०९

[[९।१]] संप्रत्य् एकपितृकाणां सवर्णानुलोमपरिणीतस्त्रीजातानां पुत्राणां विभागः कथ्यते ।

[[९।२]] अस्ति च सवर्णानुलोमस्त्रीपरिणयनम् । तथा च मनुः ।

सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि ।
कामतस् तु प्रवृत्तानाम् इमाः स्युः क्रमशो ऽवराः ॥ [म् ३।१२]
शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ।
ते च स्वा चैव राज्ञस् तु ताश् च स्वा चाग्रजन्मनः ॥ [म् ३।१३]

[[९।३]] शूद्रैवेत्य् एवकारः सर्वत्र संबध्यते । सा ते ता इत्य् अनन्तरपूर्वोक्तपरामर्शात् । प्रतिलोमपरिणयनं सर्वथैव न कार्यम् इत्य् अर्थः ।

[[९।४]] कामतस् तु प्रवृत्तानाम् इमाः स्युर् इति दोषाल्पत्वख्यापनार्थं न तु दोषाभाव एव । [[९।५]] तद् आहतुः शङ्ख-लिखितौ: “भार्या कार्याः सजातीयाः । सर्वेषां श्रेयसः स्युर् इति पूर्वः कल्पः । ततो ऽनुकल्पश् च । चतस्रो ब्राह्मणस्यानुपूर्वेण तिस्रो राजन्यस्य द्वे वैश्यस्य एका शूद्रस्य” [श्ल् ६४] । [[९।६]] जात्यवच्छेदेन चतुरादिस्ंख्या संबध्यते ।

[[९।७]] एताश् च परिणीता एव भार्या भवन्ति । तद् आह पैठीनसिः: “चतस्रो ब्रह्मणस्य् विवाहितास् तिस्रो द्वे चैका चेतरेषाम्” [पै ?] [[९।८]] इतरेषां राजन्यादीनां यथाक्रमं तिस्रो द्वे चैका चेति ।

[[९।९]] आनुलोम्ये ऽपि द्विजातेः शूद्रायां बहुदोषम् आहतुर् मनु-विष्णू ।

हीनजातिस् त्रयं मोहाद् उद्वहन्तो द्विजातयः ।
कुलण्य् एव नयन्त्य् आशु ससंतानानि शूद्रत्श्म् ॥ [म् ३:१५ = वि २६।६]
शूद्रावेदी पतत्य् अत्रेर् उत्थ्यतनयस्य् च ।
शौनकस्य सुतोपत्त्या तदपत्यतया बृगोः ॥ [म् ३।१६]
शूद्रां शयनम् आरोप्य ब्राह्मणो यात्य् अधोग्तिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्याद् एव हीयते ॥ [म् ३।१७]

[[९।१०]] तद् अनेन क्रम्ōढाविषयत्वं वचनानाम् । हारीतवचनम् अपि मन्वाद्येकवक्यतया परिणीताविषयम् । यथा ।

ब्रह्महा न भवत्य् अन्यो ब्रह्महा वृषलीपतिः ।
यस् तस्याम् आहितो गर्भः स तेन ब्राह्मणो हतः ॥ [ह् ?]

अत एव शूद्रावर्जं द्विजातिभाराम् आह शङ्खः ।

ब्राह्मणी क्षत्रिया वैश्या ब्राह्मणस्य प्रकीर्तिताः ।
क्षत्रिया चैव वैश्या ब्राह्मणस्य प्रकीर्तते ।
वैश्यैव भार्या वैश्यस्य शूद्रा शूद्रस्य कीर्तिता ॥ श्ल् ६५]

[[९।११]] अतः स्वयम् अनूढायां सूद्रायाम् अपत्यजनने चैते दोषाः । किं त्व् अल्पदोषः प्रायश्चित्तं चाल्पम् इति वक्ष्यति ।

[[९।१२]] अत्र चातुर्वण्यपुत्राणां विभागम् आह म्नुः ।

त्र्यंशं दायाद् धरेद् विप्रो द्वाव् अंशौ क्षत्रियासुतः ।
वैश्याजो ऽध्यर्धम् एकांशम् अंशं शूद्रासुतो हरेत् ॥ [म् ९।१५१]
सर्वं वा रक्थजातं तु दशधा परिकल्प्य तत् ।
धर्म्यं विभागं कुर्वीत विधिनानेन धर्मवित् ॥ [म् ९।१५२]
चतुरो ऽंशान् हरेद् विप्रस् त्रिण् अंशान् क्षत्रियासुतः ।
वैश्यापुत्रो हरेद् द्व्यम्शम् अंशं शूद्रासुतो हरेत् ॥ [म्९।१५३]

