[[सुश्रुतसंहिता Source: EB]]
[
सुश्रुत संहिता
Sushruta Saṁhitā
सुत्रस्थान
Sūtra Sthāna
Chapter 1 2 3 4 5 6 7 8 9 10 11 12 13 14
15 16 17 18 19 20 21 22 23
24 25 26 27 28 29 30 31 32 33 34 35 36 37
38 39 40 41 42 43 44 45 46
सुत्रस्थान
प्रथमोऽध्यायः
अथातो वेदोत्पत्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अथ खलु भगवन्तममरवरमृषिगणपरिवृतमाश्रमस्थं काशिराजं दिवोदासं धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावतकरवीर्य गोपुररक्षितसुश्रुतप्रभृतय ऊचुः ३
भगवन् शारीरमानसागन्तुभिर्व्याधिभिर्विविधवेदनाभिघातोपद्रुतान् सनाथानप्यनाथवद्विचेष्टमानान् विक्रोशतश्च मानवानभिसमीक्ष्यमनसि नः पीडा भवति तेषां सुखैषिणां रोगोपशमार्थमात्मनश्च प्राणयात्रार्थं प्रजाहितहेतोरायुर्वेदं श्रोतुमिच्छाम इहोपदिश्यमानम् अत्रायत्तमैहिकमा मुष्मिकं च श्रेयः तद्भगवन्तमुपपन्नाः स्मः शिष्यत्वेनेति ४
तानुवाच भगवान् स्वागतं वः सर्व एवामीमांस्या अध्याप्याश्च भवन्तो वत्साः ५
इह खल्वायुर्वेदं नामोपाङ्गमथर्ववेदस्यानुत्पाद्यैवपरजाः श्लोकशत सहस्रमध्यायसहस्रं च कृतवान् स्वयम्भूः ततोऽल्पायुष्ट्वमल्पमेध स्त्वं चालोक्य नराणां भूयोऽष्टधा प्रणीतवान् ६
यद्यथा शल्यं शालाक्यं कायचिकित्सा भूतविद्या कौमारभृत्यम् अगदतन्त्रं रसायनतन्त्रं वाजीकरणतन्त्रमिति ७
अथास्य प्रत्यङ्गलक्षणसमासः तत्र शल्यं नाम विविधतृणकाष्ठपाषाणपांशुलोहलोष्टासथिबालनख पूयास्रावदुष्टव्रणान्तर्गर्भ शल्योद्धरणार्थं यन्त्रशस्त्रक्षाराग्निप्रणिधानव्रणविनिश्चयार्थं च १
शालाक्यं नामोर्ध्वजत्रुगतानां श्रवणनयनवदनघ्राणादिसंश्रितानां व्याधीनामुपशमनार्थम् २
कायचिकित्सा नाम सर्वाङ्गसंश्रितानां व्याधीनां ज्वररक्तपित्तशोषोन्मादापस्मारकुष्ठमेहातिसारादीनामुपशमनार्थम् ३
भूतविद्या नाम देवासुरगन्धर्वयक्षरक्षः पितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्मबलिहरणादिग्रहोपशमनार्थम् ४
कौमारभृत्यं नाम कुमारभरणधात्रीक्षीरदोषसंशोधनार्थंदुष्टस्तन्यग्रहसमुत्थानां च व्याधीनामुपशमनार्थम् ५
अगदतन्त्रं नाम सर्पकीटलूतामूषकादिदष्टविषव्यञ्जनार्थं विविधविषसंयोगोपशमनार्थं च ६
रसायनतन्त्रं नाम वयःस्थापनमायुर्मेधा वलकरं रोगापहरणसमर्थं च ७
वाजीकरणतन्त्रं नामाल्पदुष्टक्षीणविशुष्करेतसामाप्यायनप्रसादोपचयजननिमित्तं प्रहर्षजननार्थं च ८
एवमयमायुर्वेदोऽष्टाङ्ग उपदिश्यते अत्र कस्मै किमुच्यतामिति ९
त ऊचुःअस्माकं सर्वेषामेव शल्यज्ञानं मूलं कृत्वोपदिशतु भगवानिति १०
