[[तन्त्रयुक्तिः Source: EB]]
[
[TABLE]
॥ श्रीः ॥
तन्त्रयुक्तिः
______
गणेशवाणीव्यासानां गुरोश्चकरुणावशात्।
निरन्तरायोऽस्त्वारंभो मदीयोयं मुदावहः॥
तत्तद्दिगन्तरप्राप्त्या सन्तप्तेन मया खलु।
नीलमेघपदच्छायामाश्रित्याश्वसता पुनः॥
आचार्यसुन्दरोक्तानां युक्तीनां भूषणात्मनाम्।
वैद्यनाथोपसृष्टानां लक्ष्यलक्षणवाग्जुषाम्॥
तासां प्रायःप्रकाशानां दुर्लेखापंकदूषणात्।
क्रियते सांप्रतं कृच्छ्रादुद्धृत्य परिमार्ज्जनम्॥
तथैवादृष्टनष्टानामेषामपि च पूरणम्।
इति तन्त्रगुणैर्युक्तं तन्त्रदोषविवर्ज्जितम्॥
इत्येवाष्टांगहृदये संग्रहे युक्तयः स्फुटाः।
अलंकृतं युक्तिपदैः सद्रत्नैरिव कांचनम्॥
षट्त्रिंशतार्थदुर्गेषु भिषजां संक्रमैरिव।
इत्याद्यायुर्वेदवार्धेर्न्नीलमेघेन नीरवत्॥
सारमादायाभिवृष्टं तदुपादीयते मया।
अष्टांगानामधिष्ठानं सुन्दरीव्यंजिताकृतिम्॥
संग्रहं शंकरात्मानमिन्दुशेखरमाश्रये।
अष्टांगहृदयं साक्षादष्टांगीलक्षितं शिवम्॥
सुन्दरीशक्तिसंपन्नमिन्दुप्रियमुपास्महे।
शशिलेखावतंसौ तौसुन्दरीपरिभासितौ॥
मृत्युंजयात्मकौ ग्रन्थौ भजे हृदयसंग्रहौ।
संग्रहे युक्तिमणयो हृदयान्ते गुणान्विताः॥
धार्यन्तामिह विद्वद्भिः प्रसादाय सदात्मनः।
आत्तबुद्धिरवलोकितेश्वरात्
संघगुप्तकुलसिन्धुचन्द्रमाः।
रामगुप्त इति वाहटाख्यया
ख्यातिमान् स भिषगाविरस्तु नः॥
लंबश्मश्रुकलापमंबुदनिभच्छायाद्युतिं वैद्यका-
नन्तेवासिन इन्दुजज्जटमुखानध्यापयन्तं सदा।
आगुल्फामलकंचुकांचितदरालक्ष्योपवीतोज्वलत्-
कण्ठस्थागुरुसारमंजितदृशं ध्यायेद्दृढं वाहटम्॥
आत्रेयपूर्वनिखिलादिगुरून्महर्षी-
नार्यावलोकितमथो पुनरार्यताराम्।
श्रीसंघगुप्तमपि वाहटरामगुप्त-
माचार्यसुन्दरमपि प्रणतोसम्यजस्त्रम्॥
अधीयानोऽपि तन्त्राणि तन्त्रयुक्त्यविचक्षणः।
नाधिगच्छति तन्त्रार्थमर्थं भाग्यक्षये यथा॥
काःपुनस्ताः कियत्यश्चेत्यनुयोगेऽभिधीयते।
तन्त्राधिकरणं योगोहेत्वर्थोर्थःपदस्य च॥
प्रदेशोद्देशनिर्देशवाक्यशेषाः प्रयोजनम्।
उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः॥
प्रसंगैकान्तनैकांताः सापवर्गो विपर्ययः।
पूर्वपक्षविधानानुमतव्याख्यानसंशयाः॥
अतीतानागतापेक्षास्वसंज्ञोह्यसमुच्चयाः।
निदर्शनं निर्वचनं नियोगोऽथ विकल्पनम्॥
प्रत्युत्सारस्तथोद्धारः संभवस्तन्त्रयुक्तयः।
वाक्यन्यायोदधेः सारभूताः षट्त्रिंशदीरिताः॥
स्युः सारभूताः षट्त्रिंशदित्युक्तिध्वनिना पुनः।
अपरेप्यभिधीयन्ते पिण्डप्रकरणादयः॥
पिण्डप्रकरणन्यासपदार्थपदकृच्छ्रकाः।
प्रतिलोमानुलोमार्थप्रयोजनफलोच्चिताः॥
तथाधिकरणं सूत्रसमध्वजसमाख्यया।
व्याख्याःपंचदश ख्याताःकल्पनास्सप्त कीर्त्तिताः॥
प्रधानगुणलेशाज्ञाविभवेंगितभक्तयः।
एकाधिका विंशतिः स्युराश्रया आदिलोपकः॥
मध्यलोपोऽन्तलोपश्च तथैवोभयलोपकः।
आदिमध्यान्तलोपःस्यादुपधालोप एव च॥
वर्णोपजानं प्रकृतमृषिक्लिष्टं तथैव च।
तन्त्रशैली तन्त्रसंज्ञा प्रकृताख्यं तथा पुनः॥
समानपरतन्त्राख्या प्रत्ययौ हेतुहैतुकौ।
कार्यकारणधर्म्मश्च तथाद्यन्तविपर्ययः॥
शब्दान्यत्वप्रत्ययाख्यधर्मोपनयसंभवाः।
विभवः सप्तदश च ताच्छील्यादीनि सन्त्यथ॥
ताच्छील्यमपि सामीप्यं विकारोऽवयवोऽपि च।
संसक्तता च तादर्थ्यं तात्स्थ्यं तद्धर्मतापि च॥
चेष्टानिमित्तता कर्मगुणयोश्च निमित्तता।
स्थानं च मूलसंज्ञा च भावो गुणिगुणाख्ययोः॥
साहचर्यं प्रकारश्च भूयस्त्वमिति ते गुणाः।
लक्ष्यलक्षणमनुक्रममासां
लक्षितं स्वगुरुसुन्दरदृष्ट्या।
वैद्यनाथ इति कल्पितनाम्ना
नीलमेघभिषजा क्रियते स्म॥
<MISSING_FIG href="../books_images/U-IMG-1699344822Screenshot2023-11-07134242.jpg"/>
प्रस्तावना
_________
तन्त्र्यन्ते धार्यन्त आयुर्वेदार्था अनेनेति तन्त्रम्। वैद्यशास्त्रमित्यर्थः। अथवा तन्त्रि कुडुंबधारणे, तस्मिंस्तन्त्रमिति रूपम्।कुडुम्बं शरीरम्। तद्धारयति हितोपदेशाहितनिवारणद्वारेणेति।
युज्यन्ते संकल्यन्ते संबध्यन्ते परस्परमर्थाः सम्यक्तयाप्राकरणिकेऽभिमतेऽर्थे विरोधव्याघातादिदोषजातमपास्यानया इति युक्तिः।युज् योजने तस्मिन् युक्तिरिति रूपं भवति।
तन्त्रस्य युक्तयस्तन्त्रयुक्तयः। युक्तिशब्दः खलूपायवाची।न ह्येता युक्तीःप्रत्याख्याय शक्यते तन्त्रं प्रणेतुम्। तत्र काश्चिद्युक्तयोवाक्यप्रयोजना काश्चिदर्थप्रयोजना भवन्ति।
तन्त्रयुक्तीनां प्रधानप्रयोजनमभिमतार्थसिद्धिः। चरकेऽप्याख्यत्—
असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधनम्।
स्ववाक्यसिद्धिरपि च क्रियते तन्त्रयुक्तितः॥
व्यक्ता नोक्ताश्च ये ह्यर्था लीना ये चाप्यनिर्मलाः।
लेशोक्ता ये च केचित्स्युस्तेषां चापि प्रसाधनम्॥
शास्त्रतत्वावबोधनार्थं तन्त्रयुक्तीनां विचिन्तनमत्यावश्यकमेव।संग्रहेऽप्येवमुक्तम्—
अधीयानोऽपि तन्त्राणि तन्त्रयुक्त्यविचक्षणः।
नाधिगच्छति तन्त्रार्थमर्थं भाग्यक्षये यथा॥
सुश्रुताचार्योऽपि तन्त्रयुक्तीनां सम्यक्पठनप्रयोजनमप्युक्तवान्। तद्यथा—
द्वात्रिंशद्युक्तयो ह्येतास्तन्त्रसारगवेषणे।
मया सम्यग्विनिहिताः शब्दन्यायार्थसंयुताः॥
यो ह्येता विधिवद्वेत्ति दीपभूतास्तु बुद्धिमान्।
स पूजार्हो भिषक्श्रेष्ठ इति धन्वन्तरेर्मतम्॥
यथांबुजवनस्यार्कः प्रदीपो वेश्मनो यथा।
प्रबोद्ध्यस्य प्रकाशार्थास्तथा तन्त्रस्य युक्तयः॥
चरकाचार्यमते तन्त्रयुक्तयः पंचत्रिंशद्वर्तन्ते। तद्यथा—
पंचत्रिंशद्विचित्राभिर्भूषितं तन्त्रयुक्तिभिः।
तन्त्राधिकरणं योगो हेत्वर्थोऽर्थः पदस्य च॥
प्रदेशोद्देशनिर्देशवाक्यशेषाः प्रयोजनम्।
उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः॥
प्रसंगैकान्तनैकान्ताः सापवर्गो विपर्ययः
पूर्वपक्षविधानानुमतव्याख्यानसंशयाः॥
अतीतानागतावेक्षास्वसंज्ञोह्यसमुच्चयाः।
निदर्शनं निर्वचनं सन्नियोगो विकल्पनम्॥
प्रत्युत्सारस्तथोद्धारः संभवस्तन्त्रयुक्तयः।
तन्त्रे व्याससमासाभ्यां भवन्त्येतानि कृत्सनशः॥
सुश्रुताचार्यस्तु तन्त्रयुक्तयो द्वात्रिंशदित्यभिप्रैति। तद्यथा— अधिकरणं योगःपदार्थो हेत्वर्थ उद्देशो निर्देश उपदेशोऽपदेशःप्रदेशोऽतिदेशोऽपवर्जोवाक्यशेषोऽर्थापत्तिर्विपर्ययः प्रसंग एकान्तोऽनेकान्तः पूर्वपक्षो निर्णयोऽनुमतं विधानमनागतावेक्षणमतिक्रान्तावेक्षणं संशयो व्याख्यानं स्वसंज्ञानिर्वचनं निदर्शनं नियोगो विकल्पःसमुच्चय ऊह्यमिति”॥
