TODO: परिष्कार्यम्
NA NA NA NAA N N N N A N ॥ श्रीदधिमथी जयति ॥ म्लेच्छीकृ(भू)तानां शुद्धिव्यवस्था । श्रीमन्महाराजाधिराजजम्बूकश्मीराद्यनेक देशाधीशप्रभु- वरश्रीरणवीरसिंहाज्ञतसारस्वतपण्डितोपना- मदेवीदत्तसुतक विगङ्गारामसंगृहीतजम्बूम- द्रितधर्मशास्त्रमहानिबन्धान्तर्गतप्रायश्चित्त- मागे ५४-७७ पृष्ठेषूपलब्धा, विदुषां संमति झो लवपुरीय प्राच्यविद्यालयप्रधानाध्यापक महामहो Ex पाध्यायदाधिमथपण्डितशिवदत्तशर्मणा संशोध्य मुम्बय्यां ( खेतवाडी ७ वीं गली खम्बाटा लैन ) श्रीवेङ्कटेश्वर-स्टीम् - मुद्रणयन्त्रालये मुद्रापयित्वा प्रकाशिता । संवत् १९६९, शके १८३४.
श्रीदधिमथी जयति । काश्मीरजम्बूतिब्बतादिनानादेशाधिपतिनास्तिक्य- मूलोत्पाटक महाराजाधिराजश्रीयुतरणवीरसिंह- कारितधर्मशास्त्रसंग्रहान्तर्गतप्रायश्चित्तभागे म्लेच्छीभूतानां शुद्धिव्यवस्था । अथेदानीन्तनाः केचन जनाः प्रागतीव बलवद्भिर्भारतवर्षीयधर्माध्वविध्वं- सनाय कृतावतारैरिव म्लेच्छापसदैरकारणं बलादेव स्वकीयान्नभोजनेन स्वकन्यादि- संबन्धविधानेन चैवंविधेनान्येनापि सद्यः पातित्यहेतुना स्वैः साकं शयनासन- पानादिव्यवहारप्रवर्त्तनेनाऽवेशतया स्ववर्मात्प्रच्याविताजां तदात्वे तन्निदेशातिक्रमे सद्य एव सकलस्वान्वयनाशं निश्चित्य कालांतरसमुचितप्रायश्चित्ताचरणेन गुरुतर- दुरितनिष्कृतिसंभाषनया तथाविधायां गरीयस्यामापदि प्राणत्राणमेव परमं धर्म मन्यमानानां चिरं तेषां बलीयस्तया तेभ्यः स्वात्मानं मोचयितुमवकाशमन्ध्या पुत्रपौत्रादिपारम्पर्येण तथैवावस्थितानां तत एव च म्लेच्छीभूतानां विप्रक्षमिय- विट्शूद्राणां कुलेषु प्रसूता म्लेच्छा वा स्त्रां नास्तिकतां विविधरौरवादिनिरयसा- धनतया कुतश्चिदपि प्राग्भवीयसुकृतलेशपरिपाकोदितेन शिष्टवाक्यादिना दृढम– वधार्य भृशमनुशयानाश्चेत् प्रणिपातमात्रपरितुष्टेभ्यो दीनजनानुकम्पया तदुद्धारायैव भगवता विधिना सृष्टेभ्यः स्वप्रार्थनाञ्जलिशताक्कष्टेभ्यः शिष्टेभ्यः कथंचिदपि साध्वनुष्टितेन प्रायश्चित्तादिना नरकतरणोपायं स्वोचितनिगमानुमतदेवतासमारा- धनाद्युपदेशं च वारं वारं प्रणिपत्य प्रार्थयेरन्, तर्हि ते कथंचिदपि नास्तिक्यतो मुक्तिं स्वोचिताचारांश्चोपदेष्टुमर्हा न वा ? । अर्हाश्चेत्कीदृशं प्रायश्चितं जन्मतः प्रभृत्याश्रितनास्तिक्य दोषमोषकं के च तदुचिता आचारा इति विमृश्यते । १ णिच्प्रकृत्यर्थमात्रे करणतयाऽन्वयाभिप्रायेण प्रयुक्तं भवेत ।
