[[नृसिंहप्रसादः-श्राद्धसारः Source: EB]]
[
[TABLE]
[TABLE]
श्राद्धसारभूमिका।
<MISSING_FIG href="../books_images/1687583864.png"/>
इदमिदानीमनेकप्रकरणपरिव्रंहितस्य नृसिहप्रसादारयस्य महतो धर्मशास्त्रग्रन्थस्यैकतम प्रकरणं श्राद्धासारारयमुद्राप्य प्रकाश प्राप्यते।
सत्स्वपि बहुषु श्राद्धमञ्जरी–श्राद्धकौमुदीप्रभृतिषु श्राद्धप्रक्रियाप्रतिपादकेषु ग्रन्थेषु मुद्रितेषु अस्यापि मुद्रणे श्रद्धादरा वयमित्यत्र निदानमिदमेव यदितरग्रन्थापेक्षया ग्रन्थेऽस्मिन् लेखनवैशद्यं पङ्क्तिसारल्य विषयसौष्ठव प्रमाणबाहुल्यं सर्वसामान्योपकारिता चेत्येवमादिभिर्गुणैरुपशोभितत्वम्।
प्रायशो हि अद्यत्वे विद्वांसोऽपि सारल्यपक्षपातिनोऽतिकर्कशरीतिरञ्जिते कठिनविषयविलासलसिते परिश्रमपरिप्राप्ये विषये नोत्सहन्त एव पथि पदमर्पयितुम्। कि पुना रीति निष्ठुरामपरिचितवन्तः।
अतस्ताद्वशां मतिमनायास्यैवाऽपेक्षितमंशमर्पयन्नय ग्रन्थराजः सर्वथा सग्राह्य इति बुध्यैवाऽस्माभिर्व्यापृतमत्र।
एतन्मुद्रणार्थयतमानैरस्माभिरासादितमेकमेवादर्शपुस्तक, यत् महामहोपाध्याय पण्डितप्रवर श्रीगोपीनाथकविराज महोदयैः कृपया सरस्वतीभवनाद्दापितम्।
ग्रन्थकृताऽनेन ग्रन्थेऽस्मिन् द्वादश प्रकरणानि निबद्धानि येषां नामानि ग्रन्थकृतैव संस्कारसारे उल्लिखितानि–१.सस्कारसारः, २.श्राह्निकसारः, ३.श्राद्धसारः, ४.कालनिर्णयसारः, ५.व्यवहारसार, ६.प्रायश्चित्तसारः, ७.कर्मविपाकसारः८. व्रतसारः, ९. दानसार, १०.शान्तिसारः, ११. तीर्थसारः, १२. प्रतिष्ठासारः, इति।
एवं समयोपयोगिनस्सर्वानपि विषयान्अपरिहरता एकैकमपि विषयं यावदुपलम्भ प्रमाणैः परिपुष्णता सारल्येन वैशद्येन च ग्रन्थस्यास्य निखिलोपयोगितामापादयता च सुबहूपकृतो धार्मिको लोकोऽनेनेति नेयमतिशयितोक्तिः।
किञ्चायं निबन्धकारः स्त्रीयमिमं निबन्धं क्वचिद्विशेषदृष्टिविरहितं सर्वानुकूलमेव कर्तुमनाः प्रावर्तत इति न केवल तत्प्रतितया–
‘आश्वलायनाऽऽपस्तम्बयाज्ञवल्क्यमतानुगाः।
श्रीनृसिंहप्रसादेन क्रियां कुर्वन्तु नित्यशः।
तत्र गृह्यानुसारेण कारिकादर्शनेन च।
ज्योतिश्शास्त्रादिदृष्ट्या च यथामति विविच्यते”।
इति सस्कारसारारम्भे कृतया,
‘अनेकान् सुनिबन्धांस्तु पर्यालोच्य प्रयत्नतः
कारिका–गृह्यवृत्यादिग्रन्थानालोड्य सर्वश’।
पद्धत्यादि यथाबुद्धि चन्द्रशेखरनिर्मितम्।
चतुश्शाखासु विहित श्राद्धकर्मसु विस्तृतम्।
वेदाभिहितमार्गस्य रक्षणायाऽभिधीयते॥”
इत्येतत्प्रकरणारम्भकृतया च प्रतीयते, आमूलचूल ग्रन्थपरिशीलनयाऽपि चाऽयमर्थस्साधु अवगम्यते।
किञ्चाऽयं तत्तत्प्रकरणाऽऽरम्भ एव तत्तत्प्रकरणप्रतिपाद्यान् विषयान् साधु सङ्कलयन् आदावेव श्रोतृमनस्समा— दधाति इत्ययमपरो विशेषो ग्रन्थस्याऽस्य।
भूमिका।
ग्रन्थकर्तुः समयो देशश्च।
एव सुन्दरतम सारवत्तम च ग्रन्थमिमं रचयन्ग्रन्थकत्राकःदेशः कः च कालमलचकार इति विचारपथमानीतोऽयं विषय उपरितनैः प्रमाणैरुपलब्धैविचार्य निर्णीयते–
एतत्प्रकरणावसाने–श्रीमत्प्रौढप्रतापमहाराजाधिराजसर्वपुरीसुन्दरी देवगिरिपुरवराधीश्वर—सकलाविद्याविशारदयाज्ञवल्क्यीयलुप्तशाखाप्रवर्तकद्विजकुलाऽलङ्कार हीर श्रीवेष्णवमार्गप्रवर्तक श्रीवल्लभात्म- जश्रीवल्लभपण्डित प्रसादासादित सूर्य्यपण्डिताभियगुरु–मन्वादिप्रणीतनीतिशास्त्रा भिज्ञ महाप्रभु स्वकार्यवीक्षण प्रतिनिधीकृत”इत्यादिलिखति।
अनेनेदमवगम्यते–ग्रन्थकदय श्रीनिजामसाह महोभृतः करणाधीश्वरपदमध्यतिष्ठत्। पितुरस्य नाम श्रीवल्लभपण्डितः, गुरुस्सूर्य्यपण्डितनामा, राज्ञा च स्वकार्यवीक्षणाय प्रतिनिधीकृतः, अखण्डपाण्डित्यवान, शुक्लयजुर्वेदीयश्चेत्यादि।
महाराजस्य सकलयवनसार्वभौमस्य निजामसाहस्य समयः ऐतिहासिकैः १४९० तः १५०८ ई० पर्यन्तः इत्युरीकृतम्।
अयम् अहमदनगरसाम्राज्यसंस्थापक आसीत्। पुत्रोऽस्य वुरहाणनिजामसाहः १५०८, तः १५३३, पर्यन्तं राज्यमकरोत्। अनयोरन्यतरोऽनेन ग्रन्थकृता उल्लिखित इति वक्तुं शक्यते।
किञ्चाऽनेनोल्लिखितस्सूर्य्यपण्डितः श्रीमदेकनाथाभिधस्य महाराष्ट्रसाधोः पिताऽऽसीदिति श्रोकाने महाशयेन स्वकीये धर्मशास्त्रेतिहासाख्ये ग्रन्थे उल्लिखितम्। सोऽयमेकनाथः पण्डितवर्यः, मीमांसान्यायप्रकाश— कर्तुरापदेवस्य द्वितीयस्य प्रपितामह आसीत्, इति अनन्त–२ तदेवकृत स्मृतिकौस्तुभस्थश्लोकैरवगम्यते। ते यथा–
‘आसोद्गोदावरीतीरे वेदवेदिसमन्वितः।
श्रीकृष्णभक्तिमानक एकनाथाऽभिधो द्विजः॥
तत्सुतस्तद्गुणैर्युक्तस्सर्वशास्त्रार्थतत्ववित्।
आपदेवोऽभवद्देवात् प्रापयत्सकलान्मनून्॥
मीमांसानयकोविदो मधुरिपोस्सेवासु नित्योद्यतो
विद्यादानविभावितोत्तमयशा आसीत् तदीयात्मजः।
यस्याऽनन्तगुणैरनन्त इति सन्नामार्थवत्तां गतं
येनाऽवादि च वादिनां श्रुतिशिरसिद्धान्ततत्व मुदे॥
न्यायप्रकाशकर्ता निरवधिविद्यामृतप्रदस्सततम्।
मीमांसाद्वयनयवित् तनयस्तस्याऽऽपदेवोऽभूत्”॥ इति।
आपदेवस्य समयः ईसवीय सप्तदशशताब्द्याः पूर्वो भाग इतिनिर्णीत मीमांसाकेसरिभिवेद— विशारदैरस्मत्प्रियसुहृद्भिः पण्डिप्रवरश्रीचिन्नास्वामिशास्त्रिमहोदोमीमांसान्याय— प्रकाशभूमिकायाम्। तत्प्रपितामहस्यैकनाथस्य ततः पूर्व एकशताब्दीति वक्तव्यम्। तत्समय श्चाऽयं दलपतिमहाराज इति ईसवीयषोडशशताब्द्याः पूर्वोभाग इत्येव निश्वेतव्य भवति।
किञ्च निर्णयसिन्धुकारस्य कमलाकरभट्टस्य समयः वै० सं १६६८ ई ६११. इति तद्ग्रन्थादेवाऽवगम्यते। तत्पितृव्यस्य शङ्करभट्टस्य समयःततः पञ्चाशतो वर्षेभ्यः पूर्वम्। अर्थात् १५६१ ई० समयः। भट्टशङ्करेण च स्वग्रन्थे द्वैतनिर्णये एतन्नामोल्लिखितम्। आर्यपुस्तकेषु केषुचित् उल्लेखनसमयोऽपि वर्णितः। यथा—व्यवहारसारे “११६९ वैशाखवदा ७ शुक्ले”इत्येकस्मिन्नादर्श, संवत् १५६९ समये काशीपुरीविश्वेश्वरचरणसन्निधाने इति कर्मविपासारोदौ, संवत् १५६८ वैशाखसुदो द्वितीयाया रवौ” इति तीर्थसारादर्शे च लिखितमस्ति। एतत्पर्यालोचनया च १८० ततः पूर्वभाव्यस्य ग्रन्थस्य समयः, ग्रन्थकर्तुश्च समय इत्यभ्यूहितुमस्त्यवकाशः।
अतश्च पञ्चदशशताब्द्या अन्तिम भागः षोडशशताब्द्या आद्यश्च भाग एतद्ग्रन्थकृत्समय इत्यभ्यूहितु शक्यते।
अस्य जन्मदेशः
अस्य चाभिजनः दक्षिणदेशे गोदावरीतीरस्थःकश्चनः ग्रामः। अथचान्ध्रब्राह्मणः काण्वशाखीयश्चेति प्रतीयते।
अनेन हि—
“प्रौढश्री द्विजराजवंशतिलकालङ्कार हीरप्रभुः
भारद्वाजकुलानुगः प्रथमया यः शाखयाऽलङ्कृतः”
इति स्वस्य भारद्वाजगोत्रोत्पन्नत्व, प्रथमशाखीयत्व च कण्ठत एवोद्घोष्यते।
सर्वत्र देशे प्रथमशाखेति कण्वशाखामेव व्यवहरन्ति। काण्वशाखैव च दक्षिणदेशे विशेषतः प्रचलति। अतः काण्वशाखीयोऽयम्।
दक्षिणदेशे गोदावरीतटनिकटवर्तिनि प्रान्तेऽस्ति कश्चन नृसिंहाचल इति प्रथितो गिरिवरःयत्र च भगवानादिपुरुषो नृसिंहरूपमास्थाय भक्ताननुगृह्णान आस्ते। तन्निकटवर्तिनो जनास्तमेव स्वकुलदैवतत्वेनाराधयन्ति, निवध्नन्ति च ग्रन्थेषु तत्स्तुतिमेव। अनेनापि
“श्रीनृसिंह नमस्कृता दलाधीश महीपतिः।
श्राद्धप्रसाद कुरुते सर्ववैदिकतुष्टये”
इति तत्तत्प्रकरणारम्भे नृसिंहनमस्कारकरणात् न केवलं सा रीतिरनुसृता। नृसिंहप्रसाद इति ग्रन्थस्यास्य नामकरणादपि स एव भगवान् नृसिंहोऽभिष्टुत इत्यवगम्यते।
अतस्तद्देशवास्ययमित्यनुमीयते। तद्देशस्थितेनैवाऽनेनाऽयं ग्रन्थो व्यरचि परन्तु नातिचिरादेव ग्रन्थाऽयं वाराणसीं प्रापितोऽत्रत्यस्तूर्णसादरं प्रतिलिपीकृतश्चेति प्रतिभाति।
तदिदमादर्शपुस्तकस्योपरि “काशीपुरीविश्वेश्वरसन्निधाने” इति लेखनादवगम्यते। सर्वथा “सार”इत्यन्वर्थनामा ग्रन्थोऽयं सुधीजनोपादेयतामवश्यमर्हतीत्येव मत्वा तदुपकाराय प्रकाशितोऽस्माभिः। बहोः कालात्पूर्वमारब्धमुद्रणोऽप्ययं कार्यबाहुल्यवशात् मध्ये मध्येस्थगित इदानीमेवेपदिव प्राप्तपरमेश्वरानुकम्यो बहिरात्मान प्रकाशयति। मन्येऽस्याऽन्येऽपि भागाः अचिरादेव प्रकाशमेष्यन्ति इति।
कार्येऽस्मिन् आदर्शपुस्तकदानेन शोधनादिकार्ये साहाय्या च रणेन च महामत्यन्तमुपकारमाचरितवतां पण्डितप्रवराणां महामहोपाध्यायश्रीगोपीनाथशर्म महोदयानामाधमर्ण्यात् न कदाचिन्मुच्येय न कदाचित् विस्मरेयम्।
एतादृशानां ग्रन्थानां मुद्रणेन, प्रकाशनेन, विना हानिमात्मलाभ कञ्चिदप्यपश्यतामपि प्राचीनग्रन्थोज्जीवनेनैव परमात्मान धन्य मन्वतां तेषामेव श्री गोपीनाथ कविराज महोदयानां परिश्रमममनल्प बहुधाऽभिनन्दन् अचिरादेव चेतरेषामदसीयभागानां प्रकाशन प्रतीक्षमाण एतावतैव विरमामि—
सुधीजनवशवद—
श्रीविद्याधरशर्मा
श्राद्धसारविषयानुक्रमणिका।
विषयः | पंङ्क्तिः | विषयः | पंङ्क्तिः |
मङ्गलाचरणम् | १ | अन्नशुध्दिः | ७ |
श्राध्दसारानुक्रमः | ३ | द्रवद्रव्यशुध्दिः | १२ |
श्राध्दनामनिर्वचनम् | १३ | धान्यादिशुध्दिः | १६ |
श्राध्यस्यावश्यकता | १ | वस्त्रादिशुध्दिः | ८ |
श्राध्दकरणे फलम् | १ | देहशुध्दिः | १४ |
श्राध्दप्रशंसा | ५ | शुध्द्यपवादः | ९ |
श्राध्दे पितरः | १ | श्राध्दभेदाः | ८ |
श्राध्दाधिकारिनिर्णयः | १ | श्राध्ददेशा | १ |
जीवत्पितृकश्राध्दनिर्णयः | १ | श्राध्दे निषिध्ददेशाः | १४ |
मातामहश्राध्दम् | १२ | श्राध्दकाला | १ |
अपराहणकालनिर्णयः | १ | श्राध्दे गन्धादिनिर्णय | १२ |
मध्याह्ननिर्णयः | १५ | श्राध्दे ब्राह्मणसंख्या | ८ |
रौहिणकालनिर्णयः | १५ | श्राध्दे वैश्वदेवनिर्णयः | १३ |
श्राध्दे पात्रनिर्णयः | ८ | श्राध्दे विभक्तिनिर्णयः | १३ |
श्राध्दे ब्रह्मणनिर्णयः | १ | गन्धादिदानम् | १ |
श्राध्ये वर्ज्यब्राह्मणनिरूपणम् | १ | अग्नौकरणनिर्णयः | १२ |
श्राध्दे निमन्त्रणप्रकारः | ७ | अनुपनीतकर्तृकश्राध्दनिर्णयः | १ |
श्राध्दे पाकार्थपात्रनिर्णयः | १६ | परिवेषणनिर्णयः | १ |
श्राध्दियहविर्द्रव्यनिर्णयः | १ | परिवेषणे पात्राणि | १ |
श्राध्दे निषिध्दद्रव्याणि | १५ | भोक्तुर्नियमाः | १ |
भूमिशुध्दिः | ७ | विकिरनिर्णयः | १५ |
गृहशुध्दिः | ७ | पिण्डदानम् | १७ |
उदकशुध्दिः | १ | पिण्डप्रतिपत्तिः | १० |
सुवर्णादिशुध्दिः | १ | ग्रन्थकर्तुः प्शस्तिः | १ |
श्रीः।
श्रीलक्ष्मीसिंहाय नमः।
नृसिंहप्रसादः।
श्राध्दसारः।
<MISSING_FIG href="../books_images/1687496761.jpg"/>
श्रीनृसिंहं नमस्कृत्य दलाधीशमहीपतिः।
श्राध्दप्रसादं कुरुते सर्ववैदिकतुष्टये॥
लिख्यते परिभाषाऽत्र प्रक्रियाऽनुक्रमेण तु।
श्राध्दप्रशंसा प्रथमं देवतानां निरूपणम्॥
ततः स्यादधिकारी हि श्राद्धेषु विविधेष्वपि।
ततोऽपराह्णनिर्णीतः क्रियते सर्वसम्मता॥
प्रसङ्गादागतं किञ्चिद् बुद्धिस्थत्वान्निरूप्यते।
पात्रं निरूप्यते पश्चान्निषिध्दानां निराकृतिः॥
ततः परं तु क्रियते श्राद्धपाकविनिर्णयः।
पाकयोग्यं ततो द्रव्यं ततो निर्णीयते ततः॥
तच्च (त्र) भक्ष्यमभक्ष्यं किमेवं (सर्व) भवति निर्णयः।
शाकानां निर्णयः सम्यक् भक्ष्याभक्ष्यतया ततः॥
द्रव्यशुध्दिरतः शुद्धिर्भूमेरादौ निरूप्यते।
उदकस्य ततः शुद्धिरभिधेया सुविस्तृता॥
सुवर्णरजतादीनामुच्यते शुद्धिरुत्तमा।
द्रव्यरूपस्य शाकस्य शुद्धिः सम्यगिहोच्यते॥
पश्चादन्नस्य शुद्धिश्चविस्तरेणाभिधीयते।
ततः परः द्रव्यशुद्धिः शुद्धिः सम्यगिहोच्यते॥
धनधान्यविशुद्धिश्चततः परमिहोच्यते।
ततो वस्त्रादिशुद्धिश्च सविशेषा निरूप्यते॥
देहशुद्धिरतः पश्चात्सविशेषा निरूप्यते।
पार्वणादिविभेदेन श्राद्धभेदनिरूपणम्॥
नित्यकाम्यादिभेदेन सविशेष ततः परम्।
निरूपणञ्च क्रियते बहुसम्मतसम्मतम्॥
श्राद्धदेशा अपि तथा प्रोच्यन्ते हि विशेषतः।
तथा निषिद्धदेशानां निराकरणमिष्यते॥
श्राद्धकालांस्ततो वक्ष्ये त्वष्टकाप्रभृतींस्तथा।
काम्यान् रव्यादिकालाश्च व्यतीपातांस्तथा परान्॥
निर्णीयते ततः श्राद्धं सम्यगापरपाक्षिकम्।
त्रयोदशीचतुर्दश्योः श्राद्धनिर्णय उच्यते॥
वर्ज्याः कालास्ततः सर्वेऽभिधीयन्ते विशेषतः।
आशौचोत्तरकालं तु श्राद्धकर्तव्यतोच्यते॥
गन्धद्रव्याणि सर्वाणि निर्णीयन्ते ततः परम्।
धूपादिनिर्णयः पश्चात्सम्यगेवाभिधीयते॥
ब्राह्मणानामियत्ता तु ततः परमिहोच्यते।
अनेकश्राद्धसम्पाते वैश्चदेविकतन्त्रता॥
निरूप्यते सुविशदाऽनेकग्रन्थविलोकनात्।
पादप्रक्षालने रीतिः सविशेषा निरूप्यते॥
शाखाभेदेन वैचार्घ्यपात्रादेस्तत्वनिर्णयः।
सङ्कल्पे च तथा भेदोमहानत्र निरूप्यते॥
अग्नौकरणकृत्ये तु विशेषः सम्यगुच्यते।
अनेकस्मृतिकाराणा सम्मतः शिष्टसम्मतः॥
पृथिवीत्यादिसङ्कल्पविशेषश्चाभिधीयते।
पिण्डनिर्वपण पश्चात्सम्यगत्र निरूप्यते॥
अनेकान् सुनिबन्धास्तु पर्यालोच्य प्रयत्नतः।
कारिकागृह्यवृत्यादिग्रन्थानालोड्य सर्वशः॥
पद्धत्यादि यथाबुद्धि चन्द्रशेखरनिर्मितम्।
चतुःशाखासु विहितंश्राद्धकर्म सुविस्तृतम्॥
वेदाभिहितमार्गस्य रक्षणायाभिधीयते।
नित्यश्राद्धप्रसङ्गनदलाधिपमहीभुजा’इति॥
तत्र श्राद्धं नाम प्रेतोद्देशेन श्रद्धया द्रव्यत्यागः ।
तदुक्तं ब्रह्मपुराणे—
“देशे काले च पात्रे च श्रद्धया विधिना च यत्।
पितॄनुद्दिश्य विप्रेभ्यो दत्तं श्राद्धमुदाहृतम्” इति ।
तथा—
“होमश्च पिण्डदानञ्च तथा ब्राह्मणतर्पणम्।
श्राद्धशब्दाभिधेयं स्यादेकस्मिन्नौपचारिकः”॥
श्राद्धशब्द इति शेषः। तच्च श्राद्धमवश्यमनुष्ठेयम्।
तदाह मनुः—
“श्राद्धात्परतरं नान्यच्छ्रेयस्करमुदाहृतम्।
तस्मात्सर्वप्रयत्नेन श्राद्धं कुर्याद्विचक्षणः”इति।
विषयप्ररोचनामपेक्षमाणः कुर्यादित्ययं विधिः स्वविषयप्ररोचकानि वाक्यान्यपेक्षते, तानि च याज्ञवल्क्यादिप्रणीतानि कानिचित् क्रियाप्ररोचकानि, कानिचित्कर्तव्यतायाः, तत्राद्यानि तावत्प्रदर्श्यन्ते।
तत्र ब्रह्मपुराणे—
“तस्माच्छ्राद्धं नरो भक्त्या शाकैरपि यथाविधि।
कुर्वीत कुर्वतः श्राद्धकुले कश्चिन्न सीदति”॥
कूर्मपुराणे—
“यो येन विधिना श्राद्ध कुर्यादेकाग्रमानसः।
व्यपेतकल्मषो नित्यं याति नावर्तते पुनः”॥
नागरखण्डे—
“कालान्तरेषु ते तोयं लभन्ते नान्नमेव च।
न दत्तं वंशजैर्यैषां ते व्यथा यान्ति दारुणाम्॥
क्षुत्पिपासासमुद्भूतां, तस्मात्सन्तर्पयेत् पितॄन्।
नित्यं शक्त्या यथा राजस्तोयैर्भोज्यैः पृथग्विधैः॥
तथान्यैर्वस्त्रनैवेद्यैः पुष्पगन्धानुलेपनैः।
तर्पितास्ते प्रयच्छन्ति कामानिष्टान् हृदि स्थितान्॥
त्रिवर्गञ्च महाराज? पितरः श्राद्धतर्पिताः।
तथा विष्णुपुराणे—
पितृगीतास्तथैवात्र श्लोकास्तान् शृणु पार्थिव?।
तथैव भवता भाव्यं तेन तत्र धृतात्मना॥
अपि धन्यः कुले जातो योऽस्माकमतिमात्रतः।
अकुर्वन् वित्तशाठ्यं यः पिण्डान्नो निर्वपिष्यति॥
यमस्मृतौ—
“इमं मन्त्र विधिश्रेष्ठ कामार्थ कथि(ल्पि)तं द्विजैः।
ये विप्रा ह्यनुवर्तन्ते तेषा लोकाः सनातनाः॥
आयुः पुत्रान्यशः स्वर्ग कीर्ति पुष्टि बलं श्रियम्।
पशून्सौख्य धनं धान्य प्राप्नुयात्पितृपूजनात्”॥
ब्रह्मपुराणे—
“एवं सम्यग्गृहस्थेन देवताःपितरस्तथा।
सम्पूज्या हव्यकव्येन अन्नेनापि स्वबान्धवाः॥
परत्र च परां पुष्टि लोकांश्च विपुलान् शुभान्।
श्राद्धकृत्समवाप्नोति यशश्च विपुलं नरः”॥
विष्णुधर्मोत्तरे—
“अद्यप्रभृति लोकेषु प्रेतानुद्दिश्य वै पितॄन्।
ये तु श्राद्धं करिष्यन्ति तेषा पुष्टिर्भविष्यति॥
पिता पितामहश्चैव तथैव प्रपितामहः।
तेषां त्रयः पूजिताश्च भविष्यन्ति तथाऽग्रथः॥
त्रयो वेदाश्च लोकाश्च त्रयो, देवास्तथैव च।
पूजिताश्च त्रयो देवा ब्रह्मविष्णुमहेश्वराः॥
श्राद्धकाले तथाऽन्नेन पिण्डनिर्वपण तथा।
पितॄणां ये करिष्यन्ति तेषां पुष्टिर्भविष्यति॥
पूजितस्तैर्भविष्यामि चतुरात्मा तथाऽप्यहम्।
पितृपैतामहः पिण्डा वासुदेवः प्रकीर्तितः॥
पैतामहश्चनिर्द्दिष्टस्तथा सङ्कर्षणः प्रभुः।
पितृपिण्डश्चविज्ञेयः प्रद्युम्नश्चापराजितः॥
आत्माऽनिरुद्धा विज्ञेयः पिण्डनिर्वणं बुधैः”।
पितृपितामहस्यायं पितृपेतामहः। प्रपितामहपिण्ड इति यावत्।
“एवं सम्पूजितास्तेन चतुरात्मा बहिस्थिताः।
चत्वारः पूजिता वेदाश्चत्वारश्चतथाश्रमाः॥
पुरुषार्थाश्च चत्वारश्चतस्रश्चतथा दिशः।
चत्वारश्च तथा वर्णाश्चत्वारश्च तथा युगाः॥
तथा देवलः—
“अरोगःप्रकृतिस्थश्चचिरायुःपितृपुत्रवान्।
अर्थवानर्थयोगी च श्राद्धकामो भवेदिह॥
परत्र च परा तुष्टिं लोकॉश्च विविधान् शुभान्।
श्राद्धकृत्समवाप्नोति श्रियं च विपुला नरः”॥
च शब्दात्कीर्तिमपि। स्वज्ञातिषु ख्यातिर्यशः, इतरत्र ख्यातिः कीर्तिः। यद्वा—दानपुण्यफला कीर्तिः, प्रतापस्य फल यशः, इति तयोः पुराणाभिहित एव भेदः। एतदुद्देशेन श्राद्धं नैवाऽनुष्ठेयं आवर्जनीयतयोभयप्राप्तेरावश्यकत्वात्।
याज्ञवल्क्यः—
“आयुः प्रजा धनं विद्या स्वर्ग मोक्ष सुखानि च।
प्रयच्छन्ति तथा राज्य प्रीता नृणा पितामहाः”॥
यमः—
“ये यजन्ति पितॄन् देवान्ब्राह्मणाश्च हुताशनान्।
सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते॥
ब्राह्मणाश्वेत्यत्र पूजयन्तीत्यध्याहारः। यजेर्यजदेवपूजासङ्गतिकरणदानेष्विति पूजायामपि कथञ्चित्प्रयोगदर्शनात्।
तथाऽम्यत्र—
“आयुः पुत्रान्यशः स्वर्ग कीर्ति पुष्टि बलं श्रियम्।
पशून् सुखं धन धान्य प्राप्नुयात्पितृपूजनात्”॥
ब्रह्मपुराणे—
“एवं विधानतः श्राद्धं कृत्वा स्वविभवोचितम्।
आब्रह्मस्तम्बपर्यन्त जगत्प्रीणाति मानवः॥
ब्रह्मेन्द्ररुद्रनासत्यसूर्यानिलसुमारुतान्।
विश्वेदेवान् पितृगणान्पर्यग्निमनुजान्पशून्॥
सरीसृपान्पितृगणान्यच्चान्यद्भूतसंज्ञितान्।
श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत्॥
तदुक्तं मार्कण्डेयपुराणे—
“अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि।
तेन तृप्तिमुपायान्ति ये पिशाचत्वमागताः॥
यच्चाम्बु स्नानवस्त्रोत्थ भूमौ पतति पुत्रक?।
तेन ये तरुता प्राप्तास्तेषां तृप्तिः प्रजायते॥
याः सुगन्धाम्बुकणिकाः पतन्ति धरणीतले।
ताभिराप्यानं तेषां ये देवत्वमुपागताः”॥
ब्रह्मपुराणे—
“उद्धृतेष्वपि पिण्डेषु याश्चाम्बुकणिका भुवि।
ताभिराप्यायनं तेषां ये तिर्यक्त्वं कुले गताः।
ये चादन्ताः कुले बालाःक्रियायोगा ह्यसंस्कृताः।
विपन्नास्ते तु विकिरसम्मार्जनजलाशिनः॥
भुक्त्वाचाचमनं यच्च जलाद्यच्चाडि्घ्रशोधनम्।
एवमाप्यायनं वत्स? बहूनामपि बान्धवैः॥
श्राद्धं कुर्वद्भिरन्नाप्सु(त्राशु)शाकैरपि हि जायते।
तथा स्कान्दे—
“अन्यायोपार्जितैरथैः यच्छ्राद्धं क्रियते नरैः।
तृप्यन्ति तेन चाण्डालपुल्कसाद्यासु योनिषु॥
गतपापा विशुद्ध्यन्ति ब्राह्मण्यमुपयान्ति ते।
ब्राह्मणानां तथैवान्ये न तृप्तिं प्रापयान्ति वै (तैः)॥
पिशाचत्वमनुप्राप्य कृमिकीटत्वमेव च।
एव ये यजमानस्य यच्च तेषां द्विजन्मनाम्॥
कश्चिज्जलादिविक्षेपः शुचिरुच्छिष्टमेव वा।
तेनान्येन प्रकारेण तत्तद्योन्यन्तरं गताः॥
प्रयान्त्याप्यायनं वत्स?सम्यक्श्राद्धक्रियावताम्”। इति।
तथा नागरखण्डे—
“श्राद्धे तु क्रियमाणे वै न किञ्चिद्व्यर्थता व्रजेत्।
उच्छिष्टमपि, राजेन्द्र तस्माच्छ्राद्धं समाचरेत्”॥
एवं श्राद्धक्रियाद्वारा श्राद्धप्रशसाऽभिहिता। इदानीं पितृरूपदेवताप्रसङ्गेन श्राद्धप्रशंसाऽभिधीयते—
वायुपुराणे—
“इत्येते पितरस्तात देवानामपि देवताः।
प्रजापतिमुखा ह्येते सर्वेषा तु महात्मनाम्॥
आद्यो गणस्तु योगानां स नित्यं योगवर्धनः।
द्वितीयो देवताना च तृतीयो देववैरिणाम्॥
शेषास्तु बर्हिणा ज्ञेया इति सर्वे प्रकीर्तिताः।
देवास्त्वेतान्यजन्ते वै सर्वेष्वेव व्यवस्थितान्॥
आश्रमास्तु यजन्ते तान् चत्वारस्तु यथाक्रमम्।
वर्णाश्चैव यजन्ते तान् चत्वारश्च यथाविधि॥
यथा सङ्करजाताश्च म्लेच्छाश्चैव यजन्ति वै।
सदा वै पितरः पूज्याः स्रष्टारो देशकालयोः॥
पितृभक्त्या ततो नित्यं योगं प्राप्नोत्यनुत्तमम्।
योगेन मोक्षं लभते हित्वा कर्म शुभाशुभम्॥
यज्ञहेतोर्यदुद्धृत्य मोहयित्वा जगत्तदा।
गुहायां निहितो योगः काश्यपेन महात्मना॥
तं च योगं समासेन पितृभक्तस्तु कृत्स्नशः।
अयत्नात् प्राप्नुयाज्जन्तुः सर्वथेव न संशयः॥
यानि रत्नानि मेदिन्या वाहनानि स्त्रियस्तथा।
क्षिप्र प्राप्नोति तत्सर्व पुरुषः श्राद्धकृत्तथा॥
विद्यार्थी प्राप्नुयाद्विद्या पुत्रार्थी पुत्रमाप्नुयात्।
राजा तु लभते राज्यमधनश्चोत्तमं धनम्॥
क्षीणायुर्लभते चायुः पितृभक्त्या सदा नरः”॥ इति।
ब्रह्मवैवर्तपुराणे—
“नहियोगगतिः सूक्ष्मा न पितॄणां परागतिः।
तपसापि न दृश्याऽसौ कि पुनर्मासचक्षुषा॥
चत्वारः पितरो मूर्ता मूर्तिहीनास्त्रयस्तथा।
तेषां श्राद्धानि सत्कृत्य देवाः कुर्वन्ति यत्नतः॥
भक्ताः प्राञ्जलयः सर्वे सेन्द्रास्तद्गतमानसः।
विश्वे च वसवश्चैव पृष्ठिनः शृङ्गिणस्तथा॥
कृष्णाःश्वेतास्त्वजाश्चैव विधिवत्पूजयन्त्युत।
प्रजाता वातरसना दिवाकृत्यास्तथैव च॥
मेघाश्च मरुतश्चैव ब्रह्माद्याश्च दिवौकसः।
अत्रिभृग्वङ्गिराद्याश्चऋृषयः सर्व एव च॥
यक्षा नागाः सुपर्णाश्च किन्नरा राक्षसैः सह।
पितॄँस्तेऽपूजयन् सर्वे नित्यमेव फलार्थिनः॥
एवमेते महात्मानः श्राद्धेसत्कृत्य पूजिताः।
सर्वान् कामान्प्रयच्छन्ति शतशोऽथ सहस्रशः॥
हित्वा त्रैलोक्यसंसारं जरामृत्युभयं तथा।
मोक्षं योगमथैश्वर्य सूक्ष्मदेहमदेहताम्॥
कृत्स्नं वैराग्यमानन्त्यं प्रयच्छन्ति पितामहाः।
वरिष्ठः सर्वधर्माणा मोक्षधर्मः सनातनः॥
पितॄणां हि प्रसादेन प्राप्यते सुमहात्मना।
आयुः पुत्रान् धनं विद्यां स्वर्गंमोक्षं सुखानि च॥
राज्य चापि प्रयच्छन्ति प्रीताः पितृगणा नृप?।
रतिशक्तिः स्त्रियः कान्ता भोज्ये भोजनशक्तिता॥
दानशक्तिः स्वविभवा रूपमारोग्यमेव च।
श्राद्धपुष्पमिदं प्रोक्तं फल ब्राह्मणसङ्गमः॥
श्रूयते हि पुरा मोक्ष प्राप्ताः कौशिकसूनवः।
पञ्चभिर्जन्मसम्बन्धैः प्राप्ता ब्रह्मपदं परम्॥
कौशिको नाम धर्मात्मा कुरुक्षेत्रे महानृषिः।
नामतः कर्मतश्चास्य सुतान् सप्त निबोधत॥
स्वसृमः क्रोधनो हिस्रः पिशुनः कविरेव च।
वाग्दुष्टः पितृवर्त्ती च गर्गशिष्यास्तदाऽभवन्॥
पितर्युपरते तेषामभूद् दुर्भिक्षमुल्बणम्।
अनावृष्टिश्च महती सर्वलोकभयङ्करी॥
गर्गादेशाद्वने दोग्ध्री रक्षन्तस्ते तदा द्विजाः।
हनामः कपिलामेका वयं क्षुत्पीडिता भृशम्॥
इति चिन्तयता तेषां लघु प्राह तदाऽनुजः
अथाऽवश्यमियं वध्या श्राद्धरूपेण योज्यताम्॥
श्राद्धे नियोज्यमानेय पापात् त्रास्यति नो ध्रुवम्।
एवं कुर्वित्यनुज्ञातःपितृवर्ती तदाऽग्रजैः॥
चक्रे समाहितः श्राद्धमालभ्य कपिलां स ताम्।
द्वौ देवे भ्रातरौ कृत्वा पित्र्ये त्रीश्चापरान् क्रमात्॥
तथैकमतिथिं कृत्वा श्राद्धदः स्वयमेव तु।
चकार मन्त्रवच्छ्राद्धं स्मरन् पितृपरायणः।
तया गवा विशङ्कास्ते गुरवे वै न्यवेदयन्॥
व्याघ्रेण निहिता धेनुर्वत्सोऽयं प्रतिगृह्यताम्।
एव सा भक्षिता धेनुः सप्तभिस्तैस्तपोधनैः॥
वैदिकं बलमाश्रित्य क्रूरे कर्मणि निर्भयैः।
ततः कालापकृष्टास्ते व्याधा दाशपुरेऽभवन्॥
जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः।
जातिस्मराः सप्त मृगा जाताः कालञ्जरे गिरौ”। इति।
** इति श्रीमल्लक्ष्मीनृसिंहचरणसरोरुहभ्रमरसमस्तभूमण्डलमण्डनसमस्तयवनाधीश्वर श्रीनिजामसाहसमस्तसाम्राज्यधुरन्धरश्रीमन्महाराजाधिराज **
श्रीदलपतिराजविरचिते श्रीनृसिंहप्रसादे
श्राद्धसारे श्राद्धमहिमा।
<MISSING_FIG href="../books_images/1687583864.png"/>
श्राद्धसारे पितरः।
अथ पितरोऽभिधीन्ते।
<MISSING_FIG href="../books_images/1687538865.jpg"/>
तत्र ते त्रिविधा मूर्ता अमूर्ता एकोद्दिष्टाशिनश्च। तदुक्तं ब्रह्माण्डपुराणे—
“अमूर्ता मूर्तिमन्तश्च पितरो द्विविधाः स्मृताः।
नान्दीमुखास्त्वमूर्ताःस्युर्मूर्तिमन्तोऽथ पार्वणाः॥
एकोद्दिष्टाशिनः प्रेताः पितॄणा निर्णयस्त्रिधा”। इति।
वापुराणेऽपि पितृसृष्टिमुक्त्वोक्तम्—
“तान् दृष्ट्वा प्राह स ब्रह्मा तिर्यक्सस्थानधोमुखान्।
भवन्तः पितरः सन्तु सर्वेषा गृहमेधिनाम्॥
ऊर्ध्ववक्रास्तु ये तत्र ते नान्दीमुखसंज्ञिताः”इति॥
तथा ब्रह्माण्डे—
“क एते पितरो नाम वर्तन्ते क च ते विभो?\।
पुत्रास्तु ते स्मृतास्त्वेषा कथं च पितरः स्मृताः॥
कथं वा ते समुद्भूताः कस्य पुत्राः किमात्मकाः।
स्वर्गे ते पितरोऽन्ये वै देवानामपि देवताः॥
स्वर्गे च के तु वर्तन्ते पितरो नरके तु के।
किमर्थ ते न दृश्यन्ते तत्र कि कारणं स्मृतम्”॥
इत्यादि प्रश्नेद्विधोत्पत्तिरभिहिता। केचित्साक्षाद् ब्रह्मशरीरोत्पन्नाः केचिद् व्यवधानेन। तत्र तावत्साक्षादभिधीयन्ते—विष्णुपुराणे—
“सत्यमात्रात्मिकामेव ततोऽन्या जगृहे तनुम्।
पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे॥
उत्ससर्ज पितॄन्दृष्ट्वा ततस्तामपि स प्रभुः।”
वायुपुराणे—
“ऋतमग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः।
जज्ञिरे ऋतवस्तस्मादृतुभ्यश्वार्त्तवास्तथा॥
आर्तवा ह्यनुमासाख्याः पितरो ह्यानुसूनवः।
ऋतुः पितामहा मासा आर्तवाश्चास्य सूनवः॥
प्रपितामहास्तु वैदेवाः पश्चाद्वा ब्रह्मणः सुताः”॥ इति।
अत्र सवत्सराभिमानिन्यो देवताः पितरः, न कालमात्रम्। स्थानाभिमानिन इत्यन्ये।
कालिकापुराणे—
अव्यक्तजन्मतः पुत्रा ये मरीच्यादयः स्मृताः।
तेषा पितृगणा मुख्या जातास्तेभ्यश्च देवताः॥
देवेभ्यश्च जगत्सर्वं त्रैलोक्यं सचराचरम्।
विधितत्वं परं वत्स ऋषीणां पितरः सुताः”॥
तत्र या ब्रह्मशरीरात् पितॄणा साक्षादुत्त्पत्तिः पुराणेषु दृश्यते सा मरीच्यादीना पितृत्वमपेक्ष्य, या तु ब्रह्मशरीराव्यवधानेन सा मरीच्यादिपुत्राणा पितृत्वमपेक्ष्येति विवेक्तव्यम् अतो न विरोधः।
ब्रह्मवैवर्तब्रह्माण्डपुराणयोः—
“तेषा सप्त समाख्याता गणास्त्रैलोक्यपूजिताः।
अमृर्तयस्त्रयस्त्वेषां चत्वारश्व समृर्तयः॥
उपरिष्टाच्च ये तेषां वर्तन्ते ते अमूर्तयः।
