०२

[[२।१]] संप्रति पितामहादिधनविभागकालो ऽभिधीयते । तत्र बृहस्पतिः ।

पित्रोर् अभावे भ्रातॄणां विभागः संप्रदर्शितः ।
मातुर् निवृत्ते रजसि जीवतोर् अपि शस्यते ॥ [ब् २६।९]

[[२।२]] नास्य वचनस्य पितृधनगोचरत्वम् “उर्ध्वं विभागाज् जातस् तु” [म् ९।२१६] इत्य् अस्य निर्विषयत्वापत्तेः । निवृत्ते रजसि पुत्रोत्पत्त्यभावात् । मातृधनविषयत्वं च नाशङ्कनीयम् एवं मातुर् एव निर्धनत्वापत्तेः । अतो “निवृत्ते रजसि” इत्य् पितामहादिधनविषयम् ।

[[२।३]] न चेच्छाम् अनपेक्ष्य रजोनिवृत्तेर् विभागनिमित्तत्वं संभवतीति अनिच्छया विभागाभावात् । [[२।४]] सत्याम् इच्छायां कस्येच्छयेत्य् अपेक्षायाम्, “ऊर्ध्वं पितुः पुत्रा रिक्थं विभजेयुः । निवृत्ते रजसि मातुर् जीवति चेच्छति” [ग् २८।१–२] इति गौतमवचनात् पितुर् एवेच्छात इत् निर्णीयते ।

[[२।५]] अतः पित्रोर् अभाव एकः कालः । पित्रोर् इति द्विवचननिर्देशात् सोदरभ्रातॄणां पितृधनविभागे ऽपि मातुर् अभाव एव कार्यः । [[२।६]] न तु मातृधनविभागार्थं मातुर् अभावस्योपादानं जीवतोर् अपीत्य् अस्य मातृधनगोचरत्वानुपपत्तेर् अन्यधनगोचरत्वम् अवश्यं वाच्यम् । तेन यत्रैव पित्रोर् अभावो निमित्तं तत्रैव जीवतोर् अपीत्य् अपि शब्देन जीवनस्यापि शस्तत्वकीर्तनान् न मातुर् अभावो मातृधने व्याख्येयः । एतच् च विस्तरेण वक्तव्यम् ।

[[२।७]] तस्मात् पितामहादिधनस्यापि पित्रोर् अभाव इत्य् एको विभागकालः । तथा मातुर् निवृत्ते रजसि पितुर् इच्छात इत्य् अपरः । [[२।८]] न तु पितुर् इच्छाम् अन्तरेणैव तस्य विभागः । “अनीशास् ते हि जीवतोः” [म् ९।१०४द्] । तथा — “अस्वाम्यं हि भवेद् एषां निर्दोषे पितरि स्थिते” [द् १५६३द्] । तथा — “जीवति चेच्छति” [ग् २८।२] । तथा — “पितुर् अनुमत्या दायविभागः” [बौ २।२।३।८] । तथा — “जीवति पितरि रिक्थविभागो ऽनुमतः” [श्ल् २७४] । तद् एवमादिमनु-नारद-गोतम-बौधायन-शङ्खलिखितादिभिर् अविशेषेण जीवति पितरि पुराणां यावद्धनगोचरास्वामित्वस्य पितुर् इच्छाधीनविभागस्य च प्रतिपादनात् पैतामहधनविभागकालस्य च पृथग् एभिर् अनभिधानात् पैतामहधनगोचरत्वम् अप्य् अनीशत्वपित्रनुमतिवचनानाम् ।

[[२।९]] यत् तु याज्ञवल्क्यवचनम् —

भूर् या पितामहोपात्ता निबन्धो द्रव्यम् एव वा ।
तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः ॥ [य् २।१२१]

तस्य नरविद्यविद्योद्योतेन द्योतितस् तत्त्वतो ऽयम् अर्थः — यत्र द्वयोर् भ्रात्रोर् जीवत्पितृकयोर् अप्राप्तभागयोर् एकः पुत्रम् उत्पाद्य विनष्टो ऽन्यो जीवति अनन्तरं पिता मृतस् तत्र पुत्र एव तद्धनं प्राप्नोत्य् अतिसंनिकर्षात् । तदर्थं सदृशं स्वाम्यम् इति वचनम् । यथा पैतामहधने पितुः स्वाम्यं तथैव तस्मिन् मृते तत्पुत्राणाम् अपि । न तत्र संनिकर्षविप्रकर्षाभ्यां को ऽपि विशेषः । पार्वणविधिना पिण्डदानेन द्वयोर् अपि तदुपकारकत्वाविशेषाद् इत्य् अभिप्रायः ।

[[२।१०]] अत एव मृतपितृकः प्रपौत्रो ऽपि पुत्रपौत्राभ्यां सह तुल्याधिकारी भवति पिण्डदत्वाविशेषात् ।

[[२।११]] जीवति तु पितरि पुत्राणां पैतामहधनस्वामित्वे सपुत्रापुत्रभ्रातृद्वयविभागे तत्पुत्राणाम् अपि भागः स्यात् स्वामित्वाविशेषात् ।

