[[श्राद्धचन्द्रिका Split-1 Source: EB]]
[
________________
March-Apri।
1933.
THE
CHOWKHAMBA SANSKRIT SERIES
A
COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS NO.423-424.
श्राद्धचन्द्रिका
पण्डितप्रवर श्री दिवाकर भट्टविरचिता ।
नेपालाभिजन-
पण्डितश्रीविष्णुप्रसाद भण्डारिया Fisitfarar!
Raistered according to Act XXV. af 1867. (All Rights Reserved.
THE
S’RADDHA CHANDRĪKĀ
BY
S’RIDIVAKARA BHATTA
Edited by
PANDIT SRI VIS’NUPARSADA BHANDARĪ
PUBLISHED & SOLD BY THE SECRETARY, CHOWKHAMBA SANSKRIT SERIES OFFICE
Vidya Vilas Press, Benares City.
1934.________________
ॐ श्री
आनन्दवनविद्योति सुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्यासशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा संस्कृतग्रन्थमाला मजुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोद मोहितम् ॥ २ ॥ स्तबकः ४२३- ४२४
Printed by Jai Krishna Das Gupta at the Vidya Vilas Press, Benares.________________
THE
CHOWKHAMBA SANSKRIT SERIES.
A
COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS.
No’s, 423-424.
THE
S’RADDHA CHANDRĪKĀ
BY
S’RIDIVAKARA BHATTA
Edited by
PANDIT SRI VIS’NUPRASADA BHANDARĪ
BENARES.
JAI KRISHNADAS-HARIDAS GUPTA,
The Chowkhamba Sanskrit Series Office,
1934.________________
*श्रीः *
व्यानन्दवन विद्योति सुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्यभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा संस्कृतग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोद मोहितम् ॥ २ ॥ स्तबकः ४२३- ४२४
[ Registered According to Aet XXV of 1862. All Rights Reserved by the Publisher.]
Printed by, Jai Krishna Das Gupta Vidya Vilas Press, Benares City.
1934.________________
* श्री
चौखम्बा संस्कृत - ग्रन्थमाला ।
(ग्रन्थ- संख्या ७६ )
( सी० नं० ४२३-४२४)
श्राद्धचन्द्रिका
पण्डितप्रवरश्रीदिवाकर भहविरचिता ।
नेपालाभिजन-
पण्डितश्रीविष्णुप्रसाद भण्डारिणा
संशोधिता ।
प्रकाशकः-~-
जयकृष्णदास हरिदास गुप्तः–
चौखम्बा संस्कृत सीरिज़ आफिस, बनारस सिटी ।
१९९१.________________
इस कार्यालय द्वारा “चौखम्बा संस्कृत वारिज” के अलावा और भी ३ खौरिन यथा “काशी संस्कृत सीरिज” “बनारस संस्कृत सीरिज ’ “हरिदाससंस्कृत सीरिज” प्रन्थमालायें निकलती हैं तथा इन ४ सीरिजों के पश्चात् और भी विविध शास्त्र की पुस्तकें प्रकाशित की गई हैं तथा अन्य सब स्थानों के छपे हुए संस्कृत तथा भाषा-भाष्य के प्रन्थ विक्रयार्थ प्रस्तुत रहते हैं, सूचीपत्र पृथक् मंगवाकर देखें ।
प्राप्तिस्थानम्
जयकृष्णदास हरिदास गुप्तः-
चौखम्बा संस्कृत सीरिज़ आफिस, बनारस सिटी ।
vapat________________
भूमिका \।
अथैष श्राद्धचन्द्रिकाख्यः प्रबन्धः पण्डितवरश्रीदिवाकर भट्टनिर्मितः सम्मुद्र प्रकाशयितुमुपक्रम्यते । अत्र च प्रतिपाद्यविषयावगतिर्ब्रन्थनाम्नैव व्यक्ती भवति । सङ्क्षेपेण श्राद्धप्रशंसा श्राद्धलक्षण- श्राद्धकाल - श्राद्धाधिकारि- श्रद्धापयोगिद्रव्य श्राद्धप्रयोगादिकं सम्यक्तया विवृतमस्ति । वह्नक्शाखानु- सारिएयेव पद्धतिर्ब्रन्थकृतान्तरङ्गीकृता । पार्वणैकोद्दिष्टसपिण्डीकरणादिश्रा- द्धानि सुविवेचितानि अन्ते शय्यादानविधिस्तत्सामग्री तहायोगच सम्य- क्तया विनिवेशिताऽस्ति । लेखसरणिः सरला सुव्यक्ता च । स्वल्पोऽप्ययं प्रबन्धः श्राद्धविषये सूपयोग्यपेक्षितविषयजातस्यावि फलरूपेणोपदर्शकत- यावश्यमुपादेयः श्राद्धतर विविदिषूणां श्राद्धमर्मज्ञानां च विदुषामित्यत्र नास्ति सन्देहलेशावसरः ।
अनेन च विदुषा महान शास्त्रसुधानिधिर्नाम निबन्धो विरचितः । तस्य च सूर्यादिपश्वायतनप्रतिष्ठापद्धतिः, तिथ्यर्कः, श्राचारार्कः, श्राद्धच न्द्रिका, दानहीरावलीप्रकाशः, प्रायश्चित्तमुक्तावली, अन्त्येष्टिप्रकाश इति सप्त भागाः सन्ति । तेष्वेवान्यतमोऽयं भागः श्राद्धचन्द्रिका (श्राद्धचन्द्रिका प्रकाशः ) इति ।
स्वकीयैतिह्यं तु सङ्क्षेपेण ग्रन्थकर्त्रा ग्रन्थान्ते स्वयमेवोपनिष-
दम् । यथा-
भारद्वाजकुलोदधौ समभवच्छबालकृष्णाभिधः
सामा लाग्नवर्जितः प्रतिदिनं सन्तोषकृद्विद्वताम् । तत्सूनुः प्रथमो महामणिरिव श्रीमान् महादेव इ- त्यासीच्छे पुरे विमुक्तिफलदे गङ्गातरङ्गाकुले \।\। तत्पुत्रेण दिवाकरेण विदुषा निष्पादितां चन्द्रिकां त्यक्त्वाहङ्कृतिमुन्नतां स्वमनसः सम्पश्यताहो बुधाः । यद्यस्ति स्वयमेतदीयकृतितो वाच्यः कथं निर्णय- स्तवं निपुणं विभाव्य हृदये दूष्यं वचो मामकम् \।\। तिथ्यकें च
भारद्वाजकुलेऽमले समभवच्छ्री बालकृष्ण भिधः साहित्यामृतवारिराशिरतुलः सर्वद्विजानां गुरुः । तत्सूनुः प्रथमो महामणिरिव प्रख्यात कीर्तिगुणै- तो न्यायनये बृहस्पतिसमो नाम्ना महादेवकः \।\। तत्पुत्रेण दिवाकरण विदुषा श्रीनीलकण्ठप्रभो दौहित्रेष पुधैः सुधारससमास्वाद्यः परेषां कृते । तिथ्यर्कः क्रियते प्रणम्य पितरं बालां तथा मातरं श्रीकान्तं वपनं श्रियं पशुपतिं वाचं महादेवताम् ॥ इति________________
“भूमिका ।
एवं च भुवनविदिते निर्मले भारद्वाजकुले श्रौतस्मार्तक्रियाकलापपरिशी- लनपूतान्तःकरणः साहित्यपारावारपारीणः पण्डितशिरोमणिभूदेवाप्रणीः श्रीकृष्णः समजनि । तत्सूनुर्विपश्चिदपश्चिमो नैयायिकाप्रणीर्महादेव- भट्टो बभूव। तत्सूनुर्दिवाकरभट्टः पण्डितप्रकाण्डभहूकुलावतंसश्रीनीलकण्ठस्य दौहित्रः । जननी चास्य बालानाम्नीति समायाति । अस्य पितामहेन श्री- बालकृष्णविदुषा तिथिनिर्णयाख्यः प्रबन्धो विरचित इति श्रूयते । अस्य पित्रा महादेवभट्टेन न्यायसिद्धान्तमुक्तावल्या न्याय सिद्धान्तमुक्तावलीप्रका शाख्या व्याख्या मुक्तावलीदीपिका, मुक्तावली किरण, दिनकरीयमित्यादि- नामभिर्व्यवह्रियमाणा विरचयितुमारब्धा मरणेन बलवद्विघ्नान्तरेण वा विह्वयन्नतया उपमानखण्डान्तमेव निर्मातुं पारितम् । पितृप्रारब्धव्याख्याया अपूर्त्या पितृकीर्ते जनतायाश्च क्षतिं सम्भावयता तत्कनिष्ठसूनुना दिनकरभट्टे- - नावशिष्टभागस्यापि व्याख्या समपूरि । सा च साम्प्रतं दिनकरीयमिति व्य वहियते । व्याख्याप्रारम्भे महादेवभट्टकृतं मङ्गलं यथा-
लक्ष्मीपादयुगं प्रणम्य पितरं श्रीवालकृष्णाभिधं भारद्वाजकुलाम्बुधौ विधुमिव श्रीगौरवस्याम्बुजम् । ज्ञात्वाशेपमतं मितेन वचसा सिद्धान्तमुक्तावली- गूढार्थास्तनुते यथामति महादेवः परेषां मुदे \।\। इति । समाप्तौ च दिनकरकृतमङ्गलपद्य यथा– भानुं प्रणम्य परिभाव्य च शास्त्रसारं मुक्तावली किरण एष पितृप्रदिष्टः । सयुक्तिभिर्दिनकरेण करेण सोऽयं
नीतः प्रकाशपदवी सुधियां मुदेऽस्तु ॥
स्मादपि समवगम्यते पितृप्रदिष्टः कश्चिदेवांशा दिनकरेण निर्मितो न कृत्स्नो प्रन्थ इति । एवं च ये महादेवभट्टस्यैवोपनाम दिनकर इत्यासो- दिति प्रलपन्ति तद्भ्रान्तिमूलकमेवेत्यत्र नास्ति सन्देहलेशः ।
अस्य व मातामहो मीमांसकाप्रणीः श्रीनीलकण्ठपण्डितो विद्वन्मण्ड- लोविदिततरयशा आसीत् । को वा न जानाति तं विद्वद्धौरेयम् । येन – (१) संस्कारमयूखः (२) आचारमयूख (३) समयमयूख (४) श्राद्धमयूखः (५) नीतिमयूख (६) व्यवहारमयखः (७) दानमयूख (८) उत्सर्गमयूखः (९) प्रति ष्ठामयूखः (१०) प्रायश्चित्तमयूखः (११) शुद्धिमयूखः ( १२ ) शान्तिमयूख इति द्वादशमयूखा विद्वन्मान्या धर्मशास्त्र विरचिताः । एतदीयेतिवृत्तं तु अच्यु तमन्थमालायां मुद्रितस्य तिथ्यर्कस्योपोद्घाते सुविद्युतमस्तीति तत एवावसे- यमै तिहार सिकेः________________
