[[अष्टाङ्गसङ्ग्रहः Source: EB]]
[
श्रीगणेशाय नमः
अष्टांगसंग्रहः
श्रीमद्वाग्भटाचार्यनिर्मितः॥
पद्भिः सूत्रादिभिः स्थानैरायुर्वेदप्रकाशकः॥
<MISSING_FIG href="../../../../../../../books_images/U-IMG-1707227594020601-removebg-preview.png"/>
भिषग्वर्यशिरोरत्नबालशास्त्रिपदांबुजे॥
मिलिंदायितचित्तेन जनस्थाननिवासिना॥
तर्टेइत्युपनाम्ना च भिषक्पदभृता गुरोः॥
सखारामतनूजेन गणेशेन प्रयत्नतः॥
देवधरकुलोत्पन्नभिषजः कृष्णशास्त्रिणः॥
साह्येनायं यथावुद्धि शोधितश्च प्रकाशितः॥
<MISSING_FIG href="../../../../../../../books_images/U-IMG-1707228170020602-removebg-preview.png"/>
मुंवापुरस्थगणपतकृष्णाजीमुद्रणालयेशेन॥
कान्होबातनुजात्मारामेण स्वीयमुद्रणायंत्रे॥
आकाशचंद्रभूमित १८१० शकसंवत्सरे शुचौ मासे॥
पक्षेऽसिते तृतीयातिथौ गुरोर्वासरेंऽकितश्चापि॥
<MISSING_FIG href="../../../../../../../books_images/U-IMG-1707229306241803-removebg-preview.png"/>
हा ग्रंथ १८६७ चा आक्ट २५ प्रमाणें रजिस्टरकरून याजवर प्रकाशित करणारानें
आपला हक्क ठेविला आहे.
किंमत १५ रुपये
श्रीशं वंदे
उपोद्घातः
अस्तीदं वसुमतीमंडलैकदेशवार्तिभरतखंडं नाम॥अत्रवेदवेदांगपारगांस्त्रैकालिकज्ञानिनो महर्षयः संबभूवुः॥ तैर्लोकानुग्रहकांक्षयाऽनेकानि शास्त्राणि रचितानि॥पूर्वर्षिमार्गानुयायिनोऽत्रत्याः पंडितवर्यास्तत्तच्छास्त्रेषु विस्तीर्णान्ग्रंथान्रचयामासुः॥
तथावैद्यकेऽप्यायुर्वेदानुसारेणात्रेयधन्वंतरिप्रभृतयोमहर्षयोऽग्निवेशसुश्रुतमुखास्तच्छिष्याश्च स्वनामयसिद्धान्यनेकानि तंत्राणि तेनिरे॥ तानिसर्वाण्यालोच्य वैद्यवर्यशिरोमुकुटालंकारहीरकः श्रीमद्वाग्भटाचार्योऽपिवैद्यशास्त्रे सर्वलोकोप-योगायाष्टांगसंग्रहाष्टांगहृदयासरत्नसमुच्चयादीनतिप्रगल्भग्रंथान्रचयामास॥
अयं ग्रंथकारस्तु सिंधुदेशेऽजनि तत्पितृनाम सिंहगुप्तइति तत्पितामहनाम वाग्भटएवासीत्॥एतच्चानेन तन्नकृताऽस्मिन्नेवाष्टांगसंग्रहे प्रकटीकृतम्॥तयथा॥ भिषग्वरोवाग्भट इत्यभून्मेपितामहो नामधरोऽस्मि यस्य॥सुतोऽभवत्तस्य च सिंहगुप्तस्तस्याप्यहं सिंधुषु लब्धजन्मेति॥
बुद्धाय तस्मै नमः इत्याद्युक्तत्वाद्वाग्भटोबौद्धमतानुयाय्यासीदिति केषां चिन्मतम् तत्तु नसम्यक् यतः अर्चयेद्देवगोविप्रवृद्धवैद्यनृपातिथीन्॥अथर्वविहिता शांतिःप्रतिकूलग्रहार्चनम्॥ मातरं पितरं देवान् वैद्यान्विप्रान् हरं हरिं॥ पूजयेच्छीलयेद्दानदमसत्यदयार्जवान्॥ इत्यादिवाग्भटवचनानुरोधात्बुद्धशब्दस्य ज्ञानवानित्यर्थपरत्वाच्च वाग्भटोवैदिकधर्मानुयायी ब्राह्मणआसीत् बौद्धमतानुयायीत्यधिगम्यते॥
वाग्भटः कस्मिन्काले समजनीति सम्यङ्गज्ञायते॥ तथाप्यस्य प्राचीनत्वं सर्वेरप्युररीकृतं॥
आयुर्वेदस्यष्टावंगानि कायबालग्रहोर्ध्वांगशल्यविषरसायनवाजीकरणानीति॥ तानि सूत्रशारीरनिदानचिकित्सा-कल्पोत्तरस्थानेषु षट्सुव्याख्यातानि ग्रंथकारेण॥ तत्र बहुधा पंचस्थानव्यापि कायांगमुत्तरस्थानं चेतरांगसंग्राहकं॥ अष्टांगानां कल्पना शरीरावस्थाविशेषनिबंधनाऽस्ति॥ कायशव्देनात्र सर्वावस्थं सर्वावयवं च शरीरं गृह्यते॥बालशब्देन प्राथमिकवयस्थंशरीरं। ग्रहशब्देनभूतादिभिरार्त्तंशरीरं। ऊर्ध्वांगशब्देन शिरः। शल्यशब्देन व्रणार्तत्त्वं।शेषं स्पष्टं॥
१ तत्र प्रथमं सूत्रस्थानं चत्वारिंशदध्यायात्मकं ग्रंथकर्तुराचार्यस्यातीव शास्त्ररचनाचातुर्यंप्रकटीकरोति॥ अस्मिन् स्थाने सर्वतंत्रव्यापिनो निखिलशास्त्रार्थाः सूचिताः॥आरोग्यरक्षणोपायास्तत्तद्दतुजनितदोषवैषम्यनिवृत्यर्थंप्रत्यर्त्वाचरणं वेगरोधनिषेधस्तथानित्योपयोगिनामन्नपानादिद्रव्याणां गुणा विधयश्च द्रव्याणां गणा गुणाश्चदोषघातुमलानां विकृताविकृतानां लक्षणानि विकृतानां शमोपायाः रोगाणां सामान्यतउत्पत्तिर्भेदाः प्रतिषेधाश्चस्नेहत्वदेवमनविरेचनब-स्तिनस्यधूमगंडूषाद्याश्रोतनादिविधयश्च साकल्येननिरूपिताः॥ तथाच यंत्राणां शस्त्राणां च निरूपणं सांगोपांगं कृतं॥ किंच सिराणां व्यधः कथंकर्तव्यः शल्यानामाहरणं कथं कार्यं शस्त्रक्षाराग्निकर्माणि कथं विधेयानि तदर्हारोगाः के इत्येतत्सर्वं सविस्तरं कथितम्॥
२ द्वितीयं शारीरस्थानं द्वादशाध्यायात्मकं॥ अत्र शुद्धाशुद्धयोः शुक्रार्त्तवयोर्लक्षणानि तद्दोषास्तत्प्रतीकाराश्च तत्संयोगाद्गर्भोत्पत्तिः गर्भिणीलक्षणानि सा पुत्रं कन्यां तृतीयप्रकृतिं वा जनयिष्यतीति सूचकान्यव्यभिचारीणि लक्षणानि मासिमासि गर्भः कथंजायते गर्भसंगे जाते सति किं कर्त्तव्यं गर्भस्य व्यापदः कास्तस्य निष्क्रामणे काव्यापत्तयः संभवंति मूढगर्भादीनां निष्क्रामणं कथं कार्यं तेषु शस्त्रावचारणं कथं विधेयमित्येतत्सकलं सूतिकाशास्त्रं विवर्णितम्॥ अपिच अंगप्रत्यंगविभागः अस्थिसिराधमनीस्रोतसां वर्णनं स्थाननिर्देशश्च मर्मणां स्थानानि नामानि प्रमाणानि च तद्विघातजानि लक्षणानि तेषां सद्यःप्राणहरत्वंकालांतरप्राणहरत्वं विकृतांगकारकत्वं चेत्यादि यद्यच्चिकित्सोपयोगि शारीरवर्णनमावश्यकं तत्सर्वं कार्त्स्न्येन निदर्शितं मरणख्यापकानि रिष्टानि च कथितानि॥
३ तृतीयं निदानस्थानं षोडशाध्यायात्मकं॥ अत्र ज्वरादीनां हेतवः पूर्वरूपाणि लिंगानि उपशयः संप्राप्तिश्चेति रोगज्ञानोपायाः कथिताः॥
४ चतुर्थं चिकित्सास्थानं चतुर्विंशत्यध्यायात्मकं॥ अत्र पूर्वोक्तज्वरादिव्याधिषु दोषावस्थानुरोधेनौषधप्रयोगाः कथिताः प्रतिरोगं विशिष्टान्यन्नपानानि सूचितानि शस्त्रावचारणार्हेषु व्याधिषु पक्वशोफोदराशश्मरीप्रभृतिषु शस्त्रक्रिया साकल्येन प्रदर्शिता क्षाराग्निसाध्येषु क्षाराग्निकर्म च॥
५ पंचमं कल्पस्थानमष्टाध्यायात्मकं॥ अत्र वमनविरेचनबस्तीनां कल्पा वमनादीनां व्यापत्तयस्तत्प्रतीकराश्च॥ओषधीनां क्वाथादिकल्पना मानं च कथितं॥
६ षष्ठमुत्तरस्थानं पंचाशदध्यायात्मकं॥ अत्र षड्भिरध्यायैबलि चिकित्सितं द्वितीयमंगं व्याख्यातं॥ चतुर्भिर्भूत-विद्यानाम तृतीयमंगं॥अष्टादशभिः शालाक्यापरपर्यायमूर्ध्वगंनाम चतुर्थमंगं कथितं॥ यत्र नेत्रकर्णनासामुखमूर्ध्ना रोगास्तल्लक्षणानि चिकित्साच निरवशेषं व्याख्याता॥एकादशभिः शल्यतंत्रं पंचममंग कथितं॥ अस्मिन् व्रणभेदा अस्थिभंगलक्षणानि भगंदरादिलक्षणानि योनिर्मेढ्ररोगास्तच्चिकित्सा चानवभिर्विषतंत्रं नाम षष्ठमंगं॥ यत्र स्थावरजंगमभेदेन द्विविधं विषं सविस्तरं निरूपितं॥ एकेनाध्यायेन सप्तमं रसायनमंगं॥यत्रोक्तप्रयोगैर्जरावली पलितनाशो भवति बलाधानं स्मृत्युद्रेकश्च भवति॥ पंचाशत्तमेनांतिमेनाध्यायेन वाजीकरणमष्टममंगं व्याख्यातं यदीयौषधप्रयोगाः शुक्रवृद्धि स्त्रीरमणे च शक्ति ददति॥ एवं षड्भिःस्थानैः पंचाशदधिकशताध्यायात्मकमष्टांगसंग्रह नाम तंत्र समुल्लसति॥
ग्रंथस्यास्य संशोधनार्थं वेदशास्त्रसंपन्नानां भाटे इत्युपाव्हानां बालशास्त्रिणां समग्रमेकं संग्रहपुस्तकं पुण्य-पत्तनादानीतम्॥ तथा परलोकनिवासिनां निरंतरोपाव्हानां
गोविंदशास्त्रिणां समग्रंपुस्तकं जनस्थानादानीतम् तयोर्बहूपयोगोजातः तथाच सर्वांगसुंदराव्याख्यासहितस्याष्टांगहृदयस्य तथा हेमाद्रिव्याख्यायास्तथा चरकसुश्रुतयो श्चोपयोगोजातः॥ पुस्तकसंशोधनसमये देवधरकुलोत्पन्नस्य भिषजः कृष्णशास्त्रिणस्तथा देवोपनाम्नो विदुषोमनोहरशर्मणोऽपि सम्यक्साहाय्यं जातं॥ राजदत्तरावबहादुरपदवीनामधारिणां फ० क्ला० स० जज्जइत्यधिकारवतां उभयाशंकरतनुजानां लालशंकरशर्मणां। तथा राजदत्तरावसाहेब इति पदव्या सी. एस. आय्इति पदव्या च विराजमानानां मंडलिकोपाव्हानां नारायणसूनुविश्वनाथशर्मणां महताऽऽश्रयेण कृपया चैतद्रथमुद्रणं समाप्तिमगमत्॥पुस्तकग्राहकाणामपि महत्साहाय्यं जातं तेषांनामावलिरपिलिखिताऽस्त्यग्रे॥
अस्मिन् ग्रंथेऽन्यपुस्तकदृष्टपाठांतराणि तत्तत्पत्राधो लिखितानि॥क्वचित्क्वचित्स्थलेऽरुणदत्तहेमाद्रिव्याख्यानुरोधेनामर-मेदिनीकारकोशाद्यनुरोधेन च संक्षिप्तटिप्पण्यपिलिखिताऽस्ति तथा यत्र क्वचित्स्थले ग्रंथसंगतिः समीचीना न दृष्टा तत्रैव***** चिन्हं कृतमस्ति। भ्रमप्रमादादिनायद्यशुद्धादिकं क्वचित्स्यात्तत्सुधियः क्षंतुमर्हति॥ संति हि सर्वसहा.सूरयइत्यलं विस्तरेणेति शम्॥
गणेशशर्मा
श्री
अष्टांगसंग्रहपूर्वभागस्यानुक्रमणिका
| अ.क्रमांकाः | अ.नामानि | अ.क्रमांकाः | अ.नामानि |
| १ सूत्रस्थाने | २५ | स्नेहविध्यध्यायः | |
| १ | आयुष्कामीयाध्यायः | २६ | स्वेदविध्यध्यायः |
| २ | शिष्योपननीयाध्यायः | २७ | वमनविरेचनविध्यध्यायः |
| ३ | दिनचर्याध्यायः | २८ | बस्तिविध्यध्यायः |
| ४ | ऋतुचर्याध्यायः | २९ | नस्यविध्यध्यायः |
| ५ | रोगानुत्पादनीयाध्यायः | ३० | धूमपानविध्यध्यायः |
| ६ | द्रवद्रव्यविज्ञानीयाध्यायः | ३१ | गंडूषादिविध्यध्यायः |
| ७ | अन्नस्वरूपविज्ञानीयाध्यायः | ३२ | आश्चोतनांजनविध्यध्यायः |
| ८ | अन्तरक्षाविध्यध्यायः | ३३ | तर्पणपुटपाकविध्यध्यायः |
| ९ | विरुद्धान्नविज्ञानीयाध्यायः | ३४ | यंत्रशस्त्रविध्यध्यायः |
| १० | अन्नपानविध्यध्यायः | ३५ | जलौकीविध्यध्यामः |
| ११ | मात्राशितीयाध्यायः | ३६ | सिराव्यथविध्यध्यायः |
| १२ | विविधौषधविज्ञानीयाध्यायः | ३७ | शल्याहरणविध्यध्यायः |
| १३ | अग्र्यसंग्रहाध्यायः | ३८ | शस्त्रकर्मविध्यध्यायः |
| १४ | शोभनादिगणसंग्रहाध्यायः | ३९ | क्षारकर्मविध्यध्यायः |
| १५ | महाकषायसंग्रहाध्यायः | ४० | अग्निकर्मध्यध्यायः |
| १६ | विविधगणसंग्रहाध्यायः | २ शारीरस्थाने | |
| १७ | द्रव्यादिविज्ञानीयाध्यायः | ||
| १८ | रसभेदीयाध्यायः | ||
| १९ | दोषादिविज्ञानीयाध्यायः | १ | पुत्रकामीयशारीराध्यायः |
| २० | दोषभेदीयाध्यायः | २ | गर्भावक्रांतिशारीराध्यायः |
| २१ | दोषोपक्रमणीयाध्यायः | ३ | गर्भोपचरणीयशारीराध्यायः |
| २२ | रोगभेदीयाध्यायः | ४ | गर्भव्यापच्छारीराध्यायः |
| २३ | भेषजावचारणीयाध्यायः | ५ | अंगविभागशारीराध्यायः |
| २४ | द्विविधोपक्रमणीयाध्यायः | ६ | सिराविभागशारीराध्यायः |
[TABLE]
| अ० क्रमांकाः | अ० नामानि | अ०क्रमांकाः | अ० नामानि |
| ६ | बस्तिव्यापत्सिद्धिकल्पाध्यायः | २३ | नासारोगविज्ञानाध्यायः |
| ७ | स्नेहव्यापदिकासित्ध्यध्यायः | २४ | नासारोगप्रतिषेधाध्यायः |
| ८ | भेषजकल्पाध्यायः | २५ | मुखरोगविज्ञानाध्यायः |
| ६ उत्तरस्थाने | २६ | मुखरोगप्रतिषेधाध्यायः | |
| २७ | शिरोरोगविज्ञानाध्यायः | ||
| २८ | शिरोरोगप्रतिषेधाध्यायः | ||
| १ | बालोपचारणीयाध्यायः | २९ | व्रणविभक्तिविज्ञानीयाध्यायः |
| २ | बालामयप्रतिषेधाव्यायः | ३० | व्रणप्रतिषेधाध्यायः |
| ३ | बालग्रहविज्ञानाध्यायः | ३१ | सद्योव्रणविज्ञानप्रतिषेधाध्यायः |
| ४ | बालग्रहप्रतिषेधाध्यायः | ३२ | भंगविज्ञानप्रतिषेधाध्यायः |
| ५ | स्नपनविध्यध्यायः | ३३ | भगंदरविज्ञानप्रतिषेधाध्यायः |
| ६ | प्रत्येकग्रहप्रतिषेधाध्यायः | ३४ | ग्रंथ्यर्बुदश्लीपदापचीनाडीवि० |
| ७ | भूतविज्ञानाध्यायः | ३५ | ग्रंथ्यादिप्रतिषेधाध्यायः |
| ८ | भूतप्रतिषेधाध्यायः | ३६ | क्षुद्ररोगविज्ञानाध्यायः |
| ९ | उन्मादप्रतिषेधाध्यायः | ३७ | क्षुद्ररोगप्रतिषेधाध्यायः |
| १० | अपस्मारप्रतिषेधाध्यायः | ३८ | गुह्यरोगविज्ञानाध्यायः |
| ११ | वर्त्मरोगविज्ञानाध्यायः | ३९ | गुह्यरोगप्रतिषेधाध्यायः |
| १२ | वर्त्मरोगप्रतिषेधाध्यायः | ४० | विषप्रतिषेधाध्यायः |
| १३ | सघिसितासितरोगविज्ञानाध्यायः | ४१ | सर्पविषविज्ञानाध्यायः |
| १४ | सघिसितासितरोगप्रतिषेधाध्यायः | ४२ | सर्पविषप्रतिषेधाध्यायः |
| १५ | दृष्टिरोगविज्ञानाध्यायः | ४३ | कीटविषविज्ञानप्रतिषेधाध्यायः |
| १६ | तिमिरप्रतिषेधाध्यायः | ४४ | लूताविषविज्ञानप्रतिषेधाध्यायः |
| १७ | लिंगनाशप्रतिषेधाध्यायः | ४५ | प्रत्येकलूताविषप्रतिषेधाध्यायः |
| १८ | सर्वगताक्षिरोगविज्ञानाध्यायः | ४६ | मूषिकालर्कविषविज्ञानप्रतिषेधाध्यायः |
| १९ | अभिष्यंदप्रतिषेधाध्यायः | ४७ | विषोपद्रवप्रतिषेधाध्यायः |
| २० | अक्षिपाकपिलप्रतिषेधाध्यायः | ४८ | विषोपयोगीयाध्यायः |
| २१ | कर्णरोगविज्ञानाध्यायः | ४९ | रसायनाध्यायः |
| २२ | कर्णरोगप्रतिषेधाध्यायः | ५० | वाजीकरणाध्यायः |
समाप्तेयमनुक्रमणिका
॥ श्री ॥
अष्टांगसंग्रहे
<MISSING_FIG href="../../../../../../../books_images/U-IMG-1707316676020701-removebg-preview.png"/>
सूत्रस्थानम् १
श्रीगणेशाय नमः॥ श्रीधन्वंतरये नमः॥ श्रीसीतारामचंद्राय नमः॥ श्रीशं वंदे॥ श्रीगुरुभ्यो नमः॥ तृष्णादीर्घमसद्विकल्पशिरसं प्रद्वेपचंचत्फणं कामक्रोधविषं वितर्कदशनं रागप्रचंडेक्षणं॥ मोहास्यं स्वशरीरकोटरशयं चित्तोरगं दारुणं प्रज्ञामंत्रबलेन यः शमितवान्बुद्धाय तस्मै नमः॥ रागादिरोगाः सहजाः समूला येनाशु सर्वे जगतोऽप्यपास्ताः॥ तमेकवैद्यं शिरसा नमामि वैद्यागमज्ञांश्च पितामहादीन्॥ अथात आयुष्कामीयमध्यायं व्याख्यास्यामः॥ इति ह स्माहुरात्रे यादयो महर्षयः॥ आयुःकामयमानेन धर्मार्थसुखसाधनं॥ आयुर्वेदोपदेशेषु विधेयः परमादरः॥ आयुर्वेदामृतं सार्थंब्रह्मा बुध्वा सनातनं॥ ददौ दक्षाय॑सोऽश्विभ्यां॑तौ शतक्रतवे॑ ततः॥ धर्मार्थकाममोक्षाणां विघ्नकारिभिरामयैः॥ नरेषु पीड्यमानेषु पुरस्कृत्य पुनर्वसुं1॥ धन्वंतरिभरद्वाजनिमिकाश्यपकश्यपाः॥ महर्षयो महात्मानस्तथाऽलंबायनादयः॥ शतक्रतुमुपाजग्मुः शरण्यममरेश्वरं॑॥ तान्दृष्ट्वैवसहस्राक्षो निजगाद यथागमं॥आयुषः पालकं वेदमुपवेदमथर्वणः॥ कायबालग्रहोर्ध्वांगशल्यदंष्ट्रा2जरावृषैः3॥ गतमष्टांगतां॑ पुण्यं बुबुधे यं पितामहः॑॥ गृहीत्वा ते तमाम्नायं प्रकाश्यं च परस्परं॥ आययुर्मानुषं लोकं मुदिताः परमर्षयः॑॥ स्थित्यर्थमायुर्वेदस्य तेऽथतंत्राणि चक्रिरे॑॥ कृत्वाऽग्निवेशहारीतभेडमांडव्यसुश्रुतान्॥ करालादींश्वसच्छिष्यान्ग्राहयामासुरादृताः॑॥ स्वंस्वं तंत्रं ततस्तेऽपि चक्रुस्तानि कृतानि च॥ गुरून् संश्रावयामासुः सर्पिसंधान्सुमेधसः॥ तैः प्रशस्तानि तान्येषां प्रतिष्ठां भुवि लेभिरे॑॥ तेषामेकैकमव्यापि समस्तव्याधिसाधने॥ प्रतितंत्राभियोगे तु पुरुषायुपसंक्षयः॥ भवत्यध्ययनेनैव यस्मात्प्रोक्तः पुनःपुनः॥ तंत्रकारैः स एवार्थः क्वचित्कश्चिद्विशेषतः॥ तेऽर्थप्रत्यायनपरा वचने यच्चनादृताः॑॥ सर्वतंत्राण्यतः प्रायः संहृत्याष्टांगसंग्रहः॥ अस्थानविस्तराक्षेपपुनरुक्तादिवर्जितः॥ हेतुलिंगौपपस्कंधत्रयमात्रनिबंधनः॥ विनिगूढार्थतत्त्वानां प्रदेशानां प्रकाशकः॥ स्वान्यतंत्रविरोधानां भूयिष्ठं विनिवर्तकः॥युगानुरूपसंदर्भो विभागेन करिष्यते॑॥ नित्योपयोगेऽदुर्बोधं सर्वांगव्यापि भावतः॥संगृहीतं विशेषेण यत्र कायचिकित्सितं ॥ न मात्रामात्रमप्यत्र किंचिदागमवर्जितं॥ तेऽर्थाः स ग्रंथबंधश्च संक्षेपाय क्रमोऽन्यथा॑॥ वायुः पित्तं कफश्चेति त्रयोदोषाःसमासतः॥ प्रत्येकं ते त्रिधा वृद्धिक्षयसाम्यविभेदतः॥ उत्कृष्टमध्याऽल्पतया त्रिधा वृद्धिक्षयावपि॥ विकृताविकृता देहं घ्नंतिते वर्द्धयंति च॥ ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः॥ वयोऽहोरात्रिभुक्तानां तेंऽतमध्यादिगाःक्रमात्॥ तैर्भवेद्विषमस्तीक्ष्णोमंदश्चाग्निःसमैः समः॥कोष्ठः क्रूरो मृदुर्मध्यो मध्यः स्यात्तैः समैरपि॥शुक्रार्तवस्थै जन्माद4ौविषेणेव विपकृमेः॥ तैश्च तिस्रः प्रकृतयो हीनमध्योत्तमाः पृथक्॥ समधातुः समस्तासु श्रेष्ठा निंद्या द्विदोषजाः॑॥ तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश्चलोऽनिलः॥ पित्तं सस्नेहतीक्ष्णोष्णं5 लघु विस्रं सरं द्रवं॥ स्निग्धः शीतो गुरुर्मंदः श्लक्ष्णो मृत्स्नः स्थिरः कफः॥ संसर्गः सन्निपातश्च तद्द्वित्रिक्षयकोपतः॥ तौषोढा दशधा चोक्तावुत्कर्षादिविकल्पनात्॑॥रसासृङ्मांसमेदोस्थिमज्जाशुक्राणि धातवः॥ सप्त
दूष्या॑मला मूत्रशकृत्स्वेदादयोऽपिच॥ रसादिस्थेषु दोषेषु व्याधयः संभवंति ये॥ तज्जानित्युपचारेण तानाहुर्घृतदाहवत्॑॥ प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे॥ गर्भोद्पादश्चकर्माणि धातूनां क्रमशो विदुः॥ शरीरं धारयंत्येते धात्वाहाराश्च सर्वदा॥ वृद्धिः समानैः सर्वेषांविपरीतैर्विपर्ययः॥ रसाः स्वाद्वम्ललवणतिक्तो6")र्षणक7")षायकाः॥ षट् द्रव्यमाश्रितास्तेच यथापूर्वं वलावहाः॥ तत्राद्या मारुतं घ्नंति त्रय॑स्तिक्तादयः कफं॥कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते॥ शमनं कोपनं स्वस्थहितं द्रव्यमिति त्रिधा॥उष्णशीतगुणोत्कर्षात्तत्र वीर्यं द्विधा स्मृतं॥ त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकदुकात्मकः॥ गुरु8मंदहिमस्निग्धभ्लक्ष्णसांद्रमृदुस्थिराः॥ गुणाः ससूक्ष्मविशदा विंशतिः सविपर्ययाः॥ इंद्रियार्थाव्यवायी च विकापी चापरे गुणाः॥ व्यवायी देहमखिलं व्याप्य पाकाय कल्पते॥विकापी विकपन्नेव संधिबंधान्विमुंचति॥ सरतीक्ष्णप्रकर्षौतु कैश्चित्तौ परिकल्पितौ॥ सत्वं रजस्तमश्चेति त्रयः प्रोक्ता महागुणाः॥ कालार्थकर्मणां योगो हीनमिथ्यातिमात्रकः॥ सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणं॥ रोगस्तु दोषवैषम्यंदोषसाम्यमरोगता॥निजागंतुविभागेन रोगाश्चद्विविधा मताः॥ तेषां कायमनोभेदादधिष्ठानमपि द्विधा॥ रजस्तमश्च मनसो द्वौच दोषावुदाहृतौ॥दर्शनस्पर्शनप्रश्नैःपरीक्षेत चरोगिणं॥ रोगं निदानप्राग्रूपलक्षणोपशयाप्तिभिः॥ भूमिदेहप्रभेदेन देशमाहुरिह द्विधा॥ जांगलं वातभूयिष्ठमनूपं तु कफोल्वणं॥साधारणं सममलं त्रिधा भूदेशमादिशेत्॥ क्षणादिर्व्यध्यवस्था च कालो भैषज्ययोगकृत्॥ शोधनंशमनं चेति समासादौषधं द्विधा॥शरीरजानां दोषाणां क्रमेण सूत्रस्थानम्
परमौषधं॥ बस्तिर्विरेको वमनं तथा तैलं घृतं मधु॥ धीधैर्यात्मादिविज्ञानं मनोदोषौषधं परं॑॥ तंत्रस्यास्य परं चातो वक्ष्यतेऽध्यायसंग्रहः॥ आयुष्कामीयशिष्यार्थदिनर्तुव्याध्यसंभवाः॥ द्रवान्नज्ञानसंरक्षाविरुद्धान्नान्नपानिकाः॥ मात्राशितौषध-ज्ञानश्रेष्ठशुध्यादिसंग्रहाः॥ महाकषायविविधद्रव्यादिरसभेदकाः॥ दोषादिज्ञानतद्भेदतत्क्रियारोगभेषजं॥ चिकित्सास्नेहन-स्वेदशुध्यास्थापननावनं॥ धूमगंडूषदृक्सेकयंत्रजलौकसः॥ सिराविधिः शल्यविधिः शस्त्रक्षाराग्निकर्मकाः॥ चत्वारिंशदि-मेऽध्यायाः सूत्रं॑ शारीरमुच्यते॥ पुत्रार्थगर्भावक्रांतिचर्याव्यापच्छरीरजाः॥सिरामर्मप्रकृत्याख्याविकृतांगेहितामयाः॥ सदूता द्वादशाध्याया॑निदानं सार्वरोगिकं॥ ज्वरासृक्श्वासपक्ष्मादिमदाद्यर्शोऽतिसारिणां॥ मूत्राघातप्रमेहाणां विध्यायुदरस्य च॥ पांडुकुष्टानिलार्त्तानां पातात्रस्य च षोडश^(’)॥चिकित्सा च ज्वरस्यास्रकासयोः भ्वासषक्ष्मणोः॥ वमौ मदात्ययेऽर्शः॥सुविशि हौ द्वौ च मूत्रिते॥ विद्रधौ गुल्मजठरपांडुशोफविसर्पिषु॥। कुष्टश्वित्रानिलव्याधिवातात्रेषु चिकित्सितं॥चतुर्विंशतिर-ध्यायाः॑कल्पसिद्धिरतः परं॥ कल्पो वमेर्विरेकस्य तत्सिद्धि र्बस्तिकल्पना॥ कल्पसिद्धिश्च बस्तीनां सिद्धिर्बस्त्यनुवाप्तयोः॥ द्रव्यकल्पो ऽष्टमः॑स्यानमतउत्तरमुत्तरं॥ वालोपचरणे व्याधिग्रहज्ञाननिषेधने॥ स्नाने पृथग्ग्रहेभूते द्वावुन्मादे स्मृतिक्षये॥ वर्त्मसंधिगतौद्वौ द्वौदृक्तमोलिंगनाशिषु॥ सर्वदृक्स्षंढदृक्पाके कर्णनासामुखेषु च॥ मूर्ध्नि व्रणे तथा द्वौ द्वौसद्योभंगे भगंदरे॥ग्रंथ्यादौ क्षुद्ररोगेषु गुप्तरोगे पृथक्द्वयं॥ विषेद्वौभुजगे कीटे द्वौच लूतासु मूषके॥ विषे विषोषयोगे च तथा ऽध्यायो रसायने॥ वाजीकरणमृद्दिश्य पंचाशोऽष्टांगपूरणः॥ पञ्चाशदध्यायशतं पङ्क्तिस्थानैः समीरितं॥ इत्यायुष्कामीयो नाम प्रथमोऽध्यायः॥१॥
अथातः शिष्योपनयनीयंमध्यायं व्याख्यास्यामः॥ गुरुभक्तोऽभियुक्तोऽतियुक्तो धीस्मृतिपाटवैः॥ ऋज्वास्यनासानयनस्तनुस्निग्धनखच्छविः॥ ब्रह्मचारी जितद्वन्द्वोधीरः सुचरितः स्थिरः॥षण्मासानुपितः शक्तो लज्जाशौचकलान्वितः॥ शिष्योऽध्याप्यो गतो यावदंतं तंत्रार्थकर्मणां॥ नाकालविद्युत्स्तनिते भूकंपे राहुदर्शने॥पंचदश्यामचंद्रायां परोक्षे वा गुरोः पठेत्॥नाविच्छिन्नपदं॥नातिमंदं नात्युच्चनीचकैः॥ हितान्यतममाचार्यं पर्युपासीत राजवत्॥ शयीत सुप्तएवास्मिन्नुत्तिष्ठेत्तास्स पूर्वतः॥ न ब्रूयात्केवलं नाम न साध्वपि विनोदयेत्॥ अभेद्योऽनुद्धतः स्तब्धः सूरतः9 प्रियदर्शनः॥ बहुश्रुतः कालवेदी ज्ञातग्रंथो अर्थशास्त्रवित्॥ अनाथान् रोगिणो यश्च पुत्रवत्समुपाचरेत्॥ गुरुणा समनुज्ञातः स भिषक्शब्दमश्नुते॥ यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः॥ स मुद्यत्यातुरं प्राप्य प्राप्य भोरुरिवाहवं10॥ यः पुनः कुरुते कर्म धार्ष्ट्याच्छास्त्रविवर्जितः॥ स सत्सु गर्हा11माप्नोति वधंचर्च्छति12 राजतः॥ हेतौ लिंगे प्रशमने रोगाणामपुनर्भवे॥ ज्ञानं चतुर्विधं यस्य स राजार्हो भिषक्तमः॥ शस्त्रं शास्त्राणि सलिलं गुणदोषप्रवृत्तये॥ पात्रापेक्षीण्यतः प्रज्ञां बाहुश्रुत्येन बृंहयेत्॥ प्रदीपभूतं शास्त्रं हि दर्शनं विपुला मतिः॥ ताभ्यामतः सुयुक्ताभ्यां चिकित्सत्रापराध्यति॥ आ-हूतएव योयाति सुवेषःसुनिमित्ततः॥ गत्वाऽऽनुरार्थादन्यत्र न निधत्ते मनः क्वचित्॥ व्याधीन्परीक्षते सम्यङ्निदानादिविशेषतः॥ हेपणीयां13 च तद्दार्तांन प्रकाशयते बहिः॥ सहसा न च तस्याऽपि क्रियाकालमहापयन्॥ जानाति चोपचरितुं स वैद्यः सिद्धिमश्नुते॥ नाददीतामिषं14स्त्रीभ्यस्तदध्यक्षे पराङ्मुखे॥ ताभिश्चरहसि स्थानं परिहासं च वर्जयेत्॥ आर्त्तंच नृपसद्वैद्यैर्द्विष्टं तद्वेषिणं द्विपं॥ चंडं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनं॥ हीनोपकरणं, व्यग्रमविधेयं गतायुपं॥ जिजीविषुर्व्याधितोऽपि पूर्वोक्तगुणवर्जितान्॥ क्रियाविक्रयिणो वैद्यान्मृत्योरग्रेसरा हिते॑। भिषक् द्रव्याण्युपस्थाता15 रोगी पादचतुष्टयं॥ चिकित्सितस्य निर्दिष्टं प्रत्येकं तच्चतुर्गुणं॥दक्षस्तीर्थात्तथार्त्तशास्त्रार्थो16 दृष्टकर्मा शुचिर्भिषक्॥ बहुकल्पं बहुगुणं संपन्नंयोग्यमौषधं॥ अनुरक्तः शुचिर्दक्षो बुद्धिमान्परिचारकः॥ आढ्यो रोगी भिषग्वश्थो ज्ञापकः सत्यवानपि॥ यद्वैद्येविगुणे पादा गुणवंतोऽप्यनर्थकाः॥ सपादहीनानप्यार्तान् गुणवान् यच्च यापयेत्॥चिकित्सायास्तमेवातः प्रधानं कारणं विदुः॥ साध्योऽसाध्यइतिव्याधिर्द्विधा तौ तु पुनर्द्विधा॥ सुसाध्यः कृच्छ्रसाध्यश्च याप्यो यश्चानुपक्रमः॥सर्वौषधक्षमे देहे यूनः पुंसो जितात्मनः॥ अमर्मगोऽल्पहेत्वग्ररूपरूपोऽनुपद्रवः॥ अतुल्यदूष्यदेशर्तुप्रकृतिः पादसंपदि॥ ग्रहेष्वनुगुणेष्वेकदोषमार्गो नवः सुखः॥ सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते॥ कच्छ्ररुपायैः कृच्छ्रस्तु महद्भिव चिरेण च॥असाध्यलिंगसंकीर्णस्तथा शस्त्रादिसाधनः॥ शेपत्वादायुषःपथ्यैर्याप्यः प्रायो विपर्यये॥ दत्त्वाऽल्पं सुखमल्पेन हेतुना स प्रतन्यते॥ याति नाशेषतां रोगकर्मजो नियतायुषः॥ प्रपतन्निव विष्कंभैर्यतेऽत्रातुरो हितैः॥ परोऽसाध्यः क्रियाः सर्वाः प्रत्याख्येयोऽतिवर्तते॥ तस्मादुपेक्ष्यएवासौस्थितोऽत्यंतोविपर्यये॥ भ्रममोहारतिकरो इष्टरिष्टोऽक्षनाशनः॥ व्याधिं पुरा परीक्ष्यैवमारभेत्ततः क्रियां॥ स्वार्थविद्यायशोहानिमन्यथा ध्रुवमामुयात्॥ साध्ययोरपि संयोगोबलिनो पात्यसाध्यतां॥ विद्यादसाध्यमेवातः साध्यासाध्यसमागमं॥ नासाध्यः साध्यतां याति साध्यो याति त्वसाध्यतां॥ पादापचाराद्दैवाञ्च यांत्यवस्थांतरं गदाः॥ वरमाशी17विषविषंदीप्तमग्रिमयोऽपि वा॥ उपयुंजीत न त्वार्त्तादामिषंकृपणा18ज्जनात्॥ परोभूतदयाधर्म इत्यार्त्तेषुभिषग्वरः॥वर्त्तते यस्तु सिद्धार्थः स सर्वमतिवर्त्तते॥ इति शिष्योपनयनीयो नाम तीयोऽध्यायः॥ २॥
अथातो दिनचर्याध्यायं व्याख्यास्यामः॥ ब्राह्मे19 मुहूर्त्तउत्तिष्ठेज्जीजीर्णे निरूपयन्॥ रक्षार्थमायुषःस्वस्थो जातवेगः समुत्सृजेतू॥उदङ्मुखो मूत्रशकृद्दक्षिणाभिमुखो निशि॥ वाचं नियम्यप्रणतः संवीतागोऽवगुंठितः॥ प्रवर्त्तयेत्प्रचलितं नतु यत्नादुदीरयेत्।नामेध्यमार्गमृद्भस्मगोस्थानाकीर्णगोमये॥ पुरांतिकादिवल्मीकरम्योत्कृष्टचितिद्रुमे॥न नारीपूज्यगोर्केंदुवाय्वन्नाग्निजलं प्रति॥ न चातिरस्कृत्य20 महींभयाशक्तयोस्तु कामतः॥ न वेगितोऽन्यकार्यः स्यान्नाजित्वा साध्यमामयं॥ निःशल्यादृष्टमृत्पिढीपरिमृष्टमलायनः॥ अभ्युत्धृताभिः शुचिभिरद्भिर्मृद्भिश्च योजयेत्॥लेपगंधापहं शौचमनुत्पतितबिंदुभिः॥ स्पृष्ट्वा धातून्मलानश्रु दृशं केशनखांश्चुतान्॥ स्नात्वा भोक्तुमना भुक्त्वा सुप्त्वा क्षुत्वा सुरार्चने॥ रथ्यामाक्रम्य चाचामे दुपविष्टउदङ्मुखः॥ प्राड्मुखो वाविविक्तस्थो न बहिर्जानु नान्यदृक्॥ अजल्पन्नुत्तरासंगीखच्चैरेंगुष्ठमूलगैः॥ नोद्धृतैर्नानतो नोर्ध्यंनाग्निपक्वैर्नपूतिभिः॥ न फेनवुहुदक्षारैर्नैकहस्तार्पितैर्जलैः॥ नार्द्रेकपाणिर्नामेध्यहस्तपादो न शब्दवत्॥वटासनार्कखदिरकरंजकरवीरजं॥ सर्जारिमेदापामार्गमालतीककुभोद्भवं॥ कषायतिक्तकटुकं मूलमन्यदपीदृशं॥ विज्ञातवृक्षं क्षुण्णाग्रमृज्यग्रंथि सुभूमिजं॥ कनीन्यग्रसमस्थौल्पं मुकूर्चंद्वादशांगुलं॥ प्रातर्भुक्त्वा च यतवाग्मक्षयेहतधावनं॥ व्याप्यन्निवर्गत्रितयक्षौद्राक्तेन21 च घर्षयेत्॥ शनैस्तेन ततोदंतान्दंतमांसान्यबाधयन्॥ लिखेदनुसुखं जिव्हां जिह्वानिर्लेखनेनच॥ तथास्य मलवैरस्यजिव्हागंधाऽऽस्यदंतजा22ः॥रुचिवैशद्यलघुतान भवंति भवंति च॥ नाद्यादजीर्णवमथुश्वासकासज्वरार्दिती॥तृष्णाऽऽस्यपाकदृन्नेत्रशिरःकर्णामयी च तत्॥ नैवश्लेष्मातकारि्ष्टविभीतधवधन्वजान्॥ बिल्वबम्भुलनिर्गूडीशिग्रुतिल्वकतिंदुकान्॥ कोविदारशमीपीलुपिप्पलेंगुद-गुग्गुलूनू॥ पारिभद्रकमम्लीकामोचक्यो शाल्मलींशणं॥ स्वादृम्ललवर्ण शुष्कं सुषिरं पूतिपिच्छिलं॥ पालाशमासनं दंतधावनं पादुके त्यजेत्॥ दंतान्पुर्वमधो घर्षेत्प्रातः सिंचेच्च लोचने॥ तोयोपूर्णमुखो ग्रीष्मशरदोः शीतवारिणा॥ प्रणम्य देवान्वृद्धांश्चमंगलाष्टशतं23 शुभं॥ शृण्वन्कांचनविन्यस्तं सर्पिः पश्येदनंतरं॥ सौवीरमजनं नित्यं हितमक्ष्णोस्तनो भजेत्॥ लोचने तेन भवतो मनोज्ञे सृक्ष्मदर्शने॥व्यक्तत्रिवर्णेविमले मुस्न्निग्धधनपक्ष्मणी॥ चक्षुस्तेजोमयं तस्य विशेषात्श्ले-ष्मतोभयं॥ योजयेत्सप्तरात्रेऽस्मात्स्त्रावणार्थंरसांजनं॥ अणुतैलंततोनस्यं ततोगंडूषधारणं॥ घनोन्नतप्रसन्नत्वक्स्कंधग्री-वाऽऽस्यवक्षसः॥ सुगंधिवदनाः सिग्धनिःस्वना विमलेंद्रियाः॥ निर्वलीपलितव्यंगाभवयुर्नस्यशीलिनः॥ ओष्ठस्फुटनपारुष्य-मुखशोषद्विजामयाः॥ नस्युः खरोषघाताश्च स्नेहगंडूषधारणात्॥ खदिरक्षीरिदृक्षारिमेदांबुकयलग्रहः॥ अरोचकास्यवैरस्यमलपूतिप्रसेकजित्॥ सुखोष्णोदकगंण्डूषैजायते वक्त्रलाघवं॥ प्रायोगिकं ततो धूमं गंधमाल्यादि चाचरेत्॥ धूमादस्योर्ध्वजत्रूत्था न स्युर्वातकफामयाः॥ अंजनोत्क्लेशितंनस्यैःकवलैर्नावनेरितं॥ धूमेन कवलोत्क्लिष्टंक्रमाद्वातकफंजयेत् गंधमाल्यादिकं दृष्यमलक्ष्मीघ्नं प्रसाधनं॥ वासो न धारयेज्वीर्णं
मलिनं रक्तमुल्बणं॥ माल्यं24 न लवंन बहिर्न रक्तं जलजादृते॥ नैंवचान्येन विधृतं वस्त्रंपुष्पमुपानहौ॥ रुचिवैशद्यसौगंध्यमिच्छन्वक्त्रेणधारयेत्॥जातीलवंगकर्पूरकंकोलकटुकैः सह॥ तांबूलीनां किसलयं हृद्यंपूगफलान्वितं॥ रक्तपित्तक्षतक्षीणरूक्षोस्कुपितचक्षुषां॥ विषमूर्च्छामदार्तानामपथ्यं शोषिणां च तत्॥ पथ्यं सुप्तोत्थिते भुक्ते स्नाते वांतेच मानवे॥ द्विपत्रमेकं पूगं च सचूर्णखदिरं चतत्॥ उत्तिष्ठेत ततोऽत्यर्थमर्थेष्वर्था25नुबंधिषु॥निंदितं दीर्घमप्यायुरसन्निहित-साधनं॥ कृषिं वणिज्यां गोरक्षामुपायैर्गुणिनं नृपं॥ लोकद्वयाविरुद्धां च धनार्थी संश्रयेत्क्रियां॥ मुक्तवेगश्चगमनस्वमाहारस-भास्त्रियः॥ पाणिनाऽऽलभ्य निष्कामेद्रत्नपूज्याज्यमंगलं॥ सातपत्रपदत्राणो विचरेद्युगमात्रदृक्॥निशि चात्ययिके कार्ये दंडी मौली सहायवान्॥ प्रावृत्य पर्यटेद्रात्रौ न प्रावृत्यशिरोऽहनि॥ चैत्यपूज्यध्वजाशस्तच्छायाभस्मतुषाशुचीन्॥नाकमेच्छर्करालोष्टवलिस्नानभुवो न च॥ मध्यान्हे संध्ययोरात्रावर्द्धरात्रे चतुष्पथं॥ न सेवेत न शर्वर्य्यांवृक्षचैत्यान्न चत्वरंसूनाटवी26शून्यगृहश्मशानानि दिवाऽपि न॥ न हुंकुर्याच्छिवंपूज्यं प्रशस्तान्मंगलानि च॥ नापसव्यं परिक्रामेन्नेतराण्यनुदक्षिणं॥चतुष्पथं नमस्कुर्यात्प्रज्ञातांश्च वनस्पतीन्॥ न व्यालव्याधिताशस्तैर्नादांतक्षुत्पिपासितैः॥ न छिन्नपुच्छेर्नैकाक्षैर्गोपृष्ठेन च न व्रजेत्॥ नातिप्रगे27ऽतिसायं वा न नभोमध्यगे रवौ॥ नासन्निहितपानीयो नातितूर्णं न संततं॥न शत्रुणा नाविदितैर्नैको नाधार्मिकैःसह॥ दद्यादृत्माऽऽर्तवृद्धस्त्रीभारिचकि28द्विजन्मने॥ स्नानभोजनपानानि बाह्येभ्यो नाचरेत्पुरः॥नदीं तरेन्नबाहुभ्यां नाग्निस्कंधमभिव्रजेत्॥नारोहेद्विषमं
शैलं नावं संशयितां तरुं॥ निपातयेन्नलोष्टेन न फलेन फलं द्रुमात्॥ न वार्यमाणः प्रविशेन्नाद्वारेण न चासने॥स्वयं तिष्ठेत्परगृहे युक्तनिद्रं न बोधयेत्॥ नाचरेत्पाणिवाक्पाददृङ्मेढ्रोदरचापलं॥ त्रिःपक्षस्य कचस्मश्रुनखरोमाणि वर्द्धयेत्29॥ न खहस्तेन दंतैर्वा स्नानंचानुसमाचरेत्॥ अथ जातान्नपानेच्छो मारुतघ्नैःसुगंधिभिः॥ यथर्तुसंस्पर्शमुखैस्तैलैरभ्यंगमाचरेत्॥ अभ्यंगो वातहा पुष्टिस्त्वमदार्ढ्यबृहत्वकृत्॥ दग्धभनक्षतरुजाक्लमश्रमजरापहः॥रथाक्षचर्मघटवद्भवंत्यभ्यंगतो गुणाः॥ स्पर्शनेऽभ्यधिको वायुः स्पर्शनं च त्वगाश्रयं॥ त्वच्यश्च परमभ्यंगो यस्मात्तं शीलमेदतः॥शिरःश्रवणपादेषुतं विशेषेण शीलयेत्॥ स केश्यः शीलितो मूर्ध्नि कपालेंद्रियतर्पणः॥ हनुमन्याशिरःकर्णशूलघ्नं कर्णपूरणं॥ पादाभ्यंगस्तु तत्स्थैर्यनिद्रादृष्टिप्रसादकृत्॥ पादसुप्तिश्रमस्तंभसंकोचस्फुटनप्रणुत्॥ वर्ज्योऽभ्यंगः कफग्रस्तकृतसंशुत्ध्यजीर्णिभिः॥ शरीरायासजननं कर्म व्यायामउच्यते॥ लाघवं कर्मसामर्थ्यंदीप्तोऽग्निर्मेदसः क्षयः॥ विभक्तघनगात्रत्वं व्यायामादुपजायते॥ वातपित्तामयी बालो वृद्धोऽजीर्णी च तं त्यजेत्॥ अर्द्धशक्त्या निषेव्यस्तु वलिभिः स्निग्धभोजिभिः॥शीतकाले वसंते च मंदमेव ततोऽन्यदा॥ तं कृत्वाऽनुसुखं देहं मर्दयेच्च समंततः॥ तृष्णा क्षयः प्रतमको रक्तपित्तं श्रमः क्लमः॥अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते॥ व्यायामजागराध्वस्त्रीहास्यभाष्यादिसाहसं॥ गज सिंहइवाकर्षन् भजन्नति विनश्यति॥ उद्वर्त्तनं कफहरंमेदसः प्रविलायनं॥ स्थिरीकरणमंगानां त्वक्प्रसादकरं परं॥ दीपनं वृष्यमायुष्यं स्नानमोजोबलप्रदं॥ कंडूमलश्रमस्वेदतंद्रातृड्दाहपाप्मजित्॥ उष्णांबुनाऽधःकायस्प परिषेको बलावहः॥ तेनैव चोत्तमांगस्थ बलदृत्केशचक्षुषां॥ नानाप्लुत्य शिरः
स्नायान्नजलेऽल्पेन शीतले॥ स्नानोदकावतरणस्वप्नान्नग्नो न चाचरेत्॥ पंच पिंडाननुद्धृत्य न स्नायात्परवारिणि॥ नात्मानमीक्षेत जले नतटस्थो जलाशयं॥ न प्रतिस्फालयेदंबु पाणिना चरणेन वा॥ स्नात्वान मृज्याद्गात्राणि धुनुयान्नशिरोरुहान्॥ न वसीतार्द्रएवाशु सोष्णीषेधौतवाससी॥ न त्वंबरं पूर्वधृतं न च तैलवसे स्पृशेत्॥ वासोऽन्यदन्यच्छयने निर्गमे देवतार्चने॥ स्नानमर्दितनेत्रास्यकर्णरोगातिसारिषु॥ आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितं॥ अन्नपानविधानेन भुंजीतान्नं विनात्ययात्॥ अभिनंद्य प्रसन्नात्मा हुत्त्वा दत्वा चशक्तितः॥ पाकंसजलमेकांते यथासुखमविब्रुवन्॥ प्रपच्छेत्सर्वमुद्दिश्य पाचयेन्नान्नमात्मने॥ नान्नमद्यान्मुमूर्षूणां मृतानां दुःखजीविनां॥ स्त्रीजितक्लीबषतितकूरदुष्कृतकारिणां॥ गणारिगणिकासत्रधूर्तानां पाणिकं च न॥ नोत्संगे भक्षयेद्भक्ष्यान्जलं नांजलिनापिबेत्॥ सर्वंच तिलसंबद्धं नाद्यादस्तमिते रवौ॥ न भुक्तमात्रआयस्येन्ननिषिद्धं भजेत्सुखं॥ धर्मोत्तराभिरर्थ्याभिः कथाभिस्त्रिगुणात्मभिः॥ मध्यं दिनस्य गमयेदिष्टशिष्टसहायवान्॥ न लोकभूषविद्विष्टैर्नसंगच्छेत नास्तिकैः॥कलिवैररुचिर्नस्याद्वीरः संपद्विपत्तिषु॥ श्रुतादन्यत्र संतुष्टस्तत्रैव च कुतूहली॥ क्षांतिमान् दक्षिणो दक्षः सुसमीक्षितकार्यकृत्॥ ह्रीमान् धीमान्महोत्साहः संविभागी प्रियातिथिः॥ अक्षुद्ररत्तिर्गभीरः साधुराश्रितवत्सलः॥ दातापितृभ्यः पिंडस्ययष्टा होता कृपात्मकः॥ अनुज्ञाता सुवार्तानांदीनानामनुकंपकः॥ आश्वासकारी भीतानां कुद्धानामनुनायकः॥ पूर्वाभिभाषी सुमुखः सुशीलः पूज्यपूजकः॥ वित्तबंधुक्योविद्यावृत्तैः पूज्या यथोत्तरं॥ आत्मद्रुहममर्यादं मूढमुझितसत्पथं॥ सुतरामभ्युपेक्षेत नरकार्चिष्मर्दिधनं॥ धर्म्यमर्थ्यं प्रियं तथ्यं भितं पथ्यंवदेद्वचः॥नात्मानमवजानीयान्नस्तूयान्नच पीडयेत्॥ न हीनानवमन्येत वृत्यर्थांगबलश्रुतैः॥ नारुंतुदःस्यान्नक्रूरो न तीक्ष्णो नोपतापवान्॥ हेतावीर्षेन्नतु फले पापं पापेऽपि30 नाचरेत्॥ परस्य दंडंनोद्यच्छेत्क्रुद्धोनैनं निपातयेत्॥ अन्यत्र पुत्राच्छिप्याद्दाशासनार्हिद्धिताय सः॥ नृत्यवादित्रगीतादिनोल्वणां31 नाचरेत्क्रियां॥प्रसिद्धकेशवाग्वेषशमसांत्वपरायणः॥ ऊर्ध्वं नाभेः शरीरस्य स्पृशेन्नाघरवाससा॥ न कुर्यान्मिथुनीभूय शौचंप्रति विलंबनं॥ नासंवृतमुखो हास्यक्षवोद्गारविजृंभणं॥पाणिद्वयेन युगपत्कंडूयेन्नात्मनःशिरः॥वहेन्न भारं शिरसा युगपञ्चाग्निवारिणी॥ नासिकां न विकुष्णीयाद्दशनान्न विघट्टयेत्॥ कुर्याद्विलेखनच्छेदभेदास्फोटनमर्दनं॥नाकार्ये न च कार्येऽपि मुखांगनखवादनं॥ पादं पादेन नाकामेन्नकंडूयेन्नशौचयेत्॥ न कांस्यभाजने तौ च नोपविष्टः प्रसारयेत्॥ अभीक्ष्णं निर्मलान् दध्यान्नखपादमलाशयान्॥ नासमिद्धमुपासीतहुताशं नैव चाशुचिः॥ नानुवातं न विवृतो न क्लांतो नान्यमानसः॥ धमेन्नास्येन न स्कंदे32न्नाधःकुर्यान्न33पादतः॥ सततं न निरीक्षेत चलसूक्ष्माप्रियाणि च॥ नाप्रशस्तं न विण्मूत्रं न दर्पणममार्जितं॥ उद्यंतमस्तमायांतं तपंतं प्रतिमागतं॥ उपरक्तं च भास्वंतं वाससा वातिरोहितं॥नान्यदप्यतितेजस्वि न क्रुद्धस्य गुरोर्मुखं॥स्त्रियं स्रवतीं नोदक्यां34 न नग्नां नान्यसंगतां॥ न पानभोजनस्वमक्षुतजृंभासुखासने॥ शयीत नैकशयने न चाश्नीयात्तया सह॥ तामनीर्प्यंश्चगोपायेत्स्वैरिणी नाशयेद्गृहं॥ नोच्छिष्टस्तारकाराहुतुहिनांशुदिवाकरान्॥ पश्येन्न यायान्न पठेन्न स्वप्यान्न स्पृशेच्छिरः॥ पायपंती चरंतीं वानान्यस्मै गां निषेदयेत्॥ अर्केंदुपरिवेषोल्काशतकतुधनूंपि च॥ नान्यद्देवार्चने कर्म कुर्याद्धावेन्न वर्षति॥ तिथिं प
क्षस्यन ब्रूयान्नक्षत्राणि न निर्दिशेत्॥ नात्मनो जन्मलग्नर्क्षधनसारं गृहे मलं॥ प्रकाशयेन्नावमानं न च निःस्नेहतां प्रभोः॥ पुरोवातातपरजस्तुपारपरुषानिलान्॥ अनृजुः क्षवथूद्गारकासस्वप्नान्नमैथुनं॥ सशब्दमनिलं हस्तभ्रूनेत्रोत्क्षेपवादितां॥ कूलच्छायां35 सुरापानंव्यालदंष्ट्रिविपाणिनः॥ हीनानार्यातिनिपुणसेवां विग्रहमुत्तमैः36॥ संध्यास्वभ्यवहारस्त्रीत्वमाध्ययनचिंतनं॥ आरोग्यजीवितैश्वर्यविद्यासुस्थितिमानितां॥ तोयाग्निपूज्यमध्येन यानं धूमं शवाश्रयं॥ मद्यातिसक्तिं विस्रंभस्वातंत्र्ये स्त्रीषुच त्यजेत्॥ नैकामप्यधिवसेद्वास्तुतच्छास्त्रगर्हितं॥ न देशं न्याधिबहुलं नावैद्यं नाप्यनायकं॥ नाधर्मिजनभूयिष्ठं नोपसृष्टं न पर्वतं॥ वसेत्प्राज्यांबुभैषज्यसमित्पुष्पतॄणेंधने॥ सुभिक्षक्षेमरम्यांते पंडितैर्मंडिते पुरे॥ नरामराणां सिद्धानां शास्त्राणां चाजिगुप्तकः॥ आराधकस्त्रिवर्गस्य यथायोग्यं जनस्य च॥दश धर्मपथान् रक्षन् जयेन्नाभ्यंतरानरीन्। हिंसास्तेयान्यथाकामं37पैशून्यं परुषानृतं॥ संभिन्नालापं व्यापादमभिध्यां दृग्विपर्ययं॥ पापंकर्मेति दशधा कायवाङ्मानसैस्त्यजेत्॥ परोपघातक्रियया वर्जयेदर्जनंश्रियः॥ अर्थानां बह्वनर्थानामदाताऽपि ह्यसंभवात्॥ स्वर्गापवर्गविभवानयत्नेनाधितिष्ठति॥ सायं भुक्त्वा लघु हितं समाहितमनाः शुचिः॥शास्तारमनुसंस्मृत्य स्वशय्यां चाथ संविशेत्॥ देशे शुचावनाकीर्णेद्वित्राप्तपरिचारकः॥ युक्तोपधानं स्वास्तीर्णं विस्तीर्णाविषमं सुखं।जानुतुल्यं मृदु शुभं सेवेत शयनासनं॥ प्राग्दक्षिणशिराः पादावकुर्वाणो गुरुन् प्रति॥ पूर्वापरनिशाभागेधर्ममेवानुचिंतयेत्॥ आददीतसदा देहादित्थं सारमसारतः॥ बिभ्यत्प्रतिक्षणं मृत्योरयथातथचेष्टितात्॥ आरोग्यविभवप्रज्ञावयोधर्मक्रियावतः॥ सुखमायुर्हितं चोक्तं
विपरीतंविपर्यये॥ सर्वतेजोनिधानं हि नृप इत्युच्यते भुवि॥ अदूषयन्मनस्तस्माद्भक्तिमांस्तमुपाचरेत्॥ पर्यस्तिको38पाश्रय-कोपहासविवादनिष्ठीवनजृंभणानि॥ सर्वाः प्रकृत्यभ्यधिकाश्च चेष्टास्तत्संभिधाने परिवर्जयेत्तु॥ सर्वाह्यवस्था विविधाश्च तास्ताः सम्यक् समीक्ष्यात्महितं विदध्यात्॥ अन्योऽपि यः कश्चिदिहास्ति मार्गोहितोपदेशेषु भजेत् तं च॥ इति चरितमुपेतः सर्वजीवोपजीव्यः प्रथितपृथुगुणौधोरक्षितो देवताभिः॥ समधिकशतजीवी निर्वृतःपुण्यकर्मा व्रजति सुगतिनिम्नो देहभेदेऽपि तुष्टिं॥ इति दिनचर्या नाम तृतीयोऽध्यायः॥३॥
अथात ऋतुचर्याध्यायं व्याख्यास्यामः॥ कालो हि नाम भगवाननादिनिधनो यथोपचितकर्मानुसारी यदनुरोधादादित्यादयः रवादयश्च महाभूतविशेषास्तथातथा विपरिणमंतो जन्मवतां जन्ममरणस्थर्तुरसवीर्यदोषदेहबलव्या-पत्संपदां च कारणत्वं प्रत्ययतां प्रतिपद्यंते॥स मात्राकाष्ठाकलानाडिकामुहूर्तयामाहोरात्रपक्षमासर्त्त्वयनवर्षभेदेन द्वादशधा विभज्यते॥ तत्राक्षिनिमेषो मात्रा39॥ ताः पञ्चदश काष्ठा॥ तास्त्रिंशत्कला॥ ताः संदशभागा विंशतिर्नाडिका॥ नाडिकाद्वयं मुहूर्तश्च॥ ते तुल्यरात्रिंदिवे राशिभागे चत्वारः पादोना यामः॥तैश्चतुर्भिरहो रात्रिश्च॥ पञ्चदशाहोरात्राः पक्षः॥ पक्षद्वयं मासः॥स शुक्लांतः॥ तैर्मार्गशीर्षादिभिर्द्विसंख्यैः क्रमाद्धेमंतशिशिरवसंतग्रीष्मवर्षाशरदाख्याः षडृतवो भवति॥ तेषु शिशिरादयस्त्रयो रवेरुदगयनमादानं च शेषा दक्षिणायनं विसर्गश्च॥ तावादानविसर्गौ वर्षे॥तयोरादानमाग्नेयं॥ तस्मिन् खलु कालस्वभावमार्गपरिगृहीतोऽत्त्यर्थोष्णगभस्तिजालमंडलोऽर्कस्तत्संपर्काद्वायवश्च तीव्ररुक्षाः सोमजं गुणमुपशोषयंतो जगतः स्नेहमाददाना ऋतुक्रमेणोपजनितरौक्ष्याद्रूक्षान् रसांस्तिक्तकषायकटुकानभिप्रबलयंतो नृणां दौर्बल्यमावहंति॥ विसर्गस्तु सौम्यः॥ तस्मिन्नपि कालमार्गमेघवातवर्षाभिहतप्रभावे दक्षिणायनगेऽर्केशशिनि चाव्याहतबले शिशिराभिर्भाभिः शश्वदाप्यायमाने माहेंद्रसलिलप्रशांतसंतापे जगत्यरूक्षा रसाः प्रवर्द्धंतेऽम्ललवणमधुरा यथाक्रमं बलं चोपचीयते नृणामिति॥ भवति चात्र॥ हेमंते शिशिरे चाप्यं विसर्गादानयोर्बलं॥ शरद्वसंतयोर्मध्यं हीनं वर्षानिदाघयोः॥ धूमधूम्रा रजोमंदास्तुपाराबिलमंडलाः॥ दिगादित्या मरुच्छैत्यादुत्तरो रोमहर्षणः॥ रोध्रप्रियंगुपुन्नागलवल्यः कुसुमोज्वलाः॥ दृसा गजाजमहिषवाजिवायससूकराः॥ हिमानी40पटलच्छन्ना लीनमनिविहंगमाः॥ नद्यः सवाप्पाः सोष्माणः कूपापश्च हिमागमे॥देहोष्माणो विशंतोंऽतः शीते शीतानिलाहताः॥जठरे पिंडितोष्माणं प्रबलं कुर्वतेऽनलं॥ विसर्गे बलिनां प्रायः स्वभावादिगुरु क्षमं। बृंहणान्यन्नपानानि योजयेत्तस्य युक्तये॥ अनिंधनोऽन्यथा सीदेदत्युदीर्णतयाऽथवा॥ धातूनपि पचेदस्य ततस्तेषां क्षयान्मरुत्॥ तेजः सहचरः कुप्येच्छीतः शीते विशेषतः॥ अतो हिमे भजेत्स्निग्धान्स्वाद्वम्ललवणान् रसान्॥ बिलेशयौदकानूपप्रसहानां भृतानि च॥ मांसानि गुडपिष्टोत्थमद्यान्यभिनवानि च॥ माषेक्षुक्षीरविकृतिवसातैलनवौदनान्॥व्यायामोद्वर्तनाभ्यंगस्वेदधूमांजनातपान्॥सुखोदकं शौचविधौ भूमिगर्भगृहाणि च॥ सांगारयानां शय्यां च कुथकंबलसंस्कृतां॥ कुंकुमेनानुदिग्धांगोऽगुरुणा गुरुणाऽपि वा॥ लघूष्णैः प्रावृतः स्वप्यात्कालेधूपाधिवासितः॥ पीनांगनांगसंसर्गनिवारितहिमानिलः॥ शिशिरेशीतमधिकं मेघमारुतवर्षजं॥ रौक्ष्यं चादानजं तस्मात्कार्यः पूर्वोऽधिकंविधिः॥ वसंते दक्षिणो वायुराताम्रकिरणो रविः॥ नवप्रवालत्वक्पन्नाः पादपाः ककुभो41ऽमलाः॥ किंशुकाशोकचूतादिवनराजिविराजि ताः॥कोकिलालिकुलालापकलकोलाहलाकुलाः॥शिशिरे संचितः श्लेष्मादिनकृद्भाभिरीरितः॥ तदा प्रवाधमानोऽग्निं रोगान्प्रकुरुते बहून्॥ अतोऽस्मिस्तीक्ष्णवमनधूमगंडूपनावनं॥ व्यायामोद्वर्तनक्षौद्रयवगोधूमजांगलान्॥ सेवेत सुहृदुद्यानयुवतीश्वमनोरमाः॥ स्नातः स्वलंकृतः स्रग्वी चंदनागुरुरूपितः॥ विचित्रामत्रविन्यस्तान् सहकारोत्पलांकितान्॥ निर्गदांश्वासवारिष्टसीधुमार्द्वीकमाधवान्॥ क्वथितंमुस्तशुंठ्यंबु सारांश्रःक्षौद्रपारि वा॥ गुरुशीतदिवाखमस्निग्धासुमधुरांस्त्यजेत्॥ ग्रीष्मेऽनसीपुष्पनिभस्तीक्ष्णांशुर्दावदी42पिताः॥दिशो ज्वलंति भूमिश्वमारुतो नैर्ऋतः सुखः॥ पवनातपसंस्वेदै43र्जनवो ज्वरिताइव॥ तापार्ततुंगमातंगमहिपैः कलुपीकृताः॥ दिवाकरकरांगारनिकरक्षपितांभतः॥ प्रवृद्धरोधसो44नद्यश्छायाहीना महीरुहाः॥ विशीर्णजीर्णपर्णाश्च शुष्कवल्कलतांकिनाः॥ आदत्ते जगतः स्नेहांस्तदादित्यो भृशं यतः॥ व्यायामातपकट्टुम्ललवणोष्णं त्यजेदतः॥ मद्यं न सेव्यं स्वल्पं वा सेव्यं सुबबहुवारि वा॥ अन्यथा शोषशैथिल्पदाहमोहान्करोति तत्॥ नवमृद्भाजनस्थानि यानि सुरभीणि च॥ पानकानि समंथानि सिताढ्यानिहिमानि च॥ स्वादुशीतं द्रवं चान्नं जांगलान्मृगपक्षिणः॥ शालिक्षीरघृतद्राक्षानारिकेरांबुशर्कराः॥ तालवृतानिलान् हारान् सृजः सकमलोत्पलाः॥ तन्वीर्मृणालवलयाः कांताश्चंदनरूपिताः॥ सरांसि वापीः सरितः काननानि हिमानि च॥ सुरभीणि निपेवेत वासांसि सुलघूनि च॥ निष्पतद्यंत्रसलिले स्वप्याद्वारागृहे दिवा॥ रात्रौ चाकाशतलके सुगंधिकुसुमास्तृते॥ कर्पूरचंदनाद्रागो विरलानंगसंगमः॥ वर्षासु वारुणो वायुः सर्वसस्यसमृद्गमः॥ भिन्नेंद्रनीलनीलाश्रवृंदमंदाविलं नभः॥ दीर्घिका नववार्योधमग्नसोपानपंक्तयः॥ वारिधाराभृशाघातविकाशितसरोरुहाः॥सरितः सागराकारा भूरव्यक्तजलस्थला॥ मंद्रस्तनितजीमूतशिखिदर्दुरनादिता॥इंद्रगोपधनुःखंडविद्युदुद्योतदीपिता॥ परितः श्यामलतॄणा शिलोंध्रकुटजोज्ज्वला॥ तदाऽऽदानाबले देहे मंदेऽग्नौबाधिते पुनः॥ वृष्टिभूवाष्पतोयाम्लपाकदुष्टैश्चलादिभिः॥वस्तिकर्मनिषेवेत कृतसंशोधनक्रमः॥पुराणशालिगोधूमयवान् यूपरसैः कृतैः॥ निर्गदं मदिरारिष्टमार्द्वीकंस्वल्पमंबु वा॥ दिव्यं कथितकूपोत्थं चौंड्यंसारसमेववा॥ वृष्टिवाताकुले त्वन्हि भोजनं क्लेदवातजित्॥ परिशुष्कं लघु स्निग्धमुष्णाम्ललवणं भजेत्॥ प्रायोन्नपानं सक्षौद्रं संस्कृतं च घनोदये॥ असरीतृपभूवाष्पशीतमारुतशीकरं॥ साग्नियानं च भवनं निर्दंशमशकोंदुरं॥प्रघर्षोद्वर्त्तनस्नानधूमगंधागुरुप्रियः॥ यायात्करेणुमुख्याभिश्चित्रस्रग्वस्त्रभूषितः॥ नदीजलोदमंथाहःस्वप्नातिद्रवमैथुनं॥ तुपारपादचरणव्यायामार्ककरांस्त्यजेत्॥ शरदि व्योम शुभ्राभ्रं किंचित्पंकांकिता मही॥ प्रकाशकाशसप्ताव्हकुमुदा शालिशालिनी॥विक्षिप्ततीक्ष्णकिरणो मेषौघविगमाद्रविः॥बभ्रुवर्णोऽतिविमलाः क्रौंचमालाकुला दिशः॥ कमलांतरसल्लीनमीनहंसांसघट्टनैः45॥ तरंगभंगतुंगानि सरांसि विमलानि च॥ वर्षाशीतोचितांगानां सहसैवार्करश्मिभिः॥ तप्तानां संचितं पूर्वं तदा पित्तं प्रकुप्यति॥ शस्तं तिक्तहविः46पानं विरेकोऽस्रस्रुतिः सदा॥ शीतं लघ्वन्नपानं च कषायस्वादुतिक्तकं॥ शालिषष्टिकगोधूमयवमुद्गसितामधु॥ पटोलामलकं द्राक्षा जांगलं क्षुद्वतां भृशं॥ दिवा दिवाकरकरैर्निशाकरकरैर्निशि॥ संतप्तंल्हादितं तोयमगस्तेनाविषीकृतं॥ निर्मलं शुचि कालेन पक्वंपानेऽमृतोपमं॥ हंसौघपक्षविक्षेपभ्रमद्भ्रमरपंक्तिषु॥ सुसरोरुहसेव्यासुसरसीषुप्लवेत च॥ लघुशुद्धांबरस्रग्वी शीतोशीरविलेपनः॥ सेवेत चंद्रकिरणान्प्रदोषे
सौधमाश्रितः॥तृप्तिदध्यातपक्षारवसातैलपुरोनिलान्॥ तीक्ष्णमद्यदिवास्वप्नतुषारांश्चविवर्जयेत्॥ नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ॥ ऋत्वोरंत्यादिसप्ताहादतुसंधिरिति स्मृतः॥ तत्र पूर्वो विधिस्त्याज्यः सेवनीयोऽपरः क्रमात्॥ असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात्॥ ऋतुष्वेवंविधेष्वेव विधिः स्वास्थ्ये च देहिनां॥निर्दिश्यतेऽन्यरूपेषु विरुद्धज्ञानिको विधिः॥ मासराशिस्वरूपाख्यमृतोर्यल्लक्षणत्रयं॥ यथोत्तरं भजेच्चर्यां तत्र तस्य बलादिति॥
इति ऋतुचर्यानाम चतुर्थोऽध्यायः॥४॥
अथातो रोगानुत्पादनीयमध्यायं व्याख्यास्यामः॥ वेगान्न धारयेद्वातविण्मूत्रक्षवतृट्क्षुवां॥ निद्राकासश्रमश्वासाजृंभाश्रुच्छर्दिरेतसां॥ अधोवातस्य रोधेन गुल्मोदावर्तरुक्क्लमाः॥ वातमूत्रशकृत्संगदृष्ट्यग्निवधहृद्गदाः॥ स्नेहस्वेदविधिस्तत्र वर्तयो भोजनानि च॥ पानानि वस्तयश्चैत्र शस्तं वातानुलोमनं॥ शकतः पिंडिकोद्वेष्ट47प्रतिश्यायशिरोरुजः॥
ऊर्ध्ववायुः परीकर्ती48हृदयस्योपरोधनं॥ मुखेन विट्प्रवृत्तिश्च पूर्वोक्ताश्चामयाः स्मृताः॥ अंगभंगाश्मरीवस्तिमेढ्रवंक्षणवेदनाः॥ स्युर्मूत्ररोधात्पूर्वे च प्रायो रोगास्तदौषधं॥ वर्त्यभ्यंगावगाहाश्च स्वेदनं बस्तिकर्मच॥ अन्नपानं च विद्भेदि विड्रोधोत्थेषु यक्ष्मसु॥ मूत्रजेषुतु पाने चप्राग्भक्ताच्छस्यते घृतं॥ जीर्णातिकं चोत्तमया मात्रया योजनाद्वयं॥ अवपीडकमेतच्चसंज्ञितं धारणात्पुनः॥ उद्गारस्यारुचिः कंपो विबंधो हृदयोरसोः॥ आध्मानकासहिध्माश्च हिध्मावत्तत्र भेषजे॥शिरोर्तीन्द्रियदौर्बल्यमन्यास्तंभार्दितंक्षुतेः॥ तीक्ष्णधूमांजनाघ्राणनावनार्कविलोकनैः॥ प्रवर्तयेत्क्षुर्तिसक्तां स्वेदाभ्यंगौ च शीलयेत्॥ योज्यंवातघ्नमन्नं च घृतं चोत्तरभक्तकं॥ शोषांगसादबाधिर्यसंमोहभ्रमहृद्गदाः॥ तृष्णाया निग्रहात्तत्र शीतः सर्वो विधिर्हितः॥ अंगभंगारुचिग्लानिकार्यशूलभ्रमाः क्षुधः॥ तत्र योज्यं लघु स्निग्धमुष्णमल्पंच भोजनं॥ निद्राया मोहमूर्द्धाक्षिगौरवालस्यजृंभिकाः॥ अंगमर्दश्चतत्रेष्टः स्वप्नःसंवाहनानि च। कासस्य रोधात्तद्वृद्धिः श्वासारुचिहृदामयाः॥ शोषोहिध्माच कार्योऽत्र कासहा सुतरां विधिः॥ गुल्महृद्रोगसंमोहाः श्रमश्वासाद्विधारितात्॥ हितं विश्रमणं तत्र वातघ्नश्च क्रियाक्रमः॥ जृंभायाः क्षववद्रोगाः सर्वश्चानिलजिद्विधिः॥ पीनसाक्षिशिरोहृद्रुमन्यास्तंभारुचिभ्रमाः॥ सगुल्माबाष्पतस्तत्र स्वप्नोमद्यं प्रियाः कथाः॥विसर्पकोठकुष्टाक्षिकंडूपांड्वामयज्वराः॥ सकासश्वासहृल्लासव्यंगश्वयथवो वमेः॥ गंडूषधूमावादारं रुक्षं भुक्त्वा तदुद्दमः॥व्यायामः स्रुतिरत्रस्य शस्तं चात्र विरेचनं॥ सक्षारलवणं तैलमभ्यंगार्थंच शस्यते॥ शुक्रात्तत्स्रवणं गुह्यवेदनाश्वयथुज्वराः॥ हृद्व्यथामूत्रसंगांगर्भगवृत्ध्यश्मषंढताः॥ ताम्रचूडसुराशालिबस्त्यभ्यंगावगाहनं॥ बस्तिशुद्धिकरैः सिद्धं भजेत्क्षीरं प्रियाः स्त्रियः’॥ तृट्शूलार्त्तं त्यजेत्क्षीणं विड्वमंवेगरोधिनं॥ रोगाः सर्वेऽपि जायंते वेगोदीरणधारणैः॥निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान्प्रति॥ ततश्चानेकधा49 प्रायः पवनो यत्प्रकुप्यति॥ अन्नपानौषधंतस्य युंजीतातोऽनुलोमनं॥ तेषु तेषुविकारेषुयथास्वं च चिकित्सितं॥ क्रमादपंकेऽपि मणौ पंकोऽवश्यं भवेद्यतः॥ उत्तिष्ठेत यथाकालं मलानां शोधनं प्रति॥ चयकाष्ठामुपारुह्य कुर्वते ते ह्युपेक्षिताः॥ प्रायशः सुचिरेणापि भेषजद्वेषिणो गदान्॥ अतिस्थौल्यानिसदनकुष्टमेहहृतौजसः॥ स्रोतोरोधाक्षविभ्रंशश्वासश्वयथुपांडुताः॥ आमोरुस्तंभजठरकृच्छ्रालसकदंडकान्॥ तृप्तिप्रमीलकालस्य ग्रहण्यर्शोभगंदगन्॥ प्लीहविद्रधिवीसमदसंन्यासपीनसान्॥छर्दिगंडकृमिग्रंथितंद्रादुःस्वप्न
दर्शनं॥ कंठामयान्मूर्द्धरुजं प्रणाशं बुद्धिनिद्रयोः॥ तेजोवर्णबलानां च तृप्यतो बृंहणैरपि॥ उचितैरपि चाहारैर्यस्मादस्य वहंतिन॥ दोषोपलिप्तवदना रसं रसवहाः शिराः॥वमनादीनतोयुंज्यात्स्वस्थस्यैव यथाविधि॥दोषाः कदाचित्कुप्यंति जितालंघनपाचनैः॥ ये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः॥ यथाक्रमं यथायोगमत ऊर्ध्वं प्रयोजयेत्॥ रसायनानि सिद्धानि वृष्ययोगांश्च कालवित्॥ भेपजक्षपिते पथ्यमाहारैर्बृंहणं क्रमात्॥ शालिषष्ठिकगोधूममुद्गमांसघृतादिभिः॥ हृद्यदीपनभैषज्यसंयोगाद्रुचिपंक्तिदेः॥ साभ्यंगोद्वर्तनस्नाननिरूहस्नेहवस्तिभिः॥ तथा स लभते शर्म सर्वपावकपाटवं॥ धीवर्णेद्रिययैमल्यं नृपतां दैर्घ्यमायुषः॥ये भूतविषवाय्वग्निक्षतभंगादिसंभवाः॥कामक्रोधभयाद्याश्च तेस्युरागंतवो गदाः॥ त्यागः प्रज्ञापराधानामिंद्रियोपशमः स्मृतिः॥देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्त्तनं॥ अथर्वविहिता शांतिः प्रतिकूल-ग्रहार्चनं॥ भूताद्यस्पर्शनोपायो निर्दिष्टश्च पृथक्पृथक्॥अनुत्पत्त्यै समासेन विधिरेषः प्रदर्शितः॥ निजागंतु-विकाराणामुत्पन्नानांच शांतये॥ शीतोद्भवं दोषचयं वसंते विशोधयन् ग्रीष्मजमभ्रकाले॥घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगानृतुजान्नजातु॥ नित्यं हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः॥ दातासमः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः॥ अर्थेष्वलभ्येष्वकृतप्रयत्नं कृतादरं नित्यमुपायवत्सु॥ जितेंद्रियं नानुतपंति50 रोगास्तत्कालयुक्तं यदि नास्ति दैवं॥ कालोऽनुकूलो विषया मनोज्ञा धर्म्याः क्रियाःकर्म सुखानुबंधि॥ सत्त्वं विधेयं विशदा च बुद्धिर्भवंति धीरस्य सदासुखाय॥ इति रोगानुत्पादनीयो नाम पंचमोऽध्यायः॥५॥
अथातो द्रवद्रव्यविज्ञानीयमध्यायं व्याख्यास्यामः॥ जीवनं तर्पणं हृद्यं ल्हादि बुद्धिप्रबोधनं॥ तन्वव्यक्तरसं मृष्टं शीतं लघ्वमृतोपमं॥ सूर्योद्धृतमुक्तत्त्वाल्लघुवातकफापहं॥ शैत्यजीवनसौम्यत्यैः पितरक्तविषार्तिजित्॥ गंगांबु नभसो भ्रष्टं स्पृष्टं त्वर्केंदुमारुतैः॥ हिताहितत्वे तद्भूयो देशकालावपेक्षते॥ येनाभिवृष्टममलं शाल्यन्नं राजतस्थितं॥ अक्लिन्नमविवर्णं वा तत्तोयं51 गांगमन्यथा॥ सामुद्रं तन्नपातव्यं मासादाश्वयुजाद्विना॥खातधौतशिलापृष्टवस्त्रादिभ्यः सुतंजलं।हेममृन्मयपात्रस्थमविपन्नं सदा पिबेत्॥ तदभावे च भूमिष्ठमांतरिक्षानुकारि यत्॥ श्वैते कषायं तत्स्वादुकृष्णेतिक्तंचपांडुरे॥ नीले कषायमधुरं देशे लवणमूषेरे॥ सक्षारं कपिले मिश्रं मिश्रेऽथांबुगुणाधिके॥मधुरं लवणाम्लंतु भवेद्भूमिगुणाधिके॥ तेजोधिके तिक्तकटु कषायं पवनाधिके॥ दिव्यानुकारित्वव्यक्तरसत्वात्स्वगुणाधिके॥शुचिपृथ्वसितश्वेते देशे चार्कानिलाहतं॥कौपसारसताडागचौंड्य52प्रास्रवणौद्भिदं॥वापीनदीतोयमितितत् पुनः स्मृतमष्टधा॥सारं पित्तकृत्कौपं दीपनं नातिवातलं॥ सारसं स्वादु लघु च ताडागं गुरु वातलं॥ चौंड्यं तुपित्तलंदोषहरं प्रस्रवणोदकं॥औद्भिदं स्वादु पित्तघ्नं स्वादु53वापीजलं लघु॥ नादेयं वातलं रूक्षं कटुकं च तथाऽऽदिशेत्॥धन्वानूपमहीध्राणां सामिप्यागुरुलाघवं॥ पश्चिमोदधिगाः शीघ्रवहायाश्चामलोदकाः॥ पथ्याः समासात्ता नद्यो विपरीतास्ततोऽन्यथा॥उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः॥ हिमवन्मलयोद्भूताः पध्यास्ता एव च स्थिराः॥कृमिश्लीपद-हृत्कंठशिरोरोगान्प्रकुर्वते॥ प्राच्यावंत्यपरांतोत्था दुर्नामानि महेंद्रजाः॥ उदरश्लीपदातंकान्सह्यविंध्यभवाः पुनः॥कुष्टपांडुशिरोरोगान् दोषघ्न्यः पारियात्रजाः॥ बलपौरुषकारिण्यःसागरांबु त्रिदोषकृत्॥ कीटाहिमूत्रविट्कोथतृणजालोत्कराविलं॥ पंकपंकजशैवालहतपर्णादिसंस्तृतं॥ सूर्येंदुपवनादृष्टंजुष्टं च क्षुद्रजंतुभिः॥ अभिवृष्टं विवर्णं च कलुषंस्थूलफेनिलं॥ विरसंगंधवत्तप्तंदंतग्राह्यतिशैत्यतः॥ अनार्त्तवं च यद्दिव्यमार्त्तवं प्रथमं चयत्॥ लूतादितंतुविण्मूत्रविषसंश्लेषदूषितं॥ तत्कुर्यात्स्नानपानाभ्यां तृष्णाऽऽध्मानोदरज्यरान्॥ कासाग्निसादाभिष्यंदकुंडूगंडादिकानतः॥ तद्वर्जयेदभावे वा तोयस्यान्यस्य शस्यते॥ धनवस्त्रपरिस्रावैः क्षुद्रजंत्वभिरक्षणं॥ व्यापन्नस्यास्य तपनमग्न्यर्कायसपिंडकैः॥ पर्णीमूलविसग्रंथिमुक्ताकतकशैवलैः॥ वज्रगोमेदकाभ्यां वा कारयेत्तत्प्रसादनं॥ पाटलाकरवीरादिकुसुमैर्गंधनाशनं॑॥ पानीयं54 न तु पानीयं पानीयेऽन्यप्रदेशजे॥ अजीर्णे क्वथितं चामे पक्वेजीर्णेऽपि नेतरत्॥ शीते विधिरयंतप्ते त्वजीर्णे शिशिरं त्यजेत्॥ पानीयं प्राणिनां प्राणा विश्वमेवच तन्मयं॥ अतोऽत्यंतनिषेधेऽपि न क्वचिद्वारि वार्यते॥ तस्यशोषांगसादाद्या मृत्युर्वा स्यादलाभतः॥ न हि तोयाद्विना वृत्तिःस्वस्थस्य व्याधितस्य च॥ केवलं सौषधं पक्वमाममुष्णं हितंच तत्॥ समीक्ष्य मात्रया युक्तममृतं विषमन्यथा॥ अतियोगेनसलिलं तृप्यतोऽपि प्रयोजितं॥ प्रयाति पित्तश्लेष्मत्वं ज्वरितस्य विशेषतः॥वर्द्धयत्यामतृण्निद्रातंद्राऽऽध्मानांगगौरवं॥ कासाग्निसादहृल्लासप्रसेकश्वासपीनसान्॥पाके स्वादु हिमं वीर्ये तदुष्णमपि योजितं॥ तस्मादयोगपानेन लाघवान्न वियोजयेत्॥ आमविष्टब्धयोः कोष्णं निष्पिपासोप्यपः पिबेत्॥ यावत्यः क्लेदयंत्पन्नमतिक्लेदोऽग्निनाशनः॥ विबद्धः कफवाताभ्यां मुक्तामाशयबंधनः॥पच्यते क्षिप्रमाहारः कोष्णतोयद्रवीकृतः॥ अनवस्थितदोषाग्नेर्व्याधिक्षोणबलस्य च॥ नाल्पमप्याममुदकं हितं तद्धि त्रिदोषकृत्॥ तेजसः प्रतिपक्षत्वान्मंदाग्निर्वर्जयेज्जलं॥ सर्वमेव तथा स्पंदलोह विद्रधिगुल्मिनः॥ पांडूदरातिसाराशग्रहणीशोपशोफिनः॥ काममल्पमशक्तौ तु पेयमौषधसंस्कृतं॥ ऋते शरन्निदाघाभ्यां पिबेत्स्वस्थोऽपि चाल्पशः॥ भक्तस्यादौ जलं पीतमग्निसादं कृशांगतां॥ अंते करोति स्थूलत्वमूर्ध्वंचामाशयात्कफं॥मध्ये मध्यांगतां साम्यं धातूनां जरणं सुखं॥ शीतं मदात्ययग्लानिमूर्च्छाच्छर्दिश्रमभ्रमान्॥ तृष्णोष्मदाहपित्तास्रविषाण्यंबु निहंति तत्॥ क्षीणपादत्रिभागार्द्धं देशर्तुगुरुलाघवात्॥ क्वथितं फेनरहितमवेगममलं हितं॥ हिध्माऽऽध्मानानिलश्लेष्मतृट्कासश्वासपीनसे॥पार्श्वशूलाममेदःसु सद्यःशुद्धौ नवज्वरे॥ दीपनं पाचनं कंठ्यं लघु बस्तिविशोधनं॥ पाषाणसूप्यमृद्धेमजनुतापार्कतापितं॥ पानीयमुष्णं शीतं वा त्रिदोषघ्नं तृडर्तिजित्॥ लघ्वरूक्षं क्लमघ्नं च तोयं क्वथितशीतलं॥संसर्गे पित्तकफयोः सन्निपाते च शस्यते॥ तोयं वह्निगुणभ्रष्टं पाकेऽलं सर्वदोषकृत्॥ भवेत्पर्युषितंतद्वत्तोयं तु करकोद्भवं॥ अतिशैत्यगुरुस्थैर्यसंघातैःकफवातकृत्॥चंद्रकांतभवं रक्षोविषपित्तज्वरापहं॥ दृष्टिमेधावपुःस्थैर्यकरं स्वादुहिमं लघु॥ नारिकेलोदकं स्निग्धं स्वादु वृष्यं हिमं लघु॥ तृष्णापित्तानिलहरं दीपनं बस्तिशोधनं॥वर्षासु दिव्यनादेये परं तोये वरावरे।इति तोयवर्गः॥ गव्यं माहिषमाजं च कारभं स्त्रैणमाविकं॥ ऐशमैकशफंचेति क्षीरमष्टविधं स्मृतं॥ स्वादुपाकरसं स्निग्धभोजस्यं धातुवर्द्धनं॥वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलं॥ प्रायः पयोऽत्रगव्यं तु जीवनीयं रसायनं॥ क्षतक्षीणहितं मेध्यं वर्ण्यं स्तन्यकरं सरं॥ श्रमभ्रममदालक्ष्मीश्वासकासाधितृट्क्षुधः॥ जीर्णज्वरं मूत्रकृच्छ्रं रक्तपित्तं चनाशयेत्॥ हितमत्यग्न्यनिद्रेभ्यो गरीयो माहिषंहिमं॥ अल्पांबुपानव्यायामकटुतिक्ताशनैर्लघु॥आजं शोषज्वरश्वासरक्तपित्तातिसारजित्॥ ईषद्रूक्षोष्णलवणमौष्ट्रकंदीपनं लघु॥ शस्तं वातकफानाहकृमिशोफोदरार्शसां॥ मानुषं वातपित्तासृगभिघाताक्षिरोगजित्॥ तर्पणाश्चोतनैर्नस्यैरहृह्यं तूष्णमाविकं॥ वातव्याधिहरं हिध्मा-श्वासपित्तकफप्रदं॥हस्तिन्याः स्थैर्यकृद्वाढमुष्णंत्वैकशफं लघु॥ शाखावातहरं साम्ललवणं जडताकरं॥पयोऽभिष्यंदि गुर्वामंयुक्त्या शृतमतोऽन्यथा॥विना तु वनितास्तन्यामाममेव तु तद्धितं॥ भवेद्गरीयोऽतिशृतं धारोष्णममृतोपमं॥ पिण्याकाम्लाशिनीनां तु गुर्वाभेष्यंदि तद्भृशं॥ अचेष्टया चप्रादोपाद्गरीयः स्मृतमौषसं॥ व्याख्यानस्तेन लघिमा चेष्टावत्प्रकृतिष्वपि॥ ह्रस्वेषु चातिदेहेभ्यो मांसेष्वप्येवमादिशेत्’॥अम्लपाकरसं ग्राहि गुरूष्णं दधि वातजित्॥ मेदःशुक्रवलश्लेष्मरक्तपित्ताभिशोफकृत्॥ रोचिष्णु शस्तमरुचौ शीतके विषमज्वरे॥ पीनसे मूत्रकृच्छ्रे च रूक्षं तु ग्रहणीगदे॥ नैवाद्यान्निशि नैवोष्णंवसंतोष्णशरत्सु न॥ नामुद्गसूपं नाक्षौदं तन्नाघृतसितोपलं॥ नचानामलकं नापि मेदं55”) नो नित्यमन्यथा॥ ज्वरासृक्पित्तवीसर्पकुष्टपांडुभ्रममदं॥ तक्रंलघु कषायाम्लं दीपनं कफवातजित्॥ शोफोदरार्शोग्रहणीदोषमूत्रग्रहारुचीः॥गुल्मप्लीहघृतव्यापद्गरपांड्वामयान्जयेत्56॥ तद्वन्मस्तु सरं स्रोत शोधि विष्टंभजिल्लघु॥ शीतं स्वादु कषायाम्लं नवनीतं नवोद्धृतं॥ यक्ष्माऽर्शोर्दितपित्तासृग्वातजिद्ग्राहि दीपनं॥क्षीरोद्भवं तु संग्राहि रक्तपित्ताक्षिरोगजित्॥ शस्तं धीस्मृतिमेधाग्निबलायुःशुक्रचक्षुषां॥ बालवृद्धप्रजाकांतिसौकुमार्यस्वरार्थिनां॥क्षतक्षीणपरीसर्पशस्त्राग्निग्लपितात्मनां॥ वातपित्तविषोन्मादशोपालक्ष्मीज्वरापहं॥ स्नेहानामुत्तमं शीतं वयसः स्थापनं परं॥ सहस्रवीर्यविधिभिर्घृतं कर्मसहस्रकृत्॥मदापस्मारमूर्च्छायशिरकर्णाक्षियोनिजान्॥ पुराणं57 जयति व्याधीन्व्रणशोधनरोपणं॥ पूर्वोक्तांश्चाधिकान्कुर्याद्गुणांस्तदमृतोपमं॥ तच्च घृतमंडोऽपि रूक्षस्तीक्ष्णस्तनुश्चसः॥ वल्याःकिलाटकूची58कातकपिंडकमोरणाः॥ सक्षीरशाकपीयूषारोचना वह्निसादनाः॥शुक्रनिद्राकककरा विष्टंजिगुरुदोषलाः॥विद्याद्दधिघृतादीनां गुणदोषान्यथापयः॥ गव्ये क्षीरघुते श्रेष्ठेनिंदिते चाविसंभवे॥ इति क्षीरवर्गः॥ इक्षोरसो गुरुः स्निग्धो बृंहणःकफमूत्रकृत्॥ वृष्यःशीतः पवनजिद्भुक्तेवातप्रकोपनः॥ रक्तपित्तप्रशमनः स्वादुपाकरसः सरः॥ सोऽग्रेसलवणो दंतपीडितःशर्करासमः॥ मूलाग्रजंतुजुष्टादिपीडनान्मलसंकरात्॥ किंचित्कालविधृत्या च विकृतिं याति यांत्रिकः॥ विदाही गुरुविष्टंभी तेनासौ तत्र पौंड्रकः॥ शैत्यप्रसादमाधुर्य्यैर्वरस्तमनु वांशिकः॥ शतपर्वककांतारनैपालाद्यास्ततः क्रमात्॥सक्षाराः सकषायाश्च सोष्णाःकिचिद्विदाहिनः॥ फाणितं गुर्वभिष्यंदि चयकृन्मूत्रशोधनं॥ नातिश्लेष्मकरो धौतःसृष्टमूत्रशकृद्गुडः॥ प्रभूतकृमिमज्जासृङ्मेदोमांसकफोऽपरः59॥ हृद्यः पुराणः पथ्यश्च नवः श्लेष्माग्निसादकृत्॥ वृष्याःक्षीणक्षतहिता रक्तपित्तानिलापहाः॥ मत्स्यंडिकाखंडसिताः क्रमेणगुणवत्तमाः॥ तद्गुणा तिक्तमधुरा सकषाया60”) हिमा लघुः॥ त्रिदोषघ्नी सिता काशेषु दर्भच्छदसंभवा॥ दाहतृट्छर्दिमूर्च्छासृक्पित्तघ्न्यः सर्वशर्कराः॥शर्करेक्षुविकाराणां फाणितं च वरावरे॥इतीक्षुवर्गः॥चक्षुष्यं छेदि तृट्श्लेष्मविपहिध्माऽसपित्तनुत्॥ कुष्टमेहकृमिच्छर्दिश्वासकासातिसारजित्॥ व्रणशोधनसंधानरोपणं वातलं मधु॥
मधुरं कटुकं पाके तत्तुल्या मधुशर्करा॥ उष्णमुष्णार्त्तमुष्णे च युक्तंचोष्णैर्निहंति तत्॥ विषान्वयत्वेन61विषपुष्पेभ्योऽपि यतो मधु॥ कुर्वते ते स्वयं यच्च सविषाभ्रमरादयः॥ प्रच्छर्दने निरूहे च मधूष्णंन निवार्यते॥अलब्धपाकमाश्वेव तयोर्यस्मान्निवर्त्तते॥ गुरुरूक्षकषायत्वाच्छैत्याच्चाल्पं हितं मधु॥ न हि कष्टतमं किंचित्तदजीर्णाद्यतो नरं॥ उपक्रमविरोधित्वात्सद्यो हन्याद्यथा विषं॥ नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु॥ तृप्ययोगैरतोयुक्तं वृषतामनुवर्तते॥ भ्रामरं पौत्तिक क्षौद्रं माक्षिकं च यथोत्तरं62॥ वरं जीर्णं चतेष्वंत्ये द्वे एव ह्युपयोजयेत्63॥ इति मधुवर्गः॥ तैलं स्वयोनिवत्तत्रमुख्यं तीक्ष्णं व्यवायि च॥ त्वग्दोषकृदचक्षुष्यंसूक्ष्मोष्णं कफकृन्न च॥ कृशानां बृंहणायालं स्थूलानां कर्शनाय च॥ बद्धविटकं कृमिघ्नंच संस्कारात्सर्वरोगजित्॥ तैलप्रयोगादजरा निर्विकारा जितश्रमाः॥आसन्नतिवला युद्धे दैत्याधिपतयः पुरा॥ सतिक्तोषणमैरंडंतैलं स्वादुसरं गुरु॥ वर्ध्मगुल्मानिलकफानुदरं विषमज्वरं64॥ रुक्शोफौच कटीगुह्यकोष्ठपृष्ठाश्रयौ जयेत्॥ तीक्ष्णोष्णं पिच्छिलं विस्रंरक्तैरंडोद्भवं भृशं॥ कटूष्णंसार्षपं तीक्ष्णं कफशुक्रानिलापहं॥ उमाकुसुंभजं सोष्णंत्वग्दोषकफपित्तकृत्॥ दंतीमूलकरक्षोघ्नकरंजारिष्टशियुजं॥ सुवर्चलेंगुदीपीलुशंखिनीनीपसंभयं॥ सरलागुरुदेवाव्हशिंशुपासारजन्मच॥ तुवरारुप्करोत्थं च तीक्ष्णं कट्वस्रपित्तकृत्॥ अर्शःकुष्टकमिश्लेष्मशुकमेदोनिलापहं॥ करंजनिंबजे तिक्ते नात्युष्णे तत्र निर्दिशेत्॥ कषायतिक्तकटुकं सारलं व्रणशोधनं॥ भृशोष्णतीक्ष्णकटुनी
तौवरारुष्करोद्भवे॥ विशेषात्कृमिकुष्टघ्ने तथोर्ध्वाधोविरेचने॥ अक्षातिमुक्तकाक्षोडनालिकेरमधूकजं॥ त्रपुसैर्वारुकूष्मांडश्लेष्मातकपियालजं॥ वातपित्तहरं केश्यंश्लेष्मलं गुरु शीतलं॥ पित्तश्लेष्मप्रशमनं श्रीपर्णीकिंशुकोद्भवं॥ तिलतैलं वरं तेषु कौसुंभमवरं परं॥वसा मज्जा च वातघ्नौबलपित्तकफप्रदौ॥मांसानुगस्वरूपौ च विद्यान्मेदोऽपि ताविव॥ औलूकी शौकरी पाकहंसजा कुक्कुटोद्भवा॥वसा श्रेष्ठा स्ववर्गेषुकुंभीरमहिषोद्भवा॥काकमद्गुवसा तद्वत्कारंडोत्थाच निंदिता॥ शाखादमेदसां छागं हास्तिनं च वरावरे॥ इति तैलवर्गः॥ दीपनं रोचनं मयं तीक्ष्णोष्णं तुष्टिपुष्टिदं। सस्वादु तिक्तकटुकमम्लपाकरसं सरं॥ सकषायं स्वरारोग्यप्रतिभावर्णकृल्लघु॥ नष्टनिद्रातिनिद्रेभ्यो हितं पित्तास्रदूषणं॥ कृशस्थूलहितं रूक्षं सूक्ष्मं स्रोतोविशोधनं॥ वातश्लेष्महरं युक्त्यापीतं विषवदन्यथा॥ गुरु तद्दोपजननं नवं जीर्णमतोऽन्यथा॥ पेयं नोष्णोपचारेण न विरिक्तक्षुधातुरैः॥नातितीक्ष्णमृदुस्वच्छघनं व्यापन्नमेव वा॥ गुल्मोदरार्शोग्रहणीशोषहृत्स्नेहनी गुरुः॥सुरा65ऽनिलघ्नी मेदोसृक्स्तन्यमूत्रकफावहा॥तद्गुणावारुणी66 हृद्यालघुस्तीक्ष्णा निहंति च॥ शुलकासवमिश्वासविबंधाध्मानपीनसान्॥ शूलप्रवाहिकाशोफतृष्णाऽऽटोपार्शसां हितः॥ जंगलः67पाचनो ग्राही रूक्षस्तद्वच्चभेदकः68॥ बक्वसो69")हृत्सारत्वाद्विष्टंभी दोषकोपनः॥ नातितीव्रमदा लघ्वी पथ्या वैभीतकी सुरा॥ व्रणे पांड्वामये कुष्टे न चात्यर्थं विरुध्यते॥ विष्ठंभिनी यवसुरा गुर्वीरुक्षा त्रिदोषला॥कौहली बृंहणी गुर्वी श्लेष्मलस्तु मधूलकः॥यथाद्रव्यगुणोऽरिष्टः70 सर्वमयगुणाधिकः॥ ग्रहणीपांडुकुष्टार्शःशोषशोफोदरज्वरान्॥ हंति गुल्मकृमिप्लीन्हःकषायकटुवातलः॥मार्द्वीकं लेखनं हृद्यं नात्युष्णं मधुरं सरं॥ अल्पपित्तानिलं पांडुमेहार्शः कृमिनाशनं॥अस्मादल्पांतरगुणं खार्जूरं वातलं गुरु॥ शार्करः सुरभिः स्वादुर्हृद्योनातिमदो लघुः॥ सृष्टमूत्रशकृद्वातो गौडस्तर्पणदीपनः॥ वातपित्तकरः शीधुःस्नेहश्लेष्मविकारहा॥मेदःशोफोदरार्शोघ्नस्तत्र पक्वरसो वरः॥छेदी मध्वासवस्तीक्ष्णो॥मेहपीनसकासजित्॥ सुरासवस्तीक्ष्णमदः स्वादुस्तीक्ष्णोऽनिलापहः॥मैरेयो मधुरो कृष्यःसरः संतर्पणो गुरुः॥ धातक्यभिपुतो जीर्णो रूक्षो रोचनदीपनः॥द्राक्षासवो मधुसमः परमं स तु दीपनः॥मार्द्वीकसदृशः प्रोक्तो मृद्वीकेक्षुरसासवः॥समासादासवो71 हृद्यो वातलः स्वौषधानुगः॥ द्राक्षेक्षुर्माक्षिकं शालिरुत्तमा72 व्रीहिपंचमाः॥मद्याकरा यदेभ्योऽन्यत्तन्मद्यप्रतिरूपकं॥ गुणैर्यथोल्वर्णैविद्यान्मद्यमाकरसंकरात्॥ रक्तपित्तकफोत्क्लेदि शुक्तं73वातानुलोमनं॥ विदाहि भृशतीक्ष्णोष्णं हृद्यंरुचिकर सरं॥ दीपनं शिशिरस्पर्शं पांडुदृक्कृमिमिनाशनं॥ गुडेक्षुमद्यमार्द्वीकशुक्तं लघु यथोत्तरं॥ कंदमूलफलाद्यंच तद्वद्विद्यात्तदासुतं॥ शांडाकी74 चासुतं चान्यत्कालाम्लं75 रोचनंलघु॥ धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत्स्पर्शशीतलं॥ श्रमक्लमहरंरुच्यं दीपनं बस्तिशूलजित्॥ शस्तमास्थापने हृद्यं लघु वातकफापहं॥ एभिरेव गुणैर्युक्ते सौवीरकतुषोदके॥ कृमिहृद्रोगगुल्मार्शः पांडुरोगनिवर्हणे॥ ते कमाहितुपैर्विद्यात्सतुषैश्च यवैः कृते॥ इति मद्यवर्गः॥मूत्रं गोऽजाविमहिषीगजाश्वोष्ट्रखरोद्भवं॥पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसंकटु॥ कृमिशोफोदरानाहशूलपांडुकफानिलान्॥
गुल्मारुचिविपश्वित्रकुष्टाशौसि जयेल्लघु॥ विरेकास्थापनालेपखेदादिषुच पूजितं॥ दीपनं पाचनं भेदि तेषु गोमूत्रमुत्तमं॥ श्वासकासहरं छागं पूरणात्कर्णशूलजित्॥ १ दद्यात्क्षारे76 किलासे च गजवाजिसमुद्भवं॥ हंत्युन्मादमपस्मारं कृमीन्मेहं च रासभं॥ कषायतिक्तमेतेषां हिमाश्वासहरं शकृत्॥ मार्गमोजःक्षयहरं वैष्किरं वातरोगनुत्॥ प्रसहानामपस्मारमुन्मादं च नियच्छति॥ महामृगसमुद्भूतं कुष्टहृज्जलचारिणां॥ नेत्ररोगहरं पित्तं प्रवृद्धं च नियच्छति॥ पित्तंतिक्तं कृमिहरं रोचनं कफवातजित्॥ तिक्तं पामाहरं मूत्रं मानुषं तुविषापहं॥ इति मूत्रवर्गः॥ तोयक्षीरेक्षुतैलानां वर्गैर्मद्यस्य च क्रमात्॥इति द्रवैकदेशोऽयं यथास्थूलमुदाहृतः॥ इति द्रवद्रव्यविज्ञानीयोनाम षष्ठोऽध्यायः॥६॥
अथातोऽन्नस्वरूपविज्ञानीयमध्यायं व्याख्यास्यामः॥ रक्तोमहान्सकलमस्तूर्णकः शकुनाहृतः॥ सारामुखो दीर्घशुको रोधशुकः सुगंधकः॥ पुंडः पांडुः पुंडरीकः प्रमोदो गौरशारिवौ॥ कांचनो महिषःशुकोदूषकः कुसुमांडकः॥ लांगला लोहवालाख्याः कर्दमाः शीतभीरुकाः॥पतंगास्तपनीयाश्च ये चान्ये शालयः77 शुभाः॥ स्वादुपाकरसाः स्निग्धा वृष्याबद्धाल्पवर्चसः॥ कषायानुरसाः पथ्या लघवो मूत्रलाहिमाः॥ शृकजेषु वरस्तत्र रक्तस्तृष्णात्रिदोषहा॥ महांस्तस्यानुकलमस्तं चाप्यनु ततः परे॥ तस्मादल्पांतरगुणाः क्रमशः शालयोऽवराः॥ यवका हायनाः पांशुवाष्पनैषधकादयः॥ स्वादूष्णा गुरवः स्निग्धाः पाकेऽम्लाः श्लेष्मपित्तलाः॥ सृष्टमूत्रपुरीषाश्च पूर्वंपूर्वं च निंदिताः॥ स्निग्धो ग्राही लघुः स्वादुस्त्रिदोषघ्नः स्थिरो हिमः॥षष्टिको व्रीहिषु78श्रेष्ठो गौरश्वासितगौरवः॥ ततः क्रमान्महाव्रीहिकृष्णव्रीहिजतूमुखाः॥ कुक्कुटांडकलावाख्यपारावतकसुकराः॥ वरकोद्दालकोज्वालचीनशारददर्दुराः॥ गंधनाः कुरुविंदाश्च॥ गुणैरल्पांतराः स्मृताः॥ स्वादुरम्लविपाकोन्यो व्रीहिः पित्तकरो गुरुः॥बहुमूत्रपुरीषोष्मा त्रिदोषस्त्वेव पाटलः॥ कंगुकोद्रवजूर्णाव्हगर्मूटीचूर्णपादिकाः॥ श्यामाकतोयश्यामाकहस्तिश्यामाकशिंबिराः॥शिंबिरो दारुनीवारवरूकूबरकोत्कटाः॥ मधूली शांतनुः संडिर्वेणुपर्णी प्रशांतिका॥ गवेधुकांडलौहित्यतोदपर्णीमुकुंदकाः॥ कफपित्तहरा रूक्षाः कषायमधुरा हिमाः॥ वातला बद्धविण्मूत्रा लघवो लेखनात्मकाः॥ भग्नसंधानकृत्तत्र प्रियंगुर्बृंहणी गुरुः॥ कोरदूपः परं ग्राहीस्पर्शशीतो विषापहः॥ उद्दालकस्तुवीर्योष्णोनीवारः श्लेष्मवर्द्धनः॥ शीतवीर्या विशेषेण स्निग्धा वृष्यामधूलिका॥ रुक्षः शीतोगुरुः स्वादुः सरोविड्वातकृद्यवः॥ वृष्यः स्थैर्यकरो मूत्रमेदपित्तकफान् जयेत्॥ पीनसश्वासकासोरुस्तंभकंठत्वगामयान्॥ गुणैर्न्यूनतरा ज्ञेया यवादेव यवाव्हयाः॥ उष्णाः सरा वेणुयवाः कषायावातपित्तलाः॥ वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा॥ संधानकारी मधुरो गोधूमः स्थैर्यरुत्सरः॥ पथ्या नंदीमुखी79”) शीता कषाया मधुरा लघुः॥ इति शुकधान्यवर्गः॥ शिंबिजा मुद्गमंगल्यवनमुद्गमकुष्टकाः॥ मसूरचवलाढक्यश्चणकाश्च पृथग्विधाः॥ कषायस्वादुलघवो विवंधाध्मानकारिणः॥ रूक्षा बद्धमलाः शीता विपाकेकटुका हिताः॥ पित्तासृक्कफमेदस्तुसूपालेपादियोजनात्॥ सूप्यानामुत्तमा मुद्गालघीयांसोऽल्पमारुताः॥ हरितास्तेष्वपि वरा मकुष्टाःकृमिकारिणः॥ वर्ण्याः परं प्रलेपाद्यैर्मसूरा ग्राहिणो भृशं॥ राजमाषोगुरुर्भूरिशकृद्रूक्षोऽतिवातलः॥ कषायस्वादुरूक्षोष्णाःकुलत्था रक्तपित्तलाः॥ पीनसश्वासकासार्शोहिध्माऽऽनाहकफानिलान्॥ घ्नंति
शुकाश्मरीं शुक्रं दृष्टिं शोफं तथोदरं॥ ग्राहिणो लघवस्तीक्ष्णाविपाकेऽम्ला विदाहिनः॥ निष्पावस्तु सरो रूक्षः कषायमधुरोगुरुः॥ पाकेऽम्लो वातविष्टंभी स्तन्यमूत्रासपित्तकृत्॥ उष्णोविदाही दृक्शुककफशोफविषापहः॥ माषःस्निग्धो बलश्लेष्ममलपित्तकरः सरः॥ गुरूष्णोऽनिलहा स्वादुः शुकवृद्धिविरेककृत्॥फलानि माषवद्विंद्यात्कांकां80डोलात्मगुप्तयोः81")॥ कुशाम्रशिंबी मधुरावातपित्तहरा हिमा॥ मधुराः शीतला गुर्व्योबलघ्न्योरूक्षणात्मिकाः॥ स्नेहाढ्याबलिभिर्भोज्या विविधाः शिंबिजातयः॥ स्निग्धोष्णतिक्तकटुकः कषायमधुरस्तिलः॥मेध्यः केश्यो गुरुर्वर्ण्यः स्पर्शशीतोऽनिलापहः॥ अल्पमूत्रः कटुः पाके मेधाऽग्निककपित्तरुत्॥कृष्णः प्रशस्तस्तमनु शुक्लस्तमनु चारुणः॥ स्निग्धोष्मा82स्वादुतिक्तोष्णा कफपित्तकरी गुरुः॥ दृक्शुकहृत्कटुःपाके तद्वद्बीजं कुसुंभजं॥ माषोऽत्रसर्वेष्ववरो यवकः शुकजेषु च॥ नवं धान्यमभिष्यंदि सेक्यं केदारजं च यत्॥ लघु वर्षोषितं दुग्धभूमिजं स्थलसंभवं॥ शीघ्रजन्म तथा सूप्यं निस्तुपं युक्तिभर्जितं॥ इति शिंबीधान्यवर्गः॥ मंड83पेयाविलेपीनामोदनस्य च लाघवं॥ यथापूर्वं शिवस्तत्र मंडो वातानुलोमनः॥ तृड्ग्लानिदोषशेषघ्नः पाचनो धातुसाम्यकृत्॥ स्रोतोमाईवकृत्स्वेदी संधुक्षयति चानलं॥ क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा॥ मलानुलोमनी पथ्चा पेयादीपनपाचनी॥ विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता॥व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिनां॥ सुधौतः प्रसुतः स्विन्नोऽत्यक्तोष्माचौदनोलघुः॥ यश्चाग्नेयौषधक्वाथसाधितो भृष्टतंदुलः॥विपरीतो गुरुः क्षीरमांसाद्यैर्यश्च साधितः॥ इतिसंयोगसंस्कारैरन्नान्यन्यानि चादिशेत्॥ शुष्यतां व्याधियुक्तानां शुद्धानां शुद्धिकांक्षिणां॥ कृशक्षामक्षतोरस्कक्षीणधात्विंद्रियौजसां॥ दृष्टिश्रवणवन्त्यायुर्बलवर्णस्वरार्थिनां॥ भग्नविश्लिष्टसंधीनां वणिनां वातरो गिणां॥ हृद्यः पथ्यः परं वृष्योबृंहणः प्रीणनो रसः॥ मौद्गस्तु पथ्यः संशुद्धव्रणकंठाक्षिरोगिणां॥ वातानुलोमी कौलत्थोगुल्मतूनीप्रतूनिजित्॥ प्रभूताभ्यंतरमलो माषयूपः परं स्मृतः॥ खल्वकांभ्रलिकौ हृद्यौछेदिनौ स्वोपधानुगौ॥ पिशितेन रसस्तत्रयूपो धान्यैः खलः फलैः॥ मूलैश्च तिलकल्काम्लप्रायः कांवटिकः स्मृतः॥ ज्ञेया कृता कृतास्ते तु स्नेहादियुतवर्जिताः॥ अल्पमांसादयः स्वच्छा दकलावणिकाः स्मृताः॥ विद्याद्यूपे रसे सूपे शाके चैवोत्तरोत्तरं॥ गौरवं तनुसांद्राम्लस्वादुष्वेषु पृथक् तथा॥ निलपिण्याकविकृतिः शुष्कशाकं विरूढकं84॥ शांटाकीवटकं दृघ्नं दोषलं ग्लपनं गुरु॥ पर्पटा लघवोरुच्या लघीयान् क्षारपर्पटः॥ हृद्या कृष्यारुचिकरा गुरवोरागखांडवाः85॥ प्रीणना भ्रमतृट्र्छर्दिमदमूर्च्छाश्रमच्छिदः॥ तृट्छर्दिश्रमनुन्मंथः86शीतः सद्यो बलप्रदः॥ प्रमेहक्षयकुष्टानि न च स्युर्मंथपायिनः॥ रसाला87 बृंहणी कृष्यास्निग्धा बल्या रुचिप्रदा॥ श्रमक्षुत्तृट्क्लमहरं पानकं प्रीणनं गुरु॥विष्टंभि मूत्रलं हृद्यंयथाद्रव्यगुणं च तत्॥लाजास्तृट्छर्द्यतीसारमेहमेदःकफच्छिदः॥ कासपित्तोपशमना दीपना लघवो हिमाः॥ पृथुका गुरवो वल्याः कफ विष्टंभकारिणः॥ धाना88विष्टंभिनी रूक्षा तर्पणी लेखनी गुरुः॥ कंठनेत्रामयक्षुत्तृट्श्रमच्छर्दिव्रणापहा॥ सक्तवो89 लघवः पानात्सद्य एव बलप्रदाः॥ निचयात्कटिनागुर्वी प्रोक्ता पिंडी मृदुर्लघुः॥ सक्तूनां द्रवतायोल्लघीयस्यवलेहिका॥शप्कुलीमोदकादीनां व्याख्यातैवं चकल्पना॥ नोदकांतरितान्न हिर्न निशायां न केवलान्॥ न भुवत्वान द्विजैश्छित्त्वासक्तूनद्यान्न वा बहून्॥ कर्कधुवदरादीनां श्रमतृष्णाक्लमच्छिदः॥ सक्तवोऽम्लरसा ह्रद्या यथाद्रव्यगुणाश्च ते॥ पिण्याको ग्लपनो रुक्षो विष्टंभी दृष्टिदूषणः॥ वेसवारो90 गुरुः स्निग्धो बोपचयवर्द्धनः॥ मुद्गाविजास्तुगुरवो यथाद्रव्यगुणानुगाः॥कुकूल91खर्परभ्राष्टकटुंगारविपाचितान्॥ एकयोनील्लघून्विद्यादपूपानुत्तरोत्तरं॥ घारीकेंडरिकाद्याश्व गुरवश्चयथोत्तरं॥ इति कृतान्नवर्गः॥ हरिणैणकुरंगर्श्यगोकर्णमृगमातृकाः॥ कालपुच्छकचारुष्कवरपोतशशोरणाः॥ श्वदंष्ट्ररामशरभकोह्कारकशंबराः॥ करालकृतमालौ च पृषतश्चमृगाः स्मृताः॥ लाववतींकवातररक्तवर्त्मकककुभाः॥ कपिंजलोपचकाख्यचकोरकुरुवाहवः॥ वर्त्तको वर्तिका चैव तित्तिरः क्रकरः शिखी॥ताम्रचूडाख्यवरकगोनर्दगिरि-वर्तिकाः॥ तथा सारपदेंद्राभवरटाश्चेति विष्किराः92॥ शतपत्रो भृंगराजः कोपष्टिर्जीवजीवकः॥खंजरीटकहारीतदुर्नामारिक्लशा गृहाः॥ लट्वालड्वषोवटहा गोक्ष्वेडो डिंडिमाणवः॥ जटी दुंदुभिपार्कारलोहपृष्ठकुलिं-गकाः॥ सारिकाशुकशाङ्करव्यचिरीटीककुयष्टिकाः॥ मंजूलीयकदात्यूहगोपापुत्रप्रियात्मजाः॥ कलविकः परभृतः कपोतोंऽगारचूडकः॥ पारावतः पाणविक इत्युक्ताः प्रतुदाः93द्विजाः॥श्वेतः श्यामश्चित्रपृष्ठः कालकः काकुलीमृगः॥ भेकचिल्लटकूचीकागोधाशल्लक्रशंडकाः॥वृषाहिकदलीश्वाविन्नकुलाद्याविलेशयाः94॥ गोरवराश्वतरोष्ट्राऽश्वट्टीपिसिंहक्षवानराः॥ मार्जारमूपकव्याघ्रनृकवभ्रुतरक्षवः॥ लोपाकजंबुकश्येनचापोडूकश्ववायसाः॥ शशघ्रीभासकुररगृध्रवेश्यकुलिंगकाः॥ धूमिका मधुहा चेति प्रसहा95 मृगपक्षिणः॥ महिपन्यंकुरोहीतवराहरुरुवारणाः॥ सृमरश्वमरः खड्गो गवयश्च महामृगाः॥ हंससारसकादंबवककारंडवप्लवाः॥ मृणालकंठचकाव्हवलाकारक्तशीर्षकाः॥ उक्वोशपुंडरीकाक्षशरारीमणितुंडिकाः॥ काकतुंडघनारावमद्गुकौंचांबुकुक्कुटाः॥नंद्यास्यमहिकाद्याश्च पक्षिणी जलचारिणः॥ मत्स्या रोहितपाठीनकूर्मकुंभीरकर्कटाः॥ शुक्तिशेंखोद्रशबूकशफरीवर्मिचंद्रिकाः॥ चुल्लकीनकमकरशिशुमारतिमिंगिलाः॥ राजीचिलिचिमाद्याश्चमांसमित्याहुरष्टधा॥योनिष्वजावी व्यामिश्रगोचरत्वादनिश्चिते॥ आद्यांत्या जांगलानूपा मध्यौ साधारणौ स्मृतौ॥ विकीर्यादिक्रियायोगैर्भक्षणाद्दिष्किरादयः॥ तत्र बद्धमला रुच्या मांसानामुत्तमा हिमाः॥ कपायस्वादुविशदा लघवो जांगला हिताः॥ पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे॥ ताम्रोऽत्र हरिणः कृष्णस्त्वेणो हृद्यस्त्रिदोषजित्॥ लघीयान् षड्रसश्वासोग्राही रुक्षो हिमः शशः॥ कटुपाकोऽग्निपथ्यः सन्निपातेऽनिलावरे॥ तद्वल्लानोऽप्यरूक्षस्तु किंचिद्रूक्षः कपिंजल॥पारावताः कपोताश्व तद्वद्दन्याःसुपूजिताः॥ ईषदुष्णगुरुस्निग्धा बृंहणा वर्तकादयः॥ तित्तिरिस्तेष्वपि वरो मेधाऽग्निबलशुक्रकृत्॥ ग्राही वर्ण्यो अनिलोद्रिकसन्निपातहरः परं॥ धन्वानूपविचारित्वात्स्निग्धोष्णगुरुवृहणः॥नातिपथ्यः शिखी पथ्यः श्रोत्रस्वखयोदृशां॥ तद्वच कुक्कुटो वृष्योग्राम्यस्तु श्लेष्मलो गुरुः॥मेधानटकरा हृद्याः कराः सोपचक्रकाः॥ गुरुः सलवणः काणकपोतः सर्वदोषकृत्॥ गुरुष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरं॥ मूत्रशुक्रकृतो बल्या वा
तघ्नाः कफपित्तलाः॥ शीता महामृगास्तेषु क्रव्यादाः96 प्रसहाः पुनः॥चक्षुष्याःभृष्टविण्मूत्रा मांसलाः कटुपाकिनः॥जीर्णार्शाग्रहणीदोषशोषार्त्तानां परं हिताः॥गोधा नियच्छति विषंमूषकः शुकवर्धनः॥शुष्ककासश्रमात्यग्निविषमज्वरपीनसान्॥कार्श्यंकेवलवातांश्च गोमांसं सन्नियच्छति॥ चटकाः श्लेष्मलाः स्निग्धा वातघ्नाः शुक्लाःपरं॥गुरूष्णो महिषःस्निग्धः स्वमदार्ढ्यबृहत्वकृत्॥तद्वद्वराहः श्रमहा रुचिशुक्रबलप्रदः॥हंसः स्वरकरःपित्तरक्तजिन्मधुरो हिमः॥ कफपित्तकरा मत्स्याः परं पवननाशनाः॥प्रतिस्रोतो विचारित्वादाकाशलवनेन च॥ रोहितः प्रवरस्तेपां परं चिलिचिमोऽवरः॥ अगोचरविचारित्वात्स97र्पदोषकरो हि सः॥ कुलीरःपरमं वृष्यो बृंहणः प्रीणनो गुरुः॥ नातिशीतगुरुस्निग्धं मांसमाजमदोषलं॥शरीरधातुसामान्यादनभिष्यंदि बृंहणं॥विपरीतमतोज्ञेयमाविकं बृंहणं तु तत्॥ अतिमेद्यं98 त्यजेन्मांसं हतं व्याधिविषोदकैः॥ स्वयं मृतं धूमपूर्णमगोचरमृतं कृर्श॥ सद्योहतं वयस्थं चशुद्धं सुरभि शस्यते॥ एणः कुरंगो हरिणः शशो लावः कपिंजलः॥तित्तिरिः ककरो गोधा श्वाविद्गृध्रोमृगाधिपः॥बर्हिणः सारिकान्यंकुर्हंसोरोहितकच्छपौ॥ वर्मी चाग्र्यःस्ववर्गेषु प्रबरास्तेष्वपिस्तृताः॥ लावैणगोधाः सिंहश्व’ निंदितो गौः सदर्दुरः॥ ऋष्यः काणकपोतश्च’ शेषमुक्तं यथायथं॥गुरूण्यंडानि बालांनां कषायलवणंपलं॥ वृद्धानां स्नायुभूयिष्ठमबल्यं गुरु दोषलं॥ पुंस्त्रियोः पूर्वपश्चार्द्धेगुरुणीगर्भिणीगुरुः॥ लघुर्योषिच्चतुष्पात्सुविहंगेषु पुनः पुमान्॥शिरःस्कं वोरुपृष्ठस्य कट्याःसक्थ्नोश्चश्च गौरवं॥ तथाऽऽमपक्वाशययोर्यथापूर्वंविनिर्दिशेत्॥ शोणितप्रभृतीनां तु धातूनामुत्तरोत्तरं॥मांसाद्गरीयो वृषणमेंढ्रवृक्कयकृद्गुदं॥ इति मांसवर्गः॥ शाकं पाठा
शठी सूपा सुनिषण्णसतीनजं॥त्रिदोषघ्नं लघु ग्राहि सराजक्षववास्तुकं॥ मुनिषण्णोऽग्निकृद्वृहृष्यस्तेषु राजक्षवः परं॥ ग्रहण्यर्शोषिकारघ्नो वर्चोभेदि तु वास्तुकं॥हंति दोषत्रयंकुष्टं॥वृष्या सोष्णा रसायनी॥ काकमाची सरा स्वर्या चांगेर्यम्लाऽग्निदीपनी॥ ग्रहण्यर्शोऽनिलश्लेष्महितोष्णा ग्राहिणी लघुः॥पटोलसप्तलारिष्टशार्ङ्गष्टाऽवगुजाऽमृताः॥ वेत्राग्रबृहतीवासाकुंतलीतिलपर्णिका॥ मंडूकपर्णीकर्कोटकारवेल्लकपर्पटाः॥ नाडीकलायगोजिह्वावार्ताकं वनतिक्तकं॥ करीरं कुलकं नंदी कुचैला शकुलादनी॥ कटिल्लंकेंबुकं शीतं सकोशातककर्कशं॥ तिक्तं पाकेकटु ग्राहि वातलं कफपित्तजित्॥ हृद्यं पटोलं कृमिनुत्स्वादुपाकंरुचिप्रदं॥पित्तलं दीपनं भेदि वातनं बृहतीद्वयं॥ वृषं तु वमिकासघ्नं रक्तपित्तहरं परं॥ कारवेल्लं सकटुकं दीपनं कफजित्परं॥वार्ताकं कटुतिक्तोष्णं मधुरं कफवातजित्॥ सक्षारमग्निजननंहृद्यं रुच्यमपित्तलं॥ करीरमाध्मानकरं कषायं स्वादु तिक्तकं॥ कोशातकावल्गुजकौभेदनावग्निदीपनौ॥ श्यामाशाल्मटिकाश्मर्यकंजीकर्णकयूथिकाः॥ वृक्षादनीक्षीरिवृक्षबिंबीतनिकवृकक्षकाः॥ लोध्रःशणः कर्बुदारः ससेलुर्विषमुष्टिका॥ भल्लातकः कोविदारः कमलोपठकिंशुकं॥ पटोलादिगुणं99 स्वादु कषायं पित्तजित्परं॥ बद्धमूत्रंसरा फंजी करीरं स्यादभीरुजं॥ सतिक्तं लघु चक्षुष्यंवृष्यंदोषत्रयप्रणुत्॥ तंदुलीयो हिमो रूक्षः स्वादुपाकरसो लघुः॥ मदपित्तविषासृग्घ्नोमुंजातं वातपित्तजित्॥ स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्रकृत्परं॥पालंक्या पिच्छिला गुर्वी श्लेष्मला भेदिनी हिमा॥मदघ्न्युपोदका चंचुर्ग्राही तौ पूर्ववत्तथा॥ विदारीवातपित्तघ्नी भूत्रला स्वादुशीतला॥ जीवनी बृंहणी कंठ्या गुर्वी वृष्यारसायनी॥
चक्षुष्या सर्वदोषनी जीवंती मधुरा हिमा॥ शाकानां प्रवरा न्यूनाद्वितीया किंचिदेव तु॥ बातपित्तहरा भंडी पर्वणी पर्वपुष्पिका॥ कूष्मांडतुंवकालिंगकर्कार्वर्वारुतिंडिशं॥ तथा त्रपुसचिनाकचिर्भटंकफवातकृत्॥भेदि विष्टंभ्यभिष्यंदि स्वादुपाकरसं गुरु॥ वल्लीफलानां प्रवरं कूष्मांडं वातपित्तजित्॥ बस्तिशुद्धिकरं वृष्यं त्रपुसं त्वतिमूत्रलं॥ तुंवं रूक्षतरं ग्राहि कालिंगैर्वारुचिर्भटं॥ बालंपित्तहरं शीतं विद्यात्पक्वमतोऽन्यथा॥ शीर्णवृंतं सक्षारं पित्तलं कफवातजित्॥ रोचनं दीपनं हृद्यमष्टीलाऽऽनाहतुल्लघु’॥ मृणालविसशालूक-शृंगाटककसेरुकाः॥नंदीमाषककेलूटकौंचादनकलोड्यकं॥ सतरुढं कदंवंच रूक्षं ग्राहि हिमं गुरु’॥ कलंबनालिका मार्षकुटिंजरकुतुंवकं॥चिल्लीनिष्पावलट्वाककुरुढकगवेधुकाः॥ जातुका सालकल्याणी त्रिपर्णी पीलुपर्णिका॥ कुमारजीवलोणीकायवशाकं सुपर्चला॥ कुकुंडनलिनीमुष्टष्टकधूमकलक्ष्मणं॥ आलुकानि च सर्वाणि तथा सूप्यानि रालकः॥ जीवंतकश्चंचुपर्णी प्रपुन्नाटकुठेरकं॥ स्वादु रूक्षं सलवणं बातश्लेष्मकरं गुरु॥शीतलं सृष्टविण्मूत्रं प्रायो विष्टभ्य जीर्यति॥ स्विन्नं निष्पीडितरसं स्नेहाढ्यंनातिदोषलं॥ लघुपत्रा तु या चिल्ली सा वास्तुकसमा मता॥ तर्कारीवरुणं सादु सतिक्तंकफवातजित्॥ वर्षाभ्वौ कालशाकं च सक्षारं कटुतिक्तकं॥ दीपनं भेदनं हंति गरशोफकफानिलान्॥ दीपनाः कफवातघ्नाश्चिरविल्वांकुराः सराः॥ लघुरुष्णा सरा तिक्तासोरुबूका च लांगली॥ वातलौ कटुतिक्ताम्लौभेदिनौ तिलवेतसौ॥तद्वत्पंचांगुलो वंशकरीरास्तु विदाहिनः॥वातपित्तकरा रूक्षाः कटुपाकाः कफापहाः॥बिल्वरास्नाबलाशाकं वातघ्नमतिसारजित्॥वायुं वत्सादनी हन्यात्कफंकंजीरचित्रकौ॥ पत्तूरो दीपनस्तिक्तःप्लीहार्शः कफवातजित्॥ कृमिकासकफोत्क्लेदान्कासमर्दो जयेत्सरः॥
रुक्षोष्णमम्लं कौसुंभं गुरु पित्तकरं सरं॥ सक्षारमधुरं स्निग्धमुष्णंगुरु च सार्षपं॥ शाकानामवरं बद्धविण्मूत्रं सर्वदोषकृत्॥ यद्बालमव्यक्तरसं किंचित्क्षारं सतिक्तकं॥ तन्मूलकं दोषहरं लघु सोष्णंनियच्छति॥ गुल्मकासक्षयश्वासव्रणनेत्रगलामयान्॥ राग्निसादोदावर्तपीनसांच महत्पुनः॥ रुक्षोष्णं कटुकं स्वादु विपाके सर्वदोषकृत्॥ गुर्वभिष्यंदि च स्निग्धसिद्धं तदपि वातजित्॥ वातश्लेप्महरं शुष्कं सर्वमामं तु दोषलं॥कटूष्णो वातकफहा पिंडालुः पित्तवर्द्धनः॥कुठेरशिग्रुसुरसप्तुमुखाऽऽसुरिभूस्तृणा॥ धान्यतुंवरशैलेययवानीशृंगवेरिकाः॥ पर्णाशो गृंजनोऽजाजी कंडीरो जलपिप्पली॥फणिज्जार्जकजंवीरस्वराश्वाकालमाटिकाः॥ दीप्यकक्षवकद्वीपिवस्तगंधादि बद्धविद्॥ रसे पाके च कटुकं दोषोत्क्लेशकरं लघु॥ विदाहिरूक्षं तीक्ष्णोष्णं दृक्शुक्रकृमिनाशनं॥ वर्गो हरितकास्योऽयमुपदंशेषु100")युज्यते॥ वासनो व्यंजनानां100”) च हृद्यो दीपनरोचनः॥ हिध्माकासविपश्वासपार्श्वरुक्पूतिगंधहा॥ सुरसः सुमुखः शोफगरहा धानका पुनः॥ कषायतिक्तमधुरा मूत्रला न च पित्तकृत्॥ खराश्वावस्तिशूलघ्नीचित्रको दीपनः परः॥ पत्रे सक्षारमधुरो मध्ये मधुरपिच्छिलः॥तीक्ष्णोष्णो लशुनः कंदे कटुपाकरसः सरः॥हृद्यःकेश्यो गुरुर्वृष्यः स्निग्धो दीपनपाचनः॥ क्षग्नसंधानकृद्वल्योरक्तपित्तप्रदूषणः॥ किलासकुष्टगुल्मार्शोमेहकृमिकफानिलान्॥ सहिध्मापीनसश्वासकासान्हंंति रसायनं॥ पलांद्दुस्तद्गुणैर्न्यूनो विपाके मधुरस्तु सः॥कफंकरोति नो पित्तं केवलानिलनाशनः॥ दीपनः सूरणो रुच्यः कफघ्नो विशदो लघुः। विशेषादर्शसां पथ्यो भूकंदस्त्वति
***॥ पुष्पे पत्रे फले नाले कंदे च गुरुताक्रमात्॥ वरा शाकेषु
***
सर्षपं त्वरंपरं॥ इति शाकवर्गः॥ द्राक्षा फलोत्तमा
वृष्या चक्षुष्यासृष्टमूत्रविद्॥स्वादुपाकरसास्निग्धा सकषाया हिमा गुरुः॥ निहंत्यनिलपित्तास्वतिक्तास्यत्वमदात्यवान्॥ तृष्णाकासज्वरश्वासस्वरभेदक्षतक्षयान्॥उद्रिक्तपित्तान् जयति त्रीन् दोषान्स्वादु द्राडिमं॥पित्ताविरोधि101 नात्युष्णमग्लं वातकफापहं॥सवै हृद्यं लघु स्निग्धं ग्राहि रोचनदीपनं॥मोचखर्जूरपनसनारिकेलपरूषकं॥ आम्राततालकाश्मर्यराजादनमधूकजं॥ सौवीरवदरांकोहफल्गु श्लेष्मातकोद्भवं॥ वातामामिपुकाक्षोदमुकूलक निकोचकं॥ उरुमाणं प्रियालं च दृहणं गुरु शीतलं॥ दाहक्षतक्षयहरंक्तपित्तप्रसादनं॥स्वादुपाकरसं स्निग्धं विष्टंभि कफशुक्रकृत्॥ नारिकेलं गुरु स्निग्धं पित्तलं खादु शीतलं॥ वलमांसकरं हृद्यंबृंहणं बस्तिशोधनं॥ मोचं स्वादुरसं प्रोक्तं कषायं नातिशीतलं॥ रक्तपित्तदृरंरुच्यं श्लेष्मकरं गुरु स्निग्धं स्वादु कषायं च राजादनफलं गुरु॥फलं तु पित्तलं तालं सरं काश्मर्यजं हिमं॥ शकृन्मूत्रविधंधघ्नं केश्यं मेध्यं रसायनं॥ मधूकजमह्रद्यंतु बदरं सरणात्मकं॥ वातामाद्युष्णवीर्य तु कफपित्तकरं सरं॥ परं वातहरं स्निग्धमनुष्णं तु पियालजं॥ पियालमज्जा मधुरो वृष्यःपित्तानिलांपहः॥कोलमज्जा गुणैस्तद्वच्छर्दिवृद्कासजिव सः। तिंदुकाश्मंतकासीनफलिनीविंवतोदनं॥टंकाश्वकर्णनवकुलगांगेरुधबधन्वनं॥ श्वेतपाकं कपित्थानि सिंचतीभव्यजांववं॥ क्षीरिक्षफलं बीजं पौष्करं कफपित्तजित्॥ कषायमधुरं रूक्षं शीतलं गुरु लेखनं॥ विवंधाध्मानजननं स्तंभनं वातकोपनं॥ कपित्थमामं कंठघ्नं कषायाम्लं त्रिदोषकृत्॥पक्वंरुच्यं कषायाम्लं स्वादु हिध्मावमिप्रणुत्॥ दोषघ्नं खांडवारिष्टरागयुक्तिषुपूजितं॥ विषघ्नमुभयंग्राहि कपित्थाद्येवमादिशेत्॥ वृंहणं वातपित्तघ्नं स्निग्धं सिंचतिकाफलं॥ भव्यं विशदमम्लं च जां
ववं त्वतिवातलं॥विष्टंभरुदकंठ्यं च साम्लं त क्षीरिक्षजं॥ पित्तश्लेष्मघ्नमम्लं च वातलं चाक्षकीफलं॥ बालं कषायकट्वम्लं रूक्षं वातास्रपित्तकृत्॥ संपूर्णमाम्रमम्लं तु रक्तपित्तकफप्रदं॥स्वादुसाम्लं गुरु स्निग्धं मारुतघ्नमपित्तलं॥हृद्यंपर्यागतं102 श्लेष्ममांसशुक्रबलप्रदं॥सहकाररसो हृद्यः सुरभिः स्निग्धरोचनः॥ दीपनः पित्तवातघ्नः शुक्रशोणितशुद्धिकृत्॥कषायं रोचनं हृद्यं वातलं लवलीफलं॥गुर्वग्निसादकृद्विल्वं दोषलं पूतिमारुतं॥ पक्वंबालं पुनस्तीक्ष्णं पित्तलं लघु दीपनं॥ वातश्लेष्मघ्नमृष्णं च स्निग्धं ग्राह्युभयं परं॥वृक्षाम्लं ग्राहि रूक्षोष्णं लघु रोचनदीपनं॥ वातश्लेष्महरंकिंचिदूनं कोशाम्रजं ततः॥ फलं करंजं विष्टंभि पित्तश्लेष्माविरोधि च॥ गुरूष्णमधुरं रूक्षं केशघ्नं च शमीफलं॥ कटुपाकरसं पीलुुतीक्ष्णोष्णं भेदि पित्तलं॥ कृमिगुल्मोदरगरप्लीहार्शःकफवातजित्॥ सतिक्तं स्वादु यत्पीलु नात्युष्णं तत्रिदोषजित्॥नीपं शताक्षिकं प्राचीनामलं तृणशूल्यकं॥ अस्मादल्पांतरगुणमैंगुदं सविकंकनं॥ त्वक् तिक्ता कटुका स्निग्धा मातुलुंगस्य वातजित्॥ बृंहणं मधुरं मांसं वातपित्तहरं गुरु॥ लघु तत्केसरं कासश्वासहिध्मामदात्ययान्॥ आस्यशोषानिलश्लेष्मविबंधच्छर्द्यरोचकान्॥ गुल्मोदरार्शःशूलानि मंदाग्नित्वं च नाशयेत्॥ भल्लातकस्य त्वड्यांसं बृंहणं स्वादु शीतलं॥ तदस्थ्यग्निसमं मेध्यं कफवातहरं परं॥ स्वाद्वम्लंशीतमुष्णं च द्विधा पालेवतं गुरु॥ रुच्यमत्यग्निशमनं रुच्यं मधुरमारुकं॥ पक्वमाशु जरां याति नात्युष्णं गुरु दोषलं॥ द्राक्षापरूषकं चार्द्रमम्लंपित्तकफमदं॥ गुरूष्णवीर्यंवातघ्नंसरं सकरमर्दकं॥ तथाऽम्लं कोलकर्कं बुलिकुचाम्रातकारुकं॥ ऐरावतं दंतशटं सतूदं मृगलिंडिकं॥ नाति पित्तकरं पक्वंशुष्कं च करम
र्दकं॥ दीपनं भेदनं शुष्कमम्लिकाकोलयोः फलं॥ तृष्णाश्रमक्लमच्छेदि लघ्विष्टं कफवातयोः॥ फलानामवरं तत्र लिकुचं सर्वदोषकृत्॥ हिमानलोष्णदुर्वातव्याल103लालादिदूषितं॥ जंतुजुष्टंजले मग्नमभूमिजमनार्तवं॥ अन्यधान्ययुतं हीनवीर्यंजीर्णतयाऽपिच॥ धान्यं त्यजेत्तथा शाकं रुक्षसिद्धमकोमलं॥ असंजातरसंतद्वच्छुष्कं चान्यत्र मूलकात्॥ प्रायेण फलमप्येवं तथाऽऽमं विल्ववर्जितं॥ इति फलवर्गः॥ शुकर्शिविजपक्वान्नमांसशाककफलाश्रयैः॥ वर्गैरन्नैकदेशोऽयं भूयिष्ठमुपयोगवान्॥ निर्दिष्टो रसवीर्याद्यैर्यथास्वं कर्मसाधने॥न शक्यं विस्तरेणापि वक्तुं सर्वं तु सर्वथा॥हिताहितत्वेऽप्येकांतनियमोऽस्मादनिश्चितः॥ मात्रायोगक्रियादेशकालावस्थादिभेदतः॥ ततस्ततो यतो दृष्टास्तेते भावास्तथातथा॥ मात्रया सेवितं मद्यं हंति रोगांस्तदुद्भवान्॥ निषेव्यमाणंतिलशो विषमप्यमृतायते॥ होनातिमात्रमशनं मरुन्निचयकोपनं॥ भजतो विषरूपत्वं तुल्यांशे मधुसर्षिपी॥ क्षारोऽम्लरससंयोगे मधुरो भवति क्षणात्॥ उत्तुंडक्यास्तिंदुकेन तिक्तता मधुरायते॥हिंगुगैरिकसिंधूत्थं गंधवर्णरसाधिकं॥ पूगतांबूलशंखेभ्यो वर्णगंधरसोद्भवः॥ कोद्रवो हंत्यसृक्पित्तं करोत्येव विदाहिभिः॥ कुष्ठं तत्कार्यपितिलो104हंति भल्लातकैः सह॥ गुडः कर्त्ताऽग्निसादस्य स हिनस्त्यभयादिभिः॥ हृष्यत्यग्नौसंमदनं105 सर्पिरप्युपदिश्यते॥ जीवनीयमपि क्षीरंविषलेशेन मृत्यवे॥ तुल्ये अपि हतोऽन्योन्यं विषेस्थावरजंगमे॥ सक्तवो बातला रूक्षाः पीतास्तेतर्पयंति तु॥ विनाऽपि चोपयोगेन मणिमंत्रादि कार्यकृत्॥ आर्द्रकाज्जायते शुंठी संस्कारेण लघीयसी॥
ववंत्वतिवातलं॥ विष्टंभदकंठ्यं च साम्लं तु क्षीरिष्टक्षजं॥ पित्तश्लेष्मघ्नमम्लं च वातलं चाक्षकीफलं॥ बालं कषायकट्वम्लं रूक्षं वातास्रपित्तकृत्॥ संपूर्णमाम्रमम्लंतु रक्तपित्तकफप्रदं॥स्वादुसाम्लं गुरु स्निग्धं मारुतघ्नमपित्तलं॥हृद्यं पर्यागतं106 श्लेष्ममांसशुकबलप्रदं॥सहकाररसो ह्रद्यः सुरभिःस्निग्धरोचनः॥ दीपनः पित्तवातघ्नः शुक्रशोणितशुद्धिकृत्॥ कषायं रोचनं हृद्यं वातलं लवलीफलं॥गुर्वग्निसादकृद्विल्वंदोषलं पूतिमारुतं॥ पक्वंबालं पुनस्तीक्ष्णं पित्तलं लघु दीपनं॥ वातश्लेष्मघ्नमुष्णंच स्निग्धं ग्राह्युभयं परं॥ वृक्षाम्लंग्राहि रूक्षोष्णं लघु रोचनदीपनं॥ वातश्लेष्महरंकिंचिदूनं कोशाम्रजं ततः॥ फलं करंजं विष्टंभि पित्तश्लेष्माविरोधि च॥ गुरूष्णमधुरं रूक्षं केशघ्नं च शमीफलं॥ कटुपाकरसं पीलु तीक्ष्णोष्णं भेदि पित्तलं॥ कृमिगुल्मोदरगरप्लीहार्शःकफवातजित्॥ सतिक्तं स्वादु यत्पीलुनात्युष्णं तत्रिदोषजित्॥नीपं शताक्षिकं प्राचीनामलं तृणशुल्यकं॥ अस्मादल्पांतरगुणमैंगुदं सविकंकनं॥ त्वक् तिक्ता कटुका स्निग्धामातुलुंगस्य वातजित्॥ बृंहणं मधुरं मांसं वातपित्तहरं गुरु॥ लघु तत्केसरं कासश्वासहिध्मामदात्ययान्॥ आस्यशोषानिलश्लेष्मविबंधच्छर्द्यरोचकान्॥ गुल्मोदरार्शःशूलानि मंदाग्नित्वं च नाशयेत्॥ भल्लातकस्य त्वड्भासं बृंहणं स्वादु शीतलं॥ तदस्थ्यग्निसमं मेध्यं कफवातहरं परं॥ स्वाद्वम्लंशीतमुष्णं च द्विधा पालेवतं गुरु॥ रुच्यमत्यग्निशमनं रुच्यं मधुरमारुकं॥ पक्वमाशु जरां याति नात्युष्णं गुरु दोषलं॥ द्राक्षापरूपकं चार्द्रमम्लं पित्तकफमदं॥ गुरूष्णवीर्यं वातघ्नंसरं सकरमर्दकं॥ तथाऽम्लं कोलकर्कधुलिकुचाम्रातकारकं॥ ऐरावतं शंतशटं सतूदं मृगलिंडिकं॥ नाति पित्तकरं पक्वंशुष्कं च करम
र्दकं॥ दीपनं भेदनं शुष्कमम्लिकाकोलयोः फलं॥ तृष्णाश्रमक्लमच्छेदि लघ्विष्टं कफवातयोः॥ फलानामवरं तत्र लिकुचं सर्वदोषकृत्॥ हिमानलोष्णदुर्वातव्याल103लालादिदूषितं॥ जंतुजुष्टंजले मग्नमभूमिजमनार्तवं॥ अन्यधान्ययुतं हीनवीर्यंजीर्णतयाऽपिच॥ धान्यं त्यजेत्तथा शाकं रुक्षसिद्धमकोमलं॥ असंजातरसंतद्वच्छुष्कं चान्यत्र मूलकात्॥ प्रायेण फलमप्येवं तथाऽऽमं विल्ववर्जितं॥ इति फलवर्गः॥ शुकर्शिविजपक्वान्नमांसशाककफलाश्रयैः॥ वर्गैरन्नैकदेशोऽयं भूयिष्ठमुपयोगवान्॥ निर्दिष्टो रसवीर्याद्यैर्यथास्वं कर्मसाधने॥न शक्यं विस्तरेणापि वक्तुं सर्वं तु सर्वथा॥हिताहितत्वेऽप्येकांतनियमोऽस्मादनिश्चितः॥ मात्रायोगक्रियादेशकालावस्थादिभेदतः॥ ततस्ततो यतो दृष्टास्तेते भावास्तथातथा॥ मात्रया सेवितं मद्यं हंति रोगांस्तदुद्भवान्॥ निषेव्यमाणंतिलशो विषमप्यमृतायते॥ होनातिमात्रमशनं मरुन्निचयकोपनं॥ भजतो विषरूपत्वं तुल्यांशे मधुसर्षिपी॥ क्षारोऽम्लरससंयोगे मधुरो भवति क्षणात्॥ उत्तुंडक्यास्तिंदुकेन तिक्तता मधुरायते॥हिंगुगैरिकसिंधूत्थं गंधवर्णरसाधिकं॥ पूगतांबूलशंखेभ्यो वर्णगंधरसोद्भवः॥ कोद्रवो हंत्यसृक्पित्तं करोत्येव विदाहिभिः॥ कुष्ठं तत्कार्यपितिलो104हंति भल्लातकैः सह॥ गुडः कर्त्ताऽग्निसादस्य स हिनस्त्यभयादिभिः॥ हृष्यत्यग्नौसंमदनं105 सर्पिरप्युपदिश्यते॥ जीवनीयमपि क्षीरंविषलेशेन मृत्यवे॥ तुल्ये अपि हतोऽन्योन्यं विषेस्थावरजंगमे॥ सक्तवो बातला रूक्षाः पीतास्तेतर्पयंति तु॥ विनाऽपि चोपयोगेन मणिमंत्रादि कार्यकृत्॥ आर्द्रकाज्जायते शुंठी संस्कारेण लघीयसी॥
लघुभ्योऽपि हि सक्तुभ्यो गुरवः सिद्धपिंडिकाः॥ भृष्टः क्षुण्णोऽपिपृथुको रक्तशालेर्लघोर्गुरुः॥ शालिः पिष्टा गरीयस्त्वं गोधूमादपिगच्छति॥ लघुपित्तहरा लाजा ब्रीहितो गुरुपित्तलात्॥ संग्राहिणो लघोर्मुद्गात्कुल्माषो107भेदनो गुरुः॥ आमं ग्राहितरं तकं तत्स्वलीकृतमन्यथा॥ गुडात्तोयाच्चसुतरां मूत्रलं गुरु पानकं॥ गरीयोगुडदध्युक्तं रसाला चातिशुक्ला॥दंडाभिमथनाद्दघ्नोगुरुणश्चातिशोफदात्॥ अनुद्धृतस्नेहमपि तकं शोफहरं लघु॥ सर्पिः स्निग्धतरं हंति नार्दितं नवनीतवत्॥ चक्षुष्योऽपि हि गोधूमस्तैलपक्वस्तु दृष्टिहा॥ मूलकं दोषजननं स्निग्धसिद्धं108 त्वदोषलं॥ उष्णं विषीभवत्येव विषन्नमपि माक्षिकं॥ दुर्भाजनस्था द्राक्षाऽम्ला दोषलाच प्रजायते॥ श्लक्ष्णशुष्कघनोलेपश्चंदनस्यापि दाहकृत्॥ त्वग्गतस्योष्मणोरोधाच्छीतकृत्त्वन्यथाऽगुरोः॥ मेध्यस्तिलः स्पर्शशीतोऽमेध्यं तैलं खलोऽहिमः॥तस्यैव श्लेष्मकारित्वं न तैलस्य खलस्य वा॥ दध्नः श्वयथुकारित्वं न तक्रनवनीतयोः॥ भूमिसात्म्यं दधिक्षीरकरीरं मरुवासिषु॥ क्षारः प्राच्येषु मत्स्यास्तु सैंधवेष्वश्मकेषु तु॥ तैलाम्लं कंदमूलादि मलये कोंकणे पुनः॥ पेया मंथ उदीच्येषु गोधूमोऽवंतिभूमिषु॥ बाल्हीका बाल्हवाश्चीना शुलीका यवनाः शकाः॥ मांसगोधूममार्द्वीकशस्त्रवैश्वानरोचिताः॥ देहसात्म्यंघृतं क्षीरं मद्यं मांसं च कस्यचित्॥ पेया यूपो रसोऽन्यस्य गोधूमोऽन्यस्य शालयः॥ अहितैरपि तेषां च नैवोपहितं हितं॥ अन्नपानौषधं दोषमात्राकालाद्यपेक्षया॥ सात्म्यंह्याशु बलं धत्तेनातिदोषं च बह्वपि॥ स्रंसनं सत् पयो गव्यं भवति ग्राहि कस्यचित्॥ मंदोऽग्निर्भवति प्रायः कफवातोत्तरे हिमे॥ विषघ्नेनापि पयसा देहेऽहेर्वर्द्धतेविषं॥स्थूलस्थविस्वालादौ वमनादि निषिध्यते॥
तक्रमामं कफंकोष्ठे हंति कंठे करोति तु॥ वातहृत्वेऽपि मृद्दीकाखर्जूरंकोष्ठवातरुत्॥ नातिपथ्यः शिखी पथ्यः श्रोत्रस्वरवयोदृशां॥ दृष्टेः स्पर्शहिमं द्रव्यं श्रोत्रस्योष्णं तु पूजितं॥ पयः स्वादु सरं शीतं विपरीतं ततो दधि॥ कालेन जायते तस्मात्क्षीरवच्चपुनर्घृतं॥ पयो दधि च वातघ्नमजातं वातलं तु तत्॥ तक्रंग्राहि कषायाम्लमम्लमेव तु भेदनं॥ धातकीगुडतोयानि कारणं मद्यसुक्तयोः॥ शीते न तु तदाद्यंते स्निग्धाम्ललवणा हिताः॥ उदमंथदिवास्वप्नौग्रीष्मादन्यत्र गर्हितौ॥ समयोगेऽपि धर्माद्या वातादिचपहेतवः॥ ऋतुष्वन्यो रसेष्वन्यो रूक्षस्नेहबलक्रमः॥ रसायनीकाकमाची सद्यः पर्युषिता विषं॥ मूलकं दोषजिद्बालंविपरीतं तु कंदवत्॥ ज्वरे पेयाः कषायाश्च सर्पिः क्षीरं विरेचनं॥ षडहं षडहंयुंज्याद्वीक्ष्य रोगबलावलं109॥ छर्दिहृद्रोगगुल्मार्ते वमनं च चिकित्सितं॥ निषिद्धमपि निर्दिष्टं॥ बस्तिरर्शसकुष्टिनोः॥ ज्वरे तुल्यर्तुदोषत्वंप्रमेहे तुल्यदूष्यता॥ रक्तगुल्मे पुराणत्वं सुखसाध्यत्वहेतवः॥ आश्चोतनमभिष्यंदे युंजीतोर्ध्वं दिनत्रयात्॥ अंजनं पक्वदोषस्यप्रतिश्याये च नावनं॥ नातिप्रवृद्धे तिमिरे सिरामोक्षो विधीयते॥ दुष्टास्रसंभवेऽपीष्टो नास्रपित्ते सिराव्यधः॥ अपथ्यंपथ्यमप्यन्नंनिशायां नेत्ररोगिणां॥ अहिताः सक्तवः शुष्का हितास्ते तु प्रमेहिणः॥ गुल्मिनः क्षीरदध्यादि हपुपाद्यैर्युतं हितं वातलं वातकोपेऽपि वर्षासु मधु शस्यते॥ तदेव मद्यं मद्यस्य विषांतरं॥ घृतमानूपदेशोत्थं हेमंते च बलाधिकं॥ आलस्पगौरवे रूपं वातजेऽपि ज्वरे पुरः॥ स्वेदैर्याति शमं दाहःप्रायोलशुनपाकजः110॥ दिवास्वप्नाज्जरां याति भुक्तमन्येद्युरद्य न॥कोष्ठे रुद्धोऽग्निकृद्वायुर्वेदसाऽर्शोभिरग्निहृत्॥ दुष्पानं दुर्जरं सर्पिर्दीपनं च पयोऽन्यथा॥ सर्पादिशवकोथेभ्यो वृश्चिकानां समुद्भवः॥ते तैरेव पुनर्दष्टाः सद्यो मुंचंति जीवितं॥ स्वयमेवविषंतीव्रंतान्पुनर्नातिबाधते॥ सर्वांगव्यापि तेषां च शुक्रवत्संसृतं विषं॥ तन्मांसमुपयोगाय मांसवर्गे च पठ्यते॥ छर्दिघ्नी मक्षिकाविट् च मक्षिकैव तु वामयेत्॥ कफे लंघनसाध्येऽपि कर्तरि ज्वरगुल्मयोः॥तुल्येऽपि देशकालादौलंघनं न समंजसं॥ सर्वथा दोषजित्तक्रंग्रहण्यां दोषकृद्व्रणे॥ पीनसश्वासकासादौ सिद्धमेव प्रशस्यते॥ इत्येतेऽन्ये च बहवः सूक्ष्मा दुर्लभहेतुकाः॥ कर्म111 वैचित्र्यभावेषु किं चित्तेषां निदर्शितं॥ दिशाऽनया शेषमपि स्वयमूहेत बुद्धिमान्॥ न शास्त्रमात्रशरणो न चानालोचितागमः॥ इति मात्रादिप्रकरणं॥इत्यन्नस्वरूपविज्ञानीयो नाम सप्तमोऽध्यायः॥७॥
अथातोऽन्नरक्षाविधिमध्यायं व्याख्यास्यामः॥ ईश्वराणां वसुमतां विशेषेण तु भूभुजां प्रायेणमित्रेभ्योऽप्यमित्रा भूयांसो भवंति॥ ततस्तत्प्रयुक्ताः समासन्नवर्तिनोऽन्नपानादिषु विषं प्रयच्छंति॥ स्त्रियश्चतत्प्रणिधिप्रयुक्ताः112”) सौभाग्यलोभेन॥ तस्माद्राजा कुलीनं स्निग्धमाप्तमास्तिकमार्यमार्यपरिग्रहं113 दक्षं दक्षिणं निभृतं शुचिमनुद्धतमनलसमव्यसनिनमनहंकृतमकोपनमसाहसिकं वाक्यार्थावबोधकुशलं निष्णातमष्टांगे यथाऽऽम्नायमायुर्वेदे सुविहितयोगक्षेमं सन्निहितागदादियोगं सात्म्यज्ञं च प्राणाचार्यं परिगृह्णीत॥तमर्थमानाभ्यां यथाकालं गुरुमिव शिष्यः पितरमिव पुत्रः पूजयेत्॥ प्रतिकूलमपि तद्वचः सांप्रतं मतमिति प्रति मन्येत॥ नहि भद्रोऽपि गजपतिर्निरंकुशः श्लाघनीयो जनस्य॥ तस्मात्तदापत्तमाहारविहारं प्रति चात्मानं कुर्यात्॥ उपात्तमपि खलु जीवितमुपायबलेन स्वसमयमधितिष्ठति॥ अपि च॥ बहुपरिग्रहानरपतयः संति चाशुकारिणः शदसंन्यासादयः प्रतिक्षणं प्रत्यवेक्षणीयावस्थाश्च रोगिणो विशेषेण राजानः॥ ते हिप्रमादपरिगता दुःखासहिष्णवश्च स्वयमप्यपथ्यरुचयःसन्निहिताहितप्रियवचनप्रायपरिवाराश्च॥ तस्माद्भिषजो राजा राजगृहासन्नेनिवेशनं कारयेत्॥ तथाहि॥ सर्वोपकरणेषु नृपतिशरीरोपयोगिष्वपरोक्षवृत्तिर्भवति॥ स सम्यक्संपन्नमन्त्रं सुपरीक्षितं विशुद्धमग्न्यादिषु प्रागुपनीतं शिखिना दृष्टमभिप्रोक्षितं प्रोक्षणैः114 पुरस्थितोराजानं हस्तबद्धौषधिरत्नंभोजयेत्॥ भुंजानस्यास्य दुंदुभीनगदप्रलिप्तान्वादयेत्॥ तत्र सविषमन्नं स्राव्यमानमविस्राव्यं भवति चिरेण पच्यते पक्वंच सद्यः पर्युषितमिव निरूष्मस्तब्धं च जायते यथास्ववर्णगंधरसैर्व्यापद्यते प्रक्लिद्यते चंद्रिकाचितं च भवति॥ व्यंजनानामा115शु शुष्कत्वं भवति क्वाथस्य ध्यामता116 हीनातिरिक्तविकृतानां चात्रछायानां दर्शनमदर्शनमेव वाफेनपटलसीमंतकोर्ध्वविविधं राजितं तुबुद्बुदप्रादुर्भावः॥ विशेषेण लवणोल्वणे फेनमाला॥ रसस्य मध्येनीला राजी॥ पयसस्ताम्रा।मद्यतोययोः काली॥ दनः श्यावा॥तकस्याऽऽनीलपीता॥ मस्तुनः कपोतासा॥ धान्याम्लस्य कृष्णा॥द्रवौषधस्य कपिला॥ घृतस्य सलिलाभा॥ क्षौद्रस्य हरिता॥ तैलस्यारुणा वसागंधश्च॥ फलानामामानां पाकः॥पक्वानां प्रकोथः॥द्रव्याणामार्द्राणांसहसा म्लानत्वमन्यत्वभावः॥ शुष्काणां श्यावतावैवर्ण्यं च॥ कठिनानां भ्रदिमा॥ मृदूनां कठिनत्वं॥ माल्यस्य म्लानता गंधनाशः स्फुटिताग्रत्वं॥ आस्तरणप्रावरणानां ध्याममंडलतातंतुरोमपक्ष्मसदनं च॥ लोहमणिमयानां पंकमलोपदेहः स्नेहरागगौरवप्रभावर्णस्पर्शनाशश्च॥ विषदस्तु स्वदोषशंकया वस्तो भीतःस्वेदवेपथुमान् शुष्कश्याववक्त्रः समंतात्सोद्वेगं विलक्षोऽभिक्षते॥यत्र चानेन विषंप्रयुक्तं तद्विशेषेण॥ तथा सस्तोत्तरीयः स्तंभकुडया
पनं च पयोऽन्यथा ॥ सर्पादिशवकोथेभ्यो वृश्चिकानां समुद्धवः ॥ ते तैरेव पुनर्वष्टाः सद्यो मुंचति जीवितं ॥ स्वयमेवविपं तीव तान्पुनर्नातिवापते ॥ सर्वागन्यापि तेषां च शुक्रषत्संयतं विषं ॥ तन्मांसमुपयोगाय मांसवर्गे च पठ्यते ॥ छर्दिनी मक्षिकाविट् च मसिकैव तु वामयेत् ॥ कफे लंघनसाध्येऽपि कर्तीरे ज्वरगुल्मयोः ॥ तुल्येऽपि देशकालादी लंघनं न समंजसं ॥ सर्वथा दोषजितकं ग्रहण्यां दोपरुणे ॥ पीनसश्वासकासादौ सिद्धमेव प्रशस्यते ॥ इत्येतेऽन्ये च बहवः सूक्ष्मा दुर्लभ हेतुकाः ॥ कर्म वैचित्र्यभावेषु किंचित्तेषां निदर्शितं । दिशा नया शेपमपि स्वयमूहेत बुद्धिमान् ॥ न शास्त्रमात्रशरणो न चानालोचितागमः ॥ इति मात्रादिप्रकरणं ॥ इत्यन्नस्वरूपविज्ञानीयो नाम सप्तमोऽध्यायः ॥ ७ ॥
अथातोऽनरक्षाविधिमध्यायं व्याख्यास्यामः ॥ ईश्वराणां वसुमतां विशेषेण तु भूभुजां प्रायेण मित्रेभ्योऽप्यमित्रा भूयांसो भवति ॥ ततस्तत्प्रयुक्ताः समासन्नवर्तिनो ऽन्नपानादिषु विषं प्रयच्छति ॥ खिपश्च तमणिधिप्रयुक्ताः सौभाग्यलोभेन ॥ तस्माद्राजा कुलीनं स्त्रिग्धमाप्तमास्तिकमार्थमार्थपरियहं दक्षं दक्षिणं निभृतं शुचिमनुद्धृतमनदसमव्यसनिनमनंकृतमकोपनमसाहसिकं वाक्यार्थावबोधकुशले निष्णातमष्टांगे यथाऽऽस्त्रायमायुर्वेदे सुविनियोगक्षेमं सन्निहितागदादियोगं सात्म्यज्ञं च प्राणाचार्य परिगृहीत॥ तमर्थमानाभ्यां यथाकालं गुरुमिव शिष्यः पितरमिव पुत्रः पूजयेत्॥प्रतिकूलमपि तद्वचः सांमतं मतमिति प्रति मन्येत ॥ न हि भद्रोऽपि गजपतिर्निरंकुशः श्ठाघनीयो जनस्य ॥ तस्मात्तदायत्तमाहारविहारं प्रति चात्मानं कुर्यात् ॥ उपात्तमपि खलु जीवितमुपापबलेन स्वसमयमधितिष्ठति ॥ अपिच \।\। बहुपरिग्रह area: संति चाशुकारिणः शलसंन्यासादयः प्र1 \पमा बिचित्र भागेष्वितिपाठः २ ( गुमहेर) ३ परिग्रहः परिजने परस्यामिति मेदिनो
तिक्षणं प्रत्यवेक्षणीयावस्थाश्च रोगिणो विशेषेण राजानः॥ ते हि प्रमादपरिगता दुःखासहिष्णबश्च स्वयमप्यपथ्यरुचयः सन्निहिता हितप्रियवचनप्रायपरिवाराश्च॥ तस्माद्भिपजो राजा राजगृहासन्ने निवेशनं कारयेत्॥ तथाहि॥ सर्वोपकरणेषु नृपतिशरीरोपयोगिष्वपरोक्षवृत्तिर्भवति॥ स सम्यक्संपन्नमन्नं सुपरीक्षितं विशुद्धमग्न्यादिषु प्रागुपनीतं शिखिना दृष्टमभिप्रोक्षितं [प्रोक्षणैः117 पुरस्थितो राजानं हस्तबद्धौषधिरत्नं श्रोजयेत्॥ श्रुंजानस्पास्य दुंदुर्भानगदप्रलिमान्वादयेत्॥ तत्र सविषमन्नं स्राव्यमानमविस्राव्यं च भवति चिरेणपच्यते पक्वं च सद्यः पर्युपितमिव निरूष्मस्तब्धं च जायते यथाश्वबर्णगंधरसैर्व्यापद्यते प्रक्लिद्यते चंद्रिकायितं च भवति॥ व्यंजनानामाशु118 शुष्कत्वं भवति क्वाथस्य ध्यामता119 होनातिरिक्तविकृतानां चात्र छायानां दर्शनमदर्शनमेव वा फेनपटलसीमंतकोर्ध्वविविधरांजितंतुबुहुदप्रादुर्भावः॥ विशेषेण लवणोल्वणे फेनमाला॥ रसस्य मध्ये नीला राजी॥ पयसस्ताम्रा॥ मद्यतोययोः काली॥ दघ्न श्यावा॥ तकस्याऽऽनीलपीता॥ मस्तुनः कपोताभा॥ धान्याम्लस्य कृष्णा। द्रवौषषस्य कपिला॥ घृतस्य सलिलाक्षा॥ सौद्रस्य हरिता। तैलस्यारुणा वसागंधश्च॥ फलानामामानां पाकः॥ पक्वनां प्रकोथः॥ द्रव्याणामार्द्राणां सहसा म्लानत्वमन्यत्वभावः॥ शुष्काणां श्यावता वैवर्ण्च॥ कठिनानां प्रदिमा॥ मृदूनां कठिनत्वं॥ माल्यस्य म्लानता गंधनाशः स्फुटिताग्रत्वं॥ आस्तरणप्रावरणानां ध्याममंडलता तंतुरोमपक्ष्मसदनं च॥ लोहमणिमथानां पंकमलोपदेहः स्नेहरागगौरखमभावर्णस्पर्शनाशश्च॥ विपदस्तु स्वदोपशंकया बस्तो क्षीतः स्वेदवेपथुमान् शुष्कश्याववक्त्रः समंतात्सोद्देगं विलक्षोऽभिवीक्षते॥ यत्र चानेन विषं प्रयुक्तं तद्विशेषेण॥ तथा स्रस्तोत्तरीयः स्तंभकुड्या
पनं च पयोऽन्यथा॥ सर्पादिशवकोथेभ्यो वृश्चिकानां समुद्भवः॥ ते तैरेव पुनर्दष्टाः सद्यो मुंचंति जीवितं॥ स्वयमेवविपं तीव्रं तान्पुनर्नातिवाधते॥ सर्वोगव्यापि तेषां च शुक्रवत्संसृतं विषं॥ तन्मांसमुपयोगाय मांसवर्गे च पठ्यते॥ छर्दिघ्नी मक्षिकाविट् च मक्षिकैव तु वामयेत्॥ कफे लंघनसाध्येऽपि कर्तरि ज्वरगुल्मयोः॥ तुल्पेऽपि देशकालादौ लंघनं न समंजसं॥ सर्वथा दोपजित्तक्रं ग्रहण्यां दोपकृह्रणे॥ पीनसश्वासकासादौ सिद्धमेव प्रशस्पते॥ इत्येतेऽन्ये च बहवः सूक्ष्मा दुर्लभहेतुकाः॥ कर्म120 वैचित्र्यभावेषु किंचित्तेषां निदर्शितं॥ दिशाऽनया शेषमपि स्वयमूहेत बुद्धिमान्॥ न शास्रमात्रशरणो न चानालोचितागमः॥ इति मात्रादिप्रकरणं॥ इत्यन्नस्वरूपविज्ञानीयो नाम सप्तमोऽध्यायः॥७॥
अथातोऽन्नरक्षाविधिमध्यायं व्याख्यास्यामः॥ ईश्वराणां वसुमतां विशेषेण तु भूभुजां प्रायेण मित्रेभ्योऽप्यमित्रा भूयांसो भवंति॥ ततस्तत्प्रयुक्ताः समासन्नवर्तिनो ऽन्नपानादिषु विषं प्रयच्छंति॥ यश्च तत्प्रणिधि121भयुक्ताः सौभाग्यलोभेन॥ तस्माद्राजा कुलीनं स्त्रि ग्धमाप्तमास्तिकमार्यमार्यपरिग्रहं122 दक्षं दक्षिणं निभृतं शुचिमनुद्धतमनलसमव्यसनिनमनहंकृतमकोपनमसाहसिकं वाक्यार्थावबोधकुशलं निष्णातमष्टांगेयथाऽऽन्नायमायुर्वेदे सुविहितयोगक्षेमं सन्निहितागदादिपोगं सात्म्यज्ञं च भाणाचार्ये परिगृह्णीत॥ तमर्थमानाभ्यां यथाकालं गुरुमिव शिष्यः पितरमिव पुत्रः पूजयेत्॥प्रतिकूलमपि तद्वचः सांप्रतं मतमिति प्रति मन्येत॥ नहि भद्रोऽपि गजपतिर्निरंकुशः श्लाघनीयो जनस्प॥ तस्मात्तदायत्तमाहारविहारं प्रति चात्मानं कुर्यात्॥ उपात्तमपि खलु जीवितमुपायबलेन स्वसमयमधितिष्ठति॥ अपि च॥ बहुपरिग्रह नरपतयः संति चाशुकारिणः शूलसंन्याप्तदयः प्र
तिक्षणं प्रत्यवेक्षणीयावस्थाश्च रोगिणो विशेषेण राजानः॥ ते हि प्रमादपरिगता दुःखासहिष्णबश्च स्वयमप्यपथ्यरुचयः सन्निहिता हितप्रियवचनप्रायपरिवाराश्च॥ तस्माद्भिपजो राजा राजगृहासन्ने निवेशनं कारयेत्॥ तथाहि॥ सर्वोपकरणेषु नृपतिशरीरोपयोगिष्वपरोक्षवृत्तिर्भवति॥ स सम्यक्संपन्नमन्नं सुपरीक्षितं विशुद्धमग्न्यादिषु प्रागुपनीतं शिखिना दृष्टमभिप्रोक्षितं प्रोक्षणैः117 पुरस्थितो राजानं हस्तबद्धौषधिरत्नं श्रोजयेत्॥ श्रुंजानस्पास्य दुंदुर्भानगदप्रलिमान्वादयेत्॥ तत्र सविषमन्नं स्राव्यमानमविस्राव्यं च भवति चिरेणपच्यते पक्वं च सद्यः पर्युपितमिव निरूष्मस्तब्धं च जायते यथाश्वबर्णगंधरसैर्व्यापद्यते प्रक्लिद्यते चंद्रिकायितं च भवति॥ व्यंजनानामाशु123 शुष्कत्वं भवति क्वाथस्य ध्यामता119 होनातिरिक्तविकृतानां चात्र छायानां दर्शनमदर्शनमेव वा फेनपटलसीमंतकोर्ध्वविविधरांजितंतुबुहुदप्रादुर्भावः॥ विशेषेण लवणोल्वणे फेनमाला॥ रसस्य मध्ये नीला राजी॥ पयसस्ताम्रा॥ मद्यतोययोः काली॥ दघ्न श्यावा॥ तकस्याऽऽनीलपीता॥ मस्तुनः कपोताभा॥ धान्याम्लस्य कृष्णा। द्रवौषषस्य कपिला॥ घृतस्य सलिलाक्षा॥ सौद्रस्य हरिता। तैलस्यारुणा वसागंधश्च॥ फलानामामानां पाकः॥ पक्वनां प्रकोथः॥ द्रव्याणामार्द्राणां सहसा म्लानत्वमन्यत्वभावः॥ शुष्काणां श्यावता वैवर्ण्च॥ कठिनानां प्रदिमा॥ मृदूनां कठिनत्वं॥ माल्यस्य म्लानता गंधनाशः स्फुटिताग्रत्वं॥ आस्तरणप्रावरणानां ध्याममंडलता तंतुरोमपक्ष्मसदनं च॥ लोहमणिमथानां पंकमलोपदेहः स्नेहरागगौरखमभावर्णस्पर्शनाशश्च॥ विपदस्तु स्वदोपशंकया बस्तो क्षीतः स्वेदवेपथुमान् शुष्कश्याववक्त्रः समंतात्सोद्देगं विलक्षोऽभिवीक्षते॥ यत्र चानेन विषं प्रयुक्तं तद्विशेषेण॥ तथा स्रस्तोत्तरीयः स्तंभकुड्या
दिभिरात्मानमंतर्धत्ते स्खलितगतिर्दीनो लज्जावानस्थानगामी पृष्टोऽसंबद्धमुत्तरं ददाति नैव वा विषर्मुह्यत्यंगुलीः स्फोटयति ग्रीबामालभते शिरःकंडूयत्योष्ठौ परिलेढि जृंभने भुवं लिखति क्रियासु त्वरतेविपरीतमाचरति स्वभूमौ च नावतिष्ठते॥ नृपाज्ञया त्वरयाऽपि केचिदपराधांतराहाऽनवस्थितसत्त्वाः समाचरंत्येवं॥ तस्मादम्यादिष्वपि परीक्षेत॥ वन्हिस्तु सविषमत्रं प्राप्यैकावर्ती रुक्षमंदार्चिर्रिद्रायुधबदनेकवर्णज्यालो भृशं चटचटायते॥ कुणमगंधी धूमश्चास्य124 मूर्च्छाप्रसेकरोमहर्षशिरोवेदनापीनसदृष्ट्याकुलताः जनयति॥ तत्र नलदकुष्टलामज्जकैः क्षौद्रप्लुतैर्नस्यभंजनं च कुर्यात्॥ धूममेव वा ऽपामार्गविडंगवलाद्वयचित्रकमेपशृंगीपुष्पसुमनः125 क्षारक126द्राक्षाघृतगुडकृतं पिबेत्॥ स्नेहलवणयोगादपि चाग्निरित्थं स्यात्॥ अतो धयोभिः127 परीक्षेत॥ तत्र विपज़ष्टाहाराभ्यवहारात्काकाः क्षामस्वरा भवंति॥ मक्षिकाः सविपान्ने न निलीयंते॥ निलीना वा विपद्यंते॥ दृष्टएव चास्मिंश्चकोरस्याक्षिणीविरज्येते॥ कोकिलस्प स्वरो विकृतिमेति॥ हंसस्य गतिः स्स्वलति॥ कूजति भृंगराजः॥ माद्यति कौंचः॥ विरौति कृकवाकुः॥ विकोशात शुकः॥ सारिका च छर्दपति॥ चामोकरोऽन्यतो याति॥ कारंडवो श्रियते जीवंजीवको ग्लायति॥द्दृष्टरोमा भवति नकुलः॥ शकृद्विसृजति वानरो रोदिति पृपतो द्दप्यति मयूरो दर्शनादेव चास्य विषं मंदतामुपैति॥ विषदूषितस्य पुनराहारस्योष्मा मयूरकंठाभोऽभ्युदेति॥ तद्वाष्पेण धूमवन्मूर्च्छादयः॥ तेषां तद्वदेव साधनं॥ हस्तेन स्पृष्टमन्नं विषवद्दाहशोफरवापनखशातान्करोति॥ तत्र श्यार्मेद्रगोपसोमोत्पर्लैर्लेपः॥ अभ्वन्हियमाणं त्वोष्ठचिमिचिमांतर्वक्त्रदाहजिव्हार्मूलगौर128वहनुस्तं
भदंतहर्षलालाः करोति रसापरिज्ञानंच॥ तत्र धूमोक्तं दंतकाष्ठोक्तं च कर्म॥ आमाशयगतं स्वेदमदमूर्च्छाच्छर्दिवैवर्ण्याध्मानरोमहर्षदाहारुचिदृष्टिहृदयोपरोधान् बिदुभिश्च129चयमंगानां करोति॥ तत्र मदनफलालाबुबिंबीकोशातकीफलैर्दधिमधुयुक्तमाशु वमनं दद्यान्निष्पावांबुभिर्वा॥ ततः स्निग्धशरीरं विरेचयेत्॥ त्रिफलात्रिकटुनागपुष्पमधुकर्वार्हणपर्णीवृहतीद्वयचूर्णर्णेसिंहव्याघ्नवृकतरक्ष्यर्क्षद्दीपिमार्जारशृगालमृगगोधानामन्यतमपित्तयुक्तं सक्षौद्रं पानमेष जीवनो नामाऽगदः परं सर्वविषौषधं॥ तस्मिन् जीर्णे व्योपानिधि षासिद्धां पयसा घृतेन चोपस्तंभितां यवागूं पाययेत्॥ परिणतायां च तस्यां त्रिकटुकसिद्धेन मुद्रपूपेण किंचिल्लवणेन समर्पिप्केण मृदुमोदनं भोजयेत्॥ मधुकशिरीपचंदनैश्चैनमालिपेत्॥ पक्वाशयगतं तृड्दाहमदमूर्च्छातीसाराटोपतंर्द्रैद्रियविकृतिवलभंर्श्यकापांडुत्वोदराणि जनयति॥ तत्र नीलिनीफलयुक्तेन सर्पिषा विरेचनं। समातिकं च दूपीषिपारिं दध्ना पाययेत्॥ दंतकाष्ठमयुक्ते तु विषेकूर्चकविशरणमौषघगंधो रुक्षता जिव्हादंतौष्ठमांसशोफश्च॥ तत्र प्रच्छाय130 घातकीपुष्पजांबवास्थिहरीतकीचूर्णैः सर्वोद्रैः समच्छदकल्केन वा प्रतिसारणं कुर्यात्॥ दाडिमकरमर्दन्याम्रमातककोलमदररसं क्षौद्रयुतं गंडूपं॥ अनेन जिव्हानिर्लेखनकषलगंडूषा व्याख्याताः॥ अंजनप्रयुक्तेऽश्रुदूषिकोपदे131हदाहरागवेदनादृष्टिविभ्रमा भक्त्यांध्यं च॥ तत्र सर्पिः पानं योज्यं॥ श्रुतेन पयसा सप्तकृत्यः पिप्पलीर्भावयेत्॥ ततस्तत्कल्केन सर्पिर्विषक्वं नेत्रतर्पणं॥ कपित्थमेषशृंगीतकाल्लाकानां पुष्पैर्वरणनिर्यासेन चांजनं॥ वृहतीशिरोषबीजप्रपौंडरीकनगलाचूर्णे सप्तकृत्वो मधुना श्रावयेत्॥ तच्च तोंजनसुवर्णचूर्णयुक्तमंजनं॥ नस्यधूमप्रयुक्ते शिरोरुक्वफास्रावः खेभयदाकारैः स्वे
भ्योरुधिरागमनमिंद्रियवैकृतं च॥ तत्रातिविपाश्वेताकाकमाचीमदयंतिकाकल्कक्षीरसिद्धं सर्पिर्नस्ये पाने च विदध्यात्॥ अभ्यंगप्रयुक्ते त्वग्दाहस्वेदपाकस्फोटावदरणानि॥ तत्र शीतांबुपरिषिक्तस्य चंदनत गरोशीरकुष्टवेणुपत्रिकाऽमृतासोमवल्लीश्वेतापद्मकालेयकैरनुलेपनं॥ एतान्येव च सकपित्थरसगोमूत्राणि पानं गिरिकर्णिका श्वेतमृद्रप्रियंगुसारिवामधुकसर्पसुगंधामृगैर्वारुमूलानि शेलुक्वार्थापिष्टानि प्रलेपः॥अनेनोद्वर्त्तनोह्वर्पणपरिपेकानुलेपनभूपणयानशय्याऽऽस्तरणवस्रवकवचर थापादुकोपानत्पादपीठा व्याख्याताः॥ विशेषतस्त्वाभरणकृते विकारेऽभ्वगंधाऽपामार्गकिणिहीखदिरशिरीपकल्कैर्गोपित्तमपुक्तैः भदेहः॥ पादपीठकृते श्लेष्मातकसर्पसुगंधाकल्को मधुयुक्तः॥ छत्रप्रयुक्ते स्फोटानां क्षिप्रपाकानां पक्वजांबवप्रकाशानां प्रादुर्भावः॥ तत्र मधुकपाट लाकसेरुकरोध्रांजनकुष्टसर्पगंधाखदिरशिरीषकल्कैः सर्वगात्रमदेह। अनेन चामख्यजने व्याख्याते॥ शिरोभ्यंगप्रयुक्ते वेदना ग्रंथिजन्म केशच्यवनं च॥ तत्र श्यामापालिंदीतंदुलीयकचूर्णघृतर्क्षपित्तैः सुभावितकृष्णमृत्प्रलेपः॥ गोमयमालतीमूषिककर्ण्यन्पतमकल्को रसो वाडगारधूमो वा॥ श्लेष्मातकत्वक्पाट लाशिरीपमधुकहरिद्वयैरजाक्षीरालोडितैः परिपेकः॥ अनेन शिरःस्त्रानस्नापनोदककंकतकस्र132”) गुष्णीपा व्याख्याताः॥ कर्णपूरणप्रयुक्ते शोफशृलपाकाः श्रोत्रवैगुण्यं च॥ तत्र बहुपत्राखरसो घृतक्षौद्रयुक्तः प्रतिपूरणं सोमवल्करसो वा सुशीतः॥ मुखालेपप्रयुक्ते मुखस्य श्यावता पद्मकंटकाश्च भवत्यायंणजाय विकासः॥ तत्र मधुकषायस्याबंधु जीवकफंजीपुनर्नवाचंदनैः सघुतैर्लेपः सर्पिष133पानं च॥ सविपपुष्पाघ्राणाच्छिरोव्यथा साश्रुनेत्रत्वं न गंधाज्ञानं च॥ तत्रानंतरोक्तो विधिर्बाप्पोदितश्चेति॥ भवति चात्र॥ फलमूलच्छदादीनां दद्यात्मक्षालनोदकं॥ भाजनव्यंजनानां च तथा कुर्यादतंद्रितः॥ घ्रेयाणि घ्रापयित्वा तु स्पृश्यान्संस्पृश्य तानपि॥ प्रतिवापं ततो दत्वा प्रतीक्ष्यैवैकनाडिकां॥ ततो विज्ञाय शुद्धिं च भाजनस्योदकस्य च॥ आहारमुपयुंजीत यथावद्वसुधाधिपः॥ मंदं तीक्ष्णाविपाभ्याशाद्विपमुत्क्षीयते134 भृशं॥ तस्मात्तीक्ष्णविषं हस्ते बघ्नीयात्कुशलो भिषक्॥ विपसंधारणं धन्यं रक्षोघ्नं प्रीतिवर्द्धनं॥ अपिच॥ सापिधानघटीमूपाफलकस्थापितौषषं॥ प्रागुदिच्योदिशोर्गुप्तं भैषज्यागारमिष्यते॥ उच्चैः प्रशस्तदिग्देशं बहुवातायनं महत्॥ महानसं सुसंमृष्टं विश्वास्यजनसेवितं॥ सद्वाः स्थाधिष्ठितद्वारं कक्ष्यावत्सवितानकं135॥ सुधौतदृढकुंभादिपरिशुद्धजलेंधनं॥ स्वकर्मकुशला दक्षाः सुदास्तत्राममादिनः॥ कृत्तकेशनखाः पित्र्या राज्ञः कृत्यैरसंगताः॥ तेषामधिपतिर्विप्रः कुलजः सुपरीक्षितः॥ संविभक्तश्च भक्तश्च शुचिर्वैद्यवशानुगः॥ सर्वेऽपि भूभृदासन्नाः शस्ताः संततमीदृशाः॥ मिथोविग्रहसंघातरहिताभूभृते हिताः॥ तान्वैद्यौ गुणवानेको मनसा प्रतिजागृयात्॥ भूभृद्दें होपकरणसंरक्षणसमुद्यतः॥ अथाभ्यमित्र्यं136 ब्रजतो जिगीषोवैद्यः सुसज्जौषधशस्त्रयंत्रः॥ तुंगध्वजाख्यातनिवासभूमिर्युद्धागतं योधजनं चिकित्सेत्॥ पंथानमुदकं छायां भक्तं यवसमिंधनं॥ दूषयंत्परयो यस्मात्तद्विद्याच्छोधयेत च॥ प्रस्थानं वा निवेशं वा नाविज्ञाय प्रयोजयेत्॥ भूवारितृणकाष्ठाश्ममार्गान्मार्गवनस्पतीन्॥ विपेणोपहता भूमिः क्वचिद्दग्धेव लक्ष्यते॥ प्रभ्लानतृणगुल्मादिमृतकीटसरीसृपा॥ विशीयैते खुरनखा दाइकंडूरुजान्विताः॥ छर्दिर्मूर्च्छा ज्वरो मोहः शिरोदुःखं चं जायते। तत्र शोभाजनान्मूलं सोमवल्लीमुशीरकं॥ मातुलुंगरसं हिंगु पाययेद्दषि मात्रया॥ मूत्राण्यजाविहस्तिभ्यो मांसानिरुधिराणि च॥ सर्वगंधैः समायोज्य पचेत्पक्वे च निक्षिपेत्॥ सोमराजी सुनंदाख्यां सरलां गंधनाकुलीं॥ चारर्टी त्रायमाणां च प्रोक्षयेत्तेन ताभुवं॥ सविपं विरसं तोयं कवोष्णं राजिनिश्चिवं॥ फेनिलं गुरु विच्छिन्नं खगैरनभिनंदितं॥ मृताकुलितमत्स्यं च स्पर्शाद्रुक्शोफकं दुरुत्॥ ओदनः साधितस्तेन भुक्तमात्रो विदद्यते॥ विदग्धः पच्यते कृच्छ्रात्पक्वो मूर्च्छाज्वरप्रदः॥ दर्शयेत्सर्वतो नीलपीतलोहितकर्बरं॥ तत्रशिध्वादिमगदं भूमिदोपोदितं पिबेत्॥ अजशृंर्गी विशालाख्यां विषघ्नीमुत्तमारणीं॥ फणिज्जकं प्रतिविषां दग्ध्वा तद्भस्म गालयेत्॥ बहुशो गालितं तच्च पाचयेत्तत्र च क्षिपेत्॥ कल्कपित्या प्रतीवापं सरलां रजनीद्वयं॥ एलामुदीच्यं मंजिष्टां सुनंदां बाकुचीमपि॥ पात्यंते बिंदवस्तस्माद्यत्र तन्निर्विषी भवेत्॥पाटलापारिजद्राश्वकर्णशम्याकशिग्रुकान्॥ कलशांतर्गतान् दग्ध्वा प्रक्षिपेत्सविषेऽभसि॥ शीते धर्मो हिमश्चोष्णे मारुतो विषसंयुतः॥ भ्रममूर्च्छादिकारी च शिग्वादिस्तत्र चेप्यते॥ देवदारुनतानंतामधुकांजनगैरिकं॥ पञ्चकंदं लतां लोध्रं विकिरेत् श्लक्ष्णचूणितं॥ वृक्षाग्रेषु पताकासु दृप्येषु137”) सुमहत्सु च॥ सर्वतश्वूर्णसंपर्कान्निर्विषो जायतेऽनिलः॥ बिकृता भवति च्छाया पादपे विषदूषिते॥ निर्गघमतिगंधं वा तत्पुष्पं द्द्वच्छिरोरुजं॥ कुर्यात् फलपलाशादि कंडूपाकातिसारकृत्॥ भूमीमुद्दिश्य यत्प्रोक्तं तत्सर्वे तत्र शस्यते॥ न च कन्यामधिदितां संस्पृशेदपरीक्षितां॥ विविधान्कुर्वते योगान्कुशलाः खलुमानवाः॥ आजन्मविषसंयोगात्कन्या विषमयी कृता॥ स्पर्शोच्छ्वासादिभिर्हेति तस्यास्त्येतत्परीक्षणं॥ तन्मस्तकस्य138 संस्पर्शान्मायेने पुव्यपपल्लवौ॥ शय्यायां मत्कुणैर्वस्त्रे यूकाभिः वानवारिणा॥ जंतुभिर्म्रियते ज्ञात्वा तामेवं दूरत स्त्यजेत्॥ नाप्रोलितं नाविदितं भिपजा नानवेक्षितं॥ नामाशितं च सुदाद्यैः किंचिदाहारयेन्नृपं॥ घन्यं सर्वार्थसिद्धाख्यं पापरक्षोविषापहं॥ परं चक्षुष्यमापुष्पं शत्रुघ्नं वक्ष्यतेंऽजनं॥ अथ शुक्लपक्षे पुण्येऽह्नि पुष्यपुनर्वसुहस्तचित्रामृगशिरःश्रवणरेवतीशतभिषक्प्रजापत्योत्तराणामन्यतमेन नक्षत्रेण योगमुपगते भगवत्यौपधिपतौ प्रशस्ते मुहूर्ते सिंधुस्रोतः समुत्थं स्निग्धं समक्षंगंधर्वणच्छेदैर्नीलोत्पलाभमंजनमाहरेत्॥ तस्याष्टौ भागाः कनकरजतोदुंबराणामेकैको भागस्तत्सर्वै मूषायांप्रक्षिप्य बलिमंगलपूर्वकमग्निमुपसमाधाय खदिरकदरधवस्यंदनादारुभिर्गोमयैर्वा प्रज्वालयेत्॥ ततश्चार्यावलोकितेश्वरमार्यताराब्रह्मदक्षाश्विरर्देद्रत्यसोमवरुणवैश्वानर-वायुविष्णुजनकभरद्वाजधन्वंतरिसुश्रुतभव्यासुकन्यास्कंदचवनवैनतेयानन्यांश्च यथाविध्युक्तदेवताः सुमनोऽक्षतला-जस्वस्तिकसंयावनिस्तुपयवसंस्कृतगुढघृतमिश्रपायसैरर्चयित्वा वृद्धवैद्यब्राह्मणांश्च शुक्लवासतो महतीशिर्दक्षिणाभिः पूजयित्वा तस्मिन्नयौ तदंजनं घ्मातं ध्यातमावर्त्य पृथक् पृथद्विपेचयेद्गोशकृद्रसमूत्रघृतदधिक्षौद्रवसामज्जतैलमद्यसर्वगंधांबु-शर्करोदकेक्षुरसेषु तथाहरीतक्यामलकविजीतकाश्ममृद्वीकाशृंगाटककसेरुकोत्पलनलिरमसौगंधिकमृणालिकाक्वथेषु तथा लावकर्पिजलैणशशहरिणकुलीररसेपु तथा मधुकचंदनकालानुसार्यनलदपद्मकोशीरमंजिष्ठाऽनंतागैरिक-कुंकुमोदकेषु॥ ततः शुक्लबाससि बध्वा द्वादशरात्रमांतरिक्षैऽभसि घासयेत्॥ ततश्छायायां विशोष्य स्फटिकमुक्ताप्राषालकालानुसार्यप्रतिवाषं पुनरपि बलिमंगलपूर्वकं महद्दाससा कन्यया द्दषदि पेषयित्वा सुवर्णरजतताम्रशंखशैलद्विरदरदनगवल139वैदूर्यस्फटिकमेषशृंगासनसारान्यतमघटितायामंजनिकायां निधापयेत्॥ अथ
पुनरपि पूर्ववत्त्कस्वस्त्ययनं सावित्रेण कर्मणा सर्वविद्विजन्मा विधिवत्तदभिसंस्कुर्यात्॥ ततो गजस्कंधमारोप्य पांडुरच्छत्रचामरवालव्यजनैरनुगतं तथा शंखर्दुदुभिस्वनैर्द्दिजातिवरप्रयुक्तैश्च वेदवादमिश्रैः पुण्याहघोषैः कृतपुष्पोपहारं वैद्यगृहान्नायकगृहमनुप्रवेशयेत्॥ अनंतरं च तेन विदेहाधिपोपदिष्टेन सर्वार्थेषु सिद्धेनांजनेन यथोक्तानामेवांजनमाजनद्रव्याणामन्यतमया शलाकया गोब्राह्मणपूजा पूर्वकं शुचिः सनियमो भूत्वा धारणीमिमां विद्यामधीयानः पूतः पूर्वमक्षि दक्षिणमंजयेत्॥ नमश्चक्षु परिशोधनराजाय तथागतायार्हते सम्यक्संबुद्धाय॥ तद्यथा॥ ॐचक्षुःप्रज्ञाचक्षुर्ज्ञानचक्षुर्विज्ञानचक्षुर्विशोधय स्वाहा॥ ततः परं तामेव धारणोमनुसंस्मरन् सायं प्रातः प्रत्यहं॥ एतत्परमं पवित्रमारोग्यकरमूर्जस्करं सर्वविघ्नहरमंजनमश्विभ्यामिंद्रस्य वृत्रवधाम्युदितस्य प्राक् प्रकल्पितं॥ तस्मादेतद्राज्ञां राजमहामात्राणां च मर्ही विजिगीषमाणानां ब्राह्मणानां च वेदाध्ययनमन्यद्वा महच्छास्रमवगाहमानानां मसन्नमना भिषक् प्रकल्पयेदिति॥ भवंति चात्र॥ अथ योगाः प्रवक्ष्यंते बृहस्पतिकृताः शिवाः॥ यान्सेवमानो नृपतिः शत्रुभ्यो नैति वंचनां॥ विल्वाढकीयवक्षारपाटलीबाल्हिकोषणाः॥ श्रीपर्णीशाल्मलीयुक्ता निःक्वाथः प्रोक्षणं परं ॥सविषं प्रोक्षयेत्तेन सद्यो भवति निर्विषं॥पवसेंधनपानीयवस्त्रशय्यासनौदनं॥ कवचाभरणच्छत्रवालव्यजनवेश्मचा॥ सेलुपाटल्यतिषिपाशिपुगोपीपुनर्नवं।समंगाविषमूलत्वक्कपि त्यवृषशोणितं॥सहदंतशठं तद्वत्मोक्षणं विषनाशनं॥ लाक्षाप्रिंपंगुमंजिष्टासमंगाऽलहरेणुकाः॥ सपष्ट्याह्वामधुयुता बभ्रुपित्तेन140कल्किताः॥ निखनेद्गोविषाणस्थाः सप्तरात्रं महीतले॥ ततः कृत्वा मणिं हेन्ना बद्धं हस्तेन धारयेत्॥ संस्पृष्टं सविषं तेन
सद्यो भवति निर्विषं॥ मनोव्हाऽलशमीपुष्पत्वड्गिशाश्वेनसर्षपाः॥ कपित्थकुष्ठमंजिष्ठाः पित्तेन श्लक्ष्णकल्किताः॥ शुनो गोः कपिलायाश्च सौम्याख्योऽयं वरोऽगदः॥विपजित्परमं कार्यो मणिरत्र च पूर्ववत्॥ मूषकाजरुहा वाऽपि हस्ते बद्धा विषापहा॥हरेणुमांसीमंजिष्ठारजनीमधुकं मधु॥ अक्षत्वक् सुरसं लाक्षा श्वपित्तं पूर्ववन्मणिः॥ वादित्राणि पताकाश्च पिष्टैरेभिश्च लेपिताः॥ श्रुत्वा दृष्ट्वा समाध्राय सद्यो भवति निर्विषः॥ त्र्यूषणं पंचलवणं मंजिष्ठां रजनीद्वयं॥ मूक्ष्मैलां त्रिवृतां पत्रं विडंगानींद्रवारुणीं॥मधुकं चेति सक्षौद्रं गोविषाणे निधापयेत्॥ तस्मादुष्णांबुना मात्रां प्राग्मक्तं योजयेत्तथा॥ विषं भुक्तं जरां याति निर्विपेऽपि न दोषकृत्॥जनुसर्जरसोशीरसर्पपापत्रबालकैः॥ सवेल्लरुष्करपुरैः141 कुसुमैरर्जुनस्य च॥ धूपो वासगृहे हंति विषं स्थावरजंगमं॥ न कीटाः सविपास्तत्र नोंदुरा न सरीसृपाः॥ न कृत्याः कार्मणाद्याश्च धूपोऽयं यत्र दद्यते॥ शिखिपिच्छं बलाकास्थि सर्पपाश्चंदनं घृतं धूपो विषघ्नः शयनवसनासनगेहगः॥ विशालाव्याषमंजिष्ठायष्टीलवणपंचकं॥द्वनिशापत्रवेल्लैलात्रिवृच्चूर्णे समाक्षिकं॥ पूर्वोक्तं त्र्यूपणादिं च स्नानीयेंऽभसि योजयेत्॥ क्वाथोऽथवाऽर्ककुसुमश्वे तापामार्गसर्पपैः॥ सदध्याज्यः कृतो युक्तैः समाचीनाकुलीयकैः॥ कल्को वा चंदनक्षीरिपलाशद्रुमवल्कलैः॥ मूर्वैलुसुरसनाकुली. तंदुलीयकैः॥ क्वाथः सर्वोद्रकार्येषु काकमाचीयुतैर्हितः॥ रोचनापत्रनेपाली142कुंकुमैस्तिलकान्यहून्॥ विर्षेर्न वाध्यते स्याच्च नारीनरनृपप्रियः॥ चूर्णेर्हरिद्रामंजिष्ठाकिणिहीकणनिंवजैः॥ दिग्धं निर्विपतामेति गात्रमित्याह गौतमः॥ नस्यपानांजनालैपैर्येज्यात् संजीवनादिकान्॥ अगदान्विषजग्धस्य तीक्ष्णानि वमनानि च॥पिप्पलीमधुकक्षौद्रशर्करेक्षुरसैः सह॥ द्विनिशापत्रयेवेल्लैत्रिवृ चूर्णे समाक्षिकं॥ पिरेचनं सिरामोक्षं प्राप्तं विस्रावणं यदि॥ हृदयावरणं कार्ये प्रागेव हितमिच्छता॥ पिवेहृतमजेपारख्यममृतं चाप्यभुक्तवान्॥ सर्पिः क्षौद्रं दधि क्षीरमंततः शीतलं जेलं॥ सितामधुकपार्लिदीकल्कवन्मांसमिप्यते गोधाहारणबभ्रणां संकणाशुंठि पार्षतं॥ सनागरं सातिविषं शिखिनः ससितोपलं॥ सुशीताः सघृताश्चषां ययास्वं कल्पिता रसाः॥ विषपीतयादद्याच्च शुद्धायोर्ध्वमघस्तथा॥ सूक्ष्मं ताम्ररजः काले सक्षौद्रं हद्विशोधनं॥ शुद्धे हृदि ततः शाणं हेमचूर्णंस्य दापयेत्॥ न सज्जते हेमपांगे पद्मपत्रेबुवद्विषं॥ जायते विपुलं, चायुर्गरेप्येष विधिः स्मृतः॥ इत्थं विषगरादिभ्यो रक्षेद्वैद्यो नरेश्वरं॥ स्यात्तदुच्छेदउच्छेदः प्रजानां सर्वकर्मणां॥ आज्ञाधैर्यक्षमात्यागा मानुषत्वेऽप्यमानुपाः॥ यद्राज्ञः143 कर्मभस्तस्मादाराध्योऽसाबर्तीद्रियैः॥ यत्र साक्षान्नृपस्तत्र विज्ञातः प्रविशेद्धिषक्॥ न संमतोप्यनुचितं पानस्थानासनं भजेत्॥ उचितं पुरतो राज्ञस्तिष्ठेद्दाक्यं न चाक्षिपेत्॥ अहीनकालं राजार्थे स्वार्थे प्रियहितैः सह॥ देशे काले परार्थेच षदेद्धर्मार्थसंहितं॥ मानुशिष्यादपृच्छंतं महदेवद्धि साहसं॥ नाचरेदहितेनैनं मूलच्छेदकरं हितत्॥ अनुकूलं हिनं वाच्यमहिमाद्दरयेन्मिथः॥ उदारैः सांत्वयन्वाक्पैर्दोषश्चेत्तदुपेक्षया। तूष्णीं वा प्रतिवाक्ये स्याद्वर्जयेत् द्वेषसंकयां॥ विषञ्चिदप्यचित्तज्ञो वालिशोऽपितु भाववित्॥ अतिप्रियोपि द्वेष्योऽपि यात्याशु विपरीततां॥ निषेध"राज्ञे कुर्वीत कार्याणि सुलघून्यपि॥ न यापान्नचिरं तिष्ठेत्कोशस्थानावरोधयोः॥ स्पल्पेऽपि दर्शयेत्तुष्टिं लाभेऽनुद्धतर्मानसः मिथः कथनमन्येन कौलीनं144 द्दहवादितां॥ वस्रादि राज्ञः सदृर्श राजलीर्ला
च वर्जयेत्॥ दत्तं यत्तु नृपेणैव तद्धार्ये तुष्टिवृद्धये॥ हसितव्ये स्मितं कुर्यात्मभोरेवानुवृत्तितः॥ उच्यमानेऽवलंबेत परमर्मणि मूकतां॥ स्वमर्मणि तु बाधिर्यधैर्यमाधुर्यसौष्ठवं॥ अत्यायासेन नात्मानं कुर्यादतिसमुच्छ्रितं॥ पातो यथा हि दुःखाय नोच्छ्रायः सुखकृत्तथा॥ आसन्नसेवा नृपतेः क्रीडा शस्त्रादिपावकैः॥ कौशलेनातिमहता विनीतैः सा निरुह्यते145॥ प्राप्य दुष्प्रापगैश्वर्य बहुमानं च श्रूयतेः॥ यथोपभुंजीत चिरं तथा स्यादप्रमादवान्॥ विदध्यात्परितः शय्यां रक्षामंत्राभिमंत्रितान्॥ रात्रौ सिद्धार्थकान् भूतिमक्षतैरन्वितां शुर्चि॥ रक्षाशक्तिं तथोच्छीर्षे सयवांकुरयावाकां॥ सदुर्वे पूर्णकलशं सपुष्पफलपल्लवं॥ उपहारं च सं। ध्यायां भुक्त्वाचांते निशासु च॥ एतत्स्वस्त्ययनं कर्म कर्तव्यं शुचिनाऽऽशु च॥ आयुष्यं पौष्टिकं श्रूतविषकार्मणपाप्मजित्॥ संक्षेप एष विषपालनसाधनाय मोक्तस्तु विस्तरविधिः पुनरुत्तरेषु॥ आलोक्य सम्यगखिलं मतिपूर्वकारी युंजीत तं परिकलय्य विकारचिन्हं॥ इति विपगररक्षोरक्षणायोपदेशं भजति नरपतिर्यो नित्यमेवाप्रमत्तः॥ निजपुररिपुवृदैरप्रधृष्यो महात्मा जनयति स जनानां क्षेमयोगौ चिराय॥ इत्यन्नरक्षानामाष्टमोऽध्यायः॥८॥
अथातो विरुद्धान्नविज्ञानीयमध्यायं व्याख्यास्यामः ग्राम्यानूपौदकपिशितानिमधुगुढतिलपयोमापमूलकविसौर्विरुढ-धान्यैश्च नैकध्यमद्यात्॥ विशेषतः पयसा मत्स्यान्॥ उभयं ह्येतन्मधुररसनिपाकत्वादत्यभिप्यंदि शीतोष्णवीर्यत्वात्परस्परं विरुद्धं॥ तेष्वपि विशेषेण चिटिचिगः॥ स पुनः शकली लोहितनयनः सर्वतो लोहितराजिः प्रायो भूमौ विचरति॥ सोऽत्पतिष्यंदितमत्वात्सुतरांव्याधीनुपजनयत्यामविषं च॥ सर्वे चाम्लं द्रवमद्रयं पयसैकध्यं विरु
द्धं ततउत्तरं वा विरुद्धं फलं च॥ कंगुबरकमकुष्टकुलत्थमाषनिष्पावाश्च॥ न मूलकादि हरितकं भक्षयित्वा पयः सेव्यं कुष्टाबाधभयात्॥ पौष्करं रोहिणीकं जातुकं वा शाकं सह मधुपयोभ्यां नाभ्यवहरेत्॥ ताभ्यां च सह कपोतान् सर्पपतैलभृष्टान्॥ तथा सर्पपतैलभृष्टानां मत्स्यवराहाणां मांसानि ॥बदराणि श्वाविद्दराहमांसानि चैकध्यं॥ पित्तेनाममांसानि॥ दघ्ना कुक्कुटं पृषतं च॥ कुसुंभशाकेनौरभ्रं ॥सौबीरकेण तिलशष्कुलीः॥ क्षीरेण लवणं॥ मूलकेन मापसूपं॥ नवनीतेन146 मूलशाकं॥ उपोदकां मैरेयमार्द्वीकाभ्यां॥ पीलूनि करीरैः॥ बिसैर्विरूढकानि॥ दघ्ना मापसूपेन गुडेन मधुना घृतेन वालकुचफलं॥ दघ्ना तक्रेण तालफलेन वा कदलीफलं॥ पिप्पलीमरिचाभ्यां मधुना गुडेन वा काकमार्ची॥ तामेव मत्स्यपचने शृंगबेरपचने वा भाजने सिद्धामन्यत्र नाभ्यवहरेत्॥ ताभ्यां वा सिद्धां रात्रिमुपितां॥ कांस्यभाजने दशरात्रोषितंसर्पिः॥ मद्यदधिमधुमल्लातकेषु चोष्णं॥ तक्रसिद्धः कांपिल्लको147 विरुद्धः॥ अंगारशूल्यो भासः॥सुराकृशरापायसाश्चैकध्यं विरुद्धाः॥ मधुसर्पिर्वसातैलोदकानि समधूतानि द्विशस्त्रिशः समस्तानि वा॥ मधुघृते वादिव्योदकानुपानेमधुपुष्करबीजं॥ पद्मोत्तरिकाशाकं शार्करो मैरेयो मधु च सहोपयुक्तं सर्वे विरुद्धं वातं चातिकोपयति॥ हारिद्रकः सर्पषतैलभृष्टोविरुद्धः पित्तं चातिकोपयति॥ पायसो मंथानुपानो विरुद्धः श्लेष्माणं चातिकोपयति॥ उपोदका तिलकल्कसिद्धा हेतुरतिसारस्य ॥बलाका वारुण्या कुल्माषैश्च विरुद्धा॥ सैव वराहवसापरिभृष्टा सद्योव्यापादयति॥ गोधालावतित्तिरिमयूरकर्पिजला श्चैरंडदार्विग्रिसिद्धा ऐरंडतैलसमूच्छिताः॥ हारीतमांसं हारिद्रशुलकावसक्तं हरिद्राग्निप्लुष्टं च॥ तदेव भस्मपशुपरिध्वस्तं सक्षौद्रं च॥ तथा मत्स्यनि
स्तलनसिद्धाः पिप्पल्यः॥ शीतोष्णं नवपुराणमामपक्वं च नैकध्यमद्यात्॥ सलिलाऽभ्यवगाहः सहसोष्णाभितप्तमस्य त्वग्दृष्ट्योरुपघाताय तृष्णाऽभिवृद्धये च॥ तथैव च पयःपानं रक्तपित्ताय॥ शरीरेणायस्तस्य सहसाऽभ्यवहारश्छर्दिषे गुल्माय वा॥ वाचा त्वायस्तस्य स्वरसादाय॥ इत्यन्नपानद्रव्यविरोधैकदेशो बाहुल्येनोपयोगी कथितः॥ भेषजद्रव्याणां तु यथोपदेशमेव प्रयोगो न्याय्यतरः॥ तद्विरोधः पुनरतिप्रसंगमयान्नोक्तः॥ न च तद्विज्ञानमेकांतभद्रकं॥ अपि च॥ उत्क्लेश्य दोपान्नहरेद्द्रव्यं घत्तत्समासतः॥ विरुद्धं तद्धि धातूनां प्रत्यनीकतया स्थितं॥ बलिनां मिथोगुणानां विषमतया समतयाऽप्युभयथाऽपि॥ संस्कारादिवशादपि भवति निसर्गादपि विरोधः॥ क्षीरं कुलत्थैः पनसेन मत्स्यैस्तप्तं दधि सौद्रघृते समांशे॥ वार्यूवरे रात्रिषु सक्तवश्व तोयांतरास्ते यवकास्तथैव॥ कुशाग्रीयधियामेतदुदाहरणमात्रकं॥ उपनीतवलं विद्वान्सर्वत्र क्रमते यतः॥ विस्फोटशोफमद विद्रधिगुल्मयक्ष्मतेजोवलस्मृतिमतींद्रियचित्तनाशान्॥ कुर्याद्विरुद्धमशनं ज्वरमस्त्रपित्तमष्टौ148 गदांश्च महतो विपवच्च मृत्युं॥ तेष्वाशु कुर्यात्संशुद्धिं शमं वा तद्विरोधिभिः॥ द्रव्यैस्तैरेव वा पूर्वे शरीरस्याभिसंस्कृतिं॥ व्यायामस्निग्धदीसाग्निवयस्थवलशालिनां॥ विरोध्यपि न पिडायै सात्म्यमल्पं च भोजनं॥ दोषादिवैपरीत्येन हरंती रोगिणो रुजं॥ ऐकध्यं दधिदुग्धादियोजना न विरुष्यते॥ योगादिसे दायद्यद्दा पथ्यानामप्यपथ्यता॥ तद्भेदांतरस्तद्विद्विरोधोऽपि निवर्त्तते॥ पादांशेन त्यजेत्सात्म्पमहितं हितमाचरेत्॥ एकांतरं तश्चोर्ध्वे द्वांतरं त्र्यतरं तथा॥ क्रमेणानेन संत्यक्ता दोषाः संवृद्धि
तां गुणाः॥ प्रतवंति न पीडायै प्राप्नुवंति स्थिरात्मतां॥ त्रितयं चेदमुपष्टंभनमाहारः खप्नोऽब्रह्मचर्ये च॥ एभिर्युक्तियुक्तैरुपष्टव्यमुपस्तभैः शरीरं बलवर्णोपचयोपचितमनुवर्तते यावदायुषः संस्कारः॥ तत्राहार उक्तो वक्ष्यते च॥ कालादि149सर्गप्रभवा तमोमूला तमोमयी॥ बाहुल्यात्तमसो रात्रौ निद्रा प्रायेण जायते॥ श्लेष्मावृतेषु स्रोतःसु श्रमादुपरतेषु च॥ इंद्रियेषु स्वकर्मभ्यो निद्राऽऽविशति देहिनं॥ सर्वेद्रियव्युपरतौ मनोऽनुपरतं यदा’।‘विषयेभ्यस्तदा स्वमं नानारूपं प्रपश्यति॥ निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्ये वलाबलं।वृषता क्लीवता ज्ञानमज्ञानं जीवितं न च॥ अकालेऽतिप्रसंगाच्च न च निद्रा निषेविता॥ सुखायुपी पराकुर्यात्कालरात्रिंरिवापरा॥ सैव युक्ता पुनर्येक्ते निद्रादेहं सुखायुपा।योगाभियोगिनां बुद्धिर्निर्मला तपसा यथा॥ रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा॥ अरुक्षमनभिष्यं दित्वासीनमचलायितं॥ ग्रीष्मे वायुचयादानरौक्ष्यरात्र्यल्पभावतः॥ दिवास्वप्नो हितोऽन्यस्मिन्कफपित्तकरो हि सः॥ मुक्त्वा तु भाष्ययानाध्वमद्यस्त्रीभारकर्मभिः॥ क्रोधशोकभयैः क्लांतान् श्वासहिष्माऽतिसारिणः॥ वृद्धवालावलक्षीणक्षुत्तृट्शूलप्रपीडितान्॥ अजीर्ण्यभिहतोन्मत्तान्दिवास्वाप्नोचितानपि॥ धातुसाम्यं तथा ह्यषां श्लेप्मा चांगानि पुप्यति॥ बहुमभेद कफाः स्वप्युः स्नेहनित्याश्च नाहनि॥ विषार्तः कंठरोगौ च नैव जातु निशास्वपि॥ हलीमकशिरोजाड्यस्तैमित्यगुरुगात्रताः॥ ज्वरभ्रममतिभ्रंशस्त्रोतोरोधाग्निमंदताः॥ शोफारोचकद्दल्लासपीनसार्द्धावभेदकाः॥ कंडूरुक्कोठपिटकाकासतंद्रागलामयाः॥ विषवेगप्रवृत्तिश्च भवेदहितनिद्रया॥ अपच्यमानो बाहुल्यात्त्स्त्रोतांस्याद्दणुते कफः॥ ततः स्रोतःसु रुद्धेषु जायते गात्रगौरवं॥ गुरुगात्रस्य चालस्यमालस्यादतिनिद्रता।
विरेकः कायशिरसोर्वमनं रक्तमोक्षणं॥ धूमक्षुत्तृट्व्यथाहर्पशोक मैथुनमीकुधः॥ र्चितोत्कंठाऽसुखा शय्या सत्यौदार्ये तमोजयः॥ रुक्षान्नं चाहितां निद्रां वारयंति प्रसंगिनीं॥ एत एव च विज्ञेया निद्रानाशस्य हेतवः॥ कालशीलक्षयो व्याधिर्वृद्धिश्चानिलपित्तयोः॥निद्रानाशादंगमर्दशिरोगौरवजृंभिकाः॥ जाड्यग्लानिभ्रमापक्तितंद्रारोगाश्च वातजाः॥ कफोऽल्पो वायुनोध्दूतो धमनीः संनिरुध्य तु॥ कुर्यात्संज्ञापहां तंद्रां दारुणां मोहकारिणीं॥ उन्मीलितविनिर्भुग्ने परिवर्तिततारके॥ भवतस्तत्र नयने स्रुते हुलितपक्ष्मणी॥ अर्द्धत्रिरात्रात्सा साध्या न सा साध्या ततः परं॥ यथाकालमतो निद्रां रात्रौसेवेत सात्म्यतः॥ असात्म्याज्जागरादर्ध्दै प्रातः स्वप्यादभुक्तवान्॥ शीलयेन्मंदनिद्रस्तु क्षीरभिक्षुरसं रसं॥ आनूपौदकमांसानां भक्ष्यान् गौडिकपैष्टिकान्॥ शालीन्मद्यानि भाषांश्च किलाटान्माहिपं दधि॥ अभ्यंगोद्दर्तनस्रानमूर्द्धश्रवणपूरणं॥ चक्षुपतर्पणं लेपं शिरसो बदनस्य च॥ प्रवाते सुरभौ देशे सुखां शय्यां यथोचिते॥ संवाहनं स्पर्शसुखं चित्तज्ञैरनुजीविभिः॥सर्पिः क्षीरानुपानं च जीवनीयैः शृतं पिबेत्॥ कांताबाहुलताऽऽश्लेषो निर्वृत्तिः कृतकृत्यता॥ मनोनुकूला विषयाः कामं निद्रामुखप्रदाः॥ ब्रह्मचर्यरतेर्ग्राम्यसुख निस्पृहचेतसः॥ निद्रा. संतोषतृप्तस्य स्वकालं नातिवर्तते॥ एतान्येव च भूयिष्ठं निद्रालुः परिवर्जयेत्॥ कालस्वतावाऽऽमयचित्तदेहखेदैः कफागंतुतमोभवा च॥ निद्रा विभर्ति प्रथमा शरीरं पापात्मिका व्याधिनिमित्तमन्या॥ ग्राम्यधर्मप्रवृत्तौ तू रजस्वलामनिष्टाचारामशस्तामतिस्थूलामतिकृशां गर्भिणों सूतिकामनुत्तानां विकलांर्गी गणिकामभजसं दुष्टयोनि मन्ययोनिमन्यस्त्रियं विशेषाश्च वयोवर्णवृद्धां सगोत्रां गुरुमित्रवंधुम्त्यपर्त्नी वर्णिर्नी तथा चैत्यचत्वरचतुष्पथोपवनश्मशानायतनसलिलौषधिद्विजगुरुसुरनृपालयेष्यहानि गोसर्गे मध्यंदिनेऽर्ध्दरात्रे पर्वदिने
ष्वनंगे पिपासुरप्रणीतसंकल्पो वा न गच्छेत्॥ विशेषेण चातिव्यवायितां गर्भिर्णी नवमसूतामृतुमर्ती संवृतयोनिं च न विपरीतव्यवाये योजयेत्॥ मूर्द्धादिघातं च परिहरेत्॥ न च निषेकाभिमुखं शुकं धारयेत्॥ मनःशरीरस्थितिमात्रमेव सेवेव्द्यवायं न च तत्परः स्यादिति॥ भवति चात्र॥ विश्रव्यदृष्टो रहसि तत्कामस्तरुणः पुमान्॥ समस्थितांगः सुरभिर्मुक्तमूत्रादिव्यथः॥ नानाशितो नात्यशितो वृष्याणां तर्पितस्यहात्॥ नारीं नारीगुणैर्युक्तां सहपूर्वगुणां व्रजेत् व्द्यहाद्वसंतशरदोः150 पक्षाहृष्टिनिदाघयोः॥ सेवेत कामतः कामं हेमंते शिशिरे बली॥ स्नानांगरागव्यजनेंदुपादमांसासषक्षीररसान् रसालां॥भक्ष्यान्सिताढ्यान्सलिलं सुशीत सेवेत निद्रां च रतांततांतः॥ स्त्रीसंसंसर्गाद्धि सद्यः स्यात्क्लीवता बलिनामपि॥ एवं त्वाप्याय्यते शीघ्रं तेषां शुक्रं च धाम च॥ दृवाऽयुरोजःशुक्राणां क्षयं मेंढ्राश्रयान्गदान्॥ वायोः कोपमधर्मे च मूढः प्राप्नोत्यतोऽन्यथा॥ उत्तानो वेगरोधी वा वृद्धिमेहाश्मशर्कराः॥ तिमिरादिगदोत्पत्तिं मूर्द्धाद्याहननात्ध्रुवं॥भ्रमक्ल मोरुदौर्बल्यबलधात्विंद्रियक्षयाः॥ अपर्वमरणं च स्पाद्विशेपेणातिमैथुनात्॥न घर्तेषोडशाद्वर्षात्सप्ततः परतो न च॥ आयुष्कामो नरः स्रीभिः संयोगं कर्तुमर्हति॥ अतिवालो ह्यसंपूर्णसर्वधातुः स्त्रियं व्रजन्॥ उपतप्येत सहसा तडागमिव काजलं॥ शुष्कं रुक्षं यथा काष्टं जंतुजग्धं विजर्जरं॥ स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियं व्रजन्॥ कायस्य तेजः परमं हि शुक्रमाहारसारादपि सारभूतं॥ जितात्मना तत्परिरक्षणीयं ततो वपुः संततिरप्युदारा॥ अप्रमत्तो भजेद्भावांस्तदात्वसुखसंज्ञकान्॥ सुखोदर्केषु सज्जेन देहस्यैतदलं हिनं॥प्रज्ञापराधोऽसात्म्यार्थसंयोगः कालवैकृतं॥हितेऽपि रतमाहारे योजयंत्यामयैर्नरं॥ नापथ्यसेविनं
सद्यः प्रबार्धते तदा मलाः॥ प्रकोपं प्रतिबघ्नंति भिन्नैष्यार्दूष्यादिभिर्यदा॥ न च सर्वोपचारोऽपि सर्वदा सर्वदोपहृत्॥ नहि सर्वाण्यपथ्यानि तुल्यदोषाणि नैव च॥ सर्वे तुल्यबला दोषा न सर्वाणि बपूंषि च॥ व्याधिक्षमत्वे शक्तानि यतोऽपथ्यं तदेव तु। गच्छत्यपध्यतमतां तुल्यदूष्यादिवर्द्धितं॥ त एवं च पुनर्दोषा हेतुभिर्बहुभिश्वताः॥ मिथो विरुद्धा बलिनो दीर्घकालानुबंधिनः॥ सर्वे समं प्रकुष्यंति प्राप्याल्पमपि कारणं॥ प्राणायतनमाश्रित्य गंभीराः सर्वमार्गगाः॥देहे हितोचिते ते स्युश्चिरादप्याशुकारिणः॥ अहितान्यपि चान्येपामभ्यासादुपशेरते॥ दोषाश्चैषा क्षयं यांति कर्मवातातपादिभिः॥ भिन्नाहारवयः151सात्म्यप्ररुकृतीनां समं भवेत्॥एको विकृतवाय्यादियुगपत्सेवनाग्ददः॥ वातादीनां तु विकृतिर्विकृताध्दहचारतः॥ भौमांतरिक्षदिव्येभ्य उत्पातेभ्यश्च जायते॥ संभवः पुनरेतेषां कर्मणः सामुदायिकात्॥ दुष्टो वायुरभिष्यंदीस्तिमितोऽत्युष्णशीतलः॥ कुंडली भैरवरवः परुपोऽनार्तवो बली॥ अन्योन्यव्याहतगतिः पांसुबाष्पविपान्वितः॥ रसवर्णादिविकृतमपक्रांतविहंगमं॥ र्निदितप्रभवं तोपमुपक्षीणजलाशयं॥ मक्षिकाभूषिकाव्यालबहूत्पातप्रदूपितः।देशोऽपधथ्यान्नवहुलो नष्टधर्ममहौषधिः॥कालश्च विपरीतोऽतिहीनर्लिगो यथायथं॥ एते दुष्परि हारत्वादहितायोत्तरोत्तरं॥ येपामनियतं कर्म तस्मिन्काले सुदारुणे॥ कर्म पंचविधं तेषां योज्यं तद्दद्रसायनं॥ शस्यते देहवृत्तिश्च भेषजैः पूर्वमुध्दृतैः॥ ब्रह्मचर्ये दया दानं सदाचाररतिः शमः॥ सद्धर्मः सत्कथा पूजा देवर्षीणां जितात्मनां॥ देशानामविपन्नानां साधूनां च निषेवणं॥ दैवव्यपाश्रयं चेष्टं कर्म जीवितरक्षणं। हेमंतादिषु कुर्वीत स्वंस्रं चाकालिकेष्वपि॥ विधिं तच्छीलनं यस्माच्छीतादिद्वंद्वकारितं॥
ऋतुचर्या हि शीतोष्णवृष्टिदोषप्रतिक्रिया॥ अतएवर्तुचर्यायां हेमंतशिशिरौ समौ॥ सर्वप्राणभृतां152 नित्यमायुर्युक्तिमपेक्षते॥ दैवे पुरुषकारे च स्थितं ह्यस्यबलाबलं॥ अन्यजन्मकृतं कर्म दैवं पौरुषमैहिकं॥ विद्यात्ते कर्मणी त्रेधा श्रेष्ठमध्यावरत्वतः॥ तयोरुदारयोर्युक्तिर्दीर्घस्य सुसुखस्य च॥ नियतस्यायुषोहेतुर्विपरीतस्य चापरा॥ मध्या मध्यस्य मिश्रस्य संकीर्णा शृणु चापरं॥ दैवं पुरुषकारेण दुर्बलंह्युपहन्यते॥ तथा दैवेन बलिना पौरुषंकर्म दुर्बलं।दृष्ट्वा तदेके मन्यतेऽनियतं मानमायुषः॥ कर्म किंचित्क्वचित्कालेविपाके नियतं महत्॥ किंचिच्च153कालनियतं प्रत्ययैः प्रतिबोध्यते॥एवं च द्विविधो मृत्युः कालाकालविभेदतः॥ उपदिष्टस्ततश्चैषहिताहितविधिक्रमः॥ एकोत्तरं मृत्युशतं ब्रुवते वेदवादिनः॥ तत्रैकःकालसंयुक्तः शेषास्त्यागंतवः स्मृताः॥ श्येनाजिरादियागेन भ्रातृ154व्यस्य तथाच तैः॥ दैर्घ्यश्रवससामाद्यै155र्विहितः स्वात्मनो वधः॥ आयुष्कामस्य तत्प्राप्तिस्तथेष्ट्या मित्रविंद्या॥ सर्वस्मादेव चात्मानं गोपायेदीदृशी स्मृतिः156॥ तथा मरणमुद्दिष्टं सौगतानां चतुर्विधं॥ विषमापरिहारेण जायते नियतायुषां॥ ध्रुवं रोगित्वमन्येषां मृत्युरेव त्वपर्वणि॥अकांडशस्त्रघाताद्यैः प्रत्यक्षो मृत्युरन्यथा॥ उद्धांतचंडमातंगतुरंगादिसमागमं॥ अरातिदुष्टवाय्वादिसाहसाहितभोजनं॥ वर्जयेदितिन ब्रूयुर्मुनयो दिव्यचक्षुषः॥ दैवव्यपाश्रयादींश्च रसायनविधिंनवा157॥ न वा तेऽपि यथाकाममायुषःस्थितिमाप्नुयुः॥ अहिसिंहगजादिभ्यो विदुषां न भयं भवेत्॥ मिथ्या प्राकारदुर्गाणि मिथ्यामारणरक्षणं॥ आयुष्कामस्य मिथ्यैव परदारादिवर्जनं॥ मंत्रदेवतयाऽऽहूता नाचक्षीरन्महादयः॥ विषसुप्तप्रमबुद्धस्याभावभावौतदायुषः॥ संन्यासरोहिणीकादिग्रस्तस्य सहसा भवेत्॥ उपेक्षया न मरणं जीवितं वा चिकित्सया॥ प्रत्यहं नृसहस्रस्य युद्धेऽन्योन्यमभिघ्नतः॥ साधुवृत्तस्य चातुल्या158 न भवेदायुषःस्थितिः॥नायुषैर्द्विषमिंद्राद्यानौषधैरार्तमश्विनौ॥ उपक्रमेरन्न भवेदकालमरणंयदि॥ घटानामामपक्वानां पालनापरिपालनैः॥ चिराशुकालवर्तित्वंचित्रस्थानां च दृश्यते॥ इत्यत्यंतप्रसिद्धेऽपि सिद्धे सर्वागमैरपि॥ दृष्टेऽप्यकालमरणे विचिकित्सेत्कथं बुधः॥ गुणवद्भिषगादीनां संभवे संभवेत्तु यः॥ मृत्युस्तं कालजं प्राहुरितरं तद्विपर्यये॥ यथा रथो वाह्यमानो न्यायेन क्रमशः क्षयं॥ यायादात्मवतामायुस्तथाऽन्येषां विपर्ययः॥ शुचितैलदशो दीपः कीटवाताद्यपीडितः॥दीप्तिमान्वर्त्तते सम्यक्यथैवास्नेहसंक्षयात्॥ स एवातो यथा च स्याद्विपरीतो विपर्यये॥ हिताहितोपचारेण तथैव पुरुषो ध्रुवं॥ सर्वमन्यत्परित्यज्य शरीरं पालयेदतः॥ तदभावे हि भावानां सर्वाभावः शरीरिणां॥ नगरी नगरस्येव रथस्येव रथी सदा॥ स्वशरीरस्यमेधावी कृत्येष्ववहितो भवेत्॥ आहारकल्पनाहेतून्स्वभावादीन्विशेषतः॥ समीक्ष्य हितमश्नीयाद्देहो ह्याहारसंभवः॥ भीलज्जायंत्रणालोभहर्षशोकवशंगतः॥ न जातु धारयेद्वेगांस्तद्धि सर्वापदां पदं॥ हितमभ्यस्यतः पुंसो नाकाले कालदंष्ट्रया॥ संजायते परामर्शो बलोत्साहेंद्रियायुषां॥अहितानि च संत्यज्य दोषमप्याप्नुयाद्यदि॥ तथाप्यानृण्यमायातिसाधूनामात्मवानिति॥ यच्च रोगसमुस्थानं न शक्यमिह केनचित्॥ परिहर्तुंन तत्प्राप्य शोचितव्यं मनीषिणा॥ हिताहारविहाराणां सदाचारनिषेविणां॥ लोकद्वयव्यपेक्षाणांजीवितं ह्यमृतायते॥ गृध्नुर्ग्राम्यसुखे वश्यः क्लेशानां हतसत्पथः॥ मूढो
जीवत्यनर्थाय दुर्गतिंपरिबृंहयन्॥ विदुषांऽतःशरीरस्थान्नित्यं सन्निहितानरीन्। जित्वावर्ज्यानि वर्ज्यानि चिरं जीवितुमिच्छता॥ तदात्वे159चानुबंधे वा तस्मात्कर्माशुभोदयं ॥ स्मरन्नात्रेयवचसो न धीमान्कर्तुमर्हति॥ इति विरुद्धान्तविज्ञानीयो नाम नवमोऽध्यायः॥९॥
अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः॥ विधिविहितमन्नपानमिष्टेंद्रियार्थमायतनमायुषोब्रुवते॥ यत्तदायत्तानि ह्योजस्तेजोधात्विंद्रियबलतुष्टिपुष्टिप्रतिभारोग्यादीनि॥ तदिंधना चांतरग्नेः स्थितिः॥अग्निमूलं च देहधारणमिति॥ अथात्मवान् स्वभावसंयोगसंस्कारमात्रादेशकालोपयोगव्यवस्थाः सप्ताहारकल्पनाविशेषाणां स्वास्थ्यास्वास्थ्यकलानां हेतुभूताः समीक्ष्य हितमेवानुरुन्ध्येत॥ तत्र स्वभावतो दिव्योदकरक्तशालिपष्टिकमुद्गैणलावादयो लघवः॥ क्षीरेक्षुव्रीहिमाषानूषामिषादयो गुरव इति॥ ते खल्वपिसंयोगादिविशेषैरन्यथात्वंप्रतिपद्यते॥ तत्र संयोगो नाम द्वयोर्बहूनां वा संहतीभावः॥ स विशेषमारभते यन्नैकशो नैकदोषाणि द्रव्याणि॥ संस्कारस्तु तोयाग्निसन्निकर्षशौचमंथनदेशकालभावनाभाजनादिभिरुपजन्यते॥ मात्रापुनः पिंडपरिमाणतः समुदायेन प्रतिद्रव्यापेक्षया चाहारराशिः॥देशोद्रव्यस्योपयोक्तुश्चोत्पत्त्यवस्थाने॥ तत्र पुनरुपयोक्ता स्वस्थातुरत्वतःप्रकृतिभेदतश्चपरीक्ष्यः॥ कालस्तु ऋतुव्याध्यपेक्षो जीर्णाजीर्णलक्षणश्च॥ अजीर्णंहि पूर्वस्याहारस्यापरिणतो रस उत्तरेण संसृज्यमानः सर्वान्दोषान्प्रकोपयत्याशु॥ जीर्णे तु स्वस्थानस्थेषु दोषेषु वातानुलोम्पात्सृष्टेषु मूत्रपुरीषवेगेषु विशुद्धेषूद्गारहृदयस्रोतोमुखेपु विशदकरणे लघुनि शरीरेऽग्नावुदीर्णे जातायां बुभुक्षायामभ्यवहृतमन्नमप्रदूषयद्दोषानायुर्बलवर्णानभिवर्द्धयति॥ केवलमयमेव कालो भोजनस्य॥ अतीतकालं पुनस्तद्वातविष्टब्धं कृच्छ्रादिपच्यते कर्शयत्यन्नरुचिं च पुनरुपहंति॥ उपयोगव्यवस्था तु नास्नातो न दिग्वासा नैकवस्त्रधृक्न मलिनवसनो नाहुत्त्वानाजपित्वानानिरूप्य देवताभ्यो न पितृभ्यो नादत्वाग्रमग्नयेन गुरुभ्योनातिथये नाभ्यागतेभ्यो न श्ववयःश्वपचेभ्यः प्रत्यवेक्ष्य चाश्रितानपि तिरश्चः परिगृहीतान् प्रशस्तदेशकालोपकरणयुक्तः स्रग्वी विभूषितः सुगंधिरार्द्रपाणिपादः सुविशुद्धवदनोऽभिमतसहायः केशमक्षिकाद्यजुष्टमनिंद्यमनिंदन्न निंदितं पुनर्नोष्णीकृतं नात्युष्णमनुपदग्धं सुसिद्धमलोलो नासात्म्यं नाविदितं नाविदितागमं नातिसायंनातिप्रगे नाकाशे नातपे नांधकारे नाधो वृक्षस्प न शय्यास्थो नोन्नम्य प्रदेशिनीं न पात्रे भिन्ने नासंवृते न मलिने भावदूषिते वा न चासनस्थितेन हस्तेन प्राड्मुखः सुमनाः शुचिभक्ताक्षुधितानुकूलजनोपहितं हितमन्नमश्नीयात्॥ न पर्युषितमन्यत्र मांसोपदंशभक्ष्येभ्यः॥ नाशेषमन्यत्र दधिमधुवृत्तसलिल-सक्तुशुक्तपायसेभ्यः॥ अपिच॥ स्निग्धं लघूष्णमविलंवितर्मनतिद्रुतमजल्पन्नहसंस्तन्मनाःसमीक्ष्य सम्यगात्मानं॥स्निग्धलघूष्णानि हि वन्हिमौदर्यमुदीरयंति को परिशोधयंति॥धातून्न विकुर्वते क्षिप्रंजीर्यत्यनिलमनुलोमयंति॥ तथा स्निग्धं दृढीकरोतींद्रियाण्युपचिनोति शरीरमपचिनोति जरसं बलमभिवर्द्धयति वर्णप्रसादमभिनिर्वर्त्तयति॥ लघु च पुनःस्वभावादिभिरन्नमप्रतिपीडयद्दोषानव्यथमानंपरिणाममेति ॥ विपन्नमपि चाल्पदोषंभवति॥ उष्णं पुनर्जनयति रुचिमपशोषयति श्लेष्माणं॥विलंबितं तु भुंजानो न तृप्तिमधिगच्छति बहु च भुंक्ते शीती भवति चान्नजातं विषमपाकं च भवति॥ अतिदुतं तु भुंजानस्य जल्पतो हसतोऽन्यमनसो वा भवेदुत्स्नेहनमवसादनं भोजनस्याप्रतिष्ठानं गुणदोषाविभावनं च॥ समीक्ष्य सम्यगात्मानमिति॥ ममेदं सात्म्यमिदमसात्म्यमिति च नित्यमप्रमत्तःप्रत्यवेक्षेत॥ तत्र सात्म्यं नाम सहात्मना भवत्यतस्तदौचित्यादुपशेतइत्येके॥ सात्म्यविपरीतमनुपशयादसात्म्यं॥ अन्ये पुनः प्रकृतिवयोदेशर्तुदोषव्याधिवशेन सात्म्यं बहुविधमिच्छंति॥ ते ह्युपशयमात्रमंगीकृत्य विपरीतगुणमप्युपचारेण सात्म्यमाचक्षते॥ तुल्यगुणंचानुपशयादसात्म्यं॥ सात्म्यं तु प्रवरावरमध्यविभागेन त्रिविधं॥तत्र सर्वरसं प्रवरमेकरसमवरं मध्यं तु मध्यममेव॥ तेषु प्रवरं समदोषस्योपदिशंतीति॥तेषामपि क्रमेण सात्म्यमपि चाहितं पादेनपादांशेन वा विवर्जयेदित्युकं प्राक्॥ तत्र यदाहारजातं समान्धातूननुवर्त्तयति विषमांश्चसमीकरोति तत्समासतो हितं॥ विपरीतमहितं॥ तत्पुनर्मात्रायोगादिवैचित्र्यादनियतमपि यथोपदेशं यथाभूयिष्ठंच शीलियेत्परिहरेच्च॥ तथा विशेषतः समशनमध्यशनममात्राशनं विषमाशनं च वर्जयेत्॥ तत्र पथ्यापथ्यमेकत्र भुक्तं समशनं॥भुक्तस्योपरि भुक्तमध्यशनं॥ अमात्राशनं पुनः पृथगेवोपदेक्ष्यते॥अप्राप्तातीतकालं तु भुक्तं विषमाशनमिति॥ भुंजानस्तु पेयायूपरसान्व्यंजनानि राजवेषु पात्रेषु निदध्यात्। परिशुष्कप्रदिग्धानत्युष्णं चपयः सौवर्णेषु॥ खलकट्व160रकं बलिकान्कांस्येषु॥ रागखांडवसट्टकान्161 वस्त्रवैदूर्यविचित्रेषु॥ घृतमायसे॥ पयः सुशीतं ताम्रमये॥ पानीयपानकानि च मृद्धेमस्फटिकमयेपु॥ ओदनं च विस्तीर्णे मनोरमे स्थाने। अन्यथा हिवर्णगंधरसान्यत्वादहितं स्यात्॥ अपिच॥ दक्षिणपार्श्वेभक्ष्यं स्थापयेत्॥ सव्ये पेयं मुखोद्वर्षणपिंडीं च॥ मध्ये भोज्यमिति॥यथाऽग्निसात्म्यं तु प्राक् द्रवमुपशुष्कं वाऽश्नीयात्॥ प्रागेव तु गुरु स्वादुस्निग्धं॥ मध्येऽम्ललवणं॥ अंते रुक्षं द्रव162मितररसयुक्तं च॥ तत्र
मंदाग्नेर्देवोग्गेन समुत्तेजितोष्मणोऽन्यदुपयुक्तं सम्यक्पाकमेति॥ अनुपानं तु सलिलमेव श्रेष्ठं सर्वरसयोनियात्सर्वभूतसाम्यत्वाज्जीवनादिगुणयोगाच्च॥ तच्छीतंदधिमधुगोधूममद्यविशेषेषुसर्वेषु च विदाहिपुशरद्ग्रीष्मयोश्च॥ उष्णं पिष्टमयेष्वन्येषु च दुजेरेषु हेमंते च॥द्रवद्रव्यविज्ञानीयं चेक्षेत॥ क्षीरं शालिपष्टिकयोस्तथोपवासाध्वभाष्यस्त्रीव्यायामक्लान्तबालवृद्धेषु॥ मांसरसः शोषादिषु॥वातेत्वम्लानि च॥ पित्ते शर्करोदकं॥ त्रिफलोदकं तु सक्षौद्रं श्लेष्मणिप्रायशश्वाक्षिगलरोगेषु॥ मस्त्वेव वा दधनि कूचीकाकिलाटयोश्च॥धान्याम्लं मस्तु तक्रंवा शाकावरान्नेषु॥ मद्यं मांसेषुफलाम्लमंबुवाऽऽसवांश्च विविधान् विभज्य प्रयोजयेत्॥ विशेषतस्तुमध्वासवान् ग्राम्येषु॥ तीक्ष्णान् फलासवान्वन्येषु॥ न्यग्रोधादिफलासवान्विष्किरेषु॥ अर्कसेलुशिरीषकपित्थासबान्विलेशयेषुदिग्धहनेषु च॥ अम्लफलासवान्प्रसहेषु॥ काशेक्षुपद्मबीजशृंगाटककसे रुकमृद्वीकामदिरासवान् क्षौद्रयुक्तं वा शीतमुदकमुदश्विद्वा163 महामृगेष्वौदकेषु च॥ सुरां प्रतुदेषु तथा श्रमार्तेषु कृशेषु च॥मधूदकं स्थूलेषु॥ मद्यं मद्यमांसात्म्याल्पाग्निषु॥ अपिच॥ समासेनान्नविपरीतमविरोधि च॥ अनुपानं खलु तर्पयति प्रीणयत्यूर्जयति बृंहयति देहस्य पर्याप्तिमभिवर्द्धयति भुक्तमवसादयत्यन्नसंघातं भिनत्ति मार्दवमापादति क्लेदयति सुखपरिणामितामाशुव्यवायितां चाहारमुपनयति॥ वर्ज्यं तूर्ध्वजत्रुगदश्वासका सप्रसेकहिध्यास्वरभेदोरःक्षतिर्गीतभाष्यप्रसक्तैश्च॥ तेषां164हि प्रदूष्यामाशयमुरकंठस्थितमाहारजं स्नेहमासाद्यतदभिष्यंदाग्निसादच्छर्द्यादीनामयान्विदध्यात्॥ पीत्वा च भाष्यगेयाध्वस्वप्नान्न शीलयेत्॥पानं तु प्रक्किन्नदेहमेहकंठाक्षिरोगव्रणिनइति॥ ततः पाणिगतमन्न
मन्येनापनीय दंतांतरस्थं च शनैः शोधनेन विशोध्य विधाय लेपगंधस्नेहापनोदमाचांतोंऽगुल्यग्रगलितांवुपरिषिक्त नेत्रस्तांबूलादिकृतवदनवैशद्यो धूमपानादिद्दृतोर्ध्वकफवेगः पदशतमात्रं गत्वा वामपार्श्वेन संविशेत्॥ द्रवोत्तरभोजनस्तु शय्यां नातिसेवेत्॥ यानप्लवनवाहनान्यातपांश्च भुक्तवान्वर्जयेत्॥ आहारपरिणामकराः पुनरुष्मा वायुः क्लेदः स्नेहः कालः समयोगश्च॥ तत्रोष्मा पाचयति वायुरपकर्षति क्लेदः शैथिल्यमापादयति स्नेहोमार्दवं जनयति कालः सर्ववपुर्व्याप्तिमभिनिर्वर्त्तयति॥ समयोगस्त्वेषां परिणामधातुसाम्यकरः संपद्यते॥ समयोगस्य पुनः कारणान्युचितो हितश्च देहसंस्कारोऽभ्यवहारश्चेष्टा शयनं सौमनस्यं च॥ परिणामतस्त्वाहारगुणाः शरीरजगुणभावमापद्यंते यथास्वमविरुद्धाः॥ विरुद्धास्तु विहिताश्व विरोधिभिर्विहन्युः शरीरमिति॥ भवंति चात्र॥ कुकूलभृष्टपृथुकान्सुपिष्टकततंदुलान्॥ न जातु भुक्तवानद्यान्मात्रयाऽद्यात्सुकां क्षितः॥शाकावरान्नकट्वम्लकषायलवणोत्कटं॥ त्यजेदेकरसासात्म्यं गुरु शुष्कं च भोजनं॥ वक्ष्यते यन्निदानादौ सर्वरोगप्रकोपनं॥ अत्यभिष्यंदि विष्टंभि विदाहि हिमरुक्षणं॥ किलाटधिकूचीकामत्स्यशुष्काममूलकं165॥ क्षारपिष्टविरूढाद्यं तत्समस्तं न शीलयेत्॥ शीलयेच्छालिगोधूमयवषष्ठिकजांगलं॥ सुनिषण्णकजीवंतीवालमूलकवास्तुकं॥ पथ्याऽऽमलकमृद्विकापटोलीमुद्गशर्कराः॥ घृतदिव्योदकक्षीरक्षौद्रदाडिमसैंधवं॥ त्रिफलां मधुसर्पिर्भ्यां निशि नेत्रबलाय च॥ स्वास्थ्यानुवृत्तिकृद्यच्च रोगोच्छेदकरं च यत्॥ स्वभावमात्रायोगादिपरस्परविपर्ययैः॥ भोजनानि विरुध्यंते तानि विद्वान् विवर्जयेत्॥ त्यागाद्विषमहेतूनां समानां चोपसेवनात्॥विषमा नानुबध्नन्तिजायते धातवः समाः॥ अनेन कुक्षेर्द्वावंशौ पानेनैकं
प्रपूरयेत्॥ आश्रयं पवनादीनां चतुर्थमवशेषयेत्॥ मंदानलबलारोग्यनृपेश्वरसुखात्मसु॥ योज्यः क्रमोऽयं सततं नावश्यमितरेषु च॥ करोति रुक्षं बलवर्णनाशं त्वग्रूक्षतां वातशकृन्निरोधं॥ स्निग्धंत्वतिश्लेष्मचयप्रसेकहृद्गौरवालस्य रुचिप्रणाशान्॥ अत्युष्णमन्नंमददाहतृष्णाबलप्रणाशभ्रमरक्तपित्तं॥ शीतं तु सादारुचिवन्हिनाशं हृल्लासविष्टंभनरोमहर्षान्॥ अतिस्थिरं मूत्रशकद्विबंधमतृप्तिमव्याप्तिमशीशपक्तिं॥ अतिद्रवं पीनसमेहकासस्यंदान्करोत्यग्निबलं च हंति॥ अतिमधुरमनलशमनं भुक्तमसात्म्यं न पुष्टये वपुषः॥ अतिलवणमचक्षुष्यं तीक्ष्णात्यम्लं जरा साक्षात्॥ इति विधिमवलंब्य योऽन्नपानं बलमिव विग्रहवत्सेदोपयुंक्ते166॥ तनुमपि तनुजां रुजं त्वनाप्य व्रजति नरः स समाशतस्य पारं॥ इत्यन्नपानविधिर्नाम दशमोऽध्यायः॥१०॥
अथातो मात्राशितीयमध्यायं व्याख्यास्यामः॥ मात्राशी स्पातू॥ मात्रा पुनरग्निबलाहारद्रव्यापेक्षिणी॥ कुक्षेरप्रतिपीडनमाहारेण हृदयस्यासंरोधः पार्श्वयोरविपाटनमनतिगौरवमुदरस्य प्रीणनमिद्रियाणां क्षुत्पिपासोपरतिः स्वस्थानासनशयनगमनोच्छ्वासप्रश्वासहास्यसंकथासु सुखानुवृत्तिः सायं प्रातश्च सुखेन परिणमनं बलवर्णोपचयकरत्वं चेति मात्राया लक्षणं॥ त्रिभागसौहित्यमर्द्धसौहित्यं वा गुरूणां समुपदिश्यते॥ लघूनामपि च नातिसौहित्यं॥ अनिलानल गुणबहुलानि हि लघूनि तुल्यगुणत्वादभिसंधुक्षणान्यविधिना चाल्पदोषाणि॥ इतराणि तु पृथिवीसलिलगुणबहुलान्यसामान्याद्विपरीतान्यन्यत्र व्यायामाभिबलात्॥ अमात्रा पुनरशनस्य हीनताऽऽधिक्यं च॥ तत्र हीनमात्रमशनं बलवर्णोपचयमनोबुद्धींद्रियोपघातकरं विबंधकृदवृष्यमनायुष्यमनौजस्यंसारविध्मापनमलक्ष्मीजननमशीतेश्च वातविकाराणामायतनं॥ अतिमात्रं पुनः सर्वदोषप्रकोपनमाहुः॥ तेन हि प्रपीड्यमाना वातादयो युगपलकुपिताः कुक्ष्यैकदेशस्यास्तदेवापरिपक्वमाविश्य विष्टंभयनोऽलप्तकप्रभिनिर्वर्तयंति सहसा बाऽधरोत्तराभ्यां मार्गाभ्यां प्रच्यावयंतोविसूचीकां॥ अपिच॥ प्रयाति नोर्ध्वं नाधस्तादाहारो न च पच्यते॥ आमाशयेऽलसीभूतस्तेन सोऽलप्तकः स्मृतः॥ विविधैर्वेदनोद्भेदेर्वाय्वादिभृशकोपतः॥सूचीभिरिव गात्राणि विध्यतीति विसूचिका॥ तत्र वातः शूलानाहांगमर्द मुखशोपपलापकंपमूर्च्छाश्रम जृंभोद्वेष्टना क्षिप्रवेशशिरो हृदयातिरुशिराकुंचनस्तंभनानि करोति्॥ पित्तं पुनर्ज्वरातिसारांतदवैवर्ण्य तृष्णामभ्रमप्रलपनानि॥श्लेष्मा तु छर्द्यरोचकप्रसेकांगसादाविप्राकशीतज्वरात्रगौरवाणि॥ विशेषतस्तु दुर्बलस्याल्पाग्नेर्बहुश्लेष्मणो वातमूत्रपुरीषवेग विधारिणोऽन्नपानमनिलग्रपीडितं श्लेष्मणा विबद्धमार्गमलसत्वादबहिर्मुखी भवेत्॥ छर्द्यतीसारवर्जानियथोक्तानि शूलादीन्युपजनयत्यतिमात्राणि॥ अतिमात्रदुष्टास्तु दोषा प्रदुष्टामबद्धमार्गास्तिर्यग्गच्छंतः कदाचिदस्य शरीरं दंडवत्स्तंभवंति ततस्तमलसकमसाध्यंब्रुवते॥ विरुद्धाध्यजीर्णाशनशीलिनः167पुनरामदोषनामविषमामनंति विषसदृशलिंगत्वात्तत्परमसाध्यमाशुकारितयाविरुद्धोपक्रमत्वाच्च॥ न च केवलं मात्रयैव कृत्स्नमाहारफलमवाप्तुंशक्यं स्वभावादीनां भिन्नफलत्वात्॥ तथाहि॥ गुरुरुक्षशुष्कशीतद्विष्टविष्टभिविदाह्यशुचिविरुद्धात्यंबुपानद्रवमकाले वा कामक्रोधलोभेर्ष्यान्हिशोकोद्वेगभयक्षुदुपतप्तेन वा यदन्नपानमुपयुज्यते तदप्याममेव प्रदूषयति॥ तत्र साध्यमामं दुष्टमलसीभूतमुल्लिखेत्पाययित्वा सलवणपुणं वारि॥ तथा त्वच्छर्दयंतमतिलीनदोषं कृष्णानागदंतीकल्कयुक्तं पाययेत्॥ मदनफलकपायं वा पिप्पलीसिद्धार्थककल्कयुक्तं॥ दंतीमागधिकाऽवचूर्णितं वा कोशातकीरसं॥ अवस्थापेक्षी वा वमनकल्पोक्तानि तीक्ष्णवमनानि॥ ततः स्वेदनवर्तिप्रणिधानाभ्यामुपाचरेत्॥ अपिच॥ सद्यः सम्यग्विशुंद्वरय शाम्यंति तदुपद्रवाः॥ शूले निरन्नकोष्ठेऽन्द्भिः कोष्णाभिश्वूर्णिताः पिबेत्॥ हिंगुप्रातिविषा व्योपसौवर्चलवचाक्षस्या॥ अथवा पिप्पलीमूलत्रिवृतादारुसैंधवं॥ शूंठीस्रुक्क्षीरलवणपिप्पलीमरिचानि च॥ पाठाम्लवेतसक्षारयवानीपौष्कराणि च॥ द्विरुत्तरं हिंगुवचाऽग्निकुष्ठसुवर्चिकाक्षारविराजमोदं॥ शूलोदरानाहविसूचिकाशौद्दद्रोगगुल्मोर्ध्वसमीरणघ्नं॥ मुस्ताजमोदंपूतीकवचाशुंठ्यग्निधान्यकैः॥ सव लकसठीबिल्वैः क्वाथं तृट्शूलवान् पिबेत्॥ पिबेद्विषक्व ह्यमृताकपयं कदंबार्निबार्जुनवृक्षकाणां॥ क्वाथं सुखोष्णं लवणप्रगाढं विसूचिकाऽजीर्णविषापमर्दिनं॥ रास्त्राकट्फलप्रड्यंग्रथावृद्वतीद्वजोंगकैः॥ गुग्गुल्वतिविषाकुष्टपत्रव्याघ्रनखांबुदैः॥ कुर्याच्छुष्कैः समृत्रैर्वा लेपोद्वर्त्तनधूपनं॥ सरुक्चानध्दमुदरमम्लपिष्टैः प्रलेषयेत्॥ दारुहैमवतीकुष्टशताव्हार्दिगुसैध्वैः॥ यवचूर्णश्च सक्षारतकः कोष्टार्तिजित्परं॥ योजयेत् सैधवांतैश्च तत्र168 विष्मूत्रसंग्रहे॥ नाम्यमानानि चांगानि भृशंस्विन्नानि वेष्टयेत्॥ विसूध्यामतिवृद्धायां पाण्यौर्दाहः प्रशस्यते॥ हिक्षारजीर्णपिप्याकछुष्टारु करपत्रकैः॥ सशुक्तसैधबैस्तैलं पक्कमभ्यंजने हितं॥ सुच्छर्दितबिरिक्तस्य गात्रावामेऽतिदारुणे॥क्षल्लातकमधूच्छिष्टजीर्णपिण्याकनागरैः॥ घृततैलं पचेत्साम्लैस्तच्च खल्लीघ्नमुत्तमं। त्वक्पत्ररास्त्राऽगुरुशियुकुष्टैरम्लप्रषिष्टैः सवचाशलान्हैः॥ उद्वर्तनं खल्लिविसूचिकाघ्नं तैलं विपक्कं च तदर्थकारि॥ तदहथोपवास्येनं विरित्त वहुपाचरेत्॥ सामान्येनेति सिद्धोक्ता विसूच्चलसकक्रिया॥ आमदोषेषु त्वन्नकाले जी
र्णाहार दोपोपलिभामाशयस्तिमितगुरुकोष्ठमन-नाभिलापम भिसमीक्ष्य पाययेत्॥ दोपशेषपाचनार्थमौषधं वन्हिसंधूक्षणहेतोश्च॥ अजीर्णाहारं पुनर्न पाययेत्॥ यत आमसन्न आमदोपनौषधमाहारजातं चाशक्त. पक्मभिः॥ इत्येषां विश्रमोऽतिबलत्वादुपस्तानलम सद्दलमातुरं सहसा निपातयेत्॥ आमदोपजानां पुनर्विकाराणामपतर्पणेनैवोपशमो भवति॥ तत्तु त्रिविधं॥ लंघनं लंघनपाचनमवसेचनं च॥ तत्र लंपनमल्पदोपाणां॥ तेन ह्यनिलानलवृत्त्या वातातपपरीत इवाल्पसलिलाशयोऽल्पो दोपः शोषमापद्यते॥ लंघनपाचनाभ्यां मध्यमलो वातातपाभ्यां पांसुभस्मावकिरणैरिव चानतिमहान्सलिलाशयः॥ यहुदोषाणां पुनर्दोपावसेचनमेव कार्य॥ न झस्राविते पलवलोदकोषे शाल्यादिपुष्टिर्भवति॥ तस्मात्संतर्पणनिमित्तानां नांतरेणापतर्पणमस्ति शांतिः॥ अपतर्पण निमित्तानां नांतरेण संतर्पणमिति॥ एवमन्येपामपि व्याधीनां यथास्वं निदानविपरीत मौषधमवचारयेत्॥ सतित्वनुबंधे निदानविपरीतमपास्य व्याधिविपरीतमेव तदर्थकारि वा॥ विमुक्तामदोपस्य पुनः परिपक्कामदोपशेपस्य दिप्ते चानावभ्यंगास्थापनानुवासनं विधिवत्स्नेहपानं च युक्त्या प्रयोज्यं समीक्ष्य दोपौपधादीन्यनंतराणीति॥ भवति चात्र॥ पः भ्यायदंतोष्ठनखोऽल्प-संज्ञो वम्यर्दितोऽभ्यंतरयातनेत्रः॥ क्षामखरः सर्वविमुक्तसंधिययारोऽसौ पुनरागमाय \।\। व्योपं करंजस्य फलं हरिद्वे मूलं समावाप्य च मानुकुंग्याः॥ छायाविशुष्का गुटिकाः कृतास्ता हन्युर्विसची नयनांजनेन\।\। शिरीपनक्ताव्हफणिज्जवीजत्रायंत्यपामा मैफलानिवर्तिः \।\। वस्तस्य मूत्रेण विसूचिकानी मलेपधूपांजननस्ययोगेः॥ अजीर्ण च कफादामं विष्टब्धमनिलाद्भवेत्॥ विदग्धं पित्तदोषेण त्रित्रकारमिति स्मृतं॥ तत्रामे गुरुतोत्क्लेदः शोफो गंडाक्षिकूटयोः॥ उद्गारथ यथाभुक्तमविदग्धः प्रवर्तते॥ विष्ट शूलमाध्मानं विवि
स्वेदनं धां मातवेदनाः \।\। मलवातामवृत्तिश्च स्तंभो मोहोंऽगपीडनं॥ विदग्वे भ्रमतृणमूर्च्छाः पित्ताच विविधा रुजः \। उद्गारश्च सधूमाम्लः वेदो दाहश्व जायते॥ लंघनं कार्यमामे तु विष्टविष्टब्धे भृशं॥विदग्धे वमनं यद्दा यथावस्थं हितं भवेत्॥ गरीयसो भवेलीनादामादेव विविका \।\।
कफवातानुविद्धामलिंगा तत्समसाधना॥ रसशेपेऽन्नविद्वेषो हृदयाशुद्धिगौरखे॥ तत्राभुक्त्वा दिवावप्यात्क्षुद्दानद्यान्मितं लघु॥ यामैश्चतुर्भिभ्यां च भोज्यभैषज्ययोः समे॥ पाकोऽभी युक्तयोर्शकूच तीक्ष्णे मंदे पुनश्चिरात्॥ सभक्तमौषधं तस्मान्मंदाभेरवचारयेत्॥ पूर्वाहे भोजनं सात्म्यं लपुदीपनदृंहणं \।\। प्रातराशे त्वजीर्णेऽपि सायमाशो न दुप्पति॥ अजीर्णे सायमाशे तु प्रातराशो हि दुप्यति॥ दिवा प्रवोध्यतेऽर्केण हृदयं पुंडरीकवत्॥ तस्मिन्त्रिबुद्धे स्रोनांसि स्फुटत्वं पांति सर्वशः॥ व्यायामाच विचाराज विक्षिप्तत्याच चे तसः॥ न क्लेदमुपगच्छति दिवा सेनास्य धातवः॥ अक्किने
ध्वनमासक्तमन्नत्तेषु न दुष्यति॥ अविदग्घेष्विव पय खन्यत्संमिश्रितं पयः \।\। रात्रौ तु हृदये म्लाने संत्रतेप्यपनेपुच॥ पांति कोष्ठे परिक्लेदं संवृते सर्वधातवः॥ क्लिनेष्वन्पदपकेषु तेष्वासक्तं प्रदुष्यति॥ विदग्धेषु पयःखन्यत्पयस्ततेथ्विवार्पितं॥ नैशे तस्मादजीर्णे उन्ने नान्यजीत भोजनं॥ उद्वारशुद्धिरुत्साही वेगोत्सग यथोचितः । लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणं॥ प्रायः प्रज्ञापराधेन रोगग्रामः प्रजायते॥ नृणामशनलुब्धानां विशेषेण विसूचिका \।\। दोपोपनद्धं पदि लोनमन्नं पित्तोल्वणस्याहयान्न वन्हि॥ जायेत दुष्श तु ततो बुभुक्षा या मंदबुद्धीन्विषभिति॥॥ इति मात्राशितीयो नामैकादशोऽध्यायः॥ ११॥
अथातो विविधौषधविज्ञानीयमध्यायं व्याख्यास्यामः द्विविधमौपधमूर्जस्करं रोगघ्नं च ॥ उसयमपि चोमयात्मकं ॥ बाहुल्येन तु निर्देशः । तत्रोर्जस्करं द्विविधं रसायनं वाजीकरणं च ॥ रोगघ्नमपि द्विविधं ॥ रोगस्य प्रशमनमपुनर्भवकरं च ॥ पुनश्च द्विविधं ॥ द्रव्यमद्रव्यं च ॥ तत्र द्रव्यं त्रिविधं ॥ भौममौद्भिदं जंगममिति॥ तेषु वक्ष्यमाणहेमादिलवणांतं प्रायेण भौमं ॥ औद्भिदं तु पुनर्वनस्पतिवानस्पत्यवीरुद्रौपषधिभेदेन चतुर्विधं भवति ॥ तत्र फलिनो वनस्पतिः ॥ पुष्पफलवान्वानस्पत्यः ॥ वहीगुल्मं वीरुत् फलपाकांतात्वीअधिरिति ॥ जंगमोद्भवं तुमधुघुतांदि जंगमं द्रव्यमाहुः ॥ अद्रव्यं पुनरूपवासानियातपच्छाया मंत्रसांत्वदानमयो त्रासक्षोभपाहर्पणमनवमजागरणसंवाहनादि॥ तथा त्रिविधमौषधं देवपाश्रमं युक्तिव्यपाश्रयं सत्वावजपथ॥ तत्र देव्यपाश्रयं मंत्रौषधिमणिमं गलवल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनत्रणिपातगमवादि॥ युक्तिव्यपाश्रयमाहारौषधयोजनादि॥ सत्वावजयः पुनरहितान्मनोनिग्रहः ॥ पुनरपि च त्रिविधं ॥ अपकर्षणं प्रकृतिविधानं निदानत्यागश्च ॥ ते पुनरपकर्षणादयो द्विविधाः बाह्याभ्यंतरभेदेन॥ तत्र मासमपकर्षणं ग्रंथ्यर्बुदोपपक्ष्मरूमिशल्पादिषु शस्त्रहस्तयंत्रादिभिः॥ अभ्यंतरं पुनर्वमनविरेचनादिभिः॥ प्रकृतिविधानं संशमनं॥ तद्धाह्यमभ्यंगस्वेदमदेहपरिपेकोन्मर्दनाद्यं॥ अभ्यंतरं यदंतरमनुप्रविश्याविक्षोभयद्दोपान् शमयति॥ निदानत्यागो पथादोषं शीतोष्णासनव्यायामादीनां वर्जनं स्त्रिग्धरुक्षाद्यनभ्यवहारश्च॥ तत्र शखा दिसाध्ये भेषजमनुक्रमते न तु भेषजसाध्ये शस्त्रादि । पुनरपि त्रिविधं हेनुविपरीतं व्याधिविपरीत मुनपार्थकारि च तत्र हेतुविपरीतं गुरुस्निग्धशीतादिजे व्यायौ लघुरुतोष्णादि तथेतरस्मिन्भिनरत् ॥ व्याधिविपरीतंदौ मूलोपक्रमौतौ च खेहखेदौ संघनबहणे पंचकर्माणि ममनावीनि सधूपधूमांजनादीनि च तथा विम्ठापनोपनाइनपाटनादीनि यच दोपशमनवे सत्यपि ज्वरे विशेषतोऽभिहितं मुस्तापर्पटकं धवाग्वधः प्रमेहे रजनी यवान्नं चेत्यादि । रक्तपित्ते चोवगे विरेचनमयोगे वमनं ॥ उभयार्यकारि पुनर्देवव्यपाश्रय मौः॥ तथा छर्यो छर्दनमनिसारेऽगुलोमनं मदात्यये मद्यपानं तुच्छदग्धेऽग्नितपनं पित्तें गूढे विमार्गगेवा खेदः कटुम्ललपणतीक्ष्णोष्णाभ्यवहारश्च वहिःप्रवर्त्तनाय खमार्गापादनाय च॥ श्लेष्मणि चांतर्निंगठे स्तब्धे वहिः शीतोपचारतस्पीडितस्योष्मणोऽतःप्रवेशेन कफविलयनायेति॥ एवंविधं ह्यविपरीतमेव सद्भेषजं हेतुव्याधिविपरीतमर्थं करोति । अनौषधं पुनद्वविधमेव॥ वाधनमनुवाधनं च॥ तत्र सद्यःमाणहरं बाघनं॥ कालांतरेणानुबाघनमिति॥ परं चातो रसवीर्यादितेदेन यथास्थूट मौप धैकदेश उपदिश्यते॥ सुवर्ण बृंहणं त्रिग्धं मधुरं रसपाकयोः॥ विपदोपहरं शीतं– सकपाय रसायनं\।\।रूप्यं स्निग्धं कषायाम्लं विपाके मधुरं सरं॥ वयसःस्थापनं शीतं. लेखनं वातपित्तजित्॥ ताम्रं सतित्तमपुरं कपायं लेखनं लघु॥ कदुपाकरसं शीतं रोपणं कफपित्तजित्॥ कांस्पंकपायानुरसं विशदं लेखनं लेषु॥ दृष्टिप्रसादनं रूक्षं जिक्तं पित्तकफापहं॥ सतिकलवणं भेदि पांडुत्षकमिवातनुत्॥ लेखनं पित्त किंचित्रेपु सीसं च तद्गुणं॥ चक्षुष्यं कृष्णलोहूं च कपायं स्वादुतिक्तकं॥ लेखनं वातलं शीतं रूमिकुष्ठकफप्रणुत्॥ गात्रशैथिल्यपालित्पपांडुघ्नं शोषशोफजित्॥ तहत्तीक्ष्णं विशेषेण तद्विकापि मुद्र्जर॥ पद्मरागमहानीलपुष्परागविंदूरकाः॥ मुक्ताविद्रुमवकेंद्र वैदूर्यस्फटिकादिकं॥ मणिरत्नं सरं शीतं कपायें खादु लेखनं॥ चक्षुष्यं- भारणात्तत्तु पापालक्ष्मीविपापहं॥ धन्यमा पुष्पमोजस्यं हर्पोत्साहकरं शिवं॥ सक्षार उष्णवीर्यश्च काचो दृष्टिकृदंजनात् ॥ शंखोद्धि 2 सरमितिपाठः २ वंगमठी शोतो कपायापतिलेखनौ॥ तुत्थकं कटु सक्षारं कपायं विशदं लपु॥ लेखनं भेदि चक्षुष्यं कंडूलमिविपापहं॥ विशदो गैरिकः त्रिग्धः कपायमधुरो हिमः॥ ककनी तितकटुका मनोव्हा लेखनी सरा॥ स्निग्धं कपायकदुकं हरितालं विषमणुत्॥ कपायं मधुरं शीतं लेखनं निग्धमंजनं॥ रक्तपित्तविपछर्दिहिमाघ्नं दृकुप्रसादनं॥ स्रोतों जनं घरं तत्र ततः सौषिरकांजनं कफघ्नं तिकटुकं छेदि सोप्णं रसां जनं॥ खादु हिध्माप्रशमनं कासमेहक्षयापहं॥ कफनमुष्णं कटुकं शिलाजतु रसायनं॥ तिक्तं च च्छेदनं योगवाहित्वात्सर्वरोगजित् ॥ विशेषात्कृछ्रमेहार्शः पांडुशोफकफाप । कपाया मधुरा रूक्षा कासनी वंशरोचना॥ तवक्षोरी क्षयभ्वासकासनी मधुरा हिमा \। विप्पंदिल यणं सर्व सूक्ष्मं सृष्टमलं मृदु॥ घातघ्नं पाकि तीक्ष्णोष्णं रोचनं कफपित्तत्॥ सैंधवं तत्र सखादु हृप्पं हुयं त्रिदोषनुत्॥ ध्वनुष्णं दृशः पथ्यमविदाह्यग्निदीपनं॥ लघु सौवर्चलं हृद्यं सुगंध्युद्वारशोधनं॥ कटुपाकं विष दीपनीयं रुचिदं॥ ऊर्ध्वाधःकफवातानुलोमगं दीपनं बिडं॥ विबंधानाहविष्टंभशूलगौरवनाशनं॥ विपाके खाद सामुद्रं गुरु श्लेष्म विवर्द्धनं॥ सतितकदुकं क्षारं तीक्ष्णमुत्छेदि चौद्भिदं॥ कृष्णे सौवर्चलगुणा लवणे गंधवर्जिताः॥ रोमकं लघु पां सूत्थं सक्षारं श्लेप्मलं गुरु॥ लवणानां प्रयोगे तु सैंधवादि प्रयोजयेत्॥ गुल्मढहणीपांडुप्लीहानाहगलामपान्॥ श्वासार्शः कफकासांच शमयेद्यवशुकजः॥ खजिंका तद्गुणाच्यूना क्षारेण तु ततोऽधिका॥ क्षारः सर्वश्च परमं तीक्ष्णोष्णः क्रमिजिष्ठघुः॥ पित्तासग्दूषण पा की छेद्यो ह्द्यो विदारणः॥ अपथ्यः कटुलावण्याच्छुकौज केशचक्षुपां॥ पथ्या कपायभूयिष्ठा स्वादुः पाके रसात्यये॥ रसैः पंचभिरायुक्ता रुक्षा विलवणा लघुः॥ दीपनी पाचनी मेध्या वयसः स्थापनी परं॥ उष्णवीर्या सराऽऽयुप्पा बुद्धींद्रिपटमदा॥ कुष्टवैष
स्वर्य पुराणविषमज्वरान् ॥ शिरोक्षिपांदुहृद्रोगकामलाग्रहणीगदान् ॥ सशोपशोफातीसारमेहमोहक मिमीनू ॥ श्वासकासप्रसे कार्शः प्लीहानाहगरोदरं ॥ विबंधं स्रोतसां गुल्ममूरुस्तंशमरोचकं ॥ हरीतकी जयेयाधीस्तांस्तांच कफवातजान् ॥ तद्द्दामलकं शीतं माधुर्यापित्तजित्परं ॥ कर्फ कटुविपाकित्वादम्लत्वान्मारुतं जयेत् ॥ परं च कंठ्धं चक्षुप्पं हृयं दाइज्यराप ॥ आक्षं तु तद्गुणन्यून कपायमधुरं हिमं॥ कासश्वासगलश्लेम्मपित्तशुक्रहरं लघु ॥ परं केश्पस्तु तन्मज्जा शुक्रघ्नं च ततोऽजनं ॥ इथं रसायनवरा त्रिफलाऽक्ष्यामयापहा ॥ रोपणी त्वग्गढक्लेदमे दो मेहकफालजित् ॥ पत्रकं कफवातघ्नं त्रिसुंगधि त्रिजातकं \।\। केसरं रक्तगुदज विपपित्तकफापहूं ॥ तयुक्ततच्चतुर्जातं नातिशीतोष्णमुच्यते ॥ पित्तप्रकोपि तीक्ष्णोष्णं रुसं रोचनदीपनं \।\। इसे पाके च कटुकं कफघ्नं मरिचं लघु ॥ श्लेप्मला खादशीताऽऽ गुर्वी ग्धिा व पिप्पली ॥ सा शुष्का विपरीताऽतः स्निग्धा कृप्या रसे कटुः ॥ खादुपाकाऽनिलश्लेष्मकासश्वासापहा सरा ॥ न तामत्युपयुंजीत रसायनविधि पिना ॥ नागरं दोपनं सृष्यं ग्राहि हृद्यं विबंधनुत् ॥ रुच्यं लघु खादुपाकं त्रिग्धोष्णं कफवातजित् \।\। तहदार्द्रकमेतच त्रयं त्रिकटुकं जयेत् \।\। स्थौल्याग्रिसदनश्वासकासश्लीपदपीमसान् ॥ ऋविकापिप्पटीमूलं मरिचाल्पांतरं गुणैः ॥ चित्रको मिसमः पाके शोफार्शः कमिकुष्टहा ॥ पंचकोलकमेतच मरिचेन विना स्मृतं \।\। गुल्मलीहोदरानाहशुलनं दीपनं परं \।\। बिल्वकाश्मर्यतर्कारीपाटलाटिदुकैर्महत् ॥ जयेत्कपायं तिक्तोष्णं पंचमूलं कफानिलौ ॥ इवं बृहत्पंशुमतीय गोक्षुरकैः स्मृतं ॥ स्वादुवाकरसं नातिशीतोष्णं सर्वदोपजित् ॥ बलापुनर्नवरडः शुर्पपर्णीयेन च ॥ मध्यमं कफवातनं नातिपित्तकरं लघु ॥ अभी वीराजीवंतीजीवकर्षकैः स्मृतं ॥ जीवनाख्यं तु चक्षुष्पंसृष्यं पित्तानिलाई ॥ तृणाख्यं शरदर्भेक्षुशालिकाशैस्तु पित्तजि तू ॥ अजशृंगी हरिद्रा च विदारी सारिवाऽमृता \। बेल्पाख्यं कंटकारव्यं तु भ्वदंष्ट्राऽभीरुसैर्यकैः ॥ सहिलाकरमीकैः सर्वदोपह रेच ते॥ कारवीकुंचिकाऽजाजीकबरीधान्पबरु ॥ अन्नगंधहर रुच्यं दीपनं कफवातजित् ॥ बाप्पिका कटुतिक्तोष्णा कमिश्ले महरा परे ॥ तच राजिका विघ्नसादेनी दीपनी परं ॥ शुलाटोपहरा रुच्या दीप्यकः कोष्टशुलजित्॥ अद्याः सर्पपाः स्निग्धाबापिकावञ्चकीर्तिताः॥ हिंगु वातकफानाहशुलनं पित्तकोपनं ॥ कटुपाकरसं रुच्यं दीपनं पाचनं लघु ॥ पित्तारूकोपि तच्चैष श्रेटं बोष्काणदेशजं ॥ ततो न्यूनगुणं त्वन्यद्रव्यपंजनधूपनं ॥ शता व्हा कुष्टतगरसुरदारूहरेणवः ॥ नखचोरकाः ॥ लवूष्णाः कदुकाः पाके कफवात निबर्हणाः ॥ सैर्यकस्तिक्तमपुरः निग्धोष्णः कफवातजित् ॥ बस्तिमृत्रविबंधनो कृप्यो गोक्षुरको हिमः ॥ पाचनं कफपित्तघ्नं तिक्तं शीतं विपायं ॥ कफघ्नं तिक्तक-टुकं मुस्तं संग्राहि पाचकं ॥ तिक्ताऽमृता त्रिदोषघ्नी ग्राहिण्युष्णा रसायनी ॥ दीपनी ज्वाहकामलापातरक्तनुत् ॥ तिक्तशीतौ ज्वरहरी ड्यू भूनिवपर्पटौं । निबस्तिको हिमः कुष्ठरुमिपित्त कफापहः ॥ महानिवः परं ग्राही कपायो रुक्षशीतलः ॥ गुग्गुलुः पिच्छिलस्पर्शी विशदोऽभ्यवहारतः ॥ सवादुः सकटुस्तितः स कपायो रसायनं ॥ वण्यः स्वर्पः कटुः पाके रूक्षः सूक्ष्मोऽ मिदीपनः ॥ क्वेदमेदोऽ निलश्लेप्मगंड मेहापचीकृमीनू ॥ पिटकाग्रंधिशोफांश्च हंत्युष्णः संसनो लघुः ॥ शंखपुष्पी सरा तिक्ता मेध्या कमिविषा हा ॥ कटुतिक्तोष्णमगुरु स्निग्धं वातकफापहं \।\। पित्तात्रविष- तुझ्दाहलमनं गुरु रूक्षणं ॥ सर्वे सतिक्तमधुरं चंदनं शिशिरं प १ बल्याख्यमिति पाठः २ साधनोति पाठः व्हयमिति पाठः
रं।लघु रक्तं तथोशीरं बालकं169 पाचनं च तत्॥ ज्वरातिसारवमथुरक्तपित्तक्षतापहं॥ मधुकं रक्तपित्तघ्नं व्रणशोधनरोपणं॥ गुरु स्वादु हिमं वृष्यं चक्षुष्यं स्वरवर्णकृत्॥ कटुतिक्ते निशे मेहकुष्ठपित्तफापहे॥ प्रलेपाज्जयतः कंडू शोफं दुष्टव्रणं विषं॥ प्रषौंडरीकं चक्षुष्यं शिशिरं व्रणरोपणं॥ कषायतिक्तमधुरं रक्तपित्तम सादनं॥ बलात्रयं स्वादु वृष्यं स्निग्धं शीतं बलप्रदं॥ तत्र नागबला बल्या क्षतक्षीणहिता गुरुः॥ तांबूलं कटु सक्षारं रुच्यमुष्ण कफप्रणुत्॥ भेदि संमोहत्पूगं कषायं स्वादु रोचकं॥ जातिपत्री कटुफलं कंकोलकलवंगकं \। लघु तृष्णापहं हृद्यं वक्वदौर्गेध्यनाशनं॥ सस्वादुतिक्तस्तृष्णाघ्नः कर्पूर श्छेदनो हिमः॥ लताकस्तूरिका तद्वन्मुखशोपहरा परं॥ कषायमधुरं शीतं पद्मं पित्तकफास्रजित्॥ तद्द्वकुलपुन्नागकुमुदोत्पलपाटलं॥ सचंपकं ततो न्यूनं गुणैः कोरंटकिंशुकं॥ मालतीमल्लिकापुष्पं तिक्तं जयति मारुतं॥ विषपित्तकफन्नागं सिंधुवारं च तद्गुणं॥ कफघ्नं कैतकं तिक्तं शैरीषं विषहारि च॥ वातलं पुष्पमागस्त्यं कषायं कफपित्तजित्॥ चातुर्थिकज्वरहरं भावनेनोपयोजितं॥ बंधूकं श्लेष्मलं ग्राहि तद्वदेवच यूथिका॥ कफघ्नमुष्णवीर्ये च कुंकुमं व्रणशोधनं॥ अवल्गुजैडगजजं बीजं वातकफप्रणुत्॥ अस्या170 वर्णश्लेष्ममेदः सौकुमार्यकृरुदन्यथा ॥ अतोऽध्वाऽग्निबलायूंषि कुर्याच्चंक्रमणं सुखं॥ मारुतस्यानुलोम्यं च खुङस्तंभश्रमापहं॥ अन्वर्थसंज्ञं पादत्रं बलद्दक्शुक्ररक्षणं॥ वर्ण्ये नेत्रहितं छत्रं वातवर्षातपापहं॥ प्रवातो रौक्ष्यवैवर्ण्यस्तंभकद्दाह्तृद्भ्रमान्॥ श्रमाणिमूर्च्छाश्च जपेद्रप्रवातस्ततोऽन्यथा॥ प्राग्वायुरुष्णोऽभिप्यंदी त्वग्दोषार्शोविषकृमीन्॥ सन्निपातज्वरश्वासमामवायुं च कोपयेत्॥ पश्चिमः शिशिरो हंति मूर्च्छो दाहं तृपं विषं॥
‘दक्षिणो मारुतः श्रेष्ठो नेव्योंऽगबलवर्द्धनः ॥ रक्तपित्तप्रशमनोघ वातप्रकोपनः ॥ उत्तरो मारुनः स्निग्धो मृदुर्मधुर एव च ॥ कपायानुरसः शीतो दोषाणाममकोपनः ॥ आतपो भ्रमतृट्वेददाइमूर्च्छाविवर्णताः ॥ कुर्यात् पित्तासवन्हाश्च छायात्वेतानपोहति ॥ तमः कपापकटुकं ज्योत्सा मधुरशीतला ॥ भवति चात्र ॥ रसादिभेटैरिति भेषजानां दिमात्रमुक्तं नयनोऽस्ति किंचित् ॥ अनौषधं द्रव्यमिहाववोधो रूपस्य तेयां वनगोचरेभ्यः \।\। इति विविधौषधः विज्ञानीयो नाम द्वादशोऽध्यायः ॥ १२ ॥
अथातोऽग्यसंग्रहमध्यायं व्याख्यास्यामः ॥ श्रेष्ठमुदकमाभ्वासनस्तंजन हेदनानां ॥ स्नानं सुरा च श्रमहराणां ॥ क्षीरं जीवनीपानां॥ मांसं बृंहणीयानां ॥ रसः प्रीणनानां ॥ लवणमन्नद्रव्य रुचिकराणां \।\। बिंदुकमनन्नद्रव्यरुचिकराणां ॥अम्लं हृद्यानां कुक्कुटो बल्यानां ॥ तैलं वात श्लेष्मप्रशमनानां ॥ सर्पिर्वातपित्तप्रशमनानां ॥ मधु भ्लेमपित्तप्रशमनानां \।\। स्वेदो मार्दवकराणां \। व्यामामः स्थैर्यकराणां \।\। क्षारः पुंस्त्वोपघातिनां \।\। आमं कपित्थमकंठधानां \।\। आविकं सपिरहयानां ॥ महिपीक्षीरं स्वभजननानां \। मंद\।\। कं दध्यभिष्यंदकराणां \।\। इसमूत्रजननानां ॥यवाः पुरोपजननानां ॥ जांववं वातजननानां ॥ कुलत्था अम्लपित्तजननानां ॥ मापाः शप्कुल्योऽविक्षीरं च पित्तश्लेप्मजननानां \।\। दुरालमा पित्तप्लेष्मोपशोपणानां गउपवासो ज्वरहराणां ॥ वृपो रक्तपित्तमशमनानां ॥ कंटकारिका कासनानां ॥ लाक्षा सद्यःक्षतघ्नानां ॥ नागवलाभ्यासः क्षयक्षतन्नानां ॥ पुष्करमूलं हिमावासकासपार्श्वशुलहराणां ॥ अजापयः शोषघ्नस्तन्यकररक्तसंग्रहणमशमनानां ॥ मृॠष्टलोमसाद छर्दितृष्णातियोगमशमनानां ॥ अरुष्कर चित्रक मूलं च शुष्कार्यप्रशमनानां ॥ कुटजो रक्तार्शः प्रशमनानां ॥ लाजा
श्छर्दिघ्नानां ॥ यावशूकः स्रंसनीयपाचनोयार्शोघ्नानां ॥ तकाभ्यासोऽर्शःश्चय युग्रहणोदोपवृतव्यापत्मशमनानां ॥ ऋयान्मांसाभ्यासोऽर्शःशोषग्रहणीदोषन्नानां ॥ मुत्तं संग्रहणीयदीपनीयपाचनीयानां ॥ अतिविषा संग्रहणीयपाचनीयसर्वदोषहराणां ॥ बिल्वं संग्रहणीयदीपनीयवातकफप्रशमनानां ॥ उदीच्यं निर्वाषणदीपनीयछर्द्यतीसारहराणां \।\। कट्वगं संग्रहणीयदीपनीयानां \।\। कुटजत्वक् श्लेष्मपित्तरक्तसंग्रहणीयोपशोषणानां ॥ उत्पलकुमुदकिंजल्कोऽनंता च संग्रहणीयरक्तपित्तमशमनानां ॥ काश्मर्यफलं रक्तसंग्रहणीयरक्तपित्तप्रशमनानां ॥ गंधप्रियंगुः शोणितपित्तातिवेगप्रशमनानां ॥ पृश्निपर्णी रक्तसंग्रहणीयदीपनीयपाचनीयवातहरवृष्याणां \।\। शादिपर्णी वृष्यसर्वदोषहराणां ॥ बला संग्रहणीयवल्पवातहराणां ॥ पिप्पलीमूलं पाचनीयदीपनीयानाहहराणां ॥ चित्रकमूलं दोषनीयपाचनीयगुदशोफशूलहराणां \।\। गोक्षुरको मूत्रकच्छ्रानिलहराणां ॥ हरिद्रा प्रमेहहराणां ॥ रक्तावसेको विद्रधिविसर्पपिठिकागंडमालापहराणां ॥ एरंडतैलाभ्यासो बर्ध्म गुल्मानिलशूलहराणां ॥ लशुनो गुल्मानिलहराणां ॥ हिंगुनिर्यास श्छेदनीयदीषनीयानुलोमिकवातकफप्रशमनानां ॥ अम्लबेतसो भेदनीयदीपनीयानुलोमिकवातश्लेष्महराणां ॥ उष्ट्रीक्षीरमुदरश्वयथुघ्नानां ॥ अयोरजः पांडुरोगघ्नानां ॥ खदीरः कुष्ठनानां ॥ विडंगं कृमिघ्नानां ॥ रास्ना वातहराणां \।\। एरंडमूलं वृष्यवातहराणां ॥ गुग्गुलुर्मैदोऽनिलहराणां \।\। अमृता संग्रहणीयदीपनीयवातष्लेष्मशोणितविबंधमशमनानां ॥ मदनफलं वमनास्थापनानुवासनोपयोगिनां \।\। त्रिवृत्सुखविरेचनानां ॥ चतुरंगुलो मृदुविरेचनानां ॥ स्नुक्पयस्तीक्ष्णविरेचनानां ॥ प्रत्यक्ष्पी शिरोविरेचनानां ॥ त्रिफला तिमिरघ्नानां \। त्रिफलागुग्गुलु भ्र
ण्यानां ॥ शिरीषो विषघ्नानां ॥ आमलकं वयःस्थापनानां ॥ हरीतकी पथ्यानां ॥ क्षीरघृताभ्यासो रसायनानां ॥ समघृतसत्तुप्राशाभ्यासो वृष्योदावर्तहराणां ॥ संकल्पो नकरेतश्च वृष्याणां ॥ दौर्मनस्पमत्र- ध्याणां ॥ तैलगंडूषाभ्यासो दंतबलरुचिकराणां ॥ चंदनोदुंबरं निर्वा- पणालेपनानां ॥ रानाऽगुरुणी शीतापनयनप्रलेपनानां ॥ लामज्जको- शीरे दाहत्वग्दोषवेदापनयनप्रलेपनानां ॥ कुष्टं वातहराभ्यंगोपनाहो- पयोगिनां ॥ मधुकं चक्षुष्यवृष्यकेश्यकंटधवर्ण्यविरंजनीयरोपणीपा नां ॥ अजीर्णाशनं ग्रहणीदूषणानां ॥ विरुद्धवीर्याशनं निंदितव्या- धिकराणां ॥ गुरुभोजनं दुर्विपाकानां ॥ अतिमात्राशनमामदोष- हेतूनां ॥ यथाग्न्यभ्यवहारोऽभिसंधुक्षणानां ॥ यथासात्म्यमाहार- विहारौ सेव्यानां ॥ एकासनशयनभोजनं सुखपरिणामकराणां ॥ विषमाशनमनिवैषम्यकराणां ॥ काले भोजनमारोग्यकराणां ॥ सुद- र्शनमन्नं श्रद्धाजननानां । वेगधारणमनारोग्यकराणां ॥ तृप्तिराहारगुणा- नां ॥ अनशनमायुषो -हासकराणां ॥ प्रमिताशनं गवेधुकान्नं च क- शनीयानां उद्दालकानं रूक्षणीयानां ॥ मद्यं सौमनस्यजननानां ॥ मद्याक्षेपो धीट तिस्मृतिहराणां ॥ स्त्रीष्वतिप्रसंगः शोषद्वाराणां । शुक्र- वेगनिग्रहः षांढधकराणां ॥ पादाभ्यामुद्वर्तनमनश्रद्धाजननानां ॥ सूनादर्शनमन्ना श्रद्धाजननानां ॥ मिथ्यायोगो व्याधिमुखानां ॥ रज- खलागमनमलक्ष्मीमुखानां ॥ ब्रह्मचर्यमायुष्याणां ॥ परदारगमनम - नायुष्याणां ॥ अयथाप्राणमारंभः प्राणोपरोधिनां । विषादो रोगबर्द्ध- नानां ॥ हर्षः प्रीणनानां ॥ शोकः शोषणानां ॥ निरृतिः पुष्टि- कराणो ॥ आश्वासो बलकराणां ॥ पुष्टिः खमकराणां ॥ त्वमस्तं- द्राकराणां \।\। सर्वरसाभ्यासो बलकराणां ॥ एकरसाभ्यासो दौ- बल्याचकान्यतमदोषप्रकोपकराणां ॥ अग्निरामस्तंभशीतशुलो- द्वेष्टकप्रशमनानां ॥ गर्भशल्यमाहार्याणां ॥ अजीर्णमुद्धार्याणां ॥
बालो मृदुभेषजार्हाणां ॥ वृद्धो याप्यानां ॥ गर्भिणी तीक्ष्णौषध- व्यवायव्यायामवर्जनीयानां ॥ सौमनस्यं गर्भधारणानां ॥ सन्निपा- तो दुश्चिकित्स्यानां ॥ आमविषमचिकित्स्यानां ॥ ज्वरः शीघ्ररोगा- णां ॥ कुष्ठं दीर्घरोगाणां ॥ राजयक्ष्मा रोगसमूहानां ॥ प्रमेहोऽनुप- गिणां ॥ जलौकसोऽनुशस्त्राणां ॥ वस्तिर्यत्राणां ॥ हिमवानौषधिभू- मीनां ॥ सोम ओषधीनां ॥ मरुभूमिरारोग्यदेशानां ॥ आनूपभूमिर- हितदेशानां ॥ निर्देशकारित्वमातुरगुणानां ॥ अनिर्देशकारित्वं रिष्टा- नां ॥ भिषक् चिकित्सांगानां ॥ सिद्धिवैद्यगुणानां ॥ नास्तिको व- ज्यानां ॥ लौल्यं क्लेशकराणां ॥ आत्मवत्तोपकारिणां ॥ शास्त्रसहित- स्तर्कः साधकानां ॥ दृष्टकर्मता निःसंशयकराणां ॥ असमर्थता भयकराणां ॥ तद्दियसंभाषा बुद्धिवर्द्धनानां ॥ आचार्यः शास्त्रा- धिगमहेतूनां ॥ संद्वैयद्वेषः प्राणत्यागहेतुनां ॥ आयुर्वेदोऽमृतानां ॥ सहचनमनुष्ठेयानां ॥ वायुः प्राणसंज्ञाप्रदानहेतूनां ॥ सर्व संन्यासः सुखानामिति ॥ तत्रोदकाभिमृद्धृष्टलोष्टप्रसादतकाभ्यासरक्ताव से कै- रंडतैलाभ्यासोष्ट्रीक्षीरमदनफलमद्याक्षेपैकरसाभ्यासगर्भिणीनामेकैक- स्मात्समुदायाच्च निर्धारणं ॥ पुष्करमूलादीनां तु समुदायादेवेति ॥ अंग्याणां शतमुद्दिष्टं पंचपंचाशदुत्तरं ॥ अल्पमेतद्विजानीयाद्धिता- हितविनिश्चिये ॥ इत्यग्र्य संग्रहो नाम त्रयोदशोऽध्यायः ॥ १३ ॥
अथातः शोधनादि गणसंग्रहमध्यायं व्याख्यास्यामः ॥ मदनजी- मूतकेक्ष्वाकुकोशात की यफलपुष्पपत्राणि ॥ कुटजकरंज त्रपुस सर्षप- पिप्पिलीविरंगैलापत्यकृपुष्पाहरेणुपृथ्वीका कुस्तुं बरुम पुन्नादानां फ लानि शारदानि च ॥ हस्तिपर्णीकोविदारकर्बुदारारिष्टाश्वगंधानीपविदु- afratiyजीवकश्वेताशणपुष्पी सदापुष्पीबचाचित्राचित्रकमृगेंद्र वा-
१. अस्मिन्नध्याये पञ्चपञ्चाशदधिकशतमय्याणामुक्तं गणनायां कतायामेको-
कशतमायाति तत्यिं ॥
रुणीसुखवीचतुरंगुलस्वादुकंटकपाठापाटलीशार्ङ्गष्टामधुकमूर्वासप्तयर्णसोमवल्कहीपिशिग्रुसुमनःसौमनस्यायवानीचीसृ-श्वीवपुनर्नवामहासहाक्षु द्रसहेक्षुकांडकालांवृतपिप्पलीमूलचविकानलदोशीरहीवेरमूलानि॥ शाल्मलीशाल्मलुकाभद्रपर्ण्यै-रावण्युपोदकोद्दादकधन्वरसांजनराजादनोपचित्रागोपशृंगाटिकापिच्छाः॥ प्रियंगुपुष्पं॥ वालीसपत्रं॥ हरिद्राशृंगबेरकंदौ। मधूकदारुहरिद्रासारौ॥ तगरगुडूचीमधुफाणितक्षीरक्षारलवणानि चेति वमनोपयोगीनि॥ त्रिवृत्श्यामादंतीद्रवंतीशंखिनी-सप्तलाऽजगंधाऽजशृंगीवचागवाक्षीछगलांत्रीसुवर्णक्षीरीचित्रककिणिहीहस्वपंचमूलवृश्चीवषनर्नवावास्तुकशाकसालमूलानि॥ तिल्वकरम्यककांपिल्लकपाटलीत्वचः॥ त्रिफलापीलुपियालकुवलयवदरकर्केधुकाश्मर्यपरूपकद्राक्षानीलिनीक्लीतनि-कोदकीर्याविडंगपूगपंचांगुलफलानि॥ चतुरंगुलफलपत्राणि॥ पूतिकत्वक्फलपत्राणि॥ महावृक्षसप्तपर्णज्योतिष्मतीक्षी-राणि॥ क्षीरमस्तुमद्यधान्याम्लमूत्राणिचेति विरेचनोपयोगीनि॥ कोशातकीदेवदालीसप्तलाकारवेलिकास्वरसा अर्कक्षीरमुष्णोदकं चेत्युक्षयात्मकानि॥ वस्तिषु तु तेषु तेष्ववस्थांतरेषु यान्युपपुज्यंते द्रव्याणि तान्येवासंस्येयत्वान्नोपदिश्यंते॥ रसस्कंधेभ्य एव यथादोषं यथावस्थं च विभजेत्॥ सर्वेषु तु प्रायो मदनकुटजजीमूतकेक्ष्वाकुकोशातकीद्द्वयपुत्रपुस सिद्धार्थकशताव्हाफलानि॥ बलादशमूढैरंडत्रिवृष्टचायष्ट्याह्व कुष्टरास्त्रापुनर्नवकत्तृणमूलानि॥ सरलदेवदारुहपुपाहिंगुरसांजनव्योपषत्रैलाऽमृतायवकोलकुलत्थगुडलवणमस्तुपान्याम्ल-मूत्रस्नेहक्षौराणिवेति निरुहोपयोगीनि। अपामार्गविडंगमरिचपिप्पली शिरीषबिल्वाजाज्यजमोट्वार्ताकपृथ्वीकैलाहरेणुफलानि॥ तालीसतमालतर्कारीहरितकवर्गपत्राणि॥ सर्पपफलपत्राणि॥ शिग्रुफलपत्रत्वचः॥ हरिद्रामूलकलशुननागरकंदपत्राणि॥अतिविषाकंदाः॥ कुष्टवचाशार्डीश्वेताकिणिहीनागदंतीज्यो
तिष्मतीगवासी वयस्थावृश्चिकालीविया करंजमूलानि ॥ अर्काटर्कपुप्पमूलानि \।\।
रोधमदनसप्तपर्णविपीबीजानि ॥ मुरंगीमातुरूंगीलबंगपुष्पाणि ॥ अगुरुसुरदा रुसरलस ल्लकीजिंगिण्यसनरसांजनहिंगुलाक्षानिर्यासः ॥ तमालशालतालमधूकदार्थींसाराः ॥ तेजस्विनीमेपश्रृंगीवर (गेंगुदी रहतीयत्वचः ॥ राजादनमज्जौलवणानि मद्यानि गवादिशरुद्रसमूत्रपित्तान्येवंविधानि चैंद्रियोपशमनान्यन्यान्यपि तथा स्रेहाः क्षीरं रक्तं मांसरसो धान्यरसस्तोयमिति शिरोविरेचनोपयोगीनि ॥ मधुकपद्मकमंजिष्ठासारिखा मुस्तापुनागकेस रैलवालुकसुवर्णत्व कृतमालपृथ्वीकारेणुलाक्षाशतपुष्पासल्लकीशर्करामदन कमरुवकन्यग्रोधोदुंबराश्वत्थक्षलोधत्वकृपद्मोत्पठानि सर्वगंधद्रव्याणि च कुष्टत. गरवर्ज्यानि प्रायोगिकधूमोपयोगीति ॥ अगुरुगुग्गुटु सल्लकीशैलेषकनलदहीबेरहरेशीरमुस्ताध्याम कवरांग श्रीपेष्टकस्थौणेयकपरिपेठवैलवालुककुंदुरुकसर्जरसयट्यान्हफलसारोहम धूच्छिष्टबिल्वफलमज्जयषतिलमापकुंकुमानि मेदोमज्जवसासपीपि च स्नैहिकधूमोपयोगीनि । शिरोविरकद्रव्याणि गंधद्रव्याणि च तीक्ष्णानि मनोव्हाहरितालं चेति तीक्ष्णधूमोपयोगीनि॥ भनदारुक एतगरवरुणवलातिवलातंगलकच्छुराहकीकुवेराक्षीवत्सादन्यर्कालर्ककत कभाकापसीटविकालीपत्तूरमभृतीनि विदार्यादिगणो वीरतरादिस्तृणाख्यवर्ज्यानि पटूपंचमूलानि चेति वातशमनानि॥ दूर्वाऽनंतामोचरस मंजिष्ठापरिपेलवकालाकालीयकदलोकंदलीपयस्याऽऽत्मगुमानालि केरख र्जूरद्रालाविदारीबदरीवलानागवला नागपुष्पाशतावरीशीतपाक्योदनपाकीतृणशूल्यांशुमतीद्यारिष्टकारिष्टाटरू पक्केत्कटप्रियंगुधातकी धपधन्वनस्पंदनखदिरकदरपियालतालशालसर्जति निशाश्वकर्णगुंद्रावानीरपद्मापद्मकपद्मबीजमृणाल कुमुदनलिन सौगंधिक पुंडरीकशतपत्र सेवालकल्हारोत्पलकाकोल्युत्पलिकाशाहूकशृंगाटककसेरुककचादनप्रभृतीनि शीतवी
सूत्रस्थानम्
रुणी सुखबीचतुरंगुलखादुकंटकपाठापाटली शाई टामधुकम समपर्ण- सोमवल्कद्वीपिशिग्रुमुमनः सौमनस्यायवानी वृश्चीव पुनर्नवाम हास हाक्षु इस कांडकांतपिप्पलीमूलचविकान लदोशी रही बेरमूलानि ॥ शाल्मलीशाल्मलुका भद्रपण्यैरावण्युपोद कोद्दालकधन्वरसांजनराजाद नोपचित्रागोपशृंगाटिका पिच्छाः॥प्रियंगुपुष्पं ॥ ताली सपत्र॥हरिद्राभृंग- बेरकंदौ । मधूकदारुहरिद्वासारौ ॥ तगरगुडूचीमधुफाणित क्षीरक्षारलव- णानि चेति वमनोपयोगीनि ॥ त्रिवृत्श्यामादंतीद्रवंतीशंखिनी सहला- ऽजगंधाऽजशृंगीवचागवाक्षी छगलांत्रीसुवर्णक्षीरीचित्रक किणिहीन्ह- स्वपंचमूलची पुनर्नवावास्तुकशाकसालमूलानि ॥ तिल्यकरम्यक- कांपिल्लकपाटलीत्वचः ॥ त्रिफलापीलु पियालकुवलबदरक कैधुकाश्म- पेपरूपक प्रशक्षानीलिनीक्की तनि कोद की र्या विडंगपूगपंचांगुलफलानि ॥ चतुरंगुलफलपत्राणि ॥ पूतिकत्वक्फलपत्राणि ॥ महावृक्ष समपर्णज्यो- तिष्मतीक्षीराणि ॥ क्षीरमस्तुमद्यधान्याम्लमूत्राणिचेति विरेचनो- पयोगीनि ॥ कोशातकी देवदाली सप्तलाकारवेहि काखरसा अर्क- क्षीरमुष्णोदकं चेत्युभयात्मकानि ॥ बस्तिपु तु तेषु तेष्ववस्थां- नरेषु यान्युपयुज्यंते द्रव्याणि तान्येवा संख्येयत्वान्नोपदिश्यते ॥ रसस्कंधेभ्य एव यथादोषं यथावस्थं च विभजेत् ॥ सर्वेषु तु प्रायो मदनकुटजजीमूतकेक्ष्वाकुकोशातकीद्वयत्रपुस सिद्धार्थकशताव्दाफ ल॥ि बलादशमूलैरंड त्रिष्टचायष्ट्याह्वकुष्टरास्त्रापुनर्नवकत्तृणमूला- नि ॥ सरलदेवदारुहपुषाहिंगुरसांजनव्योषपत्रैलाऽमृतायवकोलकुल- स्थगुडलवणमस्तुधान्याम्लमूत्र स्नेहक्षोद्रक्षीराणिचेति निरुहोपयोगी- नि \।\। अपामार्गविडंगमरिचपिप्पली शिरीष बिल्वाजाज्य जमोद वार्ता कपृथ्वी कैलाहरेणुफलानि ॥ तालीसतमालतर्कारी हरितकवर्गपत्राणि ॥ सर्पपफलपत्राणि ॥ शिग्रुफलपत्रत्वचः। हरिद्रामूलकलशुननागरकंद- पत्राणि ॥ अतिविषाकंदाः । कुष्टवचाभाङ्गश्वेताकिणिहीनागदंतीज्यो
