०३

[[३।१]] इदानीम् उपरते पितरि भ्रातॄणां विभागः कथ्यते ।

सो ऽपि च मातरि जीवन्त्यां पुत्राणां सत्य् अपि पित्रुपरमाद् धनस्वामित्वे धर्म्यो विभागः सोदराणां न भवतीति कथ्यते “ऊर्ध्वं पितुश् च मातुश् च” इत्य् उभयोर् उपरमे सोदराणां पैतृधनविभागस्य ज्ञापनात् ।

[[३।२]] न पुनर् मातुर् ऊर्ध्वं मातृधनविभागार्थं पैतृकपदात् पितृधनमात्रस्यैव विभागावगतेः पैतृकक्पदस्यैकशेषकल्पनायां प्रमाणाभावात् । [[३।३]] किं च “जनन्यां संस्थितायाम्” इत्य् अनेनैव मातरि मृतायां तदीयधनविभागस्य वक्ष्यमाणत्वाद् “ऊर्ध्वं मातुः” इति पुनरुक्तं स्यात् ।

[[३।४]] तथा याज्ञवल्क्यः ।

विभजेरन् सुताः पित्रोर् ऊर्ध्वं रिक्थम् ऋणं समम् ।
मातुर् दुहितरः शेषम् ऋणात् ताभ्य ऋते ऽन्वयः ॥ [य् २।११७]

[[३।५]] मातृधनविभागस्य दुहितॄणां सद्भावे ऽनधिकारः असद्भावे चान्वयपदेन पुत्राणाम् अधिकार इत्य् उत्तरार्धेनैव प्रतिपादनात् । पूर्वार्धे पित्रोर् इति पितृधनविषयम् एव अन्यथा पुनरुक्तत्वापत्तेः । [[३।६]] मातापित्रोर् उपरमे भ्रातरो विभजेरन्न् इति वदता उभयोर् उपरमान्तरकालस्य विभागार्थतया विधानात् साहित्यं विवक्षितम् ।

[[३।७]] तथा च शङ्खलिखितौ: “रिक्थमूलं हि कुटुम्बम् । अस्वतन्त्राः पितृमन्तो मातुर् अप्य् एवम् अवस्थितायाः” [श्ल् २७०] ॥ मातुर् अपि सकाशाद् अस्वतन्त्रा विभागानधिकारिण इत्य् आहतुः ।

[[३।८]] सुव्यक्तम् आह व्यासः ।

भ्रातॄणां जिवतोः पित्रोः सहवासो विधीयते ।
तदभावे विभक्तानां धर्मस् तेषां विवर्धते ॥ [व्य् २४७]

[[३।९]] सहवासविधानमुखेन पृथग्बागविषेधात् पितृमातृजीवनवतश् च विभागनिषेधात् जीवतोर् इति साहित्यम् अविवक्षितम् । अत एकस्मिन्न् अपि जीवति विभागो न धर्म्यः किं तु द्वयोर् अभावे ।

[[३।१०]] तथा बृहस्पतिः ।

पित्रोर् अभावे भ्रातॄणां विभागः संप्रदर्शितः ।
मातुर् निवृत्ते रजसि जीवतोर् अपि शस्यते ॥ [ब् २६।९]

[[३।११]] निवृत्तरजस्कायां मातरि जीवन्त्यां विभागस्य मातृधन्गोचरत्वानुपपत्तेः । उभयाभावोक्तविभागस्यैव जीवतोर् अपीत्य् अपिकारनिर्दिष्टस्य शस्तत्वकीर्तनात् उभयाभावे भ्रातृविभागः पितृधनगोचर एवावधार्यते ।

[[३।१२]] अत एव जीवन्त्यां मातरि मृतप्रधानक्ं विभागं निर्दिशति व्यासः ।

समानजातिसंख्या ये जातास् त्व् एकेन सूनवः ।
विभिन्नमातृकास् तेषां मातृभागः प्रशस्यते ॥ [व्य् २४९]

तथा बृहस्पतिः ।

यद्य् एकजाता बहवः समाना जातिसंख्यया ।
सापत्नास् तैर् विभक्तव्यं मातृभागेन धर्मतः ॥ [ब् २६।२४]

[[३।१३]] पुत्राणां जातिसंख्यासाम्येन विभागे विशेषाभावान् मातुर् एवायं विभागो न पुत्राणाम् इत्य् उद्दिश्य विभागः कर्तव्यः ।

