अथ कोषविधिः ।
नारदः ।
पूर्वाह्णे सोपवासस्य स्नातस्याद्रपटस्य च ।
सशूकस्याव्यसिनः कोषपानं विधीयते ॥ [न् १।३२८]
इच्छतः श्रद्दधानस्य देवब्राह्मणसंनिधौ ॥ २६९ ॥ ध्को ५१३]
मद्यपस्त्रीव्यसनिनां कितवानां तथैव च ।
कोषः प्राज्ञैर् न दातवयो ये च नास्तिकवृत्तयः ॥ २७० ॥ [ध्को ४६४]
महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।
नास्तिकव्रात्यदासेषु कोषपानं विवर्जयेत् ॥ २७१ ॥ [ध्को ४६४]
तम् आहूयाभिशस्तं तु मण्डलाभ्यान्तरे स्थितम् ।
आदित्याभिमुखं कृत्वा पाययेत् प्रसृतित्रयम् ॥ २७२ ॥ [ध्को ५१३]
ऊर्ध्वं यस्य हि सप्ताहाद् वैकृतं तु महद् भवेत् ।
नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् ॥ २७३ ॥ [न् १।३३१]
सशूक आस्तिक इति मिताक्षरा । महापराधी महापातकी । निर्धमो वर्णाश्रमरहितः । कुत्सितः प्रतिलोमजः । दासः कैवर्त्तः । मण्डलाभ्यन्तरे गोमयकृतमण्डलाभ्यन्तरे । वैकृतं रोगादि । महन् नाल्पं तस्य देहिनाम् अपरिहार्यत्वात् ।
तद् आह कात्यायनः ।
अथ दैवविसंवादे द्विसप्ताहं तु दापयेत् ।
अभियुक्तं प्रयत्नेन तदर्थं दण्डम् एव च ॥ २७४ ॥ [क् ४५६]
[प्।१४४]
तस्यैकस्य न सर्वस्य जनस्य यदि तद् भवेत् ।
रोगो ऽग्निर् ज्ञातिमरणम् ऋणं दाप्यो दमं च सः ॥ २७५ ॥ [क् ४५७]
ज्वरातिसारविस्फोटगूढास्थिपरिपीडनम् ।
नेत्ररुग् गलरोगश् च तथोन्मादः प्रजायते ।
शिरोरुग्भुजभङ्गश् च दैविका व्याधयो नृणाम् ॥ २७६ ॥ [क् ४५८]
गलरोग इत्य् अत्र शूलरोग इति क्वचित् पाठः । द्विसप्ताहं तु महाभियोगस्विषयम् । महाभियोगेष्व् एतानीति [य् २।९५च्] प्रस्तुत्याचतुर्दशकाद् अह्ण इति [य् २।११३अ] याज्ञवल्कयाभिदानात् । मिताक्षराप्य् एवम् [य्म्ता २।११३] ।
यत् तु ।
त्रिरात्रात् सप्तरात्राद् व द्वादशाहात् द्विसप्तकात् ।
वैकृतं यस्य दृश्यते पापकृत् स उदाहृतः ॥ २७७ ॥ [पि १६१]
इत्य् पितामहोक्तं तन् महाभियोगात् कृत्स्नद्रव्याद् अर्वाचीनं द्रव्यं त्रिधा विभज्य त्रिरात्रादिपक्षत्रयं व्यवस्थापनीयम् इति मिताक्षरा [य्म्ता २।११३] ।
तथा ।
भक्तो यो यस्य देवस्य पाययेत् तस्य तज्जलम् ।
समभावे तु देवानाम् आदित्यस्य तु पाययेत् ॥ २७८ ॥ [पि १५७]
दुर्गायाः पाययेच् चौरान् ये च शस्त्रोपजीविनः ।
भास्करस्य तु यत् तोयं ब्राह्मणं तन् न पाययेत् ॥ २७९ ॥ [पि १५८]
[प्।१४५]
दुर्गायाः स्नापयेच् छूलम् आदित्यस्य तु मण्डलम् ।
अन्येषाम् अपि देवानां स्नापयेद् आयुधानि च ॥ २८० ॥ [पि १५९]
अत्र ।
स्वल्पापराधे देवानां स्नापयित्वायुधोकअम् ।
पाय्यो विकारे चाशुद्धो नियम्यः शुचिर् अन्यथा ॥ २८१ ॥ [क् ४५२]
इति कात्यायनोक्तविशेषात् महापराधे देवस्नानोदकम् इति विषयभेदः । रत्नाकरो ऽप्य् एवम् । मण्डलं व्योमेत् व्यवहारदीपिका । तस्यां विष्णुः ।
उग्रान् देवान् समभ्यर्च्य तत् स्नानोदकप्रसृतित्रयं पिबेत् ॥ २८२ ॥ [वि १४।२]
इदं मयान कृतम् इति व्याहरन् देवताभिमुखः ॥ २८३ ॥ [वि १४।३]
इति एतदनुसाराद् एवान्यत्र । प्रतिज्ञा प्रागुक्ता ।
अत्र प्रयोगः ।
प्राड्विवाको गोमयकृतमण्डलाभ्यन्तरे धर्मावाहनादिसर्वदेवतापूजां हवनान्तां निर्वर्त्य दक्षिणां दत्त्वा समन्त्रकं प्रतिज्ञापत्रकं शोध्यशिरसि निधाय यथाविहितदेवं संपूज्य तत् स्नानोदकम् आनीय ।
[प्।१४६]
ॐ
तोय त्वं प्राणिनां प्राणः सृष्टेर् आद्यं तु निर्मितम् ।
शुद्धेश् च कारणं प्रोक्तं द्रवाणां देहिनां तथा ॥ [पि १३९]
अतस् त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ॥ २८४ ॥ [पि १४०]
इत्य् आभ्याम् अभिमन्त्र्य गोमयकृतमण्डलाभ्यन्तरे स्थितं सोपवासं स्नातार्द्रवासनम् आदित्याभिमुखं ॐ सत्येन माभिरक्षस्व वरुणेत्य् अनेन शोध्यपथितेनाभिमन्त्रितं प्रसृतित्रयं जलम् पाययेत् । ततो यद्य् अवधिकालाभ्यन्तरे रोगादिपीडा न भवति तदा शुद्ध इति । ततो दक्षिणा देया ।