तिष्मतीगवाक्षीवयस्थावृश्चिकालीर्बिंबीकरंजमूलानि ॥ अर्कालर्कपुष्पमूलानि ॥ रोध्रमदनसप्तपर्णनिंबपीलुबीजानि ॥ मुरंगीमातुलुंगीलवंगपुष्पाणि ॥ अगुरुसुरदारुसरलसल्लकीजिंगिण्यसनरसांजनहिंगुलाक्षानिर्यासः ॥ तमालशालतालम- धूकदार्वीसाराः ॥ तेजस्विनीमेपशृंगीवरांगेंगुदीबृहतीद्वयत्वचः ॥ राजादनमज्ज- क्षौद्रलवणानि मद्यानि गवादिशकृद्रसमूत्रपित्तान्येवंविधानि चेंद्रियोपशमनान्यन्यान्यपि तथा स्नेहाः क्षीरं रक्तं मांसरसो धान्यरसस्तोयमिति शिरोविरेचनोपयोगीनि ॥ मधुकपद्मकमंजिष्ठासारिवामुस्तापुन्नागकेसरैलवालुकसुवर्णत्वक्तमालपृथ्वीकाहरेणुलाक्षा शतपुष्पासल्लकीशर्करामदनकमरुबकन्यग्रोधोदुंबरास्वत्थष्लक्ष-लोध्रत्वक्पद्मोत्पलानि सर्वगंधद्रव्याणि च कुष्टतगरवर्ज्यानि प्रायोगिकधूमोपयोगीनि॥ अगुरुगुग्गुलुसल्लकीशैलेयकनलदहीबेरहरेणूशीरमुस्ताध्यामकवरांगश्रीवेष्टकस्थौणेयकप- रिपेलवैलवालुककुंदुरुकसर्जरसयष्ट्य़ाव्हफलसारस्नेहमधूच्छिष्टबिल्वफलमज्जयवतिलमा-पकुंकुमानि मेदोमज्जवसासर्पोंपि च स्नैहिकधूमोपयोगीनि॥ शिरोविरेकद्रव्याणि गंधद्रव्याणि च तीक्ष्णानि मनोव्हाहरितालं चेति तीक्ष्णधूमोपयोगीनि॥ क्षद्रदारुकुष्टत- गरवरुणवलातिबलार्तगलकच्छुरादृकीकुबेराक्षीवत्सादन्यर्कालर्ककतकआर्ङ्गीकार्पासी दृश्चिकालीपत्तूरमशृतीनि विदार्यादिगणो वीरतरादिस्तृणाख्यवर्ज्यानि पट्पंचमूलानि चेति वातशमनानि॥ दूर्वाऽनंतामोचरसमंजिष्ठापरिपेलवकालाकालीयकदलीकंदलीपयस्याऽऽत्मगुप्तानालिकेरवर्जूरद्राक्षाविदारीबदरीबलानागवलानागपुष्पाशतावरीशीतपाक्योदनपाकी- तृणशूल्यांशुमतीद्वयारिष्टकारिष्टाटरूपक्रेत्कटप्रियंगुधातकीधवधन्वनस्यंदनखदिरकदर पियालतालशालसर्जतिनिशाश्वकर्णगुंद्रावानीरपद्मापद्मकपद्मबीजमृणालकुमुदनलिनसौगंधिकपुंडरीकशतपत्रसेवालकल्हारोत्पलकाकोल्युत्पलिकाशालूकशृंगाटककसेरुकक्रौंचादनप्रश्रृतीनि शीतवी
र्याणि सारिवादिः पद्मकादिः पटोलादिर्न्यग्रोधादिर्दाहहरो महाकपाय- स्तृणपंचमूलं चेति पित्तशमनानि॥शीतशिवशतपुष्पासरलसुरदारुरास्नेंगुदीसातलामुमनः काकादनीलांगलीहरितकर्णमुंजातलामज्जकमभृतीन्यारग्वधादिरसनादिरर्कादिः सुरसादिर्मुष्कका दिर्यत्सकादिर्मुस्तादिःशीतघ्नञ्चमहाकपायो वल्हीकंटकपंचमूले च श्लेष्मशमनानीति ॥ भवति चात्र ॥ समीक्ष्य दोपदूप्यादीनमी वर्गाः सुयोजिताः॥ सर्वामयजयायालं जायंते नियतात्मनां ॥ ॥ इति शोधनादिगणसंग्रहो नाम चतुर्दशोऽध्याय. ॥ १४ ॥
अथातो महाकपायसंग्रहमध्यायं व्याख्यास्यामः \। आनंत्यादौपधानामामयानां चानंता एवकपायाः ॥ ये तु सुतरामुपयोगवंतः प्रकर्षवर्तिनो वा ते जीवनीयादिसंज्ञाः प्रत्येकं दशकपायसंयोगात्पंचचत्वारिंशन्महाकपाया वक्ष्यंते ॥ येत्प्रतिबोधार्थमेव मंदबुद्धीनां बुद्धिमतामुदाहरणमात्रदर्शनार्थं ॥शवयं हि बुद्धिमद्भिः खादुशीतस्निग्धादीन् जीवंत्यादिषु साधारणान् गुणानालोच्य क्षीरेक्षुद्राक्षाऽक्षोडविदारीकंदादिष्वपि तद्गुणेपु जीवनी यादित्वमवधारयितुं॥ यथोक्तानुसरणमेव तु श्रेयो मंदबुद्धेरिति ॥ व्यस्ताश्च ते चत्वारिशतानि पंचाशदधिकानि तदभिधानान्येव॥ यद्यापितानि तान्येव द्रव्याणीति द्रव्यसंकरः कपायेपु तथापि न संज्ञाविरोधः ॥ एकस्यापि बहुकार्यनिर्वर्तनात् ॥ तत्र लवणवर्जा रसाः कल्पनायां कपाया इत्युच्यंते ॥ तद्योनित्वात् ॥ लवणे तु निर्यासादिकल्पनानामसंभवः ॥ पृथगुपयोगोपकाररहितत्वाच्च नैरर्थक्यमिति ॥ भवंति चात्र ॥ जीवंतिकाकोल्यौ द्वेमेदे मुद्गमापपर्ण्यौच ॥ ऋपक्षकजीवकमधुकं चेति गणो जीवनीयाख्यः॥ वाट्या बला पयस्या काकोल्पाविक्षुवाजिगंधेच ॥ क्षीरिणिराजक्षवके भार-द्वाजी च बृंहणीयो ऽयं ॥ हैमवती चिरबिल्वं मुस्ता कुष्टं वचातत्प्रतिपयर्थमिनिपाठ.171हरिद्रेच॥ चित्रककटुकाऽतिविषा वर्गोऽयं लेखनीयाख्यः॥ अंर्केरंडौचित्राचित्रक चिरबिल्वशंखिनीसरलाः॥ हेमक्षीरी कटुका वन्हि॥ मुखी भेदनीयानि॥ मधुमधुकपृश्निपर्णीकट्फललोध्नयंगुधातक्यः॥ अंबष्टकीसमंगा मोचरसञ्चेति संधानः \। हिंगुमरिचाम्लवेतसदीप्यक
भ्ललातकास्थिसंयोगात्॥ वर्गः सपंचकोलो निर्दिष्टो दीपनीयोऽयं॥
ऐंद्रयतिरसापयस्याऋप्यप्रोक्तास्थिराबलाऽतिबलाः॥ इति बल्यो
दशकोऽयं हपगंधा रोहिणी ऋषभः॥ चंदनतुंगपयस्यासितालताम
धुकपद्मकोशीरं॥ वर्ण्यो गणोऽयमुदितो मंजिष्ठासारिवासहितः॥ हं
सपदीबृहतीद्वयमृद्वीकासारिवेक्षुमूलानि॥ कैंडर्यमधुककृष्णाः सधि
दार्यः कंठजननानि॥ वृक्षाम्लवदरदाडिमकुवलाम्राम्रातलिकुच
करमर्द॥ हृद्यं समातुलुंगाम्लवेतसं विद्धि वर्गमिमं॥ नागरच
विकाचित्रकविडंगमूर्वाऽमृतावचामुस्ताः॥ सहपिप्पलीपटोलास्तृ
प्तिघ्नोऽयं गणः प्रथितः॥ कुटजफलबिल्वचित्रकमहौपधप्रविपा
वचाचविकाः॥ धन्वयवासं पथ्या दारुहरिद्रागणोऽर्शोघ्नः॥ खदि
रामलकारुप्करनिशाऽभयासमपर्णकरवीराः॥ कुष्टघ्नाश्चतुरंगुलविडंग
जातिप्रवालाश्च॥ नलदकृतमालचंदनसर्पपघननिंबकुटजमधुकानि॥
कंडूं दारुहरिद्रा सनक्तमालानि निघ्नंति॥ अक्षीवमरिचकेंबुकषिडंग-
कांडीरकिणिहिनिर्गुंडयः॥ घ्नंति कृमीन् श्वदंष्ट्राविपाखुपर्ण्यस्तथा न
चिरात्॥ मंजिष्ठाश्लेप्मातकरजनीसुबहाशिरीपपालिंद्यः॥ सैलाचं
दनकतकाः ससिंदुवारा विपं घ्नंति॥ शालिकुशकाशपष्टिकवीरण
दर्भेक्षुवालिकेक्षूणां॥ तद्वग्दुंद्रोत्कटयोर्मूलमलं स्तन्यजननाय॥ पाठा
नागरसुरतरुघनाऽमृतसारिवेंद्रयवमूर्वाः॥ कटुकाकिराततिक्तं वर्गोऽयं
स्तन्यशुद्धिकरः॥ मेदाकाकोलीद्वयवृक्षरुहाजीवकर्पभकुलिंगाः॥
शुक्रजननो गणोऽयं सहजटिलाशूर्पपर्णीभिः॥ कुष्टैलवालुकट्फलकां
टेक्ष्विक्ष्वन्धिफेनकोशरैः॥ बसुकेक्षुरकैः शुक्रं शुत्ध्येत्सकदंबनिर्यासेः ॥ द्राक्षाकाकोलीद्वयमवुपर्णीमधुकजीवकविदार्यः ॥ स्त्रेहोपगाः समेदाजीवंतीशालिपर्णीकाः ॥ सौभांजनकपुनर्नव वृश्चीकुलत्थमापवदराणि ॥ खेदोपगानि विद्यारसयवतिलार्कोरुबूकानि ॥ लाजाम्रवदरदाडिमयवपष्टिकमातुलुंगसेव्यानि ॥ जंब्वाग्रपल्लबानि वमिनिग्रहणानि मृत्स्ना च ॥ नागरधन्वयवासकवालकपर्पटकचंदनगुडूच्यः ॥ भू- निंबपनपटोली- कुस्तुंबर्यस्तृपं घ्नंति ॥ बृहतीद्वयवृक्षरुहापुष्करमूलाभयाकणाशृंग्यः॥ हिध्मांनिघ्नंति शठी दुरालभा बदरभीजं च ॥ श्यांमांऽनंता पद्मा कर्ट्वगःपद्मकेसरं लोधं ॥ धातुकिकुसुमसमंगामोचरसाम्रास्थि विद्ग्रहणं ॥ जंबूसल्लकिमधुकं नीलोत्पलकच्छुरातिलश्याव्हं॥
• भृष्टा172 च मृत्पयस्या सशाल्मली विडिरजनानि ॥ जंब्वाम्रोदुंबरवटकपीतनप्लक्ष पिप्पलाश्मंतं ॥ भल्लातसोमवल्कं मूत्रग्रहणाय निर्दिष्टं ॥ कमलनलिनकुमुदमधुकसौगंधिकधातकीलताकुसुमं ॥ मूत्रं नयति विरागं सोत्पलशतपत्रपुंडरीकं च ॥ वृक्षादनीश्वदंष्ट्रादर्भेत्कटवसुकवशि रकुशकाशाः ॥ मूत्रं विरेचयेयुर्गुंदा पापाणभेदञ्च॥ द्राक्षाऽऽमलकपुनर्नववृश्चीवदुरालभाऽभयाकृष्णाः ॥ कासं घ्नंति सशृंगी तामलकी कंटकारी च ॥ चंडाऽम्लवेतसशठीतामलकीसुरसर्हिंगुजीवंत्यः॥ पुप्करमूलैलाऽगुरु वर्गोऽयं श्वासशमनाय॥ द्राक्षापीलुपरूपकमंजिष्ठासारिवाऽमृतापाठाः ॥ त्रिफला चेति गणोऽयं ज्वरस्य शमनाय निर्दिष्टः ॥ दाडिमफल्गुपरूपक पियालयवपष्टिकेक्षुवदराणि ॥ श्रमनाशनानि विद्याद्द्राक्षाखर्जूरसहितानि ॥ पद्मकलाजोशीरं मधुकोत्पलसारिवासि- तोदोच्यं ॥ काश्मर्यफलं चंदनमेप गणो दाहहा प्रोक्तः ॥ नतनागरागुरुवचाधान्यकतसूतीकपिप्पलीव्याध्यः॥ शीतं शमयंत्यचिरात्स्योनाकः साग्निमंथश्च ॥ तिंदुकपियालबीजकसप्तच्छदखदिरकदरवदराणि ॥अरिमेदवाजिकर्णॊकेकुम श्चोदर्दशमनानि ॥ काकोल्येलासेव्यं निदिग्धिके शालिपृश्निपर्प्यो च ॥ घ्नंत्यंगमर्दमचिराच्चंदनमधुकोरुबूकंप्व ॥ दीप्पकमरिचाजाजीगंडीरं साजगंधमथ शुलं ॥ शमयतिसपंचकोलं शोफं
दशमूल
^(१)
माढयं च ॥ मधुमधुकलाजंगैरिकफलिलीमोचरसमृत्कालानि ॥ संस्थापयंति रुधिरं रुधिरं च सशर्कररोघ्नं॥ शैलैलवालुकट्फलमोचरसाशोकपद्मकशिरीपं ॥ स्थापयतिचेदनामथ सहतुंगकदंबविदुलं च ॥ कैडर्यहिंगुचोरकपलंकपाऽशोकरोहिणिवयस्थाः ॥ पूत्यरिमेदो जटिलागोलोमिवचाञ्चसंज्ञादाः ॥ ऐंद्रीदूर्वाऽमोघाविष्वक्सेनाऽन्यथा शिवा ऽरिष्टा॥ बाहीसवाटयपुप्पी शतवीर्या स्थापयेद्गर्भ्ं॥ अमृता पथ्या धात्रीजीवंती श्रेयसी स्थिरा घुक्ता ॥ मंडूकपर्ण्यतिरसा स्थापयति पुनर्नवाच वयः ॥ इति नानाविधव्याधिविघातार्थमुदाद्धताः॥ योगा रोगातुरवशात्कल्पयेत्तान्यथायथं ॥ ॥ इति महाकपायसंग्रहो नाम पंचदशोऽध्यायः ॥ १५ ॥
अथातो विविधगणसंग्रहमध्यायं व्याख्यास्यामः ॥ विदारिपंचांगुलवृश्चिकालीशष्टञ्चीव
देवा^(२)दयशूर्पपर्ण्यः ॥ द्वे पंचमूलेलघुजीवनाख्येकंडूकरी गोपसूता त्रिपादी॥ विदार्यादिरयं हृद्योबृंहणो वातपित्तहा॥ शोपगुल्मांग मर्दोर्ध्वश्वासकासहरो गणः ॥ सारिवोशीरकाश्मर्यमधूकशिशिरद्वयं ॥ यष्टीपरूपकं हंति दाहपित्तासतृगदान् ॥ पद्मकपुंड़ौ वृध्दितुगत्घ्यः शृंग्यमृता दश जीवनसंज्ञाः ॥ स्तन्यकरा
घ्नंती
^(३)रणपित्तं प्रीणनबृंहणजीवनदृप्याः ॥ परूपकं वरा द्राक्षा कट्फलं कतकात्फलं ॥ राजव्हं दाडिमं शाकं तृणमूत्राममवातजित्॥ अंजनं फलिनीमांसीपद्मोत्पलरसांजनं ॥ सैलामधुकनागान्हं विपांतर्दाहपित्तनुत्॥ पटोलकटुरोहिणीचंदनं मधुस्रवगुडूचिपाठान्वितं । निहंति कफपित्तकुष्ठज्वरान्विपं वमिमरोचकं कामलां ॥ गुडूचीपद्मकारिष्टधान्यकारक्तचंदनं ॥ पित्तश्लेष्मज्वरच्छ र्दिदाहतृष्णाघ्नमग्निकृत् ॥ आरग्वघेंद्रयवपाटलिकाकतिक्तार्निवामृतामधुरसास्रुववृक्षपाठाः ॥ भूनिं-बसैर्यकपटोलकरंज युग्मसमच्छदाविपवीफलवाणघोंटाः ॥ आरं-ग्वधादिर्जयति छर्दिकुष्टविषज्वरान् \।\। कफंकंडूं मेहं च दुष्टमणवि-शोधनः ॥ असनविनिशश्वेतवाहमकीर्याः खटिरकदर मंडीशिशि-पामेपशृंग्यः ॥ त्रिहिमतलपलाशा जोंगकः शाकशालौ धवकमुकक-लिंगच्छागकर्णाश्वकर्णाः ॥ असनादिविजयते श्वित्रकुष्ठकफकमीन् ।पांडुरोगं प्रमेहं च मेदोदोपनिवर्हणः ॥ वरणसैर्यकपुग्मशतावरीदइन-मोरविल्व विषाणिकाः \।\। ट्रिइतीदिकरंजजया बहलपलषदर्भ-रुजाकराः ॥ वरणादिः कर्फ मेदो मंदामित्वं नियच्छति ॥ आढ्यपातेशिर.शुलं गुल्मं चातः सविधि ॥ ऊपकस्तुत्थकं हिंगु कासीसहयसै-धवं ॥ सशिलाजतु कृच्छ्राश्मगुल्ममेद. कफापहं ॥ वीरतरोऽरणिको नलगुंठौ मोरटटुंटु कसैर्यकपुग्मं ॥ मुस्तकमंजरिकर्कशपार्था
^(१)मूत्रविरेककरोदशकच ॥ वर्गो वीरतराद्योऽयं हंति वातरुनानूगदान् ॥ अश्मरीशर्क-रामूत्रकृच्छ्रापातरुजाहरः ॥ रोधशावरकरोधपठाशा जिंगिणीसरेट-कट्फलयुक्ताः ॥ कुत्सितांबकदलीगतशोकाः सैलवालुपरिपेलनमो-चाः ॥ एप रोधादिको नाम मेद कफहरो गणः ॥ योनिदोपहरः स्तं-भी वर्ण्यो विपविनाशनः ॥ अर्कालकौं नागदंती विशल्या भारा-स्त्रा वृश्चिकाली प्रकोय ॥ प्रत्यकपुष्पी पोततैलोदकीर्या श्वेतायुग्मंतापसानां य रक्ष. ॥ अपमर्कादिको वर्गः कफमेदोविपापहः ॥ कमि-कुष्ठमशमनो विशेषाद्वणशोधनः ॥ सुरसयुगफणिज्जनं कालमाला विडंगखरबुकटपकर्णीकट्फलंकर्णीकट्फ कासमः ॥ क्षयकसरसिताकार्मुकाःकाकमाची कुलहलविपमुष्टो भूस्तृणो भूतकेशी ॥ मुरसादिर्गणः श्लेष्ममेदःकृमिनिषूदनः ॥ प्रतिश्यायारुचिश्वासकासग्नो व्रणशोधनः॥ मुष्ककस्नुग्वराद्वीपिपलाशधवशिंशिपाः ॥ गुल्ममेहाश्मरीपांडुभेदोर्श कफशुक्रजित् ॥ वन्सको मधुरसा त्रुटिर्वचा दीर्घवृंतफलवेल्लसर्पपाः॥ रोहिणी स्थपनिहिंगुभार्ङ्गय शूलघाति173 दशकं घुणप्रिया ॥वत्सकाद्योऽनिलश्लेप्ममेदोऽरोचकपीनसान् ॥ शुलार्शोज्वरगुल्मां श्चहंति दीपनपाचन ॥ वचाजलददेवाव्हनागरातिविपाऽभया ॥ हरिद्राद्वययष्ट्याव्हकलशीकुटजोद्भवाः ॥ वचाहरिद्रादिगणावामातीसारपाचनौ ॥ मेदःकफाढ्यपवनस्तन्पदोपनिवर्हणौ ॥ प्रियंगुपुष्पांजनयुग्मपद्माः पद्माद्रजो योजनवल्यनंता ॥ मानद्रुमो मोचरसःसमंगा पुन्नागशीतं मदनीयहेतुः ॥ अंबष्ठा मधुकं नमस्करी नंदीवृक्षपलाशकच्छुराः ॥ रोध्रंधातुकिविल्वपेशिके कट्चंगः कमलोभ्दवं रजः॥ गणौ प्रियंग्वंबष्ठादी पक्कातीसारनाशनौ ॥ संधानीयौंहितौपित्ते बणानामपि रोपणौ ॥ मुस्तावचा ग्निद्विनिशाद्वितिक्ताभल्लानपाठात्रिफलाविपाख्याः ॥ कुष्टं भुटी हैमवती च योनिस्तन्यामयघ्ना मलपाचनाश्च॥ न्यग्रोधपिप्पलसदाफलरोध्रयुग्मजंबूद्वयार्जुनकपीतनसोमवल्काः ॥ प्लक्षावंजलपियालपलाशनंदीकोलीकदं- वविरलामधुकं मधूकं ॥ न्यग्रोधादिर्गणो वण्यः संग्राही भ्ग्नसाधनः ॥ मेदःपित्तास्रतृड्दाहयोनिरोगनिबर्हणः ॥ एलायुग्मतुरुष्ककुश्टफलिनीमांसीजलध्यामकस्पृक्वाचोरक चोचपत्रतगरस्थौणेयजातीरसाः ॥ शुक्तिर्व्याघ्ननखो ऽमराव्हमगुरु श्रीवासक. कुंकुमं चंढागुग्गुलुदेवधूपरवपुराः पुन्नागनागाव्हयौ॥एलादिको वातकफौविपंच विनियच्छति ॥ वर्णप्रसा दन कंडूपिटिकाकोठनाशनः ॥ श्यामादंतीद्रवंती कमुककुठरणाशंखिनीचर्मसान्हास्वर्णक्षी रीगवाक्षीशिखरिरजनकच्छिन्नरोहाकरंजाः ॥ वस्तांत्री व्याधिघातो बहलबहुरस-
१ पूर्वाध्यायातदीप्यकादि
स्तीक्ष्णवृक्षात्फलानि श्यामाद्यो हंति कृष्टं174 विषमरुचिकफौ त्हृद्रुजंमूत्रकृच्छं॥ पिप्पलीपिप्पलीमूलचर्व्याचत्रकशृंगवेरमरिचहस्तिपिप्पलीहरेणुकैलाऽजमोदेंद्रयवपाठाजीरकसर्पपमहानिंबफल्गुहिंगुभार्ङ्गी वचामुस्तामधुरसाऽतिविषाविडंगानि कटुरोहिणीचेति॥ पिप्पल्यादिः कफहरः प्रतिश्यायानिलारुचीः॥ निहन्याद्दीपनो गुल्मशृलघ्नश्चा-मपाचनः॥ पंचेविंशतिरित्युक्ता175 वर्गास्तेषु त्वलाभत॥ युंज्यात-द्विधमन्यच्च द्रव्यं जत्द्यादयौगिकं॥ एते वर्गा दोषदूष्याद्यपेक्ष्य क-ल्कक्वाथस्नेहलेहादियुक्ता॥ पाने नस्येऽन्वासनेंऽतर्बहिर्वा लेपाभ्यं-गैर्घ्नति रोगान्सुकृच्छ्रान्॥ इति विविधगणसंग्रहो नाम षोडशो-ऽध्याय॥ १६॥
अथातो द्रव्यादिविज्ञानीयमध्यायं व्याख्यास्याम॥ इह हिद्रव्यं पंचमहाभूतात्मकं॥ तस्याधिष्ठानं पृथिवी योनिरुदकं खानिलानल- समवायान्निवृत्तिविशेषौ॥ उत्कर्षेण तु व्यपदेशः॥ तस्माद्भूतसम-वायसंभवान्नैकरसंद्रव्यं॥ ततश्च नैकदोषाव्याधय
•
॥ तत्र व्यक्तो रस
•
॥ अनुरसस्तु रसेनाभिभूतत्वादव्यक्तो व्यक्तो या किं-चिदंते॥ रसस्य तु छेदनोपशमने द्वे कर्मणी हिताहितौ प्र-भावौ॥ तदाश्रयेषु च द्रव्यसंज्ञकेषु पृथिव्यादिषुगुणाः प्रकृतिविकृतिविचारदेशकालपशाद्गुर्वादयो रसेषुपर्यंते॥ तत्र द्रव्यं गुरुकठिन विशदमंदसांद्रस्थूलस्थिरगंधगुणबहुलं पार्थिवमुपचयगौरव-संघातस्थैर्यकरं॥ द्रवस्निग्धशीतगुरु मंदसांद्रसरमृदुपिच्छिलरसगुणब-हुलमौदकमुपक्लेदस्नेहबंधविष्य॑द॒मार्दवप्रल्हादकरं॥ तीक्ष्णोष्णसृक्ष-सूक्ष्मलघुविशदरूपगुणबहुलमाग्नेयं ढाहपाकप्रकाशप्रभावर्णकरं॥ रुक्षसूक्ष्म लघुविंशदविकाषिव्ययायिशीतरखरस्पर्शगुणबहुलं वायव्यं रौक्ष्पलाघववैशद्यग्लानिविचारकरं॥मृदुसूक्ष्मलघुविशदःलक्षणव्यवा-
१ गुल्ममितिपाठाऽष्टागह्रुदय२ आचार्येणास्मन्नद्यायेपचाविशनिगणसरयाक गितागननायाष्ट तायादर्हिरातिगंणाआयानि तच्चिय ममतुपिप्पल्यादिजणोऽधिकोभति
यिविपक्तिशब्दगुणबहुलमाकाशात्मकं मार्दवसौपिर्यलाघवकरं॥ इत्थं च नानौषधभूतं जगति किंचिद्द्रव्यमस्ति विविधार्थप्रयोगवशात्176॥ तत्राग्निमारुतात्मकं प्रायेणोर्ध्वभागं॥ तयोर्हि लाघवादूर्ध्वगतित्वाच्चाग्रेः प्लवनत्वाच्च मारुतस्य॥ भूम्यौदकात्मकं तु प्रायेणाधोभागं तयोर्हि गौरवान्निम्रगत्वाच्चतोयस्य॥ व्यामिश्रात्मकमुभयतो भागं॥ शमनंतु दोषविपरीतगुणमुक्तं प्राक्॥ तत्संकरे च यतो बाहुल्येन व्यपदेशः॥ तथाऽनिलात्मकं ग्राहि॥ अनलात्मकं दीपनपाचनं॥ उभयात्मकं लेखनं॥ भूम्युदकात्मकं बृंहणं॥ तत्र कट्वम्ललवणा वीर्येणयथोत्तरमुष्णाः॥ तिक्तकषायमधुराः शीताः॥ तिक्तकटुकषाया रुक्षावद्धविण्मूत्रमारुताः॥ लवणाम्लमधुराः स्निग्धाः सृष्टविण्मूत्रमारुताः॥ लवणकषायमधुरा गुरवः॥ तद्वदम्लकटुतिक्ता लघवः॥ अन्ये पुनर्गुरुलघुस्निग्धरूक्षसाधारणं लवणमिच्छंति॥ वीर्यंतु केचिद्गुरुलंवुस्निग्धरूक्षतीक्ष्णमंदशीतोष्णभेदेनाष्टविधमाहुः॥ अपरे पुनः पठति \।\। वीर्यं द्रव्यस्य तज्ज्ञेयं यद्योगात्कियते क्रिया॥ नावीर्यंकियंते किंचित्सर्वा वीर्यकृता हि सा॥ यैरष्टविधं तैरपि चैवमतिप्रकृष्टशक्तियुक्तानामशेषौपधगुणसारभूतानामष्टानामेव गुर्वादीनां वीर्यसंज्ञा विशिष्टाऽऽम्नायविहितापि लौकिकीति समुद्भाव्यते॥ तथाहि रसविपाकगुणांतरविजयिन्या भूयांसश्चवरिष्ठाश्चगुणाः संगृहीताः॥ विशेषवृत्त्या च तत्र तत्र द्रव्यस्वरूपकथने व्यवहारः प्रवर्तितो भवति॥अतएव च सर्वातिशायी द्रव्यस्वभावः प्रभाव इत्याम्नातः॥ सत्यपि च क्रियानिर्वर्त्तनसाम्ये विपरीता रसादयो वीर्याख्यया प्रभावसंज्ञयाया न परिमृश्यंते॥ अन्ये तु गुर्बादीनामग्नीपोमात्मकत्वादादानविंसर्गविभागेन कालस्योष्णशीतात्मकं द्विविधमेवामनंति॥ एवं चाहुः॥ नानात्मकमपि द्रव्यमग्नीपोमौ महाबलौ॥ व्यक्ताव्यक्तं जग-दिव नातिकामति जातुचित्॥ तत्रोष्णं दहनपचनस्वेदनविलयनाविलकफशमनानि करोति॥ शीतं ल्हादनस्तंभनजीवनरक्तपित्तप्रसादनादीनि॥ विपाकस्तु प्राय स्वादुः खादुलवणयोरम्लोऽम्लस्य कटुरितरेपां॥ रसैरसौ तुल्पफल॥ द्रव्यगुणविशेषेण चास्याल्पमध्यभूयस्त्वमुपलक्षयेत्॥ पराशरस्तु पठति॥ पाकास्त्रयो रसानामम्लोऽम्लं पच्यते कटुः कटुकं॥ चत्वारोऽन्ये मधुरं संसृष्टरसास्तु संसृष्टं॥ कटुतिक्तकषायाणां कटुको येषां विपाक इति पक्ष स्तेषांपित्तविघातेतिक्तपायौ कथं भवतः॥ तत्र यन्मधुरं रसविपाकयो शीतवीर्यं च द्रव्यं यच्चाम्लं तयोरुष्णवीर्यं च यद्वाकटुकं तेषां यथास्वं रसादिभ्य प्रायो गुणान् दोषकोपशमनत्वं च विद्यात्॥ तद्यथा॥ क्षीरमदिरामरिचादीना रसा दिसंकरेण वन्यथात्वं॥ यथा मधु मधुरं श्लेष्माणं शमयति कटुपाकतयासकषायत्वाद्रौक्ष्याच्च वातं जनयति शीतवीर्यत्वाच्च॥ तथा यवोऽपि॥ आनूपौदकपिशितं शीतमपि पित्तं करोत्युष्णवीर्यत्वात्तथा तैलं कटुविपाकतया च विपाकतएव बद्धविण्मूत्रं॥ अम्लं कांजिकं कफंजयति रुक्षोष्णत्वात्॥ कपित्थं तु रौक्ष्यात् पित्तं च शीतवीर्यत्वात्॥ आमलकं पित्तं शीतवीर्यत्वात् स्वादुपाकतया च कफं रौक्ष्याल्लाघवाच्च शैत्यरौक्ष्यलाघवैस्तु न वातं॥ लवणं सैंधवंस्वादुपाकतया पित्तं जयति लाघवात्कफंजयति॥ कटुकाऽपि शुंठी स्नेहौष्ण्यस्वादुपाकैर्वातं क्षपपति पिप्पली च॥ लशुनोऽपि स्नेहौष्ण्यगौरवै॥ पलांडुश्च॥ स तु स्नेहगौरवाभ्यां जनयति श्लेष्माणंवृद्धं च मूलकं स्वादुपाकतया॥ तिक्तानिव्याघ्रीविशल्याऽर्कागुरुण्युष्णवीर्यत्वात् पित्तं जनयंति॥ कपायतिक्तं महत्पंचमूलं वातं जयति न तु पित्तमुष्णवीर्यत्वात्॥ कषायश्च कुलत्थोऽम्लपाकतया च॥ इत्येतन्निदर्शनमात्रमुक्तं॥ तस्मात्॥ किंचिद्रसेन कुरुते कर्म वीर्येण चापरं॥ द्रव्यंगुणेन पाकेन प्रभावेणैव किंचन॥ यद्यद्रव्ये
रसादीनां बलवत्वेन वर्त्तते॥ अभिभूयेतरांस्वत्तत्कारणत्वं प्रपद्यते॥ विरुद्धगुणसंयोगे भूयसाऽल्पं हि जीयते॥ रसं विपाकस्तौवीर्यं प्रभावस्तान्यपोहति॥ बलसाम्पे रसादीनामिति नैसर्गिकं बलं॥ विरुद्धा अपि चान्योन्यं रसाद्याः कार्यसाधने॥ नावश्यं स्युर्विघोताय गुणदोषामिथो यथा॥ रसवीर्यप्रभृतयो भूतोत्कर्षापकर्षतः॥
एकरूपा विरूपा वा द्रव्यं समधिशेरते॥ माधुर्यशैत्यपैच्छिल्यस्नेहगौरवमंदताः॥ सहवृत्या स्थिताः क्षीरे नत्वानूपौदकामिषे॥ गुणाद्रव्येषु ये चोक्तास्तएवं तनुदोपयोः॥ स्थितिवृद्धिक्षयास्तस्मात्तेषां हि द्रव्यहेतुकाः॥ रसं विद्यान्निपातेन तेनाधिवसनेन च॥ वीर्ये विपाकंद्रव्याणां कर्मणः परिनिष्ठया॥ मधुरस्कंदनिर्दिष्टघृततैलगुडादिषु॥ गुणाः स्वाद्वादिभेदेन रसपङ्कंन युज्यते॥ अस्तु भेदादसंख्यत्वमैक्यं वा स्वादुलक्षणात्॥ भूतोत्कर्षापकर्षेण भेदो योऽल्पेन कल्प्यते॥ संकीर्णत्वात्फले चासौ तुल्यत्वान्न विवक्ष्यते॥ गुर्वादीनां विशेषेऽपि स्वजातेरनतिक्रमात्॥ संख्याभेदो यथा नास्ति रसानामपि स क्रमः॥ दृष्टं मुखोपलेपादि यत्सर्वेषु घृतादिषु॥ न च तहाडिमाद्येषु षडेवातो रसाः स्मृताः॥ आनंत्यैकत्वयोश्च स्यान्नविचित्रार्थतंत्रणं॥ गुर्वाद्यावीर्यमुच्यंते शक्तिमंतो ऽन्यथा गुणाः॥ परसामर्थ्यहीनत्वाद्गुणा एधेतरे गुणाः॥ यथारसं जगुःपाकाः पक्टेचित्तदसांप्रतं॥ यत्स्वादुर्व्रीहिरम्लत्वंन चाम्लमपि दाडिमं॥ याति तैलं च कटुतां कटुकाऽपि न पिप्पली॥ यथारसत्वे पाकानां न स्यादेवं विपर्ययः॥ यस्मादृष्टो यवः स्वादुर्गुरुरप्यनिलप्रदः॥ दीपनं शीतमप्याज्यं वसोष्णाप्यग्निसादिनी॥ कटुपाकोपि पित्तघ्नोऽमुद्गोमाषस्तु पित्तलः॥ स्वादुपाकोऽपि चलकृत्स्निग्धोष्णं गुरु फाणितं॥ रसः स्वादुर्यथा चैतत्तथाऽन्येष्वपि दृश्यते॥ वातलं कफपित्तघ्नमम्लमप्याक्षकीफलं॥ कुरुते दधि गुर्वेष वन्हिंपालेवतं तुन॥ कपित्थं दाडिमं चाम्लं ग्राहि नामलकीफलं॥ कषाया ग्राहिणी शीता धातुकीन हरीतकी॥ अप्रधाना पृथक् तस्माद्रसाद्या संसृतास्तु ते॥
प्रभावस्तु यतो द्रव्ये द्रव्यं श्रेष्ठमतो मतं॥ रसादिसाम्ये यत्कर्मविशिष्टं तत्प्रभावजं॥ दंती रसाद्यैस्तुल्याऽपि चित्रकस्य विरेचनी॥ मधुकस्यच मृद्दीका घृतं क्षीरस्य दीपनं॥ कटुपाकरसस्निग्धगुरुत्वै कफवातजित्॥ लशुनोवातकफकृन्नतुतैरेव यहुणै॥ मिथोविरुद्धान्वातादीन्लोहिताद्या जयंति यत्॥ कुर्वंति यवकाद्याश्च तत्प्रभावविजृंभितं॥ शिरीषादि विषादिघ्नं स्वमाद्यं तद्विवृद्धये॥ मणिमंत्रौषधीनां च यत्कर्म विविधात्मकं॥ शल्याकर्षणपुंजन्मरक्षायुर्धीवशादिकं॥ दर्शनाद्यैरपि विषं यन्निपच्छति चागद॥ विरेचयति यद्वृष्यमाशुशु
क्रं करोति वा॥ ऊर्ध्वाधोभागिकं यच्च द्रव्यं यद्वमनादिक॥ मात्रादि प्राप्य तत्तच्च यत्प्रपंचेनवर्णितं॥ तच्च प्रभावजंसर्वमतोऽचिंत्यः स उच्यते॥ रसेन वीर्येण गुणैश्च कर्म द्रव्यं विपाकेनच य
हिदध्यात्॥ सद्योऽन्यथा तत्कुरुते प्रभावाद्धेतोरतस्तत्र न गोचरोऽस्ति॥ इति द्रव्यादिविज्ञानीयो नाम समदशोऽध्यायः॥१७॥
अथातो रसभेदीयमध्यायंव्याख्यास्याम॥ रस ग्वल्वाप्यप्रागव्यक्तश्च॥ स पडृतुकत्वात्कालस्य महाभूतगुणानाम्ना तिरेक विशेषेण संतृष्टो177 विषमं विदग्ध पोढा पृथग्विपरिणमते मधुरादिभेदेन॥ तत्र भूजलयोर्वा हुल्यान्मधुरो रस॥ भूतेजसोरम्ल॥ जलतेजसोर्लवण॥वाय्वाकाशयोस्तिक्त॥ वायुतेजसो कटुक॥ वायूर्व्योकषायः॥ तेषांस्वादुराखाद्यमानो मुखमुपलिंपतींद्रियाणि प्रसादयति देहं प्रल्हादयति षट्पदपिपीलिकानामिष्टतम178॥ अम्लस्तु जिव्हामुद्वेजयत्पुर कंठं विदहति मुखं स्रावयत्यक्षिभ्रुवं संकोचयति दर्शनाद्धर्षग्रति रोमाणि च॥ लवणो मुखं विष्यंदयति कंठकपोलंविदहत्यन्नं
प्ररोचयति॥ तिक्तो विशदयति वदनं विशोधयति कंठं प्रतिहंति रसमं॥ कटुको भृशमुद्वेजयति जिव्हाग्रं चिमिचिमायति कंठकपोलं स्रावयति मुखाक्षिनासिकं विदहति देहं॥ कषायस्तु जड्यति जिह्वांबध्नातिकंठं पीडयति हृदयं॥ तत्र मधुरो रसो जन्मप्रभृति सात्म्यात्सर्वधातुविवर्द्धन आयुष्यो बालवृद्धक्षतक्षीणबलवर्णैद्रियत्वक्केशकंठहितः प्रीणनो बृंह्णोजीवनस्तर्पणः स्थैर्यसंधानस्तन्यकरो वातपित्तविषदाहमूच्छतृष्णाप्रशमनः स्निग्धः शीतो मृदुर्गुरुश्च॥ एवंगुणोऽपि स सदाऽत्युपयुज्यमानः स्थौल्याग्निसादगुरुताऽलसकातिनिद्राः॥ श्वासप्रमेहगलरोगविसंज्ञताऽऽस्यमाधुर्यलोचनगदार्बुदगंडमालाः॥ छर्द्युदर्दमूर्द्धरुक्कासपीनसकृमीन्॥ श्लीषदज्वरोदरष्टीवनानि चावहेत्॥ अम्लोऽनिलनिबर्हणोऽनुलोमनः कोष्ठविदाही रक्तपित्तकृदुष्णवीर्यः शीतस्पर्शो बोधयतींद्रियाणि रोचनः पाचनो दीपनो बृंहणस्तर्पणः प्रीणनः क्लेदनो व्यवायी लघुः स्निग्धो हृद्यश्च॥ जनयति शिथिलत्वं सेवितः सोऽति देहे कफविलयनकंडूपांडुतारुग्विघातान्॥ क्षतविहितविसर्परक्तपित्तं पिपासां श्वयथुमपि कृशानां तैजसत्वाद्भ्रमंच॥ लवणः स्तंभबंधसंघातविध्मापनः सर्वरसप्रत्पनीको दीपनो रोचनः पाचनः क्लेदनःशोषणः स्नेहनः स्वेदनो भेदनश्छेदनः सरो व्यवायी विकापी हरति पवनं विष्यंदयति कफंविशोधयति स्रोतांसि नातिगुरुः स्निग्धतीक्ष्णोष्णश्च॥ खलतिपलिततृष्णातापमूर्च्छाविसर्पश्वयथुकिटिभकोठाऽऽक्षेपरोधास्रपित्तं॥ क्षतविपमदवृद्धिं वातरक्तं करोति क्षपयति बलमोजः सोऽति वा सेवनेन॥ तिक्तः स्वयमरोचिष्णुररुचिविपकृमिमूर्च्छोत्क्लेदज्वरदाहतृट्कुष्टकंडूहरः क्लेदमेदोवसामज्जविण्मूत्रपित्तश्लेष्मोपशोपणो दीपनः पाचनो लेखनः स्तन्यकंठशोधनो मेध्योनातिरूक्षः शीतो लघुश्च॥ धातुवलक्षयमूर्च्छाग्लानिभ्रमवातरोगपरूषत्वं॥ खरविशदरौक्ष्यभावैः सोऽतिसमासेवितः कुर्यात्॥ कटुकोऽलसकश्वषथूदर्दस्थौल्याभिष्यंदकृमि वक्ररोगविषकुष्टकंडूप्रशमनो व्रणावसादनः स्नेहक्लेदशोपणो रोचनः पाचनो दीपनो लेखनः शोधमः शोषयत्यन्नंस्फुटयतीद्रियाणि भिनत्ति शोणिनसंघातं छिनत्तिबंधान्वितृणोति खोतांसिक्षपयति श्लेष्माणं लघुरूक्षतीक्ष्णोष्णश्च॥ कुरुतेऽतिनिषेवितः स तृष्णामदमूर्च्छादवमोहदेहसादान्॥ बलशुक्रगलोपशोपकंपश्रमतापग्लपनातिकर्शनानि॥ करचरणपार्श्वपृष्ठष्ठप्रभुतिष्वनिलस्य कोपमति तीव्रं॥ संकोचतोदभेदैर्वाप्यग्निगुणाधिकत्वेन॥ कषायो बलासं सपित्तं सरक्तं निहंत्याशु बध्नाति वर्चोऽतिरूक्षः॥ गुरुस्त्वक्सवर्णत्वकृत् क्लेदशोषीहिमः प्रीणनो रोपणो लेखनश्च॥ अत्यभ्यासात्सोऽपि शुक्रोपरोधं तृष्णाऽऽध्मानस्तंभविष्ठंभकार्श्यं॥ स्रोतोबंघं वातविण्मूत्रसंगं पक्षाघाताक्षेपकार्दीश्च कुर्यात्॥ अथमधुरद्रव्यस्कंधोघृतमधुतैलक्षीरमेदोमज्जेक्षुविकृतिद्राक्षाऽक्षोडखर्जूरमोचचोचपनससिंचितिकापियालराजादनखर्जूरीतालमस्तककाश्मर्यमधूकपरूषकतामलकीवीराविदारीशतावरीतवक्षीरीक्षीरर्षभीक्षीरशुक्कामधूलिकाऽऽत्मगुप्ताबलाऽतिबलाविश्वेदेवासहदेवीशालिपर्णीपृश्निपर्णीमहासहाक्षुद्रसहर्ध्दिवृद्धिश्रावणीमहाश्रावणीछत्राऽतिछत्रर्ष्यप्रोक्तर्ष्यगंधाश्वऽगंधाश्वंदष्ट्रामृणालिकापुष्करबीजशृंगाटककसेरुकतककनकविंवीप्रपौंढरीकमभृतीनि जीवनीयोगणस्तृणपंचमूलं च॥अम्लद्रव्यस्कंधोदाढिमामलकाम्राम्रातककोशाम्रमातुलुंगवृक्षाम्लाम्लीकाम्लवेतसकुटलकुचपालेवतभव्यकरमर्दधन्वधन्वनकोलबदरैरावतकपित्यदंतशठप्राचीनामलकतिलकंटकरूप्यदधिमस्तुतकधान्याम्लमद्यशुक्तप्रभृतीनि॥ लवणद्रव्यस्कंधः सैंधवादीनि क्षारांतानि
न्नपुसीसकमभृतीनि च॥ तिक्तद्रव्यस्कंधोऽगुरुतगरोशीरवालकचंदननलदकृतमालनक्तमालोपामार्गहरिद्रा द्वयमुस्तमूर्वामदनफलाजशृंगीत्रायमाणाकटुकाकिराततिक्तककरवीरविशालासुषव्यतिविषायवासकज्योतिष्मतीपाठाविकंकतार्ककाकमाचीवचावरणवत्सकवैजयंतीवेतससप्तपर्णसोमवल्कसुमनः कांस्यलोहमभृतीनिपटोलादिश्चशाकवर्गः॥ कटुकद्रव्यस्कंधो मरिचहिंगुतेजोवतीहस्तिपिप्पलीविडंगभल्लातकास्थिमूलकसर्षपलशुनपलांकरंजमनःशिलाऽलदेवदारुकुप्टैलसुरसुरस-
चोरकहरेणुकामूत्रपित्तप्रभृतीनि कुठेरादिश्चहरितवर्गः पंचकोलं च॥ कषायद्रव्यस्कंधो हरीतकीप्रिययंग्वनंताक्षौदलोध्रकट्वंगकट्फलधवधन्वनधात्रीफलंधातुकीपुष्पपद्मापद्मकपद्मपुष्पनागकेसरकुमुदोत्पलतुंगतिंदुककदंबोदुंबरजंब्वाम्रप्लक्षवटविभीतकविकंकतम्बाम्रास्थ्यामकपित्थाश्वत्थमोचरससमंगासोमवल्कसप्तपर्णस्पंदनासनसल्लकीशालतालपियालैलवालुकपरिपेलबजिंगिणीबदरीखदिरकदरारिमेदकाशकसेरुकवंशाश्मंतकाशोकशिरीपशिंशपापलाशशमीशणशंखनाभिमेषशृंगीवरुणखर्जूरस्फूर्जकसर्जभूर्जार्जुनाजकर्णवरुणप्रबालमुक्तांजनगै रिकबिसमृणालप्रभूतीनि॥ तत्रप्रायो मधुरं श्लेष्मलमन्यत्र पुराणशालियवगोधूममुद्गमधुशर्कराजांगलमांसात्॥ प्रायोऽम्लं पित्तलमन्यत्र दाडिमामलकात्॥ प्रायो लवणमचक्षुष्यमन्यत्र सैंधवात्॥ प्रायस्तिक्तकटुकं वातलमतृष्यंचान्यत्रामृतापटोलनागरपिप्पलीलशुनात्॥ प्रायः कषायं शीतं स्तंभनं चान्यत्र हरीतवयाः॥ इति यथास्थूलंनित्योपयोगिनां प्रधानतमानांचोपसंग्रहः॥ घृतामलकसिंधूत्थपटोलीमगधाऽभयाः॥ श्रेष्ठा यथास्वंस्कंधेषु रसदेशस्तु कथ्यते॥ अथ यः शिशिरपवनधरणीधरविविधवनगहननदीतडागपल्वलोदपानकमलकुमदकुवलयाकीर्णो रम्योऽतिस्थिरस्निग्धभूमिर्भूरिहरिततृणोऽतिदूरविस्तृतमतानप्रवालोपसंच्छन्नपादपः सस्यसरीसृपखगबहुल179ःश्लेष्मपित्तप्रायो गुर्वौषधिसलिलः श्लीपदगलरोगापचीज्वराध्यामयोपद्रुतजनपदः सोऽनूपो मधुररसयोनिः॥ यस्तु विषमविपुलसिकतास्थलबहुलोऽतिदूरावगाढविरससलिलः
कठिनः क्लेशसहारोगशरीरदीर्घायुःप्रायजनपदोऽनूपविपरीतश्च स जांगलः कटुकरसयोनिः॥ अत एव चानूपसाधरणोजांगलसाधारणश्चेति विकल्पः॥ तयोराद्यो लवणाम्लयोर्योनिरितरश्चेतरयोः॥ संयोगास्तेषांसप्तपंचाशद्भवंतीति॥ भवंति चात्र॥ स्वादुर्द्विकेषु पंचाम्लश्चतुरो लवणस्त्रयं॥ द्वौ तिक्तः कटुकश्चैकं याति पंचदशेति ते॥ त्रिकेषु मधुरः साम्लश्चतुरो लवणान्वितः॥ त्रीन्युक्तस्तिक्तकेन द्वौकटुनैकं निषेवते॥ स्वादुर्दशैवमम्लः षट् त्र्यादिसंख्यातु पूर्ववत्॥ लवणस्त्रीन्भजत्येकं तिक्त एषोऽत्र विंशतिः॥ स्वादुः साम्लश्चतुष्केषु षट्त्रयंलवणानुगः॥ एकं तिक्तयुतो यातिदशैव मधुरो रसः॥ चतुरोऽम्लः पदुश्चैकं भेदाः पंचदशेति च॥ एकैकस्यपरित्यागे विद्यात्पंचरसाश्च षट्॥ एकं च षड्रसं षट् च पृथगेवं त्रिषष्टिघा॥ ते रसानुरसतो रसभेदास्तारतम्यपरिकल्पनया च॥ संभवंति गणनां समतीता दोषभेषजवशादुपयोज्याः॥॥ इति रसभेदीयो नामाष्टादशोऽध्यायः॥१८॥
अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामः॥ दोषधातुमलमूलो हि देहः॥तमुच्छ्वासनिश्वासोत्साहप्रस्पदेंद्रियपाटववेगप्रवर्तनाभिर्वायुरनुगृण्हाति॥ पक्त्यूष्माभिलापक्षुत्पिपासाप्रभाप्रसाददर्शनमेधाशौर्यमार्दवादिभिः पित्तं॥ स्थैर्यस्नेहसंधिवंधवृषताक्षमाधीबलालौल्यादिभिः श्लेष्मा॥ तुष्टिप्रीणनरक्तपुष्टिभिस्तु रसः॥ जोवनवर्ण प्रसादनमांसपोपणैरसृक्॥ देहलेपमलमेदःपुष्टिभिर्मांसं॥ नेत्रगात्रस्निग्धतास्नेहदाढर्यास्थिपुष्टिभिर्मेदः॥ देहोर्ध्वताधारणमज्जपोषणाभ्यामस्थि॥ स्नेहबलास्थिपूरणशुक्रपुष्टिभिर्मज्जा॥ हर्षबलगर्भोत्पादनैःशुक्रं॥ अवष्टंमानिलानलधारणैः शकृत्॥
अन्नक्लेदनिर्वाहणेन मूत्रं॥ क्लेदत्वकस्नेहरोमधारणैः स्वेद इति॥ कार्श्यकार्ष्ण्यगात्रकंपस्फुरणोष्णकामिता संज्ञानिद्रानाशबलेंद्रियोपघातास्थिशूलमज्जाशोष मलसंगाध्मानाटोपमोहदैन्यभयशोकप्रलापादिभिर्वृद्धो वायुः पीडयति॥ पीतत्वग्लानींद्रियदौर्बल्यौजोविस्रंसशीताभिलाषदाहतिक्तास्यतातृण्मूर्च्छाऽल्पनिद्रताक्रोधादिभिः पित्तं॥ श्वैत्यशैत्पस्थौल्यालस्यगौरवांगसादस्रोतः पिधानमूर्च्छनिद्रातंद्राश्वासकासप्रसेकहृल्लासाग्निसादसंधिविश्लेषादिभिः श्लेष्मा॥ प्रसेकारोचकास्यवैरस्यहृल्लासस्रोतोरोधस्वादुद्वेषांगमर्दादिभिरन्यैश्च श्लेष्मविकारप्रायैरसः॥ कुष्ठविसर्पपिटिकासृग्दराक्षिमुखमेंढ्रगुदपाकप्लीहगुल्मविद्रधिव्यंगकामलाऽग्निनाशतमःप्रवेशरक्तांगनेत्रतावातरक्तैरेभिर-न्यैश्चपित्तविकारप्रायैरसृक्॥गलगंडगंडमालाऽर्बुदग्रंथितालुजिव्हाकंठरोगस्फिग्गंडौष्ठबाहूदरोरुजंघागौरववृद्धिभिः श्लेष्मरक्तविकारमायैश्च मांसं॥ प्रमेहपूर्वरूपैः स्थौल्योपद्रवैश्वान्यैरपि श्लेष्मरक्तमांसविकारप्रायैमैदः॥ अध्यस्थिभिरधिदंतैश्चास्थि॥ नेत्रांगरक्तगौरवैः पर्वसु च स्थूलमूलारुभिर्मज्जा॥अतिस्त्रीकामता शुक्राश्मरीसंभवाभ्यां शुक्रं॥ आधिवयकुक्षिशृलाटोपगौरवैः शकृत्॥ आधिक्यवस्ति तोदाध्मानेर्मूत्रं॥ आधिक्यकंद्वदौयैः स्वेदः॥अन्येऽपि च दूषिकादिमलाबाहुल्यद्रवता कंडूगौरवैः॥ प्रसेकारुचिहृल्लाससंज्ञामोहाल्पवाक्चेष्टताप्रहर्षांगसादाग्निवैषम्यादिभिः क्षीणो वायुः पीडयति॥ स्तंभशैत्यानियलतोददाहारोचकाविपाकांगपारुष्यकंपगौरवनखनयनशौक्ल्यादिभिः पित्तं॥ भ्रमोद्वेष्टनानिद्रांगमर्दपरिशोषतोददवदाहस्फोटनवेपनधूमायनसंधिशैथिल्यहृदयद्रवश्लेष्माशयशून्यतादिभिः श्लेष्मा॥शब्दासहत्वहृदयद्रवकंपशोषशूलशून्यतास्पंदनघट्टनैरल्पयाऽपि च चेष्टया श्रमतर्षाभ्यां रसः॥त्वग्रौक्ष्याम्लशीताभि-लाषशिराशैथिल्यैरसृक्॥स्फिग्गंडादिशुष्कवातोदरौक्ष्याक्षग्लानिसंधिस्फोटनधमनीशैथिलैर्मांसं॥ प्लीचीज्वराद्यामयोपद्रुतजनपदः सोऽनूपो मधुररसयोनिः॥ यस्तु विषमविपुलसिकतास्थलबहुलोऽतिदूरावगाढविरससलिलः कठिनः क्लेशसहारोगशरीरदीर्घायुःप्रायजनपदोऽनूपविपरीतश्च स जांगलः कटुकरसयोनिः॥ अत एव चानूपसाधरणो जांगलसाधारणश्चेति विकल्पः॥ तयोराद्यो लवणाम्लयोर्योनिरितरश्वेतरयोः॥ संयोगास्तेषां समपंचाशद्भवंतीति॥ भवंति चात्र॥ स्वादुर्हिकेषु पंचाम्लश्चतुरो लवणत्रयं॥ द्वौ तिक्तः कटुकश्चैकं याति पंचदशेति ते॥ त्रिकेषु मधुरः साम्लश्चतुरो लवणान्वितः॥ त्रीन्युक्तस्तिक्तकेन द्वौ कटुनैकं निषेवते॥ स्वादुर्दशैवमम्लः षट् व्यादिसंख्यातु पूर्ववत्॥ लवणस्त्रीन्भजत्येकं तिक्त एषोऽत्र विंशतिः॥ स्वादुः साम्लचतुष्केषु षट् त्रयं लवणानुगः॥एकं तिक्तयुतो याति दशैव मधुरो रसः॥ चतुरोऽम्लः पटुश्चैकं भेदाः पंचदशेति च॥ एकैकस्य परित्यागे विद्यात्पंचरसाश्च षट्॥ एकं च षड्रसंषट् च पृथगेवं त्रिषष्टिधा॥तेरसानुरसतो रसभेदास्तारतम्यपरिकल्पनया च॥ संभवंति गणनां समतीता दोषभेषजवशादुपयोज्याः॥॥ इति रसभेदीयो नामाष्टादशोऽध्यायः॥१८॥
अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामः॥ दोषधातुमलमूलो हि देहः॥ तमुच्छ्वासनिश्वासोत्साहप्रस्पदेंद्रियपाटववे-गवर्तनाभिर्वायुरनुगृण्हाति॥ पक्त्यूष्माभिलाषक्षुत्पिपासाप्रशानसाददर्शनमेधा-शौर्यमार्दवादिभिः पित्तं॥ स्थैर्यस्नेहसंधिबंधनपताक्षमाधीबलालौल्यादिभिः श्लेष्मा॥तुष्टिप्रीणनरक्तपुष्टिभिस्तु रसः॥ जीवनवर्णप्रसादनमांसपोषणैरसृक्॥ देहलेपमलमेदः पुष्टिभिर्मांसं॥ नेत्रगात्रस्निग्धतास्नेहदार्ढ्यास्थिपुष्टिभिर्मेदः॥ देहोर्ध्वताधारणमज्जपोषणाभ्यामस्थि॥ स्नेहबलास्थिपूरणशुक्रपुष्टिभिर्मज्जा॥ हर्षबलगर्भोत्पादनैः शुक्रं॥ अवष्टंमानिलानलधारणैः शकृत्॥
णित्वादरुचिरन्यरमाद्वा कारणांतरात्॥तत्र समानगुणभूयिष्ठानामन्यप्रकृतीनामाहारविहाराणामभ्यवहारः श्रेयान्॥ तद्यथा॥ शुक्रक्षये क्षीरसर्पिषोरुपयोगो मधुरस्निग्धशीतानामपरेषां च द्रव्याणां॥ कर्मापि यद्यस्य धातोः समानक्रियतया वृद्धिकरं तस्यतस्य वृद्धिमभिलषतातत्तदासेन्यं॥ तथैव चातुल्यक्रियतया ह्रासकरं भेदार्थेनेति॥ अपिच । विशेषतो रक्तवृद्धिजान्रक्तनिबर्हणप्रसादनकायविरेचनैः॥ मांसवृद्धिजान् संशोधनशस्त्रक्षाराग्निकर्मभिः॥ मेदोजान्स्थौल्यकार्श्यक्रियाक्रमेण॥ रसक्षयजान्मांसरसमयक्षीरैः॥ अस्थिक्षयजान् वस्तिभिस्तिक्तोपहितैश्च क्षीरसर्पिर्भिः॥ शकृहृद्धिजानतीसारसाधनेन॥ शरत्क्षयजान् यवमाषकुल्माषाजमेषमद्यादिभिः॥ मूत्रवृद्धिक्षयजान् मेहकृच्छ्रचिकित्सया \।\। स्वेदक्षयजानभ्यंगव्यायाममद्यस्वमनिवातशरणस्वेदैरिति॥ भवति चात्र॥ ये पाचकांशा धातुस्थास्तेषां मांद्यातितैक्ष्ण्यतः॥ वृद्धिः क्षयश्च धातूनां जायते शृणुचापरं॥ पारंपर्येऽपि दावाग्नेस्तत्तत्प्राप्यैधनं शिखा॥ वृद्धिक्षयौ यथा याति तथा धातुपरंपरा॥द्रव्यं तुल्यं विशिष्टं हि स्वं स्वंवृत्यैक्षयाय च॥ प्रत्यात्मबीजनैर्यस्माद्भृशमाशु च जायते॥ पूर्वो धातुः परं कुर्याद्वृद्धः क्षीणश्च तद्विधं॥ दोषा दुष्टा रसैर्धातून् दूषयंत्युभये मलान्॥ अधो द्वे सप्त शिरसि खानि स्वेदवहानि च॥ मला मलायनानि स्युर्यथास्वं तेष्वतो गदाः॥ वक्ष्यंते वातजास्तत्र निदाने वातरोगिके॥ पित्तं त्वचि स्थितं कुर्याद्विस्फोटकमसूरिकाः॥ रक्ते विसर्पंदाहं च मांसे मांसावकोथनं॥ सदाहान्मेदसि ग्रंथीत् स्वेदतृड्वमनं180 भृशं॥ अस्ति दाहं भृशं मज्निहारिद्रनखनेत्रतां॥ पूति पीतावभासं च शुकं श्रुक्रसमाश्रितं॥ शिरागतं क्रोधताप181प्रलापं स्नायुगं तृषं॥ कोष्ठगं मदतृड्दाहान् व्यापिनोऽन्यांश्च्
ह्रष्टद्धिकटीस्वापसंधिशून्यतांऽगरुक्षताकार्श्यश्रमशोषमेदुरमांसाभिलाषैर्मांसक्षयोक्तैश्च मेदः॥ दंतनखरोमकेशशातनरौ क्ष्यपारुष्यसंधिशैथिल्यास्थितोदास्थिबद्धमांसाभिलाषैरस्थि॥अस्थिसौपिर्यनिस्तोददौर्बल्यभ्रमतमोदर्शनैर्मज्जा॥ श्रमदौर्बल्यास्यशोषतिमिरदर्शनांगपांडुतासदनक्लैब्य मुष्कतोदमेंढ्रधूमायनैश्विराच्चनिषेकेण सरक्तनिषेकेण वा शुक्रं॥सशब्दस्य वायोः कुक्षौ तिर्यगूर्ध्वं च भ्रमणेनांत्रवेष्टनेन पार्श्वहृदयपीडनेनाल्पतया च शकृत्॥ बस्तिनिस्तोदमुखशोषकृच्छ्राल्पविवर्णमूत्रतादिभिः सरुधिरमूत्रतया वा मूत्रं॥ स्तब्धरोमतारोमच्यवनत्वक्परिपाटनस्वापपारुष्यस्वेदनाशैः स्वेदः॥ अन्येऽपि च मला यथायथं मलायनदोपतोदशोपशून्यत्वलाघवैः॥ विपरीतगुणक्षयवृद्धिभ्यां च वृद्धिक्षयावुपलक्षयेत्॥ मलानां त्वतिसंगोत्सर्गाभ्यां च तद्वृद्धिक्षयौ॥ वृद्धेस्तु मलानां क्षयः पीडयति सुतरामनौचित्यात्॥ तत्रास्प्रि स्थितो वायुरसस्वेदयोः पित्तं शेषेषु तु श्लेष्मा । तस्मादेकवृद्धिक्षयसाधनत्वमेषां न त्वेवमस्थिवाय्वोः॥सर्वैव हि वृद्धिः प्रायो ऽतिसंतर्पणनिमित्तत्वाच्छेष्मणाऽनुगता॥ तद्विपर्ययाच्च क्षयो वायुना॥ तस्माल्लंघनबृंहणाभ्यां वृद्धिक्षयजान्विकारानुपाचरेत्॥ पवने तु बृंहण लंघनाभ्यां॥ सर्वत्र च द्रव्यगुणकर्मविपर्ययतुल्यभावेनाविरुद्धेन॥ धातवः खलु शारीराः समानगुणैः समानगुणभूयिष्ठैर्वाऽऽहारविहारैरभ्यस्यमानैर्वृद्धिमाप्नुवंति॥ ह्रासं तु विपरीतैर्विपरीतगुणभूयिष्ठैर्वा॥ तथाहि देहे धातवो ये गुरवस्तेगुरुभिरैक्यकारितयोपचीयंते॥ लघवस्तु लघुभिः॥ तद्विपरीतैस्तु पृथक्त्वकारिभिरपचीयंते॥ तस्मादन्येभ्यो द्रव्येभ्योऽपि सुतरां रक्तमाप्याय्यते रक्तेन मांसं मांसेन मेदो मेदसा मज्जा मज्नाशुक्रंशुक्रेणामगर्भेण गर्भः॥ यत्रत्वेवं लक्षणेन सामान्येनासामान्यवतामाहारविहाराणामसान्निध्यं स्यात् सन्निहितानां चाभ्यवहरणमशक्यं विरुद्धत्वात्वृ
पाणि हीनाः प्रोझ्झंतिसमाः स्वंकर्म कुर्वते॥ यएव देहस्य समा विवृत्ध्यैत एव दोषा विषमा वधाय॥ यस्मादतस्ते हितचर्ययैव क्षयाद्विवृद्धेरिव रक्षणीयाः॥ इति दोषादिविज्ञानीयो नामैकोनविंशोऽध्यायः॥ १९॥
अथातो दोषभेदीयमध्यायं व्याख्यास्यामः॥ वाय्वाकाशधातुभ्यांवायुः॥ आग्नेयं पित्तं॥ अंभः पृथिवीभ्यां श्लेष्मा॥ तत्र पक्वाशयः कटिः सक्थिनी पादावस्थि श्रोत्रं स्पर्शनं च वातस्थानानि॥ अत्र पक्वाशयो विशेषेण॥नाभिरामाशयः स्वेदो लसीका रसो रुधिरं चक्षुः स्पर्शनं च पित्तस्थानानि॥ अत्र नाभिर्विशेषेण॥ उरः कंठः शिरः क्लोम पर्वाण्यामाशयो रसो मेदो घ्राणं रसनं च श्लेष्मस्थानानि॥ अत्राप्युरो विशेषेण॥ इत्थमधोमध्योर्ध्वसन्निवेशिना दोषत्रयेण शरीरमागारमिव स्थूणात्रितयेन स्थिरीकृतं॥ अतश्व दोषा देहं स्थेमानमानयंतः स्थूणा इत्युच्यंते॥ धारणाद्धातवः॥ मलिनीकरणादाहारमलत्वान्मलाः॥ दूषणस्वभात्वाद्दोषाइति॥ त एते प्रत्येकं पंचधा भिद्यते॥ तद्यथा॥ प्राणोदानव्यानसमानापानभेदैर्वायुः॥ तत्र प्राणो मूर्द्धन्यवस्थितः कंठोरश्वरो बुद्धींद्रियहृदयमनोधनीधारणष्ठीवनक्षवथूद्गार-श्वासोच्छ्वासान्नमवेशादिक्रियः॥ उदानवरस्यवस्थितः कंठनासिकानाभिचरोवाक्प्रवृत्तिप्रयत्नोजबलवर्णस्त्रोतः प्रीणनधीधुतिस्मृतिमनोविबोधनादिक्रियः॥ व्यानो हृद्यवस्थितः कृत्स्नदेहचरः॥ शीघ्रतरगतिर्गतिप्रसारणकुंचनोत्क्षेपावक्षेपनिमिषोन्मेषणजृंभणान्नखादनस्रोतोविशोधनस्वेदास्रक्स्रावणादिक्रियो योनौ च शुक्रप्रतिपादनो विभज्य चान्नस्व किट्टात्सारं तेन क्रमशोधातूंस्तर्पयति॥ समानोंऽतरग्रिसमीपस्थितस्तत्संधुक्षणः पक्वामाशपदोषमलशुक्रर्तवांबुबहुस्रोतोविचारी तदवलंबनान्नधारणपाचन
यक्ष्मणः॥श्लेष्मा त्वचि स्थितः कुर्यात्स्तंभं श्वेतावभासतां॥ पांड्वामयं शोणितगोमांस संस्थोऽर्युदापचीः॥ आर्द्रचर्मावनद्धाभगात्रतांचातिगौरवं॥ मेदोगः स्थूलतां मेहमस्न्थांस्तब्धत्वमस्थिगः॥ मज्जगः शुक्लनेत्रत्वं शुक्रस्थः शुक्रसंचयं॥ विबंधं गौरवं चाति शिरास्थः स्तब्धगात्रतां॥ स्नायुगः संधिशून्यत्वं कोष्ठगो जठरोन्नतिं॥अरोचकाधिपाकौ च तांस्तांश्च कफजान् गदान्॥ विण्मूत्रयोः साश्रययोस्तत्र तत्रोपदेक्ष्यते॥ उपतापोपघातौ तु स्वाश्रयेंद्रियगैर्मलैः॥ व्यायामादूष्मणस्तैक्ष्ण्यादहिताचरणादपि॥कोष्टाच्छास्वास्थिमर्माणि द्रुतत्वान्मारुतस्य च॥ दोषायांति तथा तेभ्यः स्रोतोमुखविशोधनात्॥ वृत्ध्याभिष्यंदनालाकात्कोष्ठं वायोश्च निग्रहात्। तत्रस्थाश्च विलंबेरन् भूयो हेतुप्रतीक्षिणः॥ते कालादिबलं लब्ध्वाकुप्यंत्यन्याश्रयेष्वपि॥ तत्रान्यस्थानसंस्थेषु तदीयामबलेषु182 तु॥ कुर्याच्चिकित्सां स्वामेव बलेनान्याभिमाविषु॥ आगंतुं शमयेदोषंस्थानिनं प्रतिकृत्य वा॥ तेजो यत्सर्वधातूनामोजस्ततरमुच्यते॥ मृदु सोमात्मकं शुद्धं रक्तमीषत्सपीतकं॥ यत्सार आदौ गर्भस्य यत्तद्गर्भरसाद्रसः॥ संवर्तमानं हृदयं समाश्रयति यत्पुरा॥ यच्छरीररसस्नेहः प्राणा यत्र प्रतिष्ठिताः॥ यस्यानाशान नाशोऽस्ति प्रीणिता येन देहिनः॥ हृदयस्थमपि व्यापि तत्परं जीवितास्पदं॥ ओजः क्षीयेत कोपक्षुत्ध्यानशोकश्रमादिभिः॥ बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेंद्रियः \।\। दुश्छायो दुर्मना रूक्षो भवत्क्षामश्च तत्क्षये॥ जीवनीयौषधक्षीररसाद्यास्तत्र भेषजं॥ ओजोवृद्ध हि देहस्य तुष्टिपुष्टिबलोदयाः॥ यदन्नं द्वेष्टि यदपि प्रार्थयेताविरोधि तु॥ तत्तत्त्यजन् समभ्रंश्चतौ तौ वृद्धिक्षयौ जयेत्॥ कुर्वते हि रुचि दोषा विपरीतसमानयोः॥ वृद्धाः क्षीणाश्च भूयिष्ठं लक्षयंत्यबुधास्तु न॥ यथाबलं यथास्वं च दोषा वृद्धा वितन्वते॥ रु
मिता॥लिंगानां दर्शनं स्वेषामस्वास्थ्यं रोगसंभवः॥ स्वस्थानस्थस्य समता विकारासंभवः शमः॥ देहे क्रुद्धोऽनिलवशात्कृत्स्नेऽद्धेऽवयवेऽपि वा॥ दोषो विकारं कुरुते खेवर्षमिव तोयदः॥ अथ प्रकुपिता वातादयो नानाविधैर्विकारैः शरीरमुपतापयंति॥ आविष्कृततमास्तु कायोरशीतिर्विकाराश्चत्वारिंशत्पित्तस्य विंशतिः श्लेष्मणः॥ तत्र वातविकाराः॥ तद्यथा॥ नखभेदो विपादिका पादशूलं पादभ्रंशः सुप्तपादता बातखुडता गुल्फग्रहः पिंडिकोद्वेष्टनं गृध्रसी जानुभेदो जानुविश्लेषऊरुसादऊरुस्तंभः पंगुत्वं गुदभ्रंशो गुदार्तिर्वृषणाक्षेपो मेंढ्रस्तंभो वंक्षणानाहः श्रोणिभेदो विद्भेदउदावर्तः खंजत्वं कुब्जत्वं वामनत्वं त्रिकग्रहः पृष्ठग्रहः पार्श्वावमर्दउदरवेष्टो हृन्मोहो हृद्रवो वक्षोस्तथा183 वक्षोपरोधो वक्षस्तोदो बाहुशोषस्तथा ग्रीवास्तंभो मन्यास्तंभः कंठध्वंसो हनुस्तंभस्ताल्वोष्टभेदो दंतभेदो दंतशैथिल्यं मूकत्वं वाक्संगः प्रलापः कषायास्यथामुखशोषो रसाज्ञत्वं प्राणनाशः कर्णशूलमशब्दश्रुतिरुच्चैः श्रुतिर्वाधिर्थं वस्तंभोंवर्त्मसंकोचस्तिमिरमक्षिशुलमक्षिव्युदासो भ्रूव्युदासः शंखभेदो ललाटभेदः शिरोरुक्केशभूमिस्फुटन मर्दितमेकांगरोगः सर्वांगरोग आक्षेपको दंडकः श्रमो भ्रमो वेपथुर्जंभाग्लानिर्विषादो रौक्ष्यं पारुष्यं श्यावारुणावभासत्वमखमोऽनवस्थितचित्तता च॥ पित्तविकाराः पुनः॥ ओषः प्लोषो दवो दवथुविदाहोंऽ तदहस्त्वग्दाहोंऽन्तर्दाहो धूमकोऽम्लकऊष्माधिक्यमतिस्वेदोंगगंधोऽवयवसदनं शोणितक्लेदो मांसक्वेदस्त्वया सदरणं चर्मदरणं रक्तकोठो रक्तविस्फोटो रक्तमंडलानि रक्तपित्तं हरितत्वं हारिद्रत्वं नीलिका कक्ष्या कामला तिक्तास्यता लोहितगंधास्यता पूतिमुखत्वं तृष्णाधिक्यमतृप्तिरास्पपाको गलपाकोऽक्षिपाकः पायुपाको मेंद्रपाको जीवादानं तमःप्रवेशो हरितहारिद्रनेत्रमूत्रशत्वं च॥ श्लेष्मविकारा
विवेचनकिट्टाधोनयनक्रियः॥ अपानोऽपानेऽवस्थितो बस्तिश्रोणिमेंढ्रवृषणवंक्षणोरुचरो विण्मूत्रशुक्रार्तवगर्भनिष्क्रमणादिक्रियः॥ पाचकरंजकसाधकालोचक भ्राजकत्वभेदैः पित्तं॥ तत्र यदामपक्वाशयमध्यस्थं पंचमहाभूतात्मकत्वेऽपि तेजोगुणोत्कर्षात्क्षपितसोमगुणं ततश्च त्यक्तद्रवस्वभावं सहकारिकारणैर्वायुक्लेदादिभिरेंनुग्रहाद्दहनपाचनादिक्रियया लब्धाग्निशब्दं पित्तमन्नं पचति सारकिट्टौविभजति शेषाणि च पित्तस्थानानि तत्रस्थमेवानुगृण्हातित्याचकमित्युच्यते॥ आमाशयस्थं तु रसस्य रंजनाद्वंजकं॥ हृदयस्थं बुद्धिमेधाभिमानोत्साहैर-भिप्रेतार्थसाधनात्साधकं दृष्टिस्थं रूपालोचनाच्चालोचकं॥ त्वक्स्थं त्वचो भ्राजनाद्भाजकं॥ तद्भ्यंगपरिषेकालेपादीन्पाचयति छायाश्च प्रकाशयति॥ अवलंबकक्लेदकबोधकतर्पकश्लेषकत्वभेदैः श्लेष्मा॥सतूरस्थः स्ववीर्येण त्रिकस्थानवीर्येण च सह हृदयस्य च शेषाणां च श्लेष्मस्थानानां तत्रस्थ एवोदककर्मणाऽवलंबनादवलंबक इत्युच्यते॥ आमाशयस्थितोऽन्नसंघातस्य क्लेदनात्क्लेदकः॥ रसनस्थः सम्यग्रसबोधनाद्बोधकः॥ शिरस्थवक्षुस्तदिंद्रियतर्पणासर्पकः॥पर्वस्थोऽस्थिसंधिश्लेषात् श्लेपकइति॥एवममीषु स्थानेषु भूयिष्ठमविक्रताः सकलशरीरव्यापिनोऽपि वातपित्तश्लेष्माणो वर्तते॥ तेषां वृद्धिहेतुर्वक्ष्यते निदानेषु॥ समासतश्चवृद्धिक्षयलक्षणमुक्तं पूर्वाध्याये॥ वृद्धिर्हि द्वेधा चयकोपभेदेन॥ तश्रोष्णगुणोपहिता रुक्षादयो वायोः संचयमापादयंति शीतगुणोपहिताः प्रकोपमुष्णगुणोपहिताः स्निग्धादयः प्रशमं॥ शीतगुणोपहितास्तीक्ष्णादयः पित्तस्य चयमुष्णगुणोपहिताः कोपं शीतगुणोपहिता मंदादयः प्रशमं॥ शीतगुणोपहिताः स्निग्धादयः कफस्य चयमुष्णगुणोपहिताः कोपं तथा तु रुक्षादयः प्रशमं॥ तत्र॥ चयो वृद्धिः स्वधाम्न्येव प्रद्वेषो वृद्धितृषु॥ विपरीतगुणेच्छा च कोपस्तून्मार्गगामिता॥लिंगानां दर्शनं स्वेषामस्वास्थ्यं रोगसंभवः॥ स्वस्थानस्थस्य समता विकारासंभवः शमः॥ देहे क्रुद्धोऽनिलवशात्कृत्स्रेऽर्द्धेऽवयवेऽपिवा॥ दोषो विकारं कुरुते स्वेवर्षमिव तोयदः॥ अथ प्रकुपिता वातादयो नानाविधैर्विकारैः शरीरमुपतापयंति॥ आविष्कृततमास्तु कायोरशीतिर्विकाराश्चत्वारिंशत्पित्तस्य विंशतिः श्लेष्मणः॥ तत्र वातविकाराः॥ तद्यथा॥ नखभेदो विपादिका पादशूलं पादभ्रंशः सुप्तपादता वातस्वुडता गुल्फग्रहः पिंडिकोद्वेष्टनं गृध्रसी जानुभेदो जानुविश्लेषऊरुसादऊरुस्तंभः पंगुत्वं गुदभ्रंशो गुदार्तिर्दृषणाक्षेपो मेंदूस्तंभो वंक्षणानाहः श्रोणिभेदो विद्वेदउदावर्तः खंजत्वं कुन्नत्वं वामनत्वं त्रिकग्रहः पृष्ठग्रहः पाश्र्वविमर्दउदरवेष्टो हन्मोहो हृद्द्रवो वक्षोद्घर्षस्तथा184 वक्षोपरोधो वक्षस्तोदो बाहुशोषस्तथा ग्रीवास्तंभो मन्यास्तंभः कंठध्वंसो हनुस्तंभस्ताल्वोष्टभेदो दंतभेदो दंतशैथिल्यं मूकत्वं वाक्संगः प्रलापः कषायास्यता मुखशोषो रसाज्ञत्वं प्राणनाशः कर्णशूलमशब्दश्रुतिरुच्चैः श्रुतिर्वाधिर्थं वस्तंभों वर्त्मसंकोचस्तिमिरमक्षिशूलमक्षिव्युदासो भ्रूव्युदासः शंखभेदो ललाटभेदः शिरोरुक्केशभूमिस्फुटनमर्दितमेकांगरोगः सर्वांगरोग आक्षेपको दंडकः श्रमो भ्रमो वेपथुभाग्लानिर्विषादो रौक्ष्यं पारुष्यं श्यावारुणावभासत्वमस्वमोऽनवस्थितचित्तता च॥ पित्तविकाराः पुनः॥ ओषः प्लोषो दवो दवथुविदाहोंऽर्दाहस्त्वग्दाहोंऽसदाहो धूमकोऽम्लकऊष्माधिक्यमतिस्वेदोंगगंधोऽवयवसदनं शोणितक्लेदो मांसक्वेदस्त्वया सदरणं चर्मदरणं रक्तकोटोरक्तविस्फोटो रक्तमंडलानि रक्तपित्तं हरितत्वं हारिद्रत्वं नीलिका कक्ष्या कामला तिक्तास्यता लोहितगंधास्यता पूतिमुखत्वं तृष्णाधिक्यमतृप्तिरास्यपाको गलपाकोऽक्षिपाकः पायुपाको मेंढ्रपाको जीवादानं तमःप्रवेशो हरितहारिद्रनेत्रमूत्रशकृत्वं च॥ श्लेष्मविकारास्तु॥ तृप्तिस्तंद्रा निद्राऽऽधिक्यं स्तैमित्यं गुरुगात्रताऽऽलस्यं मुरखमाधुर्य प्रसेकः श्लेम्मोद्गिरणं मलाधिक्यं बलासो हृदयोपलेपः कंठोपलेपो धमनीप्रतिचयो गलगंडोऽतिस्थौल्यं शीतामित्वमुदर्दः श्वेतावभासता श्वेतनेत्रमूत्रकृत्वं च॥ तत्र सर्वागींणस्तीव्रोदाहः स्वेदारतिमानोषः॥ प्रादेशिकः स्वेदरहितोऽग्न्यर्चिषेव दाहः प्लोषः॥ मुखतालुषु दाहो दवः॥ चक्षुरादींद्रियेषु दाहो दवथुः॥ पाणिपादांसमूलेषु विविधः संतापो विदाहः॥ कोष्ठे दाहों तदहः॥ शिरोग्रीवाकंठतालुषु धूमायनं धूमकः॥ सांतर्दाहहृदयशुलोद्गारोऽम्लकः॥शोणितस्य कृष्णतादोर्गंध्यतनुत्वानि क्लेदः॥ मांसस्यतुकृष्णतादोर्गंध्यंच॥ बाह्यत्वक्संहतिश्चर्म॥कोष्ठगौरवादाहारास्पृहा तृप्तिः॥ अन्ये पुनराहुः॥ अन्नानभिनंदना तृप्तिरिव तृप्तिररोचकः॥ निद्रार्तस्येव विषयाग्रहणं तंद्रा॥ स्तैमित्यं तु प्रमीलक इत्यन्यैः पठितं॥ उपलेप इवोपलेपः॥ तदतिशयः प्रतिचयो ऽतिपूरणं॥ अग्नेरतिमंदता शैत्यं॥ उरोऽभिष्यंदउदर्दः॥ केषांचिच्छीतवेपथुरुदर्दः॥ अन्ये पुनराहुः॥ शीतपानीयसंस्पर्शाच्छीतकाले विशेषतः॥सरागकंडूःशोफः स्यादुदर्दः स कफोद्भव इति॥ महाविकारास्तु यथास्वमेवोपदेक्ष्यंते॥ क्षुद्रविकाराः पुनर्यदेवांगमाविशति तदुपपदमेव नाम लभंते॥ यथा॥ नखशंखललाटभेदा सांतर्दाहकंठदपोपलेपादयः॥तेषां हि तथैव स्वरूपमुपदिष्टं भवति॥ सर्वेषु तेषु तेष्वनुक्तेषु चान्येष्वसंख्येयत्वाद्विकारेष्वि मान्येव दोषाणामात्मलिंगानि सकलशरीरव्यापीन्यव्यभिचारीणिचा तथा तत्कर्माण्युपक्रमश्च॥ तत्रात्मलिंगान्यायुष्कामीये निर्दिष्टानि॥ कर्माणि तु वायोः संसव्याससंगसादभेदतोदहर्षतर्षवर्तमर्दकंठव्यधये्ष्टभंगशूलशोषस्वापपारुष्य-सौषिर्यसंकोचस्पंदनानि कषायरसत्वं श्यामारुणवर्णता च॥ पित्तस्य दाहोष्मपाक स्वेदक्लेद कोथ स्रावरागाः कट्वम्लरसत्वं शुक्लारुणवर्ण्यवर्णता च॥ श्लेष्मणः कंडूस्थैर्यगौरवोपदेहस्रे
हशैत्यबंधचिरकारित्वानि मधुरलवणरसत्वं श्वेतवर्णता चेति॥ कपिलस्त्वेषां स्वलक्षणानि रसतो निर्दिदेश॥ कट्वम्ललवणं पित्तं स्वाद्वम्ललवणः कफः॥ कषायतिक्तकटुको वायुर्दृष्टोऽनुमानतः॥ सुश्रुतः पुनः पठति॥ पित्तं विदग्धमम्लतामुपैति॥ श्लेष्मा लवणतां॥ तदेवमेतानि वाय्वादिरूपकर्माण्यवहितः सम्यगुपलक्षयेदागमप्रत्यक्षानुमानैः॥ अनंतरं च देशकालमात्रादीन्प्रमाणीकृत्याश्वेवोपक्रमेतेति॥ भवंति चात्र॥ वक्ष्यतेऽतः परं दोषा वृद्धिक्षयविभेदतः॥ पृथक् त्रीन्विद्धि संसर्गविधा तत्र तु तान्नव॥त्रीनेवसमया नृत्ध्या षडेकस्यातिशायने॥ त्रयोदश सस्तेषु षड्येकातिशयेन तु॥एकं तुल्याधिकैः षट् च तारतम्य विकल्पनात्॥ पंचविंशतिरित्येवं वृद्धैः क्षीणैश्च तावतः॥ एकैकवृद्धिसमताक्षयैः षट् ते पुनश्च षट्॥ एकक्षयद्वंद्वद्वयवृद्यासविपर्ययाऽपि ते॥ भेदा द्विषष्टिर्निर्दिष्टास्त्रिषष्टः स्वास्थ्यकारणं॥रोगावस्थासु युगपदृद्धिसाम्यक्षयानुगं॥षट्कं हि दुर्बोधतरं विकारैरिति दर्श्यते॥ प्रकृतिस्थं यदापित्तं वृद्धो वायुः कफक्षये॥ स्थानादादाय गात्रेषु यत्र यत्र विसर्पति॥ तदा भेदश्व दाहश्च तत्र तत्रानवस्थितौ॥ गात्रो देशे तथा स्यातां बलहानिपरिश्रमौ॥ प्रकृतिस्थंकफं क्षीणे पित्ते वायुर्यदा बली॥कर्षेत्कुर्यात्तदा शूलं सशैत्पस्तंभगौरवं॥ प्रकृतिस्थं यदा वातं पित्तं वृद्धं कफक्षये॥ संरुणद्धि तदा दाहः शूलं चास्योपजायते॥ प्रकृतिस्थं कफं वृद्धं पित्तं वायुक्षये यदा॥ सन्निरुध्यात्तदा कुर्यात्सतंद्रागौरवं ज्वरं॥प्रकृतिस्थं यदा वायुं दृद्धः पित्तक्षयेकफः । सन्निरुध्यात्तदा कुर्याच्छीतकं गौरवं रुजं॥प्रकृतिस्थं यदापित्तं वृद्धः श्लेश्माऽनिलक्षये॥ सन्निरुध्यात्तदा कुर्यान्मंदाग्नित्वं शिरोग्रहं॥ निद्रातंद्रोपलेपांश्चहृद्रोगं गात्रगौरवं॥ ष्ठीवनं पित्तकफपोर्नवादीनां च पीततां॥ ये दोषवृद्धिक्षययोर्विकाराः कीर्तिताः पृथक्॥शेषेष्वपि तु तानेव कल्पयेत्तद्यथायथं॥ संसर्गाद्रसरुधिरादिभिस्तथैषां दोषांस्तु क्षयसमताविष्टद्धिभैदैः॥ आनंत्यं तरतमयोगतश्व यातान् जानीयादवद्दितमानसो यथास्वं॥ इति दोषभेदीयो नाम विंशोऽध्यायः॥२०॥
अथातो दोषोपक्रमणीयमध्यायं व्याख्यास्यामः॥ वातस्योपक्रमः स्नेहः स्वेदो मृदूनि स्निग्धोष्णमधुराम्ललवणानि संशोधनान्यभ्यबहार्याणि चाभ्यंगपूर्वमुपनाहनोपवेष्टनोन्मर्दनपरिषेकावगाहसंवाहनपीडनानि वित्रासनविस्मापनविस्मरणानि सुरासवविधानं स्नेहाश्चानेकयोनयो दीपनीयपाचनीय वातविरेचनीयद्रव्योपहितास्तथा शत पाकसहस्रपाकाः सर्वशः प्रयोगार्थी बस्तयो बस्तिनियमो विशेषतस्तैलं मांसरसोऽनुवासनानि सुखशीलता स्त्रीसंपर्कवर्जनश्च हैमंतो विधिः॥ पित्तस्य सर्पिःपानं सर्पिषा स्नेहनमधोदोषहरणं मधुरतिक्तकषायाणामौषधाभ्यवहार्याणामुपयोगो मृदुसुरभिशीतहृद्यानां गंधानामुपसेवा परमशिशिरसुरभिसलिलमज्जनं मनोनुकूलसंस्पर्शसुखानां मुक्तामणिवैदूर्याश्मगर्भ185 गारुत्मतंमरकतमश्मगर्भोहरिन्मणिरित्यमरः”)शंख शिलापद्मरागचंद्रकांतकांतितरतरलावली186नां चामरत्रा187 सितसहस्रपत्रोत्पलकदलीदलनवमालिक कुंदमल्लिकादिविविधवर्णप्रसूनविरचितानां स्रजां च धारणमुरसा॥ क्षणे क्षणे चाग्र्यचंदनप्रियंगुकालीयकमृणालकर्पूरसुगंधिशीतस्वच्छगंधवारिभिःसकमलकुमुदकुवलयैर्भूमितलकवाटवातायनहर्म्यभि-त्तीनामभिप्रोक्षणं॥ श्रुतिसुखदमृदुमधुर मनोनुगानां गीतवादित्राणामभ्युदयानां च श्रवणं॥ अयंत्रणैःसमानवेषचरितैरुत्सवोत्तरान्योन्यदर्शनैः सुहृद्भिः सहासनं॥अमृतवचनविहारस्वभावसुरभितरवदनकुड्मलानां नातिस्पष्टाभिधायिनामनुपचारमधुरकोमलोलापानां प्रियाणामपत्यकानां सदयमाश्लेषः॥ निदयं च मृदुमुरभिनिवसनाभिर्मल्लिकामुकुलानुकारिमुक्ताफलप्रायविभूषणाभिः सहचरीनिनादसंकल्पोपजनितौत्सुक्यकलहंसानुनादितनूपुररशनाकलापसिंजितानुगमसंमुखमुग्धमृदुवच-नाभिर्निजजघननिबिडकुचयुगुलालंकारभारोद्वहनश्रमश्वसनकंपमध्यमुकुलितलोचनोत्पलाभिः किंचिद्विगलितनवयौवनाभिः प्रियांगसंगमात्रातिमात्रसुखा स्वादविस्रंस्यमानांशुकैककालोपजातव्रीडावैलक्ष्यप्रगल्भतावैक्लव्यहर्षविषादविस्मय स्मितकोपप्रसादसाध्वसत्रस्त स्विन्नसर्वांगद्रवीकृतहिमांगरागाभिः समस्तदेहहृदयप्रल्हादकारिणीभिर्विलासवतीभिश्चतुरंग-भिवानंगबलमंगैस्तनुभिरपि समुद्वहंतीभिरंगनाभिः188॥ सकलरजनीकरकरनिकरावकीरणशिशिरतराणि भवनतलसलिलपुलिनानि॥ सिक्तसिकततोयसृततलमनेककाययंत्र प्रवृत्तविमलसलिलधारं धारागृहं॥ सागरानुकारितोया-शयोपतीरमुनिविष्टकुसुमितबहुविटपपृथुतुंगविविधतरतरुनिवहबहलच्छायोपसंच्छन्नं धवलरक्तनीलनीरजरजोव्याप्तसम-स्तजलविपुलसिकतिलोपकल्पितं दोलायमानगलदुदककलशशरणकरकस्त्रवदुदकमवाहाहितमृत्सौरभ भूतलैकदेशं प्रलंबमानाम्रजंबूकदंब विदुलनिचुलादि किस लय मंजरीफ लस्तबकमत्युप्तपटालिकं मुहुर्मुहुः पुरुषप्रयत्नप्रेरितघटमुखोद्गीर्णोशीरचंदनानुविद्धावलग्नपतितशेषमुक्ताफलायमानजललवमुच्छ्रायविस्तारवदनिषिद्धदूरविस्तृतशीतवातप्रवेशमत्यर्थ सततांबुशीतशीकराभिषेकप्रतिहतसंतापदाहमोहश्रमक्कमपिपासमतिशयप्राप्तरामणीयकं हिमाचलस्पर्द्धिशैत्यमंबुधरकाललीलाविनि कायमानं189")॥ प्रफुलपद्मोत्पलपुंडरीकसौगंधिककोकनदशतपत्रपरागरागानुरंजि-तजलचरविंगगणकलनिनदरम्या दीर्घिकाः॥ मधुपानलोभनिलीयमानालिकुलचलित लतामताननिपतितबिविधकुसुमनिचयशयनरचनासव्यापारमृदुपवनान्युपवनानि॥ विशेषतस्तु घृतं पयो विरेचनानि सौम्याः सर्वे भाषा दिवास्वमवर्ज्य
श्चग्रैष्मो विधिः॥श्लेष्मणः पुनर्विधिविहितानि तीक्ष्णानि संशोधनानि विरूक्षप्रायाण्यभ्यवहार्याणि कटुतिक्तकषायोपहितानि तीक्ष्णानि दीर्घकालस्थितानि हृद्यानि मद्यानि॥ धावनलंबनप्लवनजागरण नियुद्धसंव्यवायव्यायामरुक्षोन्मर्दनस्थानोच्छादनानि॥ विशेषतः क्षौद्रं यूषो वमनानि सर्वशश्चोपवासः सधूमगंडूषः सुखमतिषेधः सुखार्थं वासंतो विधिरिति॥ भवति चात्र॥ उपक्रमः पृथग्दोषान् योऽयमुद्दिश्य कल्पितः॥ संसर्गसन्निपातेषु तं यथात्वंविकल्पयेत्॥ ग्रैष्मः प्रायो मरुत्पित्ते वासंतः कफमारुते॥ मरुतो योगवाहित्यात्कफपित्ते तु शारदः॥ योज्याः पट्वम्लमधुरा वायौ क्रुद्धे रसाः क्रमात्॥ पित्ते तिक्तस्ततः स्वादुः कषायश्व रसो हितः । कटुकः प्राक् ततस्तिक्तः कषायोंऽते कफामये॥ चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु॥ वर्षादिषु तु पित्तस्य श्लेष्मणः शिशिरादिषु॥ चीयते लघुरूक्षाभिरोषधीभिः समीरणः॥ तद्विधस्तद्विधे देहे कालस्यौष्ण्यान्नकुप्यति॥ अद्भिरम्लविपाकाभिरोषधीभिश्व तादृशं॥ पित्तं याति चयं कोपं न तु कालस्य शैत्यतः॥ चीयते स्निग्धशीताभिरुदकौषधिभिः कफः॥ तुल्येऽपि काले देहे च स्कन्नत्वान्नं प्रकुप्यति॥ इति कालस्वभावोऽयमाहारादिवशात्पुनः॥ चयादीन्यांति सद्योऽपि दोषाः कालेऽपि वा न तु॥ व्याप्नोति सहसा देहमापादतलमस्तकं॥ निवर्तते तु कुपितो मलोऽल्पाल्पंजलौघवत्॥ चयएषजयेद्दोषं कुपितं त्वविरोधयन्॥ सर्वकोपे बलीयांसं शेषदोषाविरोधतः॥ क्रमान्मरुत्पित्तकफान् सर्वत्र सदृशे बले॥ वातादीनां यथापूर्वं यतः स्वाभाविकं बलं॥ ऊचे पराशरोप्यर्थममुमेव प्रमाणयन्॥ यथोपन्यासतः प्राप्तमादौ दोषभिषग्जितं॥ नेत्तृभंगेन दृष्टो हि समं सैन्यपराजयः॥ स्थानतः केचिदिच्छंति प्राक् तावत् श्लेष्मणो वधं॥ शिरस्युरसि कंठे च प्रलिप्तेऽन्नरुचिः कु
तः॥ तदभावे कथं भोज्यपानद्रव्यावचारणं॥ असत्यभ्यवहारे च कुतो दोषविनिग्रहः॥ तस्मादादौ कफो घात्यः कायद्वारार्गलेव सः॥ मध्यस्थायियतः पित्तमाशुकारि च चिंत्यते॥ अतो वातसखस्यास्य कुर्यात्तदनुनिग्रहं॥अतएव च पित्तादिः कफांतोऽभ्यैः क्रमः स्मृतः॥ सुश्रुतश्च न सर्वत्र मतमेतद्रवीति तु॥ जयेज्ज्वरेऽतिसारे च क्रमात्पित्तकफानिलान्॥ प्रायेण तापात्मतया ज्वरे तेजो विशिष्यते॥ विशश्चसरता पित्तात्तथा च मृदुकोष्ठता॥ तस्य चानुबलःश्लेष्मागौरवापक्तिजाडयत्॥ वायुश्च वर्द्धतेऽवश्यं यस्त्वहःसु तयोः क्षये॥ ज्वरातिसारयोस्तस्मादोषदोषजये क्रमः॥ कफपित्तानिलानन्ये क्रमादाहस्तयोरपि॥ यस्मादामाशयो क्लेशाद्भूयिष्ठं तत्समुद्भवः॥ क्रमेणाद्येन तत्रापि प्रवृद्धान् स्वाशये स्थितान्॥ स्वाशये तु प्रदुष्टानां स्थितैवं ह्याशुकारिता॥ विज्ञाय कर्मभिः स्वैस्वैर्दोषोद्रेकं यथाबलं । भेषजं योजयेत्तत्र तंत्री190कुर्यान्नतु कर्म॥ प्रयोगः शमयेव्द्याधिं॥ योऽन्यमन्यमुदीरयेत्॥ नासौ विशुद्धः शुद्धस्तु शमयेद्योन कोपयेत्॥ क्रुद्धं मलमलं जेतुं नाल्पभावादुभावपि॥ दोषा दोषात्मकत्वाच्चन साम्येऽपि परस्परं॥ शीतद्रवाम्ललवणकद्वादिगुणतुल्यता॥ दृष्टा मिथश्चदोषेषु नातोऽन्योन्यं जयंति ते॥ आरंभकं विरोधेऽपि मिथो यद्वद्गु- णत्रयं॥ विश्वस्य दृष्टं युगपद्याधेर्दोषत्रयं तथा॥ वायुरामान्वयः सार्तिराध्मानकृदसंचरः॥ दुर्गंधमसितं पित्तं कटुकं बहलं गुरु॥ आषिलस्तंतुमांस्त्यानः प्रलेपी पिच्छिलः कफः॥ विपर्यये तु पक्वत्वं तथा ताम्रं समेचकं॥ पीतं च पित्तमच्छं च श्लेष्माऽच्छः पिंडितोऽथवा॥ विशदश्चसफेनश्च धवलो मधुरो रसे॥ उष्मणोऽल्पबल
त्वेन धातुमाद्यमपाचितं॥ दुष्टमामाशयगतं रसमामं प्रचक्षते॥ अन्ये दोषेभ्य एवातिदुष्टेभ्योऽन्योन्यमूर्च्छनात्॥ कोद्रवेभ्यो विषस्येव वदंत्यामस्य संभवं॥ सर्वदेहप्रविसृतान् सामान्दोषान्न निर्हरेत्॥लीनान्धातुष्वनुत्क्लिष्टान् फलादामाद्रसानिव॥ आश्रयस्य हि नाशाय ते स्युर्दुर्निर्हरत्वतः । पाचनैर्दिपनैः स्नेहस्तान्वेदैश्चपरिष्कृतान्॥ शोषयेच्छोधनैः काले यथासन्नं यथाबलं॥ इत्याशु युक्तं वक्रेण द्रव्यमामाशयान्मलान्॥ प्राणेन चोर्ध्वजत्रूत्थान् पक्वाधानाद्गुदेनच॥ उत्क्लिष्टानध ऊर्ध्वं वा न चामान्वहतः स्वयं॥ धारयेदौषधैर्दोषान्विधृतस्तेऽपि कुर्वते॥ रोगानुत्पादनिर्दिष्टानतिस्थौल्यादिकान् गदान्॥ प्रवृत्तान्प्रागतो दोषानुपेक्षेत हिताशिनः॥ विविधान् पाचनैस्तैस्तैः पाचयन्निर्हरेत वा॥ इति दोषोपक्रमणीयो नामैकविंशोऽध्यायः॥२१॥
अथातो रोगभेदीयमध्यायं व्याख्यास्यामः॥ सप्तविधाः खलु रोगा भवंति सहगर्भजातपीडाकालप्रभावस्वभावजाः॥ ते तु पृथक् द्विविधाः॥ तत्र सहजाः शुक्रार्तवदोषान्वयाः कुष्ठार्शोमेदादयः पितृजा मातृजाश्च॥ गर्भजा जनन्यपचारात्कौश्यपांगुल्यपैंगल्याकिलासादयोन्नरसजा दौहृदविमानजाश्च॥ जातजाः स्वापचारात्संतर्पणजा अपतर्पणजाच॥ पीडाकृताः क्षतभंगप्रहारक्रोधशोकभयादयः शारीरा मानसाश्च॥ कालजाः शीतादिकृता ज्वरादयो व्यापन्नजा असंरक्षणजाश्च॥ प्रभावजा देवगुरूल्लंघनशापाथर्वणादिकता ज्वरादयः पिशाचादयश्च॥ स्वभावजाः क्षुत्पिपासाजरादयः कालजा अकालजाश्च॥ तत्र कालजा रक्षणकृताः अरक्षणजा अकालजाः॥ तएते समासतः पुनर्द्विविधा भवंति प्रत्युत्पन्नकर्मजाः पूर्वकर्मजाश्च॥ तत्र रोगोत्पत्ति प्रत्युत्पन्नं कर्म यदनेनैव शरीरेण दृष्टमदृष्टं चोद्दिश्याप्तोपदिष्टानां विहितानां प्रतिषिद्धानामननुष्ठानमनुष्ठानं वा॥ जन्मांतरातीतेन तु पूर्वं॥ तत्तु पुनर्देवारव्यमुक्तं च नियतानियतभेदेन प्राक्॥ तस्मात् दृष्टहेतवः प्रत्युत्पन्नकर्मजाः॥ विपरीता दैवजन्मानः॥ अल्पनिदाना महारुजश्वोभयात्मकाः॥ तत्र यथास्वंप्रतिपक्षशीलनात् पूर्वेषां रोगाणामुपशमः॥ सत्येव विपक्षशीलने निर्दिष्टकर्मक्षयादेविकानां॥ दोषकर्मक्षयादन्येषां191॥ अन्ये पुनः प्रत्युत्पन्नं कर्म परकृतमपि वर्णयति॥ तच्चपराभिसंस्कारमाचक्षते॥ एवं चाहुः॥ यदि स्वयं कृतादेव कर्मणः कार्यनिर्वृत्तिः स्यात् न दृष्टं पुरुषांतरकृतात्किमिति विद्वानपि पराचरितयोरुपकारापकारयोः सुखदुःखानुरोधातोषरोषौ प्रतिकर्त्तव्यचिंतां वा प्रतिपद्यते॥ एवमेते व्याधयो द्विविधाः संतस्त्रिविधा जायते॥ततश्च दोषविशेषतो भूयः सप्तविधाः॥ सकलोऽपि चायं रोगसमूहः प्रतीकारवानायुर्वेदविहितमुपदेशमपेक्षते॥ यस्मान्नियतहेतुकोऽप्यामयः सम्यद्भिषगादेशानुष्ठानादुपात्तायुः संस्कारापरिक्षये सह्यवेदनां प्रतिपद्यते॥ अनुपक्रम्यमाणस्तु सर्व एव प्रायशो भनक्त्यकांडे॥ स्वयमपि च दैवान्निदानाल्पतया वा निवर्तमानः षोडशगुणममुदितक्रियोपलंभादाशुतरमपरिक्लिष्टस्य192 चापगच्छति॥ अनियतफलदायिनि तु दैवे हिताभ्यासरतस्यावकाशमेव न लभते व्याधिः॥ तस्मान्न कस्यांचिदवस्थायामात्मवान् हिताहितयोस्तुल्यदर्शी स्यात्॥ त्रिविधाश्च पुनर्व्याधयो मृदुमध्याधिमात्रभेदेन॥ तत्राल्पलक्षणा मृदवो मध्यलक्षणा मध्याः संपूर्णलक्षणास्त्वधिमात्राः॥ ते पुनः सुखसाध्यादिविशेषेण चतुर्विधाः प्रागुपदिष्ठाः॥ सुबहुशोऽपि च भिद्यमाना व्याधयो निजागंतुतां न व्यभिचरंति॥ तत्र निजास्तु दोषोत्थाः॥ तेषु पूर्व वातादयो वैषम्यमापद्यते ततो व्यथाऽभिनिर्वर्त्तते॥ बाह्यहेतुजास्त्वागंतवः॥ तेषु व्यथा पूर्वमुपजायते ततो दोषवैषम्यं॥ दोषवैपम्येणैव च बहुरूपा रुगनुबध्यते प्रवर्द्धते च॥ एवंच कृत्वा न दोषव्यतिरेकेण रोगानुबंधः॥ केवलं पौर्वापर्ये विशेषः॥ तस्मादेकाकाराएव रोगास्तथा रुक्सामान्यादसंख्यभेदा वा प्रत्येकं संमुत्थान193स्थानसंस्थांन194धर्म195नामवेदनाप्रभावोपक्रमविशेषात्ते यथास्थूलं यथास्वमेवोपदेक्ष्यते॥ असंख्येयत्वाच्चदोष लिंगैरेवरोगानुक्रमं च विभजेत्॥ दोषा एव हि सर्वरोगैककारणं॥ यथैव शकुनिः सर्वतः परिपतन् दिवसं स्वांछायां नातिवर्तते॥ यथा वा कृत्स्नं विकारजातं वैश्वरूप्येण व्यवस्थितं गुणत्रयमव्यतिरिच्य वर्तते॥ तथैवेदमपि कृत्स्नं विकारजातं दोषत्रयमिति॥ यथा च विद्युद्वर्षादयो नभसि भवंति न त्ववश्यं निमित्ततस्त्ववश्यमपि॥ तरंग बुडुदादयश्वांभसः॥ तथा दोषेषु रोगाः॥ त्रिविधं तु निमित्तमेषामसात्म्येंद्रियार्थसंयोगः प्रज्ञापराधः परिणामश्च॥ ते पुनः प्रत्येकमतियोगायोगमिथ्यायोगभेदात्रिविधा भिद्यंते॥ तत्र यथास्वंचक्षुरादींद्रियाणां रूपादिभिरर्थैरतिसंसर्गोऽतियोगः॥ अल्पशो नैव वा संसर्गस्त्वयोगः॥ सूक्ष्मातिदूरांतिकस्थातिभास्वद्भैरवाप्रियविकृतादिदर्शनं द्विष्टात्युच्चपरुषभीषणादिश्रवणं पूत्यमेध्यातितीक्ष्णोग्रप्रतिकूलाद्याघ्राणं स्वभावादिभिराहारकल्पनाविशेषायतनैरपथ्यानां रसानामभ्यवहारस्तथा स्नानादीनां शीतोष्णादीनां च स्पृश्यानामयथावदुपसेवनमशुचिभूताभिघातविषवातादिसंस्पर्शश्च मिथ्यायोगः॥ कायवाङ्मनो भेदेन तु त्रिविधमप्यहितं कर्म प्रज्ञापराधः॥तत्र कायादिकर्मणोऽतिप्रवृत्तिरतियोगः॥ अल्पशो नैव वा प्रवृत्तिरयोगः॥ वेगोदीरणधारण विषमांगचेष्टनस्खलन कंडूयनप्रहारप्राणायामादि तथा क्षुत्पिपासाऽर्द्ध भुक्तभाषणादि भयशोकेर्ष्यामात्सर्यादि दशविधं चाकुशलं कर्म यथास्वं मिथ्यायोगः॥ परिणामः पुनः कालउच्यते॥ सोऽपि शीतोष्णवर्षभेदात्रिधा तत्रातिमात्रस्वलक्षणः कालोऽतियोगः॥
हीनस्वलक्षणस्त्वयोगः॥विपरीतो मिथ्यायोगः॥ त एतेऽतियोगादयः सामान्यतोऽनुपशयलक्षणाः॥ सर्वो वा प्रज्ञापराधएवायं यदेषामविवर्जनं॥ अर्थकर्मकालाः पुनः सम्यग्योगेनोपशयाद्भूयिष्ठं स्वास्थ्यहेतवः॥ तत्रापि रसवर्जी विषया यथायथमिंद्रियं बाधते ऽनुगृण्हंति च शेषा रसकर्मकालास्तु सर्वं देहं॥ अपिच॥ सर्वभावानां भावाभावौ नांतरेण योगातियोगादीन् व्यवस्येत्॥ सर्वेषां पुनर्विकाराणां निदानदोषदृष्यविशेषेभ्यो भावाभावविशेषा भवंति॥ यदा ह्येते त्रयोनिदानादिविशेषान्नान्योन्यमनुबध्नंतीयद्वाऽनुबध्नंत्यबलावा न तदाऽभिनिवर्तते व्याधयश्चिराद्वाऽभिनिवर्तते तनवो वा भवंत्यसंपूर्णलिंगा वा॥ विपर्यये तु विपरीताः॥ त्रयश्चरोगाणां मार्गा बाह्यमध्याभ्यंतराः॥ तत्र बाह्यो रक्तादिधातवस्त्वक् स पुनः शाखाख्यः॥ तदाश्रयागंडपिटिकालज्यपचीचर्मकीलार्बुदाधिमांसमपत्यंगादयो बहिर्भागाश्चशोथार्शौगुल्मविसर्पविद्रध्यादयः॥ मध्यो मूर्द्धहृदयवस्त्यादीनि मर्माण्यस्थिसंधयः॥ तत्रोपनिबद्धाश्च स्नायुशिराकंडरादयः॥ तदाश्रयाः पक्षवधग्रहापतानकार्दितराजयक्ष्मास्थिसंधिशूलगुदभ्रंशादयो मूर्द्धादिरोगाश्च॥ आभ्यंतरो महास्रोतः शरीरमध्यं महानिम्नमामपक्वाशयाश्रयः कोष्ठोंऽतरिति पर्यायाः॥ तदाश्रया ज्वरातिसारच्छर्द्यलसकविसूचिकाश्वासकासहिध्माऽऽनाहोदरप्लीहादयोंऽतर्भागाश्च शोफार्शोविद्रधिगुल्मादयः॥ ते च रोगाः स्वप्रधाना भवत्यन्यपरिवारा वा कमादननुबंधानुबंधाख्याः॥ तत्राद्याः स्वतंत्राः स्पष्टाकृतयो यथास्वंसमुत्थानोपशयाश्च॥ इतरे तु तद्वीपरीताः॥ तद्वच्च दोषा अपि॥ तत्रान्यपरिवारा व्याधयो द्विविधाः पुरोगामिनोऽनुगामिनश्च॥ तेष्वाद्याः पूर्वरूपसंज्ञा उपद्रवास्त्वितरे॥ तान् यथायथमेव वक्ष्यमाणानुपलक्षयेत्॥ प्रधानप्रशमे प्रशमो भवति तेषां॥ अनुपशाम्यतो वा पश्चात्तानुपक्रमेत् त्वरितं वा बलवंतमुपद्रवं प्रधानाविरोधेन॥ स हि पीडाकरतरो भवति॥ व्याधिपरिक्लिष्टदेहत्वात्प्रमेहपीडकादिवत्॥ तथाऽन्यः प्रधानमेवरोगोऽन्यस्य हेतुर्भवति॥ यथा ज्वरो रक्तपित्तस्य रक्तपित्तं वा ज्वरस्य॥ तौ श्वासस्य॥ प्लीहा जठरस्य॥ तच्छूयथोः॥ अर्षांसिगुल्मोदरातिसारग्रहणीनां॥ प्रतिश्यायः कासज्वरयोः॥ तौ क्षयस्य॥ क्षयः शोषस्य॥ एकश्चापचारो निमित्तमेकस्य व्याधेः॥ बहूनां च तथा बहवः॥ तद्वदेकं लिंगं॥ एवमेव प्रशमेऽभ्युपायः॥ तथा स एवान्यस्य प्रकोपे॥ तस्मात्तानवहितः सम्यगागमादिभिः परीक्षेत॥ तत्रागमतो रोगमेवमेवंप्रकोपन मेवयोनिमेषमात्मानमेवमधिष्ठानमेवंवेदनमेवंरूपशब्दगंधरसस्पर्शमेवंपूर्वरूपमेव-मुपद्रवमेवंवृद्धिस्थानक्षयान्वितमेवमुदर्कमेवनामानं॥ तस्मिन्नियं प्रतीकारस्य प्रवृत्तिरन्यथा निवृत्तिः॥ प्रत्यक्षतस्त्वातुरस्य यथास्वमिंद्रियैर्वर्णसंस्थानप्रमाणोपचयच्छायाविण्मूत्रछर्दिनाधिक्यमंत्रकूजनमंगुल्यादिसंधिस्फुटनं देहशकद्व्रणादिगंध सुप्तशीतोष्णस्तंभसंस्पंदश्लक्ष्णरवरस्पर्श च॥ प्रकृतिविकृतिमुक्तमास्यरसं196 तु प्रश्नेन तथा सुच्छर्ददुश्च्छर्दत्वं मृदुक्रूर कोष्ठतां स्वमदर्शनमभिप्रायं जन्मामपवृत्तिनक्षत्रद्विष्टेष्ट सुखदुःखानिच॥ तथा वयः प्रत्यक्षेण च॥ अनुमानतस्तु यूकापसर्पणेन शरीरस्य वैरस्यं॥ मक्षिकोपसर्पणेन माधुर्यं॥ तथाऽग्निं जरणशक्त्या वलं व्यायामशक्त्या गूढलिंगं व्याधिषुपशयानुपशयतो दोषप्रमाणमुपचारविशेषेणायुषः क्षयं रिष्टैः प्रकृति सत्वसारसात्य्यबलान्यनुशीलनेनेति॥ भवति चात्र॥ ज्ञानबुद्धिप्रदीपेन योनाविशति योगिवत्॥ आतुरस्यांतरात्मानं न स रोगांश्चिकित्सति॥ द्वाविमौ व्याधितौ व्याधिस्वरूपस्याप्रकाशकौ॥ तद्यथैको गुरुव्याधिः सत्यदेहबलाश्रयात्॥ लघुव्याधिवदाभाति लघुव्याधिस्ततोऽन्यथा॥बाह्यावयवमात्रेण तयोर्मुह्यति बालिशः॥ ततोऽल्पमरूपवीर्यं वा विपरीतमतोऽथवा॥ पथ्यं विपर्यये युंजन् प्राणान्मुष्णाति रोगिणां॥ ज्ञानांशेन न हि ज्ञानं कृत्स्ने ज्ञेये प्रवर्तते॥ बुभुत्सेत भिषक् तस्मात्तत्वं तंत्रानुशीलनात्॥ अभियुक्तस्तु सततं सर्वमालोच्य सर्वथा॥ न जातु स्खलति प्राज्ञो विषमेऽपि क्रियापथे॥ आगंतुरन्वेति निजं विकारं निजस्तथाऽऽगंतुमतिप्रवृद्धं॥ तत्रानुबंध प्रकृतिं च सम्यक् ज्ञात्वा ततः कर्म समारभेत॥॥ इति रोगभेदीयो नाम द्वाविंशोऽध्यायः॥२२॥
अथातो भेषजावचारणीयमध्यायं व्याख्यास्यामः॥ भेषजमवचारयन् प्रागेव तावदेवमातुरं परीक्षेत॥ कस्मिन्नयं देशे जातः संवृद्धो व्याधितो वा॥ तस्मिंश्चदेशे मनुष्याणामिदमाहारजातमिदंविहारजातमेतावद्बलमेवंविधंसत्त्वमेवंविधंसात्म्यमि-यंभक्तिरिमेव्याधयो हितमिदमहितमिदमिति॥ प्रायो ग्रहणेन केन वा निदान विशेषेणास्य कुपितो दोषो दोषस्य ह्येकस्यापि बहवः प्रकोपे हेतवः॥ तस्माद्यथासलक्षणैः कर्मभिश्च बुत्ध्याऽपि दोषमेवमवगमयेत्॥ तद्यथा॥ किमाहारेण कुपितो वायुः किं विहारेण तथा रुक्षेण लघुना शिशिरेण वा साहसेन वेगरोधेन वा भयेन शोकेनवेति॥ ततश्च तत्प्रतिपक्षमेवौषधं प्रयुज्यमानमाशु सिद्धये संपद्यते॥ तत्र मधुराम्ललवणा रसाः कटुतिक्तकषायाश्वेतरेतरप्रतिपक्षाः॥ तदनंतरं चोपलभेत मृदुमध्यातिमात्रविकल्पनया कथं निदानमासेवितं॥एकरूपस्यापि हि हेतोर्मृद्वादिविभागेन पृथक्समवेतानां च दोषाणामंशांशबलविकल्पविशेषाद्याधेर्बलाबलविशेषः॥ तत्रानेकदोषात्मकेषु व्याधिष्वनेकरसेषु च भेषजेषु रसदोषप्रभावमेकैकशोऽभिसमीक्ष्य व्याधिभेषजप्रभावतत्त्वं व्यवस्येत॥ नत्वेवं सर्वत्र॥ नहि विषमविकृतिसमवेतानां नानात्मकानां परस्पेरणोपगृहीतानामुपहतानां चान्यैश्व विकल्पनैर्विकल्पितानामवयवप्रभावानुमानेन समुदायप्रभाव-तत्त्वमध्यवसितुं शक्यं॥ तथाविधे हि समुदये197 समुदयप्रभावमेवोपलभ्य व्याध्यौषधप्रभावतत्वमवगच्छेत्॥ तथा कस्य धामाधिष्ठाय व्याधिरयमवस्थित इति निरूपयेत्॥ प्रविसृतो हि दोषः स्वमेव स्थानमा तंकायावितिष्ठन् मूर्द्धादीन्वा दुस्तरो भवति॥ ततश्च स्थानविशेषेण भेषजविशेषः पर्येषितव्यः॥ ततश्चैवमालोचयेत्॥ कस्यायमौषधस्य व्याधिरातुरो वा योग्यः कियतो वा दोषानुरूपो हि भैषज्यवीर्यप्रमाणविकल्पो व्याधिव्याधितबलापेक्षो भवति॥ सहसाऽतिबलानि संशोधनौषधान्याग्नेयवायव्यान्यतिसौम्यान्यतिमात्राणि वा तथाऽनिक्षारशस्त्रकर्माण्यल्पसत्त्वमा-तुरमल्पबलं वाऽतिपातयेयुः॥ संशमनानि तु व्याधिबलाधिकानि तमुपशमय्य व्याधिं व्याधिक्षपिते देहे शीघ्रमन्यमावहंति॥शरीरबलादधिकानि ग्लानिमूर्च्छामदमोह लक्षयानग्निबलादधिकानि ग्लानिमग्निसादं च॥ अपिच॥ अतिस्थूलोऽ तिरुशो दुर्बलो दुर्बद्धमांसशोणितास्थ्यंगावयवोऽल्पाभिरल्पाहारोऽसात्म्याहारोपचितः साररहितो वा व्याधिबलमेव तावदसमर्थः सोढुं किं पुनस्तथाविधो भेषजमेवंवेगं198॥ तस्मात्तादृशमविषादकरैर्मृदुमुखैरुत्तरोत्तरगुरुभिरविभ्रमैश्वो पाचरेदौषधैर्विशेषादबलाः199॥ तानवस्थितमृदुविक्लवहृदयाः प्रायः सुकुमाराः परं संस्तभ्याश्च॥ ततोऽपि विशेषेण शिशवः॥ तथा बलवति बलवद्व्याध्यातुरेऽल्पबलमल्पं वा भेषजमकिंचित्करं भूय एव दोषमुत्क्लेश्य व्याधिमुदीरयेत्॥ योग्यमपि चौषधमेवं परीक्षेत॥ इदमेवंरसवीर्यविपाकमेवं गुणमेवं द्रव्यमेवं कर्मैवं प्रभावमस्मिन्देशे जातमस्मिन्नृतावेवंगृहीतमेवंनिहितमेवंविहितमेवं निषिद्धमेवमुपसंस्कृतमेवंसंयुक्तमेवं युक्तमनया मात्रयैवंविधस्य पुरुषस्यैवंविधे काल एतावदोषमपकर्षत्युपशमयति वा॥ अन्यदपि चैवंविधं भेषजमभूत्। तथा तेनानेन वा विशेषेण प्रयुक्तमिदमकरोत्॥सूक्ष्माणि हि दोषौषधदूष्यदेशकालबलानलाहारसारसात्म्यसत्वप्रकृतिवयसामवस्थांतराणि मान्यनालोचितानि निहन्युरातुरं आलोच्यमानानि तु विपुलबुद्धिमपि चिकित्सकमाकुलीकुर्युः किंपुनरल्पबुद्धिं॥ तस्मादभीक्ष्णशः शास्त्रार्थकर्मानुशीलनेन संस्कुर्वीत प्रज्ञां॥ अपिच॥ संति व्याधयो ये शास्त्र उत्सर्गापवादैरुपक्रमं प्रति निर्दिष्टाः॥ तत्र प्राज्ञएव200 दोषादिगुरुलाघवेन सम्यगध्यवस्येदन्यतरनिष्ठायां॥ कालश्च भेषजस्य योग्यतामादधाति॥ सतु क्षणलवमुहूर्तादिभेदेनातुरावस्थया च द्विधोक्तः प्राक्॥ अपिच॥ शीतोष्णवर्षलक्षणस्त्रिविधः कालः॥ तत्र शीतोष्णयोवृष्टिशीतयोश्चांतरेण साधारणी वसंतजलदात्ययौ \।\। ग्रीष्मवर्षकालयोस्तु प्रारंभो दृष्टेः प्रावृडिति विकल्प्यंते॥ प्राक्तत्र शीतोष्णवर्षलक्षणा ऋतवस्त्रयो हेमंतग्रीष्मवर्षाव्यास्तेषामंतरे संशोधनार्थं साधारणा वसंतप्रावृट्शरदारव्यास्त्रयो विकल्प्यंते॥तत्र संशोधनं प्रति फाल्गुनचैत्रौ वसंतः॥ आषाढ श्रावणौ प्रावृट्॥ कार्तिक मार्गशीर्षौ शरत्॥ तेषु साधारणेष्वहस्तु वमनादीनां प्रवृत्तिर्निवृत्तिरितरेष्वयोगातियोगभयात्॥ साधारणा हि मंदशीतोष्णवर्षतया सुखत्वाद्भवत्यविकल्पकाः शरीरौषधानां विपरीतास्त्वितरे॥ तथाहि॥ शीतकालेऽतिमात्रशीतोपहतत्वाच्छरीरम त्यर्थशीतवातविष्टब्धबद्धगुरुदोषं भवति॥ तदनुप्राप्तं च भेषजं संशोधनार्थमुष्णस्वभावमपि शीतोपहतत्वान्मंदवीर्यतां गतमयोगाय जायते॥शिशिरं च वातप्रायोपद्रवाय॥ तद्वद्वर्षा स्वपि समंतादतिघनेन घनसंघातेनावनते नभस्युपरुद्धतेजःप्रकरेषु दिनकरकरेषु जलदपटलप्लावनोद्दामकर्दमायां भूमावत्यर्थोपक्लिन्नमवसन्नानलमलमुद्रिक्तमलबलमादान दुर्बलं शरीरं भवति॥औषधग्रामस्तु जलदोदरमतत्प्रमुक्तधारावपातसंभृतांबु निवहोपलावितमूलजालसारविटपो बहलकोमलपल्लवोपचितस्कंधशाखः पुनरिव बालतामुपगतोऽल्पवीर्यो भवति॥अपरिभावतत्वमवगच्छेत्॥ तथा कस्य धामाधिष्ठाय व्याधिरयमवस्थित इति निरूपयेत्॥ प्रविसृतो हि दोषः स्वमेव स्थानमा तंकायावितिष्ठन् मूर्द्धादीन्वा दुस्तरो भवति॥ ततश्च स्थानविशेषेण भेषजविशेषः पर्येषितव्यः॥ ततश्चैवमालोचयेत्॥ कस्यायमौषधस्य व्याधिरातुरो वा योग्यः कियतो वा दोषानुरूपो हि भैषज्यवीर्यप्रमाणविकल्पो व्याधिव्याधितबलापेक्षो भवति॥ सहसाऽतिबलानि संशोधनौषधान्याग्नेयवायव्यान्यतिसौम्यान्यतिमात्राणि वा तथाऽनिक्षारशस्त्रकर्माण्यल्पसत्त्वमातुरमल्पबलं वाऽतिपातयेयुः॥ संशमनानि तु व्याधिबलाधिकानि तमुपशमय्य व्याधिं व्याधिक्षपिते देहे शीघ्रमन्यमावहंति॥शरीरबलादधिकानि ग्लानिमूर्च्छामदमोह लक्षयानग्निबलादधिकानि ग्लानिमग्निसादं च॥ अपिच॥ अतिस्थूलोऽतिरुशो दुर्बलो दुर्बद्धमांसशोणितास्थ्यंगावयवोऽल्पाभिरल्पाहारोऽसात्म्याहारोपचितः साररहितो वा व्याधिबलमेव तावदसमर्थः सोढुं किं पुनस्तथाविधो भेषजमेवंवेगं198॥ तस्मात्तादृशमविषादकरैर्मृदुमुखैरुत्तरोत्तरगुरुभिरविभ्रमैश्वो पाचरेदौषधैर्विशेषादबलाः199॥ तानवस्थितमृदुविक्लवहृदयाः प्रायः सुकुमाराः परं संस्तभ्याश्च॥ ततोऽपि विशेषेण शिशवः॥ तथा बलवति बलवद्व्याध्यातुरेऽल्पबलमल्पं वा भेषजमकिंचित्करं भूय एव दोषमुत्क्लेश्य व्याधिमुदीरयेत्॥ योग्यमपि चौषधमेवं परीक्षेत॥ इदमेवंरसवीर्यविपाकमेवं गुणमेवं द्रव्यमेवं कर्मैवं प्रभावमस्मिन्देशे जातमस्मिन्नृतावेवंगृहीतमेवंनिहितमेवंविहितमेवं निषिद्धमेवमुपसंस्कृतमेवंसंयुक्तमेवं युक्तमनया मात्रयैवंविधस्य पुरुषस्यैवंविधे काल एतावदोषमपकर्षत्युपशमयति वा॥ अन्यदपि चैवंविधं भेषजमभूत्॥तथा तेनानेन वा विशेषेण प्रयुक्तमिदमकरोत्॥सूक्ष्माणि हि दोषौषधदूष्यदेशकालबलानलाहारसारसात्म्यसत्वप्रकृतिवयसामवस्थांतराणि मान्यनालोचितानि निहन्युरातुरं आलोच्यमानानि तु विपुलबुद्धिमपि चिकित्सकमाकुलीकुर्युः किंपुनरल्पबुद्धिं॥ तस्मादभीक्ष्णशः शास्त्रार्थकर्मानुशीलनेन संस्कुर्वीत प्रज्ञां॥ अपिच॥ संति व्याधयो ये शास्त्र उत्सर्गापवादैरुपक्रमं प्रति निर्दिष्टाः॥ तत्र प्राज्ञएव200 दोषादिगुरुलाघवेन सम्यगध्यवस्येदन्यतरनिष्ठायां॥ कालश्च भेषजस्य योग्यतामादधाति॥ सतु क्षणलवमुहूर्तादिभेदेनातुरावस्थया च द्विधोक्तः प्राक्॥ अपिच॥ शीतोष्णवर्षलक्षणस्त्रिविधः कालः॥ तत्र शीतोष्णयोवृष्टिशीतयोश्चांतरेण साधारणी वसंतजलदात्ययौ॥ ग्रीष्मवर्षकालयोस्तु प्रारंभो दृष्टेः प्रावृडिति विकल्प्यंते॥ प्राक्तत्र शीतोष्णवर्षलक्षणा ऋतवस्त्रयो हेमंतग्रीष्मवर्षाव्यास्तेषामंतरे संशोधनार्थं साधारणा वसंतप्रावृट्शरदारव्यास्त्रयो विकल्प्यंते॥तत्र संशोधनं प्रति फाल्गुनचैत्रौ वसंतः॥ आषाढ श्रावणौ प्रावृट्॥ कार्तिक मार्गशीर्षौ शरत्॥ तेषु साधारणेष्वहस्तु वमनादीनां प्रवृत्तिर्निवृत्तिरितरेष्वयोगातियोगभयात्॥ साधारणा हि मंदशीतोष्णवर्षतया सुखत्वाद्भवत्यविकल्पकाः शरीरौषधानां विपरीतास्त्वितरे॥ तथाहि॥ शीतकालेऽतिमात्रशीतोपहतत्वाच्छरीरम त्यर्थशीतवातविष्टब्धबद्धगुरुदोषं भवति॥ तदनुप्राप्तं च भेषजं संशोधनार्थमुष्णस्वभावमपि शीतोपहतत्वान्मंदवीर्यतां गतमयोगाय जायते॥शिशिरं च वातप्रायोपद्रवाय॥ तद्वद्वर्षा स्वपि समंतादतिघनेन घनसंघातेनावनते नभस्युपरुद्धतेजःप्रकरेषु दिनकरकरेषु जलदपटलप्लावनोद्दामकर्दमायां भूमावत्यर्थोपक्लिन्नमवसन्नानलमलमुद्रिक्तमलबलमादान दुर्बलं शरीरं भवति॥औषधग्रामस्तु जलदोदरमतत्प्रमुक्तधारावपातसंभृतांबु निवहोपलावितमूलजालसारविटपो बहलकोमलपल्लवोपचितस्कंधशाखः पुनरिव बालतामुपगतोऽल्पवीर्यो भवति॥अपरि
संस्थिततया च क्षितिमलप्रायाभिरम्लविपाकाभिः खगमृगसरीसृपादिशवधातुमूत्रपुरीषसंस्पृष्टाभिरद्भिः सलिलसीकरानुविद्धशिशिरपवनसंपृक्तेन च धराधरोष्मणा कोमलत्वादपरिणतस्यास्य सुतरां विदाहो जन्यते॥ ततश्चासावपथ्यतामुपगतो ध्रुवमयोगाय॥ प्रथमसंगृहीतमपि चौषधं तोयदतोयानुगतमारुतोपहते जगतीति॥ ग्रीष्मे पुनरादानोपहतत्वाच्छरीरमुष्णरूक्षवातातपाध्मात201मतिस्विन्नमतिशिथिलमतिप्रविलीन दोषं भवति॥ भेषजं पुनरनुष्णमपि तपनतरतपनकरनिपातादुष्णवीर्यतीक्ष्णतामुपगतमतियोगायोपकल्पते॥ शरीरं च पिपासाश्रममोपद्रवाय॥ तस्मात्साधारणेष्वेव तदंतरालेषु वमनादीनि योजयेत्॥ न चेदात्ययिको व्याधिः॥ आत्यधिके तु कृत्रिमगुणोपधानेनयथर्तुगुणविपरीतेन संयोगसंस्कारप्रमाणविकल्पैश्वोपपाद्यौषधमवहितोऽवचारयेत्॥ आतुरावस्थासु तु कालाकालसंज्ञा॥ तद्यथा॥ अस्यामवस्थायामस्यौषधस्य कालो कालो वा॥ न प्राप्तातीत- कालमौषधं यौगिकं भवति तस्यत्वेकादशधाऽवचारणं॥ तद्यथा॥ अभक्तं प्राग्भक्तं मध्यभक्तमधोभक्तं समभक्तमंतरभक्तं सामुद्रं मुहुर्मुहुः सग्रासं ग्रासांतरं निशि च॥ तत्राभक्तं नाम केवलमेवौषधं॥ तन्निरन्नोपयोगादतिवीर्यंकफोद्रेके विमुक्तामाशयस्रोताः प्रातर्बलवा्नुपयुंजीत॥ इतरस्तु प्राग्भक्तादिकं॥ अन्नसंसर्गेण हि तन्नातिग्लानिकरं भवति॥ प्राग्भक्तं नाम यदनंतरभक्तं॥ तदपानानिलविकृतावधः कायस्य च बलाधानार्थं तद्गतेषु च व्याधिषु प्रशमनाय कृशीकरणं च योज्यं॥ मध्यभक्तं मध्ये भक्तस्य तत्समाना निलविरुतौ कोष्ठगतेषु च व्याधिषु पैत्तिकेषु च॥अधोभक्तं भक्तादनंतरं॥ तत्तु व्यानविकृतौ प्रातराशांतमुदानविकृतौ पुनः सायमाशांतं पूर्वकायस्य च बलाधानार्थं तद्गतेषु व्याधिषु च श्लैष्मिकेषु
च प्रशमाय स्थूलीकरणं च॥ समभक्तं यदन्नेन समं साधितं पश्वाद्वा समालोडितं॥ तद्बालेषु सुकुमारेष्वौषधद्वेषिष्वरुचौ सर्वांगेषु॥ अंतरभक्तं यत्पूर्वाह्णभक्तेजीर्णे मध्याह्नेभेषजमुपयुज्यते तस्मिंश्च जीर्णे पुनरपराह्णेभोजनं॥ एतेन रात्रिर्व्याख्याता॥ तद्दिप्ताग्नेर्व्यानजेष्यामयेषु॥ सामुद्रंयदादावंते च भुक्तस्य॥ तत्तु लघ्वन्नपानयुक्तं पाननावनावलेहादि हिमायां कंपाक्षेपयोरूर्ध्वाधः संश्रयेच दोषे॥ मुहुर्मुहुस्तु पुनः पुनर्भुक्ते यदभुक्ते वा॥ तच्छासकासहिध्मातृछर्दिषु विषनिमित्तेषु च बिकारेषु॥ सग्रासं यद्वाससंपृक्तं॥ग्रासांतरं यद्वासयोर्ग्रासयोर्मध्ये॥ इयमप्येतत्प्राणानिलविरुतौ॥ तथा सग्रासं चूर्णलेहबटकादिकमग्निदीपनं वाजीकरणानि त्रोपयुंजीत॥ ग्रासांतरं हृद्रोगे वमनं धूमं च॥ जत्रूर्ध्वामयेषु तु निशायां॥ अत्राद्ये काले तृपितः पीतांबरजीर्णी क्षुधितः क्षामश्च भेषजं वर्जयेत्॥ शेषेषु चाद्यमसात्म्यमतितीक्ष्णोग्रगंधं भूरिमात्रं चेति॥ भवति चात्र॥ रोगमादौ परीक्षेत तदनंतरमौषधं॥ ततः कर्म भिषक् पञ्चाज्ज्ञानपूर्व समाचरेत्॥ निवृत्तोऽपि पुनर्व्याधिरल्पेनायाति हेतुना॥ देहे मार्गीकृतेदोषशेषः सूक्ष्म इवानलः॥ तस्मात्तमनुबध्नीयात्प्रयोगेणानपायिना॥ सिद्धानामपि योगानां पूर्वेषां दार्ढ्यमावहन्॥सातत्यात्स्वाद्वभावाद्वा पथ्यं द्वेष्यत्वमागतं॥ कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत्पुनः॥ मनसोऽर्थानुकूल्येन तुष्टिरुर्जा रुचिर्बलं॥ सुखोपभोगता च स्याद्व्यादेश्वातः परिक्षयः॥ लौल्याद्दोषक्षयाद्व्याधिवैषम्येण च या रुचिः॥ तासु पथ्योपचारज्ञो योगेनान्नं प्रकल्पयेत्॥ शीतोष्णवर्षानिचितं चैत्र श्रावणकार्तिके॥ क्रमात्साधारणे श्लेष्मवातपित्तं हरेदृतं॥ प्रावृट्शरद्वसंतानां मासेष्वेतेषु वाऽऽहरेत्॥ साधारणेषु विधिना त्रिमासांतरितान्मलान्॥ कृत्वा शीतोष्णदृष्टीनां प्रतीकारं
यथायथं॥ प्रयोजयेक्रियां प्राप्तां क्रियाकालं न हापयेत्॥ समाहे नगुणालाभे क्रियामन्यां प्रयोजयेत्॥ पूर्वस्यां शांतवेगायां न क्रियासंकरो हितः॥ गुणेऽल्पेऽपि तु तामेव विशेषोत्कर्षलब्धये॥ भेषजं नृपतेर्हृद्यमल्पमल्पात्ययं शुचि॥ सिद्धागमं बहुगुणं बहुकृत्वः प्रयोजितं॥ अनन्यकार्योऽवहितस्तन्मंत्रिगुरुसंमतं॥ आस्वादितं परिचरैः स्वयंचानु प्रयोजयेत्॥ उचितो यस्य यो देशस्तज्जं तस्यौषधं हितं॥ देशेऽन्यत्रापि वसतस्तत्तुल्यगुणजन्म च॥ वीर्यवद्भावितं सम्यक्स्वरसैरसकृल्लघु॥ रसगंधादिसंपन्नंकाले जीर्णं च मात्रया॥ एकाग्रमनसा युक्तं भैषज्यममृतायते॥ इति भेषजावचारणीयो नाम त्रयोविंशोऽध्यायः॥२३॥
अथातो द्विविधोपक्रमणीयमध्यायं व्याख्यास्यामः॥ उपक्रम्यस्य हि द्वित्वाद्विधैवोपक्रमो मतः॥ एकः संतर्पणस्तत्र द्वितीयश्वापतर्पणः॥ बृंहणो लंघनश्चेति तत्पर्यायावुदाहृतौ॥बृंहणं यद्बृहत्वाय लंघनं लाघवाय यत्॥ देहस्य भवतः प्रायो भोमाप्यमितरच्चते॥ स्नेहनं रूक्षणं कर्म वेदनं स्तंभनं च यत्॥ भूतानां तदपि द्वैध्याद्वितयं नातिवर्तते॥ शोधनं शमनं चेति द्विधा तत्रापि लंघनं॥ यदीरयेद्बहिर्दोषान्॥ पंचधा शोधनं तु तत्॥ निरूहो वमनं कायशिरोरेकोऽस्त्रविस्रुतिः॥ न शोधयति यद्दोषान्समान्नोदीरयत्यपि॥ समीकरोति विषमान् शमनं तच सप्तधा॥ पाचनं दीपनं क्षुत्तृङ्व्यायामातपमारुताः॥ बृंहणं शमनं त्वेव वायोः पित्तानिलस्य च । बृंहयेद्व्याधिभैषज्यमद्यस्त्रीशोककर्शितान्॥ क्षाराध्वोरः क्षतक्षीणरूक्षदुर्बलवातलान्॥ गर्भिणी सूतिकाबालवृद्धान् ग्रीष्मेऽपरानपि॥ मांसक्षीरसितासर्पिर्मधुरस्निग्धबस्तिभिः॥स्वमशय्यासुखाभ्यंगस्नाननिर्वृतिहर्षणैः॥ मेहामदोषातिस्निग्धज्वरोरुस्तंभकुष्ठिनः॥ विसर्पविद्रधिप्लीहशिरःकंठा क्षिरोगिणः॥ स्थूलांश्च लंघयेन्नित्यं शिशिरेत्वपरानपि॥तत्र संशोधनैः स्थौल्यब
लपित्तकफाधिकान्॥ आमदोषज्वरच्छर्दिरतीसारहृदामयैः॥ विबंधगौरवोद्गारहृल्लासादिभिरातुरान्॥ मध्यस्थौल्यादिकान् प्रायः पूर्वं पाचनदीपनैः॥ एभिरेवामयैरार्तान् हीनस्थौल्यबलादिकान्॥ क्षुत्तृष्णानिग्रहैर्दोषैस्त्वार्तान्मध्यबलैर्दृढान्॥ समीरणातपायासैः किमुताल्पबलैर्नरान्॥ न बृंहयेल्लंघनीयान् ह्यांश्व मृदु लंघयेत्॥ युक्तया या देशकालादिबलतस्तानुपाचरेत्॥ हिते स्याद्बलं पुष्टिस्तत्साध्यामयसंक्षयः॥ विमलेंद्रियता सर्गो मलानां लाघवं रुचिः॥ क्षुत्तृट्संहोदयः शुद्धहृदयोद्गारकंठता॥ व्याधिमार्दवमुत्साहस्तंद्रानाशश्च लंघिते॥ अनपेक्षितमात्रादिसेविते कुरुतस्तु ते॥ अतिस्थौल्यातिकाश्र्यादीन् वक्ष्यंते ते च सौषधाः॥ रूपं तैरेव विज्ञेयमतिबृंहितलंघिते॥तत्र शोधनमुद्दिश्य स्थौल्याद्याः प्रागुदाहृताः॥ गुर्वादिवृद्धसंलीनश्लेष्ममिश्रोऽन्नजो रसः॥ आमएव श्लथीकुर्वन् धातून्स्थौल्यमुपानयेत्॥ अतिस्थौल्यादनिक्षुत्तृट्स्वेदश्वासनिद्रताः॥ आयासाक्षमताजाड्यमल्पायुर्बलवेगता॥दौर्गन्ध्यंगद्गदत्वं च भवेन्मेदोतिपुष्टितः॥ स्रोतःसु मेदोरुद्धेषु वायुः कोष्ठे विशेषतः॥चरन्प्रज्वलयत्यग्निं क्षुत्तृषौ स्तस्ततोऽधिकं॥ स्थूलं कोटरवद्वृद्धौदहतोऽग्न्यनिलौ च तं॥ स्वेदवाहिसिरामूलभवाद्विष्यंदनादपि॥मेदसः श्लेष्मयोगाच्च भवति स्वेदभूरिता॥कोष्ठ एव विपक्वेऽस्यसंरुद्धस्रोतसो रसे॥ सर्वत्रालब्धवृत्तित्वात्प्रायो मेदः प्रचीयते॥ तच्छेषोऽल्परसोऽल्पत्वान्नालं रक्तादिष्टये॥ तुल्येऽपि वाय्वादिचये प्राक्कचितं चीयते तरां॥ मेदस्तेनासमत्वेन धातूनां विदधाति तत्॥।श्वासादीनचिराच्चान्यानूज्वरोदरभगंदराम्॥मेहोरुस्तंभपिटकाविद्रधिप्रभृतीन् गदान्॥ अयथोपचयोत्साहवलस्फिगुदरस्तनः॥ अतिस्थूलः स्मृतो योज्यं तत्रान्नंमारुतापहं॥ श्लेष्ममेदोहरं यच्च कुलत्था यवका यवाः॥ जूर्णश्यामाकमुद्गाद्याः पानेऽरिष्टो मधूदकं॥ मस्तु तकं च तीक्ष्णोष्णं रुक्षं छेदि च भेषजं॥ चिंतान्यवायव्यायामशोधनास्वपनं भजेत्॥ देहापेक्षी तथा रुक्षं स्नानमुद्वर्तनादि च॥ मधुना त्रिफलां लिह्याद्गुडूचीक्षयां घनं॥ रसांजनस्य महतः पंचमूलस्य गुग्गुलोः॥ शिलाजतोः प्रयोगश्व साग्निमंथरसो हितः॥ विडंगं नागरं क्षारः काललोहरजो मधु॥यवामलकचूर्णं च योगोऽतिस्थौल्यदोषजित्॥ मदनं त्रिफलामूस्तसप्ताव्हारिष्टमस्तुकं202॥ सपाठारग्वधं पीतमतिबृंहणरोगजित्॥ तद्वद्वत्सकशम्याकदेवदारुनिशाद्वयं॥ समुस्तपाठाखदिरत्रिफलानिंबगोक्षुरं॥ एलावृषभषङ्ग्रंथाखराश्वोपलभेदकं॥ तत्रेण दधिमंडेन पीतं कोलरसेन वा॥ मूत्रकृच्छ्रे कृमीन्मेहं स्थूलतां च व्यपोहति॥ कृमिघ्नत्रिफलातैलसत्कुत्र्यूषणदीप्यकैः॥ लोहोदकाप्लुतो मंथः शस्तो बृंहणरोगिणां॥ व्योषकट्वीवराशिग्रुविडंगातिविषास्थिराः॥ हिंगुसौवर्चलाजाजीयवानीधान्यचित्रकाः॥ निशे बृहत्यौ हपुषा पाठा मूलं च केंबुकात्॥ एषां चूर्ण मधुघृतं तैलं च सदृशांशकं॥ सक्तुभिः षोडशगुणैर्युक्तं पीतं निहंति तत्॥ अतिस्थौल्यादिकान्सर्वान् रोगानन्यांश्च तद्विधान्॥ हृद्रोगकामलाश्वित्रश्वासकासगलग्रहान्॥ बुद्धिमेधास्मृतिकरं सन्नस्याग्मेश्व दीपनं॥ योज्यं तथा यथा व्याधिः स्वेदासृकस्रावणान्यपि॥ अतिकार्श्यंभ्रमकासस्तृष्णाधिक्यमरोचकः॥ स्नेहाभिनिद्रादृक्श्रोत्रशुक्रौजः क्षुत्वरक्षयः॥ बस्तिरुड्यूर्द्धजंघोरुत्रिकपार्श्वरुजा ज्वरः॥ प्रलापोर्ध्वानिलग्लानिच्छर्दिपर्वास्थिभेदनं॥ वर्चोमूत्रग्रहाद्याश्च जायंते ऽतिविलंघनात्॥ अतिकार्श्येन नायासवर्षशीतोष्णक्षुत्तृषः॥ तृप्तिव्याध्यौषाधमदान् सहतेऽल्पबलत्वतः॥श्वासकासक्षयल्पी्हगुल्माशयन्हिमंदताः॥ कृशं प्रायश्च धावंति रक्तपित्तज्वरामयाः॥ कार्श्यमेव वरं स्थोल्यान्न हि स्थौल्यस्य भेषजं॥ बृंहणं लंघनं नालमतिमेदोग्निवातजित्॥ मधुरस्निग्धसौहित्यैर्यत्सौख्येन च नश्यति॥ क्रशिमा स्थविमाऽत्यंतविपरीतनिषेवणैः॥ शुष्क स्फिगुदरग्रीवः स्थूलपर्वा सिराततः॥ उच्यते ऽतिशस्तत्र प्रागुक्तो बृंहणो विधिः॥ अश्वगंधाविदार्याद्या वृष्याश्वौषधयो हिताः॥ अचिंतया हर्षणेन ध्रुवं संतर्पणेनं च॥ स्वप्नप्रसंगाच्च कृशो वराह इव पुष्यति॥ लंघनोत्थेषु रोगेषु शेषेष्वप्युपकल्पयेत्॥ यत्तदात्वे समर्थं स्थायच्चाभ्यासेन पुष्टये॥ सद्यःक्षीणो यतः सद्यो बृंहणेनोपचीयते॥ चिरं क्रमेण च क्षीणस्तदाभ्यासेन तत्र च॥ बृंहणं तत्र मात्राग्निबलादीन्वीक्ष्य योजयेत्॥ नहि मांससमं किंचिदन्यदेहबृहत्वकृत्॥ मांसादमांसं मांसेन संभृतत्वाद्विशेषतः॥ क्रव्यान्मांसरसांस्तस्माद्दकलावणिकाल्ँलघून्॥ वेसवारीकृतैस्तद्वज्जांगलैश्चकृताकृतान्॥ रसांस्तथा च क्षीरादींस्तर्पणांस्तर्पणान्पुनः॥युंज्यात्कृशानां ज्वरिणां कासिनां मूत्रकृच्छ्रिणां॥ तृष्यतामूर्ध्ववातानां मूढमारुतवर्चसां॥ समकृष्णासितालक्षौद्राज्यो हि सतर्पणः॥ मंथस्तद्वत्सिताक्षौद्रमदिरासक्तुयोजितः॥ फाणितं सक्तवः सर्पिर्दधिमंडोऽम्लकांजिकं॥ तर्पणं मूत्रकृच्छ्रघ्नमुदावर्तहरं परं॥ मंथः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः॥ परूषकैः सामलकैः सद्यस्तृष्णार्तिरोगजित्॥ स्वादुरम्लो जलकृतः सस्नेहो रुक्ष एव च॥ सद्यः संतर्पणो मंथः स्थैर्यवर्णबलप्रदः॥ गुरु चातर्पणं स्थूले विपरीतं हितं कृशे॥ यवगोधूममुभयोस्तद्योग्याहितकल्पनं॥ स्थौल्यकार्श्येप्रकृत्याऽपि स्यातां तत्राप्ययं विधिः॥ सततं व्याधिततया सदा योज्यो विभज्य च॥ मात्रादियुक्त सेवेत यस्तु बृंहणलंघने॥ समधात्वग्निदेहो ऽसौसमसंहननो भवेत्॥ दृढेंद्रियबलत्वाच्च न द्वंद्वैरभियुज्यते॥ दोषगत्याऽतिरिच्यंते ग्राहिभेद्यादिभेदतः॥ उपक्रमा न तु द्वित्वाद्भिन्ना अपि गदा इव॥ इति द्विविधोपक्रमणीयो नाम चतुर्विशोऽध्यायः॥२४॥
अथातः स्नेहविधिमध्यायं व्याख्यास्यामः॥ स्नेहादिषूपयोगाय तद्व्यापच्छमनाय च॥ कुर्यात्प्रागेव तद्योगिद्रव्यसंभारसंग्रहं॥ गुरुशीतसरस्निग्धमंदमृक्ष्ममृदुद्रवं॥ औषधं स्नेहनं प्रायो विपरीतं विरूक्षणं॥सर्पिर्मज्जा वसा तैलं स्नेहेषु प्रवरं मतं॥तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात्॥ माधुर्यादविदाहित्वाज्जन्माद्येव च शीलनात्॥ पित्तघ्नास्ते यथापूर्वमितरघ्ना यथोत्तरं॥ घुतात्तैलं गुरु वसा तैलान्मज्जाततोऽपिच॥ द्वाभ्यां त्रिभिश्चतुर्भिस्तैर्यमकस्त्रिवृतो महान्॥ स्नेहाशया दधि क्षीरं मांसास्थि फलदारु च॥ स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचिंतकाः॥ वृद्धबालामलकृशा रुक्षाः क्षीणास्ररेतसः॥ वातार्तस्पंदतिमिरदारुणप्रतिबोधिनः॥स्नेह्यान त्वतिमंदानितीक्ष्णाग्निस्थूलदुर्बलाः॥ ऊरुस्तंभातिसारामगलरोगगरोदरैः॥ मूर्च्छाच्छर्यरुचिश्लेष्मतृष्णामद्यैश्चपीडिताः॥ अपप्रसूता युक्ते च नस्ये बस्तौ विरेचने॥ तत्र धीस्मृतिमेधामिकांक्षिणां शस्यते घृतं॥ ग्रंथिनाडीकृमिश्लेष्ममेदोमारुतरोगिषु॥ तैलं लाघवदार्ढ्यार्थिक्रूरकोष्ठेषु देहिषु॥ वातातपाध्वभारस्त्रीव्यायामक्षीणधातुषु॥ रूक्षक्लेशक्षमात्यग्निवातावृतपथेषु च॥ शेषौ वसा तु संध्यस्थिमर्मकोष्ठरुजामु च॥ तथा दग्धाहतभ्रष्ठयोनिकर्णशिरोरुजि॥ तैलं प्रावृषि वर्षांते सर्पिरन्यौ तु माधवे॥ सर्वं सर्वस्य च स्नेहं युंज्याद्भास्वतिनिर्मले॥ ऋतौ साधारणे दोषसाम्येऽनिलकफे कफे॥दिवा निश्यनिले पित्ते संसर्गे पित्तवत्यपि । त्वरमाणे तु शीतेऽपि दिवा तैलं च योजयेत्॥ उष्णेऽपि रात्रौ सर्पिश्च दोषादीन्वीक्ष्य चान्यथा॥ निश्यश्नुते वातकफाद्रोगानहनि पित्ततः॥ युक्त्याऽवचारयेत्स्नेहं भक्ष्याद्यनेन बस्तिभिः॥ नस्याभ्यंजनगंडूषमूर्द्धकर्णाक्षितर्पणैः॥ रसभेदैककत्वाभ्यां चतुःषष्टिविचारणाः॥ स्नेहस्यान्याभिभूतत्वादल्पत्वाच्च क्रमात्स्मृताः॥ यथोक्तहेत्वभावाच्च नाच्छपेयो विचारणा॥स्नेहस्य कल्पः स श्रेष्ठः स्नेह
कर्माशुसाधनात्॥ द्वाभ्यां चतुर्भिरष्टाभिर्यामैर्जीर्यति याः क्रमात्॥ न्हस्वमध्योत्तमामात्रास्तास्ताभ्यश्च कनीयसीं॥ कल्पयेद्वीक्ष्य दोषादीन्प्रागेव तु न्हसीयसीं॥ अज्ञातकोष्ठे हि बहुः कुर्याज्जीवितसंशयं॥ तत्र दुर्बलमंदाग्निबालवृद्ध सुखात्मकैः॥ अपथ्यरिक्तकोष्ठैश्चज्वरातीसारकासिभिः॥ न्हसापेया सुखा सा हि परिहारे नुं वर्त्तते॥ चिराच्च वल्या न रुजे व्यापन्नाऽपि प्रकल्पते॥मेहारुपिटिकाकुष्ठवातशोणितपीडितैः॥ मध्यमा मृदुकोष्ठैश्चस्नेहनी स्यात्सुखेन सा॥ न बलक्षपणी मंदविश्रंशाशुद्धयेऽप्यलं॥महादेहानलबलक्षुत्तृट्क्केशसहिष्णुभिः॥ गुल्मोदावर्त वीसर्पसर्पदंशाभिपीडितैः॥ उन्मत्तैः कृच्छ्रमूत्रैश्च महती शीघ्रमेव सा॥सर्वमार्गानुसारेण जयेयाधीन्सुयोजिता॥ ह्यस्तने जीर्णएवान्नेस्नेहोऽच्छः शुद्धये बहुः॥ शमनः क्षुद्वतोऽनन्नोमध्यमात्रश्च शस्यते॥ बृंहणो रसमद्याद्यैः सभक्तोऽल्पो हितः स च॥ बालवृद्धपिपासार्तस्नेह द्विण्मद्यशीलिषु॥ स्त्रीस्नेहनित्यमंदाग्निसुखितक्लेशभीरुषु॥ मृदुकोष्ठाल्पदोषेषु काले चोष्णेकृशेषु च॥ स्नेहः प्राग्भोजनात् कुर्यादूरुजंघाकटीबलं॥ वेगानुलोम्यमारोग्यमधकायगदक्षयं॥ मध्ये बृहत्वाग्निबलस्थिरताकुक्षिरुकामान्॥ इंद्रियस्थिरतामूर्ध्वमूर्ध्वजत्रुगदक्षयं॥ वाते सलवणं सर्पिः पित्ते केवलमिष्यते॥ वैद्यो दद्याद्बहुकफे क्षारत्रिकटुकान्वितं॥ वा र्युष्णमच्छेऽनुपिबेत्स्नेहेतत्सुखपक्तये॥ आस्योपलेपशुद्ध्यैच तौवरारुष्करे न तु॥ उष्णोपचारः स्नेहे स्यादुष्णो ह्युष्णैर्विरुध्यते॥ ततो गुरुप्रावरणो निर्वातशयनस्थितः॥जरणांतं प्रतीक्षेत तृष्यनुष्णाल्प वारिपः॥ शिरोरुक्भ्रमनिष्ठीवमूर्च्छासादारतिक्लमैः॥ जानीयाद्भेषजं जीर्यज्जीर्णंतच्छांतिलाघवात्॥ अनुलोमानिलस्वास्थ्यक्षुत्तृष्णोद्गारशुद्धिभिः॥ जीर्णाजीर्णविशंकायां पुनरुष्णोदकं पिबेत्॥
तेनोद्वारविशुद्धिः स्यात्ततश्च रुचिलाघवं॥ भोज्योऽन्नं मात्रया पास्यन् श्वः पिबन् पीतवानपि॥ द्रवोष्णमनभिष्यंदि नातिस्निग्धमसंकरं॥उष्णोदकोपचारी स्याद्ब्रह्मचारी क्षपाशयः॥ व्यायामवेगसंरोधशोकवर्षहिमातपान्203॥ प्रवातयानयानाध्वभाप्यात्यशनसंस्थितीः204॥ नीचात्युच्चोपधानाह स्वमधूमरजांसि च॥ यान्यहानि पिबेत्तानि तावंत्यन्यान्यपि त्यजेत्॥ सर्वकर्मस्वयं प्रायो व्याधिक्षीणेषु चक्रमः॥ उपचारस्तु शमने कार्यः स्नहेविरिक्तवत्॥ स्नेहस्य पानात्पूर्वंच दातव्यं मृदु भेषजं॥ उत्तेजनं हुताशस्य कोष्ठलाघवकारि च॥ त्र्यहमच्छं मृदौ कोष्ठेक्रूरेसप्तदिनं पिबेत्॥ सम्यक्स्निग्धोऽथवा यावदतः सात्मी भवेत्परं॥ सात्मीभूतो हि कुरुते न मलानामुदीरणं॥ अतियोगेन वा व्याधीन् यथांभो ह्यतियोजनात्॥ विहत्यसेतुं मृत्कोष्ठात्स्रवति क्षपयंस्तनुं॥ स्नेहोऽप्यग्निं तथा हत्वा स्रवति क्षपयंस्तनुं॥ वातानुलोम्यंदीप्तोग्निर्वर्चः स्निग्धमंहतं॥ मृदुस्निग्धांगताग्लानिन्नेहोद्वेगोऽथ लाघवं॥ विमलेंद्रियता सम्यक्स्निग्धे रूक्षे विपर्ययः॥ पांड्वामयांगसदनघ्राणवक्रगुदस्रवाः॥ गुददाहारुचिच्छर्दिर्मूर्च्छातृष्णाप्रवाहिका॥ शुष्कोद्गारभ्रमश्वासकासाः स्नेहातिसेवनात्॥ अमात्रयाऽहितोऽकाले मिथ्याहारविहारतः॥ स्नेहः करोति शोफार्शस्तंद्रानिद्राविसंज्ञिता॥ कंडूकुष्ठज्वरोत्क्लेशशुलानाहवलक्षयान्॥ जठरेंद्रियदौर्बल्यजाड्यामस्तंभवाग्ग्रहान्॥ तांस्तान्त्वदोपहेतृत्थान्पांड्वादींश्वातियोजनात्॥ क्षुत्तॄष्णोल्लेखनस्वेदरूक्षपानान्नभेषजं॥ वक्रारिष्टस्वलोद्दालयवश्यामाककोद्रवाः॥पिप्पलीत्रिफलाक्षौ द्रपथ्यागोमूत्रगुग्गुलु॥ यथास्वंप्रतिरोगं च स्नेहव्यापदि साधनं॥ विरूक्षणे लंघनवत् कृतातिकृतलक्षणं॥ स्नेहेन पैत्तिकस्याग्निर्यदा तीव्रतरीकृत॥ स्नेहमाशु जरां नीत्वा पुनरोजोऽभितश्चरन्॥उदीरयेत्सोपसर्गांपि
पासामस्य चाधिकां॥ सोसूंस्त्यजेद्यद्युयुदकं न पिबेदाशु शीतलं॥ शीतसेकावगाहान्वातत्तृष्णापीडितो भजेत्॥ स्नेहाग्निना दह्यमानः स्वविषेणेव पन्नगः॥ अजीर्णबलवत्यांतु शीतैर्दिह्याच्छिरोमुखं॥ छर्दयेतदशांतौच पीत्वा शीतोदकं पुनः॥ रुक्षान्नमुल्लिखेद्भुक्त्वातादृश्यां तु कफानिले॥ समदोषश्च निःशेषं स्नेहंमुष्णांबुनोद्धरेत्॥लतोदोषातिबलतः पूर्वोक्तं च विधि श्रयेत्॥ न सर्पिः केवलं पित्ते पेयं सामे विशेषतः॥ सर्वे ह्यनुरुजं देहं हत्वा संज्ञां च मारयेत्॥ स्निग्धद्रवोष्णधन्वोत्थरसभुक् स्वेदमाचरेत्॥ स्निग्धस्त्र्यहं स्थितः कुर्याद्विरेकं वमनं पुनः॥ एकाहं दिनमन्येच कफमुत्क्लेश्य तत्करैः॥ तिलप्राषदधिक्षीरगुडमत्स्यरसादिभिः॥ मांसला मेदुरा भूरिश्लेष्माणो विषमाग्नयः॥ स्नेहोचिताश्च ये स्नेह्यास्तान्पूर्वं रुक्षयेत्ततः॥ संस्नेह्य शोधयेदेवं स्नेहव्यापन्न जायते॥ अलं मलानीरयितुं स्नेहश्चासात्म्यतां गतः॥ बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु॥ योगानिमाननुद्वेगान्सद्यःस्नेहान्प्रयोजयेत्॥ प्रभूतमांसनिःक्वाथान् जांगलानुपजान्रसान्॥ स्नेहभृष्टेषु वा तेषु यवागूं वाऽतिसंहतां॥ तिलचूर्णं च सस्नेहं फाणितं कृशरां तथा॥ तिलकांबलिकं भूरिस्नेहं सर्पिष्मतोमपि॥ पेयां सुखोष्णां क्षैरेयोंपात्रे वा ससिताघृते॥ सर्पिर्लवणयुक्तं वा सद्यःस्निग्धं तथा पयः॥ पेयां च पंचप्रसृतां स्नेहैस्तंदुलपंचमैः॥ पायसं माषमिश्रं च बृहुस्नेहसमायुतं॥ तैलशुंठीगुडसुरं जीर्णे मांसरसाशिनः॥ स्नेहं वैकं सुराऽच्छेन दध्नोवा सगुडं सरं॥ वसां वराहजां सर्पिः पिप्पलीं लवणं तिलांन्॥ पिप्पलीं लवणं स्नेहांश्चतुरो दधि मस्तुकं॥ दध्ना सिद्धं व्योपगर्भंधात्रीद्रा-क्षारसे घृतं॥ यवकोलकुलत्थांबुक्षारक्षीरसुरादधि॥ घृतं च सिद्धं तुल्यांशं सद्यःस्नेहनमुतमं॥ सिद्धांश्च चतुरः स्नेहान् बदर- त्रिफला रसैः॥ योनिशुक्रामयहरान्सद्यःस्नेहान्ययोजयेत्॥ लवणोपहिताः
स्नेहाः स्नेहयंत्यचिरान्नरं॥ तद्धि विष्यंद्यरूक्षं च सूक्ष्ममुष्णं व्यवायिच॥ गुडानूपामिषक्षीरतिलमाषसुरादधि॥ कुष्ठशोफप्रमेहेषु स्नेहार्थं न प्रकल्पयेत्॥ त्रिफलापिप्पलीपथ्यागुग्गुल्वादिविपाचितान्॥ स्नेहान् यथास्वमेतेषां योजयेदविकारिणः॥ क्षीणानां त्वामयैरग्निदेहसंधुक्षणक्षमान्॥ दीप्तांतराग्निःपरिशुद्धकोष्ठःप्रत्यग्रधातुर्बलवर्णयुक्तः॥ दृढेंद्रियो मंदजरः शतायुः स्नेहोपसेवी पुरुषः प्रदिष्टः॥ इति स्नेहविधिर्नाम पंचविंशोऽध्यायः॥२५॥
अथातः स्वेदविधिमध्यायं व्याख्यास्यामः॥ चतुर्विधोऽग्निस्वेदो भवति॥ तापोपनाहद्रवोष्मभेदेन॥ तत्र तापस्वेदः पाणिकांस्यफालवालुकावस्त्रघटिकादिभिः साक्षादग्निना च प्रयोक्तव्यः॥ उपनाहस्तु सर्वगंधधान्यसर्षपकिण्ववचादेवदारुरास्नैरंडमूलमधुकशताव्हासुराकिण्वादिवातहरद्रव्यचूर्णैर्यवगोधूमशकलैरानूपासृक्पि-त्तशिरःपादामिपवेसवारैश्च॥ तथा श्लेष्मसंसृष्टे वायौ सुरसादिभिः पित्तसंसृष्टे च पद्मकादिभिः॥ पृथक् सहितैर्वा क्षीरशुक्त-धान्याम्ललवणमस्तुप्रगाढैः सुस्निग्धैः सुखोष्णैः साल्वणाभिधानैः बहुशः प्रदिह्योष्णवीर्यापूतिमृदुरोमचर्मभिस्तदभावे घनवातहरपत्राविककौशेयैरुपनद्धमंगमहःस्थितं विदाहपरिहारार्थं निशि मुंचेत् दिवा वा निशि बद्धं दोषदेशकालवशेन वा॥ द्रवस्वेदस्तु द्विविधः परिषेकोऽवगाहश्च॥ तत्र शिग्रुवरणामृतकमूलकसर्पपसुरसार्जकवासावंशाश्मंतकाशोकशिरीपा-र्ककरंजैरंडमालतीपत्रभंगभूतिकदशमूलादिवातहरद्रव्यसलिलसुराक्षीरभुक्तादिक्वाथैःपूर्वोक्तैश्च यथादोषं पृथक्सहितैर्वा कुंभीर्वर्षणिकाः प्रणालीर्वा पूरयित्वा वातहरसिद्धस्नेहाभ्यक्तमनभ्यक्तंवोपविष्टंकि205लिंजे वा शयानमेकांगे सर्वांगे वा वस्त्रावच्छन्ने परिषेचयेत्॥ तैरेवाभि पूर्णे महति कटाहे कुंडे द्रोण्यां वाऽवगाहयेत्॥ ऊष्मस्वेदः पुनरष्टधा भिद्यते॥ पिंडःसंस्तरो नाडी घनाश्मा कुंभी कूपः कुटी जेतांकश्च॥ तत्र कपालपाषाणलोष्टलोहपिंडाग्निवर्णान्संदंशेन गृहीत्वांऽभस्यम्लेवा निमज्जयेत्॥ तैरार्द्रा206विकवस्त्रेण वेष्टितैः श्लेष्ममेदोभूयिष्ठं सरुजमंगं ग्रंथिमद्वास्वेदयेत्॥पांशुसिकतागवादिपुरीषधान्यबुसपुलाकपललैर्वाऽम्लोत्क्वथितैः पूर्ववद्वेष्टितैर्गवादिशकृताऽऽर्द्रेण पिंडीकृतेनोपनाहद्रव्यो-त्कारिकाकृशरापायसपिंडैर्वा वातरोगेष्विति पिंडस्वेदः॥ स एव संकराख्यः॥ यथार्हस्वेदद्रव्याणि पिहितमुखायां कुंभ्यां सम्यगुपस्वेद्य निवातशरणशयनकिलिंजे प्रस्तार्याविककौशेयवातहरपत्रान्यतमोत्तरप्रच्छदे कुथका विकाजिनप्रावारादिष्व-वच्छन्नं स्वेदयेदिति संस्तरस्वेदः॥ पूर्ववदेववोपस्वेद्योखामुखे207नाधोमुखां नाडीं मूलच्छिद्रप्रमाणपार्श्वच्छिद्रामभिसंधाया-वलिप्यच पार्श्वच्छिद्रस्थया नाड्या शरेषिकावंशदलकिलिंजकरंजपत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदीर्घयाऽध्यर्द्धव्यामदीर्घया वास्वायामचतुर्भागाष्टभागपरिणाहमूलाग्रस्रोतसा सर्वतो वातहरपत्रसंवृत छिद्रया हिस्रिर्वा विनामितया सुखोपविष्टस्य स्वभ्यक्तप्रावृतेमारतेंऽगे बाष्पमुपहरेत्॥ वाष्पोह्यनृजुगामी विहतचंडवेगस्त्वचमविदहन् सुखं स्वेदयतीति नाडीस्वेदः॥ पुरुषायाममात्रमधिकं वा घनं समं च शिलातलं भूप्रदेशं वा वातहरदारुदीप्तेनाग्निना सर्वतस्तापयित्वाऽग्रिमपोह्योष्णो दकाम्लादिभिरभ्युक्ष्य यथोक्तप्रच्छदे संस्तरवत्स्वेदयेदिति घनाश्मस्वेदः॥ पूर्ववत्स्वेद्रव्याणि कुंभ्यामुत्क्वाथ्योपश्लिष्योपविष्टस्तद्वदूष्माणं गृह्णीयात्॥ भूमौ वा तां निखाय तदूर्ध्वमासनं शयनं वा नातिघनप्रच्छदं परितः प्रलंबमानकुथाकंबलगोणिकं निधाय तत्रस्थस्योष्माणं गृण्हतः कुंभ्यामग्निवर्णानयोगूडानुपलांश्चशनैर्निमज्जयेदिति कुंभीस्वेदः॥ शयनस्याधो विस्तारद्विगुणखाते कूपे वातहरदारुकरीषान्यतरपूर्णदग्धे विगतधूमे वास्तीर्णशयनस्थं स्वेदयेदिति कूपस्वेदः॥ कुटीं नात्युच्चविस्तारां वृत्तामच्छिद्रामुपनाहकलकघनप्र दिग्धकुड्यां सर्वतो विधूमप्रदीप्तखदिरांगारपूर्णहसंतिकासमूहपरिवृतां विधाय तन्मध्ये च शय्यां तत्रस्थं स्वेदयेदिति कुटीस्वेदः॥ अथ जेंताकं चिकीर्षुर्भूमिं परीक्षेत॥ पूर्वस्यामुत्तरस्यां वा दिशि गुणवति प्रशस्तभूमिभागे देशे कृष्णमृत्तिके सुवर्णवर्णमृत्तिकेवा परीवाहपुष्करिण्यादीनां जलाशया नामन्यतमस्य कुले दक्षिणे पश्चिमे वा सुतीर्थे समसुविभक्तभूमिभागे सप्ताष्टौवाऽरत्नीः208परिक्रम्योदकात्प्राड्मुखमुदङ्मुखं वाऽभिमुखतीर्थं कूटागारं कारयेत्॥ उत्सेधविस्तारतः परमरत्नयः षोडश समंतात्सुवृत्तं मृत्कर्मसंपन्नमनेकवातायनं॥ अस्यच कूटागारस्यांतः समंततो भि-त्तिमरत्निविस्तारोच्छ्रायां पिंडिकां कारयेदाकपाटात्209॥ मध्ये चास्य कूटागारस्य किष्कुमुक्तं210 द्द्विपुरुषप्रमाणं मृन्मयं कंदुसंस्थानं बहुसूक्ष्म छिद्रमंगारकोष्ठकस्तंभं सापिधानं कारयेत्॥ तं च खादिराणामाश्वक र्णानां वा काष्ठानां पूरयित्वा दीपयेत्॥ स यदा जानीयात्साधुदग्धानि काष्ठानि विगतधूमान्यवतप्तं सर्वमग्निनातदभिगृह स्वेदयोग्येन चोष्म॑णा युक्तमिति॥ तत्रेनं वातहराभ्यंगाभ्यक्तगात्रं वस्त्रावच्छन्नं प्रवेशयेत्॥ अनुशिष्यात्सौम्य प्रविश कल्याणायारोग्याय च॥ प्रविश्य चैनांपिंडिकामारुह्य पार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः॥ न च त्वरया स्वेदमूर्च्छापरीतेनापि पिंडिकैषा विमोक्तव्याऽऽप्राणोच्छ्वासात्॥भ्रश्यानो ह्यतः पिंडिकावकाशाद्द्वारमनधिगच्छन् स्वेदमूर्च्छापरीततया सद्यःप्राणान् जह्याः॥ तस्मापिंडिकामेनांन कथंचन मुंचेथाः॥ त्वं यदाजानीयाः बिगताविष्यंदमात्मानं सम्यक्प्रवृतस्वेदपिच्छं सर्वस्रोतो-विमुक्तं लघुभूतमपगतविबंधस्तंभसुप्तिवेदनागौरवमिति॥ ततः पिंडिकानुसारेण द्वारं प्रपद्येथाः॥ निष्क्रम्य च चक्षुषोः परिपालनार्थमतिस्विन्नोऽपि न सहसा शीतोदकमनुप्रविशेथाः॥ सम्यक्स्विन्नस्त्वपगतसंतापक्लमो मुहूर्तात्सुखोष्णेन वारिणा यथान्यायं परिषिक्तोऽश्नीपादिति जेंताकः स्वेदः॥ तेषां विशेषतस्तापोष्मस्वेदौकफे प्रयोजयेत्॥ उपनाहमनिले किंचित्पित्तसंसृष्टे ऽन्यतरस्मिन् द्रवमिति॥ अनाग्नेयं पुनर्भेदःकफात्ते वायौ॥ निवातसदनगुरुप्रावरणमुहु-र्मद्यपानक्षुद्व्यापामातपनियुद्धाध्वभारहरणामर्षभयैः। उपनाहं च पित्तान्वये पूर्वोक्तेनैव विधिनाऽग्निरहितमिति॥ भवति चात्र॥ निवातेंऽतर्बहिः स्निग्धो जीर्णान्नः स्वेदमाचरेत्॥ व्याधिव्याधितदेशर्तुवशान्मध्यवरावरं॥ कफार्तोरूक्षणंरुक्षो रुक्षस्निग्धं कफानिले॥आमाशयगते वायौ कफे पक्वाशयाश्रिते॥ रुक्षपूर्वं तथा स्नेहपूर्वंस्थानानुरोधतः॥ अल्पं वंक्षणयोः स्वल्पं दृङ्मष्कहृदये न वा॥ पद्मोत्पलादिभिः सक्तुपिंड्या वाऽऽच्छाद्य चक्षुषी॥ शीतैर्मुक्तावलीपद्म कुमुदोत्पलभाजनैः॥ मुहुः करैश्च तोयार्द्रैःस्विद्यतो हृदयं स्पृशेत्॥शीतशूलक्षये स्विन्नो जातेंऽगानां च मार्दवे॥ स्पाच्छनेर्मृदितः स्नातस्ततः स्नेहविधिं भजेत्॥ पित्तास्रकोपतृण्मूर्छास्वरांगसदनभ्रमाः॥ संधिपीडा ज्वरः श्यावरक्तमंडलदर्शनं॥ स्वेदानियोगाच्छर्दिश्व तत्र स्तंभनमौषधं॥ विषक्षाराग्न्यतीसारछर्दिमोहातुरेषुच॥ स्वेदनं गुरु तीक्ष्णोष्णं प्रायः स्तंभनमत्र तु॥ तत्र स्थिरसरस्निग्धरूक्षसूक्ष्मं च भेषजं॥ स्वेदनं स्तंभनं श्लक्ष्णरुक्षसूक्ष्मसरद्रवं॥ प्रायस्तिक्तं कषायं च मधुरं च समासतः॥ स्तंभितः स्याद्बले लब्धे यथोक्तामयसंक्षयात्॥स्तंभत्वक्स्नायुसंकोचकंपह्यद्वाग्घनुग्रहैः॥ पादौष्ठत्वक्करैः श्यावैरतिस्तंभितमादिशेत्॥ न स्वेदयेदतिस्थूलरुक्षदुर्बलमूर्छितान्॥ स्तंभनीयक्षतक्षीणक्षाममद्यविकारिणः॥ तिमिरोदरवीसर्पकुष्ठरोगाढ्यरोगिणः॥ पीतदुग्धदधिस्नेहमधून्कृतविरेचनान्॥ भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान्॥ क्षुत्तृष्णाकामलापांडुमेहिनः पित्तपीहितान्॥ गर्भिणीं पुष्पितां सूतां मृदुचात्ययिके गदे॥ श्वासकासप्रतिश्यायहिध्माऽऽध्मानविबंधिषु॥ स्वरभेदानिलव्याधिपक्षाघातापतानके॥ अंगमर्दकटीपार्श्वपृष्ठकुक्षिहनुग्रहे॥ महत्वे मुष्कयोः खल्यामायामे वातकंटके॥मूत्रकृछ्रार्बुदग्रंथिशुक्राघाताढ्यमारुते॥ वेपथुश्वयथुस्वापस्तंभंजृंभांगगौरवे॥ कर्णमन्याशिरःकोष्ठजंघापादोरुरुक्षु च॥ स्वेदं यथायथं कुर्यात्तदौषधविभागतः॥ स्विन्नोऽन्नं पथ्यमश्नीयाद्दोषरोगानुरोधतः॥ तदहः स्निग्धसर्वांगो व्यायामं सुतरां त्यजेत्॥ अग्नेर्दीप्तिंमार्दवं त्वक्प्रासादं भक्तश्रद्धां स्रोतसां निर्मलत्वं॥ कुर्यात्स्वेदो जाड्यतंद्रापहारं स्तब्धान् संधींश्चेष्टयत्याशु चास्य॥ स्नेहक्लिन्नाः कोष्ठगा धातुगा वा स्रोतोलीना ये च शाखास्थिसंस्थाः॥ दोषाः स्वोदैस्ते द्रवीकृत्य कोष्ठंनीताः सम्यक् शुद्धिभिर्निर्हियंते॥ इति स्वेदविधिर्नाम षड्विंशोऽध्यायः॥२६॥
अथातो वमनविरेचनविधिमध्यायं व्याख्यास्यामः॥ दोषहरणमूर्ध्वभागं वमनाख्यमधोभागं विरेचनाख्यमुभयं वा मलविरेचनाद्विरेचनमुच्यते॥ तत्रोष्णतीक्ष्णसूक्ष्मव्ययायिविकाषीण्यौषधानिस्ववीर्येण हृदयमुपेत्य सौक्ष्म्याद्यवायित्वाच्च धमनीरनुसृत्य स्नेहेन मृदूकृत्यांतःशरीरे स्वोष्मणाऽऽर्द्रदारुवद्विष्यन्ने स्थूलाणुस्रोतोभ्यः सकलमपि दोषसंघातमौष्ण्यात्पुनर्विष्यंदयंति॥ तैक्ष्ण्याद्दिकाषित्वाच्च विच्छिंदंति॥ स विष्यन्नविच्छिन्नो दोषसंघातः पारिप्लवः स्नेहा-क्तभाजनस्थइवोदकांजलिरसज्जन्नणुस्रवणभावादामाशयमागम्योदानप्रणुन्नोऽग्निवाय्वात्मकत्वादूर्ध्वभागप्रभावाच्चौषधस्यो-र्ध्वःप्रर्वतते॥ सलिलपृथिव्यात्मकत्वादधोभागप्रज्ञावाच्चौषधस्याधः॥ उभयतश्वोभयगुणात्मकत्वादुभयभागप्रभावाच्च॥ तत्रोत्क्लिष्ठेश्लेष्मणि पित्तसंसृष्टे वा तत्स्थानगते वा पित्तेऽनिले वा श्लेष्मोत्तरे वमनमाचरेत्॥
पित्ते तु विरेकं श्लेष्मसंसृष्टे वा तत्स्थानगते वा श्लेष्मणोति॥ तत्र वमनसाध्या विषपीतदष्टदिग्धविद्धविरुद्धाजीर्णान्ननवज्व-रराजयक्ष्मातिसाराधोरक्तपित्तविसूचिकाऽलसकाविपाकारोचकापचीग्रंथ्यर्बुदश्लीपदमेदोगरोन्मादापस्मारश्वासकासहृ-ल्लासविसर्पप्रमेहकुष्ठपांडुवर्त्ममुखघ्राणकपालरोगकर्णकोथशोफस्तन्यदोषादयो दोषभेदीयोक्ताश्च श्लेष्मव्याधयो विशेषेणैते हि परं वमनेन नाशमुपयांति॥ सलिलापगमेनानिष्पन्नशाल्यादिवत्॥ अवम्यास्तु गर्भिणीसुकुमारान्यकार्यव्यग्र-रूक्षरूक्षाशनप्रायातिदीप्ताग्निभाराध्वकर्मनित्यक्लांतशतक्षीणातिस्थूलकृशवृद्धबालदुर्बलश्रमभयशोकक्रोधमदमूर्छाक्षुत्पि-पासार्तौपवासव्यवायव्यायामाध्ययनचिंताप्रसक्तछर्दिरुर्ध्वरक्तपित्तवातास्थापितानुवासितसंवृतकोष्ठदुश्छर्दहृद्रोगोदावर्तमू-त्राघातप्लीहगुल्मोदराष्ठीलार्शःस्वरोपघाततिमिरभ्रमानिलार्तार्दिताक्षेपकाक्षिशिरःशंखकर्णपार्श्वशुलिनोऽनास्थापितश्च कृमिणकोष्ठइति॥ अन्यत्रामगरविषविरुद्धाभ्यवहारेभ्यः शीघ्रतरबिकारित्वादेषां॥ तत्र गर्भिण्या गर्भव्यापदामगर्भभ्रंशाच्च दारुणरोगप्राप्तिस्यात्॥ सुकुमारस्य हृदयविकर्षणादूर्ध्वमधो वा रुधिरप्रवृत्तिः॥ अन्यकार्यव्यग्रस्यौषधं न प्रवर्त्तते॥ कृच्छ्रेण वा प्रवर्तमानमयोगाद्दोषान्कुर्यात्॥ रुक्षस्य वायुरंगग्रहं॥ रुक्षाशनप्रायस्य वायुना क्षपितदोषत्वाद्बलक्षयः स्यात्॥ तथाऽतिदीप्ताग्नेरग्निबलेन॥ भाराध्वकर्मनित्यानां चायासेन॥ क्षतस्य भूयःक्षणनाद्रक्तातिप्रवृत्तिः॥ क्षीणादीनामौषधबलाक्षमत्वाद्देहवलोपरोधोंऽतःक्षतभयं च॥ प्रसक्तच्छर्द्यूर्ध्वरक्तपित्तयोरुदानउत्क्षिप्य प्राणान् हरेद्रक्तंवाऽतिप्रवर्तयेत्॥ ऊर्ध्ववातास्थापितानुवासितानामूर्ध्ववातादि प्रवृत्तिः॥ संवृतकोष्ठस्य दुश्छर्दस्य चातिमात्रप्रवाहणादंतः कोष्ठे समुत्क्लिष्टैर्दोषैर्विसर्पस्तंभजाड्यवैचित्यानि मरणं वा॥ हृद्रोगिणो
हृदयोपरोधः॥ उदावर्त्तादिभिरार्त्तानामर्दितादिभिश्चयथायथमामयनवृद्धिर्मरणं वा॥ कृमिणकोष्ठस्यास्थापनेनाधः पूर्वमनिर्हृतौकृमिभिरतिवहुत्वादशेषानिःसरणेन हृदयमतिकर्षद्भिश्छर्दिषोऽतिप्रवृत्तिः स्यात्॥ चिंताप्रसक्ताश्चात्र धूमांतैःप्रायः सर्वकर्मभिर्वक्ष्यमाणैःपरिहर्तव्याः॥ अजीर्णी तु सर्वैरेववमनवर्जैरामदोषभयात्॥ नवज्वरस्य दोषस्तंभभयादिति॥ अथ विरेचनसाध्या जीर्णज्वरोर्ध्वरक्तपितगुल्मवेद्रधिप्लीहाऽर्शोभगंदरोदरकृमिणकोष्ठमूत्राघातरेतो-योनिदोषवातशोणितहलीमकर्व्यगतिमिरकाचाभिष्यंदाक्षिपाकक्षाराग्निदग्धदुष्टव्रणशिरःपक्वाशयशूलोदावर्तविबंवच्छर्दिविस्फोटादयो वम्योक्ताश्च विसूचिकादयो दोषभेदीयोक्ताश्च पित्तव्याधयो विशेषेण॥ एते हि परं विरेचनेन नाशमुपयांत्यग्न्यपनयत्तेनाग्निगृहतापवत्॥ अविरेच्याः पुनर्नवज्वरातीसार्यधोरक्तपित्तक्षतगुदलंघितरात्रिजागरितास्थापिता-ल्पाग्निराजयक्ष्ममदात्ययाध्मातसशल्याभिहतातिस्निग्धरूक्षक्रूरकोष्ठाः॥ तत्र नवज्वरस्याविपक्कान्दोपान्न निर्हरेद्वा211तानेव तु कोपयेत्॥ अतिसार्यधोरक्तपित्तयोरतिप्रवृत्त्या ह्वन्यात्॥ क्षतगुदस्य गुदे प्राणोपरोधकरीं रुजं जनयेत्॥ लंघितादयो भेषजवेगं न सह्वेरन्॥ राजयक्ष्मार्तस्य क्षीणधातुतया मलवलत्वं तदभावाद्देहनाशः स्यात्॥ मदात्ययार्त्तस्यमद्यक्षीणे देहे वायुः प्राणोपरोधाय॥ आध्मातस्य पुरीषाशये निचितो वायुर्विसर्पन् सहसा तीव्रतरमाध्मानं मरणं वा जनयेत्॥ सशल्याभिहतयोः क्षते वायुराश्रितो जीवितं हिंस्यात्॥ अतिस्रिग्धस्यातियोगो भवेत्॥ क्रूरकोष्ठस्यौषधोद्धता दोषाह्य नवर्तमाना हृदयशुलपर्वभेदानाहछर्दिमूर्च्छाक्लमान् जनयित्वा प्राणान् हन्युः॥” गर्भिण्यादीनां पूर्वोक्तदोषः स्यात्॥ अथ साधारणे काले सम्यक्स्निग्धस्विन्नमनुपहतमानसं सुच्छर्दयितव्यमिति ग्राम्यानुपौदकश्रृनमांसरसक्षीरदधिमापतिलपललशाकादिभिर्द्रवप्रायैः समुत्क्लेशितश्लेष्माणं सुखोषितं जीर्णाहारं पूर्वाण्हे स्नातानुलिप्तं स्रग्विणमहतवाससं देवताऽग्निद्विजगुरुवृद्धवैद्यानर्चितवंतं कृतहोमबलिमंगलप्रायश्चित्तस्वस्तिवाचनं जानुसमसंस्तृतमहोपधानोपाश्रयासनोपविष्टं निरन्नमीषत्स्निग्धं वा यवागुमंडेन घृतमात्रां पीतवंतं भीरुकृशबालवृद्धमुकुमारान्वा दोषानुरूपेणाकंठं पीतक्षीरतक्रयूषेक्षुमांसरसमद्यतुपोदकयवागुमंडान्य-तमं नक्षत्रतिथिकरणमुहूर्तोदये प्रशस्ते यथाव्याधिदोषदूष्यादिविहितामौषधमात्रां मधुसैंधवयुक्तां सुखोष्णां ब्राह्मणप्रयुक्ताभिराशीर्भिरभिमंत्रितां पुनश्च॥ ब्रह्मदक्षाश्विरुद्रेंद्रभूचंद्रार्कानिलानलाः॥ ऋषयः सौषधिग्रामा भूतसंघाश्च पांतु वः॥ रसायनमिवर्षीणाममराणामिवामृतं॥ सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते॥ नमो भगवते भैषज्यगुरवे वैदूर्यप्रभाराजाय तथागतायार्हते सम्यक्संबुद्धाय॥ तद्यथा॥ ॐभेषज्येभैषज्येमहाभेषज्येभैषज्यसमुद्गते स्वाहा॥ इत्येवमभिमंत्र्योदङ्मुखः प्राड्युखमातुरं पाययेत्॥पीतवानूरुन्यस्तभुजो वमनानुगतमानसो ऽग्नितप्तैः पाणिभिरुपतप्यमानो मुहूर्तमनुपालयेत्॥ स यदा जानीयात् स्वेदप्रादुर्भावेन दोषं प्रविलयमापद्यमानं रोमहर्षेण वा स्थानेभ्यः प्रविचलितं कुक्ष्याध्मानेन च कुक्षिमनुसृतं क्रमात् हृदयोपमर्दहृल्लासास्यसंस्रवणैश्चोर्ध्वमभिमुखीभूभंसमुपस्थितानेकप्रतिग्राहः212”) पार्श्वललाटोपग्रहेण नाभिप्रपीडनेन पृष्ठप्रतिलोममर्दनेन च प्रवृत्तव्यपत्रपाणीयपुरुषो विवृतौष्ठतालुकंठो नातिमहता व्यायामेन वेगानुदीरयन्नाप्रवृत्तान् प्रवर्तयन् प्रवृत्तांश्चानुवर्तयन् सुपरिलिखितनखाभ्यामंगुलीभ्यामुत्पलकुमुदैरंडनालैर्वा कंठमनभिस्पृशन् यमेनात्यु
न्नतो नात्यवनतः पार्श्वापवृत्तो वा॥ तत्रात्युन्नतस्य पृष्ठहृदयपीढा भवति। अत्यवनतस्य शिरः कोष्ठपीडा पार्श्वापवृत्तस्य पार्श्वकोष्ठहृदयोर्ध्वजत्रुपीडेति॥ एवं कटुतीक्ष्णैः कफे छर्दयेत्॥ स्वादुभिः पित्तयुत्ते॥ अम्लैः सस्नेहैरनिलसंसृष्टे॥ यावत्कफच्छेदः केवलौषधप्रवृत्तिः पित्तदर्शनं वा॥ हीनवेगस्तु पिप्पल्यामलकसर्षपकल्कलवणोष्णोद कैः पुनः पुनः प्रवर्तयेत्॥ प्रभूतवमनासहिष्णुर्द्व्यहंत्र्यहं वा विश्रम्य॥ असात्म्यवीभत्सदुर्दर्शदुर्गंधानि वमनानि विदध्यात्॥ विपरीतानि तु विरेचनानि॥ सर्वेषु च वमनेषु सैंधवं मधु च विदद्यात्कफविलयनविच्छेदनार्थं॥ वेगांश्चास्य प्रतिग्राहगतानवेक्षेत्॥ तत्राप्रवृत्तिः केवलस्य वा भेषजस्य प्रवृत्तिर्विबंधो वा वेगानामयोगलक्षणं॥ ततश्चारोचकगौरवाध्मानकंडूस्फोटकोठालस्य-शूलप्रतिश्यायलोमहर्षप्रसेकशोफशीतज्वरादयः॥ योगलक्षणं पुनः काले क्रमात्कफपित्तानिलप्रवृत्तिर्नात्ति महती व्यथा स्वयं चावस्थानं॥ ततश्च स्वस्थता मनःप्रसादः स्वरविशुद्धिररोचकादिवैपरीत्यं च॥ अतियोगे तु फेनिलरक्तचंद्रिकोद्गमनं ततश्चक्षामतास्वरक्षयदाहकंठशोपभ्रममोहोन्मादमूर्च्छाशिरःशून्यताहृद्धूमायनगात्रशूलसुप्तितृष्णोर्ध्वानिलप्रकोपकर्णशू-लार्दिनवाक्संगहनुसंहननजिव्हाप्रवेशनिर्गमाक्षिव्यावृत्तिविसंज्ञतानिद्राबलाग्निद्दानयो भवंति॥ जीवशोणितप्रवृत्या मरणं वा॥ तेषां सिद्धिषु साधनं वक्ष्यते॥ योगेन तु खल्विमं छर्दितवंतं सुविशोधितपाणिपादमुखं मुहूर्तमाश्वास्यधूमत्रंयस्यान्यतमं सामर्थ्यतः पाययित्वा पुनरुपस्पृष्टोदकं संमानितसुरभितांबूलं निवातागारशय्यास्थितं स्नेहोक्तेनाहारविधिनाऽनुशिष्यात्॥ ततोऽग्निवलमवेक्ष्य क्षुधं च सायान्हे सुखोदकपरिषिक्तः पुराणानां रक्तशालितंदुलानां सुसिद्धमन्नमस्नेहलवणकटुकमल्पस्नेहलवणकदुकं वा द्रवप्रायमुष्णोदकानुप्रायं सायं प्रातरुपयुंजानो विधि मिममवेक्षेत॥ पेयां विलेपीकृतं कृतं च यूपं रसं त्रीनुभयं तथैकं॥
क्रमेण सेवेत नरोऽन्नकालान्प्रधानमध्यावरशुद्धिशुद्धः॥ यथाऽणुरग्निस्तृणगोमयाद्यैः संधुक्ष्यमाणो भवति क्रमेण॥ महान् स्थिरः सर्वपचस्तथैव शुद्धस्य पेयादिभिरंतरग्निः॥ जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ॥ दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा स्यात्द्विचतुर्गुणश्च॥ पित्तावसानं वमनं विरेकादर्द्धंकफांतं च विरेकमाहुः॥ द्वित्रान्सविट्कानपनीयवेगान्मेयं विरेके वमने तु पीतमिति॥अथ वमितवंतं पुनरेव स्नेहस्वेदाभ्यामुपपाद्य श्वो विरेचयितव्य इति सुजरमश्लेष्मलं स्निग्धं फलाम्लमुष्णमुष्णोदकानुपानं जांगलरसौदनं भोजयेत्॥ ततः सुखोषितं पूर्वोक्तेन विधिनाऽतीतश्लेष्मकाले निरन्नं विभज्य कोष्ठंयथार्हौषधमात्रां पापयेत्॥ न त्वकृतवमनमन्पत्रातिक्रूरकोष्ठात्॥ अकृतवमनस्य हि श्लेष्मणोपहतमौषधमूर्ध्वं प्रवर्तते॥ उरसि वाऽवरुद्धमवतिष्ठते॥ ततो नालं विरेकाय॥ सम्यग्विरिक्तस्यापि चाधः स्रस्तः श्लेष्मा ग्रहणींछादयित्वा गौरवमापादयति प्रवाहिकां वा॥ न त्वेष दोषोऽतिक्रूरकोष्ठस्य वाय्वात्मकत्वात्॥ श्लेष्मकाले त्वकृतवमनोक्तदोषः॥ शुलाध्मानगौरवाणि च कृत्वाछर्दिक्षीणे श्लेप्म ण्यपराण्हे रात्रौ वा विरेचयेत्॥ तेनान्नावृतमपि तुल्यं छर्दिंच पुनस्तज्जनयति॥ अविरिक्तस्य तु श्लेष्मकाले वमनं योज्यं तथोर्ध्वं सुखेन निर्हरणात्॥ कोष्टस्तु त्रिविधो भवति॥ मृदुः क्रूरो मध्यश्च॥ तत्र बहुपित्तो मृदुः॥ स विरिच्यते क्षीरेक्षुरसाम्लतक्रमस्तुगुडकृशरासर्पिर्नवमद्योष्णोदकपीलुद्राक्षापूगफलादिभिरपि॥ बहुवातः क्रूरः स दुर्विरेच्यस्त्रिफलातिल्वकत्रिवृन्नीलिनीफलादिभिरपि॥ बहुश्लेष्मासमदोषश्च मध्यः॥ स साधारणः॥ ये च स्निग्धास्त्वच्छपानेन प्रायशस्त्रिसप्तपंचरात्रैरिति॥ तत्र कषायमधुरद्रव्यैः पित्ते विरेचनं॥ मूत्रकटूष्णैः कफे॥ स्निग्धोष्णलवणैर्वाते॥ पीतमात्र एव चौषधे छर्दिविघातायशीतांबुना मुखमस्य सहसा सिंचयेत्॥ ततोश्चोष्णोदकेन
सोंऽतर्मुखं विशोध्यार्द्रसुरभिमृन्मातुलुंगजंबीरसुमनःसौगंधिकादिहृद्यगंधानुपजिघ्रेत्॥ निवातसुखशय्यास्थितश्चविबंधार्थम-ल्पाल्पमुष्णोदकमनुकंठ्यंस्नन्मना वेगानधारयन्ननीस्यमाणश्च शय्यासन्ने प्रतिग्राहेऽशीतस्पृक् विरिच्येत॥ यथा च वमने स्वेदप्रसेकौषधकफपित्तानिलाः क्रमेण प्रवर्तते तथा विरेचने वातमूत्रपुरीषपित्तकफाः पुनश्चांते वायुः दोषाणां हि देहे तथासन्निवेशान्मार्गवैपरीत्याच्च शोधनयोरिति॥ अप्रवृत्तौ भेषजोत्तेजनार्थमुष्णोदकं पाययेत्॥ पाणितापैश्च जठरं स्वेदयेत्॥ प्रवृत्ते च दीप्ताग्नेः स्निग्धवपुषो बहुदोषस्याल्पे दोषे नैव वा प्रवृत्तेऽल्पदोषस्यापि जीर्णभेषजस्याह शेषं बलं चापेक्ष्य भूयो मात्रां विदध्यात्॥ न त्वजीर्णोषधस्यातियोगभयात्॥ तदहर्वाभुक्तवतोऽन्येद्युः॥ अदृढस्नेहं वा दशरात्रादूर्ध्वमुपस्कृतदेहमवहितो भूयः पाययेत्॥ व्हीभयलोभैश्च वेगाभिघातशीलाः प्रायशस्त्रियो राजसमीपस्था वणिजश्च भवंति॥ तस्मादेते वेगधारणप्रवृद्धवातत्वात्सदाऽऽतुरा दुर्विरेच्याश्च॥ तान्सुस्निग्धान् शोधयेत्॥ अन्यानपि चाकालनिर्हारविहाराहारान्॥ अतश्चैषां सदाऽऽतुरत्वादल्पोऽप्यामयो दुःसाध्यो भवति॥ तेषां पुनः क्रियाविधिः स्नेहव्यापत्सिद्धावुपदेक्ष्यते॥ तत्रासम्यग्विरेकात्कुक्षिहृदयाविशुद्धिराध्मानमरुचिः प्रसेकः कफपित्तोत्क्लेशछर्दिभ्रमाः कंडूःपिटका विदाहो गौरवमग्निसादस्तंद्रा स्तैमित्यं प्रतिश्यायो वातविण्मूत्रसंगश्च॥ सम्यग्विरेकाद्व्याध्युपशमो यथोक्तविपर्ययश्च॥ अतिविरेकात्तु केबलं दोषरहितमुदकं रक्तं वा मेदोमांसधावनोपमं कृष्णं वा प्रवर्त्तते॥ परिकर्तिका हृदयोद्वेष्टनं गुदनिःसरणं नयनप्रवेशः पिपिलिकासंचारइवांगे वमनातियोगतुल्यता च॥ सम्यग्विरिक्तं चैनं वमनोक्तेन धूमबर्जेन विधिनोपपादयेत्॥ अथ वमितवानिव क्रमेणानुगुणानुपयुंजानः प्रकृतिभोजनमागच्छेदिति॥ भवति चात्र॥ जीर्णान्ने वमनं योज्यं
कफे जीर्णे विरेचनं॥ मंदवन्हिमसंशुद्धमक्षामं दोषदुर्वलं॥ अदृष्ट जीर्णलिंगं च लंघयेत्पेतभेषतजं॥ स्नेहस्वे-दौषधोक्लेशसंगैरिति न वाध्यते॥ संशोधनास्रविस्रावस्नेहयोजनलंवनैः॥ यात्यग्निर्मंदतां तस्मात्क्रमं पेयादिमाचरेत्॥ स्रुताल्पपित्तश्लेष्मााणं मद्यपं वातपैत्तिकं॥ पेयां न पाययेतेषां तर्पणादिक्रमो हितः॥ अपक्वंवमनं दोषान् पच्यमानं विरेचनं॥ निर्हरेद्वमनस्यातः पाकंन प्रतिपालयेत्॥ ऊर्ध्वधो रेचनं युक्तं वैपरीत्येन जायते॥ यदा तदा छर्दयतः सिंचेदु-ष्णेन वारिणा॥ पादौ शीतेन चोर्ध्वांगं विपरीतं विरेचनं॥ दुर्बलो बहुदोषश्च दोषपाकेन यः स्वयं॥ विरिच्यते भेदनीयैर्भोज्यैस्तमुपपादयेत्॥ दुर्बल शोधितः पूर्वमल्पदोषः कृशो नरः॥ अपरिज्ञातकोष्ठश्च पिबेन्मृद्वल्पमौषधं॥ वरं तदसकृत्पीतमन्यथा संशयावहं॥हरेद्बहूंश्चलान्दोषानल्पानल्पान्पुनः पुनः॥ दुर्बलस्य मृदुद्रव्यैरल्पान्संशमयेत्तु तान्॥ क्लेशयंति चिरं ते हि हन्युश्चैनमनिर्हृताः॥ मंदाग्निं क्रूरकोष्ठंच सक्षारलवणैर्वृतैः॥ संयुक्षिताग्निंविजितकफवातं विशोधयेत्॥ रुक्षबव्हनिलकूरकोष्ठव्यायामशीलिनां॥ दीप्ताग्नीनां च भैषज्यमविरेच्यैवजीर्यति॥ तेभ्यो बस्तिं पुरा दद्यात्ततः स्निग्धं विरेचनं॥ शकृन्निर्हृत्य वा किंचित्तीक्ष्णाभिः फलवर्तिभिः॥ प्रवृत्तं हि मलं स्निग्धो विरेको निर्हरेत्सुखं॥ विषाभिघातपिटिकाकुष्ठशोफविसर्पिणः॥ कामलापांडुमेहार्तान्नातिस्निग्धान्विशोधयेत्॥ सर्वान्स्नेहविरेकैश्च रूक्षैस्तु स्नेहभावितान्॥ कर्मणां वमनादीनां पुनरप्यंतरेंऽतरे॥ स्रेहस्वेदौप्रयुंजीत स्नेहमंते बलायच॥ ऊषादिभिर्यथोत्क्लेश्य213 व्हियते वाससो मलः॥ तथैव वपुषः स्नेहस्वेदमाषतिलादिभिः॥ स्नेहस्वेदावनभ्यस्य कुर्यात्संशोधनं तु यः॥ दारुशुष्क मिवानामे शरीरं तस्य दीर्यते॥ सुखं क्षिप्तं महावेगमसक्तं यत्प्रवर्तते॥ नातिग्लानि
करं नापि हृदि पायौ च रुक्करं॥ अंतराशयगं क्लिन्नं कृत्स्नं दोषं निरस्यति॥ विरेचनं निरुहं वा तत्तीक्ष्णमिति निर्दिशेत्॥ जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितं॥ नवं मात्राधिकं किंचित्तुल्यवीर्यैः सुभावितं॥ स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजं॥ अतो विपर्यये मंद मंदतां च प्रपद्यते॥ तीक्ष्णोमध्यो मृदुर्व्याधिः सर्वमध्याल्पलक्षणः॥ बलापेक्षं हितं तेषु तीक्ष्णं मध्यं मृदु क्रमात्॥ अप्रवर्त्य मलात् द्रव्यं सात्मीभूतं हि जीर्यति॥ वमनं वा विरेकं वा तस्मात्सात्म्यं न योजयेत्॥ विभ्रंशो विषवत्सम्यग्यो हि यस्यामृतोपमः॥ काले ऽवश्यंप्रयोज्यं च तस्माद्यतेन तत्पिबेत्॥ बुद्धिप्रसादं बलमिंद्रियाणां धातुस्थिरत्वं ज्वलनस्य दीप्तिं॥ चिराच्च पाकं वयसः करोति संशोधनं सम्यगुपास्यमानं॥इति वमनविरेचनविधिर्नाम सप्तविंशोऽध्यायः॥२७॥
अथातो बस्तिविधिमध्यायं व्याख्यास्यामः॥ बस्तिरनिलप्रधानेषुप्रयुज्यते॥ बस्तिना दीयते बस्तिं वा पूर्वमन्वेत्यतो बस्तिः॥ स च सर्वोपक्रमाणां प्रधानतमः शीघ्रसुखबृंहणानुकारित्वाद्विकृतानिलोच्छेदित्याच्च॥ अनिलो हि दोषाणां नेता स्वतंत्रः सर्वशरीरचेष्टैककारणं पंचात्मतया सप्रत्यंगांगव्यापी विधाता विविधबाह्याध्यात्मिकभावसर्गस्थितिप्रलयानां हेतुर्मार्गत्रयजानामपि रोगाणामिति॥ सुखत्वादेव च बस्तिर्वालवृद्धकृशस्थूलक्षीणधात्विंद्रियेषु स्त्रीष्वनिलोपसर्गादप्रजासु कृच्छ्रप्रजासु चोपदिश्यते॥ तथाऽग्निबलवर्णमेधा स्वरायुःसुखप्रदो वयःस्थापनः पंगुरुग्णभग्नस्तंभसंकुचितानिलाध्मानशूलारोचकोदावर्तपरिकर्तिकादिषु हित इति॥ स तु वस्तिस्त्रिविधः॥ आस्थापनमनुवासन उत्तरबस्तिश्च॥ तत्रास्थापनं दोषदूष्यानुसारेण नानाद्रव्यसंयोगादिनिर्वृत्तं॥ तस्य भेदा उत्क्लेदनं शोधनं शमनं लेखनं बृंहणं वाजीकरणं पिच्छावस्तिर्माघुतैलिकमित्यादयः॥ माधु
तैलिकस्य पर्याया यापनो युक्तरथो दोषहरः सिद्धबस्तिरिति॥ तेषां नामभिरेव स्वरुपमाख्यातं॥ तद्वयःस्थापनाद्दोषस्थापनाद्वाऽऽस्थापनमित्युच्यते॥ शरीररोहणाद्दोषनिर्हरणादचिंत्यवीर्यप्रभावतया चास्मिन्नूहासंभवान्निरुह हति॥ अनुवासनं यथार्हौषधसिद्धः स्नेहनार्थे स्नेहः॥ स्नेहविधौ स चतुर्धाऽभिहितः॥ तस्य भेदो मात्राबस्तिः स पेयस्नेहह्रस्वमात्रातुल्यः सेव्यः सदा च माधुतैलिकवद्बालवृद्धाध्वभारयानव्यायामचिंतास्त्रीनित्यस्त्रीनृपेश्वरसुकुमारदुर्बलानि-लभग्नाल्पाग्निभिर्निष्परिहारतया सुखो बल्यो वर्ण्यः सृष्टमलो दोषघ्नश्च॥ तथापि तौ नाजीर्णे योज्यौ॥ न च दिवास्वप्नस्तयोः सेव्यः॥ यतश्चासावनुवसन्नपि न टुष्यत्यनुवासरमपि वा दीयत इत्यनुवासनं॥ उत्तरवस्तिरपि स्नेहनेऽनुवासनवच्छोधने निरूहयदपि च केचिदाहुः॥ स निरूहादुत्तरमुत्तरेण वा मार्गेण दीयत इत्युत्तरवस्तिः। तत्रास्थाप्या गुल्मप्लीहानाहशुलशुद्धातीसारजीर्णज्वरप्रतिश्यायाढ्यरोगहृदयकुक्षिपार्श्वग्रहपर्वाभितापपार्श्वयोनिशूलांगसुप्तिशोषकंपगौरवातिलाघवांत्रकूजवातविण्मूत्रशुक्रसंगाश्मरीशर्करावृद्धिशुक्रार्तवस्तन्यनाशरजःक्षयोन्माददोषकृमिणकोष्ठविषमाग्निसशब्दाल्पाल्पोग्रगंधोत्थानादयो दोषभेदीयोक्ताश्च वातव्याधयः॥ विशेषेणैते हि परं बस्तिना नाशमुपयांति मूलच्छेदेन वृक्षवत्॥ अनास्थाप्यास्त्वतिस्निग्धोत्क्लिष्टदोषक्षतोरस्कातिकृशा निरन्नाः कृतवमनविरेकनस्यप्रसक्तच्छर्दिनिष्ठीविकाकासश्वासहि-ध्माऽशौबद्धछिद्रदकोदराध्मातालसकविसूचिकाऽऽमानीसारारोचकाल्पाग्निगुदशोफकुष्ठमदमेहार्तागर्भिणी चाप्रवृत्ताष्टममासा॥ तत्रातिस्निग्धोत्क्लिष्टदोषयोर्दोषानुत्क्लेश्योदरं मूर्छां श्वपथुं वा निरूहो जनयेत्॥ क्षतोरस्कस्यातिकृशस्य च क्षोभव्यापन्नशरीरमाशु पीडयेत्॥ अनिरन्नस्य वक्ष्यते॥ कृतवमनविरेकयोस्तु रिक्तं
देहं क्षतं क्षार इव दहेत्॥ स्नेहबस्तिस्तु सद्योऽग्निमवसाद्य श्लेष्मामयाय स्यात्॥ कृतनस्यस्यास्य विभ्रंशं भृशविवृतोर्ध्वस्रोतस्तया कुर्यात्॥ अनुवासनं तु दोषोत्क्लेशनं॥ प्रसक्तच्छर्द्यादीनां वायुर्निरूहमूर्ध्वं नयेत्॥ अर्शसस्यावृतमार्गत्वादनागच्छन्बस्तिः प्राणान्हिंस्यात्॥ स्नेहः पुनरर्शांस्यभिष्यंद्यामानाय स्यात्॥ बद्धोदराद्याध्मातानां भृशतरमाध्मानान्मृत्युः॥ अलसकार्तादीनां चामदोषात्॥ अरोचकार्तादीनां यथास्वमामयवृद्धिः॥ गर्भिण्याः पूर्वोक्तो दोषः॥य एवास्थाप्यास्तएवानुवास्याः॥ रूक्षातिदीप्ताग्नयः केवलानिलार्ताा श्व विशेषेण॥ ते हि परमनुवासनेनाप्याय्यंते मूलसेकेन वृक्षवत्॥ य एवानास्थाप्यास्तएवाननुवास्याः॥ तथा निरन्नपांडुरोगकामलाप्रमेहप्रतिश्यायप्लीहकफोदराढ्यवातवर्चोभेदार्त्तपीतविषगरपित्तकफाभिष्यंदगुरुकोष्ठातिस्थूलश्लीपदगल-गंडापचीकृमिणकोष्ठाः॥ तत्रातिस्निग्धादीनां यथास्वमुक्ताः पृथग्दोषाः॥ अपिच॥ अभुक्ते रिक्तकोष्ठस्य प्रयुक्तमनुवासनं॥ सरदूरगसूक्ष्मत्वैः क्षिप्रमूर्ध्वं प्रपद्यते॥ तेन वायोर्जयो न स्याद्वातधामन्यतिष्ठता॥ कायाग्नेराशु नाशश्च विशेषादनिवर्तिना॥ स्नेहः सद्योऽशिताहाररुद्धे त्वामाशयेऽनिलं॥ पक्वस्थं हंति पक्वस्थश्च्व्यवते चान्नपाकतः॥ निरुहश्चसमीरश्च तीक्ष्णवेगावुभावपि॥ तावन्नमूर्छितौ तीक्ष्णावधोऽन्नेन सहागतो॥ उर्ध्वं वा शकृता सार्द्धं संस्थितौ कोष्ट एव वा॥ समलाहारविष्टब्धौ हरेतामाशु जीवितं॥ भुक्त एवानुवास्योऽस्मान्न निरूह्योऽत्र भुक्तवान्॥ पांडुरोगार्तादीनां दोषानुत्क्लेश्य स्नेहबस्तिरुदरं जनयेत्॥ प्रतिश्यायादिवतां भूयएव दोषं बर्द्धयेत्॥ तयोस्तु नेत्रं सुवर्णादिधातुमणिशंखशृंगदंतास्थिवेणुनलखदिरकदरतिनिशतिंदुकादिदारुसारमयमृज्वकर्कशं गोपुच्छाकृतिगुलिका-मुखमूनवर्षवार्षिकसप्त द्वादशषोडशवर्षाणां विंशतिप्रभृतिषु च क्रमात्पंचषट्सप्ताष्टनवद्वाद
शांगुलप्रमाणंमूलेऽग्रे चातुरांगुष्ठकनिष्ठिकापरिणाहमर्द्धांगुलात्प्रभृत्यर्द्धार्द्धांगुलप्रवृद्धं त्र्यंगुलपर्यंतप्रवेशमूलच्छिद्रं वनमुद्गमाषकलायक्लिन्नकलायकंर्कधुवाह्यग्रच्छिद्रं मूलच्छिद्रप्रमाणांगुलैरग्रेयथास्वं सन्निविष्ठकर्णिकं कर्णिकांतःप्रतिबद्धसूत्रांतर्गृहीताग्रपिधानघनचैलवर्तिमूले द्व्यंगुलांतराले कर्णिकाद्वयं कारयेत्॥ वर्षांतरेषु च वयोबलशरीराण्यवेक्ष्य नेत्रप्रमाणमुत्कर्षयेत्॥ ततोऽजाविवराहहरिणगोमहिषान्यतमजं स्नेहमुद्गविमृदितं214 विगतच्छिद्गशिरा-ग्रंथिस्कंधं नातिवर्तुलं मृदु दृढं कषायरक्तं सुखसंस्थाप्यौषधप्रमाणं न्युब्जं विवृताननं विवेश्य बस्तिं कर्णिकयोर्दृढेन सूत्रेण घनं समं च बध्वा परिवर्त्य पुनश्चान्यद्बस्तिमुखवंधनार्थं सूत्रमुपधायानुगुप्तं निधापयेत्॥ बस्त्यभावे प्लवनीजगलांकपादमधू-च्छिष्टोपदिग्धघनसूक्ष्मतांतवान्यतमं निवेशयेत्॥ आस्थापनमात्रा तु प्रथमे वर्षे प्रकुंचः॥ ततः परं प्रतिवर्षं प्रकुंचमभिवर्द्धये-दाषट् प्रसृताः ततश्चोर्ध्वं प्रसृताभिवृद्धिः॥ प्राप्तानतीताष्ठादशसप्ततेस्तु द्वादश प्रसृताः॥ परं चातो दशैव॥ अन्ये पुनर्द्वादशप्रसृतस्याप्यष्टाविच्छंति॥ यथास्वमास्थापनमात्रा पादहीना माधुतैलिकेप्रयोज्या॥अनुवासने त्वेवमेवास्थापनस्य पाद इति॥ अथास्थापनीयमातुरं स्नेहस्वेदोपपन्नं कृतवमनविरेकमासेवितपेयादिसंसर्गक्रममुपजातबलमनुवा-सनार्हंपूर्वमेवानुवासयेत् शीतवसंतयोर्दिवा अन्यथा रात्राववेक्ष्य वा दोषादीन्। अन्यथा हि स्नेहोक्तामयप्रादुर्भावः॥ धान्वंतरीयाः पुनराहुः॥ न रात्रौ प्रणयेद्बस्तिं स्नेहोत्क्लेशो215 हि रात्रिजः॥ स्नेहवीर्ययुतः कुर्यादाध्मानं गौरवं ज्वरं॥ अन्हि स्थानस्थिते दोषे वन्हौ चान्नरसान्विते॥ स्फुटस्रोतोमुखं देहं स्नेहो यत्परिसर्पति॥ अल्पपित्तकफं रूक्षं भृशं वातरुजार्दितं॥ भुक्तं जीर्णाशनं कामं रात्रावप्यनुवासयेत्॥ केवलानिलनिपीडितं त्वशुद्धमप्यनिरूपितबलं चाप्यनुवासयेदात्ययित्वाद्व्याधेः॥तस्य विधिर्वमनादधिकतरं कृतमंगलमनुसुखमभ्यक्तमुष्णां-बुस्नातंयुक्तस्नेहमुचितात्पादहीनं द्रवपूर्वं लघूष्णं सानुपानमशनमशितवंतंकृतचंक्रमणमुत्सृष्टवि ण्मूत्रमनार्द्रहस्तमशंकनीयपरिवारं निवाते वेश्मनि प्रतते शयने नात्युच्छ्रितेस्वास्तृत ईषदुन्नतपाददेशे वामपार्श्वेन प्राक्शिरसं संवेशयेत्॥ अतिस्निग्धाशिनो ह्युभयमार्गसंसर्गात्स्नेहो मदमूर्च्छाग्निसादहृल्लासान्जनयति॥ रुक्षाशिनो विष्टंभं बलवर्णहानिं वा॥ अल्पमात्रद्रवाशिनो विसृष्टविण्मूत्रस्य चान्नावृतेन तदावरणाद्व्यापदं॥ चिरमशितवतो विदाहाभिमुखभक्तस्य ज्वरं कुर्यात्॥ यतश्च वामपार्श्वाश्रयाणि वन्हिग्रहणीगुदवलीमुखानि तानि तत्पार्श्वशायिनो निम्नानि भवंति॥ अतस्तथौषधमस्खलितमाप्नोति प्रवेशनिर्गमाविति संविष्टं चैनमृजुस्थितदेहं स्वबाहूपधानं प्रसारितवामसक्थिमाकुंचितेतरं तस्यैव चोपरि प्रसारितदक्षिणबाहुं कारयेत्॥ पूर्वमेव तु वैद्यो वर्त्या सुपिहिताग्रच्छिद्रं नेत्रं भाजनस्योपरि कृत्वा दक्षिणपादांगुष्ठांगुलिभ्यां कर्णिकाया उपरिष्टान्निष्पीड्याविवंधाय शताव्हासैंधवचूर्णावचूर्णितं प्रागेव नेत्रस्पर्शात्पूर्ववदभिमंत्रितं यथार्हंयथार्हौषधविपक्वंसुखोष्णं वस्तौ स्नेहमासिच्यावलीकोच्छ्वासं निःसारितवातबुद्बुदमौषधांते सूत्रेण द्विस्त्रिर्वा बस्तिमुखमावेष्ट्य दक्षिणपाणौ नेत्रमुपनिधाय तिष्ठेत्॥ ततो घृताभ्यक्ते पायौ वामहस्तप्रदेशिन्याऽभ्यक्तप्रवेशप्रदेशमपनीतवर्त्युत्तानवामहस्तांगुष्ठोदरपिहिताग्रं मध्यमाप्रदेशिन्युपगृहीतकर्णिकमृ-ज्वनुपृष्ठवंशमनुसुखमेकमना लाघवेन निष्कंपमद्रुतमविलंबितं नेत्रमाकर्णिकं प्रवेशयेत्॥ आतुरोऽपि तदनुलोममवलंबेत॥ ततश्च वैद्यो बस्तिमुखं दक्षिणहस्तांगुष्ठप्रदेशिनीभ्याममुंचन्नेत्रमचालयन् हस्तद्वयेनोत्तानेनैकग्रहणेनैवानिलाधिष्ठानभूतं किंचिदवशेषयन् न शनैरवेगमनुपीडयेत्॥ अन्यथा हि व्यापदोभवंति॥ ताः ससाधना सिद्धिषु वक्ष्यते॥ अन्ये तु त्रिंशन्मात्राः पीडनकालमाहुः॥ न च बस्तो दीयमाने क्षवकासहासजृंभास्पंदनान्याचरेत्॥ विण्मूत्रानिलवेगे तु नेत्रमाकृष्यबेगांते शेषं प्रणयेत्॥ अंते चोत्तानस्य स्फिजौ पाणितलेन त्रिचतुरो वारांस्ताडयेत्॥ तथा तत्पार्ष्णिभ्यां पादतश्च शय्यां त्रिरुत्क्षिपेत्॥ सोपधानस्य च प्रसारितसर्वांगस्य पार्ष्णिके मुष्टिनाऽऽहन्यात्॥ तथा पार्ष्ण्यंगुलिपादतलपिंडिकाः सरुजं चांगं स्नेहेन प्रतिलोमं वाक्शतमात्रं शनैर्विगृण्हीयात्॥ एवमाशु स्नेहो न निवर्तते समनुगच्छति चासमंतात्सिराः॥ ततःपरं तु स्नेहोक्तमाचारमनुवर्तेत॥ दीप्ताग्निं च सायं लघ्वन्नं भोजयेत्॥ नैव चानागतस्नेहमपि द्वितीये ऽहनि॥ न च तमनुवासयेत्॥ आगमनकालस्तु परो यामत्रयं ततःपरमनागच्छंतमहोरात्रमुपेक्षेत॥ तदाप्यनिवर्तमाने फलवर्तिभिर्लवणारनालप्रायैर्वा तीक्ष्णबस्तिभिः शोधयेत्॥ स्नेहव्यापत्सिद्धिं चेक्षेत॥ अतिरौक्ष्यादनागछन्नचेज्जाड्याद्युपद्रवाय स्यात्॥ ततस्तथाप्युपेक्षेत॥ शीघ्रनिवृत्ते तु विना मलेन केवले स्नेहे स्नेहमन्यं पुनर्योजयेत्॥ न ह्यसावतिष्ठन् कार्यं करोति॥ सुखोषितं चैनं तथा कृतवमनविरेचनास्थापनान्यतमं प्रातः शुंठीधान्यक्वाथमितरद्वोष्णमुदकं स्नेहशेषजरणाय वातकफोपशांतये च पाययेत्॥ ततोऽन्नकाले यथोक्तमन्नमश्नीयात्॥ न चानुवासितं पेयां पाययेत्॥ सा हि सस्नेहकोष्ठमेनमभिष्यंदयति॥ पुनश्च तृतीयेऽहन्यनुवासयेत्पंचमे वा॥ यथा वा स्नेहपक्तिः स्यात्॥ अतश्च दीप्ताग्निरुक्षवातोल्बणव्यायामनित्यान्प्रत्यहं॥ एवममुना क्रमेण दोषाद्यनुसारतस्त्रिचतुरैः स्नेहबस्तिभिरुपस्निग्धं शोधनेनास्थापनेन स्रोतो विशुत्ध्यर्थमास्थापयेत्॥ बाताधिक्यादस्निग्धं तु स्नेहनेन॥ अथैनं तृतीये पंचमे वाऽहनि किंचिदावृत्ते मध्यान्हे कृतमंगलस्वस्त्ययनम
प्यनिरूपितबलं चाप्यनुवासयेदात्ययित्वाद्व्याधेः॥तस्य विधिर्वमनादधिकतरं कृतमंगलमनुसुखमभ्यक्तमुप्णांबु-स्नातंयुक्तस्नेहमुचितात्पादहीनं द्रवपूर्वं लघुष्णं सानुपानमशनमशितवंतं कृतचंक्रमणमुत्सृष्टविण्मूत्रमनार्द्रहस्तमशंकनीय-परिवारं निवाते वेश्मनि प्रतते शयने नात्युच्छ्रिते स्वास्तृत ईषदुन्नतपाददेशे वामपार्श्वेन प्राक्शिरसं संवेशयेत्॥ अतिस्निग्धाशिनो ह्युभयमार्गसंसर्गाोत्सेहो मदमूर्च्छाग्निसादहृल्लासान्जनयति॥ रुक्षाशिनो विष्टंभं बलवर्णहानिं वा॥ अल्पमात्रद्रवाशिनो विसृष्टविण्मूत्रस्य चान्नावृतेन तदावरणाद्व्यापदं॥ चिरमशितवतो विदाहाभिमुखभक्तस्यज्वरं कुर्यात्॥ यतश्च वामपार्श्वाश्रयाणि वन्हिग्रहणीगुदवलीमुखानि तानि तत्पार्श्वशायिनो निम्नानि भवंति॥ अतस्तथौषधमस्खलितमाप्नोति प्रवेशनिर्गमाविति संविष्टं चैनमृजुस्थितदेहं स्वबाहूपधानं प्रसारितवामसक्थिमाकुंचितेतरं तस्यैव चोपरि प्रसारितदक्षिणबाहुं कारयेत्॥ पूर्वमेव तु वैद्यो वर्त्या सुपिहिताग्रच्छिद्रं नेत्रं भाजनस्योपरि कृत्वा दक्षिणपादांगुष्ठांगुलिभ्यां कर्णिकाया उपरिष्टान्निष्पीड्याविबंधाय शताव्हासैंधवचूर्णावचूर्णितं प्रागेव नेत्रस्पर्शात्पूर्ववदभिमंत्रितं यथार्हंयथार्हौषधविपक्वं सुखोष्णं वस्तौ स्नेहमासिच्यावलीकोच्छ्वासं निःसारितपातबुद्बुदमौषधांते सूत्रेण द्विस्त्रिर्वा बस्तिमुखमावेष्ट्य दक्षिणपाणौ नेत्रमुपनिधाय तिष्ठेत्॥ ततो घृताभ्यक्ते पायौ वामहस्तप्रदेशिन्याऽभ्यक्तप्रवेशमदेशमपनी-तवर्त्युत्तानवामहस्तांगुष्ठोदरपिहिताग्रं मध्यमाप्रदेशिन्युपगृहीतकर्णिकमृज्वनुपृष्ठवंशमनुसुखमेकमना लाघवेन निष्कंपमद्रुतमविलंबितं नेत्रमाकर्णिकं प्रवेशयेत्॥ आतुरोऽपि तदनुलोममवलंबेत॥ ततश्च वैद्यो बस्तिमुखं दक्षिणहस्तांगुष्ठप्रदेशिनीभ्याममुंचन्नेत्रमचालयन् हस्तद्वयेनोत्तानेनैकग्रहणेनैवानिलाधिष्ठानभूतं किंचिदवशेषयन् न शनैरवेगमनुपीडये
त्॥ अन्यथा हि व्यापदो भवंति॥ ताः ससाधना सिद्धिषु वक्ष्यंते॥ अन्ये तु त्रिंशन्मात्राः पीडनकालमाहुः॥ न च बस्तौ दीयमाने क्षवकासहासजृंभास्पंदनान्याचरेत्॥ विण्मूत्रानिलवेगे तु नेत्रमाकृष्यबेगांते शेषं प्रणयेत्॥ अंते चोत्तानस्य स्फिजौ पाणितलेन त्रिचतुरो वारांस्ताडयेत्॥ तथा तत्पार्ष्णिभ्यां पादतश्च शय्यां त्रिरुत्क्षिपेत्॥ सोपधानस्य च प्रसारितसर्वांगस्य पार्ष्णिके मुष्टिनाऽऽहन्यात्॥ तथा पार्ष्ण्यंगुलिपादतलपिंडिकाः सरुजं चांगं स्नेहेन प्रतिलोमं बाक्शतमात्रं शनैर्विगृण्हीयात्॥ एवमाशु स्नेहो न निवर्तते समनुगच्छति चासमंतात्सिराः॥ ततःपरं तु स्नेहोक्तमाचारमनुवर्तेत॥ दीप्ताग्निं च सायं लघ्वन्नंभोजयेत्॥ नैव चानागतस्नेहमपि द्वितीये ऽहनि॥ न च तमनुवासयेत्॥ आगमनकालस्तु परो यामत्रयं ततःपरमनागच्छंतमहोरात्रमुपेक्षेत॥ तदाप्यनिवर्तमाने फलवर्तिभिर्लवणारनालप्रायैर्वा तीक्ष्णबस्तिभिः शोधयेत्॥ स्नेहव्यापत्सिद्धिं चेक्षेत॥ अतिरौक्ष्यादनागछन्नचेज्जाड्याद्युपद्रवाय स्यात्॥ ततस्तथाप्युपेक्षेत॥ शीघ्रनिवृत्ते तु विना मलेन केवले स्नेहे स्नेहमन्यंपुनर्योजयेत्॥ न ह्यसावतिष्ठन् कार्यं करोति॥ सुखोषितं चैनं तथा कृतवमनविरेचनास्थापनान्यतमं प्रातः शुंठीधान्यक्वाथमितरद्वोष्णमुदकं स्नेहशेषजरणाय वातकफोपशांतये च पाययेत्॥ ततोऽन्नकाले यथोक्तमन्नमश्नीयात्॥ न चानुवासितं पेयां पाययेत्॥ सा हि सस्नेहकोष्ठमेनमभिष्यंदयति॥ पुनश्च तृतीयेऽहन्यनुवासयेत्पंचमे वा॥ यथा वा स्नेहपक्तिः स्यात्॥अतश्च दीप्ता-ग्निरुक्षवातोल्बणव्यायामनित्यान्प्रत्यहं॥ एवममुना क्रमेण दोषाद्यनुसारतस्त्रिचतुरैः स्नेहबस्तिभिरुपस्निग्धं शोधनेनास्थापनेन स्रोतोविशुत्ध्यर्थमास्थापयेत्॥ वाताधिक्यादस्निग्धं तु स्नेहनेन॥ अथैनं तृतीये पंचमे वाऽहनिकिंचिदावृते मध्यान्हे कृतमंगलस्वस्त्ययनम
भ्यक्तदेहं स्वेदितमुत्सृष्टमलमनाशितं नातिक्षुधितमवेत्यातुरमार्यावलोकितं नाथमार्यं तारामात्मभुवं धातारमश्विनाविंद्रमात्रेयं सप्त मुनीन्काशिविदेहपतिप्रभृतीनग्निवेश्यादींश्च तंत्रकारान्दी पगंधपुष्पफलबलिधूपैर्यज्ञ इव प्रकल्पितभागान् कृत्वौषधीवृद्धवैद्यद्विजातींश्च संपूज्य तद्विद्यसहितो दोषौषधादिबलेन यथार्हमुपकल्पयेद्बस्तिं॥ तत्र विंशतिमात्राणि पलान्यौषधानां मदनफलाष्टकं च क्वाथकल्पेन विपचेत्॥ क्वाथाच्चतुर्थांशं स्नेहमनिले षष्ठांशं पित्ते स्वस्थवृत्ते चाष्टमांशं तु कफे॥ सर्वत्र चाष्टममंशं कल्कस्य स्याद्यावता वा नात्यच्छसांद्रताभवेत्॥ गुडस्य पलं युक्त्या मधुसैंधवे यथायोग्यं च शेषाणि कल्पयेत्॥ सर्वाणि चैकध्यमुष्णोदककुंभीबाष्पाभितप्तानि खजमथितानि बस्तौ प्रक्षिप्यानुवासनवन्निरूहं प्रणयेन्नात्युष्णशीतं नातिमृदुतीक्ष्णं नातिस्निग्धरूक्षं नातितनुसांद्रंन हीनातिमात्रं नालवणातिलवणं नात्यम्लंच॥ तत्र बाष्पमात्रानुतापादौषधस्य विदाहो न भवति॥ खजप्रमथनात्तु क्वाथस्नेहादयः सम्यक् संप्रयुक्ताः सम्यगेव योगमारंभते॥अन्यथा पुनः क्वाथादीनामुल्बणोऽन्यतमोऽन्यतमं यथास्वं दोषमीरयेत्॥ अत्युष्णादीनां तु पृथग्व्यापदः साधनानि च सिद्धिषूत्तरकालमुपदेक्ष्यंते॥ अपिच॥ तीर्यक्प्रणीते हि न याति धारा गुदे व्रणः स्याच्चलिते च नेत्रे॥ दत्तः शनैर्नाशयमेति वस्तिःकंठं प्रधावेदतिपीडितस्तु॥ स्तंभं विधत्तेऽतिमृदुर्हिमश्चतप्ताम्लतीक्ष्णो भ्रमदाहमोहान्॥ स्निग्धो ऽतिजाड्यं पवनं तु रुक्षस्तन्वल्पमात्रालनणस्त्वयोगं॥ करोति मात्राभ्यधिकोऽतियोगं क्षोभंतु सांद्रः सुचिरेण चैति॥ दाहातिसारौलवणोऽतिकुर्यात्तस्मात्सुयुक्तं सममेव दद्यात्॥ अन्ये पुनराहुः॥ मात्रां त्रिपालकां कुर्यात्स्नेहमाक्षिकयोः पृथक्॥ कर्षार्द्धं माणिमंथस्य स्वस्थे कल्कपलद्वयं॥ सर्वद्रवाणां शेषाणां पलानि दश कल्पयेत्॥ माक्षिकं
लवणं तैलं कल्कं क्वाथमिति क्रमात्॥ आवपेत निरूहाणामेष संयोजने विधिः॥ दत्तमात्रे तूत्तानः सोपधानो निरुहवीर्येण देहव्याप्तये तन्मनास्तिष्ठेत्॥ उदीर्णवेगश्चोत्कटको विसृजेत्॥ आगमनकालस्तु परो मुहूर्तः॥ तदाप्यनागच्छन्नाशु मृत्यवे स्यात्॥ अतस्तत्रानुलोमिकस्नेहक्षारमूत्राम्लस्निग्धतीक्ष्णोष्णमन्यं प्रयोजयेत्॥ फलवर्तिस्वेदभयोत्त्रासादींश्च॥ वस्तिव्यापत्सिद्धिं चेक्षेत॥ स्वयं निवृत्तेतु पूर्ववद्द्वितीय तृतीयं चतुर्थं च दद्याद्यावद्वा सुनिरूढः स्यात्॥ तत्राद्यो ऽनिलं स्वमार्गादपकर्षति द्वितीयः पित्तं तृतीयः श्लेष्माणमिति॥ तस्य हीनसम्यगतियोगास्तु विरिक्तवत्॥ सम्यड्निरुढं तु कोष्णसलिलावसिक्तं तनुना जांगलरसेन भोजयेत्॥ स्नाताशितस्यास्य चला दोषशेषाः स्वस्थानमाश्रयंते॥ ततः पुनर्वातार्तमातुरं बृंहणीयमन्यं वा तद्विधमशितानंतरं सायं वा पुनरल्पलघ्वशितं यथास्वमनिलादिषु दशमूलादिसाधितेन तैलेनानुवासयेत्॥ तस्य हीनसम्यगतियोगाः स्नेहपीतयत्॥ विशेषस्तु सम्यगनुवासिते किंचित्कालं स्थित्वा स्नेहः सपुरीषोऽनिलानुगतः प्रवर्तत इति॥ भवति चात्र॥ एवं कफे स्नेहबस्तिमेकं त्रीन्वा प्रयोजयेत्॥ पंच वा सप्त वा पित्ते नवैकादश वाऽनिले॥ पुनस्ततोप्ययुग्मांस्तु पुनरास्थापनं ततः॥ कफपित्तानिलेष्वन्नं यूषक्षीररसैः क्रमात्॥ वातघ्नौषधनिः क्वाथत्रिवृतासैंधवैः स्मृतः॥ बस्तिरेकोऽनिले स्निग्धः स्वाद्वम्लोष्णरसान्वितः॥ न्यग्रोधादिगणक्वाथपद्मकादिसितायुतौ॥ पित्ते स्वादुहिमौ साज्यक्षीरेक्षुरसमाक्षिकौ॥ आरग्वधादिनिःक्वाथवत्सकादियुतास्त्रयः॥ रुक्षाः सक्षौद्रगोमूत्रास्तीक्ष्णोष्णकटुकाः कफे॥ त्रयश्चसन्निपातेऽपि दोषान् घ्नंतियतः क्रमात्॥ नाचार्यचरकस्यातो बस्तिस्त्रिभ्यः परं मनः॥ न हि दोषश्चतुर्थोऽस्ति पुनर्दीयते यं प्रति॥ उत्क्लेशनं शुद्धिकरं दोषाणां शमनं क्रमात्॥ त्रिधैव कल्पयेद्वस्तिमित्यन्येऽपि प्रचक्षते॥ दोषौषधादिबलतः सर्वमेतत्प्रमाणयेत्॥ सम्यड्निरूढलिंगं तु नासंभाव्य निवर्त्तयेत्॥ प्राक् स्नेह एकः पंचांते द्वाददशास्थापनानि च॥ सान्वासनानि कर्मैवं बस्तयस्त्रिंशदीरिताः॥ कालः पंचदशैकोऽत्र प्राक्स्नेहोंऽते त्रयस्तथा॥ षट् पंच वस्त्यंतरिता योगोऽष्टौ बस्तयोऽत्र तु॥ त्रयो निरूहाः स्नेहाश्चस्नेहावाद्यंतयोरुभौ॥ स्नेहवस्तिं निरुहं वा नैकमेवातिशीलयेत्॥ उत्क्लेशाग्निषधौ स्नेहा न्निरुहान्मरुतो भयं॥ तस्मान्निरुढः स्नेह्यः स्यान्निरुह्यश्चानुवासितः॥ स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषजित्॥ अष्टादशाष्टादशकान् वस्तीनां यो निषेवते॥ विधिना ना यथोक्तेन स भवेदजडोऽरुजः॥ सहस्रायुः श्रुतधरो वीतपाप्माऽमरप्रभः॥ वाजिस्यदो216 नागबलः स्थिरबुद्धींद्रियानलः॥ वस्तौ रोगेषुनारीणां योनिगर्भाशयेषु च द्वित्रास्थापनशुद्धेभ्यो विदद्याद्बस्तिमुत्तरं॥ आतुरांगुलमानेन तन्नेत्रं द्वादशांगुलं॥ वृत्तं गोपुच्छवन्मूलमध्ययोः कृतकर्णिकं॥ सिद्धार्थकप्रवेशाग्रं श्लक्ष्णं हेमादिसंभवं॥ कुंदाश्वमारसुमनःपुष्पवृंतोपमं दृढं॥ तस्य वस्तिर्मृदुलघुर्मात्रा शुक्तिर्विकल्प वा॥ अथ स्नाताशितस्यास्यस्नेहबस्तिविधानतः॥ ऋजोः सुखोपविष्टस्य पीठे जानुसमे मृदौ॥ हृष्टे मेंढ्रेस्थिते चर्जो शनैः स्रोतोविशुद्धये॥ मालतीपुष्पवृंताग्रपरिणाहां घनामृर्जुं॥ श्लक्ष्णां शलकां प्रणयेत्तया शुद्धेऽनुसेवनि॥ आमेहनांतं नेत्रं च निष्कंपं गुदद्वत्ततः॥ पीडिते ऽनुगते स्नेहे स्नेहबस्तिक्रमो हितः॥ बस्तीननेन विधिना दद्यात्त्रींश्चतुरोऽपि वा॥ अनुवासनवच्छेषं सर्वमेवास्यचिंतयेत्॥ स्त्रीणामार्तवकाले तु योनिर्गृण्हात्यपावृता॥ विदधीत तदा तस्मादनृतावपि चात्यये॥ योनिविभ्रंशशलेषु योनिव्यापद्यसृग्दरे॥ नेत्रं दशांगुलं मुद्गमवेशं चतुरंगुलं॥ अपत्यमार्गे योज्यं स्याद्व्यंगुलं मूत्रबर्त्मनि॥
मूत्रकृच्छ्रविकारेषु बालानां त्वेकमंगुलं॥ प्रकुंचो मध्यमा मात्रा बालानां शुक्तिरेव तु॥ उत्तानायाः शयानायाः सम्यक्संकोच्य सक्थिनी॥ ऊर्ध्वजान्वास्त्रिचतुरानहोरात्रेण योजयेत्॥ बस्तींस्त्रिरात्रमेवंच स्नेहमात्रां विवर्द्धयेत्॥ त्र्यहमेव च विश्रम्यप्रणिदध्यात्पुनरूयहं॥ पक्षाद्विरेको वमिते ततः पक्षान्निरूहणं॥ सद्यो निरूढश्चान्वास्यः सप्तरात्राद्विरेचितः॥ यथा कुसुंभादियुतात्तोयाद्रागं हरेत्पटः॥ तथा द्रवीकृताद्देहाद्बस्तिर्निर्हरतेमलान्॥ ॥ इति बस्तिविधिर्नामाष्टाविंशोऽध्यायः॥२८॥
अथातो नस्यविधिमध्यायं व्याख्यास्यामः॥ नासायां प्रणीयमानमौषधं नस्यं॥ नावनं नस्तःकर्मेति च संज्ञां लभते॥ नासा हि शिरसो हारं तत्रावसेचितमौषधं स्रोतःशृंगाटकं प्राप्य व्याप्य मूर्द्धानं नेत्रश्रोत्रकंठादिसिरामुखानि च मुंजादिषीकामिवासक्तामूर्ध्वजत्रुगतां वैकारिकीमशेषामाशु दोषसंहतिमुत्तमांगादपकर्षति॥ तत्त्रिधा विरेचनं बृंहणं शमनं च॥ तेषां विरेचनं जत्रूर्ध्वगतेऽधिगौरवशोफोपदेहकंडुस्तंभाभिष्यंदस्रावप्रसेकवैरस्यारोचकस्वरभेदकृमिप्रतिश्यायापस्मार-गंधाज्ञानग्रंथ्यर्बुददद्रुकोठादिषु श्लेष्मजेषु तीक्ष्णेन स्नेहेन शिरोविरेचनद्रव्यैर्वा सिद्धेन तेषां वा क्वाथचूर्णस्वरसैस्तैरेव वा यथाऽर्हद्रव्यश्लक्ष्णकक्लितालोडितैर्मधुसैंधवासवपित्तमूत्रैर्यथास्वंचोपदिष्टैर्योज्यं॥ तत्र भीरुस्त्रीकृशसुकुमारेषु स्नेहः॥ गलरोगसन्निपातज्वरातिनिद्रामनोविकारकृमिशिरोरोगाक्षिस्पंदनतिमिरकृच्छ्रविषाभिपन्नाभिष्यंदसर्पदष्टविसंज्ञेषु शेषौ॥ तेष्वेव च भूयसि दोषे शीघ्रकारिणि च चूर्णः॥ स हि नासायामावेगकरतरो भवति॥ वृंहणं सूर्यावर्तार्द्धावभेदककृमिशिरो-रोगाक्षिसंकोचस्पंदनतिमिरकृच्छावबोधदंतकर्णशुलनादनासामुखशोषवाक्प्तंगस्वरोपघातमन्यारोगापतानकावबाहुकनिद्रानाशादिष्वनिलोत्थेषु स्निग्धमधुरद्रव्यैस्तत्सिद्धैर्यथायथं चोपदिष्टैःस्नेहैर्निर्यासैर्धान्यमांसरसरक्तैश्च॥ शमनमकालवलीपलितखलतिदारुणकरक्तराजीव्यंगनीलिकारक्तपित्तादिषु यथास्वमुपदिष्टैः स्नेहैर्भेषजस्वरसादिभिः क्षीरोदकाभ्यां वा समदोषे वाऽणुतैलेनेति॥ तत्र स्नेहो मात्राभेदाद्द्विधा॥ मर्शः प्रतिमर्शश्च॥ विरेचनः शमनो वा नासया प्रणीयमानः कल्कोऽवपीडसंज्ञो विरेचनचूर्णस्तु प्रधमनारख्यः॥ परिशेषं तु नावनमवपीडकसंज्ञं॥ कल्कीकृतादौषधादवपीडितःस्रुतो रसोऽवपीड इत्यपरेषां॥ तत्र पुनस्तीक्ष्णो वैशेषिकी शिरोविरेचनसंज्ञा॥ तथाऽन्ये सर्वमेव विरेचनं नस्यमित्याहुः सद्यः श्लेष्मविरेचनसामान्यात्॥ अणुतैलविधानं तु मंजिष्ठामधुकप्रपौंडरीकजीवकर्षभक-काकोलीद्वयपयस्यासारिवाऽनंतानीलोत्पलांजनरास्नाविडंगतंडुलमधुपर्णीश्रावणीमेदाकाकनासासरलसालभद्रदारुचंदनैः सुपिष्टैरष्टगुणं पङ्गुणेन पयसा तैलं पचेत्॥ घृतं वा पित्तोल्वणेषु दोषेषु॥ अथवा चंदनागुरुपत्रदार्वीत्वङ्भधुकबलाद्वयबि-ल्वोत्पलपद्मकेसरप्रपौंडरीकविंडगोशीरन्हीबेरवन्यत्वङ्भुस्तसारिवाबृहतीद्वयांशुमतीद्वयजीवंतीदेबदारुसुरभिशतावरीः शतगुणे दिव्येंऽभसि दशभागावशिष्टं क्वाथयेत् ततस्तस्य क्वाथस्य दशमांशेन समांशं तैलं साधयेत्॥ दशमे चात्र पाके तैलतुल्यमाजमपि पयो दद्यात्॥ एतदप्यणुतैलं पूर्वस्माद्विशेषेणेंद्रियदार्ढ्यकरं केश्यं त्वच्यं कंठ्यं प्रीणनं बृंहणं दोषत्रयघ्नं च॥ अस्यानर्हास्तु भुक्तभक्तस्नेहमद्यगरतोयपीतपातुकामशिरःस्नातस्नातुकामसिरा दिव्यधस्रुतरक्तमूत्रितोचारिताभिहत-कृतवमनविरेकवस्तिकर्मगर्भिणीसूतिकानवप्रतिश्यायश्वासकासिनोऽनार्तवदुर्दिनेष्वपि॥ तत्र भुक्तभक्तस्य नस्येरितो दोष ऊर्ध्वस्रोतांस्यावृत्य छर्दिश्वासकासप्रतिश्यायान् जनयेत्॥ स्नेहादिपीतपातुकामानामक्षिनासास्यस्यंदोपहतितिमिरशिरो-रोगान्॥ शिरःस्नात-
स्यशिरोक्षिकर्णशुलकंठरोगपीनसहनुमन्यास्तंभार्दितशिरःकंपान्॥ स्नातुकामस्य मूर्द्धस्तैमित्यजाड्यारुचिपीनसान्॥ स्नातुकामस्य क्षामतामरुचिमग्निसादं च॥ मूत्रितोच्चारितयोर्भृशतरवेगधारणजान्विकारान्॥ अभिहतस्य तीव्रतरां रुजं॥ कृतवमनादीनां श्वासकासस्वरेंद्रियहानिशिरोगौरवकंडुकृमिदोषान्॥ गर्भिण्या भक्तद्वेषज्वरमूर्छाऽर्द्धावभेदकाः स्युरपत्यं च व्यंगं विकलेंद्रियमुन्मादापस्मारयुक्तं वा॥ सूतिकायाः स्नुतरक्तोक्तान्, दोषान्॥ नवप्रतिश्यायस्य स्रोतोरोधाद्दुष्टप्रतिश्यायकेशशातकृमिकंडूविचर्चिकाः॥ श्वासकासिनोर्व्याधिविवृद्धिः॥ अकाले दुर्दिने सहसैव शैत्याच्छिरोरुग्वेपथुस्तैमित्यतालुनेत्रकंडूपाकमन्यास्तंभकंठरोगप्रतिश्यायारूंषिकाः॥ तेषु यथास्वमायतनं दोषोद्रेकं चापेक्ष्य स्नेहस्वेदशिरोवक्रलेपसेकतीक्ष्णावपीडधूमगंडूषादीनाचरेत्॥ विशेषेण तु गर्भिणी रूक्षे नस्यकर्मणि वर्षाभूकाकोलीकपिकच्छुभिः शृतं पयः पिबेत्॥ बलाविदार्यंशुमतीमेदाभिर्वा॥ एभिरेव च श्रृतं हविः॥ वातहरसिद्धश्च स्नेहः शिरोबस्तौकर्णपूरणे च योज्यः॥ एवं च बृंहणमन्नपानं॥ भुक्तभक्तादिष्वपि चात्ययिकव्याध्यातुरमपेक्षेत॥ मर्शप्रमाणं तु प्रदेशिन्यंगुलीपर्वद्वयान्निमग्नोत्धृताद्यावत्पतति स बिंदुः॥ अमी दशाष्टौषड्बिंदवउत्तममध्यमकनीयस्योमात्राः॥ क्वाथादीनामष्टौ षट् चत्वारः॥प्रधमननस्यं तु षडंगुलद्विमुखया नाड्या मुखानिलेरितस्याकंठगते दोषानुरोधतश्च पुनःपुनर्योजनमिति॥ अथ नस्यार्हं नरमव्याहतवेगं धौतांतर्बहिर्मुखंस्निग्धस्विन्नशिरसं नातिक्षुधितं प्रायोगिकधूमपानविशुद्धस्रोतसं स्वास्तीर्णनिवातशयनस्थमुत्तानशीर्षमीषदुन्नतपादं प्रसारितकरचरणं जत्रूर्ध्वंपाणितापेन पुनः पुनः स्वेदयेत्॥ ततः कनकरजतताम्रान्यतमशुक्तिस्थितं प्रदेयमौषधत्रिभागमुष्णांबुप्रतप्तंकिंचित्प्रलंबितशिरसो वामहस्तांगुष्ठकनिष्ठिकाभ्यामाक्रम्य नयनप्रच्छादनं चतुर्गुणं
वासो मध्यमया नासाग्रमुन्नमय्य प्रदेशिन्यनामिकाभ्यां चैकैकं नासापुटं पर्यायेण पिधायेतरस्मिन्नासास्रोतसि दक्षिणहस्तेन प्रनाड्या पिचुना वाऽनवच्छिन्नधारमासिंचेत्॥ वातपित्तकफामयेषुक्रमेणापराण्हमध्यान्हपूर्वाण्हेषु॥ लालास्रावसुप्तप्रलाप-दंतकटकटायनक्रथनकृच्छ्रोन्मीलनपूतिमुखकर्णनादतृष्णार्दितशिरोरोगश्वासकासोन्निद्रेषु रात्रौ स्वस्थवृत्ते तु शीते मध्यान्हे शरद्वसंतयोः प्राण्हेग्रीष्मेऽपराण्हे वर्षास्वादित्यदर्शने पंचकर्माण्याचरतो बस्तिकर्मोत्तरकालमेव॥ न च हीनाधिकं सकृदेव सर्वमत्युष्णशीतमत्युन्नतावनतशिरसे संकुचितगात्रावयवाय देयं॥ तत्र हीनं दोषमुत्क्लेश्यन निर्हरेत्॥ गौरवारुचिकासप्रसे-कपीनसछर्दिकंठरोगान्कुर्यात्॥ अधिकमतियोगदोषान्॥ सकृदेव सर्वं दत्तमुत्स्नेहनशिरोरोगप्रतिश्यायघ्राणक्लेदानुच्छ्वा-सोपरोधं च॥ अत्युष्णं दाहपाकज्वररक्तागमशिरोरुग्दृष्टिदौर्बल्यमूर्च्छाभ्रमान्॥ अतिशीतं हीनदोषान्॥ अत्युन्नतशिरसो ऽपि सम्यक्शिरोऽप्रतिपद्यमानं तानेव॥ अत्यवनतशिरसोऽतिदूरगमनान्मूर्च्छाजाड्यकंडूदाहज्वरान् संकुचितगात्रस्य सम्यग्धमनीरव्याप्नुवद्दोषोत्क्लेशं वेदनां स्तंभं वा॥ यदि च नस्ये दीयमाने भेषजवेगादसात्म्यतया वा मूर्च्छा स्यात्ततः शिरोवर्जं शीतांभसा सिंचेत्॥ न च नस्ये निषिच्यमाने कोपहास्यव्याहारस्पंदनोच्छिंदनान्याचरेत्॥ तथाहि शिरोरुक्प्रतिश्यायकासतिमिरखलतिपलितव्यंगतिलकालकमुखदूषिकाणां संभवः॥ दत्तमात्रे तु नस्ये कर्णललाटकेश-भूमिगंडमन्यास्कंधपाणिपादतलान्यनुसुखं मर्दयेत्॥ शनैश्चोच्छिंद्येत्॥ अनभ्यवहरंश्च वामदक्षिणपार्श्वयोरौषधंनिष्ठीवेत्॥ सकफंहि तदभ्यवहृतमग्निमवसादयेत्॥ दोषं च संवर्द्धयेत्॥ एकपार्श्वनिष्ठीवने न सर्वाः सिरा भेषजेन सम्यग्व्याप्यंते॥ पुनः पुनश्चैनं स्वेदयेदाभेषजदर्शनान्नोच्छिंदेन्निष्ठीवेच्च॥ ततश्चैवमेव द्वितीयमंशमनुषेचयेत्तथा तृतीयं दोषादिबलेन वा॥ चिरेचने त्ववपीडे दोषबलमपेक्ष्य पश्चात्स्नेहमनुषेचयेत्॥ निवृत्तनस्यंचैवमुन्निद्रमुत्तानं वाक्शतमात्रं शाययेत्॥ ततः पुनरप्युत्क्लिष्टदोषशेषोपशांतये वैरेचनिकं यथार्हं वा धूमं पाययित्वोष्णोदकगंडूषान्धारयेत्॥ अथास्यस्नेहोक्तमाचारमादिशेत्॥अतिद्रवपानं च वर्जयेत्॥ पुनश्च तृतीये ऽहनि नस्यमवसेचयेत्॥ हिध्मास्वरोपघातमन्यास्तंभापतानकेषु शिरसि चानिलार्त्याद्यभिभूते प्रत्यहं सायं प्रातरुभयकालं वा॥अनेन विधिना पंच सप्त नव वा दिनानि दद्यादासम्यग्योगाद्वा॥ तत्र सम्यक्स्निग्धे मूर्द्धनि विरिक्ते वा सुखोच्छ्वासनिश्वासक्षवथुस्वप्नप्रबोधशिरोवदनेंद्रियविशुद्धयो भवंति यथोक्तव्याध्युपशमश्च॥ अयोगाति योगयोस्तु यथास्वं वात पित्तविकारास्तान्यथास्वमेव साधयेत्॥ अन्यांश्च पूर्वोक्तान् विकारान्॥ प्रतिमर्शस्तु क्षामक्षततृष्णामुखशोषवृद्धबालभीरुसुकुमारेष्वप्यकालवर्षदुर्दिनेष्वपि च योज्यः॥ न तु दुष्टप्रति श्यायबहुदोषकृमिणशिरोमद्यपीतदुर्बलश्रोत्रेषु॥ एषां ह्युदीर्णदोषत्वात्तावता दोषोत्क्लेशो भवति॥ तस्य पंचदशकालास्तेषां च गुणाः॥ प्रातर्दत्ते भुक्तवतश्चांते स्रोतोविशुद्धिः शिरोलाघवं मनःप्रसादश्च भवति॥ विण्मूत्रशिरोभ्यंगांजनकवलांते दृष्टिप्रसादः॥ दंतधावनांते दंतदृढता सौगंध्यं च॥ अध्वव्यायामव्यवायांते श्रमक्लमस्वेदस्तंसनाशः॥ दिवास्वप्नांतेनिद्राशोषगौरवप्रणाशोमनःप्रसादश्च॥अतिहसितांतेऽनिलप्रशमः॥ छर्दितांते स्रोतोलीनश्लेष्मव्यपोहः॥ दिनांते स्रोतोविशुद्धिः सुखनिद्राप्रबोधश्च भवति॥ भवति चात्र॥ प्रमाणं प्रतिमर्शस्य बिंदुद्वितयमिष्यते॥ बिंदुर्वा येन चोत्क्लेशो नानुत्क्लिष्टस्य जायते॥ निष्ठ्यूते यत्र वा स्नेहो न साक्षादुपलक्ष्यते॥ न नस्यमुनसप्तान्दे नातीताशीतिवत्सरे॥ न चोनाष्टादशे धूमः कवलो नोनपंचमे॥ न शुद्धिरुनदशमे न चातिक्रांतमततौ॥ आजन्ममरणं शस्तः प्रतिमर्शस्तु वस्तिवत्॥ मर्शवच्च गुणान्कुर्यात्स हि नित्योपसेवनात्॥ न चात्रयंत्रणा नापि व्यापद्भो मर्शवद्भयं॥ तैलमेव च नस्यार्थे नित्याभ्यासेन शस्यते॥ शिरसः श्लेष्मधामत्वात्स्नेहाः स्वस्थस्यनेतरे॥ आशुकृच्चिरकारित्वंगुणोत्कर्षापकृष्टता॥ मर्शे च प्रतिमर्शे च न विशेषो भवेद्यदि॥ को मर्शं सपरीहारं सापदं च भजेत्ततः॥ अच्छपानविचाराख्यौ कुटीवातातपस्थिती॥ अन्वासमात्राबस्ती च तद्वदेव विनिर्दिशेत्॥ इति नस्यविधिर्नामैकोनत्रिंशोऽध्यायः॥२९॥
अथातो धूमपान विधिमध्यायं व्याख्यास्यामः॥ धूमो हि शिरोक्षिकर्णशुलाभिष्यंदगौरवार्द्धावभेदकपीनसकासश्वासास्य-वैरस्यप्रसेकवैस्वर्यपूतिघ्राणमुखहिध्मागलरोगदंनशूलदौर्बल्यारुचिहनुमन्याग्रहकृमिकं डूपांडूत्वक्केशदोषक्षवथुनाशबाहु-ल्यतंद्राऽतिनिद्राक्रथनातिजत्रूर्ध्वगतवातकफव्याधिप्रशमाय प्रयुज्यते॥ तथा शिरः कपालेंद्रियमनोबृंहणप्रसादनाय च॥ शीतद्रव्यनिर्वृत्तोऽपि त्वग्निसंयोगादुष्णतया पित्तरक्तविरुद्धः॥ स त्रिविधो भवति॥ शमनो बृंहणः शोधनश्चः॥ तथा कासघ्नो वामनो व्रणधूपनश्च॥ तत्र शमनः प्रायोगिको मध्यम इति पर्यायाः॥ बृंहणः स्नेहनो मृदुरिति॥ शोधनो विरेचनस्तीक्ष्ण इति च॥ अधूमार्हास्तु विरिक्तदत्तबस्तिरात्रिजागरिता भिहतशिरोमधुदधिदुग्धमद्यस्नेहयवागूविषपीतमत्स्याशितपांडुरोगप्रमेहो-दराध्मानोर्ध्ववाततिमिररोहिणिकारक्तपित्तिनोऽत्युष्णेऽन्येपि॥ एषां हि भ्रमज्वरशिरोभितापेंद्रियोपघाततालुशोषपाकधूमा यनछर्दिमूर्च्छारक्तपित्तार्दितानि मृत्युं वा धूमो जनयति॥ अतिमात्रश्चान्येषामपि॥ तत्र वातकफान्यतरसंसृष्टं पित्तमुपलक्ष्य यथास्वं सर्पिःकषायपाननस्यास्यालेपांजनपरिषेकान्स्निग्धरूक्षशीतान् प्रयुंजीत॥ एतेन सर्वधूमोपघातप्रतीकारा व्याख्याता॥ विशेषतस्तु सर्वस्रोतोभिगते धूमे तीव्रतरा वेदना भवत्योषाध्माननेत्ररागश्वासकासपीनसांगस्वरसादाम्लकाः॥ तत्र घृतक्षीरेक्षुरसद्राक्षाशर्करोपयोगस्तद्विधैरेव वमनं कटुतिक्तैरपि च नस्यगंडूषाः॥ पानकालास्त्वष्टौ प्रायोगिकस्य निशामूत्रशकृदृंतधावनस्वेदनस्याहारशस्त्रकर्मांताः॥ एकादशमृदोः क्षुतव्यवायहसितचिरासितजृंभितमूत्रशकृदृंतधावनतर्पणपुटपाकशस्त्रकर्मांताः॥ पंच तीक्ष्णस्य नस्यांजनछर्दितस्नानाहःस्वप्नांताः॥ एषु हि कालेषु वातकफोत्क्लेशो भवति॥ नेत्रं तु बस्तिनेत्रद्रव्यभवं गोपुच्छाकारमग्रमूलयोः कनिष्ठिकांगुष्ठाग्रपरिणाहं राजमाषधूमवर्तिप्रवेशच्छिद्रमृजु त्रिकोशं श्लक्ष्णं शिथिलशलाकागर्भंशमनादिषु क्रमादातुरांगुलमानेन चत्वारिंशद्वात्रिंशच्चतुर्विंशत्यंगुलं कुर्यात्॥ कासघ्ने वमने च दशांगुलं व्रणधूपनार्थेऽष्टांगुलं कलायपरिमंडलं कुलत्थवाहि स्रोतइति॥ एवं हि धूमो दूरात्प्रवृत्तो नेत्रस्य पर्वच्छेदादूर्ध्वं तनुतया च शनैः श्लिष्यन्न बाधको भवति॥ कासघ्नादिषु नेत्राभावे देवनलवंशैरंडादीनामन्यतमां नाडीं योजयेत्॥ यथास्वं च धूमद्रव्याणां कल्केन श्लक्ष्णेनाक्षमात्रेण द्वादशांगुलायतामीषिकामंभस्यहोरात्रोषितां लेपयेत्॥ तत्र च नवांगुलगर्भांपंचप्रलेपामंगुष्ठस्थूलां यवमध्यां छायाशुष्कां वर्तिं कृत्वाविगतेषिकां च स्नेहाक्तामंगारेषु प्रेदीप्य नेत्रमूलच्छिद्रेच निधाय यथार्हंपानायोपनयेत् ॥ अथ धूमार्हः सुमना ऋजूपविष्टः प्राक्कृतोछ्वासनिश्वासो विवृतौष्टदशनो नेत्राग्रनिविष्टदृष्टिः पर्यायेणैकैकं नासापुटं पिधायेतरेणाक्षिप्य मुखेनोत्सृजेत्॥ मुखेन तु मुखेनैव न नासया दृग्विघातभयात्॥ तत्र प्रायोगिकं द्वौ द्वौ त्रींस्त्रीन्वाऽऽपानांस्त्रींश्च पार्यायान्कंठाच्चोर्ध्वमुत्क्लिष्टे दोषे पूर्वं नासया ततो मुखेन कंठे तु पूर्वमास्येन परं चाहोरात्रस्य हिः पिवेत्॥ स्नैहिकं त्रींस्त्रींश्चतुरश्चतुरो वाऽऽपानान् यावद्दाऽऽशुप्रवृत्तिस्तथाऽहोरात्रस्य॥ तीक्ष्णं नासाभ्यामेव चतुरश्चतुरश्चापानान् यावद्वास्रोतोलाघवं तथा त्रिश्चतुर्वाऽहोरात्रस्य॥ तत्राक्षेपविसर्गावापानइत्याहुः॥ कासघ्नं तु चूर्णं गुलिकां वा निर्धूमदीप्तस्थिरांगारपूर्णे सुसंस्थिते शरावे प्रक्षिप्यान्येन बुध्नवृत्तच्छिद्रेण शरावेणापिधाय निधाय च तत्र स्रोतसि नेत्रं मुखेनैव धूमं पिबेत्॥ उरःप्राप्तं च मुखेनैवोद्वमेत्॥ प्रशांते च धूमे पुनः क्षिपेत्पिबेच्च दोषशुद्धेर्लाघवाद्वा॥ तद्वद्वामनमपि तिलकृशरामप्यनतिघनां पीत्वा पिबेत्॥ तद्वच्च व्रणमपि धूपयेद्वैशद्याय क्लेदवेदनोपशमाय च॥ धूमस्यायोगे दोषोत्क्लेशाद्रोगवृद्धिः॥ अतियोगे प्रागुक्तमिति॥ भवति चात्र॥ हृत्कंठेंद्रियसंशुद्धिः शिरसो लाघवं शमः॥ यथेरितानां रोगाणां सम्यक्पीतस्य लक्षणं॥ शमनो वातकफयोः संसर्गे स्वस्थकर्मणि॥ बृंहणो मारुत्ते शस्तो धूमः संशोधनः कफे॥ इति धूमपानविधिर्नामत्रिंशोऽध्यायः॥३०॥
अथातो गंडूषादिविधिमध्यायं व्याख्यास्यामः॥ चतुर्विधो भवति गंडूपः स्नैहिकः शमनः शोधनो रोपणश्च॥ तेषामाद्यास्त्रयः क्रमेण वातपित्तकफामयघ्नाः॥ रोपणस्त्वास्यव्रणघ्नः शमनः स्तंभनः प्रसादनो निर्वापण इतिपर्यायाः॥ तत्र स्वाद्वम्ललवणोष्णैरौषधैः सिद्धो युक्तो वा नात्युष्णः स्नेहो मांसरसतिलकल्कोदकं क्षीरं वा स्नैहिकः॥ तिक्तकषायमधुरशीतैः पटोलारिष्टजंब्वाम्रमालतीपल्लवोत्पलमधुकक्वाथसितोदकक्षौद्रक्षीरेक्षुरसघृतादिभिः शमनः॥ कट्वम्ललवणोष्णैः शिरोविरेचनद्रव्यैः शुक्तमद्यधान्याम्लमूत्रान्यतमकल्कितालेडितैः शोधनः॥ रोपणस्तु कषायमधुरशीतैर्यथास्वं चोपदिष्टेः॥अपिच॥ दंतहर्षेदंतचाले मुखरोगे च वातिके॥ सुखोष्णमथवाशीतं तिलकल्कोदकं हितं॥ गंडूषधारणे नित्यं तैलं मांसरसोऽथवा॥ ऊषादाहान्विते पाके क्षते चागंतुसंभवे॥ विषे क्षाराग्निदग्धे च सर्पिर्धार्यं पयोऽथवा॥ वैशद्यं जनयत्यास्ये संदधाति मुखव्रणान्॥ दा
हतृष्णाप्रशमनं मधुगंडूषधारणं॥ धान्याम्लमास्यवैरस्यमलदौर्गंध्यनाशनं॥ तदेवालवणं शीतं मुखशोषहरं परं॥ आशु क्षारांबुगंडूषो भिनत्ति श्लेष्मणश्चयं॥ अथ निवाते सातपे सुखोपविष्टस्तन्मनाःस्विन्नमृदितगलकपोलललाटदेशो वरमध्यावरां क्रमाद्वक्रार्द्धत्रिभागचतुर्भागपूरणीं द्रवमात्रां कल्कं वा कोलप्रमाणं किंचिदुन्नमितास्यो ऽनभ्यवहरन्धारयेत्॥ कवले तु पर्यायेण कपोलौ कंठं च संचारयेत्॥ अयमेव च कवलगंडूषयोर्विशेषः॥ मुखे संचर्यते या तु सा मात्रा कवलः स्मृतः॥ असंचारा तु या मात्रा स गंडूषः प्रकीर्तितः॥ पुनश्चास्य स्वेदमर्दनान्याचरेत्॥ एवमुत्क्लिष्टः कफो वक्रं प्रतिपद्यते॥ तावच्च धार्यो यावत्कफपूर्णकपोलता स्रवद्घ्राणनेत्रता भेषजस्य वाऽनुपहतिः कफेन॥ एवं त्रीन्पंच सप्त वा गंडूषान्धारयेत्॥ यावद्वासम्पग्धूमपीतलिंगोत्पत्तिः॥तस्य स्वास्थ्येन योगं जाड्यरसाज्ञानारुचिप्रसेकोपलेपैरयोगं मुखशोषपाकक्लमारुचिहृदयद्रवस्वरसादकर्णनादैरतियोगमुपलक्षयेत्॥ तेषां यथास्वं प्रतिकुर्वीत॥ प्रतिसारणं तु त्रिविधं गंडूषोदितानां द्रव्याणां रसक्रिया कल्कश्चूर्णश्च॥ तदभिप्यंदाधिमंथगलशुंडिकादिषु युक्त्या प्रयोज्यं॥ अतिप्रसारणादूषाशोषदाहक्लेदशोफादयो भवंति॥ मुखालेपोऽपि त्रिविधो दोषघ्नो विषघ्नो वर्ण्यश्च॥ त्रिप्रमाणश्चतुर्भागत्रिभागार्द्धांगुलोत्सेधः॥ न चालिप्तमुखोऽतिभाष्यहास्यक्रोधशोकरोदनस्वेदनाग्नयातपदिवास्वप्नान्सेवेत॥ कंडूत्वक्शोषपीनसदृष्ट्युपघातभयात्॥ न च शुष्यन्नुपेक्षितव्यः॥ शुष्को हिछविं दूषयति तमार्द्रयित्वाऽपनयेत्॥ आलेपांते च मुखमभ्यज्यात्॥ न तु योज्यो रात्रिजागरिताजीर्णदत्तनस्यारुचिहनुग्रहप्रतिश्यापिनां॥ सम्यक्प्रयुक्तश्चाकालवलीपलित-तिमिरव्यंगतिलकादीन्प्रशमय
ति॥ स्वस्थस्यदृष्टिबलं पुंडरीककांतवक्रतां च करोति॥ मूर्द्ध तैलं पुनश्चतुर्धाभिद्यते॥ अभ्यंगः परिषेकः पिचूर्बस्तिरिति॥
यथोत्तरं ते बलिनः॥ तत्राभ्यंगो रूक्षकंडूमलादिषु प्रयुज्यते॥ परिषेकस्त्वरूंषिकाशिरस्तोददाहपाकवणेषु॥ केशशातस्फुटनधूपनमेत्रस्तंभेषुपिचुः॥ बस्तिस्तु प्रसुप्त्यार्दितरात्रिजागरितनासास्यशोषतिमिरवाक्संगेषु चातिदारुणेषु॥ तेष्वभ्यंगादयः प्रसिद्धस्वरूपाः॥ शिरोबस्तिविधिस्तु बस्तिं सुमृदितं द्विमुरवं शिरःप्रमाणमाकर्णप्रदेशं द्वादशांगुलविस्तारं कुर्यात्॥ अथ शुद्धतनोः सायं रात्रौ वा स्वभ्यक्तस्विन्न सोपाश्रयासनोपविष्टस्य केशांते श्लक्ष्णं त्र्यंगुलं सुसूक्ष्मेण माषपिष्टेन सद्यःसुखांबुमृदितेनोभयतः प्रदिग्धं वस्त्रपट्टं बध्रीयात्॥ ततस्तस्योपरि संधाय बस्तिं बस्तिमूलं च दृढमवलीकंसमं चैलवेणिकया वध्वा पुनर्माषपिष्टेनापरिस्रावि कृत्वा यथाव्याधिदोषदूष्यहितं सिद्धमन्यतमं स्नेहं सुखोष्णमासेचयेद्यावत्केशभूमेरुपर्यं
स्ताग्रं दक्षिणं जानुमंडलं॥ निमेषोन्मेषकालेन समं मात्रा तु सा स्मृता॥ ॥ इति गंडूषादिविधिर्नामैकत्रिंशोऽध्यायः॥३१॥
अथात आश्चोतनांजनविधिमध्यायं व्याख्यास्यामः॥ आश्चोतनं सर्वाक्षिरोगेष्वाद्य उपक्रमः॥ नानाद्रव्यकल्पनया चरागाश्रुघर्षरुग्दाहतो दभेदपाकशोफकंडूघ्नं॥ अव्यक्तेष्वेवं गुणमेव पक्ष्मपरिहारेणाक्षिकोशालेपनं तच्च पुनर्बिडालकसंज्ञं॥ तयोरकालो रात्रिः॥ कालस्तु सर्वमहर्दिनोत्पत्तिर्वा॥ निवातशरणशयनस्थस्य विरोध्य नेत्रमपांगेऽभ्यंजनं कृत्वा वामहस्तेनोन्मील्य दक्षिणहस्तेन शुक्त्यवसक्तया पिचुवर्त्या दश द्वादशाष्टौवा बिंदून् कनीनकदेशे द्व्यंगुलादवसेचयेत्॥ एवमनासन्नबिंदुपातेनाक्षिताडनाद्रागादयो जायंते॥ आश्चोतितं च मृदुना चैलेन शोधयेत्॥ अन्येन चोष्णांबुप्लुतेन वातकफयोः स्वेदयेत्॥ आश्रोतनं च तयोः कोष्णं॥ सुशीतं पित्तरक्तविकारेषु॥ तत्तु नात्यर्थं तीक्ष्णमुष्णं शीतं वा प्रभूतमूनमपरिस्रावितं वा योजयेत्॥ अतितीक्ष्णमुष्णं वा दाहरागपाकदृष्टिदौर्बल्यानि करोति ॥ अतिशीतं स्तंभाश्रुघर्षनिस्तोदान्॥ अतिमात्रं कषायवर्त्मतासंकोचस्फुरणोन्मीलनप्रवातासहत्वघर्षान्॥ ऊनप्रमाणान्न रोगशांतिः॥ अपरिश्रुतमश्रुघर्षवेदनाः॥ नेत्रे च प्रणिहितमौषधं कोशसंधिसिराशृंगाटकघ्राणास्यस्रोतांसि गत्बोर्ध्वं प्रवृत्तमपवर्त्तयति दोषं॥ यदा चाश्चोतनेन पित्तश्लेष्मशोणितोत्थेषु नयनामयेषु संशोधनैर्विशुद्धस्य दूषिकाघनत्वपैच्छिल्यकंडूद्रेकश्वयथुम्लानताराग-विच्छेदैः पक्वलिंगमुपलक्षितं भवति तदा नेत्रमात्राश्रये व्याधावंजनं प्रयोज्यं॥ न दोषवेगोदये न चानिर्हृतदोषे॥ तत्र हि दोषोत्क्लेशेन रागादिवृद्धिः शुक्रपाकतिमिरोत्पतिश्च॥ तत्तु लेखनं रोपणं स्नेहनं प्रसादनमिति चतुर्विधं भवति॥ तत्राम्लादिभीरसैःपंचभिः शुक्रार्मादिषु लेखनं॥ तिक्तकषायैः सस्नेहैरभिष्यंदेषु रोपणं॥ सर्पादिवसादिभिर्वाततिमिरादिषु स्नेहनं॥
स्वादुशीतैः सस्नेह्रैरभिष्यंदांते सूर्योपरागाशनिविद्युत्संपातभूतपिशाचात्यद्भुतदर्शनाद्युपहतायां दृष्टौ स्वस्थवृते च प्रसादनं॥ प्रसादनएव च चूर्णस्तीक्ष्णांजनातिसंतप्ते चक्षुषि प्रयुज्यमानः प्रत्यंजनसंज्ञां लभते॥ षड्विधं वा प्रतिरसभेदादंजनं॥ द्विविधमेव वा तीक्ष्णं मृदु च॥ कल्पना तु त्रिविधा॥ पिंडो रसक्रिया चूर्णश्च॥ यथापूर्वं ते बलिनः॥ तस्मात्प्रबलमध्याबलेष्वामयेषु क्रमात्तान्प्रयोजयेत्॥ तत्र पिंडो हरेणुमात्रस्तीक्ष्णस्य॥ रसकिया विडंगमात्रा॥ तद्द्विगुणा मृदोः॥ चूर्णो द्विशलाकः॥ मृदोस्त्रिशलाकः॥ पात्रे तु कुर्यात्सौवर्णे मधुरं॥ राजतेऽम्लं॥ मेषशृंगमये लवणं॥ कांस्ये तिक्तं ॥ वैदूर्यमयेऽश्ममये वा कटुकं॥ ताम्रमयआयसे वा कषायं॥ नलप्लक्षपद्मकस्फटिकशंखान्यतमे शीतं॥ एवमव्यापन्नगुणं भवति॥ वर्तिघर्षणार्थं च शिला तीक्ष्णा निम्नमध्यानुकारिणी217 पंचांगुलायता त्र्यंगुलविस्तीर्णा॥ शलाकाः पंच कनकरजतताम्रलोहोद्भवा अंगुली च॥ तत्राद्ये प्रसादनेंऽजने स्नेहने च॥ मध्या लेखने॥ अंत्ये रोपणे॥ मृ-दुत्वादंगुल्येव प्रधानं॥ अंतःसरुजेऽक्षिण सैव प्रयोज्या॥ शेषा दशांगुला राजमाषस्थूलाः सुश्लक्ष्णास्तनुमध्या मुखयोर्मुकुलाकाराः कलायपरिमंडलाश्च॥ अथांजनंनातिशितोष्णाभ्रतायां वेलायामुभयकालं च योज्यं॥ तथा सततं नैव वा॥ सरुजे चाक्षिण प्राक्पश्चादितरस्मिन्॥ अन्यथांऽजनोद्वेगसंकुचितेंऽतः सम्यगौषधं नानुप्रविशेत्॥ तत्रैवमतिशीतादिषु यथास्वं दोषोत्क्लेशाद्विकारपरिवृद्धिः॥ न च योज्यं कुद्धभीतशंकितशोकितश्रांतमात्रविरिक्तधूममद्यपीतदत्तनस्यरात्रिजागरितवेगि-तरुदितपिपासितज्वरितछर्दितांततांतनेत्राभिहतशिरोरुजार्तशिरःस्नातानुदितादित्येषु॥ एष्वंजनादूष्मोर्ध्वगः संरंभाश्रुवेदनाविलत्वोषारागदूषिकानिस्तोदकृच्छ्रोन्मीलनश्वयथुशुक्र
तिमिरादीन् जनयेत्॥ अथ समसुखोपविष्टस्योपविष्टो वामांगुष्टेन वर्त्मोत्तरमुत्क्षिप्य कृष्णभागस्याधः कनीनकादपांगं यावदंजनं नयेदनल्पमप्रभूतमनतितीक्ष्णमनच्छमसांद्रमकर्कशमद्रुतमविलंबितमतितिर्यग्दृष्ट्यकंपितमघट्टितमनाक्रांतं च ॥ चूर्णे तु गतागतं कुर्यात्॥ अन्यथा हि रागाश्रुशुक्राद्युत्पत्तिः॥ ततोंऽजनानुगमनायानुन्मीलयन् शनैरंतश्चक्षुः संचारयेत्॥ एवमप्यनुगच्छति वर्त्मनी किंचिच्चालयेत्॥ न तु सहसोन्मेषणनिष्पीडनप्रक्षालनानि कुर्यात्॥ सबाह्योत्क्लिष्टदोषस्तंभ-भयात्॥ अपिच अपेतौषधसंरंभं निर्वृत्तं नयनं यदा॥ व्याधिदोषर्तुयोग्याभिरद्भिः प्रक्षालयेत्तदा॥ सचैलेनाथ नयनं सव्यांगुष्ठेनदक्षिणं॥ ऊर्ध्ववर्त्मनि संगृह्य शनैः शोध्यं समंततः॥दक्षिणांगुष्ठकेनैवं शोध्यं सव्यं च लोचनं॥ वर्त्मप्राप्तोंऽजनाद्दोषो रोगान्कुर्यादतोऽन्यथा॥ तीक्ष्णांजनांते चैनं धूमं पाययेत्॥ यस्यांजिते कंडूजाड्योपदेहाःस्युस्तस्य तीक्ष्णमंजनं धूमं वा पुनरेवावचारयेत्॥ एतदेव दुर्विरक्ताक्षिलक्षणं साधनं च॥ अतिविरेकात्संतापनिस्तोदशुलस्तंभश्रुदारु-णप्रतिबोधकषायवर्त्मताशिरोरुग्दृष्टिदौर्बल्यानि॥ तत्र शीतमाश्चोतनं प्रत्यंजनं वा॥ सम्यग्विरेकाद्यथास्वमामयोपशमः सुखोन्मीलननिमीलनवातातपसहत्वानि चेति॥ भवति चात्र॥ रोपणादिष्वपि तथा योगादीननुचिंतयेत्॥ दोषोदयानुसारेण प्रतिकुर्वीत तेषु च॥ ॥ इत्याश्चोतनांजनविधिर्नाम द्वात्रिंशोऽध्यायः॥३२॥
अथातस्तर्पणपुटपाकविधिमध्यायं व्याख्यास्यामः॥ यन्नयनं परिताम्यति परिशुष्कं रूक्षं स्तब्धं जिम्हं निम्नमाविलमवनद्धं जीर्णपक्ष्म तथाकृच्छ्रोन्मीलशिरोत्पातशिराहर्षार्जुनशुक्रतिमिराभिष्यंदाधिमंथान्यतोवातवातपर्यायशु-ष्काक्षिपाकाल्पशोफादिरोगातुरमपगतरागाश्रुदूषिकावेदनं तत्र तर्पणं योजयेत्॥ न त्वशांतोपद्रवेऽक्षिणि ना
तिशीतोष्णवर्षदुर्दिने न नस्यानर्हेषु च॥ तद्वत्पुटपाकमपि॥ अथ दिवसस्याष्टमे भागे गते शेषे वा निर्वातातपरजोधूमे कृतनीलपीतान्यतरजवनिके218 वेश्मनि जीर्णभक्तस्य सुखशयनगतस्योत्तानस्य सुमृदितमाषपिष्टकल्केन नेत्रकोशाद्बहिर्द्व्यंगुलोच्छ्रायावाधारौ परिमंडलावसंबाधौ समावपरिस्राविणौ कृत्वा तत्रोष्णोदकप्रविलीनं निमीलिते नेत्रे यथास्वौषधविपक्वंक्षीरं सर्पिः सर्पिर्मंडं वा ऽवसेचयेद्यावन्निमग्नान्यक्षिपक्ष्माणि भ्रूरोमाणि च॥ ततः शनैरस्योन्मेषमाचरतोः मात्रा गणयेत्॥ वर्त्मजेषु विकारेषु शतं संधिजेषु त्रीणि शुक्लजेषु पंच कृष्णजेषु सप्त दृष्टिजेष्वष्टौ सहस्रमधिमंथेषु॥ प्रतिदोषं तु वाते सहस्रं पित्ते षट्शतानि कफे पंच स्वस्थकर्मणिच॥ ततोऽस्यापांगदेशे शलाकयाऽऽधारद्वारं कृत्वा स्नेहं भाजनेस्रावयेत्॥ अधारौ चापनीय कल्केनाक्षिकोशौ प्रमृज्य स्नेहेरितकफोपशांतये विरेचनं यथार्हंधूमं पाययेत्॥ सुखोदकप्रक्षालितमुखं चैनं यथाव्याधि भोजयेत्॥ आतपाकाशभास्वद्दर्शनानि च परिहरेत्॥ अनेन विधिना प्रत्यहं वायावेकांतरं रक्तपित्तयोर्द्व्यंतरं कफे स्वस्थे च॥ यथादोषोत्कर्षं संसर्गसन्निपातयोः॥ एवमेकाहं त्र्यहं पंचाहं वा कुर्यादातृप्तेर्वा॥ तृप्तातृप्तातितृप्तलिंगानि तु क्रमात्स्वास्थ्यवातपित्तकफविकारैरादिशेत्॥ यदा तु सम्यग्योगप्राप्तं तर्पणं भवति तदा तद्विधेष्वेवरोगेषु पुटपाकं विदध्यात्॥ स त्रिविधः॥ स्नेहनो लेखनः प्रसादनश्च॥ तत्र स्नेहनमानूपसाधारणमांसमेदोमज्जवसाभिः स्वादुद्रव्यैश्च क्षीरपिष्टैरूक्षेऽक्षिण प्रयोजयत्॥ लेखनं जांगलमृगपक्षिमांसयकृद्भिर्मुक्ताप्रवालशंखताम्रायःसमुद्रफेनकासीसस्रोतोजसैंधवादिभिश्चलेखनद्रव्यैर्दधिमस्तुपिष्टैः स्निग्धे॥ प्रसादनीयं तु जांगलमृगपक्षियकृत्हृदयमज्जवसाभिर्मधुरद्रव्यैश्च स्त्रीस्तन्यक्षीराज्यपिष्टैः॥ स तु वातपित्तरक्तदृष्टिदौर्बल्यव्रणनाशनः कफ
विरुद्धः॥ अथ बिल्वमात्रं वेसवारीकृतं मांसपिंडंतन्मात्रेणैवौषधपिंडेन संसृष्टैरंडपटोलपत्रैः स्नेहनादिषु क्रमाद्वेष्टयित्वा कुशमुंजसूत्रान्यतमेन वेष्टयेत्॥ मृत्प्रलेपनं चात्र द्व्यंगुलोत्सेधं कृत्वा धवधन्वनमधूकन्यग्रोधकाश्मर्यराजादनार्जुननक्तमाल-पाटलीनामन्यतमैः काष्ठैः शकृता वा गोमहिषयोः पचेत्॥ अग्निवर्णं चैनमपनीय विगतमृत्सुत्रपत्रं कृत्वावस्त्रेण पीडयेत्॥ तेन रसेन सायं तर्पणवत्पूरयेन्नेत्रे॥ धारयेच्च स्निग्धे शतद्वयं मात्राणां लेखने शतं प्रसादने त्रीणि शतानि॥ तर्पणवदेव धूमपानं प्रसादनवर्जं॥ सुखोष्णौ च पूर्वौ॥ शीतः प्रसादनः पुटपाकस्त्वेकाहं द्व्यहं त्र्यहं वा योज्यः॥ द्विगुणश्च तर्पणपुटपाकयोः परिहारः॥ बद्धाक्षश्च मालतीमल्लिकाकुसुमैर्निशां निवसेत्॥ तथा पक्वातिसारेऽपि पुटपाकस्यायमेव विधिरिति॥ भवति चात्र॥ सेकेंऽजने तर्पणे च पुटपाके च ये गदाः॥ जायेरन्विधिविभ्रंशाद्यथास्वं तान्प्रसाधयेत्॥ इति तर्पणपुटपाकविधिर्नाम त्रयस्त्रिंशोऽध्यायः॥३३॥
अथातो यंत्रशस्त्रविधिमध्यायं व्याख्यास्यामः॥ मनःशरीरवाधकराणि शल्यानि॥ तेषां नानाविधानां नानाप्रदेशविनिविष्टानामाह रणेऽभ्युपायो यंत्राण्यर्शोभगंदरादिषु च शस्त्रक्षाराग्न्यवचारणे शेषांगरक्षणे च॥ तथा बस्तिप्रणयनादौ शृंगालाबुघटिकादयो जांबवौष्ठादीनि॥ अन्यान्यपि चानेकरूपाण्यनेककार्याणि स्वस्थातुरोपकरणानि॥ अतः कर्मवशात्तेषामियत्ताऽवधारणमशक्यं॥ अन्ये पुनरेकोत्तरं यंत्रशतमित्याचक्षते॥ इह तु समासतः षोढा निर्दिश्यंते॥ स्वस्तिकसंदंशतालनाडीशलाकारव्यान्यनुयंत्राणि च॥ तत्र स्वस्तिकयंत्राणि कंकसिंहगृध्रकुररादिविविधव्यालमुखान्याका-रानुगताभिधानानि॥ प्रायशो लौहान्यष्टादशांगुलानि॥ मसूराकारप्रांतैःकीलैरवबद्धानि मुलेंऽकुशवदावृत्त219वारंगाण्यस्थिवि-दष्टशल्योद्धरणार्थानि॥ तेषां सिंहव्याघ्र
भुजंगमकरादिमुखानि दृश्यवारंगेषु शल्पेषु प्रयोजयेत्॥ इतरेषु तु यथायोगं व्रणाकारानुरोधेन कंककाककुररादिमुखानि ॥ सनिबंधनोनिर्निबंधनश्च षोडशांगुली संदंशौ द्वौभवतः॥ तौ त्वड्याससिरास्नायु-गतशल्योद्धरणार्थमुपदिश्येते॥ तथाऽन्य संदंशः षडंगुलोर्द्धांगुलविस्तृतो वक्रद्विबाहुरंगुष्ठांगुलिप्रांतसमागमाकृतिः सूक्ष्मशल्याक्षिपक्ष्म व्रणाधिमांसाहरणे ॥ तद्वच्च मुचुंडी सा तु ऋजुश्लक्ष्णा सूक्ष्मदंता सक्तद्विभुजा मूले रुचकनद्धा वलयपीडनाच्छिन्नार्मशेषगंभीरव्रणाधिमांसाहरणे॥ तालयंत्रे अपि द्वे द्वादशांगुले॥ मत्स्यगलतालकवदेकतालकद्वितालके220 कर्णनाडीशल्याहरणार्थे॥ नाडीयंत्राणि सुषिराण्यनेकप्रकाराण्यनेकप्रयोजतान्यनेकतोमुखान्येकतोमुखानि च भवंति॥ स्रोतोगतशल्पदर्शनाहरणार्थं रोगदर्शनार्थं क्रियासौकर्यार्थमाचूषणार्थं चेति॥ तानि स्रोतोद्वारपरिणाहानि यथायोगप्रदीर्घाणि च कुर्यात्॥ कंठशल्यदर्शनार्थं नाडींदशांगुलायतां पंचांगुलपरिणाहां॥ द्विकर्णस्य तु वारंगस्य संग्रहार्थं त्रिच्छिद्रमुखांनाडींतत्प्रमाणतः कुर्यात्॥तथा चतुष्कर्णस्य पंचच्छिद्रमुरवां॥ शल्यनिर्घातनींतु पद्मकर्णि-काकारशीर्षां द्वादशांगुलांत्र्यंगुलसुषिरां॥ अर्शोयंत्रं त्रिविधं॥ तल्लौहं दांतं शार्ङ्गंवार्क्षं वा गोस्तनाकारं चतुरंगुलायतं हस्ततलायतमेकं पंचांगुलानि परिणाहेन पुंसां॥ षडंगुलानिस्त्रीणां॥द्विच्छिद्रं दर्शनार्थमेकच्छिद्रं कर्मणि॥ तथाहि॥ सुखेन दर्शितं शस्त्रक्षाराग्न्यनतिक्रमश्च छिद्रं तु त्र्यंगुलायतमंगुष्ठोदरावस्तारं॥ यदंगुलमवशिष्टं तस्याधोऽर्द्धांगुलमुपरि तथाऽर्द्धांगुलोच्छ्रितोद्वृत्तकर्णिकं॥ तृतीयं तु तादृशमेव शम्याख्यं पार्श्वच्छिद्ररहितं पीडनार्थं॥भगंदरे तु छिद्रादूर्ध्वमोष्ठमप
नीय कुर्वीत॥ तद्वच्च घ्राणार्शोर्बुदयंत्रं नाड्याकारं द्व्यंगुलायतमेकच्छिद्रं॥ प्रदेशिनीपरिणाहं॥ तथांऽगुलित्राणकमंगुलिप्रवेशनं किंचित्स्थूलवृत्तौष्ठमूर्ध्वाधछिद्रं गोस्तनाकृति चतुरंगुलं दांतं शार्ङ्गंवार्क्षं वा॥ तत् दृढेन सूत्रेण मणिबंधप्रतिवद्धमास्यविस्रावणे योज्यं॥ योनिव्रणदर्शने यंत्रं षोडशांगुलं मध्ये सुषिरं चतुर्भित्तं चतुःशलाकं संचारिण्या मुद्रयोर्ध्वं निबद्धमुत्पलमुकुलवक्रंमूले शलाकाऽऽक्रमणादूर्ध्वविकासि च॥ नाडीव्रणप्रक्षालनाभ्यंजनयंत्रे षडंगुले बस्तियंत्राकारे मुखतोऽकर्णिके मूलमुखपोरंगुष्ठकलायप्रवेशस्रोतसी॥ दकोदरे नाडीमुभयतोद्वारां पिच्छनाडीं वा युंज्यात्॥ स्नेहबस्त्युत्तरवस्तिप्रधमनधूममूत्रवृद्धिरुद्धमणिकप्रभृतिषु यथास्वमेव च यंत्राण्युक्तानि॥ शृंगं तु हस्वमध्यदीर्घमष्टदश221द्वादशांगुलायतं व्यंगुलप्रवेशमुखमग्रे सर्षपोमच्छिद्रं तनुचर्मनद्धं चूचुकाकारं च॥ तद्वातविषरक्तांबुदुष्टस्तन्याचूषणार्थं॥ श्लेष्मरक्तचूषणार्थस्त्वलावुः॥ स द्वादशांगुलदीर्घोऽष्टादशांगुलपरिणाहस्त्रिचतुरंगुल-वृत्तसमुच्छ्रितमुस्वः परिवेष्टितप्रदीप्तकुशबल्वजपिचूगर्भश्च प्रयोज्यः॥ तद्वदेव च मानकर्मभ्यां घटी॥ सा तु गुल्मोन्नमनविलयनार्थं च॥ शलाकायंत्राण्यपि नानाकृतीनि नानार्थानि यथायोगदीर्घपरिणाहानि च भवंति॥ तेषामेषणकर्मणी द्वे गंडूपदमुखे॥ स्रोतोगतशल्याहरणार्थेऽष्टांगुलनवांगुले द्वे मसूरदलमुखे॥ षट्शंकवः॥ तेषां व्यूहनाक्रयौद्वादशषोडशांगुलौद्वावहिफणामुखौ॥ तथा चालनार्थे दशद्वादशांगुलौ शरपुंखमुखौ॥ आहरणार्थे बडिशमुखौ॥ तथा गर्भशंकुः शंकुतुल्योऽष्टांगुलः प्रणताग्रोमूढगर्भाहरणे॥ तथा सर्पफणाग्रवदेकाग्रवक्रंतदाख्यमश्मर्याहरणार्थं॥ तथा दंतनिर्घातनं चतुरंगुलं शरपुंखमुखं स्थूलवृत्तप्रांतं॥ षट् कार्पासकृतोष्णीषाणि विविधव्रणक्लेदक्षारप्र
मार्जनक्रियासु॥ तेषामपि दूरासन्नघ्राणव्रणोपयोगिनी षट्सप्तांगुले द्वे॥ तद्वदेव कर्णेऽष्टांगुलनवांगुले द्वे॥ पायौ222 दशद्वादशांगुले द्वे॥ कर्णशोधनं सुचमुखमश्वत्थपत्राग्रं॥ तथा क्षाराग्निकर्मार्थं जांबवौष्ठानि द्वादशदशाष्टांगुलानि क्रमाांद्व्यगुलांगुलार्द्धांगुलफलानि॥ शलाकाश्च स्थूलसूक्ष्मदीर्घहस्वमध्याः॥ अंत्रवृद्धावर्द्धेंदुवक्रा मध्योर्ध्वनिर्गतशलाका-ग्रहणा॥ नासार्शोर्बुदयोः कोलास्थिदलमात्रमुखा खल्लीतीक्ष्णोष्ठा॥ क्षारविषौषधप्रणिधानाय च दर्व्यस्तिस्रोऽष्टांगुला दर्व्याकाराः कनीनिकाऽनामिकामध्यमांगुलीनखपरिमाणनिम्नमुखाः॥ तथांऽजलिकांऽजलिस्थाना॥ उत्तरबस्त्यंजनादिषु यथायथमेवोपदिष्टानि॥ अनुयंत्राण्ययस्कांतरज्जुचर्मांतर्वस्त्राश्ममुद्गरपाणिपादतलांगुलिजिव्हा दंतनखमुखशाखावालचलो-ष्मकालपाकहर्षभयानि॥ एतानि देहे सर्वस्मिन्देहस्यावयवेऽपि वा॥ संधौ कोष्ठे धमन्यां च यथायोगं प्रयोजयेत्॥ यंत्रकर्माणि तु निर्धातनपूरणबंधनव्यूहनवर्तनचालनविवरणपीडनमार्गशोधनविकर्षणाहरणव्यंजनोन्नमनबिनमनभंजनोन्म-थनाचूषणैषणदारणर्जुकरणप्रक्षालनप्रधमनांजनप्रमार्जनानि बाहुल्येन चतुर्विंशतिर्भवंति॥ निवर्तते साध्ववगाहते च ग्राह्यं गृहीत्वोद्धरते चयस्मात्॥ यंत्रेष्वतः कंकमुखं प्रधानं स्थानेषु सर्वेष्वविकारि यच्च॥ शस्त्राणि षड्विंशतिर्भवंति॥ तद्यथा॥ दंतलेखनमंडलाग्रवृद्धिपत्रोत्पलपत्राध्यर्द्धधारमुद्रिकाकर्तरीसर्पवक्रकरपत्रकुशपत्राटामुखांतरमुखशरारिमुखत्रिकूर्चकुठारिकाव्रीहिमुखशलाकावेतसपत्राराकर्णव्यधनसूचीसूचीकूर्चस्वजैषणीवडिशनखशस्त्राणि॥ प्रायशश्चतानि षडंगुलानि सुध्मातावर्तितायोघटितान्युत्पलपत्रनीलानि सुग्रहाणि सुरूपाणि सुधाराणि सुसमाहितमुखाग्राण्यकरालानि प्रत्येकं च प्रायो द्वित्राणि स्वप्रमाणार्द्धचतुर्थभागफलानि तानि व्याधिदेशवशात्प्रयुंजीत॥
॥ तेषां नामभिरेवाकृतयः प्रायेण यंत्रवद्व्याख्याताः॥ तत्र द्वयमाद्यं लेखने॥ वृद्धिपत्रादीनि त्रीणि पाटने चत्वारि भेदने॥ मंडलाग्रादीन्यष्टौ छेदने॥ कुशपत्रादीनि पंच प्रच्छाने॥ कुठारिकादीनि षट् व्यधने॥ तेषामाराव्रीहिमुखे भेदने छेदने॥ सूच्यः सीवने॥ सूचीकूर्चः कुट्टने॥ खजो मथने॥ एषण्येषणे भेदने च॥ बडिशो ग्रहणे॥ नखशस्त्रमुद्धरणे छेद्यभेद्यलेख्यप्रच्छानेषु च॥ इतिद्वादशविधे कर्मण्यूपयोगः॥ विशेषतस्तु दंतलेखनं प्रबद्धवच्चतुरस्रमेकधारं दंतशर्करालेखने॥ मंडलाग्रंप्रदेशिन्यंतर्नखविस्तृतफलं तल्लेखनविच्छेदनयोर्वर्त्मरोगोत्पन्नदंतमंसदुर्निविष्टव्रणगलशुंडि-कादिषु प्रयोज्यं॥ वृद्धिपत्रं क्षुराकारं तत्तून्नते गंभीरे वा श्वयथावृजु सूच्यग्रमिष्टं॥ विपरीते तु पृष्ठतोऽवनतधारं॥ अंगुलीशस्त्रकं मुद्रिकानिर्गतमुखं वृद्धिपत्रमंडलाग्रांर्धारान्यतमतुल्यार्द्धांगुलायतधारं प्रदेशिनीप्रथमपर्वप्रमाणार्पणवृत्तमु-द्रिकंदृढसूत्रप्रतिवद्धं कंठरोगेषु प्रयुज्यते॥ कर्तरी त्रिभागपाशा व्रणस्नायुकेशसूत्रच्छेदनार्थं॥ सर्पवक्रं वक्रमर्द्धांगुलफलं घ्राणकर्णार्शोर्बुदच्छेदनार्थं॥ करपत्रं दशांगुलं द्व्यंगुलविस्तारं सूक्ष्मदंतं खरधारं सुत्सरुनिबद्धमस्थिच्छेदनार्थं॥कुशपत्रारामुखे द्व्यंगुलफले॥ अंतर्मुखमर्द्धचंद्राकाराध्यर्द्धांगुलफलं॥ कुठारिका पृथुदंडा गोदंताकाराऽर्द्धांगुलफलाऽस्थ्याश्रितसिराव्यधार्थं॥ व्रीहिमुखमध्यर्द्धांगुलफलं मांसलप्रदेशसिराव्यधार्थं वर्ध्मोदरगुल्मविद्रध्यादिव्यधनभेदनार्थं च॥ शलाकोभयतोमुखी कुरबकमुकुलाग्रा ताम्रमयी लिंगनाशव्यधार्था॥ आरा चतुरस्राऽर्द्धांगुलवृत्तमुखा तावत्प्रवेशा बहलकर्णपालीव्यधार्था पक्वामशोफसंदेहभेदनार्था च॥ कर्णव्यधनं त्र्यंगुलायतमंगुलसुषिरं घनं वा यूथिकामुकुलाग्रं॥ सूच्यस्तिस्रो वृत्ता निगूढदृढपाशाः॥ तत्र मांसलेष्ववकाशेषु त्र्यस्राग्रा॥ संध्यस्थिव्रणेष्वल्पमांसेषु च द्व्यंगुला वृत्ता॥ पक्वामाशय
योर्मर्मसु च सार्द्धांद्व्यंगुला धनुर्वक्राबीहिमुखा च॥ सूचीकूर्चो वृत्तैकमूलोऽग्रे सुनिबद्धसप्ताष्टसूचिकः कुष्टश्वित्रव्यंगेद्रलुप्तादिषु॥ खजस्त्वर्द्धांगुलायतोऽष्टकंटकमुखस्ताम्रो लौहो वा नासाभ्यंतरतः शोणितमोक्षणार्थः॥ एषण्यौ द्वे सुश्लक्ष्णस्पर्शे॥ तयोरेकाऽष्टांगुला गतिकोशशल्यस्राववत्सु व्रणेपु सुषिरान्वेषणे॥ अन्या सूचीसंस्थान। क्षाराक्तसूत्रप्रतिबद्धा नाडीनां भगंदरगतीनां च भेदने॥ बडिशोऽत्यवनतमुखः सूचीतीक्ष्णाग्रो ग्रहणे गलशुंडिकामर्देः॥ नखशस्त्रमष्टांगुलमेकतोऽश्वकर्णमुखमन्यतोवत्सदंतमुखं सूक्ष्मशल्योद्धृतौ॥ अनुशस्त्राणि तु जलौकःक्षाराग्निसूर्यकांतकाचस्फटिककुरुविंदनखशाकशेफालिकादिखरपत्रसमुद्रफेनशुष्कगोमयादीनि॥ स्ववुत्ध्या च विकल्प्प विविधानि यंत्रशस्त्राणि तत्कर्माणि चोपकल्पयेत्॥हस्तएव चात्र प्रधानतमस्तदधीनत्वाद्यंत्रशस्त्राणां॥ तत्र दीर्घहस्वस्थूलवक्रतनुवक्रविषमग्राह्यग्राहिशिथिलता इत्यष्टौयंत्रदोषाः॥ तथाऽऽद्याः पंच कुंठखंडखरधारताश्चेत्यष्टावेव शस्त्रदोषाः॥अन्यत्र करपत्रात्॥ तत्र क्षारेण पायितं शस्त्रं शरशल्यास्थिच्छेदनेपूदकेन मांसच्छेदने तैलेन पाटनभेदनेषु सिराव्यधस्नायुच्छेदनेषु च प्रयुंजीत॥ धारा पुनश्छेदनानामासूरी लेखनानामर्द्धमासुरी व्यधनानां विस्रावणानां च कौशिकी॥ तेषां छेदनभेदनलेखनानां वृंतसाधारणे भागे प्रदेशितीमध्यमांगुष्ठैः सुसमाहितं गृण्हीयात्॥ वृंताग्रे विस्रावणानि॥ प्रदेशिन्यंगुष्ठकाभ्यां हस्ततलप्रच्छादितवृंताग्रं व्रीहिमुखं मुखे॥ मूलेष्वाहरणार्थानि॥ पाशस्योपरि मध्ये संदंशं कर्तरीं च॥ शेषाण्यपि यथायोगं क्रियासौकर्येण॥ निशानी तु तेषां सुश्लक्ष्णशिलिका माषमुद्गप्रभा॥ धारासंस्थापनं च शाल्मलीफलकं॥ नचाधिगतशास्त्रोऽप्यकृत223योग्यः सुबहुशो वाऽप्य
दृष्टकर्मा शस्त्रकर्मणि प्रवर्तेत सिरास्नायुमर्मादिव्याप्तत्याद्देहस्य॥ तस्मात्सरोम वर्मपुष्पफलालाबुत्र पुसोदकपंकपूर्णदृतिवस्तिवर्ध्ममांसपेशिकोत्पलनालादिषु यथार्हमाहरणादियोग्यां कुर्यात्॥ तथा घटपार्श्वस्त्रोतस्यंभोभिः पूर्णेन नेत्रेण बस्तिपीडनयोग्यां॥ अपि च॥ युक्तकारी भिषग्बुभुत्सुः224 पुरुषं संपूर्णगात्रमविषहतमदीर्घव्याधिपीडितं निष्कृष्टांत्रमवहंत्यामापगायां मुंजवल्वजवेष्टितं पंजरस्थमप्रकाशे देशे कोथयेत्॥ तं सम्यक् प्रकुथितं चोद्धृत्यायतदेहं कृत्वोशीरवेणुकूर्चादीनामन्यतमेन शनैः शनैरवघृष्य त्वगादीन् सर्वानेवबाह्याभ्यंतरानंगसिरास्नाय्वादीनवयवानाचार्योपद-र्शितेनागमेन चक्षुषा च लक्षयेत्॥ इति शास्त्रेण यदृष्टं दृष्टं प्रत्यक्षतश्च यत्॥ समागतं तदुभयं भूयो ज्ञानं विवर्द्धयेत्॥ स्यान्नवांगुलविस्तारः सुघनो द्वादशांगुलः॥ क्षौमपत्रोर्णकौशेयदुकूलमृदुचर्मजः॥ विन्यस्तपाशः सुस्यूतः सांतरोर्णास्यशसकः॥ शलाकापिहितास्यश्च शस्त्रकोशः सुसंचयः॥ इति यंत्रशस्त्रविधिर्नाम चतुस्त्रिंशोऽध्यायः ॥३४॥
अथातो जलौकोविधिमध्यायं व्याख्यास्यामः॥ ॥नृपाढ्यभीरुसुकुमारबालस्थविरनारीणामसृग्विस्रावणाय जलौकसो योजयेत्॥ तास्तु द्विविधाः सविषा निर्विषाश्च॥ तत्र दुष्टांबुसर्पमंडूकमत्स्यादिशवकोथमूत्रपुरीषजा रक्तश्वेतातिकृष्णतनुस्थू-लचपलपिच्छिलाः स्थूलमध्यारोमशाः शक्रायुधवद्विचित्रोर्ध्वराजीचिता वा सविषाः॥ तद्वंशादाहशोफपाककंडूपिटिकाविस-र्पज्वरमूर्च्छाश्वित्रोत्पत्तिः॥ तत्र विषपित्तरक्तहरां क्रियां कुर्वीत॥ पद्मोत्पलसौगंधिकादिसुगंधविमलविपुलसलिलशैवालजाः शैवालश्यावा मिलोर्ध्वराजयो वृत्ताश्च निर्मिषाः॥ सर्वासां च परं प्रमाणमष्टादशांगुलानि॥ तत्र चतुःपंचषडंगुला मृषु योजयेत्॥ गजवाजिष्वपराः॥ ताः सुकुमारास्तनुत्वचो ऽल्पशिरस्का
बृहदधरकायाश्च स्त्रियः॥ विपरीताः पुमांसोऽर्द्धचंद्राकृतिपुरोवृत्ताश्च॥ तत्र बहुदोषेषु चिरोत्थितेषु चामयेषु पुमांसो योजयितव्याः॥ स्त्रियो विपरीतेषु॥ जलौकसस्त्वार्द्रचर्माद्युपायैर्गृहीत्वा सुरभिपंकगर्भे नवे घटेस्थापयेत्॥ शृंगाटककसेरुकशालूकशैवालमृणालवल्लूरमृत्स्नापुष्करबीजचूर्णं स्वादुशीतस्वच्छं च तोयमन्नपानार्थे ताभ्यो दद्यात्॥ लालादिकोथपरिहारार्थमेव च त्र्यहात्त्यहात्पूर्वमन्नपानमपनीयान्यत्प्रक्षिपेत्॥ पंचाहाच्च तद्विधएब घटांतरे ताः संचारयेत्॥ तासां तु दुष्टशोणितासम्यग्वमनात्प्रततपातनाच्च मूर्च्छा भवति॥ तासामंभोभिः पूर्णभाजनस्थानामचेष्टयाऽऽहारानभिलाषेण च ज्ञात्वा ता विवर्जयेत्॥ इतरास्तुहरिद्रासर्षपकल्कांभसि मुक्तपुरीषा अवंतिसोमे तक्रेवा पुनश्च समाश्वासिता जले सुखोपविष्टस्य सन्निविष्टस्य वा मृद्गोमयचूर्णाभ्यामनुसुखं विरूक्ष्य दंशदेशं योजयेत्॥ अलगंतीषु क्षीरघृततवनीतरुधिरान्यतमबिंदून्न्यसेत्प्रच्छेद्वा॥ अश्वखुखच्च वक्रं निवेश्योन्नतस्कंधा दशंति यदा च शिशुवच्छ्वसंत्याशिरःस्पंदोर्मिवेगैः पिबंति तदा मृदुवाससा प्रच्छादयेत्॥ सेचयेच्चांभसामल्पाल्पं॥ यथा च हंसःक्षीरोदकात्क्षीरमादत्ते॥ तद्वदुत्क्लिष्टे रक्ते जलौकाः प्राग्दुष्टमसृक्॥ यदा च तद्दंगे तोदः कंडूर्वा तदा शुद्धरक्तरक्षणार्थमपनयेत्॥ लौल्याच्च दंशममुंचंत्याः क्षौद्रं लवणचूर्णं वा मुखे दद्यातू॥पतितां तु तंदुलकंडनोपदिग्धगात्रां तैललवणाक्तमुखीं पुच्छादामुखमनुलोमं शनैः पीडयन् सम्यग्वामयेत्॥ ततः पूर्ववत्सन्निदध्यात्॥ सप्तरात्रं च ताः पुनर्न पातयेत्॥ अशुद्धे तु रक्ते मधुना गुडेन या दंशान्किंचिद्विघट्टयन् स्रावयेत्॥ स्रुतरक्तस्य च सद्यो दंशं शीताभिरद्भिः प्रक्षाल्य सर्पिःपिचुनाऽवगुंठयेत्॥स्थिररक्तं चोत्क्लिष्टशोणितशेषप्रसादनाय कषायमधुरशिशिरैः सघृतैः प्रदेहैः प्रदिह्यात्॥ तत्र योगादीन्सिराव्यधवदुपलक्षयेत्प्र