स उवाचैवमस्त्विति ११
त ऊचुर्भूयोऽपि भगवन्तमस्माकमेकमतीनां मतमभिसमीक्ष्य सुश्रुतो भगवन्तं प्रक्ष्यति अस्मै चोपदिश्यमानं वयमप्युपधारयिष्यामः १२
स उवाचैवमस्त्विति १३
वत्स सुश्रुत इह खल्वायुर्वेदप्रयोजनं व्याध्युपसृष्टानां व्याधिपरिमोक्षः स्व स्थस्य रक्षणं च १४
आयुरस्मिन् विद्यते अनेन वाऽयुर्विन्दन्ति इत्यायुर्वेदः १५
तस्याङ्गवरमाद्यं प्रत्यक्षागमानुमानोपमानैरविरुद्धमुच्यमानमुपधारय १६
एतद्ध्य्ङ्गं प्रथमं प्रागभिघातव्रणसंरोहाद्यज्ञशिरःसन्धानाच्च श्रूयतेहि यथा रुद्रेण यज्ञस्य शिरश्छिन्नमिति ततो देवा अश्विनावभिगम्योचुःभगवन्तौ नः श्रेष्ठतमौ युवां भविष्यथः भवद्भ्यां यज्ञस्य शिरः सन्धातव्यमिति तावूचतुरेवमस्त्विति अथतयोरर्थे देवा इन्द्रं यज्ञभागेन प्रासादयन् ताभ्यां यज्ञस्य शिरः संहितम् इति १७
अष्टास्वपि चायुर्वेदतन्त्रेष्वेतदेवाधिकमभिमतम् आशुक्रिया करणाद्यन्त्रशस्त्रक्षाराग्निप्रणिधानात् सर्वतन्त्रसामान्याच्च १८
तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्तिकरं चेति १९
ब्रह्मा प्रोवाच ततः प्रजापतिरधिजगे तस्मादश्विनौ अश्विभ्यामिन्द्रः इन्द्रा दहं मया त्विह प्रदेयमर्थिभ्यः प्रजाहितहेतोः २०
भवति चात्र अहं हि धन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम् शल्याङ्गमङ्गैरपरैरुपेतं प्राप्तोऽस्मि गां भूय इहोपदेष्टुम् २१
अस्मिञ्छास्त्रे पञ्चमहाभूतशरीरिसमवायः पुरुष इत्युच्यते तस्मिन् क्रिया सोऽधिष्ठानं कस्मात् लोकस्य द्वैविध्यात् लोको हि द्विविधः स्थावरो जङ्गमश्च द्विविधात्मक एवाग्नेयः सौम्यश्च तद्भूयस्त्वात् पञ्चात्मको वा तत्र चतुर्विधो भूतग्रामःसंस्वेदजजरायुजाण्डजोद्भिज्जसंज्ञः तत्र पुरुषः प्रधानं तस्योपकरणमन्यत् तस्मात् पुरुषोऽधिष्ठानम् २२
तद्दुःखसंयोगा व्याधय उच्यन्ते २३
ते चतुर्विधाःआगन्तवः शारीराः मानसाः स्वाभाविकाश्चेति २४
तेषामागन्तवोऽभिघातनिमित्ताः १
शारीरास्त्वन्नपानमूलावातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः २
मानसास्तुक्रोधशोकभयहर्षविषादेर्ष्याभ्यसूया दैन्यमात्सर्यकामलोभप्रभृतयइच्छाद्वेषभेदैर्भवन्ति ३
स्वाभाविकास्तु क्षुत्पिपासाजरामृत्युनिद्रा प्रकृभिऋतियः ४ २५
त एते मनःशरीराधिष्ठानाः २६
तेषां संशोधनसंशमनाहाराचाराःसम्यक्प्रयुक्ता निग्रहहेतवः २७
प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च स षट्सु रसेष्वायत्तः रसाः पुनर्द्रव्याश्रयाः द्रव्याणि पुनरोषधयः तास्तु द्विविधाः स्थावरा जङ्गमाश्च २८
