०९ उदकपरीक्षा

अथ उदकपरीक्षा ।

पितामहः ।

तोयस्याथ प्रवक्ष्यामि विधिं धर्म्यं सनातनम् ।
मण्डलं पुष्पधूपाभ्यां कारयेत् सुविचक्षणः ॥ [पि १३२]

[प्।१३४]

शरान् संपूजयेद् भक्त्या वैणवं च धनुस् तथा ॥ २२१ ॥ [पि १३३ अब्]

तत्र प्रथमो वरुणं पूजयेत् ।

यथा नारदः ।

गन्धमाल्यैः सुरभिभिर् मधुक्षीरघृतादिभिः ।
वरुणाय प्रकुर्वीत पूजाम् आदौ समाहितः ॥ २२२ ॥ [ध्को ५०१]

ततो धर्मावाहनादिसकलदेवतापूजाहोमसमन्त्रकप्रतिज्ञापत्रशिरोनिवेशितान्तं कर्म कुर्यात् ।

कात्यायनः ।

शरांस् त्व् अनायसाग्रांस् तु प्रकुर्वीत विशुद्धये ।
वेणुकाष्ठम् अंशांश् चैव क्षेप्ता च सुदृधं क्षिपेत् ॥ २२३ ॥ [क् ४४२]

पितामहः ।

क्षेप्ता च क्षत्रियः कार्यस् तद्वृत्तिर् ब्राह्मणो ऽथवा ।
अक्रूरहृदयः शान्तः सोपवासस् तथा शुचिः ॥ २२४ ॥ [पि १४१]
इषुं न प्रक्षिपेद् धीमान् मारुते वाति वा भृशम् ।
विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले ॥ २२५ ॥ [पि १४७]

नारदः ।

क्रूरं धनुः सप्तशतं मध्यमं षट्शतं स्मृतम् ।
मन्दं पंचशतं प्रोक्तम् एष ज्ञेयो धनुर्विधिः ॥ २२६ ॥ [न् १।३०७]

अङ्गुलीनां सप्ताधिकं शतं यस्य धनुषः परिमाणः तत्सप्तशतम् एव षट्शतादिकम् ।

[प्।१३५]

पितामहः ।

मध्यमेन तु चापेन प्रक्षिपेत् तु शरत्रयम् ।
हस्तानां तु शते सार्द्धे लक्ष्यं कृत्वा विचक्षणः ॥ २२७ ॥ [ध्को ५०४]
तेषां च प्रेषितानां तु शराणां शास्त्रदेशनात् ।
मध्यमस् तु शरो ग्राह्यः पुरुषेण बलीयसा ॥ २२८ ॥ [ध्को ५०४]
शराणां पतनं ग्राह्यं सर्पणं परिवर्जयेत् ।
सर्पन् सर्पन् शरो याति दुराद् दूरतरं यतः ॥ २२९ ॥ [पि १४६]

पतनं ग्राह्यम् इति शरपतनस्थानपर्यन्तं गच्छेद् इत्य् अर्थः । तेन प्रसरणपक्षे ऽपि पतनस्थानकशरग्रहणं ततश् च प्रथमतः पुरुषान्तरेण तत्स्थाने शर आनेतव्यः ।

नारदः ।

नदीषु नातिवेगासु तडागेषु सरःसु च ।

ह्रदेषु स्थिरतोयेषु कुर्यात् पुंसां निमज्जनं ॥ २३० ॥ [न् १।३०५]

नातिवेदासु स्थितिविरोधिवेगशून्यासु ।

विष्णुः ।

पङ्कशैवालदुष्टग्राहमत्स्यजलौकादिवर्जिते ॥ २३१ ॥ [वि १२।२]
तस्य नाभिमात्रजले मग्नस्यारागद्वेषिणः पुरुषसान्यस्योरू गृहीत्वाभिमन्त्रिताम्भः प्रविशेत् ॥ २३२ ॥ [वि १२।३]
तत्समकालं च नातिक्रूरमृदुना धनुषा पुरुषो परः शरमोक्षं कुर्यात् ॥ २३३ ॥ [वि १२।४]