[[२।१२]] न् चाप्रक्रान्तत्वेनातदर्थत्वं वचनस्यानेकपितृकानाम् एव प्रक्रमात् ।

[[२।१३]] निबन्धः कार्त्तिक्यां कार्त्तिक्याम् इदं दास्यामीति यन् निबद्धम् । [[२।१४]] द्रव्यं भूसाहचर्याद् द्विपदम् अभिहितम् ।

[[२।१५]] अयं वा धारेश्वरपुरस्कृतो वचनार्थः — इच्छया विभागदानप्रवृत्तस्य पितुः पैतामहधने सदृशं स्वाम्यं पुत्रैः सह । न तत्र स्वोपार्जितधन इव न्यूनाधिकविभागम् इच्छातः कर्तुम् अर्हतीति ।

[[२।१६]] तथा विष्णुः: “पिता चेत् पुत्रान् विभजेत् तस्य स्वेच्छा स्वयम् उपात्ते ऽर्थे । पैतामहे तु पितापुत्रयोस् तुल्यं स्वामित्वम्” (वि १७।१–२) । [[२।१७]] इदं सुव्यक्तम् — यदि पिता पुत्रान् विभजति तदा स्वोपात्ते न्यूनाधिकविभागं स्वेच्छया पुत्रेभ्यो दद्यात् । पैतामहे तु नैतद् यस्मात् तत्र तुल्यं स्वामित्वम् । न पुनः स्वच्छन्दवृत्तिता ।

[[२।१८]] अतः पितापुत्रयोः पैतामहधने समविभागार्थं सदृशं स्वाम्यम् इति वचनं पुत्राणां वा विभागस्वातन्त्यर्थम् इति मतद्वयम् अपि हेयम् । [[२।१९]] एवम् एवापरम् अपि वचनं व्याख्येयम् ।

[[२।२०]] अतः पैतामहादिधने पितुर् भागद्वयं पितुर् इच्छात एव विभागो न पुत्रेच्छयेति सिद्धम् ।

[[२।२१]] यच् च मनु-विष्णू:

पैतृकं तु पिता द्रव्यम् अनवाप्तं यद् आप्नुयात् ।
न तत् पुत्रैर् भजेत् सार्धम् अकामः स्वयम् अर्जितम् ॥ [म् ९।२०९ = वि १८।४३]

स्वार्जितत्वेन हेतुना नाकामो विभजेद् इति वदन्तौ स्वयम् अनर्जिते पैतामहधने पितुर् अनिच्चयापि पुत्राणां विभागं दर्शयतस् तत्रापि विभागदानप्रवृत्तेः पिता पितामहधनं स्वार्जितं नाकामो विभजेत् । अन्यत् पुनर् अकामो ऽपि विभजेद् इत्य् अस्वेच्छात एवेत्य् अर्थः । न पुनः पुत्रेच्छया विभागं ज्ञापयतः ।

[[२।२२]] मणिमुक्तादौ पुनः पैतामहे पित्रनर्जिते स्वाजित इव पितुर् एव स्वाम्यं न्यूनाधिकविभागदानार्हत्वं च । यथा याज्ञवल्क्यः ।

मनिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभुः ।
स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥ [य्?]

[[२।२३]] पितामहश्रुतेस् तद्धनविषयम् । मणिमुक्ताद्युपादाय पुनः सर्वस्येत्य् उपादानात् सर्वेषां भूम्यादिव्यतिरिक्तानां दानादिषु पितुः प्रभुत्वं न स्थावरनिबन्धद्रव्याणाम् । तत्रापि सर्वस्येत्य् उपादानात् सर्वस्य कुटुम्बवर्तनहेतोर् दानादिनिषेधः कुटुम्बस्यावश्यं भरणीयत्वात् । यथा मनुः ।

भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् ।
नरकं पीडने चास्य तस्माद् यत्नेन तं भरेत् ॥ [म्?]

[[२।२४]] अल्पस्य तु वर्तनाविरोधिनो न दानादिनिषेधः सर्व्स्येत्य् आनर्थक्यापत्तेः ।

[[२।२५]] स्थावरग्रहणान् निबन्धद्विपदयोर् दण्डापूपन्यायाद् दानादिनिषेधसिद्धिः ।

[[२।२६]] यदि पुनः सर्वस्यावरादिविक्रयम् अन्तरेण कुटुम्बवर्तनम् एव न भवति तदा सर्वस्यापि विक्रयादिकम् इत्य् अर्थात् सिध्यति, “सर्वत एवात्मानं गोपायीत” [ग् ९।३४] इत् वचनात् ।

[[२।२७]] न च,

स्थावरस्य समस्तस्य गोत्रसाधारणस्य च ।
नैकः कुर्यात् क्रयं दानं परस्परमतं विना ॥ [व्य् २५४]
विभिक्ता अविभिक्ता वा सपिण्डाः स्थावरे समाः ।
एको ह्य् अनीशः सर्वत्र दानाधमनविक्रये ॥ {व्य् २५५]

