०१
[[११।१।१]] अथापुत्रस्य मृतस्य धने परस्परविरुद्धवचनदर्शनाद् व्याख्यातारो विवदन्ते । [[११।१।२]] तथा बृहस्पतिः।
आम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः ।
शरीरार्धं स्मृता जाया पुण्यापुण्यफले समा ॥ [ब् २६।९२]
यस्य नोपरता भार्या देहार्धं तस्य जीवति ।
जीवत्य् अर्धशरीरे ऽर्थं कथम् अन्यः समाप्नुयत् ॥ [२६।९३]
सकुल्यैर् विद्यमानैस् तु पितृमातृसनाभिभिः ।
अपुत्रस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥ [ब् २६।९४]
पूर्वप्रमीताग्निहोत्रं मृते भर्तरि तद्धनम् ।
विन्देत् पतिव्रता नारी धर्म एष सनातनः ॥ [ब् २६।९५]
जङ्गमं स्थावरं हेम कुप्यं धान्यं रसाम्बरम् ।
आदाय दापयेच् छ्राद्धं मासषान्मासिकादिकम् ॥ [ब् २६।९६]
पितृव्यगुरुदौहित्रान् भतुः स्वस्रीयमातुलान् ।
पूजयेत् कव्यपूर्ताभ्यां वृद्धान् अथातिथीन् स्त्रियः ॥ [ब् २६।९८]
तत्सपिण्डा बान्धवा वा ये तस्याः परिपन्थिनः ।
हिंस्युर् धनानि तान् राजा चौरदण्डेन शासयेत् ॥ [ब् २६।१०५]
[[११।१।३]] तद् एतैः सप्तवचनैर् अपुत्रस्य मृतस्य यद् यावद् धनं स्थावरजङ्गमहेमादिकं भर्तुस् तत् सर्वं सोदरभ्रातृपितृव्यदौहित्रादिषु सत्स्व् अपि पत्या एवेति । ये तु तद्धनग्रहणे प्रतिपक्षाः स्वयम् एव वा गृह्णन्ति ते चौरवद् दण्डनीया इति ब्रुवाणो बृहस्पतिः पत्नीसद्भावे पितृभ्रातृप्रभृतीनां धनाधिकारं सुदूरं निरस्यति ।
[[११।१।४]] तथा च याज्ञवल्क्यः ।
पत्नी दुहितरश् चैव पितरौ भ्रातरस् तथा ।
तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥ [य् २।१३५]
एषाम् अभावे पूर्वस्य धनभाग् उत्तरोत्तरः ।
स्वर्यातस्य ह्य् अपुत्रस्य सर्ववर्णेष्व् अयं विधिः ॥ [य् २।१३६]
अनेन पूर्वपूर्वस्याभावे परपरस्याधिकारं वदन् सर्वेभ्यः पूर्वं पत्न्या एव धनाधिकारम् अभिधत्ते ।
[[११।१।५]] तथा विष्णुः: “अपुत्रधनं पत्न्यभिगामि । तदभावे दुहितृगामि । तदभावे पितृगामि । तदभावे मातृगामि । तदभावे भ्रातृगामि । तदभावे भ्रातृपुत्रगामि । तदभावे सकुल्यगामि । तदभावे बन्धुगामि । तदभावे शिष्यगामि । तदभावे सहाध्यायिगामि । तदभावे ब्राह्मणधनवर्जं राजगामि” [वि १७।४–१३] । अनेनापि क्रमपरेण प्रथमं पत्न्या एव धनाधिकारो निरूपितः ।
न च वर्तनोपयुक्तधनमात्राधिकारार्थं पत्नीवचनं वाच्यम् । सकृच्छ्रुतधनपदस्य पत्न्यपेक्षम् अकृत्स्नपरत्वं च भ्रात्राद्यपेक्षम् इति तात्पर्यभेदस्यान्याय्यत्वात् । अतः कृत्स्नधनगोचर एव पत्न्यधिकारो वाच्यः । [[११।१।७]] तथा वृद्धमनुः ।
अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
पत्न्य् एव दद्यात् तत्पिण्डं कृत्स्नम् अंशं लभेत च ॥ [व्म् ९२]
[[११।१।८]] तत्पिण्डम् इत्य् अतस् तद् इत्य् अनुषज्यते । तच्छब्देन भर्तुः परामर्शाद् भर्तुः कृत्स्नम् अंशं पत्नी लभेत न तु स्वांशं कृत्स्नम् इत्य् अर्थः । कृत्स्नस्वांशोद्देशेन लभेतेति विधानानुपपत्तेः स्वामिभावज्ञापनार्थत्वाद् अस्य । न च स्वांशे स्वामिभावज्ञापनम् अर्हति स्वांशज्ञापनेनैव ज्ञातत्वात् ।
[[११।१।९]] न च ग्रहणविधानार्थं तद् इति वाच्यम् । स्वधनग्रहणस्य रागाद् एव प्राप्तत्वात् ।
[[११।१।१०]] न च नियमार्थं वचनम् इति वाच्यम् । अदृष्टार्थत्वापत्तेः । नियमे च नियोज्यादिकल्पनम् अपि स्यात् ।
[[११।१।११]] यच् चोक्तम् — न ह्य् अनन्धादिः पुत्रो ऽंशं कृत्स्नं लभेतेत्य् उक्ते पित्र्यं कृत्स्नम् अंशम् इति किं तर्हि कृत्स्नं स्वांशम् इति । तथात्रापि कृत्स्नं स्वांशापेक्षम् इति ।
तन् न । अनन्धादिः पुत्रो ऽंशं कृत्स्नं लभेतेति वचनाभावाद् दृष्टान्तानुपपत्तेः । भवतु वा । तथापि पूर्वोक्तहेतुना स्वांशं लभेतेति विध्यनुपपत्तेः पित्रांशापेक्षम् एव वर्णनं युक्तम् । [[११।१।१२]] अत एव सर्वत्रान्यधन एवान्यसंबन्धज्ञापनं मुनयः कुर्वन्ति । यथा पितृधने पुत्राणाम् अपुत्रधने पत्न्यादीनाम् इत्यादि । न पुनः स्वांशग्रहणे प्रेरयन्ति ।
[[११।१।१३]] यच् च संबन्धिशब्धत्वेन स्वसंबन्ध्युपस्थापकत्वम् । यथा मातेति न परमातावगम्यत इत्य् उक्तम् ।
तद् अप्य् अयुक्तम् । अनुपात्तसंबन्धिविषयत्वात् तस्य । न हि डित्थस्य मातरम् आनयेत्य् उक्ते प्रयोज्यस्य मातावगम्यते प्रयोजकस्य वा । तद्वद् अत्रापि तत्पिण्डम् इति तत्पदोपात्तत्वात् संबन्धिनः कथं पत्न्यप्क्षिता । विधानानुपपत्तिश् च पूर्वम् उक्तैव ।
[[११।१।१४]] तस्मात् कृत्स्नं तदंशग्रहणम् एव पत्न्या वृद्धमनुर् बोधयति ।
[[११।१।१५]] तथा पत्न्यधिकारविपरीतानि वचनानि । यथा शङ्खलिखित-पैठीनसि-यमाः: “अपुत्रस्य स्वर्यातस्य भ्रातृगामि द्रव्यम् । तदभावे पितरौ लभेतां पत्नी वा ज्येष्ठा सगोत्रशिष्यसब्रह्मचारिणः” [श्ल् २९३ = पै ११९] ।
[[११।१।१६]] अत्र भ्रातुर् अभावे पित्रोस् तयोर् अभावे पत्न्यधिकार इति विरोधः ।
[[११।१।१७]] तथा देवलः ।
ततो दायम् अपुत्रस्य विभजेरन् सहोदराः ।
तुल्या दुहितरो वापि ध्रियमाणः पितापि वा ॥ [द् १५७०]
दवर्णा भ्राततो माता भार्या चेति यथाक्रमम् ।
तेषाम् अभावे गृह्णीयुः कुल्यानां सहवासिनः ॥ [द् १५७१]
[[११।१।१८]] अत्र सर्वादौ भ्रातुर् अधिकारः सर्वशेषे च भार्याया इति विरोधः ।
[[११।१।१९]] अत्र केचिद् अविभक्तसंसृटगोचरो भ्रात्रधिकारः प्रथमं विभक्तासंसृष्टगोचरश् च पत्न्यधिकार इति समादधति ।
[[११।१।२०]] तद् बृहस्पतिविरुद्धम् । यद् आह ।
विभक्ता भ्रातरो ये च संप्रीत्यैकत्र संस्थिताः ।
पुनर् विभागकरणे तेषां ज्यैष्ठ्यं न विद्यते ॥ [ब् २६।१०६च्देफ़्]
यदा कश्चित् प्रमीयेत प्रव्रजेद् वा कथंचन ।
न लुप्यते तस्य भागः सोदरस्य विधीयते ॥ [ब् २६।१०७]
या तस्य भगिनी सा तु ततो ऽंशं लब्धुम् अर्हति ।
अनपत्यस्य धर्मो ऽयम् अभार्यापितृकस्य च ॥ [ब् २६।१०८]
संसृष्टानां तु यः कश्चिद् विद्याशौर्यादिना धनम् ।
प्राप्नोति तस्य दातव्यो द्व्यंशः शेषाः समांशिनः ॥ [ब् २६।११२]
[[११।१।२१]] अत्रोपक्रमोपसंहारयोः संसृष्टत्वकीर्तनात् तत्संदंशपथितम्,
न लुप्यते तस्य भागः सोदरस्य विधीयत् । [ब् २६।१०७च्द्]
इति वचनं संसृष्टविषयं वाच्यम् । तत्र,
अनपत्यस्य धर्मो ऽयम् अभार्यापितृकस्य च । [ब् २६।१०८च्द्]
इति पुत्रदुहितृपत्नीपितॄणाम् अभावे संसृष्टस्य सोदरभ्रातुर् अधिकारं बोधयतीति कथं तस्य पत्नीबाधकत्वम् ।
[[११।१।२२]] किं च न लुप्यत इति । अविभक्तत्वे संसृष्टत्वे च भ्रात्रन्तरीयद्रव्यमिश्रीभूतस्य पृथग् अप्रतीतौ लोपाशङ्कायां न लुप्यत इति वचनम् उपपद्यते । विभक्तस्यासंसृष्टस्य तु धने विभक्तत्वप्रीतौ का लोपाशङ्का ।
तस्मात् संसृष्टविषयत्वम् एवामीषां वचनानाम् ।
[[११।१।२३]] किं च् पत्न्यादेः पूर्वं भ्रात्रधिकारज्ञापकशङ्खादिवचनानां संसृष्टभ्रातृविषयत्वं वचनाद् वा न्यायाद् वा । तत्र न तावद् वचनाद् विशेषवचनाभावात् । संसृष्टिनस् तु संसृष्टीत्यादिवचनानां तु भ्रात्रधिकारावसरे विशेषज्ञापनपरत्वेन भ्रात्रधिकारमात्रपरत्वानुपपत्तेः । [[११।१।२४]] अनन्तरोपन्यस्तबृहस्पतिवचनानां च संसृष्टविषयत्वे पुत्रदुहितृपत्नीपितृपर्यन्ताभावे (-पर्यन्तराभावे ?) सोदरभ्रात्रधिकारज्ञापकत्वात् तद्विरुद्धत्वाद् असंसृष्टविषयत्वम् एव तावद् युक्तं न तु संसृष्टविषयत्वम् ।
[[११।१।२५]] अथ न्यायाद् इदम् अभिधीयते । तथा हि संसृष्टत्वे यद् एकस्य भ्रातुर् धनं तद् अपरस्यापि । तत्रैकस्य मरणेन स्वत्वनाशे ऽपि जीवतस् तत्र स्वामित्वानपायात् तस्यैव तद् भवति न तु पत्न्या भर्तृमरणेन पत्नीस्वत्वस्यापि नाशात् । यथा सत्सु पुत्रादिषु न तद्धनं पत्न्या इति ।
[[११।१।२६]] तन् मन्दम् । न हि संसृष्टत्वे ऽपि यद् एवैकस्य तद् अपरस्यापि । किं त्व् अविज्ञातैकदेशविषयम् । तद् द्वयोर् न तु समग्रम् एव । समग्रस्वत्वकल्पनाप्रमाणाभावाद् इत्य् उक्तम् आदाव् एव । परिणयनोत्पन्नं भर्तृधने पत्न्याः स्वामित्वम् । भर्तृमनरान् नश्यतीत्य् अत्र च प्रमाणाभावात् । सति तु पुत्रे तदधिकारशास्त्राद् एव पत्नीस्वत्वनाशो ऽवगम्यते ।