तेनेतरमातृधन इवात्रापि पुत्राणां मातरि जीवन्त्यां न परस्परविभागे स्वातन्त्र्यम् । किं तु मातुर् अनुमत्यैव परं विभागो धर्म्यः । [[३।१४]] अतो यद् गोतमादिभिर् उक्तम्: “विभागे तु धर्मवृद्धिः” [ग् २८।४] इत्यादि, तन् मातुर् उपरमे वेदितव्यम् ।

[[३।१५]] तत्र यद्य् अविभक्ता एव स्थातुम् इच्छन्ति तदा ज्येष्ठ एव योगक्षेमशक्तः सर्वं गृह्णीयात् । इतरे पितरम् इव तम् उपजीवेयुः । यथा मनुः ।

ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनम् अशेषतः ।
शेषास् तम् उपजीवेयुर् यथैव पितरं तथा ॥ [म् ९।१०५]

तथा गोतमः: “सर्वस्वं वा पूर्वजस्य । स इतरान् बिभृयात् पितृवत्” [ग् २८।३] । वाशब्दात् पृथग् वा भवेयुः सह वा वसेयुः । सहवासश् च सर्वेषाम् इच्छात एव । यथा नारदः ।

बिभृयाद् वेच्छतः सर्वान् ज्येष्ठो भ्राता यथा पिता ।
भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षा कुले स्थितः ॥ [न् १३।५]

शक्तः सन् कनिष्ठो ऽपि सर्वान् बिभृयात् । मध्यमो ऽत्र दण्डापूपन्यायात् सिद्धिः ।

[[३।१६]] विभागस् त्व् एकस्यापीच्छया भवतीत्य् उक्तं प्राक् । [[३।१७]] अत एव विभागम् उपक्रम्याह कात्यायनः ।

अप्राप्तव्यवहाराणां धनं व्ययविवर्जितम् ।
न्यसेयुर् बन्धुमित्रेषु प्रोषितानां तथैव च ॥ [क् ८४५]

तथा “रक्ष्यं बालधनम् आ व्यवहारप्राप्तेः” [ग् १०।४८] इति वचनम् ।

[[३।१८]] अयं च पुत्राणां विभागः पुत्रपौत्रप्रपौत्रपर्यन्तः समानः । नात्रोत्पत्तितः प्रत्यासत्तिक्रमेणाधिकारक्रमः । पुत्रादीनां त्रयाणाम् एव पार्वणे तत्पिण्डतद्भोग्यपिण्डद्वयविधानात् । अत एव देवलः ।

पिता पितामहश् चैव तथैव प्रपितामहः ।
उपासते सुतं जातं शकुन्ता इव पिप्पलम् ॥ [द् १३०८]
मधुमांसैश् च शकैश् च पयसा पायसेन च ।
एष नो दास्यति श्राद्धं वर्षासु च मघासु च ॥ [द् १३०९]

तथा शङ्खलिखित-यमाः ।

पिता पितामहश् चैव तथैव प्रपितामहः ।
जातं पुत्रं प्रशंसन्ति पिप्पलं शकुना इव ॥ [श्ल् २८१]
मधुमांसेन खड्गेन पयसा पायसेन वा ।
एष दास्यति नस् तृप्तिं वर्षासु च मघासु च ॥ [श्ल् २८१]

प्रपितामहग्रहणात् पुत्रपदं प्रपौत्रपर्यन्तपरम् ।

तद् अनेन प्रपौत्रपर्यन्तस्य श्राद्धदानेन प्रपितामहपर्यन्तोपकारत्वात् प्रपौत्रपर्यन्तस्य तुल्यवद् दायाधिकारः । [[३।१९]] अत एव जीवत्पितृकयोः पौत्रप्रपौत्रयोर् अधिकारः पार्वणानधिकारितया पिण्डाप्रदातृत्वात् ।

[[३।२०]] पित्रोर् उपरमे च भ्रातॄणां पितृकृतो विशेषः परं निवर्तते । अन्यत् तु सर्वम् एव प्रत्येतव्यम् ।

[[३।२१]] यदा चैकः पुत्रो ऽस्त्य् अपरस्य पुत्रस्य पुत्राः सन्ति तदा पुत्रस्यैको भागो ऽपरश् च बहूनां नप्तॄणां स्वपित्रधीनजन्ममूलत्वाद् धनसंबन्धस्य यावत्य् एव धने तस्य स्वामित्वार्हत्वं तावत्य् एव तेषाम् अपि ।

