[[अष्टाङ्गनिघण्टु Source: EB]]
[
वाहटः आष्टाङ्गनिघण्टु
सर्वज्ञाय नमस्कृत्य द्रव्याणां गूढवाचिनाम् ।
अष्टाङ्गसंग्रहोक्तानां निघण्टुरभिधीयते ॥ १ ॥
विदारीपञ्चाङ्गुलवृश्चिकाली- वृश्चीवदेवाह्वयशूर्पपर्ण्यः ।
कण्डूकरी जीवनाह्वस्वसंज्ञे द्वे पञ्चके गोपसुता त्रिपादी ॥ २ ॥
विदार्यादिरयं हृद्यो बृंहणो वातपित्तहा ।
शोषगुल्माङ्गमर्दोर्ध्व- श्वासकासहरो गणः ॥ ३ ॥
विदारी गजवाजीष्टा वृषगन्धेक्षुगन्धिका ।
शृगालिका पुष्पवल्ली शुक्लकन्दा पलाशिका ॥ ४ ॥
क्षीरेक्षुवल्लीगन्धान्या क्षीरशुक्ला पयस्विनी ।
वल्लीपलाशिका क्षीर- विदारी श्रेष्ठकन्दकः ॥ ५ ॥
पञ्चाङ्गुलो वर्धमानश्चित्रो गन्धर्वहस्तकः ।
उरुवूकस्तथैरण्ड आमण्डो वातनाशनः ॥ ६ ॥
रक्तैरण्डो द्वितीयस्तु व्याघ्रो व्याघ्रतलोपमः ।
नक्राहिदंष्ट्रिका कोली वृश्चिकाल्युष्ट्रधूमकः ॥ ७ ॥
कालेयी धूम्रपत्त्रोष्ट्रा विशल्या सर्पदंष्ट्रिका ।
पुनर्नवा वर्षकेतुः वृश्चीवः श्वेतमूलकः ॥ ८ ॥
वर्षाभूः दीर्घपत्त्रा च विकसस्तु कठिल्लकः ।
सुनाडिको रक्तपुष्पो विशाखो मण्डलच्छदः ॥ ९ ॥
सहदेवा महागन्धा देवगन्धा बलाह्वया ।
गाङ्गेरुकी नागबला खरबन्धा निशाह्वया ॥ १० ॥
विश्वदेवा झषा काला तथा चाश्वगवेधुका ।
मुद्गपर्णी सहा सूप्य- पर्णी मार्जारगन्धिका ॥ ११ ॥
काकमुद्गा क्षुद्ररसा चास्रपित्तहरा सरा ।
पिशाची सिंहविन्ना च माषपर्णी महासहा ॥ १२ ॥
मर्कटी चात्मगुप्ता च कण्डूकृत्कपिकच्छुरा ।
वृष्यबीजा गलेकण्डू- करी शार्दुलविग्रहा ॥ १३ ॥
फणिजिह्वापर्ण्यभीरुः पीवरीन्दीवरी वरी ।
सूक्ष्मपत्त्रा द्वीपिशत्रुः शतमूली शतावरी ॥ १४ ॥
काकोली कवरी वीरा ध्वाङ्क्षोली क्षीरशुक्लिका ।
जीवन्ती जीवनी जीवा शाकश्रेष्ठा सुमङ्गला ॥ १५ ॥
पयस्या पयसी पोट- गला ज्ञेयार्कपुष्पिका ।
जीवकः कूर्चनिभस्तु वृषाणी वृषभो वृषः ॥ १६ ॥
पृश्निपर्णी पृथक्पर्णी धावनी कलशी गुहा ।
शृगालविन्ना लाङ्गूली स्थिरा क्रोष्टुकपुच्छिका ॥ १७ ॥
विदारिगन्धांशुमती शालपर्णी स्थिरा ध्रुवा ।
त्रिपर्ण्यतिगुहा सौम्या महाक्षी तन्विका मता ॥ १८ ॥
व्याघ्री निदिग्धिका क्षुद्रा द्रावणी कण्टकारिका ।
सिंहा च क्षुद्रवार्त्ताकी बृहती बहुपुत्रिका ॥ १९ ॥
वार्त्ताकी हिङ्गुली सिंही भाण्टाकी दुष्प्रधर्षिणी ।
गोकण्टको गोक्षुरकः श्वदंष्ट्रा च त्रिकण्टकः ॥ २० ॥
कन्या गोपी कृष्णवल्ली सारिवा फाणिजिह्विका ।
सुगन्धिमूला भद्रा च सुगन्धा गोपवल्ल्यपि ॥ २१ ॥
हंसपादी रक्तपादी त्रिपादी कीटमारिका ।
धृतराष्ट्रपदी चैव मृतमन्दातिपर्णिका ॥ २२ ॥
सारिवोशीरकाश्मर्य- मधूकशिशिरद्वयम् ।
यष्टी परुषकं हन्ति दाहपित्तास्रतृड्ज्वरान् ॥ २३ ॥
सारिवादिगणं वक्ष्ये पुरा प्रोक्ता तु सारिवा ।
वीरण्याभयलामज्ज- कोशीरममृणालकम् ॥ २४ ॥
वीरं वीरणमूलं च बहुमूलं रणप्रिया ।
काश्मर्यभीरुः श्रीपर्णी काश्मर्यं कट्फलं तथा ॥ २५ ॥
डोलाफलस्तीक्ष्णसारो मधूको गुडपुष्पकः ।
मधुपुष्पो लोध्रपुष्पो वानप्रस्थो मधुद्रुमः ॥ २६ ॥
ज्ञेयो मधूलसंज्ञोऽपि मधूको वारिसंस्थितः ।
छदे ह्रस्वस्तैलपुष्पस्तुल्यस्तु रसवीर्यतः ॥ २७ ॥
भद्रश्रियं मलयजं गोशीर्षं श्वेतचन्दनम् ।
कुचन्दनं ताम्रवर्णं लोहितं रक्तचन्दनम् ॥ २८ ॥
यष्टी मधुकयष्ट्याह्वा मधुकं क्लीतकाह्वयम् ।
परुषको मृदुफलो रोषजो धन्वनच्छदः ॥ २९ ॥
कृष्णाग्रन्थिककाकमाचिचविकाविश्वौषधाजाजिभिः पाठारामठरेणुकागजकणासिद्धार्थचित्रोषणैः ।
स्पृक्का जात्यजमोदहिङ्गुत्रुटिभिः भार्ङ्गीविलङ्गान्वितैः एभिर्विंशतिभिः कफामयहरः कृष्णादिकोऽयं गणः ॥ ३० ॥
पिप्पली मागधी कृष्णा वैदेही चपला कणा ।
उपकुल्या कौलनामा शौण्डी स्यात्तीक्ष्णतण्डुला ॥ ३१ ॥
काकमाची गुच्छफला स्वर्या मरिचिका फला ।
काकोली चविका चव्यं ग्रन्थिला कोलवल्लिका ॥ ३२ ॥
शुण्ठी महौषधं विश्वं नागरं विश्वभेषजम् ।
अजाजी जीरकं माता मेध्यं स्यादौत्तरापथम् ॥ ३३ ॥
कृष्णजीरेति काकोली कालिकोद्गारशोधनी ।
जीरणा कारभी योनि- शूलघ्नी चोपकुञ्चिका ॥ ३४ ॥
मालवी त्रिशिरा पाठा प्राचीना वृत्तपर्णिका ।
अम्बष्ठा स्थापनी वीरा बोधकी च कुचेलिका ॥ ३५ ॥
जन्तुघ्नं जरणं हिङ्गु भूतघ्नं वस्तिहिंसकः ।
कपिला रेणुका कौन्ती राजपुत्री हरेणुका ॥ ३६ ॥
श्रेयसी स्याद्गजकणा- कृत्रिमाचविकाफला ।
आसुरी सर्षपो राजी नासासंवेदनः कटुः ॥ ३७ ॥
सिद्धार्थको भूतनाशो रक्षोघ्नः श्वेतसर्षपः ।
तिला कट्वी मत्स्यपित्ता कटुका शकुलादनी ॥ ३८ ॥
वल्लीजं यवनेष्टं स्यान्मरिचं तीक्ष्णमूषणम् ।
स्पृक्का स्पृक्ब्राह्मणी देवी पिशुना च लता सती ॥ ३९ ॥
जातीफलं मज्जसारं जाती मदनशौण्डिकौ ।
अजमोदा खराह्वा च बस्तमोदा च मर्कटी ॥ ४० ॥
एला तु द्राविडी तुत्था सूक्ष्मैला बहुला त्रुटिः ।
भार्ङ्गी गर्दभशाकं च पद्मा ब्राह्मणयष्टिका ॥ ४१ ॥
पद्मकपुण्ड्रौ वृद्धितुगर्द्धयः शृङ्ग्यमृता दश जीवनसंज्ञाः ।*
स्तन्यकरा घ्नन्तीरणपित्तं प्रीणनजीवनबृंहणवृष्याः ॥ ४२ ॥*
पद्मकादिगणं वक्ष्ये हेमपद्मं तु पद्मकम् ।
प्रपौण्डरीकं श्रीपुष्पं पुण्ड्राह्वं मूलसाधनम् ॥ ४३ ॥
वृद्धिस्तु श्रावणी पुष्टिः महावृद्धिः परोच्यते ।
तवक्षीरी तुषा शुभ्रा वंशाख्या वंशरोचना ॥ ४४ ॥
शृङ्गी स्मृता महाघोषा ज्ञेया कर्कटशृङ्गिका ।
गुडूची कुण्डली छिन्न- रुहा काण्डोद्भवामृता ॥ ४५ ॥
मधुपर्णी वयःस्था च मण्डली तन्त्रिका स्मृता ।
शल्यपर्णी मणिच्छिद्रा मेदा मेदःसमुद्भवा ॥ ४६ ॥
महामेदा वृक्षरुहा महापुरुषदन्तिका ।
दशानां जीवनीयानां संज्ञा तु परिकीर्तिता ॥ ४७ ॥
परुषकं वरा द्राक्षा कट्फलं कतकात्फलात् ।
राजाह्वं दाडिमं शाकं तृण्मूत्रामयवातजित् ॥ ४८ ॥
परुषादिगणं वक्ष्ये पुरा प्रोक्तं परुषकम् ।
वरोत्तमा च त्रिफला श्रेष्ठा चापि फलत्रयम् ॥ ४९ ॥
प्राणदा पूतनामोघा हरीतक्यभया जया ।
पथ्यामृता हैमवती कायस्था रोहिणी स्मृता ॥ ५० ॥
अक्षः कलिः कर्षफलो विन्ध्यजातो विभीतकः ।
