०८ अग्निपरीक्षा

अथ अग्निपरीक्षा ।

अग्निविधिं प्रवक्ष्यामि यथावच् छास्त्रभाषितम् ।
कारयेन् मण्डलान्य् अष्टौ पुरस्तान् नवमं तथा ॥ १७६ ॥ [पि १०९]
आग्नेयं मण्डलं त्व् आद्यं द्वितीयं वारुणं स्मृतम् ।
तृतीयं वायुर्दैवत्यं चथुर्थं यमदैवतम् ॥ १७७ ॥ [पि ११०]
पंचमं त्व् इन्द्रदैवत्यं षष्ठं कौबेरम् उच्यते ।
सप्तमं सोमदैवत्यं सावित्रम् अष्टमं तथा ॥ १७८ ॥ [पि १११]

[प्।१२५]

नवमं सर्वदैवत्यम् इति दिव्यविदो विदुः । [पि ११२अब्]
पुरस्तान् नवमं यच् च तन् महत्पार्थिवं विदुः ॥ १७९ ॥ [ध्को ४९५]

महत्पार्थिवम् इत्य् अपरिमिताङ्गुलम् इत्य् अर्थः ।

गोमयेन कृतानि स्युर् अद्भिः पर्युक्षितानि च । [पि ११२च्द्]
द्वात्रिंशदङ्गुलान्य् आहुर् मण्डलान्तरम् ॥ १८० ॥ [पि ११३]
अष्टाभिर् मण्डलैर् एवम् अङ्गुलीनां शतद्वयम् ।
षट्पंचाशत् समधिकं भूमेस् तु परिकल्पना ॥ १८१ ॥ [पि ११४]
कर्तुः पादसमं कार्यं मण्डलं तु प्रमाणतः ॥ १८२ ॥ [पि ११५]

आग्नेयम् अग्निदेवताकम् । एवम् अन्यत्र । तेनाग्न्यादयस् तेन पूज्याः । मण्डलं षोडशाङ्गुलं तदन्तरालं च षोदशाङ्गुलं मिलित्वा द्वात्रिंशदङ्गुलम् इति ।

तथा च याज्ञवल्क्यः ।

षोडशाङ्गुलकं ज्ञेयं मण्डलं तावद् अन्तरम् ॥ १८३ ॥ [य् २।१०६ च्द्]

इति । तथा ।

मण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिताः ।
विन्यसेत् तु पदं तेषु नित्यम् इति स्थितिः ॥ १८४ ॥ [पि ११६]
प्राण्मुखस् तु ततस् तिष्ठेत् प्रसारितकरांजलिः ।
आर्द्रवासाः शुचिश् चैव शिरस्य् आरोप्य पत्रकम् ॥ १८५ ॥ [ध्को ४९८]
पश्चिमे मण्डले तिष्ठेत् प्राङ्मुखः प्रांजलिः शुचिः ।
लक्षयेयुः क्षतादीनि हस्तयोस् तस्य कारिणः ॥ १८६ ॥ [ध्को ४९६]

तस्यावधृष्टव्रीहेः ।

[प्।१२६]

तथा च याज्ञवल्क्यः ।

करौ विमृदितव्रीहेर् लक्षयित्वा ततो न्यसेत् ।
सप्ताश्वत्थस्य पत्राणि तावत् सूत्रेण वेष्टयेत् ॥ १८७ ॥ [य् २।१०३]

विमृदितव्रीहेः कराभ्याम् इति शेषः । विमृदितव्रीहेः करौ लक्ष्ययित्वा क्षतितिलकालकादिस्थानेषु हंसपदाक्ŗतिरेखारूपेण रक्तचन्दनादिबिन्दुनाङ्कयित्वा ।

तथा नारदः ।

हस्तक्षतेषु सर्वेषु कुर्यात्द् धंसपदानि तु ।
तान्य् एव पुनर् आलक्षेद् धस्तौ बिन्दुविचित्रितौ ॥ १८८ ॥ [न्। १।३०१]

ततश् च हस्तयोर् उपरि सप्ताश्वत्थपत्राणि सप्तशमीपत्राणि सप्तदूर्वापत्राणि दध्यक्तान् यवान् पुष्पाणि च विन्यसेत् ।

सप्तपिप्पलपत्राणि शमीपत्राण्य् अथ क्रमात् ।
दूर्वायाः सप्तपत्राणि दध्यक्तांश् चाक्षतान् न्यसेत् ॥ १८९ ॥ [य्म्ता २।१०३]

