**अथ धटारोपणविधिः **
पितामहः ।
हस्तद्वयं निखेयं तु पादयोर् उभयोर् अपि ॥ ८१ ॥ [पि ८८अब्]
अत्र हस्तद्वयं मृत्तिकाभ्यन्तरे हस्तचतुष्टयं मृत्तिकोपरि ।
तथा ।
तोरणे च तथा कार्ये पार्श्वयोर् उभयोर् अपि । [पि ८८च्द्]
धटाद् उच्चतरे स्यातां नित्यं दशभिर् अङ्गुलैः ॥ ८२ ॥ [पि ८९]
अवलम्बो च कर्तव्यो तोरणाभ्याम् अधोमुखौ । [पि ९०अब्]
मृण्मयो सूत्रसम्बन्धौ धटमस्तकचुम्बितौ ॥ ८३ ॥ [पि ९०च्द्]
प्राङ्मुखो निश्चयः कार्यः शुचौ देशे धटस् तथा । ८४ ॥ [पि ९१अब्]
[प्।१००]
नारदः ।
शिक्यद्वयं समासाद्य धटकर्कटयोर् दृढम् ।
एकत्र शिक्ये पुरुषम् अन्यत्र तुलयेच्छिलाम् ॥ ८५ ॥ [न् १।२७१]
पितामहः ।
प्राङ्मुखान् कल्पयेद् दर्भान् शिक्ययोर् उभयोर् अपि । [पि ९२च्द्]
पश्चिमे तोलयेत् कर्तृ̄न् अन्यस्मिन् मृत्तिकं शुभाम् । [पि ९३अब्]
पिटकं पूरयेत् तस्मिन् इष्टकाग्राव् अपांशुभिः ॥ [८६ ॥ [ध्को ४८२]
परीक्षका नियोक्तव्यास् तुलामानविशारदाः ।
वणिजो हेमकाराश् च कांस्यकारास् तथैव ॥ ८७ ॥ [पि ९४]
कार्यः परीक्षकैर् नित्यम् अवलम्बसमो धटः ॥ ८८ ॥ [पि ९५]
उदकं च प्रदातव्यं धटस्योपरि पण्डितैः ।
यस्मिन् न प्लवते तोयं स विज्ञेयः समो धटः ॥ ८९ ॥ [पि ९६]
तोलयित्वा नरं पूर्वं पश्चात् तम् अवतार्य तु ।
धटं तु कारयेन् नित्यं पताकाध्वजशोभितम् ॥ ९० ॥ [पि ९७]
तत आवाहयेद् देवान् विधिनानेन मन्त्रवित् ।
वादित्रतूर्यघोषैश् च गन्धमाल्यानुलेपैः ॥ ९१ ॥ [पि ९८]
प्राङ्मुखः प्रांजलिर् भूत्वा प्राङ्विवाकस् ततो वदेत् ॥ ९२ ॥ [पि ९९]
प्राण्विवाकसमाख्या तु पृच्छतीति प्राङ्विवेचयतीति विवाक इति व्यवहारमातृका । [च्फ़्। व्य्मा २७८-२७९]
तथा च बृहस्पतिः ।
[प्।१०१]
विवादे पृच्छति प्रश्नं प्रतिपन्नं तथैव च ।
प्रियपूर्वं प्राग्वदति प्राड्विवाकस् ततः स्मृतः ॥ ९३ ॥ [ब् १।६९]
प्राड्विवाकसमाख्याम् आह कात्यायनः ।
व्यवहाराश्रितं प्रश्नं पृच्छति प्राड् इति स्मृतिः ।
विवेचयतीति यस् तस्मिन् प्राड्विवाकस् ततः स्मृतः ॥ [क् ६९]
अभिशापं पृच्छतीति प्राक् तदनुरूपं दिव्यं विविनक्तीति विवाकः प्राक् चासौ विवाकश् चेति । ततश् च प्राड्विवाकः पूर्वं कार्यं पृच्छेत् निवेदितं च विवेचयेत् ।
अस्य काम्यत्वेन नवग्रहपूजाम् आह मत्स्यपुराणम् ।
नवग्रहमखं कृत्वा ततः कर्म समारभेत् । [म्प् ९२।१३८च्द्]
[प्।१०२]
अन्यथा फलदं पुंसां न काम्यं जायते क्वचित् ॥ ९५ ॥ [म्प् ९३।१३९अब्]
ततो ऽभियुक्तं तोलयित्वावतार्य धर्मावाहनादिकं कुर्यात् ।
पितामहः ।
एह्येहि भगवन् धर्म दिव्ये ह्य् अस्मिन् समाविश । [पि ५६च्द्]
सहितो लोकपालैश् च वस्वादित्यमरुद्गणैः ।
आवाह्य च धटे धर्मं पश्चाद् अङ्गानि विन्यसेत् ॥ ९६ ॥ [पि ५७]
अङ्गानि परिवारदेवतादीनि ।
इन्द्रं पूर्वं तु संस्थाप्य प्रेतेशं दक्षिणे तथा ।
वरुणं पश्चिमे भागे कुबेरम् उत्तरे तथा ॥ ९७ ॥ [पि ५९]
अग्न्यादिलोकपालांश् च कोणभागेषु विन्यसेत् ।
इन्द्रः पीतो यमः स्यामो वरुणः स्फाटिकप्रभः ॥ ९८ ॥ [पि ६०]
कुबेरस् तु सुवर्णाभो वह्निश् चापि सुवर्णभः ।