कोरङ्गको मृदुफलो धात्री चामलकी शिवा ॥ ५१ ॥
रोहिणी खट्वला प्रोक्ता द्राक्षा मृदुफला तथा ।
मृद्वीका तूत्तमफला गोस्तनी चौत्तरापथा ॥ ५२ ॥
हेमवल्को महावल्को भद्रवृक्षश्च कीर्तितः ।
कतकस्य फलं कात्यं ज्ञेयं वारिप्रसादनम् ॥ ५३ ॥
राजादनं क्षीरशुक्लं राजाह्वं वानरप्रियम् ।
शुकेष्टं दाडिमं चैव रक्तबीजफलाह्वयम् ॥ ५४ ॥
स्वाद्वम्लं रोचनं चैव द्वितीयमम्लदाडिमम् ।
बृहच्छदस्तथा शाको वरदारुः खरच्छदः ॥ ५५ ॥
अञ्जनं फलिनी मांसी पद्मोत्पलरसाञ्जनम् ।
सैलामधुकनागाह्वं विषान्तर्दाहपित्तनुत् ॥ ५६ ॥
स्मृतं स्रोतोञ्जनं वीरमञ्जनं यामुनं तथा ।
स्रोतोद्भवमथो नाद्यं सौवीरं नेत्रभूषणम् ॥ ५७ ॥
फलिनी कोलगिरिका श्यामा कान्ता प्रियङ्गुका ।
पिशाची नलदं मांसी जटिला भूतकेशिनी ॥ ५८ ॥
नलिनं पुष्करं पद्ममरविन्दं कुशेशयम् ।
पङ्केरुहं तामरसं सारसं सरसीरुहम् ॥ ५९ ॥
बिसप्रसूनराजीव- जलजाम्भोरुहाणि च ।
इन्दीवरं कुवलयं नीलं नीलोत्पलं तथा ॥ ६० ॥
सौगन्धिकं तु कल्हारं रक्तोत्पलसुगन्धिके ।
द्रवाह्वममृतासङ्ग- कृतं तार्क्ष्यो रसाञ्जनम् ॥ ६१ ॥
एला तु द्राविडी प्रोक्ता बहुला त्रुटिसंज्ञका ।
हेमपुष्पं तु नागाह्वं केसरं नागकेसरम् ॥ ६२ ॥
पटोलकटुरोहिणीचन्दनं मधुस्रवगुडूचीपाठान्वितम् ।
निहन्ति कफपित्तकुष्ठज्वरान् विषं वमिमरोचकं कामलाम् ॥ ६३ ॥
पटोलादिस्तु राजीमत्कुलकं च पटोलकम् ।
खरच्छदः पाण्डुफलो राजमान्योऽमृताफलः ॥ ६४ ॥
पीलुपर्णी मधुरसा मूर्वा चातिरसा स्मृता ।
मधुस्रवा पीलुपत्त्रा मोरटी क्षीरमोरटम् ॥ ६५ ॥
गुडूचीपद्मकारिष्ट- धानकारक्तचन्दनम् ।
पित्तश्लेष्मज्वरच्छर्दि- दाहतृष्णाघ्नमग्निकृत् ॥ ६६ ॥
निम्बोऽरिष्टो गुडूच्यादौ पिचुमान्दः शुकप्रियः ।
धान्या कुस्तुम्बुरुः धान्यं धनिका धान्यकं तथा ॥ ६७ ॥
आरग्वधेन्द्रयवपाटलिकाकतिक्ता- निम्बामृतामधुरसास्रुववृक्षपाठाः ।
भूनिम्बसैर्यकपटोलकरञ्जयुग्म- सप्तच्छदाग्निसुषवीफलबाणघोण्टाः ॥ ६८ ॥
आरग्वधादिर्जयति छर्दिकुष्ठविषज्वरान् ।
कफं कण्डूं प्रमेहं च दुष्टव्रणविशोधनः ॥ ६९ ॥
आरग्वधो राजवृक्षः शम्याकश्चतुरङ्गुलः ।
आरेवतो व्याधिघातः प्रग्रहः कृतमालकः ॥ ७० ॥
कलिङ्गकस्त्विन्द्रयवो वत्सकः कौटजं फलम् ।
पाटली दीर्घवृत्ता च स्थल्यामोघाम्बुवासिनी ॥ ७१ ॥
वृत्ततुण्डा काकतिक्ता शार्ङ्गेष्टाङ्गारवल्लिका ।
व्याघ्रपादः स्रुवतरुः स्वादुकण्टो विकङ्कतः ॥ ७२ ॥
किराततिक्तो भूनिम्बः कत्तृणः काण्डतिक्तकः ।
सैर्यकस्तु सहचरः सर्यको मृदुपुष्पकः ॥ ७३ ॥
बाणः स्मृतो नीलपुष्पः धीरशौर्यकघोश्वराः ।
पूतिकरञ्जः कैडर्यः प्रकीर्यश्चिरबिल्वकः ॥ ७४ ॥
उदकीर्यो नक्तमालः करञ्जो लाजपुष्पकः ।
सप्तच्छदोऽयुग्मपत्त्रः सप्ताह्वो गुच्छपुष्पकः ॥ ७५ ॥
चित्रको द्वीपिसंज्ञस्तु वह्निपर्यायवाचकः ।
रक्तचित्रस्तथान्यस्तु महाङ्गः कालमूलकः ॥ ७६ ॥
पानीयवल्ली सुषवी बृहद्वल्ल्युत्पलच्छदा ।
गालो राठोऽथ मदनः पिण्डीतः करहाटकः ॥ ७७ ॥
शल्यकैडर्यवृक्षः स्याच्छर्दनस्तगरः फलम् ।
घोण्टो मुण्ठगोपघोण्टौ पद्मकी मर्कटाह्वया ॥ ७८ ॥
असनतिनिशभूर्जश्वेतवाहप्रकीर्या खदिरकदरभण्डीशिंशपामेषशृङ्ग्यः ।
त्रिहिमतलपलाशाः जोङ्गकः शाकशालौ क्रमुकधवकलिङ्गच्छागकर्णाश्वकर्णाः ॥ ७९ ॥
असनादिर्विजयते श्वित्रकुष्ठकफक्रिमीन् ।
पाण्डुरोगं प्रमेहं च मेदोदोषनिबर्हणः ॥ ८० ॥
असनादौ पीतसारः प्रियको बीजकोऽसनः ।
स्यन्दनः स्तिमितो नेमिः रथद्रुः सर्वसाधकः ॥ ८१ ॥
भूर्जो भुर्जो बहुपुटो मृदुत्वक्चास्थिरच्छदः ।
पार्थोऽर्जुनः श्वेतवाहः ककुभः फाल्गुनाह्वयः ॥ ८२ ॥
गायत्री खदिरो गीता कुष्ठघ्नो बालपत्त्रकः ।
कदरः खदिरः सारः कोटरी श्यामसारकः ॥ ८३ ॥
भण्डी शुकद्रुः प्लवंगः शिरीषो मृदुपुष्पकः ।
कपिला शिंशपा कृष्ण- सारो मण्डलपत्त्रकः ॥ ८४ ॥
बस्तान्त्री मेषशृङ्गी च चक्षुष्या बहुलाङ्गिका ।
कालेयकं पीतसारं तृतीयं वर्णकृद्धिमम् ॥ ८५ ॥
ताडस्तालो दीर्घतरुस्तृणराजस्त्रिबीजकः ।
पलाशः किंशुको वात- रोधो ब्रह्मतरुः पटुः ॥ ८६ ॥
जोङ्गकः शीतशमनो लोहनामागरुः स्मृतः ।
सजह्विः श्रीकरः शालो रसो निर्यासरालकौ ॥ ८७ ॥
धवो दृढतरुर्गौरः शकटाक्षो मरूद्भवः ।
क्रमुकं कैवुकं पूगं कषायं मधुराह्वयम् ॥ ८८ ॥
श्वेतघ्नः शीतशमनः बस्तकर्णोऽजकर्णकः ।
शस्यसंवरणः शूरः कुशिकश्चाश्वकर्णकः ॥ ८९ ॥
वरुणसैर्यकयुग्मशतावरी- दहनमोरटबिल्वविषाणिकाः ।
द्विबृहतीद्विकरञ्जजयाद्वयं बहलपल्लवदर्भरुजाकराः ॥ ९० ॥
वरुणादिः कफं मेदो मन्दाग्नित्वं नियच्छति ।
आढ्यवातं शिरःशूलं गुल्मं चान्तः सविद्रधिम् ॥ ९१ ॥
वरुणादौ श्वेतपुष्पो वरुणो वरणः स्मृतः ।
शटालवृक्षो बिल्वोऽस्त्री पूतिवातो महाफलः ॥ ९२ ॥
मालूरः श्रीफलः शैवः शाण्डिल्यः श्रीनिवासकः ।
महाकाल्यजशृङ्गी च कूर्चपर्णी विषाणिका ॥ ९३ ॥
जयाग्निमन्थोऽरणिका तक्कारी वैजयन्तिका ।
शिग्रुः शोभाञ्जनस्तीक्ष्ण- गन्धो बहलपल्लवः ॥ ९४ ॥
मुरङ्गी शिग्रुको रक्त- पुष्पो मधुरशिग्रुकः ।
तृतीयो मधुरः सिंश- केसरो मधुशिग्रुकः ॥ ९५ ॥
सितं तीक्ष्णं शिग्रुबीजं श्वेताङ्गं मरिचाह्वयम् ।
दर्भः कुशो लवः स्थूलः सूक्ष्मो वेदपवित्रकः ॥ ९६ ॥
रुजाकरस्त्वार्तगलो हुंकारो भीषणाह्वयः ।
जालवृक्षो दुष्प्रधर्षः स्वादुतिक्तफलः स्मृतः ॥ ९७ ॥
ऊषकस्तुत्थकं हिङ्गु कासीसद्वयसैन्धवम् ।
सशिलाजतु कृच्छ्राश्म- गुल्ममेदःकफापहम् ॥ ९८ ॥
ऊषकादौ तु वृषको वूषको रुचकाह्वयः ।
ऊषो निःसारकः सिंहो मूत्रवृद्धिकरः स्मृतः ॥ ९९ ॥
कठिनं तुत्थकं द्वेधा कर्परं बर्हिकण्टकम् ।
जन्तुघ्नं जरणं हिङ्गु रामठं भूतनाशनम् ॥ १०० ॥
कासीसं पांशुधावाख्यं द्वितीयं पुष्पसंज्ञकम् ।
सैन्धवं माणिमन्थं च नादेयं लवणोत्तमम् ॥ १०१ ॥
शिलाजं धातुजं ज्ञेयं मन्दरोत्थं शिलाजतु ।
पार्वतं शैलनिर्यासः गिरिजं च शिलाह्वयम् ॥ १०२ ॥
वेल्लन्तरारणिकबूकवृषाश्मभेद- गोकण्टकोत्कटसहाचरबाणकाशाः ।