इति मिताक्षराधृतवचनात् ।

सप्तपिप्पलपत्राणि अक्षतं सुमनो दधि ।
हस्तयोर् निक्षिपेत् तत्र सूत्रेण वेष्टनं तथा ॥ १९० ॥ [पि ११८]

इति पितामहवचनाच् च ।

सूत्रं विशेषयति नारदः ।

वेष्टयीत सितर् हस्तौ सप्तभिः सूत्रतन्तुभिः । १९१ ॥ [ध्को ४९०]

तथा

[प्।१२७]

जात्यैव लौहकारो यः कुशलश् चाग्निकर्मणि ।
दृष्टप्रयोगश् चान्यत्र तेनायो ऽग्नौ प्रतापयेत् ॥ १९२ ॥ [न् १।२८८]
अग्निवर्णमयःपिण्डं सस्फुलिङ्गं सुरंजितम् ।
पंचाशत् पलिकं भूयः कारयित्वा शुचिर् द्विजः ॥ १९३ ॥ [न् १।२८९]
तृतीयतापे तप्यन्तं ब्रुयात् सत्यपुरस्कृतम् । १९४ ॥ [न् १।२९०अब्]

सत्यपुरस्कृतं सत्यशब्दयुक्तम् । त्वम् अग्ने सर्वभूतानाम् इति याज्ञवल्क्योक्तं मन्त्रं ब्रुयाद् इत्य् अर्थः ।

अयःपिण्डं विशेषयति पितामहः ।

अस्रहीनं तथा कृत्वा अष्टाङ्गुलमयोमयम् ।
पिण्डं तु तापयेद् अग्नौ पंचाशत् पलिकं समम् ॥ १९५ ॥ [पि १२१]

अस्रं कोणम् । अङ्गुलमानं तु ।

तिर्यग्यवोदराण्य् अष्टाव् ऊर्ध्वा वा व्रीहयस् त्रयः ।
प्रमाणम् अङ्गुलस्योक्तं वितस्तिर् द्वादशाङ्गुलः ॥ १९६ ॥ [ध्को ५३४]

पलपरिमाणम् आह मनुः ।

पंचकृष्णलको माषस् ते सुवर्णस् तु षोदश ॥ [म् ८।१३४च्द्]
पलं सुवर्णाश् चत्वारः । १९७ ॥ [म् ८।१३५अ]

इत्य् तेन लौकिकमानेनाष्टतोलकपरिमितपलान्य् विंशतिः षट् तोलकाः पंचमाषकाश् चतस्रो रत्तिकावैदिकपंचाशतः पलेभ्यो [प्।१२८] निष्पद्यन्ते ।

ततः ।

शान्त्यर्थं जुहुयात्द् अग्नौ घृतम् अष्टोत्तरं शतम् । १९८ ॥ [ध्को ४९६]

इति मिताक्षराधृतात् । प्राड्विवाको मण्डलभूमेर् दक्षिणदेशे स्वगृह्योक्तविधिनाग्निं संस्थाप्य ॐ अग्नये पावकाय स्वाहेति मिताक्षरोक्तमन्त्रेणाज्येनाष्टोत्तरशतं हुत्वा तस्मिन्न् अग्नौ तल्लौहपिण्डं प्रतप्य तत्पिण्डं जले क्षिप्त्वा पुनः संताप्य जले पुनः क्षिप्त्वा पुनस् तस्मिन् तप्यमाने धर्मावाहनादिहवनान्तपूर्वोक्तविधिं विधाय पिण्डस्थम् अग्निम् एभिः पितामहाद्युक्तैर् मन्त्रैर् अभिमन्त्रयेत् ॐ ।

त्वम् अग्ने वेदाश् चत्वारस् त्वं च यज्ञेषु हूयसे ।
त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥ १९९ ॥ [पि १२३]
जठरस्थो हि भूतानां ततो वेत्सि शुभाशुभम् ।
पापं पुनासि वै यस्मात् तस्मात् पावक उच्यते ॥ २०० ॥ [पि १२४]
पापेषु दर्शयात्मानम् अर्चिष्मान् भव पावक ।
अथवा शुद्धभावेषु शीतो भव हूताशन ॥ २०१ ॥ [पि १२५]
त्वम् अग्ने सर्वभूतानाम् अन्तश्चरसि साक्षिवत् ।
त्वम् एव देव जानीषे न विदुर् यानि मानवाः ॥ २०२ ॥ [पि १२६]
व्यवहाराभिशस्तो ऽयं मानुषः शुद्धिम् इच्छति ।
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥ २०३ ॥ [पि १२७]

[प्।१२९]