तासां स्थावराश्चतुर्विधाःवनस्पतयो वृक्षा वीरुध ओषधय इति तासु अपुष्पाः फलवन्तो वनस्पतयः पुष्पफलवन्तो वृक्षाः प्रतानवत्यः स्तम्बिन्यश्च वीरुधः फलपाकनिष्ठआ ओषधय इति २९
जङ्गमाः खल्वपि चतुर्विधाःजरायुजाण्डजस्वेदजोद्भिज्जाः तत्र पशुमनुष्यव्यालादयो जरायुजाः खगसर्पसरीसृपप्रभृतयोऽण्डजाः कृमिकीट पिपीलिकाप्रभृतयः स्वेदजाः इन्द्रगोपमण्डूकप्रभृतय उद्भिज्जाः ३०
तत्रस्थावरेभ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिर्यासस्वरसादयः प्रयोजनवन्तःजङ्गमेभ्यश्चर्मनखरोमरुधिरादयः ३१
पार्थिवाः सुवर्णरजतमणिमुक्तामनःशिलामृत्कपालादयः ३२
कालकृताः प्रवातनिवातातपच्छायाज्योत्स्नातमः शीतोष्णवर्षाहोरात्र पक्षमासर्त्वयनादयः संवत्सरविशेषाः ३३
त एते स्वभावत एव दोषाणां संचयप्रकोपप्रशमप्रतीकारहेतवः प्रयोजनवन्तश्च ३४
भवन्ति चात्र श्लोका शारीराणां विकाराणामेष वर्गश्चतुर्विधः प्रकोपे प्रशमे चैव हेतुरुक्तश्चिकित्सकैः ३५
आगन्तवस्तु ये रोगास्ते द्विधा निपतन्ति हि मनस्यन्ये शरीरेऽन्ये तेषां तु द्विविधा क्रिया ३६
शरीरपतितानां तु शारीरवदुपक्रमः मानसानां तु शब्दादिरिष्टो वर्गः सुखावहः ३७
एवमेतत् पुरुषो व्याधिरौषधं क्रियाकाल इति चतुष्टयं समासेन व्याख्यातम् तत्र पुरुषग्रहणात् तत्संभवद्रव्यसमूहो भूतादिरुक्त स्तदङ्गप्रत्यङ्गविकल्पाश्च त्वङ्मांसास्थिसिरास्नायुप्रभृतयः व्याधिग्रहणाद्वात पित्तकफशोणितसन्निपातवैषम्यनिमित्ताः सर्व एव व्याधयो व्याख्याताः औषधग्रहरणाद्द्र व्यरसगुणवीर्यविपाकानामादेशः क्रियाग्रहरणात् स्नेहादीनि च्छेद्यादीनि च कर्माणि व्याख्यातानि कालग्रहरणात् सर्वक्रियाकालानामादेशः ३८
भवति चात्र बीजं चिकित्सितस्यैतत्समासेन प्रकीर्तितम् सविंशमध्यायशतमस्य व्याख्या भविष्यति ३९
तच्च सविंशमध्यायशतं पञ्चसु स्थानेषु तत्र सूत्रनिदानशारीरचिकित्सित कल्पेष्वर्थवशात् संविभज्योत्तरे तन्त्रे शेषानर्थान्वक्ष्यामः ४०
भवति चात्र स्वयम्भुवा प्रोक्तमिदं सनातनं पठेद्धि यः काशिपतिप्रकाशितम् स पुण्यकर्मा भुवि पूजितो नृपैरसुक्षये शक्रसलोकतां व्रजेत् ४१
इति सुश्रुतसंहितायां सूत्रस्थाने वेदोत्पत्तिर्नाम प्रथमोऽध्यायः १
द्वितीयोऽध्यायः
अथातःशिष्योपनयनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
ब्राह्मणक्षत्रियवैश्यानामन्यतममन्वयवयः शीलशौर्यशौचाचारविनयशक्तिबल मेधाधृतिस्मृतिमतिप्रतिपत्तियुक्तं तनुजिह्वौष्ठदन्ताग्रमृजुवक्त्राक्षि नासं प्रसन्न चित्तवाक्चेष्टं क्लेशसहं च भिषक् शिष्यमुपनयेत् अतो विपरीतगुणं नोपनयेत् ३