[[३।२२]] यच् च,

अनेकपितृकानां च पितृतो भागकल्पना । [य् २।१२०च्द् = वि २७।२३अब्]

इति वचनं तस्य नायं विषयः । पितृव्यपितुर् एव तत् सर्वं धनम् इति पितृव्यस्यैव सर्वं स्यान् न तु तद्भ्रातृपुत्राणाम् । पितृतो भागकल्पना पितापुत्रविभागवद् भागकल्पने पितुर् भागद्वयसंबन्धात् पितृव्यस्य भागद्वयं भवेत् तद्भ्रातृपुत्राणां त्व् एकैको भागः स्यात् तदा च शिष्टाचारविरोध स्यात् । [[३।२३]] अस्य पुनर् एष विषयः यत्रैकस्य भ्रातुर् अल्पसंख्यकाः पुत्राः सन्ति अपरस्य बहुसंख्यकास् तत्र पितृतो भागकल्पना ।

[[३।२४]] इदानीं सवर्णभ्रातॄणां विभागः । विंशोद्धार्रादिपूर्वको वा सम एव वेति विकल्पः ।

[[३।२५]] उद्धारम् अन्तरेणापि समविभागम् आह पितरीत्य् अनुवृत्तौ हारीतः: “समानतो मृते रिक्थविभागः” [ह् ४।४] । तथा उशनाः ।

वर्णानाम् आनुलोम्यानां विभागो ऽयं प्रकीर्तितः ।
समत्वेनैकजातीनां विभागस् तु विधीयते ॥ [ध्को प्। १२३८]

तथा च पैठीनसिः: “पैतृके विभज्यमाने दायाद्ये समो विभागः” [पै ११८] । तथा याज्ञवल्क्यः ।

विभजेरन् सुताः पित्रोर् ऊर्ध्वं रिक्थम् ऋणं समम् । [य् २।११७अब्]

अतः सोद्धारानुद्धारविभागयोर् विकल्पः ।

[[३।२६]] न च केवलसमविभागस्यापि शास्त्रीयत्वान् नित्यवत् तस्यैवानुष्ठानं स्याद् इति वाच्यम् । भक्त्यतिशयेन भ्रातॄणाम् उद्धारानुमतेर् अपि संभवाद् विभागाविभागवद् विकल्पः । [[३।२७]] अत एवाद्यतनानां भक्त्यतिशयावावात् समभाग एव लोके दृश्यते उद्धारार्हज्येष्ठाभावाच् च ।

[[३।२८]] यस् तु स्वयोग्यतामात्रपरामर्षात् पितृपितामहादिधनविभागे निस्पृहः स किंचिद् एव तण्डुलप्रथम् अपि दत्वा तत्पुरादेः कालान्तरीयदुरन्ततानिरासार्थं विभजनीयः । तद् आह मनुः ।

भ्रातॄणां यस् तु नेहेत धनं शक्तः स्वकर्मणा ।
स निर्भाज्यः स्वकाद् अंशात् किंचिद् दत्वोपजीवनम् ॥ [म् ९।२०७]

तथा याज्ञवल्क्यः ।

शक्तस्यानीहमानस्य किंचिद् दत्वा पृथक्क्रिया ॥ [य् २।११६अब्]

[[३।२९]] पितरि चोपरते सोदरभ्रातृभिर् विभागे क्रियमाणे मात्रे पुत्रसमांशो दातव्यः “समांशहारिणी माता” इति [न् १३।१२च्] वचनात् ।

[[३।३०]] मातृपदस्य जननीपरत्वान् न सपत्नीमातृपरत्वम् अपि । सकृच्छ्रुतस्य मुख्यगौणत्वानुपपत्तेः ।

[[३।३१]] समांशता च मातुर् भ्रात्रादिभिः स्त्रीधनादाने । दत्ते पुनर् अर्धम् ।

पित्रा च पुत्रेभ्यः समविभागदाने सर्वपत्नीनाम् एव पुत्रसमांशतां कर्तव्या । तद् आह याज्ञवल्क्यः ।

यदि कुर्यात् समानांशान् पत्य्न्यः कार्याः समांशिकाः ।
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ॥ [य् २।११५]
अधिविन्नस्त्रियै देयम् आधिवेदनिकं समम् ।
न दत्तं स्त्रीधनं यासां दत्ते त्व् अर्धं प्रकल्पयेत् ॥ [य्२।१४८]

