अथ दिव्यविशेषाधिकारिणः
तत्र नारदः ।
ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः । [न् १।३३४च्द्]
वैश्यस्य सलिलं देयं शूद्रस्य विषम् एव च ॥ ३२ ॥ [न् १।३३५अब्]
[प्।८७]
साधारणः समस्तानां कोषः प्रोक्तो मनीषिभिः ।
विषवर्जं ब्राह्मणस्य सर्वेषां तु तुला स्मृता ॥ ३३ ॥ [ध्को ४५३]
यत् पुनर् अनेन ।
सव्रतानां भृशार्तानां व्याधितानां तपस्विनाम् ।
स्त्रीणां च न भवेद् दिव्यं यदि धर्मस् त्व् अपेक्षितः ॥ ३४ ॥ [न् १।२५६]
इति स्त्र्यादीनां दिव्यं निषिद्धं तण्डुलेतरविषयम् इति शूलपाणिः । मिताक्षरायां तु पुंस्त्रियोर् विवादे न स्त्रिणां दिव्यम् इति रुच्या वान्यतरः कुर्याद् इति विकल्पनिषेधार्थम् । एतद् उक्तं भवति । अवष्टम्भाभियोगेषु स्त्र्यादिनाम् अभियोक्तृत्वे ऽभियोज्यानाम् एव दिव्यम् एतेषाम् अभियोज्यत्वे ऽप्य् अभियोक्तृ̄णाम् एव दिव्यं परस्पराभियोगे तु विकल्प एव । तत्रापि तुलैवेति नियम्यते । तथा महापातकादिशङ्काभोयोगे तु स्त्र्यादिनां तु तुलैव ।
यथा याज्ञवल्क्यः ।
[प्।८८]
तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् ।
अग्निर् जलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥ ३५ ॥ [य् २।९८]
स्त्रीमात्रं जातिवयो’वस्थाविशेषान् आदरेण बालस् त्व् आषोदशाद् वर्षाज् जातिविशेषान् आदरेण वृद्धो शीतिपारगः । एतद् वचनं सर्वदिव्यसाधारणेषु मार्गशीर्षचैत्रवैशाखेषु स्त्रिआदीनां सर्वदिव्यसाधारणविधाने नियामकतयार्थवत् । न च सर्वकालं स्त्रीणां तु तुलैवेति ।
स्त्रीणां तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् ।
धटकोषादिभिस् तासाम् अन्यस् तत्त्वं विचारयेत् ॥ ३६ ॥ [ध्को ४५२]
इति विषसलिलव्यतिरिक्तधटकोषादिभिः शुद्धिविधानात् । एवं बालादिष्व् अपि योजनीयम् । तथा ब्राह्मणादीनाम् अपि न सर्वकालिकस् तुलादिनियमः ।
सर्वेषाम् एव वर्णानां कोषाच् छुद्धिर् विधीयते ।
सर्वण्य् एतानि सर्वेषां ब्राह्मणस्य विषं विना ॥ ३७ ॥ [पि ४१]
[प्।८९]
इति पितामहस्मरणात् । तस्मात् साधारणकाले बद्धदिव्यसमवधाने तुलादिनियमार्थम् एवेदं वचनम् । कालान्तरे तु तत्तत्कालविहितं सर्वेषाम् । तथा हि वर्षास्व् अग्निर् एव सर्वेषाम् । हेमन्तशिशिरयोस् तु क्षत्रियादिनां त्रयाणाम् अग्निविषययोर् विकल्पः । ब्राह्मणस्य त्व् अग्निर् एव न कदाचिद् विषं ब्राह्मणस्य विषं विनेति निषेधात् । ग्रीष्मशरदोस् तु सलिलान्य् एव येषां कुष्ट्यादीनां तु विशेषेणाग्न्यादिनिषेधः ।
कुष्ठिनां वर्जयेद् अग्निं सलिलं श्वासकासिनाम् ।
पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥ ३८ ॥ [पि ४२]