[[११।१।२७]] अत्रापि संसृष्टभ्रात्रधिकारशास्त्रात् तद्विनाशो ऽवगम्यत इति चेन् न संसृष्टभ्रातृगोचरत्वस्याद्याप्य् असिद्धेः । सिद्धे हि भ्रातृसंसृष्टभर्तृमरणेन पत्नीस्वामित्वनाशे भ्रात्रधिकारशास्त्रस्य संसृष्टविषयत्वम् । सति च तद्विषयत्वे शास्त्रस्य पत्नीस्वामित्वनाश इतीतरेतराश्रयत्वम् ।
[[११।१।२८]] किं च शङ्खलिखितादिवचनानाम् अविभक्तसंसृष्टगोचरत्वे ऽविभक्तस्य संसृष्टस्य च धनं तद्विधभ्रातृगामि । तस्य तु तथाविधस्याभावे पितरौ हरेताम् इत्य् अन्वयो वाच्यः ।
तथा च विकल्पनीयम् । किं विभक्तासंसृष्टौ पितरौ गृह्णीयाताम् । उताविभक्तसंसृष्टौ ।
न तत्र प्रथमः कल्पः । पत्नी दुहितरश् चेत्यादिना विभक्तासंसृष्टयोः पित्रोः पत्नीबाध्यत्वा कथं पत्नीतः पूर्वं तयोर् अधिकारः ।
नापि द्वितीयः । अविभक्तसंसृष्टभ्रातृसद्भावे ऽप्य् अविभक्तसंसृष्टपितृग्राह्यत्वस्य सर्वेषाम् अविवादात् ।
[[११।१।२९]] किं च यथा पित्रा भ्रात्रा च विभक्तासंसृष्टधने शरीरदातृतया आत्मा वै जायते पुत्र इत्य् एकत्वश्रुतेर् धनशरीरयोश् च प्रभुत्वात् तत्पितृदेयपितामहप्रपितामहपिण्डद्वये च सपिण्डनेन मृतस्य भोक्तृत्वाज् जीवति च पितरि पुत्राणां पार्वणपिण्डदानाभावात् भ्रातृभ्यः पूर्वं पितुर् अधिकारः तथेतरत्रापि युक्तः ।
अविभागसंसर्गयोर् वाविशेषात् पितृभ्रार्तोस् तुलयवद् अधिकारो युक्तः । न तु भ्रातुर् अभावे पितुर् इति युक्तम् ।
[[११।१।३०]] किं चाविभक्तसंसृष्टौ पितरौ गृह्णीयाताम् इति द्विवचनम् अनुपपन्नम् । मात्रा सह विभागाविभागयोर् अभावात् । अत एव संसर्गाभावो ऽपि । यद् आह बृहस्पतिः ।
विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः ।
पितृवेणाथ वा प्रीत्या स तु संसृष्ट उच्यते ॥ [ब् २६।११३]
अनेनैतद् दर्शयति — येषाम् एव हि पितृभ्रातृपितृव्यादीनां पितृपितामहार्जितद्रव्येणाविभक्तत्वम् उत्पत्तितः संभवति त एव विभक्ताः सन्तः परस्परप्रीत्या यदि पूर्वकृतविभागध्वंसेन यत् तव धनं तन् मम यन् मम धनं तत् तवेति एकगृह एकगृहिरूपतया संस्थिताः ससृज्यन्ते ।
न पुनर् अनेवंरूपाणां द्रव्यसंसर्गमात्रेण संभूय वणिजाम् अपि संसर्गत्वम् । नापि विभक्तानां द्रव्यसंसर्गमात्रेण पूर्वोक्तप्रीतिपूर्वकाभिसंधानं विना । अतः संसर्गित्वाविभक्तत्वयोर् मात्रा सहासंभवात् कथं मातृगतो भ्रातृसद्भावाधिकारविरोधः समाधेयः ।
[[११।१।३१]] संप्रति धीमद्भिः समाधीयते । तत्र विष्ण्वादिवचनेभ्यः पुत्राध्यभावमात्रेण पत्न्यधिकारः स्पष्टम् अवगम्यते । युक्तं चैतद् यन् मृतधनं पुत्रपौत्रप्रपौत्राणाम् एव प्रथमं भवति ।
तथा हि मनु-विष्णू ।
पुन्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः ।
तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयंभुवा ॥ [म् ९।१३८ = वि १५।४४]
तथा हारीतः ।
पुन्नामा निरयः प्रोक्तश् चिन्नतन्तुश् च नैरयः ।
तत्र वै त्रायते यस्मात् तस्मात् पुत्र इति स्मृतः ॥ [ह् ४।१०]
तथा शङ्खलिखितौ ।
पितॄणाम् अनृनो जीवन् दृष्ट्वा पुत्रमुखं पिता ।
स्वर्गीं स तेन जातेन तस्मिन् संन्यस्य तद् ऋणम् ॥ [श्ल् २८५]
अग्निहोत्रं त्रयो वेदा यज्ञाश् च शतदक्षिणाः ।
ज्येष्ठपुत्रप्रसूतस्य कलां नार्हन्ति षोडशीम् ॥ [श्ल् २८४]
अत्र मनु-शङ्ख-विष्णु-वसिष्ठ-हारीताः ।
पुत्रेण लोकान् जयति पौत्रेणानन्त्यम् अश्नुते ।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥
[म् ९।१३७ = श्ल् २८३ = वि १५।४६ = ह् ४।१४]
तथा याज्ञवल्क्यः ।
लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः । [य् १।७८अब्]
&ल्त्;११।१।३२] तद् एवं पुत्रादिभिर् जन्मतः प्रभृति पितुः परलोकोचितमहोपकारनिष्पादनात् मृतस्य तस्य पार्वणविधिना पिण्डदानात् पुत्राद्यर्थं तद्धनं मृतम् एवोपकरोतीति न्यायप्राप्तं पुत्रादीनां स्वामित्वं श्रुतम् ।
तथोपकारकत्वेनैव धनसंबन्धं मनुर् अप्य् आह ।
ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः ।
पितॄणाम् अनृणश् चैव स तस्माल् लब्धुम् अर्हति ॥ [म् ९।१०६]
[[११।१।३३]] तस्माद् इति हेतूपन्यासाद् दायभागप्रकरणे च पुत्रादीनां नानाविधपित्राद्युपकारकत्वकीर्तनस्यानन्यप्रयोजकत्वाद् उपकारकत्वाद् एव धनसंबन्धो मनोर् अनुमत् इति गम्यते । [[११।१।३४]] अत एव पुत्रपदं प्रपौत्रपर्यन्तपरं तत्पर्यन्तानाम् एव पार्वणविधिना पिण्डदानोपकारकत्वस्याविशेषात् । [[११।१।३५]] अन्यथा पुत्रपदस्य स्वार्थत्यागानुपपत्तेः पौत्राधिकारज्ञापकं वचनं कथंचिद् यदि लभ्येतापि प्रपौरस्य न तु पृथग्वचनम् अस्ति । [[११।१।३६]] तस्माद् उपकारकत्वाद् एव प्रपौत्रस्याप्य् अधिकार इति पुत्रपदम् उपलक्षणम् ।
[[११।१।३७]] अत एव बौधायनः: “प्रपितामहः पितामहः पिता स्वयं सोदर्या भ्रातरः सवर्णायां पुत्रः पौत्रः प्रपौत्रः एतान् अविभक्तदायादान् सपिण्डान् आचक्षते । विभक्तदायादान् सकुल्यान् आचक्षते । सत्स्व् अङ्गजेषु तद्गामी ह्य् अर्थो भवति । सपिण्डाभावे सकुल्यः । तदभावे चाचार्यो ऽन्तेवास्य् ऋत्विग् वा हरेत् । तदभावे राजा” [बौ १।५।११।९–१४] ।
[[११।१।३८]] अस्यायम् अर्थः — पित्रादित्रयपिण्डेषु सपिण्डनेन भोक्तृत्वात् पुत्रादिभिस् त्रिभिस् तत्पिण्डस्यैव दानात् यश् च जीवन् यत्पिण्डदाता स मृतः सन् सपिण्डनात् तत्पिण्डभोक्ता ।
एवं च सति मध्यस्थितः पुरुषः पूर्वेषां जीवन् पिण्डदाता मृतस् तत्पिण्डभोक्ता च परेषां जीवतां पिण्डसंप्रदानभूत आसीत् । मृतैश् च तैः सह दौहित्रादिदेयपिण्डभोक्ता ।
अतो येषाम् अयं पिण्डादाता ये वा तत्पिण्डदातारस् ते ऽविभक्तं पिण्डरूपं दायम् अश्नन्तीत्य् अविभक्तदायादाः सपिण्डाः ।\
पञ्चमस्य तु पूर्वस्य मध्यमः पञ्चमो न पिण्डदाता । न च तत्पिण्डभोक्ता । एवम् अधस्तनो ऽपि पञ्चमो न मध्यमस्य पिण्डदाता नापि तत्पिण्डभोक्ता । तेन वृद्धप्रपितामहात् प्रभृति त्रयः पूर्वपुरुषाः प्रतिप्रणप्तुश् च प्रभृत्य् अधस्तनास् त्रयः पुरुषा एकपिण्डभोक्तृत्वाभावाद् विभक्तदायादाः सकुल्या इत्य् आचक्षते ।
[[११।१।३९]] इदं च सपिण्डत्वं सकुल्यत्वं च दायग्रहणार्थ्म् उक्तम् । [[११।१।४०]] अत एव मनुनापि,
न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः । [म् ९।१८५अब्]
इत्य् अभिधाय कुत इत्य् अपेक्षायाम्,
त्रयाणाम् उदकं कार्यं त्रिषु पिण्डः प्रवर्तते ।
चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते ॥ [म् ९।१८६]
इत्य् उक्तम् ।
[[११।१।४१]] अशौचाद्यर्थं तु पिण्डलोपभुजाम् अपि तद्दत्तपिण्डलेपभोक्तृत्वेन सपिण्डत्वं मार्कण्डेयपुराणे निर्दिष्टम् । यथा –
पिण्डलेपभुजश् चान्ये पितामहपितामहात् ।
प्रभृत्य् उक्तास् त्रयस् तेषां यजमानश् च सप्तमः ।
इत्येवं मुनिभिः प्रोक्तः संबन्धः साप्तपौरुषः ॥ [म्पु ३१।४–५अब्]
अशौचकर इत्य् अर्थः । [[११।१।४२]] अत एव मनुनाप्य् उक्तम् अशौचप्रकरणे –
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
समानोदकभावस् तु जन्मनाम्नोर् अवेदने ॥ [म् ५।६०]
अन्यथा त्रयाणाम् इत्य् अनेन विरोधः स्यात् ।
[[११।१।४३]] प्रपौत्रपर्यन्ताभावे तु वैधव्यात् प्रभृति व्रतादिना भर्तुः परलोकहिताचरेणेन पुत्रादिभ्यो जघन्येति तेषाम् अभावे धनाधिकारिणी पत्नी । तद् आह व्यासः ।
मृते भर्तरि साध्वी स्त्री ब्रह्मर्यव्रते स्थिता ।
स्नाता प्रतिदिनं दद्यात् स्वभर्त्रे सलिलाञ्जलीन् ॥ [व्य् २४१]
कुर्याच् चानुदितं भक्त्या देवतानां च पूजनम् ।
विष्णोर् आराधनं चैव कुर्यान् नित्यम् उपोषिता ॥ [व्य् २४२]
दानानि विप्रमुख्येभ्यो दद्यात् पुण्यविवृद्धये ।
उपवासांश् च विविधान् कुर्याच् छास्त्रोदितान् शुभे ॥ [व्य् २४३]
लोकान्तरस्थं भर्तारम् आत्मानं च वरानने ।
तारयत्य् उभयं नारी नित्यं धर्मपरायणा ॥ [व्य् २४४]
[[११।१।४४]] तद् एवमादिभिर् वचनैः पत्न्या अपि नरकनिस्तारकत्वश्रुतेः धनहीनतया वाकार्यं कुर्वती पुण्यापुण्यफलसमत्वेन भर्तारम् अपि पातयतीति तदर्थं तद्धनं पूर्वस्वाम्यर्थम् एव भवतीति युक्तं पत्न्याः स्वाम्यम् ।
[[११।१।४५]] अतः शङ्खादिवचनेषु व्यवहितयोजना कार्या । अपुत्रस्य स्वर्यातस्य धनं ज्येष्ठा पत्नी हरेत् । तदभावे पितरौ हरेताम् । तदभावे भ्रातृगामीति । तदभाव इति मधपठितं पूर्वेण भ्रातृगामीत्य् अनेन परेण च पितरौ हरेताम् इत्य् अनेन संबध्यते अविरोधान् न्यायस्य चोक्तत्वात् ।