तिकुर्वीत च॥ दुष्टरक्तापगमाच्छ्वयथुशैथिल्यंदाहरागशृलोपशमश्च॥ रक्तं तु पित्तेन दुष्टमलाबुघटिकाभ्यां न निर्हरेदग्निसंगाद्वातकफाभ्यां च दुष्टं निर्हरेत्॥ तथा कफेन न शृंगेण स्कन्नत्वाद्वातपित्ताभ्यां तु दुष्टं निर्हरेत्॥ अथ प्रच्छाद्यांगं तनुवस्त्रपटलावनद्धांप्रांतेन शृंगेण चूषेत्॥ तथा प्रदीप्तपिचुगर्भाभ्यामलाबुघटिकाभ्यामिति॥ भवति चात्र॥ गात्रं बध्वोपरिदृढं रज्वा पट्टेन वा समं॥ स्नायुसंध्यस्थिमर्माणि त्यजन्प्रच्छानमाचरेत्॥ अधोदेशप्रविसृतैः पदैरुपरिगामिभिः॥ न गाढघनतीर्यग्भिर्न पदे पदमाचरेत्॥ प्रच्छानेनैकदेशस्थं सुप्तं शृंगादिभिर्हरेत्॥ ग्रथितं तु जलौकोभिरसृग्व्यापि सिराव्यधैः ॥ प्रच्छानं पिंडिंते वा स्यादवगाढे जलौकसः॥ त्वक्स्थेऽलाबुघटीश्रृंगं सिरैव व्यापकेऽसृजि॥ वातादिधाम वा शृंगजलौकोऽलाबुभिः क्रमात्॥ स्रुतासृजः प्रदेहाद्यैः शीतैः स्याद्वायुकोपतः॥ सतोदकंडूः शोफस्तं सर्पिषोष्णेन सेचयेत्॥ इति जलौकोविधिर्नाम पंचत्रिंशोऽध्यायः॥३५॥
अथातः सिराव्यधविधिमध्यायं व्याख्यास्यामः॥ बहवो हि रक्तावसेचनोपायाः प्रागभिहितास्तेषामन्येषां च विरेकादीनामुपक्रमाणां तत्साध्येष्वामयेषुसिराव्यधः प्रधानं॥ अमुना हि ते समूलाः शोषमायांति केदारसेतुभेदेन शाल्यादयइव॥ तथाच॥ सिराव्यधश्चिकित्सार्द्धं संपूर्णं वा चिकित्सितं॥ शल्यतंत्रे स्मृतो यद्वद्वस्तिः कायचिकित्सिते॥ यथा रक्तमधिष्टानं विकाराणां विकारिणां॥अन्यन्न हि तथा दूष्यं कर्मेदं प्रथमं ततः॥ तत्रांबुशारीरमाहारसारभूतं रसाख्यमविकृतमविकृतेन तेजसा रंजितमिंद्रगोपाकारं च शशशोणितगुंजाफलालक्तकपद्मसुवर्णवर्णं धौतं च विरज्यमानं मधुरमीषल्लवणं स्निग्धमशीतोष्णं गुरु पित्तैकचयकोपोपशमनं सौम्याग्नेयंप्रकृत्या रक्तमाहुस्तदा दूष्यं॥ दोषमिति केचित्॥ उभयात्मकमन्ये॥ तच्चैवं
विधमेव विधिवदाहारविहाराभ्यासाद्विशुद्धं वलवर्णसुखायुषं योनि॥ इतरथा पुनः शरत्कालस्वभावादेव वा प्रदुष्टमभिष्यंदाधिमंथशुक्रार्मति मिररक्तराजीशिरस्तोदभेददाहकंडूकर्णरोगमुखपाकपूतिघ्राणास्योपदेहत्वग्गुल्मप्ली हविद्रधिवीसर्पज्वररक्तपित्तकुष्ठपिटिकाश्लीपदोपदंशशोफवातशोणितरक्तमेहक्षुद्ररोगाग्निस्वरनाशांगगौरवसादारोचकाम्लोद्गारलवणास्यताक्रोधमोहस्वेदमदमूर्च्छासन्यासकंपतंद्रादीनां॥ ये च शीतोष्णस्निग्धरुक्षाद्यैः सर्वदोषप्रतिपक्षैः सम्यगप्युपक्रांताः साध्या अपि न सिध्यंति ते च रक्तप्रकोपजाः॥ तस्मात्तेष्वत्युद्रिक्तरक्तविस्रावणाय यथास्वं सिरां विध्येत्॥ न तु स्नेहपीतकृतपंचकर्मान्यतमगर्भिणीसूति काजीर्णिकामलाक्लीबोनषोडशातीतसप्ततिवर्षाभिघातातिस्रुतर-क्तादुष्टरक्तातिस्निग्धास्विन्नातिस्विन्नाक्षेपकपक्षाघातातसारछर्दिश्वासकासोदररक्तपित्तार्शःपांडुरोगसर्वांगशोफपीडितानां॥ न चाव्यधनीयायं त्रितानुत्थिताः सिरा न तिर्यङ्ग चातिशीतोष्णवाताभ्रेषु॥ तत्र स्नेहपीतादिषु सम्यग्विद्धा अपि सिरा न स्रवंत्यतिस्रवंति वा॥ सम्यक् स्निग्धस्विन्नस्य पुनर्नवीभूता225 दोषाः शोणितमनुप्रविष्टाः सम्यक् प्रच्यवंते॥ न त्वेवं निषेधो विषसंसृष्टोपसर्गात्ययिकव्याधिषु॥ प्रति रोगे तु व्यधं प्रति विभागः॥ शिरोनेत्ररोगेषु ललाट्या उपनास्याऽपांग्या वा॥ कर्णरोगेषु परितः कर्णौ॥ नासारोगेषु नासाग्रे प्रतिश्याये तु नासाललाटस्थाः॥ मुखरोगेषु जिव्हौष्ठतालुहनुगाः॥ जत्रूर्ध्वं ग्रंथिषु ग्रीवाकर्णशंखमूर्द्धगाः॥ अपस्मारे हनुसंधिमध्यगाः॥ उन्मादे तूरोपांगललाटगाः॥ विद्रधौ पार्श्वशूले च पार्श्वकक्षास्तनांतरस्थाः॥ चतुर्थके स्कंधाधोगतानामन्यतरपार्श्वाश्रयां॥ तृतीयकेंऽसयोरंतरे त्रिकसंधिमध्यगतां॥ प्रवाहिकायां शूलिन्यां श्रोण्योः समंताद्व्यंगुले॥ निर्वृत्तोपदंशशुक्रव्यापत्सुमेंढ्रे॥ गलगंडऊरुमूलसंश्रितां॥ गृध्रस्यांजानु
संधेरुपर्यधो वा चतुरंगुले॥ अपच्यामिंद्रबस्तेरधस्ताद्व्यंगुले॥ क्रोष्टुकशीर्षसक्थिवातरुजासु गुल्फस्योपरिचतुरंगुले॥ श्लीपदेषु यथास्वं वक्ष्यते॥ पाददाहहर्षचिप्यवातशोणितवातकंटकविपादिकापाददारीप्रभृतिषु पादरोगेषु क्षिप्रमर्मणउपरिष्टात् द्व्यंगुले॥ एतेनेतरसक्थिबाहू च व्याख्यातौ॥ विशेषतस्तुवामबाहाभ्यंतरतो बाहुमध्ये प्लीहोदरे॥ एवमेव च दक्षिणबाहौयकृदाख्ये॥ तथा कासश्वासयोरप्यादिशंति॥ गृध्रस्यामिव विश्वाच्यां॥ बाहुशोषावबाहुकयोरप्येके॥ अदृश्यमानासु चैतास्वतिप्रवृद्धव्याधेरन्यव्याध्युक्तानामपि यथासन्नं व्यधः॥ प्रागेव चोपकल्पयेच्छयनासनोदकुंभ-वस्त्रपद्वादि॥ तथायथालाभं च तगरैलाशीतशिवकुष्टपाठाविडंगभद्रदारुत्रिकटुंकागारधूमहरिद्रार्कांकुरनक्तमालचूर्णमसृ-क्स्रावणाय॥ असृक्स्थापनाय च रोध्रमधुक प्रियंगुपत्तंगगैरिकरसांजनशाल्मलीशंखयवगोधूममाषचूर्णं॥ वटाश्वत्थाश्वकर्ण-पलाशबिभीतकसर्जार्जुनधन्वनधातकीसालसारारिमेदतिंदुकत्वगंकुरनिर्यास श्रीवेष्टकमृत्कपालमृणालांजनचूर्णं॥ क्षौममषीलाक्षासमुद्रफेनचूर्णं वा तथाऽन्यच्चातिस्रुतरक्तव्यापत्प्रतीकारोपकरणं॥ सज्जोपकरणो हि न वैद्यो मोहमाप्नोति॥ अथ कृतस्वस्त्ययनमातुरं व्याधिवलसात्म्याद्यपेक्ष्य स्निग्धं जांगलरसं यवागूं च पाययित्वामुहूर्तमात्रमाश्वासितं पूर्वाण्हेऽपराण्हेवांऽगारातपोष्णबाष्पान्यतमस्विन्नं जानूच्छ्रिते मृदावासने जानुनिहितकूर्परं समस्थितपादं प्रत्यादित्यमुपवेशयेत्॥ केशांते च प्लोतचर्मवल्कपट्टान्यतमेन बध्नीयात्॥ ततश्चायतेन वस्रांगुष्ठगर्भेण मुष्टिद्वयेनातुरो यथास्वं मन्येनिपीडये
दृंतैश्च दंतान् गंडौचाध्मापयेत्॥ पुरुषश्चैनं पृष्ठतो वस्रकृकाटिकांतरन्यस्तवामप्रदेशिनीको नातिगाढं ग्रीवायां परिक्षिप्य वेष्टयन्वस्त्रं प्राणानबाधमानो यंत्रयेत्॥ इत्योषोंऽतर्मुख
वर्ज्यानां सिराणां व्यधने यंत्रविधिः॥ ततश्चास्य वैद्योंऽगुष्ठनिष्टब्धया मध्यमांगुल्या सिरां ताडयेत्॥ उत्थितां च स्पंदमानां स्पर्शादभिलक्ष्य वामहस्तेन कुठारिकामूर्ध्वदंडां कृत्वा सिरामध्ये न्यस्य लक्षयित्वा च तथैव मध्यमांगुल्या ताडयेदंगुष्ठोदरेण वा पीडयेत्॥ गूढबहलत्वक्प्रतिच्छन्नायामंगुष्ठापीडनादुन्नमनमुपलक्षयेत्॥ उत्काशनेन क्रोधसंरंभेण चापूर्यंते सिराः॥ अगुष्ठेन तु नासाग्रमुन्नमय्य व्रीहिमुखेनोपनासिकां विध्येत्॥ उन्नमितविदष्टाग्रजिव्हस्याधो जिव्हायाः॥ विवृतास्यस्य तालुनि दंतमूले च॥ ग्रीवासिरासु स्तनयोरुपरि यंत्रं॥ उदरोरसोः प्रसारितोरस्कस्योन्नमितशिरसः॥ बाहुभ्यामालंबमानस्य पार्श्वयोः॥ उन्नमितमेंढ्रस्य मेंढ्रें॥ श्रोणीपृष्ठस्कंधेषून्नमितपृष्ठस्यावाक्शिरस उपविष्टस्य॥ विश्वाचीगृध्रस्योरनाकुंचिते कूर्परे जानुनि वा सुखोपविष्टस्य गूढांगुष्ठबद्धमुष्टेर्व्यधनीयप्रदेशंस्योपरि चतुरंगुले प्लोतांद्यन्यतमेन बध्वा हस्तशिरां॥ एवमेकपादं सुस्थितं स्थापयित्वाऽन्यपादमीषत्संकुचितं तस्योपरि निधाय जानुसंधेरधो हस्ताभ्यामागुल्फं निपीड्य पूर्ववद्बध्वा पादसिरां व्यधेत्॥ तत्रतत्र च तैस्तैरुपायैर्विकल्प्य यंत्रयेत्॥ तत्र मांसलेष्ववकाशेषु यवमात्रं व्रीहिमुखेन॥ अतोऽन्यथाऽर्द्धयवमात्रं व्रीहिमात्रं वा॥ अस्थ्नामुपरि कुठारिकयाऽर्द्धयवमात्रं॥ सर्वत्र चानुत्तानावगाढमृज्वसंकीर्णंसमं मर्माद्यनुपघाति सिरामध्ये शस्त्रमाशु पातयेत्॥ एकप्रहाराभिहता धारया या स्रवेदसृक्॥ मुहूर्तं रुद्धातिष्ठेच्च सम्यग्विद्धेति तां विदुः॥ अल्पकालंवहत्यल्पं दुर्विद्धा तैलचूर्णनैः॥ सशब्दमतिविद्धा तु स्रवेदुःखेन धार्यते॥ सम्यग्विद्धानामपि च सिराणामवहनकारणानि मुर्छा भयं यंत्रशैथिल्यमतिगाढत्वमत्याशितताक्षामत्वं कुंठशस्त्रव्यधो मूत्रिलोच्चारितत्वं दुःखिन्नता कफावृतव्रणद्वारता चेति॥ अथाप्रवृत्तिकारणं यथास्वमुपलक्ष्य प्रतिकुर्यात्॥ तग
रादिचूर्णेन च तैललवणप्रगाढेन सिरामुखमवचूर्णयेत्॥ पृष्ठमध्ये चातुरं पीडयेत्॥ एवं साधु वहति॥ सम्यक्प्रवृत्ते तु कफानिलोपशमरक्ताविच्छेदार्थमुष्णलवणतैलबिंदुभिः सिरामुखं सिंचेत्॥ अग्रे स्रवति दुष्टास्रंकुसुंभादिव पीतिका॥सम्यक् स्रुत्वास्वयं तिष्ठेच्छुद्धं तदिनि नाहरेत्॥ यस्य तु स्रवति रक्ते मूर्छा जायते तस्य विमुच्य यंत्रं शीतसलिलार्द्रपाणिस्पर्शेन व्यजनवायुना श्रोत्रसुखेन वचसा समाश्वासयन्नुपशमय्यमूर्छा पुनः स्रावयेत्॥ पुनःपुनर्मूर्छत्यपरेद्युरूयहेवा॥ परमं तु रुधिरावसेचनप्रमाणं प्रस्थः226॥ अतोऽन्यथा व्याधिदेबलमपेक्षेत॥तत्र फेनिलमरुणं श्यावमच्छं रुक्षमस्कंदि कपायरसं लोहगंधि वेगस्रावि शीतं च रक्तं वातात्॥गृहधूमांजनोदककृष्णं पीतं हरितं विस्रंमत्स्यगंधि कटुत्वान्मक्षिकाऽनिष्टमौष्ण्यादस्कंदि सचंद्रकं गोमूत्राक्षंपित्तात्॥कोविदारपुष्पगैरिकोदकपांडु शीतं स्निग्धं स्कंदि घनं पिच्छिलं तंतुमद्रणद्वारावसादि लवणरसवसागंधि च कफात्॥ हंहसंकीर्णं संसर्गात्॥कंस227नीलमाकुलं दुर्गेधं च सन्निपातात्॥ शुद्धमुक्तं प्राक्॥ ततः स्रुतरक्तस्य व्यधमनुलोममंगुष्ठेनापरुध्यशनैर्येत्रमपनीयाश्वासयेत्॥ सतैलं च प्लोतं सिरामुखे दत्वा बध्नीयात् संवेशयेच्चैनं॥ अतिष्ठति तु रक्ते सिरामुखं संधातुं पूर्वोक्तैश्चूर्णैरवचूर्ण्यांगुल्यग्रेण पीडयेत्॥ शाल्युपोंद कापिच्छांवा व्रणमुखे दत्वा गाढं बध्नीयान्मधूच्छिष्टप्रलिप्तं वा पट्टं। शीतांबुना वा सिंचयेत्॥ शीतमधुरकपायान्नपानैः सेकप्रदेहप्रवातवेश्मभिर्वा स्कंदनायोपचरेत्॥ पद्मकादिक्वाथंशर्करामधुमधुरं क्षीरमिक्षुरसमेणहरिणाजोरभ्रमहिषवराहाणामन्यतमस्यसिरां विध्वा रुधिरंमामं घृतभृष्टं वा पानं दद्यात्॥ तेनैव वा दर्भपादमृदितेनानुवास
येत्॥ स्निग्धैश्च यूषरसैर्भोजयेत्॥ व्यधादनंतरं वा पुनस्तामेव सिरांविध्येत्॥ सर्वथा चानवतिष्ठमाने पाचनाय क्षारं दद्यात्॥ संकोचयितुं वा सिरामुखं तप्तशलाकया दहेत्॥ न च क्षणमप्युपेक्षेत।क्षीणरक्तस्य हि वायुर्मर्माण्युपसंगृह्यमूर्च्छासंज्ञानांशशिर कंपभ्रममन्यास्तंभापतानकहनुभ्रंशहिध्मापांडुत्व- बाधिर्यधातुक्षयाक्षेपकादीन्करोति मरणं वा॥ प्राणाः प्राणभृतां रक्तं तत्क्षयात् क्षीयतेऽनलः॥वर्द्धतेचानिलस्तस्माद्युक्त्या बृंहणमाचरेत्॥अशुद्धं तु रक्तमपराह्णेऽन्येद्युर्वा पुनः स्रावयेत्॥ ततोऽपि शेषंसर्वथा वाऽस्य विस्राव्यरक्तस्य शीतसेकप्रदेहविरेकोपवासस्निग्धमधुरान्नपानैः प्रसादयेत्॥मासमात्रं वास्नेहादिभिरुपचर्य पुनर्विध्येत्॥दुर्व्यधातिव्यधकुट्टिततिर्यग्व्यधादेर्व्यधदोषाद्यापदो या. स्युस्ता यथास्वंसाधयेदिति॥ भवति चात्र॥ उन्मार्गगा यंत्रनिपीडनेन स्वस्थानमायांति पुनर्न यावत्॥ दोषाःप्रदुष्टा रुधिरं प्रपन्नास्तावद्धिताहारविहारभाक् स्यात्॥ नात्युष्णशीतं लघुदीपनीयं रक्तेऽपनीते हितमन्नपानं॥तदा शरीरं ह्यनवस्थितासृगग्निर्विशेषादिति रक्षितव्य॥ प्रसन्नवर्णैद्रियमिंद्रियार्थानिच्छंतमव्याहतपक्तृवेगं॥ सुखान्वितं पुष्टिवलोपपन्नं विशुद्धरक्तं पुरुषं वदंति॥ ॥ इति सिराव्यधविधिर्नाम षट्त्रिंशोऽध्याय॥ ३६॥
॥ अथातः शल्याहरणविधिमध्यायं व्याख्यास्यामः॥ ॥ त्रिविधा गतिःशल्यानामूर्ध्वमधस्तिर्यक्च॥ सा पुनः प्रत्येकमृजुवक्रभेदेन द्विधा॥ तत्र ध्यामं पिडिकाचितं शोकवेदनावंतं मुहुर्मुहुःशोणितास्राविणं बुद्धदवदुद्गतं मृदुमांसं च व्रणं सशल्यंविद्यात्॥ विशेषतस्तु त्यग्गते शल्येविवर्णः शोकोभवत्यायतः कठिनश्च॥मांसगते शोकाभिवृद्धिः शल्यमार्गानुपसंरोहः पीडनासहिष्णुता चोषःपाकश्च॥पेश्यंतरस्थे शोकवर्जं भांसप्राप्तवत्। सिरागते सिराध्मानं
शूलं च॥ स्नायुगे स्नावजालाक्षेपणं संरंमश्चोप्ररुक्॥ स्रोतोगते स्रोतसां स्वकर्मगुणहानिः॥ धमनीस्थे सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छत्यंगपीडा दृल्लामश्च॥ अस्थिगते विविधा वेदनाः शोफश्च॥ संधिगतेऽस्थिवच्चेष्टोपरोधश्च॥ अस्थिसंधिगतेऽस्थिपूर्णता संघर्षोबलवांश्च॥ कोष्ठगते त्याटोपानाहौमूत्रपुरीपाहारदर्शनानि च मणमुखाद्भवंति॥ मर्मगते मर्मविद्धवद्यथायथं चोपदिष्टैः परिस्रावैसवगादिषुशल्यमुपलक्षयेत्॥ सुक्ष्मगतिंषुशल्येष्वेतान्येवलक्षणान्यविस्पष्टानि भवति॥शुद्धदेहानामनुलोमसन्निविष्टान्युपरुह्यते॥दोषप्रकोपव्यथाभिघातेभ्यश्च पुनः प्रचलितानि पुनराधाधयंति॥ तत्र त्वक्प्रनष्टे स्निग्धस्विन्नायांमृन्मापयवगोधूमगोयचूर्णमर्दितायां त्वचि पत्र संरंभो वेदना या भवति पत्र वा स्त्यानं सर्पिर्निहितमाशु विलीयते प्रलेपो वाविशुष्यति तत्र शल्यंजानीयात्॥ मांसमनष्ठे स्नेहादिभिः क्रियाभिरातुरमुपपादेयत् कर्शितस्य च शिथिलीभूतमनवबद्धं क्षुभ्यमानं यत्र संरंभं वेदनां वा जनयति तत्र शल्यं॥ एवं कोष्ठास्थिपेशीविवरेष्वपि॥सिरास्रोतोधमनीस्रावप्रनष्टे खंडचक्रं रथमश्वयुक्तमारोह्यातुरं विपमेऽध्वनि शीघ्रं नयेत् ततः संरंभादिभिर्जानीयात्॥ संधिप्रनष्टे नेहस्वेदोषपन्नान् संधीन् प्रसारणाकुंचनबं धनपीडनैरुपचरन् पूर्ववदवगच्छेत्॥ अस्थिप्रनष्टे स्त्रिग्धस्विन्नन्यस्थीनि बंधनपीडनाभ्यां भृशमुपचरस्तदुपलक्षयेत्॥ मर्मप्रनष्टेऽव्यनन्यभावान्मांसादिभ्यो मर्मणामुक्तं परीक्षणं भवति॥ सामान्यलक्षणं तूच्छ्रितहस्तिस्कंधाश्वद्रुमारोहणद्रुतमानलंघनप्लवनव्यायामैर्जृभोद्गारकासक्षवथुष्टोवनहसनप्राणायामेर्मलशुकोत्सर्गैर्वायत्र संरंभो बेदना वा भवति यत्र वा स्वल्पेऽप्यायासे स्वापो गौरवं घट्टन शोफोंवा स्यात्तत्र शल्यमादिशेत्॥ समासतचतुर्विधं शल्यं भवति वृत्तद्वित्रिचतुष्कोणभेदेन॥ तददृश्यमानं वणसंस्थानानुमिमीन॥सर्व
शल्पानांतु महतामाहरणे हावेवोपायौ प्रतिलोमोऽनुलोमश्च॥ तत्र प्रतिलोममवाचीनमानपेदनुलोमं पराचीनं॥ तिर्यग्गतं यतः सुखाहार्येभवति ततश्छित्त्वोपहरेत्॥ प्रतिलोममनुत्तुंडितं छेदनीयमुखंच शल्यं न निर्घातयेत् तथा कक्षावंक्षणोर पर्शुकांतरपतितानि नैव चाहरेत्॥ विशल्यघ्नमर्मप्रविष्टं प्रनष्टं वा शोफवेदनापाकविरहितं॥अथ हस्तप्राप्यं शल्यं हस्तेनाहरेत्॥ तदशक्यं यथायथं यंत्रेण॥ तथाप्यशक्यं शस्त्रेण विशस्य ततो निर्लोहितं व्रणं कृत्वाऽघ्निघृतप्रभृतिभिः स्वेदयित्वाऽवदह्य तर्पयित्वा सर्पिर्मधुभ्यां वध्वाऽऽचारिकमादिशेत्॥सिरास्नावलग्नंशलाकाग्रेणाभिमोच्यापहरेत्॥हृदयेऽभिवर्तमानं शल्यं शीतजलादिभिरुद्वेजितस्यापहरेद्यथामार्गे दुराहरं॥ अन्यतोऽप्यबबध्यमानं पाटयित्वोपहरेत्॥ अस्थिविवरप्रविष्टमस्थिविदष्टं याऽवगृह्य पभ्द्यांपुरुषंयंत्रेणापकर्षयेत्॥ अशक्यमेवं वा बलवद्भिः सुगृहीतस्ययंत्रेण वा ग्राहयित्या शल्पं वारंग प्रतिभुज्य वा धनुर्गुणैरेकतो बध्वाऽन्यतश्चपंचांग्यांसुसंगतस्याश्वस्य वक्रकटके बध्नीयात्॥ अथैनमेवं कशया ताडयेद्यधोन्नमयन् शिरो वेगेन शल्पमुद्धरति॥ दृढां वा वृक्षशाखामवनम्य तस्यां पूर्ववद्वध्वोद्धरेत्॥ दुर्बलं वारंगं या कशाभिर्वध्या॥ श्वयथुग्रस्तवारंगमुत्पीड्यश्वययुं॥ अदेशोत्तुंडितमस्ममुद्गरप्रहारेण विचाल्य यथामार्गमेव॥कर्णवतु यंत्रेण विमृदितकर्णेकृत्वा नाडीयंत्रेण वा बहुमुखेन यथासमुपसंगृह्यशलाकायंत्रेणानेन वा पूर्वपदाहरेत्॥ अनुलोममकर्णमनल्पवणमुखमयस्कांतेन॥ पक्काशयगतं विरेचनेन॥ वातविण्मूत्रगर्भसंगं प्रवाहणेन॥ दुष्टवातविपस्तन्यास्यविषाणादिचूषणेन॥ कंठस्रोतोगते तु शल्ये बिसासंसक्तं सूत्रं कंठे प्रवेशयेत् ॥ अथ तद्गृहीतंविज्ञाय शल्पं सममेव सूत्रं विसं चाक्षिपेत्॥ बिसाभावे मृणालेन्जयमेव विधिः॥ जातुषेतु कंठसक्तेकंठे नाडींप्रवेशये
त्तया चाग्नितप्तां सूक्ष्ममखींशलाकां॥ अथ तां गृहीतशल्यां शीताभिरद्भिः परिपिच्य स्थिरीभूतामाहरेत्॥ अजातुपेष्येवमेव तप्तांजतुमधूच्छिष्टान्यतरप्रदिग्धां शलाकां॥ मत्स्यकंटकमन्यद्वा तादृगस्थिशल्पं कंठेऽवलमं सूत्रेण सूत्रप्लोतेन वा वेष्टितयांऽगुल्पाऽपहरेत्॥ अथवा केशोंदुकं दृढदीर्घसूत्रबद्धं द्रवोपहितं पाययेद्वामयेच्च ॥ वमतश्च शल्यैकदेशसक्तं सूत्रं सहसैवाक्षिपेत्॥ मृदुना वा दंतधावनकूर्चेनाभिहरेत्॥प्रणतो वा प्रणुदेत्॥ वालोंडे विलग्नेतद्वत्कंटकं॥ क्षतकंठश्च त्रिफलाचूर्ण मधुघृतसितोपेतमनुकंठयन् लिह्यात्॥ अपांपूर्णं पुरुषमवाक्शिरसमवपीडयेद्धुनुयाद्वामयेच्चभस्मराशौवा निखन्यादामुखात्॥ अन्यथा ह्युन्मार्गगाभिरद्भिराध्मानकासश्वासपीनसेंद्रियोपघातज्वरादयः श्लेष्मविकारा मृत्युश्च॥ तत्र यथास्वंप्रतिकुर्यात्॥ ग्रांसशल्पमंबुना प्रवेशयेत् स्कंधे वा मुष्टिनाऽभिहन्चात्॥ कंठस्थं श्लेष्माणमन्नलवं वा प्रधमनोत्काशनावकाशनैर्निर्वमेत्॥ सूक्ष्ममक्षि शल्यंलेखनोपधमनवालजलवस्त्रजिव्हाभिरपनयेत्॥ तथा निर्भुज्य वर्त्मवर्त्मगतमपनीय चोष्णांबुवाष्पस्वेदंसमधुमधुकक्वाथेन सर्पिषाच परिपेकं कुर्यात्॥ स्वयमपि च शल्पमश्रुक्षवथुकासोद्गारमूत्रपुरीपानिलैर्नयनादिभ्योऽगावयवेभ्यः पतति॥ कीटे कर्णस्रोतप्रविष्टे तोदो गौरवं भरभरायणं च भवति स्पंदमाने चाभ्यधिकं वेदना॥ तत्र सलषणेनांचुना मधुसुक्तेन मद्येन वा सुखोष्णेम पूरणांनिर्गते च कोटे तदुत्सर्जन॥तत्रैव तु मृते पाककोथक्लेदा भव॑ति॥ तेषु कर्णसावोक्तं कुर्यात्पतिनाहोक्तं च॥ तोयपूर्ण कर्ण हस्तोन्मथितेन तैलांवुना पूरयेत पार्श्वावनतं वा कृत्वा हस्तेनाहन्यान्नाड्या वाऽऽचूपेदिति॥ भवति चात्र॥जानुपं हेमरूप्यादिधानुजं च चिरस्थितं॥ उष्मणा प्रायशः शल्यं देहजेन विलीयते॥ विपाणवेणुदार्वस्थिदंतवालोपलानि तु॥ शल्पानि न विशीर्यते शरीरे मृन्मयानि च॥ विषाणनेण्वयस्तालादारुशल्यं चिरा
दपि॥ प्रायो निर्भुज्यते तद्धि पचत्याशु पलासृजी॥ शल्ये मांसावगाढे चेत्सदेशो न विदह्यते॥ततस्तन्मर्दनखेदशुद्धिकर्शनवृंहणैः। तीक्ष्णोपनाहपानान्नघनशस्त्रपदांकनैः॥ पावयित्वा हरेच्छल्यंपाटनैषणपीडनैः॥ शल्पप्रदेशयंत्राणामवेक्ष्य बहुरुपतां॥ तैस्तैरुपायैर्मतिमान् शल्यं विद्यात्तथाऽऽहरेत्॥ व्रणे प्रसन्ने प्रांतेषुनातिस्पशसहिष्णुपु ॥ अल्पे शोफे च तापे च निःशल्पमिति निर्दिशेत् ॥ कायएव परं शल्यं निजदोषमलाविलः॥ शल्यशल्यं शराद्यं तु विशेषात्तेन चिंत्यते॥ ॥ इति शल्पाहरणविधिर्नाम सप्तत्रिंशोऽध्यायः॥३७॥
अथातः शस्त्रकर्मविधिमध्यायं व्याख्यास्यामः॥ ॥ द्विविधेऽपि हि व्याधायुपायापेक्षे निजआंगतौ या भेषजविषयातीते शस्त्रकर्म प्रयुज्यते॥ स चामयः प्रायेण श्वयथुपूर्वको भवति॥ अतः शोफावस्थस्यैव वातकफपित्तरक्तसंसर्गसन्निपातात्मकतामुपलक्ष्य पाकभयाद्यथास्वमुपवासलेपसेकासृड्योक्षकषाय- घृतपानशोधनानि प्रयुंजीत॥तथाप्यनुपशाम्यति प्रविलयनं॥ अविलीयमाने चोपनाहनं॥ तत्र शोफस्यामलक्षणमल्पताऽल्पोष्मरुजत्वं त्वक्रूसवर्णता स्थैर्य च॥पच्यमानस्तु विवर्णो बस्तिरियाततः संरंभशूलरागदाहोपारुचितृष्णाज्वरारतिस्पर्शासहत्वानिद्रतासमन्वितो विष्यंदयति सर्पिः शोषयति प्रदेहं सर्पपकल्कोपलिप्तइव चिमचिमायते पिपीलिकाभिरिय संसृज्यतेपीडयतइव पाणिना उपपाट्यतइवांगुल्या ताडयतइव दंडेन तुद्यतइव सूचीभिर्भिद्यतइव शक्तिभिश्छिद्यतइव शस्त्रेण दश्यतइव वृश्चिकैर्दह्यतइवाग्निक्षाराभ्यां मध्यतइवोल्मुकेन॥ पके तु गतबेगत्वं प्रम्लानतां त्वक् शिथिलता वलीप्रादुर्भावः पांडुता मध्पोन्नततांऽगुल्यवपीडितमुक्ते प्रत्युन्नमनं बस्ताविवोदकस्यपूयस्य संचरणं कंडूसंरंभशुलाद्युपशमश्च॥शूलं नर्तेऽनिलाद्दाहः पित्ताच्छोफःकफोदयात्॥ रागो रक्ताश्च पाकः स्यादतो दोषैःसगोणितैः॥ पाकेऽतिवृत्ते सुपिरस्तनु
त्वग्दोषभक्षितः॥ वलीभिराचितः श्यावः शीर्यमाणतनूरुहः॥ कफजेषुतु शोफेषु केषुचिगंभीरत्वाद्रक्तमेव विपच्यते॥ ततश्चास्पष्टं पक्वलिंगं भवति॥ यत्र हि त्वक्सावर्ण्यं शीतशोफताऽल्परुजताऽश्मवच्च घनता न तत्र मोहमुपेयात्तं रक्तपाकमित्याचक्षते॥ अथैनं सम्यक पंक्वमवधार्य भीरुद्धवालदुर्वलक्लीवक्षीणगर्भिणी- विपार्दितशस्त्राक्षमेषुपाकोद्धतदोषेषु च पीडितेषु संधिमर्माश्रितेप्वल्पेषु वा शोफेषु तीक्ष्णोष्णद्रव्यैर्दारणं कुर्वीत॥ इतरेषुपाटनं॥ आमपाटने सिरास्रायुव्यापादनं शोणितातिप्रतिर्वेदनाभिवृद्धिदरणं क्षतविसर्पो वा- स्यात्॥तिष्ठन्नंतः पुनः पूयः सिरास्नाय्वस्तृगामिपं॥विवृद्धो दहति क्षिप्रंतृणोलपमिवानलः॥ यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते॥श्यपचाविव विज्ञेयौ ताव निश्चितकारिणौ॥ प्राक्शस्त्राद्भोजयेदिष्टंभद्यं तीक्ष्णं च पाययेत्॥ न मूर्च्छत्पन्नसंयोगान्मत्तः शस्त्रं न बुध्यते॥ अन्यत्र मूढगर्भोदराश्मरीमुखरोगेभ्यः॥ अथोपद्धनयंत्रशस्त्रक्षाराग्निजांववौष्ठपिचुप्लोतपत्रसूत्रचर्मपमधूस्नेहकपायालेपकल्कसेकोदकुंभीशीतोष्णोदककटाहव्यजनादित्रणोपयोगि सर्वोपकग्णमास्तृप्तशमनीयमुपस्थितस्नेहवलपदवलंपकपुरुषमिष्टेऽहनि मुहूर्ते चदध्यक्षतान्नपानरुक्मरत्वार्चितविप्रंप्रणतेष्टदेवतं भुक्तवंतमातुरं प्राड्युखमुपवेश्य संवेश्य च यंत्रयित्या प्रत्यडमुखो वैद्यो मर्मसिरास्नायुसंध्यस्थियमनीपरिहरन्ननुलोमं शस्त्रंनिदध्यादापूयदर्शनात्प्तकृदेवाहरेच्छस्त्रमाशु च॥ महत्स्वपि चपाकेषु ह्यंगुलं शस्त्रपदमुक्तं॥द्युंगुलांतरं त्र्युगुलांतरं वा ऽभिसमीक्ष्य विद्यते प्रदेशे वामप्रदेशिन्याऽन्वेपित्वा नानिविवृते गंभीरे मांसले चैपण्या विपरीते करीरादिनालेनातिसंवृते सूकरवालेन॥ यतो गतां गतिं निद्यादुत्संगो यत्र यत्र॑च॥ तत्र तत्र व्रणं कुर्यात्मुविभक्तं निराशयं॥ आयतं च विशालं च यथादो
पो न तिष्ठति॥ शौर्यमाशुक्रिया तीक्ष्णं शस्त्रमस्वेदवेपथू॥ असंमोहश्चवैद्यस्य शस्त्रकर्मणि शस्यते॥ तत्र भ्रूगंडललाटाक्षिकूटौष्ठदंतवेष्टमन्याकंठजत्रुकक्षाकुक्षिबंक्षणेपु निर्यकुछेदइष्ट॥ अन्यत्र तु सिरास्नायूपघातोऽतिवेदना चिराद्वणसरोहो मांसकंदी च तिर्यक्छेदाद्भवंति॥ ततशस्त्रमवचार्य शीताभिरद्भिरातुरमाश्वास्य समंतात्प्रतिपीड्यांगुल्या मणमभिप्रक्षाल्यकपायेण व्रणात्प्लोतेनांभोऽपनीय वेदनारक्षोघ्नेर्गुग्गुल्गुरुसर्जरसचागौरसर्पपहिंगुलवणनिंबपत्रैः सघृतैर्व्रणंधूपयित्वा यथास्त्रमौषधेन मधुघृततिलकल्कैश्च दिग्धां वर्तिं प्रणिधाय कल्केन पूरयित्वा नातिभृष्टयवसक्तुभिघृताक्तैर्भाजनांतेंऽभसा दक्षिणांगुलीभिः सुमृदितैरवच्छाद्यघनां कवलिकां228 दत्वा सव्यदक्षिणान्यतरपार्श्वे मृदुमनाविद्धमसंकुचितमृजुपट्टे निवेश्य वध्नीयात्॥वातश्लेष्मोद्भवांस्तत्र द्विसिव वेष्टमेद्वणान्॥ सकृदेव परिक्षिप्य पित्तरक्ताभिघातजन्॥ शस्त्रक्षतरुजायां तु प्रततायां यष्टीमधुकसर्पिपोष्णेन व्रणं सिंचेत्॥ उदकुंभाच्चापो गृहीत्वाप्रोक्षन् परितो याचकार्यपणेशवर्यादिभिरस्य रक्षां कुर्योद्रक्षोभिभवनिषेधार्थं॥ तेभ्यश्च बलिमुपहरेत्॥धारयेच्च शिरसा॥लक्ष्मी गुहामनिगुहां जटिला ब्रह्मचारिणीं॥ वचां छत्रामतिच्छत्रां दूर्वी सिद्धार्थकानपि॥ गुग्गुल्वादिभिरेवंशयनासनादि हिरन्हो धूपयेत्॥ तथा स्नेहोक्तं दिनचर्योक्त- माचारमनुवर्तेत्॥ विशेषतश्च दिवास्वप्नाहूणे शोफकंडूरागरुक्पूयवृद्धि.॥ स्त्रीणां तु स्मृतिसंस्पर्शदर्शनैश्चलिते स्रुते॥ शुक्रे व्यवायजाम् दोषानसंसर्गेप्यवाप्नुयात्॥ भोजयेच्चैनं यथासात्म्यं समातीतशालिपष्टिकयवगोधूमान्यतमं मुद्गमसूराढकीसतीनयूपजांगलरसोपेतं जीवं- तीमुनिषण्णतंदुलीयकवास्तुकवार्ताकपटोलकारपेल्लकबालमलकशा कयुक्तं दाडिमामलकसैंधवसहितं सर्पि स्निग्धं लघ्वल्पमुष्णोदकोत्तरं
च॥ एवमस्य सम्यगशितं जरामुपैति॥ अजीर्णानिलादीनांविभ्रमो बलवान्भवेत्॥ ततः शोफरुजापाक दाहानाहानवाप्नुयात्॥नवधान्यमापकलायकुलत्थनिष्पावशिवीशीतांबुमद्येक्षुक्षीरपिष्टतिलविकृति शुष्कशाकपिशितहरितकाम्ललवणकटुकक्षारानूपामिपाणि वर्जयेत्॥ वर्गोऽयं नवधान्यादिर्व्राणेनः सर्वदोषकृत्॥ मद्यं तीक्ष्णोष्णरुक्षाम्ल माशु व्यापादयेद्व्रणं॥ वालोशीरैश्च वीज्येत न चैनं परिघट्टयेत्॥ न तुदेन्न च कंडूयेच्चेष्टमानश्च पालयेत्॥ स्निग्धद्धद्विजातीनां कथाः शृण्वन्मन प्रियाः॥ आशावान्व्याधिमोक्षाय क्षिप्रं व्रणमपोहति॥ पुनश्च तृतीये ऽह्नि प्रक्षालनादि पूर्ववद्वणकर्म कुर्यात् ॥ द्वितीयदिवसे मोक्षणादादौ विग्रथितो व्रणश्चिरादुपरोह्त्युग्ररुजश्व भवति॥ न च विवेकशिकामौषधं229 वाऽनिस्त्रिग्धरूक्षमतिश्लघगाढमश्लक्ष्णं दुर्न्यस्तं च दद्यात्॥ अतिस्नेहात्क्लेदः॥ अतिरौक्ष्याच्छेदो वेटना च॥ अतिश्लयत्वादपरिशुद्धिः॥ गाठतथा संरंभः॥ अश्लक्ष्णत्वाद्दुर्न्यासाच्च व्रणवर्त्मोपचर्पणं॥ व्रणं शोधयते शीघ्रंस्थिता ह्यंतर्विकेशिका॥व्यम्लं230तु पाटितं शोफं पाचनै. समुपाचरेत्॥ भोजनैरुपनाहैश्च नातिव्रणविरोधिभिः॥ यत्र सीव्यो व्रणस्तत्र चलास्थिशल्यपांशुतृणरोमशुष्करक्तादीन्यपोह्यविच्छिन्नं प्रविलंबिमांसं संध्यस्थीनि च यथास्थाने सम्यक्स्थापयित्वा स्थिते रक्ते यथार्हेसूच्योपहितेन स्नायुसूत्रवालान्यतमेन सीव्येत्॥ शणास्तकमूर्वातसीनां वल्कैः॥सीवनविकल्पास्तुसमासेन चत्वारः ॥ गोष्फणिका तुन्नसेवन्या वेल्लितकं ग्रंथिवंधनमिति॥ तेषां नामभिरेवाकृतिविभाग प्रहारवशाच्चोपयोगः॥ न वाऽतिसन्निकृष्टां विप्रकृष्टामत्यल्पवहुग्राहिणीं वा सूचींपातयेत्॥ एवं सम्पक्स्यूतमेवक्ष्य मधुघृतयुक्तैरंजनमधुकनिंबरोघ्रप्रियंगुसल्लकीफलक्षौममपीचूर्णैरवकीर्य पूर्ववद्वंधादीन्प्रयोजयेत्॥ असीव्या वंक्षणवक्षःकक्षांदिषुप्रचलेष्वल्पमांसेषु च वायुनिर्वाहिणोंऽसर्लोहितशल्पा विषाग्निक्षारकृताश्च व्रणाः॥ सोव्यास्तु भेद. समुत्था भिन्नलिखिताः कफग्रंथिरल्पपालीकः कर्णः सद्योत्रणाश्च॥ शिरोललाटाक्षिकूटकर्ण- नासागंढौष्ठकृकाटिकावाहूदरस्फिक्पायुप्रजननमुष्कादिष्वचलेषु मांसवत्सु च प्रदेशेषु॥ कोशदामोत्संगस्वस्तिकानुवेल्लितमुत्तोलीमंडलस्थगिकायमकखट्वाचीनविबंधवितानगोफणाः पंचांगीचेति पंचदश बंधविशेषाः॥तेषांनामभिरेवाकृतयः प्रायेण व्याख्याताः॥ तत्र कोशमंगुलीपर्वसु विदध्यात्॥ दाम संवाघेंऽगे॥ उत्संगं विलंविनि॥ स्वस्ति कं संधिकूर्चभ्रूस्तनांतरकक्षाक्षिकपोलकर्णेषु॥ अनुवेल्लितं शाखासु॥मुत्तोलींग्रोवामेंट्रयोः॥ मंडलं वृत्तेंऽगे॥ स्थगिकामंगुष्ठांगुलिमेंद्राग्रमूद्धिषु॥ यमकं यमलवणयोः॥ खदां हुनुशंखगंडेषु॥ चीनमपांगयोः॥ विबंधमुदरोरुपृष्ठे॥ वितानं मूर्द्धादौ पृथुलेंऽगे॥ गोष्फणंनासौष्ठचिवुकसविथषु॥ पंचांगी जत्रूर्ध्वमिति॥ यो वा परिमन्प्रदेशे सुनिविष्टो भवति तं तस्मिन्कुर्वीत न तु व्रणस्योपरि ग्रंथिर्वाधकरो यथा स्यात्॥ वंधस्त्विष्टोऽनिले दुष्टे दृढभग्ने व्रणेषु च॥ तत्रांत्ययोर्द्विधा बंधः सव्यदक्षिणभेदतः॥ त्रिविधस्त्वेव सर्वत्र गाढश्लथसम त्वतः॥ कफवाते घनो गाढः पित्तरक्ते तनुश्लथः॥ वातपित्ते समो बंधः कफपित्तव्रणेषु
च॥ तथास्फिक्कक्षावंक्षणोरुशिरःसु गाढंबध्नीयात्॥ शाखाबदनकर्णकंठ मेंढूमुष्कपृष्ठपार्श्वोदरोर सु समं॥ अक्ष्णोः संधिषु च शिथिलं॥ वातश्लेष्मजे तु शिथिलस्थाने समं समस्थाने गाढं गाढस्थाने गाढतरं॥ तथा शीतबसंतयोरुयहात्पित्तरक्तजे तु गाढस्थाने समं समस्थाने शिथिलं तत्स्थाने नैव॥ तथा शरद्ग्रीष्मयोः सायं प्रातः स्यात्॥ अवध्यमानः पुनर्देशमशकतृणकाष्ठपांशुशीतवातातपादिसंपर्काद्विविधोपद्रवोपद्भुतोदुष्टतामुपैति॥ स्नेहश्चात्र न. चिरं
तिष्ठति भेषजमचिराच्छुष्पतिकृच्छेण रोहति रूढे च वैवर्ण्यं भवति॥अपिच॥ चूर्णितं मथितं भग्नं विश्लिष्टमय पाटितं॥ अस्थिस्नायुसिराछिन्नमस्थिबंधे न रोहति॥ उत्थानशयनाद्यासु सर्वेहासु न पीडयते॥उद्वृत्तौष्ठः समुत्सन्नो विषमः कठिनोऽतिरुक्॥ समो मृदुररुक् शीघ्रं व्रणः शुद्धयति रोहति॥ स्थिराणामल्पमांसानां रौक्ष्यादनवरोहतां॥ प्रच्छाद्यमौषधं पत्रैर्यथादोपं पथर्तु च॥ अजीर्णतरुणाच्छिद्रैः समंतात्सु निवेशितैः॥ धौतैरकर्कशैःक्षीरिभूर्जार्जुनकदवजैः॥ कुष्टिनामग्निदग्धानां पिटिकामधुमेहिनां॥ कर्णिकाश्चोदुरविषैः क्षारदग्धा विषान्विंताः॥ मांसपाके न बंधव्या गुदपाके च दारुणे॥ शीर्यमाणाः सरुग्दाहाः शोफावस्था विसर्पिणः॥ अरक्षया व्रणे यस्मिन्मक्षिका निक्षिपेत् कृमीन्॥ ते भक्षयंतः कुति रुजाशोफाससंत्रवान्॥ सुरसादि प्रयुंजीत तंत्र धावनपूरणे॥ सप्तपर्णकरंजार्कनिंबराजादनत्वचः॥ गोमूत्रकल्कितो लेपः सेकः क्षारांबुना हितः॥ प्रच्छाद्य मांसपेश्या वा वर्ण तानाशु निर्हरेत्॥ उत्पद्यमानासु च तासु तास्ववस्थासुदोपादीनपेक्ष्य यथास्वमुपकमैरुपकमेत् न चैनं त्वरमाणः सांतर्दोपमुपसंरोहयेत्॥स ह्यल्पेनाप्यपचारेणांतरुत्संगं कृत्वा भूयो विकुरुते॥ तस्मात्सुशुद्धं रोपयेत्॥ रुढेप्यजीर्णव्यायामव्यवायादीन्विवर्जयेत्॥ मासान्पट् सप्त वा नृणां विधिरेषः प्रशस्यते॥ इतीदं व्रणमाश्रित्य दिडमात्रमुप दर्शितं॥उत्तरे विस्तरस्तस्य वक्ष्यते साधनं प्रति॥ ॥ इति शसकर्मविधिनमाष्टत्रिंशोऽध्यायः॥ ३८ ॥
अयातः क्षारकर्मविधिमध्यायं व्यारव्यास्यामः॥ ॥ क्षारो हि नानापधसमवायनित्तेः सर्वरसाधिष्टानं कटुकलवणरतभूयिष्ठस्तीक्ष्णो दहनः पाचनोऽवदारणो विलपनः शोधनो रोपणः कृम्याममेदोविपापहः सर्वशस्त्रानुशखाणां च वरिष्ठश्छेदनभेदनपाटनलेखनकरणाद्यतश्चसंवाधावकाशजेषु दुःखावचारणीयशस्त्रेषु नासार्शोर्बुदादिषु
शस्त्रेण चासित्ध्यत्सु दुष्टव्रणेषु बहुशःप्रकोपिषुप्रयुज्यते॥ स द्विधा बात्द्यांतःपरिमार्जनेन॥ तत्रार्शोर्बुदभगंदरग्रंथिदुष्टवणनाडीचर्मकीलवर्त्ममुखरोगकुष्टकिलासतिलकालकादिषुवहिः परिमार्जनेन॥ अंतःप्रमार्जनेन तु गुल्मगरोदराग्निसादशूलानाहाश्मरीशर्करादिषु॥ सयथाखमेवोपदेक्ष्यते॥ न तूभयोऽपि योज्यो भीरुदुर्बलक्षामवातपित्तार्दितज्वरातिसा पांडुशिरोखदयरोगमेहाक्षिपाकतिमिरारोचकातुरकृतवमनविरेकर्तुमतीगर्भिण्युद्धृतफलयोनिसर्वांगशू- लविषमद्यपीतेषु॥ मर्मसिरास्नायुसंघितरुणास्थिसेवनीधमनीगलनाभिनखांतरमुप्कशेफः स्रोतःस्वल्पमांसेषु च देशेष्वक्ष्णोश्चान्यत्र वर्मरोगात्॥ तथाऽतिशीतोष्णसर्पदुर्दिनप्रवातेषु च॥ अथ बहिःपरिमार्जनस्त्रीविधो मध्यो मृदुस्तीक्ष्णश्च॥ तस्य पाकविधिः शरदि शुचिरुपोषितः शुक्लवासाः प्रशस्तेऽहनि प्रशस्तदेशजातं मध्यमवयसमनुपहृतं महांतं कालमुष्कर्क सुरापलसुमनोक्षतादिभिश्चतुर्देिशं बलिं दत्वा प्रदक्षिणं चाभ्य र्च्यैनमधिवासयेत्॥दैवतेभ्यो नमस्तेभ्यो निवसंतीह ये श्रिताः॥ गंतुमर्हत्यसंक्रुद्धास्म्यश्वेमं वा सपर्ययं॥ भेषजार्थं ग्रहीष्यामि सर्वप्राणभृतामिमं॥ वृक्षं न लोभान कोधाद्ब्राह्मणार्थे विशेषतइति॥तथाऽपरेद्युस्तत्र यद्यद्भूतं वैतं वा किंचिन्न पश्येत्॥ ततो युगमात्रमारूढे सवितरि ब्राह्मणान्याचयित्वा तं पादपं पूर्वाग्रमुत्तराग्रंवा पातयेत्॥ एवं च पारिभद्रपलाशाश्वकर्णराजवृक्ष महावृक्षक्षकेंद्रटादृषास्फोतसप्तच्छदनक्तमालतिल्वककदलो विशीतकालमारकपूतिकचित्र कार्ककाकजंघाऽपामार्गाग्निमंधावसंतोपगृहीतांश्चयवान्सशुकनालांश्चतत्रश्च कोशातकीः सर्वान्समूलफलपत्रशाखान् खंडशः कल्पयित्वा नातिशुष्कान् शिलातलस्थान्निवाते पृथङ्गि चयोकृत्यमुष्ककनिचये च सुधाशर्कराः प्रक्षिप्य तिलकुंतलैरादीपयेत्॥दग्ध्वा च शांतेऽनौ पृथक् सुधाशर्कराभस्म कृत्वेतरसर्वक्षारहोणमभ्यधिकमुष्ककं सलिउपलसहश्रेण गपादिमृत्रपलसहस्रेण चालोड्य महता वस्त्रेण परिेीस्रावयेद्यावदच्छो रक्तस्तीक्ष्णः पिच्छिलश्च जातस्तदा तं क्षारनिष्यंदं गृहीत्वा भस्म विवर्जयेत्॥ ततः स्नेहपाक विधिना पचेत्॥ पच्यमाने तु तस्मिंस्ताः सुधाभस्मशर्कराः क्षीरपार्क शंखनाभींभायसे पात्रेऽग्निवर्णान् कृत्वा तत्क्षाराच्छकुडवमात्रे निर्वाप्यं तेनैव च सुश्लक्ष्णं पिष्ठा प्रतिवापं दद्यात्॥ ततश्च सुतरां दर्व्याऽवघट्टयेत्॥ यदा च सचाप्पैर्युहुदैः समुत्तिष्ठेत्सांद्रतया च दर्वीमलेपी स्थात्तदैनमवतार्यायोघटे यवराशौ सुगुप्तं स्थापयेत्॥ एषमध्यमः क्षारः॥मृदौ शर्करादीन्निर्वाप्यापनयेन्नतुपिष्ठ्वाक्षिपेत्॥ तीक्ष्णे तु दंतीचित्रकलां गलिकापूतीकप्रवालतालपत्रीबिडसर्जिकाकनकक्षीरीहिंगुवचाऽतिविपाः श्लक्ष्णचूर्णीकृता दग्धाश्च शंखशुक्तीःपूर्ववत् प्रतिवापं दद्यात्॥ तांश्च व्याधिवलतः सप्तरात्रादूर्ध्वं प्रयुंजीत॥ क्षीणजले तु वलाधानार्थेपुनः क्षारजलमावपेत्॥ तत्र नातितीक्ष्णो नातिमृदुः श्वेतः श्लक्ष्णः शीघ्रः पिच्छिलः शिखरी मुख निर्वाप्योऽल्परुग्विष्यंदी चेति दश क्षारस्य गुणाः॥दशैव च दोषाः॥ तद्यथा॥ अत्युष्णोऽतिशीसोऽतितीक्ष्णोऽनिमृदुरतितनुरतिघनोऽतिपिच्छिलो विसर्पी हीनौपघो हीनपाकश्चेति॥ तत्र क्षारकर्मण्युपहरेत्पिचुवर्तिशलाकादर्व्यंजलिकाघृतमबुसुक्ततुपोदक- मस्तुक्षीरोदकशीतोपदेहशयनासनादीनि॥ अथ क्षारार्हस्पोपविष्टस्य संविष्टस्य वाऽऽसपरिचारकगृहीतस्य व्याधिं छिस्वाऽवलिख्य प्रच्छाय वा पिचुप्लोतान्यतरावगुंठितया शलाकया क्षाएं पातपेत्॥ ततो मात्राशतमुपेक्षेत॥ वर्त्मरोगे तु निर्भुज्य वर्त्मनी पि चुना मधूच्छिष्टेन वा कृष्णभागं भच्छाद्य पद्मपत्रतनुः क्षारलेपः॥ घ्रानजेषु त्वर्शोर्बुदेष्वादित्याभिमुखस्योन्नमय्य नासिकामुपेक्ष्य च पं चाशन्मात्राः॥ तद्वच्छ्रोत्रजेषु॥ गुदार्शःसु पाणिना यंत्रद्दार विधाय धारयेन्मात्राशतमेव॥ ततः प्रमार्जनेन प्रमृज्य क्षारं सम्यग्दग्धमवेक्ष्य निर्वापयेत्सर्पिर्मधुभ्यां सुक्तनुषोदकमम्बुक्षीसदिभिश्च॥ ततः परं शीतमधुरैः सघृतैः प्रदिह्यात्॥ अभिष्यंदीनि भोज्यानि भोज्यानि क्लेदनाय च॥ स्थिरमूलत्वात्तु यदि क्षारदग्धं न विशीर्यते ततो धान्याम्लवीजमधुपष्टिकायुक्तैस्तिलैरालेपयेत्सुवर्णक्षीरीयुतैर्वा त्रिवृद्विढंगसारिवाद्भिर्वा॥ मालतीसृपांकोटनिवास्फोतपटोलीकरवीरपत्रकाथो व्रणे प्रक्षालनं॥ एपामेवच कल्ककाथे सिद्धं सर्पिस्तैलं या रोपणं नागपुष्पमंजिष्ठाचंदनतिलपर्णिकासु वा॥ यथाव्याधिदोशषंव्रणमुक्रमेत्॥ तिलाः समधुका रोपणाश्चास्य पूजिताः॥ तत्र पक्वजांबवसंकाशमवसन्नमीपद्यथास्वविकारोपशांतौसम्पग्दग्धं भवति ॥ तहिपर्यंये तोदकंजाड यादिभिश्च दुर्दग्धं तत्र पुनः पातयेत्॥ ऊपादाहरागशोफज्रपाकविसर्पशिरोरोगवातपित्तकोपैरतिदग्धं॥ अपिच॥ नेत्रेऽतियोगाहर्त्मनिर्भेदनेंद्रियभ्रंशः॥ घ्राणे नासावंशतरुणास्थिदरणं संकोचो गंधाज्ञानं च॥ तच्छ्रोत्रादिष्वपि च यथास्त्रं व्यापत्॥ गुदे विण्मूत्ररोधोऽतिसारः पुंस्त्वोपघातो गुदविशरणाच्च मृत्युर्वा सर्वदा वा शोफतोदवेदनास्त्रावाः शरुन्मूत्रविधारणाशक्तिर्वा॥ तमतिमहत्तमाशु पूर्वोक्तरेव निर्वापणैः पुनःपुनर्निर्वापयेत्॥ अतश्च दात्द्यमतिप्रमाणं न सकृदेव दहेदिति॥ भवति चात्र॥ अम्लो हि शीतः स्पर्शेन क्षारस्तेनोपसंहितः॥॥ यात्याशु खादुतां तस्मादम्लैर्निर्वापयेत्तरां॥ ज्वरातिसारतृण्मोहमूर्च्छाहृद्वेदनार्तिभिः॥ कक्षं दहत्यभिरिवशरीरं क्षारविभ्रमः॥ पाययेतातियोगेऽतस्तं शीघ्रं सघृतं दधि॥ सगुडं वा दधिसरं तैलं वा ससितोपलं॥धात्रीफलकपित्थाम्लदाडिमस्वरसे घृतं॥ द्विगुणे साधितं पानसेंकैः क्षारातिरुग्घरं॥ दाडिमामलकाचातकपित्थकरमर्दकात्॥ आम्राच मातुलंगाच्च रसं मृद्वग्निनापचेत्॥ ततो निवृत्त क्षाराम दयान्मात्रां यथावलं॥ क्षारो निवर्त्तते तेन प्रसादं त्वक्चगच्छति॥ शोणिनातिप्रवृत्तौ तु बाह्यांतःशिशिरो विधिः॥ इति क्षारविधिर्नामैकोनचत्वारिंशोऽध्यायः॥ ३९ ॥
अथातोऽग्निकर्मविधिमध्यायं व्याख्यास्यामः॥ अग्निंक्षारादपि गरीयानौपधशस्त्रक्षारैरसिद्धानां तद्दाहसिद्धेरपुनर्भवाच्च ॥ तत्राग्निकर्म त्वचि मांसे सिरास्रायुसंध्यस्थिषु च प्रयुज्यते॥ तत्र मशतिलकाल- कचर्मकीलसरुक्स्तब्धप्रम्लायदंगाभिष्पंदाधिमंथशिरोभ्रूशंखललाटरुजार्दितेषु सूर्यकांतपिप्पल्पजाशकृद्गोदंतशरशलाकाभिस्त्वग्दाहो यथास्वमभिष्यंदादिषु तु भ्रूशंखललादेशेषु॥ग्रंथ्यर्बुदार्शोभगंदरंगडगंडमालाश्लीपदांत्रवृद्धिदुष्टव्रणगतिनाड्यवगाढपूयलसीकेषुजांबवौष्ठसूचीशलाकाघृतगुडमधुमधुयष्टीतैलवसाहेमताम्रायोरुप्पकांस्पैर्मातदाहः॥ सिरास्नायुसंध्यस्थिछेदशोणितातिप्रवृत्तिदंतनाडीश्लिष्ट- वत्मौपपक्ष्मकलगणलिंगनाशासम्यग्व्यधेषु जांववौष्ठशलाकासूचीमधृच्छिष्टमधुगुडस्त्रेहैः सिरादिदाहः॥नतु दहेद्भिकोष्टमंतःशोणितमंतःशल्यमनेकव्रणपीडितमुष्णे च काले तथा क्षारानहै च॥ आत्ययिके तु व्याधौ कृतोष्ण प्रतीकारस्य पिच्छिलमन्त्रमशितवतोऽग्निकर्म कुर्यात्॥ अथ दाहाईमातुरं फतवस्त्ययनमुपद्धतसर्वोपकरणं प्राक्शिरःसंविष्टमामावलंवितं कृत्वा वैद्यो निर्धूमवृहत्स्थिरदीप्तखदिरबदराद्यंगारैरयोघटनप्रकारेण भस्खानिलाध्मातैर्व्यजनेन वोर्ध्वनिर्गच्छज्ज्वा लतयाऽऽपादितापाद्यमानभासुराभिवर्णैजविवौष्ठादिभिर्व्याधिप्रदेशवशाहलयार्द्धचंद्रस्वस्तिकाष्टापदाबंदुरे- खामतिसारणविकल्पैर्मुर्मुहिनोपहिताभिर्वाग्भिरद्भिचातुरमाभ्यासयन् दहेदासम्यग्दाइलिंगोत्पत्तेः॥ उच्छूनसुधिरप्रलूनदंत नाडीसजंतुदुष्टणेषुतु स्नेहमधूच्छिष्टगुडैः पूरयित्वा दहेत्॥ सम्पदग्धे च मधुसर्पिपी दद्याच्छीतस्त्रिग्घांश्च प्रदेहान्॥तम्पग्दग्धलिंगं पुनः सशब्दं दद्दनं दुर्गे भित्वं त्वक्संकोचच॥ लग्दग्धे कपोतवर्णत्वमल्पशोफरुजता शुष्कसंकुचितव्रणता च॥ मांसदग्धे कृष्णोन्नतव्रणत्यं स्थिते च रक्तेसलसीका
स्रुतिः॥ सिरादग्धे कृष्णारुणकर्कशस्थिरव्रणता स्नाय्वादिदग्धे च॥ दुर्दग्धातिदग्धयोः प्रमाददग्धवलक्षणं चिकित्सितं च॥ प्रमाददग्धं पुनश्च तुर्विधं भवति तुच्छं दुर्दग्धं सम्यन्दग्धमतिदग्धं च॥ तत्र यद्विवर्ण- मृष्यतेऽतिमात्रं वत्तुच्छे॥ यत्रोत्तिष्ठंति स्फोटतीव्रोपादाहरुजश्चिराच्चोपशाम्पंति तद्दुर्दग्धं॥ पक्वतालफलवर्णं समस्थितं पूर्वलक्षणयुक्तं चसम्यग्दग्धं॥ अतिदग्धे तूग्ररुजता धूमायनं मांसप्रलंबनं सिरादिव्यापदो गंभीरवणता ज्वरदाहतृणमूर्च्छाछर्दयः॥ शोणितातिप्रवृत्तिस्तन्निमित्ताश्चोपद्रवाः कृच्छ्रेण रोहणं रुठे च विवर्णतेति॥ स्नेहदाहस्तु कष्टतरो भवति स हि स्नेह्रस्य सूक्ष्ममार्गानुसारित्वाद्दूरमनुप्रविशतीति॥ भवति चात्र॥ तुच्छस्याग्निप्रतपनं कार्यमुष्णं च भेषजं॥ स्त्याने रक्ते हिमैर्नोष्मानिक्रामति यतो बहिः॥ वेदना वर्द्धते तेन रुधिरं च विदह्यते॥ उष्णं निक्रामयत्कुर्यादुष्माणं मंदतां रुजः॥शीतामुष्णां च दुर्दग्धे क्रियां कृत्वा ततः पुनः॥ घृतलेपनसेकांस्तु शीतानेवावचारयेत्॥ सम्पग्दग्धे तवक्षीरीकृष्णचं दनगैरिकैः॥ सामृतैः सघृतैर्लेपं कल्कैर्वाऽऽनूपमांसजैः॥ शांतोष्मणि परं कुर्यात्पित्तविधिसाधनं॥ अतिदग्धे विशीर्णानि मांसा न्युद्धृत्य शीतलं॥ क्रियां कुर्यात्ततः पश्चाच्छालितंदुलकंडनैः॥ तिंवुकत्वक्कपायैर्वा पिष्टैः साज्यैः प्रलेपयेत्॥ गुडूच्या छादयेत्पत्रैरय वौपोदकैव्रणं॥भेषजं वाऽस्य कुर्वीत सर्वे पित्तविसर्पयत्॥ स्नेहदग्धेभृशतरं तत्र रूक्षं तु योजयेत्॥ शस्त्रक्षाराग्नयोयस्मान्मृत्योःपरममायुधं॥ अप्रमत्तो भिषक् तस्मात्तान्सम्यगवचारयेत्॥ इति तंत्रस्य हृदयं सूत्रस्थानं समाप्यते॥ अत्रार्थाः सूत्रिताः सूक्ष्माः प्रतन्यंते हि सर्वतः॥ इत्यग्निकर्मविधिर्नाम चत्वारिंशोऽध्यायः॥४०॥ ॥ इति श्रीसिंहगुमसुनुश्रीमद्वाग्भटाचार्यविरचितेऽष्टांगसंग्रहे प्रथमं सूत्रस्थानं सपूर्णं॥ १ ॥ श्रीकृष्णार्पणमस्तु ॥ ५ ॥ ॥५॥
॥ श्री ॥
अष्टांगसंग्रहे
शारीरस्थानम् २
श्रीगणेशाय नमः॥ धन्वंतरये नमः॥ अथातः पुत्रकामीयं शारीरं व्याख्यास्यामः॥ इति हृ स्माहुरात्रेयादयोः महर्षयः॥ अथ खलुपुमानेकविंशतिवर्षः कन्यामतुल्यगोत्रामतुल्याभिजनामसंचारिरोगकुलप्रसूतां रूपशीललक्षणसंपन्नामनूनामविनष्टदंतौष्ठकर्णनखकेशस्तनीं मृदुमरोगप्रकृतिमकपिलामपिंगलामहीना- धिकांगीं‚द्वादशवर्षदेशीयाममरभुजगसरिदचलवृक्षपक्षिनक्षत्रान्यप्रे^(*)क्ष्यक्षीपणकनामान्यनुहहंतीमनघा मनिधामनियेन विधिनोद्दृहेत्॥ तस्यां षोडशवर्षा यां पंचविंशतिवर्षः पुरुषः पुत्रार्थ प्रयतेत॥ तदा हि तौ प्राप्तवीय पीर्यान्वितमपत्पं जनयतः॥ ऊनपंचविंशतिवर्पेणोनषोडशवर्षायामाहितो गर्भः कुक्षिस्य एवं विनाशमामुपादल्पापुर्वलारोग्यविभवो वा स्पाद्विकलेंदियो वा कतावाद्येच रात्रित्रये तथा दुष्टे शुक्रार्तवइति॥तत्राहारस्य सम्यकुपरिणतस्य कमान्मज्जानमनुप्राप्तस्य सारः शुक्रसंज्ञां लगते॥तत्तु क्षीरइव सर्पिरिक्षुरसइव गुडः शरीरे शुक्रधरां कलामाश्रित्य सर्वोगव्यापितया स्थितं विशेषतश्च मज्जमुष्कस्तनेषु हर्षोदीरितं तु संघ ट्ट नेन उदयावेशात्पिडी भूतमंगादंगात्मवर्तते तत्सौम्यं स्त्रिग्पं गुरु शुक्रं मधुगंधि मधुरं पिच्छिलं वह बहलं घृततैलक्षौद्रान्पतमवर्णं च शुकं गर्भाधानयोग्यं भवति॥ तथा रक्तमेव च स्त्रीणां मासे मासे गर्भकोष्टमनुप्राप्य व्यहं प्रवर्तमानमार्तवमित्याहु॥ अतिप्रसंगेनानृतावृतौ वा
तदेवासृग्दरं मदरं व्यापदं च रक्तपोनिसंज्ञां लभते॥ तत्साधने रक्तपित्तचिकित्सितं गुह्यरोगप्रतिषेधं चेक्षेत॥ यातकफारतमार्गाणां त्वप्रवर्तमानं पित्तलैरुपचारैस्तत्प्रवर्तमानं सशुक्रमशुक्रं वा जीव रहितं वातलान्यासेवमानाया यो पितो गर्भलिंगानि दर्शयगुल्मी भवति तत्र गुल्मचिकित्सितमीक्षेत॥ कदाचिद्वा गर्भइव बातोदरं भवति तद्दातोपशमनैरुपशाम्यति॥ तदेव कदाचिदार्तवं सौम्पैर्वेहणात्मभिराहारविहारैः स्तंभितमनुपद्रवमेवोदरं गर्भाधिष्ठितमिव वर्द्धयति॥ येन तामगर्भोगर्भिणीमाहुर्मूढाः॥ ततो विपरीतैर्यदृच्छया वा प्रवृत्ते रक्ते गर्भशरीरमपश्यंतो भूतहृतमित्यज्ञा ब्रुवते॥ यस्मा त्संभवत्योजसोऽपहरणं रक्षोभिर्न तु कायस्यानिष्टत्वादशक्तेर्वा॥ इच्छाशक्तपोर्हि प्रवृत्ते231रुपलब्धिर्न च दृश्यते कस्यचिदमानुपैर्दैहापहारः॥ यदि च दृष्टमपि समुल्लंघ्य केचितिशयशक्तियुक्ता गर्भस्य शरीराक्षेपे प्रवर्त्तते तदा कथमिव प्राप्तावसरास्तज्जननीरुपेक्षेरन्॥आर्तवं पुनः शशरुधिरलाक्षारसोपमं धौतं च विरज्यमानं शुद्धमाहुः॥ यथाच बालस्य जीर्णस्य वा तरोः पुष्पफलं पुष्पफलस्य वा त द्विधस्य गंधो नोपलभ्यते तथैव नोनपोडशातीतसप्ततिवर्णस्य पुंसः शुक
क्रसेकादयः॥ योपितश्चोनद्दादशातीतपंचाशद्दर्पाया रजस्तन्यादय इति॥ अथ शुद्धशुक्रार्तवमरोगं मिथोऽनुरक्तं मिथुनमुपस्नेत्य विधि- वत्संशोध्यास्थापनानुवासनाभ्यामुपाचरेत्॥ विशेषतस्तु घृतक्षीरवद्भिर्मधुरौपघसंस्कारः पुरुपं तैलेन नारी पित्तलैश्च मांसैः232
॥ एवं हि समानगुणतया शुकार्तवमाप्यायते॥ वातपित्तश्लेष्मकुणपगंधिग्रंथि पूयक्षीणमूत्रपुरीपरेतांसि त्यवीजानि भव॑ति॥ तत्र तनु रूक्षं फेनिलमरुणमल्पं विच्छिन्नं सरुजं चिराच्च निपिच्यते वातेन॥ किंचित्पीतमपिच्छिलमानीलं वा दहदिव प्रवर्तते पित्तेन॥ मज्जोपसंसृष्टं
प्रभूतं विवद्धं चांभसि च किंधिन्मज्जति श्लेष्मणा॥ कुणपगंध्यनल्पं रक्तेन॥ ग्रंथिभूतं वातश्लेष्मभ्यां॥ पूतिपूयनिभं पित्तश्लेष्मभ्यां॥ क्षीणं वातपित्ताभ्यां॥ तदुक्तं ससाधनं प्राक्॥ मूत्रपुरीपगंधि सन्निपातेन॥ आर्तवमपि शुक्रवद्दोपैरुपसंसृष्टमवी जमेव॥तस्य लिंगं नाम च पूर्ववत्॥ तेषु कुणपग्रंथिपूपक्षीणरेतांसि कृच्छ्रसाधनानि॥ मूत्रपुरीपशुकार्तवं त्वसाध्यं कुणपग्रंथिपूयार्तवं वा॥ तत्राद्यास्रीन् शुक्रार्तवदोषान् यथास्वं दोषसाधनेन साधयेत्॥ गुह्यप्रतिषेधेन चोभयानपि च॥ वातिके शुक्रदोषे मुक्तसैंधवफलाम्लसिद्धं यवक्षारप्रतिवापं सर्पिः पानं॥ विल्वविदारीक्षीरयूक्तमास्थपनं॥ मधुकद्रदारूसिद्धं तैलमनुवासनं॥ क्षीरकुलीररससिद्धं तैलमुत्तरवस्तिः॥ पैत्तिके कांडेक्षुश्वदंष्ट्रागुडूचीसिद्धं मूर्वामधूकप्रतीवापं सर्पिः पानं॥ त्रिचूर्णः सघृतो विरेकः॥ पयस्याश्रीपर्णीसिद्धं क्षीरयु क्तमास्थापनं॥ मधुकमुद्रपर्णीसिद्धं तैलमनुवासनमुत्तखस्तिश्च॥ श्लैष्मिके पापाणभेदकाश्मंतकामलककाथसिद्धं पिप्पलीमधुकचूर्णप्रतीवापं सर्पिःपानं॥ मदनफलकपायो वमनं॥ दंतीविडंगचूर्णस्तैउलोढो विरेकः॥राजवृक्षमदनफलकपायप्रगाढमास्थापनं॥ मधुकपिप्पलीसिद्धं तैलमनुवाप्सनमुत्तरवस्तिश्च यातजेऽप्यार्तवदोषे भार्ङ्गीभद्रदारूसिद्धं सर्पिः पानं॥ काश्मर्यक्षुद्रसहासिद्धं वाक्षीरं॥मधुकशृगालविन्नाकल्कं233”) पयःसर्पिः सहितं॥ प्रियंगुतिलकल्कं वा यो नौ धारयेत्॥ सरलमुद्रपर्णीकपायः प्रक्षालनं॥ पित्तजे काकोलीहयविदारीमूलक्काथमुत्पलपद्मककायं मधूकपुष्पकाश्मर्यफलफार्थं वा सशर्करं पिबेत्॥ श्वेतचंदनक्वाथं वा सक्षौद्रं॥ धवधातकीकल्कं वा॥ घृतेन वा मधुकमधुरसामृद्वीकाकल्कं॥ शम्पाकगवाक्षीक्षीरं विरेकः॥ चंदनपयस्याकल्कं योनौ धारयेत्॥ गैरिकारिष्टकपायः प्रक्षालनं॥
श्लैष्मिके कुटजकटुकाऽश्वगंधाक्काथं पिवेत्॥ समाक्षिकं वा क्षीरिवृक्षप्रवालक्वाथं॥ एतेषामेव वा चूर्णं मधुघृताभ्यां लित्यात्॥ मदनफलकपायेण वमनं॥ तत्कल्कमेव च योनौ धारयेत्॥ रोध्रतिदुककपायः प्रक्षालनं वस्तमेपमूत्रं वा॥ कुणपरेतसि धातुकीपुष्परवदिरार्जुनदाडिमैः सिद्धमसनादिभिर्वा सर्पिः पाययेत्॥ ग्रंथिरेतसि पापाणभिदा पलाशभस्मना वा॥ पूयरेतसि परुपकादिन्यग्रोधादिभ्यां॥मूत्रपुरीपरेतसि वायुनाऽतिविकृते हिंगूशीरचित्रकैरथवा चित्रकवितुन्नकप्रियंगुहिंगुसमंगामृणालसिद्धमेलामोचचूर्णप्रतिवापं॥ तथा ग्रंथ्यार्तवे पाठात्रिकंटकवृक्षकक्वाथं॥कुणपपूयार्तवे चंदनक्वाथंपिवेत् त्रिफलाकल्ककथौ चात्र धारणाचमने॥ सर्वेषु च शुक्रर्तिषदोपेषु स्त्रीपुंसौ स्नेहादिकर्मभिर्विशेषेण चोत्तरवस्तिभिः पुनः पुनरुपाचरेत्॥ पथावं च योनौ कल्केः पिचुभिश्च॥ इत्येवं विशुद्धशुकार्तवी पूर्वोक्तं विधिमासेवेतां॥ ऋतुस्तु दृष्टार्तवो द्वादशरात्रं भवति॥ पोडशरात्रमित्यन्ये॥ शुद्धयोनिगर्भाशयार्तवाया मासमपि तु केचित्॥ तद्वददृष्टार्तवोप्यस्तीत्यपरे॥ क्षामप्रसन्नवदनां स्फुरच्छ्रोणिपयोधरां॥सस्ताक्षिकुक्षिं पुंस्कामां विद्यादृतुमतीं स्त्रियं॥ पद्मं संकोचमायाति दिनेऽतीते यथा तथा॥ ऋतावतीते योनिः सा शुक्रं नांत. प्रतीच्छति॥ मासेनोपचितं रक्तं धमनीभ्यामृतौ पुनः॥ईषत्कृष्णं विगंधं च षायुर्योनिमुखान्नुदेत्॥ ततः पुष्पदर्शने प्रथमदिवसात्मभृति ब्रह्मचारिणी स्नानाद्यलंकाररहिता दर्भसंस्तरशायिनी त्रिरात्रमासीत॥पर्णशराव करतलान्यतमे च यावक पयसा सिद्धमल्पं कर्शनार्थमश्नीयात्॥ तीक्ष्णोष्णाम्ललवणानि वर्जयेत्॥ चतुर्थेऽहन्पुर्तिता शीतसलिल खाताऽनुलिप्ताऽलंकृता शुक्लमल्पांवरा कृतमंगलवस्त्ययनैवंविधमेष भर्तारं पश्येदनन्यमनाः॥ तदा हि यादृशमेव पश्यति चिंतयति वा तादृशं प्रसूत इति॥ ततः स्नाता
त्पुनरपि गुणवत्पुत्रार्थी चतूरात्रमुपेक्षेत॥पुष्पदिनात्सप्तरात्रं234॥ अथाष्टम्यां दशम्यां द्वादश्यां वा रात्रौ पुत्रकामः संविशेत्॥ पंचम्यां सप्तम्यां नवम्यां वा दुहितुकामः॥ तासूत्तरोत्तरमायुरारोग्यैश्वर्यसौभा- ग्यवलवर्णेद्रियसंपदपत्यस्य भवति॥ अतः परं तूत्तरोत्तरमेवायुरादीनां हासः॥ तत्र युग्मासु रात्रिष्वल्पीभवत्यार्तवमयुग्माखाप्यायते॥ तस्मात्तासु कमात्पुत्रस्य दुहितुश्च जन्म॥ अतएव चानु’परतार्तवदर्शनां पुत्रार्थी विषमेष्वप्यहस्सु नोपेयात्॥ यदि त्वाहारानुरोधादयुग्मासु शुक्रस्याधिकता युग्मासु च न्यूनता स्यात् ततः पुमान् रूयाकृतिर्दुर्बलो हीनांगो वा जायते॥ स्त्री च पुरुपाकतिर्दुर्बला होनांगी वा॥ एकादशीत्रयोदश्योस्तु नपुंसकं स्यात्॥ अथोपाध्यायः पुत्रीयं विधानमाचरेत्॥ शुद्रायास्तु मंत्रवर्जितं॥ यादृशं च पुत्रमाशासीत तद्रूपवर्णचरितान् जनपदाननुचिंतयेति स्त्री वाच्या॥ तज्ज नपदाहारविहारोपचारपरिच्छदांश्चानुविदधीत॥ कर्मोते च पुमान्मासं ब्रह्मचारी सर्पिःक्षीराभ्यां शाल्योदनमभिप्राश्य नात्याशितः सुखी स्रग्बी सुमनाः प्रीणितांगः शुक्लनिवसनो मौहूर्तिकानुमते रात्रिभागे कल्याणानि चिंतयंस्तदभिकामः स्वास्तीर्ण शयनं दक्षिणेन पादेन प्रागा रोहेत्॥ तद्विधैव च प्रमदा कर्शितांगी तैलमापोत्तराहारा पूर्वं यामपादेन पुरुषस्य दक्षिणतः शय्यामाघरोहेत्॥ तत्र मंत्रं प्रयुंजीत॥ आहिर सि आयुरसि सर्वतः प्रतिष्ठासि धाता त्वादधातु विधाता त्वादधातु जलवर्चसा भवेति॥ ब्रह्मा बृहस्पतिर्विष्णुः सोमः सूर्यस्तथाऽश्विनौ॥ भगोऽथ मित्रावरुणौ वीरं दधतु मे सुतमिति॥ ततः परस्परं सामभिरभिसांख्य सहर्षमनुकूलं संवसेवां॥ पर्याप्ते चैनां शीतो
दकेन सहसा परिपिंचेत्॥ तत्रात्याशिता क्षुधिता पिपासिता भीता विमनाः शोकार्ता क्रुद्धाऽतिमेदुरा उन्यकामाऽव्यवायकामा वाम गर्भेधत्ते विगुणं वा॥ तथा पुरुषोऽपि नचासावधस्तिष्ठेत्235॥तथा हि स्त्रीचेष्टः पुमान् जायते पुंचेष्टा वा स्त्री॥ न च न्युजां पार्श्वगतां वा सेवेत॥न्युजायां वातो वलवान् स योनिं पीडयति॥ दक्षिणपार्श्वगायाः श्लेष्मा पीडितव्युतो ऽपिदधाति गर्भाशयं॥ वामपार्श्वगायास्तद्वत्पित्तं विदहति रक्तशुक्रे॥दस्मादुत्ताना वीजं गृण्हीयात्॥ तथाहि यथास्थानमेव तिष्ठंति दोषाः॥ लब्धगर्भोचैनां विदित्वा प्राग्व्यक्तीभावाद्भर्भस्य पुष्ये पुंसवनादि प्रयुंजीत॥ द्वादशरात्रमित्यन्ये॥ तत्रापि युग्मदिनेष्विति केचित्॥ प्रत्यहमित्यपरे॥ तद्यथा॥ लक्ष्मणावटशुंगसहदेवाविश्वेदेवानामन्यतमां क्षीरेऽभिपुत्पत्रींश्चतुरो वा बिंदून दक्षिणे नासापुढे स्वयमासिंचेत्पिचुना वामे तु दुहितृकामा॥ न चैतान्निष्ठीवेत्॥ तथा पुण्योद्धृतायाः श्वेतबृहत्या मूलकल्काद्रसं नावयेत्॥ तद्वच्चोत्पलपत्रं कुमुदपत्रं लक्ष्मणामूलं वटशुंगानि चाष्टौ च नावयेत्॥ शुक्लमाल्पां बरधरा च नारी पुष्पोद्धृताया लक्ष्मणाया मूलकल्कमुदुंबरमात्रं पयसा पिवेत्पुत्रस्योत्पादाय स्थितये च॥ तद्वद्रौरदंडमपामार्गे जीवकर्षभको शंखपुष्प मध्यदंडां सहचरं नग्नजीवमग्निजिव्हामष्टौ वा वा वटथुंगानि॥ पिष्टस्य च पच्यमानस्योप्माणमाघ्राय तद्रसं देहल्यां स्थितां पूर्ववभावयेत्॥ यच्चान्यदपि ब्राह्मणा वृद्धस्त्रियो वा " ब्रूयुस्तच्च कुर्यात्॥ ततः प्रजास्थापनाख्या महौषधीः शिरसा दक्षिणेन च पाणिना धारयेत्॥ एताभिश्च सिद्धं पयो घृतं वा पिबेत्॥एताभिरेव पुष्ये पुण्ये स्त्रायात्सदा चेत्थमालभेत॥ तथा सर्वासां जीवनोयानामोषधीनां सदोपयोगस्तैस्तैर्विधिभिः॥ इतिगर्भस्थापनानि॥
सौम्याकृतिवचनोपचारचेष्टाश्च प्रियहितानुवर्तनः परिचारकास्तथा भर्तेति॥ पुनश्चैनां मासादुपेयात्॥ तत्र शुक्रे शुक्ले वृतमंडाभे वा गर्भस्य गौरत्वं तैलाभे कृष्णत्वं मध्याभे श्यामत्वं॥ तथा क्षीरादिमधुराणामुपयोगान्मातुरुदकविहाराच्च गौरता तिलान्नविदाहिना कृष्णता व्यामिश्राणां श्यामता॥ देशकुलानुवृत्तितश्च वर्णभेदः॥ तथा तेजोधातोरुद काकाशधातुसंपर्काद्गौरता भूवायुसंपर्कात् कृष्णता सर्वधातुसाम्ये श्यामता॥सत्वविशेषकराणि पुनर्मातापितृसत्वान्यंतर्वत्न्236याः श्रुतयश्चा237भीक्ष्णाः स्वोपचितं कर्म भवति पूर्वाभ्यासश्चेति॥ भवन्ति चात्र॥ घृतक्षीरादिनित्यासु मुदितासु कफात्मसु॥ आर्तवं तिष्ठति चिरं विपरीतास्वतोऽन्यथा॥ निपातादेव गृह्णा
ति रागं वासो यथाऽमलं॥ ध्रुवं गर्भेतथा वीजं क्षेत्रं बीजमुपस्कृतं॥ अविरुद्धे ध्रुवंदैवे काले युक्तस्य कमर्णः॥सिद्धिः पुंसवनाद्यस्मात्पूर्वं व्यक्तेः प्रयोजयेत्॥ जाताश्चैवं रूपवंतो महासत्वाश्चिरायुषः॥ ऋणान्मोचयितारः स्युः सुपुत्राः पुत्रिणां मताः॥ दैवताचारशौचादिरता सुते महागुणं॥ धावत्येवं चाचरितं प्राग्जन्माभ्यासयोगतः॥ योपितोऽपि स्रवंत्येव शुक्रं पुंसः समागमे॥गर्भस्य तन्त्र किंचिनु करोतीति न चिंत्यते॥ ॥ इति पुत्रकामीयो नाम प्रथमोऽध्यायः॥ १ ॥
अथातो गर्भावक्रांतिशारीरं व्यारयास्यामः॥ गते पुराणे रजसि नवेऽवस्थिते शुद्धे गर्भस्याशये मार्गे च वीजात्मना शुक्रमविकृतमवि कृतेन वायुना प्रेरितमन्यैश्च महाभूतैरनुगतमार्तवेनाभिमूर्च्छितमन्वक्ष मेव रागादिक्लेशवशानुवर्तिना स्वकर्मचोदितेन मनोजवेन जीवेनाभिसंसृष्टं गर्भाशयमुपयाति॥ कार्याणां च कारणानुविधायित्वात्त त्स्वभावतां प्रतिपद्यते॥ ततएव च शुकस्य बाहुल्यात्पुमानार्तवस्य
बाहुल्यात्स्त्री तयोः साम्येन नपुंसकं॥ शुक्रर्तवेऽनिलेन खंडशो भिन्ने यथाविभागमपत्यानामृत्पत्तिः॥ विकृते वियोन्याकृतीनां॥ अथ भार्याः सद्योगृहीतगर्भायाश्च लिंग योन्या बीजग्रहणं तृप्तिर्गरिमा स्फुरणं शुकार्तवयोरननुबंधश्च॥ तथा प्रहर्षो हृल्लासस्तंद्रांऽगसादः प्रसेको हृदयव्यथा ग्लानिः पिपासा च॥ क्रमेण तु व्यक्तगर्भायाः कुक्षिमात्रगौरवं238 क्षामनेत्रखरताऽक्षिरोमसंतुलनं निद्रा जृंभणं मूर्च्छा छर्दिररुचिः पादशोफोऽम्लेऽभिलाषस्तेषु नेषु चोच्चावचेषु भावे ष्विति। तस्याश्च रजोवाहिनां स्रोतसां वर्त्मान्युपरुध्येते गर्भेण॥तस्मात्ततः परमार्तवं न दृश्यते॥ ततस्तद्धःप्रतिहतमपरमपरं चोपचीयमानमपरेत्याहुः॥ जरायुरित्यन्ये॥ स्थिते तु रक्ते रोमराजी प्रादुर्भवति जरायुशेपं चोर्ध्वमसृक् प्रतिपद्यते॥ तस्मात्पीनकपोल पयोधरता कृष्णौष्ठचूचुकत्वं च॥ स्ननाश्रयमेव च केफोपरंजितं239 स्तन्यतामुपगतं प्रसूतायाः पुनराहाररसेनाप्यायते॥ तत्र प्रथमे मासे कललं जायते॥ द्वितीये घनः पेश्यर्बुदं वा तेभ्यः कमात्पुंस्त्रीनपुंसकानि॥ तृतीये पंचधा प्ररोहति॥ तद्यथा॥ सक्थिनी बाहू शिरश्व॥सक्थ्यादिमराहैककालमेव च सर्वोगावयवेंद्रियाणि युगपत्संभवंत्यन्यत्र जन्मोत्तरकालजेभ्यो दंतादिभ्यः क्रमेण तु स्पष्टीभवति॥ एषा प्रकृतिः॥ विकृतिरतोऽन्यथा॥ यथास्वंच गर्भस्य पुंस्त्रीनपुंसकान्यतमलिंगानुरूपा एवं भावा मनसि शरीरे च संतिष्ठ॑ते। वैशेषिकलिंगसंकरे तु यतो भूयस्त्वं ततोऽन्यतरा भावाः॥ तद्यथा॥ क्लैव्यं भीरुत्वमवैशारद्यं मोहोऽनवस्थानमधोगुरुत्वमसंहननं शैथिल्पं मार्दवं गर्भाशयबीजभावास्तथा युक्ताश्चापरे240 स्त्रीकराभावाः॥ ततो विपरीताः पुंस्कराः॥ संकीर्णा नपुंसककराः॥ तदा चास्य चेतना भव्यक्ता भवति॥ ततश्च तत्मभृति स्पंदतेऽभिलाषंपंचें
द्रियार्थेषु करोति॥ मातृरजंह्यस्य हृदयं तद्रसहारिणीभिर्धमनीभिः मातृहृदयेनाभिसंबद्धं भवति॥ तस्मात्तयोस्लाभिः श्रद्धा संपद्यते॥तथा च हौर्हृदयां नारी दोर्जेदिनीत्याचक्षते॥ अन्ये तु पक्षत्रयात्मभूत्यापंचमान्मासाद्दौर्हृदकालमाहुः॥ प्रार्थनायां च तीव्रापां काममहितमप्यस्यै हितोपसंहितं दद्यात्॥ दौर्डदविमाननाद्धि वायुः प्रकुपितोंऽतःशरीरमनुचरन् गर्भस्य विनाशं वैरुप्यं कुर्यात्॥ लब्धदौर्हृदा तु वीर्यवंतं चिरायुषं च पुत्रं प्रसूते॥ चतुर्थे॑॑ऽगप्रत्यंगविभागः प्रव्यक्तो गर्भश्च स्थिरो भवति॥ पंचमे मनः प्रतिबुद्धतरं भवति मांसशोणितोपचयश्च॥ षष्टे केशरोमनखास्थिस्नाय्वादीन्यभिव्यक्तानि बलवर्णोपचयश्च॥ सप्तमे सर्वागसंपूर्णता॥ अष्टमे गर्भश्च मातृतो गर्भतश्च माता रसहारिणोभिर्वाहिनी भिर्मुहुर्मुहुरोजः परस्परमाददाते॥ तस्मात्तदा गर्मिणी मुहुर्मुदिता भवति मुहर्म्लाना तथा गर्भः॥ एवं गर्भस्य जन्म व्यापत्तिमत्तदा भवति॥ओजसोऽनवस्थितत्वात्॥ लथाह्यस्य निष्क्रमणोन्मुखस्य परिवर्त्तनादीन्यनुभवत एवौजसा वियोगः॥ यद्यपि च किंचित्काल मस्योच्छ्वसनं स्यात्तच्छिन्नस्येवांगस्यौजः संस्कारानुवृत्तिरुतं॥ जनन्यास्तु स्थिरोजस्कतयैकदेशेन रसे संक्रांते ग्लानिरेवेति॥ अन्ये पुनराहुः॥ नैऋतभागत्वात्तत्र गर्भस्य मरणं॥ तस्मात्मसवप्रतिषेधार्थे स्त्री स्राता शुचिर्ब्रह्मचारिणी दैवताराधनपरमास्यात्॥ मांसौदनवालिं चात्र निर्वपेत्॥ तस्मिन्नेकदिवसातिकांतेऽपि प्रसवकालमाहुरासंवत्सरात्॥ अतःपरं विकारी भवति॥ गर्भस्तु मातुः पृष्ठाभिमुखो ललाटे कृतांजलिः संकुचितांगो गर्भकोष्ठे दक्षिणपार्श्वमाश्रित्यावतिष्ठते पुमान् वामं स्त्री मध्यं नपुंसकं॥ तत्र स्थितश्च गर्भो मातरि स्वपत्यां स्वपिति प्रबुद्धायां प्रबुध्यते॥ परतंत्रहश्चे गर्भस्य॥ निषेकात्मभृति गर्भाशयोपस्त्रेहोपस्वेदौवर्तनं ततो व्यक्तीभवदं
गप्रत्यंगस्याऽस्य नाभ्यां प्रतिवद्धा नाडी नाडयामपरा तस्यां मातृहृदयं॥ ततो मातृहृदयादाहाररसो धमनीभिः स्पंदमानोऽपरामुपैति॥ ततः क्रमान्नाभिं॥ ततश्च स पुनर्गर्भस्य पक्काशये स्वकायाग्निना पच्यमानः प्रसादवाहुल्पाद्धात्वादिपुष्टिकरः संपद्यते॥ तथा रोमकूपैरुपस्नेहोरसएव च पयोभूतः॥ अजातस्य साक्षादन पानाननुप्रवेशादमलत्वाच रसस्य गर्भस्य स्थूलमलासंभवः॥ जन्मकाले तु प्रसूतिमारुनयोगात्परिवृत्त्याऽवाशिरा निष्कामत्यनुचापरा च्युता मातृहृदयात्॥ एषा प्रकृतिः॥ विकृतिरतोऽन्यथा॥ तत्र या दक्षिणं पादं पूर्वमभिहरति दक्षिणश्च यस्या बाहुर्वलवांस्तेन च चेष्टतेतत्स्वेने च प्राक् पयो दृश्यतेऽत्युन्नततत्कुक्षिपरिमंडलगर्भा पुन्नाम दर्शनस्पर्शनप्रश्नदौर्हृदाभिरता पुन्नामधेयांश्च खमान् पश्यति प्रसन्नमुखवर्णा तीक्ष्णक्षुदूर्ध्वरोमराजिः पुरुषानभिलापिणीच सा पुत्रं प्रसूते तद्विपर्यये कन्यां संकरे च नपुंसकं॥ प्रश्नकाले नारी यल्लिंगमंगं बाह्यद्रव्यं वा परामृशति तल्लिंगमस्या गर्भमादिशेत्॥ यदा तून्मार्गगो बातो गर्भस्य रसवाहीनि स्रोतांसि शोषयति तदा वातरोगी होनो जायते॥ बहूनि वा पर्पाण्युदरे तिष्ठति॥ यदा स्त्रीपुंसयोः सप्रमर्थो निष्पद्यते॥ बीजंवा तयोः समांशं संमुखं च॥ यदा च बीजं भागे दुष्यति तदा द्विप्रकृ तिर्हिरेतो नपुंसकं भवति॥ यदा स्त्री प्रथमं कृतार्था भवति ततः पुरुषेण पश्चाच्छुकमुत्सृष्टं हर्पानवस्थितचेतसः स्त्रिया वालो विगुणीकरोति पुंस्त्ववाहोनि चास्य स्रोतांसि चोपहंति तदा वातेंद्रियं भवति॥ तन्मैथुने वास्तमेवोत्सृजति॥ यदा तु कार्त्स्न्येनोपहंति अनुपघ्नन्नेव वा स्रोतोमुखं पिधत्तेतदा संस्कारबाह्यं भवति तत्र संस्कारो वाजीकरा बस्तयोऽभ्यवहारश्चेतोहर्पणानि च॥ तानि हि शुक्रे वलमादधानानि स्रोतांस्यस्या
प्यायपंतीति॥ यदाऽल्पवीजोऽल्पवलः पुमानुद्वेगः स्त्रीद्वेषयुक्तोऽन्यकामो वा नार्या व्यवायप्रतिघातं करोति तद्विधा वा नारी241 पुंसः॥नंदाऽऽसेक्यं स्त्रीपुंभौ तद्विधौ भवतः तदा वकध्वजो भवति तस्प नैव ध्वजस्तभ्यते॥ यदा पूतियोन्याः स्त्रिया गर्भो भवति॥ तच्छुक्रास्वादात्ध्वजोच्छ्रायं लभते॥ यदा पुनरुभावपि तत्सौगंधिकाख्यं योनिध्वजगंधेन बलं लभते॥ यदा त्वीर्ष्याभिभूतौमंदहर्षौसंसृज्येते तदेर्ष्यालुरिति संज्ञं॥ तस्यपरं मिथुनीभूतं दृष्ट्वा मैथुनप्रवृत्तिर्भवति॥ यदा पुरुषस्य गर्भस्य वाय्वग्निदोषाहृपणनाशः तदा वायुपिंडकाख्यं भवति॥ एताः कर्मवैचित्र्यादौ पंढयोनयः संकीर्णाः कथिताः॥ यदा तु स्त्रियाः शोणितगर्भाशयो दोषाःकिंचित् प्रदूषयंति तदा यो गर्भो भवति तस्य गर्भस्य यस्य यस्य मातृजस्यावयवस्य वीजे बीजांशे वा दोषःप्रकोपमापद्यते तं तमवयवं विकृतिराविशति॥ यदा यस्याः शोणिताज्ये वीजे गर्भाशयरथे निर्वतक वीजे प्रदुष्यति तदा वंध्यां जनयति॥ यदा तस्यावयवस्तदा पूतिप्रजां॥ तस्या जातं जातं म्रियते॥ यदा पुनः सोऽवयवः स्त्रीकराणां च शरीरसंश्रयाणामधोगुरुत्वादीनां निर्वर्तका ये वीजांशास्तेषामेकदेशः॥ तदा ख्याकृतिप्रायामस्त्रियं वार्ती नाम जनयति॥ तां स्त्रीव्यापदमाचक्षते॥ एवमेव पुंसो यदा शुक्रारव्ये वीजे बीजं प्रदुष्यतीत्यादियोजपेद्दध्यंपूतिमजं तथा पुरुषा कृतिप्रायमपुरुपं नृणामलिंगा नाम जनयतीत्येतेन मातृजानां पितृजानां चावयवानां विकृतिव्याख्यानेन सात्म्यजानां रसजानां सत्वजानां चावयवानां विकृतिर्व्याख्याता भवति॥ यस्य ह्गावयवस्प बीजे बीजांशे वा उत्पत्तिर्भवति तस्य तस्यांगावयवस्य विकृतिरुपजायते॥ नोपजायतेऽनुपतापात्॥ यदा च लव्धगर्भाऽन्वक्षमेव वात लान्यासेवते तदाऽस्था वायुः
प्रकुपितः शरीरमनुसर्पन् गर्भाशयेऽवतिष्ठमानो गर्भस्य जडबधिरमूकमिम्मिणगद्गदरखंजकुजवामनहीनांगाधिकांगत्वान्यन्यं वा वातविकारं करोति॥ तथा वायुवत्पित्तमपि खतिपलितश्मश्रुद्दीनतात्वङ्कखकेशपैंगल्यादीनि॥ श्लेष्मा तु कुष्ट किलाससदंतत्वादीनि॥ त्रिवर्गो मिश्रान्विकारान्॥ अपिच॥ दृष्टिभागमप्रतिपन्नं तेजो जात्यंधत्वं त देव वातानुगतं विकृतरुक्षारुणाक्षं पित्तानुगतं पिंगाक्षं श्लेप्माऽनुगतं शुक्लाक्षं रक्तानुगतं रक्ताक्षमिति॥ गर्भसमानयोगक्षेमा हि गर्भिणी भवति॥ तस्माद्विशेषतस्तां प्रियहिताभ्यां गर्मोपघातकरेभ्यो रक्षेत्॥ यथायथा च गर्भो वृद्धिमामोति तथा तथा भासहाररसापचाराच्च स्त्रिया बलक्षयः॥ तत्रेमे गर्भोपघातकराः॥ तद्यथा॥ व्यवायव्यायामकर्शनाभिघातातिमात्रसंक्षोभियानपानरात्रिजागरणदिवास्वप्नवेगविधारणाजीर्णातपाग्निक्रोधशोकभयोन्नासोपवासोत्कटकविषमकठिनासनश्वभ्रकूपप्र पाताप्रियावलोकनश्रवणादयः॥ समासतः सर्व मतिगुरुष्णतीक्ष्णरुक्षमन्नपानं दारुणाश्च चेष्टाः॥ तथा॥ देवतारक्षोऽनुपचयपरिरक्षणार्थं न रक्तानि वासांसि धारयेन्न यानमधिरोहेन मद्यमांसमश्रीयात्॥ यच्चान्यदपि दृद्धस्त्रियो ब्रूयुः॥ प्रततोत्तानशायिन्याः पुनगर्भस्य नाभ्याश्रया नाडी कंठमनुवेष्टय व्यापत्तिं करोति॥ विवृतशया नक्तचारिणी चोन्मत्तं जनयति॥ कलहशीलाऽपस्मारिणं॥व्यवापशीला दुर्वपुषमन्हीकं स्रैणं वा ॥ शोकनित्या भीरुमपचिनमल्पायुषं वा॥ अभिध्यायिनी242 परोपतापनमी स्त्रैणं वा॥ स्तेना॥ त्वायासबहुलमभिद्रोहिणमर्कर्मशीलं243 वा॥ अमर्पणा चंडमौपधिकं वा॥स्वप्नशीला निद्रालुमबुधमल्पाग्निं वा॥ मद्यनित्या तृष्णालुमल्प. स्मृतिमनवस्थितं वा॥ गोधामांसनित्याऽश्मरिणं शनैर्मेहिनं या॥वराहमांसनित्या रक्ताक्षं क्वथनमतिपरुषरोमाणं वा॥ मत्स्यमांसनित्या चिरनिमेषं स्तब्याक्षं वा॥ मधुरनित्या प्रमेहिणं मूकमतिस्थूलं वा॥ अम्लनित्या रक्तपित्तिनं त्वगक्षिरोगिणं वा॥ लवणनित्या शीघ्रंवलीपठितं खलतिकं वा॥ तिक्तनित्या शोषिणमबलमपचितं वा॥ कटुक नित्या दुर्बलमल्पशुक्रमनपत्यं वा॥ कपायनित्या श्याममानाहिनमुदावर्तिनं वा॥ यच्च यच्च यस्य व्याधेनिंदानं तत्तदासेवमानांऽतर्वात्नी स्त्री तत्तद्विकारबहुलमपत्यं जनयति ॥ एतेन पितृजा अपि शुक्रदोषा व्याख्याताः॥ तस्मात्मजासंपदमिच्छतौ साध्वात्मानमुपाचरेतां॥ विशेषेण नारी॥ व्याधींचास्या मृदुमधुरशिशिरसुखैरौपधाहारविहारैरुपाचरेत्॥ न चास्या बमनादीनि प्रयोजयेत् ॥ न रक्तावसेचनं केवलं त्वष्टमं मातमुपादायास्थापनमनुवासनं वां॥ वमनादिसाध्येपु पुनर्विकारेषु मृदुभिस्तदर्थकारिभिर्वोपक्रमेत्॥ पूर्णमिव तैलपात्रमसंक्षोभय हर्भिणीमुपाचरेदिति॥ भवंति चात्र॥ इत्यनात्ययिके व्याधौ विधिरत्यधिके पुनः॥ तीक्ष्णैरपि क्रियायोगेः स्त्रियं यत्नेन पालयेत्॥ स्खी हि मूलमपत्यानां स्त्री हि रक्षति रक्षिता॥सर्वाश्रमाणां प्रथमं गृहस्थत्वमनिंदितं॥ जरायुणा मुखे छन्भे कंठे च कफवेष्टिते॥ वायोर्मार्गनिरोधाञ्च न गर्भस्थः प्ररोदिति॥ इति गर्भावक्रांतिर्नाम द्वितीयोऽध्यायः॥ २ ॥
अथातो गर्भोपचरणीयं शारीरंव्याख्यास्यामः॥ प्रथमे मासि गर्मिणी क्षीरमुपसंस्कृतं मात्रावच्छीतं काले पिवेत्॥ तस्मिन्नपि चाद्यं हादशरात्रं क्षीरोद्भवं सर्पिः शालिपर्णीपलाशाभ्यां शृतं
कनकरजनकथितशोतोदकानुपानं पिवेत्॥ स्वा दुशीतं द्रवप्रायं सात्म्यं च सायं प्रातराहारपेत्॥ न चाभ्यंगोद्दतनानि सेवेत॥ यथो क्तानि च दोपकराणि परिहरेदाप चमान्मासात्॥ विशेषेण द्वितीये मधुरौपधसिद्धं पयः पिबेत्॥ तृतोये तदेव सर्पिर्मधुभ्यां॥ चतुर्थेऽक्षमात्रनवनीतयुक्तं॥ पंचमे क्षीरसर्पिः॥ षष्ठे तदेव मधुरौपधसिद्धं॥ सप्तमे च॥ तस्मिंश्च गर्भस्य केशोत्पत्त्या मातुर्विदाहो भरतीति स्त्रियो भाष॑तेनेति भगवानात्रेयः॥ गर्भोत्पीडनात्तु दोषाहृदयं प्राप्य विदहंति ततः कंटूर्जायते कंद्वा किक्किसं॥ तत्र कोलोदकेन नवनीतस्य मधुरौषधसिद्धस्य पाणितलमात्रमस्यै दद्यात्॥ चंदनमृणालकल्कैश्च स्तनोदरं मृद्रीयात्॥ शिरोपधातुकीसर्पपमपुकचूर्णैर्वा॥ कुटजार्जकवीजमुस्ताहरिद्राकल्कैर्वानिवकोलसुरसमंजिष्टाकल्कैर्वा॥शशहरिणपुनर्नवामालतीमधुकसिद्धेनांभसापृपतरुधिरयुक्तया त्रिफलया करवीरपत्रकल्कसिद्धेन च तैलेनाभ्यंग॥परिपेकः पुनर्मालनीमधुकसिद्धेनांभसा॥कंडूयनं वर्जयेत्॥ त्वम्भेदे वैरुप्यपरिहारार्थस्नानोद्वर्त्तनं चंदनं चशीलयेत्॥ मधुरं चाहारमल्पमल्पस्नेहलगणमल्पोदकानुपानं भुंजीत॥ अष्टमे क्षीरपवागूं सर्पिष्मतीं पिबेत्॥ नेति पंढकाथो गर्भस्य पैंगल्पायाधमयात्॥ अस्ति पैंगल्याबाधस्तथाप्येवं कुर्वीत॥ नीरुजं बलवर्णसत्वसंहननसंपदुपेतं ज्ञातीनामग्रगण्यमपत्यं जनयनीति भगवानात्रेय॥ बटरोदकेन पललपयोदधिमस्तुतैललवणफलघृतमधुयुक्तेनास्थापयेत्॥ पुराणविद्विशुत्ध्यर्थं मधुकादिमधुरौपथसिद्धेन च तैलेनानुवासपेदनुलोमनाय बायोः॥ अनुलोमे हि मारुते सुखमनुपद्रवा प्रसूते॥ गर्भिणीं तु न्युजामास्थापयेदनुवासयेहा॥तथा ऽस्या विकृतमार्गतया सम्यगौषधमनुप्रविशति॥ अतऊर्ध्वं स्निग्धाभिर्यवागूभिर्जागटरमैचोपाचरेदामसनकालादिति भगवान्धन्वंतरिः॥नवमे तु ततएवानुवासनतैलात्पिचुं योनौ प्रणयेत् गर्भमार्गाशययोः स्नेहनार्थमिति॥ अनेन प्रथममासादारभ्य क्रमेण गर्भिण्याप्रसवकाले गर्भधारिणीकुक्षिकटीपार्श्वपृष्ठं मृदयति॥ वायुश्चानुलोमः संपद्यते॥ मूत्रपुरीषंच प्रकृतिभूतं जरायुश्च मार्गं प्रतिपद्यते॥ पुत्रं चेष्टं कल्यमायुष्मंतं244 सुखिनं सुखेन काले वलवती प्रसूते॥ बिल्वकार्पासीफंफणापाटलीपिचुमंदाग्निमंथमांसीवर्धमानकपत्रभंगक्वाथेन245 शीतेन सर्वगंधोदकेन वा गर्भिण्याः प्रत्यहं ज्ञानमुपदिशेत्॥ प्राक् चैवास्यानवमान्मासाद्पत्तास्थिशर्कराकपाले प्रशस्ते देशे वास्तुविद्याप्रशस्तं सर्वर्तुसुखमुपत्दृतसर्वोपकरणं सन्निहितज्वलनं भाग्दारमुदग्दारं वा सूतिकागारं कारयेत्॥ तत्रानुकूलेषु नक्षत्रादिषुपुण्याहशब्देन गोब्राह्मणद्धानवाऽऽवर्तमाना प्रदक्षिणं प्रविश्य बहुशः प्रसूताभिरनुक्ताभिरविपादाभिः द्वेशक्षमाभिः परिता स्वस्त्ययनपराऽनुलोमनैराहारविहारैरनुलोमितवातमूत्रपुरीपा प्रसवका लमुदीक्षेत॥ स्वल्पेऽपि च विमूत्रविबंधे फलवर्तीः प्रणिदद्यात्॥तत्रासन्नप्रसवायाःक्लमो ग्लानिर्मुक्तबंधने इवाक्षिणी निष्ठीविका मूत्रपुरीपवाहुल्यं शिथिलकुक्षिताऽधोगुरुत्वमन्त्रानभिलाषो वेदनोदरत्दृदयकटीवस्तिवंक्षणेषुतोदभेदशलस्फुरणस्रवणानि च योन्या भव॑ति॥ तदनंतरमावीनां प्रादुर्भावो गर्भोदकप्रवाहश्च॥ अथैनामुपस्थितगर्भांकृतकौतुकमंगलां पुन्नामफलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तां घृतां यवागूं पाययेत्॥ ततः सुरक्तार्षभचर्मप्रच्छदे मृदुनि भूमिशयने शयानामुत्तानामाभुयसविथपृष्ठामहतवाससोऽशंकनीयाः प्रियदर्शनाः परिणतवयसः प्रजननकुशलाः प्रगल्भाः कृत्तनखाः स्त्रियः सूतिकां सूनृताभिर्वाणीभिराभ्वासयंत्यः पर्युपासीरन्॥अथास्यै दद्यात्कुष्टेलालांगलीवचाचव्यचित्रकचिरविल्वचूर्णमुपाघ्रातुं मुहुर्मुहुः॥ तथा भूर्जपत्रशि॑शिपासर्जरसान्यतमधूममंतरांतरा च॥ पार्श्वपृष्ठकटीसक्थिदेशान्कोष्णेन तैलेनाभ्यज्यानुसुखमस्या मृद्रीयात्॥ एवमवाक् परिवर्तते गर्भः॥ तस्यलक्षणं॥ विमुच्य हृदयमुदरमाविशति वस्तिशिरोऽवगृण्हाति॥ त्वरयंत्येनामाव्यः न चेदेवं परिविर्त्तते ततो मुहुर्मुहर्जृंमणं चंक्रमणं च कारयितव्याऽनंतरोक्तं विधि॑॥
अन्ये तु मुशलेनोलूखलं धान्यपूर्णमाननीयमित्याहुः॥ तत्तु न सम्यक्॥ दारुणव्यायामवर्जनं हि गर्भिण्याः सततमुपदिश्पते॥ विशेषतश्च प्रसवकाले प्रचलित सर्वधातुदोपापाः सौकुमार्यत्वान्नार्या मुशलन्यायामेनेरितो वायुरंतरं लब्ध्वा प्राणान् हिंस्यादिति॥ अथ परिवृत्तगर्भांपर्यंकमेनामारोप्य कुशला स्त्री पादतोऽस्या निषण्णाया योनिमनुलोममनुसुखमभ्यज्य स्फिजौ पादाभ्यां पीडयेत्॥ योनिं च पुनः पुनः प्रसारयेत्॥ ब्रूयाच्च सुभगे शनैः शनैः प्रवाहयस्व सुप्रसन्नस्ते मुखवर्णः पुत्रं जनमिष्यतीति॥ अन्या तु वामकर्णेऽस्या मंत्रमिमं जपेत्॥ क्षितिर्जलं वियत्तेजो वायुर्विष्णुः प्रजापतिः॥ सगर्भ त्वां सदापातु वैशल्यं वादधात्वपि॥ प्रसूष्वत्वमविक्लिष्टमविलिष्टा शुभानने॥ कार्तिकेयद्युतिं पुत्रं कार्तिकेयाभिरक्षितमिति॥ तथा॥ इहामृतं च सोमश्चचित्रभानुश्चभामिनि॥ उच्चैःश्रवाश्चतुरगो मंदिरे निषसंतु ते॥ इदममृतमषांसमुहृतं वै तव लघु गर्भमिमं प्रमुंचतु स्त्रि॥ तदनलपवनार्कवासवास्ते सह लवणांबुधरैर्दिशंतु शांतिमिति॥ तथा पराअनुशिष्यात्॥अनागतायां वेदनायां मा प्रवाहिष्ठाः246॥ अकालप्रवाहणं हि विष्मूत्रादिवेगानामिवोदोरणमनर्थकरमहितं च गर्भस्प श्वासकासशोषकुव्जतादिकारित्वात्॥ तथा ताषामेव विधारणमिव वेदनायामप्रवाहणमुपघाताय॥ ततो यथोक्तं कुरुष्व शनैः शनैश्च पूर्व प्रवाहिष्टाः निर्गमे वाढं गर्भस्य योनिमुखप्रतिपत्तौ बाढतरमाप्रसवादिति॥ तस्यास्तु प्रवाहमानायाः स्त्रियाः शब्दं कुर्युः, प्रजाता प्रजाता धन्यं धन्यं पुत्रमिति॥तथाऽस्या हर्षेण प्राणा आप्यायंते॥ गर्भसंगे तु योनिं, धूपयेत् कृष्णसर्पनिर्मोकेन पिंडीतकेन वा॥ वध्नीयाच्च हिरण्यपुप्पीमूलं हस्तपादे॥ धारयेच्च सुवर्चलां विशल्यां वा॥ अथ प्रसूतायान चेदपरा पतति ततो दक्षिणेन पाणिना नाभेरुपरिष्टाद्वलवदुपपीड्य
पृष्ठत उपसंगृह्य विधुनुयात्॥ पार्षण्या वा श्रोणिमाकुट्टयेत्॥ स्फिजो वोपसंगृह्य सुपीडितं पीडयेत्॥ बेण्यांऽगुल्या वा केशवेष्टितया च कंठतालु परामृशेत्॥ भूर्जपत्रकाचमणिसर्पनिर्मोकैश्च योनिं धूपयेत् भूर्जगुग्गुलुभ्यां वा॥ शालिमूलसिद्धेन वा सर्पिषायोनिमभ्यज्य कदुकालाबुजालिनीनिबसर्पनिर्मोकधूपयेत्॥ अनभ्यक्तां वा कटुवैलमिश्रैःकल्कीकृतैर्वा तैलाक्तैरालिंपेत्॥ गुडनागरकल्केन वा॥ तदेव वा भक्षयेत्॥ लांगलीमूलकल्केन वा पाणिमुदरं चालिंपेत्॥ महावृक्षक्षीरं वा मूर्द्धन्यनुपेचयेत्॥ कुष्टतालीसकल्कं बिल्वबिल्वजयूपमैरेयासवसुरामंडान्यतमेन व्योपतीक्ष्णोष्णेन वाऽम्लेन कुलत्थरसेन मधुकपिप्पलीसंपाकेन वा पाययेत्॥ पिप्पल्येलाकोलबिडचव्यचित्रकोपकुंचिकाकल्कं वा॥ स्वरस्य वृषभस्यवा जीवतो दक्षिणं कर्णमुद्धृत्य247 बिल्वबिल्वजयूपादीनामालवनानामन्यतमे प्रक्षिप्य मुहूर्तस्थितमुद्धृत्य तदाप्लवनं पापयेत्॥ कुष्टैलाकल्कं वा सुरया ॥ अर्कालर्ककषायं वा सुरोन्मिश्रं॥ कुष्टलांगलकीमूलककल्कंवा मद्यमूत्रान्यततरेण॥ वत्सकादिचूर्णं वा मद्येन॥ शतपुष्पाकुटमदनहिंगुसिद्धस्य च तैलस्य पिचुं ग्राहयेत्॥ ततश्चैनामनुवासनकालेऽनुवासयेत्॥ बिल्वबिल्वजयूपाद्याप्लावनैश्च॥ फलजीमूतकेक्ष्वाकुधामार्गवकु- टजार्ककृतवेधनहस्तिपर्णयुपहितैरास्थापयेत्॥ सिद्धार्थककुष्टलांगलकीमद्दावृक्षक्षीरमिश्रेण वा सुरामंडेन शाल्मलींतानि वा खिन्नान्यापोथ्य पंचमूलकपाधे विमर्दयेत्॥ तेन च यूतेन स्नेहवता फलादियुक्तेन यथोक्तास्थापनद्रव्यसिद्धेन कटुतैलेनोत्तरवस्तिं दद्यात्॥ शिग्रुसुमुख- मरिचाजाजिचित्रककल्कक्षीरगोमूत्रसिद्धेन वाकटुतैलेनाऽनुवासयेत्॥ उमाशाल्मलीपिच्छयावा एसबृतया योनिं पूरयित्वा विधुनुयात्॥ स्निग्धेनया कृत्तनखेन पाणिना नालानुसारतोऽपहरेत्॥ प्र
जातायां चेद्वस्तिमूर्द्धोदरेषु शुलं मक्कल्लाख्यं स्यात्॥ तत्र यवक्षारचूर्णं सर्पिषासुखोष्णोदकेन वा पिवेत्॥ वरणादि॑ वा सपंचकोलमेलामतीवापं॥ अथवा वीरतरादिमूपकादिमतीवापं॥ लवणचूर्ण वा वत्सकादिनिर्यूहेण॥ वत्सकादि वा मदिरया॥ अंशुमतीद्वपक्वाथेन वामरिचभद्रदारुकल्कं॥ भार्द्वीगरदेवदारुकल्कं वोष्णांभसा॥पुराणगुडं वा त्रिकटुत्रिजातकनिकाचूर्णसंसृष्टं भक्षयेत्॥ तस्याश्चेत्स्वस्थानतो योनिर्भ्रश्येत्॥ ततो यस्य कस्यचिच्छोणितेनाभ्यज्य योनिं यथास्थानं कुशला स्त्री निवेशयेत्॥ निविष्टां चाशोकरोहिणीबर्हिपोशीरमियंमुदेवदारुकल्कपिपक्वेन तैलेन बहुशः स्वेदयेत्पूरयेत्॥ ब्रूयाच्च गच्छ सुभगे स्वस्थानमिति॥ तद्वच्चान्यतमा स्त्री जानमात्रमेव वालं बालोपचरणीयेन विधिनोपपादयेत्॥ तमुपदेक्ष्यते वृत्तरेषु॥ अथ सूतिकां बलातैलेनाभ्यज्यात्॥ बुभुक्षितां च पंचकोलचूर्णेन यवान्युपकुंचिकाचव्यचित्रकव्योपसैंधवचूर्णेन वा युक्तामह परिणामिनीं यथासात्म्यं स्नेमात्रां पायपेत्॥ स्नेहायोग्यां वातहरौपधक्वाथंखपंचमूलक्वथं वा पीतवत्याश्च यमकेनाभ्यज्य वेष्टयेदुदरं वस्त्रेण॥ तथा न वायुरुदरविकृतिमुत्पादयेदनवकाशत्वात्॥ जीर्णे तु स्रेहे पूर्वौषधैरेव सिद्धां विदार्यादिगणक्वाथेन क्षीरेण वा यवागूं सुखिन्नां द्रवां मात्रया पाययेत्॥ प्राक्स्त्रेहयवागूपानाभ्यां चोभयकालमुग्णोदकेन परिपेचयेत्॥ एवं त्रिरात्रं पंचरात्रं सप्तरात्रं वाऽनुपाल्य ततो यवकोलकुलत्थयूपेण लघुना चान्नपानेन द्वादशरात्रात्परं जांगलरसादिभिश्च क्रमादाप्याययेदग्रिवलादीन्यपेक्ष्य॥क्वथितशीतं च तोयं पाययेत्॥ तथा जीवनी- यबृहणीयमधुरवातहरसिद्धैरभ्यंगोच्छादनपरिपेकायगाहैरन्नपानैश्च हृद्यैरुपाचरेत्॥ एवं हि गर्भवृद्धिक्षपितशिथिलसर्वशरीरधातुमवाहणवेदनाक्लेदरक्तनिस्रुतविशेषशुन्यशरीराच्च पुनर्नवीभवत्यतएव च सृति
काया व्याधिः कृच्छ्रसाध्यो भवत्यसाध्यो वा तस्मात्तां योथोक्तेन विधिना प्रयत्नेनोपचरेत्॥ एवं साऽध्यर्द्धमासमुपसंस्कृता क्रमेण विमुक्ताहार विहारयंत्रणा विगतसूतिकाभिधाना स्यात्॥ पुनरार्तवदर्शनादित्येके॥ इत्याद्यं मासमादाय यावदर्भक्षमा पुनः॥ स्त्री स्यात्तावद्विधिः सर्वः सर्वथा साधु दर्शितः॥ इति गर्भोपचरणीयो नाम `तृतीयोऽध्यायः॥ ३ ॥
अथातो गर्भव्यापदं शारीरं व्याख्यास्यामः॥ स्त्री चेदापन्नगर्भा परिहार्याण्यासेवेत॥ तत्र यस्या वस्तिपार्श्वश्रोणियोनिमुखेषु शलं पुष्पदर्शनं वा स्यात्॥ तां मृदुमुखशिशिरास्तरणशयनस्थामीपवनतशिरसं शीतप्र देहपरिपेकादिभिरुपाचरेत्॥ तद्यथा॥ सहस्रघौतेन सर्पिपाऽधोनाः सर्वतः प्रदिह्यात्॥ मधुकसर्पिषासुशीतेन पिचुमाप्लाव्य योनिसमीपे स्थापयेत्॥ गव्येन पयसा मधुकांबुना न्यग्रोधादिकपायेण वा परिषेचयेत्॥परिपीततत्स्वरसानि च तैलानि योनौ निधापयेत्॥ तच्छृंगसिद्धस्य वा क्षीरसर्पिषःपिचुं॥ अतिस्रवति तु रक्ते ततएवाक्षमात्रं प्राशयेत्॥ केवलादेव वा क्षीरसर्पिषः॥ पद्मोत्पलकुमुदकिंजल्कं च समधुशर्करं लेहयेत्॥ धातकी गौरिकसर्जरसरसांजनचूर्णे वा समधु॥ न्यग्रोधादित्वप्रवालकल्कं वा॥ शशैणहरिणरुधिरं वा सक्षौद्रं पाययेत्॥ वृद्धिविदारीजीवंतीर्वा पयसा॥ नीलोत्पलसितापकलोष्टचंदनादि वा तंदुलांवुवा सरसान्यसरेण॥गंधप्रियंग्वसितो- त्पलशाकोदुंवरशलादुन्यग्रोधथुंगानि वाऽऽजेन पयसा॥ कसेरुकमृणालशृंगाटककाश्मर्यपरूपकद्राक्षासा रिवाप्रपोंडरीकानंतोत्पलकंदवीजक्वाथेन वा शर्करामधुमधुरेण॥ शालिपिष्टंजीवनीयशृतं वा क्षीरं॥ वलाऽतिवलाशालिपष्टिकेक्षुमू लकाकोलीशृतेन च पयता समधुशर्करेण रक्तशाल्पोदनं सुशीतं भोजयेच्छीतवीर्यजांगलरसेन वा॥ रक्तपित्तक्रियाश्च शोधनवर्ज्याः प्रयुंजीत॥ सौम्याश्च मनोनुकूलाः कथाः॥ अदृष्टशोणितां तु मधुकपपस्यासुरदारुभिः सिद्धं पयः पाययेत्॥ ताम्रवल्पश्मंतकशतावरी पयस्याभिर्वा॥विदार्यादिगणेन वा॥ श्वदंष्ट्राखरसक्षीरसिद्धं वा सार्पिः॥ पलाण्डुरससिध्यं वा सक्षौद्रं॥अपूर्णत्रिमासायास्तु पुष्पदर्शने गर्भः प्रायो न तिष्ठत्यसंजातसारत्वात्॥ आमान्वये चोर्ध्वमपि विरुद्धोपक्रमत्वात्॥ तत्र रूक्षशीतानि प्रयुंजीत॥ तद्यथा॥प्रागुपवासं तथा दुरालभाऽमृतोशीरपर्पटकघनचंद्रनातिविषाबला कटुंगधान्याकक्वाधपानं तृणधान्यशालिपष्टिकपेयामशनं च मुद्रादियूपैर्जिते त्वामे स्निग्धशीतानि पूर्ववत्॥आमगर्भे तु पतिते मद्यानामन्यतमं सामर्थ्यत पाययेद्वर्भकोष्ठविशुत्ध्यर्थमतिविस्मर णार्थं च॥ अमद्यपां पाचनीयद्रव्योपहिताभिः स्नेहलवणवर्जाभिः सतिलाशिरुद्दालकादियवागूभिरुपाचरेद्यावतो मासा स्वावंत्यहा नीति॥ ततः मीणनैर्वानुरक्षिभिरको हैराहारैरादोषधातुक्केदशुद्धेः॥ आमगर्भशेषेण हि पुनः पुनः शुलमनुपज्येत॥ तस्मातीक्ष्णैरनवशेषयनुपाचरेत्॥ ततः परं स्नेहपानैर्वस्तिभिराहारेश्व दीपनीयपाचनीयजीवनीयवृहणीयमधुरवातहरैरिति॥ यस्याः पुनर्महति जानसारे गर्भेवर्ज्यानामवर्जनात्पुष्पदर्शनं स्यादन्या यो निसवणं॥तस्यास्तन्निमित्तं वायुः प्रकुपितः पित्तश्लेप्माणौ परिगृह्य गर्भस्य रसवहां नाहीं प्रतिपीडयावतिष्ठते॥ ततो नाड्यां दोषैःकुल्पायामिव तृणपत्रादिभिः प्रतिच्छन्नायां रसस्यासम्यग्वहनाद्गर्भो वृद्धिमनामुषभुपूविशत्युपशुष्यति वा॥ तत्र यस्याः कादाचित्कार्तवपरिस्रावादल्पौ च दृश्येते सततं च गर्भः प्राप्तात्परिमाणादपरिहीयमानएव स्फुरति न च कुक्षिर्विवर्द्धते तमुपविष्टकमित्याचक्षते॥ यदा तु प्रतिमासमार्तवं प्रत्यहं वा परिस्रवणं नात्यल्पं च’ तथा परिहीयमाणो गर्भश्चिरात्किंचित्स्पंदते॥ कुक्षिश्च वृद्धोऽपि प
रिहीयते तदुपशुष्ककं नागोदरं च॥ तौ तु मातुराहारतेजसाऽल्पेनाप्यायमानौ यदा पुष्टौ स्यातां तदा वर्षगणैरपि प्रमदा मसूयत एव॥ तत्र वातेनोपविष्टकोपशुष्कक पोर्वायुः प्रतिहन्यते सशब्दं फेनिलं विच्छिन्नं शकृदुपवेश्यते मूत्रमुपरुध्यते कटी पृष्ठहृदयेषु वेदना जृंभा निद्रानाशोऽभीक्ष्णं प्रतिश्यायः शुष्ककासः सादः क्ष्वेलेते इक कर्णौ तुद्येते इव शंखौ पिपीलिकाभिरिव संसृज्यते शरीर परिकृतन्निव वायुर्भ्रमति कुक्षौ तमइव प्रवेश्यते दुःखेनान्नस्य जरणमहरहः परिहानिः स्फुटित विवर्णपरुपत्वक्त्वं च भवति॥ पित्तेन ताम्रहरितमुपवेश्यते धूमकोऽम्लकश्छर्मूर्च्छा कुसिहृदयदाहः पीतरक्तगोमूत्राभनेत्रमूत्रनखत्वं काली दुर्बला नित्यशूला च नारी भवति॥ श्लेष्मणा मधुरास्यत्वमुत्क्लेशः श्लेष्मोहमनं भक्तद्वेषः श्वेतहस्तपादनेत्रता कासः श्वासश्च॥ तयोर्जीवनीयबृंहणीयमधुरौषधसिद्धानां सर्पिषामुपयोगः॥ तथा पयसां रसानामामगर्भाणां च गर्भवृद्धिकरः॥ तथा संभोजनमेतैरेव च घृतादिभिः॥ सुभिक्षाया अतीक्ष्णं यानवाहनादिभिः क्षोभणमार्जनजृंभणैरुपपादनं॥ अथ विशेषेण वाते पूर्वमेव सौधवोपहितं क्षीरवस्तिं दत्वा शीतोदकस्नातां मृदु शाल्योदनं भोजयेत्॥ततो विदार्यादिगणसाधितेन सर्पिषाऽनुवासयेत्॥ निवातं च सेवेत॥पित्ते मधुकविदारोनिर्यूहसिद्धं पयः पिबेत्॥ तिस्रः स्थूलकुक्कुटीर्निस्तुपमापाढकं च क्षीरोदकेनोदूखले संक्षुद्यतद्रसेन सर्पिषाच तित्तिरिकपिंजलान्यतररसं साधयित्वा पाययेदुपविष्टकविषर्द्धनार्थमुपशुष्ककष्टंहणार्थं च॥ अजासर्पिषाक्षीरेण जीवनीयैश्च संस्कृतां यवागूं पिबेत्॥ पयस्या काकोलीद्वसुनिषण्णककल्केन पयसा च सर्पिर्विपचेत्॥ तत्कालं क्षीरानुपानमुपयुंजीत॥ आमगर्भरसेन वाऽश्रीयात्॥ तानेवच तत्र भृष्टान् भक्षयेज्जलचरमांसानि च॥ कफे त्वानूयोदकपिशितोपदंशामच्छसुरां त्रिरात्रं पंचरात्रं सप्तरात्रं वा पिबेत्॥ तिलमुद्गमापलवणविल्वपत्रैः पंचनिघृतपात्रं संयोज्य स्वनुगुप्तं निधापयेत्॥ ततः प्रातः पिडं बिल्वमात्रं शृतशीतच्छागदुग्धानुपानं प्रश्नीयात्॥अत्रैव वा वदरचूर्णपात्रमपि निदध्यात्॥ एवमवृद्धौतीक्ष्णैर्विरेचपेदपरापातनीयैश्च पातयेत्॥ यस्याः पुनर्वा तोपसृष्टस्रोतसि संलोनो गर्भः प्रसुप्तो न स्पंदते तं लोनमित्याहुः॥तत्र श्येनोक्कोशगोमत्स्यगोधाशिखिकुक्कुटतित्तिरीणामन्यतमस्य रसेन भूरिसर्पिष्केण मापयूषेण मूलकयूपेण वा घृताढयेन रक्तशाल्योदनं भोजयेत्॥ सक्तून्वा तिलमाषविल्वशलाडुयुक्तान् पयसा पाययेत्॥ मेद्यमांसोपदंशं वा मार्दिकं॥ तैलेन चाभीक्ष्णमुदरवंक्षणोरुकटीपार्श्वपृष्टान्यभ्यंज्यात्॥ मुहुर्मुहुश्चैनां हर्पयेत्॥ पूर्वोक्तं चेक्षेत॥ यस्याः पुनरुदावर्तविबंधः स्यात्तां वातहरस्निग्धानपानैरुपाचरेत्॥ अष्टमे तु मासे मधुरकसिद्धेन तैलेनानुवासयेत्॥ तदसिद्धौ वीरणशालिकुशकाशेक्षुवालिकावेतसपरिख्याधमूलानां भूतिकानंत- काश्मर्यरूपकमधुकीकानां च पयसाऽर्द्धोदकेनोद्गह्यरसं तेन पि- यालविभीतकमज्जतिलकल्कयुक्तेनेपतषणोष्णेन निरुहयेत् ॥ विगतविबंधां च स्नाताशितां सायं तेनैव तैलेनानुवासयेत्॥ उदावर्तो हि समुपेक्षितः सहसा सगर्भा गाभणीमतिपातयेत्॥ यस्याः पुनर- तिमात्रदोषोपचयाद्यथोक्तैर्वा व्यवापादिभिरन्यैर्वा व्याधिभिः पूर्वोपचितेन वा जनन्मपत्ययोः कर्मणा बंधनान्मोच्यते गर्भः फलमिव हंतात् स मुक्तबंधनो गर्भशय्यामतिक्रम्ययकृत्प्लीहांत्रविवरैरवस्रंसमानः कोष्ठसंक्षोभमापादयति॥ ततः कोष्ठसंक्षोभाद्वायुरपानो मूढः कुक्षियस्तिपार्श्वोदरपोनिशूठानाहविष्मूत्रसंगानापाद्य गर्भंच्यावयति तरुणं शोणितभावेन॥ सोऽभिहितः प्राक्॥ विवृद्धे तु गर्भेस्तब्धं स्तिमितं शीतमश्मगर्भमिवोदरमाभाति॥ शुलमधिकमुपजायते न च स्पंदते गर्भो नाव्यः प्रादुर्भव॑ति न स्रवति योनिरक्षिणीचास्याः संस्यते तथा भूरामरतिपरीता व्यथतेऽन्यथा चेष्टने ताम्यति भ्राम्यति रोदित्यहर्निशं न स्वपिति प्रत्युच्छवासात्कृच्छवासित्पतिकष्टं प्राणिति क्षयतीत्येवंविधां स्त्रियं मृतगर्भोविद्यात्॥ तं तु गर्भ ‘कदाचिदसम्यगपत्यपथमनेकधा प्रतिपन्नं विगुणेन वायुना पीडितं मोहितं च मूढगर्भमित्याहुः॥ विगुणानिलप्रतिपीडनवैचित्र्यादसंस्पगतिं च॥ समासतस्तु त्रिविधा गतिरुर्ध्वा तिर्यङ्न्युजा च॥ संस्थानानि पुनरष्टौ॥ तान्यत्रैवोत्तरत्र वक्ष्यते॥ तेषु सर्वेष्वपि विषरोतेंद्रियार्थामाक्षेपयोनिभ्रंशसंवरणम- क्वल्लश्वासभ्रमाभिपन्नां शीतगात्रां पूत्युद्वारां च वर्जयेत्॥ न तु क्षणमच्युपेक्षेत गर्भशल्यं॥ तद्धि निरुच्छ्वासीकृत्याशु जननीं हन्यात्॥ सचेतनश्च गर्भः शस्त्रेण विदार्यमाणो विषममंगानि विक्षिपेत्॥ तस्मात्तत्संगे सृत्यः प्रयतेरन् पूर्वोक्तानि च मंत्रौषधानि प्रयुंजीत॥ त्रिविधस्तु संगो भवति॥ शिरस्यंसे जघने वा॥ मूढगर्भस्य तु जरायुपातनसामान्यं कर्नेत्येके॥मंत्रादिकर्माथर्ववेदविहितमित्येके॥दृष्टकर्मणा शल्यहर्त्राशल्याहरणमित्येके॥ तत्वतः कष्टतममस्ति शस्त्रकर्म॥ यतो योनियकृप्लीहांत्रगर्भाशयादीनां मध्ये ताननुपर्हिसताऽस्पर्शवता शस्त्रमवचार्यमुत्कर्पणापकर्षणन्यावर्तनोत्कर्त्तनछेदनभेदनपीडनर्जूकरणानि चैकेन पाणिना कार्याणि॥ तस्मादीश्वरमापृच्छ्य परं च यत्नमास्थाय तद्विद्यसहितस्तमुपक्रमेत्॥ अक्रियायां ध्रुवं मरणं॥ तथोदराश्मरीप्रभृतीनपि॥ अथोत्तानाया व्याशुग्नसक्थ्यावस्त्रचुंभलोन्नमितकटिप्रदेशायाश्च धन्वनागमृत्तिकाशाल्मलीपिच्छाप्तैरभ्यज्य हस्तं योनिं च गर्ममाहरेत्॥ तत्र सक्थिभ्यामागतस्यानुलोम्याच्छिन्नमेव॥एकस्मिन् सविध प्रपन्नस्पेतरं सक्थिप्रसार्यस्फिग्देशागतस्य स्फिग्देशं प्रतिपीडयोर्ध्वमुक्षिप्य सक्थिनी प्रसार्यविर्यगागतस्य परिवर्त्य वा
ऽपरार्द्धमुत्क्षिप्यपूर्वार्द्धमपत्यपर्थे प्रत्पार्जनमानीय पार्श्वत्तशिरसोंऽसं प्रनिपीडयोर्ध्वमुक्षिप्य शिरोऽपत्यपथमानीय वायं प्रपन्नस्यो र्ध्वमुत्पीड्यांऽसौ शिरोमूलमानीय निर्हरेत्॥यस्त्वाक्षुग्रमध्यः पाणिपादशिरोभियौनिं प्रतिपद्यते॥ यश्चाभुग्रएवैकेन पादेन योनिं द्वितीयेन पायुं॥ तो मूढौहस्तेनाहर्तुमशक्याविति शस्त्रमयचारयेत्॥ अथ स्त्रियमाश्वास्य मंडलाग्रेणांगुलिशस्त्रेण चा विदार्य शिरः कपालान्यात्हन्य शंकुना गृहीत्वा चुचुके ताहुन्पुरति कक्षायां वाऽपहरेत्॥अभिन्नशिरसं वाऽक्षिकूटे गंडे वा॥ तथांऽससंसक्तस्यांसदेशे वाहुं, छित्वा दृनेरिवाध्यातस्य वातपूर्णमुदरमवदार्य निरस्यांत्राणि शिथिलीभूतमाहरेत्॥ जघनसक्तस्य जघनकपालानि दारयित्वेति॥ भव॑ति चात्र॥ यद्यद्वायुवशादंगं सज्जेदर्भस्य खंडशः॥ तत्तच्छित्वा हरेत्सम्यग्रक्षेन्नारी च यत्नतः॥अथापतीमपरां पातयेत्पूर्ववद्भिषक्॥ एवं निर्द्धतशल्पों च सिंचेदुष्णेन वारिणा॥ दद्यादभ्यक्तदेहायै योनौ स्नेह पिचुंततः॥ योनिर्मृदुर्भवेसेन शूलं चास्याः प्रशाम्यति॥ दीप्यकातिविपारास्नाहिंग्वेलापंचकोलकात्॥ चूर्णै स्रेहेन कल्कं वा क्वाथंवा पाययेत्तथा॥ कटुकातिविषापाठाशाकत्वग्धिंगुतेजिनीः॥ तद्वच्च दोपस्पंदार्थ वेदनोपशमायच॥ त्रिरात्रमेवं सप्ताहं स्नेहमेव ततः पिबेत्॥सायं पिवेदरिष्टं च तथा सुकृतमासवं॥शिरीषककुमकाथपिचून् योनौ च निक्षिपेत्॥ उपद्रवाश्च येऽन्ये स्युस्तान्यथास्वमुपाचरेत्॥ पयो वातहरैः सिद्धं दशाहं भोजने हितं॥ रसोदशाहं च परं लघुपभ्याल्पभोजना॥ स्वेदाभ्यंगपरा स्नेहान् वलातैलादिकान् भजेत्॥ ऊर्ध्वं चतुर्भ्यो मासेभ्यः सा क्रमेण सुखानि च॥ अथ बलातैलमुपदेक्ष्यामः॥ वलामूलकपायस्य भागाः पटू तावतएव पयसो यवकोलकुलत्थदशमूलकपायस्य भागो भागश्चतुर्दशस्तैलस्य248 तत्सर्वमैकंध्यंकृत्वा भ्लक्षणचूर्णानि चावाप्य काकोलीक्षीरकाकोलीजीवकर्षभकमुद्रपर्णीमापपर्णमेदामहामेदासीरशुक्लामधुकदेवदारुमंजिष्ठाचंदनसारिवावलानगरकुष्टशतापर्यश्वगंधापुनर्नवाशतपुष्पापत्रकत्वक्सर्जरसरौलेपकवचाऽगुरुकालानुसार्यसैंधवानिशनैर्मृद्दग्निना साधयित्वा सुभाजनेऽनु गुप्तं निदध्यात्॥ एषभगवतो धन्वंतरेरभिमतस्तैलराजो राज्ञां राजमात्राणां कृशानां सूतिकानां शिशूनामतीतवयसां सुकुमाराणां महाग्रहगृहीतानां दीर्घरोगापितवपुषां मर्मविद्धपतिताभिहतभग्नविश्लिष्टांगानां दैवापघाताभिशस्तमनोज्वरपरीतानां पाननावनाभ्यंगवस्तिषु प्रयोज्यः॥ तेन वलपौरुषस्मृतिर्मातमेधाग्निवीर्यौजांसि वर्द्धते पक्षपाताक्षेपकार्दितादिविविधवातविकारगुल्महिष्माश्वासकासानिवर्तते॥ अहरहश्चोपयुज्यमानेन पण्मासादंत्रवृद्धिः प्रशममेति॥ वंध्या च पुत्रं गुणमंतमिच्छया लभतइति॥ ते चात्र॥ बस्तिद्वारे विपन्नायाः कुक्षिः प्रस्पंदते यदि॥ जन्मकाले ततः शीघ्रं पाटयित्वोद्धरेच्छिशुं॥ मधुकं शाकबीजं च पयस्या सुरदारु च॥ अश्मंतकः कृष्ण तिलास्तावली शतावरी॥ रक्षादनी पयस्या च लता सोत्पलसारिवा॥ अनंता सारिवा रास्ना पद्मा च मधुयष्टिका॥ बृहतोद्वयकाश्मर्यक्षोरिशुंगत्वचो घृतं॥ पृश्निपर्णी वला शिग्रु श्वदंष्ट्रा मधुपर्णिका॥शृंगाटकं बिसं द्राक्षा कसेरु मधुकं सिता॥ सप्तैतान् पयसा योगानर्द्धश्लोकसमापनान्॥ क्रमात्सप्तसु मासेषुगर्भेस्रवति योजयेत्॥ कपित्थविल्वहतीपटोलेसुनिदिग्धिकात्॥ मूलैःशृतं प्रयुंजीत क्षीरं मासे तथाऽष्टमे॥ नवमे सारिवाऽनंतापयस्यामधुयष्टिभिः॥ यो जपेद्दशमे मासि सिद्ध क्षोरं पयस्यया॥ अथवा यष्टिमधुकनागरामरदारुभिः॥इति गर्भव्यापन्नाम चतुर्थोऽध्यायः॥ ४ ॥
अयातो॑ऽगविभागं शारीरं व्याख्यास्यामः॥ सकलमपि शरीरम॑मित्युच्यते॥ तच्च पुनः पण्डंगं शिरोऽतराधिर्द्वौ बाहू सक्यिनीच॥नेत्रनाभिपाणिपाडादीनि लस्प प्रत्यंगानि॥ महागुणमयेभ्यश्र खपवनतेजोजलभू म्याख्येभ्यो महाभूतेभ्यश्चेतनाधिष्ठिनेभ्योऽभिनिर्वृत्तिः॥ भूतानामेवच दृष्टादृष्टविविधकर्मवशादनेकरूपात्सन्निवेशविशेशादाकृतिप्रमाण लेहदी सिखरादीनां सारूप्यमसारूप्यं वा सूक्ष्मस्थूलनारतम्यभेद भिन्नमतिब हुमकारं निष्पद्यते॥ तत्र सत्वबहुलमाकाशं॥ रजोबहुलो वायुः॥ उभयवहुलोऽग्निः॥ सत्वतमोबहुलमंबु॥तमोबहुला भूः॥ तेषाममतिघातश्चलत्वमौष्ण्यं द्रवता काठिन्यमिति क्रमालिंगानि॥ विशेषतश्च श्रोत्रादिष्विद्वियेष्ववस्थानं शब्दस्यरूपशरूपरसगंधरेकैकप्रवृद्धैरन्वनः॥ तत्राकाशजानि श्रोत्रं शब्दः स्रोतांसि विविक्तता च॥ वायवीयानि स्पर्शनं स्पर्शः श्वासोच्छासादिपरिस्संदनानि लाघवं च॥ आग्नेयानि दर्शनं रूपं पित्तमूष्मा पक्ति. संतापो मेधा वर्णो भास्तेजः शौर्यं च॥ आंभसानिरसनं रसः स्वेदक्लेदवारसासक्शुमूत्रादिदवसमूहः शैथिल्यंस्नेहश्च॥ पार्थिवानि घ्राणं गंधःकेशनस्वास्थ्यादिमूर्तिसमूहो धैर्यं गौरवं च॥ तेषु मातृजानि मृदूनि त्वयक्तमांसमेटोमज्जनाभिहृदपामाशयगर्भाशययकृत्पलीहक्लोमांत्रगुदादीनि॥पितृजानि स्थिराणि केशनखास्थिशुकासेराराआय्यादीनि॥ आत्मजानि तासु तासुयोनिपुत्पत्तिमनवेतनेंद्रियाणि प्राणापानौ धारगमालतिस्वरवर्णविशेषाः कामकोवलोभयहर्षाधर्माधर्मशीलनास्मृतिबुद्धोच्छाद्वेपमयलाहंकार- सुखदुःखापुरात्मज्ञानानि च॥ सात्म्यजान्पायुरारोग्यमनालस्पमछोलपत्वमिंद्रिय सदश्वरवर्णची जौज संपत्प्रशस्तताः प्रहर्षभूयस्त्वं मेधाबलं च॥ रसजानि कृत्स्नस्य देहस्य संभवो वृत्तिर्दृद्धिस्तृप्तिलौल्यं पुष्टिरुत्साहश्चशुद्धसत्वजानि शौचमास्तिकत्वं कृतज्ञतादाक्षिण्यं व्यवसायः शौर्य गांभीर्य बुद्धिर्मेधा स्मृतिः शुक्लष- मरुचिर्भक्तिरनशिष्वंगस्तमोगुणविपर्ययश्च॥ राजसानि दुरुपचारता
शौर्य मात्सर्यममिततापित्वमहंकरो लोलुपत्वं दंभो मानः क्रोधा हर्षःकामश्च॥ तामसान्यज्ञानं विवाद प्रमादो निद्राऽऽलत्यं क्षुत्तृष्णा शोको मात्सर्य विमतिपतिः पराभिसंधानं सत्वगुणवैपरीत्यं च॥ तत्र सत्यं मनः॥ तस्योप्लवो रजस्तमचेति॥ एवं भूतात्मकं देहमाहुः॥ तस्य पुनः प्रविभागः॥ त्वचः कला दोषा धातबो मला बुद्धींद्रियाणि तदधिष्ठानाने कर्मेंद्रियाण्यतींद्रियमाशयाः प्राणायतनानि कंडरा जालनि कूर्चा रज्जुसीयन्योऽस्थिसंपाताः सीमंता अस्थीन्यस्थिसंधयः स्लानि पेश्यः सिरा धमन्यः स्रोतां स्यूष्माणो मर्माणि केशश्मश्रुलोमानि प्रकृतिविकृतिभेदाश्च॥ तत्रासृजः पच्यमानस्य क्षीरस्येव संतानिकाः पट् त्वचो भवन्ति॥त्वकूप्रसादाद्वक्तस्य प्रसादः॥तासामुदकधरा चाद्या॥ द्वितीयाऽसृक्धरा॥ तृतीया सिध्मकिलासाधिष्ठाना॥ चतुर्थी सर्वकुष्ठाधिष्ठाना॥ पंचमी पुनरलजी विद्रध्यधिष्ठाना॥ पष्ठी तु प्राणधरा॥ यस्यां छिन्नायां ताम्यायधमिव च तमः प्रविशति यां चाधिष्ठायापि जायंते पर्वतु रुणरक्तानि स्थूलमूलानि दुश्चिकित्स्यतमानि॥ अन्ये तु सप्त त्वचो वदन्ति॥ तत्र प्रथमा भासिनी नाम या वर्णानामभासिनी खादीनां च पंचानां छायानां सा बीहेरषटादशभागप्रमाणा॥द्वितीया लोहिनी नाम षोडशभागप्रमाणा॥तृतीया श्वेता नाम द्वादशभागप्रमाणा॥चतुर्थी तात्रानामाष्टभागप्रमाणा॥ पंचमी वेदिनी नाम पंचभागप्रमाणा॥ षष्टी रोहिणी नाम व्रीहिप्रमाणा॥ सप्तमी मांसधरा नाम व्रीहिद्दयप्रमाणा॥ यस्तु धात्वाशयांतरेषु क्लेदोऽवतिष्ठते पावमृष्मभिर्विपकः स्नायुश्लेप्मजरापुच्छन्नः काष्ठइव सारो धातुसारः रसशेषोऽल्पत्यात्कलासंज्ञः॥ ता धात्वाशयांतरमर्याडाः सप्त कलाः॥ तासां प्रथमा मांसघरा नाम यस्यां मांसे सिरास्नायुधमनीस्रोतसां भूमाविव पंकोदके बिसमृणालानांप्रताना भवन्ति॥ द्वितीया रक्तधरा नाम मांसस्याभ्यंतरतस्तस्यां शोणितं विशेषतश्च सिराप्लीहकृत्सु भवति मांसाच्च क्षतात्क्षतजं वृक्षादिव क्षीरिणः क्षीरं प्रवर्तते॥ तृतीया मेदोधरा नाम मेदो हि तस्यामुदरेऽप्यस्थिषु च सरक्तं भवति तदेव च शिरसि कपालप्रतिच्छन्नं मस्तिष्कारयं मस्तुलुंगस्यम् च स्थूलास्थिषुतु मज्जा॥ चतुर्थी श्लेष्मघरा नाम तत्स्थेन हि श्लेप्मणाऽऽश्ले. पिताः सर्वसंधयो दृढा भवंति सोपांगाइवाक्षाः॥ पंचमी पुरीपधरा नाम सा ह्यत्रामपकाशयाश्रिता कोष्ठांतरुंदुस्थं मलं विभजति॥ षष्ठी पित्तधरा नामपक्कामाशयमध्यस्था सा ह्यंतरग्न्यधिष्ठानतयाऽऽमाशयात्पकाशयोन्मुखमन्त्रं वलेन विधार्य पित्ततेजसा शोपयंती पचति पक्कं च विमुंचति॥ दोषाधिष्ठिता तु दौर्बल्यादाममेव ततोऽसावन्नस्य ग्रहणात्पुनर्ग्रहणीसंज्ञा बलं च तस्याः पित्तमेवाग्न्यभिधानमतः साग्निनोपस्तब्धोपबृंहितैकयोगक्षेमा शरीरं वर्तयति॥ सप्तमी शुक्रधरा नाम धंगुले दक्षिणे पार्श्वे बस्तिहारस्य चाधो मूत्रमार्गमाश्रिता सकलशरीरव्यापिनी शुक्रं भवर्तयति॥ दोपा धातमो मलाभ प्रागुदिताः॥ पंच बुद्धींद्रियाणि श्रोत्रं स्पर्शनं दर्शनं रंसनं घ्राणं च॥ तेषां समभागतया क्रमाद्विपयाः शब्दस्पर्शरूपरसगंधाः॥ पंच बुद्धींद्रियाधिष्ठानानि कर्णो त्वगक्षिणी जिल्हा नासिके च॥पंच कर्मेन्द्रियाणि धावपायूपस्थपाणिपादसंज्ञकानि॥ तान्यपि च वचनोत्सर्गदर्यादानगमनार्थानि॥ अतींद्रियं तु मनः सर्वार्थैरन्वयात्॥ तयोगेन चेंद्रियाणामर्थप्रवृत्तिः॥ बुद्धिकर्मेन्द्रियोभयात्मकत्वाच॥ सप्ताशयाः क्रमादस कूकफाम पित्तपक्कवायुमूत्राधाराः॥ स्त्रीणां पित्तपक्वाशययोर्मध्ये गर्भाशयोऽष्टमः॥तेषु प्रतिबद्धानि कोष्टांगानि हृदयपकृत्प्लीहफुष्फसोदुकटक्कांत्रादीनि॥ तत्र समानेनाघ्मायमानस्य देहोष्मणा पच्यमानस्य शोणितस्याच्छतो जायते यकृप्लीहा च॥रक्तफेनात्फुप्फुसं॥रक्त
किटादुन्दुकः॥ रक्तमेद. प्रसादाइक्कौ249॥ रक्तमांसप्रसादादंत्राणि॥ तानि सार्द्धत्रिव्यामानि पुंसां॥ त्रिव्यामानि स्त्रीणां॥ रक्तस्पानिलयोगात्कालीयं250॥ हृदयं पुनः श्लेष्मरक्तप्रसादात्संभवति पद्मकोशसंकाशं सुपिरमधोमुखं॥ तद्विशेषेण चेतनायाः स्थानं सर्वभावानां च चेतनानुगानां॥ तस्य वामपार्श्वेप्लीहा फुप्फुसश्च दक्षिणतो यकृत्क्लोमच251॥ तथा कफरक्तवाहिनां स्रोतसां महाभूतानां च प्रसादादिंद्रियाणि॥ तेष्वपि च नेत्रे श्लेष्मणः प्रसादाच्छुकुमंडलं तत्पितृजं॥ असृजः कृष्णमंडलं त न्मातृजं मध्ये दृष्टिमंडलं तदुभयात्मकं॥ पक्षमवर्त्मशुक्लकृष्णदृष्ट्याख्यानि पंच मंडलानि॥ तत्संधयश्चत्वारः॥ द्वौचापांगकनीनयोः॥इति ले पटू \।\। षट् च पटलानि॥ द्वेवर्त्मनी॥ बाह्यं चाश्रितमग्न्यंभसी द्वितीयं मांसं तृतीयं मेदश्वमस्थि तेषां बहलता दृष्टेः पंचमांशेन॥बंधनगुणास्तु चत्वारः सिराकंडरामेदःकफात्मकाः॥ श्लेष्मा तु परं सर्वसंधिबंधन मित्युक्तं प्राक्॥ नेत्राश्रितं तु तेजो बाह्यतेजसा खयोनिना योगाच्छखमिवाश्मना कर्मण्यं भवति॥अतियोगादुपहन्यते॥ तश्च वैद्युतवद्र्डवामुखवच्चांभोमध्यगमपि वीर्योत्कर्षात्तेजस्त्वं न जहाति॥ मांसाहकफप्रसादात्तु जिव्हाजायते॥ मांसारक फमेदःप्रसादाहृपणाविति॥दश प्रणायतनानि मूर्द्धा जिह्वाबंधनं कंठो हृदयं नाभिर्बस्तिर्गुदः शुक्रमोजो रक्तं॥ एषामाद्यानि सप्त पुनर्म हामर्मसंज्ञानि॥ षोडश कंडराः252तासां द्वे द्वेकरचरणेषु चतसः पृथक्यीवापृष्ठयोः॥ षोडश जालानि तेषां मांससिराहाय्वस्थिजानि चत्वार्थेकैकत्र गुल्फे मणिवंधे च परस्परगवाक्षितानि स्थितानि॥ षट्कूर्चा हस्तपादग्रोवामेढषु॥ चतस्रो मांसरज्जवः पृष्ठवंशमुभयतः पेशीनिबंधनार्थ तासां द्वेवाद्ये द्वे चाभ्यंतरस्थिते॥ सप्त सीवन्यः ताः पंच शिरसि जिन्दामेहनयोरेकैका॥परिहार्याश्च शस्त्रेण॥ चतुर्दशास्थिप्तंधानाः तेषामेकैको गुल्फजानुवंक्षणमणिवंवकूर्परकक्षासु त्रिकशिरप्तोश्च॥ तद्वत्सीमंताः253 ते तु पंच शिरसीत्यष्टादश॥ त्रीणि षष्ट्याऽधिकान्यस्थिशतानि॥ तेषां चत्वारिंशच्छतं शाखासुस विंशशतमंतराधौ शतं मूर्द्धनीति॥तत्रैकैकस्मिन् सविथनिपंच पादनखाः प्रत्येकमंगुल्यां त्रीण्यस्थीनि तानि पंचदश॥पंचपादशलाकाः तत्प्रतिबंधकमेकं द्वे द्वे कूर्चगुल्फजंघास्वेकैकं पाष्णिजानूरुषु॥ सर्वाणि च नखास्थ्यादीनि सविधवद्वान्होश्च॥ चतुर्विंशतिः पर्शुकाः॥ तायंत्येव तत्स्थालकान्यर्बुदानि च॥ त्रिंशत् पृष्टे॥ अष्टावुरसि॥ एकैकं भगे त्रिके॥ नितंबयोश्च द्वे॥ तदक्षकसांसफलकेषु॥ तथा गंडकर्णशंखेषु जत्रुतानोश्च॥ त्रयोदश ग्रीवायां चत्वारि कंठनाड्यां द्वे हनुबंधने द्वात्रिंशताः तद्वलूखलानि च त्रीणि नासायां षट्शिरसि॥ तानि जानुनितंव सगंडतालुशववंक्षणमध्यशिर.सु कपालसंज्ञानि॥ दशनास्तु रुचकाः॥ माणकर्णग्रीवाक्षिकोशेषु तरुणानि॥पाणिपादपार्श्वपृष्टेषु वलयानि॥ शेपाणि नलकानोति॥ नामानुगतारुतीनि पंच विधान्यस्थीनि॥ तेषु हि सिराभिः स्नायुभिश्च निबद्धानि मा॑सानि॥दशोत्तरं शतद्दयमस्थिसंधीनां॥ तेषामष्टपष्टिः शाखासु॥ एकोनपष्टिरंतराधौ॥ अशीति रुर्ध्व॥ तत्रैकैकस्मिन्सविन पादांगुलौ प्रत्येकं त्रयः द्वावंगुष्ठे॥ ते चतुर्दश॥एकैको गुल्फजानृवंक्षणेषु त्रयःकटिकपालेषु॥ चतुर्विंशतिः पृष्ठवंशे॥ तद्वत्पार्श्वयोः॥ अष्टापुरसि॥ अष्टौ ग्रोवायां॥ त्रयः कंठनाड्यां॥अष्टादश कंठनाडीनिवद्धा हृदयकक्लोमनाडीषु॥द्वात्रिंशदंतमूलेषु॥एकैकः काकलनासामूर्द्धम्॥ द्वौ द्वौगंडकर्णशंखवर्त्मनेत्रहनुसंधिषु॥ हावुपरिषटाद्भुवोः पंच शिरः कपालेषु॥ तेंऽगुलिगुल्फजानुमणिबंधकूर्परेषु कोरसंज्ञाः॥कक्षावंक्षणदंतमूलेवृलूखलसंज्ञाः॥ अंसपीठगुदभगनितंवेषु सामुद्राः॥ग्रीवाष्पृष्ठवंशयोः प्रतराः॥ शिरःकटिकपालेषु तूनसेवनीसंज्ञाः॥ हनुभयतो वायसतुंडाः॥ कंठनेत्रहृढययकल्लोमनाडीपु मंडलसंज्ञाः॥ श्रोत्रशृंगाटकेषु शंखावर्ताः॥ इत्यस्थिसंघयोऽष्टविधाः॥ स्त्रायुपेशीसिराश्रितैस्तु सह सहस्रद्रयं न सद्यं न पुनः शत्रप्रणिधाने तेषु वाच्यमस्तीति पृथकोच्यते॥ नव स्नायुशतानि॥ तेषां पद्शतानि शाखासु॥ त्रिशच्छतद्वयमंतराधौ॥ ऊर्ध्वं सप्ततिः॥ तत्रैकैकस्मिन्सक्सि पादांगुल्यां प्रत्येकं षट् षट्॥तानि त्रिंशत्॥दश दश पादतलकूर्चगुल्फेषु॥ त्रिंशजघायां॥ दश जानुनि॥ चत्वारिंशदूरौ॥ दश वंक्षणे॥ चत्वारिंशत्कट्यां॥ विंशतिर्मु कमेंद्रबस्त्यंत्रेषु॥ अशीतिः पृष्ठे॥ षष्टिः पार्श्वयोः॥ अष्टादशोरसि॥ चत्वार्यक्षकोः॥ अष्टावंसपोः॥ द्वे द्वे मन्याऽवदुनेत्रौष्ठतालुपु॥त्रिंशद्वीवायां॥ त्रीणि जत्रुणि॥ चत्वारि हन्वोः॥पंच जिव्हायां॥ द्वादशोत्तराधरेषु दंतमांसेषु॥पण्मूर्द्धनि॥ तत्र शाखासु संधिषु च प्रतानवंति॥ महास्नावानि तु वृत्तानि तानि कंडरासंज्ञानि॥ वस्त्यामपक्वाशयांत्रेषु सुपिराणि॥ पार्श्वप ष्ठोरः शिरःसु पृथूनि॥ स्रापबंधन संधि सुद्धा तनुनौरिख सम्पगोहते॥ तस्मादस्थिसिरादिभ्योऽपि तानि यत्नतो रक्षेत्॥ यश्च स्रावानि वाह्यान्यभ्यंतराणि च सम्यग्जानाति स गूढमपि शल्यमाहर्तुंसमर्थो भवति॥ पंच पेशीशतानि॥ तासां चत्वारिशतानि शाखासु॥षष्टिरंतराधौ॥ चत्वारिंशदूर्घ्वं॥ तत्रैकस्मिन् सविथनि पादांगुल्यां प्रत्येकं तिस्रः॥ताः पंचद॒श॥दश दश प्रपदे पादतले गुल्फे च॥ तथा पादस्योपरि सन्निविष्टाः॥ विंशतिर्जपायां॥ पंच जानुनि॥ विंशतिरुगै॥एकैका मेंदूसेवन्योः॥ द्वे वृषणयोः॥ दश स्फिजोः॥ तिस्रो गुदे तास्तु वलीसंज्ञाः॥ द्वेबस्तिशिरसि॥ चतस्र उदरे॥ नाभ्यामेका॥ द्वे हृदि आमाशये च॥ षट् यरुत्प्लीहडुकेषु॥ पृष्ठे पंचोर्ध्वसनिविष्टाः॥ दश दीर्घाः पार्श्वयोः॥ दश वक्षसि॥ तित्रों साक्षकोपरितः॥ दश ग्रीवायां॥ अष्टौगंडयोः॥ अष्टौ हन्वोः॥ एकैका गलकाकल जिन्हामूर्द्धसु॥ द्वेद्वे तालुललाट्योः॥ नासौष्ठकर्णेषु च॥ स्त्रीणां तु विंशतिरधिका॥ तत्र दशस्तनयोः तासां यौवने परिवृद्धिर्भवति॥ दश योनौ॥ तासा मभ्यंतराश्रिते मुखाश्रित्ते द्वे मुखाश्रिते वृत्ते द्वे॥ तिस्रो गर्भमार्गाश्रयाः॥ यस्यां गर्भस्तिष्ठति॥ योनिस्तु शंखनाभ्याकृतिरुपावर्ता तस्यास्तृतीयआवर्ते पित्तपक्काशयांतरे रोहिवमत्स्यमुखाकारा गर्भशय्या॥ तस्यां शुक्रर्तचप्रवेशिन्यस्तिस्रः पेश्यः॥ ताभिर्हि शरीरे तनुवहलस्थूलाणुपृथुवृत्त हस्वदीर्घस्थिरमृदुश्लक्ष्णकर्कशाभिः संध्यस्थिसिरास्रावानि प्रच्छादितानि॥सिराधमनीमुखानां त्यणुशो विभज्यमानानामेकोनत्रिंशच्छतसहस्राणि नव च शतानि पपंचाशानि भवंति॥ ताशिरिदं शरीरं गपाक्षितं पिनद्धमाततं च॥ तावन्ति च केशश्मनुलोमानि तासां हि मुखानि तत्प्रतिवद्धान्यतस्तानि ताभिराप्यायने॥ वैश्व वाः स्वेदमभियंति॥ तथाऽभ्यंगालेपादिवीर्ये त्वचि विपकमंतर्नयंति स्पर्शे च गृहंति॥स्रोतांसि पुनरसंख्येयान्येव॥ तथाऽपि तु सिरादीनि यथास्थूलं यथोपयोगं चान्यत्रोपदेक्ष्यंते॥ इत्येवं परिसंख्याता शरीरे मूर्ति मंतः ‘स्थिरा भावाः॥ द्रवास्तुपत्तदतियोगेन व्यवमानं पुरीपमनुवधाति तथा मूत्रं रुधिर मन्यांचशरीरे धातून्यच्च सर्वशरीरगतं बाह्या त्वग्विभर्ति यच त्वगंतरे व्रणगतं लसी काशब्दवाच्यं यच्चोष्मणाऽनुषद्धं रोमकूपेभ्योऽभिनिष्पतत्स्वेदवाच्यं तदुदकं तस्याद्यस्य चाहारसारस्य रसारख्यस्य तथा रक्तंस्य शरुतः श्लेष्मणः पित्तस्य मूत्रस्य वसायाः मेदसो मज्नश्च स्वेन स्वेनांजलिप्रमाणेन यथापूर्वमेकादिसंख्याप्रवृद्धिः॥ अर्द्धांजलिः
शुक्रस्य॥ तावदेव मस्तिकमोजश्च॥ स्त्रिणां रजसोऽजलयश्चत्वार॥स्तन्यस्य द्वौ॥ उभयमपि चैतद्रसप्रसादात्मकमिति॥ समधातोः परिमाणमिदं॥ अनो वृद्धिक्षयौयथास्वं लक्षणैर्विभावयेदपरांश्चापरिसंख्यातान्मूर्तामूर्तान् भावान्॥ तद्यथा॥मांसकर्णादिमलान्वायुयुः द्धिस्मृत्यादींश्च॥ धन्वंतरीयाः पुनः पठंति॥ विलक्षणानि हि शरीराणि नित्यमेव च चला दोषधातुमलाः॥ तस्मादुदकादीनामपि समत्वं मां- सादिवत्परिमाणतो निर्देष्टुमशक्यं॥ केवलं स्वास्थ्यमात्रेणानुमानतो लक्षयेदिति॥ सर्वस्व त्वबयवाः परमाणु भेदनानिसौक्ष्म्पादसंख्येयतां यांति॥ तेषां संयोगविभागे परमाणूनां कर्ममेरितो वायुः कारणं॥ त- देतदंगमभेदेन भेदतश्च गृह्यमाणं बंधाय मोक्षाय भवतीति॥ भवति, चात्र॥ इति सर्वावयवशो यो जानाति कलेवरं॥ अहितेषु स मोहेन न कदाचित्प्रवर्त्तते॥ इत्यंगविभागो नाम पंचमोऽध्यायः॥ ५ ॥
अथातः सिराविभागं शारीरं व्याख्यास्यामः॥दश मूलसिरा हृदय. प्रतिबद्धाः सर्वोगप्रत्यंगान्योजो नयंति॥ तत्प्रतिवद्धा हि शारीरचेष्टाः॥ तास्तु ह्यंगुलमंगुलमर्द्धांगुलं यवं यवार्द्धं च गत्वा द्रुमपत्रसेबनीप्रतानवद्भिद्यमानाः सप्त शतानि भवंति॥ तासां चतुःशती शाखासु॥ तत्र षोडशाव्यधनीयाः॥षट्त्रिंशं शतमंतराधौ॥तत्र द्वाविंशत्॥ चतुःषष्ट्यधिकं शतमूर्ध्वं तत्रापि पंचाशत्॥ तासामेकैकस्मिन्सक्सि शतं॥ तत्र न विध्येज्जालधरां॥ तिस्रश्चाभ्यंतरगाः॥ द्वात्रिंशच्छ्रोण्यां गुदमैद्राश्रयाः॥ तासां द्वे द्वे वंक्षणपोः कटीकतरुणयोत्यष्टौ शस्रतो रक्षेत्॥ षोडश पार्श्वयोः तयोरूर्ध्वगामेकां पार्श्वसंधिसंज्ञां॥चतुर्विंशतिः पृष्ठे॥ तासां पृष्ठवंशमुतयतो द्वे द्वेऊर्ध्वगामिन्यौ ताश्चतस्रः॥चतुर्विंशनिरुदरे॥तासां मेंदूस्योपरिरोमराजीमुभयतो द्वेद्वेता अपि चतस्रः॥ चत्वारिंशद्वक्षसि॥ ताप्तां द्वे, हृदये॥ द्वे द्वेच स्तनमूलम्तनरोहितेषु॥ एकैकाऽ-पस्तंभापालापेष्विति॥ ताश्चुर्दश॥
चतुर्विंशतिर्ग्रीवायां॥ तासां चलस्रोऽष्टौ च मर्मसंज्ञाः॥ द्वेकृकाटिकयोर्द्वेविधुरयोरिति षोडश शस्रेण न स्पृशेत्॥ इन्वोः षोडश तासां संधिसंवंधिन्यो द्वे॥ षोडश जिव्हायां॥ तासामधो द्वे रसवेदिन्यौ द्वे वाक्प्रवर्तिन्यौ ताश्चतस्रः॥ चतुर्विंशतिर्नासायां॥ तासांद्वे गंधवेदिन्यौ तासामेव च तालुन्येकामिति तिस्रः॥ षट्पंचाशभेत्रयोः॥ तयोरुन्मेपनिमैपक्रिये द्वे द्वे द्वे चापांगयोरिति षट्॥ नासानेत्रगतास्तु ललाटे षष्टिः॥ तासां केशांतानुगताश्चतस्रो द्वेचावर्तयोरेका च स्थपन्यामिति सप्त॥ कर्णयोः षोडश तासां शब्दवाहिन्यौ द्वे ते एव च शंखयोः तासां शंखसंधिगते द्वे॥द्वादश मूर्द्धनि॥तासामुत्क्षेपया सीमंतेष्वैकैकामेकामधिपतावित्यष्टौ शस्रेण परिहरेत्॥ तथाक्षुद्रिकाः कुटिलाः संकीर्णा प्रथिताः संधिषु चाशस्रकृत्याः॥ तासां यथास्वं तुर्यांशविभागेन पंचसप्तत्यधिकं शतकम निलरक्तं वहति॥ एषविभागः पित्तश्लेष्मशुद्धरक्तेष्वपि॥ स्थिता ह्येवं देहमनुगुपहंति दोषाः॥ व्यत्ययेन तु पीडयंति॥ तत्र श्यावारुणाः प्रस्पंदिन्यः सूक्ष्माः क्षणपूर्णरिक्ता वातरक्तं वहंति॥ नीलपीतासिताः स्पर्शोष्णाः क्षिप्रस्राविण्यः पित्तरक्तं॥गौर्यः स्निग्धाः स्थिराः शीताः कंडूमत्यः कफरक्तं॥ लक्षणसंकरे संसर्गसन्निपातरक्तं॥ समा गूढाः स्निग्धा रोहिण्यः शुद्धरक्तमिति॥धमन्यस्तु चतुर्विंशतिः॥ ताभिः कायोऽयमारामइव जलहारिणीभिः केदारइव कुल्पाभिरुपस्निह्यति॥ ताभिश्च नाभिश्चकनाभिरारकैरिवावृता॥तस्मान्नाभ्यां विशेषेण प्राणा व्यवस्थिताः यतश्च सांऽतरम्यधिष्ठानं॥ तासां खलु धमनीनां दशोर्ध्वं प्रसृता दशावतरास्तिर्यक्॥ ततस्ताभिर्यथास्वमंगावयवा धार्येते आप्यायंते च॥ तासामूर्ध्वगा हृदयमभिप्रपन्नाः प्रत्येकं त्रिभा जायंते॥ ततस्त्रिंशतो मध्ये द्वे द्वे वातपित्तकफरक्तरसान्वहतः॥ अष्टाभिःशब्दरुपरसगंधा गृह्यंते॥ दाभ्यां द्वाभ्यां भाषतेघोषंकरोति स्वपिति प्रतिबुध्यते च॥ द्वे चाश्रु वहतः द्वे च स्तनाश्रिते नार्याः स्तन्यं नरस्य शुक्रं॥ अधोगमाः पक्काशयस्था एवं त्रिधा जायंते॥ तत्र दशाद्याः पूर्ववत्॥ द्वे वहतोऽन्नमंत्राश्रयेण द्वे तोयं द्वे मूत्रं द्वेशुकं बहतो द्वे च मुंचतः॥ते ए॒व नारीणामार्तवं॥ द्वेवर्चोनिरसन्यौ स्थूलांत्रप्रतिबद्धे शेषास्त्वष्टौ तिरश्चीनाः स्वेदम- भितर्पयंति॥ तिर्यग्गामिन्यश्चतस्रो भिद्यमानाः सुबहुधा भवंतीत्युक्तं प्राक्॥स्रोतांसि पुंसां नव कर्णौ नेत्रे नासापुढौ मुखं पायुर्मूत्रपथो ऽन्यानि च त्रीणि स्त्रीणां स्तनौ रक्तपथश्च॥ तथाऽपराण्यंतःस्रोतांसि जीवितायतनानि त्रयोदश प्राणोदकान्नधातुमलानामायतनानि॥ तत्र प्राणवाहिनां हृदयं मूलं महास्रोतश्च॥ तानि क्षयरौक्ष्यपिपासाक्षुद्यायामवेगधारणादिभिर्दुष्यंति॥ ततोऽनिसृष्टं प्रतिवद्धं कुपितमल्पाल्पमतीक्ष्णं वा सशन्दशूलमुच्छ्रसनं॥ तत्र श्वासवत्साधनं॥ उदकवाहिनां तालु मूलं क्लोम च॥ तान्यामभयातिपानोष्णशुष्कान्नतृन्निग्रहादिभिर्दुष्यंति नतोऽति तृष्णा मुखशोपः कर्णक्ष्वेडनं तमोदर्शनं च तत्र तृष्णोक्तमौषधं॥ अन्नवाहिनामामाशयो मूलं वामपार्श्वे च॥ तेषां दुष्टौ सर्व मात्राशितीयोक्तमवगच्छेत्॥ रसवाहिनां हृदयं मूलं दशधमन्यश्च॥रक्तवादिनां यकृत्प्लीहा च॥ मांसवाहिनां स्रावानि त्वक्च254॥ मेदोवादिनां वृक्कौ मांसं च॥ अस्थिवाहिनां जघनं मेदश्च॥ मज्जवाहिनां पर्वण्यस्थीनि च॥ शुक्रवाहिनां स्तनौ मुष्कौ मज्जा च॥ मूत्रवाहिनां बस्तिर्वक्षणौ च॥ शकृद्वाहिनां पक्काशयः स्थूलांत्रंच॥ स्वेदवाहिनां मेदो रोमकूपाश्च॥ तेषां दूषणं विविधमहिताहारविहारमुपद्रवान् साधनं च दोषादिविज्ञानीयाद्यथास्वंवृद्धिक्षयलक्षणेन लक्षयेत्॥व्यधे तु स्रोतसां भ्रममोहकंपप्रलापाध्मानशुलारुचितृच्छर्दिज्वरातिरुधिरस्रुतिमूत्रपुरीपरोधा मरणं च॥ तस्मात्स्रोतोविद्धं प्रत्याख्यायोपाचरेत्॥ उद्धृतशल्यं च सद्योव्रणविधानेनः॥ तत्र स्रोतसामेव विशेषाः सिरा धमन्यः॥ अन्येत्वन्यत्वमिच्छंति॥सिराधमनीस्रोतसां केवलं परस्परसन्निकर्षात्सदृशकर्मत्वात्सौक्ष्म्याच्च विभक्तकर्मणामप्यविभागइव लक्ष्यते॥ अपरे पुनराहुः॥ स्रोतांसि सिरा धमन्यो रसवाहिन्यो नाढ्यःपंथानोऽयनानि मार्गाः शरीरच्छिद्राणि संसृतासंतानि स्थानान्याशयाः क्षया निकेताश्चेति शरीरे धात्ववकाशानां लक्ष्यालक्ष्याणां नामानीति॥ तेचावकाशाः॥ प्रकुपिताः स्थानस्थान्मार्गस्थांश्च धातून्प्रकोपयन्ति॥ तेऽपि तान् स्रोतांसि च॥ स्रोतांसि धातवश्च धातून्॥तेषांसर्वेषामेव दूषयितारो दुष्टा दोषाः॥ ते च प्रायशो दुष्पंत्यग्निदोषात्॥तस्मात्तन्निमित्तान्यायुरारोग्पबलोपचयवर्णौजांसि॥ तत्प्रतिवद्धान्येवच रंजकादीनि भूतान्नयो धात्वग्नयश्च॥ तथाऽन्नमपि तेनैव पक्कममृततां पात्यपक्वंच विषतां॥ तत्र पित्तविशेषः पाचकसंज्ञोऽग्निरति भागभिहितः॥अन्ये पुनराचक्षते॥ दोषधातुमलसन्निपातजनितोंऽतरुष्मा पथानिर्दिष्ठाधिष्ठानकर्माऽग्निरिति॥ स खलु विधिवटभ्यवद्धतमन्नजातं प्राणेन वायुना कोष्टमारुष्टं द्रवैर्विभिन्नसंघातं कोहेन मृदूतमतिसंधुक्षितः समानेनामाशयस्थं स्थालीस्थमिवांतंदुलमग्निरंतरग्नि पचति॥ तत्तु सर्वरसमपि पच्यमानमादौ मधुरीभूतं कफं फेनीभूतमुदीरयति॥ ततो विदग्धमम्लीभूतमामाशपाच्यवमानमच्छे पित्तं॥ प्राप्य च पक्वाशयं कटुकीभूतमनिलं॥ ततश्चैवं विक्लिन्नआहारे पंच पंचात्मकामहाभूताग्नयोवायुना व्यस्तान्यथाखं पंचैवभूतगुणानाहारस्थान् पचंति॥ ते पक्काः पुनर्यथास्वमेव देहाश्रितांश्चस्वविकारभूतान् भूतगुणानाप्याययंति॥ एवं च पक्कादाहारा- द्विविधौषधगर्भादिव स्नेहादच्छः सारभूतो रसाख्यः किटाख्यश्चमलोऽभिनिवर्तते॥ ताभ्यां च सारमलाभ्यां तदात्मकानामेव शारीरगुणानां धात्वाख्यानां यथास्वं स्रोतांसि पारंपर्येणाव्यवच्छिन्नसंतानमापूर्यते॥ स्रोतोम्यश्च यथाविभागं यथायथमेव धातवः पुण्यंति॥ उत्तरोत्तरानुप्रवेशेऽपि च पूर्वेषां स्रोतसां यथाकालं सम्यगाहारोपयोगेन परिणामवताप्यायमानानां नापचयो भवति॥ ततश्च धात्वाख्याः प्रसादमलाः संस्वमेव मानमनुवर्तते यथावयःशरीरं॥ तत्राहाररतो व्यानविक्षिप्तो यथास्वं सप्तसु धात्वग्निषु क्रमात्पच्यमानः खात्मभावप्रच्युतिसमनंतरमेव प्राप्तरक्तादिधातुसंज्ञकः कालवदस्खलितबलप्रमाणो देहमूर्जयित्वा धातून्धातुमलांश्च पुष्णाति॥ अथान्नकिमच्छं मूत्रं पनं शकृत्॥ रसस्य सारो रक्तं मलः कफोलसोका च॥ रक्तस्य सारो मांस कंडराः सिराध मलः पित्तं॥ मांसस्य सारो मेदस्त्यचो वसा च किट्टं कर्णाक्षिनासिकास्य रोमकूपम जननमलाः॥मेटसः सारोऽस्थिस्रायुसंधयः किट्टं स्वेदः॥ अस्य सारो मज्जा किट्ठे केशलोमानि नखाः॥मञ्जस्तु सारः शुक्रं मलोऽक्षिषिट् (वचां स्नेहुः॥शुक्रस्य सारमोजः॥अत्यंतशुद्धतया चास्मिन्मलाभावः॥अन्ये पुनरत एव तस्य नेच्छन्ति पाकं॥ अपर पुनः शुक्रस्य सारं गर्भमेवामनंति॥ ‘वायुः पुनरमेराहारस्य च वव्हल्पतया तस्मात्तस्मान्मूर्च्छना विशेषा’दमूर्त्त शब्दवानीपच्छब्दमचुरोऽल्पो या पंचात्मा कोष्ठे प्रादुर्भयति॥ एवं च कृत्वा देहेऽनमया एव सर्वे भावाः॥ तेनैव चेदमेवं चिरेण व्याप्तमंत हिः शरीरयंत्रमनवरतप्रवाहेण स्वास्थ्यबलोपचययुक्तं ‘यावत्कर्मोपादानं पाप्यते॥अन्यथा त्वन्नरसोत्क्षेपणाद्दिबद्ध स्रोतसांवा यथावदनभिसंघीयमानधातुप्रवाहमंतरा व्यवच्छियते व्याधिभाजनं वा भवति॥ अन्ये तु वर्णयंति॥ अभ्यवहृतमात्रस्याहारस्य कंठनाढीमलुठितस्य महानिम्नमवतीर्णस्य यो य ए॒वांशः कायाग्रिनाऽवलीढःपाकमुपनीयते तस्य तस्यैव प्रसादारयो रसलेशोऽभिनिर्वृत्तिसभनंतरं समं समस्तधातुषु संवृतासंवृत्तैः भवितो वि वृ तमुखेष्वासन्नेषु द्वारैःस्रोतः सु भूयान्प्रथमतरं चान्वेति पर्यायणेतरेष्वपि॥ एव मन्नरसएवसाक्षात्सर्वधातून् केनचिदेव कालभेदेन पुष्णाति॥ न पुनर्धातवो धात्वंतरतां स्वरूपोपमर्देन प्रतिपद्यंइति॥ अग्निस्तु बलभेदेन चतुर्विधो भवति समो विषमस्तीक्ष्णो मंदश्च॥ तत्र समो यः सम्यगेवोपयुक्तमत्रं सम्पक पचति॥विषमो ऽसम्यमप्युपयुक्तं पचति सम्यगपि व न पचति॥ तीक्ष्णो सम्पगप्युपयुक्तमाशु पचति स एव वर्धमानो उत्पग्निर्भवति॥मंदस्तु सम्यगप्युपयुक्तमुदरगौरवाध्मानविवंघाटोपांत्रकूजनमुखशोपपायुस्तंभादीन्यामलिंगानि दर्शयित्वा चिरात्पचति॥ बाह्येनापि च ज्वालांगारात्मकेनाग्निना नैकाकारः सर्वदा पाको भवति किमुतांतराश्रयेणोप्मात्मना समेनापि तस्मात्तं प्रयत्नतो रक्षेत्॥ तत्र प्रवरेण सात्म्येन समं यथास्वमवरेणेतरान् क्रमशः साम्यमापाद्य प्रवरेण परिपालयेद्दोषोपक्रमणीयोक्तेन च वातादिसाधनेन ग्रहगीरोगविहितैश्वौषधव्यायामयोगैरिति॥ भवति चात्र॥ स्वधातुमनर्णानि वृत्तस्थूलान्यणुनि च॥ स्रोतांसि दीर्घाण्याकृत्या प्रतानसदृशानि च॥आहारश्च विहारश्च यः स्याद्दोपगुणैः समः॥ धातुभिर्विगुणो यश्च स्रोतसां स प्रदूषकः॥ अतिप्रवृत्तिः संगो वा सिराणांग्रंथयोऽपि वा॥ विमार्गतो वा गमनं स्रोतसां दुष्टिलक्षणं॥विसानामिव सूक्ष्माणि दूरं विप्रसृनानि च॥ द्वाराणि स्रोतसां देहे रमो यैरुचीयते॥ केचिदाहुरहोरात्रात् पडहादपरे परे॥ मासात्प्रयाति शुक्रवमनं पाकक्रमादिति॥ तृप्यादीनि प्रभावात्तु सद्यः शुक्रादिकुर्वते॥ प्रायः करोत्यहोरात्राद्यदन्यदपि भेषजं॥ सम. समाने स्थानस्थे विषमोऽग्निर्विमार्गगे॥पित्ताभिमूच्छिते तीक्ष्णो मंदोऽस्मिन्कफपीडिते॥शांतेऽगग्नौ म्रियते युक्ते चिरं जीवत्यनामयः॥ रोगो स्यादिकते तस्मात्तं प्रयत्नेन पालयेत्॥ इति सिराविभागो नाम षष्टोऽध्यायः॥ ६ ॥
अथातो मर्मविभागंशारीरं व्याख्यास्यामः॥ समोत्तरं मर्मशतं॥ तत्र चतुश्चत्वारिंशच्छाखासु षण्डिशतिरन्तराधौ सप्तत्रिंशदूर्ध्वं॥ अथैकैकस्मिन्स
क्नि मध्यमांगुलिमभितो मध्ये पादतलस्य तलहृदयं नाम मर्म तत्र विद्धस्य रुजया मरणं॥ अंगुष्ठांगुल्योर्मध्ये क्षिप्रं तत्राक्षेपकेण मरणं॥क्षिप्रस्योपरि ह्यंगुलउभयतः कूर्चः तत्र पादस्य- भ्रमणवेपने भवतः॥गुल्फसंधेरधः कूर्चशिरः तत्र रुजाशोफौ॥ पादजंघयोः संधाने गुल्फः तंत्र रुक् स्तब्धसक्थिता जडता वा॥ पार्ष्णिप्रभृति द्वादशभिरंगुलैर्जंघामध्ये इंद्रवस्तिः तत्र शोणितक्षयान्मरणं॥ जंघोर्योःसंधाने जानु तत्र खंजता॥ जानुनरुयंगुलादूर्ध्वमुभयत आणिः तत्र शोफाभिवृद्धिस्तब्धसक्थिता च॥ उरुमध्ये उर्वी तत्र रक्तक्षयात्सक्थिशोपः॥ ऊर्व्यास्तूर्ध्वमधोवंक्षणसंपेरुरुमूले लोहिताख्यं तत्र रक्तक्षयात्पक्षाघातः॥ वंक्षणवृषणमध्ये विटपं तत्र पांढयमल्पशुकता वा ॥ सक्थिवद्वावहो॥ विशेषस्तु गुल्फो मणिबंधस्तथा जानु कूर्परं तयोर्व्यधे कुणिता। विटपवञ्च कक्षाक्षमध्ये कक्षाभारः तत्र कुणित्वं॥ वातवर्चोनिरसनस्थूलांत्रप्रतिवद्धो गुदः तत्र सद्योमरणं॥ अल्पमांसशोणितोऽभ्यंतरतः कट्या धनुर्वक एकद्वारोऽधोमुखो बस्तिः तत्रापि सद्यो मरणमश्मरीव्रणाहते॥ तत्राप्युभ्यतो विद्धे न जीवति एकतो भिन्ने मूत्रसावी व्रणो भवति स तु यत्नेनोपकांतो रोहति॥ पक्काभाशयमध्ये नाभिः तत्रापि सद्यो मरणं॥ कोष्ठवक्षसोः स्तनयोश्च मध्ये सत्वरजस्तमोविष्ठानमामाशयद्दारं हृदयं तत्रापि सद्यो भरणं॥ स्तनयोरयस्तात् छांगुलमुत्तयतः स्तनमूले तयोः कफपूर्णकोष्ठस्य मरणं॥स्तनचूचुक्योरुर्ध्वं ह्यंगुलमुभयतः स्तनरोहिते तयोः शोणितपूर्णकोष्टस्य मरणं॥ उभयत्रोरसो नाड्यो वातवहे अपस्तंभो तयोः शोणितपूर्णकोपृष्ठस्य कासश्वासाभ्यां च मरणं॥ अंसकूट्योरधः पा
र्श्वयोरुपरि भागयोरपालापौ तयोः पूयत्वमापन्नेन रक्तेन मरणं॥पृष्ठवंशमुभयतः प्रतिश्रोणीकर्णावस्थिनी कटीकतरुणे तयोः शोणितक्षयात् पांडुर्विवर्णो हीनरूपो म्रियते॥ पार्श्वयोर्जघनव हिर्भागे पृष्ठवंशमुभयतः कुकुंदरौ तयोः स्पर्शाज्ञानमधःकाये चेष्टानाशश्च॥ श्रोणीकर्णयोरुपर्याशयाच्छादनौ पार्श्वोतरप्रतिवद्धौ नितंबौ तयोरघकाये शोफो दौर्बल्यं मरणं च॥ अधःपार्श्वोतरप्रतिवद्धौ जघनपार्श्वमध्ये तिर्यगूर्ध्वं च पार्श्वसंधी तयोः शोणितपूर्णकोष्ठतया मरणं॥ स्तनमूलयोरार्जवेनोभयतः पृष्ठवंशं बृहत्यौ तयोःशोणितातिप्रवृत्तिनिमित्तै- रुपद्रवौर्मरणं॥ पृष्टवंशमुभयतो वाहुमूलसंबद्धे अंसफलके तयोहखापशोपौ॥ ग्रीवाबा- हुशिरोमध्येऽसपीठस्कंधबंधनावसौ तयोः स्तब्धबाहुता॥ कंठनाडीमुभयतश्चतस्रो धमन्यः तासां द्वेनीलेद्वे मन्ये तासु मूकना स्वरवैकृत्यं रसाग्राहिता वा भवति॥ ग्रीवायामुभयतश्चतस्रः सिरा मातृकास्तासु सद्यो मरणं॥ शिरोग्रीवयोः संधाने कृकाटिके तयोश्वलमूर्द्धता॥कर्णपृष्ठयोरधः संसृतेविधुरे तयोर्वाधिर्यं॥ घ्राणमार्गमुभयतः श्रोत्रमार्गमतिबद्धावभ्यंतरतः फणौ तयोगेधाज्ञानं॥ भ्रुवोःपुच्छांतपोरधोऽक्षणोतोऽपांगौ सयोरांध्यं॥ भ्रुवोःपुच्छांतयोरुपयेनुकर्णं ललाटे शंखौ तयोः सद्यो मरणं॥ ध्रुवोरुपरि निम्रयोरावर्तौ तयोरांध्यं दृष्टयुपघातो वा॥ शंखयोरुपरि केशांतउत्क्षेपौ तयोः सशल्पः पाकापतितशल्यो वां जीवेनाद्धृतशल्पः॥ भ्रुवोर्मध्ये स्थपनी तत्रोत्क्षेपवत्॥ पंच संधयः शिरसि तिर्यगूर्ध्वंच सीमंता नाम तेपून्मादश्रम चित्तनाशैर्मरणं॥ जिन्हामाणाक्षिश्रोत्रतर्पणीनां सिराणां तालुनि सन्निपातः तासां मुखानि चत्वारि शृंगाटकसंज्ञानि तेषु सद्यो मरणं॥ मस्तकाभ्यंतरउपरिष्टाच्छिरासंधिसन्निपातो रोमावर्तः सोऽधिपतिर्नाम तत्रापि सद्यो मरणं भवतीति॥ सामान्यलक्षणं पुनर्मर्मणां पीडिते रुजोत्पत्तिर्विषमं च स्पंदनं॥ सामान्येनैव255 च॥ देहप्रसुप्तिर्गुरुता संमोहः शीतकामिता॥ स्वेदो मूर्च्छा वमिः श्वासो मर्मविद्धस्य लक्षणं॥ अपिच॥ मरणकारित्वान्मर्म तत्पुनर्मांससिरानावास्थिसंधिसन्निपातः॥ तेन तस्मिन् पीड्यमाने विशेषतः प्राणावाधः॥ बाहुल्येन तु निर्देशः॥ तस्मान्मांसाद्याश्रयतो मर्माणि पंचधा भिद्यते॥ तद्यथा॥ ॥ तलहृदयेंद्रबस्तिगुदस्तनरोहितान्येकादश मांसमर्माणि॥ उर्वीलोहिताख्यनाभिहृदयस्तनमुलाप- स्तंभापालापपार्श्वसंधिवृहीनीलामन्यामातृकाफणापांगस्थपनीशृंगाटकान्येकचत्वारिंशच्छिरामर्माणि॥ क्षिप्रकुर्चकूचशिरोविटपकक्षाधराणिवस्त्यंसविधुरोत्क्षेपाः सप्तविंशति स्नानमर्माणि॥ कटीकतरु- णनितंबांसफलकशंखास्त्वष्टावस्थिमर्माणि॥ गुल्फमणिबंधजानुकूर्परककुंदरक्तकाटिकाऽऽवर्तसीमंताधिपतयो विंशति संघिमर्माणि॥ पुनश्च पंचधा गुद्वस्तिनाभिहृदयमातृकाशंखशृंगाटकाधिपतयः एकोनविंशति सद्यः प्राणहराण्यानेयत्वात्तेषां सतरात्राभ्यंतरं कालः॥ तलहृदयक्षिद्रवस्तिवक्षो256मर्मकटीकतरुण नितंवपार्श्वसंधिगृहनीसीमंतात्रयस्त्रिंशःकालांतरमाणहराणि सौम्यानेयत्वात्तेपां पक्षाभ्यंतरं कालः॥ तेष्वपि तु क्षिप्राणि कदाचिदाशु॥उत्क्षेपौ स्थपनीः च त्रीणि विशल्पघ्नानि वायव्यत्वात्॥ शल्यमुखावरुद्धो हि यावदत्र वायुस्तिष्ठति तावज्जीवति॥ कूर्चजानुकूर्पराण्युर्वीलोहिताख्यविटपकक्षाघरकुकुंदरांसांसफलकनीलामन्याकृकाटिकाविधुरफणापांगावर्ता अतुश्चत्वारिंशद्वैकल्पकराणि सौम्यत्वात्॥ सोमो हि स्थैर्यशैत्याभ्यां प्राणान्धारयति॥ तान्यपि च कदाचिदभिहतानि मारयंति॥ कूर्चशिरोगुल्फमणिवपास्त्वष्टौ रुजाकराण्यमिवापुसोमगुणबाहुल्यात्॥ अग्निवायू हि विशेषेण रुजाकरौ॥सोमस्तु प्राणानवलंबतइत्युक्तं॥ अन्ये त्वाहुः॥ मांसादीनां पंचानामपि विवृद्धानां समवायाद्विशल्यघ्नानि॥ एकैकहीनानामल्पानां च क्रमादितराणि स्वभावतएव चान्ये वद॑ति॥प्रतिनियतकर्माणि चंद्रसूर्यायस्कांतोपलानाभिवांबुवन्हिलोहसंश्लेषाःतथा च छिन्नेषु बहुमर्मस्वपि पाणिपादेषु स्वभावत एव न मृत्युः॥ अपरे पुनरत्रापि हेतुमाहुः॥ पाणिपादच्छेदे हि सिराः संकोचमायांति ततोऽल्पासवप्रवृतेर्जीवितं मर्मव्यथे त्वतिरक्तस्रुतितो वायुवैकृतेन च मरणं॥ तस्मान्मर्माभिहतस्य तदंगमाशु संधिदेशाच्छेदनीयं॥ अतिहतानां तु मर्मणां यथास्वं पूर्वं पूर्वं च कर्म ईपदंते या हतानामुत्तरमेव॥ पुनश्चपंचधा भिद्यते॥ तद्यथा॥ उर्व्यः कूर्चशिरांसि विटपे कक्षाधरे च द्वादश स्वांगुलोन्मितानि॥ गुल्फौमणिबंधौ स्तनमूले च षट्ह्यंगुलानि॥ जानुनी कूर्परे च चत्वारि त्र्यंगुलानि॥ कूर्चा गुदो यस्तिर्नाभिर्हृदयं नीले मन्ये मातृकाः सीमंताः शृंगाटकानि चैकोनत्रिंशत्पाणितलसंमितानि॥शेपाणि षट्पंचाशदंगुलदलप्रमाणानि॥अन्ये पुनराहुः॥ व्रीहिप्रमाणानि क्षिप्राणि॥ कलायप्रमाणाः स्तनरोहितोत्क्षेपाः॥ तथाऽन्ये तिलप्रमाणान्यपि मर्माणीच्छ॑ति॥ भव॑ति चात्र॥ मर्मव्याप्तेऽपि देहेऽस्मिन्नायुर्मर्माणि रक्षति॥ आयुष्याण्येव सेवेत सदा तस्माद्विचक्षणः॥ मर्माभिघातः स्वल्पोऽपिप्रायशो बाधते तरां॥ रोगा मर्माश्रयास्तकांता यत्नतोऽपिच॥ विक्षिप्यते भृशं सीदन् शून्यो भ्रमति वेपते॥ ऊर्ध्वं श्वसिति कृच्छ्रेण सस्तगात्रो मुहुर्मुहुः॥ हृदयं दह्यते चास्य नैकस्थानेऽवतिष्ठते॥मर्मोपपातान्मरणमेतैर्लिंगैःसमश्नुते॥ अमर्मविद्धोऽपि परश्छेदभेदादिपीडितः॥अतिनिसृरक्तश्च सद्यस्त्यजति जीवितं॥अतोऽन्यथा जीवति तु विद्धः शरशतैरपि॥ पुण्यवान्नियतायुश्च न कथंचित्रं जीवति॥ तस्मादाचरमोच्छासाच्चिकित्सेदेव यत्नतः॥
तद्वंधुमित्रानुमतः प्रत्यारन्यायातुरं भिषक्॥ इति मर्मविभागो नाम सप्तमोऽध्यायः॥ ७ ॥
अथातः प्रकृतिभेदीयं शारीरं व्याख्यास्यामः॥ सप्त प्रकृतयो दोषैः पृथक् संसर्गेण साम्येन च भव॑ति॥ तत्र शुक्रार्तवगर्भाशयकालेषु मातुश्वाहारविहारयोरेकोऽनेको वा यो दोषोभवत्याधिक्येन तेनामरणाद्विषवल्यामिवोत्पद्यमानस्य कृमेर्विषेण सविपकृमेरिव वृश्चिकादेराशीविपस्येव वा स्वविषेण प्रकृतिर्जायते॥ तस्मात्तन्मयतया शुक्रार्तवयोर्देहस्य भावितत्वात्माकतत्वाच्च तावता तेन दोषेणन विहन्यते॥ तद्गुणैरेव चास्य शरीरमुपस्क्रियते॥ ततश्च तद्द्रुणप्रतिपक्षैः सहसा न वाध्यते॥ तस्यां त्ववस्थायां विकृतिमति257 दोषेउल्बणे नैव गर्भः संभवति॥ संभवएव वा विपद्यते विकृतो वाभवति॥ तथा च केचिदाहुः॥द्विविधा वातादयः प्राकृतावैकृताश्च॥ ॥ तत्र प्राकृताः सप्तविधायाः प्रकृतेर्हेतुभूताः शरीरैकजन्मानः॥ तेशरीरधारणाद्धातुसंज्ञाः दोषाख्यानां विकृतानां बीजभूतानां मुमूर्योः स्वरूपाच्चलति॥ सर्वेष्वपिच देहे सन्निहितेषु मरुतावुल्वणेन व्यपदेशः॥ वैकृतास्तु गर्भादभिनिःसृतस्याहाररसात्संभव॑तः258प्राकृतेष्वेव रोहंति ते कालादिवशेन स्वप्रभाणवृद्धिक्षपयोगाद्देहमनुगृहंति दूषयंति च तद्वदोजोऽपि परंहृदयस्थमष्टबिंदुममाणमाघारः प्राकृतिकस्य रसात्मकस्पौजसः क्षयवृद्धिभाजः॥ अथ खदोप- गुणानुरोधाद्वातप्रकृतिस्तनुरुक्षस्तब्धाल्पां गदंतनखरोमनेत्रखरः शीतद्विडूद्धपिंडिकः सशब्दसंधिगामी शीघ्रारंभक्षोभग्रहण विस्मरणश्चलष्टतिमतिगतिदृष्टिस्वभावसौहार्दः स्तेनोऽनार्यो मत्सर्यजितेंद्रियः प्रियगांधर्वेतिहासहासविलासकलहमृगयोद्यानपात्रः स्निग्धोष्णमधुराम्ललवणान्नपानकांक्षोपशयश्चभवति॥
अपिच॥ अल्पवित्तवलजीवितनिद्रः क्षामघाग्धमनिसंततगात्रः॥ दुर्भगोऽतिवहुभुक् बहुमापी नास्तिकः स्फुटितकेशकरांध्रिः॥ किंचिदुन्मिपितहक्सुखसुप्तस्त्रस्यति क्रथति खादति दंतान्॥ शुष्करूक्षविषमासु सरित्सु व्योम्नि शैलशिखरेषु च याति॥ पित्तप्रकृतिरुष्णगौरगात्रस्ताघनखनमनजिव्हौष्ठपाणिपादतलः शिथिलसंधिवंधमांसः करभकपिलविरलमृदुकेशरोमा मध्यबलायुरल्पशुक्रव्यवायापत्यः शूरोऽभिमानी शीघ्रवलीखलतिपलितपिव्यंगपिपासो मेधावी दुर्भगः स्वादुतिक्तकपायशोलाभिलाषोपशयश्च भवति॥ अपिच॥ दयितमाल्यविलेपनमंडनः सुचरितः शुचिराश्रितवत्सलः॥ विभवसाहसबुद्धिवलान्वितो भवति भीषु गतिर्द्विषतामपि॥ धर्मद्वेपी स्वेदनः पूतिगंधिच्चारकोधपानाशनेर्ष्यः॥ सुप्तः पश्येत्कर्णिकारान् पलाशान् दिग्दाहोल्काविद्युदर्कानलांश्च॥ कफप्रकृतिस्तुदूर्वे॑दीवरशरकांडान्यतमवर्णः समसुविभक्तस्निग्धस्थिरसुकुमारश्लिष्टमांससंधिवंधःपरिपूर्णचारुगात्रो महाललाटोरुबाहूर्व्यक्तसितासितप्रसन्भायतविशाल- पक्ष्यलाक्षः सिंहमृदंगघनघोषःक्षुत्पिपासोष्णसहिष्णुर्यन्होजोवलशुकल्पवायापत्पश्चिरशोपमाल्पानुलेपनो दृउप्रच्छन्नवैरः पेशलः सत्यवादी स्मृतिमान्टतिमानढोलुपो वाल्पेप्यरोदनः कटुतिक्तकपा- योण्णरुक्षेच्छोपशयश्चभवति॥ अपिच॥ अल्पव्याहारकोधमेधाशनेहः प्राज्यायुर्वित्तो दीर्घदर्शी वदान्यः॥श्राद्ध गंभीरः स्थूललक्षः क्षमावानार्यो निद्राटुर्घसूत्री कृतज्ञः॥ ऋजुर्विपश्चित्सुभगः सलज्जो भक्तो गुरूणां दृढसौहृदश्च॥ स्वमे सपद्मान्सविहंगमालांतोपाशयान् पश्यति तोयदांश्च॥ उभयलक्षणसंकरे तु संसर्गकृतिः॥ सर्वगुणसमुदितः समदोषप्रकृतिः॥ तत्राद्यास्त्रयो नित्यातुराः दोषानुपशयितप्रकृतित्वात्॥ विशेषतश्च हंद्वप्रकृतयः॥ तेषु हि गुणमिश्रविकारकारिषु क्षुत्पिपासादिष्विवारोग्य
व्यपदेशः॥ तस्माद्विपरीतगुणेन विधिना दोषोपक्रमणीयोक्तेन तानुपाचरेत्॥समं259 सर्वरसेन सात्म्येनान्यांश्च यथर्तुविहितेन च॥ दोषवच्च गुणैरपि सत्वादिभिः सप्त प्रकृतयो भवंति॥ तास्तदभिनिवृत्तैरेव यथोक्तैः शौचादिभिर्जानीयात्॥ तथा पुनः सप्त प्रकृतयो जातिकुलदेशकालवयोवलप्रत्यात्मसंश्रयाः॥ दृश्यते हि पुरुषाणां जात्यादिनियतास्ते ते भावविशेषाः सप्तादीनां च तरतमयोगाच्छरीरविशेषेभ्य- श्चान्योन्यानुविधानत्वाच्च भेदाप्रमसंख्येयं भवति॥ शरीरमपि सत्वादीननुरुध्यते सत्मादयोऽपि शरीरं सत्वाद्यसंख्यभेदवशाच्च रूपस्वरचरितानुकरणमप्यनूक260शब्दवाच्यमसंख्यभेदंभवति॥ तदावेशस्त्वनंतरजन्माभ्यासवासनया जन्यते तस्माद्देवमानुपतिर्थक्प्रेतनारकाणां तत्तहिशेषाणां च यथायथमेवानूकं पुरुषस्यान्वीक्षेत ॥ वयस्त्रिविधं बालं मध्यं वृद्धं च॥ तत्राषोडशाहर्पाद्वालं॥आपष्टेर्मव्यमं ततो वृद्धं॥ तेष्वपि स्तन्याहारोभयष्टत्या वालं त्रिविधं॥ तस्मिन् देहप्रमाणवृद्धिः श्लेष्मोद्रेकश्च॥ तेन वालस्य स्नेहमार्द्र- बसौकुमार्याल्पोत्वसौभाग्यानि भवंति॥ मध्यमपि त्रिविधं यौवनं संपूर्णत्वमपरिहानिश्च॥ तस्मिन् पित्तोद्रेकः तेन दीप्ताग्निता मज्ञाधिक्यपरिपाकौव्यवसायश्च॥ तत्रात्रिंशतो यौवनमाचत्वारिंशतः सर्वधात्विंद्वियबलवीर्यपौरुषस्मरणवचनविज्ञानप्रश्नयगुणसंपूर्णत्वगतः परमपरिहानिः॥ वृद्धंतु श्वः श्वः क्षीयमाणधात्विंद्रियादिगुणं वलीखलतिकासश्वासाग्निसादादिभिरभिभूयमानंजीर्णं भवनमिवाभिवृष्टमवसीदति॥ तस्मिन्मारुतोद्रेकः तेन श्लथासारमांतसंध्यस्थिता त्वक्पारुण्यमयनामः कायस्य येपथुः कासश्वासश्लेष्मसिंघाणक्रोदीरणं धातुक्षयश्च॥ अन्ये पुनराहुः॥ वाल्ये वृद्धिं प्रभामेधात्वकशुकाक्षिश्रुतींद्रियं॥ दशकेषु कमाद्यांति मनः
सर्वेंद्रियाणि च॥ एवं वर्षशतमायुषः प्रमाणं॥ अस्मिन्काले संति पुनः कर्मविशेषादूनाधिकवर्पशतजीविनो मनुष्याः तेषां यथोक्तः प्रकृतिविशेषैरायुषः प्रमाणमुपलभ्य वयस्त्रिधा विभजेत्॥ अपिच॥ वर्षं वर्षं क्षयं याति नृणां याते शते शते॥ आयुषो पुण्यवाहुल्पाद्यदायन्मानमिष्यते॥ वलमपि त्रिविधं भवति॥ सहजं कालकृतं युक्तिकृतं च॥ तत्र सहजं देहसत्वयोः प्राकृतं॥ कालकृतमृतुविभागजं वयःकतं च॥ युक्तिकृतं पुनराहारविहारोत्थमूर्जस्करं योगजं च॥ तहद्धिकरास्त्विमे च भावा भवंति॥ तद्यथा॥ बलवत्पुरुषे देशे जन्म तद्विषे च काले सुखश्च कालयोगो वीजक्षेत्रगुण शरीराहारसत्वसंपत्तयः स्वभावो यौवनं व्यायामो हर्षश्च॥ तथा साराण्यष्टौ त्वग्रक्तमांसमे दोस्थिमज्जशुकसत्त्रात्मकान्युत्तरोत्तरवराणि बलमानज्ञानार्थमुपदिश्यते॥ अपिच॥ न मुह्येद्देहमात्रदर्शनादेव भिपगयमुपचयेन महाशरीरत्वाद्दा बलवानयं कृशत्वादल्पशरीरत्वाद्दाऽल्प बलइति॥ तच्चोभयमप्यन्यथादृष्टं गजसिंहे॥ तत्र सर्वैः सारैरुपेतो भवत्पतिवलः परमगौरवयुक्तः क्लेशक्षमः सर्वांरंभेष्वात्मनि प्रत्याशावान् कल्याणाभिनिवेशी स्थिरशरीरः सुसमाहितगतिः सानुनादस्त्रिग्धगंभीरमहास्वरः सुखैश्वर्यवित्तोपभोगः सन्मानभाग्मंदजरामयः प्रापस्तुल्पगुण विस्तीर्णापत्यो दीर्घायुश्च॥ तद्विपरीतस्त्वसारः मध्यो मध्यगुणः॥ प्रमाणं पुनः स्वांगुलैः॥ पादांगुष्ठप्रदेशिन्यौ ह्यंगुलायते तिस्रोऽन्याः कमेणोत्तरोत्तरं पंचमभागहीनास्तन्नखहीना वा॥चतुरंगुलायताः पृथक्प्रपदपादतलपार्ष्णयः षट्पंचचतुरंगुलविस्तृताश्चतुर्दशवायामेन पादश्चनुर्दशैव परिणाहेन॥तथा गुल्फौजंघामध्यं च॥ चतुरंगुलोत्सेधः पादः॥ अष्टादशायामा जंघाऊरुश्च॥ चतुरंगुलं जानु॥ त्रिंशदंगुलपरिणाहऊरुः॥षडायामौ मुष्कर्मेंद्रावष्टपं चपरिणाहौ॥षोडशविस्तारा कटी पंचाशत्परिणाहा॥दशांगुलं
बस्तिशिरः॥द्वादशांगुलमुदरं॥दश विस्तारे द्वादशायामे पार्श्वे॥ द्वादशोत्सेधं त्रिकं॥ अष्टादशोत्सेधं पृष्ठं॥ द्वादशकं स्तनांतरं॥ ह्यंगुलं स्तनपर्यंतः॥चतुर्विंशत्यंगुल विशालं द्वादशोत्सेधमुरः॥ ह्यंगुल हृदयं॥अष्टकौ स्कंधौ कक्षे च॥ षट्कावंतौ॥ षोडशकौ प्रबाहू॥पंचदशकौ प्रपाणी॥ द्वादशांगुली पाणी तत्रापि पंचांगुला मध्यमांऽगुलिः॥ ततोऽगुलहीने प्रदेशिन्यनामिके॥ सार्द्धत्र्यंगुलौ कनिष्ठिकांगुष्ठौ॥ चतुरुत्सेवा द्वाविंशतिपरिणाहा शिरोधरा॥द्वादशोत्सेधं चतुर्विंशतिपरिणाहमाननं॥ पचांगुलमास्यं॥ चतुरंगुलं पृथक् चिबुकौष्ठनासादृष्ट्यंतरकर्णललाटं॥विभागांगुलविस्तारा नासापुदमर्यादा॥ अंगुठायतमंगुष्टोदर विस्तृतं नेत्रं॥ तत्र शुक्लतृतीयांशः कृष्णः कृष्णानवमांशा मसूरदलमात्रा दृष्टिः॥ पडंगुलोत्सेधं द्वात्रिंशत्परिणाहं शिरइति॥ सर्वं पुनः शरीरमंगुलानि चतुरशीतिः॥ तदायामविस्तारसमं सममुच्यते॥ तत्र यथोक्तपरिमाणमिष्टमनिष्टं हीनमधिकं वा॥तथाहि॥ हवदीर्घगौरकृष्णरोमारोमस्थूलक्लशं चेति॥ इष्टं च पुनर्महाशिरोदशनबदनहुनुस्तनाग्रपृष्ठखरमुपचितोरुस्फिक्कटिवक्षोग्रीवातालुकमुभयगुणपाणिपादचुचुक कर्णललाटं सूक्ष्मास्थिदंतनवांगुलपर्वकेशं दीर्घागुलिसविधवाहूच्छ्वासेक्षितनेत्रजिन्हें विस्तीर्णास्याधरौष्टजिव्हाललाटकर्णपीठवक्षोऽल्पमेंद्रग्रीवाकेश स्निग्धत्वक्कचकजनयनदशनस्वनं स्थिरेंद्रियत्वङ्गखकेशपार्श्व गंभीरनाभिसंधिस्वरं गूढजत्रुपृष्ठवंशदंतमूलं रक्तताल्योनखनेत्रांतमाताम्रजिव्हाहस्तपादतलं कृष्णकेश भ्रूनेत्रपक्षमतारकं शुक्लशुक्रमंडलदशनचरितमुन्नतचित्तस्कंधललाटोदरमुखनस्वपादं नीचैर्वद्धकर्णस्तननासाप्रचंक्रमणं घनस्कंधकंधरादंतांगुलित्वक्सौहार्दं॥ तनुनखमध्यजिव्हंवृत्तस्फिक्ग्रीवानस्वं समपृष्ठदंतललाटेक्षितं॥ त
थाऽनुपूर्ववृत्तावूरू॥दक्षिणावर्ता नाभिः॥ प्रकृष्टांतरौ स्ततौ भ्रुवौ च॥ कूर्माकृतयो नखाः पादौ च॥ क्रज्वास्पं नासावंशश्च॥अनुल्वणे हनू वेपश्च॥ लक्ष्णं ताडु जिव्हा च॥ नातिस्थूलकृशावोष्ठौ देहवंधश्च॥ सस्पंदं हृदयं शंखौ मन्ये च॥ सोष्मतालुपादोदरं निःश्वासश्च॥पृष्ठतोऽवनतौ रोमशौ च कर्णौ॥ ईषत्प्रलंविन्यौ भ्रुवौ॥ वलिमं सुश्लिष्टसंध्यर्द्धचंद्राकृति ललाटमातपत्रोपमं शिरः॥ नैकमूला मृदवः केशाः॥ दृढं गूढं शिरास्थिसंधि॥ प्रकृतियुक्तानि यातमूत्रपुरीपगुलानि हसितरुदितादीनि च चेष्टितानि॥ तथा स्नातानुलिप्तमधःसृतानुपूर्व्या शुष्पदिष्टं शरीरमिति॥ भवति चात्र॥ उत्तरोत्तरमुक्षेत्रं गर्भात्प्रभृति नीरुजं॥ आयामज्ञान विज्ञानैर्वर्द्धमानं शनैः शुभं॥ इति सर्वगुणोपेने शरीरे शरदां शतं॥ आयुरैश्वर्य मिष्टाश्च सर्वे भावाः प्रतिष्ठिताः॥ अनुत्सेकमदैन्यं च सुखं दुःखं च सेवते॥ सत्यवांस्तप्यमानस्तु राजसो नैव तामसः॥ दानशीलदयासत्यब्रह्मचर्यकृतज्ञताः॥ रसायनानि मैत्री च पुण्यापुर्वृद्धिकद्गुणः॥ इति प्रकृतिभेदीयो नामाष्टमोऽध्यायः॥ ८ ॥
अथातो विकृतांगविज्ञानीयमध्यायं व्याख्यास्यामः॥ स्वस्था नामानुराणां वा पुरुषाणां देह तराभिलापिणामौषधविषयमतोताः सकलशरीरव्यापिनो दोषाघनाघनाइव261वर्षमायुषःक्षयं सूचयंतोऽकस्मात्त्वभावविपर्यासं जनयंति॥ तत्समासतो रिष्टमित्याहुः॥ तत्र गौरोऽगौरः श्यामो ऽश्यामः कृष्णो ऽकृष्णइति देहप्रकृतिवर्णाः॥ तद्भेदाश्च पद्मगौरादयः॥ नीलश्यामताम्रहारिद्रशुक्लादपस्तु विकृतयः तत्र प्रकृति विकृतिवर्णो युगपदंगेंऽगैकदेशे वा मरणाय॥ एतेन म्लान्युपचयशोकहर्परौक्ष्यन्नेहादयस्तथा मरुतिभेदीयोक्तानां महदुपचयसूक्ष्मदीर्घाणां सर्वेषां च दोषादिविभागेन प्रतिनिधतानां
भावानामनिमित्ततोऽन्यथात्वमुक्तं भवति॥ छायास्तु शरीरे पंच॥ तत्र स्वादमलखड्डाकाशनोलनिर्मला सस्नेहा सप्रभेव॥ वातात्पांशुभस्मरुक्षा रजोऽरुणा श्यावा निष्प्रभा स्वेदमलगंधिः॥ तेजसोहुतहुताशविद्युत्तमतपनीयरक्ता दृष्टिमुखा॥ अंभसो वैदूर्येंद्रनीलविमला घना सुस्निग्धा॥भुवो रुचिराभा घना स्थिरा स्निग्धा ‘शुद्धा श्यामा श्वेता च॥ तासां वायव्या विनाशाय क्लेशाय चातिमहते शेषाऽस्तु सुखोदयाः॥सत प्रभा रक्ता पीता पांडुरा सिताऽसिता श्यावा हरिता च॥ ताः स्निग्धा विकाशिन्योऽमलाः शुभाः विपरीतास्त्वशुभाः॥ तयोर्विशेषः॥ छाया वर्णमाकामत्यासन्ना च लक्ष्यते पंचभूतात्मिका च॥ प्रभा तु वर्णं प्रकाशयति विप्रष्टालक्ष्यते तेजःप्रभैव च॥ यस्य दृष्टौ प्रतिच्छायामयी कुमारिका न दृश्यते स परातुः॥यस्वातपादर्शादिष्वकस्मात्प्रतिच्छाया छिन्ना भिन्ना हीनाऽधिकाऽऽकुला नष्टा जिह्माऽवाकशिरा विशिरा द्विशिरा विस्तृताऽन्यथा वा विकृता वा दृश्यते॥ यस्य ललाटं न खिद्यति॥ यस्य केशलोमान्यनभ्यक्तान्यभ्यक्तवदृश्यंते॥ नयने चातिप्रविष्टे निर्गते विस्तृते संक्षिप्ते संक्षिप्तभ्रुणी विनतभ्रुणी जिह्मेविषमे विभ्रांतदर्शने हीनदर्शने नकुलाभे कपोताभे अलातवर्णे नीलादिविकृतवर्णे अतिचले स्तब्धसस्ते प्रसुते अत्युन्मिषिते अनिनिमिषिते तुलितपक्षमणी वा॥ नासिका वा ऽतिविवृताऽतिसंवृता कुटिला स्फुटिना पिटिकाचिता शुष्का वा स गतायुः॥ यस्याधोऽधरोष्ठो यात्युत्तरौष्ठश्वोर्ध्वमुभौवा पक्वजंबूनीलौ॥ दंता वाऽनिरुक्षास्तास्नाः श्यामाः पंकिलाः पुष्पिताःसशर्करा वा सहसा वा पतंति॥ जिव्हावा जिह्मास्तब्धा सुप्तावलिसा गुर्वी श्यावा शूना शुष्का विसर्पिणी कंटकाचितेव वा॥ यस्य गंडललाटहनुबंधनानि स्थानाच्युतानीव सस्तानि यस्य न धत्ते शिरः शिरोधरां पृष्ठ वा स्वभारं॥हनूवा पिंडमास्यस्थं॥
यस्पोत्सितं मेंद्रमतिनिःसृतौ वा कृपणावतो विपर्ययो वा॥ यस्य मूत्रमत्युष्णं॥यस्य विषदोपाहिना खेभ्यः सरोमकूपेभ्यो रक्तं प्रवर्तते॥ यस्यानिमित्तमंगान्यतिलघून्यतिगुरुणि वा स्युः स मुमूर्षुः॥ यस्पैकोऽनेको वा स्वरो गद्गदाव्यक्तक्षामदीनो वा सहसोपलभ्यते॥ यो वा विवक्षुर्मुद्यति॥ यस्य वदतो भृशमूर्ध्वमुरो रुजति॥ यस्योच्छ्वासोऽतिदीर्घोऽतिन्हस्वः पूतिगंधिः सुगंधिर्वा॥ यस्यांगुलयआयम्यमाना न स्फुटेषुः यस्पान्योऽन्योऽपि क्षुतगतमूत्रणादिषु स्वभावातीतः शब्दः॥ यस्येष्टोऽनिष्टो वा माल्यफलचंदनकुणपादिगंधो देहमुखमलयणवस्रादिषु॥ यस्य शरीरं वैरस्यात्सौरस्याहाऽत्यर्थं यूकामक्षिकादमस्त्यजंति भजंति वा॥ यस्य सततोष्मस्वंगावयवेषु शैत्यंशीतषु वा कुमुदोत्पलानुकार्यतिशैत्यमतिवेदोऽतिस्तंभो विगत मांसशोणितेष्विव च संसः॥ यस्य च योगोऽतियोगो वा शरीरे युगपन्महाभूतानां दृश्यते सर्वे ते कालपका इति॥ भवति चात्र॥यस्यापूर्वाः सिरालेखा वालेंद्वाकृतयोऽपि वा॥ ललाटे वस्तिशीर्षे वा पण्मासान्न स जीवति॥पद्मिनीपत्रवत्तीयं शरीरे यस्य देहिनः॥ प्लवते प्लवमानस्य पण्मासास्तस्य जीवितं॥ हरितामाः सिरा यस्य रोमकूपाश्च संवृताः॥ सोऽम्लाभिलाषी पुरुषः पित्तान्भरणमभुते॥ यस्य गोमयचूर्णाभं चूर्ण मूर्ध्नि मुखेऽपि वा॥ सनेहं मूर्ध्नि धूमो वा मासांतं तस्य जीवितं॥ मूर्ध्नि भ्रुवोर्वा कुर्वंति सीमंतावर्तका न वाः॥ मृत्युं स्वस्थस्य पड़ात्रात्रिरात्रादातुरस्य तु॥ यस्य स्नातानुलिप्तस्य पूर्व शुष्पत्युरो भृशं॥ आर्येषु सर्वगात्रेषु सोऽर्द्धमान जीवति॥ उरस्यूष्मा भवेद्यस्य जठरे चातिशोतता॥ भिन्नं पुरीपं तृष्णा च यथा मेतस्तथैव सः॥ मूत्रं पुरीपं निष्ठचूतं शुक्रं चाप्सु निमज्जति॥ निष्ठ्युतं बहुवर्णं वा यस्य मासात्स नश्यति॥ स्वरस्य दुर्बलोभावं हानिं च बलवर्णयोः॥ रोगवृद्धिमयुत्त्या च दृष्ट्वा मरणमा
दिशेत्॥ अपस्वरं भाषमाणं प्राप्तं मरणमात्मनः॥ श्रोतारं चास्य शब्दस्य दूरतः परिवर्जयेत्॥ ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवं- क्षणं॥ शर्म चानधिगच्छंतं बुद्धिमान् परिवर्जयेत्॥ यो जातशीतपिटकः शीतांगो वा विदह्यते॥ उष्णद्वेपी च शीतार्तः स प्रेताधिपगोचरः॥ यस्य रज्जुरिव छाया कंठे सक्तोपलक्ष्यते॥ अवश्यं रुप्यते जंतुः सोऽचिराद्यमकिंकरैः॥ इति विस्तांगविज्ञानीयो नाम नवमोऽध्यायः॥ ९ ॥
अथातो विकृतेहाविज्ञानीयं शारीरं व्याख्यास्यामः॥ घनीभूतमिवाकाशमाकाशमिवयो घनं॥ अमूर्तभिव मूर्तं चमूर्तं वाऽमूर्तवत्स्थितं॥ तेजस्व्यतेजस्तद्वच्च शुक्लं कृष्णमसच्चसत्॥ अनेत्ररोगश्चंद्रं च बहुरूपमलांछनं॥ जाग्रद्रक्षांसि गंधर्वान्भेतानन्यांश्च तद्विधान्॥ रूपं व्याकृति तद्वच्चयः पश्यति स नश्यति॥ सप्तर्षीणां समीपस्थां यो न पश्यत्यरुंधतीं॥ ध्रुवमाकाशगंगांवा न स पश्यति तां समां॥ मेघतोयौघनिर्घोपवीणापणववेणुजान्॥ शृणोत्पन्यांश्च यः शब्दानसतो न सतोऽपि वा॥ निष्पीड्य कर्णौ शृणुयान्न यो धुकधुकास्वनं॥ तद्वद्गं धरसस्पर्शान्मन्यते यो विपर्ययात्॥ सर्वशो वा न यो यश्च दीपगंधं न जिमति॥विधिना यस्य दोषाय स्वास्थ्यायाविधिना रसाः॥ यः पशुने. व कीर्णांगो योंऽगे घातं न वेति वा॥ अंतरेण तपस्तीव्रं योगं वा विधिपूर्वकं॥ जानात्पतींद्रियं यश्च तेषां मरणमादिशेत्॥ जिन्हा श्यावा मुर्ख पूर्ति सव्यमक्षि निमज्जति॥ खगा वा मूर्ध्नि लीयंते यस्य तं परिवर्जयेत्॥ निकपन्निव यः पादौ च्युतांसः परिसर्पति॥हीयते बलतः शश्वद्योन्नमश्रन्हितं बहु॥ योऽल्पाशी बहुविष्मूत्रो बव्हाशी चाल्पमूत्रविट्॥ पो वाऽल्पाशी कफेनार्तो दीर्घ श्वसिति चेष्टते॥दीर्घमुच्छ्वस्प यो ह्रस्व निश्वस्य परिताम्यति॥ हस्वं च यः प्रश्वसिति व्याविद्धं स्पंदते भृशं॥ शिरो विक्षिपते कृ
छ्राद्योऽचयित्वा प्रपाणिकौ॥ यो ललाटस्रुलखेदःश्लथसंधानबंधनः॥ उत्थाप्यमानः समुह्येद्यो वलीदुर्वलोऽपि वा॥ उत्तानएव स्वपिति यः पादौ विकरोति च॥ शयनासनकुड्यादौ योऽसदेव जिघृक्षति॥ अहास्यहासी संमुह्यन् यो लेढि दशनच्छदौ॥ उत्तरौष्ठं परिलहन्नुद्गारांश्च262 करोति यः॥ यमभिद्रवति छाया कृष्णा पीताऽरुणाऽपि वा॥ भिषग्भेषजपानान्तगुरुमित्रद्विपश्चये॥ वशगाः सर्वएवैते विज्ञेयाः समवर्तिनः॥ ग्रीवाललाटहृदयं यस्य खिद्यति शीतलं॥ उष्णोऽपरः प्रदेशश्व शरणं तस्य देवताः॥ योऽणुज्योतिरनेकाग्रोदुश्छायो दुर्मनाः सदा॥ वलिं बलिभुजो यस्य प्रणोतं नोपभुंजते॥ निर्निमित्तं च यो मेवां शोभामुपश्चयं श्रियं॥ प्राप्नोत्यतोवा विभ्रंशं स प्राप्नोति यमक्षयं॥ गुणदोषमयी यस्य स्वस्थस्य व्याधितस्य वा॥ यात्यन्यथात्वं प्रकृतिः पण्मासान्नस जीवति॥ भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्वलमहेतुकं॥ पडेतानि निवर्तते पङ्भिर्मासैर्मरिष्यतः॥ मत्तवद्गतिवाकंपमोहा मासान्मरिष्यतः॥ नश्यत्यजानन्पडहात्केशलुंचनवेदनां॥ न याति यस्य चाहारः कंठं कंठंमयादृते॥ प्रेष्याप्रतीपतो यांति प्रेताकृतिरुदीर्यते॥ यस्य निद्रा भवेन्नित्या नैव वा न स जीवति॥ वक्रमापूर्यतेऽश्रृणां विद्यश्चरणौ भृशं॥ चक्षुश्चाकुलतां याति यमराष्ट्रं गमिष्यतः॥ यैः पुरा रमते भावैररतिस्तैर्न जीवति॥ कथयेन्न च पृष्ठोऽपि दुःश्रवं मरणं भिषक्॥ गतासोर्वंधुमित्राणां न चेच्छेत्तंचिकित्सितुं॥ यमदूतपिशाचाद्यैर्यत्परासुरुपास्यते॥ घ्नद्भिरौपधवीर्याणि तस्मात्तं परिवर्जयेत्॥ अरिष्टेनास्ति मरणं दृष्टरिष्टं च जीवितं॥ अरिष्टे रिष्टविज्ञानं न च रिष्टेप्यनैपुणात्॥ चरकस्येति वचनं सुश्रुतेन तु पठ्य
ते॥ध्रुवं हि रिष्टे मरणं ब्राह्मणैस्तत्किलामलैः॥ रसायनतपोदानतत्परैश्च निवार्यते॥ रुग्णात्रेयो द्विधा रिष्टं स्थिरास्थिविभेदतेः॥दोपाणामपि बाहुल्याद्रिष्टाभासः समुद्भवेत्॥ तद्दोपाणां शमे शाम्येत्स्थाय्यवश्यं तु मृत्यवे॥ आयुर्वेदफलं कृत्स्नंयदायुर्ज्ञेप्रतिष्ठितं॥रिष्टज्ञानादृतस्तस्मात्सर्वदैव भवेद्भिषक्॥ ॥ इति बिकृतेहाविज्ञानीयो नाम दशमोऽध्यायः॥ १० ॥
अथातो विकृतव्याधिविज्ञानीयमध्यायं व्याख्यास्यामः॥ सर्वैर्यथास्वं हेतुप्राग्रूपरुपैरतिमात्रैर्यस्य व्याधिरुत्पद्यते व्याधितस्यवा यस्याशु मुखे पिप्लुव्यंगलेखातिलकालकाः करजरदनेषु वा पुण्याप्युदरे वा नानावर्णाः सिराःयस्य शुप्यतो नेत्रोपदेहो वर्त्मनासिकान्यतरश्वयथुर्वर्त्मस्रंसो वा यस्य क्षीणस्य क्षुतृष्णा वा हृद्यैर्वहुभिरप्यन्नपानैर्न शाम्यति यस्य सफेनमसृक् प्रसिच्यते कुक्षिशूलं च उरसो वा यस्य श्लेष्मा नीलपीतलोहितो बहुशश्च यस्य बलवान्ग्रीवावमर्द्दौ जिह्वाशोफः कंठास्यगुदपाकश्च यस्यामाशयोत्था परिकर्तिकाऽतितृष्णा शकृद्भेदश्च यस्य पक्काशयोत्था परिकर्तिकाऽतितृष्णाऽतिमात्रश्च गुद्ग्रहः यस्यामपक्काशयान्यतरमाश्रित्य संज्ञां च हत्या वायुः कंठे घुर्घुरकं करोति यस्य क्षीणस्य तृष्णाभिवृद्धिर्हृदि शूलं च तथा हिध्मारक्तातिसारौ वाऽऽध्मानातीसारौ बा भृशं सतृष्णौ स परापुरिति॥ भवति चात्र॥ ज्वरो निहंति बलवान् गंभीरो दीर्घरात्रिकः॥ सप्रलापभ्रमश्वासः क्षीणं शूनं हतानलं॥अक्षामं सक्तवचनं रक्ताक्षं हृदि शूलिनं॥ संशुष्ककासः पूर्वाण्हे योऽपराण्हेऽपि वा भवेत्॥ बलमांसविहीनस्य श्लेष्मकाससमन्वितः॥ रक्तपित्तं भृशं रक्तं कृष्णमंद्रधनुःप्रभं॥ ताम्रहारिद्रहरितं रूपं रक्तं प्रदर्शयेत्॥ रोमकूपप्रविसृतं कंठास्यहृदये सजत्॥ बाससो रंजनं पूति वेगवच्चातिभूरि च॥ वृद्धं पांडुज्वरच्छर्दिकासशोफातिसा
पूर्णं शंखयोर्मुक्तमांसता॥ संत्रासश्चोष्णतांऽगे च यस्य तं परिवर्जयेत्॥ अकस्मादनुधावच्च विघृष्टं त्वक्समाश्रयं॥ चंदनोशीरमदिराकुणपष्वांक्षगंधयः॥शैवालकुक्कुटशिखा कुंकुमालमपीभभाः॥अंतर्दाहा निरूष्माणः प्राणनाशकरा व्रणाः॥ यो वातजो न शूलाय स्यान्न दाहाय पित्तजः॥ कफजो न च पूयाप मर्मजश्च रुजे न यः॥ अचूर्णश्चूर्णकीर्णाभो यत्राकस्माच्च दृश्यते॥रूपं शक्तिध्वजादीनां सर्वा स्तान् वर्जयेद्वणान्॥ विप्मूत्रमारुतवहं शमिणं च भगंदरं॥ घट्टयन् जानुना जानु पादावुद्यम्य पातयन् ॥योऽपास्पति मुहूर्वकमातुरो न स जोवति॥ वैश्छिंदन्नखाग्राणि तैश्च केशांस्तृणानि वा॥ भूमिं काष्टेन विलिखन् लोष्टं लोष्टेन ताडयन्॥ हृष्टलोमा सांद्रमूत्रः शुष्ककासी ज्वरो च यः॥ मुहुर्हसन्मुहुः क्ष्वेडन् शय्यां पादेन हंति यः॥ मुहुश्छिद्राणि विमृशन्नातुरो न स जीवति॥ ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवंक्षणं॥ शर्म चानाधिगच्छंतं बुद्धिमान्परिवर्जयेत्॥ विकारायस्य वर्द्धते प्रकृतिः परिहीयते॥ सहसा सहसा तस्य मृत्युर्हरति जीवितं॥ यमुद्दिश्यातुरं वैद्यः संपादयितुमौषधं॥ यतमानो नशक्रोति दुर्लभं तस्य जीवितं॥ विज्ञातं बहुशः सिद्धं विधिवञ्चाषचारितं॥ न सिन्ध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितं॥ भवेद्यस्यौपधेऽने या कल्प्यमाने विपर्ययः॥ अकस्माद्गंधवर्णादेः स्वस्थोऽपि न स जीवति॥ निवाते सेंधनं यस्य ज्योतिश्चाप्युपशाम्यति॥ आतुरस्य गृहे यस्य भिद्यंते वा पतंति च॥ अतिमात्रममत्राणि दुर्लभं तस्य जीवितं॥ यं नरं सहसा रोगो दुर्बलं परिमुंचति॥ संशयं प्राप्तमात्रेयो जीषितं तस्य मन्यते॥ इति विकृतव्याधिविज्ञानीयो नामैकादशोऽध्यायः॥ ११ ॥
अथातो दूतादिविज्ञानीयं शारीरं व्याख्यास्यामः॥ निर्दिष्टं रिष्टमातुराश्रयं॥ दूतस्पापि तु जातिवेषभाषाचेष्टितदेशकाला वैद्यस्यच तत्संगमसंकल्पप्रस्थानप्रयाणप्रवेशा ग्रहचारो पूर्वसंभवः स्वमदर्शनानि च रोगिणः शुभाशुभं सूचयंति॥ तत्रातुराहर्णोत्तमोऽन्याश्रमः पाखंडः पंढो मुंडी जटिलः स्त्री व्याधितो ऽनको जीर्णविवर्णमलिनच्छिन्नकवसनः पंकतैलदिग्धो रक्तमाल्पानुलेपनो वितांगरूपकर्मा खरोष्ट्रमहिवाहनो विक्लवः श्वसन् रुदन् निष्ठुरोऽमंगलाभिधायी दूरादाव्हयमानस्तृणलोष्टतुपांगारभस्मतुपसी सास्थिकेशशिरोललाटनासिकाऽऽस्यदंतजिव्हाग्रीवानखाऽनामिकांऽगुलिस्तनजठरनाभिपृष्ठकटीमेहनजंघाकपालपललोपलमुशलशूर्पोपानन्मार्जनीशववस्त्रांतदशाकार्पासतमच्युतसारंस्सृक्काष्ठष्टितुलारज्जु- पाशचर्मवेणुरिक्तभाजनस्नेहभाजनधरः पादाभ्यां भुवं मुंचन् विलिखन् गृहीत्वा पक्कं फलमसारंतद्विधमन्यद्वाविकारतुल्पगुणे च देशे काले वा दूतो वैद्यमुपसर्पन्नशुभः॥ तद्यथा॥ घृतोद कादिद्रवसमीपस्थमतिशीतस्तब्धः प्रत्युपसि श्लेष्मामयेऽशुभः पित्तामये तु शुभः॥ तथा सेतुभंगे छर्दिमेहातिसारादिष्वशुभः सेतुबंधे तु शुभः॥ तथा मध्यान्होभय संध्या ईरात्रिचतुर्थीपष्टीनवमीपर्वदिनेषु ग्रहोपरागोत्पातदर्शनभरणीकृत्तिकाऽऽर्द्राऽऽश्लेषामघामूलपूर्वासुचाशुभो यश्चवैद्यं सुप्तं नग्नंच भूमौ शयानमभ्यक्तं मुक्तकेशं दक्षिणाभिमुखं विक्लवं छिंदतं भिदंतमग्निपितृकार्यप्रवणमशस्तं चिंतयंतं कथयंतं चोपति- ठति यो वा दिशं याम्यां प्रति कृत्वांऽजलिं विषमैकपादस्थः यस्मिन् व्याधिताश्रयं कथयति दूते भिपगशुभमिंद्रियार्थमुपलक्षयेत् संकरुपयेद्दा तं च नानुयायात्॥ अतोऽन्यथा पुनः करुणापेशलेन मनसा सौमनस्यवता मातापितृसमेनातुरस्यात्यंतमारोग्यमाश्वासनेन प्रयातव्यं॥ प्रस्थानगमनप्रवेशेषु दधिमघुघृतलाजपुष्पाक्षतोदुंबराश्चत्थमुक्तामणिछत्रदूर्वाकुशादर्शकन्याध्वजस्पंदनाष्टांपदा263क्षनृपश्रीतरु
भद्रपीठानि सस्यानि मत्स्या हया हंसश्चापो तृपः केसरी दक्षिणावर्तशंखाव्जसिद्धार्थका264 रोचना स्वस्तिकस्तोरणं कोचका वेणवो वरुणमधुमदसिक्तगंडगजस्तोयलंघोंऽयुदः265 पूर्णकुंभोहरिद्राऽद्विरिंद्रः फलान्यार्द्रमांसं सितं चामरं गौः सवत्सांऽगना पुत्रिणी मानुषंवर्धमानं सहस्रं नराणां प्रयुक्तानि यानानि धन्वंतरिर्वामनो ब्राह्मणो भूमिरभ्युद्धता सिद्धमन्नं वराहश्चतोयोत्थितस्विनयनमधुसूदनस्कंदपद्मासना लोकपालाः सुराः स्वंदिशोऽग्निः सरांसि सवंत्यः समुद्रा मखा मारुतो ज्योतिपं धर्मशास्त्राणि तीर्थानि काव्यं धर्मार्थकामाश्रितं वालस्विल्यादयो वेदवाक्यं निधि कौस्तुभः कांचनं मणिभद्रः सुमेरुः प्रियंगुः प्रदीपो वचामोदकौ दितिरदितिररुंधती बुद्धिः सावित्र्युमाऽऽकाशगंगा शची देवसेना सुधा शांतिर्लक्ष्मीः सरस्वत्यपत्यक्षमा266 स्वस्तिशब्दो वषट्कार ॐकारपुण्याहधर्मकियाश्चैतदष्टोत्तरं मंगलानां शतं दर्शनात्स्पर्शनात्कीर्तनाचा शुभानि व्यपोद्यार्थसिद्धिं दिशंत्युत्तमां॥ अपिच॥ पुन्नामानः पक्षिणो वामाः शुभाः शिवाश्यामापिगलाकोकिलारादरी सकरीगृहगोधिकैकशफाश्च स्त्रीनामानः प्रदक्षिणाः शिखिभल्लूकश्रीकंठश्चेति न गजाजकपयश्च प्रवेशे तु विपरीताः सर्वत्र च दक्षिणाद्दा मगमनमनिष्टं श्वशृगालयोः विपरीतं मृगविहंगयोः॥ सर्वथाऽपि दर्शनं भरद्वाजचापभासनकुलानां॥ शशसर्पाजाऽविगोधाजाह्कस्कराणां तु कीर्तनमिष्टं न दर्शनं विरुतं च विपरीतमृक्षवानरयोः॥ सर्वमपि त्वनिष्टं सरकुक्कुटविडालोलूकानां॥ तथा ग्रंथ्यर्बुदादिषु छेदशब्दइष्टो गुल्मोदरादिषुभेदशब्दाऽतिसाररक्तपित्तादिषुरुद्धशब्दोऽश्मर्युदावर्तादिषु प्रवर्त्तनशब्दइति॥ एवमन्येपि ध्वनयो योज्याः॥ सर्वत्रैव च स्थिरस्थावरवर्धमानत्राता
ऽचलध्रुवमशिवादयः शब्दा अन्या वादित्रखराश्चश्रेष्ठाः॥ क्षतहतपतिताक्रोशप्रहारछेदभेददाहहाहाप्रतिपेधादिशब्दाः प्रतिषिद्धाः प्रतिषिद्धायां दीप्तायां च दिशि कूराः पक्षिमृगध्वनयो वृक्षे वा रूक्षशुष्के सवल्लिकंटके तद्विधे वा देशे दर्शनं च तृणपललकाष्ठभारकर्परकलोष्टादीनां कंटकोर्द्धपादयानशयनासनादिननोपस्कररिक्तकुंभमद्यवसातैलगर्भिणीश्वपाकव्यसनीमृतानां च प्रवेशे चातुरगृहात्पूर्वोक्तमांगल्यनिर्गमः प्रविष्टस्य तु भिषजः न सत्कारी लामतुष्टिस्तुतयश्व शुभाशुभा आतुरस्य वक्रानुवकाग्रहा गर्हितस्थानस्थाः केतु शनिराहुभिर्जन्मर्क्षाभिभवो गृहदारशयनासनवाहनमणिरत्नोपकरणेषु वागर्हितलक्षणप्रादुर्भावचिकित्साप्रतिषेधाय॥ स्वमस्तु स्वयमन्ये न वादृष्टः शुभाशुभहेतुः स सप्तविधो दृष्टः श्रुतोऽनुभूतः प्रार्थितः संकल्पितो भाविको दोषजश्व॥ तत्राद्यः पंचविधोऽफलः तयथास्वप्रकृतिर्विस्मृतो दिवाऽतिन्हखोऽतिदीर्घो नातिसुप्तदृष्टश्च पूर्वरात्रेऽल्पं चिराच फलं करोति॥ गोसर्गेमहत्सद्यश्च॥ निद्रया च पुनरनुपहतःप्रतींपैर्वा वचोभिर्दानयमनियमादिभिर्वा॥ तत्र यः तैः सह मद्यं पिबन्शुना ऽऽकृप्यते स हन्यते ज्वरेण॥ यो लाक्षारक्ताभमंबरं पश्यति यो वा रक्तदेहमाल्यवस्त्रो हसन्नार्या हियते सरक्तपित्तेन॥ यो याम्यां दिशं खरोष्ट्रमहिपवराहान्यतमेन स यक्ष्मणा॥ यस्य कंटकीनी लता वंशस्तालो वा हृदि जायते स गुल्मेन॥ यस्य शिरसि स शिरोरोगेण वा शिरश्छेदनेन॥यस्य नमस्या ज्यावसिक्तस्याग्निमनचिपं जुदतो जायंते पद्मान्पुरसि स कुटेन॥ यश्चंडालैः सह स्नेहं पिबति स प्रमेहेण ॥ यो रक्षोभिः सह नृत्यन्नप्नु मज्जति स उन्मादेन॥ यो मत्तः सोऽपस्मारेण॥ यश्चंद्रसूर्ययोरुपरागं पश्यति तस्य नेत्ररोग उपजायते॥ यस्तयोः पतनं तस्य नेत्रविनाशः॥ यः शष्कुलीरपूपान्वाऽभ्यवहृत्य प्रतिबुद्धश्छर्दयति
यस्य शिरसि लतादयो जायंते वयांसि च निलीयंते मौढ्यंवा भवति यो गृध्रोलूककाकाद्यैः प्रेत पिशाचरक्षोद्रविडांधस्त्रीचंडालाद्यैर्वा परिचर्यते दक्षिणाभिमुखं या स्त्रिया नृत्यंत्या ऽऽकृप्यते वायसादिभिर्वा स्वंयं बादिग्वासा यातिशून्याटवीं वा कपिरथेन प्रेतैः प्रयजितैर्वा परिष्वज्यते नमो वा रक्तां स्रजं धारयति पंकदिग्धो हसति नृत्यति वा वेत्रवंशकंटक्तृणगहने संसृज्यते पतति वा पांशुपानायां भुवि वल्मीकभस्मश्मशानश्वभ्रायतनेषु वा पंककूपकलुषोदकेषु वा मज्जति स्रोतसा वा हियते रक्तकुसुमवनभूमिं गुहामंधकाराचितां पापकर्मालयंसंवाधं जननीं वा प्रविशति मत्स्येन वा ग्रस्यते श्मश्रुकर्म च यो गात्रवृद्धिं विवाहं चानुभवति शैलप्रासादाग्रात्पनत्यारोहति वा यूपपुष्पाढ्यशाल्मलीकिंशुककोविदारपारिभद्रकान् यो वा पराजीयते वध्यते छर्दयतिविरिच्यते हृप्यति लभते वा हिरण्यलोहलवणतैलपिण्याककार्पासानश्नाति पक्कान्नं पिवति मद्यं स्नेहं वा ऽभ्यज्यते निर्भर्त्स्यते या कुपितैः पितृभिः चंद्रार्कतारादीपदेवतानेत्रदशनान्यतमान्नश्यतो वा पश्यति वकं वा बाहु नगं वा विभिद्यमानं पुरुषान् वा ननान्कपापवाससोऽसौम्यान्दंडपाशहस्तान् कृष्णान् रक्ताक्षान् स्त्रियं वा कृष्णां शुक्लदर्शनां दीर्घकेशस्तनीं कालरात्रिरूपां ते व्याधिताः पंचतामाप्नुवंति॥स्वस्थास्तु जीवितसंदेहमिति॥ भवंति चात्र॥ मनोवहानां पूर्णत्वात्स्रोतसां प्रबलैर्मलैः॥ दृश्यंते दारुणाः स्वप्नाविनाशाभिमुखात्मभिः॥ अकल्याणमपि स्वप्नंदृष्ट्वा तत्रैव यः पुनः॥ पश्येत्सौम्यं शुभं तस्य शुभमेव फलं भवेत्॥ देवान् द्विजान् गोहपभान् जीवतः सुहृदो नृपान्॥ साधूनू यशस्विनो वन्हिमिद्धं स्वच्छान् जलाशयान्॥ कन्यां कुमारकान् गौरान् शुक्लवस्त्रान्सुतेजसः॥ नराशनं दीप्ततनुं समंताद्रुधिरोक्षितः॥ यः पश्येल्लभते यो वा छत्रादर्शविषामिपं॥ शुक्लाः सुमनसो बस्त्रममेध्यालेपनं फलं॥शैलमासादसफलवृक्षसिंहनरद्विपान्॥
आरोहेद्गोश्वयानं च तरेन्नदन्हदोदधीन्॥पूर्वोत्तरेण गमनमगम्यागमनं मृतिं॥संबाधान्निसृतिः स्पर्शस्तारकाचलभास्वतां॥ रोदनं पतितोत्थानं हिषतां चावमर्दनं॥ यस्य स्वादापुरारोग्यं वित्तं स बहुशोऽश्नुते॥ पितृदेवद्विजातीनां क्रुद्धभीतकृशात्मनां॥ मलिनांवरपुष्पाणां दर्शनं न प्रशस्यते॥ तेषामेव तु तुष्टानां शुद्धपुष्पांवरात्मनां॥ दर्शनं शस्यते स्वप्नेतैश्च संभाषणं शुभं॥ दृष्ट्वा स्वप्नान् दारुणान् शोभनान्वा प्रातः स्रातः सर्पपानग्निवर्णान्॥ हुत्वा सावित्र्या सर्पिषाऽऽक्तांस्तिलान्वा पूतः पापैर्मुच्यते व्याधिभिश्च॥ मंगलाचारसंपन्नः परिवारस्तथाऽऽतुरः॥ श्रद्दधानोऽनुकूल प्रभूतद्रव्यसंग्रहः॥ सत्वलज्ञणसंयोगो भक्तिर्वैद्यद्विजातिषु॥ चिकित्सायामनिर्वेदस्तदारोग्यस्य लक्षणं॥ इत्यत्र जन्ममरणं यतः सम्यगुदाहृतं॥ शरीरस्यततः स्थानं शारीरमिदमुच्यते॥ ॥ इति दूतादिविज्ञानीयो नाम द्वादशोऽध्यायः॥ १२ ॥
इतिश्रीवैद्यपतिसिंहगुप्तसूनुश्रीमहाग्भटाचार्यविरचितेऽष्टांगसंग्रहे द्वितीयं शारीरस्थानं संपूर्णं॥ २ ॥ श्रीकृष्णार्पणमस्तु॥५॥
<MISSING_FIG href=”../../../../../../../books_images/U-IMG-1709448508Screenshot2024-03-03121807.png”/>
॥ श्री ॥
अष्टांगसंग्रहे
<MISSING_FIG href=”../../../../../../../books_images/U-IMG-1709448011Screenshot2024-03-03120932.png”/>
निदानस्थानम् ३
श्रीगणेशाय नमः॥ अथातः सर्वरोगनिदानं व्याख्यास्यामः॥ इति ह स्माहुरात्रेयादयो महर्षयः॥ पुरा कृतयुगे विगतरागद्वेपादिद्वंद्वा जितलोभकोधश्रमक्लमालस्यतया निष्परिग्रहाः पुरुषा बभूवुः॥ तेषांपुण्यबलेन पृथिव्यादीनां सर्वगुणसमुदायाविचित्यरसवीर्यादिसमुदितानि सस्यान्योपधयश्वासन्॥ ते तानि जितेंद्रियत्वात्काले मात्रया चोपयुंजानाः सत्यार्जवानृशंस्यादिगुणयोगाच्च सरसदृश्यतेजसो रुपाकृतिप्रमाणप्रसादोपचयसंहनन267सत्वसारसंपन्ना दीर्घायुपो नीरुजश्च बभूवुः॥ भ्रश्यति तु कृतयुगे युगस्वभावात्क्रमेण परिहीयमाणसर्वगुणेषु पृथिव्यादिषु शरीरगुणेषु च धर्मातिकमात्पुरुषेष्ववश्यंभाविनो निरपेक्षरुक्षाभिरुपेक्षिता देवताभिर्वरादयः प्रादुरभूवन्॥इति सर्वरोगाणां सामान्यतः संभवः॥ ज्वरस्तु स्थाणुशापात्प्राचेततसतामुपगतस्य प्रजापतेः क्रतौ भागमपरिकल्पयतस्तद्विनाशार्थं पूर्वजन्मामानितया रुद्राण्या प्रेरितस्य पशुपतेर्दिव्यमन्दसहस्रं परिरक्षितवतः क्रोधमतिचिरकालसंभृतो व्रतांते रोषाग्नि किंकररूपेण किल पिंडितमूर्तिपरनामा भस्ममहरणखिशिरोऽक्षिबाहुपादः पिंगललोचनो दंष्ट्री शंकुकर्णः कृष्णतनुरुत्तमांगान्निश्चचार॥ स देवीविनिर्मितया सह भद्रकाल्या प्रतिरोमकूपमभिनिःसृतैर्विविधविकृताकृतिभिरर्नतैर्भयानकवाक्यक्रियावपुर्भिरनुचरैः परिवृतचतुर्युगांत
करांभोदसहस्रनिनदोऽनुनादयन् रोदसी ज्वालागर्भेण परितः कलकलारावेण महाभूतसंप्लवकारिणा विधाय दानववधमश्वमेधाध्वरविध्वंसाज्ञां च प्रांजलिर्विज्ञापयामास शिवं॥ शिवीभूतोऽसि देवदेव देवैः पितामहप्रभृतिभिजगतः पित्रा च धात्राऽभिष्टूयमानः संप्रत्यहं किं करवाणीति॥ तं शूली कोधमादिदेश॥यस्मात्रिदशैरप्पजग्धो मम कोधोव्रतविघ्नं चिकीर्षुर्दैत्यसैन्यं च दक्षश्च दक्षहव्यं त्वया जीर्णमतो जगतोऽस्य संस्थावरस्य ज्वरचिता ज्वरो भवान् भवतु॥ त्वं हिसर्वरोगाणां प्रथमः प्रवरो जन्ममरणेषुतमोमयतया महामोहः प्राग्जन्मनो विस्मारयिताऽपचारांतरेषु चोष्ममयत्वात्संतापात्मा द्वयेष्वपि ध्रुवो ज्वरो भवेति॥ सोऽयमेवमुमापतिनाऽनुगृहीतो नानानामभिः सर्वतोऽनुभुवि विचरति॥ तद्यथा॥ पाकलो268 गजेष्वभितापो वाजि- ष्वलर्कः कुक्कुरेष्विंद्रमदोजलजेषुज्योतिरोषधीषु चूर्णको धान्येष्वप्सु नीलिका भूमावूषो मानुषेषु ज्वरइति॥ तत्सहजाश्वारोचकां गमर्दशिरोव्यथाभ्रमक्लमग्लानितृष्णासंतापादयः॥ तत्संतापाच रक्तपित्तं॥ तत्रैव च यज्ञे कोधभयाभिभूतानां परितो विद्रवतां लंघनप्लवनाद्यैर्देहविक्षोभणैर्गुल्मविद्रधिवृद्धिजठरादग्नो हविःप्राशान्मेहकुष्ठार्शःशोफातिसारादयो भयोत्रासशोकाशुचिसंस्पर्शेरुन्मादापस्मारग्रहादयो रोहिण्यतिसंगाच्छेपदुहित्रसंभोगकृताच्चप्रजापतिकोधान्नक्षत्रराजस्य राजयक्ष्मा तत्सहोद्भवाश्च कासश्वासादयः॥ सोऽपि हिन विना ज्वरेणाऽनुवभातीति॥ सकलोऽपि रोगग्रामो ज्वरपूर्वको ज्वरशब्दवाच्य श्च॥ज्वरस्तमो विकार आतंकः पाप्मा गदो व्याधिराबाधो दुःखमामयोयक्ष्मा रोग इत्पनर्थातरं॥ तत्र रुजतोति रोगः॥ तस्योपलब्धिनिंदानपूरूपरूपोपशपसंपासिभिः269॥ तत्र निदानं वाय्वादिप्रकोपः॥तस्य पुनरहिताहारविहारसेवा॥ निदानपर्यायास्तु हेनुर्निमित्तमायतनं कारकः कर्ता कारणं प्रत्ययः समुत्थानं मूलं योनिरिति॥ पूर्वरूपं नाम येनभाविष्याधिविशेपो ज्ञायते न तु दोपविशेषस्तदुलत्स्यमानस्य व्याधेरल्पत्वाव्यक्तं रूपं॥स्पष्टं पुनारूपं270॥ तस्य शब्दांतराणि लिंगमाकतिलक्षणं चिन्हें संस्थानं व्यंजनमिति ॥ उपशयो271 हेतुव्याधिविपरीतैर्विपरी272तार्थकारिभिश्चौपधाहारविहारैः सुखानुबंधः॥स हि व्याधिसात्म्य संज्ञः॥ तद्विपरीतोऽनुपशयः273॥ एतेन देशकालौ ब्याख्यातौ॥ संप्राप्तिः274 पुनरेवं दुष्टो दोषस्तेन चैवमारब्धो व्याधिः॥ तत्पर्याया जातिरागतिर्निर्वृत्तिनिष्पत्तिरिति ॥ सा संख्याविकल्पप्राधान्यबलकाल विशेषैभिद्यते॥ तत्र संख्या तावदष्टौ ज्वरात्रिविधं रक्तपित्तं पंच कासा इति॥ विकल्पः समवेतानां दोषाणामंशांशकल्पना॥ प्राधान्यं व्याधीनामनुबंध्यनुबंधभेदात्तरतमयोगाद्दा॥ दोषाणां बढ़विशेषो हेत्वादिकार्स्यावयवविभावनया॥ काल विशेषः पुनर्दोपाणामृत्वहोरात्राहारसमयनियतः प्रकोपइति॥ एतावतैवसमासंतः कथितो निदानार्थः॥ विस्तरेण तु पथास्त्रं प्रतिरोगमुपदेक्ष्यते॥ अथ तिक्तकटुकपायरूक्षलघुशीतविष्टंभिविरुदकतृणधान्यकलायचणककरी रतुंबकलिंगचिर्भिटविसशालूकजांब-वतिंदुकहीनशुष्कप्रमिततृषिताशनक्षुधितांबुपानासृक्क्षयविरेचनादिकर्मातियोगवेगविधारणोदीरणरात्रिजागरणप्रवातव्यवायव्यायामवलवद्युद्धनिग्रहातिखरचापकर्षणात्युच्चविषमलंघनाध्वाऽध्ययनधावनसलिलतरणाभिघातदम्यगोवाजिगजनिग्रहाश्मशिलालोहकाष्टोत्क्षेपविक्षेपभ्रमणचालनगाढोच्छादनपराघातनादिसाहसभयशोकोत्कंठादिभिरतिसेवितैर्ग्रीष्मवर्षापराण्हापररात्राहारपरिणामांतेषु च वायुः प्रकोपमापद्यते॥ कट्वम्ललवणक्षारोष्णतीक्ष्णविद्वाहिशुक्तशांडाकीमद्यमूत्रमस्तुदधिधांन्याम्लतैलकुलत्थामाषनिष्पावतिलान्नलट्वा275कुठेरकादिवर्गाम्राम्रातकाम्लीकापीलुभल्लातकास्थिलांगलिकामर चातपाग्निरजोधूमकोधेर्ण्याऽजीर्णैर्मैथुनोपगमादिभिर्वर्षाशरन्मध्यंदिनार्द्धरात्रा हारविदाइकालेषु च पित्तं॥ मधुराम्ललवणस्निग्धगुरुशीतपिच्छिलाभिष्यंदिनवान्नपिष्टपृथुकस्थूलतक्ष्यशप्कुल्यामक्षीरकिलाटमोरटकूचिकापिंडकपीयूपेक्षुर-सफाणितगुडापूपपिशितमोचखर्जूरभव्यनालिकेरनिशांबुपानात्यंबुपानातिसंतर्पणभुक्तमात्रदिवास्वमकालातिखप्रकायवाडमनो-व्यापारानारंभानुषधानशयनावश्यायहर्षछर्दिविघातविरेचनाद्ययोगादिभिः शिशिरवसंतपूर्वाहप्रदोपभुक्तमात्रेषु च श्लेष्मा॥ द्वयसंसर्गात्संसर्गः॥ सर्वेषां तु मिश्रीभावात्तथाऽनशनात्यशनाध्यशनसमशनविपमाशनविरुद्धाशनसंकीर्णाशनन्यापनांबुमयमं- दकदधिया276वकयवसुरापिण्याकाममूलकसर्पपशुष्कशाकवल्लुरकृशापि277शितलकुचामफलमृत्तिकाभ्यवहारान्नपरिव278त्तेर्तुव्यापदंसात्म्यौपधिगंधाप्राणविपपिटकाविपगराभ्यवहारानार्तवदुर्दिनग्रहपीडाग्रहावेशपुरोवानपर्वतोपश्लेपरसायनस्नेहस्वेदविरेचनादिम-थ्यायोगेभ्यः पापानां च कर्मणामभ्यासात्पूर्वकतानां च परिणामात्स्त्रीणां विषमप्रसवात्प्रसूतानां च मिथ्योपचारात्सन्निपातः॥ इति सामान्यतः सर्वेषु रोगेषु दोषप्रकोपहेतुरुक्तइति॥ भवति चात्र॥ प्रतिरोगमिति कुद्धा रोगाधिष्ठानगामिनीः॥ रसायनीः प्रपद्याशु दोपा देहे विकुर्वते॥आधानजन्म279निधनप्रत्यराख्यविपत्करे॥ नक्षत्रे व्याधिरुत्पन्नः केशाय मरणाय वा॥ ज्वरस्तु जातः पड्रावादश्विनीषु निवर्तते॥भरणीपु च पंचाहात्सप्ताहात्कृत्तिकासु च॥ त्रिःसप्तरात्रादथवा रोहिण्यामटरात्रतः॥ एकादशाहा दिवसान्मृगे पण्नवरात्रयोः॥ पंचाहान्मृत्युरार्द्रायां त्रिपक्षे संशयोऽथवा॥पुनर्वसौ प्रवृत्तस्तु ज्वरोऽपैति त्रयोदशात्॥दिवसात्सप्तविंशाहा यहात्सप्ताहतोऽथवा॥ पुष्पालेपासु मरणं चिरेणाऽपि मघासु तु॥ अवश्यं स्वास्थ्यमाप्नोति द्वादशाहान्न चेन्मृतः॥ फाल्गुन्योःपूर्वयोर्मृत्युरन्ययोस्तु दिनेऽष्टमे॥ नवमे द्व्येकेविंशे280 वा ज्वरः सौम्यत्वमृच्छति॥ हस्तेऽन्हि281 सप्तमे शांनिश्चित्रायामष्टमेऽथवा282॥ पुनश्चित्रागमे खातौ दशाहादथवा त्रिभिः॥ पक्षैर्मृत्युं विशाखासु द्वाविंशेऽहनि निर्दिशेत्॥ नवमेऽन्हि न चेच्छांतिर्मैत्र्ये283मृत्युस्ततः परं॥ ज्येष्ठायांपंचमे मृत्युरुर्ध्वं वा द्वादशात्सुखं॥ स्वास्थ्यं दशाहान्मूलेन त्रिःसप्ताहेऽथवा गते॥ पूर्वाषाढासु नवमे ततोऽन्यासु तु मासतः॥अष्टाभिरथवा मासैर्नवभिर्वा भवेच्छिवं॥ आज्येष्ठाहाद्धनिष्ठासु द्वादशाद्वारुणेषु तु॥ पडहे द्वादशाहे वा मृत्युर्भद्रपदासु तु॥ उत्तरासु द्विसप्ताहात्प्रशमो रेवतीपु च॥ चतूरात्रेऽष्टरात्रे वा क्षेममित्याह हारितः॥ इति सर्वरोगनिदानं नाम प्रथमोऽध्यायः॥ १॥
अथातो ज्वरनिदानं व्याख्यास्यामः॥ अष्टाभिः कारणैर्ज्वरःसंजायते मनुष्याणां पृथक्दोषैसंसृष्टैःसन्निपतितैरागंतुना च॥
तत्र यथोक्तैःप्रकोपनविशेषैः प्रकुपिता दोषाःप्रविश्यामाशयमूष्मणा भिश्रीभूयाममनुगम्य रसस्वेदवाहीनि स्रोतांसि पिधाय पित्तं तु द्रवत्वात्तप्तमिव जलमनलमुपहत्य सर्वेऽपि च दोषाः पक्तारं स्वस्थानाद्वहिर्निरस्य सह तेन सकलमपि शरीरमभिसर्पंति॥ तत्संपर्काल्लव्धवलेन स्वेनोष्मणा नितरां देहोष्माणमेधयंतोऽतःस्रोतोमुखपिधानात्स्तंसमाधाना बहिरपि स्वेदमपहरंतः सर्वेद्रियाणि चोपतापर्यंतो ज्वरमभिनिर्वर्त्तयंति॥ तस्येमानि पूर्वरूपाणि मुखे वैरस्यमन्नानभिलाषोगुरुगात्रत्वमालस्यमल्पमाणता गतिस्खलनं निद्राधिक्यमरतिरसूया हितोपदेशेषु प्रद्वेषो वालेषु मधुरेषु च भक्ष्येष्वम्ललवणकटुकाभिनंदन- मविपाकोंऽगमर्दचक्षुपो राकुलत्वं साश्रुता जृंभा विनामःक्लमो रोमहर्षः शब्दानलांबुशीतवातच्छायातपेष्कस्मादिच्छाहद्वेषौच॥ तदनंतरं व्यक्तीभावो ज्वरस्येति॥ भवति चात्र॥ आगमापगमक्षोसमृदुता वेदनोष्मणां॥ वैषम्यं तत्र तत्रांगे तास्ताः स्युर्वेदनाश्वलाः॥ पादयोः सुप्तता स्तंभः पिंडिकोद्वेष्टनं श्रमः॥विश्लेषइव संधीनां सादऊर्वोः कटिग्रहः॥पृष्ठं क्षोदमिवाप्नोति निष्पीड्यत इवोदरं॥छिद्यंतइव चास्थीनि पार्श्वगानि विशेषतः॥ हृदयस्य ग्रहस्तोदः प्राजनेनेव284 वक्षसः॥स्कंधयोर्मथनंबाव्होर्भेदः पीडनमंसयोः॥ अशक्तिर्भक्षणे हन्वोर्जृंभणं कर्णयोः स्वनः ॥ निस्तोदः शंखयोर्मूर्ध्नि वेदना विरसास्यता॥ कषायास्यत्वमथवा मलानामप्रवर्त्तनं॥ रुक्षारुणत्वगास्याक्षिनखमूत्रपुरीपता॥प्रसेकारोचका285श्रद्धाविपाकाखेदजागराः॥कंठौठशोषस्तृट् शुष्कौ छर्दिकासौ विपादिता॥ हर्षो रोमांगदंतेषु वेपथुः क्षवथोर्ग्रहः॥ भ्रमः प्रलापो घर्मेच्छा विनामश्चानिलज्वरे॥ युगपद्याप्तिरंगानां प्रला
पः कटुवक्रता॥ नासाऽस्यपाकः शीतेच्छा भ्रमो मूर्च्छा मदोऽरतिः ॥ विड्भ्रंशः पित्तवमनं रक्तष्ठीवनमन्लकः॥ रक्तकोठोद्भवः पीतहस्तित्वं त्वगादिषु॥ खेदो286 निःश्वासवैगंध्यमतितृष्णा च पित्तजे॥विशेषादरुचिर्जाड्यंस्रोतोरोधोऽल्पवेगता॥ प्रसेको मुखमाधुर्य त्दृल्लपश्वासपीनसाः॥ त्दृल्लासश्छर्दनं कासः स्तंभः श्वैत्यं स्वगादिषु॥अंगेषुशीतपिटकास्तंद्रोदर्दकफोद्भवे॥ काले यथास्वं सर्वेषां प्रवृत्तिद्धिरेव वा॥ निदानोक्तानुपशपो विपरीतोपशायिता॥ यथास्वलिंगसंसर्गे ज्वरः संसर्गजोऽपि च॥ शिरोति मूर्च्छावमिदाहमोहकंठास्यशोपारतिपर्वभेदाः॥उन्निद्रतृङ्भ्रमरोमहर्षाजूंभाऽतिवाक्त्वं च चलात्सपित्तात्॥ तापहान्यरुचिपर्वशिरोरुक्पीनसश्वसनकासविविंधाः॥ शीतजाङ्यतिमिरभ्रमतंद्राः श्लेष्मवातजनितज्वरलिंगं॥ शीतस्तंभस्वेददाहाव्यवस्था तृष्णा कासः श्लेष्मपित्तप्रवृत्तिः॥ मोहस्तंद्रा लिप्ततिक्तास्पना च ज्ञेयं रूपं श्लेष्मपितः ज्वरस्य॥सर्वजो लक्षणैः सर्वैर्दाहोऽत्र च मुहुर्मुहुः॥ तद्दच्छीतं महानिद्रा दिवा जागरणं निशि॥ सदा वा नैव वा निद्रा महास्वेदोऽतिनैव वा॥ गीतनर्तनहास्यादिविस्तेहाप्रवर्त्तनं॥ साश्रुणी कलुषेभुमे रक्ते लुलितपक्ष्मणी॥अक्षिणी पिंडिका पार्श्वमूर्द्धपर्वास्थिरुक् श्रम॥ सखनौ सरुजौ कर्णौ कंठः शुकैरिवावृतः॥परिदग्धा स्वरा जिव्हागुरुस्त्रस्तांगसंधिता॥ रक्तपित्तकफष्ठीवो लोलनं शिरसोऽतितृट्॥कोठानां श्यावरक्तानां मंडलानां च दर्शनं॥ हृद्यथा मलसंसर्गः प्रवृत्तिर्वाऽल्पशोऽति वा॥ स्निग्घास्यता बलभ्रंशः स्वरसादः प्रलापिता॥ दोषपाकश्चिरात्तंद्रा प्रततं कंठकूजनं॥ सन्निपातमभिन्यासं तं ब्रूयाच्च हतौजसं॥वायुना कफरुद्धेन पित्तमंतः
प्रपीडितं॥ व्यवायित्वाच्चसौक्ष्म्याच्च वहिर्मार्गं प्रवर्त्तते॥ तेन हारिद्रनेत्रत्वं सन्निपातोद्भवे ज्वरे॥दोषेविबद्धे नष्टेऽग्रौ सर्वसंपूर्णलक्षणः ॥ असाध्यः सोऽन्यथा कृच्छ्रो भवेद्वैकल्यदोऽपि वा॥ अन्यश्चसन्निपातोत्थो यत्र पित्तं पृथक् स्थितं॥ त्वचि कोष्ठे ऽथवा दाहं विदधाति पुरोऽनु वा॥ तद्वद्वातकफौ शीतं दाहादिर्दुस्तरस्तयोः॥शीतादौ तत्र पित्तेन कफे स्यंदितशोषिते॥ शीते शांतेऽम्लको मूर्च्छा मदस्तृष्णा च जायते॥ दाहादौ पुनरंते स्युस्तंद्रास्त्रेदवमिक्लमाः॥ आगंतुरभिघाताभिषंगशापाभिचारतः॥ चतुर्द्धाऽत्र क्षतच्छेददाहाद्यैरभिघातजः॥ श्रमाच्च तस्मिन्पवनः प्रायो रक्तं प्रदूषयन्॥ सव्यथाशोफवैवर्ण्यं सरुजं कुरुते ज्वरं॥ ग्रहावेशौषधिषिपकोपभोशोककामजः॥ अभिपंगाद्गहेणात्मिन्नकस्माद्धासरोदने॥ ओषधीगंधजे मूर्च्छा शिरोरुक श्वयथुःक्षवः॥ विषान्मूर्च्छाऽतिसारास्यश्यावतादाहहृद्गदाः॥ क्रोधात्कंप. शिरोरुक्च प्रलापो भयशोकजे॥ कामाद्भ्रमोऽरुचिर्दाहो हीनिद्राधीवृतिक्षयः॥ ग्रहादौ सन्निपातस्यभयादौ मरुतस्त्रये॥ कोपः कोपेऽपि पित्तस्य यौ तु शापाभिचारजौ॥सन्निपातज्वरौघोरौ तावसह्यतमौ मतौ॥ तत्राभिचारकैर्मंत्रैर्हूयमानस्य तप्यते॥ पू॑र्व चेतस्ततो देहस्ततो विस्फोटतृइभ्रमैः॥ सदाहमूर्च्छैर्ग्रस्तस्प प्रत्यहं बर्द्धते ज्वरः॥ इति ज्वरोऽष्टथा दृष्टः समासाद्विविधस्तु सः॥ शारीरो मानसः सौम्यस्तीक्ष्णोंऽतर्बहिराश्रयः॥ प्राकृतो वैकृतः साध्योऽसाध्यः सामो निरामकः॥ पूर्वंशरीरे शारीरे तापो मनसि मानसे॥ पवने योगवाहित्याच्छीतं श्लेष्मयुते भवेत्॥ दाहः पित्तयुते मिश्रं मिश्रेऽतःसंश्रये पुनः॥ ज्वरेऽधिकं विकाराः स्पुरंतःक्षोभो मलग्रहः॥ बहिरेव बहिर्वेगे तापोऽपि च सुसाध्यता॥वर्णशरद्वसंतेषु वाताद्यैः प्राकृतः कमात्॥बैकृतोऽन्यः स दुःसाध्यः प्रायश्च प्राकृतोऽनिलात्॥ एकमार्गक्रियारंभव्यतिवृत्तेर्महात्ययात्॥ वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरं॥ कुर्यात्वित्तं च शरदि तस्य चानुवलः कफः॥ तत्प्रकृत्या विसर्गाच्च तत्र नानशानद्भयं॥ कफो वसंते तमपि वातपित्तं भवेदनु॥ वलवत्सल्पदोषेषु ज्वरः साध्योऽनुपद्रवः॥ सर्वथा विकृतिज्ञाने प्रागसा ध्यउदाहृतः॥ ज्वरोपद्रवतीक्ष्णत्वमग्लानिर्बहुमूत्रता॥ न प्रवृत्तिर्न विट्जीर्णा न क्षुत्सामज्वराकृतिः॥ ज्वरवेगोऽधिकं तृष्णा प्रलापः श्वसनं भ्रमः॥ मलप्रवृत्तिरुक्लेशः पच्यमानस्य लक्षणं॥ जीर्णताऽऽमविपर्यासात्सप्तरात्रं च लंघनात्॥ ज्वरः पंचविधः प्रोक्तो मलकालवलावलात्॥ प्रायशः सन्निपातेन भूयसा व्यपदिश्यते॥ संततः सततोऽन्येस्तृतीयकचतुर्थकौ॥ धातुमूत्रशरुद्वाहिस्रोतसां व्यापिनो मलाः॥ तापयंतस्तनुं सर्वातुल्यदूप्यादिवर्द्धिताः॥ बलिनो गुरवः स्तब्धा विशेषेण रसाश्रिताः॥ संततं निष्पतिद्वंद्वा ज्वरं कुर्युस्सुदु सहं॥ मलं ज्वरोमा धातून्वा स शीघ्रं क्षपयेत्ततः॥ सर्वाकारं रसादी नां शुद्धयाऽशुद्धयाऽपि वा क्रमात् ॥ वातपित्तकफैः सप्त दश द्वादश वासरान्॥ प्रायोऽनुपाति मर्यादां मोक्षाय च वधाय च॥ इत्यग्निवेशस्यमतं हारीतस्य पुनः स्मृतिः॥ द्विगुणा सप्तमी यावन्नवम्पेकादशी तथा॥ एपा त्रिदोषमर्यादा मोक्षाय च वधाय च॥ शुद्धयशुद्धौ ज्वरः कालं दीर्घमप्यनुवर्तते॥ कृशानां व्याधिमुक्तानां मिथ्याहारादिसेविनां॥ अल्पोऽपि दोषोदूप्यादेर्लध्वाऽन्यतमतो बलं॥ सप्रत्यनीको विषमं कुर्याद्वृद्धियान्वितः॥ सूक्ष्म सूक्ष्मतरास्येषु दूरदूरतरेषु च॥ दोषोरक्तादिमार्गेषु शनैरल्पश्चिरेण यत्॥ याति देहं च नाशेषं भूयिष्ठं भेषजेऽपि च॥ क्रमोऽयं तेन विच्छिन्नसंतापो लक्ष्यते ज्वरः॥विषमो विषमारंभक्रियाकालानुपंगवान्॥ यथोत्तरं मंदगतिमैदशक्तिर्यथा यथा॥कालेनाप्नोति सदृशान्सरसार्दीस्तथा तथा॥ दोषोज्वरयति क्रुद्धश्चिराच्चिरतरेण वा॥ भूमौ स्थितं जलैः सिक्तं कालमेव प्रतीक्षते॥ अंकुराययथा बीजं दोषबीजं रुजे तथा॥ वेगं कृत्वा विधं य हृदाशये लीयतेऽवलं॥ कुप्पत्याप्तबलं भूयः काले दोषविषं तथा॥ एवं ज्वराः प्रवर्त्तते विषमाः सततादयः॥ दोषःप्रवर्त्तते तेषां स्वे काले ज्वरयन् वली॥ निवर्त्तते पुनश्चैषप्रत्यनीकबलावलः॥ क्षीणे दोषेज्वरः सूक्ष्मो रसादिष्वेव लीयते लोनत्वात्कार्श्यवैवर्ण्यजाड्यादीनादधाति सः॥ अतिलीनोऽतिमंदत्वाद्भवत्यन्हि न पंचमे॥ आसन्नंविवृतास्यत्वात्स्रोतसां रसवाहिनां॥ आशु सर्वस्य वपुषो व्याप्तिर्दोषेण जायते॥ संततः सततस्तेन विपरीतो विपर्ययात्॥ दोषोरक्ताश्रयः प्रायः करोति सततं ज्वरं॥ अहोरात्रस्य सहिः स्यात्सकृदन्येयुराश्रितः॥तस्मिन्मांसवहानाडीर्मेदोनाडीस्तृतीयके॥ ग्राही पित्तानिलामूर्धस्विकस्य कफपित्ततः॥ सपृष्ठस्यानिटकफात्सचैकाहांतरः स्मृतः॥ चतुर्थको मले मेदोमज्जास्थ्यन्पतमस्थिते॥ मज्जस्थएवेत्यपरे प्रभावं स तु दर्शयेत्॥द्विधा कफेन जंघाभ्यांप्रथमं शिरसो ऽनिलात्॥ गंभीरधानुचारित्वात्सन्निपातेन संभवात्॥तुल्योच्छ्रायाच दोषाणां दुश्चिकित्स्यश्चतुर्थकः॥ अस्थिमज्जोभयगते चातुर्थिकविपर्ययः॥ त्र्यहात् द्यहं ज्वरयति दिनमेकंतु मुंचति॥ बलावलेन दोषाणामन्नचेशदिजन्मना॥ ज्वरः स्यान्मनसस्तद्वत्कर्मणश्च तदा तदा॥ उत्क्लेशो गौरवं दैन्यं भंगोंऽगानां विजृंभणं॥अरोचको वमिः सादः सर्वस्मिन् रसगे ज्वरे॥रक्तनिष्टीवनं तृष्णार क्तोष्ण पिडिकोद्गमः॥दाहरागभ्रममदप्रलापा रक्तसंश्रिते॥ तृङ्ग्लानिः सृष्टवर्चस्त्वमंतर्दाहो भ्रमस्तमः॥ दौर्गंध्यं गात्रविक्षेपो मांसस्थे मेदसि स्थिते॥ खेदोऽतितृष्णा वमनं स्वगंधस्यासहिष्णुता॥प्रलापो ग्लानिररुचिरस्थिस्थे त्वस्थिभेदनं॥ दोषप्रवृत्तिरुध्वधः श्वासांगाक्षेपकूजनं॥ अंतर्दाहो बहिः शैत्यं श्वासो हिध्माच मज्जगे॥
तमसो दर्शनं मर्मच्छेदनं स्तव्धमेंढ्रता॥शुक्रप्रवृत्तिर्मृत्युश्च जायते शुकसंश्रये॥ उत्तरोत्तरदुःसाध्याः पंचात्रांत्यौ तु वर्जयेत्॥ प्रलिंपन्निव गात्राणि श्लेष्मणा गौरवेण च॥ मंदज्वरप्रलेपस्तु स शीतः स्यात्प्रलेपकः॥ नित्यं मंदज्वरो रूक्षः शीतः कृच्छ्रेण सिध्यति॥ स्तब्धांगः श्लेष्मभूयिष्ठो भवेद्वातवलासकः287॥हरिद्राभेकवर्णाभस्तद्वर्ण यः प्रमेहति॥ स वै हारिद्रको नाम ज्वरमेदोऽतकः स्मृतः॥ कफवातौ समौ यस्य हीनपित्तस्य देहिनः॥ तीक्ष्णो वा यदि वा मंदो जायते रात्रिगो ज्वरः॥दिवाकरापीतवलेव्यायामाच्च विशोषिते॥शरीरे नियंतं वाताज्ज्वरः स्यात्पूर्वरात्रिकः॥आमाशये यदा दुष्टे श्लेष्मपिते व्यवस्थिते॥ तदाऽर्द्ध शीतलं देहे तर्द्ध चोष्णं प्रजायते॥ काये पित्तं यदा दुष्टेश्लेष्मा चांते व्यवस्थितः॥ उष्णत्वं तेन देहस्य शीतत्वं करपादयोः॥ धानून्प्रक्षोभयन्दोपो288 मोक्षकाले विलीयते॥ ततोनरः श्वसन्विद्यन्कूजन्वमति चेष्टते॥ वेपते प्रलपत्युष्णैः शीतैश्चांगैर्हतप्रश्नः॥ विसंज्ञो ज्वरवेगार्त्तः सक्रोधइव वीक्षते॥ सदोपशब्दं च शब्दंसृजति वेगवत्॥ देहो लघुर्व्यपगतलप्रमोहतापः पाको मुखे करणसौष्टवमव्यथत्वं॥ स्वेद. क्षवः प्रकृतियोगि मनोऽन्नलिप्सा कंडूश्च मूर्ध्नि विगतज्वरलक्षणानि॥इति ज्वरनिदानं नाम द्वितीयोऽध्यायः ॥२॥
अथातो रक्तपित्तकास निदानं व्यास्यास्यामः॥ भृशोष्णतीक्ष्णक टुम्ललवणातिविदाहिभिः॥ कोद्रवोद्दालकैश्चान्नैस्तयुक्तैरतिसेवितैः॥कुपितं पित्तलै पित्तं द्रवंरक्तं च मूच्छिते॥ ते मिथस्तुल्परूपत्वमा गम्य व्यामुतस्तनुं॥ पित्तं रक्तस्य विकृतेः संसर्गाद्दुपणादपि॥ गंधवर्णानुत्तेच रक्तेन व्यपदिश्यते॥ प्रभवत्यसृजः स्थानात्प्लीहतो यकृत श्च तत्॥शिरोगुरुत्यमरुचिः शीतेच्छा धूमकोऽम्लकः॥ छर्दिछर्दितंवेभत्स्यंकासः श्वासो भ्रमः क्लमः॥ लोहलोहितमत्स्यामगंधास्यत्वं स्वर
क्षयः॥ रक्तहारिद्रहरितवर्णता नयनादिषु॥ नीललोहितपीतानां वर्णा नामविवेचनं॥ स्वप्नेतद्वर्णदार्शेत्वं भवत्यस्मिन् भविष्यति॥ ऊर्ध्वं ना साक्षिकर्णास्यैर्मेट्रयोनिगुदेरधः॥कुपितं रोमकूपेश्च समस्तैस्तत्प्रवर्तते॥ऊर्ध्वं साध्यं कफाद्यस्मात्तद्विरेचनसाधनं॥ वव्हौषधं च पित्तस्य विरेको हि वरौषधं॥ अनुबंधी कफो यश्च तत्र तस्यापि शुद्धिकृत्॥कषायाः स्वादवोऽप्यस्य विशुद्ध श्लेष्मणो हिताः॥ किमु तिक्ताः कपा या वा ये निसर्गात्कफापहाः॥ अधो याप्यं चलाद्यस्मात्तत्प्रच्छर्दन साधनं॥अल्पौषधं च पित्तस्य वमनं न वरौषधं॥ अनुवं धी चलो यस्य शांतयेऽपि न तस्य तत्॥ कपायाश्च हितास्तस्य मधुरा एव केवलं॥कफमारुतसंसृष्टमसाध्यमुभयायनं॥ अशक्यप्रातिलोम्यत्लादतावादौपधस्य च॥ न हि संशोधनं किंचिद स्त्यस्यप्रतिलोमगं॥शोधनं प्रतिलोमं च रक्तपित्ते भिपग्जितं॥एवमेवोपशमनं सर्वंशो नास्य विद्यते॥ संराष्टेषु हि दोषेषु सर्वजिच्छमनं हितं॥ तत्र दोषानुगमनं सिरास्त्रइव लक्षयेत्॥ उपद्रवांश्च विकृतिज्ञानतस्तेषु चाधिकं॥ आशुकारी पतः कासः स एवातः प्रचक्षते॥ पंच कासाः स्मृता वार्तापित्तश्लेष्मक्षतक्षयैः॥ क्षयायोपेक्षिताः सर्वे बलिनवोत्तरोत्तरं॥ तेषां भविष्यतां रूपं कंठे कंडूररोचकः॥ शुकपूर्णाभ कंठत्वम स्वास्थ्यं हृदयस्य च॥ कपायविदलासात्म्पपतवमधुरोपणैः॥ रुक्षशीतगुरुनिग्धदिपर्युपिताशनैः॥ धारणोदीरणायासराव्यहः स्वप्रजागरैः॥ अन्यैश्व तद्दिघैर्घातुलयावग्णकारिभिः॥ क्रुद्धः प्रतिहतोऽपाने पढ़ाऽपानः प्रपद्यते॥ ऊर्जरसस्प स्वस्थाने तिष्टाष्टुरुपपद्यते289॥ उदानेन सर्जनत्र कलै चानू प्रपूर्व च॥ वाहिनीर्गलमूर्द्धस्थास्ततोगान्युत्पत्रिव॥ मिरन्निदा क्षिणी पृष्ठमुर. पार्श्वे च पीडयन्॥ विनृतत्वानमुन्वेति भिन्नक्रोत्वोपमध्वनिः॥ यस्मात्तस्मात्स वर्णौजोवलमांसक्षयावहः॥ हेतुभेदात्प्रतीपातभेदो वायोः सरंहसः॥ यद्रुजाशब्दवैषम्यं कासानां जायते ततः॥ कुपितो वातलैर्वातः शुष्कोरःकंठवक्रतां॥ हृत्पार्श्वोरःशिरःशुलमोहक्षोभखरक्षयान्॥ करोति शुष्कं कासं च महावेगरुजास्वनं॥ सोंऽगहर्षी कफं शुष्कं कृच्छ्रान्मुक्त्वा ऽल्पतां व्रजेत्॥पित्तात्पीताक्षिकफता तिक्तास्यत्वं ज्वरो भ्रमः॥ पित्तासृग्वमनं॥ तृष्णा वैस्वर्य धूमकोऽम्लकः॥ प्रततं कासवेगेन ज्योतिपामिव दर्शनं॥ कफादुरोल्परुडमूर्द्धहृदयं स्तिमितं गुरु॥कंठोपलेपसदनपीनसच्छर्द्यरोचकाः॥ रोमहर्षोघनस्निग्धश्वेतश्लेष्मप्रवर्त्तनं॥ युद्धायैः साहसैत्तैस्तै सवितैरयथाबलं॥ उरस्पंतःक्षते वायुः पित्तेनानुगतो बली॥ कुपितः कुरुते कासं कफं तेन सशोणितं॥ पीतं श्यावं च शुष्कं च ग्रथितं कुथितं बहुं॥ ष्ठीवेत्कंठेन रुजता विभिन्नेनेव चोरसा॥ सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना॥ पर्वभेदज्वरश्वासतृष्णावैस्वर्यकंपवान्॥ पारावतइवाकूजन् पार्श्वशुली ततोऽस्य च॥ क्रमाद्वीर्यंरुचिः पक्ता बलं वर्णश्च हीयते॥ क्षीणस्य सा सृडसूत्रत्वं स्याच्च पृष्ठकटिग्रहः॥ वायुप्रधानाः कुपिता धातवो राजयक्ष्मिणः॥ कुर्वंति यक्ष्मायतनैः कासं ष्टोवेत्कफंततः॥ पूतिपूयोपमं पीतं विस्रं हरितलोहितं॥ लुप्येते इव पार्श्वे च हृदयं पततीव च॥ अकस्मादुष्णशीतेच्छा वन्दाशित्वं बलक्षयः॥ स्निग्धप्रसन्नवक्वत्वं श्रीमदर्शननेत्रता॥ ततोऽस्य क्षयरूपाणि सर्वाण्याविर्भवंतिच॥ इत्येषःक्षयजः कासः क्षीणानां देहनाशनः॥ याप्यो वा बलिनां तद्वत्क्षतजोऽभिनवौ तु तौ॥ सिध्येतामपि सामर्थ्यात्साध्या दोषैःपृथक् त्रयः॥ मिश्रा याप्या द्वयात्सर्वे जरसा स्थविरस्य च॥ कासाच्छ्वासक्षयच्छर्दिखरसादादयो गदाः॥ भवंत्युपेक्षया यस्मात्तस्मात्तं त्वरया जयेत्॥इति रक्तपित्तकासनिदानं नाम तृतीयोऽध्यायः॥३॥
अयातः श्वासहिध्मानिदानं व्याख्यास्यामः॥कासवृत्ध्या भवेच्छ्वासः पूर्वैर्वादोपकोपनैः॥ आमातिसारवमथुविपयांदुज्वरैरपि॥ रजोधूमा निर्लैर्मर्मघाताद तिहिमांबुना॥ क्षुद्रकस्तमकोश्छिन्नोमहानूर्ध्वश्चपंचमः॥ कफोपरुद्धगमनः पवनो विष्वगास्यिनः॥प्राणोदकान्नवाहीनि दुष्टः स्रोतांसि दूषयन्॥उरःस्थः कुरुते श्वासमामाशयसमुद्भवं॥ प्राग्रूपं तस्य हृत्पार्श्वशूलं प्राणविलोमता॥ आनाहःशंखमेदश्व नत्रायासातिभोजनैः॥ प्रेरितः प्रेरयेत्क्षुद्रं स्वयं संशमनं मस्तू॥प्रतिलोमं सिरा गच्छन्नुदीर्य पवनः कफं॥परिगृह्यशिंरोग्रीवमुरः पार्श्वे च पीडयन्॥ कासं घुर्युरकं मोहप्ररुविं पीनसं तृपं॥ करोति तीव्रवेगं च श्वासं प्राणोपतापिनां ॥ प्रताम्येतस्य वेगेन निष्टयू तांऽते क्षणं सुखी॥ कृच्छ्राच्छ्यानः वलिनि निषण्णः स्वास्यमृच्छति॥उच्छ्रिताक्षो ललाटन स्विद्यना भूशमनिमात्॥ विद्युष्कास्मो मुहःश्वासी काक्षित्पुष्ण मवेरपुः॥ मेघांवृगीनस्वति : श्लेप्मलैच विवर्द्धतेस पाप्यस्तमकः माथ्यो नव वा वडिनोमवेत्॥ ज्वरमूर्च्छापुतः शीतैः शाम्येन्यनमस्तुमः॥ छिन्नाच्छ्वनिति विच्छिन्नं मर्मच्छेदरुजार्द्दिनः॥मस्वेदमूच्छः मानाही बस्तिदा-॥
व्यक्ताः भाणंहरा ध्रुवं॥ श्वासैकहेतुमाग्रूपसंख्याप्रकृतिसंश्रयाः॥हिध्माभक्तोद्भवा क्षुद्रा यमला महतीति च॥ गंभीरा च मरुत्तत्रत्वरयाऽयुक्तिसेवितैः॥ रुक्षतीक्ष्णस्वरासात्म्यैरन्नपानैः प्रपीडितः करोति हिघ्मामरुजां मंदशब्दां क्षवानुगां॥ शमं सात्म्यान्नपानेन या प्रयाति च साऽन्नजा॥ आयासात्पवनः क्रुद्धः क्षुद्रां हिष्मां प्रवर्त्तयेत्॥ जत्रुमूलप्रविसृतामल्पवेगां मृदुं च सा॥ वृद्धिमायास्यतो याति भुक्तमात्रे च मार्दवं॥ चिरेण यमलैर्वेगैराहारे या प्रवर्त्तते॥ परिणामोन्मुखे वृद्धिं परिणामे च गच्छति॥ कंपयंती शिरोग्रीवमाध्मातस्या ति तृप्यतः॥ प्रलापच्छर्द्यतीसारनेत्रविप्लुतिंजृंभिणः॥ यमला वेगिनी हिध्मापरिणामवती च सा॥स्तब्ध- भ्रूशंखयुग्मस्य सास्नविद्रुतचक्षुषः॥ स्तंभयंती तनुं वाचं स्मृतिं संज्ञां च मुष्णनी॥ रुंघती मार्गमन्नस्य कुर्वतीमर्मघट्टनं॥ पृष्ठतो नमनं शोपं महाहिध्मा प्रवर्त्तते॥ महामूला महावेगा महाशब्दा महावला॥ पक्काशयाद्वानाभेर्वापूर्ववद्या प्रवर्त्तते॥ तद्रूपा सा मुहुः कुर्याज्जृंभामंगप्रसारणं॥ गंभीरेणाऽनुनादेन गंभोरा तासुसाधयेत्॥ आद्ये द्वे वर्जयेदंत्ये सर्वलिंगां च वेगिनीं॥ सर्वाश्च संचितामस्य स्थविरस्य व्यवायिनः॥ व्याधिभिः क्षीणदेहस्यभक्तच्छेदक्षतस्य वा ॥ सर्वेऽपि रोगा नाशाय न त्वेवं शीघ्रकारिणः ॥ हिघ्माश्वासौ यथा तौ हि मृत्युकाले कृतालयौ॥ इति श्वासहिघ्मानिदानं नाम चतुर्थोऽध्यायः ॥ ४ ॥
अथातो राजयक्ष्मादिनिदानं व्याख्यास्यामः॥ अनेकरोगानुगतो बहुरोगपुरोगमः॥ राजयक्ष्मा क्षयः शोपो रोगराडिति च स्मृतः॥ नक्षत्राणां द्विजानां च राज्ञोऽभूद्यदयं पुरा॥ यच राजा च यक्ष्मा च राजयक्ष्मा ततो मतः॥देहौपघक्षयकृतेः क्षयस्तत्संभवाच्च सः॥ रसादिशोषणाच्छोपो रोगराट्तेषु राजनात्॥ साहसं वेगसंरोधः शुक्रौजः स्नेहसंक्षयः॥ अन्नपान वेधित्यागश्वत्वारस्तस्यहेतवः॥ तै
रुदोर्णोऽनिलः पित्तं कफ़ंचोदीर्य सर्वतः॥ शरीरसंधीनाविश्य तान्सिराश्चप्रपीडयन्॥ मुखानि स्रोतसां रुध्वा तथैवाति विवृत्यवा॥ सर्पन्नूर्ध्वमधस्तिर्यक् यथास्वं जनयेद्गवान्॥ रूपं भविष्यत स्तस्य प्रतिश्यायो भृशं क्षवः॥ प्रसेको मुखमाधुर्यं सदनं वन्हिदेहयोः॥ स्थाल्यमत्रान्नपानादौ290 शुचाबप्यशुचीक्षणं॥ मक्षिकातृणकेशादिपातः प्रायोऽन्नपानयोः॥ हृल्लासश्छर्दिररुचिरनतोऽपि बलक्षयः॥ पाण्योरवेक्षा पादास्पशोफो ऽक्ष्णोरतिशुक्लता॥ वाव्होः प्रमाणजिज्ञासा काये वैभत्स्यदर्शनं॥ स्त्रीमद्यमांसप्रियता घृणित्वं मूर्द्धगुंठनं॥ नरवकेशातिवृद्धिश्च स्वप्नेचाभिभवो भवेत्॥ पतंगकृकलासाहिकपिश्चापदपक्षिभिः॥ केशास्थितुपभस्मादिराशौ समधिरोहणं॥शून्यानां ग्रामदेशानां दर्शनं शुप्यतोऽभसः॥ ज्योतिर्गिरीणां पततां ज्वलतां च महीरुहां॥ पीनसश्वासकासांसमूर्द्धस्वररुजोऽरुचिः॥ ऊर्ध्वं विड्भ्रंशसंशोपावधश्छर्दिस्तु कोष्टगे॥ तिर्यक्स्थे पार्श्व रुग्दोपे संधिगे भवति ज्वरः॥ रूपाण्येकादशैतानि जायंते राजयक्ष्मिणः॥ तेषामुपद्रवान्विद्यात्कंठोध्वंसमुरोरुजं॥जृभांगमर्दनिष्ठीववन्हिसादास्यपूतिताः॥ तत्र वाताच्छिरः पार्श्वशूलमंसांगमर्दनं॥कंठोत्ध्वंसः स्वरभ्रंशः पित्तात्पादांसपाणिषु॥ दाहोऽतिसारोऽसक्छर्दिर्मुखगंधोज्वरो मदः॥कफादरोचकश्छर्दिः कासो मूगगौरवं॥ प्रसेकः पीनसः श्वासः खरसादोऽल्पवन्हिना॥ दोषैमेटानलत्वेन सोपलेपैः कफोल्वणैः॥ स्रोतोमुखेषु रुद्धेषु धातूप्मस्वल्पकेषु च॥ विदह्यमानः स्वस्थाने रतस्ता॑स्तानुपद्रवान्॥ कुर्चन्नगच्च्छन्मांमादीनसृक् चोर्ध्वंप्रधावति॥ पच्यते कोष्ठएवान्नमन्नपकैवचास्य यत्॥ प्रायोऽस्मान्मलतांयातं नैवालं धातुपुष्टये॥ रसोऽप्यस्य न रक्ताय मांसाय कुतएव तु ॥ उपष्टव्धः स शकृता केव
लं वर्त्तते क्षयी॥लिंगेप्वल्पेष्वपि क्षीणं व्याध्यौपधवलाक्षमं॥ वर्जयेत्साधयेदेवं सर्वेष्वपि ततोऽन्यथा॥ दोषैर्व्यस्तैः समस्तैश्च क्षयात्पष्टश्च मेदसा॥ स्वरभेदो भवेत्तत्र क्षामो रूक्षश्चलः स्वरः॥ शुकपूर्णाभकंठत्वं स्निग्धोष्णोपशयोऽनिलात्॥ पित्तात्तालुगले दाहः शोपउक्तावसूचनं॥ लिंपन्निव कफात्कंठं मंदः खुरखुरायते॥ खरो विबद्धः सर्वैस्तु सर्वलिंगः क्षयात्कपेत्॥ धूमायतीव चात्यर्थं मेदसा श्लेष्मलक्षणः॥ कृच्छ्रलक्ष्याक्षरश्चात्र सर्वैरंत्यं च वर्जयेत्॥ अरोचको भवेद्दोषैजिव्हाहृदयसंस्थितैः॥ सन्निपातेन मनसः संतापेन च पंचमः॥ कपांयतिक्तमधुरं वातादिषु मुखं क्रमात्॥ सर्वोत्थे विरसं शोककोधादिषुयथामलं॥ छर्दिर्दोषैः पृथक् सर श्च पंचमी॥उदानो विकृतो दोषान्सर्वानप्यूर्ध्वमस्यति॥ तासूत्क्लेशा स्यलावण्यमसेकारुचयोऽग्रगाः॥नाभिपृष्ठं रुजन्वायुः पार्श्वे चाहारमुत्क्षिपेत्॥ ततो विच्छिन्नमल्पाल्पं कपायं फेनिलं वमेत्॥ शब्दोद्गार युतं कृष्णमच्छं कृच्छ्रेण वेगवत्॥ कासास्यशोपहृन्मूर्द्धखरपीडाक्नुमान्वितः॥ पित्तात्क्षारोदकनिभं धूम्रं हरितपीतकं॥ सासृगम्लं कटूष्णं च तृणमूर्च्छादाहतापवत्॥ कफात्स्निग्धं घनं शीतं श्लेष्मतंतुगवाक्षितं॥ मधुरं लवणं भूरिप्रसक्तं लोमहर्षणं॥मुखश्वयथुमाधुर्यतंद्राहृल्लासकासवत्॥ सर्वलिंगा मलैः सर्वैरिष्टोक्ता या च तां त्यजेत्॥ पूत्यमेष्याशुचिद्दिष्टदर्शनश्रवणादिभिः॥ तप्ते चित्ते हृदि क्लिष्टे छर्दिर्द्दिष्टार्थयोगजा वातादीनेव विमृशेत्कमितृष्णाऽऽमदौर्हृदे॥ शूलवेपथुहृल्लासैर्विशेषात्कृमिजां वदेत्॥ कृमिहृदोगलिंगैश्व स्मृताः पंचैव हृद्गदाः॥ तेषां गुल्ममिदानोक्तैः समुत्यानैः समुद्भवः॥ वातेन शुल्यते ऽत्पर्धे तुद्यते स्फुटतीव च॥ भिद्यते शुष्पति स्तब्धं हृदयं शून्यता द्रवः॥ अकस्माद्दीनता शोको भयं शब्दासहिष्णुता॥ पेपथुर्वेष्टनं मोहः श्वासरोधोऽल्पनिद्रता॥ पित्ता
तृष्णा भ्रमो मूर्च्छा दाहः स्वेदोऽम्लकः क्लमः॥ छर्दनं चाम्लपित्तस्यधूमकः पीतता ज्वरः॥श्लेष्मणा हृदयं स्तब्धं भारिकं साश्मगर्भवत्॥कासाग्निसादनिष्ठीवनिद्रालस्यारुचिज्वराः॥सर्वलिंग त्रिभिर्दोषैःकृमिभिःश्यावनेत्रता॥ तमःप्रवेशो हृल्लासः शोपः कंडूःकफस्रुतिः हृदयं प्रततं चात्र ऋकचेनेव दीर्यते॥ चिकित्सेदामयं घोरं तं शीघ्रं शीघ्रकारिणं॥ वातात्पित्तात्कफात्तृष्णा सन्निपाताद्रसक्षयात्॥ षष्ठी स्यादुपसर्गाच्च वातपित्ते तु कारणं सर्वासु तत्प्रकोपो हि सौम्यधातुमशोषणात्॥ सर्वदेहभ्रमोत्कंपतापद्धद्दाहमोहकृत्॥ जिन्हामूलगलक्लोमतालुतोयवहाः सिराः॥ संशोष्यतृष्णा जायते तासां सामान्यलक्षणं॥ मुखशोपो जलातृतिरन्नद्वेषःस्वरक्षयः॥ कंठौष्ठजिव्हाकार्कश्यं जिव्हानिष्कमणं क्लमः॥ प्रलापश्चित्तविभ्रंशस्तृमोक्तास्तथाऽऽमयाः॥ मारुतात्क्षामता दैन्यं शंखतोदः शिरोभ्रमः॥ गंधाज्ञानास्यवैरस्य श्रुतिनिद्रायलक्षयाः॥ शीतांबुपानाद्वृद्धिश्वपित्तान्मूर्च्छाऽऽस्पतिक्तता॥ रक्तेक्षणत्वं प्रततं शोषो दाहोऽतिधूमकः॥ कफो रुणद्धि कुपितस्तोयवाहिषुमारुतं॥ स्रोतःसु सकफस्तेन पंकवच्छोप्यते ततः॥ शुकैरिवाचितः कंठो निद्रा मधुरवक्रता॥ आध्मानं शिरसो जाड्यं स्तैमित्यछर्घरोचकाः॥ आलस्यमविपाकश्च सर्वैः स्यात्सर्वलक्षणा॥ आमोद्भवा च भक्तस्य संरोधाद्वातपित्तजा॥ उष्णक्लांतस्य सहसा शीतभो भजतस्तृषं॥ ऊष्मा रुद्धो गतः कोष्टं यां कुर्यात्पित्तजैव सा॥ या च पानातिपानोत्था तीक्ष्णाग्नेसहजा291 च या॥ स्निग्धगुर्वम्ललवणसोजनेन कफोद्भवा॥ तृष्णा रसज्ञपोक्तेन लक्षणेन क्षयात्मिका॥ शोपमोहज्वराद्यन्यदीर्घरोगोपसर्गतः॥ या तृष्णा जायते तीव्रासोपसर्गात्मिका स्मृता॥ ॥ इनि राजपक्ष्यादिनिदानं नाम पंचमोऽध्यायः॥ ५ ॥