एतद् व्यासवचनद्वयेनैकस्य विक्रयाद्यनधिकार इति वाच्यं यथेष्टविनियोगार्हत्वलक्षणस्य स्वत्वस्य द्रव्यान्तर इवात्राप्य् अविशेषात् । [[२।२८]] व्यासवचनं तु स्वामित्वेन दुर्वृत्तपुरुषगोचरविक्रयदानादिना कुटुम्बविरोधाद् अधर्मभागिताज्ञापनार्थं न तु विक्रयाद्यनिष्पत्त्यर्थम् ।

[[२।२९]] एवं च

स्थावरं द्विपदं चैव यद्य् अपि स्वयम् अर्जितम् ।
असंभूय सुतान् सर्वान् न दानं न च विक्रयः ॥ [व्य् २५२]

इत्येवमादिकं तद् अप्य् एवम् एव वर्णनीयम् । तथा हि कर्तव्यपदम् अवश्यम् अत्राध्याहार्यम् । [[२।३०]] तेन दानविक्रयकर्तव्यतानिषेधात् तत्करणाद् विध्यतिक्रमो भवति न तु दानाद्यनिष्पत्तिः वचनशतेनापि वस्तुनो ऽन्यथाकरणाशक्तेः ।

[[२।३१]] अत एव नारदः ।

यद्य् एकजाता बहवः पृथग्धर्माः पृथक्क्रियाः ।
पृथक्कर्मगुणोपेता न चेत् कार्येषु संमताः ॥ [न् १३।४२।४१]
स्वभागान् यदि दद्युस् ते विक्रीणीयुर् अथापि वा ।
कुर्युर् यथेष्टं तत् सर्वम् ईशास् ते स्वधनस्य वै ॥ [न् १३।४३।४२]

[[२।३२]] प्रकृतम् अनुसरामः । तद् एवम् उक्तप्रबन्धेन पितामहादिधने पितापुत्रयोः समविभागविधानानुपपत्तेः, पुत्राणां च विभागे स्वातन्त्र्यप्रतिपत्तिपरत्वाभावाच् च, जनकेच्छाधीनन्यूनाधिकविभागनिराकरणार्थं मृतपितृकस्य भ्रातृपुत्रस्य पितृव्येण सह तुल्याधिकारार्थं वा वचनम् ।

[[२।३३]] एवं च पितामहधनस्यापि पितुर् इच्छयैव विभागः कार्यः । किं तु “निवृत्ते रजसि” इति विशेषः । स्वोपात्ते तु रजोनिवृत्तिम् अन्तरेणापि “पितुर् ऊर्ध्वम्” इत्य् उभयत्राप्य् अविशिष्टम् ।

[[२।३४]] तेन पैतामहे ऽपि कालद्वयम् ।

[[२।३५]] तत्र यदा पितैवेच्छातः पुत्रान् विभजति तदा पैतामहादिधनाद् भागद्वयं स्वयं गृह्णीयात्,

जीवद्विभागे तु पिता गृह्णीतांशद्वयं स्वयम् । [ब् २६।१६]

इति बृहस्पतिना । तथा,

द्वाव् अंशौ प्रतिपद्येत विभजन्न् आत्मनः पिता । [न् १३।१२अब्]

इति नारदेन चाविशेषेण प्रतिपादनात् ।

[[२।३६]] किं च इतो ऽपि पितामहधनात् पितुर् भागद्वयम्,

[[२।३७]]> ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् ।

ततो ऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥ [ब् ९।११२]

तथा,

एवं समुद्धृतोद्धारे समान् अंशान् प्रकल्पयेत् ।
उद्धारे ऽनुद्धृते त्व् एषाम् इयं स्याद् अंशकल्पना ॥ [म् ९।११६]
एकाधिकं हरेज् ज्येष्ठः पुत्रो ऽध्यर्धं ततो ऽनुजः ।
अंशम् अंशं यवीयांस इति धर्मो व्यवस्थितः ॥ [म् ९।११७]

एतैर् मनुवचनैः सर्वद्रव्यवरसहितविंशतदर्धतत्तुरीयोद्धारा दर्शिताः । तथैकांशाधिकार्धांशाधिकचतुर्थभागाधिकभागाः प्रतिपादिताः । गोतमेनापि “विंशतिभागो ज्येष्ठस्य मिथुनम् उभयतोदद्युक्तो रथो गोवृषः” [ग् २८।५] । मिथुनम् अजादीनाम् । उभयतोदत् अश्वादि । तद्युक्तो रथः । गोयुक्तो वृषः । एतत् सर्वं ज्येष्ठस्य । तथा, “काणखोरकूटवण्डा मध्यमस्यानेकाश् चेत्” [ग् २८।६] । खोरो वृद्धः । कूटो वामनाकृतिः । वण्डो विकृतलाङ्गूलः । एते मध्यमस्य यदि बहवः पशवो भवन्ति । तथा, “अविर् धान्यायसी गृहम् अनो युक्तं चतुष्पदां चैकैकं यवीयसः । समम् इतरत् सर्वम्” [ग् २८।७–८] । अविप्रभृतयः कनीयसः । अवशिष्टं सर्वं समं विभजेरन्न् इति प्रतिपाद्य, “द्व्यंशी वा पूर्वजः । स्याद् एकैकम् इतरेषाम्” [ग् २८।९–१०] इति सूत्रेणांशद्वयं ज्येष्ठस्योक्तम् ।