तेषामधस्ताद्वर्तन्ते चत्वारः सूक्ष्ममूर्त्तयः॥”
ततश्च मरीच्यादिपुत्राः पितरो मरीच्यादयः पितामहाः ब्रह्मा प्रपितामह इति।
तथा नागरखण्डे—
“अग्निष्वात्ताबहिषद आज्पपाः सोमपाः स्मृताः।
रश्मिपा उपहूताश्च तथैवायन्तुनः परे॥
तथा स्वादुषदश्चान्ये स्मृता नान्दीमुखा नृप?”। इति॥
वायुसंहितायाम्—
महेश्वर उवाच।
“अथापराश्चपितरो गुह्याः शृणु नरोत्तम?\।
विष्णुः पिताऽस्य जगतो दिव्यो यज्ञः स एव च॥
ब्रह्मा पितामहो ज्ञेयो ह्यह च प्रपितामहः”॥ इति।
एते ब्रह्मविष्णुमहेश्वराः पितरो विश्वसृष्टिहेतुत्वात्। पितृपितामहाद्यधिष्ठानभूताग्निष्वात्ताद्यधिष्ठातृत्वेन श्राद्धे पितरो देवतारूपास्तद्रूपेणानानुसन्धीयमानाः श्राद्धस्य कामपूर्विकामैहिकामुष्मिकफलोत्पादिकां शक्तिं जनयन्तीति। तथा पिण्डा अपि स्मृतिषु वरुणादिरूपतया उक्ताः। तथा हि—
“प्रथमो वरुणो देवः प्राजापत्यस्तथा परः।
तृतीयोऽग्निः स्मृतः पिण्ड एष पिण्डविधिः स्मृतः” इति।
इति श्रीमल्लक्ष्मीनृसिंहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डनसमस्त
यवनाधीश्वर=श्रीनिजामशाहसमस्तसाम्राज्यधुरन्धरश्रीन्महाराजाधिराज
श्रीदलपतिराजविरचिते श्रीनृसिंहप्रासादे
श्राद्धसारे पितृदेवतानिरूपणम्।
<MISSING_FIG href="../books_images/1687583864.png"/>
अथ श्राद्धाधिकारिनिर्णयोऽभिधीयते।
<MISSING_FIG href="../books_images/1687538865.jpg"/>
तत्र कार्ष्णाजिनि—
“पुत्रः शिष्योऽथवा पत्नी पिता भ्राता स्नुषा गुरुः।
स्त्रीहारी धनहारी च कुर्युः पिण्डोदकक्रियाम्॥
तथा गुरुः—
“प्रमीतस्य पितुः पुत्रैः श्राद्धं कार्यंप्रयत्नतः।
ज्ञातिबन्धुसुहृत्पुत्रैः ऋत्विक्कृत्यपुरोहितैः”। इति।
अत्र पितुरित्यनेन मातुरपि ग्रहणम्। “मातुः पितुः प्रकुर्वीत संस्थितस्यौरसः सुतः” इति सुमन्तुस्मरणात्। पुत्र इति औरसस्यैव ग्रहणम्; मुख्यतमत्वात्, तदभावे दत्तक=कृत्रिमादयो याज्ञवल्क्यप्रसिद्धा अवगन्तव्याः। तथा हि—(या.स्मृ.१२८।१३२)
“औरसोधर्मपत्नीज तत्समः पुत्रिकासुतः।
क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा॥
गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः।
कानीनः कन्यकाजातो मातामहसुतो मतः॥
अक्षतायां क्षताया वा जातः पौनर्भवः सुतः।
दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत्॥
क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः।
दत्तात्मा तु स्वयं दत्तो गर्भे विन्नः सहोढजः॥
उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः”। इति।
उरसो जातो औरसः पुत्रः, स च धर्मपत्नीजः, सावण्यर्यधर्मविवाहोढा धर्मपत्नी, तस्यां जात औरसः पुत्रो मुख्यः। तदभावे दत्तको वाऽधिकारी, इतरेषा कलोनिषेधात्। तदाह—
“माता पिता वा दद्याता यसद्भिः पुत्रमापदि।
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्तकः सुतः”इति।
अद्भिरिति वक्ष्यमाणोपदेशकपूर्वकमिति। आपद्ग्रहणमनापदि निषेधति। प्रतिषेधश्च दातुरेव “न चैक पुत्रं दद्यात् प्रतिगृह्णीयाद्वा”इति वशिष्ठस्मरणात्। तथाऽनेकपुत्रवताऽपि ज्येष्टःपुत्रो न देयः—
“ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः”इति
पुत्रकार्यकरणे मुख्यत्वात्। स्मृत्यन्तरादयि अयमेवार्थ उपलभ्यते—
“दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत्” इति।
अयमाशय—अपत्यानि तावन्मातृपितृकारणद्वयप्रभवाणीति न तेषामेकः क्रयं प्रतिपादनमुत्सर्ग वा कर्तु प्रभवति “शुक्रशोणित प्रभवः पुरुषो मातापितृनिमित्तकः, तस्य विक्रयप्रदानपरित्यागेषु मातापितरौ प्रभवत”इति वशिष्ठस्मरणात्। अतः प्रदानादावुभावपि हेतू इति स्थितं, तत्प्रतिग्रहप्रकारो वशिष्ठेनैवाभिहितः—
“पुत्रं प्रतिग्रहीष्यन्बन्धूनाहूय राज्ञे निवेद्य निवेशनमध्ये महाव्याहृतिभिर्हुत्वा अदूरबान्धवं बन्धुसन्निकृष्टमेनं प्रतिगृह्णीयात्”इति।
अदूरबान्धवमिति अत्यन्तदेशभाषाविप्रकृष्टस्य प्रतिषेधः। ततश्च सन्निकृष्टग्रहणात् असन्निकृष्टबन्धुर्न पुत्रार्थंकर्तव्यः।अयं च प्रतिगृहीतुः पुत्रो न दातुः, स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वापादनंदानमिति तल्लक्षणात्। तदुक्तं मनुना—
“गोत्ररिक्थे जनयितुर्न हरेद्दत्तकः क्वचित्”इति॥
आस्ता तावदप्रकृतं, प्रकृतं तु पत्नीस्नुषाशिष्यादीनां श्राद्धाधिकारिणां वित्तलाभादिनाऽपि श्राद्धादिकरणमवश्यं द्रष्टव्यम्। ततश्च दम्पत्योः परस्पर शरीरार्धधर्तृत्वात् स्नुषादीनामेकशरीरान्वयवत्त्वेन, शिष्याचार्ययोश्च पितापुत्रवदुपचारात् श्राद्धाधिकार इति सर्वे मनोरमम्। तथा च स्मृत्यन्तरम्—
“औरसे सति नान्यस्य श्राद्धादिविधिकारिता।
तदभावे तु पत्न्यादेः शास्त्राणामेष निश्चय” इति।
तथा च व्याघ्रपादः—
“पितुः पुत्रेण कर्तव्याः पिण्डदानोदकक्रियाः।
पुत्राभावे तु पत्नी स्यात्पत्न्यभावे तु सोदरः”इति।
पुत्राभावे तु पत्नी स्यादित्यादिवचनबलादेव शिष्यादीनां पुत्राभाव एवाधिकारो नान्यथेति वेदितव्यम्। यदि पुत्रसद्भावेऽप्येषामधिकारो भवेत्तर्हि पत्न्याः को वाऽपराधः स्यात् येनासौ न कुर्यात्तस्मात्पुत्राभाव एव पत्नीशिष्यादीनामधिकारो नान्यथेति सिद्धम्। तथा च गौतमः—“पुत्राभावे सपिण्डाः शिष्याश्च तदभावे ऋत्विगाचार्यावि"ति।
मातृसपिण्डा मातुलादयः सपिण्डालाभे समानोदकाःपिण्डंदद्युरिति। तदुक्तं मार्कण्डेयपुराणे—
“पुत्राभावे सपिण्डास्तु तदभावे सहोदकाः।
मातुः सपिण्डा एव स्युर्ये वा मातुः सहोदकाः॥
श्राद्धसारे श्राद्धाधिकारिनर्णयः
<MISSING_FIG href=”../books_images/1687538865.jpg"/>
कुर्युरेवं विधि सम्यगपुत्रस्य सुताः स्मृताः।
कुर्यान्मातामहायैवं पुत्रिकातनयस्तथा॥
सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाममन्त्रकम्।
तदभावेऽपि नृपतिः कारयेदकुटुम्बिनाम्॥
राजा कुर्यादभावे तु दाहाद्याः सकलाः क्रियाः।
सर्वेषामेव वर्णानां बान्धवो नृपतिर्यतः” इति।
तथा विष्णुपुराणे—
“पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः।
सपिण्डसन्ततिर्वाऽपि क्रियार्हानृप जायते॥
तेषामभावे सर्वेषा समानोदकसन्ततिः” इति।
ततः पुत्रेण पितुः श्राद्ध कर्तव्यं तदभावेऽन्यैरिति।
एतदनुपनीतेनापि कर्तव्यम्—
“श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः।
व्रतस्थो वाऽव्रतस्थो वा एक भव भवेद्यदि”
इति सुमन्तुस्मरणात्। अव्रतस्थोऽनुपनीतः। तदुक्तं वृद्धमनुना—
“कुर्यादनुपनीतोऽपि श्राद्धमेको हि यः सुतः।
पितृयज्ञाहुति पाणौ जुहुयाद् ब्राह्मणस्य सः”इति।
अत्र व्याघ्रः—
“कृतचूडः स कुर्वीत उदकं पिण्डमेव च।
स्वधाकारं प्रयुञ्जीत वेदोच्चारं न कारयेत्” इति।
मातापित्रोरिति शेषः।
तथा स्मृत्यन्तरे—
“कृतचूडोऽनुपेतस्तु पित्रोः श्राद्धं समाचरेत्।
उदाहरेत्स्वधाकारं नतु वेदाक्षरण्यसौ”इति।
सुमन्तुना वेदाक्षराण्यपि प्रयोज्यानीत्यभिहितम्—
“नाभिव्याहारयेद् ब्रह्म यावन्मौञ्जी निबध्यते।
मन्त्राननुपनीतोऽपि पठेदेवैक औरसः”इति।
ततः पुत्रोऽधिकारी, सोऽपि मुख्यो गौणश्च, तदभावे पत्न्यादि, तदपि पौत्राद्यभावे।
“पौत्रश्च पुत्रिकापुत्रः स्वर्गप्राप्तिकरावुभो।
रिक्थे च पिण्डदाने च समौ तौ परिकीर्तितौ” इति।
गुरु पौत्रं गौणपुत्रसमानमुक्तावनिति सर्वमुक्तम्।
इति श्रीमल्लक्ष्मीनृसिंहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डनसमस्त— यवनाधीश्वरश्रीनिजामशाहसाम्राज्यधुरन्धरश्रीमन्महाराजाधिराज—
श्रीदलपतिराजविरचिते श्रीनृसिंहप्रसादे
श्राद्धसारे श्राद्धाधिकारिनिरूपणम्।
<MISSING_FIG href="../books_images/1687583864.png"/>
अथ जीवत्पितृकश्राद्धाधिकारोऽभिधोयते।
<MISSING_FIG href="../books_images/1687538865.jpg"/>
तत्र मैत्रायणीयगृह्यपरिशिष्टनिष्ठंविशिष्ट विधिवाक्यम्—
“उद्वाहेपुत्रजनने पित्र्येष्ट्या सौमिके मखे।
तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः”इति।
षट्सङ्ख्या हि सङ्ख्येयपरिच्छेदं कुर्वती सङ्ख्येयावश्यकता बोधयन्ती ततोऽन्यत्रानावश्यकतां सूचयति। उद्वाहोऽत्र द्वितीयोऽभिमतः। तत्र पुत्रस्यैवाधिकारात्। तदुक्तमभियुक्तेः—
“नान्दीश्राद्धं पिता कुर्यादाद्येपाणिग्रहे बुधः।
अत उर्ध्व प्रकुर्वीत स्वयमेव तु नान्दिकम्”इति।
प्रथमे च पितुरेवाधिकारः। तदुक्तं कर्मप्रदीपे—
“स्वपितृभ्यः पितादद्यात्सुतसंस्कारकर्मसु।
पिण्डानोद्वहनात्तेषां तस्याभावे तु तत्क्रमात् इति”।
पिण्डशब्देन लक्षणया श्राद्धमुच्यते। पिण्डदोंऽशहरश्र्वैषामितिवत्। पिता सुतसंस्कारकर्मसु गर्भाधानादिविवाहान्तेषु पिण्डान्नान्दीश्राद्धानि स्वपितृभ्यो दद्यात्। तेषां सुतानामोद्वहनात् आउद्वहनम् विवाहमभिव्याप्येत्यर्थः। तया च स्मरति पाणिनि—आड् मर्यादाऽभिविध्योः”इति। शास्त्रान्तरपर्यालोचनयाऽप्यत्राभिविधावाङ्। स्वसुतविवाहेस्वपितृभ्यो दद्यादित्युक्तं भवति। द्वितीयविवाहे प्रथमोद्वाहेन संस्कृतस्य संस्कार्यत्वाभात्वात्। आश्रमधर्मो युज्यते न चेत्पत्नीसहितः, पुत्रार्थ एवेति स्वपितृभ्यः पितेति पदत्रयस्यार्थ। ततः प्रकृते वचने उद्वाहे द्वितीये विवाह इत्येव रमणीयम्। पित्र्येष्ट्या साकमेधमहापितृयज्ञे, सौमिके मखे तातीर्यसवनिकैः पुरोडाशखण्डैः स्वयजमानपितृभ्यो यत् क्रियते तत्रेति। स्पष्टमन्यत्। जीवतः पितुः इतीदं वचनं तेषामेव शाखिना साग्निकानामेतदुक्तम्—
“न जीवत्पितृकः कुर्याच्छ्राद्धमग्निमृते द्विजः।
येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः”इति।
ततो वराहसूत्रोपजीविना जीवत्पितृकाणा साग्निकानामेव पट्स्वेतेषु श्राद्धेषु नान्येषामिति। यतस्तत्र गृह्यपरिशिष्टश्रवणात्, अतस्तेषामेवेति सिद्धम्। तथा अन्येषामपि जीवत्पितृकाणां नान्दीश्राद्धे नाधिकार इत्यभिधीयते, तथा च कात्यायन—
“सपितुः पितृकृत्येषु त्वधिकारो न विद्यते।
न जीमन्तमतिक्रम्य किञ्चिद्दद्यादिति श्रुतेः”इति।
अयमर्थ—पितृकृत्येषु श्राद्धेषु पितामहादिसम्बद्धेष्विति। सह पित्रा यो वर्तते तस्य सपितुः। अन्या च स्मृतिः—“पित्र्यं जीवत्पितुर्नोक्तम्”इति। होमोऽपि पाक्षिकः—“न जीवन्तमतिक्रम्य किञ्चिद्दद्यादिति श्रुते”। अत एव सुमन्तुः—
“न जीवत्पितृकः कुर्याच्छ्राद्धमग्निमृते द्विजः।
येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः॥
पिता पितामहेऽप्येव कुर्याज्जीवति साग्निकः।
साग्निकोऽपि न कुर्वीत जीवति प्रपितामहे”इति।
तथा—
“कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनाम्।
नामकर्मणि बालाना चूडाकर्मादिके तथा॥
सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने।
नान्दीमुखं पितृगण पूजयेत्प्रयतो गृही”॥
इत्यादि वचनजातस्य कथमस्मिन्पक्षेऽर्थवत्वम्? सत्यं, वृद्धिश्राद्धं तावदित्थं मातृमातामहसम्बन्धिश्राद्धद्वयं कुर्यात्, पितॄनान्दीमुखे नाधिकारो न जीवमन्तमतिक्रम्येत्याद्युक्तेः। तथा—
“नानिष्ट्वा तु पितॄन् श्राद्धे वैदिकन्तु समाचरेत्” इति।
पितरि जीवति मातरि च जीवन्त्यामेके मातामहश्राद्धेषु देवपितृमातृमातामहेषु त्रिष्वपि जीवत्सु केवल मातृमातर एव पूज्यन्ते। ततःकात्यायन—मतोक्तं पतिजीविनां जीवत्पितृकाणां साग्नीना निरग्नीनामपि मैत्रायणीसूत्रातिक्रमो नास्तीति वृत्तम्।
अथाश्वलायनाना जीवत्पितृकाणा नान्दीमुखनिर्णयः सक्षेपतोऽभिधीयते। तत्र तत्सूत्रेऽनेके पक्षाः। तत्र गणिगारि—सम्मतः पक्षः। येषां पितृपितामहानां ये प्रेताः तत्तदुद्देशेन पिण्डान्निपृणुयात्। जीवतान्तु प्रत्यक्षमर्चनम्, अस्य कर्मणः पित्रर्थत्वात्।
अथ तौल्वलिसम्मतोऽयं पक्षः—यद्यपि जीवान्तर्हिताः, तथाऽपि पितृभ्यः प्रेतेभ्य एव दद्यादिति न जीवतामर्चा, निषिद्धत्वात्। तथोक्तं भविष्यति—
“प्रत्यक्षमर्चनं श्राद्धे निषिद्धं मनुरब्रवीत्।
पिण्डनिर्वपणं वाऽपि महापातकसम्मितम्”इति।
अथ गौतममतम्। पित्रादीनां त्रयाणां मध्ये जीवतोऽपि पिण्डदानमिति। एवं परस्परविरुद्धं पक्षत्रयम्। अत्रायं तात्विकःसिद्धान्तः—यदवादि परेभ्यो दद्यादिति तदसम्बद्धं न कर्तव्यम्। यदवादि गणगारिणा पित्रर्थत्वात्कार्यमिति तदपि न, अनधिकारित्वात्। यदवादि तोल्वलिना जीवादन्तर्हितेभ्यो न निपृणुयादिति तन्न। उक्तहेतोः। यदवादि जीवद्भ्योन निपृणुयादिति, तदपि न, उक्तहेतोः। ततश्च प्रत्यक्षार्चनमपि ततो न कार्यम्। अनधिकारिणा यदवादि जीवेभ्योऽपि निपृणुयादिति तदप्यसत्, प्रागुक्तादेव हेतोः। यदप्युक्तं जीवान्तर्हितेभ्यो निपृणुयादिति तदपि न, उक्तादेव हेतोः। अत्रायमनुष्ठानक्रमः—ये हि पितृत्रये भवन्ति तेभ्यः पिण्डान्दद्याज्जुहुयात्। एतेभ्य एव वर्हिषि निपृणुयादिति। यस्य तु सर्वे जीवन्तो भवन्ति तस्य सर्वहुत हविर्भवेत्।
अथ छन्दोगानां निर्णयः। तत्र कात्यायनः—
“सपितुः पितृकल्पेषु अधिकारो न विद्यते”इति।
अथ मातामहश्राद्धमभिधीयते, तदपि जीवत्पितृककर्तृकमेव। इदं चाश्विनशुक्लप्रतिपदि शिष्टाचारादनुष्ठेयम्। शिष्टैराचर्यमाणाना सता गोदोहनादिवत्फलसम्बन्धमप्राप्तं बोधयच्छ्रास्त्रमर्थवदिति तस्यापि प्रमाणमभिधानात्। अत एवावश्यकम्—
“मातुः पितरमातरभ्य त्रयो मातामहाः स्मृताः।
तेषां तु पितृवच्छ्राद्धं कुर्युर्दुहितृसूनवः” इति
पुलस्त्यस्मरणात्। पितृवदित्यनेन पार्वणविध्यन्तवत्ता सूचिता। अत्र विशेषवचनानि पुराणेषूपलभ्यन्ते—
“कृत्वा तु पैतृकं श्राद्धं पितृप्रभृतिषु त्रिषु।
कुर्यान्मातामहानां च तथैवानृण्यकारणात्”इति।
श्राद्धसारे मातामह श्राद्धाधिकारिनिरणयः।
<MISSING_FIG href="../books_images/1687538865.jpg"/>
व्यासः—
“पितृन् पितामहाश्चैव द्विजः श्राद्धेन तर्पयेत्।
आनृण्य स्यात्पितॄणा च ब्रह्मलोक च गच्छति”इति।
आनृण्यग्रहणं नित्यता ख्यापयति ।
तथा—
“पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम्।
अविशेषेण कर्तव्यं विशेषान्नरकं व्रजेत्” इति।
इद च वचनजातममावास्यादिविहितपितृश्राद्धविहितमातामहश्राद्धविषय वेदितव्यम्, ततश्चामावास्यादौ संक्रान्त्यादौ गयादितीर्थादौ वा यत्र क्वचित्पैतृकं श्राद्धं तत्र माताहामहश्राद्धं कार्यमित्यर्थः। इदं क्वचिदपवदति कातीयं वच—
“कर्षूसमन्वितं मुक्त्वा तथाद्यं श्राद्धषोडशम्।
प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षडिति स्थितिः” इति।
कर्षूसमन्वितं सपिण्डीकरणम्। श्राद्धषोडशग्रणमेकोद्दिष्टोपलक्षणार्थम्। एवं च यन्मातामहश्राद्धं पितृश्राद्धे विहितं तत्रैव दोषानृण्ययोरभिधानात् तदेव सर्वंदौहित्रसाधारणम्। यच्च पुनर्धनहारिदौहित्राऽऽश्विने क्रियमाणं तत् जीवत्पितृकविषयमिति तत्वम्। स नवश्राद्धाद्यपि कुर्यात्। एवं यो हि यत आददीत स तस्मै दद्यादिति स्मरणात्। तथा च स्कन्द—
“श्राद्धं मातामहाना तु अवश्यं धनहारिणा।
दौहित्रेणार्थनिष्कृत्यै कर्तव्यं विधिवत्सदा”इति।
अथैवं मन्यसे—
“कुर्यान्मातामहश्राद्ध नियमात्पुत्रिकासुतः।
उभयोरर्थसम्बन्धात्कुर्यात्स उभयोरपि ”॥
इति वाक्याद्दोहित्रस्योभयसम्बन्धात् उभयोरप्यसौश्राद्धं कुर्यात्, इदमसत् अनवगगेः। तथा हि नायमस्य वाक्यस्यार्थः। कस्तर्हि अयमेवम् द्विविधो हि पुत्रिकापुत्रः। एको हि मातामहेन सम्बद्धः, अपरः पुनःपितृमातामहाभ्यामिति, तत्र प्रथमो मातामहश्राद्धं नियमेन कुर्यात्, पितृश्राद्धमिच्छया। इतरस्तूभयोरपीति। अतो नात्रानियमः।
“दौहित्रो ह्यग्विल रिक्थमपुत्रस्य पितुर्हरेत्।
स एव दद्याद् द्वौपिण्डौपित्रे मातामहाय च”इति (९\।१३२)
मानवीयवचनं धनहारिदौहित्रस्यैव नवश्राद्धौर्ध्वदैहिककर्तव्यता नेतरस्येति प्रतिपादयति तथा—
“मातामह्यं तु मात्रादि पैतृकं पितृपूर्वकम्।
मातृतः पितृतो यस्मादधिकारोऽस्ति धर्मतः॥
सगोत्रोवाऽसगोत्रो वा यो भवेद्विधवासुतः।
पिण्डश्राद्धविधानं च क्षेत्रिणे प्राग्विनिर्वपेत्॥
बीजिने तु ततः पश्चात्क्षेत्री जीवति चेत्पृथक्।
बीजिने दद्युरादौ तु मृते पश्चात्प्रदीयते”इति।
इति श्रीमल्लक्ष्मीनृसिंहचरणसरोरुहभ्रमरसकलभूमण्डलमण्डन समस्तयवनाधीश्वर— श्रीनिजामसाहसमस्तसाम्राज्यधुरन्धरश्रीमन्महाराजाधिराजश्री—
दलपतिराजविरचिते श्रीनृसिंहप्रसादे श्राद्धसारे
मातामहश्राद्धाधिकारनिर्णयः।
<MISSING_FIG href="../books_images/1687583864.png"/>
अथापराह्णनिर्णयोऽभिधीयते।
<MISSING_FIG href="../books_images/1687538865.jpg"/>
यद्यप्यमावास्यादौ श्राद्धं विहितं तथापि तदमावास्यायामपराह्णेकर्तव्यमिति। “अमावास्यायामपराह्णे पिण्डपितृयज्ञेन यजेते”ति श्रुते। स्मृतेश्च। तथा हि स्मरति शातातप—
“दर्शश्राद्धं तु यत्प्रोक्तं पार्वण तत्प्रकीर्तितम्।
अपराह्णे पितॄणा तु तत्र दानं प्रशस्यते” इति।
अपराह्णश्च पञ्चधाविभक्तस्याह्नश्चतुर्थो भाग उच्यते—
“मुहूर्तत्रितयं प्रातस्तावानेव तु सङ्गवः।
मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णोऽपि तादृशः॥
सायाह्नस्त्रिमुहूर्तः स्यात्सर्वधर्मबहिष्कृतः” इति
व्यासस्मरणात्। न तु कदाचिद् द्वेधा विभक्तस्याह्नो द्वितीयभागेऽपराह्णशब्दः प्रयुज्यते।
“यथा चैव परःपक्ष पूर्वपक्षाद्विशिष्यते।
तथा श्राद्धस्य पूर्वाह्णादपराह्णोविशिष्यते”इति॥
तथा—
आवर्तनात्तु पूर्वाह्णो ह्यपराह्णस्ततः परम्" इति।
अर्थस्तु आवर्तनादधः पूर्वाह्णइति। तथा क्वचित्त्रिधा विभक्तस्याह्णस्तृतीयो भागोऽपराह्णइति। तथा— “पूर्वाह्णोवै देवानामपराह्णःपितृणां मध्यन्दिनो मनुष्याणा” मिति। वाजसनेयिकेऽपि—“आग्रीष्मो यदा मध्यन्दिनोऽथ वर्षा यदाऽपराह्णस्तदा शरद् यदाऽस्तमेत्यथहेमन्त इति (श. ब्रा. २/२/२/८)। ततश्चाऽनेकधापराह्णशब्दप्रयोगे कथं निर्णय इति चेत्—सत्यं, भवत्येव सन्देहस्तथापि सर्वसम्मतपरमर्षिवेद— प्रवक्तृसाक्षाद्धर्मोपदेष्टमनुप्रणीता द्वित्राः पक्षाः स्वीकार्याः।
“शुक्लपक्षस्य पूर्वाह्णोश्राद्ध कुर्याद्विचक्षणः।
कृष्णपक्षापराह्णे तु रौहिणं न तु लङ्घयेत्”इति
मार्कण्डयेन द्वेधा विभक्तस्यान्हो द्वितीये भागे श्राद्धस्यविधेः। तथा “रौहिण न तु लङ्घयेत्” इति चतुर्थादिभागादर्वागेव समाप्तिविधानाच्च रौहिणो हि नवमो मुहूर्तः। अपि च—
“भूतविद्धाऽप्यमाबास्या प्रतिपन्मिश्रिताऽपि वा।
पित्र्ये कर्मणि विद्वद्भिर्ग्राह्या कुतुपकालिकी”
इति। यदपि हारीतः श्राद्धाङ्गत्वेन कुतुपकालं विधत्ते, तदपि अनुपपन्नं न स्यात्। मनुना तेन कुतुपकालस्य श्राद्धाङ्गत्वमम्यते। तत्र कुतुपकालग्रहणविधानात् इष्टार्थत्वोपयोगस्यैवोचित्यात्। तदुक्तं स्कन्दपुराणे—
“कुर्यत्र गोपतिर्गोभिः कार्त्स्न्येन तपति क्षणे।
स कालः कुतपो नाम श्राद्धं तत्र प्रदीयते”इति।
कुः पृथिवी। गोपतिःसूर्यः। अत्र केचिद्वदन्ति—ननु “एकोद्दिष्टं तु मध्यान्हे”इति बचनात् एकोद्दिष्टविषय एव हि कुतुपकालविधिः तच्च दर्शऽपि कुतुपविधेरपास्तम्। अपरे—कुतुपकालविधनस्य एकोद्दिष्टविषयता मन्यन्ते। “एकोद्दिष्टन्तु मध्यान्ह”इति वचनात्। केचिन्नवश्राद्धविषयता मन्यन्ते—“मध्यान्हो वै मनुष्याणामि”ति श्रुतेः। सपिण्डीकरणात्पूर्वमपितृरूपत्वाच्च। इदं चास्माभिः कालनिर्णयसारे विस्तरेण प्रपञ्चयिष्यते नेह विस्तरः। अन्यैरपि विस्तरेण प्रपञ्चितं तदपि मृग्यम्। न चैवं सर्वकुतुपापरान्हविध्योर्विकल्प इति मन्तव्यम्। कुतुपोत्तरार्धस्य अर्धापराह्णान्तर्भावात्। कुतुपो हि पञ्चदशमुहूर्त्तात्मकस्याष्टमोमुहूर्तः।
“अन्हो मुहूर्ता विज्ञेया दश पञ्च च सर्वदा।
तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः” इति।
ततश्च यदपराह्णेविहित तदपराह्णान्तर्गतकुतुपे कर्तव्यमिति विधीयते निर्णय इति। तस्मान्न कश्चिद्विरोधः। अन्यथा किञ्चित्कुतपे कर्तव्यमिति कश्चिद्विधत्ते, परः पुनः “रौहिणं न तु लङ्घये”दिति रौहिणे। ततः परस्तु अपराह्णे कर्तव्यति स्पष्ट एव विरोधो भवेदिति। मत्स्यः—
“मध्यान्हे सर्वदा यस्मान्मदी भवति भास्करः।
तस्मादन्तफलदस्तत्रारम्भो विशिष्यते”इति।
तथा हगौतमः—
“प्रारभ्य कुतुपं श्राद्धं कुर्यादा रौहिणं बुध।
विधिज्ञो विधिमास्थाय रौहिणं न तु लड्घयेत्”इति॥
इदं हि कुतुपे श्राद्धविधानमनग्निकविषयम्, साग्नेरनुष्ठितपिण्डपितृयज्ञस्यैवैतदिति। तदाह कात्यायनः—
“पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान्।
पिण्डान्वाहार्यकं श्राद्धं कुर्यात्पश्चात्तु मासिकम्”इति।
इति श्रीमल्लक्ष्मीनृसिंहचरणयुगलसरोरुहभ्रमरसकलभूमण्डन मण्डनसमस्त—
यवनाधीश्वर श्री निजामसाह समस्तराज्य धुरन्धर श्रीमन्महाराजाधिराज
श्रीदलपतिराजविरचिचे श्रीनृसिंहप्रसादे
श्राद्धसारेकालनिरूपणम्।
<MISSING_FIG href="../books_images/1687583864.png"/>
अथ पात्रनिरूपणम्।
<MISSING_FIG href="../books_images/1687538865.jpg"/>
देशे काले च पात्रे चेत्याद्यभिहितम्। तत्र देशः दक्षिणप्रवणादिः, कालोऽपराह्णादिः। अथ पात्रम्—तथा च सत्यव्रतः—
“पितृप्रीतिनिमित्तानि द्रव्यं पात्रं सुतो विधिः।
प्रधानं पात्रमेतेषा पात्रासिद्धौ पतेदधः”इति
पात्रस्याहवनीयस्थानीयत्वात्तत्सिद्धौ महान् यत्नः कर्तव्य इत्यवसीयते। तत्र पात्रशब्दव्युत्पत्तिः सत्यव्रतोक्ता—
“परे यत् हव्यकव्यानि स तारयति दैवतम्।
तेनापात्रे प्रदानं यद् गच्छेत्तन्नैव दैवतम्”इति।
तत्र पात्रप्रशंसा योगिनोक्ता—
“तपस्तप्त्वाऽसृजद् ब्रह्मा ब्राह्मणान्वेदगुप्तये।
तृप्त्यर्थंपितृदेवानां धर्मसंरक्षणाय च”इति॥
ब्रह्मा हिरण्यगर्भः ब्राह्मणानसृजतत् कल्पादोतपस्तप्त्वा, किमर्थ वेदरक्षार्थ पितॄणा देवताना तुप्त्यर्थ, तद्द्वारा धर्मसंरक्षणार्थ च। अतस्तेभ्यो दत्तमक्षयफलमिति भावः। तथा—
“सर्वस्य प्रभवो विप्राः श्रुताध्ययनशालिनः।
तेभ्यः क्रियापराः श्रेष्ठास्तेभ्यो ह्यध्यात्मवित्तमाः”इति॥
सर्वक्षत्रियाद्यपेक्षया उत्कृष्टत्वं जातिकर्माभ्यां श्रेष्ठ्यं, तत्र ब्राह्मणाः श्रेष्ठाः श्रुताध्ययनसम्पन्नाः, तेभ्योऽपि क्रियापराः विहितानुष्ठानशालिनः। तेभ्योऽप्यध्यात्मवित्तमाः। शमदमादितत्वेनात्मज्ञाननिरताः श्रेष्ठाः, ततश्च जातिविद्याद्यनुष्ठानतपसां समुच्चयः पात्रतासम्पत्तिहेतुः। प्रत्येकमपि हेतुतेति केचिन्मन्यन्ते। अपरे तु—वृत्तविद्यातपांसि पात्रतासम्पादकानीत्याह। तदाह—
“न विद्यया केवलया तपसा वाऽपि पात्रता।
यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम्" इति।
वृत्तमनुष्ठानम्। तत उक्तलक्षणे पात्र एवदेयता, पात्रे गोभूतिलहिरण्यादि दातव्यमिति।
“ना पात्रे विदुषा किचिदात्मनःश्रेय इच्छता”।
इति स्मरणात् ।
छागलेयोऽपि—
“सर्वलक्षणसंयुक्तैर्विद्याशीलगुणान्वितैः।
पुरुषत्रयविख्यातैः सर्व श्राद्धं प्रकल्पयेत्” इति।
तथा पुराणे—
“जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः।
वेदाध्ययनसम्पन्नः षट्सु कर्मस्ववस्थितः॥
शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः।
नित्यं व्रती सत्यपरः स वै ब्राह्मण उच्यते”।
मनुः—
“न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् ।
तपः श्रुतं च योनिश्च ह्येतद् ब्राह्मण्यकारणम्॥
सत्यं दानं दमो द्रोहमानृशंस्यं क्षमा घृणा।
तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः” इति (३।१४६)।
आनृशंस्यमक्रूरत्वम्।
हारीतः—“कुलीनाः श्रुतशीलवन्तो वृत्तस्थाःसत्यवादिनोऽव्यङ्गा ब्राह्मणाः कर्तव्या”इति। मनुस्तु—दैवे श्राद्धब्राह्मणस्यापरीक्षणीयत्वमुक्तवान्। तथा हि—
“न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित्।
पित्र्ये कर्मणि सम्प्राप्ते परीक्षेत प्रयत्नतः”इति॥
श्राद्धे भोजयेदित्युपक्रम्य गौतमः—“हविष्षूचितान् ब्राह्मणान् भोजयेदिति श्राद्ध विवेके। हविःषु हव्येषु दैवेष्विति यावत्।
मनुः—
“श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः।
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम्” इति (३।१२८)॥
तथा—
“अश्रोत्रियाय दत्तं हि पितृभिनैति देवताः”इति।
मत्स्यपुराणे—
“अर्थज्ञो वेदविन्मन्त्री ज्ञानवंशकुलान्वितः।
पुराणवेत्ता सर्वज्ञः स्वाध्यायजपतत्परः॥
शिवभक्तः पितृभक्तः सूर्यभक्तोऽथ वैष्णवः।
ब्रह्मण्यो योगविच्छान्तो विजितात्माऽथ शीलवान्”इति
श्राद्धे नियोज्य इति शेषः ।
मनुः—
“गायत्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्बविक्रयी”इति।
व्यासः—
“चीर्णव्रता गुणैर्युक्ता भवेयुर्येच धार्मिकाः।
सावित्रीज्ञाः क्रियावन्तस्ते राजन् केतनक्षमाः॥
सावित्री तु जपेद्यस्तु द्विकालं भरतर्षभ।
भैक्षवृत्तिः क्रियावांश्च स राजन् केतनक्षमः”इति।
केतनमत्र निमन्त्रणमभिप्रेतम्। क्षेमो योग्यः।
मत्स्यः—
“गायत्रीजप्यनिरतं हव्यकव्ये नियोजयेत्।
पापं तिष्ठति नो तस्मिन् अब्विन्दुरिव पुष्करे”इति।
पुष्करं पद्मपत्रम् ।
तथा ब्रह्मण्डपुराणे—
“शिखिभ्यो धातुरक्तेभ्यस्त्रिदण्डिभ्यश्च दापयेत्” इति।
ब्रह्मचारिणः शिखिनः, धातुरक्ताः धातुरक्तवस्त्रधारिणो वनस्थाः। तत्र पूर्वंयतिः श्रेष्ठः, ततो वानप्रस्थः, ततो ब्रह्मचारी, ततो गृहस्थ इति।
तदाह नारदः—
“यो वैयतीननादृत्य भोजयेदितरान् द्विजान्।
विदुषोवसतो ग्रामे कथं तद्याति राक्षसान्”इति
ग्रामे स्वग्रामे वसतो यतीन् तेषामनादरेण य इतरान् द्विजान् भोजयेत् तदीयं कव्य पित्रर्थ सङ्कल्पितमपि राक्षसानेव यातीति भावः।
तथा च ब्रह्माण्डपुराणे—
“अलाभेऽह्यातितिक्षूणां भोजयेद् ब्रह्मचारिणम्।
तदभावे ह्युदासीनं गृहस्थमपि भोजयेत्” इति।
तथा पितृगाथा श्रूयते—
“अपि स्यात्स कुले जन्तुर्भोजयेद्यस्तु योगिनम्।
विप्रश्राद्धं प्रयत्नेन तेन तृप्यामहे वयम्”इति।
यः प्रयत्नेन भोजयेदित्यादरार्थम्। तथा च पुराणम्—
