नीतिपाठम्- द्वितीयः भागः

[[नीतिपाठम्- द्वितीयः भागः Source: EB]]

[

Approved by Government,
————————————————

————————————————

नीतिपाठम्।
[ द्वितीयो भागः ]

<MISSING_FIG href="../books_images/1684353836.png"/>

<MISSING_FIG href="../books_images/1684353860.png"/>

श्रीश्यामाचरण-कविरत्नेन
सङ्कलितम्
————————————————

————————————————

Victoria Press, Calcutta.

Registered under Act XX o 1847

—————————————————————————
नीतिपाठम्।
( द्वितीयो भाग. )

<MISSING_FIG href="../books_images/1684434720.png"/>

श्रीश्यामाचरण-कविरत्नेन
सङ्कलितम्।
<MISSING_FIG href="../books_images/1684434763.png"/>

[ षष्ठ सस्करणम्]

“श्रुतेन किं यो न च धर्म्ममाचरेत्।”

1916.
__________________________________________________________

All rights reserved
Price 3 Annas.

Published by N. Banerji,

2, Goabagan Street

Calcutta

Printed by R S. Das, at the
VICTORIA PRESS “

2 Goabagan Street,
CALCUTTA

<MISSING_FIG href=”../books_images/1684435208.png"/>
ईश्वरचन्द्र विद्यासागर।

বিজ্ঞাপন।

নীতিপাঠের দ্বিতীয় ভাগ প্রকাশিত হইল ৷ উচ্চশ্রেণী ইংরাজী বিদ্যালয়েরতৃতীয় শ্রেণীরছাত্রগণেরপাঠোপযোগী নীতিগর্ভকতিপয় প্রবন্ধ মহাভারতাদি প্রাচীন গ্রন্থ হইতে সঙ্কলন করিয়া ইহাতে সন্নিবেশিত হইয়াছে। এবারনূতন সংস্করণে টেক্সট্‌বুক্কমিটীবউপদেশে, এক বৎসরেযাহাতে সম্পূর্ণ পুস্তকেবপাঠ শেষ হইতে পারে, তজ্জন্য কয়েকটা প্রবন্ধ পরিত্যাগ করিয়াপুস্তকেরআকারঅপেক্ষাকৃত খর্ব্ব করাগেল, এবং মূল্যও স্বল্প করাহইল ৷

শিবপুর, হাওড়া।
১১ই মার্চ, ১৯০৩।

শ্রীশ্যামাচরণ শৰ্ম্মা।

सूचीपत्रम्।

गुरुभक्तिः ( महाभारतात् )
गुरुप्रणाममन्त्रः
विद्यामाहात्म्यम् (हितोपदेशात् )
पण्डितमूर्खाः ( पञ्चतन्त्रात् )
मूर्ख ता-दोषः (हितोपदेशात् )
प्रभुभक्तिः ( वेतालपञ्चविंशतेः )
पितृभक्तिः ( रामायणात् )
पितृप्रणाममन्त्र'
भ्रातृवात्सल्यम् (··)
गजभक्तिः ( महाभारतात् )
नीतिसारः

________

नौतिपाठम्।

[ द्वितोयो भागः ]

गुरुभक्तिः।

( आरुणि)

आसीत् कश्चित् ऋषिः आयोदःधौन्यो नाम। तस्य शिष्यास्त्रयो वभूवुः—उपमन्युःआरुणिः वेदश्चेति। स एकं शिष्यम् आरुणि प्रेरयामास—“गच्छ, केदारखण्डं वधान” इति। १

स उपाध्यायेन सन्दिष्टः आरुणिगत्वा, तत् केदारखण्डं बन्धु न अशकत्। क्लिश्यमान अपश्यत् उपायम्, —स तत्र संविवेश केदारखण्डे। तथा शयाने च तस्मिन्, तत् उदकं तस्थौ। २

ततः कदाचित् उपाध्यायः आवोदो धौम्यः शिष्यान् अपृच्छत्— “क्व आरुणिर्गत?” ते तं प्रत्यूचुः—“भगवन्, त्वयैव प्रेषितः— गच्छ केटारखण्डं वधान इति”। स एवमुक्तः तान् प्रत्युवाच —“तस्मात् तत्र सर्व्वे वयं गच्छामः यत्र स गतः”। ३

स तत्रगत्वा, तस्य आह्वानाय शब्दं चकार —“भो आरुणे ! क्वासि वत्स ? एहि”इति। तच्छ्रुत्वा आरुणिः उपाध्यायवाक्यं, तस्मात् केदारखण्डात् सहसा उत्थाय, तम् उपाध्यायम् उपतस्थौ, प्रोवाच च एनम् —“अयम् अस्मि; अत्र केदारखण्डे निःसरत् उदकम् अवारणोयं संरोद्धुं संविष्टः। भगवच्छब्दं श्रुत्वैव, सहसा विदार्य्यकेदारखण्डं, भगवन्तम् उपस्थितः। ततः अभिवादये भगवन्तम्, आज्ञापयतु भवान्, कम् अर्थं करवाणि”। ४

स एवमुक्तः उपाध्यायः प्रत्युवाच—“यस्मात् भवान् केदारखण्डंविदार्य्य उत्थितः, तस्मात् नाम्ना उद्दालक एव भविष्यति। यस्माच्चत्वया मद्वचनम् अनुष्ठितम्, तस्मात् श्रेयः अवाप्स्यसि। सर्व्वे च ते वेदाः प्रतिभास्यन्ति, सर्व्वाणि च धर्म्मशास्त्राणि” इति। ५

स एवम् उक्तः उपाध्यायेन, इष्ट’ देशं जगाम। ६

( उपमन्यो )