अथातो मदात्ययादिनिदानं व्याख्यास्यामः॥ तीक्ष्णोष्णरूक्ष सूक्ष्माम्लव्यवाय्याशुकरं लघु॥ विकापी विशदं मद्यमोजसोऽस्माद्विपर्ययः॥ तीक्ष्णादयो विषेप्युक्ताश्चित्तोपलाविनो गुणाः॥ जीवितांताय जायंते विषेतूत्कर्पवृत्तितः॥ तीक्ष्णादिभिर्गुणैर्मद्यं मंदादीनोजसो गुणान्॥दशभिर्दश संक्षोभ्य चेतो नयति विकियां॥ आद्ये मदे द्वितीये च प्रमादायतने स्थितः॥दुर्विकल्पहतो मूढः सुखमित्यधिमुत्द्यते॥मध्यमोत्तमयोः संधिंप्राप्य राजसतामसः॥ निरंकुश इव व्यालो न किंचिन्नाचरेज्जडः॥ इयं भूमिरवद्यानां दौःशील्यस्येदमास्पदं॥एकोऽयं बहुमार्गाया दुर्गतर्देशिकः परं॥निश्चेष्टः शववच्छेते तृतीये तु मदे स्थितः॥मरणादपि पापात्मा गतः पापतरां दशां॥ धर्माधर्मं सुखं दुःखमर्थानर्थंहिताहितं॥ यदासक्तोन जानाति कथं तच्छीलपेद्वुधः॥ मद्येमोहो भयं शोकः क्रोधो मृत्युश्च संश्रिताः॥ सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः॥ यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधु यत्॥ अयुक्तियुक्तमनं हि व्याधये मरणाय वा॥ मद्यं त्रिवर्गधीधैर्यलज्जादेरपि नाशनं॥ नाति माद्यंति बलिनः कृताहारा महाशनाः॥ स्निग्धाः सत्ववयोयुक्ता मद्यनित्यास्तदन्वयाः॥ मेदःकफाधिका मंदवातपित्ता दृढायः॥ विपर्ययेऽति माद्यंति विसब्धाः कुपिताश्च ये॥ मद्येन चाम्लरुक्षेण साजीर्णे बहुनाऽति वा॥ वातात्पित्तात्कफात्सर्वेश्चत्वारः स्युर्मदात्ययाः॥ सर्वेऽपि सर्वैजयते व्यपदेशस्तु भूयसा॥सामान्यं लक्षणं तेषां प्रमोहो हृदये व्यथा॥ विद्भेदः प्रततं तृष्णा सौम्याग्नेयो ज्वरो ऽरुचिः॥शिरः पार्श्वास्थिरुक्कंपो मर्मभेदस्त्रिकग्रहः॥ उरोविवंधस्तिमिरं कासः श्वासः प्रजागरः॥ स्वेदोऽतिमात्रं विष्टंभः श्वयथुश्चित्तविभ्रमः॥प्रलापश्छर्दिरुत्क्लेशो भ्रमो दुःखप्रदर्शनं॥ विशेषाज्जागरश्वासकंपमूर्द्धरुजो ऽनिलात्॥ स्वप्नेभ्रमत्युत्पतति प्रेतैश्वसह भाषते॥ पित्ताद्दाहज्वरस्वेदमोहातीसारतृङ्भ्रमाः॥ देहो हरितहारिद्रो रक्तनेत्रकपोलता॥श्लेष्मणा छर्दित्दृल्लासनिद्रोददीगगौरवं॥ सर्वजे सर्वलिंगत्वं मुक्त्वा मद्यं पिबेत्तु यः॥ सहसा ऽनुचितं चान्यत्तस्य ध्वंसकविक्षयौ॥ भवेतां मारुतात्कष्टौ दुर्बलस्य विशेषतः॥ध्वंसके श्लेष्मनिष्ठीवः कंठशोपोऽतिनिद्रता॥शब्दासहत्वं तंद्रा च विक्षयेंऽगशिरोतिरुक्॥हृत्कंठरोगः संमोहः कासतृष्णावमिज्वराः॥ निवृत्तो यस्तु मद्येभ्यो जितात्मा बुद्धिपूर्वकृत् ॥ विकारै स्पृश्यते292 तेन न स शारीरमानसैः॥ रजोमोहाहिताहारपरस्य सुस्त्रयो गदाः॥ रसासृक्चेतनाबाहिस्रोतोरोधसमुद्भवाः॥ मदमूर्च्छायसन्यासा यथोत्तरवलोत्तराः॥ मदोऽत्र दोषैःसर्वेश्व रक्तमद्यविपैरपि॥ सक्तानल्पद्रुताभाषश्चलस्खलितचेष्टितः॥ रूक्ष श्यावारुणतनुर्मंदे वातोद्भवे भवेत्॥ पित्तेन कोधनो रक्तपीतामः कलहप्रियः॥ स्वल्पसंबद्धवाक् पांडुःकफाद्यानपरोऽलसः॥ सर्वात्मा सन्निपातेन रक्तात्स्तब्धांगदृष्टिता॥ पित्तलिंगं च मद्येन विकृतेहास्वरांगता॥विपे कंपोऽति निद्रा च सर्वेभ्योऽभ्यधिकस्तु सः॥ लक्षयेल्लक्षणोत्कर्षाहातादीन् शोणितादिषु॥ अरुणं नीलकृष्णं वा स्वंपश्यन्विविशेत्तमः॥ शीघ्रं च प्रतिवुध्येत हृत्पीडा वेपथुर्भ्रमः॥ कार्श्येश्यावाऽरुणा छायामूर्च्छाये मारुतात्मके॥ पित्तेन रक्तं पीतं वा नभः पश्यन्विशेत्तमः॥ विवुध्येत च सखेदो दाहतुटतापपीडितः॥ भिन्नविट् पीतनीलाभो रक्तपीताकुलेक्षणः॥ कफेन मेघसंकाशं पश्यन्नाकाशमाविशेत्॥ तमश्विराच्च बुध्येत सहासः प्रसेकवान्॥ गुरुभिः स्तिमि तैरंगैरार्द्रचर्मावनद्भवत्॥ सर्वाकृतिखिमपरपस्मारइयापरः॥ पातयत्याशु निश्चेष्टं पिना बीभत्सचेष्टितैः॥ दोषेषु मदमूर्च्छायाःगतवेगेषु देहिनां॥स्वयमेवोपश्याम्यंति सन्यासो नौषधैर्विना॥ वाग्देहमनसां चेष्टामाक्षिप्यातिवलामलाः॥ संन्यास सन्निपतिताः प्राणायतनसंश्रयाः॥ कुर्वंति तेन पुरुषः काष्ठीभूतो मृतोपमः॥म्रियेत शीघ्रंशीघ्रं चेन्न चिकित्सा प्रयुज्यते॥ अगाधे ग्राहवहुले सलिलौघद्दवानटे॥ सन्यासे विनिमज्जंतं नरमाशुं निवर्तयेत्॥॥ इति मदात्ययादिनिदानं नाम पष्टोऽध्यायः॥६॥
अथातोऽर्शोनिदानं व्याख्यास्यामः॥ अरिवद्विशतंतीत्यर्शोसि॥तानि पुनः सुबहुप्रकाराणि सुबहुप्रकाराणि च पायुमैढ्रादिसंश्रया मांसकीलाः॥ समासतस्तु द्विविधान्यर्शांसि सहजानि जम्नोत्तरका लजानि च॥ पुनश्च द्विविधानि शुष्काण्यार्द्राणि च॥ सर्वेषां पुनरधिष्ठानं मेदोमांसत्वक्स्थूलांत्रप्रतिबद्धोऽर्द्धपंचांगुलो गुदः॥ तस्मिन्पूर्वमुक्ता वलीसंज्ञास्तिस्रःपेश्योऽध्यर्द्धांगुलाः॥ ताः प्रवाहिणी विसर्जनी संवरणी च॥ रोमांतेभ्योऽध्यर्द्धयवं गुढ़ौष्टमाहुः॥प्रथमा तु गुढ़ौष्ठादंगुलमात्रे॥ तत्र सहजानां गुढ़वलीवीजोपतप्तिरायतनं॥ तस्यां द्विविधो हेतुर्मातापित्रोरपचारो दैवं च॥ ताभ्यां सन्निपातप्रकोपः॥ तस्मात्तान्यसाध्यानि॥ एतेन कुलजाः सर्वे विकारा व्याख्याताः॥ विशेषतस्तु सहजानि दुर्दर्शनपरुषपांडूपचितदारुणान्यंतर्मुखानि बहुबलवदुपद्रवोपद्रुतानि च भवंति॥ अथेतराणि षड्विधानि पृथग्दोषैःसंसृष्टैःसन्निपतितैः शोणितेन च॥ तत्र वातश्लेष्मोत्तराणि शुष्काणि रक्तपित्तोत्तराण्यार्द्राणीति॥ दोषप्रकोपहेतुस्तु प्रागुक्तः॥ स हि यदा मलोपचयमादधानि पुनश्चोत्कटक- विषमकठिनासनसेवनादुद्भ्रांतयानोष्ट्रादिप्रयाणादतिव्यवायाद्वस्तिनेत्रासम्यक्प्रणिधानादिना गुदक्षणनादभीक्ष्णं शीतांबुसंस्पर्शाच्चैललोष्ठतृणादिसंघर्षात्प्रततातिनिर्वाहणाद्वातमूत्रपुरीपवेगोदीरणादुदीर्णवेगविधारणात्स्त्रीणां चामगर्भभ्रंशाद्गर्भोत्पीडनाद्विषमप्रसूतेरेषंविधैश्वापरैः प्रकुपितो वायुरपानस्थं मलमुपचितमधोगमासाद्यगुदवलीप्वाधत्ते ततस्तास्वेभि293पण्णास्त्रर्शंसि संभवंति॥ तेषांपूर्वरूपाणि कृच्छ्रात्पक्त्तिरंत्रकूजनमुद्गारवा हुल्यमम्लकोऽन्नाश्रद्धा विष्टंभोऽश्मगर्भाभनाभित्वमाटोपोऽधस्तात्कृच्छ्रेण सशब्दं वायोः प्रवृत्तिर्वहुमूत्रत्वमल्पंपुरीपता गुदपरिकर्तः सक्थिसदनमक्ष्णोः श्वयथुरविमहेंद्रियत्वमालस्यं तंद्रा कार्श्यं दौर्बल्यमाशंका ग्रहणीदोषशोपोदरपांडुरोगगुल्मेषु॥ जातेषु चैतानि लिंगानि प्रव्यक्ततराणि भवंति॥तैः स्वल्वधोमार्गोपरोधाद्वापुरमानो निवर्त्तमानः समानव्यानोदानप्राणान् पित्तश्लेष्माणौ च प्रकोपयन्ननलमुपमृद्गाति॥ अथ सर्वएवार्शसो भवत्यतिकृशो विवर्णः क्षामो दीनः प्रचुरविवद्धवातमूत्रपुरीषोऽश्मरीशर्करावाननियतविबद्धमुक्तामपक्वविभिन्नशुष्कवर्चास्तथांऽतरांतराऽऽमश्वेतपांडुहरितपीतरक्तारुणतनुसांद्रपिच्छिलोपवेशी नाभिवंक्षणोद्देशप्रचुरपरिकर्तिकान्वितः सगुदशूलमवाहिकापरिहर्षप्रमोहोऽल्पशुकप्रजोऽल्पभुक् शिरासंततगात्रः कोधनो दुरुपचारः कासश्वासतृष्णापीनसारोचकपाणिपादवदनाक्षिकूटश्वयथुक्षवथुवेपथुवमथुपरीतस्तैमिरिकः शिरःशुली क्षामभिन्नस्वरः कर्णरोगी सज्वरः सांगमर्दः सर्वपर्वास्थिशूलोंऽतरांतरा हृदयकुक्षिपार्श्वपृष्ठवस्तित्रिकग्रहोपतप्तः प्रध्यानपरः परमलसश्च॥ तत्र वातोल्वणानि शुष्कम्लानकठिनपरुषरूक्षश्यावारुणानि तीक्ष्णस्फुटितमुखानि विषममध्यानि कदंवपुष्पतुडिंकेरिकाकर्कधूसिद्धार्थकबिंबीस्वर्जूरफलप्रमाणानि वक्राणि मिथो विसदृशानि कटीपार्श्वादिष्वधिकवेदनानि सशूलोदावर्त्तकराणि गुल्माष्ठीलाप्लीहोदराणि चास्य तन्निमित्तान्येव कृष्णत्वडूनखनयनवदनमलाश्च भवंति॥ पित्तोल्वणानि नीलाग्राणि रक्तापीतकृष्णानि मृदुशिथिलानि स्पर्शासहानि बिस्रगंधीनि तनूनि तनुरक्तस्रावीणि दाहपाकवंति ज्वरमोहारुचिकराणि यकृत्प्रकाशानि
शुकजिव्हाजलौकोवकसदृशानि यवमध्यानि प्रक्लिन्नानि भिन्नपी तवंर्चासिहारिद्रत्वङ्नखादिकराणि च॥ श्लेष्मोल्वणानि महामूलानि स्थिरस्निग्धपांडुवृत्तोपचितानि गुरुस्तब्धलक्ष्णपिच्छिलानि सुप्रसुप्तानि स्पर्शक्षमाणि करीरपनसास्थिगोस्तनाकाराण्यतिमात्रोत्थानप्रवाहिकावंक्षणानाहनाभिपरिकर्त्तिकाहृल्लासमसेककासश्वासपीनसारुचिच्छर्दिकृच्छ्रमूत्रप्रमेहशीतज्वरशोफशिरोगौरवेंद्रियोपलेपाग्निमार्दवक्लैव्यामविकारप्रवलानि न भिद्यंते न स्ववंति कंडूबहुलानि सश्लेष्मवसाप्रकाशमलोपवेशीनि शुक्लत्वङ्नखादिकराणि च॥ लक्षणसंकरात्संसर्गसन्निपातजानि विभजेत्॥ रक्तोल्वणानि तु वटप्ररोहविद्रुमकोकणं294तिकाभानि पित्तवल्लक्षणानि च तथा गाढपुरीपप्रतिपीडितान्यत्यर्थं दुष्टमुष्णमसृक् सहसा विसृजंति॥ तस्यातिप्रवृत्तौ रक्तक्षयोपद्रवा295 भवंतीति॥ भवति चात्र॥मुद्गकोद्रवजूर्णाव्हकरीरचणकादिभिः॥ रुक्षैः संग्राहिभिर्वायुः स्वस्थाने कुपितो बली॥ अधोवहानि स्रोतांसि संरुध्याधः प्रशोपयन्॥ पुरीषंवातविण्मूत्रसंगं कुर्वीत दारुणं॥ तेन तीव्ररुजा कोष्ठपृष्ठदृप्तार्श्वगाभवेत्॥ आध्मानमुदरावेष्टो हृलासः परिकर्तनं॥ वस्तौ च सुतरां शूलं गंडश्वयथुसंभवः॥ पवनस्योर्ध्वगामित्वं ततश्छद्यैरुचिज्वराः॥हृद्रोगग्रहणीदोषमूत्रसंगप्रवाहिकाः॥ बाधिर्यतिमिरश्वासशिरोरुक्कासपीनसाः॥ मनोविकारस्तृष्णास्रपित्तगुल्मोदरादयः॥ ते ते च वातजा रोगा जायंते भृशदारुणाः॥ दुर्नाम्नामित्युदावर्तः परमोऽयमुपद्रवः॥ वाताभिभूतकोष्ठानां तैर्विनाऽपि स जायते॥ सहजानि त्रिदोषाणि यानि चाभ्यंतरे वलौ॥ जायंतेऽर्शांसि संश्रित्य तान्यसाध्यानि निर्दिशेत्॥ द्वंद्वजानि द्वितीयायां वलौ यान्याश्रितानि च॥
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च॥ बाह्मायां तु वलौजातान्येकदोपोल्वणानि च॥अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च॥ मेंढ्रादिष्वपि वक्ष्यंते यथास्वं नाभिजानि तु॥ गंडूपदास्यरूपाणि पिच्छिलानि मृदूनि च॥ व्यानो गृहीत्वा श्लेष्माणं करोत्य र्शस्त्वचो वहिः॥ कीलोपमं स्थिरखरं चर्मकीलं तु तं विदुः॥ वातेन तोदः पारुष्यंपित्तादसितरक्तता॥श्लेष्मणा स्निग्धता तस्य ग्रथितत्वं सवर्णता॥ अर्शसां प्रशमे यत्नमाशु कुर्वीत बुद्धिमान्॥ तान्याशु हि गुदं वध्वा कुर्युर्बद्धगुदोदरं॥ ॥ इत्यर्शोनिदानं नाम सप्तमोऽध्यायः॥ ७ ॥
अथातोऽतीसारग्रहणीरोगनिदानं व्याख्यास्यामः॥ दोषैर्व्यस्तैः समस्तैश्च भयाच्छोकाच्च पड्विधः॥ अतीसारः स सुतरां जायते ऽत्यंवुपानतः॥ कृशशुष्कामिपासात्म्यतिलपिष्टविरुढकैः॥ मद्यरुक्षातिमात्रानैरर्शोभिः स्नेहविभ्रमात्॥ कृमिभ्यो वेगरोधाच्च तद्विधैः कुपितोऽनिलः॥ विस्रंसयत्यथो धातून्हत्वा तेनैव चानलं॥ व्यापद्यानुशरुत्कोष्टं पुरीषंद्रवतां नयन्॥ प्रकल्पतेऽतिसाराय लक्षणं तस्य भाविनः॥ तोदो हृद्गुदकोष्ठेषु गात्रसादो मलग्रहः॥ आध्यानमविपाकश्च तत्र वातेन विज्जलं॥ अल्पाल्पं शब्दशूलाढ्यं विबद्धमुपवेश्यते॥ रूक्षं सफेनमच्छं च ग्रथितं वा मुहुर्मुहुः॥ तथा दग्धगुडाभासं सपिच्छापरिकर्तिकं॥शुष्कास्यो भ्रष्टपायुश्च हृप्टरोमा विनिष्टनन्॥ पित्तेन पीतमसितं हारिद्रं शाद्वलप्रभं॥ सरक्तमतिदुर्गंधं तृण्मूर्च्छाखेवदाहवान्॥सशुलं पायुसंतापपाकवान् श्लेष्मणा घनं॥ पिच्छिलं तंतुमच्छ्वेतं स्निग्धमामं कफान्वितं॥ अभीक्ष्णं गुरु दुर्गंधं विबद्धमनुबद्धरुक्॥ निद्रालुरलसोऽन्नद्विडल्पाल्पं सप्रवाहिकं॥सरोमहर्षः सोत्क्लेशो गुरुवस्तिर्गुरुदरः॥ कृतेऽप्यकृतसंज्ञश्चसर्वात्मा सर्वलक्षणः॥ भयेन क्षोभिते चित्ते सपित्तो द्रा
वियेच्छकृत्॥ वायुस्ततोऽतिसार्येत क्षिप्रंमुष्णं द्रवंप्लवं॥ वातपित्तसमं लिंगैराहुस्तद्वच्च शोकतः॥ अतिसारः समासेन द्विधा सामोनिरामकः॥ सासृङ्गिरस्रस्तत्राऽद्ये गौरवादप्सुमज्जति॥ शकृद्दुर्गंधमाटोपविष्टंभार्तिप्रसेकिनः॥ विपरीतो निरामस्तु कफात्पक्केऽपि मज्जति॥ अतीसारेषुयो नातियत्नवान् ग्रहणीगदः॥ तस्यस्यादग्निविध्वंसकरैरन्येस्य296 सेवितैः॥ सामं शकृन्निरामं वा जीर्णे येनातिसांर्यते॥ सोऽतिसारोऽतिसरणांदाशुकारी स्वभावतः॥ सामंसान्नमजीर्णेऽन्ने जीर्णे पक्कं च नैव वा॥ अकस्माद्वामुहूर्वद्धमकस्माच्छिथिलं मुहुः॥ चिरकृद्ग्रहणीदोषःसंचयाच्चोपवेशयेत्॥ स चतुर्द्धा पृथक्दोषैः सन्निपाताच्च जायते॥ प्राग्रूपं तस्य सदनंचिरात्पचनमम्लकः॥ प्रसेको वक्रवैरस्यमरुचिस्तृङ्भ्रमौ क्लमः॥आनद्धोदरता छर्दिः कर्णक्ष्वेडांत्रकूजनं॥ सामान्यलक्षणं कार्श्यंधूमकस्तमको ज्वरः॥मूर्च्छाशिरोरुग्विष्टंभः श्वयथुः करपादयोः॥तत्रानिलात्तालुशोपस्तिमिरं कर्णयोः स्वनः॥ पार्श्वोरुवंक्षणग्रीवारुजाऽभीक्ष्णं विसूचिका॥ रसेषुगृद्धिः सर्वेषु क्षुत्तृष्णापरिकर्तिका॥जीर्णे जीर्यात चाध्मानं भुक्ते स्वास्थ्यं समश्नुते॥ वातहद्रोगगुल्मार्शःप्लीहांडुत्वशंकितः॥ चिराद्दुःखं देवं शुष्कं तन्वामं शब्दफेनवत्॥ पुनः पुनः सृजेद्वर्चः पायुरुक्श्वां सकासवान्॥ पित्तेन नीलं पीताभं पीताभः सृजति द्रवं॥ पूत्यम्लोद्गारत्दृत्कंठदाहारुचिडर्दितः॥ श्लेष्मणा पच्यते दुखमन्नंछर्दिररोचकः॥ आस्योपदेहनिष्ठीवकासहृल्लासपीनसाः॥ हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु॥उद्गारो दुष्टमधुर सदनं सोप्वहर्षणं॥भिन्नामश्लेण्मसंसृष्टगुरुवर्चःप्रवर्त्तनं॥ अकृशस्यापि दौर्बल्यं सर्वजे सर्वसंकरः॥ सिराविभागे ये चोक्ता विषमाद्यस्त्रयोऽग्रयः॥ तेऽपि स्युर्ग्रहणीदोषाःसमस्तु स्वास्थ्यकारणं॥ वातव्याध्यश्मरीकुष्ठमेहोदरभगंदराः॥ अर्शांसि ग्रहणीत्यष्ठौमहारोगाः सुदुस्तराः॥ ॥ इत्यतीसारग्रहणी-निदानंनामाष्टमोऽष्यायः॥८॥
अथातो मूत्राघातनिदानं व्याख्यास्यामः॥ विंशतिर्मूत्राघाता भवंति॥तद्यथा॥ वातपित्तकफ-सन्निपातकृच्छ्राणि वातपित्तश्लेष्मशुक्राश्मर्यो वातयस्त्यष्ठीलाकुंडलिकामूत्रातीतजठरोत्संगग्रंथिशुक्र-विद्द्घातोष्णवातमूत्रक्षयावसादाश्चेति॥ तत्र वातवस्त्यादयो नव वातोल्बणाः॥ ततो द्वौवातपित्तोल्बणौ॥ अंत्यःकफपित्तोल्वणः॥ सर्वेषां पुनर्मूत्ररोगाणमधिष्ठानं वस्तिः॥ स मर्मस्वभिहितः प्राक्॥ स चाधोमुखोऽपि मूत्रवहनाडीषु सूक्ष्ममुखसहस्रनिस्यंदेन मूत्राख्येनाविरतं नवो घटइवाप्सुनिमग्नमुखोऽपि पार्श्वेभ्योंऽभसा पूर्यते तैरेव च स्रोतोभिर्वातादयोऽपि दुष्टाःप्रविश्य बस्तिंयथास्वमाघातान्प्रमेहांश्च जनयंति॥ तत्राल्पशो मुहुर्मुहुर्वस्तिमेंढ्रवंक्षणेषु तीवशूलः कृच्छ्रान्मूत्रयति वातकृच्छ्रे॥ सदाहं सरुजं पीतं कृष्णं रक्तं वा पित्त-कृच्छ्रे॥ बस्तिमेंढ्रयोर्गौरवंशोफो मूत्रं च सपिच्छं मेहति कफकृच्छ्रे॥ सर्वलक्षणः सन्निपातकृच्छ्रे॥स च कृच्छ्रतमः॥ यदा तु वायुर्वस्तिमुखमावृत्य सपित्तं सकफंसशुक्रंवा मूत्रं परिशोषयति तदा क्रमेण गोरिव पित्ताद्गोरोचना मणिकस्येव स्वच्छादपि जलात्सपंकताऽश्मर्यनिर्वर्त्तते॥ सर्वा च साश्लेष्माश्रया॥ अथास्याः पूर्वरूपाणि ज्वरो बस्त्याध्मानमरुचिर्मूत्रकृच्छ्रंवस्तिशिरोमुष्कशेफसां वेदना बस्तगंघित्वंमूत्रस्येति॥ सामान्यलिंगानि तु नाभिवस्तिसेवनीषु मेहतोतया मार्गनिरोधने वेदना मूत्रधारासंगस्तद्व्यपाये च गोभेदक-प्रकाशमनाविलमसिकतं सुखं मूत्रं विसृजति॥ तत्संक्षोभणाच्च
सरुधिरं॥ धावनलंघनादिभिश्चास्य विविधा वेदना भवंति॥यथैव पक्वाशयात्स्रस्तेन शकृताऽधिष्ठिते बस्तौमूत्रं न प्रवर्तते तथाऽश्मर्यापि॥तत्र वायुना वस्तिसेवनीमेहनेषु तीव्रवेदनार्दितो दंतान् खादति नाभिं पीडयति मेंढ्रं मृद्राति मुहुर्मुहुर्वेपथुमान् कृच्छ्रात्सवातं शकृद्विमुंचति विशीर्णधारं च मूत्रयत्यश्मरी चास्य श्यावा परुषा विषमा कदंबपुष्पवत्कंटकाचिता भवति॥ पित्तेन पच्यमान इव दह्यतेवस्तिः॥ अश्मरी च सरक्ता पीतावभासकृष्णा भल्लातकास्थिसंस्थाना॥ श्लेष्मणा भिद्यते निस्तुद्यतइव गुरुः शीतश्च वस्तिरश्मरी च श्वेता महती कुकुटांडप्रतिमा मधुवर्णावा भवति॥ प्रायेणैतास्तिस्रोऽश्मर्योबालानां जायंते तेषामेव चाल्पवस्तित्वादल्पमांसोपचयत्वाच्च सुखग्रहणाहरणाः॥ महतां तु शुक्राश्मरी शुक्रनिमित्ता भवति॥ मैथुनविधाताच्छुक्रमुपस्थितमनिरस्यमानं विमार्गगमनिलो विगृह्य वृषणयोरंतरे संहरति संहृत्योपशोपयति ततः शुष्कमश्मरी भवति॥ सा शुक्रमार्गमावृणोति मूत्रकृच्छ्रंबस्तिवेदनां वृषणयोश्च श्वयथुमुत्पादयतिउत्पन्नमात्रायां च शुक्रं निरेति॥ पीडितमात्रे च तस्मिन्नवकाशे विलीयतइति॥ अश्मर्येव तु वायुनाऽणुशो विभिन्ना शर्करेत्युच्यते॥ अनुलोमे च मारुते सा सिकतेव मूत्रेण सह ,च्यवते॥ वायुस्तु मूत्रवेगरोधाद्बस्तिमुखमावृणोति ततो मूत्रसंगं वेदनां कंडूंच करोति॥ कदाचिच्च बस्तिं स्वस्थानात्प्रच्याव्यगर्भेमिवोद्धृतं स्थूलंपरिप्लुतं च कुरुते तत्रच शूलस्पंदनदाहोद्वेष्टनानि बिंदुशश्चमूत्रस्नवणं पीडिते च वस्तौधारया प्रवृत्तिः॥ अयं द्विविधोऽपि वातवस्तिः साध्यः॥ तयोरपि द्वितीयोऽनिलप्रबलः कृच्छ्रसाध्यतरः॥ वस्तिविण्मार्गातरे वायुर्घनोन्नतं तीव्ररुजमचलमष्ठीलाभंग्रंथिं करोति तेनानिलविण्मूत्रसंगो भवत्पाध्मानं च सा वाताष्ठीला॥ विगुणो वायुर्वस्तौकुंडलीभूवतस्तीव्रशूलस्तंभ-गौरवान्वितो मूत्रमाविश्याल्पशो वा प्रवर्त्तयन् भ्रम
ति सा’वातकुंडलिका॥मूत्रमतिवेलं विधार्य विमुच्यमानं न प्रवर्तते वाहमानस्य तु कृच्छ्रादल्पं प्रवर्तते तन्मूत्रातीतं॥मूत्ररोधादपानो वायुर्नाभेरस्तानीव्ररुजमाध्मानं मलसंगं च कुर्वन्नुदरमभिपूरयेत्तन्मूत्रजठरं॥मारुतेनाक्षिप्तं छिद्रवैगुण्येन वा मूत्रयतो मूत्रमल्पं वस्तौ नाले मणौ वास्थित्वा तच्छेपगुरु-मेंढ्रस्यसरुजमरुजं वा शनैस्रवेत्समूत्रोत्संगः॥ बस्तिद्वाऽल्पो वृत्तः शीघ्रसंभवोऽश्मरी-तुल्यरलिंगोमूत्रग्रंथिः॥ मूत्रितस्यव्यवायगमनाहातोद्धतं स्वस्थानाच्च्युतं शुकं मेहतो मुत्रस्य प्राक् पश्चाद्वाभस्मोदकसंकाशं प्रवर्त्तते तन्मूत्रशुकं॥ वायुना पीडितं शकृन्मूत्रस्रोतः प्रपद्यते ततो विङ्गंधि विट्संसृष्टं चकृच्छ्रान्मू- त्रयतिसविड्वातः॥ अत्यध्वाऽऽतपोण्णभोजनादिभिः पित्तं प्रवृद्धमनिलेरितंवस्तिमेढ्रंगुददाहं कुर्वद्धरितहारिद्ररक्तं सरक्तंवा मूत्रं कृच्छ्रात्प्रवर्त्तयेत्स तूष्णवातः॥ वातपित्तं वस्तिमाश्रित्यमूत्रं सशुलदाहं क्षपयति स मूत्रक्षयः॥ पित्तंश्लेष्मो- भयमपि वा वातेन वस्तौमूत्रं संहन्यते ततो मूत्रं सदाहं रक्तं पीतं श्वेतं सांद्रे कृच्छ्रात्प्रवृत्ति शुष्कं चशंखरोचनान्यतरचूर्णवर्णंसर्व-वर्णयुक्तंवा भवति स मूत्रावसादः॥ इति विस्तरतः प्रोक्ता रोगा मूत्रावसादजाः॥निदानलक्षणैसूर्ध्वं वक्ष्यंतेऽतिप्रवृत्तिजाः॥ इति मुत्राधातनिदानं नाम नवमोऽध्यायः॥९॥
अथातः प्रमेहनिदानं व्याख्यास्यामः॥ विंशति. प्रमेहाभवंति॥ कफादुदकेक्षुसांद्रसुरापिष्टशुक्र-सिकताशीतशनैर्लालाप्रमेहा दश॥ पित्तात्क्षारकालनीलहारिंद्रमांजिष्टशोणितमेहाः षट्॥ वाताद्वसामज्ज-हस्तिमधुमेहाश्चत्वारहति॥ तेषां च यत्किंचिदाहारविहारजातं श्लेष्ममेदोमूत्रजननं स हेतुः॥ तत्र वात-पित्तमेदक्लेदमांसशुक्ररसैरन्वितो बस्तिगतः श्लेष्माप्रमेहान् जनयति॥तैः कफशोणिताभ्यां च युक्तं पित्तं॥ तैर्वसालसीकामज्जौजोभिश्चवायुः॥ त्रयाणामपि दोषाणां श्लेष्मा प्रमेहेषु प्रायः प्राक् प्रकोपमापद्यते श्लेष्माधिष्ठानात्वान्मूत्रस्य
तहृद्धेश्चमेदएंव तेन प्रथम दूष्यतेऽत्यतसहागत्वात्॥तदनंतरं क्लेदादयः ॥ ततः श्लेष्मादिक्षये पित्तं प्रबलीभवच्छोणितमपिदूषयति॥ सत्क्षयेऽपि वायूरसादीन्धातून्297 शरीरस्य परस्परं सारभुतान्बस्तिमाकृष्य मूत्रेण सह विसृजति॥ तस्मात्कफपित्तवातजाः कमेणसाध्ययाष्यासाध्याः॥ तथा पित्तजाः संसृष्टदोष-मेदःस्थानत्वाद्विरुद्धोपंकभत्वाच्च॥ वातजः पुनः क्षीणेषु धातुषु महात्ययिकतया विरुद्धोपकभत्वाच्च॥ मेदसि तु नातिदुष्टे पित्तजा अपि साध्यतां गच्छेयुः॥ धातुसंष र्कात्पुनः सर्वमहेषु मूत्रमाविलं भूरि च भवति॥ दोषदूष्याणां चोत्कृष्टापकृष्टसंयोगेन मूत्रवर्णग्सस्पर्शगंधविशेषाद्वार्णानामिव॥ शुक्लकृष्णादीनां शंबलकल्मापादयः प्रमेहाणां भेदा भवंति॥ तेषां पूर्वं रूपाण्यतिवृद्धिर्नखानां जटिलीभावश्चकेशानां माधुर्यमास्यस्य तालुकंठशोपः पिपासा मलाधिक्यंबहिःकाये कायछिद्रेषु चशीतेच्छा स्नेह स्वेदःसुप्तता चांगेषु पाणिपाददाहोऽतिमाधुर्यात्पिपीलिकोपसर्पणंविस्रगंधताच मूत्रशरीरयोः शुक्लता च मूत्रे श्वासो निद्रा तंद्रालस्याप्रहर्षाश्च॥ तत्रशीतं श्वेतमगंधमच्छमुदकमिवोदकमेहीमेहति॥ इक्षुरसमिवातिमधुरं शीतमीपत्पिच्छिलाविलनिक्षुमेही॥ पर्युपितं298 सांद्रीभवत्सांद्रमेही॥ सुरातुल्यमुपरिप्रसन्नधः सांद्रं सुरामेही॥ दृष्टरोमा पिष्टमिव सांद्रसितं च पिष्टमेही॥ शुक्रमिश्रंवा शुक्रमेही॥ सरुजं ससिकेतमिव सिकतामेही॥ मंधुरमतिशीतं शीतमेही॥ मंदं शनैः शनैः शनैर्मेही॥, पिच्छिलं तंतुबद्धमिवलालावल्लालामेही॥ वर्णगंध-रसस्पर्शैस्तु क्षारोपमं क्षारमेही॥ उष्णं मषीकालं कालमेही॥ सफेनमच्छमम्लं चांपपत्रनीलं नीलमेही॥ कटुकं सदाहं हरिद्राप्लुतमिव हारिद्रमेही॥विसं मंजिष्ठोदकवर्णं मंजिष्ठोदकवर्णं मंजिष्ठमेही॥ विस्रमुष्णं लवणं शोणितसेका्शि शोणितमेही॥ वसामिश्रंवसां वा वसामेही॥ मज्जमिश्रं मज्जानं वा मज्जमेही॥ सलसीकंमधुरमवेगं लसीकयैव च विबद्धमनुबद्धमजस्रंमत्तइव हस्ती स्रवति हस्तिमेही॥ सफेनमच्छमोजःस्निग्धमधुरं तद्रौक्ष्याद्वायुःकषायत्वेनोपसृजति तेन कषायमधुरोपेतं मध्विव मेहति मधुमेही॥ स तु द्विधा कैश्चिदिष्यते॥ धातुक्षयेणानिलप्रकोपादोपावरणेन वा॥ तदावृतो हि वायूराहारप्रसादमादाय मुहुर्मुहुरनिमित्तं दोषलिंगानि वृद्धिक्षयौ चाविर्भावयत्कृच्छ्रसाध्यं मधुमेहं प्रवर्त्तयति॥ सर्वएव चोपेक्ष्यमाणा मधुमेहत्वमायांति॥ तस्मात्सर्वेऽपि मधुमेहशब्देनोच्यंतेयतश्च सर्वेष्वपि प्राङ्यध्विव मधुरंमेहति मधुधुरश्चास्यदेहो भवतीति॥ तत्र प्रतिश्यायःशरीरशैथिल्यमरोचकाविपाकौप्रसेकश्छर्दिर्निद्रा कासश्च श्लेष्मजानामुपद्रवा भवंति॥ वृषणावदरणं वस्तिमेंढ्रतोदोऽम्लिका पिपासा ज्वरोदाहो मूर्च्छाऽतीसारः पांडुरोगश्च पित्तजानां॥ हृद्ग्रहो लौल्यमनिद्रताकंपः शूलंबद्धपुरीपत्वंशोषः कासः श्वासश्च वातजानां॥ अथैवमस्यमेदः-क्लेदादिभिरभिष्यन्नदेहस्य दोषैरनुगतधातो प्रमेहाभिवृद्धौ मांसलेप्ववकाशेषु संधिषु मर्मसु च प्रदेश-विशेषाश्रयात्प्राणापहारिण्यो भूयः कष्टतमोपद्रवादश पिटिका जायंते सुतरां चाधःकाये॥ तदभिमुखा हि प्रमेहिणां दोषाः॥ तद्यथा॥ शराविका कच्छपिका जालिनी पुत्रिणी विदारिका सर्पपिका मसूरिकाऽलजी विनता विद्रधिश्च॥ तत्रश्यावा क्लेदवेदनायुक्ता निम्नमध्योन्नतौष्ठा शरावसंस्थानप्रमाणा शराविका॥ महामूलाऽवगाढार्तितोदा श्लक्ष्णा कच्छपपृष्ठनिभाकच्छपिका॥ महाशयाऽतितोदा स्तब्धा स्रिग्धस्राविणी सूक्ष्मच्छिद्रामांससिराजालासृता जालिनी॥ महतो पिडिकाभिरल्पाभिराचिता पुत्रिणी॥ कठिना विदारिकंदवहृता विहारिका॥ शीमपाका महावेदना सर्पपाकृतिप्रमाणा तद्विधाभिश्च पि
ढिकाभिश्चितासर्पपिका॥ मसूराकारप्रमाणामसूरिका॥त्वचमुत्थानादिव दहति स्फोटैरावृता विसर्पति रक्तकृष्णा तृण्मोहज्वरकरी दाहभूयिष्ठाऽतिकष्टाचालजी॥ महती नीलाऽवगाढरुक्क्लेदा पृष्ठोदरान्य-तराधिष्ठाना विनता विनता॥ विद्रधिस्तुवक्ष्यते पृथगेव॥ तासामाद्याः पंचातिबलश्लेष्ममेदःसंभवेन मूलव्याध्येकरुपत्वात्तद्वृद्धिकारित या दुःसाध्याः॥ न त्वितराः पित्तोल्वणतयाऽल्पकफमेदोभवात्॥ प्रमेहवशाच पिडकासु यथास्वं दोपोप्रेको भवतीति॥ सवति चात्र ॥प्रमेहेणः विनाऽप्येता जायंतेदुष्टमेदसः॥ तावच्च नोपलक्ष्यंते यावद्वस्तुपरिग्रहः॥ हारिद्रवर्णं रक्तं वा मेहप्राग्रूपवर्जितं॥ यो मूत्रयेन्न तं मेहं रक्तपित्तं च तद्विदुः॥ दृष्टा प्रमेहं मधुरं सपिच्छं मधूपमांस्याद्विविधो विचारः॥ संपूरणाद्वा कफसंभवः स्यात्क्षीणेषु दोपेष्वनिलात्मको वा॥ सपूर्वरूपाः कफपित्तमेहाः क्रमेण ये वातकृताश्च मेहाः॥ साध्या न ते पित्तकृतास्तुयाप्याःसाध्यास्तु मेदो यदि नातिदुष्टं॥ इति प्रमेहनिदानं नाम दशमोऽध्यायः॥१०॥
अथातो विद्रधिवृद्धिगुल्मनिदानंव्याख्यास्यामः॥ भुक्तैः पर्युपितात्युष्णरुक्षशुष्कविदाहिभिः॥जिह्यशय्याविचेष्टाभिस्तैस्तैश्चासृक्प्रदूषणैः॥दुष्टत्वङ्यांसमेदोस्थिस्रावासृक्कंडराश्रयः॥ यः शोफो वहिरंतर्वामहामूलो महारुजः॥ वृत्तः स्यादायतो यो वा स्मृतः पोढा सःदिद्रधिः॥ दोषैःपृथक् समुदितैःशोणितेन क्षतेन च॥ बाह्योऽत्र तत्र तत्रांगेदारुणो ग्रथितोन्नतः॥ आंतरो दारुणतरो गंभीरो गुल्मवहनः॥ वल्मीकवत्समुच्छ्रायी शीघ्रघात्यग्निशस्रवत्॥ नाभिबस्तियकृत्प्लीहक्लोमहृत्कुक्षिवंक्षणे॥ स्याद्वृक्कयोरपाने च वातात्तत्रातितीव्ररुक्॥ श्यावारुणश्चिरोत्थानपाको विषमसंस्थितिः॥व्यधच्छेदभ्र-मानाहस्यंदसर्पणशब्दबान्॥ रक्ततास्रासितः पित्तात्तृण्मोहज्वरदाहबान्॥ क्षिप्रोत्थानप्रपाकश्च पांडुः कंडूयुतः कफात्॥ सोत्क्लेशशीतकस्तंभजृंभारोचकगौरबाः॥ चिरोत्थानविदाहश्चसंकीर्णः सन्निपातेतः॥ सामर्थ्याचात्र विभजेद्बाह्याभ्यंतर-लक्षणं॥ कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः॥पित्तलिंगोऽसृजा वाह्यः स्रोणामेव तथांऽतरः॥शस्त्राद्यैरभिघातेन क्षते वाऽपथ्यकारिणः॥ क्षतोष्मावायुविक्षिप्तः॥सरक्तं पित्तमीरयन्॥ पित्तासृग्लक्षणं कुर्याद्विद्रधिं भुर्युपद्रवं॥ तेषूपद्रवभेदश्च स्मृतोऽधिष्ठानभेदतः॥ नाभ्यांहिध्मा भवेद्बस्तौ मूत्रकृच्छ्रेण पूति च॥ श्वासो यकृति रोधस्तु प्लीन्ह्युच्छ्वासस्य तृट् पुनः॥ गलग्रहश्च क्लोम्निस्यात्सर्वांगप्रग्रहो हृदि॥ प्रमोहस्तमकःकासो हृदयोद्धट्टनं व्यथा॥ कुक्षिपार्श्वांतरांसारमिः कुक्षावाटोपजन्म च॥ सकन्थोर्ग्रहो वंक्षणयोर्वृक्कयोः कटिपृष्ठयोः॥पार्श्वयोश्च व्यथा पायौ पवनस्य निरोधनं॥ आमपक्कविदग्धत्वं तेषां शोफवगादिशेत्॥ नाभेरुर्ध्वं मुखात्पक्वाःप्रस्रवंत्यधरे गुदात्॥उभाभ्यां नाभिजो विद्याद्दीपंक्लेदाच्च विद्रधौ॥ यथास्वंव्रणवत्तत्र विवर्ज्यः सन्निपातजः॥ पक्वोहृन्नाभिवस्तिस्थो भिन्नोंऽतर्वहिरेवावा॥ पक्वश्चांतः स्रवन् वन्धात्क्षीणस्योपद्रवान्वितः॥ एवमेव॥ स्तनसिरा विसृताः प्राप्य योपितां॥ सूतानां गर्भिणीनां वा संभवेच्छ्वयथुर्घनः॥ स्तने सदुग्धेऽदुग्धे वा बाह्यविद्रधिलक्षणः॥ नाडीनां सूक्ष्मवकत्वात्कन्यानां तु न जायते॥ कुद्धो रुद्धगतिर्वायुः शोफशूलकरश्चरन्॥ मुष्कौवंक्षणतः प्राप्य फलकोशाभिवाहिनीः॥ प्रपीडय धमनीर्वृद्धिं करोति फलकोशयोः॥ दोषास्रमेदोमूत्रांत्रैः स वृद्धिः सप्तधा गदः॥ मूत्रांत्रजावप्यनिलाद्धेतु-भेदस्तु केवलं॥ वातपूर्णदृतिस्पर्शोरूक्षोवातादहेतुरुक्॥ पक्वोदुंवरसंकाशः पित्तादाहोष्मपाकवान्॥ कफाच्छीतो गुरुःस्निधः कंडुमान्कठिनोऽल्परुक्॥ कृष्णस्फोटावृतः पित्तलिंगवृद्धिश्च रक्ततः॥ कफवस्मेदसा वृद्धिर्मृदुम्तालफलोपमः॥ मूत्रकधारणशीलस्य मूत्रजः सतु गच्छतः॥अंसोभिःपूर्णदृतिवत्क्षोभंयाति सरुड्यृदुः॥मूत्रकृच्छृमधः स्याच्च वलयं फलकोशयो॥ वातकोपिभिराहारैशीततोयावगाहनैः॥ धारणेरणाभाराध्वविषमांगप्रवर्त्तनैः॥ क्षोभणैः क्षुभितोऽन्यैश्च क्षुद्रांत्रावयवं यदा॥ पवनो विगुणीकृत्यस्वनिवेशादधो नयेत्॥ कुर्याद्वंक्षणसंधिस्थो ग्रंथ्याभंश्वयथुं तदा॥ उपेक्षमाणस्यच मुष्कवृद्धिमाध्मानरुकस्तंभवतीं सवायुः॥ प्रपीडितोंऽतः स्वनवान्प्रयाति प्रध्मापयन्नेति पुनश्च मुक्त.॥ अंत्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः॥ सूक्षकृष्णारूणसिरातंतुजालगवाक्षितः॥ गुल्मोऽष्टधा पृथग्दोषैः संसृष्टैर्निचयं गतैः॥ आर्तवस्य च दोषेण नारिणां जायतेऽष्टमः॥ अथ यो ज्वरातिसारादिभिर्वमनादिभिर्वा कर्मभिः कर्शितो वातलान्याहारयत्याहाराभिलापी वा शीतमुदकं पिबत्यन्नपानानंतरं वा लंघनप्लवनव्यवाययानादीन् देहविक्षोभिण सेवतेऽनुदीर्णां वा छर्दिमुदीरयत्युदीर्णान्वा वातादीन्निश्वासोच्छ्वासौवा निगृण्हात्यस्रेहपूर्व वा वमनविरेचने करोति तथा कर्शितएवातिविद्राहिनोऽभिष्यंदिनों वा निपेवते तस्य पथास्वं वातप्रधानाः प्रकुपित दोषाः पृथक् संसृष्टाः समस्ताः सरक्ता वा महास्रोतोऽनुप्रविश्यावृत्योर्ध्वमधश्च मार्गं शूलमुपजनयंतो गुल्ममभिनिर्वर्त्तयंति॥ यतश्च तस्मिन् शूलविद्धइव व्यथ्यतेऽतिवेदनार्दितः कृच्छ्रोच्छासस्तस्माच्छूलमित्युच्यते॥ तत्रातिकर्शनात्कफ-पित्ताभ्यां वा मार्गरोधाल्लब्धाश्रयोवायुरुप्लुतो रौक्ष्यात्कठिनीभूतः स्वाशये स्वतंत्र. परतंत्रो वा पित्तश्लेष्माशये स्पर्शोपलभ्य. पिंडितत्वादमूर्तोऽपि मूर्त्ततामिवोपगतो ग्रंधिरुपेणावतिष्ठमानोगुल्मसंज्ञां लभते॥ तस्य पंच स्थानानि बस्तिर्नाभिःपार्श्वे हृदयंच॥अथास्य पूर्वरुपाणि सदनमग्निशरीरयोररुचिः सौहित्यासहिष्णुताकुक्षिशूलात्याध्मानमुद्गिरणंबहुशो विदग्धेऽन्ने छदिंराटोपो मलस्याप्रादुर्भावो प्रवृत्तिश्च॥ तत्र वातात्सूच्येव शंकुनेव व्यधो मन्याशिर शंखशूल
ज्वरांगमर्दप्लीहाटोपांत्रकूजोदावर्तोच्छ्वासोपरोधमुखशोपस्तब्धगात्रताः वायुकालेषुपद्रववृद्धिर्विषमाग्निता कृष्णारुणपरुषत्वड्रखादित्वंगुल्मश्चास्य चलत्वाद्वायोरनियनस्थानसंस्थानोदयप्रलयाल्पमहारुजः पिपीलिकापरिगतइव तोदस्फुरणबहुलो विस्तारयतीव स्वदेशं चर्मइव कदाचित्कदाचित्संकोचयतीव हर्षयतीव रोमाणि वेदनातिप्रवृत्तौ तु स र्यस्मिन्नपि देहेप्रायो बस्त्याश्रयश्च भवति॥ पित्तादाहो धृमकोऽम्लक स्तृष्णा ज्वरः खेदो विड्भेदो मृर्च्छाशीतोपशयता हरिवहारिद्रत्वंगुल्मश्चा स्य तप्ताय.पिंडइव तमवकाशं दहति दूयते धूमायत ऊष्मायते शिथिलइव व्रणइवास्पर्शसहो निर्लोमा प्रायो नाभ्याश्रयश्च॥ कफात् स्तैमित्यमरोचकाविपाकौहृदयोपलेपः शीतज्बरस्तृप्तिः सदनं कासोहृलासः पीनसो निद्राऽऽलस्यं नखादिषु शुद्धता गुल्मश्च सुप्तस्थिरगुरुकठिनावगाढोऽस्परुक् भायो हृत्पर्श्वाश्रयश्च॥ संसृष्टलिंगःसंसर्गात्स त्रिविधः॥ सर्वलिंगनिचयेन च यो गुल्मः सोऽसाध्यः॥ रक्तगुल्मस्तुगर्भकोष्टार्त्तवोपगमन-वैशेष्यात्पारतंत्र्यादवैशारद्यादपचारानुरोधाच्च स्त्रिया एव भवति॥ तत्र यदा सा ऋतुमती नवप्रसूता योनिरोगिणी वा वोतलान्यासेवते तदाऽस्या वायुः कुपितो योन्या मुख्वमनुप्रपिश्यार्त्तवमुपरुणद्धि॥ तदुपरुष्यमानं मासे मासेकुक्षिमभिनिर्वर्त्तयाति गर्भलिंगानि च सतंद्रांऽगसादुदौर्हृदस्तन्यदर्शनादीनि॥ वायुसंसर्गात्पुनः पित्तैकप्रकोपतया च वातपित्तगुल्मरुपाणि क्रमाहृल्लाच्छूलस्तंभदाहातीसारादीनि गर्भाशयेपे सुतरां शुलं तथा योन्या दौर्गध्यमास्रावं च करोति॥ गुल्मश्चन गर्भइवांगः पिडितएव तु चिरेण सशूलं .स्पंदते॥ गुल्मएव च बर्द्धते न कुक्षिः॥ स्वदोपाधिष्ठानश्चसर्वो भवति गुल्मः॥ तस्माच्चिरेण नैप् पाकमेति
॥ भृशदुष्टरक्ताश्रयत्वात्तु विद्रधिः299शीघ्रपाकोभवतीति॥ भवति चात्र॥गुल्मेंऽतराश्रये बस्तिकुक्षिहृत्प्लीहवेदना॥ अग्निव- र्णबलभ्रंशो वेगानां चाप्रवर्त्तनं॥ अतो विपर्ययो वाह्येकोष्ठांगेपु तु नातिरुक्॥वैवर्ण्यमवकाशस्यवहिरुन्नतताऽधिकं॥ साटोपमत्युग्ररुजमाध्मानमुदरे भृशं॥ ऊर्ध्वाधो वातरोधेन तमानाहं प्रचक्षते॥ घनोष्ठीलोपमो ग्रंथिरष्ठीलोर्ध्वंखोध्वैसमुन्नतः॥ आनाहलिंगस्तिर्यक् च प्रत्यष्ठीलातदाकृतिः॥ पक्वाशयाद्गुदोपस्थंवायुस्तीव्ररुजः प्रयन्॥ तूनी प्रतूनी तु भवेत्स एवातो विपर्यये॥ उद्गारवाहुल्यपुरीपवंधतृत्यक्षमत्वांत्रविकुजनानि॥ साटोपमाध्यानमपक्तिशक्तिमासन्नगुल्मस्यवदंति चिह्नं॥॥ इति विद्रधिवृद्धिगुल्मनिदानं नामैकादशोऽध्यायः॥११॥
॥अथातउदरनिदानं व्याख्यास्यामः॥ रोगाः सर्वेऽपि मंदेऽग्नौ सुतरामुदराणे तु॥ अजीर्णान्मलिनैश्चान्नैर्जायंते मलसंचयात्॥ ऊर्ध्वाधो धातवो रुध्वा वाहिनीरंबुवाहिनीः॥ प्राणाग्न्यपानान्संदुष्य कुर्युस्त्वङ्यांससंधिगाः॥ आध्माप्य कुक्षिमुदरमष्टधा तच्च भिद्यते॥ पृथग्दोपैःसमस्तैश्च प्लीहबद्धक्षतोदकैः॥ तेनार्ताः शुप्कताल्वोष्ठाः शुनपादकरोदराः॥ नष्टचेष्टाबलाहाराः कृशाःप्रध्मातकुक्षयः॥ स्युः प्रेतरूपाःपुरुषा भाविनस्तस्यलक्षणं॥ क्षुन्नशोऽन्नंचिरात्सर्वं सविदाहं च पच्यते॥ जीर्णाजीर्णं न जानाति सौहित्यं सहते न च॥ क्षीयते वलतः शश्वच्छ्वसित्यल्पेऽपि चेष्टिते॥ वृद्धिर्विशेऽप्ररत्तिश्च किचिच्छोफश्व पादयोः॥’ रुग्बस्तिसंधौततता लध्वल्पैर्भोजनैरापि॥ राजीजन्म वलीनाशो जठरे जठरेषु वु॥ सर्वेषु तंद्रा सदनं मलसंगोऽल्पवन्हिता॥ दाहः श्वयधुराध्मानमंते सलिलसंभवः॥ सर्वं त्वतोयमरुणमशोफं नातिभारिकं॥ गवाक्षितं सिराजालैःसदा गुडगुडायते॥ नाभिमंत्रं च विष्टस्यवेगंकृत्वा प्रणश्यति॥ मारुतो हृत्कटठीनाभिपायुवंक्षणवेदनाः॥ सशब्दो निश्चरेद्वायुर्विङ्बंवो मूत्रमल्पकं॥ नातिमंदोऽनलो लौल्यं न च स्याद्विरसं मुखं॥ तत्रवातोदरे शोफः पाणिपन्मुप्कसंधिषु॥ कुक्षिपार्श्वोदरकटीपृष्टरुक् पर्वभेदनंशुष्ककासोंऽगमर्दोऽधो गुरुता मलसंग्रहः॥ श्यावारुणत्वगादित्वमकस्माद्धासवृद्धिमत्॥ सतोदभेदमुदरं तनुकृष्णसिराततं॥ आध्मातदृतिवच्छब्दमाहतं प्रकरोति च॥ वावुश्चात्रसरुक्शब्दो विचरेत्सर्वतो गतिः॥ पित्तोदरे ज्वरो मूर्च्छादाहस्तृट् कटुकास्यता॥ भ्रमो ऽतिसारः पीतत्वं त्वगादाबुदरं हरित्॥ पीतताभ्रसिरानद्धं सस्वेदं सोष्म दह्यते॥ धूमायति मृदुस्पर्शं क्षिप्रपाकं प्रदूयते॥ श्लेष्मोदरेंऽगसदनं स्वापः श्वयथुगौरवं॥ निद्रोत्क्लेशारुचिश्वासकास-शुक्लत्वगादिताः॥ उदरं स्तिमितं स्रिग्धं300शुक्लराजीततं महत्॥ चिराभिवृद्धिकठिनं शीतस्पर्शं गुरुस्थिरं॥ त्रिदोषकोपनैस्तैस्तैः स्त्रीदत्तेश्चरजोमलैः॥ गरदूपीविषाद्यैश्चसरक्ताः संचिता मलाः॥कोष्ठंप्राप्य विकुर्वाणाः शोषमूर्च्छ-भ्रमान्वितं॥कुर्युस्त्रिलिंगमुदरं शीघ्रपाकं सुदारुणं॥बाधते तच्च सुतरां शीतवाताभ्रदर्शने॥अत्याशितस्य संक्षोभाद्यानपानातिचेष्टितैः॥ अतिव्यवायकर्माध्ववमनन्याधिकर्शनैः॥ वामपार्श्वाश्रितः प्लीहा च्युतः स्थानाद्विवर्द्धते॥ शोणितं वा रसादिभ्यो विवृद्धं तं विवर्द्धयेत्॥सोष्ठीलेवातिकठिनः प्रोन्नतः कूर्मपृष्ठवत्॥क्रमेणवर्द्धमानश्च कुक्षावुदरमावहेत्॥ श्वासकासपिपासास्यवैरस्याध्मानरुरज्वरैः॥ पांडुत्वक्च्छर्दिमूर्च्छार्ति-दाहमोहैश्चसंयुतं॥ अरुणाभं विवर्णं वा नीलहारिद्रराजिमत्॥ उदावर्त्तरुगानहैर्मोहतृड्ददहनज्वरैः॥गौगवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात्॥ प्लीहवद्दक्षिणात्पार्श्वात्कुर्याद्यकृदपिच्युतं॥ पक्ष्मवालैःसहान्नेन भुक्तैर्बद्धायने गुदे॥ दुर्नामभिरुदावर्तै
रन्नैर्वात्रोपलेषिसभिः॥ वर्च.पित्तकफान्रुध्वा करोति कुपितोऽनिल॥ अपानो जठरं तेन स्युर्दाहतृट्ज्वर-क्षवाः॥ श्वासकासोरुसदनं शिरोहृन्नाभिपायुरुक्॥ मलसंगोऽरुचिः श्छर्दिरुदरं मूढमारुतं॥ स्थिरं नीलारुणसिराराजिनद्धमराजि वा॥ नामभेरुपरि च प्रायो गोषुच्छाकृति जायते॥ अस्थ्यादिशल्यै. सान्नैश्चेद्भुक्तैरत्यशनेन वा॥ भिद्यते पच्यते चांत्रं तच्छिद्रैश्च स्रवन् वहिः॥ आमएव गुदादेति ततोऽल्पाल्पः स विड्रस.॥ तुल्यः कुणपगंधेन पिच्छिलः पीतलोहितः॥ शेषश्चापूर्य जठरं जठरं घोरमावहेत्॥ वर्द्धतेतदधो नाभेराशु चैति जलात्मतां॥ उद्रिक्तदोषरूपं च व्याप्तं च श्वासतृड्भ्रमैः॥ छिद्रोदरमिदं प्राहुःपरिस्रावीति चापरे॥ प्रवृत्तस्नेह पानादेः सहसाऽऽमांवुपायिनः॥ अत्यंवुपानान्मंदाेः क्षीणस्यातिकृशस्य वा॥ रुध्वांऽवुमार्गाननिल’ कफश्च जलमूर्च्छित.॥ वर्द्धयेतां तदेवांबु तत्स्थानादुद्राश्रिती॥ तत स्यादुदरं तृष्णागुदस्रतिर जान्वितं॥ कासश्वासारुचियुतं नानावर्णसिराततं॥ तोयपूर्णदृतिस्पर्शशब्दप्रक्षोभवेपथु॥ दकोदरंमहत्स्निग्धं स्थिरमारत्तमाभि तत्॥ उपेक्षया च सर्वेषु दोषाः स्वस्थानतश्च्युताः॥ पाकाद्द्रवा द्रवीकुर्यु. संधीन् मुखान्यपि॥ स्वेदस्तु बाह्यस्रोत सु विहतस्तिर्यगास्थितः॥तदेवोदकमाप्याय्यपिच्छां कुर्यात्तदा भवेत्॥ गुरुदरंस्थिरं वृत्तमाहतं च सशब्दवत्॥ मृदु व्यपेतराजीकं नाभ्यां स्पृष्टंच सर्पति॥ तदनुदकजन्मास्मिन् कुक्षिवृद्धिस्ततोऽधिका॥ सिरांतर्द्धानमुदकजटरोक्तं च लक्षण॥ वातपित्तेकफप्लीहस्तनिपातोदकोदरं॥ कृच्छं यथोत्तर पक्षात्परं प्रायोऽपरे301 हतः॥ सर्वं च जालसलिलंरिष्टोक्तोपद्रवान्वितं॥ जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतं॥ वलिनस्वदजातांवु यत्नसाध्यं नवोत्थितं॥ ॥ इत्युदरनिदानं नाम द्वादशोऽध्याय.॥ १२
अथातः पांडुरोगकामलाशोफविसर्पनिदानं व्याख्यास्यामः॥ पित्तप्रधानाः कुपिता यथोक्तैः कोपनैर्मलाः॥ तत्रानिलेन बलिना क्षिप्तं पित्तं हृदि स्थितं॥ धमनीर्दश संप्राप्य व्याप्नुवत्सकलं वपुः॥ श्लेष्मत्वग्रक्तमांसानि प्रदूष्यांतरमाश्रितं॥ त्वड्यांसयोस्तत्कुरुते त्वचि वर्णान् पृथग्विधान्॥पांडुहारिद्र-हरितान्पांडुत्वं तेषु चाधिकं॥ यतोऽतः पांडुरित्युक्तः स रोगस्तेन गौरवं॥ धातूनां स्याच्चशैथिल्यमोजसश्चगुणक्षयः॥ तनोऽल्परक्तमेदस्को निःसारः स्याच्छ्लथेंद्रियः॥ मृद्यमनैरिवांगैर्नाद्रवता हृदयेन च॥ शुनाक्षिकूटः सदनः कोपनः ष्ठीवनोऽल्पवाक्॥ अन्नद्विट् शिशिरद्वेषी शीर्णरोमा हतानलः॥ सन्नसक्थिर्ज्वरी श्वासी कर्णक्ष्वेडी श्रमी भ्रमी॥ स पंचधा पृथग्दोषैः समस्तैर्मृत्तिकादनात्॥ प्राग्रूपमस्यहृदयस्पंदनं रूक्षता त्वचि॥ अरुचिः पीतमूत्रत्वं स्वेदाभावोऽल्पवन्हिता॥ सांदः श्रमो ऽनिलात्तत्र गात्ररुक् तोदकंपनं॥ कृष्णरूक्षारुणसिरानख-विण्मूत्रनेत्रता॥ शोफानाहास्यवैरस्यविट्शोपाः पार्श्वमूर्द्धरूक्॥ पित्ताद्धरितिपीताभसिरादित्वं ज्वरस्तमः॥ तृट्स्वेदमूर्च्छाः शीतेच्छा दौर्गंध्यं कटुवक्रता॥ वर्चोभेदोऽम्लको दाहः कफाच्छुक्लसिरादिता॥ तंद्रालवण-वक्रत्वरोमहर्षस्वरक्षयाः॥ कासश्छार्देश्चनिचयान्मिश्रलिंगोऽतिदुःसहः॥ मृत्कषायाऽनिलं पित्तमूपरामधुरा कफं॥ दूषयित्वा रसादीश्च रौक्ष्याद्भुक्तं विरूक्ष्य च॥ स्रोतांस्ययक्वैवापूर्यकुर्याद्रुध्वाच पूर्ववत्॥ पांडुरोगं ततः शूननाभिपादास्यमेहनः॥ पुरीषं कृमिवन्मुंचेद्भिन्नंसासृक्कफं नरः॥ यः पांडुरोगी सेवेत पित्तलं तस्य कामलां॥ कोष्ठशाखाश्रयां पित्तं दग्ध्वाऽ सृड्यांसमावहेत्॥ हारिद्रनेत्रमूत्रत्वड्नखवक्वशकृत्तथा॥ दाहाविपातृष्णावान् भेकाभो दुर्बलेंद्रिय.॥ भवेत्पित्तोल्वरण- स्यासौपांडुरोगादृतेऽपि च॥ उपेक्षया च शाफीढ्यासा कृच्छ्राकुंभकामला॥हरितश्यावपीत
त्वं पांडुरोगे यदा भवेत्॥ वातपित्ताद्धमस्तृष्णा स्त्रीप्वहर्षो मृदुर्ज्वरः॥ तंद्रा वलानलभ्रंशो लोढरं तं हलीमकं॥ अलसश्चेति शंसंति तेषां पूर्वमुपद्रवाः॥ शोफप्रधानाः कथिताः सएवातो निगद्यते॥ पित्तरक्त-कफान् वायुर्दुष्टान् दुष्टान् बहिःसिराः॥ नीत्वारुद्धगतिस्तैर्हि कुर्यात्त्वड्यांससंश्रयं॥ उत्सेधं संहतं शोफं तमाहुर्निचयादतः॥ सर्वं हेतुविशेषैस्तु रुपभेदान्नवात्मकं॥ दोषैः पृथक द्वयैः सर्वेरभिघाताट्टिषादपि॥ द्विधा वा निजमागंतुं सर्वोगैकांगजंच तं॥ पृथुन्नतग्रथितताविशेषैश्च त्रिधा विदुः॥ सामान्यहेतुः शोफानां दोषजानां विशेषतः॥ व्याधिकर्मोपवासादिक्षीणस्य भजतोद्रुतं॥ अतिमात्रमथान्यस्य गुर्वम्लस्निग्यशीतलं॥ लवणक्षार-तीक्ष्मोप्णशाकांवुखप्नजागरं॥मृद्ग्राम्यमांसवल्लूरमजीर्णश्रममैथुनं॥ पदातेर्मार्गगमनं यानेन क्षोभिणाऽपि वा॥ श्वासकासातिसारार्शेजठरप्रदरज्वराः॥ विसूच्यलसकच्छार्दगर्भवीसर्पपांडवः॥ अन्ये च मिथ्योप-क्रांतास्तैर्दोषावक्षसि स्थिताः॥ ऊर्ध्वं शोफमधो वस्तौमध्ये कुर्वति मध्यगाः॥ सर्वांगगाः सर्वगतं प्रत्यंगेषुतदाश्रयाः॥ तत्पूर्वरूप दवथुः सिरयामोंऽगगौरवं॥ वाताच्छो फश्चलो रुक्षः खररोमाऽरुणासितः॥ संकोचस्पंदहर्षातितोदभेदप्रसुप्तिमान्॥ क्षिप्रोत्थानशम.शीघ्रमुन्नमेत्पीडितस्तनुः॥ स्निग्धोष्णमर्दनैः शाम्येद्रात्रावल्पो दिवा महान्॥ त्वक्च सर्पपलिप्तेव तस्मिंश्चिमिचिमायते॥ पीतरक्तासिताभासः पित्तादाताम्ररोमवान्॥ शीघ्रानुसारप्रशमो मध्ये प्राक् जायते तनुः॥ सतृड्दाहज्वरस्वेददवक्लेदमदभ्रमः॥ शीताभिलाषी विद्वेंदी गंधी स्पर्शासहो मृदुः॥ कंडूमान् पांडुरोमत्वक्कठिनः शीतलो गुरुः॥ स्निग्धः श्लक्ष्णःस्थिरः स्त्यानो निद्राछर्द्यग्निसादकृत्॥ आकांतोनोन्नमेत्कृच्छृशमजन्मा निशाबलः॥ सवेन्नासृक्चिरात्पिच्छांकुशशस्रादिविक्षत.॥ स्पर्शोप्णकांक्षी च कफाद्यथास्वंद्वंद्वजास्रयः॥ संकराद्धेतु-लिंगानां नित्रयान्निचपातकः॥
अभिधातेन शस्वादिछेदभेदक्षतादिभिः॥ हिमानिलोदध्यनिलैर्भाल्लातकपिकच्छुजैः॥ रसै.शूकैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवानाभृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः॥विषजः सविषप्राणिपरि-सर्पणमृत्रणात्॥ दंष्ट्रादंतनखापातादविषप्राणिनामपि॥ विण्मूत्रशुकोपहतमलवद्वस्वसंकरात्॥ विष-वृक्षानिलस्पर्शाद्वरयोगावचूर्णनात्॥ मृदुश्चलोऽवलंबी च शीघ्रो दाहरुजाकरः॥ नवोऽनुपद्रवः शोफः साध्योऽसाध्यः पुरेरितः॥ स्पाद्विसर्पोऽभिघातांतैर्दोषैर्दूष्यैश्च शोफवत्॥ अधिष्ठानं च तंप्राहुर्बाह्यांतरुप्याश्रयात्॥ यथोत्तरं च दुःसाध्यास्तत्र दोषा यथायथं॥ प्रकोपनैः प्रकुपिता विशेषेण विदाहिभिः देहेशीघ्रं विसर्पति तेंऽतरतस्थिता बहिः॥ बहिस्या द्वितये द्विस्था विद्यात्तत्रांत्तराश्रयं॥ प्रकोपनैः प्रकुपिताविशेषेण विदाहिभिः देहे शीघ्रंविसर्पति तेंऽतरंत.स्थिता बहिः॥ बहिस्या द्वितये द्विस्था विद्यात्तत्रांत्तराश्रयं॥ मर्मोपतापात्संमोहादसनानां विघद्बनात्तृष्णतियोगाद्वेगानांविषमं चं प्रवर्त्तनात्॥ आशु चाग्निवलभ्रशादतोवाह्यं विपर्ययात्॥ तत्र वातात्परीसर्पो वातज्वरसमव्यथः॥ शोफस्फुरणनिस्तोदभेदायामार्तिहर्षवान्॥पित्ताहुतगतिः पित्तज्वलिंगोऽतिलोहितः॥ कफात्कंडूयुतः स्निग्धः कफज्वरसमानरुक्॥ स्वदोषलिंगैश्चीयंतेसर्वेस्फोटैरपेक्षिताः॥ते पकक्षिनाः स्वंं स्वंच विभ्रातिव्रणलक्षणं॥ वातपित्ताज्ज्वरच्छार्देमूर्च्छाऽतीसारतृड्भ्रमैः॥ अस्थिभेदाग्निसदन-तमकारोचकैर्युतः॥ करोति सर्वमंग च दीसागारावकीणेवत्॥ यं यं देशं विसर्पश्च विसर्पति भवेत्स सः॥शांतांगारासितो नीलो रक्तो वाऽऽशु चचीयते॥ अग्निदग्धइव स्फोटैःशीघ्रगत्वाहुतं च सः॥मर्मानुसारी वीसर्पःस्याद्वातोऽतिवलस्तनः॥ व्यथेदंगं हरेत्संज्ञां निद्रां च श्वासमीरयेत्॥ हिध्मांच स गतोऽवस्थामीदृशीं लभते न ना॥ क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु॥ चेष्टमानस्ततः क्लिष्टो मनोदेहश्रमोद्धवां॥ दुष्प्रवोधोऽश्रुते निद्रां सोऽग्निवीसर्पउच्यते॥कफेन रुद्धः पक्वनो भित्वातं वहुधाकफं॥रक्तं वा वृद्धरक्तस्यत्वक्सिरास्रावमां
सगं॥ दूषयित्वा च दीर्घाणुवृत्तस्थूलखरात्मनां॥ ग्रंथीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वरां॥ श्वासकासाति-सारास्य शोषहिध्मावमिभ्रमैः॥ मोहवैवर्ण्यमूर्च्छांगर्भगाग्निसदनैर्युतां॥ इत्ययं ग्रंथिवीसर्पःकफमारुत-कोपजः॥ कफपित्ताज्ज्वरस्तंभो तंद्रानिद्राशिरोरुजः॥ अंगावसादविक्षेपप्रलापारोचकभ्रमाः॥ मूर्च्छाऽग्नि-हानिर्भेदोऽस्थांपिपासेंद्रियगौरवं॥ आमोपवेशनं लेपः स्रोतसां स च सर्पति॥ प्रायेणामाशये गृण्हन्नेकदेशं नचातिरुक्॥ पिडकैखकीर्णोऽतिपीतलोहितपांडुरैः॥ मेचकाभोऽसितः स्निग्धो मलिनः शोफवान् गुरुः॥ गंभीरपाकः प्राज्योष्मास्पृष्टः क्लिन्नोऽषदीर्यते॥ पंकवच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः॥ शवगंधिश्चवीसर्पं कर्दमाख्यमुशंति तं॥ सर्वजो लक्षणैःसर्वैः सर्वधात्वभिसर्पणः॥ बाह्यहेतोः क्षतात्कुद्धः सरक्तं पित्तमीरयन्॥ विसर्पं मारुतः कुर्यात्कुलत्थसदृशैश्चितं॥ स्फोटैःशोफज्वररुजादाहाढ्यं श्यावलोहितं॥ पृथग्दोपैंस्त्र- यः साध्या द्वंद्वजाश्चानुपद्रवाः॥ असाध्यौ क्षतसर्वोत्थौ सर्वेचाकांमर्मकाः॥ शीर्णस्नायुसिरामांसाः प्रक्लिन्ना शवगंधयः॥ इति पांडुकामलाशोफविसर्पनिदानं नाम त्रयोदशोऽध्यायः॥१३॥
अथातः कुष्ठकृमिनिदानंव्याख्यास्यामः॥मिथ्याहारविहारेण विशेषेण विरोधिना॥ साधुनिंदावधान्य-स्वहरणाद्यैश्चसेवितैः॥ पाष्मभिः कर्मभिः सद्यः प्राक्तनैःप्रेरिता मलाः॥ सिराः प्रपद्य तिर्यग्गास्त्वग्लसीका-सृगामिषं॥ दुषयंतिश्लथीकृत्य निश्चरंतस्ततो बहिः॥ त्वचः कुर्वंति वैवर्ण्यं दुष्टाः कुष्ठमुशंति तत्॥ कालेनोपेक्षितंयस्मात्सर्वं कुष्णाति तद्वपुः॥ प्रपद्यधातून् व्याप्यांतः सर्वान्संक्लेद्य चावहेत्॥ सस्वेदक्लेद-संकोथान्कृमीन्सूक्ष्मान्सुदारुणान्॥ लोमत्वक्स्रायुधमनीस्तरुणास्थीनि यैःकमात्॥ भक्षयेच्छ्वित्रमस्माच्चकुष्ठबाह्यमुदाहृतं॥ कुष्ठानि सप्तधा दोषैःपृथग्द्वंद्वैः समागतैः॥ सर्वेष्वपि त्रिदोषेषु
व्यपदेशोऽधिकत्वतः॥वातेन कुष्ठंकापालं पित्तादौदुंबरं कफात्॥ मंडलाख्यं विचर्चीच कक्षाख्यं वातपित्तजं॥ चर्मैककुष्ठकिटिभसिध्मालसविषादिकाः॥ चातश्लेष्मोद्भवाः श्लेष्मपित्ताद्दद्रुशतारूपी॥ पुंडरीकं सविस्फोटं पामा चर्मदलं तथा॥ सर्वैः स्यात्काकणंपूर्व त्रिकंदद्रुसकाकणं॥ पुंडरीकर्क्षजिव्हे च महाकुष्ठानि सप्त तु॥ अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः॥दाहः कंडूस्त्वचि स्वापस्तोदः कोठोन्नतिर्भ्रमः॥ व्रणानामधिकं शुलं शीघ्रोत्पत्तिश्चिरस्थितिः॥ रूढानामपि रुक्षत्वंनिमित्तेऽल्पेऽपि कोपनं॥ रोमहर्षो ऽसृजः कार्ण्ण्यं कुष्ठलक्षणमग्रजं॥ कृष्णारुणकपालाभं रूक्षंसुप्तं खरं तनु॥ विस्तृतासमपर्यंतं हृषितैर्लोमभिश्चितं॥ तोदाढ्यमल्पकंडुकं कापालं शीघ्रसर्पि च॥ पक्वोदुंबरताम्रत्वक्रोमगौरसिराचितं॥ बहलं बहल क्लेदरक्तंदाहरुजाधिकं॥ आशुत्थानावदरणकृमि विद्यादुदुंबरं॥ ‘स्थिरं स्त्यानं गुरु स्निग्धं श्वेतर- क्तमनाशुगं॥ अन्योन्यसक्तमुत्सन्नं ‘बहुकंडूस्रुतिकृमि॥ श्लक्ष्णपीताभपर्यंतं मंडलं परिमंडलं॥ सकंडूपिडिका श्यावा लसीकाढ्या विचर्चिका॥ परुषं तनु रक्तांतमंतःश्यावं समुन्नतं॥ सतोददाहरुक्क्लेदं कर्कशैःपिडकैश्चितं॥ ऋक्षजिव्हाकृतिःप्रोक्तरक्षजिव्द बहुकृमि॥ हस्तिचर्मखरस्पर्शं चर्मैकाव्यं महाश्रयं॥ अस्वेदं मत्स्यशकलसन्निभं किटिभं पुनः॥ सुक्ष्मं किणखरस्पर्शं कंडूमत्परूपासितं॥ सिध्मं रूक्षंवहिः स्निग्धमंतर्घृष्टंरजःकिरेत्॥ श्लक्ष्णस्पर्शं तनुश्वेतताम्रं दोग्धिकपुष्पवत्॥ प्रायेण चोर्ध्वकाये स्याद्गंडैःकंडूयुतैश्चितं॥ रक्तैरलसकं पाणियाददार्योविपादिका॥ तीव्रार्त्यौ मंदकंड्वश्च सराग
पिडिकाचिताः॥ दीर्घप्रताना दूर्वावदतप्तीकुसुमच्छविः॥ उत्सन्नमंडलादद्रूः कंडूमत्यनुपंगिणी॥ स्थूलमूलंसदाहार्तिरक्तश्यावंवहुव्रणं॥ शतारुःक्लेदजंत्वाढ्यं प्रायशःपर्वजन्मचा॥
रक्तांतमंतरापांडुकंडूदाहरुजान्वितं॥ सीत्सेधमाचितं रक्तैःपद्मपत्रमिवांशुभिः॥ धनभूरलसीका-सृक्प्रायमाशुविभेदि च॥ पुंडरीकंतनुत्वग्सिश्चितं स्फोटैःसितारुणैः॥ विस्फोटं पिडिकाः पामा कंडूक्लेदरुजाधिकाः॥ सूक्ष्माः श्यावारुणाः बह्यः प्रायः स्फिक्पाणिकूर्परे॥ सस्फोटमस्पर्शसहं कंडूरुक्क्लेददाहवत्॥ रक्तं दलच्चर्मदलंकाकणं तीव्रदाहरुक्॥ पूर्वं रक्तं च कृष्णं च काकणंती-फलोपमं॥ कुष्ठलिंगैर्युतंसर्वैर्नैकवर्णं ततो भवेत्॥ दोषमेदीयविहितैरादिशेल्लिंगकर्मभिः॥ कुष्ठेषु दोषोल्बणतां सर्वदोषोल्बणं त्यजेत्॥ रिष्टोक्तं यच्च यच्चास्थिमज्जशुक्रसमाश्रयं॥ याप्यं मेदोगतं कृच्छ्रं पित्तद्वंद्वास्रमांसगं॥ अकृच्छ्रं कफवाताढ्यं त्वक्स्थमेकमलं च यत्॥ तत्र त्वचि स्थिते कुष्ठेतोदवैवर्ण्य-रूक्षताः॥ स्वेदस्वापश्वयथवः शोणिते पिशिते पुनः॥ पाणिपादाश्रिताः स्फोटाः क्लेदः संधिषु चाधिकं॥ कौण्यं गतिक्षयोंऽगानांदलनं स्याच्च मेदसि॥ नासाभंगोऽस्थिमज्जस्थेनेत्ररागः स्वरक्षयः॥ क्षते च कृमयः शुक्रे स्वदारापत्यबाधनं॥ यथापूर्वं च सर्वाणि स्युर्लिगान्यसृगादिषु॥ कुष्ठैकसंभवं श्चित्रं किलासं दारुणं च तत्॥ निर्दिष्टमपरिस्रवि त्रिधातूद्भवसंश्रयं॥ वाताद्रूक्षारूणं पित्तात्ताभ्रंकमलपत्रवत्॥ सदाहं रोमविध्वंसिकफाच्छ्वेतंघनं गुरु॥ सकंडु च क्रमाद्रक्तमांसमेदःसु चादिशेत्॥ वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरं॥ अशुक्लरोमाबहलमसंसृष्टं मिथो नवं॥ अनग्निदग्धजंसाध्यं श्चित्रं वर्ज्यमतोऽन्यथा॥ गृह्यपाणितलौष्ठेषु जातमप्यचिरंतनं॥ वर्जनीयं विशेषेण किलासंसिद्धिमिच्छता॥ स्पर्शैकाहारशय्यादि-सेवनात्प्रायशो गदाः॥ सर्वे संचारिणो नेत्रत्वग्विकारा विशेषतः॥ कृमयस्तु द्विधा प्रोक्ता बाह्याभ्यंतरभेदतः॥ बहिर्मलकफासृग्विट्जन्मभेदाच्चतुर्विधाः॥ नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः॥ तिलप्रभाणसंस्थान-वर्णाः केशांबराश्रयाः
हुपादाश्च सूक्ष्माश्च यूकालिक्षाश्चनामतः॥ द्विधा ते कोठपिडकाकंडूगंडन्प्रकुर्बते॥ कुष्ठैकहेतवोंऽतर्जाःश्लेष्मजास्तेषु चाधिकं॥ मधुरान्नगुडक्षीरदधिसुक्तनवौदनैः॥शकृज्जा बहुविट्धान्यपर्णशाकोलकादिभिः॥ कफादामाशये जाता वृद्धाः सर्पंति सर्वतः॥ पृथुवध्रनिभाःकेचित्केचिद्गंडूपदोपमाः॥ रूढधान्यांकुराकारास्तनुदीर्घास्तथाऽणवः॥ श्वेतास्ताम्राव- भासाश्चनामतः सप्तधातु ते॥ अंत्रादा उदरावेष्टा हृदयादा महाकुहाः॥ कुरवोदर्भकुसुमाः सुगंधास्तेच कुर्वते॥ हृल्लासमास्यस्रवणमविपांकमरोचकं॥ मूर्च्छाच्छार्दज्वरानाहकार्श्यक्षवथुयीनसान्॥ रक्तवाहि-सिरास्थाना रक्तजा जंतवोऽणवः॥ अपादवृत्तताम्राश्चसौक्ष्म्यात्केचिददर्शनाः॥ केशादा लोमविध्वंसा लोमद्वीपा उदुंवराः॥ षट्तेकुष्ठैककर्माणः सहसौरसमातरः॥ पक्वाशये पुरीषोत्थाजायंतेऽघोविसर्पिणः॥ वृद्धास्ते स्युर्भवेयुश्च ते यदाऽऽमाशयोन्मुखाः॥तदा302स्योद्गारनिःश्वाविसड्गंधानुविधायिनः॥ पृथुवृत्ततनुस्थूलाः श्यावपीतभितासिताः॥ ते पंच नाम्ना कृमयः ककेरुकमकेरुकाः॥
सौसुरादाः सलूनाख्या लेलिहा जनयंति च॥ विड्भेदशूलविष्टंभकार्श्यपारुष्यपांडुताः॥ रोमहर्षाग्निसदनगुदकंडूर्विनिर्गमात्॥॥ इति कुष्ठकृमि-निदानं नामचतुर्देशोऽध्यायः॥१४॥
अथातोवातव्याधिनिदानं व्याख्यास्यामः॥सर्वार्थानर्थकरणे विभ्वस्यास्यैककारणं॥ अदुष्टदुष्टः पवनःशरीरस्य विशेषतः॥ स विश्वकर्माविश्वात्मा विश्वरुपः प्रजापतिः॥ स्रष्टाधाता विभुर्विष्णुः संहर्ता मृत्युरंतकः॥ तददुष्टौप्रयत्नेन यतितव्यमतः सदा॥ तस्योक्तं दोषविज्ञानेकर्मप्राकृतवैकृतं॥ समासाह्यासतो दोषभे दीये नाय धाम च॥ प्रत्येकं पंचधा चारो व्यापारश्चेह वैकृतं॥
तस्योच्यते विभागेन सनिदानं सलक्षणं॥ असंस्यमवि संख्यायै यदशीत्या पुरेरितं॥ धातुक्षयकरैर्वायुः कुत्ध्यत्यतिनिपेवितैः॥ चरन्स्रोतस्सु रिक्तेषुभृशं तान्येव पूरयन्॥ तेभ्योऽन्यदोषपूर्णेभ्यः प्राप्य वा ऽऽवरणं वली॥ तत्र पक्वाशये कुद्धः शूलानाहांत्रकूजनं॥ मलरोधाश्मवर्ध्मार्शास्त्रिकपृष्ठकटीग्रहं॥ करोत्यधरकाये च तांस्तान्कृच्छ्रानुपद्रवान्॥ आमाशये तृद्वमथुश्वासकासविसूचिकाः॥ कंठोपरोधमुद्गारान् व्याधीनूर्ध्वं च नाभितः॥ श्रोत्रादिण्विंद्रियवधं त्वचि स्फुटननरुक्षते॥ रक्ते तीव्रारुजः स्वापंतापं रागं विवर्णतां॥ अरूष्पन्नस्यविष्टंभमरुचिंकृशतां भ्रमं॥ मांसमेदोगतो ग्रंथीस्तोदाठ्यान्कर्कशान् भ्रमं॥ गुर्वगं चाति-रुक्स्तभं मुष्टिदंडहतोपमं॥ अस्थिस्थः सक्थिसंध्यस्थिशूलं तीव्रं वलक्षयं॥ मज्जस्थोऽस्थिषु सौपिर्यमस्वप्नंस्तब्धतां रुजं॥ शुक्रस्य शीघ्रमृत्सर्गं संगं विकृतिमेव वा॥ तद्वद्गर्भस्यशुक्रस्थः सिरास्वाध्मान-रिक्तते॥ तत्स्थः स्रावस्थितः कुर्याद्गृध्रस्यायामकुब्जताः॥ वातपूर्णदृतिस्पर्शं शोफंसंधिगतोऽनिलः॥ प्रसारणाकुंचनयोः प्रवृत्तिं च सवेदनां॥ सर्वांगसंश्रवस्तोदभेदस्फुरणभंजनं॥ स्तंभनाक्षेपणस्वापसंध्याकुंचन-कंपनं॥ यदा तु धमनी. सर्वाः कुद्धोऽभ्येति मुहुर्मुहुः॥ तदांगमाक्षिपत्येष व्याधिराक्षेपकः स्मृतः॥ अधःप्रतिहतो वायुर्व्रजत्यूर्ध्वंहृदाश्रिताः॥ नाडीः प्रविश्य हृदृयं शिर.शंखौच पीडयन्॥ आक्षिपेत्परितोगात्रं धनुर्वच्चास्य नामयेत्॥ कृच्छ्रादुच्छ्वसिति स्तब्धस्रस्तमीलितदृक्ततः॥ कपोतइव कूजेच्च नि.संज्ञः सोऽपतंत्रकः॥ स एव चापतानाख्यो मुक्ते तुमरुता हृदि॥ अश्नुवीत मुहुःस्वास्थ्यं मुहुरस्वास्थ्यमावृते॥ गर्भपातसमुत्पन्नः शोणितातिस्रवोत्थितः॥ अभिघातसमुत्थश्चदुश्चिकित्स्यतमों हि सः॥ मन्ये संस्तभ्य वातोंऽतरुपेत्य धमनीर्यटा॥ व्याप्नोति सकलंदेहं जत्रुरायम्यते
तदा॥ अंतर्धनुरिवांगं च वेगैःस्तंभं च नेत्रयोः॥ करोति जृंभां दशनं दशनानां कफोट्वमं॥ पार्श्वयोर्वेदनां वाक्यहनुपृष्ठकटिग्रहं303॥ अंतरायामइत्येप वाह्यायामश्चतद्विधः॥ देहस्य रुप वहिरायामात्पृष्ठतो हियते शिरः॥ उरश्चोत्क्षिप्यते तत्र कंधरा चावमृद्यते॥ दंतौष्ठास्येच वैवर्ण्यं प्रस्वेदः स्रस्तगात्रता॥ वाह्यायामं धनुःकंपं ब्रुवते वेगिनं च तं॥ व्रणं मर्माश्रितं प्राप्य समीरणसमीरणात्॥ व्यायच्छंति तनुं दोषाःसर्वामापादमस्तकं॥ तृप्यतः पांडुगात्रस्यव्रणायामः स वर्जितः॥ गते वेगे भवेत्स्वास्थ्यं सर्वेष्वाक्षेपकेषु तु॥ जिव्हाति-लेखनाच्छुष्कमक्षणादभिधाततः॥कुपितोहनुमुलस्थः स्रंसयित्वा ऽनिलो हनू॥ करोति विवृतास्यत्वमथवा संवृतास्यतां॥ हनुस्रंमः स तेन स्यात्कृच्छ्राच्चर्वणभाषणं॥वाग्वाहिनीसिरासंस्थोजिव्हांस्तंभयते ऽनिलः॥ जिब्हास्तंभः स तेनान्नपानवाक्येष्वनीशता॥ शिरसा भारहरणादतिहास्पप्रभापणात्॥ उच्चासवक्रक्षवधुखर-कार्मुककर्षणान्॥ विपमादुपधानाच्च कठिनानां च चर्वणात्॥ वायुर्विवृद्धस्तैस्तैश्चवातलैरूर्ध्वमास्थितः॥ वक्रीकरोति वक्रार्द्धमुक्तं हसितमीक्षितं॥ ततोऽस्य कंपने मूर्द्धा वाक्संगः स्तब्धनेत्रता॥ दंतचालःस्वरश-भ्रंशः श्रुतिहानिः क्षवग्रदः॥गंधाज्ञानं स्मृतेर्मोहस्रासः सुप्तस्य जायते॥निष्ठीवः पार्श्वतोयायादेकस्यपाक्ष्णो निमीलनं॥ जत्रोरूर्ध्वं रुजास्तीव्राःशरीरार्धैऽधरेऽपि वा॥ तमाहुरर्दितं केचिदेकायाममथाप्रे॥ रक्तमाश्रित्य पवनः कुर्यान्मूर्द्धधराः सिराः॥ रुक्षाः सवेदनाः कृप्णा. सोऽसाध्यः स्याच्छिराग्रहः॥ गृहीत्वाऽर्द्धं तनोर्वायुःसिराःस्रायूर्विशोष्य च॥ पक्षमन्यतरं हंति संधिवंधा- न्विमोक्षयन्॥ कृत्स्नोऽर्द्धकायस्तस्य स्यादकर्मण्यो विचेतन॥ एकांगरोगंतं केचिदन्ये पक्षवधं विदुः॥ सर्वोगरोगं
तद्वच्च सर्वकायाश्रयेऽनिले॥ शुद्धवातहतः पक्षः कृच्छ्रसाध्यतमोम
++॥ कृच्छ्रस्त्वन्येन संसृष्टो विवर्ज्यःक्षयहेतुकः॥ आमबद्धायनः कुर्यात्संस्तभ्यांगंकफान्वितः॥ असाध्यं हतसर्वेहं दंडवद्दंडकं मरुत्॥ अ+++समूलस्थितो वायुः सिराः संकोच्य तत्रगाः ॥ बाहुप्रस्पंदितहरं जनयत्यवबाहुकं॥ तलंप्रत्यंगुलीनां या कंडरा बाहुपृष्ठतः॥ बाहुचेष्ट+++ पहरिणी विश्वाची नाम सा स्मृतां॥ वायुः कट्यांस्थितः सक+++कंडरामाक्षिपेद्यदा॥ तदा खंजो भवेज्जंतुः पंगुः सक्थ्रोर्द्वयोरपिकंपते गमनारंभे खंजन्निव प्रयाति यः॥ कलाथखंजं तंविद्यान्क्त++++संधिप्रवंधनं॥ शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निपेवितैः॥ जीर्ण++ जीर्णे तथाऽयाससंक्षोभस्वप्रजागरैः॥सश्लेष्ममेद.पवनमाममत्यर्थस+++ चितं॥ अभिभूयेतरं दोषमूरुचेत्प्रतिपद्यते॥सक्थ्यस्थीनि प्रपुयं++++तः श्लेष्मणा स्तिमितेन तत्॥ तदा स्तभ्राति तेनोरूस्तब्धौ शीत+++ वचेतनौ॥ परकीयाविव गुरु स्थातामतिभुशव्यथौ॥ ध्यानांगमः++स्तैमित्यतंद्राच्छर्द्यरुचिज्वरैः॥ संयुतौपादसदनकृच्छ्रोद्धरणसुप्तिभिः+++॥ तमूरुस्तंभमित्याहुराढ्यवातं तथा परे॥ वातशोणितजः शो+++जानुमध्ये महारुजः॥ ज्ञेयःकोष्टुकशीर्षस्तु स्थूलःकोष्टुकशीर्ष++++त्॥ रुक्पादे विषमे न्यस्ते श्रमाद्वाजायते यदा॥वातेन गुल्फ+++श्रित्य तमाहुर्वातकंटकं॥ पार्ष्णिंप्रत्यगुलीनां या कंडरा मारुता+++ता॥ संक्थ्युत्क्षेपं निगुण्हाति गृध्रसीं तां प्रचक्षते॥ विश्वाची304++++सी चोक्ता खल्ली तीव्ररुजान्विते॥ हृष्येते चरणौयस्य भवेतां प्रसुप्तवत्॥ पादहर्षःस विज्ञेयः कफमारुतकोपजः॥ पाद++++ कुरूते दाहंपित्तासृक्सहितोऽनिलः॥ विशेषतश्चंक्रमते पादादाहं+++ मादिशेत्॥ इति वातव्याधिनिदानं नाम पंचदशोऽध्यायः॥१५॥
अथातो वातशोणिवनिदानं व्याख्यास्यामः॥ विदाह्यन्नं विरुद्धं च तत्तथाऽसृक्प्रदूषणं॥ भजतां विधिहीनं च स्वप्नजागरमैथुनं॥ प्रायेण सुकुमाराणामरचंकमणशीलिनां॥ अभिघातादशुद्धेश्च नृणामसृजि दूषिते॥ वातलैःशीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गगः॥ तादृशेनासृजा रुद्धः प्राक् तदेव प्रदूषयेत्॥ आढ्यरोगं खुडं वातबलासंवावशोणितं॥ तदाहुर्नामभिस्तच्च पूर्वं पादौ प्रधावति॥ विशेषाद्यानयानाद्यैःप्रलंबौतस्य लक्षणं॥ भविष्यतः कुष्ठसमं तथा. सादः श्लथांगता॥ जानुजंघोरुकट्यंसहस्तपादांगसंधिषु॥ कंडूस्फुरण-निस्तोदभेदगौरवसुप्तताः॥ भूत्वा भूत्वा प्रणश्यंति मूहुराविर्भवंति च॥ पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि॥ आखोरवि विषं कुद्धं कृत्स्रं देहंविधावति॥ त्वड्यासाश्रयमुत्तानंतत्पूर्वं जायते ततः॥ कालांतरेण गंभीरं सर्वान्धातूनभिद्रवत्॥ कंड्वादिसंयुवोत्ताने त्वक् ताम्रा शावलोहिता॥ सायामा भृश-दाहोषा गंभीरेऽधिकपूर्वरुक्॥ श्वयथुर्ग्रथितः पाकी वायुः संध्यस्थिमज्जसु॥ छिंदन्निव चरत्यंतर्वकी-कुर्वंश्चवेगवान्॥ करोति खंजं पंगुं वा शरीरे सर्वतश्चरन्॥ वातेऽधिकेऽधिकं तत्र शृलस्फुरणतोदनं॥ शोफस्य रूक्षकृष्णत्वश्यावतावृद्धिहानयः॥ धमन्यंगुलिसंधीनां संकोचोंऽगग्रहोऽति-रुक्॥ शीतद्वेषानुप-शयौस्तंभवेपथुसुप्तयः॥ रक्ते शोफोऽतिरुक्तोदस्ताम्रश्चिमिचिमायते॥ स्निग्धरूक्षैःशमं नैति कंडूक्लेद-समन्वितः॥ पित्ते विदाहः संमोहः स्वेदो मृर्च्छामदः सतृट्॥ स्पर्शाक्षमत्वं रुग्रागः शोफः पाको भृशोष्मता॥ कफे स्तैमित्यगुरना सुप्तिस्निग्धत्वशीतताः॥ कंडूर्मंदा च रुग्द्वंद्वसर्वलिंगं च प्रकरे॥ एकदोपानुगं साध्यं नवं याप्यं द्विदोषजं॥ त्रिदोपजं त्यजेत्स्रवि स्तब्धमर्वुदकारि च ॥ रक्तमाग निहत्याशु शाख़ासंबिपु मासतः॥ विरश्पान्योन्यमाचायं वेदनानिर्हरत्यसून्॥ वायोंपंचात्मके प्राणो रौक्ष्यव्यायामलंघनैः॥ अत्याहाराभिघाताध्ववेगोदीरणधारणैः॥ कुपितश्चक्षुरादीनामुपघातं प्रवर्त्तयेत्॥ पीनसार्दिततृट्कासश्वासादींश्चामयान् बहून्॥ उदानः क्षवथूद्गारच्छर्दिनिद्राविधारणैः॥ गुरुभारातिरुदित-हासाद्यैर्विकृतो गदान्॥ कंठरोधमनोभ्रंशरच्छर्द्यरोचकपीनसान्॥ कुर्याच्च गलगंडादींस्तांस्तान्जत्रूर्ध्व-संश्रयान्॥ व्यानोऽति गमनध्यानक्रीडाविषममचेष्टितैः॥ विरोधिरुक्षभीहर्षविपादाद्यैश्चदूषितः॥ पुंस्त्वोत्साह-बलभ्रंशशोफवचित्तोत्प्लवज्वरान्॥ सर्वांगरोगनिस्तोदरोमहर्षांगसुप्तताः॥ कुष्ठं वीसर्पमन्यांश्च कुर्यात्सर्वांगगान् गदान्॥ समानो विषमाजीर्णशीतसंकीर्णभोजनैः॥ करोत्यकालशयनजागराद्यैश्च दूषितः॥ शूलगुल्मग्रहण्यादीन् पक्वामांशयजान् गदान्॥ अपानो रूक्षगुर्वन्नवेगाघातातिवाहनैः॥ यानयानासनस्थान-चंक्रमैश्चातिसेवितैः॥ कुपितः कुरुते रोगान् कृच्छ्रान्पक्वाशयाश्रयान्॥मूत्रशुक्रप्रदोषार्शोगुद-भ्रंशादिकान्बहून्॥ सर्वंच मारुतं सामं तंद्रास्तैमित्यगौरवैः॥ स्निग्धत्वारोचकालस्यशैत्यशोफाग्निहानिभिः॥ कटुरूक्षामिकापेण तद्विधोपशयेन च॥ युक्तं विद्यान्निरामं तु तंद्रादीनां विपर्ययात्॥ वायोरावरणं चातो बहुभेदं प्रचक्षते॥ लिंगं पित्तावृते दाहस्तृष्णा शूलंभ्रमस्तमः॥ कटुकोष्णाम्ललवर्णैर्विदाहः शीतकामता॥ शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकं॥ लंघनायासरूक्षोण्णकामता च कफावृते॥ रक्तावृते सदाहार्तिस्त्वड्यांसांतरजा भृशं॥ भवेच्च रागी श्वयथुर्जायंते मंडलानि च॥ मांसेन कठिनः शोफो विवर्णःपिडिकास्तथा॥ हर्षः पिपीलिकानां च संचारइव जायते॥ चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्वरोचकः॥ आढयवातइति ज्ञेयः सकृच्छ्रो मेदसाऽऽवृते॥ स्पर्शमस्थ्यावृतेऽत्युष्णं पीडनं चाभिनंदति॥ सूच्येवतुद्यतेऽत्यर्थमंगं सीदति शूल्यते॥ मज्जावृते विनमनं जृंभणं परिवेष्टनं॥ शूलंच पीडयमानेन पाणिभ्यां लभते सुखं॥ शुकावृतेऽतिवेगो वा न वा निष्फलताऽपि वा॥ भुक्तेकुक्षौ रुजा जीर्णे शाम्यत्यन्नावृतेऽनिले॥ मूत्राप्रवृत्तिराध्मानं बस्तेर्मूत्रावृते भवेत्॥ विडावृते विबंधोऽधः खे स्थाने परिकृंतति॥ व्रजत्याशु जरांस्नेहो भुक्ते चानह्यते नरः॥ शकृत्पीडितमन्ने न दुःखं शुष्कं चिरात्सृजेत्॥ सर्वधात्वावृते वायौ श्रोणिवंक्षण- पृष्ठरुक्॥ विलोमो मारुतोऽस्वास्थ्यं हृदयं पीडयतेऽपि च॥ भ्रमो मूर्च्छारुजा दाहः पित्तेन प्राणआवृते॥ विदग्धेऽन्ने च वमनमृदानेऽपि भ्रमादयः॥ दाहोंतरूर्जा305भ्रंशश्च दाहो व्याने तु सर्वगः॥ क्लमोंऽगचेष्टाभंगश्च ससंतापः सवेदनः॥ समान-ऊष्मोपहतिरतिस्वेदोऽरतिः सतृट्॥दाहश्च स्यादपाने तु मले हारिद्रवर्णता॥ रुजोऽतिवृद्धिस्तापश्चयोनिमेहनपायुषु॥ श्लेष्मणात्वावृते प्राणे सादस्तंद्रा रुचिर्वमिः॥ ष्ठीवनं क्षवथूद्गारनिःश्वासोच्छाससंग्रहः॥ उदाने गुरुगात्रत्वमरुचिर्वाक्खरग्रहः॥ बलवर्णप्रणाशश्चव्याने पर्वास्थिवाग्ग्रहः॥ गुरुतांऽगेषु सर्वेषु स्खलितं च गतौभृशं॥ समानेऽति-हिमांगत्वमस्वेदोमंदववन्हिता॥ अपाने सकफे मूजरशरुतः स्यासमवर्तनं॥ इति द्वाविंशतिदिधं वायोरावरणं विदुः॥ प्राणादयत्तथाऽन्योन्यमामावृण्वंति यथाक्रमं॥ सर्वेऽपि विंशतिविधं विद्यादावरणं च तत्॥ निःश्वासोच्छ्वाससंरोधः प्रतिश्यापः शिरोग्रहः॥ हृद्रोगो मुखसोपश्च प्राणेनोदानआवृते॥ उदानेनावृते प्राणे वर्णौजोबलसंक्षयः॥ दिशाऽनया च विभजेत्सर्वमावरणं भिपक्॥ स्थानान्यवेक्ष्य वातानां वृद्धि हानिं च कर्मणां॥ प्राणादीनां च पंचानां मिश्रमावरणं मिथः॥ पित्तादिभिर्द्वादशभिर्मिश्राणां मिश्रितैश्चतैः॥ मिश्रैः पित्तादिभिस्तद्वन्मिश्रेणाभिरनेकधा॥ तारतम्यविकल्पाच्च यात्यावृ
त्तिरसंख्यतां॥ तां लक्षयेदवहितोयथास्वं लक्षणोदयात्॥ शनैः शनैश्चोपशयाद्गूढामपि मुहुर्मुहुः॥ विशेषाज्जीवितं प्राण-उदानो वलमुच्यते॥ स्यात्तयोः पीडनाद्धानिरायुपश्च वलस्य च॥ आवृता वायवोऽज्ञाता ज्ञाता वा वत्सरं स्थिताः॥ प्रयत्नेनापि दुःसाध्या भवेयुर्वाऽनुपक्रमाः॥ विद्रधिप्लीहहृद्रोगगुल्माग्निसदनादयः॥भवंत्युपद्रवास्तेपामावृतानामुपेक्षणात्॥ ॥ इति वातशोणिनिदानं नाम षोडशोऽध्यायः॥१६॥ इतिश्रीसिंह-गुप्तसूनुश्रीमद्वाग्भटाचार्यविरचितेऽष्ठांगसंग्रहे तृतीयं निदानस्थानं संपूर्णं॥३॥छ॥
————
॥ श्री ॥
अष्टांगसंग्रहे
————
चिकित्सास्थानम् ४
॥श्रीगणेशाय नमः॥ अथातो ज्वरचिकित्सितं व्याख्यास्यामः॥इति ह स्माहुरात्रेयादयोमहर्षयः॥ आमाशयस्थों हत्वाग्निं सामो मार्गान्पिधापयन्306॥ विदधाति ज्वरं दोषस्तस्मात्कुर्वीत लंघनं307॥ प्राग्रापेषु ज्वरादौ वा वलं यत्नेन पालयन्॥ बलाधिष्ठानमारोग्यमारोग्यार्थः क्रियाक्रमः॥ लंघनैःक्षपिते दोषे दीप्तेऽग्नौलाघवे सति॥ स्वास्थ्यं क्षुतृड्रचिः पक्तिर्बलप्रोजश्च जायते॥ तत्रोत्क्लिष्टेसमुत्क्लिष्टे कफप्राये चले मले॥ सहृल्लासग्रसेकान्नद्वेषकासविसूचिके॥सद्योभुक्तस्य संजाते ज्वरे सांमे विशेषतः॥ वमनं वमनार्हस्य शस्तं कुर्यात्तदन्यथा॥ श्वासातिसारसंमोहहृद्रोगविषमज्वरान्॥ पिप्पलीभिर्युतान् गालान्कलिंगैर्मधुकेन वा॥ पीत्वोष्णतोयेन वमेन्मध्वंबुलवणांबु वा॥ पटोलनिंबकर्कोटवेत्रपत्रजलानि वा॥ पेयां मंडं रसं चेक्षोर्मद्यं कल्पोदितानि वा॥ वमनानि प्रयुंजीत बलकालविभागवित्॥कृतेऽकृतेवा वमने ज्वरी कुर्याद्विशोषणं॥ दोषाणां समुदीर्णानां पाचनाय शमाय च॥ आमेन भस्मनेवाग्नौच्छन्नेऽन्नंन विपच्यते॥ तस्मादादोषपचनाज्वरितानुपवासयेत्॥ तृष्यन्नल्पाल्पमुष्णांवुपिवेद्वातकफज्वरे॥ तत्कफं विलयं नीत्वा तृष्णामाशु निवर्तयेत्॥ उदीर्यचाग्निंस्त्रोतांसि मृदुकृत्वा विशोधयेत्॥ लीनपित्तानिलस्वेद-शकृन्मूत्रानुलोमनं॥ निद्राजाड्यारुचिहरंप्राणानामवलंबनं॥ विपरीतमतः शीतंदोषसंघातवर्द्धनं॥उष्णमेवंगुणत्वेऽपि युंज्यन्नैकांतपित्तले॥ उद्रिक्तपित्ते दवथुदाहमोहा- तिसारिणि॥ विषमद्योत्थिते ग्रीष्मे क्षतक्षीणऽस्रपित्तिनि॥ घनचंदनशुंठ्यंबुपर्पटोशीर-साधितं॥ शीतं तेभ्यो हितं तोयं पाचनं तृट्ज्वरापहं॥ ऊष्मा पित्तादृते नास्ति ज्वरो नास्त्यूष्मणा विना॥ तस्मात्पित्तविरुद्धानित्यजेत्पित्ताधिकेऽधिकं॥ स्नानाभ्यंगप्रदेहांश्च परिशेषंच लंघनं अजीर्णइव शूलघ्नंसामे तीव्ररुजि ज्वरे॥ न पिबेदौषधं तद्धि भूयएवामभावहेत्॥ आमाभिभूतकोष्ठस्यक्षीरं विषमहेरिव॥ सोदर्दषीनतरश्वासे जंषापर्वास्थिशूलिनि॥ वातश्लेष्मात्मके स्वेदःप्रशस्तःस प्रवर्तयेत्॥ स्वेदमूत्र-शकृद्वातान्कुर्यादग्नेश्चपाटवं॥ स्नेहोक्तमाचारविधिं सर्वतश्चानुपालयेत्॥ लंघनं स्वेनं कालो यवाग्वस्तिक्तको रसः॥ मलानां पाचनानि स्युर्यथावस्थं क्रमेण वा॥ शुद्धवातक्षयागंतुजोर्णज्वरिषुलंघनं॥ नेष्यते तेषुहि हितं शमनं यन्नकर्शनं॥ तत्र सामज्वराकृत्या जानीयादविशोषितं॥ द्विविधोपक्रमज्ञानमवेक्षेत च लंघने॥ युक्तं लंघितलिंगैस्तु तं पेयाभिरुपाचरेत्॥ यथास्वौषधसिद्धाभिर्मंडपुर्वाभिरादितः॥ षडहंवा मृदुत्वं वा ज्वरो यावटवाभुयात्॥ तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः॥ ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः॥ वातमूत्रपुरीपाणां दोषाणां चानुलोमिकाः॥ स्वेदनाय द्रवोवोष्णत्वान्मृदुत्वात्तट्प्रशांतये॥ आहारभा वात्प्राणाय सरत्वाल्लाघवाय च॥ ज्वरघ्नाज्वरसात्म्यत्वास्मात्वेयाभिरादितः॥ उपक्रमेज्ज्वरान्सर्वानृते मद्यसमुत्थितान्॥ प्राग्लाजपेयांसुजरांसशुंठीधान्यपिप्पलीं॥ ससैंधवां तथाम्लार्थी तां पिबेत्सहदाडिमां॥ सृष्टविड्बहुपित्तो वा सशुंठीमाक्षिकां हिमां॥ बस्तिपार्श्वशिर.शूली व्याघ्रीगोक्षुरसाधितां॥ पृश्निपर्णीबलाबि- ल्वनागरोत्पलधान्यकैः॥ सिद्धां ज्वरातिसार्यम्लां पेयां दीपनपाचनीं॥ह्रस्वेन पं
भ्रमुलेन हिध्मारुक्श्वासकासवान्॥ पंचमूलेन महता कफार्तोयवसाधितां॥ विबद्धवर्चाःसयवां पिप्पल्यामलकैःकृतां॥ यवागूं सर्पिषा भृष्टां मलदोषानुलोमर्नी॥ चविकापिप्पलीमूलद्राक्षाऽऽमलक-नागरैः॥ कोष्ठेविबद्धे सरुजि पिबेत्तु परिकर्तिनि॥ कोलवृक्षाम्लकलशीधावनीश्रीफलैः कृतां॥ अस्वेद-निद्रस्तृप्णार्त्तःसिताऽऽमलकनागरैः॥ सितावदरमृद्वीकासारिवासुस्तचंदनैः॥ तृष्णाछर्दिपरीदाहज्वरघ्नीं क्षौद्रसंयुतां॥ कुर्यात्पेयौषधैरेव रसयुपाविकानपि॥ मद्योद्भवे मद्यनित्ये पित्तस्थानगते कफे॥ ग्रीष्मे तयोर्वाऽधिकयोस्तृट्छर्दिर्दाहपीडिते॥ ऊर्ध्वं प्रवृते रक्ते च पेयां नेच्छंति तेषु तु॥ द्राक्षादाडिम- काश्मर्यपथ्यापीलुपरूपकैः॥ समधूकैः सबदरैःसक्षौद्रै.ससितोपलैः॥ज्वरघ्नैस्तोयमृदितैरद्भिर्वा लाजतर्पणं॥ पिबेत्सुसुक्ष्मरजसस्ततो जीर्णे तु तर्पणे॥ यवाग्वां चौदनंक्षुद्व्रनश्नीयाद्भृष्टतंदुलं॥ दकलावणिकैर्धूषैरसैर्वा मुद्गलावजैः॥ इत्ययं षडहोनेयो बलंदोषं च रक्षता॥ ततःपक्वेषुदोषेषु लंघनाद्यैःप्रशस्यते॥ कषायो दोषशेपस्यपाचनः शमनोऽथवा॥ तिक्तः पित्ते विशेषेण प्रयोज्यः कटुक. कफे॥ पित्तश्लेष्महरत्वेऽपि कषायः स न शस्यते ॥॥ नवज्वरेमलस्तंभात्कषायो विषमज्वरं॥ कुरुतेऽरुचिहृल्लासहिध्माऽऽध्मानादिकानपि.॥ नु च्यवंते न पच्यंते कषायस्तंभिता मलाः॥ तिर्यग्गता विमार्गा वा वर्द्ध घंत्यपि च ज्वरं॥ बद्धामकफवातत्वाच्छूलानाहादिकानषि॥ सप्ताहाद्रौषधं केचिदाहुरन्ये दशाहतः॥ केचिल्लघ्वन्नभुक्तस्य योज्यमा मोल्वणे न तु॥ तीव्रज्वरपरीतस्य दोषवेगोदयोयतः॥ दोषेऽथवाऽतिनिचित तंद्रास्तैमित्यकारिणि॥ अपच्यमानं भैषज्यं भूयोज्वलयति ज्वरं॥ यदा ज्वरो मृदुर्देहोलघुःप्रचलिता मलाः॥ अचिरज्वरितस्यापि योजयेद्भेषजं तदा॥ मुस्तया पर्पटं युक्तं शुंठ्या. दुःस्पर्शयाऽपि वा॥पाक्यं शीतकषायं वा पाठोशीरं सवालकं॥
लंबनं॥विपरीतमतः शीतंदोषसंघातवर्द्धनं॥ उष्णमेवंगुणत्वेऽपि युंज्यान्नैकांतपित्तले॥ उद्रिक्तपित्ते दवथुदाहमोदहा- तिसारिणि॥ विषमद्योत्थिते ग्रीष्मे क्षतक्षीणे ऽस्रपित्तिनि॥ घनचंदनशुुंठ्यंबुपर्पटोशीर-साधितं॥ शीतंतेभ्यो हितं तोयं पाचनं तृट्ज्वरापहं॥ ऊष्मा पित्तादृते नास्तिज्वरो नास्त्यूष्मणा पिना॥ तस्मात्पित्तविरुद्धानि त्यजेत्पित्ताधिकेऽधिकं॥ स्नानाभ्यंगप्रदेहांश्चपरिशेषं च लंघनं॥ अजीर्णइव शूलघ्नं सामे तीव्ररुजिज्वरे॥ न पिवेदौषधं तद्धि भूयएवाममावहेत्॥आमाभिभूतकोष्ठस्यक्षीरं विपमहेरिव॥ सोदर्दपीनसश्वासे जंघापर्वास्थिशूलिनि॥ वातश्लेष्मात्मके स्वेदः प्रशस्तः स प्रवर्तयेत्॥ स्वेदमूत्र-शकृद्वतान्कुर्यादग्नेश्चपाठवं॥ स्नेहोक्तमाचारविधिं सर्वतश्चानुपालयेत्॥ लंघनं स्वेदनं कालो यवाग्वस्तिक्तको रसः॥ मलानां पाचनानि स्युर्यथावस्थं क्रमेण वा॥ शुद्धवातक्षयागंतुजीर्णज्वरिषुलंघनं॥ नेष्यते तेषुहि हितं शमनं यन्न कर्शनं॥ तत्र सामज्वराकृत्या जानीयादविशोषिनं॥ द्विविधोपक्रम-ज्ञानमवेक्षेतच लंघनं॥ युक्तं लंघितलिंगैस्तु तं पेयाभिरुपाचरेत्॥ यावस्वौषधसिद्धाभिर्मंडपूर्वाभिरादितः॥ षडहं वा मृदुत्वं वा ज्वरो यावटवाप्नुयात्॥ तस्याग्निर्दीष्पते ताभिः समिद्भिरिव पावकः॥ ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः॥ वातमूत्रपुरीपाणां दोषाणां चानुलोमिका.॥ स्वेदनाय द्रवोप्णत्वान्मृदुत्वात्तृट्प्रशांतये॥आहारभा वात्प्राणाय सरत्वाल्लाधवाय च॥ ज्वरघ्रा ज्वरसात्म्यत्वात्तस्मात्पेयाभिरादितः॥ उपक्रमेज्ज्वरान्सर्वानृते मद्यसमुत्थितान्॥ प्राग्लाजपेयां सुजरा सशुंठीधान्यपिप्पलीं॥ ससैंधवां तथाम्लार्थी तां , पिबेत्सहदाडिमां॥ सुष्टविड्बहुपित्तो वासशुंठीमाक्षिकों हिमां॥ वस्तिपार्श्वशिरःशूली व्याघ्रीगोक्षुरसाधितां॥ पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः॥ सिद्धां ज्वरातिसार्यम्लांपेयांदीपनपाचनीं॥ह्रस्वेन पंभ्रमूलेन हिध्मारुक्श्वासकासवान्॥ पंचमूलेन महता कफार्तोयवसाधितां॥विबद्धबर्चाः सयवां पिप्पल्यामलकैः कृता॥ यवागूं सर्पिषाभृष्टां मलदोषानुलोमनी॥ चविकापिप्पलीमूलद्राक्षाऽऽमलकनागरैः॥ कोष्ठे विबद्धे सरुजि पिबेत्तु परिककर्तिनि॥ कोलवृक्षाम्लकलशीधावनीश्रीफलैः कृता॥ अस्वेद-निद्रस्तृगष्णार्त्तःसिताऽऽमलकनागरैः॥ सितावदरमृद्विकासारिवामुस्तचंदनैः॥ तृष्णछर्दिपरीदाहज्वरघ्नीं क्षौद्रसंयुतां॥ कुर्यात्पेयौपधैरेव रसयूषादिकानपि.॥ मद्योद्भवे मद्यनित्ये पित्तस्थानगते कफे॥ ग्रीष्मे तयोर्वाऽधिकयोस्तृट्छर्दिर्दाहपीडिते॥ ऊर्ध्वंप्रवृत्तेरक्तेच पेयां नेच्छंति तेषु तु॥ द्राक्षादाडिम-काश्मर्यथ्यापीलुपरूषकैः॥ समधूकैः सबदरैः सक्षौद्रैः ससितोपलैः॥ ज्वरघ्नैस्तोयमृदितैरद्भिर्वा लाज-तर्पणं॥ पिबेत्सुसूक्ष्मरजसस्ततो जीर्णे तु तर्पणे॥ यवाग्वां चौदनं क्षुद्वानश्रीयाद्भृष्टतंदुलं॥ दकलावणिकैर्यूषैरसैर्वा मुद्गलावजैः॥ इत्ययं षडहोनेयो बलं दोषं च रक्षता॥ ततः पक्वेषुदोषेषु लंघनाद्यैःप्रशस्यते॥कषायो दोषशेषस्यपाचनः शमनोऽथवा॥ तिक्तः पित्ते विशेषेण प्रयोज्यः कटुक. कफे॥ पित्तश्लेष्महरत्वेऽपि कषायः स न शस्यते॥नवज्वरे मलस्तंभात्कषायो विषमज्वरं॥ कुरुतेऽरुचि-हृल्लासहिध्माऽऽध्मानादिकानपि॥ न च्यवंते न पच्यंते कषायस्तंभिता मलाः॥ तिर्यग्गता विमार्गावा बर्द्धयंत्यपि च ज्वरं॥ बद्धामककफवातत्वाच्छूलानादादिकानपि॥ सप्ताहादौषधं केचिदाहुरन्ये दशाहतः॥ केचिल्लध्वन्नभुक्तस्ययोज्यमा मोल्वणे न तु॥ तीव्रज्वरपरीतस्य दोपवेगोदयोयतः॥ दोपेऽथः वाऽक्तिनिचिते तंद्रास्तैमित्यकारिणि॥ अपच्यमानं भैषज्यं भूयो ज्वलयति ज्वरं॥ यदा ज्वरो मृदुर्देहो लवुः प्रचलिता मलाः॥ अचिरज्वरितस्यापि योजयेद्भेषजं तदा॥ मुस्तयापर्पटं युक्तं शुंठ्या दुःस्पर्शयाऽपि वा॥पाक्यं शीतकषायं वा पाठोशीरं सवालकं॥
पिबेतद्वच्च भूनिंवगुडूचीमुस्तनागरं॥ यथायोगमिमे योज्याः कषाया दोषपाचनाः॥ ज्वरारोचक-तृष्णाऽऽस्यवैरस्यापक्तिनाशनाः॥ पाठेंद्रयवभूनिंवमुस्तपर्पटकामृताः॥ जयंत्याममतीसारं ज्वरं च समहौषधाः॥ दुरालभाऽमृतामुस्तनागरं वातजे ज्वरे॥ अथवा पिप्पलीमूलगुडूचीविश्वभेषजं॥ कनीयः पंचमूलं वा पित्ते क्षौद्रसमन्विताः॥ कलिंगमुस्तकदुका मुस्तपर्पटकं तथा॥ सघन्वयासभूनिबंवत्सकाद्यो गणः कफे॥ अथवा वृषगांगेयीशृंगबेरदुरालभाः॥ रुग्विबंधानलश्लेष्मयुक्तेदीपलपाचनं॥ अभयापिप्पली-मूलशम्याककटुकाघनं॥ कलिंगकाःपठोलस्यपत्रंकठुकरोहिणी॥ पटोलंसारि वा मुस्ता पाठा कटुक-गेहिणी॥ पटोलनिंबजत्रिफलामृद्वीकामुस्तवत्सकाः॥ किराततिक्तममृताचंदनं विश्वभेषजं॥ धात्रीमुस्तामृता क्षौद्रमर्द्धश्लोकसमापनाः॥ पंचैते संततादीनांपंचानां शमना मताः॥ पटोलेंद्रयवारिष्टभद्र-मुस्तामृताऽभयाः॥ सारिवाद्वितयंपाठात्रायंती कटुरोहिणी॥ पटोलारिष्टमृद्वीकाशम्पाकत्रिफलाविषं॥ चंदनोशीरधान्याब्दगुडूचीविश्वभेषजं॥ देवदारुस्थिरा शुंठी वासाधात्रिहरीतकी॥ पंच पंचज्वरान् घ्नंति योगा मधुसितोत्कटाः॥ सगुडाः मारिवाद्राक्षाशताव्हाकणरेणुकाः॥ काश्मर्यसारिवाद्राक्षात्राय-माणाऽमृतागुडाः॥ शतपुष्पावचाकुष्टदेवदारुहरेणुकाः॥ शर्करामधुसंयुक्ताः समांसीमुस्तधान्यकाः॥ कृष्णापुनर्नवाद्राक्षाशताव्हागुडसा रिवाः॥ शालिपर्णीवलाद्रासारिवाछान्नसंभवाः॥ आरग्वधो बलारास्त्रा काश्मर्षंमधुकं गुडः॥ शतावरी छिन्नरुहा स्वरसो वा गुडान्वितः॥ सकृप्णजीरकसितानागरश्चामृतारसः॥ वातज्वरं जयंत्याशु केवलो वाऽमृतारसः॥ भार्ड्गीसरलगांगेयीदारुकुष्ठैलवालुकं॥ कोष्णं घृतगुडोपेतं पिवेद्वावातजे ज्वरे॥ पटोलादिगुडूच्यादी सुत्रोक्तौपित्त जे ज्वरै॥ अंजनादिः सकाश्मर्यःसारिवादिः सशर्करः॥ सितामधुककाश्मर्यशीतोशीरपरूपकं॥ गुडूचीसारिवारोध्रंकमलोत्पलशर्कराः॥ द्राक्षाऽभयातिक्तघनशम्याक-फलपपर्पटं॥ श्यामापर्पटदुःस्पर्शातिक्तातिक्तसितावृषाः॥ शर्करातिक्तकटुत्रायमाणाबिभीतकं॥ गुडूच्यामलकैर्युक्तःकेवलो वाऽपि पर्पटः॥ कषायो वा हिमस्तिक्ताद्राक्षामधुकनिंवजः॥ पित्तज्वरघ्नी तिक्ता वा श्लक्ष्णपिष्टासशर्करा॥ कफजेऽतिविपो- शीरपटोलमरिचक्षपाः॥ समूर्वेंद्रयवद्वीपिकुष्टनिंब-वचागुडाः॥ सप्तच्छदामृतानिंवस्फूर्जातंमाक्षिकान्वितं॥ निशात्रिकटुकंतिक्तानागपुष्पकालिंगकाः॥ सारिवाऽतिविपा-कुष्टदुःस्पर्शामुस्तगुग्गुलु॥ परूपं त्रिफला तिक्ता वीजं वृषकजं घनं॥ नागरत्रि-फलामुस्तामुर्वापाठाः समाक्षिकाः॥ संसर्गसन्निपातेषु मिश्रानेतान्विकल्पयेत्॥ गोकंटकबलादर्भाः ससिता वातपित्तजे॥ द्राक्षामलकभूनिंबाः सगुडूचीशठीगुडाः॥ त्रायंतीसारिवाद्राक्षाकाश्मर्यच्छिन्नजागुडाः॥ द्राक्षामसूरत्रायंती-गुडूचीसारिवावलाः॥ द्राक्षामधूकमधुकरोध्रकाश्मर्यसारिवाः॥ मुस्तामलकव्हीवेरपद्मकेसरपद्मकं॥ मृणाल-चंदनोशिरनीलोत्पलपरूपकं॥ फांटोहिमो वा द्राक्षादिर्जाती-कुसुमवासितः॥ युक्तो मधुसिता-लाजैर्जयत्यनिलपित्तजं॥ ज्वरं मदात्ययं छार्दमूर्छांदाहं श्रमं भ्रमं॥ ऊर्ध्वगं रक्तपित्तं च पिपासां कामलामपि॥ कफवातेवचानिक्तापाठाऽऽरग्वधवत्सकाः॥ पिप्पलीचुर्ण-युक्तो वा क्वाथश्छिन्नोद्भवोद्भवः॥व्याघ्रीशुंठ्यमृताक्वाथःपिप्पलीचूर्णसंयुतः॥ वातश्लेष्मज्वरश्वासकापीनसशुलजित्॥ पथ्याकुस्तुंबरीमुस्त-शुंठीकट्तृणपर्पटं॥ सकट्फलवचाभार्ङ्गदिवान्दं मधुहिंगुमत्॥ कफवातज्वरष्ठीवकुक्षहृत्पार्श्ववेदनाः॥ कंठामयास्यश्वपथुकासश्वासान्नियच्छति॥ आरग्वधादिः सक्षौद्रः कफपित्तज्वरं जयेत्॥ तथा तिक्तवृषोशीर-त्रायंतीत्रिफलाऽमृताः॥ पटोलातिविषानिंबमूर्वाधन्वयवासकाः॥ वृषपुष्पच्छदरसः शर्करामाक्षिकान्वितः॥ पित्तश्लेष्मज्वरं हंति सासृक्पित्तं
सकामलं॥अनंताविश्वभैषज्यकटुकातोयतोयदाः॥ ज्वरतृड्भ्रमसं मोहधूमकाम्लकनाशनाः॥सन्निपात-ज्वरेव्याघ्रीदेवदारुनिशाघनं॥पटोलपत्रनिंवत्वक्त्रिफलाकटुकायुतं॥ मुस्तापर्पटकं पथ्या मृद्वीका कटुरोहिणी॥ त्रायंतीकणतन्मूलद्राक्षापथ्यामधूलिकाः॥ त्रिफलोशीरषड्ग्रंथायष्टिमधुबलाघनाः॥ नागरं पौष्करं मूलंगुडूची कंटकारिका॥ सकासश्वासपार्श्वार्तौवावश्लेष्मोत्तरे ज्वरे॥ मधुकपुष्पमृद्बीकात्राय-माणापरूषकं॥ सोशीरतिक्तात्रिफलाकाश्मर्यं कल्पयेद्धिमं॥ कषायं तं पिवन्कालेज्वरान्सर्वानपोहति॥ जात्यामलकमुस्तानि तद्वद्धन्वयवासकं॥ बद्धविट् कटुकाद्राक्षात्रायंनीत्रिफलगुडान्॥ जीर्णौषधोऽन्नं पेयाद्यमाचरेच्छ्वेष्मवान्न तु॥ पेया कफं वर्द्धयति पंकं पांसुषुवृष्टिवत्॥ श्लेष्माभिष्मन्नदेहानामतःप्रागपि योजयेत्॥ यूषान्कुलत्थचणककलायादिकृतान् लघून्॥ रुक्षांस्तिक्तरसोपेतान्हृद्यान् रुचिकरान् पटून्॥ रक्ताद्याः शालयोजीर्णाःपष्टिकाश्चज्वरे हिताः॥ श्लेष्मोत्तरे वीततुपास्तथा वाटीकृता308 यवाः॥ ओदनस्तैः सुतोद्विस्त्रिः प्रयोक्तव्योयथायथं॥ दोषदूष्यादिवलतो ज्वरघ्नक्वाथसाधितः॥ मुद्गाद्यैर्लघुभिर्यूपाः कुलत्थैश्च ज्वरापहाः॥ कारवेल्लककर्काटबालमूलकषर्पटैः॥वार्ताकनिंवकुसुमपटोलफलपंल्लवैः॥ अत्यंत-लघुभिर्मासैर्जागलैश्च हिताः रसाः॥ व्याघ्रीपरुषतर्कारीद्राक्षाऽऽमलक दाडिमैः॥ संस्कृताः पिप्पलीशुंठी-धान्यजीरकसैंधवैः॥ सितामधुभ्यां प्रायेण संयुता वा कृताकृताः॥ अनम्लतक्रसिद्धानि रूच्यानि व्यंजनानि च॥ अच्छान्यनलसंपन्नान्यनुपानेऽपि योजयेत्॥ तानि क्वथिनतशीतं च वारि मद्यंच सात्म्यतः॥ कषायपानपथ्यान्नैर्दशाह इतिं लंघिते॥ सर्पिर्दद्यात्कफे मंदे वातपित्तोत्तरे ज्वरे॥ पक्वेषु दोषेष्वमृतं तद्विषोपममन्पथा॥ दशाहे स्यादतीतेऽपि ज्वरोपद्रवृद्धिकृत्॥ लंघनादिक्रमंतत्र कुर्यादाकफसंक्षयात्॥ सज्वरं ज्वरमुक्तं वा दिनांतेभोजयेल्लघु॥ श्लेष्मक्षय-विवृद्धोष्माबलवाननलस्तदा॥ यथोचितेऽथवा काले देशसात्म्यानुरोधतः॥ प्रागल्पवन्हिर्भुंजानो न ह्यजीर्णेनपीड्यते ॥ इति ज्वरचिकरित्सितं नाम प्रथमोऽध्यायः॥१॥
अथातो जीर्णज्वरचिकित्सितं व्याख्यास्यामः॥ देहधात्ववलत्वेन ज्वरो जीर्णोऽनवर्तते॥ रूक्षं हि तेजो ज्वरकृत्तेजसा रूक्षितस्य च॥ वमनस्वेदक्रालांवुकपायलघुभोजनैः॥ यः स्यादतिबलो धातुः सहचारी सदागतिः॥ तस्यसंशमनं सर्पिर्दीप्तस्येवांवु वेश्मनः॥ वातपित्तजिताग्र्यं संस्कारं चानुरुध्यते॥ सुतरां तत्ध्यतो दद्याद्यथास्वौषधसाधितं॥ विपरीतं ज्वरोष्माणं जयेत्पित्तं च शैत्यतः॥ स्नेहाद्वातं धृतंतुल्ययोगसंस्कारतःकफं॥ पूर्वेकषायाः सघृताः सर्वेयोज्या यथामलं॥ त्रिफलापिचुमंदत्वड्मधुकं बृहतीद्वयं॥ समसूरदलं क्वाथःसघृतोज्वरकासहा॥ निदिग्धिकातामलकीत्रायमाणाकलिंगकैः॥कृष्णांऽशुमत्यतिविषाकटुकासेव्यचंदनैः॥ धात्रीबिल्वघनद्राक्षासारिवाभिश्च साधितं॥ हंति सद्योघृतं जीर्णज्वरं कासं हलीमकं॥ अरुचिं विषमं वह्निं यक्ष्माणं च नवोत्थितं॥ वासागुडूत्रिफलात्रायमाणाय-वासकात्॥ क्वाथे क्षीरे च विपचेज्ज्वरघ्नं कल्कितैर्घृतं॥ पिप्पलीमुस्तमृद्वीकाचंदनोत्पलनागरैः॥ दुरालभावलामुस्तायंतीनिंबपर्पटान्॥ पंचमुलं कनीयश्च क्वाथयित्वा घृतं पचेत्॥ सक्षीरं कल्कितेर्द्राक्षा-मेदाऽऽमर्कपुष्करैः॥ शठीतामलकीयुक्तैस्तच्च ज्वरहरंपरं ॥ क्षय- कासशिरःपार्श्वहृच्छूलांसाभिताप-नुत्.॥ कुलत्थकोलत्रिफलादशमूलयवान् पचेत्॥ द्विपलान्सलिलद्रोणे पूतै पिष्ट्वाऽक्षकान्क्षिपेत्॥ पंचकोलकसप्ताव्हवयस्थानिंवतुंबरु॥ शठीपुष्करमूलार्कमूलप्रतिविषावचाः॥ किरातं तिक्तकं मुस्तं कर्कटास्यां दुरालभां॥ नक्तमालमुभे पाठे कठुकाशिग्रुतेजनीः॥ सामवल्कद्विरसकामलं॥ अनंताविश्वभैषज्यकटुकातोयतोयदाः॥ ज्वरतृड्भ्रमसं मोहधूमकाम्लकनाशनाः॥ सन्निपात-ज्वरेव्याघ्रीदेवदारुनिशाघनं॥पटोलपत्रनिंवत्वक्त्रिफलाकटुकायुतं॥ मुस्तापर्पटकं पथ्या मृद्वीका कटुरोहिणी॥ त्रायंतीकणतन्मूलद्राक्षापथ्यामधूलिकाः॥ त्रिफलोशीरषड्ग्रंथायष्टिमधुबलाघनाः॥ नागरं पौष्करं मूलंगुडूची कंटकारिका॥ सकासश्वासपार्श्वार्तौवातश्लेष्मोत्तरे ज्वरे॥ मधुकपुष्पमृद्वीकात्राय-माणापरूषकं॥ सोशीरतिक्तात्रिफलाकाश्मर्यंकल्षयेद्धिमं॥ कषायं तं पिवन्काले ज्वरान्सर्वानपोहति॥ जात्यामलकमुस्तानि तद्वद्धन्वपवासकं॥ वद्धविट्कटुकाद्राक्षात्रायंतीत्रिफलागुडान्॥ जीर्णौषधोऽन्नं पेयाद्यमाचरेच्छ्वेष्मवान्नतु॥पेयाकफं वर्द्धयति पंकं पांसुपु दृष्टिवत्॥ श्लेष्माभिप्पन्नदेहाहानामतः प्रागपि योजयेत्॥ यूपान्कुलत्थचणककलायादिकृतान् लघून्॥ रुक्षांस्तिक्तरसोपेवतान्हृद्यान् रुचिकरान् पटून्॥ रक्ताद्याःशालयो जीर्णाः षष्टिकाश्च ज्वरे हिताः॥ श्लेष्मोत्तरे वीततुषास्तथा वाटीकृता309 यवाः॥ ओदनस्तैः स्त्रुवोद्वि- स्त्रिःप्रयोक्तव्योयथायथं॥ दोषदूष्यादिवलतो ज्वरघ्नक्वाथसाधितः॥ मुद्गाद्यैर्लघुभिर्यूषाः कुलत्थैश्चज्वरापहा.॥ कारवेल्लककर्कोटबामूलकपर्पटैः॥ वार्ताकनिंवकुसुमपटोलफलपंल्लवैः॥ अत्यंत-लघुभिर्मासैर्जांगलैश्च हिता रसाः॥ व्याघ्रीपरुषतर्कारीद्राक्षाऽमलक दाडिमैः॥ संस्कृताःपिप्पलीशुंठीधान्य-जीरकसैंधनैः॥ सितामधुभ्यां प्रायेण संयुता वा कृताकृताः॥ अनम्लतकसिद्धानि रुच्यानि व्यंजनानि च॥ अच्छान्यनलसंपन्नान्यनुपानेऽपि योजयेत्॥ तानि क्वथिनशीतं च वारि मद्यंच सात्म्मतः॥ कषायपान-पथ्यान्नैर्दशाहइति लंघिते॥ सर्पिर्दद्यात्कफे मंदे वातपित्तोत्तरे ज्वरे॥ पक्वेषु दोषेष्वमृतं तद्विषोपममन्यथा॥ दशाहे स्यादतीतेऽपि ज्वरोपद्रववृद्धिरूत्॥ लंघनादिकमं तत्र कुर्यादाकफसंक्षयात्॥ सज्वरं ज्वरमुक्तं वा दिनांते भोजयेल्लघु॥ श्लेष्मक्षय-विवृद्धोष्मावलवाननलस्तदा॥ यथोचितेऽथवा काले देशसात्म्पानुरोधतः॥ प्रागल्पवन्हिर्भुंजानोन ह्यजीर्णेन पीडयते॥ इति ज्वरचिकित्सितं नाम प्रथमोऽध्यायः॥१३॥
अथातोजीर्णज्वरचिकित्तसितं व्याख्यास्यामः॥ देहधात्वबलत्वेन ज्वरो जीर्णोऽनवर्तते॥ रूक्षं हि तेजो ज्वरकृत्तेजसा रूक्षितस्य च॥वमनस्वेदकालांवुकपायलघुभोजनैः॥ यः स्यादतिबलोधातुः सहचारी सदागतिः॥ तस्य संशमनं सर्पिदीप्तस्येवांबु वेश्मनः॥ वातपित्तजितामग्र्यंसंस्कारं चानुरुध्यते॥ सुतरां तत्ध्यतोदद्याद्यथास्वौषधसाधितं॥ विपरीते ज्वरोप्माणं जयेत्पित्तं च शैत्यतः॥ स्नेहाद्वातं घृतं तुल्ययोगसंस्कारतः कफं॥पुर्वे कषायाः सघृताः सर्वे योज्या यथामलं॥ त्रिफलापिचु-मंदत्वड्मधुकं बृहतीद्वयं॥ समसूरदलं क्वाथः सघृतोज्वरकासहा॥ निदिग्धिकातामलकीत्राय-माणाकलिंगकैः॥ कृष्णांऽशुमत्यतिविपाकटुकासेव्यचंदनैः॥धात्रीबिल्वघनद्राक्षासारिवाभिश्च साधितं॥ हंति सद्यो वृतं जीर्णज्वरं कासं हलीमकं॥ अरुचिं विषमं वह्निं यक्ष्माणं च नवोत्थिनं॥ वासागुडूची-त्रिफलात्रायमाणायवासकात्॥ क्वाथेक्षीरे च विषचेज्ज्वरघ्नं कल्किवैर्धृतं॥ पिप्पलीमुस्तमृद्वीका-चंदनोत्पलनागरै॥ दुरालभावलामुस्तात्रायंतीनिंबपर्पटान्॥ पंचमुलं कनीयश्च क्वाथयित्वाघृतं पचेत्॥ सक्षीरं कल्कितैर्द्राक्षामेदाऽऽमलकपुष्केरैः॥ शठीनामलकीयु क्तैस्तच्च ज्वरहरं परं॥ क्षयकासरिर. पार्श्वहृच्छुलांसाभितापनुन्॥ कुलत्थकोलत्रिफलादशमूलयवान् पचेत्॥ द्विपलान्सलिलद्रोणे पूते पिष्ठाऽक्षकान्क्षिपित्॥ पंचकोलकसप्ताव्हवयस्थानिंबतुंवरु॥ शठीपुष्करमुलार्कमुलप्रतिविपावचा.॥ किरातं तिक्तकं मुस्तं कर्कटाख्यां दुरालभां॥ नक्तमालमुभे पाठे कदुकाशिग्रुतेजनीः॥ सोमवल्कद्विरजनीकंटकीकंटकारिकाः॥ पटोलाहिंगु माजिव्हा केंबुकंमदनाज्जटां॥ लवणानि पलांशानि क्षारानर्द्धपलान्वितान्॥ प्रस्थं चाज्यस्यतत्सिद्धं दीपनं कफवातजित्॥ हृत्प्लीहग्रहणीगुल्मकासश्वासार्शसां हितं॥ दीर्घज्वराभिभूतानां ज्वरिणाममृतोपमं॥ मंजिष्ठाऽतिविषापथ्यावचानागररोहिणीः॥ देवदारु हरिद्रां च द्रोणेऽपां पालिकान् पचेत्॥ क्वाथेऽस्मिन्साधयेयेत्पिष्टैर्घृतप्रस्थं पिचून्मितैः॥ शृंगवेरकणाहिंगुद्विक्षार-पटुपंचकैः॥ तत्कफावृतसर्वोत्थज्वरिणाममृतोपमं॥ बर्ध्महिध्माऽरुरुचिश्वासकासपांडुविकारिणां॥ गलग्रंथिप्रमेहार्शःप्लीहापस्मारशोफिनां॥ उदा वर्त्तपरीतानां मंदाग्निकृमिकोकोष्ठिनां.॥ गुडूच्या रसकल्काभ्यांत्रिफलाया वृषस्य च॥ मृद्वीकाया वलायाश्चसिद्धाः स्नेहा ज्वरच्छिदः॥जीर्णे घृते च भुंजीत मृ- दुमांसरसौदनं310॥पलं311 ह्यलं दोषहरं परं तच्च वलप्रदं॥ कफपित्तहरा मुद्गकारवेल्लादिजा रसाः॥ प्रायेण तस्मान्न हिता जीर्णेवातोत्तरे ज्वरे॥शूलोदावर्त्तविष्टंभजनना ज्वरवर्द्धनाः॥ नशाम्यत्येवमपि चेज्ज्वरः कुर्वीत शोधनं॥ शोधनार्हस्यवमनं प्रागु- क्तंतस्य योजयेत्॥ आमाशयगते दोषे वलिनः पालयन्वलं॥ संतर्पणोत्थे वमनं पिप्पलीलवणांबुना॥ शर्कराप्राक्षिकांभोभिर्दाहतृष्णोल्बणे ज्वरे॥ पक्के तु शिथिले दोषेज्वरे वा विषमद्यजे॥मोदकं त्रिफलाश्यामात्रिवृत्पिप्प लिकेस॥ ससितामधुभिर्दद्योपाद्यंवा विरेचनं॥ द्राक्षाधानीरसं तद्वन्सद्राक्षा वा हरीतकीं॥ रसमामलकानां वा घृतभृष्टं ज्वरारापहं॥ लिह्याद्वात्रिवृतश्चूर्णं कृष्णात्रिफलयोस्तथा॥ सर्पिर्मधुम्यां त्रिफलां पिबेद्राक्षारसेत वा॥ आरग्वधंवा पयसा मृद्वीकानां रसेन वा॥ त्रिफलां त्रायमाणां वा पयसा ज्वरितः पिबेत्॥ सघृतं त्रिफलाक्वाथं सर्पिषा वा विना शृतं॥ पयोनुपानमुष्णं वा मृद्वीकास्वरसं पिबेत् ॥ विरिक्तानां च संसर्गी मंडपूर्वायथाक्रमं॥ च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत
मलंसदा॥ पक्वोऽपिहि विकुर्वीत दोषः कोष्ठे कृतास्पदः॥ अतिप्रवर्तमानं वा पाचयन्संग्रहं नयेत्॥ आमसंग्रहणे दोषा दोषोपक्रमईरिताः॥ पाययेद्वोषहरणं मोहादामज्वरे तु यः॥ प्रसुप्तंकृष्णसर्पं स कराग्रेण परामृशेत्॥ ज्वरक्षीणस्य न हितं वमनं न विरेचनं॥ कामं तु पयसा तस्य निरुहैर्वाहरेन्प्रलान्॥ क्षीरोचितस्यप्रक्षीणश्लेष्मणो दाहतृड्वतः॥ क्षीरं पित्तानिलार्त्तस्यपथ्यमप्पतिसारिणः॥ तद्वपुर्लंघनोत्तप्तंप्लुष्टं वनमिवाग्रिना॥ दिव्यांबुजीवयेत्तस्यज्वरं चाशु नियच्छति॥ संस्कृतंशीतमुष्णं वा तस्माद्धारोष्णमेव वा॥ विभज्यकाले युंजीत ज्वरिणं हंत्यतोऽन्यथा॥ पयः सशुंठीखर्जूरमृद्वीकाशर्कराघृतं॥ शृतशीतं मधुयुतं तृड्दाहज्वरनाशं॥ तदद्राक्षाबलायष्टीसारिवाकणचंदनैः॥ चतुर्गुणनांभसा वा पिप्पल्या वा शृतं पिवेत्॥ कासाच्छ्वासाच्छिरःशूलातार्श्वशूलाच्चिरज्वरात्॥ मुच्यते ज्वरितः पीत्वा पंचमूलीशतंपयः॥ शुतमैरंडमूलेन बालाबिलेन वा ज्वरात्॥ धारोष्णं वा पयःपीत्वा विबंधानिलवर्चसः॥ सग्क्तपिच्छातिसृतेः सतृट्शूलपवाहिकात्॥ सिद्धं शुंठीबलाव्याघ्रीगोकंटकगुडैःपयः॥ शोफमूत्रशकृद्वातविबंधज्वरकासजित्॥ वृश्चीवबिल्ववर्षाभूसाधितं ज्वरशोफनुत्॥ शिंशिपासारसिद्धं च क्षीरमाशु ज्वरापहं॥ निरूहस्तु वलंवह्नि विज्वरत्वं मुदं रुचिं॥ दोषेयुक्तः करोत्याशु पक्वेपक्वाशयं गते॥ पित्तं वा कफपित्तं वा पक्वाशयगतं हरेत्॥ स्रंसनं त्रीनपि मलान्बस्तिः पक्वाशयाश्रयान्॥ प्रक्षीणकफपित्तस्य त्रिकपृष्टकटीग्रहे॥ दीप्ताग्रेर्बद्धशकृतः प्रयुंजीतानुवासनं॥ पटोलनिंबच्छदनकटुकाचतुरंगुलैः॥ स्थिराबलागोक्षुरकमदनोशीरवालकैः॥ पयस्यर्द्धोदके क्वाथं क्षीस्शेप॑ विमिश्वितं॥ कल्कितैर्मुस्तमदनकृष्णामधुकवत्सकैः॥ वस्तिं मधुघृताभ्यां च पीढयेज्ज्वरनाशनं॥ चतस्त्रःपर्णिनीर्यष्टीफलोशीरनृपद्रुमान्॥ क्वाथयेत्कल्कयेद्यष्टीशवान्हाफलिनीफलं॥ मुस्तं च वस्तिः सगुडक्षौद्र-सर्पिर्ज्वरापहः॥ त्रायमाणाऽमृतायष्टीमदनांशुमतीद्वयैः॥सबलाचंदनवृषैजीगलैश्चमृगट्विजैः॥क्वाथेकृते-क्षिपेत्पिष्ट्वाफलयष्टीकणाघनं॥ ससद्यो ज्वरहा वस्तिः साज्यक्षौद्रः ससैंधवः॥आम्रादीनां त्वचं शंखं चंदनं मधुकोत्पलं॥ स्वर्णगैरिकमंजिष्ठामृणालांजनपद्मकं॥ क्षीरेण कल्कितं बस्तिं शीतंसमधुशर्करं॥दाहज्वरहरं दद्यात्सिद्धं तैश्चानुवासनं॥ जीवंतीं मदनं मेदां पिप्पलीं मधुकं वचां॥ ऋद्धिंरास्त्रांबलां विल्वं शतपुष्पां शतावरीं॥ पिष्ट्वाक्षीरं जलं सर्पिस्तैलंचैकत्र साधितं॥ ज्वरेऽनुवासनंदद्याद्यथास्नेहं यथाबलं॥ चंदनागुरुकाश्मर्यपटोलमदनोत्पलैः॥ पटोलारिष्टमदनगुडूचीमधुकैरपि॥ ये च सिद्धिषु वक्ष्यते वस्तयो ज्वरनाशनाः॥ शिरोरुग्गौखश्लेष्महरमिद्रियबोधनं॥ जीर्णज्वरे रुचिकरं दद्यान्नस्यविरेचनं॥ स्त्रैहिकं शून्यशिरसो दाहार्त्तेपित्तनाशनं॥ धूमगंडूषकवलान्यथादोषंच कल्पयेत्॥ प्रतिश्यायास्यवैरस्यशिरःकंठामयापहान्॥ अरुचौमातुलुंगस्य केसरं साज्यसैंधव॥ धात्रीद्राक्षासितानां वा कल्कमास्येन धारयेत्॥ यथोपशयसंस्पर्शान् शीतोष्णद्रव्यकल्पितान्॥अभ्यंगालेपसेकादीन्ज्वरे जीर्णे त्वगाश्रिते।कुर्यादंजनधूपांश्च तथैवागंतुजेऽपि तान्॥ दाहे सदस्रधौतेन सर्पिषाऽभ्यंगमाचरेत्॥ सूत्रोक्तैश्च गणैस्तैस्तैर्मधुराम्लकषायकैः॥ दुर्वादिभिर्वापित्तघ्नैःशोधनादिगणोदितैः॥ शीतवीर्यैर्हिमस्पर्शैः क्वाथकल्कीकृतैःपचेत्॥तैलंसक्षीरमभ्यगात्सद्योदाहज्वरापहं॥ चंदनं मधुकं काला द्राक्षा मधुरसा निशा॥ तत्सिद्धं पूर्ववत्तैलं दाहज्वरहरं परं॥ शिरोगात्रंच तैरेव नातिपिष्ठैःप्रलेपयेत॥ तत्क्वाथेन परीपेकभवगाहं च योजयेत्॥ तथाऽऽरनालसलिलक्षीरशुक्तघृतादिभिः॥ कपित्थमातुलुंगाम्लविदारी-रोध्रदाडिमैः॥ बदरीपल्लवोत्थेन फेनेनारिष्टकस्यया॥ कर्पूरपद्मकोशीरकालीयांवुदचंदनैः॥ तुंगप्रियंगुशैवालकमलोत्पलकर्दमैः॥ वेत्राग्ररोधपुंड्राह्वैरारनालेनकल्कितैः॥ लेपा व्यस्तैःसमस्तैर्वादाहघ्न वर्णकारिणः॥ धात्रीत्वक्पत्रनलदशखव्याघ्रनखोत्पलैः॥ चंदनाजनमुस्तैश्चसवृक्षाम्लाम्लवेतसैः॥ सजीवकैःसमधुकैः सपलाशैः सदाडिमैः॥ वीजपूररसक्षौद्रशुक्तयुक्तैः प्रलेषितैः॥ शिरस्यगे च तृट्छर्दिर्दाहमोहशिरोरुजः॥ नश्यति गंडाः पिडकाः प्रलापश्च ज्वरार्तिजः॥ गौरामलककल्कश्चसाम्लः साज्यश्च तद्गुणः॥ मधुकमधुकोदीच्यनीलोत्पलमधूलिकाः॥ जयंति मधुसर्पिर्भ्यां लोढादाहज्बरभ्रमान्॥ कासासूक्पित्तवीसपश्वासहिध्मावमीरपि॥ वम्यंच चामयेदाशु शीतेन मधुवारिणा॥ यो वर्णितः पित्तहरो दोषोपक्रमणेक्रमः॥ तं च शीलयतः शीघ्रंसदाहो नश्यति ज्वरः॥ वल्लकीमधुरं गीतं चंद्रिका हर्म्यमस्तकं॥ हरति दाहं दाराश्ट हरिचंदनशीतलाः॥ दाहंमंदानिलोद्धूताःसलिलमालिनः॥ चलत्प्रवालांगुलिभिस्तर्जयंति महाद्रुमाः॥ वाच.शिशुनामव्यक्ता योषितां मदनातुराः॥ दाहं निर्भर्त्सयंत्याशु सज्जनानां च सूनृताः॥ रुचिभेदातुरोधेन नानाशक्तिसमन्वितः॥ दाहशीतज्वरहरः कांतकांतांगसंगमः॥ दाहशीतव्युपशमे तास्ततोऽपनयेत्पुनः॥ वीर्योष्णैरुष्णसंस्पर्शैस्तगरागुरुकुंकुमैः॥ कुष्टस्थौणेयशैलेय-सरलामरदारुभिः॥ नखरास्त्रामुरवचाडैलाद्वयचोरकैः॥ पृथ्वीकाशिमग्रुसुरसहिंस्राध्यामकसर्यषैः॥ दश-मूलामृतैरंडद्वयपत्तूग्रोहिषैः॥ तमालपत्रभूतीकसल्लकी धान्यदीप्यकैः॥ मिशिमाषकुलत्थाग्नि-प्रकीर्यानाकुलीद्वयैः॥ अन्यैश्च तद्विधैर्द्रव्यैःशीते तैलं ज्वरे पचेत्॥ क्वथितैः कल्कितैर्युक्तैःसुरा-सौवीरकादिभिः॥ तेनाभ्यज्यात्सुखोवोष्णेन तैःप्रपिष्टैश्च लेपयेत्॥ कवोष्णैस्तैः परीषेकमवगाहं च कल्पयेत्॥ केवलैरपि तद्वच्च शुक्तगो मूत्रमस्तुभिः॥ कुंकुमागुरुकस्तुरीनखैलासुरदारुभिः॥ शैलेय-चंडात्वड्मुस्तसास्नाकपिवचामयैः॥ पृथक्प्रदेहा सर्वैर्वा शीतघ्नादृढकल्कि
ताः॥ यवचूर्णे घृताभ्पक्तं पचेत्क्षीरे चतुर्गुणे॥ दर्वीप्रपनं लेपं ज्यरातस्य प्रयोजयेत्॥ आरग्वधादिवर्गे च पानाभ्यंजनलेपने॥ धूपानगुरुजान् यांश्च वक्ष्यते विषमज्वरें।अग्न्यनग्निकृतान्स्वेदान्स्वेदि भोजनभेषजं॥ संसर्गबलयोगे च वातश्लेष्मनिवर्हणं॥ गर्भभूवेश्मशयनं कुथकंबलरल्लकान्॥ निर्घूमदीप्तैरंगारैर्हसंतीश्च हसंतिकाः॥ मद्यं सत्र्यूपणं तक्रं कुलत्थब्रीहिकोद्रवान्॥ भजेत्मकंपंस्तद्युक्तान्यच्चान्यदपिपित्तलं॥ अजाज्याःसगुडंकल्कं सगुडं वाऽमृतारसं॥ रसं वार्ताकफलजं पिबेद्दा मधुसंयुतं॥ मधुकागुरुकौंतीनां कल्कोव्याघ्ननखस्यच॥ मद्येन पीतः सक्षौद्रस्तीव्रशीतज्वरापहः॥ आनाहे कालवित्कुर्यात्कयामल-सकोदितां॥ पिप्पलीपिप्पलीमूलयवानीचव्यसाधितां॥ यवागूं पाययेश्चैवमनिलस्यानुलोमनीं॥ सोपद्रवोऽपि चेदेवं ज्वरः शीतो न शाम्यति॥ अभ्युदीर्णे ऽनिलकफे खस्थाने पित्तधाम्नि वा॥ तक्रानुपानं त्रपुसं भक्षयित्वाऽनलं भजन्। आखेदसं भवात्तिष्ठेत्मावृतस्तद्वदातपं॥ ततो विमृदितः स्त्रानो युक्ताशी स्याद्ग ते ज्वरे॥ शमंतौ पित्तवृत्ध्यैव प्रपद्येते स्वधाम च॥ निवर्तते ततः शीघ्रं वातश्लेष्मोद्भवो ज्वरः॥ स्वर्जिकाकुष्ट-मंजिष्ठालाक्षामूलनिशौपघैः॥ सतकैः साधितं तेलमभ्यंगाद्दाहशीतजित्॥ वमनैश्च विरेकैश्च बस्तित्तिश्च यथाक्रमं॥ ज्वरानुपचरेद्धीमान् कफपित्तानिलोद्भवान्संसृष्टैः सन्निपतितैरेकानेकोल्यणैः समैः॥ ज्वरान्दोपैः क्रमापेक्षी यथोक्तैरोपधैर्जयेत्॥ वर्द्धनेनैकदोषस्य क्षपणेनोच्छ्रितस्य वा॥ कफ स्थानानुपूर्व्या वा सन्निपातज्वरं जपेत्॥ निद्रानिवारणोपायः सन्या साभिहितो हितः॥ सन्निपाते विशेषेण दारुणोऽयमुपद्रवः॥ सन्निपातज्वरस्यांते कर्णमूले सुदारुणः॥ शोफः संजायते येन कश्चिदेव विमुच्यते॥ रक्तावसेचनैः शीघ्रं सर्पिः पानैश्च तं जयेत्॥ प्रदेहैः कफपित्तघ्नैर्नावनैः कवलग्रहैः॥ शीतोष्णस्रिग्धरुक्षाद्यैर्ज्वरो यस्य न
शाम्यति॥ शाखानुसारी तस्याशु मुंचेद्वाह्रोः क्रमाच्छिरां॥ अयमेव विधिः कार्यो विषमेऽपि यथायथं॥ ज्वरे विभज्य वातादीन्यवानंतरमुच्यते॥ पटोलकटुकामुस्ताप्राणदामधुकैः कृताः॥ त्रिचतुःपंचशः क्वाथा विषमज्वरनाशनाः॥ योजयेत्रिफलां पथ्यां गुडूचीं पिप्पलीं पृथक्॥ तैस्तैर्विधानैः सगुडं भल्लातकमथापि वा॥ लंघनं बृंहणं वापि ज्वरागमनवासरे॥ प्रातः सतैलं लशुनं प्राग्भक्तं वा तथा घृतं॥ जीर्णेतद्वद्दषि पयस्तकं सर्पिश्च पट्पलं312॥ कल्याणकं313 पंचगव्यं314 तिक्ताख्यं315 वृपसाधितं316॥ पंचगव्यस्य महतो विधिना पंचमाहिषं॥ पंचाजं चतुरौष्ट्रं च सिद्धं सिद्धघृतं तथा॥ कटुरोहिणि मंजिष्ठाष्टथुग्रंथिकचित्रकैः॥ पाठास्व-गुप्ताद्विनिशैः पंचगव्यस्य पंचसुमस्थेपु संयुतैः सेव्यं विषमज्वरजित्परं॥ वाक्वरस्मृतिमेधाग्निवलारोग्य-विबंधकृत्॥ कोलाग्निमंथत्रिफलाक्वाथे दघ्नाघृतं पचेत्॥ तिल्वकावासमेतच्च विषमज्वरनाशनं॥ गुडक्षीर-घृतक्षौद्रसिताकृष्णाः खजाहताः। विषमज्वरहृद्रोगक्षतकासक्षयापहाः॥ सुरां तीक्ष्णं च यन्मद्यं शिखितित्तिरि-दक्षजं॥ मांसं मेद्योष्णवीर्ये च सहान्नेन प्रकामतः॥ सेवित्वा तदहः स्वप्यादथवा पुनरुल्लिखेत्॥ सर्पिषो महतींमात्रां पीत्वा प्रच्छर्दयेत्पुनः॥ नोलिनीमजगंधां च त्रिवृतां कटुरोहिणीं॥ पिबेज्ज्वरस्यागमने स्नेहस्वेदोप-पादितः॥ आस्थापनं वा तदहर्दद्यात्त्स्विन्नस्य यापनं॥ पयसा वृषदंशस्य शकृहा तदहः पिबेत्॥ मस्तुना वा वृषशरुकृत्सुरया वा ससैंधवं॥ मनोव्हा सैंधवं कृष्णा तैलेन नयनांजनं॥ योज्या हिंगुसमा व्याध्री वसा नस्ये ससैंधवा॥ पुराणसर्पिः सिंहस्य वसा तद्वत्ससैंधवा। पलंकषा निंबपत्रं वचा कुष्ठं हरीतकी॥ सर्पषा सयवाः सर्पिर्धूमो विड्वा बिडालजा॥ पुरध्यामवचास
र्जनिंबार्कागुरुदारुभिः॥ धूमो ज्वरेषु सर्वेषु प्रयोक्तव्योऽपराजितः॥स हृदेवावचाक्षद्रानाकुलीभिः प्रयोजयेत्॥ धूपनोद्वर्तनालेपान्सर्वज्वरनि बर्हणान्॥धूपनस्यांजनोत्रासा ये चोक्ताश्चित्तवैकृते॥ देवाश्रयं च भैषज्यं ज्यरान्सर्वानपोहति॥ विशेषाद्विपमान्मायस्ते ह्यागंत्वनुबंधजाः॥ यथास्वं च सिरां विध्येदशांतौ विषमज्वरे॥ रससंस्थे तु सर्वस्मिन्कुर्याद्मनलंघने॥ सेकसंशमनालेपरक्तमोक्षानसृक्स्थिते॥ तीक्ष्णान विरेकान्मांसस्थे मेदोघ्नं मेदसि स्थिते॥ अस्थिस्थे वातशमनमभ्यंगस्वेदमर्दनं॥ ज्यरे वातार्तिशमनं विशेषाद्वस्तिकर्मच317॥ केवलानिलवीसर्पविस्फोटाभिहतज्वरे॥ सर्पिः पानं हिमालेपसेकमांसरसाशनं॥कुर्याद्यथास्वमुक्तं च रक्तमोक्षादिसाधनं॥ग्रहोत्थे भूतविद्योक्तं बलिमंत्रादिसाधनं॥ औषधीगंधजे पित्त-विधानैर्विषजिद्दिषे॥ इष्टैरर्थैर्मनो ज्ञैश्च यथादोषशमेन च॥ हिताहितयिवेकैश्च ज्वरं क्रोधादिजं जयेत्॥ क्रोधजो याति कामेन शांति क्रोधेन कामजः॥भयशोकोद्भवौ ताभ्यां भीशोकाभ्यां तथेतरौ॥ शापाथर्वण-मंत्रोत्थे विधिर्दैवव्यषाश्रयः॥ ते ज्यराः केवलाः पूर्वे व्याप्यंतेऽनंतरं मलैः॥ तस्माद्दोषानुसारेण तेष्वाहारादि कल्पयेत्॥ न हि ज्वरोऽनुवघ्नाति मारुताद्यैर्विनाकृतः॥ कथास्रिवर्गसंयुक्ता रुङ्निद्रादिविनोदिनीः॥ शस्ता विचित्राः शृणुयान्न प्रेतव्याधिताश्रयाः॥ ज्वरकालस्मृतिं चास्य हारिभिर्विषयैर्हरेत्॥ त्यजेदावललाभाश्च व्यापामस्रानमैथुनं॥ गुर्वसात्म्य विदाह्यन्नं यच्चान्यज्ज्वरकारणं॥ न विज्वरोऽपि सहसा सर्वान्नीनो318 भवेतथानिवृत्तो हि ज्वरः शीघ्रं व्यापादयति दुर्बलं॥ सद्य प्राणहरो यस्मात्तस्मात्तस्य विशेषतः॥ तस्यां तस्यामवस्थायां कुर्यात्तत्तद्भिषग्जितं॥ मनोऽभिरामा विषया वचनं ल्हादिदक्षिणं॥ करुणार्द्रेमनः
शुद्धं सर्वज्वरनिषूदनं॥ मातरं पितरं देवान्वैद्यान्विमान् हरं हरिं॥ पूजेयेच्छीलयेहानदमसत्पदयार्जवान्॥ धारयेच्च शुचिर्मूर्घ्ना मणिरत्नमहौषधीः॥ आर्यावलोकितं चार्यी319शबरीमपराजितां॥ प्रणमेदार्यतारां च सर्वज्वरनिवृत्तिये॥ जपं तथागतोष्णीपं सर्वव्याधिचिकित्सितं॥ आगंतुदोषसहजैः सर्वरोगर्विमुच्यते॥॥ इति जीर्णज्वरचिकित्सितं नाम द्वितीयोऽध्यायः॥ २॥
अथातो रक्तपित्तचिकित्सितं व्याख्यास्यामः॥ ऊर्ध्वगं बलिनो वेगमेकदोषानुगं नवं॥ रक्तपित्तं सुखे काले साधयेन्निरुपद्रवं॥ अधोगं यापयेद्रक्तं यच्च दोषद्वयानुगं॥ शांतं शांतं पुनः कुप्यन्मार्गान्मार्गी तरंच यत्॥ अतिप्रवृत्तं मंदाग्नेस्त्रिदोषं द्विपथं त्यजेत्॥ ज्ञात्वा निदानमयनं मलावनुबलौ बलं॥ देशकालाद्यवस्थां च रक्तपित्ते प्रयो जयेत्॥ लंघनं बृंहणं चादौ शोधनं शमनं तथा॥ संतर्पणोत्थं बलिनोवहुदोषस्य साधयेत्॥ उर्ध्वमार्गे विरेकेण वमनेन त्वधोगतं॥ शमनैर्बेृहणैश्वान्यल्लंध्यबृह्यानपेक्ष्य च॥ ऊर्ध्वे प्रवृत्ते शमनौ रसौ तिक्तकषायकौ॥ उपवासश्च निःशुंठीषडंगोदकपायिनः॥ अधोगे रक्तपित्ते तु बृहणो मधुरो रसः॥ऊर्ध्वगे तर्पणं योज्यं पेया पूर्वमधोगते। अश्नतो बलिनोऽशुद्धं न धार्ये तद्धि रोगकृत्॥ धारपेदन्यथा शीग्रमग्निवच्छीघ्रकारि तत्॥ त्रिवृत्तात्रिफलाधात्रीत्रायंत्यारग्वधाभयाः॥ गवाक्षीक्षुरसक्षीरद्राक्षा-सौद्रसितोत्कटाः॥ यथास्वं कल्पविहिता विरेकार्थे प्रयोजयेत्॥ त्रिवृच्छ्यामाकषायेण कल्केन च सशर्करं। साधयेद्विधिवल्लहं लित्ह्यात्पाणितलं ततः॥ त्रिफलात्रिवृ ताश्यामापिप्पलीशर्करामधु॥ मोदकः सन्निपातोर्ध्व-रक्तपित्तज्वरापहः\।\। त्रिवृत्समसिता तद्वत्पिप्पलीपादसंयुता॥ वमनं फलसंयुक्तं तर्पणं ससितामधु॥ ससितं वा जलं क्षौद्रयुक्तं वा मधुकोदकं॥
फलेंद्रयवगांगेयीमधुकं वा समाक्षिकं॥ क्षीरं वा रसमिक्षोर्वा शुद्धस्या नंतरो विधिः॥ यथास्वं मंथपेयादिः प्रयोज्यो रक्षता वलं॥ मंथो ज्यरोक्तो द्राक्षादिः पित्तघ्नैर्वा फलैः कृतः॥ मधुखर्जूरमृहीकापरूष-कसितांभसा॥ मंथो वा पंचसारेण सघृतैर्लाजसक्तुभि॥ दाडिमामलकाम्लो वा मंदाग्य्रम्लाभिलाषिणः॥ कमलोत्पलकिंजल्कपृश्निपर्णीप्रियंगुकाः॥ उशीरं शावरं रोध्रं शृंगबेरं कुचंदनं॥ हीबेरधातकीपुष्पविल्व-मध्यदुरालभाः॥ अरध्दर्ध्दैर्विहिताः पेया वक्ष्यंते पादयोगिकाः॥ भूनिंवसेव्यजलदाश्चंदनांबुप्रियंगवः॥ शालिपर्ण्या युता मुद्गाः पृश्निपर्ण्या मसूरिकाः॥ तुवर्या वाऽतिबलया वलया वाहरेणवः॥ तत्कपाये हिताः पेया मांसपेयास्तथा रसाः॥ अनम्लाः किंचिदम्ला वा सघृतक्षौद्रशर्कराः॥ शूकशिंबीभवं धान्यं शाकं मांसं च शस्यते॥ अन्नस्वरूपविज्ञाने यदुक्तं लघुशीतलं॥ पूर्वोक्त मंबुपानीयं पंचमूलेन वा शृतं॥ लघुना शृतशीतं वा मध्वंभो वा फलांबु वा॥ पद्मकाद्युत्पलादी च सारिवादिं च कल्पयेत्॥ अन्नपाने गणं तद्वद्दशकं दाहनाशनं320॥ कफानुगे यूषशाकं मारुतानुगते रसं।अमीरोरंकुरैर्लावाः सह मुद्गाः पटोलजैः॥ मकुष्टा धन्वयासोत्थैरस्त्रपित्ते परं मताः॥ शशः सवास्तुकः शस्तो विवंधे तित्तिरिः पुनः॥ उर्दुबरस्य निर्यूहे साधितो मारुनेऽधिके प्लक्षस्यबर्हिस्तद्दन्न्यग्रोधस्य तु कुक्कुटः बिसोत्पलमृणालानां वर्तकककरौ हितौ॥ वार्तीरों ऽभोजनालानामश्वत्थस्य कपिंजलः॥ यत्किंचिद्रक्तपित्तस्य निदानं तच्च वर्जयेत्॥ वासारसेन फलिनी-मृद्रोध्रांजनमाक्षिकं॥ पित्तामृक् शमयेत्पीतं निर्यासो वाऽटरूषकात्॥ शर्करामधुसंयुक्तः॥ केवलो वा शृतोऽपि वा। बृषः सद्यो जपत्यस्रं स त्द्यस्य परमौषधं॥ वासारसेन भूनिंबकटुकाशर्कराः पिबेत्॥ तेनैव वा सौद्रयुतं पद्मकेसरपद्मकं॥ सरोध्रनागकुसुमशाद्वलोत्पलवास्तुकं॥ लित्द्याद्वा मधुसर्पिर्भ्यौ गवाश्वशकतां सं॥ पथ्या रजन्यहिंस्रा वा पलांडुं तद्वदेव या॥ फलिनीरोघ्रखदिरशाल्मलीकोविदारजं।शिरीपशेलुककुभसिंदुवारातिमुस्तकं॥ पलाशयूथिकाशिग्रु-मधूकासनजन्म च॥ मधुना चूर्णितं पुष्पमेकत्र पृथगेव वा॥ पुष्पैरेभिः प्रयक्व च सक्षौद्रं माहिषं घृतं॥ दित्द्यात्क्षौद्रेण पथ्यां वा किंजल्कं कमलस्य वा॥ लाजाः शृंगाटकं मुक्तां खर्जूरुंकृष्णमृत्तिकां॥ क्षीरवृक्षांकुरान् द्राक्षां तपक्षीरीं सितोपलां॥ गैरिकंमधुकं रोध्रं शांखं शंबुकमंजनं॥ तंदुलीयकमूलं वा वीजं वा वास्तुकोद्भव॥ पटोलमालतीनिंबचंदनद्वयपद्मकं॥ रोध्रो वृषस्तंदुलीयः कृष्णा मृन्मदयंतिका॥ शतावरी गोपकन्या काकोल्यौ मधुयष्टिका॥ रक्तपित्तहराः क्वाथास्त्रयः समधुशर्कराः॥ सक्षौद्रं प्रथिते रक्ते लित्द्यापारावताच्छकृत्॥ अविनिस्रुतरक्तो वा क्षौद्रेण रुधिरं पिबेत्॥ जां गलं भक्षयेद्वाजमांसं पित्तयुतं यकृत्॥ रोध्रकालीयकोशीरफलिनीशं खगैरिकं॥ पटोलपत्रं दुःस्पर्शा समंगा सास्वि लता॥ त्वग्जंबुवेतसा श्वत्थहयाव्होदुंबरार्जुनात्॥ किराततिक्तक्रमुकमुस्तकट्फलपद्मकं॥ प्रपौंडरीकन्हीबेरकमलोत्पलपर्पटं॥ चंदनेन पृथग्पुक्तं समस्तं वा सशर्करं॥ फांटीकृतं शृतं शीतं चूर्णे वा तंदुलांभसा॥ पीतमाशु जयत्यस्रं तृड्दाहतमकानपि॥ चंदनोशीरनलदलाजमुद्गकणायवैः॥ बलाजले पर्युपितैः कषायो रक्तपित्तहा॥ प्रसादश्चंदनांभोजसेव्यमृद्धृष्टलोष्टज॥ सुशीतः ससिताक्षौद्रः शोणितातिप्रवृत्तिजित्॥ तद्वदच्छः सितारोघ्र-मधुकोशीरचंदनान्॥ मुच्छामासारिवामुस्तधात कीयष्टिकान्वितान्॥वैदूर्यमुक्तामृच्छंखगैरिकामलकोदकं॥ मधूदकं रसं चेक्षोः पिबन्जयति शोणितं॥ आपोथ्य वा नवे कुंभे प्लावयेदिक्षुगंडिकाः॥ स्थितं तद्रुप्तमाकाशे रात्रिं प्रातः स्रुतं जलं॥ मधुमद्विकचांभोजकृतोत्तंसं च
तद्गुणं। त्रपुसीमूलकल्कं वा सक्षौद्रं तंदुलांबुना॥ पिवेत्करंजबीजं वा तेन क्षौद्रसितायुतं॥ रोध्रचंदन-यष्ट्याह्वं तेन यष्ट्याह्वमेव वा॥ नीलोत्पलं सितायष्टीमधुकं पद्मकेसरं॥ छिन्नोद्भवा च शीतोऽयं कषायो रक्तपित्तजित्॥ ये च पित्तज्वरे प्रोक्ताः कषायास्तांश्च योजयेत्॥ कषायैर्विविधैरेभिर्दीप्तेऽग्नौ विजिते कफे॥ रक्तपित्तं न चेच्छाम्येत्त च वातोल्बणे पयः॥ पुंज्याच्छागं शृतं तद्वद्गव्यं पंचगुणेऽभसि॥ पंचमूलेन लघुना शृतं वा ससितामधु॥ जीवकर्षभकद्राक्षावलागोक्षुरना गरैः॥ पृथक् पृथक् शृतं शीतं सघृतं सितयाऽथवा॥ क्षीरेण वमनीपुष्पंमधुकं मधुशर्करो॥ गोकंटकाशीरुशृतं पर्णिनीभिस्तथा पयः॥हित्याशुरक्तं सरुजं विशेषान्मूत्र-मार्गगं॥ विषमार्गगे विशेषेण हितं मोचरसेन तु। वटप्ररोहैःशुगैर्वा शुंठ्युच्यदीच्योत्पलैरपि॥ रक्तातिसार-दुर्नामचिकित्सांचात्र कल्पयेत्॥ पीत्वा कषायान्ययसा भुंजीत पयसैव तु। कषाययोमैरेभिर्वा विपक्वं पाययेहृतं॥ समूलमस्तकं क्षुण्णं वृषमष्टगुर्णेऽसि॥ पक्त्वाऽष्टांशावशेषेण घृतं तेन विपाचयेत्॥ तत्पुष्पगर्भे तच्छीतं संक्षौद्रं पित्तशोणितं॥ पित्तगुल्मज्वरश्वासकासत्हृद्रोगकामलाः॥ तिमिरभ्रमवीसर्पस्वरसादांश्च नाशयेत्॥ पलाशवृतस्वरसे तद्गर्भे च पचेद्घृतं॥ सक्षौद्रं तच्च रक्तघ्नं तद्वद्वत्सकप्ताधितं॥ रोध्रोत्पलस मंगाभिस्तथैव त्रायमाणया।लाजगोधूममधुकसिताचूर्णे पयोद्रवं॥ घृतेनोत्कारिकां कृत्वा खादेत्पित्तास्र-वारिणीं॥ रक्ते सपिच्छे सकफे ग्रथितेकंठमार्गगे॥ लिह्यान्माक्षिकसर्पिर्भ्यी क्षारमुत्पलनालजं321॥ मृणालांभोजकिंजल्कश्यामासनमधूकजं॥ तद्वत्पृथक्पृथक्क्षारं घृतं क्षीरेण साधयेत्॥ पिष्टैरभीरुकाकोली-मेदावृक्षाम्लदाडिमैः॥ फलपूरकमलेन विदार्या मधुकेन च॥ तद्विबंधज्यरानाहशूलकासास्रात्रपित्त जित्॥
पंचभिः पंचमूलैव सिद्धमाज्यं तदर्थकृत्॥ गुदागमे विशेषेण शोणिते बस्तिरिप्यते॥ मधुकांजनमंजिष्ठा-मृणालोत्पलगैरिकैः॥ सुवर्णरोध्र कालीपसमंगाऽऽम्रांबुचंदनैः।सौगंधिकसिताशंखैः पिष्टैर्मधुघृतान्वितैः॥क्षीरेणास्थापयेदेनं स्रानं च शिशिरांभसा॥ क्षीरेणैवाशयेच्छार्लीस्ततो मधुकसर्पिषा॥ कालेऽनुवासयेदेवमति-सारेऽपि दुस्तर॥ जीर्णेऽसृक्प्रबले कुर्याद्विरके चातियोगिनि॥ विदार्यादिगणनेष्टं शृतंवाऽऽस्थापने पयः॥ सक्षौद्रशर्करासर्पिः सर्पिश्चैवानुवासने॥ मूत्राशयस्थं शमयेद्रक्तमुत्तरबस्तिभिः॥ ईद्दशैरेव तट्वच्च प्रदरेऽपि विधिः स्मृतः॥ छेदभेदादिभिश्वातिप्रवृत्ते शुद्धशोणिते॥ विशेषात्प्रदरस्योक्तं योनिरोगेषु चौषधं॥ घ्राणगे रुधिरे शुद्धे नावनं चानुसेचयेत्॥ कषाययोगान्पूर्वोकान् क्षोरेक्ष्वादिरसाप्लुतान्॥ क्षीरादीन् ससितांस्तोयं केबलं वा हितं जलं॥ रसो दाडिमपुष्पाणामाम्रास्न्थ शाद्वलस्य च॥ कल्पयेच्छीतवर्गे च प्रदेहाभ्यंजनादिषु॥ यच्च पित्तज्वरे प्रोक्तं बहिरंतश्व भेषजंः॥ रक्तपित्ते हितं तच्च क्षतक्षीणहितं च यत्॥ इति रक्तपित्त-चिकित्सितं नाम तृतीयोऽध्यायः॥ ३॥
अथातः कासचिकित्सितं व्याख्यास्यामः॥ केवलानिलजं कासं स्नेहैरादावुपाचरेत्॥ वातघ्नसिद्धैः स्निग्धैश्च पेयायूपरसादिभिः॥ लेहैधूमैस्तथाऽभ्यंगस्वेदसेकावगाहः॥ वस्तिभिर्वद्धविड्वतं सपित्तं तूर्ध्वभक्तकैः॥ घृतैः क्षीरैश्व सकर्फ जयेस्नेविरेचनैः॥ गुडूचीकंटकारीभ्यां पृथक् त्रिंशत्पलाद्रसे॥ प्रस्थः सिद्धो घृताद्वातकास-द्वन्हीदी पनः। क्षाररास्त्रावचार्हिगुपाठायष्ट्याव्हान्यकैः॥ द्विशाणैः सर्पिषः प्रस्थं पंचकोलयुतैः पचेत्॥ दश-मूलस्य निर्यूहे पीतो मंडानुपापिना॥ स श्वासकासत्द्दत्पार्श्वग्रहणीरोगगुल्मनुत्॥ काश्मर्यत्रिफलाव्योपशठी-द्राक्षापरूपकं॥ द्वे पाठे देवदार्वर्द्धिस्वगुप्ताऽग्निकगोक्षुरु॥ व्याघ्नी नामलकी भेदा काकनासा शतावरी॥ विदारी च घृतप्रस्थः कर्षाशैस्तैर्विपात्रिः
तः॥ क्षीरेण च जयत्याशु ज्वरकासहलीमकान्॥ गुल्मारुचिपकृत्प्ली हशिरोव्द्दत्पार्श्ववेदनाः॥ कामलार्शोऽनिलाष्ठीलाक्षतशोफक्षयांश्च सः॥ द्रोणे ऽपां साधयेद्रास्नादशमूलशतावरीः॥ पलोन्मिता द्विकुडवं कुलत्थं बदरं यवं॥ तुलार्द्ध चाजमांसस्य तेन साध्यं घृताढकं॥ समक्षीरं पलांशैश्च जीवनीयैः समीक्ष्य तत्॥ प्रयुक्तं वातरोगेषु पाननावनबस्तिभिः॥ पंचकासांश्छिरःकंपं योनिवंक्षणवेदनां॥ सर्वोगैकांगरोगांश्च सप्लोहोर्ध्वानिलान्जयेत्॥ विदार्यादिगणक्वाथकल्कसिद्धं च कासजित्॥ अशोकबीजक्षवकजंतुघ्नांजन-पद्मकैः॥ सविडैश्व घृतं सिद्धं तचूर्णे वा घृताप्लुतं॥ लित्द्यात्पयश्चानुपिबेदाजं कासातिपीडितः॥ विडंगं नागरं रास्नापिप्पलीर्हिगुसैंधवं॥ भार्द्वक्षारश्च तच्चूर्णे पिवेद्वा घृतः मात्रया॥ सकफेऽनिलजे श्वासहिध्माहताग्निषु॥ दुरालभां शृंगवेरं शठीं द्राक्षां सितोपलां॥ लित्द्यात्कर्कटशृंगी च काते तैलेन वातजे॥ दु.स्पर्शी पिप्पलीं भुस्तं भार्ड्विकर्कटकीं शठीं॥ पुराणगुडतैलाभ्यां चूर्णितान्यषलेहयेत्॥ नद्वत्सकृष्णां शुंठीं च सभार्डौ तद्वदेवच।पिवेत्कृष्णां च कोष्णेन सलिलेन ससैंधवां॥ मस्तुना ससितां शुंठी दघ्ना वाकणरेणुकां॥ पिबेद्वदरमज्जां वा मृदिरादधिमस्तुभिः॥ अथवा पिप्पलीकल्कं घृतभृष्टं ससैंधवं॥ कासी सपीनसो धूमं स्नैहिकं विधिना पिबेत्॥ हिध्माश्वासोक्तधूमांश्च क्षीरमांसरसाशनः॥ ग्राम्यानूपादकैः शालियवगोधूमषष्टिकान्॥ रसैर्माषात्म-गुप्तानां यूषैर्वा भोजपेध्दितान्॥ यवानीपिप्पलीबिल्वमध्यनागरचित्रकैः॥ रास्त्राऽजाजोपृथक्पर्णौपलाश-शठिपौष्करैः॥ सिद्धां स्निग्धाम्ललवणां पेयामनिलजे पिबेत्॥ कटीत्द्दत्पार्श्वकोष्टार्तिश्वासहिध्माप्रणाशिनीं॥ दशमूलरसे तद्वत्पंचकोलगुडान्वितां॥ पिबेत्समतिलां येयां क्षैरेर्यी वा संसैंधवां॥ मात्स्यकौक्कुट-वाराहैर्मोसेर्वा साज्यसैंधवां॥ वास्तुको वायसीशाकं कासघ्नः सुनिषण्णकः॥ कंटकार्याः फलं पत्रं बालं शुष्कं च मूलकं॥
स्नेहास्तैलांदयो भक्ष्याः क्षीरेक्षुरसगोडिकाः॥ दधिमस्त्वारनालांबुफलाम्लमदिराः पिबेत्॥ पित्तकासे तु सकफे वमनं सर्पिषा हितं॥ तथा मदनकारश्मर्यमधूकक्वथितैर्जलैः॥ फलयष्ट्याह्वकल्कैर्वा विदारीक्षुरसाप्लुतैः॥ पित्तकासे तनुकफे त्रिवृतां मधुरैर्युतां॥ युंज्याद्विरेकाय युतां घनश्लेष्मणि तिक्तकैः॥
हृतदोषो हिमं स्निग्धं स्वादु संसर्जन भजेत्॥ घने कफे तु शिशिरं रुक्षं तिक्तोपसंहितं॥ पिप्पलीमुस्तयष्ट्याव्हद्राक्षामूर्वामहौषधं॥ लाजामृतफलाद्राक्षात्वक्क्षीरीपिप्पलीसिताः॥ दुःस्पर्शा कर्कटी शुंठी शठीद्राक्षा फला शिवा॥ निदिग्धिका मूलफलं बटबीजं रसांजनं॥ खर्जूरं पिप्पली वांशी श्वदंष्ट्राचेति पंच ते॥ घृतक्षौद्रयुता लेहाः श्लोकार्द्धैर्पित्तकासिनां॥ पयोनुपानां शृंगींवा लिह्यात्साज्यसितामधुं॥ लेहः पित्ते सिताधात्रीक्षौद्रद्राक्षाहिमोत्पलैः॥ सकफे साब्दमरिचः सघृतः सानिले हितः॥ मृद्वीकार्द्धशतं त्रिंशत्पिप्पलीः शर्करापलं॥ लेहयेन्मधुना गोर्वा क्षीरयस्य शकृद्रसं॥ त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः॥ लाजमुस्तशठीरास्नाधात्रीफलविभीतकैः॥ शर्कराक्षौद्रसर्पिर्भिर्लेहो हृद्रोगकासहा॥पिप्पल्यामलकीद्राक्षालाजलाक्षासितोपलाः॥ संचूर्ण्य पक्वाःपयसा लिह्यात्क्षौद्राष्टभागिकाः॥ विदारीक्षुमृणालानां रसान् क्षीरं सितोपलां॥ पिबेत् क्षौद्रेण संयोज्य पित्तकासमपोति॥मधुरैर्जांगलरसैर्यवश्यामाककोद्रवाः॥ मुद्गादियूषैःशाकैश्च तिक्तकैर्मात्रया हिताः॥ घनश्लेष्मणि लेहाश्चतिक्तका मधुसंयुताः॥ शालयः स्युस्तनुकफे षष्टिकाच रसादिभिः॥ शर्करांभोऽनुपानार्थं द्रक्षेक्षुस्वरसः पयः॥काकोलीबृहतीमेदाद्वयैः सवृषनागरैः॥पित्तकासे रसक्षीरपेयायूषान्प्रकल्पयेत्॥ द्राक्षां कणां पंचमूलं तृणाख्यं च पचेज्जले॥ तेन क्षीरं शृतं शीतं पिबेत्समधुशर्करं॥ साधितां तेन पेयां वा सुशीतां मधुनान्वितां॥ शठीह्रीबेरबृहतीशर्कराविश्वभेषजं॥
पिष्ट्वारसं पिबेत्पूतं वस्त्रेण घृतमूर्च्छितं॥ महिष्यजावीगोक्षीरधात्री फलरसैः समैः॥ सर्पिः सिद्धं पिबेत्तद्वन्मधुरेणगणेन वा॥ क्वाथीकृतेनेक्षुरसं क्षीरयुक्तेन साधितं॥ सशर्करं पिबेत्प्रातर्लिह्याद्वामाक्षिकान्वितं॥ क्षीरिवृक्षांकुरक्वाथे पक्वंक्षीरसमं घृतं॥ पाययेत् पित्तकासार्तं मधुना वाऽवलेहयेत्॥ मेदां विदारींकाकोलीं स्वयंगुप्ताफलं बलां॥ शर्करां जीवकं मुद्गमाषपर्ण्यौदुरालभां॥ कल्कीकृत्यपचेत्सर्पिः क्षीरेणाष्टगुणेन तत्॥ पानभोजनलेहेषु प्रयुक्तं पित्तकासजित्॥ लिह्याद्वाचूर्णमेतेषां कषायमथवा पिबेत्॥ कफकासी पिबेदादौ सुरकाष्ठात्प्रदीपितात्॥ स्नेहं परिस्रुतं व्योषयवक्षारावचूर्णितं॥ स्निग्धं विरेचयेदूर्ध्वमधो मूर्ध्नि च युक्तितः॥ तीक्ष्णैर्विरेकैर्बलिनं संसर्गो चास्य योजयेत्॥ यवमुद्ग-कुलत्थान्नैरुष्णरूक्षैः कटूत्कटैः॥ कासमर्दकवार्ताकव्याघ्रीक्षारकणान्वितैः॥ धन्यबैलरसैः322स्नेहैस्तिलसर्षप-निंबजैः॥ दशमूलांबु घर्मांबुमद्यं मध्वंबु वा पिबेत्॥ मूलैः पौष्करशम्याकपटोलैः संस्थितं निशां॥पिबेद्वारि सहक्षौद्रं कालेष्वन्नस्य वा त्रिषु॥ पिप्पली पिप्पलीमूलं शृंगबेरं बिभीतकं॥ देवदार्वंभया मुस्तं पिप्पली विश्वभेषजं॥ गुडूची पिप्पली भार्ङ्गीशृंगी कर्कटकस्य च॥ व्योषदारुविडंगानि त्रिफलाशर्कराबलाः॥ निदिग्धिकाया मूलत्वङ्मरिचैः सह योजिताः॥ शिखिकुक्कुटपिच्छानां मषीक्षारो यवोद्भवः॥ विशाला पिप्पली मुस्तं त्रिवृता च मधुद्रवाः॥ कफकासहरा लेहाः सप्त श्लोकार्द्धयोजिताः॥ मधुना मरिचं लिह्यान्मधुनैव च जोंगकं॥ पृथग्रसांश्च मधुना व्याघ्रीवार्ताकभृंगजान्॥ कासघ्नस्याश्वशकृतः सुर सस्यासितस्य च॥ देवदारुशठीरास्नाकर्कटाख्या दुरालभाः॥ पिप्पली नागरं मुस्तं पथ्याधात्रीसितोपलाः॥ मधुतैलयुतावेतौ लेहौ वा तानुगे कफे॥ विडंगं सैंधवं हिंगुं कुष्टं व्योषंमनःशिलां॥कासे श्वासे च हिध्मायांलिह्यात्क्षौद्रघृतप्लुतं॥ गुडक्षारोपणकणादाडिमं श्वासकासजित्॥ क्रमात्पलद्वयार्द्धाक्ष-कर्षार्द्धाक्षपलोन्मितं॥ द्वे पले दाडिमादष्टौ गुडाद्व्योपात्पलत्रयं॥ रोचनं दीपनं स्वर्यं पीनसश्वासकास-जित्॥ पाठाशुंठीशठोमूर्वागवाक्षीपिप्पलीघनं॥ पिष्ट्वाघर्मांबुनाहिंगुसैंधवाभ्यांयुतंपिबेत्॥ तद्वन्मुस्ता-शठीशुंठीनागरातिविपाऽभयाः॥ पिबेज्ज्वरोक्तं पथ्यादि सशृंगीकं चं पाचनं॥ अथवा दीप्यक-त्रिवृद्दिशालाघनपौष्करं॥ सकणं क्वथितं मूत्रे कफकासी जलेऽपि वा॥ तैलभृष्टं च वैदेही-कल्काक्षं ससितोपलं॥ पाययेत्कफकासघ्नं कुलत्थसलिलाप्लुतं॥सौवर्चलाभयाधात्रीपिप्पलीक्षारनागरं॥ चूर्णितं सर्पिषा वातकफकासहरं पिबेत्॥ दशमूलाढके प्रस्थं घृतस्पाक्षसमैः पचेत्॥ पुष्कराव्हशठीबिल्वसुरसा-व्योषहिंगुभिः॥पेयाऽनुपानं तत्सर्वं वातश्लेष्मामयापहं॥ निर्गुंडीपत्रनिर्याससाधितं कासजिद्घृतं॥ घृतं रसे विडंगानां व्योषगर्भंव साधितं॥ पुनर्नवशिवाटिकासरलकासमर्दामृतापटोलबृहतीफणिज्जकरसैः पयःसंयुतैः॥घृतं त्रिकटुना च सिद्धमुपयुज्य संजायते न कासविषमज्वरक्षयगुदांकुरेभ्यो भयं॥ समूलफल-पत्रायाः कंटकार्या रसाढके॥ घृतमस्थं बलाव्योषविडंगशठिदाडिमैः॥ सौवर्चलयवक्षारमूलामलक-पौष्करैः॥ वृश्वीवबृहतीपथ्यायवानीचित्रकर्द्धिभिः॥ मृट्टिकाचव्यवर्षाभूदुरालंभाऽम्लवेतसैः॥ शृंगीतामलकी-भार्ङ्गीरास्नागोक्षुरकैः पचेत्॥ कल्कैस्तत्सर्वकासेषु श्वासहिध्मासु चेष्यते॥ कंटकार्यास्तुलां क्षुण्णां पक्त्वाद्रोणेंऽभसःपचेत्॥ तेनाढकेन क्वाथस्य घृतं प्रस्थं पिचून्मितैः\।\। रास्नादुःस्पर्शषड्ग्रंथापिप्पली-द्वयचित्रकैः॥ सौवर्चलयवक्षारकृष्णामूलैश्चतज्जयेत्॥ कासश्वासकफष्ठीवहिध्माऽरोचकपीनसान्॥ पचेद्व्याघ्रीतुलां क्षुण्णां वहेऽपामाढकस्थिते॥ क्षिपेत्पूते तु संचूर्ण्य व्योषरास्त्रामृताग्निकान्॥ शृंगीभार्ङ्गीघन-ग्रंथिधन्वयासान् पलार्द्धकान्॥ सर्पिषःषोडशपलं चत्वारिंशत्पलानि च॥ मत्स्पंडिकायाः शुद्धायाः पुनश्च तदधिश्रयेत्॥ दर्वीलेपिनि शोते च पृथक्द्विकुडवं क्षिपेत्॥ पिप्पलीनां तवक्षीर्या माक्षिकस्यानवस्यच॥ लेहोऽयं गुल्मत्दृद्रोगदुर्नामश्वासकासजित्॥ त्रिफलापिप्पलीपाठासारिवाबृहतीद्वयं॥ मरिचं पद्मकं मुस्तमुशीरं चाक्षसंमितं॥ पक्त्वा जलाढके पादशेषेक्षीरपलाष्टकं॥ दत्वा गुडस्य च पलं पचेदादर्वि-लेपनात्॥ लेहः कफोल्बणं कासं सर्वमेव नियच्छति॥ साधितं क्षीरमेभिर्वा तिलक्षौद्रयुतं पिबेत्॥ शमनं च पिबेद्धूमं शोधनं बहुले को॥मनःशिलालमपुकमांमीमुस्तेंगुदीत्वचः॥ धूमं कासघ्नविधिना पीत्वा क्षीरं पिबेदनु।निष्ट्यूतांते गुडपुतं कोष्णं धूमो निहंति सः॥ वातश्लेष्मोत्तरान्कासानचिरेण चिरंतनान्॥ प्रप्रौंडरीकं मधुकं शार्ङ्गष्टाऽलं मनःशिलां॥ मरिचं पिप्पलीं द्राक्षामेलांसुरसमंजरी॥ कृत्वा वर्तिं पिबेत्धूमं क्षौमचैलानुवर्तिनीं॥ घृताक्तामनु च क्षीरं पिबेत्तद्वद्गुडांबु वा॥ नेपालीतालमरिचद्राक्षांजनकुटन्नटैः॥ उशीररोहिषफलद्रविडोवंशलोचनैः॥ पूर्वकल्पेन धूमोऽयं सानुपानो विधीयत॥ कार्पासास्थ्यश्वगंधा च धूमः कासविनाशनः॥ कोशातकीफलान्मध्यैः पिबेद्दा समनःशिलैः॥ तमकः कफकासे तु स्याच्चेत्पित्तानुबंधजः॥ पित्तकासक्रियां तत्र यथावस्थं प्रयोजयेत्॥ कफानुबंधे पवने कुर्यात्कफरां क्रियां॥ पित्तानुबंधयोर्वात-कफयोः पित्तनाशिनीं॥ वातश्लेष्मात्मके शुष्के स्निग्धमार्द्रे विरुक्षणं॥कासे कर्म सपित्ते तु कफजे तिक्तसंयुतं॥॥ इति कासचिकित्सितं नाम चतुर्थोऽध्यायः॥४॥
अथातः क्षतक्षयकासचिकित्सितं व्याख्यास्यामः॥ ॥ उरस्यंतः क्षते सद्यो लाक्षां क्षौद्रयुतां पिबेत्॥ क्षीरेण शालीन् जीर्णेऽद्यात्क्षोरणैन सशर्करान्॥ पार्श्वबस्तिसरुक्चाल्पपित्ताग्निस्तां सुरापुतां॥
भिन्नविद् तु समुस्तातिविषापाठां सवत्सकां॥ लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयंगणं सितां॥ त्वक्क्षीरीं संमितं क्षीरे पक्त्वादीप्तानलः पिबेत्॥ इक्ष्वारिकाबिसग्रंथिपद्मकेसरचंदनैः॥ शृतं पयो मधुयुतं संधानार्थं पिबेत्क्षती॥ यवानां चूर्णमामानां क्षीर सिद्धं घृतान्वितं॥ ज्वरे दाहे सिताक्षौद्रसक्तून्यापयसा पिबेत्॥कासवांस्तु पिबेत्सर्पिर्मधुरौषधसाधितं॥ गुडोदकं वा क्वथितं सक्षौ द्रमरिचं हिमं॥चूर्णमामलकानां वाक्षीरे पक्वघृतान्वितं॥ रसायनविधानेन पिप्पलीर्वा प्रयोजयेत्॥ कासी पर्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः॥ मधूकमधुकद्राक्षात्वक्षीरीपिप्पलीबलाः॥ त्रिजातमर्द्धकर्षाशं पिप्पल्पर्द्धपलं सिता॥ द्राक्षामधूकं खर्जूरं पलांशंलक्ष्णचूर्णितं॥ मधुना गुटिका घ्नंति ता वृत्याःपित्तशोणितं॥ कासश्वासारुचिछर्दिमूर्च्छाहिध्मामद-भ्रमान्॥ क्षतक्षयस्वरभ्रंशप्लीहशोफाढ्यमारुतान्॥ रक्तनिष्ठीवहृत्पार्श्वरुक्पिपासाज्वरानपि॥ रक्तेऽतिवृद्धे छागं वा जांगलं वा पिबेदसृक्॥ वर्षाभूशर्करारक्तशालितंदुलजं रजः॥ रक्तष्ठीवी पिबेत्सिद्धं द्राक्षारस-पयोघृतैः॥ मधूकमधुकक्षीरसिद्धं वा तंदुलीयकं॥ यथास्वमार्गविसृते रक्ते कुर्याच्च भेषजं॥ पिप्पलीमधुकं पिष्टं कार्षिकं ससितोपलं॥ प्रास्थिकं गव्यमाजं च क्षीरमिसुरप्तं तथा॥ यवगोधूममृद्वीकाचूर्णमामलद्रसः॥ तैलं च प्रसृतांशानि तत्सर्वं मृदुनाऽग्निना॥ पचेल्लेहं घृतक्षौद्रयुतः स क्षतकासनुत्॥ श्वासहृद्रोगकासघ्नोहितो वृद्धाल्परेतसां॥ मूढवातस्त्वजामेदः सुराभृष्टं ससैंधवं॥ क्षामः क्षीणः क्षतोरस्को मंदनिद्रोऽग्निदीप्तिमान्॥शृतक्षीरसरेणाद्यात्सघृत्तक्षौद्रशर्करं॥ शर्करायवगोधूमं जीवकर्षभको मधु॥ शृतक्षीरानुपानं वा लिह्यात्क्षीणक्षतः कृशः॥ क्रव्यात्पिशितनिर्यूहं घृतभृष्टं पिबेच्च सः॥पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्द्धनं॥
न्यग्रोधोदुंबराश्वत्थप्लक्षशालप्रियंगुभिः॥ तालमस्तकजंबूत्वक्पियालैश्च सपद्मकैः॥ साश्वकर्णैः शृतात्क्षीरादद्याज्जातेन सर्पिषा॥ शाल्योदनं क्षतोरस्कः क्षीणशुक्रबलेंद्रियः॥ वातपित्तार्दितेऽभ्यंगो गात्रभेदे घृतैर्मतः॥ तैलैश्वानिलरोगघ्नैः पीडिते मातरिश्वना॥ हृत्पार्श्वर्तिषु पानं स्याज्जीवनीपस्य सर्पिषः॥ कुर्याद्वा वातरोगघ्नं पित्तरक्ताविरोधि यत्॥ यष्ट्याह्वनागबलयोः क्वाथै क्षीरसमे घृतं॥ पयस्यापिप्पलीवांशीकल्कैः सिद्धं ते हितं॥ घृतं वाऽष्टगुणे क्षीरे कोललाक्षारसान्वितं॥ कल्कैः कट्वंगदार्वीत्वग्वत्सकत्वक्फलैर्घृतं॥ जीवनीयो गणः शुंठीवरीवीरा पुनर्नवा॥ बला भार्ङ्गीस्वगुप्तर्द्धिशठीतामलकीकणाः॥ शृंगाटकं पयस्या च पंचमूलंच यल्लघु॥ द्राक्षाऽक्षोडादि च फलं मधुरस्निग्धबृंहणं॥तैः पचेत्सर्पिषःप्रस्थं कर्षाशैःश्लक्ष्ण-कल्कितैः॥ क्षीरधात्रीविदारीक्षुछागमांसरसान्वितं॥ प्रस्थार्द्धंमधुनः शीते शर्कराऽर्द्धतुलारजः॥ पलार्द्धकं च मरिचत्वगेलापत्रकेसरं॥ विनीय चूर्णितं तस्माल्लित्द्यान्मात्रां यथाऽनलं॥ अमृतप्राश इत्येतन्नराणाममृतं घृतं॥ सुधामृतरमसंप्राश्यं क्षीरमांसरसाशिना॥ नष्टशुकक्षनक्षीणदुर्बलव्याधिकर्शितान्॥ स्त्रीप्रसक्तान् कृशान्वर्णस्वरहीनांश्च बृहत्॥ कासहिध्माज्वरश्वासाहतृष्णाऽस्त्रपित्तनुत्॥ पुत्रदंछर्दिमूर्च्छात्दृद्योनि-मूत्रामयापहं॥श्वदंष्ट्रोशीरमंजिष्ठाबलाकाश्मर्यकत्तृणं॥ दर्भमूलं पृथक्पर्णी पलाशर्षभकौ स्थिरा॥ पालिकानि पचेत्तेपां रसे क्षीरचतुर्गुणे॥ कल्कैः स्वगुप्ताजीवंतमेदर्षभकजीवकैः॥ शतावर्यर्द्धिमृट्टीकाशर्कराश्रावणः॥ प्रस्थः सिद्धो घृताद्वातपित्तत्दृद्रोगशूलनुत्॥ मूत्रकृच्छ्रममेहाशेः कासशोषक्षपापहः॥ धनुःस्त्रीमद्यभाराध्व-खिन्नानां बलमांसदः॥ मधुकाष्टपलद्राक्षाप्रस्थक्वाथे पचेद्घृतं॥ पिप्पल्पष्टपले कल्के प्रस्थं सिद्धे च शीतले॥ पृथगष्टपलं क्षौद्रशर्कराभ्यां च मिश्रयेत्॥ समसक्तु क्षतक्षीणरक्तगुल्मेपु तद्वितं॥ धात्रीफलविदारीक्षुजीवनीयरसाद्घृतात्॥ गव्याजयोश्च पय सोः प्रस्थं प्रस्थं विपाचयेत्॥ सिद्धशीते सिताक्षौद्रद्विप्रस्थं विनयेत्त तः॥ यक्ष्मापस्मारपित्तासृक्कासमेहाक्षयापहं॥ वयःस्थापनमायुष्यं मांसशुक्र-बलप्रदं॥ घृतं तु पित्तेऽभ्यधिके लिह्याद्वातेऽधिके पिबेत्॥ लीढं निर्वापपेत्पित्तमल्पत्वाद्धंति नानलं॥ आक्रामत्यनिलं पीतमूष्माणं निरुणद्धि च॥ क्षामक्षीणकृशांगानामेतान्येव घृतानि तु॥ त्वक्क्षीरीपिप्पली-लाजचूर्णैः पानानि योजयेत्॥ सर्पिर्गुडान्समध्वंशान्कत्वादद्यात्पयोऽनु च॥ रेतो वीर्यंबलं पुष्टिं तैराशुतरमाप्नुयात्॥ बला विदारी ह्रस्वंच पंचमुलं पुनर्नवा॥ पंचानां क्षीरिवृक्षाणां शृंगा मुष्ट्यंशकास्तथा॥ एषां कषाये द्विक्षीरे विदार्यारजसांऽशके॥ जीवनीयैः पचेत्पिष्टैरक्षमात्रैर्घृताढकं॥ सितापलानि पूते च. शीतें द्वात्रिंशदावपेत्॥ गोधूमपिप्पलीवांशीचूर्णं शृंगाटकस्य च॥ समाक्षिकं कौडविकं तत्सर्वं खजमूच्छितं॥ स्त्यानं सर्पिर्गुडान्कृत्वा भूर्जपत्रेण वेष्टयेत्॥ तान्जग्ध्वा पालिकान् क्षीरं मद्यं त्वनु पिबेत्कफे॥ शोषे कासे क्षते क्षीणे श्रमस्रीजारकार्शिते॥ रक्तनिष्ठीवने ताप पोनसे चोरसि स्थिते॥ शस्ताः पार्श्वशिरःशूले भेदे च स्वरवर्णयोः॥ स्वशर्कराशृते क्षीरघृततैलाढकत्रये॥ चूर्णीकृताः क्षिपेत्सक्वसांद्रेदशपलाः पृथक्॥ द्राक्षाऽऽत्मगुप्तावर्षाभूसमंगाऽभीरुपीप्पलीः॥ तद्वद्विदार्यामलके प्रस्थार्द्धं विश्वभेषजं॥ यष्ट्याव्ह-सौवर्चलयोर्द्विपलं मरिचस्य च॥ क्षामः क्षीणः क्षतः शुष्यंस्तान् खादेत्पालिकैर्गुडैः॥ तथा सद्यो रसादीनां वृत्ध्यापुष्टिं समभुते॥ गोक्षीरार्द्धाढकंसर्पिः प्रस्थमिक्षुरसाढके॥ रसाद्विदार्याःकुडवं रसात्प्रस्थं च तैत्तिरात्॥ दद्यात्सित्ध्यति तस्मिंस्तु पिष्टानिक्षुरसैरिमान्॥ मधूकपुष्पं कुडवं कुडवं च प्रियालतः॥ पलद्वयंतवक्षीर्याः स्वर्जूराणि च विंशतिः॥ पृथग्बिभीतकान्मज्नः
पिप्पल्याश्च चतुर्थिकान्॥ त्रिंशत्पलानि खंडाच्च मधुकात्पाणिमा
निकां॥ तथाऽर्द्धपलिकान्यत्र जीवनीयानि दापयेत्॥ सिद्धे द्विकुडवं क्षौद्राच्छीते दत्वा च मोदकान्॥ कारयेन्मरिचाजाजीपलचूर्णावचूर्णितान्॥ वातासृक्पित्तरोगेषु क्षतकासक्षयेषु च॥ क्षीणौजःस्वरशुक्रेषुयोनि-दोषेषुसंस्रवे॥ मृतप्रजासु वंध्यासु हिता गर्भस्य च स्रुतौ॥ वीतत्वगस्थिकूष्मांडतुलां स्विन्नां पुनः पचेत्॥ घट्टयन्सर्पिषःप्रस्थे क्षौद्रवर्णोऽत्र च क्षिपेत्॥ खंडाच्छतं कणाशुंठ्योर्द्विपलं जीरकादपि॥ त्रिजातधान्यमरिचं पृथगर्द्धपलांशकं॥ अवतारितशीते च दत्वा क्षौद्रं घृतार्द्धकं॥ खजेनामथ्यच स्थाप्यं तन्निहंत्युपयोजितं॥ कासहिध्माज्वरश्वासरक्तपित्तक्षतक्षयान्॥ उरःसंधानजननं मेधास्मृतिबलप्रदं॥ अश्विभ्यां निर्मितं हृद्यं कूष्मांडकरसायनं॥ पिबेन्नागबलामूलस्पार्द्धकर्णादिवर्द्धितं॥ पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक्॥ एषप्रयोगः पुष्ट्यायुर्बलवर्णकरः परं॥ मंडूकपर्ण्याः कल्पोऽयं यष्ट्या विश्वौषधस्य च॥ पादशेषंजलद्रोणे पचेन्नागबलातुलां॥ तेन क्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत्॥ पठार्द्धिकैश्वातिबलाबलायष्टिपुनर्नवैः॥प्रपौंडरीककाश्मर्यपियालकपिकच्छुभिः॥ अश्वगंधासिताऽभीरुमेदायुग्मत्रिकंटकैः॥ काकोलीक्षीर-काकोलीक्षीरशुक्लाद्विजीरकैः॥ मृणालबिसखर्जूरशृंगाटककसेरुकैः॥ एतन्नागबलासर्पिः पित्तरक्तं क्षतक्षयं॥ जयेत्तृड्भ्रमदाहांश्च बलपुष्टिकरं परं॥ वण्यमायुष्यमोजस्यंवलीपलिननाशनं॥ उपयुज्य तु षण्मासाद्वृद्धोऽपि तरुणायते॥ शर्करापिप्पलीचूर्णैः सर्पिषामाक्षिकेण च॥ संयुतं वा शृतं क्षीरं पिबेत्कासज्वरापहं॥फलाम्लं सर्पिषाभृष्टं विदारीक्षुरसे घृतं॥ स्त्रीषु क्षीणः पिबेद्यूषंजीवनं बृंहणं परं॥ सक्तूनां वस्त्रपूतानां मंथं क्षौद्रघृतान्वितं॥
या
वन्नसात्म्यो दीप्ताग्निःक्षतक्षीणः पिबेन्नरः॥ जीवनीयोपसिद्धं वा जांगलं घृतभर्जितं॥ रसं प्रयोजयेत्क्षीणो बृंहणार्थंसशर्करं॥गोमहिष्यश्वनागाजैः क्षीरैर्मांसरसैस्तथा॥ यवान्नं भोजयेद्यूषैःफलाम्टैर्वा घृताप्लुतैः॥ दीप्तेऽग्नौविधिरषस्यान्मंदे दीपनपाचनः॥ यक्ष्मोक्तः क्षतिनां शस्तो ग्राही शकृति तु द्रवे॥ दशमूलं स्वयंगुप्तां शंखपुष्पीं शर्ठींबलां॥हस्तिपिप्पल्पपामार्गपिप्पली-मूलचित्रकान्॥ भ्रार्ङ्गीपुष्करमूलं च द्विपलांशान्यवाढकं॥ हरीतकोशतं चैकं जले पंचाढके पचेत्॥ यवस्वेदे कषांयं तं पूतं तच्चाभयाशतं॥ पचेद्गुडतुलां दत्वा कुडवं च पृथग्घृतात्॥ तैलात्सपिप्पलीचूर्णात्सिद्धशीते च माक्षिकात्॥ लेहे हे चाभये नित्यमतः स्वादेद्रसायनात्॥ तद्लीपलितं हन्याद्वर्णायुर्बलवर्द्धनं॥ पंच कासान्क्षयं श्वासं सहिक्कं विषमज्वरं॥मेहगुल्मग्रहण्यर्शोहत्दृद्रोगारुचिपीनसान्॥ अगस्त्य विदितं धन्यमिदं श्रेष्ठं रसायनं॥ दशमूलं बलां मूर्वांहरिद्रे पिप्पलीद्वयं॥पाठाऽश्वगंधाऽपामार्गस्वगुप्ताति-विषाऽमृताः॥ बालबिल्वं त्रिवृद्दतीमूलं पत्रं च चित्रकात्॥ पयस्यां कुटजं हिंस्रांपुष्पं सारं च बीजकात्॥ बोटस्थविरभल्लातविकंकतशतावरीः॥ पूर्तिकरंजशम्याकचंद्रलेखासहाचरं॥सौभांजनकनिषत्वगिक्षुरं च पलांशकं॥पथ्यासहस्रं सशतं यवानां चाढकद्वयं॥पचेदष्टगुणे तोये यवस्वेदेऽवतारयेत्॥ पूते क्षिपेत्सपथ्यांच तत्र जीर्णगुडात्तुलां॥ तैलाज्यधात्रीरततः प्रस्थं प्रस्थं ततः पुनः॥ अधिश्रयेन्मृदावग्नौ दर्वीलेपेऽवतार्य च॥ शीते प्रस्थद्वयं क्षौद्रात्पिप्पलीकुडवं क्षिपेत्॥ चूर्णीकृतं त्रिजाताच्च त्रिपलं निखनेत्ततः॥ धान्ये पुराणकुंभस्थं मासं खादेच्च पूर्ववत्॥ रसायनं वसिष्ठोक्तमेतत्पूर्वगुणाधिकं॥ स्वस्थानां निष्परीहार सर्वर्तुषुच शस्यते॥ पालिकं सैंधर्व शुंठीं द्वे च सौवर्चत्पले॥शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत्॥कुडवांशानि वृक्षाम्लं दाडिमं पत्रमार्जकात्॥ एकैकां
मरिचाजाज्योर्धान्यकाद्द्वे चतुर्थिके॥ कृत्वा चूर्णमतो मात्रामन्न पानेषुयोजयेत्॥ रुच्यं तद्दीपनं बल्यंपार्श्वार्तिश्वासकासनुत्॥ एकांषोडशिकां धान्याद्द्वेद्वेचाजाजिदीप्यकात्॥ ताभ्यां दाडिम-वृक्षाम्लाद्द्विर्द्विसौनर्चलात्पलं॥ शुंठ्याः कर्षं दधित्यस्य मध्यात्मंच पलानि च॥ तच्चूर्णं षोडशपलैः शर्कराया विमिश्रयेत्॥ खांडवोऽयं प्रदेयः स्यादन्नपान्नेषु पूर्ववत॥ विधिश्च यक्ष्मपित्तास्रविहितः शस्यते क्षते॥ निवृत्ते क्षतदोषेतु कफे वृद्धउरःशिरः॥ दाल्यते कासिनो यस्य स ना धूमान्पिबेदिमान्॥ हिमेदाद्विबलायष्टीकल्कैः क्षोमे सुभाविते॥ वर्ति कृत्वा पिबेद्धूमं जीवनीयघृतानुपः॥ मनःशिलापलाशाजगंधात्वक्क्षीरनागरैः॥ तद्वदेवानुपानं तु शर्करेक्षुगुडोदकं॥ पिष्ट्वामनःशिलां तुल्यामार्द्रया वटशुंगया॥ ससर्पिष्कं पिबेत्धूमं तित्तिरिप्रतिभोजनं॥ क्षयजे बृंहणं पूर्वं कुर्यादग्नेश्चवर्द्धनं॥ बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनं॥ शम्याकेन त्रिवृतया मृद्वीकारसयुक्तया॥ तिल्वकस्य कषायेण विदारीस्वरसेन च॥ सर्पि सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनं॥ पित्ते कफे धातुषुच क्षीणेषु क्षयकासवान्॥ घृतं कर्कटकोक्षीरद्विबलासाधितं पिबेत्॥विदारीभिः कदंबैर्वा तालसस्यैश्च साधितं॥ घृतं पयश्च मूत्रस्य वैवर्ण्यकृच्छ्रनिर्गमे॥ शूने सवेदने मेंढ्रेपायौ सश्रोणिवंक्षणे॥ घृतमंडेन लघुनाऽनुवास्यो मिश्रकेण वा॥ जांगलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशायाः॥ क्रमशः प्रसहास्तद्वत्प्रयोज्याः पिशिताशिनः॥ औष्ण्यात्ममाथिभावाच्च स्रोतोभ्यश्चावयंति ते॥ कफं शुद्धैच तैः पुष्टिं कुर्यात्सम्यग्वहन् रसः॥ चविकात्रिफलाभार्ङ्गीदशमूलैः सचित्रकैः॥ कुलत्थपिप्पली मूलपाठाकोटयवैर्जले॥ शृतैर्नागरदुःस्पर्शापिप्पलीशठिपौप्करैः॥ पिष्टैः कर्कटशृंग्या च समैः सर्पिर्विपाचयेत्॥ सिद्धेऽस्मिंश्चूर्णितौ क्षारौ पंचैवलवणानि च॥ दत्वा युक्त्या पिबेन्मात्रां क्षयकांसनिपीडितः॥ कासमर्दाभयामुस्तपाठाकट्फलनागरैः॥ पिप्पल्या कटुरोहिण्या काश्मर्या सुरसेन च॥ अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके॥ पचेच्छोष-ज्वरप्लीहसर्वकासहरं पिबेत्॥ वृषव्याघ्रीगुडूचीनां पत्रमूलफठांकुरान्॥ रसकल्कैर्घृतं पक्वंइति कासज्वरारुचीः॥द्विगुणे दाडिमरसे सिद्धं वा व्योषसंयुतं॥पिबेदुपरि भक्तस्य यवक्षारयुतं नरः॥ पिप्पलीगुडसिद्धं वा छागक्षीरयुतं घृतं॥ एतान्यग्निविध्यर्थं सर्पिषिक्षयकासिनां॥ स्युर्दोषबद्धकंठोरः स्रोतसां च विशुद्धये॥ हरीतकीर्यबक्वाथस्थाढके विंशतिं पचेत्॥ स्विन्नामृदित्वा तास्तस्मिन्पुराणात्षट्पलं गुडात्॥ पिप्पल्या द्विपलं कर्षंमनोह्वाया रसांजनात्॥ दत्वाऽर्द्धाक्षंपचेद्भूयःस लेहः शासकासजित्॥श्वाविधां सूचयो दग्धाः समृतक्षौद्रशर्कराः॥ श्वासका सहरा वर्हिपादौ वा क्षौद्रसर्पिषा॥एरंडपत्रक्षार या व्योषतैल-गुडान्वितं॥ लेहयेत्क्षारमेवं वा सुरसैरंडपत्रजं॥लिह्यात्र्यूषणचूर्णं वा पुराणगुडसर्पिषा॥ चित्रक-त्रिफलाऽजाजीकर्कटारव्याकटुत्रिकं॥ द्राक्षां च क्षौद्रसर्पिर्भ्यांलिह्यादद्याद्गुडेन च॥ पाठामपुकजीवंती-त्वक्क्षीरीत्रिफलाघनं॥ शठीद्विबृहतीद्राक्षापिप्पल्पेलावितुन्नकं॥सारिवापुष्करजटाकर्कख्यारसांजनं॥ पुनर्नवालोहरजस्रा यमाणा यवानिका॥ ऋद्धिस्तामलकी भार्ङ्गीविडंंग धन्वयासकं॥ क्षारचित्रकचव्याम्ल-वेतसव्योषदारु च॥ सर्वकासान्जयेल्होढंतच्चूर्णं मधुसर्पिषा॥ पद्मकं त्रिफला व्योषंविडंगं देवदारु च॥ बला रास्ना च तच्चूर्णं समृस्तं समशर्करं॥ खादेन्मताभ्यां वा लिह्यात्कासहरं परं॥ तद्वन्मरिचचूर्णं वा सघृतक्षौद्रशर्करं॥ पथ्याशुंठीघनगुडैर्गुटिकां धारयेन्मुखे॥ सर्वेषु कासश्वासेषुकेवलं वा बिभीतकं॥ कल्के तिल्वकपत्राणां घृतभृष्टे सशर्करे॥ पेयोत्कार्यथवाच्छर्दितृष्णाकासातिसारजित्॥ गौरसर्षपगंडीरविडंग-व्योषचित्रकान्॥ साभयान्साधयेत्ताये यवागूस्तेन चांभसा॥ समर्पिर्लवणा कासे हिध्माश्वासे सपीनसे॥ पांड्वामये क्षये शोफे कर्णशूले च शस्यते॥ कंटकारीरसे सिद्धो मुद्रयूषः सुसंस्कृतः॥ सगौरामलकः साम्लः सर्वकासभिषग्जितं॥ वातघ्नौष धनिःक्वाथे क्षीरं यूषान् रसानपि॥ वैष्किरान्प्रनुदान्बैलान्दापयेत्क्षतकासिने॥ क्षतकासे च ये धूमाः सानुपाना निदर्शिताः॥क्षयकासे च ते यो ज्या वक्ष्यते यच्च यक्ष्मणि॥ बृंहणं दीपनं चाग्नेःस्रोतसां च विशोधनं॥ व्यत्पासात्क्षयकासिभ्यो बल्यंसर्वंप्रशस्यते॥ सन्निपातोद्भवो घोरः क्षयकासो यतस्ततः॥ यथादोपबलं तस्य सन्निपातहितं हितं॥ इति क्षतक्षयकासचिकित्सितं नाम पंचमोऽध्यायः॥५॥
अथातः श्वासहिध्माचिकित्सितं व्याख्यास्यामः॥ श्वासहिध्मायतस्तुल्यहेत्वाद्याः साधनं ततः॥ तुल्यमेव तदार्त्तंच पूर्वं स्वेदैरुपाचरेत्॥ स्निग्धैर्लवणतैलाक्तं स्रोतःसु ग्रथितः कफः॥ तैर्लीनोऽपि विलीनोऽस्य कोष्ठं प्राप्तः सुनिर्हरः॥ भवेत्स्वेषु मृदुत्वं च मारुतस्यानुलोमता॥ खिन्नं च भोजपेदन्नंस्निग्धमानूपजैरसैः॥ दध्युत्तरेण323वा दद्यात्ततोऽस्मै वमनं मृदु॥ विशेषात्कासवमथुत्दृद्रह्रस्वरसादिने॥ पिप्पलीसैंधवक्षौद्रयुक्तं वाताविरोधि यत्॥ निर्त्दृते324सुखमाप्नोति सकफे दुष्टविग्रहे॥स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः॥ ध्मानोदावर्त्ततमके मातुलुंगाम्लवेतसैः॥ हिंगुपीलुबिडैर्युक्तमन्नं स्यादनु लोमनं॥ ससैंधवं फलाम्लं वा कोष्णं दद्याद्विरेचनं॥ एते हि कफसंरुद्धगतिप्राणमकोपजाः॥ तस्मात्तन्मार्गशुत्ध्यर्थमूर्ध्वाधः शोधनं हितं॥ उदीयते भृशतरं मार्गरोधाद्वहज्जलं॥ पथा तथाऽनिलस्तस्यमार्गमस्माद्विशोधयेत्॥ अशांतौ कृतसंशुद्धे धूमैलींनं मलं हरेत्॥ हरिद्रापत्रमैरंडमूलं लाक्षां मनःशिलां॥ सदेवदार्वलं मांसीं पिष्ट्वावार्तिप्रकल्पयेत्॥ तां घृताक्तां पिबेत्धूमं यवान्वा घृतसंयुतान्॥ मधूच्छिष्टं सर्जरसं
घृतं वा गुरु325वाऽगुरु॥ चंदनं वाऽऽजशृंगंवा बालान्वास्नायु326वा गवां॥ कक्षगोधाकुरंगैणचर्मशृंगखुराणि वा॥ गुग्गुलुवा मनोह्वावा सालनिर्यासमेव वा॥ सल्लकीं गुग्गुलुं लोहं327पद्मकं च घृतप्लुतं॥ अवश्यं स्वेद नीयानामस्वेद्यानामपि क्षणं॥ स्वेदयेत्ससिताक्षीरसुखोष्णस्नेहसेचनैः॥ उत्कारिकोपनाहैश्च स्वेदाध्यायोक्त-भेषजैः॥ उरः कंठें च मृदुभिः सामे त्वामविधिं328चरेत्॥ अतियोगो द्वतं वातं दृष्ट्वा पवननाशनैः॥ स्निग्धैरसाद्यैर्नात्युष्णैरभ्यंगैश्च शमं नयेत्॥ अनुत्क्लिष्टकफास्विन्नदुर्बलानां हि शोधनात्॥ वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून्॥ कषायलेहस्ने हाद्यैस्तेषां संशमयेदतः॥ क्षीणक्षतातिसारासृक्पित्तदाहानु-बंधजान्॥ मधुरस्निग्धशीताद्यैर्हिध्माश्वानुपाचरेत्॥ कुलत्थदशमूलानां क्वाथेस्युर्जांगला रसाः॥ यूषाश्च शिग्रुवार्ताककासघ्नवृषमूलकैः॥ पल्लवैर्निबकुलकबृहतीमातुलुंगजैः॥ व्याघ्रीदुरालभाशृंगीबिल्वमध्य-त्रिकंटकैः॥ सामृताग्निकुलत्थैश्च यूषःस्यात्क्वथितैर्जलैः॥ तद्वद्रास्नाबृहत्यादिबलामुद्रैः329सचित्रकैः॥ पेया च चित्रकाजाजीशृंगीसौवर्चलैर्हिता॥ दशमूलेन वा कासश्वासहिध्मारुजापहा॥दशमूलशठीरास्नाभार्ङ्गी-बिल्वार्द्धिपौष्करै॥ कुलीरशृंगीचपलातामलक्पमृतौषधैः॥ पिबेत्कषायं जीर्णेऽस्मिन् पेयां तैरेव साधितां॥ शाटिषष्टिकगोधूमयवमुद्रकुलत्थभुक्॥ कासहृद्ग्रहपार्श्वार्तिहिध्माश्वासप्रशांतये॥ सक्तून्वाऽर्कांकुरक्षीर-भावितानां समाक्षिकान्॥ यवानां दशमुलादिनिष्क्वाथलुलितान् पिबेत्॥ अन्नेन भोजयेत्क्षारहिंग्याज्यबि़ड- दाडिमान्॥ सपुष्करशठीव्योषमातुलुंगाम्लवेतसान्॥ दशमूल्यस्यवा क्वाथमथवा देवदारुणः॥ पिबेद्वा वारुगोमंड हिध्माश्वासी पिपासितः॥ पिप्पलीपिप्पलीमूटपथ्याजंतुघ्नचित्रकैः॥ कल्कितैर्लेपिते रुढे निक्षिपेत्घृभाजने॥ तक्रं मासस्थितं तद्धि दीपनं श्वासकासजित्॥ पाठां मधुरसां दारु सरलं च निशि स्थितं॥ सुरामंडेऽल्पलवणं पिबेत् प्रसूतिसमितं॥शिरीषकुंदकदलीकुसुमं पिप्पली युतं॥ तंदुलांबुप्लुतं हिध्माश्वासकासहरं परं॥ आरनालेन वा पिष्टं मातुरूंगरसान्वितं॥ हिंगुसौवर्चलकणाकोलमुद्गजलेन वा॥ कोष्णेन भार्ङ्गींशुंठीं च क्षारं वा मरिचान्वितं॥ स्वक्वाथपिष्टां लुलितां वाष्पिकां पाययेत वा॥ स्वरसः सप्तपर्णस्य पुष्पाणां वा शिरीषतः॥ हिध्वाश्वासे मधुकणायुक्तः पित्तकफानुगे॥ उत्कारिका तुगाकृष्णमधूलीघृतनागरैः॥ पित्तानुबधेयोक्तव्या पवने त्वनुबंधिनि॥ श्वाविच्छशामिषकणाघृतशल्यकशोणितैः॥ सुवर्चलारसव्योषसपिभिः सहितं पयः॥ अनु शाल्योदनं पेयं वातपित्तेऽनुषंधिनि॥ चतुर्गणांबुसिद्धं वा छागं सगुडनागरं॥ पिप्पलीमूलमधुकगुडगोऽश्व-शकृद्रसान्॥ हिध्माभिष्यंदकासघ्नाल्ँलित्द्यान्मधुघृतान्वितान्॥ गोगजाश्ववराहोष्ट्रस्वरमेषाजविड्रसं॥समध्वेकैकशो लिह्याद्बाहुश्लेष्माऽथवा पिबेत्॥ चतुष्पाच्चर्मरोमास्थिखुरशृगोद्भवां मषीं॥ तथैव वाजिगंधाया लिह्याच्छ्वासीकफोल्वणः॥ क्षारं वा त्रिफलापाठाबृहतीफलकुंभिजं॥ मुक्ताप्रवालवैदूर्यशंखसौगंधिकांजनं॥ मसा330रगल्लस्फटिककाचैलालवणद्वयं॥ अपामार्गफलं ताम्रमयो रीप्यं शणात्फलं॥ ज्योतीरसश्च331 तल्लिह्यादयो वैकं मधुद्रवं॥ शीपुष्करधात्रीर्वा पौष्करं वा कणान्वितं॥ गैरिकांजनकृष्णां वा स्वरसं वा कपित्थजं॥ रसेन वा कपित्थस्य धात्रीसैंधवपिप्पलीः॥ घृतक्षौद्रेण वा पथ्याविडंगोषणपिप्पलोः॥ लिह्याद्वा पिप्पलीद्राक्षापथ्याशृंगीदुरालभाः॥घृतमाक्षिकतै लैर्वा त्र्यूषणं क्षारसंयुतं॥ पिप्पलीक्षौद्रयुक्तौ वा रसौ पात्रोकपित्थयोः
॥ सितोपला त्वामलकी द्राक्षा गोऽश्वशरूसः॥ कोललाजमधुद्राक्षापिप्पलीनागगणि वा॥ गुडतैलनिशा-द्राक्षाकणारास्त्रोषणानि वा॥ पिबेद्रसांबुमद्याम्लैर्ललहौषधरजांसिवा॥ जीवंतीमुस्तसुरसत्वगेलाद्वय-पौष्करं॥ चंडातामलकीलोहाभार्ङ्गीनागरवालकं॥कर्कटारख्याशठीकृष्णानागकेसरचोरकं॥ उपयुक्तं यथाकामं चूर्णं द्विगुणशर्करं॥ पार्श्वरुज्ज्वरकासघ्नंहिध्माश्वासहरं परं॥जीवंती चोरकः शृंगो पौष्करं सुरसः शठी॥पिप्पलीत्वग्बिडक्षारशुंठीहिंग्वम्लवेतसं॥ एला तामलकी भार्ङ्गी वृक्षाम्लं चेति चूर्णितं॥ रसेन मातुरूंगस्प मद्येन हविषाऽथवा॥ लीढं प्रयुक्तमथवा केवलं चोपयोजितं॥हिध्माश्वासविबंधार्शःकासहृत्पार्श्व-शुलनुत्॥ शठी तामलकी भार्ङ्गीचंडा बालकपौष्करं॥ शर्कराऽष्टगुणं चूर्णं हिध्माश्वासहरं परं॥ तुल्पं गुडं नागरं च भक्षयेन्नापयेत वा॥लशुनस्य पलांडोर्वा मूलं गुंजनकस्य वा॥ चंदनाद्वारसं दद्यानारीक्षीरेण नावनं॥ सशर्करां पिप्पलीॆ वा मधुकं वा मधुद्रवं॥ स्तन्ये न मक्षिकाविष्टामलक्तकरसेन वा॥ ससैंधयं घृताक्तंवा सिद्धं स्तन्येन वाघृतं॥ कल्कितैर्मधुरद्रव्यैस्तपिबेन्नावयेत वा॥ सकृदुष्णं सकृच्छीतं व्यत्यासात्ससितंमधु॥ तद्वत्पयस्तथा सिद्धुमधोभागौषधैर्घृतं॥ कणासौवर्चलक्षारवयस्थाहिंगुचोरकै॥सकायस्थैर्घृतं मस्तु दशमूलरसे पचेत्॥ तत्पिबेज्जीवनोयैर्वा लिह्यात्समधु साधितं॥ तेजोवत्यभया कष्टं पिप्पली कटुरोहिणी॥ भूतीकं पौष्करं मूलं पलाशश्चित्रकः शठी॥ पटुद्वयं तामलकी जीवंती बिल्वपेशिका॥ वचा पत्रं च तालीसं कर्षांशैस्तैर्विपाचयेत्॥हिंगुपादैर्घृतप्रस्थं पीतमाशु निहंति तत्॥ शाखानिलार्शोग्रहणी-हिध्महृत्पार्श्ववेदनाः॥ सिद्धं या पुरमंजिष्ठालाक्षातर्जरतैः पिबेत्॥ सपद्मकमनोह्वालैर्घृतप्रस्थं पिचून्मितैः। वत्सकादिप्रतीवापंसिद्धं वा प्रथमे गणे॥ सपंचलवणं सर्पिः श्वासकासानपोहति॥ हिंस्राविडंगपूतीकत्रिकटु-त्रिफलाग्निकैः॥ कोलमात्रैर्घृतप्रस्थं पाचयेत्सलिलाढके॥ क्षीरप्रस्थद्वयोपेतं तत्कासश्वासपीनसान्॥ अर्शांस्यरोचकं गुल्मं क्षयं हिष्मां च नाशयेत्॥ सैंधवार्द्धांशयुक्तं वा पुराणं पाययेहृतं॥ घान्वंतरं332वृषघृतं333दाधिकं334हपुषादि335वा॥ शीतांबुसेकः सहसा त्रासविक्षेपभीशुचः॥ हर्षेर्ष्योच्छ्वासरोधाश्चहितं कीटैश्च दंशनं॥ यत्किंचित्कफवातघ्नमुष्णं वातानुलोमनं॥ तत्सेव्यं प्रायशो यच्च सुतरां मारुतापहं॥ वातकृद्वाकफहर कफकद्वाऽनिलापहं॥ कार्यं नैकांगिकं ताभ्यां प्रायः श्रेयोऽनिलापहं॥ सर्वेषां बृंहणे ह्यल्पःशक्यश्च प्रायशो भवेत्॥ नात्यर्थं शमनेऽपायो भृशोऽशक्यश्च कर्शने॥ शमनैर्बृहणैश्चातोभूयिष्ठं तानुपाचरेत्॥ कासश्वासक्षयच्छर्दिहिध्माश्चान्यभेषजैः॥ इति श्वासहिध्माचिकित्सितं नाम षष्ठोऽध्यायः॥६॥
अथातो राजयक्ष्मचिकित्सितं व्याख्यास्याम॥ बलिनो बहुदोषस्यस्निग्धस्विन्नस्यशोधनं॥ ऊर्ध्याधो यक्ष्मिणः कुर्यात्सस्नेहं यन्न कर्शनं॥पयसा फलयुक्तेन मधुरण रसेन या सर्पिष्मत्या यमाग्वाया वम नद्रव्यसिद्धपा॥ वमेद्विरेचनं दद्यास्त्रिवृच्छ्यामानृपद्रुमान्॥ शर्करामधुसर्पिभिः पयसा तर्पणेन या॥ द्राक्षाविदारीकाश्मर्यमांसानां वा रसैर्युतान्॥ शुद्धकोष्टस्य युंजीत विधिं बृंहणदीपनं॥ हृद्यानि चान्नपानानि वातघ्नानि लघुनि च॥ शालिषष्टिकगोधूमपवमुद्रं समाक्षिकं336॥ लघुमच्युतवीर्यं च सुजरं बलकृच्चयत्॥ आजं क्षीरं घृतं मांसं कन्यान्मांस प शोषजित्॥ काकोदूकहकद्वीपिगवाश्वनकुलोरगं॥ गृध शासखरोष्ट्रं च हितं छद्योपसंहितं337॥ ज्ञातं जुगृप्सितं तद्धि छर्दिषेनबलोजसे॥ मृगाद्याः पित्तकफयोः पवने प्रसहादयः॥ वेसबारीकृताः पथ्या रसादिपु च कल्पिताः॥ भृष्टाःसर्षपतैलेन सर्पिषावा पथायथं॥
रसिका मृदवः स्निग्धाः पदुद्रव्याभिसंस्कृताः॥हिता मौलककौलत्थास्तद्वद्यूषाश्च साधिताः॥ सपिप्पलीकं सपवं सकुलन्थं सनागरं॥ सदाडिमं सामलकं स्निग्धंमाजरसं पिबेत्॥ तेन षड्विनिवर्तते विकाराः पीनसाद यः॥ कोलदाडिमनिर्यासपिष्टयाऽस्थिविहीनया॥ द्राक्षया स्वच्छधा न्याम्लप्लुतालोढितकल्कया॥ कार्यः सौवर्चलव्योषपत्रेलादीप्यकान्वितः॥ समाक्षिकः सकर्पूरः सलवंगः सकेसरः॥ चंद्रकाख्यो यथार्थाख्यः शोपहाऽग्निरुचिप्रदः॥ शुक्ताम्रधात्रीस्वरसैर्द्राक्षायाः कल्पितं पलं॥ गुडषट्पलसंयुक्तं युक्तं श्लक्ष्णैश्च कार्षिकैः॥ वृक्षाम्लधान्यद्रविडीराजिकादाडिमोषणैः॥ पलेन नागपुष्पस्य किंचित्सौवर्चलेन च॥ ससेव्य-पत्रत्वक्तोयः सुरसारसमूच्छितः॥ भूरिभूस्तृणको रागः कल्प्यो रुच्यः समाक्षिकः॥ पिबेच्चसुतरां मद्यं जीर्णं स्रोतोविशोधनं॥ पित्तादिपु विशेषेण मध्वरिष्टाच्छवारुणीः॥ सिद्धं वा पंचमूलेन तामलक्याऽथवा जलं॥ पणिनीभितभिर्धान्यनागरकेण वा॥ कल्पयेच्चानुकूलोऽस्प तेनान्नं शुचि यत्नवान्॥ दशमूलेन पयसा सिद्धं मांसरसेन वा॥बलागर्भं घृतं योज्यं क्रव्यान्मांसरसेन वा॥ सक्षौद्रं पयसा सिद्धं सर्पिर्दशगुणेन वा॥ जीवंतीं मधुकं द्राक्षां फलानि कुटजस्य च॥ पुष्कराह्वंशर्ठीकृष्णां व्याघ्रीगोक्षुरकं बलां॥ नीलोत्पलं तामल कीं त्रायमाणां दुरालभां॥ कल्कीकृत्य घृतं पक्वंरोगराजहरं परं॥ दुरालभां गोक्षुरकं चतस्रः पर्णिनीर्बलां॥भागान्पलोन्मितान्रुत्वा पलं पर्पटकस्य च॥ पचेद्दशगुणे तोयेदशभागावशेषिते॥ पूते तस्मिन्घृतप्रस्थं क्षीरद्विगुणितं पचेत्॥ गर्भंदत्वा शठीकृष्णाभूनिंबोत्पलसारिवाः॥ त्रायंतीं पौष्करं मूलं सपत्रं त्रिफलां फलं॥ कुटजाच्च जयेत्तद्धि शिरःपार्श्वासवेदनां॥ तृष्णां छर्दिमतीसारकासदाहभ्रमज्वरान्॥ घृतं खर्जूरमृद्वी-कामधुकैः सपरूपकैः॥ सपिप्पलीकं वैखर्यकासश्वासज्वरापहं॥ दशमूलशृनात्क्षीरात्सर्विदुदिपान्न॥ सपिप्पलीकंसक्षौद्रं तत्परं स्वरबोधनं॥शिरःपार्श्वंसशूलघ्नं कासश्वासज्वरापहं॥ पंचभिः पंचमूलैर्वा शृताद्यदुदियाद्घृतं॥ पंचानां पंचमूलानां रसे क्षीरचतुर्गुणे॥ सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलं॥ पंचकोलयवक्षारषट्पलेन पचेद्घृतं॥ प्रस्थोन्मितं तुल्यपयः स्रोतसां तद्धि शोधनं॥ गुल्मज्वरोदरप्लीहग्रहणीपांडुपीनसान्॥ कासश्वासाग्निसदनश्वयथूर्ध्वानिलान्जयेत्॥ रास्नाबलागोक्षुरकस्थिरापर्वांभुवारिणि॥ जीवंतीपिप्पलीगर्भं सक्षीरंशोपजिद्घृतं॥ अश्वगंधाशृतात्क्षीराद्घृतंच ससितापयः॥ साधारणामिषतुलां338तोपद्रोणद्वये पचेत्॥ तेनाष्टभागशेषेण जीवनीयैः पलोन्मितैः॥ साधयेत्सर्पिषःप्रस्थं वातपित्तामयापहं॥ मांससर्पिरिदं पीतं युक्तं मांसरसेन वा॥ कासश्वासस्वरभ्रंशशोषहृत्पार्श्वशूलजित्॥ यष्टीबलागुडूच्यल्पपंचमूलनुलां पचेत्॥ शूर्पेऽपामष्टभागस्थे तत्र पात्रं पचेद्घृतात्॥ धात्रीविदारीक्षुरसत्रिपात्रे पयसोऽर्मणे॥ सुपिष्टैर्जीवनीयैश्च पाराशरमिदं घृतं॥ ससैन्यं राजयक्ष्माणमुन्मूलयति शीलितं॥ मूर्वाहरिद्राखदिरक्वाथं सर्पिः शकृद्रसं॥ गोगजाजाऽविहयजं पयस्तुल्यान् दश द्रवान्॥ स्वादुस्कंधं त्रिकटुकं कल्कितं देवदारु च॥ पचेत्तत्त्वाशु शोषघ्नं तद्वाद्वासावरीघृतं॥ द्विपंचमूलवरणनवबिल्वपुनर्नवाः॥ करंजबोटस्थविरकुलत्थबदराग्निकाः॥ भल्लातकं च तत्क्वाथे षङ्गुणेसाधयेद्घृतं॥ गर्भंदत्वा स्नुहीक्षीरं शुक्लाख्यांचैव सैंधनं॥ हरीतकीं च तच्छोषशोफमेदोदरापहं॥ यवाग्वा वापिबेन्मात्रां लिह्याद्वामधुरान्वितं॥ सिद्धानां सर्पिषामेपां दद्यादन्नेन वा सह॥ एलाजमोदात्रिफलासौराष्ट्रीव्योषचित्रकान्॥ सा रानरिष्टगायत्रीसालबीजकसंभवान्॥ भल्लातकं विडंगंच पृथगष्टपलोन्मितं॥सलिले षोडशगुणे षोडशांशस्थितं पचेत्॥ पुनस्तेन घृतप्रस्थं सिद्धे चास्मिन्पलानि षट्॥ तवक्षीर्याः क्षिपेत्त्रिंशत्सिताया
द्विर्गुणं339मधु॥ घृतात्त्रिजातत्रिफलं ततो लीढं खजाहतं॥ पयोनुपानं तत्प्राह्णेरसायनमयंत्रणं॥मेध्यंचक्षुष्यमायुष्यं दीपनं हंति चाचिरात्॥मेहगुल्मक्षयव्याधिपांडुरोगभगंदरान्॥ ये च सर्पिर्गुडाः प्रोक्ताः क्षते योज्याः क्षयेऽपि ते॥ खर्जूरपिप्पलीद्राक्षापथ्याशृंगीदुरालभाः॥ त्रिफलापिप्पलीमुस्तशृंगाटीगुडशर्कराः॥वीरा शठी पुष्कराख्या सुरसा शर्करा गुडः॥ नागरं चित्रको लाजाः पिप्पल्यामलकं गुडः॥ विडंग-सारश्वविका त्र्युषणं च विचूर्णितं॥ अर्द्धश्लोकैः स्मृता लेहाः पंचैते क्षौद्रसर्पिषा॥ स्वर्याः कासक्षपश्वासपार्श्व-रुक्कफनाशनाः॥ त्वगेलापिप्पलीक्षीरीशर्करा द्विगुणाः कमात्॥ चूर्णिता भक्षयेल्लिह्यात्पूर्ववद्वातथागुणाः॥ तिलमाषाश्वगंधा वा माक्षिकाजघृतद्रुताः॥ पूर्वोक्तष्वेव रोगषुवातरोगेषु पूजिताः॥ विशेषात्स्वरसादेऽस्य नस्यधूमादियोजयेत्॥ तत्रापि वातजे कोष्णं पिबेदुत्तरभक्तिकं॥ कासमर्दक वार्ताकीमार्कवस्वरसैर्घृतं॥साधितं कासजित्स्वर्यं सिद्धमार्तगलेन वा॥ बदरीपत्रकल्कं वा घृतभृष्टं ससैंधवं॥ तैलं वा मधुकद्राक्षा-पिप्पलीकृमिनुत्पदैः॥ हंसपद्याश्चमूलेन पक्वंनस्तो निषेचयेत्॥ सुखोदकानुपानं च ससर्पिष्कंगुडौदनं॥ अश्रीयात्पायसं चैवं स्निग्धं खेदं च योजयेत्॥ पितोद्भवे पिबेत्सर्पिः शृतशीतपयोऽनुपः॥ क्षीरिवृक्षांकुरक्वाथ-कल्कसिद्धं समाक्षिकं॥ अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसं॥ बलाविदारिगंधाभ्यां विदार्या मधुकेन च॥ सिद्धे सलवणं सर्पिर्नस्यं स्वर्यमनुत्तमं॥ प्रपौंडरीकं मधुकं पिप्पली बृहती बला॥ साधितं क्षीरसपिंश्च तत्स्वर्यंनावनं परं॥ लिह्यान्मधुरकाणां च चूर्णं मधु घृताप्लुतं॥ व बलां पयस्यां वा काकोलीमधुके तथा॥ एवमस्यानुपशमे लंलादे व्यधयेच्छिरां॥ पिबेत्कटूनि मूत्रेण कफजेरुक्षभोजनः॥ कट्फलामलक-न्योषंलिह्यातैलमधुप्लुतं॥ व्योषक्षाराग्निचविकाभार्ङ्गीपथ्यामधूनि वा॥ यवैर्यवागूं यमके कणाधात्रीकृतां पिबेत्॥ भुक्त्वाऽद्यापिप्पलीं शुंठीं तीक्ष्णं वा वमनं भजेत्॥ शर्कराक्षौद्रमिश्राणि शृतानि मधुरैः सह॥ पिबेत्ययांसि यस्योच्चैर्वदतोऽभिहतः खरः॥ विचित्रमन्नमरुचौ हितैरुपहितं हितं॥ बहिरंतर्भुजा चित्तनिर्वाणं हृद्यमौषधं॥ द्वौकालौदंतपवन भक्षयेन्मुख-शोधनैः॥ कषायैः क्षालयेदास्यंधूमं प्रायोगिकं पिबेत्॥ तालीसपत्रवटकाः सकर्पूरसितोपलाः॥ शशांक-किरणाख्याश्च भक्ष्या रुचिकराः परं॥ वातादरोचके तत्र पिबेच्चूर्णं प्रसन्नया॥ हरेणुकृष्णाकृमिजिद्द्राक्षा-सैंधवनागरात्॥ एलाभार्ङ्गीयवक्षारहिंगुयुक्ताद्घृतेन वा॥ छर्दयेद्वावचांभोभिः पित्ताच्च गुडवारिभिः॥लिह्याद्वाशर्करासर्पिलर्वणोत्तममाक्षिकं॥ कफाद्वमेन्निंबजलैर्दीप्यकारग्वधांबु च॥ पानं समध्वरिष्टाश्च तीक्ष्णाः समधुमाधवाः॥ पिबेच्चूर्णं च पूर्वोक्तं हरेण्वाद्युष्णवारिणा॥ त्रिकटुत्रिफला रात्रियवक्षारं मधुप्लुतं॥ प्रातराहारकाले च युंजीत मुखधावनं॥ बिडं सौवर्चलं कुष्टमजाजीमरिचं सिता॥ धात्र्येलापद्मकोशीर-पिप्पलीचंदनोत्पलं॥ रोध्रंतेजोवती पथ्या यवक्षारं कटुत्रयं॥ आर्द्रदाडिमनिर्यासः साजाजीसितशर्करः॥ सतैलमाक्षिका युक्ताश्चत्वारः कवलग्रहाः॥ चतुरोऽरोचकान् हन्पुरेकदोषसमस्तजान्॥काव्यजाजीमरिच-द्राक्षारक्षाम्लदाडिमं॥ सौवर्चलगुडक्षौद्रं सर्वारोचकनाशनं॥ एठांत्वङ्गाकुमुमतीक्ष्णरुष्णामहौषधं॥ भागवृद्धं क्रमाच्चूर्णं निहंति समशर्करं॥ प्रसेकारुचिहृत्पार्श्वकासश्वासगलामयान्॥ यवानीतिंतिडी काम्लवेतसौष-दाडिमं॥ कृत्वा कोलं च कर्षांशं सितायाश्चं चतुःपलं॥ धान्यसौवर्चलाजाजीवरांगं चार्द्धकार्षिकं॥ पिप्पलीनां शतं ह्येकं द्वे शते मरिचस्प तु॥ चूर्णमेतत्परं रुच्यं हृद्यं ग्राहि हिनस्ति च॥ विबंधकासहृत्पार्श्वप्लीहार्शी-ग्रहणीगदान्॥ तालीसपत्रं मरिचं नागरं पिप्पली कणा॥पथोत्तरं भागवृत्ध्या त्वगेले चार्धभागिके॥ तद्रुच्यं
दीपनं चूर्णं कणाऽष्टगुणशर्करं॥कासश्वासारुचिच्छर्दिप्लीत्हृपार्श्वशूलजित्॥ पांडुज्वरातिसारघ्नं मूढवातानु-लोमनं॥ तालीसपत्रचविकामरिचानां पलं पलं॥ कृष्णातन्मूलर्योर्द्वेपले शुंठीपलत्रयं॥ च तुर्जातमुशीरं च कर्षांशं श्लक्ष्णचूर्णितं॥ तत्र त्रिंशत्पलं दत्वा क्वथितादमलाद्गुडात्॥ कुर्वीतमोदकानक्षसंमितांस्तेऽपि तद्गुणाः॥ अर्का मृताक्षारजले शर्वरीमुषितैर्यवैः॥ प्रसेके कल्पितान्सक्तून् भक्षांश्चा द्याद्वली वमेत्॥ कटुतिक्तैस्तथाशूल्यं भक्षयेज्जांगलं पलं॥ शुष्कांश्चभक्षान्सुलघुश्चणकादिरसानुपः॥ श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति॥ कफप्रसेकं तं विद्यात्स्निग्धोष्णैरेव निर्जयेत्॥ पीनसेऽपि क्रममिमं वमथौ च प्रयोजयेत्॥विशेषात्पीनसेऽभ्यंगान्स्नेहान्स्वेदांश्च शीलयेत्॥ स्निग्धानुत्कारिकापिंडैःशिरःपार्श्वगलादिषु॥ लवणाम्लकटूष्णांश्चरसान्स्नेहोपसंहितान्॥ शिरोऽसपार्श्वशूलेषु यथादोषविधिं चरेत्॥ औदाकानूप-पिशितैरुपनाहाः सुसंस्कृताः॥ शस्यंते सचतुःस्नेहाः शिरःपार्श्वांसशूलिनां॥ लेपश्च नतयष्ट्याह्वशताह्वाकुष्ट-चंदनैः॥ बलारास्नातिलाः सर्पिर्मधुकं नीलमुत्पलं॥ पलंकषादेवदारु चंदनं मधुकं घृतं॥ कृष्णगंधा बला वीरा विदारी सपुनर्नवा॥अभीरुपष्टिमधुकं पयस्या कत्तृणं घृतं॥ इत्यर्द्धयोगैश्चत्वारः प्रदेहाः परिकीर्तिताः॥ शस्ताः संसृष्टदोषाणां शिरःपार्श्वांसशूलिनां॥ नावनं धूमपानानि स्नेहाश्चोत्तरभक्तिकाः॥ तैलान्यभ्यंगयोगीनि बस्तिकर्म तथा परं॥ शृंगाद्यैर्वा यथादोषंदुष्टमेषांहरेदसृक्॥ प्रदेहः सघृतैश्चेष्टः प्रद्मकोशीरचंदनैः॥ दूर्वामधुकमंजिष्ठाकेसरैर्वा घृताप्लुतैः॥चंदनाद्येन340तैलेन शतधौतेन सर्पिषा॥ अभ्यंगः पयसा सेकः शस्तश्च मधुकांबुना॥ प्रायेणोपहताग्नित्वात्सपिच्छमतिसार्यते॥ तस्पातिसारग्रहणीविहितं हितमौषधं॥ सनागरानिंद्रयवान्पायपेत्तंदुलांबुना॥ जोर्णेषु तेषु पेयां चं चांगेरीतक्र-दाडिमैः॥ पाठानिंबयवानीनां चूर्णं तक्रेण वा पिबेत्॥ सुरया वा प्लुतं पाठां सनागरदुरालभां॥ जंब्वाम्र-विल्वमध्यं वा सकपित्थं सनागरं॥ पेयामंडेन योगैश्च पाठाद्यैः कारयेत्त्रिभिः॥ ससूप्यवान्यान्स-स्नेहान्साम्लान्सलवणान् खलान्॥ वेतसार्जुनजंबूनां मृणालोकृष्णगंधयोः॥ श्रीपर्ण्या मातुलंगस्य धातक्या दाडिमस्य च॥ चांगेर्या मदयंत्याश्च यूथिकायाश्च पल्लवैः॥ कालविद्रुश्विकायाश्च चुकिकायाश्च योजयेत्॥ खलान्दधिसरोपेतान्ससपिंष्कान्सदाडिमान्॥ रोचनान्दीपनान्दद्यादतीसारहरान्परान्॥ पुरीषंयत्नतो रक्षेच्छुष्यतो राजयक्ष्मिणः॥ सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलं॥ ज्वरादिष्वपि कुर्वीत विकारेषु यथामयं॥ बह्वामयसमूहो हि यक्ष्माऽतः सोऽतिदुःसहः॥ अजां वा पर्युपासीत षण्मासानुटजे वसन्॥ तत्पयोमूत्रविड्टत्तिपरिषेप्रघर्षणं॥ ताभिः परिहतः खप्यात्तच्छद्रेणुसंस्तरे॥ एतद्रसायनं श्रेष्ठं रोगराजस्य नाशनं॥ अजाशकृद्रसक्षीर दधिमूत्रैः शृतं घृतं॥ सपंचपटु पंचाजं क्षयी क्षीरानुपः पिबेत्॥ मांसमेवाश्नतो युक्त्या मार्द्वीकं पिबेतोऽनुच॥ अविधारीतवेगस्य यक्ष्मा न लमतेऽंतरं॥ सुरां समंडां मार्द्विकमरिष्टं सीधुमाधवान्॥ यथार्हमनुपानार्थं पिबन्मांसानि भक्षयेत्॥ स्रोतोविबंधमोक्षार्थं बलौजःपुष्टये च तत्॥ स्नेहक्षोरांयुकोष्ठेषु स्वभ्यक्तमवगाहयेत्॥ उत्तीर्णं मिश्रकस्नेहैः पुनराक्तं सुखैः करैः॥ मृद्गीयात्सुखमासीनं मुखं चोद्वर्त्तयेत्परं॥ जीवंतीं शतवीर्यां च विकसां सपुनर्नवां॥ अश्वगंधमपामार्गं तर्कारीं मधुकं बलां॥ विदारीं सर्षपान् कुष्टं तंदुलाननसीफलं॥ माषांस्तिलांश्चकिण्यं च सर्वमेकत्र चूर्णयेत्॥ यवचूर्णं त्रिगुणितं दध्नायुक्तं समाक्षिकं॥ एतदुद्वर्तनं कार्यंपुष्टिवर्णबलप्रदं॥ गौरसर्षपकल्केन स्नानीपौषधिभिश्व सः॥ स्नायादृतु-सुस्खैतोयैर्जीवनीयोपसाधितैः॥ गंध
माल्यादिकां भूषामलक्ष्मीनाशनीं भजेत्॥ सुहृदां दर्शनं गीतवादित्रोत्सवसंश्रुतीः॥ बस्तयः क्षीरसर्पिषिमद्यं मांसं सुशीलता॥ दैवव्यपाश्रयं तत्तदथर्वोक्तं च पूजितं॥ इष्ट्या यया च चंद्रस्य राजयक्ष्मा पराजितः॥ पुरोहितः प्रयुंजीत वेदोक्तां तां जितात्मनः॥ ॥ इति राजयक्ष्मचिकित्सितं नाम सप्तमोऽध्यायः॥७॥
अथातश्छर्दिहृद्रोगतृष्णाचिकित्सितं व्याख्यास्यामः॥ आमाशयोत्क्लेशभवाः प्रायश्छर्द्योहितं ततः॥ लंघनं प्रागृते वायोर्वमनं तत्र योजयेत्॥बलिनो बहुदोषस्य वमत्तः प्रततं बहु॥ ततो विरेकंक्रमशो हृद्यं मद्यैः फलांबुभिः॥ क्षीरैर्वा सह स ह्यूर्ध्वं गतं दोषंनयत्यधः॥शमनं चौषधंरुक्षदुर्बलस्य तदेव तु॥परिशुष्कं प्रियं सात्म्यमन्नं लघु च शस्यत॥ उपवासास्तथा यूषारसाः कांबलिकाः खलाः॥ शाकानि लेहाभोज्यानि रागपानकखांडवाः॥ भक्ष्याः शुष्का विचित्राश्च फलानि स्नानघर्षणं॥ गंधाः सुगंधयो गंधफलपुष्पान्नपानजाः॥ भुक्तमात्रस्यसहसा मुखे शीतांबुसेचनं॥ हंति मारुतजां छर्दिं सर्पिः पीतं ससैंधवं॥ किंचिदुष्णं विशेषेण सकासहृदयद्रवां॥ व्योषत्रिलवणाढ्यं वा सिद्धं वा दाडिमांबुना॥ सशुंठीदधिधान्येन शृतं तुल्यांबु वा पयः॥ व्यक्तसैंधवसर्पिर्वा फलाम्लो वैष्किरो रसः॥ स्निग्धं चभोजनं शुंठीदधिदाडिमसाधितं॥ कोष्णं सलवणं चात्र हितं स्नेहविरेचनं॥ पित्तजायां विरेकार्थंद्राक्षेक्षुस्वरसैस्त्रिवृत्॥ सर्पिर्वातैल्वकं योज्यं वृद्धं च श्लेष्मधामगं॥ऊर्ध्वमेव हरेत्पित्तं स्वादुतिक्तैर्विशुद्धिमान्॥ पिबेन्मंड341ंयवागूं वा लाजैः समधुशर्करं॥ मुद्गजांगलजैरद्याद्व्यंजनैः शालिषष्टिकं॥ मृद्भृष्टलोष्टप्रभवं सुशीतं सलिलं पिबेत्॥ मुद्रोशीरकणाधान्यैः सह या संस्थितं निशां॥ द्राक्षारसं रसं चेक्षोर्गुडुच्यंबु पयोऽपि वा॥ जंब्वाम्रपल्लवोशीरवटाश्वत्थांकुरोद्भवः॥
क्वाथः क्षौद्रयुत्रः पीतः शीतो वा विनियच्छति॥ छर्दिं ज्वरमंतीसारं मूर्छांतृष्णां च दुर्जयां॥ धात्रीरसेन शीतं वा पिबेन्मुद्गदलांबु वा॥ कोलमज्जासितालाजमक्षिकाविट्कणांजनं॥ कोठास्थिमज्जास्रोतोजलाजोत्पल-रजांसि वा॥ लिह्यात्क्षौद्रेण पथ्यां वा द्राक्षां वा बदराणि वा॥ पिबेच्छीतांबुना शालिस्वर्णगैरिकजं रजः॥ पिष्टं वा चंदनं द्राक्षामांसीसेव्यांबुगैरिकं॥ शालितंदुलतोयेन पिबेद्वाससितामधु॥ मधूकमधुकद्राक्षा-कमलामलकांबुदं॥ ससारिवापरूषाख्यं मूर्वां या माक्षिकान्वितां॥ मधूकमात्मगुप्तां वा शीतंधात्रीरसेन342 वा॥ कफ जायां वभेन्निंबकृष्णापिंडीतेसर्षपैः343॥ युक्तेन कोष्णतोपेन दुर्बलं चोपवासयेत्॥ आरग्वधादिनिर्यूहं शीतं क्षौद्रयुतं पिबेत्॥ त्रिफलाकणचव्याद्वापेयां पत्रैः करंजजैः॥मंथान् यवैर्वाबहुशश्छर्दिघ्नौषधभावितैः॥ कफघ्नमन्नंहृद्यं च रागाः सार्जकभूस्तृणाः॥ लोढं मनःशीलाकृष्णामरिचं बीजपूरकात्॥ स्वरसेन कपित्थाच्च सक्षौद्रेण वमिं जयेत्॥ समुस्तां मधुना शृंगीकोलाम्लं वा सजांबवं॥ तद्विद्विडंगत्रिफला विडंगपरिपेलवं॥ तद्द्दुरालभां खादेत्कपित्थं त्र्यूषणेन वा॥ अनुकूलोपचारेण याति द्विष्टार्थजा शमं॥कृमिजा कृमिहृद्रोग-गदितैश्च भिषग्जितैः॥ यथास्वंपरिशेषाश्चतत्कृताच तथाऽऽमयाः॥ त्वरमाणो जयेच्छार्दिंप्रसक्तामनु-बंधिनीं॥ कोष्ठाश्रया महामर्मपीडाकरतरा हि सा॥ नचान्नेन विना कायस्तन्मयो वर्ततेऽपिच॥ धातुक्षयोऽतिवमथोः समीरणसमीरणात्। नियतं जायते तस्माद्रुतमत्र प्रयोजयेत्॥ प्रच्छर्दनातियोगोक्तं कमंस्तंभबृंहणं॥सर्पिर्गुडान् रसान्क्षीरं घृतं कल्याणजीवनं॥ धान्वंतरं त्र्यूषणं वा दोषदेहानुरोधतः॥हृद्रोगे वातजे तैलं मस्तुसौवीरतकवत्॥ पिबेत्सुखोष्णं सबिडं गुल्मानाहार्तिजिच्च तत्॥ तैलं च लवणैः सिद्धं समूत्राम्लं तथागुणं॥ बिल्वरास्नायवान्कोलं, देवदारु पुनर्नवां॥ कु
लत्थांन्पंचमूलं च पक्त्वा तस्मिन्पचेज्जले॥ तैलंतन्नाबने पाने बस्तौ च विनियोजयेत्॥ शुंठीवयस्थालवण-कायस्थाहिंगुपौष्करैः॥ पथ्ययाव शृतं पार्श्वहृद्रुजागुल्मजिद्घृतं॥ सौवर्चलस्प द्विपले पंथ्यपंचाशदन्विते॥ घृतस्पसाधितः प्रस्थो हृद्रोगश्वासगुल्मनुत्॥ दाडिमं कृष्णलवणं हिंगु शुंठ्यम्लवेतसं॥ अपतंत्रकहृद्रोग-श्वासघ्नं चूर्णमुत्तमं॥ पुष्कराव्हशठीशुठीबीजपूरजटाभयाः॥पीताः कल्कीकृताः क्षारवृताम्ललवणैर्युताः॥ विकर्तिकाशूलहराः क्वाथः कोष्णश्च तद्गुणः॥ यवानीलवणक्षारवचाजाज्यौषघैः कृतः॥ सपूतिदारुबीजाव्ह-पलाशशठिपौष्करैः॥ पंचकोशठीपथ्यागुढबीजाव्हपौष्करं॥बारुणीकल्कितं भृष्टं यमके लवणान्वितं॥ हृत्पार्श्वयोनिशूलेषु खादेद्गुल्मोदरेषुच॥ स्निग्धाह हिताः खेदाः संस्कृतानि घृतानि च ॥ लघुनापंचमूलेन शुंठ्या वा साधितं जलं॥वारुणोदधिमंडं वा धान्याम्लं या पिबेत्तृषि॥ सापामस्तंभशूलामे हृदि मारुतदूषिते॥ क्रियैषा साद्रवायाप्रमोहे तू हिता रसाः॥ स्नेहाढ्यास्तित्तिरिकौंचशिखिवर्तकदक्षजाः॥ बलातैलं सहृद्रोगः पिबेद्वासुकुमारकं॥यष्ट्याव्हशतपाकं वा महास्नेहं तथोत्तमं॥ राम्नाजीवकजीवंतीबलाव्याघ्रीपुनर्नबैः॥ भार्ङ्गीस्थिरावचाव्योषैर्महास्नेहं विपाचपेत्॥ दधिपादं तथाम्लैथ लाभतः स निषेवितः॥ तर्पणो बृंहणो बल्यो वातहृद्रोगनाशनः॥ त्र्यूषर्णं त्रिफला पाठा मधूकं मधुकं त्रुटिः॥ पंचमूलं लघु बले मेदे ऋद्धिः शतावरी॥ कंटकारी तामलकी जीवकं चाक्षसमितैः॥ तैः पचेत्सर्पिषः प्रस्थं दध्न प्रस्थेन माहिषात्॥ युक्तं सिद्धं च मधुना तन्निहंति निषेवितं॥ हृत्पार्श्वग्रहणीरोगश्वासकासहलीमकान्॥ दीप्तेऽग्नौसद्रवायामे हृद्रोगे वातिके हितं॥ क्षीरं दधिगुढः सपिरौदकानूपमामिषं॥ एतान्येव च वर्ज्यानि हृद्रोगेषु चतुर्ष्वपि॥ शेषेषु स्तंभजाड्यामसंयुक्तेऽपि च वातिके॥ कफानुबंधे तस्मिस् रूक्षोष्णामाचरेत्कि
यां॥ पैत्तेद्राक्षेक्षुनिर्याससिताक्षौद्ररूषकैः॥ युक्तो विरेको हृद्यः स्यात्क्रमः शुद्धे च पित्तहा॥ क्षतपित्त-ज्वरोक्तं च बाह्यांतःपरिमार्जनं॥ कट्वीमधुककल्कं च पिबेत्ससितमंभसा॥ श्रेयसीशर्कराद्राक्षाजीव-कर्षभकोत्पलैः॥ बलाखर्जूरकाकोलीमेदायुग्मैश्च साधितं॥ सक्षीरं माहिषंसर्पिः पित्तहृद्रोगनाशनं॥ प्रपौंडरीकमधुकबिसग्रंथिकसेरुकाः॥ सगुंठीशैवलास्ताभिः सक्षीरं विपचेद्घृतं॥ शीतं समधुतच्चेष्टं स्वादुवर्गकृतं च यत्॥ वस्तिंच दद्यात्सतौद्रं तैलं मधुकसाधितं॥ कफोद्भवे वमेत्खिन्नः पिचुमंदवचांभसा॥कुलत्थधन्वोत्थरसतीक्ष्णमद्यपवाशनः॥ पिबेच्चूर्णं वचाहिंगुलवणद्वयनागरात्॥ सैलायवानककणायव-क्षारात्मुखांबुना॥ फलधान्याम्लकौलत्थयूषमूत्रासवैस्तथा॥ पुष्कराव्हाभयाशुंठीशठीरास्नावचाकणात्॥ क्वाथंतथाऽभयाशुंठीमाद्रीपीतद्रुकद्फलात्॥ क्वाथेरौहितकाश्वत्थखदिरोदुंबरार्जुने॥सपलाशवटे व्योषत्रिवृच्चूर्णान्विते कृतः॥ सुखोदकानुपानस्य लेहः कफविकारहा॥ श्लेष्मगुल्मोदिताज्यानि क्षारांश्च विविधान्पिबेत्॥ प्रयोजयेच्छिलाह्ववा ब्राह्मं वाऽत्र रसायनं॥ तथाऽऽमलकलेहंवा प्राशं वाऽगस्त्यनिर्मितं॥ स्याच्छूलं यस्य शुक्तेऽन्ने जीर्यत्यल्पं जरांगते॥ शाम्पेत्सकुष्टरमिजिल्लषणद्वयतिल्वकैः॥ सदेवदार्यति विषैश्चूर्णमुष्णांबुना पिबेत्॥ यस्य जीर्णेऽधिकं स्रेहैः स विरेच्यः फलैः पुनः॥ जीर्यत्यन्ने तथा मूलैस्तोक्ष्णैः शूले सदाऽधिके॥ प्रायोऽनिले रुद्धगतिः कुप्यत्यामाशये ततः॥ तस्यानुलोमनं कार्यं शुद्धिलंघनपाचनैः॥ कृमिघ्नमौषधं सर्वंकृमिजे हृदयामये॥ तृष्णासु वातपित्तघ्नो विधिः प्रायेण शस्यते॥ सर्वासु शोतो वाह्यांतस्तथा शमनशोधनः॥ दिव्यांबु शीतं सक्षौद्रं तद्वद्भौमं च तद्गुणं। निर्वापितं तप्तलोष्टकपाल-सिकतादिभिः॥ सशर्करें वा क्कथितं पंचमूलेन वा जलं॥ शस्पूर्वेण मंथश्चप्रशस्तो लाजसक्तुभिः॥ वाट्यश्चामयवैःशीतः शर्क
रामाक्षिकान्वितः॥ यवागूः शालिभिस्तद्वत्कोद्रवैश्च चिरंतनैः॥ शीते न शीतवीर्यैश्च द्रव्यैः सिद्धेन भोजनं॥ हिमांबुपरिषिक्तस्य पयसा ससितामधु॥ रसैश्चानम्ललवणैर्जांगलैर्घृतभार्जितैः॥ मुद्रादीनां तथा यूपैर्जीविनीयरसान्वितैः॥ नस्यं क्षीरघृतं सिद्धं शीतरिक्षोस्तथा रसे॥ नारीक्षीरेण वा घृष्टमुष्ट्रास्थि ससितं हितं॥निर्वापणाश्च गंडूषाःसूत्रस्थानोदिता हिताः॥ दाहज्वरोक्ता लेपाद्या निरीहत्वं मनोरतिः॥ महासरीद्धदादीनां दर्शनं स्मरणादि च॥ तृष्णायां पवनोत्थायां सगुड़ंदधि शस्यते॥ रसाश्चबृंहणाः शीता विदार्यादिगणांबु च॥ पित्तजायां सितायुक्तः पक्वोदुंबरजो344रसः॥तत्क्वाथो वा हिमस्तद्वत्सारिवादिगणांबु वा॥ तद्विधैश्च गणैः शीतकषयान् ससितामधून्॥ मधुरैरौषधैस्तद्वत्क्षीरिवृक्षैश्चकल्पितान्॥ बीजपूरकमृद्वी-काटवेतसपल्लवान्॥ मूलानि कुशकाशानां यष्ट्याहं च जले शृतं॥ अपाकं शर्कराछिन्नरुहारोध्रांजनांबु वा॥ कार्पासोफटकल्कं वा ससितक्षीरभोजनः॥ ज्वरोदितं वा द्राक्षादि पंचसारांबु या पिबेत्॥ कफोद्भवायां वमनं निंबप्रसववारिणा॥बिल्वाढकीपंचकोलदर्भपंचकसाधितं॥ जलं पिबेद्रजन्यां वा सिद्धं सक्षौद्रशर्करं॥मुद्रयूषंच सव्योषपटोलीनिंबपल्लवं॥ यवान्नं तीक्ष्णकवलनस्यलेहांश्च शीलपेत्॥ सर्वैरामाच्च345तद्धंत्री क्रियेष्टा वमनं तथा॥ च्यूषणारुष्करवचाफलाम्लोष्णांमस्तुतिः॥ अन्नात्ययान्मंडमुष्णं346हिमं मंथं व कालवित्॥ तृषिश्रमान्मांसरसं मंथं वा सासितं पिबेत्॥ आतपात्ससितं मंथ यवकोलजसक्तुभिः॥ सर्वाण्यंगानि लिंपेच्च तिलपिण्याककांजिकैः॥ शोतस्नानात्तु347मद्यांबु पिबेतृड्वान् गुडांबु वा॥ मद्यादर्द्धजलं मद्ये स्ना
तोऽम्ललवणैर्युतं॥ स्नेहतीक्ष्णतराग्निस्तु स्वभावशिशिरं पयः॥स्नेहा दुष्णांब्वजीर्णात्तु जीर्णान्मंड पिपासितः॥ पिबेत् स्निग्धान्नतृषितो हिमस्पर्द्धि गुढोदकं॥ गुर्वाद्यन्नेन तृषितः पीत्वोष्णांबु तदुल्लिखेत्॥ क्षय जायां क्षपहितं सर्वंबृंहणमौषधं॥ कृशदुर्बलरुक्षाणां क्षीरं छागो रसोऽथवा॥ क्षीरं च सोर्ध्ववापातायां क्षयकासहरैः शृतं॥ रोगोपसर्गजातायां धान्यांबु ससितामधु॥ पाने प्रशस्तं सर्वा व किया रोगाद्यपेक्षया॥ तृड्वान्पूर्वामय-क्षीणो न लभेत जलं यदि॥ मरणं दीर्घरोगं वाप्राप्नुयात्त्वरितं ततः॥ सात्म्यानपानभैषज्यैस्तृष्णां तस्य जयेत्पुरा॥ तस्यां जितायामन्योऽपि व्याधिः शक्यश्चिकित्सितुं॥ ॥ इति छर्दिहृद्रोगतृष्णाचिकित्सितं नामाष्टमोऽध्यायः॥८॥
॥अथातो मदात्ययादिचिकित्सितं व्याख्यास्यामः॥ यं दोषमधिकं पश्येत्तस्यादौ प्रतिकारयेत्॥ कफस्थानानुपूर्व्या वा तुल्पदोषे मदात्यये॥ पित्तमारुतपर्यंतः प्रायेण हि मदात्ययः॥ हीनमिथ्यातिपोतेन यो व्याधिरुपजायते॥ समपीतेन तेनैव स मद्येनोपशाम्पति॥मद्यस्य विषसादृश्पाद्विषंतूत्कर्षवर्त्तिभिः॥ तीक्ष्णादिभिर्गुणैर्योगाद्विषांतरमपेक्षते॥ तीक्ष्णोष्णेनातिमात्रेण पीतेनाम्लविदाहिना॥ मद्येमान्नरसक्लेदो विदग्धः क्षारतां गतः॥ यान्कुर्मान्मदतृण्मोहज्वरांतर्दा हविभ्रमान्॥ मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतःसु मारुतः॥ सुतीव्रावेदना याश्च शिरस्यस्थिषु संधिषु॥ जीर्णाममद्यदोषस्य प्रकांक्षालाघवे सति॥ यौगिकं विषिषद्युक्तं मद्यमेव निहंति तान्॥ क्षारो हियाति माधुर्यं शीघ्रमम्लोपसंहितः॥ मद्यमम्लेषु च श्रेष्ठं दोषविष्यंदनादलं॥ तीक्ष्णोष्णाद्यैः पुरामोर्द्दीपनाद्यैस्तथागुणैः॥ सात्म्यत्वाच्च तदेवास्य धातुसाम्यकरं परं॥ सप्ताहमष्टरात्रं वा कुर्यात्पानात्ययौषधं॥ जोर्यत्येतावता पानं कालेन विपथाश्रितं॥ परं ततोऽनु-बध्नातियोरोगस्स्थत भेषजं॥ पथापथं प्रयुंजीत कृतपानात्ययौषधं
॥ तंत्र वातोल्बणे मद्यं दद्यात्पिष्टकृतं युतं॥ बीजपूरकरक्षाम्लकोलदाडिमदीप्यकैः॥ यवानीहपुषाऽजाजीव्योषत्रिलवणार्द्रकैः॥ शूल्यैमांसैर्हरितकैः स्नेहवद्भिश्चसक्तुभिः॥ उष्णस्निग्धाम्ललवणा मद्यमांसरसा हिताः॥ आम्राम्रातकपेशीभिः संस्कृता रागखांडवाः॥ गोधूममाषविकृतिर्मृदुश्चित्रा मुखप्रिया॥आर्द्रिकाऽऽर्द्रककुल्माषसुक्तमांसादिगर्भिणी॥ सुरभिर्लवणा शीता निर्गदा चाच्छवारुणी॥ स्वरसो दाडिमात्क्वाथः पंचमूलात्कनीयसः॥ शुंठीधान्यात्तथा मस्तुसुक्तांभोऽच्छाम्लकांजिकं॥ अभ्यंगोच्छादनं खानमुष्णं पारणं घनं॥ घनश्चागुरुजो धूमः पंकश्चागुरुकुंकुमः॥ कुचोरुश्रोणिशालिन्यो यौवनोष्णांगयष्टयः॥ हर्पेणालिंगने युक्ताः प्रियाः संवाहनेषु च॥ पित्तोल्बणे बहुजलं शार्करंमधु वा युतं॥ रसैर्दाडिम-खर्जूरभव्यद्राक्षापरूपकैः॥ सुशीतं ससितासक्तु योज्यं तादृक् च पानकं॥ स्वादुवर्गकषापैर्वा युक्तं मद्यं समाक्षिकं॥ शालिषष्टिकमश्मीयाच्छशाजैणकंपिंजलैः॥ सतीनमुद्गाममलकपटोलीदाडिमैरपि॥ कफपित्तं समुत्क्लिष्टमुल्लिखेत्तृद्विदाहवान्॥ पीत्वांबुशीतं मद्यं वा भूरीक्षुरससंयुतं॥ द्राक्षारसं क्षारसं वा संसर्गी तर्पणादिः परं हितः॥ तथाऽग्निर्दीप्यते ते तस्य दोपशेषापाचनः॥कासे सरक्तनिष्ठीवेपार्श्वस्तनरुजासु च। तृष्णामां सविदाहायांसोत्क्लेशे हृदयोरसि॥ गुडूचीभद्रमुस्तानां पटोलस्याथवा रसं॥ सनागरं योजयेत तित्तिरिप्रति भोजनं॥ तृप्यते चातिबलवद्वातपित्ते समुद्धते॥ दद्याद्द्राक्षारसं पानं शीतं दोषानुलोमनं॥ जीर्णेऽद्यान्मधुराम्लेन छागमांसरसेन च॥ तृष्यल्पशंः पिबेन्मद्यं मदं रक्षन्बहूदकं॥ मुस्तदाडिमलाजांबु जलं या पर्णिनीशृतं॥ पटोल्युत्पलकंदैर्वा348 स्वमानादेय वा हिमं॥ मद्यालिपानादब्धातौ क्षीणे तेजसि चोद्धते॥ यःशुष्कगलताल्योष्ठो जिंव्हांनिकृष्यचेष्टते॥ पापयेत्कामतोंऽभस्तं निशीथपवनाहतं॥ कोलदाडिमरवृक्षाम्लचुकिका-चुचिकारसः॥ पंचाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति॥ त्वचें प्राप्तः स पानोष्मापित्तरक्ताभि-मूर्च्छितः॥ दाहं प्रकुरुते घोरं विव्हलो येनमुह्यति॥ तृष्णामो हपरीतस्य तस्य दाहज्वरापहं॥ विधिं यथोक्तं युंजीत बाह्यांतः परिमार्जनं॥ प्राभातमारुतोद्धूताः प्रलेयजलवर्षिणः॥ स्मर्यमाणा अपि घ्नंति दाहं मलय-पादपाः॥ मुक्ताकलापाः शशिरश्मिशुभ्रा मृणालपत्रप्रभवा विचित्राः॥ सेकावगाहाः सजला जलार्द्रा वाताः सुशीता मणयो महार्हाः॥ आलिंजराः349")पद्मपुटापिधानाः प्रवालवर्णा हिमवारि पूर्णा॥ परिस्रवंतो दृतयो महांतः पुत्राः प्रिया दर्पणमंडलानि॥ नार्यश्व नीलोत्पलकर्णपूरा मध्यं वयः किंचिदिय स्पृशंत्य॥ मनोनुकूला हरिचंदनार्द्रास्तृड्दाहमूर्च्छादवथून्जयंति॥ करेणुकाभिः परिवारितेन विक्षोभणं वारणयूथपेन॥ आस्फालनं शीकरवर्षणं च सिंधोः स्मरन्दाह तृषोरगम्यः॥ सरिद्धदानां हिमवद्दरीणां चंद्रोदयानां कमलाकराणां॥मनोरमाऽन्याऽपि कथा मद्धा दाहं च तृष्णां च निर्हति सद्यः॥ लाजोत्पलोशीरकुचंदनांबु शीताभिधानं मधुशर्कराढ्यं॥ मयोद्भवां पित्तरुतां च तृष्णां साहशोषांविनिहंति पीतं॥ प्रियंगुपत्रप्लवरोध्रसेव्यहीरबेर-कालीयकनागपुष्पैः॥ शीतांबुपिष्टैर्नवकर्परस्स्तृड्दाहहा सर्वशरीरलेपः॥ अशाम्पत्यथवा दाढ़े रसैस्तृप्तस्य जांगलैः॥ शाखाश्रयां यथान्यायं रोहिणीं व्यधपेच्छिरां॥ उल्लेखनोपवासाभ्यां विजयेत कफोल्बणं॥ तृषितोंऽबु पिबेच्छीतं मुस्तया पर्पटेन वा॥ स्थिराशुंठीबलोदीच्यदुःस्पर्शान्पतमेन या॥ सिद्धमेतच्च सर्वेषु पानदोषेषु शस्यते॥ निरामं क्षुधितं काले पाययेद्बहुमाक्षिकं॥ शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा॥ रुक्षतर्पणसंयुक्तं यवानीनागरा
न्वितं॥ यूषेण यवगोधूमं तनुनाऽल्पेन भोजयेत्॥ उष्णाम्लकटुतिक्तेन कौलत्थेनाल्पसर्पिषा॥शुष्कमूल-कजैश्छागैरसैर्वा धन्यचारिणां॥ साम्लवेनसवृक्षाम्लपटोलोव्योपषडिमैः॥ प्रभूतभुंठीमरिचहरितार्द्रक-पेशिकं॥ बीजपूररसाद्यम्लं भृष्टनीरसवर्तितं॥ करीरकरमर्दादिरोचिष्णुबहुहुशालनं350॥ प्रव्यक्ताष्टांगलवणं विकल्पितविमर्दकं॥ यथाह्निभक्षयन्मांसं माधवं निगदं पिबेत्॥ सितासौवर्चलाजाजितिंतिडीकाम्लवेतसं॥ त्वगेलामरिचार्द्धांशमष्टांगलवणं हितं॥ स्रोतोविशुत्ध्यग्निकरंकफप्राये मदात्यये॥ कटुस्कंधयुतां चैतां मुद्वीकां निष्कुलीकृतां॥ रसेन मातुरूंगस्य कल्पयेद्दाडिमस्यवा॥ तपा क्षौद्रयुतो रागः कृतो रोचनदीपनः॥ सौवर्चलैलामरिचदीप्यकाजाजिचोरकात्॥ काख्या कल्पयेचैवं सुक्तं मत्स्पंडिकान्वितं॥ आत्रामलक-पेशीभिः कुर्याद्रागान् पृथक् पृथक्॥ धान्यसौवर्चलाजाजीकारवीमरिचान्वितान्॥ सगुडान्मद्यसुक्तेन व्यक्ताम्लान्मरिचोत्कटान्॥ रुक्षोष्णोदवर्त्तनोद्वर्षस्नानभोजनलघंनैः॥ सकामाभिः सह स्त्रीभिर्युक्त्या जागरणेन च॥ मदात्ययः कफप्रायः शीघ्रं समुपशाम्यति॥ यदिदं कर्मनिर्दिष्टं पृथग्दोषबलं प्रति॥ सन्निपाते दशविधे तच्छेषेऽपि विकल्पयेत्॥ त्वङ्नागपुष्पमगधामरिचाजाजिधान्यकैः॥ परूषकमधूकैठा-सुराह्वैश्चसितान्वितैः॥ सकपित्थरसं ह्यद्यंपानकं शशिबोधितं॥ मदात्ययेषु सर्वेषु पेयं रुच्या ग्निदीपनं॥ तद्वद्दाडिममृद्वीकाकणाकाश्मर्यदारुभिः॥ सबीजपूरकरसैर्विडसौवर्चलाविन्तं॥ फलैर्वाविविधैरम्लं सत्रिचूर्णशर्करं॥ कर्बदारांकुरद्राक्षालाक्षावर्षाभुजीरकैः॥ मधूकपष्टीत्वाक्कृष्णकेसरं श्लक्ष्णचूणितं॥पिबेदालोड्य दुग्धेन सूक्ष्मतांतवगालितं॥ नाविक्षोभ्य मनो मद्यं शरीरविहन्यवा॥ कुर्यान्मदात्ययं तस्मादिष्यते हर्षणी क्रिया॥ सेव्याः सर्वेद्रियसुखा धर्मकल्पद्रुमांकुराः॥ विषयातिशयाः पं
च शराः कुसुमधन्वनः॥ संशुद्धिशमनाद्येषु मददषःकृतेष्वपि॥ नचेच्छाम्येत्कफे क्षीणे जाते दौर्बल्पलाघवे॥ तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च॥ ग्रीष्मोपतप्तस्य तरोर्यथा वर्षे तथा पयः॥ मद्यक्षीणस्य हि क्षीरं पीतमाश्वेव पुष्यति॥ ओजस्तुल्यगुणैः सर्वैर्विषरीतं च मद्यतः॥ पयसा बिहतेरोगे बले जाते निवर्त्तयेत्॥ क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत्॥ न विक्षयध्वंसकोत्धैः स्पृशेतोपद्रवैर्यथा॥ तयोस्तु स्याद्घृतं क्षीरं वस्तयो बृंहणाः शिवाः॥ अभ्यंगोच्छादनस्नानान्यन्नपानं च वातजित्॥ युक्तमद्यस्य मद्येन न व्याधिरुप-जायते॥ अतोऽस्य वक्ष्यते योगो यः सुखायैव केवलं॥ आश्विनं या महत्तेजो बलं सारस्वतं च या॥ दधात्यैंद्रं च या वीर्यं प्रभावं वैष्णवं च या॥ अस्रंमकरकेतोर्या पुरुषार्थो बलस्य या॥ सौत्रामण्यां द्विजमुखे या हुताशे च हूयते॥ या सर्वौषधिसंपूर्णान्मथ्यमानात्सुरासुरे॥ महोदधेः समुद्भूता श्रीशशांकामृतैः सह॥ मधुर्माध वमैरेयसीधुगौडासवादिभिः॥ मदशक्तिमनुइझंती या रूपैर्बहुभिः स्थिता॥यामात्तासाद्य विलासिन्यो यथार्थं नाम बिभ्रति॥ कुलांगनाऽपि यां पीत्वा नपत्युद्धतमानता॥ अनंगालिंगितरंगैःक्वापि चेतो मुनेरपि॥ तरंगभंगकुटीतर्जनैर्मानिनीमन॥ एकं प्रसाद्य कुरुते या द्वयोरपि निरृतिं॥ यथाकामं भटावाप्तिपरि-हृष्टाप्सरोगणे॥ तृणवत्पुरुषायुद्धे यामासाद्य त्यजत्यसून्॥ यां शीलयित्वाऽपि चिरं बहुधा बहुविग्रहां॥ नित्यं हर्षातिवेगेन तत्पूर्वामिव सेवते॥ शोकोद्वेगारतिभयैर्या दृष्ट्वानाभिभूयते॥ गोष्ठीमहोत्सवोद्यानं न यस्याः शोभते विना॥ स्मृत्वा स्मृत्वा च बहुशो वियुक्त शोचते यया॥ अप्रसन्नाऽपि या प्रीत्यै प्रसन्ना स्वर्गएव या॥ अपींद्रं मन्यते दुस्थं हृदपस्थितमा यय॥ अनिर्देश्यसुखास्वादा स्वयं वैद्यैव या परं॥ इति चित्रा, स्ववस्थासुप्रियामनुकरोति या॥ प्रियातिप्रियतां याति यत्प्रिय351
स्यविशेषतः॥ या प्रीतिर्या रतिय वाग्या पुष्टिरिति च स्तुता॥ देवदानवगंधर्वयक्षराक्षसमानुषैः॥ पानप्रवृत्तौ सत्यां तु तां सुरां विधिना पिबेत्॥संभवंति च ये रोगा मेदोनिलकफोद्भवाः॥ विधियुक्तादृते मद्यात्ते न सिध्यंति दारुणाः॥ अस्ति देहस्य साऽवस्था य’स्यां पानं निवार्यते॥अन्यत्र मद्यान्निगदाद्विविधौषध-संभृतात्॥ आनूपं जांगलं मांसं विधिनाऽप्युपकल्पितं॥ मद्यं सहायमप्राप्य सम्पक्परिणमेत्कथं॥ सुतीमाव्रमारुतव्याधिघातिनो लशुनस्य च॥ मद्यमां सवियुक्तस्य प्रयोगः स्यात्कियान्गुणः॥ निगुढशल्या-हरणे शस्त्रक्षाराग्रिकर्मणि॥ पीतमद्यो विसहते सुखं वैद्यविकत्थनां॥ अनलोत्तेजनं रुच्यं शोकश्रम-विनोदनं॥ न चातःपरमस्त्यन्यदारोग्यबलपुष्टिरुत्॥ रक्षता जीवितं तस्मात्पेयमात्मयता सदा॥ आश्रितोपाश्रितहितं॥ परमं धर्मसाधनं॥स्नातः प्रणम्य सुरविमगुरून् यथास्वं वृत्तिं विधाय च समस्त-परिग्रहस्य॥आपानभूमिमथ गंधजलाभिषिक्तामाहारमंडपसमीपगतां श्रयेत॥स्वास्तृतेऽथ शयने कमनीये भृत्यमित्ररमणीसभवेतः॥ स्वंयशः कथकचारसंघैरुतं निशमयन्नतिलोकं॥ विलासिनीनां च विलासशोभि गीतं सवृत्तं कलतूर्यवोषैः॥ कांचीकलापैश्वलकिंकिणीकैः क्रीडाविहंगैश्च कृतानुनादं॥ मणिकनकसमुत्थैरावनेयैर्विचित्रैः सजलविविधलेखक्षौमवस्त्रवृतांगैः॥ अपि मुनिजनचित्तक्षोभ-संपादिनीभिश्चकितहरिणलोलप्रेक्षिणीभिः प्रियाभिः॥ स्तननितंबस्तादतिगौरवादलसमाकुलमीश्वर-संभ्रमात्॥ इति गतं दधतीश्रीरसंस्थितंतरुणचित्तविलोभनकार्मणं॥ यौवनासव-मत्ताभिर्विलासाधिष्ठितात्मभिः॥ संचार्यमाणं युगपत्तन्वंगीभिरितस्ततः॥ तालवृंतनलिनीदलानिलैः शीतलीकृतमतीव शीतलैः॥ दर्शनेऽपि विदधद्वशानुगं खादितं किमुत चित्तजन्मनः॥ चूतरसेंदुमृगैः कृनवासंमल्लिकयोज्वलया च सनाथं॥ स्फाटिकशुक्तिगतं सतरंगे कांतमनं
गमिवोद्वदंगं॥ तालीसाद्यं चूर्णमेलादिकं वा ह्यद्यंप्रश्यं प्राग्वयः स्थापनं वा॥ तत्प्रार्थिभ्यो भूमिनागे सुमृष्टे तोपोन्मित्रं दापयित्वा तवश्च॥ धृतिमान्स्मृतिमान्नित्यमनूनाधिकमाचरन्॥ उचितेनोपचारेण सर्वमेवोप-पादयन्॥ जितविकसितासितसरोजनयनसंक्रांतिर्वद्धितश्रीकं॥ कांतामुखमिव सौरभहृतमधुपगणं पिबेन्मद्यं॥पीत्वैवं चषकद्वयं परिजनं सन्मान्य सर्वं ततो गत्वाऽऽहारभुवं पुरः सुभिषः जो भुंजीत भूयोऽत्र च॥ मांसापूपघृतार्द्रकादिहरितैर्युक्तं ससौवर्चलेद्विस्रित्रिर्वा निशि चाल्पमेव वनितासंसर्गणार्थं पिबेत्॥ रहसि दयितामंके कृत्वा भुजांतरपीडनात्पुलकिततनुं जातस्वेदां सकंपपयोधरां॥ यदि सरभसं सोधूगारं न पायपते कृती किमनुभवति क्लेशप्रायां तदा गृहतंत्रतां॥वरतनुवक्रसंगतिसुगंधितरं सरकं द्रुतमव पद्मरागमणिमासवरूपधरं॥ भवति रतिश्रमेण च मदः पिबतोऽल्पमपि क्षयमत ओजसः परिहरन् स शयीत परं॥ इत्थं युक्त्या पिबन्मद्यं न त्रिवर्गाद्धि हीयते॥ असारसंसारसुखं परमं चाधिगच्छति॥ ऐश्वर्यस्योप-भोगोऽयं स्पृहणीयः सरैरपि॥अन्यथा हि विपत्सु स्यात्पश्चात्तापेंधनं धनं॥ उपभो गेन रहितो भोगवानिति352निंद्यते॥ निर्मितोऽतिकदर्योऽयं विधिना निधि पालकः॥ तस्माद्व्यवस्थया पानं पानस्य सततं हितं॥ जित्वा विषय लुब्धानामिंद्रियाणां स्वतंत्रतां॥ विधिर्वसुमतामेषभविष्यद्वसवस्तुये॥ यथोपपत्ति तैर्मद्यं पातव्यं मात्रया हितं॥ यावद्दृष्टेर्न संभ्रांतिर्यावन्नक्षोभ्यते मनः॥ तावदेव विरंतव्यं मद्यादात्मवता सदा॥ अभ्यंगोद्वर्त्तनस्नानवासधूपानुलेपनैः॥ स्निग्धोष्णैर्भावितश्चान्नैः पानं वातोत्तरः पिबेत्॥ शीतोपचारैर्विविधैर्मपुर-स्निग्धशीतलैः॥ पैत्तिको भावितैवान्नैः पिबन्मद्यं न सीदति॥ उपचारैरशिशिरैर्यवगोधूमञ्जुक् पिबेत्॥ श्लैष्मिको धन्यजैर्मंसैर्मद्यं मरिचकैः सह॥ तत्र पाते हितं मह्यप्रायः पैष्टिकगौडिकं॥ पित्ते सांभोमधु कफे मार्द्वीकारिष्टमाधवं॥ प्राक् पिबेच्छुैष्मिको मद्यं भुक्तस्योपरि पैत्तिकः॥ वातिकस्तु पिबेन्मध्ये समदोषोयथेच्छति॥ मदेषु वातपित्तघ्नंप्रायो मूर्च्छासु चेष्यते॥ सर्वत्रापि353विशेषेण पित्तमेवोपलक्षयेत्॥ शीताः प्रदेहा मणयः सेका व्यजनमारुताः॥ सिताद्राक्षैक्षुखर्जूर-काश्मर्यस्वरसाः पयः॥ सिद्धं मधुरवर्गेण रसा यूषाःसदाडिमाः॥ षष्टिकाः शालयो रक्ता यवाः सर्पिश्च॥जीवनं॥ कल्याणकं354महातिक्तं355षटपलं356पपसाऽग्निकः357॥ पिप्पल्यो वा शिलाह्वंवा रसायनविधानतः॥ त्रिफला वा प्रयोक्तव्या सघृतक्षौ द्रशर्करा॥ प्रसक्तवेगेषुहितं मुखनासावरोधनं॥ पिबेद्वामानुषीक्षीरं तेन दद्यच्चनावनं॥ मृणालविसकृष्णा वा लिह्यात्क्षौद्रेण साभयाः॥ दुरालभांवा मुस्तं वा शीतन सलिलेन वा॥ पिबेन्मरिचकोलास्थिमज्जोशीराहिकेसरं॥ धात्रीफलरसे सिद्धं पथ्याक्वाथेन वा घृतं॥ कुर्यात्कियां यथोक्तां च यथादोबवलोदयं॥ पंचकर्माणि शस्तानि तथा रक्तावसेचनं॥ सत्वस्यालंबनं ज्ञानमगृद्धिविषयेषु च॥ मदेष्वतिमवृद्धेषु मूर्च्छायेषु च योजयेत्॥ तीक्ष्णं संन्यास विहितं विषघ्नं विषजेषु च॥ आशु प्रयोज्यं संन्यास सुतीक्ष्णं नस्पमंजनं॥ धूमप्रधमनं तोदः सूचीभिश्च नखांतरे॥ केशानां लुंचनं दाहो दंशो दशनवृश्चिकैः॥ कट्वम्लगालनं वक्रेकपिकच्छ्ववघर्षणं॥उस्थितो लब्धसंज्ञश्च लशुनस्वरसं पिबेत्॥ खादत्सव्योषलवणं बीजपूरककेसरं॥ लघ्वन्नंकटुतीक्ष्णोष्णम द्यात्स्रोतोविशुद्धये॥ विस्मापनैः संस्मरणैः प्रियश्रवणदर्शनैः॥ पटुभिर्गो तवादित्रशब्दैर्व्यायामशीनैः॥स्रंसनोल्लेखनैर्थूमैःशोणितस्यादसेचनैःउपाचरेत्तं प्रततमनुबंध-भयात्पुनः॥ तस्य संरक्षितव्यं च मनः प्रलयहेतुतः॥॥ इति मदात्ययादिचिकित्सितं नाम नवमोऽध्यायः॥९॥
अथातोऽशंसां चिकित्सितं व्याख्यास्यामः॥ अथ खलु बलवंत मर्शोभिरुपद्रुतं यथार्हस्नेहोपस्निग्ध-स्विन्नमनिलवेदनावृद्धिशमनार्थं स्निग्धमुष्णमल्पमन्नं द्रवप्रायं भुक्तवंतं शुचिं कृतस्वस्त्ययनं मुक्त-विण्मूत्रमव्यथं समे शुचौ विविक्के देशे साधारणे व्यभ्रे काले शय्यायां समे फलके वा प्रत्यादित्य-गुदमन्यस्योत्संगे निषण्णपूर्वकायमुत्तानमुन्नतकटीकं यंत्रणशाटकेन परिक्षिप्तग्रीवासक्थि-संधिमलज्जार्हैराप्तपरिचारकैःसुपरिगृहीतं कृत्वा ततोऽस्मै घृताभ्यक्तगुदाय घृताभ्यक्तं यंत्रमृज्वनुसुखं शनैः पायौ प्रणिध्यात्॥ प्रवाहणप्रविष्टं चार्शोऽभिवीक्ष्य पिचुप्लोतयोरन्यतरेणावगुंठितया शलाकयोत्पीड्य यथोक्तविधिनाऽग्निक्षाराभ्यामुपाचरेत् सम्यङ्गिर्वापयेच्च॥ महांति वा प्राणवतश्छित्वा दहेत्॥छत्राकाराण्यूर्ध्व विस्तृतानि क्षारसूत्रेण बध्वा ततो यंत्रमपनीयोत्थाप्यातुरं स्वभ्यक्तगुदजघनवंक्षणं यथाकालमुष्णोदककोष्ठे शीतोदककोष्ठे वाऽवगायेत्॥ ततो निवातमागारं प्रवेश्याचारिकमुपदिशेत्358॥ सावशेषं पुनर्दाहयेत्॥ एवं सप्तरात्रात्सप्तरात्रादेकैकमुपक्रमेत्॥ बहुषु तु प्राग्दक्षिणं ततो वामं वामात्पृष्ठाग्रजं॥ एकाहंसर्वाणि दहतोऽतियोगोक्तो दोषः॥ तत्र शुष्काण्पग्रिना क्षारेण वा साधयेत्॥ क्षारेणैव मृदुनाऽऽर्द्राणि॥ एषसर्वत्र दोषेष्वर्शसां॥ दहनविकल्पः॥ तृतीये तु गुदवली प्रत्याख्यायोप-चरेन्नवेत्येके॥ अथसम्पग्दग्धे वातानुलौम्यमन्नाभिरुचिरग्नेर्दीप्तिर्लाघवमिंद्रियप्रसादो यथोक्तोपद्रव-निवृत्तिर्बलवर्णोपपत्तिश्च॥ असम्यग्दाहे तु क्षाराग्निकर्मणोर्विधिमीक्षेत॥ वस्तिवेदनापां कुष्टशतपुष्पादेवदारु-सुरभिपुनर्नवाऽगुरुकल्केन नाभेरधः सर्वमालिंपेत्॥ मूत्रपुरीषप्रतीघाते वरणालंबुषैरंडपुनर्नवाश्वदंष्ट्रा-सुरभीसुषवीकषायं सुरवोष्णं स्वभ्युक्तपृष्ठकटीवंक्षणगुदस्य परिषेकेऽवगाहे वा योजयेत्॥ क्षीरं सस्नेहं-तैलमेव वा॥ द-
ग्धेषु चार्शस्सुशकृच्छैथिल्यार्थं त्रिवृद्वास्तुकोपदकाचुंचुपर्णीशाकयुक्तमश्नीयात्॥ अनिलानलरक्षणोत्तेजनार्थं देहपुष्टये च स्नेहादीन्सम्यगासेवेत॥ संशोधनाः प्रठेपाद्याः कषायैस्तैलयुक्तयः॥ व्रणाधिकारमालोच्य योक्तव्या हतनामसु359॥ अथानवचारणीयशस्त्रक्षाराग्नेर्वातकफोल्बणानि दोषपूर्णत्वान्निर्गतानि संस्तभकंडू-शोफशूलानि क्षारचित्रककुष्टबिल्वमुलकसिद्धेन तैलेन कृष्णाहिविडालौष्ट्कजलौकः सुकर-वसाभिर्वाऽभ्यज्य पिंडेनस्वेद360येद्द्रवस्वेदेन वा॥ धूपयेच्चसघृतशमीपत्रार्कमूलमानुषकेशाहिनिर्मोक-बिडालचर्मभिः॥ कुंजरवरहवृषशकृत्सक्तुसर्जरसैर्वा॥ सुरसाबृहती पिप्पल्यश्वगंधाभिर्वा॥ अरिष्टशिग्रुपत्र-कुलत्थगवादनीभिर्वा॥ प्रदिह्याच्चस्नुहीक्षीरयुक्तेन हरिद्राचूर्णेन॥ गोमूत्रपिष्टैर्वा कुक्कुटशकृन्निशापिप्पली-गुंजामूलैः॥ गोपित्तपिष्टाभिर्वा दंतीचित्रकसुवचिकाभिः॥ सुधाक्षीरपिष्टैर्वा गुडकृष्णासैंधवकुष्टशिरषबीजैः॥ तद्वच्चगजास्थितुत्थभल्लातकलांगलीकुलीरशृंगीवचाऽभयाहिंगुकुष्टबिल्वशिग्रुमूलकीबीजनिंबाश्वमारपत्रपीलुमूलैः॥ वस्तमूत्रपिष्टैर्वा गुडागंडार्कक्षीरतुंवग्रसवकरंजैः॥ पिप्पल्यादिभिर्वाऽनुवासनद्रव्यैः॥ एभिर्हि प्रदिग्धान्यर्शंति दुष्टमसृक् संचितं पिच्छां च विमुच्य प्रशाम्यंति॥ एभिश्च तैलान्यभ्यंगार्थमुपकल्पयेत्॥ तथा कासीससैंधवालपिप्पलीकुष्टभुंठीविडंगविदारीलांगलीकरवीरार्कस्वर्णक्षीरोदंतीचित्रकालर्कसुधापयोभिस्तैलं चतुर्गुणं मूत्रं विपक्वमप्रदूषयद्रुदमभ्यंगात्क्षारपदर्शंसि शातयति॥ तैलाभ्पक्तं वा पायुप्रदेशं पक्वेष्टिकाशकलैस्तोक्ष्णकोटिभिरग्निवर्णैर्महिषीमूत्रनिर्वापितैर्निष्पीडयन् द्विकाल सप्तदिनानि स्वेदयेत्॥ अनंतरं च यथोक्तेनावगाहनेन॥ ततो गते