वृक्षादनीनलकुशाद्वयगुण्ठगुन्द्रा- भल्लूकमोरटकुरण्टकरम्भपार्थाः ॥ १०३ ॥
वर्गो वीरतराद्योऽयं हन्ति वातकृतान् गदान् ।
अश्मरीशर्करामूत्र- कृच्छ्राघातरुजाहरः ॥ १०४ ॥
वेल्लन्तरो वीरतरुर्गणे वीरतरादिके ।
वसुकः स्थूलपुष्पश्च बुकश्चेश्वरमल्लिका ॥ १०५ ॥
सिंहास्यः कर्कटश्चैव वृषकश्चाटरूषकः ।
वेणुपत्री वृषा पार्वी पर्वणी वंशपत्रिका ॥ १०६ ॥
अश्मभेदी शिलाभेदी ज्ञेया पाषाणभेदिका ।
उत्कटा सूक्ष्मपत्रा च दीर्घलोहितयष्टिका ॥ १०७ ॥
शरेक्षुकुसुमौ बाणः स काण्डेक्षुनिभाङ्घ्रिकः ।
श्वेतचामरकः काशो गुन्द्रा स्याद्गुच्छपुष्पिका ॥ १०८ ॥
वृक्षादनी तु शिखरो वन्दाकः कामवृक्षकः ।
मृदुपुष्पोऽथ सुषिरो नदीस्थो नलको नलः ॥ १०९ ॥
गुण्ठो वृत्ततृणः शुण्ठः शृङ्गवेराभमूलकः ।
भल्लूको भूतवृक्षश्च श्योनाकश्चैव टुण्टुकः ॥ ११० ॥
श्रीहस्तिनी कुरटका पिचुकः शितिवारकः ।
कृष्णसूक्ष्मफला युक्त- पुष्पा मस्तकमञ्जरी ॥ १११ ॥
करम्भः कर्कशो युग्म- फला चोत्तमकन्यका ।
कपोतवङ्का वरदा रविभक्ता सुवर्चला ॥ ११२ ॥
रोध्रशाबरकरोध्रपलाशाः जिङ्गिणीसरलकट्फलयुक्ताः ।
कुत्सिताम्बकदलीगतशोकाः सैलवालुपरिपेलवमोचाः ॥ ११३ ॥
एष रोध्रादिको नाम मेदःकफहरो गणः ।
योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः ॥ ११४ ॥
लोध्रादौ तिल्वको लोध्रस्तिरीटः पट्टिकाह्वयः ।
द्वितीयः शाबरः श्वेतो घनत्वक्चाक्षिभेषजः ॥ ११५ ॥
जिङ्गिणी झिङ्गिणी ज्ञेया मोचकी गुडमञ्जरी ।
पूतिकाष्ठं देववृक्षः सरलो देवदारुकः ॥ ११६ ॥
सुरकाष्ठं भद्रदारुः देवपर्यायवाचकः ।
सुगन्धा सुवहा रास्ना युक्ताह्वा गन्धनाकुली ॥ ११७ ॥
सुरभिश्च कदम्बश्च कुञ्चिताङ्गो हरिप्रियः ।
रम्भा तु कदली मोचा वृत्तपुष्पांशुमत्फला ॥ ११८ ॥
अशोको विगतशोकः सुभगस्ताम्रपल्लवः ।
एलवालुकमैलेयं बालेयं हरिवालुकम् ॥ ११९ ॥
कुटन्नटं प्लवंगं च वितुन्नं परिपेलवम् ।
सुरभिः सल्लकी मोचा महारम्भा गजप्रिया ॥ १२० ॥
अर्कालकौ नागदन्ती विशल्या भार्ङ्गी रास्ना वृश्चिकाली प्रकीर्या ।
प्रत्यक्पुष्पी पीततैलोदकीर्या श्वेतायुग्मं तापसानां च वृक्षः ॥ १२१ ॥
अयमर्कादिको वर्गः कफमेदोविषापहः ।
कृमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः ॥ १२२ ॥
अर्कादौ तु सदापुष्पा सूर्याह्वार्कस्तु रूपिका ।
मन्दारः श्वेतकुसुमोऽलर्को विकरणः स्मृतः ॥ १२३ ॥
नागदन्ती श्वेतघण्टा नागिनी पूर्वपुष्पिका ।
विशल्या हलिनी वह्मि- जिह्वा लाङ्गलिका स्मृता ॥ १२४ ॥
भार्ङ्गी फञ्जी च पालिन्दी द्विजयष्टिः सुगन्धिका ।
अपामार्गः शैखरिकः प्रत्यक्पुष्पी मयूरकः ॥ १२५ ॥
काकादनी पीततैला वेगा काकाण्डकी तथा ।
ज्योतिष्मती पीततैला वेगा कङ्गुणिका स्मृता ॥ १२६ ॥
श्वेता सुनाभिः कटभी किणिही मधुरेणुका ।
कटंभरा महाश्वेता कालिन्दी कटभी सिता ॥ १२७ ॥
कुमार्याख्या महाश्वेता वन्ध्या कर्कोटकी तथा ।
इङ्गुदस्तिक्तमञ्जा च पीलुकस्तापसद्रुमः ॥ १२८ ॥
सुरसयुगफणिज्जं कालमाला विडङ्गं खरबुसवृषकर्णी कट्फलं कासमर्दः ।
क्षवकसरसिभार्ङ्गीकार्मुकाः काकमाची कुलहलविषमुष्टी भूस्तृणो भूतवेशी ॥ १२९ ॥
सुरसादिर्गणः श्लेष्म- मेदःकृमिनिषूदनः ।
प्रतिश्यायारुचिश्वास- कासघ्नो व्रणशोधनः ॥ १३० ॥
सुरसादौ गणे द्वेधा सुरा कृष्णगरुरतः ।
स्वादुगन्धिच्छदा चैव कायस्था तुलसी तथा ॥ १३१ ॥
फणिज्जको मञ्जरीकस्तीक्ष्णगन्धः सुगन्धिकः ।
कृष्णसर्जकः कालमालः वठिञ्जरकुठेरकौ ॥ १३२ ॥
विडङ्गं कृमिजिद्बल्यं किरीटं श्वेततण्डुलम् ।
शूकात्मकः खरबुसौ मरुवः खरपत्त्रकः ॥ १३३ ॥
वृषकर्ण्याखुकर्णी च तथा भूमिपरिश्रया ।
राजक्षवः पीतपुष्पः कासघ्नं कासमर्दकः ॥ १३४ ॥
उद्वेगजननस्तीक्ष्णः क्षवकः क्षुद्विबोधकः ।
कपित्थपत्त्री झरसी निर्झरा झरपत्त्रिका ॥ १३५ ॥
प्राचीना बोधकी कान्ता कामुका रक्तमञ्जरी ।
माधवी स्यादमुक्तश्च सुवसन्तोऽतिमुक्तकः ॥ १३६ ॥
काकमाची गूढफला काकाह्वा माचिकापि च ।
वोलो वृद्धः कुलहलो जम्बूलो भूकदम्बकः ॥ १३७ ॥
विषमुष्टिश्च कर्कोटी क्षयाह्वा केशमुष्टिका ।
पुत्राञ्जलिः भूतकेशी भूस्तृणो गुह्यबीजकः ॥ १३८ ॥
भूतावेशी भूतकेशी निर्गुण्डी तिन्दुवारकः ।
शेफालिका श्वेतपुष्पा श्वेतनिर्गुण्डिका स्मृता ॥ १३९ ॥
मुष्ककस्नुग्वराद्वीपि- पलाशधवशिंशपाः ।
गुल्ममेहाश्मरीपाण्डु- मेदोऽर्शःकफशुक्रजित् ॥ १४० ॥
मुष्ककादौ तु शिखरी मुष्कको मोक्षकस्तथा ।
कालमुष्कः क्षारवृक्षः क्षीणवारिफलः स्मृतः ॥ १४१ ॥
सुधा वज्री महावृक्षो ग्रन्थिला स्नुग्गुडा स्नुही ।
समन्तदुग्धा श्वजिह्व- पत्रश्च युग्मकण्टकः ॥ १४२ ॥
वत्सकमूर्वाभार्ङ्गीकटुका मरीचं घुणप्रिया च गण्डीरम् ।*
एला पाठा जाजी कट्वङ्गफलाजमोदसिद्धार्थवचाः ॥ १४३ ॥*
जीरकहिङ्गुविडङ्गं पशुगन्धा पञ्चकोलकं हन्ति ।*
चलकफमेदःपीनसगुल्मज्वरशूलदुर्नाम्नः ॥ १४४ ॥*
वनतिक्तो वत्सकादौ कुटजो गिरिमल्लिका ।
वृक्षकः शक्रवृक्षश्च वत्सकः कुटजस्तथा ॥ १४५ ॥
भङ्गुरातिविषा माद्री शुक्लकन्दा घुणप्रिया ।
द्वितीया तु प्रतिविषा श्वेतरक्तविषा मता ॥ १४६ ॥
दीर्घवृन्तो महानिम्बः कट्वङ्गोऽरलुतिक्तकः ।
दीप्यकं त्वजमोदस्तु यवानी जरणाह्वया ॥ १४७ ॥
वचोग्रगन्धा जटिला षड्ग्रन्था हैमवत्यपि ।
शुक्ला या सा स्वादुकन्दा सुवासा हिमसंभवा ॥ १४८ ॥
वचाजलददेवाह्व- नागरातिविषामयाः ।
हरिद्राद्वययष्ट्याह्व- कलशीकुटजोद्भवाः ॥ १४९ ॥
वचाहरिद्रादिगणावामातीसारनाशनौ ।
मेदःकफाढ्यपवन- स्तन्यदोषनिबर्हणौ ॥ १५० ॥
वचादौ प्राग्वचा प्रोक्ता मुस्ता तु जलदाह्वया ।
गाङ्गेयी कुरुविन्दा च देवाह्वा भद्रमुस्तकम् ॥ १५१ ॥
हरिद्रादिगणं वक्ष्ये गौरी श्यामा च निर्विषा ।
निशा क्षपा च रात्रिश्च वरा लोमशमूलिका ॥ १५२ ॥
स्वर्णवर्णा हरिद्रा तु निशाह्वा रजनी तथा ।
दार्वी कटंकटेरी च पर्जन्या च पचम्पचा ॥ १५३ ॥
प्रियङ्गुपुष्पाञ्जनयुग्मपद्माः पद्माद्रजो योजनवल्ल्यनन्ता ।