“गृहस्थानां सहस्रेण वानप्रस्थशतेन च।
ब्रह्मचारिसहस्त्रेण यो योगी स विशिष्यते” इति।
तथा च पद्मपुराणे—
“साङ्गांस्तु चतुरो वेदान् अधीते सम्यगर्थवित्।
जन्मवान् कर्मसंशुद्धः स श्राद्ध प्रथमा मतः”इति।
शातातपः—
“योगिनं भोजयेन्नित्यं दृष्टतत्वं मनीषिणम्।
तेषा तु दत्तमक्षय्यं भवतीति न संशयः”इति।
ये तु योगिनो वृत्ते स्थितास्त एव भोज्या न स्वरूपेण।
तदुक्तम्—
“ये तु वृत्तस्थिता नित्यं ज्ञानिनो ध्यानिनश्च ये”इति।
अनेन योगशास्त्रपाठमात्ररतस्य पञ्चमहापातकयुक्तस्याभोज्यत्वमुक्तम्। वस्तुज्ञाननिष्ठस्य ध्याननिष्ठस्य मद्यपानादौ प्रवृत्यभावादिति ततो ज्ञानध्यानयुक्तोभोज्यः। आत्मादिस्वरूपपरिस्थितिज्ञानं विजातीयबुद्धिहान्यात्मसाक्षात्कारे—छागलेय—
“सर्वारम्भनिवृत्तानां यतीना दत्तमक्षयम्।
सततं योगयुक्ताना वीतरागतपस्विनाम्”इति।
यमः—
“यतये वीतरागाय दत्तमन्नं सुपूजितम्।
न क्षीयते श्रद्धयाऽपि कल्पकोटिशतैरपि॥
योगिनं समतिक्रम्य गृहस्थं यदि भोजयेत्।
न तत्फलमवाप्नोति स्वर्गस्थानपि पातयेत्॥
योगिनं तु परित्यज्य पूजयन्ति परस्पम्।
दाता भोक्ता च नरकं गच्छन्ति सह बान्धवैः”इति।
अत्र सततयोगयुक्तादि यतिविशेषणान्येकदण्डिविषय एव समीचीनानि।
तथा—
“नास्तिको वा विकर्मा वा सङ्कीर्णस्तस्करोऽपि वा।
नान्यत्तु कारणं दाने योगिष्वाह प्रजापतिः॥
पितरस्तस्य तुष्यन्ति सुवृष्टेनैव कर्षकाः।
पुत्रो वाऽप्यथवा पौत्रो ध्यानिनं यस्तु भोजयेत्॥
यतिस्तु सर्वविप्राणां सर्वेषामग्रभुग्भवेत्”इति।
केचिद् गुणत्तवरा ब्रह्मपुराणे दर्शिताः—
“चतुर्दशाना विद्यानामेकस्या अपि पारगः।
यथावद्वर्तमानश्च सर्वे ते पङ्क्तिपावनाः॥
ये तु भाष्यविदः केचित् ये च व्याकरणे रताः।
अधीयानाः पुराण च धर्मशास्त्रमथापि वा॥
अक्रोधनाः क्षान्तिपरास्तान् श्राद्धेषु निमन्त्रयेत्” इति।
तथा—
बार्हस्पत्य नीतिशास्त्रं शब्दविद्या च वेत्ति यः।
इतिहासपुराणैश्च यः पवित्रीकृतः सदा॥
अकृत्यमपि कुर्वाणः स पवित्रशताद्वरः।
बहुनाऽत्र किमुक्तेन इतिहासपुराणवित्॥
अथर्वशिरसोऽध्येता तावुभौ पितृभिः पुरा।
तपः कृत्वा तु योगात्तु प्रार्थितौ पितृकर्मणि”इति॥
वृद्धशातातपः—
“ज्ञानी यस्य गृहेऽश्नाति उदकं वा पिबेद्यदि।
कृतं तेन महत् कृत्य तारितं च कुलत्रयम्॥
श्राद्धसारे ब्राह्मणनिर्णयः
योगिनं समतिक्रम्य गृहस्थं यदि भोजयेत्।
तत्तत्कुलमवाप्नोति स्वर्गस्थमपि पातयेत्॥
योगिनं तु व्यतिक्रम्य पूजयन्ति व्यतिक्रमम्।
भोक्तारस्तु सदाचारा नरके स्युः सबान्धवाः”इति।
आपस्तम्बः—
“अपाङ्क्त्योपहता पङ्क्तिःपाव्यते यैद्विजोत्तमैः।
तान् निबोधत कार्त्स्येनद्विजाग्र्यान् पङ्क्तिपावनान्॥
अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च।
श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः॥
त्रिणाचिकेतः पञ्चाग्निः त्रिसुपर्णः षडङ्गवित्।
ब्रह्मदेयानुसन्तानो ज्जेष्ठसामग एव च॥
वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः।
शतायुश्चैव विज्ञेयाः ब्राह्मणाः पङ्गिपावनाः”इति।
ब्रह्मदेयानुसन्तानः ब्राह्मविवाहोढा पुत्रः। सहसद इति गवा सुवर्णस्य चेति ज्ञेयम्।
अत्र पैठीनसिः—
“अथातः पङ्क्तिपावना भवन्ति त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णश्चीर्णव्रतः छन्दोगो ज्येष्ठसामगः ब्रह्मदेयाऽनुसन्तानः सहस्रदो वेदाध्यायी चतुर्वेदः षडङ्गवित् अथर्वशिरसोऽध्यायी पञ्चाग्निर्वेदजापी चेति, तेषामेकैकः पुनाति पङ्किनियुक्तो मूर्द्धनि सहस्त्रैरप्युपहतामि”ति।
यमः—
“ये सोमपा विरजसो धर्मज्ञाः शान्तबुद्धयः।
व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः॥
पञ्चाग्निरप्यधीयानो यजुर्वेदविदेव च।
बह्वृचश्च त्रिसौपर्णः त्रिमधुर्वाऽथ यो भवेत्॥
त्रिणाचिकेतो विरजाःछन्दोगो ज्येष्ठसामगः।
अथर्वशिरसोऽध्येता सर्वे ते पङ्क्तिपावनाः॥
शङ्खः—
“ब्रह्मदेयानुन्तानोब्रह्मदेयाप्रदायकः।
ब्रह्मदेयापतिश्चैव ब्राह्मणाः पतिपावनाः॥
यजुषां पारगो यश्चसाम्ना यश्चापि पारगः।
अथर्वशिरसोऽध्येता ब्राह्मणाः पङ्क्तिपावनाः॥
चान्द्रायणव्रतस्थोयः सत्यवादी पुराणवित्।
निवासः सर्वविद्यासु शान्तो विगलकल्मषः॥
गुरुवेदाग्निपूजासु शान्तो विगतकल्मषः।
नित्यं योगपरः सिद्धः समलोष्टाश्मकाञ्चनः॥
ध्यानशीलो यतिविद्वान् ब्राह्मणाः पङ्क्तिपावनाः”इति॥
यस्य स्थितिरविच्छिन्नवेदा, अविदितायोनिसङ्करत्वं पारमार्थ्य चेति हारीतः।
मनुना कल्पान्तरक्तम्—
काम श्राद्धेऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम्।
द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम्”(३\।१४४) इति।
अभिरूपमपि द्विद्वांसमपीति यावत्। काममित्युक्तरेनुकल्पता प्रतीयते। अयमनुकल्पः पूर्वोक्तकल्पालाभे द्रष्टव्यः।
“न श्राद्धे भोजयेन्मित्रं धनैः कार्याऽस्य संग्रहः।
नारि न मित्र यं विद्यात्तं श्राद्धे भोजयेद् द्विजम्॥
यस्य मित्रप्रधानानि श्राद्धानि च हवीषि च।
तस्य प्रेत्य फल नास्ति श्राद्धेषु च हविष्षु च”
इति निन्दार्थवादादपि नाय पक्षः साधीयानिति। एतादृशविप्रेषु सदाचारवैकल्पदर्शनेऽपि निन्दान कार्या।
तदुक्तम्—
“युगे युगेषु हि धर्मास्तेषु तेषु च येद्विजाः।
तेषा निन्दा न कर्तव्या युगरूपा हि ते द्विजाः”इति।
तथा भविष्येऽमि—
“वैश्वदेवेन ये हीना आतिथ्येन च वर्जिताः।
ते सर्वे वृषला ज्ञेयाः प्राप्तवेदा अपि द्विजाः”इति॥
तस्मादमन्त्रं परित्यजेत्, मन्त्रज्ञं भोजयेदिति युक्तम्।
“एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत्।
पुष्कलं फलमाप्नोति नामन्त्रज्ञान् बहूनपि”॥
इति स्मरणात् (मनु० ३ १२९)।
“सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते।
एकस्तान्मत्रवत्प्रीतः सर्वानर्हति धर्मतः”इति।
अनृचामनृग्विदामवेदार्थविदामुपलक्षणमृचः, यतो हि ते प्राप्ता एव न सन्ति “श्रोत्रियाय”एवेति नियमात् (मनु० १२८)।छान्दसत्वादेकवचनम्।
देवल—
“त्रिशुक्लः कृशवृत्तिश्चघृणालुः सकलेन्द्रियः।
विमुक्तो योनिदोषेभ्यो ब्राह्मणःपात्रमुच्यते”इति।
त्रिशुक्लपदञ्च तेनैव व्याख्यातम्—
“एवमन्वयशीलाभ्या वृत्तेन च समुच्छ्रिताः।
त्रिशुक्ला नाम विप्रेन्द्राः पूज्यन्ते दैवतैरपि”इति।
सतो जन्मावाप्तिरन्वय इत्यभिधायते, विनयादिसम्पच्छील, सता वृत्तं शौचाचाराद्यात्मकम्। एतैस्त्रिभिः सुगोपितैरन्विताः त्रिशुक्ला अभिधीयन्ते। ते च दुर्लभाः, अत उक्तंदैवतैरपि पूज्यन्ते इति।
मनुः—
“अग्न्याः सर्वेषु वेदेष्वि”ति।
अयमर्थः—सर्वेषु वेदेषु ऋग्यजुःसामसु संशयानुपत्तिं विधातुं क्षमा इति अग्र्याः। न केवलं वेदेषु अपि तु प्रवचनेषु अपि प्रोच्यन्ते व्याख्ययन्ते यैर्वदास्तानि प्रवचनान्यमङ्गानि निरुक्तव्याकरणादीनि, तेष्वग्र्या इति। न केवलमग्र्याः, अपि तु श्रोत्रियान्वयजाश्चेद् भवन्ति ते पङ्क्तिपावना इति।
तथा योगियाज्ञवक्ल्य—
“अग्र्याः सर्वेषु देवेषु श्रोत्रियो ब्रह्मविद्युवा।
वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णिकः”इति (१।११६)॥
अयमर्थः– सर्वेषु वेदेषु ऋग्वेदादिषु अनन्यमनस्कतयाऽस्खलिताध्ययनक्षमाः अग्र्याः, श्रुताध्ययनसम्पन्नः श्रोत्रियः, ब्रह्म परमात्मरूपं वेत्तीति ब्रह्मवित्, युवा मध्यमवयस्कः, मन्त्रब्राह्मणात्मवेदार्थमृग्ययजुषोरेकदेशं तद्व्रतं च वेत्तीति वेदार्थवित्,ज्येष्ठसाम सामविशेषः तद्व्रत तद्व्रताचरणेन यस्तदधीते स ज्येष्ठसामा, त्रिमधुः ऋग्वेदैकदेशः, त्रिसुपर्णमृग्यजुषोरेकदेशं तद्व्रतं च, तदादेशेन यस्तदधीते स त्रिसुपर्णकः, ते ब्राह्मणाः श्राद्धसम्पद इति।
तथाऽन्येऽपि ब्राह्मणाः—
“कर्मनिष्ठास्तपोनिष्ठाःपञ्चाग्निर्ब्रह्मचारिणः।
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसम्पदःइति।
अस्यार्थः—कर्मनिष्ठा विहितानुष्ठानपराः, तपोनिष्ठाः तपःशीलाः, सभ्यावसथ्यौ त्रेताग्नयश्च यस्य सन्ति स पञ्चाग्निः।
“ज्ञाननिष्ठा द्विजाः केचिद्रूपनिष्ठास्तथा परे।
तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथैव च॥
ज्ञानोत्कृष्टेषु कव्यानि प्रदेयानि प्रयत्नतः।
न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य सङ्ग्रहः॥
नारिं न मित्रं यं विद्यात्तं श्राद्धे भोजयेद् द्विजम्”इति।
तस्मादरिमित्रव्यतिरिक्तं पूर्वोक्तलक्षणलक्षितं ब्राह्मणं श्राद्धे नियोजयेदिति। आपस्तम्बः—ब्राह्मणान् भोजयेत् ब्रह्मविदो योनि–गोत्र–मन्त्रा–ऽन्तेवास्यसम्बद्धानिति। अयमर्थः—“योनिसम्बद्धा मातुलादयः, गोत्रसम्बद्धाः सपिण्डादयः, मन्त्रसम्बद्धा वेदाध्यापकादयः, अन्तेवासिसम्बद्धाः शिल्पशास्त्रोपाध्यायाः। एवं विधसम्बन्धव्यतिरिक्तान् गृहस्थप्रमुखान् ब्राह्मणान् भोजयेत्।
तथा पुलस्त्यः—
“साङ्गास्तु चतुरो वेदान् अधीते संस्कृतोऽर्थवित्।
जम्मवाक्कर्मसंयुक्त स श्राद्धे प्रथमो मतः॥
तादृशादयुताच्छ्रेयान् एको योगसमाश्रयः”इति।
मनुः—
“एषामन्यतमो यस्तु भुञ्जीत श्राद्धमर्चितः।
पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी॥
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः।
मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम्।
दौहित्रं विट्पतिं बन्धून् ऋत्विजं चापि भोजयेत्” इति।
अत्र हि एवं व्यवस्था–एको हि प्रथमो मुख्यः कल्पः, अपरस्त्वनुकल्पः, तत्र पूर्वाभिहितवेदपारगादिर्विप्रवर्गः प्रथमः श्रेष्ठः कल्पः, द्वितीयस्तु प्रथमादधमः कल्पः स एवानुकल्प इत्युच्यते।
तदुक्तममरकोशे जिनेन्द्रेण—
“मुख्यः स्यात्प्रथमः कल्पस्त्वनु कल्पस्तु मध्यमः”इति।
मातामह मातुलं चेत्यादि वक्ष्यमाणः प्रथमकल्पाभावे सर्वकालं महद्भिरनुष्ठीयते। गुरुरत्र विद्योपदेष्टा न पिता। विट्पतिर्जामाता अतिथिर्वातदाह देवस्वामी—अतिथिरित्यन्ये वदन्तीति। यत्र प्रथमकल्पस्य सम्भवस्तत्राननुष्ठानं द्वितीयस्येति।
तदाह—
“प्रभुः प्रथमकल्पस्य योऽनुकल्पे तु वर्तते।
न साम्परायिक तस्य दुर्मतेर्विद्यते फलम्”इति।
प्रभुः सम्पादने शक्तः, सम्पराय उत्तरः कालः, तथा च कोषः—“युद्धायत्योः संपराय”इति। ततश्च पूर्वोक्तकल्पाभावे भागिनेयादयो ग्राह्याः। तदुक्त मिताक्षरायाम्—एते स्वस्त्रीयादयः पूर्वोक्तश्रोत्रियाद्यभावे वेदितव्या इति। विष्णुपुराणेऽप्यनुकल्प उक्तः—
“पितृव्यगुरुदौहित्रान् ऋत्विक्स्वस्त्रियमातुलान्।
पूजयेद्धव्यकव्येन”इति।
वायुपुराणे—
“वृद्धानतिथिबान्धवान्” इति। “स्वस्त्रियो भागिनेयः स्यादि”ति। पितृष्वसृजं च हव्येन पूजयेत्, इतरांश्च गुरुदौहित्रादीन् कव्येनेति।
ननु—
“न स गोत्रे हविर्दद्याद्यथा कन्या तथा हविः”इत्यादिभिः सगोत्रे श्राद्धनिषेधात् कथं पितृव्योपादानम्। सत्यमेवैतदज्ञानम्, न त्वभिज्ञानाम्। तथा हि—षड्भ्यः पुरुषेभ्योऽर्वागयं निषेधो न सार्वत्रिकः।
“षड्भ्यस्तु पुरुषेभ्योऽर्वागश्राद्धेयास्तु गोत्रिणः।
षड्भ्यस्तु परतो भोज्याः श्राद्धे स्युर्गोत्रजा अपि”इति स्मरणात्।
अनेनैवाभिप्रायेण तरप्प्रत्ययरहितत्वेन गुणवन्मात्रत्वमादाय भोज्या गुणवन्त इति गौतमोऽपि स्मृतवान्। ततश्च षट् पुरुषोत्पन्नसपिण्डानां पित्राद्युद्देशेन भोजनीयत्वमसम्मतम्, नतु वैश्वदेवोद्देशेनापि।
तथा—
“पिता पितामहो भ्राता पुत्रो वाऽथ सपिण्डकः।
न परस्मरमर्घ्याःस्युर्न श्राद्धे ऋत्विजस्तथा॥
ऋत्विक् पुत्रादयोऽप्येते सकुल्या ब्राह्मणा द्विजाः।
वैश्वदेवे नियोक्तव्या यद्येते गुणवत्तराः”
इति हव्येन पूजनं तेनैव विहितम्। गुणवांश्चेद् ब्राह्मणो न लभ्यते तदा सोदर्योऽपि भोजयितव्यः। तथा चापस्तम्ब—“एवं च गुणवदवलाभे सोदर्योऽपि भोजयितव्य”इति। तस्याप्ययमेवाभिप्रायो लक्ष्यते, वैश्वदैविकब्राह्मणस्थान एवेति, अन्यथा वाक्यानर्थक्यापत्तेः
विष्णुपुराणे—
“पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः।
मातृपक्षस्य पिण्डेन सम्बन्धो यो जलेन वा॥
कुलद्वयेऽपि चोत्सन्ने स्त्रीभिः कार्या क्रिया नृप।
सपिण्डान्तर्गते वाऽपि कार्याः प्रेतस्य याः क्रियाः”इति।
किञ्च गुणवत्तरत्वात् उक्तहेतुना षट्पुरुषाधिकसगोत्राणामश्राद्धार्हत्वाङ्गीक्रियमाणे षड्भ्यस्तु परतो भोज्याइति षट्पुरुषोर्ध्वपुरुषोत्पन्नसगोत्राणा गुणवत्तरत्वाभावेऽपि श्राद्धेयतार्था प्राप्नोति, सत्यं, सगोत्रा ये श्राद्धेयास्ते गुणवत्तरत्वेन वा समन्विताःश्राद्धे ग्राह्याः, ये तु सगोत्रा अश्राद्धेयाः, ते गुणवत्वेन विहीना अपि इत्यतितरां विरुद्धं स्यात्। अतः षट्पुरुषेभ्योऽर्वाक् सगोत्राः पैतृकश्राद्धे नार्हाः, वैश्वदेविके त्वर्हाः, ततः परे तु पैतृकेऽप्यर्हाइत्यत्र वाक्यार्थः।
इदं च सर्वमपि गोत्रापेक्षयाऽधिकगुणानां समगुणानां वा सगोत्राणामभावे द्रष्टव्यम्। तथा चापस्तम्ब—“भोजयेद् ब्राह्मणान् योनिगोत्रादेवासम्बद्धान् गुणहान्या तु परेषा समुदेतः सोदर्योऽपि भोजयितव्य”इति।
अत्र योनिर्गोत्रमिति भावप्रत्ययोऽन्तर्भूतः प्रत्येतव्यः यथा—*“द्वयेकयोर्द्विवचनैकवचने”*इति पाणिनीयस्मरणे द्वित्वैकत्वयोरिति,
तस्मात्सगोत्रा अप्यामन्त्रणीयाः।
“व्रतस्थमपि दौहित्रं श्राद्धे यत्ने न भोजयेत्” इति।
व्रतमात्रस्थमध्ययनरहितमिति।
“तस्मान्नातिक्रमेत्प्राज्ञो ब्राह्मणान् प्रातिवेशिकान्।
सम्बन्धिनस्तथा सर्वान् दौहित्रं विट्पति तथा॥
भागिनेय विशेषेण तथा बन्धुं खगाधिप।
नातिक्रमेन्नरस्त्वेतान् अमूर्खानपि गोपते॥
अतिक्रम्य महारौद्रं रौवं नरकं व्रजेत्।
अमूर्खानपीत्यपि शब्दः पादपूरणार्थः।
“सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत्।
भोजने चैव दाने च हन्यात् त्रिपुरुषं कुलम्” इति॥
यस्तु सन्निकृष्टोऽनधीयानस्तदतिक्रमेऽपि न दोषः। तदुक्त तत्रैव—
“यस्य त्वेकगृहे मूर्खोदूरस्थश्च गुणान्वितः।
गुणान्विताय दातव्यं नास्ति मूर्खे व्यतिक्रमः”इति।
व्यतिक्रमो नास्ति व्यतिक्रमदोषो नास्तीत्यर्थः।
मूर्खग्रहण निर्गुणस्याप्युपलक्षणार्थम्।
अथ वर्ज्या निरूप्यन्ते।
<MISSING_FIG href="../books_images/1687538865.jpg"/>
तत्र—
“ये स्तेनाः पतिताः क्लीबाये च नास्तिकवृत्तयः।
तान् हव्यकव्ययोर्विप्रान् अनर्हान्मनुरब्रवीत्॥
जटिलं वाऽनधीयानं दुर्बलं कितवं तथा।
याजयन्ति च ये पूगान् ताँश्च श्राद्धे न भोजयेत्॥
चिकित्सकान्देवलकान्मासविक्रयिणस्तथा।
विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः॥
भृतकाध्यापको यश्च भृतकाध्यापितस्तथा।
शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ॥
अकारणात् परित्यक्ता मातापित्रोर्गुरोस्तथा।
ब्राह्मैर्योनैश्च सम्बन्धैः संयोगं पतितैर्गतः॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी।
समुद्रयायी वन्दी च तैलिकः कूटकारकः॥
पित्रा विवदमानश्चकितवो मद्यपस्तथा।
पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी।
उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव च॥
हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति।
पक्षिणां पोषको यश्चयुद्धाचार्यस्तथैव च॥
प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः।
स्रोतसां भेदको यश्च तेषां चावरणे रतः॥
हिस्रो वृषलवृत्तिश्च गणाना चैव याजकः।
महारोगयुतश्चैव कृषिजीवी तथैव च”इति।
महारोगा देवलेनोक्ताः—
“उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासो मधुमेहो भगन्दरो महोदरोऽश्मरी चेत्यष्टौ पापरोगा”इति।
विष्णु—तस्कर—कितवाजपाल—गण—गणिका शूद्रप्रेष्याऽगम्यागामि—परिवेत्तृ—परिवित्ति—पर्याहित— पर्याधातृ— पौनर्भवान्ध— बधिर— चारण— क्लीवावकीर्णि— वार्धुषिक—कूटसाक्षि—नास्तिक—वृषलीपति—त्यक्तात्मोत्सृष्टाग्निसोमविक्रय्यविक्रेयविक्रेतृ—पौस्निक—कथक—कुण्डाशि—कुण्डगोलक—यन्त्रकार—काण्ड- पृष्ठ—दुश्चर्म—चण्ड—विद्धशिश्नदेवलक—षण्ढाऽऽरूढपतित—प्रायोत्थित—कुनखि—किलाशि—श्यावदन्त—वणिक्—शिल्पवादित्र नृत्यगीततालोपजीवि—मूल्य सांवत्सरिक—माहिषिक—विविधरागवशाद् वृथाकषायधारि—वृथाजटिल—द्व्यङ्गुलातीतकर्ण—विध्दकर्ण—हन्तृ—आश्रमबाह्य हीनातिरिक्ताङ्ग—वृथालिङ्गधारि—कन्यादूष्यभिशस्त—मित्रध्रुक्—पिशुनः सोमविक्रयी—परिविन्दक—मातापितृगुरुत्यागीकुण्डा- शी वृषलकर्मा—दुष्टो निन्दितः कुनखी—नास्तिकवृत्तिर्गृहोपपतिकोऽगारदाही गरदः पितृविवदमानो मित्रद्रोही—द्यूतवृत्तिर्दिधिषूपतिर्भ्रामरी—गण्डमाली पिशुनोन्मत्त गृहसंविशक—दूत—वृक्षारोपक—श्वक्रीडन् श्येनजीविन्—गणयाजक—कृषिजीवि—शिल्पजीवि—खल्वाटकः कपिलकेशः कपिलाक्ष इत्यादयःश्राद्धादौ वर्ज्या इति।
ननु गुणवतां विधानेन परिशेषादितरेषां प्रत्याख्यानस्य कर्तुंशक्यत्वात् किमर्थंवर्ज्यानां परिगणना, सत्यं, उक्तलक्षणलक्षिताभावे यस्य कस्यापि प्राप्तौ प्रतिषिद्धवर्ज ग्राह्या इत्येतदर्थपार्थक्येन वर्ज्यानामुपसङ्ग्रहणमिति न दोषः। तथा च ब्रह्माण्डे—
“श्राद्धार्द्दब्राह्मणायोगे निषिद्धा न कथञ्चन।
निमन्त्रिणीयाः श्राद्धेषु सम्यक्फलमभीप्सते”ति।
एते ब्राह्मणाः प्रागेव सम्यक्परीक्ष्य पूर्वेद्युर्निमन्त्रणीयाः।“श्राद्धमाचरिष्ये इति पूर्वेद्युर्निमन्त्रये”दिति हारीतस्मरणात्। असम्भवे परेद्युर्वा निमन्त्रयीत। तथोक्तं कूर्मेण—
“श्वो भविष्यति मे श्राद्धं श्राद्धकर्मण्युपस्थिते।
निमन्त्रयीत त्र्यवरान् सम्यग्विप्रान्यथोदितान्”इति।
निमन्त्रणरीतिः प्रचेतसोक्ता—
“कृतापसव्यः पूर्वेद्युः पितॄन् पूर्व निमन्त्रयेत्।
भवद्भिः पितृकार्यंनः सम्पाद्यं च प्रसीदत॥
सव्येन वैश्वदेवार्थंप्रणिपत्य निमन्त्रयेत्”इति।
इति श्रीमल्लक्ष्मीनृसिंहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डनसमस्त—
यवनाधीश्वर श्रीनिजामशाह समस्तसाम्राज्यधुरन्धरश्रीमन्महाराजाधिराज
श्रीदलपतिराजविरचिते श्रीनृसिंहप्रसादे
श्राद्धसारे पात्रनिरूपणम्।
<MISSING_FIG href="../books_images/1687583864.png"/>
अथ श्राद्धपाकनिर्णयः।
<MISSING_FIG href="../books_images/1687538865.jpg"/>
तदर्थंद्रव्यनिर्णयः प्रसूयते। तत्र देवलः—
“तथैव यन्त्रितो दाता प्रातः स्नात्वा सहाम्बरः।
आरभेत नवैः पात्रैरनारम्भं च बान्धवैः”इति।
तदाहोशनाः—“गोमयोदकैर्भूमिभाजनभाण्डशौचं कुर्यादि”ति। गोमयलेपेन महानसभूमिशुद्धि कुर्यात्। उदकैरभ्युक्षणाहरणप्रकरणोक्तप्रकारेणाहृतैः भाजनानां गोधूमपिष्टादिप्रक्षेपणार्थानां तण्डुलादिपाकार्थानां भाण्डाना च शुद्धि कुर्यादिति। महानसभूश्चसंस्कार्या।
“तिलाश्च विकिरेत् तत्र सर्वतो बन्धयेदजान्।
असुरोपहतं सर्व तिलैः शुद्ध्यत्यजेन च”इति।
“ततोऽन्नं बहुसंस्कार नैकव्यञ्जनभक्ष्यवत्।
चोष्यपेयसमृद्धं च यथाशक्त्युपकल्पयेत्” इति।
अनेकव्यञ्जनभक्ष्योपेतं, व्यज्यतेऽनेनान्नस्य रस इति व्यञ्जनमत्र सूपशाकादिक, यस्य सारांश एव सेव्यो न द्रव्यांशः, यथा इक्षुकाण्डान्, तच्चोष्यम्। पानोपयोगिचिन्ताफलरसादौ गुडादिमधुररसद्रव्यसम्मेलनेन क्रियमाणं पेयम्। च शब्दात्सुसमृद्धं विकृतभूतमन्नादिकं प्रकृतिभूतविद्याद्यापेक्षम्।
अत्र यदपेक्षते तदवोचत् प्रचेताः—
“कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्नवशालयः।
महायवा व्रीहियवास्तथैव च मधूलिकाः॥
कृष्णाः श्वेताश्च लोहाश्च ग्राह्याः स्युः श्राद्धकर्गणि” इति।
तथाच मनुः—
“तिलैर्व्रीहियवैर्माषैरद्भिर्मूलैः फलेन वा।
दत्तेन मासं तृप्यन्ति विधिवत्पितरो नृणाम्” (३२६८) इति।
व्रीहियवाश्च यवविशेषाः। मधूलिका धान्यविशेषः। कृष्णस्थलजा व्रीहयः।
“द्वौमासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु।
औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै॥
षण्मासांश्छागमांसेन पार्षतेनेह सप्त वै।
अष्टावेणास्य मांसेन रौरवेणनवैव तु॥
दशमासास्तु तृप्यन्ति वराहमहिषामिषैः।
शशकूर्मयोस्तु मांसेन मासानेकादशैव तु॥
संवत्सरन्तु गव्येन पयसा पायसेन च।
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवाषिकी॥
कालशाकं महाशल्काः खड्गो लोहामिषं मधु।
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः" इति।
हारिणं गौरमृगमांसम्। औरभ्रं=मेषमांसम्। शाकुनं भोज्य पक्षिमांसम्, पृषतश्चित्रमृगस्तस्य मांस पार्षतम्। एणः=कृष्णमृगः, तस्य मांसमैणम्। रुर्रोमांसं रौरवम्। बहुविशेषाण्डो मृगविशेषो रुरुः। गण्डकः खड्गः। वार्ध्रीणसस्य विष्णुधर्मोत्तरे लक्षणमुक्तम्। तथा हि—
“त्रिःपिबन्त्विद्रियक्षीणं श्वेतं वृद्धमजापतिम्।
वार्ध्रीणसन्तु त प्राहुर्याज्ञिकाः पितृकर्मसु”इति।
केचिदन्यथा वदन्ति—
“कृष्णग्रीवो रक्तशिराः श्वेतपुच्छो विहङ्गमः।
स वै वार्ध्रीणसः प्रोक्त इत्येषा नैगमी श्रुतिः” इति।
अथवैवम्—
“त्रिःपिबन्त्विद्रियक्षीणं यूथस्याग्रचरं तथा।
रक्तवर्णेन राजेन्द्र छागं वार्ध्रीणसं विदुः”इति।
तथा मार्कण्डेय—
“यवव्रीहिसगोधूमास्तिलमुद्गाः ससर्षपाः।
प्रियङ्गवः कोविदारा निष्पावाश्चात्र शोभनाः”इति।
अत्र गोधूमास्त्वावश्यकाः—
“अगोधूमन्तु यच्छाद्धं कृतमप्यकृतं भवेत्”
इत्यत्रिस्मरणात्।
वायुपुराणे—
“बिल्वामलकमृद्वीकं पनसाम्रातदाडिमम्।
पीयुः कालेयकाक्षोटखर्जूराणां फलानि च॥
कसेरुःकोविदारश्चनालकन्दस्तथा विसम्।
कालेयं कालशाकञ्च सुनिषण्णं सुवर्चला॥
कट्फलं कौङ्कणी द्राक्षा लकुचं मोचमेव च।
कर्कन्धुश्च कचोरश्चतिन्दुकं मधुसाह्वयम्॥
वैकङ्कतं नारिकेलं शृङ्गाटकपरूसकम्।
पिप्पली मरिचं चैव पटोलं बृहतीफलम्॥
सुगन्धि शतकन्दं च कलायाः सर्व एव च।
एवमादीनि चान्यानि स्वादूनि मधुराणि च॥
नागरं चात्र वै देयं दीर्घमूलकमेव चे”ति।
मृद्वीका द्राक्षा “मृद्वीका गोस्तनीद्राक्षे”त्यमरकोशः [२.५]।
आम्रातकमाम्रवृक्षसदृशः पीतनाख्यो वृक्षः।“पीतन—कपीतनौ। आम्रातक”इति तत्रैव (अ. २—४—२७)।
अक्षोटःगिरिसम्भवः, पीयुः करारुजलकन्दो भद्रमुस्ताख्यः। कालेयको दारुहहिद्रा, सुनिषण्णं वितुन्नाख्यं शाकम्। “वितुन्नं सुनिषण्णक”मिति शाकप्रक्रमेऽमरकोश उक्तवान्। कट्फलो लघु श्रीपर्णाख्यो वृक्षः। श्रीपर्णिका कुमुदिकेति। कौङ्किणी कोङ्कणदेश प्रभवा द्राक्षा, लकुचो जंबीरफलतुल्यः सर्वफलवान् गुल्मविशेषः। मोचं कदलीफलं, कर्कन्धुर्वदरी, तिन्दुकः शितिसारकाख्यो वृक्षः।
“तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके”इत्यमरकोशः। [२.५]
शृङ्गाटकं जलजं त्रिकण्टकं, बृहती कण्टकारिका।
“निदिग्धिका स्पृशी व्याघ्रा बृहती कण्टकारिके"त्यमरः। [२।५] तस्याःफलं बृहतीफलम्। बिल्वामलकादीनि प्रसिद्धानि।
तथा ब्रह्माण्डपुराणे—
प्रसाधिका प्रियङ्ग्युश्च ग्राह्याःस्युः श्राद्धकर्मणि।
एतान्यपि समानानि श्यामाकानां गुणैः स्तुतैः॥
कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्नवशालयः।
महायवा व्रीहियवास्तथैव च मधूलिकाः॥
कृष्णाः श्वेताश्चलोहाश्च ग्राह्याः स्युः श्राद्धकर्मणि।
राजमाषास्तथैवान्ये विवर्ज्याः स्युः प्रयत्नतः॥
मसूराः शतपुष्पाश्च कुसुम्भं श्रीनिकेतनम्।
वर्ज्याश्चातियवा नित्यं तथा दुर्लभका यवाः॥
तथा ब्रह्माण्डे—
“सैन्धवं लवणं चैव तथा मानससम्भवम्।
पवित्रे परमे ह्येते प्रत्यक्षमपि नित्यशः”इति।
तथा आदित्यपुराणे—
“मधुकं रामठं चैव कर्पूरं मरिर्चंगुडम्।
श्राद्धकर्मणि शस्तानि सैन्धव त्रपुसं तथे”ति॥
अत्र मार्कण्डेयः—
“गोधूमैरिक्षुभिर्मुद्गैः सतीनैः कनकैरपि।
श्राद्धेषु दत्तैः प्रीयन्ते मासमेकं पितामहाः॥
विदार्यैस्तु परूषैस्तु विसैः शृङ्गाटकैस्तथा।
कम्बुकैश्चतथा कन्दैः कर्कन्धूबदरैरपि॥
पालेवतैरारुकैश्चअक्षोटैपनसैस्तथा।
काकोल्या क्षीरकाकोल्या तथा पिण्डालुकैः शुभैः॥
लाजाभिश्च सधानाभिस्त्रपुसैश्चारु—चिर्भटैः।
सर्षपाराजशाकाभ्यामिङ्गुदै राजजम्बुभिः॥
प्रियालामलकैर्मुख्यैः फल्गुभिश्च विलम्बकैः।
वंशाङ्कुरैस्तालकन्दैश्चुक्रिकाक्षीरिकाधवैः॥
वोचैःसमोचैर्लकुचैः तथा वै बीजपूरकैः।
मुञ्जातकैः पद्मफलैः भक्ष्यभोज्यैः सुसंस्कृतैः॥
राजखाण्डवचोष्यैश्च त्रिजातकसमन्विन्वितैः।
दत्तैस्तु मासं प्रीयन्ते श्राद्धेषु पितरो नृणामि”ति।
विदारी कृष्णवर्ण भूकुष्माण्डफलम्। कम्बुकः कर्शराख्यशाकं कन्दः।सूरणःकन्दः, कर्कन्धूः तिक्तकर्कटी, दीर्घछान्दसः। राजशाकं कृष्णसर्षपः, इङ्गुदस्तापसतरुः, फल्गूनि क्षुद्रामलकानि, क्षीरिका फलाध्यक्षं, राजखाण्डवः पानविशेषः, त्रिजातकलवङ्गैलातेजपत्राणि।
कात्यायनः—
“अथ तृप्तिर्ग्राम्याभिरोषधीभिर्मासन्तृप्तिरारण्याभिर्वा तदलाभे मूलफलैरद्भिर्वा सहान्नेनोत्तरास्तर्पयन्ति गोऽउस्रमेषा आलब्धव्याः शेषानि क्रीत्वा लब्ध्वा वा स्वयमृताना वाऽऽहृत्य” इति।
देवल—
“तृप्यन्ति मत्स्यैर्द्वौमासौ त्रीन्मासान् रुरुर्भिर्मृगैः।
शाकुनैश्चतुरो मासान् पञ्च तृप्यन्ति पार्षतैः॥
शशैः षाण्मासिकी तृप्तिः कूर्मैः स्यात्सप्तमासिकी।
अष्टौमासान् वराहेगाण नव तृप्यन्त्यजेन च॥
दश माहिषमांसेन तृप्त्यन्त्येकादशाविकैः”।
तथा—“चतुरः शाकुनैः, पञ्च रौरवेण, षडैणेन, सप्त कार्ष्णेन, अष्टौ वाराहेण; नव मेषमांसेन, दश माहिषेण, एकादश पार्षतेतेन”इति।
तथा—अथाक्षया तृप्तिः बालच्छागो मधु महाशल्कोवर्षासु मघासु च गजच्छायायाञ्चतासूक्तफलाः, उस अनड्वान्, आलब्धाःकृतालम्भा ग्राह्याः।
बौधायन– “अथ सतिलगोधूमशालिमुद्गकृष्णमाषश्यामाकप्रियङ्गव्रीहिविकारांश्च दद्यात्”इति।
“मुन्यन्नानि पयः सोमो मांस यच्चानुपस्कृतम्।
अक्षारलवणं चैव प्रकृत्या हविरुच्यते”इति।
अनुपस्कृतमविकृतं पूतिगन्धादिरहितं मांसम्।
अक्षारलवणस्तु उच्यते—
“तिलमुद्गादृते शैव्यं सस्ये गोधूमकोद्रवो।
धान्यकं देवधान्यं च शमीधान्यं तथैक्षवम्॥
स्विन्नधान्य तथा पण्यं मूलं क्षारगणः स्मृतः”इति।