अथ अपरः शिष्यः तस्यैव आयोद-धौम्यस्य उपमन्युर्नाम। तं च उपाध्यायः प्रेषयामास— “वत्स उपमन्यो, गांरक्ष”इति। स उपाध्याय-वचनात् अरक्षत् गाः। १

स च अहनि गा रक्षित्वा, दिवसक्षये गुरुगृहम् आगत्य, उपाध्यायस्य अग्रतः स्थित्वा नमश्चक्रे। तम् उपाध्यायः पीवानम् अपश्यत्, उवाच च एनम्—“वत्स उपमन्यो। केन वृत्तिं कल्पयसि ? पौवा असि दृढ़म्”।स उपाध्यायं प्रत्युवाच—“भोः, भैक्ष्येण वृत्तिं कल्पयामि। २

तम् उपाध्यायः प्रत्युवाच—“मयि अनिवेद्य, भैक्ष्यंन उपयोक्तव्यम्”। स तथा इत्युक्त्वा, भैक्ष्यंचरित्वा, उपाध्यायाय न्यवेदयत्। स तस्मात् उपाध्यायः सर्व्वमेव भैक्ष्यम् अगृह्णात्। स पुनः अरक्षत् गाः। अहनि रक्षित्वा, निशामुखे गुरुकुलम् आगम्य, गुरोः अग्रतः स्थित्वा नमश्चक्रे। ३

तम् उपाध्यायः तथापि पौवान-मेव दृष्ट्वा उवाच—“वत्स उपमन्यो। सर्व्वं ते भैक्ष्यंगृह्णामि, केन इदानीं वृत्तिं कल्पयसि ?” स एवम् उक्तः तम् उपाध्यायं प्रत्युवाच—“भगवते निवेद्य पूर्व्वम्, अपरं चरामि, तेन वृत्तिं कल्पयामि”। ४

तम् उपाध्यायः प्रत्युवाच—“नैषा न्याय्या वृत्तिः, यतः अन्येषामपि भैक्ष्योपजीविना वृत्त्युपरोधं करोषि। एवं वर्त्तमानो लुब्धोऽसि”। स तथा इत्युक्त्वा, गाः अरक्षत्। रक्षित्वा च, पुनः उपाध्यायगृहम्आगम्य,उपाध्यायस्य अग्रतः स्थित्वा नमश्चक्रे। ५

तम् उपाध्यायः तथापि पीवानमेव दृष्ट्वा पुनरुवाच— “वत्स उपमन्यो। अहं ते सर्व्वं भैक्ष्यंगृह्णामि, न च अन्यत् चरसि, पीवा असि भृशं , केन वृत्तिं कल्पयसि?” स एवम् उक्तः उपाध्यायं प्रत्युवाच— “भोः, एतासां गवां पयसा वृत्तिंकल्पयामि”। ६

तम् उवाच उपाध्यायः— “नैतत् न्याय्यम् ; पय उपयोक्तुंभवतः मया न अभ्यनुज्ञातम्”। स तथा इति प्रतिज्ञाय, गा रक्षित्वा, पुनउपाध्यायगृहम् एत्य, गुरोरग्रतः स्थित्वा नमश्चक्रे। ७

तम् उपाध्यायः पीवान-मेव दृष्ट्वाउवाच—“वत्स उपमन्यो। भैक्ष्यं न अश्नासि, न च अन्यत् चरसि, पयो न पिबसि ; भृशं पीवा असि। केन इदानीं वृत्तिं कल्पयसि ?”। स एवम् उक्तः उपाधयायं प्रत्युवाच—“भोः, फेनं पिबामि, यम् इमे वत्साः मातृणां स्तनान् पिबन्तः उदगिरन्ति” ८।

तम् उपाध्यायः प्रत्युवाच,—“एते गुणवन्तो वत्साः त्वदनुकम्पया प्रभूततरं फेनम् उदगिरन्ति। तत् एषामपि वत्सानां वृत्त्युपराधं करोषि। फेनम् अपि भवान् न पातुम् अर्हति”। ९

स तथा इति प्रतिश्रुत्य पुनः अरक्षत् गाः। तथा प्रतिषिधो भैक्ष्यंन अश्नाति, न च अन्यत् चरति, पयो नपिबति, फेनं न उपयुङ्क्ते। १०

अथ स कदाचित् अरण्ये क्षुधार्त्तः अर्कपत्राणि अभक्षयत्। स तैः अर्कपत्रैः भक्षितैः क्षारतिक्तकटुरुक्षैःचक्षुषि उपहतः अन्धो बभूव। ततः सः अन्धोऽपि परिभ्रमन् कूपे अपतत्। ११

अथ तस्मिन् अनागच्छति, सूर्य्येच अस्ताचलावलम्बिनि, उपाध्यायः शिष्यान् अवोचत्— “न आयाति उपमन्युः ?”। ते ऊचुः—“वनं गतो गाः रक्षितुम्”इति। नान् आह उपाध्यायः—“मया उपमन्युःसर्व्वतः प्रतिषिद्धः, स नियतं कुपितः, अतो न आगच्छति चिरं, ततः सः अन्वेष्यः”। १२

एवम् उक्ता, शिष्यैः सार्ङम् अरण्यं गत्वा, तस्य आह्वानाय शब्दं चकार—“भोउपमन्यो।क्वासि ? वत्स, एहि” इति। १३

स उपाध्याय-वचनं श्रुत्वा प्रत्युवाच उच्चैः—“अहम् अस्मिन् कूपे पतितोऽस्मि”। तम् उपाध्यायः प्रत्युवाच—“कथं त्वम् अस्मिन् कूपे पतितः ?”। स उपाध्यायं प्रत्युवाच—“अर्कपत्राणि भक्षयित्वा अन्धीभूतोऽस्मि, अतः कूपे पतितः”। १४