( ४ ) तत्र येषां चातुर्वणिकानां प्राप्तस्वोचितसंस्काराणां बलात्स्वेच्छया वा म्लेच्छादि- हीनजातिभिः संसर्गों नास्तिक्याद्याश्रयणं च । तेषां मनुयाज्ञवल्क्याद्युक्तप्रायश्चित्तै- स्तत्संसर्गनास्तिक्यज-पापविनाशेन पुनः स्वस्ववर्णोचितधर्मप्राप्तिस्तु स्पष्टैव ॥ अयं तु विशेषः तेषां संसर्गकालतारतम्यपर्यालोचनया लघुलवीयोगुरुगरीयः- प्रायश्चित्तप्राप्तिः ॥ नास्तिक्यस्य तु वेदादिप्रामाण्याविश्वासरूपस्य “नास्तिक्यं व्रतलोपश्च " इत्युपपातकप्रकरणे पाठेन “उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वा । पयसा वाऽपि मासेन पराकेणाथ वा पुनः ॥” इत्युक्तेषु प्रायश्वित्तेष्वन्यतमेन पापानुरूपेणोपदिष्टेन निष्कृतिः ॥ येषां त्वकृत- संस्काराणामेव तैः संसर्गे नास्तिक्याश्रयणं च तेषामापदाऽप्राप्तसंस्काराणाम “इत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः॥” इति मनूक्तेरापद्यपि व्रात्यत्वस्यापरिहार्यतया 44 ‘अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या व्रात्यस्तोमाहते क्रतोः ॥ " इति विप्रक्षत्रियविशां क्रमेण पोडश-द्वाविंशति - चतुर्विंशतिसंवत्सराभ्यन्तरे- ऽनुपनीतानां ब्रात्यतायाः पर्युदासमुखेन त्रात्यस्तोमरूपप्रायश्चित्ताऽपनोद्यत्वोक्ते:, तेन नास्तिक्यप्रायश्चित्तेन च नष्टपापानामस्त्येवोपनयनपूर्वकं स्वस्वधर्मप्राप्तिः ॥ शूद्राणां तु सावित्रीप्राप्तेरेवाऽभावेन तदभावप्रयोज्यत्वस्यैव व्रात्यत्वे प्रागु- क्तवचनतोऽलाभाद्वात्यत्वप्रयुक्तप्रायश्चित्ताऽप्राप्तावप्यऽव्यवहार्यम्लेच्छा दिस्पृष्टान्नभोज- नादिमात्रप्रयुक्तप्रायश्चित्तस्य दिनगणनया कल्पितावृत्त्या नास्तिक्यस्य च चातु- वर्णिकैः सर्वैरपि परिहार्यतया तदाश्रयणप्रयुक्तपापनाशकप्रायश्चित्तस्याचरणेन च वोचितधर्मप्राप्तिरुचितैव ॥ त्रैवर्णिकानां पञ्चदशवर्षाधिककालं गौणकालादूर्ध्वमनापद्यनुपनीतानां किंचित्कालमपि वाऽनापद्यनुपनीतानां “पतितसावित्रीक उद्दालकवर्त चरेत् द्वौ मासौ यावकेन वर्त्तयेत्, मासं पयसा, पक्षमामि
( 4 ) क्षया, -ऽष्टरात्रं घृतेन, षड्रात्रमयाचितेन, त्रिरात्रमव्भक्षोऽहो- रात्रमुपवसेदश्वमेधावभृथं गच्छेद्रात्यस्तोमेन वा यजेत” इति मिताक्षराधृतवसिष्ठवचनेनोद्दालकत्रतत्रात्यस्तोमयोरन्यतरन्मनूक्तं त्रैमासिकं च क्रमेण कृतवतामुपनेयता मिताक्षरादौ स्पष्टैव ॥ येषां तु पिता, पितृपितामहौ, पितृपितामहप्रपितामहाश्चाऽनुपनीताः सवर्णा- स्वेव च व्रात्यजासु पुत्रानुत्पादितवन्तस्ते भृज्जकण्टकादिसंज्ञकाः । तदुक्तं मनुना- 66 ‘व्रात्यात्तु जायते विप्रात्पापात्मा भृज्जकण्टकः । आवन्त्यवाटधानौ च पुष्पशेखर एव च ॥ विमायां जायते व्रात्यविप्रजो भृज्जकण्टकः ॥” इति ॥ अत्रेयं व्यवस्था-आवन्त्याद्यास्तस्यैव संज्ञा इति मेधातिथिः || अन्ये तु भृज्ज- कण्टकाद्विप्रायामावन्त्यः । तस्मात्तस्यां वाटधानः । तस्माच्च तस्यां पुष्पशेखरः ॥ एवं व्रात्यक्षत्रियात्क्षत्रियायाम् “झल्लो मल्लश्च राजन्याद्वात्याद्विच्छिविरेव च ॥ नटच करणश्चैव खसो द्रविड एव च ॥” इति झल्लादयः ॥ “वैश्यात्तु जायते व्रात्यात्सुधन्वाऽऽचार्य एव च । कारूषश्च विजन्मा च मैत्रः सात्त्वत एव च ॥” इति सुवन्वादयो वैश्याजा एव । इदं च शूद्रकमलाकरे स्पष्टम् । एषां च श्रात्यत्वेऽपि विप्रत्वादिकं न हीयते विप्रत्वादेर्जातिरूपतया विप्रजातीयपुरुषा- द्विप्रजातीयकन्यायामुत्पन्नापत्यमात्रस्य विप्रत्वात्, तत्र चादुष्टत्वस्याप्रयोजकत्वात् ॥ अतश्च तेषां विप्रत्वादेरनपगमात् “अतिक्रान्ते तु सावित्र्याः काल ऋतु त्रैविद्यकं ब्रह्मचर्यं चरेत् । अथोपनयनं ततः संवत्सर- मुदकोपस्पर्शनमथाध्याप्यो, यस्य पिता पितामह इत्यतु- पनीतौ स्यातां ते ब्रह्महसंस्तुताः तेषां गमनं भोजनं विवाह- मिति वर्जयेत् । तेषामिच्छतां प्रायश्चित्तं यथा प्रथमेऽतिक्रम ऋतुरेव संवत्सरोऽथोपनयनम् तत उदकोपस्पर्शनम् प्रति-
( ६ ) पुरुषसंख्यया संवत्सरान् यावन्तोऽनुपनीताः स्युः सप्तभिः पावमानीभिर्यदन्ति यच्च दूरक इत्येताभिर्यज्ञपवित्रेण साम- पवित्रेणां निरसेनेत्यपि वा व्याहृतिभिरेवमथाध्याप्योऽथ यस्य प्रपितामहादीनां नानुस्मर्यत उपनयनं ते श्मशान- संस्तुताः तेषामभ्यागमं भोजनं विवाहमिति वर्जयेत् तेषा- मिच्छतां प्रायश्चित्तं द्वादशवर्षाणि वैविद्यं ब्रह्मचर्य चरेदधो- पनयनम् तत उदकोपस्पर्शनं पावमान्यादिभिरथ गृहमेधेनाऽ- ध्यापनम् ततोऽभिनिवर्त्तते तस्य यथा प्रथमेऽतिक्रमे तत ऊर्ध्वं प्रकृतिवत्” इति प्रायश्चित्तमयूख- प्रायश्चित्तोदद्योत - प्रायश्चित्तमुक्ताव- ल्यादिवहुतरप्राचीनमान्यनिबन्धधृतापस्तम्बवचनानुसारिप्रायश्चित्ताचरणेन नि- गिक्तपातकानामुपनयनपूर्वक स्वस्ववर्णोचितवर्म्मप्राप्तिरस्त्येव ॥ शूद्राणां तु पूर्ववदेव तेषां व्रात्यत्वप्रयुक्तस्य पापविशेषस्याऽभावात् ॥ अतः परं च वृद्धप्रपितामहमारभ्य येषां जनकानामुपनयनाऽभावः तेषां सवर्णास्वेवो- त्यादितापत्यानामपि न प्रायश्चित्तस्य गुरुतरस्याप्याचरणेनोपनयनप्रभृतिवैदिकसं- स्कारयोग्यता, आपस्तम्बेन चतुर्थपुरुषावध्येव व्रात्यत्वे प्रायश्चित्ताभिधानात् ॥ न चाऽऽपस्तम्बेन “यस्य प्रपितामहादीनां नाऽनुस्मर्यत उपन- यनम्” इत्युपक्रम्य प्रायश्चित्ताभिधानात् तत्र चादिग्रहणेन ततः प्राचामप्यनु- पनीतत्वे प्रायश्चित्तेन वात्यत्वनाशो युक्त एवेति - वान्यम्, उक्तवचनं व्याचक्षाणेन भाष्यकृता हरदत्तेन ‘प्रपितामहादि प्रपिता- महादारभ्य प्रपितामहः पितामहः पिता स्वयं च यथाका- लमिति ते तथाविधाः समाणवकाः श्मशानतुल्याः’ इत्यादि व्याख्याय ‘यस्य तु प्रपितामहस्य पितुरारभ्य नाऽनुस्मर्यत उपनयनं तत्र प्रायश्चित्तं नोक्तम्’ इत्युपसंहारात् । परं त्वेतेषां सवर्णाज त्वेन प्रागुक्तरीत्या विप्रत्वाद्यनपायाच्छूद्राऽपेक्षयोत्कृष्टत्वमस्तीति युक्तम् ॥ किंचैपा मध्ययनाङ्गोपनयनप्राप्त्यभावेऽपि ।