केचित्तु अत्र क्षारशब्देन सज्जीक्षारादिक पठन्ति। तदत्राग्राह्यम्, गोधूमप्रभृतीना महता प्रयासेन श्राद्धद्रव्यत्वेनोपपादितत्वात्, तस्मादन्यत्र सज्जीक्षारादिक लवणमत्र सामुद्रं सैन्धवं वा ग्राह्यं न कृत्रिमं ग्राह्यम्। तथा च ब्रह्माण्डपुराणे—
“सामुद्रं सैन्धवं चैव प्रकृत्या हविरुच्यते।
पवित्रे परमे ह्येते प्रत्यक्षे अपि सर्वदा”इति।
प्रत्यक्षवचनं पवित्रत्वप्रतिपादनार्थ न पुनर्दानाय, दानं चौदनादिना संमिश्रस्यैवेति।
आदित्यपुराणे—
“मधुकं रामठं चैव कर्पूरं मरिचङ्गुडम्।
श्राद्धकर्मणि शस्तानि सैन्धवं त्रिपुसं तथा”इति।
त्रिपुसशब्देन कश्चित्संस्कारको द्रव्यविशेषः। रामठं हिङ्गु।
“यत्किञ्चिन्मधुना मिश्रं गोक्षीरं घृतपायसम्।
दत्तमक्षयमित्याहुः पितरः पूर्वदेवताः”इति।
अत्र दध्यादिकं महता प्रयासेनापि गव्यमेवोपादेयम्, तदसम्भवे माहिषम्।
त्रिकाण्डमण्डन—
“घृतार्थे गोघृतं ग्राह्यं तदभावे तु माहिषम्।
आजं वा तदलाभे स्यात् इति शास्त्रविनिश्चयः”इति।
अजाक्षीरसम्भूतमाजम्। क्षीरादिविषयेऽपि तेनैवोक्तम्—
“यत्र मुख्यं दधि क्षीर तत्रापि तदलाभतः।
अजादेः क्षीरदध्यादि ग्राह्यमेव न संशयः॥
द्वौ मासौ मत्स्यमांसेन त्रीन्मांसान् हारिणेन तु।
औरभ्रेणाथचतुरः शाकुनेनेह पञ्च तु॥
षण्मासान् मृगमांसेन पार्षतेनेह सप्त वै।
अष्टावैणेन मासेन रौरवेण नवैन तु॥
दश मासांस्तु तृप्यन्ति वराहमहिषामिषैः।
शशकच्छपयोर्मोसं मासानेकादशैव तु॥
संवत्सरं तु गव्येन पयसा पायसेन वा।
वार्धिणसस्य मांसेन तृप्तिर्द्वादश वार्षिकी॥
कालशाकं महाशल्काः खड्गं लोहामिषं मधु।
आन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः”इति।
वार्धिणसो रक्तवर्णवृद्धछागः।
तदुक्तं विष्णुधर्मोत्तरे—
“त्रिःपिबं त्विन्द्रियक्षीण यूथस्याग्रसरं तथा।
रक्तवर्णंतु राजेन्द्र छागं वाध्रीणसं विदु”रिति।
महाशल्को मत्स्यविशेषः। खङ्गः खङ्गमृगलोहो लोहितवर्णछागः।
याज्ञवल्क्यः—
“खड्गामिषं महाशल्क मधु मुन्यन्नमेव च।
लोहामिषं महाशाक मासं वार्ध्रीणसस्य च॥
यद्ददाति गयास्थश्च सर्वमानन्त्यमश्नुते।
तथा वर्षात्रयोदश्यां मघासु च विशेषतः”इति।
मधु माक्षिकम्। मुन्यन्न सर्वमारण्यंनीवारादि। लोहस्तु छागः, तदामिषं लोहामिषम्। महाशाकं कालशाकम्। स्पष्टमन्यत्। अत्र यद्यपि मांसमध्वादीनि सर्ववर्णानां सामान्येन श्राद्ध योग्यानि दर्शितानि तथाऽपि पुलस्त्योक्ता व्यवस्था द्रष्टव्या—
“मुन्यन्नं ब्राह्मणस्योक्त मास क्षत्रियवैश्ययोः।
मधुप्रधानं शूद्रस्य सर्वेषामविरोधि यत्”॥ इति स्मरणात्।
अयं हि स्मृत्यर्थ—नीवारादि मुन्यन्नं यच्छ्राद्धयोग्यमभिहितं तद् ब्राह्मणस्य प्रधान समग्रफलदम्, यच्च मांस तत् क्षत्रियवैश्ययोः प्रधानं, यत् क्षौद्रमुक्तं तद् शूद्रस्य, एतत् त्रितयव्यतिरिक्त यदविरोधि चाप्रतिषिद्ध वस्तु शाकादि, यच्च विहितं हविष्यं कालशाकादि, तत्सर्वेषां सर्वफलदं नतु ब्राह्मणस्य नीवारादि द्रव्यमेव प्रधान, क्षत्रियवैश्ययोस्तु मासं प्रधानमित्युक्तं, तत्कथं, यतो ह्यविशेषेण मांसं श्राद्धादौविहितं तद् ब्राह्मणव्यतिरिक्तानामेवेदमिति कश्चिन्नियमहेतुरस्ति येनेदृशी व्यवस्था भवेत्, अत्राभिधीयते सत्यमस्ति बहुषु ग्रन्थेषु श्राद्धादौ मांसोपादानं तद्यत्र भक्ष्यतया प्रवृत्तिस्तद्विषयमेवेत्यवगन्तव्यं, न सर्वविषयं, लोकगर्हित्वात्।
तदाह याज्ञवल्क्यः—
“कर्मणा मनसा वाचा यत्नाद् धर्मंसमाचरेत्।
अस्वर्ग्य लोकविद्विष्टं धर्ममप्याचरेन्न तु”इति॥
ततः श्राद्धे मांसविधानं क्षत्रियादिविषयं ज्ञेयम्।
“विना मांसेन यच्छ्राद्धं कृतमप्यकृतं भवेत्।
तृप्यन्ति पितरो यस्मादलाभे पायसादय"
इति वचनं क्षत्रियादिविषय ज्ञेयम् ।
तथाऽत्र पितृगीता गाथा भवति—
“कालशाकं महाशल्कं मांसं वार्ध्रीणसस्य च।
विषाणवर्ज्या ये खङ्गा आसूर्यं तान् लभेमहि” इति।
यमः—
“भक्ष्यं भोज्यं तथा पेयं यत्किचित् पच्यते गृहे।
न भोक्तव्य पितॄणां तदनिवेद्य कथंचन॥
यद्यद्ददाति विधिवत्सम्यक् श्रद्धासमन्वितः।
तत्तत्पितॄणां भवति परमं प्रियमेव हि॥
यवव्रीहिसगोधूमतिला मुद्गाः ससर्षपाः।
प्रियङ्गवः कोविदारा निष्पावाश्चात्र शोभनाः॥
अन्नमिष्टं हविष्यं च दद्यादक्रोधनोऽत्वरः”इति।
अन्नं—भक्ष्य—भोज्य—लेह्य—चोष्य—पेयात्मकं पञ्चविधं दृष्टम्। यद् ब्राह्मणाय कर्त्रे पितृभ्यो रुचितं तत्तुल्यमानं हविष्यमनिषिद्धं च श्राद्धहविर्योग्यम्। व्रीहि—शालि—यव—गोधूम—मुद्ग—माष—मुन्यन्न—कालशाक—महाशल्क—एला—शुण्ठी—मरिच—हिङ्गु—गुड—शर्करा—कर्पूर—सैन्धव—साम्भर—पनस—नारिकेल—कदली—वदर—गव्य—पयो—दधि—घृत—पायस—मधु—मास प्रभृति स्मृत्यन्तरप्रसिद्धं वेदितव्यम्। पनसमिति कौङ्कणदेशप्रसिद्धः फलविशेषः। मुन्यन्नमिति यदफालकृष्टश्यामाकनीवारादि तदभिधीयते। तच्च वानप्रस्थप्रसिद्धम्।
हविष्यमित्यनेनैवायोग्यस्य स्मृत्यन्तरप्रसिद्धकोद्रवमसूरचणक कुलित्थ पुलक निष्पाव राजमाषवार्ताक बृहतीद्वयोदकी वंशाङ्कुर पिप्पली वचा शतपुष्पोमा विहल कृत्रिमलवण माहिषचमरीक्षीर दधि घृत कवकादीनि निषिद्धानि। यान्यत्राप्रसिद्धानि द्रव्याणि तानि वैद्यकशास्त्रे द्रष्टव्यानि। क्रोधहेतुसम्भवेऽप्यक्रोधनः, अत्वरोऽव्यग्रः। देयमातृप्तेः शब्दात् यत् किचिदुच्छिष्यते तद्दद्यात्। उच्छेषणस्य दासवर्गभागित्वात्। उच्छेषणं ब्राह्मणेषु विसर्जितेषु निक्षेप्यं भूमौ।
“उच्छेषणं भूमिगतमजिह्मस्याशठस्य च।
दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते”इति मनुः (३२४६)
अथ श्राद्धे वर्ज्यद्रव्याणि।
तत्र व्यासः—
“अश्राद्धेपानि धान्यानि कोद्रबाः पुलकास्तथा।
हिङ्गुर्द्रव्येषु शाकेषु कालानलशुभास्तथे”ति॥
कोद्रवाःकोरदूषकाः। पुलकाः, छान्दसोऽत्र मध्याक्षरदीर्घाभावः। संस्कारद्रव्येषु हिङगुद्रव्यमश्राद्धेयम्। कालः कृष्णाञ्जनः, अनलश्चित्रकः, शुभाः शुम्भाख्यः शाकविशेषः। एतानि शाकादीनि न श्राद्धेयानि।
ननु—
“मधुक रामठ चैत्र कर्पूर मरीचं गुडम्।
इत्यादित्यपुराणे हिङ्गु द्रव्यस्य श्राद्धेयता अत्राश्राद्धेयता अतो विरोधः परस्परम्। अत्राभिधीयते—अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णातीति वाक्यविहितयोः षोडशिग्रहणाग्रहणयोरिबविकल्प इष्यते।
तथा विष्णुपुराणे—
“श्राद्धे न देया पालड्क्या तथा निष्पावकोद्रवौ।
मसूर क्षार वार्ताक कुलत्थ शप शिग्रवः”इति॥
क्षारो यव क्षारादिः। भरद्वाज—
“मुद्गाढकोमाषवर्जंविदलानि दद्यात्” इति॥
मुद्गः कृष्णेतरो माषः कुलत्थानुपलक्षयति।
तदुक्तं चतुर्विंशतिमते—
“कोद्रवा राजमाषाश्च कुलत्था वरकास्तथा।
निष्पावाश्व विशेषेण पञ्चैतास्तु विवर्जयेत्॥
यावनालानपि तथा वर्जयन्ति विपश्चितः।
तैलमप्यापदि प्राज्ञाः सप्रयच्छन्ति याज्ञिकाः”इति।
आपदि अन्यवस्त्वभावे यावनाल कञ्जिका तैलैरपि कार्येति। वरका वनमुद्गाः। प्रसिद्धमन्यत्। अत्र निष्पावनिषेधः कृष्णनिष्पावविषयः।
तथा च स्मृतिः—
“कृष्णधान्यानि सर्वाणि वर्जयेच्छाद्धकर्मणी”ति।
निष्पावाश्चात्र शोभना”इति मार्कण्डेयपुराणवचनं तु कृष्णेतरनिष्पावविषयतया व्यवस्थापितं स्यात्।
मरीचिरपि—
“कुलत्थाश्चणकाः श्राद्धे न देयाश्चैव कोद्रवाः।
कटुकानि च सर्वाणि विरसानि तथैव च”इति।
तथा मदालसावाक्यम्—
“यच्चोत्कोचादिना प्राप्तं पतिताद्यदुपार्जितम्।
अन्यायकन्याशुल्कोत्थं द्रव्यं चात्र विवजितम्॥
पित्रर्थ मे प्रयच्छ त्वमित्युक्त्वा यदुपाहृतम्।
वर्जनीयं सदा सद्भिस्तत्तद्वै श्राद्धकर्मणि”इति॥
उत्कोचादिनेत्यत्रादिना स्तेयादिग्रहणम्। गोमिथुनादधिक कन्याशुल्कोमन्यायकन्याशुक्लोत्थमत्र श्राद्धकर्मणि विगर्हितं विवर्जितम्।
तथा—
“वेदविक्रयजं नेष्टं स्त्रिया यच्चार्जितं धनम्।
न देयं पितृदेवेभ्यो यच्च क्लीबादुपाजितम्”इति।
विष्णुपुराणेऽपि ।
“भूस्तृणं सुरसा शिग्रुः पालङ्क्या सृसुकं तथा।
कूष्माण्डालाबुवार्ताककोविदारांश्च वर्जयेत्” इति।
भूस्तृणो भूतृणः छान्दसत्वात् सुडागमः।
उशना अपि—
“नालिका शणछत्राककुसुम्भालाबुविड्भवान्।
कुम्भीकम्बुकवृन्ताककोविदारांश्च वर्जयेत्”इति॥
“वर्जयेद् गृञ्जन श्राद्धे काञ्जिक पिण्डमूलकम्।
करञ्जंयेऽपि चान्ये वै रसगन्धोत्कटास्तथा”इति।
दीर्घानाला नालिका अग्रभागेऽपल्लवा। शणछत्राकं शिलीन्ध्रः, कुम्भी श्रीपणिका। कम्बुक वृन्तालाबुकम्। गृञ्जनं विषलिप्तशस्त्रहतं मृगमांसम्।
तदुक्तम्—
“विषलिप्तेन शस्त्रेण मृगो यः परिहन्यते।
अभक्ष्य तस्य तन्मांस तद्धि वै गृञ्जनं स्मृतम्” इति।
अथवा रक्तनाल गृञ्जनम्।
तदुक्त सुश्रुते—
“रक्तनालं गृञ्जनकमि”ति। रक्तकन्दविशेषो गृञ्जनम्। स च पलाण्डुविशेषः। इदं गृञ्जनं सर्वथाऽभक्ष्यमेव।
तथा पुराणे—
“लशुनं गृञ्जनं चैव पलाण्डुं पिण्डमूलकम्।
कलम्बान्यपि चान्यानि हीनानि रसगन्धतः”इति।
केचित्तु शब्दार्थानभिज्ञा गृञ्जनभ्रान्त्या गाजरमभक्ष्यं मन्यन्ते तद्विचारासहम्, भक्ष्यमूलेषु गाजरस्य पाठात्।
तदुक्त ब्रह्माण्डपुराणे—
“वैकङ्कतं नारिकेलं शृङ्गाटकपरूषकौ।
पिप्पली मरीचं चैव कट्पलं बृहतीफलम्॥
नारङ्ग चात्र वै देयं दीर्घमूलकमेव चे”ति।
तच्च मूलकं चतुर्विधम्। यदवोचद्धन्वन्तरि—
श्राद्धसारे हविर्द्रव्यनिर्णयः
स्वप्रणीते आयुर्वेद निघण्टौ—
“मूलकं हरिपर्णच मूलिकाक्षारसेवितम्।
नीलकन्दं महाकन्द रुचिष्य हस्तिदन्तकम्॥
चाणक्य मूलकं चान्यच्छालेय मरुसभवम्।
शाखामर्कटकं मिश्रं विष्णुगुप्तमनं तथा॥
चतुर्थमूलिकं चान्यन्निर्दिष्टं तद्धि गाजरम्।
पीतकं मधुरं स्वादु तच्च नारङ्गवर्णकमि”ति॥
नन्वेतदेव गृञ्जनमिति चेन्मैवम्। सुश्रुतकारादिभिर्गाजरात् गृञ्जनस्य भेदेनाभिहितत्वात्। गृञ्जनं प्रकृत्य—
“कन्दो महौषध, महाकन्दोऽन्यो, गृञ्जनो दीर्घपत्रकः”इति।
“पलाण्डुर्यवनेष्टश्च लाक्षाको द्रुद्रुमः स्मृतः।
लशुनं दीर्घपत्रश्च पिच्छगन्धो महौषधम्॥
करण्यश्च पलाण्डुश्च लतार्कश्च परारिका।
गृञ्जनोयवनेष्टश्च पलाण्डोर्दश जातयः”इति॥
तथाऽन्यत्र—
“तीक्ष्णो गृञ्जनको ग्राही पितॄणां हितकृन्न सः”इति।
तथा—
“वर्णगन्धरसैस्तुल्यो गार्जारस्तु पलाण्डुना।
पर्णाग्रमूलसूक्ष्मत्वात् भिद्यतेऽसौ पलाण्डुत”इति॥
ततः प्रद्वेषमात्रेण गाजरगृञ्जनयोरभेद मन्यन्ते। राजनिघण्टुसुश्रुतादिषु तु महान् भेदः।
तथोक्तंवाक्यमीमांसायाम्—“रक्तनालं गृञ्जनकमि”ति सुश्रुतोक्तनालविषये वाचकस्य गृञ्जनशद्वस्यान्धपरम्परया मन्वादिना गाजरमभक्ष्यं मन्यन्ते। उक्तं चैतद् बहु प्रायश्चित्ते।
शखः—
“वर्जयेद् गृञ्जनं श्राद्धे काञ्जिका पिण्डमूलकम्।
कलम्वांयानि चान्यानि हीनानि रसगन्धतः॥
श्राद्धकर्मणि वर्ज्यानि कारणं चात्र वक्ष्यते।
पुरा देवासुरे युद्धे निर्जितस्य बलेः सुरैः॥
ब्राह्मणेभ्यो विस्फुरन्तः पतितास्तोयबिन्दवः।
तत एतानि जातानि वर्ज्यानि श्राद्धकर्मणि॥
पिप्पली मरिचं चैव पटोल बृहतीफम्।
वंशं करीरं सुरसं गर्जकं भूतृणानि च॥
अवेदोक्ताश्च निर्यासा लवणान्यूषराणि च।
श्राद्धकर्मणि वर्ज्याणि याश्च नार्यो रजस्वला”इति।
वंशःकुरीरः वंशाङ्कुरः। सर्जकं श्वेतकुठेरपत्रम्। अवेदोक्ता वेदप्रतिषिद्धा निर्यासा व्रश्चनप्रभवाः। ऊषराणि कृतलवणानि। रजस्वला दिनत्रयार्द्ध्वमनिवृत्तरजस्का।
तथा योगीश्वर—
“नालिका शाणछत्राकं कुसुम्भालाबुविड्भवान्।
कुम्भी कंवुक—वृन्ताकं कोबिदारांश्च वर्जयेत्।
तथा कालप्ररूढानि पुष्पाणि च फलानि च।
विकारवच्च यत् किञ्चित् प्रयत्नेन विवर्जयेत्” इति॥
तथाच स्मृत्यन्तरम्—
“भक्षांश्च दधिनीपमालिङ्गकानि वर्जयेदि”ति ।
तथा भरद्वाजः—
“नक्तोद्धृतं तु यत्तोयं पल्वलाम्वु तथैव च।
स्वल्पाम्बु कूष्माण्डफलं वज्रकन्दश्च पिप्पली॥
तन्दुलीयकशाकं च माहिषं च पयो दधि।
शैम्बिकानि करीराणि कोविदारं गवेधुकम्॥
कुलत्थ शणजीराणि करम्भाणि तथैव च।
अब्जादन्यद्रक्तपुष्प शिग्रुः क्षारस्तथैव च॥
नीरसान्यपि सर्वाणि भक्ष्यभोज्यानि यानि च।
एतानि नैव देयानि सर्वस्मिन् श्राद्धकर्मणि॥
आविकं मार्गमौष्ट्र च सर्वमैकशफं च यत्।
माहिषं चामरं चैव पयो वर्ज्य विजानते”ति॥
शङ्खः—
“कृष्णाजाजी विटं चैव शीतपाकी तथैव च।
वर्जयेल्लवणं सर्व तथा जम्बुफलानि च॥
अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत्।
कृष्णाजाजी कृष्णजीरका, विटं विडाख्यं लवणम्॥
ब्रह्माण्डे—
“आसनारूढमन्नाद्यं पादोपहतमेव च।
अमेध्यान्तर्गतैः सृष्टं शुष्कं पर्युषितं च यत्॥
द्विः स्विन्नं परिदग्धं च तथैवाग्रावलेहितम्।
शर्कराकीटपाषाणैः कचैर्यच्चाप्युपद्रतम्।
पिण्याकगर्भितं चैव तथाऽतिलवणं च यत्॥
सिद्धाः कृताश्च ये भक्ष्याः प्रत्यक्षं लवणीकृताः।
वाग्भावदुष्टाश्च तथा दुष्टैश्चोपहता अपि॥
वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि”इति।
द्विःस्विन्न द्विःपक्वं, परिदग्धमतिदग्धं, अग्रावलेहितं पूर्वमेवान्येनास्वादितं, मथितं विलोडितं निर्जलं दधि। सिद्धा भक्ष्या आमलकादयः। प्रत्यक्षलवणीकृताः भोक्तरि पश्यति लवणेन मिश्रिताः।
याज्ञवल्क्यः—
“सन्धिन्यनिर्दशावत्सागोपयः परिवर्जयेत्।
औष्ट्रमैकशकं स्त्रैणमारण्यकमथाविकमू”इति।
या वृषेण सन्धीयते सा सन्धिनीत्युच्यते। अनिर्दशरात्राः, वत्सरहिताः। तासां गवा पयः परिवर्जयेत्। आरण्यकपयोनिषेधस्तु आरण्यमहिपीपयोव्यतिरिक्तविषयः।
“अनिर्दशाया गोः क्षीरमौष्ट्रमैकशकं तथा।
आविकं सन्धिनीक्षीरं विवत्सायाश्च गोः पयः॥
आरण्यानां च सर्वेषां मृगाणां माहिषं विना”
इति मनुस्मरणात्।
सन्धिनीक्षीरप्रभृति कामतो भक्षयित्वा त्रिरात्रमुपवासः। अकामतश्चेदहोरात्रमुपवासः। तदाह मनुः—
“शेषेषूपवसेदहरि”ति।
तथा ब्राह्मपुराणे—
“घृतात् फेन घृतान्मण्डं पीथृषमथ चार्द्रगाः।
सगुडं मरिचाक्तं तु तथा पर्युषित दधि॥
तथा तक्रमपेयं च नष्टस्वादं च फेनवत्”इति॥
घृतात् फेनं घृतादुद्धृत्य फेनमपेयं, वृतादुद्धृत्य मण्डं यत्तदपेयम्। आर्द्रगोः प्रसवप्रभृत्यनिवृत्तरजस्काया गोः क्षीरमपेयम्। गुडमरिचोपेत पर्युषितं दधि चापेयम्, यच्च बहुदिनस्थित्या दीर्ण स्फुटितं, दीर्घकालस्थित्या यच्च नष्टास्वाद सफेन तच्च न पेयम्।
तथा मनुः—
“लोहितान् वृक्षविर्यासान् व्रश्चनप्रभवांस्तस्था।
शेलुं गव्यं च पीयूषं प्रयत्नेन विवर्जयेदि”ति (१०५)।
लाक्षाप्रभृतयो लोहिता वृक्षनिर्यासा इत्यभिधीयन्ते लोहितव्यवहरणात्। निर्वासतयाऽन्येपि पाटलश्वेतपर्णहिङ्गुकर्पूरप्रभृतयोऽप्रतिषिद्धा इत्यवगम्यते। शेलुः श्लेष्मान्तकः। अभिनवं पयः पीयूषः। “पीयूषोऽभिनवं पयः”इत्युक्तेः। तच्च नवप्रसूतायाः।
तथाच हारीतः—
“न वटप्लक्षोदुम्बरदधित्थनीपमातुलिङ्गानि भक्षयेदि”ति।
तथा भविष्ये—
“लशुनं गृञ्जनं चैव पलाण्डुंकवकानि च।
वार्ताकं नालिकालावु जानीयाज्जातिदूषितमि”ति।
श्वेतकन्दः पलाण्डुविशेषः। नित्यभोजने तु वर्ज्यतया उक्ताः शाकाः।
पैठीनसिः—
“वृन्ताकनालिकापौतीककुसुम्भाश्मन्तकाश्चे”ति।
शाका न भक्ष्याः। वृन्ताकनिषेधस्तु श्वेतवृन्ताकविषयः।
“कण्डूरं श्वेतवृन्ताकं कुम्भाण्डं च विवर्जयेदि”ति
देवलस्मरणात्। कण्डूरा प्रावृषेणी तस्याः फलं कुम्भाण्डं कुम्भवद्वर्त्तुलं वृत्तालाबुसदृशम्।
तथा स्मृत्यन्तरम्—
“कुम्भाण्डं महिषीक्षीरमाढक्यो राजसर्षपाः।
चणका राजमाषाश्च घ्नन्ति श्राद्धमसंशयम्॥
पिण्डालुकं च तुण्डीरं करमर्दश्च कालिका।
कूष्माण्डं बहुबीजानि श्राद्धे दत्वा व्रजत्यधः”॥
करमर्दःसुषेणः, बहुबीजानि बीजपूरादीनि द्रव्याणि नित्यभोजनेऽप्रतिषिद्धान्यपि श्राद्धे न देयानि।
“क्षीरादि माहिषं वर्ज्यमभक्ष्यं तच्च कीर्तितमि”ति षट्त्रिंशन्मतवचनात्।
वशिष्ठः—
“गोमहिष्याजानामनिर्दशाहानां पयो न पेयम्”।
तथा गौतमोऽपि—
“स्यन्दिनी—यमसू—सन्धिनीनां चेति क्षीरं न पेयमि"ति।
स्यन्दिनी स्वयमेव क्षीरं प्रस्यन्दमाना प्रस्यन्दमानयोनिर्वा। यममूःप्रसूतयमला।
बौधायनः—
“क्षीरमपेयं विवत्साया अन्यवत्सायाश्चे”ति।
जात्या विशुद्धमपि कृमिकीटकेशादिसंसर्गमाहारं च वर्जयेत्।
“विशुद्धमपि चाहारं मक्षिकाकृमिजन्तुभिः।
केशरोमनखैर्वापि दूषित परिवर्जयेत्” इति देवलस्मरणात्।
जन्तवोऽत्र मृता विवक्षिताः। केशादिदूषितमन्न पानीय वा सति सम्भवे वर्ज्यम्।असम्भवे केशादिकमुद्धृत्य उदकेन संप्रोक्ष्य हिरण्यसंस्पर्शनं कृत्वा भुञ्जीत। “केशकीटावपन्नं—विगहित श्वभिराघ्रातं प्रेषितं वाऽन्नं पर्युषितं गृध्रचाण्डालद्यवेक्षितमभोज्यमन्यत्र हिरण्योदकैः स्पृष्टादि”ति सुमन्तुस्मरणात्। कष्टायामापद्यपि श्वादिभिरवलोढ न भुञ्जीत—
“अवलीढंच मार्जारध्वाङ्क्षकुक्कुटमूषकैः।
भोजनं नोपभुञ्जीत तदमेध्यं हि सर्वतः”इति देवलस्मरणात्।
अन्यदपि स्मृत्यन्तरे वर्ज्यतयाऽभिहितम्—
“नापणीयमन्नमश्नीयात् न द्विःपकं न पर्युषितम्।
घृतं वा यदि वा तैलं विप्रो नाद्यान्नखच्युतम्॥
यमस्तदशुचि माह तुल्यं गोमांसभक्षणेः।
हस्तदत्ताश्च ये स्नेहा लवण व्यञ्जनानि च॥
दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्विषम्।
तथैकपाणिना दत्तं शूद्रदत्त न भक्षयेत्” इति।
आपणस्थान्नप्रतिषेधो ब्राह्मणादिव्यतिरिक्तविषयः।
तदुक्तं शङ्खेन—
“अपूपाः सक्तवो धानास्तक्रं दधि घृतं मधु।
एतत्पण्येषु भोक्तव्यं सान्द्रलेपो न चेद् भवेत्” इति॥
तथा— पर्युषितमपि किचिद्भोक्तव्यम्। यथा—
“अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसस्थितम्॥
अस्नेहा अपि गोधूमयवगोरसविक्रियाः”इति॥
तथा देवलः—
“अभोज्यं प्राहुराहारं शुक्तं पर्युषितं च यत्।
अपूपा यवगोधूमविकारा मण्डकादयः” ॥
वटका माषादिपिष्टमयाः प्रसिद्धाः। पुनरपूपग्रहणं व्रीह्याद्यपूपविकारोपादानार्थम्। कृसरं तिलोदनम्। स्नेहसंयुक्तं घृतेन दध्ना वाऽभिधारितम्। एतत् सर्वंपर्युषितं शुक्तव्यतिरिक्तं भोज्यम्। शुक्तमत्यम्लम्।
“अत्यम्लं शुक्तमाख्यात निन्दित ब्रह्मवादिभिरि”ति
बृहस्पतिस्मरणात्।
ततश्च शुक्तं स्वभावतो यदनम्लं केवलकालपरिवासेन द्रव्यान्तरसंसर्ग कालपरिवासाभ्यां वा यदम्लीभवति पायसादि न दध्यादि तदभिधीयते। रात्र्यन्तरितं पर्युषितं, ततः शुक्तप्रतिषेधो दध्यादिव्यतिरिक्तविषयः।
“दधि भक्ष्यं च शुक्तेषु सर्व च दधिसम्भबम्।
रुच्यं सपक्वंभक्ष्यं स्यात् सर्वे युक्तमितिस्थितिरि”ति शङ्खस्मरणात्।
देवलः—
“अभोज्यं प्राहुराहारं शुक्तं पर्युपितू सदा।
अन्यत्र मधुसक्तुभ्यां भक्तेभ्यः सपिषो गुडात्”।
शङ्खः—
“नाद्याच्छास्त्रनिषिद्धं तु भक्ष्यभोज्यादिकं द्विजः”इति।
अभोज्यमित्यनुवृत्तौ वसिष्ठ—
“अन्नं पर्युषितं कामं दध्ना घृतेन वाऽभिघारितमुपभुञ्जीत।
अयमर्थः— दध्ना घृतेन वाऽभिघारितं सत्पपर्युषितमन्न काममश्नीयात् इति। उपभोजयेदित्यनुवृत्तौ—
आपस्तम्व—
“उदकेऽवधाय परकृतान्नं पर्युषितमि”ति। यदा परान्नमुदकेऽवधाय स्थापित तदा तदन्नं पर्युषितमपि उपभुञ्जीत। एवं च काञ्जिकं सम्पादयितुं तण्डुलप्रक्षालनोदके निहितस्यान्ननिस्रावस्य रात्र्यन्तरितस्य पर्युषितत्बमभोज्यत्वं नास्तीति। तज्जातस्य काञ्जिकस्यापि अभोज्यत्वं नास्तीति मन्तव्यमिति। एवमेवाभिहित स्मृतिचन्द्रिकाकारैरपि।
मनुः—
“चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः।
यवगोधूमजं चैव सर्वा च रसविक्रिये”ति (४—२५)॥
यवगोधूमाक्ताः स्नेहसंयोगरहिता अपि अनेकरात्र्यन्तरिता द्विजातिभिर्भोज्याः पयोविकारा दध्यादयः। ततो मगडकाः।
अथ सुवर्णादिशुद्धिः
<MISSING_FIG href="../books_images/1687538865.jpg"/>
तत्र मनुः—
“अग्नेश्चापां च संयोगात् हेम रूप्यं च निर्बभौ।
तस्मात्तयोः स्वयोन्यैव निर्णेको गुणवत्तर”इति।
तथाच शातातपः—
“सौवर्ण राजतं वाऽपि शुद्धपात्रं तु न त्यजेत्।
इतरेषां तु शुद्धिः स्यात्तापलेखन मार्जनैः”॥
हारीतः—
अद्भिः काञ्चनराजतशङ्खशुक्तीनां तद्गुणवर्णस्नेहवैवर्ण्योपहतानां यवगोधूमकलायमाषमसूर- मुद्गगोमयचूर्णैर्मार्जिनम्। ताम्राणामम्ललवणाभ्यां कास्याना भस्मना, कार्ष्णायसानां घर्षणै शैलानां सिकताघर्षणैः, मणिमयानां शिलाघर्षणमार्जनैरिति ।
मनुः—
“तैजसानां मणीनां च सर्वस्याश्र्ममयस्य च।
भस्मानाऽद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिरि”ति।
“तथा राजतकांस्यानां त्रपूणां सीसकस्य च।
शौचं यथार्हंकर्तव्यं क्षाराम्लोदकवारिभिः”॥
योगी—
“सौवर्णराजताब्जानामूर्द्ध्वपात्रग्रहाश्मनाम्।
शाकरज्जुमूलफलवासोविदलचर्मणाम्॥
पात्राणा चमसानां च वारिणा शुद्धिरिष्यते॥
स्फ्यशूर्पाजिनधान्यानां मुसलोलृखलानसाम्।
चरुस्रुक्स्रुवसस्नेहपात्राण्युष्णेन वारिणा”
इत्यादि। यज्ञाङ्गभूतं काष्ठं छुरिका शकटादि। स्पष्टमन्यत्।
सौवर्णे सुवर्णविकारः, अब्जं शङ्खशुक्तिमुक्ताफलादि। ऊद्धर्ध्वपात्रं यागीयम्, उलूखलादिः। ऐन्द्रादयो ग्रहाः पात्रविशेषाः। ‘ऐन्द्रं ग्रहं गृह्णाति, माहेन्द्र ग्रहं गृह्णाति’इत्यादिवाक्यमसिद्धाः।अश्मा दृषदादि आर्द्रकादिमूलविदलनं वेणुदलादि च। चर्माजादेः। प्रणीतादीनि पात्राणि। हृोतृचमसादयश्चससाः। इमान्युदकक्षालनेन शुद्ध्यन्तीति। सुवर्णरजतमया अत्यन्तानुपहता अग्नावेव शुद्ध्यन्ति “अग्नेश्चापां च संयोगादि”ति स्मरणात्।
संवर्तः—
“विण्मूत्रोपहतं कांस्यं श्वपाकोपहतं तथा।
भूमौ निक्षिप्य तं पात्रं घर्षणेन विशुद्ध्यती”ति।
मनु—“निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुद्ध्यती”ति॥
“शूद्रोच्छिश्वपाकोपहतंकांस्यपात्रं दशवारं भस्मना मार्जितं शुद्धं स्यात्”इत्यापस्तम्ब। अत्यन्तोपहतौ घर्षणमेवाभिहितम्। एवं सर्वत्र न्यूनाधिकशौचकल्पान्यूनबह्वपहतिविषया इत्यविरोधः सर्वत्र। बौधायनः—“तैजसाना विण्मूत्राद्युपहतौ पुनः करणं गोमूत्रे वा सप्तरात्रं परिवासनमि”ति। अत्र लेपनिर्हरणाशक्तोपुनःकरणमन्यथा गोमूत्रे दास इति व्यवस्था। विष्णु—
“सूतिकाशवविण्मत्ररजस्वलोपहतानि अग्निना शुद्ध्यन्ती”ति।यावता न नश्यन्ति तावदग्निसंयोगः।
“दशाक्रैर्विशुद्ध्यन्ति”इति स्मरणमल्पोपहतिविषयम् ।
क्षारो भस्म, तेन दश वारं मार्जनम्रभिमतम्। अपरो विशेषः।
“गण्डूष पादशौचं च न कुर्यात् कांस्यभाजने।
षण्मासं तु विनिक्षिप्य पुनराकारमादिशेत्” इति।
मनु—
“द्रवाणां चैव सर्वेषा शुद्धिरुत्पवनं स्मृतम्।
अपि शाकं घृतं क्षीरं स्नेहद्रव्यं पलाधिकम्॥
प्रोक्षणं संहतानां च ढारवाणा च तक्षणम्”।
तथा—
लोहानां दहनाच्छुद्धिर्भस्मना गोमयेन च।
दहनात् श्वसनाद्वापि शैलानामम्भसाऽपि वा॥
काष्ठानां तक्षणाच्छुद्धिर्मृद्गोमयजलैरपि” इति
“मद्यैर्मूत्रैःपुरीषैश्च ष्ठीवनैः पूयशोणितैः।
संसृष्टं नैव शुद्ध्येतपुनः पाकेन मन्मयम्”
इति मनुस्मरणात्।
संहतपात्रे विशेषः—
“संहतानां तु पात्राणा यद्येकमुपहन्यते।
तस्यैव शोधनं प्रोक्तं सामान्यं द्रव्यशुद्धिकृत्”इति
मृद्भाण्डे मलोपहतंपुनः पावनशुद्ध्येत्। “पुनः पाकान् महीमयम्”इति योगिस्मरणत।
इति श्रीमल्लक्ष्मीनृसिंहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डनसमस्त-
यवनाधीश्वरश्रीनिजामशाहसमस्तसाम्रज्यधुरन्धरश्रीमन्महाराजाधिराज-
श्रीढलपतिराजविरचिते श्रीनृसिंहप्रसादे
श्राद्धसारे सुवर्णादिशुद्धिनिर्णयः॥
<MISSING_FIG href="../books_images/1687583864.png"/>
अथान्नशुद्धिः ।
<MISSING_FIG href="../books_images/1687538865.jpg"/>
मनु—
देवद्रोण्या विवाहेषुत्यतेषु प्रसवेषु च।
काकैः श्वभिश्च यत् स्पृष्ट तदन्न न विवर्जयेत॥
तन्मात्रमन्नमुद्धृत्य शेषं संस्कारमर्हती”ति।
देवद्रोणी देवयात्रा।
मनुः—
“पक्षिजग्धं गवाघ्रातमवधूतमवक्षुतम् ।
दूषितं केशकीटैश्चमृत्क्षेपेण विशुद्ध्यति”इति।
मृदूग्रहणमुदकादीनुपतक्षयति।
“सलिलं भस्म मृद्वाऽपि”इति वचनात्॥
पक्षिजग्धं पक्षिभक्षितम्, अवधूवत पक्षिभिरुत्क्षिप्य त्यक्तं वा। अवक्षुतं यस्योपरि कृत पाकोत्तरम्। कृमिकीटनिपाते इयं शुद्धिः। सहपाकश्चेत् परित्याग एव।
पराशरः—
“पक्वं द्रोणाधिक त्वन्न काकश्वाद्युपघातितम्।
ग्रासमुद्धृत्य तन्मात्रं यत्तु लालाश्रितं भवेत्॥
हेमोदकेन वाऽभ्युक्षेत् ज्वलनेनाम्वुनाऽथवा।
अग्निज्वालोपस्पर्शात् सुवर्णमधुसर्पिषा॥
विप्राणा ब्रह्मघोषेण पूत भोज्यं च तद्भवेदि”ति।
षट्पञ्चाशदधिकपलशतद्वयं द्रोण उच्यते।
“अन्नमेकाहिकपक्वं श्वकाकाद्युपघातितम्।
केशकीटावपन्नं च तदप्येवं विशुद्ध्यति॥
क्रीतस्यापि विधिर्दृष्ट एवमेव मनीषिभिरि”ति जमदग्निवचः स्वल्पविषयम्।
अथ द्रवद्रव्यशुद्धिः।
<MISSING_FIG href="../books_images/1687538865.jpg"/>
तत्र मनु—
द्रवाणां चैव सर्वेषा शुद्धिरुत्पवनं स्मृतम्।
प्रोक्षणं संहतानां च दारवाणा च तक्षणम्”इति॥
तथा—
द्रवाणां प्लावनेनैव घनानां प्रोक्षणेन च।
छागेन मुखसंस्पृष्टमन्नं तच्छुचितामियात्॥
पर्पवटकादयो घना उच्यन्ते। द्रवद्रव्यं गोरसः।
श्रपणं घृततैलानां प्लावनं गोरसस्य च।
भाण्डानि प्लावयेदद्भिः शाकमूलफलानि च”इति॥
शङ्खः—
“उत्पवनं पूर्वभागस्थितस्य कस्य चिदशस्यापनयनम्। अधिकपरिमाणवतां प्लावनं द्रवाणा त्याग”इति। तत्र प्रकार।घृततैलादीनां काकाद्युपहतानां प्रस्थमात्रपरिमाणाना किंचित् दूरीकृत्य दर्भैः पवमानः सुवर्जन इत्यनुवाकेन शुद्धिःस्यात्। स्वल्पानां त्याग एव। संहतानां कठिनानामामिक्षादीनामुपहतप्रदेशत्यागेन प्रोक्षणाच्छुद्धिः। आधारभाण्डे स्थितं गोपय आदि न दुष्यति।
“आधारदोषे तु नयेत् पात्रात् पात्रान्तरं द्रवम्।
घृतं तु पायसं क्षीरं तथैवेक्षुरसो गुडः॥
शूद्रभाण्डस्थितं तक्रं तथा मधु न दुष्यति”इति स्मरणात्॥
यमः—
“आममांसं घृतं क्षौद्रं स्नेहाश्च फलसम्भवाः।
म्लेच्छभाण्डस्थिता दूष्या निष्क्रान्ताः शुचयः स्मृताः”इति।
इदं च द्रोणाधिकद्रव्यविषयम्। देशकालाद्यपेक्षया अल्पमप्यत्याज्यमदुष्टत्वात्।
शङ्खः—
