॥
मध्ये प्रकल्पयेन् मेरुं महाव्रीहिमयं शुभम् ।
विष्कम्भपर्वतं चैव यवैः कुर्यात् तु पूर्वतः ॥
दक्षिणेनाथ गोधूमैस् तिलैः पश्चिमतस् तथा ।
माषैश् चैवोत्तरं कुर्यात् तुरीयांशेन पर्वतान् ॥
सौवर्णशिखरोपेतांस् तान् सर्वान् कारयेद् बुधः ।
सर्वरत्नविचित्राङ्गान् केतुवृक्षैर् अलङ्कृतान् ॥
नानाद्रुमलतोपेतान् सुरभिं चाप्य् अलङ्कृतान् ।
वस्त्रैः प्रच्छादितान् कृत्वा गन्धैर् माल्यैस् तु पूजयेत् ॥
एवंविधं गिरिं कृत्वा नानाभक्ष्यैः समन्ततः ।
पूजयेत् फलमूलैश् च रसैर् नानाविधैस् तथा ॥
ग्राम्यारण्यैस् तथा धान्यैः पूरयेत् सर्वतस् तथा ।
ब्रह्मविष्णुशिवांस् तत्र सौवर्णान् विनियोजयेत् ॥
[३५८] पूर्वतः कारयेत् कुण्डं हस्तमात्रं सुशोभनम् ।
ब्राह्मणास् तत्र होतारो अष्टौ चत्वार एव च ॥
गृहस्थाः साधवो दान्ताः सम्पूर्णावयवास् तथा ।
आधौतवाससश् चैव कटकादिभिर् अन्विताः ॥
चन्दनादिग्धगात्राश् च तथा पुष्पैर् अलङ्कृताः ।
एवंविधास् तथा विप्रा होमं कुर्युर् अतन्द्रिताः ॥
इन्द्राद्या लोकपालाश् च तेषां होमो विधीयते ।
तल्लिङ्गैश् चैव मन्त्रैश् च समिद्भिर् अथ वा तिलैः ॥
पौरुषेण तु सूक्तेन ब्रह्मादीनां विधीयते ।
तथा व्याहृतिभिर् होमं तिलैर् आज्येन चैव हि ॥
अष्टशतं तु होतव्यं सर्वकामसमृद्धये ।
पूजयेत् पर्वतं पश्चाद् यजमानः प्रसन्नधीः ॥
स्नात्वा शुक्लाम्बरो भूत्वा कामक्रोधविवर्जितः ।
अन्नं प्राणा हि भूतानां बलं तेजस् तथैव च ॥
जङ्गमाजङ्गमं सर्वं जगद् अन्ने प्रतिष्ठितम् ।
अन्नाद् भवन्ति भूतानि अन्नाद् वर्धन्ति चैव हि ॥
तच् च धान्याधिकारेण अन्नं बहुविधं भवेत् ।
अतो धान्यगतो मेरुः करोत्व् अभिमतं मम ॥
नमस् ते सर्वलोकानाम् आधारः सुरपूजितः ।
वित्तहीनां मम कुले मा भवत्व् इह कश् चन् ॥
अत्युच्छिन्नं तथैवान्नं मम जन्मनि जन्मनि ।
मा पातु सङ्क्षयं चैव दीयमानम् अहर्निशम् ॥
एवं सम्पूज्य पूर्वेदू रात्रौ कुर्यान् महोत्सवम् ।
[३५९] शङ्खतूर्यनिनादैश् च गेयम्ङ्गलपाठकैः ॥
ततः सर्वसमीपे तु ब्राह्मणाय निवेदयेत् ।
सहस्रदक्षिणं कृत्वा शक्त्या च विभवस्य च ॥
दक्षिणारहितो यज्ञः शत्रूत्वायाभिजायते ।
तस्मात् सदक्षिणं देयं यत् किञ्चिद् दानसञ्ज्ञितम् ॥
होतारस् तत्र ये तेषां दद्याद् विष्कम्भवान् बुधाह् ।
आचार्यं पूजयेत् पश्चाद् गोभिर् अश्वैर् गजैश् तथा ॥
अलङ्कारैस् तथा मुख्यैर् वस्त्रैः पुष्पानुलेपनैः ।
आचार्यं पूजयेत् तं च भोजयित्वा यथाविधि ॥
गावश् चालङ्कृता देया बहुक्षीरा गुणान्विताः ।
रूपवत्यस् तरुण्यश् च तुष्ट्यर्थं जुह्वतां नृप ॥
अनेन विधिना यस् तु दद्याद् धान्यमयं गिरिम् ।
उद्धृत्य चात्मना सार्धं स्वर्गम् आरोपयेत् परम् ॥
मन्वन्तराणि षड्विंशन् मोदते विबुधैः सह ।
दिव्यं विमानम् आहुह्य नारी वा पुरुषो ऽपि वा ॥
पुण्यक्षयाद् इहाप्य् एत्य सप्तद्वीपपतिर् भवेत् ।
दशजन्मानि राजेन्द्र द्वापरे जायते युगे ॥
दशवर्षसहस्रायुः पुत्रपौत्रसमन्वितः ।
यश् चेदं शृणुयाद् दानं कीर्त्यमानं समाहितः ॥
दरिद्रः परया भक्त्या सो ऽपि सद्गतिम् आप्नुयात् ॥
भविष्योत्तरात् ।
अतः परं प्रवक्ष्यामि धान्यपर्वतम् उत्तमम् ।
[३६०] व्रीहिभिः कारयेत् तं तु गोधूमैर् अथ वा यवैः ॥
सहस्रेणोत्तमं कुर्यात् तदर्धेन तु मध्यमम् ।
तस्याप्य् अर्धात् कनिष्ठं तु कुर्याद् विभवसारतः ॥
तेषां पर्वविधानेन सर्वं कुर्याद् यथाक्रमम् ।
फलं वापि तदा राजन् पूर्वम् एव समश्नुते ॥
धान्याचलं कनकवृक्षविराजमानं
विष्कम्भपर्वतयुतं सुरसिद्धजुष्टं ।
यच्छन्ति ये सुमतयः प्रणिपत्य विप्र
ते प्राप्नुवन्ति परमेष्ठिपदाब्जयुग्मम् ॥
इति धान्यपर्वतदानविधिः ।
अथ लवणाचलदानविधिः ।
पुलस्त्य उवाच ।
अथातः सम्प्रवक्ष्यामि लवनाचलम् उत्तमम् ।
यत्प्रदानान् नरो लोके प्राप्नोति शिवसंयुतम् ॥
उत्तमः षिडशद्रोणः कर्तव्यो लवनाचलः ।
मध्यमः स्यात् तदर्धेन चतुभिर् अधमः स्मृतः ॥
वित्तहीनो यथाशक्त्या द्रोणाद् अर्धं तु कारयेत् ।
चतुर्थांशेन विष्कम्भपर्वतान् कारयेत् पृथक् ॥
द्रोणलक्षणम् उक्तम् । चतुर्थांशेनेति मुख्यशैललवणात् पृथक् प्रत्येकं चतुर्हांशपरिमितेन लवणेनेत्य् अर्थः ।
विधानं पूर्ववत् क्र्याद् ब्रह्मादीनां च सर्वदा ।
[३६१] तद्वद् धेमतरून् सर्वान् लोकपालनिवेशनम् ।
सरांसि कामदेवादींस् तद्वच् चात्र निवेशयेत् ॥
तद्वद् इति धान्यपर्वतवद् इत्य् अर्थः ।
कुर्याज् जागरमात्रापि दानमन्त्रान् निबोधत ।
सौभाग्यरससम्भूतो यतो यं लवणो रसः ॥
तदात्मकत्वेन च मां पाहि पापान् नगोत्तम ।
यस्माद् अन्नरसाः सर्वे नोत्कटा लवणं विना ॥
प्रियं च शिवयोर् नित्यं तस्माच् छान्तिं प्रयच्छ मे ।
विष्णुदेहसमुद्भूतं यस्माद् आरोग्यवर्धनम् ॥
तस्मात् पर्वतरूपेण पाहि संसारसागरात् ।
अनेन विधिना यस् तु दद्याल् लवणपर्वतम् ॥
उमालोके वसेत् कल्पं ततो याति पराङ्गतिम् ॥
इति पद्मपुराणोक्तो लवणाचलदानविधिः ।
पुलस्त्य उवाच ।
अथातः सम्प्रवक्ष्यामि गुडपर्वतम् उत्तमम् ।
यत्प्रदानान् नरः स्वर्गम् आप्नोति सुरपूजितम् ॥
उत्तमो दशभिर् भारैर् मध्यमः पञ्चभिर् मतः ।
त्रिभिर् भारैः कनिष्ठः स्यात् तदर्धेनाल्पवित्तवान् ॥
भारः परिभाषायां व्याख्यातः ।
तद्वद् आमन्त्रणं पूजा होमवृक्षसुरार्चनम् ।
विष्कम्भपर्वतांस् तद्वत् सरांसि वनदेवताः ॥
[३६२] होमं जागरणं तद्वल् लोकपालाधिवासनम् ।
धान्यपर्वतवत् कुर्याद् इमं मन्त्रम् उदीरयेत् ॥
यथा देवेषु विश्वात्मा प्रवरो ऽयं जनार्दनः ।
सामवेदस् तु वेदानां महादेवस् तु योगिनाम् ॥
प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा ।
तथा रसानां प्रवरः सदैवेक्षुरसो मतः ॥
मम तस्मात् परां लक्ष्मीं ददस्व गुडपर्वत ।
यस्मात् सौभाग्यदायिन्या भ्राता त्वं गुडपर्वत ॥
निवासश् चापि पार्वत्यास् तस्मान् मां पाहि सर्वदा ।
अनेन विधिना यस् तु दद्याद् गुडमयं गिरिम् ॥
पूज्यमानः स गधर्वैर् गौरीलोके महीयते ।
पुनः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् ॥
आयुरारोग्यसम्पन्नः शत्रुभिश् चापराजितः ॥
इति पद्मपुरानोक्तो गुडपर्वतदानविधिः ।
श्रीभगवान् उवाच ।
अतः परं प्रवक्ष्यामि गुडपर्वतम् उत्तमम् ।
सर्वपापहरं पुण्यं सौभाग्यजननं परम् ॥
पुष्टिदं शान्तिदं चैव सुखदं द्वियभोगदम् ।
भारैस् तं दशभिः कुर्याद् यथाशक्त्यापि वा भवेत् ॥
पूर्ववत् मण्डपं कृत्वा सर्वोपकरणानि च ।
पूर्ववद् इति ब्रह्माण्डदानोक्तधान्यपर्वतवद् इत्य् अर्थः ।
लोकपालसमोपेतं तथाकाञ्चनशृङ्गिणम् ॥
[३६३] मुक्ताफलविचित्राङ्गं वस्त्रालङ्कृतविग्रहम् ।
प्रवालकलतोपेतं इक्षुखण्डोपवेणुकम् ॥
नितम्बं राजतं तस्य मेखलाकारसंस्कृतम् ।
कुर्यात् ताम्रमयं स्कन्धं नानाधातुविभूषितम् ॥
कृत्वा तम् ईदृशं शैलं सर्वधान्यसमावृतम् ।
सर्वौषधिसमोपेतं सशृङ्गं समहाद्रुमम् ॥
कल्पयित्वा विधानेन सवितानं विचक्षणैः ।
कुण्डम् एकं ततः कृत्वा चतुःकोणं स्वलङ्कृतम् ॥
नियोज्यास् तत्र विद्वांसो ब्राह्मणाः शंसितव्रताः ।
पूजितास् ते यथान्यायं होमं कुर्युर् अतन्द्रिताः ॥
लोकपालान् ग्रहांश् चैव ब्रह्मादींश् च विधानतः ।
स्वलिङ्गोक्तैश् च मन्त्रैश् च होमयेयुर् द्विजोतमाः ॥
महाव्याहृतिभिश् चैव अयुतं तत्र होमयेत् ।
आचार्यः सह विप्रैस् तैर् मानेन सुसमाहितः ॥
ब्रह्मघोषरतस् तस्मिन् कारयित्वा महोत्सवम् ।
एवं विधिं तदा कृत्वा पूर्वेद्युः [प्र?] श्रद्धयान्वितः ॥
दद्यात् तं माघमासस्य तृतीयायां विशेषतः ।
चैत्रस्य वा विधानेन तृतीयायां प्रदापयेत् ॥
अन्येष्व् अपि च कालेषु ग्रहणादिषु कारयेत् ।
त्वं रसानां वरो नित्यं देवानां च सदा प्रियः ॥
सुखं प्रयच्छ मे नित्यं नमस् ते पर्वतोत्त्म (?) ।
[३६४] यावद् भूः सागरा नद्यो यावच् चन्द्रार्कतारकाः ।
तावन् मे त्वं सुखं यच्छ सौभाग्यम् अतुलं तथा ॥
एवं सम्पूजयित्वा तं ब्राह्मणानां निवेदयेत् ।
आचार्यं पूजयेत् पश्चाद् दीनान्धकृपणान् अपि ॥
विसृज्य ब्राह्मणांस् तांस् तु कृत्वा चैव प्रदक्षिणम् ।
तस्मिन् दिने च भोक्तव्यं मधुरं क्षारवर्जितम् ॥
अनग्नालेपनं चैव कृतकृत्यो भवेन् नरः ।
तस्माद् देयम् इदं दानं फलम् उत्तमम् इच्छता ॥
गतिं च शास्वतीं लोके सौभाग्यं रूपम् एव च ।
अनेन विधिना चैव दातव्यो गुडपर्वतः ॥
विंशद्भारस् तु कर्तव्यः शेषं पूर्ववद् आचरेत् ।
दानम् एतत् प्रशस्तं स्यात् स्त्रीणां राजन् विशेषतः ॥
सौभाग्यराजकामस्य सर्वस्यापि विधीयते ।
पूर्वोक्तं च फलं प्राप्य कृतकृत्यो हि जायते ॥
इति ब्राह्माण्द्पुराणोक्तो गुडपर्वतदानविधिः ।
पुलस्त्य उवाच ।
अथ पापहरं वक्ष्ये सुवर्णाचलम् उत्तमम् ।
यस्य प्रदानाद् भवनं विरिञ्चिर् याति मानवः ॥
उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः ।
तदर्धेनाधमस् तद्वद् अल्पवित्तो ऽपि शक्तितः ॥
दद्याद् एकपलाद् ऊर्ध्वं यथाशक्त्या विमत्सरः ।
[३६५] धान्यपर्वतवत् सर्वं विदध्याद् राजसत्तम ॥
विष्कम्भशैलास् तद्वच् च ऋत्विग्भिः प्रतिपादयेत् ।
नमस् ते ब्रह्मबीजाय ब्रह्मगर्भाय वै नमः ॥
यद्माद् अनन्तफलदस् तस्मात् पाहि शिलोच्चयञ् ।
यस्माद् अग्नेर् अप्त्यं त्वं तस्मात् पुण्यं जगत्पते ॥
हेमपर्वतरूपेण तस्मात् पाहि नगोत्तमः ।
एतेन विधिना यस् तु दद्यात् कनकपर्वतम् ॥
स याति परमं ब्रह्मलोकम् आनन्दकारकम् ।
तत्र कल्पशतं तिष्ठेत् ततो याति पराङ्गतिम् ॥
अत्र यद्य् अपि गुरवे मध्यशैलं दद्यात् ऋत्विग्भ्यो विष्कम्भाचनानीत्युक्तं, नापि तुलापुरुषवद् इत्यादि श्रूयते, तथापि पलसहस्रादिपरिमितसुवर्णदानार्हस्य एकस्यासुलभत्वात् अन्येष्व् अपि च बहुसुवर्णकेषु बह्व्भ्यां (?) दानदर्शनात्, तत्रापि तुलापुरुषवद् अर्धचतुर्थभागादि गुरवे प्रदाय, तदनुज्ञया अन्येभ्यो ऽपि दयाद् इति गम्यते, प्रकृताव् अदर्शनान् नैवम् इति चेत्, मा भूत् प्रकृतौ तुलापुरुषादिस्थितम् एव गृह्यत इति को विरोधः, एकश् च विध्यन्तो भवतीत्य् एकस्य प्रकृतिद्व्यान्पपत्तिर् इति चेत्, अथ प्रकृताव् अप्य् एवम् एव व्यवस्थेति ब्रूमः । लवणाचलादिसकलशैलदानप्रकृतिभूतस्य धान्यपर्वतस्य कथम् अन्यधर्मसङ्ग्रह इति चेत्, न प्रकृतेर् अप्य् अङ्गाङ्गिसापेक्षतया धान्यपर्वते ऽपि कुण्डमण्डपाचार्यलक्षणादितुलापुरुषधर्मग्रहणदर्शनात् ।
ततश् च द्रव्यबहुत्वे बहुभ्यो, द्रव्याल्पत्वे ब्राह्मणपञ्चकाय स्वपतमत्वे आचार्यार्यैव देयम् इति सिद्धम् ।
[३६६]
इति पद्मपुराणोक्तः सुवर्णाचलदानविधिः ।
अथ तिलशैलदानविधिः । पद्मपुराणात् ।
पुलस्त्य उवाच
अथातः सम्प्रवक्ष्यामि तिलशैलं विधानतः ।
यत्प्रदानान् नरो याति विष्णुलोकम् अनुत्तमम् ॥
उत्तमो दशभिर् द्रोणैः पञ्चभिः मध्यमो मतः ।
त्रिभिः कनिष्ठो विप्रेन्द्र तिलशैलः प्रकीर्तितः ॥
पूर्वच् चापरं सर्वं वृक्षविष्कम्भकादिकम् ।
दानमन्त्रान् प्रवक्ष्यामि यथावद् राजसत्तम ॥
यस्मात् मधुवने विष्णोर् देहस्वेदसमुद्भवाः ।
तिलाः कुशाश् च माषाश् च तस्माच् छं नो भवत्व् इह ॥
हव्यकव्येषु यस्माच् च विलैर् एवाभिलक्षणम् ।
भवाद् उद्धर शैलेन्द्र तिलाचल नमो ऽस्तु ते ॥
इत्य् आमन्त्र्य च यो दद्यात् तिलाचलम् अनुत्तमम् ।
स वैष्णवं पदं याति पुनरावृतिर् दुर्लभम् ॥
दीर्घायुष्यम् अवाप्नोति इह चामुत्र मानवः ।
पितृभिर् देवगन्धर्वैः पूज्यमानो दिवं व्रजेत् ॥
अथ ब्रह्माण्डपुराणात्
भगवान् उवाच ।
अतः परं प्रवक्ष्यामि तिलपर्वतम् उत्तमम् ।
यद्दानं सर्वदानानां परत्र फलदायि च ॥
[३६७] तिलाः पवित्रम् अतुलं पवित्राणां च पावनाः ।
विष्णोर् देहसमुद्भूतास् तस्माद् उत्तमताङ्गताः ॥
तिला भवन्ति रक्षार्थं जगतां तिसृणाम् अपि ।
शुलपक्षे तु देवानां प्रदद्याद् यस् तिलोदकम् ॥
कृष्णपक्षे पितॄणां तु स्नात्वा श्रद्धासमन्वितः ।
तिलैः सप्ताष्टभिर् वापि समवेतं तिलाञ्जलिम् ॥
तस्य देवाः सपितरः तृप्ता यच्छन्ति वाच्छतम् ।
श्वकाकोपहतं यत् तु पतितादिभिर् एव च ॥
तिलैर् अभ्युक्षितं सर्वं पवित्रं स्यान् न संशयः ।
एवंविधिस् तिलैर् यस् तु कृत्वा पर्वतम् उत्तमम् ॥
प्रदद्याद् द्विजमुख्याय पुण्यं तस्याक्षयं भवेत् ।
विधानं तस्य वक्ष्यामि माहात्म्यम् अपि चोत्तमम् ॥
व्यतीपाते ऽयने चैव ग्रहणे शशिसूर्ययोः ।
जन्मर्क्षे विषुवे चैव देयं माघे विशेषतः ॥
तिलैर् यत् क्रियते माघे दानहोमादिकं तथा ।
तद् अक्षयं भवेल् लोके तर्पणादिकम् एव च ॥
तथा नद्यां गृहे वापि कृत्वा मण्डपम् उत्तमम् ।
पूर्वोक्तेन विधानेन कुर्यात् सर्वम् अशेषतः ॥
पूर्वोक्तेनेति ब्रह्माण्डपुराणोक्तधान्यपर्वतस्थितेनेत्य् अर्थः ।
शतत्रयेन द्रोणानां शक्त्या वापि प्रकल्पयेत् ।
पर्वतस्य चतुर्थेन भागेन परिकल्पयेत् ॥
[३६८] दिशादलान् मन्दरादींस् तिलैर् एव विचक्षणः ।
ब्रह्मादिलोकपालांश् च सौवर्णान् कारयेत् तथा ॥
इक्षुदण्डैः समन्तात् तु भूषयेद् यागमण्डपम् ।
कुण्डम् एकं चतुष्कोणं पूर्वतः कारयेद् बुधः ॥
हस्तमात्रप्रमाणेन मेखलानाभिसंयुतम् ।
संस्थापयेद् द्विजांस् तत्र चातुश्चरणिकान् शुचीन् ॥
पूर्वोक्तेन विधानेन तत्र होमो विधीयते ।
पूजयेत् पर्वतश् चैव माल्यवस्त्रविभूषणैः ॥
मणिरत्नप्रवालैश् च प्रथमे ऽहनि यत्नतः ।
विष्णुदेहसमुद्भूतैस् तिलैस् त्वं कारितो मया ॥
देवालय महामेरो नमस् ते भूभृतां वर ।
सप्त जन्मानि यत् किञ्चिन् मया पापम् अनुष्ठितम् ॥
क्षयं प्रयातु तत् सर्वं त्वत्प्रसादान् नगोत्तम ।
एवं सम्पूजयित्वा तु प्राप्य चैवाशिषं शुभाम् ॥
रात्रौ महोत्सवं कृत्वा पर्वतस्य समीपतः ।
पूजयित्वा द्विजान् सम्यक् सोपाध्यायान् समाहितः ॥
सहस्रं दक्षिणां दद्याच् छक्त्या वापि प्रदापयेत् ।
अत्रापि गावो दातव्या अष्टौ चत्वार एव च ॥
प्रदक्षिणं ततः कृत्वा पर्वतं ब्राह्मणांस् तथा ।
शिरसा प्रणिपत्याथ श्राद्धावांसुम् अनुव्रजेत् ॥
अनेन विधिना यस् तु दानम् एतत् प्रयच्छति ।
स गच्छेत् पितृभिः सार्धं विष्णुलोकम् अलौपमम् ॥
विमानवरम् आरुह्य किङ्किणीजालमण्डितम् ।
[३६९] अप्सरोगणसंवीतं गन्धर्वैर् अतिशोभितम् ॥
दशकोट्यस् तु वर्षाणां भुङ्क्ते भोगान् यथेप्सितान् ।
पुण्यक्षयाद् इहागत्य राजा भवति धार्मिकः ॥
नारी वा तस्य पत्नी वा सुभगा रूपसंयुता ।
दक्षा कुलोद्वहा चैव पुत्रपौत्रसमन्विता ॥
कृते युगे ऽभिजायेत पश्चान् मोक्षम् अवाप्नुयात् ।
सगरेण ककुत्स्थेन धुन्धुमारेण वै पुरा ॥
मान्धात्रा यवनाश्वेन कार्त्तवीर्येण चैव हि ।
दानम् एतत् पुरा दत्तं तत्पत्नीभिस् तथैव च ॥
प्राप्तम् ऐश्वर्यम् अतुलं कीर्त्तिर् लोके च शाश्वती ।
तस्माद् देयं सदा दानम् एतद् राजवरोत्तमाः ॥
विधानम् इदम् आकर्ण्य निर्धनः श्रद्धयान्वितः ।
कपिलादानपुण्यस्य समं फलम् अवाप्नुयात् ॥
इति तिलपर्वतदानविधिः ।
सनत्कुमार उवाच ।
अथातः सम्प्रवक्ष्यामि तिलपर्वतम् उत्तमम् ।
पूर्वोक्तस्थानकाले तु कृत्वा सम्पूजयेत् ततः ॥
अत्र पूर्वशब्देन लिङ्गपुराणोक्ततुलापुरुषदानम् अवगन्तव्यम् ।
सुसमे भूतले रमिए वल्मीकादिविवर्जिते ।
दशतालप्रमाणेन दण्डं संस्थाप्य वै मुने ॥
अद्भिः सम्प्रोक्ष्ये पश्चाद् धि तिलास् तस्मिन् विनिक्षिपेत् ॥
[३७०] “तालः स्मृतो मध्यमया गोकर्णश् चाप्य् अनामया” इत्यादिना तालमानम् उक्तं परिभाषायाम् ।
प्रोक्षयेत् पञ्चगव्येन तं दिशं ब्राह्मणोत्तमः ।
मण्डलं कल्पयेद् विद्वान् पूर्ववत् सुसमाहितः ॥
नववस्त्रैश् च संस्थाप्य द्रोणपुष्पं विकीर्य च ।
तस्मिंस् तु पर्वतं कुर्यात् तिलभारैर् विशेषतः ॥
दण्डात् प्रादेशम् उत्सेध उत्तमे परिकीर्तितः ।
चतुरङ्गुलहीनस् तु मध्यमे परिकीर्तितः ॥
दण्डतुल्यः कनिष्ठे स्याद् दण्डहीनेन कारयेत् ।
वेष्टयित्वा नवैर् वस्त्रैः परितः पूजयेत् क्रमात् ॥
सद्यादीनि प्रतिन्यस्य पूजयेद् विधिपूर्वकम् ।
अष्टदिक्षु च कर्तव्या देवानां मूर्तयः क्रमात् ॥
त्रिनिष्केण सुवर्णेन प्रत्येकं कारयेत् ततः ॥
सद्यादीनि सद्योजातप्रभृतीनि । देवानां लोकपालानाम् ।
दक्षिणा विधिना कार्या तुलापुरुषदानवत् ।
होमश् च पूर्ववत् प्रोक्तो यथावन् मुनिसत्तमः ॥
तुलापुरुषो ऽत्र लिङ्गपुराणोक्त एवेति विज्ञेयम् ।
अर्चयेद् देवदेवेशं लोकपालसमावृतम् ।
तिलपर्वतमध्यस्थं तिलपर्वतरूपिणम् ॥
शिवार्चना च कर्तव्या सहस्रकलशादिभिः ।
दर्शयेत् तिलमध्यस्थं देवदेवम् उमापतिम् ॥
पूजयित्वा विधानेन क्रमेण च विमर्जयेत् ।
श्रोत्रियाय दरिद्राय दापयेत् तिलपर्वतम् ॥
[३७१] एवं तिलमयं प्रोक्तं दानं सर्वाधिकं परम् ।
यत् कृत्वा मानवो नूनं स्वर्गं मोक्षं च विन्दति ॥
अत्रैवं कृतिः, प्रागुक्तमण्डपवेदीमण्डले गव्यैः प्रोक्ष्य दर्भान् द्रोणपुष्पादि चावकीर्य च वस्त्रैर् आच्छाद्य यजमानो दशतालमितं दण्डं निधाय यवाक्षतशुद्धतिलैर् दण्डम् आच्छादयन् शैलाकृतिं कुर्यात् उत्तमे दण्डात् प्रादेशाधिक्यम्, मधमे अष्टाङ्गुलाधिक्यम्, कनिष्टपक्षे तु दण्डसाम्यम्, तिलराशेर् इति । ततो वस्त्रैर् आच्छाद्य तं मेरुरूपं ध्यात्वा तदुपरि शिवं पलत्रयावरस्वर्णनिर्मितं संस्थाप्य सद्यादीनि न्यसेत्, तत्र प्रथमावरणे पञ्च ब्रह्माणि, तद्बाह्ये सर्वादिमूर्तिं संस्थाप्य, तद्बाह्ये भूम्यादिमूर्तिः, तद्बाह्ये लोकपाला इति । एते च सर्वे निष्कत्रयपरिमितेन हिरण्येन विधाय तत्तन्मन्त्रैः पूज्याः, तत्र शिवलक्षणम् उक्तं ब्रह्माण्डदाने ।
सद्योजातादिलक्षणम् उक्तं मयदीपिकायाम् ।
सद्योजातं सितं कुर्याद् वरदाभयहस्तकम् ॥
सौम्यं मौलीन्दुसम्पन्नं बालाकारं त्रिलोचनम् ।
वामदेवं सुरक्ताङ्गं माल्यवस्त्रोपवीतकम् ॥
तुङ्गनासं च खट्टाङ्गं खड्गल्हेटकपाणिनम् ।
बभ्रुभ्रूश्वश्रुमौलीन्दुदंष्ट्रालम्बिकृताननम् ॥
पाशखेटेषु खट्वाङ्गकाययुक्तं चतुष्टये ।
शूलदण्डकुठारासीन् दद्याद् दक्षेषु पाणिषु ॥
पीताम्बरं सुसौम्यं च नरं कुङ्कुमसन्निभम् ।
कुर्यान् मौलीन्दुसम्पन्नं पाशशूलधरं द्वयोः ॥
स्फटिकाभं जगद्धेतुं त्रिनेत्रं चन्द्रमौलिनम् ।
[३७२] ईशानं पञ्चमं कुर्यात् त्रिशूलाभयपाणिनम् ॥ इति ।
सर्वादिलक्षणम् आह विश्वकर्मा ।
सर्वो भौमो महादेवो रुद्रः पशुपतिर् भवः ।
उग्रेशानाव् इति ह्य् अष्टौ मूर्तिणाः शिवसन्निभाः ॥
मृगाङ्कचूडामणयो जटामण्डलमण्डिताः ।
त्रेनेत्रा वरखट्वाङ्गत्रिशूलाभ्यपाणयः ॥ इति ।
मूर्त्यष्टकमध्ये तु पृथिव्यप्तेजोवाय्वाकाशानां रूपाणि पञ्चमहाभूतघटदाने निरूपितानि, चन्द्रार्कयोस् तु वरदानप्रकरणे वक्ष्यन्ते, यजमानमूर्तिर् अस्तु विशेषानुक्तेर् इतरपुरुषतुल्यैव वेदितव्या, लोकपाललक्षणम् उक्तं ब्राह्माण्डदाने, ततः पूजानन्तर्तत्तन्मन्त्रैः समिदादि हुत्वा पृथक्स्थस्य शिवस्य सहस्रकलशाभिषेकं कृत्वा यजमानाय शिवादीन् अभ्यर्च्य तं शैलं श्रोत्रियाय प्रदापयेत् । आचार्यादिदक्षिणादि पूर्ववत् । अत्राद्ये यजमानम् अधिकृत्य कालोत्तरतन्त्रेषु ।
अथ वा परमेशानम् अष्टोत्तरशतैर् अपि ।
कलशैः स्नपयित्वा तु समभ्यर्य यथाविधि ॥
कुर्यात् प्रदानमन्त्रेण गुरुर् अष्टोत्तरं सुधीः ।
महादेवो महारुद्रः शङ्गरो नीललोहितः ॥
ईशानो विजयो भोमो (?) देवदेवो भवोद्भवः ।
कपालीशश् च विज्ञेयो रुद्रा एकादशस् त्व् इमे ॥
समन्तात् सकलेशस्य पूजनीया यथाक्रमम् ।
[३७३] कृष्णाजिने सम्प्रपूज्य तिलानां षोडशाधिकैः ॥
सुवर्णत्रयसंयुक्तं वस्त्रयुग्मेन वेष्टितम् ।
शोभितं पुष्पमालाभिः फलैश् च समलङ्कृतम् ॥
रुद्रान् एकादश ध्यात्वा क्रमेण परिदापयेत् ।
शिवभक्ताय शान्ताय श्रोत्रियाय द्विजन्मने ॥
एवं यः कुरुते भक्त्या विधिनानेन संयुतः ।
आयुः श्रियं जयं कीर्तिम् अनुभूय शिवं व्रजेत् ॥
इति लिङ्गपुराणोक्तस् तिलपर्वतदानविधिः ।
अथातः सम्प्रवक्ष्यामि तिलपर्वतम् उत्तमम् ।
यस्य प्रदानात् सकलं क्षय्म् एष्यति पातकम् ॥
सप्तजन्मान्तरे यत् स्यात् पापं भ्रूणवधादिकम् ।
तत् सर्वं क्षयम् अभ्येति तिलपर्वतदानतः ॥
पुण्यकालेषु सर्वेषु उपरागे विशेषतः ।
पुण्यदेशे प्रयत्नेन दातव्यं तिलपर्वतम् ॥
देवालयस्य पुरतो मण्डपं कारयेद् बुधः ।
प्रविभक्तचतुर्द्वारं चतुस्तोरणसंयुतम् ॥
दशद्वादशहस्तं वा चतुरस्रं सुसंस्थितम् ।
वितानोपरिसञ्छन्नं दिग्वितीर्णवितानकम् ॥
द्वारेषु पूर्णकलशान् स्थापयित्वा द्वयं द्वयम् ।
पूर्वस्मिन् दिवसे प्रातः कुर्यात् पुण्याहवाचनम् ॥
ततः सङ्कल्पयित्वा तु गुरुं वेदाङ्गपारगम् ।
वशिनं पुण्यचरितं युवानां कृतलक्षणम् ।
ऋत्विजश् चाष्ट सङ्ग्राह्या वेदवेदाङ्गपारगाः ।
[३७४] तेषां निवेदयेत् कार्यं श्व प्रदास्ये तिलाचलम् ॥
ततो गुरुं महादेवं पूजयित्वा विधानतः ।
विनायकम् उमां चैव ततः सूत्रं प्रपातयेत् ॥
मण्डपे नवकोष्ठानि कल्पयित्वा समन्ततः ।
अष्टौ कुण्डानि कार्याणि ईशाने नवमं भवेत् ॥
मध्यकोष्ठं प्रविश्तीर्य सितवस्त्राणि सर्वतः ।
तिलैः शुद्धैर् महामेरुं मध्ये कार्यं प्रयत्नतः ॥
उत्तमस् त्रिपलैर् भारैर् द्व्येकाभ्यां मध्यमाधमौ ।
षड्भागेन ततः कार्याः समन्ताद् वर्षपर्वताः ॥
माल्यवान् निषधश् चैव हिमवान् हेमकूटकः ।
गन्धमादनशैलश् च शृङ्गवान् श्वेतशैलकौ ॥
ऐन्द्रादिषु निधातव्या वसोभिश् छादयेद् बहिः ।
कल्पद्रुमस् तु सौवर्णः सर्वरत्नोपशोभितः ॥
सर्वपुष्पफलोपेतो न्यस्तव्यो मेरुमूर्धनि ।
हैमान् मृगान् खगांश् चापि द्रुमांश् चापि विनिर्दिशेत् ॥
सर्वशैलेषु मन्दारमृगपक्ष्यादिकं च यत् ।
निधातव्यं प्रयत्नेन तुरीयांशेन मेरुतः ॥
सुमेरोर् द्वादशपलं दशाष्टौ वाप्य् अनुक्रमात् ।
सुवर्णस्य प्रमाणं स्याद् उत्तमाधममध्यमम् ॥
अधस्तात् कल्पवृक्षाणां सौवर्णकमले हरम् ।
सुखासीनं चतुर्बाहुं जटामुकुटमण्डितम् ॥
त्रिनेत्रं सौम्यवदनं सौवर्णं न्यस्य पूजयेत् ।
शिवनामा तु मध्ये स्याद् भवः शम्भुस् तिलोचनः ॥
[३७५] स्थानुर् ईशो महादेवः शङ्करश् चन्द्रशेखरः ।
पूर्वादिषु महादेवम् एभिर् नामभिर् अर्चयेत् ॥
दिवाहविष्यभोजी स्यात् सगुरुस् ते च ऋत्विजः ।
स्वेन स्वेन विधानेन गृह्योक्तेन विशेषतः ॥
हुत्वाज्यभागौ जुहुयाद् यथोक्तं सर्वम् आचरेत् ।
वस्त्रैः प्रपूज्यजेत् सर्वान् ऋत्विजो गुरुम् एव च ॥
द्विगुणं गुरवे दद्यात् कुण्डलीर् अङ्गुलीयकैः ।
उपानच्छत्रशय्याभिर् [?] आसनैः पादुकेन च ॥
ततो विमूल आदित्ये पुण्यकाल उपस्थिते ।
अनुज्ञातस् तुत् ऐर् विप्रैर् यजमानः प्रसन्नधीः ॥
सर्वौषधिजलस्नातः क्षौमवासाः स्वलङ्कृतः ।
प्रदक्षिणं गिरिं कृत्वा विप्रान् आहूय यत्नतः ॥
ज्ञानिनो गुणसम्पन्नान् आत्मनिष्ठान् अलोलुपान् ।
वेदवेदाङ्गविदुषस् तं च देवं प्रकल्प्य च ॥
तस्य तस्य गिरेः पार्श्वे तत्तन्नाम्ना प्रपूजयेत् ।
मेरुं तत् प्रथमं दद्याच् छिवः सम्प्रीयताम् इति ॥
गुणोत्कृष्टाय विप्राय भावयित्वा तु तं शिवम् ।
एवं पूर्वादिशैलांस् तु तत्तन्नाम्ना प्रदापयेत् ॥
प्रीयताम् इति तान् विप्रांस् तत्तद्देवं प्रकल्प्य च ।
सर्वं क्रियाकलापं च निवेद्य परमेष्ठिनम् ॥
पूजयित्वा द्विजान् अग्रे दीनान्धकृपणांस् ततः ।
आशीर्मङ्गलसंयुक्तस् ततो बन्धुसमन्वितः ॥
[३७६] अनेन विधिना यस् तु दद्यात् तिलमयं गिरिम् ।
न तस्य विद्यते किञ्चित् पापं सप्तजनोद्भवम् ॥
विमानेन शिवं गच्छेन् निःकामो यः समाचरेत् ।
सकामो लभते कामान् यं यम् इच्छति चेतसा ॥
इति प्रश्नोत्तरतन्त्रोक्ततिलशैलदानविधिः ।
अथ कार्पासपर्वतदानविधिः । पद्मपुराणात् ।
कर्पासपर्वतस् तद्विंशद्भारैर् इहोत्तमः ।
दशभिर् मध्यमः प्रोक्तः कनिष्ठः पञ्चभिः स्मृतः ॥
भारेणाल्पधनो दद्याद् वित्तशाठ्यविवर्जितः ।
धान्यपर्वतवत् सर्वम् आसाद्यं राजसत्तम ॥
प्रभातायां तु सर्वर्यां दद्याद् इदम् उदीरयेत् ।
त्वम् एवाचरणं यस्माल् लोकानाम् इह सर्वदा ॥
कर्पासाचल तस्मात् त्वम् अघोघध्वंसनो भव ।
एवं कर्पासशैलेन्द्रं यो दद्यात् पर्वसन्निधौ ।
रुद्रलोके वसेत् कल्पं ततो राजा भवेद् इह ॥
ब्रह्माण्डपुराणात् ।
भगवान् उवाच ।
अतः परं प्रवक्ष्यामि कर्पासाचलम् उत्तमम् ।
परमं सर्वदानानां प्रियं सर्वदिवैकसाम् ॥
देशकालौ समासाद्य धनं श्रद्धां च यत्नतः ।
देयम् एतन् महादानं तारणार्थं कुलस्य च ॥
[३७७] पर्वतं कल्पयेत् तत्र कार्पासेन विधानतः ।
पूर्वोक्तेन विधानेन कृत्वा सर्वं विधानतः ॥
विंशद्भारस् तु कर्तव्य उत्तमः पर्वतो बुधैः ।
मध्यमं दशभिः कुर्याज् जघन्यं पञ्चभिस् तथा ॥
सर्वधान्यसमूहस्य मध्ये ह्य् ओषधिभिर् वृतम् ।
रसै रत्नैश् च संयुक्तं लोकपालावृतं तथा ॥
ब्रह्मादयस् तथा शृङ्गे काञ्चनेन विनिर्मिताः ।
कुलाकुलांश् च चत्वारश् चतुर्भागेन कल्पयेत् ॥
सौवर्णशिखरान् सर्वान् सर्वरत्नोपशोभितान् ।
नानाधातुविचित्राङ्गान् भक्ष्यभोज्यसमावृतान् ॥
होमो व्याहृतिभिश् चैव (?) अग्नौ तद्दैवतैर् अपि ।
गन्धेन सर्पिषा तत्र तथा कृष्णतिलैर् अपि ॥
अयुतं होमसंस्था च पालाशसमिधस् तथा ।
शङ्खतूर्यनिनादैश् च तथा मङ्गलपाठकैः ॥
उत्सवं कारयेत् तत्र दिनम् एकम् अतन्द्रितः ।
पर्वकाले ततो दद्यात् पूजयित्वा विधानतः ॥
नमः सर्वामरवासभूतसङ्घैर् अभिष्टुतः ।
ब्रह्मादयो मे वरदा भवन्तु विबुधाः सदा ॥
इत्य् उच्चार्य नरो दद्यान् नारी वा विधिपूर्वकम् ।
पूजयित्वा द्विजान् सम्यक् वासोभिर् भूषणैस् तथा ॥
अनेन विधिना यस् तु दानम् एतत् प्रयच्छति ।
[३७८] स गच्छेत् त्रिदशावासं विमानोपरि संस्थितः ॥
अप्सरोगणसंवीतो गन्धर्वैर् अभिसंस्थितः ।
तत्र मन्वन्तरं यावद् उक्त्वा विबुधालये ॥
पुण्यक्षयाद् इहाभ्येत्य महीम् भुङ्क्ते ससागराम् ।
रूपवान् सुभगो वाग्मी श्रीमान् अतुलविकर्मः ॥
पञ्चजन्मानि नावी वा जायते नात्र संशयः ।
भूयश् च शृणु राजेन्द्र दिव्यं कार्पासपर्वतम् ॥
तं च भारशतेनैव कुर्याद् अर्धेन वा पुनः ।
शेषं पूर्वविधानेन सर्वं कुर्याद् यथाक्रमम् ॥
फलं पूर्वोदितं चैव जायते नृपसत्तम ॥
इति कार्पासपर्वतदानविधिः ।
अथ घृताचलदान विधिः ।
पुलस्त्य उवाच ।
अथातः सम्प्रवक्ष्यामि घृतशैलम् अनुत्तमम् ।
तेजो ऽमृतमयं दिव्यं महापातकनाशनम् ॥
विंशत्या घृतकुम्भानाम् उत्तमः स्यात् घृताचलः ।
दशभिर् मध्यमः प्रोक्तः पञ्चभिर् अधमः स्मृतः ॥
अल्पवित्तः प्रकुर्वीत द्वाभ्यां मेरुविधानतः ।
विष्कम्भपर्वतांस् तद्वच् चतुर्भागे न कल्पयेत् ॥
शालितण्डुलपात्राणि कुम्भोपरि निवेशयेत् ।
कारयेत् संहतान् सर्वान् यथाशोभं विधानतः ॥
वेष्टयेत् शुक्लवासोभिर् इक्षुदण्डफलादिकैः ।
धान्यपर्वतवच् छेषविधानम् इह पठ्यते ॥
[३७९] अधिवासं च कुर्वीत तद्वद् धोमं सुराचनम् ॥
अत्र पलसहस्रपरिमितं घृतं घृतकुम्भः प्रसिद्धः कुम्भग्रहणे तस्यानियतपरिमाणत्वाद् अनवस्थितशास्त्रार्थप्रसङ्गात् तच् च द्रवद्रव्यत्वाद् आधारम् अपेक्षत इति । शालितण्डुलपात्राणि कुम्बोपरि निवेशयेद् इत्य् अनेन तस्य कलशाधारत्वात् प्रतिपाद्यते तण्डुलपात्राणीति पर्वतपञ्चकापेक्षया बहुवचनम् ।
प्रभातायां तु शर्वर्यां गुरवे विनिवेदयेत् ।
विष्कम्भपर्वतांस् तद्वद् ऋत्विग्भ्यः शान्तमानसः ॥
संयोगाद् घृतम् उत्पन्नं यस्माद् अमृततेजसः ।
तस्माद् घृतार्चिर् विश्वात्मा प्रीयताम् अत्र शङ्करः ॥
यस् तु तेजोमयं ब्रह्म घृते तच् च व्यवस्थितम् ।
घृतपर्वतरूपेण तस्मान् नः पाहि भूधरः ॥
अनेन विधिना दद्याद् घृताचलम् अनुत्तमम् ।
महापातकयुक्तो ऽपि लोकम् आयाति शाङ्करम् ॥
हंससारसयुक्तेन किङ्किणीजालमालिना ।
विमानेनाप्सरोभिश् च सिद्धविद्याधरैर् वृतः ।
विहरेत् पितृभिः सार्धं यावद् आहूतसम्प्लवम् ॥
इति पद्मपुराणोक्तो घृतपर्वतदानविधिः ।
अथ रत्नाचलदानविधिः ।
पुलस्त्य उवाच ।
अतः परं प्रवक्ष्यामि रत्नाचलम् अनुत्तमम् ।
मुक्ताफलसहस्रेण पर्वतः स्याद् इहोत्तमः ॥
[३८०] मध्यमः पञ्चशतिकस् त्रिशतेनाधमः स्मृतः ।
चतुर्थांशेन विष्कम्भपर्वताः स्युः समन्ततः ॥
पूर्वेण वज्रगोमेदैर् दक्षिणे इन्द्रनीलकैः ।
पुष्परागयुतैः कार्यो विद्वद्भिर् गन्धमादनः ॥
वैदूर्यविद्रुमैः पश्चात् सम्मिश्रो विपुलाचलः ।
पद्मरागैः स सौपर्णेर् उत्तरेण तु विन्यसेत् ॥
वज्रगोमेदैः समसङ्ख्यैः, समं स्याद् अश्रुतत्वाद् इति न्यायात् एवम् उत्तरत्रापि विज्ञेयम् । सौपर्णः गरुडात्मजः । सौवर्णेर् इति क्वचित् पाठः ।
धान्यपर्वतवत् सर्वम् अत्रापि परिकल्पयेत् ।
तद्वद् आवाहनं कुर्याद् दक्षान् देवांश् च काञ्चनान् ॥
पूजयेत् पुष्पपानीयैः प्रभाते च विसर्जनम् ।
पूर्ववद् गुरुऋत्विग्भ्य इमान् मन्त्रान् उदीरयेत् ॥
यथा देवगणाः सर्वे सर्वरत्नेष्व् अपि स्थिताः ।
त्वं च रत्नमयो नित्यम् अतः पाहि महाचलः ॥
यस्माद् रत्नप्रदानेन वृष्टिं प्रकुरुते हरिः ।
महारत्नप्रदानेन तस्मान् नः पाहि पर्वत ॥
अनेन विधिना यस् तु दद्याद् रत्नमयं गिरिम् ।
स याति वैष्णवं लोकम् अमरेश्वरपूजितः ॥
यावत् कल्पशतं सार्धं वसेद् इह नराधिप ।
रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत् ॥
[३८१] ब्रह्महत्यादिकं किञ्चिद् यद् अत्रामुत्र वा कृतम् ।
तत् सर्वं नाशम् आयाति गिरिर् वज्रहतो यथा ॥
इति पद्मपुराणोक्तो रत्नपर्वतदानविधिः ।
पुलस्त्य उवाच ।
अतः परं प्रवक्ष्यामि रूप्याचलम् अनुत्तमम् ।
यत् प्रदानान् नरो याति सोमलोकं द्विजोत्तमः ॥
दशभिः पलसाहस्रैर् उत्तमो राजताचलः ।
पञ्चभिर् मध्यमः प्रोक्तस् तदर्धेनाधरः स्मृतः ॥
अशक्तौ विंशतेर् ऊर्ध्वं कारयेच् छक्तितः सदा ।
विष्कम्भपर्वतांस् तद्वत् तुरीयांशेन कल्पयेत् ॥
पूर्ववद् राजतान् कुर्यान् मन्दरादीन् विधानतः ।
कलधौतमयांस् तत्र लोकेशान् अर्चयेद् बुधः ॥
कलधौतं काञ्चनम् ।
ब्रह्मविष्ण्वर्कवान् कार्यो नितम्बो ऽत्र हिरण्मयः ।
राजतं स्याद् यद् अन्येषां सर्वं तद् इह काञ्चनम् ॥
शेषं च पूर्ववत् कुर्यात् होमजागरणादिकम् ।
दद्यात् तद्वत् प्रभाते तु गुरवे रौप्यपर्वतम् ॥
विष्कम्भशैलान् ऋत्विग्भ्यः पूज्यवस्त्रविभूषणैः ।
इमं मन्त्रं पठन् दद्याद् दर्भपाणिर् विमत्सरः ॥
पितॄणां वल्लभं यस्माद् धर्मस्य शङ्करस्य च ।
रजतं पाहि तस्मान् नः शोकसंसारसागरात् ॥
इत्थं निवेश्य यो दद्याद् राजताचलम् उत्तमम् ।
[३८२] गवायुतसहस्रस्य फलं प्राप्नोति मानवः ॥
सोमलोके स गन्धर्वैः किन्नरो ऽप्सरसां गणैः ।
पूज्यमानो वसेद् विद्वान् यावद् आहूतसम्प्लवम् ॥
इति पद्मपुराणोक्तो रूप्याचलदानविधिः ।
पुलस्त्य उवाच ।
अथातः सम्प्रवक्ष्यामि शर्कराचलम् उत्तमम् ।
यस्य प्रदानाद् विष्ण्वर्करुद्रास् तुष्यन्ति सर्वदा ॥
अष्टभिः शर्कराभारैर् उत्तमः स्यान् महाचलः ।
चतुर्भिर् मध्यमः प्रोक्तो भाराभ्याम् अधरः स्मृतः ॥
भारेण वार्धभारेण कुर्याद् यः स्वल्पवित्तवान् ।
विष्कम्भपर्वतान् कुर्यात् तुरीयांशेन मानवः ॥
धान्यपर्वतवत् सर्वम् आसाद्यामरसंयुतम् ।
मेरोर् उपरि तद्वच् च स्थाप्य हेमतरुत्रयम् ॥
मन्दारः पारिजातश् च तृतीयः कल्पपादपः ।
एतद् वृक्षत्रयं मूर्ध्निं(?) सर्वेष्व् अपि निवेशयेत् ॥
हरिचन्दनसन्तानौ पूर्वपश्चिमभागयोः ।
निवेश्यौ सर्वशैलेषु विशेषाच् छर्कराचले ॥
मन्दारे कामदेवश् च प्रत्यग्वक्त्रः सदा भवेत् ।
गन्धमादनशृङ्गे च धनदः स्याद् उदङ्मुखः ॥
प्राङ्मुखो वेदमूर्तिश् च हंसः स्याद् विपुलाचले ।
हैमी सुपर्श्वे सुरभी दक्षिणाभिमुखी भवेत् ॥
धान्यपर्वतवत् सर्वम् आवाहनमखादिकम् ।
[३८३] कृत्वाथ गुरवे दद्यान् मध्यमं पर्वतोत्तमम् ॥
ऋत्विग्भ्यश् चतुरः शैलान् इमान् मन्त्रान् उदीरयेत् ।
सौभाग्यामृतसारो ऽयं परमं शर्करा यतः ॥
तन् ममानन्दकारी त्वं भव सैलेन्द्र सर्वदा ।
अमृतं पिवतां (?) ये तु निपेतुर् भुवि सीकराः ॥
देवानां तत्समं सोमं पाहि नः सर्कराचलः ।
मम भवतु मध्या यद् उद्भूता शर्करा यतः ॥
तन्मयो ऽसि महाशैल पाहि संसारसागरात् ।
यो दद्याच् छर्कराशैलम् अनेन विधिना नरः ॥
सर्वपापविनिर्मुक्तः प्रयाति शिवमन्दिरम् ।
चन्द्रादित्यप्रतीकाशम् अधिरुह्यानुजीविभिः ॥
सहैव यानम् आतिष्ठेत् सत् उ विष्णुप्रचोदितः ।
ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् ॥
आयुरारोग्यसम्पन्नो यावज्जन्मायुतत्रयम् ।
भोजनं शक्तितः कुर्यात् सर्वशैले विमत्सरः ॥
सर्वत्राक्षारलवणम् अश्नीयात् तदनुज्ञया ॥
भोजनं कुर्याद् इति, दानानन्तरं यथाशक्ति ब्राह्मणेभ्यो भोजनदानं कुर्याद् इत्य् अर्थः । स्वयम् अपि अक्षारलवणम् अश्नीयाद् इति ।
पर्वतोपस्करान् सर्वान् प्रापयेद् ब्राह्मणालयम् ।
पश्येद् इमान् अप्य् अधनो ऽपि भक्त्या
स्पृशेन् मनुश्यैर् इह दीयमानान् ।
शृणोति भक्त्याथ मतिं ददाति
निःकल्मषः सो ऽपि दिवं प्रयाति ॥
[३८४] दुःस्वप्नप्रशमम् उपैति पठ्यमानैः
शैलेन्द्रैर् भवभयभेदनैर् मनुष्यः ।
यः कुर्यात् किम् उ मुनिपिङ्गवेह सम्यक्
सत्त्वात्मा सकलगिरीन्द्र सम्प्रदानम् ॥
इति पद्मपुराणोक्तः शर्कराचलदानविधिः ।
अथ शैवानि द्वादशमेरुदानानि निरूप्यन्ते । तत्र कालोत्तरशैवशास्त्रात् ।
अथातः सम्प्रवक्ष्यामि मेरुदानं यथाक्रमम् ।
आ कार्त्तिकात् समारभ्य मेरुव्रतं समाचरेत् ॥
कार्त्तिक्यां रत्नमेरुश् च दातव्यस् तु शिवाग्रतः ।
सर्वेषां चैव मेरूणां प्रमाणं क्रमशः शृणु ॥
वज्रपद्ममहानीलनीलस्फटिकसञ्ज्ञकः ।
पुष्पं मरकतं मुक्ता ग्राह्याः स्वविभवेन तु ॥
प्रस्थमात्रास् तु सङ्ग्राह्याः प्रस्थाद् अर्धार्धम् एव वा ।
यथाशक्त्याथ वा देया वित्तशाठ्यं विना सुत ॥
मेरोर् विभागं वक्ष्यामि शिवस्याग्रे यथार्चयेत् ।
कर्णिकायां न्यसेन् मेरुं ब्रह्मविष्ण्वीशभूषितम् (?) ॥
तत् सर्वे माल्यवान् नाम पर्वतं पूजयेत् तदा ।
तत् पूर्वे भद्रसञ्ज्ञं तु अश्ववृक्षास् ततः परम् ॥
मेरुतः पूर्वदिग्भागे पूर्वपूर्वोत्तरत्रयम् ।
कथितं स विशेषेण दक्षिणस्यान्ततः परम् ॥
निषधो हेमकूटश् च हिमवांश् च तथा त्रयम् ।
एवम् उत्तरभागे तु नीलः श्वेतश् च शृङ्गवान् ॥
[३८५] पश्चिमे गन्धमादाख्यं केतुं वै केतुमाल्यकम् ।
एवं द्वादशसंयुक्तं मेरुपर्वतनायकम् ॥
सोपवासः शुचिर् भूत्वा विशेषात् पूजयेच् छिवम् ।
महास्नानं प्रकर्तव्यं महापूजाथ वा सुत ॥
पूनान्ते देवदेवाग्रे रत्नमेरुं प्रकल्पयेत् ।
प्रदद्याच् छिवविप्राय शिवमन्त्रम् अनुस्मरेत् ॥
महास्नानं महापूजा च लिङ्गपुराणे ।
महास्नानं च यः कुर्याद् घृतेन विधिनैव तु ।
स याति मम सायुज्यं स्थानेष्व् एतेषु सुव्रते ॥
स्नानं पलशतं ज्ञ्र्यम् अभ्यङ्गं पञ्चविंशतिः ।
पलानां द्वे सहस्रे तु महास्नानं प्रकीर्तितम् ॥
स्नाप्य लिङ्गं मदीयं च गव्येनैव घृतेन च ।
विशोध्य सर्वद्रव्यैस् तु यावद्भिर् अभिषिञ्चति ॥
महास्नाने प्रसक्ते तु स्नानम् अष्टगुणं स्मृतम् ।
जलेन केवलेनैव गन्धतोयेन शक्तितः ॥
अनुलेपनं च तत् सर्वं पञ्चविंशत्पलेन वै ।
शमीपत्रं च विधिना बिल्वपत्रं च पङ्कजम् ॥
अथान्यानि च पत्राणि बिल्वपत्रं न सन्त्यजेत् ।
दशद्रोणैस् तु नैवेद्यम् अष्टद्रोणैर् अथापि वा ॥
दशद्र्ōणसमं पुण्यम् आढके तु विधीयते ।
वित्तहीनस्य भक्तस्य नात्र कार्या विचारणा ॥
भेरीमृदङ्गमुरजतिमिलापटहादिभिः ।
[३८६] वादित्रैर् विविधैश् चन्यै रान्दोलैर् विविधैर् अपि ॥
जागरं कारयेत् तत्र प्रार्थयेत् तु यथाक्रमम् ।
स्वभृत्यपुत्रदारैश् च तथा सम्बन्धिबान्धवैः ॥
सार्धं प्रदक्षिणं कृत्वा प्रार्थयेल् लिङ्गम् ऐश्वरम् ।
द्रव्यहीनैः क्रियाहीनैः श्रद्धाहीनैः सुरेश्वर ॥
कृतं वाप्य् अकृतं वापि क्षन्तुम् अर्हसि शङ्कर ।
इत्य् उक्त्वा चैव रुद्रं च त्वरितं शान्तिम् एव च ॥
मं इत्य् एव महाबीजं तथा पञ्चाक्षरस्य वै ॥
मेरोर् अनुमन्त्रणमन्त्रास् तु कालोत्तर एवोक्ताः ।
नमः काञ्चनदेवाय धराधराय वै नमः ।
ब्रह्मविष्ण्वीशशृङ्गाय धरानाभिस्थिताय च ॥
नगद्वादशनाथाय सर्वपापापहारिणे ।
शिवभक्ताय शुद्धाय त्राणं मे कुरु सर्वदा ॥
निष्पापः पितृभिः सार्धं शिवं गच्छामि हुं नमः ।
त्वं शिवस् तु शिवस्याग्रे शिवो ऽहं च शिवाय च ॥
निवेदयामि भक्त्या तु पितॄणां तारणाय च ॥ इति ।
तथा ।
वस्त्राश्वसहितो मेरुस् तत्र पुण्यफले शृणु ।
लक्षयोजनमानस्य मेरोर् ये पर्माणवः ॥
तावत्कल्पसहस्राणि शिवलोके महीयते ।
उद्धरेन् नरकातो सो ऽपि त्रिसप्तकुलसन्ततिम् ॥
तदन्वयगता ये तु डिम्भाडिम्भहता नराः ।
महापातकिनश् चान्ये तथा विश्वासघातकाः ॥
गुरुद्रोहकृता ये तु भ्रूणहाः पितृघातकाः ।
[३८७] प्रसवे तु मृता नारी कुमारी शीलदूषिता ॥
तां वा रुद्रस्य सामीप्यं स नयेन् मेरुदानकृत् ।
मेरुदानं च मनसा यः स्मरेत् तु शिवाग्रतः ॥
यात्य् असौ शिवलोकं तु देहान्ते धौतकिल्बिषः ।
हेममेरुप्रमाणं तु फल्ं चैव शृणुष्व तत् ॥
पालानां तु सहस्रेण मध्ये मेरुं प्रकल्पयेत् ।
शृङ्गत्रयसमायुक्तं ब्रह्मविष्णुहरान्वितम् ॥
एकैकं पर्वतं तस्य शतैकैकेन कारयेत् ।
मेरुणा सह पूर्वेण विख्यातास् तु त्रयोदश ॥
एवं शिवाग्रतो मेरुर् दातव्यस् तु प्रयत्नतः ।
अनयेषु च सर्वेषु ग्रहणेषु विशेषतः ॥
आचार्याय प्रदातव्यः संहितापारगाय च ।
पूर्वोक्तस्य महामेरोः सनगस्य महात्मनः ॥
शिवलोके वसेत् सो ऽपि यावत् तत्परमाणवः ।
पितॄन् पितामहांश् चैव तथैव प्रपितामहान् ॥
पुत्रान् पौत्रान् प्रपौत्रांश् च तारयेत् किम् अतः परम् ।
भोगान् भुक्त्वा महीं कृत्स्नां भुङ्क्ते च शिवभाविनः ॥
दरिद्रो रूप्यमेरुं तु हेममानेन कारयेत् ।
पर्वता द्वादश तथा सङ्कल्प्या रचनान्विताः ॥
उत्तरे ह्य् अयने देयं देयं वा ग्रहणद्वये ।
प्राग् उत्क्तं तु फलं तस्य भवत्य् अत्र न संशयः ॥
भूमिमेरुप्रमाणं तु कथ्यमानं शृणुष्व तत् ।
विषयं मण्डलं चाथ ग्रामं वा पर्वतं स्मरेत् ॥
[३८८] शेषास् तदष्टमांशेन नगाः स्यू रविसङ्ख्यया ।
भूमिपर्वतपुण्यं तु को वा वर्णयितुं क्षमः ॥
पर्माणुव्रजो यावत् क्षितीशो भवति ध्रुवम् ।
तावत् कोटिसहस्राणि शिवलोके महीयते ॥
भोगान् भुक्त्वा ततो राजा जायते योगिनां कुले ।
ज्ञानं प्राप्य तदा तस्य पुनर्जन्म न विद्यते ॥
हस्तिमेरुं ततो वक्ष्ये सङ्क्षेपात् पार्वतीसुत ।
न वृद्धं न तथा बालं रत्नपुच्छसुशोभितम् ॥
शूलं सर्वगुणोपेतं घण्टाचामरभूषितम् ।
नक्षत्रमालासंयुक्तं शस्त्रध्वजविभूषितम् ॥
दिव्यवस्त्रसमायुक्तं सुवर्णरचनायुतम् ।
सूर्यस्य ग्रहणे देयं गुरवे तं शिवाग्रतः ॥
तेन दत्तेन दत्तं तु लक्षयोजनपर्वतम् ।
पुरुषत्रयसमायुक्तं पर्वतद्वादशान्वितम् ॥
मुच्यते सर्वपापेभ्यः शिवसायुज्यतां व्रजेत् ।
पितरस् तस्य मोदन्ते रुद्रलोके समन्ततः ।
एतत् तव समाख्यातं हस्तिदानं समासतः ॥
अथाश्वमेरुर् वा देयो यो दत्तो रविणा पुरा ।
श्वेतैर् विनीतैः सुवर्णैः प्रत्यग्रैः पञ्चसङ्ख्यया ॥
मध्ये मेरुः कल्पितव्यो रविसङ्ख्यास् तु पर्वताः ।
सवस्त्रहेमदारैश् च सप्त वा ध्वजभूषिताः ॥
वैशाख्यां वाथ कार्त्तिक्यां दातव्यस् तु शिवाग्रतः ।
विप्राय शिवभक्ताय संहितापारगाय च ॥
[३८९] तस्मै देयो यथोक्तस् तु हयमेरुर् विधानतः ।
सम्पूज्य परया भक्त्या हेमकङ्कणकुण्डलैः ॥
रसनामुकुटेनैव अङ्गुलीयद्वयेन च ।
सर्वेषां चैव दाने तु भूषणैर् भूषयेत् तदा ॥
अकृत्रिमैर् भूषणैस् तु राजा मेरुं विभूषयेत् ।
अश्वमेरुप्रदानेन रुद्रलोके महीयते ॥
यावन्त्य् अश्वेषु रोमाणि तावद्वर्षायुतानि च ।
महाकल्पसहस्राणि रुद्रलोके महीयते ॥
अश्वालाभे दरिद्रस् तु गोमेरुर्ं वा प्रकल्पयेत् ।
अश्वसङ्ख्याप्रमाणेन फलं चैतत् समं भवेत् ॥
अथ वा वस्त्रमेरुश् च दातव्यस् तु शिवाग्रतः ।
भारमात्रेण पद्मैस् तु नानावर्णैः सुपर्वतः ॥
मध्ये मेरुः कल्पनीयो वस्तैः शेषांस् तु कल्पयेत् ।
मेरवस् तस्य मानेन नानावर्णैः सुशोभितैः ॥
प्रत्येकं पर्वताः कल्प्या हेमशृङ्गाः सुवर्णकाः ।
शिवभक्ताय विप्राय दातव्यास् तु शिवाग्रतः ॥
दिव्यैश्वर्यपदं याति सहस्रक्रतुसम्भवम् ।
दिव्यं वर्षशतं सम्यक् कुर्याद् भोगं यथेप्सया ॥
चक्रवर्तित्वम् अभ्येति ज्ञानवान् जायते तदा ।
शिवालयं ततो याति न भूयो जन्म चाप्नुयात् ॥
अथ वा घृतमेरुस् तु दातव्यः कथ्यते मया ।
मेरुः पलानां मध्ये तु सहस्रैः पञ्चभिर् हितः ॥
शतैः पञ्चभिर् एकैकं पर्वतं तत्र कल्पयेत् ।
[३९०] त्रिशृङ्गं त्रिपलं मेरोः काञ्चनं देवतार्चनम् ॥
एकैकपलिकं शेषपर्वते वस्त्रभूषिते ।
कृत्वा पूजां विशेषेण शिवस्याग्रे प्रकल्पयेत् ॥
शिवभक्ताय विप्राय दातव्यः शिवम् इच्छता ।
कुलम् उद्धरते सो ऽपि पैतृकं मातृकं तथा ॥
दिव्यं वर्षशतं सार्धं रुद्रलोके महीयते ।
भारते पृथिवीखण्डे पतिर् भवति नान्यथा ॥
एवं वै खण्डमेरुं तु सितखण्डेन कल्पयेत् ।
रुद्रलोकपदं याति पितृभिः सह मोदते ॥
अथ वा धान्यमेरुं तु शिवस्याग्रे प्रकल्पयेत् ।
पञखारीमितं मध्ये मेरुं धान्येन कल्पयेत् ॥
एकैकं खारिमात्रेण पर्वतं शेषम् आदिशेत् ।
पूर्ववद् धेमशृङ्गं तु सवस्त्रं परिकल्पयेत् ॥
शिवपूजावसाने तु शिवविप्राय दापयेत् ।
कल्पकोटिसहस्राणि शिवलोके महीयते ॥
पितरस् तस्य मोदन्ते ब्रह्मलोके तथा चिरम् ।
एतदष्टांशमानेन तिलमेरुं प्रकल्पयेत् ॥
शृङ्गाणि पूर्ववत् तस्य तथाचान्यनगेषु च ।
तिलमेरुर्ः प्रदातव्यः शिवस्याग्रे गुरोः सदा ॥
प्रयाति शिवसायुज्यं बन्धुभिः सहितो नरः ।
दशकोटिसहस्राणि भुक्त्वा भोगान् यथेच्छया ॥
समस्तमेदिनीं भुङ्क्ते शिवे पश्चात् प्रलीयते ।
[३९१] इति द्वादशसङ्ख्याताः पर्वताः कथितास् तव ॥
अथ मन्त्रं तथाकालं ज्ञात्वा मेरुं प्रदापयेत् ।
अयनेषु च सर्वेषु ग्रहणेषु विशेषतः ॥
मेरुप्रदानं कर्तव्यम् उपोष्य सुचिरं सदा ॥
इति शैवद्वादशमेरुदानानि ।
हंस उवाच ।
भूय एव महाबाहो शृणु दानं महाफलम् ।
यद् दत्वा पुरुषो ऋजन् नेह सञ्जायते पुनः ॥
मेरुर् हेममयश् चैव त्रिशृङ्गो राजतो ऽपि वा ।
पलत्रयेण सौवर्णो विंशत्या राजतैः पलैः ॥
ताम्रैः पञ्चशता प्रोक्ता पलानां कांस्यकस् तथा ।
लोहश् च भारमात्रस् तु सीसकस्य तथा स्मृतः ॥
लवणस्याप्य् एवम् एव व्रीहीणाम् एव मे वच ।
भारद्वयेन खातस् तु गौडः स्यात् पञ्चभारकः ॥
कास्तूरिकः पञ्चपलः कार्पूरः पलविंशतेः ।
कौङ्कमः (?) स्याच् छतपलः कार्पासः षड्त्रिंशभारकः ॥
एवं द्रव्यविशेषैस् तु मेरुः कार्यो विजानता ।
यथा गमं तथा कार्यं नात्र कार्या विचारणा ॥
विचारे क्रियमाणे च हेतुकत्वं प्रसज्यते ।
हेतुप्रतिष्ठो विज्ञेयः पुरुषो रागदूषितः ॥
रागादिदोषदुष्टस् तु पुरुषो नात्र संशयः ।
तस्मान् मेरोः प्रमाणस् तु भाषितं ब्रह्मणा स्वयम् ॥
[३९२] आस्तिकाय विनीताय प्रोच्यते कृपया विभो ।
नास्तिकाय न वक्तव्यं वाक्यं दर्मं विजानता ॥
कृत्वा मेरुं त्रिशृङ्गं तु सौवर्णं राजतादिकं ।
अर्चयेत् पीतकुसुमैर् जागरं कल्पयेत् ततः ॥
ब्राह्मणं पात्रभूतं तु कले तु ग्रहणादिके ।
आहूय प्रक्षाल्य पादौ आसने तूपवेशयेत् ॥
मेरुं पर्वतराजं तु गृहाण् त्वं द्विजोत्तम ।
ममानुकम्पया ब्रह्मण् वराहः प्रीयताम् इति ॥
को दाद् इति तु मन्त्रेण ग्रहः कार्यो विजानता ।
मेरुं समर्प्य विप्राय द्रव्येण स्वेच्छया कृतम् ॥
तावद्वर्षसहस्राणि कोटिं वापि महीयते ।
वसन्ति स्वर्गलोकेषु यावद् इन्द्राश् चतुर्दश ॥
इति विष्णुधर्मोक्तो मेरिदानविधिः ।
अथ पञ्चपर्वदानविधिः ।
तिलपर्वतदानं च तथा लवणपर्वतः ।
कार्पासगुडयोश् चैव तथा सर्षपपर्वतः ॥
धान्यपर्वतदानस्य विधिर् अत्रापि कीर्तितः ।
फलं पुण्यं प्रमाणं च तत् प्रवक्ष्याम्य् अशेषतः ॥
आषाढे कार्त्तिके चैव माघवैशाखयोर् अपि ।
पूर्णमास्यां तु दातव्यं दानम् एतद् युधिष्ठिर ॥
भूप्रदेशे तु लिप्ते तु पुष्पकीर्णे सुशोभिते ।
तिलानां बहुवर्णानां कुम्भं कुम्भार्धम् एव वा ॥
[३९३] विंशतिद्रोणम् अथ वा षोडशद्रोणम् एव वा ।
तिलद्रोणाष्टकैर् वापि चतुर्भिर् अथ वा पुनः ॥
त्रिभिर् द्रोणैर् अलाभे तु कुर्वीत तिलपर्वतम् ॥
कुम्बो ऽत्र विंशतिद्रोणपरिमाणः तच् च द्रोणैः षोडशभिः खारीविंशत्या कुम्भ उच्यते इत्यादिना परिभाषायाम् उपदर्शितम्, कुम्भो द्र्ōणद्वयम् इति गृह्यमाणे विंशतिद्रोणादिकं प्रथमकल्पाद् अनुकल्पम् अनुकल्प्य न समञ्जसं स्यात् इतरत्र तु सार्धकुम्भेन प्रथमकल्पः विंशतिद्रोणादिर् अनुकल्प इति युक्तं स्यात् ।
सुवर्णै रजतैस् ताम्रैः कांस्यैः शौक्तैश् च मौक्तिकैः ।
इक्षुदण्डसमाकीर्णान् वनखण्डांश् च कारयेत् ॥
गुडेन विविधान् कुर्यात् पाषाणशिखरांस् तथा ।
ताम्बूलफलपुष्पाद्यैर् अलङ्काराद्य् अनेकधाः ॥
कुर्यात् मृगपशुपक्षिनस् ताम्रसौवर्णराजतान् ।
द्वादश पूर्णकुम्भांश् च फलशाख्यादिशोभितान् ॥
स्थापयित्वा तु सर्वत्र पूजां कृत्वा विधानतः ।
कृत्वा प्रदक्षिणं चैव जानुभ्यां धरणीं व्रजेत् ॥
लवणस्य सर्षपाणां तत्पर्माणं तथैव च ।
कार्पासपर्वतं चापि तुल्यसङ्ख्यं तथैव च ॥
पुण्यकालेषु लभते नात्र कार्या विचारणा ।
पर्वतस्योत्तरे पार्श्वे ब्रह्मविष्णुमहेश्वरान् ॥
स्थापयेल् लोकपालांश् च दिशासु विदिशासु च ।
अर्चयेद् अर्घपाद्यैश् च गन्धपुष्पादिभिः क्रमात् ॥
[३९४] तोरणैश् च पतकाभिः शोभयित्वा चतुर्दिशम् ।
अग्निकार्यं च कुर्वीत तिलाद्यैः पञ्चवारुणैः ॥
एवं यः कुरुते भक्त्या शैलदानम् अनुत्तमम् ।
क्रीडाशैले महारम्ये क्रीडित्वा कलम् ईप्सितत् ॥
धर्मेण पूज्यमानो ऽथ शक्रलोकं स गच्छति ।
शक्रलोकं नयेद् अन्ते कुलकोटिशतत्रयम् ॥
पश्चान् महोदये रमिए सोमराजपुरोत्तमे ।
रमित्वा वर्षकोटिं तु द्विगुणं परिसङ्ख्यया ॥
भूयो जन्मत्रयं राज्यं भुङ्क्ते निहतकण्टकम् ॥
इति विष्णुधर्मोक्तः पञ्चपर्वतदानविधिः ।
अथ शिखरदानविधिः ।
राम उवाच ।
शिखराणां ममाचक्ष्व दानं त्रिपुरनाशनम् ।
यानि दत्वा तु दौर्भाग्यं दौर्गत्यं न पर्जापते ॥
शङ्कर उवाच ।
शृणु राम प्रवक्ष्यामि शिखराणां यथाक्रमम् ।
दानं देयं यथा येन तत् शृणुष्व सनातनम् ॥
माघशुक्लतृतीयायां मार्गशीर्षस्य वा पुनः ।
तृतीया वाथ वैशाखे शुक्ला या रोहिणीयुता ॥
प्रौष्ठपद्यां तृतीयायां विशेषेण तु भार्गव ।
गुषेक्षुवस्त्रलवणधान्यकाजाजिशर्कराः ॥
खर्जूरतन्दुलद्राक्षाक्षौद्रैर् मलयजन च ।
[३९५] फलैर् मनोहरैः रम्यैः शिखराणि प्रदापयेत् ॥
एषाम् अन्यतमं दद्याद् यथाश्रद्धं विधानतः ।
आत्मप्रमाणं कुर्वीत प्रादेशाभ्यधिकं शुभम् ॥
भुवै गोमयलिप्तायाम् इक्षुपत्राणि संस्तरेत् ।
ततः कुर्वीत शिखरं गौरीस्थानम् अनुत्तमम् ॥
द्विहस्तं मूलं कर्तव्यं हस्तमात्रं शिरस् तथा ।
भित्तिर् इक्षुदलैः कार्या वेष्टयेद् रक्तवाससा ॥
दानद्रव्येण तन्मध्यं पूरयेद् भृगुनन्दन ।
इक्षुपत्रकटे गौरीं तस्योपरि निवेदयेत् ॥
चतुर्भुजां हेममयीं पूजयेत् कुङ्कुमेन तु ॥
गौरीरूपम् उक्तं ब्रह्माण्डदाने ।
वेष्टयेत् सूक्षमवस्त्रेण देवीं शिखरम् एव च ।
अष्टाङ्गं पूजयेद् गौरीं मन्त्रैर् एतैस् तु भक्तितः ॥
नमो भवान्यै पादौ तु कामिन्यै जानुनी ततः ।
वामदेव्यै तथा चोरू नाभिं चैव जगत्प्रिये ॥
आनन्दायै तु हृदयं नन्दायै पूजयेत् स्तनौ ।
सुभद्रायै मुखं पूज्यं ललितायै नमः शिरः ॥
एवं पूज्य महादेवीं शिखरान् अभिमन्त्रयेत् ।
यस्मान् निवासः पार्वत्याः शिखर त्वं सुरैर् वृतः ॥
तस्मान् माम् पाहि भगवंस् त्वं गौरीशिखरः सदा ।
एवम् आमन्त्र्य शिखरं तृतीयायां यतव्रतः ॥
ततः स्नात्वा प्रभाते तु दद्यान् मन्त्रेण भक्तितः ।
यस्मात् त्वं सर्वभूतानाम् उपरिष्टाद् अवस्थितः ॥
[३९६] तस्माच् छिवः प्रीयतां मे तव दानात् सदानघः ।
अर्धभागं चतुर्थं वा पञ्चमं वा ततो गुरोः ॥
दत्वा शेषं तु बन्धूनां शिष्टानां स्वजनस्य च ।
अनुजीविस्वभृत्यानां दुर्गतानां च कामतः ॥
एवं दत्वा तु शिखरं गौर्या भुञ्जीत वाग्यतः ।
स मुक्तकेशः सम्प्राश्य क्षीरं घृतम् अथापि वा ॥
विधिनानेन यो दद्याद् गौर्याः शिखरम् उत्तमम् ।
स वसेद् भवने देव्याः कल्पकोटिशतव्रतम् ॥
पुण्यक्षयाद् इहागत्य जायते पृथिवीपतिः ।
अनेन विधिना देयं विधिहीनं न कारयेत् ॥
विधिहीनं कृतं सर्वं न दातुः फलदं भवेत् ॥
इति श्रीमहाराजाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वरसकल-
विद्याविशारदश्रीहेमाद्रिविरचिते चतुर्वर्गचिन्तामणौ
दानखण्डे पर्वतदानप्रकरणम्
[३९७]
सप्तमो ऽध्यायः
अथातिदानविधानम् उच्यते ।
अथातिदानानि सतां हिताय
हेमादिसूरिः प्रकटी करोति ।
दानेन येषां सकृद् अप्य् अनल्प-
कल्यान्तसाक्षी वरभोगयोगः ॥
कानि पुनस् तानीत्य् अपेक्षायां भविष्यत्पुराणे ।
त्रीण्य् आहुर् अतिदानानि गावः पृथ्वी सरस्वती ।
नरकाद् उद्धरन्त्य् एव जपवापनदोहनैः ॥ इति ।
अत्र यद्य् अपि धेनुशब्देन स्वरूपतो गौरेवाभिदीयते । तथापि धेनुशब्दसाधारण्यादि-प्रकरणे गुडधेन्वादीनाम् अपि सन्निवेशो युक्तः तासु च क्रमेण निरूप्यमाणासु दशमी स्यात् स्वऊपत इति स्वरूपधेनोर् अन्ते स्थितत्वाद् गुडधेन्वादय एव प्रथमतो निरूप्यन्ते । तद् उक्तं मत्स्यपुराणे ।
यास् तु पापविनाशिन्यः पठ्यन्ते दशधेनवः ।
तासां स्वरूपं वक्ष्यामि नामानि च नराधिप ॥
[३९८] प्रथमा गुडधेनुः स्यात् घृतधेनुस् तथापरा ।
तिलधेनुस् तृतीया तु चतुर्थी जलसञ्ज्ञिता ॥
क्षीरधेनुश् च विख्याता मधुधेनुस् तथापरा ।
सप्तमी शर्करा धेनुर् दधिधेनुर् अथाष्टमी ॥
रसधेनुर् नवमी स्याद् दशमी स्यात् स्वरूपतः ।
एतावत् तु विधानं च तम् आचक्ष्व जगत्पते ॥
किं रूपं केन मन्त्रेण दातव्या तद् इहोच्यताम् ॥
मत्स्य उवाच ।
गुडधेनुविधानस्य यद् रूपम् इह यत् फलम् ।
तद् इदानीं प्रवक्ष्यामि सर्वपापविनाशनम् ॥
कृष्णाजिनं चतुर्हस्तं प्राग्रीवं विन्यसेद् भुवि ।
गोमयेनोपलिप्तायां दर्भान् आस्तीर्य सर्वतः ॥
लघ्वेणकाजिनं तद्वद् वत्सस्य परिकल्पयेत् ।
प्राङ्मुखीं प्रापयेद् धेनुम् उदक्पादां सवत्सकाम् ॥
एणकाजिनं कृष्णाजिनम्, प्राङ्मुखीं प्राक्शिरसम् इत्य् अर्थः । तदुत्तरेण वत्सो ऽपि तथैव परिकल्पनीयः ।
उत्तमा गुडधेनुः स्यात् सदा भारम् अनुत्तमम् ।
वत्सं भारेण कुर्वीत भाराभ्यां मध्यमः स्मृतः ॥
अर्धभारेण वत्सः स्यात् गृहवित्तानुसारतः ।
[३९९] भाराः परिभाषायां व्याख्याताः । गृहवित्तानुसारत इति इयम् उत्तममध्यमादिकल्पना निजवित्तानुसारतः कर्तव्येत्य् अर्थः ।
धेनुवत्सौ घृतास्यौ तौ सितसूक्ष्माम्बरावृतौ ।
शुक्तिकर्णाव् इक्षुपादौ शुचिमुक्ताफलेक्षणौ ॥
सितसूत्रसिरालौ तौ सितकम्बलकम्बलौ ।
ताम्रकद्रूकपृष्ठौ तौ सितचामररोमकौ ॥
गद्रूकं (?) ककुत्प्रदेशः ।
विद्रुमभ्रूयुगोपेतौ नवनीतस्तनान्वितौ ।
क्षोमपुच्छौ कांस्यदोहाव् इन्द्रनीलकतारकौ ॥
सुवर्णशृङ्गाभरणौ राजतखुरसंयुतौ ।
नानाफलमयैर् दन्तैर् घ्राणगन्धकरण्डकौ ॥
अत्र च सारतः परिमाणतश् च फलविशेष इति । यथाशक्ति सुवर्णशृङ्गादित्वम् अवधेयम् ।
इत्य् एवं रचयित्वा तु धूपदीपैर् अथार्चयेत् ।
अथामन्त्रणमन्त्रः
ॐ या लक्ष्मीः सर्वभूतानां या च देवेष्व् अवस्थिता ।
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥
देहस्था या च रुद्राणी शङ्करस्य सदा प्रिया ।
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥
विष्णोर् वक्षसि या लक्ष्मीः स्वाहा या च विभावसोः ।
चन्द्रार्कशक्रशक्तिर् या धेनुरूपास् तु सा श्रिये ॥
[४००] चतुर्मुखस्य या लक्ष्मीर् या लक्ष्मीर् धनदस्य च ।
लक्ष्मीर् या लोकपालानां सा धेनुर् वरदास् तु मे ॥
स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां तथा ।
सर्वपापहरा धेनुः तस्माच् छन्तिं प्रयच्छ मे ॥
एवम् आमन्त्र्य तां धेनुं ब्राह्मणाय निवेदयेत् ॥
अत्रैष दानवाक्यप्रयोगः ।
ॐ अद्य अमुकस्मिन् कले अमुकसगोत्राय अमुकशर्मणे ब्राह्मणाय इमां गुडधेनुं यथोक्तसर्वोपकरणवतीं यथोक्तकॢप्तवत्ससहितां विष्णुदैवताम् अमुकसगोत्रो ऽहम् अमुकशर्मा अमुककामस् तुभ्यम् अहं सम्प्रददे मम अमुकसगोत्राय अमुकशर्मणे ब्राह्मणाय एतद् गुडधेनुदानप्रतिष्ठार्थं सुवर्णं दक्षिणा इदं तुभ्यम् अहं सम्प्रददे न ममेति दक्षिणा तु ज्ञेयो निष्ङशतं पार्थेत्यादिना परिभाषायाम् उक्ता ब्राह्मणस् तु पुच्छदेशे प्रैगृह्य स्वस्ति कुर्यात् ।
विधानम् एतद् धेनूनां सर्वासाम् इह पठ्यते ।
तथा एत देव विधानं स्यात् त एवोपस्कराः स्मृताः ।
मन्द्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि ॥
यथाश्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः ।
अशेषयज्ञफलदाः सर्वपापहराः शुभाः ॥
अयने विषुवे पुण्ये व्यतीपाते ऽथ वा पुनः ।
गुडधेन्वादयो देया उपरागादिपर्वसु ॥
अत्र घृतादिधेनुद्रव्यपरिमाणम् अपि गुडधेनूक्तम् एव,
विधानम् एतद् धेनूनां सर्वासाम् अपि पठ्यते ।
[४०१] इति सामान्येनातिदेशात् । कुम्भाः स्युर् द्रवधेनूनाम् इतरासां तु राशय इति तु भारचतुष्टयादिपरिमितस्य द्रवद्रव्यस्य कुम्भाधारतयावस्थापनप्रकारकथनम् । यत् तु पद्मपुराणादाव् एकेनैव घटेन घृतादिधेनुकथनं द्रोणमत्रेण च तिलधेनुकथनं तद् एतद् धेनुप्रकारात् प्रकारान्तराभिप्रायेणेति कल्पतरुः । दानविवेकेन तु पलसहस्रपरिमाणः कुम्भ इति निर्णीतम् । केचित् तु द्वादशपलाधिकानि पञ्चपलशतानि कुम्भम् आहुः । तच् च पलद्वयं तु प्रसृतिम् इत्यादिना परिभाषायां दर्शितम् ।
ततश् च यथाधिकारं व्यवस्थेति । वह्निपुराणे तु
प्रथमा गुडधेनुः स्यात्,
इत्यादिकम् अभिधाय,
सप्तमी लवणधेनुस् तु दधिधेनुर् अथाष्टमी ।
“रत्नैश् चान्ये महर्षयः” इति क्वचित् पाठः ।
कुम्भाः स्यू रत्नधेनूनां द्रोणेनैव हि राशयः ।
सर्वाः समफलाः प्रोक्ता मध्यमोत्तमकन्यसाः ॥
स्वशक्तितो नृपश्रेष्ठ दरिद्रस्य चतुर्गुणाम् ।
कन्यसा सेश्वराणां तु दरिद्राणां सदोत्तमा ॥
एतद् एव विधानं स्यात् सर्वशश् च यशस्करः ।
गुडधेन्वादयो देया उपरागादिपर्वसु ॥
कार्तिक्यां तु तथा माध्यां युगादिषु च पर्वसु ।
समुपोष्य नरो दद्यात् सप्तम्यां तु दिने रवेः ॥
दिनत्रयं तदाहारो याति विष्णोः परं पदम् ।
इह लोके ऽपि सौभाग्यम् आयुर् आरोग्यम् एव च ॥
वैष्णवं लोकम् आप्नोति मरणे स्मरणं हरेः ।
[४०२] दशार्बुदसहस्राणि दश चाष्टौ च धर्मवित् ।
न शोकदुःखम् आप्नोति दौर्गत्यं जायते न च ॥
इति गुडधेन्वादिदानविधिः ।
अथ तिलधेनुदानम् । विष्णुधर्मात् ।
वसिष्ठ उवाच ।
तिलधेनुं प्रवक्ष्यामि केशवप्रीणनाय च ।
दत्वा भवति यस्याश् च नरेन्द्र विधिर् उत्तमः ॥
यां दत्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः ।
अगारदाही गरदः सर्वपापयुतो ऽपि वा ॥
महापातकयुक्तश् च संयुक्तश् चोपपातकैः ।
मुच्यते ह्य् अखिलैः पापैर् विष्णुलोकं च गच्छति ॥
अनुलिप्ते महीपृष्ठे वस्त्राजिनकुशावृते ।
धेनुं तिलमयीं कृत्वा सर्वरत्नैर् अलङ्कृताम् ॥
धेनुं द्रोणेन कुर्वीत आढकेन तु वत्सकम् ।
सुवर्णशृङ्गीं रूप्यखुरीं गन्धघ्राणवतीं तथा ॥
कुर्याच् च शर्कराजिह्वां गुडास्याम् अविकम्बलाम् ।
इक्षुपादां ताम्रपृष्ठां शुचिमुक्ताफलेक्षणाम् ॥
प्रशस्तपत्रश्रवणां फलदन्तवतीं शुभाम् ।
स्रग्दामपुच्छां कुर्वीत नवनीतस्तनान्विताम् ॥
सितसूत्रशिरालां च सितसर्षपरोमिकाम् ।
फलैर् मनोहरैर् भिक्ष्यैर् मणिमुक्ताफलान्विताम् ॥
[४०३] सितवस्त्रयुगच्छन्नां घण्टाभरणभूषिताम् ।
ईदृक्संस्थानसम्पन्नां कृत्वा श्रद्धासमन्वितः ॥
कांस्योपदोहनां दत्वा केशवः प्रीयताम् इति ।
या लक्ष्मीः सर्वदेवानां या च देवेष्व् अवस्थिता ॥
धेनुरूपेण सा देवी मम पापं व्यपोहतु ।
देहस्था या च रुद्राणी शङ्करस्य सदा प्रिया ॥
धेनुरूपेण सा देवी मम पापं व्यपोहतु ।
विष्णोर् वक्षसि या लक्ष्मीः स्वाहा या च विभावसोः ॥
चन्द्रार्कशक्रशक्तिर् या धेनुरूपास् तु सा श्रिये ।
चतुर्मुखस्य या लक्ष्मीर् या लक्ष्मीर् धनदस्य च ॥
या लक्ष्मीर् लोकपालानां सा धेनुर् वरदास् तु मे ।
स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां तथा ॥
सर्वपापहरा धेनुर् अस्माच् छान्तिं प्रयच्छ मे ॥
वह्निपुराणे त्व् अयं मन्त्रः ।
तिलाश् च पितृदेवत्या निर्मिताश् चेह गोसवे ।
ब्रह्मणा तन्मयी धेनुर् दत्ता प्रीणातु केशवम् ॥ इति ।
ततः प्रदक्षिणं कृत्वा पूजयित्वा प्रणम्य च ।
सदक्षिणा मया तुभ्यं दत्तेत्य् उक्त्वा विसर्जयेत् ॥
अनेन विधिना दत्वा तिलधेनुं नराधिपः ।
सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति ॥
यश् च गृह्णाति विधिवद् दीयमानं प्रमोदयेत् ।
दीयमानां प्रपश्यन्ति ये च संहृष्टमानसाः ॥
[४०४] ते ऽप्य् अशेषाघनिर्मुक्ताः प्रयान्ति परमां गतिम् ।
प्रशान्ताय सुशीलाय वेदव्रतधराय च ॥
देनुं तिलमयीं दत्वा न शोचति कृताकृते ।
त्रिरात्रं यस् तिलाहारस् तिलधेनुप्रदो भवेत् ॥
एकाहम् अथ तान् अत्ति तद्गतेनान्तरात्मना ।
दानाद् विशुद्धपापस्य तस्य पुण्यकृतो नृपः ॥
चान्द्रायणाद् अप्य् अधिकं कथितं तिलभक्षणम् ॥
वायुपुराणे ।
होता उवाच ।
तिलधेनुं जलधेनुं रसधेनुं च पार्थिव ।
देहि शीघ्रं येन भवान् क्षुत्तृषावर्जितो दिवि ॥
रमते यावद् आदित्यस् तप्यते दिवि चन्द्रमाः ।
एवम् उक्तस् ततो राजा विधानं पृष्टवान् इदम् ॥
यथा भवेत् तिलधेनोस् तच् छृणुष्व नराधिप ।
चतुर्भिः सेतिकाभिस् तु प्रस्थ एकः प्रकीर्तितः ॥
ते षोडश् भवेद् धेनुश् चतुर्भिर् वत्सको भवेत् ।
इक्षुदण्डमयाः पादा दन्ताः पुष्पमयाः शुभाः ॥
नासा गन्धमयी तस्या जिह्वा गुडमयी तथा ।
पुच्छे स्रक्कल्पनीया स्यात् घण्टाभरणभूषिता ॥
ईदृशीं कल्पयित्वा तु स्वर्णशृङ्गीं प्रकल्पयेत् ।
कांस्यदोहां रूप्यखुरां पूर्वधेनुविधानतः ॥
तिलधेनुं ततो दत्वा द्वादश्यान् नियतः शुचिः ।
[४०५] आत्मानं तारयेद् दुर्गान् नरकात् कामभाग् भवेत् ॥
सेतिका कुडवः, स च द्वादशप्रसृतिपरिमितः । महाभारते ।
सुदक्षिणां काञ्चनचारुशृङ्गीं
कांस्योपदोहां द्रविणोत्तरीयाम् ।
धेनुं तिलानां ददतो द्विजाय
लोका वसूनां सुलभा भवन्ति ॥
तथा ।
धेन्वाः प्रमाणेन समप्रमाणं
धेनुं तिलानाम् अपि च प्रदाय ॥
तथा ।
पानीयवापीं च यमस्य लोके
न यातनां काचिद् उपैति मर्त्यः ॥
तथा ।
गोमत्या विद्यया धेनुं तिलानाम् अभिमन्त्र्य यः ।
रसरत्नमयीं दद्यान् नापि शोचेत् कृताकृते ॥
गोमतीविद्यापि तत्रैव । तद् यथा ।
गावो माम् उपतिष्ठन्तु हेमशृङ्ग्यः पयोमुचः ।
सुरभ्यः सौरभेयश् च सरितः सागरं यथा ॥
गावः पश्याम्य् अहं नित्यं गावः पश्यन्तु मां सदा ।
गावो ऽस्माकं वयं तासां यतो गावस् ततो वयम् ॥
एवं रात्रौ दिवा वापि समेषु विषमेषु च ।
महाभयेषु च नरः कीर्तयन् मुच्यते भयात् ॥ इति ।
आदित्यपुराणे ।
दरिद्रः खलु यो दद्यात् तिलधेनुं विधनतः ।
गोमयेनोपलिप्याथ तत्र धेनुं समालिखेत् ॥
[४०६] तिलैर् आकीर्य सर्वाङ्गं तिलधेनुं प्रकल्प्य च ।
खुरेषु चैव शृङ्गेषु देयं कनकम् एव च ॥
सचेलां दक्षिणां चैव ब्राह्मणाय निवेदयेत् ।
तिलधेनुं प्रयच्छेत् तु स्वर्गलोकं गच्छति ॥
पापैः सर्वैः प्रमुच्येत कर्मणा मनसा कृतैः ।
तिलसङ्ख्या च यावद् वै तावान् कोटिशतानि च ॥
मोदते तत्र वर्षाणां वसुलोके न संशयः ।
अथ मानुष्यमयानि कदाचित् कालपर्ययात् ।
धनधान्यसमृद्धे वै जायते महतां कुले ॥
इति तिलधेनुदानविधिः ।
पुलस्त्य उवाच ।
विधानं तिलधेनोर् यत् तच् छृणुष्व नराधिप ।
षोडशाढकमयी (?) धेनुश् चतुर्भिर् वत्सको भवेत् ॥
इक्षुदण्डमयाः पादाः दन्ताः पुष्पमयाः शुभाः ।
नासा गन्धमयी तस्या जिह्वा गुडमयी तथा ॥
पुच्छे स्रक् कल्पनीया स्याद् घण्ठाभरणभूषिता ।
ईदृशीः कल्पयित्वा तु स्वर्णशृङ्गीं प्रकल्पयेत् ॥
रौप्यखुरां कांस्यदोहां पूर्वधेनुविधानतः ।
एवंविधानां तां कृत्वा ब्राह्मणाय तु दापयेत् ॥
कृष्णाजिनस्थितां धेनुं वासोभिर् भूषितां शुभैः ।
सूत्रेण सूत्रितां कृत्वा पञ्चरत्नसमन्विताम् ॥
सर्वौषधिसमायुक्तां मन्त्रपूतां तु दापयेत् ।
अन्नं मे जायतां सद्यः पानं सर्वरसांस् तथा ॥
कामान् सम्पादयास्माकं तिलधेनोर् द्विजार्पिता ।
[४०७] गृह्णामि देवि तां भक्त्या कुटुम्बार्थे विशेषतः ॥
भरस्व कामैर् मां सर्वैस् तिलधेनो नमो ऽस्तु ते ।
एवं विधानतो दत्ता तिलधेनुर् नृपोत्तमः ॥
सर्वकामसमावाप्तिं कुरुते नात्र संशयः ।
जलधेनुस् तथैवेह कुम्भे धेनुः प्रकल्पिता ॥
दत्ता तु विधिना कामान् सद्यः सर्वान् प्रयच्छति ।
धेनुश् च तत्त्वतो दत्ता पौर्णमास्यां नराधिप ॥
पितॄंस् तारयते दुर्गान् नरकात् कामदा भवेत् ।
घृतधेनुस् तथा दत्ता विधानेन विचक्षणैः ॥
सर्वकामं समाप्नोति कुरुते कान्तिदा भवेत् ।
रसधेनुं तथा दत्वा कार्त्तिके मासि पार्थिव ॥
सर्वान् कामान् अवाप्नोति नित्यं सुगन्तिभाग् भवेत् ॥
इति पद्मपुराणोक्तः पञ्चधेनुदानविधिः ।
अगस्त्य उवाच ।
तिलधेनुं प्रवक्ष्यामि दुर्गा येन प्रसीदति ।
अपि दुष्कृतकर्मापि यां दत्वा निरृणो भवेत् ॥
प्रत्यक्षा येन देवी स्याद् राज्यपुत्रसुखावहा ।
भवति न चिरेणैव तां शृणुष्व नृपोत्तम ॥
देवदेवीम् अनुज्ञाप्य सुस्नातो विजितेन्द्रियः ।
पूजयेत् पुष्पगन्धाद्यैर् दीपधूपविचित्रकैः ।
हुत्वा हुताशने देवीं तथा द्रोणमयीं कुरु ॥
हुत्वा हुताशने देवीम् इति पूर्वोक्तहोमप्रकारेण देवीं प्रीणयित्वा ।
आढकेन (?) भवेद् वत्स सर्वरत्नविभूषिता ।
[४०८] हेमशृङ्गीं रूप्यखुरां गन्धघ्राणां सुशोभनाम् ॥
मुखं गुडमयं कार्यं जिह्वाम् अन्नमयीं तथा ।
कम्बला सूक्ष्मसूत्रं तु पादा इक्षुमयास् तथा ॥
ताम्रपृष्ठं भवेत् तस्या ईक्षणे मणिमौक्तिकैः ।
चारुपत्रमयौ कर्णौ दन्ताः फलमयास् तथा ॥
नवनीतस्तनीं कुर्यात् पुष्पमालामयीं कुरु ।
पुच्छं तु मणिमुक्ताभिः फलैस् तां च समर्चयेत् ॥
सुभगभ्रूयुगछन्नां चारुवस्त्रविभूषिताम् ।
ईदृक्संस्थानसम्पन्नां कृत्वा श्रद्धासमन्वितः ॥
कांस्योपदोहनां दद्याद् देवी मे प्रीयताम् इति ।
मन्त्राभिमन्त्रितां कृत्वा तद्भक्ताय निवेदयेत् ॥
यावन्ति तिलवस्त्राणां धातुमूलफलस्य च ।
विद्यन्ते च रजोबिन्दून् तावत् स्वर्गे वसेन् नरः ॥
पितॄन् विगतपापांश् च कृत्वाधस्ताद् गतान् अपि ।
प्राप्य देव्याः शुभान् लोकान् स्थापयेद् अविचारणात् ॥
तस्मिंस् तु रमते वत्स यावद् आचन्द्रतारकौ ।
तथा कालाद् इहायातो जायते पृथिवीपतिः ॥
इहैव तेजःसम्पन्नो बहुपुत्रः सुखान्वितः ।
पुनर् देव्यां रतो नित्यं पूजयेद् विधिनाचलम् ॥
प्राप्य योगशतैर् यत् तत् प्राप्नोति परमं पदम् ॥
इति देवीपुराणोक्तस् तिलधेनुदानविधिः ।
सनत्कुमार उवाच ।
अतः परं प्रवक्ष्यामि तिलधेनुविधिं क्रमात् ।
[४०९] पूर्वोक्तमण्डलं कुर्याच् छिवपूजां च पश्चिमे ॥
तस्याग्रे मध्यतो भूमौ पद्मम् आलिख्य शोभनम् ।
वस्त्रैर् आछादितं पद्मं तन्मध्ये विन्यसेद् बुधः ॥
पूर्वोक्तमण्डलम्, लिङ्गं तुलापुरुषदानविहितमण्डलं तस्य मण्डलस्य पश्चिमे प्राङ्मुखः शिवः पूज्यः शिवस्य पुरतो मण्डलस्य मध्यभागे शालिचूर्णादिना पद्मं विलिख्य वस्त्रैर् आच्छाद्य तत्र तिलपुष्पं न्यसेद् इत्य् अन्वयः ।
तिलपुष्पं तु कृत्वा तु हैमं पुष्पं विनिक्षिपेत् ।
त्रिंशन्निष्केण कर्तव्यं तदर्धार्धेन वा पुनः ॥
पञ्चनिष्केण कर्तव्यं तदर्धार्धेन वा पुनः ।
तिलपुष्पं द्रोणादिपरिमिततिलराशिमयम् । पद्मिनीं पुष्पं कृत्वा तत्र वस्त्राद्याच्छन्ने हेमपद्मं न्यसेत्,
तस्याग्रे कारयेद् विद्वान् पद्मं तिलमयं शुभम् ।
अन्नं द्रोणेन कर्तव्यम् अथ भारेण कारयेत् ॥
वस्त्रैर् आच्छाद्य तन्मध्ये स्वर्णपद्मं विनिक्षिपेद् इति कामिकोक्तेः ।
तम् आराध्य विधानेन गन्धपुष्पादिभिः क्रमात् ।
पद्मस्योत्तरदिग्भागे विप्रान् एकादश न्यसेत् ॥
तान् अभ्यर्च्य विधानेन गन्धपुष्पादिभिः क्रमात् ।
आच्छाद्य उत्तमं शृङ्गं विप्रेभ्यो दापयेत् क्रमात् ॥
उष्णीषं च प्रदातव्यं कुण्डलैश् च विभूषयेत् ।
हेमाङ्गुलीयकं दत्वा ब्राह्मणेभ्यो विधानतः ॥
एकादशैव वस्त्राणि तेषाम् अग्रे प्रकीर्य च ।
[४१०] तेषु पस्त्रेषु निक्षिप्य तिलखारीं पृथक् पृथक् ॥
कांस्यपात्रं शतपलं विभिद्यैकादशांशकम् ।
इक्षुदण्डाश् च दातव्यास् तत्र तत्र पृथक् पृथक् ॥
गोशृङ्गे च हिरण्ये च द्विनिष्केण तु कारयेत् ।
राजतेन तु कुर्वीत खुरं निष्कद्वयेन तु ॥
एवं पृथक् पृथक् दत्वा तत् तिलेषु विनिक्षिपेत् ।
षोडशद्रोणा खारी, कांस्यपात्रं दोहनम्, शतस्यैकादशांशकप्रत्येकं प्रत्येकं नवपलम् इत्य् अर्थः । तत् तिलेषु विनिक्षिपेद् इति ।
एवं हेमशृङ्गादीनि प्रत्येकं तिलखार्याम्, निक्षिप्य स्वर्णशृङ्गाद्युपेतास् तिलमध्ये धेनवः कल्पनीया इति रुद्रैकादशकमन्त्रैर् विप्रेभ्यो दापयेत् । तथा पद्मस्य पूर्वदिग्भागे धेनवः कल्पनीया इति रुद्रैकादशकमन्त्रैर् विप्रेभ्यो दापयेत् ।
तथा ।
पद्मस्य पूर्वदिग्भागे रवीन् द्वादश पूजितान् ।
एतेनैव तु मार्गेण तांश्च श्रद्धासमन्वितः ॥
द्वादशादित्यमन्त्रेण दापयेद् देवम् एव च ।
पूर्वदिक्षिणदिग्भागे द्विजान् षोडश संस्थितान् ।
मूर्तिविद्येशैर् मन्त्रैश् च दापयेत् पूर्ववत् पुनः ॥
अत्र पद्मोत्तर्दिग्भागे एकादश विप्रा रुद्ररूपाः पूज्याः तेभ्यः प्रागुक्तम् एकादशधास्थितं तिलखार्यादि देयम् । मन्त्रस् तु ये देवासो दिव्य् एकादशस्येत्यादिः । तथा पद्मस्य पूर्वदिग्भागे द्वादश विप्रान् आदित्यरूपान् अर्चयेत् । तेभ्यो ऽपि कांस्यपात्रं शतपलं द्वादशधा विभज्य पूर्ववत् सुवर्णशृङ्गादियुतां प्रत्येकं तिलखारीं दद्यात् । मन्त्रश् च यज्ञो देवानाम् इत्य् आदित्यलिङ्गकः । [४११] तथा पद्मस्य दक्षिणे भागे षोडश विप्रान् मूर्तिविघ्नेशरूपान् अर्चयेत् ।
मूर्तयो भवादिका अष्टौ । तद् यथा ।
भवः शर्वश् च रुद्रश् च पशुपत्युग्रसञ्ज्ञकौ ।
महादेवश् च भीमश् च ईशानश् चाष्टमः स्मृतः ॥
विघ्नेशनामानि तु गणेशदाने वक्ष्यन्ते । तेभ्यो ऽपि शतपलं कांश्यपात्रं षोडशधा विभज्य पूर्ववत् प्रत्येकं सुवर्णशृङ्गाद्युपेतां तिलखारीं दद्यात् । मन्त्रस् तु भवाय देवायेत्यादि । प्रणवादिनमोऽन्तेन नाम्ना कर्तव्यः ।
यजमानेन कर्तव्यं सर्वम् एतद् यथाक्रमम् ।
केवलं रुद्रदानं वा आदित्येभ्यो ऽथ वा पुनः ॥
मूर्त्यादीनां च वा देयं यथाविभवविस्तरम् ।
पद्मं विन्यस्य रजसा शेषं वा कारयेन् नृपः ॥
दक्षिणा च प्रदातव्या पञ्चनिष्केण भूषणम् ।
एतच् च पद्मद्वारादि विघ्नेशदानान्तं सर्वं रुद्राद्यन्यतमोद्देश्यकं वा दानं मध्यपद्मम् एकम् एव वा कार्यम् । सर्वत्र च मध्यपद्मं गुरवे देयम् । एवं कृत्वा विधानेन हेमाब्जं गुरवे ददेद् इत्य् वातुलोक्तेः । सर्वेष्व् अपि पक्षेषु भूषणं पञ्चनिष्कहेम्ना कार्यं शिवार्चा स्नपनं होमादि च प्राग्वत् । दक्षिणाचार्यर्त्विगादेः । तद् उक्तं कामिके ।
[४१२] पूर्ववन् मण्डपं कृत्वा कुर्याद् वै मण्डलान्वितम् ।
तद्वत् पूजां च होमं च स्नपनाद्यं तथैव च ॥
पञ्चाङ्गभूषणं पञ्चनिष्केणात्र प्रकल्पयेत् ।
दक्षिणां पूर्ववद् दद्याद् अनुक्तं पूर्ववद् भवेद् ॥ इति ।
इति लिङ्गपुराणोक्तः तिलधेनुदानविधिः ।
सप्तव्रीहिमयाः सप्त धेनवः परिकीर्तिताः ।
यथा तिलमयी धेनुस् तथैवैतास् तु कारयेत् ॥
यच् च व्रीहिमयी धेनुर् गोधूमा सतिला परा ।
माषमुद्गमयी चैव सप्रियङ्गुश् च सप्तमी ॥
उपस्करं तु सर्वासु तिलधेनुवद् ईरितम् ।
एतासाम् एव धेनूनाम् अङ्गानि तिलधेनुवत् ॥
सप्तव्रीहिमयाः सप्त यो ददातीह मानवः ।
स याति परमं स्थानं वायुभूतः खमूर्तिमान् ॥
ब्रह्महा च सुरापश् च तस्करो गुरुतल्पगः ।
धेनुदानेन पूतो ऽसौ याति विष्णोः परं पदम् ॥
इति विश्वामित्रप्रोक्तः सप्तव्रीहिधेनुदानविधिः ।
अथ घृतधेनुदानविधिः । वसिष्ठ उवाच ।
तिलाभावे तथा दद्याद् घृतधेनुं यतव्रतः ।
येन भूप विधानेन तद् इहैकमनाः शृणु ॥
वासुदेवं जगन्नाथं घृतक्षीराभिषेचनात् ।
सम्पूज्य पूर्ववत् पुष्पैर् गन्धपुष्पादिभिर् नरः ॥
अहोरात्रोषितो नाम्ना अभिष्टूय घृतार्चिषम् ।
घृतार्चिषे जगन्नाथाय देवाय नम इति मनुः ।
[४१३] गव्यस्य सर्पिषः कुम्भं पुष्पमालादिभूषितम् ।
कांस्यापिधानसंयुक्तं सितवस्त्रयुगेन च ॥
हिरण्यगर्भसहितं मणिविद्रुममैक्तिकैः ।
अत्र पलसहस्रपरिमाणः कुम्भः । द्वादशपलाधिकानि पञ्चपलशतानीति केचित् । तद् एतत् परिभाषायाम् उपवर्णितम् । कांस्यापिधनसहितं कांस्यपात्रापिहितम् । हिरण्यगर्भसहितं मध्यवर्तिना हिरण्येन सहितम् इत्य् अर्थः । मणिविद्रुममौक्तिकैः सहितम् इति शेषः ।
इक्षुयष्टिमयान् पादान् खुरान् रौप्यमयांस् तथा ।
सौवर्णे चाक्षिणी कुर्यात् शृङ्गे चागुरुकाष्ठजे ॥
अत्र सुवर्णादेर् अनुदितसङ्ख्यतया यथाशक्ति विधानम् ।
सप्तधान्यमये पार्श्वे पत्तोर्णेन च कम्बलम् ।
कुर्यात् तुरुष्ककर्पूरैर् घ्राणं फलमयांस् तु तान् ॥
तद्वच् छर्करया जिह्वां गुडक्षीरमयं मुखं ।
पत्तोर्णं धौतकौशयम्, तुरुष्कः सिह्लकः (?) ।
क्षौमसूत्रेण लाङ्गूलं रोमाणि सितसर्षपैः ।
ताम्रपात्रमयं पृष्ठं कुर्याच् छ्रद्धासमन्वितः ॥
ईदृक्स्वरूपां सङ्कल्प्य घृतधेनुं नराधिप ।
तद्वत् कल्पनया विद्वान् घृतवत्सं प्रकल्पयेत् ॥
तद्व्द् धेनुवत्, खुरशृङ्गादियुक्तम् इत्य् अर्थः । स च धेनोश् चतुर्थभागेन कर्तव्यः ।
तं च विप्रं महाभाग मनसैव घृतार्चिषम् ।
[४१४] कल्पयित्वा ततस् तस्मै प्रयतः प्रतिपादयेत् ॥
एतां ममोपकाराय गृह्णीष्व त्वं द्विजोत्तम ।
प्रीयतां मम देवेशो घृतार्चिः पुरुषोत्तमः ॥
इत्य् उदाहृत्य विप्राय दद्याद् धेनुं नराधिप ।
स्कन्दपुराणे । अयं मन्त्रः ।
घृतं गावः प्रसूयन्ते घृतं भूम्यां प्रतिष्ठितम् ।
घृतम् अग्निश् च देवाश् च घृतं मे सम्प्रदीयताम् ॥
विश्वामित्रः ।
घृतम् अग्निर् घृतं सोमस् तन्मयाः सर्वदेवताः ।
घृतधेनुप्रदानेन सर्वास् तुष्यन्ति देवताः ॥ इति ।
घृतरत्नं सुवर्णानां सम्यक् कल्पनया कृतम् ।
दत्वैकरात्रं स्थित्वा तु घृताहारो नराधिपः ॥
मुच्यते सर्वपापेभ्यस् तथा दानफलं शृणु ।
घृतक्षीरवहा नद्यो यत्र पायसकर्दमाः ॥
तेषु सर्वेषु लोकेषु सुपुण्येषूपजायते ।
पितुर् ऊर्ध्वं नयेत् सप्त पुरुषास् तस्य ये ऽप्य् अधः ॥
तांस् तेषु नृप लोकेषु स नयत्यस्तकल्मषः (?) ।
सकामानाम् इयं व्युष्टिः कथिता नृपसत्तम ॥
विष्णुलोकं नरा यान्ति निष्कामा घृतधेनुदाः ।
घृतम् अग्निर् घृतं सोमस् तमयाः सर्वदेवताः ॥
घृतं प्रयच्छता दत्ता भवन्त्य् अखिलदेवताः ।
सुवर्णम् अत्र दक्षिणा । अनुक्तदक्षिणेषु तस्य यथाशक्ति विहितत्वात् ।
इति विष्णुधर्मोक्तो घृतधेनुदानविधिः ।
[४१५] अगस्त्य उवाच ।
तिलाभावे प्रदातव्या सर्पिर् धेनुर् विजानता ।
स्नापयित्वा भवानीं च घृतक्षीरैर् यथाविधि ॥
पूजयेत् पुष्पमालाभिर् नैवेद्यैः सुमनोहरैः ।
आहरेत् सर्वद्रव्याणि उपकल्पेत तत्र तां ॥
गव्यस्य सर्पिषः कुम्भे पुष्पमालाविभूषिते ।
कांस्यपात्र्या तया वस्त्रैश् छादयीत विधाय ताम् ॥
हिरण्यगर्भसहितां मणिविद्रुममौक्तिकैः ।
पादान् इक्षुमयान् कुर्यात् कुर्याद् रौप्यमयान् शफान् ॥
हेमं चक्षुस् तथा शृङ्गे कृष्णागुरुमये शुभे ।
सप्तदान्यैश् च तत्पार्श्वे पत्तोर्णेन च कम्बलम् ॥
घ्राणं त्व् अगुरुकर्पूरैः स्तनाः फलमयाः शुभाः ।
मुखं च गुडक्षीरेण सितां जिह्वां प्रकल्पयेत् ॥
सिता शर्करा ।
पुच्छं क्षौममयं कार्यं रोमाणि सितसर्षपैः ।
ताम्रपृष्ठं विचित्रं तु ईदृग्रूपां मनोरमाम् ॥
विधिना घृतवत्सं च कुर्याल् लक्षणलक्षितम् ।
एतैः कृत्वा तथा नत्वा पूजयित्वा विधानतः ॥
तद्भक्ताय प्रदातव्या मङ्गला शास्त्रपारगे ।
इमां ममोपकाराय गृह्णीष्व मदनुग्रहात् ॥
प्रीयतां नन्दिनी देवी मङ्गला चर्चिका उमा ।
इत्य् उक्त्वा चार्चयेद् धेनुं कृत्वा नन्दां मनोऽनुगाम् ॥
अनेन विधिना देया सर्पिषो देनुर् उत्तमा ।
हिरण्यरत्नधेनुश् च प्रदेया विधिनामुना ॥
मुच्यते सर्वपापेभ्यः सर्वान् कामान् अवाप्नुयात् ।
[४१६] यत्र क्षीरवहा नद्यो यत्र सर्पिर्वहा ह्रदाः ॥
पायसाः कर्दमा यत्र तस्मिंल् लोके महीयते ।
तेषां स्वामित्वम् आप्नोति मुदा परमया युतः ॥
दश पूर्वापरांस् तार्य आत्मानं त्व् एकविंशकम् ।
भूयः पृथ्वीशतां याति इह लोके स मानवः ॥
सकामानाम् इयं व्युष्टिर् धेनोस् तावद् उदाहृता ।
देव्या लोकम् आप्नोति निष्कामो घृतधेनुदः ॥
इति देवीपुराणोक्तो घृतधेनुदानविधिः ।
गवाभावे तथा दद्याद् घृतधेनुं प्रयत्नतः ।
येन कार्या विधानेन तद् इहैकमनाः शृणु ॥
आदित्यं तु जगन्नाथं घृतक्षीराभिषेचनैः ।
सम्पूज्य पूर्ववत् पुष्पैर् गन्धपुष्पादिभिर् नरः ॥
अहोरात्रोषितो भूत्वा अभिप्लुत्य घृतार्चिषा ।
गव्यस्य सर्पिषः कुम्भं पुष्पमालाविभूषीतम् ॥
कांस्योपधानसंयुक्तं सितवस्त्रयुगेन च ।
हिरण्यगर्भसहितं मणिविद्रुममौक्तिकैः ॥
इक्षुयष्टिमयाः पादाः खुरा रौप्यमयास् तथा ।
सौवर्णे चाक्षिणी कुर्यात् शृङ्गे चागुरुकाष्ठजे ॥
सप्तधान्यमये पार्श्वे पत्तोर्णेन च कम्बलम् ।
कुर्यात् तुरुष्ककर्पूरं (?) घ्राणं फलमयान् स्तनान् ॥
तवच् छर्करया जिह्वां गुडक्षीरमयं मुखम् ।
क्षौमसूत्रेण लाङ्गूलं रोमाणि सितसर्षपैः ॥
ताम्रपात्रमयं पृष्ठं कुर्याच् छ्रद्धासमन्वितः ।
[४१७] ईदृक्सुरूपां सङ्कल्प्य घृतधेनुं नराधिपः ।
तद्वत् कल्पनया धेनोर् घृअवत्सं प्रकल्पयेत् ॥
तं च विप्रं महाभाग मनसैव घृतार्चिषम् ।
कल्पयित्वा ततस् तस्मै प्रयतः प्रतिपादयेत् ॥
इमां ममोपकाराय् गृह्णीष्व त्वं द्विजोत्तम ।
प्रीयतां मम देवेशो घृतार्चिर्मिहिरोत्तमः ॥
इत्य् उदाहृत्य विप्राय दद्याद् धेनुं नरोत्तम ।
दत्वैकरात्रं स्थित्वा च घृताहारो नराधिपः ॥
मुच्यते सर्वपापेभ्यस् तस्य दानफलं शृणु ।
घृतक्षीरवहा नद्यो यत्र पायसकर्दमाः ॥
तेषु लोकेषु नित्यं स सुपुण्येषु प्रमोदते ।
पितुर् ऊर्ध्वं नयेत् सप्तपुरुषांस् तस्य ये ऽप्य् अधः ॥
इति श्री-आदित्यपुर्णोक्तो घृतधेनुदानविधिः ॥
भविष्योत्तरे ।
घृतधेनुविधानेन नवनीतमयी शुभा ।
दातव्या नृपते धेनुर् न्यूनाधिक्यविवर्जिता ॥
मन्त्रः स एष निर्दिष्टो घृतधेनौ च यः स्मृतः ।
शृणु पार्थ महाबाहो प्रदानफलम् उत्तमम् ॥
घृतक्षीरवहा नद्यो यत्र पायसकर्दमाः ।
घृतधेनुप्रदो याति तत्र कामैः प्रपूजितः ॥
पितुर् ऊर्ध्वं नयेत् सप्त पुरुषांस् तस्य ये ऽप्य् अधः ।
तान् श्रेष्ठेष्व् इह लोकेषु स नयत्यस्तकल्मषान् ॥
[४१८] सकामानाम् इयं व्युष्टिः कथिता नृपसत्तम ।
निष्कल्मषं पदं यान्ति निष्कामास् तत्प्रदायिनः ॥
आह कात्यायनः ।
अलाभे यो गवां दद्यात् घृतधेनुं यथाविधि ।
दुर्गाणि तारितो धेन्वा देवनद्यां प्रमोदते ॥
घृतालाभे तु यो दद्यात् तिलधेनुं समाहितः ।
सर्वकामवहा नद्यस् तं सेवन्ते दिवि स्थितम् ॥
तिलालाभे तु यो दद्याज् जलधेनुं समाहितः ।
सर्वान् कामान् अवाप्नोति नात्र कार्या विचारणा ॥
घृतधेनुं नरो दद्यात् तिलधेनुं यथाक्रमम् ।
जलधेनुं यथा यो वै शश्वन् न व्यवते (?) दिवः ॥
जितेन्द्रियाय शान्ताय वैष्णवाय यथाविधि ।
धेनुं दत्वा घृतमयीं विष्णुसालोक्यम् अश्नुते ॥
पितरं चैव धर्मात्मा पितामहम् अथापि वा ।
घृतधेन्वा परित्राति सप्त सप्त च सप्त च ॥
इति घृतधेनुदानविधिः ।
अथ जलधेनुदानम् । वसिष्ठ उवाच ।
जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया ।
देवदेवो हृषीकेशः सर्वगः सर्वभावनः ॥
जलकुम्भं नरव्याघ्र सुवर्णरजतान्वितम् ।
रत्नगर्भम् अशेषैस् तु (?) ग्राम्यैर् धान्यैः समन्वितम् ॥
[४१९] सितवस्त्रयुगछन्नं दूर्वापल्लवशोभितम् ।
कुष्ठमांसीमुरोशीरवालकामलकैर् युतम् ॥
प्रियङ्गुपत्रसहितं सितवस्त्रोपवीतिनम् ।
स छत्रं स उपानत्कं दर्भविष्टरसंस्थितम् ॥
चतुर्भिः संवृतं भूप तिलपात्रैश् चतुर्दिशम् ।
स्थापितं दधिपात्रेण घृतक्षौद्रवता मुखे ॥
उपोषितः समभ्यर्च्य वासुदेवं जलेश्वरम् ।
पुष्पधूपोपहारैस् तु यथविभवम् आदृतः ॥
सङ्कल्प्य जलधेनुं च कुम्भं तम् अभिपूज्य च ।
पूजयेद् वत्सकं तद्वत् कुम्भं जलमयं बुधः ॥
एवं सम्पूज्य गोविन्दं जलधेनुं सवत्सकाम् ।
सितवस्त्रधरः शान्तो वीतरागो विमत्सरः ॥
दद्याद् द्विजाय राजेन्द्र प्रीत्यर्थं जलशायिनः ।
जलशायी जगद्योनिः प्रीयतां मम केशव ॥
इति चोच्चार्य भूनाथ विप्राय प्रतिपाद्यताम् ।
अपक्वान्नाशिना स्थेयम् अहोरात्रम् अतः परम् ॥
जलकुम्भम् इत्यादि, कुम्बो ऽत्र कलशः । सुवर्णरजतयोर् अनियतपरिमाणतया यथाशक्ति विधानं पञ्चरत्नानि धान्यानि च परिभाषायाम् उक्तानि । अथ यद्य् अपि सामान्येनोपदेशः तथापि तत्सामान्यादितरेषु तथा त्वम् इति न्यायाद् इतरधेनुवद् अविरुद्धधर्मानुष्ठानं वेदितव्यम् । ततश् च सुवर्णस्य शृङ्गाकृतित्वं [४२०] रजतस्य खुराकृतित्वम्, तिलपात्राणां ताम्रपात्रमयत्वम्, दधिपात्रस्य कांस्यपात्रमयत्वम्, चानुसन्धेयम् । तथा धान्यानि पार्श्वद्वये, कुष्ठादीनि घ्राणदेशे, प्रियङ्गुपत्रं श्रवणे, यज्ञोपवीतं शिरःस्थाने स्थापयेत् । वत्सो ऽपि चतुर्थांशेन धेनुवत् कार्यः ।
क्वचित् तु “पूजयेद् वत्सं तं तद्वत् कृतं घृतमयं बुधः” इति पाठात् घृतजलयोर् विकल्पो ऽवगम्यते, दानवाक्यं तु पूर्ववद् दक्षिणा चात्र यथाशक्ति सुवर्णम् इति ।
अनेन विधिना दत्वा जलधेनुं नराधिप ।
सर्वान् कामान् अवाप्नोति ये दिव्या ये च मानुषाः ॥
शरीरारोग्यम् आबाधाप्रशमः सार्वकामिकः ।
नृणां भवति दत्तायां जलधेन्वां न संशयः ॥
इति विष्णुधर्मोक्तो जलधेनुदानविधिः ।
भानुर् उवाच ।
जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया ।
देवदेवो मयूखेशः सर्वगः सर्वभावनः ॥
जलकुम्भं समानीयेत्यादि विष्णुधर्मतुल्यार्थम् । विशेषस् तु ।
ततः सम्पूज्य चादित्यं जलधेनुं सवत्सकाम् ।
दद्याद् विप्राय देवाग्रे प्रीत्यर्थं मिहिरस्य तु ।
आदित्यस्य जगद्योनिः प्रीयतां मिहिरः सदा ॥
इति चोच्चार्य तां गां तु विप्राय प्रतिपादयेत् ।
अनेन विधिना यस् तु जलधेनुं महामुने ॥
पूर्वाह्णदान(ं?) अवाप्नोति यांश् च ध्यायति मानवः ।
[४२१] सर्वपापविनिर्मुक्तः पितरं सपितामहम् ।
प्रपितामहं यथापूर्वपुरुषाणां चतुष्टयम् ॥
आत्मानं तनयं पौत्रं तदधस्ताच् चतुष्टयम् ।
तारयेत् स मुनीन्द्रेह जलधेनुप्रदो नरः ॥
यश् च गृह्णाति विधिवत् तस्याप्य् एवंविधाः कुले ।
चतुर्दश तथा चैव ददतश् चानुमोदतः ॥
दीयमानां प्रपश्यन्ति जलधेनुं च ये नराः ।
ते ऽप्य् अशेषाधनिर्मुक्ताः प्रयान्ति परमां गतिम् ॥
इति आदित्यपुराणोक्तो जलधेनुदानविधिः ।
अगस्त्य उवाव ।
तोयधेनुं शृणु वस्त्स यथा देवी प्रसीदति ।
कुम्भं तोयसुसम्पूर्णं रत्नवस्त्रयुगान्वितम् ।
समस्तबीजसंयुक्तं दूर्वापल्लवशोभितम् ॥
समस्तबीजानि सर्वधान्यानि ।
दूर्वाक्षतदधिशङ्खकुष्ठामलकचन्दनैः ।
माल्यछत्रसमायुक्तं तिलपात्रैश् च संयुतम् ॥
दधिक्षीरघृतं पत्रं विधानेनोपकल्पयेत् ।
वत्सकं कल्पयेत् तस्यास् तद्वत् तोयमयं बुधः ॥
देवीम् अभ्यर्च्य विधिवत् सोपवासो ऽथ नक्तवान् ।
देवीभक्ते प्रदद्याद् यः सर्वान् कामान् अवाप्नुयात् ॥
जयारिसूदनी देवी देवानां भयनाशिनी ।
वेदमातर्वरे दुर्गे सर्वगे सुभगे नमः ॥
[४२२] अनेन वत्समन्त्रेण नन्दानाम्नाभिमन्त्रयेत् ।
देवी मे प्रीयतां नित्यं यथोदितफला शिवा ॥
इति देवीपुराणोक्तो जलधेनुदानविधिः । स्कन्दपुराणे ।
जलधेनुं च यो दद्यात् तस्य दानफलं शृणु ।
प्रपां सत्रं तडागं वा कूपं वापि सुपुष्कलम् ॥
कृत्वा कुम्बान् सुवरांश् च गन्धमाल्यैर् अलङ्कृतान् ॥
प्रपा पाणीयशाला । सत्रशाला सभाजनसमाश्रया । सुवर्णान् शोभनवर्णान् ।
पुष्पैश् च विविधाकारैर् अभ्यर्च्य द्विजसत्तमान् ।
भक्ष्यभोज्यैः सुतृप्तानां तिलपात्राणि दापयेत् ।
दक्षिणां पुष्कलां दद्याद् एभ्यस् त्वा शंसयेत् ततः ॥
एभ्यः देवेभ्यः ।
आपः शिवास् तु सौम्याश् च तर्पयन्तु पितॄन् मम ।
कामदाः कामदानाय भवन्त्व् इत्य् च वै वदेत् ॥
एवं दत्वा तु तां धेनुं पुनः कृत्वा च वै तदा ।
आवाहयेत् प्रपां देवीं ब्रह्मलोकसमर्पिणीम् ॥
तिलपात्राणि दत्वा च तथा वस्त्रयुगं शुभम् ।
सुवर्णस्य च सान्निध्यं फलानि विविधानि च ॥
ततो दद्याच् छुचिः स्नातो ब्राह्मणेभ्यो यथाविधि ।
एवं विधानतो दत्वा ब्रह्मलोके महीयते ॥
[४२३] विश्वामित्रः ।
शरीरारोग्यम् आबाधाप्रशमः सार्वकालिकः ।
नृणां भवति दत्तायां जलधेन्वां न संशयः ॥
इति जलधेनुदानविधिः ।
अथ क्षीरधेनुदानम् ।
विनीताश्व उवाच ।
क्षीरधेनुं प्रवक्ष्यामि तान् निबोध नराधिप ।
अनुलिप्ते महीपृष्ठे गोमयेन नरोत्तम ॥
गोचर्ममात्रमानेन कुशान् आस्तीर्य सर्वतः ।
तत्रोपरि महाराज न्यसेत् कृष्णाजिनं बुधः ॥
तत्रोपरि कुण्डऌईकां गोमयेन कृताम् अपि ।
क्षीरकुम्भं ततः स्थाप्य चतुर्थांशेन वत्सकम् ॥
सुवर्णमुखशृङ्गाणि चन्दनागुरुकाणि च ।
प्रशस्तपत्रश्रवणां तिलपात्रोपरि न्यसेत् ॥
मुखं गुडमयं तस्या जिह्वा शर्करया तथा ।
फलप्रशस्तदन्तां च मुक्ताफलमयेक्षणाम् ॥
इक्षुपादां दर्भरोमां सितकम्बलकम्बलाम् ।
ताम्रपृष्ठां कांस्यदोहां पट्टसूत्रमयी तथा ॥
पुच्छं च नृपशार्दूल नवनीतमयस्तनीम् ।
स्वर्णशृङ्गां रौप्यखुरां पञ्चरत्नमयां भुवि ॥
चत्वारि तिलपात्राणि चतुर्दिक्ष्व् अपि स्थापयेत् ।
सप्तव्रीहिसमायुक्तां दिक्षु सर्वासु प्रक्षिपेत् ॥
[४२४] एवं लक्षणसंयुक्तां क्षीरधेनुं प्रकल्पयेत् ।
आच्छद्य वस्त्रयुग्मेन गन्धपुष्पैः समर्चयेत् ॥
धूपं दीपादिकं कृत्वा ब्राह्मणाय निवेदयेत् ।
आच्छाद्यालङ्कृतं कृत्वा मुद्रिकाकर्णमात्रकैः ॥
पादुकोपानहं छत्रं दत्वा दानं समर्पयेत् ।
अनेनैव तु मन्त्रेण क्षीरधेनुं प्रकल्पयेत् ॥
या लक्ष्मीः सर्वभूतानाम् इत्यादि नरपुङ्गव ।
आप्यायस्वेति मन्त्रेण क्षीरधेनुं प्रसादयेत् ॥
गृह्णामि त्वां देवि भक्त्या ग्राहको मन्त्रम् उच्चरेत् ।
एवं धेनुं प्रदायाथ क्षीराहारो दिनं चरेत् ॥
त्रिरात्रं तु पयोभक्षो ब्राह्मणो राजसत्तम ।
दीयमानां प्रपश्यन्ति ते यान्ति परमां गतिम् ॥
एतां हेमसहस्रेण शतेनाथ स्वशक्तितः ।
शतार्धम् अथ वाप्य् अर्धं तथैवार्धं यथेच्छया ॥
दत्वा धेनुं महाराज शृणु तस्यापि तत्फलम् ।
दिव्यं वर्षसहस्रं तु रुद्रलोके महीयते ॥
पितृपितामहैः सार्धं ब्रह्मणो भवनं व्रजेत् ।
दिव्यं विमानम् आरूढो दिव्यगन्धानुलेपनः ॥
क्रीडित्वा सुचिरं कालं विष्णुलोकं स गच्छति ।
द्वादशादित्यसङ्काशैर् विनानैर्वरमण्डितैः ॥
गीतवादित्रनिर्घोषैर् अप्सतोगणसेवितैः ।
तत्रोपविष्टो ऽसौ राजा विष्णुसायुज्यतां व्रजेत् ॥
य इदं शृणुयाद् राजन् पठेद् वा भक्तिभावितः ।
[४२५] सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥
इति स्कन्दपुराणोक्तः क्षीरधेनुदानविधिः ।
अथ दधिधेनुदानम् ।
विनीताश्व उवाच ।
दधिधेनोर् महाराज विधानं शृणु साम्प्रतम् ।
अनुलिप्ते महीभागे गोमयेन नराधिप ॥
गोचर्ममात्रं तु पुनः पुष्पप्रकरसंयुतम् ।
कुशैर् आस्तीर्य वसुधां कृष्णाजिनकृतास्तराम् ॥
दधिकुम्भं च संस्थाप्य सप्तधान्यस्य चोपरि ।
चतुर्थांशेन वत्सं तु सौवर्णमुखसंयुतम् ॥
प्रशस्तपत्रश्वणां मुक्ताफलमयेक्षणाम् ।
चन्दनागुरुशृङ्गां च मुखं वै गन्धमालिम् [-मालिनम्?] ॥
जिह्वा शर्करया राजन् घ्राणं श्रीखण्डकं तथा ।
फलमूलमया दन्ताः सितसूत्रस्य कम्बला ॥
ताम्रपृष्ठा दर्भरोमा पुच्छं सूत्रमयं तथा ।
स्वर्णशृङ्गीं रौप्यखुरां नवनीतमयस्तनीम् ॥
इक्षुपादां सुसंस्कृत्य सर्वाभरणभूषिताम् ।
आच्छाद्य वस्त्रयुग्मेन पुष्पगन्धैस् तु पूजिताम् ॥
ब्राह्मणाय कुलीनाय साधुवृत्ताय धीमते ।
समाधियमयुक्ताय तादृशाय प्रदापयेत् ॥
पुच्छदेशोपविष्टाय मुद्रिकाकर्णमात्रकैः ।
पादुकोपानहौ छत्रं दत्वा मन्त्रम् अनुस्मरेत् ॥
[४२६] दधिक्राव्नेति मन्त्रेण दधिधेनुं प्रदापयेत् ।
एवं दधिमयीं धेनुं दत्वा राजर्षिसत्तम ॥
एकाहारो दिनं तिष्ठेद् दध्ना च नृपनन्दन ।
यजमानो वसेद् राजन् त्रिदिनं च द्विजोत्तम ॥
दीयमानां प्रपश्यन्ति ते ऽपि यान्ति परां गतिम् ।
दशपूर्वान् दशपरान् आत्मानं चैकविंशकम् ॥
विष्णुलोकम् अवाप्नोति यावद् आहूतसम्प्लवम् ।
दाता च दापकश् चैव ते ऽपि यान्ति परां गतिम् ॥
यत्र मधुवहा नद्यो यत्र पायसकर्दमाः ।
मुनयो ऋषयः सिद्धास् तत्र गच्छन्ति धेनुदाः ॥
य इदं शृणुयाद् भक्त्या श्रावयेद् वाप् मानवः ।
सो ऽश्वमेधफलं प्राप्य विष्णुलोकं स गच्छति ॥
इति स्कन्दपुराणोक्तो दधिधेनुदानविधिः ।
अथ मधुधेनुदानम् ।
मधुदेनुं प्रवक्ष्यामि सर्वपापप्रनाशिनीम् ।
अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे ॥
धेनुं मधुमयीं कृत्वा सम्पूर्णघटपूरिताम् ।
तद्वच् चतुर्थभागेन वत्सकं परिकल्पयेत् ॥
सौवर्णं तु मुखं कृत्वा शृङ्गाण्य् अगुरुचन्दनम् ।
पृष्ठं ताम्रमयं तस्य पुच्छं सूत्रमयं तथा ॥
पादास् त्व् इक्षुमयाः कार्याः सितकम्बलकम्बलाम् ।
मुखं गुडमयं कृत्वा जिह्वा शर्करान्विता ॥
[४२७] मौक्तिकं नयने तस्या दन्ताः फलमयास् तथा ।
दर्भरोमधरा देवी रूप्यखुरविभूषिता ॥
अश्वत्थपत्रश्रवणां नवनीतमयस्तनीम् ।
सर्वलक्षणसंयुक्तां सप्तधान्यानि दापयेत् ॥
चत्वारि तिलपात्राणि चतुर्दिक्षु च विन्यसेत् ।
आच्छाद्य वस्त्रयुग्मेन घण्टाभरणभूषिताम् ॥
कांस्योपदोहनीं दत्वा गन्धपुष्पैस् तु पूजिताम् ।
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥
सङ्क्रान्ताव् उपरागे च सर्वकालम् अतन्द्रिता ।
द्रव्यब्राह्मणसम्पत्तिर् दृष्टमात्रेण दापयेत् ॥
ब्राह्मणाय द्रिद्राय श्रोत्रियाय कुटुम्बिने ।
आर्यावर्तसमुत्पन्ने वेदवेदाङ्गपारगे ॥
तादृशाय प्रदातव्या मधुधेनुर् नरोत्तमः ।
पुच्छदेशोपविष्ठाय गन्धधूपादिपूजिताम् ॥
आच्छाद्य वस्त्रयुग्मेन मुद्रिकां कर्णमात्रिकाम् ।
स्वशक्त्या दक्षिणां दत्वा वित्तशाठ्यविवर्जितः ॥
उदकपूर्वं तु कर्तव्यं पश्चाद् दानं समर्पयेत् ।
रसज्ञा सर्वदेवानां सर्वभूतहिते रता ॥
प्रीयन्तां पितृदेवाश् च मधुधेनो नमो ऽस्तु ते ।
एवम् उच्चार्य तां धेनुं ब्राह्मणाय निवेदयेत् ॥
अहं गृह्णामि त्वां देवि कुटुम्बार्थं (?) विशेषतः ।
कामं कामदुधे कामान् मधुदेनो नमो ऽस्तु ते ॥
मधुवातेति मन्त्रेण प्रदाप्या यतचेतसा ।
[४२८] दत्वा धेनुं महाराज छत्रकोपानहौ तथा ॥
एवं यः कुरुते भक्त्या मधुधेनुं नराधिप ।
दत्वा दानं पायसेन मधुना च दिनं नयेत् ॥
ब्राह्मणो ऽपि त्रिरातं तु मधुपायससंयुतः ।
एवं कृते तु यत् पुण्यं तं निबोध नराधिप ॥
यत्र मधुवहा नद्या यत्र पायसकर्दमाः ।
ऋषयो मुनयः सिद्धास् तत्र गच्छन्ति धेनुदाः ॥
तत्र भोगान् वरान् भुङ्क्ते ब्रह्मलोके स तिष्ठति ।
क्रीडित्वा सुचिरं कालं पुनर् मत्यम् (?) उपागतः ।
स भुक्त्वा विपुलान् भोगान् विष्णुलोकं च गच्छति ॥
दशपूर्वान् दश परान् आत्मानं चैकविंशकम् ।
नयेत विष्णुसायुज्यं मधुधेनुप्रसादतः ॥
य इदं शृणुयाद् भक्त्या श्रावयेद् वापि मानवः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥
इति स्कन्दपुराणोक्तो मधुधेनुदानविधिः ।
अथ रसधेनुदानम् ।
विनीताश्व उवाच ।
रसधेनुं महाराज कथयामि समासतः ।
अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे ॥
रसस्य तु घटं राजन् सम्पूर्णम् ऐक्षवस्य च ।
तद्वत् सङ्कल्पयेत् प्राज्ञश् चतुर्थांशेन वत्सकम् ॥
इक्षुदण्डमयाः पादाः राजतखुरसंयुता ।
सुवर्णशृङ्गाभरणा वस्त्रपुच्छा घृतस्तनी ॥
[४२९] पुष्पकम्बलसंयुक्ता शर्करामुखजिह्विका ।
दन्ताः फलमयास् तस्याः पृष्ठं ताम्रमयं शुभम् ॥
पुष्परोमा तु राजेन्द्र मुक्ताफलकृतेक्षणाम् ।
सप्तव्रीहिसमायुक्तां सर्वगन्धविभूषिताम् ।
चत्वारि तिलपात्राणि चतुर्दिक्षु निवेशयेत् ॥
ब्राह्मणे वेदविदुषे श्रोत्रियायाहिताग्नये ।
पुराणज्ञे विशेषेण साधुवृत्ताय धीमते ॥
तादृशाय प्रदातव्या रसधेनुः कुटुम्बिने ।
दाता स्वर्गम् अवाप्नोति सर्वपापविवर्जितः ॥
दाता वा ग्राहको वापि एकाहं रसभोजनः ।
सोमपानं भवेत् तस्य सर्व एव फलं भवेत् ॥
दीयमानां तु पश्यन्ति ते ऽपि यान्ति परां गतिम् ।
धेनुं च पूजयित्वाग्रे गन्धधूपस्रगादिभिः ॥
पूर्वोक्ता ये च मन्त्राश् च तान् एव प्रयतः स्मरेत् ।
एवम् उच्चारयित्वा तु दीयते वै द्विजोत्तमे ॥
दश पूर्वान् परांश् चैव आत्मानं चैकविंशकम् ।
नयेत् परमं स्थानं यस्मान् नावर्तते पुनः ॥
एषां ते कथिता राजन् रसधेनुर् अनुत्तमा ।
ददस्व च महाराज पुण्यश्लोकान् (?) अवाप्नुहि ॥
य इदं पठते नित्यं शृणुयाद् वापि भक्तितः ।
सर्वपापविनिर्मुक्तो विष्णुसायुजतां व्रजेत् ॥
इति स्कन्दपुराणोक्तो रसधेनुदानविधिः ।
**[४३०] **
अथ शर्कराधेनुदानम् ।
विनीताश्व उवाच ।
तद्वच् च शर्कराधेनुं राजन् कुर्यात् यथार्थतः ।
अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे ॥
धेनुः शर्करया राजन् सदा भारचतुष्टयम् ।
उत्तमा कथ्यते सद्भिश् चतुर्थांशेन वत्सकः ॥
तदर्धं मध्यमा प्रोक्ता चतुर्थांशेन कन्यसा ।
तद्वद् वत्सं प्रकुर्वीत चतुर्थांशेन मानवः ॥
अथ वा धेनुतः कुर्याद् अष्टांशेन तु वत्सकम् ।
स्वशक्त्या कारयेद् धेनुं यथात्मानं न पीडयेत् ॥
सर्वबीजानि संस्थाप्य चतुर्दिक्षु समन्ततः ।
सौवर्णमुखशृङ्गाणि मौक्तिकैर् नयनानि च ॥
गुडेन च मुखं कार्यं जिह्वा पिष्टमयी तथा ।
कम्बलं पट्टसूत्रेण घण्टाभरणभूषिता ।
इक्षुपादा रौप्यखुरा नवनीतमयस्तना ॥
प्रशस्तपत्रश्रवणा सितचामरभूषिता ।
पञ्चरत्नसमायुक्ता दर्भरोमसमन्विता ॥
कांस्योपदोहना सम्यक् गन्धपुष्पैः समन्विता ।
ईदृक्विधानसंयुक्ता वस्त्रैर् आच्छादितोपरि ॥
गन्धपुष्पैर् अलङ्कृत्य ब्राह्मणाय निवेदयेत् ।
श्रोत्रियाय दरिद्राय साधुवृत्ताय धीमते ॥
वेदवेदाङ्गविदुषे विशेषेणाग्निहोत्रिणे ।
[४३१] अनुसूयवे प्रदातव्या न मत्सरयुताय वै ॥
अयने विषुवे पुण्ये व्यतिपाते च षण्मुख ।
येषु पुण्येषु कालेषु यद्वच्छावापि (?) दापयेत् ॥
पूर्वामुखस्थितो दाता अथ वा तु उदङ्मुखः ।
धेनुं पूर्वमुखीं कृत्वा वत्सम् उत्तरतो न्यसेत् ॥
दानकाले तु ये मन्त्रास् तान् पठित्वा समर्चयेत् ।
आच्छाद्य चैव तं विप्रं मुद्रिकाकर्णवेष्टकैः ॥
स्वशक्त्या दक्षिणां दद्याद् गन्धपुष्पं सचन्दनम् ।
धेनुं समर्पयेत् तस्य मुखं च न विलोकयेत् ॥
एकाहं शर्कराहारो ब्राह्मणस् त्रिदिनं वसेत् ।
सर्वपापहरा धेनुः सर्वकामप्रदायिनी ॥
सर्वकामसमृद्धस् तु जायते नात्र संशयः ।
दीयमानां प्रपश्यन्ति ते ऽपि यान्ति परां गतिम् ॥
य इदं शृणुयाद् भक्त्या पठ्यते वापि मानवः ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥
इति स्कन्दपुराणोक्तः शर्कराधेनुदानविधिः ।
अथ कार्पासधेनुदानविधिः ।
वराह उवाच ।
अतः परं प्रवक्ष्यामि धेनुं कार्पासकीं शुभाम् ।
विश्वस्य गुह्यगुप्त्यर्थं ब्रह्मणा वांशुकं धृतम् ॥
[४३२] कार्पासमूलं तच् चापि तेनासाव् उत्तमः स्मृतः ।
सा च कार्पासभारेण धेनुः श्रेष्ठा प्रकीर्तिता ॥
मध्यमा च तदर्धेन तस्याप्य् अर्धेन कन्यसा ।
पूर्ववद् वस्त्रधान्यं च हिरण्यं च तथैव च ॥
वत्सकं तु चतुर्थांशे दानमन्त्रो विधीयते ।
कुर्वीत पूर्ववद् वत्सं वस्त्रधान्याद्युपस्करम् ॥
पूर्ववद् इति वराहपुराणोक्ततिलधेनुवद् इत्य् अर्थः ।
हेमकुन्देन्द्रदेवेश (?) क्षीरार्णवसमुद्भवे ।
सोमप्रिये सुधेन्वाख्ये सौरभेयि नमो ऽस्तु ते ॥
दत्तेयम् इन्द्रनाथाय शशाङ्कायामृताय च ।
अत्रिनेत्रप्रजाताय (?) सोमराजाय वै नमः ॥
दानमन्त्रः ।
यस् त्व् एवं परया भक्त्या ब्राह्मणाय प्रयच्छति ।
स याति सोमलोकं तु सोमेन सह मोदते ॥
न रोगी न ज्वरी कुष्ठी कुले तस्य प्रजायते ।
पुत्रदारसमोपेतो जीवेच् च शरदां शतम् ॥
इति वराहपुराणोक्तः कार्पासधेनुदानविधिः ।
अथ लवणधेनुदानम् ।
युधिष्ठिर उवाच ।
कृष्ण कृष्ण महाबाहो सर्वशास्त्रविशारद ।
कथयस्व हि दानानाम् उत्तमं यत् प्रकीर्तितम् ॥
[४३३] येन दत्तेन दत्तानि सर्वाण्य् अपि भवन्त्य् उत ।
सर्वकामसमृद्धश् च सर्वपापक्षयो भवेत् ।
प्रायश्चित्तविशुद्धश् च तन् मे कथय सुव्रत ॥
श्रीकृष्ण उवाच ।
शृणु राजन् प्रवक्ष्यामि लवणस्येह कल्पिताम् ।
गोमयेनोपलिप्ते तु दर्भसंस्तरसंस्थिताम् ॥
आविकं चर्म विन्यस्य पूर्वाशाभिमुखां स्थिताम् ।
वस्त्रेणाच्छादितां कृत्वा धेनुं कुर्वीत मध्यगाम् ॥
आढकेनैव कुर्वीत बहुवित्तो ऽल्पवान् अपि ।
स्वर्णशृङ्गीं रौप्यखुराम् इक्षुपादां फलस्तनीम् ॥
कार्या शर्करया जिह्वा गन्धघ्राणवती तथा ।
समुदोदरजां शुक्तिं कर्णौ च परिवेष्टयेत् ॥
शृङ्गे चन्दनकाष्ठाभ्यां मौक्तिके चाक्षिणी शुभे ।
कपोलौ सक्तुपिण्डाभ्यां यवान् आस्ये प्रदापयेत् ॥
कम्बलं पट्टसूत्रेण ग्रीवायां छत्रिका तथा ।
पृष्ठे वै ताम्रपात्रं तु अपाने गुडपिण्डकाम् ॥
लाङ्गूले कम्बलं दद्याद् रसान् क्षीरप्रदेशतः ।
योनिप्रदेशे च मधु सर्वतस् तु फलान्विताम् ॥
एवं सम्यक् परिस्थाप्य लवणस्य कृतां च गाम् ।
स्थापयेद् वत्सकं चापि चतुर्भागेन मानवः ॥
एवं धेनुं समभ्यर्च्य माल्यवस्त्रविभूषणैः ।
[४३४] स्नात्वा देवार्चनं कुर्याद् ब्राह्मणान् अभिपूज्य च ॥
कृत्वा प्रदक्षिणं गां तु पुत्रभार्यासमन्वितः ।
ब्राह्मणाय सुशीलाय वृत्तयुक्ताय वै नृप ॥
दद्यात् पर्वसु सर्वेषु मन्त्रेणानेन मानवः ।
लवणे वै रसाः सर्वे लवणे सर्वदेवताः ॥
सर्वदेवीमयि देवि लवणाख्ये नमो ऽस्तु ते ।
एवम् उच्चार्य मन्त्रान्ते विप्राय प्रतिपादयेत् ॥
सम्यक् प्रदक्षिणं कृत्वा दक्षिणासहितं नृप ।
प्रदक्षिणा मही तेन कृता भवति भारत ॥
सर्वदानानि दत्तानि सर्वर्तुकफलानि च ।
सर्वे रसाः सर्वमन्त्राः सर्वम् एतच् चराचरम् ॥
सौभाग्यं च परां वृद्धिं शरीरारोग्यसम्पदः ।
नृणां भवति दत्वा तु रसधेनुं न संशयः ॥
स्वर्गे च नियतं वासो यावद् आहूतसम्प्लवम् ।
पत्तोर्णकम्बलगलां लवणोदकेन
कृत्वा फलस्तनवतीम् अविचर्म पृष्ठे ।
दत्वा द्विजाय विधिवद् रसधेनुमतां
लोकं गवां सकलसौख्ययुतं प्रयाति ॥
इति भविष्यत्पुराणोक्तो लवणधेनुदानविधिः ।
अथ कर्पूरादिधेनुदानम् ।
कर्पूरधेनुं वक्ष्यामि सर्वगन्धमयीं शुभाम् ।
यान् दत्वा सर्वगन्धास् तु प्रदत्ताः स्युर् महीपते ॥
[४३५] चन्द्रग्रहे वाथ भानोः कार्तिक्यां विषुवत्य् अथ ।
द्वादश्याम् अयने पुण्ये दद्यात् कर्पूरगां विभो ॥
ब्राह्मणाय दरिद्राय शीलवृत्तपराय च ।
भूमाव् आस्तीर्य नेत्रं तु शङ्खशुक्लाम्बरं शुभम् ॥
कार्या चतुष्पला धेनुः पलमात्रस् तु वत्सकः ।
अथ वा पलिका धेनुर् वत्सः कार्यस् तु कार्षिकः ॥
सुवर्णशृङ्गा रौप्यखुरा पुच्छं कुङ्कुमसम्भवम् ।
मृगनाभिमया दन्ता ग्रन्थिपर्णमयं मुखम् ॥
अक्षिणी सिह्वकमये (?) कर्णौ चागुरुकाष्ठजौ ।
देवदारुमयं पुच्छं गुदं गुग्गुलसम्भवम् ॥
कुष्ठं कपोलकं प्रोक्तम् उशीरं चर्म चैव तु ।
उदरे चन्दनं दद्यात् कुराग्रे नखम् एव च ॥
एवं सङ्कल्प्य कर्पूरां धेनुं वस्त्रेण पूजिताम् ।
विप्रं सम्पूज्य कर्पूरां वस्त्रयुग्मेन चैव हि ॥
कर्पूरधेनुं विप्रेश गृहाण मां सुपूजिताम् ।
पुष्पगन्धस्थिता सा मे कमला प्रीयताम् इति ॥
अनेनैव तु मन्त्रेण दानं विप्राय दापयेत् ।
दत्वा देनुम् इमां राजन् गन्धर्वाणां समो भवेत् ॥
कल्पत्रयं वसेत् स्वर्गे राजराजो भवेद् इह ।
सर्वान् कामान् अवाप्नोति गौरीलोके महीयते ॥
तथा ।
सर्वकामप्रदा धेनुः शर्करायाः प्रकीर्तिता॥
सर्वपापहरा चैव तस्माद् दद्यात् समाहितः ॥
[४३६] गुडधेनुवद् अत्रापि मन्त्रावाहनपूजनम् ।
दत्वा फलमयीं धेनुं कामानां फलभाग् भवेत् ॥
तथा कास्तूरिकां धेनुं श्रद्धावित्तसमन्वितः ।
पात्रे दद्यान् नृपश्रेष्ठ मन्त्रम् एतम् उदीरयेत् ॥
इति विष्णुधर्मोक्तः कर्पूरादिधेनुदानविधिः ।
अथ सुवर्णधेनुदानम् ।
श्रीभगवान् उवाच ।
कथयामि रहस्यं ते दानधर्मोपबृंहितम् ।
सुवर्णधेनुसम्बन्धि सर्वपापोपशान्तिदम् ॥
यद् ब्रह्मणापि राजेन्द्र विहितं विष्णुना पुरा ।
तत् ते विस्तरतो राजन् कथयाम्य् अनुपूर्वशः ॥
सुवर्णस्य सुवर्णस्य शुद्धस्य परिकल्पिताम् ।
एकः सुवर्णशब्दः हिरण्यवचनः, परः परिमाणवचनः ।
रौप्यवत्सकसंयुक्तां मुक्ताफलविभूषिताम् ।
प्रवालशृङ्गोपयुतां पद्मरागाक्षिशालिनीम् ॥
घृतपात्रस्तनवतीं कर्पूरागुरुनासिकाम् ।
शर्करारसनोपेतां मृष्टान्नमुखसम्मिताम् ॥
शङ्खशृङ्गान्तरां शुक्तिललाटस्थानकल्पिताम् ।
फलदन्तां वस्त्रयुग्मपार्श्वां क्षौमसुकम्बलाम् ॥
इक्षुपादां नालिकेरश्रवणां गुडजानुकाम् ।
पञ्चगव्यापानवतीं कांस्यपृष्ठसमन्विताम् ॥
सुपट्टसूत्रलाङ्गूलां सप्तधान्यसमन्विताम् ।
[४३७] फलपुष्पसमोपेतां छत्रोपान्त्समन्विताम् ।
सुवर्णधेनुं विप्राय प्रतिपाद्येदृशीं नरः ॥
हिरण्यरेताः पुरुषः पुराणः कृष्णपिङ्गलः ।
तप्तहेमछविः स्रष्टा विश्वात्मा प्रीयताम् इति ॥
अनेनैव तु मन्त्रेण धेनोर् दानं प्रकीर्तितम् ।
अश्वमेधसहस्रस्य फलम् आप्नोत्य् असंशयम् ॥
कुलानां तु सहस्रं तु स्वर्गं नयति तद् बुधः ।
किम् अन्यैर् बहुभिर् दानैर् पर्याप्तं हेमधेनुना ॥