चरकोक्तासु पंचत्रिंशत्तन्त्रयुक्तिषु पूर्वपक्षविधानमित्येका युक्तिः।अत्र वाहटमते पूर्वपक्षो विधानमिति द्वैविद्ध्यंपरिकल्प्य तासां षदत्रिंशत्वंप्रतिपादितम्॥
सुश्रुताचार्यमते वर्तमानाभ्यो द्वात्रिंशत्तन्त्रयुक्तिभ्यः प्रयोजनप्रत्युत्सारोद्धारसंभवाख्याश्चतस्त्रो युक्तीरधिकतया योजयित्वा षट्त्रिंशत्संख्यात्वमुक्तं वाहटाचार्येण॥
चरकन्यासकर्ता भट्टारहरिश्चन्द्रस्तु वाहटमते वर्तमानासु तन्त्रयुक्तिषु षड्त्रिंशत्सु परिप्रश्नो व्याकरणं व्युत्क्रान्ताभिधानं हेतुरिति चतस्त्रोयुक्तीरधिकतया योजयित्वा तन्त्रयुक्तीनां चत्वारिंशत्संख्यात्वमंगीकृत्यव्याख्यातवान्॥
अस्य ग्रन्थकर्तुर्मते तन्त्रयुक्तयः षट्त्रिंशदेव। “स्युः सारभूताःषट्त्रिंशदित्युक्तिद्ध्वनिना पुनः, अपरेऽप्यभिधीयन्ते पिण्डप्रकरणादयः” इत्युक्त्वा पंचदश व्याख्याभेदाः, सप्त कल्पनाः, उपधालोपशून्यत्वाद्विंशतिरर्थाश्रयाः,सप्तदश ताच्छील्यादीनि च व्याक्रियन्ते॥
ग्रन्थकर्ता।
अस्य तन्त्रयुक्तिनामकग्रन्थस्य कर्ता क इति निश्चयेन वक्तुं न किंचिदपि प्रमाणमुपलब्धमस्माभिः। अष्टांगहृदयतन्त्रमधिकृत्य विरचिताया अभिधानमंजर्याः कर्तुर्भिषगार्यापरनामकस्य नारायणाख्यस्य भिषजो वंशपरंपरायांजातस्य वैद्यनाथापरनामकस्य नीलमेघवैद्यस्य तन्त्रयुक्तिविचारग्रन्यमवलोक्यकेनचिद्भिषग्वरेणेदं पुस्तकं व्यरचीति ज्ञातुं पार्यते, “इत्याद्यायुर्वेदवार्द्धेर्नीलमेघेन नीरवत्, सारमादायाभिवृष्टं तदुपादीयते मया” इत्युक्तत्वादस्यग्रन्थस्य प्रारंभे।
तत्तद्दिगन्तरप्राप्त्या सन्तप्तेन मया खलु।
नीलमेघपदच्छायामाश्रित्याश्वसता पुनः॥
आचार्यसुन्दरोक्तानां युक्तीनां भूषणात्मनाम्।
वैद्यनाथोपसृष्टानां लक्ष्यलक्षणवाग्जुषाम्॥
तासां प्रायःप्रकाशानां दुर्लेखापंकदूषणात्।
क्रियते सांप्रतं कृच्छ्रादुद्धृत्य परिमार्जनम्॥ इति च।
नीलमेघभिषजं प्रत्युपश्लोकितत्वादस्य कर्त्रा, तस्य नीलमेघस्यसमन्वये जातः कश्चिद्भिषग्वरः, तच्छिष्यकोटिं प्रविष्टः कश्चिद्वैद्यवरो वाग्रन्थमिममकरोदिति वक्तुं शक्यते।
“अलंकाराष्षण्णवतिस्तन्त्राधिकरणादयः।
इत्युक्तास्तुंगमान्योऽसौ पुत्रः सार्थो भवेदतः”
इत्युक्तमस्मिन्नेव ग्रन्थे। कस्यचिद्भिषग्वरस्य तुंगमान्यो नामपुत्रोऽभूत्। तस्य पठनार्थमिदं लिखितमिति च ज्ञायतेऽनन्तरोक्तेन पद्येन।
ग्रन्थकर्तुर्जीवितकालः।
ग्रन्थस्यास्य कर्ता कस्मिन् काले समजनीति वक्तुं नकिंचिदप्यभिज्ञानम्।
अस्यादर्शभूतः कश्चिज्जराजर्ज्जरितो ग्रन्थ एवोपलब्धोऽस्माभिरस्मदीयवयस्करागारात्। आदर्शान्तरालाभात्तमिममेकमेव ग्रन्थमवलोक्यास्यसंशोधनं कृतम्। तत्र तत्र सुश्रुतवचनानि डल्हणारुणदत्तवचनान्यपि प्रकाशितानि। तान्यध्येतॄणां बुद्धिप्रबोधनाय भवेयुरिति मन्यमानाः। ग्रन्थेऽस्मिन् मतिमान्द्यादनवधानाद्वा भ्रमादिदोषः क्वचिदप्युपलभ्येत चेत् संशोधयन्तु गुणैकपक्षपातिनो विद्वांस इति प्रार्थयामो वयम्। येषां महोदयानांनिकटे हस्तलिखितमादर्शान्तरं वर्तते यदि ग्रन्थस्यास्य द्वितीयसंस्करणावसरे संशोधनसौकर्यार्थं तैस्तत् प्रेषणेनानुग्रहो विधेय इति च निवेदयामः॥
वयस्करागारनिवासिनः शंकरशर्मणः।
कोट्टयम्
१ - २ - १९४९
अथ युक्तयः
(१) तन्त्राधिकरणम्।
तन्त्राधारोऽधिकरणं तात्पर्यं यत्र तिष्ठति।
तन्त्राधिकरणं तद्यधिकृत्य प्रवर्तते॥
शास्त्रं स्थानं तथाध्यायं वाक्यं प्रकरणं च वा।
यथा—अष्टांगमधिकृत्य हृदयाख्यं सर्वं शास्त्रं प्रवृत्तम्।तथा चोक्तम्—“कायबाले"त्यादि। स्थानाधिकरणं यथा—“अत्रार्थाःसूत्रिताःसूक्ष्माःप्रतन्यन्ते हि सर्वत" इति। अध्यायाधिकरणं यथा—“अथातो दिनचर्यामध्यायं व्याख्यास्याम"इति। प्रकरणाधिकरणं यथा—“दश मूलसिरा हृत्स्थास्ता”इत्यादि यावत् “इत्यवेध्यविभागार्थंप्रत्यंगं वर्णिताःसिरा"इति। एवं वाक्याधिकरणमपि; यदधिकृत्य वाक्यं प्रवर्ततेतद्वाक्याधिकरणं वेद्यम्। अधिकरणं नामाधारः। यथा—“कायबालग्रहे"त्यादौ कायादीनाधारीकृत्य तत्तद्रोगोपशमनीचिकित्सा वर्तते। न त्ववस्थावयवभेदेन भिद्यमानानां तन्त्रस्यांगभूतानां कायादीनामिति संबन्ध इति तात्पर्यम्।
_______________________________________________________________________________________
१. तन्त्राधिकरणम्
तत्र यमर्थमधिकृत्योच्यते तदधिकरणं; यथा—रस दोषं वा। इति सुश्रुतः॥
_______________________________________________________________________________________
आचार्येणापि “चिकित्सा येषु संश्रिते"त्युक्तं च; कायचिकित्सा बालचिकित्सेत्यादि आधाराधेयसंबन्धमात्रमेव। तन्त्रमिदमातुरापेक्षमथत्रा अनातुरविषयम्। अनातुरविषयं तर्हिदिनर्तुचर्याकथनमनुचितमेवेति चेत् तयोस्तु—
“बयोहोरात्रिभुक्ताना"मित्यादिना “चयप्रकोपप्रशमा” इत्यादिना च एकत्रकालकृतदोषापेक्षमन्यत्र त्वाहारादिकुपितदोषापेक्षं तस्मादुभयथाप्यातुरविषयमिदं तन्त्रम्, “इति कालस्वभावोऽय"मित्यादिचाचार्येणोक्तम्। इत्यधिकरणम्॥
_______________
(२) योगः।
अथ योगः। पदानामेव। “रोगस्तु दोषवैषम्य”मितितेन रोगोऽपि रोगस्य हेतुः। यथा ज्वरो रक्तपित्तस्य।रक्तपित्तं वा ज्वरस्य इति मेघः।योगो नाम योजना। उद्देशनिर्द्देशयोःसूत्रभाष्ययोर्वा। यथा—
“अथातोंगविभागं शारीरं व्याख्यास्याम"इत्युदिदश्यांगानि विभजते। “शिरोऽन्तराधिर्द्वौबाहू सक्थिनीच समासतः। षडंगसंगंप्रत्यंग"मित्यादि युक्तिर्वा योगः।_______________________________________________________________________________________
२. योगः
येन वाक्यं युज्यते स योगः। यथा—“तैलं पिबेच्चामृतवल्लिनिंबहिंस्राभयावृक्षकपिप्पलीभिः। सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे॥ सिद्धंपिबेदिति प्रथमं वक्तव्ये तृतीयपादे सिद्धं प्रयुक्तं, एष दूरस्थानामपि पदानांएकीकरणं योगः। इति सुश्रुतः॥
_______________________________________________________________________________________
प्रतिज्ञा हेतुरुदाहरणमुपनयो निगमनमिति पंचबिधम्। यथा—