[[२।३८]] न चोपार्जकत्वेन ज्येष्ठस्यांशद्वयम् इत् वाच्यम्, उद्धारे ऽनुद्धृते भागद्वयस्य विधानात्, अर्जकत्वे चोद्धारस्यासंभवात्, मध्यमकनीयसोश् चोपार्जकतया ज्येष्ठेनाप्य् अविशेषात् तयोर् अध्यर्धादिविधानानुपपत्तेः, ज्येष्ठादिपदानर्थक्याच् च ।

[[२।३९]] अत एव पुत्रिकौरसयोः पितृधनविभागे मनुर् आह ।

पुत्रिकायां कृतायां तु यदि पुत्रो ऽनुजायते ।
समस् तत्र विभागः स्याज् ज्येष्टता नास्ति हि स्त्रियाः ॥ [म् ९।१३४]

इति स्त्रीत्वेन ज्येठत्वाभावात् समभागतां प्रतिपादयन् पुरुषस्य भागद्वयं ज्ञापयति ।

[[२।४०]] यद् उक्तं, होलाकाधिकरणे प्राच्यकर्तृकहोलाकानुष्ठानोपपत्तये “होलाका कर्तव्या” इति श्रुतिः कल्पिता तावतैव तदुपपत्तेः । न तु प्राच्यादिपदवती* कल्पनागौरवात् । तद्वद् अत्राप्य् अर्जको ऽंशद्वयं गृह्णीयाद् इति श्रुतिः कल्पनीया न पुनः पित्रादिपदवतीति ।

तद् अयुक्तम् । तत्र प्राच्यकर्तृकस्यानुष्टानस्यावश्यकल्पनीयसामान्यश्रुत्यैवोपपत्तेः । न चाप्राच्यानाम् अननुष्ठानार्थं प्राच्यपदवती कल्प्यताम् इति वाच्यम् । तेषाम् अननुष्ठानस्यानाचाररूपस्य श्रुतिकल्पनानिमित्तत्वानुपपत्तेः ।

इह तु मन्वादीनां ज्येष्ठपदप्रयोगात् तदुपपत्तये ज्येष्ठपदवत्या एव श्रुतेः कल्पनार्हत्वात् । अर्जकपदवत्या अवश्यकल्पनीयत्वाभावात् । ज्येष्ठपदवत्या अर्जकपदवत्याश् च काल्पनायां विशेषप्रमाणाभावात् ।

न चान्यत्रार्जकस्य भागद्वयार्थं श्रुतेर् अवश्यकल्पनीयत्वाद् अत्रापि सैवे मुलम् अस्तु लाघवात् ज्येष्ठपदं चार्जकपरम् अस्त्व् इति वाच्यम् । वैपरीत्यस्यापि संभवात् । अत्रैव ज्येष्ठपदयुक्तश्रुतिकल्पनायाम् अर्जकपदस्यापि ज्येष्ठपरत्वकल्पनासंभवात् । विनिगमनाप्रमाणाभावात् । किं चैवं लाघवादिना यत् किंचित् त्रिचतुरादिपदवतीम् एकां श्रुतिम् अनुमाय सकलस्मृतिपदानां गौण्या लक्षणया वा वृत्त्या तत्परत्वम् अपि वाच्यम् इत्य् अतीवात्मनः स्मृतिनिपुणता निरूपिता ।

तस्माद् यस्माद् एवाचारात् स्मृतिवाक्याद् वा या श्रुतिर् अवश्यकल्पनीया तयैव तद्गतस्याचारांशस्य स्मृतिपदस्य चोपपत्तेर् न तत्राधिककल्पनेति होलाकाधिकरणस्यार्थः ।

[[२।४१]] अत एव वसिष्ठेन ज्येष्ठस्यांशद्वयम् अभिधाय उपार्जकस्यांशद्वयं पृथग् अभिहितम् । यथा: “अथ भ्रातॄणां दायविभागः । द्व्यंशं ज्येष्ठो हरेत्” [व १७।४०, ४२] । ततो ऽनतिदूरे पुनर् आह: “येन चैषां समुत्पादितं स्यात् सो ऽपि द्व्यंशम् एव हरेत्” [व १७।५१] । अनेनार्जकतया भागद्वये दर्शिते ज्येष्ठस्यांशद्वयाभिधानम् अनर्थकं स्यात् ।

[[२।४२]] द्व्यंशहरत्वम् अपि न ज्येष्ठतामात्रेण । यद् आह बृहस्पतिः ।

जन्मविद्यागुणज्येष्ठो द्व्यंशं दायाद् अवाप्नुयात् ।
समांशबागिनस् त्व् अन्ये तेषां पितृसमस् तु सः ॥ [ब् २६।२१]

उपार्जकत्वेन भागद्वये जन्मविद्यादिकीर्तिनम् अनुपयोगि ।

[[२।४३]] एतच् च भागद्वयं सोद्रमात्रभ्रातृविभागविषयम् । सोदरासोदरविभागगोचरश् च ज्येष्ठस्य विंशोद्धारः । यद् आह बृहस्पतिः ।