तथैव निरृतिः स्यामो वायुर् धुम्नः प्रशस्यते ॥ ९९ ॥ [पि ६१]
íशानस् तु भवेत् शुक्लो ऽनन्तः शुक्ल एव च ।
ब्रह्मा चैव भवेद् रक्तम् एवं ध्यायेत् क्रमादिमान् ॥ १०० ॥ [ध्को ४६६]
[प्।१०३]
इन्द्रस्य दक्षिणे पार्श्वे वसून् आवाहयेद् बुधः । [पि ६२च्द्]
धरो ध्रुवस् तथा सोम आपश् चैवानिलो ऽनलः ॥ १०१ ॥ [पि ६३अब्]
प्रत्युषश् च प्रभासश् च वसवो ऽष्टौ प्रकीर्तितः । [पि ६३च्द्]
देवेशेशानयोर् मध्ये आदित्यानां तथायनम् । [पि ६४अब्]
धातार्यमा च मित्रश् च वरुणो ऽंशुभगस् तथा ॥ १०२ ॥ [पि ६४च्द्]
इन्द्रओ विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः ।
ततस् त्व् अष्टा ततो विष्णुर् अजधन्यो जघन्यजः ॥ १०३ ॥ [पि ६५]
अजधन्यो जघन्यज इति विष्णोर् विशेषणम् ।
इत्य् एते द्वादशादित्या मनुना परिकीर्तितः ।
अग्नेः पश्चिमभागे तु रुद्राणाम् अयनं विदुः ॥ १०४ ॥ [पि ६६]
वीरभद्रश् च शम्भुश् च गिरीशश् च महायशाः ।
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥ १०५ ॥ [पि ६७]
भुवनाधिश्वरश् चैव कपाली च विशांपतिः ।
स्थाणुर् भवश् च भगवान् रुद्राश् चैकादशः स्मृताः ॥ १०६ ॥ [पि ६८]
[प्।१०४]
महायशाविशांपतिभगवांश् चेति विशेषणानि ।
प्रेतेशरक्षसोर् मध्ये मातृस्थानं प्रकल्पयेत् । [पि ६९अब्]
ब्राह्मी महेश्वरी चैव कौमारी वैष्णवी तथा । [पि ६९च्द्]
वाराही चैव माहेन्द्री चामुण्डा गणसंयुता ॥ १०७ ॥ [पि ७०अब्]
गणसंयुतेति विशेषणम् ।
निरृतेर् उत्तरे भागे गणेशायतनं विदुः । [पि ७०च्द्]
वरुणस्योत्तरे भागे मरुतां स्थानम् उच्यते ॥ १०८ ॥ [पि ७१अब्]
श्वसनः स्पर्शनो वायुर् अनिलो मारुतस् तथा । [पि ७१च्द्]
प्राणः प्राणेशजीवौ च मरुतो ऽष्टौ प्रकीर्तिताः ॥ १०९ ॥ [पि ७२अब्]
धटस्यओत्तरभागे तु दुर्गाम् आवाहयेद् बुधः । [पि ७२च्द्]
एतासां देवतानां च स्वनाम्ना पूजने विदुः ॥ ११० ॥ [पि ७३अब्]
विशेषम् आह ब्रह्मपुराणम् ।
ओंकारादिसमायुक्तं नमस्कारान्तकीर्तितम् ।
स्वनाम सर्वसत्त्वानां मन्त्र इत्य् अभिधीयते ॥ १११ ॥
अनेनैव विधानेन गन्धपुष्पे निवेदयेत् ।
एकैकस्य प्रकुर्वीत यथोद्दिष्टं क्रमेण तु ॥ ११२ ॥
मन्त्र इत्य् अभिधानाद् अनेनैवेत्य् एवकारश्रुतेश् च । इदं द्रव्यम्ब् ओम् अमुकाय [प्। १०५] नम इति प्रयोज्यम् । न तु धर्मायार्घ्यं प्रकल्प्यामि नम इति मिताक्षरोक्तं प्रमाणाभावाद् अनन्वयाच् च ।
पितामहः ।
भूषावसानं धर्माय दत्त्वा चार्घ्यादिकं क्रमात् । [पि ७३च्द्]
अर्घ्यादि पश्चाद् अङ्गानां भूषान्तम् उपकल्पयेत् ।
गन्धादिकं नैवेद्यान्तां परिचर्यां प्रकल्पयेत् ॥ ११३ ॥ [पि ७४]
एतत् सर्वं प्राड्विवाकः कुर्यात् । यथा ।
प्राड्विवाकस् ततो विप्रो वेदवेदाङ्गपारगः ।
श्रुतव्रतोपपन्नश् च शान्तचित्तो विमत्सरः ॥११४ ॥ [ध्को ४७५]
सत्यसन्धः शुचिर् दक्षः सर्वप्राणिहिते रतः ।
उपोषितः शुद्धवासाः कृतदन्तादिधावनः ।
सर्वासां देवतानां च पूजां कुर्याद् यथाविधि ॥ ११५ ॥ [ध्को ४७५]
रक्तगन्धपुष्पान्य् आह नारदः ।
[प्।१०६]
रक्तैर् गन्धैश् च माल्यैश् च धूपदीपाक्षतादिभिः ।