तम् उपाध्यायः प्रत्युवाच—“अश्विनौ स्तुहि। तौ देवभिषजौ त्वा चक्षुष्मन्तं कर्त्तारौ”। १५

स एवम् उक्तः उपाध्यायेन उपमन्युःस्तोतुम् उपचक्रमे देवौ अश्विनौ। तेन अभिष्टुतौ अश्विनौ आजग्मतुः, ऊचतुश्च एनम्—“प्रीतौ स्वः, एष ते अपूपः, अशान एनम्”। १६

स एवम् उक्तः प्रत्युवाच—“गुरवे अनिवेद्य, नाहमेतम् अपूपम् उपयोक्तुम् उत्सहे”। ततस्तम् अश्विनौ ऊचतुः,— “आवाभ्यां पुरस्तात् भवतः उपाध्यायेन एवमेव अभिष्टुताभ्याम् अपूपो दत्तः, उपयुक्तः स तेन अनिवेद्य गुरवे, त्वमपि तथैव कुरुष्व, यथा कृतंते उपाध्यायेन। १७

स एवम् उक्तः प्रत्युवाच—“प्रत्यनुनये भवन्तौ अश्विनौ। न उत्सहे अहम्, अनिवेद्य गुरवे, अपूपम् एनम् उपयोक्तम्”। १८

तम् अश्विनौ ऊचतुः—“प्रीतौ स्वःतव अनया गुरुभक्त्या।उपाध्यायस्य ते कार्ष्णायसाः दन्ताः, भवतो हिरण्मयाः दन्ताः भविष्यन्ति। चक्षुष्माश्च भविष्यसि, श्रेयश्चअवाप्स्यसि”। १९

स एवम् उक्तः अश्विभ्या, लब्धचक्षुः उपाध्यायसकाशम् आगम्य, उपाध्यायम् अभ्यवादयत, सर्व्वच आचचक्षे। स च अस्य प्रीतिमान् बभूव, आह च एनम—“यथा अश्विनौ ऊचतुः तथा त्वं श्रेयः अवाप्स्यसि।सर्व्वे च ते वेदाः प्रतिभास्यन्ति,सर्व्वाणि च धर्म्मशास्त्राणि”इति।—एषा तस्यापि परीक्षा उपमन्योः।२०

——————

( वेदस्य )

अथ अपरः शिष्यः, तस्यैव आयोद-धौम्यस्य वेदो नाम। तम् उपाध्यायः समादिदेश—“वत्स वेद, इह आस्यतां तावत् मम गृहे कञ्चित् कालं, शुश्रूषुणा च भवितव्यं,श्रेयस्ते भविष्यति।”१

स तथा इत्युक्त्वा, गुरुकुले दीर्घकालं गुरुशुश्रूषणपरो न्यवसत्। गौरिव नित्यंगुरुणा धूर्षु नियोज्यमानः, शीतोष्णक्षुत्तृष्णा-दुःखसह, सर्व्वत्रअप्रतिकूलः आसीत्। २

तस्य महता कालेन गुरुः परितोषं जगाम। तत्परितोषाच्च स श्रेयः सर्व्वज्ञताञ्च अवाप। —एषा तस्यापि परीक्षा वेदस्य।३

——————

गुरुप्रणाममन्त्रः।

अखण्डमण्डलाकारं व्याप्तं येन चराचरं।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः॥
ज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः॥

———————

विद्या-माहात्माम्।

अजरामरवत् प्राज्ञो विद्यामर्थञ्च चिन्तयेत्।

गृहीत इव केशेषु मृत्युना धर्म्म-माचरेत् ॥ १

सर्व्वद्रव्येषु विद्यैव द्रव्यमाहु-रनुत्तमम्।

अहार्य्यत्वा-दनर्घत्वा-दक्षयत्वाच्च सर्व्वथा ॥ २

सङ्गमयति विद्यैव नीचगापि नरंसरित्।

समुद्रमिव दुर्द्धर्षं नृपं भाग्य-मतः परम् ॥ ३

विद्या ददाति विनयं, विनयाद् याति पात्रताम्।

पात्रत्वाद्धन-माप्नोति, धनाद्धर्म्मंततः सुखम् ॥ ४

विद्या शस्त्रञ्च शास्त्रञ्च, द्वेविद्ये प्रतिपत्तये।

आद्या हास्याय वृद्धत्वे, द्वितीयाद्रियते सदा ॥ ५

पण्डिते च गुणाः सर्व्वे मूर्खे दोषाहि केवलम्।

तस्मान्मूर्खसहस्रेभ्यः प्राज्ञ एको विशिष्यते ॥ ६

विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन।

स्वदेशे पूज्यते राजा विद्वान् सर्व्वत्र पूज्यते ॥ ७

नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः।

नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥८

पण्डित-मूर्खाः

कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणाःपरस्परमित्रत्वमापन्ना वसन्ति स्म। वाल्यकाले तेषां मतिरजायत—भोः देशान्तरंगत्वा विद्याया उपार्ज्जनं क्रियताम् इति। अथान्यस्मिन् दिवसेते परस्परं निश्चयं कृत्वा, विद्योपार्जनार्थं कान्यकुव्जंगता। १

तत्र च विद्यामठ’ गत्वा पठन्ति स्म। एवं द्वादशाब्दान् यावत् एकचित्ततया पठन्तः सर्व्वविद्याकुशलास्ते सञ्जाताः। ततस्तैश्चतुर्भिर्मिलित्वा उक्तम्—“वयं सर्व्वविढ्यापारं गताः। तत् उपाध्याय-मनुज्ञाप्य स्वदेशं गच्छामः”। “तथैव क्रियताम्”इत्युक्त्वा, ब्राह्मणा उपाध्यायस्य अनुज्ञा लब्ध्वा, पुस्तकानि नीत्वा प्रचलिता। २