सवर्णासु ये जाताः सर्वे पुत्रा द्विजन्मनाम् ।
उद्धारं ज्यायसे दत्वा भजेरन्न् इतरे समम् ॥ [ब् २६।११]

[[२।४४]] समवर्णासु बह्वीषु स्त्रीषु जातानाम् उद्धारपूर्वकविभागश्रुतेर् भागद्वयं सोदरमात्रगोचरम् एव सिध्यति । युक्तं चैतत् सोदरतयाधिकगौरवात् ।

[[२।४५]] उद्धारो ऽपि दशसु गवादिषु न कार्यः । तथा मनुः ।

उद्धारो न दशस्व् अस्ति संपन्नानां स्वकर्मसु ।
यत् किंचिद् एव देयं स्याज् ज्यायसे मानवर्धनम् ॥ [म् ९।११५]

[[२।४६]] तद् एवम् उक्तप्रबन्धेन यत्र ज्येष्ठभ्रातुर् एव पितृधने भागद्वयं कथं तत्र जनकस्य दानविक्रयपरित्यागक्षमस्य पितामहधनसंबन्धमूलस्यातिगुरोः पितुर् एव स्वपितृधने भागद्वयं न भवति ।

जन्मविद्यागुणज्येष्ठ इति वाक्येन च पितृसमत्वेन भागद्वयं ज्येष्ठस्यातिदिशन् पितुर् भागद्वयोपदेशं ज्ञापयति बृहस्पतिः ।

जीवद्विभागे तु पिता गृह्णीतांशद्वयं स्वयम् । [ब् २६।१६]

इति सामान्येनांशद्वयाभिधानाद् उपदेशो बृहस्पतिना दर्शितः । तथा नारदः ।

द्वाव् अंशौ प्रतिपद्येत विभजन्न् आत्मनः पिता ।
समांशहारिणी माता पुत्राणां स्यान् मृते पतौ ॥ [न् १३।१२]

[[२।४७]] द्रव्यं विभजन् पिता द्वाव् अंशाव् आत्मनो गृह्णीयान् न पुनर् आत्मनो द्रव्यं विभजन्न् इति संबन्धः पूर्वोक्तविरोधात् ।

[[२।४८]] किं च पैतामहधने पितापुत्रयोः समभागत्वे यावद् धनं पितुस् तावद् एव पुत्रस्यापीति वाच्यम् । न तु यद् एव यावद् एव धनं पितुस् तद् एव तावद् एव पुत्रस्य मध्यगत्वापत्तेः । जायापत्योर् इव विभागाभावप्रसङ्गात् । [[२।४९]] एवं च सति भ्रातॄणां विभागे यदा ज्येष्ठस्य ज्येष्ठतया भागद्वयकल्पनं तदा तत्पुत्रस्यापि भागद्वयकल्पने पुत्रेण सह ज्येष्ठस्य चत्वारो ऽंशाः भ्रात्रन्तरस्यैको ऽंशः स्यात् । बहुपुत्रत्वे च ज्येष्ठस्य तत्पुत्राणां पितृसमभागकल्पने कनिष्ठभ्रातुर् यत् किंचिद् एव स्याद् इति महाजनविरोधः ।

[[२।५०]] यच् च बृहस्पतिवचनम्,

द्रव्य पितामहोपात्ते स्थावरे जङ्गमे तथा ।
समम् अंशित्वम् आख्यातं पितुः पुत्रस्य चैव हि ॥ [ब् २६।१४]

अंशित्वं समं समानम् । न स्वेच्छया स्वोपात्तद्रव्यवन् न्यूनाधिकविभागं दातुम् अर्हति । न पुनर् अंशः सम इति तस्यार्थः । [[२।५१]] द्विपितृकपित्रभिप्रायं वा समभागवचनम् ।

[[२।५२]] तत्र स्यात् सदृशं स्वाम्यम् इति वचनं तु प्राग् एव व्याख्यातम् ।

[[२।५३]] किं च यद्य् असौ पिता स्वपितुः पुन्नामनरकनिवर्तको ज्येष्ठस् तदा तस्य स्वभ्रातॄन् एवापेक्षया यत्र पितृसमत्वेन भागद्वयं सुतरां तस्य पुत्रापक्षया भागद्वयं युक्तं पुत्राणां क्रमागतधनसंबन्धस्य पित्रधीनत्वात् । अथ यः स्वपितुर् न ज्येष्ठः पुत्रस् तस्य स्वपुत्रैः सह समांशितोच्यते ।

[[२।५४]] तन् न, मध्यमादिपुत्राणाम् अप्य् अध्यर्धादिविधानात् पितृतया भागद्वयस्यैव सुतरां युक्तत्वात् । सामान्येन च पितापुत्रयोः समानांशाभिधानस्य भवतो मुनीनां चानुचितत्वात् ।

