**अथ द्रव्यसंख्यया दिव्यविशेषाः **
विष्णुः ।
अथ समयक्रिया । राजद्रोहसाहसेषु यथाकामम् । निक्षेपर्णस्तेयेष्व् अर्थप्रमाणात् । ५०-५२ ॥ [वि ९।१-३]
इति । समयो दिव्यम् । राजद्रोहादिषु यथाकामं राजेच्छानुरोधाद् दिव्यम् । निक्षेपादिषु तु धनप्रमाणतारतम्याद् इत्य् अर्थः ।
[प्।९४]
बृहस्पतिः ।
संख्या रश्मिरजोमूला मनुना समुदाहृता ।
कार्षापणान्ता सा दिव्ये नियोज्या विनये तथा ॥ ५३ ॥ [ब् ८।२८]
विषं सहस्रे ऽपहृते पादोने च हृताशनः ।
त्रिभागोने च सलिलम् अर्द्धे देयो धटः सदा ॥ ५४ ॥ [ब् ८।२९]
चतुःशताभियोगे तु दातव्यस् तप्तमाषकः ।
त्रिशते तण्डुला देयाः कोषश् चैव तदर्द्धके ॥ ५५ ॥ [ब् ८।३०]
शते हृते ऽपह्नुते च दातव्यं धर्मशोधनम् ।
गोचौरस्य प्रदातव्यं सभ्यैः फालं प्रयत्नतः ॥ ५६ ॥ [ब् ८।३१]
एषा संख्या निकृष्टानां मध्यानां द्विगुणा स्मृता ।
चतुर्गुणोत्तमानां च कल्पनीया परीक्षकैः ॥ ५७ ॥ [ब् ८।४८]
रश्मिरजः ।
जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।
प्रथमं तत्प्रमाणानां त्र्यसरेणुं प्रचक्षते ॥ ५८ ॥ [म् ८।१३२]
इति मनूक्तम् । कार्षापणान्ता पणान्ता कार्षापणः पण इति [प्।९५] पर्यायदर्शनात् । विनये दण्डे । एवं च सहस्र इत्यादौ पण इति ज्ञेयम् उपक्रमान् निकृष्टानां जातिकर्मगुणाः । एवं च ।
नासहस्राद् धरेद् अग्निं न तुलां न विषं तथा । ५९ ॥ [य् २।९९अब्]
इति याज्ञवल्क्यवचनम् । मध्यमोत्तमविषयत्वेन बृहस्पतिवचनैकवाक्यत्वाद् अविरुद्धम् ।
सहस्रे तु धटं दद्यात् सहस्रर्द्धे तथायसम् ।
अर्द्धस्यार्द्धे तु सलिलं तस्यार्द्धे तु विषं स्मृतम् ॥ ६० ॥ [ध्को ४६३]
इति । वचनं यत्राल्पापराधे पातित्यं तद्विषयम् इति । एतत् सर्वं स्तेयसाहसविषयम् ।
अपह्नवे तु कात्यायनः ।
दत्तस्यापह्नवो यत्र प्रमाणं तत्र कारयेत् ।
स्तेयसाहसयोर् दिव्यं स्वल्पे ऽप्य् अर्थे प्रदापयेत् ॥ ६१ ॥ [क् ४१६]
सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेमं प्रकल्पयेत् ।
हेमप्रमाणयुक्तं तु तदा दिव्यं प्रकल्पयेत् ॥ ६२ ॥ [क् ४१७]
ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् ।
अशीतेश् च विनाशे तु दद्याच् चैव हुताशनम् ॥ ६३ ॥ [क् ४१८]
[प्।९६]
षष्ठ्या नाशे जलं देयं चत्वारिंशति वै धटम् ।
विंशद्दशविनाशे तु कोशपानं विधीयते ॥ ६४ ॥ [क् ४१९]
पञ्चाधिकस्य वा नाशे ततो ऽर्द्दार्द्धे तु तण्डुलाः ।
ततो ऽर्द्धार्द्धविनाशे तु स्पृशेत् पुत्रादिमस्तकान् ॥ ६५ ॥ [क् ४२०]
ततो ऽर्द्धार्द्द्गविनाशे तु लौकिक्यश् च क्रियाः स्मृताः ।
एवं विचारयन् राजा धार्मार्थाभ्यां न हीयते ॥ ६६ ॥ [क् ४२१]
सुवार्णानाम् ।
पञ्चकृष्णलको माषस् ते सुवर्णस् तु षोदश । ६७ ॥ [म् ८।१३४च्द्]
इत्य् उक्ताशीतिरक्तिकापरिमितहेम्नाम् । नाशे ऽपह्नवे । दशाधिकस्य पञ्चाधिकस्य वा विंशतेर् वा नाशे कोषपानम् इत्य् अर्थः । तण्डुलाः पुनर् अल्पचौर्याभिशङ्कायाम् एव न साहसादौ ।
चौर्ये च तण्डुला देया नान्यत्रेति विनिश्चयः । ६८ ॥ [पि १६३च्द्]
इति पितामहस्मृतेः ।
तप्तमाषो महाचौर्याभिशङ्कायाम् ।
महाचौर्याभियुक्तानाम् तप्तमाषो विधीयते । ६९ ॥ [ध्को ४६३]
इति स्मृतेः ।
[प्।९७]
व्यवहारमातृकायाम्
समत्वं साक्षिणां यत्र दिव्यैस् तम् अपि शोधयेत् ।
प्राणान्तिकविवादेषु विद्यमानेषु साक्षिषु ।
दिव्यम् आलम्बते वादी न पृच्छेत् तत्र साक्षिनः ॥ ७० ॥ [व्य्मा ३१६, क् २३२]