अथ यावत्ते किञ्चिन्मार्गं यान्ति तावत् द्वौपन्थानौ समायातौ। तत्र उपविष्टाः सर्व्वे। तत एक प्रोवाच—“केन मार्गेण गच्छामः ?”। एतस्मिन् समये तस्मिन् पत्तने कश्चित् वणिक् मृतः। तस्य दाहार्थं महाजना गच्छन्ति स्म। ततश्चतूर्णामध्येएकेन पुस्तक-मुद्घाट्य उक्तम्—

“महाजनो येन गत स पन्था।”३

अथ ते पण्डिता यावत् महाजन-मार्गेण यान्ति तावत्तैः रासभः कश्चित् तत्र श्मशाने दृष्टः। अथ द्वितीयेन पुस्तकमुद्घाट्य उक्तम्। ४।—

“उत्सवे व्यसने चैव दुर्भिक्षेराष्ट्रविप्लवे।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धव ॥”५

तदहो।अय-मस्मदीयो बान्धवः। ततः कश्चित्तस्थ ग्रीवायां लगति स्म, कोऽपि पादौ प्रक्षालयति स्म। ६

अथ यावत् ते पण्डिताः दिशामवलोकनं कुर्वन्ति, तावत् तैः कश्चित् उष्ट्रा दृष्टः। उक्तञ्च—“एतत् किम् ?” ततः तृतीयेन पुस्तक-मुद्घाट्य उक्तम् ॥७

“धर्म्मस्यत्वरिता गति.।”

एष धर्म्मस्तावत्। चतुर्थेनोक्तम्—

“दृष्ट धर्म्मेण योजयेत्।”८

अथ तैः स रासभः उष्ट्रग्रीवायां बद्धः। ततः केनचित् रजकस्याग्रे कथितम्। अथ रजकस्तेषां पण्डितमूर्खाणां प्रहारकरणाय यावत् समायातः, तावत् ते प्रनष्टाः।९

अथ ते यावत् अग्रे किञ्चिन्मार्गं यान्ति, तावत् तैः काचिन्नदो समासादिता। ततस्तस्या जलमध्ये पलाशपत्रमायात् दृष्ट्वा पण्डितेन एकेन उक्तम्। १०

“आगमिष्यति यत्पत्रंतदस्मास्तारयिष्यति।”११

एतत् कथयित्वा तत्पत्रस्योपरि पतितः स यावन्नद्या नोयते, तावत् तंनीयमान-मवलोक्य अन्धेन पण्डितेन तस्य केशान्तं गृहीत्वा उक्तम्। १२

“सर्व्वनाशे समुत्पन्ने अर्द्ध त्यजति पण्डित।

अर्द्धेन कुरुते कार्य्य सर्व्वनाशो हि टु सह ॥” १३

इत्युक्त्वा तेन तस्य शिरश्छेदोविहितः। १४

———————

मूर्ख ता-दोषः।

कोऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्म्मिकः।

काणेन चक्षुषा किं वा चक्षुःपीडैव केवलम् ॥ १

स जातो येन जातेन याति वंशः समुन्नतिम्।

परिवर्त्तिनि ससारे मृतः को वा न जायते ॥ २

अजात-मृत-भूर्खाणा वरमाद्यौ न चान्तिमः।

सकृद्दःखकरा-वाद्या-वन्तिमस्तु पदे पदे ॥ ३

काव्यशास्त्र-विनोदेन कालो गच्छति धीमताम्।

व्यसनेन च मूर्खाणा निद्रया कलहेन च ॥ ४

———————

प्रभुभक्तिः।

( वीरवरस्य )

आसीत् सकल-राजलक्षणोपेतः सार्व्वभौमः शूद्रको नाम राजा। एकदासौअमात्यगण-परिवृतः परिषदमास्थितः। तदैको राजपुत्रः पुत्रभार्य्यासमेतो देशान्तरा-दाजगाम, वर्त्तनार्थी च दौवारिक-मब्रवीत्—“भो दौवारिक, मा-मवेहि राजपुत्रम्। अहंपुत्रभार्य्यासहायः शूद्रकमहाराजस्य यशः श्रुत्वा वर्त्तनार्थी समागतः। मम वृत्तान्तं राज्ञेविज्ञापय"। श्रुत्वैतत् प्रतीहारी राजानंविज्ञाप्यआगन्तुकमुपनिनाय। १

तमवलोक्य राजा पप्रच्छ—“को भवान् ? किमर्थमिहागतः ?” इति पृष्टः स ब्रूते स्म—“देव, वीरवर-नामा क्षत्रियोऽहम्, भवत्-सेवाकाङ्क्षी ससागतोऽस्मि”। राजाऽवदत,—“किं जीवनं कर्त्तव्यं, तद्वद”। वीरवरेणोक्तं,—“प्रत्यहंसुवर्णशतपञ्चकंददातु देवः”। राजाऽब्रवीत्—“अहो ! अत्र वहवो गुणवन्तः सन्ति, केषामपि एतावज्जीवनंन विद्यते”। तत् श्रुत्वा वीरवरो नृपति-मभिवाद्यचलितः। २

