[[१०।१]] संप्रति पुत्रिकाकरणानन्तरम् औरसपुत्रे जाते तयोर् विभागः प्रतिपद्यते ।
[[१०।२]] तत्र पुत्रिकौरसयोस् तुल्यांशित्वम् । न पुनः पुत्रिकाया ज्येष्ठत्वेन विंशोद्धारार्हता । तद् आह मनुः।
पुत्रिकायां कृतायां तु यदि पुत्रो ऽनुजायते ।
समस् तत्र विभागः स्याज् ज्येष्ठता नास्ति हि स्त्रियाः ॥ [म् ९।१३४]
स्वतो ज्येष्ठपुत्रकार्याकरणात् स्वपुत्रद्वारेण पुत्रिकायाः पिण्डदातृत्वात् । तद् आह मनुः ।
अपुत्रो ऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् ।
यद् अपत्यं भवेद् अस्यां तन् मम स्यात् स्वधाकरम् ॥ [म् ९।१२७]
[[१०।३]] न च पुत्रिकायाम् एव प्रथमं पुत्रे जाते तदनन्तरम् औरसपुत्रोत्पत्तौ पुत्रिकापुत्रस्य ज्येष्ठांशता भवेद् इति वाच्यं तस्य पौत्रत्वात् । तद् आह मनुः ।
अकृता वा कृता वापि यं विन्देत् सदृशात् सुतम् ।
पौत्री मातामहस् तेन दद्यात् पिण्डं हरेद् धनम् ॥ [म् ९।१३६]
पुत्रिका हि पुत्रस् तस्याः पुत्रः पौत्र एव भवति । तद्वांश् च पौत्री भवति । न च ज्येष्ठत्वेन पौत्रस्यांशातिरेकः श्रुतो ऽस्ति ।
[[१०।४]] यत् तु वसिष्ठवचनम् ।
अभ्रातृकां प्रदास्यामि तुभ्यं कन्याम् अलंकृताम् ।
अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति ॥ [व १७।१७]
पुत्रिकापुत्रस्यैव पुत्रत्वं वदति । तेन पुत्रिकायास् तत्पुत्रस्य च पुत्रत्वम् । तन् न मनुविरोधात् । पिण्डदानमात्रयोगात् पुत्रत्वम् अस्य गौणम् । तद्द्वारेणैव पुत्रिकायाः पिण्डदातृत्वाद् एकस्य स्वतो ऽन्यस्य तद्योगात् ।
[[१०।५]] पुत्रिकौरसयोश् च सवर्णत्वे सति पूर्वोक्तविभागो बोद्धव्यः । असवर्णत्वे तु तयोर् असवर्णौरसपुत्रवद् एव विभागः कार्यः । पुत्रिकौरसयोः समानत्वात् ।
[[१०।६]] यदि च कृतापि पुत्रिका पुत्रम् अनुत्पाद्यैव विधवा भूता वन्ध्यात्वेन वावधृता तदा तस्याः पितृधने ऽनधिकारः । स्वधाकरपुत्रार्थं पुत्रिकायाः कृतत्वात् । तदभावे दुहित्रन्तरतुल्यत्वात् ।
[[१०।७]] औरसेन तु क्षेत्रजादीनां विभागे ये पितृसर्वर्णा औरसपुत्राच् चोत्तमवर्णाः पुत्रिकापुत्रक्षेत्रजकानीनगूढजापविद्धसहोढपौनर्भवदत्तकस्वयमुपागतकृतक-क्रीताः पुत्रास् ते औरसपुत्रभागस्य तृतीयांशाधिकारिणः । तद् आह द्वादशपुत्रान् अभिधाय देवलः ।
एते द्वादशपुत्रास् तु संतत्यर्थम् उदाहृताः ।
आत्मजाः परजाश् चैव लब्धा यादृच्छिकास् तथा ॥ [द् १५८२]
तेषां षड् बन्धुदायादाः पूर्वे ऽन्य पितुर् एव षट् ।
विशेषश् चापि पुत्राणाम् आनुपूर्व्या विशिष्यते ॥ [द् १५८३]
सर्वे ऽह्य् अनौरसस्यैते पुत्रा दायहराः स्मृताः ।
औरसे पुनर् उत्पन्ने तेषां ज्यैष्ठ्यं न विद्यते ॥ [द् १५८४]
तेषां सवर्णा ये पुत्रास् ते तृतीयांशभागिनः ।
हीनास् तम् उपजीवेयुर् ग्रासाच्छादनसंभृताः ॥ [द् १५८५]
[[१०।८]] औरसादयः षट् न केवलं पितृदायहराः किं तु बन्धूनां सपिण्डादीनाम् अपि दायहराः । अपरे परभूताः पितुर् एव परं दायहाराः न सपिण्डादीनाम् ।
[[१०।९]] औरसपुत्रशून्यस्य पितुः सर्वहराः । औरसे तु सति तृतीयांशहराः । [[१०।१०]] पुत्रिकाया अप्य् औरसतुल्यत्वाद् अयम् एव भागक्रमः ।
[[१०।११]] ये तु पितुर् हीनवर्णा औरसपुत्राच् चोत्तमवरास् ते औरसस्य पञ्चमं षष्ठं वांशं गुणवद्गुणापेक्षया गृह्णीयुः । यथा मनुः ।
षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद् धनात् ।
औरसो विभजन् दायं पित्र्यं पञ्चमम् एव वा ॥ [म् ९।१६४]
[[१०।१२]] देवलवचने सर्वेषां क्षेत्रजतुल्यत्वाभिधानात् मनुवचने क्षेत्रजपदम् उपलक्षणम् ।
[[१०।१३]] ये तु पितुर् औरसाच् च भ्रातुर् हीनवर्णास् ते ग्रासाच्छादनमात्राधिकारिणः । तद् आह मनुः ।
एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।
शेषाणाम् आनृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ॥ [म् ९।१६३]
तथा कात्यायनः ।
उत्पन्ने त्व् औरसे पुत्रे तृतीयांशहराः स्मृताः ।
सवर्णा असवर्णास् तु ग्रासाच्छादनभागिनः ॥ [क् ८५७]
[[१०।१४]] मनुवचने शेषपदं कात्यायनवचने चासवर्णपदं हीनवर्णपरं देवलेनैकवाक्यत्वात् ।
[[१०।१५]] अनियोगोत्पन्नक्षेत्रजस्यौरसेन सह विभागम् आह मनुः ।
यद्य् एकरिक्थिनौ स्याताम् औरसक्षेत्रजौ सुतौ ।
यद् यस्य पैतृकं रिक्थं तत् स गृह्णीत नेतरः ॥ [म् ९।१६२]
[[१०।१६]] यस्य बीजाद् यो जातः स तस्य धनं गृह्णीयत् । इतरो ऽन्यबीजजो न गृह्णीयाद् इत्य् अर्थः । अत एव नारदः ।
द्वौ सुतौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने ।
तयोर् यद् यस्य पित्र्यं स्यात् तत् स गृह्णीत नेतरः । [न्? = म् ९।१९१]
[[१०।१७]] यत् पितृदत्तं तद् धनं स्त्रियास् तत्पुत्र्स् तद्बीजजस् तद् धनं गृह्णीयान् नान्य इत्य् अस्तु किं विस्तरेण ।