०१
[[४।१।१]] अथ स्त्रीधनविभागार्थं प्रथमं स्त्रीधनं निरूप्यते ।
तत्र विष्णुः: “पितृमातृसुतभ्रातृदत्तम् अध्यग्न्युपागतं आधिवेदनिकं बन्धुदत्तं शुल्कान्वाधेयकम् इति स्त्रीधनम्” [वि १७।१८] ।
[[४।१।२]] अन्वाधेयकम् आह कात्यायनः ।
विवाहात् परतो यत् तु लब्धं भर्तृकुलात् स्त्रिया ।
अन्वाधेयं तद् उक्तं तु लब्धं बन्धुकुलात् तथा ॥ [क् ८९९]
ऊर्ध्वं लब्धं तु यत् किंचित् संस्कारात् प्रीतितः स्त्रिया ।
भर्तुः पित्रोः सकाशाद् वा अन्वाधेयं तु तद् भृगुः ॥ [क् ९००]
[[४।१।३]] बन्धुपदेन मातापितोर् उपादानम् । तेनायम् अर्थः — मातापितृद्वारेण संबन्धिनां पित्रोश् च सकाशाद् यत् तु विवाहात् परतो लब्धम् । तथा भर्तुः सकाशाद् भर्तृकुलाच् च श्वशुरादितो यल् लब्धं धनं तद् अन्वाधेयम् । विष्णुवचने च बन्धुपदं मातुलाद्यभिप्रायं पित्रादीनां स्वपदेनैव निर्दिष्टत्वात् । परिणयनसमयलब्धस्य च ब्राह्माद्यासुरादिविशेषेण भर्तुः पित्रोर् वाधिकारात् ।
[[४।१।४]] स्त्रीधनम् आहतुर् मनु-कात्यायनौ ।
अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतितः स्त्रियै ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनम् स्मृतम् ॥ [म् ९।१९४ = क् ८९४]
तथा नारदः ।
अध्यग्न्यध्यावाहनिकं भर्तृदायस् तथैव च ।
भ्रातृदत्तं पितृभ्यां च षड्विधं स्त्रीधनं स्मृतम् ॥ [न् १३।८]
[[४।१।५]] एतद् व्याकुरुते कात्यायनः ।
विवाहकाले यत् स्त्रीभ्यो दीयते ह्य् अग्निसंनिधौ ।
तद् अध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥ [क् ८९५]
यत् पुनर् लभते नारी नीयमाना हि पैतृकात् ।
अध्यावाहनिकं नाम तत् स्त्रीधनम् उदाहृतम् ॥ [क् ८९६]
[[४।१।६]] पैतृकाद् इत्य् एकशेषेण पितृमातृकुलाद् यल् लभते धनं भर्तृगृहं नीयमाना तद् अध्यावाहनिकम् ।
[[४।१।७]] भर्तृदायो भर्तृदत्तं धनं भर्तृदायम् अनभिधाय मन्वादिभिर् भर्तृदत्तस्याभिधानात् । नारदेनापि भर्तृदत्तम् अनभिधाय भर्तृदायस्याभिधानात् ।
[[४।१।८]] तथान्यत्रापि भर्तृदत्तए भर्तृदायप्रयोगो दृष्टः । यथा कात्यायनः ।
भर्तृदायं मृते पत्यौ विन्यसेत् स्त्री यथेष्टतः ।
विद्यमाने तु संरक्षेत् क्षपयेत् तत्कुले ऽन्यथा ॥ [क् ९०७]
[[४।१।९]] अस्यार्थः — भर्तृदत्तं धनं बर्तरि मृते यथेष्टं विनियुञ्जीत । जीवति तु तद् रक्षेद् अमुक्तहस्तताज्ञापनार्थम् । &ल्त्;४।१।१०] तथा व्यासवचनम् अपि भर्तृदेयपर्यन्तताज्ञापनार्थम् । यथा,
द्विसहस्रः परो दायः स्त्रियै देयो धनस्य तु ।
यच् च भर्त्रा धनं दत्तं सा यथाकामम् अश्नीयात् ॥ [व्य् २६५]
द्विसहस्रपर्यन्तः स्त्रियै देयो नाधिकः । केनेत्य् आकाङ्क्षायां भर्तेति श्रुतम् अन्वेति न पुनर् अश्रुतकल्पना । तथा च देय इति ददातिर् मुख्यः स्यात् । मृतपतिधने तु तावति पत्न्या एव स्वामिताद् गौणः । स चान्याय्यः । [[४।१।११]] यच् च भर्तृदत्तं धनं तद् यथाकामम् अश्नीयात् ।
अतो ऽपुत्रस्य मृतस्य पत्युर् धने द्विसहस्रपर्यन्ते पत्न्या अधिकारो न सर्वत्रेति यद् उक्तं तद् विद्वद्भिर् अनादेयम् । [[४।१।१२]] एतच् च विस्तरेण वक्ष्यते ।
[[४।१।१३]] आह याज्ञवल्क्यः ।