ततः सान्धिविग्रहिकेणोक्तं—“देव, एतेन मा कातरो भवः, दिवस-कतिपयम् एतावज्जीवनं दत्त्वा वीरवरः परोक्ष्यताम्। बहुलधनमपि विनष्टंन भविष्यति’। ततो राज्ञा पुनरानीय यथाभिलषित-वर्त्तनं दत्त्वा स्थापितोऽसौ वीरवरो वर्त्तन-धन-स्यार्द्धं ब्राह्मणेभ्यो दत्त्वा, चतुर्थाशम्, अन्धपङ्गुजनेभ्यो दत्त्वा, अवशिष्ट-चतुर्थांशेन आत्मानं वर्द्वयति स्म। एवं स राजसेवा कुर्व्वन्नासीत्। ३

अथैकदा दक्षिणस्या दिशि रात्रौ एका स्त्री करुणस्वरेण रोदिति स्म। तत् श्रुत्वा राजाऽवदत्—“द्दारिकस्तिष्ठति ?” वीरवरेणोक्तं—“देव, अहमस्मि”। नृपेणोक्तं—“वीरवर ! का रोदिति, ता निश्चित्य मा ज्ञापय”। ४

ततोऽसौ गतः। राजा च तस्य पश्चात् अनुपलक्षितो जगाम। वौरवरस्तत्र गत्वा ता रुदतीमालोक्य अब्रवीत्,— “मातः!भवतीकिमर्थम् एकाकिनो रोदिति” ? सा तु यत्नेन पृष्टा ब्रूते स्म— “वत्स, अहंशूद्रकस्य लक्ष्मीः। स महात्मा प्रातःकाले नारांगमिष्यति, तदह-मिदानीं कुत्रस्थास्यामि इति रोदिमि”। तत् श्रुत्वा वीरवरेणोक्तं—“मातः, भवतीयथा चिरस्थायिनी, राजा च चिरजीवी भवति, तदुपायं वदतु भवती, अहंतावत् करोमि”। लक्ष्मींब्रूते स्म— “वत्स !तत् दुष्करं कर्म्म कः करिष्यति ?”। ५

वीरवरेणोक्तं— “मया तत् अशक्यमपि कर्त्तव्यमिति वदतु भवती”। लक्ष्मी. ब्रूते स्म— “यदि सुलक्षणं कुमारं समानीय तन्मातृभगिन्यौ तच्चरणौ स्वेच्छया दध्याताम्, स्वयमपि पिता तं कात्यायन्यै वलिं दद्यात्, तदा राज्ञः शुभं भविष्यति। केशाकर्षण-शिरश्छेदं यदि पुत्त्रःस्वीकरोति, तदैव, नान्यथा”। इति निगद्य लक्ष्मी-रन्तर्हिता बभूव। ६

वीरवरः श्रुत्वा, तत् स्वगृहमागत्य, पत्न्यां पुत्रे दुहितरि च सर्व्व-मकथयत्। तत् श्रुत्वा पत्नी वदति स्म—“यद्येतत् दुष्करं कर्म्मन कर्त्तव्यं, तदा परलोके निस्तारः कथं भविष्यति ?” तत्पुत्त्रः शक्तिवरोऽवदत्— “तात।धन्योऽहं, यन्मम मरणे राजा चिरजीवी, राज्यस्य च निस्तारो भविष्यति”। दुहिता चाभ्यनन्दत्। राजा सुगुप्तसर्व्वं श्रुत्वा अनुपलक्षित-स्तिष्ठति स्म। वीरवरः सपरिवारस्तत्र गत्वा तेनैव विधिना राज्ञो विपत्तिक्षयहेतो. स्वपुत्रंभगवत्यै बलिं ददौ, तच्छोकं परिहर्त्तुं च खङ्गेन आत्मनः शिरश्चिच्छेद। गुरुतरशोकेन वीरवरस्य पत्नी दुहिता चापि तथैव चक्रतुः।७

राजा सर्व्व-मेत-दवलोक्य सपरिवारस्य वीरवरस्य सात्त्विकत्वमधिगम्य स्वशिरमश्छेत्तुमुपचक्रमे। एतस्मिन् समये आकाशवाणी बभूव— “राजन् ! त्वम् आत्मबलिं न दद्याः। त्वयि कात्यायनी प्रसन्नाऽभवत्”। राजा वदति स्म— “मातः ! यद्येवं, तदा वीरवरः सपरिवारो जीवतु”। ८

ततो वीरवरे सपरिवारे जीविते सति, राजा अनुपलक्षितः स्वगृह-मागतः। प्राप्तजीवनो वीरवरः पत्नींपुत्रं दुहितरंच स्वगृहे संस्थाप्यनृपद्वारमागमत्। तमायात-मवलोक्य राजाऽवदत्—“वीरवर ! कुत्र गत्वा स्थितं भवता, का रोदिति स्म, तत् कथय”। इति पृष्टो वीरवरो ब्रूते स्म—“देव, एकास्त्री दुःखिनीरोदिति स्म, तां निसार्य्य आगतोऽस्मि ”। राज्ञोक्तं—“वत्स, स्वगृहंगच्छ”।९

अथपरदिने राजा सर्व्वामात्यान् समाहृय, वीरवरस्य सपरिवारस्य सात्विकत्वं निगदितवान्। तत् श्रुत्वा सर्व्वे विस्मिता बभूवुः। ततो वीरवर-प्रभावात् राजा चिरजीवीसार्व्वभौमश्च वभूव। वीरवरञ्च वहुतर-ह्य-हस्ति-धन-जन-मणि-रत्नानि दत्त्वाशेखरदेशे राजानंकृतवान्। १०

———————

पितृभक्तिः1

( रामस्य )

