०६

०१ [[६।१।१]] संप्रति विभाज्यम् अविभाज्यं चोच्यते । तत्र कात्यायनः ।

पैतामहं च पित्र्यं च यच् चान्यत् स्वयम् अर्जितम् ।
दायादानां विभागे तु सर्वम् एतद् विभज्यते ॥ [क् ८४०]

[[६।१।२]] यच् चान्यद् इति चकारः स्वयम् इत्य् अनेन संबध्यते स्वयं चार्जितम् इति । चकाराद् अन्यस्यापि तदर्जनं साधारणधनद्वारेणेत्य् अर्थः ॥

[[६।१।३]] अनुपघातोपात्तम् अविभाज्यम् आहतुर् मनु-विष्णू ।

अनुपघ्नन् पितृद्रव्यं श्रमेण यद् उपार्जयेत् ।
स्वयम् ईहितलब्धं तन् नाकामो दातुम् अर्हति ॥ [म्९।२०८ = वि १८।४२]

[[६।१।४]] पितृद्रव्योपघाताभावेन द्रव्यद्वारेण नेतरेषां व्यापारः स्वचेष्टालब्धत्वेन शारीरो ऽपि व्यापारो नेतरेषाम् इत्य् अर्जकस्यैव तद् असाधारणं स्वयम् ईहितलब्धं तद् इति हेतुत्वेनोपन्यासात् । [[६।१।५]] तथा व्यासः ।

अनाश्रित्य पितृद्रव्यं स्वशक्त्याप्नोति यद् धनम् ।
दायादेभ्यो न तद् दद्याद् विद्यालब्धं तु तद् भवेत् ॥ [व्य् २५६]

[[६।१।६]] स्वशक्तिमात्रेण यत् प्राप्तम् इति सामान्येनाभिधानात् सर्वम् एवंविधम् असाधारणं द्रव्यम् । स्वशक्तिप्राप्तस्यापि विद्याधनस्य समानाधिकविद्यैः साधारणत्वान् न्यूनविद्याविद्यनिराकरणार्थं विद्यालब्धपदम् । [[६।१।७]] तथा याज्ञवल्क्यः ।

पितृद्रव्याविरोधेन यद् अन्यत् स्वयम् अर्जितम् ।
मैत्रम् औद्वाहिकं चैव दायादानां न तद् भवेत् ॥ [य् २।११८]

[[६।१।९]] तथा मनुः ।

विद्याधनं तु यद् यद्य तत् तस्यैव धनं भवेत् ।
मैत्रम् औद्वाहिकं चैव माधुपार्किकम् एव च ॥ [म् ९।२०६]

[[६।१।१०]] तथा च व्यासः ।

विद्याप्राप्तं शौर्यधनं यच् च सौदायिकं भवेत् ।
विभागकाले तत् तस्य नन्वेष्टव्यं स्वरिक्थिभिः ॥ [व्य् २५७]

[[६।१।११]] पितृपितृव्यादिभ्यः सुदायसंन्धिभ्यः प्रसादादिना लब्धं सौदायिकम् ।

[[६।१।१२]] तथा नारदः ।

शौर्यभार्याधने हित्वा यच् च विद्याधनं भवेत् ।
त्रीण्य् एतान्य् अविभाज्यानि प्रसादो यश् च पैतृकः ॥ [न् १३।६]

[[६।१।१३]] भार्याप्राप्तिकाले लब्धं भार्याधनम् औद्वाहिकम् इत्य् अर्थः । एतानि वर्जयित्वा अन्यत् । विभजेद् इत्य् अनुवर्तते वाक्यान्तरीयम् ।

[[६।१।१४]] तद् एवमादिभिः शौर्यादिधनत्वम् अविभाज्यत्वे कारणं नोच्यते । शौर्याद्यर्जितस्यापि विभागश्रुतेः । तद् आह व्यासः ।

साधारणं समाश्रित्य यत् किंचिद् वाहनायुधम् ।
शौर्यादिनाप्नोति धनं भ्रातरस् तत्र भागिनः ॥ [व्य् २५९]
तस्य भागद्वयं देयं शेषास् तु समभागिनः ॥ [व्य् २६०]

साधारणद्रव्येणार्जितस्य धनस्य विभागं वदति । तथा नारदः ।

कुटुम्बं बिभृयाद् भ्रतुर् यो विद्याम् अधिगच्छतः ।
भगं विद्याधनात् तस्मात् स लभेताश्रुतो ऽपि सन् ॥ [न् १३।१०]

