[[७।२।१]] संप्रति विभागान्तरजातस्य विभागः कथ्यते । तत्र मनु-नारदौ ।
ऊर्ध्वं विभागाज् जातस् तु पित्र्यम् एव हर्द् धनम् ।
संसृष्टास् तेन वा ये स्युर् विभजेत स तैः सह ॥ [म् ९।२१६ = न् १३।४४।४२न्]
[[७।२।२]] यदि पिता पुत्रान् विभज्य स्वयं च यथाशास्त्रं भागं गृहीत्वा पुत्रैर् असंसृष्ट एव मृतस् तदा विभागानन्तरजातः पितृधनम् एव गृह्णीयात् । स एव तस्य भागः । अथ कैश्चित् पुत्रैः सह संसृष्टः पिता मृतस् तदा संसृष्टेभ्यो भागं गृह्णीयात् । [[७।२।३]] तथा गौतमः: “विभक्तजः पित्र्यम् एव” [ग् २८।२९] । [[७।२।४]] विभागानन्तरं यस्य गर्भाधानं स विभक्तजः विभक्तेन जनितो गर्भादानाद् ऋते जनकस्य जननव्यापाराभावात् । अतो यद्य् अज्ञातगर्भायाम् एव स्त्रियां विभक्ताः पुत्रास् तदनन्तरजातो भ्रातृभ्य एव भागं गृह्णीयात् ।
[[७।२।५]] न केवलम् एक एव किं तु बहवो ऽपि विभक्तजाः पित्र्यम् एव धनं गृह्णीयुः । यद् आह बृहस्पतिः ।
पित्रा सह विभक्ता ये सापत्ना वा सहोदराः ।>
जघन्यजाश् च ये तेषां पितृभागहरास् तु ते ॥ [ब् २६।५४]
अनीशः पूर्वजः पित्र्ये भ्रातृभागे विभक्तजः ॥ [ब् २६।५५]
[[७।२।६]] विभागात् पूर्वं जातः पित्र्ये धने ऽनधिकारी विभक्तजश् च भ्रातृधने । तथा ।
पुत्रैः सह विभक्तेन पित्रा यत् स्वयम् अर्जितम् ।
विभक्तजस्य तत् सर्वम् अनीशाः पूर्वजाः स्मृताः ॥ [ब् २६।५६]
यथा धने तथर्णे ऽपि दानाधानक्रयेषु च ॥ [ब् २६।५७अब्]
[[७।२।७]] सर्वशब्दाद् बहुतरम् अपि धनं पित्रार्जितं विभक्तजस्यैव ।
[[७।२।८]] परस्परम् अनीशास् ते मुक्त्वाशौचोदकक्रियाः ॥ [ब् २६।५७च्द्]
[[७।२।९]] अशौचोदकक्रियामात्रप्रदर्शनेन सुदूरं धनाधिकारं निरस्यति ।
[[७।२।१०]] इदं च पित्रुपात्तधनमात्रविषयम् । यदि तु पैतामहम् अपि भूम्यादिकम् विभक्तं तदा तद्धनविभागं भ्रातृभ्यो गृह्णीयात् । मातुर् निवृत्ते रजसि तद्विभागविधानात् । [[७।२।११]] तद् आह विष्णुः: “पितृविभक्ता विभागानन्तरोत्पन्नस्य विभागं दद्युः” [वि १७।३] । [[७।२।१२]] तथा याज्ञवल्क्यः ।
विभक्तेष् सुतो जातः सवर्णायां विभागभाक् ।
दृश्याद् वा तद्विभागः स्याद् आयव्ययविशोधितात् ॥ [य् २।१२२]
[[७।२।१३]] पित्र्यम् एव हरेद् इति विरोधाद् उक्तयुक्तेश् च क्रमागतधनविषयम् इदम् ।