[[२।५५]] किं च पितुर् अंशद्वयाभिधानं स्वोपात्तद्रव्यगोचरम् इत्य् अप्य् अनुपपन्नम् । तदिच्छानुरोधित्वाद् विभागस्य इच्छातश् च भागद्वयत्रयन्यूनाधिकानाम् अपि प्राप्तेर् विफलो विधिः । नियमार्थत्वं च वचनस्य न वर्णनीयं विष्णुविरोधात् । तद् आह: “पिता चेत् पुत्रान् विभजेत् तस्य स्वेच्छा स्वयम् उपात्ते ऽर्थे । पैतामहे तु पितापुत्रयोस् तुल्यं स्वाम्यम्” [वि १७।१२] । [[२।५६]] अस्यार्थः — स्वोपात्ते यावद् एव ग्रहीतुम् इच्छत्य् अर्धं भागद्वयं त्रयं वा तत् सर्वं तस्य शास्त्रानुमतं न तु पैतामहे ऽपि ।

[[२।५७]] तथा हारीतः: “जीवन्न् एव वा प्रविभज्य वनम् आश्रयेद् वृद्धाश्रमं वा गच्छेत् स्वल्पेन वा प्रविभज्य भूयिष्ठम् आदाय वसेत् । यद्य् उपदश्येत्* पुनस् तेभ्यो गृह्णीयात्” [ह् ४।५] । [[२।५८]] अनेन स्वल्पस्य विभागो भूयिष्ठद्रव्यग्रहणं च पितुर् अभिहितम् । वृद्धाश्रमः प्रव्रज्या ।

[[२।५९]] यच् च शङ्खलिखितवचनम्: “स यद्य् एकपुत्रः स्याद् द्वौ भागाव् आत्मनः कुर्यात्” [श्ल् २६८] । अस्यायम् अर्थः — एकस्य पुत्र एकपुत्रः । न पुनर् एक एव पुत्रो यस्येति बहुव्रीहिः तस्यान्यपदार्थप्रधानत्वेन षष्ठीतत्पुरुषाद् दुर्बलत्वात् ।

एकपुत्रश् चौरसः । तथाविधस्य पितुर् भागद्वयम् । न तु क्षेत्रजस्य पितृत्वे ऽपि तत्र स्यात् सदृशं स्वाम्यम् इति वचनं क्षेत्रजपित्रभिप्रायम् एव वर्णनीयम् । [[२।६०]] क्षेत्रजो हि द्विपितृकः । तद् आह बौधायनः:

“मृतस्य च प्रसूतो यः क्लीबस्य व्याधितस्य वा ।
अन्येनानुमतो वा स्यात् स्वक्षेत्रे क्षेत्रजः स्मृतः ॥ [बौ २।२।३।१७]

स एव द्विपिता द्विगोत्रश् च । द्वयोर् अपि स्वधाकारो रिक्थभाग् भवति” [बौ २।२।३।१८] । [[२।६१]] अस्यार्थः — क्लीबादेः स्वे क्षेत्रे तदनुमतो ऽन्येन प्रसूतः क्षेत्रजः ।

[[२।६२]] तथा नारदः ।

क्षेत्रिकानुमते क्षेत्रे बीजं यस्य प्रकीर्यते ।
तदपत्यं द्वयोर् एव बीजिक्षेत्रिकयोर् मतम् ॥ [न् १२।५८]

[[२।६३]] अतश् चैकपुत्र आत्मनो भागद्वयं कुर्याद् इति विधाव् एकपुत्रत्वस्य कर्तृविशेषणतया विवक्षार्हत्वाद् उद्देश्यविशेषणत्वेनाविवक्षितत्वम् इत्य् अपि परास्तं भवति । [[२।६४]] किं च परमप्रेक्षावन् मनु-गोतम-दक्षादिप्रयुक्तपदानां प्रतिक्षणम् अविवक्षाम् आचक्षाणः स्वस्यैव साक्षाद् अविवक्षितत्वं ख्यापयति ।

[[२।६५]] तथा पुत्रार्जिते ऽपि धने पितुर् अंशद्वयं “द्वाव् अंशौ” इति “गृह्णीतांशद्वयम्” इति चाविशेषश्रुतेः । सुव्यक्तम् आह कात्यायनः ।

द्व्यंशहरो ऽर्धहरो वा पुत्रवित्तार्जनात् पिता ।
मातापि पितरि प्रेते पुत्रतुल्यांशभागिनी ॥ [क् ८५१]

[[२।६६]] पुत्रस्य वित्तार्जनात् पितुर् द्व्यंशहरत्वम् अर्धहरत्वं वेत्य् अस्यार्थः ।

[[२।६७]] न च पुत्रश् च वित्तं च पुत्रवित्ते । तयोर् अर्जनात् पिता द्व्यंशहरः पुत्रानर्जनात् सर्वहर् इति वाच्यम् । अनर्जितपुत्रस्यापि भ्रातृभिर् विभागे वित्तार्जकतया अंशद्वयस्येष्टत्वात् कथं सर्वहरत्वम् । अतो विभागार्हसंबन्धिनि विद्यमाने ऽर्जकस्य द्व्यंशित्वम् असति तु सर्वहरत्वम् इति वाच्यम् । तथा च पितापुत्रपदयोः प्रमत्तगीतता स्यात् । किं चार्जनं स्वत्वहेतुभूतो व्यापारः अर्जनं स्वत्वं नापादयतीति विप्रतिषिद्धम् इत्य् अभिधानात् । न च पुत्रेषु स्वत्वम् अस्तीति सर्वस्वदाने प्रदर्शितम् । अतस् तत्र गौणम् अर्जकपदं वित्ते च मुख्यम् न चैतत् सकृच् छ्रुतस्य संभवति ।