मानद्रुमो मोचरसः समङ्गा पुन्नागशीतं मदनीयहेतुः ॥ १५४ ॥
अम्बष्ठा मधुकं नमस्करी नन्दीवृक्षपलाशकच्छुरा ।
रोध्रं धातकिबिल्वपेशिके कट्वङ्गं कमलोद्भवं रजः ॥ १५५ ॥
गणौ प्रियङ्ग्वम्बष्ठादी पक्वातीसारनाशनौ ।
सन्धानीयौ हितौ पित्ते व्रणानामपि रोपणौ ॥ १५६ ॥
प्रियङ्ग्वादिगणे पूर्वं प्रियङ्गुः समुदाहृता ।
पद्मासितारविन्दा च चारटी पद्मचारिणी ॥ १५७ ॥
रजः परागं किञ्जल्कं केसरं पद्मसंभवम् ।
मञ्जिष्ठा विजया रक्ता समङ्गा विकसारुणा ॥ १५८ ॥
मञ्जुका रक्तयष्टी च ताम्रा योजनवल्ल्यपि ।
अनन्ता दीर्घमूला च समुद्रान्तो यवासकः ॥ १५९ ॥
सारद्रुः शाल्मली मोचा पुराणी रक्तपुष्पिका ।
निर्यासो यस्तु शाल्मल्याः स मोचरससंज्ञकः ॥ १६० ॥
समङ्गा शतपत्त्रा च तथैवाञ्जलिकारिका ।
नमस्कारी रक्तमूला तथा पुष्पावरोधिका ॥ १६१ ॥
पुंनागः पुरुषाह्वश्च तुङ्गाख्यो रक्तकेसरः ।
नमेरुर्देवपुंनागः स्कन्धपुष्पः सुराह्वयः ॥ १६२ ॥
मदहेतुः सिन्धुपुष्पी धातकी मदयन्तिका ।
कुञ्जरा हरिसारा च मदवीर्या मदप्रिया ॥ १६३ ॥
अम्बष्ठादौ स्मृताम्बष्ठा सहस्री बहुमूलकः ।
मधुपर्णी केकिशिखा मयूराह्वा शिखी तथा ॥ १६४ ॥
नन्दीवृक्षः प्ररोही च जयवृक्षेन्द्रवृक्षकौ ।
कच्छुरा पणिहारी च तीक्ष्णपत्त्रा मरुद्भवा ॥ १६५ ॥
मुस्तावचाग्निद्विनिशाद्वितिक्ता- भल्लातपाठात्रिफलीविषाख्याः ।
कुष्ठं कुटी हैमवती च योनि- स्तन्यामयघ्ना मलपाचनाश्च ॥ १६६ ॥
मुस्तादिके गणे मुस्ता पूर्वमेव प्रकीर्तिता ।
तिक्ता च कटुका ज्ञेया रोहिणी कटुरोहिणी ॥ १६७ ॥
स्फोटशोफक्षतकरं भल्लातकमरुष्करम् ।
पाकलं वारि भाव्यं च वाप्यं कुष्ठं गदाह्वयम् ॥ १६८ ॥
न्याग्रोधपप्पलसदाफलरोध्रयुग्मं जम्बुद्वयार्जुनकपीतनसोमवल्काः ।
प्लक्षाम्रवञ्जुलपियालपलाशनन्दी- कोलीकदम्बविरलामधुकं मधूकम् ॥ १६९ ॥
न्यग्रोधादिर्गणो व्रण्यः संग्राही भग्नसाधनः ।
मेदःपित्तास्रतृड्दाह- योनिरोगनिबर्हणः ॥ १७० ॥
न्यग्रोधादौ यक्षवासो न्यग्रोधो बहुपाद्वटः ।
अश्वत्थः पिप्पलो बोधिश्चैत्यद्रुश्चलपत्त्रकः ॥ १७१ ॥
उदुम्बरः कृमिफलः सुप्रतिष्ठः सदाफलः ।
बृहत्फला राजजम्बूः काकजम्ब्वल्पसस्यका ॥ १७२ ॥
फलश्रेणी वरः प्रोक्तः कपिचूतः कपीतनः ।
प्लक्षः कुपिप्पलः प्लावो गर्दभाण्डः कपीतनः ॥ १७३ ॥
आम्रश्चूतश्चावतलः कान्तः पिण्डफलस्तथा ।
वसन्तदूती माकन्दा भृङ्गेष्टा कोकिलप्रिया ॥ १७४ ॥
रसालद्रुः सहकारः सौरभः कोकिलप्रियः ।
नादेयो वञ्जुलः प्रोक्तो विदुलो वेतसोऽपरः ॥ १७५ ॥
प्रियालस्तु खरस्कन्धश्चारो द्राक्षारसप्रियः ।
कर्कन्धूः काष्ठकृत्कोली बदरी युग्मकण्टकः ॥ १७६ ॥
विस्फूर्जनी विकरणी तिन्दुकी विरला स्मृता ।
कालस्कन्धो नीलसारो द्वितीयः काकतिन्दुकः ॥ १७७ ॥
वक्रशल्या कृष्णफला विरला गृध्रनख्यपि ।
गन्धयुक्ता सारवस्त्रा दुर्धर्षा कुण्डली स्मृता ॥ १७८ ॥
एलायुग्मतुरुष्ककुष्ठफलिनीमांसीजलध्यामकं स्पृक्काचोरकचोचपत्त्रतगरस्थौणेयजातीरसाः ।
शुक्तिव्याघ्रिनखोऽमराह्वमगुरुः श्रीवासकः कुङ्कुमं चण्डागुग्गुलदेवधूपखपुराः पुंनागनागाह्वयम् ॥ १७९ ॥
एलादिको वातकफौ विषं विनियच्छति ।
वर्णप्रसादनः कण्डू- पिटिकाकोठनाशनः ॥ १८० ॥
एलादिके पूर्वमुक्ता सूक्ष्मैलान्या तु कथ्यते ।
भद्रैला बृहदेला तु स्थूलैला त्रिपुटोद्भवा ॥ १८१ ॥
सुहेला च सुषेणी च रेणुका कान्तनामिका ।
पिण्डी तुरुष्कजं तैलं पिरायाकं कृत्रिमं कपिः ॥ १८२ ॥
ह्रीवेरं वारि केशाह्वमुदीच्यं बालकं जलम् ।
ध्यामकं शबलं गन्धं स्पृक्का देवी लता सती ॥ १८३ ॥
चोरको ग्रन्थिपर्णी स्यात्शटी सोमसमुद्भवा ।
वराङ्गं चर्मनामा च चोचं त्वक्च वराङ्गकम् ॥ १८४ ॥
रोमशं छदनं पत्त्रं तमालं रोमशीफलम् ।
बहिष्ठं तगरं वक्रं नतं कालानुसारि च ॥ १८५ ॥
चारटी शुकबर्हाख्यं स्थौणेयं तैलपीतकम् ।
जातीरसो रसो बोलं शुक्तिः कररुहो नखः ॥ १८६ ॥
बदरीपत्त्रकं चैव ज्ञेयो नागहनुस्तथा ।
समुद्रजो व्याघ्रनखो विज्ञेयो व्याघ्रनामकः ॥ १८७ ॥
श्रीवेष्टको वायसको दधिनामा च कीर्तितः ।
काश्मीरं कुङ्कुमं रक्तं वाह्लीकं घुसृणं वरम् ॥ १८८ ॥
क्रोधना पिशुना चण्डा चौरी शङ्खिनिका मता ।
महिषाक्षो निशाचारी कौशिको गुग्गुलुः पुरः ॥ १८९ ॥
रालस्तु देवधूपः स्यात्शालः सर्जरसाह्वयः ।
कुन्दुरुर्मेदकः कुन्द्रो विज्ञेयः खपुरस्तथा ॥ १९० ॥
श्यामादन्तीद्रवन्तीक्रमुककुटरणाशंखिनी चर्मसाह्वा स्वर्णक्षीरीगवाक्षीशिखरिरजनकच्छिन्नरोहाकरञ्जाः ।
बस्तान्त्री व्याधिघातो बहलबहुरसस्तीक्ष्णवृक्षात्फलानि श्यामाद्यो हन्ति गुल्मं विषमरुचिकफौ हृद्रुजं मूत्रकृच्छ्रम् ॥ १९१ ॥
मसूरविदला श्यामा श्यामादो कालमेषिका ।
सुषेणिका शशाह्वा च कालिन्दी कालिका स्मृता ॥ १९२ ॥
चित्रा मुकूलको दन्ती निकुम्भः शम्बरस्तथा ।
उदुम्बरच्छदा हस्ति- दन्ती स्यादुपचित्रका ॥ १९३ ॥
न्यग्रोधाह्वा सुतत्रेणी द्रवन्त्युन्दुरुकर्णिका ।
कुम्भस्त्री भट्टिनी सूत्रा श्यामा कुटरणा त्रिवृत् ॥ १९४ ॥
शङ्खिनी तिक्तला वक्री यवतिक्ता किशोरिका ।
शङ्खावर्ता शङ्खपुष्पी विशिखा नाहिका स्मृता ॥ १९५ ॥
सातला सप्तला चर्म- कषाह्वावर्तकी स्मृता ।
अन्येषां तु तथा ब्राह्मी ब्रह्मनामा तु कीर्तिता ॥ १९६ ॥
स्वर्णक्षीरी हैमवती कङ्कुष्ठस्तीक्ष्णदुग्धिका ।
इन्द्रवारुणिका चैन्द्री गवाक्षी गजचिर्भिटी ॥ १९७ ॥
विशाला च विशल्या च सैव प्रोक्ता गवादनी ।
गिरिकर्ण्यश्वक्षुरकः स्थाणुकर्णी गवादनी ॥ १९८ ॥
नीलस्यन्दा नीलपुष्पी नीलाख्या गिरिकर्णिका ।
तिल्वकः शिखरी श्वेत- त्वक्तिरीटो बृहच्छदः ॥ १९९ ॥
कम्पिल्लको रञ्जनको रेचनो रक्तचूर्णकः ।
बस्तान्त्री वृषगन्धाख्या मेषान्त्री वृषपत्त्रिका ॥ २०० ॥
घनभूरिरसस्त्विक्षुः गुडमूलोऽसिपत्त्रकः ।
तीक्ष्णवृक्षः शणः पीलुः प्रोक्तोऽन्यः स्थाणुकस्तथा ॥ २०१ ॥
गणेषु यानि द्रव्याणि संग्रहे वाल्पसंग्रहे ।