[[११।१।४६]] न त्व् अश्रुताविभक्तसंसृष्टगोचरत्वकल्पना । अतो ऽविशेषेणैव विभक्तत्वाद्यनपेक्षयैवापुत्रस्य भर्तुः कृत्स्नधने पत्न्यधिकारो जितेन्द्रियनिगदित आदरणीयः ।
[[११।१।४७]] पत्नीत्वं च प्रथमम् उत्तरवर्णायाः । ज्येष्ठा पत्नीत्यभिधानाद् वर्णक्रमेण ज्येष्ठत्वात् । तद् आह मनुः ।
यदि स्वाश् च पराश् चैव विन्देरन् योषितो द्विजाः ।
तासां वर्णक्रमेणैव ज्यैष्ठ्यं पूजा च वेश्व च ॥ [म् ९।८५]
अतः परिणयनकनिष्ठापि सवर्णा ज्येष्ठैव । तस्या एव यज्ञादिषु व्यापाराधिकारात् पत्नीत्वम् । तथा च मनुः ।
भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम् ।
स्वा चैव कुर्यात् सर्वेषां नान्यजातिः कथंचन ॥ [म् ९।८६]
यस् तु तत् कारेयेन् मोहात् स्वजात्या स्थितयान्यया ।
यथा ब्राह्मणचाण्डालः पूर्वदृष्टस् तथैव सः ॥ [म् ९।८७]
सवर्णायाः पुनर् अभावे ऽनन्तरवर्णा पत्नी । तथा विष्णुः: “सवर्णाया अभावे त्व् अनन्तरयैवापदि । न त्व् एव द्विजः शूद्रया [वि २६।३–४] । धर्मकार्यं कुर्याद् इत्य् अनुवर्तते ।
तेन ब्राह्मणस्य ब्राह्मणी पत्नी तदभावे क्षत्रियाप्य् आपदि न तु परिणीते ऽपि वैश्याशूद्रे । क्षत्रियस्य क्षत्रिया पत्नी तदभावे वाश्याप्य् अनन्तरवर्णत्वान् न तु शूद्रा । वैश्यस्य वैश्यैवैका न त्व् एव द्विजः शूद्रयेति द्विजमात्रस्य शूद्रानिषेधात् ।
[[११।१।४८]] अनेनैव पत्नीभावक्रमेणैव धनाधिकारिता बोद्धव्या । अतः परिणीतस्त्रीणाम् अप्य् अपत्नीत्वात् तदभिप्रायेण नारदवचनम् ।
भ्रातॄणाम् अप्रजः प्रेयात् कश्चिच् चेत् प्रवर्जेद् यदि ।
विभजेरन् धनं तस्य शेषास् ते स्त्रीधनं विना ॥ [न् १३।२५।२४]
भरणं चास्य कुर्वीरन् स्त्रीणाम् आ जीवितक्षयात् ।
रक्षन्ति शय्यां भर्तुश् चेद् आच्छिन्द्युर् इतरासु च ॥ [न् १३।२६।२५]
तथा तस्यैव ।
अन्यत्र ब्राह्मणात् किं तु राजा धर्मपरायणः ।
तत्स्त्रीणां जीवनं दद्याद् एष दायविधिः स्मृतः ॥ [न् १३।५२।४९]
तदीयस्त्रीणाम् अपत्नीनां वर्तनधनदान पत्नीनां पुनः कृत्स्नधनाधिकारितेत्य् अविरोधः । [[११।१।४९]] अत एव बृहस्पतिः ।
ये ऽपुत्राः क्षत्रविट्शूद्राः पत्नीभ्रातृविवर्जिताः ।
तेषां धनं हरेद् राजा सर्वस्याधिपतिर् हि सः ॥ [ब् २६।११९]
पत्न्यभावे राज्ञो धनसंबन्धं दर्शयति । नारदस् तु तत्स्त्रीणां जीवनं दद्याद् इति वर्तनधनं दत्वा राज्ञा सर्वधनं ग्रहीतव्यम् इति यो विरोधः स पत्नीस्त्रियोर् भेदेन समाधेयः ।
अत एव पत्न्यधिकारवचनेषु पत्नीपदानुस्मृतिः । वर्तनवचनेषु च स्त्रीनारीभार्यादिशब्दप्रयोगः ।
[[११।१।५०]] यद् अपि देवलवचनम्:
ततो दायम् अपुत्रस्य विभजेरन् सहोदराः ।
तुल्या दुहितरो वापि ध्रियमानः पितापि वा ॥ [द् १५७०]
सवर्णा भ्रातरो माता भार्या चेति यथाक्रमम् ।
तेषाम् अभावे गृह्णीयुः कुल्यानां सहवासिनः ॥ [द् १५७१]
तुल्याः सवर्णा दुहितरः । सवर्णा भ्रातरः सापत्न्या अभिमताः । सहोदराणां स्वपदोपात्तत्वाद् विशेषणानुपपत्तेः ।
तत्रापि सहोदरादिभार्यान्तस्य लिखनक्रमो नाधिकारक्रमार्थः विष्ण्वादिविरोधात् । किं तु विष्ण्वाद्युक्तक्रमेण गृह्णीयुर् इत्य् एतदर्थः । लिखनक्रमे ऽनास्थाव्यञ्जनार्थम् एव दुहितरो वापि पितापि वेत्य् अपि वाशब्दम् उभयत्र प्रयुक्तत्वात् । तच् चान्यत्राप्य् अनुषज्यते । तेन सहोदरा वा दुहितरो वा पिता वेत्य् अनास्था कीर्तनक्रमस्य देवलेन दर्शिता ।
[[११।१।५१]] यच् च बालोकेनोक्तम् — असवर्णाविषयं वा युवत्यभिप्रायं वाविभक्तसंसृष्टविषयं वा शङ्खागिवचनम् इति तेनाव्यवस्थितशास्त्रार्थकथनेनात्मनो बालरूपत्वम् एव प्रकटीकृतम् । संदेहाद् एकतरानुष्ठानानुपपत्तेः ।
[[११।१।५२]] यद् अप्य् अनूढावरुद्धाभिप्रायं वर्तनवचनं वर्णितं तद् अपि धर्मपत्नीनाम् अनुग्रहार्थम् इति हेयम् एव । वर्तनविधानविषयस्य स्त्रीणां पूर्वम् एव दर्शितत्वात् ।
[[११।१।५३]] किं च स्वर्णत्वासवर्णत्वाभ्यां पत्नीगतविशेषे ऽपि पित्रोर् भ्रातॄणां चाधिकारे विरोधः कथं समाधेयः । संसर्गासंसर्गाभ्यां चेत् स एव विशेषः सर्वव्यापी भवतु । किं पत्नीगोचरसवर्णादिविशेषपरिकल्पनेनायम् अपि विशेषो दूषितो ऽस्माभिः पूर्वप्रपञ्चेन ।
[[११।१।५४]] सोदरासोदरकृतश् च विशेषो बृहस्पतिना पराहतः । तद् आह:
सकुल्यैर् विद्यमानैस् तु पितृमातृसनाभिभिः ।
अपुत्रस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥ [ब् २६।९४]
सनाभयः सोदराः । तेषु सत्स्व् अपि पत्न्या धनसंबन्धं बोधयति । तद्भागशब्दाच् च कृत्स्न एव भर्तृभागो ऽवगम्यते न पुनस् तदेकदेशः ।
[[११।१।५५]] तस्माद् अस्मद्दर्शितैव व्यवस्था शास्त्रार्थः ।
[[११।१।५६]] पत्नी च भर्तृधनं भुञ्जीतैव परं न तु तस्य दानाधान्विक्र्यान् कर्तुम् अर्हति । तद् आह कात्यायनः ।
अपुत्रा शयनं भर्तुः पालयन्ती गुरौ स्थिता ।
भुञ्जीता मरणात् क्षान्ता दायादा ऊर्ध्वम् आप्नुयुः ॥ [क् ९२१]
[[११।१।५७]] गुरौ श्वशुरादौ भर्तृकुले स्थिता यावज्जीवं भर्तृधनं भुञ्जीत । न तु स्त्रीधनवत् स्वच्छन्दं दानाधानविक्र्यान् अपि कुर्वीत ।
तस्यां तु मृतायां पत्न्यभावे ये दुहित्रादयो दायाधिकारिणस् ते गृह्णीयुः ।
न पुनर् ज्ञातयः । तेषां दुहित्रादिभ्यो जघन्यत्वात् तद्बाधकत्वानुपपत्तेः । पत्नी हि तेषां बाधिका । तदधिकारस्य प्रागभावे प्रध्वंसे च बाधकाभावस्याविशेषाद् बाधानुपपत्तेः ।
[[११।१।५८]] नापि स्त्रीधनाधिकारिणो ग्र्ःणीयुः । तेषां स्त्रीधनविषयत्वात् । कात्यायनेनैव च स्त्रीधनाधिकारिणां वचनान्तरैर् उक्तत्वात् पुनरुक्तत्वापत्तेः ।
[[११।१।५९]] अतः पत्नी दुहितरश् चेत्यादिना ये पूर्वपूर्वस्याभावे परभूताधिकारिणो निर्दिष्टास् ते यथा पत्न्यधिकारप्रागभावे गृह्णीयुस् तथा जाताधिकारायाः पत्न्या अधिकारप्रध्वंसे ऽपि भोगावशिष्टं गृह्णीयुः ।
तदानीं दुहित्रादीनाम् एवान्यापेक्षया मृतोपकारकत्वाद् युक्तो धनाधिकारः ।
[[११।१।६०]] तथा दानधर्मे ।
स्त्रीनां स्वपतिदायस् तु उपभोगफलः स्मृतः ।
नापहारं स्त्रियः कुर्युः पतिदायात् कथंचन ॥ [म्भ् १३।४७।२४]
[[११।१६१]] उपभोगे ऽपि न सूक्ष्मवस्त्रपरिधानादिना किं तु स्वशरीरधारणेन पत्युर् उपकारकत्वाद् देहधारणोचितोपभोगानुज्ञानम् । एवं च पत्युर् और्ध्वदेहिकक्रियाद्यर्थं दानादिकम् अप्य् अनुमतम् । अत एव नापहारं स्त्रियः कुर्युर् इत्य् आह । अपहारश् च धनस्वाम्युपयोगे भवति । [[११।१।६२]] अत एव वर्तनाशक्ताव् आधानम् अप्य् अनुमतम् । तत्राप्य् अशक्तौ विक्रयणम् अपि न्यायस्याविशेषात् ।
[[११।१।६३]] भर्तुर् और्ध्वदेहिकक्रियार्थम् अर्थानुरूपं भर्तृपितृव्यादिभ्यो दद्यात् । तद् आह बृहस्पतिः ।
पितृव्यगुरुदौहित्रान् भर्तुः स्वस्रीयमातुलान् ।
पूजयेत् कव्यपूर्ताभ्यां वृद्धान् अथातिथीन् स्त्रियः ॥ [ब् २६।९८]
पितृव्यपदं भर्तृसपिण्डपरम् । दौहित्रपदं भर्तृदुहितृसंतानपरम् । स्वस्रीयपदं भर्तुः स्वस्रीयसंतानपरम् । मातुलपदं च भर्तृमातृकुलपरम् । तद् एवमादिभ्यो दद्यात् । न पुनर् एतेषु सत्स्व् एव स्वपितृकुलेभ्यो दद्यात् पितृव्यादिवचनानर्थक्यात् । [[११।१।६४]] तदनुमत्या तु सव्पितृमातृकुलेभ्यो ऽपि दद्यात् । तद् आह नारदः ।
मृते भर्तर्य् अपुत्रायाः पतिपक्षः प्रभुः स्त्रियाः ।
विनियोगार्थरक्षासु भरणे च स ईश्वरः ॥ [न् १३।२८।२७]
परिक्षीणे पतिकुले नर्मनुष्ये निराश्रये ।
तत्सपिण्डेषु चासत्सु पितृपक्षः प्रभुः स्त्रियाः ॥ [न् १३।२९।२८]
विनियोगे दानादौ । पतिपुत्राभावे भर्तृकुलपरतन्त्रता तस्याः ।
[[११।१।६५]] एवं च दुहितुर् अप्य् अधिकारे जाते तस्यां मृतायां तदभावोकाः पितृधनाधिकारिणो गृह्णीयुः । न तु दुहितृधनाधिकारिणः ।
[[११।१।६६]] पत्न्या च भर्तृधनात् कन्यायै विवाहार्थं तुरीयांशो देयः । पुत्राणाम् एव तद्दानप्रतिपादनाद् दण्डापूपायितं पत्न्यादीनां दानम् ।
[[११।१।६७]] इति पत्न्यधिकारः ।
०२
[[११।२।१]] पत्न्यभावे दुहितुर् अधिकारः । तत्र मनु-नारदौ ।
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।
तस्याम् आत्मनि जीवन्त्यां कथम् अन्यो हरेद् धनम् ॥ [म् ९।१३० = न्?]