पितृमातृपतिभ्रातृदत्तम् अध्यग्न्युपागतम् ।
आधिवेदनिकं चैव स्त्रीधनं परिकीर्तितम् ॥ [य् २।१४३]
[[४।१।१४]] यच् च द्वितीयस्त्रीविवाहार्थिना पूर्वस्त्रियै पारितोषिकं धनं दत्तं तद् आधिवेदनिकम् अधिकस्त्रीलाभार्थत्वात् तस्य ।
[[४।१।१५]] तथा देवलः ।
वृत्तिर् आभरणं शुल्कं लाबश् च स्त्रीधनं भवेत् ।
भोक्त्री तत् स्वयम् एवेदं पतिर् नार्हत्य् अनापदि ॥ [द् १६०४]
[[४।१।१६]] तथा व्यासः ।
विवाहकाले यत् किंचिद् वरायोद्दिश्य दीयते ।
कन्यायास् तद् धनं सर्वम् अविभाज्यं च बन्धुभिः ॥ [व्य् २६६]
[[४।१।१७]] उद्दिश्येति कन्याया इदं भवत्व् इत्य् उद्दिश्य यद् वराय दानं न पुनर् एतद् अभिसंधिं विनापीत्य् अर्थः । अत एव विवाहकाल इति प्रदर्शनार्थं न पुनर् एतद् एव प्रयोजकं दात्रभिसंधिनिमित्तत्वात् स्वत्वस्य । तथा प्रामाणिकवचनम्:
यद् दत्तं दुहितुः पत्ये स्त्रियम् एव तद् अन्वियात् ।
मृते जीवति वा पत्यौ तदपत्यम् ऋते स्त्रियाः ॥ [ध्को प्। १४६३]
विवाहकाल इति न विशिनष्टि । अभिसंधिस् तु दुहित्रन्वयाभिधानाद् एव लब्धत्वान् नोक्तः ।
[[४।१।१८]] तद् एवम् अव्यवस्थितसंख्यस्त्रीधनकीर्तनान् न षट्संख्या विवक्षिता किं तु स्त्रीधनकीर्तनमात्रपराणि मुनिवचनानि । तद् एव च स्त्रिया धनं यत्र भर्तृतः स्वातन्त्र्येण दानविक्रयभोगान् कर्तुम् अधिकरोति ।
[[४।१।१९]] तद् इदं संक्षिप्याह कात्यायनः ।
प्राप्तं शिल्पैस् तु यद् वित्तं प्रीत्या चैव यद् अन्यतः ।
भर्तुः स्वाम्यं तदा तत्र शेषं तु स्त्रीधनं स्मृतम् ॥ [क् ९०४]
&ल्त्;४।१।२०] अन्यत इति पितृमातृभर्तृकुलव्यतिरिक्ताद् यल् लब्धं शिल्पेन वा यद् अर्जितं तत्र भर्तुः स्वाम्यं स्वातन्त्र्यम् । अनापद्य् अपि भर्ता ग्रहीतुम् अर्हति । तेन स्त्रिया अपि धनं न स्त्रीधनम् स्त्रीधनम् अस्वातन्त्र्यात् ।
[[४।१।२१]] एतद्द्वयातिरिक्तधनं तु स्त्रिया एव दानविक्रयाधिकारात् । तद् आह कात्यायनः ।
ऊढया कन्यया वापि पत्युः पितृगृहे ऽथ वा ।
भर्तुः सकाशात् पित्रोर् वा लब्धं सौदायिकं स्मृतम् ॥ [क् ९०१]
सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यम् इष्यते ।
यस्मात् तदानृशंस्यार्थं तैर् दत्तं तत्प्रजीवनम् ॥ [क् ९०५]
सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्तितम् ।
विक्रये चैव दाने च यथेष्टं स्थावरेष्व् अपि ॥ [क् ९०६]
[[४।१।२२]] सुदायसंबन्धिभ्यो लब्धं सौदायिकम् ।
[[४।१।२३]] स्थावरे ऽपि भर्तृदत्तमात्रे स्त्रिया न दानाद्यधिकारः । तद् आह नारदः ।
भ्रत्रा प्रीतेन यद् दत्तं स्त्रियै तस्मिन् मृते ऽपि तत् ।
सा यथाकामम् अश्नीयाद् दद्याद् वा स्थावराद् ऋते ॥ [न् १।२८।२४]
भर्तृदत्तविशेषनाद् भर्तृदत्तस्थावराद् ऋते ऽन्यत् स्थावरं देयम् एव भवति । अन्यथा यथेष्टं स्थावरेष्व् अपीति विरुध्येत ।
[[४।१।२४]] भर्ता तु यदा दुर्भिक्षादौ स्त्रीधनं विना वर्तनाक्षमस् तदापि ग्रहीतुम् अर्हति नान्यदा । तद् आह याज्ञवल्क्यः ।
दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।
गृहीतं स्त्रीधनं भर्ता न स्त्रियै दात्य्म् अर्हति ॥ [य् २।१४७]
अन्यत्र पुनर् अनधिकारम् आह कात्यायनः ।