उपनयनीयं तु ब्राह्मणं प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु प्रशस्तायां दिशि शुचौ समे देशे चतुर्हस्तं चतुरस्रं स्थण्डिलमुपलिप्य गोमयेन दर्भैः संस्तीर्य रत्नपुष्पलाजभक्तैर्देवताःपूजयित्वा विप्रान् भिषजश्च तत्रोल्लिख्याभ्युक्ष्य च दक्षिणतो ब्रह्माणं स्थापयित्वाऽग्निमुपसमाधाय खदिरपलाशदेवदारुबिल्वानां समिद्भिश्चतुर्णां वा क्षीरिवृक्षाणां न्यग्रोधो दुम्बराश्वत्थमधूकानां दधिमधुघृताक्ताभिर्दार्वीहौमिकेन विधिनासप्रणवा भिर्महाव्याहृतिभिः स्रुवेणाज्याहुतीर्जुहुयात् ततः प्रतिदैवतमृषींश्च स्वाहाकारं कुर्यात् शिष्यमपि कारयेत् ४
ब्राह्मणस्त्रयाणां वर्णानामुपनयनं कर्तुमर्हति राजन्यो द्वयस्यवैश्यो वैश्यस्यैवेति शूद्र मपि कुलगुणसंपन्नं मन्त्रवर्जमनुपनीतमध्यापयेदित्येके ५
ततोऽग्नि त्रिः परिणीयाग्निसाक्षिकं शिष्यं ब्रूयात् कामक्रोधलोभमोहमानाहङ्कारेर्ष्यापारुष्यपैशुन्यानृतालस्यायशस्यानि हित्वा नीचनखरोम्णा शुचिना कषायवाससा सत्यव्रतब्रह्मचर्याभिवादनतत्परेणावश्यं भवितव्यं मदनुमतस्थानगमनशयनासनभोजनाध्ययनपरेण भूत्वा मत्प्रियहितेषु वर्तितव्यम् अतोऽन्यथा ते वर्तमानस्याधर्मो भवति अफला च विद्या न च प्राकाश्यंप्राप्नोति ६
अहं वा त्वयि सम्यग्वर्तमाने यद्यन्यथादर्शी स्यामेनोभाग्भवेयमफलविद्यश्च ७
द्विजगुरु दरिद्र मित्रप्रव्रजितोपनत साध्वनाथाभ्युपगतानां चात्मबान्धवानामिव स्वभैषजैः प्रतिकर्तव्यम् एवं साधु भवति व्याधशाकुनिकपतितपापकारिणां च न प्रतिकर्तव्यम् एवं विद्या प्रकाशते मित्रयशोधर्मार्थकामांश्च प्राप्नोति ८
भवतश्चात्र कृष्णेऽष्टमी तन्निधनेऽहनी द्वे शुक्ले तथाऽप्येवमहर्द्विसन्ध्यम् अकालविद्युत्स्तनयित्नुघोषे स्वतन्त्रराष्ट्रक्षितिपव्यथासु ९
श्मशानयानाद्यतनाहवेषु महोत्सवौत्पातिकदर्शनेषु नाध्येयमन्येषु च येषु विप्रा नाधीयते नाशुचिना च नित्यम् १०
इति सुश्रुतसंहितायां सूत्रस्थाने शिष्योपनयनीयो नाम द्वितीयोऽध्यायः २
तृतीयोऽध्यायः
अथातोऽध्ययनसंप्रदानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
प्रागभिहितं सविंशमध्यायशतं पञ्चसु स्थानेषु तत्र सूत्रस्थानमध्यायाः षट्चत्वारिंशत्षोडश निदानानि दश शारीराणि चत्वारिंशच्चिकित्सितानि अष्टौ कल्पाः तदुत्तरं षट्षष्टिः ३
वेदोत्पत्तिः शिष्य नयस्तथाऽध्ययनदानिकः
प्रभाषणाग्रहरणा वृतुचर्याऽथ यान्त्रिकः ४
शस्त्रावचारणं योग्या विशिखा क्षारकल्पनम्
अग्निकर्म जलौकाख्यो ह्यध्यायो रक्तवर्णनम् ५