[[६।१।१५]] बिभृयाद् इत्य् एकवचननिर्देशाद् यदि विद्याम् अभ्यस्यतो भ्रातुः कुटुम्बम् अपरो भ्राता स्वधनव्ययशरीरायामाभ्यां संवर्धयति तदा तद्विद्योपार्जितधने तस्याप्य् अधिकारः । [[६।१।१६]] तथा ।

वैद्यो ऽविद्याया नाकामो दद्याद् अंशं स्वतो धनात् ।
पित्र्यं द्रव्यं समाश्रित्य न चेत् तेन तद् अर्जितम् ॥ [न् १३।११]

[[६।१।१७]] पित्र्यपदं साधारणपरम् । तदनाश्रित्यार्जितं वैद्यो ऽविद्यायानिच्छन् न दद्यात् । वैद्याय विदुषे पुनः साधारणधनम् अन्तरेणाप्य् अर्जितं दद्याद् एव । तथा गौतमः: “स्वयम् अर्जितम् अवैद्येभ्यो वैद्यो ऽकामं न दद्यात्” [ग् २८।३०] । [[६।१।१८]] असाधारणधनशरीरव्यापारार्जितं स्वयम् अर्जितम् अविद्वद्भ्यो दातुम् अनिच्छन् न दद्याद् विद्वद्भ्यः पुनर् दद्याद् एव ।

[[६।१।१९]] एतच् च विद्याधनमात्रविषयम् । तद् आह कात्यायनः ।

नाविद्यानां तु वैद्येन देयं विद्याधनात् क्वचित् ।
समविधाधिकानां तु देयं वैद्येन तद् धनम् ॥ [क् ८७५]

[[६।१।२०]] तन्त्रोच्चरितविद्यापदम् उभाभ्यां समाधिकपदाभ्यां संबध्यते । तेन समविद्याधिकविद्यानां दातव्यम् । न्यूनविद्याविद्ययोः पुनर् अनधिकारः ।

[[६।१।२१]] तद् एवमादिवचनैर् विद्याशौर्यादिधनेष्व् अपि साधारणधनोपघातानुपघाताभ्यां विभागाविभागयोर् अवगमात् तस्यैव प्रयोजकत्वात् तत्पदवत्य् एव श्रुतिः कल्पनीया उपघातार्जितं विभजेद् इति । न पुनः शौर्यादिपदवत्य् अपि अवश्यकल्पनीयसामान्यश्रुतिकल्पनयैवोपपत्तेः । [[६।१।२२]] होलाकाधिकरण्स्यायम् एव विषयः ।

[[६।१।२३]] यद् वा न्यायप्रात एवायम् अर्थः — यद् येनार्जितं तत् तस्मिन् जीवति तस्यैवासति विशेषवचने । यत्र पुनः साधारणधनमात्रेणैकस्य व्यापादो ऽपरस्य धनशरीराभ्यां तत्रैकस्यैको भागो ऽपरस्य भागद्वयं न्यायावगतम् एव निबद्धम् । एतेन चैतद् अपि सिध्यति यत् साधारणधनोपघाते यस्य यावतो ऽंशस्याल्पस्य महतो वोपघातस् तस्य तदनुसारेण भागकल्पना कार्या ।

[[६।१।२४]] किं च कात्यायनवचनम् ।

विभक्ताः पितृवित्ताच् चेद् एकत्र प्रतिवासिनः ।
विभजेयुः पुनर् द्व्यंशं स लभेतोदयो यतः ॥ [क् ८९२]

[[६।१।२५]] इदं संसृष्टस्य साधारणधनोपघातेनार्जकस्य भागद्वयम् इतरेषाम् एकैको भाग इति श्रीकरेण व्याख्यातम् । [[६।१।२६]] तेनानुपघातार्जितम् अर्जकस्यैव । संसृष्टत्वे ऽपि न पुनर् तद् धनं साधारणम् इत्य् अभिप्रायो मुनेर् व्याख्यातुश् च लक्ष्यते अनुपघातार्जिते भावविशेषानभिधानात् ।

[[६।१।२७]] एवं चेत् संसृष्टवद् अविभक्तस्यापि तथात्वम् एव युक्तम् । विभागप्रागभावे तत्प्रध्वंसे ऽप्य् एकत्र प्रतिवासस्य हेतोर् अविशेषात् । साधारणधनोपघातार्जिते ऽर्जकस्य भागद्वयम् इति ज्ञापनार्थत्वेन वचनस्याप्य् उपपत्तेः । न केवलं संसृष्टविषयत्वं युक्तं होलाकाधिकरणस्यात्रैव जागरूकत्वात् ।