“निर्यासानां गुडानां च लवणानां तथैव च।
कुसुम्भकुङ्कुमाना च ऊर्णाकार्पासयोस्तथा॥
विशेषात् कथिता शुद्धिरित्याह भगवान् यमः”।
निर्यासा हिङ्गुप्रभृतयः। इजं स्वल्पपरिमाणविषयम्, बहूनां तु चाण्डालादिस्पर्शेऽपि प्रोक्षणेनैव शुद्धिः। अत्यल्पानां परित्याग एव, तदपि देशकालाद्यपेक्षया परित्याज्यम्।
मृत्पर्णतृणकाष्ठानां चाण्डालस्पर्शेसोमसूर्यमारुतैः शुद्धिः। पुस्तकशुद्धिः प्रोक्षणेन। पर्णानामद्भिः प्रक्षालनं, सकृदुपभुक्तानातूत्सर्ग एव कर्तव्यः, पुष्पफलानां द्विःकरावधूननं प्रक्षालनमभ्युक्षणमिति केचित्।
असंस्कृतभूमिव्यस्तानां प्रक्षालनमेव, परोक्षाहृतानामभ्युक्षणम्। द्रव्यहस्तस्योच्छिष्टस्पर्शेमनूक्तो विशेषः—
“उच्छिष्टेन तु सस्पृष्टो द्रव्यहस्तः कथञ्चन
अनिधायैव तद्द्रव्यमाचान्तः शुचितामियात्”इति।
व्यासः—
“रथ्याकर्दमतोयानि तावत्पथि तृणानि च।
मारुतेनैव शुद्ध्यन्ति पक्वेष्टकचितानिच” इति।
इति श्रीमल्लक्ष्मीनृसिंहचरणसरोरुहभ्रमरसकलभूहण्डजमण्डनसमस्तम-
वनाधीश्वरश्रीनिजामसाहसमस्तसाम्राज्यधुरन्धरश्रीमन्महाराजाधि-
राज श्रीदलपतिराजविरजिते नृसिंहप्रसादे
श्राद्धसारे द्रवद्रव्यशुद्धिः।
<MISSING_FIG href="../books_images/1687583864.png"/>
अथ धान्यादिशुद्धिरभिधीय
<MISSING_FIG href="../books_images/1687538865.jpg"/>
तत्र विष्णु–“असिद्धस्यान्नस्य मध्ये यावदुपहतं तावदेव परित्यज्यावशिष्टं ग्राह्यम्। सतुषस्य कण्डनप्रक्षालने विधेये।
“व्रीहयः प्रोक्षणादद्भिः शाकमूलफलानि च।
दाहछेदौ अत्यन्तोत्तमविषयौ दरिद्रस्यानुत्तमेष्वपि छेदादिना शुद्धिः।
योगी—
“प्रोक्षणं संहतानां च बहूनां धान्यवाससाम्”।
स्मृत्यन्तरे—
“वस्त्रधान्यादिराशीनामेकदेशस्य दूषणम्।
तावन्मात्रं समुद्धृत्य शेष प्रोक्षणमर्हति”॥
शेषं प्रोक्षणमर्हतीत्युक्तेः उद्धृतमुपहतं प्रोक्षितं शुद्धं भवतीति प्रतीयते। यदा हि राशीकृतानां सर्वेषामपि स्पर्शो भवेत् तदा प्रोक्षणादेव शुद्धिः। यदा बहूना स्पर्शोऽल्पानामस्पर्शः तदा सर्वेषां प्रक्षालनमेव शुद्धेः कारणम्। राशेर्वहुत्त्वं च पुरुषग्राह्यभाराधिकत्वम्।
योगी—
“शौषैरुढकगोमूत्रैःशुद्ध्यत्याविककौशिकम्।
सश्रीफलैरंशुघटं सारिष्टं कुतुपं तथा”॥
गौरसर्षपैः क्षौममिति शेषः। अक्षारमृदुलै कौशिकं शुद्ध्यति, कुतुपः पर्वतच्छागलोमनिर्मितः कम्बलः। अरिष्टफलं केतकं, श्रीफलं विल्वफलम्। इयं शुद्धिरधिकोपघाते वेदितव्या। अल्पे प्रोक्षणस्यैव युक्तत्वात्।
देवल—
“ऊर्णाकौशेयकुतुपशणक्षौमदुकूलकाः।
अल्पशौचाद् भवन्त्येते शोषणप्रोक्षणादिभिः॥
श्राद्धसारे पात्रादिशुद्धिः
तान्येवामेध्ययुक्तानि क्षालयेच्छोधनैः स्वकैः।
तूलिकामुपधानं च पुष्परक्ताम्बर तथा॥
शोषयित्वाऽऽतपे किञ्चित्करैःसम्मार्जयेन्मुहुः।
यच्चापि वारिणा प्रोक्ष्य विनियुञ्जीत कर्मणि॥
तान्यप्यतिमलिष्ठानि तथा तत्यम्नित्यनेन।
पुष्परक्ताम्बरमिति प्रक्षालनेन सह रागरक्तोपलक्षणम्।
ततश्च यत्प्रक्षालनेन विनष्टरागं न स्यात् प्रक्षालनेनाविनष्टरागं तदातपशोषणादिना शोष्यं, वस्त्रसहितस्यैव नाभेरुर्ध्वस्पर्शेऽवगाहनम्, अधस्तात्प्रक्षालनम्,संहृतानां प्रोक्षणमिति शङ्खः। यन्त्रादुत्तीर्णानामहतनवानां वस्त्राणामभ्युक्षणम्।
इति श्रीमल्लक्ष्मीनृसिंहचरणसरोरुहभ्रमरसकलभूमण्डलमण्डननिजामसाहसमस्त-
धुरचरश्रीमन्माराजाधिराजश्रीदलपतिराजविरचिते
श्रीनृसिंहप्रसादे श्राद्धसारे वस्त्रशुद्धिः।
<MISSING_FIG href="../books_images/1687696036.png"/>
अथ देहशुद्धिरभिधीयते।
<MISSING_FIG href="../books_images/1687538865.jpg"/>
तच्च शरीरं ध्यानज्ञानतपोऽग्न्याहारराहित्यादिना शुद्ध्यति।
तदुक्तं मनुना (अ. ५. १०५—१०६)—
“ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम्।
वायुः कर्मार्ककालौ च शुद्धेः कर्तृृणि देहिनाम्॥
शङ्खः—
“नारीणा चैववत्साना शकुनीना शुनां मुखम्।
रतौ प्रस्रवणे वृक्षे मृगयाया सदा शुचि”॥
तथा—
“आकराः शुचयः सर्वे शकुनिः फलपातने।
श्वा मृगग्रहणे मेध्यः स्त्रीमुग्वेषु च वारुणी” ति॥
स्त्रीमुखेष्विति पीतमद्याया अपि ब्राह्मणभार्यायाः। शूद्रायां बुद्धिपूर्वकं गन्धस्वासादनपूर्वकं गन्धरसास्वादन वर्जितम्। मुखं रतिसमये संस्पर्शेऽपि शुद्धमिति।
यमः—
“अपूपाः काञ्चनं गावः स्त्रीमुव कुतपं जलम्।
न दूषयन्ति विद्वासो यज्ञेषु चसम यथा॥
मुखतो गौरमेध्या तु मध्येऽजो मुखतस्तथा।
पृष्ठतो गौर्गजः स्कन्धे सवतः स्त्री शुचिस्तथे”ति॥
मनुः—
“अदुष्टाश्च तथा धारा वातोद्धूताश्चरेवणः।
स्त्रियो वृद्धाश्चबालाश्चन दुष्यन्ति कदाचन”इति।
मनुः—
“मक्षिका विप्रुषश्छाया गौश्वः सूर्य एव च।
राजा भूर्वायुरग्निश्चस्पर्शे मेध्यानि निदिशेत्” इति।
अत्र मक्षिकाग्रहणेन अवर्जनीयस्पर्शादंशादय उपलक्ष्यन्ते।
अत्रिः—
“मधुपर्के च सोमे च अप्सु प्राणाहुतीषु च।
नोच्छिष्टस्य भवेद्दोषस्त्वत्रेश्च वचनं तथे”ति॥
अप्सु इति भोजनोत्तरममृतोपस्तरणमसीत्यमृतीकरणार्थया आपो गृह्यन्ते तास्विति यावत्। मधुपर्कादिषु मन्त्रोच्चारणे कार्ये उच्छिष्टदोषो न हि।
तथा—
“ताम्बूलेक्षुफले चैव भुक्तस्नेहावशिष्टके।
दन्तलग्नस्य संस्पर्शे नोच्छिष्टो भवति द्विजः॥
त्वग्भिः पत्रैर्मूलफलैः तृणकाष्ठमयैस्तथा।
सुगन्धिभिस्तथा द्रव्यैर्नोच्छिष्टो भवति द्विजः” इति।
उच्छिष्ट इति आचमनार्हप्रायश्चित्तयुक्तः स उच्यते। द्रव्यं च भक्ष्यभोज्यादि। आचमनविधावेवं युक्तम्। आमणिबन्धं पाणी प्रक्षाल्याविति। यदि कश्चिद् द्रव्यहस्त उच्छिष्टस्पृष्टस्तदा तदा द्रव्यं निधायैवाचननं कर्तव्यम्। तत्रायं भावः—यथा पुरुषाशौचसम्बन्धात् द्रव्यमशुचि सम्भवति तथैव तच्छौचसम्बन्धाच्छुचि भवतीति। न चात्र द्रव्यं निधायाऽऽचामेदिति गौतमवाक्यविरोधः। गरीयो द्रव्यं निधायाचामेदित्येवं परत्वात्। ततश्च गरीयो निधायान्यदङ्गस्थं कृत्वाऽऽचामेदिति शास्त्रार्थः।
तथा—
“दधि सर्पिः पयः क्षौद्रं भागडदोषो न विद्यते।
मार्जारश्चैव दर्वी च मारुतश्च सदा शुचिः”॥
तथा—
“मार्जारनकुलौ स्पृष्टौ शुद्धाश्चमृगपक्षिणः”इति।
कर्मणि मार्जारस्पर्शे स्नानम्। ततश्च अदृष्टोपहतौन दोषः।
इति श्रीमल्लक्ष्मीनृसिंहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डनसमस्तयवनाधी-
श्वरश्रीनिजामसाहसमस्तसाम्राज्यधुरन्धर श्रीमन्महाराजाधिराज-
श्रीदलपतिराजविरचिते श्रीनृसिंहप्रसादे
श्राद्धसारे धान्यशुद्धिः॥
<MISSING_FIG href="../books_images/1687696938.png"/>
तत्र श्राद्धं द्विविधं पार्वणमेकोद्दिष्टं च। तत्र पार्वणं नाम यत्र पुरुषत्रयमुद्दिश्य क्रिया तत्पार्वणम्, एकपुरुषोद्देशेन क्रियमाणमेकोद्दिष्टम्। एतद् द्विविधमपि त्रिविधं, नित्यं नैमित्तिकं काम्यं च। तत्र जीवनोपाधितया विहित नित्यं यथा दर्शे विहितममावास्याश्राद्धम् इति। अनियतनिमित्तकं नैमित्तिकं यथा चन्द्रोपरागादौ विहितम्। कामनानिमित्ततया विहितं काम्यं यथा तिथिनक्षत्रादिषु। पुनर्द्वादशधा नित्यनैमित्तिककाम्यवृद्धिश्राद्धसपिण्डपार्वणगोष्ठीशुद्ध्यर्थकर्माङ्गदैविकयात्रापुष्ट्यर्थानि।
तथोक्तं विश्वामित्रेण—
“नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनम्।
पार्वणं चेति विज्ञेयं गोष्ठ्यां शुद्ध्यर्थमष्टमम्॥
कमोङ्ग नवग प्रोक्तं दैविक दशमं स्मृतम्।
यात्रास्वेकादशं प्रोक्तं पुष्ट्यर्थ द्वादशं स्मृतम्”॥
इत्येते द्वादश भेदास्तेष्वेवान्तर्भूता इति माधवाचार्यः। पृथगेवैते इति स्मृतिरत्नावलीकाराः— तल्लक्षणमाह पारस्कर—
“अहन्यहनि यच्छ्राद्धं तन्नित्यमिति कीतितम्।
वैश्वदेवविहीनं तु अशक्तावुदकेन तु॥
एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते।
तदप्यदैविकं ज्ञेयमयुग्मानाशयेद् द्विजान्”॥
काम्यमभिलषितार्थसिद्ध्यर्थमनुष्ठीयमानम्। पुत्रजन्मविवाहादौ क्रियमाणं वृद्धिश्राद्धमित्युच्यते। सपिण्डीकरणं सपिण्डनम्। प्रतिपर्व क्रियमाणं पार्वणम्।गोष्ठ्यामिति गोष्ठे क्रियमाणम्।
तदाह वृद्धवशिष्टः—
“अभिप्रेतार्थकं काम्य श्राद्धं पार्वणकं स्मृतम्।
पुत्रजन्मविवाहादौ वृद्धिश्राद्धमुदाहृतम्॥
नवानीतार्घपात्रं च पिण्डं च परिकीर्तितम्।
पिण्डपात्रेषु पिण्डेषु सपिण्डीकरणं तु तत्”।
नवानीतार्घपात्रमिति निरन्तरप्रेतार्थ पात्रमिति यावत्। पिण्डशब्दस्तूभयलिङ्गः। गृहात् पिण्डं पततीति प्रयोगदर्शनात्।
“प्रतिपर्व भवेद्यस्मात् तेन स द्विजसमैः।
प्रोच्यते पार्वणश्राद्धं मासिकं कैश्चिदिष्यते”॥
मासि मासि भवं मासिकमिति यावत्।
“गोष्ठ्यायत् क्रियते श्राद्धं गोष्ठीश्राद्धं तदुच्यते।
बहूना विदुषां प्राप्तौसपात्रपितृतृप्तये”॥
एतच्च पृथक्पाशानुदेशान् ससृष्ट्यकस्यान्याय्यत्वात्यतो बहूनां विदुषां यत् श्राद्धस्य कर्तव्यन्तेउपस्थिते पृथक्पाकसाधनसामग्रीरहिताना तीर्थेऽनुतप्ताना श्राद्धकरणोद्युक्ताना द्रष्टव्यमिति।
प्रचेता—
“यथाशक्त्याऽभिरूपाणां ब्राह्मणाना च भोजनम्।
शुद्धर्थमिति तत् प्रोक्तं श्राद्धं पार्वणवत्कृतम्”॥
शुद्धर्थमिति चीर्णप्रायश्चितस्य ब्राह्मणभोजनानन्तर वचनादात्मनः शुद्ध्यर्थम्। अभिरूपपदंपूर्व व्याकृतम्। कर्माङ्गमिति यागादौ क्रियमाणम्। दैविकमिति देवानुद्दिश्य क्रियमाणम्। यात्राश्राद्धमिति विनिर्गमनसयये क्रियमाणम्। तदाह पारस्कर—
“निषेककाले सोमे च सीमन्तोन्नयने तथा।
ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं वृद्धिवत् कृतम्”॥
निषेको गर्भाधानम्।सीमन्तोन्नयनपुंसवनग्रहणमुभयसंस्कारप्रतिपत्त्यर्थम्। चशब्देन जातकर्मादिकेवलपुरुषसंस्कारगुणो लभ्यते। सोमग्रहणं दर्शपूर्णमासाद्यर्थम्। वृद्धिवदित्यनेन नवदेवत्यम्।
“देवानुद्दिश्य क्रियते यत्तद् दैविकमुच्यते।
हविष्येण विशिष्टेन द्वादश्यादिषु यत्नतः”॥
हविष्येणेति व्रीहियवशालिमुद्गरूपेण। विशिष्टेनेति। एतदेव तस्य विशिष्टत्वं यत् पायसघृतशर्करादध्यादियुक्तत्वम्। द्वादशी दशम्यादितिथीनुपलक्ष्यति। आदिशब्दो भानुवारादीन्।
“गत्वा देशान्तरं यस्तु श्राद्धं कुर्यात्तु सर्पिषा।
यात्रार्थमिति तत् प्रोक्तं प्रवेशे च न संशयः”॥
गत्वा देशान्तरमिति यद्यपि अविशेषेणाश्रावि तथापि स्मृत्यन्तरोक्तविशेषदर्शनेन सामान्यं विशेषे उपसंहियते।
तदुक्तम्—
“उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः।
विधाय कर्पटीवेषं ग्रामस्यापि प्रदक्षिणम्”इति।
गयेत्युपलक्षणं सिहस्थगोदायात्रादेः। ततश्च गयाद्यर्थंगच्छतो नेतरत्रेति परिसंख्यया व्याख्यया परितोषः। इदं च श्राद्धमत्यग्रे विशदतरमुपपादयिष्यते। सपिषेति केवलेन तेनैव द्विजतृप्तेरुत्पादयितुमशक्यत्वात्। अतस्तद्युक्तं कर्तव्यमित्यर्थः।क्रियमाणमत्र श्राद्धं नवदेवत्य कर्तव्यम्। निर्गमे च गयाया प्रवेशे च कर्तव्यम्।
तथोक्तम्—
“शरीरोपचये श्राद्धमर्थोपचय एव वा।
पुष्ट्यर्थमिति यत् प्रोक्तं श्राद्धं पार्वणवत् कृतम्”॥
शरीरोपचय इति तदुपचयार्थ रसायनाद्युपक्रमे तदुपचये वा जाते रसायनौषधादेः सिद्धौ जातायां वा। अर्थागमे वा जाते इति अर्थोपचये महालाभे निधिरूप्यादिलाभ इति यावत्।
तत्र विष्णुधर्मोत्तरे—
“दक्षिणाप्रवणे देशे तीर्थादौ वा गृहेऽपि वा।
भूसंस्कारादिसंयुक्ते श्राद्धं कुर्यात् प्रयत्नतः”इति।
देवर्षिसिद्धतापसादिसेवितमुदकं तोर्थमित्यभिधीयते। गोमयादिनोपलेपो भूसंस्कारः। आदिशब्देनाशुचिद्रव्यापसारणम्। तदुक्तं मनुनाऽपि। “शुचिदेशे विविक्तेतु गोमपेनोपलिप्य च।
शरीरोपचये इति तदुपचयार्थरसायनाद्युपचये वा जाते रसायनौषधादेः सिद्धो जाताया वा। अर्थागमे वा जात इति। अर्थोपचये महालाभे निधिरूप्यादिलाभ इति यावत्।
तत्र विष्णुधर्मोत्तरे—
“दक्षिणाप्रवणे देशे तीर्थादौवा गृहेऽपि वा।
भूसंस्कारादिसंयुक्ते श्राद्ध कुर्यात् प्रयत्नतः”इति।
देवर्षिसिद्धतापसादिसेवितमुदकं तीर्थमित्यभिधीयते। गोमयादिनोपलेपो भूसंस्कारः आदिशब्देनाशुचिद्रव्यापसारणम्। तदुक्तं मनुनाऽपि—
“शुचिदेशे विविक्ते तु गोमयेनोपलिप्य च।
दक्षिणाप्रवणे चैव प्रयत्नेनोपपादयेत्॥
कृमिकीटाद्युपहतं देशं श्राद्धे विवर्जयेत्”।
तथा मार्कण्डेयः—
“वर्ज्या जन्तुमयी रूक्षा क्षितिर्दुष्टा तथाऽग्निना।
अनिष्टदुष्टशब्दोग्रा दुर्गन्धा श्राद्धकर्मणी”ति।
तदाह दक्षः—
“ऋक्षकृमिहतं क्लिन्नं संकीर्णानिष्टगन्धकम्।
देशत्वनिष्टशब्दं च वर्जयेच्छ्राद्धकर्मणी”ति॥
क्लिन्न सम्पृक्तं सङ्कीर्णमन्यैः सङ्कीर्णम्।
तथा शङ्खः—
“गोगवाश्वादिपृष्टेषु कृत्रिमायां तथा भुवि।
न कुर्याच्छ्राद्धमेतेषु परक्यासु च भूमिषु”इति।
कृत्रिमायां वेदिकादौ, पारक्यासु परपरिगृहीतासु। ताश्चगृहगोष्ठारामादयः न पुनस्तीर्थादिस्थानानि।
आदिपुराणे च—
“अटवी पर्वताः पुण्या नदीतीराणि यानि च।
सर्वाण्यस्वामिकान्याहुर्नहि तेषु परिग्रह”इति।
“वनानि गिरयो नद्यस्तीर्थान्यायतनानि च।
देबाखातं च गर्ताश्च न स्वामी तेषु विद्यते”इति।
अथ श्राद्धप्रदेशाः। तीर्थक्षेत्रविशेषेषु कृतं श्राद्धमतिशयफलदं भवतीत्यवसीयते।
तथाच व्यास—
“पुष्करेष्वक्षयं श्राद्धं जपहोमतपांसि च।
महोदधौ प्रयागे च काश्या च कुरुजाङ्गले”॥
तथा देवलः—
“श्राद्धस्य पूजितो देशो गया गङ्गा सरस्वती।
कुरुक्षेत्र प्रयागं च नैमिषं पुष्कराणि च॥
नदीतटेषु तीर्थेषु वनेषु पुलिनेषु चे”ति।
शङ्खः—
“गङ्गायमुनयोस्तीरे पयोष्ण्यमरकण्टके।
नर्मदाबाहुदातीरे च भृगुतुङ्गे हिमालये॥
गङ्गाद्वारे प्रयागे च नैमिषे पुष्करे तथा।
सन्निहत्यां गयायां च दत्तमक्षयतां व्रजेत्॥
तथा गुरुः—
“काङ्क्षन्ति पितरः पुत्रान्नरकाघातभीरवः।
गया यास्यति यः कश्विन् सोऽस्मान् सन्तारयिष्यति॥
करिष्यति वृषोत्सर्गमिष्टापूर्वकरिष्यति।
पालयिष्यति वृद्धत्वे श्राद्धं दास्यति चान्वहम्॥
गयाया धर्मपृष्ठेच सदसि ब्रह्मणस्तथा।
गयाशीर्षे वटे चैव पितॄणा दत्तमक्षयमि”ति॥
तथा ब्रह्माण्डेऽपि —
“नदीसमुद्रतीरे वा हृदे गोष्ठे च पर्वते।
समुद्रगानदीतोये सिन्धुसागरसङ्गमे॥
नद्योर्वा सङ्गमे राजन् शालग्रामशिलान्तिके।
पुष्करे वा कुरुक्षेत्रे प्रयागे नैमिषेऽपि वा॥
शालग्रामे च गोकर्णे गयाया च विशेषतः।
तीर्थेष्वेतेषु यः श्राद्धं पितृभक्तिसमन्वितः॥
करोति विधिवन्मर्त्यः कृतकृत्यो विधीयत”इति।
तथा विष्णुरपि—
“गयाशीर्येऽक्षयवटेऽमरकण्टकपर्वते”।
यत्र क्वचन नर्मदातीरे यमुनातीरे गङ्गायां विशेषतो गङ्गाकुशावर्ते विल्वके नीलपर्वते उज्वले भृगुतुङ्गे केदारे महालये मल्लिकायां सुगन्धायां फल्गुतीर्थे महागङ्गायां तण्डुलिकाश्रमे कुमारधरायां प्रमासे यत्र क्वचन सरस्वत्या विशेषतो नैमिषारण्ये वाराणस्यामगस्त्याश्रमे कण्वाश्रमे कौशिक्यां सरयूतीरे शोणस्य ज्योतिरयोध्यायाश्चसङ्गमे श्रीपर्वते कालोदके उत्तरमानसे वडवायां सप्तर्षौविष्णुपादस्वर्गमार्गप्रदेशे गोदावर्यो गोमत्यां वेत्रवत्यां विपाशायां वितस्ताया शतद्रुतीरे चन्द्रभागायामैरावत्या सिन्धोस्तीरे दक्षिणे पञ्चनदे मानसे चैवमादिष्वन्येषु तीर्थेषु सरिद्वरासु सङ्गमेषु प्रभवेषु पुलिनेषु प्रस्रवणेषु पर्वतनिर्झरेषु वनेषु वनोपवनेषु च गोमयेनोपलिप्तेषु गृहेषु मनोज्ञेषु चेति। अत्र पितृगाथा भवति—
“कुलेऽस्माकं स जन्तुः स्यात् यो नो दद्याज्जलाञ्जलीन्।
नदीषु बहुतोयासु शीतलाशु विशेषतः॥
अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः।
गयाशीर्षे वटे श्राद्धं यो नः कुर्यात् समाहितः॥
एष्ट-या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्।
यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत्”॥
गयाशीर्षप्रमाण चादिपुराणेऽभिहितम् ।
“पञ्चकोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः।
महानद्याःपश्चिमेन यावद् गृध्रेश्वरो गिरिः॥
उत्तरे ब्रह्मकुण्डस्य यावद्दक्षिणमानसम्।
एतद् गयाशिरो नाम त्रिषु लोकेषु विश्रुतम्”इति।
तथा—
“द्रोणीवाटनदीधारा सरः शोणनदं तथा
द्वारिका कृष्णतीर्थंच तथार्बुदसरस्वती।
नदी मणिमती नाम तथा च गिरिकर्णिका।
धूतपापं तथा तीर्थ समुद्रो दक्षिणस्तथा॥
गोकणं गजकर्णंच तथा च पुरुषोत्तमः।
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते।
अर्जुनं त्रिसुरेशं च सिद्धेश्वरमत परम्॥
श्रीशैलं शङ्करं तीर्थ नरसिहमतः परम्।
महेन्द्रं च तथा पुण्य तथा श्रीरङ्गसज्ञितम्॥
तुङ्गभद्रा नदी पुण्या तथा भागीरथी सरित्।
रामेश्वरं कृष्णवेणा कावेरी वञ्जुला नदी।
सेतुबन्धं तथा तीर्थ यत्र रामेश्वरो हरिः॥
नदी गोदावरी नाम त्रिसन्ध्या तीर्थमुत्तमम्।
कायावरोहणं नाम यत्र चर्मण्वती नदी॥
तीर्थंत्रैयम्बकं नाम सर्वतीर्थमहत्फलम्।
गोमती बहुला तद्वत् तीर्थ मानसरोवरम्”इति।
इति श्राद्धदेशाः।
अथ निषिद्धदेशा अभिधीयन्ते।
<MISSING_FIG href=”../books_images/1687538865.jpg"/>
तत्र विष्णु—
“चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते।
स म्लेच्छदेशो विज्ञेय आर्यावर्तस्ततः परम्॥
ततश्च म्लेच्छदेशो वर्ज्य इति सूचितम्।
“म्लेच्छदेशे तथा रात्रौ सन्ध्यायां च विशेषतः॥
न श्राद्धमाचरेत् प्राज्ञो म्लेच्छदेशं न च व्रजेत्”।
इति शङ्खस्मरणात्। तथा तत्र वृत्यनुसन्धानेन गमने दोषोऽ पि स्मर्यते। यथा—
“सिन्धुसौवीरसौराष्ट्रान् तथा प्रत्यन्तवासिनः।
अङ्गवङ्गकलिङ्गाद्यान् गत्वा संस्कारमर्हती”ति॥
पुनःसंस्कार कर्मणि ये ग्राह्या धर्मा ये च त्याज्यास्तेऽभिहिताः—
“मेखलामजिनं दण्डमुपवीतं कमण्डलुम्।
निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणी”ति॥
देशान्तरगमननिषेधो दृष्टार्थ एव निषिध्यते नादृष्टार्थस्तीर्थयात्रानिबन्धनः।
“दृष्टार्थगमने दोषस्तीर्थाद्यर्थ न दुष्यति।
न जातु देश दोषोऽस्ति तोर्थे क्षेत्रे च दैवते”इति स्मरणात्।
अत एवाहुर्महर्षयः—
“कीकटेषु गया पुण्या पुण्यं राजगृहं वनमि”ति।
वायुपुराणे—
“त्रिशङ्कुंवर्जयेद्देशं सर्व द्वादशयोजनम्।
उत्तरेण महानद्या दक्षिणेन तु कीटकान्॥
देशस्त्रैशङ्कवो नाम श्राद्धकर्मणि गर्हितः”इति।
तथा —
“कारस्कराः कलिङ्गाश्चसिन्धोरुत्तरतस्तथा।
प्रणष्टश्राद्धकर्माणो देशा वर्ज्याश्च यत्नतः”॥
प्रनष्टं श्राद्धकर्म येषु देशेषु ते प्रनष्टश्राद्धकर्माणः।
“सङ्कीर्णानिष्टशब्दां च जन्तुव्याप्तां सकर्दमाम्।
पूतिगन्धां तथा भूमिं वर्जयेच्छ्राद्धकर्मणि”॥
रुदिताक्रन्दिताश्लीलाद्यनिष्टः शब्दो यस्मिन्देशे सा भूमिरनिष्टशब्देति कथ्यते।
यमः—
“गोगजाश्वादिपृष्टेषु कुत्रिमायां तथा भवि।
आपद्यपि च कष्टायां न कुर्यात्पितृतर्पणम्”॥
गवाश्वादिपृष्टेष्विति तद्युक्तरथेषु। न तिष्ठतीतिवत्तत्रासम्मवात्। पितृतर्पणं श्राद्धकर्म। कृत्रिमा द्वित्र्यादिभूमिः। तथा परभूमिषु अनिषिद्धास्वपि श्राद्धनानुष्टेयम्
“पारक्यभूमिभागे तु पितृणा निर्वपेत्तु यः।
तद्भूमिपितृभिः सर्व तस्य कर्म विहन्यते”॥
तस्य श्राद्धकर्तुः तद्भूमिस्वामिकैः पितृभिविहन्यते इत्यर्थः।
“तस्माच्छाद्धानि कर्माणि पुण्येष्वायतनेषुच।
नदीषु देवखातेषु स्वभूमौ च प्रयत्नतः”॥
ततश्चायं शास्त्रार्थः। परसत्ताकासु भूमिषु किञ्चिद्वित्तादि दत्वा स्वसत्तामापाद्य श्राद्धाद्यनुष्ठेयमिति। क्वचित्परकीयत्वमपि नास्ति तदाह सग्रहकारः—
“अटव्यः पर्वताः पुण्याः नद्यस्तीर्थानि यानि च।
सर्वाण्यस्वामिकान्याहुर्नहि तेषु परिग्रहः”॥
इति श्रीमल्लक्ष्मीनृसिंनचरणयुगलशरीरुहभ्रमरसकलभूमण्डलत्रण्डनसमस्त- यवनाधीश्वरश्रीनिजामसाहसमस्तसाम्राज्यधुरन्धरश्रीन्महाराजाधिराज-
**श्रीदलपतिराजविरचिते श्रीनृसिंहप्रसादे **
श्राद्धसारे देशनिरूपणम्।
<MISSING_FIG href=”../books_images/1687583864.png"/>
अथ श्राद्धकालाः।
<MISSING_FIG href="../books_images/1687538865.jpg"/>
ते चामावस्याष्टकादयः। तदाह योगी—
“अमावास्याऽष्टकाद्धिः ङुष्णपक्षोऽयनद्वयम्।
द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसङ्क्रमः॥
व्यतीपातो गजच्छाया ग्रहणं चन्द्रमूर्ययोः।
श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्तिताः”इति।
यस्यां तिथौ चन्द्रमा न दृश्यते साऽमावस्या तत्र श्राद्धं नित्यमावश्यकमिति यावत्।
“श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः।
इन्दुक्षये मासि मासि वृध्दौप्रत्यहमेव चेति” लौगाक्षिस्मरणात् ।
इन्दुक्षयोऽमावास्या, अष्टकाश्चतस्रःमार्गशीर्षादिमासचतुष्टयापरपक्षाष्टम्यः।
तथाऽऽश्वलायनः—
“हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका”इति।
ननु द्वादश पौर्णमास्यो द्वादशाष्टका द्वादशामावास्य इति वचनात्कथं चतस्रोऽष्टका इत्यभिहितं, सत्यम्, एकैकस्मिन्मासि तिस्रस्तिस्रः सम्पद्यन्ते इति द्वादशपरिपूर्तिरभ्युपेयते। अष्टमीग्रहणेन सन्निधानात्सप्तीनवम्योर्त्रहणम्।
तथा च शौनकः—
“हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका”इति। अत्रापि श्राद्धमावश्यकम्।
तथा च स्मृतिः —
“अमावास्याव्यतीपातपौर्णमास्यष्टकासु च।
वृद्धौ श्राद्धमकुर्वाणो नरकं प्रतिपद्यते”इति
वृद्धिः पुत्रजन्मादि।
“वृद्धौ न तर्पिता येन देवता गृहमेधिभिः।
तद्धीनमफलं ज्ञेयमासुरो विधिरेव स”इति शातातपस्मरणात्।
कृष्णपक्षोऽपरपक्षः। तत्रैकतिथिपक्षेऽपि अमायां पृथगेवेति। इदमपि नित्यम्।
“शाकेनापि नापरपक्षमति क्रामेदिति” श्रुते।
अयनद्वयं दक्षिणायनमुत्तरायण च। अत्रापि श्राद्ध नित्यम्। तदुक्तं विष्णुपुराणे पराशरेण—
“उपप्लवे चन्द्रमसोरवेश्चत्रिष्वष्टकास्वप्ययनद्वये च।
पानीयमप्यत्र तिलैविमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः।
श्राद्धं कृतं तेन समाः सहस्र रहस्तदेतन्मुनयो वदन्ति”॥
अत्र पानीयमप्यत्रेति वचनैकदेशादयनश्राद्धस्य नित्यताऽवसिता।
“ग्रहोपरागे च सुते च जाते पित्र्येऽप्यमायामयनद्वये च।
नित्यं च शङ्खेच तथैव पद्मे दत्तं भवेन्निष्कसहस्रतुल्यम्”
इति जातूकर्ण्यस्मरणात्। तस्मादयनद्वये श्राद्धं नित्यम्। द्रव्यं कृसरमाषादि। ब्राह्मणः श्रुताध्ययनसम्पन्नः स च वक्ष्यमाणलक्षणःतयोः सम्पत्तिलाभो यस्मिन् काले स तथोक्तः। विषुवत् मेषतुलासङ्क्रान्ती, सूर्यसङ्क्रमः सूर्यस्य राशेः राश्यन्तरप्राप्तिः। सूर्यसङ्क्रमशब्देन अयनविषुवतोर्ग्रहणे सिद्धेऽपिशिष्टाख्यापनाय पुनर्ग्रहणम्। ब्राह्मणा आयाता वसिष्ठोऽप्यायात इतिवत् पृथगुपादानं न पौनरुक्त्याय। योगविशेषो व्यतीपातः
“श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तकै।
यद्यमा रविवारेण व्यतीपातः स उच्यते”॥
नागदैवतमाश्लेषा। मस्तकं भृगुशिरः। यद्यमा रविवारेण श्रवणादिनाऽन्यतमनक्षत्रेण युक्ता स व्यतीपात इत्यर्थः। इदमस्माभिर्दानखण्डे विस्तरेण प्रतिपादितम्। गजच्छाया पारिभाषिकी ग्राह्या न मुख्या, कालप्रक्रमात्। पारिभाषिकत्वं च—
“यदेन्दुः पितृदैवत्ये हसश्चैव करे स्थितः।
तिथिर्वैश्रवणीया च गजच्छाया प्रकीर्तिता”।
पितृदेवत्यं मघानक्षत्रं, हंसः सूर्यः करे हस्तनक्षत्रे वर्तमानः, इन्दुश्चन्द्रमाः पितृदेवत्ये च मघाख्ये नक्षत्रे स्याद्याम्या त्रयोदशी एतत्त्रयसयोगात् गजच्छायेति। पुराणान्तरेऽप्येतदेव दर्शितम्।
“हंसे हस्तस्थिते या तु मघायुक्ता त्रयोदशी।
तिथिर्वैश्रवणी नाम सा छाया कुञ्जरस्य तु”इति।
ग्रहणं चन्द्रसूर्योपरागः। यदा कर्तुः श्राद्धं प्रति रुचिर्भवति सोऽपि श्राद्धकालः। च शब्दाद्युगादिमन्वादि वैधृतिप्रभृतीना ग्रहणम्। अत्रापि कालविशेषः श्राद्धाङ्गतयोपादेयः।
तदुक्तं वृद्धवसिष्ठेन—
“त्रिदशाः स्पर्शसमये तृप्यन्ति पितरस्तथा।
मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः”इति।
तथाऽऽह यम—
“आषाढ्यामथकातिक्या माध्या त्रीन् पञ्च वा द्विजान्।
तर्पयेत्पितृपूर्वन्तु तस्य चाक्षयमुच्यते॥
राहुग्रस्ते तथा सूर्ये यस्तु श्राद्ध च कारयेत्।
तेनैव सकला पृथ्वी दत्ता विप्रस्य वै करे”इति।
यद्यपि सूर्यग्रहे नाद्यादिति ग्रहणे भोजननिषेधः स्मर्यते तथापि दातुरभ्युदय एवेति।
विष्णुधर्मोत्तरे मार्कण्डेयः—
“आश्विनस्यापरे पक्षे प्रथमे कार्तिकस्य च।
यस्तु श्राद्धं सदा कुर्यात् सोऽश्वमेधफलं लभेत्”॥
सदेत्यालस्यरहितः। तथा देवलः—
“तृतीया रोहिणी युक्ता वैशाखस्यासिता तु या।
मघाभिः सहिता कृष्णेनभस्ये तु त्रयोदशी॥
तथा शतभिषग्युक्ता कार्तिके नवमी तथा।
इन्दुक्षयो गजच्छाया वैधृतेषु युगादिषु॥
श्राद्धकालाः समुद्दिष्टाः पितॄणा तृप्तिवर्द्धनाः” इति।
मात्स्ये—
“वैशाखस्य तृतीया तु नवमी कार्त्तिकस्य तु।
माघे पञ्चदशी चैव नभस्ये च त्रयोदशी॥
युगादयः स्मृता ह्येता दत्तस्याक्षयकारकाः”इति।
विष्णुधर्मोत्तरे सुमन्तुः—
“वैशाखशुक्लस्य च या तृतीया नवम्यसौ कार्तिकशुक्लपक्षे।
नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे॥
उत्पद्यते चन्द्रमसो रवेर्वा तिस्रोऽष्टका अप्ययनद्वये च।
पानीयमप्यत्र तिलैविमिश्र दद्यात्पितृभ्यः प्रयतो मनुष्यः॥
श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत्पितरो वदन्ति”।
नभस्यो भाद्रपदः। उपप्लवे उपरागे, राहुदर्शन इति यावत्। तिस्र इति सप्तम्यादितिथित्रयाभिप्रायेण मार्गशीर्षादिमासत्रयाभिप्रायेण च, तथात्त्वे चतुर्णामपरपक्षाणामित्यनेन विरोधः स्यात्। ततश्चात्रतिस्रइति वीप्सा द्रष्टव्या। पानीयग्रहणं श्राद्धस्यावश्यकत्वं द्योतयति। समाः सहस्रं वर्षसहस्रमित्यर्थः। पञ्चदशी माघस्येह युगादितयाऽभिहितपञ्चदशीशब्दसाधारण्येऽपि च सति कृष्णत्रयोदशीसन्निकर्षात् युगादिर्माघामावास्यैव युक्ता, माध्यपि पुण्यैवोक्ता वाक्यान्तरेण युगादिर्न भवत्येव “माघी चेन्मघायुक्ता स्यात्तस्यां श्राद्धं कृत्वा पूतो भवती”ति विष्णुस्मरणात्। पौर्णमासीत्वोपाधिना श्राद्धकालत्वेसिद्धेऽपि मघातिलग्रहणं फलातिशयार्थ निकृष्टाया अपि श्राद्धकालत्वात्। तथा—