[[९।१३]] किंचिद्गुणवत्त्वेन विभागप्रकारद्वयम् ।

[[९।१४]] तत्र विष्णुः: “ब्राह्मणस्य चतसृषु चेत् पुत्रा भवेयुः” [वि १८।१] इत्यादि “अनेन क्रमेणांशकल्पनान्यत्रापि भवति” [वि १८।४०] इत्यन्तम् ।

[[९।१५]] ब्राह्मणजातो राजन्यापुत्र एव यदि जन्मना ज्येष्ठो गुणवांश् च तदा ब्राह्मणेन सह तुल्यभागी कार्यः । ब्राह्मण्र्न क्षत्रियेण वा जातो वैश्यश् चेत् तद्रूपस् तदा क्षत्रियपुत्रेण सह तुल्यांशी । यद् आह बृहस्पतिः ।

विप्रेण क्षत्रियाजातो जन्मज्येष्ठो गुणान्वितः ।
भवेत् समांशः क्षत्रेण वैश्याजातस् तथैव च ॥ [ब् २६।२०]

तथा बौधायनः: “सवर्णापुत्रानन्त्रापुत्रयोर् अनन्तरापुत्रश् चेद् गुणवान् स ज्येष्ठांशं हरेत् । गुणवान् हि शेषाणां भर्ता भवतीति” [बौ २।२।३।१२–१३] ।

[[९।१६]] अनेन शूद्राप्य् एवंविधस्य वैश्येन सह समांशिता दर्शिता ।
[[९।१७]] या तु प्रतिग्रहेण पित्रार्जिता भूमिः सा ब्राह्मणीपुत्रस्यैव न क्षत्रियादेः । गृहं क्रमागतं क्षेत्रं च द्विजातिपुत्राणां न शूद्रस्य । तद् आह बृहन्मनुः ।

ब्रह्मदायागतां भूमिं हरेयुर् ब्राह्मणीसुताः ।
गृहं द्विजातयः सर्वे तथा क्षेत्रं क्रमागतम् ॥ [ध्को प्। १२५२]

[[९।१८]] क्रमागतायाः पितामहप्रपितामहादिगृहीतायाः सकलद्विजातिसंबन्धः क्रमागतम् इत्य् अविशेषेणाभिधानात् । प्रतिग्रहभूमौ च क्षत्रियादिसुतानाम् एवाधिकारनिषेधेन नप्त्रादीनाम् अप्य् अननुज्ञानम् । [[९।१९]] तद् आह बृहस्पतिः ।

न प्रतिग्रहभूर् देया क्षत्रियादिसुताय वै ।
यद्य् अप्य् अस्य पिता दद्यान् मृते विप्रासुतो हरेत् ॥ [ब् २६।१२१]

एवं च प्रतिग्रहभूर् एव ब्रह्मदायागतेत्य् उक्तम् । ब्रह्म वेदस् तदध्ययनतदर्थज्ञानवत्तया प्रतिग्रहविधानात् । [[९।२०]] न पुनर् मनूक्तार्चनलब्धा । यथा ।

आवृत्तानां गुरुकुलाद् विप्राणां पूजको भवेत् ।
नृपाणाम् अक्षयो ह्य् एष विधिर् ब्राह्मो विधीयते ॥ [म् ७।८२]

अर्चनरूपत्वाद् अस्य ।

[[९।२१]] अथ वा इयम् एकेन निषिद्धान्या चापरेण ।

[[९।२२]] न तु ब्राह्मणस्य भूमिर् ब्रह्मदायः । द्विजातीनां क्रमागतक्षेत्रसंबन्धस्य वाचनिकत्वात् केवलशूद्रस्यैव निषिद्धत्वाच् च । यथा बृहस्पतिः ।

शूद्र्यां द्विजातिभिर् जातो न भूमेर् भागम् अर्हति ।
सजाताव् आप्नुयात् सर्वम् इति धर्मो व्यवस्थितः॥ [ब् २६।१२२]

[[९।२३]] भूमिमात्रोपादानात् क्रयप्रसादादिनापि द्विजातिलब्धमूबौ शूद्रस्यानधिकारः सिध्यति ।

[[९।२४]] यस् तु शूद्र एवैकः पुत्रो ब्राह्मणस्य स तृतीयभागाधिकारी । भागद्वयं सपिण्डानाम् । तदभावे सकुल्यानाम् । तदभावे श्राद्धकर्तुः । यथा देवलः ।

निषाद एकपुत्रस् तु विप्रस्य स तृतीयभाक् ।
द्वौ सपिण्डः सकुल्यो वा स्वधादाताथ वा हरेत् ॥ [द् १५९४]