भूमिका \।
अयं प्रकृतग्रन्थकर्ता वाराणसीनिवास्यासीत् । अत्रैव ग्रन्थान्ये- तत्सूनुः प्रथमो महामणिरिव श्रीमान् महादेव इत्यासी लैब पुरे विमुक्तिफलदे गङ्गातरङ्गाकुले । इति स्वपितुर्वाराणसीवास्तव्यत्वप्रतिपादनेन, दानहीराव- लीप्रकाशे - मीमांसानयकोविदः पुरभिदः क्षेत्राधिवासी सुधीः । इति कथनेन च सुव्यक्तमवगम्यते ।
अस्य न द्वौ पुत्रावास्ताम् । ज्येष्ठः श्रीरामनाम्ना प्रसिद्ध आसीत् कनि तु वैद्यनाथ ( वैजनाथ) इति नाम्ना ख्यातः । अनेन च प्रायः विकृत- ग्रन्थेष्वनुक्रमणिका विलिखितास्ति । अस्यां च श्राद्धचन्द्रिकायां विलिखित- मस्ति तावत्–
दिवाकरतनूजेन वैद्यनाथेन धीमता । श्रीश्राद्धचन्द्रिकाप्रन्थे रम्ये तातविनिर्मिते । विषयानुक्रमः सर्वः कथ्यते श्लोक मालया । इत्थं दिवाकरसुतेन कनीयसा श्री. रामानुजेन गुरुभक्तिपरायणेन ।
श्रीतातपादरचिते सुजनप्रियेऽस्मिन्प्रन्थे क्रम विलिखितः सवितुः प्रसादात् ॥ इति ।
दानचन्द्रिकाकारो दिवाकरोऽस्माद्विन्न एव । यद्यपि तत्पितुर्नामापि महादेव एव तथापि तत्पितामहो रामेश्वरभट्ट इति । स च न भारद्वाजोप- नामा किन्तु कालोपनामकः । तत्प्रणीता चन्थास्तावदिमे (१) दानचन्द्रिका (२) ‘आन्हिकचन्द्रिका (३) कालनिर्णयचन्द्रिका ( ४ ) स्मार्तप्रायश्चित्तोद्धारः (५) स्मार्तप्रायश्चित्तद्धविः (६) पतितत्यागविधिः (७) पुनरुपनयनप्रयोग इति । तृतीय दिनकरभट्टस्य पुत्र दिवाकरभट्टः दानदिनकराख्यग्रन्थस्य त्रिवेणीपद्धतिनामकप्रबन्धकर्ता चतुर्थी दिवाकरमट्टः ।
श्राद्धचन्द्रिका कर्तारच दिवाकरातिरिक्ता नन्दनपरिडत-रामचन्द्रभट्ट- रुद्रधर श्रीनाथ आचार्य चूडामण्याचा अनेके विद्वांसोऽभूवन् इत्यादि का- कृतधर्मशाखेतिहासे वर्तते । तत्रेव च प्रकृतश्राद्धचन्द्रिकाया निर्माण- समयः १६८० सीष्टाब्दीय इति लिखितमस्ति ।
परं विध्यर्क समाप्तौ –
श्री बालकृष्णात्मजसूनुनिर्मितां वेदाश्व हिमांशुसंयुते ।
कृतिं विलोक्याखिलकालनिर्णय
निःशङ्कमाशंसतु पण्डितो जनः ॥
इति प्रन्थकता स्वय मुल्लिखनात् २०४० विक्रमसम्वत्सर स्तिथ्य के विर ‘चन समय इत्यवसीयते । तदा स्त्रीष्टादश्च १६८३ पर्यवस्यति । विध्यकें च
।________________
भूमिका \।
" मलमासे श्राद्धं कार्य नवेति विचारो विस्तरेण वक्ष्यते श्राद्धचन्द्रिकाप्र काशे” ( ति० पृ० २५२ ) " विवेचयिष्यते चैस्पष्टं श्राद्धचन्द्रिकाप्रकारे " ( ति० पृ० २६० ) इति लेखदर्शनेन ‘वक्ष्यते’ ‘विवेचयिष्यते ’ इति भवि यत्काल निर्देशात तिथ्यनन्तरमेव श्राद्धचन्द्रिका विरचितेति व्यक्तमेवा- वधारयितुं शक्यते । अस्ति चान्या कृतिरस्य ग्रन्थकृतो वृत्तरत्नाकरटीका वृत्तरत्नाकरादर्श इति । तत्राप्यवसाने स्वाभिजनोल्लेखपूर्वकं ग्रन्थकृता- पूर्णामि वर्षे सरकार्तिके मासि विशुद्धपक्षे ।
वायपूर्णे दिवसे सुपुराये हुयादर्श इत्थं घटितः समाप्तः ॥
इति लिखना एकस्मिन्नेवादे १७४० वैक्रमे तिथ्यकों वृत्तरत्नाकरा- दर्शश्चेति द्वयं समापितमिति प्रतीयते । अतश्च कारणेमहाशयेन किंवा प्रमाणमास्थाय श्राद्धचन्द्रिकाविरचनकाल उपरिनिर्दिष्टः १६८० स्त्री० लिखित इत्यवगन्तुं न पार्यते ।
एवं च तिदनन्तरसमय एव १७४१ १७४२ वा वैक्रमाब्दे श्राद्धच न्द्रिकाया विरचनमिति निश्चपचम् ।
अत्र च ग्रन्थकता तत्र तत्र विवादास्पदेषु स्थलेषु माताह-मातुः पू पितामह मातुः वृ० प्रपितामहादिपदैः श्रीनीलकण्ठ- श्रीरामकृष्णभट्ट- श्रीनारायणभट्टादीनामेवोक्तिः प्रमाणत्वनावलम्बिता ।
तदेवं प्रत्नानां दुर्लभप्रायारणामीदृशानां निबन्धरत्नानां प्रकाशने बद्ध- परिकरेण श्रीजयकृष्णदासगुप्त महाशयेनास्याः श्राद्धचन्द्रिकायाः संशोधने सश्रयमभिहितोऽहं प्रावर्तिष्येतच्छोधनकर्मणि । आदर्श पुस्तकं चास्या नेपा- लाभिजनकाशीनिवासिन अर्यालोपनामक पडित श्रीगजराज केशरिणः सकाशात् स्वर्गीय गुरुचरणैः म० म० पर्वतीय नित्यानन्दशास्त्रिभिः सङ्गृ- होतमेकमेव नातिशुद्ध प्राचीनतरं सम्पूर्णमुपलब्धम् । कतिपयमुद्रणानन्तरं का काशिकधर्माधिकारिपण्डित श्रीलक्ष्मीधरपन्तसकाशादपर’ नाति- ‘शुद्धं सम्पूर्णम् । विशद विषयानुक्रमणिकया अत्र प्रमाणत्वेनोद्धृतानां ग्रन्थानां सूच्यादिनिवेशनेन च सपरिश्रमं सम्यक् परिशोधितेऽप्यन्त्र ग्रन्थे मानुष्यकना- न्तरीयकमतिदोषेण शीशकातरयोजकानवधानतया का समुद्भूतानि स्खलि तानि वा प्रकटयिष्यन्ति निजां गुणैकपक्षपातितां प्रेक्षावतां धुरीणाः । प्रसीदतां चानेन व्यापारेण जनहृदयत स्वसाक्षी भगवान् काशिकापुरा धीराः श्रीविश्वेश इत्याशास्ते- १९९१ वैक्रमे शुद्ध वैशाख
कृष्णपक्षे बुधे पञ्चम्याम ।.
विदुषां विधेयः श्रीविष्णुप्रसाद भण्डारी ।________________
अथ श्राद्धचन्द्रिकाया विषयानुक्रमः ।
पृ० पं०
१००
मङ्गलाचरणम्
१
१३ \। ब्राह्मणनिमन्त्रणप्रकारः
श्रादप्रसा
श्राजुलक्षणम्
" १२ ब्राह्मणसहुधा
२
६ विस्तरनिषेधः
श्राद्धभेदाः
तेषां लक्षणानि
३ ३
एकक्षणपक्षः
” २३ ३१ १ " २४
४
२.
नित्यश्राद्धकथनम्
19
११
एकप्राणपक्षे वैश्वदेव प्रकारः ङ्गिपावन्ाह्मणलक्षणम्
३२
22 १६.
श्राद्धकालाः
21
१२
अटका श्राद्धाकरणे प्रायश्चितम् ९
२०
गृहांत निमन्त्रणत्यागे दोषः विप्राभावे दर्भवटौ श्राद्धम्
03 २.७
३
4
गच्छा या निरूपणम्
१०
१६
श्राद्धदिने पूर्वाकुत्स्
गजच्छायादिश्राद्ध भोपा ११ १
केन पाकः कार्यः
श्राद्धदेशकथनम्
६
श्रादपाके वयः
19
93
१६
"
श्रादे निषिद्धदेशकथनम्
१७
पाकपात्र निरूपणम्
श्रद्धाधिकारिनिरूपणम्,
१२
३.
द्वादशविधपुत्र निरूपणम्
95
पुत्राभावेऽधिकारी
अनुपमीतस्याप्यधिकारः
१३
१०
ब्राह्मणस्य क्षौरं कारयितव्यम् देवपूजायां दक्षिणजानु निपातनम् ” ३०
” २१ \। पितृपूजार्या वामजानुनिपातनम् ३१
८ गोत्रनानोरुच्चारणे स्थाननियमः " 4
३४
a
10 १६
पुत्राभावे भार्याभः परस्पर-
गोजनानोराने
"
श्रादेऽधिकारः
१५
१
नामोचारणे विशेषः
91 મ
हारिदौहित्रः श्राद्धाधिकारी
१६
विभक्तिनियमः
३६
मे.
आयोग्य उत्तसा ब्राह्मणाः १७ ११
उपवीताभावे उत्तरीयम्
"
<
आई मध्यमा ब्राह्मणः
१८ २१
स्थानस्थाने दर्भत्यागः
39 १०
आ निषिद्धा ब्राह्मणाः
१९ १७
मण्डलकरणस्थानकथनम्
३७ १.१
देवे तीर्थे च परीक्षणनिषेधः
पदार्थकथनम्
२१ ३
उपले निषिद्धगोमयानि
53
१४ पायदाने पवित्रधारणनिषेधः ३८
श्रवपदार्थकथनम्
पितृपूजाद्रव्याणि
श्राद्धे धूपदीपौ
आखे भोजनपात्राणि
आदभेदेन विश्वेदेवनिर्णयः
२३
२६
२७
35
२८
१
"
१५
"
नित्यश्राद्धादिषु विश्वेदेव निषेधः २ ९
पवित्रग्रहणावश्यकता पवित्रधारणेऽनामिकाविधिः विदर्भसङ्ख्या
२२ अब्य पाचदाननिषेधः
१५ \। देवपित्रोरुपवेशने दिनियमः
33 १.३
12
३९
8.6
१ पाथदानमासीनानाम्
१६
७ सर्वेषामाचमनम्
33
११ पदार्थानुसमय काण्डालु समययो
निरूपणम्
४० ४
अर्घ्यदानविधिः
19 २४
२४ अपात्रम्
४३
,
२७ \। कमयुतगन्धादिदाननिषेधः
१४________________
11
भिक्षुकलक्षणम् अतिथिष्ठक्षणम्
“विषयानुक्रमः ।
१००।
" २० विप्रपात्रोच्चालनक तौरः " २४ \। उच्त्रिष्टोदासनकालः
पृ० पंक
" १९
वदानावश्यकता
४४
३ प्रतिपतिः
अमृतलक्षणम्
11 १३
विप्रवमने
33 24
१९
१५
श्रीमान् सिन्दूरदानम्
* २६
दक्षिणादानम्
७
नीली रकवानिषेधः
४५ ४ दक्षिणाद्रव्याणि
"
१३
भोजपत्राघोभागे मण्डल-
१९ अतिदरिद्र्य दक्षिणा दक्षिणादाने क्रमः
६१
૨.