अग्निःशरीरस्थितेर्मूलं इति प्रतिज्ञा। अग्निपक्वाहारे सति तत्स्थितेरिति हेतुः। ‘‘आहारान्न ह्यपक्वासादय"इति वचनात्। उदाहरणं दृष्टान्तः।यथा—शाल्यंकुरस्य बीजमिति। उपनयस्तस्योपनपनम्। यथा—चिकित्साशास्त्रस्य सप्रयोजनत्वसाधनायबहुधा दृष्टान्तोपनयनं कृतवांस्तन्त्रकृत्"कस्यासिद्धोऽग्नितोयादिरित्यादिना। दृष्टान्तानां बहुत्वेन स्थापनोपनयःस्मृतः। तस्मात् सप्रयोजनमेव चिकित्साशास्त्रं प्रत्यक्षफलत्वात्इत्युपनयः। तस्मादारंभणीयमितिप्रमाणफलोपादानद्वारेणदर्शनं निगमनम्। यथोक्तं—“चतुष्पाद्गुणसंपन्नेसम्यगालोच्य योजिते। मा कृथा व्याधिनिर्घाते विचिकित्सांचिकित्सिते” इति। संशयानुपपत्या प्रतिपादितया प्रमाणार्थफलोपसंहरणम्।योगो नाम युर्जेज्जातो योजना युक्तिरेवच। उद्देशनिर्देशवतोर्योजना सूत्रभाष्ययोः। तथैव रोगदोषाख्याःकल्प्योयं बुद्धिमत्तया। प्रतिज्ञाहेतुदृष्टान्तास्तस्योपनयनं पुनः।ततो निगमनं चेति योगःपंचविधः स्मृतः॥
______________
(३) हेत्वर्थः ।
हेत्वर्थो नाम यदन्यत्प्रस्तावोक्तपन्यत्रापि तथैवापत्यतेयथा—“तत्रैकैकत्रशाखायां शतं तस्मिन्मवेधये” दित्यारभ्य “अवेध्यास्संकीर्णा ग्रथिताः क्षुद्रा” इत्यत्र एतदेभ्यो विशेषवचनेभ्यः अनुमीयते शेषा बंध्या इति। अन्यथैतानि वचनानि निरर्थकानि स्युः। हेतुना सह यत्नोक्तिः स हेत्वर्थःप्रकीर्तितः।
_____________
(४) पदार्थः।
पदार्थस्तु य ऐक्येऽपि भिन्नमर्थंप्रकाशयेत्। यथा—
“कोष्ठः क्रूरो मुदुर्मध्योमध्य” इत्यादौ कफोत्तरकोष्ठः समकोष्ठोऽपि मध्यः। अत्रमध्यपदस्य न भेदः अर्थतस्तु मध्यइति सम एव। कथं—
“सुधाद्यैर्वातिको रेच्यः शभ्याकाद्यैस्तुपैत्तिकः। श्यामाद्यैः श्लैष्मिकोऽप्युच्चैः पथ्याद्यैः समदोषज” इति भेलकल्पोक्तत्वात्। समदोषकोष्ठात् कफकोष्ठस्य तावान्भेदोऽस्त्येव। यावांस्तदुत्कर्षः। आचार्येणापि लाघविकत्वात्पदैक्यमंगीकृत्य “कोष्ठस्तु त्रिविधो भवति मृदुः क्रूरो मध्य”श्चैतिकथितम्। अत्र विरेचनप्रस्तावोक्त्या पित्तकोष्ठस्य प्रथमंग्रहणम्। त्रिविध इति वचनमात्रम्; अर्थात् चतुर्विधत्वमस्त्येव। अत्रापि तुशब्देन समदोषजपर्यायमध्यकोष्ठस्यअन्तर्भावःसूचित एव।
_______________________________________________________________________________________
३. हेत्वर्थः
यदन्यदुक्तमन्यार्थसाधकं भवति स हेत्वर्थः। यथा—मृत्पिण्डोद्भिः प्रक्लिद्यते तथामाषदुग्द्धप्रभृतिभिर्व्रणःप्रक्लिद्यतइति। इति सुश्रुतः॥
४ पदार्थः
योर्थोऽभिहितः सूत्रे पदे वा स पदार्थः, अपरिमिताश्च पदार्थाः। यथा—स्नेहस्वेदांजनेषु निर्द्दिष्टेषु द्वयोस्त्रयाणामर्थानामुपपत्तिर्दृश्यते। तत्र योर्थःपूर्वापरयोगसिद्धो भवति स गृहीतव्यः; यथा—वेदोल्पत्तिं व्याख्यास्याम इत्युक्ते
_______________________________________________________________________________________
अपि च “समंमध्यं च तुल्यंच समानं सदृशं सदृक्” इति गोपालिकायामुक्तं च।अनेनाग्निरिव तदाश्रयः कोष्ठोपि चतुर्विध इत्यर्थः। केचित्तु—“पदार्थःपदभेदेपि न भेदः पुनरर्थत” इति। तन्मते तुद्रव्योषधोयोःपदभेद एव. नार्थभेदः। “भिषण्द्रव्याणी"त्यादिना “बहुकत्प"मित्यदिना च द्रव्यौषधयोरभेद उक्तः।उक्तं च तान्त्रिकैः—यस्मिन् रसादयो यच्च भौतिकीं मूर्त्तिमाश्रितम्। तद्द्रव्यं रसकल्कादिकत्पनासिद्धमौषधम्। एतावानवस्थाविशेषः। एवमन्यत्र “शमनं कोपन"मित्यादिना तयोरेव भेदाभासः। उक्तं ह्याचार्येणापि—“द्विविधमौषधं ऊर्जस्करं रोगघ्नं च। ऊर्जस्करमपि द्विविधम्, रसायनं बाजीकरं च। रोगघ्नमपि द्विविघम्, रोगस्य प्रशमनमपुनर्भावकरं च।तत् पुनर्द्विविधं, द्रव्यमद्रव्यं च। द्रव्यं त्रिविधं, भौममौद्भिदंजंगमं चेति। तेषु तद्वक्ष्यमाणलक्षणं हेमादिलवणांतमेतत् प्रायेणभौमम्। औद्भिदं पुनः वनस्पतिवानस्पत्यवीरुदोषधीभेदेनचतुर्विधं भवति। तत्र फलिनो वनस्पतिः, पुष्पफलवान्वानस्पत्यः, वल्लीगुल्मोवीरुत्, फलपाकान्ता चौषधीत। जंगमोद्भवंमधुघृतादि। अद्रव्यं पुनरुपवासादिरिति”। तस्मादनयोर्न भेद इति मेघः।_______________________________________________________________________________________
सन्दिह्यते बुद्धिः—कृतमस्य वेदस्यायमुत्पत्तिं वक्ष्यतीति, ऋग्वेदादयस्तु वेदाः;तत्र पूर्वापरयोगमुपलभ्य (विद विदलृइत्येतयोश्च धात्वोरनेकार्थयोः प्रयोगः) पश्चात्प्रतिपत्तिर्भवति–आयुर्वेदोत्पत्तिमयं विवक्षुरित्येवं पदार्थः। इति सुश्रुतः॥
_______________________________________________________________________________________
पदार्थो नाम पदेनार्थोऽवगम्यते।यथा—द्रव्यमिति पदं तस्यार्थो भूजलादिः। गुण इति पदंतस्यार्थो गुर्वादिः। पदार्थोऽपि च भेदेपि न भेदः पुनरर्थतः।पदेन योर्थो ज्ञायेत यथा गुर्वादयो गुणे।
_____________
(५) प्रदेशः।
प्रदेशःक्वचिदुक्तानामन्यत्रोक्तैः समेतता॥
“कालार्थे"त्यादौ कालःशीतोष्णवर्षलक्षणः। अर्थाशब्दादय इन्द्रियार्थाः। कर्म कायवाड मनोभेदेन परत्न चेह वाकृतम्। तेषां हीनयोगः नैव वा, अतियोगोऽतिमात्रः, मिथ्यायोगो विपरीतलक्षणः। ते तु वातादिसमवेता रोगकारणंभवन्ति। वातादयोऽपि हीनयोगादिसमवेता एव। अतः खलुआचार्यस्य “कालार्थकर्मे"त्यादिश्च “दोषा एव ही"त्यादिश्चरोगैककारणमित्युक्तिवशात् तयोरेकमिति यत् तदुभयमपि समवेतमेव रोगकारणं न पृथक् कारणमित्यर्थः। अतो रोगकारणस्य वातादिकोपस्य कालादिहीनयोगादयः प्रधानकारणमितिकारणकार्योपचारः। इति मेघः॥ प्रदेशो नाम येषामर्थानां_______________________________________________________________________________________
५. प्रदेशः
प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः। यथा—देवदत्तस्यानेन शल्यमुद्घृतं तस्माद्यज्ञदत्तस्याप्ययमेवोद्धरिष्यतीति। इति सुश्रुतः॥
_______________________________________________________________________________________
अतिबहुत्वात् साकल्येनाभिधानाशक्यत्वात् स्तोकमात्रमुच्यतेयथा—“इति द्रव्यैकदेशोयं यथास्थूलमुदाहृत” इति। प्रदेशलोकमात्रोक्तिरिति केचित् प्रचक्षते। इति प्रदेशः॥