तान्युक्तान्यभिधीयन्ते विप्रकीर्णान्यतः परम् ॥ २०२ ॥
पवित्रपत्त्रा मङ्गल्या शमी लक्ष्मी च केशनुत् ।
सोहला रुदती तन्वी सूक्ष्ममूलापराजिता ॥ २०३ ॥
पानीयो बीजवृक्षस्तु जीववृक्षस्तु पाशिकः ।
शुक्लपुष्पा भूमिलग्ना ह्रस्वाङ्गा शङ्खपुष्पिका ॥ २०४ ॥
सूक्ष्मपत्त्रा सर्पगन्धा सर्पाक्षी रक्तपुष्पिका ।
अन्या तु सुमहाकन्दा नाकुली नकुलप्रिया ॥ २०५ ॥
विष्णुक्रान्ता नीलपुष्पी सतीना छर्दिका तथा ।
वाट्यालकः पीतपुष्पो वाट्या भद्रौदनी बला ॥ २०६ ॥
महाबला वर्षपुष्पी शीतपाकी सुबीजकः ।
वाट्यायनी त्वतिबला भारद्वाजी सुपर्णिका ॥ २०७ ॥
रामान्याच्छादनफला वाट्या कार्पाससंज्ञका ।
अजटा बहुपत्त्रा च भूधात्री तामलक्यपि ॥ २०८ ॥
शीतवीर्यः पर्पटकः तृष्णाघ्नः सूक्ष्मपत्त्रकः ।
त्रायन्ती त्रायमाणा च पालिनी भयनाशिनी ॥ २०९ ॥
दुरालभा धन्वयासो यासो दुःस्पर्शकस्तथा ।
कल्याणलोचनो ज्ञेयो नादेयो जलजम्बुकः ॥ २१० ॥
महाकदम्बो निचुलोऽनपायी जलनूपुरः ।
किङ्किरातः कर्णिकारो गौरः कनकपुष्पकः ॥ २११ ॥
मन्दारः पारिभद्राह्वो ज्ञेयः कण्टकीकिंशुकः ।
पारिजातश्च रोहीतः प्लीहघ्नो रक्तपुष्पकः ॥ २१२ ॥
शुकनासा तु नलिका शुकघ्राणोऽल्पनालिका ।
शाकराजो भूतवासो गोजिह्वा कर्कशच्छदा ॥ २१३ ॥
अजाक्षी व्रणनाशिनी कुष्ठघ्नी फल्गुवाटिका ।
सिंहास्यः कर्कटश्चैव वृषो वासाटरूषकः ॥ २१४ ॥
अश्मन्तकोऽम्लयोनिश्च ज्ञेयो यमलपत्त्रकः ।
वंशो वेणुर्यवफलः सुपर्वा च तृणध्वजः ॥ २१५ ॥
करीरः कीचको मृत्यु- फलाङ्कुर इति स्मृतः ।
वारणस्तरली कुम्भि- करञ्जस्तीरवृक्षकः ॥ २१६ ॥
सिन्धुरः सिन्धुवारश्च श्वेतपुष्पावरोहितः ।
काकोदुम्बरिका फल्गुः भद्रोदुम्बरवायसी ॥ २१७ ॥
कालान्त्रदारी कन्थारी फणी खदिरवल्ल्यपि ।
सिता कुमारिका मल्ली मोहिनी वटपत्त्रिका ॥ २१८ ॥
फेनिलो हस्तिकर्कोटः काण्डो बाणः शणः स्मृतः ।
श्लेष्मान्तको बहुफलः शैलूषः कान्तवृक्षकः ॥ २१९ ॥
कुद्दालकः कोविदारस्ताम्रपुष्पो युगच्छदः ।
कालकर्णी भूतवल्ली बल्या गन्धाश्वगन्धिका ॥ २२० ॥
तिन्तिडीकस्तु वृक्षाम्लो बदरी कोलसंज्ञकः ।
कर्कन्धूः ह्रस्वबदरी वसुवृक्षस्तु धन्वनः ॥ २२१ ॥
सहस्रवीर्यस्तीक्ष्णाम्लो वराम्लस्त्वम्लवेतसः ।
गोधापदी गोधवल्ली पट्वम्लादित्यनामिका ॥ २२२ ॥
पत्त्रभङ्गो महाश्यामा खराश्वा वृद्धदारुकः ।
दावाग्निदमनी माता क्षुद्रकण्टरिका तथा ॥ २२३ ॥
बर्हिशिखाह्वया गुञ्जा रक्तिका काकणन्तिका ।
श्वेतकाम्भोजिका ध्वाङ्क्षी श्वेतपाकी शिखण्डिका ॥ २२४ ॥
तृतीया कृष्णकाम्भोजी कुणपोकः सुसादनी ।
ज्योतिष्मती कङ्गुणिका पारावतपदी च सा ॥ २२५ ॥
ईश्वरी नागदमनी कीटारिः सर्पगन्धिका ।
अधोमुखा त्ववाक्पुष्पी वाराही वनमालिका ॥ २२६ ॥
आरामशीतलो देवो गन्धाढ्यः कुरुमर्दकः ।
नागजिह्वा श्वेतफला क्षीरिणी चार्कपुष्पिका ॥ २२७ ॥
निम्बच्छदेन्द्रवल्ली च करभी रुचिरा स्मृता ।
लिखिका भक्तिका भूरी नवनीता प्रकीर्तिता ॥ २२८ ॥
ज्ञेया बदरिकापर्णी पर्णकः पूतिकर्णकः ।
मलयूः वाकुची चैव चन्द्ररेखा त्ववल्गुजः ॥ २२९ ॥
चक्षुष्या चारटी ज्ञेया तथारण्यकुलत्थिका ।
अहिमारोऽरिमेदस्तु पीतदारुर्हरिद्रुमः ॥ २३० ॥
श्वेतत्वक्तीक्ष्णसारश्च विबुधस्तीक्ष्णसारकः ।
वाप्याह्वं पौष्करं शूल- हरं बीजाह्वयं मतम् ॥ २३१ ॥
शरी तु सुव्रता ज्ञेया गन्धाह्वा सोमसम्भवा ।
सहस्रवीर्या गोलोमी सिता दूर्वा च शाद्वलः ॥ २३२ ॥
क्षुद्रवारी दुग्धयुता घटिका छत्रपत्त्रका ।
आघोटको ब्रह्मफलो रक्तबिन्दुस्तिलच्छदः ॥ २३३ ॥
अजाक्षी लोमपर्णी च ज्ञेयो मेषविलोचनः ।
महावृक्षो महानीलो भृङ्गाह्वो मार्कवः स्मृतः ॥ २३४ ॥
केशरञ्जनको ज्ञेयो भृङ्गराड्भृङ्गरेणुकः ।
रामाह्वार्कलतारामा तरुणी पुष्पवत्यपि ॥ २३५ ॥
सूर्यभक्ता सुखोद्भावा सूर्यावर्ता रविप्रिया ।
हिरण्यपुष्पी खर्जूरी ताडपत्त्री मुसल्यपि ॥ २३६ ॥
इक्ष्वालिका तु काकेक्षुः काण्डेक्षुर्वायसेक्षुकः ।
श्वेतचामरकः काशस्तथेक्षुकुसुमश्च सः ॥ २३७ ॥
अध्यण्डेक्षुरकः स्थूल- कण्टकः कोकिलाक्षकः ।
उच्चटा चटका ज्ञेया शिखण्ड्यास्फोतकः स्मृतः ॥ २३८ ॥
उन्मत्तको मातुलको धुत्तूरो हेमनामकः ।
त्रिपुष्पः कृष्णधुत्तूरः कृष्णपुष्पी च मोहिनी ॥ २३९ ॥
देवदाली च कर्कोटी वेणी जीमूतकः स्मृतः ।
धामार्गवः कोशफलो राजकोशातकी स्मृता ॥ २४० ॥
कटुकोशातकी क्ष्वेडा जालिनी कृतवेधनः ।
कटुकालाम्बुनी तुम्बा- लाम्बुरिक्ष्वाकुसंज्ञिका ॥ २४१ ॥
नीलिनी चारटी ज्ञेया नीलिनी नीलपुष्पिका ।
सूक्ष्मपादस्ताम्रचूडो ज्ञेयः कुक्कुटपादिकः ॥ २४२ ॥
गोधूलिका च गोजिह्वा गोजी क्रोष्टुकमूलकः ।
अङ्कोलो गिरिकोलश्च पीतसारो निकोचकः ॥ २४३ ॥
जालारिर्मेहशत्रुश्च बकुली तलपोटकः ।
स्वर्णवर्णाकरः पीत- पुष्पको दोहकाह्वयः ॥ २४४ ॥
शणपुष्पी बृहत्पुष्पी शणः घण्टशणः स्मृतः ।
उभातसी रुद्रपत्त्री गोपिका बाणकः स्मृतः ॥ २४५ ॥
सौम्या सुवर्चला ब्राह्मी सोमा ब्रह्मसुवर्चला ।
मण्डूकपर्णी विक्रान्ता चान्या ब्राह्मी वनौषधिः ॥ २४६ ॥
सुतजीवः पुत्रजीवः पवित्रः पुत्रसिद्धिकृत् ।
आवर्तकी चर्मरङ्गा महाजाली विभाण्डिका ॥ २४७ ॥
प्रसारणी सुप्रसरा सारणी सुप्रतानिका ।
हिङ्गुपत्त्री तु पृथ्वीका बाष्पिका कवरी स्मृता ॥ २४८ ॥
तुम्बुरुस्तीक्ष्णवल्कश्च तीक्ष्णपत्त्रः कुतुम्बुरुः ।
अक्षोडः पर्वतीयश्च फलस्नेहो गुडाश्रयः ॥ २४९ ॥
कीरेष्टः कर्परालश्च स्वादुमञ्जा पृथुच्छदः ।
अगस्तिको मुनिनामा कुम्भयोनिश्च स स्मृतः ॥ २५० ॥
अधिच्छत्त्रा कुम्भयोनिः द्रोणपुष्पी कुतुम्बिका ।
कौण्डिन्यश्च महाद्रोणः स्मृतो देवकुतुम्बकः ॥ २५१ ॥
अधिच्छत्त्रा गौतमस्था बालग्रन्थिः प्रकीर्तिता ।
वत्सादनी सुदशाख्या चक्राङ्गी जलशोषकः ॥ २५२ ॥
प्रपुन्नाटस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः ।
लक्ष्मणा पुत्रजननी रक्तबिन्दुच्छदा तथा ॥ २५३ ॥
नागिनी शूलिनी नाग- वल्ली मत्स्यार्जकः स्मृतः ।