सुवर्णधेनुं दत्वा हि कृतकृत्यो भवेन् नरः ।
हिरण्यगर्भो भगवान् प्रीयताम् इति कीर्तयेत् ॥
उपवासविशुद्धात्मा दद्यात् सोमरविग्रहे ।
रक्षःपिशाचास् तद्गेहं न पश्यन्ति नराधिप ॥
कार्त्तिक्यं प्रयतो दद्याद् द्वादश्यां कार्त्तिकस्य तु ।
दत्वा तत्पदम् आप्नोति यत्र गत्वा न शोचति ॥
इति विष्णुधर्मोक्तः सुवर्णधेनुदानविधिः ।
अगस्त्य उवाच ।
मनुना यं विधिं कृत्वा प्राप्ता लोका अनुत्तमाः ।
ब्रवीमि तद् अहं हेमधेनुदानविधिं नृप ॥
शुभां हेममयीं गां च कारयेद् राजतान् खुरान् ।
शुभां शुद्धसुवर्णैस् तु घटितान् । अत्र सुवर्णपरिमाणचतुर्थांशवत्सनिर्माणादिर् अनुक्ताङ्गोपसंहारः, पूर्वोक्तसुवर्णधेनोर् अवगन्तव्यः ।
तां वस्त्रप्रावृतां कृत्वा प्राप्नुयाल् लोकम् उत्तमम् ॥
[४३८] विचित्रचित्रपुष्पैश् च गन्धधूपविलेपनैः ।
तथा क्षमापयेद् देवीं तां गां तत्र समर्पयेत् ॥
देवि त्वदीयाद् आदेशात् तव भक्तेषु दीयते ।
पुनस् तां विप्रराजाय दापयेच् छिवभाविने ॥
शिवभाविने शिवध्यायिने ।
अक्षय्यफलकामेन प्रायश्चित्तविशुद्धये ।
मनुना चीर्णम् एतद् वै सम्पतेयुर् नराः किल ॥
सप्तपूर्वापरान् वंशान् रुद्रकिल्बिषसंस्थितान् ।
उद्वत्य वानयेद् वत्स देवीलोकम् अनुत्तमम् ॥
इति देवीपुराणोक्तो हेमधेनुदानविधिः । वह्निपुराणात् ।
सुवर्णधेनुश् चाप्य् अत्र सुवर्णाश् च चतुर्दश ।
सुनिर्णिक्तसुवर्णैश् च सप्तभिर् मध्यमा स्मृता ॥
चतुर्भिः कन्यसा प्रोक्ता चतुर्थांशेन वत्सकः ।
गुडधेनुविधानेन दत्ता सर्वफलप्रदा ॥
विश्वामित्रः ।
हिरण्यरेताः पुरुषः पुराणः कृष्णपिङ्गलः ।
रक्तहेमछविः स्रष्टा विश्वात्मा प्रीयताम् इति ॥
हिरण्यगर्भो भगवान् प्रीयताम् इति कीर्तयेत् ।
सुवर्णधेनुं दत्वा च कृतकृत्यो भवेन् नरः ॥
इति सुवर्णधेनुदानविधिः ।
अथाह वृद्धगौतमः ।
धेनुं स्वर्णमयीं कुर्यात् पूर्वेण विधिना ततः ।
[४३९] सुवर्णशृङ्गीं रत्नाढ्यां तथा रौप्यखुराम् अपि ॥
तथा च तर्णकं कुर्याद् अष्टभागेन पूर्ववत् ।
ब्राःमणं श्रुतसम्पन्नं वैष्णवं च कुतुम्बिनम् ॥
आचारवन्तं धर्मिष्ठं द्विजशुश्रूषणोद्यतम् ।
गृहम् आहूय विधिवत् पूजयेत् पूर्ववच् च तम् ॥
यथा विभवतो भक्त्या हेमः पूर्ववद् एव हि ।
मन्त्रैस् तु वैष्णवैः सम्यक् पालाशसमिधस् तथा ॥
होमान्ते तां प्रदद्याच् च मन्त्रेणानेन मेहवान् ।
चक्रं सुदर्शनं यस्य राजतेजस् तथैव् हि ॥
प्रेमेहं हरतु क्षिप्रं (?) विष्णुर् गरुडवाहनः ।
दानमन्त्रः ।
दानं प्रमेहरोगघ्नम् एतत् कार्यं मनीषिभिः ।
कृतेनानेन शाम्यन्ति प्रेमेहा दारुणा अपि ॥
अत्र पूर्ववद् इति राजतवृषभदानवद् इति ज्ञेयम् ।
इति प्रमेहघ्नसुवर्णधेनुदानविधिः ।
अथाह बौधायनः ।
सौवर्णीं गां प्रकुर्वीत पलेनार्धेन वा पुनः ।
वित्तशाठ्यं न कुर्वीत कुर्वन् नैवं फलं भवेत् ॥
रत्नशृङ्गीं रौप्यखुरां नानावस्त्रैर् अलङ्कृताम् ।
ग्रहाणाम् उपरि स्थाप्य नव धान्यानि विन्यसेत् ॥
होमस् तु पूर्ववत् कार्यो गोविन्दप्रीतये हितः ।
एवं विष्णुप्रतद्विष्णुर् विष्णोर् नुकम् इति क्रमात् ॥
समिदाज्यचरुं हुत्वा पूर्णाहुत्यन्त एव हि ।
[४४०] ततस् तां तु शुची रोगी ब्राह्मणं वेदपारगम् ॥
श्रुतवृत्तोपसम्पन्नं कुलीनं धर्मवादिनम् ।
वृद्धं ज्ञानोपसम्पन्नम् अनुद्वेगकरं नृणाम् ॥
भक्त्या स्वयं समानीय पूजयेत् प्रीतिपूर्वकम् ।
अङ्गुलीयकपात्राद्यैर् उपानच्छत्रकैर् अपि ।
मन्त्रेणानेन तां पात्रे दद्याद् रोगी यथात्मवान् ॥
गोविन्दं मनसा ध्यायन् गवां मध्ये स्थितं शुशुम् ।
बर्हापीडकसंयुक्तं वेणुवादनतत्परम् ॥
गोपीजनैः परिवृतं वन्यपुष्पावतंसकम् ।
गोविन्द गोपीजनवल्लभेश
कंसासुरघ्न त्रिदशेन्द्रवद्य ।
गोदानतृप्तः कुरु मे दयालो
अर्शोविनाशं क्षयितारिवर्गः ॥
दानमन्त्रः ।
दानेनानेन नियतमर्शसां जायते क्षयः ।
तस्मात् कुर्यात् प्रयत्नेन सुखार्थं ह्य् एतद् अर्शसो ॥
इत्य् अर्शोघसुवर्णधेनुदानविधिः ।
अथ वायुपुराणे ।
चतुर्विधा च या वन्ध्या भवेद् वत्सवियोजनात् ।
वक्ष्ये तस्याः प्रतीकारं तत्स्वरूपं निबोध मे ॥
हिरण्येन यथा शक्त्या सवत्सां कारये दृढाम् ।
धेनुं पलेन वत्सं च पादेन गुरुर् अब्रवीत् ॥
धेनुं रौपखुरां रत्नं तस्याः पुच्छे नियोजयेत् ।
[४४१] घण्टाङ्गले च बध्नीयात् सवत्सां प्राङ्मुखः शुचिः ॥
चन्दनागुरुकर्पूरैर् गन्धमाल्यैः सुशोभनैः ।
उपचारैः षोडशभिर् नैवेद्यं पायसं भवेत् ॥
मोदकं च तथापूपं गुडं लवणम् एव च ।
जीरकं तु सुविस्तीर्णे सूर्पे वेणुमये दृढे ॥
धेनोर् एकं प्रदातव्यं ब्राह्मणस्त्रीषु चैव हि ।
षड् अष्टौ दश वा दद्यात् तदनन्तरम् एव च ॥
ब्राह्मणं सर्वशास्त्रार्थकुशलं धर्मवेदिनम् ।
विद्यादिनयसम्पन्नं शान्तं चैव जितेन्द्रियम् ॥
अलोलुपं सर्वजनप्रियं कल्मषवर्जितम् ।
आहूय भक्त्या सम्पूज्य वस्त्राद्यैर् गन्धपुष्पकैः ॥
तेनैव कारयेत् पूजाम् आदृतो धेनुवत्सयोः ।
होमं च कारयेत् तत्र समिदाज्यचरूत्कटम् ॥
सोमो धेनुम् इति मन्त्रं समुच्चार्य ततः पुनः ।
प्राङ्मुखायोपविष्टाय प्रदद्यात् ताम् उदङ्मुखः ॥
मन्त्रेणानेन विधिवत् पुच्छे हस्तं विधाय च ।
धेनुर् याङ्गिरसः सा तु वशिष्ठे सुरभी च या ॥
दुहिता या तथा भानोर् अग्नेश् च वरुणस्य च ।
याश् च गावः प्रवर्तन्ते वनेषूपवनेषु च ॥
प्रीणन्तु ता मम सदा पुत्रपौत्रप्रदाः सुखम् ।
प्रयच्छति दिवारात्रम् अविच्छेदं च सन्ततेः ॥
दानमन्त्रः ।
एवं दत्वा तु तद् दानं प्रणिपत्य विसर्जयेत् ॥
इति वन्ध्यात्वहरसुवर्णधेनुदानविधिः ।
**[४४२] **तथा ।
प्रस्विन्नपाणिपादः स्यात् यो हरेत रसादिकम् ।
वक्ष्यामि तत् प्रतीकारं दानहोमादिकर्मणा ॥
पलार्धेन तदर्धेन तदर्धेनाथ वा पुनः ।
कुर्याद् धेनुं सुवर्णेन वत्सस् तत्पादतो भवेत् ॥
एवं कृत्वा तु तां धनुं वस्त्रेणावेष्ट्य शोभनाम् ।
गुडस्योपरि संस्थाप्य पूजयेद् गन्धधूपकैः ।
गुडस्य च परीमाणं चत्वारिंशत्पलं भवेत् ॥
यद् वा तदर्धम् एव स्याद् यथाविभवम् एव वा ।
हव्यकव्यादि च घृतदधिक्षीरचतुष्टयम् ॥
पादेष्व् एकैकशः स्थाप्य पूर्वदक्षिणतः क्रमात् ।
शृङ्गाणि च पुनस् तस्याः कुङ्कुमेनानुलेपयेत् ॥
एवं विधाय तां धेनुम् आचार्यः स्वर्णरूपिणीम् ।
होमं समारभेत् कुण्डे स्थण्डिले वाथ पूजिते ॥
अग्निप्रणयनं कृत्वा ह्य् आचार्यः सर्ववेदवित् ।
धर्मज्ञो यज्ञवेदस् तु कुशलः क्र्ōधवर्जितः ॥
अनुद्वेगकरो नृणां पुराणार्थविद् अङ्गवित् ।
समिदाज्यतिलैश् चापि मन्त्रैर् एभिः क्रमेण तु ।
आयं गौर् इति मन्त्रेण समिद्धोमः प्रशस्यते ॥
शैभेद्येयदि (?) मन्त्रेण आज्यहोमो बुधैः सह ।
तिलहोमो व्याहृतिभिर् अष्टोत्तरसहस्रकम् ॥
एवं होमं च निर्वर्त्य निर्यातस्याभिषेचनम् ।
अग्नेः पूर्वोत्तरे देशे स्थापयेत् कुम्भम् अव्रणम् ॥
श्वेतेन वाससा चैव मृत्तिकां गुग्गुलं तथा ।
[४४३] गोरोचना सम्भवे च पञ्चभङ्गसमिद्धुते ॥
मन्त्रैर् अथापोहिष्टेति तिसृभिस् तं तु रोगिणम् ।
हिरण्यवर्ण इति च पावमानेन चैव हि ॥
शन्नोवातानुवाकेन शाण्तिं प्रथमम् एव हि ।
कृत्वाभिषेचनं कुर्यात् शुक्लाम्बरधरस्य तु ॥
आहुतीनां च सम्पातैः पाणिपादौ च लेपयेत् ।
ततस् तां पूजयेद् धनुं रोगी गन्धाक्षतादिभिः ।
गाव एव सुरभय इतिमन्त्रेण भक्तितः ॥
आचार्यायाथ तां दद्यात् प्राङ्मुखाय ह्य् उदङ्मुखः ।
मन्त्रेणानेन विधिवत् पूजितायां न संशयः ॥
आदित्यस्य सुता यास् तु देवानां याश् च धेनवः ।
पितॄणाम् अपि यक्षाणां गन्धर्वाणां च सर्वशः ॥
यक्षाणां गुह्यकानां तु वशिष्ठसुरभिस् तथा ।
एतास् तुष्टा मम क्षिप्रं धेनोर् अस्याः प्रदानतः ॥
रसचौर्येण यज् जातं वैरूप्यं पाणिपादयोः ।
तत् सर्वं नासयन्त्य् आशु धेनवः सर्वतोषिताः ॥
दानमन्त्रः ।
अनेन विधिना स्वर्णधेनुदानं करोति यः ।
पूर्वकर्मविपाकोत्थं दुःखं सर्वं प्रणश्यति ॥
दक्षिणां ब्राह्मणे दद्याद् यथाशक्त्याथ भक्तितः ।
ब्राह्मणान् भोजयेच् चापि बन्धून् अपि च भोजयेत् ॥
स्वयं स्नात्वा च भुञ्जीत मृष्टाहारैस् तु संयतः ।
दानेनानेन नियतं पादप्रस्वेदजां रुजम् ॥
जयन्ति रोगिणः कार्यं पादप्रस्वेदिना ततः ॥
[४४४] इति पादप्रस्वेदघ्नसुवर्णधेनुदानविधिः (?) ।
अथ स्वरूपतो गोदानं महाभारते ।
दानानाम् इह सर्वेषां गवां दानं विशिष्यते ।
गावः श्रेष्ठाः पवित्राश् च पावना जगदुत्तमाः ॥
ऋते दधिघृताभ्यां च नेह यज्ञः प्रवर्तते ।
तेन यज्ञम् अशेषं हि गोमूलं सम्प्रचक्षते ॥
गावो ऽधिकास् तपस्विभ्यः सदा सर्वेभ्य एव च ।
तस्मान् महेश्वरो देवस् तद् एताभिः सह स्थितः ॥
पयसा हविषा दध्ना शकृताप्य् अथ चर्मणा ।
अस्थिभिश् चोपकुर्वन्ति वालैः शृङ्गिश् च भारत ॥
गोभिस् तुल्यं न पश्यामि धनं किञ्चिद् इहाच्युतम् ।
कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव ॥
गवां प्रशस्यते वीर सर्वपापहरं परम् ।
गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते ॥
स्वाहाकारवष्ट्कारौ गोषु नित्यं प्रतिष्ठितौ ।
गावो यज्ञप्रणेत्र्यो वै तथा यज्ञस्य गौर्मुखम् ॥
अमृतं ह्य् अक्षयं दिव्यं रक्षन्ति च वहन्ति च ।
अमृतायतनं चैताः सर्वलोकनमस्कृताः ॥
न गोदानात् परं दानं किञ्चिद् अस्तीति मे मतिः ।
सा गौर् न्यायार्जिता दत्वा कृत्स्नं तारयते कुलम् ॥
अमृतं वै गवां क्षीरम् इत्य् उवाच प्रजापतिः ।
तस्माद् ददाति यो धेनुम् अमृतत्वं स गच्छति ॥
लिङ्गपुराणे ।
अग्न्यागाराणि विप्राणां देवतायतनानि च ।
[४४५] पूज्यन्ते सकृता यासां किं देयम् अहिकं ततः ॥
देवलः ।
विमानवरम् आरूढो दिव्याभरणभूषितः ।
यो गन्तुं वाञ्छति स्वर्गं स गोदानं प्रयच्छतु ॥
दानम् अप्य् अधिकं देनोर् विद्यते वा समं भुवि ।
नियतं त्रिदशैर् व्यासः कल्पितो ऽस्यास् तु विग्रहे ॥
भविष्यत्पुराणे ।
ब्रह्मोवाच ।
आदित्यदुहिता गौर् हि पृथीयं परिकीर्तिता ।
श्रेयो ऽर्थे सर्वलोकानाम् उत्पन्ना क्रतुसिद्धये ॥
ब्राह्मणाश् चैव गावश् च कुलम् एकं द्विधा कृतम् ।
एकत्र मन्त्रास् तिष्ठन्ति हविर् एकत्र तिष्ठति ॥
गोभ्यो यज्ञाः प्रवर्तन्ते गोभ्यो देवाः समुत्थिताः ।
गोभ्यो वेदाः समुद्गीर्णाः सषडङ्गपदक्रमाः ॥
शृङ्गमूले गवां नित्यं ब्रह्मविष्णू समाश्रितौ ।
शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च ॥
शिरोमध्ये महादेवः सर्वभूतमयः स्थितः ।
ललाटाग्रे स्थिता देवी नासाव् अंशे च षण्मुखः ॥
कम्बलेश्वतरौ नागौ नासापुटसुपालितौ ।
कर्णयोर् अश्विनौ देवौ चक्षुषोः शशिभास्करौ ॥
दन्तेषु वयवः सर्वे जिह्वायां वरुणः स्थितः ।
सरस्वती च हुङ्कारे यमयक्षौ च गण्डयोः ॥
सन्ध्याद्वये तथोष्ठाभ्यां ग्रीवाम् इन्द्रः समाश्रितः ।
[४४६] रक्षांसि कक्षदेशे तु साध्याश् चोरसि संस्थिताः ॥
चतुष्पात् सकलो धर्मः स्वयं जङ्घासु संस्थितः ।
खुरमध्ये तु गन्धर्वाः कुराग्रेषु च पन्नगाः ॥
खुराणां पश्चिमाग्रेषु गणा ह्य् अप्सरसां स्थिताः ।
रुद्राश् चैकादश पृष्ठे वसवः सर्वसन्धिषु ॥
श्रोणीतटस्थाः पितरः सोमो लाङ्गुलम् आश्रितः ।
आदित्यरश्मयो बालाः पिण्डीभूता व्यवस्थिताः ॥
साक्षाद् गङ्गा च गोमूत्रे गोमये यमुना स्थिता ।
क्षीरे सरस्वती देवी नर्मदा दधिसंस्थिताः ॥
हुताशनः स्वयं सर्पिर् ब्राह्मणानां गुरुः परः ।
अष्टाविंशतिदेवानां क्ōट्यो रोमसु संस्थिताः ॥
उदरे पृथिवी ज्ञेया सशैलवनकानना ।
चत्वारः सागराः पूर्णा गवां ये तु पयोधराः ॥
एतद्भिः कथितं सर्वं यथा गोषु प्रतिष्ठितम् ।
जगद् वै देवशार्दूल सदेवासुरमानवम् ॥
स्कन्दपुराणे ।
तृणानि खादन्ति वसन्त्य् अरण्ये
पिबन्ति तोयान्य् अपरिग्रहाणि ।
दुह्यन्ति वाह्यन्ति पुनन्ति पापं
गवां रसैर् जीवति जीवलिकः ॥
तुष्टास् तु गावः शमयन्ति पापं
दत्तास् तु गावस् त्रिदिवं नयन्ति ।
[४४७] संरक्षिताश् चोपनयन्ति वित्तं
गोभिर् न तुल्यं धनम् अस्ति किञ्चित् ॥
शष्पं समश्नाति ददाति नित्यं
पापापहं मित्रविवर्धनं च ।
स एव चार्यः परिभुज्यते च
गोभिर् न तुल्यं धनम् अस्ति किञ्चित् ॥
तृणानि शुष्कानि वने चरित्वा
पीत्वापि तोयान्य् अमृतं श्रवन्ति ।
यद् गोमयाद्याश् च पुनन्ति लोकान्
गोभिर् न तुल्यं धनम् अस्ति किञ्चित् ॥
हारीतः ।
बहुक्षीराश् च यो गा वै ब्राह्मणायोपपादयेत् ।
उत्तारयेत् स आत्मानं सप्त सप्त कुलानि च ॥
देवलः ।
सुशीलां लक्षणवतीं युवतिं वत्ससंयुताम् ।
बहुदुधवतीं स्निग्धां धेनुं दद्याद् विचक्षणः ॥
वेदव्यासः ।
यश् चात्मविक्रयं कृत्वा गाः क्रीत्वा सम्प्रयच्छति ।
आत्मविक्रयतुल्यास् ताः शास्वतीः वृद्धकौशिकः ॥
तथा ।
सम्प्रामेष्व् [सङ्ग्रामेष्व्?] अर्जयित्वा तु यो वै गाः सम्प्रयच्छति ।
यावतीः स्पर्शयेद् गावः स तावत्फलम् अश्णुते ॥
तावद् इति पूर्वोक्ततावद्गोरोमसम्मितम् । संवत्सरं स्वर्गफलम् ।
यो वैद्युते धनं जित्वा क्रीत्वा गाः सम्प्रयच्छति ।
स दिव्यम् अयुतं शक्र वर्षाणां फलम् अश्नुते ॥
अन्तर्जाताः सुक्रयज्ञानलब्धाः । [४४८] पणक्रीता निर्जिताश् चौकजाश् च । कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश् च द्वारैर् एतैर् गोविशेषाः प्रशस्ताः । अन्तर्जाता गर्भिण्य इति भारतपदप्रकाशकारः । सुक्रयलब्धाः यथामूल्यक्रयप्राप्ताः, पणक्रीताः भृतिलब्धाः, निर्जिता युद्धादिना, ओकजाः गृहजाताः, कृच्छ्रोत्सृष्टाः पोषणाभ्यागता इति, व्याध्यादिकृच्छ्राक्रान्ताः सत्यः स्वामिना यास् त्यक्ताः स्वयं च पोषणं कृत्वा लब्धाः ।
रुष्टा दुष्टा दुर्बला व्याधिता च
न दातव्या या च मूल्यैर् अदत्तैः ।
क्लेशैर् विप्रं या फलैः संयुनक्ति
तस्यावीर्याश् चाफलाश् चापि लोकाः ॥
मूल्यैर् अदत्तैः स्वीकृतेति शेषः । तथा ।
न कृशां पापवत्सां वा वन्ध्यां रोगान्वितां तथा ।
न व्यङ्गामपरिश्रान्तां दद्याद् गां ब्राह्मणाय वै ॥
यो दद्याद् उपयुक्तार्थां जीर्णां धेनुं च निष्फलाम् ।
तमः सम्प्रविशेद् दाता द्विजं क्लेशेन योजयेत् ॥
ब्रह्मपुराणे ।
पीतोदकां जग्धतृणां दुग्धचोषां निरिन्द्रियाम् ।
उन्मत्ताम् अङ्गहीनां च मृतवत्सां महाशनाम् ॥
केशवालपुरीषास्थिक्रव्यादां सन्धिनीं खलाम् ।
पुटधेनुं यमलसूं नित्यं व्रणयितस्तनीम् ॥
न दद्याद् ब्राह्मणेभ्यश् च सदोषं वृषभं तथा ।
पीतोदकां जग्धतृणाम् इति वृद्धत्वोपलक्षणपराम् । [४४९] दुग्धचोषां स्वकीयस्तनपायिनीम्, महाशनाम् बहुभक्षाम्, पुटधेनुं वाल्यावस्थैव या गर्भिणी ।
विश्वामित्रः ।
नैकशृङ्गां च निश्छृङ्गां स्फुटिताक्षीं चलत्खुराम् ।
न दद्यात् त्रिस्तनीं चैव गां शुभाव् एव दापयेत् ॥
महाभारते ।
अम्बरीषो गवां दत्वा ब्राह्मणेभ्यः प्रतापवान् ।
अर्बुदानि दशैकं च सराष्ट्रो ऽभ्यपतद् दिवम् ॥
दत्वा शतसहस्रं तु गवां राजा प्रसेनजित् ।
सवत्सानां महातेजा गतो लोकान् अनुत्तमान् ॥
तथा ।
प्रासादा यत्र सौवर्णाः शय्या रत्नोज्वलास् तथा ।
वराश् चाप्सरसो यत्र तत्र गच्छन्ति गोप्रदाः ॥
गोप्रदो नरकं नैति पयः पीत्वाम्बूजं जलम् ।
विमानेनार्कवर्णेन दिवि राजन् विराजते ॥
तं चारुवेषाः सुस्रोण्यः शतशो वरयोषितः ।
रमयन्ति विमानस्थं दिव्याभरणभूषिताः ॥
वेणूनां वल्लकीनां च नूपुराणां च निःस्वनैः ।
हासैश् च हरिणाक्षीणां सुप्तः सन् प्रतिबुध्यते ॥
यावन्ति रोमाणि भवन्ति धेन्वास्
तावन्ति वर्षाणि महीयते स्वः ।
स्वर्गाच् च्युतश् चापि ततस् त्रिलोके
कुले समुत्पत्स्यति गोमतां सः ॥
[४५०] विष्णुः- “गोप्रदानेन स्वर्गम् आप्नोति दशधेनुप्रदो गोलोकं शतप्रदश् च ब्रह्मलोकम्” । जाबालः ।
होमार्थम् अग्निहोत्रस्य यो दां दद्याद् अयाचिताम् ।
त्रिर् वित्तपूर्णा पृथिवी तेन दत्ता न संशयः ॥
याज्ञवल्क्यः ।
यथा कथञ्चिद् दत्वा गां धेनुं वाधेनुम् एव वा ।
अरोगाम् अपरिक्लिष्टां दाता स्वर्गे महीयते ॥
अङ्गिराः ।
गौर् एकस्यैव दातव्या श्रोत्रियस्य विशेषतः ।
सा हि तारयते पूर्वान् सप्त सप्त च सप्त च ॥
नन्दिपुराणे ।
अपात्रे सा तु गौर् दत्ता दातारं नरकं नयेत् ।
कुलैकविंशत्या युक्तं ग्रहीतारं च तारयेत् ॥
विधिना च यदा दत्ता पात्रे धेनुः सदक्षिणा ।
तदा तारयते जन्तून् कुलानाम् अयुतैः शैतः ॥
पात्राण्य् आध्यात्मिका मुख्या सुशुद्धाश् चाग्निहोत्रिणः ।
देवताश् च तथा मुख्या गोदानं ह्य् एतद् उत्तमम् ॥
महाभारते ।
वृत्तिग्लानं सीदति चातिमात्रं
कव्यार्थं चाहोमहेतोः प्रसुत्याम् ।
गुर्वर्थे वा बालसंवृद्धये वा
धेनुं दद्याद् एष कालो विशिष्टः ॥
[४५१] प्रसुत्यां सोमयागे । तथा ।
न वधार्थं प्रदातव्या न कीनाशे न नास्तिके ।
गोजीवे न च दातव्या तथा गौः पुरुषर्षभ ॥
कीनाशो हलवाहकः । आत्रेयः ।
सीदते (?) बहुभृत्याय श्रोत्रियायाहिताग्नये ।
अतिथिप्रियाय दान्ताय देया धेनुर् गुडान्विता ॥
अकुलीनाय मूर्खाय लुब्धाय पिशुनाय च ।
हव्यकव्यव्यपेताय गौर् न देया कथञ्चन ॥
अथ दानविधिः । विश्वामित्रः ।
प्राङ्मुखीं गाम् अवस्थाप्य सवत्सां तां सुपूजिताम् ।
पुच्छदेशे तु दाता वै स्नातो बद्धशिखो भवेत् ॥
उदङ्मुखस् तु विप्रः स्यात् पात्रलक्षणलक्षितः ।
आज्यपात्रं करे कृत्वा कनकेन समन्वितम् ॥
निक्षिप्ये पुच्छं तस्मिंस् तु घृतदिग्धं प्रगृह्य च ।
सतिलं विप्रपाणिं तु प्रागग्रं तु निधापयेत् ॥
सतिलं स कुशं चापि गृहीत्वा दानम् आचरेत् ।
अनेनैव तु मन्त्रेण पात्रहस्तो जलं क्षिपेत् ॥
यज्ञसाधनभूता या विश्वस्याघप्रनाशिनी ।
विश्वरूपः परो देवः प्रीयताम् अनया गवा ॥
अनुव्रज्य तु तां धेनुं ब्राह्मणेन समन्विताम् ।
गोमतीं तु ततो विद्यां जपेत प्रयतः शुचिः ॥
उद्दिश्याथ वासुदेवं प्रीयताम् इति चानघ ।
[४५२] पात्रं मनसि सञ्चिन्त्य तोयम् अप्सु विनिक्षिपेत् ॥
जलशायी ब्रह्मपिता पद्मनाभः सनातनः ।
अनन्तभोगशयनः प्रीयतां प्रमः पिता ॥
गोमतीम् आह यमः ।
गावः सुरभयो नित्यं गावो गुग्गुलगन्धिकाः ।
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् ॥
अन्नम् एव परं गावो देवानां हविर् उत्तमम् ।
पावनं सर्वभूतानां रक्षन्ति च वहन्ति च ॥
हविषा मन्त्रपूतेन तर्पयन्त्य् अमरान् दिवि ।
ऋषीणाम् अग्निहोतॄणां गावो होमप्रतिष्ठिकाः ॥
सर्वेषाम् एव भूतानां गावः मङ्गलम् उत्तमम् ।
गावः पवित्रं परमं गावो मङ्गलम् उत्त्मम् ॥
गावः सर्वस्य लोकस्य गावो धन्याः सवाहनाः ।
नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ॥
नमो ब्रह्मसुताभ्यश् च पवित्राभ्यो नमो नमः ।
ब्राह्मणाश् चैव गावश् च कुलम् एकं द्विधा कृतम् ॥
एकत्र मन्त्रास् तिष्ठन्ति हविर् एकत्र तिष्ठति ॥
अन्यापि गोमती महाभारतोक्ता तिलधेनुदाने दर्शिता । ततश् चानयोर् विकल्पानुष्ठानम् इति । सर्वगोदानसाधारणं मन्त्रम् आह वशिष्ठः ।
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः ।
घृतनद्यो घृतावर्तास् ता मे सन्तु सदा गृहे ॥
[४५३] घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम् ।
घृतं मे सर्वतश् चैव घृतं मे मनसि स्थितम् ॥
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ।
गावो मे सर्वतश् चैव गवां मध्ये वसाम्य् अहम् ॥
इत्य् आचम्य जपन् सायं प्रातश् च पुरुषः सदा ।
यद् अह्ना कुरुते पापं तस्मात् स परिमुच्यते ॥
दक्षिणा चात्र सुवर्णम् । यद् आह वशिष्ठः ।
सुवर्णं दक्षिणाम् आहुर् गोप्रदाने महाफले ।
सुवर्णं परमं ह्य् आयुर् दक्षिणार्थ न संशयः ॥
गोप्रदानं तारयते सप्त पूर्वान् नरांस् तथा ।
सुवर्णं दक्षिणां दत्वा तावद् द्विगुणम् उच्यते ॥
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा ।
सुवर्णं पावनं प्राहुः परिमाणं परं तथा ॥
अत्र सुवर्णशब्दस्य हिरण्यपर्यायत्वे यथाशक्त्यानुष्ठानम् । अपरे त्व् आहुः सकृद् उच्चरितसुवर्णशब्दावगतपरिमाणार्थपरित्यागानुपपत्तेः सुवर्णशब्दस्य प्राहुर् इत्यादिक्रियाकर्मभूततया द्वितीयान्तत्वेन लिङ्गविशेषनिर्धारणाच् च परिमाणार्थथैव न्याय्येति । एवं च सत्य् अनियतानुष्ठानप्रसङ्गभङ्गः तथापरिमाणपरं तथेत्य् एतद् अपि समञ्जसं स्यात् ।
अत्र केचिच् चोदयन्ति —
एतद् एव विधानं स्यात् त एवोपस्कराः स्मृताः ।
[४५४] विधानम् एतद् धेनूनां सर्वासाम् अपि पठ्यते ॥
इति वचनात् प्रत्यक्षधेनोर् अपि सकलगुडधेनुधर्मप्राप्तौ शुक्तिकर्णेक्षुपादादित्वम् आचरणीयम् इति ।
तद् असत् । दशमी स्यात् स्वरूपत इति स्वरूपशब्द एव सवत्साङ्गोरूपधारिणीम् उपकरणादिविहीनान् धेनुम् अवगमयन् शुक्त्यादिमयीं कर्णादिप्रतिकृतिकृतिं निवारयति सर्वशब्दश् च प्रकृतापेक्षो ऽपि स्वरूपधेनुवर्जम् अवतिष्ठते तस्मात् तत् स्वरूपधेन्वा गुडधेनोर् इतिकर्तव्यता कर्तव्येति वक्ष्यमाणसुवर्णशृङ्गिकाविधिस् तु भिन्न एवेति सर्वम् अनवद्यम् ।
इति गोदानविधिः ।
अथ स्कन्दपुराणे ।
सवत्सां कांस्यहोहनां हेमशृङ्गीं रूप्यखुराम् ।
दुकूलक्षौमवासितां शय्यास्तरणसम्पन्नाम् ॥
बहुपुष्पफलैर् युतां ब्राह्मणान् तर्पयित्वा तु ।
यो नरो गां प्रयच्छेत् तु गन्धमाल्यैर् अलङ्कृताम् ॥
देवैर् अध्यासितां तां तु सर्वैस् तद्वद् द्वयेन तु ।
मृदुबन्धेन बध्नीयात् ततः श्लक्ष्नेन रज्जुना ॥
कुशान् सुवर्णबीजानि तिलाः सिद्धार्तकास् तथा ।
प्रदद्यात् तान् ततो ऽद्भिश् च मन्त्रेणानेन सुव्रत ॥
सर्वदेवमयीं दोग्ध्रीं सर्वलोकमयीं तथा ।
सर्वलोकनिमित्तां तां सर्वदेवनमस्कृताम् ॥
प्रयच्छामि म्हासत्त्वाम् अक्षयाय शुभाम् इति ।
[४५५] एवं स दत्वा यो गां तु यत्र यत्र प्रजायते ॥
तत्र तत्र गता सा तान् जन्तूंस् तारयते भयात् ।
सर्वलोकान्तरे गत्वा रमते च यथा नरः ॥
स तथा मानवो जातो गोसहस्री महाबलः ।
रूपवान् धनवांश् चैव बहुपुत्रश् च जायते ॥
कात्यायनः ।
शीलोपपन्नां सवनोत्तरीयां
कांस्योपदोहां कनकान्तशृङ्गीम् ।
विप्राय दत्वा भगवन् प्रियाय
प्रयाति लोकान् अमृतान् सुपुण्यान् ॥
संवर्तः ।
यो ददाति शफैर् रौप्यैर् हेमशृङ्गीम् अरोगिणीम् ।
सवत्सां वत्ससंयुक्तां सुशीलां गां पयस्विनीम् ॥
यावन्ति तस्या रोमाणि सवत्साया दिवं गतः ।
तावतो वत्सराम् आस्ते स नरो ब्रह्मणो ऽन्तिके ॥
देवलः ।
चामीकरमये शृङ्गे कृते रपुयमयाः खुराः ।
कांस्यजं दोहनं पृष्ठं ताम्रं वस्त्रयुगान्विता ॥
पुष्पमालावृता धूपघण्टाचामरमण्डिता ।
दीयते पुच्छदेशेन श्रद्धया दक्षिणान्विता ॥
दत्वैवं दत्तभोगाढ्यो दिव्यस्त्रीवृन्दसंवृतः ।
गोवत्सरोमतुल्यानि वर्षाणि दिवि मोदते ॥
इति हेमशृङ्गीदानविधिः ।
**[४५६] **
नन्दिपुराणे ।
यो गां सुपरिपूराङ्गीं हेमशृङ्गीम् अकोपनाम् ।
सुशीलां राजतैः पादैश् चित्रवस्त्रसुसंवृताम् ॥
सलोहपात्रां कुतपे निविष्टचरणां तथा ।
कुतपो ऽत्र नेपालकम्बलः ।
सदक्षिणां प्रदद्याद् गां सो ऽक्षयं स्वर्गम् आप्नुयात् ॥
गवि रोमाणि यावन्ति प्रसूतिकुलसंस्थितः ।
तावन्त्य् अब्दानि वसति स्वर्गे दाता न संशयः ॥
इत्य् अपरहेमशृङ्गीदानविधिः ।
एतच्छतगुणं पुण्यं कपिलादानतः स्मृतम् ॥
अथ मत्स्यपुराणे ।
दशसौवर्णिके शृङ्गे खुराः पञ्चपलान्विताः ।
पञ्चाशत्पलिकं कांस्यं ताम्रं वापि तथैव च ॥
दाता स्यात् स्वर्गम् आप्नोति यावद् आहूतसम्प्लवम् ।
पञ्चपलानि रौप्यस्येति विज्ञेयम् । ताम्रं पृष्ठे कांस्यं दोहनम् । आच्छादनार्थं वासोयुगं सुवर्णदक्षिणेत्य् अपि बोद्धव्यम् ।
इति कनकशृङ्गीदानविधिः ।
ब्रह्मपुराणे ।
गां दद्याद् वेदपूर्णाय विप्राय गृहमेधिने ।
सुवर्णालङ्कृतश्र्ङ्गीं वत्सघण्टासमन्विताम् ॥
[४५७] प्रत्यग्रां त्रिसमृद्धां तु ललाटतटतर्पणाम् ।
कांस्योपदोहां तृप्तां च लवणादितृणोदकैः ॥
गवां पुच्छं गृहीत्वा च ससुवर्णेन पाणिना ।
गृहस्थो वेदविद्विप्रो दापयेत् तत्प्रतिग्रहम् ॥
भोगसौख्यप्रयाश् चैता गोमाता पापनाशिनी ।
कृष्णा स्वर्गप्रदा ज्ञेया गौरी च कुलवर्धनी ॥
रक्ता रूपप्रदा ज्ञेया पीता दारिद्रघातिनी ।
पुत्रप्रदा कृष्णसारी नीला धर्मविवर्धनी ॥
कपिला सर्वपापघ्नी नानावर्णा च मोक्षदा ॥
प्रत्यग्रा नववय्सका, त्रिसमृद्धा शीलक्षीरप्रसवगुणयुक्ता, लवणादितृणोदकैस् तृप्तेति सर्वदा लवनादिषु तुष्टेत्य् अर्थः ।
इति सुवर्णशृङ्गीदानविधिः ।
आदित्यपुराणे ।
कृष्णां गां ददते यस् तु पट्टछन्नां स्वलङ्कृताम् ।
घण्टामालाकुलां कृत्वा पुष्पैश् चैवाप्य् अलङ्कृताम् (?) ॥
विधिवच् च द्विजातिभ्यो यमलोकं न पश्यति ।
आयुर् आरोग्यम् ऐश्वर्यं दाता कांआंश् च मानसान् ॥
श्वेताङ्गां ददते यस् तु दिव्यं रत्नैर् अलङ्कृताम् ।
घण्टामालाकुलां कृत्वा पुष्पैश् चैवाप्य् अलङ्कृताम् (?) ॥
मुखे धूपः प्रदातव्यो घृतेनास्यं च पूरयेत् ।
सुवर्णशृङ्गाभरणा तथा रौप्यखुरा शुभा ॥
[४५८] पट्टछन्ना शुभा चैव दातव्या ध्यानयोगिने ।
यस् तु दद्याच् च गां स्वेतां तस्य पुण्यफलं शृणु ॥
जन्मप्रभृति यत् पापं मातृकं पैतृकं च यत् ।
कुलोद्धतस्य हस्तस्य तत्क्षणाद् एव नश्यति ॥
गां ददानीह इत्य् एव वाचा पूयेत सर्वशः ।
पिता पितामहश् चैव तथैव प्रपितामहः ॥
नरकस्थाः प्रमुच्यन्ते सोमलोकं व्रजन्ति ते ।
गौरीं चैव प्रयच्छेत् तु यस् तु गां वै नरः शुचिः ॥
अहोरात्रोषितश् चैव कृतशौचो नरः सदा ।
सुवर्णशृङ्गी रौपखुरां मुक्तालाङ्गूलभूषिताम् ॥
घण्टामालाकुलां चैव गन्धपुष्पैर् अलङ्कृताम् ।
कुतपं चास्तरेत् प्राज्ञो मुखे धूपं प्रदापयेत् ॥
भक्षभोज्यान्नपानेन ब्राह्मणान् भोजयेच् छुभान् ।
गां ददानीह इत्य् एव वाचा पूयेत सर्वशः ॥
मातृकं पैतृकं चैव यच् चान्यद् दुष्कृतं भवेत् ।
पापं च तस्य तत् सर्वं दहत्य् अग्निर् इवेन्धनम् ॥
वर्षकोटिसहस्रं तु पुमान् स दिवि मोदते ।
दासीदासैर् अलङ्कारैः स्तूयते सर्वजन्तुभिः ॥
अरोगश् चैव जायेत तेजस्वी च भवेन् नरः ।
नील्वर्णां च गां दद्याद् दोग्ध्रीं शीलगुणान्विताम् ॥
सुवर्णशृङ्गीं रौप्यखुरां मुकालाङ्गूलभूषिताम् ।
पट्टच्छन्नां सुभां सौम्यां घण्टादामैर् अलङ्कृताम् ॥
पञ्चरङ्गेण सूत्रेण गणवेष्टनशोभिताम् ।
[४५९] रुद्रस्य प्रमुखे देया विष्णोश् च ब्रह्मणश् च ह ॥
गां ददानीह इत्य् एव वाचा पूयेत सर्वशः ।
पिता पितामहश् चैव तथैव प्रपितामहः ॥
नरकस्थाः प्रमुच्यन्ते नीलां गां ददते तु यः ।
वर्षकोटिसहस्राणि लोके तिष्ठति वारुणे ॥
दधिक्षीरवहा नद्यो वर्तन्ते सर्वतः सदा ।
घृतशैलाः प्रपद्यन्ते नवनीतस्य पर्वताः ॥
कृषिभागी बहुधनी दुर्भक्ष्यं न पश्यति ॥
इति नानागोदानविधिः ।
महाभारते ।
समानवत्सां कपिलां धेनुं दत्वा पयस्विनीम् ।
सुव्रतां वस्त्रसम्पन्नां ब्रह्मलोके महीयते ॥
समानवत्सां समानवर्णवत्साम् ।
रोहिणीं तुल्यवत्सां च धेनुं दद्यात् पयस्विनीम् ।
सुव्रतां वस्त्रसंवीताम् इन्द्रलोके महीयते ॥
समानवत्सां शबलां धनुं दत्वा पवस्विनीम् ।
सुव्रतां वस्त्रसंवीतां सोमलोके महीयते ॥
शबला कर्वुरा ।
समानवत्सां कृष्णां तु धेनुं दत्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीताम् अग्निलोके महीयते ॥
वातरेणुसुवर्णां तु सवत्सां कामदोहिनीम् ।
प्रदाय वस्त्रसंवीतां वायुलोके महीयते ॥
[४६०] समानवत्सां धूम्रां तु धनुं दत्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंयुक्तां यमलोके महीयते ॥
अर्घ्यां हेमसवर्णां तु सवत्सां कामदोहनाम् ।
प्रदाय वस्त्रसंवीतां वारुणं लोकम् अश्नुते ॥
अर्घ्या गौः, कामदोहनाम् अनायासदोहाम् ।
हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कामदोहनाम् ।
प्रदाय वस्त्रसंवीतां कौबेरं लोकम् आप्नुयात् ॥
पलालधूमवर्णां तु सवत्सां कामदोहनाम् ।
प्रदाय वस्त्रसंवीतां पितृलोके महीयते ॥
सवत्सां पीवरीं दत्वा सितकण्ठीम् अलङ्कृताम् ।
वैश्वदेवम् असम्बाधं स्थानं श्रेष्ठं प्रपद्यते ॥
सितकण्ठीं कृष्णगलाम् ।
समानवत्सां गोरीं तु धेनुं दत्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीताम् वसूनां लोकम् अश्नुते ॥
सुव्रता सुखदोह्या ।
पाण्डुकम्बलवर्णां तु सवत्सां कामदोहनाम् ।
प्रदाय वस्त्रसंवीतां साध्यानां लोकम् अश्नुते ॥
वत्सोपन्नां नीलाङ्गीं सर्वरत्नसमन्विताम् ।
गन्धर्वाप्सरसां लोकान् दत्वा प्राप्नोति मानवः ॥
गोप्रदानरतो याति पीत्वा जलदसञ्चयान् ।
विमानेनार्कवर्णेन दिवि राजन् विराजते ॥
[४६१] तं चारुवेषाः सुश्रोण्यः सहस्रं वरयोषितः ।
रसयन्ति नरश्रेष्ठं गोप्रदानरतं नरम् ॥
इति समानवत्सगोदानविधिः
आदित्यपुराणे ।
कपिलां ये प्रयच्छन्ति चेलच्छन्नां स्वलङ्कृताम् ।
सुवर्णशृङ्गीं रौप्यखुरां मुक्तालाङ्गूलभूषिताम् ॥
श्वेतवस्त्रपरिच्छन्नां घण्टास्वनरवैर् युताम् ॥
घण्टास्वनरवैः घण्टाशब्दकोलाहलैः ।
सहस्रं योगवान् दत्वा कपिलां चापि सुव्रत ।
समम् एव पुरे प्राह ब्रह्मा ब्रह्मविदां वरः ॥
यावन्ति रोमकूपाणि कपिलाङ्गे भवन्ति हि ।
तावत्कोटिसहस्राणि वर्षाणां दिवि मोदते ॥
रुक्मशृङ्गीं रौप्यखुरां मुलालाङ्गूलभूषिताम् ।
कांस्योपदोहनां धेनुं गस्त्रच्छन्नाम् अलङ्कृताम् ॥
दत्वा द्विजेन्द्राय नरः स्वर्गलोके महीयते ।
दशधेनुप्रदानेन तुल्यैका कपिला मता ॥
याज्ञवल्क्यः ।
हेमशृङ्गी शफैर् रौम्यैः सुशीलां वस्त्रसंयुताम् ।
सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥
दातास्याः स्वर्गम् आप्नोति वत्सरान् रोमसम्मितान् ।
कपिलाञ् चेत् तारयति भूयस् त्व् आसप्तमं कुलम् ॥
व्यासः ।
रुक्मशृङ्गीं रौप्यखरां वस्त्रसांस्योपदोहनाम् ।
[४६२] सवत्सां कपिलां दत्वा वंशान् सप्त समुद्धरेत् ॥
यावन्ति तस्या रोमाणि सवत्साया भवन्ति हि ।
सुरभीलोकम् आसाद्य रमते तावतीः समाः ॥
लोकोत्तरे ।
घण्टाचामरसंयुक्ता किङ्किणीजालमण्डिता ।
दिव्यवस्त्रसमायुक्ता हेमदर्पणभूषिता ॥
पयस्विनी सुशीला च तरुणी वत्सकान्विता ।
कपिलैवं प्रदातव्या शिवस्याग्रे विधानतः ॥
दानमन्त्रस् तु मत्स्यपुराणे (?) ।
कपिले सर्वभूतानां पूजनीयासि रोहिणि ।
तीर्थदेवमयी यस्माद् अतः शाण्तिं प्रयच्छ मे ॥
इति कपिलादानविधिः ।
कूर्मपुराणात् ।
दशसौवर्णिके शृङ्गे खुराः पञ्चपलान्विताः ।
पञ्चाशत्पलिकं ताम्रं कांस्यं चैतावद् एव तु ॥
वस्त्रं तु त्रिगुणं धेन्वा दक्षिणा च चतुर्गुणा ।
एतैर् अलङ्कृतां धेनुं घण्टाभरणभूषिताम् ॥
कपिलां विप्रमुख्याय दत्वा मोक्षम् अवाप्नुयात् ।
द्विगुणोपस्करोपेता महती कपिला स्मृता ॥
दत्वा सा विप्रमुख्याय स्वर्गमोक्षफलप्रदा ।
सप्तजन्मकृतात् पापान् मुच्यते दशसंयुतात् ॥
[४६३] यान् अन्यान् प्रार्थते कामांस् तांस् तान् प्राप्नोति मानवः ।
अन्ते स्वर्गापवर्गौ च फलम् आप्नोत्य् असंशयः ॥
इति कपिलादानविधिः ।
अथ देवतोद्देशेन गोदानम् । लिङ्गपुराणे ।
देवदक्षिणदिग्भागे धेनुः कार्या उदङ्मुखी ।
पाङ्मुखं वत्सकं कृत्वा ब्राह्मणं च उदङ्मुखम् ॥
प्राङ्मुखो यजमानस् तु पूजयेद् ब्राह्मणं ततः ।
को ददाति च मन्त्रेण गृह्णीयाद् ब्राह्मणः स्वयम् ॥
देवो ऽत्र महेश्वरः ।
एवंविधान् अतो दत्वा याति दाता शिवालयम् ।
तत्र भुक्त्वाक्षयान् भोगान् अन्ते ब्रहैति शास्वतम् ॥
देवीपुराणे ।
नीलां वा यदि वा श्वेतां पाटलां कपिलाम् अपि ।
सदुग्धां वत्सलां चैव सुखदोहां सुगां नृप ॥
आदाय विधिवद् देवीं पूजयेच् छुभपङ्कजैः ।
धूम्पं तु पञ्चनिर्यासं तुरुष्कागुरुचन्दनम् ॥
दत्वा तु मन्त्रपूर्वं तु नैवेद्यम् उपकल्पयेत् ।
पायसं घृतसंयुक्तं क्षामयेच् च तथा तु ताम् ॥
द्विजाय शिवभक्ताय सवत्सां गां निवेदयेत् ।
सहेमवस्त्रकांस्यां च महापुण्यम् अवाप्नुयात् ॥
[४६४] यावत् तद्रोमसङ्ख्यानं तावद् देव्या पुरं वसेत् ।
इहैव गतपापो ऽसौ जायते नृपसत्तम ॥
विष्णुधर्मे मान्धाता उवाच ।
ब्राह्मणः प्रीणनार्थाय केशवस्य शिवस्य च ।
यानि दानानि देयानि तान्य् आचक्ष्व द्विजोत्तम ॥
येन चैव विधानेन दानं पुंसः सुखावहम् ।
ऐहिकामुष्मिकाप्तिं च करोति न विहन्यते ॥
वसिष्ठ उवाच ।
गोदानम् आदौ वक्ष्यामि प्रत्यक्षक्रमयोगतः ।
येन चैव विधानेन धेनुं नाधिकविस्तरम् ॥
पुण्यं दिनम् अथासाद्य स्नात्वा तर्प्य पितॄंस् तथा ।
कृतोपवासः सम्प्राश्य पञ्चगव्यं नरेश्वर ॥
घृतक्षीराभिषेकं च कृत्वा विष्णोः शिवस्य च ।
तम् अभ्यर्च्य यथान्यायं पुष्पादिभिर् अनुक्रमात् ॥
उदङ्मुखीं प्राङ्मुखीं वा गृष्टिं कृत्वा पयस्विनीम् ।
गृष्टिः सकृत्प्रसूतेत्य् अर्थः ।
सपुत्रां वस्त्रसंवीतां सितयज्ञोपवीतिनीम् ।
स्वर्णश्ङ्गीं रौप्यखुरां सुवर्णोपरि संस्थिताम् ॥
शक्तितो दक्षिणायुक्तां ब्राह्मणाय निवेदयेत् ।
गावो ममाग्रतः सन्तु गावो मे सन्तु पृष्ठतः ॥
गावो मे हृदये सन्तु गवां मध्ये वसाम्य् अहम् ।
[४६५] प्रदक्षिणं ततः कृत्वा धेनुं द्विजवरं च तम् ॥
इमां नः प्रतिगृह्णीष्व धेनुर् दत्ता मया तव ।
स मे पापापनोदाय गोविन्दः प्रीयताम् इति ॥
वह्निपुराणे तु अयम् अधिको मन्त्रः ।
या धेनुः काश्यपस्यासीद् अत्रेर् वा गौतमस्य च ।
साभिकामफला देवि इह लोके परत्र च ॥ इति ।
एवम् उच्चार्य तं विप्रं गोविन्दं नृप कल्पयेत् ।
अनुव्रजेत् तु गच्छन्तं पदान्य् अष्टौ नराधिप ॥
अनेन विधिना धेनुं यो विप्राय प्रयच्छति ।
सर्वकामसमृद्धात्मा विष्णुलोकं स गच्छति ॥
सप्तावरान् सप्त परान् आत्मानं चैव मानवः ।
सप्तजन्मकृतात् पापान् मोचयत्य् अवनीपते ॥
पदे पदे ऽश्वमेधस्य गोसवस्य च मानवः ।
फलम् आप्नोति राजेन्द्र दक्षायैवं जगौ हरिः ॥
सर्वकामदुघा सम्यक् सर्वकालेषु पार्थिव ।
भवत्य् अथो पापहरा यावद् इन्द्राश् चतुर्दश ॥
सर्वेषाम् एव पापानां कृतानाम् अविजानता ।
प्रायश्चित्तम् इदं प्रोक्तम् अनुतापो ऽथ बृंहितम् (?) ॥
सर्वेषाम् एव देवानाम् एकजन्मानुगं फलम् ।
हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम् ॥
ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् चन्यैश् च मानवैः ।
[४६६] लोकाः कामदुघाः प्राप्ता दत्वैतद् विधिना नृप ॥
गोभ्यो ऽधिकं जगति नापरम् अस्ति किञ्चिद्
दानं पवित्रम् इति शास्त्रविदो वदन्ति ।
ताः सम्प्रदैः सुरसदश् च समीहमानैर्
देया सदैव विधिना द्विजपुङ्गवेभ्यः ॥
इति देवतोद्देशेन गोदानविधिः ।
अथ देवताभ्यो गोदानम् । स्कन्दपुराणे ।
शिवाय विष्णवे चापि यस् तु दद्यात् पयस्विनीम् ।
धेनुं स्नानोपहारार्थं स परं ब्रह्म गच्छति ॥
भविष्यत्पुराणे ।
सौरीं सूर्याय यो दद्यात् तरुणीं च पयस्विनीम् ।
तेन दत्तं भवेत् सर्वं जगत् स्थावरजङ्गमम् ॥
सौरी सूर्यसुता धेनुर् इत्य् अर्थः ।
स्नानाग्निकार्यम् उद्दिश्य सुरूपां सुपयस्विनीम् ।
कुलीनां कपिलां दत्वा दत्तं भवति गोशतम् ॥
य एवं गाम् अलङ्कृत्य दद्यात् सूर्याय मानवः ।
सो ऽश्वमेधस्य यज्ञस्य फलम् अष्टगुणं लभेत् ॥
तथा ।
यो दद्याद् उभयमुखीं सौरभेयीं दिवाकरे ।
सप्तद्वीपां महीं दत्वा यत् फलं तद् अवाप्नुयात् ॥
पादद्वयं शिरोर्धं च यदा स्याद् एव निर्गतम् ।
तदा सा पृथिवी ज्ञेया सशैलवनकानना ॥
[४६७]
अथ वृषभैकादशीदानम् । शिवधर्मात् ।
दश गावः सवृषभा वृषभैकादशी स्मृता ।
शिवाय विनिवेद्यैवं विशुद्धेनान्तरात्मना ॥
रुद्रैकादशतुल्यात्मा बलभोगादिभिर् गुणैः ।
शिवादिसर्वलोकेषु यथेष्टं मोदते वशी ॥
भविष्यत्पुराणे ।
दश गावः सवृषभा वृषभैकादशश् च ताः ।
सूर्याय विनिवेद्येह यत् फलं लभते शृणु ॥
द्वादशादित्यतुल्यात्मा अणिमादिर् गुणैर् युतः ।
सौरादिसर्वलोकेषु यथेष्टं मोदते दिवि ॥
अथ वृषभाधिकगोशतदानम् । शिवधर्मोत्तरात् ।
वृषभं गोशतं दद्याच् छिवायातीव शोभनम् ।
त्रिःसप्तकुलजैः सार्धं शृणु यत् फलम् आप्नुयात् ॥
सूर्यकोटिप्रतीकाशैर् विमानैः सार्वकामिकैः ।
अनेकयानसाङ्क्यानैर् असुरासुरपूजितैः ॥
शतरुद्रवलोपेतो वीरभद्र इवापरः ।
गत्वा शिवपुरं दिव्यम् अशेषाधिपतिर् भवेत् ॥
भविष्यत्पुराणे ।
स्वृषं गोशतं गत्वा भास्कराय नराधिप ।
[४६८] त्रिःसप्तकुलजैः सार्धं शृणु यत् फलम् आप्नुयात् ॥
सूर्यकोटिप्रतीकाशैर् दिवाकर इवापरः ।
गत्वादित्यपुरं रम्यं क्रीडते सूर्यवन् नृपः ॥
भुक्त्वा तु विपुलान् भोगान् प्रलये सर्वदेहिनाम् ।
मोहकञ्चुकम् उत्सृज्य विशत्य् आदित्यमण्डलम् ॥
सर्वज्ञः सूर्यपरमः शुद्धस्वात्मनि संस्थितः ।
सर्वगः परिपूर्णत्वात् सूर्यवद् दीप्तिमान् भवेत् ॥
इति देवतागोदानविधिः ।
अथ त्रिरात्रगोदानविधिः । विष्णुधर्मोत्तरे ।
हेमशृङ्गीं रौप्यखुरां मुक्तालाङ्गुलभूषणाम् ।
अहताम्बरसंवीतां तथा कांस्योपदोहनाम् ॥
त्रिरात्रं स्थण्डिले सुप्त्वा त्रिरात्रं गोरसाशनः ।
तृप्तां तु तर्पते दत्वा वाससा संवृते द्विजे ॥
सदक्षिणा महाभाग त्रिरात्रं गोरसैस् ततः ।
प्राणसन्धारणं कृत्वा शिवलोके महीयते ॥
यावन्ति धेनोर् रोमाणि तावद्वर्षाणि मानवः ।
दत्वैवं कपिलां विप्राः प्राप्नोत्य् अभ्यधिकं फलम् ॥
महाभारते ।
[४६९] तिस्रो रात्रीस् त्वद्भिर् उपोष्य भूमौ
तृप्ता गावस् तर्पितेभ्यः प्रदेयाः ।
वत्सैः पीताः सुप्रजाः सोपचारास्
त्र्यहं दत्वा गोरसैर् वर्तितव्यम् ॥
तथा ।
द्विजातिम् अभिसत्कृत्य श्वःकल्पम् उपवेद्य च ।
प्रदानार्थे नियुञ्जीत रोहिणीं नियतव्रतः ॥
श्वःकल्पम् उपवेद्य प्रातःकाल उपस्थानं कर्तव्य इति ज्ञापयित्वा, आह्वानं च प्रयुञ्जीत समङ्गे बहुले इति । प्रविश्य च गवां मध्यम् इमां श्रुतिम् उदाहरेत् ।
गौर् मे माता वृषभश् च पिता मे
दिवं शर्म मे प्रतिष्ठा प्रपद्ये ।
प्रपद्यैकां सर्वरीमुख्यगोषु
मुनिर् वाणीम् उत्सृजे गोप्रदाने ॥
समताम् एति वै गोभिः समसख्यः समव्रतः ।
एकाल्पगमनात् सद्यः कल्मषात् द्विप्रमुच्यते ॥
उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने ।
उत्सृष्टौ त्यक्तौ वृषवत्सौ यया सा तथ,
ऊर्जस्विन्य ऊर्जमेधाश् च यज्ञो
गर्भो अमृतस्य प्रतिष्ठा क्षितौ ।
प्रवाहाः पुण्यभावाः प्राजापत्याः
सर्वम् इत्य् अर्थवादः श्रुतौ हि सः ॥
गावो ममैनः प्रमुदन्तु सौर्यास्
तथा सम्याः स्वर्गयानाय सन्तु ।
[४७०] आहूता मे ददतश् चाश्रयन्तु
तथा मुक्ताः सन्तु सर्वाशिषो मे ॥
शेषोत्सर्गे कर्मभिर् देहमोक्षे
सरस्वत्यः श्रेयसि सम्प्रवृत्ताः ।
यूयं नित्यं पुण्यकर्मोपवत्यः
दिश त्वं मे पुण्यकर्मोपवत्यः ॥
या वै यूयं सो ऽहम् आद्यैकभावो
युष्मान् दत्वा चाहम् आत्मप्रदाता ।
नमस्कृता मन एवोपपन्नाः
संरक्षध्वं सौम्यरूपोग्ररूपाः ॥
एवं तस्याग्रे पूर्वम् अर्धं वदेद् वै
गवां दाता विधिवत् पूर्वदृष्ट्य ।
प्रतिभूयाच् छेषम् अर्धं द्विजातिः
प्रतिगृह्णन् गोप्रदाने विधिज्ञः ॥
पूर्वम् अर्धं यावैयूयम् इत्यादिकम् ।
गां ददानीति वक्तव्यम् अर्घयम् उश्रावसु प्रदत् ।
उधस्या नमितव्या च वैष्णवीति च चोदनात् ॥
नाम सङ्कीर्तयेत् तस्या यथासङ्ख्यं यथोत्तरम् ।
फलषट्त्रिंशद् अष्टौ च सहस्राणि च विंशति ॥
एवम् एतान् गणान् बुद्ध्वा गवादीनां यथाक्रमम् ।
गोप्रदाता समाप्नोति समस्तान् अष्टमे क्रमे ॥
अर्घ्यं अर्घार्हम्, उस्र्वसु गोधनम् प्रदत् प्रददत्, उधस्यं क्षीरं तद्युक्ता उदस्या । [४७१] अष्टमे क्रमे, गवि दत्तायां गच्छन्त्याम् अष्टमे पदे ।
गोदः शीलां निर्भयश् चार्घदाता
नस्योतौ वै वसुदाता च कामी ।
उषस्योढा भारं नयश् च विद्वान्
विख्यातास् ते वैष्णवाश् चन्द्रलोकाः ॥
गां वै दत्वा गोव्रती स्यात् त्रिरात्रं
निशां चैकां सम्वसेतेह ताभिः ं
काम्याष्टम्यां वर्तितव्यं त्रिरात्रं
गवां रसैर् वा शकृता प्रस्रवैर् वा ॥
वेदव्रती स्याद् वृषभप्रदाने
वेदावाप्तिर् गोयुगस्य प्रदाने
तथा गवां विधिम् आसाद्य यज्वा
लोकान् अग्र्यान् विन्दते नाविधिज्ञः ॥
वसुदा द्रव्यदाः । कामी काम्यफलवान् । उधस्योढा उषस्यावाहयिता गायत्र्या इत्य् अर्थः । काम्याष्टमी रोहिणीयुक्ताष्टमी । रसैर् दध्यादिभिः । प्रस्रवैः क्षीरैः । वेदव्रती वेदव्रतफलवान् । गवां यज्वा गोप्रदाता ।
कामान् सर्वान् पार्थिवान् एकसंस्थान्
यो वै दद्यात् कामदुग्धां च धेनुम् ।
[४७२] सम्यक्तास्यर्हव्यकव्यौघवत्यस् (?)
तासाम् उक्तम् आयससम्प्रदानम् ॥
न चाशिष्यायाव्रतायोपकुर्यात्
नाशान्ताय न च वक्रबुद्धये ॥
गुह्यो ह्य् अयं सर्वलोकस्य धर्मा
नेमान् धर्मान् यत्र तत्र प्रकल्पयेत् ॥
इति त्रिरात्रगोदानविधिः ।
अथाह वृद्धगौतमः ।
धेनुं पयस्विनीं हृद्यां घण्टाभरणभूषिताम् ।
हेमशृङ्गीं रौप्यखुरां वासोभिर् वेष्टितां नरः ॥
नवधान्यैः समायुक्ताम् एकैकं द्रोणपञ्चकम् ।
सहिरण्यां तु तां दद्याद् ब्राःमणाय कुटुम्बिने ॥
अलोलुपाय शान्ताय धर्मज्ञाय विशेषतः ।
होमश् च पूर्ववत् कार्यः समिदाज्यचरूत्कटम् ॥
पूर्ववद् इति रूप्यवृषभदानवद् इत्य् अर्थः ।
तस्मै हुतव्रतो दद्यात् पूजितायाङ्गुलीयकैः ।
गां कृष्णां कृष्णरूपाय मन्त्रेणानेन रोगवान् ॥
देवकीपुत्र चाणूरकंसारिष्टविनाशनः ।
नाशय न्रहणीं (?) कृष्ण गोपीजनमनोत्सवः ॥
दानमन्त्रः ।
कृतेनानेन दानेन ग्रहणीशान्तिम् ऋच्छति ।
तस्माद् एतत् तु कर्तव्यं ग्रहणीरोगिणा सदा ॥
इति ग्रहणीहरधेनुदानविधिः ।
[४७२]
तथा ।
धेनुं पयस्विनीं दाता लोहितां हेमशृङ्गिकाम् ।
तथा रूप्यखुरां रक्तवस्त्रेण समलङ्कृताम् ॥
ब्राह्मणायाग्निवर्णाय दद्यात् सत्कृत्य मानवः ।
पलेन वा पलार्धेन तदर्धेनाथ वा पुनः ॥
सुवर्णेन युतां शुभ्रां यद् वा स्वविभवेन तु ।
द्विजोत्तमाय श्रेष्ठाय सर्वशास्त्रार्थवेदिने ॥
धेनुं ताम् अतिसंहृष्टो मन्त्रेणानेन भक्तितः ।
गावो मे हृदये सन्तु गावो मे सन्तु पृष्ठतः ।
देवान् आयातु सुरभोकृपयासृग्दरम् मम ॥
दानमन्त्रः ।
विनाशयत्य् अदोदानम् अपि दीर्घम् असृग्दरम् ।
तेनेदं यत्नतः कुर्याद् असृग्दरगदार्दितः ॥
इति असृग्दरनाशनधेनुदानविधिः ।
अथ वैतरणीगोदानम् । आह व्यासः ।
आसन्नमृत्युना देया गौः सवत्सा तु पूर्ववत् ।
तदभावे तु गौर् एव नरकोद्धरणाय वै ॥
पूर्ववत् सुवर्णशृङ्गिकाविधिना ।
तदा यदि न शक्नोति दातुं वैतरणीं तु गाम् ।
शक्तो ऽन्यो ऽरुक् तदा दद्याच् छ्रेयो दद्यात् मृतस्य च ॥
अरुक् रोगरहितः ।
[४७४] अथ दानमन्त्रः ।
यमद्वारे महाघोरे कृष्णा वैतरणी नदी ।
तां तर्तुं गाम् ददाम्य् एतां तुभ्यं वैतरणीम् इति ॥
बर्ह्मवैवर्ते ।
युधिष्ठिर उवाच ।
यमद्वारे महाघोरे या सा वैतरणी नदी ।
किंरूपा किम्प्रमाणा सा कथं सा गर्हिता किल ॥
कथं तस्याः प्रमुच्यन्ते केषां वामस् तु सन्ततम् ।
केषां तथानुकूला सा एतद् विस्तरतो वद ॥
श्रीमार्कण्डेय उवाच ।
या सा वैतरणी नाम यमद्वारे मनानदी ।
तस्याः प्रमाणं रूपं च शृणु सर्वभयावहम् ॥
शतयोजनविस्तीर्णा पृथुत्वे सा महासरित् ।
अगादानन्तरूपा सा दृष्टमात्राद् भयावहा ॥
पूयशोणिततोया सा मांसकर्दमनिर्मिता ।
कृमिभिः सङ्कुलं भूयं वज्रतुण्डैर् अयोमुखैः ॥
शिशुमारैश् च मकरैर् वज्रकर्तरि संयुतैः ।
अन्यैश् च जलजैर् घोरैर् युक्ता सा मर्मभेदिभिः ॥
पतन्ति तत्र वैमर्त्यास् क्रन्दमानाः सुदारुणाः ।
हा भ्रान्तः पुत्र तातेति प्रलपन्तो मुहुर् मुहुः ॥
चिरम् अन्तर् निमज्जन्ति ग्लानिं गच्छन्ति देहिनः ।
चतुर्विधैः प्राणिगणैर् द्रष्टव्या सा महानदी ॥
[४७५] तरन्ति तस्या दानेन अन्यथा तु पतन्ति ते ।
धार्मिका दानशीलाश् च तां तरन्ति नरोत्तम ॥
सानुकूला भवेद् येन नदी वैतरणी नृणाम् ।
तत् शृणुष्व नरव्याघ्र कथ्यमानं युधिष्ठिर ॥
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।
अन्येषु पुण्यकालेषु दीयते दानम् आदरात् ॥
पाटलाम् अथ वा कृष्णां कुर्याद् वैतरणीं शुभाम् ।
सुवर्णशृङ्गीं रौप्यखुरां कांस्यपात्रसुदोहनाम् ॥
कृष्णवस्त्रयुगच्छन्नां सप्तधान्यसमन्विताम् ।
कार्पासद्रोणशिखरे आसीनां ताम्रभाजने ॥
यमं हैमं प्रकुर्याद् वै लोहदण्डसमन्वितम् ।
महामहिषम् आरूढम् ऊढपाशङ्करे परे ॥
इक्षुदण्डमयं बध्वा उडपं पट्टबन्धनैः ।
उडूपोपरि तां धेनुं सूर्यदेहसमुद्भवाम् ॥
कृत्वा प्रकाशयेद् विद्वान् छत्रोपानहसंयुताम् ।
सप्तदान्यानि द्रोणश् च, परिभाषायां व्याख्यातानि उडूपं क्षुद्रनौका ।
इमम् उच्चारयेत् मन्त्रं सङ्गृह्योदकमण्डलम् ॥
यमद्वारे महाघोरे दृष्ट्वा वैतरणीं नदीम् ।
तर्तुकामो ददाम्य् एनां तुभ्यं वैतरणीं च गाम् ॥
अधिवासनमन्त्रः ।
ॐ विष्णुरूप द्विजश्रेष्ठ भूदेव पङ्क्तिपावन ।
[४७६] सदक्षिणा मया तुभ्यं दत्ता वैतरणी नदी ॥
दानमन्त्रः ।
धर्मराजं च विप्रं च धेनुं वैतरणीं तथा ।
सर्वं प्रदक्षिणी कृत्य ब्राह्मणाय निवेदयेत् ॥
पुच्छं सङ्गृह्य तद्धेनोर् अग्रे कृत्वा च ब्राह्मणम् ।
धेनुके त्वं प्रतिक्षस्व यमद्वारे महालये ।
उत्तितीर्षुर् अहं देवि वैतरण्यै नमो नमः ॥
अनुव्रजनमन्त्रः ।
अनुव्रजेच् च गच्छन्तं सर्वं तस्य गृहे नयेत् ।
एवं कृते महीपाल सा सरित् सुखदा भवेत् ॥
तरते च तया धेन्वा सा सरिज्जलवाहिनी ।
सर्वाह्लादान् अवाप्नोति ये दिव्या ये च मानुषाः ।
रोगी तु रोगनिर्मुक्तः तथैवोपरमेत् स्मृतिः ॥
इतीदम् उक्तं तव धर्मसूनोः
पुण्यं मया वैतरणीप्रदानम् ।
शृणोति भक्त्या पठती ह स्मयक्
स याति विष्णोः पदम् अप्रमेयम् ॥
इति वैतरणीधेनुदानविधिः ।
अथोभयतोमुखीदानम् । स्कन्दपुराणे ।
प्रसूयमानां यो गां च दद्याद् उभयतोमुखीम् ।
यथोक्तेन विधानेन स जातिस्मरतां लभेत् ॥
[४७७] नन्दीपुराणे ।
यश् चोभयमुखीं दद्याद् गां विप्रे वेदवादिनि ।
देवाय वाप्य् अभीष्टाय स कुलान्य् एकविंशतिः ॥
समुद्धृत्य नरस् तिष्ठेन् नरकात् ब्रह्मणो ऽन्तिके ।
युगानि रोमतुल्यानि यदि श्रद्धापरो नरः ॥
याज्ञवल्क्यः ।
सवत्सारोमतुल्यानि युगान्य् उभयतोमुखीम् ।
दत्वा स्वर्गम् आप्नोति पूर्वेण विधिना ददत् ॥
पूर्वेण विधिना “हेमशृङ्गी शफै रौप्यैर्” इत्यादिना प्रत्यक्षधेनूक्तेन । विष्णुः- “अथ प्रसूयमाना गौः पृथिवी भवति । ताम् अलङ्कृत्य ससुवर्णां विप्राय दत्वा पृथिवीदानफलम् आप्नोति” । अत्र गाथा भवति ।
सवत्सारोमतुल्यानि युगान्य् उभयतोमुखीम् ।
दत्वा स्वर्गम् अवाप्नोति श्रद्दधानः समाहितः ॥
महाभारते ।
यावद् अर्धप्रसूता गौस् तावद् सा पृथिवी स्मृता ।
पृथिवी तेन दत्ता स्यात् तादृशीं गां ददाति यः ॥
देवलः ।
यावद् वत्समुखा योनौ न यायाद् गर्भनिष्कृतिः ।
यावन् न जायते धेनुस् तावद् भूः सचराचरा ॥
अलङ्कृत्योक्तविधिना सुवर्णत्रिपलान्विता ।
दातव्या द्विपला मध्या पलाढ्या कन्यसा मता ॥
दत्वेमां पुरुषः स्वर्गे वसत्य् अमरपूजितः ।
[४७८] गोवत्सरोमतुल्यानि युगानीप्सितभोगभाक् ॥
मत्स्यपुराणे ।
रुक्मशृङ्गीं रौप्यखुरां मुक्तालाङ्गूलभूषितां ।
कांस्योपदोहनां राजन् सवत्सां द्विजपुङ्गवे ।
प्रसूयमानां यो दद्याद् धेनुं द्रविणसंयुताम् ।
द्रविणम् अत्र दक्षिणारूपम्, तच् च भूरिदक्षिणा इत्य् अग्रे ऽभिधानाद् अनल्पम् प्रदेयम् ।
यावद् वत्सो योनिगतो यावद् गर्भं न मुञ्चति ।
तादव् गौः पृथिवी ज्ञेया सशैलवनकानना ॥
प्रसूयमानां यो दद्याद् धेनुं द्रविणसंयुताम् ।
ससमुद्रगुहा भूमिः सशैलवनकानना ॥
चतुरन्ता भवेद् दत्ता पृथिवी नात्र संशयः ।
यावन्ति धेनुरोमाणि वत्सस्य च नराधिप ॥
तावत्सङ्ख्यान् युगगणान् देवलोके महीपते ।
प्तॄन् पितामहांश् चैव तथैव प्रपितामहान् ॥
उद्धरिष्यत्य् असन्देहो नरकाद् भूरिदक्षिणः ।
घृतक्षीरवहाः कुल्याः दधिपायसकर्दमाः ॥
यत्र तत्र यतिस् तस्य भवेच् चेप्सितकामदा ।
गोलोकः सुलभस् तस्य ब्रह्मलोकस्य पार्थिवः ॥
स्त्रियश् च तं चन्द्रसमानवक्ता
प्रतप्तजाम्बूनदतुल्यवर्णाः ।
महानितम्बस्तनमध्यवृत्ता
[४७९] भजन्त्य् अजस्रं नलिनाभानेत्राः ॥
वराहपुराणे ।
सुवर्णशृङ्गी यः कृत्वा रौप्ययुक्तां खुरे ऽथ वा ।
ब्राह्मणस्य करे दत्वा सुवर्णं रौप्यम् एव वा ॥
कपिलायास् तदा पुच्छं ब्राह्मणस्य करे न्यसेत् ।
उदकं च करे दत्वा वाचयेत् श्रद्धयान्वितः ॥
ससमुद्रवना तेन सशैलवनकानना ।
रत्नपूर्णा भवेद् दत्ता पृथिवी नात्र संशयः ॥
पृथिवीदानतुल्येन दानेनैतेन मानवः ।
तारितैर् याति पितृभिर् विष्ण्वाख्यं पदम् अव्ययम् ॥
ब्रह्मस्वहारको गोघ्नो भ्रूणहा पाकभेदकः ।
महापातकयुक्तो ऽपि वञ्चको ब्रह्मदूषकः ॥
निन्दको ब्राह्मणानां च तेषां कर्माभिदूषकः ।
एवं पातकयुक्तो ऽपि गवां दानेन शुध्यति ॥
यश् चोभयमुखीं दद्यात् प्रसूतकनकावृताम् ।
तद्दिने पायसाहारः पयसा वापि वाहयेत् ॥
सुवर्णस्य सहस्रेण तदर्धेनापि ताम् इति ।
तस्याप्य् अर्धं शतं वाथ पञ्चाशच् च ततो ऽर्धकम् ॥
यथाशक्त्या प्रदातव्यं वित्तशाठ्यविवर्जितम् ।
इमां गृहाणोभयमुखीं भवां स्राता (?) ममास्तु वै ॥
मम वंशविशुद्धस्य सदा स्वस्तिकरी भव ।
इरावती धेनुमती च जप्त्वा देवस्योनात् तदनन्तरं ॥
प्रतिगृह्णामि त्वां धेनुं कुटुम्बार्थे विशेषतः ।
[४८०] स्वस्ति भवतु ते नित्यं रुद्रमातर् नमो नमः ॥
द्यौस् ते प्रतिददामि पृथिवी ते प्रतिगृह्णामि ।
क इदं कस्माद् ददेति जपेन् मन्त्रं वसुन्धरे ॥
विसृजेद् ब्राह्मणं देवि गां च तस्य गृहं नयेत् ।
उभयशिरसं दद्याद् इत्य् अनुवृत्तौ च्यवनः ।
तस्याः प्रदानकाला प्रसवकालो नान्यं कालं प्रतीक्षते । व्यतीपातविषुवायन-षदशीतिमुखविष्णुपदिग्रहणान्ताः ।
सर्व एव पुण्यकालाः तदैव यत्र चार्धप्रसूता तत्र स्नातो ब्राह्मणं ब्रूयात् श्रुतशैलसत्य-शौचवृत्तजातिक्रियाद्युर्गुणैर् उपेतं च कालेन प्रणिपत्य ब्रूयाद् दहमतीवारो भीतो ऽस्माद् अगाधाद् अपारात् संसारार्णवात् समुत्तारयामि दशापरान् दशपरान् आत्मानं च स्वामिन् भवन्तं दानपात्रम् आसाद्य स चानुग्रहबुद्ध्या नार्थलिप्सया गृह्णीत दाता च ताम् अनुमन्त्रयेत् त्वं महीम् अवनिं विश्वधेनुः क इदं कस्माद् इति गृहीतायां दक्षिणेन पाणिना वत्सम् आकर्षयेत् गर्भे तु सत्वेषाम् अवेदम् इति जपेत् । निष्कान्ते ऽग्निम् उपसमाधाय देवान् पितॄन् नदीः पर्वतान् वनस्पतीन्न् उदधीन् नागान् ओषधीस् तर्पयंस् तैस् तैर् मन्त्रिस् तेषां मन्त्रपदानि भवन्ति ये देवासो दिव्य् एकादशस्थाः उशन्तस् त्वा निधी महि इमं मे गङ्गे यमुने सरस्वति अद्रिभिः मुतोमतिभिश् (?) च नोहिते वनस्पते शतवत्सो निरोह समुद्रज्येष्ठाः सलिलस्य मध्याद् अहिर् इव भोगैः पर्येति राहुं मधुवाता ऋतायत इति मन्त्राः तद् अनु पार्थिवीभिः पृथिवीं तर्पयेद् दलैर् द्यावापृथिवी पूर्वचित्तं ये मही द्यौ पृथिवी च नः उर्व पृथ्वी बहुले दरे अन्ते गौरीर् मिमाय सलिलानि तक्षतीत्यादिभिश् चतुरशीत्याज्याहुतीर् जुहोति ब्राह्मणान् भोजयेत् **[४८१]** स्वस्त्ययनं वाचयीत । अथास्य कर्मणो व्युष्टिम् उदाहरन्ति अभक्ष्य्भक्ष्यम् अपेयपायिनं ब्रह्मघं पितृघ्नं सद्य एव पुनाति । उपाध्यायिनीं सुतां मित्रभार्यां मातरं मातृष्वसारं मातुलानीं भगिनीं भागिनेयीं शिष्यजायां धात्रीम् अन्याम् अप्य् अगम्यां गत्वोभयशिरसं सपरिकरां ब्राह्मणाय दद्यात् । परिकरो ऽस्याः सुवर्णं रूप्यं रत्नादि क्षेत्राणि ग्रामाणि वा धान्यानि वस्त्राणि लवणाद्याश् चन्दनाद्या गन्धाः शतं गवां तदर्धम् अर्धं वा सर्वस्वं वा सहतया ब्राह्मणाय दद्यात् महापातकमुक्तये, विमुक्तये ।
इति उभयतोमुखीदानविधिः ।
अथ गोदानप्रसङ्गेन वृषभदानम् अप्य् अभिधीयते । तत्र स्कन्दपुराणे ।
उत्पाद्य सस्यानि तृणं चरन्ति
तद् एव भूयः सकलं वहन्ति ।
न भारखिन्नाः प्रवदन्ति किञ्चित्
अहो वृषैर् जीवतिर् जीवलोकः ॥
ब्रह्मपुराणे ।
पुरा निर्मितवान् बर्ह्मा वृषभं धर्मरूपिणम् ।
श्वेतवर्णं चतुष्पादं सत्वैकगुणधारणात् ॥
धर्म इत्य् आह धर्मः स धर्मेण विधृताः प्रजाः ।
प्रजा धरत्य् अयं भूमौ धर्ममूर्तिर् वृषो यतः ॥
अतो वृषभदानेन दत्तं स्यात् सचराचरम् ।
कृत्वा तत्पार्श्वतस् तत्र छत्रोपानहकम्बलम् ॥
[४८२] वृशं सम्पूज्य पुष्पाद्यैर् वित्तशाठ्याद् ऋते नरः ।
श्रद्धया चैव यो दद्यात् तन् न मुञ्चति धर्मराट् ॥
सर्वसस्यैः सुखैश् चैव दातारं यो जयत्य् असौ ॥
आदित्यपुराणे ।
यो वै ददात्य् अनड्वाहं सुशीलं साधुवाहिनम् ।
उभयोः पार्श्वयोर् दत्वा छत्रोपानहकम्बलम् ॥
शीलवेदाङ्गसम्पन्ने हृष्टे शिष्टे द्विजे नरः ।
पुष्ये च जन्मनक्षत्रे अयने विषुवेषु च ॥
दत्वा तस्य अनड्वाहं सर्वरत्नैर् अलङ्कृतम् ।
दत्वा तस्य अनड्वाहं तस्मिन् स्थाने महामुने ॥
क्षुत्पिपादार्दितस्यापि अग्रतः प्रतिपद्यते ।
दत्वा प्रजापतेर् लोकान् विशोकः प्रतिपद्यते ॥ इति ।
कण्ठं प्रलम्बगलकम्बलं तथा
अनड्वाहं ब्राह्मणायाथ धुर्यम् ।
दत्वा युवानं बलिनं विनीतं
हलस्य वोढारम् अनन्तवीर्यं
प्राप्नोति लोकान् दशधेनुदस्य ॥
स्कन्दपुराणे ।
निवेद्य सद्गुणोपेतम् अनड्वाहं शिवाश्रये ।
दशधेनुप्रदानस्य फलं शोभनम् आप्नुयात् ॥
बृहस्पतिः ।
वेदव्रती स्याद् वृषभप्रदाने
वेदावाप्तिर् योगुतस्य प्रदाने ।
[४८३] देवलः ।
वृषयुग्मं वृषं वापि दत्वा गच्छेत् सुरालयम् ।
भुङ्क्ते मन्वन्तरं भोगान् द्विगुणान् युग्मलाङ्गली ॥
अनड्वाहौ तु यो दद्याद् द्विजे सीरेण संयुतौ ।
अलङ्कृत्य यथाशक्त्या सुवाहौ शुभलक्षणौ ॥
सर्वपापविशुद्धात्मा सर्वकामसमन्वितः ।
वर्षाणि वसति स्वर्गं रोमसङ्ख्याप्रमाणतः ॥
यो ददाति वलीवर्दम् उक्तेन विधिना शुभम् ।
अव्यङ्गं गोप्रदानाच् च भुङ्क्ते दशगुणं फलम् ॥
महाभारतम् ।
युवानम् इन्द्रियोपेतं शतेन सह यूथपम् ।
गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गम् अलङ्कृतम् ॥
ऋषभंये प्रयच्छन्ति श्रोत्रियाय परन्तप ।
ऐश्वर्यं ते ऽभिजायन्ते जायमानान् पुनः पुनः ॥
शतेन स्त्रीगवीनाम् इति शेषः । भूरिशृङ्गं सुवर्णशृङ्गम् । यमः ।
दान्तं धुरन्धरं दत्वा छत्रोपनहसंयुतम् ।
दशधेनुप्रदानाच् च यत् फलं तत् समश्नुते ॥
भविष्योत्तरात् ।
युधिष्ठिर उवाच ।
युष्मद्वाक्यामृतम् इदं शृण्वानो ऽहं जनार्दन ।
न तृप्तिम् अधिगच्छामि जातं कौतूहलं हि मे ॥
[४८४] गोपतिः किल गोविन्दस् त्रिषु लोकेषु विश्रुतः ।
गोवृषस्य प्रदानेन त्रैलोक्यम् अभिनन्दति ॥
तन् मे वृषभदानस्य फलं वै कथयाच्युत ॥
श्रीकृष्ण उवाच ।
वृषदानफलं दिव्यं शृणुष्व कथयामिते ।
पवित्रं पावनं चैव सर्वदानोत्तमं तथा ॥
दशधेनुसमो ऽनड्वान् एकश् चैव धुरन्धरः ।
दशधेनुप्रदानाद् धि वृष एको विशिष्यते ॥
वृषभश् चापि पुष्टाङ्गो ह्य् अरोगः पाण्डुनन्दन ।
युवा भद्रः सुशीलश् च सर्वदोषविवर्जितः ॥
धुरन्धरः स्थापयति एक एव कुलं महत् ।
त्राता भवति संसारे नात्र कार्या विचारणा ॥
अलङ्कृत्य वृषं शान्तं पुण्ये ऽह्नि समुपस्थिते ।
रौप्यलाङ्गूलसंयुक्तं ब्राह्मणाय निवेदयेत् ॥
मन्त्रेणानेन राजेन्द्र तं शृणुष्व वदामि ते ।
धर्मस् त्वं वृषभरूपेण जगदानन्दकारकः ॥
अष्टमूर्तेर् अधिष्ठानाम् अतः पाहि सनातनः ।
दत्वैवं दक्षिणायुक्तं प्रणिपत्य विसर्जयेत् ॥
सप्तजन्मकृतं पापं वाङ्मनःकायकर्मणा ।
तत् सर्वं विलयं याति गोदानसुकृतेन वै ॥
यानं वृषभसंयुक्तं दीप्यमानं सुश्ōभितम् ।
[४८५] आरुह्य कामगं दिव्यं स्वर्लोकम् अधिरोहति ॥
यावन्ति तस्य रोमाणि गोवृषस्य महीपते ।
तावद् वर्षसहस्राणि गवां लोके महीयते ॥
गोलोकाद् अवतीर्णस् तु इहलोके द्विजायते ।
सत्त्रयाजी महातेजाः सर्वब्राह्मणपूजितः ॥
ओजस्विनं भरसहं दृढकन्धरं च
यच्छन्ति ये वृषभशेषगुणोपपन्नम् ।
दत्तेन यद् भवति गोदशकेन पुण्यं
सत्यं भवन्ति भुवि तत्फलभागिनस् ते ॥
इति वृषदानविधिः ।
सनत्कुमार उवाच ।
हिरण्यवृषदानं च कथयामि समासतः ।
वृषरूपं हिरण्येन सहस्रेणाथ कारयेत् ॥
तदर्धेनाथ वा धीमांस् तदर्धार्धेन वा पुनः ।
अष्टोत्तरशतेनापि वृषभं धर्मरूपिणम् ॥
अत्र तु पात्रपरिमाणविशेषस्य हिरण्यस्य सहस्रादिसङ्ख्यया व्यवच्छेदः कर्तुं न शक्यत इति पूर्वप्रक्रान्तनिष्कशब्देनाकाङ्क्षा पूरणीया लिङ्गपुरानोक्तदानेषु निष्कैर् एव व्यवहारदर्शनाच् च ।
ललाटे कारयेत् पुण्ड्रम् अर्धचन्द्रं कलाकृतिम् ।
स्फटिकेन तु कर्तव्याः खुराश् च रजतेन च ॥
पुण्ड्रं तिलकम्, स्फटिकम्, खुरा रजतेन विधेयाः ।
[४८६] ग्रीवां तु पद्मरागेण ककुद् गोमेदकेन च ।
ग्रीवायां घण्टावलयं रत्नचित्रं तु कार्ययेत् ॥
वृषाङ्कं कारयेत् तत्र किङ्किणीकृतपन्नगम् ।
पूर्वोक्तदेशकाले च वेदिकोपरिमण्डले ॥
वृषाङ्को महेश्वरः । तन्मूर्तिलक्षणम् आह विश्वकर्मा ।
त्रिनेत्रस् तु चतुर्बाहुर् जटामण्डलमण्डितः ।
शूलखट्वाङ्गवरदाभयपाणिर् महेश्वरः ॥ इति ।
पूर्वोक्तदेशकाल इत्य् अत्र, देशकालकुण्डमण्डपवेदिकादिलिङ्गपुरानोक्तं तुलापुरुषदानविहितं वेदितव्यम् ।
वृषं च स्थापयेत् तत्र पश्चिमामुखम् अग्रतः ।
ईश्वरं पूजयेद् भक्त्या वृषारूढं वृषध्वजम् ॥
वृषेन्द्रं पूज्य गायत्र्या नमस्कृत्य समाहितः ॥
ॐ तीक्ष्णशृङ्गाय विद्महे धर्मपादाय धीमहि
तन् नो वृष्ः प्रचोदयात् ॥
इति वृषगायत्री ।
मन्त्रेणानेन सम्पूज्यो वृषो धर्मविवृद्धये ।
होतव्यं च घृताद्यैश् च यथाविभवविस्तरम् ॥
वृषः सम्पूज्य दातव्यो ब्राह्म्णेभ्यः शिवाय च ।
दक्षिणा चैव दातव्या यथावित्तानुसारतः ॥
एतद् यः कुरुते भक्त्या वृषदानम् अनुत्तमम् ।
शिवस्यानुचरो भूत्वा सुचिरं तत्र मोदते ॥
[४८७] प्रत्यङ्मुखं च वृषभं शिवाग्रतः स्थापयेत्, शिवस्य तत्पश्चिमे स्थापनात् । तद् उक्तं वातुले ।
वृषाङ्गे परितः कार्यं किङ्किणीवलयं शुभम् ।
ईश्वरं पूजयेत् पश्चात् पश्चिमां दिशम् आस्थितम् ॥
पूजयित्वा विधानेन वृषयागं तु कारयेत् ॥ इति ।
शिवाय चेति चकारः समुच्चये । कामिके त्व् एकाग्निपक्षो ऽपि ।
समिदाज्यचरूपेतम् एकम् अग्निम् अथापि वा । इति ।
दक्षिणादिकं प्राग्वत् ।
इति लिङ्गपुराणोक्तो हिरण्यवृषदानविधिः ।
अम्बरीष उवाच ।
यत् सूर्येण समाख्यातं दानं सर्वसुखावहम् ।
ईश्वराणां च निःस्वानां तन् मे व्याख्यातुम् अर्हसि ॥
वसिष्ठ उवाच ।
येनेश्वरो हरिद्रो वा करोति विधिना नृप ।
दानं सर्वगुणोपेतं तच् छृणुष्व यथा तथा ॥
भारादौ त्रिपलानां च वृषं कृत्वा विधानतः ।
युतं धेन्वाथ वा दद्याच् छक्तितो नृपसत्तम ॥
या मया धेनवः प्रोक्ता वृषास् तावन्त एव हि ।
हरये ता नियोज्याः स्युर् हराय च तथा वृषाः ॥
[४८८] सर्वभावात् ततो राजन् तिलपात्राणि नित्यशः ।
सर्वपापविनाशाय दीयते नृपसत्तमः ॥
गोमयेन समालिप्ते पट्टवस्त्रसमावृते ।
वृषं हेममयं तत्र रौप्यं वा रत्नसंयुतम् ॥
तस्य नीलमये शृङ्गे मौक्तिके चक्षुषी रदाः ।
द्वात्रिंशच् छुभवस्त्राणि विद्रुमौष्ठौ च नासिका ॥
मरकतं विनिर्दिष्टं कर्णौ वै हरिताश्मके ।
पद्मरागस्य वै पादा खुरा रप्यमयाः शुभाः ॥
राजतानि च रोमाणि क्षौमवस्त्रेण कम्बलम् ।
पादेन पुच्छम् उद्दिष्टं सर्वेषाम् अप्य् अयं विधिः ॥
वृषणौ स्फटिकस्यापि लिङ्गे मणिः प्रकीर्तितः ।
तथा धेनुर् यथानड्वान् सुवर्णस्य तु कारयेत् ॥
अभीष्टदेवतापूजां कुर्वीत तदनन्तरम् ।
मन्रेणानेन राजेन्द्र तं द्विजाय निवेदयेत् ॥
यो वृषो यज्ञदाने ऽभूच् छतानीकस्य निष्कलः ।
जातरूपमयं सो ऽयं तारिता मां न संशयः ॥
एतस्य विभवाद् दानं भक्त्या यः प्रतिपादयेत् ।
पृथुले वाप्य् अशक्ते वा तद् अनन्तफलं स्मृतम् ॥
निःस्वो वाप्य् एवम् एवं (?) हि कृत्वा दानम् अतन्द्रितः ।
तत्फलं समवाप्नोतिस्वल्पदानान् न संशयः ॥
इति वह्निपुराणोक्तो हेमवृषदानविधिः ।
[४८९]
सनत्कुमार उवाच ।
आषाढपौर्णमास्यां तु कार्तिके वाथ फाल्गुने ।
श्रद्दधानैर् जितक्रोधैर् देयम् एतद् यथाविधि ॥
जाम्बूनदस्य शुद्धस्य पलैस् त्रिंशतिभिस् तथा ।
तदर्धम् अर्धेन तथा यथाशक्त्या पलैस् त्रिभिः ॥
द्वाभ्याम् एकेन वा कार्यो वृषः सर्वाङ्गशोभनः ।
पलाद् ऊनो न कर्तव्यो दुःखशोकभयावहः ॥
मण्डपं कारयेद् दिव्यं परार्ध्यपट्टनिर्मितम् ।
तन्मध्ये तन्दुलैः शुक्लैर् मण्डलं कारयेच् छुभम् ॥
ततः प्रभाते विमले समुत्थाय जितेन्द्रियः ।
शुक्लाम्बरधरः स्नातः शुक्लमाल्यानुलेपनः ॥
कृतनित्यक्रियः शुक्लमालारत्नविभूषितः ।
नरो वा यदि वा नारी दिव्यभोगाभिलाषिणी ॥
सितवस्त्रयुगच्छन्नं स्थापयित्वा ततो वृषम् ।
सौवर्णमण्डपे तस्मिन् सुवर्णैर् बहुभिश् चितम् ॥
चन्दनागुरुकर्पूरैः सुमनोभिस् तथा सितैः ।
सम्पूजयेत् ततः सम्यक् मन्त्रैः पौराणसम्भवैः ॥
नमस् ते जगदाधार् प्रियः पुण्यकृताम् असि ।
त्वद्विहीने जगत्य् अस्मिन् न कश्चिच् छुभम् अश्णुते ॥
नमस् ते धर्मराजाय वृषरूपधराय वै ।
त्वं माम् उद्धर देवेश दुर्गसंसारसागरात् ॥
यशः कीर्तिर् धनं धान्यं यद् अन्यद् अपि संस्थितम् ।
तत् तत् प्रयच्छ देवेश परत्र च शूभां गतिम् ॥
[४९०] इति सम्पूज्य विधिवत् तं देवं वृषरूपिणम् ।
नैवेद्यं संस्तरे तत्र हविषा निर्मितं शुभम् ॥
कालोद्भवं मूलफलं सर्वं देवसमन्ततः ।
हविषान्नेन भुञ्जीत भोजयित्वा ततो द्विजान् ॥
सायाह्ने तु ततः कुर्यात् पुष्पगृहम् अनुत्तमम् ।
सितपुष्पैः शुभैर् गन्धैर् लुब्धन्मधुकराकुलैः ॥
फलमूलानि चान्यानि दीपाः शुक्लदशान्विताः ।
रात्रौ जागरणं कार्यं देवदेवस्य सन्निधौ ॥
वारमुख्याः समा नार्यो गान्धर्वान् श्रुतिसौख्यदान् ।
गीतवादित्रशब्देन ब्रह्मघोषरवेण च ॥
नर्मालापैश् च नृत्यैश् च गमयेत् तां निशां ततः ।
अरुणोदयेलायां समुत्थाय जितेन्द्रियः ॥
पूजयित्वा द्विजांस् तत्र गोहिरण्यैर् नरोत्तम ।
वृषरूपं ततो धर्मं प्रीयतां वृषभध्वज ॥
इत्य् उच्चार्य परं मन्त्रम् आचार्याय निवेदयेत् ।
दत्वा दानम् इदं सम्यक् विधिनानेन पार्थिव ॥
कुर्याद् दिग्विजयं विप्रो वेदकर्म समाचरेत् ।
वैश्यः समुद्रगमनं शूद्रः कर्म यथेप्सितम् ॥
फाल्गुन्याम् अथ वा दद्याद् दानम् एतन् नरोत्तम ।
रौद्रं कर्म विनिर्दिष्टं ब्रह्मणा शङ्करस्य हि ॥
[४९१]
इति गारुडपुराणोक्तं सुवर्णवृषदानविधिः ।
अथ रूप्यवृषदानम् ।
अथ कुष्ठहरं वक्ष्ये वृषदानम् अनुत्तमम् ।
यत् कार्यं कुष्ठरोगार्तैः शरीरसुखकारकम् ॥
पलैस् त्रिभिस् तु कुर्वीत द्वाभ्याम् एकन वा पुनः ।
राजतं वृषभं शुभ्रं हेमशृङ्गखुरं तथा ॥
महेश्वरेणोमया च कुर्वीत तमधिष्ठितम् ।
सौवर्णे प्रतिमे द्वे च पूर्वोक्तेन क्रमेण तु ॥
यथा विभवमानेन वित्तशाठ्यं न कारयेत् ।
पलाष्टके कांस्यपात्रे स्थापयेत् ते विचक्षणः ॥
श्वेतपुष्पैर् अक्षताभिः श्वेतवस्त्रैर् अलङ्कृतम् ।
ब्राःमणं विद्यासम्पन्नं स्वाचारं संयतेन्द्रियम् ॥
सर्वशास्त्रप्रवक्तारं प्रतिग्रहपराङ्मुखम्।
दान्तं कुलीनं धर्मज्ञम् अनुद्वेगकरं नृणाम् ॥
क्रोधलोभविहीनं च सर्वशाश्त्रार्थकोविदम् ।
गृहम् आहूय भक्त्या तं यथाविधि समर्चयेत् ॥
केयूरकटकैर् वस्त्रैर् माल्यैश् चैवाङ्गुलीयकैः ।
होमं च पूर्ववत् कुर्यान् मन्त्रैर् माहेश्वरैस् तथा ॥
उदङ्मुखोपविष्टाय महादेवस्य सन्निधौ ।
प्राङ्मुखो व्याधितो दद्यान् मन्त्रेणानेन धर्मवित् ॥
अष्टमूर्तिर् महेशानः कृपया वृषभध्वजः ।
श्वेतम् औदुम्बरं सर्वम् अथ वा चित्रम् एव च ॥
[४९२] त्वग्दोषजनितं यच् च मण्डलान्य् अथ वानघ ।
सर्वं कर्मविपाकोत्थं पार्वतीनाथ सर्वग ॥
कुष्ठहा भव सर्वेश रक्ष मां पार्वतीपते ॥
इति वायुपुराणोक्तो रूप्यवृषदानविधिः ।
आह बौधायनः ।
शुक्लपक्षस्य चाष्टम्यां द्वादश्याम् अथ वा पुनः ।
पलेन कुर्याद् वृषभं सान्द्रलोमसुराजतम् ॥
हेमशृङ्गं सुवर्णाक्षं रत्नपुष्पशूभाननम् ।
महेश्वरेणोमया च सौवर्णेन ह्य् अधिष्ठितम् ॥
अथाविभवतस् तत्र पर्माणं विधीयत् ।
उमामहेश्वररूपम् अत्र निरन्तरोक्तवृषदानवद् अवधेयम् ।
पलाष्टके ताम्रपात्रे वस्त्रेणावेष्ट्य भक्ततः ॥
देवस्यैकं वृषस्यैकं पार्वत्याश् चैकम् एव हि ।
श्वेतपुष्पैर् अक्षताभिः कुङ्कुमागुरुचन्दनैः ॥
पूजयेन् मूलमन्त्रेण तिलहोमं च कारयेत् ।
अष्टोत्तरशतं चाज्यमिश्रेण चार्यकेण तु ॥
आचार्यो वित्तसम्पन्नः स्वाचारः संयतेन्द्रियः ।
सर्वशास्त्रार्थवक्ता च शान्तो दान्तश् तथैव च ॥
धर्मप्रवीणो धिषणस् त्व् अनुद्वेगकरो नृणाम् ।
वृषदानप्रयोगज्ञो हरोमाभ्याम् अधिष्ठितम् ॥
वृषभं घण्टिकोपेतं दद्याद् ग्रैवेयभूषितम् ।
उदङ्मुखोपविष्टाय महादेवस्य सन्निधौ ॥
[४९३] प्राङ्मुखो व्याधितो भक्त्या मन्त्रेणानेन संयतः ।
अष्टमूर्ते महेशान कृपया वृषभध्वज ॥
उदुम्बरं वाजिनं वा दण्डमण्डलकं तथा ।
त्वग्दोषजनितं यच् च पूर्वकर्मविपाकिनः ॥
इहकर्मोद्भवं वापि मातृदोषेण वा पुनः ।
पितृदोषेण वा सर्वं रक्तदोषोद्भवं तथा ॥
विनाशय शरीरोत्तं पार्वतीप्रिय शङ्कर ।
वृषभस्य प्रदानेन उमाभ्याधिष्ठितस्य हि ॥
दानमन्त्रः ।
ब्राह्मणान् भोजयेच् चापि भक्त्या परमया युतः ।
कृतेनानेन कुष्टानि व्रजन्ति विलयं ध्रुवम् ॥
तस्मात् कुष्टाभिभूतानां करणीयम् इदं जगुः ॥
इत्य् अपररौप्यवृषदानविधिः ।
गारुडपुराणे ।
पलाष्टकेन् रौप्येण कृत्वा वृषभम् उत्तमम् ।
मुक्ताफलैर् अलङ्कुर्यात् पद्मरागैः शुशोभनैः ॥
सुवर्णगिलकोपेतं चारुचामरभूषितम् ।
गत्वा शिवालयं सम्यङ् पूजां कृत्वा शिवे ततः ॥
रुद्राध्यायं जपित्वा तु सषडङ्गरहस्यकम् ।
होमश् च शिवमन्त्रेण तिलाज्येन विधीयते ॥
अथाहूय द्विजवरं वेदवेदाङ्गपारगम् ।
[४९४] वस्त्राङ्कारमाल्यादैः पूजयित्वा शिवं ततः ॥
उमापते त्रिलोकेश जगत्कारणकारणम् ।
स्ववाहनप्रदानेन प्रीतो भव नमो ऽस्तु ते ॥
मन्त्रेणानेन तं दद्याद् धेमदक्षिणयान्वितम् ।
दानस्यास्य प्रदानेन शिवलोके महीयते ॥
इति तृतीयरूप्यवृषदानविधिः ।
स्कन्दपुराणे ।
रौप्यानड्वाहदानेन नरो यानेन गच्छति ।
अक्षयान् लभते लोकान् इन्द्रेण सह मोदते ॥
त्रिंशत्पलात् समारभ्य पलत्रितयम् अन्ततः ।
वृषं रूप्यमयं कृत्वा सर्वरत्नैर् अलङ्कृतम् ॥
क्षौमवस्त्रपरिच्छन्नं धान्यविन्यासभूषितम् ।
यथोक्तकाले पात्राय पवित्रायोपपादयेत् ॥
एवं कृत्वा नरो दानं सर्वान् कामान् अवाप्नुयात् ।
दानमन्त्रम् इमं प्राज्ञो दानकाले समुच्चरेत् ॥
धर्मस् त्वं वृषरूपेण जगदानन्दकारकः ।
अष्टमूर्तेर् अधिष्टानम् अतः पापि सनातनः ॥
एवं ददाति यो भक्त्या कलधौतमयं वृषम् ।
सर्वपापविनिर्मुक्तो देववद् दिवि मोदते ॥
इति चतुर्थरूप्यवृषदानविधिः ।
अथ भूमिदानाख्यम् अतिदानम् आरभ्यते । तत्र महाभारते ।
[४९५] भीष्म उवाच ।
अतिदानेषु सर्वेषु पृथिवीदानम् उच्यते ।
अचला ह्य् अक्षया भूमिर् दोग्धु कामान् अनुत्तमान् ॥
दोग्धि वासांसि रत्नानि पशून् व्रीहियवांस् तथा ।
भूमिदः सर्वभूतेषु शाश्वतीर् एधते समाः ॥
यावद् भूमेर् आयुर् इति तावद् भूमिद एधते ।
न भूमिदानाद् अस्तीह परं किञ्चिद् युधिष्ठिर ॥
भूमिम् एवह् ददुः पूर्वं ये भूमिं भुञ्जते ऽधुना ।
स्वकर्मणोपजीवन्ति नरा इह परत्र च ॥
य एतां दक्षिणां दद्यात् पृथिवीं पृथिवीपतिः ।
पुनश् च जननं प्राप्य स भवेत् पृथिवीप्तिः ॥
सङ्ग्रामे वा तुनुं जह्यात् दद्याद् वा पृथिवीम् इमाम् ।
इत्य् एतां क्षत्रबन्धूनां वदन्ति पर्माशिषम् ॥
पुनाति दत्ता पृथिवी दातारम् इति सत्तम ।
अपि पापसमाचारं ब्रह्मघ्नम् अपि वानृतम् ॥
सैव पापात् तारयति सैव पापात् प्रमुञ्चति ।
अपि पापकृतां राज्ञां प्रैगृह्णन्ति साधवः ॥
पृथिवीं नान्यद् इच्छन्ति पावनं ह्य् एतद् उत्तमम् ।
नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् ॥
दानं वा प्य् अथ वादानं नामास्याः परमं शिवम् ।
यः साधोर् भूमिम् आदत्ते न भूमिं विन्दते हि सः ॥
[४९६] भूमिं दत्वा तु शधुभ्यो विन्दते भूमिम् एव हि ।
यस्य विप्रानुशासन्ति साधोर् भूमिं सदैव हि ॥
न तस्य शत्रवो राज्ञः प्रशासन्ति वसुन्धरां ।
यत् किञ्चित् कुरुते पापं पुरुषो वृत्तिकर्षितः ॥
अपि गोचर्ममात्रेण भूमिदानेन पूयते ।
ये ऽपि सङ्कीर्णकर्माणो राजानो रौद्रकर्मिणः ॥
तेभ्यः पवित्रम् आख्येयं भूमिदानम् अनुत्तमम् ।
अल्पान्तरम् इदं शश्वत् पुराणा मेनिरे जनाः ॥
यो यजेताश्वमेधेन दद्याद् वा साधवे मह ।
सुवर्णं रजतं वस्त्रं मनिमुक्तावसनि च ॥
सर्वम् एतत् महीपाल ददाति वसुधां ददत् ।
सागरान् सरितः शैलान् काननानि च सर्वशः ॥
सर्वम् एतन् नरश्रेष्ठ ददाति वसुधां ददत् ।
ओषधीः क्षीरसम्पन्ना नगान् पुष्पफलान्वितान् ॥
काननान्य् उपशैलांश् च ददाति वसुधां ददत् ।
अग्निष्टोमप्रभृतिभिर् इष्ट्वा च स्वाप्तदक्षिणैः ॥
न तत् फलम् अवाप्नोति भूमिदानाद् यद् अश्नुते ।
तपो यज्ञः श्रुतं शीलम् अलोभः सत्यवादिता ॥
गुरुदैवतपूजा च नातिवर्तन्ति भूमिदम् ।
भर्तुर् निःश्रेयसे युक्तास् त्यक्तामानो रणे हताः ॥
ब्रह्मलोकगताः सन् तु नातिक्रामन्ति भूमिदम् ।
यथा जनित्री क्षीरेण स्वपुत्रं भरते सदा ॥
अनुगृह्णाति दातारं तथा सर्वरसैर् मही ।
[४९७] मृत्योर् वै किङ्करो दण्डस् तापो वह्निः सुदारुणः ॥
घोराश् च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ।
पिओतॄंश् च पितृलोकस्थान् देवलोके ऽथ देवताः ॥
सन्तर्पयन्ति शान्तात्मा यो ददाति वसुन्धरां ।
क्रिश्यमानाय चात्यर्थं वृत्तिग्लानाय सीदते ॥
भूमिं वृत्तिकरीं दत्वा सत्त्री भवति मानवः ।
यथा धावति गौर् वत्सं क्षरन्ति सततं पयः ॥
एवम् एव महाभाग भूमिर् भरति भूमिदम् ।
फालकृष्टां महीं दत्वा सबीजां सफलाम् अपि ॥
उद्यानं शरणं वापि तथा भवति कामदम् ।
यथा चन्द्रमसो वृद्धिर् अहन्य् अहनि जायते ॥
तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते ।
अत्र गाथां भूमिकृतां कीर्तयन्ति पुराविदः ॥
यां श्रुत्वा जामदग्नेन दत्ता भूः कश्यपाय वै ।
नृपा ददति माम् एव मां दत्वा माम् अवाप्स्यथ ॥
अस्मिन् लोके परे चैव ततश् चाजनने पुनः ।
य इमां व्याहृतीं देव ब्राह्मणीं ब्रह्मसंस्थिताम् ॥
श्राद्धस्य क्रियमाणस्य ब्रह्मभूयं स गच्छति ।
कृत्यया वाभिशस्तानां दुरिष्टशमनं महत् ॥
प्रायश्चित्तं महीं दत्वा पुनात्य् उभयतो दश ।
यो ब्राह्मण इमं वेद वेदवादं तथैव च ॥
प्रकृतिः सर्वभूतानां भूमिर् वै शास्वती मता ।
अभिषिच्यैव नृपतिं श्रवयेद् इमम् आगमम् ॥
[४९८] यथा श्रुत्वा महीं दद्यान् नादद्यात् साधुतश् च तां ।
स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत् ॥
स च दाता च विक्रान्तो यो ददाति वसुन्धराम् ।
आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः ॥
ददन्ति वसुधां स्फीतां ये वेदविदुषे द्विजे ।
यथा बीजानि रोहन्ति प्रकीर्णानि महीतले ॥
यथाकामाः प्ररोहन्ति भूमिदानसमार्जिताः ।
आदित्यो वरुणो विष्णुः ब्रह्मा सोमो हुताशनः ॥
शूलपाणिश् च भगवान् अभिनन्दन्ति भूमिदम् ।
सौवर्णा यत्र प्रासादा वासोधाराश् च कामदाः ॥
गन्धर्वाप्सरसो यत्र तत्र गच्छन्ति भूमिदाः ।
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् ॥
बृहस्पतेश् च संवादम् इन्द्रस्य च युधिष्ठिर ।
इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता ।
मघवान् वाग्मिनां श्रेष्ठं पप्रच्छेदं बृहस्पतिम् ॥
इन्द्र उवाच ।
भगवन् केन दानेन स्वर्गतः सुखम् एधते ।
यद् अक्षय्यम् अहार्यं च तं ब्रूहि वदतां वर ॥
इत्य् उक्तः स सुरेन्द्रेण ततो देवपुरोहितः ।
बृहस्पतिर् बृहत्तेजाः प्रत्युवाच पुरन्दरम् ॥
बृहस्पतिर् उवाच ।
सुवर्णदानं गोदानं भूमिदानं च वृत्रहन् ।
[४९९] ददाति यो महाप्राज्ञः सर्वपापैः प्रमुच्यते ॥
न भूमिदानाद् देवेन्द्र परं किञ्चिद् इति प्रभो ।
वसिष्ठम् अभिमन्यामि यथा प्राहुर् मनीषिणः ॥
पञ्च पूर्वादिपुरुषाः षट् ये च वसुधां गताः ।
एकादश ददद् भूमिं पवित्रातीह मानवः ॥
रत्नोपकीर्णां वसुधां यो ददाति पुरन्दर ।
स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते ॥
महीं स्फीतां ददद् राजा सर्वकामगुणान्विताम् ।
राजाधिराजो भवति तद्वद् दानम् उत्तमम् ॥
सर्वकामसमायुक्तां कास्यपं यः प्रयच्छति ।
सर्वभूतानि मन्यन्ते मां ददातीति वासव ॥
सर्वकामदुघां भूमिं सर्वकामपुरोगमाम् ।
ददातीह सहस्राक्ष स स्वर्गं याति मानवः ॥
मधु सर्पिः प्रवाहिन्यः पयोदधिवहास् तथा ।
सरितस् तर्पयन्तीह सुरेन्द्र वसुधाप्रदम् ॥
भूमिप्रदानान् नृपतिर् मुच्यते सर्वकिल्बिषात् ।
न हि भूमिप्रदानेन दानम् अन्यद् विशिष्यते ॥
पुण्यां मृदुरसां भूमिं यो ददाति पुरन्दर ।
न तस्य लोकाः क्षीयन्ते भूमिदानगुणार्जिताः ॥
सर्वथा पार्थिवेनेह सततं भूतिम् इच्छता ।
भूर् देया विधिवच् छक्र पात्रे सुखम् अभीप्सता ॥
अपि कृत्वा नरः पापं भूमिं दत्वा द्विजातये ।
अनुत्सृजति तत् पापं जीर्णां त्वचम् इवोरगः ॥
[५००] सागराः सरितः शैलास् तीर्थानि विविधानि च ।
एतानि भूमिदानस्य कलां नार्हन्ति षोडशीम् ॥
तस्मात् प्राप्यैव मेधावी दद्याद् विप्राय पर्थिव ।
न भूमिपतिना भूमिर् अधिष्ठेया कथञ्चन ॥
अग्निष्टोमप्रभृतिभिर् इष्ट्वा यज्ञैः सदक्षिणैः ।
न तत् फलम् अवाप्नोति भूमिदानाद् यद् अश्नुते ॥
दाता दशानुगृह्णाति दश हन्ति तथा क्षिपन् ।
पूर्वदत्तां हरन् भूमिं नर्कायोपगच्छति ॥
न ददाति प्रतिश्रुत्य दत्वा वा हरते तु यः ।
तौ च द्वौ वरुणैः पाशैस् तप्येते मृत्युशासनात् ॥
विन्ध्याटवीष्व् अतोयासु शुष्ककोटरवासिनः ।
कृष्णसर्पास् तु जायन्ते ये हरन्ति वसुन्धराम् ॥
पतन्त्य् अश्रूणि रुदतां दीनानाम् अवसीदताम् ।
ब्राह्मणानां हृते क्षेत्रे हन्युस् त्रिपुरुषं कुलम् ॥
आहिताग्निं समादाय कृशभृत्यं प्रियातिथिम् ।
वसुधां ये प्रयच्छन्ति नोपसर्पन्ति ते यमम् ॥
तथा ।
इक्षुभिः सततां भूमिं यवगोधूमशालिनीं ।
गोष्ठावाहनसम्पूर्णां बहुवीर्यसमार्जिताम् ॥
बीजगर्भां ददद् भूमिं सर्वरत्नपरिच्छदाम् ।
अक्षयांल् लभते लोकान् भूमिसत्त्रं हिस् तस्य तत् ॥
विधूय कल्मषं सर्वं राजा स्यात् सम्मतः सताम् ।
लोके महीयते सद्भिर् यो ददाति वसुन्धराम् ॥
यथाप्सु पतितः शक्र स्नेहबिन्दवः प्रसर्पति ।
[५०१] तथा भूमिकृतं दानं सस्ये सस्ये ऽभिवर्धते ॥
नृत्यगीतपरा नार्यो दिव्यमालाविभूषिताः ।
उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं नरम् ॥
मोदते च मुखं स्वर्गे देवगन्धर्वपूजितः ।
यो ददाति महीं सम्यग् विधिनेह द्विजातये ॥
शतम् अप्सरसां चैव दिव्यमालां विभूषिताम् ।
उपतिष्ठन्ति देवेन्द्र ब्रह्मलोके धराप्रदम् ॥
उपतिष्ठन्ति भूतानि सदा भूमिप्रदं नरम् ।
शङ्खं भद्रासनं छत्रं धराश्वा वरवारणाः ॥
भूमिदानस्य पुण्यानि हिरण्यनिचयास् तथा ।
आज्ञा सदा प्रतिहता जयशब्दो भवत्य् अथ ॥
भूमिदानस्य पुष्पाणि फलं स्वर्गः पुरन्दर ।
हिरण्यपुष्पाश् चौषध्यः कुशकाञ्चनशाद्वलाः ॥
अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत् ।
नास्ति भूमिसमं दानं नास्ति यज्ञसमो गुरुः ॥
नास्ति सत्यपरो धर्मो नास्ति दानसमो निधिः ।
एतद् आङ्गिरसीं कृत्वा वासवो वसुधाम् इमाम् ॥
वसुरत्नसमाकीर्णां ददाव् आङ्गिरसे तदा ॥
य इदं श्रावयेच् छ्राद्धे भूमिदानस्य संस्तवम् ।
न तस्य रक्षसां भागो नासुराणां भवत्य् उत ॥
अक्षयं च भवेद् दत्तं पितृभ्यश् च न संशयः ॥
देवलः ।
श्रेष्ठाच् छ्रेष्टतरं प्रोक्तं भूमिदानं द्विजातिभिः ।
तद् दत्वा पुरुषः स्वर्गे पूज्यते त्रिदशोत्तमैः ॥
[५०२] वाञ्छन्ति पितरो ऽप्य् एवं स्वर्गलोके व्यवस्थिताः ।
यद्य् अस्मत्कुलजः कश्चिद् भवत्य् अत्र निदानकृत् ॥
नरकस्था मरुल्लोके स्वर्गस्थाः परमं पदम् ।
यथा वयम् अतीता ये व्रजामस् तत्प्रभावतः ॥
किम् अत्र चित्रं दातारं यत् समुद्धरते धरा ।
प्रैग्रहग्रहीतारम् अपि तारयति द्विजम् ॥
न तद् यज्ञैर् व्रतैर् दानैर् दातृभिः फलम् आप्यते ।
अपि यद् दत्तया भूम्या दण्डत्रितयमात्रया ।
यद् दानं दीयते किञ्चित् परत्र स्याद् इहैव हि ॥
भूदानेन पुनः सर्वदानानां प्राप्यते फलम् ।
ते धन्यास् ते सुकृतिनः कृतार्थास् ते न संशयः ॥
सत्पात्राय प्रदत्तं यैर् भूदानं विधिना नरैः ॥
विष्णुधर्मोत्तरे ।
हंस उवाच ।
हस्तमात्रं तु यो दद्याद् भुवः पुरुषसत्तमः ।
तेनैव ध्रुवम् आयाति भूमिदानफलं नरः ॥
गोचर्ममात्रां तां दत्वा वसूनां लोकम् आप्नुयात् ।
शाकभूमिं नरो दत्वा लोकम् आङ्गिरसं लभेत् ॥
आरामभूमिं दत्वा च मारुतं लोकम् आप्नुयात् ।
जलाशयार्थं यो दद्याद् दारुणं लोकम् आप्नुयात् ॥
यस्य देवस्य वेश्मार्थं तस्य देवस्य सो ऽश्नुते ।
उद्यानभूमिं दत्वा च गन्धर्वैः सह मोदते ॥
रत्नाकरभवं दत्वा शक्रलोके महीयते ।
[५०३] अन्येषाम् आकरभुवं लोकानां यः प्रयच्छति ॥
तस्यापि गतिर् उद्दिष्टा लोके हौताशने द्विजाः ।
धान्यकरभुवं दत्वा नागपृष्ठे महीयते ॥
अञ्जनाकरभूमिं च यः प्रयच्छति वै द्विजाः ।
पितृभिर् यमलोकस्थः पूज्यते ऽसौ नरोत्तमः ॥
लवणाकरभूमिं च सोमलोके महीयते ।
ओषधाकरभूमिं च अश्वलोके महीयते ॥
शिस्वीशस्य प्ररोहां तु भुवं दत्वा नरोत्तमः ।
साध्यानां लोकम् आप्नोति नात्र कार्या विचारणा ॥
इन्धनाकरभूमिं च वह्निलोके महीयते ।
सर्वदानभूमिं धर्मज्ञो यः प्रयच्छति धर्मतः ॥
महत्पुण्यम् आप्नोति ब्रह्मलोकं च गच्छति ।
इक्षुभूमिं नरो दत्वा शालिभूमिम् अथापि वा ॥
सोमलोकम् आप्नोति सर्वकामांश् च विन्दति ।
गुल्मपुष्पलताकीर्णां यो बुवं सम्प्रयच्छति ॥
विमाने नन्दने सो ऽथ क्रीडत्य् अप्सरसां गणैः ।
पुष्पदं फलदं वृक्षं ददन्तीं पृथिवीं ददत् ॥
स्वर्गलोकपरिभ्रष्टो नगराधिपतिं भवेत् ।
ब्राह्मणाय गृहं दत्वा वसूनां लोकम् अश्नुते ॥
सारामभूमिदो विप्रः क्रीडते नन्दने वने ।
ग्रामप्रदः स्यान् नृपतिः सम्राट् नगरदो भवेत् ॥
[५०४] समग्रवसुधेशः स्याच् चक्रवर्ती च राज्यदः ।
स्वदत्तां परदत्तां वा यो हरेच् च वसुन्धराम् ॥
अप्य् एकाङ्गुलमात्रां वा प्रमादाज्ञानमोहितः ।
बहून्य् अब्दसहस्राणि धर्मे ऽपि पुरुषोत्तमः ॥
विष्ठायाम् कृमिताम् एति पितृभिः सहितस् तथा ।
स्वे राष्ट्रे पररष्ट्रे वा देवब्राह्मणसत्कृताम् ॥
चिरं नरकम् आप्नोति हृत्वा भूमिपतिर् भुवम् ।
भूमिं कृत्वा तु यः कुर्याद् देवब्राह्मणसान् (?) नरः ॥
स्वर्गलोकम् अवाप्नोति पुरुषो ऽपि सुदारुणः ।
षष्टिर् वर्षसहस्राणि स्वर्गे वसति भूमिदः ॥
आच्छेत्ता चानुमन्ता च तावन्ति नरकं वसेत् ।
पक्वसस्यां वसुमतीं यो ऽलङ्कृत्य प्रयच्छति ॥
कामगेन विमानेन ब्रह्मलोकं स गच्छति ।
भविष्यत्पुराणे ।
निवर्तनसहस्रायां सर्वसस्यप्ररोहिणीम् ।
दद्याद् भूमिं फलोपेतां भूमिदानं तद् उच्यते ॥
एकछत्रां महीं कृत्वा द्विजेभ्यः प्रतिपादयेत् ।
सम्पूर्णां यो नृप्ः कश्चिद् भूमिदानं तद् उच्यते ॥
कूर्मपुराणे ।
गोचर्ममात्रं भूखण्डम् अधिकं वा स्वशक्तितः ।
त्रिधा सदक्षिणं कृत्वा दत्वा शिवपुरं व्रजेत् ॥
त्रिधा सदक्षिणम् इति, पूर्वोक्तैकद्वित्रिसुवर्णैः सह दक्षिणम् इत्य् अर्थः ।
[५०५] बृहस्पतिः ।
अपि गोचर्ममात्रेण सम्यग् दत्तेन मानवः ।
धौतपापो विशुद्धात्मा स्वर्गलोके महीयते ॥
दशहस्तेन दण्डेन त्रिंशद् दण्डा निवर्तनम् ।
दश तान्य् एव गोचर्म ब्राह्मणेभ्यो ददाति यः ॥
यत् किञ्चित् कुरुते पापं पुरुषो लोभमोहितः ।
तत् सर्वं भूमिदानेन क्षिप्रम् एव विनश्यति ॥
कात्यायनः ।
मुच्यते ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः ।
भूमिं सर्वगुणोपेतां दत्वा पापात् प्रमुच्यते ॥
वृद्धवसिष्ठः ।
दशहस्तेन दण्डेन दशहस्तात् समन्ततः ।
पञ्च चाभधिकां दद्याद् एतद् गोचर्म कथ्यते ॥
मत्स्यपुराणं (?) ।
सप्तहस्तेन दण्डेन त्रिंशद् दण्डा निवर्तनम् ।
त्रिभागहीनं गोचर्ममानम् आह प्रजापतिः ॥
मानेनानेन यो दद्यान् निवर्तनशतं बुधः ।
विध्नानेन तस्याश क्षीयते पापसंहतिः ॥
तदर्धम् अथ वा दद्याद् अपि गोचर्ममात्रकम् ।
[५०६] भवनस्थानमात्रां गां सो ऽपि पापात् प्रमुच्यते ॥
तथा ।
यत् किञ्चित् कुरुते पापं जन्मप्रभृति मानवः ।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥
गवां शतं वृषश् चैको यत्र तिष्ठेद् अयन्त्रितः ॥
तद् धि गोचर्ममात्रं तु प्राहुर् वेदविदो जनाः ॥
अत्र चैतेषु गोचर्मप्रकारेषु उत्तममध्यमाधमभावेन व्यवस्था वेदितव्या सुवर्णं चात्र दक्षिणा । यद् आह माण्डव्यः ।
न हि भूमेः परं वस्तु गोः सुवर्णाच् च किञ्चन ।
अतो भुवि गवि प्राज्ञैः सुवर्णं दक्षिणा मता ॥ इति ।
भूमिदानमन्त्रस् तु मत्स्यपुराणे ।
तथा भूमिप्रदानस्य कलान् नार्हन्ति षोडशीम्।
दानान्य् अन्यानि मे शान्तिर् भूमिदानाद् भवत्व् इह ॥
अत्रैव (?) प्रयोगः ।
ॐ अद्य अमुकस्मिन् काले अमुकस्मिन् देशे अमुकसगोत्राय अमुकप्रवराय अमुकशर्मणे अमुकसगोत्रो ऽहं समुकप्रवरः अमुकशर्मा इमां भूमिं प्रियदत्तां विष्णुदैवतां अमुककामस् तुभ्यम् अहं सम्प्रददे न ममेति सपुष्पं कुशतिलोदकं ब्राह्मणहस्ते निक्षिपेत् । तेन च मनसा भूमिं प्रदक्षिणीकृत्य प्रतिग्रहः कार्यः भूमिः समीपे **[५०७]** चेत् साक्षात् प्रदक्षिणीकुर्यात् । ॐ अद्य अमुकसगोत्रायेत्यादि एतद् भूमिदानप्रतिष्ठार्थं एतत् सुवर्णं दक्षिणां तुभ्यम् अहं सम्प्रददे न ममेति ।
विश्वामित्रः ।
गोचर्ममात्रां यः पृथ्वीं ब्राह्मणाय प्रयच्छति ।
सर्वदः स तु विज्ञेयः शक्रवद् दिवि मोदते ॥
ग्रामं वा नगरं वापि विप्रेभ्यो यः प्रयच्छति ।
क्षेत्रं वा सस्यसम्पन्नं सर्वपापैः प्रमुच्यते ॥
बृहस्पतिः ।
आस्फोटयन्ति पितरः प्रगल्पन्ति पितामहाः ।
भूमिदो ऽस्मत्कुले जातः सो ऽस्माकं तारयिष्यति ॥
नन्दीपुराणे ।
दत्वा च भूमिं पुरुषः सश्रेयां सस्यमेदिनीम् ।
सुमेध्यां रम्यसंस्थानां फलवृक्षमनोरमाम् ॥
अनूषराम् अनाबाधां पात्रे बहुगुणान्विते ।
अप्य् एकपुरुषाधारां दत्वा भूमिं महात्मने ॥
दशकल्पानि वस्ति स्वर्गे विगतपातकः ॥
महाभारते ।
शीतवातातपसहां गृहभूमिं सुसंस्कृताम् ।
प्रदाय सुरलोकस्थः पुण्यान्ते (?) ऽपि न चाल्यते ॥
[५०८] तथा ।
प्रादेशमात्रां भूमिं तु यो दद्याद् अनुपस्कृताम् ।
न स सीदति कृच्छ्रेण न च दुर्गाण्य् अपाश्नुते ॥
मुदितो राजते प्राज्ञः शक्रेण सह नन्दति ।
यावन्ति लाङ्गलमुखेन रजांसि भूमेर्
भासम्पतेर् द्रुहितुर् अङ्गजरोमाणि ।
तावन्ति शङ्करपुरे स युगानि तिष्ठेत्
भूमिप्रदानम् इह यः कुरुते मनुष्यः ॥
गन्धर्वकिन्नरसुरासुरसिद्धसङ्घैर्
आधूतचामरम् उपेत्य महद् विमानम् ।
सम्पूज्यते पितृपितामहबन्धौयुक्तः
शम्भोः पुरं व्रजति चामरनायकः स्यात् ॥
स्वदत्तां परदत्तां वा यो हरेच् च वसुन्धराम् ।
स विष्ठायां कृमिर् भूत्वा पितृभिः सह मज्जति ॥
इति भूदानविधिः ।
तत्र शिवधर्मात् ।
यः शिवाह हलोपेतां सर्वसस्यप्ररोहिणीम् ।
महीं महीपतिर् दद्यात् तस्य पुण्यफलं शृणु ॥
यावद् दण्डा भवेद् भूमिर् मीयमाना समन्ततः ।
स तावत् कल्पसङ्ख्यानं रुद्रलोके महीयते ॥
एवं सर्वत्र विज्ञेयं फलं दण्डप्रमाणतः ।
ग्रामं खेटं पुरं क्षेत्रं विषयादि निवेदयेत् ॥
[५०९] सर्वसस्यजलोपेतं सर्वबाधाविवर्जितम् ।
ग्रामं शिवाय यो दद्याद् तस्य पुण्यफल्ं शृणु ॥
सर्वतीर्थेषु यत् पुण्यं ग्रामदानेन यत् फलम् ।
सूर्यकोटिप्रतीकाशैर् दिव्यस्त्रीकोटिसंयुतः ॥
संयुक्तः कोटिशो ऽनेकैः सर्वकामसमन्वितैः ।
विमानैर् ग्रामदानेन त्रिसप्तकुलसंयुतः ॥
यथेष्टम् ऐश्वरे लोके क्रीडते कालम् अक्षयम् ।
पुण्यं नगरदं तस्य ग्रामदानाच् छताधिकम् ॥
देशदानेन चात्यन्तं न शक्यं तत् प्रकीर्तितुम् ।
रत्नान्नपानगोऽश्वाद्यं सर्वं भूमौ प्रजायते ॥
तस्माद् भूमिप्रदानेन नरो भवति सर्वदः ॥
इति शिवभूमिदानविधिः ।
वराहपुराणे ।
विष्णवे विषयं ग्रामं ग्रामार्धम् अपि शक्तितः ।
दत्वा क्रीडति वैकुण्ठोपकुण्ठेषु (?) निरत्ययम् ॥
राजराजेश्वरः श्रीमान् अरोगः सुभगः सुखी ।
विद्यानां पारदश् चैव जायते कीर्तिमान् अपि ॥
निवर्तनसहस्रं यो विष्णवे विनिवेदयेत् ।
सर्वगीर्वाणदेवेषु स क्रीडति युगावधि ॥
निवर्तनशतेनापि यः प्रीणन्ति केशवम् ।
शतयोजनविस्तीर्णे स राजा भूतले भवेत् ॥
[५१०] अप् गोचर्ममात्रां यो ददाति हरये भुवम् ।
सप्तजन्मानि राजेन्द्र स श्रीमान् अभिजायते ॥
विष्णवे भोगम् उद्दिश्य क्षेत्रं वा गृहम् एव वा ।
यो ददाति स पुण्यात्मा सर्वपापैः प्रमुच्यते ॥
इति विष्णवे भूमिदानम् ।
भविष्यपुराणे ।
यः सूर्याय फलोपेतां सर्वसस्यप्ररोहिणीम् ।
महीं महीपतिर् दद्यात् तस्य पुण्यफलं शृणु ॥
भूभागाश् चैव यावन्तो भूतले भान्ति सत्तम ।
तावद्युगसहस्राणि स्वर्गलोके महीयते ॥
एवं सर्वत्र विज्ञेयं फलं द्रव्यानुसारतः ।
ग्रामखेटपुरक्षेत्रविषयादिनिवेदने ॥
सर्वसस्यफलोपेतं सर्वशत्रुविवर्जितम् ।
ग्रामं सूर्याय यो दद्यात् तस्य पुण्यफलं शृणु ॥
सर्वतीर्थेषु यत् पुण्यं सर्वव्रतेषु यत् फलम् ।
सर्वदानेषु यत् पुण्यं ग्रामदानेन तल् लभेत् ॥
सूर्यकोटिप्रतीकाशैर् दिव्यस्त्रीकोटिसङ्कुलैः ।
नानारत्नसमाकीर्णैः नानाकरसमन्वितैः ॥
विमानैर् ग्रामदानेन त्रिःसप्तकुलसंवृतः ।
यथेष्टं सर्वलोकेषु क्रीडते कालम् अक्षयम् ॥
पुण्यं नगरदानस्य ग्रामदानशतद्वयम् ।
[५११] देशदाने तदानन्तं फलम् आहुर् मनीषिणः ॥
इति भानुभूमिदानम् ।
अथ विद्यादानाख्यम् अतिदानम् आरभ्यते । तत्रादित्यपुराणे ।
त्रीणि तुल्यप्रदानानि त्रीणि तुलयफलानि च ।
सर्वकामदुघा नूनं गावः पृथ्वी सरस्वती ॥
नन्दीपुराणे ।
यस् तु पुण्यपरो मर्त्यो जिगीषुः कीर्तिसाधकः ।
स विधानेन वै दद्याद् विद्यां विविधकामदाम् ॥
नित्यं विद्याप्रदानं वै सर्मकामगुणाधिकम् ।
यतेत पात्रे सन्त्यक्तुं रहस्यं चैतद् उत्तमम् ॥
उद्दिश्य देवतां दत्तं प्रदानं यत्र कुत्रचित् ।
तस्याः समस्तपुण्यस्य फलं केन निरूप्यते ॥
गारुडपुराणे ।
दानानाम् उत्तमं दानं विद्यादानं विदुर् वधाः (?) ।
आहुः समस्तविद्यानां श्रियम् एवाधिदैवतम् ॥
यथा वरिष्ठो देवानां विष्णुः कारणपूरुषः ।
यथा च योषित् प्रवरा कमला पङ्कजालया ॥
आहुर् वलवतां श्रेष्ठो यथाज्योतिष्मतां रविः ।
[५१२] जलाशयानां प्रवरो यथायं सरितां पतिः ।
तथा विद्याप्रदः श्रेष्ठो गरीयांश् च गरीयसाम् ॥
पुण्यश् चापि स सर्वत्र यश् च विद्यां प्रयच्छति ।
इहामुत्रसुखक्षेमम् आहुर् विद्याधनं धनम् ॥
विद्ययामलया युक्तो विमुक्तिं यात् संयमी ।
विद्यया च सुखं गच्छेद् विद्यया च परां गतिम् ॥
विद्या प्रतिष्ठा भूतानां विद्यायोनिश् च देवता ।
तस्माद् विद्याप्रदो लोके सर्वदः प्रोच्यते बुधैः ॥
बृहस्पतिः ।
सहस्रम् एव धेनूनां शतं चानडुहा समम् ।
दशानडुत्समं यानं दशयानसमो हयः ॥
दशवाजिसमा कन्या भूमिदानं च तत्समम् ।
भूमिदानात् समं नास्ति विद्यादानं ततो ऽधिअम् ॥
विष्णुधर्मोत्तरे ।
विद्या कामदुघा धेनुर् विद्या चक्षुर् उत्तमम् ।
विद्यादानात् परं दानं न भूतं न भविष्यति ॥
विद्यावान् सर्वकामानां भाजनं पुरुषो भवेत् ।
तस्माद् विद्या हि ददता सर्वं दत्तं भवेद् इह ॥
पराध्यापनशक्तो हि पुरुषस् तु यद् अश्नुते ।
तपस् तत् परमं तस्य ब्रह्मलोकसमं स्मृतम् ॥
दानानाम् उत्तमं लोके तपसश् च तथोत्तमम् ।
विद्यादानं महाभागः (?) सर्वकामफलप्रदम् ॥
[५१३] देवीपुराणे ।
विद्याविवेकबोधेन शुभाशुभविचारणात् ।
विन्दते सर्मकामाप्तिं यस्माद् विद्या परा मता ॥
विद्यादानात् परं दानं त्रैलोक्ये ऽपि न विद्यते ।
येन दत्तेन चाप्नोति शिवं परमकारणम् ॥
तथा ।
सिद्धान्तमोक्षशास्त्राणि वेदाः स्वर्गादिसाधकाः ।
वेदाङ्गानीतिहासाश् च देया धर्मविवृद्धये ॥
गारुडं वालतन्त्रं च भूततन्त्राणि भैरव ।
शास्त्राणां पाठनाद् दानान् मातरः फलदा नृणाम् ॥
ज्योतिषं वैद्यशास्त्राणि गान्धर्वं लभते पदम् ।
विद्यया वर्तते लोको धर्माधर्मं च विन्दति ॥
विद्या तद्मात् सदा देया दृष्टादृष्टफलार्थिभिः ॥
विष्णुधर्मोत्तरे ।
धर्मशास्त्रप्रदानेन धर्मेण सह मोदते ।
सिद्धान्तानां प्रदानेन मोक्षं प्राप्नोति वैदिकम् ।
शास्त्राणि दत्वा चान्यानि नरः स्वर्गे महीयते ॥
नन्दीपुराणे ।
विद्याश् चतुर्दश प्रोक्ताः क्रमेण तु यथास्थितिः ।
[५१४] षडङ्गाश् चतुरो वेदा धर्मशास्त्रं पुरातनम् ।
मीमांसा तर्कम् अपि च एता विद्याश् चतुर्दश ॥
धर्मशास्त्रं स्मृतयः । पुरातनं पुराणम् ।
आसाम् एवान्तरोत्पन्नाः परा विद्याः सहस्रशः ।
आयुर्वेदः सस्यवेदो बहुभेदः प्रकीर्तितः ॥
सस्यवेदः कृषिशास्त्रम् ।
सर्वात्मा चात्मविद्या च संसारभयनाशिनी ।
सर्वदुःखान्तकरणी सर्वपापप्रणाशनी ॥
एता विद्याः समाख्याता बहुभेदोपभेदजाः ।
कलाविद्यास् तथा चान्याः शिल्पविद्यास् तथापराः ॥
शिल्पविद्या प्रतिमादिनिर्माणशास्त्रम् ।
सर्वा एता महाभागाः सर्वाः सर्वार्थसाधकाः ।
मताश् च तारतम्येन विशिष्टफलसाधिकाः ॥
आत्मविद्या प्रधाना तु तथायुर्वेदसंहिताः ।
धर्माधर्मप्रणयिनी कलाः शिल्पार्थसाधिकाः ॥
सस्यविद्या च वितता एता विद्या महाफलाः ।
धर्माधर्मप्रणयिनी धर्माधर्मप्रसाधिकाः ॥
ययैको जीवति प्राणी कयापि किल कुत्रचित् ।
अप्रधानापि सा विद्या कुलानां शतम् उद्धरेत् ॥
[५१५] अप्रधाना अवान्तरविद्या ।
यापि साप्य् अवबोधत्वाद् विद्या वै यत्र कुत्रचित् ।
प्रयास्यत्य् अक्षयाल् लोकान् विधिना वाविधानतः ॥
अवबोधत्वाद् अवबोधहेतुत्वात्, प्रयास्यतीत्य् अन्तर्भावितो ण्यर्थः तेन प्रयापयिष्यतीत्य्
अर्थः ।
शिल्पविद्या नरो दत्वा यान्ति वै ब्रह्मणो ऽन्तिकम् ।
कलाविद्यां नरो दत्वा वैष्णवं लोकम् आप्नुयात् ॥
कल्पम् एकं न सन्देहः स्वर्गभोगसमन्वितः ।
सस्यविद्यां नरो दत्वा तृप्तिमान् कामसंयुतः ॥
प्रजापतिपुरं गच्छेन् नरकात् तारयेत् पितॄन् ।
आयुर्वेदं नरो दत्वा लोकान् प्राप्नोति निर्मलान् ॥
अश्विनोर् दिव्यकामाद्यान् दिव्यमन्वन्तरं नरः ।
तर्कविद्यां नरो दत्वा वारुणं लोकम् आप्नुयात् ॥
मीमांसां तु बुधे दत्वा शास्त्रम् इन्दुपुरे वसेत् ।
धर्मशास्त्रं नरो दत्वा स्वर्गलोके महीयते ॥
दशमन्वन्तरान् मर्त्यस् तारयेन् नरकात् पितॄन् ।
वेदविद्यां नरो दत्वा स्वर्गलोकत्रयं वसेत् ॥
आत्मविद्यां च यो दद्यात् तस्य सङ्ख्या न शक्यते ।
पुण्यस्य गदितुं सम्यग् अपि वर्षशतायुतैः ॥
एतावच् छक्यते वक्तुं यत् कल्पायुतम् उत्तमम् ।
सत्यलोके वसेन् मर्त्यो यत्र ब्रह्मा वसेत् प्रभुः ॥
[५१६] अप्य् एकं निरुजीकृत्य जन्तुं यादृशतादृशम् ।
आयुर्वेदप्रभावेन किं न दत्तं भवेद् भुवि ॥
सस्यवेदप्रसादेन सम्पन्नाः सस्यशालयः ।
किं न नाम कृतं तत्र पुण्यं भवति शाश्वतम् ॥
मीमांसाशास्त्रमाहात्म्यं बुद्ध्वा वै वेदनिर्णयम् ।
किं न नाम शुभं दातुर् यज्ञकर्मप्रवर्तनात् ॥
आत्मविद्या च पौराणी धर्मशास्त्रात्मिका च या ।
एता विद्यास् त्रयीमुख्याः सर्वदानक्रियाफलैः ॥
धर्मशास्त्रं नरो बुद्ध्वा यत् किञ्चिद् धर्मम् आश्रयेत् ।
तस्य धर्मं शतगुणं धर्मशास्त्रप्रदस्य च ॥
पुराणाख्यानविद्वांसः पितृदेवार्चने रताः ।
लोकान् सर्वान् कामपूर्णान् यान्ति सर्वशुभोदयात् ॥
पुराणविद्यादातारस् त्व् अनन्तफलभागिनः ।
आत्मविद्याप्रदातारो नरा धर्मसमाश्रयात् ॥
न पुनर् योनिनिरयं प्रविशन्ति दुरत्ययम् ।
उत्तीर्णाः सर्वपापेभ्यः सपुत्रपशुबान्धवाः ॥
मुच्यन्ते निरयैर् घोरैर् असङ्क्यैर् यातनात्मकैः ॥
तथा ।
श्लोकं प्रहेलिकां गाथाम् अन्यथा वा शुभाषितम् ।
दत्वा प्रीतिकरं याति लोकम् अप्सरसां शुभम् ॥
वराहपुराणे ।
रामायणं भारतं च दत्वा स्वर्गे महीयते ।
पुराणं तर्कशास्त्रं च छन्दोऽलङ्कारलक्षणम् ॥
[५१७] वेदमींआंसिकान् दत्वा शिवधर्मं च वै नृप ।
सप्तद्वीपपृथिव्यां च राजराजो भवेत् तु सः ॥
पाणिनीयं निरुक्तादि वेदाङ्गं स्मृतयस् तथा ।
दत्वा ज्ञानम् अवाप्नोति वेदान्तं च विशेषतः ॥
नित्यं देयानि राजेन्द्र गावः पृथ्वी सरस्वती ॥
इति विद्यादानप्रशंसा ।
अथ वेददानं तावन् निरूप्यते । आदित्यपुराणे ।
सर्वेषाम् एव दानानां ब्रह्मदानं विशिष्यते ।
कार्यं न गोमहीवासतिलकाञ्चनसर्पिषाम् ॥
ब्रह्मदानं वेददानम् । याज्ञवल्क्यः ।
सर्वधर्ममयं ब्रह्म प्रदानेभ्यो ऽधिकं यतः ।
तद् ददत् समवाप्नोति ब्रह्मलोकम् अविच्युतः ॥
महाभारते ।
यो ब्रूयाच् चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम् ।
पृथिवीगोप्रदानाभ्यां स तुल्यं फलम् अश्नुते ॥
ब्राह्मी वेदार्थानुगमा । तथा ।
अधीत्यापि च यो वेदान् न्यायविद् यः प्रय्च्छति ।
गुरुकर्मप्रशस्तो ऽयं सो ऽपि स्वर्गे महीयते ॥
[५१८] विष्णुधर्मोत्तरे ।
वेददानाद् अवाप्नोति सर्वयज्ञफलं नरः ।
उपवेदप्रदानेन गन्धर्वैः सह मोदते ॥
वेदाङ्गानां च दानेन शक्रलोकम् अवाप्नुयात् ॥
गारुडपुराणे ।
विद्यानां परा विद्या ब्रह्मविद्या समीरिता ।
अतस् तद्दानतो राजन् सर्वदानफलं भवेत् ॥
आयुः [आहुः?] समस्तविद्यानां वेदविद्याम् अनुत्तमम् ।
अतस् तद्दातुर् अस्त्य् एव लाभः स्वर्गापवर्गयोः ॥
देवीपुराणे ।
वेद एव द्विजातीनां साधनं श्रेयसः परम् ।
अतः स्वाध्यापनाभ्यासात् परं ब्रह्माधिगच्छति ॥
तम् एव शीलयएत् प्राज्ञः शिष्येभ्यस् तं प्रदापयेत् ।
तदभ्यासप्रदानाभ्यां तत् किं यन् नाधिगच्छति ॥
अङ्गोपाङ्गसमायुक्तं यो वेद वेदकृत्स्नशः ।
न स लिप्यते पापेन ददन् मोक्षम् अवाप्नुयात् ॥
तथा ।
मनुर् उवाच ।
किं वेदरूपं मानं च उपाङ्गसङ्ख्याभेदतः ।
अङ्गानि चैव वेदानां तन् नो ब्रूहि सनातन ॥
ब्रह्मोवाच ।
ओङ्कारप्रभवा वेदा गायत्री वेदसम्भवा ।
[५१९] षडङ्गास् ते समाख्याता सहोपाङ्गास् तथैव च ॥
छन्दोलक्षणसंयुक्ता मातृकागर्भजाः स्मृताः ।
एक एव भवेद् वेदश् चतुर्वेदः पुनः कृतः ॥
शाखार्यम् अल्पयुक्तानां ग्रहणायातिविस्तरात् ।
संविभक्ता मया वत्स ऋग्यजुःसामाथर्वकाः ॥
तत्र भेदास् तु ऋग्वेदे दश चैव प्रकीर्तिताः ।
आस्तयाः साङ्क्यचर्चाश् च आवका चर्चका तथा ॥
आवणीयावक्रमाषाः षट्क्रमाः षडनुक्रमाः ।
दण्डाश् चेति समासेन पुनर् एकैव पारणाः ॥
शाखाश् च त्रिविधा भूप शाकलायाष्कमाण्डुकाः ।
तेषाम् अध्यापनं प्रोक्तं मण्डलानि च सप्ततिः ॥
चर्चानां परिसङ्ख्या तु चतुर्विंशच्छतानि च ।
ऋचां दशसहस्राणि ऋचां पञ्चशतानि च ॥
ऋचाम् अशीतिः पादश् च एतत् पारणम् उच्यते ।
ऋग्वेदे तु भवेत् सङ्ख्या यजुर्वेदस्य श्रूयताम् ॥
षडशीतिर् विभेदेन मया भिन्नाः शिवाज्ञया ।
दशधा चरकास् तत्र क्वरकाहारिद्रवीयाः ॥
कठाः प्राच्यठाश् चैव कपिष्ठलकठास् तथा ।
नारायणीयाः श्वेताः श्वेताश्वतरमैत्रायणाः ॥
पुनः सप्त विभेदेन मैत्रायण्याः प्रकीर्तिताः ।
मानवा दुन्दुभा वाराहा छागेया हारिद्रवीयाः ॥
[५२०] श्यामाः श्यामायनीयाश् च तेषाम् अध्ययनम् उच्यते ।
अष्टादशसहस्राणि पाठा वेदविदो ऽविदन् (?) ॥
द्विगुणं पादपारीयास् त्रिगुणं क्रमपारगाः ।
षडङ्गानि यदाधीते स षडङ्गविद् उच्यते ॥
शिक्षाकल्पो व्याकरणं निरुक्तं छन्दोज्योतिषम् ।
षडङ्गानि भवन्त्य् एतान् उपाङ्गानि शृणुष्व भो ॥
प्रतिपदम् अनुपदं छन्दोभाषासमन्वितम् ।
मीमांसान्यायतर्कश् च उपाङ्गाः परिकीर्तिताः ॥
परिशिष्टाश् च सङ्ख्याता अष्टादश शृणुष्व तान् ।
यूपलक्षणं छागलक्षणं प्रतिष्ठानुवाकसङ्ख्याचरणव्यूहश्राद्धकल्पसूक्तानि परिषदम् ऋग्युजुषम् इष्टकापूरणं प्रवराध्यायोञ्छशास्त्रं क्रतुसङ्ख्या नियमा यज्ञपार्श्वहोतृकम् ।
व्रतं च प्रसवोत्थानकूर्मलक्षणसंयुतम् ।
कथिताः परिशिष्टास् तु द्व्यूनविंशतिसङ्ख्यया ॥
कठानां पुनर् यान्य् आहुश् चत्वारिंशच् चतुर्युतान् ।
प्राच्योदीच्या निरुह्याश् च वाजसनेयास् तु पञ्च च ।
दशभेदविभिन्नाश् च द्रष्टव्या मुनिपुङ्गव ॥
जाबालाबौधेयाकान्वामाध्यन्दिनाश्वशापेथाः ।
सुपायिनः कपालाख्याः पौण्ड्रवसावटिकाः ॥
परमा रविकाः पराशरा ऋद्ध्याबौधायनीयाः ।
आयोध्या आयोधेयाश् च तेषाम् अध्ययनानि च ॥
द्विसहस्रे शतन्यूने वेदे वाजसनेयके ।
ऋग्गणो ऽयं प्रसङ्ख्यातस् ततो ऽन्यानि यजूंषि च ॥
[५२१] एतत् प्रमाणं यजुषां हि केवलम् ।
सखिलं ससुक्रियं परिसङ्ख्यातं ब्राह्मणम् ।
चतुर्गुणं तु जानीयात् तैत्तिरीया द्विधा पुनः ॥
ऋषयाः खाण्डिकेयाश् च खण्डिकाः पञ्चधा पुनः ।
कालेया बौधायनीया हिरण्यकेशास् तथैव च ॥
भारद्वाजापस्तम्बाश् च तेषां भेदाः प्रकीर्तिताः ।
अध्ययनं सौप्तिकं चैव प्रवचनीयं तथापरम् ॥
सामवेदस् तु विस्तीर्णः सहस्रभेदशः पुरा ।
अनध्यायेष्व् अधीयन्ते तदा इन्द्रेण धीमता ॥
वज्रेण निहताः शेषास् तान् वक्ष्ये शृणु सन्त्रम ।
रामायणीयाः कौथुमास् तत्र भेदान् पुनः शृणु ॥
रामायणीयाः सप्तैव सुग्राह्यास् तपतां वर ।
कालवेया महाकालवयालाङ्गलवैद्युताः ॥
कौथुमानाम् अपि सप्त असुरावानरायणाः ।
प्रजालाद्वैनभृत्याश् च परियोग्याः परिकायनाः ॥
अध्ययनम् अपि तेषां केषां तु यथावत् कथितं शृणु ।
अष्टौ सामसहस्राणि सामानि च चतुर्दश ॥
अष्टौ शतानि नवतीः दश सवालखिल्यकाः ।
ससुपर्णाश् च प्रख्याश्च एतं सामगणं विदुः ॥
अथो अथर्ववेदस्य नवभेदा भवन्ति हि ।
पिप्पलादा वत्सदाश् च भूतायनाः कातयस् तथा ॥
जज्ञला ब्रह्मवेदाश् च शौनकी कनखी तथा ।
वेदऋषिश् चौतविद्या तेषाम् अध्ययनं शृणु ॥
[५२२] पञ्चकल्पा भवन्ति ।
नक्षत्रकल्पो वैतानः संहिताविधिः आङ्गिरसं ।
शान्तिकल्पश् च अथर्वणो भवन्ति ह ।
सर्वेषाम् एव वेदानाम् उपवेदान् शृणुष्व तान् ।
ऋग्वेदस्यायुर्वेदो यजुर्वेदो धनुस् तथा ॥
सामवेदस्य गान्धर्व अर्थशास्त्राण्य् अर्थर्वणः ।