“पौर्णमास्यां व्यतीपातष्वष्टकासु विशेषतः।
एषु श्राद्धमकुर्वाणो नरकं प्रतिपद्यत”इति।
एवमनयैव दिशा गुणान्तरसम्बन्धेऽप्यूहनीयम्।
तथा विष्णुपुराणे—
“मधौ सिते पञ्चदशी कदाचिदुपैति योगं यदि वारुणेन।
ऋक्षेण कालः स परः पितॄणा नैवाल्पपुण्यैर्नृप लभ्यतेऽसौ॥
काले धनिष्ठा यदि नाम तत्र भवेत्तु भूपाल तदा पितृभ्यः।
दत्तं जलान्नं च ददाति तृप्ति वर्षायुतं तत्कुलजैर्मनुष्यैः॥
तत्रैव चेद्भाद्रपदा च पूर्वा काले तदा यत् क्रियते पितृभ्यः।
श्राद्धं परा तृप्तिमुपेत्य ते च युगं समग्र पितरः स्वपन्ति॥
वारुणं शतभिषा नक्षत्रम्, अमावास्या इन्दुक्षयात् पुण्या,
युगादित्वात्पुण्यतरा नक्षत्रयोगाच्च पुण्यतमेति॥
तथा—
“अयने षडशीतौच चन्द्रसूर्यग्रहे तथा।
युगादौ वैधृतौ चैव दत्तं भवति चाक्षयम्”॥
अयने षडशीतौ चेति चशब्देन विष्णुपदानां ग्रहणम्। षडशीति विष्णुपद्योर्लक्षणमाह—
“कुम्भालिगोहरिषु विष्णुपदं वदन्ति स्त्रीचापमीनमिथुने षडशीतिरेव”।
अलिः वृश्चिकः, गौर्वृषभः, हरिः सिंहः, स्त्री कन्या, चापं धनुः, स्पष्टमन्यत्। श्लोके युगादिग्रहणं मन्वादीन् लक्षयति मन्वादीश्च।
मत्स्यपुराणे—
“आश्वयुक्शुक्लनवमी कार्त्तिके द्वादशी सिता।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च॥
फाल्गुनस्य त्वमावास्या पुष्यस्यैकादशी सिता।
आषाढस्यापि दशमी माघमासस्य सप्तमी॥
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा।
कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता॥
मन्वन्तरादयश्चैते कर्तुश्र्वाक्षयकारकाः”इति।
श्रावणात्पूर्वंसर्वत्र शुक्लपदमनुषज्यते। श्रावणादारभ्य यत्र यथोक्तं तत्तथेति। कर्त्तुरिति श्राद्धादेरित्यर्थः।
युगादिविषये विशेषः—
“द्वेशुक्ले द्वे तथा कृष्णे युगाद्याः कवयो विदुः।
शुक्ले पूर्वाह्णिके ग्राह्ये कृष्णे चैवापराह्णिके”इति।
कृत्तिकादिनक्षत्राणि काम्यः श्राद्धकालः।
तथा च योगीश्वरः—
“स्वर्गंह्यपत्यं मोक्षं च शौर्यंक्षेत्रं बलं तथा।
पुत्रं श्रैष्ठ्यं च सौभाग्यं समृद्धि मुख्यतां शुभम्॥
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि।
अरोगित्वं यशो वीतशोकतां परमां गतिम्॥
धर्मे विद्यां भिषक्सिद्धि कुप्यं गां चाप्यजादिकम्।
अश्वानायुश्च विधिवत् यः श्राद्धं सम्प्रयच्छति॥
कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान्”इति।
तथा च विष्णुः—
“स्वर्ग कृत्तिकासु, अपत्यं रोहिणीषु, ब्रह्मवर्चसं सौम्ये, रौद्राणां सिद्धिं रौद्रे, भुवं पुनर्वसौ, पुष्टिं पुष्ये, श्रियं सार्पे, सर्वान् कामान् पित्र्ये, सौभाग्यं भागे, धनमार्यम्णे, ज्ञातिश्रैष्ठ्यं हस्ते, रूपवतः सुतांस्त्वाष्ट्रे, वाणिज्यसिद्धिं स्वातौ, कनकं विशाखासु, मित्राणि मैत्रे, शाक्रे राज्यं, कृषि मूले, समुद्रयानसिद्धिमाप्ये, सर्वान्कामान्वैश्वदैवे, श्रैष्ठ्यमभिजिति, सर्वान् कामान् श्रवणे, बलं वासवे, आरोग्यं वारुणे, कुप्यद्रव्यमाजे, गृहमहिर्बुध्न्ये, गाः पौष्णो, तुरङ्गमाश्विने, जीवितं याम्य”इति। तथा रव्यादयो वाराःकाम्यश्राद्धकालाः। तदुक्तं विष्णुना—
“सन्ततिमादित्येऽह्निश्राद्धं कुर्वन्नाप्नोति सौभाग्य चन्द्रे समा विजयं कुजे सर्वान् कामान् बुधे विद्यामभीष्टा जैवे धनं शौक्रे जीवितं शनैश्वरे”।
तथा विष्णुधर्मोत्तरे—
“अतः काम्यानि वक्ष्यामि श्राद्धानि तव पार्थिव॥
आरोग्यं सर्वसौभाग्यं समरे विजयं तथा॥
सर्वान् कामान् तथा विद्या धनं जीवितमेव च।
आदित्यादिदिनेष्वेव श्राद्धं कुर्वन् सदा नरः।
क्रमेणैतत्समाप्नोति नात्र कार्या विचारणेति”॥
तथा कूर्मपुराणे—
“आदित्यवारे त्वारोग्यं चन्द्रे सौभाग्यमेव च।
कुजे सर्वत्र विजयं सर्वान् कामान् बुधेन तु॥
विद्यां विशिष्टां च गुरौ धनं वै भार्गवे पुनः।
शनैश्चरे लभेदायुरारोग्यं च सुदुर्लभम्” इति।
तथा प्रतिपदादितिथीनामपि काम्यश्राद्धकालत्वम्।
तदुक्तं मनुना—
“कुर्वन् प्रतिपदि श्राद्धं सुरूपान् विन्दते सुतान्।
कन्यकांतु द्वितीयायां तृतीयायान्तु बन्दिनः॥
पशून् क्षुद्रांश्चतुर्थ्यान्तु पञ्चम्यां शोभनान् सुतान्।
षष्ठ्यां द्यूतं कृषि चैव सप्तम्यां लभते नरः॥
अष्टम्यामपि वाणिज्यं लभते श्राद्धदः सदा
नवम्यामेवैकखुरं दशम्यां द्विशफंबहु॥
एकादश्यां तथा रौप्यं ब्रह्मवर्चस्विनः सुतान्।
द्वादश्यां जातरूप्यं च रजतं कुप्यमेव च॥
ज्ञातिश्रैष्ठ्यंत्रयोदश्यां चतुर्दश्यां तु सुप्रजाः॥
प्रीयन्ते पितरश्चास्य ये शस्त्रेण रणे हताः।
श्राद्धदः पञ्चदश्या तु सर्वान्कामान् समश्रुते”। कात्यायन—
“अथ काम्यानि भवन्ति स्त्रियोऽप्रतिरूपाः प्रतिपदि, द्वितीयायां स्त्रीजन्म, अश्वास्तृतीयायां चतुर्थ्यो क्षुद्रपशवः, पुत्राः पञ्चम्यां, द्यूतं षष्ठ्याम्, कृषिः सप्तम्या, वाणिज्यमष्टम्यामेकशफं नवम्यां, दशम्यां गावः, परिचारका एकादश्यां धनधान्यर्ठ० हिरण्यं द्वादश्यां, ज्ञातिश्रेष्ठ्यं त्रयोदश्या, युवानस्तत्र म्रियन्ते शस्त्रहताश्चतुर्दश्याममावास्यायां सर्वमि”ति।
तथा याज्ञवल्क्योऽपि —
“कन्यां कन्यावेदिनश्च पशून् वै तत्सुतानपि।
द्यूत कृषि च वाणिज्यं द्विशफैकशफं तथा॥
ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके।
ज्ञातिश्रैष्ठ्यं सर्वकामान् प्राप्नोति श्राद्धदः सदा॥
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम्।
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते”।
कन्यावेदिनो जामातरः। एतानि फलानि कृष्णपक्षप्रतिपदिप्रभृतिष्वमावास्यापर्यन्तानि। अयं तिथिषु श्राद्धविधिर्न सर्वेष्वपरपक्षेषु किंतु भाद्रपदापरपक्ष एव।
“प्रौष्ठपदाद्यपरपक्षे मासि चैव मि”ति शोनकस्मरणात्। तथाऽऽपस्तम्बोऽपि—
“सर्वेष्वेवापरपक्षेषु श्राद्धे क्रियमाणे पितृृणा प्रीतिः, कर्तुस्तु कालनियमात्फलविशेषः। प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्यं जायते, द्वितीये स्त्रैणम्, तृतीये ब्रह्मवर्चसं, चतुर्थे क्षुद्रपशवः, पञ्चमे पुमान्, षष्ठेऽध्वशीलोऽक्षशीलश्च, सप्तमे कृषेराप्तिः,अष्टमे पुष्टिः, नवमे एकखुरम्, दशमे व्यवहारसिद्धिः, एकादशे कृष्णायसं त्रपुसीसं, द्वादशे पशुमान्, त्रयोदशे बहुमित्रो दर्शनीयापत्यो भवति, चतुर्दशे आयुधसिद्धिः, पञ्चदशे पुष्टिः”।
नभस्ये कृष्णपक्षप्रतिपत्प्रभृति पञ्चदश दिनानि कृत्स्नशोऽपि पक्षः कन्यागते सवितरि महालय इत्युच्यते। तत्र च श्राद्धं पार्वणविधिनैव कर्तव्यम्। तदुक्तं वृद्धमनुना—
“नभस्यस्यापरः पक्षो यत्र कन्या व्रजेद्रविः।
स महालयसंयुक्तो गजच्छायाह्वयस्तथा”इति।
“नभस्यस्यापरे पक्षे तिथिषोडशकं तु यत्”
इति शाङ्खायनवचनं दिनवृद्ध्यभिप्रायेण, अन्यथा तस्य त्याज्यत्वापत्तेः। अथवा प्रदिपदमारभ्य प्रतिपदि समाप्तिः, प्रतिपदोऽपि नष्टचन्द्रत्वात्। अथवा पौर्णमास्यामारभ्यामायां समाप्तिरिति। ततश्च द्वादशकपालेषु अष्टाकपालवत् षोडशदिवसेषु पञ्चदशदिनवचनमवयुत्यनुवादो भविष्यति। अथवा पञ्चदशषोडशदिनयोर्विकल्पः। कन्यास्थार्कःप्राशस्त्यायैव—
“कन्यागते सवितरि श्राद्धं कुर्वीत सर्वथा।
आषाढ्याःपञ्चमः पक्षः प्रशस्तः पितृकर्मणि”
इति जाबालिस्मरणात् ।
“पुत्रानायुस्तथाऽऽरोग्यमैश्वर्यमतुलं तथा।
प्राप्नोति पञ्चमे दत्वा श्राद्धं कामांश्च पुष्कलान्”
इति षट्त्रिशन्मतवचनात्। दर्शग्रहणं शुक्लकृष्णैकादश्योरुपलक्षणार्थम्।
”श्राद्धविघ्नेसमुत्पन्ने त्वविज्ञाते मृतेऽहनि।
एकादश्यान्तु कुर्वीत कृष्णापक्षे विशेषत”
इति मरीचिस्मरणात् ।
अत्रैवमन्वयः—या कृष्णपक्षनिष्ठैकादशी तस्यां विशेषतः कर्तव्यमिति, यतः पितृकार्ये कृष्णपक्षस्यैव विशेषेण ग्राह्यत्वात्। कृष्णैकादशीतोऽपि अमावास्यायां फलविशेषः श्रूयते। मार्कण्डेयः—
“प्रतिपद्धनलाभाय द्वितीया हि प्रजाप्रदा।
वरार्थिनी तृतीया च चतुर्थी शत्रुनाशिनी॥
श्रियं प्राप्नोति पञ्चम्यां षष्ठ्यां पूज्यो भवेन्नरः।
गणाधिपत्यं सप्तम्यामष्टम्यां बुद्धिमुत्तमाम्॥
शिवं नवम्यां प्राप्नोति दशम्यां पूर्णकामताम्।
वेदांस्तथाऽऽप्नुयात् सर्वान् एकादश्यां क्रियापरः॥
द्वादश्यां हेमलाभं तु प्राप्नोति पितृपूजकः।
प्रज्ञां मेधां पशुं पुष्टि स्वातन्त्र्यं वृद्धिमुत्तमाम्॥
दीर्घमायुरर्थैश्वर्यंकुर्वाणस्तु त्रयोदशीम्।
अवाप्नोति न सन्देहः श्राद्धे श्राद्धपरो नरः॥
युवानः पितरो यस्य मृताः शस्त्रण वै हताः।
तेन कार्य चतुर्दश्यां तेषां तृप्तिमभीप्सताम्।
श्राद्धं कुर्वन्नमावास्यां यत्नन पुरुषः शुचिः।
सर्वान् कामानवाप्नोति स्वर्गे वासं समश्रुते”॥
तत्र वर्ज्यानाह —
“नन्दायां भार्गवदिने त्रयोदश्या त्रिजन्मनि।
एषु श्राद्धं न कुर्वीत गृही पुत्रधनक्षयात्”।
वृद्धगार्ग्यः—
“प्राजापत्ये च पोष्णे च पित्रर्क्षे भार्गवे तथा।
यस्तु श्राद्धं प्रकुर्वीत तस्य पुत्रो विनश्यति”॥
प्राजापत्यं रोहिणी, पौष्ण रेवती, पित्रर्क्षमघा।
तथा—
“त्रयोदश्यां कृष्णपक्षे यः श्राद्ध कुरुते नरः।
पञ्चत्वं तस्य जानीयाज्जेष्ठपुत्रस्य निश्चितम्”इति।
एतत् श्राद्धं सूतिकादिना मुख्यकालातिक्रमे त्वाशाचापगमानन्तरं कार्यम्। तदुक्तमृष्यशृङ्गेण—
“देये पितॄणा श्राद्धे तु आशौचं जायते यदा।
आशौचे तु व्यतिक्रान्ते तेभ्यः श्राद्धं प्रदीयते”।
अत्रात्रिः—
“तदहश्चेत्प्रदुष्येत केनचित्सूतकादिना।
सूतकानन्तरं कुर्यात्पुनस्तदहरेव चे”ति।
अत्र च पक्षद्वयमभिहितं सूतकानन्तरं कालान्तरं च।अन्यस्मिन्पक्षे वा तत्तिथौवेति। तत्र प्रथमपक्षस्त्वविरुद्ध एव। पुनस्तदहरेवेति पक्षविहितं सूतकव्यतिरिक्तनिमित्तान्तरोत्पन्ने विघ्ने प्रतिमासं क्षयाहविहितैकोद्दिष्टमासिकश्राद्धविषयमिति पूर्वोक्तवचनाविरुद्ध इति व्यवस्था ज्ञाप्यते।
“एकोद्दिष्टे तु सम्प्राप्ते यदि विघ्नः प्रजायते।
अन्यस्मिस्तत्तिथौ तस्मिन् श्राद्धं कुर्याद्यथाविधि”इति देवलस्मरणात् ।
अन्यस्मिन्नन्तरे मासि तत्तिथौ मृतितिथौ यस्मिन् शुक्ले कृष्णो वा मृतस्तस्मिन्पक्षे, श्राद्धं विघ्नवशादतिक्रान्तं कुर्यादित्यर्थः। आशौचनिमित्तेन विघ्ने जाते मासिकं श्राद्धमपि सूतकानन्तरमेव वचनबलादनुष्ठेयम्। देवस्वामी च एवमेव व्यवस्थां कृतवान्।
यत्तु व्यासेनोक्तं—
“श्राद्धविघ्ने समुत्पन्ने त्वन्तरा मृतसूतके।
अमावास्या प्रकुर्वीत शुद्धावेके मनीषिणः”।
अन्तरा मृतसूतके श्राद्धप्रयोगमध्ये पाकोपक्रमात् प्राक् मृतके सूतके वा जाते अमावास्याम् अमावास्यायां शुद्धौ शुद्ध्यनन्तरं वा अनुष्ठेयमिति, इदमपि अनुमासिकसांवत्सरिकश्राद्धविषयम्।
“मासिकेऽब्दे तु सम्प्राप्ते त्वन्तरा मृतसूतके।
वदन्ति शुद्धौ तत्कार्य दर्शे वाऽपि विचक्षणः”
इति षट्त्रिंशन्मतवचनात्। दर्शग्रहणन्तु शुक्लकृष्णैकादश्योरुपलक्षणार्थम्,
“श्राद्धविघ्नेसमुत्यन्ने त्वविज्ञाने मृर्तऽहनि।
एकादश्यान्तु कर्तव्यं कृष्णपक्षे विशेषतः”इति मरीचिस्मरणात्।
अत्रैवमन्वयः।कृष्णपक्षनिष्ठा या एकादशी तस्यां विशेषतः कर्तव्यमिति। पितृकार्येषु कृष्णपक्षस्यैव विशेषेण ग्राह्यत्वात्। कृष्णैकादशीतोऽपि अमावस्याया मुख्यत्व पितृकार्येषु दण्डाषूपन्यायसिद्धं बोध्यम्। अयमाशय—सर्वथा ह्याशोचसममन्तरकालो मुख्यः कालः स एव सन्निकृष्टत्वेन ज्यायान्, अमावास्याकालस्तु जघन्यः, मुख्यकालप्रत्यासत्त्यभावात्। अनेनैवाभिप्रायेणोक्तवानृष्यशृङ्गः—
“शूचीभूतेन दातव्यं या तिथिः प्रतिपद्यते।
सा तिथिस्तस्त्र कर्तव्या न चान्या वै कथञ्चन” इति।
ततश्चायं तात्पर्यार्थः—शुद्धस्य श्राद्धानुष्ठेयता आवश्यकी। तत्राशौचवशात् मुख्यकाले शुद्ध्यसंभवेऽशुद्ध्यनन्तर या तिथिःप्रतिपद्येत सा तिथिस्तस्य कर्मणोऽङ्गतया उपादेया। अन्या मुख्यातिथिः कदाचिदपि नोपादेया। आशौचादूषिता तु मुख्या तिथिःसदाऽनुष्ठेया—
“तिथिच्छेदो न कर्त्तव्यो विनाऽऽशौचं यदृच्छया।
पिण्डं श्राद्धं च दातव्यं विच्छित्ति न च कारयेदि”ति स्मरणात्। चकारो ह्यग्नौकरणसमुच्चयार्थः। ब्राह्मणतर्पणमात्रमत्रश्राद्धशब्दाभिधेयम् पिण्डदानस्य पृथगुपादानात्।
वस्तुतस्तु ब्राह्मणभोजनपिण्डदानहोमसमुदायस्यश्राद्धशब्दाभिधेयत्वम्, एकैकस्मिन् श्राद्धशब्दस्यौपचारिकत्वात्। विच्छिति च न कारयेदित्यस्यायमर्थः। ब्राह्मणभोजनस्य कर्तुमसामर्थ्ये तत्र पिण्डदानमात्रमपि कर्तव्यम्। सर्वथाऽपि कर्मविच्छेदो न कर्तव्य इति। तथा च निगमः—
“आहिताग्नेः पित्रर्चनं पिण्डैरेव ब्राह्मणानपि वा भोजयेदि”ति।अत्र व्यवस्थावाचको वाशब्दः। व्यवस्था चैतादृशी सत्यां शक्तौ ब्राह्मणतर्पणपिण्डदानेऽनुष्ठेये, अशक्त्या तु पिण्डदानमात्रमिति।
इति श्रीमल्लक्ष्मीनृसिंहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डनसमस्त-
यवनाधीश्वरश्रीनिजामसाहसमस्तराज्यधुरन्धरश्रीमन्महाराजाधिराज
श्रीदलपतिराजविरचिते श्रीनृसिंहप्रसादे
श्राद्धसारे श्राद्धभेदादिनिर्णयः।
<MISSING_FIG href=”../books_images/1687583864.png"/>
अथ गन्धादीना निर्णयः
<MISSING_FIG href="../books_images/1687769427.png"/>
विष्णुः —
“चन्दनकर्पूरकुङ्कुमनागरपद्मकान्यनुलेपनाय”इति। दद्यादिति शेषः।
तत्र मरीचिः—
“कर्पूरकुङ्कुमोपेतं सुगन्धं सितचन्दनम्।
दैविके त्वथवा पित्र्ये गन्धदाने प्रशस्यते”
मार्कण्डेयः—
“चन्दनागुरुकर्पूरकुङ्कुमानि प्रदीपयेत्।
अश्वमेधमवाप्नोति पितॄणामुपलेपनात्”।
तस्मात्सुरभि चन्दनं देयम्।
तथा च स्मत्यन्तरम्—
“नागन्धं न दुर्गन्धं न कृष्णां नात्यल्पं च दद्यादि”ति विष्णुः।
ब्रह्मपुराणे—
“श्वेतचन्दनकर्पूरचन्दनानि शुभानि च।
विलेपनार्थंदद्यात्तु यच्चान्यत् पितृवल्लभम्”इति।
भृगुः—
“सपवित्रेण हस्तेन द्याद्नन्धानुलेपनम्।
एकवासाश्चयो दद्यात् निराशाः पितरो गताः”इति।
ब्राह्मणानामपि कश्चिन्नियमः—
“ललाटे पुण्ड्रकं दृष्ट्वास्कन्धे माला तथैव च।
निराशाः पितरो यान्ति दृष्ट्वा च वृषलीपतिम्” इति।
पुण्ड्रनिषेधस्तु तिर्यक् पुड्रविषयःनोर्ध्वपुण्ड्रविषयता तस्य कल्पयितुं शक्या, तस्य सर्वदा विहितत्वात्। प्रति पादितमेतन्नित्यप्रकरणे सम्यक्तया।
तथा श्राद्धदेशे श्वमार्जारकुक्कुटशूद्रपतितव्यङ्गोन्मत्ताचारहीन कृष्णाविककृष्णायसरक्तवासांसि दूरतो निःसारयेदिति।
अथ पुष्पाणि ।
अत्र पद्मोत्पलानि शुक्लेतराण्यपि देयानि। अत्र विष्णुः—“जलजानि रक्तान्यपि दद्यात्”।
तदुक्तं ब्रह्माण्डपुराणे—
“शुक्लाःसुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च।
गन्धवर्णोपपन्नानि यानि चान्यानि कृत्स्नशः”इति।
मार्कण्डेयः—
“जातौ च सर्वदा देया मल्लिका श्चेतयूथिका।
जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम्”।
एवं तुलसीविषये—
“पितृपिण्डार्चनं श्राद्धे यैः कृतं तुलसीदलैः।
प्रीणीताः पितरस्तेन यावच्चन्द्रार्कभेदिनि”।
अत्र जातीकुसुमं न देयम्।
“न जातीकुसुमानि दद्यान्न कदलीपत्रमि”ति अङ्गिरसा निषेधाभिधानात्।
तथा क्रतुरपि निषेधति—
“असुराणां कुले जाता जाती पूर्वपरिग्रहे।
तस्या दर्शनमात्रेण निराशाः पितरो गता”इति।
अत्र जातीकुसुमनिषेधो वैकल्पिक इति ज्ञेयम्, क्रतुषु निषेधो मार्कण्डेये विधिः। अतो विहितप्रतिषिद्धत्वाद्विकल्प एव न्याय्यः। तानि पुष्पानि करवीरव्यतिरिक्तानि, करवीराणां निषेधात्। तथा च स्मरन्ति शिष्टाः—
“तुलसी भृङ्गराजं शमीपत्रं कुशपत्रं पुष्पादीनि च दद्यात् करवीराणि न दद्यात्”इति।
तत्र वर्ज्यानाह विष्णुः—
“उग्रगन्धीन्यगन्धीनि चैत्यवृक्षोद्भवानि च।
पुष्पाणि वर्जनीयानी रक्तवर्णानि यानि च”।
चैत्यवृक्षोद्भवानि श्मशानदेशवृक्षोद्भवानि।
अत्र रक्तवर्णनिषेधो जलजव्यतिरिक्तविषयः।
“जलोद्भवानि देयानि रक्तान्यपि विशेषतः”इति वचनात्।
“वर्जयेद्दुर्गन्धानि कण्टकजातानि रक्तानि पुष्पाणि च सितानि सुगन्धीनि कण्टकजातान्यपि दद्यादि”ति विष्णुस्मरणाच्च।
तथा मत्स्यपुराणेऽपि—
“पद्मबिल्वार्कधत्तूरपारिभद्राटरूषकाः।
न देयाः पितृकार्येषु पयश्चाजाविकं तथा”।
पारिभद्रो मन्दारः। आटरूष आढरूपः।
“मयूरकाण्डध्वनिका राजमाषकुसुम्भिका।
पद्मबिल्वार्कधत्तूरे”ति। काण्डध्वनिकेति वल्लीविशेषः।
अथ धूपः ।
विष्णुधर्मोत्तरे—
“धूपो गुग्गुलुजो देयस्तथा चन्दनसारजः।
अगुरुश्चसकर्पूरस्तुरूष्कश्चतथैव च”।
तुरुष्केति सुगन्धिधूपस्याभिधानम्। तुरुष्कः इमलिवृक्ष इति वा।
“चन्दनागुरुणी चोभे तमालोशीरपत्रकम्।
धूपे च गुग्गुलुः श्रेष्ठः तुरुष्कत्वक् तथैव च”।
तमालो वृक्षविशेषः। उक्तमन्यत्।
मार्कण्डेयः—
“सघृतं गुग्गुलुं धूपं पितॄणां यः प्रयच्छति।
अश्वमेधफलं तस्य दीपदस्य तथैव च”।
गुग्गुलुविधौ घृतग्रहणं मधुन उषलक्षणार्थम्।
“घृताद्वा तिलतैलाद्वा नान्यद्दद्यात्तु दीपकम्”इति स्मरणात्।
विकल्पस्तु सम्भवासम्भवाभिप्रायेण ।
तथैवाभिहितं विष्णुधर्मोत्तरे—
“धूपार्थे गुग्गुलुं दद्याद् घृतयुक्तं मधूत्कटम्”इति।
प्राण्यङ्गधृपनिषेधस्तु विष्णूक्तः। “जीवजं च सर्वंन धूपार्थमि”ति। जीवजं कस्तूर्यादि। चन्दनकुङ्कुमकर्पूरागुरुपद्मकान्यनुलेपनार्थ इति।
दीपविषये शङ्खः—
“घृतेन दीपो दातव्यस्तथा चान्यौषधीरसैः।
वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत्” इति।
ओषधीरसैरित्यव दीर्घता छान्दसी। अन्योऽपि क्वश्चिद्विशेषः।
तत्र कात्यायनः—
“तैलमुद्वर्तनं स्नानं दन्तधावनमेव च।
कृतं रोमनखेभ्यस्तु दद्यात्तेभ्योऽपरेऽहनी”ति।
तत्र कर्मणःस्नानादेर्दातुमशक्यत्वात्तत्कर्मणा कर्मसाधनद्रव्यं लक्ष्यते। ततश्च स्नानसाधनं द्रव्यं देयमपि तैलमनिषिद्धतिथावेव देयम्, तत्र तैलप्रतिषेधात्। तैलस्यादेयत्वेऽपि आमलकोदक्वंदद्यात्। तदपि द्वादशघटीषु वृत्तासु देयम्।
“अन्हः षट्सु मुहूर्तेषु गतेष्वथ च तान् द्विजान्।
प्रत्येकं प्रेषयन् प्रेष्यान् प्रदायामलकोदकम्”इति मार्कण्डेयवचनात्।
आमलकदानमपि अमावास्याव्यतिरिक्तविषयम्।
“अमाया धात्रीफलैर्न स्नायात्”इति स्मरणात्। तत्रापि विशेषो देवलेनाभिहितः—
“तैलमुद्वर्तनं स्नानं स्नानीयं च पृथग्विधम्।
पात्रैरौदुम्बरैर्दद्यात् वैश्वदेविकपूर्वकम्”इति।
ताम्रघटितं पात्रमोदुम्बरम्। श्राद्धकृत् नग्वश्मश्रुछेदनं न कारयेत् इति तत्तद्विषयम्।
तथा श्राद्धदेशे च एतावती सामग्री सम्पादनीयाकुश यवतित्वकांस्यमाषपार्णराजताम्रमधुपुष्प- धृपदीपचन्दनभृङ्गराजश्रीतुलसीदलाऽनिषिद्धनानाजातीयसुगन्धिपुष्पकर्पूरागुरुकुङ्कुमसुगन्धिचन्दन क्षौद्र क्षौमसूत्रमेक्षण जर्तिल वृषीरूपाऽऽसन नेपालकम्वल रूप्यखड्गपात्रदौहित्रप्रभृतयः सम्पादनीयाः। मध्याह्नः अष्टममुहूर्तादपरः कालः। मुख्यतिलाभावे जर्तिलाः।
तल्लक्षणम्—
“जर्तिलास्तु तिलाः प्रोक्ताः कृष्णवर्णावनेभवाः।
अटव्यां ये समुत्पन्नाः अकृष्टफलिनस्तथा॥
ते वै श्राद्धे पवित्राः स्युः तिलास्ते जर्तिलास्तिलाः”
इति आपस्तम्बेन प्रशस्ततयाऽभिधानात्। निमन्त्रितब्राह्मणनामुपवेशनार्थ वृसीरूपासनानि। “कुतुपं च स वै दद्यादि”ति मनुस्मरणात्। नेपालदेशप्रभवमेषादिरोमनिर्मितः कम्बलः कुतुपः। तथा च स्मृत्यन्तरम्—
“मध्यान्हः खड्गपात्रं च तथा नेपालकम्बलम्।
रूप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः”इति।
तथा—
“श्राद्धे त्रीणि पवित्राणि दौहित्रः कुतपास्लिाः”इति।
कुं तापयतीति कुतपः ।
“पापं कुत्सितामित्याहुस्तस्य सन्तापकारकम्।
अष्टावेतेयतस्तस्मात्कुतपा इति विश्रुताः”इति स्मरणात्।
तथा भोजनार्थमघ्यार्थंच पार्णराजतताम्रकांस्यपात्राणि। पर्णानि पलाशस्यैव।
“न मृन्मयानि कुर्वीति भोजने देवपित्र्ययोः।
पलाशेभ्यो विना न स्युः पर्णपात्राणि भोजने”इत्यत्रि स्मरणात्। अर्घ्यार्थ त्वन्यपर्णानि निषिद्धानि खादिरौदुम्बराण्यर्घपात्राणि।
“अथवा मृन्मयानि स्युरपि पर्णपुटास्तथे”ति स्मरणात्।
वस्त्राणि च ब्राह्मणार्थे कौशेयक्षौमकार्पासदुकूलानि।
“कौशेयं क्षौमकार्पासं दुकूलमहतं तथा।
श्राद्ध एतानि यो दद्यात् कामानाप्नोति पुष्कलान्”इति स्मृतेः। तस्मात्पूर्वोक्तदर्भादिमेक्षणान्तं द्रव्यं सम्पाद्य स्त्रावा शुक्लवस्त्रपरिधानं कुर्यात्।
“स्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि”इति,
“श्राद्धकृच्छुक्लवासाः स्यादि”ति च स्मरणात्।
पाद्यमाचमनीयं च स प्रयच्छेद्यथाविधि”।
कृताञ्जलिः (पाद्यमाचमनीयं च) स्वागतमित्युक्त्वाऽऽचमनार्थमुदकं दद्यात्। तत्र मार्कण्डेयः—
ततः स्नानानन्तरमेतावत्कर्म कर्तव्यमिति प्राह यमः—
“ततः स्नात्वा निवृत्तो यः प्रत्युत्थाय कृताञ्जलिः।
“स्नातः स्नातात्समाहूतान् स्वागतानर्हयेत्पृथक्।
स्थितो देशे विविक्ते तु प्रकीर्य तिलवहिषी”ति।
अनेन प्रकारेण स्नातान् ब्राह्मणान् स्वयच स्नातः सन्नाहूय श्राद्धं प्रारभेत्। अत्र सर्व दैवं प्रादक्षिणयेन कार्यम्। पित्र्यं च सव्येन विना परिवेषणम्। तथा च गृह्यसूत्रकाराः—“प्रादक्षिण्येन सर्व कार्यमानिधनात् श्राद्ध परिसमाप्तेरिति”। तथा—
मनुरपि —
“प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा।
पित्र्यमानिधानात्कार्य विधिवद्दर्भपाणिना”।
अयमर्थः—पित्र्ये कर्मणि परिवेषणमन्तरेण यत् पित्र्यं तदपसव्यपितृतीर्थाभ्यामेवेति। अतन्द्रिणा अनलसेन। पित्र्यग्रहणं दैविकं सर्वमपि प्रादक्षिण्येन यज्ञोपवीतेन देवतीर्थेन च कार्यमिति सूचयति। अत्र सर्व श्राद्धमपसव्येनैव समापनीयतया प्राप्तं तथापि सूक्तस्तोत्रजपादि ब्राह्मणविसर्जनादि परिवेषणं च सव्येनैवानुतिष्ठेत्। तदाह जमदग्निः—
“अपसव्येन कर्तव्यं सर्वंश्राद्धं यथाविधि।
सूक्तस्तोत्रं जपं मुक्त्वा विप्राणां च विसर्जनम्”इति।
सूक्तं दातारो नोऽभिवर्द्धन्तामिति, तथा शिवा आपः सन्त्वित्यादि चेति स्तुतिः स्तोत्रं, सप्तव्याधा दशार्णेष्वित्यादि गयाप्रशंसा,विसर्जनं वाजे वाजे वाजिनो न इत्यादिमन्त्रः। तथा श्राद्धारम्भेश्राद्धभूमौ गयां ध्यात्वेत्यादि, तथा विकल्पतो दक्षिणादानमपि इत्यादि सर्व विहायान्यत्सर्व प्राचीनावीतिना कार्यम्। क्रतुराह—
“दर्भपाणिर्द्विराचम्य लघुवासा जितेन्द्रियः।
परिश्रिते शुचौ देशे गोमयेनोपलेपिते॥
दक्षिणाप्रवणे सम्यगाचान्तान् प्रयतान् शुचीन्।
आसनेषु विविक्तेषु विप्रांस्तानुपवेशयेत्”इति।
ब्राह्मणास्तु षट् द्वौ दैवे, त्रयः पित्र्ये एको विष्णुश्चेति। समर्थोऽपि न श्राद्धे विस्तरं कुर्यात्। अत एव ब्राह्मणसंख्या मनुना दर्शिता—
“द्वौ दैवे पितृकार्यंत्रीन् एकैकमुभयत्र वा।
भोजयेत्सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम्”इति।
यद्यपि न कुर्यादिति नञ्योगि आख्यातविध्यर्थश्रवणात् विस्तरनिषेधः प्रतीयते, तथापि धर्मभूयस्त्वे फलभूयस्त्वस्य न्याय्यत्वात् सत्क्रियादिदेशसम्पादनसमर्थस्य विस्तराङ्गीकरणस्य सुकरत्वात् “नहि निन्दा निन्द्यं स्तोतुमि”ति न्यायेन जर्तिलयवाग्वा वा जुहुयादित्यादिवद्विधेयलघुपक्षस्तुत्यर्थोऽयं निन्दार्थवाद इति भावः। तथा पुराणेऽपि दर्शितम्—
“पञ्चभिः पञ्चभिर्विप्रैः द्वाभ्यां द्वाभ्यामथापि वा।
श्राद्धद्वयं त्रिभिर्वा स्यादेकेनैवाथवा पुनः”इति।
अयमर्थः—वर्गद्वये अक्षरचतुष्टयाधिकसार्द्धश्लोकेन पूर्वपक्षे पृथक् दैवं विधाय द्वादशभिरक्षरैः स्तोत्रमेवाभिधीयते।
श्राद्धसारे ब्राह्मणसंख्या
“तथा मातामहश्राद्धं वैश्वदेवसमन्वितम्।
कुर्वीत शक्तिसम्पन्नस्तन्त्रं वा वैश्वदेविकमि”ति मरीचिस्मरणात्। तथेति पितृश्राद्धधर्मातिदेशार्थतावधारणेन विकल्पे ततश्च तन्त्रमेवेत्यर्थः।
असमर्थश्चेदेकेनापि ब्राह्मणेन श्राद्धं कुर्यात् तथाह शङ्खः—
“भोजयेदथवाऽप्येकं ब्राह्मणं पङ्क्तिपावनम्।
दैवे कृत्वा तु नैवेद्यं पश्चात्तस्यानुनिर्वपेत्” इति।
ततश्च वर्गद्वयोद्देशेनैकमप्याशयेदिति तात्पर्यार्थः। तस्येति ब्राह्मणस्य। यश्चैको भोज्यः स च छन्दोग एव भोज्यः। यतो हि ऋग्यजुःसामानि तत्र वर्तन्ते। तत्र च पितुर्ऋचा तृप्तिः यजुषा पितामहस्य साम्ना प्रपितामहस्य। तदुक्तम्—
“ऋचा च तृप्यति पिता यजुषा च पितामहः।
प्रपितामहस्तथा साम्ना सामगो ह्यधिकस्ततः”
इति। तथा गोभिलोऽपि— छन्दोगस्य वैकैकस्य भोज्यतामाह—
“यद्येकं भोजयेच्छ्राद्धे छन्दोगंत त्र भोजयेत्।
ऋचो यजूंषि सामानि त्रितयं तत्र विद्यते”॥
तथाऽपरो विशेषः—
“छन्दोगं भोजयेच्छ्राद्धे वैश्वदैवे तु बह्वृचम्।
पुष्टिकर्मण्यथाध्वर्युंशान्तिकर्मण्यथर्वणम्” इति।
ननु एकब्राह्मणपक्षे वैश्वदेवस्थाने कथम् इत्थम्, अग्निरेव तत्र नियोज्यः।
“एक एव यदा विप्रो द्वितीयो नोपपद्यते।
पितॄणां ब्राह्मणो योज्यो दैवं त्वग्नौ नियोजयेदि”तिशङ्खस्मरणात्। यदा द्वौ ब्राह्मणौ तदाऽग्नौ वैश्वदैवं नियोज्य वर्गद्वयं ब्राह्मणद्वये नियोजयेत्। वैश्वदेवस्याङ्गत्वात्पैतृकस्य प्रधानत्वात्। अङ्गगुणविरोधे च तादर्थ्यादिति न्यायात् प्रधानानुरोधेनाङ्गानुष्ठेयत्वेऽपि अङ्गानुरोधेन प्रधानबाधाया अयुक्तत्वात् इति।
ततश्चायं शास्त्रार्थः— साग्निश्चेदग्नि नियोजयेदनग्निश्चेद्दर्भमुष्टिं नियोजयेदिति।
“एकस्मिन् ब्राह्मणे दैवे साक्षिरग्निर्भवेत्सदा।
अनग्नेःकुशमुष्टिः स्यात् श्राद्धकर्मणि सर्वतः”
इति प्रचेतसा स्मरणात्। तथा पारस्करोऽपि—
“दर्भवटुर्वेदितव्यो दैवे”इति। दर्भवटुर्दर्भमुष्टिः। वशिष्ठेन विशेष उक्तः—
“यद्येकं भोजयेच्छ्राद्धे दैवे तत्र कथं भवेत्।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च।
देवतायतने कृत्वा ततः श्राद्धं प्रकल्पयेत्।
प्रास्येदन्नं तदग्नौ तु दद्याद्वा ब्रह्मचारिणे”।
प्रास्येत् प्रक्षिपेत्। ब्रह्मचारिपदं विशिष्ट—ब्राह्मणोपलक्षणपरम्। वैदिकं कर्म ब्रह्म। अनेकब्राह्मणलाभे तु श्रोत्रियं मुख्यासने नियोजयेत्। सा च तादृशी योजना परस्परं ब्राह्मणैरैव कार्या।