सप्तराचे पूतिकरंजपलवकल्केन ससैंधवेन सस्रुदीपयसा वर्ति कृत्वा नातिशुष्कां गुदे विदध्यात्॥ कृतविमूत्रं चावगाहयेत्स्थापयेत्प्रातः सा यं चैषविधिः प्रत्यहमेकांतरे वा यावत्त्रिरात्र ततो देवदाली-क्षारहरीतकीःशीलयेत्॥ एवमर्शंसि शीर्यते॥ अथ हरीतकोपाकविधिः॥ सजालमूलं जीमूतकमंतधूमं दहेत्॥ तस्य भस्मनाऽर्द्धाढकं गोमूत्रपात्रद्वयेनैकविंशतिकृत्वो गालयेत्॥ ततस्तेन क्षारसूत्रेण कुटजचित्रकव्याधिघातकचूर्णप्रसृतत्रयान्वितेन पथ्याशतद्यमांघनीभावात्पचेत्॥ अवतीर्णे च तमबलेहं व्योषरजःप्रमृतयुक्तं घृतभाविते भाजने निदध्यात्॥ स लेहः सावलेहविजयाद्वयोपयोगमभ्यस्यमानो गुद-जठरजघनवं क्षणगरशूलानाहगुल्मपां डुरोगाश्मरीशर्कराभ्वासकासान्निबर्हयति॥ सदा च पत्रभंगोदकेन कोष्णेनांबुना वा शौचमाचरेत्॥ प्रवर्तमानं च रुधिरमुच्छूनकठिनेष्वर्शस्सुजलौकोभिः सूचीकूर्चेन वा प्रवर्तयेत्॥ अग्निसादेगुदशोफशूलार्तौहिंग्वर्द्धकर्षंसौवर्चलयवृक्षारेंद्रयवपिप्पलोनां पृथक्कर्षं मूर्वार्द्धपलं पाठाद्विपलं शुंठीद्विपलं चैकत्र चूर्णितमुष्णांबुसर्पिर्मद्याद्यैरुपयोज्यं॥ त्रिलवणादिचूर्णं वा॥ हिंग्वतिवचा कुष्टस्वर्जिकाक्षारबिडलवणानि या द्विगुणोत्तरोत्तराणि॥ प्राणदां वातकानुपानां सगुडां॥ प्रातः प्राक्भक्तंवा निरन्नो वा तक्रमहरहरमितं जीर्णे वा तक्रे सायं तकपेयां सैंधवयुक्तां पिबेत्॥ तक्रेणैव वा लाज-सक्तूनवलिह्यात्॥ पीलूनि वा तक्रानुपानानि प्रातः पक्षं पक्षार्द्धं वा प्रयोजयेत्॥कटुकिकामूलकल्कं या प्रातस्तकेण॥ शुंठी चित्रकपुनर्नवाक्वाथसिद्धं या क्षीरं गोमूत्रपरिस्रुते या बहुकृत्वोऽजामूत्रकक्षार उषिता हरीतकीः॥ गोमूत्रद्रोणसिद्धं या क्षौद्रवदभयाशतं॥ वासिष्टहरीतकीर्वा॥ भल्लातकानि वा रसायनोपदेशेन॥ पुनर्नयामलंबुषां वा शोफोक्तविधिना॥ गुडार्द्रकं वा॥ सक्तुमंथं वा भल्लातकचूर्णयुक्तं नातिलवर्णं तक्रेण॥ तक्रेण वाऽऽषाढकार्तिकमार्गशीर्षाणां मासानामन्यतमस्मिन्पुष्पयोगे समुद्धृतं चित्रकं॥ अथवा मस्तुयूषक्षीरघृततैलान्यतमेन चित्रकमूलक्वाथावलेहं या समधुगुडं तकाशी शीलयेत्॥ कलशेवा ततश्चित्रकमूलत्वक्कल्कलिप्तशुष्के जातं दधि काल शेयं वा पानभोजनेषु॥ एवं शार्ङ्ग्यास्फोतगुडूचीपंचकोलकेषु तक्कल्पः॥ घृतघटे वा हपुषोपकुंचिका-धानकाजमोदाजाजीशठीकारवीय वानीचित्रकपिप्पलीमूलचूर्णासुतं जातं तक्रं॥ तक्रमेव वाऽतिमंदवह्निः सप्ताहमर्द्धमासंमासमपि वा कालापेक्षया रूक्षं सस्नेहमम्लं या सान्नमनन्नं या शीलयेत्॥ ततस्तक्रसिद्धानि क्रमशोऽर्शोघ्नलघुदीपनीयद्रव्य धान्यपिशितशाकोपकल्पितानि पेयायूषरसव्यंजनानि॥ तक्रंहि परममौषधमनिलकफातकानां विशेषाज्जठराश्रितानां॥ तत्रापि विशेषण दुर्नाम्नां॥ न हि तद्विहतान्यर्शंसि पुनः प्ररोहंति॥ भूमावपि तन्निषिच्यमानमहरहः समूलमुच्छिन्नत्ति तृणजातमाभ्वपिच शैवालं॥ तद्विशोषिते पुनर्देहे स्रोतःसूपचीयमानोऽन्नरसः पुष्टिबलवर्णौजसामाशुवृद्धये संपद्यते॥ मद्यपश्च सेवेत चव्यचित्रका-जाजीचूर्णानुविद्धं मधु गौडंवा॥ सौवर्चलहपुषान्वितां या सुरां॥ अभयापलाष्टकं द्विगुणा मलकमिंद्र-वारुणोपलपंचकं द्विगुणं कपित्थमध्यं रोध्रविडगैलनाडुकपिप्पलोमरिचानि द्विपलांशानि जर्जरिवान्युदक-भारे विपाच्य पादशेषरसं पूतशीतं गुडतुलाद्वपेन धातकीप्रस्थेन वा पलाष्टकेन च संयोज्य घृत भाजनऽर्द्धमासस्थितं प्रातरन्नकाले चोपयुंजीत॥ अयमभयारिष्टोऽर्शोग्रहणीपांडुहृद्रोगकामलायक्ष्म विषमज्वरप्ली हगुल्मोदरश्वपथुकुष्ठ कृमिग्रंथ्यर्बुदघ्नोऽभिरुचिवर्णकरञ्च॥ दंतीचित्रकत्रिफलादशमूलानि पालिकान्युदकद्रोणे साधयित्वा पादशेषेशृतशीत तस्मिन् डतुलां धातकीकुडवं च प्रक्षिप्य घृतभाजने मासमुषितो दंत्यरिष्ठः समानः पूर्वेण॥दुरालभायाः प्रस्थमभयाऽऽमलकवृषपाठाचित्रकदंतीमहौषधानां प्रत्येकं द्विपलमंभसो द्रोणे पूर्वपत्सिद्धं पूनशीतं शर्करातुलयोन्मिश्रं मधुघृतप्रियंगुपिप्पलीचविकाकल्कलिप्ते घृतकुंभे पक्षं निधापयेत्॥ अयं दुरालभारिष्टः समानः पूर्वेण॥ नवामलकपलशतं पिप्पलीनागपुष्पकुडवद्वयं पालिकानि चव्यचित्रककमुकरोध्रपाठामरिचविडंग-मंजिष्ठैलवालुकपिप्पलीमूलान्यर्द्धपलांशानि दार्वीशनाह्वेंद्राह्वासारेबाद्वयमुस्तकुष्टान्यैकध्यं जलद्रोण-हयेऽद्धवशेपं साधयेत्॥ स रसः पूतशीतः समद्राक्षास्वरसः सितापलशतद्वयेन क्षौद्रार्द्धप्रस्थेन पृथक्कार्षिकेण च त्वगेलारोध्रकुटन्नटांबुसेव्यक्रमुककेसरचूर्णेन युक्तो घृतप्रलिप्ते गुरशर्कराधूषिते घृतकुंभेप्रक्षिप्प पक्षमुपेक्षितोऽयमामटकारिष्टःसमानः पूर्वेण॥ अकालवलीपलितखलतिशमनश्च॥ गुग्गुलुपलचतुष्टयमामलकप्रस्थं धातकीप्रस्थमभयाशतं गुडपलशतद्वयं पालिकानि च पंचकोलका-जमोदचतुर्जातककट्फलमुस्तमरिचानि दशपलिकानि च खंडद्राक्षादाडिमानि सर्वमेकध्यमंभसाऽऽप्लाव्यालोड्य च पुराणे जतुशृते द्रोणक्षमे भाजने निषिच्य स्थापयेत्॥ गंधवर्णसोप-पन्नंचासवमभिसमीक्ष्य तं कुंभमिक्षुरसस्य पूरपेत्॥ एषषण्मासस्थितो गुग्गुलुप्राशः समानः पूर्वेण॥ अमद्यपो वा पिबेच्छूतशोतमल्पमुदकं शृतं वा धान्यनागराभ्यां वा॥ लघुना पंचमूलेन पंच कोलका-जाजिकारव्येडगजशौंडिबिल्यशलाटुपाठातुंबरुधान्यकैर्वा॥एभिश्चफलाम्लान्यतमाम्लान् स्त्रिग्धान् पेयापूपरसादीनकुर्यात्॥ एभि रेव च घृतं साधयेत्॥ पिबेद्वा मस्तुधान्याम्लं मधुसुक्तोदकं वा॥ पूतिकरंजत्वक्पलशतद्वयं शुष्कमुदकद्रोणे क्वाथयेत्॥ पादावशेषे च तस्मिन् पूतशीते गुड-पलान्पशोतिर्व्योपार्द्धप्रस्थचूर्णं च दत्वा यवपल्लेघृतकुंभस्थं मासं निधापयेत्॥ एतत्करंज-सुक्तमभ्यस्यमानमलमनलजननमर्शांगुल्मानाहप्लीहगरोदरघ्नं च॥ पीलुतुलां तुल्यगुडां मस्तुनस्तकस्य वा द्रोणेऽभिपुणुयात्॥ तत्र पालिकानामभयाऽतिविपापाठामुस्त कटुकादेवदारुहिंस्राजीर-कारुष्कग्चव्याजमोदैलाचित्रकगजपिप्पलीव्योषविडंगशताह्वाहरेणुचिरबिल्वत्वक्कुष्टकुटजबीजत्रिवृत्सिप्पलीमूलोपकुंचिकानां चूर्णं क्षिप्वा पूर्ववन्निहितमधिकगुणं पूर्वस्मात्॥ सुतक्षितानामिक्षुगंडिकानां द्रोणमुदकहोणेन घृतभाविते भाजनेऽभिषुणुयात्॥ आवपेच्चात्र जर्जरीकृता यवानीयवानककुस्तुंबरीपृथ्वीका पृथक्कुडवांशास्तथा द्विपलोन्मितास्तेजोवतीपंचकोलकाजाजीजीरकद्वयकारवीः क्षौद्रकुटवं च॥ ततो दशरात्रेण संजातस्तस्मान्मात्रां सौवर्चलाद्रकभूस्तृणैः सुरभीकतां भुंजानः पिबेत्॥ तत्पुनश्चात्र पानीयं प्रक्षिपेदिक्षु-गंडिकादिं च संभारं॥ तद्गंडीराख्यं कांजिकवरं रुचिकरमग्निदीपनमर्शोग्रहणीविकारोदरगरकृमि-गुल्ममदात्ययपांडुरोगघ्नं॥ रूक्षकोष्ठश्चार्शसो नागरक्षारकृष्णाजाजीधान्यकारविगर्भं फलाम्लंसफाणितं सर्पिः पिबेत्॥गुल्मोक्तानि वा घृतानि॥ किंशुकक्षारोदकेन वा विपक्वंव्योषगर्भं॥ पाठामरिचपंचकोलकक्षारयवानीकुस्तुंबरुहरीतकीबिल्वबिढसैंधवगर्भंचतुर्गुणेन दध्नासर्पिर्विपक्वं प्रवाहिकागुदभ्रंशपिच्छास्रावानाहगुल्मपायुपार्श्ववंक्षणवेदनाग्रहणी दोषहृद्रोगमूत्र कृच्छ्रध्नं॥पिप्पलीपाठा-नागरगोक्षुरकाणां त्रिपालिकानां निर्यूहे गंडीरमरिचपंचकोलकान्यर्द्धपटिकानि कल्कीकृत्य पड्गुणेन दध्नोचत्वारिंशत्पलानि तुल्यचांगेरीरसानि पाचयेत्॥ तत्सर्पिः समानं पूर्वेण॥ शोफोदरकासहिध्माघ्नं च॥ बद्धवर्चासि चार्शास्युदावर्तवदुपाचरेत्॥ भिन्नवर्चंस्पतीसारवत्॥ अतिमहतरक्तानि रक्तपित्ताति-सारपत्॥ अशुद्धं च कालबलापेक्षी स्रवद्रुधिरमपेक्षेत॥ उभौ च तत्रानुबध्येते श्लेष्माऽनिलो वा॥ तत्र पित्तश्लेष्मोल्वणं पाचनदीद्रव्यैरुनहल्यैरुपेक्षया चसंशोध्य शमयेत्॥ पित्तानिलोल्बणमंतर्बहिरूर्ध्वमधश्चयथाग्नि स्नेहैः॥ केवलपित्तोल्वणमुष्णकाले विशेषतश्च दुर्बलस्प स्तंभनैः॥ अथ श्लेष्मोल्वणे कुजलग्विश्वभेजक्वाथपिबेत्॥ तंदुलोदकेन वा कुटजत्वक्फलातिविषा-रसांजनानि सक्षौद्राणि॥ कुटजात्वक्पलश
तमार्द्रं दिव्यांबुना क्वाथमेत्॥ मुक्तरसे च पूतेतस्मिन् पालिकान् सुमुश्लक्ष्णपिष्टान् प्रियंगुसमंगामोच-रसान् कुटजबीजं त्रिपलं च प्रक्षिप्यमुद्वग्निना पुनः साधयेदादवप्रलेपात्॥ अयमबलेहश्छगलीक्षीरेण पेयामंडेन वा सहाजक्षीरभुजः प्रयुक्तो रक्तजन्यर्शांस्यतीसारं रक्तपित्तं चोर्ध्वमधो वा प्रवृत्तमपहरति॥ कुटजत्वक्पलशतमुकद्रोणेऽष्टभागशेषंसाधयेत्॥ परिस्राव्य च तदुदकं च कल्कीकतैर्व्योषरसांजन-मोचरसमुस्तधातुकीफलबिल्वशलादुदाढिमशलाटुत्वक्समंगारोध्रद्वयैः पठांशैः पलैश्च कुटजत्वचो दशभिस्तथा विंशत्या घृतस्य गुडस्य च त्रिंशता संसृष्टमधिश्रयेत्॥ अथावलेहतां गतमवतारितं सप्ताहमर्द्धमासं वा धान्यमध्ये सुगुप्तं निहितमुपयुक्तमाशु सर्वार्शोग्रहणीदोषश्वासकासानपोहति॥ मोचरससमंगातिलरोध्रचंदननीलोत्पला नि वा छागपयसा पिबेत्॥ शूले तु बिल्वयवानीनागररसांजन-बिल्वदुरालभावत्सकबीजानामन्यतमेनापि युक्तं पाठाचूर्णेन शीतेन कोष्णेन पयसा तक्रेण वा॥ शूलेरक्तातिप्रवृत्तौ च रोध्रधातुकीकुटजत्वगिंद्रपवकेसरनीलोत्पलकल्कसिद्धं सर्पिनिदिग्धिका सिद्धं वा॥ वातोल्बणे तुरक्ते बलाबालबिल्वत्रिफलाहस्तिपिप्पलीन्यग्रोधकरंजपत्रमधुकतिंदुकोत्पलैः कार्षिकैर्घृतप्रस्थमजाक्षीरे दशगुणे पचेत्॥ तत्परं रक्तार्शोधं॥ पाठारोध्रवन्हिवरोत्पलचव्यचंदन-समंगाऽतिविषाबिल्वधातकीमधुकदेवदारुदार्वीत्वङमुस्तमांसीनागरयवक्षारचित्रककल्केन चांगेरीस्व-रसेन च साधितं सर्पिर्दोपत्रयघ्नमर्शोतिसारप्रवाहिकावस्त्यानाहगुदभ्रंशपिच्छास्रुतिग्रहणीपांड्वामयज्वर मूत्रकृच्छ्ररोचकदुर्नामशूलेषु योज्यं॥ बलादार्व्यवाक्पुष्पीगोक्षुरकपृश्निपर्णीनामश्वत्थोदुंबरन्यग्रोधप्लक्ष-बदरीयेतसप्रवालानां च द्विपलोन्मितानां कषायेण जीवंतीकटुकापंचकोलकेंद्रमयदेवदारुशाल्मलीपुष्पवी राचंदनांजनकट्वम्लमुस्तश्यामास्थिराऽतिविपासमंगाव्याघ्रीमोचरसविल्वकमलोत्पलकिंजल्कानांत्रार्द्धकर्षोन्मितानां कल्केन चांगेरीसुनिषण्णकस्वरसप्रस्थाभ्यां च घृतमस्थं पाचयेत्॥ तत्समानं पूर्वेण॥ रक्तस्तंभनाप च शीताभ्यंगप्रदेहसेकावगाहादीन् प्रयुंजीत्॥ तदशांतौ यथोदितानि घृतानि कवोष्णानि प्राग्भक्तानि पाययेत्॥ कवोष्णानेव च घृततैलक्षीररसकानथवा स्निग्धोष्णैर्मंसरसैर्भोजयित्वा घृतमंडेन कोष्णेनानुवासयेत्॥ शीतवीर्यद्रव्यसिद्धेन वा यथास्वंस्नेहेन शाल्मलीपुष्पयवासककुशकाशमूल-न्यग्रोधोदुंबराश्वत्थशुंगा द्विपलांशाः क्षीरमस्थेन त्रिगुणोदकेन साधयित्वा क्षीरावशेषमवतारयेत्॥ स निर्यूहः शाल्मलीनिर्याससमंगाचंदनोत्पलेंद्रयवप्रियंगुपद्मकेसरकल्कगर्भो घृतक्षौद्रशर्करोपेतः पिच्छावस्तिर्गुदभ्रंश-प्रवाहिकारक्तश्रुतिज्वरघ्नः॥ अपि च॥ लाजैः पेया पीता चुक्रीकाकेसरोत्पलैः सिद्धा॥ हंत्याशु रक्तरोगं तथा बलापृश्निपर्णीभ्यां॥ हीबे रबिल्वनागरनिर्यूहे साधितां सनवनीतां॥ वृक्षाम्लदाडिमाम्लामम्ली काम्लां सकोलाम्लां॥ गुंजनकसुरासिद्धां दद्याद्यमकेन भर्जितां पेयां॥ रक्तातिसारग्रहणीप्रवाहिकाशोफनिग्रहिणीं॥काश्मर्यामलकानां सकच्छुराणां खलान् फलाम्लांश्च॥ गूंजनकशाल्मलीनां दुग्धीकाचुकिकाणां च॥ न्यग्रोधशृंगिकानां खलांस्तथा कोविदारपुष्पाणां॥दध्नःसरेण सिद्धान् दद्याद्रक्ते प्रवृत्तेऽति॥ सिद्धं पलांडुशाकं तक्रेणोपोदकां सबदरांं च॥ रुधिरस्रुतौ प्रदद्यान्मारसूपं सतक्राम्लं॥ पयसा शृतेन यूषैःसतीन-मुद्राहकीमसूराणां॥ भोजनमद्यादम्लैः शालिश्यामाककोद्रवजं॥ शशरिणलावमांसैः कपिंजलैणेयकेः सुसिद्धैश्च॥शालीनद्यान्मधूरैरम्लैरीषत्समरिचैर्वा॥ दक्षशिखितित्तिरि रसैर्द्विककुल्लोपाकजैश्चमधुराम्लैः॥ अद्याद्रसैरतिवहेष्वर्शःस्वनिलोल्वणशरीरः॥ छगलीपयः प्रयुक्तं निति रक्तं सवास्तुकरसश्च॥ धन्वविहंग-मृगाणां रसो निरम्लः कटम्लो वा॥ रसरवलशाकयवागृसंयुक्तः केवलोऽथवा जयति॥ रक्तमनिवर्तमानं वातं च पलांडुरुपपुक्तः॥ छागांतराधि तरुणं सरुधिरमुपसाधितं बहुपलांडु॥ व्यत्यासान्मधुराम्लं विट्शोणितसंक्षये योज्यं॥ नवनीततिलाभ्यासात्केसरनवनी तशर्कराभ्यासात्॥दधिसरमथिताभ्यासादर्शांस्युपपयांति रक्तवाहीनि॥ नवनीतघृतं छागं छागं मांसं सषष्टिकः शालिः॥ तरुणश्च सुरामंडस्तरुणीव सुरा जयत्यस्रं॥ प्रायेण वातबहुलान्यर्शंसि भवंत्यतिस्रुते रक्ते॥ दृष्टेऽपिऽहि कफपित्ते तस्मादनिलोऽधिकं जेयः॥ दृष्ट्वाशोणितपित्तं प्रबलं कफवातरूपमल्पं च॥ शीताः क्रियाः प्रयोज्या यथेरिताः पित्तरोगेष्विति॥ उदावर्ते तु दोषविलपनाय शीतज्वरघ्नतैलाभ्यक्तस्विन्नस्यश्या361मात्रिवृत्पिप्पलीनिकुंभनोटिनोचूर्णं गोमूत्रपरिभाषितंद्विगुणलवणगुडेन करांगुष्ठाकारां362वार्तिकृत्वा घृताभ्यक्तगुदस्य गुदे वातविणमूत्रानुलोमनार्थं निदध्यात्॥ पिप्पलीमदनफल-सर्पपागारधूमैर्वा समूत्रगुडैःतुंवीकरघाटकणासिद्धार्थकसैंधवजीमूतकैर्वां॥ एतेषामेव वा चूर्णं नाड्या प्रधमेत्॥ तद्विघाते त्वानुटौमिकौपधतैलमूत्राम्ललवणक्षारयुक्तं सुतीक्ष्णमास्थापनं दद्यात्॥ त्रिफलात्रिकटु-त्रिलवणदंतीचित्रकभल्लातकानि जर्जरितानि सस्नेहमूत्राणि शराबद्वयकोष्ठे घृतलिप्ते गोमयाग्नि ना विपचेत्॥ स कल्याणकाख्यः क्षारः क्षीरमांतरसाशिना घृतेन पोतोऽन्नपाने वाप्रणीतोऽर्शोगुल्मपांडु-हृद्रोगोदावर्त्तग्रहणीमूत्रविबंधाश्मरीकृमिश्वयथुहिध्माश्वासकासशूलानाहप्लीहमेहापहः॥ वैरेचनिकमूल-फलानिसहिंसाऽर्कमूलदशमूलगुडाद्वीपपुनर्नवानि सर्वेश्च तुल्यानि पंचलवणानि क्षारः पूर्ववत्कृतः कांकायनोक्तोऽधिकगुणः पूर्वस्मात्॥ हिंगुपाठात्र्यूषणत्रिफलाकटभीबिल्वमध्यायोरजः कटुकापंचकोलक-मुस्तकुष्टक्षारद्वयमुष्कमधुकोग्रगंधाविडंगमूर्वाजमोदेंद्रयवगुडूचीदेवदारूणि कार्षिकाणि॥पृथक्पलांशानि पंचलवणान्यैकध्यमापोथ्य घृततैलकुडवेन दधिकुडवेन च संयोज्य कल्याणकविधिना दग्धो महाक्षारस्तत्तुल्यः॥ सर्वगरविषनिबर्हणश्च॥ प्राग्भक्तं वा विचरेद्घृतगुडवक्षारान्॥ दाडिमरसं वा सयवानीपाठामहौषधलवणगुडतकं यमकस्नेहभृष्टान् वा सक्तयुक्तकरंजप्रसवान् दधिदाडिमाम्लबदरतिंतिडीकमातु लुंगलवणसुरी यमकसंस्कृतां॥ त्रिवृद्दंती-गुडचित्रकचांगेरीबालमूलकलोणीकासुबर्चलोपचिंचुपर्णीवीरावास्तुकपल्लवांस्तथा दक्षशिखिश्वाविद्गोधा-मार्जारोष्ट्रलोपाककूर्मशल्पकमांसान्मांतरसान् यवप्रायं चात्रं भोजनार्थे॥ पानार्थे तु सपिप्पलोचूर्णं गौडमच्छसुरांसलवणानासवाश्चदीपनीयवातहरान् आरनालं मस्तु वा संस्कृतं॥ अनुबंधे तु भूयो मदिरामस्तुमूत्रयुक्तं विरेकं पिप्पलीघृतभृष्टां सगुडां हरीतकीं सकुंभां वा द्विविधोपक्रमणीयोदितान्वा तर्पणप्रयोगान् त्रिवृच्चूर्णं वा त्रिफलारसानुविद्धमभयामलकान् विडंगान्वा समत्रिवृतस्तुल्यगुडान् माणिभद्रकाख्यान्मिश्रकस्नेहं सुकुमारकं नीलिनीघृतं वा कल्पोदितानि वा विरेचनान्यवचारयेत्॥ गुदाशये हि दोषोऽपहृते व्याधयोऽपि तज्जाः प्रशाम्यंति॥ रुक्षतया च विड्वातविवंधेन शुष्कोदावर्तसंभवः॥ तस्मात्तत्राशुतरं स्नेहनमनुवासनं विदध्यात्॥ पिप्पलीमदनबिल्ववचामधुकशतपुष्पाशठी कुष्टपुष्कर-मूलद्दीपिदेवदारुभिः भ्लक्ष्णपिष्टैर्द्विगुणपयस्तैलं सिद्धमर्शोगुदभ्रंशशूलवंक्षणानाहगुदशोफोत्थानबाहुल्य-प्रवाहिकापिच्छास्रावोरुकटीपृष्ठदौर्बल्यवैवर्ण्यमूत्रकृच्छ्रनिषूदनं वातमूत्रशकृत्पित्तश्लेष्मानुलोमकरं च॥ वातानुलोम्ये हि सति ध्रुवमनलो याति दीप्तिमर्शंसि चांतः संकोचमिति॥ भवंति चात्र॥अर्शंसि क्षारशस्राग्नि-लेपाभ्यंगैरुपाचरेत्॥ दृश्यान्यदृश्यानि पुनःसदांऽतःपरिमार्जनैः॥ अल्पकालोत्थितेष्वल्पलिंगदोषेषुचौषधं॥ नात्युच्छ्रितेषु मृदुषुक्षारोऽस्रुस्रतिमत्सु च॥ उच्छ्रितेष्वल्पमूलेषु शस्तं शस्त्रं कुनामसु363॥ युक्तेषु स्थैर्यकाठिन्यकाकश्यैः शस्रपाषकौ॥ योज्यौ महत्सु वा क्षारः पातयित्वा विकुट्य वा॥ सूचीकूर्चेन तद्वच्च बडिशं तेषु शस्त्रकं॥ अतिस्थूलातिदीर्घे च यंत्रके मर्मघटनं॥ अणुच्छिद्रे महद्रूपमेकदेशे विशिष्यते॥अतिच्छिद्रेऽधिकेरुपादवतीर्णप्रवाहणात्॥स्थूलांत्रमपि हि स्यात्तु यथोक्तं योजयेतः॥ शुष्केपु भल्लातकमय्यमुक्तं भैषज्यमार्द्रेषु तु वत्सकत्वक्॥ सर्वेषु सर्वर्तुषुकाल364शेयमर्शःसुबल्यं च रुजापहं च॥ भित्त्वाविबंधामनुलोमनाय यन्मारुतस्याग्निबलाय यच्च॥ तदन्नपानौषधमर्शसिन सेव्यं विवर्ज्यंविपरीतमस्मात्॥ अर्शोतिसारग्रहणी विकासः प्रायेण चान्योन्य-निदानभूताः॥ सन्नेऽनले संति न संति दीप्तेरक्षेदतस्तेषु विशेषतोऽग्निमिति॥इत्यर्शश्चिकित्सितं नाम दशमोऽध्यायः॥१०॥
अथातोऽतिसारचिकित्सितं व्याख्यास्यामः॥ प्रायेण ह्यतिसारोऽग्निमुपहत्य प्रागामाधिष्ठानो भवति॥ तस्मादमिलजमप्यामपाचनार्थमादौ365लंघनेनोपक्रमेत्366॥ तत्र शूलानाहप्रसेकार्त्तं लवणांबुनोष्णेन धामयेत्॥ तत्र नामे पूर्वं संग्राहि367प्रयुंजीताविबद्धे वा मले स्तिमिते॥ ध्मातगुरुसरुजकोष्ठः प्राणदामुष्णांबुनोपयुंजित॥ सव्योषांवा धान्या म्लोत्क्वथिवां वाऽन्पद्वास्रंसनदीपनमौषधं॥ अपिच॥ विशुद्धस्रोतसो ह्यस्यदोषशेषे प्रवाहिते॥ सुखं संग्रहणं कर्तुं पाचनैः स्तंभनेन वा॥ मध्यमदोस्तु विशोषयेत्368॥ मागधिकानागरवचा-भूतीकधनिकाहरीतकीनां क्वथं पिबेत्॥ जलजलदबिल्वपेशिकाशुंठीधानकानां वा वचादिवर्गं वा क्वथितं चूर्णितं वा॥ तद्वद्वचाऽभयाविडंगपाठाशुंठीविडलवणानि वा॥ मुस्तापिप्पलींद्रयवपाठातेजोवतीर्वा॥ विडंगाभयाकणलवणपंचकानि वा॥ पिप्पलींद्रयवपाठाशुठीर्वा॥ सरक्ते तुं प्रवृत्तआमे गजपिप्पलीं सशर्करामधुमपुरां॥ अल्पदोषं पुनरुपवासपेत्॥ पानं त्वतिसारिणोंऽवु वचाऽतिविषाभ्यां क्वथितं शुंठ्यतिविषाभ्यां मुस्तपर्पटकाभ्यां नागरधान्यकाभ्यां वा॥ क्षुद्रुतस्तु लघुपंचमूलपंचकोलहस्तिपिप्पलीबलाविल्वपाठाहिगुधानकाजीरक-राठीगंधपलाशहपुषायवानीतितिंडीकदाडिमबिडसैंधवैरन्नपानं यवाग्वादि कल्पयेत्॥ बिल्वशलादु हरीतकीपिप्पली मूलैर्मूढवातस्य॥अंशुमती द्वयबलाविल्वशलाटुभिः कफपित्तोल्वणस्प॥पिबेच्चतृपितः पटपूतंतक्रं॥ मधुसुराधान्याम्लयवागूमंडान्यतमं वा॥ एष क्रमोऽनिलकफघ्नो दीपनः पाचनो रोचनः संग्राही बल्पश्च॥ पक्वदोषेऽपितु योऽनिसार्यते बहुशोऽनिलेन विबद्धं सपिच्छे सफेनं सशूलपरिकर्तिकं सरोमहर्षं निष्पुरीषंतां प्रवाहिकां विविसीमिति चाचक्षते॥ तत्रोदावर्तोपदिष्टांस्तेनैव विधिना संस्कृतांश्छाग-पिशितरसान्दद्यात्॥ यूषाश्चवर्चःक्षये तृष्यतो जीरकपवमुद्गमाषतिलकृतान्॥ समेन वा तिलबालबिल्वयोः कल्केन, दधिसरस्नेहयुक्तं खलकं॥ चित्रकशृंगवेः रपूतीकरंजबिल्वाजमोदौर्या॥ तक्रदाडिमतैलाज-सैंधवोपेतमजिताव्यं॥ शठोतित्तिडीकविडदाडिमक्षारपंचकोलमरिच त्रिफलाधातकीधनिकापाठाऽजमोदा-जाजीजीरककपित्थजंब्वाम्रास्थिभिर्वा तुल्यतागैः पडुणबिल्बमध्यैर्गुढमुद्गरस्नेहदधिसिद्धमपराजिताख्यं खलकं दीपनं पाचनं रुच्यं ग्राहि बिंबिसिनाशनं॥दधिसरं वासगुडदाडिमं यमकभृष्टं॥ यमकभृष्टान्वा सभुंठीचूर्णान् सक्तून् माषान्वासुसिद्धान् घृतमंडोपसेवनान्मरिचोपदंशान्॥ छागमेषयोर्वाऽतराधिरसं दाडिमाम्लधान्यनागरोपेतं स्नेहविपक्वंव्यंजनं पाचनं च॥ तद्वत्सुरां यमकसिद्धां पिबेद्वा॥ शुंठीबदरचूर्णं दधिघृततैलक्षौद्रफाणितोपेतंहिंगुदाडिममहौषधोपकुल्याचूर्णं वा घृतक्षौद्रोष्णांबुमद्यान्यतमेन लिह्याद्वा रोध्रबिल्व शलादुगुडांस्त्रिकटुकोत्कटांस्तैलेन॥ पाचनं369पाथःक्वाथसिद्धं वा शाल्योदनं घृततैलक्षौद्रयुक्तं दध्नारवजाहतदधिसरानुपानमश्नीयात्॥ अपिच॥ दीपनं पाचनं रुच्यं दधि वातहरं परं॥ यद्वद्वधिच हंत्यस्माच्चिरोत्थामपि बिंबिसीं॥ एरंडबिल्वयवगोक्षुर-कल्कसिद्धां पथ्यां लिहन्मधुयुतामथवा गुडेन॥ कृच्छ्रप्रवृत्तमतिशूलमसृग्विमिश्रं हन्यात्सुशीघ्रमति-सारमुदीर्णवेगं॥तृष्णोल्बणस्तु सरक्तपिच्छोपवेशी पानान्नविरतो धारोष्णं क्षीरमाकांक्षं पिबेत्॥ घृतं वा गंधर्वहस्तमूलेनाथवा बिल्वशलादुभिः॥ तदेव वाऽल्पतृष्णः सगुडं तैलं घृतेन वा पयसा सक्षौद्रेण चाऽऽस्थापनं दद्यात्॥ अथवा पिच्छाबस्तिमनुवासनं च वातघ्नं वा पित्तघ्नं वा गुदभ्रंशे शूले चाम्लवदर-चांगरीरसदध्रिक्षा रनागरकल्केन शृतमम्लं सर्पिर्निराममातुरं पाययेत्॥ मरिचपंचकोलकाजाजीधनिका-बिडदाडिमगर्भंवा पूर्ववदम्लमनुवासयेद्वादशमूलसिद्धेन स्नेहेन पिप्पल्यादिना वा॥ गुदं चाभ्यंगपूर्वं स्वेदेन मृदुभूतं प्रवेशयेत्॥ सच्छिद्रेण चास्य चर्मणा गोष्फणावधं कुर्यात्॥ भूषिकमनत्रं कृत्वा महापंचमूलकषायं च क्षीरेण विपचेत्॥ तेन पयसा वातहरकल्कप्रतिवापं तैलं पाचयेत्॥ तदभ्यंजनेन पानेन च सकृच्छ्रमपि गुदभ्रंशं साधयति॥ पित्तातिसारमपि साममादौ तीक्ष्णवर्ज्यैरौषधैर्वातातिसारवत्पाचयेत्॥ तृष्णायां ससारिवाभूनिवं ज्वरविहितमंभः षडंगमवचारयेत्॥ उपोषितस्य चान्नकाले गुरुहरूपंचमूलवलाद्वयशूर्प-पर्ण्यादिमृदुमधुरतिक्तकदीपनद्रव्यनिर्यूहयुक्तान्कालविन्मंडपेयासुक्तयुषरसादीनीषदम्लाननम्लान्वा कवोष्णान्सुशीतान्वा सक्षौद्रान्॥ अनुबंधे तु मूर्वाऽतिविषेंद्रयवहरिद्वारसांजनानि क्वथितानि पिबेत्॥ केवलं वा वृक्षकबीजं॥ पाठागुडूचीकटुकाकिराततिक्तानिवा हरिद्वादिगणं वा वत्सकबीजातिविषाबिल्वांबुमुस्तानि वा॥ तंदुलोदकेनवाऽतिविषावृक्षक-त्वक्फलानि सक्षौद्राणि चंदनोशीरशुंठीरोध्रनीलोत्पलानि वा॥ नागरोत्पलधातकीपुष्पदाडिमत्वचो वा॥ कमलोपलरोध्रमोचरससमंगातिलान्वा॥ मधुकशृंगवेरदीर्घवंतत्वचो वा मधुयुक्ताः॥ शर्करापद्मकेसरमुस्त-पयस्याचंदनानि वा॥ शाल्मलीवृंतकृतं वाशीतकषायं मधुरोपेतं॥ मधुकप्रियंगुकट्वंगत्वग्दाडिमांकुर-कल्केन वा॥ दधियुतां यवागूं खटकं वा॥ विल्वकापित्थजब्वाम्रस्थिभिर्वा मधुयुक्तान्वारोध्रांबष्ठा-प्रियंग्वादिगणान् क्वाथादिषु पृथक्कल्पितान् श्यामादिकषायं वा॥ शूलार्तस्तु रुक्षकोष्ठो घृतं सक्षारं पिबेत्॥ क्षीरं वा बृहतीबलांशुमतीकच्छुरामूलसिद्धं॥ मधुककट्वंगाजमोदशर्करावचूर्णितं सतैलक्षोद्रंक्षीरमेव वा धारोष्णं बलवान्विबद्धमलो विरेकार्थं॥ त्रिफलाचूर्णयुक्तं वा पलाशफलक्वाथसिद्धं वा पयःपीला पयएव कवोष्णमनुपिबेत्॥ एवमेव च त्रायमाणाशृतं॥ ततो निःसृते शकृति पुराणेऽतिसारः शांतिमेति॥ स्रतदोषस्प संसर्जनकाले शूलं चेदनुवर्त्तते॥ ततो बिल्वमधुकशताव्हायगर्भं सक्षीरं तैलचतुर्गुणं सर्पिर्विपाच्यानुवासनं दद्यात्॥ ततः सम्यक्कृतायामपि संसर्ग्यामतीसारानुयंधे पिच्छावस्तयो370योज्याः॥ शाल्मलीवृंतान्यार्द्र-दर्भैर्वेष्टयित्वा कृष्णमृदाऽवलिय्यगोमयाग्निना खेदयेत्॥ शुष्कायां मृदि खिन्नानि ज्ञात्वा वृंतान्युलूखले समापोथ्य तेषां मुष्टिसंमितं371पिंडंक्षीरमस्थे विमर्दयेत्॥ ततस्तेन पयत्ता पूतेन सघृतं तैलेन मधुकल्क-युक्तेनास्थापयेत्॥ प्रत्यागते च स्नातः पयसा कच्छुराशृतेन सजांगठरसैर्वाऽश्नीयात्॥ एषपिच्छाबस्तिः पितरक्तातिसाराग्रहणीगुल्मशोषज्वरान्विरेचनास्था पनातियोगं च शमयति॥ चिरोत्थितं त्वतिसारमवेदनं पक्वमप्यशाम्यंतं पुटपाकैरुपाचरेत्॥ अग्मुत्वक्कल्कं कार्श्मयपत्रच्छन्नं पुटपाकविधिना पाचयेत्तद्रसंशीतं मधुयुतं पिबेत्॥ वटादित्वक्प्ररोहकल्कानप्येवं कल्पयेत्॥ अथवा तित्तिरिमपनीतांत्रपिच्छं न्यग्रोधादेर्वल्कलस्य प्ररोहाणां वा कल्केन पूरयित्वा पूर्ववत्पुटपाकं कुर्यात्॥ततस्तस्माद्रसमादाय सिताक्षौदसंयुक्तं पाययेत्॥ एतेन सर्वे जांगलसत्या व्याख्याताः॥ यस्तु पित्तातिसारी पित्तलान्यासेवते तस्य पित्तमतिवृद्धं रक्तातिसारं तृड्दाहमोहज्वरशूलपाकांश्च करोति॥ तत्र क्षीरमाजं न्यग्रोधादिप्रसवसृतं सितामधुयुक्तमाहारे गुदप्रक्षालने च विदध्यांत्॥ तद्विधं वा सर्पिः सपयस्कं पिबेत्॥ क्षीरोत्थं वा सर्पिः क्षोगनुपानं कपिंजलरसाशी क्षीराशी वा लिह्यात्॥ शल्लकीपियालतिनिशशाल्मली-प्लक्षत्वसंसृष्टं वा क्षौद्रक्षीरं वा पिबेत्॥ यष्टीरोध्रसारिवाभिर्वा शृतं शीतं समधु॥ तद्वत्कृष्णातिलसमंगोत्पल-यष्टीमधुभिः शशकपिंजलपारावततंदुलीयमुद्गकाश्मर्यबीजादिस्सांश्च सेवेत॥ घृतसृष्टं वारक्तमाजं मार्गं वा॥ पूर्वोक्तान्वा पुटपाकान् मधुककृष्णमृत्तिकाशंखकल्कं वा सरुधिरं पिबेत्॥ तंदुलोदकेन तेन वा समाक्षिकं फलिनीकल्कं मंथं वा ससिताक्षौद्रचंदनं॥ एते हि प्रयोगा तृष्णादिप्रशमना रक्तातियोगघ्नाश्च॥ वातोत्तरस्तु शतावरीघृतं लिह्यात्सशर्करं वानवनीतं पिच्छिलस्वरससाधितं वा सर्पिलीक्षापिप्पली-शृंगवेरकटुकेंद्रयवदार्वीत्वभिर्वा घृतं सिद्धं पेयामंडेन पीतमतीसारं त्रिदोषमपि धारयति॥ यदा पुनर्वायुना विड्वासशोणितमल्पाल्पं सफेनं कृच्छ्रादुपवेश्यते तदा पूर्वोक्तं पिच्छाबस्तिं दद्यात्॥ मधुरौषधसिद्धेन च सर्पिषाऽनुवासयेत्॥ प्रायेण हि दुर्बलगुदा गुदाश्रयामपिनो भवति॥ विशेषतश्चिरकालातिसारिणः॥ अतिसारातिप्रवृत्तौ च स्थानबलवृद्धो वायुः पित्तमनुबलमवाप्य दुर्जयतरो भवति॥ तस्मात्तेषामभीक्ष्णशोऽनु-वासनं प्रयुंजीत॥ गुददाहे पुनः पटोलमधुकमधूकक्षीरिवृक्षकषायेण सप्तशर्कराक्षौद्रेण क्षीरेण वा गुदं सिंचेत्॥ शतधौतादिघृ
तैश्च पिचूनभ्यंगार्थं दद्यात्॥पटोलादीनामेव च कल्केन सघृतेन प्रदिह्यात्॥ तच्चूर्णैर्वातकीरोध्रामाषचूर्णेन च पायुद्वारमवचूर्णयेत्॥ एवमेव च शूलिनं वातहरतैलरुप्रदेहैरुपाचरेत्॥ यः पुनरेवमपि पित्तलान्येवासेवते स शीघ्रंगुदवलीषु पक्वासु व्यापद्यते॥ श्लेष्मातिसारं प्रागेव नितरामामपाचनार्थं लंघनेन साधयेत्॥ अनुबंधे च पिबेत्कषायं मुस्ताक्षयाशुंठीबिल्वशलाटूनां वचाविडंगश्रूतिकधनिकादेवदारुणां वा पाठाऽतिविषाकुष्टचव्यकदुरोहिणीनां वा चित्रकपिप्पलीद्वयपिप्पली मूलानां वा सुखांबुना वा हिंग्वाद्यमलसकोक्तं॥ पथ्यांसेंधवशूंठीचूर्णं वा लिह्याद्वात्रिकटुचूर्णं क्षौद्रशर्करोपेतं कपित्थं क्षौद्रेण वा कट्फलं पिप्पलीर्वा पूर्ववच्च॥ सर्वं वातपित्तामरक्तसंसर्गमपेक्ष्य यथायथमुपकल्पयेत्॥ सशूलप्रवाहिकस्य च निरामस्य वातेऽधिके वचाबिल्वकपिप्पलीकुष्टशताह्वाकल्कयुक्तं सलवणं पिच्छावस्तिमनुवासनं च कोष्णेन बिल्वतैलेन बहुशो वचादिग
र्भेण वा तैलेनेति॥ भवति चात्र॥ स्वस्थाने मारुतोऽवश्यं बर्द्धते कफसंक्षयात्॥ स वृद्धः सहसा हन्यात्तस्मात्तं त्वरया जयेत्॥ भीशोकाभ्यामपि मरुच्छिघ्रंकुप्येत्ततस्तयोः॥ कार्या क्रिया वातहराहर्षणाश्वासनानि च॥ यस्योच्चाराद्विना मूत्रं पवनो वा प्रवर्तते॥ दीप्ताग्नेर्लघुकोष्ठस्य जितस्तस्योदरामयः॥आमस्य पाको मलसंग्रहोऽनु न संग्रहे रुग्गुदनाभिजन्मा॥ विलंघनैर्ग्राहिभिरीरणघ्नैः क्रमेण तैस्तैर्विधिभिर्विधेयः॥ न रिक्तकोष्ठस्य पुरीषबंधो न रूक्षकुक्षेः सुहितस्य नाति॥ पित्तास्रतोऽन्यत्र न चातिशतैरत्युष्णतीक्ष्णैर्न कदाचिदेव॥खलरसदाधिका यमकदाडि मसारकृता दधि सगुडंपयो सिततिलाश्च सुजर्जरिताः॥ सलवणमारुतघ्नगणसाधिततैलमलं घृतमपि वा प्रवाहणकृतां विजयेत रुजं॥ यवानीपिप्पलीमूलचतुर्जातकनागरैः॥ मरिचाग्निजलाजाजीधान्यसौ नर्चलैः समैः॥ वृक्षाम्लधातकीपुष्पविल्बदाडिमढीप्यकैः॥ त्रिगुणैः
षड्गुणसितैः कपित्थाष्टगुणैः रुतैः॥ चूर्णोऽतिसारग्रहणोक्षयगुल्मगलामयान्॥ कासश्वासाग्निदाहार्शःपीनसारोचकान् जयेत्॥ पलोन्मि तां तवक्षीरीं चातुर्जातं द्विकार्षिकं॥ यवानीधान्यकाजाजीग्रंथिव्योषं पलांशकं॥ पलानि दाडिमादष्टौसितायाश्चैकतः कृतः॥ गुणैः कपित्थाष्टकवच्चूर्णोऽयं दाडिमाष्टकः॥ इत्यतिसारचिकित्सितं नामैकादशोऽध्यायः॥११॥
अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः॥ ग्रहणीसमाश्रयं दोषमादावेव यथास्वमजीर्णानुसारतो मात्राशितीयोक्त-विधानेनोपक्रमेतातीसारविधिना चामपाचनार्थं च पिबेन्मुस्तातिविपाविश्वभेपजक्वाथं तच्चूर्णं वा सुखेष्णोदकेन तेन वा शुंठीं तद्वद्वचादिवर्गं ससैंधवं वारुणीमंडेन वा त्रिलवणादिचूर्णं वा॥ सप्रवाहे वा वर्चसिचूर्णीकृतान् बिविडलवणयुक्तान् बिल्वमध्यनागर चित्रकान्दाडिमांभसा॥ सकफे चातिमात्रआमशूलेऽलसकोक्तं हिंग्वादिमुष्णांभसा पिबेत्॥ छर्दिशूलहृद्रोगेषु तु मरिचाजाजिसौवर्चलाभयाः॥ सपित्तकफेचामे कटुकेंद्रयपाठापिप्पलीपिप्पलीमूलवचाऽक्षयानागराणि कथितानि॥ भोजनकाले च पंचकोलकपरिगृहीतं पटु लघु दीपनीयं पेयादिकमुपकल्पयेत्॥ पेयां वा नागरातिविषाभ्यां तक्रदाडिमवृक्षाम्लाम्लां॥ पाने च तक्रमस्त्वारनालमदिरारिष्टानतीसार निर्दिष्टं चांबु यवानी
पथ्याऽऽमलकमरिचानि त्रिपलिकानि लवणपंचकं च पलांशमेकतश्चूर्णयित्वा कंसे सद्योमथितस्य सुनुयात्॥ ततो व्यक्ताम्लकटुकं जातं पिबेत्॥एषतक्रारिष्टः परं दीपनोऽर्शोगुल्मजठरश्वयथुकृमिप्रमेहहरः॥ अपि च॥ ग्रहणीदोषिणां तक्रंदीपनग्राहिलाघवात्॥ पथ्यं मधुरपाकित्वान्नच पित्तप्रकोपनं॥ कषायोष्णविकाषित्वाद्रुक्षत्वाच्च कफे हितं॥ वाते स्वाद्वम्लसांद्रत्वात्सद्यस्वमविदाहितत्॥ तस्मात्तकप्रयोगा ये जठराणां तथाऽर्शसां॥विहिता ग्रहणीदोषे सर्वशस्तान्प्रयोजयेत्॥
दाडिमकपित्थवृक्षाम्लम्लिकानां पृथक्पृथक्कुडवं॥ लवणपंचकात्कुडवं त्र्यूपणत्रिपलं शर्करापलाष्टकं चैकध्यं चूर्णितमन्नपाने प्रणीतमजीर्णारुचिश्वासकासप्लीहगुल्मग्रहणीहृत्पांडुरोगघ्नं॥ परिपक्वामं च वातग्रहणीरोगिणमग्निसंधुक्षणार्थं सर्पिः पाययेत्॥ द्विपंचमूलपंचकोलसरलसुरदारुसुरभिगजपिप्पलीशणबीजयवकोकुलत्थान्मस्तुनाऽऽरनालेन वा पाचयेत्॥ तेन पादावशेषेण पंचलवणद्विक्षाराम्लवदरयुक्तं सर्पिर्विपक्वमथवा सैंधवव्योषक्षारद्वयपंच-कोलाभयारास्नाऽजाजीग्रंथिकराठीविडंगगर्भमर्द्रकमातुलुंगकोलाम्लीदाडिमस्वरसशुष्कमूलकक्वाथमस्तुतकशुक्त-प्रसन्न सौवीरकतुपोदकारनालोपेतं परमग्निदीपनमग्निघृताख्यं॥ अथवा चव्यचित्रकपाठातेजोवतीपिप्पलीमूलानि कुडवोन्मितानि मुस्तद्विकुडवमास्फोतजातिनिंवसप्तच्छदाश्व-मारककर्कोटकपटोलपल्लवानां च मुष्टिमुष्टिमंतर्नखमुदकद्रोणे पक्त्वा पादावशेषमवतारयेत्॥ अर्द्धपलोन्मितां चात्र कल्कितां दद्यादतिविपां भद्रां च द्विपलांशं सैंधवविडं यवक्षारं च मागधिकायाश्चतुष्पलं पात्रंच घृतस्य त्वेतदगस्त्यनिर्मितमलमनलजननं॥ उद्दीपिते तु किंचिदनले विबद्धमटमास्थापयेत्॥ ततो जिते मातरिश्वनि स्रस्तदोषमेरंडजतैलेन तिल्वकसर्पिषावा क्षारवता मिश्रकस्नेहेन वा विरेचयेत्॥ कृतसंसर्गक्रमं च बद्धवर्चसमनुवासयेत्॥ वातहरदीपनीयाम्लद्रव्यसिद्धेन तैलेन॥ ततः पुनरपि लघ्वन्नभोजनः सर्पिरेवयथाग्निबलमल्पशोऽवचारयेत्॥ अग्निघृतं च छर्दिविवंधशूलश्वासकासिनः सबीजपूरकरसं॥ अभ्यंगार्थे चतैलमग्निघृतौषधैः साधयेत्॥ अनिलकफसंसर्गे तु चूर्णमेषामौषधानामुष्णोदकेन पिबेत्॥ पित्तदुष्टायां तु ग्रहण्यां स्वस्थानगतमुक्तिष्टं
द्रवमनलनिर्वापणं पित्तमास्थापनेन वमनेन वा निर्हरेत्। तिक्तलघुद्रव्यैश्च कृतसंसर्जनस्य दोषशेषशमनार्थं मधुनाऽवलेह्यमुष्णांबुना पिवेत्॥ मद्येन वा प्रणयेत्॥ मूर्वाकिराततिक्तकपर्पटकवचाचंदनमुस्तत्रिकटुकत्रायमाणायवानी कालिंगत्वक्फलकटुरोहिणी-देवदारुदार्वीत्वक्पद्मकोशीरारिष्टपटोलपत्रातिविषासौराष्ट्रीत्वगेलामधुशिग्रुबीजचूर्णं॥ एतद्धि ग्रहणीदोपशूलातिसारपांडु-हृद्रोगगुल्मज्वरप्रमेहकामलामुखरोगारोचकनिबर्हणं॥ श्रुनिंबत्रिकटुकमुस्तेंद्रयवाः समाश्वित्रकभागौ द्वौकुटजत्वग्भागाश्च पोडश सर्वमेकत्र चूर्णितं सगुडशीतोदकं पीतं समानंपूर्वेण॥ नागररसांजनातिविषाघातकीघनपाठाकलिंगत्वग्बीजबिल्वकटुकाः सक्षौद्रास्तंदुलांबुपीताः पित्तग्रहणीविकारं रक्तातिसारमर्शांसि सप्रवाहिकं गुदशूलं च व्यपोहति॥ ततश्चैवं शमितपित्तोद्रेकस्याग्नेः स्थिरीकरणाय सर्पिः पूर्वोक्तं मूर्वादिक्वाथेन सारिवास्फोतसप्तपर्णाटरूपकेंद्रयववीरा-भूनिंवधान्यन्यग्रोधाश्वत्थोदुंबरप्लक्षोपकुल्यानीलोत्पलगर्भसिद्धं पाने युंजीत॥ कुष्ठोक्तं वा तिक्तकं॥ श्लेष्मदुष्टायां पुनर्ग्रहण्यां मागधिकासिद्धार्थकल्कतीक्ष्णेन मदनफलकषायेण पुनःपुनर्वामयेत्॥ अब्धातुर्हि प्रवृद्धस्तेजो निर्वापयति ततःकृतपेयादिक्रमस्य लवणक्षाराम्लकटुकोत्कटैर्यथोक्तैरन्नपानौपधैरनलमुत्तेजयेत्॥ मंजिष्ठाचित्रकारुष्करकृमिघ्नमधूकपुष्पाणि क्रमाद्द्विकुडवाढकाढ कार्द्धद्रोणद्रोणांशान्यपां द्रोणत्रपे क्वाथयेत्॥ द्रोणशेषश्च पूतशीतः स निर्यूहो मधुद्विप्रस्थवांश्चंदनोशीरसूक्ष्मैलाऽगुरुरूपितं जतुशृतं घृतकुंभमध्युपितो मासमासवः॥ सर्वदोषघ्नोऽग्निजननो बृंहणः शोषकुष्ठकिलासप्रमेहानाहगुल्मपांडुहृद्रोगजिच्च॥ मधूकपुष्पाणां स्वरसोऽर्द्धावशेषक्वथितः क्षौद्रपादयुक्तः सर्वथा समानः पूर्वेण॥ अनेन द्राक्षेषुकाश्मर्यफलखरसासवा व्याख्याताः॥ दशमूलवीरात्रिफलाजीवकर्षभकाणां पृथक्पंचपलान् भागानपां वहे पक्त्वा पादशेषे रसे शीतीभूते गुडतुलाद्वयंदद्यादर्द्धकुडवंच माक्षिकात्तत्प्रमाणांश्च चूर्णितान्मुस्तप्रियंगुमंजिष्ठामधुकविडंगप्लवशाबररोधान्॥ एषोऽर्द्धमासस्थितो
मूलासवोऽयं समानः पूर्वेण॥ महावृक्षकांडचतुष्पलंद्विगुणार्ककांडलवणत्रयत्रिपलं पक्कवार्ताककुंडवं चित्रकपलद्वयंचांतर्धूमं दग्ध्वा वा र्ताकरसेन गुलिकाः कुर्यात्। ता भोजनोत्तरं भक्षिता ग्रहणीदुर्नामविसूचिकालसककासश्वासपीनसप्लीहपांडुश्वयथुमेहारोचकगुल्महरा॥ दशमूलार्कमूलदंतीत्रिवृच्चित्र-कास्फोतपाठारास्नीस्नुहीकांडानां पृथग्दशपलान्भागान्कपाले दग्ध्वा क्षारमुदकद्रोणैश्चतुर्भि क्वाथयेत्॥ पादावशेषमेव क्वथितावतारितं गुडपलशतोन्मिश्रमधिश्रयेत्॥ घनीभवति च तस्मिन् सुश्लक्ष्णरजसां वृश्विकालीवचायावशूकानां त्रिंशत्पलान्यावपेत्विंशतमेव चा
भया व्योपचित्रकाणां द्विपलं च पृथक्हिंग्वम्लवेतसयोः क
र्पततोऽक्षमात्रा गुलिकाः कृत्वा यथाबलमुपयुक्ताः समानाः पूर्वाभिरधिका वा॥ अर्शोविहितांश्च क्षारतकारिष्टान् घृतान्यन्नपानं च सेवेत॥ षट्पलं372 भल्लातकघृतं373वाधान्वंतरं374 च375॥ सन्निपाते तु पंचकर्माणि कुर्याद्यथावस्थं वा ग्रहणीचिकित्सितमिति॥ भवति चात्र॥ प्रसेके376 श्लैष्मिकेऽल्पाग्नेर्दीपनं रूक्षतिक्तकं॥ योज्यं कृशस्य व्यत्यासात्स्निग्धरूक्षं कफोदये॥ क्षीणक्षामशरीरस्य दीपनं स्नेहसंयुतं॥ दीपनं बहुपित्तस्य तिक्तं मधुरकैर्युतं॥ स्नेहाम्ललवणैर्युक्तैर्वहुवातस्य शस्यते॥स्नेहमेव परं विद्याद्दुर्बलानलदीपनं ॥ नालं स्नेहसमिद्धस्य शमा
षान्नं सुगुर्वपि॥ मलंनाम कफे क्षीणे मंदाग्निर्योऽतिसार्यते॥ सपिबेत्सर्पिषोमात्रां दीपनीयौषधैर्युतां॥ प्रसेको मार्गमापन्नः स्वं समानोऽनिलस्तया॥अग्नेःसमीपचारित्वादाशु प्रकुरुते बलं॥ पुरीषंयस्तु कृच्छ्रेण कठिनत्वाद्विमुंचति॥ सघृतं लवणैर्युक्तं नरो
वेत्॥ मद्येन वा प्रणयेत्॥ मूर्वाकिराततिक्तकपर्पटकवचाचंदनमुस्तत्रिकटुकत्रायमाणायवानीकालिंग-त्वक्फलकटुरोहिणीदेवदारुदार्वीत्वक्पद्मकोशीरारिष्टपटोलपत्रातिविपासौराष्ट्रीत्वगेलामधुशिग्रुबीजचूर्णं॥ एतद्धि ग्रहणीदोषशूलातिसारपांडुहृद्रोगगुल्मज्वरप्रमेहकामलामुखरोगारोचकनिबर्हणं॥ भूनिंबत्रिकटुकमुस्तेंद्रयवाः समाश्चित्रकभागौ द्वौकुटजत्वग्भागाश्चषोडश सर्वमेकत्र चूर्णितं सगुडशीतोदकं पीतं समानं पूर्वेण॥ नागररसांजनातिविषाघातकीघनपाठाकलिंगत्वग्वीजबिल्वकटुकाः सक्षौद्रास्तंदुलांबुपीताः पित्तग्रहणीविकारं रक्तातिसारमर्शांसि सप्रवाहिकं गुदशूलं च व्यपोहति॥ ततश्चैवं शंमितपित्तोद्रेकस्याग्नेः स्थिरीकरणाय सर्पिः पूर्वोक्तं मूर्वादिक्वाथेन सारिवास्फोतसप्तपर्णाटरूपकेंद्रयववीरा-भूनिंबधान्यन्यग्रोधाश्वत्थोदुंबरप्लक्षोपकुल्यानीलो-त्पलगर्भसिद्धं पाने युंजीत॥ कुष्ठोक्तं वा तिक्तकं॥श्लेष्मदुष्टायां पुनर्ग्रहण्यां मागधिकासिद्धार्थंकल्कतीक्ष्णेन मदनफल कषायेण पुनःपुनर्वामयेत्॥ अब्धातुर्हि प्रवृद्धस्तेजो निर्वापयति ततः कृतपेयादिक्रमस्य लवणक्षाराम्लकटुकोत्कंटेर्यथोक्तैरन्नपानौपधैरनलमुत्तेजयेत्॥ मंजिष्ठाचित्रकारुप्करकृमिघ्नमधूकपुष्पाणि क्रमाद्द्विकुडवाढ काढकार्द्धद्रोणद्रोणांशान्यपां द्रोणत्रये काथयेत्॥द्रोणशेषश्च पूतशीतः स निर्यूहो मधुद्विप्रस्थवांश्चंदनोशीरसूक्ष्मैलाऽगुरुरूपितं जतुशृतं घृतकुंभमध्युषितो मासमासवः॥ सर्वदोषघ्नोऽग्निजननो बृंहणः शोपकुष्ठकिलासप्रमेहानाहगुल्मपांडुहृद्रोगजिच्चृ॥ मधूकपुष्पाणां स्वरसोऽर्द्धावशेषक्वथितः क्षौद्रपादयुक्तः सर्वथा समानः पूर्वेण॥ अनेन द्राक्षेपुकाश्मर्यफलस्वरसासवा व्याख्याताः॥ दशमूलवीरात्रिफलाजीवकर्षभकाणां पृथक्पंचपलान् भागानपां वहे पक्त्वा पादशेषे रसे शीसीभूते गुडतुलाहयंदद्यादर्द्धकुडवंच माक्षिकात्तत्प्रमाणांश्च चूर्णितान्मुस्तप्रियंगुमंजिष्ठामधुकविडंगप्लवशाबररोध्नान्॥ एषोऽर्द्धमासस्थितो
मूलासवोऽयं समानः पूर्वेण॥ महावृक्षकांडचतुष्पलं द्विगुणार्ककांडलवणत्रयत्रिपलं पक्कवार्ताककुंडवं चित्रकपलद्वयंचांतर्धूमं दुग्ध्वा वा र्ताकरसेन गुलिकाः कुर्यात्॥ ता भोजनोत्तरं भक्षिता ग्रहणीदुर्नामविसूचिकालसककासश्वासपी नसप्लीहपांडुश्वयथुमेहारोचकगुल्महराः॥ दशमूलार्कमूलदंती त्रिवृच्चित्रकास्फोतपाठारास्नास्नुहीकांडानां पृथग्दशपलान्भागान्कपाले दग्ध्वा क्षारमुदकद्रोणैश्चतुर्भिः क्वाथयेत्॥पादावशेषमेव क्वथितावतारितं गुडपलशतोन्मिश्रमधिश्रयेत्॥ घनीभवति च तस्मिन् सुश्लक्ष्णरजसां वृश्विकालीवचापायावशूकानां त्रिंशत्पलान्यावपेत्त्रिंशतमेव चाभया व्योपचित्रकाणां द्विपलं च पृथहिंग्वम्लवेतसयोः कर्षं ततोऽक्षमात्रा गुलिकाः कृत्वा यथाबलमुपयुक्ताः समानाः पूर्वाभिरधिका वा॥ अर्शोविहितांश्च क्षारतकारिष्टान घृतान्यन्नपानं च सेवेत॥षट्पलं377 भल्लातकघृतं378 वा धान्वंतरं379 च380॥ सन्निपाते तु पंचकर्माणि कुर्याद्यथावस्थं वा ग्रहणीचिकित्सितमिति॥ भवति चात्र॥ प्रसेके381 श्लैष्मिकेऽल्पाग्नेर्दीपनं रूक्षतिक्तकं॥ योज्यं कृशस्य व्यत्यासात्स्निग्घरूक्षं कफोदये॥ क्षीणक्षामशरीरस्य दीपनं स्नेहसंयुतं॥ दीपनं बहुपित्तस्य तिक्तं मधुरकैर्युतं॥ स्नेहाम्टलवणैर्युक्तैर्वहुवातस्य शस्यते॥ स्नेहमेव परं विद्याद्दुर्बलानलदीपनं॥ नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि॥ मलं नामं कफे क्षीणे मंदाग्निर्योतिसार्यते॥ सपिबेत्सर्पियो मात्रां दीपनीयौषधैर्युतां॥ प्रसेको मार्गमापन्नःस्वं समानोऽनिलस्तया॥ अग्नेःसमीपचारित्वादाशु प्रकुरुते बलं॥ पुरीषं यस्तु कृच्छ्रेण कठिनत्वाद्विमुंचति॥ सघृतं लवणैर्युक्तं नरोऽन्नावग्रहं382 पिबेत्॥ रौक्ष्यान्मंदेऽनले सर्पिस्तैलं वा दीपनैः पिबेत्॥ क्षारचूर्णासवारिष्टान्मंदे स्नेहातिपानतः॥ उदावर्त्तात्तु योक्तव्या निरूहस्नेहवस्तयः॥ दोषातिवृत्त्या मंदेऽग्नौसंशुद्धोऽन्नविधिं चरेत्॥ व्याधिमुक्तस्य मंदेऽग्नौसर्पिरेव तु दीपनं॥ अध्वोपवासक्षामत्वैर्यवाग्वापाययेद्घृतं॥ अन्नावपीडितं383 बल्यंदीपनं बृंहणं च तत्॥ दीर्घकालप्रसंगात्तु क्षामक्षीणकृशान्नरान्॥ प्रसहानां रसैः साम्लैर्भोजयेत्पिशिताशिनां॥ लघूष्णकटुशोधित्वैर्दीपयंत्याशु तेऽनलं॥ मांसोपचितमांसत्वात्परं च बलवर्द्धनाः॥ स्नेहासवसुरारिष्टचूर्णक्वाथहिताशनैः॥सम्यक्प्रयुक्तैर्देहस्य बलमग्नेश्च वर्द्धते॥ दीप्तो यथैव स्थाणुश्च384बाह्योऽग्निःसारदारूभिः385॥ सस्नेहैर्जायते तद्वदाहारैः कोष्ठगोऽनलः॥ नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात्॥ यथा निरिंधनो वह्निरल्पो वाऽतींधनावृतः॥ यदा क्षीणे कफे पित्तं स्वस्थाने पवनानुगं।प्रवृद्धं वर्धयत्यग्निंतदाऽसौ सानिलोऽनलः॥ पक्त्वाऽन्नमाशु धातूंश्च सर्वानोजश्च संक्षिपन्॥ मारयेत्स्यात्स ना स्वस्थोभुक्ते जीर्णे तु ताम्यति॥ तृट्कासदाहमूर्च्छाद्या व्याधयोऽत्यग्निसंभवाः॥ तमत्यग्निंगुरुस्निग्धमंदसांद्रहिमस्थैिरैः॥ अन्नपानैर्नयेच्छांतिं दीप्तमग्निमिवांबुभिः॥ मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत्॥ निरिंधनोंऽतरं लब्ध्वा यथैनं न विपादयेत्॥कृसरां पायसं स्निग्धं पैष्टिकं गुडवैकृतं॥ अश्नीयादौदकानूपपिशितानि भृतानि च॥ मत्स्यान् विशेषतः श्लक्ष्णान् स्थिरतोयचराश्च ये॥ आविकं सुभृतं386 मांसमद्यादत्यग्निवारणं॥ पयः सहमधूच्छिष्टं घृतं वा तृषितः पिबेत्॥ गोधूमचूर्णं पयसा बहुसर्पिः पिबेत्प्लुतं॥ आनूपरसंयुक्तान्वास्नेहांस्तैलविवर्जितान्॥ श्यामात्रिवृद्विपक्वंवा पयो दद्याद्विरेचनं॥असकृत्पित्तहरणं पायसं प्रतिभोजनं॥ यत्किंचिद्गुरु मेध्यं च श्लेष्मकारि च भोजनं॥ सर्वंतदत्यग्निहितं भुक्त्वा च स्वपनं दिवा॥ आहारमग्निःपचति दोषानाहारवर्जितः॥ धातून् क्षीणेषुदोषेषु जीवितं387 धातुसंक्षये॥ एतत्प्रकृत्यैव विरुद्धमन्नं संयोगसंस्कारवशेन चेदं॥ इत्याद्यविज्ञाय यथेष्टचेष्टाश्चरंति यत्साऽग्निबलस्य शक्तिः॥ तस्मादग्निं पालयेत्सर्वयत्नैस्तस्मिन्नष्टे याति ना नाशमेव॥दोषैर्ग्रस्ते ग्रस्यते रोगसंधैर्युक्ते388 तु स्यान्नीरुजो दीर्घजीवी॥ अग्निमूलं बलं पुंसां बलमूलं च जीवितं॥ एषसारश्चिकित्साया यदग्नेःपरिरक्षणं॥ इति ग्रहणीदोषचिकित्सितं नाम द्वादशोऽध्यायः॥१२॥
अथातो मूत्राघातचिकित्सितं व्याख्यास्यामः॥ वातान्मूत्रकृच्छ्रे वातहरतैलाभ्यक्तगात्रस्याधोनाभेः सर्वमंगं पिंडेन सेकावगाहैश्चवातघ्नैः कुंभीस्वेदेन च स्वेदयेत्॥ बलादशमूलैरंडमूलपुनर्नवाशतावरीवृश्चीवपत्तूरपाषाणभेदककोलकुलत्थयवक्वाथेन कल्केन च तैलं सर्पिः सूकरर्क्षवसालवणपंचकोपेतं सिद्धं पानाय दद्यात्॥ तान्येव चौपधान्यन्नपाने पिंडोपनाहस्वेदयोश्चतैलफल389स्नेहाम्लयुक्तानि390 कल्पयेत्॥ प्रसन्नां च सौवर्चलाढ्यांपिबेत्॥ पित्तजे शीतसेकावगाहप्रदेहान् प्रयुंजीत॥ तृणपंचमूलश्वदंष्ट्राऽभीरुविदारीकसेरुकक्वाथं शीतं समधुशर्करं पिबेत्॥ तद्वच्च कंडेरकमूलं कमलोत्पलविदारीशृंगाटकेन वा द्राक्षारसेन वा॥ त्रपुसकुसुंभैर्वारुबीजवृपकुंकुमकल्कं सर्वमूत्राघातघ्नं॥ मधुकदार्वेर्वारुबीजानि वा तंदुलधावनेन॥ समाक्षिकं वा दार्वीमामलकरसेन॥ मृद्वीकाकल्कंवा पर्युषितांभसा॥ कफजे यथास्वं स्वेदो वमनं कटुतीक्ष्णोष्णक्षारमन्नपानं यवान्नं तक्रं च पिबेत्॥ मद्येन सूक्ष्मैलामामलकरसेन वा मधुयुतां वा कदलीरसेन कैंडर्यकरसेन वा सितिवारकबीजं वा तकेण॥ प्रवालचूर्णं वा तंदुलांबुना॥ धवकुटजकरंजामृतकेंबुकैलाऽऽरग्वधसप्तच्छदक्वाथं वा शीतं सक्षौद्रं तत्सिद्धां वा यवागूं॥ कंटकारिकास्वरसं वासमाक्षिकं॥ व्योषैलागोक्षुरकसारसास्थीनिवा मधुमूत्रयुक्तानि॥ पाटलीक्षीरं वा सप्तकृत्वः परिस्रुतं तैलयुक्तं॥ तिलपाटलीपारिभद्रयावशूकक्षारोदकानुविद्धां वात्वगेलोपकचूर्णयुक्तां प्रसन्नां॥ तिलादीनां वा पृथकक्षारंगुडोपदंशमद्यात्॥ तीक्ष्णोष्णद्रव्यसिद्धं च तैलं पानाभ्यंगार्थे॥सन्निपातात्मके वातादीनां स्थानानुपूर्व्या यथासन्नं प्रतिकुर्वीत यथोल्बणं वा॥ सर्वेषु वा समसितं यवक्षारं भक्षयेत्॥ अपिच॥ एलाश्मभेदकशिलाजतुपिप्पलीनां चूर्णानि तंदुलजलालुलितानि पीत्वा॥ तद्वद्गुडेन सहितान्युपयुज्यमानान्यासन्नमृत्युरपि जीवति मूत्रकृच्छ्री॥ एलोपकुल्यामधुकाश्मभेदकौंतीश्वदंष्ट्रावृषकेरुबूकैः॥ क्वाथं पिबेच्छर्करयाऽवगाढंकृच्छ्रे सदाहेसरुजे विबंधे॥ हरीतकीगोक्षुरराजवृक्षपाषाणभिद्धन्वयवासकानां॥ क्वाथं पिबेदश्मजतुप्रगाढं सशर्करे साश्मरिमूत्रकृच्छ्रे॥ अश्मर्यामप्यचिरोत्थितायां वातबस्त्यादिषु391 च यथादोषमिदमेव चाचरेत्॥ पाषाणभेदकवसुकवशीराश्मं392तकशतावरीश्वदंष्ट्राबृहतीद्वयकपोत393वंकाबलाऽतिबलाकेंबुको शीरगुच्छवृक्षादनी-भल्लुकवरण394यवकोलकुलत्थशाकफलकतकफलक्वाथे सर्पिरूषकादिप्रतीवापं विपाच्यपीतमाशुवाताश्मरीं भिनत्ति॥ एभिरेव च द्रव्यैःकषायक्षारान्नपानानि कल्पयेत्॥ सिंहीव्याघ्रीगोक्षुरकोरुबूकमूलकल्को मधुरेण दध्नापीतः सप्ताहादश्मरीं भिनत्ति॥ शिग्रूमूलककल्केन च दधिलवणयमकसिद्धो यूपः॥ वीरतरादिगुंद्रेत्कटपत्तूरवाराहीपाठापाटलिशिरीषशालिमूलविदारीद्विपुनर्नवाक्वाथे त्रपुसकुसुंभैर्वारुबीजमधुकशिलाजतु
प्रतीवापं सर्पिर्विपाच्य पीतमाशु पित्ताश्मरीं भिनत्ति॥ पूर्ववच्च कषायादीनेभिःकल्पयेत्॥ वरणादिभद्रदार्व्यादिगुग्गुल्वेलाद्वयकुष्टमरिचचित्रकमुस्तासुराह्वयैः कल्कीकृतैः साधितमूपकादिप्रतीवापं सर्पिः श्लेष्माश्मरीं भिनत्ति॥ इति समानं पूर्वेण॥ मस्तुना वटुशः पाटलीभस्म गालयित्वा विसर्जयेत्॥ ततस्तन्मस्तु गृहीत्वा कुलत्थैः सह क्वाथयेत्॥ तं क्वाथं गोक्षुरकमूलैलात्रपुसकुरंटकबीजपाषाणभेदकचूर्णं क्षौद्रेण लोढ्वाऽनुपिबेत्॥ तथा शीघ्रमश्मरीं भिंद्यात्॥ च्यवते चसा॥ अश्मरीभेदजानां घृताक्तानामंतर्धूमदग्वानां क्षारं च ग्राम्यपशुशकृत्क्षारं च गोमूत्रेण बहुकृत्वो गालयित्वा तमच्छमग्नौसाधयेत्॥घनीभवति च तस्मिन् त्र्यूषणोपकादिचूर्णं दद्यात्॥ दर्वीप्रलेपि चावतारयेत्॥ एषक्षीराशिनः क्षारावलेहोऽश्मरीं भिनत्ति पातयति च॥शर्करातिलकदलीयवापामार्गपलाशक्षारोऽविमूत्रेण पीतः समानः पूर्वेण॥ कतकपत्रक्वाथो हिंगुकौंचास्थियुक्तः पाटलीकरवीरक्षारश्च॥ क्रौंचोष्ट्रगर्दभास्थिश्वदंष्ट्राकदंबमूलतालपत्रिकाऽजमोदना गरचूर्णश्च सुरामंडोष्णोदकान्यतरप्रयुक्तः॥ चिंचुकांकोलशाकेंदीयरफलक्वाथश्च॥ सुखोष्णोगुडयुक्तस्तु शृंगकंटक395बीजचूर्णश्च समाक्षिकोऽविक्षीरयुक्तः॥ कपोतवंकामूलं च सुरयातत्सिद्धं वा पयोऽश्मरीवेदनार्तः पिबेत्॥ सिद्धं वाऽभयास्थिभिः पुनर्नवेन वा॥ शेषेष्वपिचमूत्राघातेष्वतएव चिकित्सां विभजेत्॥ हस्वपंचमूलेन वाद्विगुण कंटकेन साधितं तोयंपयो वा केवलं घृतमिश्रं या पिबेत्॥ सर्वमूत्रा घातघ्नं॥ गोक्षुरकंटकारिकाकृतां वा सफाणितां यवागूं ताम्रचूडरससिद्धां वा वीरतरादिक्वाथेन वा॥ तद्भावितं वाशिलानतु॥ वाजिरासजान्यतरशकृद्रसं वा दुरालभास्वरसं वा॥ मूर्वाऽभयामुस्तदेवदारुमधुककल्कं वा॥वारुणीक्षीरोष्णोदकान्यतमेन त्रिफलाकल्कं वा संसैंधवं सुखांभसा केवलमेव वा॥ विभीतकवीजं सुरया विहंगपिशितोपदंशं॥ निर्गदमदिरामंडमार्द्वीकमासवान्वाविविधान् पिबेत्॥ पीतमद्यश्च शीघ्रवेगेन वाजिना रथेन वा यायात्॥ एवमश्मरी शर्करा च प्रच्यवते॥ सर्वेषु च मूत्राघातेपु विशेषतोऽश्मरीशर्कराहु वीरतरादिः सर्वथाप्रयोज्यः॥ तिल्वकस्य घृतं च विरेकार्थे बस्तिकर्म चाभीक्ष्णं विशेषेणोत्तरबस्तिः॥ तत्र श्यामादिरर्द्धव्यवहितो गोमूत्रसिद्धो निरुहः॥ बिल्वादिमुलैश्चसुरासौवीरकादिसिद्धैस्तृणपंचमूलश्वदंष्ट्राशृतक्षीरवांश्च॥ त्रपुसैर्वारुकरवराश्वावीजर्पभकयवानीकल्पितः॥ पीतदारुसिद्धं तैलमनुवासनं॥ शतावरीगोक्षुरकबृहतीद्वयगुडूचीपुनर्नवोशीरमधुकद्विसारिवाश्रेयसीरध्रतृणपंचमूलकपाये क्षीरचतुर्गुणं बलावृक्षकस्वराश्वोपकुंचिकावत्सकत्र पुसैर्वारुबीजशितिवारक मधुकपड्ग्रंथाशताह्वाऽश्मभेदमदनहपुषाकल्कगर्भंतैलमुत्तरबस्तिस्तद्विशुद्धस्रोतसा च पुनः शुक्राश्मर्यां शुकाशयशोधनार्थं बलस्थेन पुंसा वृष्याणां मांसानां कुक्कुटमांसस्य तृप्तेनानुकूलाः प्रकर्षभियाः प्रमदा यथाकाममासेव्या इति॥ कियाभिराभिः सिद्धाभिर्नचेच्छांतिस्ततो भिषक्॥ इति राजानमापृच्छ्य शस्त्रं साध्ववचारयेत्॥ अक्रियायां ध्रुवोमृत्युः कियायां संशयो भवेत्॥ निश्चितस्यापि वैद्यस्य बहुशः सिद्धकर्मणः॥ अथातुरमुपस्निग्धमपकृष्टदोषमीषत्कर्शितमभ्यक्तस्विन्नशरीरमभुक्तवंतं कृतमंगलस्वस्तिवाचनमुपकल्पितसंभारमाश्वास्य ततो बलवंतम विक्लवमाजानुसमे फलके प्रागुपवेश्य पुरुषंतस्योत्संगे सुनिषण्णपूर्वकायमुत्तानं वस्त्रचुंभलोपविष्टं संकुचितजानुकूर्परमितरेण पुंसा सह बद्धं सूत्रैः शाटकेन वा॥ ततोऽस्य स्वभ्यक्तनाभिदेशं वामपार्श्वे विमृद्य मुष्टिनाऽवपीडयेत्॥ अधो नाभेर्यावदश्मर्यधः प्रतिपन्ना ततस्तैलाभ्यक्ते कृतनखेवामहस्तप्रदेशिनीमध्यमे पायौ प्रणिधायानुसेविन्याऽऽमाद्य च प्रयत्नबलाभ्यामश्मरीं मेंदगुदयोरंतरमानी
य निर्वलीकमनायतमविषमं च बस्तिं सन्निवेश्य भृशमुत्पीडयेदंगुलीभ्यां यावद्ग्रंथिरिवोन्नतं शल्यं भवति॥ ततः सेवन्याः सव्ये पार्श्वे सेवनीं यवमात्रं मुक्त्वा विदध्याच्छस्त्रमश्मरीप्रमाणेन दक्षिणतोवा क्रियासौकर्यहेतोरित्येके॥ यथा न भिद्यते च्यूर्ण्यते वा तथा प्रयतेत॥ तच्चूर्णमल्पमप्यवस्थितं पुनःपरिवृद्धिमेति॥ तस्मात्समग्रामग्रवक्रेणाददीत396॥स्त्रीणां बस्तिः पार्श्वगतो गर्भाशये सन्निविष्टः॥ तस्मात्तासामुत्संगवदधः शस्त्रं पातयेत्॥ अतोऽन्यथा खल्वासां मूत्रस्रावी वणो भवति॥ पुरुषस्य च मूत्रप्रसेकक्षणनात्॥ अश्मरीनिमित्तमेकतो भिन्नबस्तिःसित्ध्यति॥ क्रियाभ्यासाच्छास्त्राभिहितच्छेदान्निष्पंदपरिवृद्धत्वाच्च शल्यस्येति॥ न तु द्विधाभिन्नबस्तिरश्मरीमानपि॥ उद्धृतशल्पं तूष्णोदकद्रोण्यामवगाह्य स्वेदयेत्॥ तथा बस्तिरसृजा न पूर्यते॥ पूर्णे तु क्षीरिवृक्षकषायं पुष्पनेत्रेण विदध्यात्॥ स हि तथा बस्तिगतमश्मरीचूर्णं रक्तं च निर्हरति॥ मूत्रशुत्ध्यर्थं च गुडसौहित्यं कारयेत्॥ उत्थाप्य चैनं मधुघृताभ्यक्तव्रणंमूत्रविशोधनद्रव्यसिद्धां यवागूं घृतां पाययेदुभयकालं त्रिरात्रं॥ त्रिरात्रादूर्ध्व गुडप्रगाढेन पयसा मृदुमोदनमल्पं भोजयेदादशरात्रात्॥ अत ऊर्ध्वं फलाम्लैंर्जागलरसैः व्रणं च क्षीरिवृक्षकषायेण प्रक्षाल्य रोध्रमधुकमंजिष्टाप्रपौंडरीककल्केन लेपयेत् द्वादशरात्रं397 चैनमप्रमत्तः स्वेदयेत्॥ एतेष्वेव च हरिद्रायुतेषु तैलं विपक्वंव्रणाभ्यंजनं॥सप्तरात्राच्च स्वमार्गमप्रतिपद्यमाने मूत्रे यथोक्तमग्निना व्रणं दहेत्॥ स्वमार्गप्रतिपन्ने चोत्तरवस्त्यास्थापनानुवासनैर्मधुरप्रायैरुपचरेत्॥ यदृच्छया च मूत्रमार्गप्रतिपन्नामंतरासक्तां शुक्राश्मरीं शर्करां वा स्रोतसाऽपहरेत्॥ विदार्य वा नाडीं बडिशेनोद्धरेत्॥ रूढव्रणश्च वर्षमंगनाऽश्वनगनागरथद्रुमान्नारोहेत्॥नाप्सु प्लवेत भुंजीत या गुरूणि॥ कर्मणि तु मूत्रवहशुक्रवहमुष्कस्रोतोमूत्रप्रसेकसेवनीयोनिगुदबस्तयोऽष्टौ परिहर्तव्याः॥ तत्र मूत्रवहच्छेदान्मूत्रपूर्णबस्तेर्मरणं॥ शुक्रवहच्छेदान्मरणं क्लैब्यं वा॥मुष्कस्रोतसोरुपघातात्ध्वजभंगः॥ मूत्रप्रसेकच्छेदनान्मूत्रस्रवणं॥ सेवनीयोनिच्छेदाद्रुजाप्रादुर्भावः॥ गुदबस्तिविद्धस्य सद्योमरणमुक्तं प्रागिति॥ भवति चात्र॥ मर्माण्यमून्यविज्ञाय स्रोतोजानिः शरीरिणः॥शस्त्रपाणिर्ध्रुवं हंति साहसात्केवलो यथा॥ ॥ इति मूत्राघातचिकित्सितं नाम त्रयोदशोऽध्यायः॥१३॥
अथातः प्रमेहचिकित्सितं व्याख्यास्यामः॥ प्रायेण हि प्रमेहिणोऽभिप्यन्नदेहत्वादुपहताग्नेर्भक्ष्यादिपंचविधमप्यन्नमुपयुक्तं मूत्रायमेदसे च विपरिणमते॥ तस्मादस्य तेजोधातुविवृद्धये क्लेदमेदःप्रशमनायबलिनः संशोधनादि प्रयुंजित॥दुर्बलस्य तु संशमनानि॥ सर्वस्य चबद्धमूत्राण्यमेदस्कराणि बृंहणान्यग्निबलजननानि चान्नपानानि॥ बलं हि विधिनोपचितमशेषामयक्षयाय संप्रवर्तते॥ अथ शोधनार्हंप्रमेहिणमादावेव बिभीतकसर्षपेंगुदीकरंजनिंबनिकुंभान्यतमतैलेन त्रिकंटकादिना वायथास्वसिद्धेन स्रेहेन प्रियंग्वादिशृतेन वा हविषा स्नेहयित्वाकल्पविहितैः प्रयोगैर्वामयेद्विरेचयेच्च॥ ततो जातबलं मुस्तामरदारुनागरप्रतिवापेन सुरसादिकषायेणास्थापयेत्॥ पित्तोत्तरं न्यग्रोधादिकषायेण॥ ततश्च जांगलरसैः क्रमेण संतर्पयेत्॥ अत्यपतर्पणेन हि प्रमेहिणो विशेषेण मूत्रकृच्छ्रबस्तिमेंढ्रशूलगुल्मातिकार्श्यभ्रमादीनां संभवः॥ ततोऽनुबंधरक्षणार्थ शमनार्हस्यच शमनमवचारयेत्॥ प्रातः सर्वप्रमेहेषु हरिद्रां मधुयुक्तामामलकरसेन पिबेत्॥ अथवा शालसप्तपर्णकुटज-कपित्थकंपिल्लकबिभीतकरोहितककुसुमानि तच्चूर्ण वा क्षौद्रेण लिह्यात्॥ हरीतकीचूर्णं वा पिबेद्वात्रिफलामुस्तादेवदारुहरिद्राक्वाथं॥ असनचित्रकत्रिफलादार्वीकलिंगकानां वा सक्षौद्रं॥तद्वद्गुड्रच्याः स्वरसमामलकानां वा॥ विशेषणस्तु ककमंहेषु कट्फलमुस्तारोध्राभयानां समाक्षिकं कषायं॥ तगरविडंगद्विहरिद्राणां वा॥ चंदनागुरुकुष्टदेवदारूणांवा॥ पाठाग्निमंथचविकात्रिफलानां वा॥ पित्तप्रमेहेषु रोध्रसेव्यार्जुनचंदनानां निंबामृतामलकपटोलानां वा॥ शिरीषसर्जार्जुनकेसराणांवा॥ फलिनीकमलोत्पलकिंशुकानां वा॥ कुटजोत्पलकटंक398टेरीणां वा॥ तेष्वपिचविशेषेण पिबेदुदकमेहादिषु क्रमात्कषायंपारिजातकस्य वैजयंत्याः399 सप्ततछदस्यारिष्टस्य निशायाः ककुभचंदनयोश्चित्रकस्य पाठाजोंगकयोःखदिरस्य त्रिफलाऽऽरग्वधयोश्च मधुयुतं पिबेच्च॥ सिकतामेहे हिंगुप्रबालकैलालवणानि मद्येन मूत्रेण क्षारोदकेन वा॥ क्षारमेहादिषुत्रिफलाया असनादेर्न्यग्रोधादेः शामाकस्य चंदनमंजिष्ठयोः गुडूचीतिंटुकास्थिकाश्मर्यखर्जूराणां च मधुयुक्तं॥ शोणितमेहे मदयंतीपत्रकल्कं400”) च सक्षौद्रंशीतांबुना॥ वातजेष्वपि यापनार्थंकफंपित्तोल्बणेषुपिबेत्कषायं॥ तत्र वसामेहेऽग्निमंथस्य॥ मज्जमेहेऽमृताचित्रकयोःकुष्टकुटजपाठाकटुरोहिणीकल्कमिश्रं॥ हस्तिमेहे हस्तिसूकरोष्ट्रास्थिक्षारं॥ मधुमेहे कदरखदिरपुरकषायं॥ कफानुगतेषु तु वसादिमेहेषु यथास्वकषायेण साधितानि तैलानि॥ पित्तानुगतेषु च घृतानि यमकं वा प्रयुंजीत॥ एतेन शेषेष्वपि मेहेषु स्नेहविकल्पउक्तो वेदितव्यः॥ तथा कषापसंसृष्टकैः स्नेहैः कफपित्तमूत्रमेदसामनिलस्य चोपशमो भवति॥ त्रिकंटकातिविपाभल्लातकरोध्रवचापिचुमंदघननिशा-ऽजमोदार्जुनाश्मंतकपटोलसोमवल्कमंजिष्ठापद्मकवंदनागुरुभिश्चस्नेहो विपक्वःसर्वमेहघ्रः॥
दशमूलहरीतकीदेवदारुकरंजद्वयद्विवर्षाभूदंतीभूमिकदंबभल्लातकशठीपुष्कर-मूलार्कमूलस्नुहीमूलवरुणमूल-पिप्पलीमूलानिप्रत्येकशो दशपलोन्मितानि यवकोलकुलत्थप्रस्थत्रयं चाष्टगुणेंऽभसि साधयित्वा पादशेषंकषायमवतारयेत्॥ तेन चवि डंगकंपिल्लकभार्ङ्गीरोहिषचविकापिप्पलीद्वयत्रिवृन्निचुलविश्वभेषजप्रतीवापं घृतप्रस्थं विपचेत्॥ एतद्धान्वंतरं सर्पिः सर्वप्रमेहपिटिकाकुष्ठविषशोफार्शोगुल्मविद्रधिप्लीहजठरश्वासकासवर्ध्मपांडुरोगवातशोणितोन्माटापस्मारहरं॥ आहारं च यवविकृतिप्रायं मध्वामलकोषेतमाहारयेत्॥ यथायथं प्रमेहघ्नौषधिनिर्यूहैःसुबहुशो यवान्भावयित्वा सक्तुमंथान् यूषधानागृंजनवाट्यादीन्विविधांश्च लघून्भक्ष्यानुपकल्पयेत् तद्वद्गोधूमान् यवांश्च खरजठरस्थितैश्च यवैर्वा॥ यवो हि बद्धमूत्रो मेद पित्तकफहरःस्थैर्यकरश्च॥ तथा शालिषष्टिकं तृणधान्यानि मुद्गादयस्तिक्तानि शाकानि जांगलानि च पिशितानि शूल्यानि परिशुष्काणि प्रदिग्धानि भृष्टचणकोपदंशानि विविधानुपानान्युपयुंजीत॥ रोध्रदूर्वाशठीविडंगत्रिफलापुष्करमूलचतुर्जातकमुकचविकायवानीश्यामाभार्ङ्गीद्विविशालाभूनिंबनागरचित्रकपिप्पलीमूलकटुरोहिणीकुष्टपाठेंद्रयवातिविषाप्लवनखमरिचानि कर्षांशान्यपां कलशे विशृत्य तुर्यशेषे रसे पूते जतुशृतपुराणघृतभाजनस्थेऽर्द्धभागेन मधु निधाय पक्षमुपेक्षितोऽयं रोध्रासवः॥ स मेहकुष्ठकिलासस्थौल्यारोचककृमिपांडुरोगार्शोग्रहणीदोषान्निहंति॥ दशमूलदंतीत्रिवृच्छामाश्रेयसीचित्रकपुनर्नवासु-धाधवैकैषिकागंडीरगुडूचीनां पृथक् पंचविंशतिपलान् भागांस्त्रिफलाढकं सलिलदोणैर्दशभिः पादशेषंनिर्यूहमवतारयेत्॥ तस्मिन् पूतशीते शुचिभाजनस्थे पुराणगुडतुलाद्वयं गोमूत्राढकमयोरजोऽर्द्धाढकंमागधिकाप्रस्थं कुटजार्जुनकुष्ठकृमिघ्नवचाचित्रकपलानि च द्वादश प्रतिवापं दत्वा मासं स्थापयेत्॥ एषमूलारिष्टः समानः पूर्वेण॥ असनादिद्रव्याणि पृथग्विंशतिपलान्यंभसो घटाष्टकेक्वाथयेत्॥ चतुर्थस्थितं परिश्रुतं सुशीतं गुडपलशतद्वयेनमध्वर्द्धाढकेन श्लक्ष्णपिष्टेन पृथक्पलांशेन वत्सकादिना संयोज्य सक्षौद्रेण पिप्पलीचूर्णेनांतः प्रलिप्ते जतुशृते घृतकुंभे आवाप्य यवपल्ले निधापयेत्॥ तत्र च तनूनि खदिरंगारप्रतप्तानि तीक्ष्णलोहपत्राणि बहुशो निमज्जयेदालोहविलयनाच्च॥ त्रींश्चतुरो वा मासानयं विधृतो लोहारिष्टः पूर्वस्मादधिकगुणः॥ सीधुमधुमाधवान्यपि च निगदानि पिबेत्॥ निवृत्तमद्यस्तु सारौदकं दर्भाभोमधुकपित्थतिंदुकमरिचानुविद्धानि पानकानि रागखांडवांश्च सार्षिपिकान्यनुपानानि च तद्विधानि॥ उष्ट्राश्वतरखरपुरीषचूर्णानुविद्धं चास्मै दद्यादशनं॥ मुस्तामृतागंडीरद्विहरिद्रासारिवाद्विदर्भवर्षाभूद्वित्रिकंटकव्योषफल्गुरोहिषपल्लवश्यामासुरदारुकालाविडंगपाठाकांपिल्लकभार्ङ्गीनि दिग्धिकादंतीचित्रककटुकैरंडमूलानि समान्यैकध्यं चूर्णयित्वाऽयश्चूर्णं द्विगुणं श्लक्ष्णमावाप्यमद्यानुपानं मधुनाऽवलिह्यात्॥ पिबेद्वा सुखोदकेन त्रिफलांभसा वा॥ तेन मेहप्लीहहलीमकपांडुरोगश्वयथुदुर्नामगुल्मोदराणि शीघ्रमुपशाम्यंति॥ द्विविधोपक्रमणीयोक्तांश्चातिस्थौल्यादिगदयोगांश्च शीलयेत्॥ प्रवृद्धमेहः प्रगाढव्यायामोद्वर्ननस्नानविलेपनानि च रुक्षाभिरौपधीभिः॥ अधनस्तु छत्रपादत्रविरहितो मुनिवृत्तिर्योजनशतमधिकं वागच्छेत्॥ श्यामाकनीवारामतिंदुककपित्थाश्मंतकफलमूलाहारो वा मृगैः सह वसेत्॥ गोभिर्वा तन्मूत्रशकृद्वृत्तिः परिभ्रमेत्॥ तडागानि वाखनेत्॥ कृशं त्वतिविरुद्धैर्बृंहयेत्॥ शराविकाद्यास्तु पिटिका अपक्वाःशोफवदुपाचरेत् पक्वाश्च व्रणवत्॥पूर्वरूपेष्वेव तु तासां पाने वनस्पतिकषायं बस्तमूत्रं चोपदिशंति॥ तीक्ष्णं व संशोधनं॥ दुर्विरेच्या हि मधुमेहिनो भवंति॥ मेदोऽभिव्याप्तदेहत्वात्॥ तैलं च व्रणरोपणार्थमेलादेः कुर्वीत॥ आरग्वधादेः कषायमुद्वर्तने॥असनादेः परिषेचने॥ वत्सकादेः पानभोजनेषु॥पाठाचित्रकशार्ङ्गेष्टाक्षुद्राबृहती सारिवासोमवल्कसप्तपर्णारग्वधकुटजमूलचूर्णं मधुनाऽवलिह्यान्नवायसं वा॥ असनादिवर्गस्य वा कषायं परिगृह्य परिस्राव्य च पुनः प्रियंग्वामलकरोध्रदंतीकृष्णायस्ताम्रचूर्णावापं च दर्वीप्रलेपिनमवतारयेत्॥ तं यथाबलमवलिह्यात्॥ यद्यथास्वं च प्रमेहघ्नौषधनिर्यूहैस्तद्भावितशिलाजतुतुलोपयुक्ता सर्वमेहान्सपिटिकानपकर्पतीति॥ भवति चात्र॥ मागधामधुकं रोध्रंकुष्टभेलाहरेणवः॥समंगा घातकीपुष्पं सारिवा रजनीद्वयं॥ प्रियंगवः सर्जरसः पद्मकं पद्मकेसरं॥ मातुलुंगस्य पत्राणि मधूच्छिष्टं ससैंधवं॥ तैस्तैलं सिद्धमभ्यंगाच्छोंधयेद्रोपयेत च॥ दुष्टारुःपिटिकागंडगंडमालाभगंदरान्॥ पिटिकाः साधयेच्छीघ्रंता ह्य सून् घ्नंति मेहिनः॥ अनुशेषानपि भिषग्यथाबलमुपद्रवान्॥ सर्वजान्वा महामर्मसंश्रयादनुषंगतः॥ सुबहूपद्रवत्वाच्चप्रमेहो दारुणो गदः॥ इति प्रमेहचिकित्सितं नाम चतुर्दशोऽध्यायः॥१४॥
अथातो विद्रधिवृद्धिचिकित्सितं व्याख्यास्यामः॥ सर्वमेव विद्रधिमामं शोफविधिना यथादोषमुपाचरेत्॥ प्रथमं401 शोणितमपहरेत्॥ पाकाभिमुखं चोपनाह्य पक्वंपाटयित्वा व्रणवच्चिकित्सेत्॥ आभ्यंतरे तु विद्रधौवरणादिक्वाथमूषकादिप्रतीवापंपिबेत्॥आभ्यामेव च वर्गाभ्यां विरेचनद्रव्यैश्च पानाय सर्पिः प्रकल्पयेत्॥ आस्थापनमनुवासनं च॥ मधुशिग्रुंच पानभोजनलेपनेषु॥ शिलाह्वयं वा कल्पविधिनोपयुंजीत गुग्गुलुंवा॥ यथादोषं च सर्वशो गुल्मवदुपकमेत्॥ त्रिफलामधुकपिचुमंदकटुकापटोलानि शाणांशानि त्रिवृत्वायमाणाकर्षंमसूरपलं चैकध्यमष्टगुणेंऽभसि साधयित्वा तं रसं घृतमृच्छितं॥ तेनविद्रधिगुल्मज्वरदाहशूलतृष्णाहृद्रोग-भ्रमारतिमूर्च्छारक्तपित्तकामलाकुष्ठवीसर्पाः प्रशाम्यंति॥ त्रायमाणाप्रस्थक्वाथेमुस्तकटुकातामलकीत्रायमाणा-चंदनदुरालभाजीवंतीवीरोत्पलैः पालिकैर्घृतप्रस्थं क्षीरामलकरसप्रस्थद्वयोपेतं विपक्वंसमानं पूर्वेण॥द्राक्षामधुकखर्जूराभीरुविदारीयरूपकत्रिफलाक्वाथे क्षीरेक्षुधात्रीस्वरससमेतमयागर्भ सर्पिर्विपाचयेत्॥ तच्छीतं मधुशर्करापादयुक्तं समानं पूर्वेण॥ भृशं च शृंगादिभिः शोणितमवसेचयेत्॥ यथासन्नं बाहुमध्ये वा सिरां व्यधेत्॥ पच्यमानं च कोष्ठगतंबहिरुन्नतमुपनाहयेत्॥तत्रैव पिंडितेशूले तत्पार्श्वपीडनेन लब्धसुसौ शस्त्रकर्मविधिनिर्दिष्टैश्चचिन्हैः पक्वमुपलक्ष्य भित्वा व्रणवत्साधयेत्॥ आभ्यंतर एवच पक्वमूर्ध्वमधो वा प्रवृत्तं पूयमुपद्रवान् परिरक्षन्नुपेक्षेत दशाहमात्रं॥ असम्यग्वहति वा क्लेदे तन्निर्वापणार्थ402मम्लसुराम्लासवमैरेयोष्णोदकान्यतमेन वरणादिं मधुशिग्रुंवा पिबेत्॥ तन्मूलैर्वा कृतांयवागूं यवकोलकुलस्थयूषेण वाऽश्नीयात्॥ ऊर्ध्वं च दशाहात्तिल्वकवृतेन त्रायमाणाघृतेन वा यथाबलं विशोधयेत्॥विशुद्धश्च तिक्तकमल्पमल्पं सर्पिर्मधुनोपेतमुपयुंजीत॥ यथा च नोवैति पाकंतथा प्रयतितव्यं॥शीघ्रविदाहित्वाद्धि तस्य विद्रधिरिति संज्ञा॥ पक्वेपुनर्दैविकीमिद्धिराशुकारितया सर्वामयेभ्यो विद्रधेः॥ सति च मेहे प्रमेहचिकित्सितमीक्षते॥ स्तनवि
द्रधिमपि व्रणविशोधनेनोपचरेत्॥पच्यमानं यथेष्टभोजनेन पाचयेत्॥ न पुनरूपनाहयेत्॥ उपनद्धो हि स्तनो मृदुमसतया शीघ्रमेव सद्यः कोपमवाप्यावदीर्येत॥पक्वेच पुनः स्तनविद्रधिं स्तन्यवाहिनीसिराः सचूचुकं चकृष्णामंडलं परिहरंश्छस्त्रेणोपक्रमेत॥ सर्वासुचामविदग्धपक्वव्रणावस्थासु स्तनं विनिर्दुहीत दंतादिविद्रधीनामपि यथास्वमेव वक्ष्यते लक्षणं साधनं च॥ वृद्धौ तु मारुतजे त्रिवृत्स्निग्धमातुरं स्विन्नं च मिश्र403कसुकुमारक404 तिल्वकैरंडकोशाम्रफलस्नेहानामन्यतमेन विरेचयेत्॥ ततोऽनिलघ्नक्वाथकल्कैर्निरूहयेत्॥ निरुढं च मांसरसेनाशितं यष्टीमधुकतैलेनानुवासयेत्॥ स्वेदप्रलेपोपनाहांश्च प्रयुंजीत॥ पक्वंच भित्वा व्रणमिव चिकित्सेत्॥ पित्तवृद्धिं पित्तशोफवत् पक्वंच पित्तव्रणवत्॥ कफवृ
द्धिमपि कफशोफवत्॥ पिवेच्च पोतदारुकषायं मूत्रेण॥ कफग्रंथिवच्चसर्वेविम्लापनवर्जमाचरेत्॥ पक्वंच पाटितं श्लेष्मव्रणवत्॥ रक्तजं पित्तवृद्धिवत्॥ प्रततं चात्र रक्तमपहरेत्॥ मेदोवृद्धिं गवादिकरीषतुषकिण्वसुरसादिभिरुष्णरूक्षैर्मूत्रयुक्तैः खेदयित्वा पुनस्तद्विधैरेव सुखोष्णैः सोत्सेघं लेपयेत्॥ तद्वच्छिरोविरेकद्रव्यैर्वा॥ खिन्नं चैवफलसेवनीं परिहरन् वृद्धिपत्रेण विदार्यापनीय च मेदः कासीससैंधवमाक्षिकैः प्रतिसार्य सीव्येत्॥ ततः सुमनोग्रंथिकमनःशिलैलाभल्लातकैस्तैलमभ्यंगार्थं कुर्यात्॥ आव्रणसंधानाच्च स्नेहस्वेदौ॥ मूत्रवृद्धिं स्निग्धैः स्वेदयित्वा चस्वपट्टेन वेष्टयेत्॥ ततोऽधस्तात्सेवन्या दकोदरवद्व्रीहिमुखेन वित्ध्वा नाड्या स्रावयेत्॥ ततः स्थगिकाबंधं कुर्यात्॥ व्रणे च शोधनरोपणानि॥ अंत्रवृद्धिं फलकोशमसंप्राप्तं वातवृद्धिदुपचरेत्॥ पुनर्नवपलशतं दशपलानि च पृथक्दशमूलपयस्याऽश्वगंधाशतावर्यैरंडमूलान्यपां वहेऽष्टांशावशेषं साधयेत्॥ पूतशीते च तस्मिन्निर्यूहे त्रिंशद्गुडपलान्येरंडतैलप्रस्थं घृतद्विप्रस्थं क्षीरद्विप्रस्थं कल्कीकृतानि च द्विपलिका निद्राक्षानागरपिप्पली पिप्पलीमूलगवानीयवक्षारचित्रकमधुकसैंधवान्यावाप्यैकध्यंविपचेत्॥ एतत्सर्वयंत्रणास्वपरिक्लेशनेन सुकुमाराख्यं सुकुमाराणां नारीणां क्षीणरेतसामप्रजानामल्पाग्नीनां च कामतोऽन्नपाने वा प्रयुक्तमलक्ष्मीघ्नं कांतिकरं बल्यं बृंहणं वयःस्थापनं वर्ध्मविद्रधिप्लीहगुल्मोदावर्त्तशोफोदरार्शोमेंढ्रयोनिरोगेषु महावातव्याधिषु परममौषधं॥ गंधर्वहस्तमूलतुलां यवाढकं नागरार्द्धकुडवं च सलिलद्रोणे पादशेषंपचेत्॥ तेन द्विगुणक्षीरेणैरंडतैलप्रस्थं साधयेत्॥ कल्कपिष्टं चात्र दद्यात्पुनर्गंधर्वहस्तमूलकुडवं शुंठीपलं च॥ एतद्गंधर्वहस्ततैलं तुल्यंपूर्वेण॥ भवति चात्र॥ यायाद्वर्ध्मन चेच्छांतिं स्नेहकानुवासनैः॥बस्तिकर्म पुरः कृत्वा वंक्षणस्थं ततो दहेत्॥ अग्निना मार्गरोधार्थं मरुतोऽर्द्धेदुवकया॥अंगुष्टस्योपरि स्रावपीतं तंतुसमं च
यत्॥ उत्क्षिप्य सूच्या तत्तिर्यक् दहेच्छित्वा यतो गदः॥ ततोऽन्यपार्श्वेऽन्ये त्वाहुर्दहेद्वाऽनामिकांगुले॥गुल्मेऽन्यैर्वातकफजे405 प्लीह्नि चायं विधिः स्मृतः॥ कनिष्ठिकानामिकयोर्विश्वाच्यां तु यतो गदः॥ शंखोपरि च कर्णांते त्यक्त्वायत्नेन सेवनीं॥ व्यत्यासाच्च सिरां वित्ध्ये दंत्रवृद्धिनिवृत्तये॥ इति विद्रधिस्तनविद्रधिवृद्धिचिकित्सितं नाम पंचदशोऽध्यायः॥१५॥
अथातो गुल्मचिकित्सितं व्याख्यास्यामः॥ गुल्मो हि वातादृते न संभवति॥ तस्मात्तेषु सर्वेष्वपि प्रथमं स्नेहस्वेदौवातहरौ॥ स्नेहस्वेदोषसंहितं मृदु विरेचनं तद्विधान् बहुशो वस्तीनम्लमधुरलवणांश्च रसान्युक्त्याऽवचारयेत्॥ मारुते हि विजितेऽल्पेनापि यत्नेन शक्यमन्योऽपि दोषो गुल्मेषुनियंतु॥ अथ वातोत्तरे रूक्षबद्धमरुच्छकृतमातुरं तीव्ररुजमनिलव्याधिविहितमन्यतमतैलं पाययेत्॥ अथवा विडंगपंचकोलकमरिचत्रिफलाधान्यगर्भंसपयः सपिर्विपक्वमनेनैव वा कल्केन दशमूलक्वाथोपहितं राजयक्ष्मविहितं वाषट्पलं॥ हिंगुधानकाम्लवेतससौवर्चलैलाविडशठीदाडिमयवक्षारचित्रकाजगंधाऽजमोदाजाजीपुष्करमूलवचात्रिटुकसुरसैर्वा दधियुक्तं हपुपामरिचवाष्पिकासैंधवदीप्यकाजाजीपंचकोलकैः कोलमूलकदाडिमरसदधिक्षीरवत्सर्पिः सिद्धं सिद्धं शूलविबंधहिध्माऽऽध्मानप्लीहतहृद्रोगग्रहणीहतनानकृमिवर्ध्मपांडुक्षय श्वासकासयोनिरोगोदरज्वरारोचकेषु॥ शुंठीपलं पिप्पलीपलमध्यर्द्धं घानकात्कुडवं दाडिमं द्विकुडवं घृतपलानि विंशतिः क्षीरं चैकध्यं विपचेत्॥एतत्सर्पिः समानं पूर्वेण॥ लशुनस्य विगतत्वचस्तुलां प्रत्येकं पंचपलिकं महापंचमूलमष्टगुरणेंऽभसि साधयेत्॥ तेन क्वाथेन तदर्द्धांशैश्चपृथक् सुरादधिमस्तुधान्याम्लदाडिमरसैः हिंगुचविकासैंधवत्रिफलाऽमरदारुभिश्चार्द्धपलिकैः प्रस्थोन्मितं घृतं शृतं समानं पूर्वेण॥ वर्षाभूद्वयदशमूलाश्वगंधासुषवीच्छिन्नरुहाभार्ङ्गीरास्नैरंडबलाकालाशठीपुष्करमूलगंधपलाशान्द्विपलांशान्प्रस्थं प्रस्थं च यवमाषकोलकुलत्थानां जलद्रोणे पादावशिष्टं विपाचयेत्॥ तेन पृथक् समातुलुंगदाडिमा म्रातकरसशुक्ततुषोदकारनालं घृतप्रस्थं दध्याढकोपेतं वचाकारवीशताव्हाद्विक्षारत्रिलवणत्रिकटुकरास्नाकुंभनिकुंभयवानी यवानकहिंसा-ऽम्लनेवसनीलिनी फलविडंगदाडिमहिंगुपाषाणभेदकोषकतृपकहपुपाभार्ङ्गीश्वदंष्ट्रात्रपुसैर्वारुबीजाजाजीसारिवोप-कुंचिकाग्रंथिककुस्तुंबरीतुंबरुफलमूर्वाचित्रकसुरसागजपिप्पलीगर्भंसाधयेत्॥ दाधिकाख्यमेतत्सर्पिः समानं पूर्वेण॥मूत्रघातोन्मादापस्मारवातव्याधिहरे च॥ पिबेद्वाव्योपषड्ग्रंथाकृमिघ्न कटुकाचित्रकसौवर्चलाभयायवक्षारैर्दशांश क्षीरयुक्तं साधितं सर्पिः॥ क्षीरायोग्याय च सुरामदिरामस्तुदधिसग्दाडिमस्सानामन्यतमं विदध्यात्॥ अभ्यंगपूर्वं चैवंसदा स्वेदयेत्॥ स्नेहस्वेदौ हि सम्यक् प्रयुक्तौस्रोतसां मार्दवमुपजनय्यानिलं जित्त्वा च विबंधमाशु गुल्ममपकर्पतः॥ तत्रहृदयजे विशेषेण स्नेहपानमिच्छंति॥ बस्तिजे बस्तिमुभयं नाभिपार्श्वाश्रये बिबंधानिलवर्चसश्चदीप्ताग्नेःस्निग्धोष्णानि बृंहणानि चान्नपानानि पुनः पुनश्च स्नेहपाननिरूहानुवासनानि कफपित्तानुरक्षिणा प्रयोज्यानि॥ अन्यथा कफो वृद्धस्तंद्रागौरवारुचिहृल्लासाग्निसादान्कुर्यात्॥ तमुल्लेखयेत्॥ तत्कृतेषु च शूलानाहविबंधेष्यनंतरोक्तानां घृतानामौषधैश्चूर्णवर्तिगुलिकाक्वाथान्कोलदाडिममातुलुंगसुरामंडत क्रमस्तुधान्याम्लोष्णोदकानामन्यतमेन प्रकल्पयेत्॥ अपिच॥ त्रिलवणहपुपाऽजमोदाजगंधावचाहिंगुपाठोपकुंचीशठीजीरकाजाजीकुस्तुंबरोबाष्पिकाकारवितुंबुरुस्वर्जिकाया-वशूकमार्द्रकरसेनासकृद्भावितं यः पिबेत्प्रातराहारकालेऽथवा मासमात्रं हिताशी नरः॥ प्लुतमशिशिखारिणाऽजाजीपौष्करं वा॥ दाडिमं तित्तिडीकं विडंगानि भार्ङ्गीवरी वेत सोऽम्लो मिशिमरिचगजकर्णाभयापंचकोलानि कोलानि कुंभा निकुंभा विशाला यवानी सुराह्वंच तत्सर्वमेकत्र सुश्लक्ष्णचूर्णीकृतं बीजपूरकरसेन मद्येन तक्रेण मूत्रेण कोलांभसा मस्तुना पेयया सर्पियोष्णेन दुग्धेन कौलत्थेन यूपेण वा क्षारनिश्च्योतिततोयेन वा दाडिमाद्वारसेनात्मवानेभिरेवौषधैःसाधितं वा घृतं॥ हृदयगुदकटीयकत्प्लीहगुह्याश्रितं तस्य शूलं प्रणश्येत्॥ तथा गुल्मविष्टंभदुर्नामकृच्छ्रोदराध्मानहिध्माविबंधाः सवर्ध्र्मारुचिश्वासकासाः॥ प्रपक्तुं च शक्तो भवेत्पावकः प्राश्यमानानि पापाणचूर्णान्यपि॥ अभयापलद्वयमम्लवेतसपलद्वयं पालिकान् वचाविश्वभेषजत्रिवृद्दंतीचित्रकशठीपुष्करजटायावशूकान् कार्षिकान्मरिचाजाजींसेंधवोपकुंचिकाशितिवारकयवानीधातकीपुष्पविडंगान् हिंगुत्रिकर्षंच चूर्णितं पूर्ववद्भावितं पीतं समानं तेन॥ यवानीशतपुष्पानागकेसरवचामुस्तव्योपपाठागुग्गुलुत्रि-वृतागजपिप्पलीतालीसैलाऽ-पामार्गद्रवंतीनिदिग्धिकामूलानां भागो भागश्चाम्लवेतसस्य तत्सूक्ष्मरजीकृतं मातुलुंगदाडिमबदररससीधुसुरोष्णसलिलान्यलमपीतं शूलगुल्मवर्ध्मानाहोदरकोष्ठ-स्तैमित्यार्शोऽश्मरीमूत्रग्रहकटीपृष्ठ-ग्रहग्रहोन्मादापस्मारस्कंदशुकाग्निसादानपनयति॥ तिलकुंतलपलाशसर्षपयवनालमूलक-बीजानामंतर्धूमदग्धानां क्षारं गोजाविमहिपीस्वरहस्तिमूत्रैर्बहुकृत्वोगालयेत्॥ ततस्तदच्छं शीतं शुंठीसैंधवकृमिघ्नचूर्णप्रतीवापमधिशृत्य लेहीभूतमादीत॥ तत्तैलयुक्तं समानं पूर्वेण॥ महौषधदेवदारुदंतीत्रिवृत्पाठाक्षारद्वयत्रिफलोपकुंचिकाचविकाद्वीपिपिप्प-लीद्वयपिप्पलीमूलसर्पसुगंधाकुष्टक-दुरोहिणीनामर्द्धपलिकान् भागान् पलं पलं च पंचानां लवणानामेकत्रचूर्णयित्वा दध्ना त्रिवृतेन चाप्लाव्य कलशोदरेंऽतर्धूमं पाचयेत्॥ तमग्निवर्णं च कलशमपनीय क्षारमाददीत॥एषक्षारागदो भेडविहितः समानः
पूर्वेण॥ सर्पमूषिकदष्टगरापस्मारोन्मादाश्मरीयोनिशुक्रदोषांश्च साधयति॥ पित्तं च विवृद्धमंतःसंतापं जनयति॥ तत्रैरंडतैलं सपयस्कं विरेचनार्थं च पिबेत्॥ सकफस्तु वारुणीमंडमिश्रं॥ अत्युद्रिक्तपित्तस्त्रिफलां त्रायमाणां वा क्षीरेण॥ विरिक्तस्यापि संतापानुवृत्तौ रक्तमवसेचयेत्॥ विड्विबंधे चोदावर्तक्रमं कुर्यात्॥ लुंचिततिलपलद्वयं शुंठ्यर्द्धपलं च पिष्टं गुडपलोपेतमुष्णेन पयसा पिबेत्॥ तद्वातगुल्मोदावर्त्तयोनिशूलानपोहति॥ तथा क्षीरशृतेन महापंचमूलेन शिलाह्वयंलशुनं तु क्षीरेण सिद्धं पीत्वा गुल्मोदावर्त्तगृध्रसीहृद्रोगविद्रधिशोषविषमज्वरान् जयति॥ बृहतीद्वयबिल्वगोक्षुरकैरंडमातुलुंगीमूलपाषाणभेदक्वाथः सयवशूको गुल्मशूलहरः॥ माषपर्णीमुद्गपर्णीसहदेवात्हस्वचपंचमूलैरंडेक्षुबालिकानिर्यूहो यवक्षारोपेतः सर्वकोष्टशूलघ्नः॥ देवदारुनागरैरंडमूलपोष्करमूलानां क्वाथः सर्वशूलघ्नः॥ पौष्करमूलदुरालभायवशुंठीनां वा॥ तैलारनालमूत्रमदिरायावशूकाश्चैकत्र पीता गुल्मोदरानाहप्लीहहराः॥ स्वेदांश्च विविधान्पुनः पुनर्योजयेत्॥ स्रंसनार्थी नीलिनीफलचूर्णयुक्तानि पूर्वेषूक्तानि हवींषिपिबेत्॥अथवा रामठस्यैको भाग सैंधवस्य त्रयो नवैरंडतैलस्य सप्तविंशतिर्लशुनस्वरसस्य तदैकध्यं कृत्वा पीतमुदरगरगुल्मवर्ध्मप्लीहशूलहरं॥नीलिनोबलाव्याघ्रीकटुकाफलत्रिकटुकरास्राकृमिघ्नानि पालिकान्यपामाढके साधयित्वाऽष्टभागशिष्टमवतारयेत्॥ तेन स्नुहीक्षीरपलप्रतीवापं दधिसमं सर्पिः प्रस्थं पचेत्॥ तत्पेयामंडेन सह रसाशिना नीलिनीघृतं पलमात्रया पीतं गुल्मप्लीहकुष्ठश्वित्र जठरव्यंगशोफज्वरपांडुरोगोन्मादानपकर्षति॥ दुर्विरेको हि सर्वएव गुल्मी मारुताभिभूतकोष्ठत्वात्॥ तस्मात्सुस्निग्धमेनं स्नेहविरेकैर्वा शोधयेत्॥ पित्तगुल्मे तु स्निग्धोष्णेन जाते स्रंसनार्थं मधुना कंपिल्लकमवलिह्यात्॥ द्राक्षाऽभयारसं वा सगुडं पिबेत्॥ कल्पोदितानि वा विरेचनानि युंजीत॥रूक्षोष्णसमुद्भूते पुनः संशमार्थंतिक्तकं वासाघृतं वा पिबेत्॥ अथवा तृणपंचमूलक्वाथेन जीवनीयकल्केन च सिद्धं सर्पिः॥ तथा न्यग्रोधादिगणेन तृणपंचमूलादिभिर्वा पृथक्साधितं क्षीरं॥ रूक्षोष्णजेऽपि चात्ययिके सामान्यतो वा समुत्पन्ने विद्रधिविहितानां त्रिफलादिक्वाथत्रायमाणाघृतद्राक्षाशृतानामन्यतमं पिबेत्॥ क्षीरं वा त्रायमाणाशृतं कोष्णं पीत्वा क्षीरमेव सुखोष्णमनुसुखं पिबेत्॥ पक्वाशयस्थे वा गुल्मे क्षीरबस्तिभिः सतिक्तैः संशोधयेत्॥ शीतद्रव्यसिद्धैश्च स्नेहैरभ्यंजयेत्॥ मणिकनकरजतताम्रभाजनानि च शिशिरवारिपूर्णानि गुल्मदेशस्योपरि धारयेन्मुक्तावलीश्च सुशीताः॥ एवमसिद्धौ विदाहपूर्वरूपेषु चासृक् स्रावयेत्॥स्रुतरक्ते च जांगलरसैर्लब्धबलमर्तिशेषनाशाय पुनः सर्पिरभ्यासयेत्॥ विद्रधिवच्च विदह्यमानमुपनाहयेत्॥ पर्यागतमपि तद्वदुपलक्ष्य तथैव सर्वथोपचरेत्॥ श्लेष्मगुल्मिनं प्रागेव विधिवद्वामयेदवम्यमुपवासयेत्॥ लंघितस्योष्णकटुतिक्तदीपनं संसर्गमाचरेत्॥ तथा स्वेदनानि वातगुल्मोक्तादीनि च घृतानि द्विगुणहिंगुक्षाराम्लवेतसानि॥ दशमूलक्वाथव्योपदाडिमहिंगुयवक्षारबिडसैंधवयुक्तं सर्पिः सिद्धं श्लेष्मगुल्मघ्नं॥ भाल्लातकपलद्वयंलघुपंचमूलं च पालिकमुदकाढके प्रपाचयेत्॥प्रस्थशेषे तस्मिन्क्षीरप्रस्थे च सर्पिःप्रस्थं हिंगुविडंगशठीबिडसैंधवक्षाररास्नानागरपिप्पलीषड्ग्रंथामधुकचित्रकैः कार्थिकैर्विपचेत्॥एतद्भाल्लातकघृतं कफगुल्मप्लीहकासश्वासग्रहणीपांडुरोगघ्नं॥ षट्पलं वा द्विगुणक्षीरं क्षीररहितं मस्तुदधिकांजिकार्द्रकरसाढकद्वयोपेतं साधयित्वा प्रयुंजीत॥हिंगुहरीतकीपुष्करमूलशुंठीसैंधवबिडश्यामायवक्षारतुंबुरुचूर्णो यवक्वाथाप्लुतः सर्पिर्भृष्टोभक्षितः शूलगुल्मकाठिन्यघ्नः॥ ततोऽस्य सर्वमंगं गुल्मं च साध्मानं सविबंधं कठिनमुन्नतं गूढमांसं स्थिरं महावास्तुं च बहुधा बहुशश्च स्वेदयेत्॥ स्निग्धस्विन्नशरीरस्य च शिथिलतां गते गुल्मे यथोक्तां घटिकां लागयेत्॥ संगृहीते च गुल्मेघटीमपनयेद्भिंद्याद्वा॥ ततो हृदयमंत्रं च वर्जयन् गुल्मं विमार्गाजप406दादर्शान्यतमेन वस्त्रांतरितं प्रपीडयन् प्रमृज्यात्॥ ततः साल्वणादिभिः सुखोष्णैर्लेपयित्वा लोहपात्रैः स्वेदयेत्॥ एवममुना क्रमेण स्थानादपसृते शिथिलीभूते गुल्मे विरेकस्नेहवतो दशमूलिकांश्च वस्तीन् विदध्यात्॥ नीलिनीघृतमेतद्द्विगुणप्रमाणं पाययेत्॥ उदरोक्तानि च सर्वोपि च त्रिफलाकुंभनिकुंभदशमूलानां षोडशांशावशिष्टं क्वाथं घृतमैरंडतेलं क्षीरंचैकतः साधयेत्॥ अयं मिश्रकस्नेहः कफगुल्मवातविड्विबंधोदावर्तप्लीहोदरयोनिशूलान्यपकर्षति॥पिप्पल्यामलकद्राक्षाश्यामाद्यैः पालिकैरैरंडतैलहविषोःप्रस्थौ षड्गुणे पयसि पचेत्॥ अयमपि मिश्रकस्नेहो गुल्मानां स्रंसनो वृद्धिविद्रधिगुल्मवातव्याधिषु च परममृतं॥ दंत्याः पलानि पंचविंशतिस्तावंत्येव चित्रकस्य तावंत्यएव हरीतक्यः सर्वमेकत्र सलिलकलशेऽष्टांशावशिष्टं साधयित्वा पूत्वा च तस्मिन् ता हरीतकीःपंचविंशतिश्च गुडपलानि तैलार्द्धकुडवं चूर्णीकृतं त्रिवृताकुडवमर्द्धपलोन्मितां मागधिकां महौषधं च प्रक्षिपेत्॥ ततो मृद्वग्निना लेहोभूतेऽवतारिते शीते च तैलसमं मधु कर्पाशं च चतुर्जातकचूर्णं मिश्रयेत्॥ एता दंतीहरीतक्यः सावलेहाः पंचविंशत्यहोभिर्भक्ष्यमाणा गुल्मार्शःश्वयथुकुष्ठकामलारोचकग्रहणीपांडुहृद्रोगोत्क्लेशप्लीहोदरविषमज्वरानपघ्नंति॥ हृद्यंच सुखं च विरेचनं॥ गुडक्षीरभावितं वा त्रिवृताचूर्णं सर्पिर्मधुभ्यामवलिह्यात्॥ गुग्गुलुं वा गोमूत्रेण पिबेत्॥ तेन वा श्यामात्रिवृत्कुष्टदंतीगुग्गुलुक्षारहरीतकीपीदुरसं वा समसर्पिर्लवणं मूत्रवस्तिं वा॥ क्षारांश्च तांस्तांस्तत्र तत्रोक्तान् क्षीररसस्निग्धाहारो द्व्यहमेकाहंविश्रम्यप्रयुंजीत॥ क्षारो हि श्लेष्माणं स्निग्धस्थिरमधुरमाशयाच्छिंदन्क्षरयति॥ कफरुद्धमार्गशुत्ध्यर्थं विविधांश्चूर्णलवणतकारिष्टासवानवचारयेत्॥ पिप्पलोपिप्पलीमूलसैंधवाजाजीचित्रकचूर्णयुक्तां च जीर्णसुरां॥अपिच॥ वमनैर्लवनैः स्वेदैःसर्पिःपानैर्विरेचनैः॥ वस्तिभिर्गुलिकाचूर्णक्षासरिष्टासवैरपि॥ श्लेष्मिकः कृतमूलत्वाद्यदि गुल्मो न शाम्यति॥ तदा दाहंहृते रक्ते कुर्यादंते शरादिभिः॥ अथ वस्त्रांतरितं सपर्यंत गुल्मनिचयं प्रदीप्तेन शरलोहाग्निमंथतिंदुककाष्ठानामन्यतमेन नाभिवस्ति हृदयांत्ररोमराजीः परिहरन्नातिगाढं परामृशेत्॥ ततः कषायस्वादुशी तैरग्निवेगमुपशाम्य व्रणोपक्रमं कुर्वीत॥ व्यामिश्रदोषे तु व्यामिश्रमिदमेव यथोक्तं विदधीत॥रक्तगुल्मे पुनरतीतप्रसवकालाया योषितःस्नेहस्वेदपूर्वं स्नेहविरेचनं वितरेत्॥पलाशक्षारोदकसिद्धं च यमकं गुल्मभेदनाय तीक्ष्णोष्णं च विधिं॥ एवमभिद्यमाने योनिविरेचनार्थं क्षारेण महावृक्षक्षीरेण वा युक्तं पललं ताभ्यां वा भावितान्कटुकमत्स्यांस्तत्पित्तभवितान्वा वराहपित्तभावितान्वा नक्तकानधोभागिकद्रव्यभावितान्वा सगुडक्षारकिण्वं वा वस्तिं च सक्षारक्षीरमूत्रेण दाशमूलिकमुत्तरबस्तिं च योजयेत्॥ प्रवृत्तं तु रक्तं रसोदनाशिन्या उपेक्षेत॥ अतिप्रवृत्तं रक्तपित्तोपक्रमेण साधयेत्॥ सर्वेषु चान्नपानस्वरूपज्ञो गुल्मेष्वाहारमग्निबलापेक्षी युंजीत॥ आनाहा दिष्वप्यामशुद्धवातोदावर्तानुरोधेन मुल्मवत्प्रतिकुर्यादिति॥ भवति चात्र॥ मंदेऽश्रौ वर्द्धते गुल्मः प्रदीप्ते तु प्रशाम्यति॥ शमप्रकोपौ दोषाणां सर्वेषां यत्तदाश्रयौ॥इति गुल्मचिकित्सितं नाम षोडशोऽध्यायः॥१६॥
अथात उदरचिकित्सितं व्याख्यास्यामः॥ सर्वमेवोदरमतिमात्रदोषसंचयानुबंधेन स्रोतोमुखनिरोधाद्व्याकुलानिलतया यत्प्रजायते तस्मादभीक्ष्णमुदरी विरेचनान्युपयुंजीत॥ मूत्रक्षीरान्यतरयुक्तमेरंडतैलमहरहर्मासमेकं द्वौवा॥ क्षीराहारो वा गव्यं माहिषंवा मूत्रं॥ उष्ट्री क्षीरवृत्तिर्वाऽऽसीत॥ शोफशूलानाहतृण्मूर्च्छापरीतो विशेषेण पयोऽनुपानां गोमूत्रेण प्राणदां पिबेत्॥पिप्पलीसहस्रं वा स्रुहीक्षीरंभावितं सेवेत॥ तद्भावितेन वा कृष्णाऽभयाचूर्णेन कासरगुग्गुलुं॥ सैंधवाजमो दयुक्तं वा निंबतैलं॥ अथवाऽऽर्द्रकरसानुविद्धंसिद्धं वा॥ हरीतकीचूर्णप्रस्थयुक्तमाढकं घृतस्यांगारेष्वभिविलाय्य खजेनाभिमंथ्यानुगुप्तं यवपल्ले मासं वासयेत्॥ ततश्चोद्धृत्य परिस्राव्य हरीतकीक्वाथाम्लदधिप्रतीवापं विपाचयेत्॥ अथवा गव्ये पयसि महावृक्षक्षीरमावाप्य विपाच्य शीतीभूतमभिमथ्य तन्नवनीतं महावृक्षक्षीरेणैव सह साधयेत्॥ अथवा चविकाचित्रकदंत्यतिविपाकुष्टसारिवाविडंगत्रिफलाकटुरोहिणो-द्विहरिद्राशंखिनीत्रिवृद्दीप्यकानर्द्धकार्षिकान् राजवृक्षफलमज्जाद्विपलं महावृक्षक्षीरद्विपलं गोमूत्रक्षीरघृतत्रिकुडवं चैकध्यं पाचयेत्॥ एतानि तिल्वकचतुर्थानि सर्पींषिपीतान्युदरगुल्मविद्रध्यष्ठीलाऽऽनाह कुष्ठोन्मादापस्मारान्निघ्नंति॥ यावशूकपंचकोलषट्पलेन वा मस्तुदशमूलक्वाथाढकद्वये च सिद्धं सर्पिःप्रस्थं योजयेत्॥ यवकोलकुलत्थपंचमूलकषायेण च सुरासौवीरकयुक्तं सर्पिः॥ सर्पिःपानस्रस्तेच दोषे बलवान् विरेचनार्थं मूत्रासवारिष्टसुराः स्रुहीक्षीरयुक्ताः शीलयेत्॥ विरेचनद्रव्यकषायं नागरदेवदारुप्रगाढं त्रिलवणादिचूर्णं वा द्विगुणानुलोमनद्रव्यं॥ पटोलमूलरजनी विडंगत्रिफलाः कर्षांशाः कंपिल्लकनीलिनीफलत्रिवृतानां क्रमाद्द्वित्रिचतुर्भिः कर्षैर्युक्ताश्चूर्णयित्वा मूत्रेण पिबेत्॥ जीर्णे च पेयाऽनुपो रसोदनाशी वा स्यात्॥ ततः षड्रात्रंसव्योपणं पयसाऽश्नीयात्॥ ततः सप्तमेऽहनि पुनश्चूर्णं पिबेत्॥ अनेन विधिना चूर्णमिदमुदराणि जातोदकान्यपि निवर्ह
यति॥ गुल्मभेदनानि च प्रयुंजीत॥ वमनविरेचनशिरोविरेचनवत्सकादिवचादिहरिद्रादिवर्ग द्रव्याणि पृथक् पालिकानि श्लक्ष्णकल्कितानि लवणानि च वज्रवृक्षक्षीरप्रस्थं च प्रक्षिप्य मूत्रगणैर्मृद्वग्निना घट्टयन् विपाचयेदविदग्धकल्कं च तत्सिद्धमवतार्य शीतीभूतमंगुष्ठमात्रां गुलिकां वर्तयित्वा यथाबलं त्रिचतुरो मासानुपयोजयेत्॥ एषामूत्रवर्तिर्महारोगकासश्वासपीनसप्रसेकश्वयथुगुल्मपांडुरोगकृमिणकोष्ठारोचका विपाकोदावर्तेषु च परमगदं॥कृतविरेचनश्च क्षामदेहोंऽतरांऽतरा क्षोरमौष्ट्रकं गन्यमाजं वा व्योपयुक्तं शीलयेत्॥ दोषशेषविजयाय च शीलयेच्चविकानागरं क्षीरेण पिष्टं॥ सुरदारुचित्रकं वा मुरंगीं वा पुनर्नवां वा॥ त्रिफलादंनीरोहितकनिर्यूहं वा व्योपक्षारोपेतं सस्रुहीक्षीरघृतयुक्तं पुराणमन्नंतक्रमरिष्टांश्च तांस्तान्क्षीरं च दंतीचित्रकविडंगचविकात्रिकटुकोपेतं तुल्यार्द्रकरसं वा क्षीरं शीलयेत्॥ पिप्पलीवर्द्धमानं वा सेवेत॥ शिलाजतु वा क्षीराशी गुग्गुलुं वा॥ पुनः पुनश्च स्नेहयेद्विरेचयेच्च। आत्ययिकांस्तु स्नेहविरेकैरेवोपक्रमेत्॥ सलिलंच वर्जयेत्॥ आनाहोदावर्तयोर्यथास्वं प्रतिकुर्वीत॥ वातकृतेषु तु पार्श्वशूलोपस्तंभहृद्ग्रहेषु बिल्वक्षारांभसा तैलं पाययेत्॥ स्योनाकाग्निमंथतिलकुंतलकदल्ययामार्गान्यतमक्षारेण वा विपक्वंतैलं॥ कफे पित्ते वा वातेनावृते ताभ्यां वाते बलवान्वातगुल्मोक्तप्रक्रमेणैरंडतैलं पिबेत्॥ लिंपेच्च जठरमुदरिणांशिग्रुपलाशार्कश्वकर्णगज-पिप्पलीदेवदारुभिर्मूत्रपिष्टैःसुखोष्णैः॥ वृश्चिकालीकुष्टषड्ग्रंथाद्विपुनर्नवधान्यनागर पंचमूलक्वाथैर्मूत्रेश्च परिपेचयेत्॥ प्रततमेव च स्वेदयेत्॥ विरिक्तस्य चास्यसदा म्लानमुदरं साल्वणादिभिरुपनद्धं घनेन वाससा वेष्टयेत्॥एवमेनमनवकाशो बायुर्न पुनराध्यापयति॥ तथाऽपि पुनः सुविरिक्तस्याध्मानेऽम्ललवणान्सुस्निग्धान्निरूहान् दद्यात्॥ सोपस्तंभे तुवायौ तीक्ष्णोष्णान्॥ अथ वातोदरिणं विदार्यादिसिद्धेन सर्पिषोपस्नेह्यस्वेदितांगं तिल्वकघृतेन बहुशोऽनुलोमयेत्॥ कृतायां च संसर्ग्यो बलार्थं क्षीरमबचारयेन्निवर्त्तयेच्चप्रागुत्क्लेशात्क्रमेण॥ ततो यूषरसादिभिर्मंदाम्ललवणैः समिद्धानलमुदावर्त्तिनं पुनः स्निग्धस्विन्नमास्था
पयेद्विदार्यादिक्वाथेन चित्रकफलतैलप्रगाढेन तीक्ष्णाधोभागिकद्रव्ययुक्तेन वा दाशमूलिकेन॥ दीप्ताग्निं च विवद्धमलमस्थिसंधित्रिकपार्श्वादिशूलस्फुरणाक्षेपयुक्तंरूक्षमनुवासये्द्वातहराम्लसिद्धाभ्यां तिलोरुबूकतैलाभ्यां॥ भोजयेच्चैनं जांगलरसेन विदार्यादिशृतेन वा पयसा॥ सरलमधुशिग्रुमूलकवीजस्नेहांश्च पानाभ्यंजनेन शूलघ्नान्॥ स्वेदयेच्चाभीक्ष्णं जठरं॥ अविरेच्यस्य तु पयःसर्पिर्यूपरसबस्त्यभ्यंगसमभक्तौषधैः संशमयेत्॥ पित्तोदरिणं मधुरकविपक्वेन सर्पिषोपस्नेह्य श्यामात्रिवृत्रिफलाविपक्वेनानुलोम्य मधुघुतसिताढ्येन न्यग्रोधादिनिर्यूहेणास्थापयेदनुवासयेच्च॥ दुर्बलं तु प्रागेवानुवास्य क्षीरबस्तिभिः शोधयेत्॥ संजातबलाग्निं च स्निग्धं पुनः क्षीरेण सत्रिवृत्कल्केनोरुबूकशृतेन वा॥ सातलात्रायमाणाभ्यां वाऽऽरग्वधेन वा॥ सश्लेष्मणि पित्ते समूत्रेण॥सवाते तिक्तघृतान्वितेन पयसा पुनर्विरेचयेत्॥ बस्ति कर्म चाचरेत्॥ एभिरेवच क्षीरैर्विदार्यादिशृतेन वा भोजयेत्॥ पायसेन चोपनाहयेदुदरं॥ श्लेप्मोदरिणं वत्सकादिसिद्धेन सर्पिषोपस्नेह्य स्रुहीक्षीरविपक्वेनानुलोम्यकटुक्षारयुक्तैः कफहरैराहारैः संसर्जयेत्407॥ त्रिकटुमूत्रतैलप्रगाढेन मुष्ककादिक्वाथेनास्थापयेदनुवासयेच्च। कुलत्थयूपेण व्योपवता क्षीरेण वा भोजयेत्॥ स्त्यानकफोदरं क्षारमरिष्टांश्चतीक्ष्णान्वा पाययेत्॥ सततं च स्वेदयेत्किण्वसर्षपमूलकबीजकल्कैर्जठरमुपनाहयेत्॥ सन्निपातिकमुदरं प्रत्याख्याय चिकित्सेत्॥ सर्वमेवेत्येके॥सर्वस्य सर्वात्मकत्वात्कृच्छ्रतमत्वाच्च॥दोषोद्रेकतस्तु प्रतिकुर्वीत॥ समलाशंखिनीनिर्याससिद्धेन च सर्पिषाविरेचयेन्मासमर्द्धमासंवा॥ महावृक्षक्षीरमूत्रसिद्धेन वा॥ अथवाऽजगंधाऽजशृंगीदंतीद्रवंतीनागदंतीस्वादुकंटकपुनर्नवसरलवृश्चिकालीमूषिकपर्णीमहासहाक्षुद्रसहावृक्षादनीभार्थीगृध्रनसीतंदुली यकदाडिममातुलुंगमूलक्वाथेन मदनफलैलाकुष्टकुटिलरा
स्नाकल्कगोमूत्रसंसृष्टेन सैंधवलवणितेन स्निग्धेनास्थापयेत्॥ तथा चानुपशाम्यति निचयात्मके सर्वत्रच जठरे ज्ञातीनापृच्छ्य मद्येनाश्वमारकगुंजाकाकादनीमूलकल्कं पाययेत्॥ पानभोजनेषु वा विषं निक्षिपेत्॥ इक्षुगंडिकां वा भक्षयेत्कृष्णसर्पेण दंशयित्वा वल्लीफलानि मूलकं वा॥एवं यस्य दोषसंघातः स्थिरो लीन उन्मार्गगो विषेणाशु प्रमाथिना विभिन्नो बहिः प्रवर्तते॥ तेनागदतां व्रजति भवांतरं वा॥ हृतदोषंच शीतांबुपरिषिक्तं क्षीरं यवागूं वा पाययेत्॥ ततस्त्रिवृ
हास्तुकमंडूकपर्णीकालशाकयवशा कानामन्यतमं स्वरसेन साधितमनम्ललवणस्नेहं स्विन्नास्विन्नमनन्नभुड्मासमेकमश्नीयात्॥ तत्स्वरसमेव च तृषितः पिबेत्॥ ततः शाकैर्नि
र्द्धनदोषेपरतो दुर्बलाय करभीक्षीरं पाययेत्॥प्लीहोदरे यथादोषमुपस्निग्धस्विन्नस्य दध्नाभुक्तवतो वामवाहौसिरां वित्ध्येत्॥ रुधिरस्पंदनार्थंच पाणिना प्लीहानं विमर्दयेत्॥ पुनश्च स्नेहपीतं विशुद्धदेहं समुद्रशुक्तिक्षारं पयसा पाययेत्॥ हिंगुसुवर्चिकां वा॥ पलाशक्षारोदकेन वा यवक्षारं॥ पारिजातकेक्ष्वाक्वपामार्गक्षारं वा॥ तैलसंसृष्टं शोभांजनकनिर्यूहं वा॥ पिप्पलीचित्रकसैंधवयुक्तमम्लस्रुतं वा बिडमागधिकापूतिकरंजक्षारं॥ अग्निसादे तु त्रिलवणादिमरिष्टांश्च पिबेत्॥ घृतं च षट्फलं महाष्टपलं रोहितकषट्पलं वा॥रोहितकत्वक्पलानि पंचविंशतिः कोलप्रस्थद्वयं च तोये क्वाथयेत्॥ तेन क्वाथेन तथा पालिकैः पंचकोलेस्तैः सर्वेश्च तुल्यया रोहितकत्वचा कल्कीकृतैर्घृतप्रस्थं साधयेत्॥ तत्परं प्लीहहितं॥ रोहितकत्वचः खंडशः कल्पिता हरीतकीश्च तोयेमूत्रे वा सप्तरात्रमासुनुयात्॥ स रसः प्लीहगुल्मोदरकृमिकासकामलाऽर्शांसि साधयति॥ एवमनुपशाम्यत्यप्राप्तपिच्छोदके वातकफोल्बणे गुल्मविधिनाऽग्निकर्म कुर्यात्॥ पित्तोल्वणे तु जीवनी
यघृतक्षीरवस्तिविरेचनानि प्रयुंजीत॥ पुनः पुनश्च रुधिरमवसेचयेत्॥ यकृदाख्येऽप्ययमेव क्रियाविभागः॥ बद्धोदरे खिन्नाय सतैललवणमूत्रतीक्ष्णं निरूहमनुवासनं च दद्यात्॥ स्रंसनानि चान्नान्युदावर्तहराणि च॥ तीक्ष्णं च विरेचनं यच्च किंचिद्वातघ्नं॥ छिद्रोदरे स्नेहवर्जं कफोदरवदाचरेत्॥ दकोदरे तु पूर्वमुदकदोपहरणार्थं रूक्षतीक्ष्णौपधान्समूत्रान्निर्यूहचूर्णक्षारान्कफघ्नानि दीपनीयानि चान्नपानानि योजयेत्॥ एवमसिद्धौ बद्धछिद्रदकोदरेष्वश्मर्यामिव सुहृदां प्रकाश्य शसमवचारयेत्॥ तत्र बद्धछिद्रोदरयोः स्निग्धस्विन्नस्याधोनाभेश्चतुरंगुलाद्वामतोऽपहायोदरं पाटयित्वा चतुरंगुलप्रमाणमंत्राणि निष्कास्य निरीक्ष्य बद्धगुदस्यांत्रप्रतिरोधकरं वालं मलोपलेपमश्मानं चापहरेत्॥परिस्राविणि शल्यमुद्धृत्यांत्रपरिस्रावंविशोध्य छिद्रं मर्केटकैर्दंशयेत्॥ लग्नेषु च शिरःसु कायमपनयेत्॥ ततो मधुघृताभ्यामभ्यज्यां त्राणि यथास्थानं स्थापयित्वा बाह्यं व्रणमुदरस्यसीव्येत्॥ यष्टीमधुकमिश्रया च कृष्णमृदा व्रणमभिलिप्य बध्नीयात्॥ अथवा निवातमागारं प्रवेश्य क्षीरवृत्तिं स्नेहद्रोण्यां वासयेत्॥ दकोदरेषु सर्वेषु च जातोदकेषु जठरेषु वातहरतैलाभ्यक्तस्योष्णोदकस्विन्नस्याप्तैः सुपरिगृहीतस्य कक्ष्यांतपटवेष्टितोदरस्यानाभेर्वामतश्चतुरंगुलमपहाय व्रीहिमुखेनांगुष्ठोदरमात्रमवगाढं वित्ध्वा नाडीं निधाय दोषोदकमर्द्धमात्रमासिंचेत् ततो नाडीमपोद्धृत्य तैललवणेनाभ्यज्य व्रणविधिनोपचरेत्॥सहसा हि सर्वस्मिन् निःस्राविते तृष्णा ज्वरोंऽगमर्दोऽतीसारः वासः कासः पाददाहो वा जायते पूर्यते च सुतरां॥ अतस्तृतीयचतुर्थपंचमपष्ठाष्टमद्वादशषोडशवासराणामन्यतममंतरं कृत्वा दोषोदकमल्प शो विस्रावयेत्॥ निस्रुते निस्रुते च दोषोदके विमृद्योदरमाविककौशेयचर्मणामन्यतमेन गाढतरं वेष्टयेत्॥ तथा नाध्मापयति वायुः॥ लंघयित्वा च यवागूं सस्नेहलवणां मात्रया पाययेत्॥ ततः परं षण्मासान्क्षीरवृत्तिर्भवेत्॥ ततो मासत्रयं क्षीरपेयां पिबेत्॥ अन्यच्च॥ मासत्रयम लवणमल्पक्षीरं श्यामाकं कोरदूषंवा भुंजीतेति॥ भवति चात्र॥ प्रयतो वत्सरेणैवं विजयेत जलोदरं॥ वर्ज्येषु408 यंत्रितो दिष्टे नात्यदिष्टे यतेंद्रियः॥सर्वमेवोदरं॥ प्रायो दोषसंघातजं यतः॥ अतोवातादिशमनी क्रिया सर्वा प्रशस्यते॥ वन्दिर्मंदत्वमायाति दोषैःकुक्षौ प्रपूरिते॥ तस्माद्भोज्यानि भोज्यानि दीपनानि लघूनि च॥ सपंचमूलान्यल्पाम्लपटुस्नेहकटूनि च॥ भावितानां गवां मूत्रे षष्टिकानां च तंदुलैः॥ यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरं॥ पिबेदिक्षुरसं चानु जठराणां निवृत्तये॥ स्वं स्वं स्थानं व्रजंत्येषां वातपित्तकफास्तथा॥ अत्यर्थोष्णाम्ललवणं रूक्षं ग्राहि हिमं गुरु॥ गुडतैलकृतं शाकं वारि पानावगाहयोः॥ आयासादिदिवास्वमयानपानानि च त्यजेत्॥ नात्यच्छसांद्रमधुरं पाने तक्रंप्रशस्यते॥ सकणालवणं वाते पित्ते सोषणशर्करं॥ यवानीसैंधवाजाजीमधुव्योपैः कफोदरे।त्र्यूषणक्षारलवणैः संयुतं निचयोदरे॥ मधुतैलवचाशुंठीशताब्हाकुष्टसैंधवैः॥ प्लीह्निबद्धे तु हपुषायवानीपटुजाजिभिः॥सकृष्णामाक्षिकं छिद्रे व्योपवत्सलिलोदरे॥ गौरवारोचकानाहमंदवन्ह्यतिसारिणां॥ तक्रंवातकफार्तानाममृतत्वाय कल्पते॥ प्रयोगाणां व सर्वेषामनु क्षीरं प्रयोजयेत्॥ स्थैर्यकृत्सर्वधातूनां बल्यंदोषानुबंधहृत्॥ भेषजापचितांगानां क्षीरमेवामृतायते॥ इत्युदरचिकित्सितं नाम सप्तदशोऽध्यायः॥१७॥
अथातः पांडुरोगचिकित्सितं व्याख्यास्यामः॥ पांड्वामयिनमा409दौकल्या410णपंच411गव्यतिक्तकानामन्यतमं412 सर्पिः पाययेत्॥ दाडिमसारकुडवं धान्यकार्द्धकुडवंपिप्पल्पष्टमिकाशुंठीचित्रकयोश्च पलं पलमेकतः कल्कीकृत्य तोयाढके विंशतिपलं घृतस्य सिद्धं हृत्पांडुरोगगुल्मप्लीहार्शःश्वासकासमूढवातवातकफार्तिहस्मग्निदीपनं वंध्यानां संमतं दुःखप्रसविनीनां च॥ दुरालभाचंदनपटोलत्रायमाणाकिराततिक्तरोहिणीघननिशाद्वयेंद्रयवदेवदारुपर्पटकाजमोदैः कार्षिकैक्षीराढके घृतप्रस्थं साधयेत्॥ पांडुरोगकामलारक्तपित्तज्वरदाहामृग्दरविस्फोटश्वयथुभगंदरार्शोघ्नं॥ स्निग्धं चैनं तीक्ष्णैर्वामयेत्॥ पुनश्च स्निग्धं मूत्रयुक्तं गव्यं माहिषंवार्द्धमासं पयः पाययेत्॥ मागधिकाशृतं वा॥ मूत्रसिद्धां वा त्रिफलां॥सप्ताहं मूत्रेण वा हरीतकीः कल्किताः स्वर्णक्षीरिभद्रदारुनागरश्यामात्रिवृन्मूलानि तेनैव वा क्वथितानि॥ तैर्वा शृतं पयः॥ वत्सकबीजविशालाकुष्टकटुकादारुमुस्तानां समा भागा मूर्वाभागद्वयमतिविषाभागार्द्धं च चूर्णितं सुखांबुना पीत्वाऽनु क्षौद्रमवलिह्यात्॥ तथा पांडुकामलाज्वरारुचिगुल्मानाहामवातरक्तपित्तकासश्वासानपोहति॥ त्रिकटुककालतिललोहैर्वा माक्षिकधातुतुल्यैर्माक्षिकेन वटकान्कृत्वा तक्रानुपानान् पांडुरोगी भक्षयेत्॥ त्रिफलाव्योपधनाग्निविडंगभागा नव नव चायसचूर्णभागा मधुघुताभ्यां तक्रेणोष्णोदकेन वोपयुक्ता हृत्पांडुरोगकामलाकुष्ठशोफप्रमेहहराः॥ माक्षिकधातुचविकादारुदार्वीषडुंथिकांस्त्रिफलादीनि च नव विचूर्ण्य चूर्णाद्विगुणं सुश्लक्ष्णं पृथङ्मंडुरं ततो गोमूत्रं सर्वतोऽष्टगुणं पक्त्वा तस्मिन्प्रक्षिप्यपचेत्॥ अनंतरं च वटकान्कुर्यात्॥ ते तक्रानुपानमभ्यस्ताः परमौषधं पांड्वामयिनां शोफार्श कुष्ठकामलामेहप्लीहाढ्यवातकफार्तानां च॥ शिलाजतुताप्यरूप्यायोमलाः पृथक् पंचपलिकास्त्रिफलादयश्च विगतघनाः पलांशाः श्लक्ष्णरजसः सितोपलायाः पलाष्टकयुक्ताः क्षौद्रद्रुता योगराजः॥ कुलत्थादिधान्यानशितो यथाग्न्यभ्यवहृतः समानः पूर्वेण॥ यक्ष्मविषमज्वराजरककासश्वासापस्मारहरश्च॥ त्रिफलाकुटजफलघनपटोलपिचुमंदमहौषधकषायैर्मासमर्द्धमासं वा भावितान्यष्टौ शिलाह्वयपलानि सितायाश्चतावंत्युपकुल्यात413वक्षीरीधात्रीफलकर्कटशृंग्यः पृथक् पलांशा निदिग्धिकाफलमूलयोः414 पलं त्रिजातत्रिकर्षं च क्षौद्रत्रिपलयुक्तं वटकान् वर्त्तयेत्॥ तेदाडिमांबुक्षीररससलिलसुरासवान्यतमानुपाना वज्राभिधाना वज्रमिवानंतरोक्तान् रोगान् दारयंति॥ हृद्रोगगलरोगगरोदरासृग्दरभंगदरगुल्मवर्ध्मशुक्रमूत्रदोषांश्च॥ द्राक्षापिप्पलीप्रस्थद्वयंशर्करार्द्धतुलां तवक्षीरीनागरमधुकानि च द्विपलिकानि चूर्णयित्वाऽऽमलकरसद्रोणे प्रक्षिप्य मृद्वग्निनापचेत्॥ लेहीभूते च शीते च तस्मिन्मधुप्रस्थमावपेत् त्रिसुगंधिकस्य कर्षत्रयंच चूर्णीकृत्य दर्व्यापरिघट्य जातिपुष्पादिवासिते मृद्भांडे निदध्यात्॥ अयं द्राक्षालेह उपयुज्यमानः पांड्वामयहृद्रोगकामलाहलीम कज्वरगुल्मोदरशोफोदावर्तादीनपरानपि विरेकसाध्यान् व्याधीन्प्रसह्यवायुरिवाभ्राण्यपहरति॥ भोजनं तु सात्म्यतः शालियवगोधूममुद्गजांगलमांसानि पयो घृतं वृषपटोलवेत्रपर्पटकशाकं द्राक्षादाडिमखर्जूरामलकानि पानमनु पंचमूलसिद्धं वारि वाताधिके॥ घनहीवेरशुंठीसाधितं पित्तोत्तरे॥ श्लेष्मण्यरिष्टसीधुमार्द्वीकासवाः॥ सर्वत्र वा तक्रं॥ बीजकसारप्रस्थं वरायाः पलानि पंचविंशतिः पंच द्राक्षाया लाक्षायाः सप्त जलद्रोणे पक्त्वा पादशेषंतेभ्यो रसमादाय पूतशीतेऽस्मिंश्छर्करातुलां मधुप्रस्थं कर्षांशानि च चूर्णितानि व्योषव्याघ्रनखोशीरकमुकैलबालुकुष्टमधुकानि निक्षिप्य घृतभाजने सर्वमैकध्यंयवपल्ले ग्रीष्मे दशरात्रं विंशतिरात्रं शीते स्थापयेत्॥ अयंबीजकसारारिष्टः पांडुकामलामेहहृद्रोगवातशोणित विषमज्वरारोचककासश्वासान्निर्हरति॥गंडीरतरोः समूलपुष्पशाखस्य तुलामाहरेत्॥ अर्द्धतुलां दशमूलस्य त्रिफलायाः पृथगर्द्धप्रस्थं कुटजत्वचश्चकुडवांशान् मुस्तारुष्करकृमिघ्नेंद्रयवान् पालिकान् पाठादंतीमधुरसारास्नाशठीचित्रकान् मृद्वीकाप्रस्थं च षोडशगुणपादशेषमंभसि विपाच्य रसमाददीत॥ तं पूतशीतं सितोपलातुलाद्वयेन चूर्णप्रस्थेन च युक्तं मागधिकार्द्धप्रस्थेन श्लक्ष्णपिष्टेन ग्रंथिकपलेनार्द्धपलिकैश्च मरिचविडंगैलवालुकैः प्रलिप्ते घृतकुंभे निधापयेत्॥ मासमात्रं स्थितोऽयं गंडीरारिष्टोऽधिकगुणः पूर्वस्मात्॥ ग्रंध्यर्बुदकृमिहरश्च॥ अथवा चव्यकुष्टप्रलिप्ते भाजने मस्तुद्रोणं गुडतुलां पिप्पलीप्रस्थं त्रिफलाप्रस्थत्रयं विडंगप्रस्थत्रयं कुडवांशांश्च मरिचपरूषकद्राक्षाकाश्मर्यफलेंद्रयवान् द्विपलिकानि च दंतीचित्रकभल्लातकानि चूर्णितानि प्रक्षिपेत्॥ ततो यवपल्लस्थंपक्षमुपेक्ष्य यथाबलं पिबेत्॥ एषमस्त्वरिष्टः पांडुरोगमहेमेदोऽर्शोग्रहणीप्लीहशोफोदरभगंदरहरः परमं चाग्निदीपन इति॥ भवति चात्र॥ पांडुरोगप्रशांत्यर्थं विहितं यच्चिकित्सितं॥ विकल्पमेतद्विदुषापृथग्दोषबलं प्रति॥ स्नेहप्रायं पवनजे तीक्ष्णं शीतं तुपैत्तिके॥ श्लेष्मिके कटुरूक्षोष्णं विमिश्रं सान्निपातिके॥ मृदं निर्घातयेत्कायात्तीक्ष्णैः संशोधनैः पुर॥ बलाधानानि सर्पींषिशुद्धकोष्ठेऽनु योजयेत्॥ व्योपविल्वत्रिरजनीत्रिफलाद्विपुनर्नवं॥ मुस्तान्ययोरजः पाठा विडंगं देवदारु च॥वृश्चिकाली च भार्ङ्गीच सक्षीरैस्तैः शृतं घृतं॥ सर्वान्प्रशमयन्याशु विकासन्मृत्तिकाकृतान्॥ तद्वत्केसरयष्ट्याव्हपिप्पलीक्षीरशार्द्वलः॥ मृद्वेपणाय तल्लौल्ये वितरेद्भावितां मृदं॥विडंगेनातिविषया पाठ्या निंबपल्लवैः॥ वार्ताकैः कटुरोहिण्या कौटजैर्मूर्वयाऽथवा॥मृद्भेदभिन्नदोषानुगमाद्योज्यं च भेषजं॥ कामलायां तु पित्तघ्नं पांडुरोगाविरोधि यत्॥ पथ्याशतरसे पथ्यावृंतार्द्धशतकल्कितः॥ प्रस्थः सिद्धो घृताद्गुल्मकामलापांडुरोगनृत्॥ दंतीचतुष्पलरसे पिष्टैर्दंतीशलादुभिः॥ घृतप्रस्थः शृतस्तद्वत्प्लीहश्वयथुजिच्च सः॥ पुगणसर्पिषःप्रस्थो द्राक्षाऽर्द्धमस्थसाधिनः॥कामलागुल्मपांड्वर्तिज्वरमेहोदरापहः॥ हरिद्रात्रिफलानिंवबलामधुकसाधितं॥ सक्षीरं माहिषंसर्पिः कामलाहरमुत्तमं॥ गोमूत्रद्विगुणे दार्वाीकल्कार्द्धपलसाधितः॥ दार्वीपंचपलक्वाथे कल्कः कालीयकेपरः॥ माहिपात्सर्पिषःप्रस्थः पूर्वः पूर्वे परः परे॥ सिद्धं कालीयकक्वाथे सनिशं वोदरेस्थितं॥आरग्वधं रसेनेक्षोर्विदार्यामलकस्य वा॥ सत्र्यूषणं बिल्वमात्रं पाययेत्कामलापहं॥पिबेन्निकुंभकल्कं वा द्विगुणं शीतवारिणा॥कुंभस्य चूर्णं सक्षौद्रं त्रैफलेन रसेन वा॥ सशर्करां त्रिभंडींवा गवाक्षींवा प्रयोजयेत्॥ त्रिफलाया गुडूच्या वा दार्व्यानिंबस्य वारसं॥ प्रातः प्रातर्मधुयुतं कामलार्ताय योजयेत्॥ तिलपिष्टनिभंयस्तु कामलावान्सृजेन्मलं॥ कफरुद्धपथं तस्य पित्तं कफहरैर्जयेत्॥रूक्षशीतगुरुस्वादुव्यायामबलनिग्रहैः॥ कफसंमूर्च्छितो वायुर्यदापित्तं बहिः क्षिपेत्॥ हारिद्रनेत्रमूत्रत्वक् श्वेतवर्चास्तदा नरः॥ भवेत्साटोपविष्टंभो गुरुणा हृदयेन च॥ दौर्बल्याल्पाग्निपार्श्वार्तिहिध्माश्वासारुचिज्वरैः॥ क्रमेणाल्पेऽनुषज्येत पित्ते शाखासमाश्रिते॥ रसैस्तं रूक्षकद्वम्लैःशिखितित्तिरिदक्षजैः॥ शुष्कमूलकजैर्यूपैः कुलत्योत्थश्चभोजयेत्॥भृशाम्लतीक्ष्णकटुकलवणोष्णं च शस्यते॥ सवीजपूरकरसं लिह्याद्व्योषं तथाऽऽशयं॥ स्वंपित्तमेति तेनास्य शकृप्यनुरज्यते॥ वायुश्च याति प्रशमं सहाटोपाद्युपद्रवैः॥ निवृत्तोपद्रवस्यास्य कार्यः कामलिको विधिः॥ गोमूत्रेण पिबेत्कुंभकामलावांश्छिलाजतु॥ मासं माक्षिकधातुं वा किट्टंवाऽथ हिरण्यजं॥ गुडूचीस्वरसक्षीरसाधितेन हलीकमी॥ महिषीहविषास्निग्धा पिबेद्धात्रीरसेन तु॥त्रिवृतां तद्विरिक्तोऽद्यात्स्वादुपित्तानिलापहं॥ द्राक्षालेहं च पूर्वोक्तं सर्पींषि मधुराणि च॥ यापनान्क्षीरबस्तींश्च शीलयेत्सानुवासनात्॥ मार्द्वीकारिष्टयोगांश्च पिबेद्युक्त्याऽग्निवृद्धये॥
कासिकंवाऽभयालेहं415 पिप्पलीं मधुकं बलां॥ पयसा च प्रयुंजीत यथादोषंयथाबलं॥ पांडुरोगेषुकुशलः शोफोक्तं च क्रियाक्रममिति॥ इति पांडुरोगचिकित्सितं नामाष्टादशोऽध्यायः॥१८॥
अथातः श्वयथुचिकित्सितं व्याख्यास्यामः॥ श्वयथुषुदोषजेषु सर्वेषु सर्वसरेष्वामानुबद्धेषु लंघनपाचनशोधनान्यादौ योजयेत्॥ स्नेहजेषुविरूक्षणान्यौषधानि॥ विरूक्षणोत्थेषुस्नेहनानि॥ तत्रामजेषु लंघितवतोलघ्वन्नमशितस्य भद्रदारुनागरमरिचमतिविषाविडंगेंद्रयवानुष्णांबुना॥ नागरदेवदारुपथ्यावर्षाभ्वो वा॥ पंचकोलकाजाजीनिदिग्धिकामुस्तपाठारजनीर्वा॥ मूत्रवृत्तिर्वा नवायसं वा॥ गुरुभिन्नपुरीषस्तु तक्रं सव्योपसौवर्चलक्षौद्रं॥गुडहरीतकीं वा शीलयेत्॥ इतरस्त्रिवृत्त्र्यूषणकटुरोहिण्ययश्चूर्णानि त्रिफलाक्वाथेन॥ व्योपयवक्षारायोरजांसि वा॥ विभीतककल्कं वा तंदुलांबुना॥ गुग्गुलुं वा गोमूत्रेण॥ हरीतकीं वा तुल्यगुडां वा शुंठीपुनर्नवकषायानुपानां॥ आर्द्रकं वा तुल्यगुडमर्द्धपलाभिवृद्धं पंचपलप्रकंर्षंप्रयुंजीत॥ मासमयं प्रयोगः शोफशोषार्शःश्वासकासप्रसेकपीनसालसकाग्निसादगुल्मोदरप्रमेहपांडुकामलामनोविकारानपहरति॥ आर्द्रकरसं वा शालिक्षीराहारः पिबेत्॥ निवृत्तामदोषःशृतानि पयांसि सर्पींषिच॥ त्रिकटुकैरंडश्यामामूलैः सिद्धं क्षीरं॥ महौषधमुरंगीभ्यां वा॥ वर्षाभूमयूरकपंचकोलैर्वा॥ कुंभनिकुंभव्योषाग्निकैर्वा॥ करभीक्षीरवृत्तिर्वा स्यात्॥ गोमूत्रं महिषीमूत्रं वा सक्षीरं क्षीराशनः पिबेत्॥ दाडिमयवानीयवानकधनिकापाठा-ऽम्लवेतसमरिचपंचकोलबिल्वफलयावशूकानक्षमात्रान्सलिलाढके विपाच्य तत्कषायेण घृतप्रस्थं साधयेच्छोफार्शोगुल्ममेहाग्निसादहरं॥ अर्शीविहितविधिना चित्रकदध्नोनवनीतमाददीत॥ चित्रकमूलगर्भं सचित्रककल्कतक्रसिद्धं समानं पूर्वेण॥ यथादोषोच्छ्रायं च धान्वंतरं कल्याणकं पंचगव्यं तिक्तं महातिक्तमुदरोक्तानि वा तिल्वकचतुर्थानि घृतानि पाययेत्॥ दशमूलक्वाथकंसं पथ्याशतं गुडलोन्मिश्रमधिश्रयेत्॥ लेही भूते तत्र त्रिकटुकत्रिजातकयवक्षारचूंर्णप्रक्षिपेत्क्षौद्रार्द्धप्रस्थं च॥ एता दशमूलहरीतक्योऽतिप्रवृद्धमपि श्वयुथुमुदरज्वरारोचकाविपाकपांडुरोगगुल्मभेहश्वासकासकार्श्यामवाताम्लपित्तान् समूत्रशुक्रदोषांश्च निघ्नंति॥ शठीपुष्करमूलकारवीचित्रकाजाजीजीवंतीबिल्वमध्यक्षारवृक्षाम्लैर्दशमूलेन च परिगृहीतानि घृततैलभृष्टानि पेयादीन्यन्नान्यल्पस्नेहलवणान्युपकल्पयेत्॥ स्पर्शसुखांश्चाभ्यंगप्रदेहसेकान्॥ शैलेयस्थौणेयक श्रीबेष्टकागुरुदेवदारुहरेणुकाकुष्टध्यामकपद्मकमांसीमागधिकावन्यधान्यतालीसपत्रकचतुर्जातकपलाशांबुदांबुप्रियंगुस्पक्वानखैः श्लक्ष्णपिष्टैस्तैलमभ्यंगं पचेत्तैश्च प्रदेहं कुर्यात्॥ सर्षपसौवर्चलसैंधवशार्ङ्गेष्टाभिश्च॥ केवलैर्वाऽक्षमज्जाभिः॥विशेषतश्चैकांगजेषुपुनर्नवहिंस्राकोशातकीकरवीरकिंशुकाति विपर्द्धिवृद्धिमूषिककर्णीहस्तिकर्णनलिकानाकुलीमूलका-कादनीशालत्रिफलादेवदारुरोध्रतालपर्णीदशपत्रिकाजयंतीभिः प्रलेपः॥ मूलकतोयेन कवोष्णेन वृक्षकार्कनक्तमालनिंबवर्पाभूक्वाथेन वा स्नानं॥ अथानिलजे श्वयथौ त्रिवृतमेरंडतैलं चार्द्धमासं पिवेत्॥एरंडतैलमेव च विड्वातसंगेभाग्भक्तं पयसा रसैर्वा॥ वातहराभ्यंगस्वेदोपनाहांश्च कुर्यात्॥ विशेषेण चैकांगगे मातुलुंगाग्निमंथशुंठीदेवदार्वहिंस्राप्रलेपः॥ पित्तजे न्यग्रोधादिसिद्धं सर्पिः पिवेत्तिक्तं वा॥ मूर्च्छाऽरतितृड्दाहेषु क्षीरं तदेव तु संसनार्थी मूत्रयुग्मं416॥ अभयाऽमरदारुमधुककटुकादंती चंदनवेतसपटोलमूर्वादार्वीत्रायमाणोपकुल्याविशालाक्वाथः ससर्पिरुपयुक्तः भ्वयथुविषमज्वरदाहपिपासार्तिसंतापसन्निपातानुपशमयति॥ घृतक्षीरक्षीरिवृक्षवेतसमंजिष्ठामृ
णालचंदनादिभिः शीतवीर्यैः कल्पयेदभ्यंगादीन्॥ कफोत्थे त्वारग्वधादिसाधितं तैलं पिबेत्॥ क्षारमूत्रतकासवारिष्टांश्च॥ भल्लातकचित्रकविडंगबृहतीफलानि पृथांग्द्विप्रस्थशान्यच्छधान्याम्लद्रोणे गोमयाग्निना त्रिभागशेषमवतारयेत्॥ तत्पूतशीतं मस्तुकलशेन सितोपलातुलयाच युक्तमग्निकमागधिकाकल्कलिते दृढे भांडे समावाप्य वैहायसे सुगुप्तं स्थापयेत्॥ ततो दशाहस्थितोऽयमुपयुक्तो भल्लातकारिष्टः शोफोदरार्शोभगंदरग्रहणीकृमिकुष्ठमेहकार्श्यकिक्कसान् सत्वरमपनयति॥ त्रिफलामरिचद्राक्षापिप्पलीकाश्मर्यफलानां प्रत्येकं शतं गुडतुलामुदकद्रोणं मधूपलिप्तभाजनस्थं सप्ताहमुष्णे काले द्विसप्ताहं शीत धारयेत्॥ अयमष्टशतारिष्टः समानः पूर्वेण॥ पुराणपिण्याककृष्णाशिग्रुत्वगतसीसिकतामूत्रपिष्टाः सुखोष्णाः प्रलेपे दद्यात्॥ एकांगगे तु कालासरलाजशृंग्यजगंधाऽश्वगंधैके
षीकाशुंठीकुलत्थतर्कारीकुष्टार्जकचित्रकजलमूत्राणि स्नाने॥ चंडागुरुणी विलेपने॥ संसर्ग सन्निपातयोर्यथादोषादयमिदमेव साधनं॥ एकदेशाश्रये च श्वयथौ यथासन्नं वमनादीनि रक्तावसेचनं च कुर्वीतेति॥ भवति चात्र॥ प्रायोऽभिघातादनिलः सरक्तः शोफं सरागं प्रकरोति तत्र॥ विसर्पनुन्मारुतरक्तनुच्च कार्यं विषघ्नं विषजे च कर्म॥ ग्राम्याब्जानूपं पिशितमबलंशुष्कशाकं तिलानं गौंडं पिष्टान्नं दधि सलवणं निर्जलं417 मद्यमलं॥ धानावल्लूरंसमशनमथो गुर्वसात्म्यंविदाहि स्वप्नंरात्रौ श्वयथुगदवान्वर्जयेन्मैथुनं च॥ इति श्वयथुचिकित्सितं नामैकोनविंशोऽध्यायः॥१९॥
अथातो विसर्पचिकित्सितं व्याख्यास्यामः॥पूर्वरूपेष्वेव सर्वविसर्पाणां लंघन रूक्षणं सिरामोक्षमुल्लेखनं च कुर्यात्॥ नतु क्वचिदपि स्नेहनं॥ निरामेषुक्षीणकफेषु च शीतवीर्याणि सर्पींषितिक्तक
त्रायमाणाऽमृतादीनि पाने दद्यात्॥ तत्र मदनेंद्रयवपटोलपिचुमंदमधुकेक्षुरसान्वमनेऽवचारयेत्॥ द्राक्षात्रिवृत्त्रिफलात्रायमाणाविरेचने॥मुस्तदेवदारुकुष्टशताह्वावाराहीधान्यकृष्णगंधाऽश्वगंधावंशार्तगलान् लेपसेकेषु॥अनिले ह्रस्वपत्रवल्लीकंटकपंचमूलानि च॥ पित्ते तु कमलोत्पलशैवलपंकदूर्वामृणालकशृंगाटकसेरुकशर्क-राह्रीबेरचंदनमुक्तामणिगैरिकपयस्याप्रपौंडरीकमधुपद्मकघृतक्षीराणि न्यग्रोधादि च॥ श्लेष्मण्यजगंधा-ऽश्वगंधाकालैंकेपिकागुडचोचरास्नावचाशीतशिवेंद्रपर्णीगोमूत्राणि वरणादिं च॥ संसर्गे यथादोषबलं विकल्पयेत्॥ तत्र कफस्थानाश्रिते सामे पित्तस्थानगते च रूक्षा विशीताः प्रलेपपरिषेकाः॥पित्ते नवाः सुशीताः सघृता वस्त्रांतरिताः क्षणे क्षणे चापनीयान्ये प्रयोज्याः॥ द्वंद्वजेषु यथायथं दोषान् चिकित्सेत्॥ विशेषेणामिविसर्पे महातितकं पिबेत्॥ग्रंथिविसर्पे रक्तपित्तसंसर्गमवेत्य प्राग्लंघनादीनि विरेचनांतानि शमनांतानि च शमनानि योजयेत्॥ ततो वातश्लेष्महरं कर्म॥ शूले च तदा स्निग्धाम्लोष्णाभिरुत्कारिकाभिर्ग्रंथीनामुपनाहं॥वातकफविसर्पोक्तैश्च समस्तैरेव वासिद्धेन तैलेन तोयेन वा परिषेकः॥ लिंपेद्वाशुष्कमूलकस्य कल्केन नक्तमालत्वचा वा॥ विभीतकेन वा विजयाऽक्षनागबलाऽग्निमंथभूर्जग्रंथिवंशपत्राणां वा॥ दंतीचित्रकमूलत्वक्कासीसार्कस्नुहीक्षीरभल्लातकास्थिभिरुष्णैर्लेपः शिलामपि भिनत्ति॥ दीर्घकालप्रसक्ते तु ग्रंथौ त्रिफलां प्रयुंजीत॥ मधुपिप्पलीर्वा॥ मुस्तासक्तुभल्लातकानि वा॥ सीधुमधुशार्करान्वा॥ मातुलुंगरसानुविद्धां मदिरां वा॥ गिरिजजतुवा गुल्मभेदनं वातप्तलोहोपलादिपीडनं॥ जत्रूर्ध्वगते तीक्ष्णधूमवमनानि च॥ तथाप्यभेदे क्षारेणाग्निना वा दहेत्॥ पाटयित्वा वा शस्त्रेण परिशोधयेत्॥विदग्धं या रक्तमपनीयापनीय पुनः पुनः स्वेदयेत्॥ एवं पर्यायेण रक्तपित्ते वातरलेष्मणि चोत्तिष्ठेत॥ सर्वस्मिन् विसर्पे
पर्यागते विदारिते च व्रणवत्तैलं च॥ दार्वीविडंगकंपिल्लकैर्ग्रंथिव्रणं साधयेत्॥ कर्दमके शीघ्रतरं सुतरां च वमनादीनि कृत्वा पुनर्जलौकोभिरसृगवसेचयेत्॥ असृक्प्रक्लेदाद्धि त्वङ्मांससिरास्नावसंक्लेदोभवति॥पिबेच्चकषायं घनपटोलपिचुमंदानां मुस्तोशीरामलकसारिवाणां चंदनोत्पलयोः पटोलादिवर्गस्यवा घृतमिश्रं या दार्वीत्वक्तिक्तापटोलयष्ट्याह्वारिष्टमसूरत्रिफलात्रायमाणानां॥ विरेचनार्थं च त्रिवृच्चूर्णे सर्पिषापयसा द्राक्षारसेन घर्मांभसा वा पाययेत्॥ त्रायमाणाशृतं वा पित्तोद्धत्तेक्षीरमिति॥ भवति चात्र श्रेष्टाऽस्रस्रुतिरेवात्र विसर्पो ह्यसृगाश्रयः॥ यच्च नासावसंसृष्टो रक्तपित्तेन जायते॥ न घृतंबहुदोषाय देयं यन्नविरेचयेत्॥ तेन दोषो ह्युपस्तब्धस्त्वग्रक्तपिशितं पचेत्॥इति विसर्पचिकित्सितं नाम विंशोऽध्यायः॥२०॥
अथातः कुष्ठचिकित्सितं व्याख्यास्यामः॥ पूर्वरूपेष्वेव कुष्ठिनं स्नेहपानेनोपक्रमेत॥ तत्र वातोत्तरे मेषशृंगीशार्ङ्गेष्टैरंडगुडूचीद्विपंचमूलसिद्धं तैलं घृतं वा पानाभ्यंगयोर्विदध्यात्॥ पित्तोत्तरे वाऽश्वकर्णककुभपलाशपिचुमंदमधुकरोध्रसमंगासिद्धं सर्पिः॥ अथवा पटोलपिचुमंददार्वीदुरालभातिक्त-रोहिणीपाठापर्पटकत्रायमाणानां पालिकान् भागान् जलाढकद्वयेऽष्टभागशेषंक्वाथयेत्॥ तेन कार्षिकैश्चंदनोपकुल्यामुस्तत्रायंतींद्रययभूनिंबैःकल्कितैःसर्पिषो द्वादशपलं साधयेत्॥ एतत्तिक्तकं सर्पिःकुष्ठविसर्पविस्फोटगंडगंडमालाश्वयथुपिडका-रक्तपित्तदुर्नामवातशोणितकामलापांड्वामयोन्माददाहतृ-ड्भ्रमकंडूदुष्टनाडीगुल्ममदतिमिरव्यंगश्वित्रापस्मारभगंदरोदरप्रदरज्वरगरविद्रधिग्रहणीहृद्रोगानपहरति॥ सप्तच्छ-दकटुका-ऽतिविपाशम्याकपाटाभूनिंवमुक्त त्रिफलोशीरपटोलपर्पटकपिप्पलीपद्वयद्विरजनीद्विसारिवाचंदन दुरालभापद्म-कवचाशतावरीविशालाकुटजबीजवृपमूर्वागुडूचीभूनिंवनिंबत्रायमाणाकटुकगर्भं द्विगुणामलकरसमष्ट-गुणांबुसर्पिर्विपक्वंम
हातिक्तकारव्यं घृतमधिकगुणं पूर्वस्मात्॥ गुग्गुलुंपंचतिक्तं वा पिबेत्॥ कफोत्तरे शालिपियालशम्याकारिष्टसप्तपर्णचित्रकमरिचवचाकुष्टैःसाधितं॥ अथवा बृहतीद्वयकाकमाचीशुकनासाक्वाथे मरिच विडंगशिग्रुजातिदेवदारुक्षवकहरिद्राऽभयाकल्केन वाजिमूत्रेण च सिद्धं सर्पिः॥ सर्वेषु च भल्लातकतुवरकसिद्धार्थकान्यतमतैलं॥ भल्लातकपथ्याकृमिघ्नसिद्धं वा हविः॥ततः स्निग्धस्य यथादोषं यथासन्नंसंशोधनादि प्रयुंजीत॥सिरां च बलापेक्षी वित्ध्येदेकां द्वे तिस्रः चतस्रः पंच वा॥ अंतरांऽतरा च पुनः पुनः स्नेहं पिबेत्॥ दुर्बलं च शून्यकोष्ठं कुष्ठिनं वायुरभिभवति॥ वमने त्वस्य मधुककुटजबीजनिंवपटोलपल्लवानि विदध्यात्॥ कुंभनिकुंभत्रिफला विरेचने माणिभद्रवटकांश्च॥ पटोलविशालयोर्मूलं त्रिफला च पृथक्त्रिभागोनत्रिशाणाः418 कटुकात्रायमाणे शाणांशे शुंठ्यास्त्रिभागोनः शाणः तदेतत्पलमैकध्यंसलिले विपाच्य पाययेत्॥ ऊर्ध्वाधो विरिक्तश्च जीर्णे जांगलरसेनाश्नीयात्॥ एवमेतत्षड्रात्रमयोगात्परं पित्तकफशोफकुष्ठदुष्टनाडीव्रणार्शोभगंदरग्रहणी-पांडुहलीमककामलाविषमज्वहृद्बस्तिवेदनाघ्नमुभयानुलोमनं वा॥ ब्राह्मीरससाधितं सर्पिः पिबेत्॥ आवर्तकीतुलां सलिलार्मणेऽष्टांशशिष्टां विपाच्य तेन निर्यूहेण तन्मूलैश्च घृतप्रस्थं साधयेत्॥ ततो मात्रामेकाहांतरं पिबेत्॥ ऊर्ध्वाधोविरिच्यमानस्तृपितः शीतलवणमारनालं जीर्णस्नेहश्च तेनैवकोद्रवौदनमश्नीयात्॥ अनेन कुष्ठश्वित्रापचीभगंदरनाडीव्रणाखुविपाणि सित्ध्यंति॥ मेध्यं चैतत्पुंसवनं च॥ दार्वीपटोलबृहतीसेव्यमदननिंबकृतमालघनेंद्रयवैःसस्नेहैरास्थापनं॥ एभिरेवच विपक्वःस्नेहोऽनुवासनार्हस्यानुवासनं॥ दंतीमरीचफणिज्जकार्द्रककरंजबीजपिप्पलीविडंग
सैंधवैरूर्ध्वजत्रुगते कुष्ठे कृमिषु च॥ शिरोविरेकः सूत्रस्थानोक्तैः वैरेचनिकधूमश्च॥ ततः सर्वतो विशुद्धस्यांतर्बहिः शमनानि प्रयुंजीत॥ खदिरकदरतिनिशासनशिरीषशिंशपाशाकसर्जार्जुनजंबूकरवीर-धवामलकीमुष्ककक्षवकबदरीबब्बूल-निंबकरंजकदंबमधूकसारान् सार्द्रान् कृतमालनिचुलपटोलांकोल्लबलाबिल्व-कुटजकटभीपारि-भद्रकसहचर-गृध्रनखी419वरुणवर्धमानार्क420शोभांजनकाटरूपकशतावरीश्वदंष्ट्रारिमेदाश्वकर्णश्रीपर्णी स्वयंगुप्ताऽग्निमंथेंद्रवारुणीकाको-दुंबरिकामेषशृंगीटुंटुकगुडूचीवर्षाभूश्रेयसीबृहतीद्वयरोहिणीमूर्वाशार्ङ्गष्ठामूलानि च शकलयित्वा पृथक् त्रिंशत्पलिकानि च संक्षुद्य महति कटाहेऽष्टगुणेनांभसा क्वाथयेत्॥ अष्टभागशेषंनिर्यूहमवतार्यपरिस्राव्य च तस्मिन्सर्पिषःपलशतत्रयंविपचेत्॥ ईषदवशेषकषाये च द्विदलीतारुष्क रसहस्रत्रायमाणमावाप्य पुनः पाचयेत्॥ विगतस्वरसाण्यरुष्कराण्यपास्य तस्मिन्स्त्रेहे चूर्णितानि प्रक्षिपेद्व्याधिघातकव्योषना-कुलीमार्कवार्ककाकादनीतगरकटुकाकुंभबिल्वहंगुविडंगचित्रकातिविषामुस्तेंद्र यवेंद्रवारुणीरूप्यमललोहकांतर-सांजनाभ्रकशुकनासादेवदाली त्रिफलालांगुलकीविशालाकुंभनिकुंभवचावारा-हीवनमालामहाद्रुमकर्कोटकी-प्रपुत्राटसोमपर्णीनाकुलिकाद्वयपटोलीजातीपल्लताप्यकार-वेल्लीकाकोलीकंदकसप्तच्छदशार्ङ्गष्टो-त्पलसारिवागु-ग्गुलुशिलाजतुमूर्वाकुस्तुंवरी जीरकद्वयपाठेंदुरेखावज्रकंदरिद्राद्वयलवणपंचकानि प्रत्येकं त्रिपलि कानि शृंगीविषपलं चैकं॥ ततो दर्व्यासमंतादाघट्यगुप्तं भूमौ धान्ये वा मासं निखनेत्॥ अथ कृतसंशुद्धिस्वस्त्ययनः कुष्ठी प्रातस्ततो मात्रामुपयुंजीत॥ जीर्णे च यथेष्टमाहारं॥ तेनास्य पूर्वमंगानि तुद्यंते भिद्यंते शूयंते स्फुरति स्फुटंति च ततः सप्तरात्रात्पुनः स्वस्थी भवंति॥ अपिच॥ योगराजमवलिह्यसमस्तं संज्ञयैव कथितोत्तम
शक्तिं॥ हंति कुष्ठमतिपातितगात्रं स्नायुजालपरिशेषमशेषं॥ श्वासाग्निसादारुचिकासयक्ष्मगुल्माढ्यवातग्रहणीप्रमेहान्॥ शोफं कृमीन् पांडुगदंजरां च निवर्त्तयत्येष रसायनाख्यः॥ त्रिफलादशमूलमूर्वामुस्तसप्तच्छददारुनिंबत्वग्गवाक्षीचित्रकमंजिष्ठव्योषचूर्णं नवगुणैः सक्तुभिर्युक्तं सक्षौद्रं शीलयेत्॥ अथवा क्षुण्णान्यवान्निस्तुषान् रात्रौ गोमूत्रपर्युपितानहनि किलिंजे शोषयेदेवं सप्ताहं भावयेच्छोपयेच्च॥ ततस्तान्सक्तून्कृत्वा भल्लातकप्रपुन्नाटाबल्गुजचित्रकविडंगमुस्तचूर्णे च तुर्भागयुक्तानसनादिकपायेण पाययेत्॥ एवमसनादिक्वाथपीतानामा रग्वधादिकपायपीतानां वा गोजीर्णकानां वा यवानां सक्तूनरुष्कराग्निमंथचूर्णमिश्रान्खदिरासनसाररोहितकगुडूचीनामन्यतमस्य कषायेण दाडिमाम्लवेतसाम्लेन सैंधवलवणेन सितामधुमधुरेणालोड्य पाययेत्॥ एषसक्तुमंथकल्पः॥ यावकांश्च भक्ष्यानपूपपूर्णकोशशष्कुली प्रभृतीन् कुर्यात्॥ यववच्च गोधूमैश्च सुरां कल्पयेत्॥ पलाशक्षारभा वितशालितंदुलपिष्टेन क्षारोदकेनैव स्वेदितेन प्रियंगुगजपिप्पलीचित्रककेंबुकैलबालुकपरिपेठवरोध्रमरीचविडंगचूर्णमिश्रेण नवे चैनं भाजने जनुशृते क्षौद्रपिप्पलीलिप्तेस्थापयेत्॥ ततो गंधरसोपपन्नां कुष्टिने पातुं दद्यात्॥खदिरशिंशपासारमुत्तमवारणीं ब्राह्मीं कोशवतीं च स्वकषायकल्केन विपचेत्॥ तेन क्वाथेन तंदुलान्भावयेत्॥ पिष्टं च स्वेदयेत्॥ अभिषुणुयाच्च पूर्ववत्॥त्रिवृच्छ्यामाऽग्निमंथसप्तच्छदकोलाकेंबुकशंखिनीतिल्वकत्रिफलापलाशशिंशपानां रसंमादाय पलाशद्रोण्यामभ्यासिच्य खदिरांगारतप्तमयः पिंडमेकविंशतिवारान्निर्वाप्य ततस्तं रसमासिच्य स्थाल्यां गोमयाग्निना साधयेत् सित्ध्यति चावपेत्पिप्पलीचूर्णस्य भागं द्वेमधुनस्तावद्घृतस्य॥ ततश्चतुर्भागावशिष्टेऽवतीर्णे भूयोऽग्नितप्तमयपिंडं तस्मिन्प्रक्षिपेत्॥ प्र
शांतं च लोहपात्रे स्वनुगुप्तं दद्यात्॥ इयमयस्कृतिर्दुःसाधनमपि कुष्ठं मेहं या साधयति स्थूलं कर्शयति पांडुशोफमपहंति सन्नमंतिमुद्धरति॥विशेषेण राजयक्ष्मिणामुपदिश्यते वर्षशतायुश्चैनामुपयुज्य पुरुषो भवति॥ असनादिक्वाथमासिच्य पलाशद्रोण्यामयोघनैस्तप्तैःसंयोज्य निर्वाप्य च कृतसंस्कारे कलशे प्रक्षिप्य वत्सकादिं प्रतिवाप्य क्षौद्रंच सुगुप्तं मासं निधायोपयुंजीत॥ एवं न्यग्रोधादिष्वारग्वधादिषु चायस्कृतीर्विदध्यात्॥ खदिरसुरदारुसारक्वाथप्रस्थं क्षौद्रप्रस्थं मत्स्यं डिकाप्रस्थं लोहचूर्णार्द्धप्रस्थं त्रिफलाचतुर्जातकमरिचानि च कार्षिकाणि प्रक्षिप्यायसे भांडे मासस्थितं तदुपयोजयेत्॥ रसायनप्रयोगेण च लोहतुलां तुवरकास्थीनि भल्लातकान्यलंबुपामवल्गुजं गुग्गुलुमर्शोविहितविधानेन वा चित्रकमिति॥ भवति चात्र॥ किलासकुष्ठग्रहणीप्रमेहस्थूलत्वदुर्नामभगंदरेषु॥पांडुत्वशूनत्वकफामयेषु मंथादियोगान्विदधीत सामे॥ शालयो यवगोधूमाः कोरदूषाःप्रियंगवः॥ मुद्गा मसूरास्तुवरी तिक्तशाकानि जंगलं॥ त्रिफलारुष्करारिष्टक्षौद्रयोजितभावितं॥ धात्रीखदिरनिंबांबु रसं मुद्गपटोलजं॥ मद्यान्यौषधगर्भाणि मथितं चेंदुराजिमत्॥ अन्नपानं हितं कुष्ठे नत्वम्लवणौषधं॥ दधिदुग्धगुडानूपतिलमाज्यं त्यजेत्तरां॥ तुलार्द्धनिंबपंचांग्यास्तथा खदिरसारतः॥ हरीतकीदलतुला भल्लातकतुला दश॥ कृष्णाविडंकुडवं चैकध्यं विपचेज्जले॥ कषायं तं परिस्राव्यनिदध्यात्तास्रभाजने॥ पण्मासांतरितं कुष्ठैः कृमिमेहैर्विमुच्यते ॥ निंबारिष्ट इति ख्यातो वरुणेनैषनिर्मितः॥ कदुकापटोलमूलोत्तमावचानिंबरात्रिमंजिष्ठानां॥ संशीलितः कषायस्तथाऽऽमयान् श्लेष्मपित्तबहुलान्हंति॥वातोत्तरांस्तु सर्पिर्विपाचितं क्वथितकल्कितैश्च कटुकाद्यैः॥ खदिरारिष्टगुडूचीसुरतरुदार्वीश्च कल्पयेत्पृथगेवं॥ शीतः कषायः खदिरस्य पीतः सक्षौद्रतार्क्षोहरति प्रसह्य॥ त्वक्वंठरोगापचिकुष्ठमेहान्बलाहका
न्वायुरिव प्रचंडः॥ सर्पिर्मधुभ्यां त्रिफलारसेन विडंगकल्केन च संप्रयुक्तः॥ कुष्ठं कषायः खदिरस्य हंति तिष्ठन् कषायं मनसीव धर्मः॥खदिरस्यलूनशिरसो मूले खातस्य मध्यमं मूलं॥ छित्वाऽधोऽयःकुंभं रससंग्रहणाय निदधीत॥ लिप्तान्कृष्णमृदेंधनैश्च निचितादादीपिताद्वह्निना तस्माद्यश्च्यवते रसः स सहितः क्षौद्राज्यधात्रीरसैः॥ पीतः कुष्ठभगंदरोदरगतीर्मेहास्रपांडून् जयेत्प्रस्थस्तस्य जरां च भोज्यमिह तु त्याज्यं च भल्लातवत्॥ योज्यं खदिरवन्निंबशिंशपारग्वधासनं॥ रोहितकं सुराह्वंच खदिरोदकपायिनः॥ दार्वीरसांजन वा गोमूत्रेण प्रबाधते कुष्ठं॥ अभया प्रयोजिता वा मासं सव्योपगुडतैला। दार्वीकलिंगकटुकाऽतिविपाऽग्निपाठा मूत्रेण सूक्ष्मरजसोधरणप्रमाणाः॥ पीताजयंति गुदजोदरगुल्मकुष्ठकोष्ठानिलाढ्यपवनग्रहणीप्रमेहान्॥लाक्षादंतीमधुरसवराद्वीपिपाठाविडंगप्रत्यक्पुष्पीत्रिकटुरजनीसप्तपर्णाटरूपं॥ रक्तानिंबः सुरतरुकृतं पंचमूल्योश्च चूर्णं पीत्वा मासं जयति हितभुग्गव्यमूत्रेण कुष्ठं॥दशपलमरिष्टपल्लवकुसुमजटात्वक्पलं यथाकालं॥ प्रत्याहरेत्समस्तं कृतमालतरोश्च तत्तद्वत्॥ संचूर्ण्यवस्त्रपूतं रसे प्लुतं खांदिरेऽनले शुष्कं॥ चित्रकघनभल्लातकगोक्षुरकमहौपधत्रिफलाः॥ लोहविडंगावल्गुजसितोपलाः पलसमा रजीकृत्य॥ सप्ताहमेकवस्तद्रसेन भृंग्यास्ततो भाव्यं॥ अथ पीतमक्षमात्रं घृतेन दुग्धेन कोष्णसलिलैर्वा॥ अचिरात्करोति वह्निंमतिं स्मृतिं पाटवं मेधां॥ कृमिकुष्ठगंडपांडुप्रमेहवक्त्रामयारुचिच्छर्दीः॥अपचीभगंदरस्थौल्यदुष्टनाडीव्रणव्यंगं॥ कफपित्तजान्विकारान्विशेषतः सुविषमान्निवर्त्तयति॥ वर्षाद्विपगरकृत्या नित्याभ्यासेन खलतिपलितानि॥ त्रिकटूत्तमातिलारुष्कराज्यमाक्षिकसितोपलाविहिता॥गुलिका रसायनं स्यात् कुष्ठजिच्च वृष्याच सप्तसम॥ चंद्रशकलाग्निरजनीविडंगतुवराख्यारुष्करत्रिफलाभिः॥ वटका गुडांशक्लृप्ताः समस्तकुष्ठं विनाशयंत्यभ्यस्ताः॥ विडंगभल्लातकबा
कुचीनां सद्वीपिवाराहिहरीतकीनां॥ सलांगलीकृष्णतिलोपकुल्या गुडेन पिंडी विनिहंति कुष्ठं॥ पथ्याकलिंगकपलाशफलेंदुगजीभल्लातकास्थिचतुरंगुलचित्रकार्कैः॥ सावर्त्तकीकृमिहरैः क्रमवर्द्धितांशैर्मूत्रेण तुल्यनुवरैर्वटका गदघ्नाः॥ शशांकलेखा सविडंगसारा सपिप्पली वा सहुताशमूला॥ सायोमला सामलका सतैला कुष्ठानि कृच्छ्राणि निहंति लीढा॥ भूनिंबत्रिफलापद्मपद्मकातिविषाकणाः॥ मूर्वापटोलीद्विनिशापाठातिर्केद्रवारुणीः॥ सकलिंगवचास्तुल्याद्विगुणाश्च यथोत्तरं॥ लिह्याद्दंतीत्रिवृद्धात्रीचूर्णिता421 मधुसर्पिषा॥ कुष्टमेहप्रसुप्तीनां परमं स्यात्तदौषधं॥ वराकणाविडंगान्वालिह्यात्तैलाज्यमाक्षिकैः॥ खदिरशकलचूर्णं क्षौदसर्पिर्विमिश्रं सगिरिजतुविडंगं मात्रया सेवमानः॥ लघुमितहितभोजी ब्रह्मचारीजितात्मा श्वयथुकिटिभकोठश्वित्रकुष्ठानि हन्यात्॥खदिरासनसारस्य तुलां द्रोणेंऽभसः क्षिपेत्॥ अष्टमेऽहनि तत्तोपं पचेदादर्विलेपनात्॥ त्रिफलार्द्धतुलाचूर्णं तत्पादेन तु बाकुची॥ तदर्द्धं द्वीपिनो मूलं तद्वत् ब्राह्मीं समार्कवां॥ लोहकृमिघ्नद्विप्रस्थं क्षिप्त्वातद्वटकीकृतं॥ कुष्ठमेहग्रहण्यर्शोभगंदरिषउपूजितं॥ लांगलीत्रिफलालोहचूर्णं दशपलं पृथक्॥ गुटिकात्रिशतं कुर्याद्भृंगराजसाप्लुतं॥छायाशुष्कांच तत्रार्द्धगुटिकां भक्षपेत्पुरः॥ जीर्णेरसेन रूक्षेण पेयां पूर्वं च भोजयेत्॥ यंत्रितो ब्रह्मचर्याद्यैः क्रमेण गुलिकामपि॥खादेत्परस्तान्मासस्य भवेत्कामचरः क्रमात्॥ एवं सर्वाणि कुष्ठानि जयत्यतिबलान्यपि॥ धीमेधास्मृतियुक्तश्च नीरुक् जीवेत्समाःशतं॥ वासाऽमृतानिंबवरापटोलव्याघ्रीकरंजोदककल्कपक्वं॥ सर्पिर्विसर्पज्वरकामलास्रकुष्ठापहं वज्रकमामनंति॥ त्रिफलात्रिकटुत्रिकंटकारीकंटुकाकुंभनिकुंभराजवृक्षैः॥ सवचाऽतिविषाऽग्निकैः सपाठैःपिचुभागैर्नववज्रदुग्धमुष्ट्या॥ पिष्टैःसिद्धं सर्पिषःप्रस्थमे
भिः क्रूरे कोष्ठे स्नेहनं रेचनं च॥ कुष्ठश्वित्रप्लीहबर्ध्माश्मगुल्मान् हन्यात्कृच्छ्रांस्तन्महावज्रकारव्यं॥ यतेर्लेलीतकवसा क्षौद्रजातीरसान्दिता॥ कुष्ठघ्नी समसर्पिर्वा सगायत्र्यसनोदका॥ मूत्रैर्षिनीता त्रिफलारसे वा सिद्धा घृते वांऽभसि केवले वा॥ रसायनं पथ्यभुजोहरिद्रा निहंति पांड्वामयकुष्ठमेहान्॥ पिबेदमृतवल्यावा स्वरसं यंत्रपीडितं॥मेध्यं तत्कुष्टमेहार्शश्छर्दिवातास्रनाशनं॥ स्थिरकठिनमंडलानां कुष्ठानां पोटलैर्हितः स्वेदः॥ स्विन्नोत्सन्नं विलिखेत्कुष्ठं तीक्ष्णेन शस्त्रेण॥ रुधिरागमार्थमथवा शृंगालाबुभिरपहरेद्रक्तं॥ प्रच्छेदल्पं कुष्ठं विरेचयेद्वाजलौकोभिः॥ ये लेपाः कुष्ठानां युज्यंते निर्हृतास्रदोषाणां॥ संशोधिताशयानां सद्यः सिद्धिर्भवति तेषां॥ येषु न शस्त्रं क्रमते स्पर्शेंद्रियनाशनेषु कुष्ठेषु॥ तेषु निपात्यःक्षारो रक्तं दोषंविस्राव्य॥लेपोऽतिकठिनपरुषेसुप्ते कुष्ठे स्थिरे पुराणे च॥ पीतागदस्य कार्यो विषैः समंत्रागदैश्चानु॥स्तब्धानि सुप्तसुप्तान्यस्वेदनकंडुलानि कुष्ठानि॥ कूर्चैर्दंतीत्रिवृत्ताकरवीरकरंजकुटजानां॥ जात्यर्कनिंबजैर्वा पत्रैः शस्त्रैः समुद्रफेनेन॥ घृष्टानि गोमयैर्वा ततः प्रदेहैः प्रदिह्यानि॥आरग्वधः सैडगजः करंजो वासा गुडूची मदनं हरिद्रे॥ श्र्यांह्वःसुराह्वःखदिरो धवश्च निंबो विडंग करवीरकश्च॥ ग्रंथिश्व भूर्जो लशुनः शिरीषःसलोमशो गुग्गुलुकृष्णगंधे॥ फणिज्जको वत्सकसप्तपर्णपीलूनि कुष्टं सुमनःप्रवालाः॥ वचा हरेणुस्त्रिवृता निकुंशो भल्लातकं गैरिकमंजनं च॥ मनःशिलाले गृहधूमएला कासीसरोध्रार्जुनमुस्तसर्जाः॥ इत्यर्द्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः॥ सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णा प्रदेहा बहुशः प्रयुक्ताः॥ कुष्ठानि कृच्छ्राणि नवं किलासं सुरेंद्रलुप्तं किटिभं सदद्रुं॥भगंदराशस्यपचीं सपामां हन्युःप्रयुक्ता न चिरान्नराणां॥ निंबंहरिद्रेसुरसं पटोलं कुष्टाश्वगंधे सुरदारु शित्रुः॥ ससर्षपं तुंबरुधान्यवन्यं चंडा च चूर्णानि
समानि कुर्यात्॥ तैस्तक्रयुक्तैः प्रथमं शरीरं तैलाक्तमुद्वर्त्तयितुं यतेत॥ तथाऽस्यकंडूपिडकाः सकोठाःकुष्ठानि शोफाश्चशमं व्रजंति॥ मुस्तामृतासंगकटंकटेरीकासीसकंपिल्लककुष्ठरोध्राः॥ गंधोपलः सर्जरसं विडंगं मनःशिलाले करवीरकत्वक्॥ तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थं॥ दद्रूःसकंडूःकिटिभानि पामा विचिर्चिका चेति तथा न संति॥ गंडे महावृक्षभवे निलीनः स्विन्नः कुकूले पुटपाकयुक्त्या॥विचर्चिकां सर्षपपिंडकल्को निहंति लज्जामिव रागवेगः॥मनःशिलाले मरिचानि तैलमार्कंपयः कुष्ठहरः प्रदेहः॥ तथाकरंजप्रपुनाटबीजं कुष्ठान्वितं गोसलिलेन पिष्टं॥ गुग्गुलुमरिचविडंगैः सर्षपपकासीममुस्तसर्जरसैः॥ श्रीवेष्टकालगंधैर्मनः शिलाकुष्टकंपिल्लैः॥ उभयहरिद्रासहितैश्चाक्रिकतैलेन मिश्रितैरेभिः॥दिनकरकरातितमैः कुष्ठं धृष्टं च नष्टं च॥ मरिचं तमालपत्रं कुष्टं समनःशिलं सकासीसं॥ तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे॥ तेनालिप्तंसिध्मं सप्ताहाद्धर्मसेविनोऽपैति॥ मासान्नवं किलासं स्रानेन विना विशुद्धस्य॥ मयूरकं मंजरितं समूलं दग्ध्वा परिस्राव्य च सप्तकृत्यः॥ तेनांभसा कंगुलिनोत्थतैलं सिद्धं परं सिध्मनिबर्हणाय॥ वायसजंघामूलं वमनीपत्राणि मूलकाद्बीजं॥ तक्रेण भौमवारे लेपः सिध्मापहः सिद्धः॥ जीवंती मंजिष्ठा दार्वी कंपिलकःपयस्तुत्थं॥ एषघृततैलपाकः सिद्धः सिद्धे च सर्जरसः॥ देयः समधूच्छिष्ठो विपादिका तेन शाम्यतेऽभ्यक्ता॥ चर्मैककुष्ठकिटिभं कुष्ठं शाम्पत्यलसकं च॥ सप्तपर्णकरंजार्कमालतीकरवीरजं॥ मूलं स्रुहीशिरीषाभ्यां चित्रकास्फोतयोरपि॥ करंजबीजद्विनिशाव्योपैडगजसर्षपाः॥वरा वेल्लं च तैस्तैलं सगोमूत्रैर्विपाचितं॥ कुष्ठदुष्टव्रणग्रंथिगंडमालाभगंदरान्॥ विशेषाद्वातकफजान् हंत्यभ्यंगेन वज्रकं॥ एरंडतार्क्ष्ययननीपकदंबशार्ङ्गीकंपिल्लवेल्लफलिनीमुखारुणीभिः॥ निर्गुंड्यरुष्करसुगह्वसुवर्णद्रुग्धाश्रीवेष्टगुग्गुलुशिलाहरितालबिल्वैः॥ तुल्यं स्रुगर्कदुग्धं सिद्धं तैलं स्मृतं महावज्रं॥ अतिशयितवज्रकगुणं श्वित्रार्शोग्रंथिमालाघ्नं॥ कनकक्षीरीशैलाभार्ङ्गीदंत्याः फलानि मूलंच॥ जातिप्रवालसर्षपलशुनविडंगं करंजत्वक्॥ सप्तच्छदार्द्रपल्लवमूलत्वक्निंबचित्रकास्फोताः॥ गुंजैरंडकबृहतीमूलकसुरसार्जकफलानि॥ कुष्टं पाठा मुस्तं षड्ग्रंथातुंबरुर्वतामूर्वा॥ एडगजकुटजशियुत्र्यूषणभल्लातकक्षवकाः॥ हरितालमवाक्पुष्पी तुत्थं कंपिल्लकोऽमृतासंगः॥ सौराष्ट्रीकासीसं दार्वीत्वक्स्वर्र्जिकालवणं॥ एतैस्तैलंतैलं कटुतैलं वाचतुर्गुणे मूत्रे॥ करवीरमूलपल्लवनोयेन विपाचीतं जयति॥ कटुकालाबुन्यस्तं नित्याभ्यंगेन वातकफकुष्टं॥ दद्रूमंडलकोठकृमिपामविचर्चिकाः सुतरां॥ सिक्थक्रतुत्थकगुग्गुलुसिंदुररसांजनैः कटुकतैलं॥ पामाकिटिभविचर्चिषु साधितमभ्यंजने श्रेष्ठं॥ शैलेयकंपिल्लकपर्दिकारव्यसुराष्ट्रजासर्जरसोपलानि॥ शिला च चूर्णो नवनीतयुक्तः कुष्ठे स्रवत्यभ्यधिकं प्रशस्तः॥ एडगजकुष्ठसैंधवसिद्धार्थविडंगकांजिकैर्लिप्तं॥ कृमिपामसिध्मदद्रूमंडलकुष्ठं शमं याति॥ लाक्षाव्योषंप्रापुनाटं च वीजं सश्रीवेष्टाः कुष्टसिद्धार्थकाश्च॥ तक्रोन्मिश्रः स्याद्धरिद्वा च लेपो दद्रूषूक्तो मूलकोत्थं च बीजं॥ दूर्वाऽभयासैंधवचक्रमर्दकुठेरकाः कांजिकतक्रपिष्टाः॥ त्रिभिःप्रलेपैरपि बद्धमूलां दद्रूंच कंडूं च विनाशयति॥ मनःशिलात्वक्कुटजं सकुष्टं सलोमशः सैडगजः करंजः॥ ग्रंथिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन॥ पलाशमिर्दाहरसेन वाऽपि कर्षोन्मितान्याढकसंमितेन॥ दर्वीप्रलेपं प्रवदंति लेपमेतत्परं कुष्ठनिषूदनाय॥ एलाचित्रकनिंबंवृषकं कुरुविंदनागरार्के च॥ चूर्णीकृतमष्टाहं भावयितव्यं पलाशस्य॥क्षारेण गवां मूत्रशृतेन तेनास्य मंडलान्याशु॥ भिद्यंते विलं यंति च लिप्तान्यर्काभितप्तानि॥ मांसी मरिचं लवणं रजनी तगरं सुधा गृहाद्धूमः॥ मूत्रं पित्तं क्षारः सपलाशः
समानि कुर्यात्॥ तैस्तक्रयुक्तैः प्रथमं शरीरं तैलाक्तमुद्वर्त्तयितुं यतेत॥ तथाऽस्यकंडूपिडकाः सकोठाः कुष्ठानि शोफाश्चशमं व्रजंति॥ मुस्तामृतासंगकटंकटेरीकासीसकंपिल्लककुष्ठरोध्राः॥ गंधोपलः सर्जरसं विडंगं मनःशिलाले करवीरकत्वक्॥ तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थं॥ दद्रूःसकंडूः किटिभानि पामा विचर्चिकाचेति तथा न संति॥ गंडे महावृक्षभवे मिलीनः खिन्नः कुकूले पुटपाकयुक्त्या॥विचर्चिकां सर्षपपिंडकल्को निर्हति लज्जामिव रागवेगः॥ मनःशिलाले मरिचानि तैलमार्कंपयः कुष्ठहरः प्रदेहः॥ तथाकरंजप्रपुनाटबीजं कुष्ठान्वितं गोसलिलेन पिष्टं॥ गुग्गुलुमरिचविडंगैः सर्षपकासीसमुस्तसर्जरसैः॥ श्रीवेष्टकालगंधैर्मनःशिलाकुष्टकंपिल्लैः॥ उभयहरिद्रासहितैश्चाकिकतैलेन मिश्रितैरेभिः॥ दिनकरकरातितप्तैः कुष्ठं घृष्टं च नष्टं च॥ मरिचं तमालपत्रं कुष्टं समनःशिलं सकासोसं॥ तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे॥ तेनालिप्तं सिध्मं सप्ताहाद्घर्मसेविनोऽपैति॥ मासान्नवं किलासं स्नानेन विना विशुद्धस्य॥ मयूरकं मंजरितं समूलं दग्ध्वा परिस्राव्य च सप्तकृत्यः॥ तेनांभसा कंगुलिनोत्थतैलं सिद्धं परं सिध्मनिबर्हणाय॥ वायसजंघामूलं वमनीपत्राणि मूलकाद्बीजं॥ तक्रेण भौमवारे लेपः सिध्मापहः सिद्धः॥ जीवंती मंजिष्ठा दार्वीकंपिलकः पयस्तुत्थं॥ एषघृततैलपाकः सिद्धः सिद्धे च सर्जरसः॥ देयः समधूच्छिष्ठोविपादिका तेन शाम्यतेऽभ्यक्ता॥ चर्मैककुष्ठकिटिभं कुष्ठं शाम्यत्यलसकं च॥ सप्तपर्णकरंजार्कमालतीकरवीरजं॥ मूलं स्रुहीशिरीषाभ्यां चित्रकास्फोतयोरपि॥ करंजबीजद्विनिशाव्योषैडगजसर्षपाः॥ वरा बेल्लं च तैस्तैलं सगोमूत्रैर्विपाचितं॥ कुष्ठदुष्टव्रणग्रंथिगंडमालाभगंदरान्॥ विशेषाद्वातकफजान् हंत्यभ्यंगेन वज्रकं॥ एरंडतार्क्ष्यघननीपकदंबभार्ङ्गीकंपिल्लवेल्लफलिनीमुखारुणीभिः॥ निर्गुंड्यरुष्करसुराह्वसुवर्णदुग्धाश्रीवेष्टर्गुग्गुलुशिलाहरितालबिल्वैः॥ तुल्यं स्रुगर्कदुग्धं सिद्धं तैलं स्मृतं महावज्रं॥ अतिशयितवज्रकगुणं श्वित्रार्शोग्रंथिमालाघ्नं॥ कनकक्षीरीशैलाभार्ङ्गीदंत्याः फलानि मूलंच॥ जातिप्रवालसर्षपलशुनविडंगं करंजत्वक्॥सप्तच्छदार्द्रपल्लवमूलत्वक्निंबचित्रकास्फोताः॥ गुंजैरंडकबृहतीमूलकसुरसार्जकफलानि॥ कुष्टं पाठा मुस्तं षड्ग्रंथा तुंबरुर्वचामूर्बा॥ एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवकाः॥ हरितालमवाक्पुष्पी तुत्थं कंपिल्लकोऽमृतासंगः॥ सौराष्ट्रीकासीसं दार्वीत्वक्स्वर्जिकालवणं॥ एतैस्तैलं तैलं कटुतैलं वा चतुर्गुणे मूत्रे॥ करवीरमूलपल्लवतोयेन विपाचीतं जयति॥ कटुकालाबुन्यस्तं नित्याभ्यंगेन वातकफकुष्टं॥ दद्रूमंडलकोठकृमिपामविचर्चिकाः सुतरां॥ सिक्थक्रतुत्थकगुग्गुलुसिंदुररसांजनैः कटुकतैलं॥ पामाकिटिभविचर्चिषु साधितमभ्यंजने श्रेष्ठं॥ शैलेयकंपिल्लकपर्दिकारव्यसुराष्ट्रजासर्जरसोपलानि॥ शिला च चूर्णो नवनीतयुक्तः कुष्ठे स्रवत्यभ्यधिकं प्रशस्तः॥ एडगजकुष्टसैंधवसिद्धार्थविडंगकांजिकैर्लिप्तं॥ कृमिपामसिध्मदद्रूमंडलकुष्ठं शमं याति॥ लाक्षाव्योषंप्रापुनाटं च बीजं सश्रीवेष्टाः कुष्टसिद्धार्थकाश्च॥ तक्रोन्मिश्रः स्याद्धरिद्राच लेपो दद्रूषूक्तो मूलकोत्थं च बीजं॥ दूर्वाऽभयासैंधवचक्रमर्दकुठेरकाः कांजिकतक्रषिष्टाः॥ त्रिभिः प्रलेपैरपि बद्धमूलां दद्रूंच कंडूं च विनाशयंति॥ मनःशिलात्वक्कुटजं सकुष्टं सलोमशः सैडगजः करंजः॥ ग्रंथिश्चभौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन॥ पलाशनिर्दाहरसेन वाऽपि कर्षोन्मितान्याढकसंमितेन॥ दर्वीप्रलेपं प्रवदंति लेपमेतत्परं कुष्ठनिषूदनाय॥ एलाचित्रकनिंबंवृषकं कुरुविंदनागरार्केच॥ चूर्णीकृतमष्टाहंभावयितव्यं पलाशस्य॥क्षारेण गवां मूत्रशृतेन तेनास्य मंडलान्याशु॥ भिद्यंतेविलं यंति च लिप्तान्यर्काभितसानि॥ मांसी मरिचं लवणं रजनी तगरं सुधां गृहाद्धूमः॥ मूत्रं पित्तंक्षारः सपलाशः
कुष्ठनुल्लेपः॥ मुस्तं त्रिफला मदनं करंज आरग्वधः कलिंगयवाः॥ दार्वी ससप्तपर्णास्नानंसिद्धार्थकं नाम॥ एषकषायो वमनं विरेचनं वर्णकस्तथोट्घर्षः॥ त्वग्दोषकुष्ठशोफप्रबाधनः पांडुरोगघ्नः॥ करवीरनिंबकुटजाच्छम्याकाच्चित्रकाच्च मूलानां॥ मूत्रे दार्वीलेपः क्वाथो लेपेन कुष्ठघ्नः॥ श्वेतकरवीरमूलं कुटजकरंजात्पलं त्वचो दार्व्यः॥ सुमनः प्रवालयुक्तो लेपः कुष्ठापहः सिद्धः॥ शैरीषीत्वक्पुष्पं कार्पास्या राजवृक्षपत्राणि॥पिष्टा च काकमाची चतुर्विधः कुष्ठहा लेपः॥दार्वी रसांजनस्प च निंबपटोलस्य खदिरसारस्य॥ आरग्वधवृक्षकयोस्रिफलायाः सप्तपर्णस्य॥ इति षट् कषाययोगाः कुष्ठघ्नाः सप्तमश्च तिनिशस्य॥ स्नाने पाने च हितास्तथाऽष्टमश्वाश्वमारस्य॥आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषायाः॥ तैलघृतपाकयोगैश्चेष्यंते कुष्ठशांत्यर्थं॥ सर्षपकरंजकोशातकानि तैलान्यथेगुदीनां च॥ कुष्ठेषु हितान्याहुस्तैलं श्रेष्ठं च खदिरसारस्य॥ शीताः प्रदेहसेकास्तिक्तं सर्पिः सिराविरेकश्च॥ विशरणदाहक्लेदे विस्फोटे चर्मदलने च॥ शीर्णनखरोममांसः कृमिमानन्नांभतसी त्यजेत्कुष्ठी॥ सद्योदुग्धं दुग्धं षण्मासात्कारभं जयेत्समधु॥ एडगजः सविडंगो मूलान्यारग्वधस्य कुष्टानां॥ उद्दालनश्च दंता गोश्च वराहोष्ट्रदंताश्च॥रजनीद्वयंकृमिघ्नं प्रपुनाटं राजवृक्षमूलं च॥ कुष्ठोत्सादनमभ्यं सपिप्पलीपाकलं योज्यं॥ श्वित्राणां सविशेषं योक्तव्यं सर्वतो विशुद्धानां॥ उत्सन्नेषु च लेपाः सवर्णकरणास्तथाऽभ्यंगाः॥ पक्षात्पक्षाच्छर्दनान्यभ्युपेयान्मासान्मासाच्छोधनान्यप्यधस्तात्॥ शुर्द्धिर्मूर्ध्निु - स्यात्त्रिरात्रास्त्रिरात्रात्षष्ठे षष्ठे मास्यसृड्मोक्षणं च॥ यो दुर्वीतो दुर्विरिक्तोऽथवा स्यात्कुष्ठी दोषैरुद्धतैर्बाध्यतेऽसौ॥ निःसंदेहं यात्यसाध्यत्वमेवं तस्मात्कृच्छ्रान्निर्हरेदस्य दोषान्॥ व्रतदमशमसेवात्यागशीलाभियोगो द्विजगुरुसुरपूजा सर्वसत्वेषु मैत्री॥ जिनजिन422सुतताराभास्कराराधनानि प्रकटितमलपापं कु
ष्ठमुन्मूलयंति॥ इति कुष्ठचिकित्सितं नामैकविंशोऽध्यायः॥२१॥
अथातः श्वित्रकृमिचिकित्सितं व्याख्यास्यामः॥ कुष्ठादपि बीभत्सं पच्छीघ्रतरं च यात्यप्ताध्यत्वं॥ श्वित्रमतस्तच्छांत्यै येतेतं दीसेयथा भवने॥ मदयंत्या सवायस्या सुरभ्या प्रग्रहस्यच॥ शतं पलानां प्रत्येकं वरायास्त्वांढकत्रयं॥ व्याव्रीवह्निकप्राचीवत्सकखदिरार्कमूलदंतींद्रयवाः॥ सनिशाद्वया दशपलाः क्वाथेऽमीषांक्षिपेत्पिष्ट्वा॥ बीजं करंजेंगुदिशिग्रुनिंबान्नी लीसनीलोत्पलचंद्ररेखाः॥ श्यामाकिरातं कटुकत्रयं च पंचाढकं तत्र च पंचगव्यात्॥ शमयत्यचिरेण घृतं मृदुहुतवहसाधितं महानीलं॥ न किलासमेव केवलमपि च व्रणगुह्यरोगवल्मीकान्॥ उन्मादापस्मारावर्शोविद्रधिशिरोरोगान्॥ गलगंडगुल्मगंडानर्बुदशोफममेहगलरोगान्॥ सविसर्पशोष-पवनव्याधीन्विषमज्वरान् हन्यात्॥संशोधनं विशेषात्पीतस्नेहस्ययोजयेदनु च॥ श्वित्रे स्रंसनमग्र्यं मलयूरस इष्यते सगुडः॥ तं पीत्वाऽभ्यक्ततनुर्यथाबलं सूर्यपादसंतपिं॥सेवेद्विरिक्तश्च त्र्यहं त्र्यहं पिपासुः पिबेत्पेयां॥ श्वित्रेंऽगे ये स्फोटा जायंते कंटकेन तान् भिद्यात्॥ स्फोटेषुविस्रुतेषु प्रातःप्रातः पिबेत्पक्ष॥ मलयूमसनप्रियंगुं423 शतपुष्पां चांभसा समुत्क्वाथ्य॥ पालाशं वाक्षारं यथाबलं फाणितोपेतं॥ वितुषाबल्गुजबीजाच्चूर्णं गोवारिभाविताद्वहुशः॥ मूलक्वाथेन पिबेत्कलितरुकृतमालमदनफल्गूनां॥ पीते किलासी तिलतैलदिग्धो दिने दिने स्याद्रविपादसेवी॥ जीर्णे च तक्राप्लुतकोद्रवांशी स्फोटोद्भवायैषविधिस्त्रिरात्रं॥ विध्याऽन्येद्युः स्फोटकान्कंटकैस्तान्बस्तीसोभिर्घृष्टयाशुक्रवर्त्त्या॥ लिंपेत्कामं लेपनाहे दनायां लेपेयोज्यः शंखनाभिर्जलेन॥व्योषसर्षपनिशागृहधूमैर्यावशूक पटुचित्रकुकुष्टैः॥ कोलतुल्यगुलिकार्द्धविपांशाः श्वित्रकुष्टशमनोवरलेपः॥ गव्यं मूत्रं चित्रकव्योपयुक्तं सर्पिः कुंभे संस्थितं क्षौद्रमिश्रं॥ पक्षादूर्ध्वं श्वित्रिणा पेयमेतत्कार्यं चास्मै कुष्ठदृष्टं विधानं॥ मार्कवमथवा खादेद्भृष्टंतैलेन लोहपात्रस्थं॥ बीजकशृतं च दुग्धं तदनु पिबेच्छ्वित्रनाशाय॥पूतीकार्कव्याधिघातस्रुहीनां मूत्रैः पिष्टाः पल्लवा जातिजाश्च॥ घ्नंत्यालेपाच्छ्वित्रदुर्नामदद्रुपामाकोठान्दुष्टनाडीव्रणांश्च॥ द्वैपं दग्धं चर्म मातंगजं च श्वित्रे लेपस्तैलयुक्तो वरिष्ठः॥ पूतिः424
कीटो राजरक्षोद्भवेन क्षारेणाक्तः श्वित्रमेकोऽपहंति॥ अक्षतैलद्रुता लेपः कृष्णसर्पोद्भवा मपी॥ शिखिपित्तं तथा दग्घं हीबेरं वा तदाप्लुतं॥ उपोषितायान्नकालांस्त्रीन्श्वेतकृकवाकवे॥ यष्ट्याह्वकुष्टैडगजबीजचूर्णं घृतान्वितं॥ दद्यात्तस्यपुरीषेण स्विन्नमुद्दाल्यलेपयेत्॥ मांसं हंत्याशु तच्छ्वित्रं विशेषाद्गुत्द्यसंश्रितं॥लेपः पटुवेल्लशिखाकासीसं रोचनाकनकपुष्पी॥ गोपित्तयुक्तमथवा चपलांजनयुग्मलोहरजः॥काकोदुंबरिकावासावल्गुजचित्रकाः सगोमूत्राः॥कदलीक्षारयुतं वा खरा स्थिदग्धं सगोरुधिरं॥ नीलोत्पलं सकुष्टं ससैंधवं हस्तिमूत्रपिष्टं वा॥ हस्तिमदाध्युषितो वा मालत्याः कोरकक्षारः॥ सिद्धार्थकावृहत्यौ करं जकोशातकीफलं गुंजा॥ शुकनासा सगवाक्षी स्वर्णक्षीरी निकुंभश्च॥ लांगलिकाहयमारस्तिल्वकभल्लातकाश्च मूत्रं च॥ मुस्तास्नुही सहिंस्रासुवर्णशकलाफलोपेता॥ मूलकबीजं व्योषंपीलु विडंगाग्निकर्णिकारश्च॥ पिचुमंदजातिकिसलयवा-कुचिकातुत्थकुष्टानि॥ कटुरोहिणी मनोव्हा त्रिफला च सुकल्किता गवां मूत्रे॥ गजहयखरमूत्राणां पात्रत्रितयं स्नुगर्कदुग्धाभ्यां॥ द्वौकुडवाविहदद्यात्सर्षपतैलाच्चतुर्थी च॥ दर्वीलेपं सिद्धा रसक्रिया मूत्रिका नाम॥ श्वित्रं घृष्टं लिप्तं त्रीनालेपांस्तथा न लंपयति॥ मषतिलकचर्मकीलग्रंथ्यर्बुदसर्वकुष्ठघ्नी॥ कुडवोऽवल्गुजबीजाद्धरितालचतुर्थभागसंमिश्रः॥ मूत्रेण गवां पिष्टः सवर्णकरणं परं श्वित्रे॥ क्षारे सुदग्धे गजलिंडजे च गजस्य मूत्रेण परिसुतेन॥ द्रोणप्रमाणे दशभागयुक्तं दत्वा पचेद्बीजमवल्गुजानां॥ श्वित्रं जयेच्चिक्कणतां गतेन तेन प्रलिप्तं बहुशः प्रघृष्टं॥ कुष्ठं किलासं तिलकालकं वा यद्वाव्रणे स्यादधिमांसभृतं॥ भल्लातकद्वीपिसुधार्कमूलगुंजाफलत्र्यूषणशंखचूर्णं॥ कुष्टं सतुत्थं लवणानि पंच क्षारद्वयं लांगलिकां च पिष्ट्वा॥ स्रुगर्कदुग्धैर्धनमायसस्थं शलाकयातद्विदधीत लेपं॥ कुष्ठे किलासे तिलकालकेषु मपेषु दुर्नामसु चर्मकीले॥ शुत्ध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनां॥ श्वित्रं कस्यचिदेव हि प्रशाम्यति क्षीणपापस्य॥स्निग्धे स्विन्ने गुडक्षीरमध्वाज्यैः कृमिणोदरे॥उत्क्लेशितकृमिकफे शर्वरीं तां सुखोपिते॥सुरसादिगणं मूत्रे क्वाथपित्वाऽर्द्धवारिणि॥ तं कषाये कणागालकृमिजित्कल्कयोजितं॥ सतैलस्वर्जिकाक्षारं युंज्याद्बस्तिं ततोऽहनि॥ तस्मिन्नेव निरूढंतं पाययेत विरेचनं॥त्रिवृत्कल्कं फलकणाकषायलुडितं ततः॥ ऊर्ध्वाघः शोधिते कुर्यात्पंचकोलयुतं क्रमं॥ कटुतिक्तकषायाणां कषायैःपरिषेचितं॥ काले विडंगतैलेन ततस्तमनुवासयेत्॥ शिरोरोगनिषेधोक्तमाचरेन्मूर्धगेषु तु॥ उद्रिक्ततिक्ककटुकल्पस्नेहं च भोजनं॥ विडंगकृष्णामरिचपिप्पलीमूलशिग्रुभिः॥ पिबेत्सस्वर्जिकाक्षारैर्यवागूंप्तकसाधितां॥ रसं शिरीर्षेकिणिहीपारिभद्रककेंबुकात्॥ पलाशबीजपत्तूरपूतिकाद्वापृथक् पिबेत्॥ सक्षौद्रं सुरसादीन्वालिह्यात्क्षौद्रयुप्तान्पृथक्॥ बहुकृत्वोऽश्वविट्चूर्णे425 विढंगक्वाथभावितं॥ कृमिमान्मधुना लिह्याद्भावित वा बरारसैः॥ शिरोगतेषु कृमिषुचूर्णं प्रधमनं च तत्॥ आखुपार्णीकिसलयैः सृपिष्टैः पिष्टमिश्रितैः॥ पक्त्वा पूपलिकां खादेत्यान्याम्लं च पिबेदनु॥ पंचकोलं सलवणमसांद्रं तक्रमेव वा॥ नीपमार्कवनिर्गुंडीपल्लवेष्वप्ययंविधिः॥
विहंगचूर्णमिश्रैर्वा पिष्टैर्भक्ष्यान्प्रकल्पयेत्॥ विडंगतंदुलैर्युक्तमर्द्धौरौरातपे स्थितं॥ दिनमारुष्करं तैलं पाने बस्तौ च योजयेत्॥ सुराहसरलनेहं पृथगेवं च कल्पयेत्॥ तिल्वकोद्द्गालकपले त्रिवृच्छ्यभे तदर्द्धतः॥ दंतीद्रवंत्यावर्द्धेनतदर्द्धे चव्यचित्रकौ॥ पिष्ट्वाविडंगयुंषेणतेन भावितपीडितात्॥ तैलं प्रस्थं तिलात्साध्यं कृमिघ्नाद्द्विगुणे रसे॥ तच्छोधनं पिबेत्काले विदध्याच्चानुवासनं॥कोशातकी करंजो वा सर्षपस्नेहकल्पनं॥ कृत्वा तेनैव विधिना पाययेदुदरकृमिं॥ पुरीषजेषु सुतरां दद्याद्बस्तिविरेचने॥ शिरोविरेकं वमनं शमनं कफजन्मसु॥ रक्तजानां प्रतीकारं कुर्यात्क्रुष्ठचिकित्सितात्॥ इंद्रलुप्तविधिश्चात्रविधेयो रोमभाजिषु॥ क्षीराणि मांसानि घृतं गुडंच दधीनि शाकानि च पर्णवंति॥ समासतोऽम्लान्मधुरान् रसांश्च कृमीन् जिघांसुः परिवर्जयेत॥॥इति श्वित्रकृमिचिकित्सितं नाम द्वाविंशोऽध्यायः॥२२॥
अथातो बातव्याधिचिकित्सितं व्याख्यास्यामः॥ सर्वेषु केवलानिलविकारेष्वंतर्वहिः स्नेहस्वेदौ सलवणोपनाहो निवातं स्थानं प्रावरणानि दशमूलक्वाथसिद्धा महास्नेहप्रगाढाः स्निग्धदध्यम्लानागरपिप्पलीतीक्ष्णग्राम्यानूपौदकशिरःपिशितरसाः पयांसि यूपाः प्रीणनानि चान्नानि॥ तैरेव च मांसैर्महास्नेहसंसृष्टैस्तदक्तानामभीक्ष्णं पिंडादिस्वेदाः॥ अपिच॥ कोलकुलत्थामरतरुयवसंमापातसीयचाकुष्टं॥ रास्नातैलफलानि च वातजिदुत्कारिका कोष्णा॥ बिडालनकुलोष्ट्र-शृगालादिचर्मभिर्बंधः॥ स्निग्धा बस्तयो नावनानि च प्रपोज्यानि॥ दोषोपक्रमणीयं चेक्षेत॥ स्निग्धस्विन्नस्यहि तोदभेदनापामशूलादयोवातविकाराः शीघ्रमुपशाम्यंति॥ स्नेहश्च धातून्पुष्णाति बलं च देहे जनयति॥ तस्मात्पुनः पुनः स्नेहस्वेदौ शीलयेत्॥ तन्मृदूकृते च कोष्ठे नावतिष्ठंत्यनिलामयाः॥ यदि तु सदोषत्वान्न निवर्त्तते ॥ ततः सर्वशरीरगतेऽपि वायौ विशेषतः पक्वाशयाश्रिते मृदु स्नेहविरेचनं तिल्वकसर्पिः सा
तलाघृतमैरंडतैलं वां क्षीरेण दद्यात्॥ एवं हि विशुद्धस्रोतसोऽनावृतः पवनो विचरन्नाशु शांतिमेति॥ अपिच॥ स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलाश्चिताः। स्रोतोबंधाचलं रुंध्युस्तस्मात्तमनुलोमयेत्॥ अथ दुर्बले, विरेच्ये निरूहं पाचनीयदीपनीयद्रव्ययुक्तमेवंविधं च भोज्यं॥ भोज्ययुक्तं वा स्रंसनमवचारयेत्॥ विशुद्धस्य च समिद्धेऽग्नावसकृत्स्नेहस्वेदौस्वाद्वम्ललवणं चान्नपानं॥ एवमप्यनिवृत्ताववपीडकस्नेहान् बस्तिकर्म च प्रयोजयेत्॥ आमाशये नु कृतवमनस्य षड्धरणंचूर्णं426॥ परमतस्तु यथार्हंस्नेहादीन्॥ नाभिदेशमाश्रिते बिल्वशलाटुभिः सिद्धान् मत्स्यान्॥ अशेषकोष्टाश्रिते पुनरर्शोग्रहणीविहितमाममलपाचनं क्षारप्रयोगानंतर्गुल्मोपक्रमं च युंजीत॥ हृदयस्थे अंशुमत्या शृतं पयः॥ श्रोत्रादिगते शिरोगतेच विशेषेण स्नैहिकं नस्यधूमं शिरोवस्तिमर्दनालेपान्यथास्वं च स्रोतसां प्रीणनं॥ त्वचि स्थितेऽभ्यंगस्वेदनिर्वातानि॥ रक्ते शीतप्रदेहविरेकरक्तमोक्षाः॥ मांसमेदसोर्विरेका स्थापनशमनानि॥ अस्थिमज्रोरंतर्बहिः स्नेहाः॥शुक्रप्राप्ते हर्षः शुकलं चान्नपानं॥ विवद्धे तु शुक्रे विरेचनं॥ ततो निर्वंधेऽनंतरोक्तां च क्रियां कुर्यात्पुत्रकामीयं चेक्षेत॥ शुष्यति गर्भे बालेषु च यष्टिमधुककाश्मर्यफलसारिवाशर्कराघृतं पयो दद्यात्॥ मांसादस्यमांसरसांश्च बृंहणीयस्नेहयुक्तान्॥ सिरास्नावसंधिप्राप्तेऽभ्यंगमर्दनस्वेठोपनाहवंधाग्निकर्माणि॥ संकोचे माषसैंधवसाधितं427 तैलमभ्यंगः॥ स्वापे बहुशो रक्तावसेचनं न त्वंगम्लानौशोषभयात्॥ सुतरक्तस्य तैललवणागारधूमैः प्रदेहाः॥ अथापतानकिनमस्रस्ताक्षमस्तब्धलांगूलमस्वेदनमवेदनमप्रलापिनमखट्वाघातिनमवहिरायामिनं चोपक्रमेत॥ तत्र प्रागेव स्त्रिग्धस्विन्नांगे व्योपविडंगश्वेतमरिचैरन्यैश्च तीक्ष्णैः शिरोविरेचनैः स्रोतोविशुद्धये कृतनस्यमनंतरं चैनं विदार्यादिक्वाथमांसरसक्षीरदधिविपक्वंसर्पिरच्छं पाययेत्॥ तथा नातिमात्रमनिलः प्रसरति॥ ततो भद्रदार्वादिवर्गे वातघ्नमाहृत्य सयवकोलकुलत्थं सानूपमांसं च निःक्वाथ्य तत्कषायेणाम्लक्षीरवचामधुरवर्गप्रतीवापं महास्नेहं विपचेत्॥ तमपतानकिनमभ्यंगपरिषेकावगाहनपानभोजनानुवासननावनेषु विदध्यात्॥ बलीयसि च वाते सुखोष्णकरीषपूर्णे कूपे निषन्यादामुखं॥ तप्तायां वा रथकारमुख्यां428 चुल्यां शिलायां वा सुरापरिषिक्तायां शापयेत्पलाशावच्छन्नं खेदयेद्दा पिंडेन॥ मूलकोरुबूकस्फूर्जार्जकार्कसप्तलाशंखिनीस्वरससिद्धं वा तैलमभ्यंगादिषूपयोज्यं॥ अभुक्तवता पीतमम्लंदधि मरिचवचायुक्तमाक्षेपकमपहंति॥ तिलपीडनोपकरणद्रव्याण्यनल्पंकालं तैलपरिपीतान्यवक्षुद्य महति कटाहे पानीयेनाप्लाव्य क्वाथयेदास्नेहापगमात्॥ ततस्तं स्नेह मंभसउपरिष्ठात्पाणिशरावयोरन्यतरेणादाय वातघ्नौषधदत्तप्रतीवापं स्नेहपाककल्केन पचेत्॥ एतदणुतैलं सर्ववातविकारहरं॥ अणुतैलद्रव्येभ्यो निष्पद्यत इत्यणुतैलं॥ वेगांतरेषु च तीक्ष्णानवपीडान्प्रधमनानि चासकृद्दद्यात्॥ तथाऽनल्पश्लेष्मापगमेन श्वसन429विमोक्षात्संज्ञापुनःपुनर्नोपरुध्यते॥ कुक्कुटकुलीरशिशुमारवराहवसाः पाययेत्॥ यवकोलकुलत्थमूलकदधिघृततैलसिद्धां च वयागूं॥ सर्वाकारं च गतवेगः स्नेहविरेचनास्थापनानुवासनानि सेवेत॥ त्रिवृद्दंतीसुवर्णक्षीरीशंखिनीविडंग त्रिफलानामक्षसमाः कल्का बिल्वमात्रस्तिल्वकमूलानां त्रिफलारसदधिपात्रे द्वे घृतप्रस्थमेकं सर्वमैकष्यं प्रतिसंसृज्य विपचेत्॥एतत्तिल्वकसर्पिः स्नेहविरेचनमनिलरोगेषु॥ तिल्वकस्नेहविधिरेववाऽशोकरम्यकयो
र्द्रष्टव्यः॥ शुद्धवातापतानकविधानमेतत्॥ संसृष्टे यथासंसर्गः॥सकफे तु वाते तुबुरुकलाभयाहिंगुपुष्करमूललवणत्रयचूर्णं यवक्वाथेन हृत्पार्श्वार्तिहरं पिबेत्॥ हिंगुनागरदाडिमाम्लवेतससौवर्चलचूर्णं वा॥ मुस्तपिप्पलीनागरातिविपा-बिभीतकभार्ङ्गीचूर्णं वा मद्येनोष्णांबुना वाऽपतंत्रकश्वासहृद्रोगहरं॥ सौवर्चलाभयाव्योषसिद्धं च सर्पिः॥ रास्नाऽम्लवेतससैंधववचाहरीतकीकल्कश्च घृतभृष्टो भक्षितः॥ शुंठीचित्रकभार्ङ्गीशुकनासानिचुलमहावल्लीवृहती-द्वयकाकमाचीपुनर्नवैरक्षमात्रैर्घृतप्रस्थं साधयेत्॥ तत्पीतंपरमपतंत्रकश्वासहिध्माहृद्रोगघ्नं॥पथ्याशतार्द्धकल्केन वा सौवर्चलपलद्वपयुक्तं चतुर्गुणक्षीरं घृतप्रस्थं विपाचयेत्॥ पीतमयतंत्रकघ्नं॥ नचास्य शोधनार्थं वस्तयस्तीक्ष्णाः प्रयोज्याः॥ हृद्रोगचिकित्सितं चेक्षेत॥अंतर्बहिरायामावेक यामवत्साधयेत्॥तैलद्रोण्यांचात्र शयनं॥ अंतरायामश्चैतयोर्घोरतरः॥ अपिच॥ विवर्णदंतवदनः स्रस्तांगो नष्टचेतनः॥ प्रस्विद्यंश्च धनुःकंपी दशरात्रं न जीवति॥ वेगेष्वतोन्यथा जीवेन्मंदेषु विनतो जडः॥ स्वंजःकुणिः पक्षहतःपंगुलो विकलोऽथवा॥हनुस्रंसमप्यर्दितवच्चिकित्सेत्॥ स्वेदयित्वा च हनूस्तब्धौ स्रस्तौच स्वस्थानमानीय पाणिभ्यां पीडयेत्॥ विवृतास्येचिबुकं चोन्नाभयेत्॥ संवृतास्ये च नामयेत्॥ जिह्वास्तंभे सामान्योक्तो विधिरेकायामे च॥ तथा महातृणपंचमूलेविदार्यादिजीवनीयानि मेद्यमांसान्यौदककंदांश्चद्विगुणोदके क्षीरद्रोणे क्षोरशेषं निःक्वाथ्य परिस्राव्य तैलप्रस्थेनोन्मिश्र्य पुनरधिश्रयेत्॥ क्षीरानुगमे चावतार्य शीतं मंथयेत्॥ ततः स्नेहमादाय पूर्ववद्विपचेत्॥एतत्क्षीरतैलं पानाभ्यंगादिषु विधेयं॥ तैलं हितमिदमेवीक्षीरघृतमक्षितर्पणं॥ बिल्वकफलसिद्धक्षीरदध्नाच सह मांसरसान्कल्पयेत्॥ यथोक्ताश्च यवागूः स्निग्धाश्च नस्यधूमकबलग्रहाः प्रयोज्याः॥ कृष्णभूमिकेदारं रोहिणीकाष्ठैर्नातिशुष्कैर्दाहयेत्॥ उपलिप्य
च गोमयेन पुनः खदिरकाष्ठैर्दग्ध्वा तद्भस्मापनीय तत्र शीतिभूते तैलं निषेचयेत्॥ उषितं निशां खानयेत्॥ तामनुगततैलां मृत्तिकामादाय पंचमूलेन सह क्वाथयेत् तमपि क्वाथपरिस्रुतमष्टगुणेन पयसा तैलावशेषं पाचयेत्॥ एतदप्यणुतैलं नावनात्सर्ववातव्याधिहरं॥ तद्वच्च पंचमूलकाष्ठैर्दग्ध्वाभस्मापनीय विदार्यादिसिद्धेन तैलेन शतशो निषिच्य पूर्ववन्मृदमादायोष्णोदकवति कटाहेऽभ्यासिंच्यतैलं पाणिना पिचुना वा गृहीत्वाव्याधिहरौषधक्वाथमांसरसक्षीराम्लभागसहस्रेण सहस्रपाकं साधयेद्यावत्कालेन शक्नुयात्पक्तुं॥ प्रतिनापश्चात्र हैमवत दक्षिणापथकाश्वगंधावातघ्नानि च द्रव्याणि॥ सित्ध्यति चास्मिंश्च्छंस्वानाध्मापयेत्॥ दुंदुभीन्वादयेत्॥ ब्राह्मणानध्यापयेद्भोजयेच्च॥ ततः सिद्धं नस्यपानाभ्यंगबस्तिषु प्रपुंजीत॥एतत्सहस्रपाकमनिवार्यवीर्ये तैलं॥ एवं भागशतपक्वंशतपाकमभीक्ष्णंच स्वेदयेत्॥ ततः स्निग्धस्विन्ने श्लक्ष्णस्प मृदुनश्चर्मणोवाससो वा चतुरंगुलविस्तृताभिः पट्टिकाभिर्वकी भूतान्प्रदेशान्प्रगृह्णन्सर्वतो वेष्ठयेद्बध्नीयात्॥ निशिबद्धान्दिवा मुंचेद्दिवा वानिशि॥ मोक्षांते चोत्कारिकाभिः सुस्निग्धाभिर्वातघ्नप्रक्लृप्ताभिः स्वेदयेत्॥ शोभांजनकतर्कारीद्वयसरलार्जुनकरंजाढकीगोक्षुरकैर्लेपोन्मर्दनसकान् कुर्यात्॥ व्यायामैश्च विविधैर्मेदः क्षपयेत्॥ स्थलान्युल्लंघयेत् प्रतिस्रोतः सरितमव्यालां तरेत्॥ एवमूरुग्रहो शुष्के श्लेष्मणि प्रशाम्यतीति॥ भवति चात्र॥सहचरं सुरदारुसनागरं क्वथितमंभसि तैलविमिश्रितं॥ पवनपीडितदेहगतिः पिबन्द्रुतविलंबितगो भवतीच्छया॥ रास्नामहीपधद्वीपिपिप्पलीशठिपौष्करं॥ पिष्ट्वाविपाचयेत्सर्पिर्वातरोगहरं परं॥ निंबामृतावृषपटोलनिदिग्धिकानां भागान्पृथक्दशपलानि पचेद्घटेऽपां॥ अष्टांशशेषितरसेन पुनश्च तेन प्रस्थं घृतस्यविपचेत्पिचुभागकल्कैः॥ पाठाविडंगसुरदारुगजोपकुल्याद्विक्षारनागरनिशामिशिचव्यकुष्टैः॥ तेजोवतीमरिचवत्सक-दीप्यकाग्निरोहिण्यरुष्क
खचाकणमूलयुक्तैः॥ मंजिष्ठयाऽतिविषया विषया यवान्या संशुद्धगुग्गुलुपलैरपि पंचसंख्यैः॥ तत्सेवितं विधमति प्रबलं समीरं संध्यस्थिमज्जगतमप्यथ कुष्टमीदृक्॥ नाडीव्रणार्वुदभगंदरगंडमालाजत्रूर्ध्वसर्वगदगुल्मगुदोत्थमेहान्॥ यक्ष्मारुचिश्वसनपीनसकासशोफहृत्पांडुरोशमदविद्रधिवातरक्तं॥ द्रोणेंऽभसः पचेद्भागान्दशमूलाच्चतुःपलान्॥ यवकोलकुलस्थानां भागैःप्रस्थोन्मतैः सह॥ पादशेषेरसे पिष्टेर्जीवनीयैः सर्शकरैः॥ तद्वत्खर्जूरकाश्मर्याद्राक्षावदरफल्गुभिः॥ सक्षीरैः सर्पिषःप्रस्थः सिद्धः केवलवातनुत्॥ योज्यो निरत्ययः पाननस्याभ्यंजनवस्तिषु॥बलाबिल्यशृतेक्षीरे घृतमंडंविपाचयेत्॥ तस्य शुक्तिः प्रकुंचो वा नस्यंवाते शिरोगते॥ तद्वत्सिद्धा वसा नक्रमत्स्यकूमंचुलूकजा॥ प्रयोज्या430 विधिनाऽनेन नस्ये पाने च शस्यते॥ जीर्णे पिण्याकं पंचमूलं पृथक् च क्वाथ्यं क्वाथाभ्यामेकतस्तैलमाभ्यां॥ क्षीरादष्टांशं पाचयेत्तेन पानाद्वाता नश्येयुःश्लेष्मयुक्ता विशेषात्॥ समूलशाखस्य सहाचरस्यतुलां समेतां दशमूलतश्च॥ अभीरुमूल्लाच्च तुलार्द्धमेतदष्टावशेषं विपचेद्वहेऽपां॥ तत्र सेव्यनखकुष्ठहिमैलास्पृक्प्रियंगुनलिकांबुशिलाजैः॥ लोहितानलदलोहसुराव्हैःकोपनामिशिनुरुष्कनतेश्च॥ तुल्यंक्षीरं पालिकैस्तैलपात्रं सिद्धं कृच्छ्राच्छीलितं हंति वातान्॥ कंपाक्षेपस्तंभशोपार्तियुक्तान् गुल्मोन्मादौ पीनसं योनिरोगान्॥ केतकिमूलबलाऽतिबलानां यद्बलेन रसेन विपक्वं॥ तैलमनल्पसुखोदकमिश्रं मारुतमस्थिगतं तदपोहेत्॥ तुलां लशुनकंदेभ्यस्तुलार्द्धेजांगलात्पलात्॥ दशमूलाच्च विपचेद्भागान्पंचपलान्पृथक्॥ तोयार्मणेन पादस्थे समं तैलं पयो दधि॥ तत्र दद्यात्पलांशांश्चरास्नामधुकजीमकान्॥ मिशिस्थिरामहामेदाचपलातिबलाबलाः॥ काकोलीपौष्करं मूलमश्वगंधा च साधितं॥ तत्परं वातरोगघ्नं गुल्माटोपार्तिशूलजित्॥ भग्नजर्जरितांगानां पथ्यमग्नेश्च दीपनं॥ समूलजालं विपचेत्प्रसारणीं तुलोन्मितां पादघृते घटेंऽभसः॥पृथक् सतैलं दधितत्समं॥ क्षिपेत्समं च ताभ्यां विजयां ततः पचेत्॥ प्रसारणीजीवकसिंधुजन्मयष्ट्याह्वरास्नाऽग्निकयावशूकैः॥ सग्रंथिकाख्यैर्द्विपलैः सुपिष्टैर्भल्लातकानां दशकैस्त्रिभिश्च॥ शुंठीपलत्रययुतैर्विनिहंति पाननस्यादिभिस्तदखिलान्मरुतो विकारान्॥ कुष्ठप्रमेहहतनाममनोविकार-श्वासास्थिभंगजठरकिमिबीजदोषान्॥ पचेत्सहाचरतुलां जलद्रोणचतुष्टये॥द्रोणशेषेसमक्षीरे तत्र तैलाढकं पचेत्॥ सहाचरस्य मूलानां कुल्कितैर्देशभिः पलैः॥ अथवा नतषड्ग्रंथास्थिराकुष्टसुराह्वयात्॥ सैलानलदशैलेयशताव्हारक्तचंदनात्॥ सिद्धेऽस्मिन् शर्कराचूर्णाटष्टादशपलं क्षिपेत्॥भेडस्म संमतं तैलं तत्कृच्छ्राननिलामयान्॥ वातकुंडलिकोन्मादभूतापस्मारवर्ध्मच॥ गुल्महृद्रोगदुर्नामयोनिरोगांश्च नाशयेत्॥श्वदंष्ट्राऽश्वाकपायस्य प्रस्थौ द्वौपयसा समौ॥ षट्पलं शृंगबेरस्य गुडस्य च पलाष्टकं॥ तैलप्रस्थं विपक्वंतद्दद्यात्सर्वानिलार्तिषु॥ बलाशतं छिन्नरुहापादंरास्नाऽष्टभागिकं॥ जलाढकशते पक्त्वा शतभागस्थिते रसे॥दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं समैः॥ पचेत्साजपयोऽर्द्धांशं कल्कैरेभिः पलोन्मितै॥ शठीसरलदार्वेलामंजिष्ठाऽगुरुचंदनैः॥ पद्मकातिबलामुस्ताशूर्पपर्णीहरेणुभिः॥ यष्ट्याह्वसुरसव्याघ्रनख र्पभकजीवकैः॥ पलाशरसकस्तुरीनलिकाजातिकोशकैः431॥ स्पृक्काकुंकुमशैलेपजातीकाकट्फलांबुभिः॥ त्वक्कुंदुरुककर्पूर-तुरुप्कश्रीनिवासकैः॥ लवंगनखकंकोलकुष्टमांसीप्रियुंगुभिः॥ स्थौणेयतगरध्यामवचामदनकप्लवैः॥ सनागकेसरैः सिद्धे दद्याच्चात्रावतारिते॥ पत्रकल्कं ततःपूतं विधिना तत्प्रयोजितं॥ श्वासं कासं ज्वरं
मूर्च्छांछर्दिं तृष्णां क्षतं क्षयं॥ प्लीदशोषावपस्मारमलक्ष्मीं च प्रणाशयेत्॥ बलातैलमिदं श्रेष्ठं यातव्याधिविनाशनं॥ अमृतायास्तुलाः पंच पचेत्तोयवहद्वये॥ पादशेषेसमक्षीरं तैलस्य द्व्याढकं पचेत्॥ एलामांसीनतोशीरसारिवाकुष्टचंदनैः॥ शतपुष्पाबलामेदामहामेदर्द्धिजीवकैः॥ काकोलीक्षीरकाकोलीश्रावण्यतिबलानखैः॥ महाश्रावणिजीवंतीविदारीक-पिकच्छुभिः॥ शतावरीतामलकीकर्कटाह्वाहरेणुभिः॥ वचागोक्षुरकैरंडरास्नाकालासहाचरैः॥ वीरासहैलर्पभकत्रिदशाह्वैश्च कार्पिकैः॥ मंजिष्ठायासिकर्षेण मधुकाष्टपलेन च॥ कल्कैस्तत्क्षीणवीर्याग्निबलसंमूढचेतसः॥ उन्मादारत्यपपस्मारैरार्त्तांश्च प्रकृतिंनयेत्॥ रास्नासहस्रनिर्यूहे तैलद्रोणे विपाचयेत्॥ गर्धेहैमवतः पिष्टैरेलाद्यैश्चानिलार्तिनुत्॥ एषकल्पोऽश्वगंधाया बलाऽतिबलयोरपि॥ क्वाथकल्कपयोभिर्वा बलादीनां पचेत्पृथक्॥ यवकोलकुलत्थानां मत्स्यानां शिग्रुबिल्वयोः॥ रसेन मूलकानां च तैलंदधिपयोन्वितं॥ साधयेत्तत्परं सर्वयवनव्याधिभेषजं॥ यच्चशीतज्वरे तैलमगुर्वाद्यमुदाहृतं॥ सहस्रशतशस्तच्च सिद्धं यातामयापहं॥ फलत्रिकस्य प्रस्थं स्यात्कुलत्यकुडवद्वयं॥ कृष्णगंधत्वगाढक्योः पृथक् पंच पलानि तु॥रास्राचित्रकयोर्द्वेद्वे दशमूलात्पलं पलं॥ जलद्रोणे पचेत्पादशेषेप्रस्थोन्मितंप्रयक्॥ सुराऽऽरनालदध्यम्लसौवीरकतुषोदकं॥ कोलदाडिमाम्डनं कोरं
युक्ताः॥ दुष्ठान्वातानाशु शांतिं नयेयुर्वंध्यानारीः पुत्रभाजश्चकुर्युः॥ स्नेहैःस्वेदैर्द्रुतः श्लेष्मा यदा पक्वांशये स्थितः॥ पित्तं वा दर्शयेद्रूपं वस्तिभिस्तं विनिर्जयेदिति॥ इति वातन्याधिचिकित्सितं नाम त्रयोविंशोऽध्यायः॥२३॥
अथातो वातशोणितचिकित्सितं व्याख्यास्यामः॥ वातशोणितिनः स्निग्धस्य दाहरागरुक्तोदेषु जलौकोभिः कंडूपतापस्वापचिमिचिमायनेषु शृंगतुंवैर्देशाद्देशं संसरच्छिरया प्रच्छानेन वा दुष्ठमसृगसकृदल्पमल्पमवसेचयेत्॥ अप्तृग्क्षवे हि गंभीरशोकस्तंभकंपम्ल्प्रनिसंकोचादयः स्युः॥सिराव्यधोक्ताश्च मूर्च्छादयः॥ नैष च स्रावधेदंगम्लानौ रूक्षं वातोत्तरं च रक्तं॥ ततश्चपुनः स्नेहयिता मृदूनि स्नेहयुक्तानि रूक्षाणि वा विरेचनानि बस्तिकर्म चासकृत्प्रयोजयेत्॥ अथ वातप्रबलेषु पुराणघृतं पिबेच्छतांवरीघृतं वा॥ दशमूलपुनर्नवद्वयैरंडमुद्गपर्णीमापपर्णीमहामेंदाशतावरी-रास्नाऽवाक्पुष्पीशंखपुष्पीबलाऽतिबलाद्विपलांशाः पृथक् जलद्रोणे विपाचयेत्॥ पाठशेषे च तत्तुल्पानि पृथक् छागमांसामलकेक्षुरसघृतक्षीराणि संयोज्य कल्कं च पिप्पलीकाश्मर्यफलोत्पलहिमेदाद्वि-श्रावणीवीरापुनर्नवानागरसमंगातवक्षीरीक्षीरकाकोलीद्राक्षाऽक्षोडपद्मबीजशंगाटकनिकोचकभव्यो रुमाणवर्जूरवाताम-मुंजाताभिपुकाणां पुनः पचेत्॥ एतज्जीवनीयास्यं सर्पिः सर्ववातपित्तविकारान् विशेषतश्च पांडुरोगज्वरापस्मारभगंदरश्वासकासहिध्मास्वरभेदपार्श्वशूलयक्ष्मप्लीहमूत्रसंगाश्मरीवातशोणितसर्वैकांगरोगानपहरति॥ बल्यंवर्ण्यं वृष्यं चक्षुष्यं पुत्रपदं च॥तैलसात्म्यो वां क्षोरसितोपेत तैलं पिबेत्॥ अथवा शतावरीमयूरकक्षीरविदारीबंलाद्वयतृणपंचमूलक्वाथे पद्मकादिगर्भं साधितं॥ मलातैलं वा शतपाकं॥ वातहरसिद्धेन च पयसाऽम्लैर्वा स्पर्शसुखं परिषेकंकुर्वीत॥ प्रत्येकशो यवगोधूमतिलमुद्गमाषेषु काकोलोक्षीरका
कोलीजवकर्षभबलाऽतिबलाशृगालविन्नामेषशृंगीपियालसितोपला सुरभिवचाकसेरुकल्कमिश्रेषूपनाहार्थे सर्पिस्तैलवसामज्जदुग्धसिद्धाम् पंचपायसानुपकल्पयेत्॥ स्नैहिकफलमज्जोत्कारिका षा॥ बिल्वपेशिकातगरदैवदारुसरलरास्नाहरेणुकुष्टशतपुष्पाभिर्वा दधिमस्तुयुक्ताभिरुपनाहः॥ यवमधुकैरंडबीजपुनर्नवैर्धान्याम्लपिष्टैः प्रलेपः॥ मातुलुंगाम्लसैंधवघृतमिश्रं वाशिग्रुमूलं सहचरजीवंतीमूलं वा॥ रास्नामधुकगुहूचीबलाद्वयाजीवकर्षभकल्कक्षीरसिद्धं ससिक्थकंसर्पिरभ्यंगः॥ पित्तप्रबले द्राक्षारेवतफलपयस्यामधुकचंदनकाश्मर्यकपांय शर्करामधुमधुरं पाययेत्॥ शतावरीपटोलत्रिफलागुडूचीकटुककषायं वा॥ स्वादुतिक्तवर्गसिद्धं च सर्पिः क्षीरं च रास्राऽभीरुदशमूलबलासिद्धं धारोष्णं वा॥ विरेकार्थे त्रिवृच्चूर्णयुक्तं वा॥ क्षीराहारो वा क्षीरेणैरंडतैलं बहुशः पिबेत्॥ अमृतारग्बधाटरुपककपायेण वा॥ क्षीरबस्तीन्वासघृतान्दद्यात्॥ शीतैश्चंदनपद्मकविसमृणालादिभिः शृतेन क्षीरेण परिषेकः॥क्षीरेक्षुरसमधुशर्करातंदुलोदकेन वा॥ द्राक्षामधुककाश्मर्ययुतेन वा॥ धान्याम्लेन वा जीवनीयसिद्धेन वासर्पिषाशतधौतेन वा॥ नुस्तशीरप्रपुंडरीकदार्वीमधुकमं जिष्ठाचंदनोत्पलपद्मकैर्वा सक्तुभिः सघृतशर्करैः प्रदेहो दाहगगरुग्वि सर्पशोफहरः॥ गोधूमचूर्णो वा छागक्षीरयुक्तो लेपः॥ तिलाश्च पयसा पिष्टा भृष्ठा कपाले पुनः पयसि प्रक्षिप्य निर्वापिता॥ रक्तप्रबलेऽप्येवं बहुशश्चशोणितमवसेचयेत्॥ श्लेष्ममबले धात्रीफलविश्वामुस्ताकपायंमधुमधुरंपिबेत्॥त्रिफलाकपायंवा॥ मधुकशृंगबेराभयाकदुरोहिणीनिर्यूहं वा॥ यथार्हस्नेहपीतं चमृदु वामयेद्विरूक्षयेच्च॥ नचातिसेकलेपान्दद्यात्॥ निंवसर्षपाश्वगंधाक्षारतैलैःकोष्णैर्लेपः॥ बचाऽगारधूम द्विनिशांकुष्टशनपुष्पाभिर्वा॥ पुनर्नवेन वा सघृतेन॥ तिलसर्षपातसीयवचूर्णो वा॥ श्लेष्मातककत्थिमषधुशिग्रुमिश्रः क्षारम्त्रपिष्टः॥ केंबुकस्कंधसिद्धैः क्षारोदकतैलमूत्रैः सेकः॥ संसर्गे मिश्रं यथोद्रेकं या प्रतिकुर्यात्॥ सर्वेषु च यथायथं गुडूचीं गुडहरीतकीं पिप्पलीवर्द्धमानं वा शीलयेद्बस्तिकर्म चाभीक्ष्णमिति॥ भवति चात्र॥ बात्द्यमालेपनाभ्यंगपरिषेकावगाहनैः॥ विरेकास्थापनस्नेहपानैरातुरमाचरेत्॥ सर्पिस्तैलवसामज्जपानाभ्यंजनबस्तिभिः॥ लेपोपनाहसेकैश्च कोष्णैर्वातोत्तरं जयेत्॥ विरेचनैर्घृतक्षीरपानसेचनबस्तिभिः॥ पित्तरक्तोत्तरं वातरक्तं लेपैश्च शीतलैः॥ वमनं मृदुनाऽत्यर्थं स्नेहसेकावलंघनं॥ कोष्णालेपाश्चशस्यंते वातरक्ते कफोत्तरे॥ वातश्लेष्मोत्तरे शीतैः प्रलिप्ते वातशोणिते॥ विदाहशोफरुक्कंडूविवृद्धिः स्तंभनाद्भवेत्॥ पित्तरक्तोत्तरे वातरक्तेलेपादयो हिमाः॥ उष्णैः प्लोषो षरुग्रागस्वेदावदरणोद्भवः॥ मधुयष्टयाः पलशतं कषाये पादशेषिते॥तैलाढकं समक्षीरं पचेत्कल्कैः पठोन्मितैः॥ शतपुष्पावरीमूर्वापयस्याऽगुरुचंदनैः॥ स्थिराहंसपदीमांसीद्विमेदामधुपर्णभिः॥ काको लीक्षीरकाकोलीतामलक्यर्द्धिपद्मकैः॥ जीवंतीजीवकर्षभत्वक्पत्रनखवालकैः॥ प्रपौंडरीकभंजिष्ठासारिवैंद्रीवितुन्नकैः॥ चतुःप्रयोगंवातासृक्पित्तदाहज्वरार्तिनुत्॥ मधुयष्ट्याः पलं पिष्ट्वातैलप्रस्थं चतुर्गुणे॥ क्षीरे पचेच्छतंवारांस्तदेव मधुकाच्छते॥ सिद्धं योज्यं तृडुन्मादश्वासकासविसर्पिषु॥ हृत्पांडुरोगवाताप्तृक्पित्तादिषुच पूर्ववत्॥ कुपिते मार्गसंरोधान्मेदसो वा कफस्य वा॥अतिवृत्ध्याऽनिले शस्तं नादौ स्नेहनबृंहणं॥कृत्वा तत्राढ्यवातोक्तं वाशोणितिकं ततः॥ भेषजं स्नेहनं कुर्याद्यच्च रक्तप्रसादनं॥ गंभीररक्तमाकांतं स्याच्चतद्वा विवर्जयेत्॥ रक्तपित्तातिवृत्ध्यातु पाकमाशु निगच्छति॥भिन्नं स्रवति यद्रक्तं विदग्धं पूयमेव वा॥ ततश्चिकित्सां व्रणवद्भेदशोधनरोपणैः॥ कुर्यादुपद्रवाणां च तस्मात्तस्माच्चिकित्सितात्॥ प्राणादिको पे युगपद्यथोद्दिष्टं यथायथं॥ यथासन्नं च भैषज्यं विकल्प्यं स्याद्यथावलं॥नीते निरामतां सामे स्वेदलंघनपाचनैः॥ रूक्षेश्चालेपसेकाद्यैःकुर्यात्केवलवातनुत्॥ वायौ पित्तावृते शीतामुष्णां च बहुशः क्रियां॥ व्यत्यासाद्योजयेत्सर्पिर्जीवनीयं च पाययेत्॥ धन्वमांसं यवःशालिर्विरेके क्षीरवान्मृदुः॥ सक्षीरा बस्तयः क्षीरं पंचमूलबलाशृतं॥कालेऽनुवासनं तैलैर्मधुरौषधसाधितैः॥ यष्टीमधुबलातैलघृतक्षीरैश्चसेचनं॥ पंचनूलकषायेण वारिणा शीतलेनवा॥कफावृते यवान्नानि जांगला मृगपक्षिणः॥ स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनं॥ पुराणसर्पिस्तैलं च तिलसर्षपपसंहितं॥ संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत्॥ कारयेद्रक्तसंसृष्टे वातशोणितिकीं क्रियां॥ स्वेदाभ्यंगरसाक्षीरं स्नेहो मांसावृते हितं॥ प्रमेहमेदोवातघ्नमाढ्यवाते432भिपग्जितं॥ महास्नेहो433ऽस्थिमज्जस्थे पूर्वोक्तं434 रेतसाऽऽमृते॥ अन्नावृते पाचनीयं वमनं दीपनं लघु॥ मूत्रावृते मूत्रलानि435स्वेदासोत्तरबस्तयः॥एरंडतैलं वर्वस्थे बस्तिस्नेहाश्च भेदिनः॥ कफपित्ताविरुद्धं यद्यच्चवातानुलोमनं॥ सर्वस्थानावृतेऽप्याशु तत्कार्यं मातरिश्वनि॥ अनभिष्यंदि च स्निग्धं स्रोतसां शुद्धिकारणं॥यापना बस्तयप्रायो मधुराः सानुवासनाः॥ प्रसमीक्ष्य बलाधिक्यं मृदु कार्यं विरेचनं॥ रसायनानां सर्वेषामुपयोगः प्रशस्यते॥ शिलाह्वस्य विशेषेण पयसा शुद्धगुग्गुलुः॥ लेहो वा भार्गवस्तद्वदेकादशसिताशितः॥ अपाने त्वावृते सर्वं दीपनं ग्राहि पाचनं॥ वातानुलोमनं कार्यं मूत्राशयविशोधनं॥ इति संक्षेपतः प्रोक्तमावृतानां चिकित्सितं॥ प्राणाद्यानां भिषक् कुर्याद्वितर्क्यस्वयमेव तत्॥ उदानं योजयेदूर्ध्वमपानं चानुलोमयेत्॥ समानं शमयेद्विद्वांत्रिधा व्यानं च योजयेत्॥ प्राणो रक्ष्यश्चतुर्भ्योऽपि तत्स्थितौ देहसंस्थितिः॥ स्वं स्वं स्थानं नयेदेवं वृतान्वातान्विमार्गगान्॥ सर्वेचावरणं पित्तरक्तसंसर्गवर्जितं॥ रसायनविधानेन लशुनो हंति शीलितः॥ पित्तावृते पित्तहरं मरुतश्चानुलोमनं॥ रक्तावृतेऽपि तद्वच्च खुडोक्तं यच्चभेषजं॥ पित्तरक्तानिलहितं विविधं च रसायनं॥ यथानिदानं निर्दिष्टमिति सम्यक् चिकित्सितं॥ आयुर्वेदफलं स्थानमेतत्सद्योऽर्तिनाशनात्॥ चिकित्सितं हितं पथ्यं प्रायश्चितं भिषग्जितं॥ भेषजं शमनं शस्तं पर्यायैः स्मृतमौषधं॥ इति वातशोणितचिकित्सितं नाम चतुर्विंशोऽध्यायः॥२४॥इति श्रीसिंहगुप्तसूनुश्रीमद्वाग्भटाचार्यविरचितेऽष्टांगसंग्रहे चतुर्थंचिकित्सितस्थानं समाप्तं॥२४॥ श्रीकृष्णार्पणमस्तु॥५॥
॥ श्री ॥
अष्टांगसंग्रहे
<MISSING_FIG href=”../../../../../../../books_images/U-IMG-17100906913.png”/>
कल्पस्थानम् ५
॥श्रीगणेशाय नमः॥ अथातो वमनकल्पं व्याख्यास्यामः॥इति इ स्माहुरात्रेयादयो महर्षयः॥ वमनद्रव्याणां मदनजीमूतकेक्ष्वाकुद्विकोशातकीकुटजफलानि च श्रेष्ठानि॥ तेष्वपि मदनफलं॥ दोषदूष्यादिवशाच्चैषामेतत्कल्पनानां प्राधान्यं॥ दोषादीनामेव चातिव्हवस्थाभेदाद्वमनादिषुकल्पानां व्यापदां साधनानां च यदसंख्येयत्वं॥ अतो बुद्धिमतां विकल्पमार्गदर्शनार्थमुदाहरणमात्रं कल्पसिद्धिस्थानमुपद्रेक्ष्यते॥ अथ वसंतग्रीष्मयोरंतरे प्रशस्तेऽहनि मुहूर्ते च नातिहस्तिपांडूनि मदनफलान्याददीत॥तानि प्रमृज्य कुशमूडके बध्वा गोमयेनालिप्य यवबुसमापशालिव्रीहिकुलत्थमुद्गान्यतमराशावष्टरात्रमुषितान्युद्धृत्यातपे शोषयेत्॥ सुशुष्काणां पिप्पलीरुद्धृत्य दधिघृतमधुपललविमृदिताः पुनः शीषयित्वानवं कलशमरजस्कमाकंठं पूरयित्वा सुगुप्तं निधापयेत॥ ततः प्रयोगकाले तासां फलपिप्पलीनामंतर्मुखमुष्टिं यावद्वासाधु मन्येत जर्जरीकृत्ययष्टीमधुककोविदारकर्घुठारनीपनि दुलविंवीशणपुष्पीसदापुष्पीप्रत्यक्पुष्प्यन्यतमकषाये वारात्रिमुषितं विमृद्धितं पूतं सूत्रोक्तविधिना पाययेत्॥ श्लेष्मज्वरगुल्मप्रतिश्यायांनर्विद्रधिषु विशेषेण पुनरापित्तगमनात्॥ तेन साधु वमणि॥ फलपिप्पलीचूर्णं वा स्वक्वाथभावितं त्रिभागत्रिफलाचूर्णं कोविदारादिनिर्यूहेण बलवत्कफप्रसेकापच्यर्बुदग्रंथिज्वरोदरारांवक्रेषु पि
वेत्॥ मदनफलमज्जाचूर्णं वा जीमूतकादिनिर्यूहेण436 पित्ते कफस्थानगते॥मदनफलमज्जसिद्धं वा पयस्तस्मिन्वा यवागूमधोभागे रक्तपित्ते हृद्दाहे च॥ तस्य वा पयसः शीतस्य संतानिकांऽजलिं पित्ते प्रकुपिते उरःकंठहृदये च तनुकफोपदिग्धे॥ तज्जं वा दधि दध्युत्तरं वा कफच्छार्दिप्रसेकतमकेषु॥ तस्माद्वापयसो नवनीतमुत्पन्नं फलादिपट्कक्वाथेन फलषट्कचूर्णोन्मिश्रेण सिद्धं कफाभिभूतेऽग्नौ शुष्यच्छरीरे च॥ फलमज्जाचूर्णमिश्रेण वाऽऽरग्वधादिद्रव्याणां घोंटाभूनिववाणवर्ज्यानां ससोमबल्कपंचकोलकानामन्यतमस्य निर्यूहेण साधितं लेहमुपयुंजीत॥ फलमज्जचूर्णमिश्रेण वा रेणुकैलाशताव्हाकुस्तुंबरुतगरकुष्टत्वक्कोरकमरुबकागुरुगुग्गुलुबालक-श्रीवेष्टकपरिपेलवमांसीशैलेयकस्थौणेयकसुरसापालेवनपूत्यशोकरोहिणीनां द्वाविंशतेरन्यतरस्य कषायेण साधितामुत्कारिकां मोदकं वा भक्षयेत्॥ फलपिप्पलीस्वरसकषायपरिपीतैर्वा तिलशालितंदुलपिष्टैस्त त्कषायोपसृष्टैः सुरसादिद्रव्यान्यतमनिर्यूहोपसृष्टैर्वा शष्कुलीरपूपानन्यं वा भक्ष्यं साधयित्वा भक्षयेत्॥ फलपिप्पलीनां वाभल्लातकविधिशृतं स्वरसमादर्वीप्रलेपात्पक्त्वा लेहयेत्॥ अन्नपानेषु वा तं लेहमवचारयेत्॥ तत्कषायैरेव चान्नपानानि कल्पयेत्॥ फलमज्जक्वाथं वा वत्सकादिप्रतिवापं निंबार्कान्यतरकषायोपसर्जनं संतर्पणोत्थसर्वश्लेष्मव्याधिहरं॥फलपिप्पलीनां वा फलादिनिर्यूहेणैकविंशतिकृत्वःसुभावितानां कुसुमरजसदृशेन चूर्णेनावचूर्णयेत् सरसि सरोरुहं बृहत्सायान्हे तद्रात्रिमुषितं प्रभाते पुनरुपचूर्णितमुद्धृत्य हरिद्राकृसराक्षीरयवागूनामन्यतमं सैंधवगुडफाणितोपेतमाकंठं पीतवानुपजिघ्रन्सुकुमारः समुचितगंधसंपदुत्क्लिष्टकफपित्तो भेषजद्वेषीच तथा सुखेन च्छर्दयति॥
एतेन सर्वमाल्यगंधप्रावरणपटा व्याख्याताः॥ एवमेव च फलाभावे मदनपुष्पाणि शलाटूनि च कल्पयेत्॥ इति फलविधानमुक्तं॥ एवंच जीमूतकादीनपि कल्पयेत्॥ विशेषतस्तु ज्वरश्वासहिध्मादिषुजीमूतं॥ तत्र पुष्पेषु क्षीरं फलेषु पेयां लोमालोमवत्सु437 फलेषु शेषेषु संतानिकां438 निर्लोमसु दधि दध्युत्तरकं439 वा॥ हरितपांडुषु क्षीरं दध्यम्लं440 वा॥ तत्कषायसंसृष्टां वा सुरां कफारोचककासपांढुरोगयक्ष्मसु प्रयुंजीत॥ पर्यागतानां वा जीर्णानां जीमूतकफलानां शुष्काणां वा चूर्णं वातपित्ते॥ द्वित्राणि वासंपोथ्या
रग्वधादीनां441नवानामन्यतमस्य पटोल्या वा निर्यूहेणासुतानि442 मथित्वा पित्तश्लेष्मजे ज्वरे॥ जीमृतकचूर्णं कल्कं वा शीतेनांबुना पित्तजे॥ तदेवोष्णेन यातकफजे कफजे वा॥ जीवकर्षभेक्षुशतावरीणामन्यतमस्यस्वरसेन वा पित्तजे॥ अथवा पूर्ववद्घृतं वा सिद्धं॥ इक्ष्वाकुस्तु443 विशेषेण कासश्वासज्वरच्छर्दिविषश्लेष्मरोगेषु योज्यः॥ तस्यापुष्पफलस्यप्रवालैःशृतं क्षीरमुद्रिक्तपित्ते पित्तकफज्यरे पुष्पादिषु444तु रातजीमूतवत्प्रयोगाः॥ इक्ष्वाकुफलस्वरसं वा त्रिगुणक्षीर- साधितमातुरः पित्ते कफपीनसे स्वरसादे वमनार्थी पिबेत्॥ जीर्णे वा समुद्धृतबीजे फले क्षीरं प्रक्षिपेत्॥ तत्र जातं दधि श्लेष्मकासभ्वासच्छर्दिषु॥ इक्ष्वाकुवीजानि वा छागोक्षीरभावितानि विपगुल्मोदरगलगंडग्रंथ्यर्बुदलीपदेषु॥ इक्ष्वाफुफलमध्यं वा कुष्ठविषगुल्मोदरगरगंडग्रंय्यर्बुदश्लीपदेषु॥ इक्ष्वाकुफलं मस्तुना कुष्टविषपांड्रामयेषु॥ तद्विपक्वंवा तक्रंसमधुसैंधवं॥ तदेव या मध्यं सगुडपलं भक्षयेत्॥ इक्ष्वाकुफलतैलं वा पिबेत्॥ तत्फलस्वरसतभावि
तैर्वा सक्तुभिर्मंथं श्लेष्मज्वरकासकंठरोगागेचेकषु॥ इक्ष्वाकुकल्कं मांसरसेन वातकफगुल्मप्रसक्तज्वरेषु॥ बिल्वमूलप्रस्थक्वाथेन वा तुंवीबीजानि क्वाथयेत्॥ ततस्तस्मिंस्त्रिभागघृते घृतसमानि पिष्ट्वा तुंबीबीजानि तदर्द्धाशिकानि च प्रत्येकं जीमूतमहाजालिनिवत्सककृतवेधनानि क्वाथतुल्यमेव च त्रिकटुकमावपेत्॥ ततः पुनरपि शृत्वालेहं साधयेत्॥ तमवलिह्य प्रमथ्यामनुपिबेत्तद्वदयमेव च कल्पः काश्मर्यादिषु चतुर्षुमहापंचमूलांगेषु पृथक्पृथगुक्तो वेदितव्यः॥ धामार्गवो445 विशेषेण गरगुल्मोदरकासकफसंचयोत्थरोगेषु स्थिरेषुगुरुषु446च श्लेष्माशयस्थेषुवातश्लेष्मणि च कंठाश्रये॥ प्रकल्प्य जीवनीयान्यतमचूर्णसंयुक्तान्समधुशर्करांस्तत्कषायैर्लेहान् पित्तोपसर्जने श्लेष्मणि विदध्यात्॥ धामार्गवकल्कं तुंबरुधान्ययूषेण विपेषु॥ सुमन सौमनस्यायवानीहरिद्राचोरकहैमवतीमहासहाक्षुद्र-सहावृश्चीवर्बिबीपुन-र्नवकासमर्दान्यतमकषायेणवा धामार्गवमेकं द्वे वा मनोविकारेषु॥ धामार्गवमूलसिद्धक्षीरसंभवं सर्पिः फलादिषट्कसिद्धं वा मनोविकारेषु॥ कृतवेधनम447त्यर्थकदुतीक्ष्णोष्णं सुतरां गरोदरगुल्मप्लीहपांडुरोगश्वयथुषु कल्पयेत्॥ कुटजफलं पुनः सुकुमारेषूल्बणास्रपित्तकफेषु वातशोणितविसर्पज्वरकुष्ठादिषु चप्रयोजयेत्॥ कुटजफलचूर्णान्यर्कक्षीरेण सप्ताहं भावयित्मा मदनफलजीमूतकेक्ष्वाकुजोवंती जीवकमूलान्यतमकषायेण वा सर्षपमधूकलवणान्यतमांभसा वा कुटजफलचूर्णे कृशरया वा वमनाय कल्पयेदिति॥ भवति चात्र॥ वमनानां दिगित्येषांसुतरामुपयोगिनां॥ बीजेनानेन मतिमानन्यानपि विकल्पयेदिति॥ ॥ इति वमनकल्पो नाम प्रथमोऽध्यायः॥१॥
अथातो विरेचनकल्पं व्याख्यास्यामः॥ विरेचनद्रव्याणां मूलेषु त्रिवृत्त्वक्षु तिल्वकः क्षीरेषु स्नुही फलेषु हरीतकीप्रधानानि॥ त्रिवृतायाः खलु द्विविधं मूलमरुणं श्यामं च॥ तत्रारुणं कषायमधुरं विपाके कटुकं रुक्षं श्लेष्मपित्तहर कल्पनाविशेषात्पुनः सर्वव्याधिशमनं सुखविरेचनत्वाच्छिशुस्थविरसुकुमारमृदुकोष्ठेषु प्रशस्तं त्रिवृच्छब्दवाच्यं च॥ इतरदपि तस्माद्गुणैः किंचिदूनं तीक्ष्णं कंठहृदयकर्षणं मूर्च्छासंमोहकृदाशुदोपहरत्वाद्बहुदोषक्लेशक्षमक्रुरकोष्ठेषु प्रशस्तं श्यामाशब्दवाच्यं च॥ अथ तयोर्मूलमतिर्यग्विसुतं गंभीरानुगतं श्लक्ष्णमाहरेत्॥ ततस्त्वचं शोषयित्वा सम्यक् स्थापयेत्॥ तच्चूर्णं शुंठीसैंधवयुक्तमम्लैर्मांसरसेनापि पिबेद्वातामयेषु॥ क्षीरक्षौद्रद्राक्षेक्षुकाश्मर्यस्वरससर्पिः स्वादुक्वाथैः सशर्करं पित्तोत्थेषु॥ मूत्रक्षौद्रक्षारारिष्टपीलुरसत्रिफलापंचकोलकक्वाथैर्व्यापचूर्णानुविद्धंकफजेषु॥एभिरेव च द्रव्यैर्यथास्वं- घृतशर्कराक्षोडतवक्षीरीमधुराणि मातुलुंगदाडिमामलककोलकरमर्दककपित्थरसतकाम्लानि सैंधवलवणानि व्योपतीक्ष्णानि विविधवेसवारपूरितानि सहकाररसत्रिजातकनागकेसरकर्पूरसुरभीणि लेहगुटिकामोदक-भक्ष्यभोज्यान्युषपकल्पयेदिति॥ भवति चात्र॥ त्रिवृत्कल्ककषायेण साधितः ससितो हिमः॥ मधुत्रिजातसंयुक्तो लेहोहृद्यंविरेचनं॥ अजगंधातवक्षीरीविदारीशर्करात्रिवृत्॥ चूर्णितं मधुसर्पिर्भ्यांलीढ्वा साधु विरिच्यते॥ सन्निपातज्वरस्तंभपिपासादाहपीडितः॥ लिपेदंतस्त्रिवृतयाद्विधाकृत्वेक्षुगंडिकं॥ एकीकृत्य च तत्स्विन्नं पुटपाकेन भक्षयेत्448॥ शृंगैलाभ्यां समा नीली449 तैस्त्रिवृत्तैश्चशर्करा॥ चूर्णेफलरसक्षौद्रसक्तुभिस्तर्पणं पिबेत्॥ वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च॥ नरेषु सुकुमारेषु निरपायं विरेचनं॥ विडंग
तंदुलवरायावशूककणास्त्रिवृत्॥ सर्वतोऽर्द्धेन तल्लीढं मध्वाज्येन गुडेन वा॥ गुल्मं प्लीहोदरं कासं हलीमकमरोचकं॥ कफवातकृतांश्चान्यान् परिमार्ष्टि गदान् बहून्॥ विडंगपिप्पलीमूलत्रिफलाधान्यचित्रकान्॥मरिचेंद्रयवाजाजीपिप्पलीहस्तिपिप्पलीः॥ दीप्यकं पंचलवणं चूर्णितं कार्षिकं पृथक्॥तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ॥ धात्रीफलरसप्रस्थांस्त्रीन् गुडार्द्धतुलान्वितान्॥ पक्त्वामृद्वग्निना खादेत्ततो मात्रामयंत्रणः॥ मंदाग्नित्वं ज्वरं मूर्च्छा मूत्रकृच्छ्रमरोचकं॥ कुष्ठार्शःकामलामेहगुल्मोदरभगंदरं॥ ग्रहणीपांडुरोगांश्च हंति पुंसवनश्च सः॥ गुडः कल्याणको नाम सर्वेष्वृतुषुयौगिकः॥ व्योषत्रिजातकांभोदकृमिघ्नामलकैस्त्रिवृत्॥ सर्वैः समासमसिता क्षौद्रेण गुलिकाः कृंताः॥ मूत्रकृच्छ्रज्वरच्छर्दिकासे शोषे भ्रमे क्षये॥ तापे पांड्वामयेऽल्पाग्नौशस्ताः सर्वविषेषु च॥ त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजं॥ क्षौद्रद्राक्षारसोपेतं वर्षाकाले विरेचनं॥ त्रिवृद्दुरालभामुस्तशर्करोदीच्यचंदनं॥ द्राक्षांबुना समष्ट्याव्हशीतलं जलदात्यये॥ त्रिवृताचित्रकं पाठामजाजीं सरलं वचां॥ स्वर्णक्षीरीं च हेमते चूर्णमुष्णांबुना पिबेत्॥ त्रिवृता शर्करातुल्या ग्रीष्मकाले विरेचनं॥ त्रिवृत्रायंतिहपुपासातलाकदुरोहिणीः॥ स्वर्णक्षीरीं च संचूर्ण्य गोमूत्रे भावयेत्यहं॥ एषसर्वर्तुको योगः स्निग्धानां मलदोषहृत्॥ श्यामात्रिवृद्दुरालंभाहस्तिपिप्पलिवत्सकं॥ नीलिनीकटुकामुस्तश्रेष्ठायुक्तं सुचूर्णितं॥ रसाज्योष्णांबुभिः शस्तं रुक्षाणामपि रुर्षदा॥ त्र्यूषणं त्रिफला हिंगु कार्षिक त्रिवृता पलं॥ सौवर्चलार्द्धकर्षश्च पलार्द्धेचाम्लवेतसात्॥ तच्चूर्णं शर्करातुल्यं मंडेनाम्लेन वा पिबेत्॥ गुल्मपार्श्वार्तितुत्सिद्धं जीर्णे चास्मिन् रसौदनं॥ त्रिवृतात्रिफलादंतीसातलाव्योषसैंधवैः॥ प्रकल्प्यचूर्णं सप्ताहं भाव्यमामलकाद्रसे॥ तद्योज्यं
तर्पणे यूषेपिशिते रागयुक्तिषु॥ तुल्याम्लं त्रिवृताकल्कसिद्धं गुल्महरं घृतं॥ श्यामत्रिवृत्कषायेणसिद्धं सर्पिः पयोऽपि वा॥ त्रिवृन्मुष्टींस्तु सनखानष्टौ द्रोणेंऽभसः पचेत्॥ पादशेषं कषायं तं पूतं गुडतुलायुतं॥ स्निग्धे स्थाप्यं घटे क्षौद्रपिप्पलीफलचित्रकैः॥ लिप्ते मासे गते पीतं पांडुश्वयथुगुल्मजित्॥ सुरा वा त्रिवृतापादकिण्वातत्क्वाथसंयुता॥ यवैः श्यामात्रिवृत्क्वाथखिन्नैः कुल्माषमंभासा॥आसुतं षडहं पल्लेजातंसौवीरकं पिबेत्॥ भृष्टान्वा सतुषांश्च्छुष्का न्यवांस्तच्चूर्णसंयुतं॥ आसुतानंभसा तद्वत्पिबेज्जातं तुषोदकं॥ ज्वर हृद्रोगवातासृगुदावार्त्तादिरोगिषु॥ राजवृक्षोऽधिकं पथ्यो मृदुर्मधुरशीतलः॥ बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे॥ योज्यो मृद्वनपायित्वाद्विशेपाच्चतुरंगुलः॥ फलकाले परिणतं फलं तस्य समाहरेत्॥ तेषां गुणवतां क्षारं सिकतासुविनिक्षिपेत्॥ सप्तरात्रात्समुद्धृत्य शोषयेदातपे ततः॥ ततो मज्जानमुद्धृत्य शुचौ पात्रे निधापयेत्॥ द्राक्षारसेन तं दद्याद्दाहोदावर्त्तपीडिते॥ चतुर्वर्षे सुखं बाले यावद्द्वादशवार्षिके॥ चतुरंगुलमज्नोवा कषायं पाययेद्धिमं॥ दधिमंडसुरामंडधात्रीफलरसैःपृथक्॥ सौवीरकेण वा युक्तं कल्केन त्रैवृतेनवा॥ चतुरंगुलसिद्धाद्वाक्षीराद्यदुदियाद्दुलधात्रीफलांबुभिः॥मेषशृंग्यभयाकृष्णाचित्रकैः क्वथिते जले॥ मरुजान्450 सुनुयात्तच्च जातंसौवीरकं यदा॥ भवेदंजलिना तस्य रोध्रकल्कं पिबेत्तदा॥ सुरां रोध्रकषायेण जातां पक्षस्थितां पिबेत्॥ तिल्बकस्य कषायेण कल्केन च सशर्करः॥ सघृतः साधितो लेहः स च श्रेष्ठं विरेचनं॥ सुधा भिनत्ति दोषाणां महांतमपि संचयं॥ आश्वेव कष्टविभ्रंशान्नैव तां कल्पयेत्ततः॥ मृदौ कोष्ठेऽबले बाले स्थविरे दीर्घरोगिणि॥कल्प्या गुल्मोदरगरत्वग्रोगमधुमेहिषु॥ पांडौ दूषीविषे शोफे दोषविभ्रांतचेतसि॥ सा श्रेष्ठा कंटकैस्तीक्ष्णैर्बहुभिश्चसमाचिता॥ द्विवर्षांवात्रिवर्षांवा शिशिरांते विशेषतः॥ तां पाटयित्वा शस्त्रेण क्षीरमुद्धारयेत्ततः॥ बिल्वादीनां बृहत्योर्वा क्वाथेन सममेकशः॥ मिश्रयित्वा मुधाक्षीरं ततोंऽगारेषु शोषयेत्॥ पिबेत्कृत्वा च गुलिकां मस्तुमूत्रसुरादिभिः॥त्रिवृतादीन्नववरां स्वर्णक्षीरीं ससातलां॥ समाहं स्नुक्पयःपीतान् रसेनाज्येन वा पिबेत्॥ तद्वद्व्योपोत्तमाकुंभनि कुंभादीन्गुडांबुना॥ अद्याच्छामात्रिवृक्वाथस्रुक्क्षीरघृतफाणितैः॥ कासारिरसयूषाद्यैर्युक्तं वा स्नुक्पयः पिबेत्॥ निकुंभकुंभश्याभार्कशंखिनी451सप्तलारजः॥ रात्रौ मूत्रे दिवा घर्मे सप्ताहं स्थापयेदिति॥ स्नुक्क्षीरेऽपि ततस्तेन माल्यंवासोऽवचूर्णितं॥ आजिघ्रेत्प्रावृणानश्च मृदुकोष्टो विरिच्यते॥ नातिशुष्कं फलं ग्राह्यं शंखिन्या, निस्तुषीकृतं॥ सप्तलायास्तथा मूलं ते तु तीक्ष्णविकापिणी॥ श्लेष्मामपोदरगरश्वयथ्वादिषु कल्पयेत्॥ अक्षमात्रं तयोः पिंडं मदिरालवणान्वितं॥ हृद्रोगे घातकफजे तद्वद्गुल्मेऽपि योजयेत्॥ शंखिनीचूर्णभागौ द्वौ तिलकल्कस्य चापरः॥ हरीतकीकषायेण तत्तैलं पीडितं पिबेत्॥ अतसीसर्षपैरंडकरंजेष्वप्ययं विधिः॥ दंनिदंतस्थिरस्थूलं
मूलं दंतीद्रवंतिजं॥ आताम्रश्यावं तीक्ष्णोष्णमाशुकारि विकाषिच॥ गुरुप्रकोपि वातस्य पित्तश्लेष्मविलायनं॥तत्क्षौद्रपिप्पलीलिप्तंस्वेदयेन्मृत्कुशांतरे॥ शोषयेच्चातपेऽग्न्यर्कौ हतो ह्यस्य विकापितां॥ तत्पिबेन्मस्तुमदिरातकपीलुरसासवैः॥ अभिष्यण्णतर्गुल्मी प्रमेही जठरीगरी॥ गोमृगाजरसैः पांडुमिकोष्टी भगंदरी॥सिद्धं तत्क्वाथकल्काभ्यां दशमूलरसेन च॥ विसर्पविद्रध्यलजीकक्षादाहान् जयेद्घृतं॥ तैलं तु गुल्पमेहार्शोविबंधकफमारुतान्॥महास्नेहः शकृच्छुक्रवातसंगानिलव्यथाः॥ दंत्या रसे वा शृंग्याश्च गुडक्षौद्रघृतान्वितः॥ लेहः सिद्धोविरेकार्थे दाहसंतापमेहनुत्॥ वातत
र्षेज्वरे पैत्ते स्यात्स एवाजगंधया॥दंतीद्रवंत्योर्मूलानि पचेद्धात्रीरसेततः॥ त्रीनंशान्फाणिताद्द्वौच भजेत्तैले घृतेऽथवा॥ श्यामादिकल्कयुक्तोऽयं लेहः सिद्धं विरेचनं॥ पथ्याक्षदशमूलानां तद्वल्लेहाःपृथग्रसैः॥ तयोर्विडसमं चूर्णं तद्रसेनैव भावितं॥ विबंधे विशि वातोत्थे गुल्मे चाम्लयुतं हितं॥ मुद्गादिसिद्धैस्तन्मूलैर्यूषादींश्च प्रकल्पयेत्॥ दंतीद्रवंतीमरिचस्वर्णक्षीरीयवानकं॥ सशुंठ्यग्निकपृथ्वीकं चूर्णितं सप्तवासरान्॥ मूत्रभावितमाज्येन पिबेज्जीर्णे च तर्पणं॥ सर्वदा सर्वरोगेषु बाले वृद्धे च तद्धितं॥ दुर्भुक्ताजीर्णपार्श्वार्तिगुल्मप्लीहोदरेषु च॥ गंडमालासु वाते च पांडुरोगे च शस्यते॥ गुडस्याष्टपले पथ्या विंशतिः स्यात्पलंपलं॥ दंतीचित्रकयोः कर्षौपिप्पलीत्रिवृतोर्दश॥ प्रकल्प्य मोदकानेकं दशमे दशमेऽहनि॥ उष्णांभोऽनुपिबन् खादेत्तान्सर्वान्विधिनाऽमुना॥ एते निष्परिहाराः स्युः सर्वव्याधिनिबर्हणाः॥ विशेषाद्वहणीपांडूकंडुकोठार्शसां हिताः॥ विरेचने मुख्यतमा नवैते त्रिवृतादयः॥ हरीतकीमपि त्रिवृद्विधानेनोपकल्पयेत्॥ विशेषाद्गग्रहणीपांडुशो
पमोहोदरापहाम्॥ पिबेत्पथ्यांससिंधूत्थविडंगोत्पलनागरां॥
मूत्रेण वत्सकादेर्वा निर्यूहेण हरीतकीं॥ पथ्यानागरचूर्णं वा संयुक्तंनीलिनीफले॥ गुडेन भक्षयेत्तोयं कवोष्णं च पिबेदनु॥ पथ्यात्रिवृद्भ्यांगुलिकाः कार्याः क्षौद्ररसाप्लुताः॥ माषप्रमाणास्ताः शुष्का यक्ष्मी लिह्याद्घृतद्रुताः452॥पथ्यात्रिवृत्कदुष्णांवु453 सर्वश्रेष्टं विरेचनं॥ स्नुक्क्षीरभाविते पथ्याचूर्णेकुर्वीत मोदकान्॥ कोलास्थिमात्रान् शुष्कांश्चनवनीतेन लेहयेत्॥ गुल्मोदरयकृत्प्लीहशूलानाहविबंधिनः॥ लिह्यादेरंडतैलेन कुष्टत्रिकटुकान्वितं॥ सुखोदकं चानुपिबेत्सुखमेतद्विरेचनं॥ अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मतां॥ कुर्यात्संश्लेषविश्लेषकालसंस्कारयुक्तिभिः॥ त्वक्केसराम्रातकदाडिमैलासितोपलामाक्षिकमातुलुंगैः॥ मद्येन तैस्तैश्च मनोनुकूलैर्युक्तानि देयानि विरेचनानि॥ ॥ इति विरेचनकल्पो नाम द्वितीयोऽध्यायः॥२॥
अथातो वमनविरेचनव्यापत्सिद्धिं व्याख्यास्यामः॥ अतिक्षुधितेन मृदुकोष्ठेनाल्पश्लेष्मणा दुर्वमेन दुर्बलेन होनमात्रमतितीक्ष्णमतिशीतमजीर्णे वा पीतं वमनमधो गच्छति॥ तत्रेप्सितानवाप्तिर्मलोत्क्लेशश्च॥ तं पुनराशु स्नेहयित्वा यौगिकैर्मात्राकालाद्यपेक्षं वामयेत्॥ व्यापत्करणानि च पूर्वमतिक्रमं स्मरन् परिहरेत्॥ अजीर्णिनः श्लेष्मवतोऽत्युष्णतीक्ष्णलवणमात्रमहृद्यं वा विरेचनमन्यद्वा भेषजमूर्ध्वं प्रवर्त्तते॥ तत्र पूर्वोक्ता व्यापत्साधनं च॥ अतोऽप्यूर्ध्वमुत्तिष्ठति हृद्यावलेखनवटकवर्जमौषधं न तृतीयमवचारयेत्॥ क्रूरकोष्ठस्या॒तितीक्ष्णाग्ने रल्पवीर्यं वा भेषजमूर्ध्वभागिकमधोभागिकं वा भक्तवदुपैति पाकं॥तत्र समुदीर्णा दोषा यथाकालमनिर्ह्वियमाणा विभ्रमं कुर्वंति॥ तं सुस्निग्धकोष्टमनल्पमनन्नं चोषधं पाययेत्॥ कषायमल्पप्रत्यग्रंरूक्षंवा भेषजमस्निग्धस्विन्नेन वा पीतं शीतोपचारेण वा स्तब्धदोषं विग्र
थितमयोगि भवति॥ तत्र वमनेन भूयो वामयेद्विरेचनं स्निग्धस्विन्नस्य पुनर्विरेचयेदुक्लिष्टभूरिदोषं वा तृतीयेऽहनि॥ उभयोश्च संशोधनयोर्लवणतैलाभ्यक्तं पिंडप्रस्तराभ्यां स्वेदयेत्॥ स्निग्धस्विन्नस्य च वमनमकृत्वा विरेचनं पीतवतः सामस्य वा मृदु वा विरिक्तस्याधोभागेऽत्यर्थगुरुस्तब्धोदरता शूलो वातपुरीषसंगश्च भवति॥ तमप्ययोगिनं समूत्रैस्तीक्ष्णैरास्थाप्य जांगलरसैश्च भोजयित्वा फलदारुपिप्पलीसिद्धेन तैलेनानुवास्य वातहरैश्च स्नेहैरुपस्नेह्य पुनस्तीक्ष्णैर्विरेचयेत्॥ कफोल्वणस्यातिस्निग्धस्य गुरुकोष्ठस्य मंदाग्नेर्वा मृदुप्रणीतमौषधं भृशमुत्क्लेश्य दोषान् जाड्यतंद्रादौर्बल्यांगसादान् जनयति॥ तच्छीघ्रमुल्लिखेत्॥ लंघितं च संधुक्षिताग्निंपुनः स्निग्धं तीक्ष्णोष्णैविंशोधयेत्॥ सशेषान्नाय च वातश्लेष्मवते रूक्षाय सोदावर्त्ताय मंदाग्नये वा शीतं रूक्षं वा दत्तमौषधं भृशमाध्मानं करोति॥ तत्र मलसंगात्समुन्नह्यदह्यत्युदरमंतःशूलं दृतिवत्पार्श्वयोरापूर्णता शिरःपृष्ठरुजा श्वासः पायुबस्तिनिस्तोदश्च भवति॥ तमुदावर्तानाहहराभ्यंगस्वेदवर्तिदीपनचूर्णबस्तिक्रियाभिरुपचरेत्॥ क्षामेणाल्पबलेन मृदुकोष्टाग्निना रूक्षेण स्निग्धेन वा स्विन्नेन सामेन वा बलवदौषधमुपयुक्तं सपित्तमनिलं परिदृष्य परिकर्त्तिकामापादयति॥ तत्र नाभिबस्तिगुदमेंढ्रेसदाहं परिकर्त्तनमनिलसंगो विष्टंशश्च॥ तं कृष्णतिलमधुकमधुयुक्तैः पिच्छाबस्तिभिरास्थापयेत्॥ क्षीरिवृक्षशृतक्षीरेण वा॥ शीतांबुपरिषिक्तंचैनं पयसा भुक्तवंतं घृतमंडेन यष्टीमधुकतैलेनानुवासयेत्॥ क्षामस्य मधुरो बृंहणश्च सर्वो विधिरिष्टः॥ सामे लंघनोदीपनश्चलघुरूक्षोष्णं चान्नपानं॥ निरामीभूते (मँध्यबलोपचारइववातातपाभ्यामिव पांशुभस्मावकिरणेरितादि) वातानुबंधे लघुक्षाराम्लं बातेऽधिके दधि साम्लं दाडिमत्वचा युक्तं भोजने पाने च युंजीत॥ सदाडिमरसं च सर्पिः पिबेत्॥ उष्णांबुना वा तिलदेवदारुकल्कं॥ कूरको
ष्टस्य बहुदोषस्याल्पमात्रगुणं मृदु स्निग्धंवा शोधनमवचारितमुत्क्लेश्यदोषान्न निर्हरत्यल्पाल्पं च पित्तकफसंसृष्टं परिस्रवति॥ विष्टंभगौरवशोफकोठकंडूपांडुतांगसादशूलानि चापादयति॥ तं तिनिशधवाश्वकर्णपलाशबलानिर्यूहैर्मधुयुक्तैरास्थापयेत्॥ उपशांतपरिस्रवं च पुनरुपस्निग्धं तीक्ष्णैः शोधयेत्॥ शुद्धे च दीपनांश्चूर्णासवारिष्टादीन् योजयेत्॥पीतौषधो यदा वेगमुदीग्यति निगृह्णाति वा॥ तदा प्रवाहिकाऽस्य जायते॥ तस्यां सदाहशुलं सपिच्छं श्वेतं कृष्णंसरक्तं वा भृशं प्रवाहमानः कफमुपविशति॥ तं परिस्रवविधिनोपचरेत्॥पीतौषधस्य भेषजोद्राच्छर्द्यादीनां निग्रहाद्वातादयः कुपिता हृदयमुपश्रित्य हृद्ग्रहंघोरमावहंति॥ ततः प्रधानमर्मोपतापाद्वदनाभिरत्यर्थमातुरः पीड्यते मोहहिध्माकासलालापार्श्वशूलयुतो वेपथुमान्नष्टसंज्ञो दंतान्कटकटायत्युद्धृताक्षो जिह्वांखादयति॥ तं हृदयापसरणमाहुस्तस्मै भिषक् शीघ्रममुह्यन्नभ्यंगपूर्वं धान्यस्वेदेन परिस्वेद्य तीक्ष्णमवपीडं दद्यात्॥ यष्टीमधुकमिश्रेण तंदुलांबुना वमनं॥ कटुभिर्वा कफोत्तराय॥ ततो दोषशेषंपाचनीयैः पाचयेत् यथादोषोच्छ्रयं च बस्तीन् वितरेत्॥ अस्निग्घस्विन्नेनाब्रह्मचारिणा वेगविधारिणा मृदुकोष्ठेन सुकुमारेण वा रूक्षमौषधमतिमात्रं प्रयुक्तमतिविरेकाद्वायुं कोपयति॥ तेन सर्वांगप्रग्रहो विशेषात्पार्श्वपृष्ठश्रोणीमन्यामर्मसु शुलं मूर्च्छा भ्रमः कंपः स्तंभो निस्तोदो भेदउद्वेष्टनं संज्ञानाशश्च स्यात्॥ तमभ्यज्य धान्यैः स्वेदयित्वा यष्टीमधुविपक्वेन तैलेनानुवासयेत्॥ वातहरं चान्नपानं॥ स्निग्धस्विनस्यातिमृदुकोष्ठस्यक्षुधितस्य वा तीक्ष्णवेगमतिभूरि वा प्रयुक्तमौषधं सर्वंनिर्हृत्य मलं धातूनपि द्रवीकृत्य स्रावयेदतियोगिभवति॥ तं शतधौतघृतेनाभ्यज्यंकषायस्वादुशीतैः प्रदेहपरिषेकावगाहान्नपानैः शर्करामधुमद्भिश्च लेहैः स्तंभयेत्॥ चंदनांजनोशीरच्छागासृक्शीतोदकैर्लाजसक्तून् पाययेत्॥ पिच्छाबस्तिं चास्मै दद्यात्॥ मधुरवर्गसिद्धं च क्षीरसर्पिः सर्पिर्मंडो वा ऽनुवासनं॥ रक्तपित्तविधानं च कुर्यात्॥ विशेषेण तु वमनातियोगे सघृतसिताक्षौद्रं फलरसैर्मंथंपिबेत्॥ क्षीरिवृक्षशुंगसिद्धां वा समाक्षिकां पेयां क्षीरं वा संग्राहिद्रव्यसिद्धं च क्षीरं भोजने चावचारयेत्॥ सोद्गारायां च छर्द्यांधनिकामधूकमधुरसमुस्तांजनानि मधुना लिह्यात्॥ वाक्संगे हनुसंहननेऽनिलार्त्तौ च घृतमांसरससिद्धामल्पतंदुलां पेयां पिबेत् स्नेहस्वेदौचावचारयेत्॥ जिह्वाप्रवेशे स्निग्धाम्ललवणान्कवलग्रहगंडूपान् हृद्यांश्चाजमांसरसान्॥ पुरतश्चास्यंफलान्यम्लानि खादयेत्॥ निर्गतां जिह्वांतिलद्राक्षाकल्कलिप्तांव्योपलवणचूर्णप्रघृष्टांवा प्रवेशयेत्॥ अक्षिणी व्यावृते घृताभ्यक्ते पीडयेत्॥ विसंज्ञं सामवेणुगीतशब्दान् श्रावयेत्॥विरेचनानियोगे तंदुलांभसा मिश्रेण वमेत्॥ प्रियंग्वादिं च तंदुलोदकेन पिबेद्रोध्ररसांजनदाडिमत्वचो वा कमलोत्पलसमंगापद्मकेसराणि वा॥ क्षौद्रशर्करामधुकौदुंबरत्वचो वा॥ रक्तातिसारक्रियां चकुर्वीत॥ गुदं निःसृतमभ्यज्य स्वेदयित्वा कषायैश्च स्तंभयित्वा प्रवेशयेत्॥ पूर्ववच्च वाक्संगादीन् साधयेत्॥ उभयत्र च जीवरक्तपित्तयोर्ज्ञानार्थं रक्ते शुक्लं पिचु प्लोनं वा क्षिपेत्॥ तस्मिन्नावाने454कोष्णांबुक्षालितशुद्धे रक्तं वैवर्ण्ये तु रक्तपित्तं विद्यात्॥ अन्नं वा तद्विमिश्रं शुने काकाय वा दद्यात्॥ तस्मिन् भुक्ते जीवमभुक्ते पित्तं॥ आमरणाच्च तस्य तृणमूर्च्छामदार्तस्य क्रियां पित्तघ्नीमतियोगोक्तं च कुर्यात्॥ खड्गादिरुधिरं चातिस्रुतरक्तोक्तविधिना सक्षौद्रं शीघ्रमुपयुंजीत॥ श्यामाकाश्मर्यदूर्वोशीरैर्वा शृतं पयो घृतमंडांजनयुक्तंशीतंबस्तौ निषेचयेत्॥ शेषेष्वपि चा सम्यक्प्रयुक्तवमनविरेचनोपद्रव्येषु यथामयंदोषानपेक्ष्य प्रतिकुर्याद्बस्तिव्यापत्सिद्धिं चेक्षेत॥ एवमुभयतोभागेऽपि शोधने यथावस्थमुत्तिष्ठेत॥ या तु विरेचने परिकर्तिका तद्वमने कंठक्षणनं यः परिस्रवः स कफप्रसेको यत्प्रवाहणं स शुष्कोद्गार इति॥ भवति चात्र॥अतिमात्रमकालेऽल्पं तुल्यवीर्यैरभावितं॥ असम्यक्संस्कृतं जीर्णं व्यापद्येतौषधं ध्रुवं॥ छर्दनं न तु दुश्छर्दंदुर्विरेचं न रेचनं॥ पाययेदौषधं भूयस्तं निहंति तथा हि ते॥ यस्योर्ध्वंकफसंसृष्टं पीतं यात्यानुलोमिकं॥ वमितं केवलैः शुद्धं लंघितं पाययेत्तु तं॥ विबद्धेऽल्पे चिराद्दोषे स्रवत्युष्णंपिबेज्जलं॥ तेनाध्मानं वमिस्तृष्णा विबंधश्चानुशाम्यति॥ भेषजं दोषरुद्धं चेन्नोर्ध्वं नाधः प्रवर्त्तते॥ सोद्गारं सांगशूलं वा स्वेदं तत्रावधारयेत्॥ सम्यग्विरिक्तसोद्गारभेषजं क्षिप्रमुल्लिखेत्॥ अजीर्णमप्रवृत्तौतु सुशीतैः स्तंभयेद्भिषक्॥ कदाचिच्छ्लेष्मणा रुद्धं विष्ठत्युरसि भेषजं॥ क्षीणे श्लेष्मणि सायान्हे रात्रौ वा तत्प्रवर्त्तते॥ रूक्षान्नाहारयेज्जीर्णे तिष्ठत्यूर्ध्वगतेऽपि वा॥ वायुना भेषजे त्वन्यत्सस्नेहलवणं पिबेत्॥ तृण्मोहभ्रममूर्च्छायाः स्युर्जीर्यति च भेषजे॥ पित्तघ्नं स्वादुशीतं च भेषजं तत्र शस्यते॥ लालाहृल्लासविष्टंभरोमहर्षान्कफावृते॥ भेषजंतत्र तीक्ष्णोष्णं कट्वादि कफनुद्धितं॥ प्रतिकूला गतिः पायोर्ग्रथितत्वं सगौरवं॥ दोषोत्क्लेशो भृशाध्मानं परिकर्तः परिस्रवः॥ प्रवाहिकाहृद्ग्रहणं सर्वगात्रपरिग्रहः॥ सर्वधातुस्रवेणैता द्वादशोक्ताः ससाधनाः॥ व्यापदो योगविभ्रंशाद्द्विविधेऽपि विरेचने॥ उत्पद्यमानासु च तासु तासु व्यापत्सु संशोधनविभ्रमेण॥ दिशाऽनयैवाशु यतेत सिद्धौ ज्योतिर्हि शास्त्रं नयदुर्नयानां॥ ॥ इति वमनविरेचनव्यापत्सिद्धिर्नाम तृतीयोऽध्यायः॥३॥
अथातो बस्तिकल्पं व्याख्यास्यामः॥ बलां गुडूचीं त्रिफलां सरास्नांद्विपंचमूलं च पलोन्मितानि॥ अष्टौ फलान्यर्द्धतुलां च