19 ६.
करणम्
४६
२ वैश्वदेवनिरूपणम्
10
१६
35
९ \। साझे वैश्वदेवः
६२ २३
मण्ड निर्माणप्रकारः
"
१२ श्राद्धशेषेण भोजनम्
६३ १५
मण्डलाकर दोषकथनम्
"
१८ \। भोजनकालः
६४
अभोकरणम्
" १५
अन्यगृदे आद्वशेपभोजन-
विधुरस्य पियदैवविप्रहस्तयां-
निषेधः
01
४८ १०
श्राद्धदिने उपवासनिषेधः
19 १९६
अग्नौकरणशेषस्य प्रतिपत्तिः
४९
७
श्राद्धकर्तृभोक्त्रोर्नियमा
„ २३
अपरिमेयणप्रकारः
" ११
स्वयं श्राद्धकरणांशको
धृतपात्रस्थापने विशेषः
१० ११
प्रतिनिधयः
६५ १२
ब्राह्मणानां चित्राहुलिनिषेधः ५१ भोजने म्योन्यस्पर्श प्रकारः
भोजनभाजनस्पर्श इङ्कारहस्तादिना गुणपणं-
१५
नित्यश्राद्धनिरूपणम्
६६ ६
33
२०
क्षयाह श्राद्धनिरूपणम्
६८ १०
५२
४
.
190 १९
४
ने दोषः सोपं भोजनं कर्तव्यम्
31
" १६
मेथ पिण्डदानम्
१३
२
पिण्डदेशकथनम्
99
पिण्डदानेतिकर्तव्यता
पिण्डपरिमाणम्,
विकिरदानम्
५६
६ श्राश्रम्
मार्जारादिभिः पिण्डप पिण्डप्रतिपति
99
११
साङ्कल्पिक
seafood at प्राशयेत्
अनेक भार्याक्षे
पिण्डप्रायाने झतागुर्विण्यादि- निषेधः
‘कामनाविशेषेण पिण्डप्रतिपत्तिः ‘सुप्रोशितादिकथनम्,
31
६८
\। कन्यास्थार्कप्रशंसा
प्रथमादिकमधिके न कार्यम् ६९
क्षयमासे म्
७ सपिण्डीकरणानन्तरं पार्वणे को द्दिष्टयोविकल्पकथनम् केषां चिदेकोरिष्टमेव
● सधवाधार सुवासिनी.
५४ १ भोजनम्
११ १८ असमर्थस्य साङ्कल्पिक-
37
७२ २५
७३
वर्जनीयानि
" १३
" १७ आमश्राद्धादिकालनिरूपणम् ७४ १६
” १९ दिननयोर्मुहूर्त नामकथ
ab
३
नम्
महालयनिरूपणम्
६ प्रौपदीश्राद्धम्
०५ १६
७६ १४
७६ १६
७
ve
२० त्रिभागहीना दिपक्ष निरूपणम् ७८________________
विषयानुक्रमः ।
पृ० प०
माये पिण्डदाननिषेधकालः ८० / २४
कुम्महालय वोक्कनिषेधादि- विचारा
सविधानश्रार्पणान
रूपणम्
नित्यविचतर्पणे निषिद्ध ८१ १३
सम्न्यासिनां सकुम्महालयो द्वा. / यामेव
विधवा कक पार्वणे विशेषः भरणीमाहात्म्यम्
अनेक मानवमा मघाश्रयादशी श्राद्धकथनम् चतुर्दशश्राद्धनिरूपणम् निशुक्लप्रतिपदि माता-
मद्दधाम्
एकोद्दिष्टश्रादनिरूपणम्
वनैविध्यम्
मासिकानां पोडशस्वकथनम्
मासिकश्राद्ध कालाः
अथमासिक निर्णयः
मध्ये ममासपाते मासिक-
23
१९
८२ १७
कोलाः
१० पं०
क्षयाहाज्ञाने सापवादो निर्णयः १०५ प्रेतक्रियो सरमागतस्य विधिः १०६
श्राविघ्ने निर्णयः
८३
२
प्रारम्भादेर्लक्षणम्
11
11
19
८५ २४
の
८८ ७
33
दातृगृहे मरणादी स्वकालेऽन्तरित मासिका ब्दि-
कयोः काला
१०१ २३
. १०३
२०
१
१९
१०७ ३
"
१४
११० ५
17
१५
४
११४
५
११६
६
२५
11
११७ २६
आ भार्यारजोदर्शने निर्णयः १११ अन्वारुढाक्ष्यामिणेयः श्राद्धसन्निपाते निर्णयः
१६. पार्वणैको दियो युगत्प्रासौ
८९ ४
१८
निर्णयः
नित्यकाम्ययोः सन्निपाते देव- क्तः प्रसङ्गसंसिद्धिः नित्यदाशिकयोरकुम्भमासि कोशिकयुगादेव प्रसङ्गत-
"
२४
९० ३
स्वावृतिः
जनमासिकादिकाला
९१ २०
रिसदि।
११८ ७
९२
सपिण्डीकरणाम्
50
१७
वाहिताग्ने विशेषः
अन्तरितमासिकश्राद्ध काला ९३ १०
२४
तत्कालाः
२६
साग्निनिरग्निभेदेन सपिण्डीकरण
प्रेतश्राद्ध आशीरादिवर्जनम्
3”
१४
कालव्यवस्था
११९८
उदकुम्भश्राद्धनिरूपणम्
९४ ४
सपिण्डीकरणस्य द्वादशादे
आत्मश्राद्धनिमित्तकथनम्
९१
११
प्रशस्तत्वम्
१२२ ४
मासिकादिकयोराम श्राद्ध-
निषेधः
९१ १७
श्राद्धकण्या
आमस्वरूपकथनम्
आमपरिमाणकथनम्
39
आमश्रादविधिकथनम्
21
१६
सपिण्डीकरणस्य पूर्वः पोडश-
९६ १२ / सपिण्डीकरणादूर्ध्वं पोडशश्राद्धा
१५ पुनः कर्तव्यता वृद्धिप्राप्तौ मासिकोदकुम्भयोः
१८
11
१२३ ६
णभोजनादिनिवृत्तिः
९७ : १७
मश्रा निपणम्
श्राद्धे निषिद्धकालकथनम्
आमश्राद्धेऽवगाहापोशनमाह्म-
१८ \।\। रोहिण्यादिकालान्तरम् १२४ ९९ १३ सपिण्डीकरणे ज्येष्ठस्यैवा
पुनरपकर्षः
, ११
उक्तकाले सपिण्डीकरणाभावे
पिण्डदाने निषिद्धकालकथनम् १००
९
विकास
8
१३________________
त्रिप्रकारकक्रियालक्षणम् येसहित आहितान्नेः कस्यापि सपिण्डीकरणे-
अधिकारः
वृद्धिप्रसक्तावभ्यस्याप्यधिकारः
निमिवशात्कनिष्ठेन सपिण्डी.
करणे कुते ज्येष्ठोऽपि प्रेसवा
far कुर्यादेव
१२६ १
सपिण्डीकरणेतिकर्तव्यता
११
कार्यम्
चम्या
युक्रममृतौ सपिण्डीकरण-
प्रकारः
स्त्रीणां सपिण्डीकरणे विशेषः १२९ मलमासेऽपि सपिण्डीकरणं
मातुः श्राद्धादिकरणे गोत्रव्य-
विभक्ताविभक्तेषु श्रादा-
विषयानुक्रमः ।
१० ६०
39
१७
१२९ ११
" १३
तीर्थविशेषे सुण्डोपवासयो- निषेधः
पृ० पं०
"
१६
मधुकेशयोपने पौर्वापर्य विचारः, २१
प्रयागे सघवाभिरपि केशच्छेदन कार्यम्
सन्या लिभितीर्थेऽपि ऋतुस- मधावेच क्षौरं कार्यम् जीवत्पितृकस्यापि तीर्थे क्षौरम् दशमासोध्य पुनसीर्थप्रासौ क्षौरं नान्तरा
१४०
"
" ११
१४
૨૦
प्रयागे तु प्रतियाचं मुण्डनम्
35
२५
३
तीथ दुदेशेन स्नानं स तदष्ट-
१३०
१३१
दिनिर्णयः
39 १०
जीवस्तिकस्य कुत्र श्राद्धे-
२३३ ४
"
धिकार इति निर्णयः
पति पत्रादो प्रकारः
तीर्थयात्राधिकारिनिरूपणम् १३४ १७
मफलभाकू
तीर्थखाई मलमासेऽपि कार्यम्, वाहनविसर्जनादि
शुत्रेण सर्वदैवामान्नेन श्राद्धं
गयाना साकल्पेन विधिना
सीमा पिण्डद्रव्यकथनम्, "
१४१
१
२२
*
सीधा
२
न काम्
"”
२४.
कार्यम्
१४२
14.
न कार्यम्
И
१०.
९
सन्म्यासिभेदा
१४४
8.
