अथ धटोत्पत्तिविधिः
पितामहः ।
छित्त्वा तु यज्ञियं वृक्षं यूपवन् मन्त्रपूर्वकम् ।
प्रणम्य लोकपालेभ्य्स् तुला कार्या मनीषिभिः ॥ ७१ ॥ [पि ८४]
यूपवद् इति यूपछेदनविहितसर्वेतिकर्तव्यतातिदेशः । सा च स्वधिते मैनं हिंसीर् इति छेदनमन्त्रविशेषादिरूपेति व्यवहारप्रदीपः ।
मन्त्रः सौम्यो वानस्पत्यछेदने जप्य एव च । ७२ ॥ [पि ८५]
चतुरस्रा तुला कार्या दृढा ऋज्वी तथैव च ।
कटकानि च देयानि त्रिषु स्थानेषु चार्थवत् ॥ ७३ ॥ [पि ८६]
कटकानि वलयानि ।
चतुर्हस्ता तुला कार्या पादौ चोपरि तत्समौ । ७४ ॥ [पि ८७अब्]
अत्र साधारणत्वेन शारदातिलकोक्तो हस्तो गाह्यः । यथा ।
[प्।९८]
चतुर्विंशत्य् अङ्गुलाढ्यं हस्तं तन्त्रविदो विदुः ।
यवानाम् अष्टभिः कॢप्तम् मानाङ्गुलम् उदीरितम् ॥ ७५ ॥ [शति २।५१च्द् अन्द् २।५३अब्]
यवानां यवतण्डुलानाम् ।
यवानाम् तण्डुलैर् एकम् अङ्गुलं चाष्टभिर् भवेत् ।
अदीर्घयोजितैर् हस्तश् चतुर्विंशतिर् अङ्गुलैः ॥ ७६ ॥ [ध्को ५३५]
इति कालिकापुराणात् । प्रमाणं तु पार्श्वेन । षड् यवाः पार्श्वसंमिता इति कात्यायनवचनात् । अन्योर् व्यवस्थाम् आह कापिलपंचरात्रम् ।
अष्टभिस् तैर् भवेज् ज्येष्ठं मध्यमं सप्तभिर् यवैः ।
कन्यसं षड्भिर् उद्दिष्टम् अङ्गुलं मुनिसत्तम ॥ ७७ ॥ [ध्को ५३५]
कनय्सं कनिष्ठम् । पादौ स्तम्भौ । उपरि मृत्तिकोपरि । तत्समौ चतुर्हस्ताव् इत्य् अर्थः । वस्तुतस्तूपरि तम्समाव् उपरि तत्समं काष्ठान्तरं ययोः पादयोस् तौ ।
स्तम्भप्रमाणम् आह व्यासः ।
हस्तद्वयं निखेयं तु प्रोक्तं मुण्डकयोर् द्वयोः ।
षड्ढस्तं तु तयोः प्रोक्तं प्रमाणां परिमाणतः ॥ ७८ ॥ [व्या ११८अब्च्द्]
[प्।९९]
मुण्डकयोः स्तम्भयोः । षड्ढस्तं निखातहस्तद्वयेन समम् । अर्थान् मृत्तिकोपरि हस्तचतुष्टयम् इत्य् अर्थः ।
अन्तरं तु तयोर् हस्तौ भवेद् अध्यर्द्धम् एव वा । ७९ ॥ [पि ८७च्द्]
तयोः स्तम्भयोः । हस्तावन्तरं हस्तद्वयपरिमितमध्यमम् इत्य् अर्थः । अध्यर्द्धं सार्द्धहस्तद्वयम् । एतत् तु ।
शालवृक्षोद्भवा कार्या पंचहस्तायता तुला । ८० ॥ [वि १०।३]
इति विष्णूक्तपंचहस्तायततुलाविषयम् । व्यवहारदीपिकाप्य् एवम् ।