दुहितरं विशिनष्टि नारदः ।
पुत्राभावे तु दुहिता तुल्यसंतानदर्शनात् ।
पुत्रश् च धिता चोभे पितुः संतानकारिके ॥ [न् १३।५०।४७]
दुहितुर् अधिकारे संतानदर्शनं हेतुतया निगदितम् । संतानश् च पिण्डदो ऽभिमतः । अपिण्डदस्यानुपकारकत्वेनान्यसंतानाद् असंतानाच् चाविशेषात् ।
[[११।२।२]] दौहित्रश् च तत्पिण्डदाता न च तत्पुत्रो नापि दौहित्री । तत्पर्यन्तेन पिण्डविच्छेदात् । [[११।२।३]] अतः पुत्रवती संभावितपुत्रा चाधिकारिणी । विधवात्ववन्ध्यात्वदुहितृप्रसूत्वादिना विपर्यस्तपुत्रा पुनर् अनधिकारिण्य् एवेति दीक्षितमतम् आदरणीयम् ।
[[११।२।४]] तत्र प्रथमं कन्यैवैका पितृधनहारिणी । यथा पराशरः: “अपुत्रस्य मृतस्य कुमारी रिक्थं गृह्णीयात् तदभावे चोढा” । ऊढापदं पूर्वोक्तविशेषपरम् ।
[[११।२।५]] तथा देवलः ।
कन्याभ्यश् च पितृद्रव्याद् देयं वैवाहिकं वसु ।
अपुत्रिकस्य कन्या स्वा धर्मजा पुत्रवद् धरेत् ॥ [द् १५९८]
पुत्रिकापदं पुत्रोपलक्षणम् । स्वा सवर्णा । धर्मजा औरसी ।
[[११।२।६]] युक्तं चैतत् । धनम् अन्तरेणापरिणीतायाः कन्याया ऋतुदर्शने पित्रादीनां नरकपातश्रुतेः । तद् आह वसिष्ठः ।
यावत् तु कन्याम् ऋतवः स्पृशन्ति तुल्यैः सकामाम् अपि याच्यमानाम् ।
तावन्ति भूतानि हतानि ताभ्यां मातापितृभ्याम् इति दर्मवादः ॥ [व १७।७१]
तथा पैठीनसिः: “यावन् नोद्भिद्येते स्तनौ तावद् एव देया । अथर्तुमती भवति तदा दाता प्रतिग्रहीता च नरकम् आप्नोति । पितृपितामहप्रपितामहाश् च विष्ठायां जायन्ते । तस्मान् नग्निका दातव्या” [पै ११] ।
[[११।२।७]] तस्माद् विवाहोपयुक्तत्वेन पित्रादीनां नरकनिस्तारात् परिणीतायाश् च पुत्रद्वारेणाप्य् उपकारकत्वात् तदर्थं धनं स्वाम्यर्थम् एव भवतीति पत्न्यभावे न्याय्यं कन्यास्वत्वम् ।
[[११।२।८]] कन्यायास् स्वबावे संभावितपुत्रायाः पुत्रवत्याश् चाधिकारः । तद् आह बृहस्पतिः ।
सदृशी सदृशेनोढा साध्वी शुश्रूषणे रता ।
कृताकृता वापुत्रस्य पितुर् धनहरी तु सा ॥ [ब् २६।१३२]
[[११।२।९]] सदृशी पितृसवर्णा । सदृशेनोढेत्य् उत्तमाधमवर्णपरिणयनविरासार्थम् । उत्तमाधमपर्णीतदुहितृजातस्याधमोत्तमवर्णमातामहादिश्राद्दनिषेदात् । सवर्णेनोढायास् तु पुत्रद्वारेण पित्रुपकारकत्वा ।
[[११।२।१०]] पुत्रिकापुत्रस्य तु पुत्रवद् एवोपकारकत्वातिशयात् तद्द्वारेण पुत्रिकायाः पुत्रतुल्यत्वात् पुत्रिकौरसयोः समो धनाधिकारः । अपुत्रिकायास् तूढायाः पुत्रादिन्यूनोपकारकस्वपुत्रद्वारेणोपकारकत्वम् इति कन्यापर्यन्तानाम् अभाव एव धनाधिकारिता युक्ता ।
[[११।२।११]] न च वाच्यम् — एवं तर्हि पुत्रवत्या एव प्रथमाधिकारो ऽस्तु । तदभावे तु संभावितपुत्राया इति ।
यतस् तस्याः पश्चाद् उत्पन्नस्य दौहित्रस्यानधिकारापत्तेः । न च तद् युक्तं दौहित्रतया द्वयोर् अप्य् उपकाराविशेषात् । [[११।२।१२]] भर्तृशुश्रूषापरत्वेनावैधव्यं प्रदर्शयन् संभावितपुततां दर्शयति ।
[[११।२।१३]] सेति च पूर्ववचनोपात्ता दुहिता परामृश्यते । तद् एवं सदृशी सदृशेनोढा इत्यादिविशेषणान् न दुहितृमात्रतया पितृधनाधिकारितेति दर्शयति । [[११।२।१४]] अन्यथा –
अङ्गाद् अङ्गात् संभवति पुत्रवद् दुहिता नृणाम् ।
तस्याः पितृधनं त्व् अन्यः कथं गृह्णीत मानवः ॥ [ब् २६।१२७]
इत्यनेन दुहित्रधिकारे कथिते सदृशी सदृशेनोढेत्यादिन तस्यैवाभिधानं पुनरुक्तं स्यात् । सामान्यप्राप्तेस् तु विशेषकथनम् अपुनरुक्तम् एव ।
[[११।२।१५]] यत एव स्वपुत्रद्वारेण पिण्डदातृतया दुहितुः पितृधनाधिकारो ऽत एव पुत्रिकाया अपि पित्रुपरमजातधनसंबन्धायाः पश्चाद् वन्ध्यात्वेन तद्भर्तुर् वा प्रसवासामर्थ्येन विपर्यस्तपुत्राया मरणे तद् धनं न भर्तुः । यथा शङ्खलिखितौ । “प्रेतायाः पुत्रिकायास् तु न भर्ता द्रव्यम् अर्हत्य् अपुत्रायाः” [श्ल् २९५] । तथा पैठीनसिः ।
प्रेतायां पुत्रिकायां तु न भर्ता द्रव्यम् अर्हति ।
अपुत्रायां कुमार्या वा स्वस्रा ग्राह्यं तदन्यया ॥ [पै १२०]
ततः कुमार्या स्वस्रान्या वा पुत्रवत्या संभावितपुत्रया स्वस्रा तद्धनं ग्राह्यम् । अतः स्त्र्यधिकारे व्यावृत्तिर् अन्याधिकारस्य ।
[[११।२।१६]] यत् तु मनुवचनम् –
अपुत्रायां मृतायां तु पुत्रिकायां कथंचन ।
धनं तत्पुत्रिकाभर्ता हरेतैवाविचारयन् ॥ [म् ९।१३५]
तद् अविपर्यस्तपुत्राया उतपन्नमृतपुत्रायाः पुत्रिकाया मरणे वेदितव्यम् ।
[[११।२।१७]] पिण्डदानम् एव च द्वयोर् एकं निमित्तम् अनुवदति बृहस्पतिः ।
यथा पितृधने स्वाम्यं तस्याः सत्स्व् अपि बन्धुषु ।
तथैव तत्सुतो ऽपीष्टे मातृमातामहे धने ॥ [ब् २६।१३३]
यथा येन दौहित्रदयपिण्डेन दुहिता पितृधनाधिकारिणी तथैव तेनैव पिण्डदानेन दुहितृसुतो ऽपि मातामहधने स्वामी सत्स्व् अपि पित्रादिषु ।
[[११।२।१८]] न अ पुतिकापुत्राभिप्रायेणेदं वचनम् ।
कृताकृता वापुत्रस्य पितुर् धनहरी तु सा । [ब् २६।१३२च्द्]
एतद्वचनोपात्तकृताकृतदुहित्रोर् एव तस्या इति तत्सुत इति च तत्पदेन परामर्शात् । प्रत्यासत्त्यतिरेकाद् वा अक्ēतापरामर्श एव युक्तो न तु तत्परित्यागः ।
[[११।२।१९]] अत एव मनुः ।
दौहित्रो ह्य् अखिलं रिक्थम् अपुत्रस्य पितुर् हरेत् ।
स एव दद्याद् द्वौ पिण्डौ पित्रे मातामहाय च ॥ [म् ९।१३२]
पौत्रदौहित्रयोर् लोके विशेषो नास्ति धर्मतः ।
तयोर् हि मातापितरौ संभूतौ तस्य देहतः ॥ [म् ९।१३३]
मातामहदेहाद् दुहितुः संभवं दौहित्रस्य धनाधिकारे हेतुत्वेन निर्दिशति । न तु पुत्रिकाकरणम् । इतरथा तद् एव निर्देइशेत् ।
[[११।२।२०]] तथा व्यक्तम् आह स एव ।
अकृता वा कृता वापि यं विन्देत् सदृशात् सुतम् ।
पौत्री मातामहस् तेन दद्यात् पिण्डं हर्द् धनम् ॥ [म् ९।१३६]
अकृताजातस्यापि दौत्रस्याधिकारं अभिदधाति ।
[[११।२।२१]] किं च स्मृतिषु दौहित्रपदम् अकृतपुत्रिकाजातपरं नियतम् । तथा बौधायनः: “अभ्युपगम्य दुहितरि मातं पुत्रिकापुत्रम् अन्यं दौहित्रम्” [बौ २।२।३।१५] । विद्याद् इत्य् अनुवर्तते ।
[[११।२।२२]] अत एव भोजदेवेनापि कृताकृतदुहित्रधिकारे बृहस्पतिर् इत्य् अभिधाय यथा पितृधने स्वाम्यम् इति वचनं लिखितम् ।
[[११।२।२३]] तथा गोविन्दराजेनापि मनुटीकायाम्,
अपुत्रपौत्रे संसारे दौहित्रा धनम् आप्नुयुः ।
पूर्वेषां हि स्वधाकारे पौत्रदौहित्रकाः समाः ॥ [ध्को प्। १४७१]
एतद् विष्णुवचनबलेन ऊढातः प्राग् एव दौहित्रस्याधिकारो दर्शितः ।
[[११।२।२४]] स चास्मभ्यं न रोचते सदृशी सदृशेनोढेत्यादिविरोधात् । [[११।२।२५]] किं तूढायाः पूर्वोक्तरूपाया अभाव एव सत्स्व् अपि पित्रादिषु दौहित्रस्याधिकारः । तथैवेति दुहितृवद्भावविधानात् । तत्सुतो ऽपीत्य् अप्य् अर्थतया च निर्देशात् । दौहित्रस्य जघन्यतावगतेः ।
अतो दुहित्रनन्तरं दौहित्रसाधिकार इति सिद्धम् ।
[[११।२।२६]] सत्स्व् अपि बन्धुष्व् इत्य् अनेन पित्रोर् अधिकारः पत्न्यभावे न्याज्ज्यो ऽपि दुहितृदौहित्राभ्यां बाधित इति । बाधकाभावे पित्रोर् अधिकारः सूचितः । अत एवानन्तरं बृहस्पतिः ।
तदभावे भ्रातरस् तु भ्रातृपुत्राः सनाभयः ।
सकुल्या बान्धवाः शिष्याः श्रोत्रियाश् च धनार्हकाः ॥ [ब् २६।१३४]