मांसांच्छागात्पचेदप्सु चतुर्थशेषं॥ पूते यवानीफलविल्वकुष्ठवचाशताब्हाघनपिप्पलीनां॥ कल्कैर्गुडक्षौद्रयुतैः455सतैलैर्युक्तः सुखोष्णोलवणान्वितश्च॥ बस्तिः परं सर्वगदप्रमाथी स्वस्थे हितो जीवनबृंहणश्च॥ बस्तौच यस्मिन् प्रणितो न कल्कः सर्वत्र दद्यादमुमेव तत्र॥द्विपंचमूलस्य रसोऽम्लयुक्तः सच्छागमांसस्य सपूर्वपेण्यः456॥ त्रिस्नेहयुक्तः प्रवरो निरूहः सर्वानिलव्याधिहरः प्रदिष्टः॥ बलापटोलीलघुपंचमूलत्रायंतिकैरंडयवात्सुसिद्धात्॥ प्रस्थो रसाच्छागरसार्द्धयुक्तः साध्यः पुनः प्रस्थसमस यावत्॥ प्रियंगुकृष्णाघनकल्कयुक्तः सतैलसर्पिर्मधुसैंधवश्च॥स्याद्दीपनो मांसबलप्रदश्व चक्षुर्बलं चोपदधाति सद्यः॥ एरंडमूलात्रिपलं पलाशात्तथा पलांशं लघुपंचमूलं॥ रास्नाबलाच्छिन्नरुहाश्वगंधापुनर्नवारग्वधदेवदारु॥ फलानि चाष्टौसलिलाढकाभ्यां विपाचयेदष्टमशेषितेऽस्मिन्॥ वचाशताब्हाहषुपाप्रियंगुयष्टीकणावत्सकबीजमुस्तं॥ दद्यात्सुपिष्टं सहतार्क्ष्यशैलमक्षप्रमाणं लवणांशयुक्तं॥ समाक्षिकस्तैलयुतः समूत्रो बस्तिर्जयेल्लेखनदीपनोऽसौ॥ जंघोरुपादत्रिकपृष्ठकोष्ठहृद्गुह्यशूलं गुरुतां विबंधं॥ गुल्माश्मबर्ध्मग्रहणीगुदोत्थांस्तांस्तांश्च रोगान्कफवातजातान्॥ चतुष्पले तैल घृतस्य भृष्टश्छागाच्छताब्हादधिदाडिमाम्लः॥ रसः सपेप्यो बलवर्णमांसरेतोग्नितैमिर्यशिरोरुजीष्टः॥ यष्ट्याह्वयस्याष्टपलेन सिद्धं पयःशताब्हाफलपिप्पलीभिः॥ युक्तं ससर्पिर्मधुवातरक्तविसर्पवैस्वर्यहिनो निरूहः॥ यष्ट्याव्हरोध्राभयचंदनैशअचशृतं पयोऽग्र्यंकमलोत्पलैश्च॥ सशर्कराक्षौद्रघृतं सुशीतं पित्तामयान् हंति सजीवनीयं॥ गोपांगनाचंदनशीतपाकीद्राक्षर्द्धिकाश्मर्यमधूकसेव्यैः॥ पयःशृतं श्रावणिमुद्गपर्णीवलास्वगुप्तामधूयष्टिकल्कैः॥ गोधूमचूर्णैश्च पिचुप्रमाणैरिक्षोर्विदार्याश्च रमेन युक्तं॥ तैलेन यष्टीमधुसाधितेन सितोपलाक्षौद्रघृतैश्च शीतः॥ बस्तिः
प्रशस्तः स समस्तदेहदाहे सशुलेऽवयवाश्रिते वा॥ गुल्मातिसारभ्रममूत्रकृच्छ्रक्षीणे क्षतौजोबलसंक्षये च॥ कोशातकारग्वधदेवदारुमूर्वाश्वदंष्ट्राकुटजार्कपाठाः॥ पक्त्वा कुलत्थान् बृहतीं च तोये रसस्य तस्य प्रसृता दश स्युः॥ तान्सर्षपैलामदनैः सकुष्टैरक्षप्रमाणैः प्रसृतैश्च युक्तान्॥ क्षौद्रस्य तैलस्य फलाह्वयस्य क्षारस्य तैलस्य च सार्षपस्य॥ दद्यान्निरूहं कफरोगिताय मंदाग्नये चाशनविद्विषे च॥ पुनर्नवैरंडवृषाश्मभेदवृश्चीवभूतीकबलापलाशान्॥ द्विपंचमूलं च पलांशकानि क्षुण्णानि धौतानि फलानि चाष्टौ॥बिल्वं यवांकोलकुलत्थधान्यं फलानि च स्युः प्रसृतोन्मितानि॥ पयो जलद्व्याढकसाधितं तत्क्षीरावशिष्टंशुचिवस्त्रपूतं॥ वचाशताह्वाऽमरदारुकुष्टयष्ट्याव्हसिद्धार्थकपिप्पलीनां॥ कल्कैर्यवान्या मदनैश्च युक्तं नात्युष्णशीतं गुडसैंधवाक्तं॥ क्षौद्रस्य तैलस्य च सर्पिषश्च नवस्य युक्तं प्रसृतित्रयेण॥ दद्यान्निरूहं विधिना विधिज्ञस्तं सर्वसंसर्गकृतामयघ्नं॥ अर्द्धार्द्धविहितान् बस्तीनतश्चित्रान्प्रचक्षते॥ कोशातकीद्वयेक्ष्वाकुफलजीमूतवत्सकाः॥श्यामात्रिवृतयोर्मूलं तथा दंतीद्रवंतिजं॥ प्रकीर्या चोदकीर्या च क्षौरिणी नीलिनी फलं॥ सप्तला शंखिनी रोध्रंफलं कंपिल्लकस्य च॥ सकल्कसैंधवयुताः पक्वाशयविशोधनाः॥ धातुकीपुप्पतर्कारीजीवंतीमूलवत्सकाः॥ प्रग्रहः खदिरी कुष्टं शमीपिंडीतकायवाः॥ प्रियंगुरक्तमूले च भरणीजातियूथिकाः457॥ वटाद्याः किंशुकं रोध्रमिति संग्राहिका मताः॥ ग्राहिप्रियंग्वंबष्टादिक्वाथकल्कैः क्रमेण च॥ ऊषकादिप्रतीवापो लेखनस्त्रिफलारसः॥ मधुरक्वाथकल्केन सरसाज्येन बृंहणः॥ बदर्यैरावणीशैलूशाल्मलीधन्वनांकुराः॥ समाक्षिकाः क्षीरयुताः सासृजाः पिच्छिलाः स्मृताः॥ कोलं कतककांडेक्षुदर्भपाठेक्षुवालुभिः॥ दाहघ्नःसघृतक्षीरो द्वितीयश्चोत्पलादिभिः॥ मुष्टिं शाल्मलिवृंतानां क्षीरसिद्ध घृतान्वितः॥ हितः प्रवाहणे तद्वद्वृंतैःशाल्मलकस्य च॥ कर्बुदाराढकीनीपविदुलैः क्षीरसाधितैः॥ परिकर्त्तेतथा वृंतैः श्रीपर्णीकोविदारजैः॥ परिस्रवे पयः सिद्धं सवृश्चीवपुनर्नवं॥आखुकर्णिकया तद्वत्तंदुलीयकयुक्तया॥अश्वावरोहकः काकनासाराजकसेरुकाः॥ सिद्धाः क्षीरेऽतियोगे स्युः क्षौद्रांजनघृतैर्युताः॥ न्यग्रोधाद्यैश्चतुर्भिश्च तेनैव विधिनाऽपरः॥ बृहतीक्षीरकाकोलीपृश्निपर्णीशतावरी॥काश्मर्यबदरीमूर्वास्तथोशीररप्रियंगवः॥ जीवादाने शृते क्षीरे द्वौ घृतांजनसंयुतौ॥ बस्ती प्रदेयौ भिषजा शीतौसमधुशर्करौ॥ गोऽव्यजामहिषीक्षीरैर्जीवनीययुतैरपि॥ शशैणदक्षमार्जारमहिष्यव्यजशोणितैः॥ सद्यस्कैर्मृदितैर्बस्तिर्जीवादाने प्रशस्यते॥ अथेमान् सुकुमाराणां निरूहान्स्त्रेहनान्मृदून्॥ कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक्॥क्षीराद्द्वौप्रसृतौ कार्यौमधुतैलघृतान्त्रयः॥ खजेन मथितो बस्तिर्वातघ्नो बलवर्णकृत्॥ एकैकः प्रसृतस्तैलप्रसन्नाक्षौद्रसर्पिषां॥ बिल्वादिमूलक्वाथाद्द्वौकौलत्थाद्द्वौ स वातजित्॥ पटोलनिंबभूतिकरास्नासप्तच्छदांभसः॥ प्रसृतः पृथगाज्याच्च बस्तिः सर्षपकल्कवान्॥ सपंचतिक्तोऽभिष्यंदकृमिकुष्ठप्रमेहहा॥ विडंगत्रिफलाशिग्रुफलमुस्ताखुकर्णिजाः॥ कषायाः प्रसृताः पंच तैलादेको विमथ्य तान्॥निरूहः कृमिहा वेल्लपिप्पलीकल्कयोजितः॥ पयस्येक्षुम्थिरारास्नाविदारीक्षौद्रसर्षिपः॥ एकैकः पसृतो बस्तिः कृष्णाकल्को वृषत्वकृत्॥ चत्वारस्तैलगोमूत्रदधिमंडाम्लकांजिकात्॥ बस्तिः कपोष्णःसानाहे मूत्रकृच्छ्रे परो मतः॥ मृदुबस्तिजडीभूते तीक्ष्णोऽन्यो बस्तिरिष्यते॥ तीक्ष्णैर्विकर्षितेस्निग्धो मधूरः शिशिरो मृदुः॥ तीक्ष्णत्वंमूत्रबिल्बाग्निलवणक्षारसर्षपैः॥ प्राप्तकालं विधात
व्यं क्षीराज्याद्यैस्तु मार्दवं॥ बलकालदेशसात्म्यप्रकृतीः भविभज्य योजितो बस्तिः॥ स्वैःस्वैरोषधवर्गैःस्वान्स्वान्रोगान्निवर्तयति॥उष्णार्त्तानां शीतांश्छीतार्त्तानां तथा सुखोष्णांश्च॥ तद्योग्यौषधयुक्तान् बस्तीन्संतर्क्ययुंजीत॥ बस्तीन्न बृंहणीयान्दद्याद्व्याधिषु विशोधनीयेषु॥ मेदःस्विनो विशोध्या ये च नराः कुष्ठमेहार्ताः॥ न क्षीणक्षतदुर्बलमूर्च्छितकृशशुष्कशुद्धदेहानां॥ दद्याद्विशोधनीयान्दोषनिबद्धायुषोये च॥ इति बस्तिकल्पो नाम चतुर्थोऽध्यायः॥१॥
अथातः सिद्धबस्तिकल्पं व्याख्यास्यामः॥ सिद्धबस्तीन्प्रयुंजीत सर्वदा सर्वदेहिनां॥ निर्व्यापदो बहुफलान्बलपुष्टिकरान्सुरवान्॥ मधुतैले समे कर्षःसैंधवाद्द्विपिचुर्मिशिः॥ एरंडमूलक्वाथेन निरूहो माधुतैलिकः॥रसायनं प्रमेहार्शः कृमिगुल्मांत्रवृद्धिनुत्॥ सयष्टीमधुकश्चैव चक्षुष्योरक्तपित्तजित्॥ यापनो घनकल्केन मधुतैलवसाज्यवान्॥ पायुजानूरुवृषणबस्तिमेहनशूलजित्॥ प्रसृतांशैर्घृतक्षौद्रवसातैलैः प्रकल्पयेत्॥ यापनं सैंधवार्द्धाक्षहपुषार्द्धपलान्वितं॥ एरंडमूलनिःक्वाथो मधु तैलं ससैंधवं॥ एषयुक्तरथो बस्तिः सवचापिप्पली फलः॥ सक्वाथो मधु षड्ग्रंथा458 शताव्हा हिंगु सैंधवं॥ सुरदारुच रास्नाच बस्तिर्दोषहरः शिवः॥ पंचमूलस्य निःक्वाथस्तैलं मागधिका मधु॥ ससैंधवः समधुकः सिद्धबस्तिरिति स्मृतः॥ द्विपंचमूलत्रिफलाफलबिल्वानि पाचयेत्॥ गोमूत्रे तेन459पिष्टैश्चपाठावत्सकतोयदैः॥ सफलैः क्षौद्रतैलाभ्यां क्षारेण लवणेन च॥ युक्तो बस्तिः कफव्याधिपांडुरोगविसूचिषु॥ शुक्रानिलविबंधेषुबस्त्याटोपेपु पूजितः॥ मुस्तपाठामृतैरंडबलारास्नापुनर्नवं॥ मंजिष्ठाऽरग्वधोशीरत्रायमाणाक्षरोहिणीः॥ कनीयः पंचमूलं च पालिकं मदनाष्टकं॥ जलाढके पचेत्तच्च पादशेषंपरिस्रुतं॥ क्षीरद्विप्रस्थसंयुक्तं क्षीरशेषंपुनः पचेत्॥ सपादजांगलरसः
ससर्पिर्मधुसैंधवः॥ पिष्टैर्यष्टीमिशिश्यामाकलिंगकरसांजनैः॥ बस्तिः सुखोष्णो मांसाग्निबलशुकविवर्द्धनः॥ वातासृड्येहमेदोर्शोगुल्मविण्मूत्रसंग्रहं॥विषमज्वरवीसर्पवर्ध्माध्मानप्रवाहिकाः॥ वंक्षणोरुकटीकुक्षिमन्याश्रोत्रशिरोरुजः॥ हन्यादसृग्दरोन्मादशोफकासाश्मकुंडलान्॥ चक्षुष्यः पुत्रदो राजा यापनानां रसायनं॥ पृथक्पलांशं विपचेत्पंचमूलमगोक्षुरं॥ क्षीराढके चतुःप्रस्थं पिष्टैर्यष्ट्यादिभिर्युतं॥ क्षौद्रतैलाज्यसिंधूत्थयुक्तं बस्तिः सुपूजितः॥ विशेषाद्वालवृद्धस्त्रीसुकुमारसुखात्मनां॥ तद्वत्सहाचरवलासारिवादर्भसाधितं॥ क्षीरबस्तिस्तथा ऽभीरुगुडूचीबृहतीद्वयैः॥सिद्धं पयो मागधिकायष्टीमधुककल्कवत्॥ पंचमूलं बृहृत्यादिप्रतिद्रव्यं पलोन्मितं॥द्विपलं शालिगोधूमयवमापं सयष्टिकं॥ तैः सिद्धं छागलं क्षीरं कुक्कुटांडरसःसिता॥साज्यक्षौद्रद्विलवणस्तैर्बस्तिः शुक्रकृत्परं॥ कल्पोऽयं शिखिगोनर्दमत्स्याद्यंडरसेष्वपि॥ रसः कुलीरमांसस्य चटकांडरसान्वितः॥ सशर्कराघृतमधुर्बस्तिर्वृषतमो मतः॥ बस्तसूकरजैर्मुष्कैःकुलीरचटकामिषैः॥ सिद्धं पयो बस्तमुष्कमुच्चटेक्षुरकं मधु॥तैर्घृताढ्योऽल्पलवणो बस्तिर्वृषतमः परः॥ सिद्धेन पयसा भोज्यमात्मगुप्तोच्चटेक्षुरैः॥ अतो दशदशाहेन यस्तु बस्तीन्निषेवते॥ वाजीव पुष्टः सवृषोगच्छति प्रमदाशतं॥ एते माक्षिकसंयुक्ताः कुर्वंत्यतिवृषंनरं॥ नातियोगं न चापोगं स्तंभिनस्ते च कुर्वते॥ निरूहा लेखनाः प्रायो बृंहणाः स्नेहबस्तयः॥ यापनेषुभयं तस्मान्नेष्टं तेष्वनुवासनं॥मृदुत्वान्न निवर्तेरन् यस्य त्वेते प्रयोजिताः॥ समूत्रैर्बस्तिभिस्तीक्ष्णैरास्थाप्यः क्षिप्रमेव सः॥ शोफाग्निनाशपांडुत्वशूलार्शः परिकर्तिकाः॥ स्युर्ज्वरश्चातिसारश्चयापनात्यर्थसेवनात्॥ अरिष्टक्षारसीध्वाद्यैस्तत्रेष्टा दीपनी क्रिया॥ युक्त्यातस्मान्निषेवेत यापनान्नप्रसंगतः॥ मृद्वल्पौषधसंयोगात्पादहीनप्रमाणतः॥ अल्पकालोपयोगाच्च तेषु निष्परिहारता॥ द्रव्येषु यापनार्थेषु सिद्धात्स्नेहात्पृथक् पृथक्॥ बस्तीन्सर्वेषु वा युंज्यात्परिहारविवर्जितान्॥ सहाचराक्षीरुबलारास्रागोक्षुरकात्पृथक्॥ तुलां जलद्रोणशते पंचद्रोणावशेषेते॥ पूतशीते विसद्राक्षातवक्षीरीनिदिग्धिकाः॥ महासहाक्षुद्रसहायष्टीमधुमधूलिकाः॥ जीवकर्पभकोदीच्यमृणालोत्पलचंदनं॥खर्जूरतालमज्जात्मगुप्तातामलकीकणाः॥ पटोलमेदात्वक्पत्रशीतपाक्योदनाव्हयाः॥ कल्कीकृत्य क्षिपेत्तस्मिन्पृथक्च प्रस्थसंमितं॥ रसं वराहमहिषबस्तमुष्कोद्भवं तथा॥ शिखिकुक्कुटहंसांडसंभवं तैलसर्पिषी॥धात्रीविदारीस्वरसं गव्यक्षीराढकद्वयं॥ ब्रह्मभेरीमृदंगानां निनादैः साधितं च यत्॥ सितच्छत्रकृतच्छायं सितवस्त्रावगुंठितं॥ आरोपितं गजस्कंधे पूजयित्वा वृषध्वजं॥ कृत्वा स्वस्त्ययनं दद्यात्स्त्रेहबस्तिमयंत्रणं॥ प्राप्तस्तेनातिवृषतांश्रमयेद्वनिताशतं॥ निर्वलीपलितः कांतश्चिरंजीवी भवेत्स च॥ नष्टशुक्रक्षतक्षीणविषमज्वरिणां हितः॥ व्यापन्नार्त्तवशुक्राणां पुत्रदाता रसायनं॥ एवं च बस्तयोऽन्येऽपि कल्प्याः पाक्याश्च नैकशः॥ शतंवारान्सहस्रं वा पाचयेत्संभवे सति॥ दोषघ्नाः सपरीहारा वक्ष्यंते स्नेहबस्तयः॥ दशमूलं वरां रास्नामश्वगंधां पुनर्नवां॥ गुडूच्यैरंडभूतीकभार्ङ्गीकरोहिषं॥ शतावरीं सहचरं काकनासां पलांशिकं॥ यवमाषातसीकोलकुलत्थान्प्रसृतोन्मितान्॥ वहे विपाच्य तोयस्य द्रोणशेषेण तेन च॥ पचेत्तैलाढकं पेष्यैर्जीवनीयैः पलोन्मितैः॥ अनुवासनमित्येतत्सर्ववातविकारनुत्॥ आनूपानां वसा तज्जीवनीयोपसाधिता॥ शताव्हायवबिल्वाम्लैस्तैलं सिद्धं समीरणे॥ सैंधवेनाग्निवर्णेन तप्तंचानिलजिद्घृतं॥ जीवंतीं मदनं मेदां श्रावणी मधुकं बलां॥ शताब्हर्षभकौ कृष्णां काकनासां शतावरीं॥ स्वगुप्तां क्षीरकाकोलीं कर्कटाख्यां शठीं वचां॥ पिष्ट्वातैलं घृतं क्षीरे साधयेत चतुर्गुणैः॥ बृंहणं वातपित्तघ्नंबलशुकाग्निवर्द्धनं॥ रजःशुकामयहरं पुत्रीयं चानुवासनं॥ शिशिरस्पर्शवीर्यैश्चपिष्टैःक्षीरे चतुर्गुणे॥ तैलपादं घृतं सिद्धं पित्तघ्नमनुवासनं॥ सैंधवं मदनं कुष्टं शताव्हा निचुलो वचा॥ हीबेरं मधुकं भार्ङ्गी देवदारु सकट्फलं॥ नागरं पुष्करं मेदा चविका चित्रकः शठी॥विडंगातिविपेश्यामा हरेणुर्नीलिनी स्थिरा॥बिल्वाजमोदे चपला दंती रास्नाच तैः समैः॥ साध्यमैरंडतैलं वा तैलं वा कफरोगनुत्॥ वर्ध्मोदावर्त्तगुल्मार्शःप्लीहमेहान्समारुतान्॥ आनाहमश्मरीं चाशु हन्यात्तदनुवासनं॥ साधितं पंचमूलेन तैलं बिल्वादिनाऽथवा॥ अन्वासनं श्लेष्महरं द्रव्यैर्वा कफघातिभिः॥ फलैरष्टगुणे चाम्ले सिद्धमन्वासनं कफे॥ शूलानाहे तु तद्युक्तो निरूहः पटुमूत्रवान्॥460पृच्छतिस्म मुनिमित्यथ461 धीमानग्निवेश इह किं तु फलानां॥ बस्तिकर्मणि हितं सततं स्यात्तं पुनर्वसुरिति प्रशशास॥ इह कुष्ठहिता गरागरी462”) हितमिक्ष्वाकुफलं प्रमेहिणां॥ कुटजस्य फलं हृदामये प्रवरं कौटफलं तु पांडुषु॥ उदरे कृतवेधनं हितं मदनं सर्वगदाविरोधि तु॥मधुरं सकषायतिक्तकं तदरूक्षं सकटूष्णपिच्छिलं॥ कफपित्तहृदाशुकारि यन्निरपायं पवनानुलोमि च॥ प्रवरं तदतः फलादिषुस्मृतमास्थापनयोजनास्विति॥ अथ मुनिवृषभे निगद्य वाक्यं स्थितवति विज्ञपयांबभूव भूयः॥ इदमतिगहनं सहान्यशिष्यैरवनिगर्तोऽजलिमग्रतो निधाय॥ चित्रकर्मगुणकृद्गुरुणोक्तोबस्तिरूर्ध्वमथचैति न नाभेः॥ शीघ्रमापतति चानुस देहात्सर्वतः कथमपोहति दोषान्॥ ऊचे गुरुः स्तिमितमारुतवश्यमेतद्देहस्य यद्बहिरपाश्रितमंतरे वा॥ दुष्टस्य तस्य जनयन्ननुलोमतां तु बस्तिर्हिनस्ति विषमानतिरोगपूगान्॥ शाखागताः कोष्ठगताश्च
रोगा मर्मोर्ध्वसर्वावयवांगजाश्च॥ ये संति तेषां न तु कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति॥विट्शोपपित्तादिमलाचयानां463 विक्षेपसंहारकरो हि वायुः॥ तस्यातिवृद्धस्य शमाय नान्यद्बस्तेःसमं भेषजमस्ति यस्मात्॥शाम्यंति यत्नेन जितेऽनिले च तदीरिताः पित्तकफादयोऽपि॥ तस्माच्चिकित्सार्द्धमितिब्रुवंति सर्वां चिकित्सामपि बस्तिमेके॥यच्च पक्वाशयस्थोऽपि दोषानापादमस्तकं॥ वीर्येण बस्तिरादत्ते स्वस्थोऽर्को भूरसानिव॥ यत्तत्रौषधवीर्यं हि तदपानेन वायुना॥पर्याप्तमचिरादेव समानः प्रतिपद्यते॥ समानादुत्तरं चैवं व्यानाद्याः पवनाः क्रमात्॥ ते तृप्ताः प्रकृतिं यांति शरीरानुग्रहे स्थिताः॥ प्रसह्यपित्तश्लेष्माणौ464यथास्थानं निवेश्य च॥ संतर्पयंति परितःस्वान्स्वान् भूतगुणांस्तनौ॥ व्यानस्तिर्यगपानोऽधः प्राणश्चोर्ध्वं प्रकर्षति॥ यथा स्वमेव नाडीभिर्हारिणीभिरिवोदकं॥ एवं वा तैः सिराभिश्च वपुर्बस्तिः सुयोजितः॥ व्याप्नुवन्प्रसभं हंति सुकृच्छ्रानपि यक्ष्मणः॥ बस्तिस्तस्मात्सर्वकर्मप्रधानं सर्वातंकान् हंति निःशेषतश्च॥ स्रोतस्यंतः शोधधित्वा च कुर्याद्दोषांस्तेजः शुक्रदेहाग्निदीप्तिमिति॥ ॥ इति सिद्धबस्तिकल्पो नाम पंचमोऽध्यायः॥५॥
अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः॥ विबंधगौरवाध्मानशिरोरुग्वाहनोर्ध्वगाः॥ कुक्षिशूलांगरुग्घिध्माहृत्पीडाकर्त्तनस्रवाः॥ अयोगादतियोगाच्च बस्तेः स्युः षट्षडापदः॥ अस्निग्धस्विन्नदेहस्य465
गुरुकोष्ठस्य योजितः॥ शीतोल्पस्नेहलवणद्रव्यमात्रो घनोऽपि वा॥ बस्तिः संक्षोभ्य तं दोषंदुर्बलत्वादनिर्हरन्॥करोति वातविण्मूत्रविबंधमतिदारुणं॥बस्तिनाभिरुजानाहं हृल्लेपं श्वयथुं गुदे॥ कंडूगंडानि वैवर्ण्यमरतिं वन्हिमार्दवं॥ क्वाथद्वयं प्राग्विहितं मध्यदोषेऽतिसारिणि॥उष्णस्य तस्मादेकस्य तत्र पानं प्रशस्यते॥ फलवर्त्यस्तथास्वेदाः कालं ज्ञात्वा विरेचनं॥ बिल्वमूल त्रिवृद्दारुयकोलकुलत्थवान्॥सुरादिमूत्रवान्बस्तिः सप्राक्पेष्यस्तमानयेत्॥ सशेषामे466निरूहेण मृदुना दोषईरितः॥ मूच्छेयत्यनिलं मार्गं रुणद्ध्याग्निंहिनस्ति च॥ गौरवकल्महृच्छूलदाहसंमोहवेष्टनं॥ ततः कुर्यादुपचरेत्तं रूक्षस्वेदपाचनैः॥ पिप्पलीकत्तृणोशीरदारुमूर्वाशृतं जलं॥ पिबेत्सौवर्चलोन्मिश्रं दीपनं हृद्विशोधनं॥ वचानागरशठ्यो वा दधिमंडेन मूर्च्छिताः॥ पेयाः प्रसन्नया वा स्युररिष्टेनासवेन वा॥ दारुत्रिकटुकं पथ्यां पलाशं चित्रकं शठीम्॥ पिष्ट्वाकुष्टं च मूत्रेण पिबेत्क्षारांश्च दीपनान्॥ बस्तिमस्य विदध्याच्च समूत्रं दाशमूलिकं॥ युक्तोल्पवीर्यो467दोषाढ्येरूक्षे कूराशयेऽथवा॥ बस्तिर्दोषावृतो रुद्धमार्गो रुंध्यात्समीरणं॥सविमार्गोऽनिलः कुर्यादाध्मानं मर्मपीडनं॥ विदाहं गुदकोष्ठस्य मुष्कवंक्षणवेदनां॥ रुणद्धि हृदयं शूलैस्तिश्चेतश्च धावति॥ स्वभ्यक्तस्विन्नगात्रस्य तत्र वर्तिंप्रयोजयेत्॥ बिल्वादिश्च निरुहः स्यात्पीलुसर्षपमूत्रवान्॥ सरलामरदारुभ्यां साधितं चानुवासनं॥ बहुदोषबलेक्रूरकोष्ठे468बस्तिस्तनुर्मृदुः॥ शीतोऽल्पश्चावृतो दोषैःप्रतिहंति समीरणं॥ऊर्ध्वं सोऽनुसरन्देहं कुर्याद्वायुःशिरोरुजं॥ ग्रीवास्तंभं प्रतिश्यायं वाधिर्यंदृष्टिविभ्रमं॥ तमुष्णतैललवणप्रदिग्धस्विन्नमर्दितं॥ तीक्ष्णैर्धूमैः प्रधमनैर्नस्यैरास्यविरेचनैः॥ विरेकैर्बस्तिभिश्चाशु योजयेदानुलोमिकैः॥ स्निग्धस्विन्ने469 महादोषे बस्तिर्मृद्वल्पभेषजः॥ उत्क्लेश्याल्पं हरेद्दोषंजनयेरच्च प्रवाहिकां॥ शोफो बस्तावपाने च सदनं चोरुजंघयोः॥ विबद्धमारुतोजंतुरभीक्ष्णं स प्रवाहते॥ स्वेदाभ्यंगान्निरूहांश्चशोधनीयानुलोमिकान्॥ विदध्याल्लंघयित्वाच त्तिंतस्य विरिक्तवत्॥ कुर्वतो470 वेगसंरोधं पीडितो वाऽतिमात्रया॥अनि
ग्धलवणोष्णो वा बस्तिरल्पोऽल्पभेषजः॥मृदुर्वा मारुतेनोर्ध्वं विक्षितो मुखनासिकात्॥ निरेति मूर्च्छाहृल्लासतृड्दाहादीन्प्रवर्तयन्॥ मूर्च्छाविकारं दृष्ट्वाऽस्य सिंचेच्छीतांबुना मुखं॥ व्यजेदाक्लमनाशाच्च प्राणायामं च कारयेत्॥ पृष्ठपार्श्वोदरं मृद्यात्करैरुष्णैरधोमुखं॥ केशेष्वाक्षिप्य धुन्वीत भीषयेद्व्यालदंष्ट्रिभिः॥ शस्त्रोल्काराजपुरुषैर्बस्तिरेति तथा ह्यधः॥ पाणिवस्त्रैर्गलापीडं कुर्यान्न म्रियते यथा॥ प्राणोदाननिरोधाद्धि सुप्रसिद्धतरायणः॥ अपानः पवनो बस्तिं तमाश्वेवापकर्षति॥ कुष्टकमुककल्कं च पाययेताम्लसंयुतं॥ औष्ण्यातैक्ष्ण्यात्सरत्वाच्च बस्तिं सोप्यनुलोमयेत्॥ गोमूत्रेण त्रिवृत्पथ्याकल्कं वाऽधोऽनुलोमनं॥ पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः॥यवकोलकुलत्थैश्च विधेयो मूत्रसाधितैः॥ बस्तिर्गोमूत्रसिद्धैर्वासामृतावंशपल्लवैः॥ पूतीकरंजत्वक्पत्रशठीदेवाव्हरोहिषैः॥ सतैलगुडसिंधूत्थो विरेकौषधकल्कवान् बिल्वादिपंचमूलेन सिद्धो बस्तिरुरः स्थिते॥ शिरःस्थे नावनं धूमः प्रच्छाद्यं सर्पपैःशिरः॥ बस्तिरत्युष्णतीक्ष्णाम्लघनो471 ऽतिस्वेदितस्य वा॥ अल्पे दोषेमृदौ कोष्ठे प्रयुक्तो वा पुनः पुनः॥ अतियोगत्वमापन्नः कुक्षिशूलकरो भवेत्॥ विरेचनातियोगेन सतुल्याकृतिसाधनः॥ पृश्निपर्णीं स्थिरां पद्मं काश्मर्यंमधुकोत्पले॥ पिष्ट्वाद्राक्षां मधूकं च क्षीरे तंडुलधावने॥द्राक्षायाः पक्वलोष्टस्य प्रसादे मधुकस्य वा॥ विनीय सघृतं बस्तिं युंज्याद्दाहेऽतियोगजे॥ स्नेहस्वेदैरसंपाद्य472 गुरुतीक्ष्णोऽतिमात्रकः॥ दुःस्थिताय प्रणिहितो बस्तिर्दुःशयिताय वा॥ अतिप्रवृत्तोमरुतं कोपयेत्स विमार्गगः॥ करोत्यंगरुजां जृंभां स्तंभं भेदं च पर्वणां॥ तं तैललवणाभ्यक्तं स्वेदितं संस्तरादिभिः॥ बिल्वकोलयवैरंडर्षाभूबृहतीद्वयैः॥ सकुलत्थैः शृतं मस्तु फलसौवीरकान्वितैः॥
आस्थापयेत्ससिंधूत्थैर्जांगलैरशितं रसैः॥ तैलेनानिलजिद्द्रव्यविपक्वेनानुवासयेत्॥ मृदुकोष्टे473 ऽबले बस्तिरतितीक्ष्णोऽतिनिर्हरन्॥ कुर्याद्धिध्मां हितं तत्र हिध्माघ्नंबृहणं च यत्॥ वलास्थिरादिकाश्मर्यत्रिफलारससैंधवैः474॥ सप्रसन्नारनालाम्लैस्तैलं पक्त्वाऽनुवासयेत्॥ उष्णांबुनाक्तं475 पिप्पल्या दयाल्लवणसंयुतं॥ धूमलेहरसक्षीरस्वेदैश्चान्नं च वातनुत्॥ अतितीक्ष्णः476 सवातो वा न वा सम्यक्प्रपीडितः॥ घट्टयेद्धृदयं बस्तिस्तत्र काशकुशोत्कटैः॥ स्यात्साम्ललवणस्कंधकरीरबदरीफलैः॥ भूतैर्बस्तिर्हितः सिद्धो वातघ्नैश्चानुवासनैः॥ मृदुकोष्टाल्पदोषस्य477रूक्षतीक्ष्णातिमात्रकः॥हत्वा बस्तिर्मलांश्छीघ्रं वातपित्ते प्रकोपयेत्॥ नाभिबस्तिगुदांस्ते478 हि कृंततोऽस्य मुहुर्मुहुः॥ विवर्णाल्पाल्पमुत्थानं बस्तिनिर्लेखनो भवेत्॥ स्वादुशीतौषधैस्तत्रपयश्चेक्ष्वादिभिः शृतं॥ यष्ट्याव्हतिलकल्काभ्यां बस्तिः स्यात्क्षीरभोजिनः॥ ससर्जरसयष्ट्याव्हंजिंगिणीकर्दमांजनं॥ विनीय दुग्धे बस्तिः स्याद्व्यक्ताम्लरसभोजिनः॥ पिच्छिलश्चहितो बस्तिः स्नेहैश्चमधुरैः शृतः॥ बस्तिः478 क्षाराम्लतीक्ष्णोष्णलवणः पैत्तिकस्य वा॥ गुदं दहन् लिखन् क्षिण्वन्करोत्यस्य परिस्रवं॥ सविदग्धं स्रवत्यस्रंवर्णैः पित्तं च भूरिशः॥ बहुशश्चातिवेगेन मोहं गच्छति चासकृत्॥ तत्रार्द्रशाल्मलीवृंतैःक्षुण्णैराजं पयः श्रुतं॥ पूतं घृतान्वितं बस्तिंदद्यादन्यांश्चपिच्छिलान्॥ वटादिपल्लवेष्वेवं कल्पो यवतिलेषु च॥ सुवर्चलोपोदकयोः कर्बुदारे च शस्यते॥ गुदे च शीतमधुरान्कुर्यात्मेक प्रलेपनान्॥ रक्तपित्तातिसारघ्नी क्रिया चात्र प्रशस्यते॥दाहादिषु त्रिवृत्कल्कं मृद्वीकावारिणा पिबेत्॥ तद्धि पित्तशकृद्वातान्हत्वा दाहादिकान् जयेत्॥विशुद्धश्च पिबेच्छीतां यवागूं शर्करायुतां॥ युंज्याद्वाऽतिविरिक्तस्यक्षीणविट्कस्यभोजनं॥ माषयूषेणकुल्माषान्पानं दध्यथवा सुरां॥ आमं यः कुणपं रुग्वानुपवेश्येत सारुचिः॥सघनातिविषाकुष्टनतदारुवचाः पिबेत्॥ शकृद्वातमसृक्पित्तं कफंवा योऽतिसार्यते॥ पक्वं तत्र स्ववर्गीयो बस्तिः श्रेष्ठं भिषग्जितं॥ षण्णामेषांद्विसंसर्गास्त्रिंशद्भेदा भवंति तु॥ केवलैः सहषट्त्रिंशद्विद्यात्सोपद्रवानपि॥ शूलप्रवाहिकाऽऽध्मानपरिकर्त्यरुचिज्यरान्॥तृण्मोहदाहमूर्च्छादींश्चैषां विद्यादुपद्रवान्॥ तत्रामेंऽतरपानं तु कट्वम्ललवणैर्युतं॥ पाचनं शस्यते बस्तिरामे हि प्रतिषिध्यते॥ वातघ्नग्राहिवर्गीयो बस्तिः शकृति शस्यते॥ स्वाद्वम्लो व्यक्तलवणः स्नेहबस्तिः समीरणे॥ रक्ते रक्तेन पित्तास्रेकषायस्वादुतिक्तकः॥ सार्यमाणे कफे बस्तिः कषायः कटुतिक्तकः॥ शकृता वायुना वाऽऽमेन वर्चस्यथवाऽनिले॥ संसृष्टेंऽतरपानं स्यात्कट्वम्ललवणैर्युतं॥ पित्तेनामेऽसृजातद्वत्तयोरामेन वा पुनः॥ संसृष्टयोर्भवेत्पानं सकटुस्वादुतिक्तकं॥ तथा ऽऽमे कफसंसृष्टे कषायकटुतिक्तकं॥ आमेन तु कफे युक्ते कषायलवणौषधं॥ वातेन विशि पित्ते वा विट्पित्तास्रेतथाऽनिले॥ स्यात्कषायाम्लमधुरः संसृष्टे बस्तिरुत्तमः॥ बस्तिर्वातेन रक्तेच कार्यः स्याद्बम्लतिक्तकः॥ शकृच्छोणितयोः पित्तशकतोरस्रपित्तयोः॥ बस्तिरन्योन्यसृंसर्गे कषायस्वादुतिक्तकः॥ कफेन विशि पित्ते वा कफे विट्पित्तशोणितैः॥ कटुतिक्तकषायःस्यात्संसृष्टे बस्तिरुत्तमः॥ स्याद्बस्तिः कटुतिक्ताम्लः संसृष्टे वायुना कफे॥ मधुरोपणतिक्तस्तु रक्ते कफविमूर्च्छिते॥ मारुते कफसंसृष्टे कट्वम्ललवणो भवेत्॥ त्रिचतुःपंचषड्योगानेवमेव विकल्पयेत्॥ युक्तिश्चैषाऽतिसारोक्ता सर्वरोगेष्वपि स्मृता॥ युगपत्षड्रसंषण्णां संसर्गे पाचनं भवेत्॥ निरामाणां तु पंचानां बस्तिः षड्रसिको हितः॥ उदुंबरशलाटूनि जंब्वाम्रोदुंवरत्वचः॥ शंखं सर्जरसं लाक्षां कत्तृणं च पलांशिकं॥ पिष्ट्वातैः सर्पिषःप्रस्थं क्षीरद्विगुणितं पचेत्॥ अतिसारेषु सर्वेषु पेयमेतद्यथाबलं॥ कच्छुराघातकीबिल्वसमंगारक्तमूलिभिः॥ मसूराश्वत्थशुंगैश्च यवागूः स्याज्जले शृतैः॥ बालोदुंवरकट्वंगसमंगाप्लक्षपल्लवैः॥ मसूरघातकीपुष्पबलाभिश्च तथा भवेत्॥ नानाप्रकारा जायंते व्यापदो बस्तिविभ्रमात्॥ यथायथं यथावस्थं तासां कुर्वीत साधनं॥ इति बस्तिव्यापत्सिद्धिर्नामषष्ठोऽध्यायः॥६॥
अथातः स्नेहव्यापदिकां सिद्धिं व्याख्यास्यामः॥ स्नेहबस्तौ मरुत्पित्तकफात्यशनविट्चयैः॥ आवृतौ भुक्तदत्तामे सप्तधा व्यापदः स्मृताः॥ शीतोऽल्पो वा धिके वाते पित्तेऽत्युष्णः कफे मृदुः॥ अतिभुक्तेगुरुर्वर्चःसंचये ऽल्पबलस्तथा॥ दत्तस्तैरावृतः स्नेहोनायात्यभिभवादपि॥ स्तंभोरुसदनाध्मानज्वरशूलांगमर्दनैः॥ पार्श्वरुग्वेष्टनैर्विद्याद्वायुना479 स्नेहमावृतं॥स्निग्धाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकैः॥ सौवीरकसुराकोलकुलत्थयवसाधितैः॥ निरूहैर्निर्हरेत्सम्यक्समूत्रैः पांचमूलिकैः॥ ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत्॥ तृड्दाहरागसंमोहवैवर्ण्यतमकज्वरैः॥ विद्यात्पित्तावृतं स्वादुतिक्तैस्तं बस्तिभिर्हरेत्॥ तंद्राशीतज्वरालस्यप्रसेकारुचिगौरवैः॥ समूर्च्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतं॥ कषायतिक्तकटुकैः सुरामूत्रोपसाधितैः॥ फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत्॥ छर्दिमूर्च्छा-रुचिग्लानिशुलनिद्रांगमर्दनैः॥ आमलिंगैःसदाहैस्तं विद्यादत्यशनावृतं॥कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनं॥मृदुर्विरेकः सर्वंच तत्रामविहितं हितं॥विण्मूत्रानिलसंगार्तिगुरुत्वाध्मानहृद्ग्रहैः॥स्नेहंविडावृतं ज्ञात्वा स्नेहस्वेदैःसबस्तिभिः480
॥ श्यामाबिल्वादिसिद्धैश्चनिरूहैः सानुवासनैः॥ निर्हरेद्विधिना सम्यगुदावर्त्तहरेण च॥ अभुक्ते शूनपायौ वा पेयामात्राशितस्यवा॥ गुदे प्रणिहितः स्नेहो वेगाद्धावत्यनावृतः॥ ऊर्ध्वं कायं ततः कंठादूर्ध्वेभ्यः स्वेभ्यएत्यपि॥ मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान्॥ तत्सिद्धतैलो देयः स्यान्निरूहः सानुवासनः॥ कंठादागच्छतः स्तंभकंटग्रहविरेचनैः॥ छर्दिघ्नीभिः क्रियाभिश्च तस्य कुर्यान्निवर्त्तनं॥ नापक्वंप्रणयेत्स्नेहं गुदं स ह्युपलिंपति॥ ततः कुर्यात्सरुड्योहकंडूशोफान् क्रियाऽत्र च॥ तीक्ष्णो वस्तिस्तथा तैलमर्कपत्ररसे शृतं॥ ह्रस्वंदीर्घं तनु स्थूलं जीर्णं शिथिलबंधनं॥ पार्श्वच्छिद्रंतथा वक्रमष्टौनेत्राणि वर्जयेत्॥ अप्रप्त्यतिगतिक्षोभकपणक्षणनस्रवाः॥गुदपीडा गतिर्जिह्मातेषां दोषायथाक्रमं॥ मांसलस्निग्धविषमजालवत्स्थूलवातलाः॥ छिन्नः क्लिन्नश्च तानष्टौ बस्तीन्कर्मसु वर्जयेत्॥ गतिवैषम्यदौर्गंध्यजिह्मत्वस्रुतिदुर्ग्रहाः॥ फेनिलव्युप्तधार्यत्वं बस्तेः स्युर्बस्तिदोषतः॥ उच्चकैरत्य-वाक्शीर्षमूर्ध्वसंकुचितस्थितं॥ उत्तानं दक्षिणं पार्श्वे सरा शय्याः परित्यजेत् ॥ मूत्राघातों481ऽत्रसंप्राप्तिरमाप्तिः साधुतागतिः॥ आश्वागतिर्मरुत्कोपस्तृप्तिः482 पक्वाशयस्य च॥ तद्दोषाःस्युर्विधातव्यं यथोपयिकमत्र च॥ सवातातिहृतोत्क्षिप्त483तिर्यगुल्लुप्तकंपिताः॥ अतिमंदकबाह्यातिवेगदोषाःप्रणेहृतां॥ अनुच्छ्वासानुबंधे वा दत्ते निःशेष एव वा॥ प्रविश्य क्षुभितो वायुः शूलतोदकरो भवेत्॥ तत्राभ्यंगो गुदे स्वेदो वातघ्नान्यशनानि च॥ द्रुतं प्रणीते निष्कृष्टेसहसोत्क्षिप्त एव वा॥ स्यात्कटीगुदजंघोरुस्तिस्तंभातिभेदनं॥ भोजनं तत्र वातघ्नं स्वेदाभ्यंगाः सबस्तयः॥ तिर्यग्वल्यावृतद्वारे बद्धे वाऽपि न गच्छति॥ नेत्रे तदृजु निष्कास्य संशोध्य च पुनर्नयेत्॥ पीड्यमानेंऽतरा
मुक्ते गुदे प्रतिहतोऽनिलः॥उरःशिरोरुजं सादमूर्वोश्च जनयेद्बली॥ बस्तिः स्यात्तत्र बिल्वादिफलश्यामादिमूत्रवान्॥ स्याद्दाहो दवथुः शोफः कंपनाभिहते गुदे॥ कषायमधुराः शीताः सेकास्तत्र सबस्तयः॥ अतिमात्रप्रणीतेन नेत्रेण क्षणनाद्वलेः॥ स्यात्सार्तिदाहनिस्तोदगुरुवर्चः प्रवर्तनं॥ तत्र सर्पिःपिचुः क्षीरं पिच्छारबस्तिश्च शस्यते॥ न भावयति मंदस्तु बाह्यश्चाशु निवर्त्तते॥ स्नेहस्तत्र पुनः सम्यक् प्रणेयः सिद्धिमिच्छता॥ अतिप्रपीडितः कोष्ठे तिष्ठत्यायाति वा गलं॥ तत्र बस्तिर्विरेकश्च गलपीडादिकर्म च॥ वमनाद्यैर्विशुद्धं च क्षामदेहबलानलं॥ यथांऽडं तरुणं पूर्णं तैलपात्रं यथा तथा॥ भिषक् प्रयत्नतो रक्षेत्सर्वस्मादपचारतः॥ दद्यान्मधुरहृद्यानि ततोऽम्ललवणौ रसौ॥स्वादुतिक्तौतथा भूयः कषायकटुकौ ततः॥ अन्योन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः॥ व्यत्यासादुपयोगेन क्रमात्तं प्रकृतिं नयेत्॥ सर्वंसहः स्थिरबलो विज्ञेयः प्रकृतिं गतः॥ अत्रांतरे त्यजेदष्टौ भाष्यादीनि विशेषतः॥ उच्चैर्भाष्याच्छिरोरोगतिमिरोरःस्वरव्यथाः॥ रक्तनिष्ठीवतमकज्वराद्यास्तत्र साधनं॥ अभ्यंगस्वेदनस्याधोभक्तस्नेहोपसेवनं॥ मौनं विधिर्वातहरोयथास्त्रं वा विकारजित्॥ अत्यास्यायानयानाभ्यां170 संधिमूर्द्धत्रिकादिरुक्॥ अतिचंक्रमणात्पादजंघोरुसदनादयः॥ तेषां वातहरं सर्वं स्नेहस्वेदादि शस्यते॥ अजीर्णभोजनादामविषच्छर्दिज्वरादयः॥ तत्र मात्राशितीयोक्तोविधेयो विधिरामहा॥अहितान्नाद्य्यादोषंरोगाः स्युर्भेषजानि च॥ हलीमकादयः प्रोक्ता दिवास्वप्नात्पुरा गदाः॥ विदध्यात्कफजित्तेषु धूगरूक्षान्नलंघनं॥ व्यवायाज्जीविनमंशात्तैस्तैस्यानिलामयः॥ गुदोऽवलुप्यतइव भ्रमतीव च चेतना॥ मेंढ्रं धूमायचिमनस्तमसीव प्रवेक्ष्यते॥ जीवनीयशृतक्षीरसर्पिषोपुरयोजनं॥ आहारोबृंहणस्तत्र
वृष्यास्ते ते च वस्तयः॥ वेगरोधोर्ध्ववातत्वात्मात्प्रागुक्ता ये सदाऽऽतुराः॥ तेषां विबद्धे पवने सर्वदेहोपतापिनि॥ फलवर्तिपुरा दद्यादथ वस्तिं बलावहं॥निकुंभकुंभाग्न्युरुकधावनी पुनर्नवं दारु महच्च पंचकं॥ फलं च मूत्रे क्वथितं समस्तु घृतं सतैलं लवणानि पंच॥निरूहित धन्वरसेन भोजयेन्निकुंभतैलेन ततोऽनुवासयेत्॥ बलां सरास्नांफलमूलचित्रकाद्द्विपंचमूलं कृतमालकात्फलं॥ यवान्कुलत्थांश्च पचेज्जले रसः समुस्तपाठेंद्रयवैश्व कल्कवान्॥ सतैलसर्पिर्गुडसैंधवो हितः सदाऽऽतुराणां बलपुष्टिवर्णदः॥ तथाऽनुवास्यंमधुकेन साधितं बालेन बिल्वेन शताव्हयाऽथवा॥ सजीवनीयस्तु रसोऽनुवासने निरूहणे चालवणः शिशोर्हितः॥ न चान्यदाश्वंगबलाभिवर्द्धनं निरूहबस्तेशिशुवृद्धयोर्हितः॥ ॥ इति स्नेहव्यापत्सिद्धिर्नाम सप्तमोऽध्यायः॥७॥
अथातो भेषजकल्पं व्याख्यास्यामः॥ जांगले साधारणे वा देशे यथाकालं शिशिरातपपवनसलिलसेविते समे शुचौ प्रदक्षिणोदके श्मशानचैत्यदेवतायतनागारसभाश्वभ्रारामवल्मीकोषरविरहिते कुशरोहिषास्तीर्णे स्निग्धकृष्ण-सुवर्णवर्णमधुरसुरभिमृत्तिके मृदावफालकृष्टेऽनुपहतेऽन्यैर्बलवत्तरैर्द्रुमैर्भेषजानि प्रशस्यंतइति सामान्यतो भूमिपरीक्षा॥ विशेषतस्त्वश्मवती स्थिरा गुर्वी श्यामा कृशस्थूलतृणा वृक्षसस्यप्राया स्वगुणभूयिष्ठा॥ स्निग्धा शीतलाऽऽसन्नोदका स्निग्धतृणसस्यकोमलदलप्राया शुक्ला चांबुगुणभूयिष्ठा॥नानावर्णा लघुपुष्पवती प्रविरलपांडुवृक्षप्ररोहाऽग्निगुणभूयिष्ठा॥ रासभभस्मवर्णा रूक्षा तनुकोटरोषरप्रायाऽल्परसप्ररोहाऽनिलगुणभूयिष्ठा॥ मृद्वीसमा भ्वभ्रवत्यव्यक्तरसजला महापर्वतवृक्षा श्यामाऽऽकाशगुणभूयिष्ठा॥ तत्रांबुपृथिवीगुणभूयिष्ठासु भूमिषुजातानि विरेचनानि बृंहणानि च शस्यंते॥ अनलानिलाकाशगुणभूयिष्ठासु वमनानि॥ सर्वगुणयुक्तासूभयतोभागानि॥ आकाशगुणभूयिष्ठासु शमनानि॥ एवं बलवत्तमानि भवंति॥
तत्र यानि कालजान्युपगतसंपूर्णप्रमाणरसवीर्यगंधानि कालातपाग्निसलिलपवनशस्त्रजंतुभिरनुपहतगंधवर्णरसस्पर्शप्रभावान्यवगाढमूलान्यूदीच्यां दिशि स्थितानि॥ तेषां शाखापलाशमचिरप्ररूढं वर्पावसंतयोर्ग्राह्यं॥ ग्रीष्मे मूलानि शिशिरे वा शीर्णरुदपर्णानां॥ शरदि त्वक्कंदक्षीराणि॥ हेमंते साराणि॥ यथर्तुफलपुष्पं॥ अन्येपुनराहुः॥ सौम्यान्यौषधानि सौम्येष्टतुष्वाग्नेयान्याग्नेयेषु॥ एवमव्यापन्नान्यापूर्णतररसवीर्याणि भवंति॥ अथ मंगलाचारकल्याणवृत्तिः शुचिः शुक्लवासाःसंपूज्य देवतामश्विनौ गोब्राह्मणांश्च कृतोपवासः प्राड्मुखउदङ्मुखो वा गृह्णीयात्॥ गृहीत्वा चानुरूपगुणवद्भाजने संस्थाप्यागारेषुपूर्वोत्तरद्वारेषुनिवातप्रवातकदेशेषु नित्यपुष्पोपहारबलिकर्मस्वग्निसलिलोपस्वेदधूमरजोमूषिकचतुष्पादाद्यनभिगमनीयानि स्ववश्यानि शिक्येप्वासज्य स्थापयेत्॥ तानि
संक्षीराण्युपकल्पयेत्॥ तदसंपत्तावनतिक्रांतसंवत्सराणि॥ पुराणानि तु पिप्पलीविडंगगुडमधुघृतानि॥ अपिच॥ क्षीरं बाष्कयणं ग्राह्यं शकृन्मूत्रं च नीरुजं॥ वयोबलवतां धातुपुच्छंश्रृ गखुरादिकं॥ पंचविधस्तु भेषजानां कषायः कल्प्यः॥ निर्यासः कल्को॥ निर्यूहः शीतः फांटश्र्व॥ ते यथापूर्वंबलिनः॥ तत्र सद्यः समुद्धृतप्रक्षालितक्षुण्णस्य तांतवनिष्पीडितस्य स्वरसो निर्यासः॥ उपलदशनादिपिष्टस्तु कल्कः॥ सूक्ष्मतांनवच्युतश्चूर्णः॥ तस्य समस्तद्रव्यापरित्यागादाप्लुतोपयोगाच्च कल्कादभेदः॥ क्वाथो निर्यूहः॥ स तु भेद्यान्यौषधान्यणुशो भेदयित्वा छेद्यानि च छेदयित्वा प्रक्षाल्योदकेन शुचौ रुक्षायामधप्रलिमायां ताम्रायोमृन्मपान्यतमस्थाल्यां समावाप्य बहुलपानीयग्राहितानामौषधानामाकलय्य यावता मुक्तरसता स्यात्तावटुदकमासेचयेच्छोपपेच्च॥ अथाग्रावधिश्रित्य महत्यासने सुखोपविष्टः सर्वतः सततमवलोकयन् दर्व्या च विघट्टयन् मृदुना च परितः समुपगच्छता ऽनलेन साधयेत्॥ अवतार्य च सुपरिस्रुतं यथार्हस्पर्शं प्रयुंजीत॥ क्षीरादिसहितं च द्रव्यं न सम्पड्युक्तरसं भवतीति वारिक्वाथपूर्वकं क्षीराद्यैस्तदुपदेशेनानुपदग्धं क्वाथयेत्॥ शीतसलिलाप्लुतं तु निशापर्युषितं पूतं शीतः॥ उष्णांभसि क्षुण्णाभिपुतपूतं फांटः॥ तत्र सम्यग्रसवीर्यादीन्यौषधस्य समीक्ष्य व्याध्यातुरादिबलतश्च निर्यासादीनां कल्पनानां मात्रां च संश्रयेत्॥ तथाच केचिदाहुः॥ मात्राया न व्यवस्थानं देहं दोषं बलं वयः॥ आलोच्य देशकालौ च भैषज्यमवचारयेत्॥ इत्यलं॥ तदेवमुपदिष्टं बुद्धिमतां ज्ञानप्रबोधाय॥ यथातु सर्वभिषजो विज्ञास्यंति तथोपदेक्ष्यते॥ निर्यासस्य मध्यमा मात्रा च तुप्पलं॥ कल्कचूर्णयोः कर्पः पलत्रयं तदालोडने॥ निर्यूहे भेषजपलमुदकार्द्धप्रस्थेऽधिश्रित्य पादशेषितमवतारयेत् शीतफांटयोरौषधपलं पद्भिश्चतुर्भिरंवुपलैरासुतमिति॥ स्नेहपाके त्वनिर्दिष्टप्रमाणे समुदितस्य द्रवस्य पादेन स्नेहः प्रयोज्यस्तत्पादेन कल्कः॥ अन्ये पुनः पठंति॥ स्नेहे सिध्यति शुद्धबुनिःक्वाथस्वरसैः क्रमात्॥ कल्कस्य योजयेदंशं चतुर्थंषष्ठमष्टमं॥ पंचप्रभृति तु द्रवं पृथक्स्नेहसममेवावपेत्॥ अनिरूषितकल्पनं भेषजं कल्कीकुर्यात्॥ अथैकध्यंप्रतिसंसृज्याधिश्रित्य च निर्यूहवत्साधयेत्॥ तत्र यदाविरमतिशब्दः प्रसादमापद्यते स्नेहो यथास्ववर्णगंधरसोपपत्तिर्भैषज्यमंगुलीभ्यां
गृह्यमाणमनतिमृहनतिदारुणमनंगुलिग्राहिता च स्यात्स कालस्तस्यावतारणाय॥ अपिच॥ घृतस्य फेनोपशमस्तैलस्य तु तदुद्भवः॥ लेहस्य तंतुमत्ताप्सुमज्जनं सरणं न च॥ अथावतार्य शीतीभूतमहतेन वाससा परिपूय शुचौ दृढे कलशे समा
सिच्यापिधानेन वा पिधाय शुक्लेन वस्त्रपट्टेनावच्छाद्य सूत्रेण सुबद्धमनुगुप्तं शुचौ देशे सुस्थितं स्थापयेत्॥ परिमाणं पुनः षड्वंश्यो मरीचिः॥ ताः षट् सर्पपः॥ तेऽष्टौ तंडुलः॥ तौ धान्यमापः॥ तौ यवः॥ अतः परं चतुर्गुणवृत्घ्यांऽडिकामापकपाणकर्षपलकुडवप्रस्थाढकद्रोणवहाः कल्प्यंते॥ धरणं तु पलदशभागः॥ मापकस्यपर्यायो हेमो धानकश्च॥ शाणद्वयस्य क्षुद्रमः कोलो वटकश्च॥ कर्पस्य सुवर्णमक्षं पिचुर्बिडालपदकं पाणितलं तिंदुकं कवलग्रहः षोडशिका च॥ कर्पहयस्य शुक्तिरष्टमिका च॥ पलस्य मुष्टिः प्रकुंचश्वतुर्थिका बिल्वमात्रं च॥ पलहयस्य प्रसृतोऽष्टमानं च॥ कुडवस्यां जलिः॥ कुडद्वयस्य मानिका॥ आढकस्य पात्रं कंसश्च॥ द्रोणस्य नल्वणार्मणोन्मानघटकुंभकलशाः॥ द्रोणद्वयस्य शुर्पः॥ तुला पुनः पलशतं॥ तानि विंशतिजरिइति॥॥ भवति चात्र॥ शुष्कमेये त्विदंमानं द्विगुणं तु द्रवार्द्रयोः॥ पेषणालोडने वारि स्नेहपाके च निर्द्रवे॥ कल्पयेत्सदृशान् भागान्प्रमाणं यत्र नोदितं॥ अनिर्दिष्टाप्रसिद्धेषु मूलं ग्राह्यं त्वगादिषु॥ स्नेहपाकस्त्रिधा मंदश्चिक्कणः खरचिक्कणः॥ मंदः कल्कसमे किट्टे चिक्कणो मदनोपमे॥ किंचित्सीदति कृष्णे च वर्त्तमाने तु पश्चिमः॥ दग्धोऽतऊर्ध्वं निष्कार्यः स्यादामस्त्वग्निसादकृत्॥ मृदुर्नस्येखरोऽभ्यंगे पाने वस्तौ च चिक्कणः॥ हिमवहिंध्यशैलाभ्यां प्रायो व्याप्ता वसुंधरा॥ सौम्यं पथ्यं च तत्राद्यमानेयं वैध्यमौषधं॥॥ इति भेषजकल्पोनामाष्टमोऽध्यायः॥८॥॥ इति श्रीसिंहगुप्तसूनुश्रीमद्वाग्भटाचार्यविरचितेऽष्टांगसंग्रहेपचंमंकस्पसिद्धिस्थानं संपूर्णम्॥५॥ श्रीकृष्णार्पणमस्तु॥४॥
॥ श्री॥
अष्टांगसंग्रहे
<MISSING_FIG href=”../../../../../../../books_images/U-IMG-1710324769Screenshot_20240313_034234.png"/>
उत्तरस्थानम् ६
श्रीगणेशाय नमः॥ धन्वंतरये नमः॥ अथातो बालोपचारणीयमध्यायं व्याख्यास्यामः॥ इति ह स्माहुरात्रेयादयो महर्षयः॥ अथ खलुजातमात्रमेव वालमुल्बा484त्सैंधव485सर्पिषाविशोधयेत्॥ ततोऽस्यातिप्रबलमोहज्वरपरीतसर्वगात्रस्य कोशितुमपि रुजानुरूपमसमर्थस्यानवस्थिताशेषदेहधातोरसंभाव्ययौवनाद्यवस्थस्य ककचस्पर्शमिव करवसनशयनसंसर्गं मन्यमानस्या विकल्पितमंगानि विक्षिपतः पुनरिव मरणमनुभवतो लीयमानसंज्ञस्यातिसंवाधयोनिपुटावपीडितप्राणप्रत्यायनाय बलातैलेन परिषेकं कुर्यात्॥ कर्णमूलेचाश्मनोः संघट्टनं486॥ यदि वाऽचेष्टव स्यात्ततः कृष्णकपालिकाशूर्पेण चैनमभिनिष्ट्यूपाद्दक्षिणकर्णमूले च मंत्रमस्योच्चारयेत्॥ अंगादंगात्संभवसिहृदयादभिजायसे॥ आत्मा वै पुत्रनामासि संजीव शरदां शतं॥ शतायुःशतवर्पोऽसि दीर्घमायुरखामुहि॥ नक्षत्राणि दिशो रात्रिरहश्च त्वाऽभिरक्षतु॥ प्रत्यागतमाणस्य च प्रकृतिभूतस्य नाभिनालं मूलाचतुरंगुलस्योर्ध्वं क्षौमसूत्रेण बद्ध्वातीक्ष्णेन शस्त्रेण वर्द्धयेत्29॥ ग्रीवायां चैनमवसज्जे487न्नाभिं कुष्टतैलेन सेचयेत्ततः क्षीरिवृक्षकषायेण सर्वगंधो488दकेन वा तप्त489तपनीयरजतंनिर्वापणकवोष्णेन कपित्थपत्रकषायेण
या तद्विधेन स्नापयेत्ततोस्य सुपरिलिखितनखया सुप्रक्षालितोपधानया कार्पासपिच्ववगुंठितया दक्षिणप्रदेशिन्या जिह्वौष्टकंठमनुसुखं प्रमृज्यात्तालु चोन्नम्यस्नेहपिचुनोपरिष्टादवगुंठयेत्ततश्चैंद्रीब्राह्मीशं खपुष्पीवचाकल्कं मधुघृतोपेतं हरेणुमात्रं490 कुशाग्रभिमंत्रितं491 सौवर्णेनाश्वत्थपत्रेण मेधायुर्बलजननं प्राशयेत्तद्वद्ब्राह्मीबलाऽनंताशतावर्यन्यतमचूर्णं वा ॥ ततः सैंधवोपहितेन सर्पिषा गर्भोदकानि वामयेत्तथास्योरःकंठविशुत्ध्या लाघवमभिलाषश्च जायते ॥ अथास्य जातकर्म प्राजापत्येन विधिना कुर्यात् ॥अपिच ॥ सिराणां हृदयस्थानांविवृतत्वात्प्रसूतितः ॥ तृतीयेऽह्निचतुर्थे वा स्त्रीणां स्तन्यं प्रवर्त्तते ॥ तस्मात्प्रथमेऽहन्यनंतामिश्रे मधुसर्पिषी मंत्रपूते त्रिकालं प्राशयेत् ॥ द्वितीये लक्ष्मणासिद्धं सर्पिस्तृतीये च ॥ ततः प्राङ्निवारितस्तन्यस्यस्वपाणितलसंमितं492 सर्पिर्द्विकालं दापयेदनंतरं च स्तन्यमिष्टं ॥ अह रहश्चास्य स्रोतः शृंगाटकं स्नेहाप्लुतेन प्रच्छादयेत्प्राक्शिरसं चैनं क्षौमनिचये संवेशयेदुच्छीर्षके चास्याभिमंत्रितमुदकुंभं स्थापयेत् द्वारपक्षयोश्च ॥ अदारीविदारीबदरीखदिरपीलुर्निंबपरूपकशाखाभिरेनं बीजयेत्ताभिश्चसमंततः सूतिकागारं परिवारयेत्सर्षपाः कणिकाश्चांतर्बहिः प्रकिरेत्सायं प्रातश्चबलिं ग्रहोक्तैश्च गुग्गुल्वादिभिर्धूमं कुर्वीत ॥ तथा ब्राह्मणादथर्वविदो दशाहं शांतिकर्म ॥ आर्यां महामायूरीमार्यरत्नकेतुचारिणीं चोभयकालं वाचयेत्॥ हिंगुवचारुष्कररक्षोघ्नैःपोटलिकामुत्तरदेहल्यामासज्जेत् ॥ कुमारस्य च सह मातुः कंठे उच्छीर्षके च ॥ तहदार्यपर्णी शतावरीमार्यापराजितां च रोचनाभिलिखितां द्वारे च ॥ देहलीमनुतिर्यङ्गमुसलं निधापयेत् ॥ कणकंटकतिंदुकेंधनस्याग्निर्नक्तेदिनं जागृयात्तथानुरक्ताः स्त्रियः सुहृदश्च॥ प्रहृ
सृजनसंपूर्णं च तद्वेश्म कार्यं॥ अथास्य समानवर्णा मध्यमवयाः शुचिरलोलुपा निभृता नातुरा जीवद्वत्सा वत्सला ब्रह्मचारिण्यव्यंगा च बहुक्षीरा शुक्लांबराचारा दीर्घह्रस्वादिदेहदोषाष्टकरहिता लंबोर्ध्वचूचुकातिहीनपीनस्तनदोषरहिता युक्तचूचुका धात्री स्यात्तस्या एव स्तन्यं पिबेत्तच्चोदकपात्रे दुह्यमानमेकतां यदुदकेन सह गच्छति वक्ष्यमाणदोषरहितं च तच्छुद्धमारोग्यं बलजननं॥अथ च धात्री स्नाताऽनुलिप्ता नित्यमहतवासाः सुमनाः सुप्रजा स्थापनौषधीः शिरसा विभ्राणा प्राङ्मुखी स्तनं प्राग्दक्षिणं धौतमीपत्परिस्रुतं पाययेत्॥ नानास्तन्यस्य ह्यसात्म्यत्वान्नानाविधव्यापदो भवंति॥ अपरिस्रुते चा तिस्तन्यपूर्णस्तनपानेनास्नेहनात्कासश्वासज्वरच्छर्दिषां संभवः॥रूक्षान्नपानकर्शनक्रोधशोककामादिभिः स्तन्यनाशः॥ स्तन्यजननानि मद्यानि सीधुवर्जान्यानूपमांसानि द्रवाः स्वाद्वम्ललवणप्रायाश्चाहाराः क्षीरिण्यश्वौषधयः493 क्षीरपानमनायासः सौमनस्यं च॥ न च क्षुधितशोकार्तश्रांत क्रुद्धप्रदुष्टधातुगर्भिणीविरुद्धाहारभुक्तानां स्तन्यं पाययेन्नाजीर्णौषधं च बालमिति॥ भवति चान्न॥ षष्ठीं निशां विशेषेण कृतरक्षावलिक्रियाः॥जागृयुर्बांधवास्तस्य दधतः परमां मुदं॥ दशमे द्वादशे वाऽन्हि गोत्रोच्चारैः शुभैः शुभे॥ सूतास्नानोत्सवं कुर्यात्पिताऽपत्यस्य नाम च॥ दिने शततमे वाऽऽख्यां पूर्णसंवत्सरेऽथवा॥ बिभ्रतोंगे मनोह्वालरोचनागुरुचंदनं॥ पूज्यत्रिपुरुषानृकमादौ घोष वदक्षरं॥ अवृद्धं कृतमूष्मांतमनरातिप्रतिष्ठितं । नक्षत्रदेवतायुक्तं तदेव न तु केवलं॥ मंगल्यमंतरंतस्थं न दुष्टं न च तद्धितं॥ पुंसो विसर्जनीयांतमसवर्णं स्त्रियाः पुनः॥ विषमाक्षरमक्रूरं विस्पष्टार्थं मनोरमं॥ सुखोच्यं दीर्घवर्णांतमाशीर्वादाभिधानवत्॥ ततः प्रकृतिभेदोक्तरूपैरायुः494 परीक्षणं॥ प्रागुढक्शिरसः कुर्याद्बालस्य ज्ञानवान्
भिषक्॥ प्रशस्तवास्तुशरणं सज्जोपकरणं शुचि॥ निवातं च प्रवातं च वृद्धस्त्रीवैद्यसेवितं॥
निर्मत्कुणाखुमशकमतमस्कं च शस्यते॥ शुचि धौतोपधानानि निर्वलीनि मृदूनि च॥ शय्यास्तरणवासांसि रक्षाघ्रैधूपितानि च॥ काको विशस्तः शस्तश्च धूपने त्रिवृतान्वितः॥ वचाद्यकुष्टश्रीवेष्टसर्षपैर्धूपयेत्सदा॥ बोधयेत्सहसा सुमं नो न चैनं समुत्क्षिपेत्॥ तथा ह्यस्य समुत्चासो वेगरोधश्च जायते॥ माक्षिकामलकव्योबृहतीमूलसैंधवः॥ श्लेष्मापनोदरुच्यर्थमुखमंतः परामृशेत्॥ जीवत्खड्गादिशृंगेषु समासक्तान् शुभान्मणीन्॥ धारयेद्दश चैंद्र्यादीन् जीवकर्षभकानपि॥ हस्ताभ्यां ग्रीवया मूर्ध्ना विशेषात्सततं वचां॥ आयुर्मेधास्मृतिस्वास्थ्यकरीं रक्षोभिरक्षणीं॥ स्तन्यदोषानदास्तस्य यथोक्तं तत्पिबेदतः॥ पीनोऽति कंधराभंगं कुर्यादूर्ध्वाक्षमूर्ध्वगः॥ उच्छ्वासरोधाल्लंबोऽति स्तनो जीवितसंशयं॥ न गर्भिण्याः पिबेत्स्तन्यं पारिगर्भिककृद्धि तत्॥ स्तन्याभावे पयश्च्छागं गव्यं वा तद्गुणं पिबेत्॥ मूलैः सिद्धं बृहत्याद्यैःस्थिराभ्यां वा सितायुतं॥ चतुर्थे सृति कागारादग्निस्कंधपुरोगमान्॥ मासे निष्क्रामयेद्देवान्नमस्कर्तुं खलं कृतं॥ पंचमे मासि पूर्णेऽन्हि धरण्यामुपवेशयेत्॥ द्विकिष्कुमात्रं लिप्तायां बलिं दत्वा चतुर्दिशं॥ धरण्यशेपभूतानां माता त्वमसि कामधुक्॥ अजरा चाप्रमेया च सर्वभूतनमस्कृता॥ चराचराणां लोकानां प्रतिष्ठाऽस्यव्यथाऽसि च॥ कुमारं पाहि मातेव ब्रह्मा तदनुमन्यतां॥ स्वाहेति मंत्रेणानेन प्रत्यहं च ततः परं॥ साश्रयं सावलंबं च कट्यादीन्मर्दयेदनु॥ षष्ठेऽन्नप्राशनं मासि क्रमात्तच्चप्रयोजयेत्॥ चिरान्निषेवमाणोऽन्नं बालो नातुर्यमश्नुते॥ भजेद्यथा यथा चान्नं स्तन्यं त्याज्यस्तथा तथा॥ षट् सप्ताष्टममासेपु नीरुजस्य शुभेऽहनि । कर्णो हिमागमे वित्ध्येद्धात्र्यंकस्थस्य सांत्वयन्॥ प्राग्दक्षिणं कुमारस्य भिषग्वामं तु योपितः॥ दक्षिणेन दधत्सूचीं पालीमन्येन पाणि
ना ॥ मत्व्येतत्कर्णपीठस्य किंचिद्गंढाश्रयं प्रति ॥ जरायुमात्रप्रच्छन्ने रविरश्म्यवभासिते ॥ धृतस्य निश्चलं सम्यगलक्तकरसांकिते ॥ वित्ध्येद्दैवकृतेछिद्रे सकृदेवर्जुलाघवात् ॥ नोर्ध्वं न पार्श्वतो नाधः सिरास्तत्र हि संस्थिताः ॥ कालिकामर्मरीरक्तास्तद्व्यधाद्रागरुग्ज्वराः ॥ सशोफदाहसंरंभमन्यास्तंभापतानकाः ॥ तेषां यथामयं कुर्याद्विभज्याशु चिकित्सितं \।\। स्थानव्यधान्न रुधिरं न रुग्रागादिसंभवः ॥ स्नेहाक्तं सूच्यनुस्यूतं सूत्रं चानु निधापयेत् ॥ आमतैलेन सिंचेच्चबहलां495
तद्वदारया496 ॥ वित्ध्येत्पालीं हितभुजः संचार्याथ स्थवीयसी ॥ वर्त्तिस्त्र्यहात्ततो रुद्धं वर्द्धयेत शनैः शनैः ॥ स्वेदितोद्वर्तितं कर्णमभ्यक्तं बृंहणैः पुनः ॥ नाजीर्णे न मलोद्रेके न चात्युष्णे विवर्द्धयेत् ॥ सदा च युंज्यादभ्यंगान्कर्णपालीगदोदितान् ॥ पुष्टिनीरुक्त्वजननानिति संवर्द्धिते दृढे । कलधौतावबद्धानि कर्णे रत्नानि निक्षिपेत् ॥ छिंद्यादवृद्धौ स्त्रीणां तु पालिमंतरपांगतः ॥ देवतापांगयोबाह्यं व्यापदः स्युस्ततो ध्रुवाः ॥ जिह्मसूचीव्यधाद्वर्तिगाढत्वादथवा मलैः ॥ जाते महति संरंभे वर्त्तिमाश्वपनीय तत् । यवैरंडजटायष्टीमंजिष्ठाद्यैः प्रलेपयेत् । सुरुढं च पुनर्वित्ध्येत्वरया तु विवर्द्धनात् ॥ छिद्येत पाली शुद्धस्य शुद्धास्रांसंदधीत तां ॥ कर्णामयनिषेधोक्तसंधानविधिना भिषक् ॥ वर्षं सवसतेर्बाह्यंकुमारस्य न दर्शयेत् ॥ दी- पमातपमाग्निंच रूपमन्यच्च भासुरं ॥ अथैनं जातदशनं कमशोऽपनयेस्तनात् ॥ पूर्वोक्तं497 योजयेत्क्षीरमन्नं च लघु बृंहणं ॥ कुर्यादपस्तनं कोहसंक्रांत्या स्तनलेपनैः ॥ वीभत्सैर्यावकासेकरुत्रिमक्षतदर्शनैः॥ पियालमज्जामधुकमधुलाजसितोपलैः ॥ अपस्तनस्य संयोज्यः प्रीणनो मोदकः शिशोः ॥ दीपनो498 बालबिल्वैलाशर्करालाजसक्तुभिः ॥ संग्राही
धातुकीपुष्पशर्करालाजतर्पणैः॥ बुभुक्षा चेत्प्रबलतामपस्तन्यस्य गच्छति ॥अत्यग्निजिद्धितं तस्य विधानं पारिगर्भिकं ॥ अभियुक्तः सदाचारो नातिस्थूलो न लोलुपः ॥ कुमारधारः कर्तव्यस्तत्राद्योबाल चित्तवित् ॥ अधार्मिकं दुराचारः स्थूलो विकटगामिनं ॥ करोति लोलुपो बालं घस्मरत्वेन रोगिणं ॥ रोगांश्चास्य जयेत्सौम्यैर्भेषजैरविषादकैः ॥ अन्यत्रात्ययिकाद्व्याधेर्विरेकं सुतरां त्यजेत् ॥ त्रासयेन्नाविधेयं च त्रस्तं गृह्णति हि ग्रहाः ॥ वस्त्रवातात्वरस्पर्शात्पालयेल्लंघिताच तं ॥ क्रीडाभूमिः समा कार्या निःशस्त्रोपलशर्करा \। बिल्वोषणकणांभोमिः सिक्ता निंबोदकेन वा ॥ जातुषं घोषवचिश्रमत्रासं रमणं बृहत् ॥ अतीक्ष्णाग्रं गवाश्वादिमंगल्यमथवा फलं ॥ शक्तिमतं यथावर्ण विद्यामध्यापयेत्ततः ॥ अनुशिष्यात्सदा चैनं धर्माय विनयाय च ॥ यथानेंद्रियदुष्टाश्वैर्ह्रियते यौवनागमे ॥ अभ्यंगोद्वर्तनं स्नानं प्रत्यहं च समाचरेत् ॥ सहदेवास्थिराकौंतीकुसुमोत्पलचंदनैः॥ बृहतीफलतर्कारीसर्षपाकुष्टसैंधवैः ॥ अश्वगंधावचैरंडतिलापामार्गतंदुलैः ॥ सात्म- गुप्ताफलैस्सेलं साजक्षीरं विपाचितं ॥ रक्षोघ्नः पुष्टिदोऽभ्यंगस्तद्वदुर्त्तनं च तैः ॥ दधिमाक्षिकसंयुक्तैस्त्रिगुणीकृतचिक्कसैः ॥499 मूर्वामूलद्विरजनीयवैश्वोद्वर्त्तनं हितं ॥ कुलत्थचूर्णमेवं वा वाजिगंधारजोऽपि वा ॥ स्नाने सर्वौपधीकल्को जीवनीयांबुचेष्यते ॥ आरग्वधादिनिर्यूहे शृंतं शीतवसंतयोः ॥ वत्सकादिप्रतीवापं कुमारं प्राशयेद्घृतं ॥ ग्रीष्मे वातातपस्वेदैर्बालः कामत्यतो हिमं ॥ प्रातरेव पिबेद्दुग्धं जीवनीयगणेशृतं ॥ सिताघृताढ्यान्सक्तूंश्च लिह्यान्नत्येवपीतकं ॥ धान्याम्लपायी लिह्याद्वाघृतसात्म्यो घृतं शृतं ॥ काकोलीशर्करामेदातुत्थायष्ट्याव्हजीवकैः ॥ कुटन्नटेन मूर्द्धानं लिपेदन्यैश्च शीतलैः ॥ रान्नासरलवर्षाभूहिंगुसैंधवदारुभिः ॥ सर्पिर्विदार्यादिजले
साधितं लेहयेच्छिशुं ॥ प्रपौंडरीकं मधुकं शूर्पपर्ण्यौदुरालभा ॥ प्रियालमज्जा काकोली विदारी कट्फलाऽमृता ॥ द्राक्षाऽजशृंगी दुग्धीका क्षीरशुक्ला हयाह्वया ॥शृंगी मधुककुसुममेदर्षभकजीवकं ॥ एभिः क्षीरं घृतं सिद्धं लिह्याद्वालो घनात्यये ॥ ब्राह्मीसिद्धार्थकवचासारिवाकुष्टसैंधवैः ॥ सकणैः साधितं पीतं वाङ्मेधास्मृतिकृद्दृतं ॥ आयुष्यं पापरक्षोघ्नं भूतोन्मादनिवर्हणं ॥ त्रिफला लक्ष्मणाऽनंता समंगा सारिवा वचा ॥ ब्राह्मी पाठा द्विबहती द्विस्थिरा हिपुनर्नवं ॥ सहदेवा रवेर्वल्लीपयस्या गिरिकर्णिका ॥ तो यकुंभे पचेदेतत्पलांशं पादशेषितं ॥ तेन कौंतीवचाकुष्टकृष्णासर्षपसैंधवैः ॥ नीरूक्सरूपवत्सायाः संयुक्तं पयसा च गोः ॥ पुष्ययोगे घृतप्रस्थं सहेमशकलं शृतं ॥ पानाभ्यंजनतो मेधास्मृत्यायुः पुष्टि- वृद्धिदं ॥ रक्षोघ्नं च विषघ्नं च सारखतमिदं घृतं ॥ लीढं सहघृतक्षौद्रं वचाहेमरजोऽल्पशः ॥ संवत्सरं परं मेध्यं रक्षोघ्नं बलवर्द्धनं ॥ पयस्था पिप्पली कुष्टं हरिद्रा सारिवा वचा ॥ मांसी कैडर्यमित्येतचूर्णं ब्राह्मीरजः समं ॥ लीड्वाऽऽज्येन शिशुर्वर्षे भवत्यपलितो बुधः ॥ बलवान् श्रुतसंपन्नः शतायुः स्थिरयौवनः ॥ प्रातः प्रातरिम लेहं धात्री चास्यावलेयेत् ॥ ब्राह्मीवद्योजयेद्दूर्वी मूर्वी ब्रह्मसुवर्चलां ॥ लक्ष्मणां श्वेततर्कारीमध्यंडां500 गौरसर्षपां ॥ सहस्रवीय फलिनीं पक्कं च बृहतीफलं ॥रोहिषं चेत्यमी प्राशाः पृथग्द्वादश कीर्तिताः ॥ महताऽप्युपयोक्तव्या नरेण नियतात्मना ॥ नित्यं मृद्भक्षणाद्रक्षेत्तया स्युर्नियतं गदाः \।\। पांडुत्वश्वयथुश्वासकासातीसारजंतवः ॥ छदिर्मूच्छग्निसदनस्तन्यद्वेषाः सरुग्भ्रमाः ॥ भक्षयेदंतपवनं नास्थि -रद्विजबंधनः ॥ तस्य तद्वदनक्रुद्धः कुर्याद्दतामयान्सरुक् ॥ शूरैरायुधिभिर्गुप्तमवृष्यं नगरं परैः ॥ यथा शिशोर्वपुस्तद्वद्यथोक्तैर्विधिभिग्रहैः ॥ इति बालोपचारणीयो नाम प्रथमोऽध्यायः ॥ १ ॥
अथातो बालामयप्रतिषेधं व्याख्यास्यामः ॥ त्रिविधो हि बालः प्रागुक्तस्तस्य क्षीरमदुष्टं प्रयुंजीत \।\। अन्नादस्य हितमन्नं । उभयवृत्तेरुपं ॥ क्षीरं हि यथोक्तैर्दोषकोपनैराहारविहारैर्धात्र्या व्यापन्नं विविधामयोदयाय बालस्य कल्पते ॥ तत्र श्यामारुणवर्ण तिक्तकषायानुरसं विशदं रुक्षमलक्ष्यगंधं फेनिलमतृप्तिकरमाध्यानमूत्रवचौविबंधकृत्कर्शनमप्सुविसर्पति विच्छिन्नं च प्लवते वातदुष्टं ॥ कृष्णं नीलं ताम्रावभासं तिक्ताम्लकटुकानुरसं कुणपरुधिरगंधि भृशोष्णमप्सु पी- तराजिमद्विदाहकरं च पित्तदुष्टं ॥ अत्यर्थ शुक्लं मधुरं लवणानुरसं घृततैलवसामज्जगंधिपिच्छिलं बहलं तंतुमद्गुरु सलिलेऽवसीदति निद्राबहुलं च श्लेष्मदुष्ट। तदुपयुज्यमानं501 यथास्वलिंगान् व्याधीनभिनिर्वर्तयति ॥ स यत्प्रदेशमभीक्ष्णं स्पृशति स्पर्श च न क्षमते तत्र रुजमुपलक्षयेत् ॥ निमीलिताक्षतया मूर्ध्नि रुजं ॥ जिह्वोष्ठदंशश्वासमुष्टिबंधोक्षणैर्हृदये ॥ विण्मूत्रसंगच्छद्यमानांत्रकूजनस्तनदंशनचेष्टन पृविनमनजठरोन्नमनैर्जठरे ॥ मूत्रसंगतृण्मूर्च्छोत्रासदिगभिवीक्षणह- स्तवल्लीपादकुब्जीभवनश्मश्रुकेशहुंचनैर्बस्तौ गुदे च ॥ सर्वत्र च स्वभावातिरिक्तरोदनेन मुखवित्कणनेन च ॥ अथ यथामयं यथादोषं च धात्र्याः शमनशोधनानि प्रयुंजीत ॥ तत्र वातदूषिते स्तन्ये देवदा- रुसरलकटुरोहिणीवचाकुष्टपाठाभार्ङ्गीमागधिकावृश्चिकालीचित्रकाजमोदशुंठीमरिचानां क्वाथंदशमूलक्वाथं वा त्रिरात्रं पाययित्वा वातव्याधिविहितानां सर्पिषामन्यतमं निगदमदिरानुपानं दद्याद्वातहरद्रव्यसिद्धं वा ॥ ततः स्निग्धां मृदु विरेच्य बस्तिकर्मणोपचरेद्वातनघनैश्वाभ्यंगस्वेदोपदेहोन्मर्दनैः ॥ सरलरास्त्राऽजमोदादेवदारुचूर्णं सर्पिषा बालमवलेहयेत् ॥ एवं विधैरेव च पिपक्वंसशर्करं सर्पिः ॥अपि चातिक्तामुरसं स्तन्यं मुद्गमापपलाशाभ्यां काकोलीयुगेन च शोधयेत् ॥ प्रियंगुधातकीपद्मपद्मकदेवदारुक्षौद्रैर्वा ॥ कपायानुरसं हिंगुसैंधववचाघृतेन ॥ फेनिलं विच्छिन्नं च प्लवमानं बिल्वाग्निमंथशृतेन पयसा हविपा च ॥ शूर्पपर्णीकाकोलीरहत्यवल्गुजफलैर्वा ॥ पित्तेऽमृतापटोलपत्रसारिवाशतावरीनिंबचंदनक्वाथं धात्री बालश्च पिबेत् ॥ त्रिफ लानिंबकटुकास्तक्वाथंवा ॥ जीवकर्षभकद्विकाकोलीमधुककट्फलकर्कटशृंगीक्वाथंवा ॥ सक्षौद्रं पटोलादिं पद्मकादिं वा न्यग्रोधादिं वा ॥ एभिरेव च द्रव्यैः सर्पींपि पित्तघ्नानि च विरेचनानि शीतांश्चाभ्यंगप्रदेहसेकान् कुर्यात् ॥ अपिच ॥ ताम्रावभासं पयो हृदयमुद्वेष्टयति तत्प्रियंगु मुस्तशवररोध्रैःशोधयेत् ॥ अम्लानुरसमम्लपित्तकरं तत्राक्षामधुकपयस्याश्रीपर्णीभिः ॥ कटुकानुरसं छर्धतीसारका- सश्वासकरं तत्काकोलीभ्यां विदारीभ्यां मधुपर्ण्या च ॥ उष्णमामदा- हज्वरकरं विरेचनं च तच्चंदनोत्पलकमलैः ॥ कफे तु सैंधवपिप्पलीयु- तं सर्पिलं पाययेत्। सैंधवमधुकसंसृष्टं वा मदनपुष्पकल्केन च सक्षौ द्रेण स्तनं बालस्य चोष्ठमालिंपेत्तेन सुखं वमति ॥ धात्रीं तीक्ष्णैवमये ततः कृतसंसर्जनां पंचकोलघनवचाऽतिविषाक्वार्थं पाययेत्॥ तगरसुरदारुमुरेंद्रयवपृथ्वीकाक्वाथं वा ॥ आरग्वधादिं मुस्तादेिं वा ॥ रुक्षोष्णा- अस्य धूमगंडूषप्रदेहपरिषेकानविरुद्धं चान्नपानं योजयेत् ॥ अपिच ॥ लवणानुरसं विसर्पकोठकंडुकरं । तत्पिचुमंदपटोलीक्षीरिवृक्षैः शोधयेत्॥ तंतुमद्दौर्बल्यश्वासकासकरं ॥ तत्पिप्पलीनागरचूर्णेन समधुघृतेन ॥ गुरु सदनात्मकं प्रतिश्यायसिंघाणकक्षीरालसककरं ॥ तत्पाठाव्योषकल्केन पंचकोलचूर्णेन वा क्षौद्रघृताप्लुतेन दोपाेपक्रमणीयं चेक्षेत ॥ यदा पुनर्धानुसन्निपातप्रकोपनान्यासेवेत तदाऽस्यास्त्रयो मला युगपद्वक्षोभिप्रपन्नाः क्षीरावहा रसायनीः समनुश्रित्य संकीर्णलिंगं स्तन्यमावहंति ॥ सच्चेदमविज्ञानात्सततमप्रत्यवेक्षणात्प्रमादाद्वा मातुः कुमारः
पिबति ततः स तेन सलिलोपममच्छं विच्छिन्नमामं दुर्गंधि नानावर्णवेदनं फेनिलमतिसार्यते पीतश्वेतसूत्रताविष्टंभतृष्ण ज्वरच्छर्दिविभिकाशुष्कोद्वारारुचिभ्रमांगतंगविक्षेपकूजनव्रणाक्षिमुखपाकष्ट्युपप्लवस्वरसादादयश्वास्य प्रादुर्भवंति ॥ तं क्षीरालसकमत्ययं चाच क्षते ॥ तत्र धात्रीं बालं च पूर्वमेवाशु वामयेद्विहितसंसर्गयोश्च मुस्त पाठाऽतिविषाककुभकदुकानां क्वाथं पानाय दद्यात् ॥ राम्राऽजमोदाप्रियंगुभद्रदारुणां वा ॥ पाठातेजोवतीपुनर्नवृश्चिकालीनां वा ॥ भूर्निवामृता कुटजफलसारिवाणां वा ॥ वचाहरिद्रादिगणयोर्वा ॥ पाठादिमहाकषायस्य वा ॥ जंब्वाम्म्र बिल्वकदंब पत्राणां वा ॥ बिल्वभंगस्य वा ॥ अनुबंधे च यथाव्याधि प्रतिकुर्वीत ॥ दंतोद्भेदश्चसर्वरोगायतनं ॥ विशेषेण तु तन्मूला ज्वरशिरोभितापतृष्णा भ्रमाभिव्यंदकुकूणकपोथकीवमथुकासश्वासातीसारविसर्पाः ॥ स दीर्घायुषोऽष्टमान्मासात्परतो वा प्रवर्त्तते ॥ इतरेषां तु चतुर्थाते ह्यतिबाल्ये दंतोत्पादवेदनया पीडिता न सम्यक्संपूर्ण धातुवला भवंति ॥ तत्रास्थि मज्जानौ दंत्तोत्पत्तिहेतू ॥तदा च तयोरसंपूर्णवीर्यत्वात्पुनः कालांतरेण दंतानां पतनमापूर्यमाणधातुत्वाच्च पुनरुत्थानमतएव च टद्वानां पुनर्दतोत्पत्तर्बलान्निपातितानां तु सहसा तदधिष्ठानगतधातु बीजभ्रं शात्संततिव्यवच्छेदाच्छोणितप्रवृत्याऽभिघाताच निःसारत्वाच्छिरा - णां पुनरनुत्पादः ॥ एतेन योगच्युताअपि प्रायशो व्याख्याताः ॥ तौ तु धातुकालक्रमेण पच्यमानौ यदा दंताशयमनुप्रपद्येते तदाऽस्य किंचिदुत्सेधेनोवीघोदतमांससंघटनादंगहर्षो जायते ॥ तद्गतेन च श्लेष्मणा कंडूस्तदा चूचुकं दंदश्यते ॥ यद्यदालंभते तत्तदास्यमानयति ॥ मारुतश्वास्य दंतमूलेषु मूर्च्छति ॥ ततः स कफानुविद्धो ऽस्थिमज्जस्थितः सर्वतो विसरन्सह पित्तेन धातून्मालांश्चदूषयन् विशोषयति ॥ तद्विजानामसंभवएवेति ॥ भवं
ति चात्र ॥ पृष्ठभंगे बिडालानां बर्हिणानां शिखोद्रमे ॥ दंतोद्भेदे च बालानां न हि किंचिन्न दूयते502 ॥ यथादोषं यथारोगं यथोद्रेकं यथाबलं । विभज्य देशकालादींस्तत्र योज्यं भिषग्जितं ॥ त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च ते ॥ अतस्तदेव भैषज्यं मात्रात्व स्य कनीयसी ॥ सौकुमार्यान्यकायत्वात्सर्वान्नानुपसेवनात् ॥ स्निग्धा एव सदा बाला घृतक्षीरनिषेवणात् ॥ सद्यस्तान् वमनं तस्मात्पाययेन्मतिमान्मृदु ॥ बस्तिं साध्ये विरेकेण मर्शेन प्रतिमर्शनं ॥ युंज्याविरेचनादिस्तु धात्र्या एव यथोदितान् ॥ मूर्वाव्योषवरा कोलजंबूत्वग्दारुसर्षपाः ॥ सपाठा मधुना लीढाः स्तन्यदोषहराः परं ॥ इक्षुमूलकशेर्वाख्ययष्ट्यादैस्तत्तु शुध्यति ॥ सांद्रं तु क्षौद्रकाश्मर्यगुडूचीतंदुलांबुभिः ॥ शृतैर्वासुरसश्वेतसर्षपावृहतीद्वयैः ॥ ग्रथितं पद्मकोशीरफलिनीश्वेतचंदनैः ॥ दंतपाली समधुना चूर्णेन प्रतिसारयेत् ॥ पिप्पल्या धातकीपुष्पधात्रीफलकृतेन वा ॥ वाघ्रीणसकपोतोस्थरजस्तद्वच्च योजितं ॥ लावतित्तिरिवल्गूरजः पुष्परसप्लुतं ॥ द्रुतं करोति बालानां दंतकेसरवन्मुखं । वचाहिबृहतीपाठाकटुकाऽतिविपाघनैः ॥ मधुरैश्च घृतं सिद्धं सिद्धं दशनजन्मनि ॥ भद्रदारुघनं यष्टीसमंगा ससितोपला ॥ वातज्वरपरीतांगः पिबेदंतरपानकं ॥ सुराह्वपनयष्ट्याह्नपयस्यांशुमतीद्वयं ॥ नागरं मरिचं भार्ती वृश्चिकाली शतावरी ॥ घृतं तत्क्वाथदुग्धाभ्यां सिद्धं हत्यनिलज्वरं ॥ बालस्य पानाभ्यंगाभ्यामभिश्चान्मर्दनं हितं ॥ हरिद्राकुष्टपङ्गुथाशतपुष्पाहरेणुभिः ॥ भाङ्गर्यैलामुषवीरास्नावर्षाभूनतसर्षपैः ॥ अक्षांशैः सांबुदसे में स्तु पिष्टैर्मरुद्धरैः । तैलप्रस्थं सुरामं तुल्यमभ्यंजने पचेत् ॥ लाजनीलोत्पलकणामधुरांजनशर्करं ॥ पित्तज्जरमतीसारं मधुलीढं निवर्त्तयेत् ॥ लाजद्विपिप्पलीक्वाथः शर्करामधुसंयुतः ॥ पीतो ज्वरमतीसारं तृष्णां छार्दंच नाशयेत् ॥ आमातिसारे रक्ते च कल्कितां गजपिप्पलीं ॥पाययेच्छर्क रोपेतां चूर्ण वा देवदारुजं ॥।शिरोभितापे सघृतैः शिरः शीतैः प्रलेपयेत्॥ पत्रैः कपित्थचांगेरीबदरीकाकमाचिजैः। शिरोरुकछर्द्यतीसारनाशनं मूर्द्धलेपनं ॥गवादनी दाडिमं च कृत्वा कोष्णांशसा पचेत्॥ कुर्यात्कुकूलपोथक्योर्यथोक्तं स्वंस्वमौषधं॥ मनःशिला शंखनाभिः पिप्पल्यो मधुयष्टिका ॥ क्षौद्रेण घृष्टा गुटिका शिशोः सर्वाक्षिरोगजित् ॥ पिप्पलीतंदुलीमुद्रः सुमनः कोरकैर्यवैः ॥ नीलोत्पलस्य पत्रैव श्रेष्ठा वर्त्तिःसितोन्मितैः ॥ मुस्तांजनप्रियंगुणां चूर्णस्तंदुलवारिणा ॥ तृष्णातीसारवमथून हंति पीतः समाक्षिकः ॥ पटोलनिंबकुटजसप्तपर्ण सदीप्यकं ॥ देवदारुविडंगानि सरल माक्षिकं घृतं ॥ लीढं ज्वरमतीसारं कासं पांड्वामयं वामि ॥ हन्याच्च मातृकान्दोषान् रोगानन्यांश्च तद्विधान् ॥ मधुकव्योषषथाग्रंथिकाः ^(*) स्पृष्टरोदिताः ॥क्षीरिणां च प्रबालानि पाठां च विपचेद्धृते ॥ तत्पीतं समधु श्लेष्मज्वरघ्नं दीपनं परं ॥रास्नैलानततर्कारीमधुशिघुसुराव्दयैः॥।सबिल्वकुष्टवरणरेणुकामिशिभिः कृतः ॥ श्लेष्मज्वरहितो लेपस्तैलमभ्यंजनं च तैः ॥ मंडलानि च सापेन गजमूत्रेण लेपयेत् ॥ रजनीदारुसरलश्रेयसी बृहतीद्वयं ॥ पृष्ठिपर्णी शताह्वा च लीढं माक्षिकसर्पिषा ग्रहणीदीपनं श्रेष्ठं मारुतस्यानुलोमनं ॥ अतीसारज्वरश्वासकामलाकासपांडुजित् ॥ बालस्य सर्वरोगेषु पूजितं बलवर्णदं ॥ बिल्वपेशी सवरुणा धातकी रोध्रवाल- कं ॥हंति लीढमतीसारं शिशोः क्षौद्रयुतं द्रुतं ॥ त्रिफलाघातकीपुष्पपद्मबिल्वशलादुभिः ॥ सकट्वंगैर्घृतं सिद्धमुदरामयनाशनं ॥ पथ्यासौवर्चलक्षारवेधन्योषाग्निहिंगुभिः ॥तिक्तया च घृतं सिद्धं समक्षीरं व्यपोहति ॥ गुल्मानाहगुदभ्रंशश्वासकासविलंबिकाः ॥ समंगाधातकीलोधकुटन्नटवलाहयैः ॥ महासहाक्षुद्रसहामुद्गबिल्वशलादुभिः ॥सकार्पासीफलैस्तीयसाधितैः साधितं घृतं ॥ क्षीरमस्तुपुतं इंति शीघ्रं
दंतोद्भवान् गदान् । विविधानामयानेतद्दृद्धकाश्यपनिर्भिनं ॥ दंतोदोत्थरोगेषु न बालमतियंत्रयेत् ॥ स्वयमप्युपश्याम्यंति जातदंतस्य यद्गदाः ॥ यावन्मासस्य यो जातस्तावद्वर्षस्य स द्विजः ॥ पतति प्रायशोऽष्टानां तेषां पूर्वस्य संभवः ॥ अत्यहःस्वमशीतांबुश्लैष्मिकस्तन्यसेविनः ॥शिशोः कफेन रुद्धेषु स्रोतःमु रसवाहिषु ॥ अरोचकः प्रतिश्यायो ज्वरः कासश्च जायते ॥ कुमारः शुष्यति ततः खिग्धशुष्कमु- खेक्षणः ॥ सैंधवव्योषशा-टापाठागिरिकदंबकान् ॥ शुष्यतो मधुसर्पि- यमरुच्यादिषु योजयेत् ॥ अशोकरोहिणीयुक्तं पंचकोलं च चूर्णितं ॥ बदरीधातकीधात्रिचूर्णं वा सर्पिषायुतं ॥ अश्वलिंडरसक्षौद्रयुक्तां वा मधुयष्टिकां ॥ द्विवार्ताकीफलरसं केवलं वाऽश्वविड्रसं॥ मधुना वा धनव्योषपाठामूर्वाशतावरीः ॥ सपयस्याः पृथक्पर्णीशृतं वा माक्षिकान्वितं ॥ स्थिरामरतरुव्योपद्विपुनर्नवसाधितं ॥ स्थिरावचाद्विहतीका कोलीपिप्पलीनतैः ॥ निचुलोत्पलवर्षाभूभागमुस्तैश्च कार्तिकैः सिद्धं प्रस्थार्द्धमाज्यस्य स्रोतसां शोधनं परं । सिंह्यश्वगंधासुरसाकणागर्भ च तद्गुणं। यष्ट्याह्नपिप्पलीरोधपद्मकोत्पलचंदनैः ॥तालीसपिप्पलीभ्यां503 च साधितं शोषजिहतं ॥ शृंगीमधूलिकाभाङ्गपिप्पलीदेवदारुभिः ॥ अश्वगंधाद्विकाकोलीरानर्षभकजीवकैः ॥ शूर्पपर्णी विडंगैश्च कल्कितैः साधितं घृतं ॥ शशोसमांगनिर्यूहे शुष्यतः पुष्टिकृत्परं ॥ वचावयस्थातगरकायस्थाचोरकैः शृतं ॥ वस्तमूत्रमुराभ्यां च तैलमभ्यंजने हितं ॥ हे बले तुंबरुच्छली वचा गिरिकदंबकः ॥ सुरापिष्टः प्रदेहः स्यादधः काये विशुष्यतः ॥सिंहस्कंधीसिंहवल्ली करमर्दीत्रिकंटकैः ॥ भंगक्वाथैः कुमाराणां शुष्यतां परिषेचनं ॥ साशोकरोहिणीं कृष्णां मध्वाज्येन लिहन् जयेत् ॥ शिशुः शोषं शरीरस्य ससितच्छागदुग्धभुक् ॥ शुष्ककासे कुमारस्य धात्र्याः स्तन्यविशोधनं ॥ मापसूपः प्रयोक्तव्यः
सकृष्णो घृतभर्जितः ॥ मधुनाऽतिविषाशृंगीपिप्पलीर्लेहयेच्छिशुं ॥ एकां वाऽतिविषां कासज्वरछर्दिरुपद्रुतं ॥ कासतृट्छर्द्यतीसारैरर्दितं लाजतर्पणान् ॥ लाजतालीसपत्रं वा बीजानि कमलस्य च ॥ रोधप्रियंगुकल्कं वा पाययेत्तंदुलांभसा ॥शर्करामधुसंयुक्तं लाजकुस्तुंबरीरजः ॥ बृहतीफलमूलत्वपिप्पलीग्रंथिकैः कृतः ॥ तवक्षीरयुतैः क्वाथो मधुना इंति शीलितः ॥ छर्दिमूर्च्छाज्वरश्वासकासातीसारपीनसान् ॥ पंचकोलद्विवार्ताकीमूलभार्ङ्गीतुगाह्वयाः ॥ क्षौद्राज्यलीढाः श्वसनकासपीनसरुक्च्छिदः ॥ श्यामातिमुक्तातर्कारीकुसुमक्वाथसाधितं ॥ यष्टीगर्भं घृतं तृष्णाहिध्माश्वासास्वपित्तनुत् ॥ पीतं पीतं वमति यः स्तन्यं तं मधुसर्पिषा ॥ द्विवार्ताकीफलरसं पंचकोलं च लेहयेत् ॥ पिप्पलीपंचलवणं कमिजित्पारिभद्रकं ॥ तद्वल्लिह्यात्तथा व्योषं मषींवा रोमचर्मणां504 ॥ लाभतः शल्यकश्वाविद्बोधश्र्श्यगिरिजन्मनां ॥ खदिरार्जून तालीसकुष्टस्पंदनजे रसे ॥ सक्षीरं साधितं सर्पिर्वमथुं विनियच्छति ॥ हनुमूलगतो वायुर्देतदेशान्विशोषयेत् ॥ यदा शिशोः प्रकुपितो नोत्तिष्ठति ततो द्विजाः ॥ रुक्षाशिनो वातिकस्य चालयत्यनि- लः सिराः ॥ हन्वाश्रयाः प्रसुप्तस्य दंतैः शब्दं करोत्यतः॥क्षीरिप्रवालमधुकदर्भमूलबिसोत्पलैः॥ तृष्णादाहज्वरहरः कपायः ससितामधुः। शर्करादाडिमकणानागकेसरजीवकं ॥ लिहन्कुमारः क्षौद्रेण तृट्छर्दिभ्यां विमुच्यते ॥ लाजैः सचंदनोशीरयष्टीमधुकपद्मकैः ॥ लिप्सो धौतः स्तनः पीतो भ्रमतृड्दाहमोहहा \।\। अस्नेहलवणं पीत्वा संस्कृतं लावजं रसं ॥ सशर्करं विजयते वालो लंघनजान् गदान् ॥ विसर्पस्तु शिशोः प्राणनाशनो बस्तिशीर्षजः ॥ पद्मवर्णो महापद्मो बाले दोषत्रयोद्भवः ॥ शंखाभ्यां हृदयं याति हृदयाद्वा गुदं व्रजेत् ॥ सदंतो जायते यस्तु दंताः प्राग्यस्य चोत्तराः॥ कुर्वीत तस्मिन्नुत्पाते शांतिकं च द्विजातये ॥ दद्यात्सदक्षिणं बालं नैगमेषं च पूजयेत् ॥ वत्सस्य मधुलाजानामापूर्व प्राङ्मुखो मुखं ॥ चुंबेत्कुमारस्त्रीन्वारान्प्रायश्चित्तमिदं परं ॥ नावमारोहयेद्वालं स्नातं स्कंधं गजस्य च ॥ भोजयेद्ब्राह्मणांचात्र पायसं मधुसर्पिपा ॥ मातुः कुमारो गर्भिण्याः स्तन्यं प्रायः पिबन्नपि ॥ कायाग्निसादवमथुतंद्राकारर्थ्यारुचि भ्रमैः ॥ युज्यते कोष्ठवृध्या च तमाहुः पारिगर्भिणं ॥ रोगं परिभवाख्यं च युंज्यात्तत्राग्निदीपनं ॥ पिप्पलीपिप्पलीमूलकटुकादेवदारुभिः ॥ क्षारद्वयबिडाजाजीबिल्वमध्याग्निदीप्यकैः ॥ दधिसौवीरकमुरामंडैश्चविपचेहृतं ॥ हंति प्रयुक्तं तत्काले रोगान्पारिभवाश्रयान् ॥ अन्नेनोपहतं स्तन्यं पिबंतो विहितात्परं ॥ इमानेव गदान्कुर्यात्कुर्यात्तेष्वेतदेव च ॥ पीतं पीतं च यः स्तन्यं सवातमतिसार्यते ॥ तस्याप्येतत्परं पथ्यं दीपनं बलवर्णकृत् ॥ अत्युद्रिक्तक्षुधंबालं परिभूतं तु लेहयेत् ॥ विदारीयवगोधूमकणाचूर्णं घृताप्लुतं ॥ पाययेदनु च क्षीरं शृतं समधुशर्करं॥ अक्षमज्जाद्विकाकोलीयष्टीमधुकमोरटैः ॥ श्रपयेत्क्षीरमाज्यं वा बीजैरिक्षुरकस्य च ॥ तत्प्रयोज्यं गुरु स्निग्धं यच्चात्यग्नौपुरेरितं ॥ श्ववायसविडालानामुच्छिष्टेन जलेन च ॥ स्नापयेत्तं न चेदेवं क्षुत्तस्य प्रशमं व्रजेत् ॥ क्षीरिपादपमूलस्थं विधिना स्नापितं ततः ॥ वस्त्ररत्नाद्यलंकारैः कुमारं भूषवेन्मितैः ॥ वृक्षं चानु ततः कुर्याध्दूषण- व्यत्ययं तयोः ॥ एतदायुःप्रदं धन्यं स्नपनं सर्वरोगजित् ॥ जटीभूतक चाक्षादिपक्ष्माणं त्वतिलोलुपं ॥ गोमूत्रगंधिं रूपयेत्तीर्थे गव्यशकृदसैः ॥ वचापुष्पशिलाकुष्टवयस्थाहिंगुकट्फलैः ॥ सबस्तमूत्रमदिरैस्तै लमभ्यंजनं पचेत् ॥ बलाविदारीत्रिकटुकुष्टोशीरकुचंदनैः॥ सिद्धं पीतं हविर्हंति तं विकारमशेषतः ॥ शिरः पृष्ठं ततो मुष्कौततः पादौ च योजयेत् ॥ हस्ताभ्यामुत्थितो वायुः स पर्वानुप्लवः स्मृतः ॥ गौरीवचासदापुष्पी हयगंधाकटुत्रयैः ॥ सकट्फलद्विवार्ताकीवयस्थाहिंगुरोहिपैः ॥ बस्तमूत्रमुरायुक्तैःसाधितं तस्य योजयेत् ॥ तैलमभ्यंजने शेषं वातव्याधिवदाचरेत् ॥तालुमांसे कफः क्रुद्धः कुरुते तालुकंटकं ॥ तेन तालुपदेशस्य निम्नता मूर्ध्नि जायते ॥ तालुपातः स्तनद्वेषः कृच्छ्रात्पानं शकृद्द्रवं ॥ तृडास्यकंड्वक्षिरुजा ग्रीवादुर्धरता वमिः ॥ तत्रोत्क्षिप्य यवक्षारक्षौद्राभ्यां प्रतिसारयेत् ॥ तालु तद्वत्कणाशुंठीगोशरुद्रसंसैंधवैः ॥ शृंगवेरनिशाशृंगं कल्कितं वटपल्लवैः ॥ बध्वा गोशकृता लिप्तंकुकूले खेदयेत्ततः ॥ रसेन लिंपेत्ताल्वास्यंनेत्रे च परिषेचयेत् ॥ हरीतकीवचाकुष्टकल्कं माक्षिकसंयुतं ॥ पीत्वा कुमारः स्तन्येन मुच्यते तालुकंटकात् ॥ मस्तुलुंगक्षयाद्यस्य वायुस्ताल्वस्थि नामयेत् ॥ तस्य तृड्दैन्ययुक्तस्य सर्पिर्मधुरकैः शृतं ॥ पानाभ्यंजनयोर्योज्यमुद्देगश्व हिमांबुना ॥मलोपलेपात्स्वेदाद्वा गुदे रक्तकफोद्भवः॥ ताम्रो व्रणोऽतः कंडूमान् जायते भूर्युपद्रवः ॥ केचित्तंमातृकादोषं वदंत्यन्येऽहिपूतनं ॥ पृष्टारुर्गुदक्रुद्धं च केचिच्च वमनामकं ॥ तत्र धात्र्याः पयः शोध्यं पित्तश्लेष्महरौषधैः सिद्धं शीतं च शीतांबुयुक्तमुत्तरपानकं ॥ सक्षौद्रताक्ष्पशैलेन व्रणं तेन च लेपयेत्॥ त्रिफलाबदरीप्लक्षत्वक्क्वाथपरिषेचितं ॥ कासीसरोचनातुत्थमनोहृल्लरसांजनैः । लेपयेदम्लपिष्टैर्वा चूर्णितैर्वाऽवचूर्णयेत् ॥ सुश्लक्ष्णैरथवा यष्टीशंखसौवीरकांजनैः ॥ सारिवाशंखनाभिभ्यामसनस्य त्वचाऽथवा ॥ रागकंडूत्कटे कुर्याद्रक्तस्रावं जलौकसा ॥ सर्वं च पित्तव्रणजिच्छस्यतेगुदकुट्टके \।\। अनामस्थौल्यपित्तास्रकंडूगंडगलामये ॥ उदुंबरोन्मितं श्रेष्ठं तार्क्ष्यमंतरपानकं ॥ गृह्णाति सूतिकागारे नस्तनं चेत्स्पृशेत्ततः॥ पथ्याधात्रीफलकणैर्जिह्वां सघृतमाक्षिकैः ॥ पिप्पलीत्रिफलाचूर्णं घृतक्षौद्रपरिप्लुतं ॥ रुदते त्रस्यते चावलेहंदद्यात्सुखावहं । प्रदीप्तांगाररजसा प्रशांतेनावचूर्णयेत् ॥ पंचमेऽह्नि पतन्नालंलेपयेद्वागुढांभसा \।\। सांद्रेण भूमौ घृष्टेन नालपातेऽपि चोन्नतां ॥ नाभिं छागेन शकृता दग्धेनांतर्विचूर्णयेत् ॥ अश्वगंधांजनाजाविविड्यष्टीमधुकादिभिः। रोपयेच्चूर्णितैर्नाभिं स्नेहयुक्तैरनुन्नतां ॥ यष्टीरोधनिशाश्यामाकल्कपक्वेन सेचयेत् ॥ नाभिं पाके तु तैलेन तच्चूर्णैश्चावचूर्णयेत् ॥ वातेनाध्मापितां नाभिं सरुजां तुंडिसंज्ञितां ॥ मारुतनैः प्रशमयेत्स्नेहखेदोपनाहनैः ॥ असम्यक्कल्पनान्नाभेः स्याद्विनामो विजृंभिका ॥ वातपित्तहरं कर्म तत्रांतवहिराचरेत् ॥ गर्भाभसामवमनाच्छेध्मणः कंठगस्य वा ॥ संपर्कात् हृदये दुष्टो मार्गानादृणुते रसः ॥ बद्धमष्टिस्ततो मुह्येद्रोगेर्बालोऽभिभूयते ॥ हृद्रोगाक्षेपकश्वासकासच्छर्दिज्वरादिभिः ॥ उल्बकं सहजं व्याधिमंबुपूर्णं च तं वदेत् ॥ स्रोतोविशोधनं प्रातस्तस्मिन्नंतरपानकं ॥ विदध्याच्छागलं मूत्रं पानाभ्यंगौ च वर्जयेत् ॥ बिल्वादिमूलदृहतीपंचकोलं पलांशकं ॥ धन्वमांसपलान्यष्टौ शशमूर्द्धपलाष्टकं ॥ साधयेत्षोडशगुणे सलिलेऽष्टांशशोषितं ॥ तेन क्वाथेन कर्षाशैर्घृतप्रस्थं विपाचयेत् ॥ छागलीमूत्रमदिरादधिक्षीरसमांशकं ॥ विडंगसैंधवाजाजीचविकादेवदारुभिः ॥सहिला हिगुलशुनैः सव्योपैः श्लक्ष्णकल्कितैः ॥ तत्पानार्द्धति सहजगुल्महिध्माऽनिलामयान्505 ॥ पांडुरोगं च वातोत्थं स्वस्थते च पुष्टिदं ॥ परिदग्धच्छविं बालं लिह्याहूतिलोत्पलैः ॥ शमीपत्रशिरोषत्वक्सारिवामधुकाभयैः ॥ मूर्वाधात्रीनिशाचूर्ण मूत्रेण मधुमत्पिबेत् ॥ पांडुरोगी शृतं सर्पिर्वराभृंगरसेन वा ॥ पाठावेल्लद्विरजनीमुस्ताभार्द्वीपुनर्नवैः ॥ सबिल्वत्र्यूषणैः सर्पिर्वृश्चिकालीयुतैः शृतं ॥ लिहानो मात्रया रोगैर्मुच्यते मृत्तिकोद्भवः ॥ व्याधेर्यद्यस्य भैषज्यं स्तनस्तेन प्रलेपितः ॥ स्थितो मुहूर्तं धौतोऽनु पीतस्तं तं जयेद्गदं ॥ ग्रहैरपि हि जायंते प्रच्छन्नैर्व्याधयः शिशोः ॥ कर्म शस्तमतस्तेषु देवयुक्त्याश्रयं सदा॥ इति बालामयप्रतिषेधो नाम द्वितीयोऽध्यायः॥२॥
अथातो बालग्रहविज्ञानं व्याख्यास्यामः॥ पुरा गृहस्य रक्षार्थं निर्मिताः शूलपाणिना॥ मनुष्यविग्रहाः पंच सप्त स्रीविग्रहा ग्रहाः॥ स्कंदो विशाखो मेषाख्यः श्वग्रहः पितृसंज्ञितः॥ शकुनिः पूतना शीतपूतना दृष्टिपूतना॥ मुखमंडितिका तद्वद्रेवती शुष्करेवती॥ ते कामरूपिणः स्कंदमुपचेरुः समाहिताः॥ स्कंदस्य बालधारत्वात्तेषां स्कंदोऽग्रणी
रंभूत्॥ स्कंदेऽथ यौवनं प्राप्ते सैनापत्यं च तान् ग्रहान्॥ रौद्रान्रुद्रोऽनुजग्राह प्राज्ञान् वृत्त्यभिलाषिणः॥ न तिथिष्वप्यतिथयो देवताः पितरोऽपिवा ॥ येषु वेश्मसु पूज्यंते निवृत्ताचारकर्मसु उत्स
न्नबलिहोमेषु भि
न्नकांस्यादिभोजिषु॥ हरध्वं तेषु बालानामारोग्यं धर्मचारि च॥ शूलिनेति नियुक्तास्ते बलिपूजाभिकांक्षिणः॥ बालान् कश्मलधात्रीकान् संध्यासु रुदतोऽशुचीन्॥ कुद्धान् भीतान्विमनसः शून्यस्थानैकचारिणः॥ परोपभुक्तकुसुमवस्त्राभरणधारिणः॥ ऋक्षोलूकबिडालादि
रुपैरन्यैस्तथाऽद्भुतैः सं506त्रासयंति शयितान्कदाचिज्जाग्रतोऽपि वा॥ प्रायः पर्वसु गृह्णंति ग्रहाश्छिद्रप्रहारिणः॥ आविशंतश्च लक्ष्यंते केवलं शा
खचक्षुषा॥ शुद्धेन देहं बालानां ग्रहगंधर्वयोषितां॥ तेषां ग्रहिष्यतां रूपं प्र507ततं रोदनं ज्वर॥ सामान्यरूपमु
त्रासजृंभा
न्नूत्क्षेपदीनताः फेनस्रावोर्ध्वदृष्ट्योष्ठदंतदंशप्रजागराः॥ रोदनं कूजनं स्तन्यविद्वेषः स्वरवैकृतं॥ नखैरकस्मात्परितः स्वधात्र्यंगविलेखनं॥ तत्रैकनयनस्रावी शिरो विक्षिपते मुहुः॥ हतैक पक्षः स्तब्धांगः सस्वेदो नतकंधरः॥ दंत
खादी स्तनद्वेषी त्रस्पन्रोदिति विस्वरं॥ वकवक्रो वमन् लालां भृशमूर्ध्वं निरीक्षते॥ वसासृग्गंधिरुद्विग्नो बद्धमुष्टिशकृच्छिशुः॥ चलितैकाक्षिगंडभूः संरक्तो
भयलोचनः॥ स्कंदार्त्तस्तेन वैकल्यंमरणं वा भवेत्ध्रुवं॥ संज्ञानाशो मुहुः केशलुंचनं कंधरानतिः॥ विनम्य जृंभमाणस्य शकृन्मूत्रमवर्त्तनं॥ फेनोद्वमनमूर्ध्वेक्षा हस्तभ्रूपादनर्त्तनं॥ स्तनस्वजिह्वासंदंशसंरंभज्वरजागराः॥ पूयशोणितगंधश्च स्कंदापस्मारलक्षणं॥ आध्मानं पाणिपादस्य स्पंदनं फेननिर्वमः॥ तृण्मुष्टिबंधातीसारस्वरदैन्यविवर्णताः॥ कूजनं स्वननं छर्दिः कासहिध्माप्रजागराः॥ ओष्ठदंशांगसंकोचस्तंभबस्ताभगंधताः॥ उर्ध्वं निरीक्ष्य हसनं मध्ये विनमनं ज्वरः॥ मू
र्च्छेकनेत्रशोफश्च नैगमेषग्रहाकृतिः॥ कंपो भवेत्दृषितरोमत्वं स्वेदश्वसुर्निमीलनं॥ बहिरायामनं जिह्वादांशोंऽतःकंठकूजनं॥ धावनं विट्सगंधत्वं कोशनं च श्ववच्छु508नि॥ रोमहर्षो मुहु
स्रासः सहसा रोदनं ज्वरः॥कासातीसारवमथुजृंभातृट्शवगंधिताः॥ अंगेष्वाक्षेपविक्षेपशोषस्तंभविवर्णताः॥ मुष्टिबंधः स्रुतिश्चाक्ष्णोर्बालस्प स्युः पितृग्रहे॥ स्रस्तांगत्वमतीसारो जिह्वातालुगले व्रणाः॥ स्फोटाः सदाहरुक्पाकाः संधिषु स्युः पुनः पुनः॥ निश्यह्नि प्रविलीयंते पाको वक्रे गुदेऽपि वा॥ भयं शकुनिगंधत्वं ज्वरश्च शकुनिग्रहे॥ पूतनायां वमिः कंपस्तंद्रा रात्रौ प्रजागरः॥ हिध्माऽऽध्मानं शकृद्भेदः पिपासा मूत्रनिग्रहः॥ स्रस्तत्दृष्टांगरोमत्वं काकवत्पूतिगंधिता॥ शीतपूतनया कंपो रोदनं तिर्यगीक्षणं॥ तृष्णांऽत्रकूजातीसारौ वसावद्विस्रगंधिता॥ पार्श्वस्यैकस्य शीतत्वमुष्णत्वमपरस्य च॥ अंधपूतनया छर्दिर्ज्वरः कासोऽल्पनिद्रता॥ वर्चसो भेदवैवर्ण्यदौर्गंध्यान्यंगशोषणं॥ दृष्टिसादोऽक्षिरुक्कंडूपोथकीजन्म शूनता॥ हिध्मोद्वेगस्तनद्वेषवैवर्ण्यस्वरतीक्ष्णताः॥ वेपथुर्मत्स्यगंधत्वमथवा साम्लगंधिता॥ मुखमंडितया पाणिपादास्यरमणीयता॥ सिराभिरसिताभाभिराचितोदरता ज्वरः॥ अरोचकोंऽगग्लपनं गोमूत्रस
मगंधता॥ रेवत्यां श्यावनीलत्वं कर्णनासाक्षिमर्दनं॥ कासहिध्माक्षिविक्षेपवक्र
बकत्वरक्तताः॥
बस्तगंधो ज्वरः शोषः पुरीषं हरितं द्रवं॥ जायते शुष्करेवत्यां कमत्सर्वांगसंक्षयः॥ केशशातोन्नविद्वेषः स्वरदैन्यं विवर्णता॥ नानावर्णपुरीषत्वमुदरे गंथयः सिराः॥ रोदनं गृध्रगंधित्वं दीर्घकालानुवर्त्तनं॥ उदरे ग्रंथयो वृत्तायस्य नानाविधं शकृत्॥ जिह्वायां निम्नता मध्ये श्यावतालुं च तंत्यजेत्॥ भुजानोऽन्नं बहुविधं यो बालः परिहीयते॥ तृष्णागृहीतः क्षामाक्षो हंति तं शुष्करेवती॥ हिंसारत्यर्चनाकांक्षाग्रहग्रहणकारणं॥ तत्र हिंसात्मके बालो महान्वा स्रुतनासिकः॥ क्षतजिह्वः क्वणेद्वाढमसुखी साश्रुलोचनः॥ दुर्बलो हीनवचनः पूतिगंधिश्च जायते॥ क्षामो मूत्रपुरीषं स्वं मृद्राति न जुगुप्सते॥ हस्तौ चोद्यमसंरब्धो हंत्यात्मानं तथा परं॥ तद्व
च्च शस्त्रकाष्ठाद्यैरग्निंचादीसमाविशेत्॥ अप्सु मज्जेत्पतेत्कूपे कुर्यादन्यच्च तद्दिधं॥ तृड्दाहमोहान् पूयस्य छर्दनं च प्रवर्त्तयेत्॥ रक्तं च सर्वमार्गेभ्योरिष्टोत्पत्तिंच तं त्यजेत्॥ रहःस्रीरतिसंलापगंधस्रग्भूषणप्रियः॥ दृष्टः शांतश्च दुःसाध्यो रतिकामेन पीडितः॥ दीनः परिमृशन्वक्रं शुष्कौष्ठगलतालुकः॥ शंकितं वीक्षते रौति ध्यायत्यायाति दीनतां॥अन्नमन्नाभिलाषेऽपि दत्तं नातिबुभुक्षते॥ गृहीतं बलिकामेन तं विद्यात्सुखसाधनं॥ हंतुकामं जयेद्धोमैः सिद्धमंत्रप्रवर्तितैः॥ इतरौ नु यथाकामं रतिबल्यादिदानतइति॥ इति बालग्रहविज्ञानं नाम तृतीयोऽध्यायः॥३॥
अथातोब्रालग्रहप्रतिषेधं व्याख्यास्यामः॥ ग्रहेषु साव्येषु शिशुं विविक्ते शरणे स्थितं॥ त्रिरन्हः सिक्तसंमृष्टे सदा सन्निद्दिता
क्ते॥ विकीर्णभूतिकुसुमबीेजपत्रान्नसर्षपे॥ रक्षोघ्नतैलज्वलितप्रदीपदृतपाष्मनि॥ व्यवायमद्यपिशितनिवृत्तपरिचारके॥ पुराणसर्पिषाऽ
भ्यक्तं परिषिक्तं सुखांबुना॥ साधितेन बलानिंबवैजयंतीनृपद्रुमैः॥ पारिभद्रककटुंगजंबूवरणकट्तृणैः॥ कपोतवंकाऽपामार्गपाटलीमधुशिग्रुभिः॥ काकजंघामहाश्वेताकपित्थक्षीरिपादपैः॥ सकदंबकरंजैश्चधूपं स्रातस्य चाचरेत्॥द्वीपिव्याघ्राहिसिंहर्क्षचर्मभिर्घृतमिश्रितैः॥ पूतीद509शांगसिद्धार्थवचाभल्लातदीप्यकैः॥ सकुष्टैः सघृतैर्धूपः सर्वग्रहविमोक्षणः॥ सर्षपानिंबपत्राणि मूलमश्वखुरा वचा॥ भूर्जपत्रं घृतं धूपः सर्वग्रहनिबर्हणः॥ अनंता
म्रास्थितगरं मरिचं मधुरो गणः॥ शृगालविन्न मुस्ता च कल्कितैस्तैर्घृतं पचेत्॥ दशमूलरसक्षीरयुक्तं त
दूहजित्परं॥ रास्राद्यंशुमतीवृद्धपंचमूलबलाघनात्॥ क्वाथे सर्पिः पचेत्पिष्टैः सारिदाव्योपचित्रकैः॥ पाठाविडंगमधुकपयस्याहिंगुदारुभिः॥ सग्रंथिकैः सेंद्रयवैः शिशोस्तत् सततं हितं॥ सर्वरोगग्रहहरं दीपनं बलवर्णदं॥ सारिवासुरभिब्राह्मीशंखिनीकुष्टसर्पपैः॥ वचाऽश्वगंधासुरसायुक्तैः सर्पिर्विपाचयेत्॥ तन्नाशयेद्ग्रहान्सर्वान् पानेनाभ्यं जनेन च ॥ योजयेद्भूतविद्यायां यान्युक्तानि घृतानि च॥ हस्तमात्रंशुचौ देशे गोमयेनोपलेपयेत्॥ तत्राक्षतानां चोक्षा510णां स्थाप्यं पात्रं सदक्षिणं॥ विधूमश्चानलस्तोयं गुग्गुलुः सर्पिराहूतिः॥ शुक्लं पुष्पं बलिर्धूपं दूर्वाः श्वेताश्च सर्षपाः॥प्रङ्गमुखोऽथ शुचिर्वैद्यस्त्रिवर्णामथवासितां॥ उपविष्टः प्रतिसरां गृहीत्वा वेष्टयेत्तया॥ भूर्जे रोचनया विद्यां लिखितामपराजितां॥ विधिना साधितां भूतैः सर्वैरप्यपराजितां॥ लक्ष्मणादिपरीवारां नित्यानुस्मृतिसेवितां॥ लक्ष्मणासहदेव्याख्या नागदंती कटंभरा॥ मर्कटीकर्कटी लंबा बृहती कंटकारिका॥ खरनासा मृगैर्वारुर्महाकोशा शतावरी॥ उदङ्मुखस्य बालस्यबध्नीयातां ततो गले॥ तदभावे दृढं क्षौमं सूत्रं मंत्रमिमं जपन्॥
बध्नाम्यहं
प्रतिसरां नमस्कृत्य स्वयंभुवे॥बालानां रक्षणार्थाय शिवां पूर्वर्षिनिर्मितां॥ इंद्रः प्रतिसरां तुभ्यं ये च तस्यानुसारिणः॥ व
ज्राशनिपराभूता मेघवृंदानुसारिणः॥ ऐरावणस्कंधगतं येऽनुयांति पुरंदरं॥ यमो वैवस्वतो राजा ये च तस्यानुसारिणः॥ मेषसूकरसिंहोष्ट्रगजवाजिसमाननाः॥ कालाः कालायसैः पाशैः स्तब्धाक्षाभ्रुकुटीमु
रवाः॥ शक्तिमुद्गरहस्ताश्च खड्गप्रासधराश्च ये॥ पाशभृद्वरुणो राजा तोयभृत्सागरालयः॥ शारदाभ्र
घनाकारा ये च तस्यानुसारिणः॥ महोर्मिवंतं वेगेन क्षोभयंति सरित्पतिं॥ धनाधिपो वैश्रवणः सर्वयक्षाधिपो भुवि॥ नानाकाराश्च ये भूतास्तस्यैवानुचराः सदा॥ आदित्या वसवो रुद्रा मरुतश्चाश्विनापवि॥ ते ते सर्वेऽनुमन्यंतामिमां प्रतिसरक्रियां॥ दीर्घमायुररोगत्वं तव दास्यंति स्वस्ति ते॥ स्वस्ति ते भगवान् ब्रह्मा स्वस्ति नारदपर्वतौ॥ स्वस्ति वेदाश्च यज्ञाश्च अग्नीपोमौ तु स्वस्ति ते॥ स्वस्ति ते श्रीर्धृतिः कांतिर्लक्ष्मीर्मेधा क्षमा द्युतिः॥ स्वस्ति तुष्टिश्च पुष्टिश्च वपूर्हीर्बुद्धिरेव च॥ स्वस्ति रुद्रो विशाखश्च स्कंदः शक्तिधरश्च ते॥ स्वस्ति धाता विधाता च सुपर्णश्च महाबलः॥ स्वस्ति देवाश्च यक्षाश्च मा च ते पापमागमत्॥ दुर्व्या
त्दृतानि दुःस्वमे मनसा चिंतितानि च॥ दुष्टादीनां भयकृतो याचः प्रतिहता मया॥ रक्षाप्रतिसरा तुभ्यं बद्धेयं पापघातिनी॥ निर्वृतस्त्वं निरुद्वेगो जीव वर्षशतं सुखीति॥ अपूपपूपसंयावस्वस्तिकालोपिकादयः॥ पायसो मिश्रकः कू511रो गुडकूरो हरिद्रकः॥ कृशरा याकव क्षौद्रं पटलं लवणं हविः॥ दधि कुल्मापनिष्पावा रक्तो भूतौदनः पयः॥ पक्वांममांसरुधिरमद्यसुक्तसुरासवाः॥ गंधमाल्यं फलं हेम धूपः सपुरकुंदुरुः॥ सुरसार्जकनिर्गुंडीकुसुमं च सपल्लवं॥ वटिः
मशखैर्देयः स्याद्भवनस्यचतुर्दिशं॥ चतुष्कचैत्यत्रिपथदेवा
यतनगोपुरे॥ एकवृतो
दपाने च संध्ययोर्दीपवान्निशि॥ अथापतितगोवर्चःप्रलिप्ते द
र्मसंस्कृते॥ वृत्ते वा चतुरस्रे वा मंडले कुप्तुमोज्वले॥ नानाग्रहपरीवा रं
भिषग्भूतपतिं लिखेत्॥ तं प्रति प्राङ्मुखो विद्यां पठन्नुपहरेद्बलिं॥ ब512कुलाग्रहकारिका॥ सेना सुसेना माता च महासेना यशस्वि नी॥ कृतमाला कृतशिरा एतास्तु ग्रहमातरः॥ कुमारवचनाच्छीघ्रंप्रमुंचंतु शिशुं त्विमं॥ कालकल्पा ज्वलच्छक्तिः किंकिणीजाल
भृपिता॥ कुमारवचनाहूती संप्राप्ता मुच्यतां शिशुं॥ पताकाकुक्कुटश्छत्रं घंटा बर्हधराः शिखी॥ शरस्तं
भश्व ते मुद्रा मुच्यतां मातरः शिशुं॥ गंधं धूपं च माल्यं च कुमारस्ते प्रयच्छति॥ न स्थातव्यंतदाघ्राय स्वां गतिं गच्छ मा चिरं॥ धात्र्यः सर्वाः कुमाराणां संगता गंधमादने॥रक्तध्वजपताकस्य रक्तांशुकनिवासिनः॥कुमारस्यालं यं तत्र पात बालं विमुंचत॥ षण्मुखो द्वादशाक्षो वै तस्मिन्बाले वृ तो वरं॥ वीरः कुमाराधिपतिस्तव पुत्रो भविष्यति॥ ब्रह्मणो ब्राह्मणानां तु सर्ववेदविदां वर॥ यक्षराक्षसनागानां गंधर्वासुरयोरपि॥ पिशाचभूतसंघानां व्याधीनां च स ईश्वरः॥ आज्ञापयति वः स्कंदोगम्यतां गंधमादनं॥ ग्रहो यः कोपयेदाज्ञां कुमारस्य यशस्विनः॥ स्थानच्युतः स वै क्षिप्रं बाह्यस्तत्पर्पदो भवेत्॥ बलेरनंतरं कुर्याद्धो ममभ्यर्च्य पावकं॥ पुष्पैर्भक्ष्यैश्च विविधैस्त्वरुणालोहितैरपि॥ गंधैर्गुग्गुलुधूपेन समिधः खदिरादयः॥ शतमष्टोत्तरं हव्यमथवा चंदना द्रुमात्॥ अग्निदंडं प्रवक्ष्यामि सर्वग्रहविमोक्षणं॥ ब्रह्मण्यं त्वमलं दे वं हव्यकव्यमतीच्छकं॥ देवानां प्रमुख स्वस्ति स्वाहाप हरितद्रवः॥ सहस्रविद्योदहन पावकः सर्वभक्षणः॥ त्वं हि यज्ञश्च यूपश्च त्वं हि धर्मवतां गतिः॥ हिरण्यरेता देवेश त्वं हि वेदविदां गतिः॥ दुर्वृ
त्तानां विनाशाय त्वं हि उत्पादितः सुरैः॥ दह संग्रह देवस्त्वमिमं दुष्टस्य निग्रहं॥ अग्नये स्वाहा महाअग्नये स्वाहा॥ त्वं हि शांतिकरो वह्निः त्वं मारुतहरोदनः हरिप्रधानगतिरासीदर्हनिगृ
त्द्य गु
त्द्यकं॥ तत्सादय तेजसा त्वं मम वश्यं च तत्कुरु॥ दुष्टग्रहचारणं सर्वोपद्रवेषुच॥ त्वया कृतेन होमेन शीघ्रंशांतिः प्रजायते॥ अथो हि बहुदेवानां त्वं हि व
क्रंपुरातनं॥ तेन सत्येन देवेश इमं साधय मे ग्रहं॥ नमोस्तु ते हव्यवाहन दंडीं प्रदर्शय२ दह२ तेज२ मोटय२ अपस्मारमु
द्घाटय नमो अविसारकस्य नमः॥ कुरंगाय नमः॥ सप्तानां मातृणां नमः स्कंदाय॥ एष परिग्रहमंत्रः मातृणामावाहनं च॥ हिलतिमिलतिहलितापललनिस्वाहा॥ अनेन सप्त
कृत्वः परिजप्तेन पानीयचुलुकेनात्माऽभ्युक्षयितव्यः॥ एवमात्मरक्षा कृता भवति॥ ग्रहाणां सन्निधानाय बालस्यप्रतिपत्तये॥ सत्यशापनसंयुक्तमिमं मंत्रं पठेदनु॥ प्रजापतौ तु यत्सत्यं यत्सत्यममरेश्वरे॥ धर्मराजे च य त्सत्यं यच्च सत्यं तपस्विषु॥ धनाधिपे च यत्सत्यं यच्च सत्यं जलाधिपे॥ यत्सत्यमग्निहोत्रेषु यत्सत्यं श्रोत्रियेषु च॥ पतिव्रतासु यत्सत्यमीश्वरे च महात्मनि॥ एतैस्तु सत्यसमयैर्गुत्द्यकाः सत्यवादिनः॥ दर्शयध्वं स्वरूपाणि सत्यं रक्षत सर्वशः॥ आमंत्रिता मया सौम्याः सौम्यरूपाः प्रतीच्छत॥ बलिं चोपत्दृतं सर्वंसर्वे कौमारकग्रहाः॥ दर्शयध्वं स्वरूपाणि बलिं च प्रतिगृ
त्द्यतां॥ ततश्चानुपठेदेतां कुलविद्यां समाहितः॥
ॐलानीला
खलाकालाकुमारपिशाचरेवतीरोदनत्रासनकंपनजृंभणउत्थापय देवयक्षगंधर्वभूतानां नागराक्षससंतर्ज न दंडनाविधूसारयभगवन्नग्निदंडअग्निवीर्यनमस्तेजसाखेनत्यक्तमुत्सादय स्वाहा॥ भूर्भुवाय स्वाहा॥ दीप्ततेजसे स्वाहा॥ हव्यवाहाय स्वाहा॥ यमाय स्वाहा॥ नश्यंत्यनेन होमेन समस्ता बालकग्रहाः॥ तत्राग्नावरुणे ताम्रे तप्तहेमसमर्चिषि॥ तारावैदूर्यसदृशे शशिविद्युत्समप्रभे॥ घृतमंडाभवर्णे वा गंधे न च घृतोपमे॥ केतक्युत्पलदध्याभे ध्रुवमारोग्यमादिशेत्॥ अनारोग्यं तु नीलेऽग्नौ कपिले भस्मनिष्प्रभे॥ कृष्णे कपोते दुर्गंधे मत्स्यपूयास्त्रगंधिके॥ वचालशुनगंधाभे विस्रकर्दमगंधिके॥ इति ग्रहमतिषेधो नाम चतुर्थोऽध्यायः॥४॥
अथातः स्नपनाध्यायं व्याख्यास्यामः॥ सरित्संगमगोतीर्थगजेंद्रस्कंधगोकुले॥ चतुष्पथे च स्नपयेद्बालं सस्तन्यमातरं॥ श्मशाने दीर्घरोगार्तं मृतापत्यं च योषितं॥ दूर्वाक्षीरद्रुमवती प्रागुदक्प्रवणा मही॥ स्निग्धनीरुजपुष्पाढ्या पादपाः स्नपने शुभाः॥ रेवतीश्रवणस्वातीप्राजापत्योत्तरेऽहनि॥ पुष्ये मूले च बालस्य स्रानं पर्व दिनेषु च॥ चतुर्हस्ताष्टहस्तं वा द्वात्रिंशद्धस्तमेव वा॥ नल्वमात्रप्रमाणं वा त्रिवर्णं मंडलं लिखेत्॥ च513तुरस्रं चतुरं पताकाभिरलंकृतं॥ आकीर्णं परितो दूर्वासिद्धार्थकयवांकुरैः॥ क्रमात् प्राच्यादिषु लिखेद्गजारूढं पुरंदरं॥ धर्मराजं महिषगं नक्राव्हस्थमपां पतिं॥ धनदं च गदापाणिं यमस्थानमतीत्य च॥ मातृस्थानं लिखेत्तस्मिन् सवृषं नंदिकेश्वरं॥ सवध्वनुचरं चादौ मृन्मयं च विनायकं॥ अतीतवरुणावासं सहस्रारं निवेशयेत्॥ विष्णुप्रहरणं चक्रं सर्वविघ्ननिवारणं॥ अरियक्षेशयोर्मध्येपद्महस्तालयां श्रियं॥ नंद्यावर्त्तंकुशादर्शमत्स्यस्वस्तिकतोरणं॥ शंखं च दक्षिणावर्त्तं श्रीवत्संमाल्य दाम च॥ इंद्रादीनां परीवारमैशान्यादिषु दिक्षु च॥ लंबोदरी लंबभुजा लंबकर्णा च राक्षसी॥ इंद्रद्वारे निवेश्याः स्युः यमद्वारे प्रलंबिनी॥ लंबकाऽपांपतिद्वारे कौवेर्यां लंबनासिका॥ षट्कीलानायसान्कुर्यात् सप्तत्रैलोहिकान्भिषक्॥ द्वौ चात्र खादिरौशंकू चंदनांबुसमुक्षितौ॥ अष्टौ घटाः षौडश वा द्वात्रिंश
द्द्विगुणा अपि॥ स्वस्तिकांका प्रवालाभा रंगैरश्लेषकैः कृता॥ यथार्हौषधसंयुक्तशुचितोयप्रपूरिताः॥ क्षीरिवृक्षपलाशा
जगंधमाल्योपशोभिताः॥ मंडलस्यचतुर्द्वारंकर्तव्याः सुनिवेशिताः॥ पूर्वेषु प्रक्षिपेद्धेम ततश्च मणिमौक्तिकं॥ अपरेष्वौषधीबीजानुदकाक्षतसर्षपान्॥ मृदः पवित्रा रक्षोघ्नीराहरे़त सुरालयात्॥ हस्तिशालाश्वशालाभ्यां शृंगाटकचतुष्पथात्॥ वल्मीकाग्रानदीतीराद्वेश्याकोशनृपालयात्॥ गुप्तिद्वारात्समुद्राच्च समिद्धं चाग्निमाहरेत्॥ समिधः क्षीरिवृक्षाणां गंधमाल्पं घृतं मधु॥ अक्षतांस्तंदुलान् लाजान् पंचवर्णौदनं तिलान्॥ ततो मध्ये स्थिते पद्मे सह धात्र्योपवेशयेत्॥ बालमौदुंबरे पीठे पालाशे वाऽप्युदड्मुखं॥ आस्तृते हरितैर्भैर्न तु प्राच्यादिसन्मुखं॥ उदाहरिष्यते मंत्रो यः स्कंदबलिकर्मणि॥ जुहुपात्तेन तत्राग्निमुदीच्यां स्थापितं दिशि॥ त्रिरात्रोपोषितो वैद्यः शुक्लवासा जितेंद्रियः॥ सर्षपाक्षतयुक्ताभिर्मृद्भिर्गात्राणि मार्जयेत्॥ यथोदिताभिः स्नपये
द्घदैः प्राच्यादिदिकक्स्थितैः॥ क्रमात्प्रदक्षिणोत्क्षिप्तैस्तत्र मंत्रं प्रयो जयेत्॥ अमृतात्पूर्वमुत्पन्नमिमं ते कलशं शुभं॥ ददातु भगवानिं द्रो विजयं नाम नामतः॥ रक्तपीतांबरधरैर्भूतैर्बहुभिरन्वितः॥ राक्ष सोरगगंधर्वपिशाचैश्चानुसेवितः॥ शक्रोघंटाशनिधरैर्मेघैश्च विविधत्वनैः॥ देवसंघैः परिवृतो गजेंद्रस्कंधसंश्रितः॥ एभिः सार्द्धं महानिंद्रः स्नपनं ते ऽनुमन्यतां॥ पूर्वद्वारे स्थितं दिव्यं वज्रमिंद्राज्ञया शुभं॥ भवान् सर्वाणि पापानि निहंत्यद्यापराजितः॥ इंद्राय नमः स्वाहा॥ इंद्राण्यै स्वाहा॥ अपराजिताय स्वाहा॥ मेघाधिपतये स्वाहा॥ देवाधिपतये स्वाहा॥ शतक्रतवे स्वाहा॥ द्वितीयं कलशं पुण्यमादित्यसदृशप्रभं॥ यमो ददातु भगवान् वैजयंतं तु नामतः॥ कृष्णांजननि
भैधौरैः कृष्णांबरधरैस्तथा॥ वृतः करालैर्विकृतैराक्षसैरुग्रविक्रमैः॥ श्मशानारण्यनिलयैर्मृतवस्रांत्रभूषणैः॥ त्वगस्थिमज्जामांसादैःप्रेतैर्ब्रहुभिरावृतः॥ धर्मराजो यमः श्रीमान्सत्यसंधो म हातपाः॥ दिव्यं महिषमारूढः स्नपनं तेऽनुमन्यतां॥ दक्षिणद्वारसं स्थस्ते यमदंडः प्रतापवान्॥ दुःखमं दुष्कृतं पापं सर्वमद्य हरिष्यति॥ यमाय नमःस्वाहा॥ यमदंडाय नमःस्वाहा॥ महिषवाहनाय स्वाहा॥प्रेताधिपतये स्वाहा॥ धर्माधिपतये स्वाहा॥ वैजयंताय स्वाहा॥ जयंतं जयवृत्ध्यर्थं तृतीयं कलशं शुभं॥ ददातु वनराजस्ते ददातु वरुणः स्वयं॥ श्वेतमाल्यांबरधरैः श्वेतगंधानुलेपनैः॥ गंधर्वैः पन्नगेंद्रैश्च भगवाननुशोभितः॥ तीर्थकूपनदीवृक्षनिकुंजोद्यानवासिभिः॥ प्रबलैः कपिलैर्मुंडैर्विकटैर्वामनैस्तथा॥ संवृतः पार्षदैृप्तैः पाशमुद्गरपाणिभिः॥ एभिः सहाद्य भगवान् वरुणस्त्वाऽभिषिंचतु॥ वरुणस्य महापाशोत्द्यपरद्वारमाश्रितः।॥ तव पापं निहंत्वाशु सर्वविघ्ननिवारणः॥ वरुणा य नमःस्वाहा॥ पाशहस्ताय स्वाहा॥ श्वेतांबरधराय स्वाहा॥ जयंताय स्वाहा॥ मकरवाहनाय स्वाहा॥ चतुर्थं कलशं पुण्यं प्रधानमपराजितं॥ धनेश्वरो महाबाहुः प्रयच्छत्वलकाधिपः॥ चित्रमाल्यांबरघरैश्चित्रगंधानुलेपनैः॥ चित्रमद्यमदोन्मत्तैर्यक्षैः समुपसेवितः॥ मुदितोद्गीथगंधर्वैः सेवितश्चाप्सरोगणैः॥ स ते वैश्रवणः श्रीमान् स्नपनं त्वनुमन्यतां॥ सर्वव्याधिहरा दीप्ता द्वारमुत्तरमाश्रिता॥ गदा ते नाशयत्वद्य सर्वपापं दिशो दश॥ धनाधिपतये स्वाहा॥ अपराजिताय स्वाहा॥ गदापाणये स्वाहा॥ चित्रांबरधराय स्वाहा॥ आपः पवित्रं लोकेऽस्मिन्नापो वै परमं शुचि॥ आपो वै देवताः सर्वा आपस्त्वामभिषिंचतां॥ ब्रह्मा महर्षिभिः सार्द्धं भगवांस्त्वाऽभिषिंचतु॥ सांगोपांगास्तथा वेदाः कीर्तिर्लक्ष्मीः सरस्वती॥ बाला दाक्षायणी शीता सावित्री सरमा द्युतिः॥ आकाशगंगा गंगाद्या महानद्यो महोदधिः॥ नदीनां संगमस्तीर्थं निर्झरा अप्सरास्तथा॥ मेरुर्महेंद्रो हिमवान् जगतः स्थावरत्रयं॥ स्कंदादयो ग्रहाश्चैव तोषिता बलिकर्मणा॥ अद्य त्वामभिषिंचति नीरुजो भव दारक॥ नमो भगवते पितामहाय ॐॐल्मिल्मिलिनुर्लिभुवनेस्वाहा॥ नमो भगवते रुद्राय हिलिमिलिसेल्मिसेल्मिल्सिलिमिलिस्वाहा॥ राक्षसाश्च पलायंतु भूता उत्नस्तमानसाः॥ मृताशना महाजिह्वास्तथा विघ्नविनायकाः॥ नमो भगवते कुमाराय खिलिखिलिखेलिखेल्लिलिणिलिणिस्वाहा॥ पुष्करं पुष्करारण्यं निमिषं च तथा पुनः॥ प्रभासं प्रवरं तीर्थं तथा पिंडारकाह्वयं॥ तीर्थान्येतानि सर्वाणि अभिषिंचंतु स्वस्ति ते॥ नमो भगवती भ्यो महायोगीश्वरीभ्यः निमिलिनिमिलिमेनुमेनुनुरुनुरुस्वाहा॥ याश्चजातापहारिण्यो राक्षस्यो विकृताननाः॥ अपि ता निहताः सर्वा याश्चान्या पापचिंतकाः॥ सतीनां कपिलानां च सिद्धानां रेवतेजसां॥ तेजसा चर्षिविप्राणां मयाऽद्य स्नापितो भवान्॥ प्रभुर्मृत्युरलक्ष्मीश्चकालरात्रिश्च सा रतिः॥ लंबा च लोहशंकूश्च पूतना कूटपूतना॥ अशुभं यच्च ते किंचित्सर्वंप्रतिहतं मया॥ आदित्यावसवो रुद्रा अश्विनावौषधीगणाः॥ गावोंऽतरिक्षं संध्ये च नक्षत्रग्रहवत्सराः॥ विश्वावसुश्चहाहाश्च नारदस्तुंबरुस्तथा॥ धन्वंतरिरगस्त्यश्च सुस्नातं प्रदिशंतु ते॥ स्नातो द्विजभिषग्भृत्यान् यथाविभवमर्चयेत्॥ स्नपनं पापजित् पुण्यं नीरुजामपि पुष्टिकृत्॥ रोगिणां सर्वरोगघ्नं वंध्यानामपि पुत्रदं॥ विधिना विधिहीनं च वैद्यं हंति सबालकं॥ नैतदश्रद्दधानाय योज्यं चानुपसीदते॥ पूतीकरंजत्वक्पत्रं क्षीरिभ्यो बर्बरादपि॥ तुंबीविशालाऽरलुकशमीबिल्वकपित्थतः॥ स्थाल्यामुत्क्वाथ्य तत्तोयं बालानां स्नपनं शिवं॥ रात्रौ प्रसुप्तलोकायां पुष्टिदं सर्वरोगजित्॥ इति स्नपनविधिर्नाम पंचमोऽध्यायः॥५॥
अथातः प्रत्येकग्रहप्रतिषेधं व्याख्यास्यामः॥ स्कंदग्रहे गुग्गुल्बेलवालुकामनःशिलाहरितालमंजिष्ठोशीररास्नाऽगुरु-दारुश्री
वेष्टकहरेणु
गिरिकदंबचंदनैः श्लक्ष्णपिष्टैः प्रदेहो वातहरवृक्षपत्रक्वाथेन कवोष्णेन परिषेकस्तेषामेव च मूलक्वाथे सर्वगंधसुरामंडकैंडर्यावापं तैलं विपक्वमभ्यंगः॥ बृहतीद्वयट्विपुनर्नवरेणुकोपकुल्यामुस्तखदिरवचाशंखनाभिसरलसर्षपसुगंधासुराव्हकल्कविपक्वंवा॥ क्षीरिवृक्षकषायेण क्षीरेण च सिद्धार्थकपलिकैश्च पिष्टैः सारिवाट्विकाकोलीद्विबलांशुमतीद्वयहस्तीकर्णपूर्णैर्धृतप्रस्थं पानं॥ रास्नादेवदार्वन्यतरकल्के
न वा सक्षीरं साधितं सर्पिः॥ वचाकाकादनीसर्पकंचुकसर्षपैरुष्ट्राजाविगोरोमभिश्च सघृतैर्धूमः॥ सिद्धार्थकसर्जरसकुष्टहिंगुगुग्गुलुभिर्वा॥ सोमवल्लीशमीबिल्वमंदारकमृगादनीमूलानि सूत्रेण ग्रथितानि कंठेन शिरसा वा धारयेत्॥ रक्तमाल्यानुलेपनवस्त्रपताकामणिबीजैर्विविधैश्व भक्तैः सदधिमधुघृतलाजकुल्माषान् समत्स्यसुरासवान् समयूरक्कुटान् सघंटान् सचंडान् सशूर्पव्यजनांश्च कुमारग्रहे रक्तौदनेन बलिमुपोषितो निवेदयेत्॥ तत्र च रात्रावग्निं ज्वालयित्वा मंत्रमिमं पठन् मधुसर्पिषा जुहुयात्॥ अग्नये कृत्तिकाभ्यश्च स्वाहा स्वाहेति वै ततः॥ नमः स्कंदाय देवाय ग्रहाधिपतये नमः॥ शिरसा त्वाऽभिवंदेऽहं प्रतिगृहीष्व मे बलिं॥ नीरुजो निर्विकारश्च शिशुर्भवतु सर्वदा॥स्वाहेति सर्वेष्वेवच ग्रहेषु त्रिकालमग्निं पूजयेत् तर्पयेच॥ विशेषतः स्कंदग्रहे त्रिरात्रं च रात्रौगायत्र्यभिमंत्रितोदकेन चत्वरे धात्रीकुमारयोः स्नपनमाचरेत्॥ त्रिकालं च मंत्रेणानेन बालमपमार्जयेत्प्रतिसरां च बध्नीयात्॥ तपसां तेजसां चैव वपुषां यशसां तथा॥ विधाता यो ऽव्ययो देवः स ते स्कंदः प्रसीदतु॥ ग्रहसेनापतिर्देवो देवसेनापतिर्विभुः॥ देवसेनारिपुहरः पातु त्वा भगवान् गुहः॥ देवदेवस्य महतः पावकस्य च यः सुतः॥ गंगोमाकृत्तिकानां च स ते शर्म प्रयच्छतु॥ रक्तमाल्यांबरः श्रीमान् रक्तचंदनभूषितः॥ रक्तदिव्यवपुर्देवः पातु त्वा क्रौंचसूदनइति॥ विशाखे स्कं
दोक्तो वचाकुष्टान्वितः प्रदेहो गोलोमीबिल्वशिरीषयुक्तसुरसादिक्वाथेन परिषेकः॥ सर्पगंधादेवदारुकुष्टमुस्तकल्केन सगोमूत्रबस्तमूत्रेण सिद्धं तैलमभ्यंगः॥ क्षीरिवृक्षकषायेण जीवनीयगर्भं सपयस्कं सर्पिः सिद्धं पानं जीवकर्षभकक्षीरिणीहरिद्रांशुमतीद्वयमधुकैर्वा घृतं विदारीद्वयतवक्षीरमृद्वीकामधुकरास्नानीलोत्पलकदंबवचाव्योषैर्वा॥ गृध्रोलू कपुरीषटवृषभरोमकेशहस्तिनखैर्घृताक्तैर्धूपः॥ अनंता कुक्कुटी मर्कटी बिल्वी सर्षपा श्वेतगिरिकर्णिका पूर्वोक्तानि च पूर्वबद्धारयेत्॥ पक्काममां सरुधिरधिवारुणीयुक्तो वटवृक्षे बलिश्चतुष्पथे स्रानं मंत्रश्च॥ स्कंदापस्मारसंज्ञो यः स्कंदस्य दयितः सखा॥ विशाखसंज्ञः स शिशोः शिवायास्तु शुभाननः॥ नैगमेषे विशाखोक्तः प्रदेहो ऽग्रिमंथरुणरोहिषपूतीकपारिभद्रैःपरिषेको धान्याम्लेन वा सबीजेन॥ गुग्गुल्वश्वगंधासर्षपोशीरश्वेताकुष्ठमनोह्वाविपक्वंतैलमभ्यंगः॥ दशमूलक्वाथे मधुरस्कंधगर्भं सर्पिः पानं॥ सर्पगंधाबस्तनखरोमभिर्धूमः॥ सर्पगंधाबस्तगंधातुंबीमृगैर्वारुशतावरीसहदेवापुनर्नवबीजानि धारयेत्॥ विचित्रमाल्यफलशुक्लविलेपनौदनदधिघृतगुडक्षीरैर्महापाथक्षीरिद्रुमे वा नदीतीरे स्नानं मंत्रश्च॥ अजाननश्चलाक्षिभ्रूःकामरूपीमहायशाः॥ बालं बा514लहितो देवो नैगमेषोऽभिरक्षतु स्वाहा॥ स्वग्रहे गवाक्षी ब्रह्मदंताबृहतीयद्वयसारिवाह्नीबेरकुष्टभूमिकदंबसुरसमंजरीकरवीरपुष्पैः प्रदेहः॥ श्वमहिषपुरीषबिल्वैरंडनक्तमालारलूकपत्रक्वाथः परिषेको वयस्थाशतावरीसारिवापयस्यैरंडत्रिकटुककल्कक्षीरसिद्धंतैलमभ्यंगस्तथैव च घृतं पानं॥ मयूरोलूकाश्वरोमाणि गोबस्तमूत्रभावितशुक्लमत्स्यचूर्णानि वा निशीथे धूपः॥ वचावयस्थाब्राह्मीजटिलागोलोमीलंबापूतनाकेशीगिरिकदंबकेषीकासहदेवा धारयेत्॥ स घृतसुरामांसदधिरुधिरपललश्चत्वरे बलिः॥ संकरकूटे स्रानं मंत्रश्च॥
रक्षार्थं कार्तिकेयस्य कृत्तिकोमाग्निशूलिभिः॥ योऽसौ श्वविग्रहः सृष्टो स देवस्त्वाऽभिरक्षतु स्वाहा॥ पितृग्रहे पूर्वोक्तप्रदेहो वचावयस्थाजीवंतीवासकप्रियंगुगुग्गुलुरास्नामनःशिलालैर्वा वचादिभिरेव च सिद्धं तैलमभ्यंगो बिल्वकपित्थकरंजतर्कारीसुरसपाटलीवरुणपारिभद्रकमातुलुंगपत्रक्वाथेन रात्रौ परिषेको बिल्वादिभिरेव च तैलं सुराबस्त मूत्रयुक्तं साधितमभ्यंगस्त्रिफलांशुमतीद्वयपयस्यामधुककल्केन दशमूलनिर्यूहे सक्षीरं सर्पिः पक्वंपानं॥ देवदारुभार्ङ्गीविडंगचंदनकाको लीद्वयजीवकर्षकैर्वा सक्षीरैर्लक्ष्मीसुराकुष्टगोलोमीजटिलोग्रगंधाद्भिः सिद्धं तैलं नावनं॥ एभिरेव च पिष्टैर्लेपः॥ गृध्रोलूकवानररोमाणि सघृतानि तत्पुरीषं वा सुप्तजने धूपो वचादिभिर्वा प्रदेहोक्तैः॥ पूर्वोक्ता एव च वचाद्या धारयेत्॥ ससुरासवगुडापूपपिष्टतिलकृतभक्षो वक्षमूले सवृषभः कांचनाक्षियुगयुक्तः स्वयं पित्रा कुमारस्य निर्वापणीयो बलिः क्षीरिवृक्षसमीपे स्नानं मंत्रश्च॥ यः पिता सर्वबालानां ग्रहाणां पूजितो वरः॥ वृक्षमूले कृतावासाः स त्वां पातु पिता महः स्वाहा॥ शकुन्यां मधुकह्नीबेरोशीरसारिखापद्मकोत्पलमंजिष्टालोध्रप्रियंगुगैरिकैः प्रदेहः॥ सुरामेषमूत्रपिष्ठैर्वा रोध्रयष्टीमधुकमंजिष्टाहरीतकीदेवदारुभिर्व्रणोक्तैश्च प्रदेहः॥ वेतसाम्रकपित्थैःसपंचमूलैर्वा॥ शुक्तिशंखशंबूकभस्ममंजिष्ठाऽभयामधूकैस्तैलं पक्वंव्रणरोपणं॥ क्षीरितरुभिः परिषेको मार्कवमूलकामलकीत्वक्पत्रप्रियंगुमनःशिलाबला
दृययष्टीकमुकरोध्रधातकीसारिवांजनोत्पलपत्तंगसमंगाद्विहरिद्रामांसीमंजिष्ठाचंदनपद्मकसुवर्णगैरिकेस्तैलं सपयस्कं पक्वमभ्यंगो ग्रहहा व्रणरोपणश्च॥ अर्जुनफलरोध्रमधुकोदुंबरवचाचूर्णः क्षौद्रयुक्तो मुखपाके मुखो
द्घर्षः॥ विशाखोक्तं सर्पिःपानं॥ स्कंदोक्तोधूपः॥ काकपिच्छेन वा गोवालोग्रगंधारक्षोघ्नघृतमयूरचंद्रकैर्वा॥ कटंभराकुक्कुटीलंबासहदेवान्हीबेरोशीराणि धारयेत्॥ छागदंतीलक्ष्मणाबृहतीद्वयमृगैर्वारुशतावरीसहदेवा वा॥ तिलतंदुलमत्स्यमनःशिलाहरितालसंपृष्टस्तिलपिष्टकृतशकुनिकैः करंजे बलिः
मिष्कुटे स्नानं मंत्रश्च॥ अंतरिक्षचरा देवी सर्वालंकारभूषिता॥ अधोमुखी तीक्ष्णतुंडा शकुनी ते प्रसीदतु॥ दुर्दर्शना महाकाया पिंगाक्षी भैरवस्वरा॥ लंबोदरी शंकुकर्णा शकुनी ते प्रसीदतु॥ पूतनायां हिंगुवचागिरिकदंबकुष्टैलाद्वयसुराव्हैः प्रदेहः॥ कपित्थशिरीषन्यग्रोधबिल्वैरंडबकुलधववंशाग्निमंथपत्रक्वाथो गंधोदकयुक्तः परिषेको वरुणकट्वंगास्फोतककपोतवंकापारिभद्रकैर्वा॥ कुष्टसर्जरसवचागोलोमीवयस्थामनः शिलाऽलैस्तैलं साधितमभ्यंगः॥ मधुरौषधसिद्धं सर्पिः पानं॥ एलाद्वयकुष्टवचाहिंगुदेवदारुगिरिकदंबकैपः॥ बिंबीगुंजाकाकादनींद्रवारुणीचित्रफला धारयेत्॥ विचित्रमाल्यो मस्त्वोदनकृशरापललवान् बलिः शरावसंपुटस्थः शून्पगृहे चतुर्दिशं प्रक्षेप्यः॥ तत्रचोच्छिष्टेन स्नपनं मंत्रश्च॥ मलिनांबरसंवीता मलिना रूक्षमूर्द्धजा॥ शून्यागाराश्रया देवी दारकं पातु पूतना॥ दुर्दर्शना म515हाकाया कराला मेघकालिका॥ भिन्नागाराश्रया देवी दारकं पातु पूतना॥ शीतपूतनायां पूतनोक्तप्रदेहो धारणीयानि च॥ वरुणकपित्थतुलसीपाशिकावंशीबिल्वपाटलीनंदीभल्लातकपत्रनिर्यूहेण परिषेकः॥ मुस्तामरदारुकुष्टसर्वगंधैर्गोबस्तमूत्रसंयुक्तं तैलं विपक्वमभ्यंगः॥ काश्मर्यपृश्निपर्णीरोध्रमधुकैर्मधुरवर्गेण समक्षीरं सर्पिः शृतं पाश्यमानं शीतपूतनां छर्दिहिध्मकासांश्च शमयति॥ सातिसारायां तु खदिरपलाशसर्जार्जुनरोहिणीक्वाथेन तुल्यपयः सर्पिः॥ गृध्रोलूकविड्बस्तगं धाहिनिर्मोकनिंबपत्रैर्धूपो जीर्णगोचर्मसर्षपभि516क्षुसंघाटीसर्पकंचुकैर्वा॥ मुद्गौदनप्रायो जलाशयसमीपे बलिस्तत्रैष च स्नानं मंत्रश्च॥ मुद्गौदनाशना देवी सुराशोणितपायिनी॥ ज517लाशयालयरता पातु त्वा शीतपूतना॥ अंधपूतनायां सर्वगंधैः सशिरोवक्रस्य प्रदेहः॥ वरुणास्फोतपारिभद्रकवृक्षादनीनागबलागैरिकशतावरीभिः परिषेकः॥ हरितालमनःशिलाकुष्टसर्जरससुरासौवीरकसंस्कृतं तैलमभ्यंगः॥ स्पंदनस्योनाककाश्मर्यखदिरकुष्टैर्मधुरवर्गेण क्षीरिवृक्षकषाये सक्षीरं शृतं सर्पिः मधुयुतं चक्षुःकामोपसृष्टानां प्राशः॥ छर्दिः कासातिसारवतां तु तदेव पिप्पलीपिप्पलीमूलशालशालिपर्णीबृहतीकल्कोपेतं॥ रक्षोघ्नारुष्करैः समधुभिर्धूपो जीर्णभिक्षुसंघाटीकृकवाकुपुरीषाहित्वक्केशचर्मभिर्वा॥ अनंताकुक्कुटीमर्कटीबिंबीर्धारयेत्॥ तुंबीचित्रफलामृगैर्वारुजालिनीकाकादनीर्वा॥ पक्वामसांसशोणितैश्चतुष्पथे बलिर्गृहे स्नानं मंत्रश्च॥ करालपिंगला मुंडी कषायांबरवासिनी॥ देवीबालमिमं प्रीता पालयत्वंधपूतना॥ मुखमंडितिकायां वारुण्या श्लक्ष्णपिष्टैः सर्वगंधैर्लेपः॥ बिल्वैरंडकपित्थाग्निमंथवां शीकुबेराक्षीपत्रक्वाथेन परिषेकस्तेषामेव च स्वरसेन मधुकवाजिगंधागर्भं नैकध्यं तेलं वसा च पक्वमभ्यंगः॥ ह्रस्वपंचमूलमधुरवर्गसिद्धं घृतं समधुशर्करं प्राशः॥ पाठाकेतकसूचीनिचुलफलपिप्पलीविंडगहरीतकीभस्मवचाचोरकचूर्णो वा मधुसर्पिर्भ्यां रुक्षरामठपाठामरिचपिप्पलीचूर्णो वा देवदारुभस्मयुतो मूर्वाव्योषमुस्तरास्नागिरिकदंबकाश्वगंधाचूर्णो वाऽशोकरोहिणीचूर्णो वा॥ एभिरेव च विपक्वमाजं घृतं पयो वा पिबेत्॥ एभिरेव च योगैर्धूपोपदेहाभ्यंगनस्यतैलाक्षिपूरणपरिषेकान्कुर्यात्॥ यवकुष्टसर्जरसैर्धूपः॥ सर्पचाषचीरल्लिजिव्हा धारयेत्॥ मंन्नं चास्यश्लेष्महरमौषधं पाने स्तनोद्वर्त्तने च युंज्यात्॥ विविधगंधधूपमाल्यांजनपारदमनःशिलायुक्तो गोष्ठमध्ये बलिर्गवां मध्ये स्नानं मंत्रश्च॥ अलंकृता रूपवती सुभगा कामरूपिणी॥ गोष्ठमध्यालयरता पातु त्वा मुखमंडिका॥ रेवत्यां सर्वगंधैः कुलत्थशशचूर्णेन च प्रदेहः॥ अश्वगंधाऽजशृंगीसारिवाद्विपुनर्नवाद्विसहाविदारीभिः परिषेकः॥ कुष्टसर्जरससाधितं तैलमभ्यंगः॥धवाश्वकर्णधातकीककुभतिंदुकैर्जीवनीयैश्च पिष्टैर्घृतं शृतं प्राशः॥ यवयवफलोलूकगृध्रशकृद्भिः सघृतैर्धूपः॥ वरुणादिरिष्टशिग्रुकान्विः श्वाविकसूत्रेण गंडकः॥ शुक्लमाल्यविलेपनलाजौदनपायसैर्गौतीर्थेबलिः संगमे क्षीरिवृक्षसमीपे वा स्नपनं मंत्रश्च॥ नानावस्रधरा देवी चित्रमाल्यानुलेपना चलत्कुंडलिनी श्यामा रेवती ते प्रसी दतु॥ शु518ष्करेवत्यां धूपवर्जः स्कंदग्रहोक्तो विधिः॥वचाऽश्वगंधाहिंगुलाजसिद्धार्थकैरुदृर्तनं॥ सर्षपतैलं वचासिद्धं नेत्रपूरणं॥ काकगृध्रगर्दभशकृद्भिर्धूपः॥ कुलीरकपालशल्यकशुक्तिमेषशृंगहयरवरजाहकहस्तिनखनकुलरोमभिर्धूपः सर्वग्रहघ्नः॥ कुल्माषैर्मद्येन शुष्कमांसेन च शुष्कवृक्षे बलिस्तत्रैव च स्नानं मंत्रश्च॥ उपासते यां सततं देव्यो विविधभूषणाः॥ लंबा कराला विनता तथैव बहुपुत्रिका॥ रेवती शुक्लनामा च सा ते देवी प्रसीदत्विति॥ भवति चात्र॥अनुबंधान्यथाकृच्छ्रं ग्रहापायेप्युपद्रवान्॥ बालामयनिषेधोक्तभेषजैः समुपाचरेत्॥ इति प्रत्येकग्रहप्रतिषेधो नाम पष्ठोऽध्यायः॥६॥ इति द्वितीयं कौमारतंत्रं संपूर्णं॥२॥
यथा वेदविदो नेदमश्लिष्टं मनुषो ऽभ्यधुः॥ तथाऽवबोधं यदिह स्पष्टमाचष्ट वाग्भटः॥१॥
अथातो भूतविज्ञानं व्याख्यास्यामः॥ अष्टादश भूताधिपतयः॥ तद्यथा॥ सुरासुरगंधर्वोरगयक्षब्रह्मराक्षसराक्षसपिशाचप्रेतकूष्मांडकका लार्दौकिरवेतालपितृऋषिगुरुवृद्धसिद्धाश्च॥ ते पुनः पृथक्कोटिपरिवराः॥ तेषामपि चापरिसंख्येयः परिचारइत्यनंतो भूतलोकः॥ सर्वेऽपि च प्रायेणाहारकामा निशाचारिणो भयानका मांसासृग्वसाशिनः॥ अपिच॥ सुरासुरादिसंवाससंसर्गात्तच्छीलाचारकर्मतया तत्संज्ञां लभंते॥ तेषां पुनरनु प्रवेशकारणं सद्यः पूर्वकृतो वा विशेषेण प्रज्ञापराधस्तेनाहिततस्तमात्महननमवतारगवेषिणो देवादिग्रहा अप्यनुगृह्णंति॥ तद्वदुन्मादापस्मारोपप्लुतचित्तं तथा ज्वराद्यामयोपहतमपि विशेषतश्च प्राणिनां पूयासृक्स्नेहक्लेदगंधेन॥ एवंविधांस्तु पुरुषाननिष्टाघातकालेष्वभिगच्छंति॥ तद्यथा॥ पापस्य कर्मणः समारंभे पूर्वकृतस्य वा परिणामकाले एकस्य वा शून्यग्रहनिवासे चतुष्पथाधिष्ठाने वा संध्या519यामप्रयतमाने वा पक्षसंधिषु वा मिथुनीभावे रजखलाभिगमने वा विगुणे वाऽध्ययनहोमबलिमंगलप्रयोगे नियमब्रह्मचर्यव्रतभंगे वा महाहवे वा देशपुरकुलविनाशे वा महाग्रहोपगमने वा स्त्रिया वा प्रजननकाले विविधभूताशुचिस्पर्शे वा वमनविरेचनरुधिरस्रावाशुचेरप्रयतस्य चैत्यदेवायतनाभिगमने वा मांसमद्यमधुतिलगुडोच्छिष्टे वा दिग्वाससि वा निशि नगरचतुष्पथोपवनश्मशानाभिगमने वा द्विजगुरुसुरपतिपूज्यव्यतिक्रमे वा520॥ तत्रावलोकयंतो जनयंति मनोविकारं सुरासुरग्रहाःस्पृशंतो गंधर्वाः समाविशंतो भुजगा यक्षाश्चात्मगंधमाघ्रापयंतो राक्षसाः वाहयंतोऽधिरुत्द्य पिशाचाद्या धर्षयंतः पितरो ऽभिशपंतः ऋषिगुरुवृद्धसिद्धाः॥ तत्र शीलवंतं चोष्याचारं शुक्लांबरधरं तपःस्वाध्यायपरमं प्रायः शुक्लप्रतिपदि च त्रयोदश्यां संध्ययोश्च सुराः॥ शुक्लत्रयोदशीकृष्णद्वादश्योर्दानवा ग्रहाः॥ प्रियभृत्यगीतवादित्रगंधमाल्यपरदाररतिं चोष्याचारं प्रायश्चतुर्थ्यामष्टम्यां
द्वादश्यां वा चतुर्दश्यां च गंधर्वाः॥ स्वप्नशीलं चपलमनिमित्त
क्रोधनमर्थसिद्धं प्रायो ब्राह्मणं प्रायः पंचम्यां संध्ययोर्मध्याह्नेच नागाः॥ सत्वबलरूपगांधर्वधनशौर्ययुक्तं माल्यानुलेपनहास्यप्रियमतिवाक्करणं प्रायः शुक्लसप्तम्यामेकादश्यां च यक्षाः॥ स्वाध्यायतपोव्रतचर्यादेवयतिगुरुपूजाऽरतिं च भ्रष्टशौचं ब्राह्मणमब्राह्मणं वा ब्रह्मवादिनं शूरमानिनं देवागारसलिलक्रीडनप्रियं स्ख लितब्रह्मचर्यं प्रायः शुक्लपंचम्यामष्टम्यां पूर्णचंद्रदर्शने संध्यासु च ब्रह्मराक्षसाः॥ होनसत्वं पिशुनं स्तेनं लुब्धं शठं प्रायो द्वितीयातृतीयाष्टमीषु राक्षसपिशाचादयः॥ सकलिलोलपापप्रियमसूयावंतं परुषभाषिणं बह्वाशनं च कृष्णनवमीद्वादश्योश्च निशि राक्षसाः॥ आत्मश्ला घिनं कूटसाक्षिप्रदं परोपतापिनं च चतुर्दश्यां च पिशाचादयः॥ मातापितृगुरुद्धाचार्योरगविप्रसेविनं प्रायो दशम्याममावास्यायां च पितरः॥ तद्विधमेव च प्रायः षष्ठ्यां नवम्यां च गुरुवृद्धसिद्धाः। तयोरेव च स्नानशुद्धिविविक्तसेविनं धर्मशास्त्रश्रुतिवाच्यकुशलमृषयः॥ तेषां तु गृहीष्यतां पूर्वरूपाणि॥ तद्यथा॥ देवगोब्राह्मणतपस्विनां हिंसारुचित्वं नृशंसाभिप्रायता कोपनत्वमरतिरोजेवर्णच्छायाबलवपुषां चोपतप्तिः स्वप्ने देवादिभिरभिभर्त्सनं प्रवर्त्तनं च॥ तत्र सौम्यदृष्टिं गभीरमधृष्टमकोपनं शुचिमनिद्रं भोजनानभिलाषिणमल्पस्वेदमूत्रपुरीषवाचं संस्कृतवादिनं देव
द्विजगुरुभक्तं शुक्लमाल्यांबरधरं सरित्पुलिनशैलोच्चभवनदधिक्षीरसुरभिप्रियं चिरादक्षिणी निमेषयंतं वरप्रदातारं शुभगंधं वर्चस्विनं फुल्लपद्मोपममुखं देवग्रहेण गृहीतं विद्यात्॥ तत्रापि गोवृषमिव नर्दंतं दीप्तमुखनयनमादीप्तेन भास्वरेण सर्वमाभाषणमीश्वरेण॥ मेघस्तनितविद्युद्वृिष्टीर्वाचा विसृजंतमिंद्रेण॥ धनानि वा चा प्रयच्छंतमाच्छिंदंतं च धनदेन॥ सुरासवसमगंधं काष्ठतृणरज्वा दिसर्वपाशमभिगम्यमानं वरुणेन॥ जिह्मदृष्टिं दुष्टात्मानं क्रोधनमतृप्तं सस्वेदगात्रं ब्राह्मणगुरुद्वेषिणं निर्भयमभिमानिनं स्वरव्यवसायिन
महंरुद्रो ऽहमुपेंद्रो ऽहं स्कंदो ऽहं विशाखइत्यादिभाषमाणं विकृतवाचमसकृद्धसंतं सुरामिषादंतं दंतैर्नखैश्च परान् हिंसंतमसुरेण॥ स्वाचारं त्दृष्टात्मानं शुभगंधमाल्यव्याहारं नृत्यंतं गायतं मुखवाद्यानि कुर्वंतं प्रियोद्यानपुलिनस्नानरक्तवस्त्रानुलेपधूपान्नपानहासलीलाशृंगारकथागांधर्वं गंधर्वेण॥ तत्रापि शिरोधुनानं कलहं कुर्वंतं सहेन॥ जागरूकं पठंतं हसंतं हसनेन॥ क्रोधनमनिशं निश्व
मंतं त्रसंतमातपत्रतो रक्ताक्षं स्तब्धदृष्टिं जिह्वां लोलयंतं सृक्किण्यौ लिहानमधोमुखशायिनं चलं वक्रगामिनं बिलमवलोक्य सर्पवद्दूरं प्रसरंतं जलौघघनदुंदुभिस्वनैर्त्दृष्यंतं क्षीरमधुघृतगुडमधुस्नानमाल्यप्रियं गात्राणि कंपयंतं दंतैः खादयंतं जलेऽवतीर्णमुत्तरमनिच्छंतमुरगेण॥ असकृत्स्वप्नरोदनहासनृत्यगीतपाठकथान्नपानमाल्यधूपगंधरक्तवस्त्ररतिं रक्तत्रस्तविप्लुताक्षं द्रुतसर्वगं मत्तमिव च गच्छंतं वस्त्रांतमुत्कर्षंतं चालिताग्रहस्तं बहुभाषिणं स्त्रीलोलं मद्यामिषप्रियं सन्नात्द्यशस्त्रं मृगयमाणमतिबलमव्यथं त्दृष्टमल्परोषं किं कस्मै ददामीति वादिनं शुभगंधं वर्चस्विनं द्विजातिवैद्यपरिभाविनं रहस्यभाषिणं यक्षेण॥ तत्रापि त्दृषितरोमाणमूर्ध्वेक्षणं त्दृष्टं प्रत्दृष्टनयनं चंडं महानिनादं मणिचरेण॥ रहोहसितनृत्यगीतान्याचरंमाकीर्णमौनमासेविनं विकटेन॥ हासनृत्यप्रियमाक्रोशिनं प्रधाविनं देवद्विजभिषग्द्वेषिणं मंत्रवेदशास्त्राध्यायि नं काष्ठशस्त्रादिभिरात्मानमाघ्नंतं छि521द्रप्रहारिणं वैद्यरंध्रान्वेषिणं भोःशब्दवादिनं परुषं रौद्रचेष्टं शीघ्रगामिनं ब्रह्मराक्षसेन॥ तत्रापि विकृतेन स्वरेण भाषंतमु
त्त्रासयंतं ब्रह्मवादिनं संस्कृतभाषिणं बहुस्तोभं नादयंतं यज्ञसेनेन॥ सक्रोधदृष्टिं भ्रुकुटीमुद्वहंतं भैरवाक्षं त्वरितमभिधावंतं वदंतं ससंभ्रमं प्रहरंतं नष्टनिद्रं निशाविचारिणमन्नद्वेषिणमनाहारमप्यतिबलिनमान्नकाले हसंतं निर्लज्जं शूरं रोषणमशुचिस्त्रीमद्यमांसर
क्तरक्तमाल्यप्रियं रक्तमामिषं वा दृ
ष्टवौष्ठौ परिलिहंतं दीनं शंकितं ध्यायंतमकस्माद्रुदंतं हसंतं गायंतं नृत्यंतं निरर्थकभाषिणं राक्षसेन॥ तत्रापि परुषच्छविं भूमिं ताडयंतमकस्माद्रुदंतं विशाखेन॥ भिन्नगद्गदकंठमंगानि भंजतं जिह्वां परिलिहानमक्षमालया जपमानं शौचमभीक्ष्णं कुर्वाणं संगमेन॥ मद्यविद्यु
ट्टयायासते कुध्यंतं जलवृष्टि समंतान्मन्यमानं साटकनिष्पीडितं विद्युन्मालिना॥ आममांसपललमूलकापूपपरमान्नवाचिनं रूक्षच्छविं विरुपाक्षेण॥ अस्वस्थचित्तं नैकत्रप्रतिष्ठंतं परिधाविनं दयितनृत्यगीतहासोच्छिष्टमद्यमांसशून्यावासरतिं पुरस्तादभिघ्नंतं निर्भर्त्सनाद्दीनशंकितवदनं नखैरात्मनो वपुरुल्लिखंतं नष्टस्मृतिं बद्धाबद्धभाषिणमकस्माद्रुदतं दुःखान्यावेदयंतमविध्वस्तरूक्षस्वरदेहं दुर्गंधमशुचिं न
ग्नं मलिनं रथ्याचैलतृणाभरणं संकरकूटकाष्टाश्मकारोहणं लोलं बव्हाशिनं पिशाचेन॥ तत्रापि भोजनं दृष्ट्वा हसंतं विस्वरं कोशंतं नित्यभीतं करमलेन॥ सर्वगात्राणि स्पंदयंतं मुहुर्धावतं भीषयमाणं नवाकृशेन॥ वैद्यं दृष्ट्वा कुप्यंतं भ्रमद्भोजिने बह्वाशिनं भस्मगुंठनशयनं स्त्रियो मार्गे रुंधानं मूत्रपुरीषविमर्दिनं निस्तेजसा॥ प्रेताकृतिचेष्टागंधं तृणच्छेदिनं भीरुमाहारद्दिपं प्रेतेन॥ बहुप्रलापमुखवाक्यं विलंबितगतिं कृष्णवदनं शूनप्रलंबवृ
पणं कृष्मांडेन॥ नग्नं धावंतमश्मकाष्ठादि गृहीत्वा भ्रमंतं तृणचीरमाल्यनिवसनमु
त्रस्तदृष्टिं परुषाभिधायिनं श्मशानशून्यैकवृक्षरध्यानिषेविणं तिलान्नमद्यामिषसक्तदृष्टिं कालार्देन॥उग्रवादिनं रक्तत्रस्तनेत्रमन्नाभिलाषमुदकं प्रार्थयमानमौकिरेण॥ सत्यवादिनं परिवेषिनं धूपगंधमाल्यरतिमतिनिद्रालुं वेतालेन॥ अप्रसन्नदृष्टिं चलनेत्रपक्ष्माणं दीनवदनं संशुष्कतालुमतिनिद्रालुं प्रतिहतवाचमपसव्यवस्त्रमल्पाग्निमरोचकिनं तिलगुडमांसरुचिं वा पितृग्रहेण॥ ऋषिगुरुवृद्धसिद्धानामभिशापाभिध्यानानुरूप विहारव्याहाराहारं तद्ग्रहेण गृहीतं
विद्यादिति॥ भवति चात्र॥ लक्षयेज्ज्ञानविज्ञानवाक्चेष्टाबलपौरुपं॥ पुरुषेऽपौरुषं यत्र तत्र भूतग्रहं वदेत्॥ कुमारहंदानुगतं नग्नमुद्धतमूर्द्धजं॥ अस्वस्थमनसं दीर्घकालिकं सग्रहं त्यजेत्॥ इति भूतविज्ञानं नाम सप्तमोऽध्यायः॥७॥
अथातो भूतप्रतिषेधं व्याख्यास्यामः॥ भूतं जयेदहिंसेच्छं जपहोमबलिव्रतैः॥ तपःशीलसमाधानदानज्ञानदयादिभिः॥ हिंगुव्योपालनेपालीलशुनार्कजटाजटाः॥ अजलोमी सगोलोमी भूतकेशीवचा बला॥ कुक्कुटी सर्पगंधाख्या तिलाः का522लविषाणिके॥ वज्रप्रोक्ता वयस्था च शृंगी मोहनवल्यपि॥ स्रोतोजांजनरक्षोघ्नं रक्षोघ्नं चान्यदौषधं॥ खराश्वश्वाविदुष्ट्रर्क्षगोधानकुलशल्यकान्॥ द्वीपिमार्जारगोसिंहव्याघ्रसामुद्रसत्वतः॥ चर्मपित्तद्विजनखान् वर्गेऽस्मिन् साधयेद्वृतं॥ पुराणमथवा तैलं नवं तत्पाननस्ययोः॥ अभ्यंगे च प्रयोक्तव्यमेषां चूर्णं च धूपने॥ एभिश्च गुलिकां युंज्यादंजने सावपीडने॥ प्रलेपे कल्कमेतेषां क्वाथं च परिषेचने॥ प्रयोगोऽयं ग्रहोन्मादान् सापस्मारान् शमं नयेत्॥ गजाव्हापिप्पलीमूलव्योपामलकसर्षपान्॥ गोधानकुलमार्जारऋ523क्षपित्तप्रपेषितान्॥
नावनाभ्यंगसेकेषु विदधीत ग्रहापहान्॥ अश्वश्वाश्वतरोलूककंकगृध्रगालजा॥ अविखरोष्ट्रवराहाश्च तथा तैलं विपाचयेत्॥ पिष्टया
वस्तमूत्रेण नावनादिषु पूजितं॥ शिरीषपुष्पं लशुनं शुंठी सिद्धार्थकत्वचा॥ मंजिष्ठा द्वे निशे कृष्णा बस्तमूत्रेण पेषयेत्॥ छायाशुष्का कृता वर्त्तिर्मत्स्यपित्तद्रुतांऽजनं॥ नक्तमालफलं व्योपं बिल्वस्योनाकयोर्जटा॥ हरिद्रे च कृता वर्तिः पूर्ववन्नयनांजनं॥ वयस्था हिंगु कटुका पङ्ग्रंथा सैंधवं तथा॥ सिद्धार्थकवचाहिंगुप्रियंगुरजनीद्वयं॥ मंजिष्ठा श्वेतकटभी वरा श्वेतो ऽद्रिकर्णिका॥निंबस्य पत्रं बीजं तु नक्तमालकरंजयोः॥ सुराव्हं त्र्यूपणं सर्पिर्गोमूत्रे तैश्चतुर्गुणे॥सिद्धं सिद्धार्थकं नाम पाने नस्ये च योजितं॥ ग्रहान् सर्वान्निहंत्याशु विशेषादासुरान् ग्रहान्॥ कृत्यालक्ष्मीविषोन्मादज्वरापस्मारपाष्मजित्॥ एभिरेवौषधैर्वस्तवारिणा कल्पितोऽगदः॥ पाननस्यांजनालेपस्नानो
द्दर्पणयोजितः॥ गुणैः पूर्ववदुद्दिष्टो राजहारे व सिद्धिकृत्॥ सिद्धार्थकव्योषवचाश्वगंधानिशाह्यं हिंगु पलांडुकंदः॥ बीजं करंजात् कुसुमं शिरीषात्फलं च वल्कश्च कपित्थवृक्षात्॥ समाणिमंथं सनतं सकुष्टं श्योनाकमूलं कटभी सिता च॥ वस्तस्य मूत्रेण सुभावितं तत्पित्तेन गव्येन गुडान् विदध्यात्॥ दुष्टव्रणोन्मादतमोनिशांधानुद्बद्धकान् वारिनिमग्नदेहान्॥ दिग्धाहतान् दर्पितसर्पदष्टान् ते साधयंत्यंजनपा524ननस्यैः॥ कार्पासास्थिमयूरपत्रबृहतीनिर्मा525ल्यपिंडितकत्वग्वांशीवृषदंशविट्तुपवचाकेशाहिनिर्मोचनैः॥ नागेंद्रद्विजशृंगहिंगुमरिचैस्तुल्यं कृतं धूपनं स्कं526दोन्मादपिशाचराक्षससुरावेशग्रहघ्नं परं॥ त्रिकटुकदलकुंकुमग्रंथिकक्षारसिंहीनिशादारुसिद्धार्थयुग्मांवशकाह्वयैः सितलशुनफलत्र-योशीरतिक्तावचातुत्थयष्टीबलालोहितैलाशिलापद्मकैः॥ दधितगरमधूकसारप्रियाह्वाविषाख्याविषातार्क्ष्यशैलैः सचव्यामयैः कल्कितैर्घृतमनवम527शेषमूत्रांशसिद्धं मतं भूतरावाह्वयं पानतस्तद्ग्रहघ्नं प528रं॥ नतमधुककरंजलाक्षापटोलीसमंगावचापाटलीहिंगुसिद्धार्थ-सिंहीनिशायुग्लतारोहिणीबदरकटुफलत्रिकाकांडदारुकृमिघ्नाजगंधामरांकोलकोशातकीशिग्नुनिंबांबुदेंद्राह्वयैः॥
गदशुकतरुपुष्पबीजोग्रयष्ट्यद्रिकर्णीनिकुंभाग्निबिल्वैः समं कल्कितैर्मूत्रवर्गेण सिद्धं घृतं विधिविनिहितमाशु सर्वैः कमैर्योजितं हंति सर्वग्रहोन्मादकुष्ठज्वरांस्तन्महाभूतरावं स्मृ529तं॥ ग्रहा गृह्णंति ये येषु तेषां तेषु विशेषतः॥ दिनेषु बलिहोमादीन्प्रयुंजीत चिकित्सकः॥ स्नानवस्त्रवसामांसमद्यक्षीरगुडादि च॥ रोचते यद्यदा येभ्यस्तत्तेषामाहरेत्तदा॥ रत्नानि गंधमाल्यानि बीजानि मधुसर्पिषी॥ भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरित्ययं सुरर्षिगुरुवृद्धेभ्यः सिद्धेभ्यश्च सुरालये॥ दिश्युत्तरस्यां तत्रापि देवायोपहरेद्बलिं॥ पश्चिमायां यथाकालं दैत्यभूताय चत्वरे॥ गंधर्वाय गवां मार्गे सवस्त्राभरणं बलिं॥ पितृनागग्रहे नद्यां नागेभ्यः पूर्वदक्षिणे॥ यक्षाय यक्षायतने सरितो र्वा समागमे॥ चतुष्पथे राक्ष530साय भीमेषु गहनेषु च॥ रक्षसां दक्षिणस्यां तु पूर्वस्यां ब्रह्मरक्षसां॥ शून्यालये पिशाचाय पश्चिमां दिशमास्थिते॥ शुचिशुक्लानि माल्यानि गंधाः क्षैरेयमोदनं॥ दधि छत्रं च धवलं देवानां बलिरिष्यते॥ हिंगुसर्षपषड्ग्रंथाव्योपैरर्द्धपलोन्मितैः॥ चतुर्गुणे गवां सूत्रे घृतमस्थं विपाचयेत्॥ तत्पाननावनाभ्यंगैर्देवग्रहविमोक्षणं॥ नस्यांजनं वचाहिंगुलशुनं
वस्तवारिणा॥ दैत्ये बलीर्बहुफलः सोशीरकमलोत्पलः॥ नागानां सुमनोलाजगुडापूपगुडौदनैः॥ परमान्नमधुक्षीरकृष्णमृन्नागकेसरैः॥ वचापद्मपुरोशीररक्तोत्पलदलैर्बलिः॥ श्वैत531पत्रं च रोध्रं च तगरं नागसर्षपाः॥ शीतेन वारिणा पिष्टं नावनांजनयोर्हितं॥ यक्षाणां क्षीरदध्याज्यमिश्रकौदनगुग्गुलु॥ देवदारूत्पलं पद्ममुशीरं वस्त्रकांचनं॥ हिरण्यं च बलिर्योज्यो मूत्राज्यक्षीरमेकतः॥ सिद्धं पलोन्मितं पाननावनाभ्यंजने हितं॥ हरीतकी हरिद्रे द्वे लशु
नो मरिचं वचा॥ निंबपत्रं च वस्तांबुकल्कितं नावनांजनं॥ ब्रह्मरसोबलिःपक्वं यवानां पूर्णमाढकं॥ तोयस्य कुंभं पललं छत्रं वस्त्रविलेपनं॥ गायत्रीविंशतिपलक्वाथेऽर्द्धपलिकैः पचेत्॥ त्र्यूषणत्रिफलाहिंगुषड्ग्रंथामिशिसर्षपैः॥ सनिंबपत्रलशुनैः कुडवान् सप्त सर्पिषः॥ गोमूत्रे त्रिगुणे पाननस्याभ्यंगेषु तद्धितं॥ रक्षसां पललं शुक्लं कुसुमंमिश्रकौदनः॥ बलिः पक्वाममांसानि निष्पावा रुधिरोक्षिताः॥ नक्तमालशिरीषत्व
ङ्ग्भूलपुष्पफलानि च॥ तद्वच्च कृष्णपाटल्या बिल्वमूलं कटुत्रिकं॥ हिंग्विंद्रयवसिद्धार्थलशुनामलकीफलं॥ नावनांजनयोर्योज्यो
बस्तमूत्रयुतोऽगदः॥ एभिरेव घृतं सिद्धं गवां मूत्रे चतुर्गुणे॥ रक्षोग्रहान्वारयते पानाभ्यंजननावनैः॥ पिशाचानां बलिः सीधुपिण्याकपललं दधि॥ मूलकं लवणं सर्पिः प्र532भूतौदनयावकं॥ हरिद्राद्वयमंजिष्ठामिशिसैंधवनागरैः॥ हिंगुप्रियंगुत्रिकटुरसोनत्रिफलावचा॥ पाटलाश्वेतकटभीशिरीषकुसुमैर्घृतं॥ गोमूत्रपादिकं सिद्धं पानाभ्यंजनयोर्हितं॥बस्तांबुपिष्टैस्तैरेव योज्यमंजननावनं॥ देवर्षिपितृगंधर्वे तीक्ष्णं नस्यादि वर्जयेत्॥ सर्पिः पानादि मृद्वस्मिन् भैषज्यमवचारयेत्॥ ऋते पिशाचात् सर्वेषु प्रतिकूलं च नाचरेत्॥ सवैद्यमातुरं घ्नंति क्रुद्धास्ते हि महौजसः॥ ईश्वरं द्वादशभुजं नाथमार्याविलोकितं॥ सर्वव्याधिचिकित्सं च जपन् सर्वग्रहान् जयेत्॥ तथोन्मादानपस्मारानन्यं वा चित्तविप्लवं॥ महाविद्यां च मायूरीं शुचिः संश्रावयेत्सदा॥ भूतेशं पूजयेत् स्थाणुं प्रमथाख्यांश्च तद्गुणान्॥ जपन् सिद्धांश्च तन्मंत्रान् ग्रहान् सर्वानपोहति॥ यच्चानंतरयोः किंचिदृक्षुतेऽध्याययोर्हितं॥ यथोक्तमिह तत्सर्वं प्रयुंजीत परस्परं॥ इति भूतप्रतिषेधो नामाष्टमोऽध्यायः॥८॥
अथातउन्मादप्रतिषेधं व्याख्यास्यामः॥ षडुन्मादा भवंति वातपित्तकफसन्निपाताधिविषनिमित्ताः॥ तत्रोन्मादो नाम यदुन्मार्गगैः शारीरमानसैर्दोषैर्मनसो मादनं॥ तेषांपुनरुन्मार्गगत्वे हेतुः समलं विकृतोपहितमहितमनुचितमन्नपानविधिनिरपेक्षमाहारजातमत्युपक्षीणदे हानां व्यवायव्याधिवेगसमुद्गमे विषमशरीरचेष्टोपसेवा देवद्विजगुरुल्लंघनं वा रागद्वेषजनिताभिराधिभिर्मनोविघातो विषोपविषगरोपयोगात्॥ एभिर्हीनसत्वस्य मनस्युपहते बुद्धौ प्रचलितायामत्युदीर्णत्वाद्दोषाः प्रकुपिता हृदय मुत्सृज्य मनोवहानि स्रोतांस्यवृत्य जनयंत्युन्मादं॥ तत्र शिरसः शून्यता चक्षुषोऽस्वस्थत्वं स्वनः कर्णयोरुच्छासाधिक्यमास्यस्रवणमन्नानभिलाषोऽरोचकोऽविपाको हृदयग्रहोऽस्थाने ध्यानापाससंमोहोद्वेगाः सततं रोमहर्षो ज्वरोऽभीक्ष्णमभीक्ष्णमुन्मत्तचित्तत्वमर्दिताकृतिकरणं व्याधेःस्वप्ने च दर्शनमभीक्ष्णं भ्रांतचलितानवस्थितानामप्रशस्तानां च रूपाणां तिलपीडकचक्राधिरोहणं वातकुंडलिकाभिरुन्मथनं निमज्जनं कलुषाणामंभसामावर्त्तेषु चक्षुषोश्चापतपर्णमिति दोषनिमित्तानामुन्मादानां पूर्वरूपाणि॥ ततोऽनंतरमुन्मादाभिनिर्वृत्तिरेव॥ तस्य सामान्यलिंगं मनोबुद्विस्मृत्यादिसंप्रमोहः॥ ततश्च देहो हतसारथिरिव रथो ऽकर्णधारइव चाप्सु प्लवःसुखदुःखाचारधर्माधर्मप्रलुप्तोऽकस्माद्भवति॥ तत्र वातादस्थानस्मितहसितनृत्यगीतवादित्रवागंगविक्षेपरोदनक्रोशनास्फोटनानि पर्यटनमजस्रमास्यात्फेनागमो यानमयानैरलंकरणमनलंकारिकैर्द्रव्यैर्लोभोऽभ्यवहार्येलब्धे चावमानस्तीव्रं मात्सर्यं कार्श्यंपारुष्यमुत्पिंडितारुणाक्षिता जीर्णेऽन्ने च गदत्वं॥ पित्तात्क्रोधसंतर्जनमकस्मान्मुष्टिलोष्टकाष्ठशस्त्रैरभिद्रवणं नग्नताप्रच्छायशिशिराभिरतिरुदकाभिलाषः संतापः पीतावभासत्वमनिमित्तं ज्वलितज्वालौघशंका ऽन्हि तारकादर्शनं ताम्रहरितहारिद्रसंरब्धाक्षित्वं॥ कफा
दल्पवाक्चेष्टाहारत्वमरोचको वमथुरुष्णसेवा लालासिंघाणकस्रवणं रहःकामता स्त्रीप्रियत्वं निद्रा बीभत्सत्वं शौचद्वेषः श्वयथुरास्ये शुक्लस्तिमितमलाविलाक्षिता भुक्ते रात्रौ च बलत्वमिति॥ भवतिचात्र॥ सर्वायतनसंस्थानं सन्निपाते तदात्मकं॥ उन्मादं दारुणं विद्यात्तं परिवर्जयेत्॥ धनकांतादिनाशेन दुःसहेनाभिषंगवान्॥ पांडुर्दीनो मुहुर्मुहृन् हाहेति परिदेवते॥ रोदित्यकस्मान्म्रियते तद्गुणान्बाहुमन्यते॥ शोकक्लिष्टमना ध्यायेज्जागरूकोविचेष्टते॥ विषेण श्याववदनो नष्टच्छायाबलेंद्रियः॥ वेगांतरेऽपि संभ्रांतो रक्ताक्षस्तं विवर्जयेत्॥ अथानिलजउन्मादे स्नेहपानं प्रयोजयेत्॥ पूर्वमावृतमार्गे तु सस्नेहं मृदु शोधनं॥ कफपित्तभवेप्यादौ वमनं सविरेचनं॥स्निग्धस्विन्नस्य बस्तींश्च शिरसश्च विरेचनं॥ तथाऽस्य शुद्धदेहस्य प्रसादं लभते मनः॥ स्नेहकाले च वातोत्थे तैलं शैरीषमिष्यते॥ महाकल्याणकं पैत्ते पंचगव्यं कफोद्भवे॥ इत्थमप्यनुवृत्तौ च तीक्ष्णं नावनमंजनं॥ हर्षणाश्वासनोत्रासभयताडनतर्जनं॥ अभ्यंगोद्वर्त्तनालेधूपान् पानं च सर्पिषः॥ युंज्यात्तानि हि शुद्धस्य नयंति प्रकृतिं मनः॥ हिंगुसौवर्चलव्योपैर्द्विलांशैर्घृताढकं॥ सिद्धं समूत्रमुन्मादभूतापस्मारनुत्परं॥ द्वौ प्रस्थौ स्वरसाद्ब्रा
ह्या घृतप्रस्थं च साधितं॥ व्योषश्यामात्रिवृद्विंबीशंखपुष्पीनृपद्रुमः॥ ससप्तलाकृमिहरैः कल्कितैरक्षसंमितैः॥ पलवृत्ध्याप्रयुंजीत परं मात्रा चतुष्पलं॥ उन्मादकुष्ठापस्मारहरं वंध्यासुतप्रदं॥ वाक्स्वरस्मृतिमेधाकृद्धन्यं ब्राह्मीघृतं स्मृतं॥ वराविशाला
रोध्रैलादेवदार्वेलवालुकैः॥ द्विसारिवाद्विरजनीद्विस्थिराफलिनीनतैः॥ बृहतीकुष्टमंजिष्ठानागकेसरदाडिमैः॥ वेल्लतालीसपत्रैलामालतीमुकुलोत्पलैः॥ रुदंतीपद्मकहिमैः कर्पांशैःसर्पिषः पचेत्॥
प्रस्थं भूतग्रहोन्मादकासापस्मारपाप्मनुत्॥ पांडुकंडूविषे शोषे मेहे मोहे ज्वरे गरे॥ अरेतस्यप्रजसि वा दैवोपहतचेतसि अमेधसि स्खलद्वाचि स्मृतिकामेऽल्पपावके॥ बल्यं मंगल्यमायुष्यं कांतिसौभाग्यपुष्टिदं॥ कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च॥ एभ्यो द्विसारिवादीनि जले पक्त्वैकविंशतिं॥ रसे तस्मिन् पचेत्सर्पिर्गृ533ष्टिक्षीरचतुर्गुणं॥ वीराद्विमेदाकाकोलीकपिकच्छुविषाणिभिः॥ शूर्पपर्णीयुतैरेतन्महाकल्याणकं परं॥ बृंहणं सन्निपातघ्नं पूर्वस्मादधिकं गुणैः॥ ज534टिला पू535तना के536शी चा537रटी म538र्कटी वचा॥ त्रायमाणाज539या वीरा540 चोर541कः कटुरोहिणी॥ का542यस्था सू543करी छ544त्री सा545तिच्छत्राप546लंकषा॥ म547हापुरुषदंता च व548यस्था ना549कुलीद्वयं॥ कटंभरा वृश्चिकाली शालीपर्णी च तैर्घृतं॥ सिद्धं चातुर्थिकोन्मादग्रहापस्मारनाशनं॥ महापैशाचकं नाम घृतमेतद्यथाऽमृतं॥ बुद्धिमेधास्मृतिकरं बालानां चांगवर्द्धनं॥ लशुनानां शतं त्रिंशदभयात्र्यूषणात्पलं॥ गव्यचर्ममषीप्रस्थो द्व्यढकं क्षीरमूत्रयोः॥ पुराणसर्पिषः प्रस्थमेभिः सिद्धं प्रयोजयेत्॥ हिंगुचूर्णपलं शीते दत्वा च मधुमानिकां॥ तद्दोषागंतुसंभूतानुन्मादान्विषमज्वरान्॥ अपस्मारां श्चहंत्याशु पानाभ्यंजननावनैः॥ केवलं सिद्धमेभिर्वा घृतमुत्तममात्रया॥ पु550राणं पायपेत्त्वेनं श्वभ्रे रुंध्या
द्घृहेऽथवा॥ एतानौषधवर्गान्वा विधेयत्वमगच्छति॥ अंजनोद्वर्त्तनालेपनावनादिषु योजयेत्॥ अश्वगंधाऽजगंधोग्रगंधालशुनसर्षपैः॥ रास्नाकायस्थगोलोमीयुक्तैस्तैलं विपाचयेत्॥ गोमूत्रसदृशं पाननस्याभ्यंगानुवासनैः॥ सर्वो
न्मादग्रहालक्ष्मीपापापस्मारनाशनं॥ शिरीषो मधुकं हिंगु लशुनस्तगरं वचा॥ कुष्टं च बस्तमूत्रेण पिष्टं स्यानावनांजनं॥ त
द्वद्मो षं हरिद्रे द्वे मंजिष्ठा हिंगु सर्षपाः॥ शिरीषबीजं चोन्मादग्रहापस्मारनाशनं॥ ब्राह्मीमैंद्रीं विडंगानि व्योषं हिंगु जटां मुरां॥ रास्नां विषन्नां लशुनं विशल्यां सुरसां वचां॥ ज्योतिष्मतीं नागविन्नामनंतां सहरीतकीं॥ कांक्षीं च हस्तिमूत्रेण पिष्ट्वा छायाविशोषिता॥ वर्तिर्नस्यांजनालेपधूपैरुन्मादसूदनी॥ पिष्ट्वा फलान्यपामार्गाद्धिंगुलं
श्चतं॥ त्रासयेच्छस्रहस्तैर्वा किरातारातितस्करैः॥ अथवा राजपुरुषा बहिर्नीत्वा सुसंयतं॥ भीषयेयुर्वधेनैनं तर्जयंतो नृपाज्ञया॥ देहदुःखभयेभ्यो हि परं प्राणभयं मतं॥ तेन याति शमं तस्य सर्वतो विप्लुतं मनः॥ सिद्धा क्रिया प्रयोज्येयं देशकालाद्यपेक्षया॥ इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते॥ तस्य तत्सदृशप्राप्तिसांत्वाश्वासैः शमं नयेत्॥ कामशोकभयक्रोधहर्षेर्ष्यालोभसंभवान्॥ परस्परप्रति
दृंद्वैरेभिरेव शमं नयेत्॥ भूतानुबंधमीक्षेत प्रोक्तलिंगाधिकाकृतं॥ यद्युन्मादे तदा कुर्याद्भूतनिर्दिष्टमौषधं॥ बलिं च दद्यात्पललं यावकं सक्तु पिंडिकां॥ स्निग्धं मधुरमाहारं तंदुलान् रुधिरोक्षितान्॥ पक्कामकानि मांसानि सुरामैरेयमासवं॥ अतिमुक्तस्य पुष्पाणि जात्याः सहचरस्य च॥ चतुष्पथे गवां तीर्थे नदीनां संगमेषु च॥ निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः॥ निजागंतुभिरुन्मादैः सत्ववान्न स युज्यते॥ प्रसाद इंद्रियार्थानां बुत्ध्यात्ममनसां तथा॥ धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणं॥ इत्युन्मादप्रतिषेधो नाम नवमोऽध्यायः॥९॥
अथातोऽपस्मारप्रतिषेधं व्याख्यास्यामः॥ स्मृत्यपायो
ह्यपस्मारः स धीसत्वाभिसंप्लवात्॥ जायतेऽभिहते चित्ते चिंताशोकभयादिभिः॥ उन्मादयत्प्रकुपितैश्चित्तदेहगतैर्मलैः॥ हते सत्वे
हृदि व्याप्ते संज्ञावाहिषु खेषु च॥ तमोविशन्मूढमतिर्बीभत्साः कुरुते क्रियाः॥ दंतान् खादन् वमन् फेनं हस्तौ पादौ च विक्षिपन्॥ पश्यन्नसंति रूपाणि प्रस्खलन् पतति क्षितौ॥ विजिह्लाक्षिभ्रुवो दोषवेगेऽतीते विबुध्यते॥ कालांतरेण स पुनश्चैवमेवं विचेष्टते॥ अपस्मारश्चतुर्भेदो वाताद्यैर्निचयेन च॥ रूपमुत्पत्स्यमानेऽस्मिन्
हृत्कंपः शून्यता भ्रमः॥ तमसो दर्शनं ध्यानं भ्रूव्युदासोऽक्षिवैकृतं॥ अशब्दग्रहणं खेदो लालासिंघाणकस्रुतिः॥ अविपाकोऽरुचिर्मूर्च्छा
कुक्ष्याटोपो बलक्षयः॥ निद्रानाशोंऽगमर्दस्तृट् स्वप्ने गानं सनर्त्तनं॥ पानं तैलस्य मद्यस्य त551योरेवच मेहनं॥ तत्र वातात्स्फुरत्सक्थिः प्रपतंश्च मुहुर्मुहुः॥ अपस्मरति संज्ञां च लभते विश्वरं रुदन्॥ उत्पिंडिताक्षः श्वसिति फेनं वमति कंपते॥ आवित्ध्यति शिरो दंतान् दशत्याध्मातकंधरः॥ परितो विक्षिपत्यंगं विषमं विनतांगुलिः॥ रूक्षश्यावारुणाक्षित्वङ्खास्यः कृष्णमीक्षते॥ चपलं परुषं रुक्षं विरूपं विकताननं॥ अपस्मरति पित्तेन मुहुः संज्ञां च विंदति॥ पीतफेनाक्षिवक्रत्वगास्फालयति मेदिनीं॥ भैरवादीप्तरुषितरूपदर्शी तृषान्वितः॥ कफा
ञ्चिरेण ग्रहणं चिरेणैव विबोधनं॥चेष्टाऽल्पा भूयसी लाला शुक्लनेत्रनखास्यता॥शुक्लाभरूपदर्शित्वं सर्वलिंगं तु वर्जयेत्॥ अथावृतानां धीचित्तत्हत्खानां प्राक् प्रबोधनं॥ तीक्ष्णैः कुर्यादपस्मारे कर्मभिर्वमनादिभिः॥ वातिकं बस्ति भूयिष्ठैः पैत्तं प्रायो विरेचनैः॥ श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत्॥ वमनं मदनं लंबाविशालारिष्टकौटजं॥ रेको मूत्रं त्रिवृच्छामा द्रवंती सप्तला गुडा॥ दशमूलबलारास्नासरलामरदारुभिः॥ यवकोलकुलत्थैश्च समूत्रक्षारसैंधवैः॥ आस्थापनं प्रयुंजीत हिंगुस्नेहसमन्वितैः॥ एभिरन्यैश्च वातघ्नैः कटुतैलं प्रसाधितं॥ वातापस्मारशमनं नस्याभ्यंगानुवासनैः॥ सर्वतः परिशुद्धस्य सम्यगाश्वासितस्य च॥ अपस्मारविमोक्षार्थं योगान्संशमनान् शृणु॥ गोमयस्वरसक्षीरदधिमूत्रशृतं हविः॥ अपस्मारज्वरोन्मादकामलांतकरं पिबेत्॥ द्विपंचमूलत्रिफलाद्विनिशाकुटजत्वचः॥ सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीं॥ शम्याकपुष्करजटाफल्गुमूलदुरालभाः॥ द्विपलानि जलद्रोणे पक्त्वा पादावशेषिते॥ भार्ङ्गीपाठाऽऽ
ढकीकुंभनिकुंभव्योषरोहिषैः॥ मूर्वाभूतीकभूनिंबश्रेयसीसारिवाद्वयैः॥मदयंत्यग्निनिचुलैरक्षांशैः सर्पिषः पचेत्॥ प्रस्थं तद्वद्रवैः पू552र्वैः पंचगव्यमिदं महत्॥ ज्वरापस्मारजठरभगंदरहरं परं॥ शोफार्शः कामलापांडुगुल्मकासक्ष553यापहं॥ शिरीषपुष्पपत्रत्वक्क्षीरिमूलतुलाद्वयं॥ वरुणैरंडश्यामाकदशमूलाटरूषकं॥ शतावरीबलारास्नासुषवीपारिभद्रकं॥ मुरुंगीवंजुलं दंतीककुभं सपुनर्नवं॥ रोहिषस्य जटां पुष्पं करघातमयूरकं॥ शतार्द्धांशं पृथक्द्राक्षालाक्षामिशिवरायवान्॥ सकोलान्सकुलत्थांश्च पृथगर्द्धाढकोन्मितान्॥ द्विशतं पिशिताद्गव्याच्छागाद्वा तत्पचेदपां॥ द्रोणैर्द्वात्रिंशताष्टां शशेषेण च विपाचितं॥ तैलद्रोणं दधिवहे श्लक्ष्णपिष्टैश्च पालिकैः॥ पाठासमंगाद्विनिशाचेतकीचंदनद्वयैः॥ एलाजलोत्पलबलाश्वदंष्ट्रा
सारिवाधनैः॥ मंजिष्ठाकुष्टमधुकरोध्ररास्नाकुटन्नटैः॥
शठीशिरीषकुसुमनतनागासनाह्वयैः॥ वरांगजोंगपत्तंगविडंगैः सप्रियंगुभिः॥ मुरंगीपत्रनलदमेध्यकुंदनखाह्वयैः॥ तिलपर्ण्या च तत्पानबस्त्यभ्यंजननावनैः॥ अपस्मारग्रहोन्मादान्सशोषविषमज्वरान्॥ योनिशुकामयान् गुल्मप्रमेहं पांडुतागदं॥वातशोणितवीसर्पपक्षाघातार्दितादिकान्॥ सर्वान्मारुतजान् रोगान्विशेषाद्विषवातजान्॥ निहंति कार्मणां कृत्यां मूलदंष्ट्राविषं गरं॥ रसायनानां प्रवरं मेध्यं वाजीकरं परं॥ ब्राह्मीरसवचाकुष्टशंखपुष्पीशृतं घृतं॥ पुराणं
मेध्यमुन्मादालक्ष्म्यापस्मारपाष्मजित्॥ तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः॥ क्षीरद्रोणे पचेत्सिद्धमपस्मारविमोक्षणं॥ कंसे क्षीरेक्षुरसयोः काश्मर्येऽष्टगुणे रसे॥ कार्षिकैर्जीवनीयैश्च सर्पिः प्रस्थं विपाचयेत्॥ वातपित्तोद्भवं क्षिप्रमपस्मारं नियच्छति॥ तद्वत्कासविदारीक्षुकुशक्वाथशृतं पयः॥ मधुकद्विपले कल्के द्रोणे चा
मलकीरसात्॥ तद्वत्सिद्धो घृतप्रस्थः पित्तापस्मारभेषजं॥ कूष्मांडकरसे सर्पिरष्टादशगुणे शृतं॥ यष्टीकल्कमपस्मारहरं धीवाक्स्वरप्रदं॥ कपिलानां गवां पित्तं नावनं परमं हितं॥ श्वशृगालबिडालानां सिंहादीनां च पूजितं॥ गोधानकुलनागानां पृषतर्क्षगवामपि॥पित्तेषु साधितं तैलं नस्येऽभ्यंगे च शस्यते॥ त्रिफलाव्योषपीतद्रुयवक्षारफणिज्जकैः॥ श्या554मापामार्गकारंजबीजैस्तैलं प्रसाधितं॥बस्तमूत्रे हितं नस्यं चूर्णं वा555 दापयेद्भिषक्॥ वृश्चिकालीबलाकुष्टभाङ्गीर्लवणपंचकान्॥ कायस्थां शारदान्मुद्गानुशीरं जलदं यवान्॥व्योषं च बस्तमूत्रेण पिष्ट्वा वर्तिं प्रकल्पयेत्॥ अपस्मारगरोन्मादसर्पदष्टविषाशिते॥ मुस्तावयस्थात्रिफलाकायस्थाहिंगुशाद्वलैः॥ व्योषमाषयुतैर्मूत्रैर्बस्तमेषर्षभोद्भवैः॥हंति वर्त्तिरपस्मारकिलासविषमज्वरान्॥ पुष्पोद्धृतं शुनः पित्तमपस्मारघ्नमंजनं॥ तदेव सर्पिषा युक्तं धूपनं परमं मतं॥ कटभीनिंबकटुंगमधुशिग्रुत्वचां रसैः॥ सिद्धं मूत्रसमैस्तैलमभ्यंगार्थं प्रशस्यते॥ पलंकषावचापथ्यावृश्चिकाल्यर्कसर्षपैः॥ जटिलापूतनाकेशीनाकुलीहिंगुरोचकैः॥ लशुनातिरसाछत्राकुष्टैर्विड्भिश्च पक्षिणां॥ मांसाशिनां यथालाभं बस्तमूत्रे विपाचितं॥ तैलमभ्यंजनं कार्यं तैश्च धूपनलेपनं॥ नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः॥ तुण्डैः पक्षैः पुरीषैश्च धूपमस्प प्रयोजयेत्॥ काकोलीशिग्रुलवणाहिंगुपत्रीशिवाटिकाः॥ कैंडर्यंचंदनं कृष्णां काकनासां ससर्षपां॥ शुनः स्कंधास्थिनखरान् पर्शुकांश्चेति पेषयेत्॥ बस्तमूत्रेण पुष्यार्के तैर्दित्द्यात्धूपयेच्च तैः॥ गोपुच्छलोमभिर्दग्धैरथवा बस्तरोमभिः॥ खरास्थिभिर्हस्तिनखैस्तद्वद्वामूत्रकल्कितैः॥ उद्वर्त्तनं सदा कुर्यान्मूत्रैश्च परिषचनं॥ आभिः कियाभिः सिद्धाभिः हृदयं संप्रबुध्यते॥ स्रोतांसि चास्य शुत्ध्यंति स्मृ
तिं संज्ञां च विंदति॥ भूतानुबंधेऽपस्मारे दोषलिंगाधिकाकृतौ॥ युंज्याद्यथास्वभूतोक्तां क्रियां दैवव्यपाश्रयां॥ शीलपेत्तैललशुनं पयसा वा शतावरीं॥ ब्राह्मीरसं कुष्टरसं वचां वा मधुसंयुतां॥ समं कुद्धैरपस्मारो दोषैः शारीरमानसैः॥ यज्जायते यतश्चैष महामर्मसमाश्रयः॥ तस्माद्रसायनैरेनं दुश्चिकित्स्यमुपाचरेत्॥ तदार्त्तं चाग्नितोयादेर्विषमाद्रक्षयेत् सदा॥ मुक्तं मनोविकारेण त्वमित्थं कृतवानिति॥ न ब्रूयाद्विषयैरिष्टैः क्लिष्टं चेतोऽस्य बृंहयेत्॥ ग्रहोपक्लिष्टदेहानां विभ्रांतस्मृतिचेतसां॥ महास्नेहं प्रशंसति पानाभ्यंजनबस्तिभिः॥ इत्यपस्मारप्रतिषेधो नाम दशमोऽध्यायः॥१०॥ इति तृतीयं भूतविद्यातंत्रं संपूर्णं॥३॥
भूतनाथांघ्रिपाथोजध्यानविध्वस्तपाप्मनां॥ मनांसि न मनुष्याणामेनांसि समुपासते॥
अथातो वर्त्मरोगविज्ञानं व्याख्यास्यामः॥ सर्वरोगनिदानोक्तैरहितैः कुपिता मलाः॥ अचक्षुष्यैर्विशेषेण प्रायः पित्तानुसारिणः॥ सिराभिरूर्ध्वं प्रसृता नेत्रावयवमाश्रिताः॥ वर्त्म संधिं सितं कृष्णं दृष्टिं वा सर्वमक्षि वा556॥रोगान्कुर्युश्चलस्तत्र प्राप्य वर्त्माश्रयाः सिराः॥ सुप्तोत्थितस्य कुरुते वर्त्मस्तंभं सवेदनं॥ पांशुपूर्णाभनेत्रत्वं कृच्छ्रोन्मीलनमश्रु च॥ विमर्दनात्स्याच्च शमः कृच्छ्रोन्मीलं वदंति तं॥ चालयन्वर्त्मनी वायुर्निमेषोन्मेषणं मुहुः॥ करोत्यरुङनिमेषोऽसौ वर्त्म यत्तु निमील्यते॥ विमुक्तसंधि निश्चेष्टं हीनं वातहतं हि तत्॥ कृष्णाः पित्तेन बह्योंऽतर्वर्त्मकुंभीकबीजवत्॥ आध्मायंते पुनर्भिन्नाः पिटिकाः कुंभिसंज्ञिताः॥ सदाहक्लेदनिस्तोदं रक्ताभं स्पर्शनाक्षमं॥ पित्तेन जायते वर्त्म पित्तोत्क्लिष्टमुशंति तत्॥ करोति कंडूं दाहं च पित्तं पक्ष्मां
तमाश्रितं॥ पक्ष्मणां शातनं चानु पक्ष्मशातं वदंति तं॥ पोथक्यः पिटिकाः श्वेताः सर्षपाभा घनाः कफात्॥ शोफोपदेहरुक्कंडूपिच्छिलाश्रुसमन्विताः॥ कफोत्क्लिष्टं भवेद्वर्त्म स्तंभक्लोदोपदेहवत्॥ ग्रंथिः पांडुररुक्पाकःकंडूमान्कठिनः कफात्॥ कोलमात्रः स लगणः किंचिदल्पस्ततोऽथवा॥ रक्ता रक्तेन पिटिका तत्तुल्यपिटिकाचिता॥ उत्संगाख्या तथोत्क्लिष्टं राजिमत्स्पर्शनाक्षमं॥ अर्शोधिमांसं वर्त्मांतस्तब्धं स्निग्धं सदाहरुक्॥ रक्तं रक्तेन तत्स्रावि विच्छिन्नं च विवर्द्धते॥ मध्ये वा वर्त्मनोंऽते वा कंडूषारुग्वती स्थिरा॥ मुद्गमात्राऽसृजा ताम्रापिटिकांऽजननामिका॥ दोषैर्वर्त्म बहिः शूनं यदंतः सूक्ष्मखाचितं॥ सस्रावमंतरुदकं बिसाभं बिसवर्त्म तत्॥ यद्वर्त्मोत्क्लिष्टमुत्क्लिष्टमकस्मान्म्लानतामियात्॥ रक्तदोषत्रयोत्क्लेशाद्भवत्युत्क्लिष्टवर्त्म तत्॥ श्याववर्त्म मलैः सास्रैः श्यावं रुक्क्लेदशोफवत्॥ श्लिष्टाख्यंवर्त्मनीश्लिष्टे कंडूश्वयथुरागिणी॥वर्त्मांतः पिटिका रुक्षाः कर्कशाः सिकतोपमाः॥ सिकतावर्त्म कृष्णं तु कर्दमं कर्दमोपमं॥ बहलं बहुभिर्मांसैः सवर्णं चीयते समैः॥ कुकूणकः शिशोरेव दंतोत्पत्तिनिमित्तजः॥ स्यात्तेन शिशुरुच्छूनताम्राक्षो वीक्षणाक्षमः॥ सवर्त्मशूलपैच्छिल्यकर्णनासाक्षिमर्दनः॥ पक्ष्मोपरोधे संकोचो वर्त्मनां जायते तथा॥ खरतांऽतर्मुखत्वं च रोम्णामन्यानि वा पुनः॥ कंटकैरिव तीक्ष्णाग्रैर्घृष्टं तैरक्षि सूयते॥ उष्यते चानिलादिद्विडल्पाहं शांतिरुद्धतैः॥ कनीनके बहिर्वर्त्म कठिनो ग्रंथिरुन्नतः॥ ताम्रः पक्वोऽस्रपूयस्रुदलज्याध्मायते मुहुः॥ वर्त्मांतर्मांसपिंडाभः श्वयथुर्ग्रथितोऽरुजः॥ सास्रैः स्यादर्बुदो दोषैर्विषमो बाह्यतश्चलः॥ चतुर्विंशतिरित्येते व्याधयो वर्त्मसंश्रयाः॥ आद्योऽत्र भेषजैः साध्योद्वौ ततोऽर्शश्च वर्जयेत्॥ पक्ष्मोपरोधो याप्यः स्याच्छेषान् शस्त्रेण साधयेत्॥ कुट्टयेत्पक्ष्मसदनं छिंद्यात्तेष्वपि चार्बुदं॥ भिंद्या
ल्लगणकुंभीकाबिसोत्संगांजनालजीः॥ पोथकीश्यावसिकताश्लिष्टोत्क्लिष्टचतुष्टयं॥ सकर्दमं सबहलं विलिखेत्सकुकूणकं॥ इति वर्त्मरोगविज्ञानीयो नामैकादशोऽध्यायः॥११॥
अथातो वर्त्मरोगप्रतिषेधं व्याख्यास्यामः॥ कृच्छ्रोन्मीले पुराणघृतं द्राक्षाकल्कक्वाथसिद्धं शर्करावचूर्णितं रात्रौ पाययेत्॥ स्निग्धांश्च नस्यधूमांजनतर्पणपुटपाकान्प्रयोजयेत्॥ वातहरद्रव्यकल्पितांश्च वस्तीन्क्षीरस्विन्नैरंडपल्लवस्वेदं च वर्त्मनां॥ एवमशांतौ मुद्गमात्रांतरैः पदैरग्निना त्वग्दाहं बिंदुभिराचरेत्॥ कुंभीकपिटिकासु वर्त्म लिखित्वा सैंघवेनानुसार्य पटोलामलकमधुकक्वाथेन सेचयेद्घृतेन च॥ पित्तरक्तोत्क्लिष्टयोर्मधुरौषधसिद्धेन सर्पिषा स्निग्धस्य सिरां विध्येत्॥ विरेचयेच्चैनं त्रिवृत्क्वाथवता त्रिफलाकल्केनत्रिफलाक्वाथयुतेन च ब्राह्मीचूर्णेन॥ चंदनोशीरमधुकमृद्विकापुनर्नवबृहतीमूलसिद्धं नावयेत्॥ लिखीते च वर्त्मनि स्रुते रक्ते यष्ट्याव्ह निर्यूहेण प्रक्षालनं॥ चंदनशृतं च पयः परिषेकः शीतस्निग्धाश्च शिरोवक्रलेपाः॥ पक्ष्मशाते रोमकूपान्सूच्यग्रेण कुट्टयेज्जलौ कोभिर्वा ग्राहयेत्॥ पयसेक्षुरसेन वा वमनं स्वादुशीतस्कंधसाधितं सर्पिर्नावनं॥ काकजंघारोहितमत्स्यमांसं काकशोणितभावितमंतर्धूमदग्धं चूर्णांजनं कुर्यात्॥ संचूर्ण्य पुष्पकासीसं भावयेत्सुरसारसैः॥ ताम्रे दशाहं परमं पक्ष्मशाते तदंजनं॥ पोथकीं विलिख्य शुंठीसैंधवमागधिकाचूर्णैः प्रतिसार्य प्रक्षाल्य चोष्णांभसा खदिररसाढकीचूर्णशिग्रुपत्रकषायेण सेचयेत्॥ ततश्चाम्रजंबूप्रवालक्वाथेनाश्चोतनं॥ त्रिफलाखदिरसारोदकेन वा मधुयुक्तेन॥ विडंगलाक्षादार्वीत्वग्गैरिकालमनोव्हाचूर्णः क्षौद्रान्वितोंऽजनं॥ एवमप्यनुपशमे जलौकसो योजयेत्पु557नर्वा लेखयेत्॥ परिषेकं त्रिफलामधुकद्विहरिद्राकषायेण
मधुयुक्तेन कुर्यात्॥ मस्तुशर्कराकपित्थपत्रांबुना वा॥ कफोत्क्लिष्टं वर्त्म लिखित्वा सैंधवकासीसपिप्पलोमनःशिलारसांजनचूर्णैर्मधुमद्भिः प्रतिसारयेत्॥ कफघ्नानि च वमनधूमनावनांजनान्याहारविधिश्च॥ वर्त्मोपक्लेदे कासीसलवणसुमनोमुकुलरसांजनैर्वर्तिरंजनं॥ लगणं कफोत्क्लिष्टवत्साधयेत्॥ अशाम्यत्यग्निना दाहो वमनविरेचनं च॥ पिप्पलीमधुकनिंबज्योतिष्मतीदेवदारुविडंगप्रियंगु त्रिफलाकुष्टशताव्हासैंधवैः सिद्धं तैलं नावयेत्॥ तीक्ष्णावपीडांजनकवलांश्च विदध्यादुष्णोपचारं च॥ उत्संगपिटिकामंजननामिकां च भित्वा निष्पीड्य चोल्लिखितां तगरैलासैंधवनेपालीचूर्णेन सक्षौद्रेण प्रतिसारयेत्॥ हरिद्रामधुकपटोलरोध्राः समाक्षिकाः परिषेकः॥ बिसवर्त्मादिषु बहलवर्त्मांतेपु सैंधवं प्रतिसारणं॥ बिसश्लिष्टवर्त्मनोस्तथाऽनुपशमेऽग्निना क्षारेण वा दहनं॥कुकूणके निंबपत्रत्रिफलाखदिरमूलकल्कविपक्वं सर्पिर्धात्रीं पाययित्वा सैंधवसर्षपोपकुल्यायष्ट्याव्हवतोष्णांभसा वामयेत्॥ स्तनावस्या मागधिकामुस्ताद्विरजनीकल्केनालिप्योद्वर्त्तयेत् धूपयेच्च सघृतैः सिद्धार्थैर्नावयेच्चैनां॥ पटोलमुस्तमृद्वीकागुडूचीत्रिफलाकषायं पाययेत्॥ बालस्प वर्त्मनी लिखित्वा मधुसैंधवरसांजनैः प्रतिसार्यामलकाश्मंतकजंबूपल्लवक्वाथेन प्रक्षालयेत्॥ जलौकोभिर्वा ग्राहयेत्॥ वेदनायां तु कुष्टगुडूचीकल्कोदकेन सगुडक्षौद्रेण परिषेको मूर्द्धानंचास्य कटुतैलेनाभ्यज्य पाठाकल्केन प्रलिप्य बृहत्यर्जुनबिल्वनिंबगुडुचीमार्कवतर्कारीसैर्यककार्पासीमालतीपत्रनिर्यूहेण सेचयेत्॥ मरिचविडंगद्विहरिद्राकल्कसिद्धं तैलं प्रतिमर्शो मूर्वाताम्ररजसी स्तन्यपिष्टे पिंडांजनं॥शंखमनःशिलासैंधवरसांजनक्षौद्रैर्वा रसक्रिया॥ लोहशिवाटिकामृदः कपालेऽनेकशः प्रतप्ताः स्तन्येन निर्वापिताः श्लक्ष्णचूर्णमंजनं॥ पुनःपुनश्च धात्रीं वमनविरेचनैरुपपादयेत्॥ पक्ष्मोपरोधे समुपचितं वर्त्म लेखनोत्क्लिष्टरक्तस्त्रावणेन सशोकं शिरोविरेककवलवमनैः यापयेत्॥ प्रवृद्धेषु तु रोमसु सुविशुद्धदेहस्य सहिष्णोर्भ्रूवोऽधस्तात् द्वौ भागौ पक्ष्मांताद्भागमेकं समुत्सृज्य यवमात्रं तदा558कृतिं तिर्यक् छेदयेत्॥ आर्द्रवाससा च रक्तं गृह्णीयात्॥ ततस्तनूभूते रक्ते क्षौमवस्त्रेण वालेन वा धनुर्वक्रया सूच्या मुद्गमात्रांतरैः पदैः सीव्येत्॥ ततोऽस्य ललाटेपट्टं बध्वा तत्सेवनीसूत्रं तत्र सूचीपदैर्नातिगाढश्लथमा सज्जेत्॥ शतधौतघृतेन चास्य सक्षौद्रेण कवलिकां दद्यात्॥ न चैतद्बध्नीयात्॥ व्रणवेदनायां वस्त्रवद्वेष्टनेन यष्टिमधुकचूर्णेन संस्कृतं सर्पिः परिषेको वटादिकषायाश्च सक्षीराः॥ पंचमे षष्टे वाऽहनि स्थिरीभूतेषु शस्त्रपदेषु सेवनीसूत्रमवलंबनाच्छित्वाऽपनयेत्॥ व्रणं च स्वर्णगैरिकरजसाऽवचूर्णयेत्॥ तीक्ष्णांजनानि चावचारयेत्॥ अत्युत्क्षिप्ते तु सूत्रे श्वयथुः स्यात्तत्र मृदुस्वेदः स्नैहिकं च नस्यं॥ निर्भुज्य वा वर्त्मदोषोपहतां वलिं विलिख्य तुंबरुबाकुच्यभयाबीजान्यतमकल्केन प्रतिसारयेत्॥ क्षारेण वा दहेत्तप्तया वा शलाकया॥ उपपक्ष्मकाणि तु लाक्षारसेन लक्षयित्वा संदंशेनोद्धृत्य तनुसूच्यग्रेणाग्निवर्णेन रोमकूपान्दहेत्॥ ततश्च पूर्ववत्परिषेको नावनं च॥ बाह्यालजेर्भिन्नलिखितस्य क्षारेणाग्निना वा दाहो व्रणवच्चोपचारः॥ अर्बुदस्य च मूलच्छिन्नस्य लिखितप्रतिसारितस्य चेति॥ भवंति चात्र॥ निवातेऽधिष्ठितस्याप्तैः शुद्धस्योत्तानशायिनः॥ बहिः कोष्णांबुतप्तेन स्वेदितं वर्त्म वाससा॥ निर्भुज्य वस्त्रांतरितं वामांगुष्ठांगुलीधृतं॥ न स्रंसते चलति वा वर्त्मैवं सर्वतस्ततः॥ मंडलाग्रेण तत्तिर्यक्कृत्वा शस्त्रपदांकितं॥ लिखेत्तेनैव पत्रैर्वा शाकशेफालिकादिजैः॥ फेनेन तोयराशेर्वा पिचुना प्रमृजन्नसृक्॥ स्थिते रक्ते सुलिखितं सक्षोद्रैःप्रतिसारयेत्॥ यथास्वमुक्तैरनु च प्रक्षाल्योष्णेन वारिणा॥ घृतेन सिक्तमभ्यक्तं बध्नीयान्मधुसर्पिषा॥ उर्ध्वाधःकर्णयोर्दत्वा पिंडीं
च यवसक्तुभिः॥ द्वितीयेऽहनि मुक्तस्य परिषेकं यथायथं॥ कुर्यांच्चतुर्थे नस्यादीन्मुंचेदेवाह्नि पंचमे॥ समं नखनिभं शोफकंडूघर्षाद्यपीडितं॥ विद्यात्सुलिखितं वर्त्म लिखेद्भूयो विपर्यये॥ रुक्पक्ष्मवर्त्मसदनस्रंसनान्यतिलेखनात्॥ स्नेहस्वेदादिकस्तस्मिन्निष्टो वातहरः क्रमः॥ अभ्यज्य नवनीतेन श्वेतरोध्रं प्रलेपयेत्॥ एरंडमूलकल्केन पुटपाके पचेत्ततः॥ स्विन्नं प्रक्षालितं शुष्कं चूर्णितं पोटलीकृतं॥ स्त्रियाः क्षीरे छगल्या वा मृदितं नेत्रसेचनं॥ शालितंदुलकल्केन लिप्तं तद्वत्परिष्कृतं॥ कुर्यान्नेत्रेऽतिलिखिते मृदितं दधिमस्तुना॥ केवलेनापि वा सेकं मस्तुना जांगलाशिनः॥ भेद्यांस्तु व्रीहिवक्रेण विभिद्य कठिनोन्नतान्॥निष्पीडयेदनु विधिः शेषः स्यात्तत्र पूर्ववत्॥ लेखने भेदने चायं क्रमः सर्वत्र वर्त्मनि॥ इति वर्त्मरोगप्रतिषेधो नाम द्वादशोऽध्यायः॥१२॥
अथातः संधिसितासितरोगविज्ञानं व्याख्यास्यामः॥ वायुः क्रुद्धः सिराः प्राप्य जलाभं जलवाहिनीः॥ अश्रु स्रावयते वर्त्मशुक्लसंधिकनीनकात्॥ तेन नेत्रं सरुग्रागशोकं स्यात्स जलास्रवः॥ कफात्कफस्रवे श्वेतं पिच्छिलं बहलं स्रवेत्॥ कफेन शोफस्तीक्ष्णाग्रः क्षारबुहुदकोपमः॥ पृथुमूलबलः स्निग्धः सवर्णो मृदुपिच्छिलः॥ महानपाकःकंडूमानुपनाहः स नीरुजः॥ रक्ताद्रक्तस्रवे ताम्रं बहूष्णं चाश्रु संस्रवेत्॥ वर्त्मसंध्याश्रया शुक्ले पिटिका दाहशूलिनी॥ ताम्रामुद्गोपमा भिन्ना रक्तं स्रवति पर्वणी॥ पूयास्रावे मलाः सास्रा वर्त्मसंधिकनीनकात्॥स्रावयंति मुहुः पूयं सास्त्रत्वडभांपाकतः॥ पूयालसो व्रणः सुक्ष्मः शोफसंरंभपूर्वकः॥ कनीनसंधावाध्यायी पूयस्रा वो सवेदनः॥ कनीनस्यांतरलजी शोफो रुक्दाहतोदवान्॥ अपांगे वा कनीने वा कंडुषापक्ष्मपोटवान्॥ पूयास्रावी कृमिग्रंथिर्ग्रंथिः
कृमियुतोऽर्तिमान्॥ उपनाहकृमिग्रंथिपूयालसकपर्वणीः॥ शस्त्रेण साधयेत्पंच सालजीनास्रवांस्त्यजेत्॥ पि559त्तं कुर्यात्सिते बिंदूनसितश्यावपीतकान्॥ मलाक्तादर्शतुल्यं वा सर्वं शुक्लं सदाहरुक्॥ रोगोऽयं शुक्तिकासंज्ञः सशकृद्भेदतृट्ज्वरः॥कफाच्छुक्ले समं श्वेतं चिरवृत्ध्यधिमांसकं॥ शुक्लार्म शोफस्त्वरुजः सवर्णो बहलो मृदुः॥ गुरुः स्निग्धोंऽबुबिंद्वाभो बलासग्रथितं स्मृतं॥ बिंदुभिः पिष्टधवलैरुत्सन्नैः पिष्टकं वदेत्॥ रक्तराजीततं शुक्लमुष्यते यत्सवेदनं॥ अशोफाश्रूपदेहं च सिरोत्पातः स शोणितात्॥ उपेक्षितः सिरोत्पातो राजीस्ताएव वर्द्धयन्॥ कुर्यात्साश्रुं सिराहर्षं तेनाक्ष्युद्वीक्षणाक्षमं॥ सिराजाले सिराजालं बृहद्रक्तं घनोन्नतं॥ शोणितार्मसमं श्लक्ष्णं पद्माभमधिमांसकं॥ नीरुक्श्लक्ष्णोऽर्जुनं बिंदुः शशलोहितलोहितः॥ मृद्वाशुवृत्ध्यरुङ्मांसं प्रस्तारि श्यावलोहितं॥ प्रस्तार्यर्म मलैः सास्रैःस्नावार्म स्नावसन्निभं॥ शुष्कासृक्पिंडवच्छ्यावं यन्मांसं बहलं पृथु॥ अधिमांसार्म तद्दाहघर्षवत्यः सिरावृताः॥ कृष्णासन्नाः सिरासंज्ञाः पिटिकाः सर्षपोपमाः॥ शुक्तिहर्षसिरोत्पातपिष्टकग्रथितार्जुनं॥ साधयेदोषधैः षट्कं शेषं शस्त्रेण सप्तकं॥ नवोत्थं तदपि द्रव्यैरर्मोक्तं यच्च पंचधा॥ तच्छेद्यमसितप्राप्तं मांसस्नावसिरावृतं॥ चर्मोद्दालवदुच्छ्रायि दृष्टिप्राप्तं तु वर्जयेत्॥ पित्तं560 कृष्णेऽथवा दृष्टौ शुक्रं तोदाश्रुरागवत्॥ छित्त्वा त्वचं जनयति तेन स्यात्कृष्णमंडलं॥ पक्वजंबूनिभं किंचिन्निम्नं च क्षतशुक्रकं॥ तत्कृच्छ्रसाध्यं याप्यं तु द्वितीयपटलव्यधात्॥ तत्र तोदादिबाहुल्यं सूचीविद्धाभकृष्णता॥ तृतीयपटलच्छेदादसाध्यं निचितं व्रणैः॥ शखंशुक्लं कफात्साध्यंनातिरुक् शुद्धशुक्रकं॥ आताम्रपिच्छिलास्रस्रुदाताम्रपिटिकातिरुक्॥ अजाविट्सदृशोच्छ्रायकाष्णर्या वर्ज्याऽसृजाऽजका॥ सिराशुकं म
लैः सास्रैस्तज्जुष्टं कृष्णमंडलं॥सतोददाहताम्राभिः सिराभिरवतन्यते॥ अनिमित्तोष्णशीताच्छघनाश्रुस्रुच्च तत्त्यजेत्॥ दोषैः सास्रैः सकृत् कृष्णं नीयते शुक्लरूपतां॥ धवलाभ्रोपलिप्ताभं निष्पावार्द्धदलाकृति॥ अतितीव्ररुजारागदाहश्वयथुपीडितं॥ पाकात्ययेन तच्छुक्रं वर्जयेत्तीव्रवेदनं॥ यस्य वा लिंगनाशोंऽतःश्यावं यद्वा सलोहितं॥ अत्युत्सेधावगाढं वा साश्रुनाडीव्रणावृतं॥ पुराणं विषमं मध्ये विच्छिन्नं यच्चशुक्रकं॥ पंचेत्युक्ता गदाः कृष्णे साध्यासाध्यविभागतः॥ इति संधिसितासितविज्ञानीयो नाम त्रयोदशोऽध्यायः॥१३॥
अथातः संधिसितासितरोगप्रतिषेधं व्याख्यास्यामः॥ उपनाहं स्विन्नं व्रीहिमुखेन भित्वा मंडलाग्रेण समंताल्लेखयेत्॥ ततः सैंधवपिप्पलीचूर्णेन क्षौद्रेण प्रतिसारयेत्॥ पूर्ववच्च बध्नीयात् पटोलपत्रामलकक्वाथेन वाऽऽश्वोतयेत्॥ पर्वणीमंतर्बाह्यसंधित्रिभागे बडिशेनावलंब्य वृद्धिपत्रेणार्द्धमात्रे छिंद्यादन्यथाऽश्रुनाडी स्यात्॥ मधुसैंधवप्रतिसारिताऽर्मवच्चिकित्सेत्॥ पूयालसे सिरां विध्येत्ततश्च तमुपनाहमेदक्षिपाकोक्तं चेक्षेत॥ सैंधवार्द्रककासीसायस्ताम्रैः सुसूक्ष्मैः सक्षौद्रैरंजनं॥ कृमिग्रंथिं करीषेण स्वेदयित्वा छित्त्वाऽवलिख्य च कासीससैंधवत्रिफलामाक्षिकैः प्रतिसारयेत्॥ शुक्तिकां पित्ताभिष्यंदवत्साधयेत्॥ बलासग्रथितं पिष्टकं च सिराव्यधवर्जं कफाभिष्यंदवत्॥ विशेषतो यवनालान् तिलनालान्वा हरितशलाकानर्द्धमासमजाक्षीरेण भावयित्वा शोषयित्वा च दाहयेत्॥ ततस्तद्भस्म क्षारकल्पेन परिस्राव्यादर्वीप्रलेपाद्विपचेत्॥ रसक्रियेयं बलासग्रथितशोंफोपदेहहरा॥ अयमेवच कल्पः फणिज्जकार्जकास्फोर्ताबल्वकपित्थनिर्गुंड्येरंडकुमुदोत्पलजातीकुसुमेषु पृथक्कार्यः॥सैंधवालमरिचकट्फलशंखसमुद्रफेनैर्वर्तिःपिष्टकेंऽजनं॥ शुंठीशिग्रुफलपिप्पलीसैंधवचूर्णो बीजपूरकरसाप्लुतोंऽजनं पिष्टकमपहरति॥ त्रिवृत्रिकटूककट्फलचूर्णो बलासग्रथितं च॥ बृहतीफलं पिप्पलीतंदुलपूरितं पुटपाकेन पचेत्॥ तैस्तंदुलैचूर्णांजनं बलासग्रथितपिष्टकघ्न॥ अत्यर्थशोफे हरितालसैंधवशुंठीदेवदारुपुनर्नवैर्बिडालपदकः॥ सिरोत्पातहर्षजालार्जुनेषु रक्ताभिष्यंदवत्प्रतिकुर्यात्॥ विशेषेण सिराहर्षे स्वर्णगैरिको मधुयुक्तोंऽजनं॥ स्तन्यान्वितं कासीसं क्षौद्रयुतं वा॥ कासीसं त्वर्जुने मातुलुंगरसेन सशर्करेणाश्चोतनं मस्तुनाऽथवा॥ शंखनाभिर्माक्षिकेण युक्ता सितया वा
समुद्रफेनकांजनस्फटिककुंकुमशंखनाभिमधुयष्टिका वा क्षौद्रार्द्रास्तदृट्वारसांजनं कासीसं वा॥ अर्मोक्तं तु पंचविधमपि यत्तनु रक्तं धूमाविलं दधिनिभं वा तच्छुक्रवत्क्रियया शिरोविरेकलेखनांजनैरुपाचरेत्॥ अथेतरस्मिन् स्निग्धस्यातुरस्य पेयाविलेपीजांगलरसान्यतमाशितस्य कृतस्वस्त्ययनस्य सुखशयनगतस्योत्तानदेहस्य किंचिदवाक्शिरसः सुखोष्णाप्लुततांतवस्विन्ननयनस्य ससैंधवबीजपूरकरसेनांजयित्यांऽगुष्ठकेन निमीलितं विमृद्रियाद्यावदाबलासग्रथिताभरूपोत्पत्तेरित्थं च संरोषिताक्षस्य प्रचलितेऽर्ममांसे निश्चलं परिचारकः शिरो धारयेत्॥ अन्यश्च वामदक्षिणान्यतरपार्श्वेऽनुकूलस्थितो दृढवस्त्रगर्भाभ्यामंगुष्ठाभ्यां वर्त्मनी विक्षिपेत्॥ अथ वैद्यः कनीनकात्प्रवृद्धेऽर्मण्यपांगमी क्षमणस्य यत्र यत्र वली जायते तत्र तत्रार्म बडिशेनोच्छाद्य च नात्यायातं गृहीत्वा किंचिदुन्नम्य कृष्णशुक्लमंडलाभ्यां सर्वतः सूच्यग्रेण मोक्षयित्वा किंचिदांच्छे561त्॥ अथ तीक्ष्णेन मंडलाग्रेण वृद्धिपत्रेण वोल्लिख्यकनीनकं चोपनीय कनीनकसममेव चतुर्भागशेषं छिंद्यात्॥ वर्जयेच्च कनीनकं सिराश्वाश्रुवहाः॥ तथा हि नाक्षिव्यापद्यते॥ यज्जालवदर्म व्यापि तदेषण्या यावत्कनीनकमनुसरमुन्नम्य पूर्ववच्छिंद्यात्॥ तद्वदपांगात्प्रवृद्धे कनीनकमीक्षमाणस्य यावदपांगं चोपनीयापांगसममेव तथा यावद्वर्जयेदपांगसिराश्चेत्यादि ततः प्लोतेन रक्तं विशोध्य सम्यक्छिन्नमवेक्ष्य सैंधवचूर्णेन पुनः पुनः प्रतिसारयेद्यवनालभस्मना वा प्लोतशुद्धं च पुनर्मधुना॥ ततः शीतांबुपरिषिक्तं सर्पिषा सुखोष्णेन परिषीच्य मधुघृताभ्यक्तं पूर्ववद्बध्नीयात्॥ मूर्द्धनि पादयोश्चास्मै शतधौतघृतशीतांबुप्रदेहान्दद्यात्॥ स्नेहोक्तं चाचारमादिशेत्॥ द्वितीये चान्हि सायं प्रातर्मधुसर्पिषा कोष्णेन शिरस्तथाबद्धमेवाक्षि सिंचेत्पंचाहं चोष्णोदकानुपानं सर्पिः पीत्वाजीर्णे पथ्यमश्नीयात्॥ तृतीये च दिवसे विमुच्य करंजबीजसिद्धेन क्षीरेणाक्षि स्वेदयेत्॥ रोध्रकिंशुकमधुकपटोलद्विहरिद्राकुंरंटमुकुलक्वाथेन मधुमिश्रेणाश्चोतयेत्॥सप्तमेऽहनि सर्वथा मुंचेत्॥ आतपाकाशदर्शनं च परिहरेत्॥ सशोफे तु नेत्रधूमः शिरोविरेचनं च॥ अनुपशांतरागे सिराविस्रावणं॥ साश्रुपाते नस्यं॥ तिलान्
लुंचितान्मधुककाकोलीसुनिषण्णकपंचमूलशर्कराशृतशीते पयसिसप्ताहं भाविताननेनैव पयसा पीडयेत्॥ मधुकशताव्हासारिवाऽनंतागुडकाकोलीहरेणुकैलवालुकचूर्णं पीड्यमानेषु पोडशभागेन प्रक्षिपेत्॥ तत्तैलमेभिरेवौषधैः पयसा वाऽष्टगुणेन सिद्धं नावनादश्रुरागघ्नं दृष्टिप्रसादनं च॥ कृष्णगते तु व्रणशुक्रवत्क्रिया॥ अर्मशषे च लेखनांजनानि॥ तत्र सम्यक्च्छिन्ने वर्णविशुद्धिः स्वस्थता च॥हीनच्छेदात् पुनर्वृद्धीसगाश्रुपातप्रकाशदर्शनाक्षमत्वानि च॥ अतिच्छेदादतिपाकस्तंभस्फुरणाश्रुतिमिरसंरंभविस्वरत्वानि॥ तेषु यथास्वं दोषोद्रेकात् प्रतिकुर्यात्॥ नागरमनःशिलैलेयकसैंधवशर्कराभिरर्द्धकर्षांशाभिर्युक्तं रसांजनार्द्धपलं क्षौद्रयुतमंजनादर्मशेषश्लेष्मतिमिरपिल्लामयघ्नं च॥ सिराजाले सिरास्तु स्थूलाः कठिनाश्च बडिशेन गृहीत्वा मंडलाग्रेणोल्लिखेत्॥ सिरापिटिकाः सूच्यग्रेणावलंबिताः कृष्णमनुपघ्नंश्छिद्यात्त्वचःलिखेदर्मवच्चैतयोः शेषमाचरेत्॥ शुक्रकेषु यथास्वं दोषानुसारेण त्रिफलाघृतपानरक्त-
मोक्षविरेचनाश्चोतनमुखालेपनतर्पणपुटपाकान्प्रयुंजीत॥ तत्र व्रणशुक्रे त्रिवृन्निर्यूहेण त्रिःपक्वं सर्पिः पाययेत्॥ सिरां च विध्येत् दुष्टशिष्टं च पिंडितमक्षिस्थमसृक् जलौकोभिरपहरेत्॥ मधुककाकोलीमृद्विकोत्पलविदारीक्वाथेन मंजिष्टाक्षीरकाकोलीमधुकक्वथिताजक्षीरेण वा सशर्करेणाश्चोतयेत्॥ शीतैश्चास्य शिरोवक्रं दिह्यात्सिंचेच्च॥ एवमप्यनुबद्धवेदनं शताव्हायष्ट्याव्हवचाघृतमंडेनानुवासयेत्॥अपिच॥ असृग्रागरुजाशांतिं यदा तेभ्योऽपि लक्षयेत्॥ तदा तदंजनैः शुक्रं लेखनीयैरुपाचरेत्॥ वैदूर्यस्फटिकशंखमुक्ताविद्रुमरुप्यायस्त्रपुताम्रसीसालमनः शिलाकुक्कुटांडत्वक्समुद्रफेनरसां जनसैंधवैरजापयः पिष्टैर्वर्त्तयश्छायाशुष्काः क्षौद्रमृष्टाः प्रातः सायं च प्रयुक्ता व्रणशुक्रनुदः॥ करिवराहगोगर्दभाश्वाजोष्ट्रदशनाः शंखमुक्तासमुद्रफेनाश्च मरिचचतुर्थांशा जलपिष्टा वर्त्तयः क्षतशुक्रहराः॥ लाक्षासुवर्णगैरिकचंदनजातीमुकुलैर्वर्त्तिरसपित्तप्रसादनी व्रणशुक्रहरा च॥ निम्नं तु शुक्रं सरुजमुन्नमयेत् स्नेहपाननस्यजांगलरसैः॥ तर्पणपुटपाकाभ्यां नीरुजं॥ तत्र तर्पणं॥ मृगविष्किरपिशितं काश्मर्यसुनिषण्णोत्पलमृणालशृंगाटककसेरुद्राक्षाक्षीरविदारीजीवनीयांश्च क्षीरे पाचयेत्तस्मान्नवनीतमुद्धृत्य चंदनमधुशर्करानतनीलोत्पलकल्कैरष्टगुणेन च पयसा विपक्वं पूर्वकृत्यं॥ चंदनसारिवाप्रपौंडरीकजीवनीयकल्कैः समधुघृतैः संसृज्य प्रागिव कल्पयेत्॥ द्वित्वावच्छिन्नमेव वा पाययेत्॥ शुद्धशुक्रे हरिद्रामधुकसारिवारोध्रनिर्यूहेणाश्चोतनं रोध्रचूर्णेन वा तांतवबद्धेनोष्णांबुमृदितेन॥शुद्धकोष्ठस्प दंतीज्योतिष्मतीकल्कोऽवपीडशिरोविरेचनद्रव्यपक्वं या मर्शः प्रतिमर्शो वा॥ शुंठीसैंधवमधुयष्टिकाबृहतीमूलताम्ररजोभिरामलकरसर्पिष्टैस्ताम्रपात्रं लेपयेत्॥ सघृतैर्यवैरामलकपत्रैश्च बहुशो धूपयेत्॥ ततो वर्त्तिरेषा महानीला मधुतोयघृ
ष्टा शुद्धशुक्रं नाशयति पूर्वोक्ता च दंतवर्त्तिः॥ अथाशाम्यति तु शुक्रे सर्वत्र पुनः पुनर्यथोक्तमेव पर्यायेण योजयेत्॥ अंतरांतरा च रक्तं स्रावयेदभिष्यंदप्रतिषेधं चेक्षेत॥ अथोत्सादनार्थी शुद्धशुक्रे संमहर्षणानि दद्यात्रिफलारसेन त्र्यहं भावितेन सैंधवेनांजयेत्॥ तद्वत्सैंधवपिप्पलीबीजसर्षपैर्वा शिरीषबीजसैंधवैर्वा कोलास्थिकतकफलशंखद्राक्षामधुमधुकैर्वा बलासग्रथितोक्तक्षारांजनैर्वा संग्रहर्षणान् रागास्रवेदनासु संबाधांजनानि युंज्यात्॥ शंखं ताम्रे स्तन्येन प्रघृष्य सघृतैर्यवैः शमीपत्रैश्च धूपयेत्॥ अनेन संबाधांजनेनांजयेत्॥ तद्वत्सुवर्णं रूप्यमयो वा घृष्टं सघृतैर्बदरीपत्रैर्धूपितमंजनं॥ सारिवा निस्तुषाश्च हरिता मुद्गाः पिष्टा वर्त्तिश्चूर्णोवा मधुयुतोंऽजनं शुक्रघ्नं॥ मधूकसारश्च मधुना बिभीतकास्थिमज्जा वा॥ मसूरा निस्तुषाः स्तन्यपिष्टास्तरुणदर्भांकुरा घृतमाजं गोक्षीरं शरश्चायसे ताम्रेण घृष्टा अभ्यंजनं वेदनाघ्नं॥ यवगोधूमजीवनीयमांसीचूर्णेन सघृतशर्करोत्कारिका स्वेदोपनाहे प्रणीता वेदनामपनयति शुक्रं चोत्सादयति॥ तद्वदानूपमांसवेसवारो वसापयःसर्पिर्विमिश्रसिद्धः॥ अथैनमुपनाहप्रचलितस्यांजनं॥गोखराश्वोष्ट्रदंताः समुद्रकफः शंखश्चार्जुनकषायपिष्टा वर्त्तिर्लेखनी॥ समुद्रफेनशंखखरपरशुकास्थिखरनराश्वगोवालास्तिंदुककषायपिष्टा वा प्रत्यंजनं च॥ तरुणबदरखदिरतिंदुकास्थामंतर्धूमदग्धानां चूर्णं॥ उत्सन्नं वा शुक्रं सशल्यं वा वालादिभिरुल्लिखेत्॥ पुटपाकेन वा बलासग्रथितोक्तक्षाररसक्रियया वा॥ सिराशुक्रे त्वदृष्टिघ्ने तरुणे व्रणशुक्रवत्कुर्यात्॥ अंजनं चास्य प्रपौंडरीकमधुकहरिद्रालो हरजोंऽजनबृहतीक्षीरकाकोल्यजापयः पिष्टायवैर्घृतयुतैरामलकीपत्रैश्चपर्यायेण धूपिता वर्त्तिः॥ अप्रशांतमेवमर्मवत्साधयेत्॥ समाक्षिकं तु रसांजनं प्रतिसारणं॥ सप्तमे च दिवसे कुक्कुटांडकपालस्फटिकशंखचंदनमनःशिलालैरश्ववराहदशनैश्च वर्त्तिं कृत्वांऽजयेत्॥ उदधिक
फशंखचंदनैर्जलपिष्टैर्वर्त्तिर्मधुघृष्टाप्रत्यंजनं॥ सिराशुक्रवदनुपशमे पश्यति चातुरे किंचिदिदमेव वा सत्कत्कुर्वीत॥ अजकामदृष्ट्युपघातिनींकृष्णांतजामस्रविसावणैर्मधुरविरेचनैः क्षीरबस्तिभिश्चसाधयेत्॥ सिराशुक्रवच्च शस्त्रकर्मादिविधिनेति॥ भवति चात्र॥ अजकायामसाध्यायां शुक्रेऽन्यत्र च तद्विधे॥ वेदनोपशमं स्नेहपानासृक्स्रावणादिभिः॥ कुर्याद्बीभत्सतां जेतुं शुक्लत्वोत्सेधसाधनं॥ नारीकेलास्थिभल्लाततालवंशकरीरजं॥ भस्माद्भिः स्रावयेत्ताभिर्भावयेत्करभास्थिजं॥ चूर्णं शुक्रेष्वसाध्येषु तद्वैवर्ण्यघ्नमंजनं॥ साध्येषु साधनायालमिदमेव च शीलितं॥ अजकां पार्श्वतो विध्वा तस्या विस्राव्य चोदकं॥ समं प्रपीड्यांगुष्टेन वसार्द्रेणानुपूरयेत्॥ व्रणं गोमांसचूर्णेन बद्धं बद्धं विमुच्य च॥ सप्तरात्राद्व्रणे रुढे कृष्णभागे समे स्थिते॥ स्नेहांजनं च कर्तव्यं नस्यंवा क्षीरसर्पिषोः॥ तथापि पुनराध्माते भेदच्छेदादिकां क्रियां॥ युक्त्त्या कुर्याद्यथा नातिच्छेदेन स्पान्निमज्जनं॥ नित्यं च शुक्रेष्वमृतं यथास्वं पाने च मर्शे च घृतं विदध्यात्॥ न हीयते लब्ध बला तथां ऽतस्तीक्ष्णांजनैर्दृक् सततं प्रयुक्तैः॥ इति संधिसितासितरोगप्रतिषेधो नाम चतुर्दशोऽध्यायः॥१४॥
अथातो दृष्टिरोगविज्ञानं व्याख्यास्यामः॥ सिरानुसारिणि मले प्रथमं पटलं श्रिते॥ अव्यक्तमीक्षते रूपं व्यक्तमप्यनिमित्ततः॥ प्राप्ते द्वितीयं पटलमभूतमपि पश्यति॥ भूतं तु यत्नादासन्नं दूरे सूक्ष्मं च नेक्षते॥ दूरांतिकस्थं रूपं च विपर्यासेन मन्यते॥ दोषे मंडलसंस्थाने मंडलानीव पश्यति॥ द्विधैकं दृष्टिमध्यस्थे बहुधा बहुधास्थिते॥ दृष्टेरभ्यंतरगते ह्रस्ववृद्धविपर्ययं॥ नांतिकस्थमधःसंस्थे दूरगं नोपरिस्थिते॥ पार्श्वे पश्येन्न पार्श्वस्थे तिमिराख्योऽयमामयः॥ प्राप्नोति काचतां दोषे तृतीयपटलाश्रिते॥ तेनोर्ध्वमीक्षते नाधस्तनुचैलावृतोपमं॥ यथावर्णं च रज्येत दृष्टिर्हीयेत च क्रमात्॥
तथाऽप्युपेक्षमाणस्य चतुर्थं पटलं गतः॥ लिंगनाशं मलः कुर्वन्छादयेदृष्टिमंडलं॥ तत्र वातेन तिमिरे व्याविद्धमिव पश्यति॥ च लाविलारुणाभासं प्रसन्नं चेक्षते मुहुः॥ जालानि केशान् मशकान् रश्मींश्चोपेक्षितेऽत्रच॥ काचीभूते दृगरुणा पश्यत्यास्यमनासिकं॥ चंद्रदीपाद्यनेकत्वं वक्रमृज्वपि मन्यते॥ वृद्धः काचो दृशं कुर्याद्रजोधूमावृतामिव॥ स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनां॥ स लिंगनाशो वाते तु संकोचयति दृक्सिराः॥ दृङ्मंडलं विशत्यंतर्गंभीरा दृगसौ स्मृता॥ पित्तजे तिमिरे विद्युत्स्वद्योतोद्योतदीपितं॥ शिखितित्तिरपत्राभं प्रायो नीलं च पश्यति॥ काचे दृक्काचनीलाभा तादृगेव च पश्यति॥ अर्केंदुपरिवेषाग्निमरीचींद्रधनूंषि च॥ भृंगनीला निरालोका दृक् स्निग्धा लिंगनाशतः॥ दृष्टिः पित्तेन ह्रवाख्या सा ह्रस्वा ह्रस्वदर्शिनी॥ भवेत्पित्तविधग्धाख्या पीता पीताभदर्शना॥ कफजे तिमिरे प्रायः स्निग्धं श्वेतं च पश्यति॥ शंखेंदुकुंदकुसुमैः कुमुदैरिव वाऽन्वितं॥ काचे तु निःप्रभेंद्वर्कप्रदीपाद्यैरिवाचितं॥ सि ताभासा च दृष्टिः स्याल्लिंगनाशे तु दृश्यते॥ मूर्तः कफो दृष्टिगतः स्निग्धो दर्शननाशनः॥ बिंदुर्जलस्येव चलः पद्मिनीपुटसंस्थितः॥उष्णे संकोचमायाति छायायां परिसर्पति॥ शंखकुंदेंदुकुमुदस्फटिकोपमशुक्लिमा॥ रक्तेन तिमिरे रक्तं तमोभूतं च पश्यति॥ काचेन रक्ता कृष्णा वा दृष्टिस्तादृक् च पश्यति॥ लिंगनाशे ऽपि दृक् तादृङ्निष्प्रभा हतदर्शना॥ संसर्गसन्निपातेषु विद्यात्संकीर्णलक्षणान्॥ तिमिरादीनकस्माच्च तैः स्पाद्मक्ताकुलेक्षणः॥ तिमिरे शेषयोर्दृष्टौ चित्रो रागः प्रजायते॥ द्योतते नकुलस्येव यस्य दृङ्निचिता मलैः॥ नकुलांधः स तत्राह्निचित्रं पश्यति नो निशि॥ अर्केऽस्तमस्तकन्यस्तगभस्तौ स्तंभमागताः॥ स्थगयंति दृशं दोषा दो
षांधः स गदोऽपरः॥ दिवाकरकरस्पृष्टा भ्रष्टा दृष्टिपथान्मलाः॥ विलीनलीना यच्छंति व्यक्तमत्राह्निदर्शनं॥ उष्णतप्तस्य सहसा शीतवारिनिमज्जनात्॥ त्रिदोषरक्तसंपृक्तो यात्यूष्मोर्ध्वं ततोऽक्षिणी॥दाहोषे मलिनं शुक्लमहन्याविलदर्शनं॥ रात्रावांध्यं च जायेत विदग्धोष्णेन सा स्मृता॥ भृशमम्लाशनाद्दोषैः सास्रैर्या दृष्टिराचिता॥ सक्लेदकंडूकलुषाविदग्धाऽम्लेन सा स्मृता॥ शोकज्वरशिरोरोगसंतप्तस्यानिलादयः॥ धूमाविलां धूमदर्शांदृशं कुर्युः स धूमरः॥ सहसैवाल्पसत्वस्य पश्यतो रूपमद्भुतं॥ भास्वरं भास्करादिं वा वाताद्या नयनाश्रिताः॥ कुर्वंति तेजः संशोष्य दृष्टिं मुषितंदर्शनां॥ वैदूर्यवर्णांस्तिमितां प्रकृतिस्थामिवाव्यथां॥ औपसर्गिकइत्येष लिंगनाशोऽत्र वर्जयेत्॥ विना कफाल्लिंगनाशाद्गंभीरां ह्रस्वजामपि॥ षट् काचा नकुलांधश्च याप्याः शेषांस्तु साधयेत्॥ द्वादशेति गदा दृष्टौ निर्दिष्टाः सप्तविंशतिः॥ इति दृष्टिरोगविज्ञानं नाम पंचदशोऽध्यायः॥१५॥
अथातस्तिमिरप्रतिषेधं व्याख्यास्यामः॥ तिमिरं काचतां याति काचोऽप्यांध्यमुपेक्षया॥ नेत्ररोगेष्वतो घोरं तिमिरं साधयेद्द्रुतं॥ तुलां पचेत्तु जीवंत्या द्रोणेऽपां पादशेषिते॥ तत्क्वाथे द्विगुणक्षीरं घृतप्रस्थं विपाचयेत्॥ प्रपौंडरीककाकोली पिप्पलीरोध्रसैंधवैः॥ शताह्वा मधुकद्राक्षाशिवादारुफलत्रयैः॥ कार्षिकैर्निशि तत्पीतं तिमिरापहरं परं॥ द्राक्षाचंदनमंजिष्ठाकाकोलीद्वयजीवकैः॥ सिताशतावरीमेदाय562वाव्हमधुकोत्पलैः॥ पचेज्जीर्णघृतप्रस्थं समक्षीरं पिचून्मितैः॥ हंति तत्काचतिमिररक्तराजीशिरोरुजः॥ पटोलनिंबकटुकादार्वीसेव्यवरावृषं॥ सधन्वयासत्रायंतीपर्पटं पालिकं पृथक्॥ प्रस्थमामलकानां च क्वाथयेन्न563ल्वणेंऽभसः॥ तदाढकेऽर्द्धपलिकैः पिष्टैः प्रस्थं घृतात्पचेत्॥ मु
स्तभूनिंबयष्ट्याव्हकुटजोदीच्यचंदनैः॥ सव्योषचव्यैस्तत्सर्पिर्घ्राणकर्णाक्षिरोगजित्॥ विद्रधिज्वरदुष्टास्रविसर्पापचिकुष्ठनुत्॥ विशेषाच्छुक्रतिमिरनक्तांध्याम्लोष्णदाहहृत्॥ त्रिफलाष्टपलं क्वाथ्यं पादशेषे जलाढके॥ तेन तुल्यपयस्केन त्रिफलापलकल्कवान्॥ अर्द्धप्रस्थो घृतात्सिद्धः सितया माक्षिकेण वा॥ युक्तं पिबेत्तत्तिमिरी तद्युक्तं वा वरारसं॥ यष्टीमधुदृिकाकोलीव्याघ्रीकृष्णाऽमृतोत्पलैः॥ पालिकैः ससिताद्राक्षैर्घृतप्रस्थं पचेत्समैः॥ अजाक्षीरवरावासामार्कवस्वर सैः पृथक्॥ महात्रैफलमित्येतत्परं दृष्टिविकारजित्॥ त्रैफलेनाथ हविषा लिहानस्त्रिफलां निशि॥ यष्टीमधुकसंयुक्तां मधुना च परिप्लुतां॥ मासमेकं हिताहारः पिबन्नामलकोदकं॥ सौपर्णं लभते चक्षुरित्या ह भगवान्निमिः॥ गव्यं घृतं लोहमये भाजने बादरे स्थितं॥ त्रिफलाचूर्णसहितं पीतं तिमिरनाशनं॥ पुराणं च सिताभीरुयष्टीमधुकचूर्णवत्॥ निषिक्तमग्निवर्णे वा शी564र्णं सर्पिरयोगुडे॥ हेमरूप्या यसैश्चूर्णैर्युक्तां त्रिफलां पृथक्॥ घृतक्षौद्रान्वितामद्यात्केदलां वाऽवचूर्णितां॥ त्रिफलाऽयोरजोयष्टीसर्पिःक्षौद्रसमन्विता॥ विदाहे शीलिता वृष्या सर्वनेत्रगदान् जयेत्॥ ताप्यायस्रिफलाचूर्णं मधुजीर्णघृतप्लुतं॥ लोहपात्रे स्थितं मासं माषराशौच भक्षयेत्॥ सक्तूंश्चाद्यात्ससर्पिष्कान् त्रिफलाचूर्णसंयुतान्॥ भुंजीत वा सुसिद्धेन सूपेनामलकैः सह॥ प्राचर्भुक्तस्य या पूर्वमद्यात्पथ्यां पृथक् पृथक्॥ मद्वीकाशर्करा सततं तिमिरातुरः॥ क्वाथोऽसनाद्भृगरसैस्तैलं कृष्णतिलोद्भवं॥ लोहपात्रे तदेकत्र साधितं नावनं हितं॥ स्रोतोजांशांश्चतुःषष्टिः हेमायोरूप्यताम्रकैः॥ युक्तान्प्रत्येकमेकांशैरंधमूषोदरस्थितान्॥ ध्मापयित्वा समावृत्तं ततस्तच्च निषेचयेत्॥ रसस्कंधकषयेषु सप्तकृत्वः पृथक्
पृथक्॥ वैदूर्यमुक्ताशंखानां त्रिभिर्भागैर्युतं ततः॥ चूर्णांजनं प्रयुंजीत तत्सर्वं तिमिरापहं॥ निर्दग्धं बादरगारेस्तुत्थं चेत्थं निषेचितं॥ क्रमादजापयःसर्पिःक्षौद्रे तस्मात्पलद्वयं॥ कार्षिकैस्ताप्यमरिचस्रोतोजकटुकानतैः॥ पटुरोध्रशिलापथ्याकणैलांजनफेनकैः॥ युक्तं पलेन यष्ट्याश्च मूषांतर्ध्मातचूर्णितं॥ हंति काचार्मनक्तांध्यरक्तराजीः स शीलितः॥ चूर्णो विशेषात्तिमिरं भास्करो भास्करो यथा॥ नागशुल्बालवंगारव्यगंधकांजनकैर्भवेत्॥ त्रिंशद्द्विद्व्येकपंचत्रिभागैः पक्कैः सदा जयेत्॥ मनोव्हा सैंधवव्योषशंखनाभिरसांजनं॥ कतकस्य फलं फेनो विडंगानि सितोपला॥ कुक्कुटांडकपालानि जलपिष्टा सुखावहा॥ हंत्येषा मधुना घृष्टा काचतैमिर्यशुक्रकान्॥ त्रिफला कुक्कुटांडत्वक् कासीसमयसो रजः॥ नीलोत्पलविडंगानि फेनं च सरितां पतेः॥ आजेन पयसा पिष्ट्वालेपयेत्ताम्रभाजनं॥ सप्तरात्रे गते भूयः पिष्टं क्षीरेण वर्त्तयेत्॥ एषा दृष्टिप्रदा वर्त्तिरंधस्याभिन्नचक्षुषः॥ अंजनं कृष्णसर्पास्ये निहितं कुशवेष्टिते॥ ततस्ततः समुद्धृत्य मासात्संचूर्णयेत्सह॥ सुमनःकोरकैः शुष्कैरर्द्धांशैःसैंधवेन च॥ प्रयोजयेद्रागवति तिमिरे तद्वदंजनं॥ पयसा द्वयमेतच्च चूर्णयित्वा सुभावितं॥ सामान्यं साधनं त्वेतत्प्रतिदोषमतः शृणु॥ बातजे तिमिरे तत्र दशमूलांभसा घृतं॥ क्षीरे चतुर्गुणे श्रेष्ठाकल्कपक्वंपिबेत्ततः॥ त्रिफलापंचमूलानां कषायं क्षीरसंपुतं॥ एरंडतैलसंसृष्टं योजयेत विरेचनं॥ शंखिनीतिल्वकश्यामादंतीर्निःक्वाथ्य वा जले॥ त्रिवृत्कल्कप्रतीवापं तेन पक्वंघृतं पिबेत्॥ प्रपौंडरीकबृहतीबलानलदसैंधवैः॥ दारुबिल्वाढकीकृष्णाहरिद्रामधुयष्टिभिः॥ सिद्धं चतुर्गुणं क्षीरं तैलं बस्तौ निषेचयेत्॥ सितैरंडजटासिंहीफलदारुवचानतैः॥ शताव्हाबिल्वमूलैश्च तैलं पक्वंपयोन्वितं॥ नस्यंसर्वोर्ध्वजत्रूत्थवातश्लेष्मामयार्तिषु॥ वसांऽजने च वैय्या
घ्री वाराही वा प्रशस्यते॥ गृध्राहिकुक्कुटोत्था वा मधुकेनान्विता पृथक्॥ प्रत्यंजने च स्रोतोजं रसक्षीरघृते क्रमात्॥ निषिक्तं पूर्ववद्योज्यं तिमिरघ्नमनुत्तमं॥ नचेदेवं शमं याति ततस्तर्पणमाचरेत्॥ शताह्वाकुष्टनलदकाकोलीद्वययष्टिभिः॥ प्रपौंड रीकसुरसपिप्पलीदेवदारुभिः॥ सर्पिरष्टगुणक्षीरं पक्वंतर्पणमुत्तमं॥ प्रसादनं स्नेहनं च पुटपाकं प्रयोजयेत्॥ वातपीनसवच्चात्र निरूहं सानुवासनं॥ पित्तजे तिमिरे सर्पिर्जीवनीयफलत्रयैः॥ विपाचि तं पाययित्वा स्निग्धस्य व्यधयेच्छिरां॥ सशर्करेस्रिवृच्चूर्णैर्मधुयुक्तैर्विरेचनं॥ मंजिष्ठारोध्रमधुकसारिवाचंदनैः शृतं॥ जलं सशर्करस्त न्यं नेत्रसेकः प्रशस्यते॥ स्तन्यं वा पद्मकोशीरक्षीरिवृक्षांकुरैः शृतं॥ तसैर्निर्वापितं सर्पिरसक्तल्लोहपिंडकैः॥ विमर्दितसिताद्राक्षं हिमं तत्राक्षिसेचनं॥ शीतलेपनसेकादीन् मुखे मूर्द्धनि शीलयेत्॥ सारिवापद्मकोशीरमुक्ताशाबरचंदनैः॥ वर्तिःशस्तांऽजने चूर्णस्तथा पद्मोत्पलांजनैः॥ सनागपुष्पकर्पूरयष्ट्याह्वस्वर्णगैरिकैः॥ नस्यं चाज्यं शृतं क्षीरजीवनीयसितोत्पलैः॥ रोध्रमूर्वाप्रपुंड्राह्वमांसीयष्ट्याह्वचंदनैः॥ सोशीरं साधितं सर्पिः सक्षीरं तर्पणे हितं॥ एभिरेवौषधैश्च्छागे पक्वे शकृति तद्रसे॥ पूर्ववत्पुटपाकस्तु कार्यस्तिमिरनाशनः॥ श्ले ष्मोद्भवेऽमृताक्वाथे वराकणशृतं घृतं॥ विध्येच्छिरां पीतवतो दद्या च्चानु विरेचनं॥ क्वाथं पूगाभयाशुंठीकृष्णाकुंभनिकुंभजं॥ करंजकट्फलवचात्रिफलापंचकोलकैः॥ सदार्वीकैः पयोयुक्तं सिद्धं तैलं च नावनं॥ शंखप्रियंगुनेपालीकटुत्रिकफलत्रिकैः॥ दृग्वैमल्याय विमला वर्तिः स्यात्कोकिला पुनः॥ कृष्णलोहरजोव्योषसैंधवत्रिफलां ऽजनैः॥ पीतारव्या द्विनिशा कुष्टनतपत्रकणोषणैः॥ पत्रपीताबराव्योषशीलालनतसैंधवैः॥ मनोह्वाशंखसिंधूत्थमरिचैस्तिमिरं जयेत्॥ वर्तिः प्रगाढमप्याशु शुक्रपित्तामयार्म च॥ तालीसपाठाकिणिहीवेल्ल
मांसीनिशाहयैः॥ पिष्टैः क्षीरिद्रुमक्वाथे घृतं सिद्धं तु तर्पणं॥ पुटपाकं तु पिशितैर्जांगलैः सैंधवान्वितैः॥ सपिप्पलीमधुघृतैः कल्पितं प्रागिवाचरेत्॥ शिग्रुपत्रैर्जलस्विन्नैः कार्यः स्वेदश्च मात्रया॥ रक्तजे पित्तवत्कार्यं सन्निपाते यथोल्बणं॥ व्याघ्रर्क्षगोशिखिवसा यवक्वाथपयोयुता॥ दूर्वामधुककल्केन विपक्वा तर्पणे हिता॥ यष्ट्यनंताद्विबृहतीपिप्पलीलवणद्वयैः॥ सलोध्रचंदनैः पक्वं शकृता शल्यकस्य च॥ मृगगोधाशशानां वा पुटपाकं प्रकल्पयेत्॥ दद्यादुशीरनिर्यूहे चूर्णितं कणसैधवं॥ तच्छृतं सघृतं भूयः पचेत्क्षौद्रं क्षिपेद्घने॥ शीते चास्मिन् हितमिदं सर्वजे तिमिरेंऽजनं॥ कुष्टं वा शर्करोपेतमांतरिक्षेण वारिणा॥ निःक्वाथ्य सर्पिःक्षौद्राभ्यां संसृष्टे प्रागिवांजनं॥ स्रोतोंजनं च सौवीरं वेष्टयित्वाऽऽजमेदसा॥ वटपत्रैरनु तथा दर्भैःकृष्णमृदाऽनुच॥ गोमयानलपक्वं च प्रशस्तं चूर्णमंजनं॥ उरभ्रशल्यकश्यावमार्जारशिखिजन्मभिः॥ वसाभिर्विधिनाऽनेन योगा योज्याः पृथक् पृथक्॥ वटप्ररोहमधुकदूर्वारोध्रतिलोत्पलैः॥ पयोंबुपिष्टैः सघृतैः शिरोवक्रंच लेपयेत्॥ कुर्याच्छिरःपरीषेकमेभिरेव पयःशृतैः॥ सन्निपाते यदुचितं दोषोद्रेकं विभज्य तत्॥ संसर्गेऽपि प्रयुंजीत काचे तिमिरवत्क्रियाः॥ न तु तत्र सिरां विध्येत् दृक्स्थितां यंत्रपीडनात्॥ कुर्युरांध्यं मला दद्यात्स्राव्ये त्वस्रेजलौकसः॥ धूमराख्याम्लपित्तोष्णविदाहे जीर्णसर्पिषा॥ स्निग्धं विरेचयेच्छीतैः शीतैर्दित्द्याच्च सर्वतः॥ गोशकृद्रसदुग्धाज्यैर्विपक्वं शस्यतेंऽजनं॥ स्वर्णगैरिकतालीसचूर्णावापा रसक्रिया॥ पुराणगुडकासीसपिप्पलीकट्फलाद्रजः॥ भावितं त्रिफलांभोभिः शुष्कं गोविड्रसाप्लुतं॥ निशांध्यतिमिरे सद्यो गुलका हंति तत्कृता॥ दघ्ना विघृष्टं मरिचं रात्र्यंधांजनमुत्तमं॥ भृष्टं घृतं कुंभयोनेः पत्रैः पाने च पूजितं॥ करंजिकोत्पलस्वर्णगैरिकांभोजके
सरैः॥ गोविड्रसेन पिष्टेयं वर्तिर्दोषां565ध्यनाशिनी॥ क्षौद्रजातीरसाभ्यां वा द्विहरिद्रारसांजनैः॥ अजामूत्रेण वा कौंतीकृष्णास्रोतोजसैंधवैः॥ गोशकृद्रसपिष्टैर्वा द्विनिशापिप्पलीयुतैः॥ कालानुसारितालीसपत्रयष्ट्याव्हनागरैः॥ कणा वा कापिले पित्ते मासार्द्धं परिभाविता॥ यकृत्पित्तेपु वा गोधाशशर्क्षरुरुबर्हिणां॥ खादेच्च प्लीहयकृती माहिषे तैलसर्पिषा॥घृते सिद्धानि जीवंत्याः पल्लवानि च भक्षयेत्॥ तथातिमुक्तकैरंडशेफाल्यभीरुजानि च॥ व्रणवच्चाक्षिरोगेषु भोज्यान्यन्नानि निर्दिशेत्॥ अविधारितवेगस्य भजतोंऽजनना वनं॥ त्यजतः क्रोधशोकौ च तिमिरं नाश्नुते नरं॥ त्रिफलामश्नतो रात्रौ संस्कृतं पिबतो घृतं॥ भुक्त्वा वा पिबतस्तोयं तिमिरं लघु शाम्यति॥ सुषभव्यं सुकांतं च स्कंदं च्यवनमश्विनौ॥ षडेतानि स्मरेन्नित्यं तस्य चक्षुर्न हीयते॥ चिंताभिघातभीशोकरुक्षादुत्कटकासनात्॥ विरेकनस्यवमनपुटपाकादिविभ्रमात्॥ विदग्धाहारवमनात्क्षुत्तृष्णादिविधारणात्॥ अक्षिरोगावसानाच्च पश्येत्तिमिररोगवत्॥ यथास्वं तत्र युंजीत दोषादीन्वीक्ष्य भेषजं॥ सूर्योपरागानलविद्युदादिविलोकनेनोपहतेक्षणस्य॥ संतर्पणं स्निग्धहिमादियोज्यं तथांऽजनं हेमघृतेन पिष्टं॥ तमालतृटिकुंकुमान्यसितमुत्पलं पिप्पली सितांजनमयोरजो मरिचकाचमांसीत्वचः॥ सयष्टिमधुकांजना उदधिफेनमक्ष्यामयेष्वनुत्तममतोंऽजनं विमलमाशु तैमिर्यहृत्॥ चक्षूरक्षायां सर्वकालं मनुष्यैर्यत्नःकर्तव्यो जीविते यावदिच्छा॥ व्यर्थो लोकोऽयं तुल्यरात्रिंदिवानां पुंसामंधानां विद्यमानेऽपि वित्ते॥ त्रिफला रुधिरस्रुतिर्विशुद्धिर्मनसोनिर्वृतिरंजनं च नस्यं॥ श566कुनाशनता सपादपूजा घृतपानं च सदैव नेत्ररक्षा॥ इति तिमिरप्रतिषेधो नाम षोडशोऽध्यायः॥१६॥
अथातो लिंगनाशप्रतिषेधं व्याख्यास्यामः॥ लिंगनाशो निलीका पटलमांध्यमिति पर्यायाः॥ स श्लेष्मकएव प्राक्साध्योऽभिहितः॥ तस्यपुनः षडुपद्रवा आवर्त्तकी शर्करा राजीमती छिन्नांशुका चंद्रकी छत्रकी चेति॥ तद्यथा तत्राश्वेतारुणाऽऽवर्त्तवदनवस्थिता ताराऽऽवर्त्तकी॥ अर्कक्षीरलेशेनेव कूचीकपिंडेनेव चाचिता शर्करा॥ शालिशूकाभराज्यावृतेव राजीमती॥ विषमच्छिन्नदग्धाभासरुक् छिन्नांशुका॥ कांस्यसमच्छाया चंद्रकसंस्थाना चंद्रकी॥ नैकवर्णा छत्रनिभा छत्रकीति॥ न विध्येदसिरार्हाणां न च पीनसकासिनां॥ ना जीर्णभीरुवमितशिरःकर्णाक्षिशूलिनां॥ नात्युष्णशीतवाताभ्रे नासंपूर्णां च नीलिकां॥ असंजाता हि विषमा दधिमस्तुतनुश्च या॥ शलाकया विकृष्टापि पुनरूर्ध्वं प्रपद्यते॥ करोति वेदनां तीव्रां दृष्टिं चं स्थगयेत्पुनः॥ सा च संपूर्यते शीघ्रं श्लेष्मलैर्वातपित्तलैः॥ चिरात्सोपद्रवा च स्यान्निष्प्रेक्ष्या याऽर्हति व्यधं॥ अथ स्निग्धविरिक्तस्य घृतैः संभोजितस्य च॥ संप्रीणितोत्तमांगस्य सज्जोपकरणस्य च॥ भुक्तवतोवि मलेऽहनि साधके च कृतस्वस्त्ययनस्य विहितादित्यविदेहाधिपतिप्रणामस्य पूर्वाह्णे निवातप्रकाशदेशस्थस्य प्रत्यादित्यमास्तरणलब्धमार्दवायां भूमौ प्रसारितचरणयुग्ममुपविष्टस्य क्षितितलगतसमतलोभयपाणेः पृष्ठतः सुखोपविष्टेन परिचारकेण हस्ताभ्यां निश्चलमवलंबितशिरसः किंचिदुत्तानस्य खां नासामितरच्चेक्षणमीक्षमाणस्यातुरस्य नात्युच्छ्रितासननिविष्टो भिषगक्षि मुखबाष्पस्विन्नं मीलितमीषदंगुष्ठोदरविमृदिततारकतयापरिप्लुतदोषं सव्यांगुष्ठप्रदेशिनीभ्यामुन्मील्यदक्षिणमध्यमाप्रदेशिन्यंष्ठैर्निष्कंपं गृहीतया शलाकया कृष्णाद्भागद्वयस्यापांगादेकभागस्य च संगमे दृष्टेरार्जवं नात्यूर्ध्वमधो वा नेत्रसहजन्मनि संधौ या विध्येत्॥ एवमेव दक्षिणांगुष्ठप्रदेशिन्युन्मीलितमितरेण च दक्षिणेनैव चातुरस्य दक्षिणपार्श्वे छिंद्यात्तत्र शब्दवदवेद
नं सांबुबिंदुस्रुति च सम्यग्विद्धं विद्यात्॥ प्रविष्टमात्रां च शलाकां धारयेत्॥ रागाश्रुवेदनानुत्पादार्थं च स्तन्येन सेचयेत्ततः पुनरातुरमाश्वास्य भ्रमयन् शलाकामादृष्टिमध्यात् प्रवेशयेदधश्चावलोकयतो लिंगनाशमद्रुतमविलंबितमनुसुखमधोमुखमपनयेदुच्छिंदयेच्चैनं॥ तथाहि दृङ्मंडलगः कफश्चविशुत्ध्यति विशुद्धदृष्टेश्चांगुलिसूत्रतंतुजा तींश्च दर्शयेत् प्रेक्षमाणस्य चानिमीलितनेत्राच्छनैः शनैर्भ्रमयन्नेव शलाकामपनयेत्॥ अथ व्यपगतदोषस्ययथावत्पश्यतः सुखोष्णघृताप्लुतं पिचुमीक्षणस्योपरि दत्वा बध्नीयात्॥ ततो निवातमागारमनुप्रविश्य च सोपधाने मृदुनि शयने शयानं दक्षिणेऽक्षिणि विद्धे वामेन पार्श्वेन वा दक्षिणेनोभयस्मिन्नुत्तानमनुकूलाभिः कथाभिरुपाचरेत्॥ यथाशक्ति चैनमुपवासयेत्॥ उद्गारक्षवथुकासनिष्ठीवनोत्कंपनानि त्र्यहं परिवर्जयेत्॥ स्नानांबुपानदंतधावनाधोमुखावस्थानानिसप्ताहं॥ स्नेहविधिं चेक्षेत॥ मूर्ध्नि पादयोश्च घृताभ्यंगमाचरेत्॥ तृतीये चाह्नि मुक्ताक्षि परिषेचयेत्॥ एरंडपल्लवशृतेन दुग्धेन जीवनीयैर्वा सिद्धेन पयसा हविषा वा तद्वल्लघुना पंचमूलेन ततः पूर्ववद्बाध्नीयात्॥ ततः प्रभृत्येवमेव प्रत्यहमासप्ताहं॥ सप्तमे तु दिवसे सर्वथा मोक्षयेद्दशमे वा॥ भोजयेच्चैनं व्योषामलकयुक्तं द्रवमीषत्स्नेहलव णाढ्यं वाट्यं विलेपीं वा॥ एवमाचरतो रुजारागादयो नानुवर्त्तंते॥ तदनुवृत्तौ तु यष्टीमधुकरोध्रमृद्वीकसैंधवैः सिद्धेन छागेनाथपयसा नयनमाश्चोतयेत्॥ मधुककुष्टोत्पलद्राक्षालाक्षाशर्कराभिर्वा पृश्निपर्णीमुस्तमधुकशतावरीपद्मकसैंधवैर्वा शिरोवक्रलेपं च सारिवागैरिकयवदूर्वाघृतैः कुर्यान्मातुलुंगरसाप्लुतैर्वा मृदुभृष्टैस्तिलैः ससर्षपैरजाक्षीरद्रुतैर्वा पयस्यासारिवापत्रमंजिष्ठायष्ट्याह्वैर्हिमः मुखोष्णो वालेपः॥ तद्वद्देवदारुनागरपद्मकैर्वा जांगलरसेन जोवंतीक्वाथवता भो
जनं वातहरवर्गसिद्धेन च पयसा वत्सकादिगर्भसिद्धं सर्पिः पाननावनसेकेषु विदध्यात्॥ तथाऽनुपशमे सिरां विध्येत्॥ अधिमंथसाधनं चेक्षेत॥ यथोक्ताचारातिक्रमात्तु व्यधः पाकमुपयाति॥ अभिष्यंदाधिमंथादयश्च स्युर्व्यधदोषाश्च॥ तान् यथास्वमुपक्रमेत्॥ व्यधदोषः पुनरूर्ध्वमधः कृष्णासन्नमपांगासन्नं सिराव्यधश्च॥ तत्राधो व्य धादत्यर्थशूलाश्रुरागाः शलाकायाश्चोपलेपो बहुलपिच्छिलकृष्णं च बलिभिरुपचीयते नयनं च विःस्रवति तद्वर्जयेत्॥ ऊर्ध्वव्यधाद तिमात्रा रुक्॥ तत्रात्युष्णघृतपरिषेको वातहरं च कर्म॥ कृष्णास न्नव्यधान्न सुखमुपनीयते पटलं कृष्णे रुजा दृष्टिरपि रक्तावच्छादिता कृष्णमंडलाभा भवति॥ तत्र सर्पिः सेकविरेकरक्तमोक्षैः सिद्धिः॥ अपांगासन्नव्यधाच्छोफशूलतोदोद्भेदसास्राश्रुतयस्तत्र मूत्रघृतसेकोपवासौ भ्रुवोरंतरे च दाहः॥ सिराव्याधाद्रक्तागमो विविधाश्च वेदनास्तत्र स्तन्यमधुकविपक्वेन सर्पिषा परिषेकोउपांगे च दाहः॥ सिराजा लवति तु नेत्रे प्राक्सिराजालमपनयेत्॥ ततो लब्धबलं स्निग्धं च व्यध्येत्॥ अथो शलाकाभ्रमणदोषाः क्षोभणमूर्ध्वमधोऽत्यर्थदृष्टिघदृनमतिदृष्टिप्रेरणं च॥ शलाकाक्षोभणाद्विस्पंदनतोद्भेदपरिमंथाः॥ त स्मिन्यष्टीमधुकपटोल्या घृतमृदितया सेको जलौकसश्च॥ ऊर्ध्वप्रणयनाद्रागोऽतिवेदना च॥ तत्रोपवासो घृतसेकश्च स्पर्शसुखः॥ अधोनयनाच्छूलं रक्तागमश्च॥ तत्र क्षोभणवत्सिद्धिः॥ अत्यर्थदृष्टिघट्टनात् दृष्ट्याकुलता॥ तस्मिन्सर्पिर्मंडानुवासनं च॥ अतीत्य दृष्टिं शलाकायाः प्रेरणाद्रक्तस्रवणं रक्ताभरूपदर्शनं च॥ तत्र सर्पिःसेकोपवासौ जलौकसः॥ लिंगनाशदोषास्तु स्फुटनमपगलनविस्तरण मुत्प्लवनं लीनता च॥ तत्र शलाकया स्पृष्टो लिंगनाशो यः स्फुटति तमेरंडपत्रखिन्नं खंडशः शोधयेत्॥ ततः कृष्णासैंधवमधुभिरवपीडनं॥ अपलगति तु शलाकामपनीय स्तन्यसेकं दद्यादवपीडनं च॥ शुं
ठीगुडं जलौकसश्च॥ विस्तीर्यमाणे मुखे सुखोष्णांबुप्लुतेन वाससा स्वेदो घृतमंडश्च॥ प्रतिमर्शस्तदृदुत्प्लवमाने वित्रासनं च शीतांभसा प्रततंचोच्छिंदनं॥ स्थिरे चले च दोषेपत्रभंगस्वेदस्तथाप्यनवगच्छति शलाकोपगमे वा पुनरुत्प्लने स्नेहपाननस्यादिभिरुपपाद्य पुनर्व्यध्येदेवमपि पुनरुत्प्लवने भ्रुवोरंतरे दाहः॥ यस्त्वपकृष्यमाणो दृष्टिमंडले लीयते॥ तत्र क्षीरेण नाडीस्वेदं दद्यात्॥ शताव्हामधुकचूर्णसंसृष्टं च घृतं प्रतिमर्शमिति॥ भवति चात्र॥ विद्धेऽक्षिण कार्ये स्वेदादौ नियमोऽयं विधीयते॥ स्वेददाहप्रतीमर्शात्सद्योविद्धे तु सेचनं॥ अवंपीडं तृतीयेऽह्नि युंज्यात्तद्वज्जलौकसः॥ सप्ताहांते सिरामोक्षं विरेकं बस्तिकर्म च॥ यंत्रणामनुरुध्येत दृष्टेरास्थैर्यलाभतः॥ रूपाणि सूक्ष्म दीप्तानि सहसा नावलोकयेत्॥ कुर्याच्छलाका स्थूलाऽग्रे विशालव्रणतां तनुः॥ पटलोत्प्लवनं तीक्ष्णा क्षतमंतः स्वरा रुजं॥ कुंठा च विषमाऽश्रूणि ह्रवा दोर्घा च दुर्ग्रहा॥ आढकीमूलमरिचहरितालरसांजनैः॥ विद्धेऽक्ष्णि सगुडा वर्तिर्योज्या दिव्यांबुपेषिता॥ जातीशिरीषधवमेषविषाणपुष्पवैदूर्यमौक्तिकफलं पयसा सुपिष्टं॥ आजेन ताम्रममुना प्रतनु प्रदिग्धं सप्ताहतः पुनरिदं पयसैव पिष्टं॥ पिंडांजनं हितमनातपशुष्कमक्ष्णि विद्धे प्रसादजननं बलकृच्च दृष्टेः॥ स्रोतोजविद्रुमशिलार्णवफेनतीक्ष्णैरस्यैव तुल्यमुदितं गुणकल्पनाभिः॥ इति लिंगनाशप्रतिषेधो नाम सप्तदशोऽध्यायः॥१७॥
अथातः सर्वगताक्षिरोगविज्ञानं व्याख्यास्यामः॥ वातेन नेत्रेऽभिष्यन्ने नासानाहोऽल्पशोफता॥ शंखाक्षिभ्रूललाटास्यतोदस्फुरणभेदनं॥ शुष्काऽल्पा दूषिका शीतमच्छं चाश्रु चला रुजः॥ निमेषोन्मेषणं कृच्छ्राज्जंतूनामिव सर्पणं॥ अक्ष्याध्मातमिवाभाति सूक्ष्मैः शल्यैः रिवाचितं॥ स्निग्धोष्णैश्चोपशमनं सोऽभिष्यंद उपेक्षितः॥ अधिमंथो भवेत्तत्र कर्णयोर्नदनं भ्रमः॥ अरण्येव च मध्यंते ललाटाक्षिभ्रुवाद्र
यः॥ हताधिमंथः सोऽपि स्यात्प्रमादात्तेन वेदनाः॥ अनेकरूपा जायंते व्रणो दृष्टौ तु दृष्टिहा॥ मन्याक्षिशंखतो वायुरन्यतो वा प्रवर्त्तयन्॥ व्यथां तीव्रामपैच्छिल्यरागशोफं विलोचनं॥ संकोचयति पर्यश्रु सोऽन्यतोवातसंज्ञितः॥ तद्वज्जिह्मं भवेन्नेत्रं शूनं वातविपर्यये॥ दाहो धूमायनं शोफःश्यावता वर्त्मनो बहिः॥ अंतःक्लेदोऽश्रु पीतोष्णं रागपी ताभदर्शनं॥ क्षारोक्षितक्षताक्षित्वं पित्ताभिष्यंदलक्षणं॥ ज्वलदंगारकीर्णाभं यकृत्पिंडसमप्रभं॥ अधिमंथे भवेन्नेत्रं स्यंदे तु कफसंभवे॥ जांड्यं शोफो महान्कंडूर्निद्रान्नानभिनंदनं॥ सांद्रस्निग्धबहुश्वेतपित्तवद्दूषिकाश्रुता।अधिमंथेनतं कृष्णमुन्नतं शुक्लमंडलं॥ प्रसेको नासिकाध्मानं पांशुपूर्णमिवेक्षणं॥ रक्ताश्रुराजीदूषीकाशुक्लमंडलदर्शनं॥ रक्तस्यंदेन नयनं सपित्तस्यंदलक्षणं॥ मंथेऽक्षिताम्रपर्यंतमुत्पाटनसमानरुक्॥ रागेण बंधूकनिभं ताम्यति स्पर्शनाक्षमं॥ असृङ्गिमय्नारिष्टाभं कृष्णमाग्न्याभदर्शनं॥ अधिमंथा यथास्वं च सर्वे स्यंदाधिकव्यथाः॥ शंखदंतकपोलेषु कपाले चातिरुक्कराः॥ वातपित्तोत्तरं घर्षतोदभेदोपदेहवत्॥ रूक्षदारुणवर्त्माक्षिकृच्छ्रोन्मीलनिमीलनं॥ विकूणनं विशुष्कत्वं शीतेच्छा शुलपाकवत्॥ उक्तः शुष्काक्षिपाकोऽयं सशोफःस्यात्त्रिभिर्मलैः॥ सरक्तैस्तत्र शोफोऽतिरुग्दाहष्ठीवनादिमान्॥ पक्वोदुंबरसंकाशं जायते शुक्लमंडलं॥ अश्रूष्णशीतविशदपिच्छिलाच्छघनं मुहुः॥ अल्पशोफेऽल्पशोफस्तुपाकोऽन्यैर्लक्षणैस्तथा॥ अक्षिपाकात्यये शोफः संरंभःकलुषाश्रुता॥ कफोपदिग्धमसितं सितं प्रक्लेदरागवत्॥ दाहो दर्शनसंरोधो वेदना चानवस्थिता॥ अन्नसारोऽम्लतां नीतः पित्तरक्तोल्बणैर्मलैः॥ सिराभिर्नेत्रमारूढः करोति श्यावलोहितं॥ सशोफपाकदाहाश्रु भृशं चाविलदर्शनं॥ अम्लोषितोऽयमित्युक्ता गदाः षोडश सर्वगाः॥ हताधिमंथमेतेषु साक्षिपाकात्ययं त्यजेत्॥ वातोद्भूतः पंचरात्रेण दृष्टिं
सप्ताहेन श्लेष्मजातोऽधिमंथः॥ रक्तोत्पन्नो हंति तद्वित्त्रिरात्रान्मिथ्याचारात्पैत्तिकः सद्यएव॥ इति सर्वाक्षिरोगविज्ञानं नामाष्टादशोऽध्यायः॥१८॥
अथातोऽभिष्यंदप्रतिषेधं व्याख्यास्यामः॥ अथ खलु सर्वाक्षिरोगी शिरोविरेककवलधूमोपवासानासेवेत॥ अन्यत्र मारुतोद्रेकात्॥ सर्वत्र कुचंदनमरिचपत्रैलासुवर्णगैरिकतगररसांजनलवणयष्ट्याह्वैर्बिडा567लं कुर्यात्॥ तथा दार्वीतूत्थकहरीतकीभिर्वा॥ पित्ते कफे हरीतकी नागररसांजनस्वर्णगैरिकैः॥ अपिच॥ कुष्टमिशिपिप्पलीचंदनोत्पलैर्बि डालको वेदनाघ्नः॥ मुस्तागुरुरक्तचंदनैः क्षौद्रयुतैः शूलदाहरागघ्नः॥ सैंधवागुरुत्रिजातकत्रिकटुकस्वर्णगैरिकशैलेयकैः शूलश्वयथुदाहरागनुत्॥ शिग्रुफलमनोह्वाशाबररोध्रैःक्रमाच्चतुर्गुणप्रवृद्धैः श्लक्ष्णरजोभिः सूक्ष्मतांतवस्थैर्नवनमवचूर्णयेत्॥ श्वेतरोध्रत्वचं बहिर्विलिखितां निंबपत्रकल्कघनप्रलिप्तां पुटपाकवत्पक्त्वाऽर्द्धपलोन्मितां मरिचचतुष्टययुक्तां श्लक्ष्णरजीकृतां वस्त्रबद्धामक्ष्ण्यवकिरेत्॥ एतदवगुंठनं शूलदाहाश्रुश्वयथुकंडूषापाकक्लेदोपदेहहरं॥ तथैव च पोटलिकयाऽऽश्चोतनकालेऽवंतिसोमाप्लुताऽऽश्चोतयेत्॥ पूर्वं रोध्रकल्कमुपहतं तन्मात्रमेव मरिचद्वयेन मनःशिलापादेनाष्टांशकैश्च यष्टीमधुकशतपुष्पापुष्पांजनैश्च युक्तं प्रकल्पयेत्॥ अपिच॥ आरण्याच्छगणरसे पटावबद्धाः सुखिन्ना नखवितुषीकृताः कुलत्थाः॥ तच्चूर्णं सकृदवचूर्णनान्निशीथे नेत्राणां विधमति सद्यएव क्रोपं॥ अथ दारुहरिद्रापलमुदकार्द्धप्रस्थेऽष्टांशशेषं क्वथितं माक्षिकयुक्तमाश्चोतनं कुवीत॥ एवं चानुपशमे वाताभिष्यंदिनमादावेव जांगलरसैर्भोजयित्वा दशमूलरास्नात्रिफलाक्वाथेन जीवनीयकल्केन वा पयोयुतं सिद्धमितरद्वा पुराणसर्पिः पाययेत्॥ आश्चोतनं चास्यैरंडपल्लवैः शृतमजाक्षीरं कुर्यात्॥ शालिपर्णीबृहतीमधुककोरकैर्वा तद्वत्तगरहीबेरशार्ङ्गेष्टाबदरमधुक पिप्पलीबृहती द्वयैरंडमूलैर्वांऽशुमती द्वयबृहतीकंटकारिकाभिर्वा तांतवबद्धाभिः सुरामंडधान्याम्लान्यतमाप्लुताभिः॥ आनूपमांसक्वाथेन वा॥ तैरेव मांसैर्वाेसवारीकृतस्विन्नैर्महास्नेहवद्भिर्यवचूर्णलवणप्रगाढामुत्कारिकां कृत्वा ललाटगंडादीन् खेदयेत्॥ अथवा रास्नाऽभीरुदशमूलबलाकोलकुलत्थयवानामजाक्षीरस्विन्नानां बाष्पेण रास्तादिभिरेव च सिद्धं तैलं सर्पिर्वा नावनं॥ एवं विधैरेव नाडीस्वेदं कुर्यात्॥ सुरभिगंधदेवदार्वहिंस्राकरंजफलबिल्वसर्षपैश्च सभृष्टतिलैः पयसा पिष्टैःसुखोष्णैर्मुखालेपोऽक्षिवेदनास्तंभप्रशमनः॥ एवमप्यशांतरुजः सिरां मोक्षयेत्॥ स्नेहस्वेदविष्यंदं हि वातदुष्टमसृक्निर्हीयमाणं नानिलप्रकोपाय॥ पुनश्च स्नेहयित्वा तिल्वकेन संस्कृतं संयुतं वा तिल्वककषायानुपानं सर्पिर्विरेचनं दद्यात्॥ शुद्धे च वातप्रतिश्यायवदास्थापयेत्॥ अनुवासमेच्च॥ अथ तिलान्निस्तुषान्बिल्वफलक्वाथेन भावयेन्निशि दिवा शोषयेत्॥ एवं पंचाहं तेभ्यस्तैलं कृत्वा वराहमेदोयुतं बिल्वमूलमधुयष्टिकाकल्केन पयसा पचेत्॥ तेन नस्यं शिरोबस्तिंच कुर्यात्॥ सर्वगंधनिर्यूहेण वा तद्गर्भं सक्षीरं तैलं॥ स्नैहिकं च धूमं पिबेत्॥ उपशांतरुजस्य तर्पणं॥ काश्मर्यमधुककुष्टबृहतीतालीसपत्रमांसीसारिवाप्रपौंडरीकदर्भमूलकसेरुकाभिः पयः साधयेत्॥ तत्तर्पणं नस्याभ्यंगेषु विदध्यात्॥ कृष्णसर्पशिरो वा क्षीरे क्वाथयेत्॥ ततः स्नेहमुत्धृत्य चंदनोशीरशर्करोत्पलकल्केन क्षीरवता पक्वं तर्पणं॥ अथवा पंचमूलजीवनीयकुक्कुटमांसैः पयो विपचेत्ततो नवनीतं घनानंतासारिवोशीरचंदनैः सपयस्कैः साधयेत्॥ पुटपाकवच्छागोरभ्रवराहाणामन्यतमस्य यकृत्पि प्पलीसैंधवमधुघृतोपेतं कुर्यात्॥ अंजनं चास्य दृक्प्रसादनार्थं कृष्णतिलान्निस्तुषान् कृत्वा स्तन्येन सप्ताहं भावयेच्छोषयेच्च तच्चूर्णं सितोपलासमं कृत्वा मधुकार्द्धभागेन सैंधवांशेन कृष्णसर्पशिरसश्चांतर्धूमदग्धस्य भागेन संसृष्टं दिव्योदकपिष्टां गुलिकां कल्पयेत्॥ गोधासर्पवसायामाजे मेदसि सैंधवपिप्पलीचूर्णं रसांजनं चावपेत्॥ एतेषां मासं स्थिता रसक्रिया दृष्टिप्रसादनी रुजाहरा च॥ उत्धृतसरेण गव्येन दध्नाऽम्लेन राजतं भाजनमालिंपेन्नीलीभूतं च तद्विशुष्कं मस्तुना वर्त्तयः कृताश्च्छयाविशोषिताः वाताक्षिरोगं जयंति॥ मागधिकाकंटकारीद्वयमूलत्वङ्मधुसितासैंधवताम्ररजांस्यजाक्षीरेण पिष्ट्वा ताम्रपात्रमालेपयेत्सप्ताहादपनीय पुनस्तथैव पिष्ट्वाऽनुलेपयेत्सप्तभिः सप्तरात्रैर्गुटिकाः कृताः परं वाताक्षिरोगवेदनारागशोफतिमिरकाचनक्तां
ध्यताधिमंथाभिघातहराः॥ प्रत्यंजनं चात्र स्फटिकशंखनाभिमधुकगैरिकैरिक्षुरसपिष्टैर्वर्त्तिः॥ अयमेव च सर्वो विधिरधिमंथादिष्वपि प्रयोज्यः॥विशेषतस्त्वधिमंथे सहचरस्फूर्जातकबिल्ववृक्षादनीनिर्यूहे सपयस्कं सर्पिः सिद्धं पिबेत्॥ सर्पिषाऽनुपशमे वसां मज्जानं वा पूर्वकर्मैव च व्यत्यासेन कुर्यात्॥ सर्वानुपशांतावुपरिभ्रुवोर्यथोक्तो दाहः॥ पित्ताधिमंथाभिष्यंदयोः शर्करयाऽवचूर्णितं सर्पिः पानं तिक्तकानामन्यतमेन वा प्रपौंडरीकामलकद्विबृहतीदर्भमूलशतावरीतालीसमंजिष्ठानीलोत्पलक्वाथस्थितस्तन्येनाश्चोतनं॥ मधुककटंकटेरीनिर्यूहो वा॥ सक्षौद्रचंदनमधुकरोध्रमंजिष्ठास्वर्णगैरिकक्वाथस्तीव्रशूलदाहहरः॥ रोध्रदार्वीमधुकप्रपौंडरीकान्यापोथ्य तांतवे बध्नीयात् तेन क्षौद्रसलिलाप्लुतेन सेको वेदनाघ्नः॥ तेनैव सशर्करे स्त्रीस्तन्ये छागदुग्धे वा दाहरागघ्नः॥ श्वेतरोध्रं च मधुकं समघृतं पूतं घृतेन भर्जयित्वा चूर्णयेत्॥ तत्पोटलिकावबद्धं स्तन्येन तोयेन वा मृदितमाशु शूलदाहरागशोफानपहंति॥ चंदनकुमुदसारिवानलदादिभिर्वा क्षीरसंस्कृतैश्च शिरोवक्रप्रलेपपरिषेकाः॥ एवमसिद्धौ सिराव्यधः॥ पुनः स्निग्धस्य च त्रिफलाकाश्मर्यक्वाथशर्करात्रिवृच्चूर्णैर्विरेकः॥ शंखमधुकसैंधवबृहतीमूलत्वचः पय