( ७ ) “उपनीय गुरुः शिष्यं महाव्याहतिपूर्वकम् । वेदमध्यापयेचैनं शौचाचारांश्च शिक्षयेत्” इति वचनेन शौचाचारशिक्षणस्याऽप्युपनयनाङ्गितायाः सिद्धेस्तदङ्गोपनयनप्राप्तिरस्त्येव ॥ तच्च स्त्रसमीपप्रापणमात्ररूपमिति बोध्यम् ॥ न च– “निषेकादिश्मशानान्तो मंत्रैर्यस्योदितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिञ्ज्ञेयो नान्यस्य कस्यचित् ॥ " इति मनुना समन्न्त्रकश्मशानान्तविधिमतामेव शास्त्रोक्तानुष्ठानाधिकारो वो- वितः । त्रात्यजानां पुनः संकरजातीयप्रकरणमध्ये पाठात्तत्समानधर्मत्वप्रतिपादने तात्पर्यावगमात् तेषां च “शूद्राणां च सधर्माणः सर्वेपध्वंसजाः स्मृताः” इत्यनेन शूद्रसधर्मत्वबोधनात् “स्त्रीशूद्राणाममन्त्रकम्” इति वचनेन तेष मन्त्राधिकाराभावबोधनात् कथमुपनयनपूर्वकशौचाचारशिक्षणप्राप्तिरिति वाच्यम् ! निषेकादिवाक्ये मन्त्रपदेन नाममन्त्रस्याऽपि ग्रहणात् । “द्विजानां षोडशैवस्युः शूद्र स्य द्वादशैव हि । पञ्चैव मिश्रजातीनां संस्काराः कुलधर्मतः ॥ वेदव्रतोपनयनमहानाम्नीमहाव्रतम् । विना द्वादश शूद्राणां संस्कारा नाममन्त्रतः ॥” इति शूद्रकम- लाकरधृतवचनेन तेषां नाममन्त्राधिकारित्वबोधनात् ॥ अत्र चोपनयनशब्देनाऽ ध्ययनाङ्गमेवोपनयनं विवक्षितं पूर्वोत्तरसाहचर्यात् । अत एव महामहोपाध्याय गागाभट्टकृतनिबन्धे ब्रात्यादीनां शौचाचारशिक्षणाङ्गोपनयनप्राप्त्युक्तिः संग- च्छते । तत्र निवेकादिवचनेन शास्त्रोक्तसकलधर्माधिकारस्यैव नियमाच्च विप्रस्या- प्यापत्तारतम्येन हीनजातिधर्माश्रयणस्याभिधानात् । अत एव “देशधर्माञ्जातिधर्मान्कुलधर्माश्च शाश्वतान् । पाषण्डगणधर्माश्च शास्त्रेऽस्मिन्नुक्तवान्मनुः॥” इति संगच्छते ॥ अन्यथा पाषण्डानां मन्त्रपूर्वकसंस्काराभावेनोपक्रमविरोधः स्पष्ट एव ॥ " स्त्रीशूद्राणाममन्त्रकम् " इत्यस्य च वैदिकमन्त्ररहितमित्यर्थेन
( ८ ) विरोधाभावात्, शास्त्रेऽधिकार इत्यनेन शास्त्राध्यापनाधिकारस्य विवक्षण दोषलेशस्याप्यभावाच्च । अतश्च तेषां प्रपितामहप्राक्कालप्रभत्यनुपनीतानां व्रात्यत्वानपगमेऽपि शूद्रसमानधर्मतया नास्तिक्यम्लेच्छसंसर्गपरिहारपूर्वकमुचित- प्रायश्चित्तेन शुद्धानामस्ति प्रागुक्तद्वादश संस्कारप्राप्तिः । येषां पुनश्चातुर्वणिकज- त्वनिश्चयोऽपि नास्ति चिरं म्लेच्छादिभिः संसर्गात् तेषामप्यस्ति पश्चात्तप्य- मानानां नास्तिक्यपरिहारपूर्वकमास्तिक्याश्रयणेन भक्तिशास्त्राद्यधिकारोऽहिं- सादिसामान्यधर्मप्राप्तिश्च । तथाहि “आनिन्द्ययोन्यधिक्रियते पारं- पर्यात् सामान्यवत्” इति भक्तिसूत्रे द्वितीयाध्याये द्वितीयाह्निकेऽष्टसप्ततितमं सूत्रम् । अस्य चार्थो भाष्यकृता स्वप्नेश्वरेणैवं विवृतः - निन्दितचाण्डालादियो- निपर्यन्तं भक्तावधि क्रियते संसारदुःखजिहासाया अविशेषात् । अथ वेदाध्ययनानधि- कारात् कथमत्रैवर्णिकानां स इति चेत्तत्राह - परम्पर्यादिति । “चोदनालक्ष- गोऽर्थो धर्मः” शास्त्रयोनित्वात् इतिन्यायादलौकिकोऽर्थः श्रुत्यैकसमधि- गम्य इत्यत्र न विप्रतिपद्यामहे | किन्तु स्त्रीशूद्रादीनामितिहासपुराणादिद्वारा चाण्डालादीनां च स्मृत्याचारवदुपदेशपारम्पर्येण ज्ञानमपि श्रुतिमूलमेव भवति । यथा तेषां सामान्याऽहिंसाधर्मादि-ज्ञानम्, अन्यथा तदसिद्धिप्रसङ्गादिति ॥ अनेन च सूत्रभाष्यसंदर्भेण स्पष्ट एव मनुष्यमात्रस्य भक्तिशास्त्राधिकारः । एवं प्रत्यभिज्ञा- शास्त्रेऽपि ‘जनस्य’ इत्युक्त्या जन्ममरण-प्रयुक्त क्लेशजिहासावतः प्राणिमात्रस्य मित्युक्तेः तत्राप्यधिकारः । तथा- " शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः । वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥ १ ॥ पौण्डका चण्डद्रविडाः काम्बोजा यवनाः शकाः ॥ पारदाः पल्हवाचीनाः किराता दरदाः खसाः ॥ २ ॥ मुखबाहूरुपज्जानां या लोके जातयो बहिः । म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः ॥ ३ ॥ " इति मनुना दस्युशब्देन व्यवहृतानां व्रात्यक्षत्रियादीनां धर्मे व्यवस्थापनं कथं प्रहणस्यादिति राजधर्मेषु पञ्चषष्टितमाध्याये-
( ९ ) " यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः ॥ शकास्तुषाराः कंकाश्च पह्नवाश्चान्ध्रमद्रकाः ॥ १ ॥ पौण्ड्राः पुलिन्दा रमठाः काम्बोजाश्चैव सर्वशः ॥ ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः ॥ २ ॥ कथं धर्माश्चरिष्यन्ति सर्वे विषयवासिनः ॥ मद्विधैश्व कथं स्थाप्याः सर्वे वै दस्युजीविनः ॥ ३ ॥ एतदिच्छाम्यहं श्रोतुं भगवंस्तद् ब्रवीहि मे ॥ त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर ॥ ४ ॥ " इति मान्धातुरिन्दं प्रति प्रश्न- " मातापित्रोर्हि शुश्रूषा कर्त्तव्या सर्वदस्युभिः ॥ आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम् ॥ १ ॥ भूमिपानां च शुश्रूषा कर्त्तव्या सर्वदस्युभिः ॥ वेदधर्मक्रियाश्चैव तेषां धर्मो विधीयते ॥ २ ॥ पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च ॥ दानानि च यथा कालं द्विजेभ्यो विसृजेत्सदा ॥ ३ ॥ अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम् ॥ भरणं पुत्रदाराणां शौचमद्रोह एव च ॥ ४ ॥ दक्षिणा सर्वयज्ञानां दातव्या भूतिमिच्छता ॥ पाकयज्ञा महार्हाश्च दातव्या सर्वदस्युभिः ॥ ५ ॥ एतान्येवंप्रकाराणि विहितानि पुराऽनघ ॥ सर्वलोकस्य कर्माणि कर्त्तव्यानीह पार्थिव ॥ ६ ॥ " इति इन्द्रस्योत्तरेण मातापितृशुश्रूषादेर्लिङ्तव्याभ्यां विधानादिमे धर्मा इति स्पष्टमेव । तत्र- “उपनीय तु यः शिष्यं वेदमध्यापयेदुधः ॥ सांगं च सरहस्यं च तमाचार्य प्रचक्षते ॥ १ ॥ " इति लक्षितस्य वेदाध्यापकस्याचार्यस्यासंभवेऽपि उपनयनपूर्वकशौचाचार- शिक्षणकर्तेवाऽऽचार्यपदेनाभिधीयते । एवं गुरुपदेनापि-