तच्छब्देन दौहित्रस्य पित्रोश् च सूचितयोः परामर्शः । तेनामीषाम् अभावे भ्रात्रादीनाम् अधिकारः ।
[[११।२।२७]] यत् तु बालकवचनं,
पत्नी दुहितरश् चैव पितरौ भ्रातरस् तथा । [य् २।१८५अब्]
इत्यादिनियतक्रमाद् अधस्तन एव दौहित्रस्याधिकार इति तद् बृहस्पतिविरोधाद् बालवचनम् एव । बहुवचनान्तदुहितृपदेनैव कन्योडादौहित्राणां निर्दिष्टत्वात् क्रमविरोधाभावात् ।
यथा स्वर्यातस्य ह् अपुत्रस्येति पुत्रपदं प्रपौत्रपर्यन्तपरं पिण्डदत्वाविशेषात् तथा दौहित्रस्यापि पिण्डदत्वात् तत्पर्यन्तं दुहितृपदम् ।
यथा वा —
पुत्राभावे तु दुहिता तुल्यसंतानदर्शनात् । [न् १३।५०अब्।४७अब्]
इत्य् अत्र पुत्रपदं पत्नीपर्यन्तपरम् । अन्यथा दुहितर इति बहुवचनम् अनर्थकं स्यात् । पत्नी तत्सुत इत्यादिवद् एकवचनम् एव कुर्यात् । भ्रातर इत्य् अस्यापि बहुवचनस्यार्थवत्तां वक्ष्यामः ।
[[११।२।२८]] किं च पित्रादीनां राजपर्यन्तानां क्रमनियमाद् राज्ञो ऽभावे दौहित्रस्याधिकारो वाच्यः । न च कदाचिद् राज्ञो ऽभावे दौहित्रस्यानधिकार एवाभिहितो भवेत् ।
[[११।२।२९]] तस्माद् विश्वरूप-जितेन्द्रिय-भोजदेव-गोविन्दराजैर् दुहित्रभावे दौहित्रस्याधिकारो निरूपित आदरणीयः ।
[[११।२।३०]] यदा च कन्या जाताधिकारा पश्चात् परिणीता सती म्रियते तदा तद्धनं कन्याया अनुत्पन्नाधिकाराया अभावे येषाम् ऊढादीनां प्रतिपादितम् उत्पन्नाधिकाराया अप्य् अभावे तेषाम् एव तद्धनम् । न तु तद्भर्त्रादीनां तद् भवति तस्य स्त्रीधनविषयत्वात् ।
भुञ्जीता मरणात् क्षान्तेति वचनेन जाताधिकारायाः पत्न्या अभावे ऽनुत्पन्नाधिकारपत्न्यभावोकानां पूर्वधनस्वामिदायग्राहिणां दुहित्रादीनाम् अधिकारस्य दर्शितत्वात् पत्नीतो जघन्यदुहितृदौहित्रयोर् अधिकारे दण्डापूपन्यायसिद्धो ऽयम् अर्थः । [[११।२।३१]] यद् वा पत्नीत्य् उपलक्षणम् । स्त्रीमात्राधिकारे ऽयम् अर्थो बोद्धव्य इति तात्पर्यम् ।
[[११।२।३२]] इति दुहितृदौहित्रयोर् अधिकारः ।
०३
[[११।३।१]] दौहित्रस्याभावे पितुर् अधिकारो न मातुः नापि युगपन् मातापित्रोः, “तदभावे पितृगामि । तदभावे मातृगामि” [वि १७।६–७]। इति विष्णुवचनविरोधात् ।
[[११।३।२]] यत् तु मनुवचनम्,
अनपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात् ।
मातर्य् अपि च वृत्तायां पितुर् माता हरेद् धनम् ॥ [म् ९।२१७]
यच् च बृहस्पतिवचन,
भार्यासुतविहीनस्य तनयस्य मृतस्य च ।
माता रिक्थहरी ज्ञेया भ्राता वा तदनुज्ञया ॥ [ब् २६।१३५च्देफ़्]
तत् पितृपर्यन्ताभावे बोद्धव्यम् ।
[[११।३।३]] न्यायागतं चैतत् । दौहित्रात् परतो मातृतश् च पूर्वं पितुर् अधिकार इति मृतपिण्डमृअभोग्यान्य् अपिण्डद्वयदातुर् दौहित्रान् मृतबोग्यान्य् अपिण्डद्वयमात्रदातृतया पितुर् जघन्यत्वात् । मात्रादिभ्यस् तु मृतभोग्यान्य् अपिण्डद्वयदातृतया ।
बीजस्य चैव योन्याश् च बीजम् उत्कृष्टम् उच्यते । [म् ९।३५अब्]
इति मनुवचनावगतोत्कर्षेण च बलवत्त्वात् ।
[[११।३।४]] पितराव् इत्य् अत्र च पितृक्रम एवावगम्यते । तथा हि पितृपदात् प्रातिपदिकात् प्रथमं पितुर् अवगतेः पश्चाद् द्विवचनबलेनैकशेषकल्पनया मातुर् अवगमात् ।
[[११।३।५]] अतः क्रमज्ञानं क्रमाभिधानव्याप्तम् । तन्निवर्तमानं क्रमज्ञानं निवर्तयतीत्य् अनुमानं तद् अप्रमाणम् । व्यापकनिवृत्तेर् असिद्धत्वाद् विष्णुवचनविरोधाच् च हेयम् ।
[[११।३।६]] इति पितुर् अधिकारः ।
०४
[[११।४।१]] पितुर् अभावे मातुर् अधिकारः । पितुर् अधिकारानन्तरम् “तदभावे मातृगामि” [वि १७।७] इति विष्णुश्रुतेः ।
[[११।४।२]] युक्तं चैतत् । गर्भधारणपोषणाभ्यां कृतोपकारकतया तन्निष्क्रयस्यावश्यकर्तव्यत्वात् ।
[[११।४।३]] अतः पितृतो गौरवातिरेकशुरेर् मातुर् अधिकारः पितृतः पूवम् इति हेयम् । गौरवातिरेकस्य धनसंबन्धहेतुत्वे,
उत्पादकब्रह्मदात्रोर् गरीयान् ब्रह्मदः पिता । [म् ९।१४६अब्]
इति पितृतः पूर्वम् आचार्यस्याधिकारापत्तेः । कनिष्ठे च भ्रातरि भ्रातृसुतो व सत्य् अपि पितृव्यादीनाम् अधिकारापत्तेश् च ।
[[११।४।४]] एवं च मृतस्य पितृसंतानात् पूर्वं पितुश् च परतो मातुर् अधिकार इति वदता पितामहसंतानात् पूर्वं पितामहाच् च परतः पितामह्या धनाधिकारः सूचितः । अन्यथा पितरौ भ्रातरस् तथेति क्रमविरोधात् ।
अत् एव मनुः
मातर्य् अपि च वृत्तायां पितुर् माता हरेद् धनम् । [म् ९।२१७च्द्]
ससंतानायां वृत्तायाम् इत्य् अर्थः । [[११।४।५]] अपिशब्दचकारयोश् चोभयत्रान्वय कार्यः । तेन मातरि च वृत्तायां पितामह्य् अपि गृह्णीयात् । किं पुनर् भ्रात्रादयः । पितामहपर्यन्ता इत्य् अपिशब्दसूचिता भ्रात्रादयः। [[११।४।६]] तद् अयं वचनार्थः — दौहित्रान्तान् मृतसंतानात् परतः स्वसंतानाच् च पूर्वमुक्तक्रमेण पित्रोर् अधिकारः । अतः स्वसंतानात् पूर्वं पितामहपितामह्योर् अधिकारो ऽनेनैव दर्शितः ।
अत एव याज्ञवल्क्येन मातुर् अधिकारप्रदर्शनेनैव पितृव्यादिभ्यः पूर्वं पितामहपितामह्योर् अधिकारस्याप्य् अनुक्तत्वान् न पृथग् उक्तः ।
[[११।४।७]] इति मातुर् अधिकारः ।
०५
[[११।५।१]] मातुर् अभावे भ्रातुर् धनम्, “मातृगामि” इत्य् अभिधाय “तदभावे भ्रातृगामि” [वि १७।८] इति विष्णुवचनात् । तद् इति मातुः परामर्शः । “पितरौ भ्रातरस् तथा” [य् २।१३५ब्] इत्य् अत्रापि पित्रोर् अभावे भ्रातुर् अधिकारावगतेः ।
[[११।५।२]] न च भ्रातरस् तथा तत्सुत इति यथा भ्रातरो ऽधिकृतास् तथा भ्रातृपुत्रो ऽपि मातुर् अनन्तरम् अधिकारी स्याद् इति वाच्यम्, “भ्रातृगामि” इत्य् अभिधाय “तदभावे भ्रातृपुत्रगामी” इति विष्णुविरोधात् । तद् इति भ्रातुः परामर्शः ।
[[११।५।३]] न्याय्यं चैतत् । मृतधनिभोग्यपित्रादित्रयपिण्डदानेन मातुर् उपकारकत्वात् । तथा तद्देयमातामहादिपिण्डत्रयदानेन तत्स्थानपाताच् च । अनेवंरूपाद् भ्रातृपुत्राद् बलवत्त्वान् मातृमूलत्वाच् च भातुर् एवंरूपस्य मातृतो जघन्यतेति मातृतः परत एवाधिकारो युक्तः ।
[[११।५।४]] किं च तथापदं भ्रात्रैव कुतो न संबध्यते । तेन यथा पितरौ भ्रातरो ऽपि तथेति पित्रोर् भ्रातॄणां च तुल्यो ऽधिकारः स्यात् ।
[[११।५।५]] तस्माद् विष्णुवचनविरोधेनैवायं पर्यनुयोगः परिहर्तव्यः । स चान्यत्रापि समानः । तथा मनुः ।
पिता हरेद् अपुत्रस्य रिक्थं भ्रतर एव वा । [म् ९।१८५च्द्]
भ्रातर एव हरेयुर् न तु भ्रातृपुत्रो ऽधिकारीत्य् आह ।
[[११।५।६]] किं च जीवत्पितृकस्यापि भ्रातृपुत्रस्य किम् अधिकारो नेष्यते । नात्रान्यो हेतुर् जीवत्पिऋकस्य पिण्डदत्वाभावेनानुपकारकत्वाद् इत्य् अतः । एवं चेन् मृतपितृकस्यापि भ्रातृतुल्योपकारकत्वाभावात् कथं तुल्यवद् अधिकारिता । अत एव देवलेन,
ततो दायम् अपुत्रस्य् विभजेरन् सहोदराः ।
तुल्या दुहितरो वापि ध्रियमाणः पितापि वा ॥ [द् १५७०]
सवर्णा भ्रातरो माता भार्या चेति यथाक्रमम् । [द् १५७१अब्]
इत्य् अनेन भार्यासवर्ण्दुहितृपितृमातृसहोदरभ्रातृसापत्नभ्रातृपर्यन्ताधिकारिशृङ्खयायां भ्रातृपुत्रस्याकीर्तनात् सापत्नभ्रातृपर्यन्ताभाव एव भ्रातृपुत्राणाम् अधिकारः कथितः ।
