१२ तण्डुलविधिः

अथ तण्डुलविधिः ।

पितामहः ।

चौर्ये तु तण्डुला देया दान्यत्रेति विनिश्चयः । [पि १६३च्द्]
तण्डुलान् कारयेच् छुक्लान् शालेर् नान्यस्य कस्यचित् । [पि १६४अब्]
मृण्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः ॥ २८५ ॥ [पि १६४च्द्]
स्नानोदकेन संमिश्रान् रात्रौय् तत्रैव वासयेत् ॥ २८६ ॥ [पि १६५अब्]
प्राङ्मुखोपोषितं स्नातं शिरोरोपितपत्रकम् । [पि १६६अब्]
तण्डुलान् भक्षयित्वा तु पत्रे निष्ठीवयेत् त्रिधा । [पि १६६च्द्]
भूर्जस्यैव तु नान्यस्य अभावे पिप्पलस्य तु ॥ २८७ ॥ [पि १६७]
शोणितं दृश्यते यस्य हनुस् तालु च शीर्यते । [पि १६८अब्]
गात्रं च कम्पते यस्य तम् अशुद्धं विनिर्दिशेत् ॥ २८८ ॥ [पि १६८च्द्]

स्नानोदकेन देवतास्नानोदकेन ।

तथा च कात्यायनः ।

[प्।१४७]

देवतास्नानपानीयस्निग्धतण्डुलभक्षणे ।
शुद्धनिष्ठीवनाच् छुद्धो नियम्यो ऽशुचिर् अन्यथा ॥ २८९ ॥ [क् ४५३]

शिरोरोपितपत्रकं तण्डुलान् भक्षयित्वा निष्ठीवयेत् । प्राड्विवाक इति निष्ठीवयेद् इति ण्यन्तान् निरूपितम् । सर्वदिव्यसाधारणं च धर्मावाहनादिहवनान्तं पूर्ववद् इहापि कर्तव्यम् ।