[[६।१।२८]] किं चोपघातार्जिते तावद् अर्जकस्य भागद्वयम् इति निर्विवादम्,

साधारणं समाश्रित्य यत् किंचिद् वाहनायुधम् ।
शौर्यादिनाप्राप्नोति धनं भ्रातरस् तत्र भागिनः ॥ [व्य् २५९]
तस्य भागद्वयं देयं शेषाश् तु समभागिनः । [व्य् २६०]

इत्य् अनेनोपघात एव भागद्वयविधानात् । असाधारणधनशरीरव्यापारमात्रार्जिते तु न भागद्वयं न्याय्यम् । किं त्व् अधिकं सर्वम् एव वा किंचिदूनं वा । तत्र किंचिदूनस्य मुनिभिर् निबन्धृभिश् चानुक्तत्वात् साधारणधनव्यापारणे भ्रात्रन्तरभागनिर्गमात् तदभावे भागाभाव एव युक्तः ।

[[६।१।२९]] द्विर् अर्जयितुर् इत्य् एतस्य च न्यायमूलत्वम् एव युक्तम् । अन्यथा श्रुतिकल्पने ऽर्जकत्वानुप्रवेशो वा पृथग् वाधिकारी कल्पनीयः स्यात् ।

[[६।१।३०]] तस्माद् अनुपघार्जितम् अर्जकस्यैव नेतरेषाम् इति सिद्धम् ।

[[६।१।३१]] किं चाविभक्तार्जितं सर्वे विभजेयुर् इति न तावत् सामान्येन वचनं कल्पनीयं शौर्यादिधनपर्युदासदर्शनात् । तथा मनुः ।

विद्याधनं तु यद् यस्य तत् तस्यैव धनं भवेत् ।
मैत्रम् औद्वाहिकं चैव माधुपर्किकम् एव च ॥ [म् ९।२०६]

तथा मनु-विष्णू ।

अनुपघ्नन् पितृद्रव्यं श्रमेण यद् उपार्जयेत् ।
स्वयम् ईहितलब्धं तन् नाकामो दातुम् अर्हति ॥ [म् ९।२०८ = वि १८।४२]

[[६।१।३२]] अनुपग्नन्न् इति विधाधने ऽपि संबध्यते सत्य् उपघाते विभागवचनदर्शनात् ।

[[६।१।३३]] तथा याज्ञवल्क्यः ।

पितृद्रव्याविनाशेन यद् अन्यत् स्वयम् अर्जितम् ।
मैत्रम् औद्वाहिकं चैव दायादानां न तद् भवेत् ॥ [य् २।११८]
क्रमाद् अभ्यागतं द्रव्यं हृतम् अभ्युद्धरेत् तु यः ।
दायादेभ्यो न तद् दद्याद् विद्यया लब्धम् एव च ॥ [य् २।११९]

तथा नारदः ।

शौर्यभार्याधने हित्वा यच् च विध्याधनं भवेत् ।
त्रीण्य् एतान्य् अविभाज्यानि प्रसादो यश् च पैतृकः ॥ [न् १३।६]

तथा व्यासः ।

विद्याप्राप्तं शौर्यधनं यच् च सौदायिकं भवेत् ।
विभागकाले तत् तस्य नान्वेष्टव्यं स्वरिक्थिभिः ॥ [व्य् २५७]

[[६।१।३४]] सौदायिकं सुदायसंबन्धिभ्यो यल् लब्धम् ।

[[६।१।३५]]> पितामहेन यद् दत्तं पित्रा वा प्रीतिपूर्वकम् ।

तस्य तन् नापहर्तव्यं मात्रा दत्तं च यद् भवेत् ॥ [व्य् २६१ ]
अनाश्रित्य पितृद्रव्यं स्वशक्त्याप्नोति यद् धनम् ।
दायादेभ्यो न तद् दद्याद् विद्यालब्धं च यद् भवेत् ॥ [व्य् २५६]

[[६।१।३६]] तद् एवमादिवचनैर् यावद् वर्णवर्णान्तरालानां संकीर्णजातानां सकलविद्यानिमित्तस्य सौदायिकस्य च स्वजनदत्तस्य तथा मैत्रविवाहमधुपर्कप्राप्तस्य शौर्येण च युद्धादिना प्राप्तस्य कृषिसेवावाणिज्यादिना च श्रमेणार्जितस्यानुपघातेन च स्वशक्तिमात्रार्जितस्य पर्युदासात् सर्वम् एव पर्युदस्तम् इति तद् इतराभावान् निर्विषयो विधिः ।