[[११।५।७]] तच् च “सर्वे ते तेन पुत्रेण” [म् ९।१८२च्] इति पुत्रत्वस्मरणं तत्पिण्डदानार्थम् । भ्रात्रभावे च धनाधिकारार्थं पूर्वोक्तवचनविरोधात् । अन्यथा भ्रातृभ्यः पूर्वम् एव कृतो न स्यात् ।
[[११।५।८]] तस्माद् भ्रातुर् एव प्रथमम् अधिकारः ।
[[११।५।९]] तत्रापि प्रथमं सोदरस्यैव । तद् उक्तम् “सोदरस्य तु सोदरः” [य् २।१३८ब्] । भ्रातरस् तथेत्य् उक्त भ्रातुर् अधिकारावसरे प्रथमं सोदरो गृह्णीयाद् इत्य् अर्थः । तस्य त्व् अभावे सापत्नो भ्राता । एकप्रभवत्वेन तस्यापि भ्रातृशब्दार्थत्वात् । [[११।५।१०]] तथा च
संसृष्टिनस् तु संसृष्टी सोदरस्य तु सोदरः ।
दयाच् चापहरेद् अंशं जातस्य च मृतस्य च ॥ [य् २।१३८]
इदम् अपि याज्ञवल्क्यवचनं सोदरासोदरयोर् भ्रातृशब्दार्थत्वं दर्शयति । अन्यथा सोदरमात्रस्य तदर्थत्वे सोदरस्य तु सोदर इति न पुनर् विशेषणीयम् इति । भ्रातृशब्दाद् एव सोदरावगतेः ।
[[११।५।११]] तस्मात् पितरौ भ्रातर इत्य् अनेन सोदरासोदरयोर् एवाधिकारो दर्शितः । सोदरवचनेन तु सोदरस्य प्रथमम् अधिकारः ।
[[११।५।१२]] सापत्नस्य च सोदरान् मृतदेयषाट्पौरुषिकपिण्डदातुर् मृतभोग्यमात्रपित्रादिपिण्डत्रयदातृतया जघन्यत्वात् भातृपुत्राच् च मृतबोग्यपिण्डद्वयदातुर् मृतभोग्यपिण्डत्रयदातृतया उपकारकत्वातिरेकेण बलवत्त्वान् मध्य एवाधिकारः श्रीकर-विश्वरूपोक्त एवादरणीयः ।
[[११।५।१३]] तत्र किं संसृष्टिनो ऽप्य् असोदरस्य सोदराज् जघन्यत्वं न वेत्य् अपेक्षायाम् आह याज्ञवल्क्यः ।
अन्योदर्यस् तु संसृष्टी नान्योदर्यो धनं हरेत् ।
असंसृष्ट्य् अपि चादद्यात् संसृष्टो नान्यमातृजः ॥ [य् २।१३९]
[[११।५।१४]] अस्यार्थः — संसृष्टी पुनर् अन्योदर्यः प्रथमं हरेत् । न पुनर् अन्योदर्यमात्रः । प्रथमं च हरन् सोदरं बाधित्वैव वा तेन सह वेत्य् अपेक्षायाम् उत्तरार्धः – असंसृष्ट्य् अपि सोदरो गृह्णीयात् । सोदरपदन् अनुवर्तते । नान्यमातृज एव संसृष्टी गृह्णीयात् ।
संसृष्टपदम् एव वा सोदरम् अभिधत्ते । अत एव बृहद्याज्ञवल्क्यवचनं सोदरो नान्यमातृज इति जितेन्द्रियेण लिखितम् । तदा च पूर्वार्धस्य संसृष्टीत्य् अनुवर्तते ।
[[११।५।१५]] तेन न केवलम् अन्योदर्य एव संसृष्टी गृह्णीयात् किं त्व् अससृष्ट्य् अपि सोदर इत्य् अर्थः । तेनासंसृष्टिना सोदरेण संसृष्टिन चासोदरेण विभज्य ग्रहीतव्यम् । अत एवापिशब्दं प्रयुक्तवान् ।
[[११।५।१६]] यच् च श्रीकरमिश्रैर् उक्तम् —
"संसृष्टिनस् तु संसृष्टीत्य् अस्यासोदरसंसृष्टिमात्रविषयत्वे ऽन्यानपेक्षत्वात् । सोदरस्य तु सोदर इत्य् अस्याप्य् संसृष्टसोदरमात्रविषय्त्वे नैरपेक्षात् । असोदरे संसृष्टिनि सोदरे चासंसृष्टिन्य् उभयोः प्राप्तौ यदि द्वयं एव प्रवर्तेते तदान्योन्यसापेक्षम् उभयोर् विधायकत्वं भवेत् । न चैकस्य सापेक्षं निरपेक्षं च विधायकत्वम् उचितं विधिवैषम्यप्रसङ्गात् ।
"यथा दर्शितं द्वयोः प्रणयन्तीत्य् अधिकरणे पर्वचतुष्टयविहिताया वेदेर् न पर्वद्वये सोदरस्य तु सोदर इत्य् अस्य च प्रवृत्तिः स्यात् । तत्रासोदरे संसृष्टिनि सोदरे चासंसृष्टिनि सत्य् उभयोर् अप्रवृत्तेस् तद्धनं न कश्चिद् अपि गृह्णीयाद् इत्य् अपतति ।
"तस्मात् संसृष्टिनस् तु संसृष्टीति संसृष्टधने सामान्यतः संसृष्टिनो भागप्राप्तौ तदपवादार्थं सोदरस्य तु सोदर इति वचनम् । एवं च संसृष्टिनो ऽप्य् असोदरस्य सोदरे सति न प्राप्तिः । किं तर्हि विभागसंसृष्टस्यासंसृष्टस्य वा सोदरस्यैव विभाग इत्य् अन्तम्" ।
[[११।५।१७]] तद् असंगतम् । न हि द्वयोर् उभयत्रैकैकशः प्रवृत्तयोर् युगपद् एकत्र प्रवृत्तिमात्रेण विधिवैरूप्यम् ।
[[११।५।१८]] केवलोद्गातृप्रतिहर्त्रपच्छेदेन निरपेक्षप्रवृत्तयोः सर्वस्वदाक्षिण्यादाक्षिण्यशास्त्रयोर् युगपदुभयापच्छेदे सति नैकम् अपि शास्त्रं प्रवर्तेत विधिवैरूप्यात् ।
[[११।५।१९]] तथा चातुर्होत्रां पौर्णमासीम् अभिमृषेत् पञ्चहोत्राम् अमावास्याम् इति शास्त्रयोर् उपंशुयागाग्नीषोमीययोर् ऐन्द्रदध्यैन्द्रपयसोर् एकैकशः प्रवृत्तयोर् द्वयोर् आग्नेये प्रवृत्तौ विधिवैषम्यापत्तेर् नैकम् अपि प्रवर्तेत ।
[[११।५।२०]] तस्माद् बाधनिरपेक्षं नित्यवद् विधानं क्वचित् क्वचिद् विध्यन्तरबाधसापेक्षम् इति वैरूप्यलक्षणम् ।
तथा हि उपात्र वपन्तीति वेदिविधिसापेक्षो निषेधस् तद्बाधं विना विधिर् एव न स्याद् इति वेदिविधिबाधसापेक्षं विधानम् । न च नित्यवद् एव तस्य बाधः । तथा च सति निषेधो विफलः । निषेधं विनापि वेद्यकरणस्य प्राप्तेः । ततश् च वेदिविधिर् अपि निषेधविधिबाधसापेक्षविधिभावः । पर्वद्वये तु निरपेक्ष इति भवति । विधिवैरूप्यं विकल्पश् च स्यात् । रागप्राप्ते तु नित्यवद् बाधः कादाचित्कस्याकरणस्य निषेधम् अन्तरेण प्राप्तेः ।
[[११।५।२१]] अत एव षोडशिग्रहणाग्रहणयोर् विकल्पः ।
[[११।५।२२]] ये तु ब्रुवते — प्राप्तिपूर्वकत्वान् निषेधस्य न निमित्तं विधिर् अपबाधत इति न्यायेन विकल्प इति । तेषां मते न तौ पाशौ करोतीत्यादौ रागप्राप्तनिषेधे च विकल्पः स्यात् ।
[[११।५।२३]] किंचैवं निमित्तिनः स्वनिमित्तबाधाक्षमत्वात् कथं पक्षे ऽपि बाधो ऽतुल्यबलत्वात् । अथ निषेधस्यैवायं स्वभावो यत् स्वनिमित्तम् उन्मूलयतीति तदा सर्वदैवोन्मूलयेत् प्राप्तेर् एव दुर्बलत्वात् ।
[[११।५।२४]] ये तु ब्रुवते — यादृच्छिकग्रहणप्राप्तिनिषेधो ऽयं न तु विधितः प्राप्तस्येति । तद् अतीवाज्ञवचनम् । वैधग्रहणस्यावैधग्रहणनिषेधस्य च युगपदुपसंहारासंभवाद् द्विकल्पाभावप्रसक्तेः । क्रत्वर्थतया च यादृच्छिकग्रहणप्रसक्त्यभावान् निषेधो न क्रत्वर्थः स्यात् ।
[[११।५।२५]] तस्माद् अस्मदुक्तन्यायाद् एव विकल्पः । तस् अस्तु । किं विस्तरेण ।
[[११।५।२६]] यच् च स्वयम् एव वर्णितम् — असोदरे संसृष्टिनि सोदरे चासंसृष्टिनि संसृष्टिनस् तु संसृष्टीत्य् अनेनासोदरस्य धनसंबन्धप्राप्तौ तदपवादार्थं सोदरस्य तु सोदर इति वचनं तद् अप्य् अयुक्तम् । अस्मिन्न् एव विषये सोदरस्य तु सोदर इति सोदरस्य धनसंबन्धप्रसक्तौ तदपवादर्थं संसृष्टिवचनस्यापि संभवाद् विनिगमनाकारणाभावात् ।
[[११।५।२७]] यच् च संसृष्टिनस् तु संसृष्टीत्य् एतद्विवरणार्थत्वेनान्योदर्य इति वचनं व्याख्यातम् । तद् अप्य् अतीवायुक्तम् । अन्योदर्यवचनाद् एव विवक्षितार्थलाभात् संसृष्टिन इत्य् अस्यानर्थक्यापत्तेः ।
[[११।५।२८]] किं चान्योदर्यस् तु संसृष्टीत्य् अस्यायम् अर्थः — अन्योदर्यस् तु संसृष्टी यः स नान्योदर्यधनं हरेत् । किं त्व् असंसृष्ट्य् अपि सोदरपदानुषङ्गात् सोदर एव गृह्णीयात् । संसृष्टो ऽपि नान्यमातृजो गृह्णीयाद् इति व्याख्यातम् । तद् अपि न । पूर्वार्ध एकस्यान्योदर्यपदस्य पुनरुक्तत्वात् । तथोत्तरार्धे ऽपि नान्यमतृज इत्य् अस्यानर्थक्यापत्तेः । अपिशब्दस्य चैवकारार्थे ऽवर्णात् ।
[[११।५।२९]] किं च सोदरे चासंसृष्टिनि असोदरस्य संसृष्टिनो ऽपवादार्थं सोदरवचनस्य वर्णितत्वात् । सोदरासोदरयोर् असंसृष्टिनोर् अप्रवृत्तत्वात् तुल्यवद् एवाधिकारः स्यान् न वा कस्यचिद् अपि स्यात् । [[११।५।३०]] अथात्रापि सोदरवचनम् एव प्रवर्तते तदैकत्र संसृष्टिवचनबाधसापेक्षम् अन्यत्र तु बाधानपेक्षम् इति भवताम् एव विधिवैरूप्यम् । यथा सोमे विधीयमाना वेदिर् दीक्षणीयादिष्व् अतिदेशप्राप्तवेदिबाधेनान्यत्र बाधं विनैवेति वैरूप्याद् अवेदिमतां तद् द्रष्टव्यम् इत्य् उक्तम् ।