पयो तोर्थानुगमनम्
१३५ ९१
सम्म्यासाद्गभाद
१४५
३
तीर्थयात्रायां याननिरूपणम्
19
२६
असमर्थस्य श्राद्धसिद्धिप्रकारः १४७
४
तो यात्रा विधिनिरूपणम्
१३६ १३
बक्शाखीय श्राद्धप्रयोगः
२७-
घृतश्राद्धम्
पिण्डपितृयज्ञव्यतिषकदर्शन
עלי
सी मुण्डनावश्यकता
"
२१
प्रयोगः
१५७ २६
कार्यटिकयेषावश्यकता
१३७ ३
महाख्योपयुकाः षोडशी-
तीर्थप्राठो कर्तव्यता
१३०
३
लोकाः
१६१
तीर्थाभिमन्त्रणमन्त्र
43
१२
शूद्राणां श्राद्धप्रयोगः
२६
मुण्डने वपनं कारये इति सङ्कल्पवा-
क्स्य व्यवस्थापनम् तीर्थप्राः पूर्वदिन उपवासः
स्मृतशय्यादानविधिः
१६४
१४
१३९
१
19
मृतशय्यादानप्रयोगः ९\। सुखशय्यादानप्रयोगः
१६६
’
१६७________________
श्राद्धचन्द्रिकायास्रुटिपूरम् \।
पृ० १२० पङ्क्तौ २३ पितामह चरणैरित्यनन्तरम् वस्तुतस्तु नित्यसंयोगविरोधात्तियों मासिकापकर्षविधानाभावाद्वाचनिकस्य वृद्धितन्त्रग्रहणस्य बलवत्वाच्च सर्वकर्माङ्गके वृद्धिश्राद्धे मामिका- पकर्षो युक्त आमातिइत्यधिकः पाठो द्वि पु० ।
पृ० १२४ प १ इति काव्यायनिस्मरणात् इत्यनन्तरम् - नम्विपानि कथं प्रेतश्राद्धानि सपिण्डीकरणस्य निवृत्तत्वादि तिचेन् न ।
"
अर्वाक्संवत्सराद्यस्य सपिण्डीकरणं भवेत ।
महतस्यापि विज्ञेयं वत्सरं नृप ।
इत्यग्निपुराणवचनात् । एतानि च यद्यपि वार्षिकसम्मदा येनैोद्दिष्टानि पार्वणानि च सम्भवन्ति । तथापि प्रेतस्वविमोक्षा- न्येव मन्त्रवन्ति कार्याणि न स्वमन्त्रकाणि पूर्ववत् । नवश्राद्धमतिक्रम्य मृतानि तु पासिकम् ।
मुद्दिश्य मन्त्रैस्तु वत्सरं निर्वपेत्सुतः ॥
इत्यपरार्के पैठीनसिवचनात् । एवं वृद्धिसकावुदकुम्भ-
श्राद्धान्यप्यपकष्य कार्याणि ।
प्रेतश्राद्धानि सर्वाण सपिण्डीकरणं तथा ।
अपकृष्याणि कुर्वीत कर्ता नान्दीमुखं द्विजः ॥
इत्यपरार्के पैठीनसिवाक्ये सर्वपदसङ्ग्रहणाद \। अत्रेत्थं सङ्क्षिप्तः
प्रयोगः । प्राचीनावीती पितॄनुद्दिश्या स्मत्कुले वृद्धिश्राद्धोत्तर-________________
चन्द्रिकायास्त्रुटि पूरणम् ।
मुद्रकुम्भश्राद्धनिषेधादद्यप्रभृति वर्षसमातिदिनपर्यन्तान्युदकुम्भ श्राद्धान्यपकृष्य पार्वणविधिना तन्त्रेण सोदकुम्भाननामान्नेन तनिष्क्रयेण वा करिष्य इति सङ्कल्प्य सङ्ख्यया परिविष्य प्रोक्ष्य नानापात्रस्थितान्यन्नान्यामान्नानि वा तन्निष्क्रया वा पितृपिता- महप्रपितामहेभ्योऽयुकशर्मभ्यो वसुरुद्रादित्यस्वरूपेभ्योऽर्पितानि नानानामगोत्रेभ्योऽर्पितानि नानानामगोत्राणां ब्राह्मणनामातृप्तेः स्वधा कव्यं न ममेति सदक्षिणं दद्यात् इति ग्रन्थस्त्रुदितोऽस्ति । पृ. १२४ पं. ८ श्रीमातामह गुरुचरणैरित्यनन्तरम् - पतितपितृकेण कथमुल्लेखः कार्य इत्यत आह मण्डनः- पितुर्नाम न निर्देश्यं महापातकदोषिणः ।
आवेदनादिकार्येषु किन्तु तत्परभाविनाम् \।\। पितामहपुरोगाणां त्रयाणां नाम निर्दिशेत् । पितामहोऽपि दुष्टचेत्मपितामहपूर्वकाः ॥
निर्देदृव्यास्त्रयो मर्त्यांस्तस्मिन्नपि च दूषिते ।
प्रपितामहपित्राद्यास्त्रयो वाच्या यथाक्रमम् ॥
मध्यमः कश्चित्
पूर्वपश्चिमान् ।
नेव निर्दिशन् किन्त्वतद्विशिष्यते ॥
पितामहादित्रितये पित्रादित्रय भावना ।
अन्याशेऽपि सम्बन्धनिर्देशस्त्वेवमेव हि ॥
मात्रादीनामिदं खीणां योजनीयमशेषतः । इत्यधिकः
पाठो द्वि० पु० ।________________
rest
यन्
अथ श्राद्धचन्द्रिका \।
श्रीगणेशाय नमः ॥
जानकीनयनयुग्मगोचरं मानिनां नयनयोरगोचरम् । नीलमेघरुचिरच्छविं सदा भावये मनासे राघवं मुदा ॥ १ ॥ वीकृतं त्रिभुवनं नाम्ना जगत्पादितं विनिवारितं बहुतरं पापं महापापिनाम् । यद्वन्यैः कठिनं जगाम कुशतां द्वैतं व्रतादिस्थले तस्याहं शिरसा नमामि चरणौ श्रीनीलकण्ठप्रभोः ॥ २॥ नवा साम्बे तथा तातं जनयत्रीं गुरूनपि । दिवाकरेण विदुषा तन्यते श्राद्धचन्द्रिका ॥ ३ ॥ तत्रादौ श्राद्धप्रशंसा हेमाद्रौ कूर्मपुराणे- योऽनेन विधिना श्राद्धं कुर्याद्वै शान्तमानसः । व्यपेतकल्मष नित्यं याति नावर्त्तते पुनः ॥ विष्णुधर्मोत्तरे-
F
श्राद्धकाले ताथानेन पिण्डनिर्वेपणं तथा । पितॄणां ये करिष्यन्ति तेषां पुष्टिभविष्यति ॥ पैतृपैतामहः पिण्डो वासुदेवः प्रकीर्तितः । पैतामहश्च निर्दिष्टस्तथा सङ्कर्षणः प्रभुः । पिपिण्डस्तु विज्ञेयः प्रद्युम्नश्च पराजितः ॥ आत्मानिरुद्धो विज्ञेयः पिण्डनिर्वपणे बुधैः । इति । पितृपितामहस्यायं पैतृपैतामहः प्रपितामहपिण्ड इत्यर्थः
तत्रैव देवलः,
देवो यदि पिता जातः शुभकर्मानुयोगतः । तस्याश्रममृतं भूत्वा देवत्वेऽप्यनुगच्छति ॥________________
वायुपुराणे -
श्रचन्द्रिकायाम्-
देवकार्यादपि सदा पितृकार्य विशिष्यते ।
देवताभ्यः पितॄणां हि पूर्वमाप्यायनं शुभम् ॥ इति ।
अथ श्राद्धलक्षणम् ।
माधवीये ब्रह्माण्डपुराणे-
देशे काले च पात्रे च श्रद्धया विधिना तु यत् । पितृनुद्दिश्य चित्रेभ्यो दत्तं श्राद्धमुदाहृतम् ॥ इति । हेमाद्री बृहस्पतिस्मृतावपि -
संस्कृतं व्यञ्जनाढ्यं च पयोदधिघृतान्वितम् । श्रद्धया दीयते यस्माच्छ्राद्धं तेन निगद्यते \।\।(१)
(१) अत्र श्राद्धलक्षणं प्रकृस्य वीरमित्रोदयीयश्राद्धप्रकाशे सुविचा. रितम् । सुपयोगिताऽविकलः स सन्दर्भः समुपस्थाप्यते । अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच प्रजानिःश्रेयसार्थं तत्र पितरो देवताः, ब्राह्म- reeवाहवनीयार्थे मासि मासि कार्यमपरपक्षस्यापराह्नः श्रेयान इस्था पस्तम्बः । श्राद्धमिति शब्दो वाचको यस्य तत्तथा । त्यक्तद्रव्यप्रति- पश्यधिकरणत्वेनाहवनीयकार्यार्थत्वं ब्राह्मणस्य अपरपक्षस्य कृष्ण पक्षस्य इति तदर्थः । तथा “प्रेतान् पितृनप्युद्दिश्य भोज्यं यस्त्रियमा रमनः । श्रद्धया दीयते यत्तु तच्छ्राद्धं परिकीर्तितम्” ॥ इति मरीचि. वचनम् । प्रेतान् = अकृतसपिण्डीकरणान् । पितॄन् = कृतसपिण्डनान् । दीयते यत्तु = अत्र यदिति क्रियाविशेषणम् । तथाच तादृशं यद्दानं तच्छ्राद्धमित्यर्थः । एवं चात्रोक्तापस्तम्ब - मरीचि - बृहस्पति ब्रह्म- पुराणीयवचनानां पर्यालोचनया प्रमीतमात्रोद्देश्यका त्यागविशेषो ब्राह्मणाद्यधिकरणकप्रतिपत्यङ्गकः श्राद्धपदवाच्यः प्रतीयते । एवं च गन्धादिदानाशीकरण विकिरदानानां न श्राद्धत्वं किन्तु तदङ्गत्वमेवेति ध्येयम् । ब्राह्मणप्रतिपत्तेश्वं च काचित्कं विवक्षितम् । तेनाग्म्या. दिपाङ्गके नाव्याप्तिः । तदस्यं च वाचनिकातिदेशव्यतिरिक्तप्रमा. विहितं प्राह्मम् । तेन “पिण्डवश्च पश्चिमा प्रतिपत्तिः” इतिच्छन्दोग- वचनादितदङ्गके पित्रावलिदाने नातिव्याप्तिः । न च तवास्न कुतो न सङ्गृह्यत इति वाच्यम् । “श्राद्धं वा पितृयज्ञः स्यात्पयो बलि________________
तत्पश्चविधमित्याह-
आश्वलायनः,
काम्यं नैमित्तिकं वृद्धिरेकोद्दिष्टं च पार्वणम् ।
श्राद्धं पञ्चविधं माहुर्विमाः शास्त्रस्य वेदिनः ॥ इति । विश्वामित्रस्तु तस्प द्वादशभेदानाद्द-
नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनम् । पार्वण चेति विज्ञेयं गोष्ठयां शुद्धार्थमष्टम् ॥ कर्मा नवमं प्रोक्तं दैविकं दशमं स्मृतम् । यात्रास्कादर्श प्रोक्तं पुष्ट्यर्थं द्वादशं स्मृतम् ॥ इति ।