[[६।१।३७]] अथ यथाकथंचिद् एको द्विको वा विषयो लभ्यते तदा तद् एव स्वपदेन निर्देष्टुम् उचितं मुनीनाम् । अविभक्तार्जितम् अमुकधनं विभजेद् इति लाघवात् । स्वपदाच् च शीघ्रप्रतीतेः । न तु सौर्यादिधनेतरतया बहुतरपदप्रयोगापत्त्या गौरवात् ।

पर्युदासत्वे च सर्वमुनिभिर् एव सकलपर्युदासनीयपदानुकीर्तनं कर्तव्यं तद्विना तदितरज्ञानानुपपत्तेः । मुनीनां पर्युदासवचनं बालप्रलपितम् इव स्यात् । प्रदर्शनार्थत्वे त्व् अनास्थया केनचित् किंचित् कीर्तनं केनचिच् च किंचिद् इति युक्तं सर्वस्याकीर्तनम् ।

[[६।१।३८]] तस्मात् साधारणधनोपघातार्जितं धनं विभजेद् इति विधिः । शौर्यादिपदं च वाक्येषु प्रदर्शनार्थम् । [[६।१।३९]] अतो ऽविभ्क्तार्जितत्वमात्रेण धनस्य साधरणत्वाभिधानम् अप्रामाणिकम् ।

[[६।१।४०]] किं च ।

क्रमाद् अभ्यागतं द्रव्यं हृतम् अभ्युद्धरेत् तु यः ।
दायादेभ्यो न तद् दद्याद् विद्यया लब्धम् एव च ॥ [य् २।११९]

अत्र याज्ञवल्क्यवचने पितृपितामहादिधनम् अपि केनचिद् अपहृतं यो ऽभ्युद्धरेत् तस्यैव तन् नान्येषाम् इति भवतो ऽपि संमतम् । तेन पूर्वसंबन्धलेशे सत्य् अप्य् विभक्तानाम् अप्य् अभ्युद्धारकत्वेन तत्र संबन्धं निराकुर्वन् न पूर्वत्वेन स्वार्जिते सुदूरम् एवान्येषां संबन्धं निरस्यति ।

[[६।१।४१]] यच् चोक्तं श्रीकरेण — “यदि पितृद्रव्यानुपघातार्जितम् अर्जकस्यैव तदा प्रतिग्रहोपात्तं धनं न कदाचिद् भ्रात्रन्तरस्य भवेत् । न हि प्रतिग्रहः पितृद्रव्यविनाशेन संभवति । द्रव्यं हि दातुर् आनतिद्वारा प्रतिग्रह उपयुज्यते । एकहायन्यादिकम् इव सोमक्रये कर्तृशरीरधारणेन वा पयोव्रतादिकम् इव ज्योतिष्टोमे । तत्र तावद् अदृष्टार्थदाने द्रव्यानत्रग्रहणेन न दातुर् आनतिर् अपेक्षितेति न दात्रानत्या द्रव्यम् उपयुज्यते । प्रतिग्रहस्य चाल्पकालीनत्वान् न तत्कर्तुर् भ्ōजनम् अपेक्षितम् । दीर्घकालीनज्योतिष्टोमेनेव स्वर्गकतुः” इति ।

[[६।१।४२]] तन् मन्दम् । दापकान् अत्यर्थम् उपहारप्रदानादिना धनोपघातस्य लोके बहुलम् उपलम्भात् । कलौ च प्रतिग्रहधनस्य सेवाधनसमानत्वात् । अत एव “कलौ त्व् अनुगमान्वितः” इति स्मरन्ति ।

[[६।१।४३]] यच् च — चिरावस्थितेर् व्यभिचारान् न प्रतिग्रहकारणत्वम् आनतेर् अत आनतिद्वारा न प्रतिग्रहार्थत्वं द्रव्यस्येत्य् उक्तम् ।

तन् मन्दतरम् । आनतिद्वारेण चिराश्रयणादीनां प्रतिग्रहकारणत्वात् पुरुषाशयवैचित्र्येण कस्यचिद् धनदानेन कस्यचिच् चिराश्रयणादिना कस्यचित् तत्तद्गुणानुसंधानमात्रेण दर्शनात् । सहकार्यभावेन कार्यानुत्पत्तेर् नाकारणता । अत एवोक्तम्, आनतेर् अनियतोपायपरिणामत्वात् ।

