१३

[[१३।१]] अथ विभागकाले निह्नुतस्य पश्चाद् अवगतस्य विभागः । तत्र मनुः ।

ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि ।
पश्चाद् दृश्यते यत् किंचित् तत् सर्वं समतां नयेत् ॥ [म् ९।२१८]

[[१३।२]] पूर्वं यथा यस्य भागकल्पना कृता तत्समानैव कार्या । न पुनर् अपहर्तुर् अपहर्तृतयाल्पभागो दातव्यो न दातव्य एव वेति समतां नयेद् इति शब्दस्यार्थः । न पुनस् तत्र द्रव्ये सर्वेषां समभागार्थं वचनम् विंशोद्धारादिबाधे हेत्वभावात् । ब्राह्मणक्षत्रियादीनां च समभागतापत्तेः ।

[[१३।३]] तथा याज्ञवल्क्यः ।

अन्योन्यापहृतं द्रव्यं विभक्तैर् यत्र दृश्यते ।
तत् पुनस् ते समैर् अंशैर् विभजेरन्न् इति स्थितिः ॥ [य् २।१२६]

[[१३।४]] तथा कात्यायनः ।

प्रच्छादितं तु यद् येन पुनर् आगत्य तत् समम् ।
भजेरन् भ्रातृभिः सार्धम् अभावे ऽपि पितुः सुताः ॥ [क् ८८५]

अन्योन्यापहृतं द्रव्यं दुर्विभक्तं च यद् भवेत् ।
पश्चात् प्राप्तं विभज्येत समभागेन तद् भृगुः ॥ [क् ८८६]

[[१३।५]] असम्यग्विभक्तस्यापि पुनर्विभागं दर्शयति । सकृद् अंशो निपततीति सम्यग्विभागविषयम् । [[१३।६]] पश्चात्प्राप्तम् इति न पूर्वविभक्तम् अपि विभजनीयम् इत्य् अर्थः । [[१३।७]] तथा कात्यायनः ।

बन्धुनापहृतं द्रव्यं बलान् नैव प्रदापयेत् ।
बन्धूनाम् अविभक्तानां भोगं नैव प्रदापयेत् ॥ [क् ८८८]

सामादिना दाप्यो न बलात् । अविभक्तेन च यद् अधिकं भुक्तं तद् असौ न दाप्यः ।

[[१३।८]] अत्र च साधारणधने परधनम् अप्य् अस्तीति तन्निह्नवे स्तेन एव भवति किल्बिषी चेति ये मन्यन्ते तान् प्रत्य् उच्यते — य एव हि परस्येदम् इति विशेषेण जानानः परस्वे स्वत्वहेतुम् अन्तरेणैव स्वत्वम् आरोपयति स स्तेन इति लोकप्रसिद्धो ऽर्थः। न चात्रेदं परकीयम् इदं वा ममेति विवेक्तुं शक्नोति द्रव्यस्याविभक्तत्वात् ।

यथा यद् एव हि ममेदम् इति विशेषेण जानानः परस्वत्वापत्तये स्वामी त्यजति परश् च विशेषणेदं ममेति स्वत्वं प्रत्येति तत्रैव दाननिष्पत्तिः । न च साधारणधने तथा संभवतीति साधारणधनम् अदेयम् उक्तम् । तथा स्तेयम् अपि नैतन् मम धनं परस्येदम् इति जानत एव भवतीति न साधारणधनस्यापहारे स्तेयनिष्पत्तिः ।

[[१३।९]] अपरारपदं तु संगोपनाभिप्रायम् । न च संगोपनम् एव स्तेयम् । असंगुप्तहरणे ऽपि स्तेयप्रयोगदर्शनात् । तथा कात्यायनः ।

प्रच्छन्नं वा प्रकाशं वा निशायाम् अथ वा दिवा ।
यत् परद्रव्यहरणम् स्तेयं तत् परिकीर्तितम् ॥ [क् ८१०]

अत एव राज्ञा बलान् न दाप्य इति पूर्वम् उक्तम् । चौरत्वे तु –

चौरं प्रदाप्यापाहृतं घातयेद् विविधैर् वधैः । [य् २।२७०अब्]

इति वचनाद् आस्तां सामादिना दापनं घातनम् अपि कार्यम् ।

[[१३।१०]] एतच् च मुनिभिर् अपहर्तुर् अपि विभागदानप्रतिदानाद् उन्नीयते । [[१३।११]] तद् उक्तं विश्वरूपेणापि — अतस् तस्करदोषो नास्ति वचनारम्भसामर्थ्यात् । स्तेयधात्वर्थानिष्पत्तेर् इत्य् अभिप्रायः ।

[[१३।१२]] अत एव प्रायश्चित्तकाण्डे जितेन्द्रियेण भणितम् — यदि सुवर्णम् एव परकीयं लौहादिबुद्ध्या गृह्णात्य् असुवर्णम् एव सुवर्णबुद्ध्या आत्मीयसदृशं वा परकीयम् एवात्मीयबुद्ध्या गृह्णाति सर्वत्र नापहारनिष्पत्तिः । सर्वत्र यथावस्तु परकीयबुद्धेर् अभावात् ।

तद्वद् अत्रापि समानम् । विभागात् पूर्वं तद्व्यङ्ग्यैकदेशविशेषगतस्वत्वस्यापरिज्ञानात् । अतो नात्र स्तेयनिष्पत्तिः ।

[[१३।१३]] सत्य् अपि वा स्तेये ऽपहर्तुर् अपि विभागवचनदर्शनान् न स्तेयदोषः । अन्यथा सुवर्णादिनिह्नवे पतितस्य भागो न स्यात् ।

[[१३।१४]] अथ पातकहेतुसुवर्णापहारे ऽपि स्तेनस्य भाग इति विशेषवचनाभावाद् द्रव्यान्तरस्तेयविषयो भागविधिर् वर्ण्यते । एवं तर्हि सुवर्णादिस्तेयनिषेध एव किम् इत्य् असाधारणपरकीयमात्रद्रव्यगोचरो न व्यवस्थाप्यते । तथापि किं विनिगमनाप्रमाणम् इति चेत्,

उच्यते — परद्रव्यहरणं स्तेयम् इति परशब्दाद् आत्मीयत्वव्यवच्छेदेनैव परकीयत्वस्यावगमात् साधारणासाधारणयोश् चासाधारणस्यैव शीघ्रप्रतीतेः । यथेष्टपूर्वकम् एवादः पौर्णमासं हविर् इत्य् अग्नीषोमीयपुरोडाशस्यैवोत्कर्षो नोपांशुयाजी । याज्यस्याग्नीषोमीयान् अग्नीषोमीयस्य साधारणत्वात् । [[१३।१५]] अत एव लोके ऽपि नैवंविधविषये क्वचिद् विनिगमनादिकं दृश्यते ।

[[१३।१६]] अतो यद् बालकवचनम् — यथा मुद्गापचारे माषप्रतिनिधौ मुद्गानां माषाणां च यज्ञसंबन्धे ऽयज्ञिया वै माषा इति माषा निषिद्धास् तथात्मीयान् आत्मीयहरणे ऽप्य् अनात्मीयापहारो निषिद्ध इति ।

तद् बालकवचनम् एव । पूर्व्व्याहृतस्य स्तेयपदार्थस्यैवाभावात् । माषगतमुद्गावयवोपादाने तु माषाणां यज्ञसंबन्धो नास्तीति न शक्यते वक्तुम् । माषामिश्रितानाम् एव यज्ञसंबन्धप्रतीतेः ।

[[१३।१७]] इत्य् अन्योन्यापहृतविभागः ।