[[१२।१]] अथ संसृष्टधनविभागः । तत्र मनु-विष्णू ।
विभक्ताः सह जीवन्तो विभजेरन् पुनर् यदि ।
समस् तत्र विभागः स्याज् ज्यैष्ठ्यं तत्र न विद्यते ॥ [म् ९।२१० = वि १८।४१]
[[१२।२]] समस् तत्रेति सवर्णभ्रातृसंसर्गाभिप्रायेण । ब्राह्मणक्षत्रिययोस् तु संसर्गे पूर्वकॢप्तभागानुसारेणैव भागव्यवस्था बोद्धव्या । पूर्वकॢप्तज्येष्ठांशनिषेधमात्रपरं हि समवचनम् । अत एव बृहस्पतिः ।
विभक्ता भ्रातरो ये तु संप्रीत्यैकत्र संस्थिताः ।
पुनर् विभागकरणे तेषां ज्यैष्ठ्यं न विद्यते ॥ [ब् २६।१०६च्देफ़्]
इत्य् ज्येष्ठांशमात्रं निषेधयति न तु भागसाम्यम् अपि बोधयति ।
[[१२।३]] संसर्गिनश् च बृहस्पत्युक्ताः ।
विभक्तो यः पुनः पित्रा भ्रात्रा चैकत्र संस्थितः ।
पितृव्येणाथ वा प्रीत्या स तु संसृष्ट उच्यते ॥ [ब् २६।११३]
[[१२।४]] इति परिगणितव्यतिरिक्तेषु संसर्गकृतो विशेषो नादरणीयः परिगणनानर्थक्यात् । [[१२।५]] अपरे तु विशेषा भ्रात्रधिकारनिरूपणप्रकरणोक्ता अनुसरणीयाः ।
[[१२।६]] इति संसृष्टविभागः ।