[[९।२६]] क्षत्रियवैश्ययोस् तो यदि शूद्र एवैकः पुत्रस् तदा तधनस्यार्धहरः । अपरम् अर्धं वक्ष्यमाणापुत्रधनाधिकारक्रमेण गृह्णीयुः । तथा च विष्णुः: “द्विजातीनां शूद्रस् त्व् एकपुत्रो ऽर्धहरः । अपुत्ररिक्थस्य या गतिः सार्धस्य द्वितीयस्य” [वि १८।३२–३३] ।

[[९।२७]] इदं च तृतीयभागाधिकारित्वम् अर्धहरत्वं च विद्याविनयधर्मसंपन्नस्येति वेदितव्यम् । यद् आह मनुः ।

यद्य् अपि स्यात् तु सत्पुत्रो यद्य् अपुत्रो ऽपि वा भवेत् ।
नाधिकं दशमाद् दद्यात् शूद्रापुत्राय धर्मतः ॥ [म् ९।१५४]

अनेन द्विजातिपुत्राभावे ऽपि दशमांशाधिकदाननिषेधात् पूर्वस्योत्तमैकशूद्रापुत्रगोचरत्वम् एव ज्ञायते । यच् च मनुना ।

ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् ।
यद् एवास्य पिता दद्यात् तद् एवास्य धनं भवेत् ॥ [म् ९।१५५]

अनेन रिक्थभागित्वम् एव निषिद्धम् । तत्पितृप्रसादलब्धधनदशमांशत्वे सतीति विज्ञेयम् ।

[[९।२८]] तच् चाह बृहस्पतिः ।

अनपत्यस्य शुश्रूषुर् गुणवान् शूद्रयोनिजः ।
लभेताजीवनं शेषं सपिण्डाः समवाप्नुयुः ॥ [ब् २६।१२५]

वर्तनोचितकृष्याद्यर्थं किंचिद् दातव्यम् इत्य् अर्थः । निर्गुणस्यान्तेवासिविधिना वृत्तिमूलं भक्तादिकं पादशुश्रूषया देयम् । यच् चाह मनुः,

यं ब्राह्मणस् तु शूद्रायां कामाद् उत्पादयेत् सुतम् ।
स पारयन्न् एव शवस् तस्मात् पारशवः स्मृतः ॥ [म् ९।१७८]

तद् अपरिणीतशूद्रासुताभिप्रायं परिणीतायाः सकृद् ऋताव् उपगमनस्य वैधत्वात् । तत्रैव च गर्भस्थितेर् न द्वितीयादिसंपर्केष्व् अपि । यथा याज्ञवल्क्यः ।

अपुत्रे भ्रातरि मृते तां तु गच्छेद् ऋतौ सकृत् ॥ [य्?]

तथा मनुः ।

यथाविध्य् उपगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।
मिथो भजेद् आ प्रसवात् सकृत् सकृद् ऋताव् ऋतौ ॥ [म् ९।७०]

प्रथमोपगमनमात्रस्य गर्भहेतुत्वे सकृद्वचनं दृष्टार्थं स्यात् । अन्यथादृष्टार्थत्वम् अस्य कल्पनीयम् ।

अत एव लोके ऽपि प्रथमसंपर्कदिवसम् आदाय मङ्गलाचारार्थं नियतमासविहितपुंसवनसीमन्तोन्नयनाद्यर्थं मासगणना दृश्यते ।

अतः कामाद् उत्पादयेत् सुतम् इत्य् अपरिणीतशूद्राभिप्रायम् एव ।

[[९।२९]] शूद्रस्य पुनर् अपरिणीतदास्यादिशूद्रापुत्रः पितुर् अनुमत्या पुत्रान्तरतुल्यांशहरः । यथा मनुः ।

दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् ।
सो ऽनुज्ञातो हरेद् अंशम् इति धर्मो व्यवस्थितः ॥ [म् ९।१७९]

[[९।३०]] अनुमतिम् अन्तरेण त्व् अर्धांशहरः । तद् आह याज्ञवल्क्यः ।

जातो ऽपि दास्यां शूद्रेण कामतो ऽंशहरो भवेत् । [य् २।१३३च्द्]
मृते पितरि कुर्युस् तं भ्रातरस् त्व् अर्धभागिनम् ॥ [य् २।१३४अब्]

[[९।३१]] परिणीतस्त्रीजातभ्रातृशून्यस् तु सर्वम् एव धनं गृह्णीयाद् यदि दौहित्रो नास्ति । तद् आह याज्ञवल्क्यः ।

अभ्रातृको हरेत् सर्वं दुहितॄणां सुताद् ऋते ॥ [य् २।१३४च्द्]

सति दौहित्रे समं विभज्य गृह्णीयाद् विशेषाश्रवणात् । तथा ह्य् अपरिणीताजातत्वे ऽप्य् अस्य पुत्रत्वाद् अपरस्य तु परिणीतासंतानत्वे ऽपि दौहित्रत्वात् तुल्यांशस्यैव युक्तत्वात् ।