दोषधातुमलाद्यानां विज्ञानाध्याय एव च
कर्णव्यधामपक्वैषावालेपो व्रण्युपासनम् ६
हिताहितो व्रणप्रश्नो व्रणास्रावश्च यः पृथक्
कृत्याकृत्यविधिर्व्याधिसमुद्देशीय एव च ७
विनिश्चयः शस्त्रविधौ प्रनष्टज्ञानिकस्तथा
शल्योद्धृतिर्व्रणज्ञानं दूतस्वप्ननिदर्शनम् ८
पञ्चेन्द्रि यं तथा छाया स्वभावाद्वैकृतं तथा
अवारणो युक्तसेनीय आतुरक्रमभूमिकौ ९
मिश्रकाख्यो द्र व्यगणः संशुद्धौ शमने च यः
द्र व्यादीनां च विज्ञानं विशेषो द्र व्यगोऽपरः १०
रसज्ञानं वमनार्थमध्यायो रेचनाय च
द्र वद्र व्यविधिस्तद्वदन्नपानविधिस्तथा ११
सूचनात् सूत्रणाच्चैव सवनाच्चार्थसन्ततेः
षट्चत्वारिंशदध्यायं सूत्रस्थानं प्रचक्षते १२
वातव्याधिकमर्शांसि साश्मरिश्च भगन्दरः
कुष्ठमेहोदरं मूढो विद्र धिः परिसर्पणम् १३
ग्रन्थिवृद्धिक्षुद्र शूकभग्नाश्च मुखरोगिकम्
हेतुलक्षणनिर्देशान्निदानानीति षोडश १४
भूतचिन्ता रजःशुद्धिर्गर्भावक्रान्तिरेव च
व्याकरणं च गर्भस्य शरीरस्य च यत्स्मृतम् १५
प्रत्येकं मर्मनिर्देशः सिरावर्णनमेव च
सिराव्यधो धमनीनां गर्भिण्या व्याकृतिस्तथा १६
निर्दिष्टानि दशैतानि शारीराणि महर्षिणा
विज्ञानार्थं शरीरस्य भिषजां योगिनामपि १७
द्विव्रणीयो व्रणः सद्यो भग्नानां वातरोगिकम्
महावातिकमर्शांसि साश्मरिश्च भगन्दरः १८
कुष्ठानां महतां चापि मैहिकं पैडिकं तथा
मधुमेहचिकित्सा च तथा चोदरिणामपि १९
मूढगर्भचिकित्सा च विद्र धीनां विसर्पिणाम्
ग्रन्थिवृद्ध्य्पुदंशानां तथा च क्षुद्र रोगिणाम् २०
शूकदोषचिकित्सा च तथा च मुखरोगिणाम्
शोफस्यानागतानां च निषेधो मिश्रकं तथा २१
वाजीकरं च यत् क्षीणे सर्वाबाधशमोऽपि च
मेधायुष्करणं चापि स्वभावव्याधिवारणम् २२
निवृत्तसंतापकरं कीर्तितं च रसायनम्
स्नेहोपयौगिकः स्वेदो वमने सविरेचने २३
तयोर्व्यापच्चिकित्सा च नेत्रबस्तिविभागिकः
नेत्रबस्तिविपत्सिद्धिस्तथा चोत्तरबस्तिकः २४
निरूहक्रमसंज्ञश्च तथैवातुरसंज्ञकः
धूमनस्यविधिश्चान्त्यश्चत्वारिंशदिति स्मृताः २५
प्रायश्चित्तं प्रशमनं चिकित्सा शान्तिकर्म च
पर्यायास्तस्य निर्देशाच्चिकित्सास्थानमुच्यते २६
अन्नस्य रक्षा विज्ञानं स्थावरस्येतरस्य च
सर्पदष्टविषज्ञानं तस्यैव च चिकित्सितम् २७
दुन्दुभेर्मूषिकाणां च कीटानां कल्प एव च
अष्टौ कल्पाः समाख्याता विषभेषजकल्पनात् २८
अध्यायानां शतं विंशमेवमेतदुदीरितम्
अतः परं स्वनाम्नैव तन्त्रमुत्तरमुच्यते २९
अधिकृत्य कृतं यस्मात्तन्त्रमेतदुपद्र वान्
औपद्र विक इत्येष तस्याग्र्यत्वान्निरुच्यते ३०
सन्धौ वर्त्मनि शुक्ले च कृष्णे सर्वत्र दृष्टिषु