[प्।१३६]

तस्य शोध्यस्येत्य् अर्थः । अन्यथा तस्येति व्यर्थं स्यात् । अन्यपुरुषस्य स्तम्भधारणम् आह स्मृतिः ।

उदके प्राण्मुखस् तिष्ठेद् धर्मस्थूणां प्रगृह्य च ॥ २३४ ॥ [ध्को ५०५]

प्राड्विवाककर्तृजलाभिमन्त्रणम् आह पितामहः ।

तोय त्वं प्राणिनां प्राणः सृष्टेर् आद्यं तु निर्मितम् ।
शुद्धेश् च कारणं प्रोक्तं द्रव्याणां देहिना तथा ॥ २३५ ॥ [पि १३९]
अतस् त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ॥ २३६ ॥ [पि १४०]

शोध्यकर्तृकाभिमन्त्रणम् आह याज्ञवल्क्यः ।

सत्येन माभिरक्षस्व वरुणेत्य् अभिशाप्य कम् ।
नाभिमात्रोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥ २३७ ॥ [य् २।१०८]

मा माम् । अभिशाप्य शपथं कारयित्वा । कं जलम् । विशेत् निमज्जेत् । तोरणं च निमज्जनसमीपे समे स्थाने शोध्यकर्णप्रमाणोच्छ्रितं कार्यम् ।

यथा नारदः ।

गत्वा तु तज् जलस्थानं तटे तोरणम् उच्छ्रितम् ।
कुर्वीत कर्णमात्रं तु भूमिभागे समे शुचौ ॥ २३८ ॥ [ध्को ५००]

शरमोक्षे विशेषम् आहुर् नारदबृहस्पती ।

शरप्रक्षेपणस्थानाद् युवा जवसमन्वितः ।
गच्छेत् परमया शक्त्या यत्रासौ मध्यमः शरः ॥ २३९ ॥ [न् १।३०९; ब् ८।५८]
मध्यमं शरम् आदाय पुरुषो ऽन्यस् तथाविधः ।
प्रत्यागच्छेत् तु वेगेन यतः स पुरुषो गतः ॥ २४० ॥ [न् १।३१०; ब् ८।५९]

[प्।१३७]

आगन्तस् तु शरग्राही न पश्यति यदा जले ।
अन्तर्जलगतं सम्यक् तदा शुद्धिं विनिर्दिशेत् ॥ २४१ ॥ [न् १।३११; ब् ८।६०]
अन्यथा न विशुद्धः स्याद् एकाङ्गस्यापि दर्शनात् ।
स्थानाद् वान्यत्र गमनाद् यस्मिन् पूर्वं निवेशयेत् ॥ २४२ ॥ [न् १।३१२; ब् ८।६१च्देफ़्]

जविनौ विशेषयति नारदः ।

पंचाशतो धावकाणां यौ स्याताम् अधिकौ जव ।
तौ च तत्र नियोक्तव्यौ शरानयनकारणात् ॥ २४३ ॥ [ध्को ५०१]

एकाङ्गस्यापि दर्शनाद् इति च कर्णाद्यभिप्रायेण ।

शिरोमात्रं तु दृश्यते न कर्णौ नापि नासिका ।
अप्सु प्रवेशने यस्य शुद्धं तम् अपि निर्दिशेत् ॥ २४४ ॥ [ध्को ५०३]

इति विशेषाभिधानात् ।

निमज्जोत्प्लवते यस् तु दष्टश् चेत् प्राणिना नरः ।
पुनस् तत्र निमज्जेत् स दंशचिह्नविचारितः ॥ २४५ ॥ [ध्को ५०३]