(६) उद्देशः।
उद्देशः समवायोक्तिरिति प्राहुर्मनीषिणः। यथा—सर्वथावेगधारणं न कार्यमिति प्रतिपादनाय लाघविकेनापि सर्वानुग्राहकेणाचार्येण “वेगान्न धारये”दित्यादौ तत्वमाकांक्षाविषयमुद्दिष्टं इति मेघः। उद्देशो नाम संक्षेपाभिधानं यथा—वायुःपित्तं कफश्चेत्यादि। इत्युद्देशः॥
(७) निर्देशः।
निर्देशो नाम तस्यैव विस्तरोक्तिर्यथोदिता। “तत्र रूक्षोलघुः शीतः खरः सूक्षश्चवलोनिल” इत्यरुणः। निर्देशःसोप्यनुगुणःपूर्वस्यानुक्रमश्चयः। यथा—अधोवातवेगधारणे कृतेगुन्मादयो जायेरन् एवं विद्रोधादिकेपि विज्ञेयं। अधोवातस्यरोधेनेत्यादि निर्दिष्टं पूर्ववातेत्यनुद्दिश्य। अधोवातस्येतिविशेषेण ग्रहणं पश्चादुद्गारवातविवक्षयेति बोद्धव्यम्। उद्देशनिर्द्देशकयोरन्योन्यापेक्षिता भवेत्। यत्तदोरिव नित्यैव शास्त्रे
_______________________________________________________________________________________
६. उद्देशः। समासकथनमुद्देशः। यथा—शल्यमिति। इति सुश्रुतः।
७.निर्द्देशः। विस्तरवचनंनिर्द्देशः। यथा—शरीरमागन्तुचेति इति सुश्रुतः।
_______________________________________________________________________________________
सर्वत्र सर्वदा॥ प्राक्संक्षेपेण कथनमुद्देश इति कीर्त्तितं। निर्देशोनाम तस्यैव विस्तरोक्तिरुदाहृतः॥ इति निर्देशः॥
(८) वाक्यशेषः।
वाक्यशेषो नाम यस्मिन सूत्रे लाघविकेनार्थात् गम्यमानमनुक्तं पूरणार्थमद्ध्याह्रियते। यथा “तत्र खात् खानि देहेस्मिन्” इत्यत्रभवन्तीति वाक्यशेषः। “आप्या जिह्वारसक्लेदा” इत्यत्र भवार्थेतद्धितग्रहणात् इत्यरुणः। वाक्यशेषोविशिष्टार्थदायिनी वाक्यलक्षणा। यथा—रोगानुत्पादनीयमित्यनेन रोगोपशमनीयः अयमद्ध्याय इति लक्ष्यते। अन्यथा—“अनुत्पत्यै समासेन विधिरेष प्रदर्शित” इत्यादेर्वाक्यस्यानुचितत्वादेव। किं च “धारयेत्तु सदा वेगा”नित्ययमप्यनुचितएव इति मेघः। इति वाक्यशेषः॥
(९) प्रयोजनम्।
प्रयोजनं नाम यदर्थंशास्त्रादि प्रवर्तते। यथा—“आतंकपंकमग्नानां हस्तालंबो भिषग्जित"मिति। अनेन प्रयोजनेनचिकित्साशास्त्रमद्ध्येयमित्यर्थ इत्यरुणः। प्रयोजनमनेकार्थे यत्
_______________________________________________________________________________________
८. वाक्यशेषः। येन पदेनानुक्तेन वाक्यं समाप्येत स वाक्यशेषः। यथा—शिरःपाणिपादपार्श्वपृष्ठोदरोरसामित्युक्ते पुरुषग्रहणं विनापि गम्यते पुरुष एवोक्तइति। इति सुश्रुतः।
_______________________________________________________________________________________
स्यात् पदनिवेशनम्।यथा—
“वायुः पित्तं कफ"श्चेत्यादिनापदनिवेशनेन ते वातादयः पृथगपि दोषाः। चशब्दात् समवेताअपि दोषाः\। समासत इति आप्तोदिते विस्तरतोपि दोषाइति। अनेन प्रकारेण रजस्तमश्चेत्यादिना तयोरपि दोषत्वम्। त्रयइति वातादिभेदानामपि दोषत्वं लक्षितमेवेत्यर्थसिद्धिःइति मेघः। इति प्रयोजनम्॥
(१०) उपदेशः।
उपदेशो नाम आप्तवचनम्। यथा—
“स्नेहक्लिन्नाःकोष्ठगा धातुगा वा स्रोतोलीना ये च शाखास्थिसंस्था” इत्यादिइत्यरुणः। “उपदेश इदं चेदमेवं तदिति कल्पना। यस्मादुष्णोयवः स्वादुर्गुरुरप्यनिलप्रदः॥ दीपनं शीतमप्याज्यं वसोष्णाप्यग्निसादनी। कटुपाकोऽस्त्रपित्तघ्नो मुद्गो माषस्तु पित्तलः॥स्वादुपाकोऽपि सशकृत् स्निग्धोष्णं गुरु फाणितं।” इत्यादिनाआचार्येणैव प्रतिपादितः। प्रभावापरनामा द्रव्यशक्तिरितीन्दुना
_______________________________________________________________________________________
१०. उपदेशः। एवमित्युपदेशः। यथा—“तथा न जागृयाद्रात्रौ दिवास्वप्नं च वर्जयेत्” इति। इति सुश्रुतः। किं कुर्यादित्युपदेश इत्यर्थः। ननूपदेशनियोगयोः को भेदः? उच्यते प्रायिक उपदेशः यथा रात्रौ न जागृयादितिप्रायिकत्वेनोपन्यस्तं, कफाद्यभिभूते तु तत्र रात्रिजागरणस्यापि शस्तत्वात्; दिवान स्वापं कुर्यादित्यपि प्रायिकम्, ग्रीष्मे तृष्णाद्यन्वये च दिवास्वापस्योचितत्वात्।नियोगश्चाप्रायिकः। यथा पथ्यमेव भोक्तव्यमिति। यद्यपि “ज्वरितोऽहितमश्नीयाद्यदिचास्यारुचिर्भवेत्” इत्यादिना अपथ्यभोजनस्यावकाशः, तथापि तदानीमपथ्यस्यैव पथ्यत्वमिति नियोगस्य व्यभिचारो नास्ति। (इति डल्हणः)
_______________________________________________________________________________________
प्रतिज्ञातः इति मेघः। आप्तवागुपदेशो हि सर्वैरित्यवगम्यते।इत्युपदेशः॥
(११) अपदेशः।
अपदेशस्तु हेतूक्त्यास्वप्रतिज्ञास्थिरीकृतिः। इत्यपदेशः॥
(१२) अतिदेशः।
अतिदेशस्तु यत् किंचिदर्थजातमुदीर्य च।
एवमन्यदपि ज्ञेयमिति स्थापनमुक्तिभिः॥इत्यतिदेशः॥
(१३) अर्थापत्तिः।
अर्थावगतिरेवार्थापत्तिरित्यभिधीयते। इत्यर्थापत्तिः॥
(१४) निर्णयः।
निर्णयःसंशये प्राप्ते तदपाकरणं वचः। इति निर्णयः॥
_______________________________________________________________________________________
११. अपदेशः। अनेन कारणेनेत्यपदेशः यथोपदिश्यते—मधुरेण श्लेष्माभिवर्द्धत इति। इति सुश्रुतः।
१२. अतिदेशः। प्रकृतस्यानागतस्य साधनमतिदेशः। यथा—अनेनास्यवायुरूर्ध्वमुत्तिष्ठते तेनोदावर्त्तः स्यादिति। इति सुश्रुतः।
१३. अर्थापत्तिः। यदकीर्तितमर्थादापद्यते सार्थापत्तिः यथौदनं भोक्ष्येइत्युक्तेऽर्थापन्न भवति नायं पिपासुर्यवागूमिति। इति सुश्रुतः।
१४. निर्णयः। तस्य(पूर्वपक्षस्य) उत्तरं निर्णयः। यथा—शरीरं प्रपीड्यपश्चादधो गत्वा वसामेदोमज्जानुविद्धं मूत्रं विसृजति वातः एवमसाध्यावातजा इति यथाचोक्तं—कृत्स्नं शरीरं निष्पीड्य्मेदोमज्जावसायुतः। अधःप्रकुप्यतेवायुस्तेनासाध्यास्तु वातजाः॥ इति सुश्रुतः।
_______________________________________________________________________________________
(१५) प्रसंगः॥
प्रागुक्तस्य सतोऽर्थस्य संबन्धेन च केनचित्।
पुनरप्यभिधानं स प्रसंग इति कीर्तितः॥ इति प्रसंगः॥
(१६) एकान्तः॥
एकान्तो नाम यत् पक्षमेकमेव समाश्रयेत्। इत्येकान्तः॥
(१७) नैकान्तः॥
नैकान्तो नाम यत् पक्षस्यान्यस्यानवधारणम्। इति नैकान्तः॥
(१८) अपवर्गः॥
अपवर्गस्तु साकल्येनोदिदष्टस्यैकदेशतः।