विलपन्तींतथा दोनां कौशल्यां जननींततः।

उवाच रामोधर्म्मात्मा वचनंधर्म्मसंहितम् ॥ १

नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम।

प्रसादये2 ।")त्वां शिरसा गन्तु-मिच्छाम्यहं वनम् ॥ २

नाहं धर्म्म-मपूर्व्वं ते प्रतिकूलंप्रवर्त्तये।

पूबै्ब-रय-मभिप्रेतो गतो मार्गोऽनुगम्यते ॥ ३

तदेतत्तु मया कार्य्यं नियतंवचनं पितुः।

पितुर्हि वचनं कुर्व्वन् न कश्चि-दवहीयते ॥ ४

तामेव-मुक्ता जननींलक्ष्मणं पुन-रब्रवीत्।

वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठः सर्व्वधनुष्मताम् ॥ ५

तव लक्षण जानामि मयि स्नेह-मनुत्तमम्।

विक्रमञ्चैव सत्त्वञ्च तेजश्च सुदुरासदम् ॥ ६

धर्म्मोहि परमो लोके धर्म्म सत्यं प्रतिष्ठितम्।

धर्म्मसंश्रित-मेतत्तु पितुर्व्वचन-मुत्तमम् ॥ ७

संश्रुत्यच पितुर्वाक्यं मातुर्वा प्रियदर्शन।

न कर्त्तव्यं वृथा वीर धर्म्म माश्रित्व तिष्ठता ॥ ८

सोऽहंन शक्ष्यामि पितु-र्नियोग-मतिवर्त्तितुम।

पितुर्हि वचनाडीर कैकेय्याहंप्रणोदित. ॥ ९

तदेता विसृजानार्य्याक्षत्रधर्म्माश्रितां मतिम।

धर्म्म-माश्रय मा त्रैक्षण्यं मद्वुद्वि-रनुगम्यताम् ॥ १०

तमेवमुक्का सौहार्द्याद्भ्रातरं लक्ष्मणाग्रजः।

उवाच भूयः कौसल्या प्राञ्जलिंशिरसा नत. ॥११

अनुमन्यस्वमा देवि गमिष्यन्त-मितो वनम्।

शापितासि मम प्राणौकुरु स्वस्त्ययनानि मे ॥ १२

शोकः सन्धार्य्यता मात-र्हृदये साधु मा शुच।

वनवामादिहैप्यामि पुन कृत्वा पितुर्वचः ॥ १३

त्वया मया च वैदेह्या लक्ष्मणेन सुमित्त्रया।

पितुर्नियोगे स्थातव्य-मेष धर्म्मःसनातन ॥ १४

अम्व संहृत्य सम्भारान् दुःखं हृदि निगृह्य च।

वनवास-कृता वुद्धि-र्मस धर्म्म्यानुवृत्यताम्। १५

भक्त्यारामस्य सौमित्रिं संरव्वंपितरं प्रति।

श्लक्ष्णैं सानुनयैर्वाक्यैःशमयामास राघवः ॥ १६

पुण्यशीलो हि धर्म्मात्मासत्यधर्म्म-परायणः।

पार्थिवो नानृतं कत्तुंन्याय्यो लोकगुरुस्त्वया ॥ १७

सत्यप्रतिज्ञंकृत्वा तु पितरं धर्म्मवत्सलम्।

पुण्या कोर्त्ति-मवाप्स्यामि प्रेत्य चेह च शाश्वतीम् ॥ १८

यदि त्वस्ति मयि स्नेहो भक्तिर्वा तव लक्ष्मण।

ततो निवर्त्तयैतां त्वं पापबुद्धिंसमुत्थिताम् ॥ १८

धर्म्मात्मनः प्रभवतः कृत्यज्ञस्य महात्मनः।

पितु-रस्याप्रियं कर्त्तुं नेच्छामि मनसाप्यहम् ॥ २०

यदिच्छसि प्रियं कर्त्तुं मम नित्य-मभीप्सितम्।

ततो मयि गते भक्त्या शुश्रूष्यो नृपतिस्त्वया।

निर्व्यलोकेन मनसा प्रत्यक्षं दैवतं यथा ॥ २१

यथा यथा न तप्येयु-र्वनवासंगते मयि।

मातरश्चाविशेषेण शूश्रूष्याः सर्व्वशस्त्वया ॥ २२

भरतश्चापि धर्म्मात्मा द्रष्टव्योऽहमिव त्वया।

परिपाल्यश्च यत्नेन मम प्रियचिकीर्षुणा ॥ २३

—————

पितृप्रणाममन्त्रः।

पिता धर्म्मःपिता स्वर्गः पिता हि परमं तपः।

पितरि प्रीतिमापन्ने प्रियन्ते सर्व्वदेवताः ॥

—————

भ्रातृ-वात्सल्यम्।

( लक्षणम्य )