ऋग्वेदस्यात्रेयं गोत्रं सोमं देवं विदुर् बुधाः ॥
काश्यपश् च यजुर्वेदं रुद्रवेदं तु तं विदुः ।
सामवेदो ऽपि गोत्रेण भारद्वाजः पुरन्दरम् ॥
अधिदैवं विजानीयाद् वैतानं तु अर्थर्वणे ।
ब्रह्मदेवं विजानीयाद् रपाण्यस्मत् शृणुष्व भो ॥
ऋग्वेदः पद्मपत्राक्षः प्रलम्बजठरः शुचिः ।
भक्तग्रीवः कुञ्चितकेशश्मश्रुः प्रमाणेनापि वितस्ती ॥
पञ्चराजत मोक्तिकहो ऽथ पूज्यो वरप्रदो भुक्तियुतो द्विजाय । यजुर्वेदः पिङ्गलाक्षः कृशमध्यस्थूलगलकपोलस् ताम्रायतवर्णः, कृष्णचरणः प्रसादेन पददीर्घत्वेन,
चित्रे लिङ्गे ऽथ वा पूज्यः सर्वकामान् अवाप्नुयात् ।
सामवेदो नित्यं कृष्णचरणः प्रसादेन पददीर्घत्वेन,
चित्रे लिङ्गे ऽथ वा पूज्यः सर्वकामान् अवाप्नुयात् ।
सामवेदो नित्यस्रग्वी सुव्रतः शुचिः,
शुचिवासा क्षमी दान्तश् च महादण्डी काचरणनयनः
आदित्यवर्णो वर्णेन षडरतिमात्रः,
ताम्रे वाथ मणौ देयः पूजितः शुभदो भवेत् ।
[५२३] अथर्ववेदस् तीक्ष्मदण्डः कामरूपो विश्वात्मा विरक्तऊर्द्ध्वज्वालः ।
क्षुद्रकर्मा शास्त्रकृती स्थायी नीलोत्पल वर्णो वर्णेन स्वदारतुष्टः ।
परस्त्रीष्व् अवशः पद्मरागे वाथ प्रपूजयेत् ।
सर्वकामान् अवाप्नोति अथर्वविहितानि च ॥
य एतं नामरूपं तु गोत्रवेदप्रमाणजम् ।
वर्णं वर्णं च यो विद्यात् स पुण्यफलभाग् भवेत् ॥
गारुडपुराणे ।
अथ दानविधिं वक्ष्ये रहस्यं परमं मतम् ।
यं निधाय नरो घोरान् निरयान् नोपसर्पति ॥
आम्नायरूपाणि विधाय सम्यक्
हैमानि पूर्वोदितलक्षणानि ।
विशुद्धमानामणिभूषितानि
ऋगादिवेदक्रमतो निवेश्य ॥
ऋग्वेदादिलक्षणम्, महाभूतघटदाने दर्शितम् ।
वासांसि देयानि यथाक्रमेण
पीतानि शुक्लान्य् अथ लोहितानि ।
नीलानि चैवं कुसुमानि दत्वा
सम्पूज्य गन्धाक्षतधूपदीपैः ॥
आमोदिमोदकयतं घृतपायसं च
[५२४] सक्षौद्रम् अन्नम् अथ यूपघृतं क्रमेण ॥
तेभ्यो निवेद्य प्रथितं विधिवत् प्रणम्य ।
सम्यक् प्रदक्षिणविधिं विदधीत विद्वान् ॥
तेषां पूजाविधिः कार्यो गायत्र्या धीमतां वर ।
व्याहृत्य व्याहृतीः कुर्याद् आवाहनविसर्जने ॥
मन्त्रैर् एतैस् ततः कुर्याद् अमीषाम् अनुमन्त्रणम् ।
ऋग्वेद पद्मपत्राक्ष रक्ष रक्ष क्षिपाशुभम् ॥
शरणं त्वां प्रपन्नो ऽस्मि देहि मे हितम् अद्भुतम् ।
यजुर्वेद नमस् ते ऽस्तु लोकत्राणपरायणः ॥
त्वत्प्रसादेन मे क्षेमाः निखिलाः सन्तु सन्ततम् ।
सामवेद महाबाहो त्वं हि साक्षाद् अधोक्षजः ॥
प्रसादसुमुखो भूत्वा कृपयानुगृहाण माम् ॥
अथर्वन् सर्वभूतानां त्वदायत्ते हिताहिते ।
शान्तिं कुरुष्व देवेश पुष्टिम् इष्टां प्रयच्छत ॥
इति सम्प्रार्थ्य देवेशान् विप्रेभ्यः प्रतिपादयेत् ।
प्रदद्याद् एकम् एकस्मिन् सुवर्णत्रिपलान्वितम् ॥
दद्याद् एकपलोपेतम् एकैकम् इह दुर्बलः ।
अथ स्वशक्तितो वापि दानम् एषां विधीयते ॥
एतद् एव प्रमाणं स्यात् तेषां मूर्तिविनिर्मितौ ।
अनधीतवतो वेदान् वेददानविधिस् त्व् अयम् ॥
सदाध्ययनयुक्तस्य शिष्याध्यापकम् एव हि ।
स्वयं शुचिः शुचीन् विप्रान् प्रातः स्नातो यतेन्द्रियः ॥
दर्भान् आदाय पाणौ तु पाठयेत् तां तथाविधान् ।
[५२५] अनध्यायान् परिहरन् नीचान् अश्रावयन्न् अपि ॥
एवं विधानतो यस् तु ऋचम् एकां प्रयच्छति ।
त्रिवित्तपूर्णसम्पूर्णा तेन दत्ता मही भवेत् ॥
न तत् कल्पसहस्रेण गदितुं शक्यते फलम् ।
यद् वेददानाद् आप्नोति स्वल्पाद् अपि महामते ॥
यावन्ति वेदगीतानि पुण्यवेदव्रतानि च ।
तावन्ति वेददानेन प्राप्नुयाद् भक्तिभावितः ॥
उपाध्यायस्य यो वृत्तिं दत्वाध्यापने जनम् ।
किं न दत्तं भवेत् तेन धर्मकामार्थदर्शितम् ॥
छात्राणां [गात्राणां?] भोजनाभ्यङ्गं वस्त्रं भिक्षाम् अथापि वा ।
दत्वा प्राप्नोति पुरुषः सर्वकामान् न संशयः ॥
विवेको जीवितं दीर्घं दर्मकामार्थम् आप्नुयात् ।
सर्वम् एव भवेद् दत्तं छात्राणां [?] भोजने कृते ॥
वह्निपुराणे ।
प्रातर् उत्थाय यो वेदान् वेदाङ्गम् अपि पाठयेत् ।
पृथिवीदानतुल्यं स्यात् फलं तस्य नृपोत्तम ॥
यो वृत्तिं पठमानानां करोत्य् अनुदितं नृप ।
स यज्ञफलम् आदत्ते दानाच्छादनभोजनैः ॥
भविष्यत्पुराणे ।
अपुत्रो लभते पुत्रान् निर्धनो धनम् आप्नुयात् ।
अविद्वान् विद्यां प्राप्नोति दुःखी दुःखात् प्रमुच्यते ॥
सदाध्ययनयुक्तस् तु परे ब्रह्मणि लीयते ।
[५२६]
इति वेददानविधिः ।
अथ शास्त्रदानम् । तत्र नन्दिपुराणे ।
शास्त्रे यस्माज् जगत् सर्वं संश्रितं च शुभाशुभम् ।
तस्माच् छास्त्रं प्रयत्नेन दातव्यं शुभकर्मणे ॥
यमः ।
य इमां पृथिवीं दद्यात् सर्वरत्नोपशोभिताम् ।
दद्याच् छास्त्रं च विप्राणां तच् चैतानि च तत्समम् ॥
तत् सर्वरत्नोपशोभितं पृथिवीदानम् । एतानि पूर्वोक्तानि दानानि तद् उभयं विद्यादानसमम् इत्य् अर्थः ।
शास्त्रं चक्षुर् हि लोकानां स्वर्गमार्गप्रकाशकम् ।
शास्त्रेण धार्यते नूनं त्रैलोयं सचराचरम् ॥
योजनानां सहस्रे ऽपि वर्षकोटिशतेन च ।
सद्यस् तिरोहितं वस्तु शास्त्रं दर्शयितुं क्षमम् ॥
अतः शास्त्रात् परं नास्ति त्रिषु लोकेषु किञ्चन ।
संसारनिविडध्वान्ततरणिस् तत् प्रकीर्तितम् ॥
दद्याद् एतत्प्रयोगेण नरः सन्ततम् आदृतः ।
किं न दत्तं भवेत् तेन शास्त्ररत्नं ददाति यः ॥
तत्र सकलशास्त्रप्रधानतया धर्मशास्त्रप्रदानम् एव तावद् उच्यते ।
नन्दिपुराणे ।
श्रुतिः स्मृतिश् च विप्राणां चक्षुषी द्वे प्रकीर्तिते ।
काणस् तत्रैकया हीनो द्वाभ्याम् अन्धः प्रकीर्तितः ॥
[५२७] तथा ।
धर्मशास्त्रं नरो दत्वा नाकपृष्ठए महीयते ।
दशमन्वन्तरान् मर्त्यस् तारयेन् नरकात् पितॄन् ॥
आत्मविद्या च पौराणी धर्मशास्त्रात्मिका च या ।
तिस्रो विद्या इमा मुख्याः सर्वदानक्रियाफले ॥
धर्मशास्त्रं नरो बुद्ध्वा यत् किञ्चिद् धर्मम् आश्रयेत् ।
तस्य धर्मः शतगुणो धर्मशास्त्रप्रदस्य च ॥
अतः सदा बुधैर् ज्ञेयं धर्मशास्त्रं विचक्षणैः ।
न तस्य पुण्यसङ्ख्यानं ब्रह्मापि गदितुं क्षमः ॥
अग्निपुराणे ।
कपिलानां सहस्रेण सम्यग् दत्तेन यत् फलम् ।
तद् राजन् सकलं लेभे धर्मशास्त्रप्रदानकः ॥
तत्र धर्मशास्त्रप्रणेतृकथनद्वारा तदनुक्रमम् आहतुः शखलिखितौ-
स्मृतयो धर्मशास्त्राणि । तेषां प्रणेतारो मनुः विष्णुर् यमदक्षाङ्गिरोऽत्रि-बृहस्पत्युशनआपस्तम्बवशिष्ठकात्यायनपराशरव्यासशङ्खलिखितसंवर्त-गौतमशातातपहारीतयाज्ञवल्क्यप्रचेतसादयः ।
आदिशब्दाच् च बुधदेवलसोमप्रजापतिवृद्धशातातपपैठीनसिछागलेयच्यवनमरीचि-वत्सपारस्करपुलस्त्यपुलहक्रतुऋष्यशृङ्गात्रेयाणां ग्रहणम् । आह पैठीनसिः ।
तेषां मन्वङ्गिरोव्यासगौतमोलिखितायमः ।
[५२८] वसिष्ठदक्षसंवर्तशातातपपराशराः ॥
विष्ण्वापस्तम्बहारीताः शङ्खः कात्यायनो गुरुः ।
प्रचेता नारदो योगी बौधायनपितामहौ ॥
सुमन्तुः काश्यपो बभ्रुः पैठीनो व्याघ्र एव च ।
सत्यव्रतो भरद्वाजो गार्ग्यः कार्ष्णाजिनिस् तथा ॥
जाबालिर् जमदग्निश् च लौगाक्षिः ब्रह्मसम्भवः ।
इति धर्मप्रणेतारः षट्त्रिंशदृषयः स्मृताः ॥
भविष्यत्पुराणे ।
षट्त्रिंशदतिरिक्ताः स्मृतयः सन्तीति दर्शितम् ।
अष्टादशपुराणेषु यानि वाक्यानि पुत्रक ॥
तान्य् आलोच्य महाबाहो तथा स्मृत्यन्तरेषु च ।
मन्वादिस्मृतयो याश् च षट्त्रिंशत् परिकीर्तिताः ॥
तासां वाक्यानि क्रमशः समालोच्य ब्रवीमि ते ॥ इति ।
आह मनुः ।
विष्णुः पराशरो दक्षः संवर्तव्यासहारिताः ।
शातातपो वशिष्ठश् च यमापस्तम्बगौतमाः ॥
देवलः शङ्खलिखितौ भरद्वाजोशनोत्रयः ।
शौनको याज्ञवल्क्यश् चदशाष्टौ स्मृतिकारिणः ॥
तथा ।
भार्गवो नारदीया च बार्हस्पत्याङ्गिरस्य् अपि ।
स्वायम्भुवस्य शास्त्रस्य चतस्रः संहिता मताः ॥
अङ्गिराः ।
जाबालिर् नाचिकेतश् च स्कन्दो लौगाक्षिकश्यपौ ।
व्यासः सनत्कुमारश् च शतर्जुर् जनकस् तथा ॥
[५२९] व्याघ्रः कात्यायनश् चैव जातूकर्ण्यः कपिञ्जलः ।
बौधायनः कणादश् च विश्वामित्रस् तथैव च ॥
उपस्मृतय इत्य् एताः प्रवदन्ति मनीषिणः ॥
यमः ।
एतैर् यानि प्रणीतानि धर्मशास्त्राणि वै पुरा ।
तान्य् एवातिप्रमाणानि न हन्तव्यानि हेतुभिः ॥
स्कन्दपुराणे ।
स्मृतयोर् धर्ममूलं हिअ धर्मः सर्वार्थसाधनम् ।
अतः स्मृतिषु दत्तासु सर्वदानफलंलभेत् ॥
एकम् एव समुद्धृत्य प्राणिनं दुःखसागरात् ।
अनन्तफलम् आप्नोति किं पुनर् ज्ञानदोर् बहून् ॥
किम् अतः स हि धर्मो ऽस्ति किं वा ज्ञानं तथाविधम् ।
अन्यद् वा तत् किम् अस्तीह यद् वा स्मृतिषु दृश्यते ॥
अतस् तासु प्रदत्तासु ज्ञानवान् अभिजायते ।
पारं प्राप्य च शास्त्राणां ब्रह्मलोके महीयते ॥
इति स्मृतिदानम् ।
अथ पुराणदानम् । तत्र नारदीये ।
वेदाः प्रतिष्ठिता देवि पुराणैर् नात्र संशयः ।
बिभेत्य् अल्पश्रुताद् वेदो माम् अयं प्रतरिष्यति ॥
इतिहासपुराणैश् च कृतो ऽयं निश्चलः पुरा ।
यन् न दृष्टं हि वेदेषु तद् दृष्टं स्मृतिभिः किल ॥
उभाभ्यां यन् न दृष्टं हि तत् पुराणेषु गीयते ॥
[५३०] मत्यपुराणे ।
पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् ।
अनन्तरं च वक्त्रेभ्यो वेदास् तस्य विनिर्गताः ॥
पुराणम् एकम् एवासीद् अस्मिन् किलान्तरे ऽनघ ।
त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम् ॥
निर्दग्धेषु च लोकेषु वाजिरूपेण वै मया ।
अङ्गानि चतुरो वेदाः पुराणन्यायविस्तराः ॥
मीमांसा धर्मशास्त्राणि परिगृह्यात्मसात् कृतम् ।
मत्स्यरूपेण च पुनर् कल्पादाव् उदकार्णवे ॥
अशेषम् एतत् कथितम् उदकान्तर्गतेन च ।
श्रुत्वा जगाद च मुनीन् प्रतिवेदश् चतुर्मुखः ॥
प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत् ततः ।
कालेन ग्रहणं द्र्ष्ट्वा पुराणस्य ततो ऽनृतम् ॥
व्यासरूपम् अहं कृत्वा संहरामि युगे युगे ।
चतुर्लक्षप्रमाणेन द्वापरे द्वाप्रे सदा ॥
तद् अष्टादशधा कृत्वा भूर्लोके ऽस्मिन् प्रभाष्यते ।
अद्यापि देवलोके तत् शतकोटिप्रविस्तरम् ॥
तद् अर्थो ऽत्र चतुर्लक्षं सङ्क्षेपेण निवेदितः ।
पुराणानि दशाष्टौ च साम्प्रतं तद् इहोच्यते ॥
नामतस् तानि वक्ष्यामि शृणुध्वम् ऋषिसत्तमाः ॥
[५३१] वाराहपुराणे ।
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ।
तथान्यन् नारदीयं च मार्कण्डेयं च सप्तमम् ॥
आग्नेयम् अष्टमं प्रोक्तं भविष्यन् नवमं तथा ।
दशमं ब्रह्मवैवर्तं लिङ्गम् एकादशं तथा ॥
वाराहं द्वादशं प्रोक्तं स्कान्दं चात्र त्रयोदशम् ।
चतुर्दशं वामनं च कौर्मं पञ्चदशं तथा ॥
मात्स्यं च गारुडं चैव ब्रह्माण्डम् अष्टादशं तथा ॥
कालिकापुराणे ।
शैवं यद् वायुना प्रोक्तं वैरिञ्चं वैष्णवं तथा ।
यद् इदं कालिकाख्यं च मूलं भागवतं स्मृतम् ॥
सौरं च नारदीयं च मार्कण्डीयं च वह्निजम् ।
वामनं कौर्मं मात्स्यं च सप्तदशं च गारुडम् ॥
ब्राह्माण्डम् अष्टादशं ज्ञेयं पुराणं च न संशयः ॥
सौरपुराणात् ।
यद् उक्तं भानुना पूर्वं पुत्रायमनवे द्विजाः ।
तद् अहं सम्प्रवक्ष्यामि शृणुध्वं वदतो मम ॥
सर्गश् च प्रतिसर्गश् च वंशमन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥
यत्नतोपपुराणानां लिखित्वा लक्षणं स्मृतम् ।
ब्राह्मं पुराणं तत्राद्यं संहिताभ्यां विभूषितम् ॥
[५३२] श्लोकानां दशसाहस्रं नानापुण्यकथायुतम् ।
पाद्यं द्वितीयं कथितं तृतीयं वैष्णवं स्मृतम् ॥
चतुर्थं वायुना प्रोक्तं वायवीयम् इति स्मृतम् ।
ततो भागद्वयं प्रोक्तं भागद्वयविभूषितम् ॥
चतुर्भिः पर्वभिः प्रोक्तं भविष्यं तदनन्तरम् ।
मार्कण्डेयम् अथाग्नेयं नारदीयम् अतः परम् ॥
दशमं ब्रह्मवैवर्तं लिङ्गम् एकादशं स्मृतम् ।
भागद्वयेन लिङ्गं च ततो वाराहम् उत्तमम् ॥
संयुक्तम् अष्टभिः खण्डैः स्कान्दं चैवात्र विस्तरम् ।
ततस् तु वामनं कौर्मं भागद्वयविराजितम् ॥
मात्स्यं च गारुडं प्रोक्तं ब्रह्माण्डं च ततः परम् ।
भागद्वयेन कथितं ब्रह्माण्डम् अभिसञ्ज्ञितम् ॥
खिलान्य् उपपुराणानि यानि चोक्तानि सूरिभिः ।
इदं ब्रह्मपुराणस्य खिलं सौरम् अनुत्तमम् ॥
संहिताद्वयसंयुक्तं पुण्यं शिवकथाश्रयम् ।
आद्या सनत्कुमारोक्ता द्वितीया सूर्यभाषिता ॥
कूर्मपुराणे ।
अन्यान्य् उपपुराणानि मुनिभिः कथितानि तु ।
आद्यं सनत्कुमारोक्तं नारसिंहम् अतः परम् ॥
तृतीयं नारदम् उद्दिष्टं कुमारेण तु भाषितम् ।
चतुर्थं शिवधर्माख्यं साक्षान् नन्दीशभाषितम् ॥
[५३३] दुर्वाससोक्तम् आश्चर्यं नारदोक्तम् अतः परम् ।
कापिलं मानवं चैव तथैवोशनसेरितम् ॥
ब्रह्माण्डं वारुणं चाथ कापिलाह्वयम् एव च ।
माहेश्वरं तथा शाम्बं सौरं सार्वर्थसञ्चयम् ॥
पराशरोक्तं प्रवरं तथा भागवतं द्वयम् ।
इदम् अष्टादशं प्रोक्तं पुराणं कौर्मसञ्ज्ञितम् ॥
चतुर्धा संस्थितं पुण्यं संहितानां प्रभेदतः ।
मत्स्यपुराणे ।
पाद्मे पुराणे या प्रोक्ता नरसिंहोपवर्णना ।
तत्राष्टादशसाहस्रं नारसिंहम् इहोच्यते ॥
नन्दाया यत्र माहात्म्यं कार्तिकेयेन वर्ण्यते ।
नन्दीपुराणं तल्लोकैर् व्याख्यातम् इति कीर्त्यते ॥
यत्र साम्यं पुरस्कृत्य भविष्यति कथा न कम् ।
प्रोच्यते तत् पुनर् लोके साम्यम् एव मुनिव्रताः ॥
एवम् आदित्यसञ्ज्ञश् च तत्रैव परिपठ्यते ।
अष्टादशभ्यस् तु पृथक् पुराणं यत् प्रदृश्यते ॥
विजानीध्वं द्विजश्रेष्ठास् तद् एतेभ्यो विनिर्मितम् ।
पञ्चाङ्गवत् पुराणं स्याद् आख्यानम् इतरत् स्मृतम् ॥
सर्गश् च प्रतिसर्गश् च वंशमन्वन्तराणि च ।
वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ॥
ब्रह्मविष्ण्वर्करुदाणां माहात्म्यं भुवनस्य च ।
[५३४] स संहारं प्रदृश्येत पुराणं पञ्चवर्णता ॥
धर्मश् चार्थश् च कामश् च मोक्षश् च परिकीर्त्यते ।
सर्वेष्व् अपि पुराणेषु तद्विरुद्धे च यत् फलम् ॥
सात्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः ।
राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ॥
तद्वद् अग्नेश् च माहात्म्यं तामसेषु शिवस्य च ।
सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥
तथा ।
अष्टादश पुराणानि कृत्वा सत्यवतीसुतः ।
भारताख्यानम् अखिलं चक्रे तद् उपबृंहितम् ॥
लक्षणैकेन तत् प्रोक्तं वेदार्थपरिबृंहितम् ।
वाल्मीकिनापि यत् प्रोक्तं रामायणाख्यम् उत्तमम् ॥
ब्रह्मणाभिहितं यच् च शतकोटिप्रविस्तरात् ।
आहृत्य नारदेनैव वाल्मीकाय पुनः पुनः ॥
वाल्मीकिना च लोकेषु धर्मकामार्थसाधनम् ।
एवं सपादाः पञ्चैते लक्ष्यास् तेषु प्रकीर्तिताः ॥
मत्स्यपुराणे ।
ऋषय ऊचुः ।
पुराणसङ्ख्याम् आचक्ष्व सूत विस्तरतः क्रमात् ।
दानं धर्मम् अशेषं च यथावद् अनुपूर्वशः ॥
सूत उवाच ।
इम्द्म् एव पुरा प्रश्नं नोदितः पुरुषोत्तमः ।
यद् उवाच सविश्वात्मा मुनयस् तन् निबोधत ॥
[५३५] पुराणानि दशाष्टौ च साम्प्रतं तद् इहोच्यते ।
नामतस् तानि वक्ष्यामि शृणुध्वम् ऋषिसत्तमाः ॥
ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये ।
ब्राह्मं तद् दशसाहस्रं पुराणं परिकीर्त्यते ॥
लिखित्वा तच् च यो दद्याज् जलधेनुसमन्वितम् ।
वैशाख्यां पौर्णमास्यां तु ब्रह्मलोके महीयते ॥
एतद् एव यदा पद्मम् अभूद् धैरण्मयं जगत् ।
तद्वृत्तान्ताश्रयं तद्वत् पाद्मम् इत्य् उच्यते बुधैः ॥
पाद्मं तत् पञ्चपञ्चाशत् साहस्राणीह पठ्यते ।
तत् पुराणं च यो दद्यात् सुवर्णकमलाण्वितम् ॥
ज्यैष्ठे मासि तिलैर् युक्तं सो ऽश्वमेधफलं लभेत् ।
वाराहकल्पवृत्तान्तम् अधिकृत्य पराशरः ॥
यत्राह धर्मान् अखिलान् तद्युक्तं वैष्णवं विदुः ।
तदाषाढे च यो दद्याद् घृतधेनुसमन्वितम् ॥
पौर्णमास्यां विपूतात्मा स पदं याति वारुणम् ।
त्रयोविंशतिसाहस्रं तत् पुराणं विदुर् बुधाः ॥
श्वेतकल्पप्रसङ्गेन धर्मान् वायुर् इहाब्रवीत् ।
यत्र तद् वायवीयं स्याद् रुद्रमाहात्म्यसंयुतम् ॥
चतुर्विंशत्सहस्राणि पुराणं तद् इहोच्यते ।
श्रावण्यां श्रावणे मासि गुडधेनुसमन्वितम् ॥
यो दद्याद् दधिसंयुतं ब्राह्मणाय कुटुम्बिने ।
शिवलोके स पूतात्मा कल्पम् एकं वसेन् नरः ॥
यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः ।
[५३६] वृत्रासुरवधोपेतं तद् भागवतम् उच्यते ॥
सारस्वतस्य कल्पस्य मध्ये ये स्युर् नरामराः ।
तद्वृत्तान्तोद्भवं लोके तद् भागवतम् उच्यते ॥
लिखित्वा तच् च यो दद्याद् धेमसिंहसमन्वितम् ।
पौर्णमास्यां प्रौष्ठपद्यां स याति परमं पदम् ॥
अष्टादशसहस्राणि पुराणं तत् प्रकीर्तितम् ।
यत्राह नारदो धर्मान् बृहत्कल्पाश्रितांस् त्व् इह ॥
पञ्चविंशत्सहस्राणि नारदीयं तद् उच्यते ।
तद् इदं पञ्चदश्यां तु यो दद्याद् धेमसंयुतम् ॥
उत्तमां सिद्धिम् आप्नोति पुनरावृत्तिदुर्लभम् ।
यत्राधिकृत्य शकुनीन् धर्माधर्मविचारणम् ॥
पुराणं नवसाहस्रं मार्कण्डेयम् इहोच्यते ।
परिलिख्य च यो दद्यात् सौवर्णकरिसंयुतम् ॥
कार्त्तिक्यां पौण्डरीकस्य यज्ञस्य फलभाग् भवेत् ।
यत् तद् ईशानकल्पस्य वृत्तान्तम् अधिकृत्य च ॥
वशिष्ठायाग्निना प्रोक्तम् आग्नेयं तत् प्रचक्षते ।
लिखापयित्वा यो दद्याद् हेमपद्मसमन्वितम् ॥
मार्गशीर्षे विधानेन तिलधेन्वान्वितं तथा ।
एतत् षोडशसाहस्रं सर्वक्रतुफलप्रदम् ॥
यत्राधिक्र्त्य माहात्म्यम् आदित्यस्य चतुर्मुखः ।
अघोरकल्पवृत्तान्तप्रसङ्गेन जगत्पतिः ॥
[५३७] नवमे कथयामास भूतग्रामस्य लक्षणम् ।
चतुर्दशसहस्राणि तथा पञ्चशतानि च ॥
भविष्यच्चरितप्रायं भविष्यत् तद् इहोच्यते ।
तत् पौषे मासि यो दद्यात् पौर्णमास्यां विमत्सरः ॥
गुडकुम्भसमायुक्तम् अग्निष्टोमफलं लभेत् ।
रथन्तरस्य कल्पस्य वृत्तान्तम् अधिकृत्य च ॥
सावर्णिना [?] नारदाय कृष्णमाहात्म्यसंयुतम् ।
यत्र ब्रह्मवराहस्य चरितं वर्ण्यते मुहुः ॥
तद् अष्टादशसाहस्रं ब्रह्मवैवर्तम् उच्यते ।
पुराणं ब्रह्मवैवर्तं यो दद्यान् माघमासि च ॥
पौर्णमास्यां स भवनं ब्रह्मलोके महीयते ।
यत्राग्निलिङ्गमध्यस्थः प्राह देवो महेश्वरः ॥
धर्मार्थकाममोक्षार्थम् आग्नेयम् अधिकृत्य च ।
कल्पं तल् लैङ्गम् इत्य् उक्तं पुराणं ब्रह्मणा स्वयम् ॥
तद् एकादशसाहस्रं फाल्गुन्यां यः प्रयच्छति ।
तिलधेनुसमायुक्तं स याति शिवसात्मताम् ॥
महावराहस्य पुनर् माहात्म्यम् अधिकृत्य च ।
मानवस्य प्रसङ्गेन कल्पस्य मुनिसत्तम ॥
चतुर्विंशत्सहस्राणि तत् पुराणम् इहोच्यते ।
विष्णुनाभिहितं क्षौण्यै तद् वाराहम् इहोच्यते ॥
काञ्चनं गरुडं कृत्वा तिलधेनुसमन्वितम् ।
पौर्णमास्यां मधौ दत्वा ब्राह्मणाय कुटुम्बिने ॥
[५३८] वराहस्य प्रसादेन पदम् आप्नोति वैष्णवम् ।
यत्र माहेश्वरान् धर्मान् अधिकृत्य च **** ॥
कल्पे तत् पुरुषे वृत्ते चरितैर् उपबृंहितम् ।
स्कान्दं नाम पुराणं तद् एकाशीतिर् निगद्यते ॥
सहस्राणि शतं चैकम् इति मर्त्येषु पठ्यते ।
परिलिख्य च यो दद्याद् धेमशूलसमन्वितम् ॥
शैवं च पदम् आप्नोति मकरोपगमे रवेः ।
त्रिविक्रमस्य माहात्म्यम् अधिकृत्य चतुर्मुखः ॥
त्रिवर्गम् अभ्यधात् तत्र वामनं परिकीर्तितम् ।
पुराणं दशसाहस्रं कूर्मकल्पानुगं शिवम् ॥
यच् छरद्विषुवे दद्याद् वैष्णवं यात्य् असौ पदम् ।
यत्र धर्मार्थकामानां मोक्षस्य च रसातले ॥
माहात्म्यं कथयामास कूर्मरूपी जनार्दनः ।
इन्द्रद्युम्नप्रसङ्गेन ऋषीणां शक्रसन्निधौ ॥
सप्तदशसहस्राणि लक्ष्मीकल्पानुसङ्गिकम् ।
यो दद्याद् अयने कुम्भं हेमकुम्भसमन्वितम् ॥
गोसहस्रप्रदानस्य स फलं प्राप्नुयान् नरः ।
श्रुतीनां यत्र कल्पादौ प्रवृत्त्यर्थं जनार्दनः ॥
मत्स्यरूपी च मनवे नरसिंहोपवर्णनम् ।
अधिकृत्याब्रवीत् सप्तकल्पवृत्तं मुनिव्रताः ॥
तन्माहात्म्यम् इति जानीध्वं सहस्राणि चतुर्दश ।
विष्णवे हेममत्स्येन धेन्वा चैव समन्वितम् ॥
[५३९] यो दद्यात् पृथिवी तेन दत्ता भवति वाखिला ।
यदा च गारुडे कल्पे विश्वाण्डाद् गरुडोद्भवम् ॥
अधिकृत्याब्रवीत् कृष्णो गारुडं तद् इहोच्यते ।
तद् अष्टादश चैकं च सहस्राणीह पठ्यते ॥
सौवर्णहेममिथुनसंयुक्तं विदुषे नरः ।
यो ददाति परां सिद्धिम् आप्नोति शिवसन्निधिम् ॥
ब्रह्मा ब्रह्माण्डमाहात्म्यम् अधिकृत्याब्रवीत् पुनः ।
तच् च द्वादशसाहस्रं ब्रह्माण्दं द्विशताधिकम् ॥
भविष्याणां च कल्पानां श्रूयते यत्र विस्तरः ।
तद् ब्रह्माण्डपुराणं तु ब्रह्मणा समुदाहृतम् ॥
यो दद्याच् च व्यतीपाते पत्तोर्णयुगसंयुतम् ।
राजसूयसहस्रस्य फलम् आप्नोति मानवः ॥
हेमधेन्वा युतं तच् च ब्रह्मलोकफलप्रदम् ॥
सौरपुराणे । तद् एव पुराणम् अधिकृत्याह ।
इयं पुण्यतमाख्याता संहिता पापनाशिनी ।
वैवश्वताय मनवे कथिता रविणा पुरा ॥
दानम् अस्य पुराणस्य दानानाम् उत्तमं द्विजाः ।
यो दद्याच् छिवभक्ताय ब्राह्मणाय तपस्विने ॥
यानि दानानि लोकेषु प्रसिद्धानि द्विजोत्तमाः ।
सर्वेषां फलम् आप्नोति चतुर्दश्यां न संशयः ॥
अन्यान्य् उपपुराणानि सहिरण्यानि पर्वणि ।
[५४०] लिखित्वा यः प्रयच्छेत् तु स विद्यापारगो भवेत् ॥
शिवधर्मादिशास्त्राणि यः प्रयच्छति पुण्यधीः ।
सो ऽनन्तफलम् आप्नोति शिवधर्मप्रकाशनात् ॥
ब्रह्मपुराणे ।
धर्मार्थकाममोक्षाणां सारं भारतम् उच्यते ।
तदेकस्य प्रदानेन वेदशास्त्रप्रदो भवेत् ॥
रामायणं लिखित्वा तु यः समग्रं प्रयच्छति ।
तस्य प्रसन्ना भवति पद्मबन्धैः सरस्वती ॥
वह्निपुराणे ।
पुराणं भारतं वापि रामायणम् अथापि वा ।
दत्वा यत् फलम् आप्नोति न तत् सर्वैर् महामखैः ॥
कूर्मपुराणे । तद् एव पुराणम् अधिकृत्याह ।
ब्राह्मी पौराणिकी चेयं संहिता पापनाशिनी ।
लिखित्वेमां च यो दद्याद् वैशाखे मासि सुव्रत ॥
विप्राय वेदविदुषे तस्य पुण्यं निबोधत ।
सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ॥
भुक्त्वा तु विपुलान् भोगान् विद्यावान् धनवान् भवेत् ।
इति पुराणदानविधिः ।
अथ पुराणश्रवणदानम् । तत्र महाभारते ।
अतः परं प्रवक्ष्यामि यानि देयानि भारत ।
वाच्यमाने तु विप्रेभ्यो राजन् पर्वणि पर्वणि ॥
[५४१] स्वति वाच्य विधानादौ ततः कार्यं प्रवर्तते ।
समाप्ते पर्वणि ततः स्वशक्त्या तर्पयेद् द्विजान् ॥
आदौ तु वाचकं पूज्य रसगन्धसमन्वितम् ।
विधिवद् भोजयेद् राजन् मधुपायसम् उत्तमम् ॥
ततो मूलफलप्रायं पायसं मधुसर्पिषी ।
आस्तिके भोजयेद् राजन् दद्याच् चैव गुडोदनम् ॥
अथ धूपैश् च पूपैश् च मोदकैश् च समन्वितम् ।
सभापर्वणि राजेन्द्र हविष्यं भोजयेद् द्विजान् ॥
आरण्यकैर् मूलफलैस् तर्पयेच् च द्विजोत्तमान् ।
आरण्यपर्वण्य् आसाद्य जलकुम्भान् प्रदापयेत् ॥
तर्पणानि च मुख्यानि धान्यमूलफलानि च ।
सर्वकामगुणोपेतो विप्रेभ्यस् तं प्रदापयेत् ॥
विराटपर्वणि तथा वासांसि विविधानि च ।
उद्योगे भरतश्रेष्ठ सर्वकामसमन्वितः ॥
भोजनं भोजयेद् विप्रान् गन्धमाल्यैर् अलङ्कृतान् ।
भीष्मपर्वणि राजेन्द्र दत्वा पानम् अनुत्तमम् ॥
ततः सर्वगुणोपेतम् अन्नं दद्यात् सुसंस्कृतम् ।
द्रोणपर्वणि विप्रेभ्यो भोजनं परमार्जितम् ॥
शराश् च देया राजेन्द्र चापान्य् असिवरास् तथा ।
कर्णपर्वण्य् अपि तथा भोजनं सार्वकामिकम् ॥
विप्रेभ्यः संस्कृतं सम्यग् दद्यात् संयतमानसः ।
शल्यपर्वणि राजेन्द्र मोदकैः सगुडोदनैः ॥
सधूपैस् तर्पणैश् चैव सर्वम् अन्नं प्रदापयेत् ।
[५४२] गदापर्वण्य् अपि तथा मुद्गमिश्रं प्रदापयेत् ॥
स्त्रीपर्वणि तथा रत्नैस् तर्पयेद् विधिवद् द्विजान् ।
कृतोदनं पुरस्तात् तु ऐषीके दापयेत् पुनः ॥
ततः सर्वगुणोपेतम् अन्नं दद्यात् सुसंस्कृतम् ।
शान्तिपर्वणि च तथा हविष्यं भोजयेद् द्विजान् ॥
आश्वमेधिकम् आसाद्य भोजनं सार्वकामिकम् ।
तथाश्रमनिवासे तु हविषा भोजयेद् द्विजान् ॥
मौशले सार्वगुणिकं गन्धमाल्यानुलेपनम् ।
हरिवंशे तथा पार्थ पायसं चारुभोजनम् ॥
पारणे पारणे राजन् यथावद् भरतर्षभ ।
समाप्य सर्वां प्रयतः संहितां शास्त्रकोविदः ॥
शुभे देशे निवेश्याथ क्षौमवस्त्रादिसंवृतम् ।
शुक्लाम्बरधरस् तत्र शुचिर् भूत्वा स्वलङ्कृतः ॥
अर्चयेत् तु यथान्यायं गन्धमाल्यैः पृथक् पृथक् ।
संहितापुस्तकान् रागात् प्रयतः सुसमाहितः ॥
भक्ष्यैर् भोज्यैश् च पेयैश् च कौतुकैर् विविधैः शुभैः ।
हिरण्यं च सुवर्णं च दक्षिणां तत्र दापयेत् ॥
देवताः कीर्तयेत् सर्वान् नरनारायणौ तथा ।
ततो गन्धैश् च माल्यैश् च स्वलङ्कृत्य द्विजोत्तमान् ॥
तर्पयेद् विविधैः कामैर् दानै रत्नादिकैस् तथा ।
भुक्तवत्सु च विप्रेषु यथावत् सम्प्रचारयेत् ॥
वाचकं भरतश्रेष्ठ भोजयित्वा स्वलङ्कृतम् ।
ब्राह्मणेषु प्रसन्नेषु प्रसन्नास् तस्य देवताः ॥
[५४३] वाचके परितुष्टे तु शुभा प्रीतिर् अनुत्तमा ।
ततो विवरणं कार्यं संहितानां भरतर्षभ ॥
इतिहाससमं श्रुत्वा यथावद् अनुपूर्वशः ।
संयतात्मा शुचिर् भूत्वा पारं गत्वा तु भारते ॥
तेषां श्रद्धानि देयानि श्रुत्वा भारत भारतम् ।
ब्राह्मणेभ्यो यथाशक्ति भक्त्या च भरतर्षभ ॥
महादानानि देयानि यानानि विविधानि च ।
गावः कांस्योपदोहाश् च कन्याश् च सुमनोहराः ॥
सर्वकामगुणोपेता यानानि विविधानि च ।
भवनानि विचित्राणि भूमिवासांसि काञ्चनम् ॥
वाहनानि च देयानि हृद्या मत्ताश् च वारणाः ।
शयनं शिविकाश् चैव स्पन्दनाश् च स्वलङ्कृताः ॥
यद् यद् गृहे वरं किञ्चित् किञ्चिद् अस्ति महद् वसु ।
तत्र देयं द्विजातिभ्य आत्मा दासाश् च सूनवः ॥
श्रद्धया परया हृद्या क्रमशः पाठपारगाः ।
शक्तितः सुमना भूत्वा सुश्रुतश् च विमत्सरः ॥
एवं करोति यो विद्वान् दानं पर्वप्रतिष्ठितम् ।
सर्वयज्ञफलं प्राप्य स देवैः सह मोदते ॥
यश् चानेन प्रकारेण भारतं श्रावयेन् नरः ।
तद्विद्यादानमाहात्म्याल् लोकान् उद्धरति ह्य् असौ ॥
इति पुराणश्रवणदानविधिः ।
अथ सर्वशास्त्रसाधारणदानविधिः ।
**[५४४] **तत्र देवीपुराणे ।
विद्यादानं प्रवक्ष्यामि येन तुष्यन्ति मातरः ।
लिख्यते दीयते येन विधिना तं शृणु प्रभो ॥
तथा ।
शृण्वतां जायते भक्तिस् ततो गुरुम् उपासते ।
स च विद्यागमान् वक्ति विद्यायुस् त्व् आश्रितो नृप ॥
श्रीताडपत्रके सञ्चे समे पत्रसुसञ्चिते ।
विचित्रकञ्चिका पार्श्वे चर्मणा सम्पुटीकृते ॥
रक्तेन वाथ कृष्णेन मृदुना रङ्गितेन च ।
दृढसूत्रनिबद्धेन एवं विधिकृतेन च ॥
यस् तु द्वादशसाहस्रीं संहिताम् उपलेखयेत् ।
ददाति चाभियुक्ताय स याति पर्मां गतिम् ॥
पूर्वोत्तरप्लवे देशे सर्वबाधाविवर्जिते ।
गोमयेन शुभेनैव कुर्यान् मण्डलकं बुधः ॥
धर्नुर्हस्तप्रमाणेन सुभं च चतुरस्रकम् ।
तस्य मध्ये लिखेत् पद्मं सितरक्तसितादिभिः ॥
सर्वर्तुकामजैः पुष्पैर् भूषयेत् सर्वतो दिशम् ।
वितानं दापयेन् मूर्ध्नि शुभं चित्रविचित्रितम् ॥
पार्श्वतो (?) सितवस्त्रैश् च सम्यक् शोभां प्रकल्पयेत् ।
कन्दुकैर् अर्धचन्द्रैश् च दर्पणैश् चामरैस् तथा ॥
घण्टाकिङ्किणिशब्दैश् च सर्वतश् चोपकल्पयेत् ।
तस्य मध्ये न्यसेद् यन्त्रं नागदन्तमयं शुभम् ॥
अधः किञ्चिन् निबद्धं तु ऊर्ध्वतो ऽपि सुसंयुतम् ।
शोभितं दृढबन्धेन बद्धं सूत्रेण बुद्धिमान् ॥
[५४५] तस्योर्ध्वं विन्यसेद् विद्वान् पुस्तकं लिखितं शुभम् ।
आलेख्यम् अपि तत्रैव पूजयेद् विधिना ततः ॥
निरूदकैस् तथा पुष्पैः कृमिकीटविवर्जितैः ।
चन्दनेन सदर्पेण भस्मना वावधूलयेत् ॥
सदर्पेण मृगमदसहितेन ।
धूपश् च गुग्गुलुर् देयस् तुरुष्कागुरुमिश्रितः ।
दीपमाला तथा चाग्रे नैवेद्यं विविधं पुनः ॥
स्वाद्यं पेयं सितं लेह्यं चूष्यम्बा विनिवेदयेत् ।
पूजयेच् च दिशां पालान् लोकपालान् यथाक्रमम् ॥
कन्या स्त्रियश् च सम्पूज्य मातरः कल्पयेच् च वा ।
पुस्तकं देवदेवीश् च विप्राणां दक्षिणां तथा ॥
स्वशक्त्या चैव दातव्या नृपः पौरांश् च पूजयेत् ।
तथा सम्पूजयेद् वत्स लेखकं शास्त्रपारगम् ॥
छन्दोलक्षणतत्त्वज्ञं सत्कविं मधुरस्वरम् ।
प्रनष्टं स्मरति ग्रन्थं श्रेष्ठं पुस्तकलेखकम् ॥
नाभिसन्ततिविच्छिन्नं न च श्लक्ष्णैर् न कर्वटैः (?) ।
नन्दिनागरकैर् वर्णैर् लेखयेच् छिवपुस्तकम् ॥
प्रारभ्य पञ्च वै श्लोकान् पुनः शान्तिं तु कारयेत् ।
रात्रौ जागरणं कुर्यात् सर्वप्रेक्षां प्रकल्पयेत् ॥
नटचारणनग्नैश् च देव्याः कथनसम्भवैः ।
सर्वप्रेक्षां सर्वप्रकारप्रेक्षणकम् ।
प्रत्यूषे पूजयेल् लोकांस् ततः सर्वान् विसर्जयेत् ॥
[५४६] एकान्ते सुमनस्केन विशुद्धेन दिने दिने ।
निष्पाद्य विधिनाने (?) स्वृक्षे न च शुभवासरे ॥
स्वृक्षे शुभनक्षत्रे ।
ततः पूर्वोक्तविधिना पुनः पूजां प्रकल्पयेत् ।
तथा विद्याविमानं तु सप्तपञ्चत्रिभूमिकम् ॥
विचित्रवस्त्रशोभाढ्यं शुभलक्षणलक्षितम् ।
कारयेत् सर्वतोभद्रं किङ्किणीरवकान्वितम् ॥
दर्पणैर् अर्धचन्द्रैश् च घण्टाचामरमण्डितम् ।
तस्मिन् धूपं समुत्क्षिप्य सुगन्धचन्दनागुरुम् ॥
तुरुष्कं गुग्गुलं वत्स शर्करामधुमिश्रितम् ।
पूजयेत् पूर्ववत् सर्वान् कन्यास्त्रीद्विजदुःखितान् ॥
तथा तत् पुस्तकं वत्स विन्यसेद् विधिपूर्वकम् ।
एवं कृत्वा यथा विद्याः प्रीयन्तां मातरो मम ॥
यस्यैव सक्तं तच् छास्त्रं तं पुस्तं परिकल्पयेत् ।
यस्यैव सक्तं यस्यैव देवस्य सक्तम्, सम्बन्धितं पुस्तं परिकल्पयेत् पुस्तकं तं देयं परिकल्पयेत् भावयेद् इत्य् अर्थः ।
तथा तपस्विनः पूज्याः सर्वशास्त्रार्थपारगाः ।
शिवव्रतधरा मुख्या विष्णुधर्मपरायणाः ॥
महता जनसङ्घेन रथस्थं दृढवाहनैः ।
युवभिश् चाभितो नेयं यस्य देवस्य चागमम् ॥
[५४७] सामान्यं सर्वतीर्थेषु मातॄणां भवनेषु च ।
तस्मिन् पूजां तथा कृत्वा देवदेवस्य शूलिनः ॥
समर्पयेत् प्रणम्येशं प्रीयन्तां मातरो मम ।
सदाध्ययनयुक्ताय विद्यादानरताय च ॥
विद्यासङ्ग्रहयुक्ताय कृतशास्त्राश्रमाय च ।
तेनैव वर्तते यस् तु तस्य तं विनिवेदयेत् ॥
जगद्धिताय वै शान्तिं सन्धाय वाचयेत् तथा ।
तेन तोयेन दातारं मूर्ध्नि सम्यङ् निषेचयेत् ॥
शिवं वन्दे ततः शब्दम् उच्चार्य जगतस् तथा ।
एवं कृते महाशान्तिर् देशस्य नगरस्य च ॥
जायते नात्र सन्देहः सर्वबाधाः शमन्ति च ।
अनेन विधिना यस् तु विद्यादानं प्रयच्छति ॥
स भवेत् सर्वलोकानां दर्शनाद् अघनाशनः ।
मृतो ऽपि गच्छति स्थानं ब्रह्मविष्णुनमस्कृतम् ॥
सप्तपूर्वापरान् वंशान् आत्मनः सर्वम् एव च ।
उद्धृत्य पापकलिलाद् विष्णुलोके महीयते ॥
यावन्ति पत्रसङ्ख्यानि अक्षराणि भवन्ति हि ।
तावत् स विष्णुलोकेषु क्रीडते विविधैः सुखैः ॥
ततः क्षितिं समायातो देव्या भक्तिपरो भवेत् ।
समस्तभोगसम्पन्नो विदुषां जायते कुले ॥
नन्दिपुराणे ।
यद् एतत् पुण्यम् आख्यातं विद्यादानस्य साम्प्रतम् ।
[५४८] देशकालविधिश्रद्धापात्रयोगात् तथा बुधः ॥
प्राप्नोति कोटिगुणितं फलं विद्याप्रदानतः ।
गुरुम् आराध्य यत्नेन विद्याव्याख्यानपारगम् ॥
शक्त्या भक्त्या प्रणामेन विद्यादानं समारभेत् ॥
तथा ।
विद्या च मुख्या दानानां गुरुतो ऽस्य विधिं बुधः ।
श्रुत्वा विद्यां च विधिवत् श्रद्दया भावितात्मना ॥
सत्पात्रेभ्यस् तु तान् दद्याद् विशेषाद् गुणशालिषु ।
उपयोग्यं च यद् यस्य तत् तस्य प्रतिपादयेत् ॥
सुरालयेषु सिद्धेषु यथाविभवविस्तरैः ।
दातव्यास् तु प्रयत्नेन महापुण्यफलार्थिभिः ॥
शुभे नक्षत्रदिवसे शुभे वापि दिनग्रहे ।
लेखयेत् पूज्य देवेशाण् रुद्रब्रह्मजनार्दनान् ॥
पूर्वदिग्विजितो भूत्वा लिपिज्ञो लेखकोत्तमः ।
निरोधिहस्तबाहुश् च मषीपात्रावधारणात् ॥
एकान्तश् चोपकरणं यस्यासौ लेखकोत्तमः ।
विद्याधारं प्रकुर्वीत हेमरूप्यमयं शुभम् ॥
नागदन्तमयं वापि शुभदारुमयं तथा ।
मनोज्ञम् अगुरुं रम्यं श्लक्ष्णयन्त्रप्रयोगजम् ॥
सङ्कोचपत्रसंयुक्तं विकासेन समन्वितम् ।
नागदन्तमयः हस्तिदन्तनिर्मित इत्य् अर्थः ।
तत्र विद्यां विनिहितां कुर्यात् पुस्तकसंस्थिताम् ॥
कुर्याच् च पुस्तकं तस्य लिखेद् द्व्यङ्गुलविस्तृतम् ।
शुभं श्लक्ष्णं च रम्यं च कृष्णं मेचकितं च वा ॥
[५४९] अथ वा रक्तपद्माभं मेचकालङ्कृतं शुभम् ।
कार्पाससूत्रग्रथितं नानागन्धाधिवासितम् ॥
मेचकालङ्कृतं मयूरार्धचन्द्रालङ्कृतम् ।
मषीभिश् चापि नेकाभिश् चतुर्वर्णाभिर् एव च ।
दृढस्तम्भनयुक्ताभिर् मेचकैश् चाप्य् अनेकशः ॥
स्तम्भनं मषीस्थैर्यहेतु ।
लेखनीभिश् च दिव्याभिर् हेमचित्राभिर् एव च ।
बहिश् च वर्णं कुर्वीत पुस्तकस्य मनोरमम् ॥
पीतैः रक्तैः कषायैर् वा सुनिबद्धं विचित्रितम् ।
रम्यं लघु सुविस्तीर्णं निग्रन्थिग्रन्थिसंयुतम् ॥
विद्याधारं ततो यन्त्रसंस्थितं पूर्वपुस्तकम् ।
गृहे मनोरमे गुप्ते सुधालेपितभित्तिके ॥
नानारागाङ्कुरोपेते शुद्धबिम्बमनोरमे ।
धूपामोदमनोज्ञे तु वितानकपरिस्तृते ॥
लेखको बुद्धिमान् स्नातः सुक्लपुष्पाम्बरोज्ज्वलः ।
सुवर्णमुक्ताकेयूतो मुद्रिकाशोभिताङ्गुलिः ॥
सुसमिद्धे मषीभाण्डे लेखनीशस्त्रसंयुते ।
आरभेत् तूर्यघोषेण पूजां देवान् पितॄंस् तथा ॥
ब्राह्मणान् स्वस्तिवाच्यादौ शास्त्रं च श्रावयेद् बुधः ।
श्रीकपञ्चकम् आदौ तु दशकं वापि लेखयेत् ॥
ततो नक्षत्रयोगेन द्वितीये ऽहनि तल् लिखेत् ।
तादृशेनैव विधिना पुण्याहैः शुभसंयुतैः ॥
ततः समाप्ते शास्त्रे तु पुनः पुण्याहसंयुतम् ।
[५५०] कुर्यात् तदहोरात्रे च पानभोजनवस्तुभिः ॥
उभयं वापि तल् लेख्यं समीकुर्याच् च वाचकम् ।
उभयं लेख्यं वाचयन् समीकुर्याद् इत्य् अर्थः ।
ऊनाधिकैश् च संयुक्तं वर्णैर् मात्रादिभिस् तथा ॥
अनुस्वारविसर्गैश् च युक्तायुक्तैर् विचारयेत् ।
शास्त्रं प्रकृतया युक्त्या पुनरुक्त्यं विशोधयेत् ॥
ऊनार्थोक्त्या प्रसङ्गश् च छन्दयोग्यतया तथा ।
सूत्रान्तरार्थबोधेन प्रश्नोत्तरविवेकतः ॥
असूत्रत्वाच् च शास्त्रस्य समुदायार्थबोधतः ।
प्रक्रान्तसूचनोद्देशैर् गदितैश् चोदितैर् अपि ॥
बह्वर्थानां च शब्दानां योग्यासत्तिं परीक्ष्य तु ।
सर्वशास्त्रावबोधेन कारकाद्यैर् अविप्लुतैः ॥
क्वचिच् च शब्दं वर्ज्यैव प्रकृतार्थं निरूपयेत् ।
छन्दसां चापि बुद्ध्वा तं वृत्तसंयोगम् ईप्सितम् ॥
एवं विद्यां तु मेधावी शास्त्रं सत्कृत्य कृत्स्नशः ।
प्रदद्याद् विभवैर् (?) दिव्यैः सुरायतनवेश्मसु ॥
व्यक्तादेशलिपिन्यासं व्यक्तं नागरम् उच्यते ।
व्यक्तदेशलिपिन्यासव्यक्तोद्देशानुसारिणी ॥
लिपिपत्रन्यासे अक्षरनिर्माणे स तथा ।
आरोप्य याने रत्नाढ्ये शुभवस्त्रपरिष्कृते ।
घण्टाचामरशोभाढ्ये रत्नदण्डातपत्रिणि ॥
गजवाजिरथस्थं वा महाशोभसमन्वितम् ।
पुरतो गीतनृत्येन नानावाद्यरवेण च ॥
[५५१] मङ्गलैर् वेदनिर्घोषैर् देवाय विनिवेदयेत् ।
नानारूपोपहारैश् च सम्पूज्य तु दिवौकसः ॥
दत्वा च पुस्तकं तत्र पितॄणां धर्मम् उद्दिशेत् ।
बान्धवानां च हृद्यानाम् अनन्तफलम् इच्छया ॥
ततो दत्वा विधानेन तां विद्यां शिवमन्दिरे ।
ततश् च भक्षयेद् विप्रान् रुद्रभक्तांश् च मानवान् ॥
यथाशक्ति च कर्तव्या उत्सवाः स्वेषु वेश्मसु ।
राज्ञा तु नगरे कार्या ग्रामे ग्रामाधिपैस् तथा ॥
गृहे गृहस्थैः कर्तव्य उत्सवो बन्धुभिः सह ।
स्नातैः शुक्लैः समालब्धैः स्रग्विभिः सुसमाहितैः ॥
प्रीतियुक्तैस् ततः श्राव्यं शास्त्रं श्रद्धासमन्वितैः ।
वाचकं दक्षयेत् तत्र यथाविभवविस्तृतः ॥
गुरुं च भक्त्या मतिमान् यथाशक्ति ह्य् अमायया ।
ततः पुष्पैश् च धूपैश् च श्रावकान् सम्प्रपूजयेत् ॥
याचको ब्राह्मणः प्राज्ञः श्रुतशास्त्रो महामनाः ।
अभ्यस्ताक्षरविन्यासो वृत्तशास्त्रविशारदः ॥
शब्दार्थवित् प्रगल्भश् च विनीतो मेधया पुनः ।
गीतज्ञो वाक्यसुश्राव्यः स्वरोनाविलभाषकः ॥
गुरुश् च धर्मवान् प्राज्ञः श्रुतशास्त्रो विमत्सरः ।
विप्रः प्रकृतिसंशुद्धः शुचिः स्मितमुखः सदा ॥
सुवृत्तो वृत्तशास्त्रज्ञः शब्दशास्त्रविशारदः ।
[५५२] अभ्यस्तशास्त्रसन्दोहः प्रकृतार्थप्रवर्तकः ॥
प्रस्तुतार्थाभिधायिना प्रक्रमकृतव्याख्यापौर्वापर्यार्थविष्टम्भी ।
अध्यायसर्गविच्छेदविभक्त्यर्थप्रयोजकः ।
शास्त्रार्थपदविद् धीमान् पदश्लोकार्थबोधकः ॥
समुदायप्रकीर्णार्थमुख्यशास्त्रानुषङ्गजम् ।
अनक्षरं च हृद्वस्तुव्यपदिश्यार्थबोधकः ॥
प्रक्रान्तादिश् च शास्त्रार्थविभागपरिनिष्ठितः ।
कष्ठाभिमानगूढार्थभङ्गेन च विरोधकः ॥
श्रद्धेयवाग् अनालस्यः श्रोतृवृत्तप्रबोधकः ।
संस्कारैः संस्कृतां विद्यां प्राकृतैः प्राकृताम् अपि ॥
आलापमात्रैर् व्याख्यानैर् यश् च शिष्यान् प्रबोधयेत् ।
दशाभिधानविन्यासैर् बोधयेच् चापि यो गुरुः ॥
स गुरुः स पिता माता स तु चिन्तामणिः स्मृतः ।
यः शास्त्रोपायम् आख्याय नरकेभ्यः समुद्धरेत् ॥
कस् तेन सदृशो लोके बान्धवो भुवि विद्यते ।
यस्य वाग्रश्मिवृन्देन हृदयान् मथ्यते तमः ॥
महासंसाररजनीभवं सो ऽर्को महाद्युतिः ।
नोद्धतेनास्य पारुष्येन च वैलोम्यम् आवहेत् ॥
न चास्य व्याधिदुःखेषु मलेष्व् अप्रीतिकृद् भवेत् ।
प्रसादयेत् तु कुपितं दुःखमग्नं समुद्धरेत् (?) ॥
[५५३] रोगेभ्यश् चापि यत्नेन परित्राणेन चोद्धरेत् ।
एवं व्याख्यां सुभां श्रुत्वा गुरुवक्त्रान् नरोत्तमः ॥
विधेयं चिन्तयेद् यस् तु परत्र हितकारणात् ।
शृणुयात् श्रद्धया युक्तः प्रयतो ऽभिमुखो गुरोः ॥
अनन्यसत्कथाक्षेपी निष्प्रमादो ह्य् अतन्द्रितः ।
मृदुश् च संशये जाते पृच्छेद् वाक्यम् उदीरयेत् ॥
गुरुणा चोक्तम् एकान्ते श्रद्धावान् वाक्यम् आश्रयेत् ।
एतत् कृतं स्वयं कुर्यात् ससमिद्ध्यञ्जलान्वितः (?) ॥
एतत् कृतं गुरुचेष्टितम् ।
अप्रस्तुतकथाक्षेपं यः कुर्याद् अग्रतो गुरोः ।
स ब्रह्महत्याम् आप्नोति गुरुवाक्येष्व् अनिश्चयः ॥
यश् च श्रुत्वान्यतः शास्त्रं संस्कारं चाप्य वाशुभम् ।
अन्यस्य जनयेत् कीर्तिं स गुरोर् ब्रह्महा भवेत् ॥
विस्मारयेच् च व्यामोहाद् यो ऽपि शास्त्रार्थम् उत्तमम् ।
स याति नरकं घोरम् अक्षयं भीमदर्शनम् ॥
यस् तु बुद्ध्वा नरः शास्त्रं किञ्चित् कुर्यात् शुभाशुभम् ।
भवेच् छतगुणं तद् वै विज्ञानेभ्यो रतस्य च ॥
एवं विधानतो वाच्यं वाचकेन विपश्चिता ।
तपः समात्मकं सर्वं स्वर्गादिफलसाधकम् ॥
शनैर् विबोध्य वै वाच्यम् अध्यात्मादि च यद् भवेत् ।
क्रुद्धोक्तियुद्धसङ्क्षोभं धारावर्तेन वाचयेत् ॥
[५५४] धारावर्तेन वेगेन ।
सरागं ललितैर् वाक्यैर् वाचयेद् बद्धसङ्गमे ।
नानावृत्तानुरूपेण लालित्येन च वाचयेत् ॥
सर्गाध्याये समाप्ते च कथापर्यन्त एव वा ।
प्रशब्दशब्दसंयोगे कुर्याद् इति विरामणम् ॥
समाप्ते वाचके भीष्म ब्रूयाद् एवं विचक्षणः ।
अवधार्य जगच्छान्तिम् अन्ते शान्त्युदकं सृजेत् ॥
सुश्रुतं सुश्रुतं ब्रूयाद् अस्तु वाक्यातम् [व्याख्यातम्?] इत्य् अदः ।
लोकः प्रवर्ततां धर्मे राजावास्तु (?) सदा जयी ॥
धर्मवान् धनसम्पन्नो गुरुश् चात्र निरामयः ।
इति प्रोच्य यथाजातं गन्तव्यं च विभावितः ॥
शिष्यैः परस्परं शास्त्रं चिन्तनीयं विचक्षणैः ।
कथावस्तुप्रसङ्गेन नानाव्याख्यानभावनैः ॥
युक्तिभिश् च चरेद् व्याख्यां चिह्नैश् चापि स्वयङ्कृतैः ।
एवं दिने दिने व्याख्यां शृणुयान् नियतो नरः ॥
समग्रशास्त्रश्रवणेन पुंसः
श्रद्धाप्रधानं भवतीह चेतः ।
रागं च शास्त्रात्मकम् अभ्युपैति
दोषाश् च नाशं निमिषेण यान्ति ॥
यथा कथञ्चित् शृणुयान् न शास्त्रम्
अश्रद्धयाचेष्टितधर्मसङ्गः ।
ततः समाप्ताव् अथ शास्त्रसर्गे
कथोदये चापि वितीतबुद्धिः ॥
[५५५] शक्त्यार्चयेद् द्वादशकल्पम् एवं
गुरुं च भक्त्या पितृवत्रिकार्थी (?) ॥
एष विद्याप्रदानस्य प्रधानो विधिर् उच्यते ।
अनेनैव विधानेन ब्राह्मणः शीलशालिनि ॥
प्रबोधयति धीयुक्ते युक्तज्ञे वेदवादिनि ।
विन्यसेत् तु शुभं शास्त्रं महापुण्यजिगीषया ॥
धनैर्ष्या विपुलैर् दक्षैर् गुरुं कृत्वा सुतर्पितम् ।
अध्यापयेच् छुभान् शिष्यान् अभिजानान् सुमेधसः ॥
एवं विद्याप्रदानं तु सर्वदानोत्तमं स्मृतम् ।
सर्वदा सर्ववर्णानां नरकप्लवम् उत्तमम् ॥
अनेन विधिना दत्वा विद्यां पुण्यपरो नरः ।
यत् फलं चाश्वमेधानां शतस्य सुकृतस्य च ॥
राजसूय्सहस्रस्य सम्यग् इष्टस्य यत् फलम् ।
तत् फलं लभते मर्त्यो विद्यादानेन भाग्यवान् ॥
सर्वसस्यसुसम्पूर्णो सर्वरत्नोपशोभिताम् ।
ब्राह्मणेभ्यो महीं दत्वा ग्रहणे चन्द्रसूर्ययोः ॥
यत् फलं लभते मर्त्यो विद्यादानेन तत् फलम् ।
यावद् अक्षरसङ्ख्यानं विद्यते शास्त्रसंश्रये ॥
तावद् वर्षसहस्राणि स्वर्गे विद्याप्रदो भवेत् ।
यावन्त्यः पङ्क्तयस् तत्र पुस्तके क्षरसंश्रिताः ॥
यावच् च पत्रसङ्ख्यानं पुस्तके विद्यते शुभम् ।
तावद् युगसहस्राणि सकुलो मोदते दिवि ॥
तावतो नरकात् कुर्यान् उद्धृत्य नयते दिवि ।
[५५६] यावच् च पातकं तेन कृतं जन्मशतैर् अपि ॥
तत् सर्वं नश्यते तस्य विद्यादानेन देहिनः ।
स जातो मनुजो लोके स धन्यः स च कीर्तिमान् ॥
यो विद्यादानसम्पर्कप्रसक्तः पुरुषोत्तमः ।
यथाविभवतो दद्याद् विद्यां शाठ्यविवर्जितः ॥
याति पुण्यतमान् लोकान् अक्षयान् भोगभूषितान् ॥
वह्निपुराणे ।
अम्बरीष उवाच ।
गवां सुबहुधा दानं भूमिदानं तथा मुने ।
ब्रह्माण्डादीनि सर्वाणि कथितानि त्वया मम ॥
इद्नीं श्रोतुम् इच्छामि विद्यादानफलं महत् ।
विधिवद् विविधं तद्वत् कथयस्व महामुने ॥
वसिष्ठ उवाच ।
विद्यादानं प्रवक्ष्यामि यथातथ्यं तवाधुना ।
यथा देयं फलं यच् च तत् शृणुष्व नृपोत्तम ॥
शुभे ऽह्नि शुभनक्षत्रे मण्डपं शुभवेदिकम् ।
चतुरस्रं वितानं वा कृत्वा तत्रोपलेपयेत् ॥
गोमयेनोपलिप्ते तु पुष्पप्रकरशोभिते ।
तत्र न्यस्यासनं दिव्यं दिव्यगन्धाधिवासितम् ॥
संस्थाप्य पुस्तकं तत्र धर्मशास्त्रस्य धीमतः ।
ब्राह्मणान् वेदसम्पूर्णांश् छन्दोलक्षणपारगान् ॥
लिखापयित्वा यत्नेन तत्समग्रं शुभाक्षरैः ।
[५५७] चन्द्रसूर्योपरागे वा सङ्क्रान्त्ययनवासरे ॥
पुण्ये ऽह्नि तत् सुसम्पूज्य वस्त्रालङ्कारभूषणैः ।
घृतधेन्वायुतं रत्नैर् दद्याद् गुणवते ततः ॥
शास्त्रसद्भावविदुषे वाचकेति प्रियंवदे ।
तच् छास्त्रं शृण्वतां नित्यं जनानां नाशयत्य् अघम् ॥
दातुस् तस्माद् भवेन् नेकफलं तच् छृणु भूपते ।
यत् पुण्यं सर्वतीर्थानां विधिवद् यज्वनां तथा ॥
तत् पुण्यं समवाप्नोति विधिवच् छास्त्रदः पुमान् ॥
वाराहपुराणे ।
विद्यादानविधिं वक्ष्ये यथातत्वेन ते पुनः ।
दत्तेन तत् फलं तस्य दातुर् अस्य समासतः ॥
उक्ते समारभेत् काले निम्नोन्नतविवर्जिते ।
सुसमे भूप्रदेशे च गोमयेनोपलेपयेत् ॥
पुष्पप्रकरसम्पन्ने गीतवाद्यसमाकुले ।
अमलां चतुरस्रां वा चन्दनेनैव कारयेत् ॥
पुस्तकं तत्र संस्थाप्य गन्धपुष्पैः प्रपूजयेत् ।
सौवर्णलेखनी कार्या मषीभाण्डं च रौप्यकम् ॥
जयशब्दं समुद्घोष्य आरभेल् लेखकः सुधीः ।
विनीतश् चाप्रमत्तश् च शास्त्रनिष्पत्तिम् आनयेत् ॥
ब्राह्मणस्य सुवृत्तस्य वाचकस्य विजल्पतः ।
अनेन विधिना दत्वा दातुरत्नस्य यत् फलम् ॥
तत् फलं कोटिगुणितं पुस्तकैकप्रदायकः ।
[५५८] यत् पुण्यं तीर्थयातॄणां यत् पुण्यं यज्वनां नृणाम् ॥
तत् पुण्यं कोटिगुणितं विद्यादाने न संशयः ।
कपिलानां सहस्रेण सम्यग् दत्तेन यत् फलम् ॥
तत् फलं समवाप्नोति पुस्तकैकप्रदानतः ॥
अथाल्पवित्तस्य श्रद्धावतो विद्यादानम् अभिधीयते । तत्र देवीपुराणे ।
आत्मवित्तानुसारेण विद्यादानं करोति यः ।
असाध्यं फलम् आप्नोति आढ्यतुल्यं न संशयः ॥
स्त्री वानेनैव विधिना विद्यादानफलं लभेत् ।
भर्त्रा चैवाननुज्ञाता विधवा च तम् उद्दिशेत् ॥
विद्यार्थिने सदा दद्याद् वस्त्राभ्यङ्गं च भोजनम् ।
छत्रिकाम् उदकं दीपं यस्मात् तेन विना महीम् ॥
लेखनीघटितं तीक्ष्णा मषीपत्रं तु लेखनीम् ।
दत्वा तु लभते वत्स विद्यादानम् अनुत्तमम् ॥
पुस्तकस्तरणं दत्वा सुप्रमाणं सुशोभनम् ।
विद्यादानम् अवाप्नोति सूत्रबद्धं च बुद्धिमान् ॥
यन्त्रकं त्व् आसनं चैव दण्डासनम् अथापि वा ।
विद्यावाचनशीलाय दत्तं भवति राज्यदम् ॥
अञ्जनं नेत्रपादानां दत्तं विद्यापरायणे ।
भूमीर् [भूमीं?] गृहं च क्षेत्रं च स्वर्गराज्यफलप्रदम् ॥
यस्य भूम्यां स्थितो नित्यं विद्यादानं प्रवर्तयेत् ।
तस्यापि भवति स्वर्गस् तत्प्रभावान् न संशयः ॥
[५५९] नन्दीपुराणे ।
ये ऽपि पत्रं मषीपात्रं लेखनी सम्पुटादिकम् ।
लघुशास्त्राभियुक्ताय ते ऽपि विद्याप्रदायिनाम् ॥
यान्ति लोकान् शुभान् मर्त्याः पुण्यभाजो नराधिप ॥
विष्णुधर्मोत्तरे ।
विद्यादानम् अवाप्नोति प्रदानात् पुस्तकस्य च ।
शिल्पानि शिक्षयेद् यस् तु पौण्डरीकफलं लभेत् ॥
शिल्पभाण्डप्रदाने ऽपि तद् विद्यादानजं फलम् ।
अहितेषु प्रवृत्तस्य तथा कृत्वा निवारणम् ॥
विद्यादानफलं प्रोक्तं नात्र कार्या विचारणा ।
पापवृत्तस्य च तथा दत्वा चैव परां मतिम् ॥
विद्यादानफलं प्राप्य स्वर्गलोके महीयते ।
येन जीवति भाण्डेन तस्मै तद्भाण्डदायकः ॥
सर्वकामसमृद्धस्य यज्ञस्य फलम् अश्नुते ॥
स्कन्दपुराणे ।
दरिद्रः स्वानुसारेण वित्तशाठ्यविवर्जितः ।
कृत्वा विधिम् इमं भक्त्या विद्यादानफलं लभेत् ॥
यस्य यावद् भवेद् वित्तं स तस्येहानुसारितः ।
निवेद्य सुमहाभागैः शिवलोके महीयते ॥
पुस्तकास्तरणं दत्वा सहस्रं तत्प्रमाणतः ।
तद् आसनं वितानं वा शिवलोके महीयते ॥
[५६०] यावत् तद् वस्त्रसूत्राणां परिसङ्ख्या समन्ततः ।
तावद्युगसहस्राणि महाभोगान् अवाप्नुयात् ॥
यः श्रीपर्णसमुद्भूतं निम्नखातं सुसञ्चयम् ।
दद्यात् सम्पुटकं कृत्वा चर्मणा वापि निर्मितम् ॥
शिवज्ञानाभियुक्ताय तदध्ययनहेतुना ।
सुश्लक्ष्णं फलकं वापि विद्यादानफलं लभेत् ॥
यः सौवर्णं सुसम्पूर्णं सर्वरत्नोपशोभितम् ।
सपिधानसुमञ्जूषं विद्याकोशसमाश्रयम् ॥
कारयेद् वापि रौप्येण ताम्रेण चतुरस्रकम् ।
कांस्यारकूटलोहं वा दारुवंशादिनिर्मितम् ॥
सुकषायातिरक्तेन वर्मणाभिनवेन च ।
अन्तर् बहिश् च मठयेद् विद्यादाननवं गृहम् ॥
सुदृढं कटकोपेतं दृढस्तम्भनिवेदनम् ।
कुर्यात् तालकसंयुक्तं विद्यारत्नकरण्डकम् ॥
एवं वित्तानुसारेण कारयित्वा तु तं नृप ।
विद्यासिंहासनं तत्र सम्पूज्य विधिवद् बुधः ॥
तस्मिन् पुण्याहशब्देन विद्याकोशगृहं न्यसेत् ।
एवं यः शिवविद्यायाः कुर्याद् आयतनं शुभम् ॥
स मुक्तः पातकैः सर्वैर् विद्यादानफलं लभेत् ।
विद्यामण्डलकं कृत्वा विद्याव्याख्यानमण्डपे ॥
तत्राभ्यर्च्य शिवां विद्यां तद्व्याख्यां शृणुयात् ततः ।
सो ऽपि याति शिवस्थानं सर्वकामसमन्वितम् ॥
अनेन विधिना ज्ञानं यः शृणोति प्रवक्ति च ।
[५६१] स सम्प्राप्य श्रियं सौख्यं देहान्ते मुक्तिम् आप्नुयात् ॥
नन्दिपुराणे ।
इति विद्याप्रदानस्य महाभाग्यं प्रकीर्तितम् ।
श्रुत्वैतत् पातकैर् मुख्यैर् नियतं सप्तजन्मजैः ॥
देवीपुराणे ।
तस्मात् सर्वप्रयत्नेन विद्या देया सदा नरैः ।
इहैव कीर्तिम् आप्नोति मृतो याति परां गतिम् ॥
यस् तु देव्या गृहे नित्यं विद्यादानं प्रवर्तयेत् ।
स भवेत् सर्वलोकानां पूज्यः पूज्यपदं व्रजेत् ॥
वाराहपुराणे (?) ।
ब्रह्माद्या देवताः सर्वा विद्यादाने प्रतिष्ठिताः ।
धर्माधर्मं न जानन्ति विद्यादानबहिष्कृताः ॥
तस्मात् सर्वप्रयत्नेन विद्यादानं प्रयच्छति ।
चतुर्युगानि राजेन्द्र एकसप्ततियावता ॥
तावद् विष्णुपुरे राजन् क्रीडते कालम् अक्षयम् ।
क्षितिं चागत्य कालान्ते राजराजो भविष्यति ॥
त्रेतायुगे धर्मपरो जायते च पुनः पुनः ।
कुले महति जातश् च स राजा धार्मिको भवेत् ॥
हस्त्यश्वरथदानानां दाता भोक्ता विमत्सरी ।
भोक्ता पुरवराणां च देशानां चैव कोटिशः ॥
[५६२] रूपसौभाग्यसम्पन्नो दीर्घायुर् निरुजो भवेत् ।
पुत्रपौत्रैः परिवृतो जीवेच् च शरदां शतम् ॥
लेखके दक्षिनां दद्याद् वस्त्रालङ्कारभूषणम् ।
शक्तश् च वस्त्रयुग्मं च दद्याच् छास्त्रसमन्वितम् ॥
लिखापयित्वा तच् छास्त्रं देयं गुणवते सदा ।
तपस्विने धर्मरते परिपालनतत्परे ॥
वस्त्रयुग्मेन संवीतं पुस्तकं प्रतिपादयेत् ।
वाचकं पूजयेच् चैव वस्त्रालङ्कारभूषणैः ॥
क्षम्यताम् इति वक्तव्यं लेखकः सुसमाहितः ।
अनेनैव विधानेन विद्यादानात् फलं लभेत् ॥
वह्निपुराणे ।
वाजपेयसहस्रस्य सम्यग् इष्टस्य यत् फलम् ।
तत् फलं समवाप्नोति विद्यादानान् न संशयः ॥
तस्माद् देवालये नित्यं धर्मशास्त्रस्य वा श्रुतेः ।
पठनं कारयेद् राजन् यदीच्छेद् धर्मम् आत्मनः ॥
गोभूहिरण्यवासांसि शयनान्य् आसनानि च ।
प्रत्यहं तेन दत्तानि भवन्ति नृपसत्तमः ॥
धर्माधर्मं न जानाति लोको ऽयं विद्यया विना ।
तस्मात् सदैव धर्मात्मन् विद्यादानरतो भवेत् ॥
वेदशास्त्रे रहस्यानां यदि नैव नृपोत्तम ।
ततो ऽज्ञानतमोऽन्धस्य कावस्था जगतो भवेत् ॥
ब्रह्मादयः सुराः सर्वे ऋषयो दग्धकिल्बिषाः ।
[५६३] मनुष्याः पितरश् चैव विद्यादाने प्रतिष्ठिताः ॥
चतुर्युगानां राजेन्द्र एकसप्ततिसङ्ख्यया ।
वेदशास्त्रप्रदः स्वर्गे पूज्यते सुरसत्तमः ॥
स तु कालाद् इहागत्य राजा भवति धार्मिकः ।
हस्त्यश्वरथयानाढ्यो दाता भोक्ता त्व् अमत्सरी ॥
रूपसौभाग्यसम्पन्नो दीर्घायुर् निरुजः सुखी ।
पुत्रपौत्रैर् वृतः कालान् मोक्षं याति न संशयः ॥
दानं विशेषफलदं जगतीह नान्यद्
विद्यां विहाय वदनाब्जकृताधिवासाम् ।
गोभूहिरण्यगजवाजिरथादिसर्वं
तद् यच्छतां किम् इति भूप भवेन् न दत्तम् ॥
इति विद्यादानविधिः ।
इति श्रीमहाराजाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वरसकल-
विद्याविशारदश्रीहेमाद्रिविरचिते चतुर्वर्गचिन्तामणौ
**दानखण्डे अतिदानप्रकरणम् **
[५६४]
दानखण्डम् अष्टमो ऽध्यायः
अथ दशमहादानान्य् उच्यन्ते ।
तत् तादृग् विमलं कुलं निरवधिविद्यानवद्याकृतिः
सम्पत्कम्पितदैन्यसैन्यनिवहामादुर्यधुर्यागिरः ।
इत्य् अन्योन्यजिगीषयेव गुरुतां यस्मिन् भजन्ते गुणास्
तेनायं विधिर् उच्यते दशमहादानेषु हेमाद्रिणा ॥
तत्सङ्ग्रहश्लोकास् तु कूर्मपुराणे ।
कनकं च तिलानागादासीरथमहीगृहाः ।
कन्या च कपिला धेनुर् महादानानि वै दश ॥
तत्र प्रथमनिर्दिष्टतया सुवर्णदानम् एव तावद् उच्यते । वह्निपुराणे ।
राम उवाच ।
क्रोधाद् इदं मया कर्म कृतं मुनिवरोत्तमाः ।
कथं तस्माद् विमुच्ये ऽहं पापात् प्राणिवधादिकात् ॥
इत्य् उक्ताः धर्मतत्वज्ञाः पापानां पावनं परम् ।
दानं चेह सुवर्णस्य ते तम् ऊचुर् महर्षयः ॥
[५६५] एतत् पवित्रम् अतुलं सम्भूतम् इह सुश्रुम ।
शम्भोर् बीजं परं तेजो अपत्यं जातवेदसः ॥
सहस्रं कार्तिकेयस्य रुद्रशुक्रसमुद्भवम् ।
पवित्रत्वात् सुरैः सर्वैर् धार्यते मुकुटादिषु ॥
अग्निस् तु देवताः सर्वाः सुवर्णं च तदात्मकम् ।
तस्मात् सुवर्णं ददता प्रीताः स्युः सर्वदेवताः ॥
दश पूर्वान् परांश् चैव नरकात् तारयन्ति ते ।
सुवर्णं ये प्रयच्छन्ति प्रोवाचेदं बृहस्पतिः ॥
सर्वान् कामान् प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम् ।
मरीचिर् भगवान् पूर्वं पितामहसुतो ऽब्रवीत् ॥
यः सुवर्णं नरो नित्यं ब्राह्मणेभ्यः प्रयच्छति ।
स चिरं विरजा विद्वान् देववद् दिवि मोदते ॥
सर्वेषाम् एव दानानाम् एकजन्मानुगं फलम् ।
हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम् ॥
विद्यादानं सुवर्णं तु यो लोभान् न प्रयच्छति ।
स सीदति च पापेन वेष्टितो नरकं व्रजेत् ॥
कृत्वापि सुमहत् पापं जातरूपं ददाति यः ।
स सद्यस् तेन पापेन मुच्यते नात्र संशयः ॥
एतत् कृत्वा तु शुद्ध्यर्थं सुवर्णं देहि भार्गव ।
इत्य् उक्तो मुनिभिस् तैस् तु रामो धर्मभृतां वरः ॥
प्रादात् सुवर्णं विप्रेभ्यस् ततः पापाद् विमुच्यते ।
तस्मात् त्वम् अपि राजेन्द्र द्विजेभ्ज्यो देहि काञ्चनम् ॥
विष्वक्सेनं समुद्दिश्य यदीच्छेच् छाश्वतीं गतिम् ।
[५६६] ब्रह्माण्डपुराणात् ।
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा ।
पवित्राणां पवित्रं च दानानां नात्र संशयः ॥
हिमवद्दुहिता पूर्वम् उमा नाम पतिव्रता ।
पूर्वजन्मनि सा चासीद् दक्षस्य तनया सती ॥
दक्षकोपाच् च तत्याज सती चात्मकलेवरम् ।
हिमवद्दुहिता जज्ञे लोके गौरीति विश्रुता ॥
दत्ता तेनापि सा तस्मै प्रणिपत्य पिनाकिने ।
विवाहं कारयामास विधिवद् दुहितुस् तदा ॥
वैवाहिकेन विधिना जुहावाग्निं पितामहः ।
होमĕ च कुर्वतस् तस्य विकारी मन्मथी भवेत् ॥
रूपं दृष्ट्वा तदा देव्या रेतस्कन्नं महात्मनः ।
पद्भ्यां च मृदितं तेन बहुधा समपद्यते ॥
तत्रोत्पन्ना महात्मानो वालखिल्या मरीचयः ।
अग्नौ च शेषम् अपतच् चाभूद् वानलप्रभम् ॥
जाज्वल्यमानं दीप्त्या दृष्ट्वा पुत्रं विभावसोः ।
जगृहुः शिरसा चैव पुण्यत्वात् ते पुटान्विताः ॥
ऊचुश् च देवगन्धर्वा मुनयश् च यतव्रताः ।
विभूषणं च ते देवा इष्टापूर्तं विभावसोः ॥
देवपत्न्यस् तथा चैतद् भूषणेषु न्ययोजयन् ।
एवं सुवर्णम् उत्पन्नम् आग्नेयं ब्राह्मम् एव च ॥
[५६७] पवित्रम् अपरं लोके सुवर्णेन समं क्वचित् ।
न विद्यते द्रव्यजातं दानं वा भूषणं तथा ॥
अत्राह बृहस्पतिः ।
गृहादिके पुण्यफलं भवेन् मूल्यानुसारतः ।
तस्मात् सर्वप्रदानानां हिरण्यम् अधिकं स्मृतम् ॥
यथा सान्तनिकादीनां हेम्ना सम्पद्यते क्रिया ।
तथा न गृहदानेन हिरण्यम् अधिकं ततः ॥
वेदव्यासः ।
सर्वान् कामान् प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम् ।
एतद् धि भगवान् अत्रिः पितामहसुतो ऽब्रवीत् ॥
पवित्रम् अथ वा पुण्यं पितॄणाम् अक्षयं च यत् ।
सुवर्णं मनुजेन्द्रेण मनुना सम्प्रकीर्तितम् ॥
मनुः ।
भूमिदः सर्वम् आप्नोति दीर्घम् आयुर् हिरण्यदः ।
संवर्तः ।
हिरण्यदो महावृद्धिं दीर्घम् आयुश् च विन्दति ।
विष्णुः ।
सुवर्णप्रदो ऽग्निसालोक्यम् आप्नोति ।
बृहस्पतिः ।
अग्नेर् अपत्यं प्रथमं सुवर्णं
भूर् वैष्णवी सूर्यसुताश् च गावः ।
लोकास् त्रयस् तेन भवन्ति दत्ता
यः काञ्चनं गां च महीं च दद्यात् ॥
विश्वामित्रः ।
यत्रास्ते लिखिता गेहे स्वर्णदानस्य संस्तुतिः ।
[५६८] रक्षोभूतपिशाचाद्यास् तन् न पश्यन्ति पार्थिव ॥
देवीपुराणे ।
ज्ञात्वा मानं सुवर्णादेः पात्रेषु प्रतिपादयेत् ।
कामान् इष्टान् अवाप्नोति विधिश्रद्धासमन्वितः ॥
वसिष्ठः ।
तस्माद् अग्निमुखाः सर्वदेवता इति शुश्रुमः ।
ब्राह्मणो [ब्रह्मणो?] हि प्रसूतो ऽग्निर् अग्नेर् अपि काञ्चनम् ॥
तस्माद् ये वै प्रयच्छन्ति हिरण्यं सर्वदैवतम् ।
तस्य वै वेधसो लोका गच्छन्ति परमां गतिम् ॥
स्वर्लोके राजजाज्येन सो ऽभ्षिच्येत भार्गव ।
सुवर्णम् इत्य् अनुवृत्तौ कालिकापुराणे ।
पूतम् एतत् परं पुण्यं पुरा कायेषु नित्यशः ।
धारयन्ति यतः सर्वे मङ्गलार्थम् अरोगतः ॥
अतः पापानि सर्वाणि पात्रेभ्यो विधिपूर्वकम् ।
दत्तं पुनाति काले च देशे च हरसन्निधौ ॥
श्रूयतां येन रामेण विधिना प्राक् तपोधन ।
प्रदत्तं काञ्चनं पूर्वं रैचीक्येन महात्मना ॥
सर्वहेममयं यज्ञम् इष्ट्वा विप्राः प्रतर्पिताः ।
हेमैर् आभरणैः पूज्य दत्तं फलशतं तथा ॥
भूय एवं तुलान्तेन स्वयम् आरोप्य यत्नतः ।
हेमद्वितीयपार्श्वे च द्विजातिभ्यो ददौ स्वयम् ॥
भूयो ऽपि तन्मयान्य् एव सूर्यपात्राणि तेन च ।
[५६९] प्रभाषादिषु तीर्थेषु ब्राह्मणेभ्यो ददौ तदा ॥
गवां च दशवर्णानां विप्रकृत्वा पृथक् पृथक् ।
सहस्रं च सहस्रं च सवत्सानां सुरूपिणाम् ॥
बद्ध्वा कम्बलम् आक्रम्य पलान्य् एकादशैव तु ।
एकैकस्य पृथक्त्वेन दत्तं हेमं तु तेन वै ॥
कारयित्वा सपद्मानि जातरूपमयानि च ।
भ्रमता तीर्थलिङ्गानां मूर्ध्नि दत्तानि ते नव ॥
तन्मयाभरणैः पूज्य शतशो ऽथ सहस्रशः ।
सम्पूज्य तर्पिता विप्रा भूयस् तेनैव मानद ॥
पद्माश् चैव पताकाश् च मालाश् चैव विशेषतः ।
रुद्रादीनां नियुक्ताश् च कारयित्वा गृहे गृहे ॥
उपवीतं च यष्टिश् च मेखलापादुके तथा ।
लेखनीं मषीपात्रं च दत्वा विप्रेषु तेन वै ॥
मानसोपस्करं कृत्स्नम् आसनं धानतन्मयम् [?} ।
द्विजेभ्यश् चैव दत्तानि कारयित्वा सहस्रशः ॥
ग्रहाणां देवतानां च कृत्वा रूपाणि भूरिशः ।
न्यस्तानि विधिवत् पूज्य द्विजानां चैव मन्दिरे ॥
काञ्चनीं रोदसीं पृष्ट्वा नगोदधिसमन्विताम् ।
पुण्यौषधिवनैर् युक्तां ददौ विप्रेभ्य एव सः ॥
एवमाद्यैर् अनेकैश् च प्रकारैः कनकं पुरा ।
पापापनुत्तये दत्तं पात्रम् आसाद्य भूयशः ॥
श्रीमहाभारते पिण्ददानपरितुष्टस्वप्नदृष्टस्वपितृदत्तोपदेश**[५७०]**कथने युधिष्ठिरं प्रति भीमवाक्यानि ।
वेदोपनिषदे चैव सर्वकर्मसु दक्षिणा ।
सर्वक्रतुषु चोद्दिश्य भूमिर् गावो ऽथ काञ्चनम् ॥
ततः श्रुतिस् तु परमा सुवर्णं दक्षिणेति वै ।
तद् इदं सम्यग् आरब्धं त्वयाद्य भरतर्षभ ॥
किं तु भूमेर् गवाश् चार्थे सुवर्णं दीयताम् इति ।
एवं वयं च धर्मज्ञ सर्वे चास्मत्पितामहाः ॥
तारिता वै तरिष्यन्ति पावनं परमं हि तत् ।
दश पूर्वान् दशैवान्यांस् तथा तान् तारयन्ति ते ॥
सुवर्णं ये प्रयच्छन्तीत्य् एवं मां पितरो ऽब्रुवन् ।
रामं प्रति वसिष्ठवाक्यानि ।
सर्वरत्नानि निर्मथ्य तेजोराशिसमन्वितम् ।
सुवर्णम् एभ्यो विप्रेन्द्र रत्नं परमम् उत्तमम् ॥
एतस्मात् कारणाद् देवा गन्धर्वोरगराक्षसाः ।
मनुष्याश् च पिशाचाश् च प्रयता धारयन्ति तत् ॥
मुकुटैर् अङ्गदयुतैर् अलङ्कारैः पृथग्विधैः ।
सुवर्णविधृतैर् अत्र विराजन्ते भृगूत्तम ॥
तस्मात् सर्वपवित्रेभ्यः पवित्रं परमं स्मृतम् ।
पृथिवीगां च दत्वाहं तथान्यद् अपि किञ्चन ॥
विशिष्यते सुवर्णस्य दानं परमकं विभो ।
अक्षयं पावनं चैव सुवर्णम् अनुराजते ॥
प्रयच्छ द्विजमुख्येभ्यः पावनं ह्य् एतद् उत्तमम् (?) ।
[५७१] सुवर्णम् एव सर्वत्र दक्षिणासु विधीयते ॥
सुवर्णं ये प्रयच्छन्ति सर्वदास्ते भवन्त्य् उत ॥
नन्दिपुराणे ।
कृष्णलाः पञ्चमाषास् तु माषैः षोडशभिः स्मृतम् ।
सुवर्णम् एकं तद्दानान्द् दाता स्वर्गम् अवाप्नुयात् ॥
तथा ।
तस्मात् स सर्वथा पात्रे दद्यात् कनकदक्षिणाम् ।
अपात्रे पातयेद् दत्तं सुवर्णं नरकार्णवे ॥
प्रमादतस् तु तन् नष्टं तावन्मात्रं नियोजयेत् ।
अन्यथा स्तेययुक्तः स्याद् धेम्न्य् अदत्ते विनाशिनि ॥
दानार्थम् एव तत् सृष्टं ह्य् अक्लिष्टं स्वर्गसाधनम् ।
दानात् परं सुवर्णस्य विधिर् एव न विद्यते ॥
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा ।
एतत् पवित्रं परमम् एतत् स्वस्त्ययनं महत् ॥
दश पूर्वान् परान् वंशान् आत्मानं च विशाम्पति ।
अपि पापशतं कृत्वा दत्वा विप्रेषु तारयेत् ॥
सुवर्णं ये प्रयच्छन्ति नराः शुद्धेन चेतसा ।
देवतास् तेन सन्देहः समस् ता इति नः श्रुतम् ॥
अग्निर् हि देवताः सर्वाः सुवर्णं च हुताशनम् ।
तस्मात् सुवर्णं ददता दत्ताः स्युः सर्वदेवताः ॥
अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम् ।
सर्ववेदः प्रमाणज्ञाः श्रुतिशास्त्रनिदर्शनात् ॥
ये त्व् एनं ज्वालयित्वाग्निम् आदित्योदयनं प्रति ।
[५७२] दद्युर् वै व्रतम् उद्दिश्य सर्वकामान् अवाप्नुयुः ॥
व्रतम् उद्दिश्य व्रतम् अनुसन्धायेत्य् अर्थः ।
सुवर्णदः स्वर्गलोके काकान् इष्टान् समश्नुते ।
विराजोवरसंवीतः परियाति यतस् ततः ॥
विमानेनार्कवर्णेन भास्वरेण विराजितः ।
अप्सरोगणकीर्णेन भास्वना स्वेन तेजसा ॥
हंसवहिणयुक्तेन विमानेन नरोत्तम ।
दिव्यगन्धवहः स्वर्गे परिगच्छन्न् इतस् ततः ॥
तस्मात् स्वशक्त्या दातव्यं काञ्चनं मानवैर् भुवि ।
नातः परतरं लोके सद्यः पापविमोचनम् ॥
सुवर्णस्य् अतु शुद्धस्य स्वर्णं यस् तु प्रयच्छति ।
बहून्य् अब्दसहस्राणि स्वर्गलोके महीयते ॥
स्कन्दपुराणे ।
सुवर्णस्य सुवर्णस्य सूवर्णं यः प्रयच्छति ।
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥
सुवर्णद्वितयं दत्वा अक्षयां गतिम् आप्नुयात् ।
दत्वा सुवर्णस्य शतं द्विजेभ्यः श्रद्दयान्वितः ॥
ब्रह्मलोकम् अनुप्राप्य ब्रह्मणा सह मोदते ।
प्रथमं सुवर्णशब्देन हिरण्यम् अभिधीयते, अपरेण तु तस्यैव शुद्धवर्णत्वं प्रतिपाद्यते, परिमाणविशेषः तृतीय इति । अत्र चायं दानवाक्यप्रयोगः ।
[५७३]
ॐ अद्य अमुकस्मिन् देशे अमुकस्मिन् काले अमुकसगोत्राय अमुकशर्मणे ब्राह्मणाय अमुकसगोत्रः अमुकशर्मा इदं सुवर्णं अग्निदैवत्यम् अमुकाय तुभ्यम् अहं सम्प्रददे न मम । ॐ अमुकसगोत्रायेत्यादि एतत् सुवर्णदानप्रतिष्ठार्थम् इदं सुवर्णं दक्षिणां तुभ्यम् अहं सम्प्रददे न ममेति ।
सुवर्णदाने रजतं दक्षिणेति केचित् । अयं च दानमन्त्रः ।
हिरण्यगर्भगर्भस्थं हेम बीजं विभावसोः ।
अनन्तं पुण्यं फलदम् अतः शान्तिं प्रयच्छ मे ॥
कूर्मपुराणे ।
पलैकं द्विगुणं वापि त्रिगुणं शक्त्यनुक्रमात् ।
कनकं स्यात् सुवर्णेन द्वाभ्यां त्रिभिः सदक्षिणम् ॥
पलाद् अधो वा तत् कुर्याद् दक्षिणा स्याद् यथारुचि ।
वित्ताधिक्यात् पलाधिक्यम् इति न्यायनिदर्शनात् ॥
इति सुवर्णदान विधिः ।
आदित्यपुराणे ।
आदित्योदयसम्प्राप्ते विधिमन्त्रपुरस्कृतम् ।
ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः ॥
ददात्य् उदितमात्रे यस् तस्य पाप्मा विलीयते ।
मध्याह्ने ददते रुक्मं हन्ति पापम् अनागतम् ॥
[५७४] ददाति पश्चिमां सन्ध्यां यः सुवर्णं धृतव्रतः ।
ब्रह्मवाय्वग्निसोमानां सालोक्यम् उपयाति सः ॥
सुवर्णम् अक्षयान् दत्वा लोकांश् चाप्नोति पुष्कलान् ।
यस् तु सञ्ज्वलयित्वाग्निम् आदितोदयनं प्रति ॥
दद्याद् वै व्रतम् उद्दिश्य सर्वान् कामान् समश्नुते ।
यं देवम् अर्चयेत् तेन यस्य चैव प्रयच्छति ॥
तस्य लोके निवसति नित्यं चैव ददाति यः ॥
व्रतम् उद्दिश्य व्रतम् अनुसन्धायेत्य् अर्थः ।
सुवर्णदः स्वर्गलोके कामान् इष्टान् समश्नुते ।
विरजो वरसंवीतः परियाति यतस् ततः ॥
विमानेनार्कवर्णेन भास्करेण विराजितः ।
अप्सरोगणकीर्णेन भास्वना स्वेन तेजसा ॥
हंसबर्हिणयुक्तेन कामगेन नरोत्तमः ।
दिव्यगन्धवहः स्वर्गे परिगच्छन्न् इतस् ततः ॥
तस्मात् स्वशक्त्या दातव्यं काञ्चनं मानवैर् भुवि ।
नातः परतरं लोके सद्यः पापविमोचनम् ॥
सुवर्णस्य तु शुद्धस्य सुवर्णं यः प्रयच्छति ।
बहून्य्। अब्दसहस्राणि स्वर्गलोके महीयते ॥
इति नित्यसुवर्णदानविधिः ।
वायुपुराणे ।
हेमदानम् अथो वक्ष्ये यद् भूतं रेतसा मम ।
[५७५] अग्निगर्भं पवित्रं च आयुर् आरोग्यवर्धनम् ॥
निष्कमात्रं पवित्रं वा तदर्धं पादम् एव च ।
तण्डुलाढकसम्पूर्णं पात्रे पात्रान्तरे न्यसेत् ॥
अर्धाडकतिलैः पूर्णं तस्योपरि घृतान्वितम् ।
तिलार्धमानतः पात्रं घृते तद् धेम विन्यसेत् ॥
गोमयेनोपलिप्तायां भूमौ तत्त्रितयं न्यसेत् ।
विप्रं च तद् धिरण्यं च शम्भुं स्मृत्वा प्रपूजयेत् ॥
आत्मच्छायां हिरण्यं च तिलतण्डुलम् एव च ।
विलोक्य दद्याद् विप्राय शिवः सम्प्रीयताम् इति ॥
दद्याद् अनेन विधिना नित्यं मास्य् अयने ऽपि वा ।
संवत्सरे चामावास्यां मत्सायुज्यं परं यतः ॥
आयुरारोग्यसम्प्रीतिस् तस्मिन् काले भविष्यति ।
एवं सुवर्णदानेन नित्यं दद्याद् अनन्तकम् ॥
इति हेमदानविधिः ।
कालिकापुराणे ।
अथायासविनिर्मुक्तो रुद्रोमाकलितं पदम् ।
अनेन विधिना देही गदतो यानि मे शृणु ॥
गुञ्जान् गुञ्जार्धमात्रं वा नियतः प्रतिवासरम् ।
कनकं न्यस्य लिङ्गे तु व्रजेत् तत् पदम् उत्तमम् ॥
सर्वसस्यवतीं दद्याद् रोदसीं वा जलान्विताम् ।
रोहिणीं यो हरायैव गच्छेत् सो ऽपि पदं च तत् ॥
महादानानि च तथा पात्रयुक्तान्य् असंशयः ।
[५७६] दत्वा भोगांश् च मोक्षं च प्रयात्य् एव न संशयः ॥
अग्नेर् अपत्यं प्रथमं सुवर्णं
भूर् वैष्णवी सूर्यसुताश् च गावः ।
लोकत्रयं तेन भवेत् प्रदत्तं
यः काञ्चनं गांश् च महीं च दद्यात् ॥
इति शिवसुवर्णदानविधिः ।
ब्रह्माण्डपुराणात् ।
ऋषयः सत्रम् आसीना नैमिषारण्यवासिनः ।
उग्रश्रवसम् आसीनम् अपृच्छञ् छौनकादयः ॥
तत्तो ऽस्माभिः श्रुतानीह धर्माणि विविधानि च ।
वयम् इच्छामहे भूयः श्रोतुं दानम् अनुत्तमम् ॥
इत्य् एवम् उक्तो मुनिभिः सूतपुत्रो महामतिः ।
उवाच दानमाहात्म्यं शतमानम् इहाद्भुतम् ॥
नारदेन पुरा पृष्टः परमेष्ठी चतुर्मुखः ।
यद् आह दानं तत् सर्वं प्रवक्ष्यामि द्विजोत्तमाः ॥
ब्रह्मा उवाच ।
शृणुष्वावहितो दानं ब्रवीमि तव नारद ।
शतमानम् इति प्रोक्तं सर्वपापप्रणाशनम् ॥
आयुष्यं श्रीकरं पुण्यम् आरोग्यं सन्ततिप्रदम् ।
भुक्तिमुक्तिप्रदं सर्वं सर्वमाङ्गल्यकारणम् ॥
पुण्यकालेषु सर्वेषु चन्द्रसूर्यग्रहादिषु ।
[५७७] नित्यं वा कारयेद् दानं जन्मर्क्षेषु विशेषतः ॥
पुण्यदेशेषु सर्वेषु गृहे देवालयादिषु ।
यत्र साधनसम्पत्तिस् तत्र दानं समाचरेत् ॥
गव्येन भूमिं शकृता जलेन
आलिख्य मध्ये सिततण्डुलैश् च ।
सरोरुहं केसरभूषणाढ्यं
सकर्णिकं चाष्टदलं विलेख्य ॥
तस्मिन् हिरण्यं शतमानमात्रं
निधाय तस्योपरि तं विचिन्त्य ।
ब्रह्माण्म् ईशं कमलासनस्थम्
राराध्य गन्धादिभिर् आदरेण ॥
प्रियं तथा वेदविदं विचिन्त्य
विरिञ्चिबुद्ध्या तु समर्चयित्वा ।
दद्यात् सुवर्णं शतमानम् अस्मै
सम्प्रीयताम् आत्मभूर् इत्य् उदीर्य ॥
यो ऽसौ दानं शतमानं हिरण्यं
दद्याद् आयुः सर्वम् एवैति चोक्तम् ।
अतः कुर्यान् नारदैतत् सकृद् वा
नित्यं मासं हायनं शक्तितो वा ॥
जाम्बूनदं जातरूपं सुवर्णं काञ्चनं तथा ।
हिरण्यं चेति शक्त्या तु क्रमाद् एतानि नारद ॥
इति शतमानदानविधिः ।
[५७८]
अथाह बौधायनः ।
शतमानम् अक्षयेण सुवर्णेन मितं च यत् ।
तत् कांस्ये निक्षिपेत् सम्यक् तिलाढकसमन्विते ॥
कांस्यपात्रपरीमाणं पलानाम् अष्टकं विदुः ।
तिलानाम् उपरि स्थाप्य् अक्षताः शुभ्रशालयः ॥
आवाहयित्वा देवेशं द्युमणिं भानुम् अव्ययम् ।
गन्धमाल्यैः सुरभिभी रक्तमाल्यैर् विशेषतः ॥
उपचारैः षोडषभिर् अर्चयेद् भानुम् अव्ययम् ।
अष्टाक्षरेण मन्त्रेण सावित्रेणातिभक्तितः ॥
यद् वा सवित्रलिङ्गेन मन्त्रेण प्रणिपत्य तु ।
ब्राह्मणाय ततः पूजां कुर्याद् गन्धाक्षतैः शुभैः ॥
अन्यैश् च विविधैः सम्यक् स्वकुटुम्बाविरोधतः ।
तस्मै दान्ताय सत्कृत्य स्वाचारायात्मवेदिने ॥
प्राङ्मुखाय स्वयं चोदङ्मुखः प्रयतमानसः ।
मन्त्रेणानेन सङ्कल्प्य पापव्याधिविमुक्तये ॥
पद्मोद्भवः पद्मकरः सप्ताश्वरथवाहनः ।
शतमानेन दत्तेन तुष्टः सर्वजगद्गुरुः ॥
इह जन्मनि यत् पापम् अन्यजन्मनि यत् कृतम् ।
तत् प्रत्ययाप्रत्ययाभ्यां तत् सर्वं क्षपयत्व् असौ ॥
दानमन्त्रः ।
ततः क्षमाप्य तं विप्रं प्रणिपत्य विसर्जयेत् ।
यथा प्रसवो भवति तथा सर्वं प्रकल्पयेत् ॥
[५७९]
इति पापरोगहरशतमानदानविधिः ।
वह्निपुराणात् ।
इन्द्र उवाच ।
भगवन् सर्वम् आख्यातं वृषदानक्रियाफलम् ।
पृच्छाम्य् अन्यद् अहं पुण्यं सदाक्षयफलप्रदम् ॥
दानं त्रैलोक्यनाथस्य हरप्रीतिविवर्धनम् ।
तद् वदस्व मुने येन दत्तेनेशः प्रतुष्यति ॥
दिक्पालात्मा च सन् नित्यसदानन्दमयो हरिः ।
तत् कथं भवन् भक्तो भवेद् धेममयो हरिः ॥
केन दानेन तपसा व्रतेन यजनेन वा ।
मुच्यते पातकाद् घोराद् आजन्ममरणान्तिकात् ॥
कथं भवेन् नरः श्रीमान् धीमान् पुत्री प्रतापवान् ।
प्रमितायुस् तथारोग्यसकलैश्वर्याभाक् सुधीः ॥
कस्य तत् पदम् आप्नोति विष्णोर् यत् परमं पुमान् ।
श्रोतुम् अर्हो ऽस्मि वै ब्रह्मन् वैष्णवं मन्यसे यदि ॥
तत् प्रसीदाखिलं दानं तत् त्वम् आचक्ष्व मे गुरो ॥
ब्रह्मोवाच ।
आनन्दो ब्रह्मणो रूपं नित्यं वेदेषु गीयते ।
सर्वावासो विभुः साक्षाद् आनन्देन व्यवस्थितः ॥
तस्माद् दानमिदं पुण्यं देह्य् आनन्दनिधिं परम् ।
[५८०] विप्रायाच्युतरूपाय वर्धयानन्दम् उत्तमम् ।
दानेनानेन ते शक्र धातुत्रययुतेन च ॥
इन्द्र उवाच ।
विधानं ब्रूहि मे ब्रह्मन् दानस्यास्य महानिधेः ।
यथा देयं विशेषेण विष्णोर् आनन्दकारकम् ॥
ब्रह्मोवाच ।
पुण्यां तिथिं प्राप्य तु पौर्णमास्यां
तथोपरागे शशिसूर्ययोर् वा ।
चतुर्युगादिष्व् अयनद्वये वा
प्रबोधने प्रस्वपने ऽथ विष्णोः ॥
कुर्याद् अथौदुम्बरम् एव कुम्भं
हिरण्यभारेण यथात्मशक्त्या ।
तथा विधानं च सुराजतं स्याद्
धिरण्यभारेण न तु पूरयेत् तत् ॥
तदर्धतो ऽर्धेन तदर्धतो वा
स्वशक्तितः स्वर्णपलैः शतेन ।
तदर्धम् अर्धेन तु वित्तशक्त्या
पलत्रयाद् अर्धम् अपि प्रकुर्यात् ॥
तत् ताम्रभाण्डे कनकं निधाय
सवज्रनीलोत्पलपद्मरागम् ।
समुक्तवैदूर्यसविद्रुमं च
तद् राजतं पात्रम् अधोमुखं स्यात् ॥
[५८१] एवं तु तं भद्रनिधिं सुविद्वान्
कृत्वासने प्रावरणोपयुक्ते ।
कुशोत्तरे दर्पणचामराढ्य-
सपादुकोपानहछत्रयुक्तम् ॥
तत् क्षौमवस्त्रोत्तमयुग्मयुक्तं
सम्पूजयेन् मन्त्रवरैर् अथैतैः ।
आदौ तु पञ्चामृतम् आद्यविष्णुं
संस्नाप्य संसारहरं समर्च्य ।
तथेश्वरं पावकम् एव हुत्वा
आमन्त्रयेद् भद्रनिधिं ततस् तम् ॥
श्रीखण्डकर्पूरसकुङ्कुमेन
पञ्चाक्षरं नाम श्रियः प्रलिख्य ।
नमस् तथोङ्कारयुतं च पात्रे
तद् राजते ऽप्य् एवम् अथार्चयेत ॥
त्वया समस्तामरसिद्धयक्ष-
विद्याधरेन्द्रोरगकिन्नरेन्द्रैः ।
गन्धर्वविध्याधरदानवेन्द्रैर्
युतं वृतं विश्वम् इदं नमस् ते ॥
समस्तसंसारकरी त्वम् एव
विभोः सदानन्दमयी च माया ।
समस्तकल्याणनिधिः समाधिः
हरिप्रिये भद्रधिर् नमस् ते ॥
एवं पूज्य विधानेन ततो विप्रम् अथार्चयेत् ।
[५८२] क्रीटाङ्गदनिष्काग्र्यकुण्डलाङ्गुलिभूषनैः ॥
अलङ्कृत्य हरिं यद्वत् पीताम्बरधरं ततः ।
पूजयेद् अच्युतं ध्यात्वा मन्त्रेणानेन भक्तिमान् ॥
भूदेवो ऽसीत्य् अतो नित्यं नित्यानन्दमयो हरे ।
हर मे दुष्कृतं कृष्ण कृपाकर नमस् तु ते ॥
भूदेव भगवद् धर्म भवभङ्गकरेश्वर ।
भवभूतिकरो जिष्णो प्रभविष्णु नमो ऽस्तु ते ॥
एवं पूज्य हृदि ध्यात्वा तं द्विजं विष्णुरूपिणम् ।
ततो भद्रनिधिं दद्यान् मन्त्रेणानेन मानवः ॥
स्वगोत्रोच्चारणेनादौ वपुर् नाम महात्मनः ।
यवदर्भतिलैः सार्धम् उदकं सम्परित्यजेत् ॥
पितृसन्तारणार्थाय नित्यानन्दविवृद्धये ।
सर्वाघौघविनाशाय विष्णोर् दानं मया कृतम् ॥
तद् अनेन सरत्नेन धातुत्रययुतेन च ।
सक्षौमाम्बरयुक्तेन सादर्शपादुकेन च ॥
आसनेन सछत्रेण चामरोपानहेन च ।
सदानन्दविधानेन प्रीयतां विष्णुर् ईश्वरः ॥
एवम् उच्चार्य तं दद्याद् द्विजाय हरिरूपिणे ।
गोप्येन विधिना दद्याद् धेमसङ्ख्या न कीर्तयेत् ॥
प्रकीर्तिते कोटिगुणायुतं फलं
प्रगोपिते कल्पगुणैर् न संशयः ।
इतीदं मान्याय (?) न कीर्तयेत् सुधी
निधाय मध्ये निहतं च यद् वसु ॥
[५८३] एवं कृते स्यान् मनुजः कृतात्मा
तपेन्नचा (?) स्यान् मरणं कदाचित् ।
प्रयाति विष्णोः पदम् अव्ययं तत्
शिवात्मकानन्दमयं ससङ्ख्या ॥
इति भद्रनिधिदानविधिः ।
तस्मिन्न् एव पुराणे ।
गरुड उवाच ।
प्रभो प्रसीदाच्युत विश्वभावन
प्रतापनित्यो ऽसि सुरारितापन ।
प्रयच्छ मे प्रश्नम् अहं करोमि यत्
मुकुन्द तस्योत्तरम् उत्तमं विभो ॥
कथं जगन्नाथ जने निरन्तरं
महोत्सवी स्याद् विजयी सुखी सदा ।
सुसम्पदानन्दपदो ऽजरो ऽमरो
निरामयो येन शुभेन तं वद ॥
विभुस् तथाकर्ण्य वचो गरुत्मतः
प्रसन्नरूपः प्रतिवाक्यम् आह तम् ।
सुपर्ण यत् प्रष्टुम् इदं त्वया कृतं
शृणुष्व तत् साधु न दानतः परम् ॥
इहाप्य् अमुष्मिन्न् अपि सम्भृतो निधिः
क्वचिन् न केनापि कदाचिद् आप्यते ।
युगायुतैः कल्पशतायुतैर् अपि
[५८४] प्रभुञ्जतो दातुर् अहीन हीयते ।
गतिं च यां याम् अपि याति दाता
योनिं तथामुत्र तथेह वापि ॥
तां ताम् अनुप्रैति तु दत्तम् अन्ते
सुश्रद्धया यद् द्विजपुङ्गवेभ्यः ।
तस्मान् निधानं शृणु सर्वदानतः
प्रभावदं नित्यफलप्रदं च ॥
ऐश्वर्यदं मोक्षदम् अक्षयं यद्
दातुस् त्रयोभूतम् अनेकरत्नम् ॥
कारयेत् कार्तिकान्ते वा माघ्यां वा माधवे ऽपि वा ।
अयने विषुवे वापि मन्वादिषु युगादिषु ॥
चन्द्रसूर्योपरागे वा स्वशक्त्योदुम्बरं घटम् ।
पिधानं राजतं तद्वत् मध्ये सौवर्णम् उत्सृजेत् ॥
नानारत्नवरापूर्णं नानानानाभिर् आवृतम् ।
हेमराजतताम्रोत्थैः सवित्तैर् अपि पूरैतम् ॥
नानानानशताम् ऊर्ध्वम् अयुताद् अपि शक्तितः ।
एको नानाशब्दो बहुप्रकारवचनः, द्वितीयं नानेति महाराष्ट्रभाषायां नाणकं । ततश् च नानारूपनाणकैः पूरयेद् इत्य् अर्थः ।
शक्त्या पलसहस्रेण शतेनार्धशतेन वा ।
तदर्धार्धेन वा राजन् पलाद् धीनं न कारयेत् ॥
कार्यं तद्विजितं हेम्ना वितशाठ्यम् अकुर्वता ।
राजतेनाथ ताम्रेण रत्नैर् व्यावस्त्रसंवृतम् ॥
[५८५] धान्यं नानोपरि स्थाप्य कल्पोक्तैर् अर्चयेत् पदैः ।
पौराणिकं पुरस्कृत्य स्वयं वा तदनुज्ञया ॥
कृतक्रियो ऽग्निसान्निध्ये विष्णोर् ईशस्य वाण्डज ।
इमं समुच्चरेन् मन्त्रं कुशपाणिः प्रसन्नधीः ॥
ॐ नमः सर्वदानन्दसर्वसम्पत्तिवर्धन ।
वर्धयास्मान् समृद्ध्येह आयुषा यशसा श्रिया ॥
नमस् ते ऽनन्तसन्तान सदानन्द सदोदय ।
सदोदितं कुरुष्वेह सन्तत्या मां धनायुषा ॥
नमो नमः पद्मनिधे धनेश
शतक्रतो शङ्कर नैरृतेश ।
शमन्नयास्मद्दुरितं दुरिष्टम्
अभीष्टदो मे भव शङ्करेश ॥
नमो नमः पाशधराप्रमेय
नमो ऽस्तु रामाय सुनामधेय ।
नमः समीराय हुताशनाय
नमो ऽस्त्व् अनन्ताय कजासनाय ॥
नमः सुरेश्रेष्ठ हरीश्वराय
नमो ऽस्तु सावित्रि शिवे श्रियेति ।
सरस्वति प्रीतिरतिक्रियेति
सतुष्टिःपुष्टिस्मृतिशान्तिकीर्ते ॥
सर्वामराणां निधिर् अप्रमेय
त्वम् एव पितृमुनिरीश्वराणाम् ।
[५८६] आधारभूतो ऽसि चराचरस्य
विश्वस्य यस्मात् प्रणतो ह्य् अतस् त्वाम् ॥
नमो ऽस्तु सौन्दर्यनिधिः सुरेन्द्रः
नमो ऽस्तु गाम्भीर्यनिधेः समुद्र ।
नमो नमः कान्तिनिधान इन्दोस्
तेजोनिधे त्वां प्रणतो ऽस्मि भानो ॥
नमः पद्माय भद्राय नमस् ते स्वस्तिकाय च ।
नमः शङ्खाय मणये मणिभद्राय ते नमः ॥
नमो नन्दिविवर्ताय नन्दावर्ताय वर्तिने ।
नमः कटककर्णाय कण्ठावर्ताये ते नमः ॥
एवं पूज्य विधानेन नित्यानन्दनिधिं सुधीः ।
ससिद्धार्थदूर्वाभिः सकुशाक्षतचन्दनैः ॥
तिललाजैः समं पुण्यं भूमाव् उदकम् उत्सृजेत् ।
मन्त्रेणानेन विधिवत् कल्पोक्तेन खगेश्वर ॥
अद्येह पुण्यकाले ऽस्मिन् द्विजदेवाग्निसन्निधौ ।
यशःश्रेयोऽभिवृद्ध्यर्थे मातापित्रोस् तथात्मनः ॥
पुराणन्यायमीमांसावेदवादिभ्य एव च ।
नमो विद्याविधायिभ्यो नानागोत्रेभ्य एव च ॥
विप्रेभ्यो ऽनेकशर्मभ्यो नित्यानन्दकरं परम् ।
[५८७] अहं सम्प्रददे तेभ्यो नानानानावृतेन च ॥
सस्वर्णरौप्यताम्रेण सरत्नेन सवाससा ।
सोपस्करेण पुरुषो ब्रह्मविष्नुशिवात्मकः ॥
प्रीयतां निधिदानेन श्रीयज्ञपुरुषो ऽच्युतः ।
एवम् उत्सृज्य उदकं विप्रेभ्यः प्रतिपादयेत् ॥
संविभज्य यथाशास्त्रं न कञ्चिद् अपमानयेत् ।
महादानम् इदं यस्मात् तस्माद् एको ऽपि नार्हति ॥
अथान्ये केचिद् इच्छन्ति समस्तविधिपारगाः ।
यज्ञदानव्रतानां वा सो ऽप्य् एको ऽर्हति तद्गृहे ॥
एवं यः कुरुते दानं नित्यानन्दनिधेः परम् ।
एवं सम्पदम् आप्नोति स संसारे निरन्तरम् ॥
दानानाम् अप्य् अशेषाणाम् अनन्तफलम् उच्यते ।
नित्यानन्दविधानस्य प्रदानाद् अपवर्गभाक् ॥
यश् चैवं सकृद् अत्रैव सदानन्दविधानकृत् ।
स करोत्य् असकृद् राज्यम् अक्षये वेधसः पदे ॥
यथा कथञ्चिद् अत्रेति स्वकर्मगुणसङ्क्षयः ।
तदाखिलमहीराज्यं प्राप्नोति व्रतसञ्ज्ञके ॥
पुनः स्वधर्मसंयुक्तो राज्यं कृत्वा सहानुगः ।
प्राप्नोति पदम् ऐशानं नित्यम् अक्षयम् अव्ययम् ॥
तस्माद् एत्य पुना राज्यं लभेत् वैद्याधरे पदे ।
आकल्पम् अप्य् अनल्पश्रीः श्रीनिधानप्रदानतः ॥
[५८८] पुनः प्रयाति कल्पान्ते वैष्णवं पदम् अव्ययम् ।
गतापि योगिनो यत्र प्राप्नुवन्ति पुनः परम् ॥
एतद् भद्रनिधानाख्यम् आख्यातं वैनतेय ते ।
मया प्रीत्या प्रयत्नेन किम् अन्यत् कथयामि ते ॥
नित्यानन्दनिधेर् दानान् नित्यानन्दो ऽभिजायते ।
यः कुर्यात् सो ऽच्युतायुः स्याद् दीर्घसन्तानम् आप्नुयात् ॥
यस् तु सङ्कीर्तयेद् भक्त्या यः शृण्ōति समाहितः ।
स दीर्घम् आयुर् आप्नोति मुच्यते सर्वकिल्बिषैः ॥
इमं खगेन्द्र गदितं दयितं सहतां
तव मयाद्भुततमं शमनं त्व् अधसाम् ।
सुलभम् अवाप्य काञ्चनमिहाचरते
पदम् उपैति चैष्णवम् अहो सुलभम् ॥
इत्य् आनन्दनिधिदानविधिः ।
अथ स्कन्दपुराणे ।
यः प्रयच्छति विप्राय रजतं वापि निर्मलम् ।
स विधूयाशु पापानि स्वर्गलोके महीयते ॥
रूपवान् सुभगः श्रीमान् इह लोके स जायते ।
मत्स्यपुराणे ।
पितॄणां राजतं पात्रम् अथ वा रजतान्वितम् ।
शिवनेत्रोद्भवं यस्मात् तस्मात् तत्पितृवल्लभम् ॥
[५८९] अमङ्गलं च यज्ञेषु देवकार्ये च वर्जितम् ।
रजतं दक्षिणाम् आहुः पितृकार्येषु सर्वदा ॥
इति रजतदानविधिः ।
अथाश्वदानविधिः । तत्र स्कन्दपुराणे ।
अश्वं यस् तु प्रयच्छेद् वै हेमचित्रं सुलक्षणम् ।
स तेन कर्मणा देवि गान्धर्वं लोकम् अश्नुते ॥
महाभारते ।
सर्वोपकरणोपेतं युवानं दोषवर्जितम् ।
यो ऽश्वं ददाति विप्राय स्वर्गलोके महीयते ॥
तथा ।
यावन्ति रोमाणि हये भवन्ति हि नरेश्वर ।
तावन्तो वाजिदा लोकान् प्राप्नुवन्तीह पुष्कलान् ॥
कालिकापुराणे ।
अश्वं वा यदि वा युग्मं शोभने वाथ पादुके ।
ददाति यः प्रदानं वै ब्राह्मणेभ्यः सुसंयतः ॥
तस्य दिव्यानि यानानि रथा ध्वजपताकिनः ।
दुष्टः पन्था न चैवेह भविxयति कदाचन ॥
कूर्मपुराणे ।
अश्वं तन्मूल्यम् अथ वा कनीयो मध्यमोत्तमम् ।
दद्याद् वित्तानुसारेण तारागणपरिच्छदम् ॥
तारागण इति तारानुकार्यश्वालङ्कारविशेषः ।
शफैः पञ्चपलै रौप्यैः सुवर्णालङ्कृतं क्रमात् ।
[५९०] सदक्षिणं सवस्त्रं च ब्राह्मणायाग्निहोत्रिणे ॥
स्वर्सदः प्राप्नुयात् स्वर्गम् अश्वसालोक्यम् अश्वदः ।
श्रद्धा देशश् च कालश् च सर्वदानेषु शस्यते ॥
दानमन्त्रस् तु मत्स्यपुराणे ।
उच्चैःश्र्वास् त्वम् अश्वानां राज्ञां विजयकारकः ।
सूर्यवाहं नमस् तुभ्यम् अतः शान्तिं प्रयच्छ मे ॥
कनीयस्त्वादित्रैविध्यं सुवर्णदानवद् अवधेयम् ।
इत्य् अश्वदानम् ।
गारुडपुराणे ।
ब्रह्महत्यादिपापानि उपपापानि यानि च ।
तानि सर्वाणि नश्यन्ति हयमेधेन निश्चितम् ॥
न कलौ क्रियते यज्ञो ह्य् अश्वमेधो ऽपि गोसवः ।
नरमेधो ऽक्षता नारी देवरात् पुत्रसन्ततिः ॥
गर्हितं सप्तकं ह्य् एतद् राजसूयं कमण्डलुः ।
अश्वमेधमखं यस् तु कलौ कर्तुम् अनीश्वरः ॥
अश्वदानं तु तेनेह कर्तव्यं विधिपूर्वकम् ।
विधिं तस्य प्रवक्ष्यामि ब्रह्मणा निर्मितं पुरा ॥
श्वेतम् अश्वं शुभं स्नातं हेमपर्याणभूषितम् ।
रौप्यैस् तु कटकैः शुद्धैः करिदन्तोपशोभितम् ॥
वज्रनेत्रं कुरैस् ताम्रैः क्षौमपुच्छं सुवाससम् ।
शुभ्रेण पटकेनैव संवृतं स्वायधान्वितम् [स्वध्यायान्वितम् ?] ॥
**[५९१] **धान्यरत्नोपरिस्थं तु बद्धकक्षं सुपट्टकम् ।
एवं सुतेजसं चाश्वं ब्राह्मणाय निवेदयेत् ॥
सुरूपाय सुवृत्ताय विदुषे च सुबुद्धये ।
दातव्यो मन्त्रमुख्याय दातव्यो भाष्कराय च ॥
मन्वादौ च युगादौ च अयने विषुवे तथा ।
चन्द्रसूर्यग्रहे चैवम् अश्वं दत्वा सुखी भवेत् ॥
अथ पूजामन्त्रः ।
मार्तण्डाय सुवेगाय काश्यपाय त्रिमूर्तये ।
जगद्द्विजाय सूर्याय त्रिवेदाय नमस् तु ते ॥
अत्र अमुकसगोत्रायेत्यादि इमं अश्वं सुवर्णन्तिकालङ्कृतं ललाटं ग्रैवेयकसुपर्याणान्वितं गन्धपुष्पाद्यलङ्कृतं रौप्यकटकरत्नोपशोभितं वज्रनेत्रं ताम्रखुरं क्षौमपुच्छं सुवाससं शुभ्रपट्टकसंवृतं स्वायुधान्वितं धान्यरत्नोपरिस्थितं बद्धकक्षं सुपट्टकं स्वर्गकामस् तुभ्यम् अहं सम्प्रददे अमुकगोत्रायेत्यादि एतद् अश्वदानप्रतिष्ठार्थं दक्षिणाम् इदं सुवर्णं तुभ्यम् अहं सम्प्रददे ।
एवं समुच्चरेन् मन्त्रं कर्णे दद्यात् तिलोदकम् ।
महार्णवे समुत्पन्ने उच्चैःश्रवसपुत्रक ॥
मया त्वं विप्रमुख्याय दत्तो हय सुखी भव ।
इमं विप्र नमस् तुभ्यं अश्वं ते प्रतिपादितम् ॥
प्रतिगृह्णीष्व विप्रेन्द्र मया दत्तं सुशोभनम् ।
कर्णे समर्पणं कृत्वा विप्रहस्ते जलं क्षिपेत् ॥
पश्चाद् अश्वपुरो गच्छेत् पदानां सप्तसप्ततिम् ।
[५९२] भास्करं मनसि ध्यात्वा आलोक्य स्वगृहं व्रजेत् ॥
श्वेतम् अश्वं तु यो दद्यात् फलं दशगुणं लभेत् ।
एवं कृते नरव्याघ्र सूर्यलोकं व्रजेन् नरः ॥
ब्रह्महत्यादिपापानि तथान्यानि बहून्य् अपि ।
तानि सर्वाणि नश्यन्ति दत्वा ह्य् अश्वं विधानतः ॥
त्रिंशत् पूर्वांस् त्रिंशद् अपरांस् त्रिंशच् चैव परावरान् ।
सम्यक् दत्वाश्वदः पुत्रो नरकाद् उद्धरेत् पितॄन् ॥
नृत्यन्ति पितरः स्वर्गे वलन्ति च हसन्ति च ।
वाजिप्रदः कलौ जातस् ततो वैमानिका वयम् ॥
वाजिप्रदेन पुत्रेण उद्धृता नरकार्णवात् ।
हयदानफलं ह्य् एतद् यल् लोका अक्षया नृणाम् ॥
इति श्वेताश्वदानविधिः ।
आदित्यपुराणे ।
दुर्वासा उवाच ।
दानधर्मास् त्वया देव प्रोक्ता विस्तरतो मम ।
अश्वानां चैव नागानां दानं चैव दिवाकर ॥
भानुर् उवाच ।
तपःशीलगुणोपेते पात्रे वेदस्य पारगे ।
सुभगे परिपूर्णाङ्गे अग्निहोत्रपरायणे ॥
परिपूर्णाङ्गम् उदितम् उदासीनसमप्रभम् ।
[५९३] सुविभक्तं सुकेशं तं मुखक्षामं सुशोभनम् ॥
सर्वालङ्कारशोभाढ्यं दिव्यस्रगनुलेपितम् ।
सर्वोपकरणैर् युक्तं सर्वलक्षणसंयुतम् ॥
दन्तेषु मुक्तिकास् तस्य प्रवालम् अधरोष्ठयोः ।
दद्याद् वज्रं तु नेत्राभ्यां वैदूर्यं चाप्य् असम्भवे ॥
हेमरूप्यं च हस्ताभ्यां ताम्रं पादेषु विन्यसेत् ।
अण्डजैर् नाण्डजैर् व्यस्तैर् विचित्रैः परिवेष्टयेत् ॥
सुगन्धैश् चैव गन्धैश् च पुष्पैश् चापि विभूषयेत् ।
वाहनाधिपतिं श्रीमान् यथेष्टं विनिवेदयेत् ॥
आदित्याभिमुखं कृत्वा ब्राह्मणेभ्यो निवेदयेत् ।
विविधैर् भक्ष्यभोज्यैश् च बलिं तत्रोपकल्पयेत् ॥
भोजयेत् तत्र विप्रांस् तु सूर्यभक्तान् विशेषतः ।
प्रीयतां मिहिरो नित्यं भुक्त्वा चोत्थापयेद् द्विजान् ॥
अनेन विधिना कुर्याद् अश्वदानं महामुने ।
यावन्ति देहरोमाणि तस्य सूतिश् च यावती ।
तावद् युगसहस्राणि सूर्यलोके महीयते ॥
इत्य् अपरो ऽश्वदानविधिः ।
अथ शिवधर्मात् ।
शिवायाश्वम् अलङ्कृत्य यः पर्वणि निवेदयेत् ।
सो ऽश्वमेधस्य यज्ञस्य फलम् अष्टगुणं लभेत् ॥
इति शिवाश्वदानविधिः ।
[५९४]
अथ तिलदानम् उच्यते ।
आदित्यपुराणे ।
दुर्वासा उवाच
कथं तिला समुत्पन्नाः कथं च अवतारिताः ।
एवं मे संशयं देव छेत्तुम् अर्हस्य् अशेषतः ॥
भानुर् उवाच ।
शृणुष्वावहितो विप्र सर्वं वक्ष्याम्य् अशेषतः ।
पुरा कृतयुगे विप्र पितरः सर्व आगताः ॥
तपश् चरन्ति विपुलं तिलार्थे नात्र संशयः ।
दिव्यं वर्षसहस्रं तु निराहारास् तपस्विनः ॥
तपः कुर्वन्ति विपुरं तिलार्थे मुनिसत्तमाः ।
तदा परिवृताः सर्वैर् देवैश् चैव विशेषतः ॥
प्रजापतिः पितृपतिः साक्षाद् एव पितामहः ।
परितुष्टो ऽस्मि वो दद्मि ब्रूत यच् चेष्टितं हि वः ॥
पितर ऊचुः ।
तिलान् दद महाभाग काङ्क्षितान् वै न संशयः ।
तिलैर् विना न जीवामो नातिलस् तिष्ठते दिवि ॥
पितामह उवाच ।
गच्छध्वं वै तिला दत्ताः सर्वेषां वो द्विजोत्तमाः ।
परितुष्टाश् च पितरस् तिललाभात् प्रजापते ॥
[५९५] तिलान् यस् तु प्रयच्छेत पितॄणां च विशेषतः ।
अग्निष्टोमसहस्रस्य फलं प्राप्नोति मानवः ॥
वैशाख्यां पौर्णमास्यां वा तिलान् क्षौद्रेण संयुतान् ।
यः प्रयच्छेद् द्विजाग्रेभ्यः सर्वपापैः प्रमुच्यते ॥
कृषिभागी बहुधनो जायते नात्र संशयः ।
धर्मराजाय च तिलान् दत्वा चैवेह मानवः ॥
यमलोकं न पश्यन्ति ब्रह्मलोकं व्रजन्ति ते ।
ज्यैष्ठे मासि तिलान् दत्वा पौर्णमास्यां विशेषतः ॥
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ।
माधे मासि तिलान् यस् तु ब्राह्मणेभ्यः प्रयच्छति ॥
सर्वसत्वसमाकीर्णं नरकं न स पश्यति ।
सर्वकामैः स यजते यस् तिलैर् यजते पितॄन् ॥
न चाकामेन दातव्यं तिलैः श्राद्धं कथञ्चन ।
महर्षेः कस्यपस्यैते गात्रेभ्यः प्रसृतास् तिलाः ॥
ततो दिव्यङ्गताभावं प्रदानेषु तिलाः प्रभोः ।
पौष्टिका रूपकां चैव तथा पापविनाशनाः ॥
तस्मात् सर्वप्रदानेभ्यस् तिलदानं विशिष्यते ।
आपस्तम्बश् च मेधावी शङ्खश् च लिखितस् तथा ॥
महर्षिर् गौतमश् चापि तिलदाने सदा रताः ।
तिलहोमरता विप्राः सर्वे संयतमैथुनाः ॥
सर्वेषाम् एव दानानां तिलदानं परं स्मृतम् ।
अक्षयं सर्वदानानां तिलदानम् इहोच्यते ॥
[५९६] तिलाः पवित्रम् अतुलं प्रवदन्ति महर्षयः ।
प्रदाने यत् फलं तेषां तन् मे ब्रूहि पितामह ॥
भीष्म उवाच ।
सर्वेषाम् एव दानानां तिलदानं परं स्मृतम् ।
सर्वपापहरं तद् धि पवित्रं स्वर्गम् एव च ॥
मत्स्यपुराणे ।
विष्णोर् देहसमुद्भूताः कुशाः कृष्णतिलास् तथा ।
धर्मस्य रक्षणायालम् एतत् प्राहुर् दिवौकसः ॥
व्यासः ।
महर्षेः कस्यपस्यैते गात्रेभ्यः प्रसृताः पुरा ।
ते च दिव्यं गता भावं प्रदानेषु तिलाः स्मृताः ॥
तिला भक्षयितव्याश् च होतव्याश् च विधानतः ।
विप्रेभ्यश् च प्रदातव्याः श्रेयस्कामैर् नरैर् इह ॥
संवर्तः ।
नित्ये नैमित्त्के काम्ये तिलान् दत्वा स्वशक्तितः ।
प्रजावान् पुत्रवान् नित्यं धनवान् जायते नरः ॥
वसिष्ठ उवाच ।
नित्यं दाता तिलानां च नरः स्वर्गे महीयते ।
महाभारते ।
[५९७] ददतो जुह्वतश् चैव हरतः प्रतिगृह्णतः ।
तिले तिले तिलद्रोणसौवर्णानां युधिष्ठिर ॥
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् ।
ब्राह्मणस्य च संवादं यमस्य च महात्मनः ॥
मध्यदेशे महाग्रामो ब्राह्मणानां बभूव ह ।
गङ्गायमुनयोर् मध्ये यामुनस्य गिरेर् अधः ॥
विद्वांसस् तत्र भूयिष्ठा ब्राह्मणाश् चावसन् सदा ।
अथ प्राह यमः कश्चित् पुरुषं कृष्णपिङ्गलम् ॥
रकाक्षम् ऊर्ध्वरोमाणं कालजङ्घाक्षिनासिकम् ।
गच्छ त्वं ब्राह्मणं ग्रामं गत्वा ब्राह्मणम् आनय ॥
अगस्तिगोत्रं तं विप्रं नामतश् चापि शाल्मलिम् ।
समे निविष्टं विद्वांसम् अध्यापकसमावृतम् ॥
सामान्यम् आनयेथास् त्वं सगोत्रं तस्य पार्श्वतः ।
स हि तादृग्गुणित्वेन तुल्यो ऽध्ययनजन्मना ॥
आकृत्या च तथा वृत्तैः समस्तेनैव धीमता ।
तम् आनय यथोद्दिष्टं पूजा कार्या हितस्य मे ॥
स गत्वा प्रतिकूलं तच् चकार यमशासनम् ।
तम् आकृष्यानयामास प्रतिषिद्धो ऽयं मे नयः ॥
तस्मै यमः समुथाय पूजां कृत्वा च धर्मवित् ।
प्रोवाच नीयताम् एष सभाम् आनीयताम् इति ॥
एवम् उक्ते तु वचने धर्मराजेन स द्विजः ।
उवाच धर्मराजं तं निविष्टो गमनेन वै ॥
यो मे कालो भवेच् छेषस् ते वसेयं त्वया सह ।
[५९८]
यम उवाच ।
गच्छ विप्र त्वम् अद्यैव निलयं त्वं महामुने ।
ब्रूहि वादं यथास्वैरं करवाणि किमत्युत (?) ॥
ब्राह्मण उवाच ।
यत् कृत्वा सुमहत् पुण्यं स्वर्गे स्याम् ब्रूहि तन् मम ।
सर्वस्य हि प्रमाणं त्वं धर्माधर्मविनिश्चये ॥
शृणु तत्त्वेन विप्रर्षे प्रदानविधिम् उत्तमम् ।
तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् ॥
तिलाः पवित्रम् अतुलं प्रवदन्ति महर्षयः ।
तान् प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा ॥
वैशाख्यां पौर्णमास्यां च अयने चोत्तरायने ।
तिला भक्षयितव्याश् च सदात्मालम्भनं च तैः ॥
कार्यं सततम् अद्भिर् वै श्रेयः सर्वात्मना गृहे ।
तिलान् श्राद्धे प्रशंसन्ति दानम् एतद् अनुत्तमम् ॥
तिला नित्यं प्रदातव्या यथाशक्ति द्विजर्षभ ।
नित्यदानात् सर्वकामफलं निर्वर्तयेत् पुनः ॥
शृणु धर्मरहस्यं च यद् अद्य कथयामि ते ।
तिलाः पवित्रम् अतुलं मा ते ऽभूद् अत्र संशयः ॥
तिलेभ्यः प्राप्यते स्वर्गः स्वर्गान् मोक्षस् तथैव च ।
विष्णुधर्मे ।
तिला गावो हिरण्यं च अन्नं कन्या वसुन्धरा ।
[५९९] दत्तान्य् एतानि विधिवत् तारयन्ति महाभयात् ॥
तथा ।
मुलर्क्षगे शशधरे माघे मासि प्रजापते ।
एकादश्यां कृष्णपक्षे सोपवासो जितेन्द्रियः ॥
द्वादश्यां तु तिलान् दत्वा सर्वपापात् प्रमुच्यते ।
तिलोद्वर्ती तिलस्नायी तिलहोमी तिलोदकी ।
तिलदाता च भोक्ता च षट्तिलाः पापनाशनाः ॥
असकृत् षट्तिली भूत्वा सर्वपापविवर्जितः ।
त्रिंशद्वर्षसहस्राणि स्वर्गलोके महीयते ॥
कूर्मपुराणे ।
कृष्णाजिने तिलान् दत्वा सुवर्णं मधुसर्पिषी ।
द्रोणैकं वाससाछन्नं त्रिधा तद्वत् सदक्षिणाम् ॥
त्रिधेति हीनमधमोत्तमभेदेन द्रोणैकं द्रोणद्वितयं द्र्ōणत्रितयं चेति तद्वत् सदक्षिणम् इति क्रमाद् एकद्वित्रिसुवर्णदक्षिणासहितम् इत्य् अर्थः ।
आहिताग्नौ द्विजे दत्वा सर्वं तरति दुष्कृतम् ।
इदं चात्र दानवाक्यम् ।
ॐ अद्य अमुकसगोत्रायेत्यादि एवं कृष्णाजिनस्थितं सुवर्णं मधुसर्पिर्युतं वस्त्रछन्नं तितद्रोणं [तिलद्रोणं?] सर्वपापक्षयकामस् तुभ्यम् अहं सम्प्रददे न ममेति । ॐ अद्य अमुकसगोत्रायेत्यादि एतत् तिलदानप्रतिष्ठार्थम् इदं सुवर्णं दक्षिणां तुभ्यम् अहं सम्प्रददे न ममेति ।
इति तिलदानविधिः ।
[६००]
तस्मिन्न् एव पुराणे ।
मृगं तिलमयं कृत्वा सुवर्णरजतान्वितम् ।
दद्यात् कम्बलसंस्तीर्णं कृष्णमार्गाजिनेन वा ॥
सर्वकामसमृद्धेन विमानेन दिवं व्रजेत् ।
कालक्षयाद् इहागत्य राजराजो भवेत् पुनः ॥
इति तिलमृगदानविधिः ।
स्कन्दपुराणे ।
तिलपात्राणि यो दद्याद् विप्रेभ्यः श्रद्ध्यान्वितः ।
अमावास्यां समासाद्य नियतः सुसमाहितः ॥
स पितॄंस् तारयित्वाशु नरकान् नरपुङ्गव ।
पितृलोकं समाप्नोति स चिरं सुखम् अश्णुते ॥
अत्रिः ।
तिलपात्रं तु सम्पूर्णं यो दद्यात् सुसमाहितः ।
ध्रुवं स गच्छति स्वर्गं नरो वै नात्र संशयः ॥
यमः ।
तिलपात्रं च यो दद्यात् प्रत्यहं वाथ पर्वणि ।
सदक्षिणं सत्यभावाद् हृदि कृत्वा जनार्दनम् ॥
नाशयेत् त्रिविधं पापं धर्मस्य वचनं तथा ॥
ब्रह्मपुराणे ।
ताम्रपात्रं तिलैः पूर्णं प्रस्थमात्रैर् द्विजाय तु ।
सहिरण्यं च यो दद्याच् छ्रद्धावित्तानुसारतः ॥
सर्वपापविशुद्धात्मा लभते तु पर्ं गतिम् ।
[६०१] अत्रेदं दानवाक्यम् ।
ॐ अद्य अमुकसगोत्रायेत्यादि इदं तिलपूर्णं ताम्रपात्रं ससुवर्णं अशेषपापक्षयकामस् तुभ्यम् अहं सम्प्रददे न मम ।
ॐ अद्य अमुकसगोत्रायेत्य् आदि एतत् तिलताम्रपात्रदानप्रतिष्ठार्थम् इदं सुवर्णं दक्षिणां तुभ्यम् अहं सम्प्रददे न ममेति ।
इति तिलपात्रदानविधिः ।
अथाह विष्णुः ।
ताम्रपात्रे तिलान् कृत्वा पले षोडशकल्पिते ।
सहिरण्ये स्वशक्त्या वा विप्राय प्रतिपादयेत् ।
नाशयेत् त्रिविधं पापं वाङ्मनःकायसम्भवम् ॥
कूर्मपुराणे ।
तिलपूर्णं ताम्रपात्रं सहिरण्यं द्विजातये ।
प्रातर् दत्वा तु विधिवद् दुःस्वप्नं प्रतिहन्ति सः ॥
तिलपात्रं त्रिधा प्रोक्तं कनिष्टोत्तममध्यमम् ।
ताम्रपात्रं दशपलं जघन्यं च प्रकीर्तितम् ॥
द्विगुणं मध्यमे प्रोक्तं त्रिगुणं चोत्तरे स्मृतम् ।
स्वर्णम् एकं जघन्यं तु द्विगुणं मध्यमे क्षिपेत् ॥
त्रिगुणं चोत्तमे तद्वत् सुवर्णं परिकीर्तितम् ।
सुवर्णं दक्षिणां दत्वा सर्वपापक्षयो भवेत् ॥
इति महातिलपात्रदानविधिः ।
[६०२]
पितामह उवाच ।
शृणुध्वं देवताः सर्वा ऋषयश् च तपोधनाः ।
मुक्ता भवन्ति येनेह मानवा मातृजाद् ऋणात् ॥
यज्ञं सौत्रामणिं कर्तुं यदि शक्तिर् न विद्यते ।
महासरस् तथा वापीं कूपं कर्तुं च दीर्धिकाम् ॥
एवं कृते मातृर्णान् मुक्तो भवति मानवः ।
सदक्षिणं कांश्यपात्रम् अथ दत्वा प्रमुच्यते ॥
ऋषय ऊचुः ।
भगवन् कांस्यपात्रस्य विधिं सम्यक् प्रकीर्तय ।
यत् प्रमाणं यत् स्वरूपं यस्मिन् काले च दीयते ॥
यादृशाय च दातव्यं दानम् एतद् द्विजातये ।
यादृशेन च दातव्यं न दद्याद् यादृशाय च ॥
पितामह उवाच ।
शुद्धकांस्यस्य पात्रस्य प्रमाणं पञ्चविंशतिः ।
पलानाम् अत्र निर्दिष्टं तिलानां प्रस्थसप्तकम् ॥
सुवर्णमाषाश् चत्वारः पात्रोपरि विधारयेत् ।
वस्त्रेण वेष्टयेत् पात्रं प्रधानेन सुभक्तितः ॥
स्नानं कृत्वा निम्नगादौ पितॄन् देवांश् च तर्पयेत् ।
ततो ऽभिपूजयेच् छम्भुं शङ्करं हरिम् एव च ॥
गोमयेनाथ संलिप्य गृहमध्यं च सर्वतः ।
लिखेत् पद्मं द्वादशारं कुङ्कुमेनाथ चन्दनैः ॥
[६०३] ततो वह्निं स्थापयित्वा होमं कुर्याद् यवैस् तिलैः ।
तत्र पात्रं प्रतिष्ठाप्य पूजयेद् भक्तिसंयुतः ॥
गन्धचन्दनपुष्पाद्यैर् धूपदीपैश् च शोभितम् ।
ततो ब्राह्मणम् आहूय बहुभृत्यं सुसंयतम् ॥
परस्त्रीवर्जकं शान्तम् अलङ्कृत्य यथाविधि ।
दाम्भिकं वर्जयेन् नित्यं परस्त्रीरतिलालसम् ॥
क्षुद्रं मत्सरशीलं च ब्रह्मभ्रष्टशौचकम् ।
पादौ प्रक्षाल्य विधिवन् मातृश्राद्धं समाचरेत् ॥
तत्र सम्पूजयेद् विप्रं पुष्पधूपविलेपनैः ।
वस्त्राणि परिधाप्यो ऽसौ सम्भव्यानि मृदूनि च ॥
अलङ्कृत्य यथाशक्त्या माघ्यां वा मृतवासरे ।
मृतवासर इति, यस्मिन् दिने माता मृता भवति स मृतवासरः ।
ग्रहणे रविसोमाभ्यां सङ्क्रान्तिषु युगादिषु ॥
तथान्यद् अपि यद् (?) दत्तं माघ्याम् उद्दिश्य मातरम् ।
तद् अक्षयफलं सर्वं पुरा प्राह महेश्वरः ॥
जीवन्तीं भूष्येद् वस्त्रैर् भोज्यैर् अप् विभूषणैः ।
मृताम् उद्दिश्य दातव्यं माध्यां सर्वं स्वशक्तितः ॥
अमावास्यां यथा दत्तं (?) पितॄणां च पुरा मया ।
यथा माघ्याम् मया दत्ता मातॄणां नात्र संशयः ॥
दत्तं जप्तं हुतं स्नानं विधिवत् तर्पणं कृतम् ।
तद् अक्षयफलं सर्वं जायते मुक्तिर् एव च ॥
[६०४] विप्रं सम्पूजयित्वा तु तत् पात्रं तस्य दापयेत् ।
प्रणम्य विधिवद् भक्त्या मन्त्रम् एतम् उदीरयेत् ॥
कांस्यपात्रं मया दत्तं मातुर् आनृण्यकाङ्क्षया ।
भगवन्वचनात् तुभ्यं यथा मुक्तिस् तथा वद ॥
दशमाशांश् च उदरे जनन्याः संस्थितेन मे ।
क्लेशिता बाल्यभावे च स्तनपानाद् द्विजोत्तमः ॥
गूथमूत्रादिसंलेपलिप्ता यच् च कृता मया ।
भवतो वचनाद् अद्य मम मुक्तिर् भवेद् ऋणात् ॥
कांस्यपात्रं सुवर्णं च तिलान् वस्त्राणि दक्षिणां ।
सप्तदान्यं मया दत्तम् ऋणान् मुक्तिर् भवेन् मम ॥
कांस्यपात्रप्रदानेन तत्त्वज्ञानं शरीरकम् ।
तथा हेमप्रदानेन परमात्मानम् अव्ययम् ॥
आच्छादनन्तु ब्रह्माण्डं गुह्यम् एतत् सनातनम् ।
विप्राच्छादनदानेन परमात्मा सुपूजितः ॥
तिलसङ्ख्याकृतं दुःखं जनन्या मम सेवितम् ।
तिलदानप्रभावेन कृतमुक्तो भवाम्य् अहम् ॥
फलादिखचितं कृत्वा तज्जलेन विभूषितम् ।
एवम् उत्क्रामतः पत्रं प्रदद्याद् ब्राह्मणाय च ॥
ब्राह्मणेन ततो वाच्यं जननीसम्भवाद् ऋणात् ।
मुक्तस् त्वं पात्रदानेन महेश्वरवचो यथा ॥
दत्वा विप्रस्य पात्रं तु होमं कुर्यात् प्रयत्नतः ।
सोपस्करं सताम्बूलं क्षमाप्य विप्रं विसर्जयेत् ॥
अन्येषाम् अप् विप्राणां भोजनादि प्रदापयत् ।
[६०५] भक्त्या शक्त्या ससम्मानं पूज्य विप्रान् प्रयत्नतः ॥
एवं कृते ततो देवाद् ऋणान् मुक्तिर् न संशयः ।
जननीसम्भवाद् अस्मान् नान्यथा क्वचिद् एव हि ॥
पुरा मातृवधोद्भूतपापशङ्कितचेतसा ।
जामदग्न्येन रामेण प्रदत्तं कांस्यभाजनम् ॥
वशिष्ठस् तनयान् हत्वा विश्वामित्रेण धीमता ।
पुरा दानम् इदं दत्तं पातकव्रतशान्तये ॥
अकृत्वा मातृवचनं पन्नगैः शापसंयुतैः ।
कैश्चिच् छङ्कापरैर् भूत्वा माता पश्चात् प्रसादिता ॥
शापतो निष्कृतिं ब्रूहि न वाक्यं यत् कृतं तव ।
शापो ऽभिभवते देवि नानृणानां दुरात्मनाम् ॥
कथयामास सा तेभ्यः कांस्यपत्रं सविस्तरम् ।
दत्वा दानं विनिर्मुक्तो भविष्यति न संशयः ॥
भुजङ्गैस् तत् कृतं सर्वं मातृवाक्येन गर्हितैः ।
कांस्यपात्रप्रदानं तु पापमुक्तस् ततो ऽभवन् ॥
विधानं कांस्यपात्रस्य सर्वम् एतन् मयोदितम् ।
अन्यथा किं तरिष्यन्ति ऋणान् मातृसमुद्भवात् ॥
वशिष्ठ उवाच ।
इति श्रुत्वा ततो देवा कश्यपाद्या महर्षयः ।
प्रजग्मुः स्वान्य् अधिष्ठानि हर्षयुक्ता महौजसः ॥
इति ते सर्वम् आख्यातं पात्रदानं महीपते ।
कुरु सर्वप्रयत्नेन मावज्ञां क्वचिद् एव हि ॥
[६०६] इत्य् आदित्यपुराणोक्तं कांस्यपात्रदानविधिः ।
आह यमः ।
सर्वपातकसङ्घातः कामतो वाप्य् अकामतः ।
शुद्धिं तस्य प्रवक्ष्यामि स्वर्गसाधनम् एव च ॥
शुक्लैः कृष्णैर् यथा लघ्वैर् द्वात्रिंशदङ्गुलोत्थितः ।
राशिस् तिलैः समे देशे कर्तव्यः पुरुषायतः ॥
यथाविभवविस्तारं यदि वा शक्तितो नरैः ।
प्रतिमाष्टाङ्गुला स्थाप्या सौवर्णो तत्र माधवी ॥
माधवमूर्तिस् तु नारदीये ।
आरभ्य वामोर्द्धकराद् अपसव्यक्रमेण तु ।
शङ्खं चक्रं गदां पद्मं दधानो माधवः स्मृतः ॥
क्षौद्रेण पयसा दध्ना घृतेनापूरयेद् घटान् ।
स्थापयेत् तत्र तं रुक्मं पुष्पस्रग्वस्त्रभूषितान् ॥
भक्त्या वाभ्यर्च्य तत् सर्वं ब्राह्मणे श्रोत्रिये ऽर्घिनि ।
दद्यात् माघे ऽथ वैशाखे विषुवे चोत्तरायणे ॥
अज्ञानाद् यदि वा मोहाल् लोभाद् वा जन्मजन्मनि ।
अर्जितं यन् मया किञ्चिद् दुष्कृतं मधुसूदन ॥
एवम् उच्चार्य तत् सर्वं ब्राह्मणाय निवेदयेत् ।
यावज्जीवकृतं पापं तत् क्षणाद् एव नश्यति ॥
इति तिलराशिदानविधिः ।
[६०७]
अथ महाभारते ।
यम उवाच ।
सर्वयज्ञेषु यत् पुण्यं सर्वदानेषु यत् फलम् ।
यद् दत्वा लभते विप्र तद् दानं कथयामि ते ॥
रहस्यं सर्वदानानां कथ्यमानं मया शृणु ।
पुण्ये ऽस्मिन् भारते वर्षे देवानाम् अप् दुर्लभम् ॥
तिलपद्मम् इति ख्यातं सुरासुरनमस्कृतम् ।
माघमासे तु सम्प्राप्ते शुक्लपक्षे द्विजोत्तम ॥
गोमयं मण्डलं कृत्वा चतुरस्रं महामते ।
नवं वस्त्रं समास्तीर्य कृष्णाजिनसमन्वितम् ॥
द्रोणावरांस् तिलांस् तत्र निधाय वसनोपरि ।
पद्मम् अष्टदलं कृत्वा शुभं तत् कर्णिकोपरि ॥
निष्कत्रयं सुवर्णस्य स्थापयेच् च ततोपति ।
श्रीनिवासं जगन्नाथं भुक्तिमुक्तिप्रदायकम् ॥
ध्यायेच् चतुर्भुजं देवं प्रणतार्तिहरं हरिम् ।
हिरण्यगर्भम् अमृतं श्रीगर्भं परतः परम् ॥
शङ्खचक्रगदापाणिं पीतवाससम् अच्युतम् ।
श्रीवत्साङ्कं जगद्बीजं सर्वकारणकारणम् ॥
कविं पुराणं विश्वेशं पुण्डरीकनिभेक्षणम् ।
आसीनं कर्णिकामध्ये सर्वशक्तिसमन्वितम् ॥
