०१

[[१।१]] ॥ नमो गणेशाय ॥

मन्वादिवाक्यान्य् अविमृश्य येषां यस्मिन् विवादो बहुधा बुधानाम् ।

तेषां प्रबोधाय स दायभागो निरूपणीयः सुधियः शृणुध्वम् ॥

[[१।२]] अथ दायभागो निरूप्यते । तत्र नारदः ।

विभागो ऽर्थस्य पित्र्यस्य पुत्रैर् यत्र प्रकल्प्यते ।
दायभाग इति प्रोक्तं तद् विवादपदं बुधैः ॥ [न् १३।१]

[[१।३]] पितृत आगतं पित्र्यम् । तच् च पितृमरणोपजातस्वत्वम् उच्यते । पित्र्यस्येति पुत्रैर् इति च द्वयम् अपि संबन्धिमात्रोपलक्षणं संबन्धिमात्रेण संबन्धिमात्रधनविभागे ऽपि दायभागपदप्रोयोगात् । अत एव दायभागं विवादपदम् उपक्रम्य नारदो ऽपि मात्रादिधनविभागम् अप्य् उपदर्शितवान् । तथा मनुर् अपि पित्रादिपदम् अदत्त्वैव,

एष स्त्रीपुंसयोर् उक्तो धर्मो वो रतिसंहितः ।
आपद्य् अपत्यप्राप्तिश् च दायभागं निबोधत ॥ [म् ९।१०३]

इत्य् उपक्रम्य यावत् संबन्धिधनविभागम् उक्तवान् ।

[[१।४]] दीयत इति व्युत्पत्त्या दयशब्दः । ददातिप्रयोगश् च गौणः मृतप्रव्रजितादिस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्तिफलसाम्यात् । न तु मृतादीनां तत्र त्यागो ऽस्ति । [[१।५]] ततश् च पूर्वस्वामिसंबन्धाधीनं तत्स्वाम्योपरमे यत्र द्रव्ये तत्र निरूढो दायशब्दः ।

[[१।६]] ननु किं दायस्य विभागो विभक्तावयवत्वं यद् वा दायेन सह विभागो ऽसंयुक्तत्वम् । न तावत् पूर्वो दायविनाशापत्तेः । नापि द्वितीयः संयुक्ते ऽपि न ममेदं विभक्तं स्वं भ्रातुर् इति प्रयोगात् ।

[[१।७]] न च संबन्धाविशेषात् सर्वेषां सर्वधनोत्पन्नस्य स्वत्वस्य द्रव्यविशेषे व्यवस्थापनं विभाग इति वाच्यम् । संबन्ध्यन्तरसद्भावप्रतिपक्षस्य संबन्धस्यावयवेष्व् एव विभागव्यङ्ग्यस्वत्वापादकत्वात् । कृत्स्नपितृधनगतस्वत्वोत्पादविनाशकल्पनागौरवात् । यथेष्टविनियोगफलाभावेनानुपयोगाच् च ।

[[१।८]] उच्यते — एकदेशगतस्यैव भूहिरण्यादाव् उत्पन्नस्य स्वत्वस्य विनिगमनाप्रमाणाभावेन वैशेषिकव्यवहारानर्हतया अव्यवस्थितस्य गुटिकापातादिना व्यञ्जनं विभागः । [[९]] विशेषेण भजनं स्वत्वज्ञापनं वा विभागः ।

[[१।१०]] यत्रापि चैकं दासीगवादिकं बहुसाधारणं तत्रापि तत्तत्कालविशेषवहनदोहनादिफलेन स्वत्वं व्यज्यते । तद् आह बृहस्पतिः —

एकां स्त्रीं कारयेत् कर्म यथांशेन गृहे गृहे । [ब् २६।२अब्]
उद्धृत्य कूपवाप्यम्भस् त्व् अनुसारेण गृह्यते । [ब् २६।३अब्]

युक्त्या विभजनीयं तद् अन्यथानर्थक्ं भवेत् ॥ [ब् २६।४]

इदं श्लोकार्धत्रयं नानास्थानस्थं न तु क्रमिकम् ।

[[१।११]] ननु —

पितर्य् ऊर्ध्वं गते पुत्रा विभजेयुर् धनं पितुः । [न् १३।२अब्]