[[६।१।४४]] तद् अप्य् अयुक्तम् — अथ तत्संनिधिम् अन्तरेण प्रतिग्रहस्यासंभवाद् भोजनम् अन्तरेण च तदयोगात् तस्यां स्थितौ व्याप्रियमाणं धनं प्रणाल्या प्रतिग्रहं निष्पादयतीति । तदा ज्योतिष्टोमादिकर्मणः प्राचीनम् अपि भोजनं शरीरस्थितौ व्याप्रियमाणं प्राचीनशरीरस्थितिम् अन्तरेण ज्योतिष्टोमानिष्पत्तेः प्रणाल्या ज्योतिष्टोमार्थम् इति सर्वम् एव भोजनं क्रत्वर्थं स्यान् न पुरुषार्थम् । तथा च तत्साधनम् अपि यद् द्रव्यं तत् क्रत्वर्थं स्यात् । यदर्जनोपायो ऽपि क्रत्वर्थः स्याद् इति पुरुषार्थत्वं द्रव्यार्जनस्य द्रव्यस्य भोजनस्य च हीयतेति ।

[[६।१।४५]] तन् मन्दतमम् । प्रणाल्या ज्योतिष्टोमोपकारकत्वे ऽपि भोजनस्य साक्षात् तृप्त्यर्थत्वात् । पुरुषार्थस्यैव सतः क्रतूपकारकत्वात् तत्रैदमर्थे प्रमाणाभावात् । उपकारकत्वस्य तादर्थ्यव्यभिचारात् । अतः कथं द्रव्यार्जनस्य द्रव्यस्य भोजनस्य च क्रत्वर्थत्वम् आपद्येत ।

[[६।१।४६]] अत एवास्यापि पर्यनुयोगस्यानवकाशः । यदि द्रव्यस्य प्रतिग्रहे प्राचीनभोजनद्वारा प्रतिग्रहोपकारकत्वम् इष्यते तदा जन्मत आरभ्य भोजनं विना शरीरावस्थितेर् अभावान् नार्जनं संभवतीति सर्व एव धनोपयः पितृद्रव्यविनाशेन स्यात् । अतो “अनुपघ्नन् पितृद्रव्यम्” इति विशेषणं न स्याद् इति । यतो विशेषनानर्थक्याद् एव भक्षणाद्युपभोगोपयुक्तधनोपघाताद् अन्यस्यैवोपघातादिरूपस्य वचनार्थत्वात् ।

[[६।१।४७]] किं च भक्षणाद्युपभोगार्थं धनोपघातस्य गृहगतेनाप्य् अवश्यकर्तव्यत्वान् न धनार्जनार्थत्वम् उपघातस्य । तादर्थ्यम् एव च प्रयोजकम् इति नातिप्रसक्तिः ।

[[६।१।४८]] अत एवोक्तं विश्वरूपेण 1— पितृद्रव्यं दत्वा यदि नोपार्जितं धनं तदा तस्यैवासाधारणं वैवाहिकवद् एवोक्तम् । न तु भक्षणाद्युपभोगमात्रेण तस्य स्तन्यपानादितुल्यत्वाद् इत्य् अनेन ।

[[६।१।४९]] अत एव पुत्रोपनयनविवाहयोः सोत्सुकसव्ययपितृकृतबहुतरधनव्यये ऽपि न व्रतभिक्षादिलब्धस्य वैवहिकस्य वा साधारण्यं धनप्रेप्सया धनव्ययस्याकृतत्वात् ।

[[६।१।५०]] तस्माद् धनोद्देशेनैव साधारणधनोपघातेनार्जितं साधारणं नान्यद् इति सिद्धम् ।

[[६।१।५१]] जितेन्द्रेणापि बहुप्रकारं विमृश्योक्तम् — तद् अस्य यावद् उक्तप्रपञ्चस्य संक्षेपेणायम् अर्थः प्रत्येतव्यः । यत् किंचिद् धनम् असाधारणधनोपघातार्जितं तद् असाधारणम् । यत् किंचिद् धनं साधारणोपार्जितं तत् साधारणम् । विस्पर्ष्टार्थं तु विद्याधनं तु यद् यस्येत्यादिनोदाहरणप्रपञ्चेनोपन्यस्तम् । असाधारणत्वाद् एवाविभाज्यम् एवंविधं धनं साधारणम् अपि साधारणहेतुसमुत्थम् एवंविधम् एव । तद् अपि सुखावभोधार्थम् । क्वचिद् अर्थसाधारण्येन क्वचिच् च व्यापारतथात्वेन संबन्धसाधारण्येन च प्रदर्शितम् इत्यन्तेन ।

[[६।१।५२]] बालकेनाप्य् उक्तम् — न ह्य् एकेन भ्रात्रा विद्यादिना लब्धे ऽपरेषाम् अधिकारसंभवः प्रमाणाभावाद् इत्यन्तेन ।