अर्चयेत् तु धटं पूर्वं ततः शिष्टांश् च पूजयेत् ॥ ११६ ॥ [ध्को ४७५]
धर्मं धटम् । तथा च विष्णुनारदौ ।
धर्मपर्यायवचनं धट इत्य् अभिधीयते ॥ ११७ ॥ [वि १०।१०, न् १।२७७]
शिष्टान् इन्द्रादीन् । अविशेषात् सर्वत्र रक्तान्वयः । मिताक्षरायां तु धर्मपूजन एव रक्तत्वनियमः । तथा
चतुर्दिक्षु ततो होमः कर्तव्यो वेदपारगैः ।
आज्येन हविषा चैव समिद्भिर् होमसाधनैः ॥ ११८ ॥ [पि ७५]
सवित्र्या प्रणवेनाथ स्वाहान्तेनैव होमयेत् ॥ ११९ ॥ [पि ७६]
प्रणवादिकं गायत्रीम् उच्चार्य पुनः स्वाहाकारान्तं प्रणवम् उच्चार्य समिदाज्यचरून् प्रत्येकम् अष्टोत्तरशतं जुहुयाद् इति मिताक्षरा । वस्तुतस् तु गायत्रीहोमे योगियाज्ञवल्क्यः ।
[प्।१०७]
प्रणवव्याहृतिभ्यां च स्वाहान्ते होमकर्मणि । १२० ॥ [ब्य्य् ४।४०च्द्]
तेन प्रणवादिकं सव्याहृतिकां गायत्रीम् उच्चार्य स्वाहाकारान्तं पुनः प्रणवम् उच्चार्याज्यपायस्समिधो मिलित्वाष्टोत्तरशतं जुहुयाल् लाघवात् । अत एव देवतैक्यो हि दधिपयसोस् तन्त्रेणानुष्ठानम् ऐन्द्रं दधि अमावास्यायाम् ऐन्द्रं पयो ऽमावास्यायाम् इत्य् अत्रेति श्राद्धविवेकः । यत् तु पंचलाङ्गलमहादाने ।
पर्जन्याद् इत्य् अरुद्रेभ्यः पायसं निर्वपेच् चरुम् । [म्प् २८२।७अब्]
एकस्मिन् नेव कुण्डे तु गुरुर् यस्मै निवेदयेत् । [म्प् २८२।७च्द्]
पलाशसमिधस् तद्वद् आज्यं कृष्णतिलांस् तथा ॥ १२१ ॥ [म्प् २८२।८अब्]
इत्य् मत्य्स पुराणात् । चतुर्णां होतृ̄णां मध्ये यस्मै गुरुः पर्जन्यादिभ्यो होमं कुर्व् इत्य् आज्ञां करोति । स एव पर्जन्यायादित्याय [प्।१०८] रुद्रेभ्यस् तत् तन्मन्त्रैः पायसं पलाशसमिधाज्यकृष्णतिलांश् च प्रत्येकं जुहुयाद् इति भूपालप्रभृत्भिर् उक्तं । तद् युक्तं तद्वद् इति तथेत्य् आभ्यां प्रत्येकद्रव्येण होमविधानात् । अत एव रत्नाकरकृद्भिश् चरुम् जुहुयाद् इत्य् उक्त्वा तद्वद् इति पलाशादिभिर् जुहुयाद् इत्य् उक्तम् । अत एव वृषोत्सर्गे वाचस्पतिमिश्रप्रभृतिभिर् अग्न्यादिहोमशेषपायसपूषहोमशेषपिष्टकाभ्यां मिलिताभ्यां सकृत् स्विष्टकृद् धोमो विहितः । अशक्तौ तु ।
होमो ग्रहादिपूजायां शतम् अष्टाधिकं भवेत् ।
अष्टाविंशतिर् अष्टौ वा शक्त्यपेक्षम् अथापि वा ॥ १२२ ॥ [द्प् ५४।१५च्द्-१६अब्]
इत्य् देवीपुराणीयादिपदाद् अत्राप्य् अन्या संख्योल्लेख्या ।
एवं मत्स्यपुराणे ।
शृणु राजन् महाबाहो तडागादिषु यो विधिः । [म्प् ५७।४अब्]
वेद्यास् तु परितो गर्तारत्निमात्रास्त्रिमेखलाः । [म्प् ५७।७च्द्]
[प्।१०९]
नव सप्ताथवा पंच योनिवक्त्रा नृपात्मज ॥ १२३ ॥ [म्प् ५७।८अब्]
इति नवादिकुण्डान् उक्त्वा ।
स्वल्पे ऽप्य् एकाग्निमत् कार्या वित्तशाठाद् ऋते नृभिः । १२४ ॥ [म्प् ५८।५२एफ़्]
इति दर्शनाद् अत्राप्य् अशक्ताव् एकाग्निविधिर् इति वदन्ति । अत्र प्राड्विवाकग्रह्येनैव होमः ।
मिताक्षराधृतपितामहवचनात् । अध्वर्युर् यजमानमात्रम् । न चात्र भिन्नशाखिनाम् ऋत्विजां रथकारवद् विद्याप्रयुक्तिकल्पनेति वाच्यं ब्राह्मणमात्रस्य नाना शाखापाठविधानेन कल्पनानुउपपत्तेः ।
तथा च मनुः ।
[प्।११०]