स्थापिवा ।" इति च्छन्दोग परिशिष्टस्वरसात्तस्य श्राद्धभिन्नत्वप्रतीतेः तथा शिष्टव्यवहाराभावाच्च । पिण्डपितृयन्नस्तु श्रद्धमेव । “तच्छ्राद्ध- मितरमावास्यायाम्” इति गोभिलवचनेन तस्यापि श्राद्धत्वोक्तः । तच्छब्देन पिण्डपितृयज्ञपरामर्शात् । उदाहृतवाक्यैरपि तस्य श्राद्धस्थ प्रतीतिः \।
“पिण्डस्तु गोऽजविप्रभ्यो दद्यादनौ जलेऽपि वा इत्यनेन याज्ञवल्क्यवचनेन तस्यापि ब्राह्मणप्रतिपश्यङ्गकत्वसिद्धेः । प्रमीशा-
त्वं च देवतात्वरूपम् । तेन फलभागितया तदुद्देश्य कब्राह्म सम्प्रदानकान्नत्यागे नातिव्याप्तिः । अन्नपदस्य च भोज्यस्थानीय द्रव्योपलक्षकत्वान हिरण्यश्राद्धादावव्याप्तिः । यस्तु नृसिंहपुराणे - “दिव्य पितृभ्यो देवेभ्यः स्वपितृभ्यस्तथैव च । दत्वा श्राद्ध. च मनुष्येभ्यस्तथात्मनः ॥” इति देवादिश्राद्धे श्राद्धशब्दः समासाशि- होत्रवद्वौणस्तद्धर्मप्राप्त्यर्थः । एवं च “दैविकं दशमं स्मृतम्” इतिवक्ष्य- माणश्राद्धविभागोऽपि गौणमुख्यसाधारण एव । नच तत्रापि मुख्यता किं न स्यादिति वाच्यम् । श्राद्धपदव्युत्पादकेषुदाहृतवाक्येषु प्रेतप-
पदयोरेव श्रवणात्प्रमीतमात्रको द्देश्य कथाद्धस्यैव मुख्यत्वापग मात् । एवं चानोत्सर्गपिण्डदानयोर्द्वयोरपि प्रत्येकं श्राद्धत्वं सिद्ध्यति । अत एव ब्रह्मपुराणेऽनोत्सर्गमुक्वा “श्राद्धं कृत्वा प्रयत्नेन” इत्यनो. सर्गेमा श्राद्धपदप्रयोगो दृश्यते । अत एवाहिताग्नेः पित्रनं पि. डैरेव” इति निगमोऽप्यशकौ केवलं पिण्डदानमाह । मघाश्रा. दादौ पिण्डदानं विना श्राद्धसिद्धावपि न तस्य प्राधान्यहानिः । प्रधानस्यैव सतो वचनेन तत्र पर्युदासात् ।________________
श्राद्धचन्द्रिकायाम्-
एषां लक्षणानि भविष्यपुराणे- अहन्यहनि यच्छ्राद्धं सन्नित्यमिति कीर्त्तितम् । वैश्वदेवविहीनं तदशक्ताबुदकेन तु ॥ एकोद्दिष्टं च यच्छ्राद्धं तन्नैमित्तिकमुच्यते । तदध्यदैवं कर्त्तव्यमयुग्माम्भोजयेत् द्विजान् ॥
एतेन नित्यश्राद्धमदेव स्यादर्घ्यपिण्डविवर्जितम्” इतिहारीत. घचनान्नित्यश्राद्धे, “भौजङ्गीं तिथिमासाद्य यावञ्चन्द्रार्कसङ्गमम् । तत्रापि महती पूजा कर्तव्या पितृदेवते ॥ ऋक्षे पिण्डप्रदानं तु ज्येष्ठ. पुत्री विषर्जयेत् ।” इति देवीपुराणान्मधाश्राद्धे च पिण्डदाननिषेधो- arted \। न चाप्राप्तस्य निषेधा घटते, प्राप्तिश्चात्रातिदेशेन, सचाङ्गा- नामेवातः पिण्डदानमङ्गम् । या तु “अग्नौ हुतेन देवस्थाः पितृस्था द्विजतर्पणे । नरकस्थाश्च सुप्यन्ति पिण्डैतैस्त्रिभिर्भुवि ॥” इति पिण्डदाने फलश्रुतिः सोऽर्थवादः । “अङ्गेषु स्तुतिः परार्थत्वात्’ इति न्यायात् । गयादी पिण्डदानमात्रविधिस्तु अङ्गभूतपिण्डदानात्कर्मा- स्तरं प्रकरणान्तरस्थस्वादिति शूलपाण्याद्युक्तं परास्तम् । पूर्वोदाहृत. वाक्यार्थ पर्यालोचनया उभयोरपि प्राधान्ये सिद्धे नित्यश्राद्धादौ श्रा- विधिनैवोभयप्राप्ताचे कतरपर्युदासोपपत्तेः । तस्मात्सुमनसर्ग- पिण्डदानयोः प्राधान्यमिति ।
केचित् “अग्नौ हुतेन” इत्यादिवचनेऽग्नीकरणस्यापि फलश्रव- णात्तदपि प्रधानम् अनौकरणोद्देश्यानां कव्यवाहनादीनां पितृपदेन सङ्ग्रहात्पाणिहोमपक्षे ब्राह्मणाधिकरणकप्रतित्तिसम्भवाच्चेत्याहुः ।
शूलपाणिस्तु सम्बोधनपदोपनीतान् पित्रादींश्चतुर्थ्यन्तपदेनो- द्दिश्य हविस्त्यागः आदमित्याह । अत्र फलभागित्वरूपोद्देश्यतानि वृत्यर्थ सम्बोधन पदोपनीता नितिविशेषणम् । पित्रादीनित्यादिपदेन देवादयोऽपि विवक्षिताः । तेन देवश्राद्धादावपि श्राद्धशब्दो मुख्य एवेति
मैथिलास्तु- वेदबोधितपात्रालम्भपूर्वक हविस्त्यागः श्राद्धम् । अत्रालक्ष्मी श्राद्धविशेषणम् । अभ्यथा तस्य वेदबोध्यत्वाभावेन aaferद्धस्य वेदाबोध्यत्वापत्तेः किन्तुपलक्षणम् उपलक्ष्यश्च स्वतो विलक्षणरत्यागविशेष एव । एतेन यन्मत एकोद्दिष्टे पात्रालम्भो नास्ति तम्मते तत्र नाव्याप्तिः । नापि सभ्यासिकर्तृकात्मादिश्राद्धेऽपि सा। “दैविकं दशमं स्मृतम्” इति विभागोऽपि च समञ्जसो भवति ।________________
नित्यादिश्राद्धलक्षणानि ।
कामाय विहितं काम्यमभिप्रेतार्थसिद्धये । पार्वणेन विधानेन तदप्युक्तं खगाधिप । वृद्धौ परिक्रयते श्राद्धं वृद्धिश्राद्धं तदुच्यते । सर्व प्रदक्षिणं कार्य पूर्वाह्न तूपवीतिना ॥
पिण्डदानं त्वङ्गमेव \। “श्राद्धं कृत्वा प्रयत्नेन त्वराक्रोधविवर्जितः । उष्णमन्नं द्विजातिभ्यः श्रद्धया प्रतिपादयेत् ॥” इत्यादिवाक्येषु आन तोर्थक क्त्वा प्रत्ययेनानोत्सर्ग एव श्राद्धपदप्रयोगात् “त्रिषु पिण्डः प्रवर्तते” इति चाङ्गमुखेन प्रधाननिर्देशः । पिण्डपितृयज्ञविषय वा इत्याहुः \।
मनु त्यागो न श्राद्धं किन्तु “पितृनुद्दिश्य विप्रेभ्यो दक्षं श्राद्धमुदा हृतम्” इति ब्रह्मपुराणात् “श्रद्धयां दीयते यस्मात्तष्ाद्धं परिकी- तितम्” इति मरीचिवचनात् “प्रमीतस्य पितुः पुत्रैः श्राद्ध देयं प्रयत्नतः” इतिस्मृत्यन्तरचचनाश्च दानकर्मणा द्रव्यस्यैव श्राद्धत्वाव गमात् स्वज्यमानं द्रव्यमेव श्राद्धम् । एवं च “श्राद्धमामं तु कर्तव्य- मिति वेदविदां स्थितिः” इति द्रव्यसामानाधिकरण्यमप्युपपद्यते । न चैवमादिषु श्राद्धशब्दस्य लक्षणया द्रव्यपरत्वं प्रमाणाभावात् इति चेत्, न । “आद्ध कुर्यात्” इत्यादी द्रव्यस्य सिद्धत्वेन साक्षाद्भावना- स्वासम्भवात् । क्रियापरत्वेन साक्षादन्वये सम्भवति अनुपस्थित त्यागादिक्रियाद्वारा परम्परान्वयस्यानौचित्यात् । ‘सोमेन यजेत’ इत्यादौ तु बलवत्या प्रसिद्ध्या द्रव्यपरस्वे सोमपदस्यावधारित समस्य श्रौतधात्वर्थद्वारा भावनान्वयो युक्तो भवति । प्रकृते तु श्रा-
शब्दस्य द्रव्यं प्रसिद्ध्यभावादश्रुतधात्वर्थद्वारकपरपरान्योऽनु- चितएव । किञ्च कुशयवतिलगोधूम मांसादिद्रव्यं पित्रादिभ्यः श्रद्धया देयमित्यादिना श्राद्धे विधित्सितद्रव्यस्य प्राप्तत्वात् तत्प्रख्यन्यायेना- fasोत्रादिपदवत्कर्मनामधेयतैवोचिता । किञ्च नित्यनैमित्तिक का. म्यभेदा अग्रे वश्यन्ते ते च प्रायशः कर्मण्येव प्रसिद्धा इत्यतोऽपि कर्म. नामता । अत एवास्तम्बेन " श्राद्धशब्दं कर्म’ इत्युक्तम् ।
यन्तु “प्रमीतस्य पितुः पुत्रैर्देयं श्राद्धं प्रयत्नतः” इति श्राद्धस्य देय. स्वमुक्तम्, यश्च - “श्राद्धमामं तु कर्तव्यमिति वेदविदां स्थिति” इति द्रव्य सामानाधिकरण्यम् तत् श्राद्धशब्दस्य लक्षणामभिप्रेत्य । एवं च कर्मनामत्वे सिद्धे “श्रद्धया दीयते यस्मात्तेन श्राद्धं निगद्यते” इति________________
श्रचन्द्रिकायाम्-
गन्धोदकतिलैर्युक्तं कुर्यात्पात्र चतुष्टयम् । अर्ध्या पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ ये समाना इति द्वाभ्यामेतज्ज्ञेयं सपिण्डनम् । निसेन तुल्यं शेषं स्यादेकोद्दिष्टं स्त्रिया अपि ॥ अमावास्यां यत्क्रियते तत्पार्वणमुदाहृतम् । क्रियते वा पर्वणि यत्तत्पार्वणमिति स्थितिः ॥ गोष्ठ्य यत्क्रियते श्राद्धं गोष्ठी श्राद्धं तदुच्यते । बहूनां विदुषां सम्पत्सुखार्थ पितृप्तये ॥ क्रियते शुद्ध यत्तु ब्राह्मणानां तु भोजनम् । शुद्ध्यर्थमिति तत्प्रोक्तं वैनतेय ! मनीषिभिः ॥ निषेककाले सोमे च सीमन्तोन्नयने तथा । जे पुंसवने चैव कर्मा श्राद्धमुच्यते ॥ देवानुद्दिश्य यच्छ्राद्धं
विकमिहोच्यते !