इति नारदवचनात् पितुर् धनं विभजेर्युर् इत्य् अन्वयाद् विभागात् पूर्वं न पुत्राणां तत्र स्वत्वम् । न च विभागस्य स्वत्वकारणता असंबन्धिधने ऽप्य् अतिप्रसङ्गात् ।

[[१।१२]] उच्यते — पित्रादिनिधनानन्तरम् एवास्मदीयम् इति प्रयोगात् एकपुत्रे च विभागं विनैव स्वत्वस्वीकारात् संबन्धिनिधनम् एव स्वत्वकारणम् अतो नातिप्रसङ्गः ।

[[१।१३]] नन्व् अर्जयितृव्यापारो ऽर्जनम् । अर्जनाधीनस्वामिभावश् चार्जयिता । तेन पुत्रव्यापारो जन्मैवार्जनं युक्तम् । अतो जीवत्य् एव पितरि पुत्राणां तत्र स्वत्वं न तु तन्निधनात् । अत एवोक्तम् — क्वचिज् जन्मैव यथा पित्र्ये धने ।

[[१।१४]] नैतन् मन्वादिविरोधात् । तथा मनुः —

ऊर्ध्वं पितुश् च मातुश् च समेत्य भ्रातरः समम् ।
भजेरन् पैतृकं रिक्थम् अनीशास् ते हि जीवतोः ॥ [म् ९।१०४]

[[१।१५]] जीवतोर् अपि पुत्रोः पुत्राणां कुतो न विभाग इत्य् आशङ्कायाम् इदम् उत्तरं तदानीम् अस्वामित्वाद् इति ।

[[१।१६]] न च भार्या पुत्रश् चेत्यादिवद् अस्वातन्त्र्याभिप्रायम् इदम् इति वाच्यं तदानीं स्वत्वे प्रमाणाभावात् । भार्यादिषु तु यत् ते समधिगच्छन्त्य् अर्जयन्तीति स्वत्वे सिद्धे युक्तम् अस्वातन्त्र्यवर्णनम् ।

[[१।१७]] किं च स्वोपात्ते ऽपि तेषाम् अस्वामित्वे स्वधनसाध्यवैदिककर्मोच्छेदात् श्रुतिविरोधः स्यात् ।

[[१।१८]] देवलश् च पितृधने ऽस्वाम्यम् एव स्पष्टयति । यथा —

पितर्य् उपरते पुत्रा विभजेयुर् धनं पितुः ।
अस्वाम्यंहि भवेद् एषां निर्दोषे पितरि स्थिते ॥ [द् १५६३]

[[१।१९]] किं च जीवत्य् अपि पितरि पितृधने पुत्राणां स्वामित्वे पितुर् अनिच्छयापि विभागः स्यात् ।

जन्मनैव स्वत्वम् इति प्रमाणाभावाच् च अर्जनरूपतया जन्मनः स्मृताव् अनधिगमात् । [[१।२०]] क्वचिच् जन्मैवेति च जन्मनिबन्धनत्वात् पितापुत्रसंबन्धस्य पितृमरणस्य च स्वत्वकारणत्वात् परम्परया वर्णनम् ।

[[१।२१]] अन्यव्यापारेणान्यस्य स्वत्वम् अविरुद्धं शास्त्रमूलत्वाद् अस्य । दृष्टं च लोके ऽपि । दाने हि चेतनोद्देशविशिष्टत्यागाद् एव दातृव्यापारात् संप्रदानस्य द्रव्ये स्वामित्वम् ।

[[१।२२]] न च स्वीकरणात् स्वत्वं स्वीकर्तुर् एव दातृत्वापत्तेः । परस्वत्वापत्तिफलेन हि दानरूपता । तच् च फलं संप्रदानाधीनम् । यथा हि देवतोद्देशेन द्रव्यत्यागं कुर्वन्न् अपि यजमानो न होता । किं तु तस्यैव त्यागस्य होमाभिधाननिमित्तं प्रक्षेपं कुर्वन्न् ऋत्विग् एव होतेर्य् उच्यते । तद्वद् अत्रापि स्यात् ।