वेदान् अधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रमम् आचरेत् ॥ १२६ ॥ [म् ३।२]
इति । प्रायश्चित्तहोमस् तु सामगानां महाव्याहृतिभिः ।
यत्र व्याहृतिभिर् होमः प्रायश्चित्तात्मको भवेत् ।
चतस्रस् तत्र विज्ञेयाः स्त्रीपाणिग्रहणे यथा ॥ १२७ ॥
अपि वा ज्ञातम् इत्य् एषा प्राजापत्यापि वाहुतिः ।
होतव्या त्रिविकल्पो ऽयं प्रायश्चित्तविधिः स्मृतः ॥ १२८ ॥
इति छन्दोगपरिशिष्टात् । न तु शाट्यायनहोमः त्रिविकल्प इत्य् अनेन तस्य तस्य निरासात् भट्ट्नारायणादिभिर् अप्रमाणीकृताच् च ।
पितामहः ।
तोलयित्वा नरं पूर्वं तस्मात् तम् अवतार्य च । [पि ९७अब्]
प्राङ्मुखः प्रांजलिर् भूत्वा प्राड्विवाकस् ततो वदेत् ॥ १२९ ॥ [पि ५६अब्]
[प्।१११]
एह्य् एहि भगवन् धर्म दिव्ये ह्य् अस्मिन् समाविश । [पि ५६च्द्]
सहितो लोकपालैश् च वस्वादित्यमरुद्गणैः ॥ १३० ॥ [पि ५७अब्]
तं चार्थम् अभियुक्तस्य लेखयित्वा तु पत्रके ।
मन्त्रेणानेन सहितं कुर्यात् तस्य शिरोगतम् ॥ १३१ ॥ [पि ७७]
आदित्यचन्द्राव् अनिलो ऽनलश् च
द्यौर् भूमिर् आपो हृदयं यमश् च ।
अहश् च रात्रिश् च उभे च सन्ध्ये
धर्मो हि जानाति नरस्य वृत्तम् ॥ १३२ ॥ [पि ७८]
इमं मन्त्रं विधिं कृत्स्नं सर्वदिव्येषु योजयेत् ।
आवाहनं च देवानां तथैव परिकल्पयेत् ॥ १३३ ॥ [पि ५८]
धटम् आमन्त्रयेच् चैवं विधिनानेन मन्त्रवित् । [ध्को ४८२]
त्वं धटो ब्रह्मणा सृष्टः परीक्षार्थं दुरात्मनाम् ॥ १३४ ॥ [पि १००अब्]
धकाराद् धर्ममूर्तिस् त्वं टकारात् कुटिलं नरम् । [पि १००च्द्]
धृतो धारयसे यस्माद् धटस् तेनाभिधीयते ॥ १३५ ॥ [पि १०१अब्]
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च । [पि १०१च्द्]
त्वम् एव देव जानीषे न विदुर् यानि मानवाः ॥ १३६ ॥ [पि १०२अब्]
व्यवहाराभिशस्तो ऽयं मानुषः शुद्धिम् इच्छति । [पि १०२च्द्]
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥ १३७ ॥ [पि १०३]
लिखनप्रकारम् आह नन्दिपुराणम् ।
[प्।११२]
शुभे नक्षत्रदिवसे शुभे राशिदिनग्रहे ।
लेखयेत् पूज्यदेवेशान् ब्रह्मरुद्रजनार्दनान् ॥ १३७ ॥
पूर्वदिग्वन्दनो भूत्वा लिपिज्ञो लेखकोत्तमः ।
निरोधो हस्तबाह्वोश् च मसीपत्रविधारणे ॥ १३८ ॥
मत्स्यपुराणं च ।
सीर्षोपेतान् सुसम्पन्नान् समश्रेणिगतआन् समान् ।
अक्षरान् लेखयेद् यस् तु स परो लेखकः स्मृतः ॥ १३९ ॥
इति दानसागरः । धारयसे इत्य् अत्र भावयसे इति पाठो ऽनुयुक्तः । तथा हि कुटिलं पापिनं संशयापन्नं वा । आद्ये पापिनम् एतावन्मात्राभिधानम् अनुपपन्नम् ऊर्द्ध्वगत्या शुद्धस्यापि ज्ञापनाद् द्वितीये पूर्वसिद्धत्वेन ज्ञापनानुपपत्तिः । तस्मात् कुटिलं व्यवहाराभिशस्तं धारयसे इत्य् एवार्थः । अत एवोपसंहारे संशयाद् अस्माद् इत्य् उक्तम् । अत एव मानुषस् तोल्यते त्वयीत्य् उक्तम् इति स्मृतिसमुच्चयव्यवहारदीपिकयोः ।
विष्णुः ।
धटं च समयेन गृह्णीयात् । १४० ॥
तुलाधारकं च । १४१ ॥ [वि १०।७-८]
[प्।११३]
धर्मपर्यायवचनं धट इत्य् अभिधीयते ।
त्वम् एव धट जानीषे न विदुर् यानि मानवाः ॥ १४२ ॥ [वि १०।१०]
व्यवहाराभिशस्तो ऽयं मानुषः शुद्धिम् इच्छति ।