साऽऽजेन पिष्ट्वा ताम्रपात्रं प्रलेपयेत्पुनः सप्ताहादेवं सप्तभिः सप्तरात्रैर्गुलिकाः कार्योः॥ ताः स्तन्यघृष्टाः पित्तामयेष्वंजनाद्रुजमपहरंति॥ सुवर्णगैरिकं निशां दिव्यांभसि स्थितमहःशोषयेत् सप्ताहमेव च सुशीतैर्मधुरवर्गकषायैर्भावयेदेतच्चूर्णांजनं दाहरागघ्नं॥ पंचाशद्दार्वीपलानिपालिकानि च सारिवामधुककाकोलीमृद्विकाकाश्मर्यसुनिषण्णकमंजिष्ठारोध्रोशीरचंदनानि जलद्रोणेऽष्टभागं पचेत् परिस्रुतं पुनरादर्वीप्रलेपादवतार्य च सितोपलासमांशं मधुघृतद्विपलं प्रक्षिपेत्॥ रसक्रियेयं मधुरा सर्वाक्षिरोगेषु हिता॥ काश्मर्यस्वरसपिष्टाः सारिवाशर्कराकाकोल्यो नस्ये॥ इक्षुरसपिष्टं वा यष्ट्याव्हं॥ क्षतशुक्रोक्तं च तर्पणं पुटपाकश्च॥ श्लेष्माधिमंथेऽभिष्यंदे च त्र्यहमुपवासस्तीक्ष्णानि धूमकवलनावनानि॥शार्ङ्गेष्टाकुष्टतगरमुरंगीव्योषैलादारुभिर्बिडालकं॥तिल्वकबृहती निदिग्धिकारोध्रारग्वधमूलत्वग्भिर्गोमूत्रकाथितैराश्चोतनं शोफोपदेहकंडूघ्नं॥ निंबपत्रकल्कदिग्धं वा रोध्रमंगारस्वेदितं चूर्णितं तांतवावनद्धमुष्णांबुमृदितं॥ तद्वदेवामलकोपकुल्यापाटलीचूर्णानि॥ शिग्रुपल्लवरसो वा॥ मधुशिग्रुपाटलीबिल्वमूलशुंठीक्वाथो वा॥ निंबपत्रपटोलीजातीपत्ररोध्रबृहतीमहौषधैः खंडशः क्लृप्तैर्वस्त्रबद्धैः सक्षौद्रे गौडे सीधौ वा परिप्लुतैः सेकः परं श्लेष्मघ्नः॥ रोहिषपूतीकरंजकपित्थास्फोतपीलुबिल्वपत्रशिग्रुसुरसार्कनिंबपत्रैर्गोमूत्रक्वथितैः स्वेदः॥ तथाऽपि शोफघर्षानुबंधे यवमदनभूर्जशमीपत्रैः सघृतैर्घृतेनैव वा नात्यक्षि धूमयेत्॥ लघ्वसितं च द्वितीयेऽन्हि प्राशः व्योषविपक्वं यवक्षारावचूर्णितं सर्पिः पाययेत्॥ ततः सिराव्यधो विरेकश्च॥ बृहतीत्वक्शुंठीताम्रकांस्यरजांति दधिमस्तुना पिष्ट्वा ताम्रपात्रे लेपयेत् तथैव च सप्ताहेऽवगते वर्त्तयः कार्याः॥ मरिचहरिद्राभयांजनैर्वा जलपिष्टा वर्त्तिः॥ त्रिकटुकत्रिफलाविडंगसारहरिद्राभिर्वा॥ हरीतंकी तुत्थं च समभागं तुत्थाष्टांशेन मरिचं शंपावर्तिः कुमारी सर्वश्लेष्माक्षिरोग
घ्नी॥ विडंगचूर्णो वारुण्या भावितः शंखो बीजपूररसेन म568धुरस्त्रिफलारसेन पृथगैकध्यं चूर्णांजनं पिंडो वा पोथकीबहलकफोत्क्लेशाभिष्यंदानपहरति॥ स्वर्णगैरिकसैंधवमनःशिलालाक्षानतकरंजिकासुरसशंखतालीसकुष्टकलिंगकदेवदारुनलदजातीमुकुलरसांजनैः सुरामंडपिष्टैर्वर्तिः श्लेष्मविकारहरा॥ पुष्पकासीसचूर्णं ताम्रसमुद्रे सुरसपत्रस्य रसेन सप्ताहं भावयेत्॥ तच्चूर्णांजनं वर्मोपचयपक्ष्मशातघ्नं॥ सैंधवव्योषवराविडंगरोध्रप्रपौंडरीकमधुकतुत्थकतार्क्ष्यशैलतालताम्रचूर्णैश्छागपयःपिष्टैर्मार्कवरसपरिपीतैर्वर्तिः कांडचित्राख्या सर्वाक्षिरोगान् जयति॥ कंड्वां मनःशिलासैंधवश्वेतमरिचैर्मातुलुंगरसपिष्टैर्वर्तिः॥ सशोफायां तगरदेवदारुसैंधवजातिकोरकैः सुरामंडपिष्टैर्नक्तमाललशुनशुक्लशिग्रुकबीजैर्वा रसक्रिया॥ तर्पणं च यकृदाजं सगुडप्रियंगुनलददेवदारुयुतं क्वाथयेत्तस्मिन् शीते खजमथितेयन्नवनीनं तदेभिरेवौषधैर्विपक्वं॥ पुटपाकश्च कुष्टतगरदार्वीसर्वगंधैराजेन यकृता सह मधुघृतयुक्तैः॥ रक्तजं पुनरभिष्यंदमधिमंथंच पित्तवदुपक्रमेत्॥स्तन्येक्षुरसशर्करोदकान्यतमेनाश्चोतयेत्॥ पुनःपुनश्चास्य रुधिरमवसेचयेच्छिराव्यधेन जलौकोभिश्च॥ तीव्रवेदनायां महतीं घृतमात्रां पाययेत्॥ आढकीकुब्जकपाटलिश्रीपर्णीविदुलानामर्जुनरसेन पिष्टानां गुटिकांजनं॥ सेकैर्जलाद्रैःकासमतद्घर्विकांस्यमलदिग्धामंतधूमं दग्धा तद्भस्म त्रिफलाक्वाथे सुरसास्वरसे क्षीरे चछागे पंचाहं भावयेत्॥एतच्चूर्णं स्रोतोजतुल्यं प्रत्यंजनं॥ कृष्णं सर्पंपयसि क्वाथयेत्ततः पूतशीतमथिनं स्नेहमुपोषितकृकवाकवे दद्यात्तस्ययत्पुरीषं तत् स्नेहांजनं॥कृष्णसर्पमुखमं कृष्णसर्पमुखमंजनसर्पिषोः पूर्णं दर्भवेष्टितं मृदुविलिप्तमधोमुखं गोमयेनाग्निना दग्धं तत्तोंजनमादाय पत्र
नलदनीलोत्पलतुल्यं चूर्णितं परं दृष्टिप्रसादजननं॥ घृतमंडश्च शर्करामधुकनीलोत्पलैर्मानुषीदुग्धयुक्तैः सिद्धो नस्यइति॥ भवंति चात्र॥ सर्वेऽक्षिरोगाः प्रायेण जायंते स्पंदपूर्वकाः॥ यतश्च रक्तं संदूष्य तानतस्त्वरया जयेत्॥ सर्वोर्ध्वजत्रुगस्रोतःस्पंदनात्स्यंदंउच्यते॥ तत्स्थानां तद्वदंगानामधिमंथोऽतिमंथनात्॥ वातेऽक्षिसेकः सैरंडबृहतीमधुशिग्रुणा॥ सिद्धेन पंचमूलेन ससितैः पित्तरक्तयोः॥ दार्वीलाक्षोत्पलद्राक्षामंजिष्ठामधुकर्द्धिकैः॥ श्लेष्मणि त्रिफलाशुंठीनिंबरोध्राटरूपकैः॥ समस्तैः सन्निपातोत्थे कुर्यात्स्यंदेऽक्षिसेचनं॥ तुत्थव्योषाभयारोध्रयष्ट्याह्वैस्ताम्रसंस्थितैः॥ धान्याम्लपिष्टैः सेकोऽयं सर्वाभिष्यंदरुक्प्रणुत्॥ तद्वत्तुत्थाभयारोध्रयष्टीमधुरसांजनैः॥ सिताह्वार्द्धांशसंयुक्तैः सेकः सर्वाक्षिभूलजित्॥ पुष्पांजनसिताक्षौद्रेस्ताम्रसंस्थं तिलांभसा॥ सेचनं हंति रुग्रागदाहश्वयथुघर्षणं॥ द्विनिशात्रिफलामुस्तैः प्रमदादुग्धकल्कितैः॥ सेकः सशर्कराक्षौद्रैरभिघातरुजापहः॥निषिक्तं तुत्थकं वारान् गोजले पंचविंशति॥ स्तन्ये वा छागदुग्धे वा सद्यःकोपे तदंजनं॥ बदरीदलयष्ट्याह्वतुत्थधात्रीफलैः समैः॥ पुटित्वा बादराग्नीद्धैर्दृगुत्कोपघ्नमंजनं॥ बृहत्येरंडमूलत्वक्शिग्रुमूलैः ससैंधवैः॥ वर्तिराजपयःपिष्टैः सर्ववाताक्षिरोगजित्॥ सुमनःकोरकाः शंखस्त्रिफला मधुकं बला॥ पित्तरक्तापहा वर्तिः पिष्टा दिव्येन वारिणा॥ सैंधवं त्रिफला व्योषं शंखनाभिः समुद्रजः॥ फेन एलाद्वयं सर्जो वर्त्तिः श्लेष्माक्षिरोगनुत्॥पिप्पल्यः किंशुकरसो वसा सर्पिः ससैंधवं॥ घृतं च जीर्णं सर्वाक्षिविकारघ्नी रसक्रिया॥ कृष्णसर्पवसा क्षौद्रं रसो धात्र्या रसक्रिया॥ शस्ता सर्वाक्षिरोगेषु काचार्बुदमलेषु च॥ रसांजनं शृंगबेरमभयातुत्थकिंशुकं॥ यथोत्तरं द्विगुणितैस्तैर्वर्तिरपराजिता॥ ऋते वातादभिष्यंदात्तिमिराणि कुकूणकं॥ पोथकीपिटकापिल्लानर्माणि च नियच्छति॥ ताम्रे म
स्तुसमुद्घृष्टं यत्तुत्थं श्यावतां गतं॥ सर्वाभिष्यंदशुकार्मसिराजालजिंदंजनं॥ मरिचलवणभागौ भागौ द्वौकणसमुद्रफेनाभ्यां॥ सौवीरभागनवकं चित्रायां चूर्णितं कफामयजित्॥ मरिचामलकजलोद्भवतुत्थांजनताप्यधातुक्रमवृद्धैः॥ षण्मासिक इति योगस्तिमिरार्मक्लेदकाचकंडूघ्नः॥ पिप्पलीं सतगरोत्पलपत्रां वर्त्तयेत्समधुकां सहरिद्रां॥ एतया सततमंजयितव्यं यः सुपर्णसममिच्छति चक्षुः॥ इत्यभिष्यंदप्रतिषेधो नामैकोनविंशोऽध्यायः॥१९॥
अथातोऽक्षिपाकपिल्लप्रतिषेधं व्याख्यास्यामः॥ शुष्काक्षिपाके वाताभिष्यंदविहितं सर्पिर्विपचेत्॥ कुलीररससिद्धं क्षीरसिद्धं वा॥ दार्वीप्रपौंडरीकयोः क्वाथ आश्चोतनमक्षिपाकघ्नं॥ मंजिष्ठामधुककालानुसारिबारोध्रलाक्षाप्रपौंडरीकाणामक्षिपाकरक्तराजीघ्नो मृद्विकाचंदनकरंजतंदुलांबुपरिस्रुतो मधुमानश्रुदाहहरः॥ रोध्रकोरंटकपुष्पक्वाथो वेदनाहरः॥ अणुतैलं नस्यं सारिवाविदारीबलामधुकोत्पलद्राक्षाटरूपकजीवकचंदनैर्जांगलरसक्षीरोपेतं तैलं साधितं नावनात्सर्वोर्ध्वजत्रुजान् गदान् वातपित्तोत्तरान् हंति॥ स्निग्धाश्चात्र तर्पणपुटपाकाः॥ वातपित्तान्यतरोद्रेकतश्च यथास्वमभिष्यंदविधिः॥ आदर्शमंडले घृताक्तकेशान् घृष्ट्वांऽतधूर्मं दहेत् सा मषी घृतभृष्टाऽऽयसभाजनस्थिताऽक्षिपाकमंजनादपहरति॥ मंजिष्ठानतकटंकटेरीनिःक्वाथेन लोहस्रोतोंजनचूर्णमापिंडीभावात्पचेत्॥ एतचूर्णांजनं दाहोषारागाश्रुहरं॥ ताम्ररजःसैर्यकमुस्तपुंड्राव्हामधुककालानुसारिवाश्छागेन पयसा पिष्ट्वा पिंडांजनं॥ आनूपवसा शुंठीसैंधवचूर्णान्विता स्नेहांजनं॥ एवमप्यंशांतौ मधुकसिद्धः शताव्हाचूर्णयुक्तो घृतमंडस्तथा पयो वा बस्तिः॥ सशोफाल्पशोफयोस्तु स्निग्धस्य सिरां विध्येत्॥ द्राक्षाभयानिर्यूस्रिवृत्कल्कवान् सघृतो विरेकः॥ विरिक्तस्य यथादोषोदयमास्थापनं॥ ततः पिंडस्वीन्नशिरसः सर्षपतैलेन सैंधवयुतेन सर्पिःफणिज्जकचूर्णसं
सृष्टेन वा तैलेन शिरोविरेकः॥ विरिक्तशिरसोऽनुवासनं क्षीरसर्पिषा॥ धूमपानं च॥शिरोनेत्रं चास्य सुनिषणकपत्राव्हैः सैरंडपत्रैः क्षीरांबुस्विन्नैः संस्वेदयेत्॥ घृतभृष्टं रोध्रचूर्णं सूक्ष्मवासःस्थमुष्णोदकविमृदितमाश्चोतनं शुष्काक्षिपाकोक्तं च वेदनाघ्नं॥ एवमशांतवेदनं संधावैरुपक्रमेत॥ शशशिरः कपालं ससैंधवं कांस्ये स्तन्यघृष्ठं संघावो वेदनाघ्नः॥ तद्वल्लेहोगोमूत्रघृष्टं घृतधूपितं॥शिग्रुपल्लवरसश्च ताम्रघृष्ठो घृतधूपितः॥ शंखं ताम्रे स्तन्येन घृष्ठं घृताभ्यक्तयवशमीपत्रधूपितं घर्षवेदनाघ्नं॥ उदुंबरफलं लोहे स्तन्यघृष्टं घृताक्तशमीपत्रभूषितं शूलरागाश्रुघर्षघ्नं॥ दधिसरः सैंधवयुक्तस्ताम्रे घृष्टः शोफघर्षाश्रुवेदनाघ्नः॥ नृकपालं कांस्ये तिलोदकघृष्ठं घृताक्तनिंबपत्रधूपितं शोफपांडुघर्षाश्रुभूलरागघ्नं॥ संधावांजितं चाक्षि स्तन्येन चानु सिंचेत्॥ त्रिःपरं च तैर्नांजयेत्॥ अथांजनानि॥ मधुकबृहतीत्वक्ताम्ररजांस्यजाक्षीरपिष्टानिशम्यालकपत्रैर्घृताप्लुतैरनेकशो धूपितानि पिंडांजनं शोफवेदनाघ्नं॥तालीसपत्रपिप्पली लोहरजोंजनकासीसतगरजातिमुकुलसैंधवैर्गोमूत्रपिष्टैस्ताम्रमालितं सप्तरात्रं स्थापयित्वा पुनस्तद्वदेव पिष्टैर्गुलिकाः कार्यास्ताः स्तन्यघृष्टाः स्तंभघर्षश्वयथुहर्षाश्रुकंडूघ्नाः॥ अबद्धास्थिसहकारमांसं विगतत्वक् समताम्रचूर्णमीषत्सैंधवोपेतं गव्येन दघ्ना पिष्ट्वा ताम्रमालेपयेत्॥ शुष्कं शुष्कं तथैव च पिष्ट्वा पुनार्लेपयेत् सप्तभिः सप्ताहैः पिंडांजनं कृत्वा सर्वाक्षिपाकेष्वश्रुघर्षशोफरागवर्त्मोपचयघ्नं॥अश्मंतकाम्लवेतसपरूषककोलदाडिमैः कृता रसक्रियासशोफान् पूयालसान् नाशयति॥इत्थमपि शोफानुवृत्तौ पुनरास्रावशिरोविरेकाश्च॥ अम्लोषितं पित्ताभिष्यंदवदुपाचरेत्॥ पित्तसाधनं चेक्षेत॥ पित्तकफरक्तनिचयोत्क्लिष्टवर्त्मपोथकीबिसाक्षिकुकूणकपक्ष्मोपरोधपूयालसशुष्काक्षिपाकसशोफाम्लोषिता वातवर्जाश्चस्यंदाधिमंथा इत्यष्टादश दीर्घकालानुबंधिनो रोगाः पिल्लसंज्ञाः॥
एषां क्रिया समुपदिष्टैव॥ पुनश्च पिल्लीभूतानां सामान्येनोपदिश्यते॥ अथ पिल्लाक्षिरोगिणं स्नेहयित्वा वामयेत्॥ कुकूणकस्य सिराव्यधः विरिक्तस्यवर्त्मनी लिखेत्॥ सकृल्लेखनादशुद्धौ पुनर्लेखयेत॥ जलौकोभिश्चग्राहयेत्॥ प्रियंगुरोध्रपद्मकेसरचंदनमधुककल्केन समाक्षिकेण बिडालस्तुवरिकाफलत्रिकरोचनाक्वाथेन मधुना सायं प्रातः सदा प्रक्षालनमंजनांते च कषायवृक्षपल्लवकषायेण तैरेव पत्रैरुष्णप्रियतायामंतरांतरा स्वेदः॥ तुत्थकपलं विंशतिश्च श्वेतमरिचानि धान्याम्लपिष्टानि तत्पलैस्त्रिंशता ताम्रपात्रे समालोडितानि बहुवर्षाणामपि पिल्लानां परममाश्चोतनं॥ अंजनं चास्याम्रधातकीपुष्पतिलपर्णीकल्केन वर्तिः॥ हरीतक्याढकीनाकुलीश्चाष्टगुणांभसाऽष्टभागशेषं क्वाथयेत्॥ पुनश्च परिस्राव्यादर्वीप्रलेपात् रसक्रियेयं पिल्लाक्षिरोपणी॥ पलाशशारवास्वरसे क्वाथ्यमाने बृहत्युशीररजोदद्यात्त
द्वनीभूतं शीतमंजनं॥ सुरसारसपिष्टैर्वा वचाऽलदेवदारुभिर्गोपित्तपिष्टाभ्यां वा व्योषरसांजनाभ्यांवा हरितालसौवीरकांजनसमांशं वा ताम्रचूर्णमंजनं॥ परिपेलवकासीसहरिद्रा
द्वयसर्षपप्रियंगुतगरपिप्पलीकल्केन ताम्रभाजनमंतर्ले
ययित्वा सौवीरककुंभाधोमुखं सप्ताहं वासयेत्ततो गुलिकाश्चूर्णंवा कुर्यात्॥ तुत्थगैरिकचूर्णं छगलीपयः पिष्टं गुटिका प्रत्यंजनं॥ स एव चूर्णः दिव्योदकभावितः तदाप्लुतो नेत्राश्चोतनमिति॥ भवति चात्र॥ वर्त्माभिलेखं बहुशस्त
द्वच्छोणितमोक्षणं॥ पुनः पुनर्विरेकं च पिल्लरोगातुरो भजेत्॥ पूयालसे त्वशांतेंऽतर्दाहः सूक्ष्मशलाकया॥ चतुर्नवतिरित्यक्ष्णोर्हेतुर्लक्षणसाधनैः॥ परस्परमसंकीर्णाः कार्त्स्न्येन गदिता गदाः॥ सर्वदा च निषेवेत स्वस्थोऽपि नयनप्रियः॥ पुराणयवगोधूमशालिषष्टिककोद्रवान्॥ मुगादीन्कफपित्तघ्नान् भूरिसर्पिःपरिप्लुतान्॥ शाकं चैवंविधं मांसं जांगलं दाडिमं सितां॥ सैंधवं त्रिफलां द्रा
क्ष्रांवारि पाने च नाभसं॥ आतपत्रं पदत्राणं विधिवद्दोषशोधनं॥ वर्जयेद्वेगसंरोधमजीर्णाध्यशनानि च॥ विदाहविष्टंभकरं यच्चेहाहारभेषजं॥ द्वे पादमध्ये पृथुसन्निवेशे सिरे गते ते बहुधा च नेत्रे॥ ता म्रक्षणोद्वर्तनलेपनादीन्पादप्रयुक्तान्नयने नयंति॥ मलौष्ण्यसंघट्टनपीडनाद्यैस्ता दूषयंते नयनानि दुष्टाः॥ भजेत्सदा दृष्टिहितानि तस्मादुपानदभ्यंजननावनानि॥ इत्यक्षिपाकपिल्लप्रतिषेधो नाम विंशोऽध्यायः॥२०॥
अथातः कर्णरोगविज्ञानं व्याख्यास्यामः॥ प्रतिश्यायजलक्रीडाकर्णकंडूयनैर्मरुत्॥ मिथ्यायोगेन शब्दस्य कुपितोऽन्यैश्च कोपनैः॥ प्राप्य श्रोत्रसिराः कुर्याच्छूलं स्रोतसि वेगवत्॥ अर्द्धावभेदकं स्तंभं शिशिरानभिनंदनं॥ चिराच्च पाकं पक्वं तु लसीकामल्पशः स्रवेत्॥ श्रोत्रं शून्यमकस्माच्च स्यात्संचारविचारवत्॥ शूलं पित्तात्सदाहोपाशीतेच्छाश्वयथुज्वरं॥ आशु पाकं प्रपक्वं च सपीतलसिका स्रुतिः॥ सा लसीका स्पृशेद्यद्यत्तत्तत्पाकमुपैति च॥ कफाच्छिरोहनुग्रीवागौरवं मंदता रुजः॥ कंडूःश्वयथुरुष्णेच्छा पाकाच्छ्वेतघ नस्रुतिः॥ करोति श्रवणे शूलमभिघातादिदूषितं॥ रक्तं पित्तसमानार्ति किंचिद्वाऽधिकलक्षणं॥ शूलं समुदितैर्दोषैः सशोफज्वरतीव्ररुक्॥ पर्यायादुष्णशीतेच्छं जायते श्रुतिजाड्यवत्॥ पक्वं सितासितोरक्तघनपूयप्रवाहि च॥ शब्दवाहिसिरासंस्थे शृणोति पवने मुहुः॥ नादानकस्माद्विविधान्कर्णनादं वदंति तं॥ श्लेष्मणाऽनुगतो वायुर्नादो वा समुपेक्षितः॥ उच्चैः कृच्छ्राच्छ्रुतिं कुर्माद्बधिरत्वं क्रमेण च॥ वातेन शोषितः श्लेष्मा स्रोतो लिंपेत्ततो भवेत्॥ रुग्गौरवं पिधानं च स प्रतीनाहसंज्ञितः॥ कंडूशोफौकफाच्छ्रोत्रे स्थिरौ तत्संज्ञया स्मृतौ॥ कफो विदग्धः पित्तेन सरुजं नीरुजं त्वपि॥ घनपूतिबहुक्लेदं कुरुते पूतिकर्णकं॥ वातादिदूषितं श्रोत्रं मांसासृक्लेदजां रुजं॥ खादंतो जंतवः कुर्युस्तीव्रां स कृमिकर्णकः॥ श्रोत्रकंडूय
नाज्जाते क्षते स्यात्पूर्वलक्षणः॥ विद्रधिः पूर्ववच्चान्यः शोफोऽर्शोर्बुदमीरितं॥ तेषु रुक्पूतिकर्णत्वं बधिरत्वं च बाधते॥ गर्भेऽनिलात्संकुचिता शष्कुली कूचिकर्णकः॥ एको नीरुगनेको वा गर्भेमांसांकुरः स्थिरः॥ पिप्पली पिप्पलीमानः सन्निपाताद्विदारिका॥ सवर्णः सरुजः स्तब्धः श्वयथुः स उपेक्षितः॥ कटुतैलनिभं पक्वः स्रवेत्कृच्छ्रेण रोहति॥ संकोचयति रुढा च सा ध्रुवं कर्णशष्कुलीं॥ सिरास्थः कुरुते वायुः पालीशोषं तदाह्वयं॥ कृशा दृढा च तंत्रीवत्पाली वातेन तंत्रिका॥ सुकुमारे चिरोत्सर्गात् सहसैव प्रबर्द्धिते॥ कर्णे शोफः सरुक् पाल्यामरुणः प569रिपोटवान्॥ परिपोटः स पवनादुत्पातः पित्तशोणितात्॥ गुर्वाभरणभाराद्यैः श्यावो रुक्दाहपाकवान्॥ श्वयथुस्फोटपिटिकारागोषाक्लेदसंयुतः॥ पाल्यां शोफोऽनि लकफात्सर्वतो निर्व्यथः स्थिरः॥ स्तब्धः सवर्णः कंडूमानुन्मंथो गल्लिरश्च सः॥ दुर्विद्धे वर्द्धिते कर्णे सकंडूदाहपाकरुक्॥ श्वयथुः स न्निपातोत्थः स नाम्ना दुःखवर्द्धनः॥ कफासृक्कृमिजाःसूक्ष्माःसकंडूक्लेदवेदनाः॥ लेह्याख्याः पिटिकास्ता हि लिह्युः पालीमुपेक्षिताः॥ पिप्पलीसर्वजं शूलं विदारीकूचिकर्णकाः॥ एषामसाध्या याप्यैका तंत्रिकाऽन्यांस्तु साधयेत्॥ पंचविंशतिरित्युक्ताः कर्ण रोगा विभागतः॥ इति कर्णरोगविज्ञानीयो नामैकविंशोऽध्यायः॥२१॥
अथातः कर्णरोगप्रतिषेधं व्याख्यास्यामः॥ वातजे कर्णशूले रात्रौ रसभोजनोत्तरं वातहरद्रव्यसिद्धं सर्पिः पिबेत्॥ निरन्नो वा पयोनुपानं॥ ततो दशमूलसिद्धे छागपयसि गोशृंगनिहितेऽग्निवर्णान् पाषाणान् सदंशेन गृहीत्वाऽऽवपेत्॥ तेनोष्मणा नाडीस्वेदेन वसाभ्यक्तं स्वेदयेत्॥ बिल्वयवकोलकुलत्थमाषार्कशिग्रुपत्रैर्वा सानूपमांसैः क्वथितेः॥स्विन्नंच पूरयेत् कुष्टरास्नामधुकवंशावलेखशुंठीशिखिचंद्रकमाषसरलपयोविपक्वेन तैलेन॥ जीवकमधुककुष्टमंडूकीदेवदारुमहौषधकल्काष्टगुणाक्षीरसिद्धेन वा॥ मयूरनालकुलत्थागुरुमाषदेवदारुकल्कक्षारसुक्ताम्लसाधिताभ्यां वा तैलवसाभ्यां॥ मधुकक्षीरकाकोलीमाषशतावरीकल्कसर्वगंधोदकक्षीरपक्वयावा वराहवसया॥ रास्नामधुककाकोलीदेवदारुकल्कपयोविपाचितया वा शिशुमारवसया॥ मांसीकुष्टमेदासरलसुरभिमधुक्षीरविपक्वया वा गोवसया॥ जीवकशताव्हामधुकमांसक्षीरसिद्धां कुक्कुटमयूरवसां कर्णपूरणनस्याभ्यंगेषु विदध्यात्॥ मधुकक्षीरकाकोलीकल्केन चतुर्गुणशिग्रुह्रस्वपंचमूलेन चैरंडपत्ररसमष्टगुणक्षीरसाधितं तैलं वा॥ घृततैलवसाभ्यक्तानि तरुणान्यश्वत्थपत्राणि पुटपाकस्विन्नानि प्रपीड्य तद्रसेन कर्णं पूरयेत्॥ तद्वञ्च तैललवणाभ्यक्तान्यर्कोरुबूकमूलककोरंटबिल्वमहावृक्षान्यतमपत्राणि॥ महापंचमूलसरलागुरुदेवदार्वन्यतमकाष्ठमष्टादशांगुलं त्रिभागेक्षौमेणावेष्ट्य तैलेनासिक्त्वाऽग्रेण प्रदीपयेत्॥ दह्यमानाद्यः स्नेहः पतति स सद्यः कर्णरुजमपहरति॥ मधूच्छिष्टकैंडर्यमधुशिग्रुफलवचायवनलदैलागुग्गुलुभिः श्लक्ष्णपिष्टैःक्षौमवस्रवर्तिप्रमाणपरिणाहं लेपयेत्ततः सूत्रेणावेष्ट्य टुंटुकजलेनेनुं दद्यात्॥ टुंटुकनालमेवानेन कल्केनाभ्यज्य शोषयित्वा धूमं विदध्यात्॥ श्रेयसीदेवदारुकाकोलीकुष्टनिचुलबीजैः क्षीरपिस्तैलयुतैःकर्णं बहिर्लेपयेत्॥ सर्वधान्यस्नेहगोक्षीरसिद्धामुत्कारिकामैरंड-पत्रावच्छादितकर्णस्वेदाय प्रणयेत्॥ पुनः पुनश्च नाडीस्वेदं कुर्यात्॥ पिंडस्वेदेन वा॥ वातव्याधिप्रतिश्यायार्दितविधानं च सनिरूहानुवासनं कुर्यात्॥ परिहार्यांश्च परिहरेत्॥ विशेषतः प्रवातशीतांबुपानं शिरःस्नानं च॥ पित्तजे तु शूले प्रातः शर्करायुतं सर्पिः पाययेत्॥ ततः स्निग्धं विरेचयेत्॥ द्राक्षामधुकस्तन्यं कर्णपूरणं प्रयुंजीत माक्षिकं वा॥ मधुकपद्मककल्कस्तन्यसिद्धं वा सर्पिः॥ सितामधुकखवर्जूरमृद्वीकाभिर्वा सक्षीरेक्षुरसं पियालतैलं पाचितमभ्यंगनस्यकर्णपूरणैः शूलदाहघ्नं॥ मधुककुडवं षोडशगुणेनांभसा पादशेपं साधयित्वा तेन तैलार्द्धकुडवमष्टगुणक्षीरं यष्टीमधुकोशीरसारिवाकाकोलीजीवकानंतामृणालमंजिष्ठारोध्रचंदनबिसगर्भं पचेत्॥ तच्च पूर्ववत्प्रणयेत्॥ एषामेव च कल्केन सघृतेन कर्णं परिलेपयेत्॥ सेचयेच्च॥ तथा क्षीरसर्पिर्नस्यशिरोभ्यंगेन॥ एवमनुपशमे तु पुनर्विरेकः॥ कफजे पिप्पलीविपक्वंघृतमथवा क्षौद्रं पाययित्वा वामयेत्॥ ततस्तीक्ष्णं धूमं पाययेत्॥ सरलदेवदारु हिंस्रापटोलपत्रसुरससिद्धेन तैलेन देवदारुपिप्पलीकटुकमालतीपत्रकल्कक्वाथसिद्धेन वा रोध्रखदिरसारमनःशिलालद्विहरिद्राकुष्टत्रिफलैलाक्वाथकल्कसिद्धेन वा रसांजनमार्कववैजयंतीशिग्रुलशुनार्द्रकमुरंगीमूलककदलीनां वा पृथक् समस्तानां वा रसेन मधुना वा रक्षोघ्नतैलेन वा तथा शूलशोफगौरवाणि शाम्यंति॥ धान्याम्लक्वथितदशमूलक्वाथबाष्पेण नाडीस्वेदमाचरेत्॥ स्विन्नः कुशाम्रत्रिवृन्नलदशुंठीमुक्तसाधितेन तैलेन पूरयेत्॥ कफघ्नांश्च गंडूषान्धारयेत्॥ रक्तजे पैत्तिकवत्सिद्धिः सिराव्यधश्च॥ पक्वेषु कर्णमूलेषु पूयप्रवाहिषु यथास्वं धूमनस्यगंडूषवमनान्याचरेत्॥ उपदिग्धं च स्रोतः सायं प्रातः पिचुवर्त्तिभिः प्रमृज्य यवागुरुमदनैः सघृतैर्गुग्गुलुना वा धूपयित्वा मधुना पूरयेत्॥ पलाशधवतिनिशककुभसर्जत्वक्कल्कक्वाथेन रसक्रियया स्वभ्यक्तां पिचुवर्तिं स्रोतसि दद्यात्॥ बदरीसल्लकीजंबूधातकीवटप्लक्षोदुंबरक्वाथेनैवमेवं रसक्रियया॥ हरिद्राधातकीत्रिफलाजंबूशल्लकीकिंशुकक्वाथेन च॥ तथा सौराष्ट्रिकापद्मकधातकीसमंगांऽबष्ठाधवरोध्ररसांजनक्वाथेन॥ एभिरेव चौषधैः सूक्ष्मचूर्णीकृतैः स्रोतसो विकिरणमेवं क्लेदशूलगौरवाणि शाम्यंति॥ एषामेव कषायेण सक्षौद्रेण कपित्थस्वरसेन वा प्रक्षालनं॥ तथा सुरसादिवर्गः
प्रक्षालनावचूर्णनयोः प्रयोज्यः॥ नादबाधिर्ययोर्वातशूलोक्तः सर्वो विधिः॥ श्लेष्मानुबंधे तु प्राक् श्लेष्माणमाहरेद्वमननावनाभ्यां तीक्ष्णधूपैश्च॥ बाधिर्यं च बालवृद्धक्षीणकासशोषिणां चिरोत्थितं वर्जयेत्॥ इतरस्तु स्नेहस्वेदनस्यशिरोबस्तिबस्तिकर्मप्रभृतिभिर्दोषानुबंधमपेक्ष्य साधयेत्॥ तत्र प्रागेव पुराणसर्पिषा वातहरतैलेन वा स्निग्धं स्नेहेनैव विरेचयेत्॥ कृतसंसर्जनस्य पुनः स्निग्धस्य शोणितमपहरेत् कर्णासन्नं जलौकोभिस्ततो बस्तिकर्म पूर्वंतैलेन नस्यधूपान् कर्णपूरणं च शीलयेत्॥ तरुणबिल्वफलानि गोमूत्रेण क्वाथयेत्तेन सितामधुकबीजकबीजकल्केन पयोयुक्तं तैलं पाचयेत् तत्तैलमुष्णं शीते बिल्वक्वाथे प्रक्षिप्य मंथयेत्॥ यावत्पिंडीभूतमुद्धृत्य चैतत्पुनरन्यत्र बिल्वोदकेन मंथयेत्॥ ततश्चोद्धृत्याष्टगुणे पयसि समधुकचंदनगर्भसाधितमाशुकर्णपूरणाद्बाधिर्यंनाशयति॥ तिलान्नवप्रलूनान्वस्त्रबद्धान् वहंतीष्वप्सु रात्रिमुषितान्दिवा शोषयेत्पंचरात्रं॥ एवं गते पंचरात्रे मधुयष्टिकाक्षीरकाकोलीमहापंचमूलदेवदारुशताव्हाजीवकक्वथिते पयसि पंचाहमेव वासयेच्छोषयेच्च॥ ततोऽनेनैव क्षीरेणैषामेव च द्रव्याणां चूर्णमात्रया युक्तान्प्रपीडयेत्॥ तत्तैलं नीलोत्पलानंताचंदनागुरुमधुकजीवककाकोलीसुनिषण्णकमूलकल्कैरष्टगुणेन पयसा पचेत्॥ एतन्नस्यं कर्णपूरणं शिरसि चाभ्यंजने प्रणीतमाशु शुलनादबाधिर्याणि सर्ववातविकारांश्च पित्तानुबंधानपोहति॥ भग्नास्थिसंबंधजननं च॥ शुष्कमूलकक्षारक्षारद्वयहिंगुशुंठीमिशिवचाकुष्टामरदारुशोभांजनभूर्जग्रंथिमुस्तासौवर्चलबिडौद्भिदलवणैस्तैलं शुक्तकदलीबीजपूरकरसयुक्तं सिद्धं शूलनादबाधिर्यकंडूशोफक्लेदोपदेहकृमिपूतिकर्णेषु॥ अथ कर्णौसुप्ताविव भवतस्तत्समीपे यथोक्तां सिरां मोक्षयेत्॥ सश्वयथुपरि स्रावे मंदश्रुतेर्वमनमाचरेत्॥ प्रतिनाहे स्नेहस्वेदक्लिन्नं कर्णं कर्णशोधनेन विशोध्य तैलस्य पूरयेत्॥ मातुलुंगरसस्य वा ससुक्तक्षौद्रसैंधव
स्य॥ शोध्यमाने वेदना रक्तागमो वा यदि भवेत्॥ ततो घृतमंडेन पूरयेत् नस्यं च शीलयेत्॥ मलपूर्णेऽप्येष एव विधिः॥ कंड्वां तीक्ष्णधूमनस्यादीन्कफघ्नान्वितरेत्॥ रूक्षकटुतिक्तश्चाहारः॥ शोफेऽप्ययमेवविधिः कटुतिक्तोष्णाश्च प्रदेहाः परिषेकाः॥ पूतिकर्णे कर्णस्रावोक्तो विधिः कृमिकर्णे च॥ विशेषतश्चात्र कृमिघ्नः॥ तथा सर्षपतैलेन पूरणं॥ हरितालचूर्णवता गोमूत्रेण वा॥ वार्ताकबीजेन धूपनं॥ कर्णविद्रधिं वमनपूर्वं विद्रधिवदामं पक्वं च चिकित्सेत्॥ क्षतविद्रधिं पित्तकर्णशूलवत्॥ कर्णार्शोर्बुदानि नासार्शोर्बुदवत्॥ विदारिकामामां कर्णविद्रधिवद्यथादोषोदयं च साधयेत्॥ पालीशोषे वातशूलवन्नस्यमालेपं स्वेदं च कुर्यात्॥ स्विन्नमुद्वर्त्तयेत् तिलपियालबीजमधुकयवाश्वगंधाकल्केनोद्वर्तितं च मधूकपयस्यासितपुष्पाश्वगंधाकल्काष्टगुणवाजिगंधाबृहत्यभीरुक्वाथक्षीरसाधितेन तैलेनाभ्यंज्यात्॥ शतावर्यश्वगंधैरंडपयस्याजीवकक्षीरे सिद्धेन वा गोधाप्रतुदविष्किरानूपोदकमांसवसामज्जानं सर्पिः सर्षपतैलं च यथालाभं संसृज्यार्कालर्कवलाऽतिबलानंताविदारिगंधाजलशूकमधुरवर्गप्रतीवापं विपचेत्॥ अयमभ्यंगः पाल्याः परं मांसजननः॥ एवमपि तु या क्षीयते पाली तस्या यद्दुष्टं तच्छित्त्वा विधिवत्संधाय युक्तेनैव क्रमेणोपचरेत्॥ तंत्रिकामपि चैवमेव नस्याभ्यंगादिभिर्यापयेत्॥ परियोटकेऽप्ययमेवविधिः॥ तथा मधुकस्ववरमंजरमंजरीसैंधवाश्वगंधादेवदारुमूलकावल्गुजफलमूलमधूच्छिष्टैः सक्षीरैर्महास्नेहसिद्धोऽभ्यंगः॥ तिलमधुकप्रपौंडरीकसिद्धार्थकक्षीरकृतयोत्कारिकयोपनाहः॥ उत्पाते जलौकोभिरपनीतरक्ते शीतैः प्रदेहः॥ तिलमधुकसारिवोत्पलकरो ध्रकदंबबलाऽऽभ्रजंबूपल्लवैः सधान्याम्लं तैलं साधितमभ्यंगः॥ तथा क्षीरसर्पिर्विसर्पोक्तानि च घृतानि॥ उन्मंथे तीक्ष्णैः शिरोविरेकस्तिक्तसर्षपरोध्रहरिद्राद्वयैः॥ उद्वर्तितायाः कर्णपाल्यास्तालीसत
मालैलाकट्फलरसांजनैर्लेपः॥ तालपत्राश्वगंधार्कसैंधवावल्गुजबीजसुरसलांगलीभिः गोधाकुलीरवसायुक्तं तैलं विपक्वमभ्यंजनं॥ तै लमेव वा पटोलकटुरोहिणीरसांजनशिरीषैः॥ दुःखवर्द्धने जंब्वाम्नाश्मंतकपत्रक्वाथपरिषिक्तां कर्णपालीं तैलेनाभ्यज्य यष्टीमधुहरिद्राप्रपौंडरीकमंजिष्ठाचूर्णेनावचूर्णयेत्॥ लाक्षाविडंगविपक्वतैलेनाभ्यंजये त्॥ लेहिकापिडिकां कर्णपालीं बहुशो गोमयपिंडस्विन्नामुरभ्रीमूत्रपिष्टैः कृमिघ्नैरालेपयेत्॥ कुटजकरंजेंगुदबीजारग्वधत्वग्भिर्वा॥ एभिरेव च सर्वैः समरिचनिंबपत्रमधूच्छिष्टःसर्षपतैलं सिद्धं लेहिकाव्रणघ्नोऽभ्यंगः॥ परिदहने जलजाभिरसृक्स्रावयेत्॥ शीतैश्च प्रदिह्यात्॥ सर्वेषु च पालीरोगेषु स्नेहस्वेदशोधनाभ्यंगप्रदेहनस्यास्रविस्रावणानि यथार्हं प्रयुंजीत॥ प्रकोपकारणानि च परिहरेत्॥ उत्पद्यमानायां तु पाल्यां सर्जरसापामार्गपटोललिकुचत्वग्भिरालेपः॥ उत्पतंत्यां शिग्रुशम्याकपूतीकगोवराहपित्तगोधावसासर्पिर्भिः॥ श्यावायां गौरीसुगंधाश्यावानंतातंदुलीयकमूलः॥ कंडूमत्यां पाठानंतातार्क्ष्यशैलेयमाक्षिकैः॥ दह्यमानायां क्षीरिवृक्षजीवनीयकल्कमधुघृतैः॥ व्रणितायां क्षौद्रजीवनीयैः॥ कृशायां गोधावराहादिभिः॥ ग्रथितायां ग्रंथिं पाटयित्वा ऽवलिस्य च कृष्णासैंधवमधुभिः प्रतिसारयेत्॥ स्राववत्यां मधुमधूकमधुपर्णीभिर्लेपः॥ एभिरेव च यथास्वं स्नेहानभ्यंगार्थे प्रकल्पयेत्॥ अथ रोगतो बलाद्वा छिन्नकर्णमनुसंदध्यात्॥ समासतस्तु पंचदश कर्णसंधयः प्रायो नामानुगतसंस्थानस्थानविशेषतया संभवंति॥ तद्यथा॥ पृ570थुलायतसमपालिश्चकनेमिर्वृत्तायतसमपा
लिरुत्पलभेद्यकश्चाभ्यंतरदीर्घपालिसंक्षिप्तोधिष्टानपालिपर्यंतयोश्च क्षी णमांसहीनतनुविषमपालीवल्लीग्रथितनिर्मांसस्तब्धसिरावृतसूक्ष्मपालियष्टीनिर्मांससंक्षिप्ताग्राशोणितपालिकाकौष्ठइति॥ एषामाद्या दश सिध्यंति नत्वितरे॥ तत्र बाह्यायां पाल्यां दीर्घायामाभ्यंतरसंधिः॥ तथेतरायां बाह्यः समः समयोश्च॥ अण्वादिविषमयोस्तुपरस्परविपर्ययेण॥ यात्वेकैव पाली स्थूला पृथ्वी स्थिरा च स्यात्॥ तां द्विधा पाटयित्वोपरि छित्त्वा संदध्यात्॥ गंडोत्कृत्तेन वासशोणितेन सानुबंधन मांसेन पालीं कल्पयेत्॥ यस्य पालीद्वयमपि नास्ति तस्याप्येष विधिः॥ अथवा समानवयोदोषादौ संचार्यं कर्णं पीठं वा समे मध्ये निर्विध्य वर्द्धयेत्॥ संधानविधिः पुनरातुरे ग्रथितकेशांते बंधमुपधार्य छेद्यभेद्यलेख्यैरुपपन्नैरुपपाद्य कर्णशोणितमवेक्षेत दुष्टमदुष्टं चेति॥ ततो वातदुष्टे धान्याम्लोष्णोदकाभ्यां पित्तदुष्टे क्षीरशीतोदकाभ्यां श्लेष्मदुष्टे वारुणीसलिलाभ्यां प्रक्षाल्य पुनश्चावलिख्यानुन्नतमहीनमविषमं कर्णसंधिं निवेश्य ततोमधुघृताभ्यामभ्यज्य पिचुप्लोतयोरन्यतरेणावगुंठ्य सूत्रेणानवगाढमशिथिलं च बध्वा सिराव्यधोक्तेन कपालस्य वा चूर्णेनाकीर्याचारिकमादिशेत्॥ संधिमाश्लिष्य तं क्षौमसूत्रेण सीव्येदभिक्षीणपालिकं वा॥ शोणिताक्तेन पिचुना वेष्टयेत् व्रणवच्चैनमुपाचरेत् त्र्यहाच्चतुरहाद्वा सतैलेन परिषिच्य पिचुसूत्रं चापनयेत्॥ न चाशुद्धर-
————————————————————————————————————————————————
स्ववृत्तसमोभयपालिर्वल्लूरकः॥ अभ्यंतरदीर्घकपालिरासंगिमः॥ बाह्यदीर्घैकपालिर्गंडकर्णः॥ अपालिरुभयतोऽप्याहार्यः॥ पीठोपमपालिरुभयतः क्षीणपुत्रिकाश्रितो निर्वेधिमः॥ स्थूलाणुसमविषमपालिर्व्यायोजिमः॥ अभ्यंतरदीर्घैकपालिरितराल्पपालिः कपारसंधिकः॥ बाद्यदीर्घैकपालिरितराल्पपालिरर्द्धकपाटसंधिकः॥ तत्र दशैते कर्णबंधविकल्पाः साध्यास्तेषां स्वनामभिरेवाकृतयः प्रायेण व्याख्याताः॥ संक्षिप्तादयः पंचासाध्याः॥ तत्र शुष्कशष्कुलिरुत्सन्नपालिरितराल्पपालिः संक्षिप्तः॥ अनधिष्ठानपालिः पर्यंतयोः क्षीणमांसो हीनकर्णः॥ तनुविषमाल्पपालिर्वल्लीकर्णः॥ ग्रथितमांसस्तब्धसिराततः सूक्ष्मपा लिर्यष्टीकर्णः॥ निर्मांससंक्षिप्ताग्राल्पशोणितपालिः काकौष्ठकपालिरिति॥
क्तमतिप्रवृत्तरक्तं क्षीणरक्तं वा कर्णं संदध्यात्॥ तस्य हि स्वयमपि संधिर्विश्लिष्यते ध्मायते श्यावतामुपैति पच्यते शुष्यति चिराद्रोहति रुढोऽप्याभरणं न क्षमते सशोफकंडूसंतापो ग्रंथिमांश्च भवति॥ तत्र यथास्वं प्रतिकुर्वीत॥ दुष्टरक्ते च रक्तमवसेचयेत्॥ क्षीणरक्तं स्नेहपाननस्यमांसरसाशनाभ्यंगैर्बृंहयेत्॥ सर्वत्र चैवमपि सोपद्रवसंधौ संधिं विमुच्य पूर्वापचारोपस्थापितस्मृतिं सम्यक् संदधीतेति॥ भवंति चात्र॥ न कर्णे शोफरागादियुक्ते संधानमाचरेत्॥न घस्मरस्य नात्युष्णे नाविशुद्धतनोरपि॥ सुरूढं जातरोमाणं श्लिष्टसंधिसमं स्थिरं॥ सुचर्माणमरोगं च शनैः कर्णं विवर्द्धयेत्॥ अ571न्यथानाहरुक्तोदशोफाः स्युस्तत्र कारयेत्॥ शीतान् प्रदेहसेकादी न्शुद्धिं च क्लेदनाशिनीं॥ स्नेहावनूपजौतैलं सर्पिलक्षारसांजनं॥ साधयेन्मधुरस्कंधहयगंधामसूरकैः॥ पिष्टैर्दशगुणक्षीरे तत्परं कर्णवर्द्धनं॥ कठिनाः सरुजः क्षामाः पाल्यः स्वेदितमर्दिताः॥ अभ्यक्तास्तेन जायंते मृदवो नीरुजः स्थिराः॥ बृहत्यौक572बरीवारिशूकमर्कजटाघृतं॥ माक्षिकं शिखिनीतैलं सप्ताहं ताम्रभाजने॥ स्थापयेत्तत्परं कर्णमालेपात्पोषयेत्कृशं॥ चर्मचटिकाजलौकोहयगंधाशबरकंदकं तुल्यं॥ माहिषनवनीतयुतं कपित्थकं कर्णवर्द्धनं पक्षात्॥ कुर्याच्चाभ्यंजनालेपान् पालीशोषे प्रकीर्तितान्॥ अथ कुर्याद्वयस्थस्य छिन्नां शुद्धस्य नासिकां॥ छिंद्यान्नासासमं पत्रं तत्तुल्यं च कपोलतः॥ त्वाङ्मांसंनासिकासन्ने रक्षंस्तत्तनुतां नयेत्॥ सीव्येद्गंडं ततः सूच्या सेविन्या पिचुयुक्तया॥ नासाछेदे सुलिखिते परिवर्त्योपरि त्वचं॥ कपोलवच्च संदध्यात् सोव्येन्नासां च सर्वतः॥ नाडीभ्यामुत्क्षिपेदंतः सुखोच्छ्वासप्रवृत्तये॥ आमतैलेन सिक्त्वाऽनु पत्तंगमधुकांजनैः॥ शोणितस्थापनैश्चान्यैः सुश्लक्ष्णैरवचूर्णयेत्॥
ततो मधुघृताभ्यक्तंबध्वाऽऽचारिकमादिशेत्॥ ज्ञात्वा ऽवस्थांतरं कुर्यात्सद्योव्रणविधिंततः॥ छिंद्याद्रूढेऽधिके मांसं नासोपांताच्च चर्मवत्॥ सीव्येत्ततश्च सुश्लक्ष्णं हीनं संवर्द्धयेत्पुनः॥ निवेशिते यथान्यायं सद्यश्छेदेऽप्ययं विधिः॥ इति कर्णरोगप्रतिषेधो नाम द्वाविंशोऽध्यायः॥२२॥
अथातो नासारोगविज्ञानं व्याख्यास्यामः॥ अवश्यायानिलरजोभाष्यातिस्वप्नजागरैः॥ नीचात्युच्चोपधानेन पीतेनान्येन वारिणा॥ अत्यंबुपानरमणछर्दिबाष्पग्रहादिभिः॥ क्रुद्धा वातोल्बणा दोषा नासायां स्त्यानतां गताः॥ जनयंति प्रतिश्यायं वर्द्धमानं क्षयप्रदं॥ तत्र वातात्प्रतिश्याये मुखशोषोभृशं क्षवः॥ घ्राणोपरोधनिस्तोददंतशंखशिरोव्यथाः॥ कीटकाइव सर्पंति मन्यते परितो भ्रुवौ॥ स्वरसादश्चिरात् पाकः शिशिराच्छकफस्रुतिः॥ पितात्तृष्णा ज्वरघ्राणपिटिकासंभवभ्रमाः॥ नासाग्रपाको रुक्षोष्णताम्रपीतकफस्रुतिः॥ कफात्कासोऽरुचिः श्वासो वमथुर्गात्रगौरवं॥ माधुर्यंवदने कंडूःस्निग्धश्लक्ष्णघनस्रुतिः॥ सर्वजो लक्षणैः सर्वैरकस्माद्वृद्धिशांतिमान्॥ दुष्टं नासासिराः प्राप्य प्रतिश्यायं करोत्यसृक्॥ उरसः सुप्तता ताम्रनेत्रत्वं श्वासपूतिता॥ कंडूः श्रोत्राक्षिनासासु पित्तोक्तं चात्र लक्षणं॥ सर्वएव प्रतिश्याया दुष्टतां यांत्युपेक्षिताः॥ यथोक्तोपद्रवाधिक्यात्स573 सर्वेंद्रियतापनः॥ साग्निसादज्वरश्वासकासोरःपार्श्ववेदनः॥ कुप्यत्यकस्माद्बहुशो मुखदौर्गंध्यशोषकृत्॥ नासिकाक्लेदसंशोषशुद्धिरोधकरो मुदुः॥ पूयोपमासितारक्तग्रथितश्लेष्मसंस्रुतिः॥ मूर्च्छंति चात्र कृमयो दीर्घस्निग्धसिताणवः॥ पक्वलिंगानि तेष्वंगलाघवं क्षवथोः शमः॥ श्लेष्मा सुचिक्कणः पीतो ज्ञानं च रसगंधयोः॥ तीक्ष्णाघ्राणोपयोगार्करश्मिसूत्रतृणादिभिः॥
वातकोपिभिरन्यैर्वा नासिकातरुणास्थनि॥ विघट्टितेऽनिलः क्रुद्धो रुद्धः शृंगाटकं व्रजन्॥ निवृत्तः कुरुतेऽत्यर्थं क्षवथुं स भृशक्षवः॥ शोषयेन्नासिकास्रोतः कफं च कुरुतेऽनिलः॥ शूकपूर्णाभनासात्वं कृच्छ्रादुच्छ्वसनं ततः॥ स्मृतोऽसौ नासिकाशोषो नासानाहे तु जायते॥ नद्धत्वमिव नासायाः श्लेष्मरुद्धेन वायुना॥ निश्वासो च्छ्वाससंरोधात्स्रोतसी संवृते इव॥ पचेन्नासापुटे पित्तं त्वङ्मांसं दाहशूलवत्॥ स घ्राणपाकः स्रावस्तु तत्संज्ञः श्लेष्मसंभवः॥ अच्छो जलोपमोऽजस्रं विशेषान्निशि जायते॥ कफः प्रवृद्धो नासायां रुध्वा स्रोतांस्यपीनसं॥ कुर्यात्सघुर्घुरश्वासं पीनसाधिकवेदनं॥ अवेरिव स्रवत्यस्यप्रक्लिन्ना तेन नासिका॥ अजस्रं पिच्छिलं शीतं पक्वं सिंघाणकं घनं॥ रक्तेन नासा दग्धेव बाह्यांतः स्पर्शनासहा॥ भवेद्धृमोपमोच्छ्वासा सा दीप्तिर्दहतीव च॥ तालुमूले मलैर्दुष्टैर्मारुतो मुखनासिकात्॥ श्लेष्मा च पूतिर्निर्गच्छेत्पूतिनासंवदंति तं॥ निचयादभिघाताद्वा पूयासृङ्नासिका स्रवेत्॥ तत्पूयरक्तमाख्यातं शिरोदाहरुजाकरं॥ पित्तश्लेष्मावरुद्धोंऽतर्नासायां शोषयेन्मरुत्॥ कफं स शुष्कपुटतां प्राप्नोति पुटकं तु तत्॥ अर्शोर्बुदानि विभजेद्दोषलिंगैर्यथायथं॥ सर्वेषु कृच्छ्रोच्छ्वसनं पोनसः सततं क्षुतिः॥ सानुनासिकवादित्वं पूतिनासः शिरोव्यथा॥ अष्टादशानामित्येषां यापयेद्दुष्टपीनसं॥ इति नासारोगविज्ञानीयो नाम त्रयोविंशोऽध्यायः॥२३॥
अथातो नासारोगप्रतिषेधं व्याख्यास्यामः॥ सर्वेष्वेवादौ पीनसेषु स्नेहस्वेदवमनधूमगंडूषस्रिग्धोष्णभोजननिवातशयनासनानि सेवेत॥ पाचनार्थं च गुडार्द्रकक्षीरत्रिकटुकाजमांसमद्याम्लभोजनानि॥ रोहि षाजाजीवचाचोरकोपकुंचिकाचातुर्जाततर्कारीरजो वस्रावबद्धं मुहुमुहुरुपजिघ्रेत्॥ घृताक्तसक्तून्मल्लकसंपुटेकृत्वा धूमं च पिबेत्॥ पक्वे तु शिरोविरेचनमवपीडं च युंज्यात्॥ निदानोक्तानि वर्जयेत्॥ विशेषे
ण शीतांबुस्नानपानात्युच्चोपधानवेगोदीरणधारणक्रोधशोकान्॥ अथ वातप्रतिश्यायी पूर्वमेव वातहरद्रव्यविपक्वंससैंधवं प्रातः सर्पिः पिबेत्॥ दशमूलकुलत्थकोलयवशुष्कमूलकव्योषलवणपंचकैः सदधिधान्याम्लं सर्पिः सिद्धमाहरेत्॥ पाने च प्रणीतं प्रतिश्याययक्ष्मकासश्वासग्रहणीगुल्मविबंधघ्नं॥ जीर्णस्नेहं जांगलरसेन व्योषदाडिमसैंधववचा बालमूलरसेन सर्वधान्ययूषेण वा भोजयेत्॥ नागरं वा पयसा पिबेत्॥ कृष्णादशमूलशुंठीयवैरंडमूलक्वाथसिद्धेन पयसोत्तमांगं स्वेदयेत्॥ तदेव च पानभोजनयोर्विदध्यात्॥ अर्दितोक्तांश्च स्वेदानेवमपरिपच्यमाने पुनः पुनर्नाडीस्वेदान्वातहरं चास्थापनमनुवासनं शिरोबस्तिं च॥ पक्वे तु तैलं क्षवकचूर्णयुक्तं सैंधवं सर्पिः शिरोविरेचनं॥ पित्तप्रतिश्याये पद्मकोशीरपटोलीसारिवाविदारीशतावरीक्षीरिद्रुमशुंगशुंठीकर्कटाख्यादुरालभानामर्द्धाढकमष्टगुणेंऽभसि विपाच्य पादावशेषे मधुक मृट्टीकाचंदनशृंगाटककशेरुकश्वेतपाकान्यक्षमात्राणि दत्वा घृतप्रस्थं पयसा सह साधयेत्॥ तत्प्रातः पानाय युंज्यात्॥ जीर्णे सुखोष्णतोयपरिषिक्तं ससैंधवेन रसेन भोजयेत्॥ स्निग्धं विरेचयेत्॥ द्राक्षापटोलश्रीपर्णीमूर्वात्रिवृत्क्वाथेन त्रिवृत्पथ्यापूगफलचूर्णान्वितेन॥ विरिक्तभुक्तस्य शीतलैः शिरोवक्रलेपपरिषेककवलग्रहान्वितरेत्॥ व्यजनपवनविधूयमानश्च नीलशाद्वलोपवनशिशिरकरकिरणधारागृहाणि सेवेत॥ पक्वे तु दोषे शिरोविरेक पुराणेन घृतेन ससैंधवेन घृतमंडेन वा कट्फलान्वितेन वा कुर्यात्॥ विशुद्धस्रोतसश्चजांगलरसेन क्षीरेण वा शीतेन संभोजनं॥ कफजे तु यवक्षारावचूर्णितमुष्णोदकानुपानं घृतं पाययेत्॥ जीर्णे च तिलमाषपललवतीं यवागूं॥ ततो वामनीयौषधक्वाथसिद्धया ससर्पिष्कया ससैंधवमाषचूर्णप्रगाढया पेययोष्णांभसा च वामयेत्॥ ततस्तीक्ष्णधूमकवलयवान्नचणकप्रायाहारनाडीस्वे
दैरुपाचरेत्॥ अरुचिगौरवयोस्तु विशो574षयेत्॥ पक्वे क्षवकविडंगसैंधवादिभिर्नस्यं तैलाप्लुतो नागरचूर्णानुबद्धो मुद्गाहारो यथासात्म्यं च॥ रूक्षतीक्ष्णोष्णशुद्धघ्राणपथस्य देवदारुसरलकाकोलीजीवकमधुकपिप्पल्यनंताक्षीरविपक्वं तैलं नस्यं॥ सान्निपातिके दोषबलतः प्रतिकुर्यात्॥ रसांजनातिविषामुस्तभद्रदारुसाधितं चात्र तैलं नावनं॥ रक्तजे पैत्तिकरक्तपित्तयोश्च विधिः॥ दुष्टप्रतिश्याये व्योषचित्रकयवक्षारबीजकविडंगत्वक्लवणत्रयीमांसरसप्रतीवापविपक्वंसक्षौद्रं सर्पिः पाययेत्॥ जीर्णे घृते जांगलरसेन तैलोपसेकं भोजयेत्॥स्निग्धं च प्रतिश्यायवदुपाचरेत्॥ पक्वेऽवपीडं न्योषेंद्रयवविडंगसारजीरकसैंधवैर्बस्तमूत्रपिष्टैर्दद्यात्॥ विशुद्धघ्राणस्रोतसं च पुनरुपास्नेह्य विरेचयेत्॥ भृष्टान् यवान् भूस्तृणकाभ्रातकजीरकत्रिवृतायुक्तगोमूत्रे क्वाथयेत्॥ तं क्वाथमभयानागरमरिचक्रमुकसैंधवयावशूकचूर्णयुक्तं सबीजपूरकरसं पाययेत्॥ कोष्णोदकं चानु पाययेत्॥ विरिक्तं च काले मुस्तहरिद्रानागरयवक्षारपूतिकरंजरेणुकाभिरजाविगोमूत्रदधिभिश्च सिद्धं सर्पिरुपयोजयेत्॥ तीक्ष्णानि च निरूहानुवासनानि॥ अरिष्टांश्च पानार्थे॥ एवमप्यशांतौहिंगुक्षाराम रदारुविपक्वंघृतं मांसरसानुपानं पिबेत्॥ कुशाम्रपल्लवमूर्वातकरींगुदीफलफणिज्जकमहापंचमूलकंटकारिकासारिवोरुबूकहिंस्रानिंबशिग्रुफलरक्षोघ्नकृमिघ्नदंतीपूतिकरंजपिप्पलीवार्ताकबीजाहिमारकमूलत्वक्पत्रपुष्पफलैरजाश्वशकृद्रसयुक्तैर्धूमवर्तिं कृत्वा घृताभ्यक्तां पातुं प्रयच्छेत्॥ पिप्पलीवर्द्धमानं चोपयुंजीत॥ कृमिघ्नैश्च योगेर्यापयेत्॥ भृशक्षवथौ पुटके च निंबकट्फलकुष्टमरिचचूर्णःक्लेदनाय प्रधमनं॥ पिप्पलीकुष्टशुंठीविडंगमृद्वीकाकषायकल्कविपक्वं तैलं घृतं वा नावनं॥ नासाशोषे बलातैलं पाने शिरोबस्तौ च॥ स्निग्धस्य स्वेदः॥ क्षी
रसर्पिर्नस्यं॥ मधुरवर्गसाधितं वा तैलं॥ स्नैहिको धूमः॥ तथा ऽऽनाहेऽपि॥ एवमनुपशमे शिरोविरेकः॥ नासापाके दीप्तौ च जलौकोभिरस्रविस्रावणं॥ शीतैरूर्ध्वाधो विरेकलेपसेकाः॥ नासास्रावे तीक्ष्णं नस्यंधूमश्च॥ अपीनसे पूतिनासे च गुडमरिचाहिंगुशिवाटिकाविडंगैरेजामूत्रपिष्टैर्नस्यं॥ कफप्रतिश्यायवच्च स्नेहस्वेदवमनानि॥ वमितवतो निर्गुंडीशिग्रुतर्कारीफणिज्जाकक्षवकसुरसार्जकपत्रस्वरसेन सार्पषंपीलुजं वा तैलं विपाच्य नस्यं विदध्यात्॥ लाक्षाविडंगपिप्पलीलवंगक्षवकनिशाकुष्टवचाकरंजिकाकल्कैर्वातिलतैलं॥ उत्पन्नमात्रं पूयरक्तं प्रतिश्यायवच्चिकित्सेत्॥ प्रवृद्धं नाडीव्रणवत्॥ कृतवमनस्य चास्य नस्यधूमौ योजयेत्॥ अर्शांसि विधिवत् क्षारेणाग्निना वा दहेत्॥ स्थूलानि तु शस्त्रेण स्पृष्ट्वा॥ दाहानंतरं शीतां क्रियां योजयेत्॥ वर्त्तिं च नासायां कुंभनिकुंभाग्निकसैंधवपिप्पलीमनःशिलाऽलकल्कमधुघृतप्रदिग्धां तुवरिकाविभीतकहरिद्रारोध्रप्रियंगुकरंजिकाकल्कगुडोदकविपक्वंतैलं नावनं॥ रोध्रोत्पलमधुकतिंदुकास्थित्रिफलाखदिरसारविपक्वंवा॥ यथादोषंच स्नेहवमनविरेचनादीन् प्रणिदध्यात्॥ अर्बुदं बडिशेन गृहीत्वा मंडलाग्रेण मूले समं भिंद्यात्॥ छेद्यं चोच्छेदयेत्॥ चलं प्रसृष्टं च व्रणं शलाकया दहेत्॥ तैलेन वाऽग्निदग्धं प्रक्षयेत्॥ ततः शिशिरप्रदेहः॥ उपरुढव्रणस्य रोध्रावापं तीक्ष्णोष्णलवणद्रव्यगोमूत्रयुक्तं सार्पपं कारंजं वा तैलं नावनं॥ पित्तजे रक्तजे वाऽर्बुदे गोदंतसैंधवतालकासीसकांस्यनीलैरंबुपिष्टैरालेपः॥ ततश्च शीताः प्रदेहसेकाः शीतैरेव च साधितान्यभ्यंगनस्यापानानि॥ मांसमेदःसन्निपातार्शोर्बुदानि च साधयेदिति॥ भवति चात्र॥हीनच्छेदात् पुनर्वृद्धिरतिच्छेदात्स्वरक्षयः॥ गंधाज्ञानं च वीसर्पोमूर्च्छाछिंद्यादतःसमं॥ इति नासारोगप्रतिषेधो नाम चतुर्विंशोऽध्यायः॥ २४॥
अथातो मुखरोगविज्ञानं व्याख्यास्यामः॥ मात्स्यमाहिषवाराहपिशितामकमूलकं॥ माषसूपदधिक्षीरसुक्तेक्षुरसफाणितं॥ अवाक्शय्यां च भजतो द्विषतो दंतधावनं॥ धूमछर्दनगंडूपानुचितं च सिराव्यधं॥ क्रुद्धाः श्लेष्मोल्वणा दोषाःकुर्वंत्यंतर्मुखेगदान्। तत्र खंडोष्ठइत्युक्तो वातेनोष्ठो द्विधा कृतः॥ ओष्ठकोषेतु पवनात्स्त ब्धावोष्ठौ महारुजौ॥ दाल्येते परिपाट्येते परुपासितकर्कशौ॥ पितात्तीक्ष्णासहौपीतौ सर्पपाकृतिभिश्चितौ॥ पिटिकाभिर्बहुक्लेदावाशुपाको कफात्पुनः॥ शीतासहौगुरू शूनौ सवर्णपिटिकाचितौ॥ सन्निपातादनेकाभौ दुर्गंधास्त्रावपिच्छिलौ॥ अकस्मान्म्लानसंशूनरुजौविषमपाकिनौ॥ रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ॥ खर्जूरसदृशं चात्र क्षीणे रक्तेऽर्बुदं भवेत्॥ मांसपिंडोपमौ मांसात्स्यातां मूर्च्छत्कृमी क्रमात्॥ तैलाभश्वयथुक्लेदौ सकंड्वौमेदसा मृदू ॥ क्षतजाववदीर्येते पाटयेते चासकृत्पुनः॥ ग्रथितौ च पुनः स्यातां कंडूलौदशनच्छदौ॥जलबुहुदवद्वातकफादोष्ठेजलार्बुदं575॥ गंडालजी स्थिरः शोथो गंडे दाहज्वरान्वितः576॥ वातादुष्णसहादंताः शीतस्पर्शाधिकन्यथाः॥ दाल्यंतइव शूलेन शीतास्यो दालनश्च सः॥ दंतहर्षे च वाताम्लशीतभक्ष्याक्षमा द्विजाः॥ भवंत्यम्लाशनेनैव सरुजश्चलिनाइव ॥ दंतभेदे द्विजास्तोदभेदरुक्स्फुटनान्विताः॥ चालश्चलद्भिर्दशनैर्भक्षणादधिकव्यथैः॥ करालस्तु करालानां दशनानां समुद्गमः ॥ दंतोऽधिकोऽधिदंताख्यः स चोक्तः खलु वर्द्धनः॥ जायते जायमानेऽतिरुक् जाते तत्र शाम्यति॥ अधावनान्मलो दंते कफो वा वातशोषितः॥ पूतिगंधः स्थिरीभूतः शर्करा सोऽप्युपेक्षितः॥ शातयत्यणुशो दंतान्कपालानि कपालिका॥ श्यावः श्यावत्वमायाता रक्तपित्तानिलैर्द्दिजाः॥ समूलं दंतमाश्रित्य दोषैरुल्बणमारुतैः॥ शोषिते मज्नि सुषिरे दंतेऽन्नमलपूरिते॥ पूतित्वात्कृमयः सूक्ष्मा जायंते जायते ततः॥ अहेतुतीव्रार्तिशमःससंरंभोऽसितश्चलः॥ प्रलूनः पूयरक्तासृक् स चोक्तः कृमिदंतकः577॥ श्लेष्मरक्तेन पूतीनि वहंत्यस्रमहेतुकं॥ शीर्यंते दंतमांसानि मृदुक्लिन्नमितानि च॥ शीतादोऽसावुपकुशः पाकः पित्तासृगुद्भवः॥ दंतमांसानि दह्यंते रक्तान्युत्सेधवंत्यतः॥ कंडूमंति स्रवंत्यस्रमाध्मायंतेऽसृजि स्थिते॥ चला मंदरुजो दंताः पूतिवक्रंच जायते॥ दंतयोस्त्रिषुवा शोथो बदरास्थिनिभो घनः॥ कफास्रात्तीव्ररुक् शीघ्रं पच्यते दंतपुष्पुटः॥ दंतमांसे मलैः सास्रैर्बाह्यांतः श्वयथुर्गुरुः॥ सरुग्दाहः स्रवेद्भिन्नः पूयास्रं दंतविद्रधिः॥ श्वयथुर्दंतमूलेषुरुजावान् पित्तरक्तजः॥ लालास्रावी स सुषिरो दंतमांसप्रशातनः॥ स सन्निपाताज्ज्वरवान् सपूयरुधिरस्रुतिः॥ महासुषिर इत्युक्तो विशीर्णद्विजबंधनः॥दंतांतेकीलवच्छोथो हनुकर्णरुजाकरः॥प्रतिहंत्यभ्यवहृतिं श्लेष्मणा सोऽधिमांसकः॥ घृष्टेषु दंतमांसेषुसंरंभो जायते महान्॥ यस्मिंश्चलंति दंताश्च स विदर्भोऽभिघातजः॥ दंतमांसाश्रितान् रोगान् यःसाध्यानप्युपेक्षते॥ अंतस्तस्यास्रवन् दोषःसूक्ष्मां संजनयेद्गतिं॥ पूयंमुहुःसा स्रवति त्वड्यांसासृक्प्रभेदिनीं॥ ताः पुनः पंच विज्ञेया लक्षणैः स्वैर्यथोदितैः578॥ शाकपत्र खरा सुप्तास्फुटिता वातदूषिता ॥जिह्वा पित्तात् सदाहोषारक्तै मांसांकुरैश्चिता॥ शाल्मलीकंटकाभैस्तु कफेन बहला गुरुः॥ कफपित्तादधः शोफो जिह्वास्तंभकृदुन्नतः॥ मत्स्यगंधिर्भवेत्पक्वःसोऽलसो मांसशातनः॥ प्रबंधनेऽधो जिह्वायाः शोफो जिह्वाग्रसन्निभः॥ सांकुरः कफपित्तास्रैर्लालोपास्तंभवान् खरः॥अधिजिह्वःसरुक्कंडूर्वाक्याहारविघातकृत्॥ तादृगेवोषजिह्वस्तु जिव्हाया उपरि
स्थितः579॥ तालुमांसेऽनिलाद्दुष्टे पिटिकाः सरुजाः खराः॥ बह्यो घनाः स्रावयुतास्तास्तालुपिटिकाः स्मृताः॥ तालुमूले कफात्सास्रान्मात्स्यबस्तिनिभो मृदुः॥ प्रलंबः पिच्छिलः शोफो नासयाऽऽहारमीरयन्॥ कंठोपरोधतृट्कासवमिकृद्गलशुंडिका॥ तालुमध्ये निरुड्यांसं संहतं तालुसंहतिः पद्माकृतिस्तालुमध्ये रक्ताच्छ्वयथुरर्बुदं॥ कच्छपः कच्छपाकारश्चिरवृद्धिः कफादरुक्॥ कोलाभः श्लेष्ममेदाभ्यां पुप्पटो नीरुजः स्थिरः॥ पित्तेन पाकः पाकाख्यः पूयास्रावी महारुजः॥ वातपित्तज्वरायासैस्तालुशोषदाव्हयः580॥ जिव्हाप्रबंधजाः कंठे दारुणा मार्गरोधिनः॥ मांसांकुराः शीघ्रचयारोहिणी शीमकारिणी॥ कंठास्यशोषकृद्वातात्सा हनुश्रोत्ररुक्करी॥ पिताज्ज्वरोषातृण्मोहकंठधूमायनान्विता॥ क्षिप्रजा क्षिप्रपाकार्तिरागिणी स्पर्शनासहा॥ कफेन पिच्छिला पांडुरस्रजा स्फोटकान्विता॥ तप्तांगारनिभाकर्णरुक्करी पित्तजाकृतिः॥ गंभीरपाका निचयात्सर्वलिंगसमन्विता॥ दोषैःकफोल्बणैः शोफः कोलवद्ग्रथितोन्नतः॥ शूककंटकपत्कंठे शालूको मार्गरोधनः॥ वृंदो वृत्तोन्नतो दाहज्वरकृद्गलपार्श्वगः॥ हनुसंध्याश्रितः कंठे कार्पासीफलसन्निभः॥ पिच्छिलो-मंदरुक्शोफः कठिनस्तुंडिकेरिका॥ बाह्यांतः श्वयथुर्घोरो गलमा-गर्गलोपमः॥ गलौघोमूर्द्धगुरुतातंद्रालालाज्वरप्रदः॥ वलयं नाति रुक् शोफस्तद्वदेवायतोन्नतः॥ मांसकीलो गले दोषैरेको ऽनेकोऽथवाऽल्परुक्॥ कृच्छ्रोच्छ्वासाभ्यवहृतिः पृथुमूलो गिलायुकः॥ भूरिमांसांकुरवृता तीव्रतृट्ज्यरमूर्द्धरुक्॥ शतघ्नी निचिता वर्तिः श-तघ्नीवातिरुक्करी॥ व्याप्तसर्वगलः शीघ्रजन्मपाको महारुजः॥ पूतिपूयनिभस्रावी श्वयथुर्गलविद्रधिः॥ जिव्हावसाने कंठादावपाकंश्वयथुंमलाः॥ जनयंति स्थिरं रक्तं नीरुजं तद्गलार्बुदं॥ प
वनश्लेष्ममेदोभिर्गलगंडो भवेद्बहिः॥ वर्द्धमानः स कालेन मुष्कवल्लंबते गले॥ कृष्णोऽरुणो वा तोदाढ्यः स वातात्कृष्णराजिमान्॥वृद्धस्तालुगले शोषंकुर्याच्च विरसास्यतां॥ स्थिरः सवर्णःकंडूमान् शीतस्पर्शो गुरुः कफात्॥ वृद्धस्तालुगले लेपं कुर्याच्च मधुरास्यतां॥ मेदसः श्लेष्मवद्धानिवृत्ध्योःसोऽनुविधीयते॥ देहं वृद्धश्चकुरुते गले शब्दं स्वराल्पतां॥ श्लेष्मरुद्धानिलगतिः शुष्ककंठो हतस्वरः॥ ताम्यन्प्रसक्तं श्वसिति येन सस्वरहा ऽनिलात्581॥ करोति वदनस्यांतर्व्रणान् सर्वसरोऽनिलः॥ संचारिणोऽरुणान् रुक्षानोष्ठौ ताम्रौ चलत्वचौ॥ जिन्हा शीतासहागुर्वी स्फुटिता कंटकान्विता॥ विवृणोति च कृच्छ्रेण मुखं पाकोमुखस्य सः॥ अधःप्रतिहतो वायुरर्शोगुल्मकफादिभिः॥ यात्यध्वं वक्रदौर्गंध्यं कुर्वन्नूर्ध्वगदस्तु सः॥ मुखस्य पित्तजे पाके दाहोषेतिक्तवक्रता॥ क्षारोक्षितक्षतसमा व्रणास्तद्वच्च रक्तजे॥ कफजेमधुरास्यत्वं कंडूमत्पिच्छिला व्रणाः॥ अंतः कपोलमाश्रित्य श्यावपांडु कफोऽर्बुदं। कुर्यात्तत्पाटितं छिन्नं मृदितं च विवर्द्धते। मुखपाको भवेत्सास्रैःसर्वैः सर्वाकृनिर्मलैः॥ पूत्यास्यता च तैरेवदंतकाष्टादिविद्विपः॥ ओष्ठे गंडे द्विजे मूलेजिव्हायां तालुके गले॥वक्रे सर्वत्र चेत्युक्ताः पंचसप्ततिरामयाः॥ एकादशैको दश चत्रयोदश तथा च षट्॥ अष्टावष्टादशाष्टौ च क्रमात्तेष्वनुपक्रमा॥करालो मांसरक्तोष्ठावर्बुदानि चलाद्दिना॥ कच्छपस्तालुपिटिका गलौघःसुषिरो महान्॥ स्वरघ्नोर्ध्वगदश्यावशतघ्नीवलयालसाः॥नाड्योष्ठकोषौनिचयाद्रक्तात्सर्वैश्व रोहिणी॥ दशने स्फुटिते दंतभेदः पक्वोपजिव्हिका। गलगंडः स्वरभ्रंशी कृच्छ्रोच्छ्वासोऽतिवत्सरः॥ याप्यस्तु हर्षो भेदश्च शेषान् शस्त्रौषधैर्जयेत्॥ इति मुखरोगविज्ञानं नाम पंचविंशोऽध्यायः॥ २५॥
अथातो मुखरोगप्रतिषेधं व्याख्यास्यामः॥ स्निग्धस्विन्नस्य खं-डौष्ठस्योष्ठांतौविलिख्य सुश्लिष्टौक्षौमसूत्रेण सीव्येत्॥ शतधौतघृताभ्यक्तां चास्मै कवलिकां व्रणस्योपरि दद्यात्॥ प्रक्लिन्नं च व्रणंव्रणचिकित्सया साधयेत्॥ ज्योतिष्मतीरोध्रमधुकपटोलकाकमा-चीश्रावणीसारिवाभिस्तैलं विषक्वमभ्यंजनाच्छोधनरोपणं॥ वातहरमधुरौषधसिद्धं च तैलं नस्यं॥ वातजे ओष्ठकोषेदेवदारुगुग्गुलुसर्जरसमधूच्छिष्टसिद्धेनमहास्नेहेनाभ्यंगः॥ तेनैव च समधुकचूर्णेन प्रतिसारणं॥ तदभ्यक्तेन पिचुना प्रच्छादनं॥ एरंडपल्लवैः क्षीर-क्वथितैर्नाडीस्वेदः॥ खंडोष्ठोक्तं च नावनं॥ तदेव शिरोभ्यंगः॥ पित्तोत्थेऽभिघातजे च जलौकोभिर्वाऽस्रस्रावणं॥ पत्तंगयष्टीछिन्नरु हाविपक्वंसर्पिरभ्यंगः॥ मधुमधुकरोध्रसर्जरसैः प्रतिसारणं॥ पित्तविद्रधिवच्चचिकित्सा॥ रक्तजेऽप्यचिरोत्थिते पैत्तिकवत्प्रतिकुर्यात्॥ कफजे जलजाभिः शाकादिपत्रैर्वा रक्तं विस्राव्य व्योषपाठायवक्षारस्वर्जिकाक्षारैः सक्षौद्रैः प्रतिसारयेत्॥ कुष्टनगरदंतीश्यामाबिडहरितालविडंगैर्वा॥ स्वेदनस्यधूमकवलांश्च कफघ्नानवचारयेत्॥ मेदोजेदंतच्छदं स्वेदयित्वावृद्धिपत्रेण विपाट्यशुद्धमेतदग्निनाऽनु दहेत्॥कफजोक्तैश्च प्रतिसारण॥ जलार्बुदोक्तं च तैलं रोपणं॥जलार्बुदं भित्त्वा विशोध्य त्रिकटुककटुकातेजोवतीयवक्षारसैंधवस्वर्जिकाकासीसचूर्णैःसक्षौद्रैःप्रतिसारयेत्॥ अतिगाढमतिवृद्धं वा क्षारेणाग्निना वा दहेत्॥ हरिद्रामधुकरोध्रमालतीहरेणुतगरैर्विपक्वंतैलं रोपणं॥मांसपाकार्बुदसन्निपातास्त्याज्याः॥ गंडालजीमपक्वांशोफवत्,विदग्धामुपनात्द्यपक्वां बिदार्य व्रणवत्साधयेत्॥ शीतदंतस्योष्णां बुस्विन्नस्य व्रीहिमुखेन पालींलिखित्वा पिचुतैलेन दहेत्॥ प्रतिसारयेच्च प्रियंगुजंनस्थिदाडिमत्वक्त्रिफलारसांजनसैंधवशुंठीमुस्तकचू-र्णैर्मधुपुंते॥ क्षीरिवृक्षकषायैगैंडूषः॥ अणुतैलं नस्यं॥ दंतहर्षे भेदे
च वातहरसिद्धं तैलं॥ एलाकुष्टपाटलीत्वग्विपक्वोमज्जा वा गंडूपः॥ स्निग्धाश्च नस्यादयः॥ दंतचाले दशमूलक्वाथेन तैलसर्पिर्वसाक्षौदेश्च कवलः॥ पिप्पलीसैंधवतुत्थरोध्रपत्तंगस्रोतोजमुस्तात्रिफलाः प्रतिसारणं॥ नियतं च स्नैहिकधूमपायी स्निग्धमधुराहारो विस्रावणपरः स्यात्॥ चंदनपद्मविदारीकसेरुकनीलोत्पलमृद्विकाजीवकर्षभकशर्कराणां प्रत्येकं पलेन क्षीरेण च मांसरसद्विगुणेन तैलप्रस्थं विपाचयेत्॥ एतन्नस्यगंडूपप्रयोगात्परमं दशननयनश्रवणबलकरं॥ अधिदंतकं क्षारेणालिप्य जर्जरं विज्ञाय कृमिदंतकविधिनोत्पाट्यतद्वदेवोपचरेत्॥ अनवस्थितशोणितं दग्ध्वा व्रणवदुपक्रमेत्॥ दंतशर्करां दंतमूलान्यपीडयन्दंतलेखनेन विलिख्यक्षारतैलेनावसेचयेत्॥ ऊपायां कर्पूरपाटलीत्वक्चूर्णेन प्रतिसारणं॥ सदा च दंतधावनादि निषेवेत॥ दंतहर्षोक्तं च कुर्यात्॥ कपालिकायामेतदेव विशेषतः शोलयेत्॥ कृमिदंतके सुषिरं गुडेन मधूच्छिष्टेन सर्पिपावा पूरयित्वा तप्तशलाकया दहेत्॥ सप्तच्छदार्कक्षीरपूरणं॥ सर्पपकरंजतैलंवा हिंगुविडंगस्व-र्जिकाकट्फलकासीसकुष्टचूर्णस्तांतबद्धो दंतस्योपरि तिष्ठन् रुजम-पहरति॥ कुंदरुकचूर्णो वा॥एभिरेव च सिद्धं तैलं गंडूपः॥ दृढमूलगूढमांसे सरुजे विस्रावणं॥ भग्नस्फुटितविवर्णसुप्तस्य चलस्य सरुजश्चैवमनुपशमे संदंशयंत्रेण दंतमायतं गृहीत्वा विचाल्यशस्त्रेण पार्श्वेभ्यो मोक्षयित्वोद्धरेत्॥ दंतनिर्धातनेन चोत्पीड्य मुद्गरेणाश्मना वा निर्घातयेत्॥ न तूत्तरं॥ तस्योद्धरणाच्छोणितात्ययः स्यात्॥ ततश्चेंद्रियभ्रंशोवातव्याधिर्वा॥ प्रक्षालितमुखस्य समधुचूर्णं तैलं मधुवा गंडूपं धारयेत्॥ विदारीमधुकशृंगाटककसेरुकाभिस्तैलं दशगुणे पयसि सिद्धं नस्यं॥उत्तरदंतोद्धरणेऽप्ययमेव प्रतीकारः॥ शीतोपचारश्च सुत्तरां॥ शीतादे शोणितं विस्राव्य रसांजनमुस्तत्रिफलार्जुनत्वक्प्रियंगुमहौषधकषायगंडूपं धारयेत्॥ एभिरेव च सक्षौद्रैःप्रतिसारणं मधुवर्गतैलं नस्यं॥ तेजोवतीहरिद्राद्वयकुष्टपाठाकटुकरोहिणीरोध्रसमंगामुस्तैः प्रतिसारणं॥ सर्वदंतमांसामयेषुकंडूश्वयथुवेदनारक्तस्रुतिहरं॥ तथा व्योपयवक्षारमनःशिलाऽलसैंधवदार्वीत्वग्भिरेव चौपधैर्गुलिकाः सर्वमुखरोगहराः॥ उपकुशे सुखोष्णांबु-स्विन्नान्युत्सन्नानि दंतमांसान्यवलिखेन्मंडलाग्रेण शाकादिपत्रैर्वा॥ ततः सुखोष्णो घृतमंडस्तैलं वा गंडूपः॥ मरिचकुष्टमधुप्रियंगुभिर्वा लाक्षापत्तंगगैरिकरसांजनशुंठीसैंधवैर्मधुघृतमंडयुक्तैः प्रतिसारणं॥पृ-थक्पर्णीविडंगविदारीमधुकषायस्यासुरदारूपक्वंतैलं गंडूपोनस्यंच॥ मधुरसिद्धमेव वा सर्पिः॥ पुनः पुनश्च रुधिरावसेकः॥ दंतपुप्पुटके छिन्ने भिन्ने विलिखिते स्वर्जिकामधुशुंठीसैंधवैः प्रतिसारणं॥ दंतविद्वभौ तिक्तकटुकषायोष्णैःसमूत्रैः कवलालेपाश्च॥ वृश्चिकाली कुष्टकटुकायवक्षारैः प्रतिसारणं॥ पाकं तु सूक्षशीतैरंतर्बहिः प्रयुक्तैर्धारयेत्582॥ पक्वेतु पाटनमवगाढे दाहः॥ त्रिफलासुमनारिष्टक्वाथो गंडूपः॥ यष्टीमधुकसिद्धः सर्पिर्मंडो नस्यं॥ सुषिरेछिन्नलिखिते-रोध्रमुस्तत्रिफलाकिंशुकपत्तंतार्क्ष्यशैलशतपुष्पाकट्फलैरवघर्षः॥ तेषामेव क्वाथो गंडूपः॥ क्षीरिवृक्षकिंशुकामलकानां वा॥ गैरिको-त्पलमधुकसरिवाचंदनप्रपौंडरीकशर्करानंतारोध्रागुरुसिद्धं तैलं नावनं॥ अधिमांसकमचिरोत्थं स्रावयेत्॥ विवृद्धं तु बडिशेन मुचुंड्या वा गृहीत्वा मंडलाग्रेण छित्वा तीक्ष्णैः प्रतिसारयेत्॥ कटुतीक्ष्णैःकवलस्तैलं वा यवक्षारावचूर्णितं॥विदर्भे दंतमूलानि शस्त्रेण विशोध्य क्षारं प्रयुज्य घृतमंड गंडूपे दद्यात्॥ रोध्रप्रियंगुमंजिष्ठामधुकचूर्णः प्र-तिसारणं॥ काकोलीयष्टीमधुशर्कराविपक्वंतैलं नावनं॥ दंतनाडी मेषयित्वासंवृतां शस्त्रेण विचारयित्वा तदाश्रितं दंतशेषमुद्धृत्यशलाकया दहेत्॥ कुब्जामवगाढामनेकगतिं गुडमधुसिक्थान्यतमपूर्णी॥ ततः क्षीरिवृक्षकषायेण् गंडूपान्धारयेत्॥ तत्सिद्धेन वा तैलेन नस्यं च॥ दंतीखदिरसारमदनस्वाटुकंटकक्वाथेरोध्रवालकोशीरदेवदारुमंजिष्ठामधुककल्के विपक्वंतैलं सर्पपतैलं वा नाडीशोधनं से पणं च॥ प्रपौंडरीकहरिद्रायमधूकमधूच्छिष्टरोध्रकटुशर्करापद्यकचंदनदूर्वोपोदकावास्तुकतंदुलीयकमंजिष्टाम्लीकाकपित्थैः पत्रैर्वा नस्यं च॥विडंगमधुमुस्तानिर्गुंडीखदिरमंजिष्ठाशीरसुरतरुसिद्धं तैलं॥ धूमासृक्स्रावणनावनानि शीलयेत्॥ नाडीशोधनं चेक्षेत॥ जिव्हायां वातजेषु कंटकेषु वातोष्टकोषोक्तं च कुर्यात्॥ पित्तजेषु विघृष्टस्रुतदुष्टरुधिरेषु प्रतिसारणगंडूपनावनानि मधुरैर्हिमानि कुर्यात्॥ कफोत्थेषु सर्पपत्र्यूपणादिभिस्तीक्ष्णैस्तानि॥ जिव्हालसे नवोत्थिते तीक्ष्णाः प्रतिसारणादयः॥नचात्र शस्त्रमवचारयेत्॥सिरां तु वित्ध्येत्॥ पुनरधोजिव्हामुन्नम्य बडिशेन गृहीत्वा मंडलाग्रेण छिंद्यात्॥ तीक्ष्णाश्च नस्यादयः॥ उपजिव्हां शाकपत्रे-णांगुलिशस्त्रेण वा विस्राव्य यवक्षारेण प्रतिसारयेत्॥ गलशुंडिकां तु कफघ्नैरुपाचरेत्॥ वृद्धायां त्वेर्वारुकबीजनिभमसिराततमुपरि जिव्हाया निविष्टं बडिशेन मुचुंड्या वावस्रवेष्टिताभ्यां वा वामांगुष्ठप्रदेशिनीभ्यां गृहीत्वा मंडलाग्रेण नात्यग्रे नातिमूले छिंद्यात्॥ अग्रच्छेदादनुपशयः शोफलाला भिवृद्धिर्वा॥ अतिच्छेदाच्छोणितक्षयेण मरणं। सम्यकूछिन्नायां पूर्ववत्प्रतिसारणादयः॥ तालुसंघाते पुष्पुटेकच्छपे च नवे विधिरयं॥ शस्त्रकर्मणि तु विशेषः॥ तत्र हि विलेखनं॥ तालुपाकेऽप्यपक्वस्य श्वयथोः कासीसरसांजनक्षौद्रेण प्रतिसारणं॥ मधुरकषायशीतैर्गुंशूषः॥ पक्वस्य मंडलाग्रेणाष्टापद583वद्भेदनं॥ तीक्ष्णैरवघर्षणं॥ पटोलारिष्टजातीकरवीरगुडूचीवृषकटुकाहरिद्राद्दयवेत्राग्रकंटकारिकाक्वाथः कवलो मधु तैलं च॥ तालुशोषेमधुपिप्पलीनागरसिद्धमौत्तरभक्तकं सर्पिः सतृष्णः पिबेत्॥ अम्लैश्चास्य गंडूषः॥ पयस्यामधुकमधूलिकाविपक्वंक्षीरसर्पिर्नस्यं॥ स्निग्धो धूमः॥ तृष्णाघ्नमन्नपानं॥कंठरोगेषुतु ज्वराद्यनुपद्रुतेषु कटुतीक्ष्णैर्नस्यावघर्षणगंडूषादयः॥सिराव्यधो रसांजनेंद्रयवदार्वीनिंबक्वाथः पानं॥ व्योपयवक्षाररसांजनदार्वीतेजोवतीपाठानिंबत्वक्त्रिफलाचित्रकैः सुक्तगोमूत्रक्वथितैः कवलो गुटिका वाप्रतिसारणं॥ तालीसपत्रगृहधूमपंचकोलकैलामरि-चपलाशमुष्ककक्षारयवक्षारैः गुडक्वाथेन गुटिकाः कृताः सर्वकंठरोगेष्वमृतोपमाः॥ अथ वातरोहिणिकामंतर्बहिः स्विन्नामंगुलिशस्त्रकेण मधुलवणगर्भेण वा नखेन विस्राव्य तीक्ष्णैः प्रतिसारयेत्॥ महापंचमूलक्वाथो गंडूषः॥ एलापुनर्नवासिंहीकपित्थकल्कषयोविपक्वं तैलं गंडूषोनावनं च॥ पित्तजामप्येवं विस्राव्य पत्तंगशर्करारोध्रप्रियंगुभिः प्रतिसारयेत्॥ एषामेव कषायो गंडूषः॥ द्राक्षापसूषकोशीरमधुकचंदनक्वाथो वा॥ त्रिफलातिल्वकश्यामाश्रीपर्णी-त्वड्मधुपष्टिकाभिर्दशगुणे पयसिसिद्धं सर्पिर्नस्यकवलभोजनेषु॥ रक्तजामप्येवं प्रत्याख्यायोपक्रमेत्॥ श्लैष्मिकां स्वेदयित्वा विलि-ख्यकटुवर्गेण सागारधूमत्रिफलासैंधवयुक्तेन प्रतिसारयेत्॥ तद्विधाश्चगंडूषाः॥ निंबजात्यपामार्गतगरविडंगविपक्वंतैलं नस्यं॥ कंठशालूकवृंदतुंडिकेरीगिलायुष्वप्येष एवं विधिः॥ गलविद्रधौ विस्रावितायां रोध्रवरारसांजनपत्तंगगैरिकरोचनापिप्पलीसैंधवचूर्णाव-घर्षणं॥ तैरेव क्वथितैगंडूषः॥ किराततिक्तकरोध्रदार्वीशतपुष्पानिं-बकुष्टैलागुडूचीचित्रकतगरमुस्ताक्वाथविपक्वंतैलं नावनं॥ तिलप्रिया-ललट्वामृढकशणातसीबीजैरुपनायेत्॥ तिल्वकाग्निमंथपुनर्नवकाटामृतासौमांजनकगज पिप्पल्येषिपिकार्कमूटकरघाटकपुष्पैः सुराम्लपिष्ठैः पुनः पुनर्लेपयेत्॥ निंबगुडूचीकुटजहंसपादीकृष्णाबलाद्वयदेवदारूसिद्धं तैलं पाययेत्॥ श्लैष्मिकेऽप्ययमेव विधिः। तीक्ष्णतराश्चस्वेदप्रलेपादयः॥ विशल्याऽतिविषाविषाणिकाशुकनासाऽजगंधागुंजाफलकटुकालाबुभिः पलाशक्षारसुपिष्टैः सुखोष्णो लेपः॥ वत्सकादिना पंचलवणयुक्तेन सिद्धं तैलं पानं॥ तीक्ष्णान् वमनादीन् शीलयेत्॥ पर्यायशः स्वेदः शोणितावसेचनं च॥ तथाऽनुपशमे पाचयित्वा व्रणवदुभावप्युपचरेत्॥ यवान्नमुद्गादियूपांश्च व्योषोत्कटान्पानभोजनयोर्विदध्यात्॥ मेदोजे स्निग्धस्य सिरां व्यधेत्॥ पूर्वोक्तैः प्रलेपः॥ प्रातः प्रातश्चासनादिसाररजो गोमूत्रेण पिबेत्॥ एवमशांतौ च शस्त्रेण विदार्य मेदो विशोध्य सीव्येत्॥ दाहयोग्यं वा वसाधृतक्षौद्रान्यतमेन यथावद्दहेत्॥ रोचनाकासीसतुत्थकचूर्णावचूर्णितं तैलं व्रणशो-धनरोपणं॥ असनादिसारं गोपुरीपरसयुक्तं वा॥ मुखपाकेषु सामान्यतस्त्रिफलाक्वाथो मधुमान्॥ अन्ये च तिक्तकटुकषाया मुखधावनाः॥ पाठामृद्विकाजातीमातुलुंगार्जुनपुत्रजीवकपल्लवानामनभ्यवहारताचर्वणं॥ दारुहरिद्रार्द्धतुलां विंशतिगुणेंऽभसि श्रपयित्वा तं क्वाथं सगैरिकमादर्वीप्रलेपात्साधितं क्षौद्रयुक्तं घृतभाजने निदध्यात्॥ तन्निष्टीवनं सर्वमुखामयनाडीघ्नं॥ अयमेव पृथक्कल्पो यष्टीमधुकपटोलीनिंवाटरूषकजालिरोध्रारिमेदत्रिफलाजंबूखदिरत्वचां॥ यवक्षारभागाः सप्त सुवर्णगैरिकभागद्वयं दूर्वाकटुकातिविषामलकानामेकैको भागस्तत्सर्वं कुंतलाक्षारोदकपिष्टं गुलिकाः कृत्वां खाद॒न्निष्ठीवेत्॥ खदिरसारतुलामरिमेदतुलाद्वयं च तोयवहेऽष्टभागावशेषंक्वा-थयेदवतारितपरिस्रुतं च पुनराघनीभावात्॥ घनीभूते शीते च कार्षि-काणि श्लक्ष्णीकृतानि प्रक्षिपेच्चंदनपद्मकोशीखालकमंजिष्ठाघातकीमुस्तकप्रपौंडरीकमधुकत्रिफलाचतुर्जातकलाक्षानलदतार्क्ष्यशैलरोध्रहिरजनीसमंगाकट्फलैलेयपत्तंगागुरुगैरिकांजनानि पालिकांश्च जा
तीफललवंगकंकोलकान् कर्पूरकुडवं च॥ ता गुलिका वदनस्थाः सर्वान्मुखरोगान् जयंति॥ सौरभं सौमनस्यं रुचिं च जनयंति॥ एषामेव च कल्ककषायैस्तैलं साधितं कवले नियुंज्यात्॥ तत्र वातजे मुखपाके दशमूलकंकोलीरास्त्रामधुकसारिवाक्वाथेन कुष्टकल्केन च सिद्धं तैलंनस्यं गंडूषश्च स्नैहिको धूमः॥ पिप्पल्येलालवणोत्तमैः प्रतिसारणं॥ पैत्तिके क्षीरेक्षुरसद्राक्षारसशर्करोदकैगंडूषः॥ मधुरद्रव्य-सिद्धं पयः पानं कवलो नस्यं च॥ पद्मकसमंगामंजिष्ठारोध्रधातकी-विपक्वःसर्पिर्मंडो नावनं॥ मदयंतिकापत्रैर्निष्ठीवनं॥ कफजे कटुक-क्षारलवणैः प्रतिसारणं॥ स्थिरासु तु पिटिकासु प्राक् शाकादिपत्रेण् लेखनं॥ मुष्ककपलाशामलकक्षारगोमूत्रैर्गंडूषः॥ तद्विपक्वंतैलं च॥ निर्गुंडीफणिज्जार्जकसुरसपत्रैर्निष्ठीवनं॥देवदारुपाठाऽतिविषादंतीं-द्रयवकटुका गोमूत्रेण क्वथिताः कल्किता वा पीताः सर्वकफामयान्निघ्नंति॥ रक्तजे पित्तवत्सिद्धिः॥ सर्वजे यथादोषोदयं सेवनं॥ कासीस-सौराष्ट्रिकारसांजनानि मोचरसो मधु चैकतो विपक्वं लोहभाजनस्थं कल्कं विशुष्कं चूर्णीकृतं मधुना व्रणलेपं कुर्यात्॥ सर्वसरमर्बुदमचिरोत्थि तमप्रवृद्धंमंडलाग्रेण छित्वा मुष्ककभस्मना मधुमिश्रेण प्रतिसारयेत्॥ खर्जिकाशुंठीचूर्णेन वा॥ मधु तैलं निंबगुडूचीक्वाथश्च गंडूषः॥ यवान्नभोजी च तीक्ष्णानि कवलतैलनस्यान्याचरेत्॥ पूतिमुखं स्निग्धस्विन्नंवामयित्वा शिरविरेकैरुपाचरेत्॥ ततः खर्जिकाहिंगुगृहधूममनः शिलैलाशुंठीबिडतेजोवतीभिर्गुलिकाः कृत्वामधुद्रुता मुखपाकशोधनार्थं दद्यात्॥ समंगाधातुकिरोध्रपद्मप्रियंगुचूर्णैः सलिलमवचू-र्णितं मुखधावनं॥ शीतादोषकुशोक्तं च कुर्यात्॥ नस्यधूमकवलांश्च शीलयेदिति॥ भवंति चात्र॥मुखदंतमूलगलजाः प्रापो रोगाः कफास्रभूयिष्ठाः॥ तस्मात्तेषामसकृद्रुधिरं विस्रावयेद्दुष्टं॥ काय शिरसोर्विरेको वमनं कवलग्रहाः कटुकतिक्ताः॥ प्रायः शस्तं तेषां
कफरक्तहरं तथा कर्म॥ यवतृणधान्यं भक्तं विदलैःक्षारोपित्तैरपस्नेहाः॥ यूषाभक्ष्याश्च हिता यच्चान्यच्छ्लेष्मनाशाय॥ प्राणानिलोपसंस्थाः श्वसितमपि निरुंधते प्रमादवतः॥ कंठामयाश्चिकित्सितमतो द्रुतं तेषु कुर्वीत ॥ इति मुखरोगप्रतिषेधो नाम षड्विंशोऽध्यायः॥२६॥
अथातः शिरोरोगविज्ञानं व्याख्यास्यामः॥ धूमातपतुपारांबुक्रीडातित्वमजागरैः॥ उत्स्वेदाधिपुरोवातबाष्पनिग्रहरोदनैः॥ अत्यंबुमद्यपानेन कृमिभिर्वेंगधारणैः॥ उपधानमृजाभ्यंगद्वेष्धः प्रततेक्षणैः॥ अ-सात्म्यगंधदुष्टांभोभाप्याद्यैश्च शिरोगताः॥ जनयंत्यामयान्दोषास्तत्रमारुतकोपतः ॥ निस्तुद्येते भृशं शंखो घाटा संभिद्यते तथा॥
ञु-वोर्मध्यं ललाटं च पततीषातिवेदनं॥बाध्येते स्वनतः श्रोत्रे निष्कृ-ष्येते इवाक्षिणी॥ घूर्णतीवशिरः सर्वेसंधिभ्य इव मुच्यते॥ स्फु-रत्पतिसिराजालं कंधराहनुसंग्रहः॥ प्रकाशासहता घ्राणस्रावोऽकस्माव्द्यथाशमौ॥ मार्दवं गर्दनस्नेहस्वेदबंधैश्च जायते॥ शिरस्तापोऽयमर्द्धे तु मूर्घ्नेसोऽर्द्धावभेदकः॥ पक्षात् कुप्यति मासाद्वास्वयमेव च शाम्यति॥ अतिवृद्धस्तु नयनं श्रवणं वा विनाशयेत्॥ शिरोभितापे पित्तोत्थे शिरोधूमायनं ज्वरः॥ स्वेदोऽक्षिदहनं मूर्च्छा निशिशीतैश्र मार्दवं॥ अरुचिः कफजे मूर्ध्नोगुरुस्तिमितशीतता। सि-रानिस्पंदता ऽऽलस्यंरुड्यंदाऽन्यधिका निशि॥ तंद्रा शूनाक्षिकूटत्वं कर्णकंडूयनं वमिः॥ रक्तात् पित्ताधिकरुजः सर्वैः स्यात्सर्वलक्षणः॥संकीर्णैर्भोनैमूर्ध्नि क्लेदिते रुधिरामिषे॥ कोपिते सन्निपाते च जा-यंते मूर्ध्नि जंतवः॥ शिरसस्ते पिबंत्यस्रंघोराः कुर्वंति वेदनाः ॥ चित्तविभ्रंशजननीर्ज्वरः कासो बलक्षयः ॥ रौक्ष्यशोफव्यधच्छेददाहस्फुरणपूतिताः॥ कपाले तालुशिरसोः कंडूः शोषःप्रमीलकः॥ ताम्राच्छसिंघाणकता कर्णनादश्च जंतुजे॥ वातोल्बणाः शिरः कंपंतत्संज्ञं कुर्वते मलाः॥ पित्तप्रधानैर्वाताद्यैः शंखे शोफः सशोणि
तैः॥तीव्रदाहरुजारागप्रलापज्वरतृड्भ्रमाः॥ तिक्तास्यःपीतवदनःक्षिप्रकारी स शंखकः॥ त्रिरात्राज्जीवितं हंति सित्ध्यत्यप्याशु साधितः॥ पित्तानुबंधः शंखाक्षिभ्रूललाटेषुमारुतः॥ रुजंसस्पंदनां कुर्यादनुसूर्योदयोदयां।आमध्याह्नं विवर्द्धिष्णुः क्षुद्वतः सा विशेषतः॥ अव्यवस्थितशीतोष्णसुखा शाम्यत्यतः परं
॥ सूर्यावर्तः स इत्युक्ता दश रोगाः शिरोगताः॥ शिरस्येव च वक्ष्यंतेकपाले व्याधयोनव॥ कपाले पवने दुष्टे गर्भस्थस्वापि जायते॥ सवर्णो नीरुजः शोफस्तं विद्यादुपशीर्षकं॥ यथादोषोदयं ब्रूयास्पिटिकार्बुदविद्रधीन्॥ कपाले क्लेदबहुलाः पित्तासृक्श्लेष्मजंतुभिः॥ कंगुसिद्धार्थकनिभाःपिटिकाः स्युरसूंपिकाः॥ कंडूकेशच्युतिस्वापरोक्ष्यकृत्स्फुटनं त्वचः॥ सुसूक्ष्मं कफवाताभ्यां विद्याद्दारुणकं तु तत्॥ रोमकूपानुगं पित्तं वातेन सह मूर्च्छितं॥ प्रच्यावयतिरोमाणि ततः श्लेष्मा सशोणितः॥ रोमकूपान् रुणात्ध्यस्यततोन्येपामसंभवः॥तदिंद्रलुप्तं रुज्यां च प्राहुश्चाचेति चापरे॥ खलतेरपि जन्मैवं शातनं तत्र तु कमात्॥ सा वातादग्निदग्धाभापित्तात्स्विन्नसिरावृता॥कफाहनत्यम्वर्णांश्चयथास्तं निर्दिशेत्वचि॥ दो-षैःसर्वाकृतिः सर्वैरसाध्या सा नवप्रभा॥ दुग्धाग्निनेव निर्लोमा स-दाहा या च जायते॥ शोकश्रमकोधकृतः शरीरोष्माशिरोगतः॥ केशान्सदोषःपचति पलितं संभवत्यतः॥ तद्वातात् स्फुटितं श्यावं खरं रूक्षं ज्वलप्लभं॥
पितासदहं मेला यादविद्धिमत्॥ स्थूलं सशुक्लं सौर्वसुविद्याद्यामिश्रलक्षणं॥शिरोरुजोद्भवंचान्यद्विवर्णं स्पर्शनासहं॥ असाध्या सन्निपातेन खलतिः पलितानि च॥ शरीरपरिणामोत्थान्यपेक्षंते रसायनं॥ इति शिरोरोगविज्ञानीयो नाम सप्तविंशोऽध्यायः॥ २७॥
अथात्तः शिरोरोगप्रतिषेधं व्याख्यास्यामः॥ वातजे शिरोभितापे वातव्याधिविहितं कुर्यात्॥ निवातस्थं च नक्तमभ्यक्तशिरसंसर्पिः पयोनुपानं तैलं वा पाययेत्॥ माषान्वासर्पिष्कानुष्णपयोनुपानान् भक्षयेत्॥ तद्वद्वामुद्गान्॥ आनूपपिशितवेसवारेण यवतिलमा-पमुद्गकुलत्थकुष्टवारुहरिद्राऽतसीसैंधवैर्वा महास्नेहवतीमुत्कारिकां दत्वा शिरो वेष्टयेत्॥ ततः प्रत्यूषेदशमूलसिद्धेन पयसा कवोष्णेनपरिपेकं कुर्यात्॥ तत्सिद्धैश्च पायसैः पिंडस्वेदं लेपं वा॥ कूर्मम-हिवराहकुक्कुटशल्लकीनां वसा ससैंधवानस्यंशिरः कर्णपूरणं च॥ तथैव पंचमूलबलासारिवाद्वयक्वाथे मधुकजीवकर्षभकपुनर्नवगर्भं पयः सर्पिस्तैलं चैकतो विपक्वं॥ कार्पासमज्जत्वड्युस्तसुमनःकोरकाप्युष्णांबुपिष्टानि नावनं शिरोरुजाघ्नं॥ तद्वत्त्वक्पत्रशर्कराशिग्रुकरंजबीजानि तथा चंदनोत्पलतगरकुष्टैःसर्वैर्लेपः॥ देवदारुकुष्टचोर-कयष्टीमधुककमलनीलोत्पलैलाप्रपौंडरीकैश्च॥ कुंकुमशर्करासंस्कृतमाज्यं रक्तपित्तानुबंधे मर्शः॥ न चात्र रक्तमवतसेचयेद्वातोद्रेकभयात्॥ स्नैहिकं धूमं शिरोवस्तिं च शीलयेत्॥ बस्तिकर्म चाचरेत्॥ एवमशांतौ वातजे श्लेष्मजे वा यथोक्तो दाहः॥ अर्द्धावभेदकेऽप्ययमेव विधिः॥ निर्गुंडीपत्ररसश्च सघृतमंडसैंधवो नस्य। शिरीषमूलफलानि वा॥सारि-वोत्पलकुष्टवचामधुकपिप्पलोभिः सतैलाम्लो लेपः॥ अशाम्यति दोषानुबंधमवेक्ष्य प्रतिकुर्वीत॥ सूर्यावर्तेऽपि तद्वद्विधिः॥ विशेषतस्तु सिरामोक्षः॥ पित्तजे रक्तजेऽपि शिरोभितापे स्निग्धस्य सिरां वित्ध्येत्॥ कार्यं च विरेचयेत्॥ सुशीतैः शतधौतघृतान्वितैः शिरो वक्त्रंच प्रदित्द्यात्ं सिंचेच्च॥ चंदनसारिवामधुकदूर्वोत्पलप्रपौंडरीकमंजिष्ठाविदारीभिः सक्षीरं सपिर्विपाचितं नावनं शिरोवस्तिश्च॥ जीवनीयविपक्वात्पयसो नवनीतमुद्धृत्य जीवनीयक्वाथकल्काभ्यां पाचितं पानभोजननस्याभ्यंगवस्तिषु प्रणीतं पित्तरक्तजान्सर्वान् विकारान् साधयति॥जीवनीयगर्भं षोडशगुणे पयसि सिद्धमाज्यं वा॥ क्षीरेक्षुजांगलरसखर्जूरद्राक्षाकसेरुकमृणालसिद्धः सर्पिर्मंडोऽनुवासनं॥ उत्पलादिवर्गशृतं क्षीरमास्थापनं॥ शंखकं प्रत्याख्यायैवमेवोपचरेत्॥ विसर्पवच॥ विशेषतस्तु कृष्णतिलशतावरीनीलोत्पलदूर्वापुनर्नवैर्लेपः॥ कफजे शिरोभितापे लंघयेत्॥ पुराणसर्पिःस्निग्धं वामयेत्॥ स्वेदःपिंडेन सूक्षेण शिग्रुनिंबैरंडक्वाथेन वा नाडीस्वेदेन वा देवकाष्ठकुष्टशार्ङ्गेष्टासरलरोहिषैःसलवणैः सुखोष्णैरालेपः॥ यवचूर्णमधुकचंदनहरिद्राकुष्टप्रियंगुशतपुष्पादेवदारुभिस्तैलाजक्षीरयुक्तैः ससैंधवैरुपनाहः॥ विडंगतैलं नस्यं सार्षपं वा॥ तदेव व्योपसिद्धं॥ मधुकसारकल्कोया मधुयुतस्त्वग्वा मेषशृंग्या वा इंगुदस्य वा॥ एभिरेव धूमवर्त्तिः॥शिरोविरेचनद्रव्यैर्वा सूत्रस्थानोक्तैः प्रधमनं॥ तैरेव पक्वंतैलं प्रतिमर्शो वा॥ शिरोविरेचनांते कर्णनादोक्तं स्नेहनस्यं॥ तीक्ष्णाः कवलाः॥मनःशिलानलदतुत्थकासीसचूर्णः ससर्पिष्को धूमः॥ कट्फलचूर्णस्यमुहुर्मुहुराघ्राणं। सन्निपाते व्यामिश्रो विधिः॥ कृमिजे दुरालभासुरदारुरोहिषपूतीकत्रिफलाकट्फलवचात्रिकटुकैरजामूत्रयुक्तं सर्पिः पानं॥ उपस्निग्धस्विन्नस्यदेवदारुपूतीककटभीसर्पपविडंगतिलकंट-कविपक्वेन तैलेन शिरः कर्णौचाभ्यज्य स्वेदयेत्॥ ततः कृमिमूर्च्छनार्थमसृक्नस्तो ऽवसेचयेत्॥ ततो रुधिरगंधमदेन प्रविसृप्ताः सप्तच्छदत्वग्रसेन वा पुष्परसेन वाऽनंतरं निषिक्तेन तैलेन शिरः कर्णौचाभ्यज्य कृमयः पतंति॥ सरलदेवदारुकट्फलसर्पपापामार्गक्षवककटु-कालाबुकरसबीजपिप्पलीतंटुलकल्कचूर्णस्तत्पक्वंवा तैलं सद्यः कृ-मोन्निरस्यति। विडंगतंदुला वाजिमूत्रपिष्टाः शिरोपबीजानि छागमूत्रपिष्टानि पुष्करमध्यबीजानि वा॥गोमांसेन छागमांसेन वा पिष्टेन यवागूं कृत्वा शिरो विलेपयेत्॥ ततो निंबार्कवंशसुरसकटुककरंजक
रवीरपत्रक्वाथेन सेचयेत्॥ अजामूत्रेण वा कवोष्णेन पूतिमत्स्ययुताश्च धूमाः॥ एवंकृमिषूपगतेषु तेजोवतीपूतिकबिंवीसुरसनक्तमालविडंगहरीतकी सर्पपार्ककरवीरमूलमालतीदेवदारुक्षबकमुस्तफणिज्जकपिप्पलीशतपुष्पामधुकनिंबसारकल्कैरजामूत्रयुतैः सर्पपतैलमैगुदंपैलुकं वाविपक्वंयुक्त्या नावनं॥ न तु जातु रुधिरमवसेचयेत्॥ जंतुभिः पीतशोणिते हि शिरसि पुनरस्रावसेकादकांडे मृत्युः स्यात्॥ कृमिचिकित्सितं चेक्षेत॥ शिरःकंपमक्षीणस्यान्यव्याध्यनुपद्रुतस्यदाहवर्जं मारुतविधानेनोपक्रमेत॥ उपशीर्षके जन्मोत्तरकालजातोत्थिते वातव्याधिविहितं स्रेहं पाननावनाभ्यंजनेषूपयोजयेत्॥ अभ्यक्तं च स्वेदयित्वोपनाहयेद्यथा विदाहो न भवति॥विदाहे विद्रधिवत्कर्म॥ पिटिकार्बुदविद्रधिषु यथास्वमाचरेत्॥ व्रणीभूतासु पिटिकासुनिंबनिशामधुकधात्रीफलैर्विपक्वंतैलं शोधनरोपणं॥ मूर्वाचंदनसारिवाधातकीकांतारोध्रमधुकसमंगापद्मकेसर-शतपर्वकमूलैर्वा॥ विद्रधिष्वेभिरेव च सिद्धं सर्पिर्नस्यं॥ रूढे तु विद्रधौ यदि त्वक् सुप्तेव भवति ततो वामयेत्॥ उपस्निग्धं च विरेचयेत्॥ अरुंपिकासु जलौकोपत्दृतशोणितं शिरः क्षुराघृष्टं वा निंबोदकेन परिषिच्याश्वशकृद्रसेन लवणप्रगाढेन लेपयेत्॥ किंचित्कालं स्थितं चोष्णोदकाम्लकांजिकान्यतरधौतंविडंगव्योपलाक्षा-ऽगारधूममनोव्हाऽलवचारसांजनहरिद्राद्वयैरालिंपेत्॥ तिलमप्या वा स्रुक्क्षीरयुक्तया मधुकोत्पलतिलैरंडमार्कवपत्रैर्वा शिग्रुमूलकसर्पपबीजैर्वागोमूत्रपिष्टैर्बालकामलकनागरैर्वा क्षीरपिष्टैः शिरीषत्वग्यष्टीमधुकाभ्यां वा पुराणपिण्याककुक्कुटपुरीषाभ्यां वा॥ कपालभृष्टकुष्टचूर्णं तैलयुक्तं कंडूक्लेददाहवेदनाघ्नं॥ इंद्रलुप्तोक्तं चित्रकादितैलमभ्यंजनं दंतीपाठाकोशातकीचित्रकातिविषासहालांगलकीसिद्धं तैलं व्रणाभ्यंगः॥ मनःशिलैलहरितालपिप्पलीकुष्टकासीसहरिद्राकरंजमुस्त
तगरविडंगचित्रकसिद्धार्थककरवीरमूलचूर्णगर्भं तैलमादित्यपाकं व्रणरोपणं॥ एवमनुपशमे वमनधूमशिरः कायविरेकान्कुर्यात्॥ दारुणके ललाटसिरां व्यध्येत्॥ अभ्यंगस्नाननावनानि शीलयेत्॥ पिपालबीजमधुककुष्टमापसपेपैः सक्षैद्रैर्लेपः॥ कोद्रवतृणक्षारांभःप्रक्षालनं॥ इंद्रलुप्ते यथासन्नं सिरां विध्वा कासीसमनःशिलामरिचैर्लेपयेत्॥ भद्रादारुकुटन्नटाभ्यां वा॥ चित्रककरवीरनक्तमालमालतीसिद्धेन वा तैलेनाभ्यज्यात्॥ अवगाढपदं वा सूचीकूर्चकेन प्रच्छाय भूयो भूयः प्रदित्द्यात्॥ कपोतवंकामूलेन लांगलिकामूलेनवा माहिषक्षीरपिष्टेन घृतलिप्तमैरंडपत्रावच्छादितं रात्रिमुषितं माहिषनवनीतेन लिंपेत्॥ मार्कवपत्रसहचरपुष्पपक्ववार्ताकफलैस्तैलं पक्वंक्षौद्रांजनयुक्तमालेपः॥ सक्षौद्रोवा क्षुद्रवार्ताकरसो जलशूको वा॥लाक्षारसाक्तेन गोशकृता वा घृष्टा ऽरुष्कररसेनालिप्तमंतर्धूमदग्धं कूर्ममप्यवचूर्णयेत्॥ कर्मकपालभस्मना वा सुरसारसक्तेन प्रदित्द्यात्॥ हस्तिदंतमष्यावा तैलान्वितया पूतीककरंजपत्राणि वा ससैंधवानि लेपः॥पिप्पल्यंजनरसांजनबाकुचिकाफललोहरजांसि वा गोमूत्र-पिष्टानि॥ खलतिविहितानि चाचरेत्॥ सलिलसेकमारोमोद्गमात्परिहरेत्॥ खलताविंद्रलुप्तोक्तः क्रमो यथादोषंच संशुद्धिः॥त्रिफलार्जुनसैर्यकत्वक्पुष्पकृष्णपिडीतकफलमूलो584त्पलनीठीलोहचूर्ण कासीसजंबुमार्कवबीजमंजिष्ठामेपशृंगीखदिररजःसकर्दममर्दितो-क्ताणुतैलयुक्तमसनसारसंपुटे न्यस्तं कर्दमे मासंनिखातस्थितमुद्हृ-ते सूचीकूर्चप्रच्छितायाः खलतेर्लेपः परं रोमसंजननं॥ रक्ताग्निमं-थपुष्करककिंशुकतालमूडमधुकहस्तिदंतभस्मान्यविक्षीरपिष्टानि लेपः॥ जंबूत्वक्पत्रद्वयमधुकशृंगरजस्त्रिफलाश्लेप्मातकमंजिष्ठाफणिज्जकबलाद्वाक्षाजशृंगीचपलाऽतिविपाकंकोलकल्केन क्षीरिवृक्ष
क्वाथेन च तैलमक्षतैलं साधयेत्॥ तत्रस्येऽभ्यंगे च युंज्यात्॥ एवमेव मधुरवर्गकल्केन॥ खलतिपलितयोश्चप्रयोगान् परस्परं विदध्यात्॥ अकालपलितेषु वातादीनपेक्ष्य स्नेहस्वे-दसंशोधनास्रविस्रावणानि कुर्यात्॥ ततोऽस्यार्दितप्रोक्तमणुतैलंनस्येऽभ्यंजने च॥ मधुकामलकमाक्षिकैः केशमूलानि लिंपेत्॥तिलामलकक्षौद्रतैलैर्वा तुत्थकाम्रजंब्वस्थिकासीसकिदृशर्कराभिर्वा सैर्पकपुष्पनीलीत्रिफलाभृंगरजोभिर्वा कृष्णाजमूत्रपिष्टैः॥असनपुष्पपत्रमयःपात्रे वहिरामलककल्कप्रदिग्धे निहितमक्षतैलं सिद्धमयःपात्रे पूर्ववत्स्थितं समानं पूर्वेण॥ रामतरणीमूलपलद्वयं षष्टीमधुकपलं शर्करार्द्धपलमेकत्र जर्जरीकृतमक्षतैलपलैर्दशभिराप्लुतं लोहभाजने दशाहं दिवसकरकरप्रतप्तं नावनात् पलितघ्नं सर्वेंद्रियदार्ढ्यावहं च॥ कृष्णतिलतिलपर्णीत्रिफलामधुककासीसपद्मकर्दमंमांसी-मार्कवासनपुष्पंपत्रस्वरसपिष्टं त्रिरात्रमयःपात्रे स्थापयेत् तेन पूर्वोक्तरसद्रुतेन पद्मिनीकर्दमेन प्रलिप्तधौतान्केशान्कपालं च लेपयेत्॥ततः पद्मिनीपत्रैःप्रच्छाद्य कौशेयमयेन वेष्टयेत्॥ तृतीयेऽहनि प्रक्षाल्यैवमेव कुर्यात्॥ एवमलिकुलनीलाःकेशाः शिरो विभूपयंती ति॥ भवंति चात्र॥ खलतौ पलिते वल्यांहरिल्लोम्नि च शोधितं॥ नस्यवक्त्रशिरोभ्यंप्रदेहैः समुपाचरेत्॥ सिद्धं तैलं बृहत्याद्यै र्जीवनीयैश्च नावनं॥ क्षीरात्सहचराद्भृंगरजसः सौरसाद्रसात् ॥ प्रस्थस्तैलस्यकुडवो षष्टीमधुपलान्वितः॥ सिद्धः शैलासने भांडे शृंगे मेषस्य वा स्थितः॥ नस्यं स्यात्क्षीरपिष्टौ वा दुग्धिकाकरवीरको॥ उत्पाट्यपलितं देयावाशये585पलितापहौ॥ आदित्यवल्या मूलानि कृष्णसैरेयकस्य च॥ फलं कृष्णशणात्पत्रं सुरसायष्टिमार्कवं ॥ सुराह्वंकाकमाची च पृथक् दशपलांशकं ॥ प्रपौंडरीकमंजिष्ठारोध्रकृष्णा
गुरुत्पलं॥ अम्रास्थि कर्दमः कृष्णो मृणाली रक्तचंदनं॥ नीलीभ-ल्लातकास्थीनि कासीसं मदयंतिका॥ सोमराज्यसनात्पुष्पं कृष्णं पिंडीतचित्रकौ॥ पुष्पाण्यर्जुनकाश्मर्यादाम्रजंबूफलांजनं॥ प्रत्येकंपंचपलिकं पिष्टं सत्रिफलाकणं॥ अक्षतैलाढकं तेन पचेद्धात्रीरसार्मणे॥ कुर्यादादित्यपक्वंच यावद्भुक्तो भवेद्रसः॥ लोहपात्रे ततःपूतंमहानीलं प्रयोजितं॥ तत्पाने नावनेऽभ्यंगे शुद्धस्य नियतात्मनः॥ सर्वजत्रूर्ध्वरोगघ्नंपलितघ्नं विशेषतः॥ एभिरेव च भैषज्यैःशिरोवक्त्रंप्रलेपयेत्॥ क्षीरं प्रियालं यष्ट्याह्वंजीवनीयो गणस्तिलाः॥ कृष्णाप्रलेपो वक्त्रस्य हरिल्लोमावलीहितः॥ तिलाः सामलकाः पद्मकिंजल्को मधुकं मधु॥ बृहयेद्रंजयेच्चैतत्केशान्मूर्ध्नेःप्रलेपनात्॥ पचेत्सैंधवशुक्ताम्लैरयश्चूर्णं सतंदुलं॥ तेनालिप्तं शिरः शुद्धमस्नि-ग्धमुषितं निशं॥ तत्प्रास्त्रिफलाधौतं स्यात्कृष्णस्निग्धमूर्द्धजं॥ अयश्चूर्णोऽम्लपिष्टश्च रागः सत्रिफलो वरः॥ नीलीपत्रमुनिंब-बीजमधुकश्रेष्ठावचामार्कवाच्चूर्णं छागलगव्यमाहिषपयःस्नेहेन संप्लावितं॥ पात्रे स्थापितमायसे क्षितितले मासं निधायोद्गतं पा-लिल्यंखलतिं च दर्पणनिभां हंत्येतदभ्यंजनात्॥ बीजैःश्लेष्मा-तकस्य व्यपशमिततुषैःकांजिकश्लक्ष्णपिष्टैर्यल्लिप्ताल्लोहदंडाद्दिनकरकिरणैस्तापितात्प्रच्यवेत॥तत्तैलं केशकार्ष्ण्यंजनयतिपरमं नावनाभ्यंजनाभ्यां मूर्द्धघ्राणाक्षिदंतश्रवणगलरुजं हंति निः-शेषतश्च॥ बलामधूकमधुविदारीचंदनोत्पलैः॥ जीवकर्षभकद्रा-क्षाशर्कराभिश्चसाधितः॥ प्रस्थस्तैलस्यसक्षीरो जांगलार्द्धतुलारसे॥नस्यंसर्वोर्ध्वजत्रूत्थावातपित्तामयापहं॥ मयूरं पक्षपित्तांत्रपादविट्तुंडवर्जितं॥ दशमूलवलारास्त्रामधुकैस्त्रिफलैर्युतं॥ जले पक्त्वा घृतप्र-स्थंतस्मिन्क्षीरसमं पचेत्॥ कल्किंतेर्मधुरद्रव्यैः सर्वजत्रूर्ध्वरोगनुत्॥ तदभ्यासीकृतं पानबस्त्यभ्यंजननावनैः॥ एतेनैव कषायेण घृतप्रस्थं
विपाचयेत्॥ चतुर्गुणेन पयसा कल्कैरेभिश्च कार्पिकैः॥ जीवतींत्रिफ-लामेदामृद्दीकर्द्धिपरूषकैः॥ समंगाचविकाभार्ङ्गीकाश्मरीकर्कटाव्हयैः॥ आत्मगुप्तामहामेदातालखर्जूरमस्तकैः॥ मृणालबिसखर्जूरयष्टीमधुकजीवकैः॥ शतावरीविदारीक्षुबृहतीसारिवायुगैः॥ मूर्वाश्वदंष्ट्रर्पभकशृंगाटककसेरुकैः॥ रास्नास्थिरातामलकीसूक्ष्मैलाशठिपौष्करैः॥ पुनर्नवातवक्षीरीक़ाकोलीधन्वपासकैः॥ जीवंतीत्रिफलामेदामृद्वीकाद्विषरूपकैः॥ मधुकाक्षोडवाताममुंजाताभिषुकैरपि॥ महामायूरमित्येतन्मयूरादधिकं गुणैः॥ धात्विंद्रियस्वरभ्रंशश्वासकासार्दितापहं॥योन्यसृक्शुक्रदोषेषु शस्तं वंध्यासुतप्रदं॥आखुभिः कुक्कुटैर्हंसैः शशैश्चेति प्रकल्पयेत्॥ जत्रूर्ध्वजानां व्याधीनामेकत्रिंशं शतद्वयं॥ परस्परमसंकीर्णं विस्तरेण प्रकाशितं॥ उर्ध्वमूलमधःशाखमृपयः पुरुषंविदुः॥ मूलप्रहारिणस्तस्माद्रोगांश्च्छीघ्रतरं जयेत्॥ सर्वेंद्रियाणि येनास्मिन् प्राणा येन च संस्थिताः॥ तेन तस्योत्तमांगस्य रक्षास्ववहितो भवेत्॥ इति शिरोरोगप्रतिषेधो नामाष्टाविंशोऽध्यायः॥ २८॥ इतिचतुर्थमूर्ध्वगमंगं संपूर्णं॥ ४॥
अथातो व्रणविभक्तिविज्ञानीयमध्यायं व्याख्यास्यामः॥ यावदायुर्व्रणयति वा शरीरमिति व्रणः॥ स द्विविधो निज आगंतुश्च॥ तत्र निजो दोषसमुत्थः॥ आगंतुः शस्त्रानुशस्त्रोपललकुटनखदशनविपाणविषारुष्करादिनिमित्तः॥सोऽपि पुनर्वातादि भिरधिष्ठितो निजतांलभते॥पुनश्च द्वेधा दुष्टः शुद्धश्च॥ तत्र दोषदूषितो दुष्टः॥तस्य सामान्यलिंगमतिसंवृतमतिविवृतमतिमृदुकठिनात्युत्सादावसादातिशीतोष्णभावोऽतिरक्तकृष्णपांडुता पूतिमांससिरास्नायुप्रतिच्छन्नत्वं पूतिपूयास्रावः सोत्संगता दाहपाककंडूश्वयथुवेदनासंरंभपिटिकोपद्रुतत्वं दीर्घकालानुबंधश्च॥ विशेषतस्तु पंचदशधा प्रतिभिद्यते॥ तत्र श्यावोऽ
रुणः कृष्णो भस्मास्थिकपोतगुडान्यतमवर्णोवा दधिमस्तुक्षारांबुमांसधावनपुलाकोदकनिभोऽल्पस्रावो रुक्षश्चटचटायनशीलोऽकस्माद्विवि-धशुलस्फुरणायामतोदभेदस्वापबहुलो निर्मांसश्च वादात्॥ क्षिग्रजः पीतनीलहरितकृष्णकपिलपिंगलो गोमूत्रभस्मशंखकिंशुकोदकमार्द्वीकतैलाभोष्णभूरिक्लेदो दाहोषाज्वररागपाकावदरणधूमायनान्वितः क्षारोक्षितक्षतोपमः पिटिकाजुष्टश्च पित्तात्॥ स्निग्धः स्थूलोष्ठः पांडु-श्चंडकंडूर्नवनीतवसामज्जपिष्टतिलनारिकेलांबुसदृशश्वेनः शीतबहलपिच्छिलक्लेदः स्वापस्तंभस्तैमित्यगौरवोपदेहयुक्तः सिरास्नायुजालावततोमंदवेदनः कठिनश्च कफात्॥प्रवालनिचयदलप्रकाशरक्तः कृष्णस्फोटपिटिकाजालोपचितो वाजिस्थानगंधः सरक्तपूयस्रावीपित्तलिंगश्च रक्तात्॥ यथास्वलिंगसंकरे द्वाभ्यां त्रिभिः सर्वैश्चदुष्टं विद्यात्॥अपिच॥ घृतमंडाभोमत्स्यधावनगंधिर्मृदुर्विसर्पी कृष्णोष्णपूयश्च पित्तरक्ताभ्यां586॥ वातादिभिरेव च व्रणस्याधिष्टानं शुद्धिः॥ तत्र यथोक्तदुष्ट-लिंगाभावात् संरंभरहितत्वं जिव्हावर्णता शुक्लत्वं नीरुजत्वं निरास्रा-वता श्यावपर्यंतत्वं समौष्ठमध्यत्वं किंचिदुन्नतमध्यता वा॥ त्वड्यां
ससिरास्नायुसंध्यस्थिकोष्ठमर्माण्यष्टौवेणाशयः॥ आश्रयविशेषाच्चास्रावविशेषः॥ तत्र घृष्टासु भिन्नासु वा त्वक्ष्क्षु स्फोटेषुवा भिन्नेषुसलिलप्रकाशो भवत्यास्रावः किंचिद्दिस्रःपीतावभासश्च॥ मांसगतः सर्पिःप्रकाशो बहलपिच्छिलश्च॥सिरागतस्तु सद्यश्च्छिन्नासुसिरासु रक्तातिप्रवृत्तिः॥ पक्वासु च तोयनाडीभिरिवांभसः पूयस्यागमनं॥ स च तनुर्विच्छिन्नः पिच्छिलोऽवलंबी श्यावश्च॥ स्नावगतः स्निग्धो घनः सिंघाणकप्रतिमः सरक्तश्च॥ संधिगतः समंतात्पीड्यमानो न प्रवर्त्ततेऽथवा कुंचनप्रसारणोन्नमनविनमनप्रवाहणेषुस्रवति पिच्छिलोऽवलंबीरुधिरोन्मिश्रश्च॥ अस्थि त्वभिहतं स्फुटितं भिन्नं दोषावदारितं वा दोषभक्षितत्वान्निःसारं भवत्यास्रावश्चात्रमज्जमिश्रः सरुधिरः स्निग्धश्च॥ कोष्ठाश्रितस्तु व्रणो मूत्रपुरीषरुधिरपूयोदकानि स्रवति॥मर्मगतस्तु नोच्यते॥ त्वगादिष्वेवांतर्गतत्वात्॥ तेषु यथापूर्वं सुखसाध्यत्वं॥ तथाऽऽयतश्चतुरस्रो वृत्तस्त्रिपुटकश्च व्रणः॥ शेषास्तु विकृताकृतयो दुरुपचारास्ते च प्रायशो भवंत्यागंतवः॥ स्वयं विदीर्णाश्च दोषजा न तु वैद्यकृताः॥ वयस्थानां दृढानांप्राणवतां सत्ववतां दीप्ताग्नीनां च व्रणाः सुचिकित्स्याः॥ तत्र वयस्थानां प्रत्यग्रधातुत्वादाशु व्रणसंरोहो भवति॥ दृढानां स्थिरवहुमांसत्वाच्छस्त्रमवचार्यमाणं सिरास्नाय्वादीन्न प्राप्नोति॥ प्राणवतां वेदनाहारविहारयंत्राणादिभिर्न ग्लानिः॥ सत्ववतां दारुणैरपि क्रियाविशेषैर्न व्यथा भवति॥ दीप्ताग्नीनामप्रक्लिन्नदेहत्वात्प्रकृतितश्चाप्रक्लेदशरीराणां तद्विधयोश्चदेशकालयोरास्रावदौर्गंध्याभावादाशु विशुद्धेन मांसेनानुपद्रवमापूरणं॥ एतएव गुणा वृद्धकृशाल्पप्राणभीरुमंदाग्निप्रक्लेददेशकालेषु विपरीताः॥ शिष्योपनयनीयं चेक्षेत॥ तथा स्फिक्-पायुप्रजननललाटगंडौष्ठपृष्टकर्णफलकोशोदरजमुखाभ्यंतरस्थाः सु
खरोपणीयाः॥ विपरीतास्त्वक्षिदंतनासाऽपांगश्रोत्रनाभिजठरसेवनीनितंबपार्श्वकुक्षिवक्षःकक्षास्तनसंधिविभागगताः सफेनपूरक्तानिल-वाहिनोंऽतःशल्याश्चाधोभागाश्चोर्ध्वभागनिर्वाहिणो रोमांतोपनखमर्मजंघास्थिश्रिताश्च॥ भगंदरश्चांतर्मुखः सेवनीकट्यस्थिसंश्रितः॥ अपिच॥ कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनां॥ व्रणाः कृच्छ्रेण सिध्यंति येषां च स्युर्व्रणे व्रणाः॥ याप्यास्त्ववपाटिकानिरुद्धमणिरुद्वगुदव्रणग्रंथिप्रभृतयः सर्वास्थिगताश्च॥ असाध्याः पुनर्मांसपिंडवदुद्गताः-प्रसेकिनोंऽतःपूया वेदनावंतश्चापानवदुद्वृत्तौष्ठाः कठिना गोशृंगवद्गतप्ररोहा दुष्टशोणितास्राविणस्तनुपिच्छिलास्रावस्राविणो वा मध्योन्नताःसमवसन्नसुषिरपर्यंताः शणतूलवत्स्नायुजालवंतो दुर्दर्शा मेदोमज्जवसामस्तुलुंगस्राविणंश्च दोषसमुत्थाः॥ पीतासितमूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः॥ रक्ताशयजाश्च क्षारोदकसमास्रावाः॥ तथाऽऽमाशयजाः कलायांभोनिभास्रावाः पक्वाशयजाश्च पुलाकोदकमिवनिःस्रवंतः॥ क्षीणमांसानां च सर्वतो गतयस्त्वणुमुखामांसबुहुदवंतः॥ सशब्दवातवाहिनश्च शिरःकंठस्थाः॥ विसर्पज्वरपिपासारो-चकाविपाककासश्वासातीसारछर्दियुक्ता भिन्ने च शिरःकपाले मस्तुलुंगदर्शनं त्रिदोषलिंगप्रादुर्भावो वा स्यादिति॥ भवंति चात्र॥ स्नायुच्छेदात् सिराछेदाद्गांभीर्यात्कृमिभक्षणात्॥ अस्थिभेदात्सशल्यत्वात्सविषत्यादतर्कितात्॥ मिथ्याबंधादतिस्नेहाद्रौक्ष्याद्रोमादिघट्टनात्॥ क्षोभादशुद्धकोष्ठत्यात्सोहित्यादतिकर्शनात्॥ मद्यपाना-द्दिवास्वभाद्व्यवायाद्रात्रिजागरात्॥ व्रणो मिथ्योपचाराच्चनैव साध्योऽपि रोहति॥ कपोतवर्णप्रतिमा यस्यांताः क्लेदवर्जिताः॥ स्थिराश्चपिटिकावंतो रोहतीति तमादिशेत्॥ इति व्रणविभक्तिविज्ञानीयो नामैकोनत्रिंशोऽध्यायः॥ २९॥
अथातो व्रणप्रतिषेधं व्याख्यास्यामः॥ व्रणस्य शोफावस्थायांशस्त्रकर्मविधौ श्वयथुचिकित्सिते च साधनमुपदिष्टं यथायथं॥ अ-वेक्ष्य दोषप्राणादीन्कर्त्तव्यमपसर्पणं॥ रागसंरंभरहिताः परिम्ला-नहताश्रयाः॥ सद्यः शाम्यंति शुद्धानां व्रणा. शोफाश्च देहिनां॥ लेपाभ्यंगपरीषेकान्यथोक्तांश्च प्रयोजयेत्॥ यथांऽबुभिः सिच्यमानःशांतिमग्निर्नियच्छति॥दोषाग्निरेवं सहसा प्रलेपाद्यैः प्रयोजितैः॥ प्रतिलोममेव चानुलिंपेन्नानुलोमं तथात्द्यौषधं सम्यगवतिष्ठते। अनुप्रविशति च रोमकूपान्॥ न तु शुष्यदुपेक्षितव्यमन्यत्र पीडयितव्यात्॥ शुष्कंहि दाहोपारागश्यावत्वशूलानि वर्द्धयति॥ स तु शीतस्तनुर्मुहुर्मुहुश्चप्रयुज्यते॥ स प्रदेहो रक्तपित्तत्वचां प्रसादकृत्॥ प्रलेपस्तूष्णःशीतो वा बहलश्च॥ तथा वातश्लेष्मप्रशमनस्तस्योपयोगः क्षताक्षतेषु॥ यस्तु क्षतेषूपयुज्यते स भूयः कल्क इति संज्ञां लभते॥ दशविधश्च समासादालेपः॥ स्नैहिको निर्वापणः प्रसादनः स्तंभनोविलयनः पाचनः पीडनः शोधनो रोपणः सवर्णीकरणश्च॥ तत्रवाते सिग्धद्रव्यैः स्नेहाढ्यैःस्नेहेनैव वा स्नैहिकः॥ पित्तेप्रायशश्चशोफे विषाग्निक्षारदग्धे च शीतैर्निर्वापणः॥ स एववातदुष्टे रक्ते प्रसादनः॥ स एव च पुनरस्रातिप्रवृत्तौ संस्तंभनसंज्ञः॥श्लेष्मभेदोभूयिष्ठे शीतैश्चाविदग्धे विष्टब्धे ग्रथिते वा रुक्षैर्विलयनः॥तैरेव च विदग्धे पाचनः॥ सूक्ष्मास्ये व्रणे रुक्षैः पिच्छिलैश्च पीडनः॥ अशुद्धे यथास्वमुपदिष्टैःशोधनः॥ शुद्धे रोपणः॥ रूढे च सवर्णीकरणः॥ ना मभिरेव चैषांस्वरूपमाख्यातं॥ न च प्रदेहं रात्रौ प्रयुं-जीत॥ माभूच्छैत्यपिहितस्योष्मणो बहिरनिःसरणाद्विकारपरिवृद्धिः॥पुष्कलावर्त्तस्तु पठति॥ तमसा च हतो त्द्यूष्मा रोमकूपैरनावृतैः॥ लेपाद्दिनैव निर्यातिरात्रौ नालेपयेदतः॥ न च पर्युपितं लेपं दद्याद्भूयस्तमेव वा॥ व्यम्लःपर्युषितो हि स्याद्भ्रष्टवीर्यस्तथोत्तरः॥ शोफे
व्रणे च कठिने विवर्णे वेदनान्विते॥ सविषे च विशेषेण जलौकाद्यैर्हरेदसृक्॥ वेदनायाः प्रशांत्यर्थं पाकस्याप्राप्तयेऽपि च॥ निर्वापणानपुनश्चात्र न्यग्रोधाद्यैः सुशीतलान्॥ कुर्यात्प्रदेहसेकादीन्सघृतक्षीरशर्करान्॥न्यग्रोधोदुंबराश्वत्थप्लक्षवेतसबल्कलैः॥ प्रदेहो भूरिसर्पिभिःशोफनिर्वापणः परं॥ प्रदेहः ससितस्तद्वत्सक्तवोमधुकं घृतं॥ वातोल्बणानां स्तब्धानां कठिनानां महारुजां॥ स्रुतासृजां च शोफानां व्रणानामपि चेदृशां॥ ग्राम्यानूषौदकामिपवेसवारकृशरापायसोत्कारिकाभिः स्वेदो योज्यः॥ सदाहशूलांस्तु तिलानतसीं च श्रृष्ट्वा पयसि निर्वाप्य तेनैव क्षीरेण पिष्ट्वा प्रलेपयेत्॥ कालामधुकपृश्निप-र्णीछिन्नरुहाभीरुजीवंतीशर्करामदनक्षीरमहास्नेहसिद्धोत्कारिका कवोष्णा शूलदाहहरा॥ तद्दन्मधुकयवचूर्णतैलसर्पिर्भिः कोष्णस्तुलेपः॥ तथा सतिलो मुद्रपायस उपनाहः॥ दशमूलसिद्धेन सुखोष्णनांभसा पयसा वा घृततैलाभ्यां वा परिषेकः शोफे व्रणे वा दाहशूलघ्नः॥ स्थिराणां मंदवेदनानां शोफानां विम्लापनं कार्यं॥ अभ्यज्य स्वेदयित्वा च वेणुनाड्या शनैः शनैः॥ विम्लापनार्थेमृद्रीयात्तलेनांगुष्ठकेन वा॥ तथाऽऽस्फोतपत्रमसूरकल्केनालेपः॥ सुसिद्धपिष्टैः सघृतमधुगोधूमयवमुद्रैर्वा लेपादाविलीयते॥ सचेन्नैवं विलीयेतततस्तमुपनाहयेत्॥ अविदग्धस्तथा शांतिं विदग्धः पाकमश्रुते॥शिग्रुंशणफलचित्रककिण्वनिष्पायसर्पपतिलातसीसक्तुकोलगृहधूमैरम्लपिष्टैः सुखोष्णैः स्निग्धैः सलवणैरुत्कारिकां कृत्वा तथा प्रलिप्तैरंडपत्रेणाच्छाद्य बध्नीयात्॥ पाकाभिमुखे च शोफे यथेष्टमातुरं भोजयेत्॥ पाचनार्थं पाकवेदनाशस्त्रकर्मसहनार्थं च॥ पक्वेतु यथोक्तेन विधिना शस्त्रमवचारयेत्॥ सुपक्वेपिंडिते शोफेपीडनैरुपपीडिते॥ दारणं दारणार्हस्य दोषपाकावृते587 हितं॥ चित्रकचिरबिल्वदं
तीकरवीरमूलकपोतकगृधपुरीपैर्गुग्गुल्वसीस्नुहीक्षीरपलाशक्षारसुवर्णक्षीरीदक्षशकृन्मुकुलकैर्वा क्षारेणैव वा॥पूयगर्भानणुद्वारान्सोत्संगान्मर्मगानपि॥निःस्नेहैःपीडनद्रव्यैः समंतात्प्रतिपीडयेत्॥शुष्यंतंसमुपेक्षेत प्रलेपं पीडनं प्रति॥ न मुखे चैनमालिंपेत्तथा दोपः प्रसिच्यते588॥ कलाययवगोधूममापमुद्गहरेणवः॥ द्रव्याणां पिच्छिलानां च त्वड्यूलानि प्रपीडनं॥ विवर्णान् पिच्छिलान् पृतिगंधीन् क्लेदरुजावतः व्रणानशुद्धान्विज्ञाय शोधनैरेभिराचरेत्॥ शंखिन्यंकोलसुमनाकरवीरसुवर्चलाः॥त्रिफला खदिरो दार्वी कोलपत्रं वलांकुराः॥ प्रक्षालने कषायाणिवर्गश्चारग्वधादिकः॥ पटोलीतिलयष्ट्याव्हत्रिवृद्दंतीनिशाद्वयं॥ निंबपत्राणि चालेपः सपटु व्रणशोधनः॥ अजगंधा ऽजशृंगी च गवाक्षीलांगली निशा॥ पूतिकश्चित्रकः पाठापटोलीवेल्लरेणुकाः॥ कटुत्रिकं यवक्षारो लवणानि सुराष्ट्रजा॥ निकुंभकुंभकासीसहरितालम-नःशिलाः॥ कल्काज्यतैलरसजा589चूर्णवर्तिषुभेषजं॥ तत्रगंभीरेषु पित्तात्मकेषु दाहपाकवत्सु व्रणेषुतीक्ष्णोष्णैरेभिः कार्पासीफलमिश्रं कल्कं घृतं वा साधयित्वा योजयेत्॥ उत्सन्नमांसेष्वल्पस्रावेषु तिलापामार्गबृहतीद्वययुक्तैःसर्पपतैलं॥ प्रबलप्रदेशजेषु क्लेदबहुलेषूत्सन्स्थिरमांसेषूतैलेन चाशुध्यत्सु रसक्रियां कुर्यात्॥ यथोक्तानां संशोधनौषधानां कषायं पुनः परिस्राव्याधिशृतं मनःशिलालतुवरीकासीसचूर्णप्रतीवापं सिद्धं च मातुलुंगरसोपेतं सक्षौद्रं प्रयुजीत॥मेदोयुक्तेषु गंभीरेषु क्लेदिषुकल्कैश्चासिध्यत्सु च वचसैंधवकिण्वकासीसरजनी द्वयेषु॥शोधनांगेषु चान्येषु चूर्णं कुर्वीत शोधनं॥ अंतःशल्यानणुद्दारान्गंभीरान्मांससंश्रितान्॥ संधिमर्मनिविष्टांश्च शोधयेद्वार्तिभिर्व्रणान्॥वाताभिभूतान् सास्रावान् धूपयेदुग्रवेदनान्॥ श्रीवेष्टकसर्जरससारदेव-दारुशिंशिषाखदिरासनकैंडर्यसारयवमधूच्छिष्टभूर्जपत्रक्षौद्रसर्पिर्भिः ॥
निर्वापयेद्भृशं शीतैःपित्तरक्तविषोल्बणान्॥ शुष्काल्पमांसे गंभीरेव्रणउत्सादनं हितं॥ अश्वगंधाऽपामार्गतालपत्रीसुवर्चलाऽतिबलाऽनंताधातकीकुसुमसमंगाभिः पद्मकादिवर्गेण न्यग्रोधादिना च कल्कः॥ तथा सर्पिरभ्यंजनार्थे॥ अद्यान्मांसादमांसानि विधिनोपहितानि च॥ मांसं मांसादमांसेन वर्द्धते शुद्धतेजसः॥ उत्सन्नमृदुमांसानां व्रणानामवसादनं॥ सैंधवकासीससुमनोमुकुलगुग्गुलुचित्रकाग्निमंथदंतीशि-रीषकरंजफलभूर्जग्रंथिकुक्कुटांडत्वक्कपोतकलविंकपुरीषनेपालीहरितालचूर्णानि सक्षौद्राणि॥ कठिनेसरुजे शुष्के रूक्षे शुष्यति च व्रणे॥ मार्दवजननार्थं व्रणविरोधिवातघ्नसिद्धस्य सर्पिपःपानं॥ तद्विधैरेव च सिद्धं तैलमभ्यंगः॥ पूर्वोक्ताश्च स्वेदाः॥ तथा सर्पिर्मज्जवसाभिर्धूमाः॥ सुस्निग्धसक्तुसैंधवकिण्वतिलपिष्टकृशरपायसप्रलेपाः वेसवारः किंचिदुष्णो बहुशः प्रलेपो घनश्च बंधः॥ पित्तविद्रधिवि-सर्पशोककुष्ठघृतानि॥ सर्वव्रणेषुयोज्यानि पानसेकप्रलेपने॥ अतिमृदुमांसेषुदृढीकरणार्थं त्रिफलारोध्राम्रसर्जजंबूप्रियंग्वशोकवल्कलानि॥सौराष्ट्रीकासीसरोचनायावचूर्णनवसारैर्गंधैश्च धूपः॥ उत्सन्नमां-सान्कठिनान्कंडूयुक्तांविरोत्थितान्॥ व्रणान्सुदुःखसाध्यांश्च शोधयेत्क्षा रकर्मणा॥ स्रवंतोऽश्मरिजा मूत्रं ये चान्ये रक्तवाहिनः॥ छिन्नाश्च संधयोयेषां यथोक्तैर्ये च शोधनैः॥ शोध्यमाना न शुत्ध्यंति शोध्याः स्युस्तेऽ ग्निकर्मणा॥ व्रणानामथशुद्धानां रोपणानि प्रयोजयेत्॥ असनादिर्न्यग्रो-धादिर्वर्गएव॥शल्लकीकुटजत्वमंजिष्ठासमंगाऽमृताऽश्वगंधाऽऽरग्वध-धातकीपुष्पाणि पद्मकादिश्चप्रक्षालनादिषुसप्तसुप्रयोज्या इति॥ भवंति चात्र॥ उत्सन्नदुष्टपिशिते संश्लिष्टमध्यामशोणिते॥ व्रणे प्रच्छर्दनं शस्तं कफदुष्टे विशेषतः॥ विरेचनं पित्तदुष्टे दीर्घकालानुबंधिनि॥ रूक्षेसवेदने बस्तिरधःकाये विशेषतः॥ जत्रूर्ध्वजे सश्वयथौ कंड्वाढ्येतीक्ष्णनावनं॥ रजएवानिलाविष्टे रुजाढ्येस्नेहनावनं॥ तथा सशोफरुक्स्रावे धूमो वातकफोल्बणे॥ रुजादिमतिवक्त्रस्थे यथास्वं कवलो हितः॥ द्रवाद्यौपंचमूलाख्यौ गणौ यश्चानिलापहः॥ ते व्रणे वातिके योज्याः कषायादिषुसप्तसु॥ न्यग्रोधपद्मकाद्यैस्तु पित्ते वर्गश्च पित्तजित्॥ आरग्वधादिश्लेष्मघ्नौ कफेमिश्रास्तु मिश्रिते॥ पिष्टोऽम्लैर्वातिके लेपस्तैलसपिर्वसायुतः॥घनः कोष्णश्च पैत्ते तु पयःपिष्टो घृतान्वितः॥ तनुर्वस्त्रांतरः शश्वदुष्णो गोमूत्रपोषितः॥ रुक्षस्तैलेन वा स्निग्धो बहुलः कफजे हितः॥अपेतपूतिमांसानां मांसस्थानामरोहतां॥ कल्कं संरोहणं कुर्यात्ति-लानां मधुकान्वितं॥ स्निग्धोष्णतिक्तमधुरकषायत्वैः स590सर्वजित्॥ स591क्षौद्रनिंबपत्राभ्यां युक्तः संशोधनं परं॥ पूर्वाभ्यां592 सर्पिपाचासौयुक्तः स्यादाशु रोपणः॥ तिलवद्यवकल्कं तु केचिदिच्छंति तद्विदः॥सास्रपित्तविषागंतुगंभीरान्सोष्मणो व्रणान्॥ क्षीररोपणभैषज्यशृतेनाज्येन रोपयेत्॥ रोपणौषधसिद्धेन तैलेन कफवातजान्॥ अबंध्यानां चलस्थानां शुद्धानां वा प्रदूष्यतां॥ यथास्वं रोपणैः कुर्याद्रसजा सनिशाद्वयैः॥ समानां स्थिरमांसानां त्वक्स्थानां चूर्ण इष्यते॥ नीरुजामवगाढानां शुद्धानां वर्त्तयो हिताः॥ समंगामोचसरल-सोमवल्काः सचंदनाः॥ पद्मकादिश्च कल्कोऽयं परमो रोपणोऽथवा॥मुंजाह्वातिलजीवंतीगोजिह्वाधातुकीबलाः॥ प्रपौंडरीकमधुककाकोलीद्वयचंदनैः॥ साधितं तैलमाज्यं वा तद्वत्कंपिल्लकेन वा॥ दूर्वारसेन वा दार्व्यास्त्वचो वा व्रणरोपणं॥पाटलीनिंबपत्राणि रोध्रमुस्ता प्रियंगवः॥ सूक्ष्मैलाघातकीसर्जखदिरागुरुचंदनं॥ कंपिल्लकं विडंगानि वत्सकं त्रिफला बला॥ कल्कैरेभिर्वृतंसिद्धं तैलं वा रोपणं परं॥ चंदनं पद्मकिंजल्कं दार्वीमूर्वीतिलोत्पलं॥ मेदासमंगायष्ट्याह्वंप्रलेपो व्रणशोधनः॥ ककुभोदुंबराश्वत्थजंबूकट्फलरोध्रजैः॥ त्वचमा
शु निगृण्हंति त्वक्चूर्णैश्चूर्णिता व्रणाः॥ लाक्षामनोव्हामंजिष्ठाहरितालनिशाद्वयैः॥प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परः॥ ध्यामकाश्वत्थनिबुलमूलं लाक्षालगैरिकं॥ सहेमाह्वामृतासंगाकासीसं चे-ति वर्णकृत्॥ कालीयकलताम्रास्थिहेमकालारसोत्तमैः॥ लेपः सगोमयरसःसवर्णकरणः परं॥ अयोरजः सकासीसं त्रिफलाकुसुमानि च॥ प्रलेपः कुरुते कार्ष्ण्यं सद्यएव नवत्वचि॥ दग्धयाऽऽनूपसत्वानां श्लक्ष्णचूर्णितया त्वचा॥ भल्लाततैलप्लुतया शुक्लमालेपयेद्व्रणं॥ सप्तरात्रस्थितं क्षीरे छागले रोहिणीफलं॥ तेनैव पिष्ट्वासुश्लक्ष्णं कृष्णमा लेपयेद्व्रणं॥ नवं कपालिकामूलं वैदुलं सर्जसाह्वयं॥ कासीसं मधुकं लेपो व्रणे कृष्णे मधुद्रुतः॥ कपित्थानां समुद्हृत्य मूत्रस्याजस्य पूरणं॥ क्षिपेच्चास्य मनोव्हालं वंशनिर्लेखरोचनाः॥ कासीसं प्रपुनाटं च मासं न्यस्तं ततो भुवि॥ अधोऽर्जुनस्य तत्कृष्णे व्रणे लेपःसवर्णकृत्॥ दग्धो वारणदंतोंऽतर्धूमस्तैलं रसांजनं॥ रोमसंजननोलेपस्तद्वत्तैलपरिप्लुता॥ चतुष्पान्नखरोमास्थित्वक्शृंखुरजा मपी॥जीर्णशाल्योदनं स्निग्धमल्पमुष्णोदकोत्तरं॥ भुंजानो जांगलैर्मांसैःशीघ्रंव्रणमपोहति॥ इति व्रणप्रतिषेधो नाम त्रिंशोऽध्यायः॥ ३०॥
अथातः सद्योव्रणविज्ञानप्रतिषेधं व्याख्यास्यामः॥ आगंतोर्व्रणस्य प्रागुपदिष्टः संभवः॥ तत्र यथायथं प्रतीकारश्च॥ विविधाभिघानजनितैश्च तत्तदाव्हाकृतिभिरपि सद्योव्रणैरधिष्ठितमंगं समासात्विविधं भवति॥ छिन्नं भिन्नं पिच्चितं च॥ त्रिविधमपि चैद-त्त्वगादिक्षणनात्क्षतमित्युच्यते॥ तत्र छिन्नं पंचधा भिद्यते॥ तद्यथा॥ त्वक्छेदे घृष्टं॥ किंचिन्मांसस्याप्यवकृत्तं॥ तस्यैवावगाढस्यप्रायेण विशालमायतं विच्छिन्ने॥ किंचिच्छेपेषु त्वस्थिस्नाध्यादिषुविलंबितं॥ अशेषांगच्छेदे पातितं॥ विद्धं593 त्वष्टविधं॥ तत्र मांस
मनुप्राप्तेन शल्येन विद्धं॥ द्वितीयपार्श्वत्वचमुन्नम्योत्तुंडितं॥ किंचिन्निःसृतेऽतिविद्धं॥ सर्वथा निःसृते निर्विद्धं॥ एतदेव चतुर्विधंकोष्ठेपृथुमुखैर्वा प्रहरणैः कुंतादिभिर्विद्धमनुभिन्नं भिन्नोत्तुंडितमतिभिन्नंनिर्भिन्नमिति च संज्ञां लभते॥ यत् पुनः प्रहारेण पीडनेन वा गात्रमस्थियुक्तमसृड्भज्जप्लुतं पृथुतामापद्यते तत्पिच्चितं॥ तत् द्विविधं सव्रणमव्रणं च॥ तत्र सव्रणमुक्तमव्रणं पुनर्भंगेषूपदिश्यत इति। भवतिचात्र॥ सद्यः सद्योव्रणं सिंचेद्यष्टीमधुकसर्पिपा॥ तीव्रव्यथं कवोष्णेन बलातैलेन वा पुनः॥ क्षतोष्मणो निग्रहार्थं तत्कालं विस्तृतस्य च॥ कषायशीतमधुरस्निग्धा लेपादयो हिताः॥ सद्योव्रणेष्वायतेषु संघानार्थं विशेषतः॥ मधुसर्पिः प्रयुंजीत पित्तघ्नाश्च हिमाः कियाः॥ ससंरभेषु कर्तव्यमूर्ध्वंचाधश्च शोधनं॥ उपवासो हितं भक्तंप्रततं रक्तमोक्षणं॥ घृष्टपिच्चितयोरेषसुतरामिष्यते विधिः॥ तयोरस्रंस्रवत्यल्पं पाकस्तेनानु जायते॥ अत्यर्थमस्रं स्रवति प्रायशोऽन्यत्र विक्षते॥ ततो रक्तक्षयाद्वायौ कुपितेऽतिरुजाकरे॥ स्नेह-पानपरोषेकस्वेदलेपोपनाहनं॥ स्नेहवस्तिं च कुर्वीत वातघ्नौषधसाधितं॥ इति सप्ताहिकः प्रोक्तः सद्यो व्रणहितो विधिः॥ सप्ताहा-द्गतवेगे तु पूर्वोक्तं594 विधिमाचरेत्॥ क्षालनाभ्यंगलेपेषुतस्मिन् दुष्टेप्रयोजयेत्॥ आरग्वधादिकं वर्गं सुरसादिं च शोधनं॥ कल्कस्त्रि-वृत्तिलैरंडपत्रैर्योज्यः ससैंधवैः॥ वातिके पैत्तिके कुंभयष्ट्याव्हारजनीतिलैः॥ श्लैष्मिके तिलतेजोव्हानिकुंभस्वर्जिकाग्निकैः॥ एषदुष्टव्रणविधिः कुष्टमेहव्रणेष्वपि॥ प्रायः सामान्यकर्मेदं वक्ष्यते तु पृथक्पृथक्॥पृष्टे रुजं595निगृह्याशु व्रणे चूर्णानि योजयेत्॥ कल्कादीन्यवकृत्ते तु विच्छिन्ने प्रविलंबिते॥ सीवनं विधिनोक्तेन बंधनं चानुपीडनं॥
असाध्यं स्फुटितं नेत्रमदीर्णंलंबते तु यत्॥ सन्निवेश्य यथास्थानमव्याविद्धशिरं भिषक्॥ पीडयेत्पाणिना पद्मपत्रव्यवहितेन तत्॥ ततोऽस्यसेचने नस्ये तर्पणे च हितं हविः॥ विपक्वमाज्यं यष्ट्याव्हजोवकर्षतकोत्पलैः॥ सपयस्कैः परं तद्धि सर्वनेत्राभिघातजित्॥मुखबाष्पोष्णचैलेन स्विन्नं नयनमाहतं॥ मरिचेनांबुपिष्टेन पिचुयुक्तेन पूरयेत्॥ दद्यान्निषिक्तेन जले निशायांसर्पिपासह॥ सास्रश्वयथुरुग्रागे शस्तं चक्षुषि भेचनं॥ कार्या चानु क्रिया शीता ग्रले-पाश्चोतनादिका॥गलपीडावसन्नेऽक्ष्णिवमनोत्कासनक्षवाः॥ प्रा-णायामोऽथवा कार्यः क्रिया च क्षतनेत्रवत्॥ कर्णे स्थानच्युते स्यू-ते स्रोतस्तैलेन पूरयेत्॥ कृकाटिकायां छिन्नायां निर्गच्छत्यपि मारुते॥ समं निवेश्य वध्नीयात्स्यूत्वा शीघ्रं निरंतरं॥ आजेन सर्पि-पा चात्र परिषेकः प्रशस्यते॥ उत्तानोऽन्नानि भुंजीत शयीत चसुयंत्रितः॥ घातं शाखासु तिर्यक्स्थंगात्रे सम्यड्निवेशिते॥ स्यूत्वा वेल्लितबंधेन वध्नीयाह्घनवाससा॥ चर्मणा गोष्फणाबंधः कार्यश्चां-सगते व्रणे॥ पादौ विलंबिमुष्कस्य प्रोक्ष्य नेत्रे च वारिणा॥ प्रवेश्य वृषणौ सीव्येत्सेवन्या तुन्नसंज्ञया॥ कार्यश्च गोष्फणाबंधः कट्यामावेश्य पट्टकं॥ स्नेहसेकं न कुर्वीत तत्र क्लिद्यति हि व्रणः॥कालानुसार्यगुर्वेलाजातीचंदनपद्मकैः॥ शिलादार्व्यमृतातुत्थैःसिद्धंतैलं च रोपणं॥ छिन्नां निःशेषतः शाखां दुग्ध्वा तैलेन युक्तित॥ वध्नीयात्कोशबंधेन ततो व्रणवदाचरेत्॥ कार्यः शल्यात्दृते विद्धे क्रमोऽयं गात्रपिच्चिते॥शिरसोऽपत्दृते शल्ये वालवार्तिंप्रवेशयेत्॥मस्तुलुंगे स्रुते क्रुद्धोहन्यादेनं चलोऽन्यथा596॥ व्रणे रोहति चैकैकं शनैरपनयेत्कचं॥ मंस्तुलुंगस्रुतौखादेन्मस्तिष्कानन्यजीवजान्॥
शल्ये त्दृतेंऽगादन्यस्मात् स्नेहवर्तिं निधापयेत्॥ दूरावगाढाःसूक्ष्मास्या ये व्रणाः स्रुतशोणिताः॥ सेचयेच्चक्रतैलेन सूक्ष्मनेत्रार्पितेन तान्॥ भिन्ने कोष्ठेऽसृजा पूर्णे मूर्च्छात्दृत्पार्श्ववेदनाः॥ ज्वरो दाहस्तृडाध्मानं भक्तस्यानभिनंदनं॥ संगो विण्मूत्रमरुतां श्वासः स्वेदोऽक्षिरक्तता॥ लोहगंधित्वमास्यस्य स्याद्गात्रे च विगंधिता॥आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि॥ आध्मानेनातिमात्रेण शूलेन च विनश्यति॥ पक्वाशयस्थे रुधिरे सशूलं गौरवं भवेत्॥ नाभेरधरताच्छीतत्वं खेभ्यो रक्तस्य चागमः॥ अभिन्नोऽप्याशयः सूक्ष्मैः स्रोतोभिरभिपूर्यते॥ असृजा स्यंदमानेन पार्श्वे सूत्रेण बस्तिवत्॥तत्रांतर्लोहितं शीतपादोच्छ्वासकराननं॥ रक्ताक्षं पांडुवदनमानद्धं चविवर्जयेत्॥ आमाशयस्थे वमनं हितं पक्वाशयाश्रिते॥ विरेचनं निरूहंच निःस्नेहोष्णैर्विशोधनैः॥ यवकोलकुलत्थानां रसैः स्नेहविवर्जितैः॥ भुंजीतान्नंयवागूं वा पिबेत्सैंधवसंयुतां॥ अतिनिःसृतरक्तस्तु भिन्नकोष्ठःपिबेदसृक्॥ क्लिष्टच्छिन्नांत्रभेदेन कोष्ठभेदो द्विधा स्मृतः॥ मूर्च्छादयोऽल्पाः प्रथमे द्वितीये त्वतिबाधकाः॥ क्लिष्टांत्रः संशयी देही छिन्नांत्रो नैव जीवति॥ यथास्वं मार्गमापन्ना यस्य विण्मूत्रमारुताः॥ व्युपद्रवः स भिन्नेऽपि कोष्ठे जीवत्यसंशयं॥ अभिन्नमंत्रं निष्क्रांतं प्रवेश्यं नत्वतोऽन्यथा597॥ उरोगलशिरोग्रस्तं598 तदप्येके वदंति तत्॥ प्रक्षाल्यपयसा दिग्धं तृणशोणितपांशुभिः॥ प्रवेशयेत्कृत्तनखो घृतेनाक्तंशनैःशनैः॥ क्षीरेणार्द्रीकृतं शुष्कं भूरिसर्पिःपरिप्लुतं॥ अंगुल्या प्रमृशेत्कंठं जलेनोद्देजयेदपि॥ तथांऽत्राणि विशंत्यंतस्तत्कालं पीडयंति च॥व्रणसौक्ष्म्याद्बहुत्वाद्दा कोष्ठमंत्रमनाविशत्॥ तत्प्रमाणेन जठरंपाटयित्वा प्रवेशयेत्॥ यथास्थानस्थिते सम्यगंत्रे सीव्येदनुव्रणं॥
स्थानादपेतमादत्ते जीवितं कुपितं हि तत्॥ वेष्टयित्वा ऽनु पट्टेनघृतेन परिषेचयेत्॥ पाययेत ततः कोष्णं चित्रतैलप्लुतं599 पयः॥ मृदुक्रियार्थंशकृतो वायोश्चाधः प्रवृत्तये॥ त्वगश्वकर्णकतकवदरीशल्लकीधवात्॥ धातुकीमेषशृंगीभ्यां क्षीरिभ्यश्च वलाजटा॥ तत्कल्कसाधितं तैलं प्रधानं व्रणरोपणं॥अनुवर्त्तेत वर्षं च यथोक्तां व्रणयंत्रणां॥ उदरान्मेदसोवर्तिं निर्गतां भस्मना मुदा॥ अवकीर्यकषायैर्वा श्लक्ष्णैर्मूले ततः समं॥ दृढं च बध्वा सूत्रेण वर्द्धयेत्कुशलो भिषक्॥ तीक्ष्णेनाग्निप्रतप्तेन शस्त्रेण सकृदेव तु॥ स्यादन्यथा रुगाटोपो मृत्युर्वाछिद्यमानया॥ सक्षौद्रे च व्रणे बद्धे सुजीर्णेऽन्ने घृतं पिबेत्॥ क्षीरं वा शर्कराचित्रालाक्षागोक्षुरकैः शृतं॥रुग्दाहजित्सयष्ट्याह्वैःपरं पूर्वोदितो विधिः॥ मेदोग्रंथ्युदितं तत्र तैलमभ्यंजनं हितं॥ तालीसं पद्मकं मांसी हरेण्वगुरुचंदनं॥ हरिद्रेपद्मबीजानि सोशीरमधुकं च तैः॥ पक्वंसंद्योव्रणेषूक्तं तैलं रोपणमुत्तमं॥ गूढप्रहाराभिहते पतिते विषमोच्चकैः॥ कार्यंवातास्रजित्तृप्तिमर्दनाभ्यंगशोधनं॥ विश्लिष्टदेहं मथितं क्षीणं मर्माहतं हतं॥ वासयेत्तैलपूर्णायां द्रोण्यां मांसरसाशिनं॥ प्रहर्तृयंत्रायुधधातगात्रेसद्योव्रणाः काममनंतरूपाः॥ तथाऽपि न त्रित्वमतिक्रमंते चयादिभेदैरिवमारुताद्याः॥ इति सद्योव्रणविज्ञानप्रतिषेधो नामैकत्रिंशो ऽध्यायः॥ ३१॥
अथातो भंगविज्ञानप्रतिषेधं व्याख्यास्यामः॥ पतनपीडनप्रहा-राक्षेपणव्यालदंशप्रवृत्तिभिरभिघातविशेषैरनेकविधमस्थिभंगमुपदिशंति॥ तत्तु भग्नजातं संधावसंधौ च॥ तत्र संधिमुक्तं षड्विधं॥उत्पिष्टं विश्लिष्टमयक्षिप्तमतिक्षिप्तं तिर्यक्क्षिप्तं विवर्तितमिति॥तस्य सामान्यलक्षणं प्रसारणाकुंचननिवर्त्तनाक्षेपणाशक्तिरुग्ररुजता
स्पर्शासहिष्णुत्वं॥ अथोत्पिष्टे स्वस्थानएव संधीषूभयतः शोफोवेदना विशेषतश्च रात्रौ भवति॥ विश्लिष्टेऽल्पशोफोवेदनासातत्यंसंधिविक्रिया च॥ अवक्षिप्ते संधिविश्लेषस्तीव्राच रुक्॥ अति-क्षिप्ते द्वयोरपि संध्यस्थ्नोरतिक्रांतता वेदनाच॥ तिर्यकक्षिप्ते त्वेकस्यास्थ्नः पार्श्वतो गमनमत्यर्थवेदना च॥ संधिपार्श्वगमना-द्विषमांगता वेदना च॥ असंधिभग्नं पुनर्द्वादशविधं॥ तद्यथा॥ कर्कटं वक्रंस्फुटितं वेल्लितमस्थिच्छल्लिकमश्वकर्णंपिच्चितं दारितं चूर्णितमतिपातितं शोषितं मज्जानुगतमिति॥ श्वयथुबाहुल्यं स्पंदनं विवर्त्तनं स्पर्शासहिष्णुता च पीड्यमाने शब्दःस्रस्तांगता वेदनातिप्रवृत्तिः सर्वासु चावस्थासु शर्म न लभत इति साधारणमसंधिभग्नरूपं॥ वैशेषिकं च॥ संमूढमुभयतोस्थ्यस्थिमध्ये भग्नं ग्रंथिरिवोन्नतंकर्कटानुकारिकर्कटकं॥ अभुग्नमविमुक्तमस्थि वक्रं॥ शूकपूर्णमि-वाध्मातं विपुलैकदारिस्फुटितं॥ द्विधाभूतं वेल्लिते प्रकंप्यमानं वेल्लितकं॥ पार्श्वतोऽस्थिहीनउद्गते ऽस्थिच्छल्लिका॥ अश्वकर्णवदुद्गतमश्वकर्णः॥ पृथुतां गतमनल्पशोफंपिच्चितं॥ अणुवेददारिवेदनावच्च दारितं॥ स्पृश्यमानं शब्दवच्चूर्णितं॥ अस्थ्यवयवोऽस्थिमध्यमनुप्रवेश्यतिपातितं॥ अन्यतरपार्श्ववशिष्टं शोषितं॥ क्षतं भुग्न-मुन्नम्यमानं मज्जति मज्जानुगतं॥ एवमंत्यानि पंच कृच्छ्रमाध्यानि॥ कृशातिबालवृद्धासहानामल्पाशनानां वातात्मकानां कुष्ठिनामुपद्रववतां च॥ असाध्यं तु भिन्नं कटिकपालं संधिमुक्तं वा जघनमुत्पिष्टं कूर्परो विवर्तितस्तथा ललाटं चूर्णितमसंश्लिष्टकपालं च शिरःशंखपृष्ठास्तनांतरं भुग्नं चेति॥ भवंति चात्र॥ अथावनतमुन्नम्य मुन्नतं चावपीडयेत्॥ आंच्छेदनिक्षिप्तमधोगतं चोपरि वर्त्तयेत्॥ आंच्छनोत्पीडनोंन्नामचर्मसंक्षेपबंधनैः॥ संधीन्शरीरगान् सर्वान् चलानप्यचलानपि॥ इत्येतेः स्थापनोपायैः सम्यक्संस्थाप्य निश्चलं॥
पट्टैःप्रभूतसर्पिभिर्वेष्टयित्वा सुखैस्ततः॥ कदंबोदुंबराश्वत्थसर्जार्जुनपलाशजैः॥ वंशोद्भवैर्वा पृथुभिस्तनुभिः सुनिवेशितैः॥ सुश्लक्ष्णैःसुप्रतिस्तंभैर्वल्कलैः शकलैरपि॥ कुशाव्हयैःसमं बंधं पट्टस्योपरियोजयेत्॥ शिथिलेन हि बंधेन संधिस्थैर्यंन जायते॥ गाढेनाति-रुजादाहपाकश्वयथुसंभवः॥ त्र्यहात्र्यहादृतौ घर्मे सप्ताहान्मोक्षये-द्धिमे॥ साधारणे600 तु पंचाहाद्भंगदोपवशेन वा॥ न्यग्रोधादिकषायेण ततः शीतेन सेचयेत्॥ तं पंचमूलपक्वेन पयसा तु सवेदनं॥ सु-खोष्णं चावचार्यं स्याच्चकतैलं विजानता॥ विभज्य देशं कालं च-वाताघ्नौषधसाधितं॥ प्रततंसेकलेपांश्चविदध्याद्भृशशीतलान्॥ गृ-ष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितं॥ प्रातः प्रातः पिबेद्भग्नः शीतलंलाक्षया युतं॥ सव्रणस्य तु भग्नस्य व्रणो मधुघृतोत्तरैः॥ कषायैःप्रतिसार्योऽथ शेषोभंगोदितः क्रमः॥ लंबानि व्रणमांसानि प्रलिप्यमधुसर्पिपा॥ संदधीत व्रणान्वैद्यो बंधनैश्चोपपादयेत्॥ तान्समान्सुस्थितान् ज्ञात्वा फलिनीरोध्रकट्फलैः॥ समंगाधातुकीयुक्तैश्चूर्णितै-खचूर्णयेत्॥ पंचवल्कलचूर्णैर्वा शक्तिचूर्णसमन्वितैः॥ धातुकीरोध्नचूर्णैर्वा रोहत्याशु तथा व्रणः॥ विश्लिष्टोपिष्टयोः संधिमेवमेवावघट्टयेत्॥ उपाचरेद्यथास्वंच विसर्पादीनुपद्रवान्॥ इति भंग उप-क्रांतः स्थिराधातो ऋतौ हिमे॥ मांसलस्याल्पदोषस्य सुसाध्यो दारुणोऽन्यथा॥ पूर्वमध्यांतवयसामेकद्दित्रिगुणैः क्रमात्॥ मासैः स्थैर्यंभवेत्संधैर्यथोक्तं भजतो विधिं॥ सामान्यं साधनमिदं विशिष्टं वक्ष्यते ततः॥ नखसंधिं समुत्पिष्टं रक्तानुगतमारया॥ अवमथ्यस्रुते रक्ते शालिपिष्टेन लेपयेत्॥ भग्नान्संधिविमुक्तांश्च कृत्वापूर्ववदंगुलीन्॥ तंतुनाऽऽवेष्ट्यपट्टेन घृतसेकं प्रयोजयेत्॥ चक्रयोगेन मतिमानांच्छेदूर्ध्वास्थिनिर्गतं॥ आच्छेदूर्ध्वमधस्ताच्च
कटिभग्नं चिकित्सकः॥ मुसलेनोत्क्षिपेत्कक्षामंससंधौविसंगते॥स्थानस्थितं च वध्नीयात्स्वस्तिकेन समाहितः॥ कौर्परं तु भिषक्संधिमंगुष्ठेनानुमार्जयेत्॥ अनुमृज्य ततः संधिं पीडयेत्कूर्पराच्च्युतं॥प्रसार्याकुंचयेच्चैनं स्नेहसेकं च कारयेत्॥ मणिबंधे च जानौ च गु-ल्फे चैवं क्रियाक्रमः॥ उभे तले समे कृत्वा तलभग्नस्य देहिनः॥बध्नीयादामतैलेन परिपेकं च कारयेत्॥ प्राग्गोमयस्यपिंडं वा धारयेन्मृन्मयं ततः॥ हस्ते जातबले कार्यं क्रमात् पाषाणधारणं॥सन्नमुन्नामयेत्स्विन्नमक्षकं मुसलेन तु॥ तथोन्नतं पीडयेत बध्नीयान्निबिडं ततः॥ उरुवच्च विधातव्यं बाहुभंगे प्रसाधनं॥ ग्रीवायांतुविवृत्तायां प्रविष्टायामथापि वा॥ अवटावथ हन्वोस्तु प्रगृत्द्योन्नमयेत्ततः॥ समं कुशाभिर्बध्नीपादुत्तानं शाययेत्तु तं॥ हन्वस्थिनी समानीय हनुसंधौ विसंगते॥ स्वेदयित्वा स्थिते सम्यक् पंचांगीबंधमाचरेत्॥ घृतं वातघ्नमधुरैःसिद्धं नस्यं च पूजितं॥ दंतानभग्नांश्चलितान्सरक्तानवपीडयेत्॥ वयस्थस्यांबुभिः शीतैः परिषिच्यप्रलेपनैः॥ बहिर्निवापणैरंतः संधानीयैरुपाचरेत्॥ बलाद्वयशृतेक्षीरेपद्मकादिशृतं घृतं॥ नस्पगंडूपयोर्योज्यं चलद्विजहितानि च॥कल्कितैस्तद्विधैश्चास्य दंतमांसानि लेपयेत्॥ श्रीन्मासान्भृदुभुंजीतरसान्नं कठिनांस्त्यजेत्॥ नासां विवृतां सन्नां वा ऋजुंकृत्वा श-लाकया॥ प्रत्येकतस्ततो नाडींद्विमुखींसंप्रवेशयेत्॥ ततः पट्टेनसंवेष्ट्य घृतसेकं प्रदापयेत्॥ मग्नं कर्णंघृताभ्यक्तं न्यस्य बंधेनयोजयेत्॥ सद्यःक्षतविधानं तु ततः पश्चात्समाचरेत्॥ कटीजंघो-रुभग्नानां कपाटशयनं हितं॥ यंत्रणार्थं ततः कीलाःपंच कार्यानिबंधनाः॥ जंघोर्वोः पार्श्वयोर्द्वौर्द्वौतल एकश्च कोलकः॥ श्रोण्यांवा पृष्ठवंशे वा वक्रस्याक्षकयोस्तथा॥ विमोक्षे भग्नसंधीनां विधिमेवं समाचरेत्॥ संधींश्चिरविमुक्तांश्च स्निग्धस्विन्नान्मृदून् कृतान्॥
उक्तैर्विधानैर्बुत्ध्या च यथास्वंस्थानमांनयेत्॥ असंधिभग्ने रूढे तुविषमोल्बणसाधिते॥ आपोथ्य भंगं यमयेत्ततो भग्नवदाचरेत्॥ भग्नं नैति यथा पाकंप्रयतेत तथा भिषक्॥ पक्वमांससिरास्नायुः संधिः श्लेषं न गच्छति॥ वातव्याधिविनिर्दिष्टान्स्नेहान् भग्नस्य योजयेत्॥ चतुःप्रयोगान्बल्पांश्च601 बस्तिकर्म च शीलयेत्॥ शालिक्षीररसाज्याद्यैः पौष्टिकैरविदाहिभिः॥ मात्रयोपचरेद्भग्नंसंधिसंश्लेषकारिभिः॥ ग्लानिर्न शस्यते तस्य संधिविश्लेषकृद्धि सा॥लवणं कटुकं क्षारमम्लं मैथुनमातपं॥ व्यायामं च न सेवेत भग्नोरूक्षंच भोजनं॥ सम्यग्यमितमप्यस्थि दुर्न्यासाद्दुर्निबंधनात्॥ संक्षोभादपि यद्गच्छेद्विक्रियां तद्विवर्जयेत्॥ आदितो यच्च दुर्जातमस्थिसंधिमथापि वा॥ तरुणास्थीनि नम्यते भज्यंते नलकानितु॥ कपालानि विभज्यंते स्फुटंत्यन्यानि भूयसा॥ अनुल्बणमनाविद्धं स्वस्थाने पर्यवस्थितं॥ अवेदनं च येष्टायां भग्नं विद्यात् सु साधितं॥ कृष्णांस्तिलान्विरजसो दृढवस्त्रबद्धान्सप्त क्षपा वहति वारिणि वासयेत॥ संशोपयेदनुदिनं प्रतिसार्य602 चैतान्क्षीरे तथैव मधु-कक्वथिते च तोये॥ पुनरपि पीतपयस्कांस्तान् पूर्ववदेवशोपितान्बाढं॥ विगततुषानरजस्कान्संचूर्ण्य सुचूर्णितैर्युंज्यात्॥ नलदवालकेलोहितयष्टिकानखमिशिप्लवकुष्ठबलात्रयैः॥ अगुरुकुंकुमचंदनसारिवासरलसर्जरसामरदारुभिः॥ पद्मकादिगणोपेतैस्तिलपिष्टं ततश्चतत्॥ समस्तगंधभैषज्यसिद्धदुग्धेन पीडयेत्॥ शैलेपरास्त्रांशुमतीकसेरुकालानुसारीनतपत्ररोध्रैः॥ सक्षीरशुक्लैः सपयस्कदूर्वैस्तैलंपचेत्तन्नलदादिभिश्च॥ गंधतैलमिदमुत्तममस्थिस्थैर्यकज्जयति चाशुविकारान्॥ वातपित्तजनितानतिवीर्यान् व्यापिनोऽपि603 विविधैरुपयोगैरिति॥ इति भंगविज्ञानप्रतिषेधो नाम द्वात्रिंशोऽध्यायः॥ ३२॥
अथातो भगंदरविज्ञान प्रतिषेधं व्याख्यास्यामः॥ हस्त्यश्वपृष्ठ-गमनकठिनोत्कटकासनैः॥ अर्शोनिदानाभिहितैरपरैश्च निषेवितैः॥ अनिष्टदिष्टपाकेन सद्यो वा साधुगर्हणैः॥प्रायेण पिटिकापूर्वोयोंऽगुले झंगुलेऽपि वा॥ पायौ व्रणोंऽनर्बात्ध्यावा दुष्टासृड्भांसगो भवेत्॥ वस्तिमूत्राशयाभ्याशगतत्वात्स्पंदनात्मकः॥ भगंदरः सर्वगश्च दारयत्यक्रियावतः॥ भगवस्तिगुदं तेषु दीर्यमाणेषु भूरिभिः॥ वातमूत्रशकृच्छुकं खैः सूक्ष्मैर्वमति क्रमात्॥ दोषैःपृथक् द्वयैः सर्वैरागंतुःसोऽष्टमः स्मृतः॥ अपक्वंपिटिकामाहुः पाकप्राप्तं भगंदरं॥ गूढमूलांससंरंभां रुगाढयां रूढकोपिनीं॥ भगंदरकरीं विद्यात्पिटिकां न त्वतोऽन्यथा॥ तत्र श्यावारुणा तोदभेदस्फुरणरुक्करी॥ पिटिकामारुतात्पित्तादुष्टग्रीवावदुच्छ्रिता॥ रागिणी तनुसूष्माढ्या ज्वरधूमायनान्विता॥ स्थिरा स्निग्धा महामूला पांडुः कंडूमती कफात्॥ श्यावा ताम्रा सदाहोपा घोररुग्वातपित्तजा॥ पांडुरा किंचिदा-श्यावा कृच्छ्रपाका कफानिलात्॥ पादांगुष्ठसमा सर्वेर्दोषैर्नानाविधव्यथा॥ शूलारोचकतृड्दाहज्वरच्छर्दिरुपद्रुता॥ व्रणतां यांति ताःपक्वाःप्रमादात्तत्र वातजा॥चीयतेऽणुमुखैश्छिद्रैःशतपोनकवत्-क्रमात्604॥ अच्छं स्रवद्भिरास्रावमजस्रंफेनसंयुतं॥ शतपोनकसंज्ञो ऽयमुष्ट्रग्रीवस्तु पित्तजः॥ बहुपिच्छापरिस्रावी परिस्रावी कफोद्भवः॥ वातपित्तात्परिक्षेपी परिक्षिप्यगुर्द गतिः॥ जायते परितस्तत्र प्राकारं परिखेव च॥ ऋजुर्वातकफादृज्व्यागुदो गत्या तु दीर्यते॥कफपित्ते तु पूर्वोत्थं दुर्नामाश्रित्य कुप्यतः॥ अर्शोमूले ततः शोफःकंडूदाहादिमान् भवेत्॥ स शीघ्रं पक्वभिन्नोऽस्य क्लेदयन्मूलमर्शसः॥ स्रवत्यजस्रंगतिभिरयमर्शोभगंदरः॥ सर्वजः शंबुकावर्त्तः शंबुकाव
र्त्तसन्निभः॥ गतयो दारयंत्यस्मिन् रुग्वेगैदारुणैर्गुदं॥ अस्थिलेशो-ऽभ्ववत्दृतोमांसगृत्ध्यायदा गुदं॥ क्षणोति तिर्यङ्विर्गच्छन्नुन्मार्गंक्षततो गतिः॥ स्यात्तदा पूयदीर्णायां मांसकोथेन तत्रच॥ जायंते कृमयस्तस्य खादंतः परितो गुदं॥ विदारयंति न चिरादुन्मार्गीक्षतजश्चसः॥ तेषु रुग्दाहकंड्वादीन्विद्याद्व्रणनिषेधतः॥ षट्कृच्छ्रसाधनास्तेषां निचयक्षतजौ त्यजेत्॥ प्रवाहिणीं वलीं प्राप्तं सेवनीवा समाश्रितं॥ अथ भंगदरिणमपक्वपिटिकं पाकपरिहारार्थ-मपतर्पणादिना व्रणप्रतिषेधविहितेन शीघ्रमुपाचरेत्॥ पक्वपिटि-कं पुनरर्कादिक्वाथसिद्धस्नेहस्वभ्यक्तमवगाहस्विन्नं॥ भुक्तवंतं शयनस्थमर्शप्तमिव यंत्रयित्वाऽर्वाचीनं पराचीनं बहिर्मुखमंतर्मुखं वाभगंदरं सम्यगीक्षेत॥ तथाऽतर्मुखं यंत्रं प्रणिधाय प्रवाहणप्रविष्टंभगंदरमभिसमीक्ष्य सम्यगेषित्वा शस्त्रेण पाटयेत्॥ बहिर्मुखं त्वेषिणीं प्रणीय साशयमुद्धरेन्सशस्त्रेणानंतरं चोभयमप्यग्निना क्षा-रेण चोपक्रमेत॥ उष्ट्रग्रीवं क्षारेणैव ततो निर्वापणशोधनरोपणैर्यथाकालं साधयेदिति सामान्यो विधिः॥ अथ शतपोनके नाडीरेकांतरिताः पाटयित्वा रोपयेत्॥ सूढासु चेतराश्चिकित्सेत्॥ अन्यथा तु विवृतं व्रणं गुदस्रोतोविदारणाद्वातविण्मूत्राप्रपद्यंते॥ ततश्चोन्मार्गगो वायुराध्मानाटोपपाशूलादीनुपजनयति॥ तत्र स्नेहाभ्यक्तगुदस्यास्निग्धपिंडनाडीकुंभीस्वेदान्प्रयुंजीतावगाहं वा॥ स्विन्नं वचाकुष्टहिंगुव्योपलव्रणपंचकाजमोदाःसर्पिर्मद्यकांजिककुलत्यत्थयूषान्यतमेनपापयेत्॥ वणं चास्य मधुकतैलेनोष्णेन सिंचेत्॥ गुदं च बलातैलादिभिर्वतवेदध्नैः॥ अनेन विधाना वातादयः स्वमार्गमापतंति त-त्कृताश्चविकारा निवर्त्तंते॥ एवमेव परिक्षेपिण्यपि क्रमाद्गतिंनाडीविहितेन क्षारसूत्रेण द्विशस्त्रिशो वाऽवदारयेत्॥ सकृदेव त्द्यवदारणादसाध्यता याप्यता वा स्यात्॥ अर्शोभगंदरे पूर्वमर्शांसिछिंद्यात्॥
ततो गत्यनुसारेण॥भगंदरमुन्मार्गिणं च प्रत्याख्यायोपचरेत्॥ अनिःसृतं च शल्यमाहरेत्॥ तथा कमिघ्नक्रमं लेपाभ्यवहारयोः कुर्वीत॥ वेदनायां पूर्वोक्ताः स्वेदा वचादिपाचनं च॥ साल्वणप्रदिग्धं वाव्रणंकदलीमृगलोपाकाजिनकौशेषाविकैरुपनाहयेदिति॥ भवतिचात्र॥ भगंदरे बहुच्छिद्रे छेदानेतान्प्रयोजयेत्॥ गोतीर्थसर्वतोभद्रदललांगललांगलान्॥ पार्श्वंगतेनशस्त्रेण छेदो गोतीर्थको मतः॥सर्वतः सर्वतोभद्रः पार्श्वछेदो ऽर्द्धलांगलः॥ पार्श्वद्वये लांगलकः समस्तांश्चाग्निना दहेत्॥ आस्रावमार्गान्निःशेषान्नैवं विकुरुते पुनः॥यतेत कोष्ठशुद्धौ च भिषक् तस्यांतरांऽतरा॥ आर्द्रकस्वरसेसिद्धं कल्के वा पाययेद्घृतं॥ भगंदरे मारुतजे पक्वापक्वेविरेचयेत्॥ ज्योतिष्मतीलांगलिकाश्यामादंतीत्रिवृत्तिलाः॥ कुष्टं शताह्वागोलोमीतिल्वको गिरिकर्णिका॥ हेमक्षीरी च वर्गोऽयं लेपाद्यैर्व्रणशोधनः॥तिलकुंभवरादंतीतुत्थसिंधूत्थमाक्षिकैः॥ सकृष्णरोचनाकुष्टं शोधनं मांसकृत्पुनः॥ मंजिष्ठासैंधवक्षौद्रनागदंतीत्रिवृत्तिलाः॥ रसांजनं द्वि-रजनीतेजोह्वानिंबपल्लवाः॥ निकुंभकुंभरक्ताश्च कल्को नाडीव्रणापहः॥ सुधासेलुत्रिवृत्पाठामलयूहमारकैः॥ ज्योतिष्मतीलांगलिकास्वर्जिकाकवचाग्निकैः॥ विष्यंदनाख्यं विषचेत्तैलं शोधनरोपणं॥ त्रिवृद्दंतीहरिद्राऽर्कमूललोहाश्वमारकैः॥ विडंगसारत्रिफलास्नुगर्कक्षीरमाक्षिकैः॥ तैलं समदनैः सिद्धं भगंदरनिवर्हणं॥ सैंधवार्कत्रिवृत्पाठासमंगापूतिकाग्निकैः॥ समातुलुंगच्छदनैस्तैलं शोधनरोपणं॥ मधुतैलयुताविटंगसारत्रिफलामागधिकाकणाश्च लीढाः॥ कृमिकुष्टभगंदरप्रमेहक्षतनाडीव्रणरोपणा भवंति॥ अमृतात्रुटिवेल्लवत्सकं कलिपथ्यामलकानि गुग्गुलुः॥ क्रमवृद्धमिदं मधुद्रुतं पिटिकास्थौल्यभगंदरान् जयेत्॥ गुग्गुलुपंचपलं पलिकांशा मागधिकात्रिफला च पृथक् स्यात्॥ त्वक्त्रुटिकर्पयुतं मधुलीढं कुष्ठभगंदर
गुल्मगतिघ्नं॥ शृंगबेररजोयुक्तं तदेव605 च सुभावितं॥ क्वाथेन दशमूलस्य विशेषाद्वातरोगजित्॥ उत्तमाखदिरसारजं रजः शीलयन्नसनवारिभावितं॥ हंति तुल्यमहिषाक्षमाक्षिकं कुष्टमेहपिटिकाभगंदरान्॥ भगंदरेष्वेषविशेष उक्तः शेषाणि तु व्यंजनसाधनानि606॥ व्रणाधिकारात्परिशीलनाच्च सम्यग्विदित्वौपथिकं विदध्यात्॥ अश्वपृष्ठगमनं चलरोधं मद्यमैथुनमजीर्णमसात्म्यं॥ साहसानि विविधानि च रूढे वत्सरं परिहरेदधिकं वा॥ इति भगंदरविज्ञान प्रतिषेधो नाम त्रयस्त्रिंशोऽध्यायः॥ ३३॥
अथातो ग्रंथ्यर्बुदश्लीपदापचीनाडीविज्ञानं व्याख्यास्यामः॥ कफप्रधानाः कुर्वंति मेदोमांसास्रगा मलाः॥ वृत्तोन्नतं यं श्वयथुंस ग्रंथिर्ग्रंथनात्स्मृतः॥ दोषास्रमांसमेदोऽस्थिसिराव्रणभवा नव॥ तेतत्र वातादायामतोदभेदान्वितो ऽसितः॥ स्थानात्स्थानांतरगतिरकस्माद्धानिवृद्धिमान्॥ मृदुर्बस्तिरिवानद्धो विभिन्नोऽच्छं स्रवत्यसृक्॥ पित्तात्सदाहः पीताभोरक्तो वा पच्यते द्रुतं॥ भित्रोऽस्रमुष्णं स्रवति श्लेष्मणा नीरुजो घनः॥ शीतः सवर्णः कंडूमान् पक्वःपूयं स्रवेद्घनं॥ दोषैर्दुष्टेऽसृजि ग्रंथिर्भवेन्मूर्च्छत्सुजंतुषु॥ सिरामांसं चसंश्रित्य सस्वापः पैत्तलक्षणः॥ मांसलैर्दूषितं मांसमाहरैर्ग्रंथिमावहेत्॥ स्निग्धं महांतं कठिनं सिरानद्धं कफाकृतिं॥ प्रवृद्धं मेदुरैर्मेदो नीतं मांसेऽथवा त्वचि॥ वायुना कुरुते ग्रंथिं भृशं स्निग्धंमृदुं चलं॥ श्लेष्मतुल्याकृतिं देहक्षयवृद्धिक्षयोदयं॥ स विभिन्नो घनंमेदस्ताम्रासितसितं स्रवेत्॥ अस्थिभंगाभिघाताभ्यामुन्नतावनतं तु यत्॥ सोऽस्थिग्रंथिः पदातेस्तु सहसांऽभोवगाहनात्॥ व्यायामाद्वाप्रतांतस्य सिराजालं सशोणितं॥ वायुः संपीड्य संकोच्य वक्रीकृत्य विशोष्यच॥ निःस्फुरं नीरुजं ग्रंथिं कुरुते स
सिराव्हयः॥ अरूढे रूढमात्रे वा व्रणे सर्वरसाशिनः॥ सार्द्रेवाबंधरहिते गात्रेऽश्माभिहते ऽथवा॥ वातोऽस्रमस्रुतं दुष्टं संशोप्यग्रथितं व्रणं॥कुर्यात्सदाहः कंडूमान् व्रणग्रंथिरयंस्मृतः॥ साध्यादोपास्रमेदोजा न तु स्थूलखराश्चलाः॥ मर्मकंठोदरस्थाश्च महत्तु ग्रंथितोऽर्बुदं तल्लक्षणं च मेदोंऽतैः पोढा दोषादिभिस्तु तत्॥प्रायोमेदःकफाढ्यत्वात्स्थिरत्वाच्चन पच्यते॥ सिरास्थं शोणितं दोषःसंकोच्यानुप्रपीड्य च॥ पाचयेच्च तदानद्धं सस्रावं मांसपीडितं॥मांसांकुरैश्चितं याति वृद्धिंचाशु स्रवेत्ततः॥ अजस्रदुष्टरुधिरं भूरि तच्छोणितार्बुदं॥ तेष्वसृड्यांसजे वर्ज्येचत्वार्यन्यानि साधयेत्॥ प्रस्थि-ता वंक्षणोर्वादिमधःकायंकफोल्बणाः॥दोषामांसास्रगाः पादौ कालेनाश्रित्य कुर्वते॥ शनैःशनैर्घनं शोफंश्लीपदं तत्प्रचक्षते॥ परिपोटयुतंकृष्णमनिमित्तरुजं खरं॥रूक्षं च वातात् पित्तात्तु पीतं दाहज्वरान्वितं॥ कफाद्गुरु स्निग्धमरक्चितं मांसांकुरैर्बृहत्॥ तत्त्यजेद्वत्सरातीतं सुमहत् सुपरिस्रुति॥पाणिनासौष्ठकर्णेंषु वदंत्येके तु पादवत्॥ श्लीपदं जायते तच्च देशेऽनूपे भृशं नृणां॥मेदस्थाः कंठमन्याक्षकक्षा-वंक्षणगा मलाः॥ सवर्णान्कठिनान् स्निग्धान् वार्ताकामलकाकृतीन्॥ अवगाढान्बहून्गंडांश्चिरपाकांश्च कुर्वते॥ पच्यंतेऽल्परुजस्त्वन्येस्रवंत्यन्येऽतिकंडुराः॥ नश्यंत्यन्ये भयंत्यन्ये दीर्घकालानुबंधिनः॥ गंडमालाऽपचीचेयंदूर्वेव क्षयवृद्धिभाक्॥तांत्यजेत्सज्वरच्छर्दि-पार्श्वरुक्वासपीनसां॥ अभेदात्पक्वशोफस्य व्रणे चापथ्यसेविनः॥अनुप्रविश्य मांसादीन्दूरं पूयोऽभिधावति॥ गतिः सा दूरगमनान्ना-डी नाडीव संस्रुतेः॥ नाड्येका ऽनृजुरन्येषां सैवानेकगतिर्गतिः॥सा दोषैःपृथगेकस्थैः शल्यहेतुश्च पंचमी॥ वातात्सरुक् सूक्ष्ममुखीविवर्णा फेनिलोद्वमा॥ स्रवत्यभ्यधिकं रात्रौ पित्तात्तृट्ज्वरदाहकृत्॥ पीतोष्णपूतिपूयास्रुद्दिवा चातिनिपिंचति॥ घनपिच्छिलसंस्रा
वा कंडूला कठिना कफात्॥ निशि चाभ्यधिकक्लेदा सर्वैः सर्वाकृतिं त्यजेत्॥ अंतःस्थितं शल्यमनाहृतं तु करोति नाडीं वहते च साऽस्य॥ फेनानुविद्धं तनुमल्पमुष्णं सास्रं च पूयंसरुजं च नित्यं॥ इति ग्रंथ्यर्बुदश्लीपदापचीनाडीविज्ञानं नाम चतुस्त्रिंशोऽध्यायः॥ ३१॥
अथातो ग्रंथ्यादिप्रतिषेधं व्याख्यास्यामः॥ सर्वेष्वेव पूर्वं ग्रंथिषु बृहतीद्वयपिप्पलीचित्रकसाधितेन पुराणसर्पिपास्निग्धं वामयेत् वि-रेचयेच्च॥ कृतसंसर्जनस्य चोत्तमांगगतेषु ग्रंथिषु लाक्षाद्विरजनीविडंगशुंठीपूतीदारुभिः शिरो विरेचयेत्॥ धूमकवलगंडूपांश्च सेवेत॥ अंकोल्लमधुमातुलुंगहिंस्रापूतिदारुविल्वमूलसरलकुष्टवचावरुणत्वक्कालातिविषाऽजगंधाभिर्लेपः श्यामासुरदारुसमंगाकोशातकीपुनर्नवासर्पपैर्वा॥ सशोफरुक्स्तंभे चोपनाहयेद्यवसक्तुमधुककुष्टशतपुष्पा देवदारुभिर्घृतयुक्तैः॥ गोजाखरोष्ट्राश्वहस्तिमूषकमांसैर्वा वेसवारी-कृतैर्वसातैलवद्भिः॥ पलाशवृताग्निमंथत्वक्कल्केन मांसापिंडैर्वाबहुशः स्निग्धमंगुष्ठेन वेणुपर्वणा वा शनैः शनैः पुनःपुनर्विमर्दयेत्॥ यथायथं च शोफवत्क्रियां प्रयुंजीत॥ अथ वातजे ग्रंथौ दशमूलसिद्धं महास्नेहं पिबेत्॥ अमृतानिंबबीजभार्ङ्गीनाकतालपत्रीकृष्णगंधाऽगुरुभिः क्षीरपिष्टैः सुखोप्णैरालेपयेत्॥ विविधाश्च वातव्याधिविहिताः स्नेहस्वेदोपनाहाः॥ तथानुपशमे सिराव्यधः॥ पक्वंतु विदार्य निरस्रपूयं कृत्वा ऽर्कादिवर्गांभसा प्रक्षाल्य तिलकल्केन च चित्रकदंतीसैंधवेनालेपयेत्॥ तैलं च रोपणं रास्नासरलोशीरविडंग-मधुकक्षीरसंस्कृतं पिबेत्॥ कुर्यात्पित्तजे रक्तजे च जलौकसो न्यग्रोधादिः प्रदेहपरिषेकयोः पद्मकादिः पाचने च॥ द्राक्षेक्षुरसयुक्तो ह-रीतकीविरेकः॥ पक्वेपाटिते च पित्तव्रणोक्तो विधिः॥ कफजग्रंथिमंतःसंशुद्धस्य भृशं स्वेदयेद्विम्लापयेच्च॥ काकादनीविकंकतकाकदंतिकारग्वधेंगुदमूलमदनफलभार्ङ्गीकरंजैर्लेपयेत्॥ तग
रविडंगैलवालुकचव्यपालाशवृंतचित्रकैर्वा॥ भल्लातकसैंधवाजगंधासर्पपैर्वा॥ एवमप्यपच्यमानममर्मस्थं विदार्य स्थितरक्तं निःशेषमग्निना दहेत्॥ सशेषोहि पुनरापूर्यते॥ ततो निर्वापितं क्षारक्षौद्र-गुडोत्तरैरालेपयेत्॥ संशुद्धं रोपयेत्॥ मांसव्रणग्रंथी चैवमेव पाटये-त्॥ मेदोजेऽप्ययमेव विधिः॥ अपिच॥ मेदोग्रंथिं तिलकल्कदिग्धद्विगुणपटांतरितं तप्तेन फालेन दर्व्या वा जतुलिप्तया बहुशः प्रमृप्यते॥ शस्त्रं चावचार्य पूर्ववन्मेदो दहेत्॥ सुपक्वंवा विपाट्यमूत्रक्षालितंक्षौदसैंधवसुवर्चिकाकांचनक्षीरोहरितालमिश्रैःक्षी-रपाकप्रगाढैस्तिलैरालेपयेत्॥ गुंजाद्विकरंजतापसवृक्षवंशावलेखमूत्रसिद्धं तैलमभ्यंगः॥ सम्यक्शुद्धं चैनं रोपयेत्॥सिराग्रंथौ त्वभिनवे तैलं साहचरं पिबेत्॥ उपनाहश्च वातहरैर्बस्तिकर्म च कुर्यात् सिराव्यधश्च॥ वार्तार्बुदमैरंडपियालनारिकेलमज्जैर्वारुकर्कारुबीजोत्का-रिकयोपनाहयेत्॥ आनूपामिपवेसवारैर्वा॥ नाडीस्वेदं च कुर्यात्॥बहुशश्चात्र शृंगेण रुधिरमवसेचयेत्॥ वातहरवर्गक्वाथपयोम्लसिद्धंत्रैवृतं पिबेत्॥ पित्तोत्थे मृदून् खेदोपनाहान् कायविरेचनं च प्रयोजयेत्॥ शाककाकोदुंबरिकापत्रघृष्टे प्रियंगुपत्तंगसर्जरसार्जुनरोध्रम-धुमधुकैर्लेपः॥ प्रियंगुश्यामागिरिकर्णिकांजनक्लीतनकद्राक्षासप्तलान्यतमरससाधितं सर्पिः पीतं पित्तार्बुदश्लीपदोदरघ्नं॥ श्लेष्मजे तूर्ध्वमधश्च त्दृतदोषस्य स्रुतरक्तस्य च वमनविरेचनद्रव्यैः प्रलेपः॥ काकादनीशुकबर्हाग्निजिव्हामूलदक्षकपोतगृध्नपुरीपकाशमूलैर्वा॥ पलाशक्षारपिष्टैःपिण्याककुलत्थनिष्पावैर्वा मांसप्रगाढैर्दधिपिष्टैर्लेपयेत्॥लेपास्वादलोभेन च निलीयमाना मक्षिकाः समुपेक्षेत तद्विमुक्तैः कृ-मिभिरितरैर्वा भक्ष्यमाणं च॥ ततः कृमिभिर्भक्षितावशेषंशाकादिपत्रैर्विलिख्याग्निना प्रतिसारयेत्॥ अल्पमूलं वा त्रपुताम्रायः सीसप-ट्टकवेष्टितं पुनः पुनश्च क्षारान् कालापेक्षया योजयेत्॥ जात्यास्फो
तकरवीरपल्लवांश्च व्रणशोधनाय कल्कादौ॥ तैलं चात्र पाठाविडंगभार्ङ्गीत्रिफलाकषायसिद्धमभ्यंगः॥ मेदोर्बुदं खिन्नभिन्नं सुशोधितमेदस्कमुपशांतरक्तस्रावं सद्यः सीव्येत्॥ ततो गृहधूमरोध्रमनःशिलाहरिद्रापत्तंगचूर्णैर्मधुसर्पिर्भिः प्रतिसारयेत्॥ करंजतैलं चाभ्यंजनार्थेच युंजीत॥ सर्वार्बुदानि च यदृच्छया पर्यागतानि सुपरिशोधितानिरोपयेत्॥ अपिच॥ सशेषदोषाणि हि योऽर्बुदानि करोति तस्याशु पुन-र्भवंति॥ तस्मादशेषोद्धरणं प्रशस्तं क्षारेण शस्त्रेण तथाऽग्निना वा॥श्लीपदे तु वातात्मके स्नेहस्वेदोपनाहान्प्रयुज्य गुल्फस्योपरिष्टाव्ह्यंगुलेसिरां विध्येत्॥ एरंडतैलं गोमूत्रेण मासं पिबेत्॥ जीर्णे नागरक्वथितेन पयसा पुराणधान्यान्यश्रीयात्॥ त्रिवृतं च पाययेत्॥ बस्तिं च प्रयुंजीत॥ एवमप्यशाम्यदग्निना दहेत्॥ पैत्तिके मृदुरुपनाहो गुल्फस्यचाधः सिरामोक्षः॥ पित्तार्बुदोक्ताः स्नेहविरेकाः पित्तघ्नाश्चलेपाः॥ श्लैष्मिके त्वंगुष्ठके सिरां मुंचेत्॥ सक्षौद्रांश्च कफघ्नान्कषायानश्लीक्ष्णं पाययेत्॥ यथाबलं वा हरीतकी वर्द्धमाना॥ अदारीकाकजं-घाकाकादनीशुकनासाकदंबपुष्पीबृहतीद्वयमंतर्धूमंदग्ध्वागोमूत्रेणबहुशः परिस्रावयेत्॥ ततस्तत्क्षारोदकं क्षारकल्पेन विपचेत्॥ द-द्याच्चात्र प्रतीवापं फल्गुशूकारव्यामदनफलरसं॥ एषक्षारो मधुराहारेणाभ्यस्तोऽन्वहं श्लीपदापचीग्रहणीदोषारोचकान्सर्वविषाणि च नियच्छति॥ तैलं वा पिबेद्दिडंगार्कमरिचचित्रकचविकशुंठीदेवदार्वेलातार्क्ष्यलवणपंचकैः सिद्धं॥ आलेपयेच्च नागरामृताविडंगकटुकाभद्रदारुभिर्मू-त्र पिष्टैरुरुस्तंभोक्तैश्चभेषजैः॥पथासन्नं च शोधनं शीलयेत्॥ गंडमा-लायांकुंभनिकुंभद्रवंतीजीमूतककोशातकीफलविपक्वंघृतमुभयानुदोमनं पिबेत्॥ शार्ङ्गष्टामूलं च तक्रपिष्टं वमनार्थं सुखोदकेन वा॥ जातीबर्हिष्टनिर्गुंडीजीमूतकैरंडमूलत्वक्चूर्णं वा॥ सिरां चास्यविध्येत्॥ सशेषदोषंतु कौष्टिकं नवकं पापयेत्॥ रसांजन गोमूत्र
तंदुलोदकान्यतरेण वा॥ तदेव च नावयेत्॥ मधूकसारं वा॥ शिग्रुफलानि वा॥ निंबकरंजकरवीरसिद्धं वा॥ विरेचनकं च धूमं पिबेत्॥ अपक्वांश्चगंडान्नाकुलींसेंधवनागरैर्लेपयेत्॥ गुंजाकरवीरार्कश्यामासिद्धार्थकैरजामूत्रयुक्तैर्दशकृत्वो विपक्वंतैलं लवणपंचकपिप्पलीमरिचचूर्णोपेतमभ्यंगात्सर्वावस्थमपच्यर्शोर्बुदनाडीदुष्टव्रणवल्मीकानपोहति॥ सौवर्चलसैंधवोद्भिददंतीभल्लातकचित्रककल्केन सिद्धंतैलमभ्यंगोऽपच्यां॥ तंदुलीयकस्वरसेन वा समरिचनिर्गुंडीरसं तैलंसाधितमभ्यंगपाननावनैर्गंडमालानाडीव्रणकुष्ठानिलार्त्तिहरं॥ काकादनीनहिकाऽग्निजिव्हावंध्याककर्कोटकीविशालापाठोत्तुंडकीजीमूतकोशातकीबीजैरर्द्धपलांशैर्विपकर्षयुक्तैर्निर्गुंडीस्वरसोपेतं करंजतैलप्रस्थंविपचेत्तत्पूर्ववदेव प्रयुक्तं परमपचीघ्नं॥ अमर्मजांश्च गंढानपक्वानेवो हृत्याग्निना क्षारेण वाप्रतिसारयेत्॥ सर्पपवृक्षादनीक्वाथैर्व्रणक्षालनं॥ तिलकुंतलकक्षारपिष्टस्तिलकल्कः सुखोष्णो लेपः॥ काककृकलासगौराहिनिर्मोककूर्माणामन्यतमस्यांतधूमदग्धस्य मषींगुदलेलप्लुताऽभ्यंगः॥ मांसीसर्जरसकार्पासीफलसैंधवैः स्तन्यपिष्टैस्तैलंपक्वमभ्यंगो व्रणकाठिन्यघ्नः॥ सर्पाजगरवसातैलं समं त्रयमेतदपचीव्रणघ्नं॥ श्लीपदोक्तानि च तैलानि प्रयोजयेत्॥ एवमनुपशमेवामपार्श्वजायां दक्षिणजंघापृष्ठमध्यादिंद्रवस्तेरधस्तादूर्ध्वंवा शस्त्रेणाक्षिमात्रं व्रणंकृत्वामत्स्यांडजालनिभं मेदोऽपनीयाग्निना दहेत्॥ अनेनेतरपार्श्वजा व्याख्याता॥ एवमुभयपार्श्वजायां गंडमालायामु-भयतः॥ यवमुद्गप्रायं च गंडमालासु भोजनं॥ नाडीमनिलजामुपनात्द्यपूयगतिमस्या निःशेषमेपित्वा च दारयेच्छस्त्रेण॥ ततस्तिलापामार्गफ-लकल्केन ससैंधवेन पूरयित्वा बध्नीयात्॥ पित्तजांसघृतक्षीरया पद्मकादिकृतयोत्कारिकयोपनाहितां विदारितां च तिलनागरदंतीमंजिष्ठाक
ल्केनपुरयेत्॥ श्यामात्रिभंडीत्रिफलातिल्वहरिद्राद्दयकल्कक्षीरसंस्कृतंसर्पिरभ्यंगः परं नाडीनिबर्हणं॥ श्लेष्मजां सक्तुकुलत्थकिण्वसर्पपैरुपनात्द्यविदार्य च तैलसैंधवसौराष्ट्रीनिकुंभैर्लेपयेत्दंतीचित्रकसुवर्चिकासैंधवतालीतालपूतिकापामार्गपलैस्तैलं समूत्रं पाचितमभ्यंगः॥शंल्यहेतुकींपाटयित्वा सर्वशः शल्यंविशोध्य मधुधृततिलकल्कप्रतिच्छन्नांबध्नीयात्॥ बिल्वकपित्थकुंभीकखर्जूरवनस्पतिशलाटुक्वाथे प्रियंगुमु-स्तोरुबूकशकुनसुगंधिकारोध्रमोचरसधातुकीपुष्पगर्भं तैलं प्रतिसाधितंप्रसाधयत्याशु शल्यजां गतिं॥ अशस्त्रकृत्यायां नाड्यां भेदनैपिण्यांऽते समुद्भिद्य क्षाराक्तं सूत्रं प्रवेशयेत्॥ तदसन्निधाने त्वरयेतरैपिण्याच तेनानवदीर्णायां तदनुस्यूतमन्यदन्यत्क्षारसूत्रं संचारयेदागतिभेदादयमनपायोऽभ्युपायः सूक्ष्मानेकगतिषु भगंदरेषुमूलेषुच छिद्वितेषु ग्रंथ्यर्बुदेष्विति॥ भवति चात्र॥ व्रणेषु दुष्टसूक्ष्मास्यगंभीरादिषुसाधनं॥ या वर्त्योयानि तैलानि तन्नाडीष्वपि शस्यते॥ बिभीतकाम्रास्थिवटप्रवालहरेणुकाशाल्मलिबीजयुक्ता॥ वराहविष्टाच मपी सुदग्धा तैलप्लुता सर्वगतीर्निहंति॥ धत्तूरकं मदनकोद्रवजंच बीजं कोशातकीशुकनसामृगभोजिनी च॥ अंकोल्लजं च कुसुमंपरिकल्प्य चूर्णं लाक्षोदकापर्दृतदोषगतौ प्रयोज्यं॥ मिश्रितं तेनतैलं च परमं गतिरोपणं॥सौकरेषु607 च कंदेषुकृतं वन्त्राव्हयेषु च॥ भल्लातकार्कमरिचैर्लवणोत्तमेन सिद्धं विडंगरजनीद्वयचित्रकैश्च॥तैलं समार्कवरसैर्विनिहंति कृच्छ्रांनाडीं कफानिलकृतामपिच व्रणांच॥ इति ग्रंथ्यर्बुदश्लीपदापचीनाडप्रतिषेधोनाम पंचत्रिंशोऽध्यायः॥ ३५॥
अथातः क्षुद्ररोगविज्ञानं व्याख्यास्यामः॥ स्निग्धा सुवर्णा ग्रथितानीरुजा मुद्गसन्निभा॥ पिटिका कफवाताभ्यां वालानामजगल्लिका॥
यवप्रख्या यवाकारा ताभ्यां608 मांसश्रिता घना॥ अवक्राचाल-जी वृत्ता स्तोकपूया घनोन्नता॥ ग्रंथयः पंच वा पड्वाकंच्छपी कच्छपोन्नता॥ कर्णस्योर्ध्वंसमंताद्दा पिटिका कठिनोग्ररुक्॥ शालूकाभा पनसिका शोफः स्त्वल्परुजः स्थिरः॥ हनुसंधिसमुद्भू-तस्ताभ्यां608 पाषाणगर्दभः॥ शाल्मलीकंटकाकाराःपिटिकाः सरुजोघनाः॥ मेदोगर्भा मुखे यूनां ताभ्यां608 च मुखदूपिकाः॥ ते पद्मकंटका ज्ञेया पैः पद्ममिव कंटकैः॥ चीयते नीरुजैः श्वेतैः शरीरं कफवातजैः॥ पित्तेन पिटिका वृत्ता पक्वोदुंबरसन्निभा॥ महादाहज्वरकरी विवृता विवृतानना॥ गात्रेष्वंतश्च वक्रस्य दाहज्वररुजान्विताः॥ मसूरमात्रास्तद्वर्णास्तत्संज्ञाः पिटिका घनाः॥ ततः कष्टतराः स्फोटा विस्फोटाख्यामहारुजाः॥ या पद्मकर्णिकाकारा पिटिका पिटिकाचिता॥ सा विद्धा वातपित्ताभ्यां ताभ्यामेव च गर्दभी॥मंडला विपुलोत्सन्ना सरागा पिटिकाचिता॥ कक्षेति609 कक्षासन्नेषुप्रायो देशेषु साऽनिलात्॥ पित्ताद्भवंति पिटिकाःसूक्ष्मालाजोपमा घनाः॥ तादृशी महती त्वेका गंधनामेति कीर्तिता॥घर्मस्वेदपरीतेंऽगे पिटिकाः सरुजो घनाः॥ राजिकावर्णसंस्थानप्रमाणा राजिकाह्वया॥ दोषैःपित्तोल्बणैर्मंदैविसर्पति विसर्पवत्॥ शोफोऽपाकस्तनुस्तास्रोज्वरकृज्जालगर्दभः॥ मलैः पित्तोल्बणैःस्फोटा ज्वरिणो मांसदारणाः॥ कक्षाभागेषु जायंते येऽग्न्याभाःसाऽग्निरोहिणी॥ पंचाहात्सप्तरात्राद्वा पक्षाद्वाहंति जीवितं॥ त्रि-लिंगा पिटिका वृत्ता जत्रूर्ध्वमिरिवेल्लिका॥ विदारीकंदकठिना वि-दारी कक्षवंक्षणे॥मेदोनिलकफैर्ग्रंथिः स्रायुमांससिराश्रयैः॥ भिन्नो वसाज्यमध्वाभं स्रवेत्तत्रोल्बणोऽनिलः॥ मांसं विशोष्य ग्रथितां
शर्करामुपपादयेत्॥ दुर्गंधि रुधिरं क्लिन्नं नानावर्णं ततो मलाः॥तां स्रावयंति निचितां विद्यात्तच्छर्करार्बुदं॥ पाणिपादतले संधौजत्रूर्ध्वंचोपचीयते॥ वल्मीकवच्छनैर्ग्रंथिस्तद्वद्बव्हणुभिर्मुखैः॥ रुग्दाहकंडूक्लेदाढ्यैर्वल्मीकोऽसौ समस्तजः॥ शर्करोंन्मथिते पादेक्षते वा कंटकादिभिः॥ ग्रंथिः कीलवदुत्सन्नो जायते कदरं तु तत्॥ वेगसंधारणाद्वायुरपानोऽपानसंश्रयं॥ अणूकरोति वात्द्यांतर्मार्गमस्य ततः शकृत्॥ कृच्छ्रान्निर्गच्छति व्याधिरयं रुद्धगुदो मतः॥कुर्यात्पित्तानिलं पाकं नखमांसे सरुग्ज्वरं॥ चिप्यमक्षतरोगं च विद्यादुपनखं च तं॥ कृष्णोऽभिघाताद्रूक्षश्च खरश्च कुनखो नखः॥दुष्टकर्दमसंस्पर्शात्कंडूक्लेदान्वितांतराः॥अंगुल्योऽलसमित्याहुस्तिलाभांस्तिलकालकान्॥ कृष्णानवेदनांस्त्वक्स्थान्मपांस्तानेव चोन्नतान्॥ मपेभ्यश्चोन्नततरान् चर्मकीलान् सितासितान्॥ तथाविधो जतुमणिः सरुजो लोहितस्तु सः॥ कृष्णं सितं वा सहजं मंडलं लांच्छनं समं॥ शोकक्रोधादिकुपिताद्वातपित्तान्मुखे तनु॥श्यामलं मंडलं व्यंगं वक्रादन्यत्र नीलिका॥ परुषंपरुषस्पर्शं व्यंगंश्यावं च मारुतात्॥ पित्तात्ताम्रांतमानीलं श्वेतांतं कंडुमत्कफात्॥ रक्ताद्रक्तांतमाताम्रं सोपं चिमिचिमायते॥ वायुनोदीरितः श्लेष्मा त्वचं प्राप्य विशुष्यति॥ ततस्त्वग्जायते पांडुः क्रमेण च विचेतना॥ अल्पकंडूरविक्लेदा सा प्रसुप्तिः प्रसुप्तितः॥ असम्यग्वमनादीर्णपित्तश्लेष्मान्नविग्रहैः॥ मंडलान्यतिकंडूनि रागवंति बहूनिच॥ उत्कोठः सानुवंधस्तु कोठ इत्यभिधीयते॥ भवति चात्र॥ प्रोक्ताः षट्त्रिंशदित्येते क्षुद्ररोगा विभागशः॥ यान्विज्ञाय न संमुह्येच्चिकित्सायां चिकित्सकः॥ इति क्षुद्ररोगविज्ञानं नाम षट्त्रिंशोऽध्यायः॥ ३६॥
अथातः क्षुद्ररोगप्रतिषेधं व्याख्यास्यामः॥ अजगल्लिकामपक्वांजलौकोंभिर्ग्रहयेत्॥ यवक्षारशुक्तिसौराष्ट्रीकल्कैश्च लेपयेत्॥ पक्वामजगल्लिकां व्रणवदुपाचरेत्॥ यवप्रख्यादीन् पाषाणगर्दभांतान् स्वेदयित्वा सुरदारुकुष्टमनःशिलालैर्लेपयेत्॥ मुखदूषकान् रोध्रतुवरिकाभ्यां प्रदित्द्यात्॥ वटपत्रनारिकेलशुक्तिकाभ्यां सैंधववचाक्षिभे-षजसिद्धार्थकैर्वा॥ एवमशांतौ छर्दयेत्॥ ललाटे च सिरां विध्येत्॥ पद्मकंटकेषु निंबांबुवांतं निर्बोदकसिद्धं सर्पिः सक्षौद्रंपाययेत्॥ निंबारग्वधकषायश्चोद्वर्त्तनं॥विवृतादीन् जालगर्दभांतानिरिवेल्लिकां च पित्तविस-र्पवच्चिकित्सेत्॥ विशेषतो राजिकं चापाकवच्छर्करादूर्वाकटशर्कराभिःक्षीरपिष्टाभिर्लेपः॥अभीक्ष्णं च मृजाशीलनं॥जालगर्दभेवा त्रिफलांयुंजीत॥ अग्निरोहिणीमपि प्रत्याख्याय पित्तविसर्पवदुपाचरेत्॥ पक्वां तु मधुरवर्गसिद्धेन सर्पिपारोपयेत्॥ विदारिकां जलवासिनीभिःशोधयित्वा विल्वमूलनागमृत्तिकावर्षाभ्वजकर्णपलाशकल्केन प्रलिंपेत्॥ अनुपशाम्यंतीत्वभ्यज्य खेदयित्वा च विम्लापयेत्॥ पक्वांशस्त्रेण विदार्यनिंबपटोलविदारिकल्केन610 प्रच्छाद्य बध्नीयात्॥ क्षीरिवृक्षबदरखदिरकषायो व्रणप्रक्षालनं॥ शुद्धां मधुरकषायसंस्कृतेनतैलेन रोपयेत्॥ शर्करार्बुदं मेदोर्बुदवदुपाचरेत्॥ वल्मीकं हस्तपादस्य चोपरिष्टान्मर्मणि वा जातं प्रवृत्तमतिबहुच्छिद्रावृतं सशोफंच वर्जयेत्॥ अतोऽन्यथा तु प्राकृतशुद्धेः शोणितमपहरेत्॥ सक्तु-पलललवणगुडूच्यारेवतश्यामादंती्कुलित्थिकामूलैर्लेपयेत्॥पक्वे तुसर्वगतिदुष्टमांसानि च शस्त्रेण सम्यक् शोषयित्वाऽग्निना क्षारेण वादहेत्॥ सुशुद्धे व्रणे च भल्लातकमनःशिलैलाकालानुसार्यगुरुचंदनैर्निबतैलं रोपणार्थं श्रपयेत्॥ कदरं च शस्त्रेणोत्कृत्यलेहेन दहेत्॥रुद्धगुदे निरुद्धमणिवच्चिकित्सा॥चिप्यं शोणितावसेकसंशोधनैरु
पाचरेत्॥ व्यपगतोष्माणं चैनमुष्णांबुना परिषिच्य यथायोगं शस्त्रेण परिकृत्यापनयेत्॥ ततो रसांजनचनानेपालीतेजोव्हाकल्कैरंबुपिष्टैःशोधयित्या कालेयकागुरुहरिद्रारसांजनसिद्धेन तैलेन रोपयेत्॥ मधुरकषायसिद्धेन वा॥ अवशिष्टं सर्जरसचूर्णेन पूरयेत्॥ कुनखमपि प्रदुष्टमेवमेवोपक्रमेत्॥ अलसेऽम्लकांजिका-वसिक्तौचरणौ निंबतिलपटोलीकासीसरोचनाकक्लेनालेपयेत्॥ निदि-ग्धिकारससिद्धेन सर्पपतैलेनाभ्यज्य रोचनाकासीसमनःशिलाचूर्णैःप्रतिसारयेत्॥ तिलकालकान्मपकांश्च सूर्यकांतेनाग्निना दहेत् क्षारेणवा॥ चर्मकीलं जतुमणिं च तद्वच्छस्त्रेणोत्कृत्य दहेत्॥ लांच्छनव्यंगनीलिकासुयथा सिरां विध्येत्॥ क्षीरिवृक्षकल्कैश्च क्षीरपिष्टैर्लेपयेत्॥ बलाऽतिबलामधुकहरिद्राभिर्वा मधुकागुरुपयस्याकालीयकैर्वा तरुणकपित्थतिंदुकरजनीभिर्वाऽम्लिकामूलेन या शूकरदंष्ट्रया वामधुघृतयुक्तया॥ विशेषेण व्यंगेष्वसृक्स्रावपूर्वमंजनं॥ क्षौ-द्रेण वा यष्टीमंजिष्ठाऽजाक्षीरेण चार्द्रदाडिमत्वक् तेनैव बालामलकंगोमूत्रे सप्ताहं स्थितं दधिमंडेन वा कालीयकरोध्रोत्पलकिंजल्कं नवनीतेन वा श्वेताश्वखुरमपी॥ तत्रापि वातजेषु देवदारुदुरालभाबृहतीमंजिष्ठामूर्वाऽपामार्गत्रायमाणाशुकनासाबलाविदारीयवबदरकुलत्थबिल्वोत्पलशतावरीदर्भमूलक्वाथे शृंगीविडंगगर्भं घृतं विपक्वमधोपभुक्तं पानमभ्यंगं नावनं च सायं योजयेत्॥ प्रलेपं च न्यग्रोधदेवदारुहरीतकीपूतिकरंजमदनफलचूर्णैर्घृतयुक्तैः वदरमज्जाकोद्रव-लाजचूर्णेन वा सघृतेन श्वेतचमरास्थितालपत्रैः स्तन्यमधुघृतैर्वा॥ पैत्तेषुबलामधुकमागधिकाक्षीरकाकोली स्वगुप्ताफलकाकमाचीतुगाह्वाभिः सपयःसर्पिः तिद्धं पूर्ववत्प्रयोजयेत्॥ मृद्वीकाश्वेतपाकखर्जू-रपरूपकसौवीरबदरद्दिमेदापुनर्नवकसेरुकामृणालैर्वासक्षीरैरुपस्निग्धंचैनमिक्षुरसेनोभयतो विरेचयेत्॥ कृतरुधिरावसेचनश्च व्यंगं मधु
सारिवाबलाचंदनरोध्रोत्पलैर्घृतयुक्तैरालेपयेत्॥ प्रपौंडरीमकधुकनीलोत्पलसारिवाकदलीमूलप्रवालसुवर्णगैरिकैर्वा॥ शीतमधुरमन्नपानंप्रवातमहःस्वप्नंसौमनस्यंच सेवेत॥कफजेषुदशमूलदेवदारुहरीतकीश्वदंष्ट्रामालतीक्वाथे मुस्तकुष्टहरिद्राऽमरतरुकल्कैस्तद्वत्साधितं सर्पिस्तद्वदेवोपयुंजीत॥ तुत्थरोचनारोध्रप्रियंगुकालीयकैर्मधुघृ-तैर्लेपः॥ देवदारुसरलबलाशिग्रुमूलैर्वा मनःशिलातुत्थरसांजनैर्वा म-धुना क्षारेण दशरात्रं प्रलेपः॥ रक्तजेषु क्षीरसर्पिःस्निग्धस्य सिरां विस्रावयेत्॥ वमनविरेचने च पित्तवत्कुर्यात्॥ आलेपश्चास्य चंदन-मधुककल्केन॥घृतवसासर्जरसनीलोत्पलशंखवेतकदलीमूलमूर्वामधुककल्केन वा॥ प्रसुप्तौ वातकुष्टोक्तः क्रमोंऽते चाग्निना दहेत्॥उत्कोठे पित्त श्लेष्महरो विधिः सक्षारलवणं च तैलमभ्यंगः॥ कोठे कुष्ठचिकित्सितं चेक्षेत॥ इति क्षुद्ररोगप्रतिषेधो नाम सप्तत्रिंशो-ऽध्यायः॥ ३७॥
अथातो गुत्द्यरोगविज्ञानं व्याख्यास्यामः॥ स्त्रीव्यवायनिवृत्तस्यसहसा भजतोऽथवा॥ दोषाध्युषितसंकीर्णमलिनाणुरजःपथां611॥अन्ययोनिमनिच्छंती612मगम्यां613 नवसूतिकां॥ दूषितं614 स्पृशतस्तोयं रतांतेष्वपिनैव615 वा॥ विवर्द्धयिषयातीक्ष्णान्प्रलेपादीन्प्रयच्छतः॥ मु-ष्टिदंतनखोत्पीडाविपच्छूकपातनैः॥ वेगनिग्रहदीर्घातिखरस्पर्शविघट्टनैः॥ दोषादुष्टा गता गुत्द्यंत्रयोविंशतिमामयान्॥ जनयंत्युपदंशादीनुपदंशोऽत्र पंचधा॥ पृथग्दोषैःसरुधिरैः समस्तैश्चात्रमारुतात्॥ मेंढ्रेशोफोरुजश्चित्राः स्तंभस्त्वक्परिपोटनं॥ पक्वोदुबंरसकाशः पित्तेन श्वयथुर्ज्वरः॥ श्लेष्मणा कठिनः स्त्रि
ग्धः कंडूमान् शीतलो गुरुः॥ शोणितेनासितस्फोटसंभवोऽस्र-स्रुतिर्ज्वरः॥ सर्वजे सर्वलिंगत्वं श्वयधुर्मुष्कयोरपि॥ तीव्रा रु-गाशु पचनं दारणं कृमिसंभवः॥ याप्यो रक्तोद्भवस्तेषां मृत्यवे सन्निपातजः॥ जायंते कुपितर्दषर्गुत्द्यसृक्पिशिताश्रयैः॥अंतर्बहिर्वा मेंढ्रस्य कंडूला मांसकीलकाः॥ पिच्छिलास्रस्रवा यो-नौ तद्वश्च छत्रसन्निभाः॥ तेऽर्शास्युपेक्षया घ्नंति मेंढ्रपुंस्त्वभगार्त्तवं616॥ गुदस्य बहिरंतर्वापिटिकाः कफरक्तजाः॥ सर्पपामानसंस्थानाघनाः सर्पपिकाः स्मृताः॥ पिटिका बहवो दीर्घा दीर्यंते मध्यतस्तुयाः॥ सोऽवमंथः कफासृग्भ्यां वेदनारोमहर्षवान्॥ कुंभिका रक्तपित्तोत्था जांबवास्थिनिभा ऽशुभा617॥ अलर्जी मेहवद्दिद्यादुत्तमां रक्तपित्तजां॥ पिटिकां माषमुद्गाभां पिटिका पिटिकाचिता॥कर्णिका पुष्करस्येव ज्ञेया पुष्करिका तु सा॥ पाणिभ्यां भृशसंव्यूढे618 संव्यूढपिटिका भवेत्॥ मृदितं मृदितं वस्त्रसंरब्धं वातकोपतः॥ विषमा कठिना भुग्नावायुनाऽष्टीलिका स्मृता॥ विमर्दनादिदुष्टेन वायुना चर्ममेंढ्रजं॥ निवर्त्तते सरुग्दाहंक्वचित्पाकं न गच्छति॥पिंडितं ग्रथितं चर्म तत्प्रलंबमधो मणेः॥ निवृत्तसंज्ञं सकफं कंडू-काठिन्यवत्तु तत॥ विरुढं स्फुटितं चर्म निर्दिष्टमवपाटिका॥वातेन दूषितं चर्म मणौ सक्तं रुणद्धि तत्॥ स्रोतोमूत्रं ततोऽभ्येतिमंदधारमवेदनं॥ मणेर्विकासरोधश्च स निरुद्धमणिर्गदः॥ लिंगं शूकैरिवापूर्णं ग्रथितारख्यं कफोद्भवं॥ शूकदूषितरक्तोत्था स्पर्शहानिस्त-दाव्हया619॥ छिंद्रैरणुमुखैर्यत्तु मेहनं सर्वतश्चितं॥ वानशोणितकोपेनतं विद्याच्छतपोनकं॥ पित्तासृग्भ्यां त्वचः पाकस्त्वक्पाको ज्वरदाहवान्॥ मांस्पाकः सर्वजः सर्ववेदनो मांसशातनः॥ सरागैर620
सितैः स्फोटैःपिटिकाभिश्चपीडितं॥ मेहनं वेदना चोग्रा तं विद्यादसृगर्बुदं॥ मांसार्बुदं प्रागुदितं621 विद्रधिश्च622त्रिदोषजः॥ कृष्णानिभूत्वा मांसानि विशीर्यंते समंततः॥ पक्वानि सन्निपातेन तान्विद्यात्तिलकालकान्॥ मांसोत्थमर्बुदं पाकंविद्रधिं तिलकालकान्॥ चतुरो वर्जयेदेषांशेषांश्छीध्रमुपाचरेत्॥ विंशतिर्व्यापदो योनेर्जायंतेदुष्टभोजनात्॥ विषमस्थानशपनभृशमैथुनसेवनैः॥ दुष्टार्त्तवादपद्रव्यैर्बीजदोषेण दैवतः॥ योनौकुद्धोऽनिलः कुर्याद्रुक्तोदायामसुप्तताः॥ पिपीलिकसृप्तिमिव स्तंभं कर्कशतां स्वनं॥ फेनिलारुणकृष्णाल्पतनुसूक्षार्त्तवस्रुतिं॥स्रंसं वंक्षणपार्श्वादौ व्यथां गुल्मं क्रमेण च॥ तांस्तांश्च स्वगदान् व्यापद्वातिकी नाम सा स्मृता॥ सैवातिचरणा शोफसंयुक्ताऽतिव्यवायतः॥ मैथुनादतिवालायाः पृष्टजंघोरुवंक्षणं॥ रुजन्संदूपयेद्योनिं वायुः प्राक्चरणेति सा॥ वेगोदावर्त्तनाद्योनिं प्रपीडयति मारुतः॥ सा फेनिलं रजः कृच्छ्रादुदावृत्तं विमुंचति॥ इयं व्यापदुदावृत्ता जातघ्नी तु यदाऽनिलः॥ जातं जातं सुतंहंति रौक्ष्याद्दुष्टार्भवोद्भवं॥ अत्याशिताया विषमं स्थितायाःसुरतेमरुत्॥ अन्नेनोत्पीडितो योनेः स्थितः स्रोतसि वक्रयेत्॥ सास्थिमांसंमुखं तीव्ररुजमंतर्मुखीति सा॥ वातलाहारसेविन्यां जनन्यां कुपितोऽनिलः॥ स्त्रियो योनिमणुद्वारां कुर्यात्सूचीमुखीति सा॥ वेगरो-धादृतौ वायुर्दुष्टो विषमूत्रसंग्रहं॥ करोति योनेः शोपं च शुष्का-ख्या साऽतिवेदना॥ पडहात्सप्तरात्राहाशुक्रं गर्भाशयान्मरुत्॥ वमेत्सरुक्नीरुजो वा यस्याः सा वामिनी मता॥ योनौवातोपतप्तायां स्त्रीगर्भेबीजदोषतः॥ नृद्वेषिण्यस्तनी च स्यात् पंढसंज्ञाऽनुपक्रमा॥ दुष्टो विष्टभ्ययोन्यास्यं गर्भकोष्ठं च मारुतः॥ कुरुते वि
वृतां स्रस्तां वातिकीमिव दुःखितां॥ उत्सन्नमांसां तामाहुर्महायोनिं महारुजां॥ यथास्वैर्दूषणैर्दुष्टंपित्तं योनिं समाश्रितं॥ करोतिदाहपाकोपापूतिगंधज्वरान्वितां॥ भृशोष्णभूरिकुणपनीलपीतसितार्त्तवां॥ सा व्यापत्पैत्तिकीरक्तयोन्याख्याऽसृगतिस्रुतेः॥ कफोऽभिप्यंदिभिः क्रुद्धः कुर्याद्योनिमवेदनां॥ शीतलां कंडुलां पांडुं पिच्छिलां तद्विधस्रुतिं॥ सा व्यापच्छ्वैष्मिकिवातपित्ताभ्यां क्षीयते रजः॥ सदाहकार्श्यवैवर्ण्यं यस्यां सा लोहितक्षया॥ पित्तलाया नृसंवासे क्षवथूद्गारधारणात्॥ पित्तयुक्तेन मरुता योनिर्भवति दूषिता॥ शूना स्पर्शासहा सार्तिर्नीलपीतास्रवाहिनी॥वस्तिकुक्षिगुरुत्वाति-सारारोचककारिणी॥ श्रोणिवंक्षणरुक्तोदज्वरकृत् सा परिप्लुता॥वातश्लेष्मामयव्याप्ता श्वेतपिच्छिलवाहिनी॥ उपप्लुता स्मृता योनिर्विप्लुताख्या त्यधावनात्॥ संजातजंतुः कंडूला कंड्वाचातिरतिप्रिया॥ अकालवाहनाद्वायुः श्लेष्मरक्तविमूर्च्छितः॥ कर्णिकां जनपेद्योनौ रजोमार्गनिरोधिनीं॥ सा कर्णिनी त्रिभिर्दोषैर्योनिगर्भाश-याश्रितैः॥ यथास्तोपद्रवकरैर्व्यापत्सा सान्निपातिकी॥ इति योनिगदा नारी यैः शुक्रं न प्रयच्छति॥ ततो गर्भंन गृह्णाति रोगांश्चामोति दारुणान्॥ असृग्दरार्शोगुल्मादीनां623बाधांश्चानिलादिभिः॥इति गुह्यरोगविज्ञानीयो नामाष्टत्रिंशोऽध्यायः॥ ३८॥
अथातो गुत्द्यरोगप्रतिषेधं व्याख्यास्यामः॥ उपदंशेपुत्पन्नमात्रेषुपाकपरिहारार्थंमेंढ्रमध्ये सिरां व्यधेत्॥ जलौकसो वा योजयेत्॥ उभयतश्चास्य विधिवद्दोपानपहरेद्विशेषतो विरेचनेन॥ तदयोग्यस्य त्वत्युच्छ्रितानास्थापनेन॥ यथायोगं च लेपसेकादीनविरतं विदध्यात्॥ एवं सद्य एव रुक्शोफरागसंरंभानिवर्त्तंते॥ पक्वेषु तु शस्त्रमवचारयेत्॥ सघृतक्षौद्रेण च तिलकल्केन वा लेपयेत्॥ अपिच॥जंब्वां
भ्रसुमनोनीपश्वेतकांबोजिकांकुरान्॥ शल्लकीबदरीबिल्वपलाशतिनिशोद्भवाः॥ त्वचः क्षीरिमाणां च त्रिफलां च पचेज्जले॥ स क्वाथःक्षालनं तेन पक्वंतैलं च रोपणं॥ गोजीविडंगमधुकसर्वगंधैश्च पेषितैः॥ तुत्थगैरिकलोध्रैलामनोऽव्हालरसांजनैः॥ हरेणुपुष्पकासी-ससौराष्ट्रीलवणोत्तमैः॥ लेपः क्षौद्रयुतैःसूक्ष्मैरुपदंशव्रणापहः॥ दार्वीत्वक्सेव्यतार्क्ष्योत्थलाक्षागोक्षुरविड्रसै॥ सक्षौद्रतैलसर्पिर्भिर्लेपः श्रेष्ठ व्रणे तथा॥ लाक्षाद्राक्षाऽतसीक्षौद्रैःक्षौद्रशैलेयतार्क्ष्यजैः॥ कपाले त्रिफला दग्धा सघृता रोपणी परं॥ सामान्यं साधनमिदं वातिकं तु प्रलेपयेत्॥ अपक्वंकुष्टयष्ट्याव्हसुरदारुपुनर्नवैः॥ स्निग्धोष्णैर्लोध्रसरलरास्नापुंड्राव्हासंयुतैः॥ अथवा निचुलैरंडबीजगोधूमचिक्कसैः॥ गैरिकांजनमंजिष्ठामधुकोशीरपद्मकैः॥ सचदनोत्पलैः शीतैर्घृताढ्यैःपित्तसंभवं॥ पद्मोत्पलमृणालैर्वा ससर्जार्जुनवेतसैः॥सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः॥ धवशालाश्वकर्णाजकर्णत्वग्भिःकफोत्थितं॥ सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत्॥ रजन्यतिविपामुस्तसरलामरदारुभिः॥ सपर्णपाठापत्तूरैरथवा श्लेष्मसंभवं॥न च याति यथा पाकंप्रयतेत तथा भृशं॥ पक्वैःस्नायुसिरामांसैःप्रायो नश्यति हि ध्वजः॥ उपदंशट्टये शिष्टे प्रत्याख्यायाचरेत्कियां॥ अर्शांसि च यथायोगं शुद्धदेहस्य शस्त्रक्षारादिभिः साधयेत्॥ उपदंशोक्ताश्चात्र रसक्रियालेपाः॥ सर्पपिकां विलिख्य कषायैरवचूर्णयेत्॥ तैरेव तैलं व्रणरोपणं कुर्यात्॥ अवमंथे जलौकसो योजयेत्॥ पक्वभिन्नं धवतिंदुकशल्लकीपत्तंगसर्जकृतेन तैलेनारोपयेत्॥ तद्वत् कुंभीकामुपाचरेत्॥ रोध्रतिंदुकत्रिफलाकृतस्तु लेपस्तैलंच रोपणं॥ अलजीं स्रुतरक्तां कषायैरवचूर्णयेत्॥ तेष्वेव च तैलंव्रणरोपणार्थंकुर्वीत॥ उत्तमपिटिकां शस्त्रेण छित्वा कषायचूर्णप्रदेहैर्मधुमद्भिरूपाचरेत्॥ पुष्करिकासंव्यूढस्पर्शहानित्वक्पाकेषूपित्त
विसर्पोक्तो विधिः॥ मृदितंकोष्णेन बलातैलेन सेचयेत्॥ मधुरद्रव्यकल्कैः सुखोष्णैर्घृतसिक्तैरुपनाहयेत्॥ अष्टीलिकां जलौकोभिर्ग्राहयेत्॥ तथाऽनुपशमे श्लेष्मग्रंथिमिव शस्त्रेणोद्धरेत्॥ निवृत्तंसर्पिपाऽभ्यज्य स्वेदयेत्॥ स्विन्नमुपनाहयेत् त्रिरात्रं पंचरात्रं वासाल्वणेन ततो भूयः स्वेदयित्वा घृतेनाभ्यज्य शनैः शनैश्चर्मसमा-नयन्मणिमवपीडयेत्॥ पीडयित्वा च पुनरुपनाहयेत्॥ स्निग्धोष्णं चान्नपानं॥ अवपाटिकायामप्ययं विधिः॥ निरुद्धमणेः सु-वर्णादिकृतां दारुजां वा जतुसृतां नाडीमुभयतो द्वारां स्नेहाभ्यक्तांस्रोतसि प्रणिधाय शूकरशिशुमारयोर्वसया मज्नावा परिषेचयेत्॥ चक्रतैलेन वा वातहरसिद्धेन वात्रिवृत्तेन624 वा॥ तृतीये तृतीयेऽहनि नाडींपीनतरां विदध्यात्॥ एवमस्य स्रोतोद्वारं विवर्द्धयेत् स्निग्धं चाहारं भोजयेत्॥ एवमनुपशांतौशस्त्रेण सेवनीं परिहृत्य दारयित्वा सद्यःक्षतवदुपाचरेत्॥ ग्रथितं नाडीस्वेदेन स्वेदयित्वा स्निग्धोष्णैरुपनाहयेत्॥ शतपोनकं लिखित्वा कषायचूर्णैः सक्षौद्रैर्लेपयेत्॥ विदार्यादिसिद्धेन तेलेन रोपयेत्॥ रक्तार्बुदे रक्तविद्रधिवत्साधनं॥ सर्वेषुच यथास्वमंतःशुद्धिं कषायलेपघृततैलरसक्रियाचूर्णान् शोधनरोपणान्विदध्यात्॥ योनिव्यापदि तु वातिक्यां लवणतैलाक्तां योनिंपिंडनाडीकुंभप्रभृतिभिः स्वेदयेत्॥ ततः सुखोष्णांबुपरिपिक्त्तसर्वगात्रां जांगलरसैर्भोजयेत्॥ बलाद्रोणद्वयनिर्यूहे पयस्याशालिपर्णीमागधिकाशतावरीकाकनासाश्रावणीशर्कराजीवनीयमहाकषायगर्भंक्षीरचतुर्गुणं घृततैलाढकं साधयेत्॥ तत्पानात् सर्वान् वातपित्तविकारानपोहति गर्भजननं च॥ शतावरीत्रिफलागुडूचीकाश्मर्यमृद्वीकाकसेरुकपरूपकहरिद्राद्वयसहचरशुकनासापुनर्नवैः कार्पिकैर्घृतप्रस्थः सिद्धो वातजान्योनिरोगानपहरति गर्भजननश्च॥
सैंधववचोपकुंचिकापिप्पलीवृषकयवक्षाराजमोदाजाजीसितोपलाचित्रकचूर्णो मदिराकुलितः सर्पिपासंयावीकृत्य भक्षितो योनिपार्श्वबस्तिवेदनार्शोगुल्मत्दृद्रोगहरः॥शूले वृषकरास्रागोक्षुरकशृतं पयः पिबेत्॥ वृषकमातुलुंगमूलमदयंतिकासैंधवपिप्पलीकृष्णजीरककल्कं वा मद्येन॥ तेनैव625चार्जकमूलं बिल्वयुतं पिप्पलीयुक्तं सौवर्चलोपकुंचिकापिप्पलीयुक्तं वा मद्येनावंतिसोमेन वा॥ दंतीत्रिफलागुडूचीक्वाथः सुखोष्णो योनेः परिषेकः॥ कुष्टतगरदेवदारुवार्ताकिनीसैंधवैः साधितं तैलं पिचुना धारयेत्॥ रास्नामालती-छिन्नरुहामधुकबलाव्याघ्नीदेवदारुचित्रकयूथिकामूलैःकार्षिकैस्तैलप्रस्थो वाजिमूत्रे द्विगुणपयसा विपक्वःपिचुना प्रणीतोऽनिलार्त्तिहरः॥ बस्तिकर्माभीक्ष्णं स्वेदं च प्रयोजयेत्॥ विशेषतो वातहरैः सुकुमारकबलातैलशिरीषतैलैः सशतपाकसहस्रपाकैश्चानुवासनमुत्तरबस्तिश्च॥ एष क्रमो विशेषेण योनेर्वेदनाकार्कश्यस्तंभसंस्पर्शहानि-घ्नः॥ अतिचरणादिषु सर्वास्वनिलजास्वयमेव क्रमः॥ धारयेच्चातिचरणायां यवगोधूमकिण्वकुष्टशतपुष्पाश्यामाह्वाप्रियंगुबलाखुपर्णीक-ल्ककृतामुत्कारिकां प्राक्चरणाशुष्कविप्लुताकर्णिनीषुतैलमुत्तरबस्तिं दद्यात्॥ धारयेच्च विप्लुतायां गोमत्स्यान्यतरपित्तेनैकविंशकृत्वो भावितान् क्षौमनक्तकान्किण्वचूर्णमाक्षिकमेवं युक्तमस्याः स्रोतांसि विशुत्ध्यंति कंडूक्लेदशोफाश्च निवर्त्तंते॥ कर्णिन्यां कुष्टार्कपल्लवपिप्पलीसैंधवैर्बस्तमूत्रपिष्टैर्वर्तिं कृत्वा धारयेत्॥ श्लेष्महरं च सर्वंकर्म॥ उपावृत्तायामानूपमांसरसाः क्षीरंस्वेदो दशमूलत्रिवृताक्वाथकल्कसिद्धश्च स्नेहः पानानुवासनोत्तरबस्तिषु॥ योनिस्रंसे च महायोनिप्रभृतिष्वेष एवं विधिः॥ जातघ्नीरक्तयोनिरक्तक्षयासुकुटजकाश्मर्यक्वाथसिद्धं सर्पिरुत्तरबस्तौ दद्यात्॥ अथवा मृगाजाविवराहरुधिराम्लदधिमधुघृतानीति॥ भवति चात्र॥ स्नेहस्वेदनवस्त्यादि वातलास्वनिलापहं॥ कारयेद्रक्तपित्तघ्नं शीतं पित्तक्रियासु च॥श्लेष्मलासु च सूक्षोष्णं कर्म कुर्याद्यथायथं॥ सन्निपाते विमिश्रंतु संसृष्टासु तु कारयेत्॥ स्निग्धस्विन्नां तथा योनिं दुस्थितां स्थापयेत्समां॥ पाणिनोन्नमयेज्जिह्मां संवृतां व्यधयेत् पुनः॥ प्रवेशयेन्निःसृतां तु विवृतां परिवर्त्तयेत्॥ स्थानापवृत्ता योनिर्हि शल्यभूता स्त्रियो मता॥ सर्वं व्यापन्नयोनिं च कर्मभिर्वमनादिभिः॥ मृदुभिः पंचभिर्नारीं स्निग्धस्विन्नामुपाचरेत्॥ सर्वतः सुविशुद्धायाः शेषंकर्म विधीयते॥ वस्त्यभ्यंगपरीषेकप्रलेपपिचुधारणं॥हिंस्राकल्कं समीरार्त्तौकोष्ठमभ्यज्य धारयेत्॥ पंचवल्कस्य पित्तार्त्यांश्यामादीनां कफातुरा॥ वामिन्याप्लुतयोश्चैव स्वेदयित्वा प्रयोजयेत्॥ तर्पणं स्नेहपिचुभिर्भोजनं चानिलापहं॥ शल्लकीजिंगणीजंबूधवत्वक्पंचवल्कलैः॥ कषायैः साधितात्स्नेहात्पर्युपप्लुतयोः पिचुं॥कुलीरसूकरवंसासर्पिर्भिर्मधुरैः शृतैः॥ पूरयित्वा महायोनिं बध्नीयात्क्षौमनक्तकैः॥ प्रशस्तां सर्पिपाऽभ्यज्य क्षीरस्विन्नां प्रवेशयेत्॥ वध्नीयाद्वेसवारस्य पिंडं मूत्रेण कल्कितं॥ यच्च वातविकाराणां कर्मोक्तंतच्च कारयेत्॥ सर्वव्यापत्सु मतिमान्महायोन्यां विशेषतः॥ न हिवातादृते योनिर्वनितानां प्रदुष्यति॥अतो जित्वा तमन्यस्य कुर्याद्दोषस्य भेषजं॥ पित्तलानां तु योनीनां सेकाभ्यंगपिचुक्रियाः॥ शीताः पित्तजितः कार्याः स्नेहनार्थं घृतानि च॥ शतावरीमूलतुलाचतु-ष्काक्षुण्णपीडितात्॥ रसेन क्षीरतुल्येन पाचयेत घृताढकं॥ जीवनीयैः शतावर्या मृद्दीकाभिः परूषकैः॥ पिष्टैःप्रियालैश्चाक्षांशैर्मधुकार्द्धपलान्वितैः॥ सिद्धशीते तु मधुनः पिप्पल्याश्च पलाष्टकं॥ शर्कराया दशपलं क्षिपेल्लित्द्यात् पिचुं ततः॥ योन्यसृक्शुकदोषघ्नं वृध्यं पुंसवनं परं॥ क्षतक्षयमसूकूपित्तं कासं श्वासं हलीमकं॥ कामलां वातरुधिरं विसर्पं त्दृच्छिरोग्रहं॥ अपस्मारार्दितायाममदोन्मादांश्च नाशयेत्॥ एवमेव वृतं626 क्षीरं जीवनीयोपसाधितं॥ गर्भदं पित्तजानां च रोगाणां परमं हितं॥ रक्तयोन्यामसृग्वर्णैरनुबंधमवेक्ष्य च॥ यथादोषोदयं युंज्याद्रक्तस्थापनमौषधं॥ तिलचूर्णं दधिघृतं फाणितं शौकरी वसा॥ क्षौद्रयुक्तं जयेत्पीतं वातोत्तरमसृग्दरं॥ वराह-स्य रसो मेध्यः सकौलत्थश्च तद्रुणः॥ पत्रकल्को घृते भृष्टो राजादनकपित्थयोः627॥ शर्कराक्षौद्रयष्ट्याव्हनागरैश्च युतं दधि ॥ पयस्योत्पल-शालूकविसकालीयवारिजं॥ सपयःशर्कराक्षौद्रंरक्तपित्तोत्तरे पिबेत्॥ तंदुलीयकमूलं वा सक्षोद्रंतंदुलांभसा॥ सतार्क्ष्यशैलां लाक्षां वाछागेन पयसा पिबेत्॥ वासाघृतं तिक्तघृतं रक्तपित्ते हितं च यत्॥मधुकं त्रिफलां रोध्रंमुस्तं सौराष्ट्रिकां मधु॥ मद्यैर्निंबगुडूच्यौ च कफजेऽसृग्दरे पिबेत्॥ पाठां जंब्वाम्रयोरस्थि शिलोद्भेदं रसांजनं॥अंबष्टां शाल्मलीपिच्छां समंगां वत्सकत्वचं॥ वाल्हीकबिल्वातिविषारोध्रतोयदगैरिकं॥ शुंठीमधुकमाचीकारक्तचंदनकट्फलं॥ कट्वंगवत्सकानंताधातकीमधुकार्जुनं॥ पुष्येगृहीत्वा संचूर्ण्य सक्षौद्रं तंदुलांभसा॥ पिबेदर्शःस्वतीसारे रक्तं या चोपवेश्यते॥ दोषाजंतुकृता ये च बालानां तांश्चनाशयेत्॥ योनिदोषंरजोदोषंश्यावश्वेतारुणासितं॥ चूर्णं पुष्पानुगं नाम हितमात्रेयपूजितं॥सर्वेषु गर्भस्रावोक्तं प्रदरेषुप्रशस्यते॥ रक्तक्षयायां क्षीरं च जीवनीयशृतं पिबेत्॥ योन्यां श्लेष्मप्रदुष्टायां वर्ति संशोधने हिता॥वाराहे बहुशः पित्ते भावितैर्नक्तकैःकृता॥ भावितं पयसाऽर्कस्यमापचूर्णं ससैंधवं॥ वर्तिः कृता क्षणं धार्यासेक्तव्याऽनुसुखांबुना॥ पिप्पलीमापमरिचशताव्हाकुष्टसैंधवैः॥ प्रदेशिन्यंगुलीतुल्या वर्तिर्योनिविशोधिनी॥ उदुंबरशलाटूनां द्रोणं द्रोणेंऽभसः क्षिपेत्॥ सपंच
वल्कतिलकमालतीनिंबपल्लवैः॥ निशास्थिते जले तस्मिंस्तैलप्रस्थंविपाचयेत्॥ पलाशशाल्मलीलाक्षाधवनिर्यासवल्कलैः॥ पिष्टैर्युक्तंच तत्स्नेहपिचुं योनौ निधापयेत्॥ सशर्करैःकषायैश्च शीतैः कुर्वीतसेचनं॥ पिच्छिला विवृता योनिश्चिरदुष्टा तु दारुणा॥ सप्ताहाच्छुत्ध्यति क्षिप्रमपत्यं च समश्नुते॥ उदुंबरस्य दुग्धेन षट्कृत्वोभावितांस्तिलान्॥ तैलं क्वाथेन तस्यैव सिद्धं धार्यं च पूर्ववत्॥ धातुक्पामलकीपत्रस्रोतोजमधुकोत्पलैः॥ जंब्वाम्रसारकामीसरोध्रकट्फलतिंदुकैः॥ सौराष्ट्रिकादाडिमत्वगुदुंबरशलाटुभिः॥ अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत्॥ तैलप्रस्थं तदभ्यंगपिचुबस्तिषुयोजयेत्॥ शूनोत्तानोन्नता सुप्ता पिच्छिला स्राविणी तथा॥विप्लुतोप्लुता योनिः सित्ध्येत्सस्फोटशूलिनी॥ अर्कनिंबाम्रकोशाम्र-बिल्वपूगधवोद्भवैः॥ करंजजिंगिणीजंबूकरंजार्जुनशिग्रुजैः॥ प-लाशमधुकोत्थैश्च कषायैर्धावनं परं॥ मुक्तसीधुमधून्मित्रैर्योन्याःस्रावनिवारणं॥ कुर्यात् सतकगोधूमयुक्तैर्वा त्रिफलारसैः॥ यवान्नमभयारिष्टसीधुतैलं च शीलयेत्॥ पिप्पल्ययोरजःपथ्याप्रयोगांश्चसमाक्षिकान्॥ रोहीतकजटाकल्कं पांडुरेऽसृग्दरे पिबेत्॥ धात्रीमज्ञोऽथवा कल्कं सितामाक्षिकसंयुतं॥ मधुनाऽऽमलकीचूर्णं रसं वा प्रा-शयेत् सिते॥ सरोध्रकल्केन वटत्वक्कषायेण सेचयेत्॥ आस्रावे क्षौमपट्टान्वाभावितांस्तेन धारयेत्॥ प्लक्षत्वक्चूर्णपिंडं वा धारयेन्मधुमोक्षितं॥ योन्या स्नेहाक्तया रोधप्रियंगुमधुकस्य च॥ धार्या मधुघृता628 वर्त्तिः कषायाणां च भूरिशः॥ स्रावच्छेदार्थमभ्यक्तां धूपयेट्टाघृतप्लुतैः॥ सरलागुग्गुलुयवैःसतैलैःकटुमत्स्यकैः॥ कासीसं त्रिफला कांक्षी साम्रजंब्वस्थिधातकी॥ पैच्छिल्येक्षौद्रसंयुक्तश्चूर्णोवैशद्यकारकः॥ पलाशधातुकीजंबु समंगामोचसर्जजः॥ दुर्गंधे पिच्छि
लोत्क्लेदे स्तंभनश्चूर्ण इष्यते आरग्वधादिवर्गस्य कषायः परि-षेचनं॥ स्तब्धानां कर्कशानां च कार्यं मार्दवकारकं॥ धारणंवेसवारस्य कृशरापायसस्य च॥ दुर्गंधानां कषायःस्यात्तैलं वाकल्क एव वा॥ चूर्णोवा सर्वगंधानां पूतिगंधापकर्षणः॥ श्लेष्मजानां कटुप्रायाः समूत्रा वस्तयो हिताः॥ पित्ते समधुकक्षोरा वाते तैलाम्लसंयुताः॥ सन्निपातसमुत्थायाः कर्म साधारणं हितं॥ एवं योनिषु शुद्धासु गर्भंविंदंति योषितः॥ अदुष्टे प्राकृतेबीजे जीवोपक्रमणे सति॥ पंचकर्मविशुद्धस्य पुरुषस्यापि चेंद्रियं॥ परीक्ष्यवर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत्॥ मंजिष्ठाकुष्टतगरत्रिफलाशर्करावचाः॥ द्वे निशे मधुकं मेदा दीप्यकः कटुरोहिणी॥ पयस्याहिंगुकाकोली वाजिगंधा शतावरी॥ पिष्ट्वाऽक्षांशैर्घृतप्रस्थं पचेत्क्षीरचतुर्गुणं॥ योनिशुक्रदोषेषु तत्सर्वेषु प्रशस्यते॥ आयुष्यंपौष्टिकं मेध्यं धन्यं पुंसवनं परं॥ फलसर्पिरितिख्यातं पुष्पे629 पीतंफलाय तत्॥म्रियमाणप्रजानां च गर्भिणीनां च पूजितं॥ एतत्परं चबालानां ग्रहघ्नं देहवर्द्धनं॥ इति गुत्ह्यरोगप्रतिषेधो नामैकोनचत्वा-रिंशोऽध्यायः॥ ३९॥
इति शल्यतंत्रं नाम पंचममंग समाप्तं॥ ५॥
अथातो विषप्रतिषेधं व्याख्यास्यामः॥ पुरा खल्वमृतार्थं सुरा-सुरैः सलिलनिधेर्विमथ्यमानात्कोधइव रूपवान्सत्वं समुद्बभूव कृष्ण हस्तिनयनमूर्ध्वप्रदीप्तकेशं दंष्ट्राकरालं भैरवारावरूपं॥ तद्दर्शनादेव यतो देवदानवा विषण्णास्तस्माद्विषसंज्ञामवाप॥ तत्र सहसैव सर्वभूतानि निर्दग्धुकामउपयोगविशेषैर्विषममृततां नयमानो ब्रह्मा ऽनुनीयौपधिषुन्यस्तवान्॥ ततश्च स्थावरासु मूर्तिष्वधिवसनात् स्थावरमित्युच्यते॥ जंगमं पुनः पृथिव्याभारावतारार्थमुरगादिरूपेण विष्णुर्निर्ममे॥ तयोः स्थावरं मूलपत्रपुष्पफलत्वक्सारनिर्यासक्षीरधातुकंदभेदाद्दशाधिष्ठानं॥ तत्र मूलविषाणि क्लीतनकाश्वमारकगुंजासुगं-धकगर्गरककरघाटकादीनि॥ पत्रविषं कालपत्रकालंबरवरदकरंभा-र्कादीनां॥ पुष्पविषंवल्लीजरेणुककरंभमहाकरंभादीनां॥ फलं कुमुद्दतीरेणुकाकरंभमहाकरंभनंदनकतुवरकादीनां॥ त्वक्सारनिर्या-साः करककरघाटककरंभमहाकरंभनाराचकादीनां॥ क्षीरं कुमुद्वतीदंतीस्नुत्द्यर्कजालिनीव्यालादीनां॥ धातवो हरितालफेनाश्मभस्मर-क्तप्रभृतयः॥ कंदजानि तु हालाहलकालकूटवत्सनाभशृंगीसर्पपबालककर्दमकवैराटकमुस्तकसाक्तुकक्रौंचकबलाहलकमहाविपपुंडरी-कगालवमूलकमर्कटकर्कटककरवीरकेंद्रायुधसांकोचकलांगलकतैलपयकुशमुस्तकेंद्रमुष्ककरोहिषाजनाभकादीनि॥ तत्र मूलविषैरुपयुक्तैरुद्वेष्टनप्रलापमोहाः प्रजायंते॥ पत्रविषैर्जृंभोद्वेष्टनश्वासाः॥पुष्पविषै-श्च्छर्द्याध्मानमोहाः॥ फलविषैर्दाहमुष्कशोफौ॥ निर्यासविषैः प्रसेकास्यदौर्गंध्यपारुप्यशिरोवेदनाः॥ क्षीरविषैर्जिव्हागौरवं शकृद्भेदश्च॥ धातुविषैस्तालुदाहमूर्च्छात्हृदयपीडाः॥ सर्वमेव च स्थावरं ज्वरहिध्मातंद्वादंतहपर्हनुस्तंभगलग्रहफेनवमनाऽरुचिश्वासमूर्च्छाः करोति विशेषे-ण कंदजं॥ तत्ध्यतितीक्ष्णत्वादाशुकारितरं॥ इतरं तु प्रायः कालांतरप्रहरणं॥सर्वमपि चैतन्मूलमित्युच्यते मूलाश्रयत्वात्पत्रादीनां॥ जंगमस्यत्वाश्रयाः षोडश॥दृष्टिनिःश्वासस्पर्शदंष्ट्रामुखनखास्थिमूत्रपुरीषशुकार्तवलालाशूकपित्तशोणितशवानि॥ तानि पुनः सर्पकीटकणभाद्याश्रितानि॥ तत्कृतानां यथास्वमामयानां साधनं चेत्तरत्रवक्ष्यते॥ सर्वं च प्रायशो जंगमं निद्वातंद्राक्लमदाहरोमहर्षशोफपाकातिसारान्करोति॥ द्विविधमपि चैतद्विपं तीक्ष्णोष्णरुक्षविशदसूक्ष्मव्यवाय्याशुकारिविकाशिलघ्वव्यक्तरसैर्देशभिर्गुणैर्युक्तमपाकिच॥ तत्र तैक्ष्ण्योप्ययात् पित्तं रक्तं च प्रकोपयति रौक्ष्याद्वायुं वैशद्यादसक्तवेगंप्रसरति सौक्ष्म्याव्ह्यवायित्वाच्च दोषधातुमलादीन्समंताच्छरीरावयवाननु प्रविशत्याशुकारित्वादाशु व्यापादयति विकाशित्वान्मर्मच्छेदेनमतिंव्यामोहयति लाघवाहुर्निर्हरमव्यक्तरसत्वाच्छ्वेष्मप्रकोपमन्नरसांश्चसर्वाननुवर्त्तते॥ अत एव च प्रयत्नेनान्नानि विपतो रक्षेदित्युक्तं॥अपाकित्वाज्जरां नो याति तेनाभ्यवत्हृतमवश्यं मारयति मंत्रौषध-बलेन चोपशमितमपि प्रत्ययमासाद्य प्रकुप्यतीति॥ भवति चात्र॥स्थावर जंगमं चेति विषं प्रोक्तमकृत्रिमं॥ कृत्रिमं गरसंज्ञ तु क्रियते विविधौषधैः॥ हंति योगवशेनाशु चिराच्चिरतराच्च तत्॥शोफपांडूदरोन्मादुर्नामादीन् करोति वा॥ अपि चैतद्विषंसर्वे तीक्ष्णाद्यैरन्वितं गुणैः॥ वातपित्तोत्तरं नॄणां सद्यो हरति जीवितं॥ विषंहि देहं संप्राप्य प्राग्दूषयति शोणितं॥ कफपित्तानिलांश्चानु समं दोषान् सहाशयान्॥ ततो हृदयमास्थाय देहोच्छेदाय कल्पते॥ शरीरं दूषिते रक्ते सर्वं चिमिचिमायते॥ कोठः समंडलः स्वे-दो रोमहर्षश्च जायते॥ क्षुद्रकीटा इवांगे मे विसर्पंतीति मन्यते॥विनामयति गात्राणि जृंभते शिशिरप्रियः॥ व्यापिनस्तस्य दुष्टस्यरक्तस्य विषतेजसः॥ वातादयो वशं यांति बलिनोऽप्यबला इव॥विषं यद्दोषभूयिष्ठंतं दोषं प्राक्प्रपद्यते॥ आश्रये यस्य यस्यैव त-तस्तदवतिष्ठते॥ तज्जान् विकारान्कुरुते यान्सर्पेषूपदेक्ष्यते॥ वाताशयस्थं कुरुते तथा श्लेष्मामयानपि॥ पित्तश्लेष्माशयगतं तद्वत्पित्तकफोद्भवान्॥ तत्रापि चोत्तमांगस्थे सकोठं शूयते शिरः॥विशेषादक्षिकूटौष्ठनासास्यंहृष्टदंतता॥ तालुशोपो रुजा मूर्ध्नि वक्त्रेचिमिचिमायनं॥ अर्थेषु चक्षुरादीनामप्रवृत्तिर्हनुग्रहः॥ इत्यन्यत्रापि च विषंस्थितमंगेऽभिलक्षयेत्॥ व्याप्यैवं सकलं देहमुपरु
ध्य च वाहिनीं630॥ विषंविषमिव क्षिप्रं प्राणानस्य निरस्यति॥ पीतंमृतस्य हृदयं जग्धदिग्धाभिविध्ययोः॥ दंशे तिष्ठति भूयिष्ठं सर्वतःपिंडितं विषं॥ नाद्यादतो विशेषेण तेषांमांसं तदाश्रयं॥ यथास्वं भक्षिते पीडा यथास्वं च क्रियाक्रमः॥ सप्त वेगान्विपस्याहुरष्टाविति पुनर्वसुः॥ दुष्यति प्रथमे वेगे रसश्छर्दिप्रसेककृत्॥ द्वितीयेऽस्रं चिमचिमाजृंभावेपथुकारि तत्॥ तृतीये पिशितं कंडूकोठमंडलशोफदं॥ दोषाश्चतुर्थे तेषु स्युर्यथायथमुपद्रवाः॥ पंचमे दर्शने भ्रांतिः षष्ठेहिध्मासमुद्भवः॥ सप्तमे स्कंधभग्नस्य जायते मृत्युरष्टमे॥ दुप्यतिप्रथमे रक्तं द्वितीये श्वयथूदयः॥ तृतीयेंऽगे चिमिचिमा चतुर्थे ज्वरमूर्च्छना॥ पंचमे पांडुजिव्हाऽऽस्यशोफःषष्ठे हृदि व्यथा॥ सप्तमे मरणंवेग इति नग्नजितो मतं॥मूर्च्छा हृदि परं पीडा शिरोरुगपतंत्रकः॥ हिध्मा च दारुणो मर्मच्छेदो जीवितसंक्षयः॥ सप्तेति वेगा मूर्च्छाद्या विदे-हपतिना स्मृताः॥ रक्तमांसवसास्नायु तथाऽस्थ्याद्यास्त्रयःक्रमात्॥ आश्रयाःसप्त सप्तानामित्यालंबायनोऽब्रवीत्॥ वेगान्धन्वंतरिस्तद्वत्सर्पदष्टस्य मन्यते॥ स्थानवर्जं समस्थाने दोषानिच्छति कोष्ठगान्॥धान्वंतरेषु याः सप्त कलाः पूर्वं प्रकीर्तिताः॥ अतीत्य तासामेकैकांवेगं प्रकुरुते विषं॥ तत्कालकल्पं कालेन कलामभ्येति यावता॥ ऊत्द्यमानं समीरेण तावद्वेगांतरं स्मृतं॥ मुनिना येन यत्रोक्तं तत्सर्वमिति दर्शितं॥जीर्णं विषघ्नौषधिभिर्हतं या दावाग्निवातातपशोपितंया॥ स्वभावतो631 वा न गुणैः संयुक्तं दूपीविषाख्यं विषमभ्युपैति॥वीर्याल्पभावादविभाव्यमेतत्कफावृतं वर्षगणानुबंधि॥ तेनार्दितो भिन्नपुरीषवर्णो दुष्टास्ररोगी तृडरोचकार्तः॥ मूर्च्छन्वमन् गद्गदवाक्प्रमुत्द्यन् भवेच्च दूष्योदरलिंगजुष्टः॥ आमाशयस्थे कफवातरोगी पित्ताशयस्थेऽनिलपित्तरोगी॥भवेन्नरो ध्वस्तशिरोरुहांगो विलूनपक्षः
स यथा विहंगः॥ स्थितं रसादिष्वथवा यथोक्तान्करोति धातुप्रभवान्विकारान्॥ प्राग्वा ताजीर्णशीताभ्रदिवास्वप्नाहिताशनैः॥ दुष्टं दूषयते धातू़नतो दूपीविषं स्मृतं॥स्थावरस्योपयुक्तस्य वेगे पूर्वे प्रजायते॥ जिव्हायाः श्यावता स्तंभो मूर्च्छा त्रासः क्लमो वमिः॥ द्वितीये वेपथुः स्वेदो दाहः कंठे च वेदना॥ विषं चामाशयं प्राप्तं कुरुते हृदि वेदनां॥ तालुशोपस्तृतीये तु शूलं चामाशये भृशं॥ दुर्बले हरिते शूने जायेते चास्य लोचने॥पक्वाशयगते तोदहिध्माकासांत्रकूजनं॥ चतुर्थे जायते वेगे शिरसश्चातिगौरवं632॥ कफप्रसेको वैवर्ण्यं पर्वभेदश्चपंचमे॥ सर्वदोषप्रकोपश्च पक्वाधाने च वेदना॥ पष्टे संज्ञाप्रणाशश्च स भृशं चातिसार्यते॥ स्कंधपृष्ठकटीभंगो भवेन्मृत्युश्च सप्तमे॥ प्रथमे विषवेगे तु बांतं शीतांबु सेचितं॥ सर्पिर्मधुभ्यां संयुक्तमगदंपाययेद्द्रुतं॥ द्वितीये पूर्ववद्वांतं विरिक्तं चानु पाययेत्॥ तृतीयेऽगदपानं च हितं नस्यं ततोंऽजनं॥ चतुर्थे स्नेहसंयुक्तमगदं प्र-तियोजयेत्॥ पंचमे मधुकक्वाथमाक्षिकाभ्यां युतं हितं॥ पष्ठेऽती-सारवत्सिद्धिरवपीडस्तु सप्तमे॥ मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत्॥ कोशातक्यग्निकः पाठा सूर्यवल्पमृताभयाः॥ शेलुः शि-रीषःकिणिही हरिद्रे क्षौद्रसाव्हया॥ पुनर्नवे त्रिकटुकं बृहत्यौ सारि-वे बले॥ एषां यवागूं निर्यूहे शीतां सघृतमाक्षिकां॥ युंज्याद्वेगांतरेसर्वविषघ्नींकृतकर्मणः॥ तद्वन्मधूकमधुकपद्मकेसरचंदनैः॥ अगदान्वक्ष्यते चातः सिद्धान् पूर्वर्पिनिर्मितान्॥ सर्वेषु सर्वावस्थेषु ये विषेषूपरं हिताः॥ चंदनं कुंकुमं कुष्टं कांक्षी लाक्षा प्रियंगवः॥ मुस्तस्थौणेयशैलेयरोचनामदनप्लवं॥ श्रीवेष्टक्विडंगैलाविशालाऽलमनःशिलाः॥सुरसप्रसवस्पृक्कारजनीद्वयवालकं॥हिंगु सिद्धार्थकाः पद्मचारिणीपद्मकेसरं॥ जात्याः पुष्पं प्रवालत्वक् पुष्पमर्कशिरीपयोः॥ द्विरोध्र
बृहतीकौंतीमधुकं गंधनाकुली॥ मुद्रपर्णी कणा श्यामा ध्यामकं नलदं नतं॥ सिंधुवारितशामाकं देवदारु मयूरकं॥ पुष्पे समाहृतैः पिष्टैर्योज्यस्तैरगदोत्तमः॥ संजीवनः प्रागमृताद्विहितोऽयं स्वयंभुवा॥पाननस्यांजनप्राणघूमालेपनधारणैः॥ जीवानां विषसुप्तानां राजद्वार जयावहः॥ धन्यो धान्पधनायुःश्रीक्षेमपुष्टिसुखप्रदः॥ गृहे स्थितो विषालक्ष्मीमंत्रज्यरगरग्रहान्॥कृत्याकार्मणकष्टादिव्यालजंतुसरीसृपान्॥स्वप्नोपघातदुःखमतोपानिनृपतस्करान्॥ निहंत्यकालमरणं मरका शनिविग्रहान्॥ चंदनं वालकं मुस्तां ध्यामकं कटुका नतं॥ दाडिमं कुंकुमं शुंठी कपित्थं वत्सकात्वचं633॥ करंजबीजं मरिचं दलमौ-त्पलकामलं॥ नमूलमपामार्गकरवीरकमंजनं॥ द्राक्षामालत्यहि-च्छत्रनागपुष्पालवतसं॥ विशाला रोचना श्यामा शंखपुष्पी प्रियं-गुकः॥ अजाजीसारिवाकुष्टमजमोदकुरंटकं॥ वयस्थासिंदुबारेला कायस्था चारटी वचा॥ कर्कटी पूतना केशी श्वेता च गिरिकर्णिका॥ गोलोभी सिंहलोमी च वर्षाभू गजपिप्पली॥ अगदो यापनाख्योऽयं पूर्वेण सदृशो गुणैः॥ अंजनं नगरं कुष्टं हरितालं मनःशिला॥ फलिनी त्रिकटु स्पृक्का नागपुष्पं सकेसरं॥ हरेणुमधुकं मांसी रोचना कोमलाक्षिका634॥ श्रीवेष्टकं सर्जरसः शताव्हा कुंकुमं बला॥ तमालपचतालीसभूर्जोशोरनिशाद्वयं॥ कन्योपवासिनी स्नात्वा शुक्लवासा मधुद्रुतैः॥ द्विजानभ्यर्च्य तैः पुप्ये कल्पयेदगदोत्तमं॥ वैद्यश्चात्र सदा मंत्र प्रयतात्मा पठेदिमं॥ नमः पुरुषसिंहाय नमो नारायणाय च॥ यथाऽसौ नाभिजानाति रणे कृष्णः पराजयं॥ एतेन सत्यवाक्येन अगदो मे प्रसित्ध्यतु॥ नमो वैदूर्यमाने हर635हर रक्ष मां सर्वविषेभ्यः गौरी गांधारी चांडाली मातंगी स्वाहा॥ पिष्टे
च द्वितीयो मंत्रः॥ ॐ हरिमयि स्वाहा॥ अशेषविषवेतालग्रहकर्मणपाप्मसु॥ मरकव्याधिदुर्भिक्षयुद्धाशनिभयेषु च॥ पाननस्यांजनालेपमणिबंधादियोजितः॥ एषचंद्रोदयो नाम शांतिः स्वस्त्ययनंपरं॥ वांसवो वृत्रमवधीत् समालिप्तोऽमुना किल॥ श्रीवेष्टकं हरिद्रेद्वेकोविदारं मनःशिलां॥पिप्पलीं पाटलां श्वेतां श्वेतां च गिरिकर्णिकां॥ मंजिष्ठां बृहतींशकयष्टीमधुककेसरं॥ फलिनीं किणिहींचेति गवां पित्तेन पेषयेत्॥ सूर्योदयो हंति विषंतमः सूर्योदयोयथा॥ निंबकाष्ठं गृहाद्धूमं फाणितं बृहतीद्वयं॥ गोपित्तयुक्तमगदः परमं मृतजीवनः॥ गोपित्तकुष्टसुरसमधुकद्विनिशं तथा॥ वि-शालरजनीकुष्टश्वपित्तव्योपतुंबरु॥ वचाशिरीषपंचांगो मृतसंजीवनोऽगदः॥ पंचांगानि शिरीषस्य श्वपित्तं च परोऽगदः॥ प्रियंगु तगरंलाक्षा मंजिष्ठा मधुकं मधु॥ हरिद्रा चेत्ययं श्रेष्ठः कौटिल्यदयितोऽगदः॥ विसंज्ञानां विषैर्घोरैः प्रहारैर्नष्टचेतसां॥ उद्वंधानां जलौघेन मृतानां चेतनावहः॥ शिरीषफलकाकांडसुरसाग्रपुनर्नवैः॥कक्षावायसिसंयुक्तैरगदः पूर्ववद्गुणैः॥ कटुकालाबुमूलानि गवां पित्तेन कल्कयेत्॥ ब्राह्मो धार्योऽयमगदः सर्वकर्मसु पूजितः॥ आगारधूमस्त्रिवृता गोपित्तं त्र्यूपणंवचा॥प्राजापत्योऽयमगदः सर्वरक्षोविषापहः॥श्वेतपुष्करतुल्यांशं जीवंत्याःकुसुमं घृतं॥ रुक्मगर्भो मणिर्धार्यश्चाणक्येष्टो विषापहः॥ मांसीत्वक्पत्रसुरसमनोव्हाशीतकुंकुम॥ निशाव्याघ्नखं शुंठी दशांगोऽयं विषापहः॥ उत्पातगल्लपिटिकादिग्धविद्धविषापहः॥ उदुंबरत्वग्जंब्वस्थिमधुकोत्पलगैरिकैः॥ चंदनोशीरनलदनागकेसरपद्मः॥ विशेषाद्विषविस्फोटवीसर्पज्वरदाहहा॥ शिरीषोदुंबरप्लक्षन्यग्रोधाश्वत्थवल्कलैः॥ सधृतो दाहतृष्णास्रविषवीसर्पपित्तहा॥ गजपिप्पलिकासीसक्षारयष्टीमधूरकं॥ रक्ता नतं वचा दंती शिवः शिवकृतो गणः॥ सुराला
पावकीसोमभोगवत्यमृता नतं॥ आढकी किणिही सोमराजीचौशनसोऽगदः॥ श्रद्धेष्मातकोऽर्ककुसुमं तंदुलीयो मयूरकः॥सुरसामंजरी काकमाची पाने ऽगदो वरः॥ दध्याज्यक्षौद्रलवणंपीतं मूलविषापहं॥ हरिद्रासैधवक्षौद्रघृतं संसृज्यपाययेत्॥ आर्तान्मूलविषैर्घरैर्दिग्धविद्वान्विशेषतः॥ हरिद्राऽतर्बहिःशस्ता विषदोषातुरे परं॥ निशाऽश्वमारमुरसकरंजव्योपदारुभिः॥ अंजनं बस्तमूत्रेण पिष्टर्नेत्रोपरोधजित्॥ कर्णाक्षिनासिकाकंठजिह्वारोगेषु नावनं॥ बीजपूरोऽथ बृहतीफलं ज्योतिष्मतीकृतं॥ श्वेता वचा हिंग्वमृता सुगंधा कुष्टसैंधवं॥ शिरीषपुष्पद्विनिशान्योपटुंटकसर्पपाः॥ कपित्थमध्यं लशुनं करंजो वंशलेखनं॥ पिष्ट्वागोबस्तमूत्रेण तत्पित्तेनैव भावयेत्॥ दिनानि सप्त विधिना विनिहंति ततोऽजनात्॥ विषंशिरस्थं मूर्द्धार्तिज्वराजीर्णविसूचिकाः॥ अपस्मारगदोन्मादपांडुमेहमदात्ययान्॥ शुष्कनेत्रामयशिरोरोगपैल्लगलार्बुदान्॥ काचांधका-स्पटलकंडूदौर्बल्यपक्ष्मणः॥ लेपात्पीतमथलीढं दुष्टदिग्धं विषंजयेत्॥ श्वित्रं कृच्छ्राणि कुष्ठानि दुष्टनाडीमहाव्रणान्॥ आनाहार्शोगु-दे लेपाल्ललाटे दुष्टपीनसं॥ योनिलेपेन नारीणां मूढगर्भानुलोमनः॥उन्मूलयत्येषविषं गदो हस्तीव काननं॥ विडंगपाठात्रिफलाऽजमोद-हिंग्वग्निवक्रं636लवणस्य वर्गः॥ व्योषान्वितं स्थावरजंगमानां जेता वि-पाणामगदोऽजिताख्यः॥ मनोव्हारोचनाचंडात्वगेलासितसपेपैः॥स्पृक्काहिंगुलकाश्मीरकांतादिः कल्कितोऽगदः॥ विषघ्नोबालसूर्योऽयं श्रीरक्षाविषयोगदः॥ अश्वगंधा सगोमूत्रा गृहधूमः सगुग्गुलुः॥ एषमाहेश्वरोयोगो न क्वचित्प्रतिहन्यते॥ विषदिग्धेनविद्धस्तु प्रताम्यति मुहुर्मुहः॥ विवर्णभावं भजते विषादं त्वाशु गच्छति॥ कीटैरिवारवृतं चास्य गात्रं चिमिचिमायते॥ श्रोणिपृ
ष्ठशिरस्कंधसंधयः स्युः सवेदनाः॥ कृष्णदुष्टास्रविस्रावी तृण्मूर्च्छाज्वरदाहवान्॥ दृष्टिकालुष्यवमथुश्वासकासकरः क्षणात्॥ आरक्तपीतपर्यंतः श्यावमध्योऽतिरुग्व्रणः॥ शूयते पच्यते सद्यो गत्वा मांसं च कृष्णतां॥ प्रक्लिन्नं जीर्यते ऽभीक्ष्णं सपिच्छिलपरिस्रवं॥कुर्यादमर्मविद्धस्य हृदयावरणं द्रुतं॥ शल्यमाकृष्यतप्तेन लोहेनानु दहेद्व्रणं॥ अथवा मुष्ककश्वेतासोमत्वक्ताम्रवल्लितः॥ शिरीषाद्गृध्रनख्याश्चक्षारेण प्रतिसारयेत्॥ शुकनासाप्रतिविषाव्याध्रीमूलैश्च लेपयेत्॥ कीटदष्टचिकित्सां च कुर्यात्तस्य यथार्हतः॥ व्रणे तु पूतिपिशिते या पित्तविसर्पवत्॥ सौभाग्यार्थं स्त्रियो भर्त्रेराज्ञे वाऽऽराति चोदिताः॥ गरमाहारसंयुक्तं यच्छंत्यासन्नवर्तिनः॥नानाप्राण्यंगशमल637विरुद्धौषधिस्मनां॥ विषाणां मंदवीर्याणां योगो गर इति स्मृतः॥ तेन पांडुः कृशोऽल्पाग्निःकासश्वासज्वरार्दितः॥वायुना प्रतिलोमेन स्वप्नचिंतापरायणः॥ मेहोदरयकृत्प्लीहीदीनवाग्दुर्बलोऽलसः॥ शोफवान् सतताध्मातः शुष्कपादकरः क्षयी॥ स्वप्नेगोमायुमार्जारनकुलव्यालवानरान्॥ प्रायः पश्यति शुष्कांश्च वनस्पतिजलाशयान्॥ मन्यते कृष्णमात्मानं गौरो गौरं च कालकः॥ विकर्ण-नासानयनं पश्येत्तद्विहतेंद्रियः॥ एतैरन्यैश्च बहुभिः क्लिष्टो घोरैरुपद्रवैः॥ गरार्तोनाशमाप्नोति कश्चित्सद्योऽचिकित्सितः॥ गरार्तो वांतिमान्भुक्त्वा तत्पथ्यं638पानभोजनं॥ शुद्धत्हृच्छीलयेद्धेम सूत्रस्थानविधेः639स्मरन्॥शर्कराक्षौद्रसंयुक्तं चूर्णं ताप्यसुवर्णयोः॥ लेहः प्रशमयत्युग्रंसर्वयोगकृतं॥ मूर्वामृतानतकणापटोलीचव्यचित्रकान्॥वचामुस्तविडंगानि तक्रकोष्णांबुमस्तुभिः॥ पिबेद्रसेन चाम्लेन640 गरोपहतपावकः
पावकी सोमभोगवत्यता नतं॥ आढकी किणिही सोमराजी चौशनसोऽगदः॥ श्लेष्मातकोऽर्ककुसुमं तंदुलीयो मयूरकः॥ सुरसामंजरी काकमाची पाने ऽगदो वरः॥ दध्याज्यक्षौद्रलवणंपीतं मूलविषापहं॥हरिद्रासैंधवक्षौद्रघृतं संसृज्य पाययेत्॥ आर्तान्मूलविषैर्घोरैर्दिग्धविद्वान्विशेषतः॥ हरिद्रांऽतर्बहिः शस्ता विषदोषातुरे परं॥ निशाऽश्वमारसुरसकरंजव्योपदारुभिः॥ अंजनं वस्तमूत्रेण पिष्टैर्नेत्रोपरोधजित्॥ कर्णाक्षिनासिकाकंठजिह्वारोगेषुनावनं॥ बीजपुरोऽथ बृहतीफलं ज्योतिष्मतीकृतं॥ श्वेता वचा हिंग्वमृता सुगंधा कुष्टसैंधवं॥ शिरीषपुष्पद्विनिशाव्योपटुंटुकसर्पपाः॥ कपित्थमध्यं लशुनं करंजो वंशलेखनं॥ पिष्ट्वागोवस्तमूत्रेण तत्पित्तेनै्व भावयेत्॥ दिनानि सप्त विधिना विनिहंति ततोंऽजनात्॥ विषं शिरस्थं मूर्द्धार्तिज्वराजीर्णविसूचिकाः॥ अपस्मारगदोन्मादपांडुमेहमदात्यमान्॥ शुष्कनेत्रामयशिरोरोगपैल्लगलार्बुदान्॥ काचांधकारपटलकंडूदौर्बल्यपक्ष्मणः॥ लेपात्पीतमथालीढंदुष्टदिग्धं विषंजयेत्॥ श्वित्रं कृच्छ्राणि कुष्ठानि दुष्टनाडीमहाव्रणान्॥ आनाहार्शो गुदे लेपाल्ललाटे दुष्टपीनसं॥ योनिलेपेन नारीणां मूढगर्भानुलोमनः॥ उन्मूलयत्येषविषं गदो हस्तीव काननं॥ विडंगपाठात्रिफलाऽजमोदहिंग्वग्निवक्त्रं636लवणस्यवर्गः॥ व्योपान्वितं स्थावरजंगमानां जेता विषाणामगदोऽजिताख्यः॥ मनोव्हारोचनाचंडावगेलासितसर्पपैः॥ स्पृक्काहिंगुलकाश्मीरकांतादिः कल्कितोऽगदः॥ विषघ्नो वालसूर्योऽयं श्रीरक्षाविषयोगदः॥ अश्वगंधा सगोमूत्रा गृहधूमः सगुग्गुलुः॥ एषमाहेश्वरो योगो न क्वचित्प्रतिहन्यते॥ विषदिग्धेन विद्धस्तु प्रताम्यति मुहुर्मुहुः॥ विवर्णभावंभजते विषादं त्वाशु गच्छति॥ कोटैरिवावृतं चास्य गात्रं चिमिचिमायते॥ श्रोणिपृष्ठशिरस्कंधसंधयः स्युः सवेदनाः॥ कृष्णदुष्टास्रविस्रावी तृण्मूर्च्छाज्व-रदाहवान्॥ दृष्टिकालुष्यवमथुश्वासकासकरःक्षणात्॥ आरक्त-पीतपर्यंतः श्यावमध्योऽतिरुग्व्रणः॥ शूयते पच्यते सद्यो गत्वा मां-सं च कृष्णतां॥ प्रक्लिन्नंजीर्यते ऽभीक्ष्णं सपिच्छिलपरिस्रवं॥ कुर्यादमर्मविद्धस्यहृदयावरणं द्रुतं॥ शल्यमाकृष्य तप्तेन लोहेना-नु दहेद्व्रणं॥ अथवा मुष्ककश्वेतासोमत्वक्ताम्रवल्लितः॥ शिरी-षाद्गृध्रनख्याश्च क्षारेण प्रतिसारयेत्॥ शुकनासप्रतिविषाव्याघ्नी-मूलैश्चलेपयेत्॥ कीटदष्टचिकित्सां च कुर्यात्तस्य यथार्हतः॥ व्र-णे तु पूतिपिशिते क्रिया पित्तविसर्पवत्॥ सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वाऽऽरातिचोदिताः॥ गरमाहारसंयुक्तं यच्छंत्यासन्नवर्तिनः॥ नानाप्राण्यंगशमल641विरुद्धौषधिभस्मनां॥विषाणां मंदवीर्याणां यो-गो गर इति स्मृतः॥ तेन पांडुः कृशोऽल्पाग्निःकासश्वासज्वरार्दितः॥वायुना प्रतिलोमेन स्वप्नचिंतापरायणः॥मेहोदरयकृप्लीही दीनवाग्दुर्ब-लोऽलसः॥ शोफवान् सतताध्मातः शुष्कपादकरः क्षयी॥ स्वप्नेगो-मायुमार्जारनकुलव्यालवानरान्॥ प्रायः पश्यति शुष्कांश्च वनस्पति जलाशयान्॥ मन्यते कृष्णमात्मानं गौरो गौरं च कालकः॥ विकर्ण-नासानयनं पश्येत्तद्विहतेंद्रियः॥ एतैरन्यैश्च बहुभिः क्लिष्टो घोरैरुपद्र-वैः॥ गरार्तोनाशमाप्नोति कश्चित्सद्योऽचिकित्सितः॥ गरार्तोवांतिमान् भुक्त्वा तत्पथ्यं642 पानभोजनं॥ शुद्धदृच्छीलयेद्धेम सूत्रस्थानविधेः643 स्मरन्॥शर्कराक्षौद्रसंयुक्तं चूर्णं ताप्यसुवर्णयोः॥ लेहः प्रशमयत्युग्रं सर्वयोगकृतं विषं॥ मूर्वामृतातकणापटोलीचव्यचित्रकान्॥ वचामुस्त-विडंगानि तक्रकोष्णांबुमस्तुभिः॥ पिबेद्रसेन चाम्लेन640 गरोपहतपावकः
॥ पारावतामिपशठीपुष्कराव्हशृतं हिमं॥ गरतृष्णारुजाकासश्वासहि ध्माज्वरापहं॥ वायसी श्वासकासघ्नी भृष्टाऽथ त्रिफालारसे॥ भार्ङ्गीनागरनिर्यूहः शिशिरश्चसमाक्षिकः॥ हरेणुचंदनश्यामानलदं श्लक्षणपेषितं॥ विलेपनं प्रयोक्तव्यं गरेणोपहतत्वचः॥ मंजिष्ठाकिणिहीनिंबरजन्यश्वत्थचंदनैः॥ प्रघर्षणं कृशानां तु गरेण क्षपितौजसां॥ पथ्यं परममुद्दिष्टं शीलनं क्षीरसर्पिषोः॥ उपनिंबपटोलीनां क्वाथेन विपचेत्हृतं॥ अभयागर्भिणं श्रेष्ठं तद्गरस्य निर्वहणं॥ हरिद्रे नाकुलीं जातीपृथक् पिष्ट्वाविपाचयेत्॥ घृतत्रयं विषार्तानामेतदारोग्यद परं॥ तंदुलीयकमूलेन गृहधूमेन चैकतः॥ क्षीरेण च घृतं सिद्धं समस्तविषरोगजित्॥ नागदंती त्रिवृद्दंतीद्रवंतीस्नुक्पयःफलैः॥ सा-धितं माहिषंसर्पिः सगोमूत्राढकं हितं॥ सर्पकीटविषार्तानां गरार्तानां च शांतये॥ मधुकं तगरं कुष्टभद्रदारुहरेणवः॥ मंजिष्ठैलैलवालूनि नागपुष्पोत्पलं प्लवं॥ विडंगंचंदनं पत्रंप्रियंगु ध्यामकं बला॥ अंशुमत्यौ हरिद्रे द्वे बृहत्यौ सारिवाह्वयं॥ एषां कल्कैर्घृतं सिद्धमजेयं नाम विश्रुतं॥ विषाणि हंति सर्वाणि शीघ्रमेव प्रयोजितं॥ श्वेतैकमाता बीजानि प्रत्यक्पुष्पीशिरीषयोः॥ गोमूत्रपिष्टैस्तैः सर्पिः सिद्धं विषहरं परं॥ अमृतं नाम विख्यातमपि संजीवयेन्मृतं॥ शिरीषत्वक्त्रिकटुकं विदारी चंदनोत्पलं॥ द्वे बले सारिवास्फोत सुरभी-निंबपल्लवाः644॥ बंधुजीवाढकीमूर्वाासासुरसवत्सकाः॥ पाठांकोटाश्व-गंधार्कमूलयष्ट्याव्हपद्मकं॥ विशाला बृहती द्राक्षा कोविदारी शता-वरी॥ कटभीदंत्यपामार्गपृष्टिपर्णीरसांजनं॥ श्वेतौ वाणाश्वखुरकौ कुष्टदारुप्रियंगुकाः॥ विदारी मधुकं सारं करंजस्य फलं वचा॥ रजन्यौ रोध्रमक्षांशं पिष्ट्वासाध्यं घृताढकं॥ तुलांबु छागगोमूत्रत्र्या-ढके तद्विषापहं॥ अपस्मारक्षयोन्मादभूतग्रहगरोदरान्॥ पांडुरोगकृमिप्लीहगुल्मोरुस्तंभकामलाः॥ हुनुस्तंभग्रहादींश्च पानाभ्यंजनना वनैः॥ हंति संजीवयति च विषोद्बंधमृतान्नरान्॥ भक्षिते हरिताले तु हृदि दाहो रसाग्रहः॥ आनाहोऽम्लस्य चमनं पीतहारिद्रविट्स्रुतिः॥ तथा मंडलिसर्पोक्तविकारास्तत्र भेषजं॥ विभज्य योजयेदूर्ध्वमधः संशोधितं हितं॥ अंकोल्लजालिनीबीजशुक-नासाप्रियंगुकाः॥ रोध्रध्यामकतालीसनतयष्ट्याव्हगुग्गुलु॥ व्ही-वरं भद्रकाष्टं च लेहयेन्मधुसर्पिपा॥ दद्यान्नकूलगोपित्तयुतान्न-स्यांजने च तान्॥ धत्तूरकोपयोगेन सर्वं पश्यति पीतकं॥ कंपलालामदच्छर्दिस्मृतिभ्रंशभ्रमान्वितः॥ तं वामयेत मधुरैः पाययेद्दा सितापयः॥ कोरदूपैर्मदनकैः प्रायो धत्तूरवद्गदाः॥ उन्मादोऽक्षिविनाशश्च तत्रापि वमनं हितं॥ कूष्मांडकं च सगुडं बहुशस्तत्र भक्षयेत्॥ नानाप्रकारैः संयोगैः कोद्रवा मदहेतवः॥ तान्विभज्य यथायोगं चिकित्सेदविरोधिभिः॥ दुषीविषर्तंसुखिन्नमूर्ध्वंचाधश्चशोधितं॥ दूषी-विषरिमगदं लेहयेन्मधुनाऽऽप्लुतं॥ पिप्पल्योध्यामकं मांसी रोध्रमेला सुवर्चिका॥ कुटन्नटं नतं कुष्टं यष्टीचंदनगैरिकं॥ दूषीविषरिर्नाम्नाऽयं न चान्यत्रापि वार्यते॥ हरीतकीसलवणा मागधी मरिचानि च॥ एतद्दूषीविषर्तानां काश्यपोक्तं विरेचनं॥ युंज्याच्च विषरोगेषु रेकं व्योषाधिकं भिषक्॥ तरुणस्य पलाशस्य शृतं क्षारोदकं पिबेत्॥ क्वाथेनात्र प्रतीवापं प्रक्षिपेच्छ्लक्ष्णचूर्णितं॥ व्योषं शिरीषकुसुमं मधुकं सा-रिवे मिशी॥ कुष्टं वेल्लनिशं लाक्षायुक्तां सुरसमंजरीं॥ सिंधूत्थरक्तत्वड्यांसीरेणुकाहिंगुवाल्हिकं॥ दर्वीप्र्लेपि तज्जातं गोविषाणे निधा-पयेत्॥ क्षारं गुल्मोदरार्शंसि मेहमंदाग्निताज्वरान्॥ त्वग्दोपकासा-पस्मारग्रहोन्मादभगंदरान्॥ पांडुं कंठोरसोरोगान् प्लीहानं श्वयथं कृमीन्॥ कोलमात्रमतः खादन् जयेत्सर्वविषाणि च॥ विषं तेजोमयं मंत्रैः सत्यन्ब्रह्मतपोधनैः॥ यथा निवार्यते शीघ्रं प्रयुक्तैर्न तथौषधैः॥
न तु सर्वमनुष्याणां संति भेषजसंपदः॥ अज्ञातरोगसद्भावे योग्यता चातिदुर्लभा॥ प्रकुष्यति विषं भूयः केवलैश्चौपधैर्जितं॥ अवाप्तौ सिद्धमंत्राणां यतेतातश्चिकित्सकः॥ नापि ते व्रतहीनस्य हीना वा स्वरवर्णतः॥ यस्मान्नसिद्धिमायांति तस्माद्योज्योऽगदक्रमः॥ विषप्रकृतिकालान्नदोषदूष्यादिसंगमे645॥विषसंकटमुद्दिष्टं शतस्यैकोऽत्र जीवति॥ क्षुत्तृष्णाधर्मदौर्बल्यक्रोधशोकभयश्रमैः॥ अजीर्णवर्चोद्रवतापित्तमारुतवृद्धिभिः॥ तिलपुष्पफलाघ्राणभूवाष्पघनगर्जितैः॥ हस्तिभूषिकवादित्रनिःस्वनैर्विषसंकटैः॥ पुरोवातोत्पलामोदमदनैर्वर्द्धते विषं॥ वर्षासु चांबुयोनित्वात्संक्लेदं गुडवद्गतं॥ विसर्पति घनापायेतदगस्त्यो हिनस्ति च॥ प्रयाति मंदवीर्यत्वंविषं तस्माद्वनात्यये॥ इति प्रकृतिसात्म्यर्तुस्थानवेगबलाबलं॥ आलोच्य निपुणं बुत्ध्या कर्मानंतरमारभेत्॥ श्लैष्मिकं वमनैरुष्णसूक्षतीक्ष्णैः प्रलेपनैः॥ कषायकटुतिक्तैश्च भोजनैः शमयेद्विपं॥ पैत्तिकं स्रंसनैः646सेकप्रदेहर्भूरिशी-तलैः॥ कषायतिक्तमधुरैर्घृतयुक्तैश्च भोजनैः॥ वातात्मकं जयेत्स्वादु स्निग्धाम्ललवणान्वितैः॥ सघृतैर्भोजनर्लेपैस्तथैव पिशिताशनैः॥ नाघृतं स्रंसनं शस्तं प्रलेपो भोज्यमौषधं॥ सर्वेषु सर्वावस्थासु विषेषु नाघृतोपमं॥ विद्यते भेषजं किंचिद्विशेषात्प्रबलेऽनिले॥ रक्तजे स्रावयेद्रक्तं पित्तवच्च कियाक्रमः॥ दूषीविषे पुनः स्वस्थे पंचकर्माणि चाचरेत्॥गंडूपैः कवलैः प्राशैस्तीक्ष्णैः प्रधमनांजनैः॥ शिरोगतं प्रशमयेद्वि-षसंक्रमणैस्तथा॥ विषदुष्टकफस्रोतोरुद्धवायुर्मृतोपमः॥ यःस्यादसाध्यलिंगैश्च रहितस्तस्य योजयेत्॥ मूर्ध्नि काकपदं कृत्वा कल्कं चर्मकपोद्भवं॥ ध्यापनं चास्य कटभीजालिनीकटुकैर्हितं॥ आशये यस्य दोषस्य विषं तिष्ठति तं पुरः॥ आश्रयाश्रयिणोर्विद्दानविरोधेन साधयेत्॥ क्षारागदैः कफस्थाने स्थिते स्वेदसिराव्यधैः॥ पित्ते क्षौद्रपयोऽभ्यज्य पानसेकावगाहनं॥ स्वेदो वाताशये दघ्ना पानं च नतकुष्टयोः॥ क्षीरेण गुडगर्भेण मदनस्य फलेन च॥ आस्थापनं प्रयुंजीत वाताशयगते विषे॥ पचेद्यष्टीमधुक्वाथेतैलं क्षीरचतुर्गुणं॥ त्रिफलासर्पवेतालीशतपुष्पेंदुराजिभिः॥ अनंतया च तत्पाननावनाभ्यंगबस्तिषु॥ भोजने च प्रणिहितं हंति वाताशयाद्विषं॥ बलया सोमराज्या वा पचेत्पाटलयाऽथवा॥ घृतमंडसमं तैलमनुवासनिकं परं॥ विषोपद्रवपथ्यं च वीक्ष्य युंज्याद्यथायथं॥ अयत्नाच्छ्लेष्मगं साध्यं यत्नात्पित्ताशयाश्रितं॥ सुदुःसाध्यमसाध्यं वा वाताशयगतं विषं॥ इति विषप्रतिषेधो नाम चत्वारिंशोऽध्यायः॥ ४०॥
