अथ विषविधिः ।
नारदः ।
शार्ङ्गहैमवतं शस्तं गन्धवर्णरसान्वितम् । [न् १।३२२अब्]
अकृत्रिमसमं गूḑहम् अमन्त्रोपहतं च यत् ॥ २५१ ॥ [ध्को ५०७]
[प्।१४०]
वर्षे चतुर् यवा मात्रा ग्रीष्मे पञ्च यवाः स्मृताः ।
हेमन्ते स्युः सप्त यवाः शरद्य् अल्पं ततो ऽपि हि ॥ २५२ ॥ [न् १।३२४]
दद्याद् द्विषं सोपवासो देवब्राह्मणसंनिधौ ।
धूपोपहारमन्त्रैश् च पूजयित्वा महेश्वरम् ॥ २५३ ॥ [ध्को ५०८]
द्विजानां संनिधाव् एव दक्षिणाभिमुखे स्थिते ।
उदङ्मुखः प्रङ्मुखो वा दद्याद् विप्रः समाहितः ॥ २५४ ॥ [ध्को ५०८]
शार्ङ्गस्वरूपम् आह कात्यायनः ।
अजाशृङ्गनिभं श्यामं सुशीतं शृङ्गसम्भवम् ।
भङ्गे च शृङ्गवेराभं तत्ख्यातं शृङ्गिणं विषम् ॥ [क् ४४६ ]
रक्तस्थम् असितं कुर्यात् कठिनं चैव तत्क्षणात् ॥ [क् ४४७अब्]
शृङ्गवेरम् आर्द्रकं तदाभं तत्तुल्यम् । रक्तस्थम् इति यद् विषं रक्ते स्थापितं सत्तद्रक्तस्थं श्यामं कठिनं करोतीति अर्थः । अल्पेति षड्यवमात्रेत्य् अर्थः । हेमन्तग्रहणे शिशिरस्यापि ग्रहणं हेमन्तशिशिरयोः समान्तत्वम् इति श्रुतेः । वसन्तस्य सर्वदिव्यसाधारणत्वेन तत्रापि सप्त यवाः सप्त विषस्य वेति याज्ञवल्क्येन [य् २।९८द्] सामान्यतो ऽभिधानात् ।
कात्यायनः ।
पूर्वाह्णे शीतले देशे विषं देयं तु देहिनाम् ।
घृतेन योजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणेन च ॥ २५६ ॥ [क् ४५०]
देयं प्राड्विवाकेन ।
तत् पाठ्यम् आह पितामहः ।
[प्।१४१]
दीयमानं करे कृत्वा विषं तु परिशापयेत् ॥ २५७ ॥ [पि १५१]
विष त्वं ब्रह्मणा सृष्टं परीक्षार्थं दुरात्मनाम् ।
पापिनां दर्शयात्मानं शुद्धानाम् अमृतं भव ॥ २५८ ॥ [पि १५२]
मृत्युमूर्ते विष त्वं हि ब्रह्मणा परिनिर्मितम् ।
त्रायस्वैनं नरं पापात् सत्येनास्यामृतं भव ॥ २५९ ॥ [पि १५३]
परिशापयेत् शपथं कारयेत् ।
शोध्यपाठ्यम् आह याज्ञवल्क्यः ।
विष त्वं ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः ।
त्रायस्वास्माद् अभिशापात् सत्येन भव मे ऽमृतम् ॥ २६० ॥ [य् २।११०]
एकम् उक्त्वा विषं शार्ङ्गं भक्षयेद् धिमशैलजम् ॥ २६१ ॥ [य् २।१११अब्]
पितामहः ।
भक्षिते च यदा सुस्थो मूर्छार्छदिविवर्जितः ।
निर्विकारि दिनस्यान्ते शुद्धं तम् इति निर्दिशेत् ॥ २६२ ॥ [पि १५६]
त्रिरात्रं पंचरात्रं वा पुरुषैः स्वैर् अधिष्ठितम् ।
कुहकादिभयाद् राजा वारयेद् दिव्यकारिणम् ॥ २६३ ॥ [पि १५४]
ओषधीर् मन्त्रयोगांश् च मणीन् अथ विषापहान् ।
कर्तुः शरीरसंस्थांश् च गूढोत्पन्नान् परीक्षयेत् ॥ २६४ ॥ [पि १५५]
विषतन्त्रे वेगो रोमांश् चमाद्यो रचयति विषजः स्वेदवक्त्रोपशेषौ तस्योर्द्ध्वस् तत्परौ द्वौ वपुषि जनयतो वर्णभेदप्रवेपौ यो वेगः पंचमो ऽसौ नयनविरसतां कण्ठभङ्गं च हिक्कां षष्ठो निश्वासमोहौ वितरति मृतिं सप्तमो भक्षकस्य ।
[प्।१४२]
बृहस्पतिः ।
विधिदत्तं विषं येन जीर्णं मन्त्रौạसधं विना ।
स शुद्धः स्याद् अन्यथा तु दण्ड्यो दाप्यश्फ़् च तद् धनम् ॥ २६५ ॥ [ब् ८।६४]
प्रयोगः
अथात्र प्रयोगः ।
सोपवासः प्राड्विवाकः शिवं संपूज्य तत्पुरतो विषम् उक्तपरिमाणं पिष्टं त्रिंशद् गुणघृतयुक्तं संस्थाप्य धर्मादीन् हवनान्तम् इष्ट्वा दक्षिणां दत्त्वा शोध्यशिरसि प्रतिज्ञापत्रं निधाय
ॐ
विष त्वं ब्रह्मणा सृष्टं परीक्षार्थं दुरात्मनाम् ।
पापिनां दर्शयात्मानं शुद्धानाम् अमृतं भव ॥ २५८ ॥ [पि १५२]
मृत्युमूर्ते विष त्वं हि ब्रह्मणा परिनिर्मितम् ।
त्रायस्वैनं नरं पापात् सत्येनास्यामृतं भव ॥ २५९ ॥ [पि १५३]
इत्य् आभ्यां प्राण्मुखः उदङ्मुखओ वा विषम् अभिमन्त्र्य दक्षिणाभिमुखाय शोध्याय ददाति ।
शोध्यस् तु ।
ॐ
विष त्वं ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः ।
त्रायस्वास्माद् अभिशापात् सत्येन भव मे ऽमृतम् ॥ २६० ॥ [य् २।११०]
इत्य् अनेनाभिमन्त्र्य भक्षयति । यदि दिनान्तं निर्विकारस् तदा शुद्ध इति ।
[प्।१४३]