पुनस्तस्यापकर्षोऽयं निर्दिष्टः स मनीषिभिः॥ इत्यपवर्गः॥
_______________________________________________________________________________________
१५. प्रसंगः। प्रकरणान्तरेण समापनं प्रसंगः। यथा—प्रकरणान्तरितो योऽर्थोऽसकृदुक्तः समाप्यते स प्रसंगः। यथा—महाभूतशरीरिसमवायपुरुषस्तस्मिन् क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय, भूतचिन्तायां पुनरुक्तं यतोऽभिहितं पं व महाभूतशरीरिसमवायः पुरुष इति स खल्वेष कर्मपुरुषश्चिकित्सायामधिकृत इति। इति सुश्रुतः॥
१६. एकान्तः। यदवधारणेनोच्यते स एकान्तः। यथा—त्रिवृद्विरेचयतिमदनफलं वामयतीति। इति सुश्रुतः।
१७. अनेकान्तः। क्वचित्तथा क्वचिदन्यथेति यः सोऽनेकान्तः। ‘यथा—केचिदाचार्या ब्रुवते द्रव्यं प्रधानं, केचिद्रसं, केचिद्वीर्यं, केचिद्विपाकमिति। इति सुश्रुतः।
१८. अपवर्गः। अभिव्याप्यापकर्षणमपवर्ज्ज। यथा—अस्वेद्या विषोपसृष्टाअन्यत्र कीटविषादिति। इति सुश्रुतः॥
_______________________________________________________________________________________
(१९) विपर्ययः॥
विपर्ययो लक्षणाख्याह्युपदिष्टविपर्ययात्। इति विपर्ययः॥
(२०) पूर्वपक्षः॥
प्रतिज्ञातस्य चार्थस्य दूषकं वचनं पुनः
पूर्वपक्ष इति प्रोक्तः—
इति पूर्वपक्षः॥
(२१) अनुमतम्॥
तस्यानुमतमेव तत्॥ इत्यनुमतः॥
(२२) विधानम्॥
यथाप्रकरणं यत् तद्विधानं च तथोच्यते। इति विधानम्॥
(२३) व्याख्यानम्॥
विशिष्टबुद्धिगम्यं यज्जातं व्याख्यानमेव तत्॥
इति व्याख्यानम्॥
_______________________________________________________________________________________
१९. विपर्ययः। यद्यत्राभिहितं तस्य प्रातिलोम्यं विपर्ययः। यथा—कृशल्पप्राणभीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढादयः सुचिकित्स्या इति। इति सुश्रुतः॥
२०. पूर्वपक्षः। आक्षेपपूर्वकःप्रश्नः पूर्वपक्षः। यथा—कथं वातनिमित्ताश्चत्वारः प्रमेहा असाद्ध्याभवन्तीति। इति सुश्रुतः॥
२२. विधानम्। प्रकरणानुपूर्व्याऽभिहितं विधानम्। यथा—सक्थिमर्मण्येकादशप्रकरणानुपूर्व्याऽभिहितानि। इति सुश्रुतः॥
२३. व्याख्यानम्। तन्त्रेऽतिशयोपवर्णनं व्याख्यानम्। यथेह पंचविंशतिकःपुरुषोःव्याख्यायते। अन्येष्वायुर्वेदतन्त्रेषु भूतादिप्रकृत्यारब्धचिन्ता।इति सुश्रुतः॥
_______________________________________________________________________________________
(२४) संशयः॥
संशयो नाम साकांक्षं विज्ञेयं यदनिश्चितम्। इति संशयः॥
(२५) अर्त तापेक्षा॥
अतीतं यदवेक्ष्योक्तमतीतावेक्षणं हि तत्॥इत्यतीतावेक्षा॥
(२६) अनागतावेक्षा॥
अनागतं भविष्यद्यत्तस्यावेक्षा यथोच्यते। इत्यनागतावेक्षा॥
(२७) स्वसंज्ञा॥
तन्त्रकारैः स्वतन्त्रेषु प्रणीता परतन्त्रके।
नप्रसिद्धा हि या संज्ञा स्वसंज्ञा सा प्रकीर्तिता॥इति स्वसंज्ञा॥
_______________________________________________________________________________________
२४. संशयः। उभयहेतुदर्शनं संशयः। यथा—तलहृदयाभिघातः प्राणहरःपाणिपादच्छेदनमप्राणहरमिति।इति सुश्रुतः॥ संशयमाह—उभयेत्यादि।उभयोर्विसदृशयोरर्थयोर्हेतुः तस्य दर्शनम्। उदाहरणमाह—यथा तलेत्यादि।ननु, एतत् संशयज्ञानार्थमुदाहृतं, संशयोऽस्ति कुतः? तलहृदयादिघातस्य तथापाण्यादिच्छेदस्य प्राणहरत्वाप्राणहरत्वाभ्यां पृथग्दर्शितत्वात्। सत्यं, परं यत्रघातच्छेदयोर्द्वयोः सद्भावस्तत्र किं तलहृदयाभिघातान्मरणमुत पाणिपादच्छेदनाज्जीवनमित्येवं संशयः। इति डल्हणः॥
२५. अतीतावेक्षा।यदुक्तमित्यतिक्रान्तावेक्षणम्। यथा—-चिकित्सितेषुब्रूयात् श्लोकस्थाने यदीरितमिति। इति सुश्रुतः॥
२६.अनागतावेक्षणम्। एवं वक्ष्यतीत्यनागतावेक्षणं। यथा—श्लोकस्थाने ब्रूयात् चिकित्सितेषु वक्ष्यामीति।इति सुश्रुतः॥
२७.स्वसंज्ञा। अन्यशास्त्रासामान्या स्वसंज्ञा। यथा—मिथुनमितिमधुसर्पिषोर्ग्रहणं, वा लोके प्रथितमुदाहरणं।इति सुश्रुतः॥
_______________________________________________________________________________________
(२८) ऊह्यम्॥
ऊह्यंतु यदनुत्वद्धं ग्रन्थे प्रताविचारितम्।
योज्यते स्वयमेव द्राक्तदौचित्यपुरस्सरम्॥इत्यूह्यम्॥
(२९) समुच्चयः॥
समुच्चिनोति यद्वाक्ये बहून् सहि समुच्चयः। इति समुच्चयः॥
(३०) निदर्शनम्॥
निदर्शनं तु दृष्टान्तो येनान्यस्य प्रकाशनम्।
इति निदर्शनम्॥
(३१) निर्वचनम्॥
गुणनामानिरुक्तं यत् तत्तु निर्वचनं मतम्। इति निर्वचनम्॥
_______________________________________________________________________________________
२८.ऊह्यम्। यदनिर्दिष्टं बुध्याऽवगम्यते तदूह्यम्। यथा—अभिहितमन्नपानविधौ, चतुर्विधमन्नमुपदिश्यते भक्ष्यं भोज्यं लेह्यं पेयमिति। एवं चतुर्विधेवक्तव्ये द्विविधमभिहितं, तत्रोह्यमिति। अन्नपानेऽविशिष्टेद्वयोर्ग्रहणे कृतेचतुर्णामपि ग्रहणं भवतीति। चतुर्विधश्चाहारः प्रायेण द्विविधःप्रसिद्ध इति।किंचान्यत्––अन्नेन भक्ष्यमवरुद्धं अन्नसाधर्म्यात्; पेयेन लेह्यं द्रवसाधर्म्यात्।इति सुश्रुतः॥
२९.समुच्चयः। इदं चेदं चेति समुच्चयः। यथा—मांसवर्गे एणहरिणलावतित्तिरिसारंगाःप्रधानमिति। इति सुश्रुतः॥
३०.निदर्शनम्। दृष्टान्तव्यक्तिर्निदर्शनम्। यथा—अग्निर्वायुना सहितःकक्षे वृद्धिं गच्छति तथा वातपित्तकफजुष्टो व्रण इति। इति सुश्रुतः॥
३१.निर्वचनम्। निश्चितं वचनंनिर्वचनम्। यथा—आयुर्विद्यतेऽस्मिन्ननेन वा आयुर्विन्दतीत्यायुर्वेदः। इति सुश्रुतः॥
_______________________________________________________________________________________
(३२) नियोगः॥
नियोगो महतामाज्ञा कर्तव्याऽवश्यमेव या। इति नियोगः॥
(३३) विकल्पनम्॥
एवं वा कार्यमेवं वा बहुचिन्ता विकल्पनम्।
इति विकल्पनम्॥
(३४) प्रत्युत्सारः॥
प्रत्युत्सारो वारयेत परस्परमतानि यत्। इति प्रत्युत्सारः॥
(३५) उद्धारः॥
उद्धारो नाम चोद्यस्य युक्तस्य परिहारगीः। इत्युद्धारः॥_______________________________________________________________________________________
३२.नियोगः।इदमेव कर्तव्यमिति नियोगः। यथा—पथ्यमेव भोक्तव्यमिति।इति सुश्रुतः॥