किं च मनसा पात्रम् उद्दिश्येत्यादिशास्त्रे स्वीकारात् प्राग् एव दानपदं दृष्टम् ।

[[१।२३]] ननु ग्रहणं स्वीकारः । अभूततद्भावे च्विप्रयोगात् । अस्वं स्वं कुर्वन् व्यापारः स्वीकारो भवति । कथं ततः प्राग् अपि स्वत्वम् ।

[[१।२४]] उच्यते — उत्पन्नन् अपि स्वत्वं संप्रदानव्यापारेण ममेदम् इति ज्ञानेन यथेष्टव्यवहारार्हं क्रियत इति स्वीकारशब्दार्थः ।

याजनाध्यापनसाहचर्याच् च प्रतिग्रहस्य स्वत्वम् अजनयतो ऽप्य् अर्जनरूपता न विरुद्धा याजनादौ दक्षिणादानाद् एव स्वत्वात् ।

[[१।२५]] पितृनिधनकालीनं वा जीवनम् एव पुत्रस्यार्जनं भविष्यति ।

किं च भ्रात्रादिधने तन्मरणात् तन्मरणकालीनजीवनाद् वा भ्रात्रन्तरादेः स्वत्वम् अकामेनापि वाच्यम् ।

[[१।२६]] अत ऊर्ध्वं पितुश् चेत्यादि तत्कालीनस्वत्वज्ञापनार्थं तदानीम् एव चेच्छाप्राप्तं विभागम् अनुवदति प्राप्तत्वाद् विधानानुपपत्तेः ।

[[१।२७]] न च नियमः संभवति —

एवं सह वसेयुर् वा पृथग् वा धर्मकाम्यया । [म् ९।१११अब्]

इति मनुविरोधात् । दृष्टार्थत्वाच् च विभागस्य न तन्नियमः कालनियमो वा संभवति । [[१।२८]] किं च पितर्य् उपरत इत्य् अनन्तरकाल एव विभागः स्यान् न तु परस्ताद् अपि जातेष्टिवज् जातप्राणवियोगापत्तिसमानस्यात्र विरोधस्याभावात् पित्त्रुपरमानन्तरस्य च यावज्जीवपर्यन्तस्य स्वेच्छात एव प्राप्तत्वात् ।

[[१।२९]] अतो जीवति पितरि सत्य् अपि पुत्राणां स्वाम्ये विभागनिषेधर्थं मनुवचनम् वाच्यम् । तच् चान्याय्यम् अस्वार्थपरत्वापत्तेः ।

[[३१।०]] अतो जीवतोः पित्रोस् तद्धने स्वाम्यं नास्ति किं तूपरतयोर् इति ज्ञापनार्थं मन्वादिवचनम् । एकः शाब्दो ऽपरश् चार्थः ।

[[१।३१]] न चोपरममात्रम् एव विवक्षितं किं तु पतितप्रव्रजितत्वाद्य् उपलक्षयति स्वत्वविनाशहेतुतासाम्यात् । [[१।३२]] तद् आह नारदः —

मातुर् निवृत्ते रजसि दत्तासु भगिनीषु च ।
विनष्टे वाप्य् अशरणे पितर्य् उपरतस्पृहे ॥ [न् १३।३]

[[१।३३]] विनष्टे पतिते । अशरण इति गृहस्थाश्रमरहिते । यदा निवृत्ते वापि मरणाद् इति पाठस् तदा मरणान् निवृत्ते जीवति निस्पृहे इति पाठान्तरम् अनाकरम् ।

[[१।३४]] अत्राप्य् उपरतस्पृहत्वादिना पुत्राणां स्वत्वं पितृधने भवतीति ज्ञापनास् अयम् एकः कालो विभागस्येच्छाप्राप्तो ऽनूद्यते प्राप्त्यनुसारित्वाच् चानुवादस्य स्वामित्वाच् च प्राप्तेः ।

