अथ दिव्यानि
तत्र बृहस्पतिः ।
धटो ऽग्निर् उदकं चैव विषं कोषं च पंचमम् ।
षष्ठश् च तण्डुलः प्रोक्तः सप्तमस् तप्तमाषकः ॥ २ ॥ [ब् ८।५१]
अष्टमं फालम् इत्य् उक्तं नवमं धर्मजं स्मृतम् ।
दिव्यान्य् एतानि सर्वाणि निर्दिष्टानि स्वयंभुवा ॥ ३ ॥ [ब् ८।५२]
अथ किं तद् दिव्यम् । तत्र मानुषप्रमाणानिर्णेयस्यापि निर्णायकं यत् तद् दिव्यम् इति लोकप्रसिद्धम् । अपिना मानुषप्रमाणसत्त्वे ऽपि यत्र धटाद्यङ्गीकारस् तत्रापि तद् भवतीति सूचितम् । अत एव लिखितसाक्षिभुक्तिलक्षणत्रिविधमानुषप्रमाणभिन्नप्रमाणम् । यद् दिव्यं तच् च न भावैकगोचरं किं तु भावाभावाविशेषेण गोचरयतीति ।
[प्।८०]
तत्र महाभियोगे दिव्यान्य् आह याज्ञवल्क्यः ।
तुल्याग्न्यापो विषं कोषो दिव्यानीह विशुद्धये ।
महाभियोगेष्व् एतानि शीर्षक्स्थे ऽभियोकतरि ॥ ४ ॥ [य् २।९५]
विशुद्धये संदिग्धार्थस्य संदेहनिवृत्तये । महाभियोगेषु महापातकादिगुरुतराभियोगेषु । शीर्षकस्थे शीर्षकं प्रधानं शिरो व्यवहारस्य चतुर्थपादो जयपराजयलक्षणस् तेन दण्दो लक्ष्यते तत्र तिष्ठतीति शीर्षकस्थस् तत् प्रयुक्तदण्डभागीत्य् अर्थः ।
महाभियोगान् स्पष्टयति कालिकापुराणम् ।
परदाराभिशपे च चौर्यागम्यागमेषु च ।
महापातकशस् तेषु स्याद् दिव्यं नृपसाहसे ॥ ५ ॥ [ध्को ४७०]
विप्रतिपत्तौ विवादे च पणस्य स्थापने कृते ।
तत्रैव स्थापयेद् दिव्यं शिरःपूर्वं महीपतिः ॥ ६ ॥ [ध्को ४७०]
परदाराभिशापे च बहवो यत्र वादिनः ।
शिरोहीनं भवेद् दिव्यम् आत्मनः शुद्धिकारणात् ॥ ७ ॥ [ध्को ४७०]
[प्।८१]
पितामहः ।
शिरःस्थायिविहीनानि दिव्यानि परिवर्जयेत् । [पि ३८अब्]
चत्वारि तु धटादीनि कोषश् चैवाशिराः स्मृतः ॥ ८ ॥ [ध्को ४६२]
महाभियोगेतरत्रापि कोषम् आह स्मृतिः । कोषम् अल्पे ऽपि दापयेत् । याज्ञवल्क्येनाभियोक्तुर् वादिनः शिरोवर्त्तित्वाभिधानाद् अभियोगस्य दिव्यकर्तृत्वं प्रतिपादितम् ।
व्यक्तम् आह कात्यायनः ।
न कश्चिद् अभियोक्तारं दिव्येषु विनियोजयेत् ।
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥ [क् ४११]
प्रत्यर्थिस्वीकारेणार्थिनो ऽपि दिव्यम् आह याज्ञवल्क्यः ।
रुच्या वान्यतरः कुर्याद् इतरो वर्तयेच् छिरः ।
विनापि शीर्षकान् कुर्यान् नृपद्रोहे ऽथ पातके ॥ [य् २।९६]
इतरो ऽभियुक्तः । शिरः शारीरं दण्डम् अर्थदण्डं वा वर्तयेत् स्वीकुर्यात् ।
[प्।८२]
बृहस्पतिः ।
स्नेहात् क्रोधाल् लोभतो वा भेदम् आयान्ति साक्षिणः ।
विधिदृष्टस्य दिव्यस्य न भेदो जायते क्वचित् ॥ ११ ॥ [ब् ८।१४]
भेदः सत्याद् वैपरीत्यम् ।
यत् तु कात्यायनवचनम् ।
क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु ।
लेख्ये च सति वादेषु न स्याद् दिव्यं न साक्षिणः ॥ १२ ॥ [क् २३३]
इति तद् गुणान्वितसाक्षिसत्त्वे ।
यथा व्यासः ।
मणिमन्त्रौषधिबलात् प्रदत्तं वाविधानतः ।
विसंवदेद् दिव्यम् अपि न तु साक्षी गुणान्वितः ॥ १३ ॥ [व्या ११०]
अत एव नारदः ।
युक्तिष्व् अप्य् अवसन्नासु शपथेनैनम् अर्दयेत् । १४ ॥ [न् १।२३९अब्]
अर्दयेत् पीडयेन् निर्धारयेद् इति यावत् । शपथान् आह नारदः ।
सत्यं वाहनशस्त्राणि गोबीजकनकानि च ।
देवता पितृपादांश् च दत्तानि सुकृतानि च ॥ १५ ॥ [न् १।२४८]
[प्।८३]
स्पृशेच् छरांसि पुत्राणां दाराणां सुहृदां तथा । [ध्को ४४१]
अभियोगेषु सर्वेषु कोषपानम् अथापि वा । [ध्को ४४१]
इत्य् एते सपथाः प्रोक्ताः मनुना स्वल्पकारणात् । १६ ॥ [न् १।२५०अब्]
बृहस्पतिः ।
यथोक्तविधिना देयं दिव्यं दिव्यविशारदैः ।
अयथोक्तप्रदत्तं तु न शक्तं साध्यसाधने ॥ १७ ॥ [ब् ८।१५]
अदेशकालदत्तानि बहिर्वादिकृतानि च ।
व्यभिचारं सदा त्व् एवं कुर्वन्तीह न संशयः ॥ १८ ॥ [ब् ८।१६]
बहिर्वादिकृतान्य् अभियोक्तारं विना कृतानि । एतच् च प्रायिकम् । आत्मशुद्धिपराणाम् अभियोक्तारं विनापि दिव्यविधानात् ।
तथा च नारदः ।
राजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः ।
आत्मशुद्धिपराणां च देयं दिव्यं शिरो विना ॥ १९ ॥ [ध्को ४५४]