ततो व्रीहिमर्दनसंस्कृतकरयोर् उपरि सप्ताश्वत्थपत्राणि विन्यस्य सप्तसूत्रैः संवेष्ट्याद्यमण्डले तिष्ठन् प्राड्विवाकेन संदेशानीतं लौहपिण्डम् अनेन याज्ञवल्क्योक्तेनाभिमन्त्रयेत् ।

त्वम् अग्ने सर्वभूतानां अन्तश्चरति पावक ।
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥ २०४ ॥ [य् २।१०४]

अस्यार्थः हे अग्ने त्वं सर्वभूतानां जरायुजाण्डजस्वेदजोद्भिज्जानाम् अन्तः शरीराभ्यन्तरे चरसि उपभुक्तान्नपानादीनां पाचकत्वेन वर्तसे सर्वस्य हृदयगतं जानासीति वा । पावक शुद्धिहेतो । कवे अन्तर्दर्शिन् सर्वज्ञेति यावत् । अतः साक्षिवत् पुण्यपापेभ्यः सत्यं ब्रूहि । पुण्यपापेभ्य इति ल्यब्लोपे पंचमी । पुण्यपापान्य् अवेक्ष्य सत्यं ब्रूहि दर्शयेत्य् अर्थः ।

तदनन्तरं याज्ञवल्क्यः ।

तस्येत्य् उक्तवतो लौहं पंचाशत् पलिकं समम् ।
अग्निवर्णं न्यसेत् पिण्डं हस्तयोर् उभयोर् अपि ॥ २०५ ॥ [य् २।१०५]

न्यसेद् राजा प्राड्विवाको वा ।

यथा पितामहः ।

ततस् तं समुपादाय राजा धर्मपरायणः ।
संदंशेन नियुक्तो वा हस्तयोर् ह्य् अस्य निक्षिपेत् ॥ २०६ ॥ [पि १२८]

[प्।१३०]

तं लौहपिण्डं । नियुक्तः प्राड्विवाकः । अस्य दिव्यकर्तुः ।

याज्ञवल्क्यः ।

स तम् आदाय सप्तैव मण्डलानि शनैर् व्रजेत् ॥ २०७ ॥ [य् २।१०६अब्]

एककारेण मण्डलेष्व् एव पादन्यासो मण्डलान् अतिक्रमणं च दर्शितम् ।

व्यक्तम् आह पितामहः ।

न मण्डलम् अतिक्रामेन् नाप्य् अर्वाक् स्थापयेत् पदम् । [पि १२९च्द्]
अष्टमं मण्डलं गत्वा नवमं क्षेपयेद् बुधः ॥ २०८ ॥ [पि १३० अब्]

कालिकापुराणम् ।

मण्डलानि तथा सप्तं षोडशाङ्गुलमानतः ।
तावद् अन्तरितो गच्छेद् गत्वा नवतृणे क्षिपेत् ॥ २०९ ॥ [ध्को ४९८]

अत्र च गन्तव्यानि सप्तैव मण्डलानि यतः प्रथमे तिष्ठति नवमे क्षिपति तेन न विरुध्यते ।

याज्ञवल्क्यः ।

अन्तरा पतिते पिण्डे संदेहे वा पुनर् हरेत् ॥ २१० ॥ [य् २।१०७च्द्]

संदेहे दग्धत्वादग्धत्वसंदेहे । पुनर् हरेत् तस्मिन्न् एव प्रयोगे पिण्डं पुनर् आरोप्य शेषं समापयेत् न तु प्रयोगान्तरम् आरोपमाणमात्रस्य पुनर् विधानात् तत्प्रयोगस्य विगुणत्वानिश्चयाच् च ।

कात्यायनः ।

प्रस्खलन्न् अभियुक्तश् चेत् स्थानाद् अन्यत्र दह्यते ।
न दग्धं तं विदुर् देवांस् तस्य भूयो ऽपि दापयेत् ॥ २११ ॥ [क् ४४१]

[प्।१३१]

याज्ञवल्क्यः ।

मुक्त्वाग्निं मृदितव्रीहिर् अदग्धः शुद्धिम् आप्नुयात् ॥ २१२ ॥ [य् २।१०७अब्]

नारदः ।

व्रीहिम् अतिप्रयत्नेन सप्तवारांश् च मर्दयेत् ॥ २१३ ॥ [न् १।३०२च्द्]

पितामहः ।

निर्विशङ्केन तेषां तु हस्ताभ्यां मर्दने कृते ।
निर्विकारे दिनस्यान्ते शुद्धिं तस्य विनिर्दिशेत् ॥ २१४ ॥ [पि १३१]