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥ १४३ ॥ [वि १०।११]
ब्रह्मघ्नां ये स्मृता लोका ये लोकाः कूटसाक्षिणः ।
तुलाधारस्य ते लोकास् तुलां धारयतो मृषा ॥ १४४ ॥ [वि १०।९]
समयेन त्वम् एव धट जानीषे इत्यादि नियमेन धटं गृह्णीयाद् योजयेत् । तुलाधारकं च ब्रह्मघ्नां ये इत्यादिना नियमेनेत्य् अर्थः । अत्र नानामुनिप्रणीतमन्त्राणाम् एकतरपाठ्यानां समानप्रयोजकानां यवव्रीहिवद् विकल्प इति ग्रन्थगौरवात् ते न लिखिताः । अभिशस्तप्राड्विवाकपाठ्यानां तु दृष्टार्थानां समुच्चयः ।
पितामहः ।
नित्यं देयानि दिव्यानि शुचये चार्द्रवाससे । १४५ ॥ [पि ५३च्द्]
शुचये जननमरणाशौचरहिताय । क्षतिनं प्रति याज्ञवल्क्यदीपकालिकायां नारदः ।
हस्तक्षतेषु सर्वेषु कुर्याद् धंसपदानि च ।
तान्य् एव पुनर् आलक्षेद् धस्तौ बिन्दुविचित्रितौ ॥ १४६ ॥ [न् १।३०१, य्द्का २।१०३]
[प्।११४]
इत्य् अग्निविधो क्षतिनो हस्तक्षतम् अलक्तादिना चिह्नितं कृत्वा क्षतान्तरं जातं न वा इति ज्ञातव्यम् इति सुतरां क्षतिनो दिव्याधिकारः ।
नारदः ।
अहोरात्रोषिते स्नाते आर्द्रवाससि मानवे ।
पूर्वाह्ने सर्वदिव्यानां प्रदानम् अनुकीर्तितम् ॥ १४७ ॥ [न् १।२६८]
धटामन्त्रणात् प्राग् अपि पुनस् तोलनम् आह कालिकापुराणम् ।
उपोषितं तथा स्नातं मृत्समं प्रथमं तुलाम् ।
संतोल्य कारयेद् रेखाम् अवतार्यानुमन्त्रयेत् ॥ १४८ ॥ [ध्को ४८४, ४७१]
याज्ञवल्क्यः ।
तुलाधारणविद्वद्भिर् अभियुक्तस् तुलाश्रितः ।
प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥१४९ ॥ [य्।२।१००]
त्वं तुले सत्यधामासि पुरा देवैर् विनिर्मिता ।
तत् सत्यं वद कल्याणि संशयान् मां विमोचय ॥ १५० ॥ [य् २।१०१]
यद्य् अस्मि पापकृन् मातस् ततो मां त्वम् अधो नय ।
शुद्धश् चेद् गमयोर्ध्वं मां तुलाम् इत्य् अभिमन्त्रयेत् ॥ १५१ ॥ [य् २।१०२]
तुलाधारणाभिज्ञैर् वणिजादिभिः पाषाणादिप्रतिमानसमीकृतस् तुलाधिरुढो ऽभिशस्तो ऽभिशस्ता वा दिव्याधिकारी येन [प्।११५] संनिवेशेन प्रतिमानसमीकरणदशायाम् । यत्र पादादयो व्यवस्थिताः शिक्यरज्जवश् च तत्र पाण्डुलेखेनाङ्कयित्वा पिटकाद् अवतारितस् त्वं तुल इति मन्त्रेण तुलां प्रार्थयेत् । सत्यं संदिग्धार्थस्य्स स्वरूपम् । वद दर्शय । पापकृद् असत्यवादी शुद्धश् च सत्यवादी । मन्त्रश् चायं स्मार्तः शूद्रैर् अपि पाठ्यः वेदमन्त्रवर्जं शूद्रस्येति छन्दोगाह्निकधृतस्मृतौ वेदेति विशेषणात् । श्राद्धविश्वदेवादौ तु विशेषतो नमस्कारमन्त्रविधानात् स्मार्तमन्त्रो ऽपि निषिद्धः प्रपंचस् तु तिथितत्त्वे ऽनुसंधेयः । स्त्रीपरीक्षायाम् अपि अविकृत एव प्रयोज्यो दिव्यानीह विशुद्धये इत्य् अनेन संदिग्धार्थसंदेहनिवृत्तिफलतयाविशेषेण स्त्रीपुंसकर्तृकदिव्यविधानेन मानुषः शुद्धिम् इच्छत्य् अनेन प्रकृतावूहायोगात् । अत एव पत्नीं संनह्याज्येनादेहीति [श्ब् १।२।५।२१] मन्त्रे द्विबहुपत्नीकयजमानकर्तृकप्रयोगे ऽपि न द्विबहुवचनोह इत्य् उक्तम् ।
पत्रस्य प्रतिज्ञेयार्थस्य शोध्याय श्रवणम् आह नारदः ।
[प्।११६]