न भर्ता नैव च सुतो न पिता भ्रातरो न वा ।
आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ॥ [क् ९११]
यदि ह्य् एकतरस् त्व् एषां स्त्रीधनं भक्षयेद् बलात् ।
सवृद्धिं प्रतिदाप्यः स्याद् दण्डं चैव समाप्नुयात् ॥ [क् ९१२]
तद् एव यद्य् अनुज्ञाप्य भक्षयेत् प्रीतिपूर्वकम् ।
मूलम् एव स दाप्यः स्यात् यदा स धनवान् भवेत् ॥ [क् ९१३]
अथ चेत् स द्विभार्यः स्यान् न च तां भजते पुनः ।
प्रीत्या विसृष्टम् अपि चेत् प्रतिदाप्यः स तद् बलात् ॥ [क् ९०८]
ग्रासाच्छादनवासानाम् उच्छेदो यत्र योषितः ।
तत्र स्वम् आददीत स्त्री विभागं रिक्थिनाम् तथा ॥ [क् ९०९]
[[४।१।२५]] स्त्रिया धनं गृहीत्वा यद्य् अपरभार्यया सह वसति तां चावजानीते तदा गृहीतधनं राज्ञा बलाद् दाप्यः ।
भक्ताच्छादनादिकं यदि भर्ता न ददाति तदा तद् अपि स्त्रिया आकृष्य ग्राह्यम् ।
[[४।१।२६]] इति स्त्रीधनलक्षणम् ।
०२
[[४।२।१]] इदानीं स्त्रीधनविभागो ऽभिधीयते । तत्र मनुः ।
जनन्यां संस्थितायां तु समं सर्वे सहोदराः ।
भजेरन् मातृकं रिक्थं भगिन्यश् च सनाभयः ॥ [म् ९।१९२]
[[४।२।२]] द्वन्द्वाश्रवणे ऽपि तत्तुल्यार्थकचकारेण भ्रातृभगिन्योर् इतरेतरयुक्तयोर् विभागप्रतिपादनाद् भगिन्यः सोदराश् च विभजेरन्न् इत्य् अयम् एवास्य वचनस्यार्थः ।
[[४।२।३]] बृहस्पतिर् अपि चकारात् समुच्चयम् आह ।
स्त्रीधनं तदपत्यानां दुहिता च तदंशिनी ।
अप्रत्ता चेत् समूढा तु न लभेन् मातृकं धनम् ॥ [ब् २६।३१च्देद्]
[[४।२।४]] अपत्यपदं पुत्रपरम् । तेषाम् अप्रत्ताभिर् दुहितृभिः सह मातृधनविभागः । तथा च शङ्खलिखितौ ।
समं सर्वे सोदर्या द्रव्यम् अर्हन्ति कुमार्याश् च । [श्ल् २९७]
[[४।२।५]] सर्वत्रैव प्रथमं पुत्रोपादानात् सर्वावस्थस्य पुत्रस्य मातृधने ऽधिकारः । चकारश्रुतिश् च सर्वत्रानुगता समुच्चयवाचिका ।
[[४।२।६]] एतावताप्य् उद्ग्राहमल्लस्य देवलवचनं गलहस्तः । यथा,
सामान्यं पुत्रकन्यानां मृतायां स्त्रीधनं स्त्रियाम् ।
अप्रजायां हरेद् भर्ता माता भ्रात पितापि वा ॥ [द् १६११]
[[४।२।७]] इह पुत्रकन्ययोः साधारणं मातृधनम् इति सुव्यक्तम् ।
केवलकुमार्याः सकलमातृधनाधिकारित्वे च यौतकधने विशेषवचनं मन्वादीनाम् अनर्थकं स्यात् सर्वत्राधिकाराविशेषात् ।
[[४।२।८]] यः पुनर् एवं समाधानं ब्रूते — भ्रातृभगिन्योस् तुल्यवज् जननीधनाधिकारित्वे समविभागिताविधानं युक्तम् । केवलभगिनीनां तदभावे च केवलभ्रारॄणां धनसंबन्धे समं स्याद् अश्रुतत्वाद् विशेषस्येति न्यायत एव समत्वप्राप्तेर् अनर्थकं समम् इति । स एवं वाच्यः — भ्रातृभगिन्योर् अप्य् अधिकारे समं स्याद् इति न्यायात् समत्वप्राप्तेर् अविशेषास् आनर्थक्यस्य तदवस्थत्वात् । किं च केवलभ्रात्रधिकारपक्षे ऽपि पितृधन इव मातृधने ऽपि विंशोद्धारादिप्रसक्तिनिवर्तकतया समपदस्य सार्थकत्वात् कथम् अनर्थकता । अतो वचनन्यायानभिज्ञः सर्वैः प्राज्ञैर् अज्ञेय एव किंचिज्ज्ञः ।
[[४।२।९]] किंतूक्ताद् एव हेतोः पुत्रकुमारीदुहित्रोस् तुल्यवद् अधिकारः । एतयोश् चान्यतराभावे ऽन्यतरस्य तद् धनम् । द्वयोर् अप्य् एतयोर् अभाव ऊढाया दुहितुः पुत्रवत्याः संभावितपुत्रायाश् च तुल्यो ऽधिकारः स्वपुत्रद्वारेण पार्वणपिण्डदानसंभवात् । [[४।२।१०]] अत एव पूर्वोक्तदुहित्रभावे दौहित्रस्यैव धनाधिकारः —