[[११।५।३१]] अस्मिन् मते तु श्रीकरसंमतम् अपि विधिवैरूप्यं नास्ति । संसृष्टिसोदरवचनयोर् एकैकविषयत्वाद् अन्योदर्यवचनस्य च सोदरस्यासंसृष्टिनः संसृष्टिनश् चासोदरस्य तुल्यवद् अधिकारज्ञापनार्थत्वात् । तथा हि अन्योदर्यस् तु संसृष्टी सन् सत्य् अपि सोदरे ऽसंसृष्टिनि धनं हरेत् । नान्योदर्यो ऽसंसृष्ट्य् अपि गृह्णीयाद् इति पूर्वार्धस्यार्थः । तत्र किं सोदरस् तदानीं न गृह्णीयाद् एवेत्य् अपेक्षायाम् उत्तरार्धेनोत्तरम् । असंसृष्ट्य् अपि चादद्यात् । सोदर इत्य् अनुषज्यते । संसृष्टो ऽन्यमातृज एव न केवलः किं तूभाभ्यां विभज्य ग्रहीतव्यम् इत्य् अर्थः।
[[११।५।३२]] तथा मनुर् अप्य् एतद् एव दर्शयति ।
सोदर्या विभजेयुस् तं समेत्य सहिताह् समम् ।
भ्रातरो ये च संसृष्टा भगिन्यश् च सनाभयः ॥ [म् ९।२१२]
[[११।५।३३]] सोदर्यमात्राणां सोदर्या इत्य् असोदराणां च संसृष्टानां संसृष्टा इति बहुवचनान्तस्वपदाद् एवेतरेतरयोगावगतेः समेत्य सहिता इतिपदम् उभयसाहित्यार्थम् एव युक्तम् अन्यथानर्थक्यात् । अत उभयोर् इतरेतरयोगस्याश्रवणाद् इत्य् अहृदयव्याहृतम् । किं च ये चेति चकारश्रुतेश् चार्थे द्वन्दवसमासस्यापि श्रवनाद् इतरेतरयोगस्याश्रवणाभिधानं द्वन्द्वस्याप्य् अतदर्थताम् आपादयति ।
[[११।५।३४]] तस्मात् सोदरासोदरमात्रसद्भावे सोदराणाम् एव । अत एव बृहन्मनुः ।
एकोदरे जीवति तु सापत्नो न लभेद् धनम् ।
स्थावरे ऽप्य् एवम् एव स्यात् तदभावे लभेत वै ॥ [ब्म् ९३]
[[११।५।३५]] स्थावरे ऽप्य् एवम् एव स्याद् इति विभक्तस्थावराभिप्रायेण । यस्माद् अनन्तरम् एवाह यमः ।
अविभक्तं स्थावरं यत् सर्वेषाम् एव तद् भवेत् ।
विभक्तं स्थावरं ग्राह्यं नान्योदर्यैः कथंचन ॥ [ध्को प्। १५६१]
[[११।५।३६]] सर्वेषां सोदरासोदराणाम् इत्य् अर्थः । सोदराणाम् एव मध्य एकस्य संसृष्टत्वे तस्यैव । संसृटिसोदरासोदरसंसृष्टिसद्भावे च द्वयोर् एव । सापत्नमात्रसद्भावे ऽपि प्रथमं संसृष्टिनस् तदभावे चासंसृष्टिनो ऽसोदरस्य मृतधनं प्रत्येतव्यम् ।
[[११।५।३७]] अत एवोक्तक्रमेण बहूनाम् अधिकारप्रतिपत्त्यर्थं भ्रातर इति बहुवचनम् उक्तम् । अन्यथानर्थकं भवेत् । [[११।५।३८]] संसृष्टिनस् तु संसृष्टीत्य् एतच् च तुल्यरूपसंबन्धिसमवाये संसर्गकृतविशेषप्रतिपत्त्यर्थम् । [[११।५।३९]] तेन सोदराणां साप्त्नानां वा तथा भ्रातृपुत्राणां पितृव्यादीनां वा तुल्यानां सद्भावे संसर्गी गृह्णीयात् । वाक्याद् अविशेषश्रुतेः । पूर्ववचनेन सर्वेषाम् एव प्रकृतत्वात् सर्वेष्व् एव चापेक्षासद्भावात् । अतो भ्रातृमात्रविषयं वचनम् इत्य् अनादरणीयम् ।
[[११।५।४०]] इति भ्रात्रधिकारः ।
०६
[[११।६।१]] तदभावे भ्रातृपुत्रस्य्स् । “भ्रातृगामि” इत्य् अभिधाय “तदभावे भ्रातृपुत्रगामि” (वि १७।९) इति विष्णुवचनात् ।
[[११।६।२]] तत्र प्रथमं सोदरभ्रातृपुत्रस्य तस्य चाभावे ऽसोदरभ्रातृपुत्रस्याधिकारः । सोदरस्य तु सोदर इति वचनात् । असोदरभ्रातृपुत्रो हि धनिनो मृतस्य मातरं विहाय स्वपितामहीविशिष्टस्य धनिपितुः पिण्डदातेति सोदरभ्रातृपुत्राज् जघन्यस् तदनन्तरं धनम् अधिकरोति ।
[[११।६।३]] न च सापत्नीकत्वेन सपत्नीमातुः सपत्नीपितामह्याः सपत्नीप्रपितामह्याश् च श्राद्धे ऽनुप्रवेशः । तैर् एव च पदैः श्राद्धे ऽनुप्रवेशात् । यथा –
स्वेन भर्त्रा सह श्राद्धं माता भुङ्क्ते स्वधामयम् ।
पितामही च स्वेनैव प्रपितामही ॥ [ब् श्राद्ध ७५]
सपत्नीमात्रादीनां च पार्वणश्राद्धानुप्रवेशो निषिद्ध एव । यथा पठन्ति –
अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश् च ये ।
तेषाम् अपि च देयम् स्याद् एकोद्दिष्टं न पार्वणम् ॥
[[११।६।४]] किं च सपत्नीकश्राद्धविधानस्य नित्यत्वं सर्वजनगामित्वात् । सपत्नीमात्रादीनां चानित्यत्वात् । नित्यानित्यसंयोगविरोधेन मात्राद्यपेक्षम् एव सपत्नीकश्राद्दविधानं युक्तम् ।
[[११।६।५]] ननु सोदरभ्रातृपुत्रवत् सोदरपितृव्यस्य धनिदेयसपत्नीकपूर्वपुरुषद्वयपिण्डदातृत्वाद् धिनिपितृव्याभ्रातृपुत्रयोः समानो ऽधिकार स्यात् ।
उच्यते — पितृव्यो हि धनिनः पितामहप्रपितामहयोः पिण्डदः । भ्रातृपुत्रस् तु धनिनः प्रधानं पितरम् एवादाय पुरुषद्वयस्य पिण्डदातेति स एव बलवान् इति पितृव्यात् पूर्वम् अधिक्रियते ।
[[११।६।६]] अत एव भ्रातृनप्तापि पितृव्यस्य बाधकः । मृतधनिकपितुः प्रधानस्यैव पिण्डदातृत्वा ।
[[११।६।७]] भ्रातुः प्रतिनप्ता धनिनः पितृसंततिर् अपि पितृव्येण बाध्यते । पञ्चमत्वेन पिण्डबहिर्भावात् । तथा च मनुः ।
त्रयाणाम् उदकं कार्यं त्रिषु पिण्डः प्रवर्तते ।
चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते ॥ [म् ९।१८६]
इत्य् अनेन पञ्चमो निषिद्धः ।
[[११।६।८]] किं तु पितुर् अपि प्रपौत्रपर्यन्ताभावे पितृदौहित्रस्याधिकारो बोद्धव्यो धनिदौहित्रस्येव । [[११।६।९]] एवं पितामहप्रपितामहसंततेर् अपि दौहित्रान्तायाः पिण्डप्रत्यासत्तिक्रमेणाधिकारो बोद्धव्यः ।
दौहित्रो ऽपि ह्य् अमुत्रैनं संतारयति पौत्रवत् । [म् ९।१३९च्द्]
इति हेतोर् अविशेषात् स्वदौहित्रवत् पित्रादिदौहित्रस्यापि तद्भोग्यपिण्डदानेन संतारकत्वात् ।
[[११।६।१०]] अत एव मनुना पृथग् अमीषाम् अधिकारो न दर्शितः । त्रयाणाम् इत्य् अनन्तर इति वचनद्वयेनैव संगृहीतत्वात् । याज्ञवल्क्येन च पित्रादिदौहित्रस्यापि तद्गोत्रजातस्य पिण्डदानानन्तर्यक्रमेणाधिकारप्रतिपत्त्यर्थं गोत्रजपदं कृतम् । सपिण्डस्त्रीणां च व्युदासार्थं तासाम् अतद्गोत्रत्वात् । [[११।६।११]] अत एव अर्हति स्त्रीत्य् अनुवृत्तौ बौधायनः: “न दायं निरिन्द्रिया ह्य् अदायाश् च स्त्रियो मता इति श्रुतेः” (बौ २।२।३।४६) । न दायम् अर्हति स्त्रीत्य् अन्वयः । पत्न्यादीनां त्व् अधिकारो विशेषवचनाद् अविरुद्धः ।
[[११।६।१२]] प्रपितामहसंतानस्य तु दौहित्रान्तस्य मृतभोग्यपिण्डदातुर् अभावे मृतदेयमातामहादिपिण्डदानेन पिण्डदानानन्तर्यवचनेनैव दर्शितम् ।
[[११।६।१३]] मृतदेयमातामहादिपिण्डत्रयस्य मातुलादिभिर् दीयमानत्वान् मातुलाद्यर्थत्वं धनस्य धनद्वारेण तस्यापि तत्पिण्डदातृत्वात् ।
धनार्जनस्य हि प्रयोजनद्वयम् । भोगार्थं दानाद्यदृष्टार्थं वा । तत्रार्जकस्य मृतत्वाद् धने भोग्यत्वाभावेनादृष्टार्थत्वम् एव युक्तम् ।
अत एव बृहस्पतिः ।
समुत्पन्नाद् धनाद् अर्धं तदर्थे स्थापयेत् पृथक् ।
मासषाण्मासिक श्राद्धे वार्षिके च प्रयत्नतः ॥ [ब् २६।१३७]
तथा आपस्तम्बः: “अन्तेवासी वार्थान् तदर्थेषु धर्मकृत्येषु प्रयोजयेत् । दुहिता वा” [आप् २।६।१४।३–४] । मासिकादिना तद्भोगार्थं धर्मकृत्येष्व् इत्य् अदृष्टार्थत्वे हेतुः । अत एव दत्तभुक्तफलं धनम् इति पठन्ति ।
तस्मात् तद्भोग्यपिण्डदातुर् अभावे तद्देयपिण्डदातुर् मातुलादेर् अधिकारो न्याय्यः ।
[[११।६।१४]] अत एव त्रयाणाम् इत्य् अनन्तर इति वचनद्वयेनैवायम् अर्थो दर्शित इति मत्वानन्तरं मनुनोक्तम् ।