अमुम् अर्थं च पत्रस्थम् अभियुक्तं यथार्हतः ।
संश्राव्य मूर्ध्नि तस्यैव न्यस्य देयो यथाक्रमम् ॥ १५२ ॥ [न् १।२९५]
देयो दिव्यविशेषः प्राड्विवाकेनेति शेषः । ततः शिरो ऽवस्थितपत्रकं शोध्यं नरं धटे पुनर् आरोपयेत् ।
पुनर् आरोपयेत् तस्मिन् शिरो ऽवस्थितपत्रकम् । १५३ ॥ [ध्को ४८४]
इति स्मरणात् । तुलारोपितं च नरं विनाडीपंचककालं शतत्रयगुर्वक्षरोच्चारणयोग्यम् ।
मा कान्ते पक्षस्यान्ते पर्याकाशे देशे स्वाप्सीः
कान्तं वक्त्रं वृत्तं पूर्णं चन्द्रं मत्वा रात्रौ चेत् ।
क्षुत्क्षामः प्राटंश् चेतश् चेतो राहुः क्रूरः प्राद्यात्
तस्माद् ध्वान्ते हर्म्यस्यान्ते शय्यैकान्ते कर्तव्या ॥ १५४ ॥
इति श्लोकस्य पंचधा पाठकालं पंचपलात्मकं यावत् तावत् स्थापयेत् ।
यथा स्मृतिः ।
ज्योतिर्विद् ब्राह्मणः श्रेष्ठः कुर्यात् कालपरीक्षणम् ।
विनाड्यः पंच विज्ञेयः परीक्षाकालकोविदैः ॥ १५५ ॥ [पि १०४]
तत्कालश् च ज्योतिषे ।
[प्।११७]
दशगुर्वक्षरः प्राणः षट्प्राणाः स्युर् विनाडिका ।
तासां षष्ठ्यां घटी ज्ञेयाहोरात्रं घटिकास् तथा ॥ १५६ ॥ [ध्को ५३६]
तथा षष्ठ्या ।
पितामहः ।
साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः ।
ज्ञानिनः शुचयो ऽलुब्धा नियोक्तव्या नृपेण तु ॥ १५७ ॥ [पि १०५]
शंसन्ति साक्षिणः सर्वे शुद्ध्य् अशुद्धी नृपे तथा । १५८ ॥ [पि १०६]
तुलितओ यदि वर्धेत स शुद्धः स्यान् न संशयः । [पि १०७अब्]
समो वा हीयमानो वा न विशुद्धये भवेन् नरः । [ध्को ४७७]
अल्पदोषः समो ज्ञेयो बहुदोषस् तु हीयते ॥ १५९ ॥ [पि १०८]
अल्पत्वं व्यभिचारे आलिङ्गनादिना चौर्ये तद्देशगमनादिना ।
तत्र तोलनम् आह बृहस्पतिः ।
धटे ऽभियुक्तस् तुलितो हीनश् चेद् धानिम् आप्नुयात् ।
तत्समस् तु पुनस् तोल्यो वर्धितो विजयी भवेत् ॥ १६० ॥ [ब् ८।४९]
शोध्यः स्वल्पदोषाङ्गीकारे प्रधानदोषनिर्णयार्थं तत्रैव पुनस् तोलनीयः । अन्यथाङ्गवैगुण्यसम्भावनायां तु प्रयोगान्तरम् इति यदा चानुपलभ्यमानदृष्टकारणक एव कक्षादीनां छेदनादिस् तदाप्य् अशुद्धिः ।
[प्।११८]
कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस् तथा ।
रज्जुच्छेदे ऽक्षभङ्गे च तथैवाशुद्धिम् आदिशेत् ॥ १६१ ॥ [ब्। ८।५२]
इति बृहस्पतिवचनात् । कक्षं शिक्यतलम् । धटकर्कटौ तुलान्तयोः शिक्याधाराव् ईषद्वक्राव् आयसकीलकौ कर्कटशृङ्गनिभौ । अक्षः पादस्तम्भयोर् उपरि परिनिविष्टस् तुलाधारपट्ट इति मिताक्षरा [य्म्ता २।१०२] । दाढा प्रयोजकः कीलक इति हलायुधः । कटकम् इति पारिजातः । यदा तु दृश्यमानकारणक एवैषां भङ्गस् तदा पुनर् आरोपयेत् ।
शिक्यादिच्छेदभङ्गेषु पुनर् आरोपयेन् नरम् ॥ १६२ ॥ [ध्को ४८४]
इति स्मृतेः । ततश् च ।
ऋत्विक्पुरोहिताचार्यान् दक्षिणाभिश् च तोषयेत् । [पि ७९च्द्]
एवं कारयिता भुक्त्वा राजा भोगान् मनोरमान् । [पि ८०अब्]
महतीं कीर्तिम् आप्नोति ब्रह्मभूयाय कल्प्यते ॥ १६३ ॥ [पि ८०च्द्]