संविज्ञानार्थमध्याया गदानां तु प्रति प्रति ३१
चिकित्साप्रविभागीयो वाताभिष्यन्दवारणः
पैत्तस्य श्लैष्मिकस्यापि रौधिरस्य तथैव च ३२
लेख्यभेद्यनिषेधौ च छेद्यानां वर्त्मदृष्टिषु
क्रियाकल्पोऽभिघातश्च कर्णोत्थास्तच्चिकित्सितम् ३३
घ्राणोत्थानां च विज्ञानं तद्गदप्रतिषेधनम्
प्रतिश्यायनिषेधश्च शिरोगदविवेचनम् ३४
चिकित्सा तद्गदानां च शालाक्यं तन्त्रमुच्यते
नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम् ३५
अपस्मारशकुन्योश्च रेवत्याश्च पुनः पृथक्
पूतनायास्तथाऽन्धायाः शीतपूतनमण्डिका ३६
नैगमेषचिकित्सा च ग्रहोत्पत्तिः सयोनिजा
कुमारतन्त्रमित्येतच्छारीरेषु च कीर्तितम् ३७
ज्वरातिसारशोषाणां गुल्महृद्रो गिणामपि
पाण्डूनां रक्तपित्तस्य मूर्च्छायाः पानजाश्च ये ३८
तृष्णायाश्छर्दिहिक्कानां निषेधः श्वासकासयोः
स्वरभेदचिकित्सा च कृम्युदावर्तिनोः पृथक् ३९
विसूचिकारोचकयोर्मूत्राघातविकृच्छ्रयोः
इति कायचिकित्सायाः शेषमत्र प्रकीर्तितम् ४०
अमानुषनिषेधश्च तथाऽपस्मारिकोऽपरः
उन्मादप्रतिषेधश्च भूतविद्या निरुच्यते ४१
रसभेदाः स्वस्थवृत्तं युक्तयस्तान्त्रिकाश्च याः
दोषभेदा इति ज्ञेया अध्यायास्तन्त्रभूषणाः ४२
श्रेष्ठत्वादुत्तरं ह्येतत्तन्त्रमाहुर्महर्षयः
बह्वर्थसंग्रहाच्छ्रेष्ठमुत्तरं वाऽपि पश्चिमम् ४३
शालाक्यतन्त्रं कौमारं चिकित्सा कायिकी च या
भूतविद्येति चत्वारि तन्त्रे तूत्तरसंज्ञिते ४४
वाजीकरं चिकित्सासु रसायनविधिस्तथा
विषतन्त्रं पुनः कल्पाः शल्यज्ञानं समन्ततः ४५
इत्यष्टाङ्गमिदं तन्त्रमादिदेवप्रकाशितम्
विधिनाऽधीत्य युञ्जाना भवन्ति प्राणदा भुवि ४६
एतद्ध्य्वश्यमध्येयम् अधीत्य च कर्माप्यवश्यमुपा
सितव्यम् उभयज्ञो हि भिषग् राजार्हो भवति ४७
भवन्ति चात्र
यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः
स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम् ४८
यस्तु कर्मसु निष्णातो धार्ष्ट्याच्छास्त्रबहिष्कृतः
स सत्सु पूजां नाप्नोति वधं चर्च्छति राजतः ४९
उभावेतावनिपुणावसमर्थौ स्वकर्मणि
अर्धवेदधरावेतावेकपक्षाविव द्विजौ ५०
ओषध्योऽमृतकल्पास्तु शस्त्राशनिविषोपमाः
भवन्त्यज्ञैरुपहृतास्तस्मादेतान् विवर्जयेत् ५१
स्नेहादिष्वनभिज्ञो यश्छेद्यादिषु च कर्मसु
स निहन्ति जनं लोभात् कुवैद्यो नृपदोषतः ५२
यस्तूभयज्ञो मतिमान् स समर्थोऽथसाधने
आहवे कर्म निर्वोढुं द्विचक्रः स्यन्दनो यथा ५३
