अथ तप्तमाषविधिः ।
पितामहः ।
कारयेद् आयसं पात्रं ताम्रं वा षोडशाङ्गुलम् ।
चतुरङ्गुलखातं तु मृण्मयं वाथ मण्डलम् ॥ २९० ॥ [पि १७०]
मण्डलं सूर्यमण्डलाकारं वर्तुलम् इति यावत् ।
पूरयेद् घृततैलाभ्यां विंशत्या तु पलैस् तु तत् ॥ २९१॥ [पि १७१]
सुवर्णमाषकं तस्मिन् सुतप्ते निक्षिपेत् ततः ।
अङ्गुष्ठाङ्गुलियोगेन उद्धरेत् तप्तमाषकम् ॥ २९२ ॥ [पि १७२]
कराग्रं यो न धुनुयात् विस्फोटो वा न जायते ।
शुद्धो भवति धर्मेण पितामहवचो यथा ॥ २९३ ॥ [पि १७३]
कल्पान्तरम् आह ।
सौवर्णे राजते ताम्रे आयसे मृण्मये ऽपि वा ।
गव्यं घृतम् उपादाय तद् अग्नौ तापयेच् छुचिः ॥ २९४ ॥ [पि १७४]
सौवर्णीं राजतीं ताम्रीम् आयसीं च सुशोधिताम् ।
सलिलेन सकृद् धौतां प्रक्षिपेत् तत्र मुद्रिकाम् ॥ २९५ ॥ [पि १७५]
[प्।१४८]
भ्रमद्वीचितरङ्गाढ्ये न नखस्पर्शगोचरे ।
परीक्षेत् आर्द्रपर्णेन चुचुकारं सघोषकम् ॥ २९६ ॥ [पि १७६]
ततश् चानेन मन्त्रेण सकृत् तद् अभिमन्त्रयेत् ॥ २९७ ॥ [पि १७७]
परं पवित्रम् अमृतं घृत त्वं यज्ञकर्मसु ।
दह पावक पापं त्वं हिमशीतं शुचौ भव ॥ २९८ ॥ [पि १७८]
उपोषितं ततः स्नातम् आर्द्रवाससम् आगतम् ।
ग्राहयेन् मुद्रिकां तां तु घृतमध्यगतां तथा ॥ २९९ ॥ [पि १७९]
प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः ।
यस्य विस्पोटका न स्युः शुद्धो ऽसाव् अन्यथाशुचिः ॥ ३०० ॥ [पि १८०]
प्रयोगस् तु ।
मध्यविधाष्टयवतण्डुलमध्यमिताङ्गुलिषोडशाङ्गुलमितप्रस्तारे तथाविधाङ्गुलिचतुष्टयखाते ताम्रादिघाटिते ऽशक्तौ मृण्मये वा चक्राकारवर्तुले पात्रे लौकिकाष्टरत्तिकाधिकमाषकद्वयाधिकत्रयस्त्रिंशत्तोलकरूपवैदिकपलदशकमितं घृतम् एवं तैलं च निक्षिप्य लौकिकचतुरत्तिकाधिकपञ्चमाषकषट्षष्टितोलकरूपवैदिकविंशतिपलपरिमितं केवलं गव्यघतं वा निक्षिप्य तस्मिन् सुतप्ते सकृद् धौतां पञ्चरत्तिकामितां काञ्चनमुद्रिकां राजतादिकां वा निक्षिपेत् । धर्मावाहनादिहवनान्तं तुलोक्तं सदक्षिणं कर्म कृत्वा ।
[प्।१४९]
ॐ
परं पवित्रम् अमृतं घृत त्वं यज्ञकर्मसु ।
दह पावक पापं त्वं हिमशीतं शुचौ भव ॥ ३०१ ॥ [पि १७८]
इत्य् अनेनाभिमन्त्रयेत् । प्राड्विवाकः ततः कृतोपवासः स्नातार्द्रवासः शोध्यशिरसि प्रतिज्ञापत्र निधाय ।
ॐ
त्वम् अग्ने सर्वभूतानाम् अन्तश्चरति पावक ।
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥ ३०२ ॥ [य् २।१०४]
इत्य् अनेनाभिमन्त्र्यार्द्रपत्रनिक्षेपकृतचुचुकशब्दाद् घृताद् मुद्रिकां तर्जन्यङ्गुष्ठाभ्याम् उत्तोलयेत् । घृततैलाभ्याम् वा तप्तमाषकम् उत्तोलयेत् । अदग्धश् चेत् तदा शुद्ध इति ।