अथ धर्मजविधिः ।
बृहस्पतिः ।
पत्रद्वये लेखनीयौ धर्माधर्मौ सितासितौ ।
जीवदानादिकैर् मन्त्रैः गायत्र्याद्यैश् च सामभिः ॥ ३१३ ॥ [ब् ८।८२]
आमन्त्र्य पूजयेद् गन्धैः कुसुमैश् च सितासितैः ।
अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः ।
समौ कृत्वा नवे कुम्भे स्थाप्यौ चानुपलक्षितौ ॥ ३१४ ॥ [ब् ८।८३, ८।८४अब्]
ततः कुम्भात् पिण्डम् एकं गृह्णीयाद् अविलम्बितः । [ब् ८।८४च्द्]
धर्मे गृहीते शुद्धः स्यात् संपूज्यश् च परीक्षकैः ॥ ३१५ ॥ [ब् ८।८५अब्]
जीवदानमन्त्रस् तु शारदायाम् ।
पाशाङ्कुशपुटाशक्तिर् वाणीबिन्दुविभूषिता ।
याद्याः सप्त सकारान्ता व्योम सत्येन्दुसंयुतम् । ३१६ ॥ [शाति २३।७२]
तदन्ते हंसमन्त्रः स्यात् ततो ऽमुष्यपदं वदेत् ।
प्राणा इति वदेत् पश्चाद् इह प्राणास् ततः परम् ॥ ३१७ ॥ [शाति २३।७३]
अमुष्यजीव इह स्थितस् ततो ऽमुष्यपदं वदेत् । [शाति २३।७४अब्]
सर्वेन्द्रियाण्य् अमुष्यान्ते वाङ्मनश् चक्षुर् अन्ततः ॥ ३१८ ॥ [शाति २३।७४च्द्]
श्रोत्रघ्राणपदे प्राणा इहागत्य सुखं चिरम् । [शाति २३।७४एफ़्]
तिष्ठत्व् अग्निवधूर् अन्ते प्राणमन्त्रो ऽयम् ईरितः ॥ ३१९ ॥ [शाति २३।७५अब्]
प्रत्यमुष्यपदात् पूर्वं पाशाद्यानि प्रयोजयेत् । [शाति २३।७५च्द्]
प्रयोगेषु समाख्यातः प्राणमन्त्रो मनीषिभिः ॥ ३२० ॥ [शाति २३।७६अब्]
पाशाङ्कुशपुटाशक्तिर् इत्य् अनेन प्रथमं पाशबीजम् ॐ । ततः शक्तिबीजं ह्रीं । ततो ऽङ्कुशबीजं क्रों । तेन आं ह्रीं क्रों । वाणियकारः बिन्दुविभूषितः तेन यं । याद्याः सप्त सकारान्ता उद्धृतयकारम् आदाय ।
सप्ताङ्कुशवाय्वनलाव् अग्निवरुणबीजानि । ३२० ॥
इत्य् अत्रोक्तेः पृथग् उपन्यासः सप्तानां सबिन्दुत्वार्थः । अत एवान्यत्र बीजानीत्य् उक्तम् । व्योमसत्येन्दुभूषितं व्योमहकारः सत्य उकार इन्दुर् बिन्दुः । तेनाहों अमुष्येति षष्ट्यन्तदेवतानामोपलक्षणम् ।
अदः पदं हि यद् रूपं यत्र मन्त्रे प्रदृश्यते ।
साध्याभिधानं तद् रूपं तत्र स्थाने नियोजयेत् ॥ ३२१ ॥
इति नारायणीयात् । अग्निवधुः स्वाहा । गायत्र्यादिसामाज्ञाने [प्।१५३] तु सप्रणवव्याहृतिगायत्रीमात्रं पठितव्यम् ।
जपहोमादि यत् किंचित् कृत्स्नोक्तं सम्भवेन् न चेत् ।
सर्वं व्याहृतिभिः कुर्याद् गायत्र्या प्रणवेन च ॥ ३२२ ॥ [य्म्ता ३।३२५]
इति मिताक्षराधृतषट्त्रिंशन्मतवचनदर्शनात् ।