अत ऊर्ध्वं सकुल्यः स्याद् आचार्यः शिष्य एव वा । [म् ९।१८७च्द्]
[[११।६।१५]] सकुल्यो वृद्धप्रपितामहादिसंततिः । समनोदकाश् च भण्यन्ते । तेषाम् उपन्यासक्रमेणाधिकारः । तदभाव आचार्यशिष्यादीनाम् ।
[[११।६।१६]] अन्यथा कथं मातुलादीनां मनुविरुद्धो ऽन्तर्भावः शक्यते । तस्मान् मनुना पूर्ववचनद्वयप्रतिपादितो ऽयम् अर्थ इत्य् अविरोधः ।
[[११।६।१७]] अत एव दायभागप्रकरणे,
त्रयाणाम् उदकं कार्यं त्रिषु पिण्डः प्रवर्तते ।
चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते ॥ [म् ९।१८६]
इत्य् उक्त्वा,
अनन्तरः सपिण्डाद्यस् तस्य तस्य धनं भवेत् ॥ [म् ९।१८७अब्]
इति लिखितम् । पञ्चमस्यैकपिण्डसंबन्धहीनस्य पितृमातृकुलजातैकपिण्डसंबन्धिसद्भावे ऽनधिकारार्थम् । अन्यथा,
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । [म् ५।६०अब्]
इति सपिण्डत्वस्योक्तत्वाद् अनन्तरः सपिण्डाद्य इत्य् अनेन चानन्तर्यस्य धनग्रहणकारणत्वेनाभिहितत्वात् त्रयाणाम् इत्य् अनर्थकं स्यात् ।
न च त्रैपुरुषिकश्राद्धविधानार्थम् इति वाच्यम् । दायभागसंसंशमध्यपाठात् । तथा च मनुः ।
स्वाध्यायेनार्चयेद् ऋषीन् होमैर् देवान् यथाविधि ।
पितॄन् श्राद्धेन नॄन् अन्नैर् भूतानि बलिकर्मणा ॥ [म् ३।८१]
[[११।६।१८]] न च जननक्रमेणानन्तर्यग्रहणार्थं वचनम् । न तु प्रदातृत्वेनानन्तर्यार्थम् इति वाच्यम् । जननक्रमस्य वचनाद् अनवगतेः । किं तूदकवत् त्रिभ्यः पिण्डदानं चतुर्थाधस्तनः पिण्डदाता पञ्चमस् तु पूर्वतनो न संप्रदानं नाप्य् अधस्तनः पञ्चमः पिण्डदातेत्य् अभिधायानन्तर्यम् अभिदधानो मनुः प्रदातृत्वातिशयेनैवानन्तर्यं ज्ञापयति ।
[[११।६।१९]] तस्माद् यो यस् तत्कुलोत्पन्नो ऽतद्गोत्रो ऽपि स्वदौहित्रपितृदौहित्रादिर् अतत्कुलोत्पन्नो वा मातुलादिर् धनिनो मृतस्य पितृमातृकुलगतत्रैपुरुषिकपिण्डदातृतया एकपिण्डसंबन्धेन सपिण्डस् तस्य तस्याप्य् अधिकारार्थं त्रयाणाम् इति वचनम् । आनन्तर्येण च विशेषार्थम् अनन्तर इति वचनं वर्णनीयम् ।
[[११।६।२०]] तेन मृतभोग्यमृतदेयपित्रादित्रयपिण्डदातुः पितृदौहित्रादेर् अभावे मृतदेयमातामहादिपिण्डदातॄणां मातुलादीनाम् आनन्तर्यक्रमेणाधिकारो बोद्धव्यः ।
[[११।६।२१]] एतत्पर्यन्ताभावे तु सकुल्यः । तद् आह मनुः ।
तदभावे सकुल्यः स्याद् आचार्यः शिष्य एव वा । [म् ९।१८७च्द्]
सकुल्यो विभक्तपिण्डः प्रतिप्रणप्तृतः प्रभृति पुरुषत्रयम् अधस्तनं वृद्धप्रपितामहादिसंततिश् च ।
[[११।६।२२]] तत्रापि प्रतिप्रणप्त्रादेर् आनन्तर्यं पिण्डलेपद्वारेण तेषाम् उपकारकत्वात् । तदभावे च वृद्धप्रपितामहादिसंततिः । मृतदेयपिण्डलेपभुग्भ्यो वृद्धप्रपितामहादिभ्यः पिण्डदातृत्वात् ।
[[११।६।२३]] एवंविधसकुल्याभावे च समानोदकाः । सकुल्यपदेनैवोपात्ता मन्तव्याः ।
[[११।६।२४]] तेषाम् अभाव आचार्यः । तस्याप्य् अभावे शिष्यः । आचार्यः शिष्य एव वेति मनुवचनात् ।
तदभावे सब्रह्मचारी । शिष्यः सब्रह्मचारिण इति निर्देशात् ।
[[११।६।२५]] तदभावे चैकगोत्राः । तदभावे चैकप्रवराः, “पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन्” [ग् २८।२१] इति गोतमवचनात् ।
[[११।६।२६]] उक्तपर्यन्तानां तु सर्वेषाम् अभावे ब्राह्मणास् तद्धनं गृह्णीयुः । तद् आह मनुः ।
सर्वेषाम् अप्य् अभावे तु ब्राह्मणा रिक्थभागिनः ।
त्रैविद्याः शुचयो दान्ता एवं धर्मो न हीयते ॥ [म् ९।१८८]
भोगेन क्षीयमाणो ऽपि धर्मस् तदीयधनस्य ब्राह्मणगामित्वेनापरधर्मप्राप्त्या पूर्यमाणो न हीयत इत्य् अत्रापि धनस्य तादर्थ्यम् एव पुरस्करोति ।
[[११।६।२७]] तदभावे ब्राह्मणधनवर्जं राजा गृह्णीयात् ।
गोत्रर्षिसंबन्धानां ब्राह्मणानां चाभावस् तद्ग्रामे बोद्धव्यः । अन्यथा राजाधिकारस्य निर्विषयत्वापत्तेः ।
[[११।६।२८]] तत्र यदि त्रयाणाम् इत्यादिना पितृदौहित्रमातुलादीनाम् अधिकारो नोक्तः स्यात् तदा सकुल्यादीनां नियतक्रमाणां मध्ये ऽनुप्रवेशाभावाद् अधिकार एव न स्यात् ।
न च मा भूद् इति वाच्यम् । याज्ञवल्क्येन तेषां गोत्रजबन्धुपदाभ्यां दर्शितत्वात् । तस्मान् मनुनापि त्रयाणाम् इत्य् अनेनैव दर्शितम् इति वाच्यम् ।
तस्माद् यथा यथा मृतधनस्य तदुपकारकत्वं भवति तथा तथाधिकारक्रमो ऽनुसरणीयः ।
[[११।६।२९]] अत एव पुत्रपौत्रप्रपौत्राणां तुल्यवद् अधिकार सिध्यति । पुत्रेण लोकान् जयतीत्यादिवाक्येभ्यस् तुल्यवद् उपकारश्रुतेः तत्पिण्डदानाविशेषात् ।
अत एव जीवत्पितृकयोः पौत्रप्रपौत्रयोर् अनधिकारः सिध्यति । न जीवन्तम् अतिदद्याद् इति श्रुत्या जीवन्तं पितरम् अतिक्रम्य तयोः पार्वणनिषेधाद् अनुप्कारकत्वात् । अन्यथा मृतपितृकयोर् तयोर् अपि स्यात् । जननक्रमेण वा सपिण्डानन्तर्यात् पुत्रस्यैव स्यान् न पौत्रप्रपौत्रयोः । न च पुत्रादीनां त्रयाणां युगपदधिकारप्रतिपादकं वचनम् अस्ति ।
तस्माद् उपकाराविशेषाद् एव तुल्यवद् धनसंबन्धो ऽभिधेयः । [[११।६।३०]] एवं पूर्वोक्तरीत्या मृतधनस्य मृतार्थत्वम् अनुसंधेयम् उक्तक्रमेण ।
[[११।६।३१]] स चायम् अर्थो दायभागप्रकरणे पुत्रादीनाम् उपकारकत्वातिशयाभिधानस्यानन्यप्रयोजनकत्वात् ।
पिॠणाम् अनृणश् चैव स तस्माल् लब्धुम् अर्हति । [म् ९।१०६च्द्]
इत्यानृण्यकरणस्य धनलाभहेतुत्वेन कीर्तनात् ।
दौहित्रे ऽपि ह्य् अमुत्रैनं संतारयति पौत्रवत् ॥ [म् ९।१३९च्द्]
इत्यनेनापि संतारणस्य धनसंबन्धहेतुत्वेन निर्देशात् ।
पुत्रादीनां च त्रयाणां संतारणाद् अन्यस्य तुल्यवद् धनसंबन्धकारणस्याभावात् त्रयाणाम् उदकम् इत्यादेश् चानर्थक्यापत्तेः, क्लीबपतितजात्यन्धादीनां चानुपकारकत्वाद् एवानंशित्वाभिधानस्योपपत्तेः, प्रतिसंबन्धिनां चाधिकारार्थं वचनकल्पनागौरवात्, तदर्जितधनस्य च तदुपकारतारतम्येन तादर्थ्यसंपादनस्य न्याय्यत्वात् ।
उपकारकत्वेनैव धनसंबन्धो न्यायप्राप्तो मन्वादीनाम् अभिमत इति गम्यते ।
[[११।६।३२]] इति निरवद्यविद्योद्योतेन द्योतितो ऽयम् अर्थओ विद्वद्भिर् आदरणीयः ।
[[११।६।३३]] अथात्रापरितोषो विदुषां वाचनिक एवायम् अर्थस् तथापि यथोक्त एव वचनयोर् अर्थो ग्राह्य इत्य् अस्तु । किं विस्तरेण ।
[[११।६।३४]] ब्राह्मणधनवर्जं राजा गृह्णीयात् । तद् आह मनुः ।
अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यम् इति स्थितिः ।
इतरेषां तु वर्णानां सर्वाभावे हरेन् नृपः ॥ [म् ९।१८९]
सर्वशब्देन ब्राह्मणपर्यन्तस्योपादानम् ।
[[११।६।३५]] वानप्रस्थयतिब्रह्मचारिणां धनं धर्मभ्रातृसच्छिष्याचार्या गृह्णीयुः । तदभाव एकतीर्थ्य् एकाश्रमी गृह्णीयात् । तद् आह याज्ञवल्क्यः ।
वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः ।
क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥ [य् २।१३७]
[[११।६।३६]] प्रतिलोमक्रमेण यथासंभवं धनं ज्ञेयम् ।
ब्रह्मचारी च नैष्ठिको ऽभिमतः । पित्रादिपरित्यागेन यावज्जीवम् आचार्यकुलनिवासपरिचर्यानिष्ठायास् तेन कृतत्वात् । उपकुर्वाणस्य तु धनं पित्रादिभिर् एव ग्राह्यम् ।
[[११।६।३७]] इत्य् अपुत्रादिधनाधिकारः ।