[[१५।१]]
नाचार्यगौरवपराहतदायभागतत्त्वप्रबोधजनरञ्जनम् अत्र शक्यम् ।
किं तु प्रमाणपरतन्त्रधियां मुनीनां संवादमात्रकृतये कृतिनः प्रयत्नः ।
[[१५।२]]
बहुविधपूर्वनिबन्धृव्याख्यासंजातसंशयस्यैतत् ।
जीमूतवाहनकृतं प्रकरणम् अपनुत्तये ध्येयम् ॥
[[१५।३]] इति पारिभद्रीयमहामहोपाध्यायश्रीजीमूतवाहनकृते धर्मरत्ने दायभागः समाप्तः ।