इति वचनात् तेषाम् अग्न्यादिकाले ऽपि साधारणं काले तुलाद्य् एव दिव्यं भवति । तथा तोयम् अग्निर् विषं चैव दातव्यं बलिनां नृणाम् इति स्मरणाद् दुर्बलानाम् अपि सर्वथा विषप्रतिषेधाद् उक्तकालान् अति-[प्।९०]-क्रमेण जातिवयो’वस्थाविशेषाश्रितानि दिव्यानि देयानि । अत्र च यस्य यानि विशेषसामान्यपर्युदस्तेतरविहितानि मुख्यकल्पानुकल्पापत्कल्पानि वेदितव्यानि । यथा ब्राह्मणस्य धटो मुख्यः कोषस् त्व् अनुकल्पः जलाग्न्यापत्कल्पो प्रागुक्तनारदवचन एवकार श्रुतेर् मुख्यकल्पादित्वं न तु प्रशस्ततमादित्वम् इति । एवं चान्यत्राप्य् अप्य् अयथोक्तप्रदत्तं तु न शक्तं साध्यसाधन इति प्रागुक्तं बोध्यम् ।
स्मृतिः ।
अवष्टम्भाभियुक्तानां धटादीनि विनिर्दिशेत् ।
तण्डुलश् चैव कोषश् च शङ्कास्व् एव न संशयः ॥ ३९ ॥ [पि ३६]
अवष्टम्भो ऽत्र निश्चयः शिरोवर्त्तितेति केचिद् इति व्यवहारदीपिका ।
कात्यायनः ।
अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् ।
प्रतिलोम्यप्रसूतानां निश्चयो न च राजनि ।
तत्प्रसिद्धानि दिव्यानि समये तेषु निर्दिशेत् ॥ ४० ॥ [क् ४३३]
[प्।९१]
तत्प्रसिद्धानि सर्पघटादीनि । तथा ।
देशकालाविरोधे तु यथायुक्तं प्रकल्पयेत् ।
अन्येन हारयेद् दिव्यं विरोधेषु विपर्यये ॥ ४१ ॥ [क् ४३६]
अन्येन प्रतिनिधिना । हारयेत् कारयेत् । विपर्यये ऽभियुक्तस्यासामर्थे । अत एव महापातक्यादीनाम् अन्यद्वारा दिव्यम् आह स एव ।
मातापितृद्विजगुरुबालस्त्रीराजघातिनाम् ।
महापातकयुक्तानां नास्तिकानां विशेषतः ॥ ४२ ॥ [क् ४२७]
इत्य् अभिधाय
दिव्यं प्रकल्पयेन् नैव राजा धर्मपरायणः । [क् ४२९च्द्]
एभिर् एव प्रयुक्तानां साधूनां दिव्यम् अर्हति ॥ ४३ ॥ [क् ४३०अब्]
कात्यायनः ।
न लौहशिल्पिनाम् अग्निं सलिलं नाम्बुजीविनाम् ।
तण्डुलैर् न प्रयुञ्जीत ब्राह्मणं मुखरोगिनम् ॥ ४४ ॥ [क् ४२४अबेफ़्]
[प्।९२]
श्वित्र्यन्धकुनखादीनां नाग्निकर्म विधीयते । [न् १।२५५च्द्]
न मज्जनं स्त्रीबालयोर् धर्मशास्त्रविṡआरदैः ॥ ४५ ॥ [न् १।३१३अब्]
निरुत्साहान् व्याधिकृṡआन् नार्तांस् तोये निमज्जयेत् । [न् १।३१४अब्]
न चापि हारयेद् अग्निं न विषेण विशोधयेत् ॥ ४६ ॥ [न् १।३१५च्द्]
यत् तु ।
स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् । ४७ ॥ [पि ३९अब्]
इति पितामहवचनम् । तल्लिखितसामन्तादिसत्त्वे दिव्यनिषेधकम् । यद्य् अपि ।
अलेख्यसाहसिके दिव्यं व्यवहारे विनिर्दिशेत् । ४८ ॥ [क् २२४च्द्]
इति स्मृतेः । विवादान्तरे ऽपिलेख्यादिसत्त्वे दिव्यान् आदरः । तथापि ऋणादानादिविवादे साक्ष्युपन्यासे कृते ऽपि प्रत्यर्थी यदि दण्डस्वीकारेण दिव्यम् अङ्गीकरोति । तदा दिव्यम् अपि भवति । [प्।९३] साक्षिणां दोषसम्भवाद् दिव्यस्य तु निर्दोषत्वेन वस्तुतत्त्वविषयत्वात् तल्लक्षणत्वाच् च धर्मस्य ।
यथा नारदः ।
तत्र सत्ये स्थितो धर्मो व्यवहारस् तु साक्षिणि । [न्मा १।११अब्]
दैवसाध्ये पौरुषं तु न लेख्यं तु प्रयोजयेत् ॥ ४९ ॥ [य्म्ता २।९६, क् २२४च्द्]
स्थावरविवादे तु प्रत्यर्थिना दण्डाङ्गीकारेण दिव्यावलम्बने कृते सामन्तादिदृष्टप्रमाणसत्त्वे ऽपि दिव्यं ग्राह्यम् इति विकल्पनिराकरणाय स्थावरेष्व् इत्यादिपितामहवचनं नात्यन्तिकदिव्यनिराकरणाय लिखिताद्यभावे स्थावरादिषु निर्णयाप्रसक्तेः ।