बृहस्पतिवाक्यं श्राद्धशब्दस्य योगप्रदर्शनार्थम् । तेनान्यत्र प्रयोगा- भावाद्योगवशाच्च योगरूढोऽयं श्राद्धशब्द इति । यद्यपि च “तस्मा
दुधां समासाद्य धर्म धर्मात्समाचरेत्” इत्यादिविष्णुधर्मोत्तरादि- वाक्यैः श्रधायाः सर्वकामार्थता तथापि ‘श्रद्धान्वितः श्राद्ध कुर्वीत " इति कात्यायनेन विशिष्य श्राद्धे श्रधायाः पुनरङ्गत्वोके श्रद्धा- विशेषोऽत्राङ्गमिति बोध्यम् । अत एव नन्दिपुराणे’ अनुधा माता तु भूतानां श्रद्धा श्राद्धेषु शस्यते” इति तस्यास्तत्र प्राशस्त्यमुक्तम् । एवं च सकलस्मृत्याद्येकवाक्यतया श्राद्धस्य त्यागरूपत्ये सिद्धे यत्कैश्चिब्राह्मणभोजनस्य श्रादुधपदार्थत्वमुक्तं तद्विचारणीयम् । न च - " पितॄन पितामहान्यक्ष्ये भोजनेन यथाक्रमम् । प्रपितामहान् सर्वाश्च तत्पितृचानुपूर्वशः ॥ इति ब्रह्माण्डपुराणे भोजनश्रवणात् तस्यैव श्रा वृधमिति वाच्यम् । भोजनपदस्य कर्मव्युत्पस्था - ’ प्रेताम्पिनप्युद्दि श्य भोज्यं यस्प्रियमात्मनः । श्रद्या दीयते यत्तु तच्छ्राद्धं परिकीति- तम् ॥” इति मरीचिवाक्यैकवाक्यतया भोज्यपरत्वात् । अन्यथा प्रवि- तामहपितनुद्दिश्य भोजनाभावेन ‘सत्पितृञ्चानुपूर्वश’ इत्यस्यासङ्गतिः स्था दिति । अस्मिन्मते तेषां लेपभागित्वेन स्यागोद्देश्यत्वाश्च विरोध इति ।________________
श्राद्धकालनिरूपणम् ।
हविष्येण विशेषेण सप्तम्यादिषु यत्नतः ॥ गच्छन्देशान्तरं यस्तु श्राद्धं कुर्यात्तु सर्पिषा । यात्रार्थमिति तत्प्रोक्तं प्रवेशे च न संशयः ॥ शरीरोपचये श्राद्धमर्योपचय एव च । पुष्यर्थमेतद्विज्ञेयमौपचायिकमुच्यते ॥ इति ।
वृद्धिः पुत्रजन्यादिः । पणिसङ्क्रान्त्यादौ । निषे- ककाले इति श्रौतस्मार्त्तकर्मोपलक्षणम् । देशान्तरगमनं तीर्थयात्रा- रूपम् \।
प्रवेशश्च तत्समास्यनन्तरो गृहप्रवेशः । शरीरोपचये= शरीरोपचय हेतुभूत शान्त्यादिप्रयोगे ।
काश्यायनः-
घृताrisesश्राद्धं यच्च महालये । तन्नित्यमुदितं सद्भिर्नित्यवच्च विधानतः ॥ इति ।
याज्ञवल्क्यः-
अथ श्राद्धकालाः ।
अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्रयम् । द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसङ्क्रमः ॥ व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्त्तिताः ॥ इति । अष्टकाः”, “हेमन्त शिशिर योश्चतुर्णामपरपक्षाणामष्टमी ष्त्रष्ट- का” इत्याश्वलायन सूत्रोक्ताश्चतस्रः । पञ्चमी भाद्रकृष्णाष्ट- मी । तथाच –
पद्मपुराणे,
पटका भूयः पितृलोके भविष्यति ।
आयुरारोग्यमैश्वर्यं सर्वकामफलप्रदा ॥ इति ।
अपि मयादिदिनत्रयेऽष्टकाच्छ्राद्धं कार्यम् । “एतेन________________
श्राद्धचन्द्रिकायाम्-
माया वर्षे प्रोष्ठपद्या अपरपक्षे” इत्याश्वलायनोकेः । वृद्धि- रुक्ता । कृष्णपक्षः सर्वोऽपि । द्रव्यं = श्राद्ध योग्यमन्नादि । ब्राह्म- सम्पतिः पङ्गिपावनादिसम्पत्तिः । सूर्यसक्रम इत्येतावन सिद्धेपुनर्विषुद्रणं सूचयति सर्वसङ्क्रान्तिष्व समर्थोऽत्रैव श्राद्धं कुर्यादिति । अयनविषुवतोर्लक्षणं
हेमाद्री नागरखण्डे,
करे कटे चैव यदा भाजेन्नृप । तदायनाभिधानश्च विषुवत्स विशिष्यते ॥
यदा स्यान्मेषगो भानुस्तुलां चाथ यदा व्रजेत् । तदा स्याद्विषुवाख्यस्तु कालश्चाक्षयकारकः ॥ इति । अमावास्या निर्णता तिथ्पर्के ।
तथा-
आषाढ्यामथ कार्त्तिक्य माध्यां मन्वन्तरादिषु । युगादिषु च दुःस्वप्ने जन्म ग्रहपीडिते ॥ मौष्ठपद्यसिते पक्षे श्राद्धं कुर्वीत पत्नतः । प्रत्यब्दं तु प्रयत्नेन श्राद्धं कुर्यान्मृतानि ॥ इति । युगादयोऽप्युक्तास्तिथयर्के ।
शातातपः-
नवोदके नवानेच नवप्रच्छादने तथा ।
पितरः स्पृहयन्त्यभपष्टकासु मघासु च ॥ तस्मादायुक्त विद्वत्सु ब्राह्मणेषु च ॥ इति । नवोदके वर्षोपमे इति शूलपाणिः । नवकूपादावित्य- परे । वस्तुतस्तु तीर्थोदके इति युक्तम् । वचनान्तरैकवाक्यत्वात् । नवप्रच्छादनेनवागारसम्पादने ।
आश्वलायनः, अपरेद्युरन्वष्टक्यमिति ।
ब्राभे-
मार्गशीर्षे च पौषे च माधे प्रोष्ठे च फाल्गुने ।________________
श्राद्धकालनिरूपणं ।
कृष्णपक्षेषु पूर्वे शुरम्यष्टक्यं तथाष्टका ॥ इति ।
कात्यायनः-
अन्वष्टकासु नवभिः पिण्डैः श्राद्धमुदाहृनम् । पिचादिपामध्यं च ततो मातामहान्तिमम् ॥ इति । अष्टकान्वष्टकाश्राद्धं नित्यमित्युक्तं हेमाद्री–
विष्णुधर्मोत्तरे,
अष्टकाष्टकास्तथैव च नृपोत्तम! \।
एतानि श्राद्धकालानि नित्यानाह प्रजापतिः \।\। श्राद्धमेव कुर्वाणो नरकं प्रतिपद्यते ॥ इति ।
अत एवान्वष्टकाश्राद्धं स्वतन्त्रं प्रधानं नाटकाङ्गम् । पूर्वेद्युः श्राद्धं त्वष्टकाङ्गम् \। फलवत्सन्निधावफलं तदङ्गमितिन्यायात् । (१) तिस्र इति पौषादिमासत्रयाभिप्रायेण । तथाच हेमाद्रौ -
कूर्मपुराणे,
अमावास्याष्टकास्तिस्रः पौषमासादिषु त्रिषु ।
तिस्रश्चान्वष्टकाः पुण्या माघी पश्चदशी तथा ॥ इति । अयं त्रिस्वपक्षस्त्वाश्वलायनान्यपरः " हेमन्तशिशिरयोश्चतु- र्णामपरपक्षाणामवष्टका” इत्याश्वलायनोक्तः । एतदक- रणे प्रायश्चित्तम्-
ऋविधाने,
एभिर्युभिर्जपेन्मन्त्रं शतवारं तु तद्दिने ।
agri यदा शून्यं सम्पूर्ण याति सर्वथा ॥ इति ।
करणेऽभ्युदय उक्तो–
हेमाद्री,
(१) यथा “दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत’ इत्यत्र ‘स मिधो यजति’ ‘तनूनपातं यजति’ ‘आज्यभागौ यजति’ इत्यादिप्रयाजा. दीनां फलरहितानामपि फलवदाग्नेयसन्निधौ पठितत्वेन दर्शपौर्णमा- साङ्गत्वं तद्वदिहापीति बोध्यम् ।
२ भा० चं०________________
१०
श्रीडचन्द्रिकायाम्-
राजा तु लभते राज्यमधनश्चोत्तमं धनम् । क्षीणायुर्लभते चायुः पितृभक्तः सदा नरः ॥ इति ।
हारीतः–
तीर्थे द्रव्योपपत्तौ च न कालमवधारयेत् ।
पात्रं च ब्राह्मणं प्राप्य सद्यः श्राद्धं विधीयते ॥ इति । तीर्थे= वेण्यादौ । द्रव्योपपत्तौ = अलभ्यश्रायद्रव्यप्राप्तौ चामावास्यापराह्नादिरूपः कालो न प्रतीक्षितव्य इत्यर्थः ।
अत एव -
देवीपुराणे,
अकालेऽप्यथवा काले सीर्थश्राद्धं सदा नरैः । प्राप्तैरेव सदा कार्य कर्त्तव्यं पितृतर्पणम् ॥
पिण्डदाने तु तच्छुतं पितॄणां चातिदुर्लभम् ।
विम्बो नैव कर्त्तव्यो नैव विघ्नं समाचरेत् (१) ॥ इति । गजच्छायोक्ता–
स्कन्दपुराणे,
देन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः ।
याम्या तिथिर्भवेत्सा हि गजच्छाया प्रकीर्त्तिता । इति । पितृदेवत्यं =धा \। हेसो रविः । करो=हस्तनक्षत्रम् । याम्पा तिथिः त्रयोदशी ।
तथा,
इसे इंस स्थिते या तु अमावास्या करान्विता । सा ज्ञेया कुञ्जरच्छाया इति बौधायनोऽब्रवीत् ॥ अत्र भोक्तुर्दोष हेमाद्री-
ब्रह्मपुराणे,
(१) अत्र प्राप्तैरेवेति आवश्यकस्नानतर्पणोपवासानन्तराम स्पर्थः । तावतो विलम्बस्य विध्यनुज्ञावशादप्रतिबन्धकत्वात् । इत्य- चिकं पुस्तकान्तरे ।________________
श्रद्धे विहितनिषिद्धदेशाः ।
१.१
मृतके सूतके चैव ग्रहणे चन्द्रसूर्ययोः ।
छायायां कुञ्जरस्याथ भुक्त्वा तु नरकं व्रजेत् ॥ इति । इति श्राद्धकालाः ।
अथ श्रादेशाः ।
विष्णुधर्मोत्तरे-
दक्षिणावणे देशे तीर्थादों वा गृहेऽपि वा ।
भूसंस्कारादिसंयुक्ते श्राद्धं कुर्यात्यव्रतः ॥
दचिणाप्रवणे =दक्षिणतो निम्ने । मूसंस्कारो गोपये-
नोपलेपादिः ।
प्रभासखण्डे-
तीर्थादगुणं पुण्यं स्वगृहे ददतः शुभे ॥ श्रीमहाभारते-
शङ्गः
तस्य देशाः कुरुक्षेत्रं गया गङ्गा सरस्वती । प्रभासं पुष्करं चेति तेषु श्राद्धं महाफलम् ॥ इति ।
अथ निषिद्धदेशाः ।
गोगजाश्वादिपृष्ठेषु कृत्रिमाया तथा भुवि । न कुर्याच्छ्राद्धमेतेषु पारक्यासु च भूमिषु ॥ कृत्रिमापामालिकायाम् ।
यमः-
परकीय देशेषु पितॄणां निर्वपेत्तु यः । भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ॥