अत्रापि तथा कल्प्यते पितामहः ।
अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् ।
हन्तृ̄णां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ॥ ३२३ ॥ [पि १८१]
राजतं कारयेद् धर्मम् अधर्मं सीमकायसम् ।
लिखेद् भूर्जे पटे वापि धर्माधर्मौ सितासितौ ॥ ३२४ ॥ [पि १८२]
अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ।
सितपुष्पस् तु धर्मः स्याद् अधर्मो ऽसितपुष्पकः ॥ ३२५ ॥ [पि १८३]
एवं विधायोपलिख्य पिण्डयोस् तौ निधापयेत् ।
गोमयेन मृदा वापि पिण्डौ कार्यौ समौ ततः ॥ ३२६ ॥ [पि १८४]
मृद्भाण्डके ऽनुपहते स्थाप्यौ चानुपलक्षितौ ।
उपलिप्ते शुचौ देशे देवब्राह्मणसंनिधौ ॥ ३२७ ॥ [पि १८५]
आवाहयेत् ततो देवान् लोकपालांश् च पूर्ववत् ।
धर्मावाहनपूर्वं तु प्रतिज्ञापत्रकं लिखेत् ॥ ३२८ ॥ [पि १८६]
यदि पापवियुक्तो ऽहं धर्मस् त्व् आयाच् च मे करम् । [पि १८७अब्]
अभियुकस् तयोश् चैकं प्रगृह्णीताविलम्बितः ॥ ३२९ ॥ [पि १८८अब्]
[प्।१५४]
धर्मे गृहीते शुद्धः स्याद् अधर्मे स तु हीयते । [पि १८८च्द्]
एवं समासतः प्रोक्तं धर्माधर्मपरीक्षणम् ॥ ३३० ॥ [पि १८९]
हन्तृ̄णाम् इति साहसाभियोगेषु । याचमानानाम् इति अत्यन्तार्थाभियोगेषु । प्रायश्चित्तार्थिनाम् इति पावकाभियोगेषु ।
तत्र प्रयोगः ।
पत्रद्वये शुक्लं कृष्णम् अधर्मं पुत्तलकरूपं निधाय । आं ह्रीं क्रों यं रं लं वं शं षं हों हंसः धर्मस्य प्राणा इह प्राणाः आम् इत्यादिधर्मस्य जीव इह स्थितः आम् इत्यादिधर्मस्य वाङ्मनश्चक्षुःश्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहेत्य् अनेन जीवदानं धर्मप्रतिमायाम् । एवम् अधर्मप्रतिमायां कृत्वा गायत्र्यादिसामज्ञाने तेनैव नो चेत् सप्रणवव्याहृतिगायत्रीं पठित्वा धर्मस्यावाहनादिकं कृत्वा यथाक्रमं शुक्लपुष्पयुक्तं धर्मं कृष्णपुष्पयुक्तम् अधर्मं मृत्पिण्डद्वये कृत्वा नवे कुम्भे स्थापयेत् । प्राड्विवाकस् ततो देवब्राह्मणसंनिधौ धर्मावाहनादिहवनान्तं कर्म कृत्वा दक्षिणां दत्त्वा समन्त्रकप्रतिज्ञापत्रं लिखित्वा शोध्यशिरसि दद्यात् । शोध्यस् तु ।
ॐ
यदि पापवियुक्तो ऽहं धर्मस् तु आयाच् च मे करम् ॥ ३३१ ॥ [पि १८७अब्]
इत्य् उच्चार्य कुम्भात् तयोर् एकं गृह्णीयात् । धर्मं गृहीते शुद्ध इति । अन्यथा त्व् अशुद्ध इति ।