कृताञ्जलिपुटो भूत्वा नमस्कृत्य पुनः पुनः ।
पूजयेत् परमेशानं श्रद्धावित्तानुसारतः ॥
[६०८] इन्द्रनीलमहानीलमणिमुक्ताफलादिभिः ।
आराधय यथाशक्त्या देवदेवं जनार्दनम् ॥
गन्धपुष्पैस् तथा दीपैर् नैवेदैश् च मनोरमैः ।
क्षीरान्नैर् घृतपक्वैश् च फलैर् दिव्यैर् अनेकधा ॥
पुष्पानां प्रकरश् चैव गीतनृत्यादिभिस् तथा ।
इत्थम् आराध्य देवेशं ताम्बूलं विनिवेदयेत् ॥
पञ्चसौगन्धिकोपेतं श्रद्धापूतेन चेतसा ।
तैलप्रस्थं घृतप्रस्थं दध्याढकम् अतः परम् ॥
स्थापयेत् पार्श्वतस् तस्य धान्यपात्राणि षोडश ।
एवम् आराध्य तत् पद्मं तिलद्रोणमयं शुभम् ॥
एकरात्रं द्विरात्रं वा त्रिरात्रम् अथ वा द्विज ।
तिलाहारो भवेत् पूर्वम् उपवासम् अथापि वा ॥
कुर्यात् स्वकार्यशुद्ध्यर्थं वासुदेवम् अनुस्मरन् ।
ततो दद्याच् च तत् पद्मं शुचिर् भूत्वा समाहितः ॥
विज्ञतकुलशिलाय ब्राह्मणाय कुऋउम्बिने ।
जितेन्द्रियाय शान्ताय प्रसन्नान्यात्मवेदिने ॥
रागद्वेषविहीनाय वैष्नवाय विशेषतः ।
एतद्गुणान्वितायैवं यथायोगं यथाक्रमम् ॥
दातव्यं तत् प्रयत्नेन तिलपद्मं विधानतः ।
प्रीयतां माधवो देव इत्य् उक्त्वा तम् अनुस्मरन् ॥
हिरण्यगर्भ देवेश पद्मनाभ जनार्दन ।
हिरण्याक्ष गुणाधार सर्वाधारधरेश्वर ॥
धनधान्यसमृद्धं च सर्वसम्पत्समन्वितम् ।
[६०९] पुत्रपौत्रादिसंयुक्तं दासोदाससमन्वितम् ॥
आरोग्यं च सुमन्त्रं च सर्वदुःखविवर्जितम् ।
कुरु मां परमादारं भकायम् इति चिन्तयन् ॥
इत्थं प्रसाद्य देवेशं वासुदेवं सनातनम् ।
दद्यात् तिलमयं पद्मं सर्वकामसमृद्धये ॥
ब्राह्मणश् चापि गृह्णीयाद् वाचयेत् तु प्रतिग्रहम् ।
को ऽदात् कस्मा अदाद् इति वैदिकं मन्त्रम् उच्चरेत् ॥
एवं तिलमयं पद्मं यो ददाति विधानतः ।
सर्वसत्वसमाकीर्णं नरकं स न पश्यति ॥
स्वयं भवति पूतात्मा पितॄन् अथ पितामहान् ।
प्रपितामहांश् च धर्मात्मा तारयत्य् अखिलं कुलम् ॥
धर्मार्थी धर्मम् आप्नोति धनार्थी धनम् आप्नुयात् ।
मोक्षार्थी मोक्षम् आप्नोति नात्र कार्या विचारणा ॥
पातकी मुच्यते पापात् पितृघ्नो गुरुतल्पगः ।
सर्वपापरतो वापि मुच्यते नात्र संशयः ॥
इच्छन्ति पितरः पुत्रान् पौत्रांस् तद्वंशसम्भवान् ।
अस्मद्वंशभवः कश्चित् तिलपद्मं प्रदास्यति ॥
यस् तु राजा धनपतिः समृद्धो ऽतीवधार्मिकः ।
आराध्य विप्रं विधिना वस्त्रालङ्कारभूषणैः ॥
वाहनादिभी रत्नैश् च ग्रामक्षेत्रादिकैस् तथा ।
यत् फलं जायते तस्य द्विज दानपरस्य च ॥
परिच्छन्नं भवेत् तं तु नात्र कार्या विचारणा ।
यस् त्व् इमं विविधद् [विधिवद्?] दद्यात् तिलपद्मं च धार्मिकः ।
[६१०] तस्य दानफलं यत् स्यान् न तस्यान्तो ऽत्र विद्यते ॥
इति तिलपद्मदानविधिः ।
लिङ्गपुराणे ।
अथान्यत् परमं वक्ष्ये अल्पद्रव्यं महाफलम् ।
द्रव्यमन्त्रोपसंयुक्ते काले ह्य् अस्य विधिः स्मृतः ॥
काल इति देशस्याप्य् उपलक्षणम् । तेन यत्र यदा च द्रव्यसत्पात्रयोगौ (?) ताव् एवैतस्य देशकालौ न पूर्वोक्ताव् इत्य् अर्थः,
सर्वत्र सर्वकाले च कर्तव्यम् इह कथ्यते ।
इति कामिकोक्तत्वात् ।
गोमयालेपिते देशे अम्बराणि प्रकीर्य च ।
तन्मध्ये निक्षिपेद् धोमांस् तिलभारत्रयं शुभम् ॥
पद्मम् अष्टदलं कृत्वा कर्णिकाकेसरान्वितम् ।
दशनिष्केण तत् कार्यं तदर्धार्धेन वा पुनः ॥
तिलमध्ये न्यसेत् पद्मं पद्ममध्ये महेश्वरम् ।
आराध्य विधिवद् देवं वामादीनि प्रपूजयेत् ॥
शक्तिरूपं सुवर्णेन त्रिनिष्केण तु कारयेत् ।
तासां च पुरतः कार्या विद्येशाः प्रविभागशः ॥
पूर्वोक्तहेममानेन विद्येशान् अपि कारयेत् ।
तान् अभ्यर्च्य (?) विधानेन गन्धपुष्पादिभिः क्रमात् ॥
पद्ममध्ये महेश्वरम् इति, सहस्रशतादिनिष्कनिर्मितं शिवं [६११] पद्ममध्ये विन्यस्य तदर्धमानहेमकृतां मनोन्मनीं शिवस्य वामभागे न्यसेत्,
तदुत्तरे तदर्धेन कारयेत् मनोन्मनीम् ।
इति कामिकोक्तेः ।
तत्परितो ऽष्टौ वामादिशक्तीः पूजयेत् तद् यथा ।
वामा ज्येष्ठा तथा रौद्री काला विकरणी तथा ।
बालप्रथमनी देवी दमनी च यथाक्रमम् ॥ इति ।
तद्बाह्ये विद्येशान् अर्चयेत् । ते च यथा ।
अथानन्तश् च शूक्ष्मश् च शिवश् चाप्य् एकनेत्रकः ।
एकरुद्रस् त्रिमूर्तिश् च श्रीकण्ठश् च शिखण्डिकः ॥ इति ।
पूर्वोक्तहेममानेन त्रिनिष्केणेत्य् अर्थः । प्रविभागश इति पूर्वत्रापि सम्बध्यते तेन वामादिशक्तीनां विद्येशानां च रूपं प्रत्येकं निष्कत्रयेण कार्यम् । तत्र महेशरूपम् उक्तं ब्रह्माण्डदाने । मनोन्मनीवामादीनां तु लिङ्गे ।
सर्वाश् च द्विभुजा देव्यो बालभास्करसन्निभाः ।
पद्मशङ्खधराः शान्ता रक्तस्रग्वस्त्रभूषिताः ॥ इति ।
विद्येशानां तु गणेशदाने वक्ष्यते ।
इति अपरतिलपद्मदानम् ।
वायुपुराणात् ।
अथातः सम्प्रवक्ष्यामि तिलपद्मस्य लक्षणम् ।
यत् कृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥
[६१२] विषुवे ग्रहणे वापि व्यतीपाते दिनक्षये ।
अयने जन्मनक्षत्रे कृष्णपक्षे चतुर्दशी ॥
एषु कालेषु देशेषु पुण्येष्व् आयतनेषु च ।
तिलानां द्रोणमात्रेण नववस्त्रैः सुशोभने ॥
पद्मम् अष्टदलं कुर्यात् कर्णिकादलशोभिते ।
तस्मिन् पद्मं सुवर्णेन पलमात्रेण कल्पितम् ॥
पलार्धेनार्धपादेन कर्णिकोपरि शोभितम् ।
विन्यसेत् तत्र देवेशम् आवाह्य शशिशेखरम् ॥
पाण्डुराङ्गं चतुर्बाहुं कृत्तिवाससम् ईश्वरम् ।
अर्चयेत् पुण्डरीकैश् च पद्मैर् वा शतपत्रकैः ॥
धूपं च गुग्गुलं दद्याद् घृताक्तं परमेष्ठिनः ।
एवम् अभ्यर्च्य देवेशं कृत्वा चैव प्रदक्षिणम् ॥
ततो विप्रं समाहूय पुण्यकाल उपस्थिते ।
यथा देवं तथा विप्रम् अर्चयित्वा विधानतः ॥
मूलमन्त्रेण कर्तव्यं सर्वम् एवार्चनादिकम् ।
इमं मन्त्रं ततः प्रोक्त्वा तस्मै विप्राय दापयेत् ॥
एतत् तिलमयं पद्मम् अत्र सन्निहितो हरः ।
एतत् प्रदानाद् अनिशं शिवः सम्प्रीयताम् इति ॥
यथासौ भगवान् देवः सर्वभूतान्तरस्थितः ।
तेन सत्येन मे पापं विलयं यातु सर्वतः ॥
एवं यस् तिलपद्मस्य विधानं सम्यग् आचरेत् ।
[६१३] सर्वपापविनिर्मुक्तः स याति शिवमन्दिरम् ॥
तत्र कल्पशतं सार्धं शिववन् मोदते सुखम् ।
यत् किञ्चित् कुरुते पापं कर्मणा मनसा गिरा ।
तिलपद्मप्रदानेन तत् सर्वं क्षयम् एष्यते ॥
इति तृतीयं तिलपद्मदानम् ।
आह बौधायनः ।
सौवर्णं कारयेत् पद्मं पलेनार्धपलेन वा ।
यथा स्वशक्त्या मतिमान् घटम् अष्टदलं शुभम् ॥
वित्तशाठ्यं न कुर्वीत भवेन् निष्फलम् अन्यथा ।
द्रोणे तिलाधिके वापि ताम्रपात्रं जलावृतम् ॥
तस्य मध्ये तु तं पद्मं निदध्यात् कुङ्कुमान्वितम् ।
ब्राह्मणं श्रुतसम्पन्नं दरिद्रं चाग्निहोत्रिणम् ॥
आहूय गन्धमाल्याद्यैर् विधिना चातिभक्तितः ।
ततः स्वर्णमयं पद्मं दद्यान् मन्त्रेण संयुतम् ॥
खगः पूषा पतङ्गो ऽसौ द्वादशात्मा त्रयीतनुः ।
पद्मेनानेन दत्तेन प्रीतस् तरणिर् अस्तु मे ॥
दानमन्त्रः ।
कृतेनानेन मनुजो मूत्रकृच्छ्रात् प्रमुच्यते ।
मूत्रकृच्छ्रातुरस् तस्माद् एतत् कुर्यात् प्रयत्नतः ॥
मूत्रकृच्छ्ररोगहरं तिलपद्मदानम् ।
[६१४]
वायुपुराणे ।
क्षये तु राजतं पद्मं ब्राह्मणाय निवेदयेत् ।
तिलाढकोपरि यत् तज् जलं कांस्यमये घटे ॥
पलेनाथ तदर्धेन यथाशक्त्याथ वा क्र्तम् ।
निधाय तत्र पद्मं तु ब्राह्मणाय निवेदयेत् ॥
पद्मेन राजतेनेह प्रदानाद् अत्रिनेत्रज ।
जातं कर्मविपाकेन क्षयं नाशय मे ऽनघ ॥
दानमन्त्रः ।
कृत्वैवं क्षयरोगी तु शीघ्रं रोगात् प्रमुच्यते ।
इति क्षयरोगहरं तिलपद्मदानविधिः ।
आह बौधायनः ।
सुवर्णेन तदर्धेन तदर्धार्धेन वा पुनः ।
पद्मं तु कारयेच् छ्वभ्रं (?) व्यक्तम् अष्टदलं शुभम् ॥
मध्ये तु कर्णिकां कुर्याद् राजतेन च नालकम् ।
पद्मम् एवंविधं कुर्यात् स्थाप्यं द्रोणतिलोपरि ॥
वस्त्रेणावेष्ट्य परया भक्त्या प्रयतमानसः ।
ब्राह्मणं ज्ञानवृत्तस्थं स्वाचारं संयतेन्द्रियम् ॥
पद्मदानप्रयोगज्ञम् आदित्ये ऽहनि कारयेत् ।
आहूय विप्रपर्यन्तं पूजयेद् वस्तपूर्वकम् ॥
आज्येन च तिलैर् होमः कार्यश् चाष्टोत्तरं शतम् ।
पद्मेनावाहयेद् देवं भास्करं ग्रहनायकम् ॥
[६१५] एह्य् एहि भगवन् देव पद्मे ऽस्मिन् सन्निधिं कुरु ।
त्रयोतनो द्वादशात्मन् सर्वप्राणिहिताय च ॥
आवाहनमन्त्रः ।
आवाह्य तस्मिन् देवेशं पूजयेद् रक्तचन्दनैः ।
पुष्पैश् च रक्तरपरैः कुङ्कुमागुरुचन्दनैः ॥
नैवेद्यं पायसं दद्याद् अलाभे क्षीरम् एव च ।
मन्त्रेणानेन विधिवद् दद्यात् पद्मं सिताम्बरम् ॥
भगवन् सूर्य भूतेश द्युमणे लोकनायक ।
रक्तवर्णः प्रतापेन्द्ररक्तस् त्रैलोक्यपावनः ॥
सत्पात्राय मया दत्तं मम जन्मनिचैवहि ।
औषधादि तु तत् सर्वं नाशम् आयात् तु दानतः ॥
ततः प्रदक्षिणी कृत्य ब्राह्मणं विनयान्वितः ।
पायसं गुडसम्मिश्रं भोजनाय प्रदापयेत् ॥
ततः स्नात्वा मङ्गलेन पुण्याहेन तु भक्ततः ।
भर्तारं देववन् मन्ये भुञ्जीत घृतपायसम् ॥
एवं कृतेन दानेन नाशं याति न संशयः ।
सम्पत्न्यौषधदानेन रक्तशूलम् उपार्जितम् ॥
रक्तशूलयुजा नार्या दानं कार्यम् इदं ततः ।
इति रक्तशूलघ्नं तिलपद्मदानम् ।
आह गौतमः ।
गवां यः पीडनं कुर्यान् नरो रोधनबन्धनैः ।
[६१६] दद्रुरोगी सति कण्डयुक्तो भवति सर्वदा ॥
वक्ष्यामि तत् प्रतीकारं पद्मदानादिकर्मणा ।
व्यावहारिकनिष्केण पद्मं कुर्यात् सुशोभनम् ॥
नालं च राजतं कुर्यात् तदर्धेनापि कण्ठकम् ।
मध्ये रत्नं प्रदातव्यं तदलाभे च मौक्तिकम् ॥
श्रीगन्धकुङ्कुमाभ्यां च प्रक्षाल्य ह्य् अनुलेपयेत् ।
तण्डुलोपरि संस्थाप्य् वस्त्रयुक्तं तिलेषु वा ॥
तेषाम् अपि परिमाणं द्रोणत्रितयम् इष्यते ।
तदलाभे द्वयं ग्राह्यम् अथ वा स्वस्य शक्तितः ॥
उपचारैः षोडशभिर् अर्चयेत् मूलमन्त्रतः ।
आवाहयेच् च देवेशं भास्करं सूर्यमण्डलात् ॥
देव देव जगन्नाथ द्युमणे लोकपावन ।
लोकानां चक्षुः सूर्य त्वं पद्मे ऽस्मिन् सन्निधिं कुरु ॥
आवाहनमन्त्रः ।
एवम् आवाह्य सूर्यं तं भानुम् सर्वजनप्रियम् ।
उपचारैः षोडशभिर् अर्चयेन् मूलमन्त्रतः ॥
होमं चापि प्रकुर्वीत आग्नेय्यान् दिशि तस्य तु ।
समिदाज्यतिलैः सम्यग् आचार्यः सर्वशास्त्रवित् ॥
सूर्यं ते चक्षुर् मन्त्रेण समिद्धोमं प्रकल्पयेत् ।
आज्यहोमं प्रकुर्वीत हंसः शुचिसद् इत्य् अपि ॥
व्याहृत्या च तिलैः होमं कुर्यात् त्व् अयुतसङ्ख्यया ।
समिदाज्यैश् चाष्टशतम् अष्टाविंशतिम् एव वा ॥
[६१७] हुत्वा चाहुतिसम्पातान् पात्रे चास्मिन् विनिक्षिपेत् ।
तेन गात्राणि चाभ्यज्य दद्रुरोगार्दितस्य् अतु ॥
अक्षिभ्याम् अनुवाकेन यथा लिङ्गं च वाससा ।
मार्जयीताहतेनाथ दद्रुणो मुष्टिना तथा ॥
सम्पूज्यानन्तरं भक्त्या नैवेद्यं पायसं क्षिपेत् ।
दद्याद् रोगी तु तं पद्मं प्राङ्मुखाय ह्य् उदङ्मुखः ॥
मन्त्रेणानेन विधिवत् पूजितायातिभक्तितः ।
देवदेव जगन्नाथ देवरूप परात्पर ॥
जगतां परमानन्दकारक द्युमणे प्रभो ।
प्रभाकर सुसप्ताश्व देवेशारुणसारथे ॥
रोधनैर् बन्धनैश् चैवं वैरूप्यं यच् छरीरके ।
पूर्वकर्मविपाकेन दद्रुकल्कादिकश्मलम् ।
पद्मदानेन तुष्टस् त्वं नाशयाशु शरीरके ॥
दानमन्त्रः ।
एवं दत्वा तु तं पद्मं दद्रुरोगविवर्जितः ।
विना कण्डुं विना कुष्ठं त्वग्दोषैश् च विवर्जितः ॥
जायते रूपवान् सद्य आदित्यस्य प्रभा यथा ।
जीवेद् वर्षशतं मर्त्यो धनधान्यसमन्वितः ॥
अनन्तरं ब्राह्मणेभ्यः पायसं च निवेदयेत् ।
एवं यः कुरुते दानं गौतमोक्तविधानतः ॥
रोगैर् अन्यैर् विमुक्तश् च मोदते भानुवद् भुवि ।
इति दद्रुरोगघ्नतिलपद्मदानविधिः ।
[६१८]
अथ वायुपुराणे ।
स्वरोपघाती वाचां च हर्ता मूकः प्रजायते ।
वक्ष्यामि तत्प्रतीकारं येन सम्पद्यते सुखम् ॥
कुर्यात् स्वर्णमयं पद्मं पलार्धार्धतदर्धतः ।
यथाविभवतः सम्यग् वित्तशाठ्यं न कारयेत् ॥
रक्तवस्त्रेण संवेष्ट्य ताम्रपात्रोपरि न्यसेत् ।
ताम्रपात्रपरीमाणं पलानाम् अष्टकं विदुः ॥
यद् वा स्वविभवेनैव पूजयेद् रक्तचन्दनैः ।
तिलाढकोपरि स्थाप्य पीतवस्त्रेण वेष्टयेत् ॥
उपचारैः षोडशभिर् आचार्यः सर्वशास्त्रवित् ।
धर्मज्ञश् च विनीतश् च दयालुः सत्यवाक् शुचिः ॥
मन्त्रेणानेन विधिवत् प्राङ्मुखो ऽलङ्कृतः शुचिः ।
ब्रह्मणः सदनं त्वं हि विष्णोर् अभिजनाभिजः ॥
अभिप्रीतिकरं भानोर् अग्ने रुद्रस्य चैव हि ।
गृहाण पूजाम् एतां त्वं सर्वक्लेशविनाशकः ॥
पूजामन्त्रः ।
आग्नेय्यां दिशि वै होमः कर्तव्यो मन्त्रपूजकः ।
समिदाज्यतिलैश् चैव सावित्र्याष्टाक्षरेण तु ॥
समिद्धोमं प्रकुर्वीत सर्वरोगप्रशान्तये ।
आज्यहोमश् च कर्तव्यश् चित्रम् इत्य् अनया ऋचा ॥
तिलान् आयाति इन्द्रेति व्याहृतीभिर् अथापि वा ।
अग्नेर् उत्तरतो भागे कलशस्थापनं भवेत् ॥
[६१९] पूर्वोक्तेन विधानेन चाभिषेकादि कारयेत् ।
प्रनीतामोक्षपर्यन्तं कर्म कृत्वा प्रयत्नतः ॥
अतः स्नातः शुचिः श्वेतवस्त्रो रोगो तु भूषितः ।
तस्मै हुतवते पद्मं दद्यात् स्मृत्वा चतुर्मुखम् ॥
देवानाम् अथ सर्वेषां पद्म त्वं प्रीतिकारणम् ।
विशेषतो ब्रह्मणश् च सरस्वत्या हरेर् अपि ॥
यत् प्राग् वाचाम् निरोधेन वैरूप्यं मम देहजम् ।
अघभेदभवं तीव्रं दुःखं रोगाकरं तथा ॥
तत् सर्वं नाशयन्त्व् अत्र ब्रह्मसूर्यशिवाग्नयः ।
त्रिदशादयो ये च देवा हविष्मन्तस् तथा भुवि ॥
दानमन्त्रः ।
एवं दत्वा तु तं पद्मम् आचार्यायातिभक्तितः ।
पृष्ठतस् तद् अनुव्रज्य ह्य् अघभेदाद् विमुच्यते ॥
एवं पद्मोद्भवः प्राह नारदाय महात्मने ॥
इति मूकत्वहरतिलपद्मदानविधिः ।
अथ त्रिपद्मपञ्चकदानविधिः ।
अथ दानं प्रवक्ष्यामि त्रिपद्मम् इति विश्रुतं ।
आयुष्यं श्रीकरं पुण्यम् आरोग्यं पापनाशनम् ॥
माघमासे विशेषेण जन्मर्क्षेषु च कारयेत् ।
व्याधिग्रस्ते च दातव्यं दुःस्वप्नाद्भुतदर्शने ॥
[६२०] अथान्यद् भयं पश्येत् सर्वदोषप्रशान्तये ।
भूमौ गोमयलिप्तायां तिलैर् आढकसम्मितैः ॥
पद्मम् अष्टदलं कृत्वा कर्णिकाकेसरान्वितम् ।
तस्मिन् विधाय सौवर्णं ततः कृत्वा सरोरुहम् ॥
वस्त्रेणावेष्ट्य गन्धाद्यैर् अर्चयेत् परमेष्ठिनम् ।
विप्रं वैतानिकं धर्मशास्त्रज्ञं शान्तमानसम् ॥
अभ्यर्च्य दापयेत् तस्मै मन्त्रम् एतद् उदीरयेत् ।
सम्प्रीयतां मे भवगान् आत्मभूश् चतुराननः ॥
दानेनानेन सर्वात्मा जगत्स्रष्टा जगत्पतिः ।
तथान्यत् तण्डुलैर् एव तृतीयं लवणेन तु ॥
विष्णवे स्थाणवे चेति दानमन्त्रैर् विबोधयेत् ।
सम्प्रीयतां मे भगवान् परमात्मा जगत्मयः ॥
दानेनानेन विश्वात्मा परमः पुरुषोत्तमः ।
सम्प्रीयतां मे भगवान् शङ्करः शङ्करोतु मे ॥
दानेनानेन विश्वात्मा चन्द्रार्धकृतशेखरः ।
इति मन्त्रान् समुच्चार्य दद्याद् एतान् पृथक् पृथक् ॥
जातरूपमयान् कृत्वा ब्रह्मविष्णुमहेश्वरान् ।
एवं कृते तु यत् पुण्यं जायते द्विजपुङ्गवाः ।
न तद् वर्नयितुं शक्यं कल्पकोटिशतैर् अपि ॥
इत्य् आह भगवान् ब्रह्मा नारदाय महात्मने ।
उक्तं मयापि तत् सर्वं युष्माकं मुनिसत्तमाः ॥
अत्र ब्रह्मविष्णुमहेश्वराणां रूपनिर्माणं धान्यपर्वतवद् द्रष्टव्यम् ।
[६२१]
इति त्रिपद्मदानविधिः ।
वायुपुराणात् ।
तिलदानमयो वक्ष्ये दशधा देवि साम्प्रतम् ।
रहस्यं सर्वपापघ्नं सर्वकल्याणकारकम् ॥
जन्मर्क्षेषु चतुर्दस्यां कृष्णायां च समाचरेत् ।
सन्निधौ देवदेवस्य शिवस्य परमेष्ठिनः ॥
चक्रे पञ्चरजःक्लिप्ते द्वादशारं सरोरुहम् ।
दलैर् द्वादशभिर् युक्तं कृत्वा तस्मिन्न् अरञ्जकम् ॥
अव्रणं तिलसम्पूर्णं विन्यस्याभ्यन्तरं शिवम् ।
चन्द्राकारं च सौवर्णं मण्डले शक्रदैवते ॥
पूजयेद् गन्धनैवेद्यदीपपुष्पैः फलैस् तथा ॥
शक्रलक्षणं लोकपालप्रसङ्गेन ब्रह्माण्डदाने दर्शितं शक्रदैवतमण्डलं पार्थिवमण्डलं च तच्चतुष्कोणं विधेयम् ।
धूपं सर्जरसं कृत्वा दद्यात् तं शिवयोगिने ।
भूगन्धपतिर् ईशानः शक्ररूपी तिलाशयः ॥
न्यासोत्थं पृथिवीजातं स मत्पापं व्यपोहतु ।
इति कृत्वा विनश्यन्ति पापानि क्षितिजानि च ॥
भोजने यानि हिंस्यन्ते स्थावराणि चराणि च ।
कण्डूतिवमने यानि शवमद्यादिगन्धयोः ॥
[६२२] घ्राणे घ्राणे गन्धे श्रोत्रियस्यातुरस्य च ।
पुनः शिवपुरे तिष्ठेद् यावद् इन्द्राश् चतुर्दश (?) ॥
इतरेष्व् अपि सर्वेषु विधिः साधारणः स्मृतः ।
विशेषेण च वक्ष्यामि तत्र तत्र शुचिस्मिते (?) ॥
इति तिलारञ्जकदानविधिः ।
वायुपुराणात् ।
तिलपीठम् अथो वक्ष्ये सारदारुमये शुभे ।
पीठे ऽरत्निद्वयायामे तिलपूर्णे सभित्तिके ।
व्योमाधिपं गणेशानरूपिणं शिवम् अर्चयेत् ॥
गणेशरूपम् आहात्रेयः ।
चतुर्भुजो गजमुखो मूषकस्थश् च तुण्डिलः ।
विषाणं चाक्षसूत्रं च परशुं मातुलाङ्गकम् ॥
दधानो विघ्नराजः स्याद् इति ।
शुक्लैर् गन्धैश् च धूपश् च कर्पूरं धूपयेत् तथा ।
क्षौमे च वाससी दद्यात् पुस्तकं तत्र विन्यसेत् ॥
व्योमध्वनिपतिः शुभ्रो गणनाथ तिलाश्रयः ।
व्योमशब्दश्रुतिप्राप्तं पापम् ईश व्यपोहतु ॥
[६२३] इति दत्ते ऽस्य नश्यन्ति पापान्य् आकाशजानि च ।
अनिबद्धकथोत्थानि परनिन्दाकथानि च ॥
कूटसाक्षिसमुत्थानि पैशुन्यजनितानि च ।
वेदनिन्दा गुरोर् निन्दा तयोश् च श्रवेणेन च ॥
हन्ति पापान्य् अशेषाणि तिलपीठप्रदानतः ।
शिवलोके च कल्पांश् च मोदते दश पञ्च च ॥
इति तिलपीठदानविधिः ।
तस्मिन्न् एव पुराणे ।
अथान्यत् सम्प्रवक्ष्यामि तिलदानम् अनुत्तमम् ।
पूर्वोक्तकल्पिते पीठे चतुःकुम्भपरिष्कृते ॥
आदर्शं विमलं न्यस्य तत्र देवं मनोमयम् ।
विष्णुरूपधरं शुम्भुं विन्यस्य परितो न्यसेत् ॥
विष्णुरूपम् उक्तम् नारदेन । तद् यथा ।
शङ्खचक्रगदापद्मधरो वामोर्ध्वबाहुतः ।
विष्णुर् विधेयो भगवान् विशेषो न्यासमूर्तिषु ॥ इति ।
पीतवस्त्रयुगं दिक्षु चक्रादीन्य् आयुधानि च ।
पञ्चलोहप्रतिष्ठानि तुलसीभिः समर्चयेत् ॥
मनोमय नमस् ते ऽस्तु सौम्यरूप वृषध्वज ।
मनस्कृत्यानि पापानि सर्वाण्य् आशु विनाशय ॥
इति दत्ते ऽस्य नस्यन्ति मानसानि कृतानि वै ।
[६२४] परद्रोहप्रवृत्तानि कामलोभोद्भवानि च ॥
क्रोधजानि च सर्वाणि पापानि च विशेषतः ।
अवाच्यवाचने यानि अध्येयध्यानजानि च ॥
ध्येयान्य् आवृत्तवृत्तानि नश्यन्ति सकलान्य् अपि ।
शिवलोके वसेद् वर्षाण्य् अर्बुदान् दश कामतः ॥
इति तिलादर्शदानविधिः ।
वायुपुराणात् ।
तिलकुम्भम् अथो वक्ष्ये कुम्भे पूर्ववद् आस्थिते ।
वारुणे मण्डले देवं वरुणाकारम् अर्चयेत् ॥
श्वेतैः पुष्पैः फलैर् गन्धैः कर्पूरेण तु पूजयेत् ॥
वरुणलक्षणम् उक्तं ब्रह्माण्डदाने । “वारुणं मण्डलं प्राप्य मण्डलं” तच् च अर्धचन्द्राकारं कर्तव्यम् ।
षड् रसान् परितो न्यस्य ततो मन्त्रम् इमं जपेत् ।
नमो वरुणरूपाय रसाम्बुपतये नमः ॥
रसवारिनिमित्तानि यान्तु नाशम् अघानि मे ।
तिलकुम्भप्रदानेन प्रसीद परमेश्वर ॥
इति दत्ते विनश्यन्ति पापानि जलचारिणाम् ।
हिंसोद्भवानि स्नानेषु पानपाके ऽवगाहने ॥
रसोपादानभक्षाणां अपेयानां च वाञ्छया ।
[६२५] औषधं चापि देवेश सर्वं मेध्यं भविष्यति ।
शिवलोके वसेत् कल्पान् शतपञ्चदशावरान् ॥
इति तिलकुम्भदानविधिः ।
वायुपुराणात् ।
करकं तिलसम्पूर्णं मण्डले वह्निदैवते ।
शिवं वह्निवद् आधाय पूजयेत् करवीरकैः ।
रक्तचन्दनगन्धेन निर्यासेन च धूपयेत् ॥
वह्निदेवतमण्डलं त्रिकोणं मण्डलम् इत्य् अर्थः । “शिवं वह्निवद्” इति वह्निरूपिणं शिवम् आधायेत्य् अर्थः । तद्रूपम् उक्तं ब्रह्माण्डदाने । निर्यासः सर्जरसः ।
आदर्शं च ततो दद्याद् दीपानां च चतुष्टयम् ।
वह्निरूपपतिः शम्भुर् वह्निरूपो तिलाश्रयः ॥
तेजोरूपक्र्तं पापं चाक्षुषं च व्यपोहतु ।
इति दत्ते ऽस्य नश्यन्ति पापान्य् अग्निकृतानि च ॥
पाकहोमेषु काष्ठेषु हिंस्यन्ते यानि वह्निना ।
अङ्गारवनदाहादिसम्भवानि च यानि वै ॥
विरुद्धकरणोत्थानि रूपयोगोद्भवानि च ।
परदारपरद्रव्यपुत्रदर्शनजानि च ॥
[६२६] शवादिदर्शनोत्थानि नेत्रदोषकृतानि च ।
य एवं कुरुते दानं शिवभक्त्या यतव्रतः ।
शिवलोके वसेद् भूप कल्पत्रयम् अशङ्कितः ॥
इति तिलकरकदानविधिः ।
वायुपुराणात् ।
अतः परम् अहङ्कारं नाम दानं वदामि ते ।
पूर्ववत् कल्पिते पीठे तिलानाम् उपरि न्यसेत् ॥
राजतं मण्डलं शुद्धं विश्वग् अष्टाङ्गुलायतम् ।
तत्र देवम् अहङ्कारं पविशक्तिधराकृतिम् ॥
विन्यस्य राजतान् अन्यान् कुमारान् परितो न्यसेत् ।
नैगमेशं विशाखं च कुमारं गुहम् एव च ॥
पूर्ववद् इति तिलपीठदानवद् इत्य् अर्थः । पविः वज्रम्, अहङ्कारश् च पुरुषाकृतिः द्विभुजो वज्रशक्तिधरो विधेयः । नैगमेषादिलक्षणम् उक्तं विश्वकर्मणा ।
ततः स्कन्दग्रहा जाता दारुणा विक्र्ताननाः ।
नैगमेषमुखाः शक्तिधरा द्विवाहवस् तथा ॥ इति ।
कौसुम्भे वाससी दद्याद् घण्टां च परितो न्यसेत् ।
कुङ्कुमं गन्धकार्ये स्यात् पुष्पं च करवीरजम् ॥
अहङ्कारपते देव गुहरूप दुरन्तक ।
अभिमानकृताद् दोषात् सर्वस्मात् पाहि मां प्रभो ॥
[६२७] इति दत्ते ऽस्य नश्यन्ति यान्य् अहङ्कारजानि तु ।
पारुष्यस्त्रीनिषेध्यादिविप्रक्षत्रियजानि च ॥
तानि सर्वाणि नश्यन्ति यानि कृत्य्विलङ्घनैः ।
अनात्मन्य् आत्मबुद्ध्या तु गृहक्षेत्रादिसङ्गमे ।
अन्यानि यानि पापानि तानि नश्यन्ति सर्वतः ॥
पापानि तानि नश्यन्ति शिवलोके वसेन् नरः ।
कल्पानां शतम् एकं च नात्र कार्या विचारणा ॥
इति अहङ्कारदानविधिः ।
ब्रह्माण्डपुराणात् ।
अतः परं प्रवक्ष्यामि तिलदानम् अनुत्तमम् ।
यद् दत्वा पुरुषः स्त्री वा वैरिञ्चिं लोकम् आप्नुयात् ॥
आयुर् आरोग्यदं पुण्यं सर्वपापप्रणाशनम् ।
शिवप्रीतिकरं नॄणां पुत्रवृद्धिकरं शुभम् ॥
रुद्रैकादशबुद्ध्या तु विप्रान् एकादशान् सुधीः ।
प्राङ्मुखः प्रत्यग् आसीनान् गन्धादिभिर् अथार्चयेत् ॥
तिलप्रस्थद्वयं पात्रे प्रत्येकं निक्षिपेत् तथा ।
प्रत्येकं मण्डालं हैमं पात्रेषु विनिवेदयेत् ॥
पात्राणि चैवम् आराध्य शिवबुद्ध्या यथाक्रमम् ।
रुद्रैकादशमन्त्रैश् च दद्याद् उदकपूर्वकम् ॥
रौद्रैकादशमन्त्राः, वक्ष्यमाणैर् नामभिर् नमोऽन्तैर् ज्ञातव्याः ।
[६२८] मृगव्याधश् च सर्वश् च नैरृतिश् च महायशाः ।
अजैकपाद् अहिर्बुध्नः पिनाकी च परन्तपः ॥
वहनो ऽथेश्वरश् चैव कपाली च महाद्युतिः ।
स्थानुर् भवश् च भगवान् रुद्रा एकादशा विदुः ॥
इति रुद्रैकादशतिलदानविधिः ।
तस्मिन्न् एव पुराणे ।
अतः परं प्रवक्ष्यामि तिलगर्भम् अनुत्तमम् ।
यत्सम्प्रदानान् मनुजो दीर्घम् आयुर् अवाप्नुयात् ॥
अपमृत्युजयोपायो व्याधिनिर्मोक्षणक्षमः ।
तिलगर्भ इति ख्यातो रहस्यः पापनाशनः ॥
यदा ग्रहोपरोधः स्याज् जन्मर्क्षस्यातिदारुणः ।
व्याधीनां च समुत्थानम् उत्पातस्यापि चोदयः ॥
तिलगर्भस् तदा कार्यः सर्वदोषोपशान्तये ।
निमित्तानन्तरं कुर्यान् नैमित्तिकविधिक्रमम् ॥
गोमयेनोपलिप्तायां क्षिताव् आस्तीर्य वाससी ।
शालीनाम् आढकं मध्ये तदर्धं तण्डुलं न्यसेत् ॥
तेषु पद्मं प्रविस्तीर्यम् अष्टपत्रं सुकर्णिकम् ।
कर्णिकायां न्यसेत् पद्मं सौवर्णं शक्तितः कृतम् ॥
नवरत्नानि तद्पद्मे निधातव्यानि यत्नतः ।
ततस् तद्बाह्यतः शुद्धान् तिलान् कुर्यात् समन्ततः ॥
गर्भवद् वाससा भूयः समास्त्रीय ततः शनैः ।
गर्भं तं योनिमन्त्रेण समाधाय यथाविधि ॥
[६२९] तत उपवेश्य पुरुषं कृष्णकृतसुमुष्टिकम् ।
तस्याङ्गेषु न्यसेन् मन्त्रं मृत्युञ्जयम् अनुक्रमात् ॥
तं च देवं विरूपक्षं अर्धचन्द्रविभूषणम् ।
कल्पयित्वार्चयेत् मन्त्रं पञ्चब्रह्मभिर् आदरात् ॥
योनिमन्त्रः । यस्यै यज्ञियो गर्भो यस्यै योनिर् हिरण्यमयीत्यादिवाजसनेयानां प्रसिद्धः ।
मृत्युञ्जयन्यासम् आह शाउनकः ।
त्र्यम्बकं यजामहे शिखायाम्, न्यसेत् सुगन्धिं पुष्टिवर्धनम् इति हृदये, उर्वारुकम् इव बन्धनाद् इति बाह्वोः । मृत्योर् मुक्षीय माम् ऋताद् इति नाभौ ।
पादे गुल्फे च गङ्घोरुजघने कटिमेढ्रयोः ।
नाभौ कुक्षिद्वये पार्श्वे कक्षयोः कुचयोर् हृदि ॥
स्कन्धे कृकाटिकायां च कूर्परे मणिबन्धके ।
कनिष्ठानामिकामध्यातर्जन्यङ्गुष्ठपाणिषु ॥
कण्ठे ऽथ चिबुके वक्त्रे नासिकाकर्णचक्षुषि ।
ललाटे मूर्ध्नि चूडायां वर्णान् मन्त्रस्य विन्यसेत् ॥
इति देवीपुराणोक्तो वा मृत्युञ्जयमत्रन्यासो गृःयते, [६३०] स च गारुडपुराणोक्तनानारोगघ्न-तुलापुरुषदाने द्रष्टव्यः । पञ्च ब्राह्मणास् तत्पुरुषादिमन्त्राः ।
तस्य मूर्ध्नि पुनः पद्मं सौवर्णं पूर्ववत् कृतम् ।
विन्यसेद् वस्त्रम् आवेष्ट्य तिलैर् आपूरयेत् पुनः ॥
तं गर्भम् अर्चयेद् भूयश् चिन्तयित्वामृतोद्भवम् ।
अमृतश्राविणं चन्द्रं स्वेन मन्त्रेण मन्त्रवित् ॥
ततः शतावृतं मन्त्रं मृत्युञ्जयम् अनुत्तमम् ।
तत उत्थापयेत् तस्माद् गर्भस्थानात् समाहितः ॥
पुनः सम्प्रोक्ष्य वारुण्या पावमानीभिर् एव च ।
पूर्वदेहविनिर्मुक्तः शङ्करो ऽस्मीति चिन्तयेत् ॥
ब्राह्मणाय विनीताय ज्ञानिने वीतमन्यवे ।
ब्रह्मनिष्ठाय तत् सर्वं सम्प्रदद्यात् तिलादिकम् ॥
प्रीयतां भगवान् शम्भुश् चन्द्रमौलिर् इति ब्रुवन् ॥
तत्र तिलगर्भ-उपवेशनम् । शङ्करो ऽस्मीति च ध्यानम् उत्थानम्, समन्त्रकम् । तिलादिदानं यजमानकर्तृकम् । अन्यत् सर्वम् आचार्यः कुर्यात् ।
अनेन विधिना यस् तु तिलगर्भं समारभेत् ।
अकालमृत्युर् न भवेत् तस्य नास्त्य् अत्र संशयः ॥
व्याधीनां विप्रमोक्षः स्यान् महताम् अपि निश्चयः ।
ग्रहदोषाश् च नश्यन्ति प्रसीदन्ति ग्रहाः पुनः ॥
उत्पातानां प्रशान्तिश् च त्रिविधानाम् अपि क्षणात् ।
[६३१] त्रिविधानाम् अपि भौमान्तरिक्षदिव्यानां ।
तिलगर्भदानविधिः ।
इति श्रीमहाराजाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वरसकल-
विद्याविशारदश्रीहेमाद्रिविरचिते चतुर्वर्गचिन्तामणौ
दानखण्डे तिलगर्भदानान्तानि दानानि समाप्तानि ॥
[६३२]
दानखण्डम् नवमो ऽध्यायः
प्रथमम् आरभ्यते
अथ गजदानम् । कूर्मपुराणे ।
दद्याद् गजं पुराणोक्तमूल्यं पञ्चशतानि वा ।
वित्तानुसारात् तत्रापि कनिष्ठोत्तममध्यमम् ॥
पुराणोक्तं मूल्यमन्त्रं हेममाषशतद्वयं तथास्वरूपगजदानेन सह वित्तानुसारात् त्रैविध्यं तत्र स्वरूपगजदानम् उत्तमः पक्षः पञ्चशतानीति मध्यमः, शतद्वयं कनीयान् इति पञ्चशतानीत्य् अत्राह हैममाषाः सम्बध्यन्ते ।
रूप्यस्थूणालङ्करणं तारागणविभूषणम् ।
सदक्षिणं वित्तशक्त्या दत्वा विष्ण्पुरं व्रजेत् ॥
स्थूणा रज्जुः । तारागणो मौक्तिकादिकृतो गजः । भूषणविशेषः ।
इति गजदानविधिः ।
[६३३]
अथ लिङ्गपुराणे ।
गजदानं प्रवक्ष्यामि यथावद् अनुपूर्वशः ।
द्विजाय वाथ दातव्यं देवदेवाय वा पुनः ॥
गजं तु लक्षणोपेतं हैमं वा राजतं तु वा ।
सहस्रनिष्कमात्रेण तदर्धेनापि कारयेत् ॥
तदर्धार्धेन वा कुर्यात् सर्वलक्षणभूषितम् ।
पूर्वोक्तदेशकाले च देवाय विनिवेदयेत् ॥
अष्टम्यां वा प्रदातव्यः शिवाय परमेष्ठिने ।
ब्राःमणाय दरिद्राय श्रोत्रियायाहिताग्नये ॥
शिवम् उद्दिश्य दातव्यः शिवं सम्पूज्य पूर्ववत् ॥
पूर्ववद् इति लिङ्गपुराणोक्ततुलापुरुषदानवद् इत्य् अर्थः ।
एतद् यः कुरुते दानं शिवभक्तिसमन्वितः ।
स्थित्वा स्वर्गे चिरं कालं राजा गजपतिर् भवेत् ॥
इत्य् अपरो गजदानविधिः ।
विष्णुसंहितायाम् ।
कक्षारज्जुभिर् आयत्तं शुभासनसमन्वितम् ।
मणिकाञ्चनमालाभिर् भूषितं कर्णचामरैः ॥
सूत्रखण्डैश् च पुष्पैश् च भूषितं दीपवर्जितम् ।
यथालाबोपपन्नं वा यः प्रयच्छति दन्तिनम् ॥
ब्राह्मणाय दरिद्राय स्वर्गलोके महीयते ।
कर्मक्षयाद् इहागत्य महाराजो गणाधिपः ।
[६३४] सर्वपापविनिर्मुक्तो जायते नात्र संशयः ॥
अथ वातुलशाश्त्रे ।
गजदानम् अथो वक्ष्ये सङ्क्षेपाद् विधिना शृणु ।
द्विजानाम् एव दातव्यं देवानां प्रीतिकारकम् ॥
श्रीकरं परमं धन्यं बलपुष्टिविवर्धनम् ।
रोगघ्नं सन्ततिकरं जगदापद्विनाशनम् ॥
गजं सुलक्षणोपेतं शुद्धदेशसमुद्भवम् ।
युवानं रूपसम्पन्नं सर्वाभरणभूषितम् ॥
पूर्वोक्तदेशकाले च देवालयसमीपके ।
आनीय गजराजानम् ऐरावतकुलोद्भवम् ॥
अभ्यर्च्य गन्धपुष्पाद्यैर् विप्रमुख्याय दापयेत् ।
पुण्याहं तत्र कर्तव्यं शिवपूजां तथैव च ॥
आचार्यपूजनं चात्र कर्तव्यं विधिपूर्वकम् ॥
अथ माहाभारते ।
हस्त्यश्वशकटादीनि यः प्रयच्छति शक्तितः ।
द्विजाय सुविशिष्टाय श्रोत्रियायाहिताग्नये ॥
यत् फलं समवाप्नोति तन् मे निगततः शृणु ।
षष्टिर् वर्षसहस्राणि षष्टिर् वर्षशतानि च ।
भोगान् भुक्त्वामरपुरे राजा कालक्षयाद् इह ॥
इदं चात्र दानवाक्यम् – ॐ अद्य अमुकसगोत्रायेत्यादि ।
[६३५] इमं हस्तिनं अक्षारज्जुस्थिरासनसहितं काञ्चनमालाकीर्णं चामरगन्धपुष्पालङ्कृतं प्रजापतिदैवतम् अक्षयस्वर्गकामस् तुभ्यम् अहं सम्प्रददे, न ममेति, ॐ अद्य अमुकसगोत्रायेत्यादि । एतद्धस्तिदानप्रतिष्ठार्थं दक्षिणाम् इदं सुवर्णं तुभ्यम् अहं सम्प्रददे न ममेति ।
इति हस्तिदानविधिः ।
अथाह बौधायनः ।
वाग्विरोधं गुरोः कृत्वा मुखरोगी भवेन् नरः ।
तस्य दानेन विहितः प्रतीकारो ऽयम् उच्यते ॥
सौवर्णं राजतं ताम्रं पलेनार्धपलेन वा ।
कारयेत् करिणं सौम्यं यथाविभवतो ऽथ वा ॥
तस्यैव कारयेद् दन्तौ शुभ्रेण रजतेन तु ।
पुच्छं वा मौक्तिकैः कुर्याद् रत्नाभ्याम् अक्षिणी तथा ॥
संवेष्ट्य पीतवस्त्रेण गन्धपुष्पाक्षतादिभिः ।
अर्चयेद् धान्यराशिस्थं धान्यं द्रोणाष्तकं मतम् ॥
श्रुतवृत्तोपसम्पन्नं ब्राह्मणं संयतेन्द्रियम् ।
दान्तं कुलीनं धर्मिष्ठम् अनुद्वेगकरं नृणाम् ॥
आहूय परया भक्त्या वस्त्रालङ्कारभूषनैः ।
पूजयेत् प्रयतो भूत्वा तेनैतत् कर्म कारयेत् ॥
समिदाज्यतिलैस् तेन होमं चापि प्रवर्तयेत् ।
अग्निनाग्निं तथाधाय शुक्तं चरति च क्रमात् ॥
मन्त्रा एते विनिर्दिष्टा इध्म आश्वत्थ इष्यते ।
कृत्वा चैवाप्रणोम्यस् ततो हस्त्यर्चनं भवेत् ॥
[६३६] स्वाचान्तः कर्म कृत्वाथ प्रणीतामोक्षणं तथा ।
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ॥
तस्मै हुतवते दद्यात् करिणं तं सदक्षिणम् ।
मन्त्रेणानेन विधिवत् प्राङ्मुखाय विशेषतः ॥
सुप्रतीकगजेन्द्र त्वं सरस्वत्याभिषेचनम् ।
इन्द्रस्य वाहनं शश्वत् सर्वदेवैश् च पूजितम् ॥
दानेनानेन दत्तेन मुखरोगं विनाशय ॥
दानमन्त्रः ।
ब्राह्मणान् भोजयेद् अन्ते सार्धं भुञ्जीत बन्धुभिः ।
इति मुखरोगहरगजदानविधिः ।
अथाह वृद्धगौतमः ।
पलेन वा तदर्धेन तदर्धार्धेन वा पुनः ।
कारयेद् वाहनं हैमं चतुर्दन्तं तु वारणम् ॥
दन्ताः स्वर्णमयाः कार्या रत्नैर् नानाविधैर् युताः ।
सर्वाभरणसंयुक्तं करिणं चोपकारकम् ॥
यत् तत् सर्वप्रदाने तु तस्य पार्श्वे समाहितः ।
उपचारैः षोडशभिर् अर्चयेद् गन्धपुष्पकैः ॥
ततो ब्राह्मणम् आहूय सर्वशास्त्रार्थकोविदम् ।
श्रुतवृत्तोपसम्पन्नम् अनुद्वेगकरं नृणाम् ॥
भक्त्या सम्पूज्य वस्त्राद्यैर् होमं तेन च कारयेत् ।
मन्त्रैः पौराणिकैः सम्यक् संहिताशास्त्रचोदितैः ॥
[६३७] चत्वारो दिग्गजा ये च पुष्पदन्तादयश् च ये ।
सार्वभौमादयो ये च आहृत्यातोषयामि तान् ॥
समिदाज्यतिलैर् होमो गजस्य प्रीतये भवेत् ।
तस्मै हुतवते सम्यक् घृणिप्रीत्यर्थम् आदृतः ॥
मन्त्रेणानेन विधिवद् दद्याद् भक्तिसमन्वितः ।
प्राङ्मुखस्य व्रणी चोदङ्मुखायेन्द्रस्य वाहनम् ॥
ऐरावतम् अनुव्रज्य तम् आचार्यो मुदान्वितः ।
ब्राह्मणान् भोजयित्वा च स्वयं भुञ्जीत वाग्यतः ॥
एवं कृते व्रनाबाधात् तत् क्षणाद् एव सर्पति ।
तेनैव व्रनिभिर् नूनं कार्यम् आरोग्यहेतवे ॥
इति व्रणघन्गजदानविधिः ।
अथ देवताभ्यो गजदानम् । शिवधर्मात् ।
निवेदयति यो नागं भक्त्या स्वर्णाद्यलङ्कृतम् ।
शिवाय पर्वदिवसे तस्य पुण्यफलं शृणु ॥
स मत्तैरावतप्रख्यैर् गजैर् युक्तैः सुशोभनैः ।
प्रकीडति महायानैः शतसङ्ख्यैर् अनेकशः ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
[६३८] रुद्रलोके गतश् चान्ते भवेद् इह सुराधिप ॥
चतुर्युगसहस्रान्ते स्वर्गं प्राप्य नराधिपः ।
भवेद् इन्द्रसमः श्रीमान् रूपवीर्यसमन्वितः ॥
इति शिवगजदानम् ।
गारुडपुराणे ।
यो जगन्निधये नागं प्रयच्छति महामतिः ।
भद्रजातिसमुद्भूतं पद्मनाभाय शक्तितः ॥
कुप्यकं बलशोभाढ्यं घण्टाचामरभूषितम् ।
वरत्राङ्कुशसंयुक्तम् अनेकस्वर्णभूषणम् ॥
नानामण्डनभूयिष्टं चारुडिण्डिमडम्बुरम् ।
कृत्वा विष्णोर् महापूजां कार्त्तिकैकादशीदिने ॥
द्वादश्याम् अर्पयेत् तं तु देवदेवाय चक्रिणे ।
त्रिलोकीनाथ देवेश सर्वभूतकृपानिधे ॥
गजदानेन तुष्टस् त्वं प्रयच्छ मम वाञ्छितम् ।
इत्य् उच्चार्याथ दत्वा तं प्रणिपत्य जगत्प्रभुम् ॥
सुरेन्द्रलोकम् आसाद्य क्रीडते कालम अक्षयम् ।
वर्षार्बुदसहस्राणि क्रीडित्वा सुचिरं दिवि ॥
ततो भूलोकम् आसाद्य सार्वभौमी नृपो भवेत् ॥
इति विष्णुगजदानविधिः ।
आदित्यपुराणे ।
निवेदयति यो नागं भक्त्या स्वर्णाद्यलङ्कृतम् ।
[६३९] सूर्याय पर्वदिवसे तस्य पुण्यफलं शृणु ॥
स मत्तैरावतप्रख्यैर् गजयुक्तैः सुशोभनैः ।
प्रकीडति महायानैः शतसङ्ख्यैर् अनेकशः ॥
सप्तद्वीपसमुद्रायां क्षितौ नरपतिर् भवेत् ।
भुक्त्वा तु विपुलान् गोगान् प्रलये समुपस्थिते ॥
सूर्ययोगं समासाद्य स तत्रैव प्रलीयते ॥
इति सूर्यगजदानविधिः ।
अथ दासीदानम् । तत्र वह्निपुराणे ।
गृहदानं श्रुतं राजन् दासीदानं ततः शृणु ।
तव भक्त्या प्रवक्ष्यामि महासौख्यप्रदायकम् ॥
चतुर्णाम् आश्रमाणां हि गृहस्थः श्रेष्ठ उच्यते ।
गृहस्थाच् च गृहं राजन् सुगृहे तु वरस्त्रियः ॥
अहिरण्यम् अदासीकम् अल्पान्नाद्यम् अगोरसम् ।
गृहकृपणवृत्तीनां नरकस्यापरो विधिः ॥
अदण्डवासिकं ग्रामम् अदासीकं च यद् गृहम् ।
अनाज्यभोजनं यच् च वृथा तद् इति मे मतिः ॥
विभ्रमाभरणा दास्यो यद् गृहं समुपासते ।
तत्रास्ते पङ्कजकरा लक्ष्मीः क्षीरोदशायिनी ॥
न तत्रास्ति गृहे शौचं न सुखं व्यावहारजम् ।
यत्र कर्मकरी नास्ति सर्वकर्मकरी सदा ॥
किङ्कराणां कृतं कर्म न करोतीह यद् भृतम् ।
[६४०] यद् एका कुरुते दासी गृहस्थेन भृता सती ॥
बहुलोकाकुको ग्रामो दासीदासाकुलं गृहम् ।
बुद्धिर् धर्माकुला यस्य तस्य चतः किम् आकुलम् ॥
यस्य भार्या गृहे दक्षा दासी कर्मण्य् अनुव्रता ।
भृत्याः सत्वोद्यतकरास् त्रिवर्गस् तत्र सिध्यति ॥
यद् यद् इष्टतमं लोके यच् चास्य दयितं गृहे ।
तत् तद् गुणवते देयं तद् एवाक्षयम् इच्छता ॥
एतद् विचार्य हृदये दासीं दद्याद् द्विजातये ।
स्थिरनक्षत्रसंयुक्ते सौम्ये सौम्यग्रहान्विते ॥
दानकालं प्रशंसन्ति सन्तः पर्वणि वा पुनः ।
अलङ्कृत्य यथाशक्त्या वासोभिर् भूषणैस् तथा ॥
ब्राह्मणाय प्रदातव्या मन्त्रेण भक्तितस् तथा ।
इयं दासी मया तुभ्यं श्रीमती प्रतिपादिता ॥
सदा कर्मकरी भोग्या यथेष्टं भद्रम् अश्नुते ॥
इदम् इह दानवाक्यम् ।
ॐ अद्य अमुकसगोत्रायेत्यादि इमां दासीं सुवर्णालङ्कारवतीं गन्धपुष्पाद्यलङ्कृताम् अक्षयसुखप्राप्तिकामस् तुभ्यम् अहं सम्प्रददे, न ममेति ।
ॐ अद्य अमुकसगोत्रायेत्यादि एतद् दासीदानप्रतिष्ठार्थं दक्षिणाम् एतत् सुवर्णं तुभ्यम् अहं सम्प्रददे, न ममेति ।
पञ्चवर्षाधिका सा तु चत्वारिंशत्समावधिः ।
[६४१] दासी द्विजाय दातव्या दासदाने ऽप्य् अयं विधिः ॥
दत्वा क्षमापयेत् पश्चाद् ब्राह्मणं वस्त्रकाञ्चनैः ।
अनुगत्वा तु सीमायां द्विजं विसर्जयेत् ततः ॥
एवं दत्वा महाराज कृतकृत्यो भवेत् पुमान् ।
इह लोके परे चैव सप्तजन्मान्य् अखण्डितः ॥
गृहकर्मकरीं दद्यात् तरुणीं रूपशालिनीम् ।
बहुद्रवोपसंयुक्तां ग्रामवेश्मसमन्विताम् ॥
दासीं समीक्ष्य बहुशो गृहकर्मदक्षां
यो ब्राह्मणाय कुलशीलवते ददाति ।
विद्यादराधिपतिभिस् त्व् अभिपूजितो ऽसौ
मर्त्यः प्रयाति स्वजनैः सह विष्णुलोकम् ॥
कूर्मपुराणे ।
दासीं दद्याद् यथाशक्ति मूल्येनालङ्कृतां शुभाम् ।
सुवर्णरजतैः सार्धं विधिवद् दक्षिणायुताम् ॥
वित्तानुसारात् तां दत्वा विप्राय गृहमेधिने ।
मोदते ऽप्सरसां लोके यावत् कल्पशतत्रयम् ॥
इति दासीदानविधिः ।
अथ कालोत्तरे ।
यो ऽलङ्कृत्य स्त्रियं शम्भोर् उत्तमां विनिवेदयेत् ।
सो ऽश्वमेधस्य यज्ञस्य फलं शतगुणं लभेत् ॥
[६४२] सुविनीतां स्त्रियं दासीं भृतकार्यं निवेदयेत् ।
नरमेधस्य यज्ञस्य फलं शतगुणं लभेत् ॥
इति शिवाय दासीदानविधिः ।
अथ रथदानम् । कूर्मपुराणे ।
रथं चतुर्बलीवर्दै रूढं धान्यावृतं त्रिधा ।
वित्तानुसारात् सर्वैश् च रथोपकरणैर् युतम् ॥
सदक्षिणं च विप्राय दत्वा शिवपुरं व्रजेत् ॥
धान्यवृतम् इति – अष्टादशदान्यानि परिभाषायां व्याख्यातानि । त्रिधेति त्रिद्व्येकसुवर्णदक्षिणानुसाराद् उत्तममध्यमकनिष्ठभेदेन त्रैविध्यं रथोपकरणानि युगयोक्त्रप्रतोदवरत्रादीनि ।
तर दानवाक्यम् ।
अद्य अमुकसगोत्रायेत्यादि चतुर्बलीवर्दैर् युक्तं अष्टादशधान्यपरिवृतं सकलस्वोपस्करयुतम् एतं रथं विश्वकर्मदैवतं निरत्ययस्वर्गादिसुखकामस् तुभ्यम् अहं सम्प्रददे न ममेति ।
अमुकसगोत्रायेत्यादि एतद्रथदानप्रतिष्ठार्थं दक्षिणाम् इदं सुवर्णं तुभ्यम् अहं सम्प्रददे न ममेति ।
[६४३]
स्कन्दपुराणे ।
रथाय रथनाथाय नमस् ते विश्वकर्मणे ।
विश्वभूताय नाथाय अरुणाय नमो नमः ॥
गारुडपुराणे ।
गन्त्रीं तुरङ्गसंयुक्तां यो ददाति द्विजातये ।
सर्वकामसमृद्धात्मा स राजा जायते भुवि ॥
गन्त्री नाम रथविशेषः ।
सचक्राख्यां युगोपेतां मत्तवारणभूषिताम् ।
आस्तीर्णवृक्षास्तरणां योक्त्रयुक्तां सकूवरां ॥
युक्तां चतुर्भिस् तुरगैर् द्वाभ्यां वा शक्तितो युताम् ।
बलिवर्दयुतां चापि द्विजाय प्रतिपादयेत् ॥
पुण्ये ऽह्नि विप्रम् आहूय कृत्वा वस्त्रादिभूषिताम् ।
सदक्षिणां यथाशक्त्या दद्यात् प्रयतमानसः ॥
दानमन्त्रः ।
गन्त्रीम् इमां प्रयच्छामि विश्वकर्माधिदैवताम् ।
दानेनानेन भगवान् प्रीयतां मे परः पुमान् ॥
एवं प्रदाय विधिवद् गन्त्रीं मन्त्रेण मानवः ।
विमानेनार्कवर्णेन देववद् दिवि मोदते ॥
इह लोके भवेद् राजा बलवान् धर्मवत्सलः ।
[६४४] महाभारते ।
प्रदानं सर्वदानानां शकटस्य विशिष्यते ।
एवम् आह महाभागः शाण्डिल्यो भगवान् ऋषिः ॥
शकटं दम्यसंयुक्तं यो दद्यात् तु द्विजातये ।
तस्य स्वर्गे विमानं तु सर्वहेममयं शुभम् ॥
दिव्याङ्गनाभिर् आकीर्णं सर्वरत्नविभूषितम् ।
उपतिष्ठति विप्रेन्द्र सर्वकामफलप्रदम् ॥
इति रथदानविधिः ।
अथ रथदानप्रसङ्गेन शिविकादानम् उच्यते । वह्निपुराणे ।
वसिष्ठ उवाच ।
शृणु चान्यत् महीपाल महादानम् अनुत्तमम् ।
येन वै दत्तमात्रेण मुच्यते नरकार्णवात् ॥
मार्गशीर्षे शुभे पक्षे समुपोष्य हरेर् दिनम् ।
माघफाल्गुनयोर् वापि वैशाखस्य शरत्सु च ॥
द्वादश्यां हरिम् अभ्यर्च्य कलशोपरिसंस्थितम् ।
शङ्गशार्ङ्गगदाचक्रधरं शक्त्या हिरण्मयम् ॥
शिविकां वक्रवंशोत्थाम् ऋजुदारुमयीम् अथ ।
आनीय सन्निधिं विष्णोः शुभछत्रसमन्विताम् ॥
सम्भूष्य च स तां भूषां जागरं तत्र कारयेत् ।
[६४५] विद्याभिजनसम्पन्नं विदग्धं शास्त्रवित्तमम् ॥
आज्ञासारं शुचिं दक्षं कलत्रापत्यभूषितम् ।
प्रातः सभार्यम् अभ्यर्च्य वासोभिः कर्णभूषणैः ॥
उपानच्छूरिकाखड्गपट्टकञ्चुकवेणिका ।
आदर्शस्थगिकापानपात्रं च कांस्यभाजनम् ॥
चत्वारो वृषभा देया धेनवश् च सुलक्षणाः ।
शिविकावाहनानां तु तथैव छत्रधारिणः ॥
वृत्तिर् देया तथान्नं च वर्षार्हं ब्राह्मणस्य च ।
वर्षे वर्षे पुनर् देयं ब्राःमणस्यैतद् एव तु ॥
वृत्तिर् एव त्व् असम्पत्तौ वर्षे वर्षे ऽपि वार्षिकी ।
इहामुत्रातपत्राणं कुरु केशव मे प्रभो ॥
छत्रं त्वत्प्रीतये दत्तं ब्राह्मणाय मया शुभम् ।
देव देव जगन्नाथ विश्वात्मन् दत्तयानया ।
प्रभो शिविकया देव प्रीतो भव जनार्दन ॥
इति दानमन्त्रः ।
दत्वा तु ज्ञानविदुषे सपत्नीकाय पुत्रिणे ।
सुरापः स्तेनकृत् सङ्गी ब्रह्महा गुरुतल्पगः ॥
शिविकादानमाहात्म्यात् मुच्यते पापकात् स्फुटम् ।
पितृपक्षं मातृपक्षं पत्नीपक्षं तथैव च ।
आत्मानं बन्धुपक्षं च तारयेन् नरकार्णवात् ॥
[६४६] भुक्त्वा तु विपुलान् भोगान् इहामुत्रसुखप्रदान् ।
सपत्नीकः सपितृको विष्णुसायुज्यम् अश्नुते ॥
इति शिविकादानविधिः ।
अथ क्रमप्राप्तस्य महादानस्यातिदानप्रकरणे निरूपितत्वात् रथदानानन्तरं गृहदानम् आरभ्यते । तत्र संवर्तः ।
गृहदाता सुखी प्राज्ञो वितृष्णः सर्ववस्तुषु ।
प्रज्ञासुखविवृद्ध्यर्थं पात्रे देयम् अतो गृहम् ॥
बृहस्पतिः ।
रसान्नोपस्करयुतं गृहं विप्राय यो ऽर्पयेत् ।
न हीयते तस्य वंशः स्वर्गं प्राप्नोत्य् अनुत्तमम् ॥
वेदव्यासः ।
सर्वकामैः सुसम्पूऋनं दत्वा वेश्म हिरण्मयम् ।
मुद्गलाय गतः स्वर्गं शतद्युम्नो महामतिः ॥
सर्वरत्नं वृषाः दर्भा युवानो ऽश्वाः प्रियाः स्त्रियः ।
रम्यावसथं चैव दत्वामुं लोकम् आस्थितः ॥
महाभारते ।
नैवेशिकं सर्वगुणोपपन्नं
ददाति यश् चैव नरो द्विजाय ।
[६४७] स्वाध्यायचारित्र्यगुणाय राजंस्
तस्यापि लोकाः कुरुजाङ्गलेषु ॥
बीजैर् अशून्यं शयनैर् उपेतं
दद्याद् गृहं यः पुरुषो द्विजाय ।
मुख्याभिरामं बहुरत्नपूर्णं
लभेद् अधिष्ठानवरं स राजन् ॥
तथा ।
यस् तु नैवेशिकं शुद्धं ब्राह्मणाय प्रयच्छति ।
त्रिंशत्कोट्यो ऽथ वर्षाणां स्वर्गलोके महीयते ॥
ततो ऽवतीर्णः कालेन मानुषं लोकम् आगतः ।
नगराधिपतिः श्रीमान् राजराजो भवेत् ध्रुवम् ॥
आह व्यासः ।
गृहं दीपप्रभोद्योतशयनासनभाजनैः ।
उपस्करैश् च सम्पूर्णं सर्वधान्यप्रपूरितम् ॥
सर्वधान्यान्य् उक्तानि । उपस्कराः मञ्चकतूलिकोपधानासनकांस्यादिभाजनदीपिकापेषणयन्त्र-धान्यादिमानभाण्डदण्डोलूखलमुषलमृण्मयस्थालीकलशवारिधानीशूर्पव्यजनछत्रोपानह-खड्गासिपुत्रिकासम्मार्जनीगोबलीवर्दाश् च महिषीतण्डुलघृततैलपूर्णपात्रदात्रवस्त्रचन्दनादि-गन्धद्रव्यताम्बूलोपस्करणकाष्ठचुल्लीदासदासीप्रभृतयः ।
ब्राह्मणाय दरिद्राय सुशीलाय ददाति यः ।
तथाध्ययनशीलाय शृणु तस्यापि यत् फलम् ॥
देवैः पितृगणैर् युक्तो ब्रह्मर्षिमनुजर्षिभिः ।
[६४८] तृप्ता वर्षशतान्य् एव दशतिष्ठन्त्य् अनामयाः ॥
तस्माद् इह समागत्य सप्तद्वीपाधिपो भवेत् ।
बहुप्रदो बहुधनो द्वुजो वा वेदपारगः ॥
गरुडपुराणे ।
ऐष्टकं दारवं वापि मृण्मयं वापि शक्तितः ।
सर्वोपस्करणोपेतं यो दद्याद् विपुलं गृहम् ॥
ब्राह्मणाय दरिद्राय विदुषे च कुटुम्बिने ।
क्रीडित्वा सुचिरं स्वर्गे मानुष्यं लोकम् आगतः ।
भवत्य् अव्याहतैश्वर्यः सर्वकामसमन्वितः ॥
कूर्मपुराणे ।
शक्तितः सर्ववित्तेन पूर्णं गृहम् अपि त्रिधा ।
सदक्षिणं द्विजे दत्वा ब्रह्मलोकं व्रजेन् नरः ॥
सर्ववित्तेन, सर्वोपस्करेणेत्य् अर्थः । त्रिधा, पूर्ववद् उत्तममध्यमादिभेदेन ।
ब्रह्मवैवत्र-वहनिपुराणयोः ।
न गार्हस्थ्यात् परो धर्मो नैव दानं गृहात् परम् ।
नानृताद् अधिकं पापं न पूज्यो ब्राह्मणात् परः ॥
धनधान्यसमायुक्तं कलत्रापत्यसङ्कुलम् ।
गोगजाश्वगणाकीर्णं गृहं स्वर्गाद् विशिष्यते ॥
यथा मातरम् आश्रित्य सर्वे जीवन्ति जन्तवः ।
एवं गृहस्थम् आश्रित्य सर्वे जीवन्ति चाश्रमाः ॥
[६४९] धर्मम् अर्थं च कामं च मिश्राश् च प्रथितं यशः ।
प्राप्तकामैर् नरै राजन् सदा सेव्यो गृहाश्रमः ॥
न गृहेण विना धार्मान् नार्थकामौ सुखं न च ।
लोकयात्रा यशः स्वर्गः प्राप्यते राजसत्तम ॥
न स्वर्गे नापवर्गेषु न चान्येष्व् अपि धामसु ।
प्रसार्य पादौ यद् रात्रौ स्वगृहे स्वपतां सुखम् ॥
दिनानि तानि गण्यन्ते यानि यान्ति गृहाश्रमे ।
अपि शाकं पचानस्य स्वगृहे परमं सुखम् ॥
इति मत्वा महाराज कारयित्वा सुशोभनम् ।
भवनं ब्राह्मणे देयं महतीं भूतिम् इच्छता ॥
ब्रह्माण्डपुराणे ।
गृहं कृत्वा शुभस्तम्भं बहुचित्रं सुशोभनम् ।
सप्राकारप्रतोलीलं कपाटार्गलयन्त्रितम् ॥
सुधावलिप्तं चतुरं विस्तीर्णगणशोभितम् ।
शुभप्रवेशनिष्काशम् उपकार्यादिसंयुतम् ॥
मत्तवारणशोभाढ्यं गवाक्षादिविभूषितम् ।
दत्वा द्विजातिमुख्याय न शोचति कृताकृते ॥
मत्स्यपुराणे ।
पक्वेष्टकामयं कृत्वा शैलजं वापि दारुजम् ।
मृण्मयं वापि भवनं शुभलक्षणसंयुतम् ॥
प्रभूतबलिपुष्पाड्यं धेन्वा चैव समन्वितम् ।
[६५०] अर्जुनैः सरलैः सालैर् अन्यैश् चैव मनोरमैः ॥
तिमिषैः सर्जवृक्षैश् च कदम्बैः सह वञ्जुलैः ।
शुभस्थानसमुत्पन्नैर् वास्तुलक्षणसंयुतम् ॥
स्थापनं च यथान्यायं भूमेश् चैव तु शोभनम् ।
मार्जनं सिञ्चनं चैव सन्तानीयेन कारयेत् ॥
मङ्गल्यानुपहारांश् च वास्तुविद्योदितांस् तथा॥
देवतापञ्चकं तत्र चत्वारिंशत्समन्वितम् ।
पूजयित्वा यथान्यायं ततो दद्याद् गृहं गृही ॥
वास्तुलक्षणं पञ्चचत्वारिंशद्देवताः । क्रमश् च तस्मिन्न् एव पुराणे ।
एकाशीतिपदं कृत्वा रेणुभिः कनकेन च ।
पश्चात् पिष्टेनानुलिम्पेत् सूत्रेणालोड्य सर्वतः ॥
दशपूर्वापरा रेखा दश् चैवोत्तरायताः ।
सर्ववास्तुविभागेषु विज्ञेया नवका न च ॥
एकाशीतिपदं कृत्वा वास्तुवित् सर्ववास्तुषु ।
पदस्थान् पूजयेद् देवांस् त्रिंशत्पञ्चदशैव तु ।
द्वात्रिंशद् बाह्यतः पूज्याः पूज्याश् चान्तस् त्रयोदश ॥
अत्रैवं प्रयोगः ।
पूर्वं तावद् अमेध्यश्मशानादिरहिताम् अनूषरां शुभवर्णगन्धादिलक्षणान्वितां चतुरस्रां प्रागुदक्प्रवणां भूमिं परीक्ष्य गोमयादि**[६५१]**नोपलिप्य तत्र सुधालिप्तानि समान्तरालानि दशसूत्राणि पातयेत् । तथैव दश दक्षिणोत्तरायतानि ततश् च नवकोष्ठकासु नवपङ्क्तिषु सर्वम् एकाशीतिपदं मण्डलं सम्पद्यते (?), तत्र मध्यमकोष्ठनवकम् उत्सृज्य नवकम् एव पदं विदध्यात् तत्पूर्वस्थितं च पार्श्वस्थितकोष्ठद्वयाभ्याम् एकीकुर्यात् । आग्नेय्यं त्व् एकम् एव । एवं दक्षिणपश्चिमोत्तराणि त्रीणि त्रीण्य् एकीकृत्य कोणेष्व् एकैकं परिशिष्य ब्रह्मस्थानस्य परिधिं निष्पादयेत् । बाह्यतश् चेशानादिकोणेष्व् एककोष्ठकान्य् एव चत्वारि चत्वारि पदानि परिशिष्य प्राच्यादिदिक्षु लोष्ठकानि श्रेणीभूतानि पञ्च पञ्च पदानि विदध्यात् । ततश् च पञ्च चत्वारिंशत् पदानि निष्पद्यन्ते ।
मध्ये नवपदस् त्व् एकः चत्वारस् त्रिपदाः स्मृताः ।
विंशतिस् त्व् एकपदिकास् तावन्तो द्विपदाः स्मृताः ॥
एवं प्रतिष्ठिता देवाश् चत्वारिंशच् च पञ्च च ।
नामतस् तान् प्रवक्ष्यामि स्थानानि च निबोधत ॥
ईशानकोणादिसुरान् पूजयेत् क्रमशो न च ।
शिखी चैवाथ पर्जन्यो जयन्तः कुलिशायुधः ॥
सूर्यः सत्योभृशश् चैव आकाशो वायुर् एव च ।
पूषाय वितथश् चैव गृहक्षतयमाव् उभौ ॥
गन्धर्वो भृङ्गराजश् च मृगः पितृगणस् तथा ।
दौवारिको ऽथ सुग्रीवः पुष्पदन्तश् च वारुणः ॥
आसुरश् चैव शोषश् च पापयक्ष्मावरोगकः ।
[६५२] भल्लाठसोमनागौ च अदितिश् च दितिस् तथा ॥
फणावान् मुख्यभल्वाटौ सोमनागौ तथापरौ ।
अदितिश् च दितिश् चैव स्थाप्याः प्रणवनाभिभिः ॥
बहिर् द्वात्रिंशद् एते तु तदन्तश् चतुरः शृणु ।
आपश् चैवाथ शावित्रो जयो रुद्रस् तथैव च ॥
अर्यमा सविता चैव विवस्वान् विबुधाधिपः ।
मित्रो ऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ॥
अष्टमस् त्व् आपवत्सस् तु परितो ब्रह्मणः स्मृताः ॥
अत्र तावद् द्वात्रिंशत्पदे बहिःपरिधौ प्रथमम् ईशानकोणे शशिनं संस्थाप्य प्रदक्षिणक्रमेण पर्जन्यादिदेवां स्थापयेत् । तदन्तश् चतुर इति, पर्जन्यात् पश्चिमे एककोष्वके पदे आपः, आकाशात् पश्चिमे सावित्रः दौवारिकात् पूर्वस्मिन् जयः, आपः पूर्वस्मिन् रुद्र इति बहिः परिधिर् अन्तश् चतुरो देवान् स्थापयेत् परितो ब्रह्मण इति, मध्यपदस्थितस्य ब्रह्मणः पुरस्ताद् अर्य्मणं संस्थाप्य प्रदक्षिणक्रमेणाष्टौ देवान् स्थापयेत् ।
अथोपसंहरति ।
आपश् चैवापवत्सश् च पर्जन्यो ऽग्निर् दितिस् तथा ।
पदिकानां तु वर्गो ऽयम् एवं कोणेष्व् अशेषतः ॥
तन्मध्ये तु बर्हिर् विंशद् विपदास् ते तु सर्वतः ।
अर्यमा च विवस्वांश् च मित्रः पृथ्वीधरस् तथा ॥
ब्रह्मणः परितो दिक्षु त्रिपदाश् चैव सर्वतः ।
[६५३]
पदिकानाम् इत्यादि । अयम् एकपदानां पञ्चानां देवानाम् ईशानकोणे वर्गः सम्पद्यते । एवम् आग्नेयादिकोणेष्व् अपि एकपदाः पञ्चदेवता भवन्ति तन्मध्ये बर्हिर् इति । कोणमध्ये बाह्यपरिधौ विंशतिद्विपदा भवन्ति अवमादयश् चत्वारस् त्रिपदा मध्ये ब्रह्मा नवपद इति एवं पञ्चचत्वारिंशद् देवान् गन्ध्माल्यादिभिः पूज्य वास्तुविद्योक्तप्रकारेण गृहारम्भं कुर्यात् । तस्मिन्न् एव पुराणे ।
वास्तौ परिक्षिते सम्यग् वास्तुगेहे विचक्षणः ।
वास्तूपशमनं कुर्यात् समिद्भिर् बलिकर्म च ॥
जीर्णोद्धारे तथाधाने तथा च नववेश्मनि ।
नवप्रासादभवने प्रासादपरिवर्तने ॥
द्वाराभिवर्तने तद्वत् प्रासादेषु गृहेषु च ।
वास्तूपशमनं कुर्यात् पूर्वम् एव विचक्षणः ॥
एकाशीतिपदं लिख्य वास्तुमध्ये तु पिष्टकैः ।
होमस् त्रिमेखले कार्यः कुण्डे हस्तप्रमाणके ॥
यवैः कृष्णतिलैश् चैव समिद्भिः क्षीरवृक्षजैः ।
पालाशैः खादिरैर् वापामार्तोदुम्बरसम्भवैः ॥
कुशदूर्वामयैर् वापि मधुसर्पिःसमन्वितैः ।
कार्यस् तु पञ्चभिर् विप्रैर् बिल्वबीजैर् अथापि वा ॥
होमान्ते भक्ष्यभोज्यैस् तु वास्तुदेशे बलिं हरेत् ।
तद्वद् विशेषनैवेद्यम् इदं दद्यात् क्रमेण तु ॥
ईशकोणे घृताक्तं तत् शिखिने विनिवेदयेत् ।
[६५४] ओदनं सोत्पलं दद्यात् पर्जन्याय घृतान्वितम् ॥
जयन्ताय ध्वजं पीतं पैष्टं कूर्मं च विन्यसेत् ।
इन्द्राय पञ्चरत्नानि पैष्टं च कुलिशं तथा ॥
वितानकं च सूर्याय धूपं सक्तुं तथैव च ।
सत्याय घृतगोधूमं मत्स्यान् दद्याद् भृशाय च ॥
सष्कुल्यं चान्तरिक्षाय दद्यात् सक्तूंश् च वायवे ।
लाजाः पूष्णे तु दातव्या वितथे चणकोदनम् ॥
गृहक्षताय मध्वन्नं यमाय पिशितौदनम् ।
गन्धौदनं च गान्धर्वे घृङ्गे मेषस्य जिह्विकाम् ॥
दौवारिके दन्तकाष्ठं पैष्टं कृष्णबलिं तथा ।
मृगाय यावकं दद्यात् पितृभ्यः कृशरांस् तथा ॥
सुग्रीवे पूपकान् दद्यात् पुष्पदन्ताय पायसम् ।
कुशस्तम्बेन संयुक्तं तथा पद्मं च वारुणे ॥
पैष्टं हिरण्मयं दद्याद् असुराय सुरासवम् ।
घृतौदनं च शोषाय यवान् वै पापयक्ष्मणे ॥
घृतलड्डुकांस् तु रोगाय नागपुष्पं फणावते ।
भक्षं मुख्याय दातव्यं मुद्गौदनम् अतः परम् ॥
भल्लाटस्थानके दद्यात् सोमाय मधुपायसम् ।
नागाय शालिकं पिष्टम् अदित्ये लोपिकास् तथा ॥
दितेस् तु पूरिकां दद्याद् इत्य् एवं बाह्यतो बलिः ।
क्षौरम् आपाय दातव्यं आपवत्साय वै दधि ॥
सावित्रे लड्डुकान् दद्यात् समरीचं कुशोदकम् ।
सवितुर् गुडपूपांश् च जयाय घृतचन्दनम् ॥
[६५५] विवस्वते पुनर् दद्याद् रक्तचन्दनपायसम् ।
हरितालोल्वनं दद्याद् इन्द्राय घृतसंयुतम् ॥
गुडोदनं तु मित्राय रुद्राय घृतपायसम् ।
आमपक्वं तथा मांसं देयं स्याद् राजयक्ष्मणे ॥
पृथ्वीधराय मांसानि कूष्माण्डानि च दापयेत् ।
शर्करापायसं दद्याद् अर्यम्ने पानम् एव तु ॥
पञ्चगव्यं यवांश् चैव तिलाक्षतहविश्चरुम् ।
भक्ष्यं भोज्यं च विविधं ब्रह्मणे विनिवेदयेत् ॥
एवं सम्पूजिता देवाः शान्तिं कुर्वन्ति ते सदा ।
सर्वेषां काञ्चनं दद्याद् ब्रह्मणे गां पयस्विनीम् ॥
राक्षसानां बलिर् देयो मांसोदनसमन्विता ।
ईशाने नागमातृभ्यश् चरुं च विनिवेदयेत् ॥
मांसौदनं सरुधिरं हरिद्रोदनम् एव च ।
आग्नेयीं दिशम् आश्रित्य विदार्यै विनिवेदयेत् ॥
दध्योदनं सरुधिरं मत्स्यकण्डैश् च संयुतम् ।
पीतरक्तं बलिं दद्यात् पूतना या तु राक्षसी ॥
वायव्ये पापराक्षस्यै मत्स्यं मांस्ं सुरासवम् ।
पायसं चापि दातव्यं स्वनाम्ना सर्वतः क्रमात् ॥
नमस्कारानुयुक्तेन प्रणवाद्येन सर्वतः ।
प्राक्मांस्यौदनं स्कन्दाय दक्षिणस्यां तथापर (?) ॥
कृशरापालिकादानम् अर्यम्ने मूलमन्त्रतः ।
मांसं सरुधिरं दद्याज् जृम्भकाय तु पश्चिमे ॥
पिलिपिच्छये रक्ताक्तपिष्टान् अन्तरतो ऽपि च ।
[६५६] भक्ष्यभोज्यैर् दिगीशानां तन्मन्त्रैश् च बलिं हरेत् ॥
सर्वासां पायसं साज्यं यथोक्तबल्यसम्भवे ।
तदभावे दर्भपुष्पैर् दध्यक्षतघृतैर् बलिः ॥
गोमयेनोपलिप्तायां मण्डलान् पूर्वतः क्षितौ ।
गन्धादिपूर्वकं सर्वं भौतिकं च बलिं हरेत् ॥
भूतेभ्यो ऽथ पितृभ्यश् च राक्षसेभ्यो नमो नमः ।
पिशाचेभ्यो ऽथ मातृभ्यो गणेभ्यश् च पृथक् पृथक् ॥
दिव्यान्तरिक्षभौमेभ्यः प्रणवाद्यनमोन्तकैः ।
ततः सर्वौषधिस्नानं यजमानस्य कारयेत् ॥
द्विजांस् तु पूजयेद् भक्त्या ये चान्ये गृहम् आगताः ।
एतद् वास्तूपशमनं कृत्वा कर्म समाचरेत् ॥
प्रासादभवनोद्यानप्रारम्भे परिवर्तने ।
पुरवेश्मप्रवेशे च सर्वदोषोपशान्तये ॥
वास्तूपशमनं कृत्वा ततः सूत्रेण वेष्टयेत् ।
रक्षोघ्नपावमानेन सूक्तेन भवनादिकम् ॥
नृत्यमङ्गलवाद्यैश् च कुर्याद् ब्राह्मणवाचनम् ।
अनेन विधिना यस् तु प्रतिसंवत्सरं बुधः ॥
गृहे वायतने कुर्यान् न स दुःखम् अवाप्नुयात् ।
न च व्याधिभयं तस्य न च बन्धुधनक्षयः ।
जीवेद् वर्षशतं स्वर्गे कल्पम् एकं वसेन् नरः ॥
अथ ब्रह्मवैवर्ते ।
कारयित्वा गृहान् रम्यान् ऋतुवस्वर्कसङ्ख्यया ।
[६५७] भुवनाष्टादशत्रिंशत् तत्तन्नक्षत्रसङ्ख्यया ॥
शक्त्या तद्द्विगुणान्य् एव शतं यावत् सहस्रकम् ।
कुड्यस्तम्भगवाक्ष्याद्यान् विचित्रान् बहुभूमिकान् ॥
सप्राकारप्रतोलीकान् कपाटार्गलयन्त्रकान् ।
सुधाधवलितान् रम्यान् विस्तीर्णाङ्गणवाटकान् ॥
सप्तधातुमयैर् भाण्डैः पञ्चरत्नैः समन्वितैः ।
चर्मकाष्ठमयैर् हस्तिदन्तवस्त्रमयैस् तथा ॥
मृण्ययोपस्कराकीर्णान् वस्त्रोपकरणान्वितान् ।
सर्वोपस्करसम्भारशणवल्कलराजितान् ॥
राजितांस् तृणपाषाणैः काष्ठसञ्चयसंयुतान् ।
सर्वधान्यसमायुक्तैः कुशूलैश् च विराजितान् ॥
गोमहिष्याश्ववृषभप्रेष्यदासीजनान्वितान् ।
क्षेत्रारामजलासन्नान् दृढान् हर्म्यवरान् शुभान् ॥
सम्पूर्णान् सप्तधान्यैश् च घृततैलगुडादिभिः ।
तिलतण्डुलशालीक्षुमाषगोधूमसर्षपैः ॥
प्रियङ्गुयवनीवारनिष्पावराजमुद्गकैः ।
मसूरचणकावर्तसकुष्ठककुलोत्थकैः ॥
लवणार्द्रकखर्जूरद्राक्षाजीरकधान्यकैः ।
हिङ्गुकुङ्कुमकर्पूरस्नानद्रवैः सचन्दनैः ॥
रूप्योपस्करपर्यङ्कतूलीगण्डोपधानकैः ।
चुल्लीच्छेदनमन्थानभद्रासनकदुत्थकैः ॥
पिठरोलूखलस्थालीसूर्पदर्पणयन्त्रकैः ।
मुषलासिकृपाणीषुदण्डकोदण्डमुद्गरैः ॥
[६५८] गृहटतापिकादर्वीदृषल्लोष्टकहस्तकैः ।
चरकालकलोहीन्द्रदीपिकाग्निष्टिका घटी ॥
कुण्डनी पेषणि तद्वद् उदकुम्भप्रमार्जनी ।
मञ्जूषालिञ्जरान् दोलमुख्योपस्परसंयुतान् ॥
शक्त्या स्वर्णसहस्रेण शतेनार्धार्धसंयुतान् ।
यथाशक्त्या रूप्ययुतान् कृतान् निर्मलचेतसा ॥
इत्येवमादिसम्पूर्णान् गृहान् दद्याद् धितादिषु ॥
वह्निपुराणे ।
कर्तुश् चन्द्रबलोपेते स्थिरनक्षत्रसंयुते ।
शुभे ऽह्नि विप्रकथिते दानकालः प्रशस्यते ॥
शुक्लपक्षे तृतीयायां पूर्णिमायाम् अथापि वा ।
एवं सम्भृतसम्भारं गृहं कृत्वा द्विजोत्तमान् ॥
कुलशीलसमायुक्तान् शतसङ्ख्यान् निमन्तयेत् ।
अधीतवेदशास्त्रज्ञान् पुराणस्मृतिपारगान् ॥
गृहधर्मरतान् दान्तान् निस्वान् बहुकुटुम्बिनः ।
निराश्रयांस् तथा राजंस् तेभ्यो दत्तं महाफलम् ॥
अलङ्कृत्य सपत्नीकान् वस्त्राभरणकुण्डलैः ।
कृत्वाग्नियजनं भूयो वास्तुं पूज्य विधानतः ॥
समुच्चरन्न् इदं दाता विदधीत गतस्मयः ।
जगदीशो गृहावासो गोविन्दः प्रीयताम् इति ॥
ब्रह्मवैवर्ते ।
गृहाङ्गणे कारयित्वा कुण्डम् एकं समेखलम् ।
[६५९] गृहयज्ञः प्रकर्तव्यस् तुष्टिपुष्टिकरः सदा ॥
गृहयज्ञविधानं तु व्रखण्डे विलोकनीयम् ।
रक्षोघ्नानि च सूक्तानि पठेयुर् ब्राह्मणास् ततः ।
वास्तोः पूजा प्रकर्तव्या दिक्पालानां बलिं क्षिपेत् ॥
ततः पुण्याहघोषेण ब्राह्मणास् तेषु वेश्मसु ।
प्रवेशयित्वा शय्यासु सभार्यासूपवेशयेत् ॥
यजमानस् ततः प्राज्ञः शुक्लाम्बरधरः शुचिः ।
यद् यस्य विहितं पूर्वं तत् तस्मै प्रतिपादयेत् ॥
अत्रेदं दानवाक्यम् ।
ॐ अद्य अमुकसगोत्रायेत्यादि इदं गृहं शयनासनभाजनोपस्करयुतं सर्वधान्यप्रपूरितं सर्वदैवतम् अमुककामस् तुभ्यम् अहं सम्प्रददे न ममेत्य् उक्त्वा इदं गृहं गृहाणेत्यादिवक्ष्यमाणमन्त्रं पठेत् ।
ॐ अद्यामुकसतोरायेत्यादि एतद् गृहदानप्रतिष्ट्ःआर्थं दक्षिणाम् इदं हिरण्यं तुभ्यम् अहं सम्प्रददे न ममेति ।
दक्षिणासङ्ख्या तु शक्त्या स्वर्णसहस्रेणेत्यादिना दर्शितैव । प्रतिग्रहीता स्वस्तीत्य् उक्त्वाकोदाद् इति यजुर्वेदप्रसिद्धं मन्त्रम् उदाहरेत् ।
इदं गृहं गृहाण त्वं सर्वोपस्करसंयुतम् ।
तव विप्र प्रसादेन ममास्त्व् अभिमतं फलम् ॥
एवम् एकैकशो दत्वा प्रणिपत्य समर्पयेत् ।
स्वस्तीति ब्राह्मणैर् वाच्यं कोदाद् इति च पूजितैः ॥
बृहस्पतिस्मृतौ पुनर् अयं मन्त्रः ।
गृहं मम विभूत्यर्थं गृहाण त्वं द्विजोत्तम ।
[६६०] प्रीयतां मे जगद्योनिर् वास्तुरूपी जनार्दन ॥
मत्स्यपुराणे ।
प्राप्ते दानदिने कार्यम् ऐशान्यां हस्तसम्मितम् ।
चतुरस्रं समं कुण्डमेखलायोनिभूषितम् ॥
पूर्वोत्तरे हस्तिमिता च वेदी
गृहादिदेवेश्वरपूजनाय ।
अर्चोर्चनं ब्रह्मशिवाच्युतानां
सूर्यस्य कार्यं फलपुष्पगन्धैः ॥
ब्रह्मादिप्रतिमालक्षणम् उक्तं तुलापुरुषे ।
द्वारेषु कार्याणि च तोरणानि
पत्रैर् अपि क्षीरवनस्पतीनाम् ।
मध्ये च संस्थाप्य च पूर्णकुम्भं
स्रग्गन्धधूपाम्बररत्नयुक्तम् ॥
गृह्योक्तेन विधानेन कृत्वा चाग्निमुखं ततः ।
गव्येन पयसा दिव्यं स्थालीपाकं चरुं श्रपेत् ॥
ततश् च ताम् चैव चरुं जुहोमि
मध्यस्थिताभ्यो गृहदेवताभ्यः ।
बलिं च सम्यग् विधिसम्प्रयोगात्
क्षीरेण धारापरितस् तु दद्यात् ॥
ब्राह्मणम् अर्चयेत् पूर्वं परितुष्टं क्षमापयेत् ।
शय्यां दक्षिणाभागे तु सोपधानां सदीपिकाम् ।
सितवस्त्रैश् च सञ्छन्नां लक्ष्मीनारायणान्विताम् ॥
[६६१] लक्ष्मीनारायणलक्षणं देवतादानप्रकरणे लक्ष्मीनारायणदाने वक्ष्यते, तद्रूपं च सुवर्णमयं यथाशक्ति निर्माय,
सिताम्बरं कुण्डलहेमभूषितं
केयूरकण्ठाभरणाभिरामम् ।
पत्नीसमेतं च करे गृहीत्वा
दाता पठेन् मन्त्रम् इमं गृहस्थः ॥
एह्य् एहि नारायण दिव्यरूप
सर्वामरैर् वन्दितपादपद्म ।
शुभाशुभानन्दसुधाम धीर
लक्ष्मीयुतस् त्वं हि गृहं गृहाण ॥
नमः कौस्तुभनाथाय हिरण्यकवचाय च ।
क्षीरोदार्णवसुप्ताय जगद्धात्रे नमो नमः ॥
नमो हिरण्यगर्भाय जगन्नाथाय वै नमः ।
चराचरस्य जगतो गृहभूताय वै नमः ॥
भूर्लोकप्रमुखालोकास् तव देहे व्यव्स्थिताः ।
नन्दन्ति यावत् कल्पान्तं तथा तस्मिन् भवान् गृही ॥
त्वत्प्रसादेन देवेश पुत्रैः पौत्रैर् युतो गृही ।
पञ्चयज्ञक्रियायुक्तो वसेद् आचन्द्रतारकम् ॥
एवम् उक्त्वा तु देवेशं सपत्नीकं द्विजोत्तमम् ।
तिलप्रस्थोपरिस्थायां शय्यायाम् उपवेश्य च ॥
वदेद् इदं ततो वाक्यं सर्वधान्ययुतं त्व् इदम् ।
सर्वोपस्करसंयुक्तं गृहं गृह्ण द्विजोत्तम ॥
तत्रोपस्करणं सर्वं दाम्पत्यस्य निवेदयेत् ।
[६६२] पादुकोपानहछत्रभूषणासनभाजनैः ॥
सम्पन्नं चार्थसम्पन्नं गृह्योपस्करभूषणम् ।
सर्वसम्पूर्णम् एवास्तु पठित्वैवं निवेदयेत् ॥
ब्रह्मवैवर्ते ।
गृहोपस्करणैस् तुल्यां दक्षिणां भवनं विना ।
उपदेष्टुर् अपीच्छन्ति तन्मूलत्वान् महर्षयः ॥
सुयतीन् पूजयित्वा तु ततः स्वभवनं व्रजेत् ।
दद्याद् अनेन विधिना बहून्य् एकम् अथो गृहम् ॥
ससङ्ख्यानियमः कार्यः शक्तिर् अत्र नियामिका ।
शीतवातातपहरं दत्वा तृणकूटोरकम् ॥
इष्टान् कामान् अवाप्नोति प्रेत्य स्वर्गे महीयते ।
ऋग्नितं (?) वा यजुर्मध्यसामस्वरविभूषिता ॥
अत्यन्तसुखलब्धेन देया ब्रह्मपुरी प्रिया ।
गोभूहिरण्यदानानि नियमाः संयमास् तथा ।
गृहदानस्य कौन्तेय कलां नार्हन्ति षोडशीम् ॥
वह्निपुराणे ।
एवं दत्वा गृहं राजन् सर्वोपस्करसंयुतम् ।
नरो विष्णुपुरं याति सेव्यमानो ऽप्सरोगणैः ॥
तत्र कल्पत्रयं भुक्त्वा भोगान् देवैः सुदुर्लभान् ।
कालाद् इह समायातो राजा भवति धार्मिकः ॥
पुनर् विष्णुपुरं लब्धा सप्तजन्मनि पार्थिवः ।
रूपसौभाग्यसम्पन्नो दीर्घायुर् निरुपद्रवः ॥
[६६३] पुत्रपौत्रतो लक्ष्म्या वियोगरहितः सुखी ।
भवेन् नरो महाराज गृहं तस्मात् प्रदीयते ॥
मत्स्यपुराणे ।
य एवं सर्वसम्पन्नं पक्वेष्टं विनिदयेत् (?) ।
कल्पकोटिशतं यावद् ब्रह्मलोके महीयते ॥
शैलजं दारुजं वापि यो दद्याद् विधिपूर्वकम् ।
वसेत् क्षीरार्णवे रम्ये नारायणसमीपतः ॥
मृण्मयं चैव यो दद्याद् गृहं चोपस्करान्वितम् ।
पुरेषु लोकपालानां प्रीत्या मन्वन्तरं वसेत् ॥
कलिकलुषविमुक्तः पूजितः सैद्धसङ्घैर्
अमरचरसालावीज्यमानो ऽप्सरोभिः ।
पितृशतम् अपि बन्धून् पुत्रपौत्रप्रपौत्रान्
अपि नरकनिमग्नांस् तारयेद् एक एव ॥
दिव्यभोगांस् ततो भुक्त्वा राज्राजो भवेद् भुवि ।
नारायणबलोपेतो नारायणपरायनः ।
नारायनकथासक्तो जीवेद् वर्षशतं सुखी ॥
भविष्यत्पुराणे ।
यः कारयेत् सुदृढहर्म्यवतीं महार्थां
सत्सेवितां द्विजपुरीं सुजनोपभोग्याम् ।
दिव्याप्सरोभिर् अभिनन्दितचित्तवृत्तिः
प्राप्नोत्य् असाव् अनुपसम्पदम् इन्दुमौलेः ॥
[६६४]
इति गृहदानविधिः ।
सुमन्तुर् उवाच ।
मृण्मयं दारुजं शैलं पक्वेष्टकम् अथापि वा ।
कृत्वानन्तगृहं वापि यथाविभवसम्भवात् ॥
सर्वोपकरणोपेतं सर्वधान्यसमन्वितम् ।
सूर्यायेत्थं गृहं दत्वा सर्वान् कामान् अवाप्नुयात् ॥
इति भविष्यत्पुराणोक्तं सूर्यगृहदानविधिः ।
महाभारते ।
तथा गवार्थे शरणं शीतवातहरं शुभम् ।
आसप्तमं तारयित्वा कुलं भरतसत्तम ॥
स्कन्दपुराणे ।
यः कारयित्वा सुदृढं विस्तीर्णं सुसमस्थलम् ।
शीतवातातपहरं सिकताभिर् मृदुत्तरम् ॥
शरीरकण्डूतिहरं स्तम्भसम्भारसङ्कुलम् ।
भक्ष्यप्रकल्पितानेकतृणाधारवदण्डकम् ॥
अतीक्ष्वाग्रसुखस्पर्शदामनीशङ्कुसङ्कुलम् ।
हर्तुं धूमैश् च दंशादीन् प्रकृष्टासनम् आश्रयम् ॥
कृतकूपनिपानादिजलाशयनिवेशनम् ।
अवकरतिरस्कारकारिकर्मकरान्वितम् ॥
[६६५] तृणोदकादिनिर्वाहक्षमकल्पितवृत्तिकम् ।
एवंविधं महारम्यं प्राकारद्वारभूषितम् ॥
कृत्वा गृहं गवाम् अर्थे यः पर्वणि निवेदयेत् ।
स राजराजो भवति भाग्यारोग्यसमन्वितः ॥
सुरभीलोकम् आसाद्य दिव्यभोगसमन्वितम् ।
क्रीडित्वा सुचिरं कालं ततो मानुष्यम् आगतः ।
धनरूपसमायुक्तः कुले महति जायते ॥
इति गोगृहदानम् ।
अथाश्रयदानम् । तत्र कालिकापुराणे ।
शङ्करात् परमं नान्यद् अतस् तस्मै विकल्पयेत् ।
यतीनाम् आश्रयं वापि कृत्वा पक्वेष्टकामयम् ॥
विकल्पः । सङ्कल्पः ।
सुशीलं चारुनिर्वातं परिचारसमन्वितम् ।
व्याख्यामण्डपसंयुक्तम् आसनैर् विविधैर् युतम् ॥
पुष्पोद्यानसमायुक्तं सोदकं शङ्करालयम् ।
ग्रामं दीपेन्धनाद्यर्थं प्रेष्याणां चैव चेतने ॥
कौपीनोपानहाद्यर्थम् आश्रये विनियोजयेत् ।
ततो ऽभ्यर्च्य यतीन् भक्त्या भोजयित्वा विशेषतः ॥
वज्रैश् चैव प्रपूज्येशं भक्त्या तेभ्यो निवेदयेत् ।
[६६६] प्रीयतां मे महादेवश् चन्द्रमौलिर् महेश्वरः ॥
इत्य् उक्त्वा पुण्यदिवसे दत्वा चैवात्र दक्षिणाम् ।
अनेनाश्रयदानेन सर्वकामयुतो नरः ।
तस्मिंस् त्व् अमरलोकानां भोगान् गच्छेत् तदलयम् ॥
तदालयं शङ्करालयम् । शैवपुराणे ।
स्थावरं जङ्गमं चैव द्विविधं लिङ्गम् उच्यते ।
प्रासादे स्थावरं कर्यं जङ्गमं तु मठे हितम् ॥
स्थावराज् जङ्गमं श्रेष्ठम् इति प्राहुर् महर्षयः ।
दिक्षादिस्थापनं चैव ज्ञानक्रियाप्रकाशनम् ॥
जङ्गमात् तु प्रवर्तेत तेनाधिक्यं तु जङ्गमे ।
तस्माज् जङ्गमलिङ्गेभ्यो विद्यापीठस्य गुप्तये ॥
कारयित्वा मठं दिव्यं शुद्धशैलेष्टकामयम् ।
शयनासनसंयुक्तं पुष्पारामादिशोभनम् ॥
श्रद्धया परयोपेतं पुण्यकाले समुत्सृजेत् ॥
ब्रह्मवैवर्ते मठदानम् अधिकृत्याह मार्कण्डेयः ।
यावत् सन्तिष्ठते भूमौ स मठे जनसेविते ।
तावद्वर्षप्रमाणेन कर्ता च शुभभाग् भवेत् ॥
यः कारयेन् मठं शैलं शिवायतनसन्निधौ ।
[६६७] स शैवं पदम् आसाद्य कल्पायुतशतं वसेत् ॥
तस्मात् पुण्यक्षयाद् एतत् पृथिवीम् ईश्वरप्रियः ।
लभेद् दीर्घातुर् आरोग्यं सम्पद् ऐश्वर्यसन्ततिम् ॥
त्रेतायुगे नृपाधीशः सहस्रक्रतुकृद् भवेत् ।
विष्णोर् आयतने पुण्ये सन्निधौ कारयेन् मठम् ।
यः सः स्यात् सकलैश्वर्यसम्पदाम् आलयः सदा ॥
भगवतीपुराणे ।
विजयायैव कर्तव्यं पुण्याराममठादिकम् ।
सजलं कारयेत् तस्मान् मठारामादिकं नरः ॥
कृत्वा मठं प्रयत्नेन शयनासनसंयुतम् ।
पुण्यकाले द्विजेभ्यो ऽथ यतिभ्यो वा निवेदयेत् ॥
सर्वान् कामान् अवाप्नोति निष्कामो मोक्षम् आप्नुयात् ॥
ब्रह्मप्रोक्ते ।
मठं प्रतिश्रयं वापि सर्वोपकरणैर् युतम् ।
कारयित्वा द्विजातिभ्यः पुण्यकाले समुत्सृजेत् ॥
तस्य पुण्यकृता लोका क्षीयन्ते न कदाचन ॥
अगस्त्यः ।
सर्वकामम् अवाप्नोति तस्य सम्पद्यते सदा ।
देवायतनकर्ता च यतीनाम् आश्रयस्य च ॥
सत्त्रमण्डपकारी च क्रीडन् वापि गृहोत्तमैः ॥
**[६६८] **देवीपुराणे ।
प्रासादमण्डपगृहे मठे चित्रशिलातले ।
उढतो पट्टशालायां सर्वे सम्पूजयन्ति ये ॥
स्वरामान्तर्जलोपेतं मठं भूमित्रयोच्छ्रितम् ।
शान्तिधामाग्निप्रख्येन विद्याकोशजपादिभिः ॥
युक्तं देवाय दातव्यं सर्वकामप्रदायकम् ।
महापापारिशमनं समस्तभूमलापहम् ॥
राज्यायुःसुतसौभाग्यवर्धनं कीर्तनं तथा ।
विजलं नैव कुर्वन्ति मठारामविवर्जितम् ॥
सर्वेषां विध्नदं कर्तुं नृप लोकभयावहं ।
तथा ।
देवायतनकोटिस्थं कुर्याद् धेमाण्डभूषणम् ।
एकं सर्वेश्वरं धाम कृतं तस्याधिकं फलम् ॥
गङ्गोदके च यत् पुण्यं स्नात्वा च परिकीर्तितम् ।
तत् पुण्यं स्वजनैः स्नाप्य ताम् ईशानगतिं लभेत् ॥
स्कन्दपुराणे मठदानम् अधिकृत्याह ।
यः कारयेन् महद् रम्यं सुवेदीसंस्थितं मठम् ।
पञ्चभौमं त्रिभौमं वा शिवज्ञानरतात्मनाम् ॥
गुह्यापवरकैर् युक्तं मन्त्रस्थानसमन्वितम् ।
वास्तुविद्याविभक्तं च प्राकारपरिवारितम् ॥
धूमनिर्गमनोपेतं पूर्वतः सत्रमण्डलम् ।
गन्धपुष्पगृहं कार्यम् ऐशान्यां मठसंयुतम् ॥
भाण्डागारं च कौवेर्यां कोष्ठागारं च वायवे ।
[६६९] जलाशयं च वारुण्यां वातायानसमन्वितम् ॥
समित्कुशेन्धनस्थानम् आयुधानां च नैऋतौ ।
अभ्यागतालयं चैव रम्यं शय्यासमन्वितम् ॥
तोयाग्निदीपसम्भुतैर् युक्तं दक्षिणतो भवेत् ।
गृहान्तराणि सर्वाणि सजलैः कदलीगृहैः ॥
पञ्चवर्णैश् च कुसुमैः शोभितानि प्रकल्पयेत् ।
प्राकारं च बहिर् दद्यात् पञ्चहस्तप्रमाणतः ॥
प्राकाराच् च बहिः कुर्यात् सर्वदिक्षु समन्ततः ।
दिव्यं शिवाश्रयं रामं नानापुष्पोपशोभितम् ॥
सर्वर्तुकुसुमोपेतं नानावृक्षसमन्वितम् ।
प्रियङ्गुशिखराशोकपुत्रजीवकरिष्टकैः ॥
पुन्नागवकुलैश् चैव पाटलाबिल्वचम्पकैः ।
श्वेतमन्दारविजयैर् जातीतगरकुष्ठकैः ॥
सुवर्णश्वेतयूथीभिर् वर्णाम्लानकुरण्टकैः ।
करवीरैः कर्णिकारैर् नानावर्णैर् अनेकशः ॥
स्थानविन्यासचरितैः सन्मार्गाधारसंयुतैः ।
वृक्षैर् बहुविधैर् युक्तं दिग्विदिक्षु जलान्वितम् ॥
सितरत्नाञ्जकुसुमैर् नीलरक्तोत्पलैर् युतम् ।
लतावितानगृहकैः क्वचित् क्वचिद् अवस्थितैः ॥
कदलैः स्तम्भखण्डैश् च दाडिमाद्यैर् विराजितम् ।
इति कृत्वावहिस्तस्य प्राकारं कारयेन् महत् ॥
कपाट्गोपुरोपेतं परिखावटसंयुतम् ।
तृतीयाच् च पुराद् ऊर्ध्वं विद्याव्याख्यानमण्डपम् ॥
[६७०] गवाक्षिनिर्गमोपेतं विचित्रं परिकल्पयेत् ।
पुराच् च पञ्चमं कार्यं शिवस्य वसतो गृहम् ॥
षठस्तम् अष्टहस्तं वा दारुपट्टविनिमितम् ।
तत्र मृद्दारुशैलं वा स्थापयेद् विधिवच् छिवम् ॥
सर्वविद्याविधातारं सर्वज्ञं कुलम् ईश्वरम् ।
वृतं शिष्यप्रशिष्यैश् च व्याख्यानोद्यतपाणिकम् ॥
पद्मासनस्थं सुश्वेतं प्रसन्नवदनं गुरुं ।
एवं शिवाश्रमं कृत्वा भक्त्या वित्तानुसारतः ॥
तत्प्रतिष्ठां ततः कुर्यात् पूजालङ्कारलक्षणाम् ।
विद्यादानोक्तविभवैः शोभां कृत्वा मठाग्रतः ॥
पञ्चभिः पञ्चगव्यैस् तं स्थाप्यैशान्यां दिशि क्रमात् ।
स्नापयेद् गन्धतोयाद्यैः शिवशास्त्रपरिश्रुतैः ॥
तूर्यघोषैस् तम् आनीय स्थापयेत् पुष्पमण्डपे ।
ततश् चन्दनपुष्पाद्यैः पूजयित्वाधिवासयेत् ॥
जप्त्वा पञ्चविधं स्तोत्रं शिवं विज्ञापयेत् ततः ।
अद्याधिवासनं देव श्वः प्रतिष्ठा भवेत् तव ॥
भक्तानाम् अनुकम्पार्थं सान्निध्यम् उपकल्पयेत् ।
प्रातः संस्नाप्य देवेशं पूजयित्वा प्रवेशयेत् ॥
पवित्रैः स्थापयेद् वेद्यां पादाद् आरभ्य पञ्चभिः ।
ततः सगन्धगन्धाद्यैर् नित्यं शोध्यं शिवालयम् ॥
शिवं च पूजयेत् पुष्पैः स्नानवस्त्रयुगान्वितैः ।
सशियस्तं प्रणम्येशं गुरुर् व्याख्यां प्रवर्तयेत् ॥
प्राङ्मुखोदङ्मुखो वापि पुण्याहार्थं शिवाग्रतः ।
[६७१] ततः सम्पूजयेद् भक्त्या यजमानः स्वयं गुरुम् ॥
दक्षिणाभिर् विचित्राभिर् भोजनाद्यैश् च पूजयेत् ।
निवेदयेत् ततः स्थानं सर्वेषां शिवयोगिनाम् ॥
सर्वोपकरणो ऽप्य् एतं प्रणिपत्य पुनः पुनः ।
एवं यः कारयेद् आढ्यः श्रीमच्छिवपुरं महत् ॥
सर्वपापविनिर्मुक्तः शिवलोके महीयते ।
स्वगोत्रविंशकोपेतः सभृत्यपरिवारितः ॥
पुत्रमित्रादिसंयुक्तः शान्तः पुरपरिच्छदः ।
सुविचित्रैर् महायानैर् असाङ्ख्यैः सर्वकामिकैः ॥
शिववत् क्रीडते भोगैर् अणिमादिगुणैर् युतः ।
ततः कालेन महता विद्यादानप्रभावतः ॥
ज्ञानयोगं समासाद्य तत्रैव प्रतिमुच्यते ।
स्थपतिस्थापका वृक्षा बलीवर्दाश् च कर्मिणः ॥
यान्ति रुद्रपुरं सर्वे तदध्यक्षाश् च ये नराः ।
ये चान्ये वृत्तिभृतकाः शिवायतन कर्मिणः ।
ते ऽपि याति मृताः स्वर्गं शिवकर्मानुबावतः ॥
भविष्यपुराणे ।
कारयित्वा दृढस्स्त्म्भं शुभं पक्वेष्टकामयम् ।
मठं कमठपृष्ठाभम् आभासितदिगन्तरम् ॥
सुधानिलिप्तं गुप्तं च सुखशालाविराजितम् ।
दद्याद् अनन्तफलदं शैववैष्णवयोगिनाम् ॥
[६७२] वाराहपुराणे ।
त्रिभौमं वा द्विभौमं वा कुर्याद् अथेकभूमिकम् ।
मठं विचित्रशालाढ्यं विराजं मत्तवारणम् ॥
ध्यानाध्ययनहोमादिव्याख्यानस्थानभूषितम् ।
सुधया वा शिलाभिर् वा समम् अक्लिप्तभूमिकम् ॥
विन्यस्तपुस्तकाधारभूतनूतनसङ्कुलम् ।
नानाफलाकुलोद्यानराजिमण्डलमण्डितम् ॥
निर्मलस्वादुपानीयसुसम्भृतजलाश्रयम् ।
यतीनां पथिकानां च निवासम् उपसेदुषाम् ॥
पादुकोपानहछत्रकौपीनेन्धनवाससाम् ।
उपयोगिपदार्थानाम् अन्येषाम् अपि लब्धये ॥
ग्रामं वा विपुलां भूमिं प्रदद्याच् छ्रद्धयान्वितः ।
एवं समाश्रयं कृत्वा तापसानां हितावहम् ॥
अन्येषाम् अपि लोकानां दुःखिनाम् आश्रयार्थिनाम् ।
समाश्रयं प्रयच्छामि प्रीयतां मे जगन्निधिः ॥
एवं दत्वा महाराजन् सुविचित्रं समाश्रयम् ।
अश्वमेधसहस्रस्य फलम् आप्नोत्य् असंशयम् ॥
शिवं विष्णुपुरे स्थित्वा तद्रूपबलविक्रमः ।
भोगान् अपि बहून् भुक्त्वा परं निर्वाणम् ऋच्छति ॥
यः कारयेद् इति विचित्रविशालशाल
मालाकुलं रुचिरकुड्यवितानयुक्तम् ।
दिव्याङ्गनापरिवृतो ऽथ भवेन् मुरारेः
पारे भवार्णवजलस्य स सौख्यम् एति ॥
[६७३]
इत्य् आश्रयदानम् ।
अथ प्रतिश्रयदानम् । तत्र भविष्यत्पुराणे ।
प्रतिश्रये सुविस्तीर्णे कारिते सजलेन्धने ।
दीनानाथजनार्थाय ततः किं न कृतं भवेत् ॥
वह्निपुराणे ।
कारयित्वा दृढस्तम्भं शुभं पक्वेष्टकामयम् ।
प्रतिश्रयं सुविस्तीर्णं सुभूमिं लक्षणान्वितम् ॥
सुधानुलिप्तं गुप्तं च सुखशालाविराजितम् ।
दद्याद् अनन्तफलदं शैववैष्णवयोगिनाम् ॥
प्रतिश्रयं सुविस्तीर्णं सदन्नं सुजलान्वितम् ।
दीनानाथजनार्थाय कारयित्वा गृहं शुभम् ।
निवेदयेत् पथिस्थेभ्यः शुभद्वारं मनोहरम् ॥
देवीपुराणे ।
शक्र उवाच ।
पुरस्य पश्चिमे भागे दक्षिणे चोत्तरे ऽथ वा ।
पूर्वे वा मध्यतो वापि ये कुर्वन्ति प्रतिश्रयम् ॥
देवतास् तत्र काः स्थाप्याः का न स्थाप्या द्विजोत्तम ।
दिग्विभागगतां ब्रूहि स भवेद् येन शान्तिदः ॥
ब्रह्मोवाच ।
दक्षिनोत्तरपूर्वेण पश्चिमेन सुरेश्वरः ।
अथ मध्यगतः शक्रः कार्यो ऽयं तत्प्रतिश्रयः ॥
[६७४] यत्र श्रान्ताश् च खिन्नाश् च विश्राम्यन्ति द्विजातयः ।
प्रतिश्रयस्य कर्तारः स्वर्गे तिष्ठन्ति ते चिरम् ॥
तस्मात् प्रतिश्रयः कार्यो दृष्टादृष्टफलार्थिभिः ।
देवताधिष्ठितः शक्रः सर्वसौख्यप्रदो भवेत् ॥
देवतानां त्रयं प्रोक्तं चतुर्थी नोपपद्यते ।
महिपघ्नीं तथा यक्षं नायकं चात्र कारयेत् ॥
महिषघ्नी भवेन् मध्ये ज्येष्ठस्थाने न चान्यथा ।
वामतो दिग्गता कार्यो दक्षिणे यक्षराट् तथा ॥
अथ वा दिग्गता कार्या तत्रापि कथयामि ते ।
यद् द्वारं सम्मुखं तस्य देवीं तत्र प्रतिष्ठयेत् ॥
न यक्षं नायकं कार्यं द्वाराभ्यां मध्यतः स्थितम् ।
एवं कृते फलं यत् तु वक्तुं तत् केन शक्यते ।
केवलं फलम् एतस्य सुखं राज्यं यशः श्रियम् ॥
यमः ।
आसनं पादशौचं च दीपम् अन्नं प्रतिश्रयम् ।
ददात्य् एतानि यः पञ्च स यज्ञः पञ्चदक्षिणः ॥
अन्नदः प्राणदो ज्ञेयो रूपदो वस्त्रदः स्मृतः ।
स हि सर्वप्रदो नाम यो ददाति प्रतिश्रयम् ॥
अश्वमेधसहस्रस्य राजसूयशतस्य च ।
पुण्डरीकसहस्रस्य योगिष्व् अवसथी नरः ॥
विष्णुः ।
प्रतिश्रयं तथा शय्यापादाभ्यङ्गश् च दीपकम् ।
प्रत्येकदानेनाप्नोति गोप्रदानसमं फलम् ॥
दक्षः ।
आश्रमे च यतिर् यस्य विशाम्यति मुहूर्तकम् ।
[६७५] किं तस्यान्येन धर्मेण कृतकृत्यो हि स स्मृतः ॥
जन्मप्रभृति यत् पापं गृहस्थेन तु सञ्चितम् ।
निर्मार्जयति तत् सर्वम् एकरातोषितो यतिः ॥
तथा ।
तपोजपैः कृशीभूतो व्याधितो ऽवस्थार्हकः ।
वृद्धो ग्रहगृहीतश् च तथान्यो विकलेन्द्रियः ॥
नीरुजश् च युवा चैव भिक्षुर् नावसथार्हकः ।
नीरुजश् च युवा चैव ब्रह्मचर्याद् विनश्यति ॥
ब्रह्मचर्याद् विनष्टस् तु कुलं गोत्रं च नाशयेत् ।
वसन्न् अवसथे भिक्षुर् मैथुनं यदि सेवते ॥
तस्यावसथनाशस्य मूलान्य् अपि निकृन्तति ॥
बृहस्पतिः ।
आगतस्यासनं दद्याच् छान्तस्य शयनं तथा ।
तृषितस्य तु पानीयं क्षुधितस्य तु भोजनम् ॥
चक्षुर् दद्यान् मनो दद्याद् वाचं दद्याच् च सूनृताम् ।
एष साधारणो धर्मश् चातुर्वर्ण्यो ऽब्रवीन् मनुः ॥
प्रीयते स्वागतेनाग्निर् आसनेन शतक्रतुः ।
पितरः पादशौचेन भोजनेन प्रजापतिः ॥
मनु-विष्णु-शातातपाः ।
येषाम् अनश्नन्न् अतिथिर् विप्राणां व्रजते गृहात् ।
ते वै खरत्वम् उष्ट्रत्वम् अश्वत्वं प्रतिपेदिरे ॥
यस्य चैव गृहे विप्रो वसेत् कश्चिद् अभोजितः ।
न तस्य देवाः पितरः हव्यं कव्यं च भुञ्जते ॥
[६७६] अतिथिर् यत्र वै ग्रामे भिक्षमाणः प्रयत्नतः ।
शेते निरशनस् तत्र ब्रह्महत्या विधीयते ॥
अपि शाकं पचानस्य शिलोञ्छेनापि जीवतः ।
स्वदेशे परदेशे वा नातिथिर् विमना वसेत् ॥
एकरात्रं तु निवसन्न् अतिथिर् ब्राह्मणः स्मृतः ।
अनित्यं हि स्थितो यस्मात् तस्माद् अतिथिर् उच्यते ॥
यमः ।
तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना ।
सो ऽतिथिः सर्वभूतानां शेषान् अभ्यागतान् विदुः ॥
व्रती यतिर् वैकरात्रं निवसन्न् उच्यते ऽतिथिः ।
यस्मान् नित्यं न वसति तस्मात् तम् अतिथिं विदुः ॥
पर्वाण्य् अमावास्यादीनि उत्सवा विवाहादयः । तिथिर् तद्व्यतिरिक्ता दीपालिकाप्रतिपदादिः । एतान्य् अन्नविशेषप्राप्तिहेतूनि येन धर्मपरेण त्यक्तानि सो ऽतिथिर् इत्य् अर्थः ।
गौतमः ।
असमानग्रामो ऽतिथिर् एकरात्रिको ऽधिवृक्षसूर्योपस्थायी । इति ।
एकरात्रिकः एकरात्रवसनशीलः । अधिवृक्षः सूर्यशब्दः सायङ्कालपरः ।
दक्षः ।
सुधावस्तूनि वक्ष्यामि शिष्टे च गृहम् आगते ।
मनश् चक्षुर् मुखं वाचं सौम्यं दद्याच् चतुष्टयम् ॥
सुधावस्तूनि अनायाससम्पद्यानि ।
अभ्युत्थानम् इहागच्छ पूर्वालापः पिर्यान्वितः ।
[६७७] उपासनम् अनुव्रज्या कार्याण्य् एतानि यत्नतः ॥
उपासनं समीपे स्थितिः ।
ईषद्वस्तूनि चान्यानि भूमिर् आपस् तृणानि च ।
पादशौचं तथाभ्यङ्गम् आश्रयः शयनं तथा ॥
ईषद्वस्तूनि चाल्पायाससाध्यत्वात् ।
किञ्चिद् रात्रौ यथाशक्ति नास्यानश्नन् गृहे वसेत् ॥
मनुः ।
आसनाशनशय्याभिर् अद्भिर् मूलफलेन वा ।
नास्य कश्चिद् वसेद् गेहे शक्तितो ऽनर्चितो ऽतिथिः ॥
श्रीमार्कण्डेयपुराणे ।
कुर्यात् प्रतिशयगृहं पथिकानां हितावहम् ।
निजगेहैकदेशे वा साधून् पान्थान् निवासयेत् ॥
अक्षयं पुण्यम् उद्दिष्टं तस्य स्वर्गापवर्गदम् ।
सर्वकामसमृद्धो ऽसौ देववद् दिवि मोदते ॥
इति प्रतिशयदानम् ।
अथ कयादानम् उच्यते । बृहस्पतिः ।
सहस्रम् एव धेनूनां शतं चानडुहां समम् ।
दशानडुत्समं यानं दशयानसमो हयः ॥
दशयानसमा कन्या भूमिदानं च तत्समम् ।
[६७८] तस्मात् सर्वेषु दानेषु कन्यादानं विशिष्यते ॥
अत्रिः ।
वालुकायाः कृतो राशिर् यावत् सप्तर्षिमण्डलम् ।
गते वर्षसहस्रे तु पलम् एकं विशीर्यते ।
क्षयश् च दृश्यते तस्याः कन्यादाने न विद्यते ॥
महाभारते ।
करन्धमस्य पुत्रस् तु मरुतो नृपतिस् तथा ।
कन्याम् अङ्गिरसे दत्वा दिवम् आशु जगाम ह ॥
राजा मित्रसहश् चापि वशिष्ठाय महात्मने ।
दमयन्तीं प्रियां दत्वा तया सह दिवं गतः ॥
मदिराश्वश् च राजर्षिर् दत्वा कन्यां सुमध्यमाम् ।
हिरण्यहस्ताय गतो लोकान् देवैर् अभिष्टुतान् ॥
लोमपादश् च राजर्षिः शान्तां दत्वा सुतां प्रभुः ।
ऋष्यशृङ्गाय विपुलां सर्वकामैर् अयुज्यत ॥
कश्यपः ।
अग्निष्टोमातिरात्राणां शतं शतगुणं शतम् ।
लभते कन्यकां दत्वा मन्त्रहोमैर् अलङ्कृताम् ॥
अनडुहां सहस्राणां दशानां धुर्यवाहिनां ।
सुपात्रे विधिवद् दानं कन्यादानं च तत्समम् ॥
देवलः ।
तिस्रः कन्या यथान्यायं पालयित्वा निवेद्य च ।
न पिता नरकं याति नारी वा स्त्रीप्रसूयिनी ॥
[६७९] वशिष्ठः ।
सर्वेषाम् एव दानानाम् एकजन्मानुगं फलम् ।
हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम् ॥
संवर्तः ।
अलङ्कृत्य तु यः कन्यां भूषणाच्छादनाशनैः ।
दत्वा स्वर्गम् अवाप्नोति पूज्यते वासवादिभिः ॥
वह्निपुराणे ।
कन्यां ये तु प्रयच्छन्ति यथाशक्त्या स्वलङ्कृताम् ।
ब्रह्मदेयां द्विजश्रेष्ठ ब्रह्मलोकं वर्जन्ति ते ॥
कूर्मपुराणे ।
कन्याम् अलङ्कृतां वित्तशक्त्या दत्वा सकौतुकम् ।
गौरीलोकम् अवाप्नोति विप्राय गुणशालिने ॥
नारदीयपुराणे ।
चतुर्णाम् आश्रमाणां तु गृहस्थः श्रेष्ठ उच्यते ।
गृहस्थाच् च गृहं श्रेष्ठं गृहाच् छ्रेष्ठा वरस्त्रियः ॥
तस्मात् कन्याप्रदानस्य नान्यदानैस् तुला स्मृता ।
अतः प्रदेया विद्वद्भिः कन्या सर्वार्थकाङ्क्षिभिः ॥
याज्ञवल्क्यः ।
पिता पितामहओ भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥
नारदः ।
पिता दद्यात् स्वयं कन्यां भ्राता वानुमते पितुः ।
मातामहो मातुलश् च सकुल्या बान्धवास् तथा ॥
माता त्व् अभावे सर्वेषां प्रकृतौ यदि वर्तते ।
[६८०] तस्याम् अप्रकृतिस्थायां दद्युः कन्यां स्वजातयः ॥
स्कन्दपुराणे ।
आत्मीकृत्य सुवर्णेन परकीयां तु कन्यकाम् ।
धर्मेण विधिना दातुम् असगोत्रो ऽपि युज्यते ॥
विवाहाधिकारिणम् आह मनुः ।
वेदान् अधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रमम् आवसेत् ॥
गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि ।
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ॥
याज्ञवल्क्यो ऽपि ।
वेदं व्रतानि वा पारं नीत्वाप्य् उभयम् एव वा ।
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियम् उद्वहेत् ॥
विश्वामित्रः ।
कन्याम् अलङ्कृतां दत्वा समाहूय नराधिप ।
विद्यार्थिने ब्राह्मणाय कन्यादानं तद् उच्यते ।
भविष्यपुराणे ।
कन्याम् अलङ्कृतां दद्याद् अनादाय नराधिप ।
द्विजाय वेदविदुषे कन्यादानं तद् उच्यते ॥
दद्याद् गुणवते कन्यां नग्निकां धर्मचारिणीम् ।
अपि नो गुणहीनाय नोपरुध्याद् रजस्वलाम् ॥
तथा ।
कन्या देया श्रोत्रियाय ब्राह्मणाय तपस्विने ।
[६८१] साक्षाद् अधीतवेदाय विधिना ब्रह्मचारिणे ॥
ब्रह्माण्डपुराणे ।
कन्यां तु परया भक्त्या अलङ्कृत्य प्रयत्नतः ।
कुलीनाय सुरूपाय गुणज्ञाय विशेषतः ॥
कन्यां वरयमाणाय दद्याद् एष विधिः स्मृतः ॥
गारुडपुराने ।
सुशीलाय सुवृत्ताय सुविद्याय तपस्विने ।
कन्या देया प्रयत्नेन नेतरस्मै कथञ्चन ॥
परिणेयकन्यालक्षणानि तु स्कन्दपुराणे ।
सुरूपां लक्षणोपेताम् अव्यङ्गाङ्गीं कुलोद्भवाम् ।
कन्यां भ्रातृमतीं चैव धर्मार्थार्थी समुद्वहेत् ॥
विशालनेत्रां सुमुखीं नीलकुञ्चितमूर्धजाम् ।
आताम्रपाणिपादाग्रां कम्बुग्रीवां सुमध्यमाम् ॥
विशालजघनां चारुनितम्बस्थलभूषिताम् ।
अस्थूलगुल्फदशनाम् आश्यामाधरतालुकाम् ॥
अपिङ्गाक्षीम् अकपिलाम् अस्फुरच्चरणां शुभाम् ।
अस्थूलगण्डनासाग्रां शस्ताम् आहुर् मनीषिणः ।
उद्वहेत् तादृशीं कन्यां रोगदोषविवर्जिताम् ॥
वर्जनीयकन्यानिरूपणं वह्निपुराणे ।
महान्त्य् अपि समृद्धानि गोऽजाविधनधान्यतः ।
[६८२] स्त्रीसम्बन्धे दशेमानि कुलानि परिवर्जयेत् ॥
हीनजातिसुपाषण्डसुजनोद्वेगकारिणाम् ।
छद्मामयसदावाच्यस्वित्रिकुष्ठिकुलानि च ॥
यस्यास् तु न भवेद् भ्राता न च विज्ञायते पिता ।
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥
यथाह संवर्तः ।
अष्टवर्षा भवेद् गौरी नवमे नग्निका भवेत् ।
दशमे कन्यका प्रोक्ता द्वादशे वृषली स्मृता ॥
आहाङ्गिराः ।
अप्राप्तरजसा गौरी प्राप्ते रजसि रोहिणी ।
अव्यञ्जनकृता श्यामा कुचहीना तु नग्निका ॥
काश्यपः ।
सप्तवर्षा भवेद् गोरी दशवर्षा तु कन्यका ।
प्राप्ते तु द्वादशे वर्षे कुमारीत्य् अभिधीयते ॥
रोमकाले तु सम्प्राप्ते सोमो भुञ्जीत कन्यकाम् ।
रजःकाले तु गन्धर्वाः शक्रस् तु कुचदर्शने ॥
तद्माद् उद्वाहयेत् कन्यां यावन् नर्तुमती भवेत् ।
विवाहस् त्व् अष्टवर्षायाः कन्यायाः शस्यते बुधैः ॥
अत्राह मनुः ।
चतुर्णाम् अपि वर्णानां प्रत्येह च हिताहितान् ।
अष्टाव् इमान् समासेन स्त्रीविवाहान् निबोधत ॥
ब्राह्मो देवस् तथा चार्षः प्राजापत्यस् तथासुरः ।
[६८३] गान्धर्वो राक्षसश् चैव पैशाचश् चाष्टमो मतः ॥
चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः ।
राक्षसं क्षत्रियस्यैवम् आसुरं वैश्यशूद्रयोः ॥
पञ्चाणां च त्रयो धर्म्या द्वाव् अधर्मौ स्थिताव् इह ।
पैशाचश् चासुरश् चैव न कर्तव्यौ कथञ्चन ॥
पृथक् पृथक् विमिश्रौ वा विवाहौ पूर्वनोदितौ ।
गान्धर्वो राक्षसश् चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ ॥
पैठीनसिः ।
गान्धर्वासुरौ राजन्यस्य, राक्षसो वैश्यस्य, पैशाचः शूद्रस्य, सर्वेषाम् आर्षः प्रमाणम् ।
आह प्रचेताः ।
पैशाचः संस्कृतप्रसूतानां प्रतिलोमजानां च ।
मनुः ।
यो यश् चैषां विवाहानां मनुना कीर्तितो गुणः ।
सम्यक् शृणुत तं विप्राः सर्वं कीर्तयतो मम ॥
दश पूर्वान् परान् वंश्यान् आत्मानं चैकविंशकम् ।
ब्राह्मीपुत्रः सुकृतकृन् मोचयत्य् एनसः पितॄन् ॥
दैवोढाजः सुतश् चैव सप्त सप्त परावरान् ।
आर्षोढाजः सुतस् त्रींस् त्रीन् षट्कं कायोढजः सुतः ॥
ब्राह्मादिषु विवाहेषु चतुर्ष्व् एवानुपूर्वशः ।
ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः ॥
[६८४] रूपसत्वगुणोपेता धनवन्त्ō यशस्विनः ।
पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥
इतरेषु च शिष्टेषु नृशंसानृतवादिनः ।
जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥
अनिन्दितैः स्त्रीविवाहैर् अनिन्द्या भवति प्रजा ।
निन्दितैर् निन्दिता नॄणां तस्मान् निन्द्यान् विवर्जयेत् ॥
अथ तेषां लक्षणानि । तत्र विष्णुः ।
आहूय गुणवते कन्यां कन्यादानं स ब्राःमः ।
बौधायनः ।
श्रुतशीले विज्ञाय ब्रह्मवारिणे ऽर्थिने देयेति स ब्राःमः ।
प्रचेताः ।
सवर्णाय नग्निकाम् उदकेन दद्यात् स ब्राह्मो विवाहः ।
व्यासः ।
आच्छाद्यालङ्कृतां कृत्वा त्रिः परिक्रम्य पावकम् ।
नामगोत्रे समुद्दिश्य दद्याद् ब्राह्मओ विधिस् त्व् अयम् ॥
मनुः ।
यज्ञे तु वितते सम्यक् कर्म कुर्वति ऋत्विजे ।
अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥
एकं गोमिथुनं द्वे वा वराद् आदाय धर्मतः ।
कन्याप्रदानं विधिवद् आर्षो धर्मः स उच्यते ॥
[६८५] हारीतः ।
अनिन्द्यम् अन्यैर् अवितर्कयन् विधिवद् वस्त्रयुगं दत्वा अनया सह धर्मश् चर्यताम् ति प्राजापत्यः ।
मनुः ।
सहोभौ चरतां धर्मम् इति वाचानुभाष्य तु ।
कन्यादानं समभ्यर्च्य प्रजापत्यो विधिः स्मृतः ॥
ज्ञातिभ्यो द्रविणं दत्वा कन्यायै चैव शक्तितः ।
कन्याप्रदानं स्वाच्छन्द्याद् आसुरो धर्म उच्यते ॥
इच्छयान्योन्यसंयोगः कन्यायाश् च वरस्य च ।
गान्धर्वः स च विज्ञेयो मैथुन्यः कामसम्भवः ॥
हत्वा छित्वा च भित्वा च क्रोशन्तीं रुदतीं गृहात् ।
प्रसह्य कन्याहरणं राक्षसो विधिर् उच्यते ॥
सुप्तां मत्तां रहश् छद्म कृत्वा यत्रोपनीयते ।
स पापिष्ठो विवाहानां पैशाचः प्रथितो ऽष्टमः ॥
अथ वह्निपुराणे ।
ब्राह्मेण तु विवाहेन यस् तु कन्यां प्रयच्छति ।
ब्रह्मलोकं व्रजेत् क्षिप्रं ब्रह्माद्यैः पूजितः सुरैः ॥
दैवेन तु विवाहेन यस् तु कन्यां प्रयच्छति ।
भित्वा द्वारं तु सूर्यस्य स्वर्गलोकं च गच्छति ॥
गान्धर्वेण विवाहेन यस् तु कन्यां प्रयच्छति ।
गन्धर्वलोकम् आसाद्य क्रीडते देववच् चिरम् ॥
[६८६] शुल्केन दत्वा यः कन्यां तां पश्चात् सम्यग् अर्चयेत् ।
स किन्नरैश् च गन्धर्वैः क्रीडते कालम् अक्षयम् ॥
भविष्यत्पुराणे ।
विलोक्य गोत्रनक्षत्रे राशिकूटादिकं शुभम् ।
सुलग्ने सुमुहूर्ते च दद्याच् चैव यथाविधि ॥
उभयस्यापि पक्षस्य मनोऽभ्युदयपूर्वकम् ।
कुमार्यास् त्व् अष्टवर्षायाः शस्यते पाणिपीडनम् ॥
आह पैठीनसिः ।
पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते ।
असवर्णास्व् अयं ज्ञेयो विधिर् उद्वाहकर्मणि ॥
शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।
वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥
ऋष्यशृङ्गः ।
वरगोत्रं समुच्चार्य प्रपितामहपूर्वकम् ।
नाम सङ्कीर्तयेद् विद्वान् कन्यायाश् चैव मैव हि ॥
तिष्ठेत् पूर्वमुखो दाता वरः प्रत्यङ्मुखो भवेत् ।
मधुपर्कार्चितां चैनां तस्माद् दद्यात् सदक्षिणाम् ॥
उदपात्रं ततो गृह्य मन्त्रेणानेन दापयेत् ।
गौरीं कन्याम् इमां विप्र यथाशक्ति विभूषिआम् ॥
गोत्राय शर्मणे तस्मै दत्तां विप्रसमाश्रयाम् ॥ इति ।
इदम् इह दानवाक्यम् ।
ॐ अद्य अमुकसगोत्रस्य अमुकप्रवरस्य अमुकशर्मणः प्रपौ**[६८७]**त्राय, अमुकसगोत्रस्य अमुकप्रवरस्य अमुकशर्मणः पौत्राय, अमुकसगोत्राय अमुकप्रवराय अमुकशर्मणे वराय, अमुकसगोत्रस्य अमुकप्रवरस्य अमुकशर्मणः प्रपौत्रीम्, अमुकसगोत्रस्य अमुकप्रवरस्य अमुकशर्मणः पौत्रीम्, अमुकसगोत्रस्य अमुकप्रवरस्य अमुकशर्मणः पुत्रीम्, अमुकसगोत्रां अमुकप्रवरां अमुकाभिधानाम् इमां कन्यां सालङ्कारां प्रजापतिदैवताम् अमुककामस् तुभ्यम् अहं सम्पददे । एतत् कन्यादानप्रतिष्ठार्थं दक्षिणाम् इदं हिरण्यं सम्प्रददे न ममेत्य् उच्चार्य दानमन्त्रं पठेत्, प्रतिग्रहीता तु प्रणवपूर्वं स्वस्तीत्य् उक्त्वा कोदाद् इति मन्त्रम् उदाहरेत् ।
भूमिं गावश् च दासीश् च वासांसि च स्वशक्तितः ।
महिष्यो वाजिनश् चैव दद्यात् स्वर्णमणीन् अपि ॥
ततः स्वगृह्यविधिना होमाद्यं कर्म कारयेत् ।
यथाचारं विधेयानि मङ्गल्यकुतुकानि च ॥
लिङ्गपुराणे ।
कन्यां लक्षणसम्पन्नां सर्वदोषविवर्जिताम् ।
मातापित्रोस् तु संवादं कृत्वा दत्वा धनं महत् ॥
आत्मीकृत्य तु संस्थाप्य वस्त्रं दत्वा नवं शुभम् ।
भूषणैर् भूषयित्वा च गन्धमाल्यैर् अथार्चयेत् ॥
निमित्तानि समीक्ष्याथ् गोत्रनक्षत्रकादिकम् ।
उभयोश् चित्तम् आलोच्य उभौ सम्पूज्य यत्नतः ॥
दातव्या श्रोतिर्यायैव ब्राह्मणाय तपस्विने ।
[६८८] साक्षाद् अधीतवेदाय विधिना ब्रह्मचारिणे ॥
दासीदासासनाद्यं च भूषणानि विशेषतः ।
क्षेत्राणि च धनं वापि तथान्यानि प्रदापयेत् ॥
यावन्ति सन्ति रोमाणि कन्यायाश् च तनौ पुनः ।
तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥
वह्निपुराणे ।
एवं यच्छन्ति ये कन्यां यथाशक्त्या स्वलङ्कृताम् ।
विवाहकाले सम्प्राप्ते यथोक्ते सदृशे नरे ।
क्रमात् क्रमं क्रतुशतम् अनुपूर्वं लभन्ति ते ॥
श्रुत्वा कन्याप्रदानं च पितरः प्रपितामहाः ।
विमुक्ताः सर्वपापेभ्यो ब्रह्मलोकं व्रजन्ति ते ॥
तथा ।
न मन्युं कारयेत् तासां पूज्याश् च सततं गृहे ।
ब्रह्मादयो विशेषेण ब्रह्मभोज्यं सदा भवेत् ॥
अप्रजायाश् च कन्याया न भुञ्जीयात् कदाचन ।
दौहित्रस्य मुखं दृष्ट्वा किम् अर्थम् अनुशोचसि ॥
महासत्त्वसमाकीर्णान् नास्ति ते नरकाद् भयम् ।
तीर्णस् त्वं सर्वदुःखेभ्यः परं स्वर्गम् अवाप्स्यसि ॥
दौहित्रस्य तु दानेन नन्दन्ति पितरः सदा ।
यत् किञ्चित् कुरुते दानं तद् आनन्त्याय कल्पते ॥
दत्वा कन्यां न शोचेत क्षुधिता ताडितापि वा ।
नानादुःखाभिभूता वा तथैवाशरणा कृशा ॥
कुर्यान् मन्युं न चैवास्या आगतान् चैव पोषयेत् ।
[६८९] शोचन्ति यामयो यत्र विनश्यत्य् आशु तत्कुलम् ॥
न भुञ्जन्ति च यत्रैव निर्दहन्त्य् अप्रपूजिताः ।
तस्माद् एताः सदाभ्यर्च्या भूषणाच्छादनाशनैः ॥
भूतिकामैर् नरैर् नित्यं सुतापुत्रस् तु सर्वदा ।
सन्तुष्टः स्यात् तथा पूज्यः स श्राद्देषूत्सवेषु च ॥
यस्मिन्न् एवं कुले नित्यं कल्याणं तत्र वै ध्रुवम् ।
इह कीर्तिर् भवत् स्वर्गः परत्र द्विजसत्तम ॥
तिलराशिः कृतो यावद् दिवाकरसमुच्छ्रितः ।
वर्षान्ते गृह्यते तस्मात् तिल एकस् तु यावता ॥
सङ्क्षयं लभते तावद् ब्रह्मलोकस्य निश्चितम् ।
शतगव्यूतिमानेन सञ्चितैर् वृषरोमभिः ॥
विशीर्यते तुरालिङ्गं वर्षे कन्याप्रदस् तथा ।
तावत् स्वर्गं लभेद् यावत् सर्वलोम्नां तु सङ्क्षयः ॥
महीदातुश् च गोदातुः कन्यादातुश् च ये रथाः ।
कन्यादानानुगाः पश्चात् समं यान्ति त्रयो रथाः ॥
अथाचितप्रदातुश् च सत्यवादिन एव च ।
नित्यं स्वाध्यायशीलस्य समं यान्ति त्रयो रथाः ॥
कूकुदश् चाश्वमेधी च प्राणदाता द्विजेषु च ।
समं यान्ति तथा ह्य् एते त्रयो वै नात्र संशयः ॥
अलङ्कृत्य कन्याप्रदादा कूकुदः ।
कन्यादानं दरिद्रस्य यो ददाति परिष्कृतम् ।
पूर्तं धर्मम् अवाप्नोति यथावद् विधिकल्पितम् ।
[६९०] तस्मात् कन्या प्रयत्नेन दातव्या श्रेय इच्छता ॥
स्कन्दपुराणे ।
वैवाहिकप्रदानं वा यो ददाति दयापरः ।
विमानेन विचित्रेण किङ्किणीजालमालिना ।
महेन्द्रभवने याति सेव्यमानो ऽप्सोरोगणैः ॥
इति कन्यादानविधिः ।
अथ द्विजस्थापनम् । तत्र दक्षः ।
मातापितृविहीनं तु संस्कारोद्वहनादिभिः ।
यः स्थापयति तस्येह पुण्यसंस्था न विद्यते ॥
कालिकापुराणे ।
कारयित्वा तथोद्वाहं श्रोत्रियाणां कुलेषु च ।
वेदवच्छीलवृत्तेषु द्विजेष्व् एकादशस् तथा ॥
वातागृहाणि रम्याणि कुर्याद् एकादशैव तु ।
कारयित्वा तु दान्यैश् च विविधैश् च प्रपूरयेत् ॥
दासीगोमहिषीश् चापि शयनासनपादुकाः ।
भाजनानि विचित्राणि ताम्रमृण्मयकानि च ॥
पात्राणि भोजनार्थे च कृत्स्नं चोपस्करं च यत् ।
लोहं च कनकं चैव वस्त्राणि तु विशेषतः ॥
सम्भृत्यैतं सुसम्भारं तद्गृहेषु नियोजयेत् ।
योजयेच् चैव वृत्त्यर्थं शक्तितो वा शतं शतम् ॥
पृथक् पृथग् लाङ्गलानां निवर्तनशतार्धतः ।
विषयं कर्वटं खेटं ग्रामं ग्रामार्धम् एव वा ॥
[६९१] योजयेत् सोममूर्तिं च चिन्तितेषु द्विजेषु वै ।
एकादशैव तास् तत्र दाम्पत्योमाहरात्मकाः ॥
विचिन्त्य परया भक्त्या तद्गृहेषु प्रवेशयेत् ।
ग्राहयेद् अग्निहोत्राणि प्रवेश्यैतान् द्विजोत्तमान् ॥
विधिपूर्वं यथान्यायम् आत्मनः श्रेयसे नरः ।
अदुष्टकुलजानां च विधिर् एषां चिरन्तनः ॥
शिवभक्त्या विभक्तानां द्विजानां कारयेत् सदा ।
यश् च प्रेष्याण् द्विजान् मूढो योजयेद् धव्यकव्ययोः ॥
न भवेत् तत्फलं तस्य चैदिकीयं श्रुतिर् ध्रुवा ।
यज्ञदानं व्रताद्यं च तीर्थयात्रादिकं च यत् ॥
यस् त्व् एवं कारयेज् जन्तुं तेन सर्वम् अनुष्ठितम् ।
स यात्य् अर्कसमानाभं विमानं रत्नमालिनम् ॥
आरुह्य तत् पदं पुण्यं सुरस्त्रीभिर् अलङ्कृतम् ।
विमानैश् चापरैर् दिव्यैः सहस्रैः परिवारितः ॥
सर्वलोकगतान् भोगान् भुक्त्वा तस्मिन् प्रपद्यते ।
ज्ञात्वा स्ववित्तसामर्थ्यम् एकं चोद्वाहयेद् द्विजम् ॥
तेन प्राप्नोति तत् स्थानं शिवभक्तो नरो ध्रुवम् ।
स्थानेन स्थानसम्प्राप्तिर् विधिदत्तेन जायते ॥
अथ राजस्थापनम् । आदित्यपुराणे बृहस्पतिश्रुतौ च ।
भूम्पालं च्युतं राज्याद् यस् तु संस्थापयेत् पुनः ।
तस्य वासो मुनीन्द्रेह नाकपृष्ठे न संशयः ॥
[६९२] विष्णुधर्मोत्तरे ।
भूपालं यं च्युतं राज्यात् स्वराज्ये स्थापयेत् पुनः ।
स याति शक्रसालोक्यं यावच् छक्राश् चतुर्दश ॥
ततो मानुष्यम् आसाद्य राजा भवति धार्मिकः ।
तस्माद् दानं श्रीविहीने दातव्यं भूतिम् इच्छता ॥
श्रीविहीनेषु यद् दत्तं तद् अनन्तं प्रकीर्तितम् ॥
तथा ।
स्थानभ्रष्टस्य यः कुर्याद् भूयस् त्व् आरोपणं नरः ।
नाकलोकम् अवाप्नोति चिरं तेनेह कर्मणा ॥
कन्यादानप्रसङ्गेन द्विजातिस्थापनम् उक्तं क्रमप्राप्तस्य कपिलादानस्य् गोदानप्रकरणे निरूपितत्वात् पर्यवसितानि, दशमहानानीति ।
इति श्रीमहाराजाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वरसकल-
विद्याविशारदश्रीहेमाद्रिविरचिते चतुर्वर्गचिन्तामणौ
दानखण्डे दशमहादानप्रकरणम् ॥
[६९३]
अथ दशमो ऽध्यायः
अथ कृष्णाजिनदानान्य् अभिधीयन्ते ।
यो मन्यते सततम् अध्वरदीक्षणेषु
क्षौमाम्बराद् अपि मृदूनि मृगाजिनानि ।
हेमाद्रिर् एष तद् अशेषम् अशेषम् उक्तं
कृष्णाजिनप्रमुखदानविधानम् आह ॥
तत्सङ्ग्रहश्लोकास् तु । सौरपुराणे ।
कृष्णाजिनं च महिषीं मेषीं च दशधेनवः ।
ब्रह्मलोकप्रदायीनि तुलापुरुष एव च ॥
तत्र कृष्णाजिनदाने यमः ।
गोभूहिरण्यसंयुक्तं मार्गम् एकं ददाति यः ।
सर्वदुष्कृतकर्मापि सायुज्यं ब्रह्मणो व्रजेत् ॥
मरीचिः ।
कृष्णाजिनोभयमुखीं यो दद्याद् आहिताग्नये ।
सप्तजन्मकृतं पापं तत्क्षणाद् एव नश्यति ॥
[६९४] कात्यायनः ।
कृष्णाजिने तिलान् कृत्वा हिरण्यं मधुसर्पिषी ।
ये प्रयच्छन्ति विप्राय न ते शोच्याः कृताकृते ॥
सर्वांश् च लोकांश् चरति कामचारविहङ्गमः ।
आहूतसम्प्लवं यावत् स्वर्गलोके महीयते ॥
कृष्णाजिनसमं दानं न चास्ति भुवनत्रये ।
प्रतिग्रहो ऽपि पापीयान् इति वेदविदो विदुः ॥
कृष्णाजिनं तु यो भक्त्या ब्राह्मणाय प्रयच्छति ।
स तिष्ठेद् वैष्णवे लोके यावच् चन्द्रार्कतारकम् ॥
कृष्णाजिनं तु यः पश्येद् दीयमानं तु भक्तितः ।
सो ऽपि पापैः प्रमुच्येत आजन्मजनितैर् अपि ॥
ब्रह्मणा पूर्वरूपं तु कृष्णाजिनं विनिर्मितम् ।
संसिद्धये च योगानां श्राद्धानां च सुसिद्धये ॥
अह्नो रूपं सितं तस्य कृष्णं रात्रिमयं वपुः ।
बहुरूपं तु सन्ध्याया विज्ञेयं तं नराधिप ॥
कृष्णाजिनस्य सामानि शुक्लानि च ऋचस् तथा ।
यजूंषि बहुरूपाणि श्रुतिदेहश् चरेन् मृगः ॥
स्वेच्छया रमते यत्र स देशो याज्ञिकः स्मृतः ।
इतरे म्लेच्छदेशास् तु श्रुतिधर्मविवर्जिताः ॥
न कृष्णेन विना यज्ञो न श्राद्धं न क्रिया क्वचित् ।
भवन्ति धर्मशास्त्राणि वेदकार्याणि पार्थिवः ॥
[६९५] तद्दानं सर्वदानानाम् अधिकं श्रुतिकर्मणाम् ॥
आह विष्णुः ।
अथ वैशाख्यां पौर्णमास्यां कृष्णमृगाजिनं सखुरं सशृङ्गं रौप्यखुरं मुक्तालाङ्गूलभूषितं कृत्वा आविकेन च वस्त्रेण प्रसारिते प्रसारयेत् । ततस् तिलैः प्रच्छादयेत् । सुवर्णनाभं च कुर्याद् अहतेन वासोयुगेन प्रच्छादयेत् । सर्वरत्नगन्धैश् चालङ्कुर्यात् । चतसृषु च दिक्षु चत्वारि तैजसानि पात्राणि क्षीरदधिमधुसर्पिःपूर्णानि निधायाहिताग्नये ब्राह्मणाय वासोयुगप्रच्छादिताय दद्यात् ।
अथ च गाथा भवन्ति ।
यस् तु कृष्णाजिनं दद्यात् सखुरं शृङ्गसंयुतम् ।
तिलैः प्रच्छाद्य वासोभिः सर्वरत्नैर् अलङ्कृतम् ॥
ससमुद्रगुहा तेन सशैलवनकानना ।
चतुरन्ता भवेद् दत्ता पृथिवी नात्र संशयः ॥
कृष्णाजिने तिलान् कृत्वा हिरण्यं मधुसर्पिषी ।
ददाति यस् तु विप्राय सर्वं तरति दुष्कृतम् ॥
मत्स्यपुराणे ।
मनुर् उवाच ।
कृणाजिनप्रदानस्य विधिं गालं ममानघ ।
ब्राह्मणं च समाचक्ष्व तत्र मे संशयो महान् ॥
[६९६] मत्स्य उवाच ।
वैशाखी पौर्णमासी च ग्रहणं शशिसूर्ययोः ।
पौर्णमासी तु या माघे आषाढी कार्तिकी तथा ॥
उत्तरायणद्वादशी वा तस्यां दत्तं महाफलम् ।
आहिताग्निर् द्विजो यश् च तद् देयं तस्य पार्थिव ॥
यथा येन विधानेन तन् मे निगदतः शृणु ।
गोमयेनोपलिप्ते तु शुचौ देशे च पार्थिव ॥
आदाव् एव समास्तीर्य शोभनं वस्त्रम् आविकम् ।
ततः सशृङ्गं सखुरम् आस्तरं कृष्णमार्गणम् ॥
कर्तव्यं रुक्मशृङ्गं च रौप्यं दन्तं तथैव च ।
लाङ्गूलं मौक्तिकैर् युक्तं तिलच्छन्नं तथैव च ॥
तिलैर् आत्मसमं कृत्वा वाससाच्छादयेद् बुधः ।
तिलैस् तु शिखरं कृत्वेति क्वचित् पाठः ।
सुवर्णनाभं तत् कुर्याद् अलङ्कुर्याद् विशेषतः ॥
रत्नैर् गन्धैर् यथाशक्त्या तस्य दिक्षु च विन्यसेत् ।
कांस्यपात्राणि चत्वारि दिक्षु दद्याद् यथाक्रमम् ॥
मृण्मयेषु च पात्रेषु पूर्वादिषु क्रमेण तु ।
घृतं क्षीरं दधि क्षौद्रम् एवं दत्वा यथाविधि ॥
अत्र सरत्नानि कांस्यपात्राणि चतसृषु दिक्षु विन्यसेत्, अन्यानि च मृण्मयानि पात्राणि घृतक्षीरदधिमधुपूर्णानि यथाक्रमं पूर्वादिदिक्षु स्थापनीयानीति ।
पञ्चक्स्य् तथा शाखाम् अव्रणं कुम्भम् एव च ।
[६९७] ब्राह्मोपस्थानकं कृत्वा शुभवित्तो निवेशयेत् ।
जीर्णवस्त्रेण पीतेन सर्वाङ्गानि च मार्जयेत् ॥
ब्राह्मोपस्थानकम् इति दानप्रदेशाद् बाह्ये, उप समीपे स्थानं यस्य स तथेति कुम्भविशेषणम्, मार्जयेद् इति दानानन्तरं स्नात्वा जीर्णवस्त्रेण प्रच्छादयेद् इत्य् अर्थः ।