शृगालघण्टा वज्राक्षी वज्रवल्ली तु शृङ्खला ॥ २५४ ॥
पलंकषा मूलकं च हिंगुना पुष्करच्छदः ।
दधिपुष्पी तु खट्वाङ्गी खट्वा पर्यङ्कपादिका ॥ २५५ ॥
बिम्बी गो हा तुण्डिकेरी तिलाख्या फलनाभिका ।
उर्वारुः कर्कटी प्रोक्ता लोमशा च प्रकीर्तिता ॥ २५६ ॥
खूर्जरिकस्तु कालिङ्गः मूत्रलं त्रपुसं स्मृतम् ।
कूष्माण्डकी पुष्पलता ककुभाण्डा फलोत्तमा ॥ २५७ ॥
गोरक्षतुम्बी गोरक्षी कुम्भालाम्बुर्घटाभिधा ।
चिर्भिटिका चित्रफला चीनारं चिर्भटं स्मृतम् ॥ २५८ ॥
लम्बा पिण्डफलेक्ष्वाकुः कटुका क्षत्रियात्मजा ।
महाफलेक्षुरा चैव तुम्बिका तिक्तबीजका ॥ २५९ ॥
चुक्रिका चाम्लिका चिञ्चा जीवन्ती तिन्तिडी स्मृता ।
चुक्रिका त्वम्लचाङ्गेरी सुनिषण्णदला तथा ॥ २६० ॥
उपोदकमुपोदी च क्षुद्रका पोदकी तथा ।
जीवन्तिको रक्तशाकः कलम्बी वल्ल्युपोदकः ॥ २६१ ॥
तण्डुलीयो मेघनादः चिल्ली तु लोमशा स्मृता ।
शितिवारः सूचिपत्त्रः स्वस्तिकः सुनिषण्णकः ॥ २६२ ॥
मत्स्याक्षिकस्तु मत्सीरः पत्तूरः प्रियसत्यपि ।
शीघ्रशाखा शाखिनी च महाशाकश्च वास्तुकी ॥ २६३ ॥
श्रावणी स्यात्मुण्डितिका भिक्षुः श्रवणशीर्षका ।
सौम्यगन्धा बर्बरिका तिलपर्णी च सा स्मृता ॥ २६४ ॥
सर्पश्चित्रस्तु नीलाभो भूशाको भूमिकन्दकः ।
रसोनो लशुनो ज्ञेयः पलाण्डुर्मुखदूषणः ॥ २६५ ॥
शतपुष्पा शतच्छत्त्रा मिशिः घोषा शताह्वया ।
मिश्रेया शालिनी शीत- शिवारण्या मिशिः स्मृता ॥ २६६ ॥
पृथ्वीका वारिपत्त्रा तु बाष्पिका च स्थलोद्भवा ।
कपित्थोऽथ दधित्थश्च दुर्मदः सुरभिच्छदः ॥ २६७ ॥
तोयक्षोभकरः कुम्भी वारुणो वृक्षधूमकः ।
मूषिकारिश्चित्रफलः करण्डफलकश्च सः ॥ २६८ ॥
चोचं चिषु नारिकेलः तुङ्गद्रुः कूर्चशेखरः ।
नीरपूर्णफलः शृङ्गी मोचं तु कदलीफलम् ॥ २६९ ॥
रम्भा तु कदली मोचा वृत्तपुष्पांशुमत्फला ।
करमर्दी क्षीरफला श्वेतपुष्पफलेति च ॥ २७० ॥
कृष्णपाकफलाविग्न- कराम्लाः करमर्दकः ।
मातुलुङ्गो बीजपूरो लुङ्गश्च फलपूरकः ॥ २७१ ॥
जम्बीरो जम्भलो जम्भः जम्बो दन्तशठः स्मृतः ।
नारङ्गस्त्वक्सुगन्धाख्य ऐरावतमुखप्रियौ ॥ २७२ ॥
भव्यं भविष्यं चाम्लं च भवं रोमफलं मतम् ।
पारावतं रैवतकं लिकुचो लकुचो डहुः ॥ २७३ ॥
पनसः कण्टकिफलः चोचो दीर्घफलः स्मृतः ।
नलिका सुषिरा शून्या कपोतचरणा नटी ॥ २७४ ॥
स्निग्धवृक्षस्तु सक्षीरः प्लक्षः स्याद्गुडबीजकः ।
कालवृन्ता कुबेराक्षी कुलिङ्गाक्षी च यक्षदृक् ॥ २७५ ॥
उग्रकाण्डः कारवल्ली तोयवल्ली सुकाण्डका ।
पञ्चाङ्गुली लिङ्गबीजा राजिका पिण्डवत्फला ॥ २७६ ॥
तुर्यतुण्डी शिलाच्छेदी पूतिका नित्यपुष्पिका ।
पर्वमञ्जरिका कीट- हन्त्री वृश्चिकहारिणी ॥ २७७ ॥
कुमारी व्याघ्रचरणा कन्या स्थूलदला च सा ।
बन्धूको बन्धुजीवश्च पार्वको वृकधूमकः ॥ २७८ ॥
कृष्णनीलः कालशाखः कैडर्यः सुरभिच्छदः ।
विश्वरूपा रूप्यगण्डा रूप्यो हरिततुम्बिली ॥ २७९ ॥
अर्शोघ्नश्चाखुकन्दश्च वन्यकन्दश्च शूरणः ।
रक्तपादी शमीपत्त्रा लज्जा लोहितयष्टिका ॥ २८० ॥
दुरारोहा खरस्कन्धा खर्जूरी स्वादुमस्तका ।
हिन्ताली तु महाताली कुताली तिलपुष्पिका ॥ २८१ ॥
बहुस्कन्धा मृत्युफला गूढपाकी शिलाफला ।
जतुवृक्षो घनस्कन्धः क्रिमिवृक्षः कुशाम्रकः ॥ २८२ ॥
नीलपत्त्री कालनीली नीलिनी नीलपुष्पिका ।
काकजङ्घा ध्वाङ्क्षजङ्घा दासी कान्ता प्रचीबला ॥ २८३ ॥
शरपुङ्खा बाणपुङ्खा मणिका चेक्षुपुङ्खिका ।
पुत्रदात्री वृत्तपत्त्रा वातारिः श्वेतपुष्पिका ॥ २८४ ॥
तालीशपत्त्रं तालीशं तालमामलकीदलम् ।
श्वासद्रुमः काकतरुः रुग्योग्यो व्याघ्रपर्ण्यपि ॥ २८५ ॥
कुब्जपुष्पा कृष्णवल्ली महानीला प्रतानिका ।
मृदुकान्तिः महाश्वेता श्वेता तु खटिका स्मृता ॥ २८६ ॥
रक्तपाषाणको धातुः गिरिमृद्गैरिकः स्मृतः ।
स्तन्याख्यो दुग्धपाषाणः सौधः पाषाणको लवः ॥ २८७ ॥
सौगन्धिको गन्धकस्तु वैगन्धो गन्धको बलिः ।
मनःशिला मनोगुप्ता मनोह्वा कुनटी शिला ॥ २८८ ॥
हरितालमालं तालं गोदन्तं नटभूषणम् ।
पारदो रसधातुश्च रुद्ररेता महारसः ॥ २८९ ॥
रसेन्द्रश्चपलः सूतो हरयोनी रसोत्तमः ।
अभ्रकं पार्वतीबीजं शैलोद्भूतं तथाम्बरम् ॥ २९० ॥
मयूरग्रीविकं तु स्यात्शिखिकण्ठं च तुत्थकम् ।
अन्यत्कर्परिका तुत्थं वामनं तुत्थमेव तु ॥ २९१ ॥
हिङ्गुलं दरदं म्लेच्छं रसभूः चर्मरञ्जनम् ।
सिन्दूरं रक्तरेणु श्री- भूषणं नागसम्भवम् ॥ २९२ ॥
सौवर्चलं तु रुचकमक्षाह्वं कृष्णसंज्ञकम् ।
विडं तु कृत्रिमं प्रोक्तं पृथ्वीसम्भवमौद्भिदम् ॥ २९३ ॥
समुद्रजं च सामुद्रं लवणं पटुनामकम् ।
यावशूको यवक्षारः स्रोतोघ्नस्तु सुवर्चिकः ॥ २९४ ॥
सौभाग्यं टङ्कणं क्षारः मालतीरससम्भवः ।
तापीसमुद्भवं ताप्यं माक्षिकं हैममाक्षिकम् ॥ २९५ ॥
जत्वश्मजं धातुजं च शिलाकर्पूरसंज्ञकम् ।
गोरोचना बदरिका सौराष्ट्री रोचना शिवा ॥ २९६ ॥
लाक्षा दीप्तिर्द्रुमव्याधिः क्रिमिजा लोहिता जतु ।
[पद्मोत्तरस्] तालकुम्भो यावकोऽलक्तकः स्मृतः ॥ २९७ ॥
मृगनाभिर्मृगमदः कस्तूरी दर्पसंज्ञकः ।
लताकस्तूरिका राली गन्धवेणी मुखप्रिया ॥ २९८ ॥
घनसारो हिमराजः कर्पूरं हिमनामकम् ।
मृगस्वेदो मृगजलं पूतिः पूत्यण्डजः स्मृतः ॥ २९९ ॥
जातीफलं मज्जसारं जातिका जातिपत्त्रकः ।
कक्कोलकं कोशफलं कोलकं बहुबीजकम् ॥ ३०० ॥
फलं द्वीपमरीचं च कटुकं कटुकीफलम् ।
लवंगं देवकुसुमं कुसुमं शेखरं लवम् ॥ ३०१ ॥
निष्पत्त्रं च महापुष्पं स्वर्गपुष्पं वरालकम् ।
शिलापुष्पं तु शैलेयं शिलाजं स्थविरं तथा ॥ ३०२ ॥
पुष्पाञ्जनं रीतिपुष्पं पुष्पकेतुश्च रीतिजम् ।
समुद्रफेनं शुष्कं च फेनं वारिधिजं मलम् ॥ ३०३ ॥
शङ्खो वारिभवः कम्बुः जलजो दीर्घनिःस्वनः ।
प्रवालं वल्लिजं रक्तं विद्रुमं च प्रकीर्तितम् ॥ ३०४ ॥
रूप्यकं रजतं तारं सुवर्णं कनकं स्मृतम् ।
जातरूपं तथा हेम शातकुम्भं च हाटकम् ॥ ३०५ ॥
जाम्बूनदं हिरण्यं च तपनीयं च काञ्चनम् ।
ताम्रमौदुम्बरं शुल्बं मिहिरं हरिनामकम् ॥ ३०६ ॥