अनुष्ठानम्

अथाग्निपरीक्षानुष्ठानम् ।

पूर्वेद्युर् भूमिशुद्धिं विधाय परेद्युर् यथापूर्वम् अष्टमण्डलानि षोडशाङ्गुलप्रमाणानि तदन्तरालानि च षोडशाङ्गुलप्रमाणानि नवमं मण्डलम् अपरिमिताङ्गुलप्रमाणं तेषु प्रागग्राङ्कुशानास्तीर्य प्रथमे मण्डले रक्तपुष्पाक्षतम् आदाय ॐ भूर् भुवः स्वर् अग्ने इहागच्छ इह तिष्ठ इत्य् आवाह्य स्थापयित्वा गन्धादिभिः प्राड्विवाको ऽभ्यर्चयेत् । एवं द्वितीये वरुणम् । तृतीये वायुम् । चतुर्थे यमम् । पंचमे इन्द्रम् । षष्ठे कुबेरम् । सप्तमे सोमम् । अष्टमे सूर्यम् । नवमे सर्वदेवताः । ततो मण्डलदक्षिणे स्वगृह्योक्तविधिनाग्निम् उपसमाधाय ॐ अग्नये पावकाय स्वाहेत्य् अनेनाष्टोत्तरशतम् आज्येन शान्तिहोमं कृत्वा तद् अग्नौ लौकिकमानेन चतूरत्तिकाधिकपंचमाषका-[प्।१३२]धिकषट्षष्ट्यधिकशततोलकमितं कोणरहितम् अष्टाङ्गुलं लौहपिण्डं प्रतप्य जले प्रक्षिप्य पुनः प्रतप्य पुनर् जले प्रक्षिप्य पुनः प्रतप्य तत् पिण्डे धर्मावाहनादिसर्वदेवतापूजां हवान्तां तुलोक्तां विधाय दक्षिणां दद्यात् । उपोषितस्य स्नातस्यार्द्रवाससो गत्वाद्यमण्डले तिष्ठतो व्रीहिमर्दनकरसंस्कारं विधाय प्रतिज्ञापत्रं समन्त्रकं कर्तुः शिरसि बद्ध्वा प्राड्विवाकस् तृतीये तापे ऽयःपिण्डस्थम् अग्निम् अभिमन्त्रयेद् एभिः ।

त्वम् अग्ने वेदाश् चत्वारस् त्वं च यज्ञेषु हूयसे ।
त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥ २१५ ॥ [पि १२३]
जठरस्थो हि भूतानां ततो वेत्सि शुभाशुभम् ।
पापं पुनासि वै यस्मात् तस्मात् पावक उच्यते ॥ २१६ ॥ [पि १२४]
पापेषु दर्शयात्मानम् अर्चिष्मान् भव पावक ।
अथवा शुद्धभावेन शीतो भव हुताशन ॥ २१७ ॥ [पि १२५]
त्वम् अग्ने सर्वभूतानाम् अन्तश्चरसि साक्षिवत् ।
त्वम् एव देव जानीषे न विदुर् यानि मानवाः ॥ २१८ ॥ [पि १२६ ]
व्यवहाराभिशस्तो ऽयं मानुषः शुद्धिम् इच्छति ।
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥ २१९ ॥ [पि १२७]

[प्।१३३]

ततः कर्तृहस्तयोर् उपरि सप्ताश्वत्थपत्राणि सप्तशमीपत्राणि सप्तदूर्वापत्राणि दध्यक्तान् यवान् पुष्पाणि च न्यस्य शुक्लसूत्रेण सप्तकृत्या वेष्टयेत् । कर्ता लौहपिण्डस्थम् अग्निम् अभिमन्त्रयेद् अनेन मन्त्रेण ।

त्वम् अग्ने सर्वभूतानाम् अन्तश्चरसि पावक ।
साक्षिवत् पुण्यपापएभ्यो ब्रूहि सत्यं कवे मम ॥ २२० ॥ [य् २।१०४]

ततस् तद् धस्तयोर् उपरि लौहपिण्डं निदध्यात् । ततस् तं गृहीत्वा शनैर् अकुटिलं क्रमशः सप्तमण्डलानि गत्वा नवमण्डलस्थतृणोपरि त्यजेत् । ततः पुनर् अपि व्रीहिभिर् मर्दयेत् । अदग्धश् चेत् शुद्धिम् आप्नुयात् । अन्तरापतिते पिण्डे दग्धादग्धत्वसंदेहे वा पुनर् हरेत् । स्खलने हस्तयोर् अन्यत्र दाहे न दोषः । ततो गुरुपुरोहितादीन् दक्षिणाभिः परितोषयेत् ।