दौहित्रे ऽपि ह्य् अमुत्रैनं संतारयति पौत्रवत् ॥ [म् ९।१३९च्द्]
इति मनुवचनात् । न तु वन्ध्याविधवादुहित्रोः स्वसत्तया स्वजन्यसत्तया च पार्वणपिण्डदानाभावात् । अत एव नारदः ।
पुत्राभावे तु दुहिता तुल्यसंतानदर्शनात् । [न् १३।५०।४७अब्]
[[४।२।११]] पौत्र्दौहित्रयोस् तु सद्भावे पौत्रस्याधिकारः पुत्रेण परिणीतदुहितुर् बाधाद् बाधकपुत्रेण बाध्यदुहितृपुत्रबाधस्य न्याय्यत्वात् ।
****[[४।२।१२]] उक्तानां तु सर्वेषां दौहित्रपर्यन्तानाम् अभावे वन्ध्याविधवयोर् अपि मातृधनाधिकारिता तयोर् अपि तत्प्रजात्वात् प्रजाभावे चान्येषाम् अधिकारात् ।
[[४।२।१३]] यत् तु दुहितृमात्राधिकारार्थं गौतमवचनम्: “स्त्रीधनं दुहितॄणां अप्रत्तानाम् अप्रतिष्ठितानां च” [ग् २८।२४] । यच् च नारदस्य,
मातुर् दुहितरो ऽभावे दुहितॄणां तदन्वयः । [न् १३।२च्द्]
यच् च कात्यायनस्यापि,
दुहितॄणाम् अभावे तु रिक्थं पुत्रेषु तद् भवेत् । [क् ९१८अब्]
तथा याज्ञवल्क्यस्य,
मातुर् दुहितरः शेषम् ऋणात् ताभ्य ऋते ऽन्वयः । [य् २।११७च्द्]
तानि पूर्वोक्तदेवलवचनविरोधेन यौतकद्रव्यविषयाणि । अत एव मनुः —
मातुस् तु यौतकं यत् स्यात् कुमारीभाग एव सः । [म् ९।१३१अब्]
[[४।२।१४]] यौतकं परिणयनलब्धम् । यु मिश्रण इति धातोर् युतपदं मिश्रतावचनम् । मिश्रता च स्त्रीपुरुषयोर् एकशरीरता विवाहाच् च तद् भवति, “अस्थिभिर् अस्थीनि मांसैर् मांसानि त्वचा त्वचम्” [पारस्कर गृस् १।११।५] इति श्रुतेः । अतो विवाहकाले लब्धं यौतकम् ।
[[४।२।१५]] अत एव वसिष्ठः: “मातुः पारिणाय्यं स्त्रियो विभजेरन्” [व १७।४६] । पारिणाय्यं परिणयनलब्धं धनम् ।
[[४।२।१६]] यत् तु मनुवचनम्,
स्त्रियास् तु यद् भवद् वित्तं पित्रा दत्तं कथंचन ।
ब्राह्मणी तद् धरेत् कन्या तदपत्यस्य वा भवेत् ॥ [म् ९।१९८]
अत्र पित्रा दत्तम् इति विशेषणाद् विवाहसमयाद् अन्यत्रापि यत् पितृदत्तं तत् कन्याया एवेत्य् एतदर्थम् । ब्राह्मणीपदं चानुवादः । यद् वा ब्राह्मणीपदस्यानर्थक्यभयात् क्षत्रियादिस्त्रीणाम् अनपत्यानां पितृदत्तं धनं सपत्नीदुहिता ब्राह्मणी कन्या हरेत् । न पुनर् अप्रजास्त्रीधनं भर्तुर् इति वचनावकाश इति वचनार्थः । अन्यथा सकलवचनानाम् असामञ्जस्यं स्यात् ।
[[४।२।१७]] न च वाच्यम् — नारदादिभिर् दुहितुर् अभावे दुहितुः पुत्राणाम् एव धनाधिकारो दर्शितः प्रत्यसन्नदुहितृपदेनैवान्वयपदस्यान्वयाद् इति ।
यतो दुहितृपदस्यान्वयपदस्य च जन्यविशेषपरत्वेन जनकाकाङ्क्षितत्वान् न जन्यान्तरेणान्वयपदोपात्तेन पुत्रेणान्वयः संभवति समत्वात् । [[४।२।१८]] न चाधिष्ठानलक्षणयान्वयो वाच्यः मात्रन्वयेनैव सर्वेषां मुख्यत्वसंभवात् । मातृपदान्वये च दुहितृपदस्य मुख्यत्वस्वीकारात् । [[४।२।१९]] न च तदन्वय इति तच्छब्दोपात्ताया दुहितुर् अन्वययोग्यता वाच्या तच्छब्दस्यापि प्रकृतवाचितया दुहितृत्वरूपेणैवोपपादकत्वात् ।