[[६।१।५३]] यश् चानुपघातप्रतिग्रहार्जितधनस्य विभागः शिष्टानां दृश्यते स भ्रातृस्नेहेन वा पौरुषबुद्ध्या वा नानुपपन्नः ।

यद् वा प्रतिग्रहधनस्य विद्याधनत्वाद् विद्याधने च साधारणधनानुपघातार्जिते ऽपि समविद्याधिकविद्यानां विभागस्य वाचनिकत्वात् तद्विभागं पश्यन्तो विद्याधनस्य विद्याविशेषकृतो ऽयं विभाग इत्य् अजानन्तो ऽविभक्तार्जितत्वेनायं विभाग इति भ्रान्ताः । स्वयम् अपि तथैव व्य्वहृतवन्तः । तन्मूलश् चापरापरव्यवहार इति न किंचिद् अनुचितम् ।

[[६।१।५४]] यत् पुनर् मनुवचनम्,

यत् किंचित् पितरि प्रेते धनं ज्येष्ठो ऽधिगच्छति ।
भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥ [म् ९।२०४]

तस्यायम् अर्थः ।

पितेव पालयेत् पुत्रान् ज्येष्ठो भ्रातॄन् यवीयसः ।
पुत्रवच् चानुवर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ॥ [म् ९।१०८]

एतस्माद् वचनात् पितापुत्रवद् अवस्थानात् पित्रर्जित इवानुपघातार्जिते ऽपि ज्येष्ठधने कनिष्ठानाम् अधिकारः । एतावान् परं विशेषः । पित्रर्जिते ऽविदुषाम् अप्य् अधिकारो ज्येष्ठार्जिते पुनर् विदुषाम् एव ।

[[६।१।५५]] एतच् च पितरि प्रेत इति ज्येष्ठ इति यवीयसाम् इति विद्यानुपालिन इत्यादिपदप्रयोगस्यानर्थक्यात् सिध्यति ।

[[६।१।५६]] तस्माद् अविभक्तार्जितत्वमात्रेणाविभक्तभ्रात्रन्तरस्य भवतीत्य् असंगतं वचनम् ।

०२ [[६।२।१]] तत्र विद्याधनं तावद् अभिधीयते । तत्र कात्यायनः ।

उपन्यस्ते तु यल् लब्धं विद्यया पणपूर्वकम् ।
विद्याधनं तु तद् विद्याद् विभागे न नियोजयेत् ॥ [क् ८६८]
शिष्याद् आर्त्विज्यतः प्रश्नात् संदिग्धप्रश्ननिर्णयात् ।
स्वज्ञानशंसनाद् वादाल् लब्धं प्राध्ययनाच् च यत् ॥ [क् ८६९अब्च्द्]
विध्याधनं तु तत् प्राहुर् विभागे न विभज्यते ॥ [क् ८६९एफ़्]
शिल्पेष्व् अपि हि धर्मो ऽयं मूल्याद् यच् चाधिकं भवेत् ॥ क् ८७०]
परं नरस्य यल् लब्धं विद्यया द्यूतपूर्वकम् ।
विद्याधनं तु तद् विद्यान् न विभाज्यं बृहस्पतिः ॥ [क् ८७१]

[[६।२।२]] यदि भवान् भद्रकम् उपन्यस्यति तदा भवते मया एतावद् देयम् इति पणितम् । यत्रोपन्यासं निस्तीर्य लभते तन् न विभाज्यम् । [[६।२।३]] शिष्याद् अध्यापितात् । [[६।२।४]] आर्त्विज्यतः यजमानाद् दक्षिणादिना लब्धम् । [[६।२।५]] दक्षिणा च न प्रतिग्रहो वेतनरूपत्वात् तस्याः । [[६।२।६]] तथा यत् किंचिद् विद्यायां प्रश्ने निस्तीर्णे ऽपणितम् एव यद् कश्चित् परितोषाद् ददाति । [[६।२।७]] तथा यो ह्य् अस्मिन् शास्त्रार्थ मम संशयम् अपनयति तस्मै सुवर्णम् इदं ददातीत्य् उपस्थितस्य संशयम् अपनीय यल् लब्धं वादिनोर् वा संदेहे न्यायकरणार्थम् आगतयोः सम्यङ्निरूपणेन यल् लब्धं षाष्ठांशादिकम् । [[६।२।८]] तथा शास्त्रादिषु प्रकृष्टज्ञानं विभाव्य यत् प्रतिग्रहादिना लब्धम् । [[६।२।९]] तथा द्वयोः शास्त्रज्ञानविवादे ऽन्यत्रापि यत्र कुत्रचिद् अन्योन्यज्ञानविवादे निर्जित्य यल् लब्धम् । [[६।२।१०]] तथैकस्मिन् देये बहूनाम् उपप्लवे येन प्रकृष्टम् अधीत्य यल् लब्धम् । [[६।२।११]] तथा शिल्पादिविद्यया चित्रकारसुवर्णकारादिभिर् यल् लब्धम् । [[६।२।१२]] द्युतेनापि परं निर्जित्य यल् लब्धम् ।