[[१।३५]] एकस्यापि स्वधने स्वाम्याद् एकेच्छयापि विभागप्राप्तेः समेत्येति सहितत्वं पक्षप्राप्तम् अनूद्यते । अन्यथा साहित्यवद् बहुत्वस्याप्य् अवगतेर् द्वयोर् विभागो न स्याद् एव द्वयोर् विभागप्रतिपादकशास्त्राभावात् ।

[[१।३६]] ननूपरते पितरि ज्येष्ठ एव धनाधिकारी नेतरः । यथा मनुः —

ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनम् अशेषतः ।
शेषास् तम् उपजीवेयुर् यथैव पितरं तथा ॥ [म् ९।१०५]

ज्येष्ठो ऽत्र पुन्नामनरकव्यावर्तको ऽभिप्रेतो न तु जीवदपेक्षः । यथा मनुः —

ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः ।
पितॄणाम् अनृणश् चैव स तस्माल् लब्धुम् अर्हति ॥ [९।१०६]

यस्मिन्न् ऋणं संनयति येन चानन्त्यम् अश्नुते ।
स एव धर्मजः पुत्रः कामजान् इतरान् विदुः ॥ [म् ९।१०७]

[[१।३७]] नैतत्, सर्वेच्छाधीनज्येष्ठाधिकारश्रुतेः । यथा नारदः —

बिभृयाद् वेच्छतः सर्वान् ज्येष्ठो भ्राता यथा पिता ।
भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षा कुले स्थितिः ॥ [न् १३।५]

स्वेच्छया कनिष्ठो ऽपि शक्तः सन् बिभृयाद् इति ज्येष्ठता चातन्त्रम् । यथा मनुः —

एवं सह वसेयुर् वा पृथग् वा धर्मकाम्यया ।
पृथग् विवर्धते धर्मस् तस्माद् धर्म्या पृथक्क्रिया ॥ [म् ९।१११]

सह पृथग् वेति पदाभ्यां काम्ययेति चेच्छातो वैकल्पकत्वं दर्शयति ।

[[१।३८]] तद् एवं पितृस्वत्वापगम एकः कालो ऽपरश् चानपगत एव पितृस्वाम्ये पितुर् इच्छयेति कालद्वयम् ।

[[१।३९]] न पुनः पितर्य् उपरत इत्य् एकः पितर्य् उपरतस्पृहे मातुश् च निवृत्ते रजसीत्य् अपरो ऽनिवृत्ते ऽपि मातृरजसि पितरि सस्पृहे तदिच्चयेति कालत्रयम् आदरणीयम् ।

मातृरजोनिवृत्तेः पित्रुपरतस्पृहत्वविशेषणत्वे
त्रिंशद्वर्षो वहेत् कन्यां हृद्यां द्वादशवार्षिकीम् ।

त्र्यष्टवर्षो ऽष्टवर्षां वा धर्मे सीदति सत्वर ॥ [म् ९।९४]

इति मनुना विवाहकालविधानात् । वनं पञ्चाशतो व्रजेद् इत्य् आश्रमान्तरगमनकालविधानात् । तदा च रजोनिवृत्तेर् मातुर् असंभवे पितरि चोपरतस्पृहे वानप्रस्थ्ये तत्पुत्राणाम् इच्छताम् अप्य् अविभागप्रसङ्गात् ।

[[१।४०]] निर्विशेषणम् उपरतस्पृहत्वम् एव पितृधनविभागकाल इति चेन् न, अनुपरतस्पृहे पितरि पतिते ऽप्य् अविभागप्रसङ्गात् । [[१।४१]] अयम् अप्य् अपरः काल इत्य् अभिधाने कालचतुष्टयापत्तिः पितुर् उपरमः पतितत्वं निस्पृहत्वम् इच्छा चेति ।

