[[५।१]] संप्रति विभागानधिकारिणः कथ्यन्ते । तत्पर्युदासेनाधिकारिज्ञापनार्थम् । तत्र आपस्तम्बः: “सर्वे हि धर्मयुक्ता धनभागिनो द्रव्यम् अर्हन्ति । यस् त्व् अधर्मेण द्रव्याणि प्रतिपादयति जेय्ष्ठो ऽपि तद्भागं कुर्वीत” [आप् २।६।१४।१४–१५] ।
[[५।२]] इदं बालेनाकुईकृत्य पठितम्: “यस् तु धर्मेण द्रव्याणि प्रतिपादयति ज्येष्ठस् तं पितृसमभागं कुर्वीत” इति । तद् अनाकरम् ।
[[५।३]] तथा: “अपपात्रितस्य रिक्थपिण्डोदकानि निवर्तन्ते” [श्ल् २९९] । अपपात्रितो भिन्नोदकीकृतः ।
[[५।४]] तथा बृहस्पतिः ।
सवर्णाजो ऽप्य् अगुणवान् नार्हः स्यात् पैतृके धने ।
तत्पिण्डदाः श्रोत्रिया ये तेषां तद् अभिधीयते ॥ [ब् २६।३४]
उत्तमर्णाधर्मर्णेभ्यः पितरं त्रायते सुतः ।
अतस् तद्विपरीतेन नास्ति तेन प्रयोजनम् ॥ [ब् २६।३५]
तया गवा किं क्रियते या न धेनुर् न गर्भिणी ।
को ऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः ॥ ब् २६।३६]
शास्त्रशौर्यार्थरहितस् तपोविज्ञानवर्जितः ।
आचारहीनः पुत्रस् तु मूत्रोच्चारसमस् तु सः ॥ [ब् २६।३७]
[[५।५]] अयम् अर्थः — पित्रादेर् और्ध्वदेहिकस्य कर्मणो ऽसंस्कृतः सुतः श्रेष्ठो नापरो वेदपारग इति ।
[[५।६]] “पुन्नाम्नो नरकाद् यस्मात् त्रायत” [ब् २६।३८अब् = वि १५।४४] इत्यादिवचनेन पुत्रकर्तृकतया महाफलश्रुतेस् तत्कर्मवेतनं धनसंबन्धित्वम् । अतस् तद् अकुर्वतः कुतो वेतनम् । अत एवाह मनुः ।
सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् । [म् ९।२१४अब्]
[[५।७]] तथा ।
अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकाश् च ये च केचिन् निरिन्द्रियाः ॥ [म् ९।२०१]
[[५।८]] क्लीबः कात्यायेनेन दर्शितः ।
न मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमग्गति ।
मेढ्रं चोन्मादशुक्राभ्यां हीनं क्लीबः स उच्यते ॥ [क् ८६१]
[[५।९]] जातिपदम् अन्धबधिराभ्यां संबध्यते । वर्णानुच्चरको मूकः । जडः वेदग्रहणासमर्थः ।
[[५।१०]] आह याज्ञवल्क्यः ।
पतितस् तत्सुतः क्लीबः पङ्गुर् उन्मत्तको जडः ।
अन्धो ऽचिकित्स्यरोगार्तो भर्तव्यास् ते निरंशकाः ॥ [य् २।१४०]
पदा न गच्छतीति पङ्गुः । [[५।११]] निरंशकत्वे ऽपि पतिततत्सुतव्यतिरिक्ता भर्तव्याः । तद् आह देवलः ।
मृते पितरि न क्लीबकुष्ठ्युन्मत्तजडान्धकाः ।
पतितः पतितापत्यं लिङ्गी दायांशभागिनः ॥ [द् १५७३]
तेषां पतितवर्जेभ्यो भक्तवस्त्रं प्रदीयते ।
तत्सुताः पितृदायांशं लभेरन् दोषवर्जिताः ॥ [द् १५७४]
लिङ्गी प्रव्रजितादिः । [[५।१२]] पतितपदेन तत्सुतस्याप्य् उपादानं पतितोत्पन्नत्वेन पतितत्वात् । तद् आह बौधायनः: “अतीतव्यवहारान् ग्रासाच्छादनैर् बिभृयुः । अन्धजडक्लीबव्यसनिव्याधितादींश् चाकर्मिणः । पतिततज्जातवर्जम् । [बौ २।२।३।३७–४०]
[[५।१३]] तत्र नारदः ।
पितृद्विट् पतितः पण्डो यश् च स्याद् औपपातिकः ।
औरसा अपि नैते ऽंशं लभेरन् क्षेत्रजा कुतः ॥ [न् १३।२१।२०]
[[५।१४]] आह कात्यायनः ।
अक्रमोढासुतश् चैव सगोत्राद् यस् तु जायते ।
प्रव्रज्यावसितश् चैव न रिक्थं तेषु चार्हति ॥ [क् ८६२]
[[५।१५]] हीनवर्णस्त्रीपरिणयनानन्तरम् उत्तमवर्णस्त्रीपरिणयने द्वयोर् अप्य् अक्रमोढात्वम् । तयोः सगोत्रान् नियुक्ताद् उत्पन्नः क्षेत्रजः पुत्रो नार्हति धनम् । अक्रमोड्ःआयाम् अपि सवर्णेन परिणेत्रोत्पादितः पुत्रः धनाध्कारी क्रमोढायाम् असवर्णजातो ऽपि । [[५।१६]] तद् आह कात्यायनः ।
अक्रमोढासुतस् त्व् ऋक्थी सवर्णश् च यदा पितुः ।
असवर्णप्रसूतश् च क्रमोढायां तु यो भवेत् ॥ [क् ८६३]
प्रतिलोमप्रसूतायास् तस्याः पुत्रो न रिक्थभाक् ।
ग्रासाच्छादनमात्रं तु देयं यद् बन्धुभिर् मतम् ॥ [क् ८६४]
बन्धूनाम् अप्य् अभावे तु पित्र्यं द्रव्यं तद् आप्नुयात् ।
स्वपित्र्यं तद् धनं प्राप्तं दापनीया न बान्धवाः ॥ [क् ८६५]
[[५।१७]] अस्ति च क्लीबादीनां दारपरिग्रहः:
यद्य् अर्थिता तु दारैः स्यात् क्लीबादीनां कथंचन ।
तेषाम् उत्पन्नतन्तूनाम् अपत्यं दायम् अर्हति ॥ [म् ९।२०३]
तन्तुर् अपत्यम् ।
[[५।१८]] न चापुंस्त्वात् क्लीबस्य जननासामर्थात् अध्ययनाभावान् मूकादेर् उपनयनाभावेन पतितत्वात् कथं दारसंबन्ध इत् वाच्यम् । क्लीबस्य पत्न्याम् अन्येन पुत्रोत्पादसंभवात् । उपनयनानर्हस्यानुपनीतत्वे शूद्रवद् अपतितत्वात् । [[५।१९]] तेनैषां यथासंभवम् औरसक्षेत्रजाः क्लीबत्वादिशून्याः स्वपित्रनुसारेण भागहारिणः । दुहितरश् च परिणयनं यावद् भर्तव्याः । अपुत्राश् च स्त्रियो यावज्जीवम् । यद् आह याज्ञवल्क्यः ।
औरसाः क्षेत्रजास् त्व् एषां निर्दोषा भागहारिणः ।
सुताश् चैषां प्रभर्तव्या यावन् न भर्तृसात्कृताः ॥ [य् २।१४१]
अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः ।
निर्वास्या व्यभिचारिण्यः प्रतिकूलास् तथैव च ॥ [य् २।१४३]