[[६।२।१३]] तत् सर्वम् अविभाज्यम् इतरैः । तद् अयम् अर्थो यया कयाचिद् विद्यया यल् लब्धम् अर्जकस्यैव तन् नेतरेषाम् । प्रदर्शनार्थं तु कात्यायनेन विस्तरेणोक्तं श्रीकरादिभ्रमनिरासार्थम् ।

[[६।२।१४]] अतः स्वज्ञानख्यापनादिना यत् प्रतिग्रहलब्धं तद् अपि विद्याधनम् एव विद्ययैव विदुषे प्रतिग्रहदानात् । [[६।२।१५]] तथा यमः ।

विद्यायुक्तो धर्मशीलः प्रशान्तः क्षान्तो दान्तः सत्यवादी कृतज्ञः ।
वृत्तिग्लानो गोहितो गोशरण्यो दाता यज्वा ब्राह्मणः प्रात्रम् आहुः ॥
नैषां प्रतिग्रहो देयो न शिला तारयेच् छिलाम् ॥

[[६।२।१६]] विद्वत्तयैव पात्रत्वाद् अविदुषां चापात्रत्वात् ।

[[६।२।१७]] अतो यत् केनचिद् उक्तम् — विद्याधनं तु विद्याध्यापननिमित्तं यत् तद् उच्यत इति, तद् उक्तवचनादर्शनेनेति हेयम् एव विद्याशब्दस्य विद ज्ञान इत्य् अस्माद् धातोर् निष्पत्तेर् ज्ञानमात्रवचनत्वात् ।

[[६।२।१८]] यच् च प्रतिग्रहधनस्यापि विद्याधनत्वेन याजनाध्यापनप्रतिग्रहाणां संकीर्णत्वम् आपादितं श्रीकरेण तद् अतिमन्दम् । विद्याधनत्वसामान्यस्य याजनाध्यापनप्रतिग्रहादिनानाव्यक्तिसंबन्धे ऽपि व्यक्तीनाम् असंकीर्णत्वाद् तदापि याजनाध्यापस्याप्रतिग्रहत्वात् । गोत्वसमवाये ऽपि नीलकपिलकापोतिकादिव्यक्तीनां असंकीर्णत्वस्याविवादात् । [[६।२।१९]] अत एव शिष्याद् आर्त्विज्यतः प्राप्तयोर् विद्याधनत्वं स्मरन् मुनिर् याजनाध्यापनयोः संकारात् कथं न बिभेति । अतः पक्षग्रहणमात्रेण तदभिधानम् इति हेयम् ।

[[६।२।२०]] शौर्यादिधनम् आह कात्यायनः ।

आरुह्य संशयं यत्र प्रसभं कर्म कुर्वते ।
तस्मिन् कर्मणि तुष्टेन प्रसादः स्वामिना कृतः ।
तत्र लब्धं तु यत् किंचिद् धनं शौर्येण तद् भवेत् ॥ [क् ८७६]
ध्वजाहृतं भवेद् यत् तु विभाज्यं नैव तत् स्मृतम् ।
संग्रामाद् आहृतं यत् तु विजित्य द्विषतां बलम् ।
स्वाम्यर्थं जीवितं त्यक्त्वा तद् ध्वजाहृतम् उच्यते ॥ [क् ८७८]

[[६।२।२१]] वैवाहिकं तु तद् विद्याद् भार्यया यत् सहागतम् ॥ [क् ८८० अब्]

[[६।२।२२]] भार्याप्राप्तिकाले लब्धम् इत्य् अर्थः ।

[[६।२।२३]] तथा अपरम् अप्य् अविभाज्यम् आहतुर् मनु-विष्णू ।

वस्त्रं पत्रम् अलंकारो कृतान्नम् उदकं स्त्रियः ।
योगक्षेमप्रचारं च न विभाज्यं प्रचक्षते ॥ [म् ९।२१९ = वि १८।४४]

[[६।२।२४]] वस्त्रम् अङ्गयोजितं पङ्क्तिपरिच्छदार्थं च । पत्रं वाहनम् अश्वादि । अलंकारो ऽङ्गुलीयकादि । कृतान्नं लड्डुकादि । उदकं कूपवापीगतं प्रचारोपयुक्तम् । स्त्रियो दासीव्यतिरिक्ताः । योगक्षेमप्रचारं च शय्याभोजनाचमाद्युपयुक्तभाजनादीनि ।