[[३।३२]] पुत्रहीनाश् च पत्न्यः समानांशाः न पुत्रवन्त्यः । तथा व्यासः ।

असुतास् तु पितुः पत्न्यः समानांशाः प्रकीर्तिताः ।
पितामह्यश् च सर्वास् ता मातृतुल्याः प्रकीर्तिताः ॥ [व्य् २५०]

तथा विष्णुः: “मातरः पुत्रभागानुसारेण भागहारिण्यः । अनूढाश् च दुहितरः” [वि १८।३४–३५] । [[३।३३]] पुत्रभागानुसारेण यथा वर्णक्रमेण पुत्राणां चतुस्त्रिद्व्येकभागिता तथा पत्नीनाम् अपीति । [[३।३४]] अनूढानां दुहितॄणां पुत्रभागम् अनुसृत्य तच्चतुर्थांशः । तद् आह बृहस्पतिः ।

समांशा मातरस् त्व् एषां तुरीयांशाश् च कन्यकाः । [ब् २६।२२च्द्]

[[३।३५]] पुत्रस्य भागत्रयं कन्याया एको भागः । यथा कात्यायनः ।

कन्यकानां त्व् अदत्तानां चतुर्थो भाग इष्यते ।
पुत्राणां च त्रयो भागाः स्वाम्यं स्वल्पधने स्मृतम् ॥ [क् ८५८]

[[३।३६]] अल्पधने पुत्रैः स्वात् स्वाद् अंशाद् आकृष्य कन्याभ्यश् चतुर्थो ऽंश्हो दातव्यः । तथा मनुः ।

स्वेभ्यो ऽंशेभ्यस् तु कन्याभ्यः प्रदद्युर् भ्रातरः पृथक् ।
स्वाद् स्वाद् अंशाच् चतुर्भागं पतिताः स्युर् अदित्सवः ॥ [म् ९।११८]

[[३।३७]] प्रदद्युर् इति प्रदानश्रुतेर् अदाने च पतितत्वश्रुतेर् न कन्याभिर् अधिकारबुद्ध्या ग्रहीतव्यम् । न ह्य् अधिकारिणे भ्रात्रे ऽपरो भ्राता स्वाद् अंशाद् ददाति ।

[[३।३८]] यथा याज्ञवल्क्यः ।

असंस्कृतास् तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।
भगिन्यश् च निजाद् अंशाद् दत्वांशं तु तुरीयकम् ॥ [य् २।१२४]

भगिनीनां संस्कार्यताम् आह नाधिकारिताम् । [[३।३९]] एवं च बहुतरधने विवाहोचितं धनं दातव्यं न चतुर्थांशनियम इत् सिध्यति ।

[[३।४०]] एतच् च कन्यापुत्रयोः समसंख्यत्वे ज्ञातव्यम् । विषमसंख्यत्वे च कन्याया एव बहुतरधनं वा स्यात् पुत्रस्य वा निरंशता स्यात् । न चैतद् उचितं पुत्रस्य प्राधान्यात् ।

[[३।४१]] यच् चेदम् अत्र बाधकम् उक्तम्,

अविद्यमाने पित्रर्थे स्वांशाद् उद्धृत्य वा पुनः ।
अवश्यकार्याः संस्कारा भ्रातृभिः पूर्वसंस्कृतैः ॥ [न् १३।३४]

अस्मान् नारदवचनाद् अवश्यकर्तव्यत्वाद् भगिनीसंस्कारस्य निरंशतापि न दोषायेति ।

[[३।४२]] तद् अयुक्तं भ्रातृसंस्कारार्थत्वाद् अस्य वचनस्य । भ्रातॄणां पूर्वसंस्कृतैर् इति पाठस्यानाकरत्वाद् भ्रातृसंस्कारस्य प्रकृतत्वात् । इदं हि पूर्व्म् उक्तम् ।

येषां तु न कृताः पित्रा संस्करविधयः क्रमात् ।
कर्तव्या भ्रातृभिर् तेषां पैतृकाद् एव तद्धनात् ॥ [न् १३।३३]

येषां तेषाम् इति पुंलिङ्गनिर्देशात् तदनन्तरम् एवाविद्यमान इति वचनारम्भाद् भ्रातृसंस्कारार्थम् एवेदं वचनम् ।

[[३।४३]] इति पितृपितामहादिधनविभागः ।