रीतिका पित्तलं पूति पीतलोहं च सैंहलम् ।
त्रपुसं त्रपुसंज्ञं च तगरं रूप्यशत्रुकः ॥ ३०७ ॥
सीसकं नागमुरगं कांस्यं काशं च घोषकम् ।
वार्त्तालोहं वर्तलोहं त्रिलोहं पञ्चलोहकम् ॥ ३०८ ॥
कृष्णलोहमयः सार- मायसं च शिलोद्भवम् ।
अयोरजो लोहरजस्तत्किट्टं स्यादयोमलम् ॥ ३०९ ॥
चिपिटं चिप्पटं चिट्टं वालुका सिकता स्मृता ।
लोहकान्तमयस्कान्तं कान्तं भ्रामरचुम्बकम् ॥ ३१० ॥
मृदुलोहं तीक्ष्णलोहं तीक्ष्णाख्यं सूक्ष्मलोहकम् ।
कालकूटो महामुस्तो वत्सनाभो हलाहलः ॥ ३११ ॥
वत्सदन्ती महाशृङ्गी लेलिहस्तालपत्त्रकः ।
विषं च मूलकं शृङ्गी गरं कृत्रिमसंज्ञकम् ॥ ३१२ ॥
तोयच्छदा वारिपर्णी कुम्भिका जलकुम्भिका ।
दीर्घमूलं जलावासं शैवालं जलसम्भवम् ॥ ३१३ ॥
पङ्कजं पुण्डरीकं च शतपत्त्रं कुशेशयम् ।
बिसप्रसूनराजीव- जलजाम्भोरुहाणि च ॥ ३१४ ॥
शशिप्रियं च गन्धाढ्यं कुमुदं कोकनन्दनम् ।
काकोत्पलं तु काकोत्थं काकाख्यं ह्रस्वमुत्पलम् ॥ ३१५ ॥
तेषां फलं तु कुम्भीकं मूलं शालूककन्दकम् ।
कशेरुकः सुगन्धिश्च सुकन्दो मुस्तकन्दकः ॥ ३१६ ॥
शृङ्गाटको जलफलं जलकन्दस्त्रिकोणकः ।
करवीरोऽश्वमारस्तु बकुलं मद्यकेसरम् ॥ ३१७ ॥
अलक्ता माल्यशेफाली रूपिका ताम्रपुष्पिका ।
रक्तपुष्पी जया रुद्रा- -म्लायनी वनमालिका (?) ॥ ३१८ ॥
आम्लायनो राजसैर्यः कोरण्डो नखरञ्जनः ।
तिलकः पूर्णकः श्रीमान् सुद्युतिः शुक्लपुष्पकः ॥ ३१९ ॥
मालती सुमना जाती यूथिका गन्धनामिका ।
मल्लिकोक्ता विचकिला द्विपुष्पी पुष्पटी तथा ॥ ३२० ॥
कुञ्जरः शतपत्त्रश्च कण्टकाढ्यश्च कुब्जकः ।
अट्टहासः शङ्खशुक्ला नाम्ना सा शङ्खयूथिका ॥ ३२१ ॥
ऋषिर्दमनको दान्तो विनीतः कुलपत्त्रकः ।
दमनः पाण्डुरागः स्यात्तथा गन्धोत्कटो मुनिः ॥ ३२२ ॥
पानीयमम्बु सलिलं तोयं चोदकवारिणी ।
पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३२३ ॥
क्षीरं स्वादु पयो दुग्धं स्तन्यं वारि स्तनोद्भवम् ।
दधि माङ्गल्यकं चैव संतानं स्तनिका स्मृता ॥ ३२४ ॥
घोषं दण्डाहतं तक्रं कालशेयमुदाहृतम् ।
घृतमाज्यं हविः सर्पिः नवनीतं घृतालयः ॥ ३२५ ॥
गुडस्त्विक्षुविकारः स्यात्खण्डं फुल्लमिति स्मृतम् ।
सितोपला शर्करा च सिता मत्स्यण्डिका स्मृता ॥ ३२६ ॥
माक्षिकं सारघं क्षौद्रं मधु पुष्परसोद्भवम् ।
मधूच्छिष्टं च मदनं सिक्थकं मक्षिकामलम् ॥ ३२७ ॥
तैलमभ्यञ्जनवरं तिलजं तिलसम्भवम् ।
प्रसन्ना वारुणी ज्ञेया परिस्विन्ना च सा स्मृता ॥ ३२८ ॥
कादम्बरी घना सुरा मैरेयो ह्यासवो मदः ।
मार्द्वीकं मधु विज्ञेयं माध्वीकं मधुना कृतम् ॥ ३२९ ॥
गुडेन गौडं सितया शार्करं सैन्धमैक्षवम् ।
खण्डेन खण्डवासः स्यात्पैष्टकं पिष्टसम्भवम् ॥ ३३० ॥
अवन्तिसोमो धान्याम्लमारनालं च काञ्जिकम् ।
शुक्तं सौवीरकं चेति तुषोदं तु तुषोदकम् ॥ ३३१ ॥
यवोत्थं तण्डुलोदं च रसाम्लं शुक्तकाञ्जिकम् ।
ब्रह्माम्बु गोम्बु गोमूत्रं गोमलं गोमयं स्मृतम् ॥ ३३२ ॥
शालिर्व्रीहिर्वरश्चैव धान्यकं रक्तशूकरः ।
यवश्च स्थूलमध्यश्च वरुणो मुनिभिक्षितः ॥ ३३३ ॥
अकृष्टपच्यो नीवारः शकुन्तमुनिभोजनम् ।
चणकस्तु कलायः स्याद्गोधूमो म्लेच्छभोजनः ॥ ३३४ ॥
चमसी चातिबीजा स्यात्कोरदूषस्तु कोद्रवः ।
कङ्गुः संध्यन्थिसंबन्धी प्रियङ्गुः पीततण्डुलः ॥ ३३५ ॥
गवेधुका च गोजिह्वा कर्शनीया सिता तथा ।
उद्दालकस्तु जूर्णाह्वो यावनालः शुकप्रियः ॥ ३३६ ॥
वासन्तः कृष्णमुद्गस्तु माधवश्च सुराष्ट्रजः ।
मकुष्ठो वनमुद्गश्च मसूरः पित्तभेषजम् ॥ ३३७ ॥
हरिमन्थाः सुगन्धाश्च चणकाः कृष्णकञ्चुकाः ।
कुलत्थः कालवृत्तश्च ताम्रवर्णोऽनिलापहा ॥ ३३८ ॥
माषस्तु पिच्छिलरसः कुरुविन्दो वृषाकरः ।
राजमाषोऽलसान्द्रः स्यात्खञ्जकाख्यः कलायकः ॥ ३३९ ॥
आढकी तुवरी प्रोक्ता निष्पावा शिम्बिका स्मृता ।
तिलः स्नेहफलः स्नेह- पूर्णश्च कृष्णतैलकः ॥ ३४० ॥
फलत्रयं तु त्रिफला वरा श्रेष्ठा तथोत्तमा ।
द्विपं च मूलं दशकं दशमूलं दशाङ्घ्रिकम् ॥ ३४१ ॥
त्रिकटु त्र्यूषणं व्योषं कटुत्रयमिहोच्यते ।
पञ्चकोलं पञ्चकटु त्रिसुगन्धि त्रिजातकम् ॥ ३४२ ॥
औषधं भेषजं पथ्यमगदं च भिषग्जितम् ।
कलभो वारणो दन्ती मातंगो द्विरदो द्विपः ॥ ३४३ ॥
गजो हस्ती करीभश्च करेणुर्हस्तिनी स्मृता ।
हयोऽश्वस्तुरगो वाजी सप्तिर्वाहस्तु बाडवः ॥ ३४४ ॥
बालेयो रासभो ज्ञेयो धूसरो गर्दभः खरः ।
करभो दीर्घगश्चोष्ट्रः क्षमी वेसरको बली ॥ ३४५ ॥
शार्दूलश्चित्रकायस्तु व्याघ्रः स्यात्पुण्डरीकः (?) ।
पञ्चास्यो मृगराट्सिंहो हर्यक्षः केसरी हरिः ॥ ३४६ ॥
कण्ठीरवश्च विज्ञेयः पिङ्गदृष्टिर्मृगादनः ।
मृगे कुरङ्गवातायु- हरिणाजिनयोनयः ॥ ३४७ ॥
ताम्राभो हरिणः कृष्णस्त्वेणस्त्वक्कोमलः स्मृतः ।
कृष्णसारश्चित्रमृगः रोमशा चमरी स्मृता ॥ ३४८ ॥
वराहः शूकरः कीटी दंष्ट्री घोणी च रोमशः ।
स्तब्धरोमा पृथुस्कन्धः क्रोडः कोलस्तथा किरिः ॥ ३४९ ॥
कपिः प्लवंगप्लवग- शाखामृगवलीमुखाः ।
मर्कटो वानरः कीशः वनौकाः फलभक्षकः ॥ ३५० ॥
शृगालो जम्बुकः क्रोष्टा गोमायुर्मृगधूर्तकः ।
पारावतः कलरवो गेहपक्षी कपोतकः ॥ ३५१ ॥
कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ।
मयूरो बर्हिणो बर्ही नीलकण्ठो भुजंगभुक् ॥ ३५२ ॥
शिखावलः शिखी केकी कलापी मेघनादिनी ।
उलूको वायसारिस्तु कौशिको रजनीचरः ॥ ३५३ ॥
काकस्तु करटोऽरिष्टः बलिपुष्टः सकृत्प्रजः ।
परभूर्बलिभुग्ध्वाङ्क्षश्चिरजीवी च वायसः ॥ ३५४ ॥
एकदृष्टिश्चात्मघोषः द्रोणकाकस्तु कृष्टलः ।
चटकः कलविङ्कश्च कुलिङ्गश्चटकापि च ॥ ३५५ ॥
विज्ञेयश्चर्मपथिकः जातुषश्चर्मसाह्वयः ।
भरद्वाजो द्विजो ब्राह्मो व्याघ्राटः खञ्जरीटकः ॥ ३५६ ॥
सारङ्गः खञ्जनश्चैव मेघवृत्तिस्तु चातकः ।
वनप्रियः परभृतः कोकिलः सुस्वरः पिकः ॥ ३५७ ॥
गूढपात्कच्छपः कूर्मः कुलीरः कर्कटः स्मृतः ।
शम्बूको वृत्तशङ्खश्च शङ्खको मातृगेहकः ॥ ३५८ ॥