[[६।२।२५]] तथा व्यासः ।

अविभाज्यं सगोत्राणाम् आ सहस्रकुलाद् अपि ।
याज्यं क्षेत्रं च पत्रं च कृतान्नम् उदकं स्त्रियः ॥ [व्य् २६२]

[[६।२।२६]] याज्यं यागस्थानं देवता वा । न तु याजनलब्धं धनं तस्य विद्याधनत्वेनैव गतार्थत्वात् । [[६।२।२७]] तथा कात्यायनः ।

गोप्रचारश् च रथ्या च वस्त्रं यच् चाङ्ग्योजितम् ।
प्रायोज्यं न विभज्येत शिल्पार्थं च बृहस्पतिः ॥ [क् ८८४]

[[६।२।२८]] प्रायोज्यं यद् यस्य प्रयोजनार्हम् । यथा श्रुतादौ पुस्तकादि । न तन् मूर्खैर् वुभजनीयम् । शिल्पोपयुक्तं च शिल्पिनाम् एव नातद्विदाम् । [[६।२।२९]] तथा शङ्खलिखितौ: “न वास्तुविभागो नोदकपात्रालंकारानुपयुक्तस्त्रीवाससाम् अपां प्रचारार्थानां विभागश् चेति प्रजापतिः” [श्ल् २७८] । [[६।२।३०]] पितरि जीवति यस्मिन् वास्तौ येन गृहोद्यानादिकं कृतं तत् तस्य न विभाज्यं पितुर् अप्रतिषेधेन तदनुमतत्वात् ।

****[[६।२।३१]] तथा पैतामहम् अपि द्रव्यं यच् चिरं नष्टम् अक्षमत्वाद् अथ वा प्रतीकारपराङ्मुखतया इतरैर् अप्रतिकृतं पित्रा च स्वधनशरीरायासाभ्यां प्रतिकृतं तत् पितुर् एव न साधारणम् । [[६।२।३२]] यथा मनुः ।

**> **पैतृकं तु पिता द्रव्यम् अनवाप्तं यद् आप्नुयात् ।

न तत् पुरैर् भजेत् सार्धम् अकामः स्वयम् अर्जितम् ॥ [म् ९।२०९]

[[६।२।३३]] पैतृकं द्रव्यं पुत्रैर् अनवाœतम् अप्रतिकृतम् । अनवाप्यम् इत्य् अनवाप्येति च पाठाव् अनाकरौ । [[६।२।३४]] आह बृहस्पतिः ।

पैतामहं हृतं पित्रा स्वशक्त्या यद् उपार्जितम् ।
विद्याशौर्यादिना प्राप्तं तत्र स्वाम्यं पितुः स्मृतम् ॥ [ब् २६।५८]
प्रदानं स्वेच्छया कुर्याद् भोगं चैव ततो धनात् ।
तदभावे तु तनयाः समांशाः परिकीर्तिताः ॥ [ब् २६।५९]

[[६।२।३५]] स्वशक्त्येत्य् असाधारणधनशरीरव्यापारं दर्शयति ।

[[६।२।३६]] वचनद्वये ऽपि पितृपदम् उपलक्षणं स्वयम् अर्जितम् इति हेतोर् अभिधानात् । [[६।२।३७]] एवं च स्वार्जिताक्रमातद्रव्यवद् एव क्रमागते ऽप्य् एवंरूपे भूमिव्यतिरिक्ते व्यवस्था बोद्धव्या । [[६।२।३८]] भूमौ तु विशेषम् आह शङ्खः ।

पूर्वनष्टां तु यो भूमिम् एक एवोद्धरेच् छ्रमात् ।
यथाभागं भजन्त्य् अन्ये दत्वा भागं तुरीयकम् ॥ [श्ल् २७३]

[[६।२।३९]] यद्य् अप्य् असाधारणधनशरीरव्यापारम् एवकारेण दर्शयति तथाप्य् उद्धर्तुर् नासाधारण्यम् । किं तु प्रतिकृतभूमेश् चतुर्थांशो ऽधिकस् तस्मै दातव्यः । भूमिपदसामर्थ्यात् तदविवक्षाकारणाभावात् ।

[[६।२।४०]] इति विभाज्याविभाज्यनिरूपणम् ।


  1. नोत् फ़ोउन्द् इन् थे एदितिओन् ओफ़् विश्वरूप। ↩︎