अथ वत्स तदेतदध्येयं यथा तथोपधारय मया प्रोच्यमानं अथ शुचये कृतोत्तरासङ्गायाव्याकुलायोपस्थितायाध्यनकाले शिष्याय यथाशक्ति गुरुरुपदिशेत् पदं पादं श्लोकं वा ते चपदपादश्लोका भूयः क्रमेणानुसंधेयाः एवमेकैकशो घटयेदात्मना चानुपठेत् अद्रुतमविलम्बितमविशङ्कितमननुनासिकं सुव्यक्ताक्षरमपीडितवर्ण मक्षिभ्रुवौष्ठहस्तैरनभिनीतं सुसंस्कृतंनात्युच्चैर्नातिनीचैश्च स्वरैः पठेत् न चान्तरेण कश्चिद्व्रजेत् तयारधीयानयोः ५४
भवतश्चात्र शुचिर्गुरुपरो दक्षस्तन्द्रा निद्रा विवर्जितः
पठन्नेतेन विधिना शिष्यः शास्त्रान्तमाप्नुयात् ५५
वाक्सौष्ठवेऽथविज्ञाने प्रागल्भ्ये कर्मनैपुणे तदभ्यासे च सिद्धौ च यतेताध्ययनान्तगः ५६
इति सुश्रुतसंहितायां सूत्रस्थानेऽध्ययनसंप्रदानीयो नाम तृतीयोऽध्यायः ३
चतुर्थोऽध्यायः
अथातः प्रभाषणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अधिगतमप्यध्ययनमप्रभाषितमर्थतः खरस्य
चन्दनभार इव केवलं परिश्रमकरं भवति ३
भवति चात्र यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य एवं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवद्वहन्ति ४
तस्मात् सविंशमध्यायशतमनुपदपादश्लोकमनुवर्णयितव्यमनुश्रोतव्यं चकस्मात् सूक्ष्मा हि द्र व्यरसगुणवीर्यविपाकदोषधातु मलाशयमर्मसिरास्नायुसन्ध्यस्थिगर्भसंभवद्र व्यसमूहविभागास्तथा प्रनष्ट शल्योद्धरण व्रणविनिश्चयभर्नगविकल्पाः साध्ययाप्यप्रत्याख्येयता च विकाराणामेवमादयश्चान्ये विशेषाः सहस्रशो ये विचिन्त्यमाना विमलविपुलबुद्धेरपि बुद्धिमाकुलीकुर्युः किंपुनरल्पबुद्धेः तस्मादवश्यमनुपदपादश्लोकमनुवर्णयितव्यमनुश्रोतव्यं च ५
अन्यशास्त्रोपपन्नानांचार्थानामिहोपनीतानामर्थवशात्तेषांतद्विद्येभ्य एव व्याख्यानमनुश्रोतव्यं कस्मात् न ह्येकस्मिनशास्त्रे शक्यः सर्वशास्त्राणामवरोधः कर्तुम् ६
भवन्ति चात्र एकं शास्त्रमधीयानो न विद्याच्छास्त्रनिश्चयम् तस्माद्बहुश्रुतः शास्त्रं विजानीयाच्चिकित्सकः ७
शास्त्रं गुरुमुखोद्गीर्णमादायोपास्य चासकृत् यः कर्म कुरुते वैद्यः स वैद्योऽन्ये तु तस्कराः ८
औपधेनवमौरभ्रं सौश्रुतं पौष्कलावतम् शेषाणां शल्यतन्त्राणां मूलान्येतानि निर्दिशेत् ९
इति सुश्रुतसंहितायां सूत्रस्थाने प्रभाषणीयोनाम चतुर्थोऽध्यायः ४
पञ्चमोऽध्यायः
अथातोऽग्रोपहरणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
त्रिविधं कर्म पूर्वकर्म प्रधानकर्म पश्चा त्कर्मेति तद्व्याधिं प्रत्युपदेक्ष्यामः ३
अस्य तु शास्त्रस्य शस्त्रकर्मप्राधान्याच्छस्त्रकर्मैवतावत् पूर्वमुपदेक्ष्यामस्तत्सम्भारांश्च ४