इत्युक्तवचनं रामं बभाषे लक्ष्मणस्तटा।

अप्रकम्पं स्थितं धर्म्मेपुरन्दर-मिवानुजः ॥ १

लोकनाथ गतिर्या ते सा ममापि भविष्यति।

वने वत्साम्यहमपि शुश्रूषा-निरतस्तव। २

त्वया त्यक्ता-महमपि परित्यक्ष्ये3 ।")पुरीमिमाम्।

त्वदृते न हि मे वस्तुं स्वर्गेऽपिरमते मनः ॥ ३

यद्यस्ति मयि ते स्नेहो भक्तोऽयं प्रति मामिति।

तन्न मामनुगच्छन्तं निवर्त्तयितु-मर्हसिं ॥ ४

वने निवसतस्तेऽहं नानावन-विचारिणः।

आहरिष्यामि पुष्पाणि मूलानि च फलानि च ॥ ५

सहायस्ते भविष्यामि दुर्गेषु विषमेषु च।

आज्ञाकरस्ते भृत्योऽहं भविष्यामि महावने ॥ ६

सर्व्वभावानुरक्तंमा न परित्यक्तुमर्हसि।

अनुगन्तु क्वतमतिं कृतज्ञं शरणागतम्। ७

न निवर्त्तयितव्योऽह सर्व्वथा रघुनन्दन।

न हि राम त्वया त्यक्तो जीवेयमितिमे मतिः ॥ ८

न निवर्त्तयितुं शक्या बुद्धिरेषा मम स्यिरा।

स भवाननुजानातु ममानुगमनं वने ॥ ९

सोऽनुनीतो बहूविधं लक्ष्मणेन यशस्विना।

वाढ़मित्यब्रवीद्रामो लक्ष्मणं भ्रातृवत्सलम् ॥ १०

सह यास्यामि सौमित्रे त्वयाहंगहनं वनम्।

भवान् हि परमो बन्धुः सखा भक्त प्रियश्च मे ॥ ११

—————

राजभक्तिः।

युधिष्ठिर उवाच।

किमाहुर्दैवतं विप्रा राजानं भरतर्षभ।

मनुष्याणा-मधिपतिं तन्मे ब्रूहि पितामह ॥ १

भीष्म उवाच।

अत्राप्युदाहरन्तीम-मितिहासं पुरातनम्।

वृहस्पतिं वसुमना यथा पप्रच्छ भारत ॥ २

राजा वसुमना नाम कौसल्यो धीमता वरः ॥ ३

महर्षिं किल पप्रच्छ कृतप्रज्ञं वृहस्पतिम् ॥ ४

—————————————————————————————————————

(१) विप्रा मनुष्याणाम् अधिपतिं राजान कि ( कथं ) दैवतम् ( देवताम् ) आहुः–इत्यन्वय।

(३) कौसल्य—कोसलाधिपति ।

(४) कृतप्रज्ञं—शिक्षितमतिं, विद्दासमिति यावत् ।

वसुनना उवाच।

केन भूतानि वर्द्धन्ते क्षय गच्छन्ति केन वा।
कमर्च्चन्तो महाप्राज्ञ सुखमव्यय-माप्नुयुः ॥ ५

एवं पृष्टो महाप्राज्ञः कौसल्ये नामितौजसा।4
राजसत्कार-मव्यग्रं शशंसास्मैवृहस्पति. ॥4

बृहस्पतिरुवाच।

राजमूलो महाप्राज्ञ धर्म्मोलोकस्य लक्ष्यते।5, राजा लोकल धर्म्मं रक्षतीत्यर्थ। खादन्ति — हिमन्ति ।”)
प्रजा राजभयादेव न खादन्ति परस्परम् ॥5, राजा लोकल धर्म्मं रक्षतीत्यर्थ। खादन्ति — हिमन्ति ।”) ७

यथा ह्यनुदये राजन् भूतानि शशिसूर्य्ययोः।
अन्धे तमसि मज्जेयु-ग्पश्यन्तः परस्परम् ॥ ८

एवमेव विना राज्ञा विनश्येयु-रिसा. प्रजाः।6 पशवं यथा ( गवाद्यइव ), अन्धे तमसि मध्येयु, ततो विनश्येयु - इत्यन्वय।”)
अन्धे तमसि मज्जेयु-रगोपा पशवो यथा ॥6 पशवं यथा ( गवाद्यइव ), अन्धे तमसि मध्येयु, ततो विनश्येयु - इत्यन्वय।")९

ममेदमिति लोकेऽस्मिन् न भवेत् सम्परिग्रह।7 मम( मदीयम् )इति सम्परिग्रह ( सम्प्रत्यय )नस्यात्, अपि तु वलवत एव इदमित्येव सम्परिग्रह स्यात् । बलवान् जनो दुर्व्वलस्यधनादिकम् गृह्णीयादिति भाव । विष्वक् ( सर्व्वत ) लोप. ( धनादीना लुम्पन ), चौर्य्यमित्यर्थ. ।”)
विष्वग्लोपप्रवर्त्तेत यदि राजा न पालयेत् ॥7 मम( मदीयम् )इति सम्परिग्रह ( सम्प्रत्यय )नस्यात्, अपि तु वलवत एव इदमित्येव सम्परिग्रह स्यात् । बलवान् जनो दुर्व्वलस्यधनादिकम् गृह्णीयादिति भाव । विष्वक् ( सर्व्वत ) लोप. ( धनादीना लुम्पन ), चौर्य्यमित्यर्थ. ।”) १०

(५) अञ्चन्त पूजयन्त। अन्यनम् —अक्षरम्।

(६) अमितौजसा - अतिनेजस्विना। गजमतकाग्म्— गजसम्माननम्, गजभक्तिम्। अन्यग्रम् — अन्नकुल यथास्यात तथा, धौग्गम्भोग्भावेन इत्यर्थ। शशंस—कथयामास ।

यानं वस्त्र-मलङ्कारान् रत्नानि विविधानि च।
हरेयुः सहसा8 पापा यदि राजा न पालयेत् ॥ ११

अन्ताश्चाकाल एव स्यु-र्लोकोऽयंदस्युसाद्भवेत्।9 अन्ता ( विनाशा ), परस्पर–प्रहारादिना धनप्राणाध्वसा’ इत्यर्थ । दस्युसात्— दस्यूनामायत्त, दस्युमय वा ।”)
न विवाहः समाजो वा यदि राजा न पालयेत् ॥9 अन्ता ( विनाशा ), परस्पर–प्रहारादिना धनप्राणाध्वसा’ इत्यर्थ । दस्युसात्— दस्यूनामायत्त, दस्युमय वा ।”) १२