धातुमयानि पात्राणि पादेष्व् अस्य प्रदापयेत् ।
यानि काम्यानि पापानि मया लोभात् कृतानि वै ॥
लोहपात्रप्रदानेन प्रणश्यन्तु ममाशु वै ।
तिलपूर्णं तु तत् कृत्वा वामपादे निवेशयेत् ॥
यानि पापानि काम्यानि कर्णोत्थानि कृतानि च ।
कांस्यपात्रप्रदानेन तानि नश्यन्तु मे सदा ॥
मधुपूर्णं तु तत् कृत्वा पादे वै दक्षिणे न्यसेत् ।
एतत् पात्रद्वयम्, पश्चिमपादयोः स्थापनीयम् ।
परापवादपैशून्यात् पृष्ठमांसस्य भक्षणात् ॥
तत्रोत्थितं च मे पापं ताम्रपात्रात् प्रणश्यतु ।
कन्यानृतं गवां चैव परदारप्रघर्षणम् ॥
रौप्यपात्रप्रदानेन क्षीप्रं नाशं प्रयाण्तु मे ।
ऊर्ध्वपादे त्व् इमे कार्ये ताम्रस्य रजतस्य च ॥
ऊर्ध्वपादे, अग्रपादयोः एकवचनम् अत्राविवक्षितम् । अत्र ताम्रपात्रं मधुपूर्णम्, दक्षिणपादे रजतपात्रम्, तिलपूर्णं वामपादे स्थापनीयम् ।
जन्मजन्मसहस्रेषु कृतं पापं कुबुद्धिना ।
सुवर्णपात्रदानात् तन् नाशयाशु जनार्दन ॥
[६९८] एतच् च सुवर्णपात्रम् अक्षतपूर्णं मध्यदेशे स्थापयेत् ।
हेममुक्ताविद्रुमं च दाडिमं बीजपूरकम् ।
प्रशस्तपत्रं श्रवणे खुरे शृङ्गाटकानि च ॥
एवं कृत्वा यथोक्तेन सर्वशाकफलानि च ।
तत्प्रतिग्रहविद् विद्वान् आहिताग्निर् द्विजोत्तमः ॥
स्नातो वस्त्रयुगछन्नः स्वशक्त्या चाप्य् अलङ्कृतः ।
प्रतिग्रहश् च तस्योक्तः पुच्छदेशे महीपते ॥
सुवर्णनाभिकं दद्यात् प्रीयतां वृषभध्वजः ॥
इदम् इह दानवाक्यम् ।
ॐ अद्य अमुकसगोत्रायेत्यादि इदं कृष्णाजिनं कुशोपरिगतकम्बलोपरि स्थितम्, वस्त्रयुगप्रच्छादिततिलराशिम्, सुवर्णशृङ्गम्, रौप्यखुरम्, रौप्यदन्तं मुक्ताफलशाङ्गूलम्, सुवर्णनाभं पञ्चरत्नालङ्कृतं गन्धपुष्पान्वितं चतुर्दिगवस्थितघृतक्षीरदधिमधुपूर्णपात्रचतुष्ठयसहितं सकांस्यपत्रं शिवदैवतम् अमुककामस् तुभ्यम् अहं सम्प्रददे, न ममेति, अद्य अमुकसगोत्रायेत्यादि एतत् कृष्णाजिनदानप्रतिष्ट्ःआर्थं दक्षिणाम् इदं सुवर्णं तुभ्यम् अहं सम्प्रददे न ममेति ।
अनेन विधिना दद्याद् यथावत् कृष्णमार्गणम् ।
न स्पृश्यः स द्विजो राजन् चितियूपसमो हि सः ॥
दाने च श्राद्धकालेन दूरतः परिवर्जयेत् ।
स्वगृहात् प्रेष्य तं विप्रं मण्डले स्नानम् आचरेत् ॥
तद् वस्त्रं कुम्भसहितं नीत्वा क्षेप्यं चतुष्पथे ॥
अहतम् अपरिहितम् अप्रक्षालितं च वीतः, कृतपरिधानः ।
[६९९] दक्षिणासङ्ख्या तु गरुडपुराणे ।
शतनिष्कसमोपेतं तदर्धार्धम् अथापि वा ।
अतो न्यूनं न दातव्यम् अधिकं फलम् अर्जितम् ॥
उत्तमं तु शतेनैव मध्यमं तु तदर्धतः ।
तदर्धेन कनिष्ठं तु देयं कृष्णमृगाजिनम् ॥
न वित्तशाठ्यं कुर्वीत फलहानेस् तु कारणात् ॥
मत्स्यपुराणे ।
कृतेनानेन या तुष्टिर् न सा शक्या सुरैर् अपि ।
वक्तुं च नृपतिश्रेष्ठ तथाप्य् उद्देशतः शृणु ॥
समग्रभूमिदानस्य फलं प्राप्नोति मानवः ।
सर्वांस् तु लोकांश् चरति कामचारी विहङ्गमः ॥
आहूतसप्लवं यावत् स्वर्गम् आप्नोत्य् असंशयम् ।
न पितृपुत्रमरणं वियोगं भार्यया सह ॥
धनदेशपरित्यागं न चैवेहाप्नुयात् क्वचित् ॥
कृष्णाजिनं कृष्णमृगस्य चर्म
दत्वा द्विजेन्द्राय समाहिताय ।
यथोक्तम् एतन् मरणं न शोचेत्
प्राप्नोत्य् अभीष्टं मनसः फलं तत् ॥
वैष्णवपदाधिकारे ।
कालिकापुराणे ।
ये ऽपि रुक्मादिपत्रे च हुत्वा वह्निं ददन्ति च ।
तिलद्रोणसमायुक्तं वस्त्रयुग्मेन वेष्टितम् ॥
[७००] पलार्धार्धम् अथार्धं वा वित्तमान् हेमसंयुतम् ।
सूक्ष्मयुग्मेन वस्त्रेण अन्येनाच्छादयेद् द्विजम् ॥
सोदकं चापरं रुक्मं सतिलं न्यस्य तत्करे ।
ततः कृष्णाजिनं दद्यात् तिलद्रोणान्वितं च यत् ॥
दत्वा तु भोजयेत् तत्र नत्वा चैव विसर्जयेत् ।
अयने विषुवे चैव चन्द्रसूर्यग्रहे तथा ॥
युगादौ वा प्रयच्छन्ति विधिना ये तु वै द्विजे ।
ते ऽपि तत्पदम् आसाद्य दशांशं ब्राह्म आयुषः ॥
क्रीडन्ति विविधैर् भोगैः कलारूपगुणान्विताः ।
अनेन च विधानेन दशद्रोणप्रदायकः ॥
आब्रह्माण्डभवं कालं मोदते स पुरोत्तमे ।
यो घटं पयसा पूर्णं हेमपद्मनियोजितम् ॥
सम्पूज्य वस्त्रयुग्मेन दद्यात् सो ऽपि व्रजेद् ध्रुवम् ॥
आदित्यपुराणे ।
वैशाख्यां पूर्णमास्यां च तिलदानं ददन्ति ये ।
कृष्णाजिनं च सम्पूर्णं प्रच्छाद्याष्टौ तिलस्य वै ॥
स्वर्णशृङ्गं रौप्यखुरं मुक्तालाङ्गूलभूषितम् ।
श्वेतवस्त्रयुगोपेतं कृष्णचैलाद्यलङ्कृतम् ॥
लोहभाजनचतुष्कं च घृतक्षौद्रेण पूरितम् ।
दधिक्षीरं तथा चैव सम्पूर्णं च ततः परम् ॥
परिक्षिते गुणाधारे ब्राह्मणे सुसमाहिते ।
अग्निहोत्ररते शान्ते देवद्विजपरायणे ॥
[७०१] नित्यस्नाते शौचपरे सर्वशास्त्राद्यलङ्कृते ।
तस्मै तद् दीयते दानं कृष्णाजिनम् अनुत्तमम् ॥
सप्तद्वीपसागरां वै सशैलवनकाननाम् ।
पृथिवीं रत्नसम्पूर्णां दत्वा भवति यत् फलम् ॥
उद्धृत्य नरकाद् घोरात् कुलान्य् एकोत्तरं शतम् ।
गच्छति ब्रह्मलोकं च विमानैश् चन्द्रसन्निभैः ॥
चामरैर् धूयमानस्य गीतवंशमनोरमैः ।
अप्सरोभिः परिवृतः पताकाध्वजसङ्कुलः ॥
जयघोषश् च क्रियते तस्याग्रे सुरकिन्नरः ।
ब्रह्मलोकं ततः प्राप्य प्रविश्य च पुरीम् इमाम् ॥
सर्वरत्नोज्वलां दिव्यां मुक्ताजालविभूषिताम् ।
प्रवालस्तम्भशोभाढ्यां सौवर्णालङ्कृतां मुने ॥
त्रिंशत्कोट्यस् तु लक्षाणि अशीत्यभ्यधिका पुरा ।
सिंहासनोपविष्टस् तु श्वेतवस्त्रपरिछदः ॥
वसते तत्र वै कालं यावद् आहूतसम्प्लवम् ।
यदि मानुष्यम् आयाति कदाचित् कालपर्यये ॥
चतुर्वेदगृहं जन्म जायते महतां कुलम् ।
रूपवान् बलवांश् चैव दीर्घायुः प्रियदर्शनः ॥
वल्लभः सर्वनारीणां दाता भोक्ता तथैव च ॥
इति कृष्णाजिनदानविधिः \
अथ वह्निपुराणे ।
ब्रह्मा उवाच ।
विधिना केन दातव्या कृष्णाजिनयुतास् तिलाः ।
[७०२] एतन् मे सर्वम् अचक्ष्व यदि तुष्टो ऽसि मे प्रभो ॥
यम उवाच ।
ग्रहणे अयने चैव सङ्क्रान्तौ सर्वपर्वसु ।
युगादिषु युगान्तेषु द्वादश्यां नियतः शुचिः ॥
समुपोष्य समभ्यर्च्य केशवं कल्मषापहम् ।
द्वादश्यां तु चतुर्दश्य्ं कृष्णायां तु विशेषतः ॥
संलिप्य गोमयेनाथ चतुर्हस्तप्रमाणतः ।
वस्त्राणि प्रस्तरेद् भूम्याम् अजिनं तत्र विन्यसेत् ॥
कृणैस् तिलैस् तु सञ्छन्नं कृत्वा तत्रोपरि न्यसेत् ।
मधुसर्पिर्युतं पात्रं हैमं चौदुम्बरं तथा ॥
सुवर्णं प्रक्षिपेत् तत्र पलं वा त्रिपलं शतम् ।
शक्तितो दानम् एवं हि भक्तिर् एवात्र कारणम् ॥
सञ्छाद्य तच् छुभैर् वस्त्रैः पात्रं यज्ञोपवीतिनम् ।
कुम्भाश् चाष्टौ तथा दिक्षु सवस्त्राः पात्रसंयुताः ॥
कृष्णो ऽस्मि कर्मणा कृष्ण कृष्णाजिनम् अतस् तिलैः ।
क्ष्णैर् युतं प्रतिच्छस्व कृष्णः सम्प्रीयताम् इति ॥
एवं दत्वा द्विजेभ्यस् तु दद्यात् पश्चाच् च दक्षिणाम् ।
तिलाहारो भवेत् तत्र ब्राह्मणान् भोजयेत् ततः ॥
एवं कृष्णाजिनं दत्वा नरो विगतकल्मषः ।
पितामहान् समुद्धृत्य स्वर्गं याति न संशयः ॥
[७०३] तत्र भोगांश् चितं भुक्त्वा पितृपितामहैर् वृतः ।
स नरो ऽस्य प्रभावाद् धि याति विष्णोः परं पदम् ॥
इति अपरकृष्णाजिनदानविधिः
अथ मधमकृष्णाजिनदानम् । तत्र पुलस्त्यः ।
अथातः कृष्णाजिनदानविधिं वक्ष्यामः । कार्तिक्यां पौर्णमास्यां वैशाख्यां वा चन्द्रसूर्यग्रहे विषुवत्य् अयनयोर् वा कृष्णमृगाजिनं सखुरं सशृङ्गम् अव्रणं मनोहरं हिरण्यशृङ्गं रौप्यखुरं मुक्तालाङ्गूलभूषितम् अन्तर्मांसं बहिर्लोमं प्राक्ग्रीवं स्यात्, गोमयलिप्तायां भुवि, कुतपान् आविस्तीर्य तस्मन् अविकं वस्त्रं प्रसार्य तस्मिन्न् अजिनं हिरण्यनाभं कृत्वा, तिलैः प्रच्छाद्य तद्रूपं कृत्वा वस्त्रयुगेन तिलान् प्रच्छदेयेत्, चतसृषु दिक्षु चत्वारि पात्राणि ताम्ररौप्यकांस्यसौवर्णानि यथाशक्तितः पूर्वस्यां दिशि क्षीरपूर्णं दक्षिणस्यां दिशि दधिपूर्णं पश्चिमस्यां दिशि घृतपूर्णम् उत्तरस्यां दिशि क्षौद्रपूर्णं निदध्यात्, चतसृषु दिक्षु चतस्रो गृष्टीर् निदध्यात्, पश्चिमे भागे सुसमिद्धम् अग्निं कृत्वा परिसमूह्य पर्युक्ष्य परिस्तीर्य प्रागग्रे दर्भे महाव्याहृतिभिस् तिलान् घृताक्तान् जुहुयात्, शूद्रस्य नमस्कारेणेति तत आहिताग्नये ब्राह्मणाय सर्वाङ्गसम्पूर्णाय पात्रसंयुक्ताय विदुषे वस्त्रयुगोपच्छन्नायालङ्कृताय दद्यात्, सर्वगुणविशिष्टं कृष्णाजिनं ददामीति नाभिं स्पृशन्न् अदितये कृष्णाजिनं प्रतिगृह्णामीति असाव् अपि गृह्णीयात्, प्रतिग्रहं वाचयेत् ।
[७०४] अत्र हिरण्यशृङ्ग्म् इत्यादौ हिरण्यादिपरिमाणं यथारुचि वित्तशाठ्यरहितेनाचरणीयम् । बहिर्लोमेति उत्तरलोमेत्य् अर्थः, कुतपाः कुशाः । आविकं वस्त्रकम्बलः । गृष्टिः एकवारप्रसूता गौः । नाभिं स्पृशन्न् इति तिलमयीं सुवर्णाद्यलङ्कृतां नाभिं दाता स्पृशन्न् इत्य् अर्थः । अदितये कृष्णाजिनम् इति, प्रतिग्रहमन्त्रः । असाव् इति प्रतिग्रहीता स्वनामोच्चारयन् पुच्छदेशे प्रतिगृह्णीयात् ।
विष्णुधर्मोत्तरे ।
कृष्णाजिनविधिं ब्रूहि मम माधव पृच्छतः ।
अन्यान्य् अपि तु दानानि सर्वपापहराणि च ॥
श्रीभगवान् उवाच ।
वैशाख्यां पौर्णमास्यां च कार्त्तिक्यां विषुवे तथा ।
अयने ग्रहणे वापि दद्यात् कृष्णमृगाजिनम् ॥
भूमौ गोमयलिप्तायां दर्भान् आस्तीर्य मानवः ।
तत्राविकं तथा वस्त्रं प्रागग्रं च प्रसारितम् ॥
तस्मिन् कृष्णाजिनं भूप निर्मांसं सम्प्रसारयेत् ।
प्राग्ग्रीवम् उत्तरमुखं सशृङ्गं सखुरं तथा ॥
स्वर्णशृङ्गं रपुयखुरं मुक्तालाङ्गूलभूषितम् ।
तिलैः सञ्च्छाद्य कृष्णैस् तु यथाशक्त्या यथाविधि ॥
सौवर्णं क्षीरपात्रं तु पूर्वस्यां दिशि दापयेत् ।
राजतं दधिपात्रं तु पूर्वस्यां दिशि दापयेत् ॥
ताम्रपात्रं घृतपूर्णं पश्चिमायां निधापयेत् ।
शङ्खं सुनाभिं सुमुखं क्षौरपूर्णं तथोत्तरे ॥
[७०५] चतस्रषु तथा दिक्षु चतस्रो गृष्टिकाः क्रमात् ।
तत्स्वरूपं तु राजेन्द्र तिलान् आच्छाद्य वाससा ॥
पश्चिमे तु ततो भागे विधिना स्थाप्य पावकम् ।
तिलान् घृताक्तान् जुहुयाद् व्याहृतिभिः समाहितः ॥
आहिताग्निं ततो विप्रम् अव्यङ्गाङ्गं सुपाठकम् ।
प्रवक्तारं याज्ञिकं च दातारं स्मृतिवित् परम् ॥
सम्पूज्य वस्त्रयुग्मेन अलङ्कारैस् तु शोभितैः ।
दिशः सम्प्रोक्ष्य गायत्र्या तिलमिश्रेण वारिणा ॥
कृष्णाजिनं द्विजश्रेष्ठ सशिरो गृष्टिभिर् युतम् ।
ददामि प्रतिगृहीष्व प्रीयतां धर्मराड् इति ॥
नाभिं स्पृशंस् तन् निनयेत् प्रतिगृह्णात्व् असाव् इति ।
अदितिर् द्यौर् इति जपेत् प्रणवेनादिना ततः ॥
प्रणवं मन्त्रं प्रतिग्रहाद्यं तयोः प्रतिग्रहीता जपेत् ।
गोभूहिरण्यसंयुक्तं मार्गम् एतद् ददाति यः ।
गोभूहिरण्यसंयुक्तम् इत्य् अत्र यथाशक्त्या गोभूहिरण्यं दक्षिणा । स सर्वपापकर्मापि सायुज्यं ब्रह्मणो व्रजेत् ।
इति मध्यमकृष्णाजिनदानविधिः ।
अथ महाकृष्णाजिनदानम् । विष्णुधर्मोत्तरे ।
श्रीभगवान् उवाच ।
मुण्डिते या तु या प्रोक्ता प्रायश्चित्तं पुराभवत् ।
हत्यायां ब्राह्मणस्यैव तां प्रवक्ष्यामि मानद ॥
[७०६] भूमिं प्राक्प्रवणां शुद्धां गोमयेनानुलेपयेत् ।
तस्यां हरितदर्भांस् तु धनान् आस्तीर्य यत्नतः ॥
मध्ये कृष्णाजिनं राजन् नार्द्रं सर्वाङ्गिकं दृढम् ।
आस्तीर्य शृङ्गसहितं प्राग्ग्रीवं शिरसा सह ॥
केतितं ब्राह्मणं पूर्वं पत्रलक्षणलक्षितम् ।
केतितम् इति निमन्त्रितम् इत्य् अर्थः ।
प्रक्षाल्य पादौ तस्यैव दद्यात् कृष्णे तु वाससी ॥
सौवर्णे कुण्डले देये कण्ठाभरणम् एव च ।
सौवर्णे कङ्कणे देये हस्ताभरणम् एव च ॥
स्रग्दामभिस् तु सम्पूज्य शृङ्गयोर् मध्यदेशतः ।
प्राङ्मुखं ब्राह्मणं स्थाप्य मृगं सौवर्णशृङ्गिकम् ॥
तिलैः प्रच्छादयेत् कृष्णैर् ब्राह्मणं शिरसा सह ।
यदा शिरो ब्राह्मणस्य मग्नं भवति भूभुज ॥
जपेद् वै मूलमन्त्रं तु गायत्रीं वा समाहितः ।
पापं सञ्चिन्त्य चित्तेन हननं ब्राह्मणस्य तु ॥
नाभिमात्रं समुद्धृत्य तिलैः सञ्छादयेत् पुनः ।
सञ्छादिते पुनर् विप्रे जपेन् मन्त्रं तु पूर्ववत् ॥
पुनर् उद्धृत्य विप्रं तु नाभिमात्रं तु पार्थिव ।
पुनः सञ्छादयेत् तस्य शिरः कृष्णैस् तिलैस् तथा ॥
त्रिकृत्वस् तु निमज्यैवं दाता दद्यान् मृगाजिनम् ।
पात्रं मनसि सञ्चिन्त्य तोयम् अप्सु विनिक्षिपेत् ॥
प्रीयतां विश्वकर्मा तु विश्वात्मा विश्वरूपधृक् ।
एवं कृष्णाजिनं दत्वा ब्रह्महत्यां व्यपोहति ॥
[७०७] पापिष्ठः परमं स्थानं याति यत्र न शोचति ।
इति ते गुह्यम् आख्यातं दानं सर्वाघनाशनम् ॥
मुण्डितेन तु कृच्छार्य ब्राह्मणे घातिते सति ।
सहस्रं दक्षिणां दद्यान् नियतं ब्राह्मणाय तु ॥
इति महाकृष्णाजिनदानविधिः ।
अथ कृष्णाजिनप्रसङ्गेन मृगदानम् उच्यते । आह बौधायनः ।
हरिणं कारयेत् ताम्रं घनन्तु दशभिः पलैः ।
तदर्धेन तदर्धेन शृङ्गे रूप्यमये दृढे ॥
तण्डुलोपरि संस्थाप्य ब्राह्मणाय निवेदयेत् ।
आढकत्रितयं वापि तदर्धं वा स्वशक्तितः ॥
पादुषे चतुर्षु स्थाप्य कांस्यपात्रचतुष्टयम् ।
वायुदैवतमन्त्रैश् च होमं तत्र प्रकल्पयेत् ॥
समिदाज्यचरुं कृत्वा शतम् अष्टोत्तरं द्विज ।
अष्टाविंशतिर् एवाथ दानमन्त्रेण कारयेत् ॥
वायो चरसि भूतानाम् अन्तस् त्वं लोकपावन ।
वाहनस्य प्रदानेन वातव्याधिं विनाशय ॥
अनेन कृतमात्रेण यथोक्तेन विधानतः ।
वातव्याधिविनिर्मुक्तो नीरुजः सुखम् अश्नुते ॥
इति मृगदानविधिः ।
वायुपुराणे ।
गुरोर् अलीकनिर्बन्धाद् अपतन्त्री भवेन् नरः ।
[७०८] वक्ष्ये तस्य प्रतीकारं दानं होमादिसंयुतम् ॥
पलेन वा तदर्धेन तदर्धेनाथ वा पुनः ।
कारयेद् धरिणं हैमं वायोर् वाहनम् उत्तमम् ॥
शृङ्गे च राजते कार्ये पर्वत्रयसमन्विते ।
तण्डुलोपरि संस्थाप्य ब्राह्मणाय निवेदयेत् ॥
आढकत्रितयं यद् वा तदर्धं वाथ शक्तितः ।
पादेषु चतुर्षु स्थाप्य कांस्यपात्रचतुष्टयम् ॥
वायुदैवतमन्त्रैश् च होमं तत्र प्रकल्पयेत् ।
समिदाज्यचरुं हुत्वा शतम् अष्टोत्तरं द्विजः ॥
आचार्यः सर्वशास्त्रज्ञः सर्वविद्यासु निष्ठितः ।
एतद्दानप्रयोगज्ञो वेदवेदाङ्गपारगः ॥
अग्नेर् ईशानदिग्भागे सुकुम्भं स्थापयेत् सुधीः ।
नवरत्नानि देयानि अलाभे स्वर्णम् एव तु ॥
निक्षिपेन् मृत्तिकां वापि रोचनां गुग्गुलं तथा ।
चतुर्भिर् ब्राह्मणैश् चापि शान्तिकर्म प्रकल्पयेत् ॥
आपोहिष्टादिभिर् मन्त्रैर् हिरण्यादिभिर् एव च ।
पवमानानुवाकेन देवस्य त्वेति चैव हि ॥
ततः पीठे समासाइनम् अभिषिञ्चेयुर् आदृताः ।
वस्त्रेणावेष्टितं कुम्भम् आदाय चतुरा द्विजाः ॥
ततः शुक्लाम्बरधरो नरो शुक्लानुलेपनः ।
आचार्येण समं पूजां हरिणस्य प्रकल्पयेत् ॥
वायोः शतेन मन्त्रेण तल्लिङ्गेनाथ वा पुनः ।
ततस् तं हरिणं दद्यात् प्राङ्मुखाय ह्य् उदङ्मुखः ॥
[७०९] मन्त्रेणानेन विधिना आचार्यायाथ भक्तितः ।
वायो चरसि भूतानाम् अन्तस् त्वं लोकपावन ॥
प्राणापानव्यानोदानसमानाद्यभिधानतः ।
अलीकं यत् कृतं देव पूर्वजन्मनि मारुत ॥
त्वं वेत्सि सर्वम् एतद् धि परमात्मा यथैव हि ।
वाहनस्य प्रदानेन अपतन्त्रं विनाशय ॥
ब्राह्मणानां चतुर्णां च यथाशक्त्या च दक्षिणा ।
आचार्यस् त्व् अहतं वासो गृहीत्वा शुक्लम् एव तु ॥
तेन तस्य यथालिङ्गम् अङ्गानि विसृजेत् सुधीः ।
अक्षिभ्याम् अनुवाकेन यथालिङ्गं प्रयत्नतः ॥
दर्भाग्रमुष्टिना चैव दर्भपिञ्जलकैर् अपि ।
हिरण्यपर्णाः शुचयः आपोहिष्टेति वै पुनः ॥
पवमानानुवाकेन आपो अस्मांस् तथैव च ।
अन्यैश् च पावनैर् मन्त्रैर् यजुर्भिर् लोकपूजितैः ॥
ब्राह्मणान् भोजयेच् चापि यथाविभवतो नरः ।
एवं कृत्वा तु नियतम् अपतन्त्राद् विमुच्यते ॥
आयुरारोग्यसम्पन्नः सुस्थो भवति मानवः ।
महाव्याधिषु चान्येषु दानम् एतत् करोति यः ।
तत्तद्दोषैर् विनिर्मुक्तो नीरुजो भवति प्रभो ॥
इत्य् अपरमृगदानविधिः ।
अथ महिषीदानम् । विश्वामित्रः ।
महिषीं सुप्रजां राजन् क्षीराढ्यां युवतिं तथा ।
[७१०] दत्वा चैव तु कार्त्तिक्यां धेनूपस्करसंयुताम् ॥
दशधेनुप्रदानेन यत् फलं तत् समश्नुते ।
प्राप्नोति पुत्रपौत्रांश् च सूर्यलोकं च गच्छति ॥
भविषोत्तरे ।
श्रीभगवान् उवाच ।
महिषीदानमाहत्म्यं कथयामि युधिष्ठिर ।
पुण्यं पवित्रम् आयुष्यं सर्वकामसुखप्रदम् ॥
चन्द्रसूर्यग्रहे पुण्ये कार्त्तिक्याम् अयने तथा ।
शुक्लपक्षश् चतुर्दश्यां सूर्यसङ्क्रान्तिवासरे ॥
यदा वा जायते वित्तं चित्तं च कुरुनन्दन ।
तदैव देया महिषी संसारभयभीरुणा ॥
सुपयोधरा सुजघना सुशृङ्गी सुखुरा तथा ।
प्रथमप्रसूता तरुणी सुशीला दोषवर्जिता ॥
सुवर्णशृङ्गतिलका घण्टाभरणभूषिता ।
रक्तवस्त्रावृता रम्या ताम्रदोहनिकान्विता ॥
पिण्याकपिटकोपेता सहिरण्या च शक्तितः ।
सप्तधान्ययुता देया ब्राह्मणे वेदपारगे ॥
पुराणपाठके तद्वज् ज्योतिःशास्त्रविदे तथा ।
देया न वेदरहिते न बकव्रतिने क्वचित् ॥
द्रव्यैर् एभिः समायुक्ता पुण्ये ऽह्नि विधिपूर्वकम् ।
दद्यान् मन्त्रेण राजेन्द्र पुराणपठिते न तु ॥
इन्द्रादिलोकपालानां या राजमहिषी शुभा ।
[७११] महिषीदानमहात्म्यात् सास्तु मे सर्वकामदा ॥
दर्मराजस्य साहाय्ये यस्याः पुत्रः प्रतिष्ठितः ।
महिषासुरस्य जननी या सास्तु वरदा मम ॥
दानमन्त्रः ।
दद्यात् प्रदक्षिणी कृत्य ब्राह्मणे तां पयस्विनीम् ।
प्रतिग्रहः स्मृतस् तस्याः पृष्ठदेशे स्वयम्भुवा ॥
अत्रेदं दानवाक्यम् ।
ॐ अद्य अमुकसगोत्रायेत्यादि इमां महिषीं प्रथमप्रसूतां तरुणीं सुवर्णशृङ्गीं सुवर्णतिलकां सुवर्णाभरणां घण्टाताम्रदोहनकान्वितां पिण्याकपिटकोपेतां सप्तधान्यपुतां पादुकवतीं यमदैवताम् अमुककामस् तुभ्यम् अहं सम्प्रददे न मएत्य् उक्त्वा पूर्वोक्तं मन्त्रम् उदाहएत् ।
अमुकसगोत्रायेत्यादि एतन् महिषीदानप्रतिष्ठार्थं दक्षिणामिदं हिरण्यं तुभ्यम् अहं सम्प्रददे न ममेति ।
एवं दत्वा विधानेन ब्राह्मणस्य गृहं नयेत् ।
क्षमापयेत् ततो विप्रान् सुसन्तुष्टो भवेति च ॥
अनेन विधिना दत्वा महिषीं द्विजपुङ्गवे ।
सर्वान् कामान् अवाप्नोति इह लोके परत्र च ॥
या स्त्री ददाति महिषीं सा राजमहिषी भवेत् ।
महाराजः पुमान् राजन् व्यासस्य वचनं यथा ॥
यज्ञयाजी भवेद् विप्रः क्षत्रियो विजयी भवेत् ।
[७१२] वश्यस् तु धान्यधनवान् शूद्रः सर्वार्थसंयुतः ॥
तस्मान् नरेण दातव्या महिषी विभवे सति ।
पुत्रपौत्रप्रपौत्रार्थम् आत्मनः शुभम् इच्छता ॥
दशधेनुसमां राजन् महिषीं नारदो ऽब्रवीत् ।
विंशद्धेनुसमां व्यासः सर्वदानोत्तमां कविः ॥
सगरेण ककुत्स्थेन धुन्धुमारेण गाधिना ।
दत्ताः संस्कृत्य विप्रेभ्यो महिष्यः सर्वकामदाः ॥
महिषीदानमहात्म्यं यः शृणोति सदा नरः ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥
दुग्धाधिकां हि महिषीं नवमेघवर्णां
सन्तुष्टर्णकवतीं जघनाभिरमाम् ।
दत्वा सुवर्णतिलकां द्विजपुङ्गवाय
लोकद्वयं च जयतीह किम् अत्र चित्रम् ॥
इति महिषीदानविधिः ।
अथ मेषीदानम् । तत्र कश्यपः ।
यो ऽपि दद्याद् अविं चात्र ब्राःमणाय मनोरमाम् ।
सो ऽप्य् अग्निलोकम् आसाद्य भुङ्क्ते भोगान् सुशोभनान् ॥
विष्णुधर्मोत्तरे ।
मेषीम् अशेषपापघ्नीं दत्वा यात् परं पदम् ।
वारुणं लोकम् आप्नोति दत्वोरभ्रं नरोत्तम ॥
[७१३] भविष्योत्तरे ।
श्रीभगवान् उवाच ।
शृणु पार्थ परं दानं सर्वकिल्बिषनाशनम् ।
यद् दत्वा विविधं पापं सद्यो विलयम् ऋच्छति ॥
सुवर्णरोमां सौवर्णीं प्रत्यक्षां वा सुशोभनाम् ।
सुवर्णतिलकोपेतां सर्वालङ्कारभूषिताम् ॥
कौशेयपरिधानां च दिव्यचन्दनभूषिताम् ।
दिव्यपुष्पोपहारां तु सर्वधातुरसैर् युताम् ॥
सप्तधान्यसमायुक्तां फलपुष्पवतीं तथा ।
शतेन कारयेत् तां च सुवर्णस्य प्रयत्नतः ॥
यथाशक्त्याथ वा कुर्याद् वित्तशाठ्यं न कारयेत् ।
अयने विषुवे पुण्ये ग्रहणे शशिसूर्ययोः ॥
दुःस्वप्नदर्शने चैव जन्मर्क्षे तिथिसङ्क्षये ।
यदा वा जायते वित्तं चित्तं श्रद्धासमन्वितम् ॥
तदैव दानकालः स्याद् यतो ऽनित्यं हि जीवितम् ।
दद्यात् तीर्थे गृहे वापि यत्र वा रमते मनः ॥
तत्र संस्थाप्य देवेशम् उमया सह शङ्करम् ।
ब्रह्माणं सह गायत्र्या सश्रीकं श्रीधरं तथा ॥
रत्या सह तथानङ्गं लोकपालान् ग्रहान् अपि ।
तान् तु पूज्य विधानेन गन्धपुष्पनिवेदनैः ॥
उमाशङ्कररूपम् आह विश्वकर्मा ।
चर्माम्बरश् चतुर्बाहुः शूलखट्वाङ्गपाशधृक् ।
[७१४] पृषाङ्कः शङ्करो गौरी वामोत्सङ्गे स्थिता भवेत् ॥
ब्रह्मगायत्रीरूपं तु, पद्मपुराणोक्तब्रह्माण्डदाने द्रष्टव्यम् । लक्ष्मीनारायणयोस् तु हेमहस्तिरथदाने । रत्यनङ्गयोस् तु कल्पपादपदाने, लोकपालानां च, ब्रह्माण्डदाने, ग्रहरूपाणि च, ग्रहदानेषु वक्ष्यन्ते तानि (?) च यथाशक्ति सुवर्णमयानि कर्तव्यानीति ।
तदग्रे कारयेद् धोमं तिलाज्येन महीतले ।
अलङ्कृत्य द्विजं शान्तं वासोभिः परिपूज्य च ॥
तल्लिङ्गमन्त्रैर् होमश् च कर्तव्यो ज्वलिते ऽनले ।
ततस् तांस् तिलकुम्भस्थान् लवणाभिमुकस्थिताम् ॥
पूजयित्वा विधानेन मन्त्रम् एतम् उदीरयेत् ।
रोमत्वङ्मांसमज्जाद्यैः सर्वोपकरणैः सदा ॥
जगतः सम्प्रवृत्तो ऽसि त्वाम् अतः प्रार्थयेच् छिवम् ।
वाङ्मनःकायजनितं यत् किञ्चिन् मम दुष्कृतम् ॥
तत् सर्वं विलयं यातु त्वद्दानम् उपसेवितम् ।
एवम् उच्चार्य तां दद्याद् ब्राःमणाय कुटुम्बिने ॥
दानवाक्यं तु महिषीदानवद् अवगन्तव्यम्, केवलं महिषीस्थाने मेषीप्रयोग इति ।
नाभिभाषेत् ततो दत्वा न मुखं चावलोकयेत् ।
दुष्टप्रतिग्रहहतो विप्रो भवति पातकी ॥
नोर्णायुर् दक्षिणाहीना दातव्या नाविधानतः ।
दक्षिणा विधिना हीना दुःखशोकावहा भवेत् ॥
पुरा दत्तम् इदं दानं गौर्या दक्षगृहस्थया ।
[७१५] तेन शुभपतिर् लब्धः सर्वदेवनमस्कृतः ॥
इन्द्राण्या स्वर्णरोमाणां शतं दत्तं विधानतः ।
सर्वदेवपतिर् लब्धः साद्यापि दिवि मोदते ॥
नलेन दत्तम् एतद् धि राज्यं कृत्वा दिवं गतः ।
रुक्मिण्याहं पतिर् लब्धः सौभाग्यम् अतुलं तथा ॥
दानस्यास्य प्रभावेण पुत्रा बहुबलान्विताः ।
अपुत्रो लभते पुत्रम् अधनो लभते धनम् ॥
दत्वा दानं शुभाङ्गान्तिं विपुलां च तथा श्रियम् ।
य इमं शृणुयान् नित्यं दानकल्पम् अनुत्तमम् ॥
अहोरात्रकृतान् पापान् मुच्यते नात्र संशयः ॥
मेषीम् अशेषकलुषापहारातिशस्तां
दाने सदैव रसधातुयुतां सधान्याम् ।
ताम् आदरेण कुरुनन्दन देहि दत्वा
येनास्तपापतिमिरः सवितेव भासि ॥
इति मेषीदानविधिः ।
अथ मेषदानम् । तत्र बौधायनः ।
अग्नेर् मान्द्यं भवेत् तस्य यस् त्रेताग्निविनाशकः ।
वक्ष्यामि तत्प्रतीकारं यथोक्तं ब्रह्मणा पुरा ॥
पलार्धेन तदर्धेन तदर्धार्धेन वा पुनः ।
राजतं कारयेत् सौम्यम् अग्नेर् वाहनम् उत्तमम् ॥
[७१६] सौवर्णाश् च खुराः कार्याः श्वेतवस्त्रेण वेष्टयेत् ।
श्वेतमाल्यैः श्वेतगन्धैर् धूपं दद्यान् मधूत्कटम् ॥
तण्डुलोपरि संस्थाप्य पुनस् तं पूजयेत् सुधीः ।
तण्डुलानां (?) परीमाणं द्रोणद्वयम् उदाहृतम् ॥
आग्नेय्यां दिशि होमश् च समिदाज्यतिलैर् अपि ।
आचार्येण विनितेन सर्वशास्त्रार्थवेदिना ॥
बह्वृचेन च कर्तव्यस् तत्र मन्त्रान् इमान् शृणु ।
अग्निर् मूद्धति (?) मन्त्रेण समिद्धोमः प्रशस्यते ॥
अग्ने नयेत्य् आज्यहोमो ऽप्य् अग्निनाग्निस् तिलाक्षतैः ।
मन्त्राध्यायोक्तमन्त्रेण चाग्निसंस्थापनं भवेत् ॥
अग्नेः प्रागुत्तरे देशे शुभं कुम्भं तु विन्यसेत् ।
प्रणीतामोक्षपर्यन्ते कृते स्नानं विधीयते ॥
आपोहिष्ठेत्य् अपि ऋचं हिरण्येति चतुरृचम् ।
पवमानानुवाकेन मार्जयेद् रोगिणं ततः ॥
शन्नोदेव्यनुवाकेन शान्तिं चापि प्रकल्पयेत् ।
तस्मै हुतवते रोगी प्राङ्मुखाय सदक्षिणम् ॥
पूजिताय यथाशक्त्या दद्यात् तं तु सदक्षिणम् ।
देवानां योमुखं हव्यवाहनः सर्वपूजितः ॥
तस्य त्वं वाहनं पूज्यं देवैः सेन्द्रैर् महर्षिभिः ।
अग्निमान् यं पूर्वकर्मविपाकोत्थं तु यन् मम ॥
तत् (?) सर्वं नाशय क्षिप्रं जठराग्निं प्रवर्धय ॥
दानमन्त्रः ।
एवं विप्राय यो दद्याद् अग्नेर् वाहनम् उत्तमम् ।
[७१७] बलवान् अग्निमान् मर्त्यो जीवेद् वर्षशतं पुनः ।
ततः स्वबन्धुभिर् विप्रैः स्नात्वा भुञ्जीत मानवः ॥
इति मेषदानम् ।
अथ क्रमप्राप्तानां दशधेनुदानानां प्रागभिहितत्वान् मेषीदानप्रसङ्गाद् अजादानम् आरभ्यते । अत्राह सुमन्तुः ।
प्रजापतिस् तपस् तप्त्वा प्रजाम् उत्पाद्य यत्नतः ।
यज्ञार्थं तत्सुतं कल्प्य पशुं यज्ञसमुद्धृतौ ॥
द्विरूपं त्रिपुरं श्लक्ष्णं कृष्णसारं युवानकम् ।
असमाप्तेस् तु यज्ञानां सत्राणां पितृकर्मणाम् ॥
तत्समं विहितं देवैस् तद्दानं च निगद्यते ।
अजापालो महीपालो ह्य् अजादानैर् दिवं गतः ॥
अयने विषुवे चैव युगादौ ग्रहनेषु च ।
अमावास्याम् अजादानं पौर्णमास्यां च शस्यते ॥
विधिं तस्य प्रवक्ष्यामि विश्वामित्रेण निर्मितम् ।
सर्वरत्नोपसम्पन्नां सप्तधान्योपरि स्थिताम् ॥
वस्त्रमाल्योपमालां च भूषितां पशुजानकीम् ।
वज्रनेत्रां हेमशृङ्गीं ताम्रपृष्ठां सदोहनीम् ॥
ससुतां रौप्यपादां च कुक्षौ दद्यात् तिलोदकम् ।
गोदानवत् प्रयुञ्जीत मन्त्रेणानेन संयतः ॥
मन्त्रवासे अजे श्लक्ष्ने पज्ञसम्पत्करे शुभे ।
सृष्टा त्वं दह मे पापं जन्मान्तरशतैः कृतम् ॥
**[७१८] **दानमन्त्रः ।
एवं समुच्चरेद् भक्त्या द्विजहस्ते जलं क्षिपेत् ।
प्रीयतां यज्ञनाथाय वासुदेवाय वै नमः ॥
एवं प्रदक्षिणीकृत्य सूर्यं समवलोकयेत् ।
ततश् च गच्छेत् स्वगृहं हरिं संस्मृत्य मानवः ॥
ये बालत्वे कृताः पापाः कामतो वाप्य् अकामतः ।
यौवने वार्धकोन्मादे प्रसङ्गेनापि पातकम् ॥
अजादानस्य माहात्म्यात् निष्पापो जायते नरः ।
पुत्रपौत्रसमायुक्तः सदाचारमतिश् चिरम् ॥
महाभारते ।
अजाम् अलङ्कृतां दत्वा वह्निलोके महीयते ।
तम् एव लोकम् आप्नोति दत्वाजं विधिवन् नरः ॥
सर्वान् कामान् अवाप्नोति ये ये चेतसि संस्थिताः ॥
तथा ।
अजाविकं च महिषं दत्वा विप्राय शक्तितः ।
घृतक्षीरवहा नद्यो यत्र यत्र स मोदते ॥
विष्णुधर्मोत्तरे ।
उष्ट्रं वा गर्दभं वापि यः प्रयच्छति तु द्विजे ।
अजाम् उरभ्रं तुगरं (?) तथा शक्त्या सदक्षिणम् ॥
अलकां स समासाद्य यक्षेन्द्रैः सह मोदते ।
सर्वकामसमृद्धात्मा सर्वयज्ञफलं लभेत् ॥
[७१९] तस्माद् अजां प्रयच्छ त्वं ततः सर्वम् अवाप्स्यसि ।
मन्त्रेणानेन विधिवद् अलङ्कृत्य स्वशक्तितः ॥
त्वं पूर्वं ब्रह्मणा सृष्टा पवित्रा भवती परम् ।
त्वत्प्रसूतोत्थिता यज्ञास् तस्माच् छान्तिकरी भव ॥
प्रतिगृह्णीत तां चैव पृष्ठदेशे द्विजोत्तमः ॥
दानवाक्यं तु महिषीदानवद् विज्ञेयम् ।
एवं प्रदाय विप्राय सर्वपापैः प्रमुच्यते ।
अश्वमेधफलं प्राप्य मोदते वैष्णवे पुरे ॥
इत्य् अजादानविधिः ।
इति श्रीमहाराजाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वरसकल-
विद्याविशारदश्रीहेमाद्रिविरचिते चतुर्वर्गचिन्तामणौ
दानखण्डे कृष्णाजिनादिदानप्रकरणम् ॥
[७२०]
अथ एकादशो ऽध्यायः
अथ देवतादानानि ।
आहूता यस्य यज्ञेष्व् अनवरतपरीरम्भसम्भोगलोला-
गर्भस्वर्मानिनीनां कथम् अपि शिथिलीकृत्य तोकान् निवृत्ताः ।
गीर्वाणश्रेणिमुख्यास् त्रिभुवनजयिभिर् यच् चरित्रैः पवित्रां
धात्रीम् आसाद्य सद्यः स्वभवनगमनं विस्मिता विस्मरन्ति ॥
विश्वोपकृतिशीलेन तेन हेमाद्रिशूरिणा ।
क्रमेण देवतादानम् इदानीम् उपवर्ण्यते ॥
तत्र बौधायनः ।
सौवर्णं राजतं ताम्रं कारयेत् कांस्यतो ऽपि वा ।
यद् वार्कमूलकाष्ठेन विघ्नं विभवतो नरः ॥
पुष्करं कल्पयेद् धैमं सौवर्णं लोचनद्वयम् ।
आखुं च कल्पयेत् तस्य यथा देयो विनिर्मितः ॥
नागयज्ञोपवीतं च कल्पयेत् तस्य गुल्मवान् ।
अनन्तरं तं वासोभिश् चन्दनागुरुपूजितम् ॥
सहिरण्यं ब्राह्मणाय स्वशक्त्या पूजिताय तु ।
कृतहोमाय शान्ताय सर्वशास्त्रार्थवेदिने ॥
[७२१] मन्त्रेणाने विधिवद् दक्षिणाभिमुखाय तु ।
विनायक गणेशान सर्वदेवनमस्कृत ॥
पार्वतीनन्दन मम गुल्मम् आशु विनाशय ॥
दानमन्त्रः ।
कृतेनानेन दानेन निरोगो जायते नरः ॥
इति विनायकदानविधिः ।
तथा ।
ब्राह्मणश्वासरोधेन ह्य् अपस्मारो भवेन् नरः ।
वक्ष्ये तस्य प्रतीकारं दानहोमक्रियादिभिः ॥
पलेन वा तदर्धेन तदर्धार्धेन् वा पुनः ।
विनायकप्रतिकृतिं कुर्यात् स्वर्णेन शोभनाम् ॥
राजतं च तथा नागम् उपवीतम् प्रकल्पयेत् ।
पुष्करं पद्मरागेण हस्तं रत्नैः प्रकल्पयेत् ॥
विनायकार्धमानेन चाखुं देवस्य कल्पयेत् ।
तस्याप्य् अङ्गे प्रदेयानि रत्नानि विविधानि च ॥
माणिक्येन प्रकुर्वीत चक्षुषो तस्य शोभने ।
पूर्वेद्युर् मण्डपं कुर्याद् वस्त्रैः ष्ōडशभिर् दृढम् ॥
यद् वा द्वादशभिः कुर्याद् अष्टाभिर् वा प्रयत्नतः ।
मण्डपस्य चतुर्भागां वेदिकाम् अपि कल्पयेत् ॥
रात्रौ विनायकस्यापि ह्य् अधिवासनम् इष्यते ।
चतुर्भिर् ब्राह्मणैः सार्धम् आचार्यः सर्वशास्त्रवित् ॥
स्वयम् एव हि आचार्यो धर्मज्ञः सत्यवाक् शुचिः ।
[७२२] कुलीनो न च वृद्धश् च सर्वप्राणिहिते रतः ॥
रात्रौ जागरणं कृत्वा मध्यरात्रे बलिं हरेत् ।
मत्स्यमांसेन सहितं तथा क्षीरोदनेन च ॥
आचार्यः प्रयतो भूत्वा मन्त्रेणानेन संयतः ।
पूर्वस्यां दिशि तं दद्याद् बलिं वै सार्वकामिकम् ॥
आदित्या वसवो रुद्रा देवा भूतानि सर्वशः ।
सर्वाः पिशाचा डाकिन्यः शाकिन्यः पान्थदेवताः ॥
अपस्माराभिदैवं च वेताला नैरृतास् तथा ।
बलिदानेन दत्तेन शान्तिं कुर्वन्तु सर्वशः ॥
बलिदानमन्त्रः ।
ततः प्रभाते विमले स्नात्वा स्वहस्तवाससः ।
भूषिताः कटकैः सम्यग् उपवीताङ्गुलीयकैः ॥
कुण्डानि दिक्षु चत्वारि मेखलासम्भृतानि तु ।
कुर्यात् तेषु प्रकुर्वन्ति होममन्त्रैः स्वकैः सदा ॥
पूर्वस्मिन् बह्वृचः कुर्यात् समिदाज्यचरूत्कटम् ।
विनायकं समुद्दिश्य गणानां त्व् एति मन्त्रतः ॥
तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन् नो दन्ती प्रचोदयात् ॥
अध्वर्युर् दक्षिणे कुण्डे कुर्याद् धोमं समाहितः ।
छन्दोगः पश्चिमे वापि तद्दैवत्येन होमयेत् ॥
आथर्वणश् चोत्तरे च कुण्डे होमं प्रकल्पयेत् ।
विनायकाय देवाय सर्वभूतहिताय च ॥
गाणपत्ये नियुक्ताय हूं फट् स्वस्ति स्वधा नमः ॥
[७२३] समिदाज्यचरुं हुत्वा पूर्णाहुत्यन्तम् एव हि ।
आचार्यः प्रतिमानां तु ब्राह्मणैः सह संयुतः ॥
आसने वेदिकामध्ये वितानादिसुशोभिते ।
तिलानाम् उपरि स्थाप्य गन्धमाल्यैः प्रपूजयेत् ॥
वस्त्रैर् नानाविधैः शुभ्रैः केयूरकटकादिभिः ।
उपचारैः ष्ōडशभिर् नैवेद्याय च मोदकाः ॥
यथा देवे तथा चार्ये ऽप्य् अलङ्कारादि कल्पयेत् ।
आचार्यः परया भक्त्या गणेशाय प्रकल्पयेत् ॥
अपूपादि तथान्यच् च कारयेद् भक्षकादिकम् ।
निवेद्य पार्वतीं चापि देवदेवं महेश्वरम् ॥
पूजयेत् परया भक्त्या आचार्यं स्वयम् एव हि ।
तथैव रोगवान् भक्त्या सम्पूज्य गणनायकम् ॥
गणानां त्वेति मन्त्रेण तूष्णीं शूद्रस् तु पूजयेत् ।
ततो मध्यन्दिने प्राप्ते प्रतिमां दक्षिणायुताम् ॥
मन्त्रेणानेन दद्याच् च स रोगी प्राङ्मुखः स्वयम् ।
उदङ्मुखोपविष्टाय ब्राह्मणायातिभक्तितः ॥
विनायक प्रपन्नार्तिहर विघ्नविनायक ।
त्वं देवैः प्रथितः पूर्वं विघ्नविघ्नपरायणैः ॥
ब्राह्मणश्वासरोधेन यज् जातं मम वैकृतम् ।
पूर्वकर्मविपाकेन ह्य् अपस्मारोन्मदादिकम् ॥
जाड्यं वाप्य् अथ वाधिर्यं नासिक्यं वाथ भाषिणम् ।
त्वदर्चायाः प्रदानेन रोगम् आशु विनाशय ॥
[७२४] चतुर्णां ब्राह्मणानां च यथा शक्त्या च दक्षिणाम् ।
एवं कृत्वा गणपतेर् दानं मर्त्यः सुखी भवेत् ॥
इति विनायकदानविधिः
सौवर्णं राजतं ताम्रं कांस्यपित्तलतो ऽपि वा ।
यद् वार्कमूलकाष्ठेन विघ्नं विभवतो नरः ॥
पुष्करं कल्पयेद् धैमं सौवर्णं लोचनद्वयम् ।
आखुं च कल्पयेत् तस्य पादेन च सुवर्णकम् ॥
नागाकारं चोपवीतं सुवर्णेन प्रकल्पयेत् ।
तिलाढकद्वये वस्त्रयुग्मस्योपरि स्थापयेत् ॥
भूमौ शुद्धप्रदेशे तु भक्त्या प्रयतमानसः ।
वस्त्रेणावेष्ट्य मतिवान् पूजयेत् तं विनायकम् ॥
चन्दनागुरुधूपैश् च कुङ्कुमेनोपलेपयेत् ।
पूजयेद् वाहनं वापि यथा देवं तथैव हि ॥
आचार्यस् तु तिलैर् होमं कुर्याद् अष्टोत्तरं शतम् ।
गणानां त्वेति मन्त्रेण तथैवाज्याहुतीः क्रमात् ॥
तस्मै होमं कृतवते शान्ताय प्रयतात्मने ।
धर्मशास्त्रप्रवीणाय वेदवेदाङ्गवेदिने ॥
स्वाचारायातिशिष्टाय दक्षिणाभिमुखाय च ।
शुक्लपक्षे चतुर्थ्यां तु सर्वम् एतत् प्रकल्पयेत् ॥
पूजयेत् तं तथाचार्यं वस्त्रेण प्रयतः शुचिः ।
पूर्वकर्मविपाकेन इह कर्मकृतेन च ॥
प्लौहगुल्मोदराष्ठीला उदरव्याधयस् तु ये ।
[७२५] तत् सरं नश्यते तूर्णं दाने दाने न संशयः ॥
मन्त्रेणानेन विधिवद् भक्त्या परमया युतः ।
विनायक गणेशान सर्वदेवनमस्कृत ॥
पार्वतीनन्दन मम शमय व्याधिम् औदरम् ।
गुल्मप्लीहानम् अष्ठीलं व्याधिजातं यद् औदरम् ॥
तव दानेन महता युक्तेनाखुरतेन हि ।
नाशयाशु महेशानपुत्र भक्तस्य च प्रभो ॥
दानमन्त्रः ।
एवं कुर्याद् गणपतेर् दानं व्याधिविमोचनम् ।
इति विघ्नेशदानविधिः ।
अथ सरस्वतीदानम् । वायुपुराणे ।
वाग्विरोधं गुरोः कृत्वा भवेद् गद्गदवाक् नरः ।
तस्य वक्ष्ये प्रतीकारं दानेन ऋषिभाषितम् ॥
पलेनाथ तदर्धेन तदर्धार्धेन वा पुनः ।
सारस्वतीं च प्रतिमां कुर्याद् भुजचतुष्टयाम् ॥
वरदं चाक्षसूत्रं च बिभ्रतीं दक्षिणे करे ।
पुस्तकं चाभयं वामे दधानां हंसवाहनाम् ॥
अतिशुभ्रेण रौप्येण कूटस्वर्णेन वा भवेत् ।
आसनं च प्रकुर्वीत सौवर्णं पद्मम् उत्तमम् ॥
तस्योपरि च संवेश्य देवीं वागीश्वरीं पराम् ।
[७२६] मुक्तादामभूषिताङ्गां शुक्लवस्त्रेण संयुताम् ॥
वागीश्वरेण मन्त्रेण पूजयेत् सिततण्डुलैः ।
श्वेतपुष्पैः श्वेतगन्दैः संस्कृत्य विधिपूर्वकम् ॥
ब्राह्मणः सर्वशास्त्रज्ञः कुशलः सर्वसम्मतः ।
मन्त्रवादप्रवीणश् च तेन होमं च कारयेत् ॥
पायसं जुहुयाद् अष्टशतं शालिमयं तथा ।
जुहुयात् समिधश् चापि तथाज्यं च तिलान् अपि ॥
सरस्वतीप्रेदमव इति वा मन्त्र इष्यते ।
कृते ब्रह्मोद्वासने ताम् आचार्याय निवेदयेत् ॥
मन्त्रेणानेन विधिवत् प्राङ्मुखाय ह्य् उदङ्मुखः ।
सम्पूज्य ब्राह्मणं सम्यक् वस्त्रालङ्कारपूर्वकम् ॥
या वक्त्रे ब्रह्मणो देवी या सा वागीश्वरी परा ।
ब्रह्मविष्णुशिवैश् चान्यैः पूजिता सर्ववन्दिता ॥
तुष्टा भवतु दानेन दत्तेनानेन वाक् परा ।
वाग्विरोधं गुरोः कृत्वा यन् मे गद्गदभाषणम् ॥
तत् सर्वं क्षपय क्षिप्रं ब्राह्मी त्वं लोकपावनी ॥
तथा दानमन्त्रः ।
अनुज्ञाप्य ब्राह्मणं तं स्वयं भुञ्जीत मानवः ॥
इति सरस्वतीदानविधिः ।
तथा ।
स्वरोपघाती वाचां च हर्ता मूकः प्रजायते ।
वक्ष्ये तस्य प्रतीकारं दानहोमैर् नरोत्तमः ॥
[७२७] पलार्धेन तदर्धेन तदर्धार्धेन वा पुनः ।
रजतेन सुशुद्धेन कुर्यात् प्रतिकृतिं शुभाम् ॥
सरस्वतीं चतुर्हस्तां पाशाङ्कुशकमण्डलुम् ।
तथैवाभयहस्तां च श्वेतवस्त्रेण संयुताम् ॥
श्वेतमाल्यैः श्वेतगन्धैर् मूलमन्त्रेण पूजयेत् ।
होमं च कारयेत् तत्र समिदाज्यचरूत्कटम् ॥
सरस्वतिप्रेदमव इति मन्त्रश् च चोदितः ।
आचार्यः सर्वशास्त्रज्ञः स्वाचारः संयतेन्द्रियः ॥
धर्मज्ञः सत्यवादी च मेधावी सुपदस् तथा ।
एवंलक्षणसंयुक्तः सर्वत्राचार्य इष्यते ॥
प्रणम्य गृहम् आनीय पूजयेद् भक्तिपूर्वकम् ।
एवं होमं च कृत्वा तु पूजयेच् च सरस्वतीम् ॥
सरस्वत्यै नम इति यथालिङ्गं तु मन्त्रतः ।
तस्मै हुतवते तां तु देवीं दद्यात् सदक्षिणाम् ॥
मन्त्रेणानेन विधिवत् प्राङ्मुखाय ह्य् उदङ्मुखः ।
सौम्ये देवि महाभागे सर्वदेवनमस्कृते ॥
पद्मासनगते सर्वजगताम् आर्तिहारिणि ।
स्वरोपघातान् मदीयं तु प्रज्ञाजाड्यम् अपानुद ॥
दानमन्त्रः ।
एवं दत्वा तु प्रकृतिं सरस्वत्याः प्रयत्नतः ।
स्वरोपघातजनितात् प्रज्ञाजाड्याद् विमुच्यते ॥
मेधाकरम् इदं दानं सर्वेषां च विशेषतः ।
[७२८] विशेषश् चायम् उदितो जपस्योपक्रमो भवेत् ॥
तदैतत् प्रथमं दानं कृत्वा जपम् उपक्रमेत् ।
नैवेद्यं पायसं दद्यात् स्वयं तद् उपयोजयेत् ॥
पूर्वे द्युर् उपवासं च कृत्वैवोपक्रमो भवेत् ।
कायशुद्धिश् च कर्तव्या यावतालवणो भवेत् ॥
इत्य् अपरसरस्वतीदानविधिः ।
अथ घण्टादानम् । ब्रह्मवैवर्तपुराणे ।
गुरुणा ह्य् अननुज्ञातो यो वेदाध्ययनं चरेत् ।
स प्रज्ञया विहीनस् तु संसारे जायते नरः ॥
वक्ष्यामि तत्प्रतीकारं शुद्धकांस्यमयीं दृढाम् ।
शोभनां घाटयेद् घण्टां शुभरेखाविभूषिताम् ॥
पलैस् तु कुर्याद् विंशद्भिस् त्रिंशद्भिर् वा तदर्धतः ।
सुस्वरान्ताम् अतिश्लक्ष्णां पञ्चगव्येन धावयेत् ॥
श्वेतवस्त्रेण संवीतान् तण्डुलोपरि विन्यसेत् ।
तण्डुलानां परीमाणं द्रोणानां त्रयम् एव च ॥
तदर्धम् अथ वा ग्राह्यं परीमाणं स्वशक्तितः ।
आचार्यः सर्वशास्त्रज्ञो वेदवेदाङ्गपारगः ॥
धर्मशास्त्रे च कुशलः स्वाचारः सञ्जितेन्द्रियः ।
आहूय परया भक्त्या स्वयम् एव गृहं गतः ॥
[७२९] तेनैव कारयेत् पूजां घण्टायाः शास्त्रचोदितैः ।
उपचारैः षोडशभिर् मन्त्रेणानेन भक्ततः ॥
आवाहयेत् तु वागीशां घण्टायां परमेश्वरीम् ।
एह्य् एहि देवि सर्वेशि घण्टायां सन्निधिं कुरु ॥
सर्वसत्त्वोपकारी त्वं ज्ञानमुद्रे पातात् परे ॥
आवाहनमन्त्रः ।
एवम् आवाह्य तां घण्टां ब्राह्मणं चापि पूजयेत् ।
ब्रह्मयज्ञानमन्त्रेण घण्टां पूज्य तथाम्बरम् ॥
मन्त्राध्यायोक्तमार्गेण प्रतिष्ठाप्याथ भक्तितः ।
होमं कुर्यात् प्रयत्नेन समिदाज्यतिलैर् अपि ॥
नैवेद्यं पायसं दद्याद् देव्यै च ब्रह्मणे तथा ।
सरस्वतिप्रेदम् इति मन्त्रः सर्वत्र सम्मतः ॥
तस्मै हुतवते दद्यात् तां घण्टां पूजिताय तु ।
मन्त्रेणानेन विधिवद् रोगी पूर्वमुखः शुचिः ॥
उदङ्मुखोपविष्टाय सतीयाम् अथ भक्तितः ।
गुरोर् अवज्ञया यच् च स्वाध्यायाध्ययनं कृतम् ॥
सरस्वति जगन्मातर् जगज्जाड्यापहारिणी ।
साक्षाद् ब्रह्मकलत्रं त्वं विष्णुरुद्रादिभिः स्तुता ॥
तन् ममाध्ययनोत्पन्नं जाड्यं हर वरानने ।
घण्टादानेन तुष्टा त्वं ब्रह्माणी लोकपावनि ॥
एवं दानं च दत्वा च तम् आचार्यं क्षमाप्य च ॥
अन्येभ्यः शक्तितोदद्याद् ब्राह्मणेभ्यश् च भोजनम् ।
[७३०] ततः स्वबन्धुभिः सार्धं स्नात्वा भुञ्जीत मानवः ॥
एवं यः कुरुते दानं प्रज्ञाहीनो जडो ऽथ (?) वा ।
प्रज्ञावान् अजडो जन्तुर् जायते वाक्पतिर् यथा ।
जायते वाक्प्रवाहश् च साक्षाद् गङ्गाम् अवाहयत् ॥
इति घण्टादानविधिः ।
अथ लक्ष्मीदानम् । लिङ्गपुराणे ।
लक्ष्मीदानं प्रवक्ष्यामि महद् ऐश्वर्यवर्धनम् ।
लूतादिब्रणनाशाय विशेषेण शिवोदितम् ॥
पूर्वोक्तमण्डपं कृत्वा वेदिकोपरिमण्डले ।
श्रीदेवीम् अतुलां कृत्वा हिरण्येन यथाविधि ॥
सहस्रेण तदर्धेन तदर्धार्देन वा पुनः ।
अष्टोत्तरशतेनापि सर्वलक्षणसंयुताम् ॥
मण्डले विन्यसेल् लक्ष्मीं सर्वालङ्कारसंयुताम् ।
तस्यास्तु दक्षिणे भागे स्थण्डिले विष्णुम् अर्चयेत् ॥
पूर्वोक्तेति, कुण्डमण्डपमण्डलवेदिकावितानादिलिङ्गपुराणोक्ततुलापुरुषविहितम् इति वेदितव्यम् । सहस्रादिसङ्ख्या चात्र निष्कैः परिपूरणीया, लिङ्गपुराणोक्तदानेषु प्रायशस् तैर् एव व्यवहारदर्शनात् ।
लक्ष्मीलक्षणम् उक्तं कल्पपादपप्रदाने ।
अर्चयित्वा विधानेन श्रीसूक्तेन सुरेश्वरीम् ।
अर्चयेद् विष्णुगायत्र्या विष्णुं विश्वगुरुं हरिम् ॥
[७३१] आराध्य विधिना सिद्धिं पूर्वतो होमम् आरभेत् ।
समिद्धुत्या विधानेन आज्याहितिम् उपाचरेत् ।
पृथग् अष्टोत्तरशतं होमयेद् ब्राह्मणोत्तमः ॥
श्रीसूक्तम्, हिरण्यवर्णां हरिणीम् इत्यादि । विष्णुगायत्री तु लिङ्गपुरान एवोक्ता नारायणाय विद्महे वासुदेवाय धीमहि तन् नो विष्णुः प्रचोदयात् इति । पूर्वोक्तमण्डले लक्ष्मीं विन्यस्य तस्या दक्षिणतः स्थण्डिले विष्णुदैवत्या गायत्र्या विष्णुदेवम् आराध्य ततः पञ्चदशर्चेन श्रीसूक्तेन यथाक्रमं षोडशोपचारैः श्रियं पूजयेत् आराध्य सिद्धम् इति सिद्धिलक्ष्मीः ।
कामिते तु ।
श्रीमन्त्रेण यजेल् लक्ष्मीं श्रीसूक्तेनाथ वार्चयेत् ।
पूर्ववच् छिवपूजा च होमश् चैव विशेषतः ॥
एकहोमं तु वा कुर्यात् प्रागुक्तविधिना गुरुः ।
सहस्रकलशाद्यैश् च श्रियम् अर्च्य श्रियं ददेत् ॥ इति ।
होमश् च श्रीसूक्तेनैव आहूय यजमानं तु तस्याः पूर्वदिशि स्थले ।
तस्मैतां दर्शयद् देवीं दण्डवत् प्रणमेत् क्षितौ ।
प्रणम्य विष्णुं तत्रस्थं शिवं पूर्ववद् अर्चयेत् ॥
पूर्ववद् इति लिङ्गपुराणोक्ततुलापुरुषवद् इत्य् अर्थः ।
तस्या विंशतिभागस् तु दक्षिणा वै प्रकीर्तिता ।
तद्दशांशा तु दातव्या इतरेषां यथार्हतः ॥
ततस् तान् भोजयेद् विप्रान् वेदवेदाङ्गपारगान् ।
[७३२] तस्या लक्ष्मीप्रतिमायाः विंशांशस्य समानतो ॥
अन्यद् धनं गुरवे दक्षिणां दशांशमानं प्रत्येकम् ऋत्विग्भ्यः इतरेभ्यो द्वारजापकेभ्यो ऽपि ऋत्विगर्धम् । तद् उक्तं वातुले ।
लक्ष्मीं प्रणम्य विद्वद्भ्यः श्रोत्रियेभ्यः समर्पयेत् ।
तस्माद् विंशतिभागस् तु दक्षिणा देशिकस्य हि ॥
तद्दशांशस् तु दातय्वो जप्ता वेदविदां वरः ।
पुण्याहवाचकानां तु पूर्वोक्तं दापयेत् तथा ॥
इति लक्ष्मीदानविधिः ।
अथ नारायणदानम् । ब्रह्मप्रोक्तम् ।
यज्ञविघ्नकरो मर्त्यो जायते चान्त्रवृद्धिमान् ।
वक्ष्यामि तत्प्रतीकारं दानहोमादिकर्मणा ॥
कुर्यात् स्वर्णमयीं मूर्तिं शुभां नारायणस्य तु ।
व्यावहारिकनिष्काभ्याम् एकेनाथ तदर्धतः ॥
नारायणलक्षणम् उक्तं हेमहस्तिरथदाने ।
प्रक्षाल्य पञ्चगव्येन स्थापयेत् कुङ्कुमोपरि ।
श्वेतवस्त्रेण संवेष्ट्य गन्धमाल्यैः समर्चयेत् ॥
उपचारैः षोडशभिर् आचार्यो वैष्णवः शुचिः ।
सर्वशास्त्रार्थतत्त्वज्ञो ब्रह्मविद्यासुनिष्ठितः ॥
[७३३] होमं च कारयेत् तत्र ह्य् आग्नेय्यां दिशि शास्त्रतः ।
समिदाज्यतिलैश् चैव मूलमन्त्रेण वै समित् ॥
आज्यं नारायणायेति तिलान् व्याहृतिभिर् हुनेत् ।
रोगी तथार्चयेद् देवं नारायणम् अनामयम् ॥
मूलमन्त्रेण विधिवन् नैवेद्यं चरुर् इष्यते ।
नमोऽन्तं नाम सोङ्कारं मूलमन्त्रः प्रकीर्तितः ॥
ततस् तां प्रतिमां दद्यात् प्राङ्मुखाय ह्य् उदङ्मुखः ।
मन्त्रेणानेन विधिवद् भक्त्या परमया युतः ॥
नारायण जगन्नाथ शङ्कचक्रगधाधर ।
पूर्वमन्मनि यज्ञादेर् विघ्नाद् यद् वै कृतं मम ॥
अन्त्रवृद्धिमहारोगं दानेनानेन तोषितः ।
चक्रहस्त गदापाणे शमयाशु जगत्पते ॥
दानमन्त्रः ।
एवं दत्वा तु तं देवं क्षमाप्य ब्राःमणं ततः ।
विप्राणां भोजनं दद्यात् स्नात्वा भुञ्जीत बन्धुभिः ॥
एवं कृत्वा समाप्नोति नीरोगत्वं नरो भुवि ।
आरोग्ययुक्तो नित्यं स शुचिरं सुखम् एधते ॥
इति नारायणमूर्तिदानविधिः ।
अथ् गोपालमूर्तिदानम् । तथा ।
नक्तान्ध्यं जायते तस्य यो गवां नयनद्वये ।
[७३४] करोति शूलप्रक्षेपं तस्य वक्ष्यामि निष्कृतिम् ॥
विष्णोः श्रीगोपवेषस्य यथाशक्त्या च भक्तितः ।
सुवर्णेन प्रतिकृतिं वेणुवादनतत्पराम् ॥
वर्हापीडकसंयुक्तां द्विभुजाम् ऊर्द्ध्वसंस्थिताम् ।
कारयित्वा शुभाकारां प्रक्षाल्य शुभवारिणा ॥
वस्त्रेण वेष्टयित्वाथ गन्धमाल्यैः समर्चयेत् ।
तण्डुलोपरि संस्थाप्य यथाविभवतः स्वयम् ॥
पूजां च मूलमन्त्रेण कुर्याद् देवस्य भक्तितः ।
आचार्यः सर्वशास्त्रज्ञो वेदवेदाङ्गपरगः ॥
एवम्भूतं समानीय तेन पूजां प्रकल्पयेत् ।
होमं चैव प्रकुर्वीत समिदाज्यतिलैर् अपि ॥
इदं विष्णुः प्रतद्विष्णुर् विष्णोर् नुकम् इति क्रमात् ।
मन्त्राध्यायोक्तमार्गेण चाग्नेः संस्थापनं भवेत् ॥
प्रणीतामोक्षपर्यन्तं कृत्वा देवं प्रपूजयेत् ।
देवस्य दद्यान् नैवेद्यं हविः सर्वं समन्ततः ॥
अष्टोत्तरशतेनापि मूलमन्त्रेण वै श्रुतम् ।
जुहुयाद् अथ रोगी तु प्राङ्मुखः प्रयतः शुचिः ॥
शुक्लाम्बरधरः शुक्लगन्धमाल्यानुलेपनः ।
सदक्षिणां च तान् दद्यात् प्राङ्मुखाय ह्य् उदङ्मुखः ॥
मन्त्रेणानेन विधिवन् नमस्कृत्यातिभक्तितः ॥
गोविन्द गोपीजनवल्लभेश
कंसासुरघ्न त्रिदशेन्द्रवन्द्य ।
गोवर्धनाद्रिप्रवरैकहत
[७३५] संरक्षिता शेषगवाम् अनीक ॥
गोचक्षुषां चातिनिरोधजेन
पापेन मे नाशय आन्ध्यम् एतत् ।
त्वदीयदानेन सुहृष्टरूपं
नक्तान्ध्यम् एतत् समुपाकरोतु ॥
दानमन्त्रः ।
एवं कृत्वा प्रतीकारं गोपवेषधरस्य तु ।
तत्क्षणाद् एव हि सुखी जायते नात्र संशयः ॥
इति गोपालमूर्तिदानविधिः ।
अथ वराहदानम् । भविषोत्तरात् ।
श्रीकृष्ण उवाच ।
दानम् आदिवराहस्य कथयामि युधिष्ठिर ।
धरण्यां यत् पुरा प्रोक्तं वराहवपुषा मया ॥
पुण्यं पवित्रं आयुष्यं सर्वदानोत्तमोत्तमम् ।
महापापादिदोषाघ्नं पूजितं मुनिसत्तमैः ॥
देयं सङ्क्रमणे भानोर् ग्रहणे द्वादशीतिथौ ।
यज्ञोत्सवविवाहेषु दुःस्वप्नाद्भुतदर्शने ॥
यदा वा जायते वित्तं चित्तं श्रद्धासमन्वितम् ।
तदैव तस्य कालः स्याद् अध्रुवं जीवितं यतः ॥
कुरुक्षेत्रादितीर्थेषु गङ्गाद्यासु नदीषु च ।
[७३६] गोष्ठे देवालये वापि रम्ये वाथ गृहाङ्गणे ॥
देयं पुराणविधिना ब्राह्मणाय कुटुम्बिने ।
अव्यङ्गाय शुशीलाय वेदवेदाङ्गवादिने ॥
देशं कालं च पात्रं च यथावत् ते मयोदितम् ।
शृणु दानविधिं पुण्यं सर्वपापहरं परम् ॥
पूर्वोत्तरप्लवां भूमिं गोमयेनोपलेपयेत् ।
कुशैर् आस्तीर्य तां पार्श्वे प्रणवाक्षरमन्त्रितैः ॥
उपरिष्टात् तिलैस् तेषां वाराहं परिकल्पयेत् ।
द्रोणैश् चतुर्भिः सम्पूर्णं तदर्धेनाथ वा पुनः ॥
आढकेनापि कुर्वीत वित्तशाठ्यं न कारयेत् ।
सुवर्णेन खुरौ कार्यौ भुजौ चक्रगदान्वितौ ॥
राजतीं कारयेद् दंष्ट्रां पद्मरागविभूषिताम् ।
शङ्खं च स्थापयेत् पार्श्वे वनमालां हिरण्मयीम् ॥
पुष्पैर् वा कारयेद् विद्वान् पादौ रौप्यमयौ तथा ।
दंष्ट्राग्रलग्नवसुधां सौवर्णीं कारयेच् छुभाम् ॥
सर्वधान्यरसोपेतां वस्त्रालङ्कृतविग्रहाम् ॥
द्रोणादिलक्षणम् उक्तं परिभाषायाम् । पृथ्वीलक्षणं च धरादाने द्रष्टव्यम् ।
प्रच्छाद्य वस्त्रैर् देवेशं वराहं सर्वकामदम् ।
रोमराजिं कुशैः कृत्वा गन्धपुष्पैर् अथार्चयेत् ॥
नवग्रहमखः कार्यो होमश् चात्र तिलैः स्मृतः ।
एवं संस्थाप्य विधिवत् ततः स्तोत्रम् उदीरयेत् ॥
[७३७] वराहा शेषदुष्टानि सर्वपापफलानि च ।
मर्द मर्द महादंष्ट्र भास्वत्कनककुण्डल ॥
शङ्खचक्रासिहस्ताय हिरण्याक्षान्तकाय च ।
दंष्ट्रोद्धृतक्षितिपते त्रयीमूर्तिमते नमः ॥
इत्य् उच्चार्य नमस्कृत्य त्रिः कृत्वा तु प्रदक्षिणम् ।
ततस् तं ब्राह्मणे दद्याद् यथालङ्कारविग्रहम् ॥
प्रतिग्रहश् च तस्योक्तः पादयोः परमर्षिभिः ।
अनेन विधिना दत्वा वराहं दक्षिणान्वितम् ॥
आचार्यम् अथ सम्पूज्य प्रणिपत्य क्षमापयेत् ।
एवं दत्वा महीनाथ वराहं सर्वकामदम् ॥
यत् फलं समवाप्नोति दत्वा देवं जनार्दनम् ।
यथा समुद्धृता देवी वराहेण वसुन्धरा ॥
तथा कुलं समुद्धृत्य विष्णुलोके महीयते ।
ब्राह्मणक्षत्रियविशां स्त्रीणां शूद्रजनस्य च ।
एतत् साधारणं दानं शैववैष्णवयोगिनाम् ॥
विप्राय वेदविदुषे नृवराहरूपं
दत्वा तिलान् अपि सुवर्णमयं सुवस्त्रम् ।
उद्धृत्य पूर्वपुरुषान् सकलत्रमित्रः
प्राप्नोति विष्णुभुवनं सुरसिद्धजुष्टम् ॥
इति वराहदानविधिः ।
[७३८]
अथ नरसिंहदानम् । कालिकापुराणे ।
नृसिंहं चाथ रौक्मं तु कृत्वा चतुर्भुजं विभुम् ।
ताम्रपात्रे प्रतिष्ठाप्य रौप्ये दंष्ट्रे प्रकल्पयेत् ॥
चक्षुषी पद्मरागेण नखानां विद्रुमास् तथा ।
पुष्परागं भ्रुओर् देशे कर्णयोर् हीरकाव् उभौ ॥
नृसिंहरूपं तु विष्णुधर्मोत्तरात् ।
कार्यस् तु भगवान् विष्णुर् नरसिंहवपुर्धरः ।
पीनस्कन्धकटिग्रीवः कृशमध्यः कृशोदरः ॥
सिंहासनो नृदेहश् च नीलवासाः प्रभान्वितः ।
आलीढस्थानसंस्थानः सर्वाभरणभूषणः ॥
ज्वालमालाकुलमुखोज्वलत् केसरमण्डलः ।
हिरण्यकशिपोर् वक्षः पाटयन् न खरैः खरैः ॥
देवजानुगतः कार्यो हिरण्यकशिपुस् तथा ।
देवश् च शङ्खचक्राभ्यां भूषितो ऽर्धकरद्वयः ॥ इति ।
गन्धपुष्पैस् तथा धूपैर् जागरन् तत्र कारयेत् ।
राजवर्त्म च वैदूर्यम् इन्दर्नीलं सुमस्तके ॥
कृत्वा रूपम् इदं रम्यं तत् पात्रं मधुना बुधः ।
पूरयेत् खण्डमिश्रेण तत्र देवं पुनर् न्यसेत् ॥
वस्त्रयुग्मेन सञ्छन्नम् आसने विनिवेशयेत् ।
नैवेद्यं कल्पयेद् अग्र्यं भक्ष्यैर् नानाविधैर् बुधः ॥
वितानोपरि संयुक्तं पुष्पदामभिर् अर्चयेत् ।
[७३९] गन्धपुष्पैस् तथाधूपैर् जागरं चार्च्य कारयेत् ॥
कृत्वा समस्तम् एतत् तु हरये पूर्ववद् ददेत् ।
यत् किञ्चित् प्राग् विनिर्दिष्टं कुर्यात् सर्वम् इहापि तत् ॥
प्राग्विनिर्दिष्टम् इति वैष्णवमन्त्रेण पूजनम्, मूलमन्त्रेण अष्टोत्तरशतं तिलाज्यहोमः द्वादशेभ्यो ब्राह्मणेभ्यः सदक्षिणम् अन्नदानम् इति ।
कार्तिक्यां वाथ चैशाख्याम् आश्रित्य द्वादशीम् अथ ।
कृत्वा विधिम् इमं सम्यक् नूनं तत् पदम् अश्नुते ॥
अरण्ये वाथ सङ्ग्रामे तस्करैर् दंष्ट्रिभिर् वृते ।
न भयं जायते तस्य सकृद् यस् त्वं तद् ँँआचरेत्ँँ ॥
विदार्य चापदो घोरान् धनम् आयुः प्रयच्छति ।
सन्ततिं चैव रूपं च सौभाग्यं च मनोरथान् ॥
एवं भवति यत् पुण्यं नृसिंहाकृतिदानतः ।
तेन विष्णोः पदं प्राप्य तत्र क्रीडन्ति देहिनः ॥
एतत् श्रुत्वा महत् पुण्यं सर्वपापैः प्रमुच्यते ।
धनम् आयुर् विवर्धेत श्रावकस्य विशेषतः ।
श्रावके दक्षिणान् दद्याच् छक्त्या चात्मविभूतये ॥
इति नृसिंहदानविधिः ।
अथ लक्ष्मीनारायणदानम् । तत्र बौधायनः ।
लक्ष्मीनारायणं रूपं सुवर्णेन प्रकल्पयेत् ।
[७४०] लक्ष्मीनारायणरूपम् उक्तं कामिके ।
पलेन वा तदर्धेन तदर्धेनाथ वा पुनः ।
पद्मासनगतं कुर्याद् देवदेवं चतुर्भुजम् ॥
दक्षिणाधःकरे पद्मं शङ्खम् ऊर्ध्वकरे न्यसेत् ।
वामोर्ध्वे च भवेच् चक्रं लक्ष्मीपृष्ठे करो ऽपरः ॥
वामोत्सङ्गगता लक्ष्मी रत्नपात्रकरा भवेत् ।
दक्षिणश् च भुजा देव्याः पृष्ठे देवस्य चक्रिणः ॥ इति ।
गरुडं राजतं कुर्याद् देवदेवस्य वाहनम् ।
पक्षौ च तस्य सौवर्णौ सौवर्णी चैव नासिका ॥
वस्त्रैर् अत्यन्तरुचिरैः परिधाप्यातिकौतुकम् ।
अर्चयेत् कुसुमैर् युग्मं लक्ष्मीनारायणात्मकम् ॥
प्रसन्नं रमणीयं च गरुडोपरिसंस्थितम् ।
ततो विप्रं समाहूय सुशीलं लक्षणान्वितम् ॥
आचारवन्तं धर्मज्ञं वेदवेदाङ्गपारगम् ।
प्रतिग्रहनिवृत्तं च श्रुतिस्मृतिपथे स्थितम् ॥
स्वयं भक्त्या समानीय पूजयेद् वस्त्रकुण्डलैः ।
कुङ्कुमागुरुकर्पूरैर् उपवीताङ्गुलीयकैः ॥
पूर्वोक्तेन विधानेन होमं तत्र तु कारयेत् ।
मन्त्रेणानेन तं दद्यात् सर्वलोकनमस्कृतम् ॥
लक्ष्मीपते देवकिनन्दनेश
क्षीराब्धिशायिन् वचसाम् अगम्य ।
[७४१] गोविन्ददामोदर वातरक्तं
विनाशयाशु क्षपितारिवर्ग ॥
दानमन्त्रः ।
लक्ष्मीनारायणस्यैवं मूर्तिं दत्वातिभक्तितः ।
आरोग्यवान् सुखी नित्यं जायते नात्र संशयः ॥
इति लक्ष्मीनारायणमूर्तिदानविधिः ।
अथ गरुडदानम् । ब्रह्माण्डपुराणे ।
सौवर्णं राजतं वापि गरुडं कारयेत् सुधीः ।
ताम्रेण वाथ पलतः स्वशक्त्या वापि नारद ॥
नासिकां स्वर्णमयीं कुर्यात् कुर्यान् नेत्रद्वयं तथा ॥
गरुडमूर्तिलक्षणं तु तिथिदानप्रकरणस्थितैकादशीविहितगारुडदाने विलोकनीयम् ।
श्वेतवस्त्रेण संवेष्ट्य ताम्रपात्रोपरि स्थितम् ।
चन्दनागुरुकर्पूरैः श्वेतमाल्यैर् विशेषतः ॥
पूजयेत् परया भक्त्या गायत्र्या गरुडाह्वयम् ।
होमं कुर्याच् च तत्रैव समिदाज्यतिलैस् तथा ॥
ब्राह्मणः सर्वशास्त्रार्थकुशलो निमलात्मवान् ।
वैष्णवो धार्मिकः शान्तः स्वाचारः सञ्जितेन्द्रियः ॥
तत् पुरुषाय विद्महे पक्षिराजाय धीमहि तन् नः सुपर्णः प्रचोदयात् ।
[७४२] तत् पुरुषाय विद्महे वायुवेगाय धीमहि तन् नो ऽमृतमथनः प्रचोदयात् ।
तत् पुरुषाय विद्महे वैतनेयाय धीमहि तन् नस् तार्क्ष्यः प्रचोदयात् ।
समिदाज्यतिलानाम् तु मन्त्रा एते यथाक्रमम् ।
ततः शुक्लाम्बरधरः शुक्लगन्धानुलेपनः ॥
यजमानः स्वयं भक्त्या शुचिः प्रयतमानसः ।
ब्राह्मणाय प्रदद्यात् तं हृदि नारायणं स्मरन् ॥
मन्त्रेणानेन सम्पूज्य वस्त्राद्यैश् च स्वशक्तितः ।
विहङ्गराज पक्षीश सुपर्णीतनय प्रभो ॥
सर्पाशन वियद्रत्न पूर्वजन्मनि यत् कृतम् ।
देवद्रव्यापहरणं तेन यद् वै कृतं मम ॥
विनाशयाशु मे सर्वं श्रीनारायणवाहन ।
ततो निष्कल्मषो भूत्वा नीरुजो जायते नरः ॥
सप्तजन्मकृतात् पापात् यस्माज् जातं हि वैकृतम् ।
ब्राह्मणान् भोजयेद् भक्त्या स्वशक्त्या तु विशेषतः ॥
इति गरुडदानविधिः ।
अथाह वृद्धगौतमः ।
कामली भक्तचौरः स्यात् तस्य वैक्ष्यामि निष्कृतिम् ।
कुर्याच् च शतमानाभ्यां विष्णोर् वाहनम् उत्तमम् ॥
सुवर्णेनातिशुद्धेन पक्षयोर् मौक्तिकद्वयम् ।
[७४३] नाशिकायां तथा वज्रम् उत्तरीयं च राजतम् ॥
एवं कृत्वा गरुत्मन्तं घृतद्रोणोपरि न्यसेत् ।
श्वेतवस्त्रेण संवेष्ट्य श्वेतमाल्यैः समर्चयेत् ॥
सर्वशास्त्रार्थतत्त्वज्ञो वैष्णवो धर्मपाठकः ।
ब्राह्मणस् त्व् अर्चितो भक्त्या यजमानेन शक्तितः ॥
उपचारैः षोडशभिर् द्विजम् अभ्यर्चयेत् तथा ।
आग्नेय्यां दिशि होमश् च कर्तव्यः स्थण्डिले शुभे ॥
समिदाज्यतिलैस् तत्र पलाशसमिधो ऽपि च ।
मन्तो गरुडगायत्री समित् त्व् आज्यं च कीर्तिता ।
तिलहोमो व्याहृतिभिः कार्यः स्विष्टक्र्तं यजेत् ॥
गरुडगायत्री प्रागभिहिता ।
स्थापयेद् अव्रणं कुम्भं सितवस्त्रेण वेष्टितम् ।
निक्षिपेन् नवरत्नानि मृत्तिकां रोचनां तथा ॥
अश्वस्थानाद् गजस्थानाद् वल्मीकात् सङ्गमाद् ह्रदात् ।
पञ्चत्वक्पल्लवानि स्युः पूरयेत् तीर्थवारिणा ॥
तेनाभिषेकं कुर्वीत आपोहिष्ठादिभिः क्रमात् ।
हिरण्यवर्णेति ऋचा पवमानेन चैव हि ॥
ततः स्नात्वा शुची रोगी विष्णोर् वाहनम् उत्तमम् ।
सदक्षिणं मुदा युक्तः प्राङ्मुखाय निवेदयेत् ॥
मन्त्रेणानेन विधिवद् आचार्याय ह्य् उदङ्मुखः ।
श्रीकृष्ण परमानन्द जगतः परिपालक ॥
पूर्वजन्मनि यत् पापं भक्तचौर्यं मया कृतम् ।
[७४४] तेनावाप्तुं तु वैरूप्यं तन्मयं ह्य् अतिदुःसहम् ॥
कामलोयम् इमं देव तव वाहनदानतः ।
विनाशयाशु मे कृष्ण जगतां पालको ह्य् असि ॥
दानमन्त्रः ।
एवं गरुडदानं तु कृत्वा मर्त्यः सुखी भवेत् ।
आचार्यं भोजयित्वा च प्रणिपत्य विसर्जयेत् ॥
इत्य् अपरगरुडदानविधिः ।
अथ पद्मपुराणे ।
जन्मान्तराक्षिरोधेन जायते ह्य् अक्षिवेदना ।
यक्ष्यामि तत्प्रतीकारं ब्रह्मणा भाषितं पुरा ॥
पलेन कारयेद् धेम्ना गरुडं विष्णुवाहनम् ।
राजतौ च तथा पक्षौ रत्नैर् नद्धौ सुविस्तृतौ ॥
कर्तव्यं चाक्षियुगलं माणिक्याभ्यां प्रकल्पयेत् ।
पादयोः स्वर्णकटकं रत्नाभ्यां परिकल्पयेत् ॥
ग्रैवेयकं स्वर्णमयं ग्रीवायां अप् विन्यसेत् ।
नासिकां वज्रवैदूर्यं मौक्तिकोपरि कल्पयेत् ॥
वस्त्रैर् नानाविधैर् नद्धम् अलङ्कृत्य शुभाकृतिम् ।
स्थापयेत् पुरतो विष्णोः प्रीत्यर्थं च नगाधिपम् ॥
गन्धपुष्पाक्षतैर् व्यस्त्रैः [?] पूजयेद् ब्राह्मणोत्तमः ।
वेदवेदाङ्गकुशलो ब्रह्मविद्यासुनिष्ठितः ॥
होमश् च तत्र कर्तव्यो मन्त्रैस् तद्वाचकैः शुभैः ।
[७४५] यद् वा गरुडगायत्र्या समिदाज्यतिलादिभिः ॥
अग्नेः प्रतिष्ठा कार्या तु स्वगृह्योक्तविधानतः ।
गरुडगायत्री प्रथमगरुडदाने दर्शिता ।
पुण्याहवाचनं कार्यं ब्राह्मणैर् वेदपारगैः ॥
तस्मै हुतवते दद्याच् छौरिप्रीत्यर्थम् आदृतः ।
भक्त्या सम्पूज्य विधिवत् केयूरकटकादिभिः ॥
मन्त्रेणानेन विधिवत् प्राङ्मुखायाक्षिरोगवान् ।
देवदेव जगन्नाथ लक्ष्मीप्रिय परात् पर ॥
वाहनस्य प्रदानेन तुष्टः कर्मविपाकजम् ।
अक्षिरोगं जगन्नाथ नारायण जगन्मय ॥
पुष्पं वा पटलं वापि वातरक्तम् अथापि वा ।
रक्तं वाप्य् अथ नक्तान्ध्यं तथान्यद् बुद्बुदादिकम् ॥
दानमन्त्रः ।
ततो विसृज्य विप्रेन्द्र शिष्टैर् इष्टैश् च बन्धुभिः ।
स्नात्वा विप्रान् भोजयित्वा सुखी भवति मानवः ॥
इति गरुडमूर्तिदानविधिः ।
अथोमामहेशदानम् । आह बौधायनः ।
ब्राह्मणाङ्गानि यो हिंस्याद् दद्रुरोगी भवेत् तु सः ।
तस्योपशमनं वक्ष्ये सुवर्णेन तु कारयेत् ॥
तदर्धेन तदर्धेन तदर्धार्धेन वा पुनः ।
[७४६] उमामहेश्वरं रूपं वृषभेण त्व् अधिष्ठितम् ॥
चतुर्भुजं तु द्विभुजाम् उमां कुर्याद् विचक्षणः ।
अक्षमालां त्रिशूलं च तस्य दक्षिणहस्तयोः ॥
देवीपृष्ठगतश् चैको वरदश् चापरः करः ।
वामोत्सङ्गगता देवी शिवपृष्टैकपाणिका ॥
वृषभो राजतश् चात्र कार्यो घण्टादिसंयुतः ।
स्वशक्त्या वित्तशाठ्यं तु कुर्वतो निष्फलं भवेत् ॥
तत्राप्य् आरोप्य देवेशम् उमया सहितं प्रभुम् ।
वस्त्रैर् माल्यैस् तथा गन्धैर् मूलमन्तेण पूजयेत् ॥
ततो ब्राह्मणम् आहूय दरिद्रं धर्मकोविदम् ।
श्रुत्स्वृत्तोपसम्पन्नं शान्तं चैवात्मवेदिनम् ॥
वस्त्राङ्गुलीयकैस् तस्य पूजां भक्त्या प्रकल्पयेत् ।
होमं च कारयेत् तेन समिदाज्यतिलैर् अपि ॥
मन्त्रश् च रुद्रगायत्री सर्वत्रेति विनिश्चयः ॥
रुद्रगायत्री तु लिङ्गपुराणे ।
सर्वेश्वराय विद्महे शूलहस्ताय धीमहि तन् नो रुद्रः प्रचोदयात् ।
यद् वा त्र्यम्बकेनैव समिधो जुहुयात् सुधीः ।
कद्रुद्रायेति मन्त्रेण जुहुयाद् आज्यम् आदृतः ॥
तिलांश् च मूलमन्त्रेण सर्वत्रैवं क्रमो भवेत् ।
तथा ब्रह्मोद्वासनान्ते मिथुनं ब्राह्मणाय तु ॥
वृषभोपरि तिष्ठन्तं भक्त्या तु विनिवेदयेत् ।
[७४७] मन्त्रेणानेन विधिवद् दद्रुरोगी जितात्मवान् ॥
कैलासवासी भगवान् उमया सहितः परः ।
भगनेत्रहरो दद्रुरोगम् आशु व्यपोहतु ॥
दानमन्त्रः ।
ततश् च ब्राह्मणं सम्यक् प्रणिपत्य क्षमापयेत् ।
ब्राःमणान् भोजयेच् चापि स्वयं भुञ्जीत वाग्यतः ।
एवं दत्वा महादानं दद्रुरोगाद् विमुच्यते ॥
इति उमामहेश्वरदानविधिः ।
अथ रुद्रमूर्तिदानम् । वायुपुराणे ।
अन्नचौरो भवेद् यस् तु सो ऽकस्माज् जायते कृशः ।
वक्ष्ये तस्य प्रतीकारं दानहोमाभिषेचनैः ॥
पलेन वा तदर्धेन तदर्धेनाथ वा पुनः ।
सवर्णेन प्रतिकृतिं कुर्याद् रुद्रस्य भक्तितः ॥
यद् वा विभवसारेण त्रिनेत्रं चतुराननम् ।
चतुर्बाहुं ध्यानपरम् उपविष्टं सुखासने ॥
व्याघ्रचर्मपरीधानं नागयज्ञोपवीतिनम् ।
श्वेतवस्त्रेण संवेष्ट्य तण्डुलोपरि विन्यसेत् ॥
तण्डुलानां परीमाणं द्रोणानां तु चतुष्टयम् ।
यद् वा स्वविभवेनैव तत्र पूजां प्रकल्पयेत् ॥
गन्धमाल्यैः सुरभिभिः श्वेतैर् नानाविधैर् अपि ।
[७४८] उपचारैः षोडशभिर् आचार्यः सर्वशास्त्रवित् ॥
मूलमन्त्रेण सर्वं च कार्यं पूजादिकं चरेत् ।
होमश् च तत्र कर्तव्यः स्थण्डिले सुपरिष्कृते ॥
मन्त्राध्यायोक्तमार्गेण चाग्नेः संस्थापनं भवेत् ।
समिदाज्यतिलैर् मन्त्रानिमांस् तत्र प्रकल्पयेत् ॥
आम्बकं कद्रुद्राय वामदेव इति क्रमात् ।
सङ्ख्या चाष्टोत्तरशतं प्रत्येकम् इह गृह्यते ॥
हुत्वा हुत्वा च सम्पातात् पात्रे कृत्वा विधानतः ।
अग्नेः पूर्वोत्तरे देशे स्थापयेत् सकलं दृढम् ॥
वाससा वेष्टयित्वा च पञ्चपल्लवसंयुतम् ।
अश्वस्थानाद् गजस्थानाद् वल्मीकात् सङ्गमाद् ध्रदात् ॥
प्रक्षेप्तव्या कुर्वीत होमान्ते च गुरुः स्वयम् ।
आपोहिष्टादिभिस् तद्वद् धिरण्यादिभिर् एव च ॥
पवमानानुवाकेन शन्नोवाकेन चैव हि ।
शरीराभ्यां जनं कार्यं सम्पातैक्येन सर्वशः ॥
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।
यजमानः शुचिर् भूत्वा देवेशं पूज्य भक्तितः ॥
मूलमन्त्रेण च पुनस् तस्मै हुतवते ऽर्चिते ।
दद्यात् तां देवदेवस्य प्रतिमां शङ्करस्य तु ॥
मन्त्रेणानेन विधिवत् प्राङ्मुखाय ह्य् उदङ्मुखः ।
देवदेव महेशान वृषभध्वज शङ्कर ॥
अन्नचौर्येण यत् पापं कृतं जन्मान्तरे मया ।
[७४९] तेन यज् जनितं कार्श्यम् असह्यं मम देहजम् ।
तव दानेन दत्तेन पीनो ऽस्मि रक्ष पापिनम् ॥
दानमन्त्रः ।
एवं यो विधिनानेन शङ्करप्रतिमान् नरः ।
ददात् विप्रवर्याय स कार्श्याद् विप्रमुच्यते ॥
पुण्याहवाचनं कृत्वा ब्राह्मणान् अपि भोजयेत् ॥
इति रुद्रमूर्तिदानविधिः ।
अथ दक्षिणमूर्तिदानम् । वायुपुराणे ।
श्रूयतां परमं गुह्यं दानं सर्वोत्तमोत्तमम् ।
नमस्कृत्य प्रवक्ष्यामि देवदेवस्य शूलिनः ॥
सर्वेषाम् एव पापानां येन नाशः प्रजायते ।
पापानां निष्कृतिः प्रोक्ता मुनिभिः शास्त्रदर्शिभिः ॥
तपोहोमजपप्राया सा हि कार्या प्रयत्नतः ।
एतत् तु सर्वपापानां प्रायश्चित्तम् अनुत्तमम् ॥
महापातकदोषेषु पातके चोपपातके ।
अन्येषाम् अपि दोषाणां निष्कृतिः परिवर्तते ॥
पलत्रयेण देवेश सुवर्णस्य प्रकल्पयेत् ।
ईशानं दक्षिणामूर्तिं सर्वज्ञं लोकसाक्षिणम् ॥
गोमयेनोपलिप्तायां भूमौ विन्यस्य पङ्कजम् ।
नानारजोभिस् तन्मध्ये पुण्डरीकं न्यसेत् ततः ॥
[७५०] तत्कर्णिकायां देवेशम् अर्चयेद् धेमरूपिणम् ।
सर्वज्ञं सर्वगं शान्तं सर्वकारणकारनम् ।
सर्वदेवनमस्कृत्यं सर्वदेवान्तवेदिनम् ॥
पापेन्धनमहावह्निं संसारार्णवतारणम् ।
करुणौघमहासिन्धुं चन्द्रमौलिं महेश्वरम् ॥
वरदानाभ्यकरं सर्वाङ्गं च महार्णवम् ।
एवं सञ्चिन्त्य देवेशम् अर्चयेद् ब्रह्म पङ्कजैः ॥
श्वेतैर् विकसितैः पद्मैः सितचन्दनवारिणा ।
कर्पूरविद्धम् अगुरुं धूपार्थं च निवेदयेत् ॥
क्षौमे च वाससो दद्यात् पायसं च निवेदयेत् ।
प्रदक्षिणं ततः कृत्वा निवेद्य परमात्मने ॥
आत्मानम् अर्चयित्वा तु ततो विप्रं समर्चयेत् ।
वेदवेदाङ्गविदुषं शान्तं शिवपरायणम् ॥
ज्ञाननिर्दग्धकर्माणं नित्यनैमित्तिके रतम् ।
तम् एव देवं सङ्कल्प्य पूजयित्वा विधानतः ॥
प्रणिपत्य तु तं देवं ततो मन्त्रम् उदीरयेत् ।
भगवन् सर्वभूतज्ञ सर्वज्ञामृत शङ्कर ॥
त्वत्प्रसादेन मे शेषं पापं नश्यतु सर्वतः ।
यत् पापं वाङ्मनःकायसम्भवं मम शङ्कर ॥
तव रूपप्रदानान् मे विलयं यान्तु सर्वतः ।
अज्ञे पापे निराचारे त्वम् एव शरणं गते ॥
मयि सर्वौघनाशेन दयां कुरु महेश्वर ।
[७५१] इत्य् आमन्त्र्य ततो दद्याच् छिवः सम्प्रीयताम् इति ॥
क्रियाकलापम् अखिलम् आत्मानं मलसञ्चयम् ।
सर्वं निवेदयेत् तस्मै विश्वरूपाय शम्भवे ॥
अनेन विधिना यस् तु प्रदद्यात् सर्वनिष्कृतिम् ।
तस्य सर्वाणि पापानि विनश्यन्ति न संशयः ॥
यथा नश्यन्ति सूर्यस्य सन्निधौ सकलं तमः ।
तथा शिवप्रदानेन सर्वं पापं विनश्यतु ॥
यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते क्षणात् ।
तथायं भगवान् शम्भुः शरणागतदुष्कृतम् ॥
सर्वधर्मविहीनस्य सर्वपापैः प्रमुच्यते ।
अपि चेत् स्यात् स सर्वेभ्यः पापेभ्यः कृतमानसः ॥
सर्वं शिवप्लवेनैव वृजिनं सन्तरिष्यति ।
तस्माद् यः सर्वम् उत्सृज्य शरणं याति शङ्करम् ॥
भक्त्या परमया तस्य न भयं विद्यते क्वचित् ।
जीवतो हि भवेत् पापम् अवश्यं मानुषात्मनः ॥
तस्य पापस्य वै नास्ति प्रयश्चित्तं विना क्षयः ।
तस्मात् कुर्यात् प्रयत्नेन निष्कृतिं प्रतिवत्सरम् ॥
अनित्यं जीवितं यस्मात् सम्पद् आरोग्यम् एव च ।
नरकोत्तारणं कार्यं तस्माद् आत्महितेच्छया ॥
इति दक्षिणामूर्तिदानविधिः ।
अथ परशुदानम् । वायुपुराणात् ।
ऋषय ऊचुः ।
समीरण नमस् तुभ्यं यत् प्रोक्तं भवता व्रतात् ।
प्रायश्चित्तम् अशेषेण तद् अस्माभिर् दृढीक्र्तम् ॥
वक्तुअम् अर्हसि भूयो नः प्रसाद सुमुख प्रभो ।
यत् तु मानसिकं पापं बुद्धिपूर्वं सुरोत्तम ॥
वक्तुम् अर्हसि दानेन तस्य पापक्षयो भवेत् ॥
वायुर् उवाच ।
मनसो दुर्विचारत्वाद् बहुत्वाच् च तपोधनाः ।
अवश्यम् एव भवति महताम् अपि निश्चयः ॥
विना दानेन भूयो ऽपि नरकाय प्रवर्तते ।
तस्मात् तस्य क्षयोपायं दानं वक्ष्यामि साम्प्रतम् ॥
उपपातकसंयुक्तं येन पापं विनश्यति ।
अष्टम्यां कृष्णपक्षस्य पूर्वाह्णे शालितण्डुलैः ॥
भारत्रयेण कुर्वीत रूपं वस्त्रेण शूलिनः ।
चतुर्बाहुं त्रिनेत्रं च सुखासीनं सरोरुहे ॥
तस्य दक्षिणहस्ते तु सुवर्णं पलनिर्मितम् ।
परशुं कल्पयित्वा च ततः सम्प्रति पूजयेत् ॥
सर्वं परशुहस्ताय मन्त्रेणाराधनं भवेत् ।
बिल्वपत्रैः कुशैश् चापि पूजयेत् परमेश्वरम् ॥
परशुं च पृथक् पुष्पै रक्तैर् अभ्यर्च्य शान्तधीः ।
[७५३] पृथक्त्वं शिवभक्तं च ब्राह्मणं वेदपारगम् ।
अर्चयित्वा यथापूर्वं ततो मन्त्रम् उदीरयेत् ॥
नीललोहित देवेश सर्वपापभयापह ।
परशुव्यग्रहस्तस् त्वं तवाहं शरणं गतः ॥
यन् मया मनसा पापं कृतम् आजन्मनः प्रभो ।
तत् सर्वं क्षपयाशेष विभो परशुदानतः ॥
अनेन सर्वपापानि मानसानि विनाशय ।
मयि दीने दयां देव दर्शयाद्य प्रसादतः ॥
इत्य् उक्त्वा तं द्विजेन्द्राय परशुं तण्डुलादिकम् ।
त्रिवेदवेदकलशं भूमिदेवं द्विजोत्तमम् ॥
इत्य् उक्तं परशोर् दानं मानसाघविनाशनम् ।
यद् यत् करोति मनसा पापम् आजन्मनः पुरा ॥
निष्कृतिस् तस्य पापस्य दानम् एतत् प्रयत्नतः ।
मासि मासि ततो दयं दानम् एतत् तपोधनाः ।
वत्सरे वत्सरे वापि सर्वदोषापनुत्तये ॥
इति परशुदानविधिः ।
अथ शूलदानम् । वायुपुराणात् ।
ऋषय ऊचुः ।
समीरण जगत्प्राण पवमानक्रियाविभो ।
वक्तुम् अर्हसि नो दानं येन पापं व्यपोहति ॥
कर्मणा मनसा वाचा यद् अबुद्धिकृतं भवेत् ।
[७५४] पापं तस्य क्षयोपायं वक्तुम् अर्हसि नः प्रभो ॥
यस्माद् भोगाद् ऋते नास्ति क्षयः पापस्य कर्मणः ।
करदण्डेन वाचाथ प्रायश्चित्तेन वा पुनः ॥
राजदण्डः प्रकाशस्य पापस्य कथितः पुरा ।
अबुद्धिपूर्वं यत् पापम् अज्ञानाच् च महीपते ॥
निष्कृतिर् न कृता यस्य तस्य वैवस्वतः प्रभुः ।
तस्मात् तस्य क्ष्योपायो वक्तव्यश् चरताम्बर ॥
वायुर् उवाच ।
अहं वः कथविष्यामि शृणुध्वं मुनिसत्तमाः ।
या निष्कृतिस् तु पापानां कृतानां प्रज्ञया विना ॥
यत् पाशुपतम् आख्यातम् अस्त्रं देवस्य शूलिनः ।
तस्य प्रदानात् सकलं तत् पापं सम्प्रणश्यति ॥
कृष्णपक्षे चतुर्दश्याम् अष्टम्यां वा सितेतरे ।
कुर्याद् द्वादशनिष्केन त्रिशूलं लक्षणान्वितम् ॥
युगान्तकरणं घोरम् अघविघ्नं सनक्षमम् ।
नानारजोविरचिते चक्रे षडारभूषिते ।
नाभौ निधाय सम्पूर्णं तिलानां ताम्रनिर्मितम् ॥
पात्रम् आढकसमानं तत्र शूलं न्यसेत् पुनः ।
कुर्यात् तेनैव मन्त्रेण तस्य पूजाम् अनुक्रमात् ॥
निरूपाक्षं च तत्पार्श्वे कमलोपति पूजयेत् ।
अघोरेभ्यो ऽपि मन्त्रेण पूजान्ते प्रणिपत्य च ॥
अघोरमन्त्रस् तु लिङ्गपुराणे ।
[७५५] ॐ अघोरेभ्यो घोरेभ्यो घोरघोरतरेभ्यश् च सर्वतः सर्वेभ्यो
नमस् ते ऽस्तु रुद्ररूपेभ्यः । इति ।
विप्रं च ज्ञातिनं तद्वत्सं पूज्य मुनिपुङ्गवाः ।
प्रदक्षिणं ततो गत्वा इमं मन्त्रम् उदीरयेत् ॥
भगवन् भगनेत्रघ्न दक्षयज्ञविमर्दन ।
तवायुधप्रदानान् मे पापं नश्यतु शङ्कर ॥
युगान्ते येन लोकानां त्वम् अन्तकविनाशनम् ।
विदग्धं तं मयाप्य् एतत् तेन पापं प्रणाशय ॥
येन दग्धं क्षणार्धेन त्रिपुरं सुरदुर्जयम् ।
तेन पाशुपतेनाशु मम पापं प्रणाशय ॥
यद् अबुद्धिकृतं पापं मम चाज्ञस्य मानसम् ।
तत् सर्वं क्षयम् अभ्येतु तव शूलप्रदानतः ॥
इत्य् आमन्त्र्य ततो दद्याच् छूलं तस्मै द्विजातये ।
यद् आत्मनः कृतं पापम् अज्ञानाद् यत् पुरा भवेत् ॥
निष्कृतिस् तस्य सर्वस्य शूलदानम् इदं मतम् ।
अवश्यं कुरुते पापम् अज्ञानान् मानवो यतः ।
वर्षे वर्षे ततो दद्यात् तस्य तस्यापनुत्तये ॥
इति शूलदानविधिः ।
आह बौधायनः ।
अतः परं विपाकोत्थं सर्वं शूलविनाशनम् ।
दानं यद् ब्रह्मणा प्रोक्तं तत् सम्यक् कथयाम्य् अहम् ॥
सौवर्णं राजतं वापि शूलं कुर्यात् प्रयत्नतः ।
[७५६] यथावित्तानुसारेण पलार्धेनाथ वा पुनः ॥
ताम्रेणाथायसा वापि खदिरेणाथ वा पुनः ।
महादेवप्रहरणं यथा तद्वत् प्रकल्पयेत् ॥
रक्तवस्त्रेण संवेष्ट्य रक्तचन्दनचर्चितम् ।
रक्तमाल्येन संवेष्ट्य तिलानाम् उपरि न्यसेत् ॥
तिलानां तु परीमाणं द्रोणं वाथ तदर्धकम् ।
तदर्धं वा यथाशक्त्या पूजयेद् ब्राह्मणः शुचिः ॥
अर्घ्यादि मूलमन्त्रेण षोडशैवोपचारकान् ।
क्रियाविद्ब्राह्मणं पूज्य कर्ता होमं प्रकल्पयेत् ॥
शूलस्य दक्षिणे पार्श्वे दक्षिनाग्निः प्रणीयते ।
समिदाज्यतिलान् हुत्वा पुरुषस्येति वै समित् ॥
त्र्यम्बकेन च मन्त्रेण आज्यहोमं प्रकल्पयेत् ।
यत् इन्द्रेण च तिलान् शं नः शान्तिं प्रकल्पयेत् ॥
तेनोदकेन वा सिञ्चेच् छूलिनं रोगिणं नरः ।
ततो हुतवते शूलं सम्पूज्य च स्वशक्तितः ॥
दद्यात् सदक्षिनं तं तु प्राङ्मुखाय ह्य् उदङ्मुखः ।
मन्त्रेणानेन परया भक्त्या सर्वं परं स्मरन् ॥
त्वं शूलं ब्रह्मणा सृष्टं त्वं पुराणं विनाशकम् ।
दैत्यानां दानवानां च शङ्करस्यायुधं सदा ॥
कुक्षिस्थम् अथ पार्श्वस्थम् अथ वा पृष्ठसङ्गतम् ।
शूलं विनाशय त्वं मे महादेवेन धारितम् ॥
[७५७] ततः स्नात्वा च भुञ्जीत ब्राह्मणैर् बन्धुभिः सह ।
शूलहिंसासमुत्पन्नां वेदनाम् आशु नाशयेत् ॥
इत्य् अपरशूलदानविधिः ।
अथ सूर्यमूर्तिदानम् । आह वृद्धगौतमः ।
बिभ्रामयति यो मूढान् औषधादिप्रयोगतः ।
भ्रामणं जायते तस्य देहिनो ऽतीव दुःसहम् ॥
वक्ष्यामि तत्प्रतीकारं दानहोमादिकर्मणा ।
व्यावहारिकनिष्कैस् तु त्रिभिर् द्वाभ्याम् अथापि वा ॥
एकेन वा स्वशक्त्या च सूर्यप्रतिकृतिं शुभाम् ।
कुर्याद् विहस्ताम् ऊर्ध्वं तु पद्मद्वयसुभूषिताम् ॥
रथोपरि स्थितां रक्तवाससा समलङ्क्र्ताम् ।
कुङ्कुमेनाङ्कितां सम्यग् रत्नमाल्यैर् अलङ्कृताम् ॥
स्नापितां पञ्चगव्येन ताम्रपात्रोपरि न्यसेत् ।
पात्रस्य च परीमाणं तिलानाम् अष्टकं विदुः ॥
तदर्धं वा तदर्धं वा यथा विभवतो भवेत् ।
पात्रं तिलानाम् उपरि विन्यसेद् दर्भसंस्तृते ॥
एवं भूतां तु तां मूर्तिम् आचार्यः पूजयेत् सुधीः ।
गन्धमाल्यैः सुरभिभिर् हंसः शुचिःषड् इत्य् ऋचा ॥
उपचारैः षोडशभिर् नैवेद्यं पायसं क्षिपेत् ।
आग्नेय्यां दिशि होमश् च कर्तव्यः शुभम् ईप्सुभिः ॥
[७५८] समिदाज्यतिलैश् चैव मन्त्रैर् एभिर् यथाक्रमम् ।
चित्रं देवानां तच् चक्षुर् उदत्यं जातवेदसम् ॥
यद् अस्य कर्मणश् चेति स्विष्टकृद्धोम इष्यते ।
अग्नेर् उत्तरतो भागे कलशस्थाप्नं भवेत् ॥
अभिषेकादिकं सर्वं शान्तिकर्मपुरःसरम् ।
सुखासनोपविष्टस्य कर्तव्यं ब्राह्मणैः शुभैः ॥
प्रणीतामोक्षपर्यन्तं ब्रह्मोद्वासनम् एव च ।
ततः स्नातः शुचिर् हृष्टः शुक्लगन्धानुलेपनः ॥
शुक्लमाल्यैः शोभितश् च आचार्याय ह्य् उदङ्मुखः ।
प्राङ्मुखायोपविष्टाय दद्यात् प्रतिकृतिं शुभाम् ॥
सहस्रकिरणो देवः खगः पूषा गभस्तिमान् ।
सर्वदेवमयो ब्रह्म जगच्चक्षुस्त्रयीतनुः ॥
औषधादिप्रयोगेण पुरा यद् भ्रामणं कृतम् ।
विप्राणां पादम् अभ्यर्च्य यद् भूतं भ्रमणं मम ॥
प्रतिमायाः प्रदानेन तुष्टो देवओ बृहस्पतिः ।
भ्रमणं देहगं सर्वं वासुदेवो व्यपोहतु ॥
दानमन्त्रः ।
एवं दत्वा तु तद्दानम् आचार्यायातिभक्तितः ।
आसीमान्ताद् अनुव्रज्य प्रणिपत्य क्षंआपयेत् ॥
अन्येभ्यो ऽपि ब्राह्मणेभ्यो दद्याच् छक्त्या च दक्षिणाम् ।
एवं दानं पुरा प्रोक्तं दत्वा मर्त्यो ऽतिभक्तितः ।
पूर्वकर्मविपाकोत्थं भ्रमं त्यक्त्वा सुखी भवेत् ॥
[७५९]
इति सूर्यमूर्तिदानविधिः ।
तथा ।
ब्राह्मणं घातयेद् यस् तु कुष्टी जायते नरः ।
वक्ष्यामि तत्प्रतीकारं सूर्यदानं विधानतः ॥
पलेन वा तदर्धेन तदर्धार्धेन वा पुनः ।
सूर्यप्रतिकृतिं कुर्यात् कदलीं चैव सन्निधौ ॥
कुष्ठोपहतदेहानां शान्त्यर्थं कारयेच् छुभाम् ।
सुवर्णेन पलार्धेन पत्रपुष्पैर् अलङ्कृताम् ॥
सूर्यस् तु द्विभुजः कार्यो राजते च रथे स्थितः ।
रक्तवस्त्रेण संवेष्ट्य कुङ्कुमेनानुलेपयेत् ॥
रम्भां तु श्वेतवस्त्रेण श्वेतपुष्पैश् च चन्दनैः ।
तण्डुलोपरि संस्थाप्य नानाफलसमन्विताम् ॥
तण्डुलानां परीमाणं द्रोणमात्रं प्रकीर्तितम् ।
श्रुताध्ययनसम्पन्नं ब्राह्मणं शान्तमानसम् ॥
सर्वविद्यासु कुशलं दरिद्रं चाग्निहोत्रिणम् ।
गृहम् आहूय भक्त्या ताम् पूजयेद् वस्त्रमाल्यकैः ॥
ततो होमं प्रकुर्वीत समिदाज्यतिलाक्षतैः ।
लाजाश् च मधुना मिश्रा हुत्वा चाष्टोत्तरं शतम् ॥
मन्त्रेण चैव गायत्र्या दुर्गाग्रहाधिदेवताः ।
जुहुयाच् च ततो भक्त्या समिदाज्यचरून् अपि ॥
तथैव ह्य् आज्यसम्पते रक्षिता इत्य् अनेन तु ।
समञ्जनं प्रकुर्वीत यथा लिङ्गं शरीरके ॥
[७६०] शन्नोदेव्यनुवाकेन शान्तिं कुर्याद् विशेषतः ।
तस्मै हुतवते रोगी दद्याद् भक्तिपुरःसरम् ॥
मन्त्रेणानेन विधिवत् प्राङ्मुखाय ह्य् उदङ्मुखः ।
आदित्य सूर्य द्युमणे सर्वरोगविनाशक ॥
सहस्रकिरणाम्भोजबन्धो तिमिरनाशन ।
द्वादशात्म्ंस् त्रयीदेह जगच्चक्षुर् द्वाकर ॥
पूर्वकर्मविपाकोत्थं कुष्ठम् आशु विनाशय ॥
इति सूर्यप्रतिकृतिदानमन्त्रः ।
कदली सर्वदेवानां मातॄणां सर्वशर्मदे ।
लक्ष्म्या शच्या च पर्वत्या देवकन्याभिर् एव च ॥
सावित्र्या रम्बया चैव कार्यार्थं पूजिता पुरा ।
अङ्गप्रत्यङ्गजं सर्वं कुष्ठजातम् अपानुद ॥
कदलीदानमन्त्रः ।
ततः स्नात्वा च भुञ्जीत ब्राह्मणैर् बन्धुभिः सह ॥
इत्य् अपरसूर्यमूर्तिदानविधिः ।
अथ वह्निमूर्तिदानम् । तत्र बौधायनः ।
सुवर्णेनाथ ताम्रेण कुर्यात् प्रतिकृतिं बुधः ।
वह्नेर् विभवसारेण पलेनार्धेन वा पुनः ॥
[७६१] वह्निलक्षणं तु लोकपालप्रसङ्गेन ब्राह्माण्ददाने दर्शितम् ।
तथा ज्वालाकुलां रक्तचन्दनेन विलेपितः ।
रक्तवस्त्रेण संवीतां मेषस्योपरि संस्थिताम् ॥
तक्तमाल्यैस् तु सञ्छन्नां मुक्तादामपरिष्कृताम् ।
कनकाचलवर्णाभां द्वादशार्कनिभां शूभाम् ॥
ब्रह्मचर्यान्विते विप्रे कर्मनिष्ठे ऽग्निहोत्रिणि ।
अङ्गुलीयकवस्त्राद्यैर् भूषिते तां निवेदयेत् ॥
मन्त्रेणानेन विधिवद् अग्निप्रीत्यर्हम् आदृतः ।
त्रेतारूपो ऽग्निर् ईड्यस् त्वम् अन्तश् चरसि वै नृणां ॥
त्वं वेत्थ प्राक्तनं पापम् अतीसारं विनाशय ।
एवं कृत्वा नरः सम्यग् अतीसारं व्यपोहति ।
नीरुजः सुसुखो नित्यं दीर्घम् आयुश् च विन्दति ॥
इत्य् अग्निमूर्तिदानविधिः ।
अथ कालपुरुषदानम् । भविष्योत्तरे ।
युधिष्ठिर उवाच ।
दानान्य् अन्यानि मे कृष्ण कथयस्व यद् उत्तमम् ।
मङ्गल्यानि पवित्राणि सर्वपापहराणि च ॥
संसारसागरोत्तारहेतुभूतानि माधव ।
धर्माधर्म परिज्ञाने त्वदन्यो नेह कश्चन ॥
[७६२] श्रीकृष्ण उवाच ।
दानानि बहुरूपाणि कथितानि मया तव ।
पुनर् एव प्रवक्ष्यामि यद्य् अस्ति तव कौतुकम् ॥
कथितानि मया तुभ्यं कथयिष्याम्य् अहं तव ।
महतार्थेन सिद्ध्यन्ति प्रयच्छन्ति महत् फलम् ॥
काम्यो दानविधिः पार्थ क्रियमाणो यथातथम् ।
फलाय मुनिभिः प्रोक्तो विपरीतो भयाय च ॥
ज्ञेयं निष्कशतं पार्थ दानेषु विधिर् उत्तमः ।
मध्यमस् तु तदर्थेन तदर्धेनाधमः स्मृतः ॥
मेष्यां च कालपुरुषे तथान्येषु महत्सु च ।
एवं वृक्षे रथे ऽण्डे च धेनोः कृष्णाजिनस्य च ॥
अशक्तस्यापि कृष्णो ऽयं पञ्चसौवर्णिको विधिः ।
अतो ऽप्य् अल्पेन यो दद्यात् महादानं नराधिप ॥
प्रतिगृह्णाति वा तस्य दुःखशोकावहं भवेत् ।
पुण्यं दिनम् अथासाद्य भूमिभागे समे शुभे ।
चतुर्दश्यां चतुर्थ्यां वा विष्ट्यां वा पाण्डुनन्दन ।
विष्टिर् भद्राकरणम् ।
पुमान् कृष्णतिलैः कार्यो रौप्यदन्तः सुवर्णदृक्
सुवर्णादिपरीमाणम् अत्र यथाशक्ति सम्पादनीयम् ।
खड्गोद्यतकरो दीर्घो जवाकुसुमकुण्डलः ।
[७६३] रक्ताम्बरधरः स्रग्वी शङ्खमालाविभूषितः ।
तीक्ष्णासिपुत्रीबन्धेन विसृग्दारिकतीतटः ॥
अस्तिपुत्री छूरिका ।
उपानद्युगयुक्ताङ्घ्रिः कृष्णकम्बलपार्श्वगः ।
गृहीतमांसपिण्डश् च वामे करतले तथा ॥
एवंविधं पुमान् कृत्वा गृहीतकुसुमाञ्जलिः ।
यजमानः प्रसन्नात्मा इमं मन्त्रम् उदीरयेत् ॥
सम्पूज्य गन्धकुसुमैर् नैवेद्यं विनिवेद्य च ।
सर्वं कलयसे यस्मात् कालस् त्व् अन्तेन चोच्यसे ॥
ब्रह्मविष्णुशिवादीनां त्वम् असाध्यो ऽसि सुव्रत ।
पूजितस् त्वं मया भक्त्या पार्थिवश् च तथासुखम् ॥
तद् बुध्यते तव विभो तत् कुरुष्व नमो नमः ।
एवं सम्पूजयित्वा तं ब्राह्मणाय निवेदयेत् ॥
ब्राःमणं प्रथमं पूज्य वासोभिर् भूषणैस् तथा ।
दक्षिणां शक्तितो दद्यात् प्रणिपत्य विसर्जयेत् ॥
दक्षिणां पूर्वोक्तां निष्कादिकाम् ।
अनेन विधिना यस् तु दानम् एतत् प्रयच्छति ।
न च मृत्युभयं तस्य न च व्याधिकृतं भवेत् ॥
भवत्य् अव्याहतैश्वर्यः सर्वबाधाविवर्जितः ।
देहान्ते सूर्यभवनं भित्त्वा याति परं पदम् ॥
पुण्यक्षयाद् इहागत्य राजा भवति धार्मिकः ।
[७६४] सत्त्रयाजी श्रिया युक्तः पुत्रपौत्रसमन्वितः ॥
सम्पूज्य कालपुरुषं विधिवद् द्विजाय
दत्वा शुभाशुभफलोदयहेतुभूतम् ।
रोगातुरे सकलदोषमये ऽत्र देहे
देही न मोहम् उपगच्छति तत् प्रभावात् ॥
इति कालपुरुषदानविधिः ।
अथ कालचक्रदानम् । मृत्युञ्जयात् ।
चक्रं रौप्यमयं कृत्वा मुक्तारश्मिमयात्मकम् ।
कृत्वा मूर्ध्नि शरच्चन्द्रं रश्मिमध्यान्तरस्थितम् ॥
त्वङ्मांसानि तु रौप्याणि गात्रेषु च समन्ततः ।
एवं ध्यानवतस् तस्य सचन्द्रः कृष्णतां व्रजेत् ॥
ततो ऽप्य् अनन्तरं पश्चात् स्थित्वा विप्रप्रदक्षिणम् ।
तं गृहीत्वा व्रजेद् दूरम् अदृष्टत्वम् अपि व्रजेत् ॥
स्वयं चामृतसङ्घातपूर्णकायस्थितिस्थितः ।
कालचक्रम् इदं नाम्ना दानं मृत्युविनाशनम् ॥
इमं ते राजतं चान्द्रं रश्मिजालसमाकुलम् ।
अपमृत्युविनाशाय ददामीति समुच्चरन् ॥
सुवर्णं दक्षिणायुक्तं ब्राह्मणाय निवेदयेत् ।
एवं वाते विनश्येत अपमृत्युर् न संशयः ॥
ततस् तस्मात् सदा देयम् अपमृत्युभयान्वितैः ।
ज्वरादिरोगग्रस्तैर् वा महापत्पतितैर् अपि ॥
[७६५] ततो गृह्योक्तविधिना स्थापयेज् जातवेदसम् ।
जुहुयात् कालनाम्ना तु शतम् अष्टोत्तरं तिलैः ॥
ततस् तु भोजयेद् भक्त्या विप्रान् द्वादशसङ्ख्यया ।
स्वयम् अक्षारलवणं भुञ्जीत सकृद् एव हि ।
एवं कृते नरो नूनं चिरं जीवेन् न संशयः ॥
इति कालचक्रदानविधिः ।
अथ यमदानम् । मृत्युञ्जयात् ।
लोहपात्रस्थितं कांस्यं तत्र पद्मं तु राजतम् ।
तस्मिन् कालेश्वरः स्वर्णैः पुरुषाकारताङ्गतः ॥
यमरूपम् उक्तं ब्रह्माण्डदाने ।
वस्त्रालङ्कारसंयुक्तो भयदास्त्राणि सर्वतः
त्रिलोहाकारपुरुषैः कालदूतैश् च पार्श्वतः ।
भयदास्त्राणि खड्गच्छुरिकादीनि । त्रिलोहं ताम्रकांस्यपित्तलाख्यम् । कालदूताः पुरुषाकृतयो दण्डहस्तास् त्रयः ।
कृत्वा च महिषं पृष्ठे तं दद्याद् यमम् आलपन् ।
अष्टम्यां च चतुर्दश्यां करोति विधिना तु यः ।
स मुच्यते ध्रुवं नाशाद् दत्वा घृतघटोत्तरम् । \
यमम् आलपन्न् इति महिषपृष्ठस्थित लोहपात्री परिस्थितः कांस्य**[७६६]**पात्रनिविष्त-पद्मारूढं यमं ददामीत्य् उच्चारयन् इत्य् अर्थः । घृतघटस्य उत्तरे दक्षिणास्थाने यस्येति दानविवेककारः अपरे तु सुवर्णदक्षिणेति ।
इति यमदानविधिः ।
अथोदकुम्भदानम् । शौनकीयात् ।
मार्कण्डेय उवाच ।
भगवन् केन दानेन तपसा केन कर्मणा ।
अप्राप्य नरकं घोरं स्वर्गं प्राप्नोति मानवः ॥
नरकेषु विपच्यन्ते जन्तवः सततं मुने ।
अल्पायासेन देवर्षे परिहारो ऽस्ति चेद् वद ॥
सूत उवाच ।
एवम् उक्तो ऽथ भगवान् मार्कण्डेयेन् धीमता ।
उवाच नारदो दानम् अल्पवित्तं महाफलम् ॥
मार्कण्डेय शृणुष्वेदं ब्रह्मविष्ण्वोः पुरानघ ।
तद् आह भगवाञ् छम्भुर् द्वयोः पृष्टस् तयोस् तथा ॥
श्रूयताम् उदकुम्भाख्यं दानं वक्ष्यामि सुव्रती ।
यत् कृत्वा पुरुषः स्त्री वा न याति नरकं क्वचित् ॥
स्वर्ग्यं यशस्यम् आयुष्यम् आरोग्यं पापनाशनम् ।
मम प्रीतिकरं पुण्यं युवयोश् च प्रियं तथा ॥
[७६७] वैशाख्यां पौर्णमास्याञ्च कार्तिक्याम् अथ तद्दिने ।
स्वजन्मदिवसे कार्यं दुःस्वप्नाद्भुतदर्शने ॥
भूमौ गोमयलिप्तायाम् उदकुम्भं न्यसेद् बुधः ।
पुष्पैः फलैश् च संवेष्ट्य वस्त्रेण सितरूपिणम् ।
विधानेन तिलैर् मिश्रं गुण्डं तत्रैव निक्षेपेत् ॥
धर्मराजं न्यसेद् देवं सौवर्णं शक्तितः कृतम् ।
सुमुखं द्विभुजं देवम् आसीनं दण्डहस्तकम् ॥
वरदं कृपया युक्तं भक्तानां हितकारिणम् ।
एवं सप्तघटान् कृत्वा गन्धादिभिर् अथार्चयेत् ॥
विप्रेभ्यो दापयेत् कुम्भान् एभिर् मन्त्रैर् यथाक्रमम् ।
यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥
वैवस्वताय कालाय सर्वभूतक्षयाय च ।
एवम् आराध्य तान् कुम्भान् दद्याद् उदकपूवकम् ॥
प्रीयतां भगवान् एव मन्त्राते (?) समुदाहरेत् ।
एवं कुम्भप्रदानेन देव देवः स तुष्यति ॥
कर्ता कारयिता स्वर्गं प्राप्नोतीति न संशयः ।
न याति नरकं घोरं न प्राप्नोत्य् अशुभं क्वचित् ॥
यमस्वरूपी भगवान् प्रीतो भवति तस्य वै ।
यः कुम्भदानं विप्रेभ्यो ददाति च यथाविधि ॥
इत्य् उदकुम्भदानविधिः ।
अथ मकरदानम् । तत्र बौधायनः ।
[७६८] कुर्यात् तु मकरं सम्यग् राजतं ताम्रम् एव च ।
पलत्रयेण द्वाभ्यां वा यद् वैकेन शुभाक्र्तिम् ॥
पुच्छे रत्नानि देयानि कटिं रूप्येण कारयेत् ।
नेत्रे स्वर्णमये कार्ये जिह्वा कार्या प्रकल्पयेत् ॥
पादयोः प्रक्षिपेत् तत्र घृतपात्रे पुरो द्वयोः ।
कृष्णवस्त्रेण संवेष्ट्य चन्दनागुरुचर्चितम् ॥
ताम्रे ऽथ जलपात्रे ऽथ स्थापयेन् मकरं शुभम् ।
ब्राह्मणं वृत्तसम्पन्नं वृद्धं दान्तम् अलोलुपम् ॥
वस्त्रैः कटककेयूरैः पूजयेद् अङ्गुलीयकैः ।
होमो बारुणदैवत्यैर् मन्त्राध्यायोक्तमार्गतः ॥
ततस् त्व् औदरिके विप्रे मकरं तं निवेदयेत् ।
जलाधिदेव देवेश पश्चिमाशापते विभो ।
उदरव्याधिनाशं मे कुरु दानेन तोषितः ॥
इति मकरदानविधिः ।
अथ धनदमूर्तिदानम् । वायुपुराणे ।
दरिद्रो जायते मर्त्यो दानविघ्नं करोति यः ।
ऐश्वर्यं जायते येन कर्मणा तच् छृणुष्व मे ॥
पलार्धेन तदर्धेन तदर्धेनाथ वा पुनः ।
धनदस्य प्रतिकृतिं कुर्यात् स्वर्णमयीं शुभाम् ॥
द्विभुजां वाहनोपेतां नयनानन्दकारिणी ।
[७६९] धनदलक्षणं धान्यपर्वतदाने द्रष्टव्यम् ।
शङ्खपद्मनिधिभ्यां च युक्तां तां पार्श्वयोर् द्वयोः ।
श्वेतवस्त्रेण संवेष्ट्य तण्डुलोपरि विन्यसेत् ॥
तण्डुलानां परीमाणं भवेद् द्रोणचतुष्टयम् ।
तदर्धं वा तदर्धं वा वित्तशाठ्यं न कारयेत् ॥
श्वेतमाल्यैस् तथा गन्धैर् अनुलिप्य प्रपूजयेत् ।
आग्नेय्यां दिशि होमश् च समिदाज्यतिलैर् भवेत् ॥
मन्त्रो राजाधिराजायेत्य् एष योज्यः सलिङ्गकैः ।
व्याहृत्या तिलहोमश् च कर्तव्यो धनकाङ्क्षिभिः ॥
आचार्यः सर्वशास्त्रज्ञो विनीतः सर्वसम्मतः ।
महाकुलप्रभूतश् च धर्मज्ञः सत्यवाक् शुचिः ॥
कारयेद् अर्चनं तेन धनदस्यातिभक्तितः ।
तद् दैवत्येन मन्त्रेण स च कामीश्वरो भवेत् ॥
तस्मै होमं कृतवते प्रदद्यात् प्रतिमां तु ताम् ।
मन्त्रेणानेन विधिवत् प्राङ्मुखाय ह्य् उदङ्मुखः ॥
उत्तराशापते देव कुबेर नरवाहन ।
पद्मशङ्खनिधीनां त्वं पतिः श्रीकण्ठवल्लभः ॥
दानाद्येन यथा प्राप्तं दारिद्र्यं मम दुःखदम् ।
तत् सर्वम् आत्मदानेन पापम् आशु विनाशय ॥
दानमन्त्रः ।
एवं कुबेरदानं यः करोति विधिपूर्वकम् ।
धनदेन समो मर्त्यस् तत् क्षनाद् एव जायते ॥
[७७०]
इति धनदमूर्तिदानविधिः ।
अथ नागदानम् । तत्र वृद्धबौधायनः ।
सर्पैस् तु यः खादयति स विसर्पी भवेन् नरः ।
दानेनोपशमः कार्यो होमेन च विशेषतः ॥
पलेन वा तदर्धेन तदर्धेनाथ वा पुनः ।
कुर्यान् नागं सुवर्णेन फणापञ्चकसंयुतम् ॥
माणिक्यानि च देयानि प्रत्येकं फणपञ्चके ।
रत्नं पुच्छे तथा देयं वज्रे लोचनयोस् तथा ॥
एवं कृत्वा शुभं नागं कुङ्कुमेन तु लेपयेत् ।
रक्तवस्त्रेण संवेष्ट्य ताम्रपात्रोपरि न्यसेत् ॥
पात्रस्य च परीमाणं पलानाम् अष्टकं विदुः ।
उपचारैः षोडशभिर् अर्चयेन् नागम् उत्तमम् ॥
आचार्यः सर्वशास्त्रज्ञो धर्मशास्त्रपरायणः ।
होमं चापि प्रकुर्वीत समिदाज्यतिलैः शुभैः ॥
नमो ऽस्तु सर्पेभ्य इति त्रिभिर् मन्त्रैर् यथाक्रमम् ।
अष्टोत्तरसहस्रं तु अष्टोत्तरशतं तु वा ॥
अष्टाविंशतिर् एवाथ परिमाणं पृथग् भवेत् ।
हुत्वा चाहुतिसम्पातैः पात्रे चैकीकृते स्वयम् ॥
श्रावयोगानि चाभ्यज्य रोगिणं तु विसर्पिणम् ।
ऋग्भिस् तु सर्वराज्ञीभिर् भूमिर् भूम्रादिभिः क्रमात् ॥
स्वस्थो यथासौ भवति गात्राणाम् अप्य् अरोगतः ।
[७७१] गुग्गुलं च सुगन्धिं च पत्रिदारु च निक्षिपेत् ॥
प्रकल्प्य कलशं कुर्याद् अभिषेकं जलैः शुभैः ।
ॐ नमः सर्पेभ्य इति चार्धैस् तल्लिङ्गकैर् अपि ॥
हिरण्यवर्णाः शुचयः पवमानो ऽनुवाकतः ।
आपोहिष्टामय इति शन्नोवात इतीरयेत् ॥
उत्सादिताङ्गरुचिरं लिम्पेद् अगुरुचन्दनैः ।
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ॥
ततः समर्चयेद् यत्नाद् गन्धपुष्पाक्षतादिभिः ।
सरदैवत्यमन्त्रेण आचार्यो ऽपि समर्चयेत् ॥
अनन्तं सर्पराजं तम् आचार्याय निवेदयेत् ।
यो धत्ते पृथिवीं कृत्स्नां सशैलवनकाननाम् ॥
क्षीराब्दौ यस्य शय्या च वासुदेवस्य शार्ङ्गिणः ।
स्वीयदानेन नागो ऽसौ तुष्टो व्याधिम् अपोहतु ॥
वैसर्पिकविकारं मे वाग्दोषजनितं तथा ।
रक्तदोषोद्भवं वापि मातृतः पितृतो ऽपि वा ।
अङ्गप्रत्यङ्गसम्भूतं विकारं मे व्यपोहतु ॥
दानमन्त्रः ।
एवं दत्वा तु तं नागम् आचार्याय सदक्षिणम् ।
भूमौ (?) प्रणम्य शिरसा शनैः शतपदं व्रजेत् ॥
आचार्येण ह्य् अनुज्ञातः स्वगृहं प्रविशेत् सुधीः ।
ब्राह्मणान् भोजयित्वा च स्वयं भुञ्जीत बन्धुभिः ॥
[७७२]
इति नागदानविधिः ।
अथात्मप्रतिकृतिदानम् । भविष्योत्तरात् ।
कृष्ण उवाच ।
आत्मप्रतिकृतिर् नाम यन् नोक्तं कस्यचित् पुरा ।
तत् ते ऽहं सम्प्रवक्ष्यामि दानं मानविवर्धनम् ॥
दानकालः सदा तस्य मुनिभिः परिकीर्तितः ।
पुण्यैः पुण्यदिनं पार्थ प्राप्यते जीवितेचले ॥
हैमीं प्रतिकृतिं भव्यां कारयित्वा ततो नृप ।
अभीष्टवाहनगताम् इष्टालङ्कारसंयुताम् ॥
अभीष्टलोकसहितां सर्वोपस्करसंयुताम् ।
अभीष्टलोकसहिताम् इति, प्रियजनसहिताम् इत्य् अर्थः ।
तत्र पट्टपटीवस्त्रैश् छादितां स्रग्विभूषिताम् ।
कुङ्कुमेनानुलिप्ताङ्गीं कर्पूरागुरुवासिताम् ॥
स्त्री चेद् ददाति शयने शयितां कारयेत् स्वयम् ।
यद् यद् इष्टतमं किञ्चित् तत् सर्वं पार्श्वतो न्यसेत् ॥
उपकारकरं स्त्रीणां पुरुषाणां च यद् भवेत् ।
तत् सर्वं स्थापयेत् पार्श्वे स्वयं सञ्चिन्त्य चेतसि ॥
एतत् सर्वं मेलयित्वा स्वे स्वे स्थाने नियोजयेत् ।
पूजयित्वा लोकपालान् ग्रहान् देवीं विनायकम् ॥
[७७३] देवीशब्देनात्र दुर्गोच्यते, विनायकसाहचर्यात् ।
ततः शुक्लाम्बरः स्नात्वा गृहीतकुसुमाञ्जलिः ।
इमम् उच्चारयेन् मन्त्रं विप्रस्य पुरतः स्थितः ॥
आत्मनः प्रतिमा चेयं सर्वोपकरणैर् युता ।
सर्वरत्नसमायुक्ता तव प्रिय निवेदिता ॥
आत्मा शम्भुः शिवः शौरिः शक्रः शिवगणैर् युतः ।
तस्माद् आत्मप्रदानेन मम चात्मा प्रसीदतु ॥
इत्य् उच्चार्य ततो दद्याद् ब्राह्मणाय युधिष्ठिर ।
ब्राह्मणश् चाथ गृह्णाति कोदाद् इति च कीर्थयन् ॥
कोदाद् इति वाजसनेयप्रसिद्धमन्त्रग्रहणम् ।
ततः प्रदक्षिणी कृत्य प्रणिपत्य विसर्जयेत् ।
विधिनानेन राजेन्द्र दानम् एतत् प्रयच्छति ॥
यः पुमान् अथ वा नारी शृणुयात् फलम् आप्नुयात् ।
सार्धं वर्षशतं द्वियं सर्वलोकैः सुरैर् वृतः ॥
अभीष्टफलदानेन चाभीष्टफलभाग् भवेत् ।
यत्रैवोत्पद्यते जन्तुः प्राप्तकर्मक्षयक्षणम् ॥
तत्रैव सर्वकामानां फलभाक् स भवेन् नृप ।
इष्टबन्धुजनैः सार्धं न वियोगं कदाचन ॥
प्राप्नोति पुरुषो राजन् स्वर्गं चानन्तम् अश्णुते ॥
यश् चात्मनः प्रतिकृतिं वरवाहनस्थां
हैमीं विधाय धनदान्यसमाकुलां च ।
सोपस्करां द्विजवराय ददाति भक्त्या
चन्द्रार्कवद् दिवि विभाति स राजराजः ॥
[७७४]
इत्य् आत्मप्रतिकृतिदानविधिः ।
अथाश्विनोर् दानम् । ब्रह्माण्डपुराणे ।
अथापृच्छन् मुनयः सुतसूनुं
तदारण्ये नैनिषे सत्रिणस् ते ।
उग्रश्रवः परिपृच्छामहे त्वां
कथं विद्वान् शमयेद् रोगपीडाम् ॥
एवं पृष्टो मुनिभिः सूतसूनुम्
उवाचेदं दानम् आहात्म्यम् अत्र ।
शृणुध्वं वः कथयिष्यामि दानं
यत् कृत्वासौ मुच्यते रोगपूगैः ॥
अभीष्टसिद्धिर् भवतीह कर्तुर्
आयुष्यम् आरोग्यम् उपैति चाग्र्यं ।
उग्राणि सर्वाणि शमं प्रयाण्ति
श्रियं तथा प्राप्नुयाद् येन दाता ॥
स्वर्भानुना ग्रसिते चन्द्रसूर्ये
राश्यन्तरे सङ्क्रमे वाथ भानोः ।
ग्रस्ते रोगैस् त्रिविधे चाद्भुते वा
मनो नित्यं रमते यत्र भूमौ ॥
तस्मिन् कुर्याद् आश्विनं नाम दानं
[७७५] शुचौ देशे गोमयेनोपलिप्ते ।
वेदीद्वये हस्तमात्रे समन्तात्
कृत्वा तिलैस् तण्डुलैर् आढकाख्यैः ॥
तत्र देवाव् अश्विनौ जातरूपौ
प्रत्यङ्मुखो ऽभ्यर्चयित्वा जातरूपौ ।
जातरूपौ सुवर्णमयौ अश्विनौ । तल्लक्षणम् उक्तं विष्णुधर्मोत्तरे ।
द्विभुजौ देवभिषजौ कर्तव्यौ चारुलोचनौ ।
तयोर् ओषधयः कार्या दिव्या दक्षिणहस्तयोः ॥
वामयोः पुस्तकौ कार्यौ दर्शनीयौ तथा द्विज ।
एकस्य दक्षिणे पार्श्वे वामे चान्यस्य यादव ॥
नारीयुगं प्रकर्तव्यं सुरूपं चारुदर्शनम् ।
तयोश् च नामनी प्रोक्ते रूपसम्पत् तथाकृतिम् ॥
रत्नभाण्डं करे कार्ये चन्द्रशुक्लाम्बरे तथा ॥ इति ।
गन्धैर् वस्त्रैः पुष्पधूपप्रदीपैः
प्रदक्षिणं देवमुख्यौ च कृत्वा ।
पुष्पाञ्जलिं तौ प्रददे प्रणम्य
अभ्यर्च्य विप्रद्वयम् आदरेण ॥
प्रत्येकम् एकं तु हिरण्यरूपं
दद्यात् तु तस्यादकपूर्वम् अत्र ।
समीरयेन् मन्त्रम् अथ क्रमेण
[७७६] दाता समाधाय मनः प्रासन्नम् ॥
नासत्यदम्रौ युगवोर् हिरण्य-
रूपप्रदानान् मम शान्तिर् अस्तु ।
यथा युवां देवभिषग् भवेतां
तथा च मे रोगशमाय देवौ ॥
इत्य् अश्विदानविधिः ।
अथ चन्द्रसूर्यदानम् । विष्णुधर्मोत्तरात् ।
भगवान् उचाच ।
अतः परं प्रवक्ष्यामि दानं राजन् नराधिप ।
यद् दत्वा तु बली राजा शक्रराज्यम् अवाप ह ॥
शक्रश् च बलिनो राज्यं दत्वा पुनर् अवाप च ।
चन्द्रसूर्योपरागे च विषुवे अयने यथा ॥
द्वादश्यां चन्द्रक्षये च वैशाख्यां पुत्रजन्मनि ।
कार्त्तिक्यां च महामाध्यां सप्तम्यां जयायां तथा ॥
दन्द्रादित्यौ च दातव्यौ सूर्यः सौवर्ण उच्यते ।
शुद्धस्य रजतस्यैव मण्डलं हिमरोचिषः ॥
द्वादश्याङ्गुलवृत्तं तु उभयोर् अपि मण्डलम् ।
वृत्तौ पद्मसमाकारौ मध्ये चैव तु कर्णिकाम् ॥
भानुं ताम्रमये पात्रे घृतपूर्णे तु निक्षिपेत् ।
सोमं गङ्गे क्षीरपूर्णे उपरि स्थापयेद् बुधः ॥
[७७७] सूर्यं तु रक्तकुसुमैः सोमं शुक्लैर् तथैव च ।
आदित्याय तु धूपं वै सुगन्धिं चैव दापयेत् ॥
सोमस्य गुग्गुलो देयो गन्धः शुक्लस् तथैव् अच ।
कुङ्कुमं तु पतङ्गाय दीपं चैव घृतेन तु ॥
एवं सम्पूज्य यत्नेन चन्द्रादित्यौ पृथक् कृतौ ।
अमृतमूर्तये सोमं मनोऽन्तेनैव पूजयेत् ॥
खखोल्कायेति वै सूर्यं नमोऽन्तेन पुनः पुनः ।
आहूय ब्रह्मणं भक्त्या वेदवेदाङ्गपारगम् ॥
कुटुम्बिनं दरिद्रं च आहिताग्निं तथैव च ।
सम्पूज्य पुष्पधूपैश् च द्विजं सूर्यम् इवापरम् ॥
रविबिम्बं चन्द्रबिम्बं घृतस्थं तु निरीक्ष्य वै ।
समर्पयेद् ब्राह्मणाय मन्त्रेणानेन भूमिप ॥
रुक्मं च पुरुषं चैव पर्णं पुष्करम् एव च ।
त्रयो तु विद्या साङ्गा तु यस्याङ्गं विश्वरूपिणः ॥
स वै चण्डकरो देवः प्रीयतां विप्र मा चिरम् ।
एवम् उच्चार्य भानुं तु ब्राह्मणाय निवेदयेत् ॥
क्षीरजं देवदेवं च द्विजराजं तथैव तु ।
अमृतमूर्तिं शीतांशुं ददामि च द्विजोत्तम ॥
गायत्र्या चैव सूर्यस्य ग्रहणं जायते विभो ।
सोमं तरत्समन्दीयं जपन् शुद्धेन चेतसा ॥
एवं चन्द्रं रविं दत्वा बली राज्यम् अवाप ह ।
सर्वं तेन तु दत्तं स्याद् यो दद्याच् चन्द्रभास्करौ ॥
[७७८] सर्वं तेन कृतं राजन् सर्वं तेन च संश्रुतम् ।
सर्वं दक्षिणया यष्टं संसारे तु नरोत्तम ॥
पूज्यते सिद्धगन्धर्वैर् ऋषिभिर् देवदानवैः ॥
इति चन्द्रादित्यदानविधिः ।
अथ ध्वजपाशदानम् । आह बौधायनः ।
ध्वजं पाशं पलैकेन कुर्यात् तु रजतेन वै ।
पलार्धेनाथ वा शुद्धस्फटिकोपमम् आदृतः ॥
रत्नैर् मरकतैः सम्यक् बद्धम् अङ्गेषु सर्वतः ।
कुम्भं च स्थापयेत् तत्र तिलानां द्रोणपञ्चकम् ॥
कुम्भस्योपरि संस्थाप्यो ध्वजपाशश् च शोभनः ।
सहिरण्यं द्वयं तत् तु ब्राह्मणाय निवेदयेत् ॥
वस्त्रेणावेष्टयेत् कुम्भङ्गन्धमाल्याक्षतार्चितम् ।
श्रुतवृत्तैः समृद्धाय श्रोत्रियाय कुटुम्बिने ॥
वरुणस्य तथा वायोः प्रीत्यर्थं विनिवेदयेत् ।
नमः पाशभृते तुभ्यं नमो ध्वजधराय ते ॥
जलाधिपतये तुभ्यं वायोः सर्वजनप्रियः ।
युवयोः प्रीतये दत्तौ ध्वजपाशौ सुराजतौ ॥
श्वासकासौ हरेतां मे प्रीतौ सर्वजनाश्रयौ ।
एवं कृत्वा श्वासकासौ नीरोगस् तत्क्षणात् भवेत् ॥
[७७९]
इति ध्वजपाशदानविधिः ।
अथ ब्रह्मविष्णुमहेश्वरदानम् । लिङ्गपुराणे ।
अथान्यत् सम्प्रवक्ष्यामि सर्वदानोत्तमोत्तमम् ।
पूर्ववद् देशकाले च मण्डपे वा विधानतः ॥
प्रपायां कूटमध्ये वा स्थण्डिले शिवसन्निधौ ।
पूर्वं विष्णुं समाराध्य पद्मयोनिं ततः परम् ॥
मन्त्राभ्यां विधिना ताभ्यां प्रणवादिनमोऽन्तकम् ।
अत्र पूर्ववच् छब्देन लिङ्गपुराणोक्ततुलापुरुषदानविहितं कुण्डमण्डपादि सर्वम् पसङ्गृह्यते तत्रैतस्य तत्प्रकरणे पठितत्वा । प्रप्राङ्कूटौ (?) मण्डपविशेषौ । उक्तमण्डपविशेषे स्थण्डिलं विधाय शिवसन्निधौ ब्रह्मविष्णू पूजयेद् इत्य् आर्थः । शिवसन्निधाव् इत्य् अनेनैव शिवप्रतिमाकरणम् अपि गम्यते । तथा चोक्तं कामिके ।
मण्डलाण्तः शिवं हैमं पार्श्वयोर् ब्रह्मकेशवौ ।
तान् उद्दिश्य प्रदातव्यं श्रोत्रियेभ्यो धनं बहु ॥
उत्तमं त्रिसहस्रं तु मध्यमं द्विसहस्रकम् ।
सहस्रं कन्यसं प्रोक्तं समासात् प्रोच्यते मया ।
पूर्ववच् छिवपूजा च ऋत्विगाचार्यदक्षिणा ॥
[७८०] मन्त्राभ्याम् इति वक्ष्यमाणाभ्याम् उभाभ्यां विष्णुब्रह्माणौ पूजयेत् प्रणवादिनमोऽन्तकम् इति क्रियाविशेषणम् ।
नारायणाय विद्महे वासुदेवाय धीमहि तन् नो विष्णुः प्रचोदयात् ।
बृहद्बृंहणभेदाय ब्रह्मणे धनदाय ते ।
शिवाय हरये स्वाहा स्वधा वौषट् वषट् नमः ॥
इति विष्णुब्रह्ममन्त्रौ । शिवस्य तु जप्त्वा रुद्रान् इति वक्ष्यति ।
पूजयित्वा विधानेन पश्चाद् धोमं समारभेत् ।
सर्वद्रव्यं च होतव्यं द्वाभ्यां कुण्डे विधानतः ॥
जप्त्वा रुद्रांस् तु नियतः शिवैकगतमानसः ।
ऋत्विजौ द्वौ तु कर्तव्यौ गुणाड्यौ वेदपारगौ ॥
तान् उद्दिश्य यथान्यायं विप्रेभ्यो दापयेद् धनम् ।
शतम् अष्टोतरं तेभ्यः पृथक् पृथग् अनुत्तमम् ॥
वस्त्राभरणसंयुक्तं यथाविभवविस्तरम् ।
गुरुश् च ऋत्विजौ चैव ब्रह्मविष्णुमहेश्वरान् ॥
तेषां पृथक् पृथग् दद्याद् भोजयेद् ब्राह्मणान् अपि ।
शिवार्चना च कर्तव्या स्नपनादि यथाक्रमम् ॥
सर्वद्रव्यम् इत्यादि, सर्वद्रव्यं लिङ्गपुराणोक्ततुलापुरुषदाने निरूपितम् । द्वाभ्यां कुण्ड इति, द्वाभ्याम् ऋत्विग्भ्याम् एकस्मिन् कुण्डे होतव्यम् इत्य् अर्थः । तान् उद्दिश्येत्यादि, तान् ब्रह्मविष्णुमहेश्वरान् उद्दिश्य प्रतिदैवतम् [७८१] ऋत्विगाचार्यव्यतिरिक्तेभ्यो विप्रेभ्यः पृथगककशो अष्टोत्तरशतसङ्ख्यं धनं दापयेद् इत्य् अर्थः । अत्रानुपात्तजातिपरिमाण-विशेषे ऽपि धनशब्देन, सर्वत्र बहुशो निष्काणां प्रक्रान्तत्वात् तैर् एव अष्टोत्तरशतं सम्पूरणीयम् । गुरुश् चेत्यादि, एको गुरुः द्वौ ऋत्विजौ तेभ्यो ब्रह्मविष्णुमहेश्वरान् सुवर्णमयान् विधाय दद्यात् । तेषां लक्षणम् उक्तं ब्रह्माण्डदाने तेभ्यो दक्षिणादानं ब्राह्मणभोजनं स्वस्तिवाचनं च कार्यम् । देशिकं पूर्ववत् सम्पूज्य ऋत्विजाव् अपि पूजयेत्,
पुण्याहवाचकान् विप्रान् पूर्ववत् पूजयेद् बुधः (?) ।
इति वातुलोक्तेः ।
एवं कृतेन लभते सर्वयज्ञफलं नरः ।
सर्वान् कामान् अवाप्नोति निर्वाणं चाधिगच्छति ॥
इति ब्रह्मविष्णुमहेश्वरदानम् ।
अथ त्रिमूर्तिदानम् । ब्रह्माण्डपुराणात् ।
सूत उवाच ।
अपृच्छन् मुनयः सर्वे नैमिषारण्यवासिनः ।
उग्रश्रवसम् आसीनं रोमहर्षणम् आदरात् ॥
उक्तानि भवतास्माकं दानानि विविधानि च ।
मूर्तिदानं च नोक्तं वै त्वया ब्रह्मविदां वर ॥
कदा वा कुत्र वा कार्यं यथा वा धर्मसाधनम् ।
[७८२] ब्रूहि त्वं सर्वधर्मज्ञ दानशुश्रूषयो वयम् ॥
इत्य् एवम् उक्तो बलिभिः शौनकप्रमुखस् तथा ।
उवाच दानमहात्म्यं मुनीनां सूतनन्दन ॥
शृण्वन्तु मुनयः सर्वे दानं सर्वार्थसिद्धिदम् ।
सर्वपापहरं यच् च मङ्गल्यं सर्वमुक्तिदम् ॥
पुरा देव युगे देवः प्रोवाच मधुसूदनः ।
स्वनाभिकमलस्थाय विरिञ्चये महात्मने ॥
तथाहम् अपि वः सर्वं वदामि शृणुतानघाः ।
त्रिमूर्तिदानं दानानाम् उत्तमोत्तमम् उच्यते ॥
विषुवत्य् अयने वापि चन्द्रसूर्यग्रहादिषु ।
नित्यं वा पञ्चदश्यां च जन्मर्क्षेषु समाचरेत् ॥
देवालये नदीतीरे पुण्येष्व् आयतनेषु च ।
गृहे वा कारयेद् दानं पञ्चभूमिः शुचिर् भवेत् ॥
चतुरस्रां समां भूमिं गोमयेनोपलेपयेत् ।
तत्राक्षताभिर् विकिरेत् पुष्पाञ्जलीन् समन्ततः ॥
तत्रैकहस्ता द्विहस्ता वा त्रिगुणा दैर्घ्यतः स्मृता ।
त्रिवेदिका भवेत् तिर्यक् श्वेततण्डुलमिश्रिता ॥
ब्रह्माथ विष्णुर् भगवान् मुरारिर्
हिरण्मयास् तत्र निवेशनीयाः ।
चतुर्भुजाः स्वायुधभूषणाढ्या
किरीटिनश् चापि यथा क्रमेण ॥
ब्रह्मादिलक्षणम् उक्तम् ब्रह्माण्डदाने ।
स्नानार्थपाद्याचमनीयवस्त्र-
[७८३] गन्धादिभिस् तान् अभिपूज्य भक्त्या ।
प्रदक्षिणी कृत्य सपुष्पहस्तः
प्रणम्य चोद्वास्य ततः प्रदद्यात् ॥
प्रत्येकम् एवं बहुदानपूर्वम्
सम्पूज्य दातव्यम् अनुक्रमेण ।
त्वया जगत्सृष्टिकृता स्वम् एतत्
त्वम् एव सर्वस्य पितामहो ऽसि ॥
त्वम् एव कर्ता जगतां विकर्ता
त्वम् एव धाता जगतां विधाता ।
त्वत्सम्प्रदानाद् अनघो यथाहम्
त्वया च सायुज्यम् उपैति देव ॥
तथा कुरु त्वं शरणं पपन्ने (प्रपन्ने?)