३३.विकल्पनम्। इदं वेति विकल्पः। यथा—रसौदनःसघृता यवागूर्वा। इति सुश्रुतः॥
३४. प्रत्युत्सारः। यत्रोपपत्तिं दर्शयन्तः परस्परमतानि निवारयन्ति।तद्यथा—अस्थ्नांशतानि षष्टीनि त्रीणि दन्तनखैस्सह धन्वन्तरिस्तु त्रीण्याहसन्धीनां च शतद्वयं, दशोत्तरं सहस्रेद्वे निजगादात्रिनन्दनः। इति पूर्वमतात् षष्टिंप्रत्युत्सारयीत सन्धिसहस्त्रद्वयं साधयन्। इत्यरुणदत्तः॥
३५.उद्धारः। शास्त्रारंभप्रत्याख्यानादिचोद्यस्य समाधानं। तद्यथा—दृश्यन्ते भगवन् केचिदात्मवन्तोऽपि रोगिणः। यावत् हिताहितविभागस्य फलंतस्मादनिश्चितं इति कृते चोद्ये न चिकित्साऽचिकित्सा च तुल्या भवितुमर्हतीति परिहारः। इत्यरुणदत्तः॥
_______________________________________________________________________________________
(३६) संभवः॥
संभवो नाम चोत्पत्तिरुपदिष्टेतरं च यत्।
येनोपपद्यते,—
इति संभवः॥
प्रोक्ताः पत्रिंशत् तन्त्रयुक्तयः।
इति तन्त्रगुणैर्युक्तमित्युक्तौ गुणशब्दतः॥
______________
^(१)अथ व्याख्याभेदा उच्यन्ते।
______________
व्याख्यागुणाश्च गृह्यन्ते तन्त्रालंकारकोविदैः।
पिण्डव्याख्या पिण्डितार्थप्रतिपादनमुच्यते॥
पदव्याख्या पदच्छेदं कृत्वा व्याख्यानमीरितम्।
तेषां पदानां विवृतिः पदार्थव्याख्ययोच्यते॥
अधिकृत्यानुषंगेण व्याख्याऽधिकरणात्मिका
_______________________________________________________________________________________
६६.सम्भवः। उपपत्तिर्यस्मिन्नुपदिश्यतेऽनुपदिष्टे। यथा—दुष्टरक्तापगमनात् सद्यो रागरुजां शमः इत्युक्तम्। प्रच्छानालाबुजलौकाशृंगसिराव्यधैःयथासंभवं रक्तमपनीयते। यथोक्तं प्रच्छानेनैकदेशस्थं प्रथितं जलजन्मभिः।हरेच्शृगादिभिः सुप्तमसृग्व्यापि सिराव्यधैरिति। एवमन्यत्रापि संभवार्थोयोज्यः॥
१. व्याख्याभेदाः पूर्वोक्तक्रमेणात्र न लिखिताः। अत्र तु, पिण्डपदपदार्थाधिकरणप्रकरणार्थकृच्छ्रफलोच्चितन्यासप्रयोजनानुलोमप्रतिलोमसूत्रसमध्वजाख्याइति क्रमो वेद्यः॥
_______________________________________________________________________________________
सा हि प्रकरणव्याख्या या तद्वदिति वर्ण्यते॥
अथव्याख्या नाम यत्र स्वभावस्योपवर्णनम्।
कृच्छ्रव्याख्या यत्नतोऽर्थस्योत्पादनमुदीर्यते॥
फलव्याख्या बहूक्तीनां फलग्रहणमीरितम्।
इतस्ततः समाकृष्य स्वोचितार्थस्तु साध्यते॥
यत्र सा ह्युच्चितव्याख्या तन्त्रकारैरुदीर्यते।
यस्याधिकारोनिक्षिप्तस्तत्संबन्धवशादिह॥
अन्यार्थोऽप्यभिधीयेत न्यासव्याख्या हि सा स्मृता।
यत् सूत्रं स्वार्थवद्वक्ति परमर्थमपि ध्रुवम्॥
एषा प्रयोजनव्याख्या फलनिष्पत्तिकारिणी।
यत्क्रमात् सूत्रमारब्धं तत्क्रमेण पुनस्तथा॥
अभिधा साऽनुलोमाख्या व्याख्या पूर्वैरुदीरिता।
येन क्रमेण सूत्रे हि निक्षिप्तोऽर्थो विहाय तम्॥
वक्त्यन्यथा प्रतीलोमव्याख्या वाच्यबहुत्वतः।
यथासूत्रन्तु या वक्ति व्याख्या सूत्रसमा हि सा॥
उन्नतत्वं महत्वं च ध्वजशब्दात् प्रतीयते।
सर्वप्रकाशनं यत्र ध्वजव्याख्या हि सा स्मृता॥
______________
अथ कल्पना1 वक्ष्यते ।
_______________
गुणप्रसंगादुच्यन्ते कल्पना अपि सप्तधा।
प्रधानकल्पना नाम प्रधानस्य हि कल्पना॥
कल्पना च प्रधानेन तवेति द्विविधा हि सा।
येन धर्मेण युक्तोऽसौ समर्थो भवति ध्रुवम्॥
तेन धर्मेण युक्तत्वाद् गुणः सा गुणकल्पना।
समवर्ती कालमृत्यू रिष्टं पूर्वोत्तरं स्पृशेत्॥
चशब्दयोगाद्विवृतावित्येषा लेशकल्पना।
सर्वविद्याप्रवेशोऽत्र शास्त्रकारस्य सूचितः॥
आर्द्रसन्तानतेत्याद्यैर्वाक्यैः सेंगितकल्पना।
विभवस्योक्तपूर्वत्वादनुक्तत्वादिहापि च॥
चिन्तनीयोऽपि शेषोऽत्र व्याख्यास्वन्यासु मृग्यताम्।
भक्तिर्नामोपचारोऽस्य कल्पना भक्तिकल्पना॥
आज्ञा नामानुयोगेन विनाऽनुष्ठापने विधिः।
न लिखेत्भूमिमित्याद्या कल्पना स्यात्तथा मता॥
कल्पनाःकल्पयित्वा ता निर्विकल्पं च सप्तधा।
________________
^(१)अथाश्रया निरूप्यन्ते।
___________________
आश्रीयन्ते शास्त्रकारैरेकविंशतिराश्रयाः।
आदिलोपादयस्तत्र पूर्वस्य व्रणहा रसः॥
धारणोदीरणेत्यादि चोदाहरणमीक्ष्यताम्।
मध्यलोपे द्रवद्रव्यविज्ञानीयमिति स्मृतम्॥
अन्नस्वरूपश्रवणादथान्यत्र कफं पुनः।
इत्यस्रलोपादन्ते च पूर्वत्रास्रोक्तिवैभवात्॥
आदौ ष
ड्रसमप्यन्नं मधुरीभूतमीरयेत्।
इत्यारभ्यात्र मध्यान्तलोपादुभयलोपकः^(२)
॥
अन्नं कालेऽभ्यवहृतमित्यादौ सर्वलोपकः।
तत्र खात् खानि देहेस्मिन्नित्यत्रार्णत्रयं पुनः॥
भवन्तीत्युपजन्येव व्याख्या वर्णोपजानकम्।
आप्या जिह्वारसक्लेदा इत्यादौ तु द्वयोर्भवे॥
_______________________________________________________________________________________
१. आश्रया एकविंशतिरित्युक्तम्। तद्यथा—१. आदिलोपः। २. मध्यलोपः। ३ अन्तलोपः। ४. उभयलोपः। ५. आदिमध्यान्तलोपः। ६. उपधालोपः। ७ वर्णोपजानं। ८. ऋषिक्लिष्टं। ९. तन्त्रशैली।१०. तन्त्रसंज्ञा। ११. प्रकृताख्यं। १२. समानतन्त्रप्रत्ययः। १३. परतन्त्रप्रत्ययः।१४. हेतुहैतुकः। १५, कार्यकारणधर्मः। १६. आद्यन्तविपर्ययः।१७. शब्दान्यत्वं। १८. प्रत्ययाख्यधर्मः।१९. उपनयः। २०. संभवः। २१. विभवः॥
२. उभयलोपस्तु त्रिधा भिद्यते। यथा—आदिमध्यलोप आद्यन्तलोपोमध्यान्तलोप इति। अत्र तु मध्यान्तलोपस्यैवोदाहरणं प्रदर्शितम्॥
_______________________________________________________________________________________
तद्धितश्रवणाद्वाक्यशेषं पूर्वं यथैव तत्।
ऋषिकैरपिपुत्रैर्वा प्रमादाद्यदुदीरितम्॥
तत्क्लिष्टं रोमलोमेति, तन्त्रशैली स्वभावतः।
अस्थ्नां शतानि षष्ट्याचेत्यादि संक्षिपति स्वयम्॥
शिष्यार्थं पुनरेतच्चविस्तारयति वाहटः।
तन्त्रसंज्ञा स्वसंज्ञैव वाक्यशेषोपजानवत्॥
यथा कषायसंज्ञा सा स्वरसादिषु पंचसु।
क्वाथेऽपि च विधीयेत, प्रकृतं प्रस्तुतं स्मृतम्॥
सैन्धवग्रहणं नाश्वे वैद्येनामकृतत्वतः’।
समानतन्त्रप्रत्येयो क्षारपाणीयतन्त्रतः॥
नीचरोमनखश्मश्रुरित्यादौ दशरात्रता।
परतन्त्रप्रत्ययतः शीतोष्णादिकलक्षणैः॥
कालस्य संभवो योग इति बौद्धागमोक्तितः।
यो हेतुहैतुकेनात्र ज्ञायते हेतुना च सः॥