[[४।२।२०]] किं च याज्ञवल्क्यवचने दुहितर इति पदं प्रथमान्तं ताभ्य इति पदं पञ्चम्यन्तम् अन्वयपदेन षष्ट्यन्तान्वययोग्येन नान्वीयते । किं तु व्यवहितम् अपि मातुर् इत्य् एव पदम् अन्वयि । तद् अत्र मातुर् अन्वये निश्चिते नारद-कात्यायनवाक्ये ऽपि मातुर् एवान्वयो न्याय्यः अविरोधात् ।
[[४।२।२१]] किं च, “सत्स्व् अङ्गजेषु तद्गामी ह्य् अर्थो भवति” [बौ १।५।११।११] इति बौधायनवचनुसारेणानन्तर्याच् चाङ्गजपुत्रस्याधिकारो न्याय्यो नानङ्गजव्यवहितदौहित्राधिकारः ।
[[४।२।२२]] ततश् च परिणयनलब्धं स्त्रीधनं दुहितुर् एव न पुराणाम् । तत्रैव च क्रमार्थं गोतमवचनम्: “स्त्रीधनं दुहितृणाम् अप्रत्तानाम् अप्रतिष्ठितानां च” [ग् २८।२४] ।
[[४।२।२३]] प्रथमम् अप्रत्तानां तदभावे प्रत्तानां च समूढानाम् । स्त्रीधनं दुहितॄणाम् इति सामान्यतः प्राप्तत्वाद् अप्रत्तानाम् इत्यादेस् तु क्रमार्थत्वेनोपसंहारार्थत्वात् ।
[[४।२।२४]] तथा याज्ञवल्क्यः ।
अप्रजास्त्रीधनं भर्तुर् ब्राह्मादिषु चतुर्ष्व् अपि ।
दुहितॄणां प्रसूता चेच् छेषेषु पितृगामि तत् ॥ [य् २।१४५]
[[४।२।२५]]ब्राह्मादिविवाहेषु यल् लब्धम् अध्यग्निधनं स्त्रिया तत् तस्यां मृतायां प्रथमं दुहितॄणाम् एव । तत्रापि प्रथमं कन्यायास् तदभावे प्रत्तायास् तदभावे परिणीतायाः । सर्वदुहित्रभावे पुत्रस्याधिकारः अप्रजास्त्रीधने भर्तुर् अधिकारात् ।
[[४।२।२६]] बृहस्पतिन त्व् अप्रत्तापदेनाप्रत्ताद्यभावे समूढाया अप्य् अधिकारः सूचितः ।
[[४।२।२७]] न च यौतकमात्रधनाभिप्रायेण नेदं वचनम् । किं तु ब्राह्मादिविवाहेन विवाहिताया यद् यावद् धनं यौतकम् अयौतकं वा तदभिप्रायेणेति वाच्यम्, बन्धुदत्तम् इति वचनस्य निर्विषयत्वापत्तेः, मनुविरोधाच् च । यद् आह ।
ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद् धनम् ।
अतीतायाम् अप्रजायां भर्तुर् एव तद् इष्यते ॥ [म् ९।१९६]
यत् त्व् अस्याः स्याद् धनं दत्तं विवाहेष्व् आसुरादिषु ।
अतीतायाम् अप्रजायां मातापित्रोस् तद् इष्यते ॥ [म् ९।१९७]
अस्याः स्याद् दत्तम् इति प्राचीनं पूर्वत्रानुषज्यते । तेन विवाहेषु यद् धनं दत्तम् इति संबन्धाद् वैवाहिकधनमात्रप्रतीतेर् न यावद्धनविषयत्वम् ।
[[४।२।२८]] तथा यमः ।
आसुरादिषु यद् द्रव्यं विवाहेषु प्रदीयते । [ध्को प्। १४६२]
विवाहक्रियायां पूर्वापरीभूतायां यद् द्रव्यं प्रदीयत इत् यौतकधनमात्रगोचरत्वम् एव प्रतीयते ।
[[४।२।२९]] न च विवाहात् पूर्वं परतो वा स्त्रिया लब्धस्याप्रजास्त्रीधनस्य गतेर् अश्रूयमाणत्वाद् ब्राह्मादिपदं स्त्रीपरम् इति वाच्यम् । पूर्वापरलब्धस्य विस्तरेण गतेर् वक्ष्यमाणत्वात् ।
०३
[[४।३।१]] संप्रत्य् अप्रजास्त्रीधने ऽधिकारिणः कथ्यन्ते ।
[[४।३।२]] तत्र याज्ञवल्क्यः ।
अप्रजास्त्रीधनं भर्तुर् ब्राह्मादिषु चतुर्ष्व् अपि । [य् २।१४५अब्]
[[४।३।३]] ब्राह्मादिर् येषां चतुर्णां ते दैवार्षप्राजापत्यगान्धर्वाश् चत्वारो ब्राह्मेण सह पञ्च भवन्ति ब्राह्मदैवार्षगान्दर्वप्राजापत्येष्व् इति मनुना पञ्चानाम् उक्तत्वात् । तेषु विवाहेषु वर्तमानेषु यद् धनं स्त्रिया लब्धं तद् अप्रजायाम् अतीतायां भर्तुर् एव भवतीति । प्रजा संततिः ।
