समाज-विवेकः

परिचयः

  • भार्गवस्य मानसतरङ्गिणीकृतो मूलम् इतः
  • स्वावबोधाय भाषाशोधनैः टिप्पनीनिवेशनैश्च समेधितम्। अनुकरणकालः - 201901।

अर्थशास्त्रस्य प्रकीर्णानि नुतनानि परिशिष्टानि ॥

मङ्गलाचरणम्॥

नमामि देवदेवेशम् इन्द्रं वज्रधरं प्रभुं ।
रुद्रान् वसून् तथादित्यान्(आदित्यान् रुद्रान् वसून्) वन्देऽहम् अश्विनौ सह ॥

हुवेऽहं सजोषसेन्द्राणीं सरस्वतीं रोदसीं च सर्वाभिर् ग्नाभिर् युताः ।
यमश् च भृगवश् चाङ्गिरसश् च ब्रह्म-क्षत्रं सह तृप्यन्तु।

मूलसूत्राणि

अयं निजः परो वेति जीवस्य+ अभिन्नं मूलम् ।
तथा हि जीवस्य मूले सङ्ग्रामः ।
सङ्ग्रामाद् अजायत जिवस्य प्रपञ्चः।
सङ्ग्रामेण उद्भवन्ति जिवाणूनां नवा नवा उपायाः ।
अनाभिका(=Bacteria) हि परमाः शिक्षकाः ।
उपलूतिका-लूतिका-वरोल्य्-अलि-पिपीलक-वम्र(=वल्मीककृत्)-गणा उत्तरम् ।
मत्स्य-वि-जरायुजास् तदनन्तरम् ।
जरायु(=गर्भस्यूत)जानां वानरोपनरा(=ape) विशेषताः प्रकृतयः ।

विषमत्व-सूत्राणि

लोके समता नास्ति ।
समत्वस्य+अपेक्षा ऽसंशयं मूढत्वम् ।
जातौ विषमत्वाद् वर्णस्य व्युत्पत्तिः ।
समत्वाद् विषमत्वाच् च समाजे पृतना ।
वर्ण-भेदस्य+अतिकृत्या दोषः, समत्वाद् अपि।
पृतनाया नियन्त्रणं स्थिर-परिभाषिते वर्णे ।
वर्णाद् लोक-विजयं वरोल्यल्यादि सांसर्गिक-कीटानाम् ।

शत्रु-सूत्राणि

एक-राक्षस-मतानि मानसिका रोगाः ।
उन्मादाः ।
प्रथमोन्मादः प्रेतोन्मादो राक्षसोन्मादश् च+उन्माद-प्रकाराः ।
रुधिरोन्मादश् चानियमवादश् च+अशासनवदश् चोन्मादस्य निगुढाः प्रकाराः ।
एकराक्षस-मतानि धर्मस्य स्वाभाविकाः प्रतिनिविष्टाः शत्रवः ।
इन्द्रो वा वृत्रो वा - तद्वद् धर्मो वा+एकराक्षसमतं वा ।

उन्मादमूलं मूषनाम-दुष्टेन प्रोक्तम् ।
संसक्तौ बलं प्रथमोन्मत्तानाम् ।
विधर्मं प्रस्तृण्वन्ति ।
स्वार्थाय राष्ट्र-भेदिनः ।
प्रथमोन्मत्तेन प्रेतेन प्राभवत् प्रेतोन्मादः ।

maculinea-parasite-buttefly-with-myrmica-ant
maculinea-parasite-buttefly-with-myrmica-ant

प्रेतोन्मादिताः पाश्चात्या इति म्लेच्छाः ।
प्रेतोन्मादो वै म्लेच्छानां व्यक्तित्वस्य स्कम्भः ।
म्लेच्छ-प्रोत्साहितो विधर्मस् तस्य निगुढं रूपम् ।
म्लेच्छाः प्रेतोन्मादेन+अन्यान् धर्मान् रुजन्ति ।
राष्ट्राय प्रेतोन्मा(न्म)दितं कुर्वन्ति । सम्प्रत्य् अस्मै कार्याय सूक्ष्मोपायान् प्रयुञ्जते ।
Maculinea चित्रपतङ्गस्य Myrmica पिप्पीलकोपर्य् आक्रमणम् इव ।
किं तु परिवर्तितेभ्यो जनेभ्यो म्लेच्छ-समम्-पदवीं न कदापि ददति ।