सधर्मः पित्तलाहारात् पैत्तं सरणमस्त्रवत्।
स्यादित्येवानुमीयेत यतोऽसौ हेतुहैतुकः॥
कार्यकारणधर्मोऽत्रयत्र कार्येण कारणम्
_______________________________________________________________________________________
१. लिखितपुस्तके “सैन्धवग्रहणन्नाश्वे वैद्येनाश्वस्य प्रकृतत्वतः” इतिदृश्यते। तन्न शुद्धं, अश्वशब्दस्य पुनरुक्तत्वात् वृत्तभंगाच्च। अत्र, सैन्धवग्रहणन्नाश्वेवैद्येनाप्रकृतत्वतः, सैन्धवग्रहणं वैद्ये नाश्वस्य प्रकृतत्वतः इति द्वौ पाठौ सभाव्यौ।तयोर्युक्तता चिन्तनीया॥
_______________________________________________________________________________________
कारणेन च कार्यंं च दोषा रोगाख्यया मता॥
रोगा दोषाख्यया चैव यथा वा कार्यकारणात्।
पानीयंप्राणिनां प्राणा यथा दोषो न तिष्ठति॥
आद्यन्तविपर्यासौ निर्द्दिश्येते क्रमेण नाद्यन्तौ।
यत्र प्राग्द्रवभावः पूज्यन्त्वन्नं पुनश्च निर्द्दिष्टम्॥
शब्दान्यत्वमभिन्नेऽर्थे शब्दवैशिष्ट्ययोजनम्।
रोगः पाप्मा ज्वरो व्याधिरित्याद्युक्तदिशामतम्॥
हेतुधर्मोपपत्यैव धर्मः प्रत्ययपूर्वकः।
हेतुस्तदनुषक्तौ तु इत्याद्युक्त्यानिरूपितः॥
सूत्रप्रस्तावने यत्र प्रोक्तं प्रकरणं परम्।
विषूचिकाचिकित्सोक्ता यथैनोपनयस्तु सः॥
संभवस्संभवत्यस्मादन्योऽर्थ इति कीर्तितः।
अन्नं कालेऽभ्यवहृतमिति पीतादिकं स्पृशेत्॥
विभवो नाम यत्सूत्रमर्थस्य व्यापकं भवेत्।
कायबालग्रहेत्यादि व्याप्नोति सकलं यथा॥
व्याख्यया विभवोऽयं सा पाठाद्विभवकल्पना।
इत्यत्रोक्त्यैव सिद्ध्यर्थं प्रागेषा नोपवर्णिता॥
उपधालोपशून्यत्वादाश्रया विंशतिः स्मृताः।
इति केषांचन मतं मृग्योऽयमिति मन्महे^(१)॥
_______________________________________________________________________________________
१. “उपधा—मन्महे” इत्युक्तत्वादस्य ग्रन्थकारस्य मतमपि द्योतितं।तत्पक्षे विंशतिराश्रया एव॥
_______________________________________________________________________________________
^(१)अथ ताच्छील्यादीनि प्रदर्श्यन्ते।
_______________
ताच्छील्यादीनि च पुनः कथ्यन्ते दश पंच च2।
धर्मसादृश्ययुक्तत्वं ताच्छील्यं समुदाहृतम्॥
यथासुप्तेस्तु सादृश्यात् सुतिरित्यभिधीयते।
यत्रैकदेशेनोक्तेन तज्जातीयोऽपि नोदितः॥
संभाव्यते तथा तस्य प्रतिपक्षेण चेतरः।
स तत्रावयवः प्रोक्तो लंघनैः स्वस्थतादिकम्॥
अलंघनेन चास्वास्थ्यं भवेदिति यथोदितम्।
विकारपाठात प्रकृतिर्विकारः प्रकृतीरणात्॥
द्विधा विकारो निर्द्दिष्टः पत्रे पुष्पे फले यथा।
शाकं पाठा शठीचेति तत्रोदाहरणं द्विधा॥
नालोचितन्तु सामीप्यं भूयस्त्वन्तु विवेचितम्।
अम्लोरोचन इत्युक्तः कदाचित् कस्यचिद्भवेत्॥
न रोचनः स्वादुरपि भूयस्त्वेनैष रोचनम्।
_______________________________________________________________________________________
**१. तच्छील्यादीनि सप्तदशेत्युक्तम्। तद्यथा—**ताच्छील्यम्। २. अवयवः। ३. विकारः। ४. सामीप्यम्। ५.भूयस्त्वम्। ६. प्रकारः। ७. गुणगुणिभावः।८. संसक्तता।९. तद्धर्मिता। १०. स्थानम्।११ तादर्थ्यम्। १२. साहचर्यम्।१३. कर्म। १४. गुणनिमित्तता।१५. चेष्टानिमित्तता। १६. मूलसंज्ञा।१७. तारतम्यम्।
_______________________________________________________________________________________
प्रकारो नात्मधर्मो यः समानो यस्य स स्मृतः।
कण्ठमेरण्डनालेन वमेदभिमृशन्निति॥
वचने तत्प्रकाराणामन्येषामपि च ग्रहः।
गुणशब्देन गुणिनि पंचाहारगुणानिति॥
गुणी गुणेनैव यथा बभूवुरमितायुषः।
गुणगुणिभावो गणितो, ज्ञेया संसक्तता पुनः केति।
संसर्गोऽप्युपदिष्टो बहुषु त्वेकत्रसंगमोद्रेकः॥
स्वादुस्कन्धे मधु तद्गणितं यद्वत् कषायमधुरमपि।
ततस्तद्धर्मिता नाम पाशान्वैवस्वतानिति॥
स्थानिना वा पुनस्थानं स्थानी वा व्यपदिश्यते॥
स्थानेन स्थाननामैतत्कर्णश्च रसना यथा।
प्रयोजनार्थं यो भावस्तेनैव व्यपदिश्यते॥
तादर्थ्यं नाम तत् प्रोक्तं छर्दनं छर्दनात्मकम्।
यत्र येनात्रनित्यः स्याद्बन्धः सहचरः स च॥
संबन्धिभावं लभते यथा धूमे हि पावकः।
मुनयः प्रशमं जग्मुरित्यत्र प्रशमाह्वयम्॥
न स्थानं कर्मणा प्रोक्तं विषयेभ्यो निवर्तनम्।
…………………………एषा कर्मनिमित्तता॥
धर्म्यं यशस्यमित्यादि गुणो गुणनिमित्तता।
चेष्टानिमित्तता ज्ञानं ज्वलतीति क्रिया न तु॥
ऊर्ध्वगत्यादिकाःप्रायः पावकस्येव लक्ष्यते।
मूलसंज्ञा तु लोकेऽस्मिन्नर्थेऽन्यत्र निवेशिता॥
निदानं पूर्वरूपाणि रूपाणीत्यादिकं पुनः।
स्वशास्त्रसंज्ञया स्वाभिप्रेते त्वर्थे निवेशनम्॥
तन्त्रसंज्ञा स्वसंज्ञा च मूलसंज्ञेति च त्रिधा।
अभिन्नाऽपि च टीकाभिरीषद्भिन्ना विचारिता॥
तात्स्थ्यं नाम यदन्यस्य भावस्त्वन्यस्य कल्प्यते।
वस्तिमेहनयोः शूलमिति स्वस्योपचर्यते॥
\_\_\_\_\_\_\_\_\_\_\_\_\_\_
अलंकाराष्षण्णवतिस्तन्त्राधिकरणादयः।
इत्युक्तास्तुंगमान्योऽसौ पुत्रः सार्थो भवेदतः॥
सरसःसुप्तपत्मस्य रविदीधितयो यथा।
यथा गृहस्य दीपाभा तथा तन्त्रस्य युक्तयः॥
वाक्यार्थयोजनादेता युक्तयः स्वेष्टसिद्धिदाः।
असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधिकाः॥
लीनव्यत्यासलेशोक्तिगदितानां प्रकाशिकाः।
वाक्यन्यायोदधेः सारं गृहीत्वैव व्यवस्थिताः॥
\_\_\_\_\_\_\_\_\_\_\_\_\_\_\_
अथ तन्त्रदोषाः कथ्यन्ते ।
_________
दुर्लक्षणविहीनत्वमंगानामपि भूषणम्।
इत्यलंकारसंबन्धाद्दोषविज्ञानमीयते॥
अप्रसिद्धं दुष्प्रणीतमसुखारोह्यसंगतम्।
विरुद्धमतिविस्तारमतिसंक्षिप्तमेव च॥
सन्दिग्धं पुनरुक्तं च निष्प्रमाणाप्रयोजने।
असमाप्ताक्षरं तद्वद्व्याहतं स्यादपार्थकम्॥
अप्रसिद्धादयस्त्वेते तन्त्रदोषाचतुर्दश।
एतैरिह विहीनत्वात्तन्त्रदोषविवर्जितम्॥
एतत्सर्वं समालोक्य व्याख्यासु हृदि गृह्यताम्।
तन्त्रालंकारबन्धोऽयं तन्त्रयुक्तिविदां सताम्॥
हृदयान्तमलंकुर्याद्ह्रदयान्तान्मयोदितः।
अंभोधिमध्यादमृतं विधार्य
संजीवनात्मागमसाभिधानात्।
प्रीतिं वितन्वन् विबुधेषु वृष्ट्या
धन्वन्तरिर्भाति स नीलमेघः॥
वातगत्या स्थितिं कुर्वन् नीलमेघो महाकविः।
संजीवनामृतं सारं क्वचिद्वर्षतिन कचित्॥
वासव्यान्दिशि गोकर्णाद्योजनत्रितये महान्।