प्राड्विवाको लोकपालादिनमस्कारपूर्वकं यथोक्तलक्षणां तुलां कुर्यात् । ततः षड् ढस्तौ स्तम्भौ कृत्वा हस्तद्व्ययव्यवधानेन दक्षिणोत्तरयोर् दिशोर् हस्तद्वयनिखननं कृत्वा पट्टधारककीलकाग्रस्तम्भयोर् [प्।११९] उपरि मध्ये पार्श्वद्वये च विहितछिद्रं मध्यनिवेशितलौहाङ्कुशपट्टकं निधाय तत् पट्टकं समध्यस्थिताङ्कुशेन तुलायां मध्यवलयस्थलौहं संयुंजात् । एवं च स्तभययोर् अन्तरा तिर्यक् तुलादण्डास् तिष्ठति तुलाग्रस्थिताभ्याम् आयसकीलकाभ्यां शिक्यद्वयरज्जुबन्धनं कुर्यात् । तुलायाः पार्श्वयोः प्राक् प्रत्यक्दिशोस् तोरणस्तम्भौ तुलातो दशाङ्गुलोच्छ्रयौ कार्यौ । तोरणयोर् उपरि सूत्रसम्बद्धौ मृण्मयाव् अधोमुखौ धटमस्तकचुम्बिताव् अवलम्बौ कार्यौ । यथावलम्बनविश्लेषाब्यां तुलायाम् अवनतिर् उन्नतिश् च ज्ञेया तथा जलद्वारापि ।
प्रयोगः
अथैतत्प्रयोगः ।
कृतोपवासः कृतस्नानादिः प्राड्विवाकओ ब्राह्मणः कार्यं पृच्छेन् निवेदितं विवेचयेत् ततो ऽभियुक्तं तोलत्वावतार्य धर्मावाहनादिं कुर्यात् । ॐ तत् सद् इत्य् उच्चार्य ब्राहमणत्रयं गन्धादिना पूजयित्वा तान् अस्मिन्न् अमुकपरीक्षाकर्मणि पुण्याहं स्वस्ति ऋद्धिं च प्रत्येकं त्रिर् वाचयित्वा [प्।१२०] दिव्याङ्गभूतहोमार्थं ब्राह्मणचतुष्टयम् ऋत्विक्चतुष्टयं च पाद्यादिभिर् अभ्यर्च्य वृणुयात् । अशक्ताव् एकं ब्राह्मणम् एकम् ऋत्विजं च । ततो तत्र तुलां समपातकां ध्वजालङ्कृतां भूमौ निधाय तस्यां प्राङ्मुखः पुष्पाक्षतम् आदाय ॐ भूर् भुवः स्वर् इत्य् उच्चार्य ॐ ।
एह्य् एहि भगवन् धर्म दिव्ये ह्य् अस्मिन् समाविश । [पि ५६च्द्]
सहितो लोकपालैश् च वस्वादित्यमरुद्गणैः ॥ १६४ ॥ [पि ५७अब्]
इति मन्त्रेण धर्मावाह्य एषो ऽर्घ ॐ धर्माय नम इत्यादिप्रयोगेनार्घ्य-पाद्याचमनीय-मधुपर्क-पुनराचमनीय-स्नानीयवस्त्र-यज्ञोपवीत-मुकुटकादिभूषणान्तं दत्त्वा तथैवार्घ्यादिभूषणान्तं प्रणवादिनमो’न्तेन स्वस्वनाम्ना पूजयेत् । पूर्वस्याम् इन्द्राय । दक्षिणस्यां यमाय । पश्चिमायां वरुणाय । उत्तरस्यां कुबेराय । आग्नेयाम् अग्नये । नैरृत्यां नैरृतये । वायव्यां वायवे । ऐशान्याम् इशानाय । इन्द्रस्य दक्षिणे पार्श्वे ऽष्टवसुभ्यः प्रत्येकं स्वस्वनामभिः ।
[प्।१२१]
वसूनां ध्यानम् आदित्यपुराणे ।
प्रसन्नवदनाः सौम्या वरदाः शक्तिपाणयः ।
पद्मासनस्था द्विभूजा वसवो ऽष्टौ प्रकीर्तिताः ॥ १६५ ॥
तत्र धराय ध्रुवाय सोमाय आपाय अनिलाय अनलाय प्रत्यूषाय प्रभासाय । इन्द्रेशानयोर् मध्ये तथा द्वादशादित्येभ्यः तेषां ध्यानम् आदित्यपुराणे ।
पद्मासनस्था द्विभुजाः पद्मगर्भाङ्गकान्तयः ।
करादिस्कन्धपर्यन्तनीलपङ्कजधारिणः ।
धात्राद्या द्वादशादित्यस् तेजोमण्डलमध्य्गाः ॥ १६६ ॥
तत्र धात्रे अर्यम्ने मित्राय वरुणाय अंशवे भगाय इन्द्राय विवस्वते पूष्णे पर्जन्याय त्वष्ट्रे विष्णवे । अग्नेः पश्चिमभागे तथैएकादश रुद्रेभ्यः ध्यानम् आदित्यपुराणे ।
करे त्रिशूलिनो वामे दक्षिणे चाक्षमालिनः ।
एकादश प्रकर्तव्या रुद्रास् त्र्यक्षेन्दुमौलयः ॥ १६७ ॥