स एव–
क्षं कृमिहनं किं सङ्कीर्णानिष्टगन्धिकम् । देशं त्वचि वर्जयेच्छ्राद्धकर्मणि ॥ इति ।________________
१२
सुमन्तुः-
श्रचन्द्रिकायाम्-
अथ श्रद्धाधिकारिणः ।
मातुः पितुः प्रकुर्वीत संस्थितस्यैौरसः सुतः । पैतृमेधिक संस्कारं मन्त्रपूर्वकमाहतः ॥
हमाद्रौ शङ्खः,
पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया \। पुत्राभावे तु पत्नी स्वात्पल्यभावे तु सोदरः ॥ इति । अत्र पुत्रग्रहणं द्वादशविधपुत्रोपलक्षकम् । ते चोक्ता– याज्ञवल्क्येन,
औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्र जातस्तु सगोत्रेणेतरेण न ॥ गृहे प्रच्छन्न उत्पन्नो गूढ़जस्सस्कुलः स्मृतः । कानीनः कन्यकाजातो मातामहसुतः स्मृतः ॥ अक्षतायां क्षतायां वा जातः पौनर्भवस्तथा । दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ॥ क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयं कृतः । दत्तात्मा तु स्वयं दचो गर्भेविन्नः सहोढजः \।\। उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेरसुतः । पिण्डदाहरचैषां पूर्वाभावे परः परः । इति । वस्तुतस्तु इतरेषां कौं निषेधादौर सदत्तकयोरेव पुत्र पदे- नात्र ग्रहणमिति ध्येयम् । तत्रायं विशेषः । पुत्राभावे पौत्रस्य तदभावे प्रपौत्रस्य तदभावे पुनदत्तकस्याधिकार इति । तथा च विष्णुपुराणे,
पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः । सपिण्डसन्ततिर्वापि श्राद्धार्हो नृप! जायते ॥ एषामभावे सर्वेषां समानोदकसन्ततिः । इति ।________________
श्रद्धाधिकारिनिरूपणम् ।
याज्ञवल्क्योऽपि–
लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रपौत्रकैः । इति ।
अन्यन्त्रापि-
पुत्रेण लोकायति पौत्रेणानन्त्यमश्नुते ।
अथ पुत्रस्य पौत्रेण तस्याप्नोति विष्टपम् ॥ इति । औरस पुत्रस्य स्वनुपनीतस्यापि श्राद्धाधिकारमाह— वृद्धमनुः,
कुर्यादनुपनीतोऽपि श्राद्धमेको हितः । पितृयज्ञाहुति पाणी जुहुयाद्ब्राह्मणस्य सः ॥ इति । एको मुख्यः औरस इति यावत् ।
पृथ्वीचन्द्रोदये सुमन्तुरपि-
श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः । व्रतस्थ वातस्थो वा एक एव भवेद्यदि ॥ इति । अनुपनीतं विवृणोति
स एव,
पत्तु
अनुपेतोऽपि कुर्वीत मन्त्रवत्पैतु मोधकम् ।
१.३
यद्यसौ कृतचूडः स्याद्यदि च स्यात् त्रिवत्सरः ॥ इति । rs विशेषणद्वयमपि विवक्षितं विधेयकर्तृगतत्वात (१) ।
व्याघ्रपादः,
कृतचूडस्तु कुर्वीत उदकं पिण्डमेव च ।
स्वधाकारं प्रयुञ्जीत वेदोबारं न कारयेत् ॥ इति,
यच्च स्मृतिम हे –
कृतचूढोऽनुपेतश्च पित्रोः श्राद्धं समाचरेत् ।
उदाहरेत्स्वधाकारं न तु वेदाक्षराण्यसौ ॥ इति,
(१) अत्र - पंत नापनीत पत्र सवेऽप्युक्तलक्षणानुपनीतपुत्रसद्भावे साधिकारी भवति सिद्धमित्यधिकः पाठः पुस्तकान्तरे ।________________
१४
श्राडचन्द्रिकायाम्-
तत् प्रथमवर्ष कृतचूडविषयमिति माधवमदनरत्नादधो बहवः प्राञ्चः । श्रीमातामहा अध्येवम् । केचित्तु दचकादि- परोऽयं निषेध इत्याहुस्तन्न मनोहरम् । दत्तकादीनामुपनीता- नामेवाधिकारात् । तथाच —–
स्कान्दे,
पित्रोरनुपनीतोऽसौ विदध्यादौरसः सुतः । और्ध्वदेहिकमन्ये तु संस्कृताः श्राद्धकारिणः ॥ इति । प्रथमवर्षकृतचूडस्याध्यशिदानमानं समन्त्रकमन्यश्वयन्त्रकम् - असंस्कृतेन पल्याच शिदानं समन्त्रकम् । कर्त्तव्यमितरत्सर्व कारयेदन्यमेव हि ॥
इति कात्यायनवचनात् । ( १ ) अकृतचूडस्यानिदानमपि न
भवति ।
पुत्रोत्पत्तिमात्रेण संस्कुर्यादृणमोचनात् ।
पितरं (२) नाब्दिका चौलापैतृमेधेन कर्मणा ॥
इति सुमन्तुवचनादिसलं विस्तृत्या \। दत्तकाश्रावे पत्नी पूर्वोक्तवाक्यात् ।
अपुत्रा पुत्रवरपत्नी पुत्रकार्य समाचरेत ।
इत्युक्ते (३),
( १ ) अत्र - पत्म्या कारयेदन्यमेव हीत्युक्तिः सामर्थ्याभाव बोध्या । वक्ष्यमाणवचनविरोधात् इत्यधिकः पाठः पुस्तकान्तरे ।
(२) अत्र न आ शाब्दिकात् इति च्छेदः कार्यः । एवं च पुत्रो वर्षाधिकareक एव पितृमेधकर्मण्यधिकारी न तु ततः पूर्वम् । एतच्च वचनमौरसविषयकमेवेति कालादर्शकारः ।
पित्रोरनुपनीतोऽपि विदध्यादौरसः सुतः । और्ध्वदेहिकमन्ये तु संस्कृताः श्राद्धकारिणः ॥
इति स्कान्दवचनात् । दत्तकादीनां तूपनीतानामेवाधिकारः । (३) अत्र अपुत्रे प्रस्थित कर्ता नास्ति चेच्छ्राद्धकर्मणि । तत्र पयपि कुर्वीत सापिण्डय पार्वणं तथा ॥________________
श्राद्धाधिकारिनिष्टणम् ।
भार्यापिण्डं पतिर्दद्या
भार्या तथैव च ।
स्वादेव स्नुषा चैव सदा सपिण्डकाः ॥
१५
इति वाक्याच्च । पत्युरपि सपत्नीपुत्रे सति भार्याश्राद्धे
नाधिकारः ।
antarsafaiमेष एव विधिः स्मृतः ।
एका चेत्पुत्रिणी तासां सर्वामां पिण्डदस्तु सः ॥ इति बृहस्पतिवचनात् । मदनरत्ने कात्यायनेन तु रूप- मेवोक्तम्
favoriteः पुत्रो जनन्या और्ध्वदेहिकम् । तदभावे सपत्नीजः क्षेत्रजाद्यास्तथा स्मृताः ॥ तेषामभावे तु पतिस्तदभावे सपिण्डकाः ॥ इति । परम्यभावेऽविभक्तस्य सोदरः पूर्वलिखित शङ्खवचनात् । वि- भक्तस्य दुहिता धनहारित्वात् । सा तूंढैवाधिकारिणी न खनूढा । दुहिता पुत्रवत्कुर्यान्मातापित्रोस्तु संस्कृता ।
आशौचमुदकं पिण्डमेकोद्दिष्टं सदा तयोः ॥
इति भारद्वाजोक्तेः । तदभावे दौहित्रः धनहारित्वात् । तथा च मदनरत्ने –
स्मृति,
पुत्रः कुर्यात्पितुः श्राद्धं पत्नी च तदसन्निधौ । धनहार्यथ दौहित्रस्तभ्राता वाथ तत्सुतः ॥ इति ।
स्कान्देऽपि,
श्राद्धं मातामहानां तु अवश्यं धनहारिणा । दौहित्रेणार्थनिष्कृयें कर्त्तव्यं पूर्वमुत्तरम् ॥ इति ।
इति माधवीये सुमन्तुवाक्याच्च । यज्ञेषु कर्म पत्नी कुर्याद्यथा नृप ! \।
दहिकं कर्म कुर्यात्सा धर्मसंस्कृता ॥
इति मदनरने स्कान्दात् इत्यधिकं पुस्तका० :________________
१६
श्राद्धचन्द्रिकायाम्-
एतेन पुत्रीकृत एव दौहित्रोऽधिकारीति (१) केषां चिन्मत- मपास्तम् \।
अधनहारिणोऽप्यधिकारोऽपरार्के -
भविष्ये,
यथा व्रतस्थोऽपि सुतः पितुः कुर्यात्क्रियां नृप ! \। ratri nararti ! दौहित्रोऽपि तथार्हति ॥ इति । ततः पिता । ततो माता-
उत्सन्नवान्धवं प्रेतं पिता भ्राताथवाग्रजः ।
जननी वापि संस्कुर्यान्महदनोऽन्यथा भवेत् ॥
इति सुमन्तुकेः । इहाथशब्दादेरभावात्क्रमो न विवक्षितः । सन्निधौ दूरे वाधिकारिणि बौधायनः,
पित्रा श्राद्धं न कर्तव्यं पुत्राणां च कथञ्चन । भ्रात्रा चैव न कर्त्तव्यं भ्रातॄणां च कनीयसाम् \।\। यदि स्नेहेन कुर्याता मपिण्डीकरणं विना ।
गयायां तु
विशेषेण उपायानपि समाचरेत् ॥ इति ।
द्वैतनिर्णये स्मृतिस-
पत्नी भ्राता च तत्पुत्रः पिता माता स्नुषा तथा । भगिनी भागिनेयश्च सपिण्डः सोदकस्तथा ॥ अभिधाने पूर्वेषामुतरे पिण्डदाः स्मृताः । इति । स्त्री शूद्वैः श्राद्धममन्त्रकं कार्यम् ।
स्त्रीणाममन्त्रकं श्राद्धं तथा शूद्रासुतस्य च । प्राग्दिनाथ व्रतादेशात्ते च कुर्युस्तथैव तत् ॥
इति हेमाद्रिधृतमारीचात् ।
अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः । अमन्त्रस्य तु शुद्रस्य विप्रो मन्त्रेण गृह्यते ॥
इति ब्राह्मोक्तेश्व \। गृह्यते = संयुज्यते । यत्तु " प्राग्दिनाथ
(१) देवाहिकादीनाम् ।________________
श्राड योग्या ब्राह्मणां ।
१७
व्रतादेशात्” इति तदकृतचूडविषयम् । शूद्रस्य सदामश्राद्धमेव न
पक्कान्नश्राद्धम् ।
सदा चैव तु शूद्राणामामश्राद्धं विधीयते (१) । इति सुमन्तुक्तेः । पृथ्वी चन्द्रोदये विशेषपाह वृद्धपराशरः,
आमानेन तु शूद्रस्य तूष्णीं च द्विजपूजनम् । कृत्वा श्राद्धं तु निर्वाप्य सजातीनाशयेदथ \।\। इति दिकू ।
इति श्रीभारद्वाज महादेव भट्टात्मज दिवाकर भट्टविरचितायां चन्द्रिकायामधिकारिनिर्णयः ।
अथ श्राद्वयोग्या ब्राह्मणाः ।