[[१।४२]] यच् च कार्याक्षमे पितरि पुत्राणां विभागे स्वातन्त्र्यम् उक्तं तद्वचनानभिज्ञत्वेन । तथा च हारीतः — “जीवति पितरि पुत्राणाम् अर्थादानविसर्गाक्षेपेषु न स्वातन्त्र्यम् । कामं दीने प्रोषिते आर्तिं गते वा ज्येष्ठो ऽर्थांश् चिन्तयेत्” [ह् ४।१, ३] । सुव्यक्तम् आहतुः शङ्खलिखितौ — “पितर्य् अशक्ते कुटुम्बव्यवहारान् ज्येष्ठः प्रतिकुर्याद् अनन्तरो वा कार्यज्ञस् तदनुमतो न त्व् अकामे पितरि रिक्थविभागः । वृद्धे विपरीतचेतसि दीर्घरोगिणि वा ज्येष्ठ एव पितृवद् अर्थान् पालयेद् इतरेषाम् । रिक्थमूलं हि कुटुम्बम् अस्वतन्त्राः पितृमन्तो मातुर् अप्य् एवम् अवस्थितायाः” [श्ल् २७०] । [[१।४३]] एतद् वचनद्वयं कार्याक्षमे दीर्घरोगिणि वा पितरि विभागं निषिध्य ज्येष्ठ एव गृहं चिन्तयेत् तदनुजो वा कार्यज्ञ इत्य् आह । अतो न त्व् अकामे पितरीत्य् एतद् एव । कार्याक्षमे पितरि रिक्थविभाग इति भ्रातिलिखितम् ।

[[१।४४]] तस्मात् पतितत्वनिस्पृहत्वोपरमैः स्वत्वापग एकः कालो ऽपरश् च सति स्वत्वे तदिच्छात इति कालद्वयम् एव युक्तम् ।

[[१।४५]] मातुर् निवृत्ते रजसीति तु पितामहादिधनाभिप्रायं निवृत्ते रजसि पुत्रान्तरसंभावाभावात् । तदानीम् अपि पितुर् इच्छयैव पुत्राणां विभागः अनिवृत्ते रजसि क्रमागतधनविभागे पश्चाज्जातानां वृत्तिलोपापत्तेः । न चासौ युक्तः —

ये जाता ये ऽप्य् अजाताश् च ये च गर्भे व्यवस्थिताः ।
वृत्तिं ते ऽपि हि काङ्क्षन्ति वृत्तिलोपो विगर्हितः ॥ [व्य् २५३]

इति वचनात् ।

[[१।४६]] यत एव पितृधने कालद्वयम् अत एव मनु-गौतमादिभिर् मृतपदं परित्यज्य ऊर्ध्वम् इत्य् उक्तम् ऊर्ध्वं पितुर् इति पितुस् तदा स्वत्वापगमात् । तदर्थम् एवोर्ध्वम् इत्य् उक्तम् । अतो ऽयम् एको विभागकालः । ऊर्ध्वं विभागाज् जातस् त्व् इत्य् अनेन च सस्पृहे पितरि तदिच्छया विभागकालो ऽपरो दर्शितः ।

[[१।४७]] दत्तासु भगिनीषु चेति न कालार्थं किं तु तासाम् अवश्यंदानार्थम् । तथा —

यच् छिष्टं पितृदायेभ्यो दत्त्वर्णं पैतृकं ततः ।
भ्रातृभिस् तद् विभक्तव्यम् ऋणी न स्याद् यथा पिता ॥ [न् १३।३२]

इदं नारदवचनं पित्रर्णशोधनावश्यंभावार्थं न विभागकालार्थम् ।

[[१।४८]] अस्माच् च नारदवचनाद् अयम् अर्थः सिध्यति यद् विभागकर्तृभिर् उत्तमर्णानुमत्यैव पित्राद्यृणं विभजनीयं परिशोध्यं वा शोधनावशिष्टधनविभागप्रतिपादनस्यैव तत्प्रयोजनत्वात् ।

अत एव मातृधनस्याप्य् ऋणावशिष्टस्यैव विभागम् आह याज्ञवल्क्यः —

मातुर् दुहितरः शेषम् ऋणात् ताभ्य ऋते ऽन्वयः । [य् २।११७च्द्]

एतच् च विस्तरेणर्णादाने वक्ष्यते ।

[[१।४९]] यद् वा दत्तासु भगिनीषु मातृधनं पुत्रैर् एव विभजनीयम् । अदत्तासु ताभिः सह साधारणम् । एतच् चावसरे वाच्यम् ।

[[१।५०]] एवं तावत् पितृधनविभास्य कालद्वयम् उक्तम् ।