अथ दिव्यकालाः
तत्र पितामहः ।
चैत्रो मार्गशिराश् चैव वैशाखश् च तथैव हि ।
एते साधारणा मासा दिव्यानाम् अविरोधिनः ॥ २२ ॥ [पि ३३]
धटः सर्वर्तुकः प्रोक्तो वाते वाति विवर्जयेत् । [पि ३४]
अग्निः शिशिरहेमन्तवर्षासु परिकीर्तितः ॥ २३ ॥ [पि ३५अब्]
शरद्ग्रिष्मे तु सलिलं हेमन्ते शिशिरे विषम् । [पि ३५च्द्]
कोषस् तु सर्वदा देयस् तुला स्यात् सर्वकालिकी ॥ २४ ॥ [ध्को ४६४]
इति मिताक्षरा । [य्म्ता २।९७]
नारदः ।
न शीते तोयशुद्धिः स्यान् नोष्णकाले ऽग्निशोधनम् ।
न प्रावृषि विषं दद्यात् प्रवाते न तुलां नृप ॥ २५ ॥ [न् १।२५९]
शीते हेमन्तशिशिर्वर्षासु । उष्णकाले ग्रीष्मशरदोः । वर्षासु विषनिषेधश् चतुर्यवातिरिक्तविषनिषेधपरः वर्षे चतुर्यवमात्रेति [प्।८५] वक्ष्यमाननारदवचनात् । तण्डुलादीनां तु विशेषकालानभिधानात् सर्वकालिकत्वम् । अत्र विषे विशेषतो वर्षनिषेधाद् वक्ष्यमानवचनेन सिंहस्थवराव् एव परीक्षामात्रनिषेधाच् च दिव्यान्तरं सिंहेतरवर्षास्व् अपि कुर्वीत । अतो
याम्यायने हरौ सुप्ते सर्वकर्माणि वर्जयेत् । २६ ॥ [?]
इत्य् अस्य न विषयः । ज्योतिषे ।
सिंहस्थे मकरस्थे च जीवे चास्तमिते तथा ।
मलमासे न कर्तव्या परीक्षा जयकाङ्क्षिणा ॥ २७ ॥ [?]
रविशुद्धौ गुरौ चैव न शुक्रे ऽस्तं गते पुनः ।
सिंहस्थे च रवौ नैव परीक्षा शस्यते बुधैः ॥ २८ ॥ [?]
नाष्टम्यां न चतुर्दश्यां प्रायश्चित्तपरीक्षणे ।
न परीक्षा विवाहश् च शनिभौमदिने तथा ॥ २९ ॥ [?]
रविशुद्धौ गुरौ चैवेत्य् अत्र शस्यत इति शेषः । तथा च दीपकलिकायाम् । नो शुक्रास्ते ऽष्टमे ऽर्के गुरुसहितरवौ जन्म-[प्।८६]-मासे ऽष्टमेन्दौ विष्टौ मासे मलाख्ये कुजशनिदिवसे जन्मतारासु चाथ । नाडीनक्षत्रहीने गुरुविरजनीनाथताराविशुद्धौ प्रातः कार्या परीक्षा द्वितनुचरगृहां छोदये शस्तलग्ने ।
पितामहः ।
प्रत्यक्षं दापयेद् दिव्यं राजा वाधिकृतो ऽपि वा ।
ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च ॥ ३० ॥ [पि ५१]
ब्राह्मणानां प्रकृतीनां च प्रत्यक्षं दिव्यं दापयेद् इत्य् अर्थः । प्रकृतयो ऽमात्यादयः ।
स्वाम्य् आमात्यः सुहृत् कोषो राष्ट्रदुर्गबलानि च ।
राज्याङ्गानि प्रकृतयः पौराणां श्रेणयो ऽपि च ॥ ३१ ॥ [अको २।८।१८]
इत्य् अमरसिंहोक्ताः ।