जलान्तर्गतमत्स्यजलौकादिना दष्टः समुत्प्लवते तदा दष्टे पुनर् निमज्जनीयम् इत्य् अर्थः ।

[प्।१३८]

पितामहः ।

गन्तुश् चापि च कर्तुश् च समं गमनमज्जनम् ।
गच्छेत् तोरणमूलात् तु शरस्थानं जवी नरः ॥ २४६ ॥ [पि १४२]
तस्मिन् गते द्वितीयो ऽपि वेगाद् आदाय शायकम् ।
गच्छेत् तोरणमूलं तु यतः स पुरुषो गतः ॥ २४७ ॥ [पि १४३]
आगन्तुस् तु शरग्राही न पश्यति यदा जले ।
अन्तर्जलगतं सम्यक् तदा शुद्धिं विनिर्दिशेत् ॥ २४८ ॥ [पि १४४]

अत्र मज्जनसमकालगमनाभिधानाच् छरमोक्षसमकालं गमनं शूलपाण्युक्तम् अयुक्तं मज्जनसमकालक्षिप्तं मध्यमं शरम् आदायेत्य् अपरमुक्तम् अपि प्रमाणशून्यम् । ततश् च त्रिषु शरेषु मुक्तेषु एको वेगवान् मध्यशरपतनस्थानं गत्वा तम् आदाय तत्रैव तिष्ठति । एवं स्थितयोस् तृतीयायां करतालिकायां प्रड्विवाकदत्तायां शोध्यो निमज्जति । तत्समकालम् एव तोरणमूलस्थितो ऽपि द्रुततरं मध्यमशरपतनस्थानं गच्छति । शरग्राही च तस्मिन् प्राप्ते द्रुततरं तोरणमूलं प्राप्यान्तर्जलगतं यदि न पश्यति तदा शुद्धो भवतीति वर्तुलार्थः ।

तत्र प्रयोगः

उक्तलक्षणजलाशयनिकटे तथा तोरणं विधाय उक्तदेशे लक्ष्यं कृत्वा तोरणसमीपे सशरं धनुः जलाशये वरुणम् आवाह्य पूजयित्वा तत्तीरे धर्मादींश् च देवान् हवनान्तम् इष्ट्वा दक्षिणां [प्।१३९] कृत्वा शोध्यस्य शिरसि प्रतिज्ञापत्रं बद्ध्वा प्राड्विवाको जलम् अभिमन्त्रयेत् ।

तोय त्वं प्राणिनां प्राणः सृष्टेर् आद्यं तु निर्मितम् ।
शुद्धेश् च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥ २४९ ॥ [पि १३९]
अतस् त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ॥ २५० ॥ [पि १४०]

इति मन्त्रेण । शोध्यस् तु ॐ सत्येन माभिरक्षस्व वरुणेत्य् अनेन जलम् अभिमन्त्र्य गृहीतस्थूणस्य शोध्यस्य नाभिमात्रोदकावस्थितस्य बलीयसः प्रङ्मुखपुरुषस्य समीपं जलमध्ये गच्छेत् । ततश् च शरेषु त्रिषु मुक्तेषु मध्यमशरपातस्थाने मध्यमशरं गृहीत्वा जविन्येकस्मिन् पुरुषे स्थिते अन्यस्मिंश् च तोरणमूलस्थिते प्राड्विवाकेन तालत्रये दत्ते शोध्यो गृहीतस्थूणप्राङ्मुखपुरुषोरू गृहीत्वा निमज्जति । तत्समकालम् एव तोरणमूलस्थो ऽपि द्रुतं गच्छति । ततः शरग्राही च तस्मिन् प्राप्ते द्रुतं तोरणमूलं प्राप्य जलान्तःस्थं यदि न पश्यति तदा शुद्धः । कर्णाद्यङ्गं विना शिरोमात्रदर्शने ऽपि शुद्धः । दक्षिणादिकं दद्यात् ।