मयि प्रभो देववरप्रसादं ।
त्वया जगद् ह्य् आप्तम् इदं समस्तम्
त्वं विष्णुर् इत्य् एव वदन्ति सन्तः ॥
त्वत्स्थानि सर्वाणि वदन्ति देव
स्वया धृतं विश्वम् अनन्तमूर्ते ।
त्वत्सम्प्रदानाद् अनघो भवामि
यथा जगत्कारणकारणेश ॥
तथा कुरु त्वं शरणं प्रपन्ने
मयि प्रभो देववर प्रसादं ।
त्वया मराणाम् अमृतं विधाय
हालाहलं संहतम् एव यस्मात् ॥
[७८४] तथासुराणां त्रिपुरं च दग्धम्
एकेषुणा लोकहितार्थम् ईश ।
त्वद्रूपदानाद् अहम् अप्य् अशेषम्
दोषैर् विमुक्तांस् तु गणान् प्रपद्ये ॥
तथा कुरु त्वं शरणं प्रपन्ने
मयि प्रभो देववर प्रसादं ।
इत्य् एवम् उक्त्वा विधिवद् ददाति
स याति सायुज्यम् अथ त्रिमूर्तेः ॥
यः कारयेद् विप्रवराय तस्मै
सुवर्णसङ्ख्यागणितं हिरण्यं ।
दद्याच् च वासोयुगम् आदरेण
तथा कृते ऽयं लभते फलं तत् ॥
इति त्रिमूर्तिदानविधिः ।
अथ त्रिपुरुषदानविधिः । मृत्युञ्जयात् ।
सुवर्णरक्तिकानां च शतेनैकेन शक्तितः ।
कार्यो ब्रह्माथ विष्णुश् च शङ्करश् च तथैव च ॥
पलद्वादशमानेन पीठं लोहेन कारयेत् ।
देवानां स्थापनार्थाय चक्रवत् परिमण्डलम् ॥
तत्र ब्रह्मादयः स्थाप्या यमदूतं पुरो न्यसेत् ।
चतुर्मुखश् चतुर्बाहुः पद्महस्तः पितामहः ॥
शङ्करो द्विभुजः शूली वृषारूढस् त्रिलोचनः ।
[७८५] विष्णुश् चतुर्भुजश् चक्री गदागरुडवाहनः ॥
यमदूतः पाशपाणिर् दण्डवान् विकृताननः ।
स तु लोहमयः कार्यो भीतो बद्ध इवाग्रतः ॥
ततो विधाय देवानां पूजां पुष्पफलादिभिः ।
यजमानः करे खड्गं गृहीत्वा निशितं नवम् ॥
इदं शिरश् छिनद्मीति दूतस्यास्य दुरात्मनः ।
इत्य् उच्चार्य शिरश् छित्त्वा दूतस्य यमदिङ्मुखः ॥
ततश् चतुर्भिर् विप्रैस् तु कार्यं ब्राह्मणवाचनम् ।
ततो ब्रह्मादिदेवानां दानं कुर्यात् प्रयत्नतः ॥
देवालये गृहे वापि तीर्थे वान्यत्र कुत्रचित् ।
ब्राह्मणाय तु तान् दद्याद् दिव्याङ्गाय च शीलिने ॥
सुवर्णदक्षिणायुक्तान् ब्रह्मादीन् अनुपूर्वशः ।
अपमृत्युभयात् त्रस्तो यो दद्याद् देवतात्रयम् ॥
तस्य मृत्युर् विनश्येत दानाद् अस्मान् न संशयः ।
मृत्युना गृह्यमाणो ऽपो जीवत्य् एव नरः स्फुटम् ॥
चामीकरप्रतिकृतित्रितयं विधाय
ब्रह्मादिदानम् इह यः पुरुषः करोति ।
रोगान् निरस्य सकलान् अपि दुर्निवारान्
नैवापमृत्य्भयम् एति नरः कदाचित् ॥
इति पुरुषत्रयदानविधिः ।
अथ चतुर्मूर्तिदानम् । ब्रह्माण्डपुराणात् ।
ऋषयः सत्रम् आसीना नैमिषारण्यवासिनः ।
उग्रश्रवसम् आसीनं प्रप्रच्छुर् मुनिसत्तमाः ॥
रोमहर्षणसूनो त्वं सर्वज्ञानमहार्णवः ।
इत्य् उक्तो मुनिभिः सूतः प्रोवाच वदतां वरः ॥
यथाह भगवान् ब्रह्मा नारदस्य पितामः ।
शृणु नारद भद्रं ते दानं सर्वाघनाश्नम् ॥
धर्मशुश्रूषवः सर्वे वयं त्वत्तो महामते ।
अनायासेन केनेवं संसाराब्धिं समुत्तरेत् ॥
नरः प्रब्रूहि दानं वा व्रतं वा श्रुतम् एव वा ।
इत्य् उक्तो मुनिभिः सूतः प्रोवाच वदतां वरः ॥
यथाह भगवान् ब्रह्मा नारदस्य पितामहः ।
शृणु नारद भद्रं ते दानं सर्वाघनाशनम् ॥
चतुर्मूर्तिविधानं तत् स्त्रीणां मङ्गल्यकारणम् ।
धन्यम् आरोग्यम् आयुष्यं भुक्तिमुक्तिफलप्रदम् ॥
पुत्रदं श्रीकरं पुण्यम् अभीष्टफलदं शुभम् ।
सर्वेषु पुण्यकालेषु चन्द्रसूर्यग्रहादिषु ॥
देवागारादिदेशेषु गृहे वा दानम् आचरेत् ।
चतुरस्रां समां भूमिं लिप्तां गोमयवारिणा ॥
चतस्रस् तत्र लेखाः स्युः प्राच्योदीच्यश् च ताः समाः ।
नव कोष्ठानि तत्र स्युः कोणकोष्ठानि वर्जयेत् ॥
तत्र तेषु च मूर्तिश् च चतुर्दिक्षु निवेशयेत् ।
प्रागाद्युत्तरपर्यन्तं जातरूपमयीः शुभाः ॥
श्वेततण्डुलपद्मेषु पुष्पवत्सु निवेशयेत् ।
[७८७] पुरतो वासुदेवं च सङ्कर्षणमतः परम् ॥
प्रद्युम्नं चानिरुद्धं च चतुर्मूर्थिं यथाक्रमम् ।
शङ्खचक्रगदापाणिं पीतवाससम् अच्युतम् ॥
श्रीवत्साङ्कं चतुर्बाहुं केयूरमुकुटोज्वलम् ।
नीलाम्बरधरं देवम् अनन्तं मुशलायुधम् ॥
सङ्कर्षणं चतुर्बाहुं कटकादिविभूषणम् ।
प्रद्युम्नश् चानिरुद्धश् च शङ्खचक्रगदाधरौ ॥
पीतश्वेताम्बरधरौ केयूरादिविभूषितौ ।
एवं कृत्वा चतुर्मूर्तिं चतुर्बाहुं समर्चयेत् ॥
पलस्यार्धात् सुवर्णेन यथाशक्ति विनिर्मितम् ।
प्रागाद्युत्तरपर्यन्तं देवानाम् अर्चनक्रमः ॥
स्वस्वमन्त्रेण देवानाम् आराधनम् अनुक्रमात् ।
स्नानं वासोयुगं चार्घपाद्यम् आचनीयकम् ॥
गन्धसुमनसौ धूपं दीपं नैवेद्यम् एव च ।
धारात्रयं शुद्धजलैस् ताम्बूलं च निवेदयेत् ॥
परितो लोकपालांश् च गन्धादिभिर् अथार्चयेत् ।
त्रिः प्रदक्षिणम् आवृत्य गृहीतकुसुमाञ्जलिः ॥
उद्वास्य विप्रान् आराध्य दद्यात् मन्त्रम् उदीरयेत् ।
नमो ऽस्तु वासुदेवाय जगतां पतये नमः ॥
तव सङ्कीर्तनाद् दानाच् छ्रेयः स्यात् तु सदा मम ।
सङ्कर्षण नमस् ते ऽस्तु जगत्स्थित्यन्तकर्मणे ॥
तव देव प्रदानेन सर्वपापहरं भवेत् ।
प्रद्युम्नायाखिलेशाय भक्तानां दुःखहारिणे ॥
[७८८] नमो ऽस्तु देवदेवाय भक्तानाम् आर्तिहारिणे ।
सदा नमो ऽस्तु जगतः सृष्टिस्थित्यन्तहेतवे ॥
अनिरुद्धाय देवाय विष्णवे परमात्मने ।
यदि दद्याच् चतुर्मूर्तिं श्रद्धायुक्तस् तु नारद ॥
नारी वा पुरुषो वापि यथोक्तं फलम् अश्नुते ।
इत्य् आह नारदायैवं ब्रह्मा लोकपितामहः ॥
यथा ममापि तत् सर्वम् अब्रुवन् मुनिसत्तमाः
इति चतुर्मूर्तिदानविधिः ।
अथ आयुष्करदानम् । ब्रह्माण्डपुराणात् ।
सूत उवाच ।
अथ दानं प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः ।
आयुष्करम् इति प्रोक्तम् आरोग्यं सर्वसिद्धिदम् ॥
यत्र साधनसिद्धः स्यात् तत्र दानं समाचरेत् ।
भूमौ गोमयलिप्तायां दक्षिणोत्तरतः शुभं ॥
निधाय तत्र पाणिभ्यां पूर्णानि सिततण्डुलैः ।
चत्वारि तेषु हैमानि मण्डलानि निवेशयेत् ॥
सौवर्णांश् च ततो देवान् अर्चयेच् च यथाक्रमम् ।
पूर्वम् आत्मभुवन्तत्र विष्टरश्रवसंयुतम् ॥
कृत्तिवाससम् (?) ईशानं वज्रपाणिं शतक्रतुम् ।
[७८९] आत्मभूर् ब्रह्मा, विष्टरश्रवा विष्णुः, ईशानः शिवः प्रसिद्धः एतेषां लक्षणम् उक्तं ब्रह्माण्डदाने । एते च यथाशक्ति सुवर्णमया विधातव्याः ।
गन्धादिभिर् अथाभ्यर्च्य दक्षिणोत्तरतः क्रमात् ।
प्रत्येकम् एकं विप्रेभ्यो दद्याद् आराध्य भक्तितः ॥
तं तं देवम् इति ध्यात्वा मन्त्रान् एतान् उदाहरेत् ।
सम्प्रीयतां मे भगवान् आत्मभूर् इत्य् उदीरयेत् ॥
सम्प्रीयतां जगद्व्यापी भगवान् विष्टरश्रवाः ।
सम्प्रीयतां मे भगवान् कृत्तिवासा इति ध्रुवम् ॥
सम्प्रीयतां मे भगवान् वज्रपाणिः शतक्रतुः ।
एवम् आह पुरा ब्रह्मा नारदाय सुरर्षये ।
प्रोक्तं मयापि तत् सर्वं युष्माकं मुनिपुङ्गवाः ॥
इत्य् आयुष्करदानविधिः ।
अथ पञ्चमूर्तिदानम् । ब्रह्माण्डपुराणात् ।
अथ दानं प्रवक्ष्यामि पञ्चमूर्तिर् इति श्रुतम् ।
यत् कृत्वा पुरुषः स्त्री वा सर्वसिद्धम् अवाप्नुयात् ॥
यत् पापं मनसा वाचा कर्मणा च पुरा कृतम् ।
जन्मान्तरसहस्रेषु तनाशं याति सर्वतः ॥
यथा हेदं पुरा देवो नारदाय महात्मने ।
पृष्टस् तेनापि भगवान् अब्जयोनिः पितामहः ॥
तथाहम् अपि तत् सर्वं युष्माकं मुनिपुङ्गवाः ।
[७९०] प्रवक्ष्यामि महादेवं पञ्चमूर्तिर् इति श्रुतम् ॥
शृणुष्व त्वं च देवर्षे दानं सर्वाघनाशनम् ।
दानम् आरोग्यम् आयुष्यं श्रीकरं भुक्तिमुक्तिदम् ॥
चन्द्रसूर्यग्रहे वाथ विषुवत्य् अयनादिषु ।
सर्वेषु पुण्यकालेषु गृहे वायतनेषु च ॥
आचार्यं वरयेद् विप्रं तस्यानुज्ञाम् अवाप्य च ।
विद्याविनयसम्पन्नं सर्वं तेनैव कारयेत् ॥
लेपयेत् तु समां भूमिं गोमयेनोदकेन च ।
चतस्रस् तत्र रेखाः स्युः प्राच्योदीच्यस् तु ताः समाः ।
त्रिहस्तमात्रास् ताः सर्वास् तत्र स्युर् नवकोष्ठकाः ॥
तत्र पञ्चैव सङ्ग्राह्या चतुष्कोणानि वर्जयेत् ।
तेषु पञ्चसु कोष्ठेषु प्रत्येकं कमलं न्यसेत् ॥
श्वेततण्डुलपुञ्जेषु अष्टपत्रं सकर्णिकम् ।
तेषु तण्डुल्पद्मेषु पञ्चमूर्तीर् निवेशयेत् ॥
सुवर्णनिमिराः पञ्च मूर्तीः कृत्वा विधानतः ।
ईशं सौवर्णम् आसीनं केयूरमुकुटोज्वलम् ॥
चतुर्बाहुम् उदाराङ्गं कटकादिविभूषितम् ।
दक्षिणे परशुं हस्ते सव्ये तु मृगपोतकम् ॥
अभयं दक्षिणे सव्ये शूलं नेत्रत्रयं न्यसेत् ।
सद्योजातं वामदेवम् अघोरं पुरुषं तथा ॥
सुवर्णेनैव कुर्वीत प्रदानाद् अर्धमानतः ।
सद्यं पश्चाद् उत्तरे वामदेवं
तथा चान्यद् दक्षिणे चाप्य् अघोरम् ।
[७९१] सद्यं सद्योजातम् इत्य् अर्थः ।
तच्छब्दोक्तं पुरुषं पूर्वकोष्ठे
तेषां मध्ये चैवम् ईशानम् एव ॥
स्नानं वस्त्रं धूपदीपौ हविष्यम्
अभ्यर्चिताः पञ्चमूर्तीः क्रमेण ।
मन्त्रैः पञ्च ब्रह्मभिर् मानपूर्वं
सम्पूज्य चैवं विधिनोदितेन ॥
सव्यादिवेदांश् च यथा क्रमेण ।
सद्योजातादिलक्षणम् उक्तं लिङ्गपुराणोक्ततिलपर्वतदाने । पञ्च ब्राह्मणाः सद्योजातादि । मन्त्राः तैत्तिरीयाणां प्रसिद्धाः । तेनैव विप्रेण च सर्वम् एतत् कृत्वैव दानं स्वयम् एव कुयात् ।
दानकाले तु सम्प्राप्ते दाता नारी नरो ऽथ वा ।
स्नापितो गुरुणा तेन मन्त्रपूतैः कुशोदकैः ॥
अभ्यर्च्य विप्रं गन्धाद्यैर् मन्त्रान् एतान् उदीरयेत् ।
प्रत्येकम् एका दातव्या देवमूर्तिर् अनुक्रमात् ॥
नमो ऽस्तु सद्योजाताय भवाय भवसङ्गिने ।
भवसङ्गो भवेन् मह्यं तव रूपप्रदानतः ॥
सोमाय वामदेवाय शिवाय शिवरूपिणे ।
सदा मे शिवम् एवास्तु तव रूपप्रदानतः ॥
[७९२] नमो ऽघोराय घोराय जगत्संहृतिकर्मणे ।
शरणं त्वां प्रपन्नो ऽहम् अशङ्कं मम शङ् कुरु ॥
पुरुषाय पुराणाय हराय वरदाय च ।
तस्य रूपप्रदानान् मे श्रेयसे ऽस्तु नोमो ऽस्तु ते ॥
ईशानो जगताम् ईशो देवानाम् अभयङ्करम् ।
रक्ष त्वं शेषभूतानाम् ईशो मां शरणं गतम् ॥
त्रिः प्रदक्षिणम् आवृत्य गृहीतकुसुमाञ्जलिः ।
प्रणिपत्य ततो दद्याद् एभिर् मन्त्रैर् यथाक्रमम् ॥
मध्यमं गुरवे दद्याद् अन्यस्मै वा प्रदापयेत् ।
दक्षिणां गुरवे दद्यात् सुवर्णं चैव वाससी ॥
एतन् नओ ऽथ वा नारी नारदेह समाचरेत् ।
मुच्यते सर्वपापेभ्यः शिवसायुज्यम् आप्नुयात् ॥
इत्य् एवम् ऋषयो दानं नारदाय चतुर्मुखम् ।
यथोवाच तथा प्रोक्तं मया वै पञ्चमूर्तिकम् ॥
इति पञ्चमूर्तिदानविधिः ।
अथ दिग्दानम् । विष्णुधर्मोत्तरात् ।
कार्तिक्याम् अग्निदैवे मे विष्णोर् ब्रह्मान्तकस्य वा ।
प्राच्यादि कुर्वीत दिशश् चतस्रः पृथिवीयुताः ॥
स्त्रीवेषाश् चैव कर्तव्याः पूर्णकुम्भकराः शुभाः ।
गोरूपा पृथिवी कार्या सर्वलक्षणसंयुता ॥
[७९३] कृत्वा कमलसंस्थानाः सुवर्णद्वितयेन तु ।
पूजयित्वा द्विजान् पञ्च सुवस्त्राभरणैस् ततः ॥
ताम्रपात्रं दले कृत्वा कदऌयाः पीठसंयुताः ।
यो ददाति प्रदत्ता स्यात् पृथिवी तेन पार्थिवः ॥
पितरः पितृलोकस्था देवलोके दिवौकसः ।
सम्प्रीणयन्ति तं तुष्टा वसुपुत्रधनेप्सितैः ॥
अमाषम् अन्नं भुञ्जीत दत्वैतद् विधिपूर्वकम् ॥
इति दिग्दानविधिः ।
अथ पञ्चदैवत्यदानम् । ब्रह्माण्डपुराणात् ।
अथ दानं प्रवक्ष्यामि शृण्वन्तु मुनयो ऽमलाः ।
पञ्चदैवत्यम् इत्य् उक्तं नारदाय स्वयम्भुवा ॥
शरीरारोग्यम् आयुष्यं श्रीकरं पापनाशनम् ।
यत् कृत्वा पुरुषः स्त्री वा सर्वम् आयुर् अवाप्नुयात् ॥
पुण्यकालेषु सर्वेषु जन्मर्क्षेषु विशेषतः ।
पुण्यदेशे गृहे वाथ नित्यं वा दानम् आचरेत् ॥
दुःस्वप्ताद्भुतदृष्टो तु सर्वदोषप्रशान्तये ।
दानम् एतत् समं कुर्याच् छ्रद्दया परया युतः ॥
स्नात्वा कुशोदकैः प्रातर् धौतवासाः प्रसन्नधीः ।
सम्पूज्य विप्रं विद्वांसं तस्यानुज्ञं अवाप्य च ॥
अग्निः सोमश् च वरुणस् तथा देवी सरस्वती ।
अग्निर् विष्णुर् इति प्रोक्तो ब्राह्मणाः पञ्च देवताः ॥
[७९४] अग्न्यादिलक्षणम् उक्तम् ब्रह्माण्डदाने । सरस्वतीलक्षणम् उक्तं सरस्वतीदाने । अग्निविष्ण्वोस् तुलक्षणम् अपराजितेनोक्तम् ।
अग्निविष्णू प्रकर्तव्यौ कमले युगपत् स्थितौ ।
तत्र श्रुक्पाणिर् अस्ग्निस् तु साक्षसूत्रकमण्डलुः ॥
गदापद्मधरो विष्णुः शङ्खचक्रगदास् तथा । इति ।
एताः पञ्च समुद्दिश्य विप्रान् आराध्य दापयेत् ॥
प्रत्येकं वाससी शुभ्रे ससुवर्णे यथाक्रमम् ।
सम्प्रीयताम् अयं देवो भगवान् सोम इत्य् अपि ॥
तरोपदेष्ट्रे विप्राय तत् समां दक्षिणां ददेत् ।
पुण्याहं स्वस्तिम् ऋद्धिं च वाचयेत् पञ्चभिर् द्विजैः ।
तेषाम् अपि च दातव्या दक्षिणा च यथार्हतः ॥
इति पञ्चदैवत्यदानविधिः ।
अथ लोकपालाष्टकदानम् । लिङ्गपुराणात् ।
लोकपालाष्टकं दिव्यं साक्षात् परमदुर्लभम् ।
सर्वसम्पत्करं गुह्यं परचक्रविनाशनम् ॥
स्वदेशरक्षणं नित्यं गजवाजिविवर्धनम् ।
पुत्रवृद्धिकरं पुण्यं गोब्राह्मणहितावहम् ॥
पूर्वोक्तदेशकाले तु वेदिकोपरिमण्डले ।
[७९५] मध्ये शिवं समभ्यर्च्य यथान्यायं यथाक्रमम् ॥
दिग्विदिक्षु प्रकर्तव्यं स्थण्डिलं वालुकामयम् ।
अष्टौ विप्रान् समाहूय वेददेवाङ्गपारगान् ॥
जितेन्द्रियान् कुलोद्भूतान् सर्वलक्षणसंयुतान् ।
शिवाभिमुखम् आसीनान् अहतेष्व् अम्बरेषु च ॥
वस्त्रैर् आभरणैर् दिव्यैर् लोकपालान् स्वमन्त्रकैः ।
गन्धैः पुष्पैः सधूपैश् च ब्राह्मणांश् चार्चयेत् क्रमात् ॥
अत्र कुण्डमण्डलमण्डपवेदिकावितानादि लिङ्गपुराणोक्ततुलापुरुषदानवद् वेदितव्यम् अग्निकार्यम् अत्र शिववेदिकायां च परितः स्थण्डिलाष्टकं विधाय तत्र यथाशक्ति सुवर्णनिर्मितान् अष्टौ लोकपालान् शिवाभिमुखान् नूतनवस्त्रेष्व् आसीनान् संस्थाप्य वस्ताद्यैः सम्पूज्य ब्राह्मणान् अथार्चयेत् । लोकपाललक्षणम् उक्तं ब्रह्माण्डदाने ।
पूर्वतो होमयेद् अग्नौ लोकपालाष्टकमन्त्रकैः ।
समिद्घृताभ्यां होतव्यम् अग्निकार्यक्रमेण तु ॥
एवं हुत्वा विधानेन ब्राह्मणान् वेदपारगान् ।
यजमानः समाहूय सर्वाभरणभूषितान् ॥
कृत्वा तान् पूजयित्वाथ द्विजेभ्यो दापयेद् धनम् ।
पृथक् पृथक् स्वमन्त्रैश् च दशनिष्कं च भूषणम् ॥
दशनिष्केन वस्त्राद्यम् आसनं कम्बलं पृथक् ।
स्नापनं तत्र कर्तव्यं शिवस्य विधिपूर्वकम् ॥
दक्षिणा च प्रदातव्या यथाविभवविस्तरम् ॥
[७९६] अग्निकार्यक्रमः अग्निमुखादिपूर्णाहुत्यन्तः । कामिके तु एकस्मिन् स्थण्डिले वाथ् कुण्डे वा होमम् आचरेत् । वातुले हि शक्रानुपूर्वदिग्भागे देशिको होमम् आचरेत् ।
लोकपालाष्टमन्त्रैस् तु पृथग् अष्टोत्तरं शतम् ।
समिद्घृताभ्यां होतव्यम् अन्ते पूर्णाहुतिं ददेत् ॥
दशनिष्केणेति, तान् लोकेशान् विप्रान् यजमानो ऽर्चयित्वा प्रत्येकं दशनिष्कमितं भूषणम् तत्सम्मितहिरण्यात्मकदक्षिणया सह वस्तादि च दद्या । दक्षिणा चेति गुरुदक्षिणा । स च यथाविभवं देया । कामिके तु ।
दक्षिणा दशनिष्का स्याद् भूषणैश् च समन्विता ।
वातुले तु गुरुनवमेभ्यः प्रत्येकं शतनिष्का दक्षिणोक्ता ।
एतद् यः कुरुते दानं लोकेशानां तु भक्तितः ।
लोकेशानं स्थिरं स्थित्वा स्थानेषु स सुखं नरः ।
कल्पं शिवपुरे स्थित्वा सार्वभौमी भवेद् भुवि ॥
इति लोकपालाष्टकदानविधिः ।
अथ ब्रह्माण्डपुराणात् ।
शृणु नारद भद्रं ते दानं सर्वाघनाशनम् ।
सर्वमङ्गल्यम् आयुष्यम् आरोग्यं श्रीकरं शुभम् ॥
[७९७] दानानाम् उत्तमं ह्य् एतत् सर्वसिद्धिकरं परम् ।
करोति दानं नारी वा सायुज्यं ब्रह्मणो व्रजेत् ॥
विषुवत्य् अयने राहोर् ग्रहणे चन्द्रसूर्ययोः ।
अन्येषु पुण्यकालेषु जन्मर्क्षेषु विशेषतः ॥
देवालये नदीतीरे गृहे वा दानम् आचरेत् ।
पुण्यदेशेषु सर्वेषु पुराणोक्तेषु नारद ॥
चतुरस्रां समां भूमिं लिप्तां गोमयवारिणा ।
षट्करं चाष्टहस्तं वा दश द्वादश वा करान् ॥
प्राच्योदीच्यश् च कर्तव्या रेखाश् चतसृकाः समाः ।
नव कोष्ठानि तत्र स्युः श्वेततण्डुलपुञ्जकैः ॥
सितैर् अष्टदलैर् युक्तान् कमलान् विन्यसेच् छुभान् ।
जातरूपमयं देवं जगत्कर्तारम् अव्ययम् ।
तेषां मध्यमकोष्ठे तु कमलं विनिवेशयेत् ॥
कमलस्थं ब्रह्माणम् ।
इन्द्रम् अग्निं यमं चैव निरृतिं वरुणं तथा ।
वायुं सोमं च रुद्रं च प्रागादिषु यथाक्रम ॥
जातरूपमयान् देवान् अष्टौ स्वायुधसंयुतान् ।
त्रिपला वा सुवर्णात् तु यथाशक्ति विनिर्मितान् ॥
ब्रह्मणो ऽभिमुखान् सर्वान् सर्वेषु विनिवेशयेत् ॥
जातरूपमयान् हिरण्य्मयान् । ब्रह्मणो लोकपालानां च लक्षणम् उक्तं ब्रह्माण्डदाने ।
प्रत्येकं वाससावेष्ट्ये सम्प्रोक्ष्य कुशवारिणा ।
[७९८] यो ऽसौ कारयिता विपस् त्व् एवम् एतत् समाचरेत् ॥
दानकाले तु सम्प्राप्ते दाता स्नात्वा कुशोदकैः ।
प्रसन्नचित्तवदनः परमेष्ठिपुरोगमान् ॥
स्वनाममन्त्रैर् अभितो नमो ऽन्तैर्
आराध्य गन्धादिभिर् आदरेण ।
विप्रांस् तथाभ्यर्च्य यथाक्रमेण
सम्प्रीयतां मे त्व् अयम् एवम् उक्त्वा ॥
यो ऽसौ कारयिता विप्रस् तस्मै दद्यात् तु दक्षिणाम् ।
सुवर्णसङ्ख्यागणितं हिरण्यं चैव वाससी ॥
प्रोक्तं तु देवर्षिदानं लोकपालाह्वयं मया ।
क्रमान् यच् छ्रोतुम् (?) इच्छा ते तद् इदं वद साम्प्रतम् ॥
इति लोकपालदानविधिः ।
अथ रुद्राष्टकदानम् । ब्रह्माण्डपुराणात् ।
शृणु देव मुने गुह्यं दानं सर्वार्थदं नृणाम् ।
रुद्राष्टकम् इति ख्यातं तत्पत्नीपुत्रसंयुतम् ॥
मध्ये चतुर्मुखोपेतम् इति ते भगवान् हरिः ।
यथाह पूर्वं तत् सर्वं वदामि तव नारद ॥
रुद्रो भवश् च सर्वश् च ईशः पशुपतिश् तथा ।
भीम उग्रो महादेव एते रुद्राः प्रकीर्तिताः ॥
जटिलाश् चर्मवसनाः सर्वे खट्वाङ्गशूलिनः ।
[७९९] तेषां भार्याश् च पुत्राश् च नामतः कथयामिते ॥
सौवर्चलाङ्गवादा च विकेशी च शिवा तथा ।
स्वाहा दिशा च दीक्षा च रोहिणी च तथा क्रमात् ॥
ताश् च स्त्रीवेषधारिण्यः सर्वाभरणभूषिताः ।
रुद्रपत्न्य इमाश् चाष्टौ पुत्रांश् च शृणु नारद ॥
शनैश्वरश् च शुक्रश् च लोहिताङ्गो मनोजवः ।
वसन्तः स्वर्गः सन्तानो बुधश् चैव यथक्रमम् ॥
ते वालवेषाः कर्तव्याः शिखिनो दण्डपाणयः ।
पुण्यकाले तु सम्प्राप्ते नित्यं वा भूतिमिच्छता ॥
जन्मर्क्षेषु विशेषेण दातव्यं मुनिसत्तमः ।
चतुरस्रां समां भूमिं लिप्तां गोमयवारिणा ॥
चतस्रस् तत्र रेखाः स्युः प्राक् तिर्यक् चैव सर्वतः ।
हस्तमात्रं द्विहस्तं वा नवकोष्ठसमन्वितम् ॥
स्थण्डिलं तत्र पद्मानि तण्डुलैश् च प्रकल्पयेत् ।
ब्रह्माणं मध्यमे कोष्ठे सौवर्णं विनिवेदयेत् ।
छन्दोवेदीं च तत्पार्श्वे तदर्धेन प्रकल्पयेत् ॥
छन्दोदेवीं च गायत्रीम् । तयोर् लक्षणम् उक्तं ब्रह्माण्डदाने ।
सौवर्णान् अष्टौ रुद्रांश् च ब्रह्मार्धेन विनिर्मितान् ।
प्रागाद्युत्तरपूर्वांश् च परितः परिकल्पयेत् ॥
तस्याप्य् अर्धेन सौवर्णान् प्रत्येकं रुद्रपार्श्वतः ।
तेषां देवीश् च पुत्रांश् च कल्पयित्वार्चयेत् पुमान् ॥
[८००] स्वस्वमन्त्रेण पूजा स्यात् नमस्कारयुतेन च ।
ब्रह्मादीन् पूजयेद् गन्धपुष्पधूपप्रदीपकैः ॥
प्रदक्षिणं ततः कृत्वा प्रणम्य च यथाक्रमम् ।
प्रत्येकम् एकं प्रागादीन् विप्रान् सम्पूज्य दापयेत् ॥
पूजयित्वोपदेष्टारं दद्यान् मन्त्रेण मध्यमम् ।
प्रीयतां भगवान् ब्रह्मा परमेष्ठी पितामहः ॥
एवं रुद्राष्टकोपेतं दानं दद्याद् यथाविधि ।
सर्वपापविनिर्मुक्तः सर्वसिद्धिम् अवाप्य च ॥
आयुरारोग्यसंयुक्तः पुत्रवान् धनवान् सुखी ।
भुक्त्वा भोगान् यथेच्छं च स्वर्गं मोक्षं च विन्दति ॥
इति रुद्राष्टकदानविधिः ।
अथ ग्रहदानम् । ब्रह्माण्डपुराणात् ।
सूत उवाच ।
अतः परं प्रवक्ष्यामि दानं सर्वार्थसिद्धिदम् ।
पुरुषो वाथ वा नारी स्वर्गं मोक्षं च विन्दति ॥
नक्षत्रग्रहपीडासु दुःस्वप्नाद्भुतदर्शने ।
निमित्तानन्तरं कार्यं नैमित्तिकम् इति स्थितिः ॥
यथाह नारदायैवं ब्रह्मा लोकपितामहः ।
तथाहम् अप्य् अशेषं वो वक्ष्यामि मुनिसत्तमाः ॥
ब्रह्मोवाच ।
ग्रहदानम् अथो वक्ष्ये सर्वसिद्धिकरं परम् ।
[८०१] सर्वशान्तिकरं नृणां सर्वपापप्रणाशनम् ॥
विषुवत्य् अयने राहुग्रहणे शशिसूर्ययोः ।
जन्मर्क्षे सोमवारे वा पञ्चदश्यां तथैव च ॥
पुण्यकालेषु सर्वेषु पुण्यदेशे विशेषतः ।
ग्रहदानं तु कर्तव्यं नित्यं श्रेयो ऽभिकाङ्क्षिणा ॥
हस्तमात्रां द्विहस्तां वा त्रिहस्तां वाथ नारद ।
चतुर्हस्तां समां भूमिं गोमयेनानुलेपयेत् ॥
रखाः प्राच्य उदीच्यश् च स्युर्श् चतस्रस् तथा समाः ।
नवकोष्ठेषु पद्मानि विन्यसेत् श्वेततण्डुलैः ॥
आदित्यश् चन्द्रमा भौमो बुधजीवसितार्कजाः ।
राहुः केतुर् इति प्रोक्ता ग्रहा लोकसुखावहाः ॥
एषां हिरण्यरूपाणि कारयित्वा यथाविधि ।
त्रिनिष्केणाथ वा कुर्याद् यथाशक्त्या पृथक् पृथक् ॥
आदित्यं मध्यमे कोष्ठे दक्षिणे ऽङ्गारकं न्यसेत् ।
उत्तरे तु गुरुं विद्याद् बुधम् उत्तरपूर्वके ॥
भार्गवं पूर्वतो न्यस्य सोमं दक्षिणपूर्वके ।
पश्चिमे ऽर्कसुतं न्यस्य राहुं पश्चिमदक्षिणे ॥
पश्चिमोत्तरतः केतुं सन्निवेश्य यथाविधि ।
तद्वर्गं गन्धपुष्पाद्यैर् अर्चयेत् स्वस्वमन्त्रकैः ॥
दानं शूद्रो ऽथ वा कुर्यात् स्त्री वा तत्र तु नारद ।
भूलेपनादि यत् कार्यं सर्वं विप्रेण कारयेत् ॥
स्नानकाले तु सम्प्राप्ते स्नात्वा तिलकुशोदकैः ।
प्रयतो यजमानस् तु धौतवस्त्रः प्रसन्नधीः ॥
[८०२] अर्चयित्वा स्वयं दद्याद् अहस्करमुखान् ग्रहान् ।
प्रत्येकम् एकं विप्रो ऽसौ स्वस्वमन्त्रम् उदीरयेत् ॥
पद्मासनः पद्मकरो द्विबाहुः
पद्मद्युतिः सप्ततुरङ्गवाहः ।
दिवाकरो लोकगुरुः किरीटी
मयि प्रसादं विदधातु देव ॥
श्वेताम्बरः श्वेतविभूषनश् च
श्वेतद्युतिर् दण्डधरो द्विबाहुः ।
चन्द्रो ऽमृतात्मा वरदः किरीटी
श्रेयांसि मह्यं विदधातु देव ॥
रक्ताम्बरो रक्तवपुः किरीटी
चतुर्भुजो मेषगमो गदाभृत् ।
धरासुतः शक्तिधरश् च शूली
सदा मम स्याद् वरदः प्रशान्तः ॥
पीताम्बरः पीतवपुः किरीटी
चतुर्भुजो दण्डधरश् च हारी ।
चर्मासिधृक् सोमसुतः सदा मे
सिंहाधिरूढो वरदो बुधश् च ॥
पीताम्बरः पीतवपुः किरीटी
चतुर्भुजो देवगुरुः प्रशान्तः ।
दधाति दण्डश् च कमण्डलुं च
तथाक्षसूत्रं वरदो ऽस्तु मह्यम् ॥
श्वेताम्बरः श्वेतवपुः किरीटी
[८०३] चतुर्भुजो दैत्यगुरुः प्रशान्तः ।
तथाक्षसूत्रं च कमण्डलुं च
जयं च बिभ्रद् वरदो ऽस्तु मह्यम् ॥
नीलद्युतिः शूलधरः किरीटी
गृध्रस्थितस् त्राणकरो धनुमान् ।
चतुर्भुजः सूर्यसुतः प्रशान्तो
वरप्रदो मे ऽस्तु स मन्दगामी ॥
नीलाम्बरो नीलवपुः किरीटी
करालवक्त्रः करवालशूली ।
चतुर्भुजश् चर्मधरश् च राहुः
सिंसासनस्थो वरदो ऽस्तु मह्यम् ॥
धूम्रो द्विबाहुर् वरदो गदाभृत्
गृध्रासनस्थो विकृताननश् च ।
किरीटकेयूरविभूषिताङ्गः
सदास्तु मे केतुगणः प्रशाण्तः ॥
इत्य् उक्त्वा दापयेत् सर्वान् आदित्याद्यान् नवग्रहान् ।
पुरुषो वाथ नारी वा यथोक्तं फलम् आप्नुयात् ॥
मध्यमं गुरवे दद्याद् अन्यस्मै वा प्रदापयेत् ।
अथ वा दक्षिणा देया सुवर्णं वाससी शुभे ॥
सूत उवाच ।
इत्य् आह भगवान् ब्रह्मा नारदाय महात्मने ।
तथाहम् अब्रूवं दानं युष्माकं मुनिसत्तमाः ॥
[८०४]
इति नवग्रहदानविधिः ।
अथ सम्पत्करदानम् । ब्रह्माण्डपुराणे ।
अथापरं दानम् अहं ब्रवीमि
शृण्वन्तु सर्वे मुनयः समेताः ।
सम्पत्करं दानम् अतीव पुण्यं
यस्मिन् कृते सम्पदो ऽभ्येति जन्तुः ॥
यथा पुरा ऋषये नारदाय
जगत्कर्ता चाब्रवीद् दानम् एतत् ।
आयुष्करं रोगहरं तु पाप-
विनाशनं नाशकरं त्व् अघानाम् ॥
स्वर्गापवर्गो कुलपुत्रवृद्धिं
श्रियं तथा प्रददामीष्टसिद्धिम् ।
हिरण्यदः प्राप्नुयाद् दीर्घम् आयुर्
इत्य् अब्रवीद् आत्मभूर् नारदाय ॥
अतः सुवर्णं द्विजवर्गहस्ते
दातव्यम् एवात्महितं मुनीन्द्राः ।
कालेषु सूर्यग्रहणादिकेषु
तारेषु जन्मत्रितयेषु कार्यम् ॥
दर्शेषु देवायतनादिकेषु
गृहेषु वा रमते यत्र कुत्र ।
स्नात्वा प्रातस् तिलमिश्रैः कुशोदकैः
[८०५] शुचिर् भूत्वा धौतवासाः प्रयत्नः ॥
सङ्कल्प्य विप्रं विदुषं गुरुं च
सङ्गृह्य तस्यानुमतेन कार्यम् ।
गव्येन भूमिं शकृता जलेन
चालेपयेद् विंशतिहस्तमात्राम् ॥
तत्रैव रेखाश् चतुरः समाः स्युः
प्राच्यश् च तिर्यक् च यथोपदिष्टम् ॥
नव कोष्ठानि तत्र स्युस् तेषु पूर्णानि तण्डुलैः ।
निधातव्यानि पात्राणि वासोभिर् अभिवेष्ट्य च ॥
पलस्यार्वाक् त्रिनिष्कोर्ध्वं यथाशक्ति विनिर्मिताम् ।
दक्षिणोत्तरतो देवान् जातरूपमयान् न्यसेत् ॥
पाश्चात्यकोष्ठत्रितये तु मित्रं
तथा च देवं वरुणं च सोमम् ।
चतुर्मुखं मध्यमकोष्ठकेषु
जगत्पतिं विष्णुम् उमापतिं च ॥
दिवाकरं वृत्रहणं च वह्निं
सम्पूज्य सर्वान् विधिवत् क्रमेण ॥
अत्र मित्रलक्षणम् आह विश्वकर्मा ।
पद्मगर्भे समः कार्यो मित्रः कमलसंस्थितः ।
अजो ऽतुलो विनालान्तविकचाम्भोजधृक् प्रभुः ॥
वरुणादिलक्षणम् उक्तं ब्रह्माण्डदाने ।
[८०६] अभ्यर्च्य विप्रान् अपि गन्धवस्त्रैः
पृथक् च दातव्यम् अनुक्रमेण ।
सम्प्रीयतां मेत्य् अयम् एव मुक्त्वा
ततो दद्यात् सोदकपूर्वम् अत्र ॥
एकस्य चैकं च हिरण्यरूपं
प्रणामपूर्वं परिणीय सर्वान् ।
पात्राणि वासः परिधाय चैव
सतण्डुलं सहिरण्यं च दत्वा ॥
अभीष्टसिद्धिं स लभेत सर्वम्
आयुष्यम् आरोग्यम् उपेति चाग्रम् ।
अथोपदेष्ट्रे गुरवे सुवर्णं
वासोयुगं दानसमं च दद्यात् ॥
विप्रैस् तथा वाचयेत् स्वस्तिवाच्यं
ततो दद्याद् दक्षिणां वाचकेभ्यः ॥
इति सम्पत्करदानविधिः ।
अथ दशावताअरदानम् । तत्र विश्वामित्रः ।
दानानाम् उत्तमं दानं हैमं विष्णोः स्वरूपकम् ।
तस्मात् पुण्यार्थिना देया हैमी विष्णोः स्वरूपिका ॥
मत्स्यः कूर्मो वराहश् च नरसिंहो ऽथ वामनः ।
रामो रामश् च कृष्णश् च बुद्धाह् कल्की च ते दश ॥
वामे शङ्खं गदा दक्षे द्विभुजो मत्स्यरूपधृक् ।
[८०७] नराङ्घ्रिर् मत्स्यरूपी वा मत्स्यरूपो जनार्दनः ॥
एतद् एव कूर्मलक्षणं मत्स्यपदस्थाने कूर्मपदयोगे सति ।
मधुपिङ्गलवर्णं च चतुर्बाह्वायुधिअर् युतम् ।
नराङ्गं शूकरास्यं च मनाक् पीनं सुभीषणम् ॥
श्रीर् वामकूर्परस्था तु धरानन्तौ पदानुगौ ।
एतद्रूपधरं देवं वराहं भुक्तिमुक्तिदम् ॥
ज्वलदग्निसमाकारं सिंहवक्त्रं नराङ्गकम् ।
दंष्ट्राकरालवदनं ललज्जिह्वं सुभीषणम् ॥
वृत्ताक्षं जटिलं क्रुद्धम् आलीढं पीनवक्षसम् ।
अभेद्यतीव्रनखरं कराभ्यां नखैर् भृशम् ॥
गदाचक्रधरं द्वाभ्यां नरसिंहं जगत्प्रभुम् ।
कुण्डी छत्रधरो द्विर्दोर् व्यामनः परिकीर्तितः ॥
क्षत्रान्तकरणं घोरम् उद्वहन् परशुं करे ।
जामदग्न्यः प्रकर्तव्यो रामो रोषारुणेक्षणः ॥
युवा प्रसन्नवदनः सिंहस्कन्धो महाबलः ।
आजानुबाहुः कर्तव्यो रामो बाणधनुर्धरः ॥
शङ्खचक्रधरः कार्यो नीलोत्पलदलछविः ।
कृणो दीर्घद्विबाहुश् च सर्वदैत्यक्षयङ्करः ॥
कषायवस्त्रसंवीतः स्कन्धसंसक्तचीवरः ।
पद्मासनस्थो द्विभुजो ध्यायी बुद्धः प्रकीर्तितः ॥
खड्गोद्यतकरः क्रुद्धो हयारूढो महाबलः ।
स्वेच्छोच्छेदकरः कल्की द्विभुजः परिकीर्तितः ॥
[८०८] यथाशक्त्या प्रकुर्वीत सुवर्णेन विजानता ।
समेन षोडशेनैव समान्य् एतानि कारयेत् ॥
यथाशक्त्या प्रकुर्वीत सुवर्णेन विजानता ।
वित्तानुरूपतो राजन् तुल्यम् आढ्यदरिद्रयोः ॥
सम्पूज्य नामभिस् तैस् तु पुष्पधूपनिवेदनैः ।
भक्तिनम्रः प्रणम्याथ निवेद्यः श्रद्धया ततः ॥
आहूय ब्राह्मणान् राजन् पादौ प्रक्षाल्य यत्नतः ।
उपवेश्यासने सर्वांश् चन्दनेनानुलेपयेत् ॥
सुगन्धैः कुसुमैश् चैव धूपैर् दीपैस् तथैव च ।
आच्छाद्य वस्त्रयुग्मैश् च ग्रहणे चन्द्रसूर्ययोः ॥
अयने विषुवे वापि द्वादश्यां तु विशेषतः ।
उपोष्यैकादशीं कार्यं धर्मकार्यं च सर्वशः ॥
अन्यथा नरकं यातीत्य् एव माह पितामहः ।
ग्राहका विष्णुरूपाश् च अहीयत विमत्सरः ॥
एकैकं देवरूपं तम् एकैकस्य समर्पयेत् ।
अथ वा विदुषः सर्वान् दद्यात् सम्पूज्य मानवः ॥
नानृते ऽपि कदाचिच् च दद्यात् पाषण्डिने तथा ।
देवरूपं मया विप्र कारितं काञ्चनं शुभम् ॥
तद् गृहाण प्रदानेन प्रीयतां विश्वरूपधृक् ।
एतद् उच्चार्य विप्रस्य हस्ते तोयं क्षिपेत् स्वयम् ॥
प्रदक्षिणा ततो देया सम्पूज्य प्रविशेद् गृहम् ।
अस्य दानस्य माहात्म्यं वदाम्य् एकमुखः कथम् ॥
[८०९] सहस्रास्यः शतास्यो वा यदि शक्तो ऽभिभावितुम् ।
उद्देशतः प्रवक्ष्यामि भक्तानां भक्तिवृद्धये ॥
दशावतारती राजन् विष्णोर् ऐक्यं स गच्छति ।
क्षीरे क्षारं यथाक्षिप्तं पयः संहरते ऽनखः ॥
तथा विष्णोः स दाता वै ऐक्यं याति न संशयः ।
ब्रह्महा च सुरापश् च तस्करी गुरुतल्पगः ॥
यथा मुञ्जाद् इषीकान्तस् तथा पापात् प्रमुच्यते ।
सहस्रं चैव जन्तूनाम् उद्धरेत् स इदं जगत् ॥
तस्मात् प्रयच्छ राजेन्द्र विप्रेभ्यो विष्णुरूपकान् ।
येन सर्वस्य दानस्य फलं प्राप्नोति सत्वरम् ॥
न तत् तपोभिर् अत्युग्रैर् विहितैः प्राप्यते फलम् ।
विष्णोर् दशावताराणां दानेन यद् अवाप्यते ॥
यः काञ्चनेन शुभलक्षणलक्षिताङ्गं
विष्णोः स्वरूपदशकं विधिवद् विधाय ।
दद्याद् द्विजेषु जगद् एव हि तेन दत्तं
यस्माज् जगन्मयवपुर् विभुर् एष देवः ॥
इति दशावतारदानविधिः ।
अथ विश्वामरदानम् । ब्रह्माण्दपुराणात् ।
अतः परं प्रवक्ष्यामि दानं विश्वामराह्वयम् ।
यत् कृत्वा पुरुषः स्त्री वा ब्रह्मलोकम् अवाप्नुयात् ॥
[८१०] सर्वपापक्षयकरं सर्वपापविमोचनम् ।
स्वर्ग्यं यशोदम् आयुष्यं श्रीकरं पुत्रवृद्धिदम् ॥
अभीष्टफलदं नृणां दुःस्वप्नाद्भुतदर्शनम् ।
ग्रहशान्तिकरं पित्र्यभुक्तिमुक्तिप्रदायकम् ॥
यद् आह भगवान् ब्रह्मा नारदाय सुरर्षये ।
यथाहं कृपया पूर्वे पिता मे रोमहर्षणः ॥
वैश्वदेवम् इति प्रोक्तं दानानाम् उत्तमोत्तमम् ।
तद् अहं वः प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः ॥
ग्रस्ते चन्द्रराहुना वापि सूर्ये
तथायने विषुवे जन्मतारे ।
व्यतीपाते त्रिविधे चाद्भुते वा
दुःस्वप्ने वा पञ्चदश्यां च कुर्यात् ॥
कृते पापे निःकृतिस् तस्य चैतद्
भये जाते निर्भयार्थं च कुर्यात् ।
अस्ते रोगैर् बहुभिः श्रूयमाणे
नित्यं कुर्याद् वैश्वदेवं तु दानम् ॥
देवागारे स्वगृहे नन्दने वा
नदीतीरे रमते यत्र तत्र ।
विप्रं गुरुं वेदपुराणदक्षं
सङ्गृह्य तस्यानुमतेन कार्यम् ॥
विनायकं विप्रमुखेन देयं
सम्पूज्य दानं विधिना समस्तम् ।
गव्येन भूमिं शकृता जलेन
[८११] विलिप्य नीत्वा दशहस्तमानाम् ॥
तत्रैव लेखाश् च चतुरः समन्तात्
प्राच्यश् च तिर्यक् च भवन्ति तत्र ।
न वात्र कोष्ठानि भवन्ति तेषु
सकर्णिकान् अष्टदलान् सरोजान् ॥
कृत्वा सितैर् आढकतण्डुलैश् च
संवेशयेत् तेषु हिरण्यदेवान् ।
विश्वांश् च देवांश् छरचापपाणीन्
अष्टौ समस्तान् द्विभुजान् विधाय ॥
मध्ये महेन्द्रं मुकुटादियुक्तं
वज्रायुधं शक्तिधरं निवेश्य ।
हारादिकेयूरयुतं प्रशान्तं
विश्वामराणाम् अधिकं हिरण्यात् ॥
सिंहासनस्थं जगताम् अधीशं
शतक्रतुं दैत्यहनं सुरेन्द्रम् ॥
तेषां नामानि तु वायुपुराणात् ।
क्रतुर् दक्षो वसुः सत्यः कालः कामचराचरौ ।
पुरूरवाद्रवश् चैव विश्वे देवा दश स्मृताः ॥
श्राद्धेष्व् एव प्रयोगो ऽस्ति तेषाम् अन्तिमयोर् द्वयोर् ॥ इति ।
प्रागादिमध्यान्तम् अनुक्रमेण
सर्वं करोत्य् आसनार्घार्चनान्तम् ।
[८१२] सम्प्रोक्ष्य कूर्चेण कुशोदकेन
ऋचा तथा यजुषा वारुणेन ॥
वस्त्रैर् अथावेष्ट्य च वासवाय
वासोयुगं सम्परिधाय चाग्रम् ।
प्रत्यङ्मुखान् प्राङ्मुख एव सर्वान्
आराध्य दातव्यम् अथ क्रमेण ॥
विप्रेण वा गुरुणा सर्वम् एतत्
कृत्वा मन्त्रविधिना वैश्वदेवम् ।
उक्तान् देवान् अर्चयित्वा यथोक्तं
दाता स्नात्वा तिलमिश्रैः कुशोदकैः ॥
पुष्पाञ्जलिं प्रदक्षिणां चैव सार्धम्
अभ्यर्च्य देवान् अथ पुष्पगन्धैः ।
धूपप्रदीपैश् च यथा क्रमेण
प्रत्येकम् एकं च यथा हिरण्यम् ॥
सम्प्रीयतां भगवान् मेति चोक्त्वा
दद्याद् अष्टौ प्रेरितः सोदपूर्वम् ।
पठन् मन्त्रं गुरवे मध्यमं च
सम्प्रीयतां मम चाप्य् अत्र देवः ॥
सम्प्रीयतां भगवान् वज्रपाणिः
सम्प्रीयतां भगवान् दैत्यहन्ता ।
एवं कृत्वा पञ्चभिर् विप्रवर्यैः
पुण्याहं च स्वस्तिम् ऋद्धिं च वाच्यम् ॥
एतद् दानं गुरवे दक्षिणां च
[८१३] विश्वेदेवाः प्रीणयन्त्य् अस्य विप्राः ॥
इति विश्वामरदानविधिः ।
अध साध्यदानम् । ब्रह्माण्डपुराणात् ।
सूत उवाच ।
अतः परं प्रवक्ष्यामि दानं मुनिवरोत्तमाः ।
साध्यदानम् इति प्रोक्तं दानानाम् उत्तमोत्तमम् ॥
यथाह भगवान् पूर्वं पिता मे रोमहर्षणः ।
यथाहं च प्रवक्ष्यामि शृणुध्वं शौनकादयः ॥
आचार्यवरणादीनि सर्वं वै वैश्वदेववत् ।
तथैव हैमान् कुर्वीत साध्यान् द्वादशसङ्ख्यया ॥
वायुपुराणे ।
ब्रह्मणो ऽथ मुखात् सृष्टा यथा देवाः प्रजेप्सया ।
सर्वे मन्त्रशरीरास् ते स्थिता मन्त्रन्तरेष्व् इह ॥
तथा ।
ब्रह्मशापेन ते जाताः पुनः स्वायम्भुवे जिताः ।
स्वारोचिषे वै तुषिताः सत्याश् चैवोत्तमे पुनः ॥
तामसे हरयो नाम वैकुण्ठे रैवते ऽन्तरे ।
साध्याश् च चाक्षुषे नाम्ना छन्दोजा जज्ञिरे सुराः ॥
धर्मपुत्रा महाभागाः स्वाध्यायां द्वादशामराः ।
मनोऽनुमन्ता प्राणश् च नरोपानश् च वीर्यवान् ॥
[८१४] चित्तिर् हयो नयश् चैव हंसो नारायणस् तथा ।
प्रसवो ऽथ विभुश् चैव स्वाध्या द्वादश् जज्ञिरे ॥
स्कन्दपुराणे ।
साध्याः पद्मासनगताः कमण्डल्वक्षसूत्रिणः ।
धर्मपुत्रा महात्मानो द्वादशामरपूजिताः ॥
ब्रह्माण्डपुराणात् ।
वैश्वदानवद् एवात्र साध्यदाने विधिः स्मृतः ।
दाने चाभ्यर्चनं मन्त्रः श्रूयतां च विशेषतः ॥
साध्येभ्यश् चेति चोक्त्वा वै देवेभ्यश् च नमस् तथा ।
सम्प्रीयतां मे भगवन् साध्यदेवा इति ब्रुवन् ॥
एवं दद्यात् तु विप्रेभ्यो मध्यमं गुरवे तथा ।
एतत् कृत्वा तु पुरुषो नारी वा दानम् आदृता ।
वैश्वदेवे च यत् प्रोक्तं फलं तत् सर्वम् आप्नुयात् ॥
इति साध्यदानविधिः ।
अथ द्वादशादित्यदानम् । ब्रह्मपुराणात् ।
शृणु नारद भद्रं ते दानम् आदित्यसञ्ज्ञितम् ।
यथोक्तं लोकगुरुणा विष्णुना प्रभविष्णुना ॥
कर्तुः पापहरं पुण्यम् आयुष्यं श्रीकरं शुभम् ।
आरोग्यं सर्वमाङ्गल्यं दुःस्वप्नाद्भुतनाशनम् ॥
[८१५] सर्वशान्तिकरं ह्य् एतत् सर्वसिद्धिफलप्रदम् ।
चक्षुष्यं सर्वरोगघ्नं भुक्तिमुक्तिफलप्रदम् ॥
विषुवत्य् अयने राहुग्रहणे चन्द्रसूर्ययोः ।
जन्मर्क्षे सौरवारे वा पञ्चदर्श्यर्कसङ्क्रमे ॥
सप्तम्यां वाथ नक्षत्रे सावित्रे ऽद्भुतदर्शने ।
दुःस्वप्नदर्शने कुर्याद् दानम् आदित्यसञ्ज्ञितम् ॥
देवालये नदीतीरे तडागे वरुणालये ।
अन्येषु पुण्यदेशेषु देवदानं समाचरेत् ॥
आलिप्य वै द्वादशहस्तदैर्घ्यां
क्षितिं तथा गोमयसंयुताद्भिः ।
तस्मिन् सितैस् तण्डुलपुञ्जकैश् च
विस्तारयेद् द्वादश पङ्कजानि ॥
प्रादेशमात्राणि शुभानि तानि
सकर्णिकान्य् अष्टदलेषु तेषु ।
हिरण्यरूपाणि रवेर् निधाय
यथाक्रमाद् उत्तरतो ऽपवर्गः ॥
तेषां लक्षणम् उक्तम् ब्रह्मण्डदाने ।
प्रत्यङ्मुखान् प्राङ्मुख एव देवांस्
तद्वर्णगन्धादिभिर् अर्चयित्वा ।
[८१६] दद्याद् अपूपं सघृतं गुडाक्तं
वस्त्रैर् अथावेष्ट्य यथाक्रमेण ॥
प्रत्येकम् एकं द्विजपुङ्गवानाम्
आराध्य गन्धादिभिर् दरेण ।
सम्प्रीयताम् इत्य् अप्य् अथ च क्रमेण
प्रत्येकम् उच्चार्य तदीयनाम ॥
धाता च मित्रश् च ततः परेण
मार्तण्डनामा च तथार्यमा च ।
शक्रश् च देवो वरुणस् तथासौ
भगो विवस्वान् नवमस् तहैषाम् ॥
आदित्यनामा सविता तथान्यस्
त्वष्टा तथैकादशमश् च तेषाम् ।
विष्णुस् तथा द्वादशमश् च मन्त्रैर्
आराधयेद् देववरान् द्विजांश् च ॥
पुरा देवर्षेर् दानं प्रोक्तं कलयोनिना ।
तथा मयापि युष्माकं प्रोक्तं मुनिवरोत्तमाः ॥
इत्य् आदित्यदानविधिः ।
अथ देवगण्ēशदानम् । ब्रह्माण्डपुराणात् ।
अथापृच्छन् मुनयः सूतसूनुं
तदारण्ये नैमिषे सत्त्रिणस् ते ।
उग्रश्रवाः परिपृच्छामहे त्वां
[८१७] कथं मर्त्यो मुच्यते रोगपूगैः ॥
तथा पृष्टो मुनिभिः सूतसूनुर्
उवाचेदं प्रीतिपूर्वं तदानीम् ।
यथा पुरा ऋषये नारदाय
जगत्कर्ता चाब्रवीद् दानम् एतत् ॥
शृण्वन्तु यूयं मुनयः समेता
वदाम्य् अहं देव गणेशदानम् ।
आयुष्यम् आरोग्यम् अनन्तमुक्तिम्
अभीष्टसिद्धिं प्रददाति कर्तुः ॥
कालेषु सूर्यग्रहणादिकेषु
तारेषु जन्मत्रितयेषु कार्यम् ।
देशेषु देवायतनादिकेषु
गृहेषु वा रमते यत्र तत्र ॥
विप्रं गुरुं वेदपुराणदक्षं
सङ्गृह्य तस्यानुमतेन कार्यम् ।
गव्येन भूमिं शकृता जलेन
विलेपयेद् विंशति हस्तमात्राम् ॥
षट् दक्षिणे प्राग् अपि वेदरेखास्
तिर्यक्कृतैस् तण्डुलपुञ्जकैश् च ।
तस्मिन् विचित्राणि सरोरुहाणि
कृत्वाष्टपत्राणि दशाथ पञ्च ॥
आदित्या वसवो रुद्रा विश्वे ऽश्विमरुतस् तथा ।
साध्या देवास् तथा चैव सप्तमो गण उच्यते ॥
[८१८] द्वौ द्वौ गणेभ्यः सप्तभ्यश् चतुर्दश सुरोत्तमान् ।
जातरूपमयान् कृत्वा कमलेषु निवेशयेत् ॥
मध्ये महेन्द्रं द्विभुजं हिरण्यं
हिरण्यरूपाद् अधिकं गणानाम् ।
वज्रायुधं दैत्यहनं किरीट-
केयूरहारादिविभूषितं च ॥
प्रत्यङ्मुखान् प्राङ्मुख एव देवान्
आदित्यवस्वादि यथा क्रमेण ।
स्वनाममन्त्रैश् च नमो ऽन्तरूपैर्
आराधयेद् उत्तरतो ऽपवर्गे (?) ॥
षट् दक्षिणे इत्यादि, दक्षिणोत्तरायताः षट् रेखाः कृत्वा प्राक्पश्चिमायताश् चतस्रश् च विधाय पञ्चदशकोष्टानि सम्पादयेत् ।
तेषु तावन्ति तण्डुलमयानि कमलानि कृत्वा वक्ष्यमाणान् देवान् स्थापयेत् । तत्र आदित्यवसुलक्षणम् उक्तं ब्रह्माण्ददाने । रुद्रलक्षणम् उक्तं विश्वचक्रे । एतेषां नामानि च तुलापुरुषदाने । विश्वदेवलक्षणं तन्नामानि च विश्वामरदाने । मरुतां लक्षणं नामानि च मरुद्दाने । साध्यानां साध्यदान् इति ।
ततो महेन्द्रं ज्गताम् अधीशम्
आराधयेद् देवगणैः समेतम् ।
सम्पूज्य तस्मै गुरवे च देयं
वासोयुगं काञ्चनभूषणानि ॥
ततस् त्व् असौ भूषणभूषिताङ्गः (?)
[८१९] संवेष्टितो वस्त्रयुगेन विप्रः ।
समर्चयेद् देवगणेशमुख्यांस्
ततो होमं प्रारभेद् देवतानाम् ॥
स्नानं वस्त्रं चार्घपाद्याचमनीयं
गन्धं पुष्पं धूपदीपौ हविश् च ।
दद्याद् एषां मध्यं देवदेवं
समर्चयेद् विधिना शास्त्रजेन ॥
अग्निं समाधाय समुह्य दर्भैः
परिस्तरेद् आज्यम् अथो गृहीत्वा ।
सत्कृत्य दर्वीं विधिना घृतेन
प्रत्येकम् एकं च दशाहुतीनाम् ॥
हुत्वा गणेभ्यश् च तथाहुतीनां
शतं तथा दश वाप्य् अत्र हुत्वा ।
इद्रस्य होमं विधिना समाप्य
शेषास् तथा व्याहृतिभिः समस्ताः ॥
इत्य् एवम् एतद् गुरुणैव कार्यं
दाता स्वयं दानम् अथात्र कुर्यात् ।
स्नात्वा वासो गुरुणा प्रोक्षितश् च
कुशोदकैः पावनानैर् यजुर्भिः ॥
प्रत्येकम् एकं द्विजपुङ्गवानाम्
आराध्य दातव्यम् अनुक्रमेण ।
प्रदक्षिणं देवगणैश् च सार्धं
कृताञ्जलिं पुष्पयुतं च दत्वा ॥
[८२०] सम्प्रीयतां मेत्य् अय्म् एव चोक्त्वा
ददेत् सर्वांश् चोदकपूर्वम् अत्र ।
ततस् त्व् इदं गुरवे दापयित्वा
विप्रैः स्वस्तिं पञ्चभिर् वाचयेच् च ॥
दत्वा तेषां दक्षिणां वाचकानां
ततो विप्रान् पूजयेद् वै गुरुं च ।
तथा चैवं देवदानं च कृत्वा
ततः सर्वैर् मुच्यते रोगपूगैः ॥
कृत्वा चासौ देवगणेशदानम्
आयुष्यम् आरोग्यम् उपैति चाग्रम् ।
भुक्त्वा भोगान् ऐहिकान् पुष्कलांश् च
ततो गच्छेद् ब्रह्मलोकं विशालम् ॥
एवं पुरा गणेशाख्यं दानं मुनिवरोत्तमाः ।
उक्तं देवर्षिभिश् चैव ब्रह्मणा वा स्वयम्भुवा ॥
इति देवगणेशदानविधिः ।
अथ ँँनिग्नाभदानम्ँँ । ब्रह्माण्डपुराणात् ।
सूत उवाच
अथापरं दानम् अहं प्रवक्ष्ये
शृण्वन्तु सर्वे मुनयः समेताः ।
यथा पुरा ऋषये नारदाय
[८२१] जगत्कर्ता पद्मयोनिस् त्व् अवोचत् ॥
यत् कृत्वा वै पुरुषो वाथ नारी
फलं चेष्टं लभते चोभयत्र ।
आयुश् च सर्वं लभते ऽथ रोगैर्
विमुच्यते चन्द्रम् उपैति लोकम् ॥
कालेषु सूर्यग्रहणादिकेषु
सङ्क्रम्यते तत्र च दानम् एतत् ।
निग्नाभसञ्ज्ञं तु तथैव कुर्याद्
देशेषु देवायतनादिकेषु ॥
गृहेषु वा रमते यत्र तत्र
द्विजाय निम्नाभमनुं प्रदद्यात् ।
वैतानिकं वेदपुराणदक्षं
सङ्गृह्य विप्रं गुरुम् आदरेण् ॥
तेनैव सर्वं विप्रेण कारयेच् चैव मादृतः ।
यजमानः स्वयं कुर्याद् दानं निग्नाभसञ्ज्ञितम् ॥
क्षितौ गोमयलिप्तायां दक्षिणोत्तरतः समम् ।
दश पञ्च च पद्मानि कारयेत् श्वेततण्डुलैः ॥
मण्डलानि यथाशक्ति हैरण्यानि प्रकल्पयेत् ।
मण्डलत्रितयं तेषु प्रतिपद्मं निवेशयेत् ॥
आयुरादीनि तत्त्वानि शरीरे सन्ति यानि वै ।
तानि ध्यात्वाथ गन्धाद्यैर् अर्चयेत् तान्य् अमन्त्रकैः ॥
आयुरादीनि, श्रोत्रप्रभृतीनि, श्रोत्रं आयुर् इति श्रुतेः । तेषाम् अनुक्रमश् च ब्रह्माण्डपुराणे ।
श्रोत्रं त्वक् चक्षुषो जिह्वा घ्राणं चैवात्र पञ्चमम् ।
शब्दस्पर्शौ रूपरसौ गन्धश् चेति क्रमाद् अमी ॥
आकाशः पवनस् तेजो जलं पृथ्वीत्य् अनुक्रमात् ।
इति पञ्चदशेमानि तत्त्वानि मुनयो विदुः ॥ इति ।
विप्रान् अभ्यर्च्य दातव्यं प्रत्येकं च यथाक्रमम् ।
निग्नाभदानमन्त्रास् तु गुरुणा वचयेच् च तान् ॥
पञ्चभिर् गुरुणा सार्धं वाचयेत् स्वस्तिवाचनम् ।
दक्षिणां च गोरोर् दद्यात् सुवर्णं चैव वाससी ॥
अथ वा पद्मयुगलम् एकैकस्यापि दापयेत् ।
सर्वं वा गुरवे दद्यात् सङ्कल्प्य यत्र वाचनम् ॥
यद्य् एकं गुरवे दद्याद् बहुभ्यश् चेतरान् ददेत् ।
अभीष्टसिद्धिं लभते कर्ता दानेन वानघ ॥
इति निग्नाभदानविधिः ।
अथ गणेशदानम् उच्यते लिङ्गपुराणे ।
गणेशं सम्प्रवक्ष्यामि दानं पूर्वोक्तमण्डपे ।
सम्पूज्य देवदेवेशं लोकपालसमावृतम् ॥
विघ्नेश्वरान् यथाशास्त्रं सर्वाभरणभूषितम् ।
दशनिष्केण वै कृत्वा सम्पूज्य विधिना ततः ॥
अत्र कुण्डमण्डपमण्डलवेदिकावितानादि लिङ्गपुराणोक्ततुलापुरुषविहितं वेदितव्यम् ।
[८२३] देवदेवेशं महेश्वरं सौवर्णलोकपालयुतम् ।
सम्पूज्य परितो ऽष्टदिक्षु विघ्नेशान् अर्चयेद् इति ॥
सप्तकोटिमन्त्रात्मकविघ्नगणानाम् ईशत्वात् । अत एव गणेशाः । ते च यथा ।
अथानन्तश् च शूक्ष्मश् च शिवश् चाप्य् एकनेत्रकः ।
एकरुद्रस् त्रिमूर्तिश् च श्रीकण्ठश् च शिखण्डकः ॥ इति ।
शिवोक्तविघ्नेशाश् चात्र गणेशाः । ते च प्रत्येकं दशनिष्कैर् विधेयाः । तद् उक्तं कामिके ।
दशनिष्कसुवर्णेन निर्मितांश् च प्र्थक् पृथक् ।
स्वकीयावरणे चैतान् गन्धपुष्पादिभिर् गुरुः ।
प्रधाने जुहुयाद् ईशं विघ्नेशान् अष्टदिक्षु च ॥ इति ।
तेषां लक्षणं तु लक्षणसमुच्चयात् ।
कुण्डी पाशाङ्कुशं घण्टां शूलं च वामवाहुके ।
शक्तिर् वज्राक्षमालासिचक्राणि दक्षिणे क्वचित् ॥
द्वीपिचर्मधरो ऽब्जस्थो नागयज्ञोपवीतवान् ।
एकास्यः पञ्चवक्त्रो वा त्र्यक्षो जटेन्दुभृच् छिवः ॥
अनन्ताद्याश् चतुर्दिक्षु रक्तनीलसितारुणाः ।
कोणेषु चैकरुद्राद्याः सितासृग्नीललोहिताः ॥
सर्वे चाष्टभुजा योज्याश् चतुरास्या जटान्विताः ।
शिवायुधधरास् त्र्यक्षाः सृण्यसिभ्यां विना क्वचित् ॥
[८२४] दिग्वर्णा जटिलास् त्र्यक्षाः परत्रिशूलधारिणः ।
पुटाञ्जलिकराः सर्वे विघ्नेशाश् चैकवक्त्रकाः ॥
लोकपाललक्षणम् उक्तं ब्रह्माण्डदाने ।
अष्टदिक्ष्व् अष्टकुण्डेषु पूर्ववद् धोमम् आचरेत् ।
पञ्चावरणमार्गेण पारम्पर्यक्रमेण च ॥
पूर्ववद् इति, लिङ्गपुराणोक्ततुलापुरुषवद् इत्य् अर्थः ।
सप्त विप्रान् समभ्यर्च्य कन्याम् एकां तथोत्तरे ।
दापयेत् सर्वतन्त्राणि स्वैः स्वैर् मन्त्रैर् अनुक्रमात् ॥
दत्वैवं सर्वपापेभ्यो मुच्यते नात्र संशयः ॥
पञ्चब्रह्माद्यैः पञ्चावरणैर् युक्तस्य शिवस्यार्चनं मध्ये प्रधानकुण्डे होमश् च दिक्कुण्डेषु तु विघ्नेशानाम् आत्मीयपञ्चावरणैर् गुरुपम्परोपदिष्टैर् युक्तानां होमः ईशानादिसप्तदिक्षु सप्तविप्रान् उत्तरस्यां दिश्य् एकां कन्याम् अभ्यर्च्य कन्याष्टमेभ्यो विप्रेभ्यः स्वस्वमन्त्रेण सर्वतन्त्राणि सर्वतन्त्रमयान् विघ्नेशान् दद्याद् इत्य् अर्थः । दापयेत् सर्वविद्येशान् इति पाठः । तेभ्यः प्रदद्याद् विद्येशान् स्वस्वमन्त्रैर् अनुक्रमाद् इति कामिकोक्तेः । पञ्चावरणपूजा तु वायुसंहितोक्ता ग्राह्या ।
परीक्ष्य भूमिं विधिवद् गन्धवर्णरसादिभिः ।
मनोऽभिलषिते तत्र वितानविनताम्बरे ॥
सुलिप्ते च महीपृष्ठे दर्पणोदरसन्निभे ।
प्राचीम् उत्पदयेत् पूर्वशास्त्रदृष्टेन वर्त्मना ॥
[८२५] एकहस्तं द्विहस्तं वा मण्डलं परिकल्प्य तु ।
आलिखेद् विपुलं पद्मम् अष्टपत्रं सकर्णिकम् ॥
रक्तचूर्णादिभिर् चूर्णेर् यथासम्भवसम्भृतैः ।
प्रतिवारुणसंयुक्तं बहुशोभासमन्वितम् ॥
दलेषु सिद्धयः कल्प्याः केसरेषु सशक्तितः ।
रुद्रा वामादयस् त्व् अष्टौ पूर्वादि परितः क्रमात् ॥
कर्णिकायां तु वैरूप्यं बीजेषु नव शक्तयः ।
कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ॥
कर्णिकोपरि वाग्नेयं मण्डलं सौरम् ऐन्दवम् ।
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयम् अतः परम् ॥
सर्वासनोपरिमुखं विचित्रकुसुमान्वितम् ।
परव्योमावकाशे च विद्ययातीव भासुरम् ॥
परिकल्प्यासनं मूर्तिम् आवाह्य परमेश्वरम् ।
पञ्चवर्णस्वमार्गेण पूजयेद् अम्बया सह ॥
शुद्धस्फटिकसङ्काशं प्रसन्नं शीतलद्युतिम् ।
विद्युद्वलयसङ्काशं जटामुकुटभूषितम् ॥
दिव्यायुधवरैर् युक्तं दिव्यगन्धानुलेपनम् ।
शार्दूलचर्मवसनं किञ्चित् स्मितमुखाम्बुजम् ॥
रक्तपद्मदलप्रख्यपादपाणितलाधरम् ।
सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम् ॥
पञ्चवक्त्रं दशभुजं चन्द्रखण्डशिखामणिम् ।
[८२६] अत्यपूर्वमुखं सौम्यं बालार्कसऋशप्रभम् ॥
विलोचनारविन्दाढ्यं बालेन्दुकृतशेखरम् ।
दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ॥
भृकुटीकुटिलं घोरं रक्तवृत्तत्रिलोचनम् ।
दंष्ट्राकरालदुर्घर्षं स्फुरिताधरपल्लवम् ॥
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ।
सविलासत्रिनयनं चन्द्राभरणशेखरम् ॥
पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्वलम् ।
अतीवसौम्यम् उत्फुल्लं लोचनत्रितयोज्वलम् ॥
दक्षिणे शूलपरशुवज्रखड्गानलोज्वलम् ।
चन्द्ररेखाधरं सौम्यं मन्दस्मितमनोहरम् ॥
पञ्चमं स्फटिकप्रख्यम् इन्दुरेखासमुद्वलम् ।
सव्ये च नागनाराचघण्डापाशाङ्कुशोज्वलम् ।
निवृत्याजानुसम्बद्धम् आनाभिं च प्रतिष्ठया ॥
आकण्ठं विद्यया तद्वद् आललाटे तु शान्तया ।
तदूर्ध्वं शान्त्यतीताख्यकलया वरया तथा ॥
पञ्चाध्वयापिनं (?) तस्मात् कलापञ्चकविग्रहम् ॥
ईशानमुकुटं देवं पुरुषाख्यं पुरातनम् ।
अघोरं हृदयं तद्वद् वामगुह्यं महेश्वरम् ॥
सद्यमाद्यं (?) च तन्मूर्तिम् अष्टत्रिंशत्कलामयम् ।
मातृकामयम् ईशानं पञ्चब्रह्ममयं ततः ॥
[८२७] ओङ्काराख्यम् अयं चैव हंसं शक्त्या समन्वितम् ।
पञ्चाक्षरमयं देवं षडक्षरमयं तु वा ॥
अङ्गषट्कयुतं चैव जातिषट्कसमन्वितम् ।
तथेच्छामि कया शक्त्या समारूढकमण्डलुम् ॥
ज्ञानाख्यया दक्षिणतो वामतश् च क्रियाख्यया ।
तत्त्वत्रयमयं साक्षाद् विद्यामूर्तिं सदाशिवम् ॥
मूर्तित्वेनैव सङ्कल्प्य सकलीकृत्य च कर्मात् ।
सम्पूज्य च यथान्यायम् अर्घान्तं मूलविद्यया ॥
मूर्तिमन्तं शिवं साक्षाच् छक्त्या परमया सह ।
तत्रावाह्य महादेवं सदसद्व्यक्तिवर्जितम् ॥
पञ्चोपचारणं कृत्वा पूजयेत् परमेश्वरम् ।
ब्रह्मभिश् च षडङ्गैश् च तथा मातृकयापि च ॥
प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ।
शान्तेन च तथान्यैश् च देवमन्त्रैश् च कृत्स्नशः ॥
पूजयेत् परमं देवं केवलेन शिवेन वा ।
सद्यादिमुखम् ईशानं कृत्वाथ स्वपनं विना ॥
पञ्चावरणपूजां तु प्रारभेत् तु यथाक्रमम् ।
तत्रादौ शिवयोः पार्श्वे दक्षिणे वामतः क्रमात् ॥
गन्धाद्यैर् अर्चयेत् पूर्वं देवो हेरम्बषण्मुखौ ।
ततो ब्रह्माणि परित ईशानादि यथाक्रमम् ॥
सशक्तिकानि सद्यान्तं प्रथमावरणे यजेत् ।
षडङ्गान्य् अपि तत्रैव हृदयादीन्य् अनुक्रमात् ॥
शिवस्य च शिवायाश् च वामादिषु समर्चयेत् ।
[८२८] तत्र वामादिकान् रुद्रान् अष्टौ वामादिशक्तिभिः ।
अर्चयेद् वा न वा पश्चात् पूर्वादिपरितः क्रमात् ॥
षडङ्गानि वामादिरुद्राश् च तत्रैव दर्शिताः ।
हृदयश् च शिरश् चैव शिखा वर्म च नेत्रकम् ।
स्वस्ति मेत्य् एवम् उक्तानि षडङ्गानि मनीषिभिः ॥
वामो ज्येष्ठस् तथा रुद्रः कालो विकरणस् तथा ।
बलविकरणश् चैव बलप्रथमनस् तथा ॥
सर्वभूतस्य दमनस् तादृशाश् चाष्टशक्तयः ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥
अनन्तं पूर्वदिक्पत्रे शक्त्या सह शिवोत्तमम् ।
तत्रैवोत्तरदिक्पत्रे एकनेत्रं समर्चयेत् ॥
एकनेत्रं च तच्छक्तिं पश्चाद् ईशानाअदिग्दने ।
त्रिमूर्तिं तस्य शक्तिं च पूजयेद् अग्निदिग्दले ॥
श्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः ।
अथैव मारुते पत्रे शिखण्डीशं समर्चयेत् ॥
पर्थमावरणे चेज्या न वा ते चक्रवर्तिनः ।
तृतीयावरणे पूज्याः शक्तिभिश् चाष्टमूर्तयः ॥
अष्टासु शर्वस् तथेशानो रुद्रः पशुपतिस् तथा ।
उग्रो भीमो महादेव इत्य् अष्टौ मूर्तयः क्रमात् ॥
[८२९] अन्तरान्तरतश् चैषां महादेवादयः क्रमात् ।
शक्तिभिः सह सम्पूज्यास् तत्रैकादशमूर्तयः ॥
महादेवः शिवो रुद्रः शङ्करो नीललोहितः ।
ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥
कपालीशश् च कथ्यन्ते तथैकादशशक्तयः ।
तत्राष्टौ प्रथमं पूज्या वाह्नेयादि यथाक्रमम् ॥
देवदेवः पूर्वपत्रम् ईशान्याम् अग्निगोचरे ।
भवोद्भवस् तयोर् मध्ये कपालीशश् ततः परम् ॥
तस्मिन्न् आवरणे भूयो वृषेन्द्रं पुरतो यजेत् ।
नन्दिनं दक्षिणे तस्य महाकालं तथोत्तरे ॥
शास्तारं वह्निदिक्पत्रे मातुर् (?) दक्षिणदिग्दले ।
गजास्यं नैरृते पत्रे षण्मुखं वारुणे ततः ॥
ज्येष्ठां वायुदले गौरीम् उत्तरे चण्डम् ऐश्वरे ।
शास्तृनन्दीशयोर् मध्ये मुनीन्द्रं वृषभं यजेत् ॥
महाकालस्योत्तरतः पिङ्गलं तु समर्चयेत् ।
शास्तृमातृसमूहस्य मध्ये भृङ्गीश्वरं ततः ॥
मातृविघ्नेशमध्ये तु वीरभद्रं समर्चयेत् ।
स्कन्दविध्नेशयोर् मध्ये जयेद् देवीं सरस्वतीम् ॥
ज्येष्ठाकुमारयोर् मध्ये महामोदीं समर्चयेत् ।
गणाम्बाचण्डयोर् मध्ये देवीं दुर्गां समर्चयेत् ॥
तत्रैवावरणे भूयः शिवानुचरसंहतिम् ।
रुद्रप्रथमभूवाख्यां त्रिविधां च स्वशक्तिकाम् ॥
[८३०] शिवायाः सखीवर्गं च यजेत् ध्यात्वा समन्ततः ।
एवं तृतीयावरणे वितते पूजिते सति ॥
चतुर्थावरणं ध्यात्वा बहिस् तस्य समर्चयेत् ।
भानुः पूर्वदले पूज्यो दक्षिणे चतुराननः ॥
रुद्रो वरुणदिक्पत्रे विष्णुर् उत्तर्दिग्दले ।
चतुर्णाम् अपि देवानां पृथग् आवरणान्य् अथ ॥
तत्पूजानन्तरं कुर्यात् तच्छास्त्रोक्तप्रकारतः ।
अथ वा भानुम् अभ्यर्च्य प्रथमावरणे यजेत् ॥
तस्यात्मनि षड् एवादौ दीप्ताद्याभिश् च शक्तिभिः ।
दीप्ता सूक्ष्मा ज्या भद्रा विभूतिर् विमला क्रमात् ॥
अमोघा विद्युता चैव पूर्वादिपरितः स्थिताः ।
द्वितीयावरणे पूज्याश् चतस्रो मूर्तयः क्रमात् ॥
पूर्वाद्युत्तरपर्यन्ताः शक्तयश् च ततः परम् ।
आदित्यो भास्करो भानू रविश् चेत्य् अनुपूर्वशः ॥
अर्को ब्रह्मा तथा रुद्रो विष्णुश् चैवं विवस्वतः ।
विस्तारान् पूर्वदिग्भागे सुता वा दक्षिणे स्थिताः ॥
बोधनी पश्चिमे भागे आप्यायेद् उत्तरे पुनः ।
उषां प्रभां तथा प्रज्ञां सन्ध्याम् अपि ततः परम् ॥
ईशानादिषु कोणेषु द्वितीयावरणे यजेत् ।
सोमम् अङ्गारकं चैव बुधं बुद्धिमतां वरम् ॥
बृहस्पतिं बृहद्बुद्धिं मार्गवं तेजसां निधिम् ।
[८३१] शनैश्वरं तथा राहुं केतुं धूम्रं भयङ्करम् ॥
समन्ततो यजेद् एतांस् तृतीयावरणे क्रमात् ।
अथ वा द्वादशादित्यान् द्वितीयावरणे यजेत् ॥
तृतीयावरणे चैव राशीन् द्वादश पूजयेत् ।
सप्तस्पतगणांश् चैव बहिर् अस्य समन्ततः ॥
ऋषीन् देवांश् च गन्धर्वान् पन्नगाश् चाप्सरोगणान् ।
ग्रामण्यश् च तथा यक्षं जातुधानांस् तथा हयान् ॥
सप्तछन्दोमयांश् चैव वालखिल्यांश् च पूजयेत् ।
एवं त्र्यावरणं देवं समभ्यर्च्य दिवाकरम् ॥
ब्रह्मणम् अर्चयेत् पश्चात् त्रिभिर् आवरणैः सह ।
हिरण्यगर्भं पूर्वस्यां विराजं दक्षिणे ततः ॥
कालं पश्चिमदिग्भागे पुरुषं चोत्तरे यजेत् ।
हिरण्यवर्णः प्रथमो ब्रह्मा कमलसन्निभः ॥
कालो जात्याञ्जनप्रख्यः पुरुषः स्फटिकोपमः ।
त्रिगुणो राजसश् चैव तामसः सात्त्विकस् तथा ॥
चत्वार एते क्रमशः प्रथमावरणे स्थिताः ।
द्वितीयावरणे पूज्याः पूर्वादिपरितः क्रमात् ॥
सनत्कुमारः सनकः सनन्दश् च सनातनः ।
तृतीयावरणे पश्चाद् अर्चयेत प्रजापतीन् ॥
अष्टौ पूर्वास् तु पूर्वा त्रीन् प्राक् पश्चाद् उत्तरं क्रमात् ।
दक्षो रुचिर् भृगुश् चैव मरीचिश् च ततो ऽङ्गिराः ॥
पौलस्त्यः पुलहश् चैव क्रतुर् अत्रिश् च कश्यपः ।
वशिष्ठश् चेति विख्याताः प्रजानां पतयस् त्व् इमे ॥
[८३२] तेषां भार्याश् च तैः सार्धं पूजनीया यथाक्रमम् ।
प्रसूतिश् च तथा कूतिः ख्यातिः सम्भूतिर् एव च ॥
स्मृतिः प्रीतिः क्षमा चैव सन्ततिश् चानसूयका ।
देवमातारुन्धती च सर्वाः खलु प्र्तिव्रताः ॥
शिवार्चनरता नित्यं श्रीमत्यः प्रियदर्शनाः ।
प्रथमावरणे वेदांश् चतुरो वास्य पूजयेत् ॥
इतिहासपुराणानि द्वितीयावरणे पुनः ।
तृतीयावरणे पश्चाद् धर्मशास्त्रपुरःसराः ॥
वैदिका निखिला विद्याः पूज्या एव समन्ततः ।
पूर्वादिपरितो वेदासूदन्ये तु यथारुचि ॥
अष्टधा वा चतुर्धा वा कृत्वा पूज्य समन्ततः ।
एवं ब्रह्माणम् अभ्यर्च्य त्रिभिर् आवरणैर् युतम् ॥
दक्षिणे पश्चिमे पश्चाद् रुद्रं (?) सावरणं यजेत् ।
तस्य ब्रह्मषडङ्गानि प्रथमावरणं स्मृतम् ॥
द्वितीयावरणं चैव विद्येश्वरमयं तथा ।
तृतीयावरणे भेदो विद्यते स तु कथ्यते ॥
चतस्रो मूर्तयस् तस्याः पूज्याः पूर्वादिभिः क्रमात् ।
त्रिगुणः सकलो देवः पुरस्ताच् छिवसञ्ज्ञकः ॥
राजसो दक्षिणे ब्रह्मा सृष्टिकृत् पूज्यते सदा ।
तामसः पश्चिमे वाग्निः पूज्यः संहारको हरः ॥
सात्त्विकः सुखकृत् सौम्यो विष्णुर् विश्वपतिर् मृडः ।
एवं पश्चिमदिग्भागे शम्भोः षड्विंशकं शिवम् ॥
समभ्यर्च्योत्तरे भागे ततो वैकुण्ठम् अर्चयेत् ।
[८३३] वासुदेवं पुरस् तस्य प्रथमावरणे यजेत् ॥
अनिरुद्धं दक्षिणतः प्रद्युम्नं पश्चिमे ततः ।
सौम्ये सङ्कर्षणं पश्चाद् ह्य् अत्र तौ वा यजेद् इमौ ॥
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।
मत्स्यः कूर्मो वराहश् च नारसिंहश् च वामनः ॥
रामेष्व् अन्यतमः कृष्णो भवान् अश्वमुखो ऽपि च ।
तृतीयावरणे चैकं पूर्वभागे समर्चयेत् ॥
नारायणाख्यं याम्ये ऽस्त्रं क्वचिद् अव्याहतं यजेत् ।
पश्चिमे पाञ्चजन्यं च शार्ङ्गधनुर् अथोत्तरे ॥
एवं त्र्यावरणं साक्षाद् विष्ण्वाख्यं परमं हरिम् ।
महाविष्णुं सदाविष्णुं मूर्तिं कृत्य समर्चयेत् ॥
इत्थं चतुश्चतुर्व्यूहं क्रमान् मूर्तिचतुष्टयम् ।
पूजयित्वा तु तच्छक्तीश् चतस्रः पूजयेत् क्रमात् ॥
प्रभाम् आग्नेयदिग्भागे नैरृते तु सरस्वतीम् ।
गणाम्बिकां च वायव्ये लक्ष्मीं रौद्रे समर्चयेत् ॥
एवं भान्वादिमूर्तीनां तच्छक्तीनाम् अनन्तरम् ।
पूजां विधाय लोकेशांस् तत्रैवावरणे यजेत् ॥
इन्द्रम् अग्निं यमं चैव नैरृतं वरुणं तथा ।
वायुं सोमं कुबेरं वा पश्चाद् ईशानम् अर्चयेत् ॥
एवं चतुर्थावरणं पूजयित्वा विधानतः ।
आयुधानि महेशस्य पद्माद् बाह्यं समर्चयेत् ॥
[८३४] श्रीमत्त्रिशूलम् ऐशाने वज्रं माहेन्द्रदिङ्मुखे ।
परशुं वह्निदिग्भागे याम्ये सायकम् अर्चयेत् ॥
अङ्कुशं मारुते भागे पिनाकं चोत्तरे यजेत् ।
एवम् आवरणं चैवं सम्पूज्यानन्तरं बहिः ॥
पश्चिमाभिमुखं रौद्रे क्षेत्रपालं समर्चयेत् ।
सर्वावरणदेवानां बहिर् वा पश्चिमे ऽथ वा ॥
पञ्चगोमातृभिः सार्धं महोक्षपुरतो यजेत् ।
नन्दा सुभद्रा सुरभी सुशीला सुमनास् तथा ॥
पञ्चगोमातरस् त्व् एताः शिवलोके व्यवस्थिताः ।
ततः समन्ततः पूज्याः सर्वा वै देवयोनयः ॥
खेचरा ऋषयः सिद्धा दैत्या यक्षाश् च राक्षसाः ।
अनन्ताद्याश् च नागेन्द्रा नागैस् तत्र कुलोद्भवैः ॥
डाकिणीभूतवैतालप्रेतभैरवनायकाः ।
पातालवासिनश् चान्ये नानायोनिषु सम्भवाः ॥
नद्यः समुद्रा गिरयः काननानि सरांसि च ।
पशवः पक्षिणो वृक्षाः कीटाद्याः क्षुद्रयोनयः ॥
नराश् च विविधाकारा मृगाश् च क्षुद्रयोनयः ।
भुवनान्य् अन्तरण्डस्य ततो ब्रह्माण्डकोटयः ॥
बहिरण्डानि सङ्ख्यानि भुवनानि महाधिपैः ।
ब्रह्माण्डधारका रुद्रा दशदिक्षु व्यवस्थिताः ॥
यद् गौणं यच् चमाद् देयं यद् वा शाक्यं ततः परम् ।
यत् किञ्चिद् अर्थं शब्दस्य वाक्यं चिदचिदात्मकम् ॥
[८३५] तत् सर्वं शिवयोः प्रान्ते बुद्धा सामान्यतो यजेत् ।
कृताञ्जलिपुटाः सर्वे चिन्त्याः स्मितमुखास् तथा ॥
सादरं प्रेक्ष्यमाणाश् च देवं देवीं च सर्वदा ।
इत्थम् आवरणान्य् अर्च्य कृत्वाप्य् अक्षेमशान्तये ॥
पुनर् अभ्यर्च्य देवेशं पञ्चाक्षरम् उदीरयेत् ।
निवेदयेत् ततः पश्चाच्छिवयोर् अमृतोपमम् ॥
सरसव्यञ्जनं शुद्धं षड्यकारं महाचरुम् ।
द्वात्रिंशद् आढकैर् मुख्यं मध्यमं त्व् आडकावरम् ॥
साधयित्वा यथा सम्पत् श्रद्धया विनिवेदयेत् ।
ततो निवेद्य पानीयं ताम्बूलं चोपवंशकैः ॥
नीराजनादिकं क्वत्वा पूजाशेषं समापयेत् ।
योगोपयोगिद्रव्याणि विशिष्टान्य् एव साधयेत् ॥
वित्तशाठ्यं न कुर्वीत बुद्धिमान् विभवे सति ।
शिवस्योपेक्षकस्यापि व्यङ्गं चाप्य् अनुतिष्ठतः ॥
न फलन्त्य् एव काम्यानि कर्माणीइत् सतां कथा ।
तस्माच् छाठ्यम् उपेक्षां च त्यक्त्वा सर्वाङ्गयोगतः ॥
कुर्यात् काम्यानि कर्माणि फलसिद्धिं यद् इच्छति ।
इत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च ॥
भक्त्या पूजां समाप्याथ ततः स्तोत्रम् उदीरयेत् ।
ततः स्तोत्रजपस्यान्ते त्व् अष्टोत्तरशतं वरम् ॥
जपेत् पञ्चाक्षरीं विद्यां सहस्रोत्तरम् उत्सुकः ।
[८३६] दद्यात् पूजां गुरोः पूजां कृत्वा पश्चाद् यथाक्रमम् ॥
यथोदयं यथाश्रद्धं सदस्यान् अपि पूजयेत् ।
तत उद्वास्य देवेशं सर्वैर् आवरणैः सह ॥
मण्डलं गुरवे दद्याद् योगोपकरणैः सह ।
शिवाश्रितेभ्यो दद्याद् वा सर्वा एवानुरूपतः ॥
अथ वा तच्छिवायैव शिवक्षेत्रे समर्पयेत् ।
शिवाग्नौ वा यजेद् देवं होमद्रव्यैस् तु सप्तभिः ॥
समभ्यर्च्य यथापूवं सर्वावरणदेवताः ।
एवं योगेश्वरो मान त्रिषु लोकेषु विश्रुतः ॥
तस्माद् अभ्यधिकः कश्चिद् योगो ऽस्ति भुवने क्वचित् ।
न तद् अस्मिन् जगत्य् अस्मिन् न साध्यं यद् अनेन तु ॥
ऐहिकं वा फलं किञ्चिद् आमुष्मिकम् अथापि वा ।
इदम् अस्य फलं नेदम् इति नैव नियम्यते ॥
श्रेयो रूपस्य कृत्स्नस्य यद् इदं श्रेष्ठसाधकम् ।
इदं तु शक्यते वक्तुं पुरुषेण यद् अर्पते ।
चिन्तामणिर् इवैतस्मात् तत् तेन प्राप्यते फलम् ॥
इति गणेशदानविधिः
अथ मरुद्दानम् । ब्रह्माण्डपुराणात् ।
अथातः सम्प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः ।
मरुद्दानम् इति प्रोक्तं सर्वपापप्रणाशनम् ॥
[८३७] पुरा देवयुगे देवो ब्रह्मा लोकपितामहः ।
ऋषिणा नारदेनेदं पृष्टः प्रोवाच नारदम् ॥
शृणु नारद भद्रं ते दानं सर्वफलप्रदम् ।
यद् यत् कामयते दाता तत् तत् फलम् उपाश्नुते ॥
पुण्यकालेषु सर्वेषु जन्मर्क्षेषु विशेषतः ।
पुण्यदेशेषु सर्वेषु गृहे वा दानम् आचरेत् ॥
देवा एकोनपञ्चाशत् देवेन्द्रसमतेजसः ।
भ्रातरः पुरुहूतस्य मरुतः सूर्यवर्चसः ॥
किरीटहारकेयूरकटकादिविभूषिताः ।
खड्गचर्मधरा नित्यं शक्रस्यानुचराः सदा ॥
तेषां तु प्रतिरूपाणि जाररूपेण कारयेत् ।
तेषां दानानि तत् सर्वं विप्रेणैव समाचरेत् ॥
शुचौ देशे समां भूमिं लिप्य गोमयवारिणा ।
दक्षिणोत्तरतो विद्याल् लेखाः षट् तत्र ताः समाः ॥
प्राग् एकादशलेखाः स्युः पञ्चाशत्कोष्ठम् उच्यते ।
चतुरस्राः समाः सर्वे हस्तत्रितयसम्मिताः ॥
कोष्ठे मध्यमवीथ्यां वै षष्ठे चोत्तरतः स्थितम् ।
इन्द्रम् आसनम् इत्य् उक्तम् इतरे मरुतस् तथा ॥
कोष्ठेषु सर्वेषु सरोरुहाणि
कृत्वा सितैस् तण्डुलमण्डलैश् च ।
पद्मानि देवासनम् आरभेत
[८३८] संस्थापयेत् तेषु यथाक्रमेण ॥
अत्र दक्षिणोत्तरतो रेखाषट्कम् आलिख्य पूर्वपश्चिमायताभिर् एकादशरेखाभिः पञ्चाशत्कोष्ठनिष्पत्तिः स्यात् । तत्र मध्यमवीथ्याम् उत्तरतः षष्थे कोष्ठके । इन्द्रासनम् उत्तरे अवशिष्टकोष्ठकाः । मरुताम् आसनं मरुन्नामानि तु वायुपुराणात् ।
ततस् तेषां तु नामानि मातापित्रोः प्रचक्रतुः ।
तद्विधैः कर्मभिश् चैव मरुतान्तो पृथक् पृथक् ॥
शुक्रज्योतिस् तथादित्यः चित्रज्योतिस् तथापरः ।
सत्यज्योतिश् च ज्योतिस्मान् सत्यहा ऋतपास् तथा ॥
प्रथमो ऽयं गणः प्रोक्तो द्वितीयं तु निबोधत ।
ऋतजित् सत्यजिच् चैव सुषैणः सेनजित् तथा ॥
अन्तिमित्रो ह्य् अमित्रश् च दूरेमित्रस् तथापरः ।
गण एव तृतीयस् तु तृतीयो यन् निबोधत ॥
ऋतः सत्यो ध्रुवो धर्ता विधर्ताथ विधारय ।
धरुणश् च तृतीये तु चतुर्थं मे निबोधत ॥
ध्वान्तश् च धुनितश् चैव सभरश् च तथा गणः ।
ईदृक्षासः पुरुवश् चैव अन्यादृक्षास एतनः ॥
सम्मिताः समदृक्षासः प्रतिदृक्षास वै गणः ।
मरुतेन्द्रः सभरसः तथा देवविशो परः ॥
यज्ञश् चैवानुवर्त्मानस् तथान्यो मानुषीविशः ।
[८३९] दैत्यदेवाः समाख्याताः सप्तैते सप्तका गणाः ।
एते ह्य् एकोनपञ्चाशन् मरुतो मामतः स्मृताः ॥ इति ।
प्रागादिपूर्वोत्तरम् अत्र चैवं
सर्वाणि कृत्यानि च कारयित्वा ।
वस्त्रैर् अथावेष्ट्य कुशोदकैश् च
सम्प्रोक्ष्य तल्लिङ्गयुतैर् यजुर्भिः ॥
मध्ये महेन्द्रस् त्रिगुणेन हेम्ना
वज्रायुधः शक्तिधरः किरीटी ।
हारादिकेयूरविभूषिताङ्गी
देवाधिपो लोकपतिः प्रशान्तः ॥
कार्यम् इति अध्याहार्यम् ।
अभ्यर्च्य देवान् मरुतश् च पूर्वम्
अनन्तरं विप्रवरांस् तथैव ।
प्रत्येकम् एव प्रददेत्तु तेषां
प्रदक्षिणं चोत्तरपूर्वम् एव ॥
प्राप्ते शुभे पुण्यकाले ऽथ दाता ।
स्नात्वा ततस् तिलमिश्रैः कुशोदैः ।
प्रदक्षिणं पुष्पगृहीतहस्तः
कृत्वा तु विप्रेण सहैव सर्वान् ॥
प्रणम्य पुष्पाञ्जलिना च सर्वं
प्रदापयेद् देवगणं क्रमेण ।
प्रत्येकम् एवं द्विजपुङ्गवानां
प्रणम्य मन्त्रं समुदाहरेद् वै ॥
[८४०] वृणोति देवं मरुतां तथैकं
मयि प्रभो देव कुरु प्रसादम् ।
तव प्रसादाद् अघनाशनं मे
सौवर्णरूपास् तु सदामरेशाः ॥
इत्य् एवम् उक्त्वा मरुतः प्रदाय
ततो महेन्द्रं प्रददेच् च देवम् ।
यः कारयेद् विप्रवरस् तु तस्मै
स्वतीति विप्राश् च पुरोभिधाय ॥
ततः सम्पूज्य गुरवे दक्षिणां च यथोचिताम् ।
स्वस्तिवाचकविप्राणां दक्षिणां च यथार्हतः ॥
त्रैलोक्यराजो जगताम् अधीशो
देवाधिपो दैत्यगणाभिहन्ता ।
श्रेयांसि मह्यं प्रददातु देवो
देवाग्रजो वज्रधरः प्रशाण्तः ॥
इत्य् उच्चार्य ततो दद्याद् देवं वज्रधरं हरिम् ।
पूजायाम् अपि शक्तस्य मन्त्र एष प्रकीर्तितः ॥
य एवं कुरुते दानं मरुतां विधिपूर्वकम् ।
स सर्वकामसम्पन्नो देवव्द् दिवि मोदते ॥
यथोक्तं ब्रह्मणा वेदं नारदाय सुरर्षये ।
तथा मयापि वः सर्वं प्रोक्तं वै मुनिसत्तमाः ॥
इति मरुद्दानविधिः ।
अथ भुवनप्रतिष्ठाविधिः । [८४१] भविष्योत्तरात् ।
युधिष्ठिर उवाच ।
प्रतिष्ठा शाश्वती केन दानेन मधुसूदन ।
इह लोके परे चैव कीर्तिः स्याद् अद्भुता तथा ॥
सद्गतिं च यथा यान्ति सर्वे पितृपितामहाः ।
सन्ततिश् चाक्षया लोके विभवश् चापि पुष्कलः ॥
स्थापनं सर्वदेवानां कथं स्याद् यदुनन्दन ।
तदाचक्ष्व महाभाग दानेन नियमेन वा ॥
श्रीकृष्ण उवाच ।
साधु पृष्टं त्वया राजन् लोकानाम् उपकारकम् ।
शृणुष्वैकमना भूत्वा गुह्यं परमम् उत्तमम् ॥
भुवनानां समासेन प्रतिष्ठा कथयामि ते ।
देवासुरास् तथा नागा गन्धर्वा यक्षराक्षसाः ॥
प्रेताः पिशाचा भूआश् च स्थापिताश् च न संशयः ।
कारकस्यानुकूले तु मुहूर्ते विजये शुभे ॥
पुण्ये तिथौ शिवे ऋक्षे दिने सौम्यग्रहान्विते ।
सप्तहस्तं पटं कृत्वा चतुरस्रं सुसंहतम् ॥
भिन्नाङ्गं सुदृढं शुद्धं शुद्धस्फटिकवर्चसम् ।
तस्मिन् सर्वाणि राजेन्द्र भुवनानि लिखापयेत् ॥
चतुर्वर्णकम् आनीय विचित्रं चित्रकर्मणि ।
युवानं व्याधिरहितं भव्यं चित्रकरं शुभम् ॥
सम्पूजयित्वा यत्नेन पुष्पवासोविभूषणैः ।
[८४२] तस्मिन् कर्मणि युञ्जीत पठमानो द्विजोत्तमैः ॥
शङ्खभेरीनिनादैश् च गीतमङ्गलनिःस्वनैः ।
पुण्याहजयघोषैश् च ब्राह्मणान् पूज्य यत्नतः ॥
आचार्यम् अपि सम्पूज्य वासोभिर् भूषणैस् तथा ।
प्रारम्भं कारयेद् राजन् पटे तस्मिन् यथोदितम् ॥
पौराणं विधिम् आस्थाय भुवनानि यथाक्रमम् ।
मध्ये लिखापयेद् राजन् जम्बुद्वीपं सविस्तरम् ॥
तस्य मध्ये स्थितो मेरुर् मेरोर् उपरि देवताः ।
दिशासु लोकपालानां पुर्यो ऽष्टौ सुरसंयुताः ॥
सप्तद्वीपवती पृथ्वी सप्त चैव कुलाचलाः ।
सागराः सप्त एवात्र नद्यो हृद्याः ससिन्धवः ॥
पातालाः सप्त वा चैव सप्त स्वर्गविभूतयः ।
ब्रह्मविष्णुशिवादीनां भुवनानि यथाक्रमम् ॥
ध्रुवमार्गस् तथादित्यो ग्रहतारागणैर् वृतः ।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥
ऋषयो मुनयो गावो देवमातर एव च ।
सुपर्णाद्याश् च विहगा नागाश् चैरावतादयः ॥
दिग्गजाष्टकम् अत्रैव लेखयेद् रत्नमण्डितम् ।
एवंविधं पटं राजन् कारयित्वा सुशोभनम् ॥
दशोत्तरेण पयसा एतत् सर्वं समावृतम् ।
तत्तेजसावृतं भूयो महतोग्रेण सर्वशः ॥
तेजस् तु वायुना वायुर् आकाशेन समावृतः ।
भूतादिना तथाकाशं भूतादिमहता तथा ॥
[८४३] अव्यक्तेन महांश् चैव व्याप्तो वै बुद्धिलक्षणः ।
अव्यक्तं तमसा व्याप्तं तमश् च रजसा तथा ॥
तजः सत्त्वेन संव्याप्तं त्रिधा प्रकृतिर् उच्यते ।
एवम् आवरणोपेतं ब्रह्माण्डम् अखिलं नृप ॥
पुरुषेणावृतं सर्वं सबाह्याभ्यन्तरं तथा ।
एतत् सर्वं पटस्थं तु कृत्वा चित्रमयं सुधीः ॥
कार्तिक्याम् अयने चैव विषुवे ग्रहणे तथा ।
पूजयेद् येन विधिना तत् समासेन मे शृणु ॥
पूर्वतो मण्डलं चास्य विचित्रं कारयेद् बुधः ।
नव कुण्डानि चत्वारि चतुरस्राणि कारयेत् ॥
द्वौ द्वौ नियोजयेत् तेषु ब्राह्मणौ वेदपारगौ ।
यज्ञोपकरणोपेतौ वस्त्राभरणभूषितौ ॥
होमं कुर्युर् यतात्मानो मौनिनः सर्व एव ते ।
नामधेयैः पटस्थानां मन्त्रैर् ओङ्कारपूर्वकैः ॥
यजमानस् ततः सर्वं सर्वालङ्कारभूषितः ।
आचार्येण समं कुर्यात् पूजाम् अग्रे पटस्य तु ॥
पुष्पैर् वस्त्रैः समभ्यर्च्य मन्त्रम् एतम् उदीरयेत् ।
ब्रह्माण्डोदरवर्तीनि भुवनानीह यानि तु ॥
तानि सन्निहितान्य् अत्र पूजितानि भवन्तु मे ।
ब्रह्मा विष्णुस् तथा रुद्रो ह्य् आदित्या वसवस् तथा ॥
पूजितास् तु प्रतिष्ट्ःआसु भवन्तु सततं मम ।
[८४४] एवं सम्पूज्य विधिवत् कृत्वा चैव प्रदक्षिणम् ॥
भक्षान् नानाविधांश् चैव नैवेद्यं तत्र दापयेत् ।
शङ्खतूर्यनिनादैश् च जागरं कारयेत् ततः ॥
ब्रह्मघोषैर् विचित्रैश् च गीतमङ्गलनिःस्वनैः ।
पुनः प्रभाते विमले स्नात्वा शुचिर् अलङ्कृतः ॥
पूर्वोक्तेन विधानेन पुनः सम्पूज्य तं पटम् ।
ऋत्विक् पूजान् ततः कृत्वा गोसतेन विचक्षणः ॥
अथ वा गोयुगं दद्याद् एकैकस्याप्य् अलङ्क्र्तम् ।
उपानहौ तथा छत्रं गृहोपस्करणानि च ॥
यद् यद् इष्टतमं किञ्चित् सर्वं दद्याद् विचक्षणः ।
ततः प्रकल्पयेद् दानं नागयुक्तम् अलङ्कृतम् ॥
अलाभे वाजिसंयुक्तं पताकाध्वजमालिनम् ।
सहस्रं दक्षिणान् दत्वा ततश् चारोपयेत् पटम् ॥
ब्राह्मणं वा रेथेनाथ नयेद् देवालयं बुधः ।
तत्र संस्थापयेन् नीत्वा गन्धैः पुष्पैश् च पूजयेत् ॥
तत्रापि दद्यान् नैवेद्यं कुर्याच् चापि महोत्सवम् ।
यस्मिन्न् आयतने तस्य प्रतिष्ठा क्रियते नृप ॥
पूजा तत्रापि महती कर्तव्या भूतिम् इच्छता ।
चन्द्रातपं तु घण्टां च ध्वजाद्यं दापयेत् सुधीः ॥
यथाशक्त्या च राजेन्द्र गुरुं गौरवयन् नृप ।
अभ्यर्च्य दक्षिणाभिश् च ब्राह्मणांश् च विसर्जयेत् ॥
[८४५] दीनान्धकृपणानां च भोजनं चानिवारितम् ।
तस्मिन्न् अहनि दातव्यं मित्रस्वजनबन्धुषु ॥
अनेन विधिना यस् तु श्रद्दधानो जितेन्द्रियः ।
कुर्यान् नरो वा नारी वा प्रतीष्ठां सार्वलौकिकीम् ॥
स्थापितस् तु भवेत् तेन त्रैलोक्यं सचराचरम् ।
कुलं चोत्तारितं तेन सपुत्रेण युधिष्ठिर ॥
यावच् च देवतागारे पटस् तिष्ठति पूजितः ।
तावच् चास्याक्षया कीर्तिस् त्रैलोक्ये प्रतिसर्पति ॥
दिनानि कीर्तिर् यावन्ति मर्त्यलोकेषु गीयते ।
तावद् वर्षसहस्राणि सूर्यलोके महीयते ॥
गन्धर्वैर् गीयमानस् तु अप्सरोगणसेवितः ।
वसेत हृष्टमनसा यावद् इन्द्राश् चतुर्दश ॥
पुण्यक्षयाद् इहाभ्येत्य राजराजो ऽभिजायते ।
पुत्रपौत्रवृतः श्रीमान् दीर्घायुर् अतिधार्मिकः ॥
दशजन्मानि राजेन्द्र जायते हतकण्टकः ।
श्रीस् तस्य जायते नित्या तेजश् चाव्याहतं भुवि ॥
बलं बुद्धिर् धनं धान्यं पुत्रपौत्रं तथोत्तमम् ।
एतत् सर्वम् अवाप्नोति कृत्वैतत् सुरसत्तमः ॥
कीर्तिस् तु प्रथिता तस्य बलं चापि महद् भवेत् ।
अपराण्य् अपि जन्मानि सप्त राजा भवत्य् असौ ॥
पश्चाद् यतिकुले भूत्वा निर्वाणं प्राप्नुते परम् ।
अस्मात् परतरं नास्ति त्रिषु लोकेषु किञ्चन ॥
एतत् कृत्वा तु मुनयो लेभिरे परमं पदम् ।
[८४६] एतस्यैव प्रभावेण पुराणाश् चक्रवर्तिनः ॥
तथाविधं पदं लब्धा लोके कीर्तिर् वितेनिरे (?) ।
एतत् ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि ॥
नारी वा पुरुषो वापि प्रतिष्ठां भौवणीं तु यः ।
प्रकरोति विधानेन कृतकृत्यो भवेद् ध्रुवम् ॥
धर्मं च वर्धयति धर्मशतानि धत्ते
प्रसादयति पापम् अपाकरोति ।
विख्यापयेच् च भुवनेषु विशेषनिष्ठां
तन् नास्ति यन् न कुरुते भुवनप्रतिष्ठाम् (?) ॥
इति भुवनप्रतिष्ठाविधिः ।
अथ कल्पदानं मत्स्यपुराणे ।
कल्पानुकीर्तिनं वक्ष्ये सर्वपापप्रणाशनम् ।
यस्यानुकीर्तनाद् एव वेदपुण्येन युज्यते ॥
प्रथमः श्वेतकल्पस् तु द्वितीयो नीललोहितः ।
वामदेवस् तृतीयस् तु ततो रथन्तरो ऽपरः ॥
रौरवः पञ्चमः प्रोक्तः षष्ठः प्राण इति स्मृतः ।
सप्तमो ऽथ बृहत्कल्पः कन्दर्पो ऽष्टम उच्यते ॥
मद्यो ऽथ नवमः प्रोक्त ईशानो दशमः स्मृतः ।
[८४७] व्यान एकादशः प्रोक्तः तथा सारस्वतो ऽपरः ॥
त्रयोदश उदानस् तु गारुडो ऽथ चतुर्दशः ।
कूर्मः पञ्चदशो ज्ञेयः पौर्णमासी प्रजायते ॥
षोडशो नारसिंहस् तु समानअस् तु ततः परः ।
आग्नेयो ऽष्टादशः प्रोक्तः सोमकल्पस् तथापरः ॥
मानवो विंशतिः प्रोक्तस् तत् पुमान् इति चापरः ।
वैकुण्ठश् चापरस् तद्वल् लक्ष्मीकल्पस् तथापरः ॥
चतुर्विंशस् तथा प्रोक्तः सावित्रीकल्पसञ्ज्ञकः ।
पञ्चविंशतिमे घोरो वाराहस् तु ततो ऽपरः (?) ॥
सप्तविंशो ऽथ वैराजो गौरीकल्पस् तथापरः ।
माहेश्वरस् ततः प्रोक्तो त्रिपुरो यत्र घातितः ॥
पितृकल्पस् तथा ते तु या कुहूर् ब्रह्मणः स्मृता ।
इत्य् अयं ब्रह्मणो मासः सर्वपापप्रणाशनः ॥
आदाव् एव हिअ माहात्म्यं यस्मिन् यस्य विधीयते ।
तस्य कल्पस्य तन्नाम विहितं ब्रह्मणा पुरा ॥
यस् तु दद्याद् इमान् कृत्वा हैमान् पर्वणि पर्वणि ।
ब्रह्मविष्णुपुरे कल्पं मुनिभिः पूज्यते दिवि ॥
सर्वपापक्षयकरं कल्पदानं यतो भवेत् ।
मुनिरूपांस् ततः कृत्वा दद्यात् कल्पान् विचक्षणः ॥
मुनिरूपान् मुन्याम्भारान् मुनिलक्षणम् उक्तम् [८४८] ब्रह्माण्डदाने ।
इति कल्पदानविधिः ।
इति श्रीमहाराजाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वरसकल-
विद्याविशारदश्रीहेमाद्रिविरचिते चतुर्वर्गचिन्तामणौ
दानखण्डे देवतादानप्रकरणम् ॥
अथ कालविशेषेण दानविशेषा अभिधीयन्ते
अभ्यर्चन् विधिनातिथी विरचन् नक्षयोगान् तिथीन्
वारम्बारम् उदारम् अङ्गलगुरुप्रीतिर् बुधं प्रीणयन् ॥
बिभ्राणः प्रियमित्रमण्डलसदासङ्क्रान्तिकान्तं गृहं
साधु श्रीकरणप्रयोगकुशलो हेमादिर् एव क्षितौ ॥
तेनाथ तिथिवारर्क्षयोगेषु करणेषु च ।
सङ्क्रान्त्यादिषु कालेषु क्रियते दानसङ्ग्रहः ॥
तत्र तिथिदानानि तावद् उच्यते विष्णुधर्मोत्तरे ।
प्रतिपद् यश् च पुष्पाणां द्वितीयायां घृतस्य च ।
पञ्चम्यां तु फलानां वै षष्ठ्यां स्नानस्य मानद ॥
सप्तम्यां चाप्य् अपूपानाम् अष्टम्यां च गुडस्य च ।
कुल्माषस्य नवम्यां च दशम्यां भोजनस्य च ॥
एकादश्यां सुवर्णस्य द्वादश्यां वसनस्य च ।
त्रयोदश्यां तु गन्धानां सितायास् तदनन्तरम् ॥
दानं च परमान्नस्य पञ्चदश्यां महाफलम् ।
**[८५०] **भविष्योत्तरे ।
श्रीकृष्ण उवाच ।
तिथिदानम् इदानीं ते कथयामि युधिष्ठिर ।
सर्वपापप्रशमनं सर्वविघ्नविनाशनम् ॥
मानसं वाचिकं वापि कर्मजं यद् अघं भवेत् ।
सर्वं प्रशमम् आयाति दानेनानेन पाण्डव ॥
श्रावणे कार्तिके चैत्रे वैशाखे फाल्गुने तथा ।
सितपक्षे तु तद्दानं दातव्यं पुष्टिवर्धनम् ॥
दत्तं श्रद्धा सहायश् च पात्रप्राप्तिस् तथैव च ।
दानकालः सदैवेह कथितस् तत्त्वदर्शिभिः ॥
तीर्थे चायतने गोष्ठे गृहे वा नियतात्मवान् ।
यद् ददाति नरश्रेष्ठ तद् आनन्त्याल कल्पते ॥
प्रतिपत्सु द्विजान् पूज्य पूजयित्वा प्रजापतिम् ।
सौवर्णम् अरविन्दं च कारयित्वाष्टपत्रकम् ॥
प्रजापतिलक्षणम् उक्तम् ब्रह्माण्डदाने ।
कृत्वा त्व् औदुम्बरे पात्रे सुगन्धघृतपूरिते ।
पुष्पैर् धूपैः पूजयित्वा विप्राय प्रतिपादयेत् ॥
औदुम्बरम् ताम्रपात्रम् ।
अनेन विधिना दत्वा कमलं कमलायलम् ।
ईप्सितान् लभते कामान् निष्कामो ब्रह्मसात्मताम् ॥
[८५१] वह्निं पूज्य द्वितीयायां भूर् भुवः स्वर् इति क्रमात् ।
तिलाज्येन शतं हुत्वा दत्वा पूर्णाहुतिं ततः ॥
वैश्वानरं तु सौवर्णं स्थापयेत् ताम्रभाजने ।
गुडाज्यपूरिते राजंस् तोयपूर्णघटोपरि ॥
पूरयित्वा वस्त्रमाल्यैर् भक्ष्यभोज्यैर् अनेकधा ।
ततस् तं ब्राह्मणे दद्याद् वह्निर् मे प्रीयताम् इति ॥
वैश्वानरलक्षणम् उक्तं ब्रह्माण्डदाने ।
यावज् जीवकृतात् पापान् मुच्यते नात्र संशयः ।
मृतो वह्निपुरे याति प्राहेदं नारदो मुनिः ॥
तृतीयायां महाराज गोधां स्वर्णमयीं शुभाम् ।
स्थापयेत् ताम्रपात्रे तु लवणोपरि वेशयेत् ॥
जीरकं कदुखण्डं च गुडं पार्शेषु दापयेत् ।
रक्तवस्त्रयुगछन्नं कुङ्कुमेन विभूषितम् ॥
पुष्पधूपैः सनैवेद्यैः पूजयित्वा द्विजातये ।
दत्वा यत् फलम् आप्नोति पार्थ तत् केन वर्ण्यते ॥
प्रासादा यत्र सौवर्णा नद्यः पायसकर्दमाः ।
गन्धर्वा ऋषयो यत्र तत्र ते यान्ति मानवाः ॥
स्वर्गाद् आहत्य संसारे सुरूपः सुभगो भवेत् ।
दाता भोक्ता बहुधनः पुत्रपौत्रसमन्वितः ॥
नारी वा तद्गुणैर् युक्ता भवतीति न संशयः ।
[८५२] वह्निपुराणे ।
यो ददाति द्विजेभ्यस् तु तृतीयायाम् उपानहौ ।
वैशाखे शुक्ले पक्षे तु सछत्रं करणान्वितम् ॥
न तस्य मानसो दाहो मर्त्यलोके ऽभिजायते ।
सर्वव्याधिविनिर्मुक्तः श्रियं पुत्रांश् च विन्दति ।
कालाद् इह यद् आयाति मम लोके द्विजोत्तम ॥
विष्णुधर्मोत्तरे ।
वैशाखे शुक्लपक्षे तु तृतीयायां द्विजोत्तम ।
यद् ददाति नरश्रेष्ठ तद् अक्षयं समश्नुते ।
विशेषेण तु दानेन भक्षितानां प्रकीर्तितम् ॥
आह विष्णुः ।
वैशाखे मासि तृतीयायाम् उपोषितो अक्षतैर् वासुदेवम् अभ्यर्च्य तान्य् एव च हुत्वा सर्वपापेभ्यः पूतो भवति यच् चास्मिन्न् अहनि प्रयच्छति तद् अक्षयम् आप्नोति । इति ।
भविषत्पुराणे ।
माघमासे तृतीयायां गुडस्य लवणस्य च ।
दानं श्रेयस्करं राजन् स्त्रीणां तु पुरुषस्य च ॥
गुडेन तुष्यते नूनं लवणेन चतुर्मुखः ।
गुडपूजा तु दातव्या मासि भाद्रपदे तथा ॥
तृतीयामां पायसेन वामदेवस्य प्रीतये ।
वारिदानं प्रशस्तं स्यान् मोदकानां तु भारत ॥
[८५३] वैशाखे मासि राजेन्द्र तृतीयायां च चन्दनैः ।
वारिणा तुष्यते विप्रो मोदकैर् भीम एव हि ॥
दीनं तु चन्दनस्येह पद्मयोनाव् असंशयः ।
या त्व् एषा कुरुशार्दूल वैशाखे मासि वै तिथिः ॥
तृतीया साक्षया लोके गोर्वाणैर् अभिनन्दिता ॥
सुपात्राय महाबाहो भूरिचन्द्रं च सुव्रत् ।
कलधौतं तथान्नं च घृतं वापि विशेषतः ॥
चन्द्रं सुवर्णम्, कलधौतं रूप्यम् ।
अस्यां दत्तं त्व् अक्षयं स्यात् तेनेयम् अक्षया स्मृता ।
यत् किञ्चिद् दीयते दाम (दायं?) स्वल्पं वा यदि वा बहु ॥
तत् सर्वम् अक्षयं याति तेनेयम् अक्षया स्मृता ॥
यो ऽस्यां ददाति करकान् वारिपात्रसमन्वितान् ।
स याति पुरुषो वीर लोके वै हेममालिनः ॥
भविषोत्तरे ।
चतुर्थ्यां वारणं हैमं पलाद् अर्धं तु शोभनम् ।
कारयित्वाङ्कुशयुतं तैलद्रोणोपरि न्यसेत् ॥
वस्त्रैः पुष्पैः पूजयित्वा नैवेद्यं विनिवेद्य च ।
ततस् तु ब्राह्मणे दद्याद् गणेशः प्रीयताम् इति ॥
[८५४] कार्यारम्भेषु सर्वेषु तस्य विघ्नं न जायते ।
वारणः सप्तजन्मानि भवन्ति मदविह्वलाः ।
वारणेन्द्रं समारूढस् त्रिलोकविजयी भवेत् ॥
अत्र च – श्रावणे कार्तिके चैत्र इत्यादितिथिदानारम्भे ऽभिहितो मासनियमः सर्वेषु भविष्योत्तरोक्ततिथिदानेषु वेदितव्यः ।
पञ्चम्यां पन्नगं सर्वं स्वर्णेनैकेन कारयेत् ।
क्षीराज्यपात्रमध्यस्थं पूज्य विप्राय दापयेत् ॥
द्विजं सम्पूज्य वासोभिः प्रणिपत्य क्षमाप्य च ।
इह लोके परे चैव दानम् एतत् सुखावहम् ॥
नागोपद्रवविद्रावि सर्वदुष्टनिबर्हणम् ।
प्रायश्चित्तं तथा प्रोक्तं नागदष्टस्य शम्भुना ॥
षष्ट्यां शक्तिसमोपेतं कुमारं शिखिवाहनम् ।
कारयित्वा यथाशक्या हैममालाविभूषितम् ॥
कुमारलक्षणम् अभिहतं विष्णुधर्मोत्तरे ।
कुमारः षण्मुखः कार्यः शिखण्डकविभूषितः ।
रक्ताम्बरधरः कार्यो मयूरवरवाहनः ॥
कुक्कुटश् च तथा घण्टा तस्य दक्षिणहस्तयोः ।
पताका वैजयन्ती च शक्तिः कार्या च वामयोः ॥ इति ।
तण्डुलद्रोणशिखरे वासोभिः पूज्य शक्तितः ।
[८५५] नमस्कृत्य ततो दद्याद् ब्राह्मणाय कुटुम्बिने ॥
इह भूतिं च सम्प्राप्य प्रेत्य स्वर्गे महीयते ।
शूद्रो ब्राह्मणताम् एति ब्राह्मणो ब्रह्मलोकभाक् ॥
सप्तम्यां भास्करं चैवं पूज्य ब्राह्मणम् उत्तमम् ।
दद्याद् अलङ्कृतग्रीवं सपर्याणं सदक्षिणम् ॥
दानमन्त्रस् तु अश्वदाने द्रष्टव्यः ।
सूर्यलोकम् अवाप्नोति सूर्येण सह मोदते ।
गन्धर्वस् तुष्टिम् आप्नोति दत्ते ऽश्वे समलङ्कृते ॥
अष्टम्यां वृषभं श्वेतम् अव्यङ्गाङ्गं धुरन्धरम् ।
सितवस्त्रयुगछन्नं घण्टाभरणभूषितम् ॥
दद्यात् प्रणम्य विप्राय प्रीयतां वृषभध्वजः ।
प्रदक्षिणं ततः कृत्वा आगारान्तम् अनुव्रजेत् ॥
दानेनानेन नृपते शिवलोको न दुर्लभः ।
वृषस्कन्धेषु तिष्ठन्ति भुवनानि चतुर्दश ॥
तस्माद् वृषभदानेन दाता भवति भारतः ।
नवम्यां काञ्चनं सिंहं कारयित्वा स्वशक्तितः ॥
मुक्ताफलाष्टकयुतं नीलवस्त्रावगुण्ठितम् ।
दद्याद् देवीम् अनुस्मृत्य दुष्टदैत्यनिवर्हणीम् ॥
द्विजातये प्रदायेत्थं सर्वान् कामान् समश्नुते ।
कान्तारवनदुर्गेषु चौरव्यालाकुले पथि ॥
हिंसकाश् च न हिंसन्ति दानस्यास्य प्रभावतः ।
[८५६] मृतो देवीपुरं याति पूज्यमानः सुरासुरैः ॥
पुण्यक्षयाद् इहाभ्येत्य राजा भवति धार्मिकः ।
दशम्यां नृपशार्दूल दत्वाशाः स्वर्णनिर्मिताः ॥
लवणे च गुडे जीरनिष्पावेषु तिले ऽप्य् अथ ।
गव्यत्रये तण्डुलेषु माषाणाम् उपरिस्थिताः ।
सम्पूज्य वस्त्रपुष्पाद्यैर् द्विजाय प्रतिपादयेत् ॥
आशाः दिशः । तासां लक्षणम् उक्तम् आशादशमीव्रजे । तद् यथा । स्त्रीरूपाश् चाधिदेवस्य शस्त्रवाहनचिह्निता इति पूर्वादिक्रमेण शक्त्यादेर् अधिदेवस्य शस्त्रादिभिश् चिह्निता इत्य् अर्थः । शक्त्यादीनाम् अपि शस्त्रवाहनानि ब्रह्माण्डदाने द्रष्टव्यानि ।
आशाः स्वाशा सदा सन्तु सिद्ध्यतां मे मनोरथः ।
भवतीनां प्रसादेन सदा कल्याणम् अस्त्व् इति ॥
पूजादानमन्त्रः ।
अनेन विधिना यस् तु पुमान् स्त्री वाथ वा पुनः ।
निर्वापयति राजेन्द्र तस्य पुण्यफलं शृणु ॥
इह लोकेनवाप्याग्रात् (?) प्रेत्य स्वर्गे महीयते ।
सफलास् तस्य सर्वाशा याः काश्चिन् मनसि स्थिताः ॥
ततः स्वर्गाद् इहाभ्येत्य कुले महति जायते ।
एकादश्यां गुरुत्मन्तं कारयित्वा हिरण्मयम् ॥
[८५७] यथाशक्त्या ताम्रपात्रे घृतस्योपरिपूजितम् ।
पञ्चाग्न्यभिरते विप्रे गुरवे प्रविशेषतः ॥
दत्वा किं बहुनोक्तेन विष्णुलोके महीयते ।
गरुत्मतो रूपम् उक्तं विष्णुधर्मोत्तरे ।
तार्क्ष्योमरकतप्रख्यः कौशिकाकारनासिकः ।
चतुर्भुजस् तु कर्तव्यो वृत्तनेत्रमुखस् तथा ॥
भूस्थजानूर्ध्वजानुश् च पक्षद्वयविभूषितः ।
प्रभासंस्था तु सौवर्णकलापेन विवर्जितः ॥
छत्रन्ते पूर्णकुम्भं च करयोस् तस्य कारयेत् ।
करद्वयं तु कर्तव्यं तथा विरचिताञ्जलिः ॥
विष्णुः पुरश् चेत् कार्यो ऽसौ द्विभुजो रचिताञ्जलिः ॥ इति ।
गां वृषं महिषीं हेमसप्तधान्यम् अजाविकम् ।
वडवां गुडरसान् सर्वान् तथा बहुफलाण्य् अपि ॥
पुष्पाणि च पवित्राणि गन्धांश् चोच्चावचान् वनान् ।
मेलयित्वा यथा भक्त्या वस्त्रैर् आच्छाद्य तां नवैः ॥
द्वादश्यां द्वादशैतानि ब्राह्मणेभ्यो (?) निवेदयेत् ।
एकस्य वा महाराज यत् फलं तन् निशामय ॥
एषां दानमन्त्रास् तद्दानप्रकरणेषु गवेशणीयाः ।
इह कीर्तिं परां प्राप्य भुक्त्वा (?) भोगान् यथेप्सितान् ।
ततो विष्णुपुरं याति सेव्यमानो ऽप्सरोगणैः ॥
कर्मक्षयाद् इहागत्य राजा भवति धार्मिकः ।
यज्ञयाजी दानपतिर् जीवेच् च शरदां शतम् ॥
[८५८] श्रावणे कार्त्तिके चैत्रे वैशाखे फाल्गुने तथा ।
शुक्लपक्षे प्रदातव्यम् एतच् छ्रेयोविवर्धनम् (?) ॥
विष्णुधर्मोत्तरे ।
द्वादश्यां चैत्रशुक्लस्य चित्रवस्त्रप्रदो नरः ।
अक्षयं फलम् आप्नोति नागलोकं च गच्छति ॥
वैशाखमासि द्वादश्यां रुक्मदानं तथैव च ।
छत्रोपनहयोर् दानं ज्येष्ठे मासि महीभुजः ॥
स्वास्तीर्णं शयनं दत्वा प्रीणयेद् भोगशायिनम् ।
आषाढशुक्लद्वादश्यां श्वेतद्वीपे महीयते ॥
श्रावणे वस्त्रदानेन विष्णुलोके महीयते ।
गोदः प्रयाति गोलोकं मासि भाद्रपदे द्विजाः ॥
प्रीणयेद् अश्वशिरसम् अश्वं दत्वा तथाश्विने ।
विष्णुलोकम्। अवाप्नोति कुलम् उद्धरते स्वकम् ॥
सरोमवस्त्रदानेन कार्त्तिके दिवम् आप्नुयात् ।
प्रदानं लवणस्यैव मार्गशीर्षे महाफलम् ॥
धान्यानां च तथा पौषे दारूणां च तथोत्तरे ।
फाल्गुने सर्वगन्धानां द्वादश्यां दानतं सुखी ।
एवं यथोक्तदानेन दता स्वर्गे महीयते ॥
वाराहपुराणे ।
मार्गशीर्षो ऽथ वैशाखो द्वौ मासौ मम वल्लभौ ।
अनयोर् मासयोर् यस् तु द्वादश्यां नियतात्मवान् ॥
[८५९] द्वादशानां तु विप्राणां यो ददाति वसुन्धरे ।
एकैकस्य तु गां श्रेष्ठां सर्वोपस्करसंयुताम् ॥
वस्त्रोपानद्युगे चैव कर्णालङ्कार एव च ।
आतपत्रं पादुके च अङ्गुलीयकम् एव च ॥
विलिप्य चोपवीतं च मां ध्यायन् भक्तिसंयुतः ।
दद्याद् अशक्तु पञ्चानां त्रयाणाञ्च द्वयोर् अथ ॥
अशक्तौ त्व् अथ वैकस्मिन् वेदवेदाङ्गपारगे ।
अक्रोधने व्रतस्थे च आश्रितेषु विशेषतः ॥
मार्गशीर्षे ऽथ वा देवि वैशाखे मासि यो नरः ।
दद्याद् अनेन विधिना तस्य पुण्यफलं शृणु ॥
मन्वन्तराणां कोट्यस् तु दश सप्त च पञ्च च ।
मच्छरीरगतश् चास्ते सर्वे मूर्ध्नि लिङ्गे शनैश्वरः ॥
सर्वे ते सौम्यतां यान्ति द्वादश्यां विधिनामुना ॥
कूर्मपुराणे ।
एकादश्यां निराहरो [-हारो?] द्वादश्यां पुरुषोत्तमम् ।
अर्चयेद् ब्राह्मणमुखे शर्कराघृतपायसैः ॥
एषा तिथिर् वैष्णवी स्याद् द्वादशी शुक्लपक्षके ।
तस्याम् आराधये देवं प्रयत्नेन जनार्दनम् ॥
यत् किञ्चिद् एवम् ईशानम् उद्दिश्य ब्राःमणे शुचौ ।
दीयते विष्णुम् एवापि तद् अनन्तफलप्रदम् ॥
तस्माद् अस्यां तिथौ देयं भृष्टम् अन्नं शुभार्थिभिः ।
[८६०] विष्णुः ।
पौष्यां च समतीतायां कृष्णपक्षद्वादश्यां सोपवासस् तिलैः स्नातस् तिलोदकं दत्वा तिलैर् वासुदेवम् अभ्यर्च तान् एव हुत्वा भुक्त्वा च सर्वपापेभ्यः पूतो भवति माघ्यां समतीतायां कृष्णद्वादशीं सश्रवणां प्राप्य वासुदेवाग्रतो महावर्तिद्व्येन दीपदानं दद्यात् दक्षिणपार्श्वे महारजतरक्तेन समग्रेण वाससा तैलतुलाम् अष्टाधिकां दत्वा वामपार्श्वे श्वेतेन समग्रेण वाससा घृततुलाम् अष्टाधिकां दद्यात् । एतत् कृत्वा यस्मिन् राष्ट्रे ऽभिजायते यस्मिन् देशे यस्मिन् कुले तत्रोज्वलो भवति ।
दक्षिणपार्श्व इत्यादिना महावर्तिद्वयम् एव कथयति महारजतरक्तेन कौसुम्भरक्तेन तुलापलशतम् । यमः ।
माघान्धकारद्वादश्याम् तिलैर् हुत्वा हुताशनम् ।
तिलान् दत्वा च विप्रेभ्यः सर्वपापैः प्रमुच्यते ॥
विष्णुधर्मोत्तरे ।
श्रावणे शुक्लपक्षे तु द्वादश्यां प्रीतये नृप ।
गोप्रदानेन गोविन्दो यत् पूर्वं कथितं तव ।
फलं तत् सर्वम् आप्नोति नात्र कार्या विचारणा ॥
भविष्योत्तरात् ।
स्नापयेद् ब्राह्मणान् प्रातस् त्रयोदश्यां त्रयोदश ।
तान् आच्छाद्य नवैर् वस्त्रैर् गन्धपुष्पैर् अथार्चयेत् ॥
[८६१] भोजयेद् अपि मृष्टान्नं दक्षिणां विनिवेदयेत् ।
यथाशक्त्या हेमखण्डान् धर्मात्मा प्रीयताम् इति ॥
धर्मराजाय कालाय चित्रगुप्ताय मृत्यवे ।
क्षयाय क्षयरूपाय अन्तकाय यमाय च ॥
प्रेतनाथाय रौद्राय तथा वैवस्वताय च ।
महिषस्थाय चित्राय नामानीत्थं त्रयोदश ॥
उच्चार्य श्रद्धयायुक्तः प्रणिपत्य विसर्जयेत् ।
यः करोति महाराज पूजाम् एतां मनोरमाम् ॥
यमाय स सुखं मर्त्ये स्थित्वा व्याधिविवर्जितः ।
यमार्गगतं दुःखं पश्चान् नाप्नोत्य् असौ पुमान् ॥
न पश्यति प्रेतपुरं पितृलोकं च गच्छति ।
पुण्यक्षयाद् इहाभ्येत्य स सुखी नीरुजो भवेत् ॥
तथा ।
माहेयं सशुभं कुम्भं चतुर्दश्यात् पयोभृतम् ।
कर्षैकेन च संयुक्तं कुर्यात् सद्वस्त्रसंयुतम् ॥
घण्टाभरणशोभाढ्यं वृषभेण समन्वितम् ।
यो दद्याच् छिवभक्ताय ब्राःमणाय कुटुम्बिने ॥
माहेयं मृण्मयम् । पयोभृतं दुग्धपूर्णम् । कर्षैकेन संयुक्तं कर्षपरिमाणेन हेम्न संयुक्तम्,
दद्यात् कुम्भं सहेमानं भूतायादुग्धसम्भृतम् ।
इति वातुलोकेः ।
एतद् दत्वा नरश्रेष्ठ शिवलोके महीयते ।
तत्र स्थित्वा चिरं कालं क्रमाद् एत्य महीतलम् ॥
[८६२] आरोग्यधनसंयुक्तः कुले महति जायते ।
सर्वकामसमृद्धात्मा यावज् जन्मशतत्रयम् ॥
कूर्मपुराणे ।
यस् तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम् ।
आराधयेद् द्विजमुखे न तस्यास्ति पुनर्भवः ॥
कृष्टम्यां विशेषेण धार्मिकाय द्विजातये ।
स्नात्वाभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः ॥
प्रीयतां मे महादेव दद्याद् द्रव्यं स्वकीयकम् ।
सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम् ॥
द्विजमुखे आराधयेद् इति, शिवप्रीतये द्विजांस् तद्दानेन तर्पयेद् इत्य् अर्थः । द्रव्यम्, गोभूहिरण्यादि । अथ विष्णुधर्मोत्तरे ।
सम्प्राप्य चैत्रमासस्य शुक्लपञ्चदशीं (?) नरः ।
चित्रं वस्त्रयुगं दद्यात् सोपवासो जितेन्द्रियः ॥
ब्राह्मणांश् च नमस्कृत्य सौभाग्यं तेन वाप्नुयात् ।
वैशाख्यां पौर्णमास्यां तु ब्राह्मणान् पञ्च सप्त वा ॥
क्षौद्रयुक्तैस् तिलैः कृष्णैर् वाचयेद् यदि वेतरैः ।
प्रीयतां धर्मराजेति यद् वा मनसि वर्तते ॥
यावज्जीवकृतात् पापात् तत् क्षणाद् एव मुच्यते ॥
ब्राह्मणान् वाचयेद् इति, स्वस्तिवाचनं कारयेद् इत्य् अर्थः । [८६३] क्षौद्रयुक्तैः, मधुसहितैः कृष्णतिलैः, इतरैर् इति शुक्लतिलैः ब्राह्मणान् प्रीणयेद् इत् शेषः ।
तस्मिन्न् एव यथा काले सखुरं कृष्णमार्गकम् ।
तिलैः प्रच्छाद्य वासोभिः सर्वरत्नैर् अलङ्कृतम् ॥
यो दद्यात् तेन दत्ता स्यान् मही सवनकाञ्चना ॥
एतद्विधिविस्तरस् तु कृष्णाजिनदाने द्रष्टव्यः । आह यमः ।
वैशाख्याम् एव विधिवद् भोजयेद् ब्राह्मणान् दश ।
त्रिरात्रम् उषितः स्नात्वा कृशरं प्रयतः शुचिः ॥
गौरान् वा यदि वा कृष्णांस् तिलान् क्षौद्रेण संयुतान् ।
दत्वा दशसु विप्रेषु तान् एव स्वस्ति वाचयेत् ॥
प्रीयतां धर्मराजेति पितॄन् देवांश् च तर्पयेत् ।
यावज्जीवकृतं पापं तत्क्षणाद् एव मुञ्चति ॥
अयुतायुतं च तिष्ठेत् स स्वर्गलोके महीयते ।
माम् एव तु न पश्येत् तु न च पापेन लिप्यते ॥
जाबालः ।
शृतान्नम् उदकुम्भं च वैशाख्यां च विशेषतः ।
निर्दिश्य धर्मराजाय गोदानफलम् आप्नुयात् ॥
श्तान्नं पक्वान्नम् ।
सुवर्णतिलयुक्तैस् तु ब्राह्मणान् सप्त पञ्च च ।
तर्पयेद् उदपात्रैस् तु ब्रह्महत्यां व्यपोहति ॥
[८६४] महाभारते ।
वैशाख्याम् पौर्णमास्यां तु तिलान् दत्वा द्विजातिषु ।
तिला भक्षयितव्यास् तु सदा त्व् आलभनं च तैः ॥
कार्यं सततम् इच्छद्भिः श्रेयः सर्वात्मना गृहे ॥
विष्णुधर्मोत्तरे ।
सोपवासस् तथा ज्येष्ठे पूर्णे तुलसीलक्षणे ।
उपानहौ तथा छत्रं दत्वात्यन्तं सुखी भवेत् ॥
आषाढ्याम् अन्नदानेन प्राप्नोत्य् अन्नं तथा बहु ।
जलधेनुप्रदानेन श्रावण्यां स्वर्गम् आप्नुयात् ॥
गोदानं प्रौष्ठपद्यां वा पौर्णमास्यां महाफलम् ।
आश्वयुज्यां कांस्यपात्रं घृतपूर्णं द्विजातये ॥
ससुवर्णं तथा दत्वा दीप्तौजास् त्व् इह जायते ।
कार्त्तिक्यां चन्द्रवर्णाभम् अन्यवर्णम् अथापि वा ॥
रत्नैर् गन्धैस् तथा धान्यैर् बीजैर् वस्त्रैस् तथैव च ।
कृत्वा चोक्तम् अथोक्षाणं दत्वा दीपं समन्ततः ॥
चन्द्रोदये नरो दत्वा सर्वपापैः प्रमुच्यते ।
कान्तारे यममार्गे तु तेनासौ व्रजते सुखम् ।
प्राप्नोति पुत्रपौत्रांश् च सूर्यलोकं च गच्छति ॥
मार्गशीर्षे तथा मासि पूर्णे शिशिरदीधितौ ।
महाराजतरक्तेन वाससा तु महीयते ॥
आच्छाद्य कांस्यपात्रे तु कृत्वा सोमं समाहितः ।
[८६५] महाराजतरक्तेन, कुसुम्भरक्तेन । चन्द्रलक्षणम्, वारदानेषु पुरस्ताद् वक्ष्यते ।
लवणस्य तु मुख्यस्य सम्पूर्णं कृष्णमार्गकं ।
मुख्यस्य लवनस्येति सैन्धवस्येत्य् अर्थः ।
दत्वा सुवर्णनाभं तु तस्मिन्न् एव द्विजातये ॥
सौभाग्यरूपलावण्ययुक्तो भवति मानवः ।
गौरसर्षपकल्केन पौषे उच्छादितो नरः ॥
उच्छादित उद्वर्तित इत्य् अर्थः ।
न चाव्रणेन कुम्भेन सो ऽभिषिक्तश् च तत्परम् ।
विरूषितस् तथा स्नातः सर्वबीजयुतैर् जलैः ॥
विरूषित अपनीतस्नेहः ।
गन्धरत्नफलोपेतैर् घृतेन तदनन्तरम् ।
सौवर्णं च ततः कृत्वा तत् प्रदद्याद् द्विजातये ॥
सुवर्णमध्ये घृतेनाभिषिक्त इत्य् अन्वयः । तद् इति कुम्भादिकं प्रकृतद्रव्यं परामृष्यते ।
घृतेन स्नापितं विष्णुं शक्त्या सम्पूजयेत् ततः ।
घृतं च जुहुयाद् वह्नौ घृतं दद्याद् द्विजातये ॥
कर्त्रे वस्त्रयुगं दद्यात् सोपवासः समाहितः ।
कर्मणानेन धर्मज्ञः सर्वपापैः प्रमुच्यते ॥
माध्यां कृत्वा तिलैः श्राद्धं सर्वपापैः प्रमुच्यते ।
स्वास्तीर्णं शयनं दत्वा फाल्गुन्यां ब्राह्मणाय च ॥
रूपद्रविणसंयुक्तां भार्यां पक्षवर्तीं तथा ।
पक्षवतीं बहुतरक्ञातियुक्ताम् ।
[८६६] नरः प्राप्नोति धर्मज्ञः श्रियश् चैव यथोत्तमाम् ॥
तथा ।
नार्य् अपि भर्तारं नात्र कार्या विचारणा ।
पौर्णमासीषु चैत्रीषु मासर्क्षसहितासु च ॥
एतेषाम् एव दानानां फलं दशगुणं भवेत् ।
महत्पूर्वासु तास्व् एव फलम् अक्षयम् अश्नुते ॥
मासनक्षत्रसहितायां पौर्णमास्यां यदा गुरुवारस् तदा तस्या महत्पूर्वतेति, मासर्क्षसहिता जीवे महापूर्वा तु पूर्णमेति विष्णुधर्मोत्तरोक्तेः । आह विष्णुः ।
मार्गशीर्षे पञ्चदश्यां शुक्ले मृगशिरोयुक्तायां च चूर्णितलवणस्य सुवर्णनाभप्रस्थम् एकं चन्द्रोदये ब्राह्मणाय प्रतिपादयेत् । अनेन कर्मणा रूपसौभाग्यवान् अभिजायते । पौषी चेत् पुष्ययुक्ता स्यात् तस्यां गौरसर्षपकल्केनोच्छादितशरीरो गव्यघृतपूर्णकुम्भेनाभिषिक्तः सर्वौषधिभिः सर्वगन्धैः सर्वबीजैश् च स्नातः घृतेन च भगवन्तं वासुदेवं स्नापयित्वा पुष्पगन्धधूपदीपनैवेद्यादिभिश् चाभ्यर्च्य वैष्णवैः शाक्तैर् बार्हस्पत्यैश् च मन्त्रैः पावकं हुत्वा सुवर्णेन घृतेन ब्राह्मणं स्वस्ति वाचयेद् वसोयुगं कर्त्रे दद्याद् अनेन कर्मण पुष्यति । माघी मघयुक्ता चेत् स्यात् तस्यां तिलैः श्राद्धं कृत्वा पूतो भवेत् भोजनार्थं श्राद्धे तिलान् दत्वा सर्वजनप्रियो भवति । फाल्गुनी फाल्गुनीभिर् युता चेत् तस्यां ब्राह्मणाय सुसंस्कृतं स्वास्तीर्णशयनं निवेद्य भार्यां मनोज्ञां पक्षवतीं द्रविणवतीं चाप्नोति । नार्य् अपि भर्तारम् । **[८६७]** चैत्री चित्रायुता चेत् तस्यां चित्रवस्त्रदानेन सौभाग्यम् आप्नोति । वैशाख्यां पौर्णमास्यां ब्राह्मणसप्तकं क्षौद्रयुक्तैस् तिलैः सन्तर्प्य धर्मराजानं प्रीणयित्वा पापेभ्यः पूतो भवति । ज्यैष्ठी ज्येष्ठायुता चेत् तस्यां छत्रोपानत्प्रदानेन नगराधिपत्यम् आप्नोति । आषाढ्याम् आषाढायुतयाम् अन्नपानदानेन तद् एवाक्षयम् आप्नोति । श्रावण्यां श्रवणयुतायां जलधेनुम् अन्नवासोयुगान्विताम् दत्वा स्वर्गलोकम् अवाप्नोति । प्रौष्ठपद्याम् तद्युक्तायां गोदानेन सर्वपापविनिर्मुक्तो भवति । आश्वयुज्याम् अश्विनीगते चन्द्रमसि घृतपूर्णभाजनं सुवर्णयुतं विप्राय दत्वा दीप्ताग्निर् भवति । कार्त्तिकी चेत् कृत्तिकायुक्ता स्यात् तस्यां सितम् उक्ष्माणम् अन्यवर्णं वा शशाङ्कोदये सर्वसस्य रत्नगन्धोपेतं द्वीपमध्ये ब्राह्मणाय दद्यात् । कान्तारभयं न पश्यति ।
भविषोत्तरे ।
पौर्णमास्यां वृषोत्सर्गं कारयित्वा विधानतः ।
चन्द्रं रजतनिष्पन्नं पलेनैकेन शोभनम् ।
पूजयेद् गन्धकुसुमैर् नैवेद्यं विनिवेद्य च ॥
चन्द्ररूपलक्षणं तु, पुरस्ताद् द्वारदानप्रकरणे विलोकनीयम् ।
दद्याद् विप्राय सत्कृत्य वासोऽलङ्कारभूषणैः ।
मन्त्रेणानेन राजेन्द्र तं निबोध मयोदितम् ॥
क्षीरोदार्णवसम्भूत त्रैलोक्याङ्गणदीपक ।
उमापतिशिरोरत्नं शिवायाश् च नमो नमः ॥
दानेनानेन नृपतिर् भ्राजते चन्द्रवद् दिवि ।
अप्सरोभिः परिवृतो यावदाहूतसम्प्लवम् ॥
[८६८] स्कन्दपुराणे ।
तिलपात्राणि यो दद्याद् द्विजेभ्यः शुद्धमानसः ।
अमावास्यां समासाद्य कृष्णानां सुसमाहितः ॥
स पितॄंस् तर्पयित्वा तु अक्षयं नरपुङ्गवः ।
पितृलोकं समाप्नोति चिरं च सुखम् एधते ॥
क्ष्णानां तिलानाम् इति शेषः । कूर्मपुराणे ।
अमावास्याम् अनुप्राप्य ब्राह्मणाय तपस्विने ।
यत् किञ्चिद् देवदेवेशं दद्याद् उद्दिश्य शङ्करम् ॥
प्रीयताम् ईशवरः सोमो महादेवः सनातनः ।
सप्तजन्मकृतं पापं तत्क्षणाद् एव नश्यति ॥
सोम उमासहितः । भविष्योत्तरे ।
दानान्य् अमूनि विधिवत् प्रतिपत्क्रमेण
यच्छन्ति ये द्विजवराय विशुद्धसत्त्वाः ।
ते ब्रह्मविष्णुभुवनेषु सुखं विहृत्य
पश्चाद् भवन्ति भुवि भूपवराः सुरूपाः ॥
इति तिथिदानानि ।
अथ युगादितिथिदानम् ।
[८६६] भविष्योत्तरात् ।
युधिष्ठिर उवाच ।
पुनर् मे ब्रूहि देवेश त्वद्भक्त्या भावितात्मनः ।
कथ्यमानम् इहेच्छामि शुभं धर्मम् इदं महत् ॥
यत्राणुर् अपि दत्तो हि जप्तं वा सुमहद् भवेत् ॥
श्रीभगवान् उवाच ।
शृणु पाण्डव ते वच्मि रहस्यं देवनिर्मितम् ।
यन् मया कस्यचिन् नोक्तं सुप्रियस्यापि भारत ॥
वैशाखमासस्य तु या तृतीया
नवम्य् असौ कार्त्तिकशुक्लपक्षे ।
नभस्य मासस्य च कृष्णपक्षे
त्रयोदशी पञ्चदशी च माघे ॥
वैशाखतृतीया, या शुक्लपक्षजा । माघपञ्चदशी, कृष्णपक्षजेत्य् अवधेयम् ।
वैशाखस्य् तृतीया या समा कृतयुगेन तु ।
त्रेतायुगेन च समा नवमी कार्त्तिके तु या ॥
त्रयोदशी नभस्ये तु द्वापरेण समा मता ।
माघे पञ्चदशी राजन् कलिकालादिर् उच्यते ॥
एताश् चतस्रो राजेन्द्र युगानां प्रभवाः स्मृताः ।
युगादयस् तु कथ्यन्ते तेनैताः सर्वसूरिभिः ॥
उपवासस् तपो दानं जपहोमक्रियादिषु ।
यदासु क्रियते किञ्चित् सर्वं कोटिगुणं भवेत् ॥
वैशाखस्य तृतीयायां श्रीसमेतं जगत्गुरुम् ।
[८७०] नारायणं पूजयेथाः पुष्पगन्धादिलेपनैः ॥
वस्त्रालङ्कारसम्भारैर् नैवेद्यैर् विविधैस् तथा ॥
श्रीसमेतं नारायणं लक्ष्मीनारायणम् । तद्रूपं तु देवतादानप्रकरणस्थित-लक्ष्मीनारायणदाने द्रष्टव्यम् ।
ततस् तस्याग्रतो धेनुर् लवणस्याढकेन तु ।
कार्या कुरुकुलश्रेष्ठ चतुर्भागेन वत्सकः ॥
अविचर्मोपरि स्थाप्य कल्पयित्वा विधानतः ।
शास्त्रोक्तक्रमयोगेन ब्राह्मणाय प्रदापयेत् ॥
श्रीधरः श्रीपतिः श्रीमान् श्रीशः सम्प्रीयताम् इति ।
अनेन विधिना दत्वा धेनुं विप्राय भारत ॥
गोसहस्रदशगुणं प्राप्नोतीह न संशयः ।
तथैव कार्त्तिके मासि नवम्यां नक्तभुक् नरः ॥
स्नात्वा नदीतडागेषु देवखातेषु वा पुनः ।
उमासहायं वरदन्नीलकण्ठम् अथार्चयेत् ॥
पुष्पधूपादिनैवेद्यैर् अनिन्द्यं शङ्करं शिवम् ।
उमामहेश्वरलक्षणम् उक्तं देवतादानप्रकरणस्थितोमामहेश्वरदाने ।
धेनुं तिलमयीं दद्यात् पुराणोक्तविधानतः ।
अष्टमूर्तिर् नीलकण्ठः प्रीयताम् इति कीर्तयेत् ॥
यद् अत्र प्राप्यते पुण्यं पार्थ तत् केन वर्ण्यते ।
दत्वा गिलमयीं धेनुं शिवालोकम् अवाप्नुयात् ॥
त्रयोदशी नभस्ये या कृष्णं तस्यां समर्चयेत् ॥
कृष्णरूपम् उक्तं विष्णुधर्मोत्तरे ।
कृष्णश् चक्रधरः कार्यो नीलोत्पलदलद्युतिः ।
[८७१] द्विबाहुः सौम्यवदनः कुण्डलाभ्याम् अलङ्कृतः ॥ इति ।
पितृभ्यो ऽन्नप्रदानेन मधुना च तथैव च ।
भोजयेद् ब्राह्मणान् भक्त्या वेदवेदाङ्गपारगान् ॥
पितॄन् उद्दिश्य दातव्या सवत्सा कान्द्यदोहना ।
प्रत्यक्षा गौर् महाराज तरुणी सुपयस्विनी ॥
पितापितामहश् चैव तथैव प्रपितामहः ।
प्रीयतां गोप्रदानेन इति दत्वा विसर्जयेत् ॥
कृतेनानेन राजेन्द्र यत् पुण्यं प्राप्यते नृभिः ।
तत् केन गणितुं याति वर्षकोटिशतैर् अपि ॥
पुत्रान् पौत्रान् प्रपौत्रांश् च धनं सुमहद् ईप्सितम् ।
इह प्राप्नोति पुरुषः परत्र च शुभां गतिम् ॥
पञ्चदश्यां तु माघस्य पूजयित्वा पितामहम् ।
गायत्र्या सहितन्देवं देवं वेदवेदाङ्गभूषितम् ॥
ब्रह्मणो वेदाङ्गानां च लक्षणम् उक्तं ब्रह्माण्डदाने, गायत्रीलक्षणं तु पद्मपुराणोक्तब्रह्माण्डदाने, गायत्री वेदमूर्तिस् तु महाभूतघटदाने ।
नवनीतमयीं धेनुं फलैर् नानाविधैर् युताम् ।
सहिरण्यां सवत्सां च ब्राह्मणाय निवेदयेत् ॥
कीर्तयेत् प्रीयताम् अत्र पद्मयोनिः पितामहः ।
यत् स्वर्गे यच् च पाताले यन् मर्त्ये किं च दुर्लभम् ॥
तद् अवाप्नोत्य् असन्दिग्धं (?) पद्मयोनेः प्रसादतः ।
यानि चान्यानि दानानि दत्तानि सुबहून्य् अपि ॥
युगादिषु महाराज अक्षयानि भवन्ति हि ।
[८७२] अल्पम् अल्पं हि यत् किञ्चित् प्रदद्यान् निर्धनो ऽपि सन् ॥
अक्षयं च भवेत् सर्वं युगादिषु न संशयः ।
वित्तानुसारे स्वं ज्ञात्वा विभवं पार्थिवो ऽपि सन् ॥
अनुसारेण वित्तस्य असाध्येन समाधिना ।
भूहिरण्यं गृहं वासः शयनान्य् आसनानि च ।
छत्रोपनद्युगानि स्युः प्रदेयानि द्विजातिषु ॥
एवं दत्वा यथाशक्त्या भोजयित्वा द्विजान् अपि ।
पश्चाद् भुञ्जीत सुमहत् वाग्यतः स्वजनैः समम् ॥
यत् किञ्चिन् मानसं पापं वाचिकं कायिकं तथा ।
तत् सर्वं नाशम् आयाति युगादितिथिपूजनात् ॥