[[२।६८]] न च पुत्रेणार्जितत्वात् पुत्रस्य द्व्यंशप्राप्तेः पितुश् च भागद्वयस्यास्माद् वचनाद् ऋते ऽपि प्राप्तेः समभागत्वापाताद् विधानम् अनर्थकम् इति वाच्यम् । एतद् वचनम् अन्तरेणापि पुत्रधने पितुर् भागद्वयस्याप्राप्तेर् वचनस्यार्थवत्वात्* । [[२।६९]] किं च पुत्रवित्तार्जनाद् इत्य् अस्य पितृधनविषयत्वे पितुर् इच्छातो द्व्यंशहरत्वम् अर्धहरत्वं वेत्य् अनुपपन्नम् । इच्छानुरोधित्वाद् ग्रहणस्येच्छायाश् चानियतत्वात् सार्धसपादपादोनांशग्रहणस्यापि संभवात् कथं पक्षद्वयमात्रकीर्तनम् । नियमार्थत्वं च पितृधनगोचरं न संभवतीत्य् उक्तं प्राक् । अत्र च पुत्रार्जितवित्तस्य यथा द्व्यंशहरत्वं तथा तस्यैव वित्तस्यार्धहरत्वम् इति युक्तम् ।

[[२।७०]] न पुनर् द्व्यंशस्यार्धम् एको ऽंशस् तद्ग्रहणार्थं वचनम् । अर्धस्य द्व्यंशस्य चैकदेशत्वेनैकदेशस्याकाङ्क्षितत्वात् । पुरुषविशेषणतया हरणकर्मत्वेन च द्वयोः समत्वात् परस्परसंबन्धानुपुपत्तेश् च । वित्तार्जनाद् इति पञ्चम्यन्तेन द्व्यंशरूपैकदेशान्वयार्थोपादानस्याविवादाद्* अर्धपदेनापि तस्यान्वयो युक्तः । वित्तारजनार्धपदयोश् चाव्यवधानाद् वित्तस्यैवार्धं प्रतीयते । न पुनर् द्व्यंशस्यार्धम् एको ऽंशः प्रतीयते । स्वायत्ते चैकांशपदे प्रयोक्तव्ये ऽवाचकपदप्रयोगस्यान्याय्यत्वाद् वित्तस्यैवार्धं युक्तम् ।

[[२।७१]] तत्र पितृद्रव्योपघातेन पुत्रार्जितवित्तस्यार्धं पितुर् अर्जकस्य पुत्रस्यांशद्वयम् इतरेषाम् एकैकांशिता । अनुपघाते तु पितुर् अंशद्वयम् अर्जकस्यापि तावद् एवेतरेषाम् अनंशित्वम् ।

[[२।७२]] यद् वा विद्यादिगुणसंपन्नस्य पितुर् अर्धहरत्वं विद्यादिना ज्येष्ठस्यैवाधिकांशदर्शनात् । विद्यादिशून्यस्य जनकतामात्रेण द्व्यंशित्वम् ।

[[२।७३]] तेन क्रमागतधनाद् वा पुत्रार्जितधनाद् वा भागद्वयं पिता स्वयं गृह्णीयात् । अतो ऽधिकम् इच्छन्न् अपि नार्हतीति वचनार्थः । स्वार्जितधनात् तु यावद् एव ग्रहीतुम् इच्छति तावद् एव गृह्णीयात् ।

[[२।७४]] पुत्राणां तु पैतामहधनाद् विंशोद्धारं दत्वादत्वैव वा विभजेत् । स्वोपार्जितधनात् पुनर् गुणवत्त्वेन संमानार्थं बहुकुटुम्बत्वेन वा भरणार्थम् अयोग्यत्वेन वा कृपया भक्तत्वेन वा प्रसन्नतयाधिकदानेच्छुर् न्यूनाधिकविभागं कुर्वन् धर्मकारी पिता । [[२।७५]] तद् आह याज्ञवल्क्यः ।

न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः । [य् २।११६च्द्]

तथा बृहस्पतिः ।

समन्यूनाधिका भागाः पित्रा येषां प्रकल्पिताः ।
तथैव ते पालनीया विनेयास् ते स्युर् अन्यथा ॥ [ब् २६।१५]

तथा नारदः ।

पित्रैव तु विभक्ता ये समन्यूनाधिकैर् धनैः ।
तेषां स एव धर्म्यः स्यात् सर्वस्य हि पिता प्रभुः ॥ [न् १३।१५]