तथोक्तं सुमन्तुना—
“विद्यातपोऽधिकानान्तु प्रथमासनमिष्यते।
पङ्क्त्यांचैव निविष्टायां समं गन्धादिभोजनम्।
श्राद्धसारे ब्राह्मणपूजाप्रकारः
अर्हेषु तिष्ठमानेषु अनर्होयो व्रजेद् धुरम्।
दुष्कृतं च हरेत्पङ्क्त्या आयुषा च वियुज्यते”।
यमः—
“प्रायेण मूर्खःस्मृतिमन्त्रहीनो याऽग्रासने तिष्ठति मूर्खभावात्।
नान्यद्भयं पश्यति मूढचित्त इह प्रणाशेनरकं सुघोरम्”।
तथा वशिष्ठः—
“चतुर्णा दुष्कृतं हन्ति ब्राह्मणो विघ्नकारकः।
अन्नस्यान्नपतिः पङ्क्तेस्तथा भोजनकाङ्क्षिणः।
भोजनकाङ्क्षिण इति स्वस्येति शेषः।
विद्यातपोऽधिकानां वै प्रथमासनमिष्यते”
इत्यादि सुमन्तुवाक्यालोचनेन ब्राह्मणैरेव परस्परं योग्यतां पर्यालोच्य यथायथमग्र्यासनादिकं योज्यमिति स्थिते द्वौ दैवे त्रीन् पित्र्ये इत्यादि योजना कार्या।
इदानीं श्राद्धाङ्गभूतचरणप्रक्षालनप्रकारोऽभिधीयते।
तत्र मत्स्यः—
“भवनस्याग्रता भुवि। गोमयेनानानुलिप्तायां गोमूत्रेण तु मण्डले”इति।
अयमर्थः—
गोमयसहितेन गोमूत्रेण मण्डलद्वयं कर्तव्यमिति।
अत्र शम्भूको विशेषः—
“सम्भार्जिते तु लिप्ते तु दैवे कुर्वीत मण्डले।
उदक्प्लवमुदीच्यं स्यात् दक्षिणं दक्षिणाप्लवम्”।
उदीच्यं वैश्वदेविकं मण्डलमुदक्प्रवणं दक्षिणं पित्रमण्डलं दक्षिणाप्रवणं कर्तव्यम्। मण्डलकरणानन्तरं दुर्भस्थापनं, तम्।
शम्भुः—
“उत्तरेऽक्षतसंयुक्तान् पूर्वाग्रान् विन्यसेत्कुशान्।
दक्षिणे दक्षिणाग्रांस्तु सतिलान् विन्यसेद् बुधः”इति
अक्षता यवा इत्यवादि।
तत्र मण्डलकरणप्रभृत्याश्राद्धसमाप्तेर्वैश्वदेवसम्बन्धिकप्रदक्षिणं यज्ञोपवीतिना कर्तव्यम्। पितृसम्बन्धि यत्कर्म तत्सर्वमपसव्यं प्राचीनावीतिना कार्यम्। तदाह बौधायनः—
“प्रदक्षिणं तु देवानां पितृणामप्रदक्षिणम्।
देवानामृजवो दर्भाः पितॄणां द्विगुणाः स्मृताः”इति।
तथा मनुरपि—
“प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा।
पित्र्यमानिधानात्कार्य विधिवद्दर्भपाणिने”ति।
तत्र कात्यायनो विशेषमाह—
“दक्षिणं पात्तयेज्जानु देवान्परिचरन्सदा।
पातयेदितरज्जानु पितॄन्परिचरन् सदा” इति।
ततोऽपसव्यवत्पूर्वमुदीच्यमण्डलं गत्वा दक्षिणमण्डलमभ्यर्च्य विप्रपादौ क्षालयेत्। तदुक्तं मत्स्यपुराणे—
“अक्षताभिः सपुष्पाभिस्तदभ्यर्च्यापसव्यवत्।
विप्राणां क्षालयेत्पादावभिवन्द्य पुनः पुनः”इति।
पादप्रक्षालनं च विश्वेदेवपूर्वम्।
पाद्यं चैव तथा चार्घ्यं देव आदौप्रयोजयेत्।
शन्नो देवीति मन्त्रेण पश्चात्पित्र्ये प्रयोजयेत्”
इति ब्रह्मनिरुक्तवचनात्। तत्र पाद्यादिदानं च नामगोत्रोच्चारणपूर्वकं कार्य तदाह मत्स्य—
“नामगोत्रं पितृणान्तु प्रापक हव्यकव्ययोः” इति।
अर्चनं च देवानां पादःप्रभृति शिरःपर्यन्त, पितॄणां शिरः प्रभृति पादपर्यन्तमिति विशदयिष्यते। अग्रे।पादप्रक्षालनोत्तरं पूर्ववदुपवेशनम्। तदाह मनुः—
“आसनेषु च क्लृप्तेषु बहिष्मत्सु पृथक् पृथक्।
उपस्पृश्योकादकान्सम्यक् विप्रास्तानुपवेशयेत्”इति। तथा सुमन्तुरपि—
“दर्भपाणिर्द्विराचम्य लघुवासा जितेन्द्रियः।
परिश्रिते शुचौ देशे गोमयेनोपलेपिते॥
दक्षिणाप्रवणे सम्यक् आचान्तान्प्रयतान्शुचीन्।
आसनेषु विविक्तेषु सदर्भेषूपवेशयेत्”इति ।
तत्संख्या प्रागुक्तैव, तदाह योगी—
“द्वौदैवे प्राक्व्त्रयः पित्र्य उदगेककैमेव वा।
मातामहानामप्येवं तन्त्रं त्रा वैश्वदेविकम्”इति।
एवं मातामहानामपीति अतिदेशो दि्ङ्नियमसंख्याविषयः। वैश्वदेविकं कर्म श्राद्धार्थमावृत्त्याऽनुष्ठेयं तन्त्रेण वेत्यभिप्रायेण तन्त्रं वा वैश्वदेविकमित्युक्तम्।
“तथा मातामहश्राद्ध वैश्वदेवसमन्वितम्।
कुर्वीत भक्तिसम्पन्नस्तन्त्रं वा वैश्वदेविकमि”ति मरीचि स्मरणात्। तत्रासनं संस्पृशन् सव्येन पाणिना दक्षिणेन ब्राह्मणमुपसङ्गृह्य समाध्वमिति चोक्त उपविशेत् इति।
“जान्वालभ्य ततो देवानुपवेश्य ततः पितॄन्।
समस्ताभिर्व्याहतिभिरासनेषूपवेशयेत्”
इति धर्मस्मरणात्।
एते नियमैर्युक्तास्तिष्ठेयुः—
“पवित्रपाणयस्सर्वे ते च मौनव्रतान्विताः।
उच्छिष्टोच्छिष्टसंस्पृष्टं वर्जयन्तः परस्परम्”
इति वशिष्ठस्मरणात्। मौनिता च ब्रह्मोद्यकथाव्यतिरिक्तविषया।
“ब्रह्मोद्याश्च कथाः कुर्युः पितॄणामेतदीप्सितम्” इति वचनात्।
ब्राह्मणेषूपविष्टेषु यतिब्रह्मचारिणौ यद्यागच्छेतां तदा तावप्युपवेशनीयौ।
“ब्राह्मणं भिक्षुकं चापि भोजनार्थमुपस्थितम्।
ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत्” इति मनुस्मरणात्।
तथा यमोऽपि—
“भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः।
उपविष्टेष्वनुप्राप्तः कामं तमपि भोजयेदिति।
तथा छागलेयः—
“पूजयेच्छ्राद्धकालेऽपि यति सब्रह्मचारिणम्।
विप्रानुद्धरते पापात् पितृमातृगणानपी”ति॥
ब्राह्मणोपवेशनानन्तर त्रिःप्राणानायम्य तिथ्यादि स्मृत्वा पूर्वोक्तगुणविशिष्टतिथौप्रक्रान्तं श्राद्धकर्म करिष्ये इति सङ्कल्प क्रतुस्मृत्याऽनुतिष्ठेत्। अपवित्रः पवित्रो वा इति जपित्वा—
“श्राद्धभूमौ गया ध्यात्वा ध्यात्वा देवं गदाधरम्।
वस्वादींश्च पितॄन्ध्यात्वा ततः श्राद्धं प्रवर्तते”
इति भूमौ हस्तं निक्षिप्य जपेत्। “ताभ्यां चैव नमस्कृत्य ततः श्राद्धं प्रवर्त्तयेदिति च पठेत्। अत्र द्वितीयार्थे तृतीया। ततस्तिलोदकेन पाकादिप्रोक्षणं कार्यम्।
“शुद्धवतीभिः कूष्माण्डीभिः पावमानीभिः पाकादि प्रोक्षयेदि”ति स्मरणात्।
अत्रैवं व्यवस्था व्याख्येया। वेदत्रयाशयेन सूक्तत्रयं, तत्र शुद्धवत्यः छन्दोगविषयिण्यः। एतं न्विन्द्रं स्तवामेति शुद्धवत्यः। कुष्माण्ड्योऽध्वर्युविषयाः। यद्देवा देवहेडनमिति कूष्माण्ड्यः। पावमान्यः सुवर्जन इति पावमान्यः। तत एतैर्मन्त्रैस्तिलोदकं विधायेति।
“उभौ हस्तौ समौ कृत्वा जानुभ्यामुपरिस्थितौ॥
स प्रश्रयं चोपविष्टान् सर्वान्पृष्टेद् द्विजोत्तमान्”इति।
ततः—“देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च।
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः”
इति मन्त्रं त्रिः पठेत् ।
“आद्येऽवसाने श्राद्धस्य त्रिरावृत्तं जपेत्सदे”ति वचनात्।
“पिण्डनिर्वपणे चैव जपेदेतत्समाहितः।
पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च”॥
ततः केचित्—
श्राद्धभूमौ सिद्धार्थकाः गौरसर्षपा निक्षेपणीया इत्याहुः।
“सिद्धार्थकान् क्षिपेद भूमौ रक्षसामपनुत्तये”इति वचनात् ।
ततस्तिलान् सर्वदिक्षु विकिरेत्। तत्र मन्त्रः—
“निहन्मि सर्व यदमेध्यमत्र हताश्च सर्वे सुरदानवा मया।
रक्षांसि यक्षाःसपिशाचगुह्यका हता मया यातुधानाश्च सर्वे”इति।
तदुक्तं निगमे—“अपहता इति तिलान् विकिरेदि”ति। मन्त्रस्तु अपहताअसुरा रक्षाᳪंसि वेदिषदः इति।
स्मृत्यन्तरे विशेष उक्तः—
“अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम्।
तथा बर्हिषदः पान्तु याम्यां ये पितरः स्थिताः॥
प्रतीचीमाज्यपास्तद्वदुदीचीमपिसोमपाः।
रक्षोभूतपिशाचेभ्य स्तथैवासुरदोषतः॥
सर्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे”इति।
अथासनम्। आसनं च ब्राह्मणहस्ते उदकदानपूर्वकं कर्तव्यम्।
“पाणिप्रक्षालनं कृत्वा विष्टरार्थान् कुशानपि”इति योगिस्मरणात्।
तथा—
“कुरुष्वेति स तैरुक्तो दद्याद्दर्भासनं तथा”इति पुराणेषु स्मरणात्। आसनं चासने देयम्। तदुक्तम्—
“आसने चासनं दद्याद्वामे वा दक्षिणेऽपि वा”इति।
वाशब्दो व्यवस्थितविकल्पार्थः—
व्यवस्था चैवं दैवेदक्षिणतः पित्र्ये वामे इति।
“पितृकर्मणि वामे वैदैवे कर्मणि दक्षिणे”इति स्मरणात्।
काठके विशेषः—
“प्रदद्यादासने दर्भान्नतु पाणौकदाचन।
देवानामथवा दर्भाः पितॄणा च यवैःसह”इति।
आसनमुदङ्मुखो देवाना पितॄणां दक्षिणामुखो दद्यात्।
“उदङ्मुखस्तु देवाना पितॄणां दक्षिणामुखः।
आसनार्घ्यादिकं दद्यात्सर्वमेव यथाविधि”इति
क्रतुस्मरणात्। आसनार्घ्यादौ नियमविधानं पादप्रक्षालनादौ प्रत्यङ्मुखतामाह। शङ्खस्मृतौ तु—श्राद्धभेदेन विश्वेदेवादिसंज्ञा भेदो दृश्यते।
“इष्टिश्राद्धे क्रतुर्दक्षः सकीर्त्यौ वैश्वदेविकौ।
नान्दीमुखे सत्यवमूकाम्येषु धूरिलौचनौ।
पुरूरवार्द्रवौ चैव पार्वणे समुदाहृतौ।
नैमित्तिके कामकालौ एवं सर्वत्र कीर्तयेत्”।
नैमित्तिकं सपिण्डीकरणम्।
“दत्त्वाऽऽसनं ततो दैवेकामकालौ सदैव ही”ति स्मृते।
तदुत्पत्तिः श्रूयते—
दक्षस्य दुहिता साध्वी विश्वा नाम परिश्रुता।
तस्याः पुत्रा महात्मानो विश्वेदेवा इति स्मृताः।
गुरुणा तु दश प्रकारताऽभिहिता—
“क्रतुर्दक्षो वसुः सत्यः कालः कामस्तथैव च।
धूरी तथा लोचनश्चतथा चैव पुरूरवाः॥
आर्द्रवाश्च दशैवैमे विश्वेदेवाः प्रकीर्तिताः”इति।
कर्माङ्गं श्राद्धम्—
“निषेककाले सोमे च सीमन्तोन्नयने तथा।
ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं तच्च वृद्धिवत्”इति
पारस्करेणाभिहितम्। नान्दीमुखं वृद्धिश्राद्धम्।
“पुत्रजन्मविवाहादौ वृद्धिश्रामुदाहृतमि”ति वृद्धवशिष्ठस्मरणात्। आदिशब्दः अन्नप्राशनचूडाकरणादि- संस्कारपरिग्रहार्थः। फलकामनोपाधिकं काम्यम्। पार्वर्वणममावास्याश्राद्धम्। नैमित्तिकं सपिण्डीकरणम्।अत्रायमासनादौ प्रयोगः। तत्र स्मृतिः।
“अक्षय्यासनयोः षष्ठी चतुर्थी चासने मता।
अर्घेऽवनेजने पिण्डे तथा प्रत्यवनेजने॥
सम्बुद्ध्यन्तानि कुर्वीत शब्दशास्त्रविशारदः”।
आसने षष्ठी, चतुर्थ्या देशपरत्वेन वा व्यवस्थथा विकल्पः—
व्यासस्तु विशेषमाह—
“चतुर्थी त्वासने नित्यं सङ्कल्पे च विधीयते।
प्रथमा तर्पणे प्रोक्ता सम्बुद्धिमपरे जगुः”इति।
बृहत्प्रचेताः—
“गोत्रं स्वरान्तं कुर्वीत गोत्रस्याक्षयकर्मणि।
गोत्रस्तु तर्पणे प्रोक्तः कुर्वन्नेवं न मुह्यति।
गोत्रशब्दस्य स्वरान्तताऽत्र पार्वणविषया एव न सर्वत्र।
“सर्वत्रैव पितः प्रोक्तः पिता तर्णणकर्मणि।
पितुरक्षय्यकाले तु तत्रभ्रान्तिर्न विद्यते”इति।
अत्रायमनुष्ठानक्रमः— आदावासनम्, ततः क्षणदानम्, तत आवाहनादि। तदुक्तं सग्रहकृता—
“तत्पुनरपोदत्वा निमन्त्रयेदि”ति। निमन्त्रण व अङ्गष्ठरहितहस्तं गृहीत्वा देयम्—
“निरङ्गष्ट गृहीत्वा च विश्वान्देवान्समाहयेदि”ति पुराणवचनात्। निरङ्गष्ट हस्तं गृहीत्वा निमन्त्र्य विश्वान्देवानावाहयेदिति वाक्यार्थः। अथवा आदो आमन्त्रण तत आसनम्, तत आवाहनादि। तत्राह याज्ञवल्क्य—
“पाणिप्रक्षालन कृत्वा विष्टरार्थ कुशानपि।
आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा”इति।
अयमाशयः। अद्भिः पाणिसंशोधनं विधायकुशानपि पाणौ दत्त्वा दैवे दक्षिण जान्वालभ्य पित्र्ये च सव्यं जान्वालभ्य दैवे क्षणः क्रियतामिति यजमानेनोक्ते तथेति ब्राह्मणेनोक्ते प्राप्नोतु भवानिति यजमानेनोक्ते प्राप्तवानीति ब्राह्मणेनोक्तेएकैक कुशमासने एकैकं पादयोरिति ब्राह्मणे विनियोगं कुर्यात्।
“निधाय वा दर्भवटूनासनेषु समाहितः।
प्रैषानुप्रैषसंयुक्त विधानं प्रतिपादयेदि”ति देवलस्मरणात्।
अत्रेतिकर्तव्यता यमस्मृत्युक्ता—
“यवहस्तस्ततो देवान् विज्ञाप्यावाहनं प्रति।
आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा”इति।
अयमत्र क्रमः—विश्वेदेवार्थब्राह्मणहस्ते जलं विष्टरार्थ कुशां श्चयुग्मान् द्विगुणितानासनार्थे च दक्षिणतो दत्वा विश्वान्देवाना वाहविष्ये इति ब्राह्मणान् पृष्ट्वा आवाहयेति ब्राह्मणैरनुज्ञातो दक्षिणं जान्वालभ्य यथोक्ते नामनी समुच्चार्य “विश्वे देवास आगत शृणुताम इमर्ठ० हवम्। एदबर्हिर्निषीदत। विश्वे देवाः शृणुतेमर्ठ० हवं मे येऽअन्तरिक्षे यऽउप द्यविष्ठ। ये अग्निजिह्वा उत वा यजत्राऽ आसद्यास्मिन् बर्हिषि मादयध्वम्”। विश्वे देवाः शृणुतेत्य नया च। आगच्छन्तु महाभागा इति स्मार्तमन्त्रेण च।
दक्षिणयज्ञोपवीती सत्यवाक् दक्षिणपादादिमस्तकान्तमक्षतान् विकिरेत्। इदं चात्र छन्दोगाना विशेषतो द्रष्टव्यम्। तन्मते ओषधयः समवदन्त इत्ययमपि मन्त्रो जप्यः।
यद्यपि गुरुणा प्रतिश्राद्धं द्वयोर्द्वयोर्नामनी उक्ते तथापि विश्वेदेवा इत्यादिमन्त्रेषु बहुवचनश्रवणात् पक्षान्तरे च कारणादर्शनात् तेषामावाहनादौ बहुवचनमेव नामसङ्कीर्त्तने ज्ञेयम्। ततोऽनन्तरं तैजसादिभाजने कुशयुग्मान्तहिते शन्नो देवीरभिष्ट्य इत्यनयर्चा उदकं निक्षिप्य यवोऽसि धान्यराजो वेत्यादिमन्त्रेण यवान्, ततो गन्धपुष्पाणि च तूष्णीमेव निक्षिप्य धूपं च प्रदर्श्यानन्तरमर्घ्य पात्रं पवित्रान्तर्हितेषु ब्राह्मणहस्तेषु या दिव्या आपः पयसेत्यादिमन्त्रेण विश्वे देवा इदं चार्घ्यम्, इत्यर्घ्योदकं विनिक्षिपेत्। छन्दोगाश्चेत् यवोऽसि सोमदेवत्यो गोसवो देवनिर्मितः इति मन्त्रं पठेयुः। तथा च योगियाज्ञवल्क्यः—
“यवैरभ्यवकीर्याऽथ भाजने सपवित्रके।
शन्ना देव्या पथः क्षिप्त्वा यवोऽमीति यवांस्तथा॥
या दिव्या इति मन्त्रेण हस्तेष्वर्घ्य विनिक्षिपेत्”इति।
अत्र विशेषमाह गार्ग्यः—
“दत्वा हस्ते पवित्रन्तु हस्तेष्वर्घ्य विनिक्षिपेत्”इति।
पवित्रमाह योगी—
“पवित्रे इति मन्त्रेण द्वे पवित्रे च कारयेत्।
अन्तर्दर्भकुशच्छिन्ने कोशे प्रादेशसम्मिते”इति।
अङ्गुष्ठाङ्गुलिपर्वभ्या छेदो न नखः। अत्र चार्घ्यपवित्रकं प्रतिपात्रभेदेन कर्तव्यम्।
“द्वे द्वे शलाके देवाना पात्रे कृत्वा पयः क्षिपेत्”
इति चतुर्विंशतिमतवचनात्।
अत्र केचिद् व्याचक्षते—भाजने सपवित्रक इति सप्तम्यन्तपदत्वात् देवस्थाने एक एवार्घ्य इति। ब्राह्मणद्वित्वेऽपि सत्येकेनैव पात्रेणोभयार्थसिध्देः। ननु द्वौ दैवे इत्युक्तत्वात् प्रत्येकं च देवताध्या सात् ब्राह्मणभेदेऽपि ब्राह्मणसंख्यथा पात्रविधानाभावात्। अन्यथा एकस्मिन् पितरि असमसंख्यया बहुब्राह्मणोपवेशने ब्राह्मणसख्यया अर्घ्यपात्रकल्पना दुर्वारा स्यात्। ततश्च तत्रानेकेष्वपि ब्राह्मणेषु पितृस्थाने एकमेव पात्रम्, तथा पितामहप्रपितामहस्थाने।
“एकस्मिन् ब्राह्मणे येन योज्यन्ते पितरोऽखिलाः।
यथा हवीषि सर्वाणि हूयन्ते हव्यवाहने”
इति लघुपक्षाश्रयणेन शिष्टे एकस्मिन्नेव ब्राह्मणे नियोजिते—
देवताभेदात्पात्रत्रयमेव क्रियते नतु ब्राह्मणानुरोध देकमिति, तद्वद्दैवकर्मण्यपि तथैव योजितव्यम्। अनेनैवाभिप्रायेण कर्कभाष्यकारा अपि एकमेवार्घ्यपात्रं देवस्थाने समर्पयन्तस्तथैव स्मरान्ति—
“अर्घ्यस्यादर्घ्यहेतुत्वादतस्तु पितृसंख्यया।
प्रकुर्यादर्घ्यपात्राणि नातो विप्रस्य संख्यये”ति॥
तत एकमेवार्घ्यपात्रमित्येके। अपरे तु द्वे एव पात्रे कर्तव्ये इत्याहुः, भाजने सपवित्रके इति पदस्य द्विवचनान्तत्वात्। न चैकदेवतात्वादेकपात्रता शक्या।
“पुरूरवार्द्रवौ चैव पार्वणे समुदाहृतावि”ति स्मरणात् देवताद्वयप्रतीतेरनपलपनीयत्वात्। अन्यथा एकदेवतायामेकस्यैव ब्राह्मणस्य नियोज्यत्वापत्तेः। ततश्च “द्वौ दैवे त्रीन् तथा पित्र्ये”इति स्मृतिव्याकोपस्तस्माद् देवताभेदात्पात्रभेद इत्येव युक्तम्। तदुक्तं मत्स्यपुराणे—
“विश्वान्देवान्यवैः पुष्पैरभ्यर्च्यासनपूर्वकम्।
पूरयेत्पात्रयुग्मन्तु स्थाप्ये दर्भपवित्रके”इति।
तथा प्रचेता अपि—
“एकैकस्य तु विप्रस्य अर्घ्यपात्रे विनिक्षिपेत्।
यवोऽसीति थवान्कीर्य गन्धपुष्पैः सुपूजितैरि"ति॥
अत्रोभयासम्भवेऽपि स्वकुलाचारतो व्यवस्था द्रष्टव्या।
ततः करशौचार्थमुदकं दत्वा क्रमेणैव गन्धपुष्पधूपदीपाच्छादनदानं कुर्यात्। गन्धदानं च पवित्ररहितकराभ्यामेव।
“पवित्रेण हस्तेन गन्धं दद्यादि”ति स्मरणात्। गन्धश्चन्दनकर्पूरागरुपद्मकान्येनुलेपनार्थ इति विष्णूक्तरीत्याऽस्मदुक्तरीत्या च कर्तव्यः। पुष्पाणि जातीमल्लिकाश्वेतपूथिकाजलजचम्पकप्रभृतीनि प्रागेवाभिहितानि।
गन्धादिदानस्योदकपूर्वकता योगिना दर्शिता।
“दत्वोदक गन्धदान धूपदानं सदीपकम्”इति।
एवमासनदानप्रभृत्याच्छादनपर्यन्त वैश्वदेविकार्चनं काण्डानुसमयेन विधाय आसनप्रभृत्याच्छादनपर्थन्त प्राचीनावीत्यपस येन कुर्यात्।
“अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणमि”ति
याज्ञवल्क्य स्मरणात्। तथा—
“उदङ्मुखस्तु देवाना पितॄणा दक्षिणामुखः।
प्रदद्यात्पार्वणे सर्व दैवपूर्व विधानतः” इति शातातपस्मरणात्।
तस्माद्वैश्चदेविकमासनाच्छादनान्तं कर्मकलापं काण्डानुसमयेन विधाय पैतृकमासनाद्याच्छादनान्तं कर्म कर्तव्यमिति सिद्धम्।
ननु दैवे पित्र्ये च आसनप्रभृत्याच्छादनपर्यन्तानां पदार्थानां पदार्थानुसमयेनानुष्ठानं सम्भवति, कस्य हेतोः काण्डानुसमयेनानुष्ठानमङ्गीक्रियते। पदार्थानुसमयेन हि प्रधानप्रत्यासत्तिस्तेषा भवेत् वैषम्याभावश्च। एवमनङ्गीकारे हि केपा चित् प्रधानप्रत्यासत्तिः केषां चित्प्रधानाप्रत्यासत्तिरिति। अत्राभिधीयते—आसनावाहनार्घ्यादिपदार्थेषु काण्डानुसमय एवाभ्युपेयते वचनबलात्। स्पष्टमत्र “अपसव्य ततः कृत्वे”ति वाचनिकत्वं ततो वैश्वदेविकासनादिपदार्थाना काण्डानुसमयानुष्ठाने पित्रर्चनविधावपि काण्डानुसमय एव ज्यायान्।
ततः पित्र्यादीनां च त्रयाणामयुग्मान् कुशान् द्विगुणभुग्नान् प्रदक्षिणं वामतो विष्टरार्थमासनेषूदपूर्व दद्यात्, ततः पुनरुदकं दद्यात्। तथा चाहाश्वलायनाचार्यः—
“अपः प्रदाय द्विगुणभुग्नान् कुशान् कृत्वा अपः प्रदाये”ति। इदं वैश्वदेविके पित्र्ये च कर्मणि आद्यन्तयोरुदकदानं च प्रतिपदार्थ द्रष्टव्यम्। तत आसनानन्तरं प्राचीनावीतं विधाय सतिलान् द्विगुणदर्भानादाय श्राद्धे क्षणः क्रियतामिति क्षणं दत्वा सव्यं जान्वालभ्य द्वितीयाविभक्त्या बहुवचनान्तगोत्रशब्द समुच्चार्य तथैव ब्राह्मणनामान्युच्चार्य पितॄन् पितामहान् प्रपिताप्रहान् इति ब्राह्मणानामाज्ञां पृष्ट्वा आवाहयेति ब्राह्मणैरनुज्ञातः उशन्तस्त्वा निधीमहीत्येतयर्चा आवाहन विधाय आयन्तु नः पितर इति मन्त्रेणोपस्थाय अपहता इत्यनेन अप्रदक्षिणं तिलान् विकिरेत्।
छन्दोगास्तु जानुविसर्जनानन्तरं एतद्वः पितरः सोम्यास इत्यादि जप्त्वा शेषं पूर्ववत्कुर्युः। तत आवाहनानन्तरमर्घ्यादिकं कुर्यात्।
पात्रासादनं च विष्णूक्तरीत्या, दक्षिणापवर्गतयाऽऽपादितेषु पवित्रान्तर्हितेषु त्रिष्वपि पात्रेषु शन्नो देवीरभिष्ट्य इति मन्त्रेण प्रतिपात्रमुदकमासिञ्चेत्। पात्राणि चार्घ्यब्राह्मणबहुत्वेऽपि देवतासङ्ख्यया त्रीण्येव।
“स्तीर्त्वा पितॄणां त्रीण्येव कुर्यात् पात्राणि धर्मवित्।
एकस्मिन् वा बहुषु वा ब्राह्मणेषु यथाविधि” इति।
स्तीर्त्वा अर्घ्योदके तिलान् क्षिप्त्वा इत्यर्थः। अर्घ्यपवित्रं समसंख्यया कर्तव्यम्। तदुक्तम्—
“पितृपात्रे विशेषोऽयं तिलोऽसीति तिलान् क्षिपेत्।
तिस्रः तिस्रः शलाकास्तु पितृपात्रेषु पार्वणे॥
एकोद्दिष्टे शलाकैकां निधायोदकमादृरेत्।
सर्वदैव हि कर्तव्यं पितॄणां च तिलोदकम्॥
ताम्रपात्रेण कर्तव्यमन्यथा हि वृथा भवेदि”ति।
अर्घार्थायापस्तम्बः— “गन्धादिभिः पूज्याः, तत्रैकदर्भशलाकानिधानं, तिलोऽसि पितृदेवत्योगोसव इति मन्त्रेण तिलावपनम्। अर्चनं शिरः प्रभृति पादपर्यन्तम्”।
“शिरस्तः पादतो यावत् सम्यगभ्यर्च्य संयतः।
पूर्ववत्पृथगेकैकमैकैकं चार्चयेत् क्रमादि”ति स्मरणात्। पादतः पठितस्यापि षूषानुमन्त्रणवदुत्कर्षः। तस्य दैविकत्वात्। ततो—
“गोत्रसम्बन्धनामानि पितॄणामनुकीर्तयेत्।
एकैकस्य तु विप्रस्य अर्घ्य पात्रे विनिक्षिपेत्”
इत्युक्तेःसपवित्रहस्ते या दिव्या इति मन्त्रमुच्चार्य मन्त्रान्ते अमुकशर्मन्नेष तेऽर्घइति वदेत्। स्त्रीविषये गोत्रे देवि अमुकशर्मन् इति विशेषः।
छन्दोगाश्चेदेवं वदेयुः—इमम्मेइति मन्त्रं पठित्वा अमुकसगोत्र शर्मन् एष ते अर्घः ये च त्वामनु तस्मै ते स्वधेत्यप उपस्पृशेत्”सर्वत्रैवम्। नैकोद्दिष्टे, तत्र एष तेऽर्घः स्वधेत्येतदेव वदेत्। स्त्रीविषये ऊहः, एष तेऽर्घः याश्च त्वामनु इति।
गोत्रशब्दः सकारेणैव वक्तव्यः।अमुकसगोत्रेति । यतो हि सकारः पापं विहन्ति।
“सकारेण हि कर्तव्यं गोत्रं सर्वत्र धीमता।
सकारः कुतपो ज्ञेयस्तस्माद्यत्नेन तं वदेत्”॥
कुत्सितं पापं तापयतीति कुतपः इति व्युत्पत्तिः
“पापं कुत्सितमित्याहुस्तस्य सन्तापको ह्यसौ।
प्रयुक्तस्तु भवेद्यस्मात् कुतपस्तु ततः स्मृतः”
इति स्मरण च। तत अमुकसगोत्र इति सर्वत्र कर्तव्यं, स्त्रीविषये अमुकगोत्रेति। अत्रायमनुष्ठानक्रमः। तिलान् अपहता असुरा रक्षांसीत्यादिना मन्त्रेण ब्राह्मणान्परितोऽप्रदक्षिणमवकीर्य राजतादिपात्रेषु त्रिषु युग्मकुशनिर्मितकूर्च्चान्तहितेषु शन्नो देवीरिति मन्त्रेणापः क्षिप्त्वा तिलोऽसीति पूर्वाभिहितमन्त्रेण तिलान् गन्धपुष्पाणि निक्षिप्य स्वधाऽर्घ्याइति ब्राह्मणानां पुरतः पात्राणि स्थापयित्वा या दिव्या इति मन्त्रेण पितरिदं तेऽर्घ्यमिति दद्यात्। ता आपो ब्राह्मणः प्रतिग्रहीष्यन् स्वर्घ्याअर्घ्य इति मन्त्रेण स्थापयेत्”इत्यर्घ्य शौनकस्मरणात्। अर्घेदीयमाने संस्रवान् पतितान् प्रथमं पितृपात्रे कृत्वा श्राद्धदेशादुत्तरे दक्षिणाग्रं सतिलं कुशस्तंवं निधाय तस्योपरि पितृभ्यः स्थानमसीति मन्त्रेण अधोमुखं पात्रं कृत्वा तदुपरि अर्घ्यपवित्रं कृत्वा तृतीयपात्रेणापिधाय तदुपरि अपि कुशं दत्वोत्तरतो निदध्यात्। पुत्रकामश्चेत् पितृपात्रसंस्रवैर्मुखं मृज्यात्।
“प्रथमे पितृपात्रे तु सम्भृत्योदकसस्त्रवान्।
पनक्ति वदनं पश्चात् पुत्रकामो भवेद्यदी”ति स्मरणात्।
तथा—
“शुन्यन्नाडोका इति तु सिञ्चेद्भूमिः, क्षिपेत् कुशान्”।
पितृभ्यः स्थानमसीति मन्त्रेण अधोमुख पात्रं कृत्वा तदुपरि अर्घ्यपवित्रं निदध्यात्।
“उद्धरन् प्रथमं पात्रं पितृणामर्घपातितम्।
आवृतास्तत्र तिष्ठन्ति यावद्विप्रविसर्जनम्॥
उद्धरेत्तु यदा पात्रं विततं तु यदा भवेत्।
अभोज्यं तद्धोच्छ्राध्दंदेवैः पितृगणैर्गनैरि”ति॥
न्युब्जं पात्रं केचिदर्घ्यदानात्पूर्वमेव कुर्वन्ति ते भ्रान्ताः इत्युपेक्षयाः। “न्युब्जं कुर्यात्पविववदि”त्मुक्तेः। हुत्वा पात्रे संस्रवानवनयतीत्यादि।
पात्रस्थमवशिष्टं द्रव्य संस्रवशब्देनाभिधीयते यद्यपि, तथापि यत्र विप्रहस्तगलितमुदकं संस्रवशब्देनाभिधातुं शक्यं भूतपूर्वगतेः, तत्र पात्रम् ऊर्ज वहन्तीरित्येतत्पिण्डोपरि उदकनिषेचनपर्यन्तं न्युब्जं कार्यम्। तथा च कात्यायन—
“पैतृकं प्रथमं पात्रं तस्मिन्पैतामहं न्यसेत् ।
तृतीयं च न्यसेत्तत्र नोद्धरेन्न च चालयेत्”
इति। इत्यर्घ्यम्॥
ततो गन्धपुष्पधूपदीपवस्त्रोपवीतानि, पितरयं ते गन्धः पितरिदन्ते पुष्पमित्यादिप्रयोगेण दद्यात्। । यज्ञोपवीतदानं सत्यपि वस्त्रे ज्ञेयम्।
“उपवीतं तु यो दद्याच्छाद्धकर्मणि धर्मवित् ।
पावनं सर्वविप्राणां ब्रह्मदानस्य तत्फलम्”
इति वायुपुराणात्।
ततो ब्राह्मणपूजोत्तरं करसम्पुण्टं शिरसि कृत्वा मन्त्रहीनं क्रियाहीनमिति प्रार्थनां कुर्यात्। अत्रावसरे श्राद्धाचमनं कार्यम्। श्राद्धे षड्धाऽऽचमनश्रवणात्। तथाहि—
“आदावन्ते तथाऽर्चायां विप्रपादप्रशोधने ।
विकिरे पिण्डदाने च षड्भिराचमनं स्मृतम्” इति।
सप्तम्यर्थे तृतीया सुपां सुपो भवतीति पाणिनिस्मरणात्।
अयमर्थः स्मृतेः। आदाविति विप्रपादशोधनात्पूर्वंतथा तच्छोधनानन्तरं तथा च समाप्तौ आसीमान्तमनुव्रज्येति व्रजनानन्तरम्। स्पष्टमन्यत्। तत्र प्रथमतो द्विराचमनं शेषं सकृत्सकृदिति।
“कृत्वा च पितृकार्याणि सकृदाचम्य शुद्ध्यती”ति स्मृते।
अथाग्नौकरणम्, तच्च सव्येनापसव्येन वा कर्तव्यम्। तत्र स्वगृह्यस्मृत्यनुरोधतो व्यवस्था ज्ञेया, तत्र पूर्वमग्नौ करिष्य इति ब्राह्मणाज्ञामादाय कुरुष्वेति तैरभ्यनुज्ञात एव कुर्यादिति नियमः।
“अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृताप्लुतम्।
कुरुष्वेत्यभ्यनुज्ञातो हुत्वाऽग्नौ पितृयज्ञवत्॥
हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः।
यथालाभोपपन्नेषु रौप्येषु तु विशेषतः”
इति योगीश्वरस्मरणात्। घृतग्रहणं व्यञ्जनादिनिवारणाय।
यद्यपि गोधूमा अपि क्षारद्रव्ये पठितास्तथापि व्रीह्याद्यभावे गोधूमानामोदनप्रकृतितयोपादानात् तद्वर्ज क्षारद्रव्यं निषिच्यते। तथा मदालसावाक्यम्।
“अग्रिकार्यमनुज्ञातः कुरुष्वति ततो द्विजेः ।
जुहुयाद् व्यञ्जनक्षारं वर्जयेत्तु यथाविधि”इति।
व्यञ्जन शाकादि घृतोदनव्यतिरिक्तम्। ततश्च कुरुतेति ब्राह्मणाज्ञामादाय इप्ममुषसमाधाय प्राचीनावीतीवा मोक्षणेनावदानमादाय सोमाय पितृमते स्वधानभः इति पितृयज्ञकल्पेन अग्नौहुत्वा मेक्षणमनुप्रहृत्य हुतशेषं मृन्मयवर्जपात्रे विशेषता राजते पित्र्यादि भाजने देयम्। मृन्मय यद्यपि क्वचिद्विधीयते तथापि—
“मृन्मयेषु तु पात्रेषु यः श्राद्धे भोजयेत्पितॄन्।
अन्नदाता पुरोधा च भोका च नरक व्रजेदि”ति
निषेधात्तद्वर्ज्यम्।रोप्यं पितॄणामेव देय न देवानाम्।
“अग्नोकरणशेषं तु पित्र्ये तु प्रतिपादयेत्।
प्रतिपाद्य पितॄणान्तु न दद्याद्वैश्वदेविके” इति स्मरणात्।
यद्यपि ग्रन्थान्तरे प्राचीनावीतित्वं दृश्यते तथापि तत्प्रकृतिभृतपिण्डपितृयज्ञस्य देविकत्वात्पेतृकत्वाच्च कल्पितोभयधर्मकत्वात्प्रकृतिभूताग्नौकरणहोमे प्राचीनावीतित्योपवीतित्वयार्विकल्पोऽवसीयते। व्यवस्था तु यथाशाखमत्र।आश्वलायनास्तु विशेषमाहुः—
“उद्धृत्य घृताक्तमन्नं पृच्छत्यग्नौ करिष्ये करवैकरवाणीति वा प्रत्यनुज्ञातः क्रियतां कुरुष्व कुर्वीतेत्यल्पत्वाद्वाऽग्नौजुहोतीति यथोक्तं पुरस्तात्पिण्डपितृयज्ञे”इति।
इदं च कर्म साग्निनिरग्निसाधारणम्। पाणावग्नौवा क्रियमाणस्याग्नौकरणत्वात्तस्य च कर्मनामधेयत्वात्। ततः साग्निर्निरग्निर्वा वैश्वदैवे नैव दद्यात्।
“पिण्डेभ्यः शेषयेत्सर्व न दद्याद्वैश्वदेविके।
नहि स्मृताः शेषभाजो विश्वे देवाः पुराणगैरि"ति वायुपुराणे निषेधदृष्टेः।
अतो न वैश्वदैवे देयमिति सिद्धम्।
