[[१४।१]] अथ वृत्तविभागसंदेहनिर्णयः । तत्र नारदः ।
विभागधर्मसंदेहे दायादानां विनिर्णयः ।
ज्ञातिभिर् भागलेक्येन पृथक्कार्यप्रवर्तनात् ॥ [न् १३।३६]
[[१४।२]] ज्ञातीनां कीर्तनं तेषु सत्सु नान्यसाक्षिग्रहणम् इत्य् एतदर्थम् । अत एव याज्ञवल्क्यः ।
विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः ।
विभागभावना ज्ञेया गृहक्षेत्रैश् च यौतकैः ॥ [य् २।१४९]
[[१४।३]] प्रथमं ज्ञातयः सपिण्डाः साक्षिणः । तदभावे बन्धुपओपनीताः संबन्धिनः । तदभावे उदासीना अपि साक्षिणः । तुल्यवद्भावे साक्षिपदेनैवोपात्तत्वात् । ज्ञातिबन्धुप्दानर्थकतापत्तेः । [[१४।४]] अत एव शङ्खः ।
गोत्रभागविभागार्थे संदेहे समुपस्थिते ।
गोत्रजैश् चापरिज्ञाते कुलं साक्षित्वम् अर्हति ॥ [श्ल् २८०]
गोत्रजैर् ज्ञातिभिर् इत्य् अर्थः । तैर् अज्ञाते बन्धुः साक्षित्वम् अर्हति । न पुनर् असंबन्धी । तेनाप्य् अपरिज्ञाते ऽन्यः साक्षीत्य् अर्थः ।
[[१४।५]] अत एव मुख्यभूता ज्ञातय एव नारदेन निर्दिष्टाः । ज्ञातृभिर् इति पाठो ऽनाकरः ।
[[१४।६]] तथा लिखितेन वा निर्णयः । लिखितं तु साक्षिभ्यो बलवद् एवेत्य् उक्तम् ।
[[१४।७]] तथा पृथक्कार्यप्रवर्तनाद् अपि निर्णयः । यहोक्तं नारदेन ।
दानग्रहणपश्वन्नगृहक्षेत्रपरिग्रहाः ।
विभक्तानां पृथग् ज्ञेयाः पाकधर्मागमव्ययाः ॥ [न् १३।३८]
साक्षित्वं प्रातिभाव्यं च दानं ग्रहणम् एव च ।
विभक्ता भ्रातरः कुर्युर् नाविभक्ताः परस्परम् ॥ [न् १३।३९]
येषाम् एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थितः ।
विभक्तान् अवगच्छेयुर् लेख्यम् अप्य् अन्तरेण तान् ॥ [न् १३।४०]
[[१४।८]] तथा बृहस्पतिः ।
साहसं स्थावरं न्यासः प्राग्विभागश् च रिक्थिनाम् ।
अनुमानेन विज्ञेयं न स्यातां पत्रसाक्षिणौ ॥ [ब् २६।१४३]
बलानुबन्धव्याघातं होढं साहसभावकम् ।
स्वस्य भोगः स्थावरस्य विभागस्य पृथग्धनम् ॥ [ब् २६।१४६]
पृथगायव्ययधनाः कुसीदं च परस्परम् ।
वणिक्पथं च ये कुर्युर् विभक्तास् ते न संशयः ॥ [ब् २६।१४७]
[[१४।९]] एको भ्राता ददात्य् अपरश् च गृह्णाति । गृहादिकम् आयव्ययस्थितिश् च पृथक् पृथक् । एकेन ऋणादिषु क्रियमाणेष्व् अपरः साक्षी प्रतिभूर् वा क्रियते । परस्परं वा ऋणादिव्यवहारः । एको यत् किंचिद् द्रव्यम् अन्यतः क्रीत्वा वाणिज्यार्थं भ्रातरि विक्रीणीते । एवमादिका एकैकापि क्रिया परस्परविभक्तानाम् एव संभवति । तया विभागानुमानं विद्वद्भिर् अनुसंधेयम् ।
[[१४।१०]] न च येषाम् एताः क्रिया इत्य् एतच्छब्देन बह्वीनाम् उपादानान् मलितानाम् एव गमकत्वं वाच्यम् । न्यायमूलत्वाद् वचनानाम् । एकैकत्रापि च न्यायस्याविशेषात् ।
[[१४।११]] न स्यातां पत्रसाक्षिणाव् इत्य् अनेन पत्रसाक्षिणोर् अभावे ऽनुमानम् अनुसरणीयम् इत्य् उक्तम् ।