तत्र वीरभद्राय शम्भवे गिरिशाय अजेकपादे अहिर्बुध्न्याय पिनाकिने अपराजिताय भुवनाधीश्वराय कपालिने स्थाणवे भवाय । [प्।१२२] यमरक्षसोर् मध्ये तथा मातृभ्यः । तत्र ब्राह्म्यै माहेश्वर्यै कौमार्यै वैष्णव्यै वाराह्यै माहेन्द्र्यै चामुण्ड्यै । निरृत्त्युत्तरे गणेशाय वरुणोत्तरे ऽष्टमरुद्भ्यः । तत्र श्वसनाय स्पर्शनाय वायवे अनिलाय मारुताय प्राणाय प्रानेशाय जीवाय । धटोत्तरभागे दुर्गायै । धर्माय रक्तगन्धपुष्पधूपदीपनिवेद्यानि पूर्ववद् दत्त्वेन्द्रादिदुर्गान्तभ्यो गन्धादीनि दद्यात् । ततश् चतुर्दिक्षु चतुर्भिर् ऋत्विज्भिश् चतुरो ऽग्नीन् अशक्ताव् एकेन ऋत्विजा । एकम् अग्निं प्राड्विवाकगृह्योक्तविधिना संस्थाप्य प्रणवपुटिआं सव्याहृतिकां गायत्रीं स्वाहान्ताम् उच्चार्य घतपायस्समिद्भिर् मिलिताभिर् अष्टोत्तरशतम् अष्टाविंशतिर् अष्टौ वा जुहुयात् । सामगानां प्रायश्चित्तहोमस् तु व्यस्तसमस्तमहाव्याहृतिभिः । ततो दक्षिणां दद्यात् । एवं हवनान्तां देवपूजाविधाय दक्षिणां दद्यात् । ततः शोध्यं कृतोपवासम् आर्द्रवाससं पश्चिमशिक्ये कृत्वा इष्टकां च पूर्वशिक्ये कृत्वोत्तोल्य धटोपरि जलदानेन साम्यम् अवगत्यावतारयेत् । ततः प्राड्विवाकस् तद्दिनकृतकज्जलम् अस्या विच्छेदांज्यादिशून्यां पङ्क्तिद्वयेन समसंख्याक्षरेण ।
[प्।१२३]
आदित्यचन्द्राव् अनिलो ऽनलश् च द्यौर् भूमिर् आपो हृदयं यमश् च ।
अहश् च रात्रिश् च उभे च सन्ध्ये धर्मो हि जानाति नरस्य वृत्तम् ॥ १६८ ॥ [पि ७८]
इति चतुश् चत्वारिंशदक्षरमन्त्रसमेतां अभियुक्तार्थकरणाकरणरूपाम् इदम् ऋणम् अस्मै दत्तम् इदम् ऋणम् अस्मान् मया न गृहीतम् इत्य् आदिरूपां प्रतिज्ञां पत्रे विलिख्य तत् पत्रं शोध्यस्य शिरोगतं कुर्यात् । लिखनप्रकारविशेषस् तु हरिहरादिपद्धतिव्यवहारदीपिकयोर् अनुरोधात् कृतः । ततश् च प्राड्विवाको धटम् आमन्त्रयेद् एभिः ।
त्वं धटो ब्रह्मणा सृष्टः परीक्षार्थं दुरात्मनाम् ।
धकाराद् धर्ममूर्तिस् त्वं टकारात् कुटिलम् नरम् ॥ १६९ ॥ [पि १००]
धृतो धारयसे यस्माद् धटस् तेनाभिधीयते ।
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ॥ १७० ॥ [पि १०१]
त्वम् एव देव जानीषे न विदुर् यानि मानवाः ।
व्यवहाराभिशस्तो ऽयं मानुषः शुद्धिम् इच्छति ॥ १७१ ॥ [पि १०२]
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥ १७२ ॥ [पि १०३]
तुलाधारकं नियमेद् अनेन मन्त्रेण ।
ब्रह्मघ्नां ये स्मृता लोका ये लोकाः कूटसाक्षिणः ।
तुलाधारस्य ते लोकास् तुलां धारयतो मृषा ॥ १७३ ॥ [वि १०।९]
ततो ऽभिशस्तस् तुलाम् आमन्त्रयेद् अनेन ।
[प्।१२४]
त्वं तुले सत्यधामासि पुरा देवैर् विनिर्मिता ।
तत्सत्यं वद कल्याणि संशयान् मां विमोचये ॥ १७४ ॥ [य् २।१०१]
यद्य् अस्मि पापकृन् मातस् ततो मां त्वम् अधो नय ।
शुद्धश् चेद् गमयोर्ध्वं मां तुलाम् इत्य् अभिमन्त्रयेत् ॥ १७५ ॥ [य् २।१०२]
ततः प्राड्विवाकः पूर्वाननं तं पूर्ववद् धटम् अरोपयेत । आरोपितं च पलपंचककालं तत्र शुद्धाशुद्धज्ञापनाय स्थापयेत् । ततः प्रतिमानद्रव्याद् ऊर्ध्वावस्थाने शुद्धः । अधो ऽवस्थाने ऽशुद्धः समावस्थाने ऽप्य् अल्पदोषः कक्षकीलककर्कटशिक्यपादाक्षादीनां दृष्टकारणव्यतिरेकेण छेदे भङ्गे वाप्य् अशुद्धिम् आदिशेत् । ततः पुरोहिताचार्यादीन् दक्षिणाभिस् तोषयेत ।