[[४।३।४]] न पुनर् ब्राह्मादिना परिणीताया यद् यावद् धनं विवाहात् पूर्वं परतो वा तया लब्धं तत् सर्वं भर्तुर् इति व्याख्यानं युक्तम् । ब्राह्मादिष्व् इति कालार्थत्वान् निर्देशस्य ब्राह्मादिपदानां स्त्रीपरत्वे एकत्वेन षष्ठ्या च निर्देशः स्यात् । यत् त्व् अस्याः स्याद् इति स्त्रिया एकत्वेन षष्ठ्या च निर्दिष्टत्वात् ।
विवाहकाललक्षणायां च वर्तमानसंबन्धेन लक्षणा स्यात् । स्त्रीपरत्वे त्व् आतिक्रान्तविवाहक्रियासंबन्धेन ब्राह्मादिपदानां तत्तल्लक्षणविवाहपरत्वेन मन्वादिभिर् निर्दिष्टत्वात् । तद् आह मनुः ।
अष्टाव् इमान् समासेन स्त्रीविवाहान् निबोधत । [म् ३।२०च्द्]
इत्य् उपक्रम्य,
ब्राह्मो दैवस् तथैवार्षः प्राजापत्यस् तथासुर इत्यादि । [म्३।२१]
तथा नारदः ।
अष्टौ विवाहा वर्णानां संस्कारार्थं प्रकीर्तिताः ।
ब्राह्मस् तु प्रथमस् तेषाम् इत्यादि । [न् १२।३८–३९]
तथा विष्णुः: “अष्टौ विवाहा भवन्ति । ब्राह्मो दैव इत्यादि ॥ [वि २४।१७–१८]
[[४।३।५]] अतो विवाहकाललब्धस्त्रीधनविषयं ब्राह्मादिवचनम् इति विश्वरूपोक्तम् आदरणीयम् (विश्वरूप ओन् य्ध् २।१४९) ।
[[४।३।६]] आसुरादिविवाहसमयलब्धं तु स्त्रीधनं जीवत्य् अपि भर्तरि माता गृह्णीयात् तदभावे पिता । मातापित्रोर् तद् इष्यत इत्य् अत्र क्रमावगतेः । युगपदधिकारे पित्रोर् इत्य् एवाभिदध्यात् । कन्याधने च मातुर् अभावे पितुर् अधिकारश्रवणाद् अत्रापि तथात्वस्यैवोचितत्वात् । [[४।३।७]] तथा बौधायनः ।
रिक्थं मृतायाः कन्याया गृह्णीयुः सोदराः स्वयम् ।
तदभावे बवेन् मातुस् तदभावे भवेत् पितुः ॥ [बौ ? ध्को प्। १४२७]
[[४।३।८]] तद् अनेन कन्याधनं व्याख्यातम् ।
[[४।३।९]] न च कन्याधन इवात्रापि प्रथमं भ्रात्राधिकारः स्याद् इति वाच्यं वचनाभावान् मातापितोर् एवाधिकारश्रुतेः ।
[[४।३।१०]] यत् पुनः परिणयानन्तरं पितृमातृभर्तृकुलात् स्त्रिया लब्धं धनं तद् भ्रातॄणाम् एव । तद् आह याज्ञवल्क्यः ।
बन्धुदत्तं तथा शुल्कम् अन्वाधेयकम् एव च ।
अप्रजायाम् अतीतायां बान्धवास् तद् अवाप्नुयुः ॥ [य् २।१४४]
[[४।३।११]] बन्धुदत्तम् इति मातापितृभ्यां यद् दत्तम् । तत्पुत्राश् च भ्रातर एव बान्धवाः । [[४।३।१२]] तद् आह वृद्धकात्यायनः ।
पितृभ्यां चैव यद् दत्तं दुहितुः स्थावरं धनम् ।
अप्रजायाम् अतीतायां भ्रातृगामि तु सर्वदा ॥ [क् ९१९]
[[४।३।१३]] अप्रजात्वमात्रनिमित्तत्वेन भ्रातुर् अधिकारावगतेः सर्वदापदेन ब्राह्मादिपैशाचान्तविवाहिताया अप्रजाया धनं भ्रातृगाम्य् एव भवतीति विश्वरूपोक्तम् आदरणीयम् (विश्वरूप ओन् य्ध् २।१४९) । [[४।३।१४]] स्थावरपदाद् दण्डापूपन्यायाद् एवापरस्य धनस्य सिद्धिः ।
[[४।३।१५]] बन्धुदत्तपदेन कन्यादशायां यत् पितृभ्यां दत्तं तद् उच्यते । विवाहात् परतो लब्धदनस्यान्वाधेयपदोपात्तत्वात् । विवाहकालीने च भर्तुः पित्रोर् वाधिकारात् ।
[[४।३।१६]] अन्वाधेयम् आह कात्यायनः ।
विवाहात् परतो यत् तु लब्धं भर्तृकुलात् स्त्रिया ।
अन्वाधेयं तद् उक्तं तु लब्धं बन्धुकुलात् तथा ॥ [क् ८९९]
[[४।३।१७]] भर्तृकुलात् श्वशुरादेः । बन्धुकुलात् पितृमातृकुलात् ।
[[४।३।१८]] तथापरम् आह ।