उष्टुरुर्नाम यो ग्रामःपण्डितैरभिमण्डितः॥
तत्राभवद्द्विजो नाम्ना भारद्वाजो भिषक्तमः।
मेधावी कीर्तिमांच्छ्रीमांस्कन्धत्रितयपारगः॥
दूष्यादीनां विभागज्ञः क्रियासिद्धो नृपप्रियः।
रोगा यन्नातिवर्तन्ते साध्याः साधुचिकित्सिताः॥
येन त्यक्ता न दृश्यन्ते शान्ताःक्वापि चिकित्सकैः।
अन्यैरशक्यास्तु पुनः शक्या यस्य भवन्त्यपि॥
एवमादिगुणोपेतो व्यपेताखिलकन्मषः।
आयुर्वेदान्वयी सर्वभिषजामेकनायकः॥
यस्तस्यास्ति सुतो विद्वान्नाम्ना नारायणो भिषक्।
भिषगार्यमिति माहुर्यं पुनर्भिषगादयः॥
अभिधानमंजरीं ता-
मास्वाद्यान्तर्मधुव्रतव्रातैः।
भिषगार्यो भिषगाख्यैः
कृतवान् धरणौ सकल्पतरुकल्पः॥
गोत्रे स वाहटादीनां गोत्रान्तरविलासिनाम्।
गात्रामयापहानां च शास्त्रामृतकरी? शुभे॥
नीलमेघोऽपि संभूतो भिषगार्यपरिष्कृते।
वाहटेनाष्टसाहस्रलोकैरत्रप्रदर्शिता॥
अष्टांगहृदयं हीति प्रपंचहृदयस्थितिः।
<MISSING_FIG href=”../books_images/U-IMG-1700063945image_6-removebg-preview.png”/>
^(१)लेशकल्पना।
______
लेशकल्पना नाम—अनुपदिष्टस्य विधेः कण्ठपाठेनयत्किंचित्सूत्रावयवान्तरमाश्रित्यार्थः कल्प्यते। यथा–नात्रशास्त्रेकालमृत्योरकालमृत्योर्वा किंचिल्लक्षणं प्रतीतम्, तत्तु लेशतोनुमीयते। कथमिति, यदा हि नियतकालमायुः क्षयं प्राप्नोति तदाहि रिष्टमुपपद्यते, न विषमापरिहारेण म्रियमाणानाम्। उक्तं हि—“भिषग्भेषजपानान्नगुरुमित्रद्विषश्च ये। वशगाःसर्वएवैते विज्ञेयाःसमवर्तिनः॥” इति। अत्र विकृतविज्ञानीये मित्रद्विषश्चेति योऽयंचशब्दः सोस्माच्छ्लोकात्पूर्वकानि यानि रिष्टानि यानिचोत्तराणि तानि सर्वाण्येव समुच्चिनोति। समवर्ती हि कालमृत्युः,इतरस्त्वसमवर्ती। अत एव च तन्त्रान्तराख्ये ग्रन्थे कालमृत्योरेव रिष्टोत्पत्तिर्नाकालमृत्योरिति स्वाभिप्रायप्रकाशनार्थं स एवतन्त्रान्तराचार्यः शकटोदाहरणगंगीकृत्योक्तवान्। तथाहि यथासमेऽपि पथि रथो वाह्यमानः स्वप्रमाणक्षये भंगपूर्वरूपाण्याप्नोति,तथा नियतायुषः स्वप्रमाणक्षये रिष्टसंभवः। यथा च स एवातिभाराक्रान्तत्वात् विषमपथाश्रितत्वाच्चाकालेऽपि क्षयमाप्नोति,
_______________________________________________________________________________________
१. अत्र तन्त्रगुणादिकं तन्त्रदोषं चोत्तवा पुनरनुबन्धरूपेण लेशकल्पनायाःकिंचिद्विवरणमपि लिखितं दृश्यते। तदप्यत्र प्रकाशयामः॥
_______________________________________________________________________________________
तथाऽनियतायुषो रिष्टोत्पत्तिमन्तरेण मृत्युः स्यात्। यदि पुनरनियतायुषोऽपि रिष्टोत्पत्तिपूर्वंमरणं कल्प्ये तदा वार्षिके षाण्मासिके वा रिष्टे समुत्पन्ने शुभहेतुयोगान्न मृत्युः स्यात्।अनियतायुषो हि सम्यगुपचारात्जीवितानुवृत्तिःविषमहेत्वपरिहारान्मृत्युश्च स्यात्। अत एव चानियतायुषोऽधिकृत्य रसायनान्युपदिष्टानि तद्योगाद्ध्ययं यद्बहून्यपि वर्षाणि जीवेत्।नियतायुषस्तु कालो वर्षशतात् परेण जीवितस्य न निर्द्दिष्टः।यथोक्तं शारीरे—“मरणं प्राणिनां दृष्टमायुःपुण्योभयक्षयात्।तयोरप्यक्षयाद्रिष्टं विषमापरिहारिणाम्॥” इति। तस्मादत्राविशेषोक्तावपि नियतायुष एव रिष्टोत्पत्तिपूर्वं मरणमिति निश्चितंस्यात्। यथा च “ऋतुचर्योनामाध्यायं व्याख्यास्यामः” इतिप्रतिज्ञायां षडृतुविशेषप्रतिपत्तिर्भवति, न तु “ऋतुस्तु द्वादशनिशा” इत्युक्तस्यर्तोः। “मनुष्या द्विविधाः प्रोक्ता नियतानियतायुषः। तयोरत्रानुमानाद्यैर्भेदं विद्याद्विचक्षणः॥ समवर्तीकालमृत्यू रिष्टं पूर्वोत्तरं स्पृशेत्। चशब्दयोगाद्विवृतावित्येषालेशकल्पना॥” इति तन्त्रालंकारभूतायामनेकाचार्यबहुमतायांलेशकल्पनाख्यायाम्। अस्यां तन्त्रयुक्त्यांसत्यामप्ययोगविदामस्माकमनुयोगाःसन्ति बहवः, कथमिति चेत्। ब्रूमः—“सर्वप्राणभृतां नित्यमायुर्युक्तिमपेक्षते” इत्यादि संग्रहोक्तौ “नियतस्यायुषो हेतुर्विपरीतस्य चापरा” इति प्रतिपादितत्वान्मध्यमाधमकर्मपरिणामस्त्वनियतायुष्ट्वमिति सिद्धं। नियता नियतायुषोः पुरुषयोरनियतायुरेव पूज्यतरः, यतः सम्यगुपचाराज्जीवितानुवृत्तिः। अनियतायुषोऽधिकृत्य रसायनान्युक्तानि ततः शताधिकानि बहूनि वर्षाण्यपि जीवेच्च। नियतायुस्तु शतवर्षजीवित एवस्यात्। तस्मादु(दार?भ)योर्युक्तिरिति न घटते। अपिच—
मरणंप्राणिनां दृष्टमित्यत्रापि, आयुषो नियतस्य परिग्रहःपुण्यशब्देनानियतस्य। अनियतायुषःक्षये रिष्टोत्पत्तिर्नेत्यत्र प्रतिपादितं तयोरित्युक्तत्वात्। विषमापरिहारेण म्रियमाणस्य नियतायुषोऽपिन रिष्टोत्पत्तिः। स्वप्रमाणक्षय एव रिष्टसंभवश्चात्राभिहितः।अस्मिंस्तुरीये युगे “अशीतिका विपद्यन्ते केचित् सप्ततिकानराः। परमायुःस्थितं षष्टिस्तदप्यस्य न निश्चितम्॥” इतिशिवधर्मोत्तरोक्तेः पुराणवादोऽप्यत्रपरिग्राह्य एव बहुश्रुतः कालवेदीत्युक्तत्वात्। ततः स्वप्रमाणेऽपि संशयः। आयुषो नियतस्यापि द्विविधत्वं रोगस्यापि रिष्टस्यापि श्वासस्यापि मृत्योरपि। तस्मात् पुष्पं फलस्य धूमोग्नेरित्यादि मृत्युज्ञानसाधनम्।तत्रापि, अरिष्टं नास्ति मरणमित्युक्तं रिष्टोत्पत्तिमन्तरेण मृत्युःस्यादित्यनयोः परस्परविरोधः। यदि पुनरपमृत्यौ रिष्टोत्पत्तिर्नास्ति। तर्हि तत्परिज्ञानं कथं स्यात्। अपमृत्युपरिहारार्थःखल्वायुर्वेदः।
साक्षान्मृत्यौ हि रिष्टोद्भव इति गदितोऽ-
त्रापमृत्यौ न रिष्टं
रिष्टोनस्सोऽपमृत्युस्त्वगदविधिगुणैः
सन्निवार्येत चैव।
रिष्टाभावेन मृत्यौ भवति तदगदं-
कारदोषो महीया-
नायुर्वेदोऽपमृत्योर्जेय इह विहित-
श्चिन्तनीयोऽयमर्थः॥
दोषोत्थे खलु निर्द्दोषे ज्ञानपूर्वक्रियागुणैः।
अपमृत्यौ परीहारो वैद्यसिद्धान्त ईरितः॥
भूपद्विष्टादिदोषप्रसर इह भवेद्विघ्नभूतो गदानां।
रिष्टाभावेऽपि नूनं परिगणितमिदं नैव मूढैर्भिषग्भिः।
रिष्टाभासच्छलोक्त्या मृतिदिनमतिवाह्याथ रिष्टप्रशंसा
मूढैर्गृह्येत चान्यैर्व्यवहृतिपदवी सा न वैद्यस्य धर्मः॥
अस्मिन् कलौ कालमृत्योः प्रागेव मृतिसंगमात्।
रिष्टं न विद्यते पाद्गुणाभावादपायिता॥
<MISSING_FIG href=”../books_images/U-IMG-1700063803image_6-removebg-preview.png”/>
]