अथ फलविधिः ।
बृहस्पतिः ।
आयसं द्वादशपलघटितं फालम् उच्यते ।
अष्टाङ्गुलं बेहवेद् दीर्घं चतुरङ्गुलविस्तरम् ॥ ३०३ ॥ [ब् ८।८०अब्]
अग्निवर्णं ततश् चौरो जिह्वया लेहयेत् सकृत् । [ब् ८।८०च्द्]
न दग्ध्श् चेच् छुद्धिम् इयाद् अन्यथा स तु हीयते ॥ ३०४ ॥ [ब् ८।८०एफ़्]
चौरो ऽत्र गोचौरः ।
गोचौरस्य प्रदातव्यं तप्तफालावलेहनम् ॥ ३०५ ॥ [ब् ८।३१च्द्]
इति स्मृतेर् इति मैथिलाः [व्य्चि ६६०] । अत्रापि त्वम् अग्ने इत्यादिमन्त्रानन्तरम् ।
[प्।१५०]
आयसं लेलिहानस्य जिह्व्यापि समादिशेत् ॥ ३०६ ॥ [ध्को ५२३]
इति पितामहोक्तः प्राड्विवाकशोध्याभ्याम् अग्न्यभिमन्त्रणं कार्यम् ।
प्रयोगः
अथ प्रयोगः ।
लौकिकचत्वारिंशत्तोलकमितं लौहघटितम् अष्टयवमध्यात्मकाङ्गुलाष्ट्दीर्घं तथाविधचतुरङ्गुलप्रस्तारं फालम् अग्नौ च तापयेत् । तत्र प्राड्विवाको धर्मावाहनादिहवनान्तं कर्म कृत्वा दक्षिणां दत्त्वा ।
ॐ
त्वम् अग्ने वेदाश् चत्वारस् त्वं च यज्ञेषु हूयते ।
त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥ ३०७ ॥ [पि १२३]
जठरस्थो हि भूतानां ततो वेत्सि शुभाशुभम् ।
पापं पुनासि वै यस्मात् तस्मात् पावक उच्यते ॥ ३०८ ॥ [पि १२४]
पापेषु दर्शयात्मानम् अर्चिष्मान् भव पावक ।
अथवा शुद्धभावेन शीतो भव हुताशन ॥ ३०९ ॥ [पि १२५]
त्वम् एव सर्वभूतानाम् अन्तश्चरसि साक्षिवत् ।
त्वम् एव देव जानीषे न विदुर यानि मानवाः ॥ ३१० ॥ [पि १२६]
व्यवहाराभिशस्तो ऽयं मानुषः शुद्धिम् इच्छति ।
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥ ३११ ॥ [पि १२७]
इत्य् एतैः फालस्थम् अग्निम् अभिमन्त्रयेत् ।
[प्।१५१]
शोध्यस् तु ।
त्वम् अग्ने सर्वभूतानाम् अन्तश्चरति पावक ।
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥ ३०२ ॥ [य् २।१०४]
इत्य् अनेनाभिमन्त्राग्निवर्णं फालं जिह्वया सकृल् लिह्यात् । न दग्धश् चेत् शुद्धः ।