( १० ) “निषेकादीनि कर्माणि यः करोति यथाविधि । संभावयति चान्नेन स विप्रो गुरुरुच्यते ॥ " इति पारिभाषिकस्य गुरोरसंभवेऽपि - “गुशब्दस्त्वन्धकारः स्याद्गुरुशब्दस्तन्निरोधकः ॥ अन्धकारविरोधित्वाद्रुरित्यभिधीयते ॥ " इति लक्षितो योग्यमन्त्रादिदानेन निरयरूपान्धकारनिवर्त्तको गुरुरिह गृह्यते । न चैषां कस्मिन्नपि मन्त्रे नाधिकार इति वाच्यम्, अगस्त्यसंहितायाम्- “शुचिव्रततमाः शूद्रा धार्मिका द्विजसेवकाः ॥ स्त्रियः पतिव्रताश्चान्ये प्रतिलोमानुलोमजाः ॥ १ ॥ लोकाश्चाण्डालपर्यन्तं सर्वेप्यत्राधिकारिणः ॥ " इत्यादिना राममन्त्रे मनुष्यमात्रस्याधिकारबोधनात् । तथा- “श्रुतिर्ब्रह्माह षड्वर्ण स्मृतिर्वर्णद्वयात्मकम् ॥ षड्वर्ण ब्राह्मणादीनां त्रयाणां यद् द्विवर्णकम् ॥ १ ॥ तदन्येषां देशिकेन वक्तव्यं तारकं परम् ॥” इत्यनेन त्रैवर्णिकानाम् ‘ॐ रामाय नमः’ इति पडूवर्णे पूर्ववाक्यैकवाक्- यतया तदन्येषां सर्वेषामपि मनुष्याणां रामनाममन्त्रेऽधिकारावगमाच्च । एवं ब्रह्मो- तरखण्डे शिवपञ्चाक्षरं प्रक्रम्य – “महापातकदावाग्निः सोऽयं मन्त्रः षडक्षरः ॥ प्रणवेन विना मन्त्रः सोऽयं पञ्चाक्षरो मतः ॥ १ ॥ स्त्रीभिः शूद्रैश्च संकीर्णैर्धार्यते मुक्तिकांक्षिभिः ॥ नास्य दीक्षा न होमश्च न संस्कारो न तर्पणम् ॥ २ ॥ न कालनियमश्चात्र जप्यः सर्वैरयं मनुः ॥ वैश्यैः शूद्रैर्भक्तियुक्तैम्र्लेच्छैरन्यैश्व मानवैः ॥ ३ ॥ " इत्यनेन शिवपञ्चाक्षरमन्त्रे म्लेच्छादीनामप्यधिकारस्य विस्पष्टभवगतेश्व ॥ ‘वेद धर्मक्रिया’ इत्यनेन वेदमूलकस्मृत्याद्युक्त शिवविष्वादिभक्तिसमाश्रयाणमुच्यते “मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ॥ स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥” (99) इति भगवद्गीतासु भगवता स्वसमाश्रयणाभिधानात् । अत एव स्कन्द- पुराणेऽपि- “विष्णुभक्तिसमायुक्तो मिथ्याचारोप्यनाश्रमी ॥ पुनाति सकलालोकान सहस्रांशुरिवोदितः ॥ १ ॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वेतरः ॥ विष्णुभक्तिसमायुक्तो ज्ञेयः सर्वोत्तमोत्तमः ॥ २ ॥ दुराचारोऽपि सर्वाशी कृतघ्नो नास्तिकः पुरा ॥ समाश्रयेदादिदेवं श्रद्धया शरण हि यः ॥ ३ ॥ निर्दोषं विद्धि तं जन्तुं प्रभावात्परमात्मनः ॥” इति पठ्यते ॥ एवं देवीपुराणे- “वर्णाश्रमविभागेन देवाः स्थाप्यास्तु नान्यथा ॥ ब्रह्मा तु ब्राह्मणैः स्थाप्यो गायत्रीसहितः प्रभुः ॥ १ ॥ चतुर्वर्णैस्तथा विष्णुः प्रतिष्ठाप्यः सुखार्थिभिः ॥ भैरवोऽपि चतुर्वर्णैरन्त्यजानां तथा मतः ॥ २ ॥” इति वचनेनान्त्यजादीनामपि भैरवप्रतिष्टाधिकारः स्पष्टमुच्यते ॥ भगवद्भक्तेः सर्वमानुषेष्वनुमतत्वादेव च- “किरातहूणान्ध पुलिन्दपुल्कसा आभीरकङ्का यवनाः खसादयः ॥ येऽन्ये च पापा यदुपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥” इति भागवते २ । ४ । १८ सर्वेषां भगवद्भक्त्या शुद्धयभिधानं संगच्छते ॥ । राममंत्र पञ्चाक्षरमंत्रयोः सर्वेषामधिकारः प्राङ् निरूपित एव ॥ पितृयज्ञादयश्च नास्तिक्यम्लेच्छसंसर्गपरिहारपूर्वकमुचितप्रायश्चितानुष्ठानेन शुद्धानां शूद्रकमलाक- रोक्तप्रयोगानुसारिणः प्राप्नुवन्ति । तेषां शूद्रसधर्मत्वात् । एवं चोपपादितसं- दर्भेण मूलतो म्लेच्छादीनामपि स्वनास्तिक्यादित्यागपूर्वकराममंत्राद्यधिकारः सिध्यति किं पुनर्बलान्म्लेच्छीकृतानाम् || मा भून्नाम चिरकालनास्तिक म्लेच्छसंसर्गादनि-