प्रगीयमानो गन्धर्वैः स्तूयमानः सुरासुरैः ।
रमते वाक्षयं कालं स्वर्गलोके न संशयः ॥
यद् दीयते किम् अपि कोटिगुणं तद् आहुः
स्नानं जपोहवनम् अक्षयम् एव सर्वं ।
स्याद् अक्षयासु युगपूर्वतिथीषु राजन्
व्यासादयो मुनिवराः समुदाहरन्ति ॥
इति युगादिदानविधिः ।
अथ वारदानानि । तत्र स्कन्दपुराणे ।
आदित्यादिषु वारेषु सहिरण्याः सदैव तु ।
यः प्रयच्छति तन्मूर्तीस् तस्य तुष्यन्ति वै ग्रहाः ॥
[८७३] दद्याद् आदित्यम् आदित्ये सोमं सोमे कुजं कुजे ।
एवं बुधादीन् मन्दे तु राहुकेतुशनैश्वरान् ॥
ब्रह्मपुराणे ।
ग्रहान् स्वर्णमयान् कृत्वा यो विप्रेभ्यः प्रयच्छति ।
तद्दिनेषु यथाशक्त्या सर्वान् कामान् स विन्दति ॥
तेषां लक्षणम् उक्तं ब्रह्माण्डदाने ।
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।
सप्ताश्वः सप्तरज्जुश् च द्विभुजः स्यात् सदा रविः ॥
श्वेतः श्वेताम्बरधरो दशाश्वः श्वेतभूषणः ।
गदापाणिर् द्विबाहुश् च कर्तव्यो वरदः शशी ॥
रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः ।
चतुर्भुजो मेषगमो वरदः स्याद् धरासुतः ॥
पीतमाल्याम्बरधरः कर्णिकारदलद्युतिः ।
खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥
देवदैत्यगुरुस् तद्वत् पीतश्वेतौ चतुर्भुजौ ।
दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥
इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।
वाणवाणासनधरः कर्तव्यो ऽर्कसुतः सदा ॥
करालवदनः खड्गचर्मशूली वरप्रदः ।
[८७४] नीलः सिंहासनस्थश् च राहुर् अत्र प्रशस्यते ॥
धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः ।
गृध्रासनगता नित्यं केतवः स्युर् वरप्रदाः ॥
सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः ।
स्वाङ्गुलेनोच्छ्रिताः सर्वे शतम् अष्टोत्तरं सदा ॥
अष्टाव् आदित्यादयः शतं केतव इत्य् उभये ऽप्य् अष्टोत्तरशतम् । एकोत्तरशतं केतव एको वा केतुर् इति केचित् । तत्र पक्षद्वये नवोत्तरशतेन देवताप्रतिमा विधेयाः । स्वाङ्गुलेन यजमानाङ्गुलेन । एतेषां दानमन्त्रा ग्रहदाने द्रष्टव्याः प्रह्मप्रोतेः (?) । आदित्यवारे सुवर्णमयम् आदित्यं कृत्वा रक्तवस्त्रं पद्मरागं च ब्राह्मणाय प्रतिपादयेत् । कपिलां वा सूर्यलोके सर्वान् कामान् अवाप्नोति निष्कामो मोक्षम् । सोमदिने राजतं सोमं शङ्खं वा, मङ्गलदिने सौवर्णं मङ्गलं रक्तं दुरन्धरं वा, बुधे सौवर्णं बुधं ज्ञान्प्राप्तये दद्यात्, गुरुदिने सौवर्णं बृहस्पतिं पीतं वा वस्त्रं प्रदद्यात्, शुक्रदिने राजतं शुक्रं श्वेतं हयं वा तत्प्रीतये दद्यात्, शनैश्वरे सौवर्णं शनैश्वरम् इन्द्रनीलयुतं कृष्णाङ्गां वा तत्प्रीतये दद्यात्, तस्मिन्न् एव दिने राहुम् आयसेन समन्वितं दद्यात्, केतून् छागसमन्विआन् तत्प्रीतये दद्यात्, अत्र राहुकेतवो ऽपि सौवर्णा एव, एवं विशेषदानेन सर्वान् कामान् अवाप्नुयात् ।
अथाह यमः ।
आदित्यवारे विप्राय हिरण्यं च सदैव तु ।
यः प्रयच्छति पूर्वं हि तस्य तुष्यति वै यमः ॥
[८७५] विष्णुधर्मोत्तरे ।
लवणाज्यगुडोपेतम् अपूपं सूर्यवासरे ।
स हिरण्यं नरो दत्वा न रोगैर् अभिभूयते ॥
एवंविधं चेन्दुदिने दत्वा सौभाग्यम् आप्नुयात् ।
काष्ठदानं सोमदिने शत्रुनाशम् अवाप्नुयात् ॥
बुधैः क्रीडनकानां च दानं बालेषु शस्यते ।
जीवाह्नि वस्त्रदानेन परां तुष्टिं समश्नुते ॥
सर्वं वरं तत् प्राप्नोति शुक्रे दत्वा रतिस्त्रियः ।
अभ्यङ्गं सौरदिवसे दत्वा जीवितम् आप्नुयात् ॥
इति वारदानानि ।
अथ नक्षत्रदानानि । तत्र महाभारते ।
युधिष्ठिर उवाच ।
श्रुतो मे भवतो वाक्याद् अन्नदानस्य यो विधिः ।
नक्षरयोगस्येदानीं दानकल्पं ब्रवीहि मे ॥
भीष्म उवाच ।
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् ।
देवक्याश् चैव संवादं देवर्षेर् नारदस्य च ॥
[८७६] द्वारकायाम् अनुप्राप्तं नारदं देवदर्शनम् ।
पप्रच्छेमं वद प्रश्नं देवकी धर्मदार्शिनी ॥
तस्याः सम्पृच्छमानाया देवर्षिर् नारदस् तथा ।
आचष्ट विधिवत् सर्वं यत् तच् छृणु विशाम्पते ॥
नारद उवाच ।
कृत्तिकासु महाभागे पायसेन ससर्पिषा ।
सन्तर्प्य ब्राह्मणान् साधून् लोकान् प्राप्नोत्य् अनुत्तमान् ॥
रोहिण्यां पाण्डवश्रेष्ठ माषैर् रत्नेन सर्पिषा ।
पयोनुपानद् दातव्यम् आनृण्यार्थं द्विजातये ॥
दोग्ध्रीं सवत्सां तु नरो नक्षत्रे सोमदैवते ।
दत्वादित्यविमानस्थाह् स्वर्गं प्राप्नोत्य् अनुत्तमम् ॥
सोमदैवतनक्षत्रं मृगशीर्षम् ।
आर्द्रायां कृशरं दत्वा तिलमिश्रं समाहितः ।
नरस् तरति दुर्गाणि क्षुरधारांश् च पर्वतान् ॥
पूपं पुनर्वसौ दत्वा घृतपूर्णं सुपाचितम् ।
यशस्वी रूपसम्पन्नो बह्वन्ने जायते कुले ॥
पुष्पे तु काञ्चनं दत्वा कृतं चाकृतम् एव च ।
अनालोकेषु लोकेषु सोमवत् स विराजते ॥
[८७७] कृतं घटितम् । अकृतम् अघटितम् ।
अश्लेषासु तथा रूप्यं वृषभं वा प्रयच्छति ।
स सर्वभयनिर्मुक्तः शास्त्रवान् अभिजायते ॥
मघासु तिलपूर्णानि वर्धमानानि मानवः ।
प्रदाय पशुमांश् चैव पुत्रवांश् च प्रजायते ॥
फाल्गुनीपूर्वसमये ब्राह्मणानाम् उपोषितः ।
भक्ष्यान् फाणितसंयुक्तान् दत्वा सौभाग्यम् ऋच्छति ॥
घृतक्षीरसमायुक्तं विधिवत् षष्टिकौदनम् ।
उत्तराविषये दत्वा स्वर्गलोके महीयते ॥
यद् वा प्रदीयते दानम् उत्तराविषये नरैः ।
सदा फलम् अनन्तं च भवतीह विनिश्चयः ॥
फाल्गुनीपूर्वसमये पूर्वाफल्गुनीसमय इत्य् अर्थः । फानितं गुडविकारः । उत्तराविषये उत्तराफाल्गुनीसमय इत्य् अर्थः ।
हस्ते हस्तिरथं दत्वा चतुर्युक्तम् उपोषितः ।
नरस् तरति दुर्गाणि क्षुरधारांश् च पर्वतात् ॥
चतुर्युक्तं चतुर्भिर् हस्तिभिर् युक्तम् ।
चित्रायां वृषभं दत्वा पुण्याङ्गं गां च भारत ।
चरत्य् अप्सरसां लोके रमते नन्दते वने ॥
पुण्याङ्गं गाम् इति शुभलक्षणलक्षितशरीरं धेनुम् इत्य् अर्थः ।
[८७८] स्वातीष्व् अथ धनं दत्वा यद् इष्टतमम् आत्मनः ।
प्राप्नोति लोकान् सुशुभान् इह चैव महद् यशः ॥
विशाखायाम् अनड्वाहं धेनुं दत्वाथ दुग्धदाम् ।
सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम् ॥
प्रासङ्गो युगान्तरकाष्ठम् ।
पितॄन् देवांश् च प्रीणाति प्रेत्य चानन्त्यम् अश्नुते ।
न द दुर्गाण्य् वाप्नोति स्वर्गलोकं च गच्छति ॥
दत्वा यथोक्तं विप्रेभ्यो वृत्तिम् इष्टां स विन्दति ।
नारकीयांश् च क्लेशान् नाप्नोतीति विनिश्चयः ॥
अनुराधासु प्रावारवस्त्रोत्त्मरम् उपोषितः ।
दत्वा युगशतं वापि नरः स्वर्गे महीयते ॥
प्रावारः प्रवारपटः, वस्त्रोत्तरं परिधानवस्त्रादिकम् ।
कालशाकं तु विप्रेभ्यो दत्वा मन्त्रैः समूलकम् ।
ज्येष्ठायां मृत्युम् उत्साद्य गतिम् इष्टां च गच्छति ॥
मूले मूलफलं दत्वा ब्राह्मणेभ्यः समाहितः ।
स्वपितॄन् प्रीणयेद् देव गतिम् इष्टां च गच्छति ॥
अथ पूर्वासु षाढासु दधिपात्राण्य् उपोषितः ।
कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे ॥
प्रदाय जायते श्रेष्ठकुले बहुगुणाकुले ।
पुत्रपौत्रैः परिवृतः पशुमान् धनवांस् तथा ॥
उदमन्थं स सर्पिष्कं प्रभूतमधुफाणितम् ।
दत्वोत्तरास्व् आषाढासु सर्वलोकान् अवाप्नुयात् ॥
[८७९] उदमन्थः उदकमिश्राः सक्तवः, फाणितं दुग्धखण्डविकारः ।
दुग्धं त्व् अभिजितो योगे दत्वा मधुघृतप्लुतम् ।
धर्मनिष्ठो मनीषिभ्यः स्वर्गलोके महीयते ॥
अयम् अर्थः । उत्तराषाढानक्षत्रचतुर्थपादः, श्रवणस्याद्यघटिकाचतुष्टयम् अभिजिद्योगः ।
श्रवणे कम्बलं दत्वा वस्त्रान्तरितम् एव च ।
श्वेतेन याति यानेन स्वर्गलोकान् असंवृतान् ॥
गोप्रयुक्तं धनिष्ठासु यानं दत्वा समाहितः ।
वस्त्रम् अस्मिन् नवं दत्वा प्रेत्य राज्यं प्रपद्यते ॥
गन्धं शतभिषायोगे दत्वा सागुरुचन्दनम् ।
प्राप्नोत्य् अप्सरसां लोकं प्रेत्य गन्धांश् च शाश्वतान् ॥
पूर्वभाद्रपदायोगे राजमाषान् प्रदाय वै ।
सर्वभक्ष्यफलोपेतः स वै प्रेत्य सुखी भवेत् ॥
औरभ्रम् उत्तरायोगे यस् तु मांसं प्रयच्छति ।
पितॄन् प्रीणाति सकलान् प्रेत्यानन्त्यं समश्नुते ॥
उरभ्रो मेषस् तस्य मांसम् औरभ्रम् ।
कांस्योपदोहनीं देनुं रेवत्यां यः प्रयच्छति ।
स प्रेत्य कामान् आदाय दातारम् उपतिष्ठति ॥
रथम् अश्वसमायुक्तं दत्वाश्विन्यां नरोत्तमः ।
हस्त्यश्वरथसम्पन्ने वर्चस्वान् जायते कुले ॥
[८८०] भरणीषु द्विजातिभ्यस् तिलधेनुं प्रदाय वै ।
गाः प्रसूताश् च प्राप्नोति नरः प्रेत्य यशस् तथा ॥
भीष्म उवाच ।
इत्य् एष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः ।
देवक्या नारदेनेह स्तुषाभ्यः साब्रवीद् इदम् ॥
विष्णुधर्मोत्तरे ।
कृत्तिकासु सुवर्णस्य दानं बहुफलं स्मृतम् ।
रक्तवस्त्रस्य रोहिण्यां सौम्येभेलवणस्य (?) च ॥
कृशरस्य तथार्द्रायाम् आदित्ये रजतस्य च ।
घृतस्य तु तथा पुष्ये गन्धानाम् अथ सर्पभे ॥
तिलानां च तथा पैत्र्ये प्रियगोर् भगदैवते ।
आर्यर्क्ष्ये चाज्यपूपानां सावित्रे पायसस्य तु ॥
चित्रायां चित्रवस्त्राणां सक्तूनां वायुदैवते ।
ऐन्द्रे ऽग्नौ चैव लोहानां मैत्रे माल्यफलस्य च ॥
छत्रस्य च तथा शाक्रे मूले मूलफलस्य च ।
हेम्नश् च मधुयुक्तस्य दानम् आप्ये महाफलम् ॥
विश्वेश्वरे ऽन्नपानस्य श्रवणे वसनस्य च ।
धान्यस्य वासवे विप्रा वारुणे चौषधस्य् अच ॥
आजे पुराणबीजानां सस्यानां तदनन्तरे ।
गोरसानां तथा पौष्णे स्नानानाम् अथ वाश्विने ॥
तिलानां च सदा दानं भरणीषु महाफलम् ।
[८८१] आह विष्णुः ।
प्रतिमासं रेवतीयुते चन्द्रमसि मधुघृतयुतं परमान्नं ब्राह्मणान् भोजयित्वा रेवतीं प्रीणयित्वा रूपभाग् भवति ।
यमः ।
मासि मासि च रेवत्यां ब्राह्मणान् घृतपायसं ।
सदक्षिणं भोजयित्वा रूपभाग् अभिजायते ॥
इति नक्षत्रदानानि ।
अथ योगदानानि । विष्णुधर्मोत्तरे ।
विष्कुम्भादिषु योगेषु दानधर्मं महाफलम् ।
तम् अहं सम्प्रवक्ष्यामि शृणुध्वम् ऋषिसत्तमाः ॥
विष्कुम्भे सर्वधान्यानां दानं सर्वाघनाशनम् ।
प्रीतौ तथान्नपानानाम् आउष्मति घृतस्य च ॥
कुङ्कुमस्य च सौभाग्ये यवदानं च शोभने ।
अतिगण्डे च वस्त्राणां पायसस्य सुकर्मणि ॥
घृतौ रजतदानं च शूले मूलादिदानकम् ।
गण्डे मण्डनदानं च वृद्धौ गोदानम् इष्यते ॥
ध्रुवे च पञ्चरत्नानां व्याघाते फाणितस्य च ।
[८८२] हर्षणे गन्धदानं स्यात्द् वज्रे दद्यान् मणीन् अपि ॥
सिद्धौ सिद्धार्थका देया व्यतीपाते तु काञ्चनम् ।
वरीयसि तिलान् दद्याद् वस्त्राणि परिघे तथा ॥
जलकुम्भाः शिवे देयाः सिद्धे सिद्धान्नम् इष्यते ।
साध्ये ऽलङ्करणां च छत्रदानं शुभे शुभम् ॥
शुक्रे चोपानहोर् दानं शस्त्रं ब्रह्मणि सर्पिषः ।
ऐन्द्रे च दीपकान् दद्याद् वैघृतौ कनकं हितम् ॥
दानान्य् एतेषु योगेषु यथाशक्त्या द्विजोत्तमाः ।
भक्तियुक्तो द्विजे दत्वा लोके वसति चक्रिणः ॥
इति योगदानानि ।
अथ करणदानानि । विष्णुधर्मोत्तरे ।
करुणेषु प्रवक्ष्यामि दानानि द्विजपुङ्गवाः ।
यवे पायसदानं स्यात् शक्तुदानं च बालवे ॥
कौलवे गोरसान् दद्यात् तिलांस् तैतिलनामनि ।
गराभिधाने लवणं वणिजे देयम् अम्बरम् ॥
विष्टौ च षष्टिकान्नानि शकुनौ सर्पिर् एव च ।
मधुदानं चतुष्पादे शस्तं नागे च वाससाम् ॥
दानं प्रियङ्गोः किन्तुघ्ने श्रेष्ठम् उक्तं द्विजोत्तमाः ।
[८८३]
इति करणदानानि ।
अथ सङ्क्रान्तिदानानि । तत्र विश्वामित्रः ।
मेषसङ्क्रमणे भानोर् मेषदानं महाफलम् ।
वृषसङ्क्रमणे दानं गवां प्रोक्तं तथैव च ॥
वस्त्रान्नपानदानानि मिथुने विहितानि च ।
घृतधेनुप्रदानं च कर्कटे परिशस्यते ॥
ससुवर्णं छत्रदानं सिंहे ऽपि विहितं सदा ।
कन्याप्रवेशे वस्त्राणां सुरभीणां तथैव च ॥
तुलाप्रवेशे धान्यानां बीजानाम् एव चोत्तमम् ।
कीटप्रवेशे वस्त्राणां वेश्मनां दानम् एव च ॥
अत्र कीटो वृश्चिकः ।
धनुःप्रवेशे वस्त्राणां यानानां च महाफलम् ।
झषप्रवेशे दारूणां दानम् अग्नेस् तथैव च ॥
झषो मकरः ।
कुम्भप्रवेशे दानं तु गवाम् अम्बुतृणस्य तु ।
मीनप्रवेशे स्नानानां माल्यानाम् अपि चोत्तमम् ॥
दानान्य् अथैतानि मया द्विजेन्द्राः
प्रोक्तानि काले तु नरः प्रदत्वा ।
[८८४] प्राप्नोति कामान् मनसस् त्व् अभीष्टांस्
तस्मात् प्रशंसन्ति हि कालदानम् ॥
स्कन्दपुराणे ।
धेनुं तिलमयीं राजन् दद्याद् यश् चोत्तरायणे ।
सर्वकामान् अवाप्नोति विन्दते परमं सुखम् ॥
विष्णुधर्मोत्तरे ।
उत्तरे त्व् अयने विप्रा वस्त्रदानं महाफलम् ।
तिलपूर्णम् अनड्वाहं दत्वा रोगैः प्रमुच्यते ॥
इति सङ्क्रान्तिदानानि ।
अथ मासदानानि । विष्णुधर्मोत्तरे ।
तिलप्रदानं माघे तु याम्यं लोकं न गच्छति ।
प्रियङ्गुं फाल्गुने दत्वा प्रियो भवति भूतले ॥
चैत्रे चित्राणि वस्त्राणि दत्वा सौम्भाग्यम् अश्नुते ।
अपूपानां प्रदानेन वैशाखे स्वर्गम् अश्नुते ॥
छत्रदानात् तथा ज्येष्ठे सर्वान् कामान् समश्नुते ।
श्रावणे वस्त्रदानस्य कीर्तितं सुमहत् फलम् ॥
प्रौष्ठपदे तथा मासि प्रदानात् फाणितस्य च ।
[८८५] अश्विने घृतदानेन रूपवान् अभिजायते ॥
कार्तिके दीपदानेन सर्वम् औज्वल्यम् आप्नुयात् ।
लवणं मार्गशीर्षे तु दत्वा सौभाग्यम् अश्नुते ॥
पौषे कनकदानेन परां पुष्टिं तथैव च ।
पुष्पाणां च सिते पक्षे दानं लक्ष्मीकरं स्मृतम् ।
फलानां च तथा दानं कृष्णपक्षे महाफलम् ॥
वामनपुराणे ।
माघे मासि तिलाः शस्तास् तिलधेनोश् च दानव ।
इध्मेन्धनादयश् चान्ये माधवप्रीणनाय तु ॥
फल्गुने व्रीहयो गावो वस्त्रं कृष्णाजिनान्वितम् ।
गोविन्दप्रीणनार्थाय दातव्यं भरतर्षभ ॥
चैत्रे चित्राणि वस्त्राणि शयनान्य् आसनानि च ।
विष्णोः प्रीत्यर्थम् एतानि देव्यानि ब्राह्मणेष्व् अथ ॥
गन्धाश् च द्विजमुख्येभ्यो मधुसूदनतुष्टये ।
उदकुम्भस् तु धेनुश् च तालवृन्तं सचन्दनम् ।
त्रिविक्रमस्य प्रीत्यर्थं दातव्यं साधुभिः सदा ॥
तालव्न्तं व्यजनम् ।
उपानद्युगलं छत्रं लवणामलकानि च ।
आषाढे वामनप्रीत्यै दातव्यानि तु भक्तितः ॥
[८८६] घृतं च क्षीरौम्भाश् च घृतधेनुः फलानि च ।
श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिते ॥
मासि भाद्रपदे दद्यात् पायसं मधुसर्पिषी ।
हृषीकेशप्रीणनर्थं लवणं सगुडोदनम् ॥
तिलास् तुरङ्गवृषभं दधिताम्रायसादिकम् ।
प्रीत्यर्थं पद्मनाभस्य देयम् आश्वयुजे नरैः ॥
रजतं कनकं दीपान् मणिमुक्ताफलादिकम् ।
दामोदरस्य प्रीत्यर्थं प्रदद्यात् कार्तिके नरः ॥
खरोष्ट्राश्वतरान् नागान् शूकराश्वम् अजाविकम् ।
दातव्यं केशवप्रीत्यै मासि मार्गशिरे नरैः ॥
प्रासादनगरादीनि गृहप्रावरणानि च ।
नारायणस्य तुष्ट्यर्थं पौषे देयानि यत्नतः ॥
दासीदासम् अलङ्कारश् चान्नं षड्रससंयुतम् ।
पुरुषोत्तमस्य तुष्ट्यर्थं प्रदेयं सार्वकालिकम् ॥
यद् यद् इष्टतमं किञ्चिद् यच् चाप्य् अस्ति शुभं गृहे ।
तत् तद् धि देयं प्रीत्यर्थं देवदेवस्य चक्रिणः ॥
देवीपुराणे ।
मार्गे रसोत्तमं दद्याद् घृतं पौषे महाफलम् ।
रसोत्तमं लवणम् ।
तिलान् माघे मुनिश्रेष्ठ सप्तधान्यानि फाल्गुने ॥
विचित्राणि च वस्त्राणि चैत्रे दद्याद् द्विजोत्तमे ।
[८८७] वैशाखे द्विज गोधूमा ज्यैष्ठे तोयभृतं घटम् ॥
आषाढे चन्दनं देयं सकर्पूरं महाफलम् ।
नवनीतं नभोमासि छत्रं प्रौष्ठपदे मतम् ॥
गुडशर्करवर्णाढ्यान् लड्डुकान् आश्विने मुने ।
दीपदानं महापुण्यं कार्तिके यः प्रयच्छति ॥
सर्वकामान् अवाप्नोति क्रमेणेदम् उदाहृतम् ।
व्रतान्ते गां शुभां दद्यात् सवत्सां कांस्यदोहनीम् ॥
सयुगां सस्रजं वत्सं दापयेद् विधिनामुना ।
देवीं विरिञ्चितं सूर्यं विष्णुं वाथ यथाविधि ॥
स्वभावशुद्धो विधिवत् पूजयित्वा द्विजोत्तमम् ।
दातव्या वीतरागे तु कामक्रोधविवर्जिते ॥
अयाचके सदाचारे विनीते नियमान्विते ।
गोदानाल् लभते कामान् गोलोके च मनोरमान् ॥
व्रतान्ते मासदानाख्ये समाप्तौ नियमे तथा ।
आषाढे तोयधेनुं च घृतं भाद्रपदे तथा ॥
माघे तु तिलधेनुः स्याद् यो दत्वा लभते हितम् ।
यथा ।
धेनुं तिलमयीं माधे दद्याद् यद् तूत्तरायणे ॥
सर्वान् कामान् अवाप्नोति ज्येष्ठे तिलमयीं तथा ।
पौषे घृतमयीं दद्याच् छ्रेष्टाहे विधिना मुने ॥
आदित्यपुराणे ।
ज्यैष्ठे मासि तिलान् दद्यात् पौर्णमास्यां विशेषतः ।
अश्वमेधस्य यत् पुण्यं तत् प्राप्नोति न संशयः ॥
[८८८] आह यमः ।
घृतम् आश्वयुजे मासि नित्यं दद्याद् द्विजातये ।
प्रीणयित्वाश्विनौ देवौ रूपभाग् अभिजायते ॥
आह विष्णुः ।
आश्विनं सकलं मासं विप्रेभ्यः प्रत्यहं घृतम् ।
प्रदायाश्विनौ प्रीणयित्वा रूपभाग् भवति । तस्मिन्न् एव मासि प्रत्यहं गोरसैर् ब्राह्मणान् भोजयित्वा आरोग्यभाग् भवति । तथा माघे मासि अग्निं प्रत्यहं तिलैर् हुत्वा घृतकुल्माषं ब्राह्मणान् भोजयित्वा दीप्ताग्निर् भवति ।
आह प्रचेताः ।
तिलप्रदः प्रजाम् इष्टां पुरुषः खलु विन्दति ।
माघे मासि विशेषेण तत्तमिश्रे विशेषतः ॥
महाभारते ।
माघे मासि तिलान् यस् तु ब्राह्मणेभ्यः प्रयच्छति ।
सर्वसत्त्वसमाकीर्णं नरकं न स पश्यति ॥
इति मासदानविधिः ।
अथ ऋतुदानानि । विष्णुधर्मोत्तरे ।
[८८९] स्नानानुलेपनादीनां वसन्ते दानम् इष्यते ।
दानकानां तथा ग्रीष्मे छत्राणां तदनन्तरे ॥
देवीपुराणे ।
यः पुनर् विधिना वत्स देवीम् उद्दिश्य प्रावृषि ।
विप्रेषु विप्रकन्यासु तिलादीन् सम्प्रयच्छति ॥
तस्याः सा तुष्यते देवी अचिरेण तु विद्यया ॥
विष्णुधर्मोत्तरे ।
शरद्य् अन्नस्य धर्मज्ञा वस्त्राणाम् अपि हैमने ।
बहिर्दानं नरः कृत्वा सूर्यस्योदयनं प्रति ॥
बहिर्दानं शीतापनुत्त्यर्थं वह्निदानम् ।
शिशिरे सततं वह्निं तर्पयित्वा तथा तिलैः ।
कुल्माषं सघृतं दत्वा यथा शक्त्या द्विजातिषु ॥
कायाग्निदीप्तिप्राकाश्यं शत्रुनाशं च विन्दति ।
शक्तुं सिताखण्डयुतं त्रपुषावारकान्वितम् ॥
लवणाज्ययुतं प्रावृषि स्नातः सततं द्विजपुङ्गवाः ।
जलकुम्बोपरिकृतं ह्य् अक्षयं फलम् अश्नुते ॥
यमः ।
कृशरं भोजयित्वा तु स्वशक्त्या शिशिरे द्विजान् ।
दीप्ताग्नित्वं समाप्नोति स्वर्गलोकं च गच्छति ॥
[८९०]
इति ऋतुदानानि ।
अथ संवत्सरदानानि । विष्णुधर्मोत्तरे ।
संवत्सरे तु दातॄणां तिलदानं महापलम् ।
परिपूर्वे तथा दानं यवानां द्विजसत्तमः ॥
परिपूर्व इति परिवत्सर इत्य् अर्थः ।
इदापूर्वे च वस्त्राणां दान्यानां चानुपूर्वकम् ।
इत्पूर्वे रजतस्यापि दानं प्रोक्तं महाफलम् ॥
इदापूर्व इत्यादि इदा वत्सरः, अनुवत्सरः, इद्वत्सर इति । संवत्सरादयश् च ज्योतिःशास्त्रे प्रसिद्धाः ।
इति संवत्सरदानानि ।
इति श्रीमहाराजाधिराजश्रीमहादेवस्य समस्तकरणाधीश्वरसकल-
विद्याविशारदश्रीहेमाद्रिविरचिते चतुर्वर्गचिन्तामणौ
दानखण्डे कालविशेष, दानप्रकरणम् ॥
[८९१]
**त्रयोदश अध्यायः **
अथ अनन्तफलदानानि ।
येनारामाभिरामाः परिसरलहरीमग्ननागास् तडागाः
प्रासादाः सादय्न्ती रविरथतुरगस्वैरसञ्चारलीलाम् ।
कूपा भूपालसेनाशतसततपयःकर्मनिर्माणदक्षा
नक्षत्राणि स्पृशन्त्यो द्विजवसतिहिता निर्मिता हर्म्यमालाः ॥
येन श्रवःसरणि सञ्चरणोचितानि
दानानि तान्य् अपि दृशोरतिथौ कृतानि ।
हेमाद्रिर् अद्भुतविपश्चिद् अपश्चिमो ऽयं
सम्प्रत्य् अनन्तफलदानसमूहम् आह ॥
कानि पुनस् तानीत्य् अपेक्षायां भविष्यत्पुराणे ।
सम्पादयेच् च नियमाद् आरोग्यं भोगसाधनम् ।
अभयं पान्थशुश्रूषाम् अन्नोदकमहीरुहान् ।
अनन्तफलदान्य् आहुर् दानान्य् एतानि सूरयः ॥
अथ आरोग्यदानम् । तत्रारोग्यदानं तावद् उच्यते । आह विश्वामित्रः ।
[८९२] आरोग्यदानात् परमं न दानं विद्यते क्वचित् ।
अतो देयं रुजार्तानाम् आरोग्यं भाग्यवृद्धये ॥
औषधं पथ्यम् आहारं तैलाभ्यङ्गप्रतिश्रयम् ।
यः प्रयच्छति रोगिभ्यः स भवेद् व्याधिवर्जितः ॥
संवर्तः ।
औषधं स्नेहम् आहारं रोगिणां रोगशाण्तये ।
ददानो रोगरहितः सुखी दीर्घायुर् एव च ॥
अगस्थ्यः ।
अन्नौषधप्रदातारः सुखं यान्ति निरामयः ॥
सौरपुराणे ।
रोगिणो रोगशाण्त्यर्थम् औषधं यः प्रयच्छति ।
रोगहीनः स दीर्घायुः सुखी भवति सर्वदा ॥
नन्दिपुराणे ।
अञ्जनं यो नरो दद्याद् अक्ष्नोर् व्याधिनिवृत्तये ।
विप्राय स पुमान् याति सूर्यलोकं महामतिः ।
आरोग्यनयनो दिव्यः सुभगो जायते नरः ॥
[८९३] धर्मार्थकाममोक्षाणाम् आरोग्यं साधनैर् युतः ।
अतस् त्व् आरोग्यदानेन नरो भवति सर्वदा ॥
आरोग्यशालां कुरुते महौषधपरिच्छदाम् ।
विदग्धवैद्यसंयुक्तां भृत्यावसथसंयुताम् ॥
वैद्यस् तु शास्त्रवित् प्राज्ञो दृष्टौषधपराक्रमः ।
औषधीमूलवर्णज्ञः समुद्धरणकालवित् ॥
रसवीर्यविपाकज्ञः शालिमांसौषधीमणे ।
योगविद् देहिनाम् देहं यो धिया प्रविशेद् बुधः ॥
धातुपथ्यमयज्ञश् च निदानविद् अतन्द्रितः ।
व्याधीनां पूर्वलिङ्गज्ञस् तदुत्तरविधानवित् ॥
देशकालविधानज्ञश् चिकित्साशास्त्रवित् तथा ।
अष्टाङ्गायुर्वेदवेत्ता मुष्टियोगविधानवित् ॥
अष्टाव् अङ्गानि आयुवेदस्य । यथा शल्यं शालाक्यं कायचिकित्सा भूतविद्या कौमारभृत्यम् अगदतन्त्रं रसायणतन्त्रं वाजीकरणतन्त्रम् इति सुश्रुतोक्तानि ।
एवंविधः शुभो वैद्यो भवेद् यत्राभियोजितः ।
आरोग्यशालाम् एवं तु कुर्याद् योधधर्मसंश्रयः ॥
स पुमान् धार्मिको लोके स कृतार्थः स बुद्धिमान् ।
सम्यग् आरोग्यशालायाम् औषधैः स्नेह्पाचनैः ॥
व्याधिनं विरुजी कृत्य अप्य् एकं करुणायुतः ।
प्रयाति ब्रह्मसदनं कुलसप्तकसंयुतः ॥
[८८४] आढ्यो वित्तानुसारेण दरिद्रः फलभाग् भवेत् ।
दरिद्रस्य कुतः शाला आरोग्याय भिषग् युवा ॥
अपि मूलेन केनापि मर्दनाद्यैर् अथापि वा ।
स्वस्थी कृते भवेन् मर्त्ये पूर्वोक्तं लोकम् अव्ययम् ॥
वातपित्तकफाद्यानां चयापचयभेदिनाम् ।
यस् तु स्वल्पाभ्युपायेन मोचयेद् व्याधिपीडितान् ।
सो ऽपि याति शुभान् लोकान् अवाप्यान् यज्ञयाजिभिः ॥
स्कन्दपुराणे ।
आरोग्यशालां यः कुर्यान् महावैद्यपुरस्कृताम् ।
सर्वोपकरणोपेतां तस्य पुण्यफलं शृणु ॥
धर्मार्थकाममोक्षाणाम् आरोग्यं साधनं यतः ।
तस्माद् आरोग्यदानेन तद् दत्तं स्याच् चतुष्टयम् ॥
अथैकम् आर्तं विद्वांसं स्वस्थीकृत्य प्रयत्नतः ।
प्राप्नोति सुमहत्पुण्यम् अनन्तं क्षयवर्जितम् ॥
ज्ञानयोगरतं शान्तं रोगार्तं शिवयोगिनम् ।
यः स्वस्थं कुरुते सो ऽपि सर्वदानफलं लभेत् ॥
ब्रह्मा विष्णुः सुराः सर्वे व्याधयः स्वजना नृपाः ।
योगस्यैते महविघ्ना व्याधयस् ते न योगिनाम् ॥
[८९५] ब्रह्मक्षत्रियविट्शूद्रान् रोगार्तान् परिपाल्य च ।
यत् पुण्यं महद् आप्नोति न तत् सर्वैर् महामखैः ॥
आकाशस्य यथा नान्तः सुरैर् अप्य् उपलभ्यते ।
तद्वद् आरोग्यदानस्य नान्तो वै विद्यते क्वचित् ॥
पुण्येनानेन महता गत्वा शिवपुरं नरः ।
मोदते विविधैर् भोगैर् विमानैः सर्वकामिकैः ॥
एकविंसत्कुलोपेतः सभृत्यः परिपालितः ।
आस्ते शिवपुरे तावद् यावद् आहूतसम्प्लवम् ॥
ततः स्वधर्मशेषेण सम्प्राप्तः प्रयतः सदा ।
ज्ञानम् उत्पद्यते तस्य रुद्रेभ्यः परिचारकः ॥
ज्ञानाद् विरक्तः संसाराच् छिवध्यानम् उपाश्रितः ।
स्वदेहं तृणवत् त्यक्त्वा सर्वदुःखान्तम् आप्नुयात् ॥
समस्तदुःखनिर्मुक्तः शुद्धः स्वात्मव्यवस्थितः ।
सर्वज्ञः परिपूर्णश् च मुक्त इत्य् अभिधीयते ॥
तस्माद् भोगापवर्गार्थं रोगार्तं समुपाचरेत् ।
विशेषेण तु योगीन्द्रं शरीरेण धनेन च ॥
रोगिणो नोद्विजेत् प्राज्ञो दुर्बलान् अपि सर्वदा ।
तान् पापाद् गुरुवन् नित्यम् एवं धर्मः प्रवर्तते ॥
यो ऽनुगृहीतम् आत्मानं मन्यमानो दिने दिने ।
उपसर्पेत रोगार्तस् तीर्णस् तेन भवार्णवः ॥
इत्य् आरोग्यदानम् ॥
अथ रोगहरदानानि ।
[८९६] ब्रह्माण्डपुराणे ।
ब्रह्मोवाच ।
भगवन् प्राणिनः सर्वे रोगार्ताः प्रभवन्त्य् अतः ।
एषां तत्परिहारार्थं किं कर्तव्यं जगत्पते ॥
इत्य् एवम् उक्तो भगवान् ब्रह्मणा परमेष्ठिना ।
यद् आह तस्मै तत् सर्वं ब्रवीमि मुनिसत्तमाः ॥
आधयो व्याधयश् चैव शरीरपरिशोषणाः ।
पुण्यं तत्परिहारार्थं कर्तव्यं हितम् इच्छता ॥
ज्वरातिसारो यक्ष्मा च गुल्मशूलभगन्धराः ।
कुष्ठाग्निरोगा वातश् च कण्ठशुलमसूरिकाः ॥
कण्ठदन्ताक्षिकर्णेषु शिरोरोगोपजिह्वका ।
त्रिदोषसम्भवाः सर्वे रोगाः प्राणिभयङ्कराः ॥
ग्रन्थयो मूत्रकृच्छ्रं च बस्तिरोगो महोदरम् ।
एते चान्ये च बहवो महावेगा महाबलाः ॥
व्याधयः शतसङ्ख्याका मृत्योर् हेतव एव ते ।
यद् यद् रोगशमं कुर्यात् तत् तत् कार्यं मनीषिभिः ॥
औषधं जपहोमादि दानं देवार्चनादिकम् ।
सर्वरोगप्रशमनं सौवर्णदानम् उच्यते ॥
ज्वरे सुरिकायां च राजयक्ष्मणि चैव तत् ।
गुल्मे तथायसं प्रोक्तं कुष्ठे राजतम् उच्यते ॥
रत्नदानाच् छमं यान्ति गुदोत्पन्नाश् च सर्वशः ।
[८९७] शमः स्याद् अन्ततो व्याधेर् भूदानात् कमलासन ॥
शमार्थं वातरोगाणां वासोदानं विधीयते ।
कण्ठजिह्वोद्भवादीनां रोगाणां शान्तिम् इच्छता ॥
धान्यं वासो हिरण्यं वा दातव्यानि प्रयत्नतः ।
सुवर्णदानं सर्वेषां रोगाणां शमकारणम् ॥
तस्मात् सर्वप्रयत्नेन दातव्यं कमलोद्भव ।
अक्षिसम्भवरोगाणाम् आज्यं कनकसंयुतम् ॥
पानीयं पायसं मुद्गाः शर्कराघृतसंयुताः ।
सर्वाङ्गतोदकाशेषु खण्डं वै सोपबर्हणम् ॥
दद्याद् वैकण्ठरोगाणां कम्बलं कमलोद्भव ।
तथा च रत्नरजतैर् यथाशक्त्यनुरूपतः ॥
कृत्वा च प्रतिमां व्याधेर् दद्याद् विप्राय यत्नतः ।
शतेन वा तदर्धेन त्रिंशता निष्कसङ्ख्यया ॥
जातरूपमयं व्याधेः प्रतिरूपं तु कारयेत् ।
निधाय पात्रे सम्पूर्णे तण्डुलैः शतरूपकैः ॥
अलङ्कृत्य च सौवर्णं रूपं त्व् अगुरुलेपनैः ।
वासोयुगेन संवेष्ट्य हिरण्यबहुभूषणैः ॥
अलङ्कृताय विप्राय दत्वा मन्त्रम् उदीरयेत् ।
यो मां रोगाः प्रबाधन्ते देहस्थाः सततन्तताः (?) ॥
गृह्णीष्व प्रतिरूपेण तान् रोगान् द्विजसत्तम ।
बाढम् इत्य् एव तद्रूपं गृह्णीयाद् व्याधिभिः सह ॥
[८९८] ततस् एव् अरोगी दाता च दीर्घायुष्ट्वं प्रपद्यते ।
एवं बहुविधं शान्त्यै रोगाणां कमलासन ॥
कार्यम् उक्तं मया तेभ्य किम् अन्यत् कथयामि ते ।
एवम् उक्तो भगवता ब्रह्मा लोकपितामहः ॥
यद् आह नारदायेदं मया तत् सर्वम् ईरितम् ॥
इति रोगहरदानविधिः ।
अथ भोगदानानि । तत्र रत्नदानं तावद् आह जाबालिः ।
रत्नानि च द्विजे दद्याद् बहुमूल्यानि मानवः ।
अलङ्कारनिमित्तं वा देवताभ्यो ऽतियत्नतः ॥
स पापतापनिर्मुक्तो मुक्तिम् एव समश्नुते ।
न रत्नेभ्यः परं वस्तु न चास्ति भुवनत्रये ॥
अतस् तद्दानतो यस्मात् फलं यत् केन वर्ण्यते ॥
विश्वामित्रः ।
यः प्रयत्नेन रत्नानि विप्रेभ्यः सम्प्रयच्छति ।
स सर्वगुणसम्पन्नान् पुत्रान् विन्दति नन्दति ॥
संवर्तः ।
समुद्रजानि रत्नानि नरो विगतकल्मषः ।
दत्वा विप्राय महते प्राप्नोति महतीं श्रियम् ॥
**[८९९] **वेदव्यासः ।
रत्नदानं च सुमहत् पुण्यम् उक्तं जनाधिप ।
तानि विक्रीय यजति ब्राह्मणो ह्य् अभयङ्करः ॥
स्कन्दपुराणे ।
विद्रुमाणां प्रदानेन रुद्रलोकं व्रजेन् नरः ।
सर्वपातकनिर्मुक्तो मुक्तादानेन जायते ॥
लोकम् आप्नोति दानेन नरो वज्रस्य वज्रिणः ।
तथा प्रदत्तैर् गोमेदैर् मोदते नन्दते वने ॥
सर्वे ग्रहाः प्रतुष्यन्ति पुष्परागस्य दानतः ।
गारुत्मतैर् मरुत्वन्तं नियतं जयति श्रिया ॥
वैदूर्यैः सूर्यलोकं च पद्मरागैर् अरोगताम् ॥
दत्तैर् इति शेषः ।
प्रदानाद् इन्द्रनीलानां लीलानां भाजनं भवेत् ।
सुखी शङ्खप्रदानेन शक्तिं शूक्तिप्रदानतः ॥
इति रत्नदानम् ।
अथाह वृद्धगौतमः ।
माणिक्यं पद्मरागं च वज्रं वैदूर्यम् एव च ।
मौक्तिकं गोमेदं पुष्परागं मरकतं तथा ॥
हरितं च नवैतानि स्वर्णपात्रोपरि न्यसेत् ।
अथ वा राजते ताम्रे आज्येन च प्रपूरयेत् ॥
[९००] नवग्रहाणां प्रीत्यर्थं ब्रह्मणा निर्मितं पुरा ।
गन्धपुष्पाक्षतिर् धूपैर् नैवेद्यैस् ताम् प्रपूजयेत् ॥
स्वलिङ्गैश् चैव मन्त्रैश् च होमः कार्यस् तु पूर्ववत् ।
पूर्ववद् इति ग्रहयज्ञोक्तमार्गेणेत्य् अर्थः ।
ततो ब्राह्मणम् आहूय सर्वशास्त्रार्थकोविदम् ॥
आदित्यादिग्रहाः सर्वे नवरत्नप्रदानतः ।
विनाशयन्तु मे हृष्टाः क्षिप्रम् एव भगन्दरम् ॥
दानमन्त्रः ।
अनेन कर्मणा नूनं यथावद् विहितेन तु ।
नरो नैरुच्यम् आप्नोति निःसन्दिग्धं भगन्दरी ॥
इति भगन्दरहरदानम् । तथा ।
माणिक्यं वज्रसहितम् अव्रणं जातितः शुभम् ।
रक्तवस्त्रेण संवेष्ट्य खारिकापञ्चकोपरि ॥
यद् वा विभवसारेण माणिक्यं यवपुञ्जके ।
निधाय गन्धपुष्पाद्यैर् अर्चयेद् भक्तिपूर्वकम् ॥
ब्राह्मणं श्रुतसम्पन्नं स्वाचारं संयतेन्द्रियम् ।
विनीतवेषम् आहूय भक्त्या प्रयतमानसः ॥
सौवर्णेनोपवीतेन सम्यग् वस्त्राङ्गुलीयकैः ।
पूजयित्वा तु विधिवत् कृतहोमाय पूर्ववत् ॥
मन्त्रेणानेन विधिवत् तस्मै दद्याद् व्रणी शुभम् ।
देव सूर्य जगन्नाथ सर्वलोकनमस्कृत ॥
माणिक्यवज्रदानेन प्रणाशयमम व्रणम् ।
[९०१] दानमन्त्रः ।
व्रणाः शस्त्रेण ये ऽपि स्युर् विषदिग्धेन संयुगे ।
ते ऽपि शुद्धाः प्ररोहन्ति यथा प्रोक्तं तु वायुना ॥
इति व्रणघ्नरत्नदानम् ।
वायुपुराणे ।
गलगण्डी गलद्रव्यहर्ता भवति मानवः ।
दानेन तत् प्रतीकारं वक्ष्यामि शृणु भास्कर ॥
माणिक्यं पद्मरागं च वज्रं गोमेदम् एव च ।
वैदूर्यं पुष्परागं च मुक्ता मरकतं तथा ॥
एभिर् मालां प्रकुर्वीत सूत्रम् अप्य् अत्र राजतम् ।
अलाभे मौक्तिकाद्यन्यतमैर् मालां प्रकल्पयेत् ॥
सर्वत्र राजतं सूत्रम् इति देवैः प्रकल्पयेत् ।
ताम्रपात्रे विनिक्षिप्य तिलानाम् उपरि न्यसेत् ॥
तिलानां च परीमाणं द्रोणपञ्चकम् इष्यते ।
यद् वा तदर्धम् एव स्यात् स्वशक्त्या वापि कारयेत् ॥
महाशन्तिं तथा कुर्यात् ब्राह्मणैर् वेदपारगैः ॥
महाशन्तिः नवग्रहशाण्तिर् इत्य् अर्थः ।
आचार्यश् च शुचिर् दक्षः सर्वशास्त्रार्थतत्त्ववित् ।
श्रुतवृत्तोपसम्पन्नः सर्वप्राणिहिते रतः ॥
[९०२] एवंविधं पूजयित्वा वस्त्रमाल्यानुलेपनैः ।
होमं च कारयेत् तेन समिदाज्यचरूत्कटम् ॥
आसत्येनतधामन्त्रो (?) गणानाम् इदम् इत्य् अपि ।
मन्त्राः क्रमेण संयोज्याः सोमं राजानम् इत्य् अपि ॥
मन्त्रेण स्विष्टकृतं दद्याद् गलगण्डी च वाग्यतः ।
मन्त्रेणानेन विधिवत् प्राङ्मुखाय ह्य् उदङ्मुखः ॥
मालेयं सर्वदेवत्या ब्रह्मविष्नुशिवादिभिः ।
रुद्रादिलोकपालैश् च तथा सर्वामरैर् अपि ॥
सततं कण्ठलग्ना वा धारिता प्रीतिपूर्वकम् ।
ब्राह्मणाय प्रदत्वेयं गलगण्डं व्यपोहतु ।
दानमन्त्रः ।
ग्रहशान्तिः कृता यैस् तु तेभ्यो दद्याच् अ दक्षिणाम् ।
पुण्याहवाचनं कृत्वा भुञ्जीत सह बन्धुभिः ॥
इति गलगण्डघ्नरत्नदानम् ।
अथालङ्कारदानम् । ब्रह्मवैवर्तपुराणे ।
द्विजातिभ्यस् तु यो दद्याद् अलङ्कारान् समुज्वलान् ।
सो ऽलङ्कृतः स्वर्गलोके क्रीडत्य् अप्सरसां गणैः ॥
अलङ्कारप्रदानेन सुरूपः सुभगो भवेत् ।
तथालङ्कारदानेन दीर्थम् आयुश् च विन्दति ॥
[९०३] नराभरणदानेन तुष्तिं याति सदाशिवः ।
योषिदाभरणैर् दत्तैः प्रीयते हिमशैलजा ॥
महाभारते ।
युवाप्य् अविकलाङ्गो ऽपि दधानो ऽप्य् उज्वलं वपुः ।
विनालङ्करणैर् नूनं न धत्ते मञ्जुलां श्रियम् ॥
दुर्लभं मानुषं तावत् तत्रापि शुभवेषता ।
तस्यापि भूषा तारुण्यं जायते नरसत्तम ॥
एतत् सर्वं मनुष्याणां वृथैव स्याद् अभूषणम् ।
तस्मात् सर्वप्रयत्नेन प्रदद्याद् भूषणानि तु ॥
विष्णुधर्मोत्तरे ।
मूर्धाभरणदानेन व्रजेन् मूर्धाभिषिक्तताम् ।
कर्णजैः कर्णकीर्तिः स्याल् लक्ष्मीः कण्ठैर् अकुण्ठिता ॥
पाणिजैः प्रणिजैत्रः स्याज् जघनैर् अजघन्यजः ।
जानुजैर् मनुजैत्रं स्याच् चरणं चरणोद्भवैः ॥
नालङ्कृतेभ्यो नरपुङ्गवेभ्यः
परं नृलोके स्पृहणीयम् अस्ति ।
न लभ्यते तच् च विना प्रदानाद्
अतः प्रदेयानि विभूषणानि ॥
इत्य् अलङ्कारदानम् ।
[९०४]
अथ वस्त्रदानम् । देवलः ।
कान्तियुक् सुभगः श्रीमान् भवत्य् अम्बरदानकृत् ।
नन्दिपुराणे ।
वस्त्रं यश् चार्थिने दद्याच् छुभ्रं वापि यदृच्छया ।
स भवेद् धनवान् श्रीमान् बृहस्पतिपुरे वसेत् ॥
आदित्यपुराणे ।
योगिनां च दरिद्राणाम् ये च वस्त्रप्रदा नराः ।
तेषां दिव्यानि वस्त्राणि सुगन्धीनि मृदूनि च ।
वातश् चैव प्रवहति सुगन्धो ह्य् अमृतोपमः ॥
लिङ्गपुराणे ।
वस्त्रं जलं पवित्रं च दद्याच् च शिवयोगिने ।
स महाभोगम् आप्नोति अन्ते योगं च शाश्वतम् ॥
महाभारते ।
वाससां तु प्रदानेन स्वदारनिरतो नरः ।
सुवस्त्रश् च सुवेषश् च भवतीत्य् अनुशुश्रुमः ॥
भविष्यत्पुराणे ।
मध्यमोत्तमवस्त्राणि पदद्याद् अहतानि च ।
स तेनैवानुसारेण प्राप्नोति विपुलं फलम् ॥
[९०५] विष्णुधर्मोत्तरात् ।
हंस उवाच ।
दानानाम् उत्तमं लोके वस्त्रदानं प्रकीर्तितम् ।
वासो हि सर्वदैवत्यं सर्वप्रायोज्यम् उच्यते ॥
वस्त्रदाता सुवेषः स्याद् रूपद्रविणसंयुतः ।
युक्तो लावण्यसौभाग्यैर् नीरोगश् च तथा द्विजः ॥
नीलं रक्तं तथा जीर्णं न देयं ब्राह्मणस्य तु ।
देयं वरं चाङ्गिरसलोकं याति बृहस्पतेः ॥
दत्वा कार्पासिकं वस्त्रं स्वर्गलोके महीयते ।
दत्वा सरोम तत्रापि फलं दशगुणं भवेत् ॥
आविकं वसनं दत्वा भृगूणां लोकम् आप्नुयात् ।
छागं दत्वा चाङ्गिरसं क्षौमं दत्वा बृहस्पतेः ॥
वसूनां लोकम् आप्नोति कुशकौशेयवाससी ।
कृमिजं च तथा दत्वा सोमलोके महीयते ॥
अग्निष्टोमम् अवाप्नोति दत्वैव मृगलोमिकम् ।
दत्वा वल्कलजं वासो वसूनां लोकम् आप्नुयात् ॥
समोचककदल्यादि दत्वा चैव तथाजिनम् ।
वारवाणम् उरस्त्राणं शिरस्त्राणं तथैव च ॥
पादत्राणं च ददतः पृथग्यज्ञ फलं लभेत् ।
वअस्त्रदानं पवित्रं तु पितॄणाम् अपि तारणम् ॥
कौसुम्भरक्तं दत्वा तु सौभागं महद् आप्नुयात् ।
दानात् कुङ्कुमरक्तस्य लावण्यं महद् आप्नुयात् ॥
[९०६] रङ्गैर् अन्यैश् च नीलैश् च रक्तं दत्वा सुखी भवेत् ।
यथा यथा तु वस्त्रस्य भवतीह महार्घता ॥
यथा यथा तु शुभता तथा पुण्यफलं महत् ।
अन्येषाम् एव दानानाम् एतद् एव प्रकीर्तितम् ॥
सर्वदो वस्त्रदः प्रोक्तो यतः सर्वत्र वस्त्रवान् ।
अवाप्नोति च दर्मज्ञाः तद् धि तस्माद् विशिष्यते ॥
वस्त्रदः सुचिरं कालं भुक्त्वा देवसुखं भुवि ।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥
मानुष्यम् आसाद्य भवत्य् अरोगः
शोचान्वितः सौख्यपरोपहीनः ।
जनाभिरामश् च तथा सुवेषः
पूज्यश् च लोके विदुषां सदैव ॥
इति वस्त्रदानम् ।
अथ शोचकीयात् ।
ईश्वर उवाच ।
वासोदानं प्रवक्ष्यामि मम प्रीतिविवर्धनम् ।
आयुरारोग्यदं नॄणां सौख्यहेतुकम् उत्तमम् ॥
वस्त्रयुग्मं सितं सूक्ष्मम् एकैकस्य प्रकल्पयेत् ।
एकादशानां विप्राणां रुद्रैकादशरूपिणाम् ॥
गन्धपुष्पैर् अलङ्कृत्य भोजयित्वा विधानतः ।
उक्तमन्त्रम् अथैतेभ्यस् तानिवस्त्रानि दापयेत् ॥
[९०७] प्रसीद तु भवो नित्यम् अस्माकं कृत्तिवासनः ।
वस्त्राण्य् अस्मत्प्रदत्तानि प्रतिगृह्णातु शङ्कर ॥
दत्तेषु वस्त्रेषु नरस् तन्तुभिर् गणिताः समाः ।
रुद्रतुल्यो बली भूत्वा रुद्रलोके महीयते ॥
एकादशरुद्रनामानि रुद्रैकादशतिलदाने द्रष्टव्यानि ।
इति रुद्रैकादशवस्त्रदानविधिः ।
अथ देवताभ्यो वस्त्रदानम् । आदित्यपुराणे ।
वह्नेर् वस्त्रप्रदानेन ब्रह्मलोकं प्रपद्यते ।
नन्दिपुराणे ।
वासांसि तु विचित्राणि सारवन्ति मृदूनि च ।
स्नापितानि शिवे दद्याद् द्विकोषानि नवाणि च ॥
यावत् तद्वस्त्रतन्तूनां परिमाणं विधीयते ।
तावद् वर्षसहस्राणि शिवलोके महीयते ॥
वाराहपुराणे ।
क्षौमाम्बराणि यो दद्यात् पत्तोर्णानि च चक्रिणे ।
कार्पासजानि वा भक्त्या दद्याद् वित्तानुसारतः ॥
तत्र वाससि यावन्तस् तन्तूनां परमाणव्ः ।
तावद् वर्षसहस्राणि स्वर्गलोके महीयते ॥
[९०८] भविषत्पुराणे ।
यो वस्त्रं भानवे दद्याद् अहतं च महाधनः ।
स हेलिलोकम् आसाद्य वन्द्यते त्रिदशैर् अपि ॥
देवीपुराणे ।
अण्डजैर् अण्डजैर् वापि वस्त्रैर् अभ्यर्च्य शैलजाम् ।
सम्भूज्याभरणैः शक्र चक्रवर्तित्वम् आप्नुयात् ॥
अथ शोकहरवस्त्रदानम् । तत्र वृद्धबौधायनः ।
विघ्नकर्ता च भक्ष्याणां शोकी भवति मानवः ।
तस्य कर्मविपाकोत्थं व्याधिनाशनम् उत्तमम् ॥
दानं वक्ष्याम्य् अशेषेण सर्वशोकविनाशनम् ।
क्षौमवस्त्रं समानीय बहुमूल्यं यद् अर्हति ॥
मुक्ताफलानि बध्नीयाद् वस्त्रप्रान्ते समन्ततः ।
कुङ्कुमेनाङ्कितं सम्यक् कर्पूरगुरुधूपितम् ॥
तण्डुलोपरि संस्थाआप्य तण्डुलांश् च स्वशक्तितः ।
उपचारैः षोडशभिर् आचार्यः पूजयेन् मुदा ।
युवं युवासुवासाभ्यां मन्त्राभ्यां पूजनं विदुः ॥
युवं वस्त्राणीत्य् एकः, युवासुवासा इत्य् अपरो मन्त्रः ।
[९०९] होमं चापि प्रकुर्वीत समिदाज्यतिलैर् अपि ।
उद्बुद्धस्व इदं विष्णुर् आपस्मिन् सप्त इत्य् अपि ॥
मन्त्रैः क्रमेण जुहुयात् स्विष्टकृच् च यदस्य च ॥
हुत्वा हुत्वा च सम्पानान् पात्रे सर्वान् निवेश्य तु ।
सङ्ख्या चाष्टोत्तरशतं च सर्वम् एव हि रोगिणः ॥
सम्पातेनाङ्गमज्जा च सर्वम् एव रोगिणः ।
अक्षिभ्याम् इति सूक्तेन यथा लिङ्गं तथैव च ॥
वाससां मार्जनं कुर्यान् मार्जयेद् दर्भपिञ्जलैः ।
आचार्यायाथ तद् वस्त्रं दद्याच् छोकी सदक्षिणम् ॥
मन्त्रेणानेन विधिवद् दक्षिणाभिमुखः शुचिः ।
ऋषीणां प्रवरो ऽगस्त्यो लोपामुद्रापतिः प्रभुः ।
क्षौमवस्त्रप्रदानेन तुष्टो व्याधिं व्यपोहतु ॥
दानमन्त्रः ।
ब्राह्मणेभ्यस् तथान्येभ्यो दद्याच् छक्त्या च दक्षिणाम् ।
ततः स्नातः शुचिर् भूतो वस्त्रमाल्योपशोभितः ।
ब्राह्मणैर् बन्धुभिः सार्धं भुञ्जीतातीव भक्तितः ॥
इति वस्त्रदानम् ।
अथोष्णीषदानम् । नन्दिपुराणे ।
[९१०] उष्णीषदायिनो मर्त्या जायन्ते मुकुटोज्वलाः ।
विस्तीर्णे राजवंशे तु सितछत्राग्र्यलक्षणाः ॥
विष्णुधर्मोत्तरे ।
उष्णीषाणि विचित्राणि यः प्रदद्याद् द्विजातिषु ।
रक्तानि वाथ श्वेतानि कौसुम्भान्य् अथ वा पुनः ॥
स सौन्दर्यं परं प्राप्य वनितावल्लभो भवेत् ।
सुकेशाः सुमुखा राजन् यस्माद् उष्णीषदायिनः ।
तस्मात् तेषां प्रदानेषु प्रयतस्व महाभुजः ॥
अथोर्णापटदानम् । आह काश्यपः ।
और्णं प्रावरणं यो ऽपि भक्त्या दद्याद् द्विजातये ।
सो ऽपि याति परां सिद्धिं मर्त्यैर् अन्यैः सुदुर्लभम् ॥
यस् त्व् अकिञ्चनवृत्तिभ्यस् तपस्विभ्यः प्रयच्छति ।
और्णप्रावरणं दिव्यं शीतवातातपापहम् ॥
निरस्तसर्वदुःखौघो जायते स महाधनी ॥
वह्निपुराणे ।
नवं सूक्ष्मं सुविपुलं यः प्रयच्छति कम्बलम् ।
शीतार्दिने द्विजेन्द्राय तेषां मार्गसुखप्रदः ॥
[९११] निष्किञ्चनेभ्यो दीनेभ्यः शीतवातमहातपैः ।
अर्दितेभ्यः करुणया वस्त्रम् और्णं ददाति यः ॥
न तस्य सुकृतं वक्तुं शक्यते त्रिदशैर् अपि ।
आधिव्याधिविनिर्मुक्तः सो ऽक्षयं सुखम् अश्नुते ॥
अथ शय्यादानम् । वेदव्यासः ।
सुगन्धिचित्रास्तरणोपपन्नं
दद्यान् नरो यः शयनं द्विजाय ।
रूपान्वितां पक्षवतीं मनोज्ञां
भार्याम् अयत्नोपचितां लभेत् सः ॥
अथ विष्णुसंहितायाम् ।
शय्यादानं च यो दद्यात् तस्यापि शृणु विस्तरम् ।
सर्वकालेषु दातव्यं तथा पुण्यदिनेषु च ॥
गददन्तैः प्रवालैर् वा सुवर्णरजतेन वा ।
कार्या गात्राणि पादाश् च वलभ्यश् च सदक्षिणाः ॥
अलाभे ऽपि च कर्तव्यास् तुल्यकाष्ठमयाः शुभाः ।
सन्ध्याम्रपटलाकारैर् आस्तीर्णास्तरणैः शुभैः ॥
शिरोधरैः सवितानैः प्राकारैर् वस्त्रसंयुतैः ।
मणिसौवर्णपात्रैश् च रौप्यैस् ताम्रैश् च संयुताम् ॥
[९१२] फलपुष्पैः सुगन्धैश् च ताम्बूलाद्यैः सुविस्तरैः ।
दर्पणैः पदत्राणैश् च नानाद्रव्यैर् विभूषणैः ॥
चतुष्कोणेषु संस्थाप्य यथाशक्ति युधिष्ठिर ।
घृतकुङ्कुमगोधूमपूर्णपात्रं जलस्य च ॥
शय्यां सम्पूजयित्वा तु मद्भक्तो मत्परायणः ।
कृताञ्जलिपुटो भूत्वा कुर्याच् छय्याप्रदक्षिणम् ॥
नमः प्रमाण्यै देव्येति प्रणम्य च चतुर्दिशम् ।
ब्राह्मणाय दरिद्राय श्रुताध्यायनशालिने (?) ॥
तथा प्रज्ञानविदुषे शय्यां दद्याद् विचक्षणः ।
तस्य दानस्य यत् पुण्यं विमानं कनकोज्वलम् ॥
नानारत्नसमाकीर्णं नानापुष्पसमन्वितम् ।
नानादिव्याप्सरःसेव्यं नानारत्नैः समावृतम् ॥
नानाद्रव्योपसंयुक्तं विमानम् अधिरोहति ।
तस्माद् इन्द्रपुरं गच्छेत् सेव्यमानो ऽप्सरोगणैः ॥
षष्टिर् वर्षसहस्राणि क्रीडयित्वा यथासुखम् ।
इन्द्रलोकात् परिभ्रष्ट इह लोके नृपो भवेत् ॥
षष्टियोजनविस्तीर्णे स्वामी भवति मण्डले ।
धर्मज्ञो जिइतभृत्यश् च तेजस्वी रूप्वांस् तथा ॥
महाभारते ।
शय्याम् आस्तरणोपेतां सुप्रच्छादनसंवृताम् ।
प्रदद्याद् यद् तु विप्राय शृणु तस्यापि यत् फलम् ॥
सुरूपः सुभगः स्त्रीमाम् (?) स्त्रीसहस्राभिसंवृतः ।
[९१३] दशवर्षसहस्राणि स्वर्गलोके महीयते ॥
भविषोत्तरे ।
शय्यादानं प्रवक्ष्यामि तव पाण्डुकुलोद्वह ।
यां दत्वा शिवभागी स्याद् इह लोके परत्र च ॥
शय्यादानं प्रशंसन्ति सर्वदैव द्विजोत्तमाः ।
अनित्यं जीवितं यस्मात् पश्चात् को ऽन्यः प्रदास्यति ॥
तावत् स बन्धुः स पिता यावज् जीवति भारत ।
मृतोमृत इति ज्ञात्वा क्षणात् स्नेहो निवर्तते ॥
तस्मात् स्वयं प्रदातव्यं शय्याभोज्यजलादिकम् ।
आत्मैव चात्मनो बन्धुर् इति सञ्चिन्त्य चेतसि ॥
आत्मैव यदि नात्मानं दानभोगैर् न पूजयेत् ।
को ऽन्यो हिततरस् तस्माद् यः पश्चात् पूजयिष्यति ॥
तस्माच् छय्यां समासाद्य सालदारुमयीं दृढाम् ।
दन्तपत्रचितां रम्यां हेमपट्टैर् अलङ्कृताम् ॥
हंसतूलीप्रतिच्छन्नां धूपगन्धादिवासिताम् ।
तस्यां संस्थापयेद् धेमं हरिं लक्ष्म्या समन्वितम् ।
उच्छीर्षके घृतभृतं कलशं परिकल्पयेत् ॥
लक्ष्मीनारायणरूपं तु, देवतादानप्रकरणस्थितलक्ष्मीनारायणदाने द्रष्टव्यम् ।
विज्ञेयः पाण्डवश्रेष्ठ सनिद्राकलशो बुधैः ।
ताम्बूलकुङ्कुमाक्षोदकर्पूरगुरुचन्दनम् ॥
[९१४] दीपिकोपानहछत्रं चामरासनभाजनम् ।
पार्श्वेषु स्थापयेद् भक्त्या सप्तधान्यानि चैव हि ॥
शयनस्थस्य भवति यद् अन्यद् उपकारकम् ।
भृङ्गारकरकाद्यं तु पञ्चवर्णविनाशकम् ॥
शय्याम् एवंविधां कृत्वा ब्राह्मणायोपपादयेत् ।
सपत्नीकाय सम्पूज्य पुण्ये ऽह्नि विधिपूर्वकम् ॥
यथा न कृष्णशयनं शून्यं सागरजातया ।
शय्या ममाप्य् अशून्यास् तु तथा जन्मनि जन्मनि ॥
यस्माद् अशून्यं शयनं केशवस्य शिवस्य च ।
शय्या ममाप्य् अशून्यास् तु तथा जन्मनि जन्मनि ॥
दत्वैवं तल्पम् अमलं प्रणिपत्य विसर्जयेत् ।
एवं शय्याप्रदाने तु विधिर् एष प्रकीर्तितः ॥
स्वर्गे पुरन्दरगृहे सूर्यपुत्रालये तथा ।
सुखं वसत्य् असौ जन्तुः शय्यादानप्रभावतः ॥
सूर्यपुत्रालये चैव तथा वैवस्वते पुरे ।
पीडयन्ति न तं याम्याः पुरुषा भीषणाननाः ॥
न घर्मेण न शीतेन बाध्यते स नरः क्वचित् ।
अपि पापसमायुक्तः स्वर्गलोकं स गच्छति ॥
विमानवरम् आरूढः सेव्यमानो ऽप्सरोगणैः ।
आहूतसम्प्लवं यावत् तिष्ठेत् पातकवर्जितः ॥
शय्याप्रदानम् अमलं तव पाण्डुपुत्र
सङ्कीर्तितं सकलसौख्यविधानभूतम् ।
यो वै ददाति विधिवत् स्वयम् एव नाके
कल्पं विकल्परहितः स विभाति मर्त्यः ॥
अथ शिवशय्यादानम् । शिवधर्मात् ।
हंसतूलीसमायुक्तां मृद्वीखट्वाम् अलङ्कृताम् ।
सर्वोपकरणोपेतां शिवशय्यां निवेदयेत् ।
शिवं देवीसमायुक्तं प्रौष्टं कृत्वा निवेदयेत् ॥
शिवदेवीरूपं तु देवतादानप्रकरणस्थित-उमामहेश्वरदाने द्रष्टव्यम् ।
शिवज्ञानार्थतत्त्वज्ञे आचार्ये च दयान्विते ।
सम्पूज्य गन्धपुष्पाद्यैर् वस्त्रालङ्कारचामरैः ॥
भक्ष्यभोज्यैर् अशेषैश् च ततः शय्यां निवेदयेत् ।
तदूर्णातूलीवस्त्राणां परिसङ्ख्या तु यावती ।
तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥
सूर्यशय्यादानम् । भविष्यत्पुराणे ।
हंसतूलीसमायुक्तां मृदुखट्वां सुकल्पिताम् ।
सर्वोपकरणैर् युक्तां सूर्यशय्यां प्रकल्पयेत् ॥
राज्ञिदेवीसमायुक्तां ततः शय्यां निवेदयेत् ।
सौरज्ञानार्थतत्त्वज्ञम् आचार्यं तु दयान्वितम् ॥
[९१६] सम्पूज्य पुष्पगन्धाद्यैर् वस्त्रालङ्कारचामरैः ।
भक्ष्यभोज्यैस् तथा पेयैर् अनेकरससंयुतैः ॥
राज्ञीरूपम् उक्तं विश्वकर्मणा ।
राज्ञी च द्विभुजा कार्या हरिणी च किरीटिनी ।
वरदं च निजे पाणौ बिभ्रती पङ्कजस्हिता ॥ इति ।
तद् ऊर्णातूलवस्त्राणां परिसङ्ख्या तु यावती ।
तावद्युगसहस्राणि सूर्यलोके महीयते ॥
सौरादिसर्वलोकेषु भुक्त्वा भोगान् अशेषतः ।
क्रमाद् आगत्य लोके ऽस्मिन् राजा भवति भूतले ॥
अथासनदानम् । लिङ्गपुराणे ।
आसनं शयनं चैव यो ददाति यशस्विने ।
समं सर्वेषु भूतेषु तस्य दुःखं न विद्यते ॥
स्कन्दपुराणे ।
आसनं यः प्रयच्छेत संवीतं ब्राह्मणाय वै ।
स्वाराज्यं स्थानम् आप्नोति तेजस्वी विगतज्वरः ॥
आदित्यपुराणे ।
सुगन्धचित्राभरणोपशोभितं
यस् त्व् आसनं वेदविदे प्रदद्यात् ।
[९१७] ग्रामाधिपत्यं लभते स शीघ्रं
कुले महत्त्वं स लभेत् समग्रम् ॥
विष्णुः ।
आसनं दानस्य स्थानम् । इति ।
फलम् इति शेषः ।
अथ दर्पणदानम् । मार्कण्डेयपुराणे ।
दर्पणं यो नरो दद्यान् निर्मलं च द्विजातये ।
स चन्द्रलोकम् आसाद्य मोदते शरदां शतम् ॥
नन्दिप्रोक्ते ।
शिवस्य पुरतो दद्याद् दर्पणं चारु निर्मलम् ।
पर्यन्तशोभितं कृत्वा श्वेतमाल्यैः सचन्दनैः ॥
चन्द्रांशुनिर्मलः श्रीमान् सुभगः कामरूपधृक् ।
कल्पायुतसहस्राणि रुद्रलोके महीयते ॥
ब्रह्मपुराणे ।
चन्द्रमण्डलसङ्काशं नक्षत्रे विष्णुदैवते ।
द्वादश्यां पुण्यकाले वा विष्णुं सम्पूज्य भक्तितः ॥
दर्पणं यो नरो दद्यात् स्रक्चन्दनविभूषितम् ।
रूपवान् सुभगः श्रीमान् ज्ञानवान् जायते नरः ॥
[९१८]
अथ व्यजनदानम् । भविष्यत्पुराणे ।
तालवृन्तं द्विजेभ्यस् तु यः प्रयच्छति भक्तितः ।
स दिव्यभोगसंयोगम् अरोगः सर्वदाश्नुते ॥
महातपपरिश्रान्तिधर्मनिर्मूलनक्षमम् ।
न तालवृन्तपवनाद् अपरं नृपरञ्जनम् ॥
परं रम्भोरुसम्भोगसम्भवं स्वेदमेदुरम् ।
हर्तुं श्रमं समर्थेत नान्यद् व्यजनवीजनात् ॥
अतः सदा मुदायुक्तस् तालवृन्तं द्विजातये ।
दद्याद् अवद्यनिर्मुक्तमुक्तिसम्भुक्तिहेतवे ॥
महाभारेअते ।
यो ददाति द्विजाग्र्येभ्यो व्यजनं जननन्दनम् ।
स नन्दनवनामोदमोदमानमना दिवि ॥
वसेद् अशेषकल्पान् तर्पयन्तम् अपकल्मषः ॥
विष्णुधर्मोत्तरे ।
प्रदाय व्यजनं वांशं वंशे महति जायते ।
चार्मणं कर्मणां सिद्धिं दत्वा व्यजनम् अश्नुते ॥
तथैव दत्ते मायूरे नायुर् एतस्य हीयते ।
पात्रेण पुत्रताम् एति वास्त्रेण स्त्रैणवज्ञभः ॥
व्यजनेनेह दत्तेन तस्मात् तं प्रतिपादयेत् ॥
[९१९]
अथ चामरदानम् । महाभारते ।
यस् तु भक्त्या द्विजाग्र्येभ्यो दद्याच् चारमम् उज्ज्वलम् ।
स भूपत्यम् अवाप्नोति निःशेषावनिमण्डले ॥
वायुपुराणे ।
चामरं चामरेशाय यः शिवाय निवेदयेत् ।
स सर्वकामसम्पूर्णः स्वर्णशैलतले वसेत् ॥
मायूरं चामरं यो ऽपि शिवाय विनिवेदयेत् ।
स विमानवरारूढो वीज्यते ऽप्सरसां गणैः ॥
पद्मपुराणे ।
प्रदाय चामरवरं श्रद्धया विष्णवे नरः ।
परं पदम् अवाप्नोति यत् सुरैर् अपि दुर्लभम् ॥
एतत्सर्वोपचारेभ्यो देवदेवस्य वल्लभम् ॥
वितानदानम् । कालिकापुराणे ।
चन्द्रोदयं सुवीस्तीर्ण्ं (?) वर्णकैश् चित्रितं तथा ।
प्रलम्बिमुक्तास्तवकैः शोभिनं रत्नसङ्गलम् ॥
[९२०] सुरक्तपट्टसूत्रादिबन्धसम्बन्धवन्धुरम् ।
सर्वतोभद्रमुख्यानां मण्डलानां विभक्तिभिः ॥
विराजितं तथा चित्रपत्रवल्लीसमाकुलम् ।
यक्षराक्षसगन्धर्वकिन्नरद्वन्द्वमूर्थिभिः ॥
लिखिताभिश् च परितो महाविस्मयकारकम् ।
एवंविधं वितानं यो विधायाथ द्विजन्मने ॥
शिवाय विष्णवे वाथ पुण्ये ऽह्नि प्रतिपादयेत् ।
स समुद्धरते नूनम् आत्मनः पूर्वपूरुषान् ॥
स्वयं शिवपुरे रम्ये भोगान् भुक्त्वा मनोरमान् ।
क्रमाद् आगत्य लोके ऽस्मिन् सुखी ज्ञानी धनी भवेत् ॥
पद्मपुराणे ।
चन्द्रोदयं तु यो भक्त्या प्रयच्छति स पुण्यधीः ।
न तस्य श्रेयसाम् अन्तः कदाचिद् अपि जायते ॥
अथ गन्धदानम् । संवर्तः ।
गन्धान् आभरणाद्यं च यः प्रय्च्छति धर्मवित् ।
स सुगन्धामोदयुक्तो यत्र तत्रापि जायते ॥
स्कन्दपुराणे ।
नरः सुगन्धदेहत्वं गन्धदानाद् अवाप्नुयात् ।
भोगवान् जायते नित्यं शरीरं नास्य तप्यति ॥
[९२१] पद्मपुराणे ।
अनुलेपनगन्धानां प्रदानेन हि मानवः ।
न कदाचिन् मनोदाहं देहे वा दाहम् अश्नुते ।
सुगअन्धधूपदानेन लोकम् अप्सरसां व्रजेत् ॥
विष्णुधर्मोत्तरे ।
अनुलेपनदानेन रूपवान् अभिजायते ।
नरश् चन्दनदानेन सर्वपापैः प्रमुच्यते ॥
सौभाग्यकारकं प्रोक्तं प्रदानं कुङ्कुमस्य तु ।
तथा कर्पूरदानेन सर्वान् कामान् अवाप्नुयात् ॥
मृगदर्पप्रदानेन यशसा भुवि राजते ।
यक्षकर्दमदानेन साम्राज्यं प्राज्यम् अश्नुते ॥
अथ ताम्बूलदानम् । भविष्यत्पुराणे ।
ताम्बूलं यो नरो दद्यात् प्रत्यहं नियमान्वितः ।
देवेभ्यो ऽथ द्विजातिभ्यो महाभाग्यं समश्नुते ॥
इह संसारिणां लोके मनुष्यत्वं सुदुर्लभम् ।
ताम्बूलदानात् तन् नॄणाम् अन्यायासेन जायते ॥
ब्रह्माण्डपुराणे ।
ताम्बूलम् उज्ज्वलं दद्याद् यो विप्रेभ्यः समाहितः ।
[९२२] शिवाय केशवायाथ नाकलोके स पूज्यते ॥
विष्णुधर्मोत्तरे ।
ताम्बूलस्य प्रदानेन सौभाग्यम् अपि विन्दते ।
दत्वा जातीफलं विप्राः सफलां विन्दति क्रियाम् ।
मुखवासप्रदानेन मुखसौगन्ध्यम् आप्नुयात् ॥
अथे पुष्पदानम् । महाभारते ।
मनो ह्लादयते यस्माच् छ्रियं चापि ददाति यः ।
तस्मात् सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः ॥
देवताभ्यः सुमनसो यो ददाति नरः शुचिः ।
सर्वकामान् अवाप्नोति प्रेत्य स्वर्गे महीयते ॥
तस्मात् सुमनसः प्रोक्ता यस्मात् तुष्यन्ति देवताः ।
यं यम् उद्दिश्य दीयेरन् देवे सुमनसः प्रभो ॥
मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप ॥
नन्दिपुराणे ।
धूपदः सुरभिर् नित्यं पुष्पदः सुभगः सदा ।
तस्माद् देवाय विप्राय दातव्यं तत् सुखार्थिभिः ॥
लिङ्गपुराणे ।
पुष्टिर् भवेत् सदाकालं प्रदानाद् गन्धमाल्ययोः ।
[९२३] यमः ।
देवतापुष्पदानेन जायते श्रीसमन्वितः ।
ऊर्ध्वां गतिम् अवाप्नोति यश् च धूपप्रदो नरः ॥
विश्वामित्रः ।
देयाः सुमनसो नित्यं नरैः पुन्यफलार्थिभिः ।
किम् अस्ति दैवतं तादृक् यत् पुष्पैर् न हि तुष्यति ॥
अथ गीतादिदानम् । नन्दिपुराणे ।
यो गीतवाद्यं दद्यात् तु ब्राह्मणाय सुबुद्धिमान् ।
स गन्धर्वपुरे गच्छेद् वसेत् तत्र युगत्रयम् ॥
स्कन्दपुराणे ।
गायन् याति पिबन् याति खादन् याति गृहं यथा ।
यो भोजनस्य वेलायां विप्राणां गेयम् आचरेत् ॥
विष्णुधर्मोत्तरे ।
देवतायतने यस् तु ब्राह्मणानां गृहेषु वा ।
गायन् गीतं सुमधुरं गन्धर्वाणां पुरे वसेत् ॥
आतोद्यविद्यया राजन् प्रीणयन् द्विजदेवताः ।
स स्वर्गलोकम् आसाद्य देवताद्यैर् विनोद्यते ॥
देवताग्रे द्विजाग्रे वा यो नित्यं नृत्यम् आचरेत् ।
विनोदयन्ति तं स्वर्गे नित्यम् अप्सरसां गणाः ॥
[९२४] यो गीतवाद्यनृत्यानि मूल्यं दत्वा तु कारयेत् ।
स शक्रभवने तिष्ठेद् यावद् आहूतसम्प्लवम् ॥
यो वापि मुखवाद्येन विनोदयति देवताम् ।
स धौतकल्मषमलः स्वर्गं यात् न संशयः ॥
वचनेन प्रियेणाथ यः स्तौति गुणिनो गुणान्म् ।
स्वीयैः परकृतैर् वापि य स्तोत्रैः स्तौति देवताम् ॥
तस्य पुण्यवतः पुण्यम् अगण्यं केन गण्यते ॥
अथ छत्रोपनहदानम् । बृहस्पतिः ।
असिपत्रवनं मार्गं क्षुरधारासमन्वितम् ।
तीक्ष्णातपं च तरति छत्रोपनत्प्रदो नरः ॥
आदित्यपुराणे ।
निदाघकाले वर्षायां घत्रं यः सम्प्रयच्छति ।
नास्य कश्चिन् मनोदाहः कदाचिद् अपि जायते ॥
महाभारते ।
उपानहौ प्रयत्नाद् यो ब्राह्मणेभ्यः प्रयच्छति ।
मर्दते कण्टकान् सर्वान् विषमान् सन्तरर्य् अपि ॥
शकटं दम्यसंयुक्तं दत्तं भवति तेन वै ।
यानं चाश्वतरीयुक्तं तस्य स्वर्गे विशाम्यते ॥
[९२५] उपतिष्ठन्ति कौन्तेय रौप्यकाञ्चनशोभनम् ।
ब्राह्मणाय सुशीलाय यो दद्यात् काष्ठपादुके ।
स वाहनेन दिव्येन दिवं गच्छति भोगवान् ॥
सूर्यकरसन्तप्तरेणुकादर्शनकोपितस्य जमदग्नेः सूर्येण सह संवादे —
सूर्य उवाच ।
महर्षे शिरसस् त्राणं छत्रं मद्रश्मिवारणम् ।
प्रतिगृह्णीष्व पद्भ्यां च त्राणं त्वं चर्मपादुके ॥
अद्य प्रभृति चैवैतल्लोकेषु प्रचरिष्यति ।
पुण्यकेषु च कालेषु परमक्षयम् एव च ॥
उपानच्छत्रम् एतद् वै भूर्येणेह प्रवर्तितुम् ।
पुण्यम् एतत् तु विख्यातं त्रिषु लोकेषु भारत ॥
तस्मात् प्रयच्छ विप्रेभ्यश् छत्रोपानहम् उत्तमम् ।
धर्मस् ते सुमहान् भावी न मे त्रास्ति विचारणा ॥
छत्रं हि पुरुषव्याघ्र यः प्रदद्याद् द्विजातेये ।
शुभ्रं शतशलाकं वै स प्रेत्य सुखम् एधते ॥
शक्रलोके स वसते पूज्यमानो द्विजातिभिः ।
अप्सरोभिश् च सततं देवैश् च भरतर्षभ ॥
दह्यमानाय विप्राय यः प्रयच्छत्य् उपानहौ ।
स्नातकाय महाबाहो संशिताय द्विजातये ॥
सो ऽपि लोकान् अवाप्नोति देवतैर् अपि पूजितान् ।
गोलोके वसते कल्पअं प्रतिस्वअर्गे तु भारत ॥
[९२६] एतत् ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम् ।
छत्रोपानहदानस्य फलं भरतसत्तम ॥
वह्निपुराणे ।
घर्मवर्षातपत्राणं छत्रं दद्याद् द्विजातये ।
सर्वव्याधिविनिर्मुक्तः श्रियं पुत्रांश् च विन्दति ॥
विमानेन च दिव्येन किङ्करणीजालमालिना ।
महेन्द्रभवनं याति सेव्यमानो ऽप्सरोगणैः ॥
दह्यमानाय विप्राय यः प्रयच्छत्य् उपानहौ ।
न तस्य मनसो दाहः कदाचिद् अपि जायते ॥
यानम् अश्वतरीयुक्तं तस्य हेममयं शुभम् ।
उपतिष्ठति विप्रर्षे सर्वरत्नविभूषितम् ॥
लिङ्गपुराणे ।
वर्षासु छत्रदानेन तथा ग्रीष्मे च नारद ।
सर्वाह्णाद् अयुतास् ते स्युः सर्वकामैश् च संयुताः ॥
पुत्रान् श्रियं च लभते यश् छत्रं सम्प्रयच्छति ।
चक्षुर्व्याधिं न लभते यज्ञभागम् अथाश्नुते ॥
कृच्छ्राच् च विषमाच् चैव स च मोक्षम् अवाप्नुयात् ।
एवम् आह महाभागः शाण्डिल्यो भगवान् ऋषिः ॥
कात्यायनः ।
वातवर्षातपत्राणं छत्रं दद्याद् द्विजातये ।
[९२७] स सर्वव्याधिरहितः श्रियं पुत्रांश् च विन्दति ॥
देवलः ।
छत्रदश् छायया याति यानेनोपनहप्रदः ।
यमः ।
छत्रदो गृहम् आप्नोति गृहदो नगरं तथा ।
जमदग्निः ।
दह्यमानाय विप्राय यः प्रयच्छत्य् उपानहौ ।
स्नातकाय महाबाहो संशिताय द्विजातये ॥
सो ऽपि लोकान् अवाप्नोति दैवतैर् अपि पूज्यते ।
गोलोके स मुदायुक्तो वसत्य् अपि हि भारत ॥
अत्रिः ।
श्राद्धकालेषु यो दद्याद् भोजनं च उपानहौ ।
तस्य वै विपुलं पुण्यम् अश्वदानफलं लबेत् ॥
स्कन्दपुराणे ।
यः प्रयच्छेद् द्विजेन्द्राय उपानत्काष्ठपादुके ।
स वराश्वेन महता सुखं याति ममालयम् ॥
अथ पात्रदानम् । स्कन्दपुराणे ।
भाजनं यः प्रयच्छेत् तु हैमं रत्नविभूषितम् ।
[९२८] सो ऽप्सरःशतसङ्कीर्णविमाने दिवि मोदते ॥
राजतं यः प्रयच्छेत् तु विप्रेभ्यो भाजनं शुभम् ।
स गन्धर्वपदं पाप्य उर्वश्या सह मोदते ॥
ताम्रं यो भाजनं दद्याद् ब्राह्मणेभ्यो विशेषतः ।
स भवेद् यक्षराजस्य प्रभुर् व्यलसमन्वितः ॥
विष्णुधर्मोत्तरे ।
तेजसानि तु पात्राणि दत्वा सुनवणानि च ।
पात्रम् एति च कामानां लावण्यं चाप्नुयान् महत् ॥
तैजसानि तु पात्राणि सतैलानि प्रयच्छतः ।
आरोग्यम् उत्तअमं प्रोक्तं लावण्यम् अपि चोत्तमम् ॥
तैजसानि तु पात्राणि सघृताणि प्रयच्छतः ।
आरोग्यम् उत्तमं प्रोक्तं स्वर्गे वासस् तथा द्विजाः ॥
तैजसानि तु पात्राणि समअधूनि प्रयच्छतः ।
लावण्यम् उत्तमं प्रोक्तं सौभाग्यम् अपि चोत्तमम् ॥
अथ रूक्मादिपात्रदानम् । कालिकापुराणे ।
रौक्मं क्षीरान्वितं पात्रं दधिपूर्णं च राजतम् ।
मौक्तिकानां शतं यो ऽथ व्स्त्रयुग्मं निवेशयेत् ॥
ततः पुण्याहवाद्येन जयशब्दादिमङ्गलैः ।
हरिं चैवार्चयेद् यत्नात् स्थाप्य सौव्र्णपङ्कजे ॥
विष्णुरूपम् उक्तं तु तुलापुरुषदाने ।
[९२९] ततस् तत् पात्रम् आदाय वाद्यब्रह्मस्वनैः स्वयम् ।
कुर्यात् प्रदक्षिणं तस्मै विष्णवे प्रभविष्णवे ॥
ततश् चामन्त्र्य विधिवत् पूजयेत् तु विशेषतः ।
एवं विप्रं तु सम्पूज्य प्रणम्य च क्षमापयेत् ॥
ब्राह्मणान् अपरान् भोज्य दक्ष्ययेच् चैव काञ्चनम् ।
व्रतिनश् चान्नदानेन वस्त्राद्यैः पूज्य तर्पयेत् ॥
दीनान्धकृपणानाआं च अनिवार्यौदनं ददेत् ।
उपोष्यैकादशीं शुक्लां माघमासे तु पूर्णिमाम् ॥
कुर्याद् विधिम् इमं सम्यक् स हरेस् तु व्रजेत् पदम् ।
उपहसन्ति यो देवान् ब्राह्मणांश् च तपस्विनः ॥
पात्ररूपव्रतं चेदं न देयं तेषु कर्हिचित् ।
बुद्धिरूपप्रदं चायुर्धनसौभाग्यसम्प्रदा ॥
पुत्रदं सुखदं चैव विधिना चरितं त्व् इदम् ।
व्रतस्यास्य प्रवक्तारं शमयुक्तं गुणान्वितम् ॥
पूजयेद् भूतिकामार्थं पादुकावस्त्रकाञ्चनैः ।
रौक्यम् आज्ययुतं चाथ पात्रं नीलमणीयुतम् ॥
अभावे तु तथा हेम्नः कर्षार्धेनाम्बरार्चितम् ॥
नीलमणेर् अभावे कर्षार्धमात्रेण हेम्ना भूषितमध्यभागं विधेयम् ।
वस्त्रयुग्मं नवं सूक्ष्मं पुष्पप्रकरचर्चितम् ।
आनीय तत्र तत् पात्रं शुचौ देशे निवेशयेत् ॥
ततो जागरणं कुर्याद् गीतवाद्यादिमङ्गलैः ।
प्रभाते तन् नयेत् पात्रं हरेर् आयतनं महत् ॥
[९३०] स्नाप्य क्षीरादिभिर् देवम् विष्णुं सम्पूज्य चैव तु ।
निवेदयेत् तु तत् पात्रं प्रीयताम् इत्य् उदीरयेत् ॥
ततो नानाविधैर् भक्ष्यैः सुगन्धेनौदनेन च ।
दधिखण्डाद्ययुक् दत्वा नैवेद्यं च बलिं हरेत् ॥
ततो नत्वा गृहं गच्छेद् गत्वा च प्रणमेत् पुनः ।
प्रणम्य भोजयेद् भक्त्या व्रतिनश् च द्विजैः सह ॥
दीनान्धकृपणानां च सर्वेषाम् अनिवारितम् ।
आचार्यअं हेमवस्त्राद्यैर् दक्षयेद् विधिवत् तदा ॥
यथा शक्त्यापराण् चैव दीर्घम् आयुर् जिजीविषुः ।
एतत् पात्रव्रतं ज्ञेयं गुह्यं चात्र प्रकाशितम् ॥
न देयं दुष्टयुद्धीनां द्विषतां पापकर्मणाम् ।
वैष्णवे शिवभक्ते तु सौरे भागवते सदा ॥
देयम् एतद् विधानेन आयुर्धनविवृद्धये ।
ये द्विषन्ति नरा मूढा विष्णुं वाथ वृषध्वजम् ॥
ते नूनं विष्णुभक्तास् ते विष्णुं चैव हरन्ति ये ।
अनेनापि व्रतेनैव प्राप्य तत् पदम् उत्तमम् ॥
मोदते सुचिरं कालम् आयुष्मान् धनवान् इह ॥
अथ भाण्डदानम् । वशिष्ठः ।
दाता ताम्रस्य भाण्डानां रत्नानां भाजनं भवेत् ।
लिङ्गपुराणे ।
[९३१] ताम्रायसानां भाण्डानां दाता यक्षाधिपो भवेत् ।
लभते च परं स्थानं युज्यते च महाश्रिया ॥
ब्रह्मपुराणे ।
औदुम्बराणि भाण्डानि यो दद्याद् आयसानि वा ।
महतीम् ऋद्धिम् आप्नोति दुर्लभां त्रिदशैर् अपि ॥
वायुपुराणे ।
स्वर्णरूप्यमयं भाण्डं देवतार्थे ददाति यः ।
कुबेरलोकम् आसाद्य मोदते बहुवत्सरान् ॥
अथापाकदानम् । भविष्योत्तरात् ।
युधिष्ठिर उवाच ।
तन् मे कथय देवेश येन दत्तेन मानवाः ।
बहुपुत्रो बहुधनो बहुभृत्यश् च जायते ॥
श्रीभगवान् उवाच ।
पुरा बारतवर्षे ऽस्मिन् राजासीद् बभ्रुवाहनः ।
पितृपैतामहं तेन राज्यं प्राप्तम् अकण्टकम् ॥
न तस्य देशे विद्वांसो न च वैरिभवं भयम् ।
शरीरो तथा महाव्याधिः न चैवान्तरदायकः ॥
तस्यैवं कुर्वतो राज्यं पूर्वकर्मार्जितं शुभम् ।
[९३२] नास्ति भृत्यो भारसः सर्वराज्यधुरन्धरः ॥
न पुत्रः प्रियकृत् कश्चिन् न मन्त्री मधुराक्षरः ।
न मित्रं कार्यकरणे समर्थो न सुहृत् तथा ॥
न भोज्यसमये प्राप्ते भोजनं सार्वकामिकम् ।
न पत्रफलसंयुक्तं नाम्बलं वसनं न च ॥
न धनं जनसम्बन्धं कारितो रत्नसञ्चयः ।
तस्यैवं कुर्वतो राज्यम् अव्याहतिविचेष्टितम् ॥
अथैकस्मिन् दिने विप्रः पिप्पलादो ऽतिविश्रुतः ।
आजगाम महायोगी राज्ञः पार्श्वं महामतिः ॥
तम् आगतं मुनिं दृष्ट्वा राज्ञो राज्ञी शुभावती ।
पाद्यार्घासनदानेन सर्वथा तम् अपूजयेत् ॥
तत्कथान्ते च कस्मिंश् चित् तम् उवाच शुभावती ।
भगवन् राज्यम् एतन् मे सर्वबाधाविवर्जितम् ॥
कस्मान् च भृत्याः पुत्रा वा मन्त्रिमित्रादिकं द्विज ।
भोगावाप्तिर् न च तथा सर्वकालातिसायिनी ॥
पिप्पलाद उवाच ।
यद् येन पूर्वविहितं तद् असौ प्राप्नुते फलम् ।
कर्मभूमिर् इयं राज्ञि नातः शोचितुम् अर्हसि ॥
न तत् कुर्वन्ति राजानो दायादा न च शत्रवः ।
न बान्धवा न मित्राणि यद् येन च पुरा कृतम् ॥
तस्माद् भवद्भिर् यद् दत्तं प्राप्तं तद् राज्यम् उत्तमम् ।
भृत्यमित्रादिसम्बन्धो न दत्तः प्राप्यते कुतः ॥
[९३३] शुभावत्य् उवाच ।
इदानीम् अपि विप्रर्षे कस्मात् तन् नोपदिश्यते ।
तेन मे बहवः पुत्राआ धनं भृत्यः भवन्ति च ॥
मित्रं वा बन्धुयोगो वा व्रतं दानम् उपोषितम् ।
कथयस्वामलमते येन सम्पद्यते सुखम् ॥
ततः स कथयामास पिप्पलादो द्विजोत्तमः ।
आपाकाख्यं महादानं सर्वसम्पत्प्रदायकम् ॥
श्रद्धया कुरुशार्दूल नारी वाप्य् अथ वा पुमान् ।
येन दत्तेन भाग्यानां बहूनां भाजनं भवेत् ॥
ततः श्रुत्वा ददौ राजा आपाकं दनम् उत्तमम् ।
लभेत् पुत्रान् बहून् भृत्यान् मन्त्रिमित्रं सुहृज्जनम् ॥
श्रीभगवान् उवाच ।
आपाकाख्यं महादानं कथयामि युधिष्ठिर ।
दत्तेन येन कामानां पुत्रा भवति भाजनम् ॥
ग्रहताराबलं लब्ध्वा कुम्भकारं च पूजयेत् ।
वासोभिर् भूषणैश् चैव पुष्पैश् चागुरुचन्दनैः ॥
ब्रूयात् तथेदं सामान्यं यथा तुष्टो ऽभिजायते ।
त्वं मे भाण्डानि चित्राणि गुरूणि च लघूनि च ॥
मणिकादीनि शुभ्राणि स्थाल्यश् च सुमनोहराः ।
घटकान् करकांश् चैव प्रणीताः कुण्डकानि च ॥
शरावादीनि पात्राणि भाण्डान्य् उच्चावचानि च ।
अलिञ्जराः प्रतिघटाम् अन्यनीकटहानि च ॥
[९३४] एवम् अन्यच् च यत् किञ्चिद् उपभोग्यं भवेद् गृहे ।
सम्पादय मअहाभाग विश्वकर्मा त्वम् एव हि ॥
भार्गवो ऽपि प्रयत्नेन भाण्डौघैर् अन्वितं शुभम् ।
आपाकं कल्पयेद् एवं विधिदृष्टेन कर्मणा ॥
सहस्रम् एकं भाण्डानां स्थापयित्वा विचक्षणः ।
सन्ध्याकाले मथित्वा तु हुत्वा वापि हुताशनम् ॥
रात्रौ जागरणं कुर्याद् गीतमङ्गलनिःस्वनैः ।
ततः प्रभाते विमले स्नात्वा निर्वापितं शतैः ॥
रक्तवस्त्रैः समासाद्य पुष्पमालाभिर् अर्चयेत् ।
यजमानस् ततः स्नात्वा शुक्लाम्बरधरः शुचिः ॥
हैमरौप्यानि भाण्डानि ताम्रलोहमयानि च ।
परितः स्थापयित्वा च स्वशक्त्या टनि षोडश ॥
तानि चत्वारि चत्वारि न्यसेत् पूर्वादिदिक्क्रमात् ।
पूजयित्वा प्रयत्नेन कृत्वा वापि प्रयत्नतः ॥
नार्यश् चाविध्वास् तत्र समानीय प्रपूजयेत् ।
प्रदक्षिणं ततः कृत्वा मन्त्रेणानेन पूजयेत् ॥
आपाकब्रह्मस्वरूपो ऽसि भाण्डानीमानि जन्तवः ।
प्रजानां ते प्रजापुष्टिः स्वर्गश् चास्तु ममाक्षयः ॥
भाण्डरूपाणि यान्य् अत्र कल्पितानि मया किल ।
भूत्वा सत्त्वानुरूपाणि उपनिष्टं तु तानि वः ॥
[९३५] अत्रेदं दानवाक्यम् ।
ॐ अद्य इमम् आपाकं नानाभाण्डरचितं विष्णुदैवतं नानाजनेभ्यः सौभाग्यावैदव्यसर्वगुणोपेतगृहप्राप्तिपुत्रपौत्रादिसन्ततिस्वाम्ययोग्य-सदामुखकामो ऽहम् उत्सृजामीति ।
यो ह्य् अर्थी येन भाण्डेन तत् तस्य प्रतिपादयेत् ।
स्वेच्छया चैव गृह्नन्तु न निवार्यस् तु कश्चन ॥
अनेन विधिना यस् तु दानम् एतत् प्रयच्छति ।
विश्वकर्मा भवेत् तुष्टस् तस्य जन्मत्रयं नृप ॥
नारी च दत्वा सौभाग्यम् अतुलं प्रतिपद्यते ।
गृहं सर्वगुणोपेतं भृत्यमित्रजनैर् वृतम् ॥
अवियोगं सदा भर्त्रा रूपं चानुत्तमं लभेत् ।
प्रदानम् एतन् निर्दिष्टं प्रकारेण तवानघ ॥
भिद्यते बहुभिर् भेदैर् भूमिर् एष नरोत्तम ॥
निष्पाद्य भाण्डनिचयप्रवरं प्रयत्नाद्
आपाकदानम् इह या कुरुते वरस्त्री ।
सा पुत्रपौत्रपशुवृद्धिसुखानि लब्ध्वा
प्रेत्याशु भर्तृसहिता सुखिनी सदास्ते ॥
अथ स्थालीदानम् । भविष्योत्तरात् ।
अथातः सर्वपापघ्नं शुभदं कथयामि ते ।
दानं मानकरं पुंसां सर्वकामप्रदायकम् ॥
[९३६] कृत्वा ताम्रमयीं स्थालीं पलानां पञ्चभिः शतैः ।
अशक्तस् तु तदर्धेन चतुर्थांशेन वा पुनः ॥
सर्वशक्तिविहीनस् तु मृण्मयीम् अपि कारयेत् ।
सुगम्भीरीद्दरदरी (?) दृढदण्डकडच्छकाम् ॥
दण्डकडच्छकशब्देन दर्वीर् अभिधीयते ।
मृदुतण्डुलनिष्पन्नक्षीरप्रपूरिताम् ।
उपदंशौदकयुतां घृतपात्रसमन्विताम् ॥
कृतपार्श्वां धौतवर्णां चर्चितां चन्दनेन च ।
स्थाप्य मण्डलकैर् गन्धैः पुष्पधूपैर् अथार्चयेत् ॥
आदित्ये ऽहनि सङ्क्रान्तौ चतुर्दश्यष्टमीषु च ।
एकादश्यां तृतीयायां विप्राय प्रतिपादयेत् ॥
ज्वलज्ज्वलनपार्श्वस्थैस् तण्डुलैः (?) सजलैर् अपि ।
न भवेद् भोज्यसंसिद्धिर् भूतानां पिष्ठरीं विना ॥
त्वं सिद्धिः सिद्धिकामानां त्वं तुष्टिस् तुष्टिम् इच्छताम् ।
अतस् त्वां प्रणतो याचे स त्वं कुरु वचो मम ॥
ज्ञातिबन्धुसुहृद्वर्गविप्रेषु स्वजनैस् तथा ।
अभुक्तवत्सु नाश्नीयां तथा भव वरप्रदा ॥
इत्य् उच्चार्य प्रदातव्या हण्डिका द्विजपुङ्गवे ।
तुष्टिपुष्टिप्रदा पुंसां सर्वान् कामान् अभीप्सता ॥
वशिष्ठवचनं श्रुत्वाआ सा चकार तथैव तत् ।
प्रादात् स्थालीं ब्राह्मणानाआं बहूनाआं बहुदक्षिणाम् ॥
स्थालीं विशालवदनां सकडच्छकां च
यच्छन्ति ये मधुरशुन्वमयीं द्विजेभ्यः ।
[९३७] तेषां सुहृत्स्वजनविप्रजनेन भोज्यं
सम्भुज्यमानम् अपि कृष्ण न याति नाशम् ॥
अथाग्निष्टिकादानम् । भविष्योत्तरात् ।
श्रीकृष्ण उवाच ।
अग्निष्टिकाम् अहं पार्थ कथयामि निबोध ताम् ।
यथा येन विधानेन सर्वसत्त्वसुखप्रदाम् ॥
आदौ मार्गशिरे मासि शोभने दिवसे शुभाम् ।
अग्निष्टिकां कारयित्वा सुखासनवतीं दृढाम् ॥
देवाङ्गणे मठे हट्टे विस्तीर्णे चत्वरे तथा ।
उभयोः सन्ध्ययोः कृत्वा सुशुष्कं काष्ठसञ्चयम् ॥
ततः प्रज्वालयेद् अग्निं हुत्वा व्याहृतिभिः क्रमात् ।
ब्राह्मणान् भोजयेच् छक्त्या तेभ्यो दद्याच् च दक्षिणाम् ॥
अनेन विधिना कृत्वा प्रत्यहं ज्वालयेत् ततः ।
यदि कश्चित् क्षुधार्तो स्यात् भोज्यं तत्र प्रकल्पयेत् ॥
इदम् इह दानवाक्यम् ।
ॐ अद्यादि हेमन्तशिशिराख्यम् ऋतुद्वयं यावत् सर्वकालं (?) वा यथासुखं सर्वसत्त्वप्रतापनार्थम् इमाम् अग्निष्टिकां विष्णुदैवतां (?) अपरिमितकालभोग्यब्रह्मलोकप्राप्तिसर्वार्थसम्पन्नचतुर्वेदब्राह्मणं (?) त्व् अकामो ऽहम् उत्सृजामीति ।
सुखासीनो जनस् तत्र विशीतो विज्वरस् तथा ।
[९३८] या करोति कथाः पार्थ न ताः शक्या मयोदितुम् ॥
राजवार्ता धर्मवार्ता जनवार्ता यदृच्छया ।
वदेल् लिकः सुखासीनो न केनापि निवार्यते ॥
अनेन विधिना यस् तु दद्याद् अग्निष्टिकां नरः ।
तस्य पुण्यफलं राजन् कथ्यमानं निबोध मे ॥
विमानेनार्कसङ्काशे समारूढो महावने ।
षष्टिर् वर्षसहस्राणि षष्टिर् वर्षशतानि च ॥
अर्चितो ऽत्यन्तसन्तुष्टो ब्रह्मलोके महीयते ।
इह लोके ऽवतीर्णश् च चतुर्वेदो द्विजो भवेत् ॥
निरुजः सत्त्रयाजी च अग्नितेजःप्रभावतः ॥
चैत्ये सुरालयसभावसथेषु भव्यां
ये ऽग्निष्टिकां प्रचुरकाष्टवतीं प्रदद्युः ।
हेमन्तशैशिरऋतौ सुखदां जनानां
कायाग्निदीप्तिम् अमलं वपुर् आप्नुवन्ति ॥
कात्यायनः ।
हेमन्ते शिशिरे चैव पुण्याग्निं यः प्रयच्छति ।
सर्वलोकस्य तपार्थं स पुण्यां गतिम् आप्नुयात् ॥
यस् तापनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति ।
सर्वार्थास् तस्य सिद्ध्यन्ति तेजस्वी चाभिजायते ॥
वह्निपुराणे ।
य इन्धनानि काष्ठानि ब्राह्मणेभ्यः प्रयच्छति ।
[९३९] सर्वलोकप्रतापार्थं स पुण्याङ्गतिम् आप्नुयात् ॥
संवर्तः ।
दद्याच् च शिशिरे वह्निं बहुकाष्ठं प्रयत्नतः ।
कायाग्निदीप्तिं प्रज्ञां च रूपसौभाग्यम् आप्नुयात् ॥
इन्धनानि च यो दद्याद् द्विजेभ्यः शिशिरागमे ।
नित्यं जयति सङ्ग्रामे श्रिया युक्तस् तु दीप्यते ॥
विष्णुः ।
इन्धनप्रदानेन दीप्ताग्निर् भवति सङ्ग्रामे शिवम् आप्नोति ।
यमः ।
इन्धनानां प्रदानेन दीप्ताग्निर् भुवि जायते ।
महाभारते ।
यश् चेन्धनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति ।
प्रतापनार्थं राजेन्द्र प्रवृत्ते शिशिरे नरः ॥
सिद्ध्यन्त्य् अर्थाह् सदा तस्य कार्याणि विविधानि च ।
उपर्य् उपरि शत्रूणां वपुषा दीप्यते च सः ॥
भवंश् चाशु सुप्रीतो वह्निर् भवति नित्यशः ।
न तं त्यजन्ति पशवः सङ्ग्रामेषु जयत्य् अपि ॥
अथ दीपदानम् । महाभारते ।
[९४०] दीपप्रदाने वक्ष्यामि फलयोगम् अनुत्तमम् ।
यथा येन यदा चैव प्रदेया यादृशाय ये ॥
ज्योतिस् तेजः प्रकाशं वाप्य् ऊर्ध्वगत्यापि वर्ण्यते ।
प्रदाने तेजसस् तस्मात् तेजो वर्धयते नृणाम् ॥
अन्धं तमस् तमिश्रं च दक्षिणायनम् एव च ।
उत्तरायणम् एतस्मिन् दीपदानं प्रशस्यते ॥
यस्माद् ऊर्ध्वङ्गमे तत् तु तमसश् चैव भेषजम् ।
तस्माद् ऊर्ध्वगतिर् दाता भवेत् तत्रेति निश्चयः ॥
देवास् तेजस्विनो यस्मात् प्रभावन्तः प्रकाशकाः ।
तामसा राजसाश् चेति तस्माद् दीपः प्रदीयते ॥
आलोक्य दानाच् चक्षुष्मान् प्रभायुक्तो भवेन् नरः ।
तं दत्वा नोपसेवेत न हरेन् नोपहिंसयेत् ॥
दीपहर्ता भवेद् अन्धस् तमोगतिर् अथाशुभा ।
दीपदः सर्वलोकेषु दीपमाली विराजते ॥
गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे ।
दीपदाता भवेन् नित्यं य इच्छेद् भूतिम् आत्मनः ॥
कुलद्योतविशुद्धात्मा प्रकाशत्वं स गच्छति ।
ज्योतिषां चैव सायोज्यं दीपदानरतः सदा ॥
स्कन्दपुराणे ।
शिवादिदेवतागारे यतीनाम् आश्रमेषु च ।
अग्निहोत्रिगृहे चैव तथैव च प्रतिश्रये ॥
सर्वत्र शङ्करः साक्षाद् वसतीति विचिन्त्य च ।
[९४१] सततं दीपकान् दद्यात् श्रोत्रियाणां गृहेषु च ॥
देवलः ।
दीपकोद्योतकृद् राजा भवेन् मार्जनकृन् नरः ।
वेदव्यासः ।
यथा प्रशंसते दीपान् अस्मत्पितृहितेच्छया ।
तस्माद् दीपप्रदो नित्यं सन्तारयति वै पितॄन् ॥
दातव्याः सततं दीपास् तस्माद् भरतसत्तम ।
देवतानां पितॄणां च चक्षुष्यास् ते मताः प्रभो ॥
दीपालोकप्रदानेन चक्षुष्मान् जायते नरः ॥
यमः ।
लोके प्रकाशो भवति चक्षुष्मान् अपि दीपतः ।
नन्दिपुराणे ।
दूर्वाक्षतैस् तु सलिलैर् दीपधूपमनोरमैः ।
दीपं ददाति यो मर्त्यो सुरब्राह्मणवेश्मसु ॥
स तु दिव्येन यानेन महाभानुप्रभासिना ।
गच्छति स्वर्गम् अतुलं वसेत् तत्र समाः शतम् ॥
याम्यं तमोमयं घोरं वर्त्मदुर्गं महाभयम् ।
व्रजन्ति तेन मुदिता ये केचिद् दीपदायिनः ॥
सकन्दपुराणे ।
द्योतयन्तो दिशः सर्वा यान्ति दीपप्रदायिनः ।
[९४२] चतुष्पथेषु चैत्येषु ब्राह्मणावसथेषु च ॥
वृक्षमालेषु गोष्ठेषु कान्तारगहनेषु च ।
दीपदानाद् धि सर्वत्र महाफलम् उपाश्नुते ॥
विप्रवेश्मनि यो दद्यात् कार्त्तिके मासि दीपकम् ।
अग्निष्टोमफलं तस्य प्रवदन्ति मनीषिणः ॥
सन्ध्यादीपप्रदो यस् तु स गच्छेत् परमं पदम् ॥
गारुडपुराणे ।
नीलकण्ठस्य मोक्षेण गयायां च तिलोदकैः ।
वर्षासु दीपदानेन पितॄणाम् अनृणो भवेत् ॥
यस् तु ब्राह्मणगेहेषु दीपमालां प्रयच्छति ।
स निर्वर्त्य तमो घोरं ज्योतिषां लोकम् आप्नुयात् ॥
संवर्तः ।
देवागारे द्विजानां वा दीपं दत्वा चतुष्पथे ।
मेधावी ज्ञानसम्पन्नश् चक्षुष्मांश् च सदा भवेत् ॥
विष्णुधर्मोत्तरात् ।
महावत्तिः सदा देया भूमिपालमहाफला ।
कृष्णपक्षे विशेषेण तत्रापि च विशेषतः ॥
अमावास्या च निर्दिष्टा द्वादशी च महाफला ।
आश्वयुज्याम् अतीतायां कृष्णपक्षस्य वा भवेत् ॥
[९४३] अमावास्या तदा पुण्या द्वादशी च विशेषतः ।
देवस्य दक्षिणे पार्श्वे देया तैलतुलान्विताः ॥
पलाष्टकयुता राजन् वर्त्तिं तत्रैव दापयेत् ।
महाराजतरक्तेन समग्रेण तु वाससा ॥
वामपार्श्वे च देवस्य देया घृततुला नृप ।
पलाष्टकयुतां शुक्लां वर्त्तिं तत्राइव दापयेत् ॥
वाससा तु समग्रेण सोपवाआसो जितेन्द्रियः ।
महावर्त्तिद्वयम् इदं सकृद् दत्वा महीपते ॥
स्वर्लोकं सुचिरं भुक्त्वा जायते भूतले यदा ।
तदा भवति लक्ष्मीवान् रूपसौभागसंयुतः ॥
राष्ट्रे च जायते यस्मिन् दशे च नगरे तथा ।
कुले च राजशार्दूल तत्र स्याद् दीपवान् प्रभो ॥
अत्युज्ज्वलश् च भवति युद्धेषु कलहेषु च ।
ख्यातिं याति सदा लोके सज्जनानां च सद्गुणैः ॥
एकाम् अप्य् अथ यो दद्याद् अभीष्टम् अनयोर् द्वयोः ।
मानुष्ये सर्वम् आप्नोति यद् उक्तं ते मयानघ ॥
स्वर्गे तथा समाप्नोति भोगं कालं च यादव ।
सामान्यस्य तु दीपस्य राजन् दानं महाफलम् ॥
किं पुनर् महतो यस्य फलस्यान्तो न विद्यते ।
दीपदानं परं पुण्यम् अन्यदेवेष्व् अपि ध्रुवम् ॥
किं पुनर् देवदेवस्य अनन्तस्य महात्मनः ।
गिरिशृङ्गेषु दातव्या नदीनां पुलिनेषु च ॥
चतुष्पथेषु रथ्यासु ब्राह्मणानां च वेश्मसु ।
[९४४] वृक्षमूलेषु गोष्ठेषु कान्तारे गहनेषु च ॥
दीपदानेन सर्वत्र महत् फलम् उपाश्नुते ।
यावन्त्य् अक्षिनिमेषाणि दीपे प्रज्वलितो पुनः ॥
तावन्त्य् एव स राजेन्द्र वर्षाणि दिवि मोदते ।
दीपदानेन राजेन्द्र चक्षुष्मान् इह जायते ॥
रूपसौभाग्ययुक्तश् च धनधान्यसमन्वितः ।
दीपमालां प्रयच्छन्ति ये नराः शार्ङ्गिणो गृहे ॥
भवन्ति ते चन्द्रसमाः स्वर्गम् आसाद्य मानअवाः ।
केशवायतने दत्वा दीपवृक्षं मनोहरम् ॥
अतीव भ्रा**ते लक्ष्म्या दिवम् आसाद्य मानवः ।
दीपदानं नरः कृत्वा कुण्डागारनिभं शुभम् ॥
केशवालयम् आसाद्य नाके भाति स शक्रवत् ।
यथोज्ज्वलः सदा दीपो दीपदानाच् च मानवः ॥
तथा नित्योज्ज्वलो लोके नाकपृष्ठे ऽपि जायते ।
सदीपे तु यथा देशे चक्षूंषि फलवन्ति हि ॥
तथा दीपस्य दातारो भवन्ति सफलेक्षणाः ।
यथैवोर्ध्वगतिर् नित्यं राजन् दीपशिखा पुनः ॥
दीपदातुस् तथैवोर्ध्वङ्गतिर् भवति शोभना ।
तस्मात् सर्वप्रयत्नेन दीपा देया नरेश्वर ॥
आश्वयुज्याम् अतीतायां यावद् राजेन्द्र कार्त्तिकी ।
तावद् दीपप्रदस्योक्तं फलं राजन् विशेषतः ॥
तावत् कालं प्रयच्छन्ति ये तु दीपं सदा निशि ।
तुङ्गे देशे बहिस् तेषां महत् पुण्यफलं लभेत् ॥
[९४५] यस्यान्धकारे गहने प्राकाश्यं तु प्रजायते ।
प्राकाश्यं यदुशार्दूल तेन यान्ति हि तत् सुखम् ॥
श्रावणे दीपकं दत्वा नदीद्वितयसङ्गमे ।
तेजस्वी च यशस्वी च रूपवान् अभिजायते ॥
दीपा नदीषु दातव्याः कार्त्तिक्यां च विशेषतः ।
अश्वयुक्कृष्णपक्षस्य यावत् पञ्चदशी भवेत् ॥
बिलद्वारेषु दातव्याः सदा दीपा यथाविधि ।
अन्यत्रापि सदा दीपैर् महत् पुण्यफलं लभेत् ॥
श्रवणद्वादशीयोगे कृष्णपक्षे विशेषतः ।
घृतेन दीपा दातव्यास् तैलैर् वा यदुनन्दन ॥
वसामज्जादिभिर् दीपा न तु देयाः कथञ्चन ।
दत्वा दीपं न कर्तव्यं तेन कर्म विजानता ॥
निर्वापणं च दीपस्य् हिंसनं च विगर्हितम् ।
यः कुर्यात् कर्मणा तेन स्याद् असौ पुष्पितेक्षणः ॥
दीपहर्ता भवेद् अन्धः काणो निर्वापको भवेत् ।
दीपदानात् परं दानं न भूतं न भविष्यति ॥
दीपदानं च कर्तव्यं विप्रवेश्मसु पण्डितैः ।
द्विजवेश्मनि यो दद्यात् कार्त्तिके मासि दीपकान् ।
अग्निष्टोमफलं तस्य प्रवदन्ति मनीषिणः ॥
प्राणिजां नीलरक्तां च दीपवर्त्तिं च वर्जयेत् ।
विशेषेण च कर्तव्या पद्मसूत्रभावा नृप ॥
पद्मसूरोद्भवां वर्त्तिं गन्धतैलेन दीपकम् ।
विरोगः सुभगश् चैव दत्वा भवति मानवः ॥
[९४७] प्रक्षाल्य देवदेवेश कर्पूरेण च दीपकम् ।
अश्वमेधम् अवाप्नोति कुलं चैव समुद्धरेत् ॥
एतन् मयोक्तं तव दीपदाने
फलं समग्रं यदुवंशचन्द्र ।
श्रुत्वा यथावत्सततं हि देया
दीपास् त्वया विप्रसुरालयेषु ॥
इति भोगदानानि समाप्तानि ।
अथाभयदानम् । तत्र विष्णुः ।
सर्वप्रदानाधिकाभयप्रदानं तत्प्रदानेनाभीष्टलोकम् अवाप्नोति ।
संवर्तः ।
भूताभयप्रदानेन सर्वान् कामान् अवाप्नुयात् ।
दीर्घ्म् आयुश् च लभते सदा च सुखिनो भवेत् ॥
नन्दिपुराणे ।
मरुतां सूक्ष्मदेहानां तथा च व्याधितात्मनाम् ।
हिंस्राणां सौम्यमूर्तीनां तथा ह्य् अफलदाभयम् ॥
वरम् एकस्य सत्त्वस्य जीविताभयरक्षणम् ।
न तु विप्रसहस्रस्य गोसहस्रं सदक्षिणम् ॥
मार्कण्डेयपुराणे ।
[९४७] धिक् तस्य जीवितं पुंसः शरणार्थिनम् आतुरम् ।
यो नार्तम् अनुगृह्णाति वैरपक्षं अपि ध्रुवम् ॥
यज्ञदानतपांसीह परत च न भूतये ।
भवन्ति तस्य यस्यार्थपरित्राणे न मानसम् ॥
महाभारते ।
लोभाद् द्वेषाद् भयाद् वापि यस् त्यजेच् छर्णागतम् ।
ब्रह्महत्यासमं तस्य पापम् आहुर् मनीषिणः ॥
शास्त्रेषु निष्कृतिर् दृष्टा महापातकिनाम् अपि ।
शरणागतहन्तॄणां न दृष्टा निष्कृतिः क्वचित् ॥
मरुताम् अपि यज्ञानां कालेन क्षीयते फलम् ।
भीताभयप्रदानस्य क्षय एव न विद्यते ॥
तथा ।
प्राणिनं वध्यमानं हि यः शक्तः समुपेक्षते ।
स याति नरकं घोरम् इति प्राहुर् मनीषिणः ॥
चतुःसागरपर्यन्तां यो दद्यात् पृथिवीम् इमाम् ।
सत्त्वेभ्यो ह्य् अभयं यश् च तयोर् अभयदो ऽधिकः ॥
रामायणे ।
बद्धाञ्जलिपुटं दीनं याचन्तम् अपराधिनम् ।
न हन्याच् छरणं प्राप्तं सतां धर्मम् अनुस्मरन् ॥
आर्तो वा यदि वा त्रस्तः परेषां शरणागतः ।
अपि प्राणान् परित्यज्य रक्षितव्यः क्षतात्मना ॥
[९४८] न चेद् भयाद् वा मोहाद् वा कामाद् वा तम् त्त्तु रक्षति ।
स्वयं शक्त्या यथान्यायं तत् पापं लोकगर्हितम् ॥
विनष्टः पश्यतो यस्यारक्षितः शरणागतः ।
आदाय सुकृतं तस्मात् सर्व्ं गच्छत्य् अरक्षितः ॥
सुपर्याप्तनिसृष्टस्य नाश्वमेधस्य तत् फलम् ।
यत् फलं जातसन्त्रासे रक्षिते शरणागते ॥
सुपर्याप्तनिसृष्टस्येति, सुपर्याप्तं सुसम्पूर्णं निसृष्टं दानं यस्य स तथा ।
पद्मपुराणे ।
सर्वेषाम् एव दानानाम् इदम् एवैकम् उत्तमम् ।
अभयं सर्वभूतानां नास्ति दानम् अतः परम् ॥
चराचराणां भूतानाम् अभयं यः प्रयच्छति ।
स सर्वभयनिर्मुक्तः परं ब्रह्माधिगच्छति ॥
वह्निपुराणात् ।
गविर् उवाच ।
एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः ।
एकतो भयभीतस्य प्राणिनः प्राणरक्षण्म् ॥
नातो गुरुतरो धर्मः कश्चिद् अन्यो ऽस्ति भूतले ।
प्राणिनां भयभीतानाम् अभयं यत् प्रदीयते ॥
चरात्मकस्य सत्त्वस्य प्रदत्तं जीविताभयम् ।
[९४९] न च विप्रसहस्रस्य गोसहस्रम् अलङ्कृतम् ॥
हेमधेनुधरादीनां दातारः सुलभा भुवि ।
दुर्लभः पुरुषो लोके सर्वभूताभयप्रदः ॥
महताम् अपि यज्ञानां कालेन क्षीयते फलम् ।
भीताभयप्रदानस्य क्षय एव न विद्यते ॥
अभयं सर्वभूतेभ्यो यो ददाति दयापरः ।
तस्य देहाद् विमुक्तस्य क्षयो नास्ति कुतश्चन ॥
दत्तम् इष्टं तपस् तप्तं तीर्थसेवाश्रयं तथा ।
सर्वाण्य् अभयदानस्य कलां नार्हन्ति षोडशीम् ॥
चतुःसागरपर्यान्तां यो दद्यात् पृथिवीम् इमाम् ।
अभयं यस्य भूतेभ्यो यो ददाति ततो ऽधिकम् ॥
अपि त्यजे राज्यम् अहं शरीराम् वापि दुस्त्यजम् ।
न त्व् एनं भयसन्त्रस्थं त्यजे दीनं कपोतकम् ॥
यन् ममास्ति शुभं किञ्चित् तेन जन्मनि जन्मनि ।
भवेत् त्राता महार्तानाम् आर्तिनाशाय देहिनाम् ॥
न ह्य् अहङ्कामये राज्यं न स्वर्गं नापुनर्भवम् ।
प्राणिनां दुःखतप्तानां कामये दुःखनाशनम् ॥
यथात्र नानृतां वाणीम् अहम् एताम् उदाहरे ।
सत्येनानेन भगवान् प्रसीदतु महेश्वरः ॥
विष्णुधर्मोत्तरे ।
स एकः पुरुषो लोके सर्वधर्मभृतां वरः ।
वधभीतस्य यः कुर्यात् परित्राणं नरोत्तमः ॥
[९५०] शक्रलोके स्थितिस् तस्य यावद् इन्द्राश् चतुर्दश ।
तमःप्रवेशभीतस्य परित्राणेन मानवः ॥
ब्रह्मलोकम् अवाप्नोति नात्र कार्या विचारणा ॥
तमःप्रवेशनं चक्षुरुत्पाटादिना अन्धीकरणम् ।
वधाद् अपि परं पापं चक्षुषां तु विजोजनम् ।
पार्थिवेन न तत् कार्यं कदाचिद् अपि कस्यचित् ॥
तमःप्रवेशनं कृत्वा परेषां पुरुषाधमः ।
अन्धत्वं ध्रुवम् आप्नोति यत्र यत्रापि जायते ।
अपि कल्पसहस्राणि तमसा ह्य् अभुयुज्यते ॥
अङ्गच्छेदनभीतस्य कृत्वा त्राणविनिर्मितम् ।
रुद्रलोकम् अवाप्नोति कल्पाशेषम् इति श्रुतिः ॥
कल्पादिसर्गे भवति ज्ञानयुक्तो नरस् ततः ।
कृत्वा बन्धनभीतस्य परित्राणं नरोत्तमः ॥
सर्वबन्धविनिर्मुक्तो वायुलोके महीयते ॥
आसेधनाद् विभीतस्य त्राणं कृत्वा तथा नरः ।
सर्वदुःखविनिर्मुक्तः साध्यानां लोकम् अवाप्नुयात् ॥
ताडनाद् यस् तु भीतस्य त्राणं तत्र समाचरेत् ।
सर्वदुःखविनिर्मुक्तो भृगूणां लोकम् अश्नुते ॥
विवासनाच् च भीतस्य त्राणं कृत्वा तथा नरः ।
सर्वलोकम् अवाप्नोति मानुष्ये स्थानम् उत्तमम् ॥
धनापहारभीतस्य त्राणं कृत्वा नरोत्तमः ।
दानपुण्यम् अवाप्नोति लोकं दानदम् एव च ॥
अवमानाच् च भीतस्य त्राणं कृत्वा नरोत्तमः ।
[९५१] स्वर्गलोकम् अवाप्नोति पूजां देवगणात् तथा ॥
नरो ऽकृतपरित्राणः पुण्यं किञ्चिद् यद् आचरेत् ।
भागो तस्यापरित्रातुः नरः पुण्यस्य कर्मणः ॥
पशूनां च मृगानां च पक्षिणां च तथा द्विजः ।
तृणद्रुमलतानां च त्राणाद् भवति नाकभाक् ॥
वधकस्य गतं हस्ते पशुं हृत्वा नरोत्तमः ।
नाकलोकम् अवाप्नोति सुखी सर्वत्र जायते ॥
यावन्ति पशुरोमाणि तावद्वर्षाणि मानवः ।
सर्वलोकम् अवाप्नोति यस्य त्राणं करोत्य् असौ ॥
अपि कीटपतङ्गस्य त्राणात् स्वर्गम् उपाश्नुते ।
बहून्य् अब्दसहस्राणि नात्र कार्या विचारणा ॥
चौरग्रस्तं नृपग्रस्तं रिपुग्रस्तं विमोक्षयेत् ।
व्यालग्रस्तं तथा विप्राः सो ऽश्वमेधफलं लभेत् ॥
व्याधितस्यौषधं कृत्वा प्राणदानफलं लभेत् ॥
उपदेशं तथा कृत्वा भिषक्मूल्यं (?) विना द्विजाः ।
प्राणदानफलं प्राप्य नाकलोके महीयते ॥
ये रक्षणायाभिरता मनुष्या
भीरून् गातास् ते त्रिदशेन्द्रलोकम् ।
अवन्ति नाद्यापि च ते नृवीराः
काले ऽपि तेषां च्यवनं नास्ति ॥
इत्य् अभयदानविधिः ।
अथ पान्थशुश्रूषा ।
**[९५२] **गारुडपुराणे ।
पान्थं परिचरेद् यस् तु शयनासनभोजनैः ।
स स्वल्पेन प्रयासेन जयति क्रतुयाजिनाम् ॥
प्रतिश्रयं सुनिर्वातं शुचिभूमितलं शुभम् ।
अधवनीयाय सम्पाद्य सद्यो दहति पातकम् ॥
वर्षायाम् उष्मलतमे हेमन्ते शिशिरेषु च ।
ग्रीष्मे च शीतलतले पान्थं विश्राम्य् नाकभाक् ॥
दत्वा वासो विवस्त्राय रोगिणे रुक्प्रतिक्रियाम् ।
तृषार्ताय जलं स्वादु मृष्टम् अन्नं बुभुक्षवे ।
पथिकाय यथा वित्तं सर्वं तरति दुष्कृतम् ॥
अध्वन्यम् अनुमान्यापि शाकमूलफलैर् जलैः ।
सकृत् सत्कृत्य वाचापि श्रेयसो भाजनं भवेत् ॥
अध्वगानां सुखार्थाय मार्गसत्कारकारिणः ।
अगाधजलसञ्चारे तेषां नौकाधिकारिणः ॥
प्रपाम् अपां रसैर् दिकैः पूर्णां पथिकहेतवे ।
ये कुर्वन्ति नरो राजन् सर्वे ते स्वर्गभागिनः ॥
विष्णुधर्मोत्तरे ।
मार्गे सेतुं सुखं कृत्वा वह्निष्टोमफलं लभेत् ।
जलप्रतरणे सेतुं यः करोति नरोत्तमः ।
स तीर्णः सर्वदुःखेभ्यो नाकलोकं प्रपद्यते ॥
[९५३] तथा ।
शर्करालोष्ट्रपाषाणकणृअकानि तथा नरः ।
मार्गाद् अपास्य यत्नेन गोदानफलम् आप्नुयात् ॥
श्रान्तसंवाहनं कृत्वा तद् एव फलम् अश्नुते ।
वीजयित्वा तथा पान्थं तालवृन्तेन मानवः ।
स्कन्धेन श्रान्तम् ऊह्यापि वाजपेयफलं लभेत् ॥
वाहनेनाथ यानेन स्वेदश्रान्तं तथा वहन् ।
साध्यानां लोकम् आसाद्य देवभोगान् उपाश्नुते ॥
श्रान्तस्य भोजनं दत्वा स्थानम् आप्नोति शाश्वतम् ।
श्रान्ते तु तर्पिते ** स्वस्तिम् आप्नोति मानवः ॥
उपानद्भ्यां च छत्रेण श्रान्तं संयोज्य मानवः ।
संस्थाप्य शुभदेशेषु क्षणाद् बहुफलं लभेत् ॥
भारश्रान्तात् तथा भारं गृहीत्वा वहते तु यः ।
कर्मणा तेन विप्रेन्द्राः स्वर्गलोकम् उपाश्नुते ॥
मूल्येन वाहयित्वा यः परभारं विचक्षणः ।
अश्वमेधस्य यज्ञस्य फलं दशगुणं लभेत् ॥
रक्षणं पथितः कृत्वा पान्थानां मानवोत्तमः ।
प्राप्य वृद्धिं परां लोके रुद्रलोके महीयते ॥
चौरेभ्यो रक्षणं कृत्वा शक्रलोके महीयते ।
नदीतीरेषु सन्तार्य पान्थान् पथि तथा नरः ॥
शीघ्रं तरति दुर्गाणि क्षुरधारांश् च पर्वतान् ।
सर्वपोतं तथा नावं यः करोति नदीतटे ॥
[९५४] अश्वमेधफलं तस्य नरः प्राप्नोति कर्मणः ॥
सभास्थानानि रम्याणि यः क्ररोति (?) विचक्षणः ।
उद्यानानि विचित्राणि शक्रलोके महीयते ॥
प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति ।
पान्थानां हि दया कार्या कर्मणा येन केनचित् ।
कृपास्थानं परं पान्थः स्वगृहाद् यो विनिसृतः ॥
लिङ्गी वाप्य् अथ वा वर्णी पान्थो पथिविचक्षणैः ।
उपाख्यानैश् च कर्तव्यः पान्थः पूज्यस् तु सर्वशः ॥
पान्थस्य पूजां पुरुषस्य कृत्वा
स्थानं समासाद्य पुरन्दरस्य ।
प्राप्नोति पुण्यैर् दिवि देवभोगान्
पान्थास् ततः पूज्यतमा नृलोके ॥
इति नानोपचाराः ।
अथाभ्यङ्गदानम् । स्कन्दपुराणे ।
तैलेन शुभगन्धेन दत्वाभ्यङ्गं द्विजातये ।
विरूक्ष्य शुभचूर्णेन स्नाप्य कोष्णेण वारिणा ।
प्राप्नोति चन्द्रसालोकं यावद् आभूतसम्प्लवम् ॥
यस् तु मार्गपरीक्लान्तं द्विजातिं ग्रामकर्षितम् ।
तैलेनाभ्यञ्जयेत् प्राज्ञः स सुखी मोदते चिरम् ॥
[९५५] यश् च पक्वादितैलेन द्विजं वा केशवं शिवम् ।
संस्नापयति पुण्यात्मा किं तस्य बहुभिर् मखैः ॥
यो द्वादशीदिने विष्णुम् अभ्यञ्जयति भक्तितः ।
शुभगन्धेन तैलेन शक्तितो गोघृतेन वा ।
तिलतैलेन वा लोके गन्दर्वाणां स मोदते ॥
सर्पिषा कपिलाधेनोर् अथ वान्येन सर्पिषा ।
उत्तरायणम् आसाद्य यो ऽभ्यञ्जयति धूर्जटिम् ॥
महापूजां घृतेनैव तस्मिन्न् एव दिने शुभे ।
कृत्वा मनुष्यो लभते राज्यं विहतकण्टकम् ॥
सर्पिःपलसहस्रेण गोविन्दस्य शिवस्य वा ।
महास्नानं नरः कृत्वा ब्रह्महत्यां निरस्यति ॥
पद्मपुराणे ।
पर्वणि ब्रह्मकूर्चेन यः स्नापयति देवताम् ।
तस्य पुण्यकृतो लोका न क्षीयन्ते कदाचन ॥
पञ्चामृतेन यो नित्यं पुण्यकालेषु वा पुनः ।
स्नपनं सर्वदेवानां महापातकनाशनम् ॥
ब्रह्मकूर्चपञ्चामृते परिभाषायां व्याख्याते ।
ब्रह्माण्डपुराणे ।
शिरोऽभ्यङ्गेन विप्राणां प्रोषितानां विशेषतः ।
सुरूपः सुभगः श्रीमांस् तेजस्वी जायते नरः ॥
[९५६]
अथ पादाभ्यङ्गदानम् । कात्यायनः ।
पादाभ्यङ्गैः शिरोऽभ्यङ्गैर् दानमानार्चनादिभिः ।
मृष्टवाक्यैर् विशेषेण पूजनीया द्विजोत्तमाः ॥
नन्दिपुराणे ।
पादाभ्यङ्गं तु यो दद्यात् पान्थाय परिवेदिने ।
स शुभाभरणैः पादैर् वन्दिभिर् नित्यवन्दितः ।
भवेन् नृपो महाभागो मण्डले दशयोजने ॥
संवाह्य तु परिश्रान्तं पादाभ्यङ्गादिना नरः ।
धर्मस्य पुरम् आप्नोति सर्वकामगुणोज्ज्वलम् ॥
दत्वा वारि मुखस्पर्शं पादाभ्यङ्गं द्विजातये ।
उच्छिष्टमार्जनाच् चापि गोदानफलम् आप्नुयात् ॥
नान्दीयपुराणे ।
पादाभ्यङ्गं द्विजे दत्वा यतिभ्यो वापि यत्नतः ।
सुरेन्द्रलोकम् आसाद्य मोदते विगतव्यथः ॥
अध्वस्फुटितपादानां पर्चर्यां करोति यः ।
स सर्वभोगसम्पूर्णं विमानम् अधिरोहति ॥
अथ यज्ञोपवीतदानम् ।
[९५७]
आह बौधायनः ।
यज्ञोपवीतदानेन जायते ब्रह्मवर्चसी ।
तस्मात् तानि प्रदेयानि ब्राह्मणेन विपश्चिता ॥
विना यज्ञोपवीतेन समस्ता निष्फलाः क्रियाः ।
विना यज्ञोपवीतेन ब्राह्मण्याद् एव हीयते ।
अतः पुण्यतमं प्राहुस् तस्य दानं महर्षयः ॥
अत्रिः।
क्षौमजं वाथ कार्पासं पट्टसूत्रम् अथापि वा ।
यज्ञोपवीतं यो दद्याद् घृतवर्णं सुशोभनम् ।
यथाशक्त्या विधानेन अग्निष्टोमफलं लभेत् ॥
नन्दिपुराणे ।
यजते मानवो धर्मो दशवर्षाण्य् असंशयः ।
यज्ञोपवीतं दत्वा तु विधिपूर्वं द्विजायते ॥
तथा ।
यज्ञोपवीतदानेन सुरेभ्यो ब्राह्मणाय वा ।
भवेद् विप्रश् चतुर्वेदः शुद्धधीर् नात्र संशयः ॥
त्रिवृच् छुक्लं सुपीतं वा पट्टसूत्रादिनिर्मितम् ।
दत्त्वोपवीतं रुद्राय भवेद् वेदान्तपारगः ॥
[९५८] आदित्यपुराणे ।
क्षौमजं वाथ कार्पासं पट्टसूत्रम् अथापि वा ।
दद्याद् यज्ञोपवीतं यस् ते न हिंसन्ति वायसाः ॥
वायुप्रोक्ते ।
उपाकर्मणि विप्रेभ्यो दद्याद् यज्ञोपवीतकम् ।
आयुष्मान् जायते तेन कर्मणा मानवो भुवि ॥
तथा ।
श्रावणे शुक्लपक्षस्य प्रतिपत्प्रभृति क्रमात् ।
पवित्रारोहणं कुर्याद् देवतानां यथाविधि ॥
अग्निब्रह्माम्बिकेभास्यपन्नगस्कन्दभानवः ।
दुर्गायमेन्द्रगोविन्दकामेशाः पितरः स्मृताः ॥
इत्य् एताभ्यो देवताभ्यः श्रावणे मलपक्षके ।
पवित्रारोपणं कुर्वन् याति विष्णोः परं पदम् ॥
अथ शिरोरोगघयज्ञोपवीतदानम् । वायुपुराणे ।
उपवीतं हिरण्येन निर्मितं तु पलार्धतः ।
तदर्धेन तदर्धेन यथाविभवतो ऽपि वा ॥
उत्तरीयं राजतं च तावत्या सङ्ख्यया कृतम् ।
ब्राह्मणाय ब्रह्मविदे श्रोत्रियायोपपादयेत् ॥
[९५९] मन्त्रेणानेन विधिवत् पूजितायाङ्गुलीयकैः ।
धाता विधाता जगतां परमात्मा चतुर्मुखः ।
विनाशयति मे क्षिप्रं रोगवेगं शिरोगतम् ॥
दानमन्त्रः ।
अथ गर्भश्रावघ्नयज्ञोपवीतदानम् ।
यज्ञोपवीतं कुर्वीत काञ्चनं तु स्वशक्तितः ।
अत्यन्तवर्णयुक्तेन राजतं चोत्तरीयकम् ॥
पलार्धेन तदर्धेन तदर्धार्धेन वा पुनः ।
ग्रन्थप्रदेशे देयं तु मौक्तिकं वज्रम् एव च ॥
प्रक्षाल्य पञ्चगव्येन गायत्र्या ताम्रभाजने ।
मानप्रमाणं तस्मिंस् तु निक्षिपेद् आज्यमध्यतः ॥
आज्यस्योपरि संस्थाप्यम् उपवीतं सुपूजितम् ।
गन्धपुष्पाक्षतिअर् धूपैर् नैवेद्यैर् अतिभक्तितः ॥
ततो ब्राह्मणम् आहूय होमं तत्र च कारयेत् ।
तिलैर् आज्येन मधुना मिश्रैर् अष्टोत्तरं शतम् ॥
तस्मै हुतवते देयं वस्त्राद्यैः पूजिताय तु ।
मन्त्रेणानेन विधिवत् प्राङ्मुखेनोपवीतकम् ॥
उपवीतं परम् इदं ब्रह्मणा विधृतं पुरा ।
च्यवनो को ऽस्य दानेन गर्भं सन्धारये ह्य् अहम् ॥
दानमन्त्रः ।
फलान्य् अपि ब्राह्मणेभ्यो यस्मिन् काले प्रदापयेत् ।
[९६०] अनुव्रज्य तथाचार्यं प्रणिपत्य क्षमापयेत् ।
गर्भश्रावभवाद् दोषाद् एवं कृत्वा विमुच्यते ॥
अथ यष्टिदानम् । नान्दिपुराणे ।
यष्टिं वृद्धाय यो दद्यात् पुरुषस् तु दयापरः ।
सदा श्रेयो भवेन् नित्यं गतभीः स्वर्गम् आप्नुयात् ॥
आदित्यपुराणे ।
यष्टिं ये तु प्रयच्छन्ति नेत्रहीने ऽथे दुर्बले ।
तेषां तु विफलः पन्थाः फलमूलोपशोभितः ॥
ब्रह्मवैवर्ते ।
ये पङ्गुभ्यश् च पान्थेभ्यो दीनेभ्यो ऽपि दयालवः ।
यष्टिदानं प्रकुर्वन्ति नीरोगास् ते न संशयः ॥
पङ्गोश् चरणकार्याणि यष्टिना कुरुते सदा ।
गोसर्पादिनिवृत्तिश् च जायते यष्टिधारणात् ॥
भीतानां शरणं यष्टिर् गच्छतां निशि वा वने ।
शङ्का पङ्कादिदोषोत्थाम् इयम् एव निरस्यते ।
अतः प्रविकले यश् च यष्टिं तुष्टिकरां ददेत् ॥
स्कन्दपुराणे ।
[९६१] यतिभ्यो वैणवं दण्डं द्विजेभ्यो ऽपि कनित्रकम् ।
प्रदाय परलोके ऽसौ यमदण्डं न गच्छति ॥
प्रददाति यथावर्णं यो दण्डं ब्रह्मचारिणे ।
स महाब्राह्मणो भूत्वा ब्रह्मवर्चसम् अश्नुते ॥
अथ यत्यादिवपनम् । आह यमः ।
ब्रह्मचारियतिभ्यश् च वपनं यस् तु कारयेत् ।
नखकर्माणि कुर्वाणश् चक्षुष्मान् जायते नरः ॥
विश्वामित्रः ।
यतिभ्यो ब्रह्मचारिभ्यः पथिकेभ्यस् तथैव च ।
अन्येषाम् अपि दीनानां प्रकुर्वन् केशकृन्तनम् ॥
नखानां धावनं चैव कृत्वा रूपयुतो भवेत् ।
यस् तु सर्वजनार्थाय केशश्मश्रुनखादिकीम् ॥
क्रियां समुद्दिश्य भृतिं नापिताय प्रयच्छति ।
देवगारेषु तीर्थे वा श्रद्धया परया युतः ।
स वसेद् आश्विने लोके वीतशोकः शतं समाः ॥
अथ पान्थशुश्रूषाप्रसङ्गेण गोपरिचर्या निरूप्यते । तत्र ब्रह्मपुराणे ।
वन्दनीयाश् च पूज्याश् च गावः सेव्यास् तु नित्यशः ।
[९६२] गवां गोष्थे स्थितानां तु यः करोति प्रदक्षिणम् ॥
गावः पवित्रमाङ्गल्या गवि लोकाः प्रतिष्ठिताः ।
गागो वितन्वते यज्ञान् गावः सर्वाघसूदनाः ॥
गोमूत्रं गोमयं सर्पिः क्षीरं दधि च रोचना ।
षडङ्गम् एतत् परमं माङ्गल्यं सर्वदा गवाम् ॥
शृङ्गोदकं गवां पुण्यं सर्वाघविनिसूदनम् ।
गवां कण्डूयनं चैव सर्वकल्मषनाशनम् ।
गवां ग्रासप्रदानेन स्वर्गलोके महीयते ॥
पद्मपुराणे ।
सदा गावः प्रणम्यास् तु मन्त्रेणानेन पार्थिव ।
नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ॥
नमो ब्रह्मसुताभ्यश् च भूयो भूयो नमो नमः ।
मन्त्रस्य स्मरणाद् एव गोदानफलम् आप्नुयात् ॥
आदित्यपुराणे ।
लवणं च यथाशक्त्या गवां यो वै ददाति च ।
तेषां पुण्यकृतां लोका गवां लोकं व्रजन्ति ते ॥
यो ऽग्रं भक्त्या (?) किञ्चिद् अप्राश्य दद्याद्
गोभ्यो नित्यं गोव्रती सत्यवादी ।
[९६३] शान्तो बुद्धो गोसहस्रस्य पुण्यं
संवत्सरेणाप्नुयाद् धर्मशीलः ॥
देवीपुराणे ।
गोपालको गवां गोष्ठे यस् तु धूमं न कारयेत् ।
मक्षिकालीननरके मक्षिकाभिः स भक्ष्यते ॥
मृतवत्सां तु गां यस् तु दमित्वा पिबते नरः ।
वाहितास्याश् चिरं तिष्ठेत् क्षुधार्तो वै नराधमः ॥
महाभारते ।
गोकुलस्य तृषार्तस्य जलान्ते वसुधाधिप ।
उत्पादयति यो विघ्नं तम् आहुर् ब्रह्मघातकम् ॥
कृत्वा गवार्थे शरणं शीतवातक्षमं महत् ।
आसप्तमं तारयति कुलं भरतसत्तम ॥
ब्रह्मपुराणे ।
सदोषा गौर् गृहे जाता परिपाल्या सदा स्वयम् ।
दुःशीलो ऽपि द्विजः पूज्य न तु शूद्रः ससंयतः ॥
अनाथानां गवां यत्नात् कार्यस् तु शिशिरे मठः ।
पुण्यार्थं यत्र दीयन्ते तृणतोयेन्धनानि च ॥
हारीतः ।
द्वौ मासौ पायीयेद् वत्सं तृतीये द्विस्तनं द्रुहेत् ।
[९६४] चतुर्थे त्रिस्तनं चैव यथान्यायं यथाबलम् ॥
ब्रह्मपुराणे ।
आषाढ्याम् आश्वयुज्यां च पौष्यां माध्यां च सर्वदा ।
न गृह्णीयाद् गवां क्षीरं सर्वं वत्साय निक्षिपेत् ॥
न षण्डान् वाहयेच् चैव न गां भारेण पीडयेत् ।
युगादिषु युगान्तेषु षडशीतिमुखेषु च ॥
दक्षिणोत्तरगे सूर्ये तथा विषुवतोर् द्वयोः ।
सङ्क्रान्तिषु च च सर्वासु ग्रहणे चन्द्रसूर्ययोः ॥
पञ्चदश्यां चतुर्दश्यां द्वादश्याम् अष्तमीषु च ।
उपचारो गवां कार्यो मासि मासि यथाक्रमम् ॥
लवणस्य तु चत्वारि पलान्य् अष्टौ घृतस्य च ।
परकीयस्य दुग्धस्य तथा देयानि षोडश ॥
द्वात्रिंशत् शीतलस्यापि जलस्य च पलानि च ।
आदौ विचार्य पयसः परिमाणं वलं रुचि ॥
आकस्मिकं तु दातव्यं पुण्यार्थं तु गवाह्निकम् ।
प्रभाते लवणं यत्र दीयते च ततो जलम् ॥
ततस् तृणानि भोज्यं च पोषणं मांसवर्जितम् ।
निशि दीपः सतन्त्रीको दिव्या पौराणिकी तथा ॥
एवं कृते महीं पुर्णां रत्नैर् दत्वा भवेत् फलम् ।
गोप्रदानाय यत् पुण्यं गवां संरक्षणाद् भवेत् ॥
मनुष्यैस् तृणगोयाद्यैर् गावः पाल्याः प्रयत्नतः ।
देयाः पूज्याश् च पोष्याश् च प्रतिपाल्याश् च सर्वदा ॥
[९६५] तथा ।
तृणोदकाद्येषु वनेषु मत्ताः
क्रीडन्तु गावः सवृषाः सवत्साः ।
क्षीरं प्रमुञ्चन्तु सुखं स्वपन्तु
शीतातपव्याधिभयैर् विमुक्ताः ॥
इमं मन्त्रं स शुधात्मा जपेन् नित्यं समाहितः ।
गच्छन् तिष्ठन् जपन् जिघ्रन् भुञ्जन् क्रीडन् समुत्सृजेत् ॥
महाभयेषु सर्वेषु समेषु विषमेषु च ।
प्रयाणकाले च तथा स्र्तोतव्यम् अभयप्रदम् ॥
तथा ।
घासग्रासादिकं देयं निशि दीपः सुभास्वरः ।
इतिहासपुराणानां व्याख्यानं सोपवीणनम् ॥
अन्तस्तुष्टैर् यथाशक्त्या परिचर्या यथाक्रमम् ।
ताडनाक्रोशखेदाश् च स्वप्ने ऽपि न कदाचन ॥
तासां मूत्रपुरीषे तु नोद्वेगः क्रियते क्वचित् ।
शोधनीयश् च गोवाटः शुष्कक्षारादिकैः सदा ॥
ग्रीष्मे वृक्षाकुले वेश्म शीततोये विकर्दमे ।
वर्षासु चाथ शिशिरे सुखोष्णे वातवर्जिते ॥
उच्छिष्टं मूत्रविट्श्लेष्ममलं जह्यान् न तत्र च ।
रजस्वला न प्रवेश्या नान्त्यजातिर् न पुंश्चली ॥
न लङ्घयेद् वत्सतन्त्रीं न क्रीडेद् गोष्ठसन्निधौ ।
न गन्तव्यं गवां मध्ये सोपानत्कैः सपादुकैः ॥
[९६६] हस्त्यश्वरथयानैश् च सवितानैः कदाचन ।
दक्षिणोत्तरगैः प्रह्वैर् गन्तव्यं च पदातिभिः ॥
गावः कृषातुराः पाल्याः श्रद्धया पितृमातृवत् ।
गिरिप्रपातसिंहर्क्षसीतातपभयातुराः ॥
महाकोलाहले घोरे दुर्दिने देशविप्लवे ।
गवां तृणानि देयानि शीतलं तथा जलम् ॥
विष्णुधर्मोत्तरात् ।
पुष्कर उवाच ।
गवां हि पालनं राज्ञा कर्तव्यं भृगुनन्दन ।
गावः पवित्रा माङ्गल्या गोषु लोकाः प्रतिष्ठिताः ॥
गावो वितन्वते यज्ञं गावो विश्वस्य मातरः ।
शकृन्मूतं परं तासाम् अलक्ष्मीतापनं परम् ॥
तद् धि मेध्यं प्रयत्नेन तत्र लक्ष्मीः प्रतिष्ठिता ।
उद्वेगश् न गन्तव्यः शकृन्मूत्रव्यजानता ॥
गवां मूत्रपुरीषे तु ष्ठीवनाद्यं न सन्त्यजेत् ।
गोरजः परमं पुण्यम् अलक्ष्मीविघ्ननाशनम् ॥
गवां कण्डूयनं चैव सर्वकल्मषनाशनम् ।
गवां शृङ्गोदकं राम जाह्नवीजलसन्निभम् ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
पवित्रं परमं ज्ञेयं स्नाने पाने च भार्गव ॥
[९६७] रक्षोघ्नम् एतन् माङ्गल्यं कलिदुःखप्रनाशनम् ।
रोचना च तथा धन्या रक्षोगदगरापहा ॥
यस् तु कल्यं समुत्थाय मुखम् आज्ये निरीक्षते ।
तस्यालक्ष्मीः क्षयं याति वर्धते न च किल्बिषम् ॥
गवां ग्रामप्रदानेन पुण्यं स महद् अश्नुते ।
यावतीः शक्नुयाद् गावः सुखं धारयितुं गृहे ।
धारयेत् तावतीर् नित्यं क्षुधितास् ता न धारयेत् ॥
दुःखिता धेनवो यत्र वसन्ति द्विजमन्दिरे ।
नरकं समवाप्नोति नात्र कार्या विचारणा ॥
दत्वा परगवे ग्रामं पुण्यं स महद् अश्नुते ॥
शिशिरं सकलं कालं ग्रासं परगवे यथा ।
दत्वा स्वर्गम् अवाप्नोति संवत्सरशतानि षट् ॥
अग्रभक्तं नरो दत्वा नित्यम् एव तथा गवाम् ।
समाष्टकेन लभते नाकलोकसमायुतम् ॥
सायं प्रातर् मनुष्याणाम् अशनं वेदनिर्मितम् ।
तथैकम् अशनं दत्वा गवां नित्यम् अतन्द्रितः ॥
द्वितीयं यः समश्नाति तेन संवत्सरान् नरः ।
गवां लोकम् अवाप्नोति यावन् मन्वन्तरं द्विजः ॥
शीतत्राणं गवां कृत्वा गृहे पुरुषसत्तम ।
गवां प्रपाने पानीयं कृत्वा पुरुषसत्तम ।
वारुणं लोकम् आप्नोति क्रीडत्य् अप्सरसां गणैः ॥
[९६८] गवां पानप्रवृत्तानां यस् तु विघ्नं समाचरेत् ।
ब्रह्महत्या कृता तेन घोरो भवति भार्गव ।
परां तृप्तिम् अवाप्नोति यत्र तत्राभिजायते ॥
गवां प्रचारभूमिं तु वाहयित्वा हलादिना ।
नरकं महद् आप्नोति यावद् इन्द्राश् चतुर्दश ॥
सिंहव्याघ्रभयत्रस्तां पङ्कलग्नां जले गताम् ।
गाम् उद्धृत्य नरः स्वर्गे कल्पभोगान् उपाश्नुते ॥
गवां लवणदानेन रूपवान् अभिजायते ।
सौभाग्यं महद् आप्नोति लावण्यं च द्विज्ōत्तम ॥
औषधं च तथा दत्वा विरोगस् त्व् अभिजायते ।
औषधं लवणं तोयम् आहारं च प्रय्च्छति ॥
तासां चेद् अवरुद्धानां चरन्तीनां मिथो वने ।
याम् उत्प्लुत्य वृको हन्यान् न पालस् तत्र किल्बिषी ॥
गोवधेन नरो याति नरकान् एकविंशतिम् ।
तस्मात् सर्वप्रयत्नेन कार्यं तासां तु पालनम् ॥
विक्रयाच् च गवां राम नरकं प्रतिपद्यते ।
तासां तु कीर्तनाद् एव नरः पापात् प्रमुच्यते ॥
तासां संस्पर्शनं धन्यं सर्वकल्मषनाशनम् ।
दानेन च तथा तासां कुलान्य् अपि समुद्धरेत् ॥
उदक्यासूतिकादोषो नैव तत्र गृहे भवेत् ।
भूमिदोषस् तथान्ये ऽपि यत्रैका वसते च गौः ॥
गवां निःश्वासवातेन परा शान्तिर् गृहे भवेत् ।
नीराजनं तत् परमं सर्वस्थानेषु कीर्त्यते ॥
[९६९] गवां संस्पर्शनाद् राम कल्मषं क्षीयते नृणाम् ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश् च श्वपाकम् अपि शोधयेत् ।