तत्रादौ ब्राह्मणप्रशंसामाह-
हेमाद्रौ भविष्यपुराणे,
मनुः
ब्राह्मणा देवतं भूमौ ब्राह्मणा दिवि दैवतम् । ब्राह्मणेभ्यः परं नास्ति भूतं किञ्चिज्जगत्रये ॥ येषां प्रसादात्सुलभमायुर्धर्मः सुखं धनम् । श्रीशः स्वर्गवासश्च तान्विमानर्चयेद्बुधः ॥
वेदविद्याव्रतस्त्रातान् श्रोत्रियान्गृहमेधिनः । पूजयेद्धव्यकव्येन विपरीतांस्तु वर्जयेत् ॥ गृहमेधिनो गृहस्थाः । श्रोत्रियलक्षणम्-
( १ ) अत्र–
न पक्वं भोजयेद्विप्रान् लच्छूद्रोऽपि कदाचन । भोजयन् प्रत्यवायी स्यान्न च तस्य फलं भवेत ॥ इत्याधकं पुस्तकान्तरे ।
३ श्रा० चं०________________
१८
ब्रह्मवैवर्ते,
श्रीचन्द्रिकायाम्-
जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया चापि विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥ इति ।
स एव,
यज्ञेन भोजयेच्छ्राद्धे बहूट्टचं वेदपारगम् । शाखान्तगमथाध्वर्यु छन्दोगं वा समाप्तिगम् ॥ एषामन्यतमो यस्य भुञ्जीत श्राद्धमचितः । पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरूषी \।\। इति ।
कौमे-
असमानप्रवरको सगोत्रस्तथैव च । असम्बन्धी च विज्ञेयो ब्राह्मणः श्राद्धसिद्धये ॥
गारुड़े-
श्राद्धेषु विनियोज्यास्ते ब्राह्मणा ब्रह्मवित्तमाः । ये योनि गोत्रमन्त्रान्तेवासि सम्बन्धवर्जिताः ॥
शातातपः-
भोजयेद्यथर्वाणं देवे पश्येव कर्माणि । अनन्तमक्षयं चैव फलं तस्येति वै श्रुतिः ॥
ब्रह्मवैव-
विमान्गृहस्थावेदार्थविदो निरभिमानिनः । पक्षीपुत्रमायुक्तान् श्राद्धकर्माणि योजयेत् ॥ इति ।
हमाद्री गायी,
अथ मध्यमाः ।
गोत्रे इविर्दद्याद्यथा कन्या तथा हविः । aria न्यगोत्राणामेकगोत्रांस्तु भोजयेत् ॥ अपराभावे समानप्रवरानपि ॥
मनु–
मातामहं मातुकं च स्वस्रीयं श्वशुरं गुरुम् । दौहित्रं विपति बन्धुमृत्विम्याज्यांश्च भोजयेत् ॥________________
मारणे,
श्राद्धे निषिद्रा ब्राह्मणाः ।
१९
भोजयेच्चापि दौहित्रं भवतः श्वशुरं गुरुम् । विपतिं मातुलं बन्धुवृत्विगाचार्यशालकान \।\। विपतिर्जामातेति हेमाद्रिः । अतिथिरिति मेघा तिथिमाधव । बन्धुः मातृष्वसृपितृष्वसृमातुलपुत्रः ।
एवं पित्रोरपि ।
गौतमः –शिष्यांचैके सगोत्रांश्च भोजयेदू त्रिभ्यो
गुणवतः ।
वेबलः-
अज्ञातीनसमानार्षानयुग्मानात्मवशक्तितः ।
भोजयेदिति शेषः ।
अत्रि :-
पिता पितामह भ्राता पुत्र वाथ सर्पिण्डकः । न परस्परपः स्युर्न श्राद्धे ऋत्रिजस्तथा ॥ ऋत्विक्पुत्रादयोऽप्येते सकुल्या ब्राह्मणाः स्मृताः । वैश्यदेवे नियोक्तव्या यथेते. गुणवत्तराः ॥ इति । अथ निषिद्धाः ।
वायुपुराणे-
मनुः-
न भोजयेदेक गोत्रान्समानमवस्तथा । इति ।
न मित्रं भोजयेच्छ्राद्धे घनैः कार्योऽस्य सङ्ग्रहः । नारिं न मित्रं यं विद्यातं तु श्राद्धे निमन्त्रयेत् ॥ जातूकर्ण्यः–
पितृपुत्र तरौ द्वौ निर िगुर्विणीपतिम् । सगोत्रप्रवरं चैव श्राद्धेषु परिवर्जयेत् ॥
मरीचिः–
अविद्धकर्णः कृष्णश्च लम्बकर्णस्तथैव च । वर्जनीयाः प्रयत्नेन ब्राह्मणाः श्राद्धकर्माणि ॥________________
२०
श्राद्धचन्द्रिकायाम्-
लम्बकर्णलक्षणमाह-
गोभिला,
हनुमूलादधः कर्णौ लम्बों तु परिकीर्तितौ ।
बड़गुलौ
ब्राह्मे-
गुलौं शस्ताविति शातातपोऽब्रवीत् ॥ !
भोक्तुं श्राद्धे च नार्हन्ति दैवोपहतचेतसः । षण्टो मूकश्च कुनख खखाटो दन्तरोगवान् ॥ यावदन्तः पूतिनास छिनाङ्गवाधिकाङ्गुलिः \। गलरोगी च गडमान् स्फुटिताङ्गश्च सज्वरः ॥ खनूपुरमण्ठाश्च (१) ये चान्ये दीनरूपिणः ।
खल्वाटः केशरहितः । पृतिना सोऽक्षिरोगी । गडुमान् कुब्जः । खञ्जःकुण्ठः । नूपुरो=यौवने श्मश्रुरहितः । स्कान्दे-
काणाः कुण्ठा इत्युपक्रम्य
एतान्विवर्जयेत्माज्ञः श्राद्धेषु श्रोत्रियानपि । इति (२) ।
नन्दिपुराणे -
ब्रह्मज्ञानोपदेशेन ये कुर्वन्यशुभं महत् । सर्वकर्मसु वयस्तै चाण्डाला द्विजरूपिणः ॥
कालिकापुराणे-
अनाश्रमी तु यो विप्रो जटी मुण्डी वृथा च यः । वृकापायचारी यः श्राद्धे तं दूरतस्त्यजेत् ॥
सौरपुराणे,
अङ्गवङ्गकलिङ्गांश्च सौराष्ट्रान्गुर्जरांस्तथा । आमीरान् क्रोङ्कणांश्चैव द्राविडान्दक्षिणायनान् ॥
(१) मण्ठायक्रजङ्घाः ।
(२) एतान् विवर्जयेद्विप्रान् प्रातः आद्वेषवश्रोत्रियान् । इति
पाठा आमचे ।________________
श्राद्धे प्राद्यपदार्थाः ।
आवन्स्यान्मागचांचैव ब्राह्मणांस्तु विवर्जयेत् । कचित्तमवमाह मेनुः,
न ब्राह्मणान परीक्षेत दैवे कर्मणि धर्मवित \। पित्र्ये कर्मणि तु प्राप्ते परक्षेित प्रयत्नतः ॥
पद्मपुराणे,
तीर्थेषु ब्राह्मणाचैव परक्षित कदाचन । अन्नार्थिनमनुप्राप्तं भोजयेन्मनुशासनात् ॥
विष्णुधर्मोत्तरे –
अन्नदानेन कर्त्तव्यं पानावेक्षणमण्यपि । अनं सर्वत्र दातव्यं धर्मकामेन वै द्विज ! ॥ परीक्षाकारो मनुस्मृती,
घमः-
शीलं संवत्सराज्ज्ञेयं शौचं सद्व्यवहारतः ।
२१
प्रज्ञा सङ्कथनाज्ज्ञेया त्रिभिर्विमं परीक्षयेत् ॥ इति दिक् ॥ अथ श्राद्धे ग्राह्यपदार्थाः ।
।
समूलस्तु भवेद्दर्भः पितॄणां श्राद्धकर्मणि । मूलेन कोकान् जयति शक्रस्य सुमहात्मनः ॥ इति ।
ब्रह्मपुराणे–
हरिताश्च सपिज्जूला स्निग्धाः पुष्टाः समाहिताः । गोकर्णमात्रास्तु कुशाः सकृच्छिन्नाः समूलकाः ॥ सपिञ्जलाः अपृथक्कृतदकाः । समाहिता निर्दोषाः । गोकर्णमा=अनामिकाविस्तारदीर्घाः । दर्भ सङ्ग्रह कालस्तु
प्रदर्शितः तिथ्यर्के ।
हेमानी पाद्मे–
अनं च सदधिक्षीरं गोघृतं शर्करान्वितम् ।
मासं प्रीणाति वै सर्वाम्पितॄनित्यब्रवीदजः ॥________________
२२
सुमन्तुरपि—
श्राचन्द्रिकायाम्-
यो दधि घृतं चैव गवां श्राद्धेषु पावनम् । महिषीणां घृतं प्राहुः श्रेष्ठं न तु पयः कचित् ॥
देवीपुराणे–
सर्वेषामेव चाणानां परमानं च पायसम् । सर्वान्नदः स तु प्रोक्तो येन दत्तं तु पायसम् ॥
सौरपुराणे–
विविधं पायसं दद्याद्भक्ष्याणि विविधानि च । इति ।
प्रचेताः–
कृष्णमापास्ति लाचैव श्रेष्ठाः स्युर्यवशालपः । (१) महायवा व्रीहियवास्तथैव च मधूलिकाः \।\। कृष्णाः श्वेताश्च लोहाच ग्राह्याः स्युः श्राद्धकर्मणि । " मधुलिका यावनाला" इति हेमाद्रिः ।
अत्रिः-
तैलपकान्नरहितं सुद्द्रमाषविवर्जितम् । गोधूमं च यच्छ्राद्धं कृतमप्यकृतं भवेत् ॥
ब्राह्मे –
गोधूमचणस्तथा ।
सन्तर्पयेत्पितृन्मुङ्गैः श्यामाकैः सर्वपद्रवैः ॥
नीवारैरश्यामाकैः प्रियङ्गुभिरथार्चयेत् ।
प्रियङ्गुः \। सर्वपा=गौरसर्षपाः । मार्कण्डेयः-
गोधूमैरिक्षुभिः सतीश्चणकैरपि । श्राद्धेषु दत्तेः प्रीयन्ते मासमेकं पितामहाः ॥ सतीनैःकायैः ।
(१) महायवेणुबीजानि ।________________
वायुपुराणे–
श्रद्धे व पदार्थाः ।
भक्ष्यान्वक्ष्ये करम्भं च वटका घृतपूरिकाः । कुसरं मधुसर्पिश्च पयः पायसमेव च ॥ ferreमुष्णं च यो दद्यादशिष्टोमफलं लभेत । मदनरने कौमें–
कालशाकं च वास्तू मूलकं कृष्णनालिका \। प्रशस्तानीतिशेषः ।
आदित्यपुराणे-
मधुकं राम चैव कर्पूरं मरिचं गुडम् \। श्राद्धकर्माणि शतानि सैन्धवं त्रपु तथा ॥ रामहिः । श्रसमम्लदधि ।
वायुपुराणे-
(१) कालशाकं महाशाकं द्रोणशाकं तथार्द्रकम् ।
विश्वामलकमृद्धीकापनसाम्रातदाडिमम् ॥ चव्यं पालिताक्षोटखर्जूरं च कसेरुकम् । कोविदारथ कन्दश्च पटोलं बृहतीफलम् ॥ पिप्पली मरिचं चैव एला शुण्ठी च सैन्धवम् । गुडकरचदरीद्रोणपत्रकम् ॥ इति ।
काष्र्णाजिनिः,
यदिष्टं जीवतश्चासीत्तदद्यात्तस्य यत्नतः ।
तृप्तो दुस्तरं मार्गे ततो याति न संशयः ॥ अथ वर्ण्यपदार्थाः ।
वायुपुराणे-
अकृताय धान्यजातं वै परिपाटला : (२) ।
३३
(१) कालशाकं कालिका । आम्रातः अंबाडा इति प्रसिद्धो वृक्ष. विशेषः तत्फलम् । चव्यं=चाम इति प्रसिद्धम् । पालिवतं = जम्बीरम् \। अक्षोदा=अखरोट इति प्रसिद्धः । कन्दः=सूरणः ।
(२) परिपाटला स्थूला राजमाषाः ।
]