[[२।७६]] सर्वधनप्रभुत्वस्य हेतुत्वात् पैतामहे च तस्यासंभवात् न्यूनाधिकभागः पितृकृतः पितृधनविषय एवायं धर्म्यः । तथा च विष्णुः: “पिता चेत् पुत्राण् विभजेत् तस्य स्वेच्छा स्वयम् उपात्ते ऽर्थे । पैतामहे तु पितापुत्रयोस् तुल्यं स्वामित्वम्” [वि १७।१२] ।

[[२।७७]] ननु,

विभागं चेत् पिता कुर्याद् इच्छया विभजेत् सुतान् ।
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ [य् २।११४]

इति याज्ञवल्क्यवचनाद् उद्धाररूपश्रेष्ठभागावगतेः कथं ततो न्यूनाधिकत्वम् अभिधीयते ।

उच्यते — उपरते पितरि भ्रातृभिर् अपि विभागे क्रियमाणे विंशोद्धाररूपश्रेष्ठांशस्य सिद्धत्वाद् वचनानर्थक्यान् न तदर्थत्वम् । [[२।७८]] अथ विनाप्य् उद्धारं समांशतायाः पितृकृताया धर्म्यत्वार्थं वचनम् उच्यते । तन् न न्यूनत्वम् एव तर्हि पितृकृतं धर्म्यं स्याद् इत्य् अधिकपदम् अनर्थकं स्यात् । [[२।७९]] किं चोद्धाराभिप्रायेण न्यूनाधिकत्ववर्णने इच्छया विभजेद् इत्य् अनर्थकं पदं एतदितरपदत्रयेणैव वक्तव्यस्याभिहितत्वात् ।

अस्मिन् मते त्व् इच्छया विभजेद् इति स्वोपात्तधनविषयम् । श्रेष्ठांशतासमानांशतयोस् तु पैतामहधनगोचरत्वम् इति न किम् अप्य् अनर्थकम् । [[२।८०]] किं च पितर्य् उपरते ऽपि द्विप्रकारो विभागो बृहस्पतिनोक्तः । यथा ।

द्विप्रकारो विभागस् तु दायादानां प्रदर्शितः ।
वयोज्येष्ठक्रमेनैकः समा परांशकल्पना ॥ [ब् २६।१७]

ज्येष्ठक्रमेणोद्धारं दर्शयति । तथा समांशता परेति । भ्रातॄणाम् अपि परस्परविभागस्य द्विप्रकारत्वात् पितृकृतस्य विशेषो न स्यात् । [[२।८१]] तथा नारदः ।

पितैव वा स्वयं पुत्रान् विभाजेद् वयसि स्थितः ।
ज्येष्ठं वा श्रेष्ठभागेन यथा वास्य मतिर् भवेत् ॥ [न् १३।४]

[[२।८२]] ज्येष्ठस्य श्रेष्ठभागम् अभिधाय पुनर् यथा वास्य मतिर् भवेद् इत्य् अनेन यादृशे न्यूनाधिकविभागे पितुः पूर्वोक्तकारणात् कर्तव्यमतिर् भवेद् इति पृथगभिधानात् श्रेष्ठभागाद् अन्य एवायं न्यूनाधिकविभागः प्रतीयते ।

[[२।८३]] यत् पुनर् नारदवचनम्,

व्याधितः कुपितश् चैव विषयासक्तचेतनः ।
अयथाशास्त्रकारी च न विभागे पिता प्रभुः ॥ [न् १३।१६]

इति, तद् व्याध्यादिना आकुलचित्ततया कस्मिंश्चित् पुत्रे क्रोधाद् वा सुभगापुत्रस्नेहाद् वा अयथाशास्त्रं विभजति तद्विषयम् ।

पूर्वोक्तकारणात् तु शास्त्रीय एव विषमविभागः । [[२।८४]] यथा कात्यायनः ।

जीवद्विभागे तु पिता नैकं पुत्रं विशेषयेत् ।
निर्भाजयेन् न चैवैकम् अकस्मात् कारणं विना ॥ [क् ८४३]

[[२।८५]] नैकम् अधिकदानेन विशेषयेत् । न च निर्भाजयेद् विभागशून्यं कुर्यात् कारणं विना । उद्धारादिविशेषो हि बहूनाम् एव नैकस्य । एकस्यापि च पुत्रस्य कारणं विना विशेषो न कार्यः । कारणवशात् तु कार्य एव । एकस्यापीत्य् अवगतेर् नोद्धारापेक्षो विशेषः किं तु पितुर् इच्छाकृत एवेति यथोक्त एवार्थः ।

[[२।८६]] यदि पुनः पितरि जीवति पुत्रा एव विभागम् अर्थयन्ते तदा विषमविभागः पित्रा न दातव्यः । तद् आह मनुः ।

भ्रातॄणाम् अविभक्तानां यद्य् उत्थानं भवेत् सह ।
न तत्र भागं विषमं पिता दद्यात् कथंचन ॥ [म् ९।२१५]

[[२।८७]] उद्धारस् तु तदा पित्रा दातव्य एव तस्य विषमविभागरूपत्वाभावात् न्यूनाधिकविभागस्यैव निषेधात् ।

[[२।८८]] इति पितृकृतो विभागः ।