१६ शपथविधिः

अथ शपथविधिः ।

मनुः ।

सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥ ३३२ ॥ [म् ८।११३]
पुत्रदारस्य वाप्य् एनं शिरांसि स्पर्शयेत् पृथक् ॥ ३३३ ॥ [म् ८।११४च्द्]

मयेइतत् कृतं न कृतं वा सत्यम् इत्य् उच्चारणेन ब्राह्मणं शापयेत् । सम्भाव्यमानं चालीकव्यलीकत्वं तदुक्तस्यालिकत्वं मिथ्यात्वं निवेशयेत् । उक्तम् इदं सत्यम् इत्य् अवगमयेद् इत्य् अर्थः ।

तदवगमप्रकारम् आह कात्यायनः ।

आ चतुर्दशकाद् अह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः ॥ ३३४ ॥ [क् ४६३]

व्यसनं आपत् । घोरम् अतिपीडाकरम् । अल्पस्थ शरीरधर्मत्वात् तच् च प्रागुक्तरोगादि । एवं मयैतत् कृतं न कृतं वेति प्रतिज्ञाम् उच्चारयन्तं वाहनस्पर्शनेन एवम् आयुधेनापि क्षत्रियम् । एवं [प्।१५६] गोबीजकाञ्चनानाम् अन्यतमेन वैश्यम् । सर्वैः पातकैर् इति वृथाकरेण पातकहेतुत्वात् । पातकैः प्रकृतैः गोबीजकाञ्चनैः सर्वैर् मिलितैः । तेन मयैतत् कृतं न कृतं वेति प्रतिज्ञाम् उच्चारयन्तम् गोबीजकाञ्चनत्रितयस्पर्शनेन शूद्रम् इति । एतेषां स्पर्शने किं मानम् इति चेत् ।

पुत्रदारस्य वाप्य् एनं शिरांसि स्पर्शयेत् पृथक् ॥ ३३३ ॥ [म् ८।११४च्द्]

इति मनुवचनान्तरे तथा दर्शनात् । एनं शपथकारिणम् । ततश् च मयैतत् कृतं न कृतं वेति प्रतिज्ञाम् उच्चारयनतम् पुत्रस्य दाराणाम् वा शिरः स्पर्शयेत् । एवं वक्ष्यमाणस्पर्शे कल्प्यम् । स्पर्शनं तु दक्षिणकरेण ।

यत्रोपदिश्यते कर्म कर्तुर् अङ्गं न तूच्यते ।
दक्षिणस् तत्र विज्ञेयः कर्मणां पारगः करः ॥ ३३६ ॥ [क् ४६२]

इति कात्यायनोक्तेः । अत एव विष्णुना दूर्वाकराद्यभिहितम् ।

यथा ।

सर्वेष्व् एवार्थजातेषु मूल्यं कनकं प्रकल्पयेत् ॥ ३३७ ॥ [वि ९।४]
तत्र कृष्णलोने शूद्रं दूर्वाकरं शापयेत् ॥ ३३८ ॥ [वि ९।५]
द्विकृष्णलोने तिलकरम् ॥ ३३९ ॥ [वि ९।६]
त्रिकृष्णलोने जलकरम् ॥ ३४० ॥ [वि ९।७]
चतुःकृष्णलोने सुवर्णकरम् ॥ ३४१ ॥ [वि ९।८]
पञ्चकृष्णलोने सीतोद्धृतमहीकरम् ॥ ३४२ ॥ [वि ९।९]

[प्।१५७]

सुवर्णाद् अर्धोने कोषो देयः शूद्रस्य ॥ ३४३ ॥ [वि ९।१०]

तथा ।

द्विगुणे ऽर्थे यथाविहिता समयक्रिया वैश्यस्य ॥ ३४४ ॥ [वि ९।१२]
त्रिगुणे ऽर्थे राजन्यस्य ॥ ३४५ ॥ [वि ९।१३]
चतुर्गुणे ऽर्थे ब्राह्मणस्य ॥ ३४६ ॥ [वि ९।१४]

इति । कृष्णलोने काञ्चनरत्तिकामूल्यद्रव्याद् ऊने ।

एवम् अन्यत्र बृहस्पतिः ।

सत्यं वाहनशस्त्राणि गोबीजकनकानि च ।
देवब्राह्मणपादांश् च पुत्रदारशिरांसि च ॥ ३४७ ॥ [ब् ८।३३]
इत्य् एते शपथाः प्रोक्ताः स्वल्पे ऽर्थे सुकराः सदा ।
साहसेष्व् अभियोगेषु दिव्यान्य् आहुर् विशोधनम् ॥ ३४८ ॥ [ब् ८।३४]

स्वल्पे ऽर्थे धर्मजादिविषयाद् अल्पविषय इत्य् अर्थः । अत्र शपथानां दिव्याद् भेदेनोपन्यासाद् धटादिमध्ये ऽगणितत्वाच् च न दिव्यत्वम् । अतो ऽत्र दिव्यधर्माणाम् उपवासर्द्रवासस्त्वादिना नातिदेशः । शौचार्थं तु स्नानाचमनादीनाम् आदरः कर्तव्यः ।

यमः ।

कृत्वा मृषा तु शपथं कीटस्य वधसंयुतम् ।
अनृतेन च युज्यते वधेन च तथा नरः ॥ ३४९ ॥ [ध्को ४४२]

[प्।१५८]

तस्मान् न शपथं कुर्यान् नरो मिथ्या वधेप्सितम् ॥ ३५० ॥ [ध्को ४४२]

कीटस्येति प्राणिमात्रोपलक्षणम् । तेन प्राणिनो ऽत्यन्तानुपयुक्तस्यापि वधसंयुक्तः शपथो ऽनर्थहेतुस् तद्वधपापेन मृषा शपथकर्ता युज्यत इत्य् अर्थः ।

इत्य् वध्यघटीयश्रीहरिहरभट्टाचार्यात्मजश्रीरघुनन्दनभट्टाचार्यविरचिते स्मृतितत्त्वे दिव्यतत्त्वं समाप्तम् ॥