अग्नौकरणं स्मार्तम्, अतो विवाहाग्नौ कार्यम्। सर्वाधानिनौपासनाग्न्यभावे दक्षिणाग्नौ कार्यम्। तदसन्निधाने लौकिकाग्नौकार्यम्।
“आहृत्य दक्षिणाग्नि तु होमार्थ वै प्रयत्नतः।
अग्न्यर्थ लौकिकं वापि जुहुयात्कर्मसिद्धये” इति वायुपुराणवाक्यात्।
अग्न्यर्थमौपासनाग्निसिद्ध्यर्थम्। दक्षिणाग्न्यसन्निधाने पाणौ होमं कुर्यात्।
“हस्तेऽग्नौकरणं कुर्यात् अग्नौ वाऽनग्निको द्विजः” इति स्मरणात्।
अयं हि स्मृत्यर्थः सांप्रदायिकः। सर्वाधानी त्वाहिताग्निः दक्षिणाग्न्यसन्निधाने द्विजहस्ते लौकिकाग्नौ वाऽग्नौकरणं कुर्यात्। यदा त्वाधानेनाहिताग्निरनाहिताग्निरप्यग्निमान्, तदौपासनेऽग्नौकरणं, तदभावे द्विजहस्तेऽप्सु वेति।
तदुक्तं विष्णुधर्मोत्तरे मार्कण्डेयेन—
“आहिताग्निस्तु जुहुयाद्दक्षिणाग्नौ समाहितः।
अनाहिताग्निस्त्वौपासने तदभावे द्विजेऽप्सु वे”ति॥
जले अग्नौकरणं जलसन्निधौ श्राद्धानुष्ठानविषयम्।
“स यदाऽपां समीपे स्याच्छ्राद्धे ज्ञेयो विधिस्तदे”ति
कात्यायनस्मरणात्।
“अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत्”
इति मनुवचनं तु ब्रह्मचारिविषयम्॥
“अग्न्यभावे तु विनस्य पाणौ दध्यात्तु दक्षिणे।
अग्न्यभावः स्मृतस्तावद्यावद्भार्या न विन्दति”
इति जातूकर्ण्यस्मरणात्। अग्नौ विद्यमानेऽपि काम्यादिचतुष्टये पाणावेव होमः कार्यः। अनेनैवाभिप्रायेणाहुर्गृह्यकारा अपि—
“आन्वष्टक्यं च पूर्वेद्युर्मासि मासि च पार्वणम्।
काम्यमभ्युदयेष्टम्यामेकोद्दिष्टमथाष्टमम्॥
चतुर्ष्वाद्येषु साग्नीनां वह्नौहोमो विधीयते।
पित्र्ये ब्राह्मणहस्ते स्यादुत्तरेषु चतुर्ष्वपी”ति॥
अयमर्थः—
हेमन्तशिशिरयोरित्यादिना चतस्रोऽष्टम्योऽष्टका विहिताः, तत्र नवमीश्राद्धमन्वष्टक्यं, सामान्यं क्रियमाणं पूर्वेद्युः, मासि मासि कृष्ण पक्षे पञ्चमीप्रभृतिषु यस्यां कस्यां तिथावन्वष्टक्यातिदेशेन यद्विहितं, अमावास्याया पिण्डपितृयज्ञानन्तरं यद्विहितं तत्पार्वणम्। काम्यं स्वर्गादिफलोद्देशेन कृत्तिकादिनक्षत्रेषु विहितम्। अभ्युदये पुत्रोत्पत्यादिषु विहितम्। अष्टम्यामष्टका विहिताः। एकोद्दिष्टं सपिण्डीकरणम्, अथवा एकोद्दिष्टं मुख्यमेव। ततश्चाष्टौ श्राद्धानि— आन्वष्टक्यं, नवमीश्राद्धं, पूर्वेद्युः, सप्तमीश्राद्धं मासि मासि पञ्चम्यादिषु विहित, पार्वणममावास्याश्राद्धं, काम्यं नक्षत्रेषु फलोद्देश्यकं, अभ्युदयश्राद्धं षुत्रोत्पत्तितडागारामदेवताप्रतिष्ठादिषु विहितम्, अष्टकाश्राद्धमष्टम्यां विहितं, एकोद्दिष्टं सपिण्डीकरणम्, अथवा एकोद्दिष्टं मुख्यमेव। आद्यचतुष्टये अग्नौ होमःअन्त्ये पाणाविति। नन्वग्नौकरणं कथं पाणौ तत्राग्न्यभावात्, सत्यम् अस्ति हस्तेऽप्यग्निः।
“अजस्य दक्षिणे कर्णे पाणौ विप्रस्य दक्षिणे ।
अप्सु चैव कुशस्तम्बे अग्निः कात्यायनोऽब्रवीत्”
इति शङ्खस्मरणात्। तस्मात्—
“अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत्।
पर्युक्ष्यदर्भानास्तीर्य यतो ह्यग्निसमो द्विजः”
इति वचनात्पाणावपि अग्नौकरणं कर्तव्यम्। इदं चोपवीतिना कार्यम्।
“अग्नौकरणहोमस्तु कर्तव्य उपवीतिना।
प्राङ्मुखेनैव देवेभ्यो जुहोतीति श्रुतिः स्मृतिः॥
अपसव्येन वा कार्योदक्षिणाभिमुखेन वा।
निरूप्य हविरन्यस्मै अन्यस्मै नहि हूयते”इत्यादि वाक्यं तु परमतोपन्यासपरम्, अन्यथा वाक्यान्तरविरोधात् इत्यलमनेन। तस्मादनग्निः पाणावग्निकरणं कुर्यात्।
तदाह कात्यायनः —
“पित्र्ये यः पङ्क्तिमूर्धन्यः तस्य पाणावनग्निकः।
हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत्” इति।
ननु बाहुल्येन विप्राणावित्यविशेषश्रवणेऽपि
“दैवविप्रकरेऽनग्निःकृत्वाऽग्नोकरण द्विज”इत्यादिकारिकायां विशेषदर्शनात् काग्नौकरणं, सत्यम्। विकल्पो ज्ञातव्यो व्यवस्थायै, दैविकब्राह्मणकरपक्षेऽपि पित्र्यब्राह्मणपात्रेष्वेव शेष निक्षेपः।
“हुत्वा शेषकरेणैव शेषं पित्र्ये निवेदयेत्।
न हि स्मृताः शेषभाजोविश्वे देवाः पुरागणैरि”तिवायुपुराणवाक्यात्।
ततो दैवपित्र्यकरयोविकल्पःअत्रापि अग्नौकरणविधानात्। अथवाऽन्यभाव इति स्मातोरन्यभावाभिप्रायेणै- वाभिहितम्। कि तर्हि अकृतदारपरिग्रहाभिप्रायेण।
“अग्न्यभावे तु विप्रस्य हस्ते दत्वा तु दक्षिणे।
अग्न्यभावः स्मृतः स्तावद्यावद्भार्यान विदन्ती”ति जानूकर्ण्यवचनात्। तस्मादनुपनीतस्य उपनीस्यापि वा अकृतदारपरिग्रहस्य यदा श्राद्धकर्तृत्वं तदा दैवब्राह्मणकरेऽग्नौकरणं, कृतदारपरिग्रहस्य श्राद्धकर्तृत्वे पित्र्यब्राह्मणकरे इति व्यवस्था ज्यायसी॥
अनुपनीतानग्निकयोरपि श्राद्धेऽधिकारः।
“श्राद्धमर्हति यद्येकः पितर्युपरते सुतः।
विनापि श्रद्धया श्राद्धं तथा कुर्यादनग्निकः॥
पितृयज्ञाहुति पाणौ प्रदद्याद् ब्राह्मणस्य सः।
अर्हत्यनुपनीतोऽपि विनाऽप्यग्नि विनाऽऽपदम्”इति।
तथा—
“न ह्यस्मिन्विद्यते कर्म किञ्चिदामौञ्जिबन्धनात्।
नाभिव्याहरते ब्रह्म स्वधानिनयनादृते”॥
तथा— काश्यपोऽपि—
“दिव्ये विप्रकरेऽनग्निः कृत्वाऽग्नौकरणं द्विजः।
शेष यत्पितृविप्रेभ्यः पिण्डार्थ शेषयेत्तथे”ति।
पाणितलदत्तमन्नं पृथक् न भोक्तव्यं किन्त्वेकीकृत्य तदुक्तं गृह्यपरिशिष्टे—
“यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम्।
एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते॥
अन्नं पाणितले दत्तं पूर्वमश्नन्त्यबुद्ध्यः।
पितरस्तेन तृप्यन्ति शेषान्नं न लभन्ति ते”॥
यदि दैवविप्रकरे होमस्तदा पितृमातामहश्राद्धद्वयार्थ सकृदेवानुष्ठेयः। वैश्वदेवभेदेऽपि पितृत्वाधिकरणकारकस्य सम्प्रतिपन्नत्वात्। यदा पित्र्ये द्विजपाणौ तदा मातामहब्राह्मणकरेऽपि पार्थक्येनानुष्ठेयः। वैश्वदेविकतन्त्रत्वेऽपि तत्राधिकरणकारकस्य सम्प्रतिपन्नत्वात्। इत्यग्नौकरणम्।
ततःपात्राणि द्विः प्रक्षालयेत्। ततः परिवेषणां यद् हुतशेषदानानन्तरं तत्।
“हुतशेषं पितृभ्यस्तु दत्वाऽन्नं परिवेषयेत्”इति स्मरणात्।
तत्प्रकारस्तूक्तः—
“पाणिभ्श्चामुपसंगृह्य स्वयमन्नस्य वर्द्धितम्।
विप्रान्तिके पितॄन् ध्यायन् शनकैरुपनिक्षिपेत्”॥
परिवेषणं भार्यया कर्तव्यम्। “परिवेषणां भार्यये”ति स्मरणात्। तथैव—
“सवर्णयैवकर्तव्यं यत्पवित्रं सुखावहम्।
द्विजातिभ्यः सवर्णाता हस्तेनेव तु दीयते”इति नारायणवचनात्। तदन्नं च साक्षाद्धस्तेन नैव दातवयम्। किन्तु दर्व्यादिद्वारा—
“हस्तदत्तास्तु ये स्नेहा लवणव्यञ्जनादयः।
दातारं नोपतिष्ठन्ति भाक्ता भुञ्जीत किल्विषम्”इति
शातातपस्मरणात्। तथा पुराणमपि—
“नापवित्रेणहस्तेन नैकेन न विना कुशम्।
नायसे नायसेनैव श्राद्धे तु परिवेषयेत्”।
आयसे अयोमये पात्रे।विष्णु—“घृतादिदाने तैजसानि पात्राणि वा फल्गुपात्राणि प्रशस्नानि। पितृगाथा च श्रूयते—
“सौवर्णराजताभ्या च खड्गेनौदुम्बरेण वा।
दत्तमक्षयतां याति फल्गुपात्रं तथैव चे”ति॥
परिवेषणे च वैश्वदेवपूर्व तत्र कारणं पुराण उपन्यस्तम्। तथाहि—
“तप्यमानास्तु ये तीव्रं प्रेषिता ब्रह्मशासनात्।
विश्वेदेवास्तु रक्षार्थ पितृयज्ञेषु सर्वदा॥
अतः पूर्व प्रदातव्यं तेभ्योऽन्नंपितृकर्मणी”ति।
सौवर्णराजतगोष्ठौदुम्बरफल्गुपात्रैरेव परिवेषण कार्यम्। औदुम्बरं ताम्रमयम्। गोष्टोदुम्बरिका फल्गुशब्दवाच्या।
यद्यप्यन्यत्र फल्गुशब्दो निःसारे वस्तुनि प्रसिद्धस्तथापि अत्र पात्रं पात्रप्रक्रमात्, अत्र च निःसारवस्तुनोऽनुपयोगात्। अथवा सोवर्णादिपात्रापेक्षया निःसारत्वम्, आलङ्कारिकाश्च तथैवाभिगदन्ति।
गोष्ठोदुम्बरिका फल्गु रराटीफल्गुवाटिका”।
गवामुपवेशनार्थागोष्ठा।
“नायसेन समं नैव श्राद्धे तु परिवेषयेत्।
तस्मादन्तरितं देयं पर्णेनाथ तृणेन वे”ति।
ततश्च एकहस्तप्रतिषेध आनयनविषयः परिवेषणं त्वेकेनैव वामस्य निषेधात्। अत्र भोक्त्रा भागनिक्षेपा—दारभ्य विधानफलकपर्यन्तमशून्यमेव पाणिना तत्पात्रं कर्तव्यम्।
“उभयोर्हस्तयोर्मुक्तं पितृभोज्यं निवेदितम्।
तदन्तरं प्रतीक्षन्ते ह्यसुरा दुष्टचेतसः।
तस्मात्तदन्यहस्तेन कुर्यादन्नमुपागतम्।
भाजनं च समालभ्य तिष्ठेदालोपणावधि”।
अत एकहस्तेन पात्रेण परिवेषणीयम् इत्यलम्।
पूर्वंपरिवेषणं विधाय पश्चात्तत्त्यक्तव्यम्। अन्यथा दोषश्रवणात्। ततः पूर्वमेव स्तोकं स्तोकं सर्वमपि देयम्। विद्यमानेषु शाकपाकादिषु यद्रोचते तद् ग्राह्यम्। अन्यत् परित्याज्यमित्यनुपपन्नत्वात्। अत्रायं सङ्कल्पः। पृथिवी ते पात्रमित्यनेन स्वाहान्तेन पात्रमभिमन्त्र्य इदं विष्णुरित्यनयर्चा अन्ने द्विजाङ्गुष्ठंनिवेश्य अवगाह्य च वैश्वदेवे यज्ञोपवीती विष्णो हव्यं रक्षस्व कव्यं चेत्युक्त्वा अनन्तरं विश्वेभ्यो देवेभ्य इदमन्नं परिविष्टं परिचेक्ष्यमाणमातृष्तेरिति ऋजुदर्भयवोदकेनातिलोदकेनैव पित्रे पितामहाय प्रपितामहाय च निवेद्यापोशानं दद्यात्।
तदाह यागा—
“दत्वाऽन्नं पृथिवी पात्रमिति पात्राभिमन्त्रणम्।
कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत्।
विष्णो हव्यं च कव्यं च ब्रूयाद्रक्षेति वै क्रमात्।
वारिष्वग्रप्रदत्तेषु तमङ्गुष्ठं ततः क्षिपेत्” इति॥
अङ्गुष्ठनिवेशने विशेषः।
“परिवृत्य च नाङ्गुष्ठंद्विजस्यान्ने निवेशनम्।
यः करोति द्विजो मोहात्तद्वै रक्षासि गच्छति”इति॥
ननु क्वच्चित्—
“अग्नौकरणहीने तु श्राद्धे सङ्कल्पजे तथा।
नाङ्गुष्ठेन स्पृशेदन्नं मधु वाता ऋचं जपेत्”
इति निषेधो दृश्यते। अनुपपन्नमिदं परिशिष्टबौधायनादिवाक्यैर्विरोधात्। तत्र हि अङ्गुष्ठपरिवेषणं दृश्यते। अतो यत्किञ्चिदेव।
अत्रात्रिः—
“हस्तेनामुक्तमन्नाद्यमिदमन्नमुदीरयेत्।
स्वाहेति च ततः कुर्युः स्वसत्ताविनिवर्तनम्”॥
इदं वैश्वदेवविषयम्। पितृविषये—
“गोत्रसम्बन्धिनामानि त्विदमन्नं ततः स्वधा।
पितृक्रमादुदीर्येति स्वसत्तां विनिवर्तयेत्” इति॥
स्वस्वत्वनिवृत्तिस्तु इदं देवेभ्यो न ममेत्येवंरूपा। एतच्च दम्पती कुर्याताम्। त्रिकाण्डमण्डना अत्राहुः।
“त्यागं तु सर्वथा कुर्यात् तत्राप्यन्यतरस्तयोः
उभावप्यसमर्थौ चेत् नियुक्तः कश्चन त्यजेत्”इति॥
इदमेव स्मृतिरत्नावलीकाराणामभिमतम्।
ततस्तुत्यमभिधत्ते लघुयमः—
“अन्नहीनं क्रियाहीनं मन्त्रहीनं च यद्भवेत्।
सर्वमच्छिद्रमित्युक्त्वा ततो यत्नेन भोजयेत्”॥
अत्र विशेषः—
अत्रोपविष्टद्विजैर्निषेधाद् बलिदानं न कार्यम्।
“पितॄणामन्नमादाय बलि यस्तु प्रयच्छति।
स्तेयेन ब्राह्मणस्तेन स सर्वः स्तेयकृद्भवेत्”इति भरद्वाजस्मरणात् ।
अत्रात्रिश्च—
“दत्ते वाऽप्यथवाऽदत्ते भूमौ यो निक्षिपेद् बलिम्।
तदन्नं विफलं याति निराशैः पितृभिर्गतैः” इति॥
अनन्तरं कृत्यमुच्यते। तत्र प्रचेताः—
“अपोशानमथादाय सावित्रीं त्रिर्जपेदथ।
मधु वाता इति त्रिचमधीत्यैकं त्रिकं तथा”इति।
सव्याहृतिकां सावित्रीं जपेत्। तथा व्यासः—
“जुषध्वमिति ते चोक्त्वा सम्यग्विधृतभाजनाः।
कृतमौनाः समश्नीयुरपोऽशानादनन्तरम्”इति॥
अत्रावसरे अपहता इति सर्वतस्तिलान् विकिरेत्। अत्र मन्त्रः—
“यज्ञेश्वरो हव्यसमस्तकव्यभोक्ताऽव्ययात्मा हरिरीश्वरोऽत्र।
यज्ञं निधाना दययन्तु सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वे”।
इत्युच्चार्य द्विगुणदर्भतिलोदकं गृहीत्वा ॐ भूर्भुवः स्वः तत्क्षमध्वमिति विनीतः सन् कोमलया वाचा ब्रूयात्। पितृस्वस्व्यीजनार्दनो वासुदेवो भगवान् श्रीहरिः प्रीयताम्।
तथाच विष्णुपुराणे—
“ततोऽन्नं मृष्टमत्यर्थमभीष्टमिति संस्कृतम्।
दत्वा जुषध्वमिच्छन्तो वदेदेतदनिठु रम्”इति॥
अत्र धौम्यः—
“पादद्वयक्ष्यामाक्रम्य यो भुङ्क्ते नापदि द्विजः।
नैवासौ भोज्यते श्राद्धे निराशाः पितरो गताः”इति।
शौनकः—
“भुक्तशेषं न भुञ्जीत पीतशेषं पिबेन्न च।
न चैवोपविशेत्पङ्क्तौ यतेर्वा तापसस्य वा”॥
वानप्रस्थास्तापसाः। एकपङ्क्तिनिषेधात् पृथक् पङ्कौ दोषा भावः। पृथक्त्वंच नामभिरेव।
अग्नौकरणभवं पृथक् न भोक्तव्यं किन्तु मिश्रीकृत्य भोक्तव्यं केवलभक्षणे निषेधात्।
“यच्च पाणितले दत्तं यच्चान्नमुपकल्पितम्।
तत्तेन सह भोक्तव्यं पृथग्भावो न विद्यत”हति॥
प्रचेता—
“नान्नपानं प्रभूतमिति व्रूयुरन्यत्र हस्तसंज्ञया तामपि प्रभूतं गृहीत्वोत्सृजेदि”ति। तथा—
“रुच्या शून्यमन्नं जातु भुङ्क्ते त्वन्न विलोकयेत्।
पीत्वा चापो न चाश्नीयाम् पत्रं दत्तमगर्हितम्।
सर्वेन्द्रियाणां चापल्यं पादचापल्यमेव च॥
दन्तछेदं हस्तपानं वर्जयेच्चातिभोजनम्”इति। हस्तपानमित्यस्यायमर्थः। पाणिनोदकं न पातव्यमपि तु पात्रेणैवैति। ततश्चायं नियमः—भोजनमन्तरेण हस्तेनैव पातव्यं न पात्रेण, भोजने तु पात्रेणैव न हस्तेनेति।
तदुक्तं चतुर्विंशतिमते—
“प्रतिषिद्धं च नाश्नीयात्पवित्रमपि वा घृतम्।
हस्तादृतेऽम्बु नाद्येत नाश्नन् पात्रादृते पिबेत्”इति विशेषः।
“यस्तु पाणितले भुङ्क्ते स च स्वायुः समश्रुते।
अङ्गुलि नोद्धरेद्यस्तु तुल्यं गोमांसभक्षणम्”इति। आयुषा सह भुङ्क्ते इति यावत्। ग्राससमये तर्जन्यङ्गुल्युद्धरणं न कर्तव्यम्। नियुक्तो न किचित्परिवर्जयेत्। हस्तसंज्ञया निषेधः कर्तव्यः।
“भग्नपृष्ठो न भुञ्जीत बहिर्जानु तथैव च।
न हसन् न वदन् पात्रं नोद्धरेज्जानु पातयेत्। उभयजानु न पातयेत्।दात्रा इदमलवणमिदमीदृशमिति पृष्टेऽपि न वक्तव्यम्।
“श्राद्धे नियुक्तो भुञ्जीते”त्यदिनोभयोर्नियेधात्।
वशिष्ठश्च—
“हविर्गुणा न वक्तब्यायावन्न पितृतर्पणम्।
तर्पितैः पितृभिः पश्चाद्वक्तव्यं शोभनं हविरि”ति॥
स्वस्तिवाचनानन्तरं वाच्यमित्यर्थः। अपेक्षितवस्तुनिवारणं हस्तेनैव कार्यंन तु हुङ्कारेण।
“हुङ्कारेणापि यो ब्रूया”दिन्यादिनिषेधात्। भोजनमपि निः शेषं न कार्यम्।
“भोजनं तु न निशेषं कुर्यात्प्राज्ञः कथञ्चन”इति वचनात्।
क्षीरपायसमधुसक्त्तुघृतानि तु नैव परित्यजेत्। क्षीरादिव्यतिरिक्त्तस्य दासवर्गभागधेयतया परित्याज्यता।
भोजनोपक्रमानन्तरं कृत्यम्—“सप्रणवां सव्याहृतिकां गायत्री जपित्वा रक्षोघ्रानि सूक्तानि पित्र्यमन्त्रान् पुरुषसूक्तमप्रतिरथं ब्रह्म विष्णुरुद्रार्कसोमेन्द्राग्निबृहद्रथन्तरज्येष्ठसामानि मधुब्राह्मण मण्डलब्राह्मण विविधसामजप पुराणधर्मशास्त्रप्रमुखानि अन्यान्यपि पवित्राणि जपेत्।
मनुरपि—
“स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि॥
आख्यातानीतिहासांश्च पुराणान्यखिलान्यपी”ति।
परिवेषणं च सव्येनैव—
“अपसव्येन यो दद्यात् श्राद्धार्थमुपकल्पितम्।
कृपणो मन्दबुद्धिस्तु न स श्राद्धफलं लभेदि”ति जमदग्निवचनात्।
अत्र विशेषः—
अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितम्।
न याचते द्विजो मूढः स भवेत्पितृघातकः”॥
न चात्र—
“यो याचयति दातारं ब्राह्मणो ज्ञानवर्जितः।
पितरस्तस्य कुप्यन्ति दातुर्भोक्तुर्न संशयः॥
कृच्छ्रद्वादशरात्रेण मुच्यते नात्र शंसयः”
इत्यादि वचनेन विरोध इति वाच्यम्।
तयोरनुपकल्पितवस्तुविषयत्वात्। शङ्खलिखिताभ्यां तु उपकल्पितवस्तुनोऽप्यन्यूनाधिकस्य दानप्रतिग्रहयो- र्निषिद्धत्वमुक्तम्।
तथाहि—
“नात्यन्ताधिकं दद्यान्न प्रतिगृह्णीयात्”इति। दातृनियमो दृश्यते—
ब्रह्माण्डे—
“न चाश्रु पातयेज्जातु न शुक्तां गिरमीरयेत्।
न चोद्वीक्षेत भुञ्जानं न च कुर्वीत मत्सरम्॥
न दीनो नापि वा क्रुद्धो न चैवान्यमना नरः।
एकाग्रमाधाय मनः श्राद्धं कुर्यात्सदा बुधः”इति।
अत्र विशेषः। भोजनोपविष्टब्राह्मणानां स्पर्शे परस्परं प्राप्ते न भोजनं परित्त्याज्यं किन्तु भोक्तव्यमेव। भोजनोत्तरं च गायत्र्यष्टशतं जपेत्।
“श्राद्धपङ्क्तौ तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत्।
तदन्नमत्यजन् भुक्त्वा गायत्र्यष्टशतं जपेत्” इति शङ्खस्मरणात्।
तत्र विशेषः—
“अङ्गुष्ठेन विनाऽश्नाति मुखशब्देन वा पुनः।
पीतावशिष्टं तोयादि पुनरुद्धृत्य वा पिबेत्॥
न्वादितार्घंपुनः खादेत् मोदकानि फलानि च।
मुखेन वा ग्रसेदन्नं निष्ठीवेद्भोजनेऽपि वा॥
न स्पृशेद्वामहस्तेन भुञ्जानोऽन्नंकदाचन”
इत्यादिनियमैर्भोजने कृते इदं कार्यम्—
“तृप्तान् बुध्वाऽन्नमादाय सतिलं पूर्ववज्जपेत्”इत्यादिना विकिरं कुर्यात्। तत्र पात्रेऽन्नमादाय तृप्तास्थ इति पृष्ट्वा तृप्ता स्मेतितैः प्रत्युक्तः शेषमन्नमस्ति कि क्रियतामिति पृष्टः इष्टैः सह भुज्यतामिति प्रत्युक्तः पितृब्राह्मणस्य पुरतउच्छिष्टसन्निधौदक्षिणाग्रदर्भान्तरितायां भूमौ तिलोदकप्रक्षेपपूर्वकं ये अग्निदग्धा इति अनयर्चा निक्षिप्य पुनस्तिलोदकं निक्षिपेत्। मतिविभ्रमाद्वाऽऽचमनाकरणे दोषश्रवणात् तत आचमनं कार्यम्।
तत्र मत्स्यः—
“असंस्कृतप्रमीताना त्यागिनां कुलयोषिताम्।
उच्छिष्टभागधेयानां दर्भेषु विकिरासनम्”इति।
सत्यप्यस्मिन् विधिर्ज्ञेय इत्याचक्षते विचक्षणन्यायमर्माभिज्ञाः।
अत्र केचित् पिण्डाग्रतः षडङ्गुले विकिर इत्याहुः। अपरे उच्छिष्टस्य पुरत इत्याहुः। आद्ये पिण्डवत्पतनं विकिरस्येति तौल्यलिस्मरणं प्रमाणम्। द्वितीये विकिर उच्छिष्टैः प्रतिपादयेदिति गौतमस्मरणं प्रमाणम्। अतः पक्षद्वयमपि शास्त्रत एव प्राप्तमिति प्राप्ते सिद्धान्तः स्मृत्यन्तरात्—
“उच्छिष्टैरेव विकिरं सदैव प्रतिपादयेत्।
अन्यथा कुरुते यस्तु निराशास्तस्य देवताः”
इति आद्य एव युक्तः।
ततो ब्राह्मणहस्ते गण्डूषार्थंसकृत्सकृदपो दद्यात्।
तथा पितृब्राह्मणपूर्व गण्डूषाद्यर्थमुदकं देयम्। अत्र आदौ हस्तप्रक्षालनं वा गण्डूषं वेति सन्देहे हस्तप्रक्षालनात्पूर्व गण्डूषग्रहणे उच्छिष्टभक्षणापत्तेः पूर्व हस्तप्रक्षालनमिति पूर्वपक्षे प्राप्ते सिद्धान्तोऽभिधीयते पूर्वं गण्डूषमिति। न च हस्तस्थितोच्छिष्टभक्षण इति वाच्यम्। तदपेक्षया मुखस्थितस्य दुष्टत्वात् उत्तरापोशाना तिरेकेण मुखस्थितस्य रुधिरतुल्यत्वात्। अत एवातिशिष्टाविप्रकर्षभिया तत्रैवाचमनकर्म कुर्वन्ति न दूरे। ततः पूर्वं गण्डूषमिति।
“हस्तं प्रक्षाल्य यश्चापः पिबेद् भुक्त्वा द्विजः सदा।
तदन्नमसुरैभुर्क्तमि”ति स्मृतेः।
ततोऽप्रक्षालितकर एवहस्तधावनगण्डूषानन्तरं तृप्तिप्रश्न इत्यपरे वदन्ति। वचनं च पूर्वंपितॄणां ततो देवानामित्यपि।
“वैश्वदेवनिविष्टानां चरमं हस्तधावनमि”ति स्मरणात्।
अथ पिण्डनिर्वपणमभिधीयते।
<MISSING_FIG href=”../books_images/1687951814.png”/>
अत्र पिण्डपितृयज्ञकल्पातिदेशेन चरुश्रपणसद्भावे अग्नौकरणशिष्टचरुशेषेण सह सर्वमन्नमुपादायाग्निसन्निधौ पिण्डान्दद्यात्। चरुश्रपणाभावे अग्नौकरणावशिष्टं यत् सार्ववर्णिकमन्नं तत्सर्वमुपादाय तिलमिश्रं दक्षिणामुख उच्छिष्टसन्निधौ पिण्डान् दद्यात्।
तदाह योगी—
“सर्वमन्नमुपादाय सतिल दक्षिणामुखः।
उच्छिष्टसन्निधो पिण्डान् दद्याद्वै पितृयज्ञवत्”।
तत्र प्रचेता—
“अरत्निमात्रमुत्सृज्य पिण्डांस्तत्रप्रदापपेत्।
अथोपस्पृश्यतां वापि प्राप्नुवन्ति न विन्दत”इति।
अत्र द्वौ पक्षौ वागुरिसम्मतौ—
“बद्धमुष्टिकरोऽरत्निररत्निरकनिष्ठिक" इति।
भास्करोऽन्यथाह—
“पात्राणां बाहुमात्रेण पिण्डदानं विधीयते।
कराभ्यामुल्लिखेत् स्फ्येन कुशैर्वापि महीं द्विजः”अयं तृतीयः।
अत्र चतुर्थः—
“पितृब्राह्मणतः स्थानादग्रतस्त्रिष्वरत्निषु।
उच्छिष्टं तद्विजानीयान्नोच्छिष्टासनसन्निधौ”इति।
एतेषु चतुर्ष्वपि पक्षेषु मध्ये देशकालाद्यपेक्षया व्यवस्था।
अत्रिः—
“पितॄणामासनस्थानात् अग्रतस्त्रिष्वरत्निषु”इति।
अत्र पक्षद्वयम् पूर्वमेव पिण्डदानमित्येके भोजनोत्तरमिति द्वितीयम्।
“पिण्डनिर्वपणं केचित् पुरस्तादेव कुर्वते।
भुञ्जानेषु तु विप्रेषु भुक्तवत्सु तथाऽपर”इति स्मरणात्।
शाखापेक्षया विकल्पः। तत्राप्रशस्तेषु श्राद्धेषु पूर्वं, प्रशस्तेषूत्तरम्।
अत्र नवश्राद्धप्रभृतीन्यप्रशस्तानि, सांवत्सरिकापरपक्षादीनि प्रशस्तानि। तृप्तापरकालकर्तव्यतायामपि द्वैधम्,आचमनात् पूर्वमूर्ध्वंवेति। आश्वलायनशाखिनां तु उभयपक्षे विकल्पः।
“भुक्तवत्सु अनाचान्तेषु तेषु पिण्डान्निदध्यादाचान्तेषु वे”ति आश्वलायनस्मरणात्। तत्प्रकारो ब्रह्माण्डेऽभिधीयते—
“सव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजः।
प्रघर्षणां ततः कुर्याच्छ्राद्धकर्मण्यतन्द्रितः।
कण्डनं पेषणं चैव तथैवोल्लेखनक्रिया।
वज्रेणाथ कुशैर्वापि उल्लिखेत्तु महीं द्विजः”इति।
तण्डुलादेः कण्डनं, शाकादेश्छेदनं, पेषणं तण्डुलादेः, भुवः कर्पणमपहता इति मन्त्रेण उल्लेखनम्। अत्र मन्त्रः कात्यायनेन दर्शितः—
“असावेतत्त इति ये च त्वामन्विति चैक इति”।
असावित्यमुकगोत्र अमुकशर्मन् इति सम्बोध्य एतत्ते इति मन्त्रेण पिण्डदानं सव्यं जान्वाच्य कुर्यात्। पिण्डदानोत्तरकाल मनुः—
“न्युप्य पिण्डान् पितृभ्यस्तु प्रयतो विधिपूर्वकम्।
तेषु दर्भेषु तं हस्तं निमृज्याल्लेपभागिनाम्”इति।
विष्णुराह—
“अत्र पितरो मादयध्वमि”ति। तत्र अत्र पितर इत्युक्त्वादङ्मुखःअमीमदन्त पितर इति जपतीति। अमीमदन्तेत्यनुमन्त्रणानन्तर अवघ्राय शुन्धान्ताम्पितर इति पूर्ववत्पिण्डोपरि उदकनिनयनम्। ततोऽसाववनेनिक्ष्वेत्यवनेज्य वस्त्रदशामादाय एतद्वःपितरो वास इति पिण्डे निक्षिप्य अञ्जनगन्धलेपन ताम्बूलवस्त्रदक्षिणादिभिः पूजयेत्।
व्यासः—
पिण्डप्रमाणमाह—
“त्रिहायनस्य वत्सस्य विकृत्यास्यं यथा सुखम्।
तथा कुर्यात्प्रमाणं तु पिण्डानां व्यासभाषितम्”इति।
अयं भावः—पिण्डाः कर्तव्या इत्थं कपित्थप्रमाणम् बिल्वफलप्रमाणं वा कुक्कुटाण्डप्रमाणं वा बदरीफलप्रमाणं वा। तदुक्तमङ्गिरसा—
“कपित्थबिल्वमात्रान्वा पिण्डान्दद्याद्विधानतः।
कुक्कुटाण्डप्रमाणं वा केषां वाऽमलकैः समान्॥
नवश्राद्धे स्थूलतरं तस्मादपि तु निर्वपेत्”।
तस्मादपि स्थूलतरमाशौचे प्रत्यब्दादावेकोद्दिष्टे ततोऽधिकतरं नवश्राद्धद्वादशाहादिसपिण्डीकरणान्ते ततोऽप्यधिकतरमाशौचान्तर्वर्तिपिण्डे प्राचीनं प्रमाणचतुष्ट्यं पार्वणश्राद्धमिति विवेकरहस्यम्।
एवं पिण्डान् निर्वर्त्य स्वर्चितमस्त्विति यज्ञोपवीती भूत्वा विधिं सम्पाद्य सुप्रोक्षितमस्त्विति श्राद्धदेशं सम्प्रोक्ष्यप्रादक्षिण्येन ब्राह्मणहस्ते वारि पुष्पाक्षतांश्च दत्वा सकुशान् यवांश्चपुनरुदकादि दत्वाअघोराः पितरः सन्त्वित्युक्ते द्विजैस्ते गोत्रं वर्धतामिति न स्तथेत्युक्ते तैश्च पुनः दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च। श्रद्धा च नो मा व्यगमद् बहु देयं च नोऽस्त्विति सत्या एता आशिषः सन्तु सन्तु इत्युक्तस्तैः पुनरिति।
एतदनन्तरं पात्रचालन कृत्वा स्वस्तिवाचनं कुर्यात्।
“अचालयित्वा तत्पात्रं स्वस्ति कुर्वन्ति ये द्विजाः।
निराशाः पितरो यान्ति यथाऽऽयान्तितथा गताः”
इति नारायणवचनात् ।
पात्रचालने विशेषः ।
“पात्राणि चालयेच्छाद्धे स्वयं शिष्योऽथवा सुतः।
न स्त्रीभिर्न च बालेन नासजात्या कथञ्चन”इति।
ततोऽक्षयमस्त्विति ब्राह्मणहस्ते जलं दद्यात्। ततो यथाशक्ति दक्षिणां दत्वा स्वधा वाचयिष्ये इत्युक्त्वा तैर्ब्राह्मणैर्वाच्यतामित्युक्तेऽनुज्ञातः प्रकृतपित्रादिभ्यो मातामहादिभ्यश्चस्वधोच्यतामित्युदाहृत्य तैरस्तु स्वधेत्युक्ते भूमौ जलमासिच्य विश्वेदेवा इत्युक्ते दातारो नोऽभिवर्धन्तामित्यादि मन्त्रं वाचयित्वा प्रियवाचा प्रणामं विधाय वाजे वाजे इति जपित्वा धन्या वयं भवच्चरणकमलयुगल पवित्रीकृतमस्मद्गृहमिह दिनमिति। अतो भवद्भिरनुगृह्नीता वयमिति प्रणिपातप्रदक्षिणापूर्व नमस्कृत्य विसर्जयेत्।
यत्र विशेषः ।
“पत्न्यै प्रजार्थंदद्यात्तु मध्यमं मन्त्रपूर्वकम्”इति। मध्यमं मध्यमपिण्डम्। अत्र मन्त्रः—“आधत्त पितरो गर्भंमन्त्रःसन्ततिदायकः।
तथा च मनुः—
“पतिव्रता धर्मपत्नी पितृपूजनतत्परा।
मध्यमं तु तथा पिण्डमद्यात्सम्यक् सुतार्थिनो”॥
पत्नीसन्निधानाभावे सपत्न्या गर्भरोगवन्वे वाऽजीर्णनृषभं छागं वा भोजयेत् तदभावे आकाशं गमयेत् पिण्डं व्रतस्थो दक्षिणामुखः।
“पितॄणां स्थानमाकाशं दक्षिणा दिक् तथैव च”।
देवल—
“अग्निब्राह्मणाऽजगोर्वा भक्षयेदप्सुवेति”।
इदं पुत्रेच्छाविषयम्। तीर्थश्राद्धे पिण्डानामप्सु प्रक्षेप इति। वैश्वदेवः सर्वाहिताग्निना श्राद्धात्पूर्वमेव कर्तव्यः। अनाहिताग्निश्चेत् श्राद्धोत्तरकालमिति व्यवस्था इत्याह्निके। सम्यग् बहूक्तमित्यत्यलमनेन।
प्रौढ श्री द्विजराजवंशतिलकालङ्कारहीरः प्रभु-
र्भारद्वाजकुलानुगः प्रथमया यः शाखयाऽलङ्कृत।
श्रीमद्वल्लभसूनुरात्मनिरतः सत्सम्प्रदायाग्रणीः
सारे श्राद्धविनिर्णयेऽति चतुरे श्रीमान् दलाधीश्वरः॥१॥
निजामसाह साम्राज्यधुरन्धर महीपतिः।
श्री नृसिंहप्रसादेऽस्मिन् सम्पूर्ण कुरुते शुभम् ॥२॥
इति श्रीमल्लक्ष्मीनृसिंहचरणसरोरुहभ्रमरसकल भूमण्डल समस्तयवनाधीश्वर
श्रीनिजामसाह याज्ञवल्क्यशाखाप्रवर्तक श्रीमद्दलपतिराजविरचिते
श्रीनृसिंहप्रसादे श्राद्धसारः सम्पूर्णः।
<MISSING_FIG href="../books_images/1687583864.png"/>
इति श्रीमच्चतुर्दशभुवनैकनाथ महेन्द्रादिदेवपूजितचरणकमल सटाड-
म्बरव्याप्तभुवनत्रय भक्तानुग्रह कपिप्रसन्नवदन प्रल्हादप्रणयवरद-
कर दानैक्यजात सकल जगदेवसुदेवश्रीलक्ष्मीनृसिंहचरणयुगलस-
रोरुहलसत्सूर्यवंशतिलक औत्कल गौडगुर्जरमालवमागध पाञ्चाल
कर्णाटकाऽऽन्ध्रनेक पौढ्यजास्पृहणीयकीर्ति सकलभूमण्डला-
खण्ड दिड्मण्डलनीयमाननिजभुजार्जितप्रतापासादित
सकल साम्राज्यपरमवैभव स्वपदच्युतसंस्थापितानेक
सामन्तचक्र चूडामणिकिरणरञ्जित चरणारविन्द
सकल भूमण्डलमण्डन श्रीत्प्रौढ़प्रतापमहाराजा
धिराज सर्वपुरिसुन्दरिदेवगिरिवराधीश्वर सम-
स्तयवनाधीश्वर श्रीमन्महाराजनिजामसाह सकल
विद्याविशारदयाज्ञवल्कीयलुप्तशाखाप्रवर्तक
श्रीवल्लभात्मज श्रीवल्लपण्डितप्रसादासादित
श्रीसूर्यपण्डिताभिधगुरुमन्वादिप्रणीत नीति
शास्त्राभिज्ञ महाकार्य स्वकार्यावेक्षण
प्रतिनिधीकृत श्रीमहाराज श्रीदलप-
तिराजविरचिते श्रीनृसिंहप्रसादे
श्राद्धसारःसम्पूर्णः।
तृतीयः सारः ।
__________
]