ऊर्ध्वं लब्धं तु यत् किंचित् संस्कारात् प्रीतितः स्त्रिया ।
भर्तुः सकाशात् पित्रोर् वा अन्वाधेयं तु तद् भृगुः ॥ [क् ९००]
[[४।३।१९]] शुल्कम् आह ।
गृहोपस्करवाह्यानां दोह्याभरणकर्मिणाम् ।
मूल्यं लब्धं तु यत् किंचित् शुल्कं तत् परिकीर्तितम् ॥ [क् ८९८]
[[४।३।२०]] गृहादिकर्मिभिः शिल्पिभिस् तत्कर्मकरणाय भर्त्रादिप्रेरणार्थं स्त्रियै यद् उत्कोचदानं तच् छुक्लम् । तद् एव मूल्यं प्रवृत्त्यर्थत्वात् ।
[[४।३।२१]] व्यासेनोक्तं वा ।
यद् आनेतुं भर्तृगृहे शुल्कं तत् परिकीर्तितम् । [व्य् २६८]
भर्तृगृहगमनार्थम् उत्कोचादि यद् दत्तम् ।
[[४।३।२२]] तच् च ब्राह्मादिष्व् अविशिष्टम् । तद् एवमादिकम् अप्रजास्त्रीधनं भ्रातरो गृह्णीयुः । [[४।३।२३]] न पुनर् आसुरादिषु विवाहेषु यत् कन्याभ्यः शुक्लदानं तद् अभिप्रायम् आसुरमात्रगोचरत्वाच् छुल्कस्य । अत् एवोक्तं मनुना ।
आसुरो द्र्विणादानाद् गान्धर्वः समयान् मिथः ।
राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ॥ [य् १।६३]
[[४।३।२४]] अतो राक्षसादौ शुल्काभावात् शुल्कसाहचर्येणासुरादिष्व् एव यद् धनं तन्मात्रस्य भ्रातृगामित्वाभिधानं हेयम् । तथा तस्य स्त्रीधनत्वाभावाच् च पित्रादिगृहीतधनस्य च शुल्कत्वेन कीर्तनात् । तथा मनुः ।
न कन्यायाः पिता विद्वान् गृह्णीयाच् छुल्कम् अण्व् अपि ।
गृह्णन् हि शुल्कं लोभेन स्यान् नरो ऽपत्यविक्रयी ॥ [म् ३।५१]
पितेत्य् उपलक्षणम् । तेन भ्रात्रादिर् अपि धनं गृह्णन् शुल्कग्राही । तेन पित्रादिगृहीतम् एव परं शुल्कं भवतीत्य् उक्तम् ।
[[४।३।२५]] अतो यद् उक्तम् आसुरादिष्व् एव शुल्करूपस्त्रीधनसंभवात् तदेकवाक्योपात्तयोर् बन्धुदत्तान्वाधेययोर् अप्य् आसुरादिविवाहगोचरयोर् एव भ्रातुर् अधिकार इत् निरस्तम् । [[४।३।२६]] किं तूक्तशुल्कस्त्रीधनस्य सर्वविवाहेष्व् एव संभवात् सर्त्रैव भ्रातुर् अधिकारो वाक्याद् विशेषानवगमात् ।
[[४।३।२७]] तथा गौतमवचनं कात्यायनवचनसमानार्थम् । यथा, “भगिनीशुल्कं सोदर्याणाम् ऊर्ध्वं मातुः” । पूर्वं चैके [ग् २८।२५–२६] । [[४।३।२८]] अस्यार्थः — प्रथमं सोदर्याणां तेषां पुनर् अभावे मातुः । पूर्वं चैक इति प्रमतम् ।
[[४।३।२९]] अतः प्रथमं सोदराणाम् । तदभावे मतुः । तदभावे पितुः। एषां पुनर् अभावे तद् धनं भर्तुः । यथा कात्यायनः ।
बन्धुदत्तं तु बन्धूनाम् अभावे भर्तृगामि तत् । [क् ९१८च्द्]
[[४।३।३०]] बन्धूनाम् अभाव इत्य् अनेन भ्रातुर् अभाव इति सूचितं भातुर् अभावे पित्रोर् धनाधिकारित्वाद् दण्डापूपन्यायात् सिद्धेः ।
[[४।३।३१]] भर्तृपर्यन्तानाम् अभावे पुनर् इदम् उच्यते । यथा बृहस्पतिः ।
मातुः स्वसा मातुलानी पितृव्यस्त्री पितृस्वसा ।
श्वश्रूः पूवजपत्नी च मातृतुल्याः प्रकीर्तिताः ॥ [ब् २६।३२]
यद् आसाम् औरसो न स्यात् सुतो दौहित्र एव वा ।
तत्सुतो वा धनं तासां स्वस्रीयाद्याः समाप्नुयुः ॥ [ब् ९।१८३]
&ल्त्;४।३।३२] औरसपदेन पुत्रकन्ययोर् उपादानं तयोः सर्वापवादकत्वात् । सुतपदेन च सपत्नीपुत्रस्य,
सर्वासाम् एकपत्नीनाम् एका चेत् पुत्रिणी भवेत् ।
सर्वास् तास् तेन पुत्रेण प्राह पुत्रवतीर् मनुः ॥ [म् ९।१८३]