पूर्वोन्मादाच् च राक्षस-ग्रहणाच् च मरुसंभवो महामदो राक्षसोन्मादं वा मरून्मादं वा+अख्यापयत् ।
तस्य चिह्नानि मरणं मारणं चैव दूषणम् एव च ।
बहु-प्रजावन्तो लम्पटा बलात्काररताः कलहप्रियाः ।
लिङ्गछेदाच् छिरश्छेदाच् च प्रसारयन्ति मरून्मत्ताः ।
मरून्मादो ऽन्तर्-बहिः शोणितमयः ।
अभ्यन्तरेण युद्धेन मरून्मादस्य+ओजो नवो नवो भवति ।

जातौ क्लीबानां स्व(सम्)लिङ्गकामिनां च+अतिरेकम् अनैसर्गिकम्(इहेक्षताम् - deviance)
तेषाम् अधिकप्रमाणम्(प्रमाणाधिकम्) प्रदर्शनं मैथुनिक-प्राणिषु प्रायेण रोगेण वा विमोहनेन वा ।
तेषाम् अधिकप्रमाणम्(प्रमाणाधिकम्) अवधानम् अशासनवादिनां समाज-भञ्जनाय युक्तिः ।
पुंश्चली-वृत्तेः संकीर्तनं राष्ट्रस्य नष्टस्य स्पष्टं कारणम् ।

जन-संग्राम-सूत्राणि

आर्याः पार्शवस् तुखारा यवना(ना) रोमाका लिथुवाः श्रवाः(=?) शूलपुरुषाः केल्टाश् च+ इत्य् आर्यादि-गणः ।
तेषु आर्याः पार्शवश् च मुक्त्वा बहुशो म्लेच्छ्य् अभवन् वा लयम् आप्नुवन् वा ।

पूर्वे काले मरकताः(=Egytians) प्रसिद्धः संस्कृतिम् अकृण्वन् ।
प्रेतोन्मत्तैर् मरून्मत्तैर् नाशम् आप्नुवन् ।

भोटाश् चीना इरावन्तश्(=Burman) चीन-भृत्याश्(=korea) चम्पा उषापुत्राश् च +इति प्राच्यादि-गणः ।
अजगर इव चीना गिरन्ति भोटान् ।
चीनानां गृद्धेः शत्रुता ।

उषापुत्रा विविक्ताश् च तीव्रशिक्षार्थिनश् च ।
तेन महाबलम् आप्नुवन् परं तु म्लेच्छ-युक्त्या पराजिता अभवन् ।

चम्पा महासमरे म्लेच्छान् अजयन् ।
म्लेच्छ-प्रयोगेण चीनभृत्या अर्धाः प्रेतोन्मादिता अभवन् ।

पूर्वं सुवर्ण-द्वीपीया धर्मसाधकाः ।
बलीद्वीपीयेभ्यो व्यतिरिक्तं मरून्मत्ताश् च प्रेतोन्मत्ताश् च+अभवन् ।

क्रौञ्चद्वीपीयाः पृथग्विधाः ।
हिरण्यस्य व्यतिरिक्तं न जानन्त्य् अयः, किं तु तेषु केचित् कागदम् अतक्ष्नुवन् ।
केचित् कन्दुकक्रीडाम् अकल्पयन् ।
म्लेच्छ-प्रहारेण म्लेच्छ-प्रसारित-रोगेण यान्ति निधनम् ।

धर्माधर्म-स्पर्धा-सूत्राणि

नैसर्गिका धर्मा मानवानां नैसर्गिकावस्थया प्रासुवत ।
प्रायेण प्राकृत्यवरणेन ।
उन्मादा नैसर्गिक-धर्माणां विरोधं कुर्वन्ति च, तेषां संपूर्णं लयं अभिलषन्ति ।
तस्मिन् उद्भवति नैसर्गिक-धर्म-साधकानां प्रति सर्वोन्मत्ताभिसंधिः ।
सर्वोन्मत्तानां निरृतिगतेर् नैसर्गिकधर्माणाम् अवस्थानम् ।
एतद्धि युद्धं जीवाय मृत्यवे वा ।

शक्तिर् अस्माकं गणीकरणे(=वर्गीकरणे)
स्वात्ययाद् धि उत्तरदायित्वम् ।
विश्वस्य लोकस्य बोधनाय, परमार्थग्रहणाय गणीकरणं गुरुतमम् ।

उत्तरो न्याय-प्रदायकः शक्तेर्+प्रावर्++(क्ति)+++ लोके नास्ति ।
अतः संपूर्णस्य बलस्य साधने हि राष्ट्रस्याभ्युदयः ।
गुह्य-समाजो ऽवश्यः ।