वस्त-मुद्विग्निहृदयं हाहाभूत-मचेतनम्।10 ।")
क्षणेन विनशेत् सर्व्वं यदि राजा न पालयेत् ॥10 ।") १३

हस्ताद्धस्तं परिमुषेद्भिद्येरन् सर्व्वसेतवः।11 चौरो हरेदित्यर्थ. । सर्व्वसेतव(सव्वैविषया मर्य्यादा, समाजादि-बन्धनानि ) भिद्येरन् ( भया भवेयु ), सर्व्वेविशङ्खल भवेदित्यर्थ । सर्व्व(सकलं प्राणिजात ) भयार्त्त, सत् विद्रवेत ( स्वस्वस्थानात् पलायोत ) ।")
भयार्त्तं विद्रवेत् सर्व्वं यदि राजा न पालयेत् ॥11 चौरो हरेदित्यर्थ. । सर्व्वसेतव(सव्वैविषया मर्य्यादा, समाजादि-बन्धनानि ) भिद्येरन् ( भया भवेयु ), सर्व्वेविशङ्खल भवेदित्यर्थ । सर्व्व(सकलं प्राणिजात ) भयार्त्त, सत् विद्रवेत ( स्वस्वस्थानात् पलायोत ) ।") १४

विवृत्य हि यथाकामं गृहहाराणि शेरते।12
मनुष्या रक्षिता राज्ञा समन्ता-दकुतोभयाः ॥ १५

स्त्रियश्च पुरुषा मार्गं सर्वालङ्कार-भूषिताः।
निर्भयाः प्रतिपद्यन्ते13 यदा रक्षति भूमिप ॥ १६

धर्म्ममेव प्रपद्यन्ते14 न हिंसन्ति परस्परम्।
अनुगृह्णन्ति चान्योन्यंयदा रक्षति भूमिपः ॥ १७

यस्याभावेन भूताना-मभाव. स्यात् समन्ततः।15
भावे च भावो नित्यं स्यात् कस्तं न प्रतिपूजयेत् ॥15 १८

यस्तस्य पुरुष पापं मनसाप्यनुचिन्तयेत्।16
असशयमिह क्लिष्टप्रेत्वापि नरक व्रजेत् ॥16 १९

नहि जात्ववमन्तव्यो17 मनुष्य इति भूमिप।
महतीदेवता ह्येषा नररूपेण तिष्ठति ॥ २०

नीतिसारः।

आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः।

नास्त्युद्यमसमो बन्धुः कृत्वा यन्नावसीदति ॥ १ ॥

कुलीनैःसह सम्पर्कं पण्डितैः सह मित्रतां।

ज्ञातिभिश्च समं मेलं कुर्व्वाणो न विनश्यति ॥ २ ॥

आपदां कथितः पन्था इन्द्रियाणामसंयमः।

तज्जयः सम्पदां मार्गो येनेष्टंतेन गम्यताम् ॥ ३ ॥

श्रोत्रं श्रुतेनैव न कुण्डलेन

दानेन पाणि र्नच कङ्कणेन।

आभाति कायः करुणपराणाम्

परोपकारेण न चन्दनेन ॥ ४ ॥

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु

लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्।

अद्यैव वा मरणमस्तु युगान्तरे वा

न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥ ५ ॥

सम्पूर्णम्।

—————

]


  1. “कैकेयीमुखात पितुरादेश-मुपश्रुत्य वनगमनाय कृतनिश्चयसन् रामः मातर-मामन्त्रयितु लक्षणेन सह तडवनंजगाम । माता तु सर्व्वमुपश्रुत्य, पितृवचन भनाहृत्य राज्यग्रहणाय तमभ्यर्थितवती । लक्ष्मणोऽपि तस्या वचन-मनुमोदितवान् ।” ↩︎

  2. “प्रसादये—प्रसाद्यामि (आर्षः ↩︎

  3. “परित्यक्ष्ये —परित्यक्ष्यामि ( आ ↩︎

  4. “अमितौजसा - अतिनेजस्विना । गजमतकाग्म्— गजसम्माननम्,गजभक्तिम् । अन्यग्रम् — अन्नकुल यया स्यात तथा, धौग्गम्भोग्भावेन इत्यर्थ । शशंस—कथयामास।” ↩︎ ↩︎

  5. “लोकस धर्म राजमूल ( राजा एव मूल यस्यम ↩︎ ↩︎

  6. " एवमेव राजा विना इना प्रजा, अगोपा ( रक्षकहीना ↩︎ ↩︎

  7. “इद (धनादिक वस्तु ↩︎ ↩︎

  8. " सहसा— हठात्, बलपूर्वकम् ।” ↩︎

  9. “अकाले ( असमये ↩︎ ↩︎

  10. “हाहामृतं— शोचनीयदशापन्नम्, कृतहाहाकार वा ! विनशेत्- विनश्येत ( आर्ष ↩︎ ↩︎

  11. “हस्तात् हस्त परिसुषेत्—हस्त ( हस्तस्थमपि धन ↩︎ ↩︎

  12. “विवृत्य— उद्घाट्य । यथाकाम — यथेच्छम् ।” ↩︎

  13. “प्रतिपद्यन्ते—गच्छन्ति।” ↩︎

  14. “प्रपद्यन्ते—आवयन्ति ।” ↩︎

  15. “भाव सत्ता, अस्तित्वम् ।” ↩︎ ↩︎

  16. “पाप—द्रोहम् । क्लिष्ट—प्राप्तवधत्रन्वनादिरूप-नानावेश । प्रेत्य - परलोके ।” ↩︎ ↩︎

  17. “जातु कदाचित् । अवमन्तव्य—अवज्ञेय।” ↩︎