( १२ ) श्वीयमानस्वस्वजातिकानां प्रायश्चित्तादिभिः सद्य एव वर्णाश्रमान्तर्गतत्वं साक्षात्परं परया वा मुक्तिसाधनतया सकलसंसारदावदाहशमकं भगवद्भत्त्याश्रयणं तु कथं निवार्यताम् ॥ किंच- “श्रदधानः शुभां विद्यामाददीतावरादपि ॥ अन्त्यादपि परं धर्म स्त्रीरत्नं दुष्कुलादपि ॥ १ ॥” इति वदता मनुना नीचादपि समीचीनधर्मग्रहणमनुमतम् ॥ तेन दण्डा- पिक नीत्यैव श्रेष्ठात्स्वोचितधर्मप्राप्तिर्नीचानामपि सिध्यति, “गाहों मैर्जातकर्मचौलमौञ्जीनिबन्धनैः ॥ बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ॥” इति वचनेनाऽभक्ष्यभक्षणजनितत्वादिनिषिद्धकालगमनादिवत्प्रायश्चित्ततारत- म्येन क्रमायातदोषाणामपि नाशस्योपलक्षणविवया बोधनाच्च । अत एव पातक- विशेषेण पतितानामपि पुनः संस्कारविधानमुपपद्यते । तेन पातकेन ब्राह्मणत्वा- देर्नाशे हि संस्कारविभ्युद्देश्यतावच्छेदकस्यैवाभावेन तद्विधानानुपपत्तिः । किंच, मलादिभिश्चिरं संसष्टस्यापि सुवर्णस्य संस्कारसंख्यातारतम्येन शुद्धितारतम्यदर्शनात् पापानामपि प्रायश्चित्ततारतम्येन शुद्धितारतम्यस्य यौक्तिकतया निर्दिष्टपापिनामपि सकलपापत्यागपूर्वकं चातुर्वणिकत्वाद्यसिद्धावपि शुद्धिसोपानारोहाधिकारी युक्त एव । अत एव - “गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च श्वपाकमपि शोधयेत् ॥ १ ॥ इति हारीतेनोक्तम् ॥ यद्यपि नेदं स्वार्थे तात्पर्यवद् अपिघटितत्वात्, तथापि शुद्धिः सर्वेषामपि भवत्युचितप्रायश्चित्तैरित्युपलक्षणविधया वोधयत्येव ॥ एतेन न हि शतशो मायमानोऽपि लोहः सुवर्णे भवति । एवं म्लेच्छीभूतानां न कथमपि प्रायश्चित्तैः पापनाश इति प्रत्युक्तम् ॥ सद्यः स्तदभावेऽपि क्रमेण चातुर्वर्णिकधर्म- योग्यतासंभवेनैव प्रकृतार्थसिद्धेः । म्लेच्छीभूतानामपि ब्राह्मणत्वाद्यनपगभस्या- धस्तादुपपादनेन दृष्टान्तदान्तिकयोर्वेषम्याच्च । अत एव भविष्ये रहस्यप्रसङ्गे– तथा दद्याद्विधानेन द्विजाय मधुसर्पिषी । तारयत्यखिलान पूर्वानात्मानं च नराधिप ॥ १ ॥
( १३ ) गोभिश्रतसृभिर्युक्तं तथा भूमिसमन्वितम् ॥ प्रतिग्रहसमर्थाय विदुषे त्वाहिताग्नये ॥ २ ॥ दत्त्वाजिनं तु कार्त्तिक्यां वैशाख्यां वा विशेषतः ॥ विषुवत्ययने चैव ग्रहणे चन्द्रसूर्ययोः ॥ ३ ॥ कृच्छ्रात्तु तमसो वोरान्मुच्यते सर्वतो भयात् ॥ अतीतान् सत पुरुषांस्तथा चान्याननागतान् ॥ ४ ॥ उद्धृत्य स नरो याति ब्रह्मलोकं सनातनम् ॥ इत्यादिनाऽतीतसकलस्ववंशीयानामात्मनश्च तारणाभिधानं दृश्यते ॥ एवम्– “एकादशगुणान् वाऽपि रुद्रानावार्य धर्मवित् ॥ महापापैरुपस्पृष्टो मुच्यते नात्र संशयः ॥ १ ॥ " इत्यङ्गिरोवचनम् । एवं तीर्थप्रत्याम्नाये विष्णुपुराणम्- “ज्ञानतोऽज्ञानतो वाऽपि भक्त्याभक्त्याऽपि वा कृतम् ॥ गंगास्नानं सर्वविधं सर्वपापप्रणाशनम् ॥ १ ॥ चान्द्रायणसहस्त्रैस्तु यश्वरेत्कायशोधनम् || पिबेद्यचापि गंगाम्भः समौ स्यातां न वा समौ ॥ २ ॥ भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् ॥ गंगाया दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते ॥ ३ ॥ पुण्यक्षेत्राभिगमनं सर्वपापप्रणाशनम् ॥ देवताभ्यर्चनं पुंसामशेषाऽघविनाशनम् ॥ ४ ॥ " इति । भविष्येपि- “स्नानमात्रेण गंगायाः पापं ब्रह्मवधोद्भवम् ॥ दुराधर्ष कथं याति चिन्तयेद्यो वदेदपि ॥ १ ॥ तस्याहं प्रवदे पापं ब्रह्मकोटिवधोद्भवम् ॥ स्तुतिवादमिमं मत्वा कुम्भीपाकेषु जायते ॥ २ ॥ आकल्पं नरकं भुक्त्वा ततो जायेत गर्दभः ॥” इत्यादिवचनैः श्रीगङ्गातीर्थस्नानादेः सकलपापनाशकता सिध्यति ॥ एवं बृह- शारदीये सर्वसाधारणप्रायश्चित्तानि प्रोक्तानि-
( १४ ) " प्रायश्चित्तानि यः कुर्यान्नारायणपरायणः ॥ तस्य पापानि नश्यन्ति अन्यथा पतितो भवेत् ॥ १ ॥ यस्तु रागादिनिर्मुक्तो ह्यनुतापसमन्वितः ॥ सर्वभूतदयायुक्तो विष्णुस्मरणतत्परः ॥ २ ॥ महापातकयुक्तो वा युक्तो वाप्युपपातकैः ॥ सर्वैः प्रमुच्यते सद्यो यतो विष्णुरतं मनः ॥ ३ ॥ " इत्यादिना विष्णुभक्तस्य नरमात्रस्य सकलपापनाशोऽभिहितः । इत्थं च बहुत्र प्रायश्चित्तविवायकवचनेषु ‘नर’ इति सामान्यपदोपादानादुदाहृतवचनै म्लेच्छा- दीनामपि भगवद्भक्तयधिकारसिद्धेश्च सर्वेषामपि स्वाधिकारस्वयोग्यतानुसारेण वैदि- कमार्गोन्मुखत्वं निराबाधं सिध्यति । इत्थं च त्रिपुरुषावधिनिश्चित सवर्णोत्पत्ति- कानां कामतोऽकामतो वा म्लेच्छैः संसृष्टानां प्रायश्चित्ताचरणेन पुनः स्वस्व - वर्णान्तर्गतत्वपूर्वकधर्मप्राप्तिः । तदन्येषामपि व्रात्यतमानां मूलतो म्लेच्छादीनां वा सत्यामिच्छायां नास्तिक्यत्यागेन भक्तिशास्त्रप्रत्यभिज्ञाशास्त्र राममंत्राद्युपदेश्य- ताधिकारः शूद्रकमलाकरोक्तसंस्कारादिप्राप्तिश्च सिध्यतीत्यत्र न कस्यचित्कटा- क्षावसर इति सकलश्रुतिस्मृतिपुराणेतिहासपर्यालोचननिर्गलितो विमर्शो निष्पक्ष- पातधीभिः सुधीभिर्निपुणं विचारणीय इति दिक् ॥ इत्युपदर्शितव्यवस्थानुसारेण निर्गलितोऽर्थ:- आर्यत्वाविर्भावेच्छायां पूर्व मनस्तापः ततो म्लेच्छत्वाभिमानजिहासा, ततो म्लेच्छत्वापवादाभिमान जिहासया प्रायश्चित्तचिकीर्षया श्रुतिस्मृतिपुराणवाक्येषु वि- श्वासपूर्वकं प्रायश्चित्तोपदेष्ट्रवाक्येऽतीव विश्वासेन प्रायश्चित्तोपदेष्टृणामुपासना, ततश्च तदुपदिष्टानां मनस्तापोपवासगङ्गास्नानपूवर्कै भक्तिशास्त्रप्रशित-राम- कृष्ण-शिवमन्त्राणां दीक्षया संभवत्येवम्लेच्छत्व मलापाकृत्या स्वस्वनिष्ठार्यत्व- जात्याविर्भावः ॥ ॥ इतिशम् ॥ पुस्तक मिलनका ठिकाना- महामहोपाध्याय- पं० - शिवदत्तशर्मा, ओरिएन्टल कालेज लाहौर.