इति स्मृतेः । न तु सुतपदम् औरसविशेषणं वैयर्थ्यात् । सपत्नीपुत्रसद्भावे ऽपि स्वस्रीयाद्यधिकारापत्तेश् च ।
[[४।३।३३]] औरसपुत्रकन्ययोः सपत्नीपुत्रस्य चाभावे दौहित्राधिकारः ।
[[४।३।३४]] तत्सुत इति तच्छब्देन स्वपुत्रसपत्नीपुत्रयोर् उपादानम् । तेन तत्पुत्रयोर् अधिकारो न तु दौहित्रपुत्रस्यापि तस्य पिण्डदानबहिर्भावात् ।
[[४।३।३५]] तद् एषां पुत्रादीनां भ्रात्रादिभर्तृपर्यन्तानां चाभावे सत्स्व् अपि श्वशुरभ्रातृश्वशुरादिषु सपिण्डेषु भगिनीपुत्रादीनाम् अधिकारिता अनन्यगतेर् वचनात् । स्त्रीणां मातृतुल्यत्वप्रतिपादनेनामीषां पुत्रतुल्यत्वज्ञापनेन पिण्डदातृत्वसूचनस्य दायप्रकरणे धनाधिकारज्ञापनैकप्रयोजनत्वात् ।
[[४।३।३६]] तत्र स्वस्रीयाद्या इति वचनाद् भगिनीसुत्रस्वभर्तृभागिनेयदेवरपुत्र-भ्रातृश्वशुरपुत्रभ्रातृपुत्रजामातृदेवराणां पूर्वपूर्वस्याभावे पर्परस्याधिकारे देवरस्यैव सर्वशेषे ऽधिकारापत्तेर् महाजनविरोध इति वस्तुबलम् आलम्ब्य वचनं वर्ण्यते । तत्र मनुना,
त्रयाणाम् उदकं कार्यं त्रिषु पिण्डः प्रवर्तते । [म् ९।१८६अब्]
इति दायभागप्रकरणे कीर्तनात् । याज्ञवल्क्येनापि “पिण्डदो ऽंशहरश् चैषाम्” [य् २।१३२च्] इति पिण्डदानेनाधिकारदर्शनात् । पुत्रस्यापि सातिशयपिण्डदानेन नरकत्राणकारणतया मुख्यभावेनाधिकारावगतेः ।
मातुलो भागिनेयस्य स्वस्रीयो मातुलस्य च ।
श्वशुरस्य गुरोश् चैव सख्युर् मातामहस्य च ॥ [?]
एतेषां चैव भार्याभ्यः स्वसुर् मातुः पितुस् तथा ।
श्राद्धदानं तु कर्तव्यम् इति वेदविदां स्थितिः ॥ [?]
इति वृद्धशातातपवचनात् ।
[[४।३।३७]] अमीषां पिण्डदत्वप्रतिपादनाद् अयं पिण्डदानविशेषाद् अधिकारक्रमः । प्रथमं देवरः तत्पिण्डतद्भर्तृपिण्डतद्भर्तृदेयपूर्वपुरुषत्रयपिण्डदातृत्वात् सपिण्डत्वाच् च तद्धने ऽधिक्रियते । तदभावे भ्रातृश्वशुर् अदेवरयोः सुतः तत्पिण्डतद्भर्तृपिण्डतधरृदेयपूर्वपुरुषद्वयपिण्डादातृत्वात् सपिण्डत्वाच् च पितृव्यस्त्रीधने ऽधिकारी । तदभावे ऽसपिण्डो ऽपि भगिनीपुत्रः तत्पिण्डतत्पुत्रदेयतत्पित्रादिपिण्डत्रयदानान् मातृस्वसृधने ऽधिकारी । तदभावे स्वभर्तृभागिनेयः पुत्राद् भर्तृदुर्बलत्वात् तत्स्थानपातिनोर् अपि तथैव बलाभलस्य न्याय्यत्वात् । तद्भर्तृदेयपूर्वपुरुषत्रयपिण्डदानत् तत्पिण्डदानात् तद्भर्तृपिण्डदानाच् च मातुलानीधने ऽधिकारी । तदभावे भ्रातृसुतः तत्पितृपितामहयोर् तस्यांश् च पिण्डदानात् पितृस्वसृधने ऽधिकारी । तस्याप्य् अभावे श्वशुरयोः पिण्डदानाज् जामाता श्वश्रूधने ऽधिकारी ।
[[४।३।३८]] अयं क्रमो ग्राह्यः । स्वस्रीयाद् या इति न क्रमार्थं किं त्व् अधिकारमात्रपरम् ।
[[४।३।३९]] षण्णां पुनर् एतेषाम् अभावे श्वशुरभ्रातृश्वसुरादेः सपिण्डानन्तर्यकृतो धनादिकारो बोद्धव्यः । [[४।३।४०]] न च सपिण्डाभावे सतीदं वचनम् इति वाच्यम् । अस्याम् अधिकारशृङ्खलायां देवरदेवरसुतयोर् भ्रातृश्वशुरसुतस्य चाधिकारज्ञापनात् । आसन्नतरश्वशुरभ्रातृश्वशुरादेः प्रत्यागात् । [[४।३।४१]] अतो वचनतदर्थापरिज्ञानकृतो व्यवहारः प्रमाणपरतन्त्रैर् अतन्त्रीकर्तव्यः ।
[[४।३।४२]] इत्य् अतिगहनम् उक्तम् अप्रजास्त्रीधनम् ।