पृथक् च प्रत्ययाभ्यस् तम् इति सान्तपनं स्मृतम् ॥
सर्वकामप्रदं राम सर्वाशुभविनाशनम् ।
कृत्वातिकृच्छ्रं पयसा दिवसान् एकविंशतिम् ॥
निर्मलास् तेन चीर्णेन भवन्ति पुरुषोत्तमाः ॥
त्र्यहम् उष्णं पिबेन् मूत्रं त्र्यहम् उष्णं घृतं पिबेत् ।
त्र्यहम् उष्णं पयः पीत्वा वायुभक्षः परं त्र्यहम् ।
तप्तकृच्छ्रम् इदं प्रोक्तं सर्वाशुभविनाशनम् ॥
शीतकृच्छ्रस् तथैवैष क्रमाच् छीतैः प्रकीर्तितः ।
सर्वाशुभविनाशाय निर्मितो ब्रह्मणा स्वयम् ॥
गोमूत्रेणाचरेत् स्नानं वृत्तिं कुर्याच् च गोरसैः ।
उत्थितासूत्थितस् तिष्ठेद् उपविष्टासु च स्थितः ॥
अभुक्तवत्सु नाश्नीयाद् अपीतासु च नो पिबेत् ।
त्राणं चैवात्मनः कार्यं भयार्ताश् च समुद्धरेत् ॥
आत्मानम् अपि सन्त्यज्य गोव्रतं तत् प्रकीर्तितम् ।
सर्वपापप्रशमनं मासेनैकेन भार्गव ॥
व्रतेनानेन पूर्णेन गोलोकं पुरुषो व्रजेत् ।
अभीष्टम् अथ वा राम यावद् इन्द्राश् चतुर्दश ॥
गवाम् आहारनिर्मुक्तान् अश्नन् प्रतिदिनं यवान् ।
मासेन तद् अवाप्नोति यत् किञ्चिन् मनसेच्छति ॥
गोमतीं च तथा विद्यां सायं प्रातस् तथा जपेत् ।
[९७०] गोलोकम् आप्नोति नरो नात्र कार्या विचारणा ॥
उपर्य् उपरि सर्वेषां गवां लोकः प्रकीर्तितः ।
न वसन्ति सदा यत्र गावस् त्व् आकाशगा दिवि ।
विमानेषु विचित्रेषु वृतेष्व् अप्सरसां गणैः ॥
किङ्किणीजालचित्रेषु वीणासु रचनादिषु ।
सदा कामफला नद्यः क्षीरपायसकर्दमाः ॥
शीतलामलपानीयाः सुवर्णसिकतास् तथा ।
पुष्करिण्यः शुभास् तत्र वैदूर्यकमलोत्पलाः ॥
मानसी च तथा सिद्धिस् तत्र लोके भृगूत्तम ।
तं तु लोकं नरा यान्ति गवां भक्त्या न संशयः ॥
गोमतीं कीर्तयिष्यामि सर्वपापप्रणाशिनीम् ।
तां तु मे गदतो विप्र शृणुष्व सुसमाहितः ॥
गावः सुरभयो नित्यं गावो गुग्गुलगन्धिकाः ।
गावः प्रतिष्ठा भूतानां गावः स्वत्ययनं परम् ॥
अन्नम् एव परं गावो देवानां हविर् उत्तमम् ।
पावनं सर्वदेवानां रक्षन्ति च वहन्ति च ॥
हविषा मन्त्रपूतेन तर्पयन्त्य् अमरान् दिवि ।
ऋषीणाम् अग्निहोत्रेषु गावो होमनियोजिताः ॥
सर्वेषाम् एव भूतानां गावः शरणम् उत्तमम् ।
गावः पवित्रं परमं गावो मङ्गलम् उत्तमम् ॥
गावः स्वर्गस्य सोपानं गावो धन्याः सनातनाः ।
नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ।
नमो ब्रह्मसुताभ्यश् च पवित्राभ्यो नमो नमः ॥
[९७१] ब्राह्मणाश् चैव गावश् च कुलम् एकं द्विधा कृतम् ।
एकत्र मन्त्रास् तिष्ठन्ति हविर् एकत्र तिष्ठति ॥
देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत् ।
धार्यते वै यदा कस्मात् सर्वे पूज्यतमा मताः ॥
यत्र तीर्थे सदा गावः पिबन्ति तृषिता जलम् ।
उत्तरन्त्य् अथ वा येन स्थिता तत्र सरस्वती ॥
गवां हि तीर्थे च सतीह गङ्गा
पुष्टिस् तथासां रजसि प्रवृद्धा ।
लक्ष्मीः करीषे प्रणतो च धर्मस्
तासां प्रणामं सततं च कुर्यात् ॥
भविष्यत्पुराणे ।
ब्रह्मोवाच ।
गाम् आलभ्य नमस् कृत्य कुर्याद् यस् तु प्रदक्षिणम् ।
प्रदक्षिणी कृता तेन सपतद्वीपा वसुन्धरा ॥
गवां हुङ्कारशब्देन दृष्टिपातेन सत्तम ।
पापं प्रणश्यते यस्मात् तस्मात् पश्यन् स्पृशेच् च ताः ॥
कुतस् तस्य भवेत् पापं गृहं यस्य विभूषितम् ।
सततं बालवत्साभिर् जुनीभिर् अलङ्कृतम् ॥
यावत् तीर्थानि मेदिन्याम् आसमुद्रसरांसि च ।
[९७२] गवां शृङ्गोदकस्नानकलां नार्हन्ति षोडशीम् ॥
गवाम् अस्थि न लङ्घेत मृते गन्धं न वर्जयेत् ।
यावद् आघ्राति तद् गन्धं तावत् पुण्येन युज्यते ॥
गवां कण्डूयनं धन्यं गोप्रदानफलप्रदम् ।
तुल्यं गोशतदानस्य भयरोगादिपालनम् ॥
तृणोदकादिसंयुक्तं यः प्रदद्याद् गवाह्निकम् ।
कपिलाशतदानस्य फलं विद्यान् न संशयः ॥
पञ्चभूते शिवे पुण्ये पवित्रे सूर्यसम्भवे ।
प्रतीछेदं मया दत्तं सौरभेयि नमो ऽस्तु ते ॥
बहुना च किम् उक्तेन गावः पाल्याः प्रयत्नतः ।
गावो देयास् तथा रक्ष्याः पूज्या ग्राह्याश् च सर्वशः ॥
गावो ये ताडयन्तीह सर्वलोकस्य मातरः ।
ते यान्ति रौरवं नाम नरकं नात्र संशायः ॥
ताडयेद् यस् तु वै मोहाद् यो वा कश्चिन् नराधमः ।
स गच्छेन् नरकं घोरं सम्पीडकम् इति श्रुतिः ॥
आयान्तीं हन्तुकामां यः सौरभेयीं विभावरीम् ।
क्षम मातर् इति ब्रूयात् स याति परमं पदम् ॥
वराहपुराणे ।
यम उवाच ।
गावः पवित्रं माङ्गल्या देवानाम् अपि देवताः ।
[९७३] यस् ताः शुश्रूषते भक्त्या स पापेभ्यः प्रमुच्यते ।
यावज्जीवं कृतं पापं तत्क्षणाद् एव नश्यति ॥
लाङ्गूलेनोद्धृतं तोयं मूर्धा गृह्णाति यो नरः ।
शरत्सु ह्य् अपजातेभ्यः स पापेभ्यः प्रमुच्यते ॥
प्रस्रवे यो गवां स्नायात् रोहिण्य्ं मानवो भुवि ।
सर्वपापकृतान् दोषान् दहत्य् आशु न संशयः ॥
धेनोः स्तनाद् विनिष्क्रान्तां धारां क्षीरस्य यो नरः ।
शिरसा प्रतिगृह्णीयात् स पापेभ्यः प्रमुच्यते ॥
इति गोपरिचर्या ।
अथान्नदानम् । महाभारते शान्तिपर्वणि दानधर्मात् ।
युधिष्ठिर उवाच ।
कानि दानानि लोके ऽस्मिन् दारुकामो महीपतिः ।
गुणाधिकेभ्यो विप्रेभ्यो दद्याद् भरतसत्तम ॥
केन तुष्यति ते सद्यस् तुष्टाः किं प्रदिशन्ति च ।
शंस चैतन् महाबाहो फलं पुण्यकृतं महत् ॥
किं दत्तं फलवद् राजन्न् इह लोके परत्र च ।
भवतः श्रोतुम् इच्छामि तन् मे विस्तरतो वद ॥
[९७४] भीष्म उवाच ।
इमम् अर्थं पुरा पृष्टो नारदो देवदर्शनः ।
यद् उक्तवान् असौ तन् मे गदतः शृणु भारत ॥
नारद उवाच ।
अन्नम् एव प्रशंसन्ति देवा ऋषीगणासुराः ।
लोकतन्त्रा हि सञ्ज्ञाश् च सर्वम् अन्ने प्रतिष्ठितम् ॥
अन्नेन सदृशं दानं न भूतं न भविष्यति ।
तस्माद् अन्नं विशेषेण दातुम् इच्छन्ति मानवाः ॥
अन्नम् ऊर्जस्करं लोके प्राणाश् चान्ने प्रतिष्ठिताः ।
अन्नेन धार्यते विश्वं सर्वं जगद् इदं प्रभो ॥
अन्नाद् गृहस्था लोके ऽस्मिन् भिक्षवस् तत एव च ।
अन्नात् प्रभवति प्राणः प्रत्यक्षं नात्र संशयः ॥
कुटुम्बं पीडयित्वापि ब्राह्मणाय महात्मने ।
दातव्यं भिक्षवे चान्नम् आत्मनो भूतिम् इच्छता ॥
ब्राह्मणायाभिरूपाय यो दद्याद् अन्नम् अर्थिने ।
विदधाति निधिं श्रेष्ठं परलोके किम् आत्मनः ॥
आर्तम् अध्वनिवर्तन्तं वृद्धं द्विजम् उपस्थितम् ।
अर्चयेद् भूतिम् अन्विच्छन् श्रोत्रियं गृहम् आगतम् ॥
क्रोधम् उत्पतितं हित्वा सुशीलो वीतमत्सरः ।
अन्नदः प्राप्नुते राजन् दिवि चेह च तत् सुखम् ॥
नावमन्येद् अभिगतं न प्रणुद्यात् कथञ्चन ।
अपि श्वपाके शुनि वा न दानं विप्रणश्यति ॥
[९७५] यो दद्याद् अपरिक्लिष्टम् अन्नम् अध्वनि वर्तते ।
श्रान्तायादृष्टपूर्वाय स महाधर्मम् आप्नुयात् ॥
पितॄन् देवांस् तथा विप्रांस् तीर्थानिच नराधिप ।
यो नरः प्रीणयत्य् अन्नैस् तस्य पुण्यफलं महत् ॥
कृत्वापि पातकं कर्म यो दद्याद् अन्नम् अर्थिने ।
ब्राह्मणाय विशेषेण न स पापेन युज्यते ॥
ब्राह्मणेष्व् अक्षयं दानम् अन्नं शूद्रे महत्फलम् ।
अन्नदानं हि शूद्रे च ब्राह्मणेभ्यो विशिष्यते ॥
न पृच्छेद् गोत्रचरणं स्वाध्यायं देशम् एव वा ।
भिक्षिते ब्राह्मणे चेह दद्याद् अन्नं प्रयाति च ॥
अन्नदस्यान्नवृक्षाश् च सर्वकामफलान्विताः ।
भवन्तीहाथ चामुत्र नृपते नात्र संशयः ॥
आशंसते हि पितरः सुवृष्टिम् इव कर्षकाः ।
अस्माकम् अपि पुत्रो वा पौत्रो वान्नं प्रदास्यति ॥
ब्राह्मणो हि महद् भूतं स्वयं देहीति याचते ।
अकामश् च सकामो वा दत्वा पुण्यम् अवाप्नुयात् ॥
ब्राह्मणः सर्वभूतानाम् अतिथिः प्रभृताग्रभुक् ।
विप्रा यम् अभिगच्छन्ति भिक्षमाणा गृहं सदा ॥
सत्कृताश् च निवर्तन्ते तद् अतीव प्रवर्तते ।
महाभोगकुले जन्म प्रेत्य प्राप्नोति भारत ॥
दत्वा त्व् अन्नं नरो लोके तथा स्थानम् अनुत्तमम् ।
इष्टमिष्टान्नदायी च स्वर्गे वसति सत्कृतः ॥
अन्नं पाणा नराणां हि सर्वम् अन्ने प्रतिष्ठितम् ।
[९७६] अन्नदः पशुमान् पुत्री धनवान् भोगवान् अपि ॥
प्राणवांश् चापि भवति रूपवांश् च तथा नृप ।
अन्नदः प्राणदो लोके सर्वदः प्रोच्यते स च ॥
अन्नं हि दत्वातिथये ब्राह्मणाय यथाविधि ।
प्रदाता सुखम् आप्नोति देवैश् चापि प्रपूज्यते ॥
ब्राह्मणो हि महद् भूतं क्षेत्रं चरति पादवत् ।
उप्यते यत्र यद् बीजं तद् धि पुण्यफलं महत् ॥
प्रत्यक्षप्रीतिजननं भोक्तॄणाम् अन्नम् एव च ।
सर्वाणीहान्नदानानि परोक्षे फलवन्त्य् अतः ॥
अन्नाद् धि प्रसवं विद्धि रतिम् अन्नाच् च पार्थिव ।
धर्मार्थाव् अन्नतो विद्धि रोगनाशं तथान्नतः ॥
अन्नं ह्य् अमृतम् इत्य् आहुः पुरा काले प्रजापतिः ।
अन्नं बिभर्ति लोकस्य शरीरं पाञ्चभौतिकम् ॥
अन्नं दिव्यं तु पुरुषं सर्वं ह्य् अन्ने प्रतिष्ठितम् ।
अन्नप्रणाशे भिद्यन्ते शरीरे पञ्चधातवः ॥
बलं बलवतो ऽपीह पणश्यत्य् अन्नहानितः ।
आवहाश् च विचाहाश् च यज्ञाश् चान्ते ऽमृते तथा ॥
न वर्तन्ते नरश्रेष्ठ ब्रह्मन् चान्नं प्रमीयते ।
अन्नदः सर्वम् एतद् धि यत् किञ्चित् स्थाणुजङ्गमम् ॥
त्रिषु लोकेषु धर्मार्थम् अन्नं देयम् अतो बुधैः ।
अन्नदस्य मनुष्यस्य बलम् ओजो यशः सुखम् ॥
कीर्तिश् च वर्धते यस्य त्रिषु लोकेषु पार्थिव ।
मेधेष्व् अदत्तं नैवैतत् प्राणिनां पतनं शिवः ॥
[९७७] न च मेघगतं वारि शक्रो वर्षति भारत ॥
आदत्ते च रसं भौमम् आदित्यः स्वगभस्तिभिः ।
वायुर् आदित्यतश् चान्तश्चरो देवः प्रजापतिः ॥
तद् यदा मेघतो वारि पतितं भवति क्षितौ ।
तदा वसुमती देवी स्निग्धा भवति भारत ॥
ततः सस्यानि रोहन्ति यैर् एतद् वर्तते जगत् ।
मांसमेध्ऽस्थिशुक्राणां प्रादुर्भावस् ततः पुनः ॥
सम्भवन्ति ततः शुक्रात् प्राणिनः पृथिवीपते ।
अग्नीषोमौ हि तच्छुक्रं प्रजनं पुष्यतश् च ह ॥
एवम् अन्नं च सूर्यश् च पवनः सर्व एव च ।
एक एव स्मृतो राशिर् यतो भूतानि जज्ञिरे ॥
प्राणान् दधाति भूतानां प्रजाश् च भरतर्षभ ।
गृहम् अभ्यागतायाशु यो दद्याद् अन्नम् अर्थिने ॥
भीष्म उवाच ।
नारदेनैवम् उक्तो ऽहम् अदाम् अन्नं सदा नृप ।
अन्नं सूर्यस् त्वम् अप्य् अन्नं तस्माद् देहि युधिष्ठिर ॥
दत्वान्नं विधिवद् राजन् द्विजेभ्यस् त्वम् अपि प्रभो ।
यथावद् अनुरूपेभ्यस् ततः स्वर्गम् अवाप्स्यति ॥
अन्नदानाद् धि ये लोकास् तान् शृणुष्व नराधिप ॥
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् ।
नानासंस्थानरूपाणि नानास्तम्भान्वितानि च ॥
[९७८] चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ।
तरुणादित्यवर्णानि स्थावराणि चराणि च ॥
अनेकशतभौमानि सान्तर्जलवनानि च ।
वैदूर्यार्कप्रकाशानि रूक्मरूप्यमयानि च ॥
सर्वकामफलाश् चापि वृक्षा भवनसंस्थिताः ।
वाप्यो वीथ्यः सभा प्रपा दीर्घिकाश् चैव सर्वतः ॥
घोषवन्ति च यानानि युक्तान्य् अथ सहस्रशः ।
भक्षभोज्यमया शाला वासांस्य् आभरणानि च ॥
क्षीरं स्वरन्त्यः सरितस् तथा चैवान्नपर्वताः ।
प्रासादाः पाण्डुराभासाः शय्याश् च कनकोज्ज्वलाः ।
तान् अन्नदाः प्राप्नुवन्ति तस्माद् अन्नप्रदो भव ॥
एते लोकाः पुण्यकृताम् अन्नदानान् महात्मनाम् ।
तस्माद् अन्नं विशेषेण दातव्यं मानवैर् भुवि ॥
अग्निपुराणात् ।
अन्नदानस्य माहात्म्यं सर्वेभ्यो मुनिसत्तमैः ।
सुखप्रीतिकरं प्रोक्तं कथयामि तवानघ ॥
ददस्वान्नं ददस्वान्नं ददस्वान्नं नृपोत्तम ।
सद्यस् तुष्टिकरं लोके किं दत्तेनापरेण ते ॥
पुराकल्पे तु रामेण यद् उक्तं विधिनानुग ।
निर्वेदाद् देवदेवेन तथापि कथयामि ते ॥
पृथिव्याम् अन्नपूर्णायां वयम् अन्नस्य काङ्क्षिणः ।
सौमित्रे नूनम् अस्माभिर् न ब्राह्मणमुखे हुतम् ॥
[९७९] यद् उप्यते स्वके दारे तस्यावश्यं फलं नरैः ।
प्राप्यते लक्षणास्माभिर् न ब्राह्मणमुखे हुतम् ॥
यन् न प्राप्यं न तत् प्राप्यं विद्यया पौरुषेण वा ।
सत्यं लोके प्रवादो ऽयं न दत्तम् उपतिष्ठते ॥
भक्षोपयोगाद् अन्नस्य दानं श्रेयस्करं परम् ।
प्रकारान्तरभोज्यानि दानान्य् अन्यानि पार्थिव ॥
स्नातानाम् अनुलिप्तानां भूषितानां च भूषणैः ।
न सुखं न च सन्तोषो भवेद् अन्नाद् ऋते नृणाम् ॥
धर्मार्थकाममोक्षाणाम् अन्नं परमसाधनम् ।
अन्नं प्रजपतिः साक्षाद् अन्नं विष्णुस् तथा शिवः ।
तस्माद् अन्नं विशेषेण दातव्यं मानवैर् भुवि ॥
तत्र बृहस्पतिः ।
अन्नदानं गुणकरं सर्वदानाधिकं नृणाम् ।
अन्नाद् धि प्राणजननं नृणां वै जायते सदा ॥
प्राणाप्यायनमात्रं तु यो विप्राय प्रयच्छति ।
दुर्भिक्षे ऽत्र विशेषेण दातव्यं मानवैर् भुवि ॥
देवलः ।
कृत्वा तु पातकं कर्म यो दद्याद् अन्नम् ईप्सितम् ।
ब्राह्मणानां विशेषेण स निहन्त्य् आत्मनस् तमः ॥
आदरेण च भक्त्या च यद् अन्नम् उपदीयते ।
तत् प्रीणयति गात्राणि नामृतं मानवर्जितम् ॥
[९८०] दुर्लभस् तु मुदा दाता भोक्तारश् च सुदुर्लभाः ।
मुदा दाता च भोक्ता च ताव् उभौ स्वर्गवासिनौ ॥
यो ऽन्नं बहुमतं भुङ्क्ते यश् चान्नं नावमन्यते ।
यश् चान्नं प्रीतितो दद्यात् तस्यान्नम् उपतिष्ठते ॥
प्रीतितो ऽन्नं च यो दद्याद् गृह्णीयाद् यो ऽभिपूज्य च।
प्रीतितो ऽक्षयम् अश्नाति पूजितः स्वर्गम् अश्णुते ॥
यो दद्याद् अप्रियेणान्नं यश् चान्नं नाभिनन्दति ।
ताव् उभौ नरके मग्नौ वसेतां शरदः शतम् ॥
स्कन्दपुराणे ।
सर्वेषाम् एव दानानाम् अन्नदानं परं स्मृतम् ।
सद्यः प्रीतिकरं दिव्यं बलबुद्धिविवर्धनम् ॥
नान्नदानसमं दानं त्रिषु लोकेषु विद्यते ।
अन्नाद् भवन्ति भूतानि म्रियन्ते तदभावतः ॥
गर्भस्था जायमानाश् च बालवृद्धाश् च मध्यअमाः ।
आहारम् अभिकाङ्क्षन्ति देवदानवतापसाः ॥
क्षुधा हि सर्वरोगाणां व्याधिः श्रेष्ठतमः स्मृतः ।
तस्यान्नौषधलेपेन प्रतीकारः प्रकीर्तितः ॥
अन्नदः प्राणदः प्रोक्तः प्राणदश् चापि सर्वदः ।
तस्माद् अन्नप्रदानेन सर्वदानफलं लभेत् ॥
धर्मार्थकाममोक्षाणां देहः परमसाधनम् ।
स्थितिस् तस्यान्नपानाभ्याम् अतस् तत् सर्वसाधनम् ॥
अन्नं प्रजापतिः साक्षाद् अन्नं विष्णुः शिवः स्वयम् ।
[९८१] तस्माद् अन्नसमं दानं न भूतम् न भविष्यति ॥
विष्णुधर्मोत्तरे ।
हंस उवाच ।
सर्वेषाम् एव दानानाम् अन्नदानं विशिष्यते ।
अन्नदानात् परं दानं न भूतं न भविष्यति ॥
नात्र पात्रपरीक्षा स्यान् न कालनियमस् तथा ।
न च देशः परीक्ष्यो ऽत्र देयम् अन्नं सदैव तत् ॥
श्वभ्यश् च श्वपचेभ्यश् च पतितेभ्यस् तथैव च ।
कृमिकीटपतङ्गेभ्यो देयम् अन्नं सदैव हि ॥
अन्नं हि जीवितं लोके प्राणाश् चान्ननिबन्धनाः ।
अन्नदः प्राणदो लोके सर्वदश् च तथान्नदः ॥
भुक्त्वा तथा च यस्यन्नं सन्ततिः स्याद् द्विजोत्तम ।
ज्ञातव्यं ब्राह्मणश्रेष्ठ यस्यान्नं तस्य सन्ततिः ॥
दातव्यं सर्ववर्णेभ्यो भोक्तव्यं ब्राह्मणस्य तु ।
यस्यान्नेनोदरस्थेन ब्राह्मणो म्रियते द्विजाः ।
तां तु योनिम् अवाप्नोति नात्र कार्या विचारणा ॥
भक्षदः स्वर्गम् आप्नोति शक्रलोकं तु भोज्यदः ।
लेह्यदो ऽप्सरसां लोकं वसूनाम् अपि चूष्यदः ॥
वारुणं लोकम् आप्नोति तथा पानदो नरः ।
पानकानि सुगन्धीनि शीतलानि प्रयच्छति ।
सर्वकामसमृद्धश् च नात्र कार्या विचारणा ॥
[९८२] परमान्नप्रदानेन तृप्तिर् भवति शाश्वती ।
पिपासया न म्रियते गवां लोके महीयते ॥
गुडप्रदस् तथारोग्यं सर्वान् कामान् मधुप्रदः ।
घृतदो जीवितं दीर्घम् आरोग्यं तैलदस् तथा ॥
सर्वान् कामान् अवाप्नोति लवणं यः प्रयच्छति ।
सक्तुदस् तृप्तिम् आप्नोति सिकतादस् तथा श्रित्यम् ।
अकीर्तितानाम् अन्येषां दानात् स्वर्गम् अवाप्नुयात् ॥
अथ भगवतीपुराणे ।
लवणं च घृतं तैलं गुडं हिङ्गुं च भारत ।
कदुखण्डं जीरकं च पत्रं शाकं च शोभनम् ॥
दत्वा सुखी स्याद् इति शेषः । पद्मपुराणे ।
गुडम् इक्षुरसं चैव लवणं व्यञ्जनानि च ।
सुरभीणि च पानानि दत्वात्यन्तं सुखी भवेत् ॥
आह यमः ।
गोरसानां प्रदानेन तृप्तिम् आप्नोत्य् अनुत्तमाम् ।
घृतप्रदानेन तथा दीर्घं विन्दति जीवितम् ॥
लिङ्गपुराणे ।
[९८३] लवणस्य च दातारस् तिलानां सर्पिषां तथा ।
तेजस्विनो ऽभिजायन्ते भोगिनश् चिरजीविनः ॥
ब्रह्माण्डपुराणे ।
रक्तं मांसं वसां शुक्रं क्रमाद् अन्नात् प्रवर्तते ।
शुक्राद् भवन्ति भूतानि तस्माद् अन्नमयं जगत् ॥
हेमरत्नाश्वनागेन्द्रचन्द्रस्रक्चन्दनादिभिः ।
समस्तैर् अपि सम्प्राप्तैर् न रमन्ते बुभुक्षिताः ॥
नास्ति क्षुधासमं दुःखं नास्ति रोगः क्षुधासमः ।
नास्त्य् आहारसमं सौख्यं नास्ति क्रोधसमं रिपुः ॥
अत एव महत् पुण्यम् अन्नदानप्रदानतः ।
यतः क्षुधाग्निसन्तप्ता म्रियन्ते सर्वदेहिनः ॥
त्रैलोक्ये यानि रत्नानि भोगस्त्रीवाहनानि च ।
अन्नदानप्रदः सर्वम् इहामुत्र समश्नुते ॥
यस्यान्नपानपुष्ठाङ्गः कुरुते पुण्यसञ्चयम् ।
अन्नप्रदातुस् तस्यार्धं कर्तुश् चार्धं न संशयः ॥
ब्रह्मवैवर्ते ।
यस्य ह्य् अन्नम् उपाश्नन्ति ब्राह्मणानां शतं समाः ।
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर् भवेत् ॥
ब्राह्मणानां सहस्राणि दश् भोज्या नरर्षभ ।
नरो ऽधर्मात् प्रमुच्येत पापेष्व् अपि रतः सदा ॥
भोजयित्वा दशशतं नरो ब्रह्म्विदां नृप ।
न्यायविद्धर्मविदुषां स्मृतिभाष्यविदां तथा ॥
[९८४] न याति नरकं घोरं संसारांश् च न सेवते ॥
यजेद् ब्राह्मणपूर्वं तु भोक्तुम् अन्नं सदा गृही ।
अवन्ध्यं दिवसं कुर्याद् अन्नदानेन मानवः ॥
भैक्ष्येणान्नं समाहृत्य विप्रेभ्यो यः प्रयच्छति ।
स्वाध्यायनिरतो विप्रो दत्वेह सुखम् एधते ॥
सर्वावस्थं मनुष्येण न्यायेनान्नम् उपार्जितम् ।
कार्यं पात्रगतं नित्यम् अन्नं हि परमा गतिः ॥
तथा ।
कौमुदे शुक्लपक्षे तु यो ऽन्नदानं करोत्य् अतः ।
स सन्तरति दुर्गाणि प्रेत्य चानन्त्यम् अश्नुते ॥
नन्दिपुराणे ।
अन्नाद् भूतानि जातानि देवा ह्य् अन्नाद्यकाङ्क्षिणः ।
न तस्य पात्रादिविधिर् विना श्राद्धं प्रकीर्तितम् ॥
तथा ।
अपि कीटपतङ्गानां शुनां चाण्डालयोनिनाम् ।
दत्वान्नं लोकम् आप्नोति प्राजापत्यं समासतः ॥
बान्धवेभ्यो ऽतिथिभ्यो ऽन्नं मित्रेभ्यश् च प्रयच्छताम् ।
दीनान्धकृपणानां च स्वर्गः स्याद् अन्नदायिनाम् ॥
ग्रासमात्रं नरो दत्वा भूतानाम् अन्नगृध्नते ।
स्वर्गं वसेत् समानां तु शतं भोगैर् मनोरमैः ॥
ग्रासे ग्रासे फलं ह्य् एतद् विधिवत् परिकीर्तितम् ।
[९८५] एतद् देवाय ते प्रोक्तं द्विगुणं पुण्यगौरवम् ॥
अन्नं विना कृशान्तस्य दत्वान्नं देशकालतः ।
फलं पञ्चगुणं प्रोक्तं सर्वभावसमन्वितम् ॥
राजसादिभावसमन्वितम् इत्य् अर्थः ।
देवतानां तु यो दद्याद् अन्नाद्यं श्रद्धयान्वितः ।
सिक्थासिक्थाद् वसेल् लक्षं समानाम् अमरैः सह ॥
एतद्दशगुणं पुण्यम् अन्ने व्यञ्जनसंयुते ।
यथेष्टदेवतादत्ताद् एतत् पुण्यं प्रकीर्तितम् ॥
यो दद्याद् ब्राह्मणे ऽन्नानि तस्य द्विगुणितं फलम् ।
तस्माद् विष्णौ च दत्वान्नं द्विगुण्ं फलम् अश्नुते ॥
रुद्रायान्नप्रदानेन फलम् एतच्चतुर्गुणम् ।
श्रद्धाकालसमायोगाद् व्यञ्जनानां च योगतः ॥
शतसङ्ख्यं भवेत् पुण्यं सम्यग् अन्नप्रदायिनाम् ॥
लघुहारीतः ।
उपपन्नं यथा ह्य् अन्नं भुञ्जते समुपस्थिते ।
आपीतरसम् उच्छिष्टं न दद्यान् नैव होमयेत् ॥
व्यासः ।
यस् त्व् एकपङ्क्त्यां विषमं ददाति
स्नेहाद् भयाद् वा यदि वार्थहेतोः ।
देवैश् च दृष्टं मुनिभिश् च गीतं
तां ब्रह्महत्यां मुनयो वदन्ति ॥
[९८६] अत्रिः ।
अव्रताश् च ह्य् अमन्त्राश् च यत्र भैक्षचरा द्विजाः ।
तं ग्रामं दण्डयेद् राजा चौरभक्तप्रदो हि सः ॥
अधीत्य चतुरो वेदान् सर्वशास्त्रार्थतत्त्ववित् ।
नरेन्द्रभवने भुक्त्वा विष्ठायां जायते कृमिः ॥
राजान्नं हरते तेजः शूद्रान्नं ब्रह्मवर्चसम् ।
स्वसुतान्नं च यो भुङ्क्ते स भुङ्क्ते पृथिवीमलम् (?) ॥
देवलः ।
अघृतं भोजयन् विप्रं स्वगृहे सति सर्पिषि ।
परत्र निरयं घोरं गृहस्थः प्रतिपद्यते ॥
मृष्टम् अन्नं स्वयं भुक्त्वा पश्चात् कदशनं लघु ।
ब्राह्मणान् भोजयेन् मूर्खो निरये चिरम् आवसेत् ॥
यो मृष्टम् अन्नं द्विजपुङ्गवानां
दद्यात् सुराणाम् अथ वातिथिभ्यः ।
स पुत्रपौरैर् अभिवर्धमानः
समानतां वृत्ररिपोर् उपैति ॥
इति पक्वान्नदानविधिः ।
अथामान्नदानम् । विष्णुधर्मोत्तरात् ।
हंस उवाच ।
[९८७] धान्यानाम् उत्तमं दानं कथितं द्विजपुङ्गवैः ।
धान्येभ्यो ऽपि परं धान्यं रक्तशालिः प्रकीर्तितः ॥
रक्तशालिं नरो दत्वा सूर्यलोके महीयते ।
दत्वा तथा सुगन्धांश् च गन्धर्वैः सह मोदते ॥
कलमानां प्रदानेन शक्रलोके महीयते ।
महाशालेः प्रदानेन वसूनां लोकम् आप्नुयात् ॥
कृष्णशालिं तथा दत्वा अलकायां प्रमोदते ।
व्रीहीनां सस्यदानानां दानात् स्वर्गम् अवाप्नुयात् ॥
यवप्रदानेन नरः शक्रलोके महीयते ।
तथा गोधूमदानेन वसूनां लोकम् आप्नुयात् ॥
प्रियो भवति लोकस्य प्रियङ्गुं यः प्रयच्छति ।
ददाति यस् तु श्यामाकं प्रीयन्ते तस्य देवताः ॥
अन्येषां शूकधान्यानां प्रदाने नियतो नरः ।
स्वर्गलोकम् अवाप्नोति नात्र कार्या विचारणा ॥
मुद्गदः शक्रलोकं तु यमलोकं तु माषदः ।
यथेष्टं लोकं आप्नोति तथा विप्रस् तिलप्रदः ॥
षष्टिकान्नप्रदानेन लोकं नैरृतिकं लभेत् ।
सचीनचणकं दत्वा लोकं वारुणम् आप्नुयात् ॥
वायव्यं च मसूराणि राजमाषाणि धानदम् ।
अन्येषां शमीधान्यानां दानात् स्वर्गम् अवाप्नुयात् ॥
इक्षुमृद्वीकयोर् दानात् परं सौभाग्यम् आप्नुयात् ॥
पक्वान्नदानात् फलदं नृलोके
शुष्कान्नम् उक्तं हि तदाप्तिर् अस्मात् ।
[९८८] यजन्ति यज्ञैर् हि ततो द्विजेन्द्रास्
तस्मात् तु तत् पुण्यतमं प्रदिष्टम् ॥
इत्य् आमान्नदानविधिः ।
अथोदकदानम् । तत्र मनुः ।
सलिलं यः प्रयच्छेत जीवानां प्राणधारणम् ।
शीतलं ग्रीष्मकाले तु तस्य पुण्यफलं शृणु ॥
कपिलाकोटिदानस्य यत् पुण्यं हि विधीयते ।
तत्पुण्यफलम् आप्नोति पानीयं यः प्रयच्छति ।
पूर्णचन्द्रप्रकाशे नष्ठद्यां विमाने न (?) रोहति ॥
सौरपुराणे ।
पानीयदानं परमं सर्वदानाधिकं स्मृतम् ।
तस्मात् पानीयम् आनीय देयं धर्मविदा तथा ॥
वेदव्यासः ।
दुर्लभं सलिलं तात विशेषेण परत्र वै ।
पानीयस्य प्रदानेन तृप्तिर् भवति शाश्वती ॥
भविष्यत्पुराणे ।
पानीयं प्राणिनां प्राणास् तत्र यत् तेन दीयताम् ।
सर्वेषाम् एव दानानाम् एतद् एवाधिकं यतः ॥
[९८९] तथा ।
ग्रीष्मे चैव वसन्ते च पानीयं यः प्रयच्छति ।
वक्तुं जिह्वासहस्रेण तस्य पुण्यं न शक्यते ॥
पद्मपुराणे ।
सुगन्धाः शीतलाश् चापि रसैर् दिव्यैः समन्विताः ।
यः प्रयच्छति विप्रेभ्यस् तस्य दानफलं शृणु ॥
विमानं सूर्यसङ्काशम् अप्सरोगणसेवितम् ।
सो ऽधिरुह्य दिवं याति वरुणस्य सलोकताम् ॥
नन्दिपुराणे ।
यो ऽपि कश्चित् तृषार्ताय जलपानं प्रयच्छति ।
स नित्यतृप्तो वसति स्वर्गे युगशतं नरः ॥
महाभारते ।
अन्नं हि सर्वदानानाम् अधिकं मनुर् अब्रवीत् ।
अन्नाच् चापि प्रभवति पानीयं कुरुसत्तम ॥
नीरेण हि विना तात न किञ्चित् सम्प्रवर्तते ।
नीरजातश् च भगवान् सोमो ग्रहगणेश्वरः ॥
अमृतं वसुधा चैव स्वाहा चाथे स्वधा तथा ।
अन्नौषध्यो महाराज वीरुधश् च जलोद्भवाः ।
अतः प्राणभृतां प्राणाः सम्भवन्ति विशाम्पते ॥
देवानाम् अमृतं ह्य् अन्नं नागानां च सुधा तथा ।
[९९०] पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः ॥
अन्नम् एव मनुष्याणां प्राणान् आहुर् मनीषिणः ।
तच् च सर्वं नरव्याघ्र पानीयात् सम्प्रवर्तते ॥
तस्मात् पानीयदानाद् वै न परं विद्यते शिवम् ।
तच् च दद्यान् नरो नित्यं य इच्छेद् भूतिम् आत्मनः ॥
धन्यं यशस्यम् आयुष्यं जलदानं विशाम्पते ।
शक्राश् चाष्टाधि कौन्तेय स्वर्गे तिष्ठति तोयदः ॥
सर्वान् कामान् अवाप्नोति कीर्तिम् एवेह शाश्वतीम् ।
प्रेत्य चानन्त्यम् आप्नोति पापेभ्यश् च प्रमुच्यते ॥
तोयदो मनुजव्याघ्र स्वर्गे गत्वा महाद्युते ।
अक्षयान् समवाप्नोति लोकान् इत्य् अब्रवीन् मनुः ॥
विष्णुधर्मोत्तरे ।
पानीयम् एव सफलं त्रैलोक्यं सचराचरम् ।
विकारः सलिलस्येदं स्थावरं जङ्गमं तथा ।
पानीयेन विना वृत्तिर् लोके नास्तीह कर्हिचित् ॥
कृमिकीटपतङ्गानां जलम् एव परायणम् ।
यत्रोदकं तत्र सुराः सर्व एव प्रतिष्ठिताः ॥
यत्रोदकं तत्र तथा ऋषयश् च महाव्रताः ।
दुर्लभं तच् च लोकानां परलोके द्विजोत्तमाः ॥
गारुडपुराणे ।
मूल्येन कृत्वा धर्मान्नजलदानं प्रयच्छति ।
[९९१] प्रयाति चन्द्रसालोक्यं (?) शुभमालांशुकावृतः ॥
क्षीरकुल्यास् तम् आयान्ति तथा यान्ति मधुस्रवाः ।
घृतदध्युदकास् तस्य समुद्रा वशवर्तिनः ॥
दिनानि बहु जीवन्ति अन्नेन रहिताः किल ।
न हि तोयविहीनस् तु दिनम् एकं हि जीवति ॥
सर्वप्रदो नरव्याघ्र जलदानात् प्रकीर्तितः ।
उदके सर्वबीजानि इत्य् एव गौणिकी स्मृतिः ॥
स्कन्दपुराणे ।
त्रयाणाम् अपि लोकानाम् उदकं जीवनं स्मृतम् ।
पवित्रम् अमृतं तस्मात् तद् देयं पुण्यम् इच्छता ॥
अथ करपवित्रकादिदानानि । देवलः ।
सतोयां पथिके विप्रे यो दद्यात् करपत्रिकाम् ।
फलं स कूपखातस्य नूनम् आप्नोति मानवः ॥
महाभारते ।
बृहस्पतेर् भगवतः पौष्णश् चैव भगस्य च ।
अश्विनश् चैव वह्नेश् च प्रीतिर् भवति भारत ॥
परमं भेषजं होतुर् यज्ञानाम् एतद् उत्तमम् ।
पिपासया न म्रियन्ते स्वोपच्छन्दश् च जायते ॥
न प्राप्नुयाच् च व्यसनं करकान् यः प्रयच्छति ।
[९९२] प्रददेः ब्राह्मणाग्रेभ्यः करकान् श्रद्धयायुतः ।
उपस्पर्शनषद्भागं लभते पुरुषः सदा ॥
कात्यायनः ।
भोजयित्वा द्विजान् अन्नं करकान् यः प्रयच्छति ।
सुशीतसलिलोपेतान् सो ऽपि सद्गतिम् आप्नुयात् ॥
आदित्यपुराणे ।
यो ददाति घटीपात्रं कुण्डिकां करकांस् तथा ।
तृषार्तस्य तथा धर्मे लभते शीतलं जलम् ॥
स्कन्दपुराणे ।
यो घटं पयसा पूर्णं हेमपात्रनियोजितम् ।
सम्पूज्य वस्त्रयुग्मेन दद्यात् स्वर्गं व्रजेद् ध्रुवम् ॥
अथ धर्मघटदानम् । आह विष्णुः ।
शीतलेन सुगन्धेन वारिणा पूरितं घटम् ।
शुक्लचन्दनदिग्धाङ्गं पुष्पदामोपशोभितम् ॥
दध्योदनयुतं कुर्याच् छरावं तस्य चोपरि ।
उपानच्छत्रसंयुक्तं धर्माख्यं कल्पयेद् घटम् ॥
पुष्पाक्षतं गृहीत्वा तु इमं मन्त्रम् उदीरयेत् ।
ॐ नमो विष्णुरूपाय नमः सागरसम्भव ।
अपां पूर्णोद्धारास् मांस् त्वं दुःखसंसारसागरात् ॥
[९९३] उदकुम्भो मया दत्तो ग्रीष्मे काले दिने दिने ।
उदकुम्भप्रदानेन प्रीयतां मधुसूदनः ॥
भविष्योत्तरे ।
प्रत्यहं धर्मघटको वस्त्रसंवेष्टिताननः ।
ब्राह्मणस्य गृहे नेयः शीतामलजलः शुचिः ॥
वसन्तग्रीष्मयोर् मध्ये यः पानीयं प्रयच्छति ।
पले पले सुवर्णस्य फलम् आप्नोति मानवः ॥
मार्गशीर्षात् समारभ्य उदकुम्भं तु यः क्षिपेत् ।
दिने दिने सहस्रस्य गवां पुण्यफलं लभेत् ॥
तस्यैवोद्यापनं कार्यं मासि मासि नरोत्तम ।
मण्डकावेष्टकाभिश् च पक्वान्नैः सार्वकामिकैः ।
उद्दिश्य शङ्करं विष्णुं ब्रह्माणम् अथ वा पितॄन् ॥
सतिलं प्रोक्षयित्वा तु मन्त्रेणानेन मानवः ॥
एष धर्मघटादत्तो ब्रह्मविष्णुशिवात्मकः ।
अस्य प्रदानात् सततं मम सन्तु मनोरथाः ॥
अनेन विधिना यस् तु धर्मकुम्भं प्रयच्छति ।
वसन्ते ग्रीष्मसमये प्रपादानफलं लभेत् ।
प्रपादानफलं सो ऽपि प्राप्नोतीह न संशयः ॥
अथाश्वत्थसेचनम् । भविष्योत्तरे ।
[९९४] उदकुम्भप्रदाने ऽपि ह्य् अशक्तो यः पुमान् भवेत् ।
तेनाश्वत्थतरोर् मूलं सेच्यं नित्यं जितात्मना ॥
सर्वपापप्रशमनं सर्वदुःखप्रणाशनम् ।
सर्वरोगप्रशमनं नित्यं सन्ततिवर्धनम् ॥
अश्वत्थरूपी भगवान् प्रीयतां मे जनार्दनः ।
इत्य् उच्चार्य नमस्कृत्य प्रत्यहं पापनाशनम् ॥
यः करोति तरोर् मूले सेकं मासचतुष्टयम् ।
सो ऽपि तत्फलम् आप्नोति श्रुतिर् एषा सनातनी ॥
अथ गलन्तिकादानम् । तथा ।
अथान्यद् अपि वक्ष्यामि जलदानविधिं परम् ।
वसन्तसमयं ज्ञात्वा गत्वा देवालयं परम् ॥
तत्र स्वायम्भुवं लिङ्गम् आर्षं वा देवपूजितम् ।
तस्य गर्भगृहान्तस्य घटं तोयेन सम्भृतम् ॥
कुर्यात् सुरभिगन्धैश् च वासितं वस्त्रगालितम् ।
स्रवन्तं च दिवारात्रौ तज् जलं लिङ्गमूर्धनि ॥
एवं यः कारयेत् कुम्भं श्रद्धाभक्तिसमन्वितः ।
शिवस्य विष्णोर् अर्कस्य इष्टदेवस्य वा पुनः ॥
स्रवन्तं कारयेत् कुम्भम् अच्छिन्नं देवमस्तके ।
अनेन विधिना दत्वा नरो मासचतुष्टयम् ॥
ततः कर्कटके प्राप्ते देवं पञ्चामृतेन तु ।
[९९५] संस्नाप्य पूजयेद् गन्धैर् नैवेद्यैश् च मनोरमैः ।
प्रणिपत्य महेशानं मन्त्रम् एतम् उदीरयेत् ॥
ॐ नमः शङ्करः शम्भुर् भवो धाता शिवो हरः ।
प्रीयतां मे महादेव जलकुम्भप्रदानतः ॥
एवं सङ्कल्प्य दाता च पश्चाद् आगत्य वेश्मनि ।
स शक्त्या शिवभक्तांश् च विप्रमुख्यांश् च भोजयेत् ॥
एवं यः कुरुते ग्रीष्मे जलदानक्रियां हरे ।
यावद् बिन्दूनि लिङ्गस्य पतितानि न संशयः ।
स वसेच् छाङ्करे लोके तावत् कोट्यो नरेश्वर ॥
अथ मणिकदानम् । तत्र देवलः ।
ग्रीष्मप्रवेशे मणिकं ददाति द्विजसद्मनि ।
यो ऽम्बुपूरितम् आप्नोति स तडागकृतः फलम् ॥
भविष्योत्तरे ।
युधिष्ठिर उवाच ।
प्रपां दातुम् अशक्तेन विशेषं धर्मम् ईप्सता ।
मणिकस्य कथं दानं कस्मिन् काले च दीयते ।
किं फलं तस्य दानेन तद् आचक्ष्व जनार्दन ॥
[९९६] प्रपां दातुम् अशक्तेन विशेषधर्मम् ईप्सता ।
दानं तेन प्रकर्तव्यं मणिकस्य युधिष्ठिर ॥
वैशाखस्य तृतीयायां पौर्णमास्यां विशेषतः ।
वसन्ते ग्रीष्मकाले च मणिकं तत्र दीयते ॥
चत्वारिंशत्घटैः श्रेष्ठं त्रिंशद्भिर् मध्यमं स्मृतम् ।
विंशत्या कन्य्सं प्रोक्तम् अतो हीनं न कारयेत् ॥
जलपूर्णं ततः कुर्यात् सहिरण्यं स्वशक्तितः ।
शुक्लचन्दनदिघाङ्गं पुष्पदामोपशोभितम् ॥
वासोभिः सम्परिच्छाद्य सान्नभाण्डकृतोपरि ।
तस्योपरि न्यसेद् देवं वरुणं हेमनिर्मितम् ।
सदक्षिणं तु विप्राय दद्यात् सञ्चिन्त्य केशवम् ॥
आपो नारा इति प्रोक्ता आदित्यवरुणौ यमः ।
मणिकं पृथिवी सर्वदातुः शान्तिं प्रयच्छतु ॥
पूजामन्त्रः ।
ॐ आपः पवित्रं लोकानाम् अप्सु शेते जनार्दनः ।
मणिकाप्सु प्रदानेन प्रीयतां जलशायकः ॥
दानमन्त्रः ।
अनेन विधिना दत्वा मणिकं द्विजपुङ्गवे ।
दाता यत् फलम् आप्नोति तच् छृणुष्व नरोत्तम ॥
वियोगो नैव तस्यासीत् पुत्रभातृधनेषु च ।
गृहसम्भारवैकल्यं न प्राप्नोति नरः क्वचित् ॥
या स्त्री ददाति मणिकं तस्य पुण्यफलं शृणु ।
[९९७] अपुत्रा लभते पुत्रं दुर्भगा सुभगा भवेत् ॥
विधवा सप्तजन्मानि न जायेत मणिकदा ।
गृहदानफलं प्राप्य विष्णुलोके महीयते ॥
आश्वयुज्यां नवम्यां च शुक्लायां भरतर्षभ ।
संरूढपुष्पके दिव्ये आखण्डलपुरे वसेत् ॥
इति मणिकदानम् ।
अथ प्रपादानम् । महाभारते ।
प्रपाश् च कार्या दानार्थं नित्यं तु द्विजसत्तम ।
भुक्तेभ्यश् च प्रदीयन्ते पानीयानि विशेषतः ॥
निदाघकाले पानीयं यस्य तिष्थत्य् अवारितम् ।
स दुर्गविषमं कृच्छ्रं न कचादिद् अवापुनुते ॥
यमः ।
कूपारामप्रपाकारी तथा वृक्षस्य रोपकः ।
कन्याप्रदः सेतुकारी स्वर्गम् आप्नोत्य् असंशयम् ॥
यथा ।
येषां तडागानि प्रपाः शुभाश्
चारामाश् च कूपाश् च प्रतिश्रयाश् च ।
अन्नप्रदानं मधुरा च वाणी
तेषाम् अयं चैव परश् च लोकः ॥
[९९८] लिङ्गपुराणे ।
सर्वात्मना च सवनं देयं पानीयम् ओदनम् ।
एतत् सुदुर्लभतरं परलोके नराधिप ॥
तस्मात् कूपाश् च वाप्यश् च तडागानि प्रपास् तथा ।
कर्तव्यानि यथाशक्त्या नरैर् आत्महितैषिभिः ॥
ग्रामे वा नगरे वापि मार्गे वा तोयवर्जिते ।
यः प्रपां कारयेद् रम्यां स पुण्यां गतिम् आप्नुयात् ॥
विष्णुधर्मोत्तरात् ।
प्रपां पथि शुभां कृत्वा नाकलोके महीयते ।
प्रपास्थानं शुभं कृत्वा स्थानम् आप्नोति शाश्वतम् ॥
तस्य स्थानस्य संस्कारात् फलवृद्धिः प्रकीर्तिता ।
तत्रोपलेपनं कृत्वा सर्वपापैः प्रमुच्यते ॥
रज्जुं दत्वा प्रपास्थाने गोदो भवति मानवः ।
वारिधानीं तथा दत्वा तद् एव फलम् आप्नुयात् ॥
कुम्भप्रदानाद् भवति सदा पूर्णमनोरथः ॥
प्रपायां च तथा दत्वा पुरुषं परिचारकम् ।
सर्वकामसमृद्धस्य यज्ञस्य फलम् अश्नुते ॥
वर्धमानानि यो दद्यात् प्रपायां द्विजसत्तमाः ।
त्रिविधां वृद्धिम् आप्नोति तेजसा यशसा श्रिया ॥
लवणस्य प्रदानेन रसान् प्राप्नोति शाश्वतान् ।
तत्र हरितदानेन गवां लोकम् अवाप्नुयात् ॥
फलप्रदानेन तथा वह्निष्टोमफलं लभेत् ।
[९९९] सक्तूनां च प्रदानेन गोशतस्य फलं नरः ।
गोरसानां प्रदानेन गोलोकं समवाप्नुयात् ॥
शय्याश् च विविधाः कृत्वा प्रपायाम् आसनानि च ।
स्वर्ग्लोकम् अवाप्नोति वसूनां नात्र संशयः ॥
तत्र वह्निं तथा कृत्वा शीतत्राणाय मानवः ।
कायाग्निदीप्तिप्राकाश्यं सौभाग्यं च तथाप्नुयात् ॥
इन्धनानां प्रदानेन रिपुभिर् नाभिभूयते ।
तत्रोपयोगिभाण्डानां दानात् स्वर्गम् अवाप्नुयात् ।
इन्द्रलोकम् अवाप्नोति ताम्बूलादिप्रदानतः ॥
भविष्योत्तरे ।
युधिष्ठिर उवाच ।
प्रपादानस्य माहात्म्यं वद देवेश किञ्चन ।
कथं देया कदा देया दानं तस्याश् च किं फलम् ॥
श्रीकृष्ण उवाच ।
अतीते फाल्गुने मासि प्राप्ते चैव महोत्सवे ।
पुण्ये ऽह्नि विप्रकथिते ग्रहचन्द्रवलान्विते ॥
मण्डपं कारयेद् विद्वान् घनच्छायं मनोरमम् ।
पुरस्य मध्ये पथि वा चैत्यवृक्षतले ऽथ वा ॥
सुशीतलतलं रम्यं चिवित्रासनसंयुतम् ।
तन्मध्ये स्थापयेद् भव्यान् मणिकुम्भांश् च शोभनान् ॥
[१०००] आकालमूलान् करकान् वस्त्रैर् आवेष्टिताननान् ।
ब्राह्मणे शीलसम्पन्ने भृतिं दत्वा यथोदिताम् ।
प्रपापालः प्रकर्तव्यो बहुपुत्रपरिच्छदः ॥
पानीयपानाद् अश्रान्तान् यः कारयति मानवान् ।
एवंविधां प्रपां कृत्वा शुभे ऽह्नि विधिपूर्वकम् ॥
यथाशक्त्या नरश्रेष्ठ प्रारम्भे भोजयेद् द्विजान् ।
ततश् चोत्सर्जयेद् विद्वान् मन्त्रेणाने मानवः ॥
प्रपेयं सर्वसामान्या भूतेभ्यः प्रतिपादिता ।
अस्याः प्रदानात् पितरस् तृप्यन्तु च पितामहाः ॥
इदम् इह दानवाक्यम् ।
अद्यादि मासचतुष्टयं यावत् त्रीन् वा द्वौ वा एकम् एकं वा इमां प्रपां पानीयान्नव्यञ्जनादि सहितां त्रिंशद्वर्षकोटिपरिमितकालभोग्य-इन्द्रलोक-प्राप्तिकामो मर्त्यलोके चतुर्वेदब्राह्मणत्वकामः सर्वभूतेभ्यो ऽहम् उत्सृजामीति ।
अनिवारितं ततो देयं जलं मासचतुष्टयम् ।
त्रिपक्षं वा महाराज जीवानां जीवनं परम् ॥
गन्धाढ्यं सुरसं शीतं शोभने राजते स्थितम् ।
प्रदद्याद् अप्रतिहतं मुखं चानवलोकयन् ।
प्रत्यहं कारयेत् तस्यां भोजनं शक्तितो द्विजान् ॥
अनेन विधिना यस् तु श्रीष्मे तापप्रणाशनम् ।
पानीयम् उत्तमं दद्यात् तस्य पुण्यफलं शृणु ॥
कपिलाशतदानस्य सम्यग् दत्तस्य यत् फलम् ।
[१००१] तत् पुण्यफलम् आप्नोति सर्वदेवैः सुपूजितः ॥
पूर्णचन्द्रप्रतीकाशं विमानम् अधिरुह्य सः ।
याति देवेन्द्रनगरं पूज्यमानो ऽप्सरोगणैः ॥
त्रिंशत्क्ōट्यो हि वर्षाणां यक्षगन्धर्वसेवितम् ।
पुण्यक्षयाद् इहागत्य चतुर्वेदो द्विजो भवेत् ।
ततः परं पदंयाति पुनरावृत्तिदुर्लभम् ॥
सुस्वादुशीतसलिला क्लमनाशनी च
प्रान्ते पुरस्य पथि पार्थ सराजभूमौ ।
यस्य प्रपा भवति सर्वजनोपभोग्या
धर्मोत्तरः स खलु जीवति जीवलोके ॥
इति प्रपादानविधिः ।
अथ जलाशयनिर्माणम् । तत्र कूपस्य तावद् उच्यते । विष्णुधर्मोत्तरे ।
उदकेन विना वृत्तिर् नास्ति लोकद्वये सदा ।
तस्माज् जलाशयाः कर्याः पुरुषेण विपश्चिता ॥
अग्निष्टोमसमः कूपः सो ऽश्वमेधसमो मरौ ।
कूपः प्रवृत्तपानीयः सर्वं हरति दुष्कृतम् ॥
कूपकृत् स्वर्गम् आसाद्य सर्वान् भोगान् उपाश्नुते ।
तत्रापि भोगनैपुण्यं स्थानाभ्यासात् प्रकीर्तितम् ॥
[१००२] स्कन्दपुराणे ।
अवटं यो नरः कुर्याद् अपां पूर्णं सुशोभनम् ।
दद्यात् सुब्राह्मणेभ्यस् तं भोजयित्वा यथाविधि ॥
अष्टाभिः सुविचित्राभिः पताकाभिर् अलङ्कृतम् ।
पितॄंस् तरेत पञ्चाशत् तं दत्वा च नरोत्तम ।
यात्य् अप्सरःसु गीतेन वरुणस्य सलोकताम् ॥
नन्दिपुराणे ।
यो वापीम् अथ वा कूपं देशे तोयविवर्जिते ।
स्नानयेत् स नरो याति स्वर्गे प्रेत्य शतं समाः ।
देवैर् एकत्वम् अतुलं तृष्णाक्षुद्वर्जितः सदा ॥
आदित्यपुराणे ।
सेतुबन्धरता ये च तीर्थे शौचरताश् च ये ।
तडागकूपकर्तारो मुच्यन्ते ते तृषाभयात् ॥
विष्णुः ।
अथ कूपकर्तुस् तत्प्रवृत्ते पानीये दुष्कृतार्थं विनश्यति । तडागकृन् नित्यतृप्तो वारुणं लोकम् अश्नुते ।
जलप्रदः सदा तृप्तोभवति
तत्प्रवृत्ते तस्मात् कूपात् प्रवृत्ते ।
[१००३] तथा ।
कूपारामतडागेषु देवतायतनेषु च ।
पुनःसंस्कारकर्ता च लभते सूलिकं फलम् ॥
देवीपुराणे ।
कूपारामं यथा शस्तं कर्ता लोके प्रजायते ।
तथा कुर्यात् सुरश्रेष्ठ यथा शोभायतं भवेत् ॥
पूर्वम् आश्रित्य कर्तव्यं तस्योत्तरपथे ऽपि वा ।
न पूर्वव्यत्ययं कुयान् न च देवालयाद् गृहात् ॥
कृतं भयप्रदं लोके तथा चाग्निभयं जलम् ।
वायव्यं वापि देवस्य भयदं जायते कृतम् ॥
आह गर्गः ।
कुर्यात् पञ्चकराद् ऊर्ध्वं पञ्चविंशत्करावधि ।
कूपं वृत्तायतं प्राज्ञः सर्वभूतसुखावहम् ॥
इति कूपनिर्माणविधिः ।
अथ वापीनिर्माणम् । विष्णुधर्मोत्तरे ।
यमलोकं प्रपश्यन्ति न जलाशयकारिणः ।
अतः कुर्यात् प्रयत्नेन सुरूपं भूप कूपकम् ॥
कूदशपसमा वापी तथा च परिकीर्तिता ॥
[१००४] देवीपुराणे ।
कूपः पञ्चकराद् ऊर्ध्वं यावद् धर्मस् तदुद्भवः ।
वापी दण्डमयाद् ऊर्ध्वं दशवर्या नृपोत्तमैः ॥
कर्तव्या सर्वतोत्तारा द्वित्रिश् चैकम् अथापि वा ।
विज्ञा सम्भद्रकं चान्ये वृत्ता वा चायथा तथा ॥
अस्रा वा चार्धचन्द्रा वा धेनोश् चक्रसमाकृतिः ।
कर्तव्या द्रव्यसारेण गोपथा सर्वकामदा ॥
वेदाष्टमध्यगोत्सारा करसार्धा यथा भवेत् ।
कूपो वा शीलयष्टी वा देया नेमी यथा दृढा ॥
भवने काष्ठपाषाणैर् ऊर्ध्वपीठसमुच्छया ।
सुबुद्धा तोरणोपेता गणनाथगृहाचिता ॥
नागयक्षगृहैर् देव्याभूषिता क्रीडिताकुला ।
वापी भद्रा सुरेश्रेष्ठ सर्वकामप्रदा नृणाम् ॥
भद्रा पद्मा शुभा कान्ता विजया मङ्गला तथा ।
जया योक्त्री भवेद् वापि नृपादीनां शुभावहा ॥
वृत्त्तायता चतुरस्रा वाप्यः साधारणा मताः ।
शेषा काम्याधिकारेण कूपो वृत्तः शुभावहः ॥
नन्दिपुराणे ।
यो वापीम् अग्निसक्ष्येण विधिवत् प्रतिपादयेत् ।
कोणेषूदककुम्भस्थान् समुद्रान् अर्च्य श्रद्धया ॥
चतुरश् चतुरन्ता तु तेन दत्ता मही भवेत् ।
तत्सन्निधौ द्विजान् अर्च्य विधिवत् पानभोजनैः ।
[१००५] स याति वारुणं लोकं दिव्यकामसमन्वितम् ॥
अथ भद्रातडागनिर्माणम् । तत्र यमः ।
तडागे यस्य पानीयं सततं खलु तिष्ठति ।
स्वर्गलोकगतिस् तस्य नात्र कार्या विचारणा ।
तडागकर्ता वसति स्वर्गे युगचतुष्टयम् ॥
यत्र विप्रो ऽथ गौरिका पायिनी सलिलं क्वचित् ।
तडागं तादृशं कृत्वा स्वर्गे दशयुगान् वसेत् ॥
महाभारते ।
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः ।
स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥
कुलं सन्तारयेत् सर्वं यस्य खाते जलाशये ।
गावः पिबन्ति सलिलं साधवश् च नराः सदा ॥
तडागे यस्य गावस् तु पिबन्ति तृषिता जलम् ।
मृगपक्षिमनुष्याश् च सो ऽश्वमेधफलं लभेत् ॥
यत् पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च ।
तडागदस्य तत् सर्वं प्रेत्यानन्त्याय कल्पते ॥
तथा ।
वर्षारात्रे तडागे तु सलिलं यस्य तिष्ठति ।
अग्निहोत्रफलं तस्येत्य् एवम् आहुर् मनीषिणः ॥
[१००६] वसन्तकाले पानीयं तदागे यस्य तिष्ठति ।
अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ॥
निदाघकाले पानीयं तडागे यस्य तिष्ठति ।
वाजपेयसमन्तस्य फलं महर्षयो विदुः ॥
विष्णुधर्मोत्तरे ।
कृत्वा तडागस्य तथा वारुणं लोकम् अश्नुते ।
दशवर्षसहस्राणि कल्पमात्रं द्विजोत्तमः ।
ततो ऽपि पुण्यम् आप्नोति तडागकरणात् पथि ॥
मरौ तडागे पानीयं यस्य तिष्ठति वै द्विजाः ।
विमानेनार्कवर्णेन ब्रह्मलोकं स गच्छति ॥
प्रावृट्काले ऽपि पानीयं तडागे यस्य तिष्ठति ।
अग्निष्टोमफलं तस्य पुरुषस्य प्रकीर्तितम् ॥
द्वादशाहफलं तस्य शिशिरे यस्य तिष्ठति ॥
वाजपेयफलं तस्य वसन्ते यस्य तिष्ठति ।
अश्वमेधफलं तस्य निदाघे यस्य तु द्विजाः ॥
सस्यानां सेचनार्थाय नदीवाहे तथा कृते ।
अन्नदः पानदश् चैव प्राणदश् च तथा भवेत् ।
भागीरथस्य लोकानां समवाप्नोत्य् असंशयः ॥
पानीयशोधनं कृत्वा ह्रदे देवविनिर्मिते ।
पुरुषः फलम् आप्नोति दशगोदानजं द्विजाः ॥
दारुपाषाणरचितं सुखसेव्यं जलाशयम् ।
पुराणं मानवः कृत्वा नाकलोके महीयते ॥
[१००७] प्रणालकरणात् तत्र तृप्तिम् आप्नोत्य् अनुत्तमां ।
महत्पुण्यम् अवाप्नोति नाकलोके महीयते ॥
स्वबाहुखातं यः कुर्यात् तडागं मतिमान् नरः ।
तत् फलम् आप्नोति कर्ता राजसूयाश्वमेधयोः ॥
परस् तु पुण्यं यः कुर्यात् कुञ्चित् तस्य जलाशये ।
पुण्यांशभागी भवति सो ऽपि यस्य जलाशयः ॥
प्राप्नोति तृप्तिं परमां मनुष्यो
लोकांस् तथा तान् सलिलाधिपस्य ।
जलाशये ऽल्पे ऽपि कृते द्विजेन्द्रा
तस्मात् तु लोकं सलिलं नृलोकम् ॥
अथ द्वारीबन्धः । देवीपुराणे ।
ब्रह्मोवाच ।
देव्यः शस्ताः सुरश्रेष्ठ सर्वकामप्रसाधिकाः ।
तासां समुपभोगार्थं जलपात्राणि कारयेत् ॥
द्वारीबन्धादिकाः शक्र पुष्करिण्यो नगाः शुभाः ।
तलखातं तडागं तु विपाली पौष्टिकी मता ।
शोभाढ्या दीर्घिका प्रोक्ता चतुरस्रा तु वापिका ॥
कूपाः पादविहीनाश् च सपादा तोरणान्विताः ।
शक्रसाबन्धकरणाज् (?)झिरन्ती झिण्टिका मता ॥
गिरेर् अन्तर् गता द्वारा सस्फोटं हरकं तथा ।
चक्रमर्दः सचलको अर्गला चितिमान्तिमः ॥
[१००८] वज्रनागम् अधोगामी न सिद्ध्यन्ति कदाचन ।
होलात्मा च तथा चक्र सुखसाध्याः प्रकीर्तिताः ॥
उत्तमाधममध्या सा स्वल्पबुद्धा सुखग्रहः ।
दैर्घ्याच् च बन्धागाया तु साधमा परिकीर्तिता ॥
शतसहस्रपर्यन्ता द्विदण्डाष्टद्विदण्डिका ।
द्वारी श्रेष्ठाधमा तात बहबन्धा च या भवेत् ॥
सिकतापङ्कससञ्च्छिद्रा सम्प्रजा परिवर्जयेत् ।
शुभा हि दैर्घ्याद् विस्तारं मित्राबन्धं समाचरेत् ॥
त्रिपञ्चचाष्टपर्यन्तः श्रेष्ठो बन्धः प्रकीर्तितः ।
शतद्वयं शुभा पाली कराणां सप्तधाधमा ॥
विस्तारः कथितः शास्त्रे पलीबन्धस्य पण्डितैः ।
प्राकारकूटनलिका पुटकां पृष्ठसञ्चयम् ॥
पृष्ठमार्गं भवेद् बन्धधर्मचन्द्रं सकम्बलम् ।
भूजिद्वालखते शक्र सास्थानं तोयसंयमः ॥
पाषाणघटितं वद्वमघटं बिल्वकाष्ठजम् ।
शिलास् तं च निबद्धं तु पृथुविस्तीर्णं सञ्चितम् ॥
वज्रसन्धानसंयोगं समवादान्तकं परम् ।
कथाकालसहं विद्वान् कुक्षिघातं तु कारयेत् ॥
न मधहृदये खाते कम्बले वापि दापयेत् ।
महाद्योषकरं तत् तु द्वारीकर्तुर् भयप्रदम् ॥
प्रयत्नः कुट्टने कार्यो मृत्तिका कूर्चनादिकम् ।
नलिकासु प्रदातव्यं लोहं मुशलघट्टितम् ॥
समाप्तिपर्ययं यावद् उपलान् खातयेन् नृपः ।
[१००९] अन्यथा न भवेद् गाढा स्रवेद् दोषकरी भवेत् ॥
पालीं तस्माद् दृढां कुर्याद् ग्रहपृष्ठां न घट्टिताम् ।
कूर्मवृषभकस्यादिहेमं चादौ विनिक्षिपेत् ॥
प्रारम्भे ऽस्या महापूजा श्येनकादिषु कारयेत् ।
वारुणं नागदेवं तु यागमन्त्रजपं सदा ॥
आनिष्पत्ति तु कर्तव्यम् अन्यथा भयदं भवेत् ।
क्रतुराष्ट्रजने शक्र द्वारी च न दृढा भवेत् ॥
दृष्टार्थं प्रतिरूपाणि तदा लिङ्गं विनायकम् ।
शक्तिः पूर्वाणि कुर्वीत महालक्षीर् यथा पुरे ॥
शुभदा भवने लोके नन्दातोयं शिवं तथा ।
आगमं तोरणं वापी कूपं वा समहोरगम् ॥
द्वारीबन्धिषु कर्तव्यम् उत्सर्गं गोप्रदानिकम् ।
गोसहस्रं शुभं देयं महीं हेमं च दक्षिणाम् ॥
श्येनकं नागयज्ञं च द्वारीबन्धे सदा शुभम् ।
चतुस्तोरणसंयुक्तं पताकादिविभूषितम् ॥
उत्सर्गं विहितं द्वार्याम् अन्यथा न शुभोदकम् ।
शकटेन बलिर् देयः पशुपातपुरःसरम् ॥
स्फुरन्तं नागहृदयं मन्त्रं तत्र प्रयोजयेत् ।
सम्पूर्णं जायते सर्वं न्यूनाधिककृतं च यत् ॥
फलं च हयमेधस्य यत् कृतस्य भवेद् इह ।
समग्रं लभते तस्य द्वारीबन्धे कृते सति ॥
इह कीर्तिः शुभं सर्वं विशत्रुश् च भवेन् नृप ।
द्वारीबन्धप्रकर्तारो नन्दन्ति प्रजया सह ॥
[१०१०] तडागं नलकोपेतं परिदाहसमन्वितम् ।
देवतारामसंयुक्तं सर्वकामप्रदायकम् ॥
द्वारीबन्धे सुविस्तीर्णे परिदाहशुभः सदा ।
अन्यथा न भवेच् छक्र दृढत्वं पालिबन्धनम् ॥
मधे पाल्याः सुविन्यासं जलमार्गं जलवहम् ।
शैलं पक्वेष्टकं वापि कार्यङ्क्रीडायै भूभृताम् ॥
शीलाक्षुरोपणे कुर्यायान् नलकं शोभनं तथा ।
सोपानपालिका कार्या विस्तीर्णा स्नानभोजने ॥
शोभाधिकेन संयुक्ता कूर्चे कार्यो यथाविधि ।
बन्धपृष्ठे दृढो बन्धः कार्यः कालसहस् तथा ॥
एवं पुण्यम् अवाप्नोति स्थैर्यकालवशात् कृते ।
वाजिमेघः क्रतुर् यद्वत् सो ऽपि पुण्यप्रदो भवेत् ॥
द्वारीबन्धस् तदा तात पुण्यदो जायते नृणाम् ।
पुण्यात् स सिद्ध्यन्ति तच् च नन्दादीनां निवेशयात् ॥
जयन्त्य् आदितडागादि अष्टौ पापहराणि च ।
तेषु द्वारी भवे शेष्ठा देवारामसमन्विता ॥
कूपवापीजलोपेता पुत्रायुःकीर्तिदा सदा ।
सा परिग्रहसंस्थानं भूपतेर् मानकल्पिता ॥
पुरपत्तनदेवानां सिद्ध्यर्थं जायते शुभा ।
सरित्सिद्धालयैर् या न विष्णुक्रान्ता वसुन्धरा ॥
सौभाग्यद्वारीबन्धस्य जलवेष्टाष्टकभ्रमा ।
पितृदेवमनुष्याणां तज् जलं त्व अभिनन्दितम् ॥
पावनं जायते शक्र अन्यथा निष्फलं मतम् ।
[१०११] अनुत्सर्गितद्वारीषु अपेयं सलिलं भवेत् ।
तस्माच् चोत्सर्गिकं पेयं वर्षासूत्सर्जनं शुभम् ॥
तत्पूर्वा चोत्तरे संस्था ऐशान्यां पूर्वगापि वा ।
दक्षिणे चैव लिङ्गं तु शिवास्या शुभदा सदा ॥
पश्चिमे सुभगा नाम तां यथोत्तरतस् तथा ।
न कुर्युर् याम्ये नैरृत्याम् आग्नेयां तु शुभार्थिनः ॥
प्रदक्षिणेन पूर्वस्यां रोपितव्यं शुभं सदा ।
अन्यथा कलहोद्वेगं मृत्युं वा लभते कृती ॥
तस्माद् राज्यायुःशुभदं पुत्रसन्ततिवर्धनम् ।
पश्चिमोत्तरपूर्वेण आरामं जायते कृतम् ॥
द्वारीबन्धशिरोपेतं शक्तिभिर् नायकैर् युतम् ।
तदा कूपजलारामभूषितं सर्वकामदम् ॥
एवंविधं पुरोपेतं ब्रह्मसूर्यान्तकान्वितम् ।
कुर्याद् यः सुरशार्दूल स लभेद् ईप्सितं फलम् ॥
इह कीर्तिं शुभान् पुत्रान् परत्र परमां गतिम् ।
द्वारीबन्धात् फलं ब्रह्मन् हयमेधसमं भवेत् ॥
समस्तपातकोच्छितिः कृते भवति देववत् ।
तस्मान् नृपेण कर्तव्यं विधिना द्वारिगं जलम् ॥
समन्त्रं शास्त्रदृष्टेण कर्मणा सफलं भवेत् ।
श्येनकादेस् तथा पूजा नागाङ्कं हृदयञ्जपेत् ।
द्वारीबन्धप्रसिद्ध्यर्थम् अन्यथा न लभेत् कृतम् ॥
यतः पुण्यैस् तु सिद्ध्येत द्वारीबन्धः सुरोत्तम ।
अतः पुण्यविधिः कार्यो जपहोमव्रतादिकः ॥
[१०१२] देशरोगौकसं कार्यं शिवस्यादेशतः शुभम् ।
नागानां द्वारिसिद्ध्यर्थं नन्दाकूपं भवेत् कृतम् ॥
तर्ह्य् अपुण्या भवेद् द्वारी किं तु सन्देहसाधना ।
कृता विशीर्यते कालात् तस्मात् कार्या सदा दृढा ॥
देशपश्चिमयाम्यस्थं तत् कर्तुर् मृत्युदं भवेत् ।
जपं पश्चिमपूर्वेण रतिपुत्रधनप्रदम् ।
याम्यसौम्यगतं दण्डं पत्नीधनविनाशनम् ॥
यक्षवारुणगं भद्रशय्यायुःपुत्रदं गतम् ।
पूर्वोत्तरगतं देयं सुखदं धनदं मतम् ॥
पश्चिमे सङ्गतं नन्दं धनकोशविवर्धनम् ।
जलवायुगतं हैमां हेमदं च भवेद् धनम् ॥
रक्षोवायुगतं काकानुच्चाटं कुरुते धनम् ।
अग्निवारुणिकं दाहं दहनं कीर्तिवर्धनम् ॥
देशदाहगतं पापं धनतापकरं तथा ।
वायुदाहगतं तेजो धनहेमगजापहम् ॥
एवं लक्षणम् आश्रित्य कर्तव्या नाम वाटिकाः ।
शुभावहार् सदा कर्तुर् आज्यायुःसुतपत्तिकाः ॥
वैरपत्ये सदा लोके धनं कर्तुर् मदावहम् ।
नृपराष्ट्रे जने दोषान् न हन्याद् विधिना शुभम् ॥
सरुद्रां कारयेद् द्वारीं गणनाथसमन्विताम् ।
जयं च विजयं गार्यं(?) सुष्टु कुर्यात् सराष्ट्रकम् ॥
नागाख्यं हृदयं जप्त्वा प्रस्फुरत् स्थापने शुभम् ।
सेना विवाहदेव्यश् च तर्पितव्याः पयःव्रतैः ॥
[१०१३] वस्त्रैर् नानाविधैर् गन्धैः फलधूपगणादिभिः ।
कार्यो महोत्सवो वाट्यां पालीबन्धदृढार्थिभिः ।
दानं देयं दसा शक्र नृपराष्ट्रसुखावहम् ॥
गोदानं भूमिदानं च कन्यादानं सुरोत्तम ।
द्वारीबन्धे प्रदातव्यम् एकं कोटिगुणं भवेत् ॥
गजाश्वरत्नदानं च अन्नदानं प्रयत्नतः ।
द्वारीबन्धेषु दातव्यं सर्वं कोटिगुणं भवेत् ॥
गोमेधे नरमेधे च हयमेधे तथा मखे ।
पुण्यं यज् जायते शक्र द्वारीबन्धे ततो ऽधिकम् ॥
वापीकूपतडागानि देवतायतनानि च ।
एतानि वृत्तिधर्मेषु शुभानि फलदानि च ॥
दीनान्धऊर्धभीरूणां दानम् देयं यथाविधि ।
एकं कोटिगुणं पुण्यं जायते नत्र संशयः ॥
एतत् ते कथितं शक्र द्वारीबन्धस्य यत् फलम् ।
प्रादुर्भावं तु देवीनां क्षेपान् माहात्म्यं कीर्तितम् ॥
शिवदूत्यास् तथा सम्यक् प्रादुर्भावं समङ्गलम् ।
यः शृणोति नरः सम्यङ् सर्वं पुण्यफलं भवेत् ॥
कूपारामतडागादि प्रपाद्य् अग्निप्रतिश्रयम् ।
सर्वे साधिष्ठितं वत्स अनन्तफलदायकम् ॥
यः कुर्याद् द्वारिबन्धानां तडागानां शतं तथा ।
सर्वेश्वरजलं कृत्वा लभेत् पुण्यं ततो ऽधिकम् ॥
शिवसूर्यहरिब्रह्मसंयुक्तं सर्वकामदम् ।
आद्या मूर्तिः परा ह्य् एषा व्यापिनो मन्त्रमन्त्रगा ॥
[१०१४] सर्वेषां सर्वदेवत्यं ब्रह्माद्यैः परिवारितम् ।
स्थापितं जायते शक्र सर्वाघभयनाशनम् ॥
इति द्वारीबन्धविधिः ।
अथ तडागादिप्रतिष्ठा । मत्स्यपुराणे ।
सूत उवाच ।
जलाशयगतिं विष्णुम् उवाच रविनन्दनम् ।
तडागारामकूपानां वापीषु नलिनासु च ॥
विधिं पृच्छामि देवेश देवतायतनेषु च ।
के तत्र ऋत्विजः कार्या वेदी वा कीदृशी भवेत् ॥
दक्षिणावलयः कास् तु स्थानम् आचार्यम् एव च ।
इत्यादिकानि शस्तानि सर्वम् आचक्ष्व तत्त्वतः ॥
मत्स्य उवाच ।
शृणु राजन् महाबाहो तडागादिषु यो विधिः ।
वह्निपुराणे ।
शुभे दिने शुभनक्षत्रे मुहूर्ते तु भवेद् यदा ।
वापीकूपतडागानां तस्मिन् काले विधिः स्मृतः ॥
सम्पूर्णे तु कृते कर्तुः सम्पूर्णा स्युर् मनोरथाः ।
कर्कटे पुत्रलाभस् तु सौख्यं तु मकरे भवेत् ॥
मीने यशोऽर्थलाभअस् तु कुम्भे च सुबहूदकम् ।
[१०१५] वृषे च मिथुने वृद्धिर् वृश्चिके निर्जलं भवेत् ॥
**तृप्तिस् [तोर्न् पपेर्] तु कन्यायां तुलायां शास्वती गतिः ।
सिंहो मेषो धनुर्नाशं जलस्य द्विज यच्छति ॥
मत्स्यपुराणे ।
माघपक्षं शुभं शुक्लम् अतीते चोत्तरायणे ।
पुण्ये ऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् ॥
प्रागुदक्प्लवणे देशे तडागस्य समीपतः ।
चतुर्हस्तां शुभां वेदीं चतुरस्रां चतुर्मुखीम् ॥
तथा षोडशहस्तः स्यान् मण्डपश् च चतुर्मुखः ।
वेद्याश् च परितो गर्ता रत्निमात्रा त्रिमेखला ॥
नवसप्ताथ वा पञ्च योनिर् वक्रा नृपात्मज ।
वितस्तिमात्रा योनिः स्यात् षट्सप्ताङ्गुलविस्तृता ॥
अश्वत्थोडुम्बरप्लक्षवटशाखाकृतानि तु ।
मण्डपस्य प्रति दश द्वाराण्य् एतानि कारयेत् ॥
शुभास् तत्राष्ट होतारो द्वारपालास् तथाष्ट वै ।
अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः ॥
सर्वलक्षणसम्पन्ना मन्त्रवन्तो जितेन्द्रियाः ।
कुलशीलसमायुक्ताः स्थापकस्य द्विजोत्तमः ॥
पुण्ये ऽह्नि शुभलग्नादौ ब्रह्मणानां च वाचनम् ।
[१०१६] तत्रोत्सर्गपूर्वदिवसे तडागाद्युत्सर्गं करिष्य इति विहितसङ्कल्पो यजमानो वृद्धिश्राद्धम् आभ्युदयिकं विधाय ब्राह्मणवाचनं कुर्यात् । वास्तुपूजा चात्र कर्तव्या ।
यतस् तदकरणे मत्स्यपुराणे दोषः श्रूयते
वास्तुपूजाम् अकुर्वाणस् तवाहारो भविष्यतीति ।
तत्प्रकारस् तु गृहदाने दर्शितः । हस्तादिलक्षणम् उक्तं परिभाषायाम् । गर्ताः कुण्डानि ।
तानि च चतसृषु दिक्षु चत्वारि, ऐशान्यां पञ्चमम्, आचार्यकुण्डम् इति पञ्च कुर्यात् । पताकास् तु प्राच्यादिप्रदक्षिणदिग्विदिक्षु पीतरक्तकृष्णनीलाञ्जननिभशुक्लकृष्णहरित-सर्ववर्णाः कर्याः । ध्वजस् तु किङ्किणीकालङ्कृतः ।
आचार्यमुखान् पञ्चविंशतिब्राह्मणान् अमुको ऽर्थयज्ञेनाहं यक्ष्ये, तत्र मे त्वम् ऋत्विग् भवेत्यादि दत्वा मधुपर्केणाभ्यर्चयेत् ।
प्रतिगर्तेषु कलशो यज्ञोपकारणानि च ।
व्यजने चासने शुभ्रे ताम्रपात्रे सुविस्तरे ॥
ततस् त्व् अनेकवर्णाः स्युर् वलयः प्रतिदैवतम् ।
आचार्यः प्रक्षिपेद् भूमाव् अनुमन्त्र्य विचक्षणः ॥
अरत्निमात्रो यूपः स्यात् क्षीरवृक्षविनिर्मितः ।
[१०१७] यजमानप्रमाणो वा संस्थाप्यो भूतिम् इच्छया ॥
हेमालङ्कारिणः कार्याः पञ्चविंशतिर् ऋत्विजः ।
कुण्डलानि च हैमानि केयूरकटकानि च ॥
तथा ।
अङ्गुलीयं पवित्राणि वासांसि विविधानि च ।
दक्षयेच् च समं सर्वान् आचार्ये द्विगुणं पुनः ॥
दद्याच् छयनसंयुक्तम् आत्मनश् चापि यत् प्रियम् ।
सौवर्णौ कूर्ममकरौ राजतौ मत्स्यडुण्डुभौ ॥
ताम्रौ कुलीरमण्डूकौ वायसः शिशुमारकः ।
एवम् आसाद्यअ तान् सर्वान् आदाव् एव विशाम्पते ॥
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ।
सर्वौषध्युदकस्नानस्नापितो वेदपुङ्गवैः ॥
यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः ।
पश्चिमं द्वारम् आश्रित्य प्रविशेद् यागमण्डपम् ॥
ततो मङ्गलशब्देन भेरीणां निवनेन च ॥
प्रतिगर्तेत्यादि प्रतिकुण्डम् आसनद्वयं ताम्रपात्रद्वयं विष्टरद्वयं व्यजनं वस्त्रं स्रक्चन्दनादिभूषितं पञ्चरत्नगर्भकलशं च स्थापयेत् । यज्ञोपकरणानि, पवित्रछेदनप्री[ओ?]क्षणीपात्रप्रणीतापात्रस्थालीस्रुक्स्रुवेध्मबर्हिःसमिदाज्यप्रभृतीनि तथा स्थापयिष्यमाणदेवतार्घबलीन् नानावर्णगन्धधूपदीपमाल्यानि क्षीरवृक्षनिर्मितं यूपं चोपकल्पयेत् । तं च यूपं देवताबलिहरणानन्तरं पूर्वकुण्डान् प्राच्यां दिशि ***नक्षतानि [तोर्न् पपेर्] चावटे प्रक्षिप्य निखनेत्, [१०१८] डुण्डुभराजिलकुलीरकर्कटककूर्मादींश् च पञ्चरत्नगर्भायां सुवर्णपात्र्याणि निक्षिप्य स्थापयेत् । एवम् अन्यद् अपि प्रकृतोपयोगिकर्मारम्भान् पूर्वम् एवासादयेत् । सर्वौषध्यः परिभाषायां दर्शिताः ।
रजसा मण्डलं कुर्यात् पञ्चवर्णेन तत्त्ववित् ।
षोडशारं ततश् चक्रं पद्मगर्भं चतुर्मुखम् ॥
चतुरस्रं च परितो वृत्तं मध्ये सुशोभनम् ।
वेद्याश् चोपरितः कृत्वा ग्रहांल् लोकपतींस् तथा ॥
विन्यसेन् मन्त्रतः सर्वान् प्रतिदिक्षु विचक्षणः ।
झषादीन् स्थापयेन् मध्ये वारुणं मन्त्रम् आश्रितः ॥
ब्राह्मणं च शिवं विष्णुं तत्रैव स्थापयेद् बुधः ।
विनायकं च विन्यस्य कमलाम् अम्बिकां तथा ॥
शान्त्यर्थं सर्वलोकानां भूतग्रामं न्यसेत् ततः ।
पुष्पभक्षफलैर् युक्तम् एवं कृत्वाधिवासयेत् ॥
कुम्भांश् च रत्नगर्भांस् तान् वासोभिर् अभिवेष्ट्य च ।
गन्धपुष्पैर् अलङ्कृत्य द्वारपालान् समन्ततः ॥
एतद् वसत तान् ब्रूयाद् आचार्यस् त्व् अभिपूजयेत् ।
बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ ॥
समगौ पश्चिमे स्थाप्यौ उत्तरेण त्व् अथर्वणौ ।
उदङ्मुखो दक्षिणतो यजमान उपाविशेत् ॥
रजसेत्यादि, रजसा तण्डुलादिचूर्णेन । तत्प्रकारस् तु परिभाषायां दर्शितः । [१०१९] ग्रहान्, आदित्यादीन् अधिदेवताप्रत्यधिदेवतासहितान् । लोकप्रभृतीन्, इन्द्रप्रभृतीन् । तेषाम् आवाहनादिविधिः तुलापुरुषे द्रष्टव्यः । झषादीन्, मकरादीन् । कमलाम्, लक्ष्मीम् । अम्बिकाम्, दुर्गाम् । तान् इति, कुण्डसमीपस्थान् कलशान् । पूर्वकुण्डे बह्वृचौ होतारौ स्थापयेत् । दक्षिणादिकुण्डेषु यथावेदं होतॄन् उपवेश्य जापदक्षद्वारपालानाम् एष एव क्रमो वेदितव्यः ।
यजध्वम् इति तान् ब्रूयाद् धोतृकान् पुनर् एव तु ।
उत्कृष्टमन्त्रजप्येन तिष्ठध्वम् इति जापकान् ॥
एवम् आदिश्य तान् सर्वान् प्रयुज्याग्निं च मन्त्रवत् ।
जुहुयाद् वारुणैर् मन्त्रैर् आज्यं च समिधं तथा ॥
ऋत्विग्भ्यश् चैव होतव्या वारुणैर् एव सर्वशः ।
ग्रहेभ्यो विधिवद् धुत्वा तच् चेन्द्रायेश्वराय च ।
मरुद्भ्यो लोकपालेभ्यो विधिवद् विश्वकर्मणे ॥
जुहुयाद् आचार्य इति शेषः ।
वारुणमन्त्राः । तत्वायामि ब्रह्मणा विन्द्यमान इति पञ्च । त्वं नो अग्ने वरुणस्य विद्वान् इति द्वे । इमं मे वरुण श्रुधीति च । [१०२०] होमसङ्ख्या तु समिदाज्ययोर् अष्टोत्तरशतं विधाय ग्रहादिभ्यस् तु प्रत्येकम् अष्टाविंशतिर् आहुतयो होतव्याः । ग्रहादिमन्त्रास् तु तुलापुरुषे ऽभिहिताः ।
विश्वकर्ममन्त्रः । रौद्रसूक्तम् इमारुद्रायेत्यादि, पावमानं तु मङ्गलसूक्तम् ।
रात्रिसूक्तं च रौद्रं च पावमानं तु मङ्गलम् ।
जपेरन् पौरुषं सूक्तं पूर्वतो जुहुयात् पृथक् ॥
रात्रिसूक्तम्, रात्रिवाख्य दायती इत्यादि । कनिक्तदज् जनुषम् इत्यादि पुरुषसूक्तं प्रसिद्धं सूक्तम् ।
शक्रं रौद्रं च सौग्यं (?) च कौष्माण्डं जातवेदसम् ।
सूरसूक्तं जपेरंस् ते दक्षिणेन यजुर्विदः ॥
शक्रं सूक्तम्, इन्द्र नौ विश्वतस्य रीत्यनुवाकोदुधनुशक्रम् इति लिङ्गकम् । रौद्रसूक्तम् इमा रुद्रा यः स्थिरधन्वत् इति षट् । ऋचः सौम्यसूक्तं सोमो धेनुम् इति षट् ऋचः । कौष्माण्डसूक्तं यद् देवा देवहेडनम् इति चत्वारो । अनुवाकाः, जातवेदससूकं यस् त्वाहदाकीरिणेत्य् अनुवाकः । सूरसूक्तं सूर्यो देवीम् इति षट् । ऋचः एतानि सूक्तानि तैत्तिरीयाणां प्रसिद्धानित् ।
वैराजं पौरुषं सूक्तं सौवर्णं रुद्रसंहिता ।
शैशवं पञ्च निधनं गायत्रं ज्येष्ठसाम च ॥
वामदेव्यं बृहत्सौम्यं रौरवं सौरथन्तरम् ।
गवां व्रतं विकर्णं च रक्षोघ्नं च यशस् तथा ॥
[१०२१] गायेति सामगा राजन् पश्चिमद्वारम् आश्रिताः ।
वैराजं पिवासौमम् इन्द्रेत्य् अत्र प्रसिद्धम् । सौपर्णानि उत् ह्येद् अभिश्रुता मधम् इत्य् अत्र, त्रीणि, सामानि संहिता । आवीराजानम् इत्यादि प्रसिद्ध(म्) । शैवम्, उच्चाते जातमन्धस इति प्रसिद्धम् । पञ्च निधनं वा, वाम देव्यं कयानश् चित्रेत्य् अत्र प्रसिद्धम् । गायत्रं तु प्रसिद्धम् । ज्येष्ठसामानि त्रीण्याश् च दोहानि वामदेव्यं ग्रामे गेयं बृहत्मत्त्वाम् इह वामह इति प्रसिद्धम् । सौम्यं सोमव्रतं सन्ते पयांसीति प्रसिद्धम् । रौरवं पुनानः सोमेत्य् अत्र प्रसिद्धम् । रथन्तरम् अभि त्वा सूरनो नुम इति प्रसिद्धम् । गवां व्रतं त्वम् अन्यत प्रथमम् इति द्वे सामनी, विकर्णं विभ्रात्य् अत्र प्रसिद्धम् । रक्षोघ्नम्, यशः समे बृहद् इन्द्रायेत्य् अत्र प्रसिद्धम् ।
आथर्वण्याश् चोत्तरतः शान्तिकं पौष्टिकं तथा ।
जपेरन् मनसा देवान् आश्रिता वरुणं प्रभुम् ॥
पूर्वेद्युर् अभितो रात्राव् एवं कृत्वाधिवासनम् ।
गजाश्वरथ्यावल्मीकसङ्गमह्रदगोकुलात् ॥
मृदम् आनीय कुण्डेषु प्रक्षिपेच् चत्वारात् तथा ।
रोचनां च प्रसिद्धार्थान् गन्धान् गुग्गुलम् एव च ॥
[१०२२] स्नपनं तस्य कर्तव्यं पञ्चभङ्गसमन्वितैः ।
पूर्वं कर्तुर् महामन्त्रैर् एवं कृत्वा विधानतः ॥
रोचनां गोरोचनाम् । सिद्धार्थाः श्वेतसर्षपाः । पञ्चभङ्गाः, अश्वत्तोडुम्बरप्लक्षवटचूतस्य पल्लवाः । अभिषेकमन्त्राः, तुलापुरुषे द्रष्टव्याः । अभिषेकस् तु द्वितीयदिवसे विधेयः ।
शक्रादिदेवताः सर्वा ब्रह्मविष्णुमहेश्वराः ।
सुरास् त्वाम् अभिषिञ्चन्तु प्रयच्छन्तु धनानि च ।
नारायणो जगन्नाथस् तथा सङ्कर्षणो विभुः ॥
प्रद्युम्नश् चानिरुद्धश् च ऋद्धिं यच्छन्तु ते सदा ।
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ॥
गन्धर्वाः किन्नरा यक्षाः सिद्धा विद्याधरोरगाः ।
अभिनन्दन्तु ते सर्वे नद्यः सागरपर्वताः ॥
वेदशास्त्रपुराणानि मीमांसाच्छन्द-आगमाः ।
बृहत्कथादिकाश् चान्याः कथाः सर्वाः सुभप्रदाः ॥
गायत्री चैव सावित्री शची लक्ष्मीः सरस्वती ।
मृडानी मातरः सर्वा भवन्तु वरदाः सदा ॥
आदित्यश् चन्द्रमा भौमो बुधो जीवः सितार्कजः ।
ग्रहास् त्वाम् अभिषिञ्चन्तु राहुः केतुश् च तर्पिताः ॥
[१०२३] इन्द्रो वह्निर् यमश् चैव निरृतिर् वरुणस् तथा ।
वायुः कुबेर ईशानो दिक्पालाः पान्तु सर्वदा ॥
संवत्सरायने मासास् तिथिर् वाराश् च नाडिकाः ।
मुहूर्तान्य् अभिषिञ्चन्तु नक्षत्राणि विदानिशम् ।
इत्य् एवं रुद्रकुम्भेन कर्तारम् अभिषिञ्चयेत् ॥
एवं कृत्वा समिदाज्यविधियुक्तेन कर्मणा ।
ततः प्रभाते विमले सञ्जाते वा गवां शतम् ॥
ब्राह्मणेभ्यः प्रदातव्यम् अष्टषष्ट्य् अथ वा पुनः ।
पञ्चाशद् वाथ षट्त्रिंशत् पञ्चविंशति वा पुनः ॥
एता गावो दक्षिणा भवद्भ्यः सम्पादिताः कर्माङ्गदेवताः **यन्ताम् [तोर्न् पपेर्] इत्य् उदकपूर्वं दद्यात् ।
ततः संवत्सरैः प्रोक्ते शुद्धे लग्ने सुशोबने ।
वेदशास्त्रैः सगान्धर्वैर् वाद्यैश् च विविधैः शुभैः ॥
कनकालङ्कृतां कृत्वा तत्र गाम् अवतारयेत् ।
सामगाय च ता देया ब्राह्मणाय विशाम्पते ॥
अयं चानुमन्त्रणमन्त्रः ।
इदं सलिलं पवित्रं कुरुष्व
शुद्धपूतो अमृतः सन्तु नित्यम् ।
मान्तारयन्ती कुरु तीर्थाभिषेकम्
लोकालोकं तरते तार्यतेति ॥
तत्पुच्छाग्रे यजमानः सलग्नस् तरेत् ।
जलासयं च त्रिवृता सूत्रेण परिवेष्टयेत् ।
[१०२४] पात्रीम् आदाय सौवर्णीं पञ्चरत्नसमन्विताम् ।
ततो निक्षिप्य मकरं मत्स्यादींस् तांश् च सर्वशः ॥
धृतां चतुर्भिर् विप्रैश् च वेदवेदाङ्गपारगैः ।
महानदीं जलोपेतां दध्यक्षतविभूषिताम् ॥
उत्ताराभिमुखीं न्युब्जां जलमध्ये तु कारयेत् ।
आथर्वणेन साम्ना च पुनर् माम् इत्य् ऋचेति च ।
आपोहिष्ठेति मन्त्रेण क्षिप्त्वागत्य च मण्डपम् ॥
आथर्वणं सामा सण् नो (?) देवीर् अभिष्टये इत्य् अत्र प्रसिद्धम् अरण्यगेयं यथाश्रयम्, जलाशयः सर्वोपयोगित्वेन सर्वेभ्यो भूतेभ्यो मयोत्सृज्यत इति त्यागं कुर्यात् ।
पूजयित्वा सदस्यांस् तु बलिं दद्यात् समन्ततः ।
पुनर् दिनानि होतव्यं चत्वारि मुनिसत्तमाः ॥
चतुर्थीकर्म कर्तव्यं देया तत्रापि शक्तितः ।
दक्षिना राजशार्दूल वरुणं संस्मरंस् ततः ॥
कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च ।
ऋत्विग्भ्यस् तु समं दत्वा मण्डपं विभजेत् पुनः ॥
हेमपात्रीं च शय्यां च स्थापकाय निवेदयेत् ।
ततः सहस्रं विप्राणाम् अथ वाष्टशतं तथा ॥
भोजयेच् च यथाशक्त्या पञ्चाशद् वाथ विंशतिम् ।
एवम् एव पुराणेषु तडागे विधिर् उच्यते ॥
कूपवापीषु सर्वासु तथा पुष्करिणीषु च ।
एष एव विधिर् दृष्टः प्रतिष्ठासु तथैव च ॥
मन्त्रतस् तु विशेषः स्यात् प्रासादोद्यानभूइषु ॥
[१०२५] अयं च शक्तिवार्ध्येन विधिर् दृष्टः स्वयम्भुवा ।
स्वल्पेष्व् एकाग्निवत् कार्यं वित्तशाठ्याद् ऋते नृभिः ॥
प्रावृट्काले स्थितं तोयम् अग्निष्टोमसमं स्मृतम् ।
शरत्कालस्थितं यत् स्यात् तद् उक्तफलदायकम् ॥
वाजपेयातिरात्राभ्यां हेमन्तशिशिरस्थितम् ।
अश्वमेध्समं प्राहुर् वसन्तसमये स्थितम् ।
ग्रीष्मे च यत् स्थितं तोयं राजसूयाद् विशिष्यते ॥
एतान् महाराज विशेषधर्मान्
करोति यो ऽर्थान् अथ शुद्धबुद्धिः ।
स याति रुद्रालयम् आशु पूतः
कल्पान् अनेकान् दिवि मोदते च ॥
अनेन लोकांश् च महस्तपादीन्
भुक्त्वा परार्धद्वयम् अङ्गनाभिः ।
सहेति विष्णोः परमं पदं यत्
प्राप्नोति तद् योगबलेन भूयः ॥
एवम् अयं साधारणस् तडागादिप्रतिष्ठाविधिर् उक्तः विशेषस् तु शाखाविभेदेन पुरताद् वक्ष्यते । तत्राविरुद्धधर्माणाम् एकत्रोप्संहारेण प्रतिष्ठानुष्ठानम् आदरणीयं विरुद्धधर्मसम्बन्धे तु स्वशाखोक्तम् अनुष्ठेयम् इति ।
अथ वह्निपुराणे ।
द्विज उवाच ।
[१०२६] वारुणेष्टिर् यथा वेदे प्रोक्ता यादृक् स्वयम्भुवा ।
मोहो न जायते येन तत् सर्वं ब्रूहि मे विभो ॥
यम उवाच ।
सुदिने शुभनक्षत्रे प्राग् विप्रान् उपवेशयेत् ।
व्रीह्य् आवाह्य च ऋग्वेद संवत्सरो ऽसि वै यज्ञः ॥
आवोराजेति सम्मानि अयं मेहीत्य् अथर्वणा ॥
पूर्वं पाद्यं तु वै दद्याद् इदं विष्णुर् इतीत्य् ऋचा ।
आत्वावहन्तु हरय इत्य् अर्घं सम्प्रदापयेत् ॥
ततश् चाचमनीयं च विष्टरोस्त्वीति विष्टरम् ।
कांस्यपात्र्यां मधु चाज्यं कुकुरोसीति मन्त्रितम् ॥
त्रिः सम्प्राश्य तथा चात्मन् मन्त्राद् आपः पुनन्त्व् इति ।
दद्यात् स्थपतये चैवं सदसस् प्रतिम् इत्य् ऋचा ॥
ततस् तं ब्राह्मणा ब्रूयुः कस् त्व् आयुनक्ति कर्मणः ।
शाकुनेन ततो वश्यं स्थालीपाकं समारभेत् ॥
लौकिकाग्निं पुरस्कृत्य लोको ऽहि बलवान् यतः ॥
श्रोत्रिये गाम् अनड्वाहं हन्यात् किं न समाचरेत् ।
चक्षुषी पूर्वतो हुत्वा व्याहृतीस् तदनन्तरम् ॥
चक्षुषी आज्यभागौ ।
दद्यात् पूर्णाहुतीं पूर्णां गर्भाधानादिकं ततः ।
कुर्यात् पञ्चभिखातं च वरुणं वारिसादृशम् ।
[१०२७] ततः पूर्णाहुतिं दत्वा अग्निकुण्डं नयेत् पुरा ॥
अग्निं दूतं वृणीमह इत्य् अतो दक्षिणं नयेत् ।
वीतिहोत्रं त्वाकरेति अग्निं दूतं च पश्चिमे ॥
तं नो त्वाम् उत्तरं पश्चात् अग्न आयाहि वीतये ।
एवम् उत्पाद्य तं वह्निं चक्षुषी व्याहृतीं हुनेत् (?) ॥
वारुणैर् एव मन्त्रैश् च पृथक् कुण्डे च पञ्चकम् ।
वरुणः प्रावृताभुवम् इमं मे वरुणं तथा ॥
उद् उत्तमम् इति द्व्याभ्याम् ऋजुनीतीति वा ततः ।
सोमं राजानम् इत्य् आहुश् चरुं प्राच्यं हि वारुणम् ॥
हुत्वा पूर्णाहुतिं दत्वा यूपं तद् वरुणं न्यसेत् ।
सम्पूज्य वारुणे कुम्भे शाकलं होमम् आचरेत् ॥
ब्रह्मणो ब्रह्म जज्ञानम् अतो देवेति विष्णवे ।
शम्भवे सम्भवायेति त्रातारम् इति जिष्णवे ॥
त्वम् अग्ने रोहिताश्वाय यमाय त्वेति मे द्विज ।
एष ते निरृते चैव वरुणस्य यादः पतेः ॥
वातोवाद्यतिवाताय कुविदाङ्गम् उदक्पतिः ।
ईशानम् अस्य ईशस्य ग्रहाणां शृणु साम्प्रतिअम् ॥
आकृष्ण इति सूर्याय इमं देवेति इन्दवे ।
कुजायेत्य् अग्निम् ऊर्धान्त उद्बुद्धश् (?) चन्द्रसूनवे ॥
गुरोर् बृहस्पतेत्य् आहुः शुक्रायान्नात् परिश्रुतः ।
शन् नो वेदी तु सीरेस् तु कवान इति राहवे ॥
केतुं कृण्वन्नकेतोस् तु विश्वायुर् विश्वकर्मणे ।
भूताय त्वेति भूतेभ्यो क्षेत्रस्येति च भूपतेः ।
[१०२८] रक्षोघ्नैश् चैव मन्त्राणि हुत्वा तैः क्रमशो नृप ॥
शतं शतसहस्रं वा तिलास् तत्र पृथक् पृथक् ।
समिद्भिस् तु यवैर् वापि दत्वा पूर्णाहुतिं पुनः ॥
सर्वभोगोपकाराय शान्तिं कृत्वा द्विजोत्तमः ।
चरुं तु श्रपयेत् पक्ता वारुणं सर्वकामदम् ॥
वारुणैर् एव होतव्यं वरुणाय नियोजयेत् ।
पूर्णाहुतिं ततो दत्वा कुण्डे कुण्डे यथाविधि ॥
वरुणं च नमेत् तत्र सयादोभिः समन्वितम् ।
उत्सृजेत् तत्र धेनूनां शतम् एवार्धम् एव वा ॥
बहूनाम् अप्य् अभावे तु एकां रत्नैर् अलङ्कृताम् ।
देवपितृमनुष्येभ्यः पुच्छे तस्यास् तिलोदकम् ॥
दत्वा निवेदयेत् पश्चात् सर्वालङ्कारभूषिताम् ।
ऋत्विग्भ्यो गुरवे पूर्वं त्रिगुणां दक्षिणां सदा ॥
स्नायाद् अवभृथेनाथ पुत्रभार्यासुहृद्वृतः ।
प्रदद्याद् दक्षिणां तेभ्यो यथाशक्त्या तथा गवाम् ॥
एवं यः कुरुते राजन् वारुणेष्टिं प्रयत्नतः ।
स पूर्वपितृभिर् युक्तः परं ब्रह्माधिगच्छति ।
एवम् एतन्मया ख्यातं यद् उक्तं वह्निना पुरा ॥
इति वारुणेष्टिः ।
बह्वृचपरिशिष्टात् ।
अथातो वारुणविधिं वापीयज्ञं व्याख्यास्यामः । **[१०२९]** पुण्ये तिथिकरणे शुभे नक्षत्रे प्राचीं दिशम् आस्थाय प्राक्प्रवणे उदक्प्रवणे वा उदकसमीपे ऽग्निम् उपसमाधाय वारुणं चरुं श्रपयित्वा आज्यभागान्तं कृत्वा आज्याहुतीर् जुहुयात् । समुद्रज्येष्ठा इति प्रत्यृचम् । ततो हविषा अष्टाहुतीर् जुहुयात् तत्वायामि ब्रह्मणा वन्द्यमान इति पञ्च, त्वं नो ऽग्ने वरुणस्य विद्वान् इति द्वे, इमं मे वरुणः श्रुधोहवेति च स्विष्टिकृतं नवमं नव वै प्राणा प्राणा वा आपस् तस्माद् आनवभिर् जुहोति मार्जनान्ते धेनुम् अवतारयेत् । अवतार्यमाणान्ताम् अनुमन्त्रयेत् इदं सलिलं पवित्रं कुरुष्व अशुद्धः पूतो अमृतः सन्तु नित्यं भावयन्तो सर्वतीर्थाभिषिक्तं लोकालोकान् तरते तीर्यते चेत्य् अनेन पुच्छाग्रे यजमानः स्वयं लग्नः आचार्येणान्वारब्ध उत्तीर्य आपो अस्मान् मातरः शुन्धन्त्व् अपराजितायां दिश्य् उत्तापयेत् ।
सूष्वसा भगवतो भवतो ह भूया इति, यदि सा हि करोति तदा हि कृण्वती वसुमती वसूनाम् इति जपेत् । तां सचेलकण्ठां काञ्चनशृङ्गीं ताम्रपृष्ठां वृषप्रजां रौप्यखरां कांस्योपदोहां विप्राय सामगाय दद्याद् इतरा वा शक्या दक्षिणाम् आचार्याय देयेति ततः उत्सर्गं कुर्याद् देवपितृमनुष्याः प्रीयन्ताम् इत्य् अवमृज्य इति आह शौनको यजमानो ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयेत् ।
अथ वृक्षारोपणम् । तत्र महाभारते ।
स्थावराणां च भूतानां जातयः षट् प्रकीर्तिताः ।
वृक्षगुल्मलतावल्कत्वक्सारास् तृणजातयः ॥
एतास् तु जात्या वृक्षाणां तदारोपे गुणो ऽस्ति मे ।
[१०३०] कीर्तिश् च मानुषे लोके प्रेत्य चैव शुभं फलम् ॥
अतीतानगतौ चोभौ पितृवंशौ च भारत ।
तारयेद् वृक्षरोपी च तस्माद् वृक्षांश् च रोपयेत् ॥
पुष्पैः सुरगणान् वृक्षाः फलैश् चापि तथा पितॄन् ।
छायया चातिथीन् तात पूजयन्ति महीरुहाः ॥
किन्नरोरगरक्षांसि देवगन्धर्वमानवाः ।
तथा महर्षयश् चैव संश्रयन्ति महीरुहान् ॥
पुष्पिताः फलवन्तश् च तर्पयन्तीह मानवान् ।
वृक्षदं पुत्रवद् वृक्षास् तारयन्ति परत्र च ।
तस्मात् तडागे रोप्या वै वृक्षाः श्रेयोऽर्थिभिः सदा ॥
पुत्रवत् परिपाल्याश् च पुत्रास् ते धर्मतः शुभाः ॥
अथाह विष्णुः ।
वृक्षारोपितुर् वृक्षाः परलोके पुत्रा भवन्ति । वृक्षप्रस्य वृक्षः प्रसूनैर् देवान् प्रीणयन्ति, फलैश् चातिथीन्, छाययाभ्यागतान्, दैवे वर्ष उददकेन पितॄन् ।
पद्मपुराणे ।
अपुत्रस्य च पुत्रत्वं पादपा इह कुर्वते ।
यच्छन्ति रोपकेभ्यस् ते सत्तीर्थं तर्पणादिकम् ॥
सत्तीर्थं पुत्रकृतं तर्पणादि तृप्त्यादिजन्यं फलं रोपकस्य प्रयच्छन्तीत्य् अर्थः ।
यत्नेनापि च राजेन्द्र पिप्पलारोपणं कुरु ।
स तु पुत्रसहस्राणाम् एक एव करिष्यति ॥
[१०३१] पुत्रसहस्राणां कर्तव्यम् इति शेषः ।
धनी वाश्वत्थवृक्षेण ह्य् अशोकः शोकनाशनः ।
प्लक्षो यज्ञपतिः प्रोक्तश् चिञ्चा चायुःप्रदा स्मृता ॥
जम्बुकी कन्यदा प्रोक्ता भार्यादा दाडिमी तथा ।
करलू रोगनाशाय पलाशो ब्रह्मदस् तथा ॥
प्रेतत्वं जायते पुंसः रोपयेद् यो विभीतकम् ।
अङ्गुल्ले कुलवृद्धिः स्यात् खदिरे चाप्य् अरोगता ॥
निम्बप्रतोपको यस् तु तस्य तुष्टो दिवाकरः ।
श्रीवृक्षे शङ्करो देवः पाटलायां तु पार्वती ॥
शिंसपाअयाम् अप्सरसः कुन्दे गन्धर्वसत्तमाः ।
तिन्तिडीके दासवर्गो वकुलो दश्युदस् तथा ॥
श्रीवृक्षः बिल्वः । तिन्तिडीको वृक्षः अम्लः ।
पुण्यस्त्रीदयकश् चैव चन्दनः पनसस् तथा ।
सौभाग्यदश् चम्पकश् च करीरः पारदारकः ।
अपत्यनाशदस् तालो नादीशः कुलवर्धनः ॥
बहुभार्या नारिकेली द्राक्षा सर्वाङ्गसुन्दरी ।
रतिप्रदा तथा केली मोचको शत्रुनाशकः ॥
मोचकः शाल्मलिः ।
इत्यादयस् तथा ये ऽन्ये येनोक्तास् ते ऽपि दायकाः ।
प्रतिष्ठान्ते गमिष्यन्ति ये नरा वृक्षरोपकाः ॥
भविष्यत्पुराणे ।
[१०३२] वरं भूमिरुहाः पञ्च न तु कोष्ठरुहा दशः(?) ।
पत्रैः पुष्पैः फलैः सूनैः कुर्वन्ति पितृतर्पणम् ॥
बहुभिर् वत मञ्जातैर् पुत्रैर् धर्मार्थवर्जितैः ।
वरम् एकः पथि तरुर् यत्र विशमते जनाः ॥
प्राणिनः प्रीनयत्य् अस्माच् छाखावल्कलपल्लवैः ।
पुष्पछदा सुतनवः पुष्पैर् देवान् फलैः पितॄन् ॥
पुष्पपत्रफलछायामूलवल्कलदारुभिः ।
धन्या महीरुहा येषां विफला यान्ति नार्थिनः ॥
पुत्राः संवत्सरस्यान्ते श्राद्धं कुर्वन्ति मानवाः ।
प्रत्यहं पादपाः पुष्टिं यथेष्टां जनयन्ति हि ॥
न तत् करोत्य् अग्निहोत्रम् असाध्यं योषितां सुतैः ।
यत् करोति घनछायः पादपः पथि सेवितः ॥
सुछाया च सुपुष्पा च सुफला पुष्पवाटिका ।
कुलयोषेव भवति भर्तृलोके द्वयानुगा ॥
अशोकपल्लवकरा तिलकालङ्कृतानना ।
सर्वोपभोग्या वेश्येव वाटिका रतिदायका ॥
सदास सस्त्री भवति सदा दानं प्रयच्छति ।
सदा यज्ञं स यजते यो रोपयति पादपम् ॥
अश्वत्थम् एकं पिचुमर्धम् एकं
न्यग्रोधम् एकं दश चिञ्चिकीकम् ।
कपित्थविल्वामलको त्रिपञ्च
पञ्चाम्रवापी नरकं न पश्येत् ॥
[१०३३] प्रतिश्रयाश्रान्तसमाश्रयित्वा
दमी च सत्त्रं फलदा बुभुक्षवे ।
अपत्यम् एते परलोकहेतोर्
विमृश्य तत् किं तरवो न रोपिताः ॥
न खानिता पुष्करिण्यो रोपिता न महीरुहाः ।
मातुर् यौवनचोरेण तेन जातेन किं कृतम् ॥
छायाम् अन्यस्य कुर्वन्ति तिष्ठन्ति स्वयम् आतपे ।
फलन्ति च परार्थेषु न स्वार्थैकपरा द्रुमाः ।
अतो द्रुमाः सदा रोप्याः सर्वकामसमृद्धये ॥
इति वृक्षारोपणफलम् ।
अथ वृक्षदानम् । स्कन्दपुराणे ।
यस् तु वृक्षं प्रकुरुते छायापुष्पफलोपगम् ।
पथि दिव्ये नरः पापात् सन्तारयति वै पितॄन् ॥
नन्दिपुराणे ।
मार्गशीर्षे तु यो दद्याच् छायाविटपसङ्कुलम् ।
सकुल्यास् तरुखण्डेषु महेन्द्रोद्यानवेश्मसु ॥
विनोद्यन्ते सरोवृन्दैर् देववच् च युगार्बुदम् ॥
मार्गशीर्षे अध्वमुखे । दद्याद् इत्य् अत्र वृक्षम् इत्य् शेषः ।
[१०३४] फलवृक्षश् च यो दद्याद् धर्मम् उद्दिश्य मानवः ।
स सर्वकामतृप्तात्मा गच्छेद् वरुणमन्दिरम् ॥
महाभारते ।
देवेभ्यो ऽथ द्विजातिभ्यो यो दद्यात् फलदं द्रुमम् ।
स पीयूषभुजां लोके सेव्यमानो वरोरुभिः ॥
क्रीडते देववत् कालम् अनन्तं पूर्वजान्वितः ।
सहकारद्रुमं दत्वा किन्नरैः सह मोदते ॥
याति दत्वा द्विजे जम्बूम् अम्बिकायाः सलोकताम् ।
वारुणं नारिकेलेण खर्जूरेण च धानदम् ॥
पूगद्रुमप्रदानेन लोकं सारस्वतं व्रजेत् ।
याति चन्द्रसमो लोकं दत्वा पनसभूरुहम् ॥
चिञ्चाप्रदानतो याति रुचिरं लोकम् आश्विनम् ।
कपित्थदाडिमाम्रातकदल्यामलकीतरून् ॥
दत्वा नक्षत्रलोकेषु सुखम् अश्नाति मानवः ।
अन्येषाम् अपि वृक्षाणां सुमनःफलशाखिनाम् ।
प्रदानतो नरो याति परमैश्वर्यसम्पदम् ॥
तथा ।
पुष्पोपगं वाथ फलोपगं वा
यः पादपं स्पर्शयते द्विजाय ।
स स्त्रीसमृद्धं बहुरत्नपूर्णं
प्राप्नोत्य् अयत्नोपनतं गृहं वै ॥
[१०३५]
अथ कदलीदानम् । आह बौधायनः ।
कारयेत् कदलीं दिव्यां पर्णैः सर्वत्र संवृताम् ।
फलपूगेन संयुक्तां सुवर्णस्य फलेन तु ॥
यथाविभवतः कुर्याद् वस्त्रेणावेष्ट्य सूत्रकैः ।
ब्राह्मणान् भोजयेच् चापि भक्षैर् नानाविधैः शुभैः ॥
होमं च कारयेत् तत्र पूर्ववद् ब्राह्मणेन च ।
हिरण्यगर्भ इत्यादितल्लिङ्गैः प्राङ्मुखेन तु ॥
तस्मै ताम् कदलीं दद्याद् वस्त्रालङ्कारपूर्विकाम् ।
पूजिताय दरिद्राय वृत्तिस्थायात्मवेदिने ।
धर्मज्ञायातिदान्ताय मन्त्रेणानेन ताम् क्षयी ॥
हिरण्यगर्भपुरुष परात्पर जगन्मय ।
रम्भादानेन देवेश क्षयं क्षपय मे प्रभो ॥
दानमन्त्रः ।
पुण्याहवाचनं कार्यं ब्राह्मणैर् वेदपारगैः ।
शिष्टैर् इष्टैर् बन्धुभिश् च सह भोजनम् आचरेत् ॥
अथ न्यग्रोधदानम् । तथा ।
व्रणाः शस्त्रेण ये ऽपि स्युर् विषदग्धेन संयुगे ।
ते ऽपि शुद्धाः प्ररोहन्ति यथा प्रोक्तं तु वायुना ॥
[१०३६] सुवर्णं राजतं वापि ताम्रअं कांस्यम् अथापि वा ।
पलद्वयेन चैकेन तदर्धेनाथ वा पुनः ॥
न्यग्रोधवृक्षं कुर्वीत स्कन्धशाखाभिर् अन्वितम् ।
वस्त्रयुग्मेन संवेष्ट्य स्कन्धे स्कन्धे पृथक् पृथक् ।
हरिद्रापुञ्जके स्थाप्य ब्राह्मणाय नियोजयेत् ॥
उत्तराशापते देव कुबेर नरवाहन ।
नाडीव्रणं नाशयाशु न्यग्रोधस्य प्रदानतः ॥
दानमन्त्रः ।
अथाश्वत्तदानम् । वायुपुराणे ।
भवेत् स्फुटितपादस् तु यो ऽभिहिंस्याद् वनस्पतीन् ।
दानेन तत्प्रतीकारं प्रवक्ष्यामि यथोदितम् ॥
पलार्धेन तदर्धेन तदर्धेनाथ वा पुनः ।
अश्वत्थवृक्षं कुर्वीत स्कन्धशाखासमन्वितम् ॥
माणिक्यवज्रवैदूर्यैः स्कन्धमध्ये स्वलङ्कृतम् ।
वस्त्रेणावेष्ट्य सर्वत्र धान्यस्योपरि विन्यसेत् ॥
आचार्यः सर्वशास्त्रज्ञो धर्मशास्त्रसुनिष्ठितः ।
वेदवेदाङ्गतत्त्वज्ञो यज्ञकर्मणि निष्ठितः ।
पूजितो वस्त्रमाल्याद्यैर् अश्वत्थं पूजयेच् छुभम् ॥
[१०३७] अश्वत्थे वो निषदनम् इति मन्त्रेण संयुतः ।
उपचारैः षोडशभिर् होमं कुर्याद् अनन्तरम् ॥
समिदाज्यतिलैर् मन्त्रैर् यदौषधय इष्यति ।
निम्रतिनामवतीभिस् तान्य् एव इति च त्रिभिः ॥
अश्वत्थ इति मन्त्रेण हुनेत् स्विष्टकृतं तथा ।
अष्टोत्तरशतं हुत्वा अष्टाविंशतिम् एव वा ॥
सम्पाताज्येन पादौ द्वौ सक्तौ कुर्याच् च रोगिणः ।
सर्पत्वक् कूर्मयुक्तेन निशाचूर्णेन चैव हि ॥
प्रयाता इति मन्त्रैश् च चतुर्दशभिर् एव च ।
कुर्याच् च कलशिः स्नानं मन्त्रैर् एभिः समाहितः ॥
इदं विष्णुः प्रतद् विष्णुर् विष्णोर् नु कम् इति क्रमात् ।
तथा चौषधिसूक्तेन स्नातः शुक्ताम्बरः शुचिः ॥
गन्धपुष्पैः समभ्यर्च्य वृक्षं नारायणात्मकम् ।
मन्त्रेणानेन भक्त्या तम् आचार्याय निवेदयेत् ॥
पिप्पलो वृक्षराड् (?) इव ह्य् अग्निगर्भस् त्वम् एव हि ।
प्रभुर् वनस्पतीनां च पूर्वजन्मनि यत् कृतम् ॥
हिंसनं यत् कृतं यच् च वैरूप्यं पादयोर् मम ।
नाशयाशु च मे क्षिप्रं त्वं दानेनातितोषितः ॥
दानमन्त्रः ।
अश्वत्थम् एवं दत्वा तं प्रणिपत्य विसर्जयेत् ।
पुनः स्नात्वा तु भुञ्जीत ब्राह्मणैर् बन्धुभिः सह ॥
अथाह वृद्धगौतमः ।
[१०३८] वृक्षच्छेत्ता वृथा यस् तु स नाडीव्रणवान् भवेत् ।
वक्ष्यामि तत्प्रतीकारं सर्वलोकहिताय तु ॥
सौवर्णं कारयेद् वृक्षम् अश्वत्थं स्कन्धशोभितम् ।
पलार्थेन तदर्धेन तदर्धेनाथ वा पुनः ।
कुर्याद् रूप्यमयं सूत्रं तेन तं परिवेष्टयेत् ॥
तण्डुलोपरि संस्थाप्य पूजयेद् उपचारतः ।
अश्वत्थे वो निषदनम् इति मन्त्रेण चोदितः ॥
आचार्यो धर्मशास्त्रज्ञो वेदवेदाङ्गपारगः ।
पुराणज्ञस् तथा शान्तः यज्ञविद्यासुनिष्ठितः ॥
तेनैव कारयेत् पूजाम् आहूय स्वयम् एव हि ।
होमं चापि प्रकुर्वीत समिदाज्यतिलैर् अपि ।
अग्नेः संस्थापनं कार्यं मन्त्राध्यायोक्तमार्गतः ॥
यद् अहं वाजयन्न् एष समिद्धोमे प्रकीर्तितः ।
आज्ये नाष्टादिको ग्राह्यो व्याहृतिभिस् तिलाहुतीः ॥
ईशानदेशे कलशस्थापनं शास्त्रतो भवेत् ।
तेनाभिषेकं कुर्वीत आपोहिष्ठादिमन्त्रकैः ॥
ग्रहशान्तिश् च कर्तव्या ब्राह्मणैर् वेदपारगैः ।
ततो नाडीव्रणी स्नात्वा शुक्लाम्बरधरः शुचिः ॥
उदङ्मुखः प्राङ्मुखाय आचार्याय निवेदयेत् ।
मन्त्रेणानेन विधिवत् पूजितायाङ्गुलीयकैः ॥
वनस्पतीनां प्रवरो विष्णुरूपो ऽतिपूजितः ।
तस्य प्रदक्षिणं सर्वे नमस्यः सर्वदेहिनाम् ॥
सर्वकामार्थवृद्धो स प्रीतो भवतु दानतः ।
[१०३९] वृथावृक्षछेदनेन नाडीव्रणं तद् आत्मनः ।
सर्वं विनाशय क्षिप्रं वृक्षाणां प्रवरो ह्य् असि ॥
दानमन्त्रः ।
एवं दत्वा तु तद् दानं सुखी नाडीव्रणी भवेत् ।
अन्येभ्यो ब्राह्मणेभ्यश् च दद्याच् छक्त्या च दक्षिणाम् ।
नमस्कृत्य तथाचार्यं शनैः शतपदं व्रजेत् ॥
ततः स्नात्वातिहृष्टश् च ब्राह्मणान् अपि भोजयेत् ।
शिष्टैर् इष्टैर् बन्धुभिश् च स्वयं भुञ्जीत वाग्यतः ॥
अथाम्रतरुदानम् । आह वृद्धगौतमः ।
विद्रुधिः फलहअर्ता स्यान् मनुष्यो ब्राह्मणस्य तु ।
वक्ष्यामि तत्प्रतीकारं दानहोमादिभिः पुनः ॥
पलार्धेन तदर्धेन तदर्धेनाथ वा पुनः ।
यथाविभववतो वापि कुर्याद् आम्रतरुं शुभम् ॥
स्निग्धं तथैव शाखाभिः सर्वतः संवृतं शुभम् ।
श्वेतवस्त्रेण संवेष्ट्य फलैर् अपि सुकल्पितम् ॥
गन्धपुष्पैः समभ्यर्च्य तण्डुलोपरि वेष्टितम् ।
तण्डुलानां परीमाणं द्रोणानां च चतुष्टयम् ॥
तदर्धम् अथ वा ग्राह्यं तथा विभवतो नरैः ।
आचार्यो ऽथ विनीतस् तु सर्वशास्त्रार्थतत्त्ववित् ॥
[१०४०] धर्मज्ञः सत्यवादी च कुलीनो लोकसम्मतः ।
आहूय परया भक्त्या तेन पूजादि कारयेत् ॥
वनस्पतेर् अशनायेत्य् एतया पूजनादिकम् ।
आग्नेय्यां दिशि होमश् च समिदाज्यतिलैर् भवेत् ॥
मन्त्राश् च शास्त्रतो दृष्टा जातावावतुम् इत्य् अपि ।
तिलहोमो व्याहृतिभिर् अष्टोत्तरसहस्रकम् ॥
यद् अहं वायुमन्त्रेण आज्यहोमः प्रशस्यते ।
ग्रहशान्तिश् च कर्तव्या स्वगृह्योक्तविधानतः ॥
हुत्वा हुत्वा च सम्पातान् पात्रे ऽन्यस्मिन् निधापयेत् ।
तेन विद्रुदिरोगं मे सम्यअग् आज्यप्रदानतः ॥
अग्नेर् उत्तरतो भागे कलशस्थापनं भवेत् ।
भद्रासनोपविष्टस्य अभिषेकं च कारयेत् ॥
ततः शुक्लाम्बरधरः शुक्लगन्धानुलेपनः ।
सौवर्णम् आम्रवृक्षं तं प्रदद्यात् प्राङ्मुखाय तु ॥
गन्धवस्त्रैः पूजिताय रोगी स्वयम् उदङ्मुखः ।
आम्रत्वं ब्रह्मणा सृष्टः सर्वप्राणिहिताय तु ॥
वृक्षाणाम् आदिभूतस् त्वं देवानाआं प्रीतिवर्धनः ॥
फलचौर्येण यत् प्राप्तं वैरूप्यं पूर्वजन्मनः ।
सौवर्णवृक्षदानेन तुष्टा सर्वाश् च देवताः ॥
विद्रधीनां शरीरोस्थं बाह्यम् अभ्यन्तरं तथा ।
विनाशयन्तु सकलं स्वास्थ्यं कुर्वन्तु मे सदा ॥
[१०४१] एवं दत्वा तु तद् दानम् आचार्यायातिभक्तितः ।
शनैः शतपदं गत्वा प्रणिपत्य विसर्जयेत् ॥
अन्येभ्यो ब्राह्मणेभ्यश् च दद्यात् शक्त्या च दक्षिणाम् ।
ब्राह्मणान् भोजयिताथ स्वयं भुञ्जीत बन्धुभिः \
इति वृक्षदानविधिः ।
नन्दिपुराणे ।
क्रीडारामं तु यः कुर्याद् उद्यानं पुष्पसङ्कुलम् ।
तोयाश्रमसमायुक्तं गुप्तं फलसमृद्धिमत् ।
स गच्छेच् छङ्करपुरं वामस् तत्र युगत्रयम् ॥
विष्णुधर्मोत्तरे ।
पुष्कर उवाच ।
उत्तरेण शुभः प्लक्षो वटः प्राग् भार्गवोत्तम ।
उदुम्बरश् च याम्येन सौम्येनाश्वत्थ एव च ॥
एते कर्मणि नेष्यन्ते दक्षिणादिक्समुद्भवाः ।
समीपजाताश् च तथा वर्ज्याः कण्टकिनो द्रुमाः ॥
वामभागे तथोद्यानं कुर्याद् वामगृहाच् छुभम् ।
वायव्ये प्राक्किलांस् तत्र मृद्वीकान्तांश् च पुष्पितान् ॥
ततस् तु रोपयेद् वृक्षान् प्रयतः सुसमाहितः ।
स्नातो द्रुमम् अथाभ्यर्च्य ब्राह्मणांश् च शिवं तथा ॥
ध्रुवानि पञ्च वायव्यं हस्तं पुष्यं सवैष्णावम् ।
[१०४२] नक्षत्राणि तथा मूलं शस्यन्ते द्रुमरोपणे ॥
उद्यानम् अजलं राम नाभिरामं यदा तदा ।
प्रवेशयेन् नदीवाहान् पुष्करिण्यश् च कारयेत् ॥
संस्कार्यम् उद्भिदं तोयं कूपाः कार्याः प्रयत्नतः ।
हस्तोमघा तथा मैत्रम् आप्यं पुष्यं सवासवम् ॥
उत्तरात्रितयं राम तथा पूर्वा सफाल्गुनी ।
जलाशयसमारम्भे प्रशस्तं वारुणं तथा ॥
सम्पूज्य वरुणं देवं विष्णुं पर्जन्यम् एव च ।
कल्पयित्वा प्रवक्ष्यामि प्रशस्तान् पादपान् द्विज ।
अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः ॥
पनसाशोककदलीजम्बूलकुचदाडिमाः ।
मङ्गल्याः पूर्वतो राम रोपणीया गृहेषु वा ॥
कृत्वा बहुत्वम् एतेषां रोप्याः सर्वे वनान्तरम् ।
शाल्मलिं कोविदारं च वर्जयित्वा विभीतकम् ॥
दमनं देवदारुं च पलाशं पुष्करं तथा ।
न विवर्ज्यस् तथा कश्चिद् देवोद्याने विजानता ॥
तत्रापि बहुला कार्या मङ्गल्यानां द्विजोत्तम ।
सायं प्रातश् च धर्मान्ते शीतकाले दिनान्तरे ॥
वर्षाकाले भुवः शोषे सेक्तव्या रोपिता द्रुमाः ।
उत्तमं विंशतिर् हस्ता मध्यमा षोडशान्तरम् ॥
स्थानात् स्थानान्तरं कार्यं वृक्षाणां द्वादशान्तरम् ।
अभ्यासजातास् तरवः संस्पृशन्तः परपरम् ।
[१०४३] अव्यक्तमिश्रशुक्षमत्वाद् भवन्ति सफला द्विज ॥
तेषां व्याधिसमुत्पत्तौ शृणु राम चिकित्सितम् ।
आदौ संशोधनं तेषां किञ्चिच् छस्त्रेण कारयेत् ॥
विडङ्गघृतपङ्काक्ताः सेचयेच् छीतवारिणा ।
फलनाशे कुलत्थैश् च माषैर् दुग्धैस् तिलैर् यवैः ।
शृतशीतपयःसेकः फलपुष्पाय सर्वदा ॥
आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च ।
गोमांसम् उदकं चेति सप्तरात्रान् निधापयेत् ॥
उत्सेकं सर्ववृक्षाणां फलपुष्पादिवृद्धिदम् ।
रङ्गतोयोषितं बीजं रङ्गतोयाच् च सेचितम् ॥
तद्रङ्गपुष्पं भवति यौवने नात्र संशयः ।
मत्स्यान् भसान् तु सेकेन वृद्धिर् भभति शाखिनाम् ।
अतः प्राधान्यतो वक्ष्ये द्रुमाणां दोहदान्य् अहम् ॥
मत्स्योदकेन शीतेन आम्राणां सेक इष्यते ।
मृद्वीकानां तथा कार्यस् त्व् अनेन रिपुसूदन ॥
पक्वासिद्रुचिरं चैव दाडिमानां प्रशस्यते ।
तुषा देयश् च भव्यानां मद्यं च वकुलद्रुमे ॥
विशेषात् कामिनीवक्त्रसंसर्गात् तु गुणं च यत् ।
प्रशस्तं चाथ शेकानां कामिनीपदताडनम् ॥
शृगालमांस्तोयेन नारङ्गोत्थोदकैर् हितम् ।
मधुयष्ट्युदकं (?) चैव वदराणां प्रशस्यते ॥
गुडोदकं सगोमांसं करकाणां प्रशस्यते ।
क्षीरासवेन भवति सप्तपर्णो मनोहरः ॥
[१०४४] मांसप्लुतो वसामज्जासेकः कुरुवके हितः ।
पूतिमत्स्याहितं पूतिकार्पासफलम् एव च ॥
अहिमेदस्य सेको ऽयं पाटकेषु च शस्यते ।
शृगालमत्स्यमांसाभ्यां चम्पकेषु च दापयेत् ॥
फले लतानां क्षीरेण रुधिरेण च शस्यते ।
कपित्थबिल्वयोः सेकं गुडतोयेन कारयेत् ॥
जातीनां मल्लिकायाश् च गन्धतोयं परं हितम् ।
तथा कुप्यतजातीनां कूर्ममांसं प्रशस्यते ॥
खर्जूरनारिकेलानां वंशस्य कदलस्य च ।
लवणेन सतोयेन सेको वृद्धिकरः स्मृतः ॥
विडङ्गतण्डुलोपेतं मत्स्यमांसं नरोत्तम ।
सर्वेषाम् अविशेषेण दोहदं परिकल्पयेत् ॥
एवं कृते चारुफलाः सुपुष्पाः
सुगन्धिनो व्याधिविवर्जिताश् च ।
भवन्ति नित्यं तरवः सुरम्याश्
चिरायुषः स्वादुफलान्विताश् च ॥
देवीपुराणे ।
अनूपे सजले स्थाने पुमान् देवे ऽथ वा जले ।
आरामं रोपयेत् प्राज्ञो विधिदृष्टेन कर्मणा ॥
अनूपे अतिस्निग्धे । सजले जलाशयसहिते ।
कालं देशं तथा पात्रं बीजं बीजक्रियाविधिः ।
[१०४५] तथा फलसमं स्रष्टम् (?) एवम् आरोपितं भवेत् ॥
फलपुष्पविशुद्धस्य विशुद्धं सर्वसंस्कृतम् ।
धर्मकामार्थमोक्षादिसाधने हन्यते ऽन्यथा ॥
विधिव्यत्ययबीजादिभूषिते भूपरिग्रहे ।
कुलादिभिः सुरश्रेष्ठ यजमानो विनश्यति ॥
पात्रं बीजवापेयम् । आर्ये चार्यबीजक्रियाविधिः । अङ्कुरजननसमर्थबीजकरणप्रकारः । विधिव्यत्ययो विधेर् अन्यथाकरणम् ।
आरामं सहकारादेर् न शुद्धं कारयेत् क्वचित् ।
चिताज्वलनसंलग्ने चितिवल्मीकदूषिते ।
सहकारवनं कृत्वा याति कर्ता यमालयम् ॥
गृहात् पुरो ऽथ वा तात स्थिते संरोपिते तथा ।
प्रतिपक्षं भवेत् तत्र छिन्द्याद् वा हितम् इच्छता ॥
अश्वत्थवटप्लक्षादि औदुम्बर्यो विदिक्स्थिताः ।
जगतो भयदा यस्मात् तस्मात् तान् छेदयेन् मने ॥
रोपयेद् बिल्ववीराम्रकपित्थकपिलार्जुनान् ।
दाडिमी बीजपूरं च उदगाघाद्रुमात् परे ॥
प्लक्षाः प्राच्यां सदा रोप्याः सकासनसधन्वनाः ।
कदम्बो वायवे तालो बिल्वाशोकौ च सर्वगौ ॥
वीरः भल्लातकवृक्षः । कपिला शिंशपा । असनः वीजकः, वायव्ये वायुदिग्भागे ।
[१०४६] मयन्दी माधवी रम्भा क्रीडास्थाने निवेशयेत् ।
जातिनेपालिकाकुन्दतगरागन्धमल्लिका ।
शुभाय कथितास् तात व्यत्ययाद् भयदा यतः ॥
पूर्वेण सुसमारामं तथा चोत्तरतो ऽथ वा ।
पश्चिमे धनदं प्रोक्तं वायव्यां कीर्तिवर्धनम् ॥
न कुर्युर् याम्यनैर् ऋत्ये ये चाग्नेये शुभार्थिनः ।
अन्यथा कलदोद्वेगं मृत्युं वा लभते कृती ॥
तस्माद् राज्यायुःशुभदं पुत्रसन्ततिवर्धनम् ।
पश्चिमोत्तरपूर्वेण आरामं जायते कृतम् ॥
अथ वारामजान् दोषान् चामुण्डा शामयेत् कृतान् ।
महाभयं महालक्ष्मीर् ग्रहकृत्यं यथोत्थितम् ॥
ग्रहकृत्यं ग्रहपीडा ।
पुष्पपत्रफलानां च बीजरेणुसमाः समाः ।
कर्ता देवसभावासं विधौ यात्य् अविधौ वधः ॥
तथा ।
एवं यथोदितां भूमिं शुद्धां प्लवसमाहिताम् ।
परिगृह्य यथादेवं वनमालं शिखिध्वजम् ॥
सामं च नागराजं च ततः कुर्यात् परिग्रहम् ।
यद् बीजं मन्त्ररहितं गर्भाधानादिवर्जितम् ॥
वासितं सहकारादि यअद् बीजं मन्त्रवर्जितम् ।
तज्जातं वापकाराय तथा जायेन वैकृतम् ॥
शङ्करायेति मन्त्रेण इत्थं नु पञ्चमन्त्रवित् ।
[१०४७] त्र्यम्बकेन तु राजेन्द्र बीजं भवति शोभनम् ॥
अविधौ कूपवाप्यादिखननोत्सरणं च यत् ।
कुर्वन्ति सहकारादिरोपणं तु नराधमाः ।
फलं तेषां लभेत् तेषाम् इह चान्ते अधोग्तिः ॥
ये ऽशुद्धाः शुद्धविधिना कुर्वन्ति वनरोपणम् ।
ते आत्मनृपलोकानां महासंशयकारकाः ॥
कूपारामतडागादिप्रपावापीप्रतिश्रयम् ।
सर्वेशाधिष्ठितं वत्स ह्य् अनन्तफलदायकम् ।
वृक्षान् पञ्च समारोप्य शिवधाम प्रपद्यते ॥
येअ च पापा दुराचाराः श्रीतरुच्छेदकारिणः ।
ते ऽथ पाच्यादिनरके पच्यन्ते ब्रह्मणो दिनम् ।
मृतास् ते जीवमानास् तु ब्रह्मघ्नाः कीर्तिता भुवि ॥
तस्मिन् देशे भयं नित्यं राजानो न चिरायुषः ।
न च नन्दत्य् अयं लोको यत्र श्रीवृक्षच्छेदनम् ॥
इत्य् आरामरोपणम् ।
अथ वृक्षप्रतिष्ठा । मत्स्यपुराणे ।
ऋषय ऊचुः ।
पादपानां विधिस् तत्र यथावद् विस्तराद् वद ।
विधिना केन कर्तव्यं पादपोद्यापनं बुधैः ।
ये च लोकाः स्मृतास् तेषां वा निदानं वदस्व नः ॥
[१०४८] सूत उवाच ।
पादपानां विधिं वक्ष्ये तथैवोद्यानभूमिषु ।
तडागविधिवत् सर्वम् आसाद्य जगतीश्वर ॥
ऋत्विग्मण्डपसम्भारम् आचार्यश् चापि तादृशः ।
पूजयेद् ब्राह्मणांस् तद्वद् धेमवस्त्रानुलेपनैः ॥
सर्वौषध्युदकैः सिक्तान् पिष्ठालक्तविभूषितान् ।
वृक्षान् माल्यैर् अलङ्कृत्य वासाभिर् अभिवेष्टयेत् ॥
सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम् ।
अञ्जनं चापि दातव्यं तद्वद् धेमशलाकया ।
फलानि सप्त चाष्टौ वा कालधौतानि कारयेत् ॥
कालधौतानि रूप्यमयानि ।
प्रत्येकं सर्ववृक्षाणां वेद्यान्तान् अधिवासयेत् ।
धूपो ऽत्र गुग्गुलः श्रेष्ठस् ताम्रपात्रैर् अधिष्ठितान् ॥
सर्वधान्यकृतान् कृत्वा वस्त्रगन्धानुलेपनैः ।
कुम्भान् सर्वेषु सर्वेषु स्थापयित्वा नरेश्वर ॥
सहिरण्यान् अशेषांस् तान् कृत्वा बलिनिवेदनम् ।
यथावल् लोकपालानाम् इन्द्रादीनां विधानतः ॥
वनस्पतेश् च विद्वद्भिर् होमः कार्यो द्विजातिभिः ॥
ततः शुक्लाम्बरधरां सौवर्णकृतभूषणाम् ।
सकांस्यदोहां सौवर्णशृङ्गाभ्याम् अतिशालिनीम् ।
पयस्वनीं वृक्षमध्याद् उत्सृजेद् (?) गाम् उदङ्मुखीम् ॥
ततो ऽभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः ।
[१०४९] ऋग्यजुःसाममन्त्रैश् च वारुणैर् अभितस् तदा ॥
तैर् एव कुम्भैः स्नपनं कुर्युर् ब्राह्मणपुङ्गवाः ।
स्नातः शुक्लाम्बरधरो यजमानः प्रपूजयेत् ॥
गोभिर् विभवतः सर्वान् ऋत्विजः ससमाहितः ।
हेमसूत्रैः सकटकैर् अङ्गुलीयैः पवित्रकैः ।
वासोभिः शबलैश् चैव तथोपस्करपादुकैः ॥
क्षीराभिषेचनं दद्युर् यावद् दिनचतुष्टतम् ।
होमश् च सर्पिषा कार्यो यवकृष्णतिलैस् तथा ॥
पलाशसमिधः शस्ताश् चतुर्थे ऽह्नि तथोत्सवः ।
दक्षिणा च पुनस् तद्वद् देया तत्रापि शक्तितः ॥
यद् यद् इष्टतमं किञ्चित् तत् तद् दद्याद् अमत्सरः ।
आचार्ये द्विगुणं दत्वा प्रणिपत्य वसर्जयेत् ॥
अनेन विधिना यस् तु कुर्याद् वृक्षोतसवं बुधः ॥
सर्वान् कामान् अवाप्नोति पदं चानन्त्यम् अश्नुते ॥
यश् चैकम् अपि राजेन्द्र वृक्षं संस्थापयेन् नरः ।
सो ऽपि स्वर्गे वसेद् राजन् यावद् इन्द्रायुतत्रयम् ॥
भूतान् भव्यांश् च मनुजांस् तारयेद् रागसम्मितः ।
परमां सिद्धिम् आप्नोति पुनरावृत्तिदुर्लभां ॥
इति वृक्षप्रतिष्ठाविधिः ।
अथ तरुपुत्रदानविधिः । मत्स्यपुराणे ।
[१०५०] दशकूपसमा वापी दशवापीसमो द्रुमः ।
दशद्रुमसमः पुत्रो दशपुत्रसमो द्रुमः ॥
नन्दिपुराणे ।
तरुपुत्रं तु यः कुर्याद् विधिवद् वह्निसन्निधौ ।
स महापातकैर् मुक्तः समुद्धृत्य कुलत्रयम् ।
नरकेभ्यो नरो याति प्रजापतिपुरं शुभम् ॥
स्कन्दपुराणे ।
इत्य् एवं रुद्रमहिषी भूमिरुहसुतस् तव ।
श्रुत्वा पतिं त्रिलोकेशम् इदम् आह पतिव्रता ॥
भगवन् केन विधिना विधीनां सारसागर ।
पुत्रप्रतिकृतिर् वृक्षः क्रियते चन्द्रभूषण ॥
सलीलाम् इति सर्वज्ञः पृच्छन्तीं विधिम् उत्तमम् ।
महादेवो महादेवीम् इदं वचनम् अब्रवीत् ॥
देवि नागेन्द्रनासोरु नागेन्द्रगतिगामिनि ।
शृणुष्व येन विधिना गृह्यते ऽवनिजः सुतः ॥
अवनिजो वृक्षः ।
स्वपुत्रार्थं भूमिरुहं ग्रहीष्यामीति पार्वती ।
सोपवासा भवेन् नारी शुचिवस्त्रा शुचिव्रता ॥
ततश् चैव सहस्रांशाव् अस्तशृङ्गगते रवौ ।
उदिते विमले चापि तथादाव् इन्दुसन्निभे ॥
विप्रान् आमन्त्रयेद् रात्रौ पावनान् वेदवादिनः ।
[१०५१] विप्रान् निमन्त्रयित्वा तु शुचिवस्त्रा शुचिव्रता ॥
शयीत सनमस्कारा सदर्भां भूमिम् आश्रिता ।
गमयित्वा तथा रात्रिं सवितर्य् उदिते ऽपि च ॥
भक्ष्यभोज्यं समादाय व्रजेद् यत्र भवेत् तरुः ।
ततस् तं स्नपयित्वा तु सातपत्रं सभूषणम् ॥
तं तरुं तरुणीकृत्य ततश् छायानुगामिनम् ।
यज्ञोपपन्नम् अन्नं तान् भोजयित्वा द्विजांस् ततः ।
पुण्याहं कारयित्वा तु ऋत्विजा चाथ वात्मना ॥
तृप्तानां ब्राह्मणानां वै चैतत् ते कृत्यम् आत्मनः ।
निवेद्य कृतम् उद्दिश्य सद्भावेन परेण तु ॥
अपुत्रा भवन्तो ऽहं पुत्रप्रतिकृतिं तरुम् ।
ग्रहीष्यामि ममानुज्ञां कर्तुम् अर्हथ सत्तमाः ॥
ततस् तैर् अभ्यनुज्ञातं तं तरुं तरुणाकृतिम् ।
भूमिदेवसमक्षं वै गृह्णीयात् तनयं प्रिये ॥
भूमिदेवसमक्षं ब्राह्मणाग्रतः ।
अनेन विधिना यस् तु गृहीततरुपुत्रकः ।
पितॄणां निरयस्थानां मधुधारां स वर्षति ॥
गृहीतो विधिनानेन शुभभूमिरुहात्मजः ।
शुभे सुखाय भवति विपरीतेन दुःखदः ॥
न पुत्राणां शतं वापि पीनश्रोणिपयोधरे ।
एको भूमिरुहः श्रेष्ठः पुत्रत्वे कल्पितः सुतः ॥
इत्य् एवं तन् मया पृष्टम् इष्टं द्र्ष्टान्तपारिणि ।
यथा भूमिरुहः पुत्रो विशिष्टः कोष्ठजैः सुतैः ॥
[१०५२] ततः शोकापहा देवी तम् अशोकं विभाविनी ।
अलं चकार संहृष्टा ह्य् अलङ्कारैः पृथग्विधैः ।
आतपत्रं च तस्याग्रे मुक्ताभवनभास्करम् ॥
उच्छयामास गिरिजा मयूराङ्गरुहैः सह ।
नानावर्णेन चाप्य् अस्य चन्दनेन सुगन्धिना ॥
आ मूलात् प्रददौ देवी करपङ्कान् इतस् ततः ।
जाम्बूनदमयैश् चापि पदै रत्नविराजितैः ॥
सर्वतो भूषयामास तम् अशोकतरुं प्रियम् ।
तस्य शाखाप्रशाकासु मुक्तादामानि पार्वती ॥
आबबन्ध सतैर् भाति नक्षत्रैर् इव भास्करः ।
तथा वासोयुगेनापि तम् अशोकं गुहारणी ॥
वासयामास लोकानां जननी पुत्रलालसा ।
ततो नमेरुणा चारु गुग्गुलं घृतम् एव च ॥
समवाययुतं धूपं चामरं धूपनार्चितम् ।
ततः शङ्खनिनादेन देवतूर्यरवेण च ॥
नन्दिनाथ समानीता ब्राह्मणा ब्रह्मणः समाः ।
वाचयामास पुण्याहं दत्वा गाः स्वर्णम् एव च ॥
ततः पुण्याहघोषान्ते आशीर्वादस्य चोभयोः ।
अनुमान्य पतिं देवीं मृषींश् चाप्रीणयंस् तदा ॥
ब्रह्मवैवर्ते ।
श्रीभगवान् उवाच ।
अतः परं प्रवक्ष्यामि वृक्षस्योद्यापने विधिम् ।
[१०५३] सर्वपापप्रशमनं सर्वाशुभविनाशनम् ॥
अपुत्रया पुरा पार्थ पार्वत्या मन्दराचले ।
अशोकः शोकशमनः पुत्रत्वे परिकल्पितः ॥
जातकर्मादिकास् तस्य याः क्रियाः कुलबुद्धिमान् ।
चकारात्रिपुराणोक्ताः शृणुष्वैव युधिष्ठिर ॥
स तु बालो घनदलस् तथैव मृदुपल्लवः ।
शीतवातातपसहः संस्कार्यस् तरुणतरुः ॥
स्त्रीनामा कण्टकी कुञ्जः कीटखातसकोटरः ।
नोद्वाप्यः पादपः सर्वः शिष्टानां यो न सम्मतः ॥
आलवाले सुविहिते शुभे वार्धचतुष्ककी ।
शोधयित्वा तम् उद्देशं सुलिप्तं कारयेत् ततः ॥
ततश् चोद्यापनं पार्थ पादपानां प्रशस्यते ।
शुभे ऽह्नि विप्रकथिते ग्रहणक्षत्रसंयुगे ॥
पतालं कृतं वृक्षं पूर्वेद्युर् अधिवासयेत् ।
रक्तवस्त्रैः समासाद्य रक्तसूत्रेण वेष्टयेत् ॥
**ष्टाद्यैः स्नापितं स्वर्णसर्वौषध्या च पादपम् ।
स्थापयेत् पूर्वकलशांश् चतुर्दिक्षु विचक्षणः ॥
पल्लवालङ्कृतमुखान् सितचन्दनचर्चितान् ।
सितवस्त्रयुगछत्रान् समाल्यान् रत्नगर्भिणः ॥
पअताकालङ्कृताः सर्वे कार्यास् तत्सन्निधौ द्रुमाः ।
मूलविन्यस्तकलशा रक्तसूत्रैश् च वेष्टिताः ॥
रक्तपीतसितछेदचर्चिताः सुमनोरमाः ।
कलधौतमयान् यत्र फलानि दश पञ्च च ॥
[१०५४] ताम्रपात्रसबीजानि सरत्नान्य् अधिवासयेत् ।
तूर्यमङ्गलघोषेण चतुर्दिषु क्षिपेद् बलीन् ॥
इन्द्रादिलोकपालानां तन्मन्त्रैर् मन्त्रविद् गुरुः ।
ततः प्रभाते विमले कुण्डं कृत्वा समेखलम् ।
ग्रहयज्ञविधानेन सर्वं कर्म समाचरेत् ॥
सुवर्णालङ्कृतान् कृत्वा ब्राह्मणान् वेदपारगान् ।
चतुरो ऽष्टौ यथाशक्त्या वशोभिर् अभिपूजयेत् ॥
तिलाज्येन च होमः स्यात् तुष्टिपुष्टिकरः सदा ।
मातरः स्थापयित्वाग्रे पूजयेत् कुसुमाक्षतैः ॥
श्रपयित्वा चरुं सम्यक् पयसा च परिप्लुतैः ।
होमयेच् जातकर्मादि गोदानं यावद् एव तु ॥
पादपं स्नपयित्वा तु समन्त्रैस् तीर्थवारिभिः ।
जातकं नामकरणम् अन्नप्राशानम् एव च ।
सुवर्णसूच्या कुर्वीत कर्णवेधं विधानतः ॥
जातरूपक्षुरेणाथ चूडाकर्म यथाक्रमम् ।
बध्नीयान् मेखलां मौञ्जीं वासश् च परिधापयेत् ॥
कृत्वा वै तद् अशेषेण कुर्याद् गोदानमङ्गलम् ।
विवाहं केचिद् इच्छन्ति माधवीलतया तरोः ॥
मालत्या सह शल्लक्या जम्बूं वा शाऌमलिं विदुः ।
संस्कारैः संस्कृतस्यैव पादपस्य तथार्थवत् ।
एषा प्रतिष्ठा नामेति मन्त्रेणाशीः प्रयोजयेत् ॥
यजमानस् ततः स्नात्वा शुक्लाम्बरधरः शुचिः ।
पुष्पाञ्जलिं समादाय मन्त्रम् एतम् उदीरयेत् ॥
[१०५५] ये शाखिनः शिखरिणां शिरसां विभूषा
ये नन्दनादिषु वनेषु कृतप्रतिष्ट्ःआः ।
ये कामदाः सुरनरोरगकिन्नराणां
ते ऽनेन तस्य दुरितार्तिहरा भवन्तु ॥
एते द्विजा विधिवद् अत्र हुता हुताशाः
पश्यत्य् असाव् अपि हिमदीधितिर् अन्तरस्थः ।
त्वं वृक्ष पुत्रपरिकल्पनया धृतो ऽसि
कार्यं सदैव भवता मम पुत्रकार्यम् ॥
इत्य् एवम् उक्त्वा तं वृक्षं स्पर्शयित्वा पुनः पुनः ।
घृतपात्रे स्ववदनं दृष्ट्वाशीः सम्प्रयोजयेत् ॥
अङ्गा अङ्गात् सम्भवसि हृदयाद् अधिजायसे ।
आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥
ब्राह्मणानां ततो देया दक्षिणा हृष्टमानसैः ।
स्थापकाय शुभां धेनुं दत्वा कुर्यान् महोत्सवम् ॥
दीनानाथजनानां च भोजनं चानिवारितम् ।
इतरेषां तु दातव्यं सन्तुष्टेन सुरासवम् ॥
ज्ञातिबन्धजनैः सार्धं स्वयं भुञ्जीत कामतः ।
तथा कर्मकराः सर्वे भोजनीयाः स्वशक्तितः ॥
एतत् ते कथितं पार्थ वृक्षाणां सुमहोत्सवम् ।
सर्वान् कामान् अवाप्नोति इह लोके परत्र च ॥
पुत्रैर् विना शुभफलं न भवेन् नराणां
दुष्पुत्रकैर् अपि तथोभयलोकनाशः ।
एतद् विचार्य सुधिया परिपाल्य वृक्षान्
[१०५६] यत्नेन वेदविधिना परिकल्पनीयाः ॥
इति तरुपुत्रविधिः ।
पर्यवसितं च दानं करणाधिपो विजयते हेमाद्रिः ।
आवारिनिधिक्षौणीमण्डलमण्डलितस्वयशोराशिः ॥
चिन्तामणौ महाशास्त्रे तेन हेमाद्रिणा कृते ।
दानखण्डावखण्डं च जगाम परिपूर्णताम् ॥
येषाम् अगण्यत्वम् अवेक्ष्य को ऽपि
मान्यो मुनिभ्यः प्रभूताम् उपैति ।
दानानि तान्य् आचरितुं प्रबन्धो
हेमादिदेवस्य जगाम पारम् ॥
इति श्रीमहाराजाधिराजश्रीमहादेवीयसमस्तकरणाधीश्वरसकल-
विद्याविशारदश्रीहेमाद्रिविरचिते चतुर्वर्गचिन्तामणौ
**दानखण्डं सम्पूर्णम् **
-
थिस् इस् रेप्रोदुचेद् फ़्रोम् क्क्त्, दान, २.३५–४५। ↩︎