अथातः सर्पविषविज्ञानीयमध्यायं व्याख्यास्यामः॥ दिव्यभौमविभागेन द्विविधाः पन्नगाः स्मृताः॥ वासुकिस्तक्षकोऽनंतः सागरः सागरालयः॥ तथोपनंदनंदाद्याः समिद्धाग्निसमप्रभाः॥ दिव्या गर्जंति वर्षति द्योतंते द्योतयंति च॥ धारयंति जगत्सर्वं कुर्युः क्रुद्धाश्च भस्मसात्॥ हृङ्निश्वासैर्नमस्तेभ्यो न तेष्वस्ति चिकित्सितं॥ दर्वीकरा647 मंडलिनो राजीमंतश्च पन्नगाः॥ त्रिधा समासतो भौमा विद्यंते ते त्वनेकधा॥ व्यासतो योनिभेदेन नोच्यंतेऽनुपयोगतः॥ विशेषाद्रूक्षकटुकमम्लोष्णं स्वादुशीतलं॥ विषं दर्वीकरादीनां क्रमाद्वातादिकोपनं॥ तारुण्यमध्यवृद्धत्वे दृष्टिवातातपेषु च॥ विषोल्बणा भवंत्येते व्यंतरा648 ऋतुसंधिषु॥ रथांगलांगलच्छत्रस्वस्तिकांकुशधारिणः॥ फणिनः शीघ्रगलयः सर्पा दर्वीकराः स्मृताः॥ ज्ञेया मंडलिनो भोगे विविधैर्मंडलैश्चिताः॥ प्रांशवो ऽमंदगमना राजीमंतस्तु राजिभिः॥ स्निग्धाभिश्चित्रवर्णाभिस्तिर्यगूर्ध्वंच चित्रिताः॥ गोधासुतस्तु गौधेरो विषेदर्वीकरैः समः॥ चतुप्पाव्ह्यंतरान्विद्यादेतेषामेव संकरात्॥ व्यामिश्रलक्षणास्ते हि सन्निपातप्रकोपनाः॥ दिव्यको ऽजगरः सर्पः प्रतापो वृक्षशायिकः॥ शकली पुष्पकः क्षोरी लसिनी सारसाहिकः॥ वर्षाहिको ज्योतिरथः शुकपत्रो बलाहकः॥ गजभक्षः प्लवोद्वाही निर्विषाःषोडशाहयः॥ प्रायेणर्तुमती मासंज्येष्ठं तिष्ठति पन्नगी॥ आषाढे सर्पसंयोगादंडानां मासि कार्तिके॥ द्वेशतेविंशती द्वे च सा सूते तत्र जायते॥ कर्केतनसवर्णेंऽडे समुद्भिन्ने भुजंगमः॥ दीर्घलोहितराजीभिश्चित्रे योपिन्नपुंसकं॥ शिरीषपुष्पसदृशे दंष्ट्राः सर्पस्य सप्तमे॥ चतस्रः संभवंत्यन्हि विषंतासु चतुर्दशे॥ वामाधोत्द्यसितापीतातदूर्ध्वादक्षिणात्वधः॥ रक्त श्यावोत्तरैकद्वित्रिचतुर्विषबिंदुकाः॥ ताः क्रमान्मुद्गमात्राऽनुबिंदु-रेखा तु भोगिनां॥ व्यधकल्पेन चान्येषां विद्याद्दंष्ट्रास्तथाऽपराः॥ चत्वारिंशद्भुजंगस्यनिर्विषाश्चतुरुत्तराः॥ आयुर्वर्षशतं विंशं पंचवर्षशतायुषः॥ गोनसो धर्मतप्तानां ते गवां नाशकोद्भवाः॥ तत्रोर्ध्व-दृड्महाकायनेत्रजिह्वाशिरः स्वरः॥ व्यक्तभोगः पुमान्धीरः स्त्री स्यात्तस्माद्विपर्यये॥ आयता चपला क्लीबःसुकुमारो जडाकृतिः॥ मंदबेगस्वनक्रोधः स्तब्धांगस्तिर्वशीर्षकः॥ दिनत्रियामासंध्यासु प्र-बलास्ते यथाक्रमं॥ तदैव चापराध्यंति सर्वदैव च पन्नगी॥ ब्राह्म-णाः क्रोधना नीलकपिलाः श्वेतलोहिताः॥ रक्तास्याः पिंगनयना मध्यदेशविचारिणः॥ भोगे यज्ञोपवीतानि हिजचिन्होपचिन्हिताः॥ बिल्वपुष्पहिमोशीरपद्मगुग्गुलुगंधयः॥ क्षत्रिया मानिनो धीरा रक्ताक्षा भृशकोपनाः॥ पक्वजांबवखर्जूरद्राक्षाभिन्नांजनप्रभाः॥ भोगेऽर्द्धचंद्रश्रीवत्सशंखचक्रलांकिताः॥ जातीचंपकपुन्नागपन्नजोंगकगंधयः॥ वैश्या पारावताभासा वज्रगोमेदसप्रभाः॥ बिंदुमंडलचित्रांगा धूमपाटललोहिताः॥ वस्तकुष्टाविकक्षीरसर्पिपां गंधतः समाः॥ शूद्राः सवर्णा गोधूममाहिषद्विपकर्दमैः॥ बिंदुरेखाचिता रूक्षाः सुराशोणितगंधयः॥ पूर्वमध्पापराण्ह्वेषु चरंति ब्राह्मणादयः॥ अस्तंगते रवौ शूद्रा दशंति ब्राह्मणाः पुनः॥ संस्थिता दक्षिणे पार्श्वे क्षत्रिया वामतो विशः॥ शूद्रास्तु पृष्ठतो विप्रास्त्रीनप्यनि लपूर्वकान्॥ कोपयंति क्रमाद्दोपांस्त्रींस्त्रयः क्षत्रियादयः॥ दंशाअप्यंगगंधेन ज्ञेयास्तेषां यथायथं॥ वायुमूषकमंडूकसर्वभक्षाः क्रमेण तु॥ आहारार्थं भयात्पादस्पर्शादतिविषा क्रुधः॥ पापवृत्तितया वैराद्देवर्षियमनोदनात्॥ दशंति सर्पास्तेषूक्तं विषाधिक्यं यथोत्तरं॥ आदिष्टात्कारणं ज्ञात्वा प्रतिकुर्याद्यथायथं॥ व्यंतरः पापशीलत्वान्मार्गमाश्रित्य तिष्ठति॥ यत्र लालापरिक्लेदमात्रं गात्रेषुदृश्यते॥ न तु दंष्ट्राकृतं दंशं तत्तुंडाहतमादिशेत्॥ एकं दंष्ट्रापदं हे वा व्याली ढाख्यमशोणितं॥ दंष्ट्रापदे सरक्ते द्वे व्यालुप्तंत्रीणि तानि च॥ मांसच्छेदादविच्छिन्नरक्तवाहीनि दष्टकं॥ दंष्ट्रापदानि चत्वारि तद्वद्द-ष्ट्रानिपीडितं649॥ निर्विषंद्वयमप्याद्यमसाध्यं पश्चिमं650 वदेत्॥ विषंनाहेयमप्राप्य651 रक्तं दूषयते वपुः॥ रक्तमण्वपि तु प्राप्तं वर्द्धते तैलमं-बुवत्॥ भीरोस्तु सर्पसंस्पर्शाद्भयेन कुपितोऽनिलः॥ कदाचित्कुरुतेशोफंसर्पपाभिहतंहि तत्॥ दुर्गंधकारे विद्धस्य केनचिद्दष्ट-शंकया॥ विषोद्रेको ज्वरश्छार्दिर्मूर्च्छादाहोऽपि वा भवेत्॥ ग्लानिर्मोहोऽतिसारो वा तच्छंकाविषमुच्यते॥ दंशस्तु सविषःसर्वः सशोफो वेदनान्वितः॥ तुद्यते प्रथितः किंचित्कंडूमान् दत्द्यते भृशं॥ निर्विषो विपरीतोऽस्मात्तत्र दंशः फणावतः॥ कूर्मपृष्ठोन्नतो रूक्षः सूक्ष्म
दंष्ट्रापदोऽसितः॥ विकारः श्यावता वक्रनखमूत्राक्षिविट्त्वचा॥ शीतज्वरः संधिरुजा निद्रानाशो विजृंभता॥ मन्यास्तंभः सिराध्मानं पृष्टकट्यस्थिवाग्ग्रहः॥ शिरोगुरुत्वमरुचिः कासश्वासौ हनुग्रहः॥ शूलमुद्वेष्टनं कोष्ठे शोपरोधौमलाशये॥ संदिग्धवाक्त्वं नैश्चेष्ट्यं मृतस्येवविसंज्ञता॥ फेनलालोद्वमो हिध्माकंठेखुरखुरायनं॥ शुष्कोद्गारो मुहुश्चैतोवातजाश्चापरे गदाः॥ दंशो मंडलिनां सोप्मा सशोफः पीतलोहितः॥ पृथ्वीसर्पदाहोपाक्लेदःकोथोऽति शीर्यते॥ विकारा दंतवक्रादिपीतता तृट् श्रमो भ्रमः॥ दाहो मूर्च्छा ज्वरस्तिक्तवक्रत्वं पीतदर्शनं॥ रक्तागमनमूर्ध्वाधः शीतेच्छा धूपनं मदः॥ आशु सर्वांगविकृतिर्गदास्त्वेते च पित्तजाः॥ दंशो राजीमतां स्निग्धः स्थिरः पिच्छिलशोफवान्॥ सांद्रःसुशिशिरः पांडुस्तद्विकाराः शिरोव्यथा॥ अरुश्चश्छर्दिरालास्यंउल्लासोमधुरास्यता॥कंठः खुरखुरः कोठःकंडूरुक्षाहिमो ज्वरः॥ कृच्छ्रादुच्छ्वसनं निद्रा कासः श्वेतनखादिता॥ स्तंभो गुरुत्वं चांगानां नासिकाक्षिमुखस्रुतिः॥ रोमहर्षस्तनुश्वासो रोगाश्चान्ये कफोद्भवाः॥ व्यंतरे मिश्रलिंगत्वं दष्टः पुंसोर्ध्वमीक्षते॥ उत्क्षिपेद्दक्षिणं पादं पूर्वकायसमुद्यतः॥ धीरोऽल्पवेगः शर्वर्या विपरीतस्तु योषिता॥ हीनस्वरोऽतिसारार्तः कंपते त्रस्यते ज्वरी॥ नपुंसकेन तिर्यक्त्वं धीरस्तु प्रियमैथुनः॥ बहुवादी च वृद्धेन चिरान्मंदा च वेदना॥ वालेन शीघ्रंतीव्राश्च कुमारेणाक्ष्णिदक्षिणे॥ रागः कुमार्या वामे तु गर्भिण्या कृष्णजिह्मदृक्॥ जृंभा कोषोपजिव्हार्तः सशृनोष्ठःसिताननः॥ गुरुदरः शिरोरोगी सूतादष्टस्तु मेहति॥ शोणितं कुक्षिशूलार्तः सूचीभिरिव भिद्यते॥ वेगानां रक्तमांसाद्याः सप्तोक्ताः पूर्वमाश्रयाः॥ पूर्वे दर्वीकृतां वेगे दुष्टं श्यावोभवत्यसृक्॥ श्यावता तेन वक्रादौ सर्पतीव च कोटकाः॥ द्वितीये ग्रंथयो वेगे तृतीये मूर्द्धगौरवं॥ दृग्रोधो दंश
विक्लेदश्चतुर्थे ष्ठीवनं वमिः॥ संधिविश्लेषणं तंद्रा पंचमे पर्वभेदनं॥ दाहो हिध्माच षष्ठे च हृत्पीडा गात्रगौरवं॥ मूर्च्छा विपाकोऽतीसारः प्राप्यशुक्रं तु सप्तमे॥ स्कंधपृष्ठकटीभंगः सर्वचेष्टानिवर्त्तनं॥ अथ मंडलिदष्टस्य दुष्टं पीतीभवत्यसृक्॥ तेन पीतांगता दाहो द्वितीये श्वयथूद्भवः॥ तृतीये दंशविक्लेदः स्वेदस्तृष्णा च जायते॥ चतुर्थे ज्वर्यते दाहः पंचमे सर्वगात्रगः॥ दष्टस्य राजिलैर्दुष्टं पांडुतां याति शोणितं॥ पांडुता तेन गात्राणां द्वितीयेगुरुताऽति च॥ तृतीये दंशविक्लेदनासिकाक्षिमुखस्रवं॥ चतुर्थे गरिमा मूर्ध्नो मन्यास्तंभश्चपंचमे॥ गात्रभंगो ज्वरः शीतः शेषयोः652 पूर्ववद्वदेत्॥ कुर्यात्पंचसु वेगेषुचिकित्सांन ततः653 परं॥ जलाप्लुता रतिक्षीणा भीता नकुलनिर्जिताः॥ शीतवातातपत्याधिक्षुत्तृष्णापरिपीडिताः॥ तूर्णं देशांतरायाता विमुक्तविषकंचुकाः॥ कुशौषधीकंटकवद्ये चरंति च काननं॥ देशं च दिव्याध्युषितं सर्पास्तेऽल्पविषा मताः॥ श्मशानचैत्यव-ल्मीकयज्ञाश्रमसुरालये॥ चतुष्पथे जलस्थाने जीर्णोद्याने तु कोटरे॥ क्षीरिद्रुमे निंबतरौ निर्झरे गिरिगव्हरे॥ चक्रवज्रगदाकुंतत्रिशूलांकजटाधराः॥ रक्तास्वनयना ये च ते स्युराशीविषोपमाः॥न तेषां कालनियमो न च वेगेष्वनुक्रमः॥ मंत्रतंत्रबलान्नापि प्रसत्द्य विनिवर्त्तनं॥ उपहारनमस्कारजपशांतिपरायणः॥ कश्चिज्जीवति तैर्दष्टो विरूपो विकलोऽपि वा॥ श्मशानचितिचैत्यादौ पंचमीपक्षसंधिषु॥ अष्टमीनवमीसंध्यामध्यरात्रिदिनेषु च॥ याम्या654ग्नेयमघा655श्लेषाविशाखापूर्वनैर्ऋते656॥ नैर्ऋताख्ये657 मुहूर्ते च दष्टं मर्मसु च त्यजेत्॥ दष्टमात्रः सितास्याक्षः शीर्यमाणशिरोरुहः॥ स्तब्धजीव्हो मुहुर्मूर्च्छन् शीतोच्छ्वासो न जी
वति॥ हिध्मा श्वासो वमिः कासो दष्टमात्रस्य देहिनः॥ जायते युगपद्यस्यसत्दृच्छूलीन जीवति॥ वेपथुर्वेदनास्तीव्राग्रीवाभंगा-क्षिरक्तताः॥ मूर्च्छा गलग्रहश्छार्दःप्रेतराजस्य किंकराः॥ जांबवप्रतिमो दंशः कूर्मपृष्ठवदुन्नतः॥ रक्तं खेभ्यः समस्तेभ्यो वर्त्तते न तु दंशतः॥ रोमहर्षो न शिशिरैः श्वयथुहितासितः॥ हृष्टमेहनता वक्रवक्रत्वंयस्य तं त्यजेत्॥ फेनं वमति निःसंज्ञः श्यावपादकराननः॥ नासावसादो भंगोंऽगे विड्भेदः श्लथसंधिता॥ विषपीतस्य दष्टस्य दिग्धेनाभिहतस्य च॥ भवंत्येतानि रूपाणि संप्राप्ते जीवित-क्षये॥ न नस्यैश्चेतना तीक्ष्णैर्न क्षतात्क्षतजागमः॥ दंडाहतस्य नो राजिः प्रयातस्य यमांतिकं॥ अतोऽन्यथा तु त्वरयाप्रदीप्तागारवद्भिषक्॥ रक्षन्कंठगतान्प्राणान्विषमाशु शमं नयेत्॥ इति सर्पवि-षविज्ञानीयो नामैकचत्वारिंशोऽध्यायः॥ ११॥
अथातः सर्पविषप्रतिषेधं व्याख्यास्यामः॥ मात्राशतं658 विषं स्थित्वा दंशे दष्टस्य देहिनः॥ देहं प्रक्रमतेघातून्रुधिरादीन्प्रदूषयेत्॥ एतस्मिन्नंतरे कर्म दंशस्योत्कर्तनादिकं॥ कुर्याच्छीघ्रंतथा देहे विषवल्ली न रोहति॥ दष्टमात्रो दशेदाशु तमेव पवनाशनं॥ लोष्टं महीं वा दशनैश्छित्त्वा चानु समंभ्रमं॥ निष्ठीवनेममालिंपेदृंश कर्णमलेन वा॥ दंशस्योपरिबव्रीयादग्विष्टांचतुरंगुले॥ क्षौमादिभिर्वेणि-कयासिद्धैर्मंत्रैश्चमंत्रवित॥ बंधो देशानुसारेण नातिगाढश्लथो हि-तः॥ दंशपूतित्वशोफादीन्कुरुते त्द्यतिपीडितः॥ अशक्तः शिथिलो रोद्धुं विषं देशांतरं व्रजेत्॥ अंबुवत्सेतुबंधेन बंधेन स्तभ्यते विषं॥ न वहंति सिराश्चास्य विषंबंधाभिपीडिताः॥ निष्पीड्यचोद्धरेदृंशं मर्मसंध्यगतं तथा॥ न जायते विषावेगो बीजनाशादिवांकुरः॥ मर्मगे प्राप्नुयान्मृत्युं संधिस्थे विकलांगतां॥ दंशं मंडिलिनां मुक्त्वा पित्त
लत्वात्तथा परं॥ प्रतप्तैर्हेमलोहाद्यैर्दहेदाशुल्मुकेन वा॥ करोतिभस्मसात् सद्यो वन्हिः किन्नाम तु क्षतं॥आचूपेत्पूर्णवक्रोवा मृद्भस्मागदगोमयैः॥ प्रच्छायांतररिष्टाया659 मांसलं तु विशेषतः॥ अंगं सहैव दंशेन लेपयेदगदैर्मुहुः॥ चंदनोशीरयुक्तेन सलिलेन च सेचयेत्॥ विषे प्रविसृते विध्येत्सिरां सा परमा किया॥ रक्तेनिर्न्हीयमाणे हि कृत्स्नंनिर्न्हियतेविषं॥ दुष्टे तु व्याप्नुवत्यंगं ध्रुवं मृत्युर्भवत्यु॥ सिराव्यधोदितैरस्रमप्रवृत्तं प्रवर्त्तयेत्॥ स्तंभयेदतिवृत्तं तु तैरेव प्रा़णरक्षया॥ दुर्गंधं सविषंरक्तमग्नौचटचटायते॥ यथादोषं वि-शुद्धं च पूर्ववल्लक्षयेदसृक्॥ सिरास्वदृश्यमानासु660 योज्याः शृंगजलौकसः॥ शोणितं स्रुतशेषं च प्रविलीनं विषोष्मणा॥ लेपसेकैः सुबहुशः स्तंभयेद्भृशशीतलैः॥ अस्कन्ने विषवेगाद्धि मूर्च्छायमदहृद्रवाः॥ भवंति तान् जयेच्छीतैर्वीजेच्चारोमहर्षतः॥ स्कन्ने तु रुधिरे सद्यो विषवेगः प्रशाम्यति॥ विषं कर्षति तीक्ष्ण-त्वात् हृदयं तस्य गुप्तये॥ विषेद्घृतं घृतक्षौद्रमगदं वा घृताप्लुतं॥ मज्जानं गोमयरसं भस्मांभःकृष्णमृज्जलं॥ ऐकध्यंपंचगव्यं वादधिगैरिकसारिवाः॥ खादेद्वाकोविदारार्कशिरीषकटभीच्छदान्॥ छागमेषवराहासृक् शिशुस्थविरयोपितः॥ पिबेयुगर्भिणी शीतमधुरान्पयसाऽगदान्॥ तथा मूर्च्छादयो न स्युर्विषं चाभ्येति नानिलं॥ हृदयावरणे चास्यश्लेष्मा हृद्युपचीयते॥ प्रवृत्तगौरवोत्क्लेशहृल्लासं वामयेत्ततः॥ द्रवैः कांजिककौलत्थेतैलमद्यादिवर्जितैः॥ वमनैर्विषहृद्भिश्चनैवं व्याप्नोति तद्वपुः661॥ भुजंगदोषप्रकृतिस्थानवेगविशेषतः॥ सुसूक्ष्मं सम्यगालोच्य विशिष्टां चाचरेत्क्रियां॥सिंदुवारितमूलानि रसेन स्वेन पेषयेत्॥ मधुयुक्तोऽयमगदःपानं दर्वीकृतां विषे
॥ सिंदुबारितमूलानि श्वेता च गिरिकर्णिका॥ पानं दर्वीकरैर्दुष्टे नस्यंमधु सपाकलं662॥ कृष्णसर्पेण दष्टस्य लिंपेद्दंशं हृतेऽसृजि॥ चारटीनाकुलीभ्यां वा तीक्ष्णमूलविषेण वा॥ पानं च क्षौद्रमंजिष्ठागृहधूमयुतं घृतं॥ तंदुलीयककाश्मर्यकिणिहीगिरिकर्णिकाः॥ मातुलुंगी सिता सेलुःपाननस्यांजनैर्हिताः॥ अगदः फणिनां घोरे विषे राजीमतामपि॥ समाः सुगंधा मृद्वीका श्वेताख्या गजमृत्तिका॥ अर्द्धांशं सौरसं पत्रं कपित्थं बिल्वदाडिमं॥ सक्षौद्रोमंडलिविषे विशेषादगदो हितः॥ पंचवल्कवरायष्टीनागपुष्पैलवालुकं663॥ जीवक-र्षभकौ शीतं सितापद्मकमुत्पलं॥ सक्षौद्रो हिमवान्नाम हंति मंडलिनां विषं॥ लेपाच्छ्यथुवी सर्पविस्फोटज्वरदाहा॥ काश्मर्यंवटशुंगानि जीवकर्षभकौसिता॥ मंजिष्ठा मधुकं चेति दष्टो मंडलिना पिबेत्॥ वंशत्वग्बीजकटुकापाटलीबीजनागरं॥शिरीषबीजातिर्विषे मूलं गावेधुकं वचा॥ पिष्टो गोवारिणा ऽष्टांगो हंति गोनसजं विषं॥ कटुकातिविषे कुष्टगृहधूमहरेणुकाः॥ सक्षौद्रव्योपतग-रा घ्नंति राजीमतां विषं॥ निखनेत्कांडचित्राया664 देशं यामद्वयं भुवि॥ उद्धृत्य प्रच्छितं सर्पिर्धान्यमृद्भ्यां प्रलेपयेत्॥ पिबेत्पुराणं च घृतं वराचूर्णायचूर्णितं॥ जीर्णेविरिक्तो भुंजीत यवान्नं सूपसंस्कृतं॥ करवीरार्ककुसुममूलांगलिकाकणाः॥ कल्कयेदारनालेन पाठामरि चसंयुताः॥ एष व्यंतरदष्टानामगदःसार्वकार्मिकः॥ शिरीषपुष्पस्वरसे सप्ताहं मरिचं सितं॥ भावितं सर्पदष्टानां नस्यपानांजने हितं॥ द्विपलं नतकुष्टाभ्यां घृतक्षौद्रचतुष्पलं॥अपि तक्षकदष्टानांपानमेतत्सुखप्रदं॥गृहधूमं हरिद्रेद्वे समूलं तंदुलीयकं॥ अपि वा
सुकिना दष्टः पिबेन्मधुघृताप्लुतं॥ रक्तं मांसं तु गोधायाः शुष्कं चूर्णीकृतं हितं॥ विषेरसगते पानं कपित्थरससंयुतं॥ सेलुवड्भूलपत्राणि बादरोदुंबराणि च॥ कटभ्याश्च पिबेद्रक्तगते मांसगते पुनः॥सक्षौद्रंखादिरारिष्टं कौटजं मूलमंभसा॥ सर्वेष्वपि बलायुग्मं मधुकं मदनं नतं॥ शिरोगते विषे मूलं नस्यकर्मणि योजयेत्॥बंधुजीवस्य भार्यां तु सुरसस्यासितस्य वा॥ अथवा पिप्पली हिंगु वृश्चिकाली मनःशिला॥शिरीषबीजापामार्गलवणं चेतनाकरं॥ कल्कश्चूर्णोऽथवा कृष्णाक्षव-कातिविषोषणात्॥ पिप्पलीमरिचक्षारवचासैंधवशिग्रुकात्॥ पिष्टो रोहितपित्तेन हंत्यक्षिगतमंजनात्॥ चंदनं मधुकं मांसी पिप्पली मरिचोत्पलं॥ सैंधवं चांजनं श्रेष्टं गवां पित्तेन कल्कितं॥ नक्तमालफलं व्योपं बिल्वमूलं निशाद्वयं॥ पुष्पं च सौरसं पिष्टमंजनं बस्तवारिणा॥ भोजवैतरणोद्दिष्टं विषसुप्तप्रबोधनं॥ वाजिगंधाफलोशीरं नेत्रयोर्विषसुप्तयोः॥ अंजनं वारिणा पिष्टं गारुडं गरुडोपमं॥समुद्रफेनमरिचकणासौवीरकांजनं॥ चूर्णांजनं ससिंधूत्थंविषोपहतचक्षुषां॥ कपित्थमांसं ससितक्षौद्रंकंठगते विषे॥लित्द्यादामाशयगते ताप्यचूर्णं फलं नतात्॥ पिबेत्पक्वाशयगते मंजिष्ठारजनीद्वयं॥ पिप्पलीच समं पिष्ट्वामत्स्यपित्तेन पाययेत्॥ पिप्पलीनागरं क्षीरं नवनीतेन मूर्च्छितं॥ प्रवृद्धे कंठगे दद्याच्छेषाणि प्रतिसारयेत्॥ जयेत्संक्रमणैश्चाशु विषं शिरसि संश्रितं॥ दद्यादधस्तद्दष्टस्य मूर्ध्नि काकपदेकृते॥ काकपक्षशिखिच्छागगव्यमाहिषकौक्कुटं॥ बिल्वप्रमाणं मांसासृड्भूध्निंदष्टस्य पादयोः॥विषं संक्रमतेतत्र निहन्याच्छीग्रमन्यथा॥ तीक्ष्णनस्यांजनांते च श्रृरिमात्रंपिबेहृतं॥ विषं हि नेत्रं रुक्षस्य तोक्ष्णैर्हंति समीरितं॥ वामयेत ततश्चैनं विषशेषशांतये॥ श्लेष्मलं श्लेष्मलैर्दृष्टंविशेषतः॥ धामार्गवः शकयदाः सर्पपा मदनं मधु॥ सैंधवंवमनं कोष्णंविषेश्लेष्मशयाश्रिने॥ मुग्नं
सर्पवेतालीमीश्वरीं गौरसर्पपं॥ पटोलनिंबपत्रं च पिबेत्सक्षौद्रसैंधवं॥ शुकाव्हाजालिनी दंती मदनेक्ष्वाकुकौटजं॥ काला लांगलिंका तिक्ता वमनं तंदुलांबुना॥पैत्तिकं पैत्तिकैर्दष्टमधोनाभेर्विशेषतः॥ विषेपित्ताशयगते पाययेत विरेचनं॥ सनीलिनीफलां दंतीं पयसा मस्तुनाऽथ-वा॥ श्लक्ष्णचूर्णीकृतं कुंभं क्वाथेन त्रिफलेन वा॥ क्षारेण च त्रिवृ-च्छ्यामासुरसानीलिनीरजः॥ पिंडीतकफलं व्योपं त्रिवृद्वेल्लंहरीत-कीं॥ विरेचनं कफप्राये लवणं मूत्रसंयुतं॥ घृताप्लुतं सलवणं मारुते नीलिनीफलं॥ शयानः शयने छिद्रे विरेच्यो विषपीडितः॥ मुहुरुत्तिष्ठते द्यस्य विषं दूषयतेऽनिलं॥ पिबेद्वांतो विरिक्तो वा यवागूं विषनाशिनीं॥ विषेवाताशयगते सर्पिपा पानमिष्यते॥ आद्यपश्चिमयोर्यच्चप्रोक्तं विषनिषेधयोः॥ अथ दर्वोकृतां वेगे पूर्वे विस्राव्य शोणितं॥ अगदं मधुसर्पिर्भ्यांसंयुक्तं त्वरितं पिबेत्॥ द्वितीये वमनं कृत्वा तद्वदेवागदं पिबेत्॥ विषापहे प्रयुंजीत तृतीयेंऽजननावने॥ पिबेच्चतुर्थेपूर्वोक्तां यवागूं वमने कृते॥ षष्टपंचमयोः शीतैर्दिग्धं सिक्तमभीक्ष्णशः॥ पाययेद्वमनं तीक्ष्णं यवागूं च यथोदितां॥ अगदं सप्तमे तीक्ष्णं युंज्यादंजननस्ययोः॥ कृत्वाऽवगाढं शस्त्रेण मूर्ध्नि काकपदं ततः॥ मांस सरुधिरं तत्र चर्म या तत्र निक्षिपेत्॥ तृतीये वमितः पेयां वेगे मंडलिनां पिबेत्॥ अतीक्ष्णमगदं665 षष्ठे गणं वा पद्मकादिकं॥आद्येऽवगाढं प्रच्छाय वेगे दष्टस्य राजिलैः॥ अलाबुना हरेद्रक्तं पूर्ववच्चागदं पिबेत्॥ षष्ठेंऽजनं तीक्ष्णतममवपीडं च योजयेत्॥ अनुक्तेषु च वेगेषु क्रियां दर्वीकरोदितां॥ गर्भिणीबालवृद्धेषु666 मृदुं विध्येत्सिरां न च॥ त्वड्भनोव्हानिशे वक्त्रं667रसः शार्दूलजो नखः॥ तमालःकेसरं शीतं पीतं तंदुलवारिणा॥हंति सर्वविषाण्येतद्वज्रिवज्रमिवासुरान्॥ प्रपौडरीकं कटुका देवदारु सुवर्चिका॥ कालानुसारी स्थौणेयशैलेयघनपद्मकं॥ कुटन्नटैलापुन्नागनतकुष्टमियंगुकं॥ रोधगुग्गुलुतालीसपिप्पलीस्वर्णगैरिकं॥ सिंदुपारसितागुंठीध्यामकं लवणोत्तमं॥ सूक्ष्मचूर्णीकृतं शृंगे निदध्यान्माक्षिकान्वितं॥ तार्क्ष्यस्तार्क्ष्योपमः पाननावनाभ्यंजनांजनैः॥ अगदस्तक्षकस्यापि विषवेगं निवर्त्तयेत्॥ रोध्रंशिरीषपुष्पाणि समंगा सहरेणुका668॥ कणोषणालनेपालीवचायष्टीमधूत्पलं॥ सिंदुवारीतमंदारमूलं वीजं करंजजं॥ ज्योतिष्मती नतं कुष्टं श्वेता च गिरिकर्णिका॥ चूर्णितः कन्यया क्षौद्रगोपित्ताभ्यां च वर्तितः॥ अगदो हंतिसर्पाखुकणभुक्श्वशृगालजं॥ बिडालकांडचित्रोत्थं विषंभूतज्वरं ग्रहं॥ अपस्मारगदोन्मादगुल्माजीर्णविसूचिकाः॥ शिरोक्षिकर्णशूलं च राजद्वारे च शस्यते॥ बिल्वस्य मूलं सुरसस्य पुष्पं फलं करंजस्य नतं सुराव्हं॥ फलत्रिकं व्योपनिशाद्वयंच वस्तस्य मूत्रेण सुसूक्ष्मपिष्टं॥ भुजंगलूतोंदुरुटश्चिकाद्यैर्विसूचिकाऽजीर्णगरज्वरैश्च॥ आर्त्तान्नरान्भूतविधर्पितांश्च स्वस्थीकरोत्यंजनपान नस्यैः॥ त्रिवृद्विशल्या मधुकं निशे लवणपंचकं॥ मंजिष्ठा त्र्यूषणं तद्वत्कल्कयेत्स महागदः॥ मांसीहरेणुत्रिफलासुरंगीमधुयष्टिका॥ पद्मकाशोकपुन्नागकुष्ठतालीसचंदनं॥ सुगंधकैला किणिही त्वक्पटोली मुगादनी॥ भार्ङ्गीविडंगं पालिंदी पाठा कोष्टुकमेखला॥ पुष्पमारुष्करं पत्रं सौरसं कटुकंनतं॥ पित्तं नकुलमार्जारगोधाशल्यकसूकरात्॥ पृपताच्चित्रपत्राच्चगोशृंगे पूर्ववत्स्थितं॥ यत्र गेहे न तत्राहिकीटादिभ्यो भयोद्भवः॥ एतेन भेरीपटहाः पताकाश्च प्रलेपिताः॥ आर्षभेण669 विषं घ्नंति स्पर्शश्रवणदर्शनैः॥ प्रलेपाद्यैश्च निःशेषं दंशादप्युद्धरेद्विषं670॥ श्रूयो बे
गाय जायेत शेषंदूषीविषाय वा॥ विषापायेऽनिलं671 क्रुद्धं स्नेहादिभिरुपाचरेत्॥ तैलमद्यकुलत्थाम्लवर्ज्यैः पवननाशनैः॥ पित्तं पित्तज्वरहरैः कषायस्नेहवस्तिभिः॥ समाक्षिकेण वर्गेण कफमारग्वधादिना॥ सिता वैगंधिको द्राक्षा पयस्या मधुकं मधु॥ पानं समंत्रपूतांबुप्रोक्षणं सांत्वहर्षणं॥ सर्पगाभिहते युंज्यात्तथा शंकाविषा-र्दिते॥ पूतनाप्रेतकूष्मांडपिशाचाद्या नरद्दिषः॥ निहंत्यौषधिवी-र्याणि रक्षाकर्माण्यथाचरेत्॥ तस्माद्रक्षां प्रयुंजीत रक्षोगणनिवारिणीं॥ गोमयेन सुसंमृष्टे धूपागुरुसुधूषिते॥गंधमाल्योपहाराद्यैर्गुरुपूजितदैवते॥सूत्रकारान्समभ्यर्च्यं शंकरास्तिककश्यपात्॥ संतर्प्य हव्यकव्याभ्यां समिद्धाननलद्विजान्॥ प्राङ्मुखायोपविष्टाय विषार्त्ताय चिकित्सकः॥उत्तराभिमुखो युंज्यात्सिद्धमंत्रादि भेषजं॥ समप्रमाणैर्हरितैर्दर्भैःप्रागभिमंत्रितैः॥अच्छिन्नाग्रैःसमूलैश्चकुर्यात्तस्यापमार्जनं॥ ब्रह्माद्यैरगदैरेनं नित्यमेवानुलेपयेत्॥ संजीवनादीन् पानादौ दंशलेपे च योजयेत्॥ पूर्णकुंभं सकुसुमं सर्पपांश्च गले सितान्॥ शस्तं दूर्वामधु-घृतं कुर्याद्दष्टस्य मूर्द्धतः॥ एवं शाम्यति सप्ताहाद्विषमात्मवतां सदा॥ कर्केतनं मरकत वज्रं वारणमौक्तिकं॥ वैदूर्यं गर्दभमणिं पिचुकं विषभूषिकां॥ हिमवद्विरिसंभूतां सोमराजींपुनर्नवा॥ तथा द्रो-णां महाद्रोणां मानसीं सर्पजं मणिं॥ विषाणि विषशांत्यर्थं वीर्यवंति च धारयेत्॥ छत्री झर्झरपाणिश्च घरेद्रात्रौविशेषतः॥ तच्छायाशब्दवित्रस्ताः672 प्रणश्यंति भुजंगमाः॥ इति सर्पविषप्रतिषेधो नाम द्विचत्वारिंशोऽध्यायः॥ १२॥
अथातः कीटविषविज्ञानप्रतिषेधं व्याख्यास्यामः॥सर्पाणामेव विमूत्रशुकांडशवकोथजाः॥दोषैर्व्यस्तैःसमस्तैश्चयुक्ताः कीटाश्चतुर्वि
धाः॥ कुंभीनसस्तुंडिकेरी शृंगी शतकुलीरकः॥ उच्चिटिंगोऽग्निनामाचचिंच्चिटांगो मयूरकः॥ अहिजोरभ्रकावर्त्तसारिकामुखवैदलाः॥ शरावकुर्दौपरुषश्चित्रशीर्षोऽहिजारिकः॥ अष्टादशैते वायव्या कीटा वायुप्रकोपनाः॥ कौंडिन्यकः कणभको वरटी पत्रवृश्चिकः॥ विनामिका ब्राह्मणिका विदुलो भ्रमरस्तथा॥ बाद्यकः पिञ्चकः कुंभी वर्चः कीटो ऽरिमेदकः॥ दुंदुभः पद्मकीटश्च मकरः शतपादकः॥ पं-चालः पाकमत्स्यश्च सूक्ष्मतुंडोऽथ गर्दभिः॥ क्लीतः कृमिसरावी च य श्चाप्युत्क्लेशकः स्मृतः॥ चतुर्विंशतिराग्नेयाः कीटाः पित्तविकारदाः॥ विश्वंभरः पंचशुक्लःपंचकृष्णोऽथ पौंडकः॥ शीर्यकः प्रचलाकश्च वटभाःकिटिभोजटी॥ सूचीमुखः कृष्णगोधा दभ्रःकाषायवासिकः॥ त्रयोदशैते निर्दिष्टाः कीटाः श्लेष्मप्रकोपनाः॥ भृंगीलसो वलिभकः शूलको वाहकस्तथा॥ कोष्टकारी कृमिकरो यश्च मंडलपुष्पकः॥ तुंडनाभः सर्पपको सर्पपी शंबुकस्तथा॥ अग्निकीटश्च संकीर्णा द्वादश प्राणनाशनाः॥ दृष्टस्य कीटैर्वायन्यैर्दंशस्तोदरुजोल्बणः॥ आग्नेयैरल्पसंस्रावोदाहरागविसर्पवान्॥ पक्वपीलुफलप्रख्यः खर्जृ रसदृशोऽथवा॥ कफाधिकैर्दंरुजः पक्वोदुंबरसन्निभः॥ स्रावाढ्यः सर्वलिंगस्तु दंशः673 स्यात्सान्निपातिकैः॥ वेगाश्च सर्पवच्छोफो वर्द्धिष्णुर्विस्ररक्तता॥शिरोक्षिगौरवं मूर्च्छा भ्रमः श्वासोऽतिवेदना॥ सर्वेषां कर्णिकाशोफोज्वरः कंडूरोचकः॥ वातिकः पक्षवातेन स्पर्शाद्दशति पैत्तिकः॥ मुखेन लैष्मिकः कीःसर्वथा सान्निपातिकः॥ दष्टस्य कणभैःशोफोविसर्पो वमथुर्ज्वरः॥ दंशश्चकर्णिकाकारः श्यावरक्तो विशीर्यते॥ त्रिकंटकैस्तु दृष्टस्य नानावर्णोऽथवाऽसितः॥ दंशो भवेच्छ्वपथुमान्मोहो भेदश्च वर्चसः॥ काक्व
कल्कितः॥ मधु त्रिकटुकं श्वेता भिंडामूलं च मत्स्यजे॥ वचां वंशत्वचं पाठां नतं सुरसमंजरीं॥द्वे बले नाकुलीं कुष्टं शिरीषंरजनीद्वयं॥ गुहामतिगुहां श्वेतामजगंधां शिलाजतु॥ कट्तृणं कटभीक्षारं गृहधूमं मनःशिलां॥रोहीतकस्य पित्तेन कल्कयेत्स परो ऽगदः॥ विश्वंभरादिष्वालेपनावनांजनपाननः॥ स्वर्जिकाजशकृ-त्क्षारः सुरसः साक्षिपीडकः॥ मदिरामंडसंयुक्तो हितः शतपदीविषे॥ कपित्थसिक्थपिंडार्कक्षीरं त्रिकटुकान्वितं॥ करंजं द्वे हरिद्रे च गृहगोधीविषापहः॥ काकांडयुक्तः सर्वेषां विषाणां तंदुलीयकः॥ प्रशस्तो बहिर्णांऽडेन तद्वदायसपीलुकः॥ तगरं नागरं नागकेसरं मरिचानि च॥ प्रयुक्तं पाननस्याभ्यां मक्षिकाविषनाशनं॥ सितासिते च लवणे मरिचं च सनागरं॥ फणिज्जकरसोपेतं वरटीनां विषापहं॥ सद्यो वृश्चिकजंदंशं चक्रतैलेन सेचयेत्॥ विदारिगंधासिद्धेन कवोष्णेनेतरेण वा॥ लवणोत्तमयुक्तेन सर्पिपावा पुनःपुनः॥सिंचेत्कोष्णारनालेन सक्षीरलवणेन वा॥ उपनाहो घृते भृष्टः कल्को ऽजाज्याः ससैंधवः॥ आदंश स्वेदितं चूर्णैः प्रच्छाय प्रतिसारयेत्॥ रजनीसैंधवव्योपशिरीषफलपुष्पजैः॥ मातुलुंगाम्लगोमूत्रपिष्टं च सुरसाग्रजं॥ लेपः सुखोष्णश्च हितः पिण्याको गोमयोऽपि वा॥ पाने सर्पिर्मधुयुतं क्षीरं वा भूरिशर्करं॥ गुडोदकं वा सुहिमं चतुर्जातकवासितं॥ पलाशबीजसंयुक्तो लेपोऽर्कक्षीरभावितः॥ पारावतशकृत्पथ्यातगरं विश्वभेषजं॥ बीजपूररसोन्मिश्रं परमो वृश्चिकागदः॥ मनो-व्हा सैंधवं हिंगु मालतीपल्लवानि च॥ गोशकृद्रसपिष्टेयं गुलिका वृश्चिकार्दिते॥ लशुनो मरिचं हिंगु, सुरसं विश्वभेषजं॥ अर्कक्षीरेण गुलिका वृश्चिकार्दितशंकरी॥ ससैंधवोष्टदंष्ट्रा674 च हंति वृश्चिकजं विषं॥हिंगुना हरितालेन मातुलुंगरसेन च॥ लेपांजनाभ्यां गु
लिकाः परमं वृश्चिकापहाः॥ करंजार्जुनशेलूनां कटभ्याः कुटजस्य च॥ शिरीषस्य च पुष्पाणि मस्तुना दंशलेपनं॥ पिप्पलीं मरिचं यष्टीं श्वेतां सुरसमंजरीं॥ सहदेवीमपामार्गं तंदुलीयं च कल्कयेत्॥ कुंतलक्षारतोयेन लेपोऽलिविषनाशनः॥ यो मुत्द्यति प्रश्वसिति प्रलपत्युग्रवेदनः॥ तस्य पथ्यानिशाकृष्णा मंजिष्ठातिविषोपणं॥ सालाबुवृंतंवार्ताकरसपिष्टं प्रलेपनं॥ आदंश यस्य कंडूःस्यात्कोथः कुष्ठं च दारुणं॥ तस्यालेपस्त्रिकटुकं यवक्षारोऽक्षिपीडकः॥ पारावत-शकृत्कांतास्वर्जिकाग्निहरेणवः॥ रसेन मातुलुंगस्य क्षीरेणार्कस्यच द्रुतः॥ हृदयं पीड्यते यस्य मूर्च्छा चिमिचिमायनं॥ दंतौष्ठदंशो रोम्णां संहर्षस्तस्य निवर्त्तते॥ वेगो विषस्यपंचाहान्नैव वा क्रियया विना॥ तत्र कुर्वीत दंशस्य लेपनं मस्तुकल्कितैः॥ श्वेतपाटल्यतिविषाहरिद्राहरिणीनतैः॥ बिल्वमूलयवक्षारकुष्टमागधिकायुतैः॥ उद्धृत्यतइवादंशः शूनः क्लिन्नो हतच्छविः॥ जंबूफलमिवारक्तः कूजन्वमति चेष्टते॥इंद्रियार्थान्न जानाति प्रस्विद्यति च यो मुहुः॥ स्वर्जिकाकुष्टतगरनाकुलीपीलुपिप्पलीः॥ बृहतीं चाच्छसुरया तस्य पिष्ट्वाप्रलेपनं॥ सर्वत्र चोग्रालिविषे पाययेद्दधिसर्पिपी॥ विध्येत्सिरां विदध्याच्च वमनांजननावनं॥ उष्णस्निग्धाम्लमधुरं भोजनं चानिलापहं॥ नागरं गृहकपोतपुरीषंबीजपू-रकरसैर्हरितालं॥ सैंधवं च विनिहंत्यगदोऽयं लेपतोऽलिकुलजं विषमाशु॥ अंते वृश्चिकदष्टानां समुदीर्णे भृशं विषे॥ विषेण लेपयेद्दंशं स्थावरेण यथोदितं॥ क्रियेयमुच्चिटिंगेऽपि प्रतिलोमं च पांशुभिः॥ उद्वर्तनंमुखाम्लोष्णैस्तथा वाऽऽच्छादनं घनैः॥ कुटजस्य फलं कुष्टं मालनी जालिनी ननं॥ तिक्तेक्ष्याकुश्च पिष्टानि पानप्रधमनादिभिः॥वृश्चिकोंदुरुलूतानां सर्पाणां च विषापहं॥समानममृतेनेदं गराजीर्ण च नाशयेत्॥ अर्कस्य दुग्धेन शिरीषबीजं विर्भावितं पिप्पलिचूर्ण
मिश्रं॥ एषोऽगदो हँति विषाणि कीटभुजंगलूतोंदुरुदृश्चिकानां॥ शिरीषपुष्पं सकरंजबीजं काश्मीरजं कुष्टमनःशिले च॥ एषोऽगदो रात्रिकवृश्चिकानां संक्रांतिकारी कथितो जिनेन॥इति कीटविषवि-ज्ञानप्रतिषेधो नाम त्रयश्चत्वारिंशोध्यायः॥ १३॥
अथातो लूताविषविज्ञानप्रतिषेधं व्याख्यास्यामः॥ विश्वामित्राय रुष्टस्य वसिष्ठस्य ललाटजाः॥ स्वेदलेशाः स्मृता लूता लूने ये पतिता-स्तृणे॥ खांडवे दह्यमानानामसुराणां शरीरतः॥ याः स्फुलिंगा विनि-श्चेरुस्ता लूता इति केचन॥ अन्ये वदंति भुक्तस्य दुष्टस्यान्नस्यभोजनात्675॥ संभवंति विषस्फोटा ये लूताः कीटलक्षणाः॥ यथास्वं676 धा-रयंतस्ते लूताः कीटाश्च संज्ञिताः॥ तत्र घोरतरा लूता भिद्यंते ता अपि त्रिधा॥तीक्ष्णमध्यावरत्वेन घ्नंति चाश्वचिकित्सिताः॥ सप्ता-हेन दशाहेन पक्षेण च परं क्रमात्॥ कपिलाऽग्निमुखीपीता पद्मा मू-त्रा सिता ऽसिता॥ आग्नेयाः स्वेदजाः सप्त लूताः पित्तविकारदाः॥ रक्तपादाभृंगनीलापिंगलाभात्रिमंडलाः॥ पूतिगंधाभिधा लूता लू-ताश्च चिरमंडलाः॥ लूता वीरांडजाः सप्त सौम्याः श्लेष्मविकारदाः॥ कुमुदाऽलविषारक्ताश्चित्रासंतानिमेचकाः॥ कसना चोद्भिदाः सप्त वायव्या वायुरोगदाः॥ काकांड्येणपदी लाजा वैदेही जालिनी तथा॥ मालागुणा सवर्णा च मिश्राः सप्तोपपादुका॥ व्याप्नुवंत्याशु गा-त्राणि ज्वलत्पावकसन्निभाः॥ सन्निपातकतोऽसाध्याः साध्याः कृच्छ्रेण चेतराः॥ ता दशंति सिते पक्षे ऽसिते संधौ सदैव च॥ दंशः सामा-न्यतस्तासां दद्रुमंडलसन्निभः॥ सितोऽसितोऽरुणः पीतः श्यावो वा मृदुरुन्नतः॥ मध्ये कृष्णोऽथवा श्यावपर्यंतो जालकावृतः॥ विसर्प-वान् शोफयुतस्तप्यते बहुवेदनः॥ ज्वराशुपाकविक्लेदकोधावदरणा-न्वितः॥ क्लेदेन यत्स्पृशत्यंगं तत्रापि कुरुते व्रणं॥ श्वासदंष्ट्रा
शकृन्मूत्रशुक्रलालानखार्त्तवैः॥ अष्टाभिरुद्वमंत्येता विषं वक्त्रैर्विशेषतः॥ श्वासेन दंशः सहसा शूयते ज्वरदाहवान्॥ दंष्ट्राकृतस्तूग्रतरो विवर्णः कठिनः स्थिरः॥ गंभीरशोफवांस्तोदवेदनादाहसंयुतः॥ दुर्गंधः शकृता दाहकंडूचिमिचिमान्वितः॥ पच्यते चाशु पक्वश्च पांडुः पीलुफलोपमः॥ मूत्रेण रक्तपर्यंतो मध्ये कृष्णो विशीर्यते॥ आवर्त्तसदृशः शूनः पूतिः सर्पति दत्द्यते॥ शुक्रेण ग्रंथिसंस्थानः क-ठिनस्तीव्रवेदनः॥ अल्पमूलोऽल्परुक्कोचो लालया कंडुरो मृदुः॥ नखेन चोपः कुलकः कंडूधूमायनान्वितः॥ किंशुकोदरवर्णस्तु रजसा चंचुमालवान्॥ लूता नाभेर्दशंत्यूर्ध्वमूर्ध्वं चाधश्च कीटकाः॥ तद्दूषितं च वस्त्रादिदेहे पृक्तं विकारकृत्॥ दिनार्द्धंलक्ष्यते नैवं दंशो लूता-विषोद्भवः॥ सूचीव्यधवदाभाति ततोऽसौ प्रथमेऽहनि॥ अव्यक्तवर्णः प्रचलः किंचित्कंडूरुजान्वितः॥ द्वितीयेऽभ्युन्नतोंऽतेषु पिटिकैरिव चाचितः॥ व्यक्तवर्णोततो मध्ये कंडूमान् ग्रंथिसन्निभः॥ तृतीये सज्वरो रोमहर्षकृद्रक्तमंडलः॥ शरावरूपस्तोदाढ्योरोमकूपेषुसास्रवः॥ महांश्चतुर्थे श्वयथुस्तापश्वासभ्रमप्रदः॥ विकारान्कुरुने तांस्तान् पंचमे विषकोपजान्॥ षष्ठेव्याप्नोति रोमाणि सप्तमे हंति जीवितं॥ इति तीक्ष्णं विषंमध्यं हीनं च विभजेदतः॥ विषंशाम्यति सर्वासामेकविंशतिरात्रितः॥ दंशः पित्तात्मको दाहतृट्स्फोटज्वरमोहवान्॥ सशोफः कठिनः पांडुः कंडूमान् श्लैष्मिकोऽ-ल्परुक्॥ वातिकः परुषःश्यावः पर्वभेदातिरुक्करः॥ सर्पज्ञानोदितै-र्लिंगैर्दोषोद्रेकं च लक्षयेत्॥ त्रिदोषाः प्रायशो लूताः सर्वाः पित्तकफाधिकाः॥ प्राणांतिकीषुहृन्मोहश्वासहिध्माशिरोग्रहाः॥ श्वेताः पीताः सिताः रक्ताः पिटिकाः श्वयथूद्भवः॥ वेषथुर्वमथुर्दाहतृडांध्यं वक्रनासता॥ श्यावौष्ठवऋदंतत्वं पृष्ठग्रीवावभंजनं॥ पक्व-जंबूसवर्णं च दंशात् स्रवति शोणितं॥ अथाशु लूतादष्टस्य शस्त्रे
णादंशमुद्धरेत्॥ दहेच्च जांबवौष्ठाद्यैर्नतु पित्तोत्तरं दहेत्॥ कर्कशं भिन्नरोमाणं मर्मसंध्यादिसंश्रितं॥ प्रसृतं सर्वतो दंशं न छिंदीत दहेन्न च॥ लेपपेद्दग्धमगदैर्मधुसैंधवसंयुतैः॥ सुशीतैः सेचयेच्चानु कषायैः क्षीरिवृक्षजैः॥ सर्वतोऽपहरेद्रक्तं शृंगाद्यैः सिरया ऽपि वा॥ स्रुते रक्ते परीषेकः स्मृतः क्षीरादिभिर्द्रुतः॥ प्रपौंडरीकन्हीवेरसारिवोशीरजीवकाः॥ रोध्रचंदनजीवंतीमंजिष्ठासर्जवंजुलाः॥ मृणाल विसशैवालकुमुदोत्पलगैरिकाः॥ न्यग्रोधोदुंबराश्वत्थनिचुलप्लक्षवेतसाः॥ समंगापाटलीगुंद्राकाकोली सितपर्विकाः॥ शिरीषधातकी मूर्वाविदारीपद्मकं कुशाः॥ शृंगाटकं कोशवतीवायसीसोमराजयः॥मधुकांशुमतीदूर्वा यथालाभं समाहृतं॥ शस्तः पर्युषितो लेपः सघृतः पैत्तिके विषे॥ श्यामाद्वयनिशामुस्तानखरास्नामहासहाः॥ वासापत्तंगसुवहानाकुलीगिरिकर्णिकाः॥ सर्पगंधायवफलानिर्गुंड्यश्मंतकस्थिराः॥ शुकाख्यामहिषक्रांतकुष्ठेंद्रयवकुंकुमं॥ करवीरागुरुनतं सुगंधं सिंधुवारितं॥ आस्फोतगुंद्री च हितः प्रलेपः श्लैष्मिके विषे॥ बिंबीविदुलबंधूककोविदारयवासकाः॥ सुवहारिष्टकब्राह्मीगुडूचीबिल्वसैर्यकाः॥सिद्धार्थकादेवदारुविडंगानींद्रवारुणी॥ शतावरीलांगलकीराजवृक्षपुनर्नवाः॥ जीवंतीवायसीभार्ङ्गीकतकेंद्रयवार्जुनं॥ निशे व्याध्रपदी सिंहपुष्पीमंडलपर्णिका॥ श्वदंष्ट्राकोलबृहतीरेवतीश्वेतपुष्पिकाः॥ प्रपुन्नाटः कुरुबकः प्रलेपो वातिके विषे॥ सर्वत्रैव च शस्यंते बोधिश्लेष्मातकाक्षकाः॥ उदीर्णदोषान्बलिनो विषेमहति वामयेत्॥ काकांडकीकोशवतीरोध्रेंद्रयवसैंधवैः॥ पटोलीपत्रमरिचकरधाटप्रियंगुभिः॥ कृष्णाशुकनखानीपनिंबसप्ताव्हयष्टिभिः॥ विरेचयेच्च त्रिफलात्रिवृत्रिकटुसैंधवैः॥ मदंतीपूगमृद्विकाविडेंगैरथवापचेत्॥ एभिः पलांशकैः प्रस्थं समं ब्राह्मीरसं घृतात्॥ पंचमूलशृतं क्षीरं तोयं या शोधनौषधैः॥ यथास्वं कल्कितैर्युक्तं पृथग्दद्याद्वि
शोधनं॥ पिप्पलीपिप्पलीमूलशुंठींद्रयवसैंधवै॥ पाठाऽजमोदायष्ट्याव्हमुस्तासर्पपदारुभिः॥ लघुना पंचमूलेन लवणेन सुसाधिता॥ पेया संसर्जने योज्या सघृता विषनाशिनी॥ आध्मानहिध्माश्वासेषु पृष्ठग्रीवादिभंजने॥संकोचस्तंभकंपेषुशूलेष्वर्द्धावभेदके॥वातरोगेषु चान्येषुपर्वभेदार्दितादिषु॥ एरंडबिल्वसरलचिरविल्वार्कपाटलीः॥ शिग्रुपाठाकुशविषंविदुलं च जले पचेत्॥ कनीयः पंचमूलं च तस्मिन्मंद पचेद्घृतं॥ द्विगुणे तुल्यगोक्षीरे पिष्टैर्यष्टीनिशानंतैः॥ सुराव्हवेल्लसलशताव्हारोध्रगैरिकैः॥ पयस्याकुष्टगांयेयीकृष्णामदनकैः समैः॥ बस्तौ प्रत्यागतेऽश्नीयात् पंचमूलान्वितैरसैः॥ नावनं गौरवे शोफे लालास्रावे हनुग्रहे॥ गिरिकर्णीफलरसो बंधूकं किणिही सिता॥ षड्ग्रंथालशुनव्योपबृहतीवेल्लसैंधवैः॥ अपामार्गफलं भार्ङ्गीनाकुली सर्पगंधिका॥ संज्ञानाशे प्रधमनं भार्ङ्गीयुक्तैःप्रशस्यते॥ तिक्तालाबुफलव्योपवृहतीजालिनीफलैः॥ श्यामा यवफला बीजं फणिज्जकशिरीषयोः॥ वार्ताकरसपिष्टानि नस्यं विषहरंपरं॥ विरिक्तशिरसश्चास्य सर्पिर्मंडो ऽनुवासनं॥ नेत्रोपरोधश्वयथुकंडूनिद्रासमागमे॥वचामनोव्हात्रिकटुत्रिफलारोध्रगैरिकाः॥ शंखो नीलोत्पलं ताम्रंमुक्ताहेमप्रवालकं॥ जीवंती लशुनं कुष्टं कतकं मार्कवं नतं॥ प्रपौंडरीकं मधुकंकरंजफलसैंधवं॥निशे फणिज्जकं तुत्थं स्रोतोंजनरसांजने॥ मेषशृंग्याश्च कुसुमं पिष्टं गोवारिणांऽजनं॥ सुरसप्रसव्योपबिल्वमूलसुराव्हयं॥ हरिद्रा छागलीमूत्रं लूताकीटघ्नमंजनं॥शिरीषपद्मकोशीरपाटलीसिंदुवारितं॥ क्षीरशृंगीनतोदीच्यसारिवाकुष्टचंदनं॥ सेलुस्वरसपिष्टोऽयमगदो नावनांजने॥ पाने प्रलेपे सेके च लूतासु परमं हितं॥ पयस्यामधुमृद्विकाश्वदंष्ट्राक्षीरमोरटाः॥ गोजीविदारीयष्ट्यान्हामधुकानि च तद्गुणाः॥ तथा शिरीषकुसुमं चं
द्रलेखोद्भवं फलं॥ सुराला कटभी जातिः श्वेता च गिरिकर्णिका॥ तद्वच्च गुंजातगरकुष्टनागबलाबलाः॥ हरिद्रायुगुलं नागदंतीरोध्रं च शावरं॥ शिरीषपुष्पं तगरं सहदेवी शतावरी॥ पुनर्नवा नागबला सर्पगंधा कुटन्नटं॥ गवादनी दंतशठसोमवल्केन्दुराजयः॥ विषेषु सर्वेष्वगदः सक्षौद्रः सर्वकर्मकृत्॥ सर्पाक्षी चंदनं चक्रं मृगाक्षी गंधनाकुली॥ एला महासुगंधा च बस्तमूत्रेण कल्किताः॥ लेपे पाने च लूतासु नानेन सदृशोऽगदः॥ कटभीमूलतगरसमंगादेवदारुभिः॥ बृहतीगांगेयीरोचनाचंदनैर्घृतं॥ सिद्धं चतुर्गणे क्षीरे पानाभ्यंजनयोर्हितं॥ लूताकणभकीटानां विषेपरमदारुणे॥ निवृत्ते दाहशोफादौ कर्णिकां पातयेद्व्रणात्॥ कुसुमपुष्पं गोदंतः स्वर्णक्षीरी कपोतविट्॥ त्रिवृता सैंधवं दंती कर्णिकापातनं तथा॥ हरिद्रा गुग्गुलुः किण्वं वंशलेखः कपोतविट्॥ तद्वच्च सैंधवं कुटं दंती कटुकदौग्धिकं॥ राजकोशातकीमूलंकिण्वो वा मथितोद्भवः॥ कर्णिकापातसमये बृंहयेत्तं विषापहैः॥ ऋतुकालेषु लूतानां यावंतः शुक्रबिंदवः॥ देहे पतंति तावंत्यो जायंते कर्णिकाः समं॥ गोदंतदंती त्रिवृता हरिद्रेसैंधवं तिलाः॥ मधुकं निंबपत्राणि घृतं च व्रणशोधनं॥ कांताबिडंगखदिरनिंबकंपिल्लकांबुदैः॥ सर्जैलाघातकीलोहैः सिद्धं सर्पिर्व्रणापहं॥शिरीषकटभीसेलुक्षीरिवृक्षार्जुनत्वचः॥ कल्क-चूर्णपरीषेकैः कीटलूताव्रणापहाः॥ शताव्हारोध्रकासीसदार्बीजंब्व-स्थिरोचनाः॥ हरीतकी पूगफलं चूर्णोऽयं व्रणरोपणः॥ लाक्षारजन्यौ मंजिष्ठा हरितालं मनःशिला॥ सर्पिर्मधुप्रलेपोऽयं त्वग्विशुद्धिकरः परं॥ रोमसंजननं कुर्याद्यदुक्तं व्रणशोधने॥ स्रेहकार्यमशेषं च सर्पिषैव समाचरेत्॥ विषस्यवृद्धये तैलमग्नेरिद तृणोलुपं॥ इति लूताविषविज्ञानप्रतिषेधो नाम चतुश्चत्वारिंशोऽध्यायः॥ १४॥
अथातः प्रत्येकलूताविषप्रतिषेधं व्याख्यास्यामः॥आदंशे पिटिका
ताम्रा भवेत्कपिलयास्थिरा॥ लसीका रोमकूपेषु दाहोऽक्ष्णोर्मूर्ध्नि गौरवं॥ पाननस्यांजनालेपसेकांश्चात्र प्रयोजयेत्॥ निशापद्मककुष्टैलाकरंजककुभत्वचः॥ स्थिरार्कपर्ण्यपामार्गब्राह्मीशाद्वलनाकुलीः॥ अथवा कुष्टपत्तंगनखजोंगककुंकुमं॥ अग्निमुख्या ऽतिरुक् स्फोटः संभवत्यग्निदग्धवत्॥ अग्निज्वालासमानेन प्रस्विद्यति विषोष्मणा॥ तृड्दाहकंपमूर्च्छाश्च पित्तास्रमतिसार्यते॥ योजयेत् पूर्ववत्तत्र प्रत्याख्याय त्वरान्वितः॥ कुष्टलामज्जकोशीस्मधूकं मधुकं मधु॥ लाभतः शीतवीर्याणि तालीसं गोपकन्यकां॥ पीतया पीतविणमूत्रदंशक्लेदाक्षि-दर्शनः मूर्च्छाछार्दिशिरोदुःखज्वरारोचकशूलवान्॥ तत्रेष्ठाः करभोशीरमंजुवंजुलपद्मकाः॥ वंशत्वगर्जुनकुशाः677 शिरीषकिणिहीत्यचः॥ अथवा वन्हिबाल्हीककुष्टकेसरजोंगकं॥ पद्माभःपद्मया स्फोटो भिन्नो भिन्नः पुनर्भवेत्॥ क्लिद्यत्याशु स्रवत्युष्णं क्लेदं क्लेशोऽतिरुग्ज्वरः॥ तत्र पद्मोत्पललताहिमवेतसवंजुलाः॥ समृणालाः सकुसुमाः सक्षौद्रघृतशर्कराः॥ पूतिर्मूत्रविषादंशो विसर्पी कृष्णशोणितः॥ श्वासकासज्वरच्छर्दिमूर्च्छादाहभ्रमान्वितः॥ मनःशिलालमधुकमधुको-त्पलचंदनं॥ कुष्टैलामधुकोशीरपद्मकं678 तत्र भेषजं॥ आदंशे श्वेतया श्वेता पिटिका पीतकंडुरा॥ दाहमूर्च्छाज्वररुजाविसर्पक्लेदकारिणी॥ श्वेतायां शीतलालेपा हरेणुनलवंजुलाः॥ कुष्टमांसीनलोशीरकांता-ध्यामकपद्मकाः॥ आदंशः कृष्णया कृष्णो विड्गंधिः क्लेदशोफवान्॥ उत्थाप्यते कृष्णमसृग्दुष्टंतत्र भिषग्जितं॥ महासुगंधासर्पाक्षीवक्त्रैलागंधनाकुलीः॥ शूनः679 पांडुरया दंशः शोफो वक्त्रस्य गौरवं॥ज्वरोविघूर्णनं जृंभा शिरोरुक् तत्र भेषजं॥ मूलं वारुणपुष्पाया रोचनागोशकृद्रसः॥ आपांडुः पिटिकादंशः शोफवान् रक्तपादया॥अश्रुस्रावो
ऽत्र नलदसेव्योदोच्यहिमं मधु॥ शृंगाभोशृंगया दंशः पिटिका दाहरुक्करी॥ कोठैश्च चीयते गात्रं तत्र शस्तं भिषग्जितं॥ अंकोल्लसारः फलिनी गवां पित्तं मिशिर्गदः॥ पिंगया वन्दिग्धाभोदंशे स्फोटो बहुद्युतिः॥तीव्रशोफज्वररुजाहृत्पीडादाहतृड्युतः॥ तत्रागदः सितागुंद्रामल्लिकामधुकोत्पलं॥ जीवकः क्षीरिणां शुंगा द्विनिशा नागकेसरं॥त्रिमंडलाया बहुलो दंशः कृष्णं स्रवत्यसृक्॥ अरुचिर्नेत्रयोर्दाहः कलुपस्रुतिदृष्टिता॥ विविधैर्मंडलैश्चास्यशरीरमुपचीयते॥ तत्रार्कमूलद्विनिशासुरालापृश्निपर्णिकाः॥ दधित्थनाकुलीब्रांह्मीज्योतिष्मत्यो हितोऽगदः॥ आदंशः पूतिगंधाया विसर्पक्लेददाहवान्॥ अलजी-सन्निभो रुग्वान्निर्गंधः पिटिकान्वितः॥ भार्ङ्गीनिदिग्धिकार्निघपटोलीसिंदुवारितं॥ मूर्वा हरिद्रेवासा च पूतिगंधाविषापहः॥ चिरमंडलयादंशः पिटिकाजालकावृतः॥ वीराया680 मूर्द्धरुक्शीतज्वरान्नद्वेषसंयुतः॥ हरिद्रेनलदं कुष्टमेला सुरसमंजरी॥ तगरं च श्वपि-त्तेन पिष्टं वीराविषापहं॥ दंशः कुमुदयादाहस्फोटस्फुरणतोदवान्॥ पिच्छिलः क्लेदविस्रावी सश्वासः सगलग्रहः॥ प्रत्याख्यायात्र कुर्वीत सामान्योक्तं क्रियाक्रमं॥ भवंत्यलविषादंशे पीता लोहितमंडलाः॥ पिटिकाः सर्पपप्रख्यास्तालुशोपो रुजा ज्वरः॥ छर्दिर्दाहः शिरः कंपस्तत्र सेव्याः समाक्षिकाः॥ सकांतामिशिहीवेराः सपिप्पलिवटांकुराः॥ रक्तांतो रक्तया दंशः सपांडुपिटिकोद्भवः॥॥ श्वे-तोऽतिसारः श्वसनं दाहः क्लेदः सशोणितः॥ विसर्पश्चात्र हीवेरचं-दनोशीरपद्मकं॥ शस्तं शेल्वर्जुनाम्रातात्वड्भूलं सिंदुवारतः॥ आदंशे चित्रया रक्ता पिटिका विस्तृता स्थिरा॥ पर्वभेदशिरस्तापज्वरशोफविसर्पिणी॥ भिन्ना कृष्णत्वमभ्येति पीतास्रावा महाव्रणा॥ तत्रेष्टाः कुष्टनलदशिरीषनतरेणुकाः॥ दंशेऽति संतानिकया शूलमाकुलता
श्रुतेः॥प्रसुप्त्याक्षेपकौ तत्र केसरं क्षीरिणां त्वचः॥ आम्रस्य सिंदुवारस्य मूलमश्मंतकत्वचः॥ पिटिका मेचकादंशे मध्ये जतुकणोपमा॥ ज्वरः शोफोऽत्र वारुण्या रोचना रजनीद्वयं॥ राजिमान्कसनादंशो ज्वररुक्श्वासकासवान्॥ शीतपिच्छिलरक्तस्रुद्रक्तोक्तं681 तत्रभेषजं॥ पांडुरक्तोऽतिरुग्दंशः काकांड्याः स्मृतिमोहकृत्॥ हिध्मा-श्वसनतृण्मूर्च्छानिद्राऽऽक्षेपकहृद्गदाः॥ रक्तांतस्त्वेणपादाया दंशः कृ-ष्णतिलाकृतिः॥ दाहमोहाग्निबीसर्पतृड्वमिश्वासकासवान्॥ पूति-ध्यामोऽतिकासासृगादंशो लाजवर्णया॥ शीतज्वरसमुत्थानो दाहमू-र्च्छातिसारवान्॥ अग्निदग्धनिभो दंशो वैदेत्द्या भृशवेदनः॥ गंभीरः सज्वरतृष्णामोहो हृदयपीडनं॥ ऊर्ध्वराजीचितो दंशो जालिन्यास्तीव्रशोफरुक्॥ उदीर्णतृड्भ्रमः श्वासः स्तंभमोहौ विदीर्णता॥ रक्तो मालागुणादंशो धूमगंधिः सतीव्ररुक्॥ दीर्यते पार्श्वतस्ताम्रैः सं-रब्धैर्मंडलैर्युतः॥ अंतर्दाहो बहिः शैत्यं साध्मानं कृच्छ्रमूत्रता॥ मूर्च्छाप्रमलापातीसारज्वराः प्राणांतकारिणः॥ ध्मातः सौवर्णिकादंशः स्पंदते मत्स्यगंधिकः॥ शिरोऽक्षिरुक्करः कासस्तृष्णा फेनोद्वमो भ्रमः॥ असाध्यानामपि हितं प्रत्याख्यायाशु योजयेत्॥ दोषो-च्छ्रये विशेषेण छेददाहादिवर्जितं॥ कपिला तत्र नासायामग्निर्द-शति जत्रुणि॥पीतिका गल्लयोः पद्मा दक्षिणांसेऽथ कक्षयोः॥ लूता मूत्रविषाश्वेता चिबुके तालुके ऽक्षिणि॥ असिता दक्षिणे स्कंधे कराभ्यां रक्तपादिका॥ वामपार्श्वे दशेद्भृंगा वामांगे पिंगला दशेत्॥ त्रिमंडलोदरे पूतिः पृष्टे वीरा682तु दक्षिणे॥बाहौ नाभ्यां कुमुदिका वामस्कंधेऽलसंज्ञिता॥कंठे रक्ता ललाटे तु चित्रा संता निकोष्ठयोः॥ मेचका मूर्ध्नि कसना हस्तयोः कुक्षिमूंलयोः॥ काकांड्येणी तु हृदये लाजवर्णास्तनांतरे॥ बाहुसंधिषुवैदेही लूताऽपांगेतु जालि
नी॥ मालागुणाख्या ग्रीवायां सौवर्णा कर्णमूलयोः॥ इति क्षेत्राणि नियतानीत्युदीर्णविषाःपुनः॥ परक्षेत्रेऽपि वर्त्तंते राजानोऽतिबला इव॥ इति प्रत्येकलूताविषप्रतिषेधो नाम पंचचत्वारिंशोऽध्यायः॥ १५॥
अथातो भूषिकालर्कविषविज्ञानप्रतिषेधं व्याख्यास्यामः॥ लालनश्चपलः पुत्रो हसिरश्चिक्किरोऽजिरः॥ कषायदंतः कुलकः कोकिलः कपिलोऽसितः॥ अरुणः शबलः श्वेतः कपोतः पलितोंदुरः॥ छुच्छुंदरो रलासाख्यो दशाष्टौ चेति मूषिकाः॥ यस्मिन्नंगे पतत्येषां शुक्र मंगैःस्पृशंति वा॥ यच्छुक्रदिग्वैस्तत्रास्रेदूषिते पांडुतां गते॥ ग्रंथयः श्वयथुः कोठो मंडलानि भ्रमोऽरुचिः॥ शीतज्वरोऽतिरुक्सादो वेपथुः पर्वभेदनं॥ रोमहर्षःस्रुतिर्मूर्च्छा दीर्घकालानुबंधनं॥ श्लेष्मानुबद्धबव्हाखुपोतकच्छर्दनं सतृट्॥ व्यवाय्याखुविषं कृच्छं भूयो भूयश्च कुप्यति॥ मूर्च्छांऽगशोफवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः॥ शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यलक्षणं॥ शूनबस्तिं विवर्णौष्ठमा-ख्वाभैर्ग्रंथिमिश्रितं॥ छुच्छुंदरसगंधं च वर्जयेदाखुदूषितं॥ शुनः श्लेष्मोल्बणा दोषाः संज्ञां संज्ञावहाः श्रिताः॥ मुष्णंतः कुर्वते क्षोभं धातूनामतिदारुणं॥लालावानंधबधिरः सर्वतः सोऽभिधावति॥ स्रस्तपुच्छहनुस्कंधः शिरोदुःखी नताननः॥ दंशस्तेन विदष्टस्य सुप्तः683 कृष्णं क्षरत्यसृक्॥ ऋच्छिरोरुक्ज्वरस्तंभस्तृष्णामूर्च्छोद्भवोऽनुच॥ अनेनान्येऽपि बोद्धव्या व्याला दंष्ट्राप्रहारिणः॥ शृगालाश्वतराश्वर्क्ष द्वीपिव्याघ्रवृकादयः॥ कंडूनिस्तोदवैवर्ण्यसुप्तिक्लेदज्वरभ्रमाः॥ विदाहरागरुक्पाकशोकग्रंथिविकुंचनं॥ दंशावदरणं स्फोटाः कर्णिका मंडलानि च॥ सर्वत्र सविषेलिंगं विपरीतं तु निर्विषे॥दष्टो येन तु तच्चेष्टारुतं कुर्वन्विनश्यति॥ पश्यंस्तमेव चाकस्मादादर्शसलिलादिषु॥ जलदर्शनसंस्पर्शशब्देभ्यो यश्च संत्रसेत्॥ अदष्टमपि तं जह्याज्जलसंत्रासरोगिणं ॥आखुना दष्टमात्रस्य दंशं कांडेन दाहयेत्॥दर्पणेनाथवा तीव्ररुजा स्यात्कर्णिकाऽन्यथा॥ दग्ध्वाविस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत्॥ शिरीपरजनीवक्त्रकुंकुमामृतवल्लिभिः॥आगारधूममंजिष्ठारजनीलवणोत्तमैः ॥ लेपो जयत्याखुविषंकर्णिकायाश्च पातनः॥ ततोऽम्लैः क्षालयित्वा तु तोयैरनु च लेपयेत्॥पालिंदीश्वेतकटभीविल्वमूलगुडू- चिभिः॥ अन्यैश्च विषशोफघ्नैःसिरां वा मोक्षयेद्द्रुतं॥ छर्दनं नीलिनीक्वाथैः शुक्राख्यांकोल्लयोरपि॥कोशातक्याः शुकाख्यायाः फलं जीमूतकस्य च ॥ मदनस्य च संचूर्ण्य दध्नापीत्वा विषंवमेत्॥ वचामदनजीमूतकुंष्ठंवा मूत्रपेषितं॥ पूर्वकल्पेन पातव्यं सर्वोंदुरविषापहं ॥ निष्पावकदलीमूलं बंधुजीवफलानि च॥ सुवर्चलारामठकं खर्जिकातिविषाद्वयं॥श्यामाद्विकर्णिकामूलमर्द्धेन वमनत्रयं ॥ वांतस्य शुद्धहृदये शुष्काहिध्माऽरुचिर्भ्रमः॥ शुष्कोद्गारानुवंधो वा स्याच्चतत्र तदौषधं॥जीरकं त्र्यूषणं कुष्टं तुगाख्या नागकेसरं॥ रजन्यौसैंधवं सेव्यं यष्टीमधुसुवर्चलं॥मधुरं लवणं पिष्ट्वा बीपूरक- पित्थयोः॥ रसेन खांडवंकुर्यान्मधुमत्स्यंडिकान्वितं॥ गंधवर्णरसोपेतं स पीतो विषदोषजित्॥ द्विपिप्पलीद्मंशुमतीक्वाथः पेया च तद्गुणा॥ विरेचने त्रिवृन्निलीत्रिफलाकल्क इष्यते॥ शिरोविरेचने सारः शिरीषस्य फलानि च॥अंजने गोमयरसो व्योपसूक्ष्मरजोन्वितः॥ कपित्थगोमयस्सो मधुनाचावलेहने॥ तंदुलीपकमूलेन सिद्धं पाने हितं घृतं॥ द्विनिशाकटभीर- क्तायष्ट्याव्हैर्वाऽमृतान्वितैः॥ आस्फोतमूलसिद्धं वा पंचकापित्थ684मेव वा॥अधोभागे विशुद्धस्तु शूलं नाभ्यां भवेद्यदि॥ पुरीषंनाविबध्येत गुदे वास्याद्विकर्त्तिका॥ तत्र पेयां पिवेच्छीतां शर्करामधु
योजितां॥ पिप्पलीपिप्पलीमूलसारिखाकच्छुराद्वयैः॥ शृतैः सिद्धं685सह बलासमंगाविश्वभेषजैः॥ नलदध्यामकव्योपरोध्रचित्र- कदीप्यकं॥कुंतलक्षारतोयेन पिष्टं माक्षिकसर्पिषा॥दध्नावाप्राशयेत् क्षौद्रयवक्षारपयोदधि॥ फाणितं तैलमाज्यं च विष- घ्नं पीतमेकतः॥ सिंदुवारनतं शिग्रुबिल्वमूलपुनर्नवं॥ वचाश्वदंष्ट्राजीमूतमेषांक्वाथं समाक्षिकं॥ पिबेच्छाल्पोदनं दध्ना भुंजा- नो मूपिकार्दितः॥ तक्रेण शरपुंखाया बीजं संचूर्ण्य वा पिबेत्॥ अंकोल्लमूलकल्को वा वस्तमूत्रेण कल्कितः॥ पानलेपन- योर्युक्तः सर्वाखुविषनाशनः॥ किराततिक्तममृतां समंगां ककुशत्वचं॥ वाणं पलाशं काश्मर्यंपयस्यां तंदुलीयकं॥आखुविन्नां महानिंबंसप्तपर्णीं मधूलिकां॥ कपित्थं राजवृक्षं वा पिबेदन्यतमं गरी686॥स्थिरे मंदरुजे प्रच्छेत्कर्णिकां पातयेत वा॥ श्यामालांगलकीदंती किणिही गिरिकर्णिका॥ आखुविन्नामहावृक्षस्विवृदंजनकी स्नुही॥कर्णिकापातनं द्रव्यमेकैकं तिलकल्कवत्॥ क्षीरिप्रवालमंजिष्ठाबलादार्वीहयाव्हयाः॥ रोपण्यः कल्कितास्तैलं घृतं वा साघितं तथा॥ द्विनिशातिलय- ष्ट्याव्हतगरोशीरपद्मकैः॥सामान्येनेति निर्दिष्टा क्रियाऽऽखूनां विशेषतः॥ लालनेन वमिर्मूर्च्छा लालासावश्चजायते॥लिह्मालमाक्षिकं तत्र चूर्णितं तंदुलीयकं॥ चपलेन वमिर्मूर्च्छा तृड्वा तत्रावलेहयेत्॥ सदारुमुस्तां त्रिफलां पुत्रकेण तु पांडुता॥ सादोंऽगे सर्वतश्चाखुसदृशग्रंथिसंभवः॥ शिरीषबीजं कुष्टं चमधुना तत्र लेहयेत् ॥ हसिरेणान्नविद्वेषो जृंभणं रोमहर्षणं॥ आरग्वधादिनिर्यूहं सुवांतं तत्र पाययेत्॥ चिक्किरेण शिरोदुःखं शोफो हिध्मावमिर्भ्रमः॥ वांतोऽत्र जालिनीक्वाथैः सारमंकोल्लजं पिबेत्॥ अजिरेणाशु कृष्णत्वमूर्च्छाछर्दनहृद्गदाः॥मधुना तत्र मंजिष्ठां लिह्मात् स्रुक्क्षी- रकल्कितां॥ निद्रा कषायदंतेन हृच्छोषःकृशताऽति च॥
शिरीषसारत्वग्बीजं तत्र क्षौद्रेण लेहयेत्॥ कुलकेन रुजा स्रावो राजयोदंशमंडले॥ससिंदुवारिते तत्र सहे लिह्यान्मधुप्लुते॥ ग्रंथपः कोकिलेनोग्रा ज्यरो दाहश्च दारुणः॥ नीलीपुनर्नवाक्वाथसिद्धं तत्र पिबेत्घृतं॥कपिलेन व्रणे कोथो ज्वरो ग्रंथ्युद्गमः सतृट्॥ लेहयेन्मधुना श्वेतां श्वेतांचात्र पुनर्नवां॥रक्तं कृष्णेन वमति विशेषाद्दुर्दिने पिबेत्॥तत्र किंशुकभ- स्मांवुशिरीषफलवालकं॥ अरुणाद्याः पृथग्दोषसन्निपातास्त्रसंभवान्॥जनयंति क्रमाद्रोगान्सर्वे ऽत्र ग्रंथिकर्णिकाः॥ करं- जारग्वधव्योपदहत्यंशुमतीद्वयात्॥ क्वाथं दधिपयः सर्पिः पृथक् प्रस्थोन्मितं पिबेत् कपित्थदाडिमच्छल्लीविशालाहिसुगंधि- काः॥ त्रिवृतावृत्तिकावक्रगुडूचीश्चात्र कल्किताः॥ क्षिपेत्तदरुणादीनां पंचानां विषनाशनाः॥ काकादनीकाकमाचीस्वर- सेन घृतं शृतं॥ क्लमश्छुच्छूंदरेणोग्रोग्रीवास्तंभो विसूचिका॥यवनालर्षभीक्षीरं बृहत्यौ चात्र पाययेत्॥ ग्रीवास्तंभो रलासेन वेदना दंशमंडले॥ लिह्यान्महागदं तत्र घृतमाक्षिकसंयुतं॥ सशेषं मूषिकविषंप्रकुप्यत्यभ्रदर्शने॥ यथायथं वा कालेषु दोषाणां वृद्धिहेतुषु॥ तत्र सर्वेयथावस्थं प्रयोज्याः स्युरुपक्रमाः॥ यथास्वं ये च निर्दिष्टास्तथा दूपीविपापहाः॥ दंशं त्वलर्कदष्टस्य दग्धमुष्णेन सर्पिषा॥ प्रदिह्यादगदैस्तैस्तैः पुराणं च घृतं पिबेत्॥ व्रणस्योपरिनिष्पीड्य प्रत्यक्पुष्पीरसोऽथवा ॥ तिलगुग्गुलुदूर्वाणां दाडिमस्य गुडस्य च॥ कल्को मुहुर्मुहुर्लेप्यःश्वदंष्ट्राविषजित् परं॥ नलमूलं जले पिष्टं पानलेपनयो- र्हितं॥ मातुलुंगच्छदैर्दंशं बध्नीयाद्दंतचूर्णितैः॥ अर्कक्षीरयुतं चास्पयोज्यमाशु विरेचनं॥ पिबेत् पुनर्नवां श्वेतां धत्तूरकफला- न्वितां॥ फलं धत्तूरकान्मूलं काकोदुंबरिकोद्भवं॥ सोधुना श्वविषंहंति पीतं वा तंदुलांबुना॥ ऐकध्यं पललं तैलं रूपिकायाः पयो गुडः॥
निहंति विषमालर्कंघृनवृंदमिवानिलः॥लशुनोपणवैदेहीवचा गोपित्तकल्किताः॥ पाननस्यांजनालेपैः श्वदष्टस्पौषधं परं॥ जलवेतसपत्रत्वङ्मूलं क्षुण्णं पचेज्जले॥ स क्वाथः शीतलः पीतः परं श्वविषभेषजं॥ तत्सिद्धं च घृतं पाननस्याभ्यंजनलेपने॥ जलत्रासेसमस्ते च विषेतद्गरुडोपमं॥ यवमाषकुलत्थानां पंचमूलस्य चांभसि॥क्षीरद्विगुणिते सर्पि साधयेच्छ्वक्ष्णक- ल्कितैः॥ अश्वगंधावचाकुष्ठबृहतीरजनीद्वयैः॥ विदारीकंदकट्वंगपयस्यासिंदुवारितैः॥सर्पगंधानखातीरुशर्करारक्तचंदनैः॥ श्वदंष्ट्रोपद्रवान् सर्वान् पानाभ्यंगैर्निहंति तत्॥ हृदि दाहे प्रसेके च विरेकवमनैर्भृशं॥विषदोषहरो योज्यः शुद्धे संसर्जनक्रमः॥ दद्यात् संशोधनं तीक्ष्णमवश्यं विषनाशनं॥ अशुद्धरूढेऽपि व्रणे प्रकुप्यति च तद्विषं॥ सरत्रबीजौषधिभिः कुंभैः शीतांबुपूरितैः॥ अष्टोत्तरशतं वारान्सिद्धमंत्राभिमंत्रितैः॥ अष्टोत्तरशतोन्मानैः पुष्पमालावगुंठितैः॥ गोचर्ममात्रके लिप्ते ज्वलिताग्नौकुशास्तृते॥स्थंडिले सरितस्तीरे स्नानवान् स्याञ्चतुष्पथे॥अलर्काधिपते यक्षसारमेय गणाधिप॥अलर्कजुष्टमेतन्मे निर्विषंकुरु मा चिरात्॥स्वाहेतिमंत्रोऽलकीर्ते सर्वकर्मसु शस्यते॥चतुष्पाद्भिर्द्विपाद्भिर्वा687नवदंतरिक्षते ॥शूयते पच्यते रागज्वरस्रावरुजान्वितं॥ सोमवल्कोऽश्वकर्णश्चगोजिव्हा हंसपादिका॥ रजन्यौगैरिकं लेपो नखदंतविषापहः॥ इति मूषिकालर्कविषविज्ञानप्रतिषेधो नाम पट्चत्वारिंशोऽध्यायः॥१६॥
अथातो विषोपद्रवप्रतिषेधं व्याख्यास्यामः॥ ज्वरकासवमिश्वासहिष्मातृष्णातिमूर्च्छनं॥ व्रणदाहातिसाराश्च विशेषाद्वस्तिमृर्द्धरुक्॥ श्वपथुः पूतिगंधत्वं रक्तस्रावो ऽग्निमंदता॥ इति षोडश निर्दिष्टा विषार्तानामुपद्रवाः॥ गच्छंत्युपे- क्षिता नाशं यैर्जुष्टा विषरोगिणः॥ राज
वृक्षफलोशीरकाश्मर्यघनपद्मकात्॥ क्वाथः सशर्करक्षौद्रो विषज्वरहरःपरः॥पीता तंदुलतोयेन कटुका ससितोपला॥ विषज्वरहरा ऽजाजीजीवकर्षभकोत्पलं॥ कोलमज्जासिताधान्यभार्ड्गीयष्ट्याव्हकेसरं॥विषज्वरवमिश्वासकासतृष्णानिब-र्हणं॥त्रिफलारग्वधव्यामीक्वाथोज्वरविवंधजित्॥ बालबिल्ववचामुस्तकपायः सपुनर्नवः॥ ज्वराग्निसादश्वयथून्निहंति विष- संभवान्॥ वैदेहिकारामठककपित्थरससैंधवं॥ ससितामाक्षिकं लीढं श्वासकासज्वरापहं॥द्राक्षाक्षं नगरं कृष्णामथवा सवराधनं॥ लीढ्वाऽऽज्यमधुना कासान्मुच्यते विषसंभवात्॥सपाठांजनमंजिष्ठाद्विनिशामधुकं तथा॥ यष्ट्याव्हंचांभसा पीत्वामरिचैरवचूर्णितं॥ विषवम्यां पिबेत् क्वाथं बिल्वमूलाद्रसोऽथवा॥ब्राह्मीपरूपकद्राक्षामधुकं पयसा द्रुतं॥ सेलूलाजघ- नोशीरयष्ट्यैलाकणकेसरं॥ लिह्मान्मरिचकुंभं वा घृतपुष्परसद्रुतं॥ क्षीरिवृक्षांकुरक्षौद्रसितास्तृड्वमथुच्छिदः॥ जीर्णे शाल्योदनं क्षौद्रं क्षीरं चंदनसाधितं॥ शीतांभोऽनृपिबन् भुक्त्वाविषच्छर्दिमपोहति॥ तैलगोविड्रसक्षौद्रैर्लिह्यात्कृष्णाप्रियंगु-के॥ श्वासी क्षौद्रेण वा द्राक्षाशृंगीमागधिकासिताः॥ गुडनागरवैदेहीविजयामलकानि च॥ हिध्मायां शंखकनककटुका- स्वर्णगैरिकं॥ वेल्लशुंठीकणोशीररजनीद्वितयानि वा॥ लिह्माद्वाक्षीरमृद्दीकां बीजपूररसेन वा॥ सक्षौद्रं बालकरजः क्वाथं वा सगुडंपिबेत्॥ विश्वभेषजगायत्रीहरिद्रामरदारुजं॥ दंतींद्रवारुणीद्वीपीकल्कंसौवीरकेण वा॥ तृण्मूर्च्छायेंऽगशिरसो- र्लेपसेका हिमा हिताः॥अंभोजनालकुमुदचंदनोशीरमौक्तिकैः॥ वैहायससितायोयक्षीराढ्येक्षुरसाप्लुतैः॥ व्यजनं तालवृंतेन शीते सिकतिले स्थितिः॥ कमलोत्पलकिंजल्कपाटलाश्रितवारिषु॥ विषतृड्दाहमूर्च्छाघ्नं सरसीष्ववगाहनं॥ विषवेगसमु- त्थायां तृष्णायां लाजतर्पणं॥ शर्करादाडिमक्षौद्रं सलिलप्लावितं पिबेत्॥ वटवेतसजंब्वाम्रसेव्यतोयं च शीतलं॥ भूनिंवमु
स्तकटुकात्रायंतींद्रयवान् समान्॥ द्वौभागौ चित्रकादष्टौ कुटजाद्वारिणा पिबेत्॥ विषातिसारोदावर्त्तकासश्वासज्वरापहः॥ रोध्रमोचरसांवष्ठाधातकीस्तंदुलांबुना॥समाक्षिकाः पिबेत्तद्वन्नागरातिविषाऽभयाः॥ सधातकीःसकुटजाः सांजनाः श्लक्ष्ण- चूर्णिताः॥ पाठानागरचूर्णं वादध्नायुक्तं समाक्षिकं॥ वस्विरुग्वर्त्तदाहेषु फलवर्तिं प्रयोजयेत्॥सारग्वधां समधुकां सोपकुल्यांहरीतकीं॥ पिबेद्घृतेन सक्षौद्रांवस्तिशूलादिनाशिनीं॥ गृहधूमनतश्यामानीलिनीतंदुलीयकैः॥सिद्धं चाज्यं तथा सिंदुवारात्क्वाथे त्रिवृद्युतं॥ काकोलीक्षीरवृक्षत्वक्द्राक्षायष्ट्याव्हशर्कराः॥ नस्यं विषशिरोरुग्घ्नंसंयोज्यं शीतवारिणा॥ श्वयथौ शुद्धकोष्ठस्य पयः पाने हितं स्मृतं॥ विश्वभेषजवैदेहीकदुकादेवदारुभिः॥सुरसामूलकल्कैर्वाछागं वा पिप्पलीशृ- तं॥त्रिफलायाः कषायेण त्रिफला भाविता त्र्यहं॥आलोड्यसर्पिषापीता विपश्वयथुनाशिनी॥ मधुवेल्लवराव्योपसुरा- व्होशीरपद्मकैः॥विषश्वयथुजिल्लेपस्तथात्वादुकषायकैः॥ शिरीषपुष्पाहिशिरोनतकुष्ठंघृतान्वितं॥ धूपोऽगदः श्वयथुहृत् समस्तविषनाशनः॥ अल्पेनाप्यपचारेण दंशः पूतित्वमश्नुते॥ प्रायो न सहते तीक्ष्णमुष्णं वाभेषजं विषं॥ मधुरस्निग्ध- शीतानि युंज्यात्तस्माद्विषव्रणे॥ सकालेपाश्चसक्षीरैः कषायैः क्षीरिवृक्षजैः॥ न्यग्रोधशृंगमधुकतिलसर्षपसैंधवं॥साभयानिंबमध्वाज्यं दंशपूतित्वनाशनं॥ कर्णिकापातनंश्रेष्ठं विषव्रणविशोधनं॥ रक्ते स्रवत्यतिभृशं घृतं समरिचं पिबेत्॥ तंदुलीयकमूलेन सितया च समन्वितं॥ दंशं प्रलेपयेच्चास्य दार्व्यासुश्लक्ष्णपिष्टया॥ सितोपलाक्षौद्रघृतच्छागदुग्धादिनाव- नं॥ शमीकल्कं पिबेच्छूक्ष्णमंगं लिंपेद्विशालया॥भावयेद्धेमशुक्लांच ततःशाम्पति शोणितं॥ कृशस्यातिस्रुते रक्ते रूक्षैर- त्यर्थसेवितैः॥ विषस्य च प्रभावेन मातरिश्वा प्रकुप्यति॥ उन्मादाक्षेपकमनोभ्रंशाप
स्मृतयस्ततः॥ तत्रेष्टं स्नेहनं वस्तिनस्यप्रधमनांजनं॥ नागदंत्यभयाकुष्टं पिप्पलीवृषकट्फलं॥ भल्लातकास्थिकदुकाबि- ल्वप्रतिविषाग्निकाः॥सक्षीरं तैर्घृतं सिद्धं विषवातविकारजित्॥ पिबेदैरंडतैलंवा छागमांसरसान्वितं॥ ऐकध्यंघृततैलं वा मेध्यमांसरसाशनः॥कार्पासमूलं मरिचं हरिद्रेनलदंनलं॥पिप्पलीं खर्जिकां कुष्टं जलेनालोड्यपाययेत्॥ उन्मत्तं विषवातेन तथाऽपस्मारिणं नरं॥ वचांहंसपदीं व्योषंदधित्थं हस्तिपिप्पलीं॥ देवदारुवलाबिल्वरकृमिजित्कुष्टपुंड्रकं॥रोध्राखुपर्ण्यतिविषंक्षीरं सर्पिश्च पाचयेत्॥ निहंति पानाभ्यंगाभ्यां घृतं सर्वविषाणि तत्॥ प्रतिकुर्याद्यथास्त्रं च रोगे- ष्वेवपरेषुच॥दोषानुबंधमालोच्य विषतंत्राविरोधतः॥ दृश्यशब्दागदैरस्य विषशेषं निवर्त्तयेत्॥अल्पमप्यवशिष्टं हि व्याधये मरणायवा॥ धवाश्वकर्णतिनिशकरहाटकपीतनं॥ पलाशाम्रातककुभपारिभद्रकतिल्वकान्॥ कपित्थकुटजां-कोल्लमग्रहामलकेंबुकं॥ शमीश्लेष्मानकाश्मंतगोजीमलयुकंटकान्॥चिरबिल्वार्ककट्वंगान्सशाकमधुशिग्रुकान्॥ गोप- घोंटाहिमारौ च भस्मीकृत्यांभसा गवां॥ क्षारकल्पेन विस्राव्य पचेत्क्षित्वा ऽवचूर्णितं पिप्पलीद्वयकुंभाम्रसप्तपर्णैलवा- लवालुकं॥ वरांगचोचमंजिष्ठाकुष्टबंजुलटिंदुकान्॥ विडंगातिविषाऽनंतासर्षपातंदुलीकान्सुराव्हसरलप्लक्षगृहधूमकरं- जिकाः॥नागदंतीसुरश्रेणीनिचुलं वरुणं वचा॥ वर्द्धमानपयोबिल्वं क्षारवत्पाकमागतं॥ तल्लोहकुंभे निहितं कार्यं सन्निहितं सदा॥तेन दुंदुभिमालिप्य पताकास्तरणानि च॥ दर्शनश्रवणस्पर्शैर्निर्विषंतानि कुर्वते॥ पानक्षारागदश्चैवंविषं स्थाव- रजंगमं॥ शूलगुल्मोदराजीर्णश्वासकासाश्मशर्कराः॥ शोफार्शोग्रहणीदोषानरुचिं विनियच्छति॥ अपि तक्षकतुल्यानां सर्पाणां दर्पनाशनं॥ श्रीवेष्टकमनोव्हालंससर्जरसवालकं॥ कर्षीशंनागपुष्पस्य प्रकुंचस्रुटिविंशकं॥ हरेणवश्चतुः षष्टिः कुटन्नटचतुष्टयं॥ शताव्हाषोडशैतानि पुष्पेसंभृत्य पेषयेत्॥ आश्लेषासुगवां मध्ये सिद्धमंत्राभिरक्षितं॥ कुमार्यास्नातया तत्र मंत्रोऽयं विष्णुनिर्मितः॥ मातामे विजया नाम जयोनाम पिता मम॥ अहं जयस्य पुत्रोऽसौ विजये च जयामि वः॥ सुगंधाख्योऽयमगदो नित्यं देहविलेपनात्॥अभंगकरणो युद्धे विवादे च जयावहः॥ अमुना लेपित्ताश्छत्रदुंदुभिध्वजतोरणाः॥ दृष्टस्पृष्टश्रुता घ्नंति विषं स्थावरजंगमं॥भूतबालग्रहोन्मादान्गेहस्थो- ऽपि निवारयेत्॥ प्रपौंडरीकसरलदेवदारुकुटन्नटं॥ जटा शताव्हा ऽतिविषातिलपर्णी सुगंधिका॥नीलीयवफला भा-र्ड्वीमधुयष्ट्येलवालुकं॥ तोयतोषदकालीयतगरध्यामकत्वचः॥ नखपद्मकपुन्नागपत्रकालानुसारिवाः॥ तालीसपत्रमूखं- जोंगकं चंदनद्वयं॥ ह्येलाद्विसेव्यद्विश्वेताद्विनिशानलद्वयं॥लाक्षाशीतशिवव्योषफलिनीधान्यगैरिकं॥ शैलेयकशिलापुष्पग्रं- थितालोचनाभयाः॥ अर्कस्थौणेयवृश्चीकाकटुकाचंद्रराजयः॥ कलिंगकः सर्जरसः कुष्टं लवणपंचकं॥ श्रीपर्णीकाश्मरीसुलु- शिंशिपासिंदुवारजाः॥ चंपकाशोकसुरससुमनस्तिलकोद्भवाः॥ पाटल्यास्तृणशूल्पाश्चप्रसवाः कुमुदोत्पलं॥ तिनिशार्जुन- शम्याकधवपुष्पं सपंकजं॥ पंचाशीतिरितश्चूर्णंसमूत्रघृतमाक्षिकं॥ निघापयेद्गवां शृंगे मनुष्यं तेन जीवयेत्॥ भग्नस्कंधं विवृत्ताक्षं मृत्योर्दंष्ट्रांतरं गतं॥ महासुगंधो नामायमतिवीर्योऽतितेजसा॥वारयत्पतिदुर्वारं विषाघ्निंवासुके
ऽपि॥ नृपोऽने- नानुलिप्तांगो भवेत् सर्वजनप्रियः॥ तेजस्वितां च लभते राजकस्यापि मध्यगः॥ शीतमेव च कुर्वीत विधानं विषरोगिणां॥ मुक्त्वा कीटविषंतद्धि शीतेनातिप्रवर्द्धते॥शालयः षष्टिका जीर्णाः कोरदूपाः प्रियंगवः॥ मुद्गो हरेणुस्तुवरी पटोलं वेत्रप-ल्लवाः॥तंदुलीयकजीवंतीवार्ताकं मुनिषण्णकः॥ जां
गलं दाडिमं धात्री कपित्थं सैंधवं सिता॥ अविदाहि यदप्यन्नविज्ञानीये स्वरूपतः॥ तत्तद्दद्याद्विपार्तेभ्यः कार्या व्यंजनसं- स्कृतिः॥कषायैर्विषहर्तॄणां घृतैः कल्याणकादिभिः॥ दिव्यसारसकूपोत्थमन्यद्वाशृतशीतलं॥ मध्वामलकयुक्तं वा विषा- र्त्तःसलिलं पिबेत्॥ नदीतडागजं त्याज्यं विशेषेण घनागमे॥ शुक्लवस्त्रोदरायाताः सुकृताःसक्तवो यवाः॥ तक्रेण सघृताः पीताः परमं विषनाशनाः॥ तिलमद्यकुलत्थक्षुत्तृड्भयायासमैथुनं॥ वर्जयेद्विषमुक्तोऽपि दिवास्वप्नंविशेषतः॥ प्रशांतदो- षप्रकृतिं सुधातुमाहारकामं सममूत्रविट्कं॥प्रसन्नचित्तेंद्रियचेष्टितं च वैद्योऽवगच्छेदविषंमनुष्यं॥ इति विषोपद्रवप्रतिषेधो नाम सप्तचत्वारिंशोऽध्यायः॥ १७॥
अथातो विषोपयोगीयमध्यायं व्याख्यास्यामः॥ विषेप्रतिविषंयोज्यं मंत्रतंत्रैरसिध्यति॥ अतीते पंचमे वेगे सप्तमस्यानतिक्रमे॥ प्रभोर्निवेद्य प्रयतेन्नैव व्याख्याय कस्यचित्॥ सिद्धमंत्रधरः कृत्वा धरणीवंशमादितः॥ नहि मंत्रसाहाय्यस्य विषंयात्यविधेयतां॥ श्लेष्मतुल्यगुणं प्रायः स्थिरमूर्ध्वगमं विषं॥प्रायः पित्तगुणैर्युक्तं मध्यगामि च जंगमं॥ गुणैरेभिर्विपर्यस्तैर्निहतस्ते परस्परं॥ युंज्यान्मूलविषं तस्माद्दष्टानां पानलेपयोः॥ विषपीतं च कुशलो दंशयेत्पवनाशिभिः॥ न विषप्रतिमं किंचिन्निर्विषीकरणं विषे॥ चतुर्भिः षड्भिरष्टाभिर्हीनमध्योत्तमां यवैः॥ मात्रांविषस्य मौलस्प प्रयुंजीत यथायथं॥ दष्टस्य द्वौयवौ कोटैस्तिलमात्रं तु वृश्चिकैः॥ नैव त्वसृक्स्थेपाने च लूतादष्टस्य नेक्ष्यते॥ प्रच्छाय लेपयेद्दंशं तस्य ज्ञात्वासुनिश्चितं॥ सविषे युक्तममृतं विषमे वा विषेविषं॥ अबले चातिबलवह्यापन्नं चाप्रयोगतः॥ सविपाविपशंकायामग- दानपि योजयेत्॥ अविरुद्धान्प्रयुक्तो हि निर्विषस्य गदोऽगदः॥ तद्वच्चसविषस्यापि क्रियाकालातिपाततः॥ जा
नीयाद्विषसद्भावं भिषक्तस्मात्प्रयत्नतः॥ साक्तुकं मुस्तकं शृंगी वालकं सर्षपाव्हयं॥ वत्सनाभंच कर्माणं विषंस्त्रिग्धं धनं गुरु॥नजात्वन्यत्प्रयोक्तव्यं कालकूटं विशेषतः॥ विषेऽवचारिते तीक्ष्णे पेयं घृतमनंतरं॥ सभार्ङ्गीदधिमंडोत्थसारि- वातंदुलीयकं॥ आगारधूममंजिष्ठायष्ट्याव्हैर्वा समन्वितं॥ लिह्माद्वा मधुसर्पिर्भ्यांचूर्णितामर्जुनत्वचं॥ क्षीरक्षौद्रघृतैर्युक्तं पीतं हंति विषंविषं॥सप्तिंदुवारतगरंमृतसंजीवनं विषं॥ शिरीषकुसुमं वकं विषमाशु विषापहं॥ देवदारुनतं मांसीदा- डिमोबाकुचीविषं॥ कुष्टं च पानलेपाभ्यां समं सविषनाशनं॥ मनःशिलाललालैलासिंदुवारामराव्हयं॥ सरक्ताकुंकुमविषं ध्मातं निःसंज्ञबोधनं॥ देहे विषोद्भवे लेपः सक्तुक्षीरवृतर्हितः॥यस्तु संरोपितो भोगी धूमं वक्त्राद्विमुञ्चति॥ दंडाग्रे पिशितं बध्वा बहुशस्तेन दंशयेत्॥ अशक्तमगदैरन्यैर्विषपीतं चिकित्सकः॥ पाययेन्मांसचूर्णं तं ज्ञात्वा विषवलावलं॥ अन्येष्वपि च वेगेषुशेपोपायपरिक्षये॥ विषंयुंजीत नित्यं च रसायनगवेषिणः॥ घृतोपस्कृतदेहस्प विशुद्धस्य हिताशिनः॥ सात्वि- कस्योदिते भानौ योज्यं शीतवसंतयोः॥ ग्रीष्मे चात्ययिके व्याधौ न च वर्षासु दुर्दिने॥नक्रोधने न पित्तात्तै न क्लीबेराजनि हिजे॥ क्षुत्तृष्णाश्रमघर्माध्वव्याध्यंतरनिपीडिते॥ गर्भिणीबालवृद्धेषुन रुक्षेषु न मर्मसु॥ स्वभ्यस्तेऽपि विषे यस्माद्वर्जनी- यान्विवर्जयेत्॥ कट्वम्लतैललवणदिवास्वप्नातपानलान्॥ रुक्षमन्नंविशेषेण भयं वाऽजीर्णतः सदा॥दृग्विभ्रमं कर्णरुजा- मन्यांश्चानिलजान् गदान्॥ विषं रूक्षाशिनः कुर्यान्मृत्युमेव त्वजीर्णतः॥ अलं गोमूत्रसंयुक्तमातपे शोषयेत्र्यहं॥विषं बृंहणमेतद्धि विषस्यादौ प्रशस्पते॥ तत्पिबेन्मस्तुना वातज्वरेक्षीरेण पैत्तिके॥युक्तं मूत्रेण कफजे सर्वजे त्रिफलांभसा॥ रोध्रचंदनपंड्वशर्कराघृतमाक्षिकैः॥ क्षीरेण च घतं युक्तं जीर्णज्व
रहरं परं॥निकुंभकुंभत्रिफलासर्पिर्मधुर्विषैः कृतः॥ निहंति मोदको ऽजीर्णज्वरमेहत्वगामयात्॥ शिखिकर्करसोपेतं विषमज्वरजिद्विषं॥ विषंयष्ट्याव्हयं रास्त्रासेव्यमुत्पलकंदकः॥ तंदुलोदकपीतानिरक्तपित्तस्य भेषजं॥ विषंरसांजनं भार्ङ्गीवृश्चिकाली महासहा॥सवेदने सपाके च व्रणे दुष्टे प्रलेपनं॥ सिताविषक्षीरतरुप्रवालामधुना द्रुताः॥ श्वासहिध्मापहा लीढाश्छर्दिघ्नास्तु विषान्विताः॥ क्षौद्रोशीरमधुक्षाररजनीकुटजत्वचः॥ विजयापिप्पलीमूलपिप्पलीद्वयचित्रकैः॥ पुष्कराव्ह- वरीद्राक्षायवानीक्षीरदीप्यकैः॥ सितायष्टीद्विवृहतीसैंधवैः पालिकैः पचेत्॥ सविपार्द्धपलैःप्रस्थं घृतात्तज्जीर्णभुक् पिबेत्॥ दुर्नाममेहगुल्मार्मतिमिरकृमिपांडुताः॥ गलग्रहग्रहोन्मादकुष्टानि च नियच्छति॥ कृच्छघ्नं विषपथ्याग्निदंतीद्राक्षानिशाविषं ॥ शिलाजतुविषं मूत्रमुदावर्त्ताश्मरीहरं॥गोमूत्रक्षारसिंधूत्थविषंपाषाणभेदकं॥ वज्रवद्दारपत्येतदातंकं पीतमश्मरीं॥ सत-मूलपिप्पलीमूत्रं विषं शूलहरं तथा॥ विषद्रवंतीमधुकद्राक्षारास्त्राशठीकणाः॥ऐरंडतैलं त्रिफलागोमूत्रं चित्रको विषं॥ स- र्पिषासहितं पीतं वातांडत्वमपोहति॥ त्रिफला खर्जिकाक्षारो विषंगुल्मप्रभेदनं॥ विषवेल्लमिशिक्षीरं गुल्मप्लीहनिबर्हणं॥ प्लीद्दोदरघ्नं पयसा शताव्हाकृमिजिद्विषं॥वायसीमूलनिःक्वाथपीतं कुष्ठहरं विषं॥ पयसा राजवृक्षवग्गायत्रीयाकुचीफलात् ॥ लीढंस्नेहकणाभ्यां च विषंक्वाथेन कुष्ठजित्॥अवल्गुजैडगजयोर्बीजं क्षारद्वयं विषं॥ लेपः ससैंधवः पिष्टो वारिणा कुष्ठ- नाशनः॥ चित्रकार्कजटाहस्तिपिप्पलीवाकुचीविषैः॥ गोमूत्रपिष्टैरन्योऽन्यो मनोव्हास्रुक्पयोविषैः॥ सचंद्ररेखैडगजकरंज- फलसैंधवैः॥ सव्योपखर्जिकाक्षारयवक्षारनिशाद्वयैः आगारधूमसहितैर्वस्तमूत्रेण कल्कितैः॥ भल्लातकाग्निशम्याकविषै- र्गोमूत्रपेषितैः॥ लेपोविच
र्चिकादद्रुरकसा688किटिभापहः॥ शम्याकपवत्वङ्मूलं विषंतक्रंच तद्गुणं॥ विषभल्लातकद्वीपिगुंजानिंबफलैर्जयेत्॥ लेपोऽम्लपिष्टैः श्वित्राणि पुंडरीकं च दारुणं॥ वक्रकुष्टरसद्वीपिस्पृक्कापत्रैलवालुकं॥ पिष्टंखदिरतोयेन त्रिरात्रमुषितं पिबे- त्॥ श्वित्री विषेण संसृष्टं ततः स्फोटान्किलासजान्॥ कंटकेन विभज्यानु लेपैर्लिंपेतकौष्टिकैः॥ अथवा करवीरार्कामू- लवाकुचिकाविषैः॥ वस्तांबुपिष्टैःसद्वीपिद्विपपिप्पल्यरुष्करैः॥ लाक्षासुराव्हमंजिष्ठाकुष्टपद्मकसारिवाः॥ गुंजाफलं कुरव- को लांगलीवत्रकंदकः॥ वाराहीकंदजास्फोतामसाव्हगिरिकर्णिकाः॥ अर्काश्वमारयोर्मूलं नागपुष्पवनं निशे॥ दंतीविषं हं- ति विषंपिप्पलीमरिचानि च॥ तैस्तैलं कटुतैलं च श्वित्रस्याभ्यंजनं पचेत्॥सवर्णीकरणं श्रेष्ठमास्तिकस्य वचो यथा॥ वीरा- लांगलकोदंतीविषपाषाणभेदकैः॥ प्रयोज्यो भूदगर्भाणां प्रलेपो गर्भमोचनः॥खरसं बीजपूरस्य वचाब्राह्मीरसं घृतं॥ वंध्या पिबंती सविषंसुपुत्रैः परिवार्यते॥ नष्टशुक्रः पयोद्राक्षाकपिकच्छूवचाविषं॥ विषं सर्पिःसिताक्षौद्रं तिमिरापहमंजनं॥ विषं चैकमजाक्षीरकल्कितं विषधूपितं॥ विषंधात्रीफलरसैरसकृत्परिभावितं॥ अंजनं शंखसहितंप्रगाढतिमिरप्रणुत्॥ विषमिं- द्रायुधं स्तन्ये घृष्टं काचछिदंजनं॥ बीजपूररसे घृष्टं विषंतद्वासितायुतं॥ विषंमागधिका द्वेच निशे काचघ्नमंजनं॥ शुक्रा- र्मजिद्विषंकृष्णायुक्तं गोमूत्रभावितं॥ समुद्रफेनस्फटिककुरुविंदसुधांजनं॥ कूर्मपृष्ठं च तुल्यानि तेभ्योऽर्द्धांशा मन.शिला ॥ अर्द्धहीनानि मरिचसैंधवायोरजांसि च॥ अतो यथोत्तरं दद्यादयसा च समं विषं॥रसक्रियेयं मधुना शुक्रपिल्लार्मकाच- जित्॥ अभीक्ष्णं शीततोयेन सिंचेन्नेवेविषांजिते॥रसोनकंदमरिचविषसर्षपसैंधवैः॥ पिल्लेऽक्षिलिखितं पूर्वं सुरसार
सपेषितैः॥ पूरपेत् सर्पिषाचानु सर्पिरेव च पाययेत्॥ मधूकसारमधुकविषक्षीरजलैर्घृतं॥ पक्वंसंतर्पणं श्रेष्ठं रात्र्यन्धत्वे चिरोत्थिते॥ नस्यं शिरोरुक्शमनं प्रत्यक्पुष्पिसिताविषं॥ अथवा घृतयष्ट्याव्हशर्करा विषसंयुताः॥ शुंठी पथ्या विषंपाका द्रवंती पूतिनासजित्॥ कटुतैलं विषंनस्यं पलितारुंपिकापहं॥स्वर्जिकाक्षारसिंधूत्थशुक्तयुक्तं विषंपरं॥ कर्णयोः पूरणं तीव्रकर्णशूलनिबर्हणं॥ प्रपौंडरीकमंजिष्ठाविषसिंधुसमुद्भवैः॥ निहंति साधितं तैलं गंडूषेण मुखामयान् ॥ देवदारुविषं स- र्पिर्गोमूत्रं कंटकारिका॥वाचःस्खलनतां हंति पीतमित्याह काश्यपः॥ शत्रुप्रयुक्ताद्विषतो गराद्वाभूताद्भुजंगाखुगणाज्जरा-याः॥ अकालमृत्योर्ग्रहपाप्मतो वा विषाशिनो नास्ति भयंनरस्य॥इति विषोपयोगीयो नामाऽष्टचत्वारिंशोऽध्यायः॥४८॥इति विषतंत्रं नाम षष्ठमंग संपूर्णं॥६॥
अथातो रसायनाध्यायं व्याख्यास्यामः॥ दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः॥ प्रभावर्णस्वरौदार्यं देहेंद्रियबलो- दयं॥वाक्सिद्धिं वृषतां कांतिमवाप्नोति रसायनात्॥ लाभोपायो हि स\तानां रसादीनां रसायनं॥ पूर्वे वयसि मध्ये वा तत्प्रयोज्यं जितात्मनः॥स्निग्धस्य स्रुतरक्तस्य विशुद्धस्य च [सर्वथा689॥ अविशुद्धेशरीरे हि युक्तो रासायनो विधिः॥ न भाति मलसंक्लिष्टे वस्त्रे रंगइवार्पितः॥ युक्तं संस्कारहीनस्य सम्यगप्यप्रमादिनः॥ यथैव पौरुषंतद्वन्नसिध्यति रसायनं॥ सर्वे च दोषाभवंति प्राज्यादाहारादम्ललवणकटुकक्षारविरुद्धासात्म्यरूक्षाभिप्यंदिक्लिन्नगुरुपूतिपर्युषितनवधान्यशुष्कशाकमां-सतिलकुलत्थदधिशुक्तकांजिकपिष्टान्नविरुढनिषेविणां दिवास्वप्नमद्यस्त्रीनित्यानां विषमातिमात्रव्यायामसंक्षोभितवपुषां क्रोधलोभभयशोकायासबहुलानां पापकर्मणामसमं
जसाहारव्याहारनीहारनिरतानां॥ अतो निमित्तं ह्यविशुद्धः संजायते रसो विदह्यते रक्तं शिथिलीभवंति मांसानि विष्यंदते मेदोदूष्यंते दोषाःविमुच्यंते संधयो न संधायतेऽस्थिषुमज्जानो नाप्यायते शुक्रं नौजो न बलं न वीर्यं॥ तत एवंभूतो ग्लायति सीदतिनिद्रातंद्रालस्यसमन्वितः खिद्यते निर्विद्यते निरुत्साहोऽसमर्थः शारीरमानसानां विशिष्टानां भ्रष्टच्छायो नष्टस्मृतिरल्पबुद्धिरसंपाद्यमानाभिलषितार्थोऽहर्निशमनिशमनिशं निःश्वसन्नधिष्ठानभूतो रोगाणां नोपात्तमपि सर्वमायुरवा- प्नोति॥ तस्माद्बुद्धिमानपास्य यथोक्ताहारादिदोषान्निर्वाह्यच पूर्वोपचितान् रसायनं विधिसहितमुपसेवेत॥ तत्तु द्विविधं कुटीप्रावेशिकं वातातपिकं च॥ तत्र वीर्यप्रभावप्रयोगपरिहारगुरुत्वात्कुटीप्रावेशिकं महाफलतरं॥ तस्य विधिः॥क्षेमसुशिक्षधार्मिकश्रद्दधानजननृपतिवैद्यविप्रेसुलभमहौषधिघृतक्षीरपथ्यभोजनोपकरणे ग्रामे नगरे वा पूर्वोत्तरस्यां दिशि प्रागुदक्प्रवणे सुविभक्तविहारोद्देशे देशे दृढघनसुमृष्टभित्तिमुत्सेधविस्तारसंपन्नां सूक्ष्मलोचनां त्रिगर्भामृतुमुखां निवातां प्रवात्तैकदेशां प्राग्द्दारामुदग्द्वारां वा शमीबिल्वक्षीरिवृक्षपरिगृहीतामनिष्टेंद्रियार्थवानातपरजोधूमस्वेदक्लेददंशमशकसरी-सृपव्यालबालस्वीदासांतावसायिनामगम्यां सन्निहितवैद्यपरिचारकोपकरणां कुटीं कारयेत्॥तस्यां रसायनार्थी शरदि वसंते शुक्लपक्षे प्रशस्तेऽहनि पूजयित्वा यथार्थं देवगुरुवृद्धान्प्रणम्य दक्षाश्विप्रभृतीन्परिमृज्य सुवर्णघृतमधुसिद्धार्थकप्रि- यंगुरोचनाः प्रदक्षिणीकृत्य गोब्राह्मणमनुप्रविशेत्॥ तत्र संशोधनैःशुद्धः सुखी जातबालः पुनः॥ ब्रह्मचारी धृतियुतः श्रद्द्धा- नोजितेंद्रियः॥ दानशीलदयासत्यव्रतधर्मपरायणः॥ देवतानुस्मृतियुतो युक्तस्वप्नप्रजागरः॥प्रियौषधः पेशलवागारभेत रसायनं॥हरीतकीमामलकं सैंधवं नागरं वचां॥ हरिद्रां पिप्पलीं वेल्लं गुडं
कोष्णांबुना पिबेत्॥स्निग्धः खिन्नो नरः पूर्वं तेन साधु विरिच्यते॥ ततः शुद्धशरीराय कृतसंसर्जनाय च॥ त्रिरात्रं पंचरात्रं वा सप्ताहं वा घृतान्वितं॥ दद्याद्यवकमाशुद्धेः पुराणशकृतोऽथवा॥इत्थं संस्कृतकोष्ठस्य रसायनमुपाचरेत्॥ यस्य यद्योगिकं पश्येत्सर्वमालोच्य सात्म्यवित्॥ हरणात्सर्वरोगणां याऽसावुक्ता हरीतकी॥ पथ्यत्वात् सर्वधातूनां पथ्या शिवतया शिवा॥ यस्माद्विजयते व्याधीन् समग्रान् विजया ततः॥ अभयं सर्वरोगेभ्यो भवत्यायुश्च शाश्वतं॥ यतः शीलयतामेनां तेनेयमभया स्मृता॥ नवा वृत्ता घना स्त्रिग्धा गुर्वी मज्जति चाप्सु या॥ बालस्य सा प्रयोक्तव्या नवनीतसमन्विता॥ वाते ससर्पिर्लवणा पित्ते सगुडशर्करा॥ कफे सपिप्पलीक्षौद्रासर्वदा सा प्रशस्यते॥ अथ हरीतकीनां हिमवच्छैलसंभवानां कालजानामापूर्ण- रसवीर्याणां निरामयानां द्विशस्त्रिशो वा शकलितानामाढकं चतुर्गुणेन पयसा संस्वेद्यमृदुभूतमवतार्यशीतं सर्पिर्मध्याढ- काभ्यां संसृज्य सुगुप्तं स्थापयेत्॥ ततस्त्रिरात्रादूर्ध्वमाहारानुपरोधिनीं मात्रां प्रत्यहमुपयुंजीत॥ जीर्णे शालिपष्टिकं पयसा भुंजीत॥ प्रयोगांते च तावंतमेव कालं॥ अस्य प्रयोगाद्वर्षशतमजरो निर्वलीखलतिपलितामयः श्रुतिस्मृतिसंपन्नः समिद्धान- लश्चपुरुषो भवति॥ बृहच्छरीरं गिरिसारसारं स्वरो घनौघस्तनितानुकारी॥ भवत्यपत्यंविपुलं स्थिरं च समश्नतो योगमिमं प्रयत्नात्॥ पथ्यासहस्रं त्रिगुणधात्रीफलसमन्वितं॥ पंचानां पंचमूलानां सार्द्धंपलशतद्वयं॥जले दशगुणे पक्त्वा दशभाग- स्थिते रसे॥ आपोथ्य कृत्वा व्यस्थीनिविजयामलकान्यथ॥ विनीय तस्मिन्निर्यूह योजयेत् कुडवांशकं ॥ त्वगेलामुस्तरज- नोपिप्पल्यगुरुचंदनं॥मंडूकपर्णीकनकशंखपुष्पीवचाप्लवं॥ यष्ट्याव्हयं विडंगं च चूर्णितं तुलयाऽधिकं ॥ सितोपलार्द्ध- भारं च पात्राणि त्रीणि सर्पिषः॥ द्वे च तैलात्पचेत्सर्वं तदग्नौ
लेहतां गतं॥ अवतीर्णं हिमं युंज्याद्विंशैःक्षौद्रशतैस्त्रिभिः॥ ततःखजेन मथितं निदध्याद्घृतभाजने॥ एतद्रसायनं ब्राह्मं समं पूर्वेणसर्वथा॥ वैखानसा बालखिल्याः प्राश्य प्राप्ता नवं वयः॥ आरोग्यममितं चायुर्वीततंद्राश्रमक्लमाः॥ अभयामलकविभीतकपंचात्मकपंचमूलनिर्यूहे॥ वल्लीपलाशकरसे क्षीरेऽष्टगुणे च विपचेत॥घृतस्य कुंभं मधुकं मधूकं काकोलियुग्मं च वलां सुगुप्तां॥सक्षीरशुक्लामृपभंसुजीवं सुखांबुपस्तच्च पिबेद्गुणाढ्यं॥ आमलकसहस्रं पिष्टस्वेदनविधामेन क्षीरोष्मणा सुखिनमनातपशुष्कमनस्थि चूर्णयेत्॥ तदामलकसाहस्रस्वरसपरिपीतं स्थिराजीवंतीपुन- र्नवानागबलामंडूकपर्णीब्रह्मसुवर्चलाभीरुशंखपुष्पीवचापिप्पलीविडंगस्वयंगुप्ताऽमृताऽगुरुचंदनमधुकमधूकपुष्पपद्मोत्प-लनवमालिकायुवतीयूथिकाचूर्णाष्टभागसंपृक्तं पुनर्नागबलापलसहस्रस्वरसपरिपीतंछायोपशोषितं द्विगुणितसर्पिषा क्षौ- द्रेण क्षुद्रगुडाकृतिं कृत्वा घृतभाजनस्थं भस्मराशेरधःस्थापयेदंतर्भूमौपक्षमथर्ववेदविदा कृतरक्षं पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायश्चूर्णाष्टभागसंयुक्तमर्द्धकर्षाभिवित्ध्यायथाग्नि प्रातः प्रयोजयेदिति समानं पूर्वेण ॥ आमल- कसहस्रमार्द्रपलाशद्रोण्यां संपिधानायां बाष्पमनुहमंत्यामारण्य-गोमयाग्निनिरुपस्वेदयेत्॥ तानि सुस्विन्नशीतानि चोद्धृत्य निष्कुलीकतान्यापोथ्य पिप्पलीविडंगतंदुलानां पृथगाढकेनाध्यर्द्धेन शर्करायाः पङ्क्तिर्मधुघृततैलानां संयोज्य घृतकुंभे स्थापयेद्विंशतिरात्रं॥ परं चोपयोजयेदिति समानं पूर्वेण॥आमलक690सहस्रं पिप्पलीसहस्रसंयुक्तं तरुणपलाशक्षारोदकेना-प्लाव्यशुचौभांडे स्थापयेत्॥ ततोनुगतक्षारमनातपशुष्कमस्थिरहितं चूर्णयित्वा सितोपलापादेन चतुर्गुणाभ्यां मधुघृताभ्यां चसंयोज्य घृतभाजने षण्मासानंतर्भूमेः स्थापयित्वा परतो यथाग्निबल
मुपयुंजीतेति समानं पूर्वेण॥ आमलकचूर्णाढकमेकविंशतिरात्रमामलकस्वरसभावितं मधुयुतं घृताढकाभ्यां पिप्पलीचूर्णा- ष्टभागेन शर्कराचतुर्भागेन संसृष्टं भाजनस्थं प्रावृषितद्भस्मराशाविति समानंपूर्वेण॥अभयामलकविभीतकानांतकानां द्वि- शस्त्रिशो वा संयोजितानां पलाशत्वगवनद्वानां मृदावलिप्तानां कुकूलस्विन्नानां निरस्थीकृतानांपलसहस्रमुलूखले संक्षुद्य दधिमधुघृततैलपललशर्करासंपृक्तं भक्षयेदनन्नभुक्॥ प्रयोगांते द्विगुणं कालं यवागूयूपक्षीरघृतपष्टिकान्नमाहारोऽभ्यंजनं सर्पिरुद्वर्त्तनं यवचूर्णमिति समानं पूर्वेणाभ्यधिकफलंवा॥ विडंगतंदुलानामाढकमाढकं पिप्पलीतंदुलानामध्यर्द्धं सितोप- लाया मधुघृततैलाढकैः षड्भिरेकीकृतं प्रावृषिभस्मराशाविति समानंपूर्वेण॥ दशमूलबलामुस्तजीवकर्षभकोत्पलं॥ पर्णिन्यौ पिप्पली शृंगी मेदा तामलकी त्रुटिः॥ जीवंती जोगकं द्राक्षा पौष्करं चंदनं शठी॥ पुनर्नवद्विकाकोलीकाकनासा-मृताव्हयं॥ विदारीविषमूलं च तदैकध्यं पलोन्मितं॥ जलद्रोणे पचेपंचधात्रीफलशतानि च॥पादशेपंरसं तस्माद्व्यस्थी- न्यामलकानि च॥ गृहीत्वा भर्जयेत्तैलघृताद्द्वादशभिःपलैः॥ मत्स्पंडिकातुलार्द्धेन युक्तं तल्लेहवत् पचेत्॥ स्नेहार्द्धं मधु सिद्वे च तवक्षीर्याश्चतुप्पलं॥पिप्पल्या द्वे पले दद्याच्चतुर्जातं कणार्द्धितं691॥ अतोऽवलेहयेन्मात्रां कुटीस्थः पथ्यभोजनः॥ इत्येवच्यवनप्राशो यं प्राश्य च्यवनो मुनिः॥ जराजर्जरितोऽप्यासीन्नारीनयननंदकः॥कासं श्वासं ज्वरं शोषंहृद्रोगं वात- शोणितं॥ मूत्रशुक्राशयान्दोषान् वैखर्यंच व्यपोहति॥ बालवृद्धक्षतक्षीणकृशानामंगवर्द्धनं॥ मेधांस्मृतिं कांतिमनामय- त्वमायुःप्रकर्षं पवनानुलोम्यं॥ स्रीषुप्रहर्षंबलमिंद्रियाणामग्नेश्चकुर्याद्विधिनोपयुक्तः॥मधुकेन तवक्षीर्षापिप्पल्या सिंधुज- न्मना॥ पृथग्लोहैःसुवर्णेन वचया मधुसर्पिषा॥
सितया वा समा चुक्ता समायुक्ता रसायनं॥त्रिफला सर्वरोगघ्नीमेघायुःस्मृतिबुद्धिदा॥ त्रैफलेनायसीं पात्रीं कल्केनालेप- येन्नवां॥तमहोरात्रिकं लेपंपिबेत्क्षौद्रोदकाप्लुतं॥ प्रभूतस्नेहमशनं जीर्णे तत्रप्रशस्यते॥ जीवत्परुङ्मरस्तस्य समाभ्यासात्समाः शतं॥ वर्षं खादेत्प्राणदां प्रातरेकामश्नभन्नात्पूर्वमभद्वयंच॥साज्यक्षौद्रं भोजनांते चतुष्कं शृंगीकानां तद्वयःस्थापनेऽलं॥ अथायसानि चतुरंगुलदीर्घाणि तिलोत्सेधानि पत्राणि कारयेत्॥ तान्यग्निवर्णानि कृत्वा ऽऽमलकस्वरसे निर्मापयेदेकविंशतिं कृत्वा तेषां तादृशानां पलशतमायस्यां स्थाल्यां प्रक्षिप्यामलकशतोत्तरं कृत्वा सुविहितं भस्मराशौ निखनेत्॥ मासि मासि चोद्धृत्यायसेन दंडेन घट्टयेत्॥ एवंतानि लोहपत्राणि संवत्सराद्द्रवीभवंति॥ ततश्चोत्तरकालम- कृत्वावमनविरेचनं वा स्निग्धवतुरेवकेवलं समंततोंऽगुष्ठपर्वमात्रमुखेनापसेनस्रुवेणायस एवं भाजने तस्मात्कल्कीकृ- तात्स्नुचमेकं गृहीत्वा मधुघृताभ्यां पृथक् सुचेन संयोज्य प्राश्नीयात्॥ जीर्णे क्षीररसयूपाणामन्यतमेन सर्पिमिश्रं नवं षष्टिकौदनश्नीयात्॥ अनेन विधिना वर्षमुपपुज्य वर्षमेव चान्यदप्युद्दिष्टाहारो यंत्रितात्मा कुटीमावसेत्॥ततः सर्वोपतापान् जित्वाव्याधिजरामरणशस्त्राग्नितोयविषाणामगम्यः सर्वभावेष्वतींद्रियोवर्षसहस्रद्वयं जीवति॥ वाजिवेगो गजप्राणो भवेत्तु स्मृतिबुद्धिमान्॥ वाडमी वृषःश्रुतधरो महाभोगो महाधनः॥ ताप्यरूप्यसुवर्णानामयमेव पृथग्विधिः॥ द्विगुणं तु गुणोत्कर्षं जानीयादुत्तरोत्तरं॥हेमधात्रीफलक्षौद्रं गायत्रीपरिमंत्रितं692॥ लिहन्मनुपिवन्क्षीरं दृष्टरिष्ठोऽपि जीवति॥ सुवर्णं पद्मबीजानि मधु लाजाः प्रियंगवः॥ क्षीरेण पीतं परममलक्ष्मीविनिवारणं॥सपद्मबीजामलकाभयाक्षं सर्पिर्मधुभ्यंकनकं लिहंतः॥ दीर्घायु
षो मंदजरोपतापाः सरीसृपाणां च भवंत्यगम्याः॥ मधुमागधिकाविडंगसारत्रिफलाहेमघृतं सितां च खादन्॥ जरसा ऽन- वंलीढदेहकांतिः समधातुश्च समाः शतं स जीवेत्॥ हेमबिल्वं वचासर्षिरैकध्यमुपयोजितं॥ मेध्यमायुष्यमारोग्यकांतिसौ- भाग्यपुष्टिदं॥ शतावरीघृतं लीढं ससुवर्णं समाक्षिकं॥ करोति चिरजीवित्वं राजानं चवशानुगं॥आयुष्कामः शंख- पुष्प्यासमेतं मेधाकामः कांचनं सोग्रगंधं॥लक्ष्मीकामः पद्मकिंजल्कयुक्तं खादेत्कामं कामकामो विदार्या॥ मंडूकपर्ण्याः स्वरसं यथाग्निक्षीरेण यष्टीमधुकस्य चूर्णं॥ रसं गुडूच्याःसहमूलपुष्प्याः कल्कं प्रयुंजीत च शंखपुष्प्याः॥ आयुः प्रादान्यम-यनाशनानि बलाग्निवर्णस्वखर्द्धनानि॥मेध्यानि चैतानिरसायनानि मेध्या विशेषेण तु शंखपुष्पी॥नलदं कटुरोहिणी पयस्पा मधुकं चंदनसारिवोग्रगंधाः॥ त्रिफलाकटुकत्रयं हरिद्रे सपटोलं लवणं च तैः सुपिष्टैः॥ त्रिगुणेन रसेन शंखपुष्प्याः सपयस्कंघृतनल्बणं विपक्वं॥उपयुज्य भवेज्जडोऽपि वाग्मी श्रुतधारी प्रतिभानवानरोगः॥ ब्राह्मीवचासैंधवशंखपुष्पीम- त्स्याक्षकब्रह्ममुवर्चलैंद्र्यः॥वैदेहिका च त्रियवाः पृथक्स्युर्यवौ सुवर्णस्य तिलो विषस्य॥ सर्पिषश्च पलमेकत एतद्योजयेत्परि- णते च घृताढ्यं॥ भोजनं समधुवत्सरमेवं शीलयन्नधिकधीस्मृतिमेधः॥ अतिक्रांतजराव्याधितंद्रालस्यश्रमक्लमः॥ जीवत्य- ब्दशतं पूर्णं श्रीतेजःकांतिदीप्तिमान्॥ विशेषतः कुष्ठकिलासगुल्मविषज्वरोन्मादगरोदराणि॥ अथर्वमंत्रादिकृताश्चकृत्याः शाम्पंत्यनेनातिबलाश्चवाताः॥ यथोक्तगुणायां भूमौजातामबालामजीर्णांशीर्णपुराणपर्णामसंजातान्यपर्णांतपसि693 तपस्ये॥
वा मासे पथोक्तेन विधिना पुष्ययुक्तेचंद्रमसि सुमुहूर्ते नागबलांसमूलामुद्धारयेत्॥ तस्या मूलानां त्वक् पिंडमात्रमक्षमात्रं वा श्लक्ष्णपिष्टं वाचूर्णितं पयसा पिबेत्॥ मधुघृताभ्यां वा लिह्यात्॥ जीर्णेक्षीरवृत्तिरेव स्यात्॥ क्षीरेणैव वा ससर्पिष्कं शालिपष्टिकमश्नीयात्॥एवं संवत्सरं प्रयोगाद्वर्षशतमजर इत्यादि समानं पूर्वेण॥बलाऽति वलाचंदनागुरुधवतिनिशखदि- रकशिंशिपाऽसनसुरसा पुनर्नवांताश्च694वयःस्थापनोक्ता दशौषधयः सविदारीश्वदंष्ट्राश्वगंधावाराहीशतावर्यो नागबलया व्या- व्याख्याताः॥ तत्र सारवृक्षाणां सर्वेषां स्वरसार्थी कुष्ठचिकित्सिते खदिरकल्पमीक्षेत॥ आर्द्रवृक्षासंभवे तु सारशकलानि द्व्यंगुलत्र्यंगुलानि तनूनि चतुर्गुणांभसाऽऽप्लाव्यातपे त्रिरात्रंस्थापयेत्॥ ततस्तान्युद्धृत्यान्यानि तत्रप्रक्षिपेत्॥ त्रिरात्राच्च पु- नरन्यानि॥ एवं नवरात्रेण त्रिःप्रक्षेपेणोद्धारेण चस्वरसः परिकल्पितो भवति॥ फलानां पुनर्वीरुदोषधीनां च यंत्रेणोलूखलेन वानिष्पीड्यस्वरसं गृह्णीयात्॥परिशुष्काणां तु चूर्णीकृतानामाढकमाढकमुदकस्पाहोरात्रस्थितं विमृदितपूतं स्वरसव- त्प्रयोज्यं॥ तुवरकभल्लातकादीनां पुनः पृथगेवोपदेशः॥वृक्षास्तुवरकानाम पश्चिमार्णवतीरजाः॥ वीचीतरंगविक्षोभमारु- तोद्धूतपल्लवाः॥ तेभ्यः फलान्याददीत सुपक्वान्यंबुदागमे॥ यज्ञः फलेभ्यश्चादाय शोषयित्वाऽवचूर्णयेत्॥ तिलवत्पीडये- द्द्रोण्यां क्वाथयेद्वाकुसुंभवत्॥ तत्तैलं संभूतं भूयः पचेदासलिलक्षयात्॥ अवतार्य करीपेषुपक्षमात्रं निधापयेत्॥स्निग्धस्विन्नो हृतमलः पक्षादुहृत्य तं ततः॥ चतुर्थभक्तांतरितः प्रातः पाणितलं पिबेत्॥मंत्रेणानेन पूतस्यतैलस्यदिवसे शुभे॥मज्जासार महावीर्य सर्वान्धातून्विशोधय॥शंखचक्रगदापाणिस्त्वामा
ज्ञापयतेऽच्युतः॥ तेनास्योर्ध्वमधस्ताच्च दोषायांति सकृत्ततः॥सायमस्नेहलवणां यवागूं शीतलां पिबेत्॥ पंचाहानि पिबेत्तैलमित्थंवर्ज्यान्विवर्जयेत्॥ पक्षं मुद्गरसान्नाशी सर्वकुष्ठैर्विमुच्यते॥ तदेवखदिरक्वाथे त्रिगुणे साधु साधितं॥ निहंति पूर्ववत्पक्षं पिबेन्मासंसुयंत्रितः॥तेनाभ्यक्तशरीरस्तु कुर्वन्नाहारमीरितं॥ भिन्नस्वरं रक्तनेत्रं शोर्णांगं कृमिभक्षितं॥ अनेनाशु प्रयोगेण साधयेत्कुष्ठिनं नरं॥सर्पिर्मधुयुतं पीतं तदेव खदिराट्टिना॥ पक्षं मांसरसाहारं करोति द्विशतायुपं॥ तदेव नस्ये पंचाशद्दिवसानुपयोजितं॥ वलीपलितनिर्मुक्तं स्थिरस्मृतिकचद्विजं॥ वपुष्मंतं श्रुतिधरं करोति त्रिशतायुषं॥ अंतर्धूमं तस्य मज्जा सुदग्धः क्षिप्तस्तैले सैंधवं चाग्निवर्णं॥तुल्यं हन्यादर्मनक्तांध्यकाचान्नीलीरोगं तैमिरं चांजनेन॥ एकांतरं तौवरकं च तैलं पिबेद्धिताशी नियमेन मासं॥ प्रभिन्नकुष्ठोगलितांगदेशस्त्वचं त्यजेत्सर्पइवाशु जीर्णां॥ साधयेत्षोडशगुणे सलिले तुवराढकं॥ अष्टांशशेषे विस्राव्य संक्षुद्योदूखले ततः॥शुष्कारग्वधकल्कपादरजसा व्यामिश्रितं कल्कितं तस्य क्वाथजलै- रुदुंवरसमान् छायाविशुष्कान् गुडान्॥कुर्यादेकमतश्व सार्द्धमथवागोवारिणाऽऽलोडितं कुष्ठी तद्दिवसं स्थितो निरशनः सूर्ये गतेऽस्तं पिबेत्॥तावदेव च तथैव च भूयः पाययेत्तमरुणोदयकाले॥ अप्यजीर्णमविचिंत्य वमिंवा भेषजं पुरुषदोषबलज्ञः॥ मध्यान्हेऽद्याद्भूरिनिष्पावतैलं कंडूकारं शिग्रुकंदोपदंशं॥ दध्नायुक्तं स्वल्पसिंधूत्थचूर्णगव्येनानु स्तोकतकानुपायी॥ तैलाक्तगात्रो दिवसांतरं च कंग्निष्टिकाचूर्णकृतप्रवर्षः॥ स्नायात्सुखांशोभिरमद्यमांसस्त्रीसंगतिः स्या- स्त्रिगुणं च योगात्॥ उपयुज्य योगमखिलं प्रतिदिनमेव द्विकालमभियुक्तः॥ कुष्ठीकुष्ठमपोहति विशीर्णकर्णौष्ठनासमपि॥ अथ भल्लातकान्यनुप
हतान्यनामयान्यापूर्णरसप्रमाणवीर्याणि पक्वजांबवप्रकाशानि शुक्रेशुचौ695 वा मासे संगृह्य यवपल्ले माषपल्ले वा निधाप- येत्॥ तानि चतुर्मासस्थितानि सहसि सहस्ये696 वा मासे प्रयोक्तुमारभेत॥ शीतस्निग्धमधुरोपस्कृतशरीरः पूर्वं दशभल्लात- कान्यापोथ्याष्टगुणेनांभसा साधयेत्॥ तेषां रसमष्टभागावशिष्टमनुष्णं सपयस्कं सर्पिर्गंडूषाभ्यक्तोष्ठतालुजिव्हः प्रातः प्रातः पिबेत्॥ एवमेतानि दश भल्लातकान्येकैकोत्कर्षापकर्षणास्त्रिंशत्प्रयोज्यानि॥ विधिनाऽनेन साहस्रं प्रयोगस्त्रिगुणश्चका- लो घृतक्षीराभ्यां शालिपष्टिकमशनमेवं विशेषाद्विगतकुष्ठदुर्नामककृमिप्रमेहमेदोदोषोवर्षशतमजर इत्यादि समानं पूर्वेण॥ पूर्वमेव च भल्लातकक्वाथंसपयस्कं पिबेदेकैकं च भल्लातकमभिवर्द्धयेत्॥ यावत्पंच॥ ततः पंचपंच वर्द्धयेद्या- वत्सप्ततिः॥ प्राप्य च सप्ततिमपकर्षयेत्॥ भूयः पंचपंचयावत्पंचपंचभ्यश्चैकैकं विधिनाऽनेन सहस्रं प्रयोगइत्यादि समानं पूर्वेण॥ सप्ततिवच्चशतमुपयुंजीत॥ तथा च सहस्रद्वयं प्रयोग इत्यादि समानं पूर्वेण॥ द्विगुणस्त्वायुषः कालः॥ भल्लात- कानां जर्जरीकतानां पिष्टस्वेदनं697 पूरयित्वा भूमावाकंठनिखातस्यस्नेहभावितस्य दृढस्योपरि कुंभस्यारोप्योडुपेनापिधाय कृष्णमृदवलिप्तंगोमयाग्निनोपस्वेदयेत्॥ तेषां यः स्वेदरसः कुंभं प्रपद्येत तमष्टभागमधुसंप्रयुक्तं द्विगुणितघृतमद्यात्॥ त्रिगुणश्च कालो घृतक्षीराभ्यामित्यादि समानं पूर्वेण॥ अनेनैव विधिना भल्लातकस्वरसं गृहीत्वा केवलमेव मासमेकं प्रयुंजीत त्रिगुणः कालइत्यादि समानं पूर्वेण॥ मासि मासि वर्षशतमायुषोऽपि वृद्धिः॥ एवं दशमासानुपयुज्य वर्षसह- स्रमायुर्भवति॥ भल्लातकतैलपात्रं सपयस्कं मधुकाक्षपात्रेण शतपा
कमुपयुंजीत॥त्रिगुणश्च काल इत्यादि समानं पूर्वेण॥ भल्लातकतैलं कृष्णतिलतैलं सर्पिरामलकरसोऽसनादिसारकषाय इत्येषांद्रोणंद्रोणं त्रिफलात्रिकटुकविडंगसारचित्रकहरिद्राद्वयत्रिवृद्दंतद्रिंयवयष्टीमधुविपातिविपारसांजनप्रियंगूनां पालि- का भागास्तदैकध्यंस्नेहपाकविधिना विपाच्यावतार्य परिपूर्य चानुगुप्तं निदध्यात्॥ ततउपस्कृतशरीरः प्रातः प्रातः पाणिशुक्तिमात्रं क्षौद्रेण प्रतिसंयोज्योपयुंजीत॥ जीर्णे मुद्गामलकयूषेणालवणेन सर्पिष्मता खदिरोदकसिद्धं मृदुमोदनम- श्नीयात्॥ खदिरोदकेनोदककार्यकर इत्येवमतोद्रोणमुपयुज्य विगतकुष्ठदुर्नामेत्यादि समानं पूर्वेण॥ पुष्टानि पाकेन परि- च्युतानि भल्लातकान्याढकसंमितानि॥ घृष्ट्वेष्टिकाचूर्णकणैर्जलेनप्रक्षाल्य संशोष्यच मारुतेन॥ जर्जराणि विपचेत्कलशे- ऽपां पादशेषधृतगालितशीतं॥ तद्रसं पुनरपि श्रपयेच्च क्षीरकुंभसहितं चरणस्थे॥सर्पिः पक्वंतेन तुल्यप्रमाणं युंज्याप्रस्थं शर्कराया रजोभिः॥ एकीभूतं तत्स्वजक्षोभणेन स्थाप्यं धान्ये सप्तरात्रं सुगुप्तं॥ तममृतरसपाकंयः प्रगे प्राश्यमश्नन्ननुपि- बति यथेष्टं वारि दुग्धं रसं वा॥ स्मृतिमतिबलमेधासत्वसारैरुपेतः कनकनिकषगौरः698 सोऽश्नुते दीर्घमायुः॥ सहामलकशु- क्तिभिर्दधिसरेण तैलेन वा गुडेन पयसा घृतेनयवसक्तुभिर्वा सह॥तिलेन सह माक्षिकेण पललेन सूपेन वा वपुष्करम- रुष्करं परममेध्यमायुष्करं॥ भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च॥ भवंत्यमृतकल्पानि प्रयुक्तानि यथाविधि॥ कफजो न सरोगोऽस्ति न विबंधोऽस्ति कश्चन॥ यन्नभल्लातकं हन्याच्छीघ्रमग्नि बलप्रदं॥वातातपविधानेऽपि विशेषेण विवर्जयेत्॥कुलत्थदधिशुक्तानि तैलाभ्यंगाग्निसेवनं॥पंचाष्टौसप्त दश वा पिप्पलीमधुसर्पिषा॥ रसायनगुणान्वेषी समामेकां प्रपोजयेत्॥ तिस्रस्ति
सस्तु पूर्वाह्नेभुक्त्वाऽग्रे भोजनस्य च॥ पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः॥ प्रयोज्या मधुसंमिश्रा रसायनगुणैषिण- णा॥दश वृत्ध्यादशाहानि दश पैप्पलिकं दिनं॥ वर्द्धयेत्पयसा सार्द्धंतथैवापनयेत्पुनः॥ जीर्णोपधश्च भुंजीत षष्टिकं क्षीर- सर्पिषा॥पिप्पलीनां प्रयोगोऽयं सहस्रस्य रसायनं॥ पिष्टास्ता वलिभिः पेयाःभृता मध्यवलैर्नरैः॥ शीतीकृता मध्यवलैर्वीक्ष्य दोषान्प्रयोजयेत्॥तद्वच्चछागदुग्धेन द्वे सहस्रे प्रयोजयेत्॥ एभिः प्रयोगैःपिप्पल्यःकासश्वासगलग्रहान्॥ यक्ष्ममेहग्रहण्य- र्शःपांडुत्वविषमज्वरान्॥घ्नंति शोफंवमिंहिध्मांप्लीहानं वातशोणितं॥ विडंगचूर्णं यष्टीमधुकचूर्णयुक्तं शीततोयेन मासमुपयुंजीत॥ जीर्णे मुद्गयूषेणालवणेन सघृतमोदनमश्नीयात्॥ तेन विशेषाद्विगतकृमिदुर्नामकुष्ठप्रमेह मेदोदोषो वर्ष- शतमजर इत्यादि समानं पूर्वेण॥ विडंगचूर्णं क्षौद्रभल्लातकक्वाथाभ्यां मध्वामलकरसाभ्यां गुडूचीक्वाथेन॥ एतांश्चतुरो योगान्मासमुपयुंजीतेति समानं पूर्वेण॥ सर्वेषु च मासि मासिवर्षशतं वर्षशतमायुषो वृद्धिः॥ अलंबुपां स्वेनरसेन भावितां पृथक्पृथक् क्षीरमधूष्णवारिभिः॥ पिबेत्तथा कांजिकतक्रमस्तुभिर्भगंदरोरुग्रहकासवान्नरः699॥उष्णा विपाके कटुका कषा- यमधुरा रसे॥अत्यर्थं दीपनी मेध्या वातश्लेष्महरा च सा॥वर्षोपयोगात् कुरुते नरं वर्षशतायुषं॥ दृढेंद्रियानलबलं निर्वलीपलितामयं॥श्वेतावल्गुजफलान्यातपशुष्काणि चूर्णयित्वा तत्तुल्यगुडेन संक्षुद्य घृतकुंभे धान्यराशौ सप्तरात्रं निदध्या- त्॥ततोऽनुदिते भास्वति यथाबलमात्रं सुखोदकानुपानमुपयोजयेत्॥ जीर्णे शीतांबुपरिषिक्तः शालिषष्टिकौदनं सशर्करेण पयसाऽश्नीयात्॥तस्य मासप्रयोगाद्विशेषेण विगतकुष्ठोग्रहणधारणवान् वर्शशतमजर इत्यादि समानं पूर्वेण॥ प्रयोगा- च्चोर्ध्वं द्विगुणपरिहारः॥ वाकुचि
काकर्पचूर्णं सुखांबुना पिबेत्॥ पीत्वाचातपे निर्वातोष्णेन वा गर्भगृहे तिष्ठेदपराण्हे तद्वदेव स्नानमशनं यूपरसाभ्यां वा तस्य त्रिःसप्तरात्रोपयोगाद्विगतकुष्ठइत्यादि समानं पूर्वेण॥ त्वग्रोमकेशदशननखांस्तुमुक्त्वा पुनर्नवाल्ँलभते॥ स्वरवर्णबलोत्साहं नवंवयो नेष्टपलितंच॥ पलानि दश वाकुच्या दशैव च फलत्रयात्॥ सप्त कृमिघ्नादयसस्त्रीणि द्वे गिरिसंभवात्॥ पुरपुष्क- रमूलाभ्यामाहरेत पलं पलं॥सूक्ष्मैलार्द्धपलं व्योषघनकेसरकुंकुमं॥रोध्रत्वक्पत्रयष्ट्याव्हचित्रकं कार्पिकं पृथक्॥ भल्ला- तकानां च शतं सर्वंखंडसमांशकं॥चूर्णयेदथ तन्मात्रा भक्षयेत्पालिकींपरां॥ यथेष्टचेष्टो लभते वर्षाद्रासायनान् गुणान्॥ सर्वान् रोगान्विजयते त्वग्विकारान्विशेषतः॥अर्शोभगंदरश्वासकासपार्श्वामयकृमीन्॥ गुल्मप्लीहाश्मरीवर्ध्मप्रमेहारुचिपी- नसान्॥ मंदानलत्वं कृशतां शोफग्रंथ्यर्बुदानपि॥ वाकुचिकाफलानि गोमूत्रे सप्तरात्रंवासयेत्॥ ततो निस्तुपीकृत्य छाया- यां शोषयित्वा सुसूक्ष्मं च संचूर्ण्य त्र्यहं त्र्यहंक्रमशो भावयेस्त्रिफलाक्वाथेन कारवेल्लीवासाब्राह्मीगुडूचीभृंगराजस्वरसैः पृथक् पृथक् खदिरासनराजवृक्षपिचुमंदक्वाथैः॥ तस्य पीतः प्रतिदिनं धात्रीफलरसाप्लुतः॥ कर्षःसर्वामयान्हंति त्वग्विका- रं विशेषतः॥असनरखदिरयूपैर्भावितां सोमराजींमधुघृतशिखिपथ्यालोहचूर्णैरुपेतां॥ शरदमवलिहानः पारिणामान्विका- रांस्त्यजति मितहिताशी तद्वदाहरजातान्॥ तीव्रेण कुष्ठेन परीतमूर्तियः सोमराजींनियमेन खादेत्॥ संवत्सरं कृष्णतिल- द्वितीयां ससोमराजींवपुषाऽतिशेते॥ ये सोमराज्या वितुपोकृतायाश्चूर्णैरुपेतात्पयसःसुजातान्॥ उद्धृत्य सारं मधुना लिहंतितक्रंतदेवानु पिबंति चांते॥ कुष्ठिनः शीर्यमाणांगास्ते जातांगुलिनासिकाः॥भांति वृक्षा इव पुनः प्ररुढनवपल्लवाः॥खदिरांभसा पिबेद्वारविसेवी तथा यवागूं वा॥ गायत्रीजलसिद्धां कुष्ठीन तोषकार्यकरः
गजलिंडक्षारयुता तत्क्षारस्नायिनो विलेपिभुजः॥ श्वित्राणि सोमराजी प्रसह्यहन्यात्प्रलेपाच्च॥ गोमूत्रे सप्तरात्रं शशिशकलमयोवासितंपेषयित्वा कुर्याच्छायाविशुष्कं पृथगिति च पलं प्रापुनाटं च शुष्कं॥अंशस्ताभ्यां तथांऽशः कृमिरिपुदहनस्फोटकृद्भ्यः स चूर्णां गोमूत्रेणोपयुक्तः प्रमितहितभुजः श्वित्रमाश्वेव हंति॥ इक्षुरगोक्षुरासिंहीव्याघ्रीपंचांगुलां- बुना पीता॥ उपलेपनं घनं या रसाशिनां हंति वाकुचिका॥उष्णोदकेन पिष्ट्वापीता॥घृतमिश्रिता जयेद्गुल्मं॥ लघुपंचमू- मूलसिद्धांपेयामुपयोजयेज्जीर्णे॥ कट्वंगकुटजयूपैरशांसि भगंदरं च नाशयति॥मेहान्मद्यैर्निगदैर्निषेविता वाकुची प्रबलान्॥ विष्किररसेन पीता दशमूलरसेन वा गुडूच्या वा॥ अपतंत्रकं निहन्यादायामं वारसान्नभुजः॥जटरे प्रपिबेन्मूत्रैर्जलोदरे त्रैवृतेन यूपेण॥ शोफे पांडुव्याधाववल्गुजंसीध्वरिष्टसंयुक्तं॥ इक्षुरकादिक्वाथैर्वर्ध्मनिमूत्रेण वा गवां शस्ता॥ धारोष्णेन तु पयसा युक्ता शोफज्वरौ हंति॥उष्णांबुना प्रयोज्या लूताकीटाखुसर्पदष्टेषु॥ कृमिहरचतुरंगुलयोः क्वाथैः कोष्णैः कृमिण-कोष्ठे॥ लेखामिंदोःसघृतां मुखांबुना पुत्रिणी भवति पीत्वा॥पुष्पोदये ऽश्वगंधाघृतेन पयसा च भुंजाना॥ वंध्याऽपि सप्ताह- मिमं प्रयोगं करोति या हर्षवती सुगंधी॥ प्रियंवदा च व्रतशौचयुक्ता सूते सुतान् सा नियमाद्गुणाढ्यान्॥ स्निग्धैरुष्णैर्म- र्मधुरैर्हरति गदान्वातजान् युवापैत्तान्॥ तिक्तमधुरकषायैःकफजांस्त्रिफलारसमधुभ्यां॥ इति शमनी धन्येयं विषधरभू- तोपसर्गपाप्मघ्नी॥ गेहे स्थिताऽपि रेखा चांद्रमसी किमुत कोष्ठस्था॥मनुष्यमप्यागतमृत्युशासनं प्रनष्टबुद्धींद्रियमल्पचेतसं॥ अवल्गुजामोक्षयते महाभयाच्छ्रियं च मेधांच ददाति पुष्कलां॥ह्रैमवत्या वचायाः पिंडमामलकमात्रं पयसाऽऽलोड्य पिबेत्॥ जीर्णेपयःसर्पिरोदनइत्पाहारः॥ एवं सप्तरात्रेण मेधावी भवति॥ सप्ततिसप्तरात्रैः
श्रुतधरो वर्षशतमजरइत्यादि समानं पूर्येण॥ तच्चूर्णं क्षौद्रसर्पिर्भ्यांयथावलमवलिह्माज्जीर्णे पय इत्यादि समानं पूर्वेण॥ वचाकल्कशतपाकंघृतद्रोणमुपयुज्य विशेषाद्ग्रहोन्मादापस्मारगलगंडगंडमालाश्लीपदस्वरभेदविमुक्तः सर्वार्थेषु सिद्धि- मान् पंचवर्षशतायुर्भवति॥शीतवर्षहिमदिग्धतनूनां स्तब्धभग्नकुटिलव्यथितास्न्थां॥ भेषजस्य पवनोपहतानां वक्ष्यते विधिरतो लशुनस्य॥ राहोरच्युतचक्रेण700 लूनाद्ये पतिता गलात्॥ अमृतस्य कणा भूमौ ते रसोनत्वमागताः॥ द्विजा नाश्नंति नमतो दैत्यदेहसमुद्भवं॥ सांक्षादमृतसंसूतेरल्पाग्नेः701 स रसायनं॥ शीलयेल्लशुनं शीतेवसंते च कफोल्बणः॥ घनोदयेऽपि वातार्तःसदा वा ग्रीष्मलीलया॥ मासः परोऽस्य रसकल्कनिषेवणाय स्वच्छंदमप्युपदिशंति विमर्दकैस्तु॥ षण्मासमन्नवि- धिनातमुशस्तमाहुः पक्षप्रयोगमपिसाधुतरंरसोने॥स्निग्धशुद्धतनुः शीतमधुरोपस्कृतनाशयः॥ तदुत्तंसावतंसाभ्यां चर्चिता- नुचराजिरः॥ तस्यकंदान्वसंततिहिमवच्छकदेशजान्॥ अपनीतत्वचो रात्रौतिमयेन्म702दिरादिभिः॥ तत्कल्कस्वरसं प्रातः शुचितांतवपीडितं॥ मदिरायाः सुरुढायास्त्रिभागेन समन्वितं॥ मद्यस्यान्यस्य तैलस्य मस्तुनाकांजिकस्य वा॥ तत्काल- एववा युक्तं युक्तमालोच्य मात्रया॥ तैलसर्पिर्वसामज्जक्षीरमांसरसैः पृथक्॥ क्वाथेन वा यथाव्याधि रसं केवलमेव वा॥ पिबेद्रंडूपमात्रं प्राक्कंठनाडीविशुद्धये॥ प्रततं स्वेदनंचानु वेदनायां प्रशस्यते॥ शीतांबुसेकः सहसा वमिमूर्च्छापयोर्मुखे॥शेषंपिबेत्क्लमापाये स्थिरतां गत ओजसि॥विदाहपरिहाराय परं शीतानुलेपनः॥ धारयेत्सांबुकणिकामुक्ताकर्पूरमालि- काः॥ सहिमरा
लिलगर्भाचंद्रशुभ्रामृणालीकुवलपदलमाला हारयष्टी
श्चलोलाः॥स्तनतटविनिविष्टाश्चारुगात्र्यो दधानास्तनुसरसविलिप्ता गाढमेनं स्वजेरन्॥ नलिनीदलतालवृंतवातैःप्रगलद्वारिलवैर्जलार्द्रयावा॥ दयिताःकरपल्लवैश्च शीतैर्लशुनखेदकृतं क्लमंहरेयुः॥ कुडवोऽस्यपरं मात्रा तदर्द्धंकेवलस्य तु॥ पलं पिष्टस्य तन्मज्ञः सभक्तं प्राक् च शीलयेत्॥रसोनकल्पो मृदुनौजसा हि संयुज्यमानः सहसा हि तस्य॥ दाहातिसारारतिचित्तनाशान्कुर्यादतस्तं त्वरितो न युंज्यात्॥ जीर्णशाल्योद- दनंजीर्णे शंखकुंदेंदुपांडुरं॥ भुंजीत यूपैःपयसा रसैर्वाधन्वचारिणां॥दीप्ताग्निर्मंडकान् खादेत्सर्षिर्मडोपसेवनान्॥अखं-डमंडलेंद्वाभानिंडरीखंडमंडितान्॥ राजिकासुक्तसंपर्कविनिवर्तितगौरवैः॥ पिष्टिकाचूर्णधवलैर्वध्रैःसौकरकैर्युतान्॥ मद्य- मेकं पिबेत्तत्र तृट्प्रबंधेजलान्वितं॥गंधमत्तकणदलि प्रियाबकेंदुचोषितं॥ अमद्यपो मस्तुफलाम्लतक्रमवंतिसोमं च सुगं- शीतं॥ सौवीरकं जांगलजं रसंवाकूपोदकं वा परिसित्थिकं वा॥ तत्कल्कंवा समघृतं घृतपात्रे खजाहतं॥स्थितं दशाहा- दश्रीयात्तद्वद्वावसया समं॥ सद्यः पिष्टं सर्पिषासंयुतं वा निर्यासेन स्वेन युक्तं निकामं॥ युंजीतैनं पूर्वकैरेव पानैः कोष्णां- भोभिर्वैषकल्पोऽतिवीर्यः॥ रसोनकल्कः सदृशाजसर्पिः षण्मासमुड्यामुषितो निहंति॥ अभ्यंगपानांजननस्ययुक्तो नाना- विकारान्विषमज्वरं च॥ समतैलं समुक्तं वा यवराशौ समास्थितं॥वातरोगान् जपेत्खादन् घृतमांसोत्तराशनः॥ तैलसर्षिर्गु- डसिताःपृथक्कुर्यात्पलोन्मिताः॥ द्वे पलेलशुनाच्छुद्धान्यूषणात् कुडवत्रयं॥पलंत्वचश्च
तच्छ्लक्ष्णंनिहितं घृतभाजने॥ द्वे समे यवमध्यस्थं पूर्वस्मादधिकं गुणैः॥ क्षुण्णां पिबेत्कंदतुलां तक्रस्य पलविंशतिः॥ गते तु सप्तरात्रेतु तुलार्द्धमसितात्ति- लात्॥ धौतक्षुण्णात्पृथक्क्षौद्रगुडशुंठीचतुष्पलं॥अजाजीचव्यधान्यानि द्विरुष्णादीप्यग्रंथिकान्॥पलोन्मितांश्चतुर्जातात्पलमेकं सुचूर्णितं॥पृथक्पलाष्टकं तैलाङ्घृतात् क्षुण्णाच्चसर्पपात्॥ पटूनि पंच क्षारौद्वौदद्यात्तत्राक्षमानतः॥ एकादशाहं तद्धान्ये स्थितमश्रन्प्रगेप्रगे॥गुणान् रासायनान्सर्वान् संप्राप्नोति निरामयः॥ द्विपंचमूलनिक्वाथे नल्बणे लशुनाढकं ॥ पिष्टं पर्युषितं वर्षे हंति वातकफामयानू॥ तत्कंदकल्कस्वरसे घृततैलं पृथक् पचेत्॥ शीलयेच्चयथासात्म्यं दारुणानिलपीडितः॥ नवनीतसमांशं वा खादेत्तत्कल्कमर्दिते॥ विकंचुकप्राज्यरसोनगर्भा- न्सशुल्यमांसान्विविधोपदंशान्॥ विमर्दकान्वा घृतसुक्तयुक्तान्प्रकाममद्याल्लघु तुच्छमश्नन्703॥कुस्तुंबरीजीरकभृष्टमुद्गसौ- वर्चलश्लक्ष्णरजोवकीर्णान्॥ रसोनकंदांकुरपत्रचित्रैःसव्यंजनैर्नैकरसानुपानैः॥ तत्कंदसिद्धान् क्रमशो यूपक्षीररसान् पि- बेत्॥ कफपित्तानिलाशंकी यथास्वौषधसंस्कृतान्॥ कृशोऽश्वगंधोद्भवचूर्णकीर्णं सन्नस्वरो यष्टिमधूपधानं॥ तैलेन गुल्मी खदिरेण कुष्ठी खादेत् कृमिघ्नैः कृमिमान् रसोनं॥ मांसादमांसैर्यक्ष्माणमर्शांसि कुटजत्वचा॥हंति स श्रेष्ठया मेहकास- श्वासविलंबिकाः॥अन्नस्वरूपविज्ञानात् स्वरूपमुपलभ्य च॥ यथायथं प्रयोगोऽस्यकार्यस्तं तं गदं प्रति॥ लशुनखरसप्र- स्थान्द्वात्रिंशत्तिलतैलतः॥द्वावपेतमलात्किण्वादष्टौ पिष्टाच्च पड्यवात्॥ मेषश्रृंगीभवात्क्वाथाद्द्रोणयुग्मं च शीतलात्॥ स्नेहपात्रे तदैकध्यंनिदध्याच्चशुचौ दृढे॥क्रमात्तत्र पुनर्दग्धात्पिष्टात्पात्रचतुष्टयं॥ पक्षात्परमियं पेया सुरावातविकारिभिः॥ त्रिरात्रमुषितं क्षुण्णं लशुनं खादयेत्ततः॥क्षीरदध्याज्यमथिनं ब्राह्मणस्यापि शस्यते॥ पित्तरक्तविनिर्मुक्ते समस्तावरणावृते॥ शुद्धे वा विद्यते वायौ न द्रव्यं लशुनात्परं॥ सुखात्मनां विशेषेण प्रयोज्यो लशुनोद्भवः704॥ नारदेनोद्धवस्यैप वातभग्नस्यकल्पितः॥ आमांचुपानेक्षुविकारमत्स्ययानाध्ववातातपभाष्यचिंताः॥ स्वमं दिवा जागरणं निशासुपिष्टं व्यवायं दधिचात्र नेच्छेत्॥ स्नेहकल्कविधानेन स्नेहयुक्तं प्रयोजयेत्॥लशुनं स्नेहसंयोगाद्गरीयान् जायते हि सः॥ पित्तकोपभयादंते युंज्यान्मृदु विरेचनं॥रसायनगुणानेवं परिपूर्णान्समश्नुते॥ प्रियांबुगुडदुग्धस्य मांसमद्याम्लविद्विषः॥अतितिक्षोरजीर्णं च रसोनो व्या- पदे ध्रुवं॥ पांडूदरोरःक्षतशोफतृष्णापानात्ययच्छर्दिविषव्रणेषु॥ पैत्ते विकारेऽक्षिगदेऽतिसारे क्षामे शरीरे च स वर्जनीयः॥ शीलितएव करोति दुरापं वन्हिशरीरबलं सममेव॥वाङ्मतिरूपगुणाढ्यमुतेशं स्त्रीपुरुषस्य च वीजविशुद्धिं॥अमृतकणस- मुत्थंयो रसोनं रसोनं विधियुतमिति खादेच्छीतकाले सदैव॥स नपति शतजीवी स्त्रीसहायो जरांतं कनकरुचिसवर्णो नी- रुजस्तुटपुष्टः॥लशुनानंतरं वायोः पलांडुः परमौषधं॥ साक्षादिव स्थितं यत्र शकाधिपतिजीवितम्॥ यस्योपयोगेन शकांग- नानां लावण्यसारादिव निर्मितानां॥ कपोलकांत्या विजितः शशांको रसातलं गच्छति निर्विदेव॥स्निग्धांगत्वं गौरता कांति- मत्ता वन्हेर्दीप्तिर्वर्प्मपुष्टिर्नृपत्वं॥ संप्राप्यंते यंत्रणोद्गमुक्तैर्यस्याभ्यासाहीर्धमायुः सुखं च॥ अव्याहारेशीलितो दीर्घगत्रं वल्य- श्चक्षुस्तर्पणः स्थैर्यकारी॥ तैस्तैर्योगैर्योजितोऽयं पलांडुस्तानातंकान्देहिनामुच्छिनत्ति॥रसं रसोनवत्तस्य पीत्वाऽश्नीयात्तथैव च॥ सबीजपूरस्वरसं मदिरामधुसीधुपः॥ मरकतमणिनीलंनालमस्याति हृद्यं परिणतशशिगौरं यच्च बीजं सुपिष्टं॥ ससुरससुमुखाभ्यां प्राश्यमासं सभुक्तं मृदुधवलसुवृत्तैर्मंडकैरार्द्रमूर्तिः॥ बहुशःशोभितं शुभ्रैः शशांकशकलोपमैः॥ घारिकेंडरिकावल्लैःः क्षीरोदावयवैरिव॥ यवमुद्गमापगोधुमबहुविधविकारकल्पितान् भक्ष्यान्॥ कांवलिकरागपांडवसट्ट- करवलकान्सफलसारान्॥ पटुसुरभिमधुरगंधान्यलाक्षकधवलबहुलरसान्॥ खर्जूरदाडिमसिताद्राक्षापानानुपोऽभ्यसेन्नि
त्यं ॥लभते बलवर्णोजोवीर्यस्वरसौमनस्यतेजांसि॥ क्षीणशकृदुधिरोऽपि च रसोनवत्तद्रसं पीत्वा॥ सुरासुरैः क्षीरसमुद्रमंथ- नोद्गतास्तदा येऽमृतबिंदवःपुरा॥ बभूव तेभ्यः किलकुक्कुटी यया व्रजंति देवत्वमिवाद्य मानुषाः॥ कुक्कुटांडनिक्षैः कंदैः किंचित्कटुकपिच्छिलैः॥ स्त्रिग्धैर्मरकतच्छायैःखर्जूरसदृशच्छंदैः॥ निखिलरोगहराऽपि विशेषतो जयति दारुणमप्यनिला- मयं॥ गुदजगुल्मतमोविषनाशिनीजनयति स्थिरतां वपुषः पुरा॥ कुटीं प्रविश्य तत्कंदान् भक्षयेद्घृतभर्जितान्॥ पयोऽनु- पाने धारोष्णंतत्रेष्टमसनांबुवा॥ तन्मात्रवृत्तिस्तु भवेद्दशाहं विंशत्यहं स्वादुभुगप्रमादी॥ जत्रूर्ध्वकोष्ठत्रिकसंधिवातं पार्श्वमयाशंस्तिमिराणि जित्वा॥ वलीपलितनिर्मुक्तःस्थिरकेशद्विजश्रुतिः॥ मेघामतिस्मृतियुतो जीवेद्वर्षशतद्वयं॥आपूर्यमा- णचंद्रप्रतिपदमारभ्य वर्द्धयेत्कंदं॥ एकैकं घृतभृष्टं प्राक्भुक्तं पथ्यभुक् खादेत्॥ भुंजीताल्पतरं दिनांघनमृपिपक्षक्षपेद्धक्षय- न्क्षीरं वीजकवारि तक्रमथवा पीत्वा स्थितिं कल्पयेत्॥ मासं प्राश्य तथा नखद्विजकचैः शीर्णोत्थितैः कांतिमान् जीवत्य- ब्दशतत्रयंधृतिमतिस्मृत्यादिभिर्भूषितः॥ क्षीरेण कंदचूर्णं पिबन्यवागूं च परिणते मासं॥ लवणनस्नेहविहीनां दृढदृग्जीवे- द्द्वितीयशतिं॥ तिमिरंक्षौद्रघृताभ्यां पथ्यभुजस्तद्रसो जयेन्मासात्॥ कंदत्रयं च भृष्टंघृतेन वा भक्षितं वातान्॥तत्कंदसूक्ष्म-रजसात्रिभागगोधूमचूर्णमिश्रेण॥पयसा पक्त्वाखादेद्घृतपूरातंत्रवृद्धिहरान्॥ त्रीन्कंदकांश्चनिशि भक्षयिताज्यभृष्टान् धात्रीफलांबु ससितच्छगलीपयोवा॥ पेयं दृगामयजयाय निषेवितव्या कामं च रोगशमनाय फलार्थिभिः सा॥ क्षीरान्विता कंचुकिमूलकंदासप्ताष्टपत्रा सितरक्तकांडा॥ बिभर्तिया पल्लवशब्दशब्दान् सा कंचुकी श्वेतवपुर्वरेण्या॥आषाढे कार्ति- के वाऽपि तत्कंदः शीतले स्थितः॥ अंगुष्टपर्वद्वयसंपिष्टः
क्षीरपलाष्टके॥कुटीप्रावेशिकं पीत्वा क्षीरमेव पिबेदनु॥क्षीरमेवच जीर्णेऽपि पेयां चस्नेहभर्जितां॥ किंचिदुष्णाम्ललवणां स्पृशेदुष्णांबुनोदितं॥ एकेन सप्तरात्रेण कुष्ठान्येवं नियच्छति॥ सर्वव्याधीन् द्वितीयेन तृतीयेन तु सर्पवत्॥त्यक्त्वा त्वचं ततो जीर्णांकेशदंतनखानपि॥ मेधावी रूपवान् जीवत्पंचवर्षशतानि वा॥ कंचुकीकंदचूर्णं वा स्वेन क्षीरेण भावितं॥ गोक्षीरकुडवे न्यस्तं सर्वं खंडपलान्वितं॥पीतं सर्वामयान् हंति नखकेशस्थितानपि॥ पीतंतत् स्वरसं चूर्णं तस्या मधुसम- न्वितं॥खादन् हिताशी सप्ताहं त्वग्दोषंतिमिरं जयेत्॥ विडंगताप्यत्रिफलालोहकांचुकिजं रजः॥सप्तरात्रत्रयं लिह्माज्जि- तात्मा ससितामधु॥ क्षीरेण भोजनं जीर्णे शालेर्लावरसेन वा॥ तथाऽस्य काचतिमिरं सकृच्छ्राः शिरसो गदाः॥मेधाविनः प्रणश्यंति गात्रं सुप्तं च बुध्यते॥ एषसप्तामृतश्चूर्णः सर्वव्याधिषु पूजितः॥ पलं चूर्णस्य कांचुक्याः क्षीरप्रस्थं समावपेत्॥ स्नेहजग्धं ततो लिह्माज्जितात्मा ससितं मधु॥ शालेरन्नं पयःपानं मासमेवं प्रयोजयेत्॥ चतुर्गुणपरीहारः षोडशाब्दसम- द्युतिः॥ शतानि पंचवर्षाणि जीवद्देवइवोर्जितः॥ पचेत्पलानि द्रोणेऽपां कांचुक्याः पलविंशतिः॥ अष्टांशशिष्टे तु घृतात्प्रस्थं क्षीरसमं पिबेत्॥शंखपुष्पीवचाकुष्टत्रिवृतामरदारुभिः॥ वरायष्टीसिताद्राक्षामहिपाक्षैः पलांशकैः॥ युक्तैः कमलकिंजल्क- त्रैफलेन हिमेन च॥ क्षौद्राच्चतुष्पलं दद्यात्तद्वद्वंत्यमृताव्हयं॥चक्षुण्यं वृंहणं मेध्यं वल्यं वर्षशतत्रयं॥ अष्टौ पलानि कंचुक्या- स्त्रीणि लोहात् सुचूर्णितात्॥ पलाशबीजाच्चत्वारि दश द्वे च पलत्रयं॥ अष्टादश शतावर्या वीजकस्यैकविंशतिः॥ जीवंत्याः षौडशैकध्यंपौर्णिमास्यां विपाचयेत्॥वहेऽपां पादशेषेण पृथगर्द्धाढकेऽपि च॥ पचेत्कांजिकमस्तुभ्यां घृतप्रस्थं पिचून्मि- तैः॥ शताव्हारुष्करवचाकुष्टैलाविडहिंगुभिः॥ सौव
र्चलान्वितैः पद्मकेसराच्च त्रिभिः पलैः॥ पंचभिः पद्मबीजानां पद्मद्वादशकेन च॥ एतत्सोमामृतं पीत्वा यत्सोमोऽद्यापि राजते॥ इदमुपयुज्यसर्पिरतिवीर्यमुदारगुणं भवति सुवाक् सुधीः सदृढवाक् सुबलः सुभगः॥ ग्रहगरकोपसर्पविपभीभिर- धृष्यवपुर्विजितजराज्वरो नयति वर्षशतद्वितयं॥ दानवेंद्रविजितान् पुरा सुरान् भ्रष्टकांतिधृतिधैर्यतेजसः॥वीक्ष्य विष्णुरमृतं किलासृजद्गुग्गुलं बलवपुर्जयप्रदं॥ अद्याप्यतःसुरगणाः किल धूपमुख्यान्हित्वा वरागुरुतुरुष्कहिमेंदुदर्षान्॥ निर्दह्यमा- नवपुषोऽपि शिखां पिबंतो गंधेन तस्य मुदिता दधति प्रसादं॥संयोगवाही स शिवः सशार्वः सर्वर्त्तुसेव्यःसुखशीलनीयः॥ हंता जरापाप्ममलामयानां कर्ताऽग्निमेधास्मृतिपाटवानां॥ गंधोत्कटः स दाहेस्निग्धद्रवपिच्छिलो विगतशल्यः॥ महिषाख्यः पुष्परागस्फटिकसितनीरजच्छायः॥ यः पद्मरागरागो यः कनकच्छेदपाटलो यो वा॥ जयतींद्रनीलममलं भग्नेप्यतिकांतिम- त्वेन॥ ज्येष्ठः प्रयोगोऽस्य तुला पलान्नैवाधिकं पिबेत्॥ आत्रेयमुनिगीतश्च मंत्रोऽयं सर्वकर्मकृत्॥ भगवान् पुंडरीकाक्षो देवाश्च सपुरंदराः॥ आज्ञापयंति सम्यक् त्वां प्रभावं चादिशंति ते॥जरामरणदुःखेभ्यो यथा तेऽभ्युत्थिताः सुराः॥ उपयोक्तु- स्तथैवास्य भव त्वं हि महाबलइति॥पंचमूलस्य महतः क्वाथेनहिमभोजनात्॥गुग्गुलुः शीलिनो हंति सर्वान्वातकफामयान्॥ लघोयसोऽपि तद्वच्च सुखोष्णेन जलेन वा॥मस्तुधान्याम्लमद्यैर्वा वचादेः सलिलेन वा॥ वरणादेस्तु वाधिर्यंदंतकर्णशिरोरुजः॥ स्वरभेदोदरश्वासवर्ध्मांतर्गुल्मविद्रधीन्॥ वातपित्तास्ररोगेषुबृंहणार्थीनि चेष्यते॥ क्वाथेन वाजिगंधाया जीवनीयगणस्य वा॥ क्वाथेनोत्पलमृद्वीकारक्तचंदनजन्मना॥वातपित्तं निहंत्येष पद्मकादिगणस्य वा॥चव्यकुष्टविडंगानां गवान्या नागरस्य वा॥प्रसारण्याश्चतोयेनगुग्गुलुः कफवातजित्॥ त्र्यूपणाग्निघनवेल्लवराभिर्भक्षयन् समघृतं म
हिपाक्षं॥आशु हंति कफमारुतमेदोदोषजान्वलवतोऽपिविकारान्॥पटोलनिंबत्रिफलागुडूचीगायत्रिरात्रिद्वयबीजकानां॥ क्वाथैःपृथक्पथ्यरसस्यहंति मासेन घोरान् कफपित्तरोगान्॥विशेषाच्छोपवीसर्पदुष्टव्रणभगंदरान्॥ शुक्रार्त्तवमनोदोषप्र- मेहश्वित्रपांडुताः॥ पटोलारिष्टनिर्यूहपिष्टस्तुल्परसांजनः॥ गलरोगापचीव्यंगग्रंथिस्थौल्यकृमिप्रणुत्॥शिलाजतुसमः पीतः पयसा वातशोणितं॥निवर्त्तयत्यतिबलं क्षीरमांसघृताशिनः॥रसेन पयसामूत्रैर्वातपित्तकफापहः॥ ब्राह्मीमंडूकिशंखानां पृथड्येधादिकृद्रसैः॥ मागधिकाग्निकलिंगविडंगैर्बिल्वधृतै.सवचापलपट्कैः॥ गुग्गुलुना सदृशेन समेतैः क्षौद्रयुतैःसकला- मयनाशः॥ पिबेत्पलशतं योऽस्य विधिना नियतो यतिः॥नाकालमृत्युर्न व्याधिर्न तस्य जरसो भयं॥ कल्पयोदोषधैः स्वैः स्वैर्व्याधिष्यामयनाशनैः॥ शिलाजतुविधानं तु गुग्गुलौ सर्वमिष्यते॥ गुणनिधिरपि कुर्यात्सोऽतिमात्रोपयुक्तस्तिमिरवदन- नशोपक्लीबताकार्श्यमेहान्॥ शमल705शिथिलभावंदेहरौक्ष्यं च तस्माद्रजनिचरनिषेवीस्यान्न रोगेष्वमीषु॥ ग्रीष्मेऽर्कतप्ता- गिरयो जतुतुल्यं वमंति यत्॥ हेमादिषड्धातुरसं प्रोच्यते तच्छिलाजतु॥ सर्वदोषप्रशमनं सर्वरोगविनाशनं॥शिलाभ्यो यच्च यज्जातं धातोस्तत्तद्गुणं वदेत्॥ सर्वंच तिक्तकटुकं नात्युष्णं कटुपाकतः॥ छेदनं तु विशेषेण लौहं तत्र प्रशस्यते॥गोमूत्रगंधि कृष्णं गुग्गुल्लाभं विशर्करंमृत्स्न्नं॥ स्निग्धमनम्लकषायंमृदु गुरु च शिलाजतु श्रेष्ठं॥ समादशमूलबलापुनर्नवै- रंडशुंठिमधुकानां॥ क्वाथेन भावितं तद्विशेषतो वातरोगघ्नम्॥ द्राक्षाभीरुपटोलीत्रायंतिगुडूचिजीवनीयानां॥ निर्यूहेण सुभि- न्नंशस्तं पित्तामयेसुतरां॥ कृमिजिद्वचाफलत्रयकरंजघनमुख्यपंचमूलानां॥ सहपंचकोलकानां क्वाथेन कफामये भाव्यं॥ लघुपंचमूलशुंठीद्राक्षा
काश्मर्यवाजिगंधानां॥ सगुडूचिशखलानां रसेन पित्तानिलगदेषु॥घनकुष्टवचात्रिफलासुरदारुविडंगपंचकोलानां रजनी- मरिचातिविपासहितानां वातकफजेषु॥ पाठापटोलनिंवत्रिफलाघनकुटजसप्तपर्णानां॥ त्रायंत्यमृतातिविपासहितानां पित्त- कफजेषु॥ निचयेऽपि दोषबलतो योगानेतान्विकल्प्य पुंजीत॥ बिबिधगणसंग्रहोक्तैस्तैस्तैश्च गणैर्गिरेः सारं॥ व्याधिव्याधि- तसात्म्यं समनुसरन् भावयेदयःपात्रे॥ प्राक्केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यं॥ समगिरिजमष्टगुणिते निःक्वाथ्यं भावनौषधं तोये॥ तन्निर्यूहेऽष्टांशे पूतोष्णेप्रक्षिपेद्गिरिजं॥तत्समरसतां यातं संशुष्कं प्रक्षिपेद्रसेभूयः॥स्वैः स्वैरेवं क्वाथैर्भाव्यं वारान् भवेत्सप्त॥ अथ स्निग्धस्य शुद्धस्यघृतं तिक्तकसाधितं॥ त्र्यहं युंजीत गिरिजमेकैकेन706 तथा व्यहं॥फलत्रयस्ययूपेण पटोल्या मधुकस्य च॥ योगयोग्यं ततस्तस्यकालापेक्षं प्रयोजयेत्॥ शिलाजमेवं देहस्य भवत्यत्युपकारकं॥ गुणान् समग्रान्कुरुते सहसा व्यापदं न च॥ एकत्रिसप्तसप्ताहं कर्षमर्द्धपलं पलं॥ हीनमध्योत्तमो योगः शिलाजस्य क्रमान्मतः॥ संस्कृतं संस्कृते देहे प्रयुक्तं गिरिजाव्हयं॥ युक्तं व्यस्तैः समस्तैर्वाताम्रायोरूप्यहेमभिः॥क्षीरेणालोडितं कुर्याच्छीघ्रंरासायनं फलं॥ हन्याद्रोगानशेषांश्चजीर्णे हितमिताशिनः॥ व्यायामातमारुतचेतःसंतापगुरुवि- दाह्यादि॥ उपयोगादपि परतो द्विगुणं परिवर्जयेत्कालं ॥ कुलत्थान्काकमाचीं च कपोतांश्चसदा त्यजेत्॥ पिवेन्माहेंद्रमुद- कं कौपं प्रास्त्रवणांबु वा॥ ज्वरी ज्वरघ्नांबुयुदपर्पटादिक्वाथेनरक्ती मधुयष्टिकायाः॥ शोषीरसैः क्रव्यभुगामिपोत्यैर्मायूर- मांसैःपयसा च कार्श्ये॥ मध्यंवुना मेदसि संवृप्रद्धे क्षीरेण प
र्याकुलबुद्धिसत्वः॥ पांड्वामयार्तावुदरे सशोफे पिबेच्छिलाजं महिषीजलेन॥ अश्म वीरतराद्येन कुष्ठंखदिरवारिणा॥विषंविषघ्नैरगदैर्हत्येवं तद्यथामयं॥ शैलजत्रिकटुक्षौद्रक्षौद्रधातून्निषेवते॥क्षीरौदनाशी यो जोर्णे यक्ष्मणा स न बाध्यते॥ सुभावितां सारजलैस्तुलां पीत्वा शिलोद्भवात्॥ सारांबुनैव भुंजानः शालिं जांगलजैरसैः॥ व्यपोह्यमधुमेहाख्यमंतकं रोगसंकरं॥वपुर्वर्णबलोपेतःशतं जीवत्यनामयः॥ शिलाव्हात्षोडशपलं त्रिस्विरेकत्रभावयेत्॥वराया दशमूलस्य गुडूच्याः कर्कटस्य च॥ बलाया मधुयष्ट्याश्चरसे गव्येच वारिणि॥ क्षीरे सकृत्क्रमेणैवं सप्तकृत्वस्तथा पुनः॥ काकोलियुग्मघनपु- पुष्करवन्हिरास्नामेदायुगर्द्धिचविकागजपिप्पलीनां॥ पाठाद्विजीवकनिकुंभविदारियुग्मवीरावरीमधुफलांशुमतीद्वयानां॥ प- लिकानां तु द्रोणे सिद्धानां पादशेषिते क्वाथे॥ भावितमित्थंगिरिजं द्विपलैश्चूर्णीकृतैर्युंज्यात्॥ कर्कटशृंगीधात्रीव्योपैस्ताली- सकुडवेन॥ चूर्णपलेन विदार्याःक्षीरविदार्याश्चकर्मयुग्मेन॥ द्विपलेन चतुर्जातात्तैलघृतक्षौद्रशर्कराभिश्च॥ द्विपलाभिर्द्विगुणा- भिः कुर्याद्गुलिकास्ततोऽक्षसमाः॥ ताः शुष्के नवकुंभे जातीपुष्पाधिवासिते स्थाप्याः॥ तासामेकां खादेत्प्रतिदिनमनुपान- मत्रेष्टं॥ क्षीररसदाडिमांभोमार्द्वीकसुरासवान्यतमं॥ जीर्णेऽन्नं लघुभोज्यं यूपपयःपिशितनिर्यूहैः॥ सप्ताहमात्रमेवं सर्वान्नीनः क्रमाद्भवेत् परतः॥ भुक्तस्यतिप्राग्वा गुलिका न विरुध्यते चैषा॥निरपाया भूरिफलाऽपरिहारसुखोपयोजिता जयति॥ प्रबलमपि वातशोणितमूरुस्तंभं ज्यरं दीर्घं॥ भगमूत्रशुक्रदोषपल्लीहयरुत्पांडुहृद्रोगान्॥वर्ध्मवमिगुल्मपीनसहिष्माकासा-रुचिश्वासान्॥विवधिमुदरं कुष्ठंश्वित्रंक्षयं मदं मूर्च्छां॥उन्मादमपस्मारं मुखनेत्रशिरोगदांस्तांस्तान्॥ आनाहमतीसारंप हलीमककामलाग्रहणिरोगान्॥ ग्रंथ्यर्बु
दान्सपिटिकान् भगंदरं गंडमालां च॥ अतिकार्यमतिस्थौल्यंस्वेदमपि श्लीपदं गुदकीलान्॥ दंष्ट्राविषंसमूलं गरप्रयोगांस्तु घोरांश्च॥ अभिचारमरातिकृतं दुःखमं भौतिकी तथा बाधां॥ पाप्मालक्ष्मीं चेयं गुलिका शमयेच्छिवा नाम॥ तृप्याऽऽयुष्या धन्या कांतियशःश्रीविबोधिनी मेध्या॥ कुरुते नृपवल्लभतां जयं विवादे च वक्रस्था विजितखलतिवलिप- लिता जीवयति सुखं शतद्वयं शरदां॥ वर्षद्वयं प्रयोगाद्वर्षशतचतुष्टयं जीवेत्॥ नसोऽस्ति रोगो भुवि साध्यरूपोजत्वश्मजं यं न जयेत्प्रसह्य॥ तत्कालयोगैर्विधिवत्प्रयुक्तं स्वस्थस्यचोर्जांविपुलां दधाति॥ अमरमंदिरमंदरसंभवाद्दशपलं गिरिजाटु- पयोजय॥ यदिजरामयदुःखविवर्जितां सुचिरमिच्छसि जीवितसंततिं॥ दशगुणमुपयुक्तं यः शतं शैलजाताल्लघुहितमित-भोजी वर्जपन्वर्जनीयान्॥ सततसमनुपक्तान्यर्जितान्वैद्यवृंदैर्विधमति स गदौघाभेक्षते चायुपोंऽतं॥ समुद्रभूवामृतमंथनोत्थः स्वेदः शिलाभ्योऽमृतवद्गिरेःः प्राक्॥ यो मंदरस्यात्मभुवा हिताय न्यस्तः स शैलेषु शिलाजरूपी॥ सुवर्णशैलप्रभवो विष्णु- ना कांचनो रसः॥ तापीकिरातचीनेषुयवनेषु च निर्मितः॥ ताप्यां सूर्यांशुसंतप्तो माधवे मासि दृश्यते॥मधुरः कांचनाभा- सः साम्लो रजनसन्निभः॥किंचित्कषाय उभयः शीतः पाके कटुर्लघुः॥ शिलानिर्यासवञ्चात्र कुलत्यादीन् परित्यजेत्॥ न तन्निषेवी जरसाऽभिभूयते न पन्नगैर्नापि गरैर्न वृश्चिकैः॥ न पांडुमेहज्वरशोफयक्ष्मभिर्न कंठनेत्रश्रवणत्वगामयैः॥ स्वादु- स्तिको माक्षिकधातुः सघृतो वा सक्षौद्रोवाक्षौद्रसिताभ्यां सहितो वा॥ सांभस्को वा तैलयुतो वा विनिहंता त्वग्डोषाणां सर्वविषाणां सगराणां॥ अक्षद्राक्षाऽपोमलमुस्तामलकानां सव्योषाणां पर्वतनिर्यासयुतानां॥ दत्वा तुल्यं माक्षिकधातुं मधु- मिश्रं लिह्मात्पांशुव्याध्यभिभूतः शिवमिच्छन्॥ अंशः शुंठ्यालोहमलांशो बदरांशः
पिप्पल्पंशो माक्षिकधातुर्हिगुणांशः॥ क्षौद्रैकांशः कृष्णतिलानामपिचांशः श्रेष्ठा पिंडीपांडुविकारश्वयथुघ्नी सायश्चूर्णं माक्षि- कधातुं मधुमिश्रं व्योपोपेतं पर्वतनिर्याससमेतं॥ क्षीराहारश्चावलिहानः प्रयतात्मा मृत्युद्वारं शोषमपाहत्यचिरेण॥ लोहं सर्पि- र्माक्षिकधातुं मधुमिश्रं धात्रीचूर्णं केसरमंबुप्रभवानां॥ योगः कुर्याच्चैषसिताभागविमिश्रश्चक्षुर्घ्राणश्रोत्ररसज्ञानवबोधं॥कृत्वै- कस्थं माक्षिकधातुं त्रिफलां च भ्राष्ट्रे पक्वाऽऽज्यैः सह पिष्टंविलिहंति॥पध्यादास्तान्वार्धकदोषान भजंते मातुर्दोषास्तन्य- निवृत्तानिव बालान्॥समश्नतो माक्षिकधातुचूर्णं सर्पिर्मधुभ्यां त्रिफलारजश्च॥ शनैःशनैर्याति जरा विनाशं प्रत्यंतवासादिव लोकयात्रा॥ त्रिकोणकांडासुबहुप्रताना फलेषु पीता कुसुमेषुरक्ता॥ पत्रैः सुदिग्धैर्मृदुरोमवद्भिस्तांबूलयुक्तैर्घनकंदमूला॥ पवनविवस्वदंशुवनितादिभिराप्तजराविविधमनःशरीरगदवृंदनिवृत्तकरी॥ भुवि परमौषधीमहिषवल्लिरितिप्रथिता क्वचि- दपि वृद्धदारक इयं त्वपि वेल्लरिका॥वसंते संगृहीतानां शोषितानामनातपे॥ वृद्धदारकमूलानां तुलां संचूर्ण्य सर्पिषा॥ आप्लाव्य घृतपात्रस्थां धान्ये पक्षमुपेक्षितां॥ लिह्यादनु पिवेत्क्षीरं जीर्णेक्षीरघृताशनः॥ तत्प्रयोगाज्जराजीर्णो वृद्धो दारक- तामियात्॥ भग्नास्थिर्गद्गदःपंगुः
श्यावो….हस्वोऽन्यरूपतां॥ निरस्ताशेषदोषोत्थनखभेदाद्युपद्रवः॥ अपस्मारगरोन्माद-पाप्मालक्ष्मीविवर्जितः॥ दीप्ताग्निर्बलवान्वाग्मीजीवेद्वर्षशतानि षट्॥चूर्णितैरश्वगंधायाः संयुतं त्रिंशता पलैः॥ तत्तुल्यं दारकं प्राश्य पयसा सर्पिषाऽथवा॥ जीर्णे पूर्वदश्नीयाद्यो जीवेत्स समाः शतं॥ वाजिवेगो गजप्राणः सुरुषो भास्करद्युतिः॥ अश्वगं- धेन संयोज्यौ वरीगोक्षुरकौ पृथक्॥ यो लिह्मात्सर्पिषाचूर्णं वृद्धदारकमूलजं॥ सप्ताहं यूषभक्ताशी स्यात्स किन्नतुल्य- वाक्॥ स्वरसेन शतावर्याः सप्ताहं भावितं च तत्॥लिहानः
पूर्ववन्मासं शतं जीवेन्महामतिः॥ लिह्माद्वामधुसर्षिर्भ्यांधात्रीस्वरसभावितं॥ क्षीरेण वा पिबन्मासं शतं जीवेदरुक सुखी॥ वृद्धादारकमूलानां रसं क्षीरेण यः पिबेत्॥ तत्कल्कसिद्धं सर्पिर्वास जीवेन्नीरुजः शतं॥ पीतं वेल्लरिकामूलं गोमूत्रेण सहोपितं॥ कुष्ठगुल्मोदरगरश्लीपदार्शोपचीर्जयेत्॥ पिप्पलीत्रिफलादार्वीमहौषधपुनर्नवाः॥ पृथग्दशपलाः सर्वतुल्यांशो वृ- द्धदारकः॥ धान्याम्लपीतस्तच्चूर्णो जीर्णे स्वच्छंदभोजनः॥ स दृष्टवातान् हंत्याशु गुल्मोदरगरादिकान्॥ विश्ववराद्वीपिवे- ल्लमुस्ताः समांशकाः॥ तुल्यवेल्लरिकामूलाः साज्यक्षौद्रास्तथागुणाः॥ तत्पलं स्वरसात्कर्षं शौंडीलिहंस्तुल्याज्यमाक्षिकं॥ गव्यं पिबेदनुपयो माहिषंवा यथेष्टभुक्॥ पंचाहेन जयेत्कासान्सप्ताहेन त्वगामयानू॥ महाकुष्ठानि मासेन भवेन्माद्सद्वयेन तु॥ पंचवर्षशतायुष्को धीमेधाबलवर्णवान्॥ वेल्लरीफलमूलाभ्यां पिप्पल्याश्चसमं रजः॥ वेल्लरीफलमूलोत्थस्वरसेनैव भावयेत्॥ अमृताया रसेनानुततः शुष्कं घृताप्लुतं॥ निरखनेद्घृतकुंभस्थं करीपे बहुसंचये॥ मासादुद्धृत्य तं लेहं यो वर्षमुपयोजयेत्॥सहस्रायुः स जरसा सहसा नाभिभूयते॥ कृष्णाचूर्णतुलां क्षौद्रोघृतं च द्वितयान्वितं॥धान्यराशौ दिनशतं निहितामुपयोजयेत्॥ सुसंधिकामो दृक्श्रोत्रस्वरवर्णोऽप्यतींद्रियः॥ गतव्याधिजरो जीवेत्सप्तवर्षशतानि च॥कुटीप्रवेशः क्षमिणां परिच्छदवतां हितः॥ अतोऽन्यथा तु ये नेपां सूर्यमारुतिको विधिः॥ वातातपसहा योगा वक्ष्यतेऽतो विशेपतः॥ सुखोपचारा भ्रंशेऽपि ये न देहस्य बाधकाः॥ शीतोदकं पयः क्षौद्रंघृतमेकैकशोद्विशः॥त्रिशः समस्तमथवा प्राक्पीतं स्थापयेदृयः॥ हरीतकीमागधिकाक्षधात्रीश्चूर्णीकृतालोहरजोविमिश्राः॥ सर्पिर्मधुभ्यामदतः शरीरं कालाग्रदूती न जरा दुनोति॥ हरीतकीमागधिकाविडंगशशांकलेखामलकच्छवीनां॥ सतोपलातैलघृतान्वितानांगदा न लेढारमभिद्रवंति॥ त्रिफलामसनोदकेन पिष्टां रजनीपर्युषितामयःकपाले॥ मधुना मधुरां लिहन्निहंति स्थविमानं जरसं गदांश्चसर्वान्॥खदिरासनयूपभावितायास्त्रिफलाया घृतमाक्षिकप्लुतायाः॥ नियमेन नरा निषेवितारो यदिजीवंत्यरुजः किमत्र चित्रं॥असनस्वरसेन भावितानामभयानांसविडंगतंदुलानां॥ मधुलोहरजोघृतप्लुता- नां न हि लेढरमभिद्रवंतिरोगाः॥बीजकस्यरसमंगुलिहार्यं शर्करामधुघृतं त्रिफलां च॥शीलयत्सु पुरुषेषु जरत्ता स्वागता- ऽपि विनिवर्त्ततएव ॥ दर्वीप्रलेपस्त्रिफलाकषायःसितोप्पलातैलमधुप्रगाढः॥सपिप्पलीनागरलोहरेणुस्तनोः सपत्नीं जरसं निहंति॥ फलत्रयं त्र्यूषणचूर्णयुक्तं द्राक्षांससर्पिर्मधुशर्करांच॥ क्षीरानुपानां पुरुषालिहंतो जीवंति निर्धृतजराविकाराः॥हरीतकीं सर्पिषिसंप्रताप्य समश्नतस्तत्पिबतोघृतं च॥\। भवेच्चिरस्थायि बलं शरीरे सकृत्कृतं साधु यथा कृतज्ञे॥ आसंधि तानां कलशं पुराणं धात्रीफलानां मधुनश्च चूर्णं॥ संवत्सरार्द्धं निहितं यवेषु निषेवमाणो जरसं निहंति॥ धात्रीकृमिघ्नासनसा- रचूर्णं सतैलसर्पिर्मधुलोहरेणु॥निषेवमाणस्य भवेन्नरस्य तारुण्यलावण्यमविप्रनष्टं॥ नवामलकशुक्तयोमधुघृतं रजश्चायसं चतुष्टयमयोघटस्थमतिचूर्णितं वत्सरं॥ क्रमेण लिहतः पयोऽनुपिबतश्च पथ्याशिनश्चिरं भवति जीवितं क्षयमुपैति पृथ्वी जरा॥ चूर्णं श्वदंष्टामलकामृतानां लिहन्ससर्पिर्मधुभागयुक्तं॥ वृषः स्थिरःशांतविकारदुःखः समाशतं जीवति कृष्णकेशः॥ विडंगभल्लातकनागराणि येऽश्नंति सर्पिर्मधुसंयुतानि॥जरानदीं रोगतरंगिणीं तेलावण्ययुक्ताः पुरुषास्तरंति॥ विडंगक- ल्कं स्वरसेन धात्र्याःक्षौद्रेण युक्तं च पिबन्नरो यः॥ द्राक्षारसक्षौद्रपरिप्लुतंवाविजित्यरोगान् स भवेच्छतायुः॥ चूर्णं समं मागधिकाकणानां विडंगचूर्णेन
सचित्रकेण॥निषेवमाणो मधुतैलमिश्रं वयः परीणामजलेन मज्जेत्॥ पुनर्नवस्यार्द्धपलं नवस्य पिष्टं पिबेद्यः पयसाऽर्द्ध- मासं॥ मासद्वयं तत्त्रिगुणं समां वा जीर्णोऽपि भूयः स पुनर्नवः स्यात्॥ भूर्वाष्टहत्यंशुमतीबलानामुशीरपाठासनसारिवाणां॥ कालानुसार्यागुरुचंदनानां वदंति पौनर्नवमेव कल्पं ॥ शतावरीकल्ककषायमिद्धं येसर्पिरश्नंति सिताद्वितीयं तान्जीविता- ध्वानमपि प्रपन्नाच विप्रलुंपंति विकारचौराः॥ पीता ऽश्वगंधा पयसार्द्धमासंघृतेन तैलेन घृतांबुना वा॥कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथांऽबुवृष्टिः॥ दिने दिने कृष्णतिलप्रकुंचं समश्नतां शीतजलानुपानं॥ पोषःशरीरस्य भवत्यन- ल्पोदृढीभवंत्यामरणाच्च दंताः॥शिलाजतुक्षौद्रविडंगसर्पिर्लोहाभयापारताप्यभक्षः॥ आपूर्यते दुर्बलदेहधातुस्त्रिपंचरात्रेण यथा शशांकः॥ मधुमधुरसालज्जाभार्ड्वीमधूकशतावरीकमलकुसुमत्वक्क्षीरिभिः समं जतु पार्वतं॥ प्रचुरहविषा लेहं ली- ढ्वासमृद्वसितोपलं शिथिलजरसोमंदातंका भवंति चिरायुषः॥ गायत्रीशिखिशिंशिपासनशिवावेल्लाक्षकारुष्करान् पि- ष्ट्वा ऽष्टादशसंगुणेंऽभसि धृतान् खंडैः सहायोमयैः॥ पात्रे लोहकृतेत्र्यहं रविकरैरालोडयन्पाचपेदग्नौ चानु मृदौ सलोह- शकलं पादस्थितं तत्पचेत्॥ पूतस्यांशः क्षीरतोंऽशस्तथांऽशौ भागनिर्यासाह्वौवरायास्त्रयोंऽशाः अंशाश्वत्वारश्चेह हय्यंगवी- नादेकीकृत्यैतत्सावयेत् कृष्णलोहे॥निमलया सितया मधुनाऽथवा युतमयुक्तमिदं यदि वा घृतं॥ स्वरुचिभोजनपानविचे- ष्टितो भवति ना पलशः परिशीलयन्॥ श्रीमान्निर्धूतपाप्मा वनमहिष-बलो वाजिवेगः स्थिरांगः केशैर्भृंगांगनीलैर्मधुसुरभि- मुखो नैकयोषिन्निषेवी॥ वाड्येधाधीसमृद्धः मुपदुहुतवहोमासमात्रोपयोगात्धत्तेऽसौ नारसिंहं वपुरनलशिखातप्तचामीक- राभं॥ हविरिदमतिप्रभावं स्वमिवनपुर्निर्मितं नृसिंहेन॥नश्यंति यतो भीता
व्याध्यादिजरासुरा दूरात्॥ भृंगप्रवावालानमुनैव भृष्टान्घृतेन यः खादति यंत्रितात्मा॥ विशुद्धकोष्ठोऽसनसारसिद्धं दुग्धानुपस्तत्कृतभोजनार्थः॥ मासोपयोगात्स सुखी जीवत्यब्दशनत्रयं॥गृह्णाति सकृदप्युक्तमविलुप्तस्मृतींद्रियः॥ अननैव च कल्पेन यस्तैलमुपयोजयेत्॥ तानेवाप्नोतिस गुणान्कृष्णकेशश्चजायते॥ काश्मर्याणां तुलांमासं स्थितां मधुघृतोषितां॥ उपयुज्य पयोन्नाशी चिरंजीवतिकांतिमान्॥ उक्तानि शक्यानि फलान्वितानि युगानुरूपाणि रसायनानि॥ महानुशंसान्य- पि चापराणि प्राप्त्यादिकष्टानि न कीर्तितानि॥अमानुषाणामपि विस्मयानां तत्कर्मणां यद्यपि तानि हेतुः॥समूलकाषंतु कपं ति देहं भ्रंशाद्विधेस्तानिविवर्जितानि॥ युगप्रभावाद्यदि चौषधीनां क्रियासुशक्तिः परिकल्प्यतेऽल्पा॥ आयुर्बलादिष्व- पि सा तथेति यत्नान्निषेव्याणि रसायनानि॥ न चौषधीनामपि सर्वथैव प्रभावहानिः परिशंकनीया॥ फलं प्रयात्यर्ध्वमधस्त्रि वृत्तुप्रत्यक्षतः कस्य न सिद्धमेतत्॥ अदेशकालोपहितान्यसात्म्यान्यत्युष्णतीक्ष्णानि यथौषधानि॥नाशं नयंते सहसैव देहं सम्यक्प्रयुक्तानि तथैव वृद्धिं ॥ जित्वातस्मादिंद्रियादीन्सुदुष्टान्कालोपेतः श्रद्दधानो यथावत्॥ आयुःप्रज्ञातेजसां यच्च वृद्धौ वीर्योपेतं शीलयेदौषधं तत्॥उत्साहधीरैरपि सर्वकालं नरैरगम्यानितपोदरिद्रैः॥महाकथानामपि दुस्तराणां पारा- ण्यपाराणि रसायनानां॥रसायनानामुपयोगसंपदां कृतप्रसादैःसमदोषधातुभिः॥स्थिरं शरीरं क्रियते शरीरिणां कुलं यथा सत्पुरुषैरधिष्टितं॥दांतेंद्रियेण शास्त्रार्थं यथावदनुतिष्ठता॥ कियद्वादीर्घजीवित्वंनेंद्रत्वमपि दुर्लभं॥ रसायनविधि- भ्रंशाज्जायेरन व्याधयोयदि॥यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनं॥ अत्याकांता येऽम्लपटुक्षारकटूष्णैर्द्रव्यैस्तीक्ष्णैः सन्निहिता तेषु जरत्ता॥ संधुक्ष्योऽग्निस्तै
रुपजाते च विवर्जायोगास्तेऽग्नौधातुसमृद्धेः स हि मूलं॥आयुर्योगाः साध्वपि युक्ता मृदुवन्हौ नैरर्थक्यंयांति कृतघ्नेऽप्युप- काराः॥ दीप्तेवन्हौ ते च गुणौघैरपि तुच्छा विस्तीर्यंते पात्रविसृष्टा इव भोगाः॥ सत्यवादिनमक्रोधमध्यात्मप्रवणेंद्रियं॥ शांतं सहृत्तनिरतं विद्यान्नित्यरसायनं॥ गवांमृदुत्वेन कृतानुकारैरनन्यवागाशयदेहचेष्टैः॥ स्थिरेंद्रियायुर्ज्वलनैः सुशीलैः सुवृद्धगो- पैः समधिष्ठितेषु॥ प्राज्याज्य-दुग्धौषधिपादपेषु हंभारवैर्वल्गिततर्णकेषु ॥मरुप्रवेशेन विनापि सिद्धिं व्रजंति गोष्ठेषु रसाय- नानि॥ इति रसायनविधिर्नामैकोनपंचाशत्तमोऽध्यायः॥१९॥
इतिसप्तमं रसायनारख्यमंगं संपूर्णं॥७॥
अथातो वाजीकरणमध्यायं व्याख्यास्यामः॥वाजीकरणम707न्विच्छन् सततं विषयी पुमान्॥ तुष्टिः पुष्टिरपत्यं च गुणवत्तत्र संश्रितं॥अपत्यसंतानकरं यत्सद्यः संप्रहर्षणं॥ वाजीवातिबलो येन यात्यप्रतिहतोऽगनाः॥ भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते॥ तद्वाजीकरणं तद्धि देहस्यौजस्करं परं॥ सारो हि जीवलोकस्य स्त्री स्त्रीगुणसमन्विता॥ स्त्रियःसाधु प्रसवते नरान् गुणमयानिह॥ गोत्रवृद्धिकरा ह्येता गृहिण्यो गृहदेवताः॥गृहं हि हीनमेताभिर्न श्रीमदपि शोभते॥ न तु ता अपि शोभंते जरसानुगता इव॥ पुंयोगेन विना स्त्रीणांनहि संवननं708 परं॥ वाजीकरणनित्यस्य कामं कामं सिपेवियोः॥ न शरीरमवाप्नोति न वा रतिरतिः क्षयं॥ अच्छायः पूतिकुसुमः फलेन रहितो द्रुमः॥यथैकश्चैकशाखश्च निरपत्यस्तथा पुमान्॥ अदृष्टपुत्रपौत्रस्य कुलतंत्वनुवर्तिनः॥ संसारसुखबाह्यस्य कीदृशं नाम जीवितं॥ असंबंधो ह्यपुत्रस्प नित्यमेव परापरः॥ सीदत्यस्यावसाने च गृहं
सुस्थेऽप्यनायकं॥ अतो वाजीकरा योगा निपेव्याः शुक्रबर्द्धनाः॥कल्पस्यो709दग्रवयसो वाजीकरणसेविनः॥
सर्वेण्वृतुप्वह
-रहर्व्यवायो न निवार्यते॥ चिंताजराभ्यां शुक्रं तु व्याधिभिः कर्मकर्शनात्॥ क्षयं गच्छत्यनशनात् स्त्रीणां चातिनिषेवणात्॥ शुक्रक्षयाद्भयाच्छोकादविश्रंभादिसेवनात्॥अतिहर्षादतिस्थौल्यान्मलोपचयतः श्रमात्॥ स्त्रीणामकौशलाद्दोषदर्शनादभि- चारतः॥ मेंढ्रामयात्तु महतः कोधतो मर्मकर्त्तनात्॥ हृष्टस्यापि स्त्रियो गंतुं न शक्तिरुपजायते॥ बृहच्छरीराबलिनः केचि- न्नारीषुदुर्बलाः॥ संति चाल्पाश्रयाः स्त्रीषुबलवंतो बहुप्रजाः॥नराश्चटकवत्केचिद्वजंति बहुशः स्त्रियं॥ गजवत्तुप्रसीदंति केचिन्न बहुगामिनः॥ केचित्प्रयत्न्यैर्बाध्यंते तृषाःकेचित्वभावतः॥ तस्मात्प्रयोगान्वक्ष्यामि दुर्बलानां बलप्रदान्॥ सुखोपयो- गान्बलिनो भूयश्च बलवर्द्धनान्॥ अथ स्निग्धविशुद्धानांनिरुहान्सानुवासनान्॥ घृततैलरसक्षीरशर्कराक्षौद्रसंयुतान्॥ योग- विद्योजयेत्पूर्वं क्षीरमांसरसाशिनां॥ ततो वाजीकरान् योगांश्चुक्रापत्यबलप्रदान्॥ शरेक्षुकुशकाशानां विदार्यावीरणस्य च॥ मूलानि कंटकार्याश्च जीवकर्षभकौबलां॥ भेदे द्वे द्वे च काकोल्यौशूर्पपर्ण्यौशतावरीं॥ अश्वगंधामतिबलामात्मगुप्तां पुन- र्नवां॥ वीरां पयस्यां जीवंतीमृद्धिं रास्त्रां त्रिकंटकं॥ मधुकं शालिपर्णीं चभागांसिपलिकान् पृथक्॥माषाणामाढकं चैत- द्द्विद्रोणे साधयेदपां॥ रसेनाढकशेषेण पचेत्तेन घृताढकं॥ दत्वा विदारीधात्रीक्षुरसानामावकाढकं॥ घृताच्चतुर्गुणं क्षीरं पेष्याणीमानि चावपेत्॥ वीरां सगुप्तां काकोल्यौयष्टीं फल्गूनि पिप्पलीं॥ द्राक्षां विदारींखर्जूरं मधुकानि शतावरीं॥ तत्सिद्धपूतं चूर्णस्य पृथक् प्रस्थेनयोजयेत्॥शर्करायास्तुगायास्तु पिप्पल्याः कुडवेन च॥ मरिच
स्य प्रकुंचेन पृथगर्द्धपलोन्मितैः॥ त्वगेलाकेसरैः श्लक्ष्णैः क्षौद्राद्द्विकुडवेन च॥ पलमात्रं ततः खादेत्प्रत्यहं रसदुग्धभुक्॥ तेनारोहति वाजीव कुलिंग इव हृषति॥ माषात्मगुप्तावीजानामाढकं प्रसृतोन्मितं॥ मेदाश्वगंधाद्विवरीवीरायष्टीद्विजीरकं॥ शूर्पेऽपांविपचेत्तेन पादशेषेण पाचयेत्॥ विदारीक्षुरसप्रस्थद्वयेन सदृशेनच॥ सर्वैः क्षीरेण हविषोनवात्प्रस्थं शृतेन च॥ सिताक्षौद्रतुगाख्यानां पृथग्दद्याच्चतुष्पलं॥ पलं कणा पुरोभुक्तं लिहंस्तत्पलपूर्वकं॥ तरुणीष्वतितृप्तासु प्रसभं रासभाय- ते॥ मेदादिभिश्चकर्षांशैःशृतं वाष्कयणं पयः॥ सशर्कराक्षौद्रघृतं शुक्रवृद्धिकरं परं॥ पयसा पायसस्तेन मापकंडूकरीफलैः॥ वृष्योवेगकरः सिद्धः सघृतक्षौदशर्करः॥ श्वदंष्ट्रायाविदार्याश्च रसे क्षीरचतुर्गुणे॥ घृता्ढ्यः साधितो वृष्योमाषपष्टिकपायसः॥ समूलिका माषपर्णी सिता शृंगाटकं यवाः॥ स्वगुप्तामूलयष्ट्याव्हविदारीक्षुरकाः समाः सपियालाः कृताश्चूर्णं पृथड्मध्वाज्यषड्गुणाः॥ पादाभ्यामस्पृशेद्भूमिंलिहन्कोलमितः पिचुं॥ लभते बलमुत्साहं स्त्रीश्चायातिकुलिंगवत्॥ स्वगुप्ताक्षीरकाकोलीविदारीजीवकद्वयं॥तिलान् सुलुंचितान् भृष्ट्वाशर्कराज्यमधुप्लुतं॥ तच्चूर्णं प्रसृतं लीढ्वागच्छति प्रमदाशतं॥ प्रसृतं माषचूर्णस्य धात्रीस्वरसभावितं॥ विदारीरजसो वाऽपि लिहन्मघुघृतद्रुतं॥क्षीरानुपश्चटकवद्दशकृत्वो व्रजेत्स्त्रियं॥ चूर्णं विदार्या बहुशः स्वरसेनैव भावितं॥ क्षौद्रसर्पिर्युतं लीढ्वाप्रमदा दश गच्छति॥कृष्णाधात्रीफलरजः स्वरसेनैव भावितं॥ शर्करामधुसर्पिर्भिर्लीढ्वायोऽनु पयः पिबेत्॥ स नरो ऽशीतिवर्षो ऽपि युवेव परिहृप्यति॥ कर्षं मधुकचूर्णस्यघृतक्षौद्रसमन्वितं॥पयोनुपानं यो लिह्मान्नित्यवेगः सदा भवेत्॥कुलीरशृंग्या यः कल्कमालोड्यपयसा पिबेत्॥सिताघृतपयोन्नाशी स नारीषुवृषायते॥धातुमांस
रसक्षीरं क्षौद्रमिक्षुरसो घृतं॥ द्विभेदाजीवकयुगक्वाथश्चैकत्र योजितः॥ पीतः करोति पुरुषंप्रमदाशतगामिनं॥ भल्लातकैचतुर्भिश्च दुग्धस्यार्द्धाढकं शृतं॥ पीतं करोति वृषतां सुजीर्णस्यापि देहिनः॥ स्वयंगुसेक्षुरकयोर्बीजचूर्णं सशर्करं॥ धारोष्णेन नरः पीत्वा पयसा रासभायते॥ उच्चटाचूर्णमप्येवं शतावर्याश्चयोजयेत्॥ शूर्पपर्णीद्विकाकोलीजीवकर्षभकशृतं॥ लघुना पंचमूलेन द्विकाकोलीयुतेन च॥पयोऽतिवृष्यमभ्यस्य वृद्धोऽपि तरुणायते॥ क्षीरिणी च श्वदंष्ट्राच फाणितं शर्करा मधु॥गृष्टिक्षीरंनवं सर्पिरेतत् पुंसवनं परं॥ अश्वत्थपत्रमूलत्वक्तुगासिद्धं710 पयो नरः॥ पीत्वा सशर्करं शीतं कुलिंगइव हृष्यति॥ पयः पयस्यया सिद्धं शुक्रकृत्साज्यमाक्षिकं॥ शतावरीकल्करसे पयोदशगुणं धृतं॥ घृतं सपिप्पलीक्षौद्रशर्करं वृष्यमुत्तमं॥ शतावरीरसप्रस्थं क्षीरप्रस्थचतुष्टयं॥ प्रस्थं घृतस्य शुक्लां च द्राक्षामांसीपरूषकं॥ जीवकर्षभयष्ट्याव्हबलामे- दाकसेरुकं॥ प्रियालवीजकाकोलीयुग्मं चैकत्र पाचयेत्॥ पक्वपूते क्षिपेच्चास्मिन् कुडवांशां सितोपलां॥गृष्टिक्षीरानुपः प्राश्यस नारीषु वृषायते॥ विजयेत च वातास्रंपित्तासोरःक्षतक्षयान्॥ जीवकक्षीरकाकोलीस्थिराहंसपदीघनैः॥ शठीक्षुगंडिकापष्टीमृणालैः कार्पिकैः पिबेत्॥घृतप्रस्थं दशगुणे क्षीरे तद्वलपुष्टिकृत्॥ वंध्यानां पुत्रजननं शुक्रवर्द्धनशोधनं॥ जलाढके स्वयंगुप्तामूलात्पंचपलं पचेत्॥ पादशेषेतु संचूर्ण्यं कुडवांशाः पृथक क्षिपेत्॥ स्वगुप्तामूलगोधूम-माषेक्षुरकपिप्पलीः ॥ सपियालरसैःक्षौद्रात्प्रस्थार्द्धंनवसर्पिषः॥ सितोपलातुलापादं कुर्यात्तान्मोदकांस्ततः॥ मोदकं भक्षयित्वैकं षष्टिंव्रजतियोषितां॥ पलाशबृहतीव्याधीवृश्चिपर्णीत्रिकंटकान्॥ ह्याढकेनांभसा पक्त्वा पादशेषेरसे स्थिते॥ पलानि क्षीरकाकोल्याः पंच मा
गधिकापलं॥ स्वगुप्ताफलमूलाभ्यां माषाणामिक्षुरस्य च॥ विदार्यामधुनश्चात्र कुडवं कुडवं क्षिपेत्॥ पृथग्द्वौमुद्गतिलयोर्घृते शष्कुलिकास्ततः॥ पचेदेकांततः प्राश्य शतं व्रजति योषितां॥ स्वगुप्ताढकचूर्णेन प्लुतेन पयसा कृताः॥ घृते सशर्कराक्षौ- द्राभक्ष्या वेगशतप्रदाः॥माषात्मगुप्तागोधूमशालिपष्टिकपैष्टिकान्॥शर्कराया विदार्याश्चचूर्णानीक्षुरकस्य च॥ संयोज्य क्षी- रसर्पिर्भ्यांघृते पूपलिकाः पचेत्॥ पयोनुपानास्ताः शीघ्रं कुर्वंति वृषतां नरं॥ चूर्णं माषात्तिलाच्छालेर्विदार्याश्च संसैंधवं॥ रसेन पुंड्रकासेक्षोः प्लुतं वाराहमेदसि॥ पक्वांशष्लुलिकां खादन्नारोहेत्षष्टिमंगनाः॥ मुखप्रियाणां स्निग्धानांफलानां मधुरात्मनां॥ फलानामात्मगुप्तायाःशालेर्माषात्तिलाद्घृतात्॥मुद्गाद्गोधूमतश्च स्यात्कुडवं कुडवं पृथक्॥ चूर्णितैर्निस्तुषैस्तै- स्तु क्षीरेणालोड्य मर्दितैः॥ पक्वांपूपलिकां खादन्कृकवाकुरसानुपः॥ मायूरं तैत्तिरं हांसमेवमेव रसं पिबेत्॥ अनेनाश्व इ- वोदीर्णो बली लिंग समर्पयेतू॥ पिष्ट्वावराहमांसानि दत्वा मरिचसैंधवं॥ कोलवद्गुलिकाः कृत्वा तप्तेपयसि वर्त्तयेत्॥ वर्त्तनस्तंभितास्ताश्च प्रक्षेप्याः कौक्कुटे रसे॥घृताढ्ये गंधपिशुने दधिदाडिमसारके॥ प्रक्षिप्य साधयेद्युक्तां धान्यजीर- कनागरैः॥पीतो युक्तश्च स रसः कुरुते शुक्रमक्षयं॥ हंसबर्हिणदक्षांडान् भृष्टांस्तप्तेन सर्पिषा॥ सुरानुपानान् यः खादेत्स तृप्तस्तर्पयेत्स्त्रियः॥ आर्द्राणि मत्स्यमांसानि शफरीर्वासुभर्जिताः॥ तप्तेसर्पिषियः खादेत्स गच्छेत् स्त्रीषुन क्षयं॥ घृतभृष्टान्न्यसेच्छागे रोहितान्फलसारके॥अनु पीतरसान् सिद्धानपत्यार्थी प्रयोजयेत्॥ घृतं मांसात्सवस्तांडात्फलाम्ले मा- हिषेरसे॥मेशेवा साधयेत्पूतंतद्रसं तर्जयेतेद्घृते॥ ईषल्लवणितं युक्तं धान्यजीरकनागरैः॥पीतः स वृष्योवल्पश्च बृंहण- श्च परं रसः॥ चटकांस्तैत्तिरे तद्वत्तित्तिरीन् कौक्कुटे रसे॥ कल्पयेच्छिखिनो हांसे हंसान्या शिखिजे रसे॥ तृप्तिं चटक- मांसानां
तुल्यस्वभावा या हारीमृजारूपगुणान्विता॥ पाशभूतैर्बिहंत्यंगैर्लावण्यमिव मूर्तिमत्॥ आलपंत्यमृतेनैव या गात्राणि निपिंचति॥पिबंतीवच पश्यंती स्पृशंती लिंपतीव या॥ नित्यमुत्सवभूता याया समानमतःशया॥ नमत्युत्सुकतां चेतो नित्यं सन्निहिता चया॥ यया विमुक्तो निःस्त्रीकमरतेर्मन्यते जगत्॥ प्रगल्भारतिसंग्रामेस्वस्था लज्जामयी च या॥ बहुशोऽपि च यां गत्वा तत्पूर्वमिव गच्छति॥ चरितैर्निर्विकारा या चरितैरिव निर्मिता॥कांतानुवृत्तिपरमा सा स्त्री वृषतमा मता॥ अभ्यंजनोद्वर्तनसेकगंधस्रक्चित्रवस्त्राभरणप्रकाराः॥ सुगंधिपुष्पोत्तररेणुकीर्णा मृदुर्मनोज्ञा विपुला चशय्या॥ प्राज्ञा कला- ज्ञा वशगा विनीता प्रियंवदा प्रीतिपरा वयस्या॥विश्रंभसत्वप्रकृतिक्रियैक्याशरीरमात्रेण पृथक् च भूता॥कांता वनांताः परपुष्टघुष्टा रम्याः स्रवंत्यःसततं स्रवंत्यः॥ मद्यंयदामोदकरं विशेषाद्भृत्याः प्रसन्नाः सुरभिः प्रसन्ना॥ वरांगनागंडतलाभि- पांडु तांबूलपत्रं परिवारशोभि॥ प्रसाधनं स्त्रीमुखपंकजानां यदायुधं मृर्तमिवात्मजस्य॥ मंथाचलोद्धू नितदुग्धसिंधुसमु- द्भवत्फेनचयावदातं॥ सोयंसुधाशुभ्रतराः कराश्च चंद्रस्य कुर्वंति परं नृपत्वं॥बंधेन पूर्वोपहितेन पुंसः खिन्नस्य वृत्तिःकरणांतरेण॥ संवाहनं स्पर्शसुखं करैश्चकरोत्यपूर्वामिव मन्मथेच्छां॥ सांयोगिकाधिकरणोदितचित्रचेष्टासंशीलनो- द्भवदनल्परसाद्रचित्तः॥ वृष्योपभोगपरिबृंहितदेहधातुनारीमनांसि वशमानयति प्रसह्य॥ तस्मान्नित्यं स्त्रीषुवांछन्प्रियत्वं वृष्यैर्योगैर्जातकामोऽपि कामी॥ सत्वंसात्म्यं देशकालौ च बुध्वाचातुःपष्टे चेष्टिते व्याप्रियेत॥ वलयस्वनसंकुलमुष्टिरवद्वि- गुणीकृतमेखलिकानिनदः॥चलनूपुरशब्दयुतोऽपि मुहुः शममावहते न रतातिशयः॥ सर्वार्थसिद्धिः प्रथमोऽनुरागः शृंगारगांधर्वकथा-विशेषाः॥सीत्कारगर्भं हसितं सहावं छिन्नाक्षरं विभ्रमवच्च गीतं॥ सव्याजसं
दर्शितचारुगात्रं वृत्तं प्रियाणामवलोकितं च॥ चूतांकुरं पुष्पफलं यथर्तुविद्युत्तदुद्योतितगर्जितानि॥ विहंगमाला स्तनितानु- पातं स्त्रीकूजितं भूषणसिंजितानि॥काले यथास्वंवपुषश्च शुद्धिः संकल्पयोनेर्धुरमुद्वहंति॥स्रोतःसु शुद्धेष्वमले शरीरे वृष्यं यदाद्यं711 मितमत्तिकाले॥ वृषायते तेन परं मनुष्यस्तद्ग्रहणं देहबलप्रदं च॥ उपदिष्टेविचित्रेऽस्मिन्वक्तव्यार्थानुरोधतः॥ क-र्तव्यमेव कर्तव्यं प्राणाबाधेऽपि नेतरत्॥ एतत्स्वरूपं शास्त्रस्य यद्व्यापित्वेन वर्ण्यते॥ स्पृशतिन्यूनता दोषोमहानव्यापिनि ध्रुवं॥ वीर्घहीनैरसंकीर्णैः प्रयोगैरविभूषितं॥ अर्थानुतंत्रं यत्तंत्रंतंत्रतामाप्नुयात्कथं॥ हंसबर्हिणदक्षांडायद्यप्यत्यर्थशुक्रलाः॥ मुनयः सदया ब्रूयुस्तांस्तथैवान्यथा कथं॥कथं च सर्वं एवैते योगा रागाग्निदीपनाः॥ क्लिष्टसंकल्पजनंनाः प्रोक्ताः संसारव- र्द्धनाः॥ त्रिकालदर्शिभिर्दिव्यैः सत्वदोषविवर्जितैः॥ पूर्वाचार्यैः कृतं वर्त्म को लंघयितुमर्हति॥ प्रकांते सर्वथा सर्वमुक्तं भवति सूदितं॥ न हि लेशाभिधानेन लभ्यः सर्वार्थसंग्रहः॥तथा चगर्दभीक्षीरं मांसमश्वश्वहस्तिनां॥ सहसागरतोयं च प्रोक्तं निरुपयोगिकं॥आद्यत्वेन विशेषेण भूरितंत्रार्थसंग्रहात्॥ संग्रहाद्यन्न बुध्येत तज्ञ्ज्ञानमतिदुर्लभं॥ यथाप्रतिज्ञातमिति क्रमेण वेदोऽयमष्टांगनिधेर्निबद्धः॥ अभ्यस्यतो मार्गमिवार्थसत्यंसंजायते स्वार्थपरार्थसिद्धिः॥ पितामहमुखोदीर्णमित्यायुर्वेदवाङ्म- यं॥ जीवितारोग्यधर्मार्थसुखगौरवकीर्तिकृत्॥ अलंकृतं युक्तिपदैः सद्रत्नैरिवकांचनं॥ षट्त्रिंशतार्थदुर्गेषु भिषजांसंक्रमै712- रिव712॥ तत्राधिकरणं योगो हेत्वर्थोऽर्थःपदस्य च॥ प्रदेशोद्देशनिर्देशवाक्यशेषाःप्रयोजनं॥उपदेशाण
____________________________________________________________
२ संक्रमः क्रमणे पुमिन
सं……..र्गसचरइतिमेदिनी॥
_____________________________________________________________________
देशातिदेशार्थापत्तिनिर्णयाः॥ प्रसंगैकांतनैकांताः सापवर्गो विपर्ययः॥पूर्वपक्षविधानानुमतव्याख्यानसंशयाः॥ अतीतानाग- तापेक्षास्वसंज्ञोह्यसमुच्चयाः॥निदर्शनं निर्वाचनमभियोगो विकल्पनं॥ प्रत्युत्सारस्तथोद्धारः संभवस्तंत्रयुक्तयः॥ सरसः सुप्तपद्मस्य रविदीधितयो यथा॥ वाक्यार्थयोजनादेतायुक्तयस्त्विष्टसिद्धिदाः॥ असद्वादिप्रयुक्तानांवाक्यानां प्रतिषेधकाः॥ सलेशोक्तिगदितानां प्रकाशकाः॥वाक्यन्यायविधेः सारं गृहीत्वैक्यं व्यवस्थिताः॥ एतदागलीनव्यत्यामसिद्धत्वात्मत्यक्ष-॥ फलदर्शनात् ॥ प्रयोज्यं मंत्रवत्तंत्रं तंत्रज्ञानविशारदैः॥पितामहेन लोकस्य स्मृत्वा तदिदमव्ययं॥ अकालमृत्युरक्षार्थमलौहं वर्म निर्मितं॥\। सुज्ञातमेतदमृतं स्वस्थास्वस्थसुखास्पदं॥ यथेप्सितफलाशेषपुरुषार्थप्रसाधनं॥ इदं शास्त्रमदृष्टीनामेवमालो- ककार्यपि॥मंडलं भास्करस्येव न प्रकाशाय जायते॥ ध्रुवं वैद्येषु कल्याणमायुर्वेदानुसारिषु॥ इतरेष्वितरच्छस्त्रविषज्वल- षज्वलनकर्मकृत्॥ कुर्यात्प्रयुक्तशास्त्रादिसशेषमपि रोगिणां॥ मत्वेति भेषजं मोहादनालोचितयोजितं॥सदा महौषधा- दीनां वीक्ष्य द्वादशतत्त्वतः॥ कुर्याच्चिकित्सितं प्राज्ञो न योगैरेव केवलं॥ मात्रादिसम्यगज्ञात्वायदृच्छाप्रतिपादितः॥हिनस्ति व्याधितंयोगो घृतमाक्षिकयोरिव॥दृष्ट्वा ह्यमृततां क्षौद्रघृतादौ मारणात्मतां॥ शास्त्रतत्वमविज्ञाय न दुरात्मा चिकित्सतु॥सुगीतश्चैप कस्यापि महाश्लोको महात्मनः॥ वैद्या ह्यश्रुतशास्त्रार्था भृत्याश्च प्रभविष्णवः॥ अकालमृत्यवो ह्येते विचरंति महीतले॥ लोभयंत्यातुरं वैद्या ये चित्रैः कर्मकौशलैः॥ तेभ्यो रक्षेत् सदाऽऽत्मानमात्मा यस्मात्सुदुर्लभः॥ ते घुणाक्षरवत्कं- चिदुत्तार्यनियतायुषं॥ घ्नंति वैद्याभिमानेन शतानि नियतायुषां॥ रोगार्त्तस्य विषण्णस्य यत्नलभ्यसुखायुषः॥ अवैद्यो निर्घृणः क्रूरो यः करोति भिषग्जितं॥पापस्य मृत्युदूतस्प दुर्मतेस्त्यक्तधर्मणः॥ नरो नरकपाती स्यात्तस्य
संभाषणादपि॥ अतंत्रीकृततंत्रार्थः शास्त्रमात्रोपजीवनः॥ राज्ञां प्रमादाद्राष्ट्राणि चरंति व्याधिवृत्तयः॥ तान्कालपाशसदृशा- न्वर्जयेच्छास्त्रघर्षणान्॥सेवेत शमविज्ञानज्ञानपूर्वान् भिषक्तमान्॥ अन्नपानानिपथ्यानि व्याधिनिर्धातमौषधं॥ रसायनानि वृष्याणि प्राप्यंते वैद्यसंश्रयात्॥ अराजका यथा देशा भर्तृहीना यथा गृहाः॥ आतुराद्यास्तथा पादाः शोच्या वैद्यानधिष्ठिताः॥ प्राणाचार्यं बुधस्तस्माद्दयालुंविजितेंद्रियं॥ अश्विनाविवदेवेंद्रः पूजयेदादृतस्तदा॥ यज्ञस्यहि शिरश्छिन्नमश्विभ्यां संधितं पुनः॥ पातिता दशनाः पूष्णो भगस्य च विलोचने॥ राजयक्ष्मार्दितश्चंद्रस्ताभ्यामेव चिकित्सितः॥ सोमातिपिबतो वज्री भु-जस्तंभे च दारुणे॥ भार्गवश्चवनः कामी वृद्धः सन्विकृतिं गतः॥ वीर्यवर्णबलोपेतः कृतस्ताभ्यां पुनर्युवा॥एभिश्चान्यैश्च बहुभिः कर्मभिर्भिषगुत्तमौ॥ बभूवतुर्भृशं पूज्याविंद्रादीनां महात्मनां॥अश्विभ्यां सहितः सोमं प्रातः पिबति वासवः॥ सौत्रा-मण्यां च भगवानश्विभ्यां सह मोदते॥अश्विनोः कल्प्यतेभागो यज्ञेषुब्राह्मणैरपि॥ अजैररमरैर्नित्यं सुखितैरेवमादृतैः॥ व्याधिमृत्युजरात्रस्तैर्दुःखप्रायैः सुखार्थिभिः॥ किं पुनर्भिषजो मर्त्यैःपूज्याः स्युर्नातिशक्तितः॥ शीलवान्मतिमान् युक्तो द्विजातिर्वेदपारगः॥प्राणिभिः पितृवत्पूज्यः प्राणाचार्यः स हि स्मृतः॥ विद्यासमाप्तौभिषजां द्वितीयाजातिरुच्यते॥ न वैद्यो वैद्यशब्दं हि लभते पूर्वजन्मना॥ विद्यासमाप्तवत्यर्थेब्राह्मं वा भिषजां ध्रुवं॥सत्वमाविशति ज्ञानात्तेन वैद्यो द्विजः स्मृतः॥ नाभिध्यायेन्न चाकोशेदहितैर्न समाचरेत्॥ प्राणाचार्यं बुधः कश्चिदिच्छन्नायुरनीश्वरं॥भिषगप्यातुरान् सर्वान्समुतानिय सत्यवान्॥अवाधेभ्योऽपि संरक्षेदिच्छन् धर्ममनुत्तमं॥ कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयं॥ ते हित्वा कांचनं राशिं भस्मराशिमुपासते॥रोगाख्यान्दारुणा
न्पाशानंतकांतिककर्षिणः॥ यश्च्छित्वा यच्छति प्राणान् दातानास्त्येव तत्समः॥ न जीवितप्रदानाद्धिदानमन्यद्विशि- ष्यते॥ तस्मादुपाचरेत्स्वेन स्वेन निःस्वतपस्विनः॥स्वत्वार्थमीहमानस्य वैद्यस्यैवमहात्मनः॥वर्त्तंते सन्निधानेन नियतं सिद्ध- देवताः॥क्वचिद्धर्मःक्वचिन्मित्रं क्वचिदर्थः क्वचिद्यशः॥ कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्तिनिष्फला॥ नित्यमादरवा- न्वैद्यस्तस्मादार्त्तानुपाचरेत्॥ प्राणान्सहात्मनः कीर्त्या निहंत्येपामनादरात्॥सर्वत्रमैत्री करुणाऽऽतुरेषुनिरामदेहेषु नृषु प्र- मोदः॥ मनस्युपेक्षा प्रकृतिं व्रजत्सु वैद्यस्य सहृत्तमलं तनोति॥ सामिषेणापिचित्तेन जीवितोच्छेदकारिणः॥यो निहंत्यामयान्वैद्यः सोऽपि केनोषमीयतां॥ किमुत निरामिषेणमनसा करुणामृदुना कृपणविशिष्टयोः सदृशमुद्वहता॥ अतिगुरवोऽधिकसत्वचरितं सततं विदधच्छमयति रोगजालमपि योऽतिविरोधिमिथः॥ दाहः शूलं तृडाध्मानं क्षुत्क्षाम- त्वमरोचकं॥ कः प्राकृतोजयेद्रोगान्नित्यमन्योन्यरोधिनः॥ मारुतामग्रहोन्मादमदान्सुसदृशाकृतीन्॥ को जानीयाच्चिकि-त्सेद्वादूरभिन्नक्रियाक्रमान्॥ पर्वभेदोंऽगमर्दस्तृट्कासः श्वासोऽरुचिर्भ्रमः॥ एतान्यलंघिते लिंगान्येतान्येवातिलंघिते॥ प्राणा- चार्यं वेदपारं प्रयातं बुध्या युक्तं पूजयेन्नित्यमस्मात्॥ यस्मिन् ह्यस्य प्राणयात्रा निबद्धा तस्मै यछन् को धनानां धनायेत्॥आयु र्वेदं श्लोकलक्षेण पूर्वं ब्राह्मं त्वासीदग्निवेशादयस्तु॥ कृच्छ्राज्ञ्ज्ञेयान्प्राप्तपारान्सुतंत्रांस्तस्यैकैकं नैकधांऽगानि तेनुः॥भिषग्वरो वाग्भट इत्यभून्मे पितामहो नामधरोऽस्मि यस्य॥ सुतो भवतस्यचसिंहगुप्तस्तस्याप्यहं सिंधुषु लब्धजन्मा॥समधिगम्य गुरोरवलोकिताद्गुरुतराच्चपितुः प्रतिभामयं॥सुबहुभेषजशास्त्रविलोकनात्सुचरितांगविभागसुनिश्चितः॥ पूर्वोक्तमेव वदता किमिवोदितं स्याच्छ्रद्धालुतुष्टिजननं न भवत्यपूर्वं॥ संक्षिप्तसंशयितविस्तृतसंप्रकीर्णं कृत्स्नार्थ
राशिरिति साधु स एव दृष्टः॥आयुर्वेदोदधेः पारमपारस्य प्रयातिकः॥ विश्वव्याध्यौषधिज्ञानसारस्त्वेषःसमर्थितः॥ स्मृत्वेदमुदितंपूर्वं श्रुत्वेदानींद्वयोः पुनः॥ स्मर्तुः श्रोतुश्च सुतरां श्रद्धातुं कस्य युज्यते॥ अथवा भूतमप्येतं स्मर्तुरेव क्रमागतं॥ अभिधातृविशेषेणकिंतथाऽपि प्रयोजनं॥ ऊर्ध्वमेति मदनं त्रिवृताऽधो वस्तुमात्रक इतिपाद्ये॥ मद्विधो यदिवदेदथवाऽत्रिः कथ्यतां कइव कर्मणि भेदः॥ साध्वसाध्विति विवेकवियुक्तो लोकपंक्तिकृतभक्तिविशेषः॥ बालिशो भवति नो खलु विद्वान् सूक्त एव रमते मतिरस्य॥ अभिनिवेशवशादभियुज्यते सुभणितेऽपि न यो दृढमूढकः॥ पठतु यत्नपरः पुरुषायुषंस खलु वैद्यकमाद्यमनिर्विदः॥ऋषिप्रणीते प्रीतिश्चेन्मुक्त्वाचरकसुश्रुतौ ॥भेडाद्याः किं न पठ्यंते तस्माद्ग्राह्यं सुभाषितं॥ इति मुनिवचनानां जीवितोपाश्रयाणामभिलषितसमृद्धौकल्पवृक्षोपमानां॥ यदुदितमिह पुण्यं कुर्वतो मेऽनुवादं भवतु विगतरोगो निर्वृतस्तेन लोकः॥ इतिवाजीकरणयोगो नाम पञ्चाशत्तमोऽध्यायः॥५०॥
इत्यष्टमं वाजीकरणमगं संपूर्णं ॥ ८ ॥
इति श्रीसिंहगुप्तसूनुश्रीमहाग्भटाचार्य विरचितेऽष्टांगसंग्रहेषष्टमुनास्थानं संपूर्णं॥६॥ समाप्तश्चायंग्रंथः॥॥ श्रीकृष्णा- र्पणमस्तु ॥
<MISSING_FIG href="../../../../../../../books_images/U-IMG-1702304965image17.jpg"/>
अष्टांगसंग्रहस्य
शुद्धिपत्रम्
पूर्वभागस्य
| त्याज्यं | ग्राह्यं | त्याज्यं | ग्राह्यं |
| भवयु | भवेयु | तीर्यक् | तिर्यक् |
| गज | गजं | संमताद्व्यंगुले | संमताद्द्व्यंगुले |
| वृत्य | वृत्त्य | त्रिकंटुक | त्रिकटुक |
| भवति | भवति | अंगुष्ठेनापरुध्य | अंगुष्ठेनोपरुध्य |
| ककुभो^(१) | ककुभो^(२) | ||
| कठिना | कठिना | यथामार्गे | यथामार्गं |
| त्वर | त्ववरं | हरं अन्यतो | हरमन्यतो |
| खाप | खाप | कशाभिर्बध्वा | कुशाभिर्बध्वा |
| सापधान् | सापिधान | उष्मणा | ऊष्मणा |
| चूर्णै | चूर्णै | सक्तुभिघृताक्तैः | सक्तुभिर्घृताक्तैः |
| विरुढ | विरूढ | बात | वात |
| सुखानुवृतिः | सुखानुवृत्तिः | नृणां | नॄणां |
| कषय | कषायं | सारिवाद्भिः | सारवद्भिः |
| पित्तफापहे | पित्तकफापहे | प्रतावुपलब्धिः | प्रवृत्तावुपलब्धिः |
| सेवाल | शेवाल | ||
| राजन्हं | राजाव्हं | प्रयोजयेत् | प्रयोजयेत् |
| विवक्ति | विविक्त | स्वादु | स्वादु |
| प्रायैभेदः | प्रायैर्भेदः | ||
| भेवत् | भवेत् | क्रोधा | क्रोधो |
| दोर्गंध्यं | दौर्गंध्यं | भ्रूवोः | भ्रुवां |
| पारावारा | परिवारा | सोतोभ्यश्च | स्रोतोभ्यश्च |
| परस्वेरण | परस्वरेण | संसर्गकृतिः | संसर्गप्रकृतिः |
| विमर्दिन | विमर्दित | पुप्पाणि | पुष्पाणि |
| आत्ययित्वात् | आत्ययिकत्वात् | अनाधिगच्छंतं | अनधिगच्छंतं |
| खरा | खरा | ||
| कर्णादि | कणांदि | कषांयतिक्तमधुरं | कषायतिक्तमधुरं |
| कुशपत्रारामुखे | कुशपत्राटामुखे | ||
| आसुरी | आसुरी | जायते | जायंते |
शुद्धिपत्रम्
[TABLE]
| त्याज्यं | ग्राह्यं | त्याज्यं | ग्राह्यं |
| वर्शशतम् | वर्षशतम् | संव^(१)ननम् | सं^(२)वननम् |
| लशुनोद्भ^(१)वः | लशुनोद्भ^(२)वः | यष्टिकौदनः | यष्टिकौदनं |
| मेघा | मेधा | पाद्ये | प्रतिपाद्ये |
| सुरवी | सुखी |
===========
]
-
“आत्रेयं”
↩︎ -
“शल्यदंष्ट्राशब्दौव्रणविषमात्रोपलक्षणौ” ↩︎
-
“स्त्रीप्रसंगित्व” ↩︎
-
“अस्मआदावितिपदद्वयं” ↩︎
-
“सशब्दइषदर्थे” ↩︎
-
“तिक्तः किराततिक्तादिः (कदूइतिभाषायां ↩︎
-
“उषणःमरीचादिः (तिखट इ०भा० ↩︎
-
“लघुतीक्ष्णोष्णरुक्षमार्द्रवकठिनसरस्थूलपिच्छिलाइति दश क्रमाद्विपरीताः” ↩︎
-
“कृपालुः सूरतः समइत्यमरः” ↩︎
-
“युद्धं " ↩︎
-
“निन्दां” ↩︎
-
“च ऋच्छतीति पदद्वयं” ↩︎
-
“गोपनीयामिति पाठः” ↩︎
-
“आमिषं भोग्यवस्तुनीति कोशः” ↩︎
-
“परिचारक” ↩︎
-
“गुरो सकाशाहहोतशास्त्रार्थ” ↩︎
-
“सपीत्रष” ↩︎
-
“दानात्” ↩︎
-
“रात्रेरुपात्योमुहूर्तोब्राह्मस्तस्मिन्” ↩︎
-
“नचापरिष्कृत्येतिपाठः” ↩︎
-
“व्याप्य कुष्टं त्रिवर्गत्रितय त्रिकटुविफलात्रिजातकानि” ↩︎
-
“मलवैरस्यादयोनभवंति रुध्यादयोभवंतियेनिसंबंधः” ↩︎
-
“दूतादिविज्ञानीयशारीरोक्तं दधिमधुघृतादि” ↩︎
-
“माल्यं कुमुमतत्स्रजोरितिमेदिनी” ↩︎
-
“अर्थो विषयार्थनयोर्धनकारणवस्तुष्वितिमेदिनी” ↩︎
-
“प्राणिवधस्थानं” ↩︎
-
“प्रभातकाले” ↩︎
-
“स्थी” ↩︎
-
“पातकिनि " ↩︎
-
“गीतादिना उल्वणामितिपदच्छेदः” ↩︎
-
“नविकिरेत् " ↩︎
-
“च्चेतिपाठः” ↩︎
-
“अथरजस्वला॥ स्त्रीधर्मिण्यविरावेयीमलीनी पुष्पवत्यपि॥ऋतुमत्यप्युदक्यापीत्यमरः” ↩︎
-
“कूलरोधस्तच्छायां” ↩︎
-
“कलहमितियावत्” ↩︎
-
“प्राणिवधः। चौर्यं। अगम्यागमनं। परस्याप्रत्यक्ष तद्दोषकीर्तनं। परस्यप्रत्यक्षंतद्दोषकीर्तनं। असत्यं। असत्प्रलापः। परानिष्टचिंन्तनं। परत्वापहारेच्छा। आप्तवाक्येष्वप्रमाणबुद्धिरिति हिंसादीनां क्रमात्पर्यायाः॥” ↩︎
-
“पर्यंकिका” ↩︎
-
“लघ्वक्षरोच्चारणमात्रोऽक्षिनिमेष इति सुश्रुत॥” ↩︎
-
“हिमानी हिमसंहतिरित्यमरः” ↩︎
-
“दिशः” ↩︎
-
“अरण्याग्निप्रकाशिताः॥” ↩︎
-
“संश्लेषैरितिपाठः” ↩︎
-
“कुलं राधश्चतोरंचेत्यमरः” ↩︎
-
“हसांगघट्टनैरिति पाठः” ↩︎
-
“कुष्ठचिकित्सितोक्त।” ↩︎
-
“जघायाःपश्चिमे भागे पिंडिकाकृतिमांसं पिंडिका तस्या उद्वेष्ट्यमानाया इव दुःखं” ↩︎
-
“गुदे परिकर्त्तनवत्पीडा” ↩︎
-
“वेगोदीरणधारणात्” ↩︎
-
“नानुपतंतीति पाठः” ↩︎
-
“तत्पेयमिति पाठः” ↩︎
-
“स्वयंविशीर्णशीलश्वभ्रंचौडिः तत्संबंधिचौंड्यं” ↩︎
-
“तथेति पाठः” ↩︎
-
“पानीय जलं न पानीयं न पेय” ↩︎
-
“सम्यगनिष्पन्न (आदमुरें इति भाषायां ↩︎
-
“नैव तक्र क्षते दद्यान्नोष्णकाले न दुर्बले॥ न मूर्च्छाश्रमदाहेषु न रोगे रक्तपैत्तिकदतिइति हेमाद्रावधिक” ↩︎
-
“दशवर्षस्थित” ↩︎
-
“दध्ना तक्रेण वा सहपाकात्पृथक्भूतघनद्रवभाग क्षीर कूचीका॥ सच पाकादिना क्षीरशाकः॥ तयोर्घनभागः पृथगुद्धृतः किलाटः॥ द्रवभागोमोरणः॥प्रसूतिदिनादारभ्य यावन्मलिनं घनं क्षीरं तावत्पीयूषः॥ घनवद्वबद्धं स्वयं स्तुतद्रवभागं पिंडीभूतं तक्रंतक्रपिंडक इति हेमाद्रिः।” ↩︎
-
“अधौतगुडः” ↩︎
-
“कषाया यासशर्करेतिपाठः। यासो दुस्पर्शः (घमासा ↩︎
-
“सविषपुष्पेभ्य इति पाठः” ↩︎
-
“वरं स्याद्धामर शुक्लं घृतवर्ण तु पौत्तिकं॥ क्षौद्रंतु कपिल प्रोक्तंतैलाभं माक्षिकं स्मृतं॥ विशेषाद्गुर्वाभिष्यंदि भ्रामरं सादु तर्पणं॥ क्षौद्र सतिक्तमधरं लघु रूक्ष विशोधनं॥ पौत्तिकं बृहणं रुक्ष कफव्रणहितं लघ्वितिहेमाद्रावधिकः पाठः।” ↩︎
-
“मंडः पुराणो विशदस्तीक्ष्णो रूक्षो लघुत्तनुरिति च।” ↩︎
-
“लघु पित्तारूकृत्कोटकुष्टार्शोव्रणजंतुजिदित्यष्टांगहृदयेऽधिकःपाठ” ↩︎
-
“शालिपिष्टकतं मद्यं” ↩︎
-
“श्वेतसुरा सा च श्वेतपुनर्नवादिमूलयुक्तेन शालिपिष्टेन क्रियते” ↩︎
-
“मद्याधःस्थितद्रवभागः” ↩︎
-
“मद्याधःस्थितघनभागः” ↩︎
-
“(बाकुस इति भाषायां ↩︎
-
“क्वथितौषधैः कृतं मद्यं” ↩︎
-
“अक्वथितौषधैः कृतं मद्ये” ↩︎
-
“उत्तमा मद्याकरा इति योजना” ↩︎
-
“कदमूलफलादीनिसस्नेहलवणानि च॥ यत्र द्रवेऽभिषुयंते तच्छुक्तमभिधीयत इति।” ↩︎
-
“शाक्मुद्गादिवटकसंधानं शाडाको” ↩︎
-
“शुक्तशांडाकाम्यामितरत्तच्च पिण्याकादिकृत” ↩︎
-
“दद्यात्क्षये इति सर्वागसुंदरायां पाठः” ↩︎
-
“कंडनेन विना शुक्ला हेमंताः शालयःस्मृता इति भावप्रकाशे” ↩︎
-
“वार्षिकाः कंडिता शुक्ला व्रीहयश्चिरपाकिन इति च॥ सर्वागसुंदरायां तु। क्षुण्ण सितः स्मृतः शाहीरतोत्रीहरुदाहृत इति” ↩︎
-
“दीघसूक्ष्मो गोधूमो नंदीमुखी (खपल गहू ↩︎
-
“निःशुकाकपिकच्छुः” ↩︎
-
“सशुका कपिकच्छुः (कवचबीज ↩︎
-
“उमा अतसी” ↩︎
-
“सिक्थैर्विरहितो मंडः पेया सिक्थसमन्विता॥ घनसिक्था विलेपी स्यादिति” ↩︎
-
“अकुरितधान्य” ↩︎
-
“सितामध्वादिमधुरा रागास्तवाच्छकांतयः॥ ते साम्लाः खांडवा लेह्याःपेयाश्चांशुकगालिता इति तंत्रांतरे” ↩︎
-
“ट्वालोडिताः ससर्पिष्काः सक्तवोमंथः " ↩︎
-
“शिखरिणो” ↩︎
-
“भृष्टयवादिधान्यं” ↩︎
-
“भृष्टानां निस्तुषाणां यवानां चूर्णः” ↩︎
-
“नागरमान्यकाजाजिहिगुघृतादिसंस्कृतं कुट्टितं, मांस” ↩︎
-
“श्वभ्राकारपुत्तानं मृन्मयपात्रंकुकूलं॥ तदेव न्युब्जं खर्परं॥ तदेव सच्छिद्रंभ्राष्ट्रं॥ लोहमयंन्युब्जंकटु॥ अंगारशब्देन अंगारपूर्णं पात्रं हसंत्यादि” ↩︎
-
“विकीर्य भक्षयंति से विष्किराः” ↩︎
-
“प्रतुद्य भक्षयति ते प्रतुदाः” ↩︎
-
“चिने शेरते वसंति ते विलेशयाः” ↩︎
-
“प्रसत्द्यहन्वाभक्षयति ते प्रसहा” ↩︎
-
“मांसभक्षकाः” ↩︎
-
“नित्यशैवालभक्षत्वादिति पाठः” ↩︎
-
“अत्यतपुष्ट” ↩︎
-
“पूर्वोक्तपटोलादिगणगुणयुक्तं” ↩︎
-
“पित्तोदासीनमित्यर्थः” ↩︎
-
“पक्व” ↩︎
-
“पक्वं” ↩︎
-
“अर्द्धस्विन्नंमुद्रादिधान्य कुल्माषः” ↩︎
-
“सिद्धं तु तददोषमिति पाठः” ↩︎
-
“दोषबलाबलमिति पाठः” ↩︎
-
“पानज इति पाठः” ↩︎
-
“थमाविचित्रभागेष्वतिपाठः” ↩︎
-
“(गुप्तहेर ↩︎
-
“परिप्रहः परिजने पत्न्यामिति मेदिनां” ↩︎
-
“प्रोक्षणमंत्रैः” ↩︎
-
“वार्त्ताकादीनि दधितक्रदाडिमादिसंस्कृतानि " ↩︎
-
“मलिनता” ↩︎
-
" वार्त्ताकादीनि दधितक्रदाडिमादिसंस्कृतानि” ↩︎
-
“धमाविचित्रभागेष्वितिपाठः” ↩︎
-
“गुमहे२” ↩︎
-
“परिग्रहः परिजने पत्न्यामिति मेदिनां” ↩︎
-
" वार्चाकादीनि दघितकदाडिमादिसंस्कृतानि” ↩︎
-
" सविषान्नयुक्तवन्हेः” ↩︎
-
" सुमना मालती जातिरित्यमरः " ↩︎
-
“क्षारको जालक क्लीवे कलिका कोरकः पुमानितिव” ↩︎
-
“पक्षिभिः” ↩︎
-
“शुर्लेतिपाठः” ↩︎
-
“विद्धाकारैः स्फोटैः” ↩︎
-
“प्रच्छानं कृत्वा” ↩︎
-
“दूषिका नेग्रमलः” ↩︎
-
“कफतकं तु मसाधनमित्यमरमाला (फणो कंगवा ↩︎
-
“मदुसर्पिषो पानचेति पाठः” ↩︎
-
“सान्निध्यात् " ↩︎
-
" कक्ष्याग्रहप्रकोष्ठेस्पादिति कोशः” ↩︎
-
“यो गच्छत्यलंविद्रिषतः प्रति ॥ सोऽम्पमित्र्य इत्यमरः” ↩︎
-
“कूष्याद्य वस्रवेश्मनीत्यमरः॥ ( तवूद्दति लोके ↩︎
-
" तद्वस्रकेशस्पर्शादिति पाठः” ↩︎
-
“गवलं माहिष शृगमित्यमर॥” ↩︎
-
“बभ्रुर्नकुल” ↩︎
-
" सविल्वारष्करयवैरिति पाठ” ↩︎
-
" मन. शिला” ↩︎
-
“यद्राला कर्माभस्तस्मादाराष्योऽसावतद्रितैरिति पाठ” ↩︎
-
“लोकापवादं कुकर्मवा” ↩︎
-
“निरुध्यतदपि पाठः” ↩︎
-
" नवनीतेन शाकमिति क्वचित्पाठ.” ↩︎
-
" रेचनद्रव्यविशेष.” ↩︎
-
“वातध्यध्याश्मरीकुष्ठमेहोदरभगंदराः॥ अशौसि ग्रहणीत्यष्टौ महारोगाः प्रकोर्तिताइति” ↩︎
-
" लोकादीतिपाठः” ↩︎
-
“त्र्यहादित्यष्टांगहृदये पाठः” ↩︎
-
“बहूनामेकरोगोत्मत्तिमाह॥” ↩︎
-
“अथाकालमृत्युमाह” ↩︎
-
“किंचिन्नेति पाठः” ↩︎
-
“भ्रातृव्यस्य शत्रोः भ्रातृव्यौ भ्रातृजद्विषावित्यमरः” ↩︎
-
“सोमाद्यैर्विहितस्त्वात्मनोवथ इति पाठः” ↩︎
-
“श्रुतिरिति पाठः” ↩︎
-
“विनेति पाठः” ↩︎
-
“बाहुल्यान्नेति पाठः” ↩︎
-
“तत्कालस्तु तदात्वं स्यादित्यमरः” ↩︎
-
“दधिसंतानिका” ↩︎
-
“विकटुजीरकदाडिमशर्करायुक्त मथित दधि सट्टकः” ↩︎
-
“द्रव्यमिति पाठः” ↩︎
-
“तक्रं ह्युदश्विन्मयितंपादांब्वर्द्वीवुनिर्जलमित्यमरः” ↩︎
-
“निषिद्धानुपानाना” ↩︎
-
" शाकादिमूलकमितिपाठः” ↩︎
-
“सदोपभुंक्तइति पाठः” ↩︎
-
“१ विरुद्धाध्यशनाजीर्णशीलिनइतिपाठः” ↩︎
-
" वर्तिमितिपाठ.” ↩︎
-
“वातलमितिपाठः” ↩︎
- ↩︎
-
॑ “१ कुटज इतिपाठ;” ↩︎
- ↩︎
-
“गुल्ममितिपाठाऽष्टागत्हृदय” ↩︎
-
“आचार्येणास्मन्नध्यायेपचविशनिगणसरयाक पिता गणनायास्तापाशतिर्गणाआयाति तच्चिय॥ ममतुपिप्पल्यादिगणोऽधिको भाति” ↩︎
-
“अथ प्रयोजन प्रयोगोयुक्ति” ↩︎
-
“१ गसुष्टविपमविदग्धतिपाठ” ↩︎
-
“२ षट्पदमरालयइत्यमर” ↩︎
-
“१ मत्स्येतिपाठः” ↩︎
-
“स्वेदात्युद्वमनं तृषामिति पाठः” ↩︎
-
“क्रोधनतामितिपाठः” ↩︎
-
“स्थानिर्दोषसंबंधिनीं ॥” ↩︎
-
“चक्षूद्वर्षश्चक्षूपरोधश्चक्षुस्तोदइतिहेमाद्रौपाठः।” ↩︎
-
“चक्षूद्वर्षश्चक्षूपरोधश्चक्षुस्तोदतिहेमाद्रौपाठः।” ↩︎
-
“अश्मगर्भोमरकतमणिः (पाचइतिलोके ↩︎
-
“तरलोहारमध्यगइत्यमरः " ↩︎
-
“भ्रमरत्रासितेतिपोभाति” ↩︎
-
“अंगनाभिर्निर्दयमाश्लेषइतिपूर्वेणसंबंधः " ↩︎
-
“वेण्वादिनिर्मितगृहविशेष (मांडवइ० भा० ↩︎
-
“तंत्रप्रधानेनिद्धांतइत्यमरः॥ सर्वांगसुंदरायांतु भेषजं योजयेत्तत्तु स्वीकुर्यान्न क्रमंभिषगितिपाठः सन्निपातज्वरचिकित्सामकरणे” ↩︎
-
“दोषकर्मजव्याधानां” ↩︎
-
“अपरिक्लिश्य नाशमुपगच्छतीतिपाठः” ↩︎
-
“समुत्थानं रोगकारणं” ↩︎
-
“संस्थानं रोगलक्षणं " ↩︎
-
“वर्णइति पाठः” ↩︎
-
“प्रकृतिविकृतिभुक्तमास्यरसंत्विति पाठः” ↩︎
-
“समुदायः समुदयइत्यमरः”
↩︎ -
“आध्मानं दग्धं ॥आध्मातः शब्दिते दग्धे इतिमेदिनीकरः” ↩︎
-
“वत्सकमितिपाठः॥” ↩︎
-
“क्रोधहिमातपानितिपाठः” ↩︎
-
“त्यासनसंस्थितीरि० पा०” ↩︎
-
“वैणवास्तरणे” ↩︎
-
“तैः कपालादिभिः” ↩︎
-
“पिठरः स्थााल्युखाकुंडमित्यमरः॥” ↩︎
-
“कृतमुष्टिकरोरत्निररत्निरकनिष्ठिकइतिकोशः” ↩︎
-
“कारयत्कपाटवर्जीमतिचरकेपाठः” ↩︎
-
“चरकेतु चतुष्किष्कुमात्रं पुरुषप्रमाणमिति पाठः॥किष्कुर्हस्तः” ↩︎
-
“वातमेवत्वितिपाठः” ↩︎
-
“प्रतिग्राहःपतद्वहइत्यमरः (पिकदाणी किंवातस्त ↩︎
-
“ऊषःक्षारमृदिप्रोक्तामनिमेदिनीकरः” ↩︎
-
“सुश्रुतेनतुमुहुःस्नेहविमर्दितमितिपठितं” ↩︎
-
“दोषोत्क्लेशइतिपाठः” ↩︎
-
“अश्ववेगः” ↩︎
-
“निम्नमध्याऽनुद्वातिनीति क्वचित्पाठः” ↩︎
-
“प्रतिसीराजवनिकास्यातिरस्करणीचसेत्यमरः [पडदा ]” ↩︎
-
“अंकुशवदावृत्तं वक्रं वारंगं ग्रहणस्थानं येषांतानि॥” ↩︎
-
“अत्र तालशब्देन प्रदेशउच्यते॥ तेन एकतालमेकप्रदेशो यस्यतदेकतालं॥ द्वे ताले प्रदेशौयस्यतद्द्वितालकं॥ एतेन प्रत्स्यशकलवत्प्रतनु मुखैकप्रदेशमेकतालं॥ मत्स्य शकलवत्प्रतनुमुखद्विपदेशं द्वितालमित्युक्तं॥ परिणाहस्तु कर्णादिप्रवेशी ज्ञेयइतिहेमाद्रिः” ↩︎
-
“अष्टांगहृदये तु॥ त्र्यंगुलास्यं भवेच्छृंर्गं चूषणेऽष्टादशांगुलमित्येकमेवशृंगमुक्तं” ↩︎
-
“शुष्कमलशोधनार्थ” ↩︎
-
“अकृताभ्यासः” ↩︎
-
“भिषग्बुभुषुरितिपाठः” ↩︎
-
“पुनर्द्रवीभूताइतिपाठः” ↩︎
-
“१. वमने च विरेके च तथा गणितमोक्षणे॥ सार्द्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणइति” ↩︎
-
“कंसं कास्यं” ↩︎
-
“वरमस्वडमया पाठा” ↩︎
-
“सूनवर्त” ↩︎
-
“व्यम्वविदग्ध नत्रदि विगताम्रस भवात” ↩︎
-
“प्रत्तावुपलब्धिरितिपाठ” ↩︎
-
" माषेरितिपाठ” ↩︎
-
“सृवविन्ना ( पिठवण ↩︎
-
“१.पुष्पदिनात्सस्प्तरात्रमिति सर्वत्र मूलपाठो दृश्यते॥ ममतु तत. पुष्पदर्शनद्वत्यारम्य त्रिरात्रमासीत॥तत स्वानाद्वित्यारभ्य चतूरात्रमुपेक्षेतेति वाक्यद्वयस्यतात्पर्य टिप्पणमितिभाति” ↩︎
-
“असौ पुरुष इति संबंधः” ↩︎
-
“अंतर्वत्री तु गर्भिणीत्यमरः " ↩︎
-
“श्रवणानि” ↩︎
-
“गात्रगौरवमिति पाठः” ↩︎
-
“कफोपनितं चेति पाठः” ↩︎
-
“युक्त्याचापरे इति पाठ.” ↩︎
-
“व्यवायप्रतिघात करोतीति पूर्वेण सबंध.” ↩︎
-
“परलापहारे छानती परगुणासहनशीला वा” ↩︎
-
“अधर्मशोलवतिपाठ” ↩︎
-
“कल्प निरामय॥ वार्तो निरामय. कल्य इत्यमर. दक्षमितिपाठ॥·” ↩︎
-
“शैवालमितिप्राचीन पुस्तकेषुपयायः” ↩︎
-
“प्रवाहेथा इतिपाठ” ↩︎
-
“उत्कृत्येतिपाठः” ↩︎
-
“चतुर्दश चनुदशतम एको भागइति यावत्” ↩︎
-
“कुक्ष्यंतरगतौ गोलकौ॥ " ↩︎
-
“क कोजइनि भाषायां” ↩︎
-
“क्लोम पिपासास्थानं॥” ↩︎
-
“स्थूलस्तायकः” ↩︎
-
“सदस्यिसघातवनगुल्फाइनकनिक एक पचवरसि एवमहादश सोमता.॥” ↩︎
-
“धमन्यथेतिपारः॥” ↩︎
-
“सामान्येनैवचेत्यक्षरपहूं पुस्तकेषु दृश्यते परंवधिकं भाति” ↩︎
-
“अपस्तंभो स्तनमूल अपालापौ स्तनरोहितचेम्यष्टो वक्षोमर्माणि” ↩︎
-
“विरुतदोषोल्चणेनैवेतिपार” ↩︎
-
“मलादितिपाठ” ↩︎
-
“समं समधातुं॥ " ↩︎
-
“अनूक स्वभावः॥” ↩︎
-
“वर्षुकाब्दी धनाधनइत्यमरः” ↩︎
-
“परिटिहफूकारांचेतिपाठः क्यतेजा इत्याहुः तथा अनेकामी व्याकुल चेताः॥” ↩︎
-
“अष्टापदःसारिफल॥अक्षःपाश॥” ↩︎
-
“दक्षिणावर्तशंखस्तु यस्य सद्मनि तिष्ठति॥ मगलानि मवर्त्तते तस्य लक्ष्मी स्वयूंवरेत्यनूपविवंके॥” ↩︎
-
“वरुणमधु वारुणीसुरा” ↩︎
-
“अपत्यक्षमाइत्यत्राक्षमालेतिपाठः” ↩︎
-
“गात्र वपु सहननमित्यमरः” ↩︎
-
“१ ग्रंथांतरेतु॥ पाकलः स तु नागानामभितावस्तु वाजिनां॥गवामीश्वरसज्ञश्च मानवानां ज्वरो मतः॥ अजावीनां लापाख्यः करने चालसो भवेत्॥ हारिद्रो महिषाणा तु मृगरोगो मृगेषु च॥ पक्षिणामभिघातस्तु मत्स्येष्विद्रमदो मतः॥पक्षाघातः पतंगानां व्यालेश्वक्षिकसंज्ञकइति ॥” ↩︎
-
“१ निर्दिश्यते व्याधिरनेनेति निदान॥निश्चित्य दीयते प्रतिपाद्यते व्याधिरनेनेति वा॥ निशब्दो निश्चये॥ तथा च निर्निश्चयनिषेधयोरिति॥ लोकेऽपि अद्य ते निदानं करिष्यामीत्युक्ते निश्चयं करिष्यामोत्यवगम्यते॥ निदानमितिकरणे ल्युट्॥ तेन व्याधि निश्चयकरणमात्रनिदान मिति निदानादिपंचकसामान्यलक्षणं॥ निदानशब्दोऽयं निदानविशेषे हेतौ च प्रतीयते॥ यथा नृणशब्दस्तृणविशेषे तृणजानौ च॥ " ↩︎
-
“उत्पन्नव्याधियोधकमेव लिंग रूपमिति लक्षणं” ↩︎
-
“संक्षेपतस्तृपशयलक्षणं॥औषधादिजतिसुखानुबंधउपशयइति” ↩︎
-
“निदान समानधर्मिणोऽपि प्रभावात्म रामकारिणः॥” ↩︎
-
“औषधादीनां दुःखकरउपयोगोऽनुपश यइत्यर्थः॥” ↩︎
-
“दोतिकर्त्तम्योपलक्षितं व्याधेर्जन्म संशमिः॥” ↩︎
-
“लट्टा कौशुभं शाकं” ↩︎
-
“खिन्नयवा.” ↩︎
-
“वल्लूर शुष्कमासे॥” ↩︎
-
" अन्नस्यपरिवर्ती विनियम॥ परिवर्त्तो विनियमे इति मेदिनीकर” ↩︎
-
“आघानं जन्मतो यद्दशम नक्षत्रं निधनं समभी तारा मत्यरः पंचमी तारा विपत्कर तृतीयातारा” ↩︎
-
“चैकविंशेवेतिपाठ” ↩︎
-
“हस्तेनेतिपारः” ↩︎
-
“भवेदितिपाठः” ↩︎
-
“मैश्ये अनुराधायां” ↩︎
-
“प्रतोदेनेव॥” ↩︎
-
“अरोचकेन वक्त्रस्थमपि न भुंक्ते अश्रद्धा केवल नाभिलपति मुखस्थं भक्षयत्येवेति विशेषः॥” ↩︎
-
“स्वेदो घर्मागमनं प्रायेण सामदोषेण स्रोतसा निरोधातसर्वग्वषु धर्मनिरोध अत्रतुपित्तस्य तैक्ष्यातूरभावान्स न भवति॥” ↩︎
-
“दगवलासकइतिपाठ.” ↩︎
-
“इदज्वरमोक्षकालसक्षण” ↩︎
-
“तिष्ठत्यानुपपद्यते ॥ इतिपाट” ↩︎
-
“अमत्रपाव” ↩︎
-
“लेहजेनिपाटः” ↩︎
-
“स्पृश्यते जातु नेतिपाठः” ↩︎
-
“अभिषण्णासु महिन्नासु” ↩︎
-
“काकर्णतिका गुंजा” ↩︎
-
“रक्तेऽम्लशिशिरप्रीतिसिरा शैथिल्यरूक्षताइति रक्तक्षयजा विकाराः॥” ↩︎
-
“अन्यस्य अनतिसारिणोऽपि अग्निविध्वंसकरैर्वन्हिमायहेतु भरनपानेः शीलते मेहणीरोगःस्यात्॥” ↩︎
-
“१ वायुर्वसादीनितिपाठ” ↩︎
-
“२ पर्युषितं रात्रिस्थितंधनीभवेत॥” ↩︎
-
“१ तथाचागमः ॥ मांसरोणितभूयस्त्वात् पाक गच्छति विद्गधिः॥मांस शोणितहीनत्वात्गुल्मः पाकं न गच्छतीति ॥” ↩︎
-
“१ श्लक्ष्णमति पाठः। कोमलस्पर्शमित्यर्थः” ↩︎
-
“१ ब द्धक्षतादरे” ↩︎
-
“१अस्यकृमिरोगिणः॥” ↩︎
-
“१ शिरोपहमितिपाठ” ↩︎
-
“विशिवाचीचोक्ता बाहुचेष्टाऽपहारिणीत्पादिना ग्रथेन गृभप्तीचाधुनैवोक्ता ते तीतरुजान्विते पल्लीति भण्येत॥” ↩︎
-
“ऊर्जायाः बलस्यभ्रशः विनाशः” ↩︎
-
“सोतासि” ↩︎
-
“लंघनस्याविशेषोक्तावुपवासं प्रकल्पयेदिति वमनाद्वत्रोपवासोगृह्यते-” ↩︎
-
“भृष्टविदलोकृताइत्पर्थ” ↩︎
-
“भृष्टदलोकृत्ताइत्यर्थ” ↩︎
-
“रसाशनमिति पाठ” ↩︎
-
“बलमिति पाठः” ↩︎
-
“क्षयचिकित्सितोक्तं” ↩︎
-
“उन्मादप्रतिषेधोक्तं” ↩︎
-
“अपस्मारप्रतिषेधोक्तं” ↩︎
-
" कुष्ठचिकित्सितोक्तं” ↩︎
-
“रक्तपित्तचिकित्सितोकं” ↩︎
-
“अत्र मज्जस्थशुक्रस्थयोरसाध्यत्त्वात्तव चिकित्सा नोक्ता” ↩︎
-
“सवान्नीनस्तु सर्वाम्नभोजीत्यमरः” ↩︎
-
“पर्णशबरीमितिपाठ.” ↩︎
-
" महाकषायसग्रहाक्तपद्मक्लाजोशीरमित्यादि” ↩︎
-
“कारणानुविधायित्वात्कार्याणा तत्स्वभावतेत्युक्तत्वाद्रक्तपित्ते उत्पलनालजक्षारप्रयो गो युत्तएव.” ↩︎
-
“जांगलबिलेशयरसैः” ↩︎
-
“दधिसरेण” ↩︎
-
“दुष्टो विग्रहः शरीरं येन तस्मिन्कफे नित्दृतेसति स कृतवमनः सुखमा प्रोतीतियोजना” ↩︎
-
“श्रेष्ठं” ↩︎
-
“स्नावजान् गवामित पाठोऽष्टागत्दृदये॥ तव स्नावजान् गलकं बलजात् वाला नित्यरुणदत्तव्याख्या " ↩︎
-
“कृष्णागुरु " ↩︎
-
“लंघनपाचनादिकं” ↩︎
-
“द्राक्षेतिपाठः” ↩︎
-
“मसारःमरकतरत्नं” ↩︎
-
“ज्योतीरसः रत्नविशेषः” ↩︎
-
“प्रमेहोक्तं” ↩︎
-
“रक्तपित्तक्तं” ↩︎
-
“गुल्मोक्तं " ↩︎
-
“उदरोक्तं " ↩︎
-
“अवारुणदत्तः समोषितमितिपठित्वावर्षिषितमितिव्यख्याति " ↩︎
-
“छद्मना उपसंहितं काकादयस्तित्तर्यादिव्याजेनदेयादूत्यर्थः” ↩︎
-
“बिलेशयपसहमांसपलशतं” ↩︎
-
“घृताद्द्विगुणं द्वौप्रस्थावित्यर्थः” ↩︎
-
“वटादिसिद्धतैलेनेत्यष्टांगहृदये पाठ.” ↩︎
-
" पिबेन्मंथमित्यष्टांगहृदये पाठः” ↩︎
-
“शीतचंदनं॥ तभाचरकः॥धात्रीरसेनोत्तमनंदनवेति " ↩︎
-
“पिडीतंमदनफलं” ↩︎
-
“प्लोक्षोदुंबरजइतिपाठः” ↩︎
-
“सन्निपातेनामाच्चजातायां तृषि तद्धंत्रीसन्निपातघ्नीआमग्रो च क्रिया इष्टा” ↩︎
-
“अन्नविरहात्तृष्णायांसत्यां " ↩︎
-
“उष्णामितनस्य शीतस्नानात्तृषि जानायं सस्यामिति योजना” ↩︎
-
“पाटल्युत्पलकंदैरितिपाठ.” ↩︎
-
“अलिंजरः श्यान्मणिकइत्यमरः( डेरा पाठ इति प्रसिद्ध ↩︎
-
“बहु प्रभूत शालनं हस्तिक यस्मिन्” ↩︎
-
“यां शीयत्वेत्यादिः सर्वोऽपि ग्रन्थः प्रियायामपि योज्यः” ↩︎
-
“उपभोगं विना भोगवानिति सोल्लुठमुच्यमानो गह्यते” ↩︎
-
“मदेमुर्च्छायेच” ↩︎
-
“उन्मादप्रतिषधोक्तं” ↩︎
-
“कुष्टचिकित्सितोक्तं” ↩︎
-
“राजयक्ष्मचिकित्सोक्तं” ↩︎
-
“चिवकः” ↩︎
-
“उष्णादकोपचारीस्यादित्यादिक” ↩︎
-
“अर्शःसु” ↩︎
-
“पिंडस्वेदोमनिनोक्तः॥ तिलमाषकुलत्थान्नघुततैयामिषोदनैः॥ पायसेः कुशौरर्रेमासैःपिंडस्वेदान्प्रयोजयेदिति॥” ↩︎
-
“शीतज्वरप्रतेलेति॥नगरागुरुक्रुंकुमादिद्रव्यसाधित तैल॥” ↩︎
-
“आतुरहस्तांगुष्ठसदृशीं” ↩︎
-
" अशंःसु” ↩︎
-
“तक्रं” ↩︎
-
“अपिशब्दात्कदाचित्कफादिजे सुतरां लंघन हितमिति द्योतयति॥” ↩︎
-
“लघनशब्देनोपवासव गृह्यते॥ " ↩︎
-
“संग्रहण भेषजं पूर्वमामातिसारे न योज्य॥ पूर्वग्रहणेन पश्चादीषदामातिसारे दीयमानं युज्यतएवेति द्योतयति॥ सामे दोषेऽतिसारकारिणि प्रथममपि भेदनमौषधं दातुं विशिष्टायामवस्थायां समानकार्यमपि कदाचिदतिसारिणो गुणाम संपद्यते नातीसारप्रतिपक्षभूतमपि च संग्रहणमौषधं” ↩︎
-
“लंघयेत्” ↩︎
-
“पाचनक्वाथसिद्ध वैनि पाठोभाति” ↩︎
-
“अल्पया मात्रया निरिहारव्यो बस्ति पिच्छाबस्ति॥” ↩︎
-
“पलप्रमाणं” ↩︎
-
“१ राजयक्ष्मोक्त पचकीलयवक्षारेत्यादिक॥” ↩︎
-
“२ गुल्मोक्तमल्लातकाद्द्विपलमित्यादिक॥” ↩︎
-
“३ प्रमेहोक्तदशमूलशठीत्यादि” ↩︎
-
“४ चकारादुदरोत्तमध्यभयाघृत हरीतकीमूक्ष्मरजदत्यादिक॥” ↩︎
-
“५ श्लेष्मजप्रसेकलक्षणं श्लेष्मणोऽतिसकेन वायु श्लेष्माणमस्यतीत्यादि राजयकक्ष्मचिकित्सायामुक्त” ↩︎
-
“राजयक्ष्मोक्तं पचकोलयवक्षारेत्यादिक॥” ↩︎
-
“गुल्मोक्तभल्लातकाद्द्विपलमित्यादिकं” ↩︎
-
“प्रमेहोक्तदशमूलराठीत्यादि” ↩︎
-
“चकारादुदरोक्तमप्यभयाघृत हरीतकीसूक्ष्मरजट्त्यादिक॥” ↩︎
-
“श्लेजमसेकक्षण श्लेष्मणोऽतिप्रसकेन वायु श्लेष्माणमस्यतीत्यादि राजयक्ष्म चिकिसायामुक्तः” ↩︎
-
“अन्नेनावग्रहः सहसोर्ध्वकायगमनमतिबंधोऽवष्टंभोयस्यतदेवंघृतंपीत्वाऽन्नंभोक्तव्यमित्यर्थः॥” ↩︎
-
“मध्यभक्तघृतमित्यर्थः” ↩︎
-
“स्थिरः” ↩︎
-
“शमोखदिरादिभिः” ↩︎
-
“अतिमेदुरं” ↩︎
-
“धातुक्षये जीवित पचतिनाशयतीत्यर्थ॥” ↩︎
-
“युक्ते स्वस्थेसति” ↩︎
-
“नारिकेल क्षोडादीनितैलफलानि॥” ↩︎
-
“अम्लास्तक्रारनालादयः” ↩︎
-
“आदिशब्देन वातकुडलिकादयो गृह्यते॥” ↩︎
-
“वशीर सामुद्रलवण” ↩︎
-
" कपोतवका सुवर्चला” ↩︎
-
“भल्लुकस्यानाक” ↩︎
-
“कतकबीजचूर्णहतिपाठः” ↩︎
-
“सर्पफणवदग्रवक्रेणयंत्रेण” ↩︎
-
“दशरात्रामतिपाठः” ↩︎
-
“कटकटरी दारुहरिद्रा” ↩︎
-
“टाहाकल इतिभाषाया” ↩︎
-
“मल्लिका ( मोगरा ↩︎
-
“प्रततमितिपाठः” ↩︎
-
“तन्निर्वहणार्थमिति पाठो भाति” ↩︎
-
“मिश्रक स्नेहोगुल्मचिकित्सितोक्त” ↩︎
-
“सुकुमारकस्तु अस्मिन्नेवाध्याये वक्ष्यमाण” ↩︎
-
“अन्यैराचार्यै” ↩︎
-
“विभागों दारुमयःशस्त्राकृतिर्वस्तुविशेषमकरसंबधी तेन” ↩︎
-
“पेयाद्यन्नैरुपक्रमेत्॥” ↩︎
-
“वर्ज्येष्वाहारविहारादिष्वम्ललवणादिषु यंत्रितः स्यान्॥ दिष्टे कथितेऽन्नपानादौ वाऽतियंत्रितः स्यात्॥अदिष्टेऽकथिते पुनरन्नपानादौ जितेंद्रियः स्यात्॥अलोलपेन तत्रभवितव्यमित्यर्थः” ↩︎
-
“आदावित्यनेनैतद्गमयति अस्मिन्व्याधौप्राधान्येन पित्तचिकित्सा कार्या तदनुवातकफयोः॥ तथाच पित्तस्यैवैतद्व्याधिकर्तृत्वे प्राधान्यं॥ अतएव निदानेऽध्यगीष्ट पित्तप्रधानाइत्यादि॥” ↩︎
-
“उन्मादमतिषेधोक्तं” ↩︎
-
“पंचगव्यं घृतमपस्मारोक्तं” ↩︎
-
“तिक्तकघृतं कुष्ठचिकित्सोकं” ↩︎
-
“उपकुल्यापिप्पली” ↩︎
-
“निदिग्धिका कंटकारी” ↩︎
-
“कासचिकित्सितोक्त प्रस्थोन्मिते यवक्वाथे विशतिर्विजयाइत्यादिशीलयेत् ॥” ↩︎
-
“मूत्रयुक्तामातपाठोभाति” ↩︎
-
“विज्जलपितिपाठः” ↩︎
-
“पृथक् प्रत्येकं त्रिभागेन ऊनस्तृतीयः शाणो येषां तेपठोलादयः पंच पृथक्त्रिभगापचितत्रिशाणा इत्यर्थः॥ षट्धानकाः शाणः॥” ↩︎
-
“गृधनखी बदरीविशेषः” ↩︎
-
“वर्धमान एरडः” ↩︎
-
“द्राह्यीतिपाठः” ↩︎
-
“शिवशिवसुत इतिपाठोऽष्टागहृदये” ↩︎
-
“मलयमितिपाठः” ↩︎
-
“पूतिःकीटो वर्षाकालोद्भवः पिदिदिकेतिलोकप्रसिद्धः॥” ↩︎
-
“शतकृत्वइतिपाठः” ↩︎
-
“पूर्वोक्त तच्च यथा॥दार्वीकलिंगकटुकाऽनिविषाऽग्निपाठामूत्रेणसुक्ष्मरजसो भरणप्रश्रणा॥ पीता जयतिगुदमांदरकृष्टमेहकोष्टानिलाढ्यपवन ग्रहणीप्रदोषानिति॥ धरण पलस्यदशमो भाग॥” ↩︎
-
“माससैंधवसाधितमितिपाठः” ↩︎
-
“रथकारमुख्यांचुल्यामित्यत्रांगारचुल्यामितिपाठ॥” ↩︎
-
“प्राणमाड्यो हृदाश्रिता श्वसना इत्युच्यते॥” ↩︎
-
“अष्टांगहृदये तु॥विषेशेण प्रयोग या केवलेमातरित्वनानिपार॥” ↩︎
-
“जोगकेरितिपाठः” ↩︎
-
“अथ वाते मेदसाऽऽवृते प्रमेह मेदोग्नवातघ्नच भिषग्मिजनमीषनिमोहित॥” ↩︎
-
“महास्नेहो घृतमज्जवसातैले सिद्धो यद्वानारायणादिर्हित॥” ↩︎
-
" रेतमावृतवानेपूर्वोक्त च वातव्याधौशुक्रस्थवातोक्तहित॥” ↩︎
-
“मुत्रलानि त्रपुमादानि॥” ↩︎
-
“जीमूतादय श्रेष्ठयुक्ता” ↩︎
-
“जीमूतफलस्य लोमशालोमशतया द्वैविध्यं” ↩︎
-
“संतानिकांप्रयुंजीतेतियोज्य॥” ↩︎
-
“दधिसरं” ↩︎
-
“अम्ल दधि दध्यम्लं” ↩︎
-
“अरग्वर्धेद्रयवपाटलीत्यादिनवसंण्याकादन्यतमस्य॥” ↩︎
-
“संपानितानि ॥” ↩︎
-
“इक्ष्वाकुः कटुतुंबी॥” ↩︎
-
“पुष्पादिषु तुसुरांता जीमूतवत्ययोगा इति पाठः” ↩︎
-
“राजकोशातकी” ↩︎
-
“महत्सु” ↩︎
-
“कटुकोशातकी” ↩︎
-
“सन्निपातन्वरादिपीडितः” ↩︎
-
“कालांजनी॥” ↩︎
-
“मरुजान्यवान्” ↩︎
-
“शुम्याक इति पाठ” ↩︎
-
“लिह्याद्घृताप्लुता इति पाठः” ↩︎
-
“पथ्यात्रिवृद्भ्यामुष्णांवितिपाठः॥ पथ्यात्रिवृत्पटुष्णांब्विति च पाठः” ↩︎
-
“आवाने ईषच्छुष्के” ↩︎
-
“घृतैरितिपाठः” ↩︎
-
“पूर्वकल्कमहितः” ↩︎
-
“तरणाजातियूथिकाइति पाठः” ↩︎
-
“वचा” ↩︎
-
“गोमूत्रेण” ↩︎
-
“पटुतैलवानितिपाठः” ↩︎
-
“मुनिं पुनर्वसुं” ↩︎
-
“वेणी गरागरी देवताडोजीमूतइत्यपीत्यमरः (देवडंगरी ↩︎
-
“विश्लेष्म इति पाठः” ↩︎
-
“प्रमाद्येतिपाठः” ↩︎
-
“विबंधाख्यामापदमाह” ↩︎
-
“गौरवाख्यामापदमाह” ↩︎
-
“आध्मानाख्यामापदमाह ॥” ↩︎
-
“बहुदोषेऽनिले इति पाठः।शिरोरुजाख्यामापदमाह” ↩︎
-
“वाहनाख्यांव्यापदमाह” ↩︎
-
“ऊर्ध्वमारुताख्यां व्याहृत” ↩︎
-
“अथाऽतियोगव्यापद॥तत्रकुक्षिशूलारण्या व्यापदमाह॥” ↩︎
-
“अगरुगाख्याव्यापदमाह” ↩︎
-
“हिध्माख्यां व्यापदमाह” ↩︎
-
“वृषमेंधवैरित पाठः” ↩︎
-
“उष्णांबुनाक्षिमिति पाठः " ↩︎
-
“हृत्पीडाख्यां व्यापदमाह” ↩︎
-
“कर्तनाय्यांच्यापदमाह” ↩︎
-
“पिडिकोद्वेष्टनेः” ↩︎
-
“सवर्तिभिरिति पाठः " ↩︎
-
“मूत्राघाताविसप्राप्तिरितिपाठः” ↩︎
-
“स्सृप्तिरि०पा०” ↩︎
-
“सघातातिद्रुतोत्क्षिप्रेतिपाठः हेमाद्रौ” ↩︎
-
“उल्बादपरापरपर्यात् " ↩︎
-
“सैंधवयुक्तेन सर्पिषा” ↩︎
-
“वादनं कारयेद्वैद्यः” ↩︎
-
“योजयेत्” ↩︎
-
“सर्वेषां गधानां चंदनादीनां जलेन” ↩︎
-
“इदंविशेषणं सर्वेषु स्नानकल्पेषु योज्य”
↩︎ -
" रेणुकबीजप्रमाणं " ↩︎
-
“प्रागुक्तमंत्रेणाभिमंत्रितं” ↩︎
-
“स्वशब्देन बालस्तस्यैवपाणेस्तलेन मध्येन संमितं तत्प्रमाणं” ↩︎
-
“जीवंत्यायाः” ↩︎
-
" प्रकृतिभेदे विकृतिविज्ञानीये उक्तानि रूपाणि तैः” ↩︎
-
“स्थूलां” ↩︎
-
“आराचर्मकाराणां चर्मच्छेदनशस्त्र मितिसुश्रुतेडलणः” ↩︎
-
“छागं गव्यं वातद्गुणं”
↩︎ -
“एतन्नामामोदकः” ↩︎
-
“चिक्कसं यवपिष्ठं” ↩︎
-
“अध्यंडाकवचबीजं” ↩︎
-
“अष्टांगहृदये तु ॥ संसृष्टलिंग संसर्गात्रिलिंग सांन्निपातिकमिति ॥” ↩︎
-
“अपितु सर्वाण्येवांगानि पीड्यंतइत्यर्थः ॥” ↩︎
-
“तालीससारिवाम्पामित्यष्टांगहृये पाठः ॥ तालोसमरिचाभ्यामित्यपि कचित्पाठः” ↩︎
-
“शल्यकादिजन्मनां रोम्णां धर्मणां च यथालाभं मषीं मधुघृताभ्यां लिह्यात् ॥” ↩︎
-
" हृदामयानिति पाठः” ↩︎
-
“सत्रासयतइति पाठ।” ↩︎
-
“प्रतत रोदनमित्यारभ्य विलेखनात सामान्यग्रहगृहितलक्षण॥” ↩︎
-
“शुनि श्वग्रहे॥” ↩︎
-
“वचाहिंगुविडंगानि सैंधव गजपिप्पली॥पाठाप्रतिविषाव्योष दशङ्ग कश्यपोदितइति॥” ↩︎
-
“चोक्षाणा निर्मलानां॥” ↩︎
-
“कूरः ओदनः” ↩︎
-
“अत्र मत्रश्लोकपादो लुप्तो भाति। अतःपर चापिमाध्यायसमाप्तिपर्यतं मध्ये मध्ये ग्रथभित्य॥” ↩︎
-
“गोचर्मचापेषुमितं त्रिविधं नल्वमुच्यते इति क्वचिदधिकं श्लोकार्द्धं” ↩︎
-
“पालयितेति सौश्रुते पाठः” ↩︎
-
“सुदुर्गधेति सुश्रुते पाठः॥” ↩︎
-
“भिक्षुसंघाटीभिक्षुकथा॥” ↩︎
-
“जलाशयालया देवीतिसौश्रुते पाठः॥” ↩︎
-
“लंबा कराला विनता तथैव बहुपुत्रिका॥ रेवती सततं माता सा ते देवीप्रसीद त्वतिसौश्रुतेऽधिकः पाठः” ↩︎
-
“संध्यावेलायामप्रयतभावे वेति चरकपाठः॥” ↩︎
-
“धर्माख्यातव्यतिक्रमे वाऽन्यस्य कर्मणोऽप्रशस्तस्यारंभे वेति चरकेऽधिकः पाठः॥” ↩︎
-
“छिद्रं पापक्रियारंभः” ↩︎
-
“कालविषाणिके काकोलीक्षीरकाकोल्यौ॥” ↩︎
-
“झषपित्तप्रेषितानिति पाठः॥” ↩︎
-
“नस्यलेपैरिति पाठः॥” ↩︎
-
“निर्माल्यं महादेवसबंधि॥” ↩︎
-
“स्कंदाः स्कंदपरीचारकाः न तु स्कंदः॥ यदुक्तं॥ स्कंदग्रहा भवंत्यष्टौ स्कंदतुल्यपराकमाः॥ बालान् गृह्णंतिते तावद्याद्वर्षाणि षोडशेतिप्राचीनपुस्तके टिप्पणं॥” ↩︎
-
“अशेषमूत्राणां गोमूत्रादीनामंशैः भागैः सिद्धं॥” ↩︎
-
“दंडकमिदं वृत्तं चंडवृष्टिप्रयातं॥” ↩︎
-
“इदमपि दडक व्यालाख्य॥” ↩︎
-
“राक्षसशब्देनेह ब्रह्मराक्षसो गृह्यते इत्यरुणदत्तः॥” ↩︎
-
“श्वेतपुडरीकं॥” ↩︎
-
“सभूतोदनयावकमिति पाठोऽष्टांगत्दृदये॥” ↩︎
-
“सकृत्प्रसूतागोर्गृष्टिरिति कोशः॥” ↩︎
-
“मांसी” ↩︎
-
“हरीतकी” ↩︎
-
“गंधमांसी " ↩︎
-
“पद्मचारिणी” ↩︎
-
“कपिकच्छूः” ↩︎
-
“अरणिकः” ↩︎
-
“काकोली” ↩︎
-
“चंडा” ↩︎
-
“धात्री” ↩︎
-
“वृद्धदारकः” ↩︎
-
“धान्यकं” ↩︎
-
“शतपुष्पा” ↩︎
-
“लाक्षा” ↩︎
-
“शतावरी” ↩︎
-
“क्षीरकाकोली” ↩︎
-
“सर्पाक्षी सर्पगंधा च” ↩︎
-
“प्रस्थं भूतग्रहोन्मादकासापस्मारपाप्मनुत्॥ पांडुकंडूविषे शोषे मेहे मोहे ज्वरे गरे॥ अरेतस्यप्रजसि वा दैवोपहतचेतसि अमेधसि स्खलद्वाचि स्मृतिकामेऽल्पपावके॥ बल्यं मंगल्यमायुष्यं कांतिसौभाग्यपुष्टिदं॥ कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च॥ एभ्यो द्विसारिवादीनि जले पक्त्वैकविंशतिं॥ रसे तस्मिन् पचेत्सर्पिर्गृष्टिक्षीरचतुर्गुणं॥” ↩︎
-
“तैलमूत्रयोर्मेहनं मूत्रणं॥” ↩︎
-
“गोमयस्वरसादिभिर्द्रवैः॥” ↩︎
-
“ग्रहापहमिति पाठः” ↩︎
-
“श्रयाव्हापामार्गकारंजबीजैरितिपाठः॥” ↩︎
-
“वाऽऽध्मापयेदितिपाठः॥” ↩︎
-
“वाशब्द प्रत्येकं युज्यते॥ वर्त्म वा संधि वा सितं वा ऽसितं वा दृष्टि वा सकलं लोचनमाश्रिताइति सामान्येन नयनरागाणां संप्राप्तिः॥” ↩︎
-
“पुननार्वां लेपयेदिति पाठः॥” ↩︎
-
“यवाकारं॥” ↩︎
-
“एवं संधिगतान्नव रोगानाख्याय सितभागस्थान् रोगानाह॥” ↩︎
-
“कृष्णरोगानाह॥” ↩︎
-
“आंच्छेत् आयतंकुर्यात्॥” ↩︎
-
“पुंड्राव्हमधुकोत्पलैरितिपाठः” ↩︎
-
“नल्वणे द्रोणपरिमाणे॥” ↩︎
-
“शीतमितिपाठः” ↩︎
-
“दोषारात्रिः” ↩︎
-
“शयनासनवासपादपूजेतिपाठः॥” ↩︎
-
“बिडालो नेत्रलेपः॥” ↩︎
-
“मधुरोरक्तशिग्रुः॥” ↩︎
-
“परिपोटस्फुठनमितिसर्वांगसुंदरायाम्॥” ↩︎
-
“अस्मिन् कर्णपालिप्रकरणे लेखकप्रमादाद्ग्रथसंगतिः समीचीना न दृश्यते साचिंत्या॥ सुश्रुते तु॥ तत्र समासेन पंचदश कर्णबंधनाकृतयः॥ तद्यथा॥ नेमिसंधानक उत्पलभेद्यको वल्लूरक आसंगिमोगंडकर्ण आहार्यो निर्वेधिमो व्यायोजिमः क पाटसंधिकोऽर्द्धकपाठसंधिकः संक्षिप्तो हीनकर्णोवल्लीकर्णोयष्टीकर्णः काकौष्ठकइति॥ तेषु पृथलायतसमोभयपालिर्नेमिसंधानकः॥ वृत्तायतसमोभयपालिरुत्पलभेद्यकः॥ न्ह-” ↩︎
-
“अन्यथादाहरुगितिपाठः॥” ↩︎
-
“कच्छुरेतिपाठः॥” ↩︎
-
“सः दुष्टपीनसः॥” ↩︎
-
“लंघयेत्॥” ↩︎
-
“इत्येकादश ओष्ठे” ↩︎
-
“इत्येको गडि” ↩︎
-
“इति दंते दश” ↩︎
-
“इतिदंतमूले त्रयोदश॥” ↩︎
-
“इति जिव्हायाः षट्॥” ↩︎
-
“स तालुशोष इत्युच्यते इत्यष्टो तालुरोगा” ↩︎
-
“इति गलरोगाअष्टादश” ↩︎
-
“मधुक्तैरक्षेदिति पाठः॥” ↩︎
-
“अष्टापदं चतुरगपीठ” ↩︎
-
“पिंडीतकफलमूलं मदनफलमूल” ↩︎
-
“आशये तत्स्थाने” ↩︎
-
“अत्र पित्तरक्तजव्रणस्यैव विशिष्ट लक्षण दृश्यते अन्यानि द्वद्वजादिव्रणाना वि-शिष्टलक्षणानि न दृश्यते तानि लेखकप्रमादाद्गलितानि भाति॥ सुश्रुते तु तानि सर्वाण्युक्ता-नि॥ तान्यथा॥ तोददाहधूमायनप्राय पीतारुणभासस्तद्वर्णस्रावी चेति वातशोणित्ताभ्याम्॥ कडूयनशील सविस्तोदो दारुणो सुहुर्मुहु शीतपिच्छिलस्रावी चेति वातश्लेष्मभ्या-म्॥ गुरु सदाह उष्ण पीत पाडुस्रावी चेति पित्तश्लेष्मभ्याम्॥ रूक्षस्तनुस्तोदबहुल. सुप्त इव च रक्तारुणाभस्तद्वर्णस्रावी चेति वातशोणिताभ्याम्॥ घृतमडाभो मीनधाव-नतोयगधिमृदुर्विसर्प्युष्णकृष्णस्रावी चेति पित्तशोणिताभ्याम्॥ रक्त्तो गुरुः पिच्छिल क-डूप्राय स्थिर. सरक्तपाडुस्रावी चेति श्लेष्मशोणिताभ्याम्॥ स्फुरणतोददाहधूमायनप्राय. पीततनुरक्तस्रावी चेति वातपित्तशोणितेभ्य॥ कडूस्फुरणचुम्चुमायनप्रायः पाडूघनरक्ता स्रावी चेति वातश्लेष्मशोणितेभ्य॥ दाहपाकरागकडूप्राय पाडुघनरक्त्तास्रावी चेति श्ले-ष्मपित्तशोणितेभ्य। त्रिविधवर्णवेदनास्रावविशेषोपेत पवनपित्तकफेभ्यः॥ निर्दहननिर्मथनस्फुरणतोददाहपाकरागकडूस्वापबहुलो नानावर्णवेदनास्रावविशेषोपेत. पवनपि-त्तकफशोणितेभ्यइति॥” ↩︎
-
“सुकुमारस्य चेप्यते इत्यष्टांगहृदये पाठः” ↩︎
-
“प्रसिच्यते निर्यात” ↩︎
-
“रसजा रक्रिया” ↩︎
-
“विकल्कः॥” ↩︎
-
“तिलकल्कः॥” ↩︎
-
“क्षोनियपत्राभ्यां॥” ↩︎
-
“सूक्ष्ममुखशल्यविद्धयत्तद्विद्धकथ्यते॥” ↩︎
-
“व्रणप्रतिषेधो॥” ↩︎
-
“पीडां मागुपशम्य॥” ↩︎
-
“वालवर्त्तेरप्रवेशात्॥ आचरमोच्छ्वासादातुरं समुपाचरेदिति वचानान्मस्तुलुग सुतावप्युपक्रममाह॥ मस्तुलुगस्य मज्जाख्यस्य सुनौ॥” ↩︎
-
“अन्यथा भिन्नमित्यर्थः” ↩︎
-
“उत्पगिलशिरोग्रस्तमिति पाठः॥ उत्पगिलशिरसा मर्को-दशिर्षेण॥ उरोगल व उत्पगिल झणजे मुंगला इतिलोके॥” ↩︎
-
“चित्रातैलमिति पाठः॥” ↩︎
-
“शरद्वसताख्य” ↩︎
-
“पाननस्याभ्यंगानुवासनैः” ↩︎
-
" प्रतिसार्यविकीर्य” ↩︎
-
“पाननस्यादिभिः” ↩︎
-
“शतपोनकवत् चालनीवत्” ↩︎
-
“तदेव पूर्वोक्त गुग्गुरुपचपलमित्यादि” ↩︎
-
“लक्षण चिकित्सितानि” ↩︎
-
“सौवहेषु च कदेष्वितिपाठः॥ तत्र सुवहा गंधनाकुली” ↩︎
-
“काखमांजरीतिलोके” ↩︎
-
“निबतिलपटोलकल्केनैतिपाठः” ↩︎
-
“वाताद्यधिष्टीतस्तथा संकीर्णः संकटो मलिनोऽणु. सूक्ष्मो रजोमार्गो यस्या स्तथाविधांस्त्रियं॥” ↩︎
-
“महिष्यादिका॥” ↩︎
-
“भगिन्यादिं॥” ↩︎
-
“सविषजंत्वादिभिर्दृषि तं जलं स्पृशतः॥” ↩︎
-
“रतोतेष्वपि नैव जलं स्पृशतः॥” ↩︎
-
“मेंढ्रेजाता पुंस्त्वं प्रति भगे जाता आर्त्तवध्नति॥” ↩︎
-
“आशुजेति पाठोऽष्टांगहृदये” ↩︎
-
“पाणिभ्यामतिशयेन संव्यूढे धृष्टे सति॥” ↩︎
-
“स्पर्शहानिसंज्ञा॥” ↩︎
-
“ईषल्लोहितैः” ↩︎
-
“ग्रंथ्यादिरोगविज्ञानीयेतच्च त्रिदोषजं॥” ↩︎
-
“स उक्तो विद्रध्यादिविज्ञानीये॥” ↩︎
-
“पीडाविशेषान्” ↩︎
-
“घुवतेलवसात्मकेन स्नेहत्रयेण॥” ↩︎
-
“अत्र ग्रंथसगतिश्चित्या” ↩︎
-
“पय सर्पिरिति पाठः॥ पयःसर्पिः क्षीरोत्थं घृतं॥” ↩︎
-
“गजादनकपित्थयोरिति पाठः” ↩︎
-
“मधुयुतेति चरके पाठः” ↩︎
-
“पुष्पे आर्तवकाले पीतं फलाय भवति” ↩︎
-
“वाहिनीरितिपाठः” ↩︎
-
“स्वभावतो वा गुणबिप्रहीनमिति सौश्रुते पाठः” ↩︎
-
“च शब्दात्पूर्वोक्तारसनाश्यावतादयः स्युः॥ एवमग्रेऽपि चशब्दार्थो बोध्यः” ↩︎
-
“वत्सकात्फलमितिपाठ” ↩︎
-
“काकमालिकेत्यष्टांगहृदय पाठः” ↩︎
-
“हरहरेत्यत्रहुलु हुल्वित्यष्टागहृदये पाठ” ↩︎
-
“शमलंपुरीषं” ↩︎
-
“पूर्वोक्तं पानभोजनं” ↩︎
-
“विधेः स्मरन्नित्यत्राधिगर्थेत्यादिना विधिशब्दात्कर्मणिषष्ठीत्यष्टांगहृदयेऽरुणदतः॥ विधिमित्यपि पाठः” ↩︎
-
“शमलपुरीष” ↩︎
-
“पूर्वोक्त पानभोजन” ↩︎
-
“विधेः स्मरन्नित्यत्राधिगर्थेत्यादिना विधिशब्दात्कर्मनिषष्ठीत्यष्टांगहृदयेऽरुणदत॥ विधिमित्यपि पाठ” ↩︎
-
“पाटलाइति पाठः” ↩︎
-
“विषमकृत्यादियोगेसति त्रिपसंकटं कथितं॥ अस्मिंश्च विषसंकटे विषार्तः शत-मध्ये एको जीवति॥ तत्र विषप्रकृतिः पित्तमकृतिः कालो वर्षा विषान्नं सर्पपादि विषदो-षःपित्तं दूष्यंरक्तं आदिशब्देन सात्म्यादीनां ग्रहणं” ↩︎
-
“विरेचनेः” ↩︎
-
“दर्वोरुपः फणएव करो इस्तो येषां ते दुर्वीकराः फणावंन इतिह्मदेवव्याख्या॥” ↩︎
-
“व्यंतराः विजातयः॥” ↩︎
-
“दृष्टकमिव॥” ↩︎
-
“दृष्टनिपीडिताख्यं॥” ↩︎
-
“सर्पज विषं न शोणितमप्राप्यशरीर दूषयतअपितु प्राप्य किंतु रक्त स्तोकमपि प्राप्य विषं वर्द्धते यथा तैलं जलं प्राप्य प्रसरति॥” ↩︎
-
“षष्ठसप्तमयोर्लक्षणं पूर्ववद्दर्वीकरवद्वदेत्॥” ↩︎
-
“असाध्यात्वात्॥ " ↩︎
-
“याम्यंभरणी॥” ↩︎
-
“आग्नेयं कृत्तिका॥” ↩︎
-
“नैर्ऋतं मूलं” ↩︎
-
“नैर्ऋतारख्यो मुहूर्तः संध्योदय एव॥” ↩︎
-
“भात्राशततुल्यकाल” ↩︎
-
“अरिष्टामध्ये मच्छाय प्रच्छान कृत्वा अचूपयेत्” ↩︎
-
“शोफादिना अनुपलभ्यमा नासुसिरासु” ↩︎
-
“तत् विषं॥” ↩︎
-
“कुष्टसहितमाक्षिकं॥” ↩︎
-
“शिरीषपिप्पलबटप्लक्षवेतसानांत्वक् पंचवल्कलमिति सर्वांगसुंदरायां” ↩︎
-
“कांडचित्रायाः सर्पविशेषस्य दंशं यामद्वयं भुवि निखनेत्॥ ततउद्धृत्य प्रच्छितं सर्पिर्धान्यमृद्भ्यां प्रलेपयेत्॥ धान्यस्य मुद्धान्यभूत॥” ↩︎
-
“अभीष्णमिति पाठ” ↩︎
-
" गर्भिण्यादिषु मृदुक्रिया योजयेत्॥ सिरा च न ध्यधयेत्॥” ↩︎
-
“वक्र तगर” ↩︎
-
“हिगुरेणुकेतिपाठः” ↩︎
-
“आर्षभनाम्नाऽगदेन” ↩︎
-
“दंशादपि किं पुनः कायान्मत्रै विषमुद्धरेतू॥” ↩︎
-
“विषापगमेसति” ↩︎
-
“तयोश्च्छझर्झरयोःयथासख्यछायाशब्दाभ्यां विवस्ताः सर्पाः प्रणश्यति” ↩︎
-
“त्रिवर्ज्यसालिपानिकेरिति पाठः” ↩︎
-
“सशैदलोष्ट्रदंष्ट्राचेत्यष्टांगहृदये पाठः” ↩︎
-
“मूर्च्छनादिति पाठः” ↩︎
-
“दोषलक्षणमिति शेषः” ↩︎
-
“वंशकाशार्जुनकुशा इति पाठः” ↩︎
-
“कुष्टलामज्जकोशीरपद्मकमिति पाठः” ↩︎
-
“पांडुरासंज्ञकलूतादंशलक्षणं चिकित्सितंचाधिकंभाति” ↩︎
-
“अत्र लेखकप्रमादाच्चिरमंडलालूताचिकित्सितं गलितं भाति” ↩︎
-
“रक्तोक्तरक्तालूतोक्त” ↩︎
-
“अत्रचिरमंडलायाःदशस्थान लिखितं नदृश्यते” ↩︎
-
“अचेतन.॥” ↩︎
-
“अथवा पत्रकापित्थसिद्धं सर्पिः पाने हितं॥ कपित्थरयेमानि कापित्यामिमूलत्वक्पत्रपुष्पफलानीतिपच” ↩︎
-
“घृतमिनिशेष.” ↩︎
-
“२. ज्वरीतिपाठः” ↩︎
-
“चतुष्पादिर्हस्त्यश्वप्रभृतिभिः द्विपाद्भिर्मनुष्यमयूरकुक्कुटादिभिः॥” ↩︎
-
“१ रकसा क्षुद्रकुष्ठ सौश्रुते पठित॥” ↩︎
-
“१ अधउपरिष्टाच्च” ↩︎
-
“अभयामलकसहस्रमित्यष्टागहृदये पाठः” ↩︎
-
“कणार्द्धकमिति पाठः” ↩︎
-
“रसभावितमितिपारः” ↩︎
-
“तपसि माघे॥ तपस्ये फाल्गुने॥तपा माघेऽथफाल्गुने॥स्यात्तपस्यः फाल्गुनिक इत्यमरः॥” ↩︎
-
“अमृता पथ्या धात्री जीवंती श्रेयसी स्थिरा युक्ता ॥ मंडूकपर्ण्यतिरसा स्थापयति पुनर्नवा च वय इति महाकषायसंग्रहोक्ताः॥” ↩︎
-
“शुक्रे ज्येष्ठे॥शुचौ आषाढे॥ज्येष्ठे शुक्रः शुचिस्त्वयं॥ आषाढे इत्यमरः॥” ↩︎
-
“सहसि मार्गशीर्षे॥ सहस्ये पौष्ये॥ मार्गशीर्षेसहा मार्गआग्रहायणिकश्चसः॥ पौषेतमसहस्यौद्वावित्यमरः” ↩︎
-
“पिष्टं शालिचूर्ण त्विद्यतेऽस्मिन्निति पिष्टस्वेदनं भांडमित्यरुणदत्तः” ↩︎
-
“कनकनिचयगौर इति पाठः” ↩︎
-
“भगंदरोरुग्रहगुल्मकासवानिनि पाठः” ↩︎
-
“राहोरमृतचौर्येणेत्यष्टांगहृदये पाठः” ↩︎
-
“साक्षादमृतसभूतेरल्पाग्नेःस रसायनमित्यष्टांगहृदये पाठः” ↩︎
-
“तिमयेत् छेदयेत्” ↩︎
-
“तुच्छमल्पमश्नन् भुजानः” ↩︎
-
“कद इति शेष.” ↩︎
-
“शमल शष्टादित्यमरः” ↩︎
-
“वक्ष्यमाणेन” ↩︎
-
“वाजीव येन समर्थः क्रियते तद्वाजीकरण॥” ↩︎
-
“वशांक्रियासंवननमित्यमरः ॥” ↩︎
-
“कल्यस्य समर्थस्य” ↩︎
-
“शुगसिद्धमिति पाठः” ↩︎
-
“यदा ना मितमत्ति कालेइतिचरकपाठः " ↩︎