मीनो मत्स्योऽण्डजश्चैव जलौका जलशायनः ।
मण्डूको दर्दुरो भेकः काकाहिस्तोयसर्पकः ॥ ३५९ ॥
सर्पः पृदाकुर्भुजगो भुजंगोऽहिर्भुजंगमः ।
आशीविषो विषधरश्चक्री व्यालः सरीसृपः ॥ ३६० ॥
कुण्डली गूडपाच्चक्षुः श्रवाः काकोदरः फणी ।
दर्वीकरो दीर्घपृष्ठो जिह्मगः पवनाशनः ॥ ३६१ ॥
लेलिहानो दन्दशूको द्विजिह्वश्च बिलेशयः ।
कृकलासो मयूरादी कालेयो बहुपन्नगः ॥ ३६२ ॥
शतपात्सरटा चक्री नकुलः सर्पभक्षकः ।
नालिनी नालहूलीका तलाटा स्थूलदन्तिका ॥ ३६३ ॥
आखून्दुरुर्मूषकश्च वृकश्च दूषकः स्मृतः ।
छुछुन्दरी राजपुत्री विज्ञेया गन्धमूषिका ॥ ३६४ ॥
पुरोहिता कुड्यमत्स्या गौरी च गृहगोधिका ।
गौधेरकाकृतिर्गोधा प्राग्बाहुर्युग्मजिह्वकः ॥ ३६५ ॥
ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक् ।
उदङ्घा कपिजङ्घा तु लोहिताङ्गः पिपीलकः ॥ ३६६ ॥
गण्डूपदा भूमिलता भूनागो वर्षजालकः ।
मधुयुतो मधुकरो मधुलिट्मधुपस्तथा ॥ ३६७ ॥
द्विरेफः पुष्पलिड्भृङ्गः षट्पदभ्रमरावलिः ।
इन्दिन्दिरश्चञ्चरीकः सरघा मधुमक्षिका ॥ ३६८ ॥
लम्बरोमा मक्षिका च परा दीपनिवारणी ।
पतंगिका पुत्तिका स्यात्दंशस्तु वनमक्षिका ॥ ३६९ ॥
भृङ्गारी चीरुका चीरी झिल्लिका घर्घरस्वना ।
पतंगः शलभो ज्ञेयः स्वद्योतो ज्योतिरिङ्गणः ॥ ३७० ॥
लुलायो महिषो वाह- द्वेषी कासरसैरिभौ ।
वन्यस्तु गवयो ज्ञेयः ककुद्मान् गोपतिर्वृषः ॥ ३७१ ॥
उक्षानड्वान् बलीवर्दः सुरभिर्गोपकः स्मृतः ।
सकृत्प्रसूता गृष्टिः स्यात्बष्कयण्येकहायनी ॥ ३७२ ॥
अन्नसारो रसो रक्त- योनिः स्याद्दृढधातुकः ।
रक्तं शोणं मांसकरं शोणितं क्षतजमसृक् ॥ ३७३ ॥
पलं मांसं शोणितोत्थं पिशितं क्रव्यमामिषम् ।
पिच्छा मांसोद्भवं मेदो वसा मेदःसमुद्भवा ॥ ३७४ ॥
मेदःसम्भवमस्थि स्याद्देहसंधानधारणम् ।
अस्थिसारस्तथा मज्जा स्नेहसारोऽस्थिसम्भवः ॥ ३७५ ॥
शुक्लं तेजो बीजपुंस्त्वे रेतो वीर्यान्त्यधातुके ।
ओजस्तु धातुसारः स्यात्सौम्यो हृदयदीपनः ॥ ३७६ ॥
अनिलो मारुतो वायुः मरुत्प्राणः प्रभञ्जनः ।
समीरणो मातरिश्वा पवनश्च सदागतिः ॥ ३७७ ॥
मायुः पित्तं वह्निकान्तं कफः श्लेष्मा च पिच्छिलः ।
कर्दमः पङ्कजम्बालौ मृत्सा मृत्स्ना च मृत्तिका ॥ ३७८ ॥
हसन्तिकाङ्गारधानी तैलपात्रं कुतूः स्मृता ।
पाषाणप्रस्तरग्रावो- -पलाश्मानः शिला दृषत् ॥ ३७९ ॥
पृथ्वी वसुंधराख्या च गौर्भूमिर्मेदिनी मही ।
धरा धरित्री धरणी क्षोणी ज्या काश्यपी क्षितिः ॥ ३८० ॥
सर्वंसहा वसुमती वसुधोर्व्यचला स्मृता ।
विश्वम्भरा रसानन्ता गोत्रा कुः पृथिवी क्षमा ॥ ३८१ ॥
अवनी भूतधात्री च विपुला सागराम्बरा ।
सूरो हंसो रविर्भानुः पतंगोऽर्को दिवाकरः ॥ ३८२ ॥
प्रद्योतनो दिनमणिः खद्योतो द्युमणिस्तथा ॥ ३८३ ॥
ब्रध्नः प्रभाकरो भास्वान् द्वादशात्मा दिवाकरः ।
सविता च सहस्रांशुर्मार्तण्डश्च विकर्तनः ॥ ३८४ ॥
कर्मसाक्षी जगच्चक्षुरंशुमाली त्रयीतनुः ।
विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ॥ ३८५ ॥
शीतांशुरिन्दुश्चन्द्रमाः शशी चन्द्रो निशाकरः ।
विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः ॥ ३८६ ॥
अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः ।
द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः ॥ ३८७ ॥
अङ्गारकः कुजो भौमो रौहिणेयो बुधो द्विजः ।
गुरुर्बृहस्पतिर्मन्त्री चोशना भार्गवः कविः ॥ ३८८ ॥
शनिः पङ्गुः सूर्यपुत्रः सैंहिकेयो विधुंतुदः ।
तमस्तु राहुः स्वर्भानुः केतुस्तु ध्वजनामकः ॥ ३८९ ॥
उडु नक्षत्रमृक्षं भं दोषा नक्तं निशा क्षपा ।
क्षणदा यामिनी रात्रिस्त्रियामा चोरवल्लभा ॥ ३९० ॥
दिनाहनी वासरश्च घस्रो भास्करवल्लभः ।
शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ॥ ३९१ ॥
ईश्वरः शर्वः ईशानः शंकरश्चन्द्रशेखरः ।
भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ॥ ३९२ ॥
मृत्युंजयः कृत्तिवासाः पिनाकी प्रमथाधिपः ।
उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ॥ ३९३ ॥
वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ।
कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ॥ ३९४ ॥
हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ।
गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ॥ ३९५ ॥
व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ।
उमा कात्यायनी गौरी काली हैमवतीश्वरी ॥ ३९६ ॥
शिवापर्णा भवानी च पार्वती चण्डिकाम्बिका ।
अजो हरिर्वासुदेवो दैत्यारिः पुरुषोत्तमः ॥ ३९७ ॥
विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः ।
दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ ३९८ ॥
पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः ।
उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः ॥ ३९९ ॥
लक्ष्मी पद्मालया पद्मा कमला श्रीर्हरिप्रिया ।
इन्दिरा लोकमाता मा क्षीराब्धितनया रमा ॥ ४०० ॥
नेत्रं पादः शिफा चाङ्घ्रिः मूलं शालूककन्दकौ ।
त्वक्चर्म वल्कलं प्रोक्तं विटपः शिखरं शिरः ॥ ४०१ ॥
पत्त्रं दलं छदः पर्णं पलाशश्छदनं तथा ।
पल्लवस्तु प्रवालः स्यात्मुकुलं कोरकं स्मृतम् ॥ ४०२ ॥
कलिका जालकश्चैव कोरकक्षारकुड्मलाः ।
प्रसूनं सुमनः सूनं पुष्पं च कुसुमं स्मृतम् ॥ ४०३ ॥
आमं शलाटुसंज्ञं तु पक्वं फलमुदाहृतम् ।
मकरन्दः पुष्परसः दलोत्थो दलजो रसः ॥ ४०४ ॥
औषधं भेषजं पथ्यमगदं च भिषग्जितम् ।
क्रिया चिकित्सितं शस्त्रं प्रायश्चित्तं समाहितम् ॥ ४०५ ॥
रोगहारोऽगदंकारो भिषग्वैद्यश्चिकित्सकः ।
रोगज्ञो जीवनो विद्वानायुर्वेदी गदान्तकः ॥ ४०६ ॥
शीतांश्वमृतलक्ष्मीभिर्जुष्टोऽसौ धनसंयुतः ।
क्षीरोधिजश्चाब्जयोनिः पायाद्धन्वन्तरिस्तथा ॥ ४०७ ॥
नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ।
रक्षतां देवभिषजौ वैद्यपुत्रान् स्वरोचिषा ॥ ४०८ ॥
]