[[८।२।१]] अथ विभागानन्तरागतविभागः । तत्र बृहस्पतिः ।
कृते ऽकृते विभागे वा रिक्थी यत्र प्रवर्तते ।
सामान्यं चेद् भवेद् यत् तु तत्र भागहरस् तु सः ॥ [ब् २६।६३]
ऋणं लेख्यं गृहं क्षेत्रं यस्य पैतामहं भवेत् ।
चिरकालप्रोषितो ऽपि भागभागागतस् तु सः ॥ [ब् २६।६४]
[[८।२।२]] गोत्रसाधारणं त्यक्त्वा यो ऽन्यदेशं समाश्रितः ।
तद्वंशस्यागतस्यांशः प्रदातव्यो न संशयः ॥ [ब् २६।६५]
तृतीयः पञ्चमश् चैव सप्तमो वापि यो भवेत् ।
जन्मनामपरिज्ञाने लभेतांशं क्रमागतम् ॥ [ब् २६।६६]
[[८।२।३]] यं परम्परया मौलाः सामन्ताः स्वामिनं विदुः ।
तदन्वयस्यागतस्य दातव्या गोत्रजैर् मही ॥ [ब् २६।६७]
[[८।२।४]] तद् अनेन चिरप्रोषितवंशेन समन्ताद् वासिभिर् मौलैर् आत्मज्ञापनपूर्वकं भागग्रहणं कार्यम् ।
[[८।२।५]] इति विभक्तागतविभागः ।