तच्च शस्त्रकर्माष्टविधं तद्यथाछेद्यं भेद्यं लेख्यं वेध्यम् एष्यम् आहार्यं विस्राव्यं सीव्यमिति ५
अतोऽन्यतमं कर्म चिकीर्षता वैद्येन पूर्वमेवोपकल्पयितव्यानि भवन्ति तद्यथा यन्त्रशस्त्रक्षाराग्निशलाकाशृङ्गजलौकालाबूजाम्ब वौष्ठपिचुप्रोतसूत्रपत्रपट्टमधुघृत वसापयस्तैलतर्पणकषायालेपन कल्कव्यजन शीतोषणोदककटाहादीनि परिकर्मिणश्च स्निग्धाः स्थिरा बलवन्तः ६
ततः प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु दध्यक्षतान्नपानरत्नैरग्निं विप्रान् भिषजश्चार्चयित्वा कृतबलिमङ्गलस्वस्तिवाचनं लघुभुक्तवन्तं प्राङ्मुखमातुर मुपवेश्य यन्त्रयित्वा प्रत्यङ्मुखो वैद्यो मर्मसिरास्नायुसन्ध्यस्थिधमनीः परिहरन् अनुलोमं शस्त्रं निदध्यादापूयदर्शनात् सकृदेवापहरेच्छस्त्रमाशु च महत्स्वपि च पाकेषु द्व्यङ्गुलान्तरं त्र् यङ्गुलान्तरं वा शस्त्रपदमुक्तम् ७
तत्रायतो विशालः समः सुविभक्तो निराश्रय इति व्रणगुणाः ८
भवतश्चात्र आयतश्च विशालश्च सुविभक्तो निराश्रयः प्राप्तकालकृतश्चापि व्रणः कर्मणि शस्यते ९
शौर्यमाशुक्रिया शस्त्रतैक्ष्ण्यमस्वेदवेपथु असंमोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते १०
एकेन वा व्रणेनाशुध्यमाने नाऽन्तरा बुद्ध्याऽवेक्ष्यापरान् व्रणान् कुर्यात् ११
भवति चात्र यतो यतो गतिं विद्यादुत्सङ्गो यत्र यत्र च तत्र तत्र व्रणं कुर्याद्यथा दोषो न तिष्ठति १२
तत्र भ्रूगण्डशङ्खललाटाक्षिपुटौष्ठदन्तवेष्टककक्षाकुक्षिवङ्क्षणेषु तिर्यक् छेद उक्तः १३
चिन्द्र मण्डलवच्छेदान् पाणिपादेषु कारयेत् अर्धचन्द्रा कृतींश्चापि गुदे मेढ्रे च बुद्धिमान् १४
अन्यथा तु सिरास्नायुच्छेदनम् अतिमात्रं वेदना चिराद्व्रणसंरोहो मांसकन्दीप्रादुर्भावश्चेति १५
मूढगर्भोदरार्शोऽश्मरीभगन्दरमुखरोगेष्वभुक्तवतः कर्म कुर्वीत १६
ततः शस्त्रमवचार्यशीताभिरद्भिरातुरमाश्वास्य समन्तात् परिपीड्याङ्गुल्या व्रणमभिमृद्यज्यिइ प्रक्षाल्य कषायेण प्रोतेनोदकमादाय तिलकल्कमधुसर्पिःप्रगाढामौषधयुक्तां नातिस्निग्धां नातिरूक्षां वर्तिं प्रणिदध्यात् ततः कल्केनाच्छाद्य घनां कवलिकां दत्त्वा वस्त्रपट्टेन बध्नीयात् वेदनारक्षोघ्नैर्धूपैर्धूपयेत् रक्षोघ्नैश्च मन्त्रै रक्षां कुर्वीत १७
ततो गुग्गुल्वगुरुसर्जरसवचागौरसर्षपचूर्णैर्लवणनिम्बपत्रविमिश्रैराज्ययुक्तैर्धूपयेत् आज्यशेषेण चास्य प्राणान् समालभेत १८
उदकुम्भाच्चापो गृहीत्वा प्रोक्षयन् रक्षाकर्म कुर्यात् तद्वक्ष्यामः १९
कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च
रक्षाकर्म करिष्यामि ब्रह्मा तदनुमन्यताम् २०
नागाः पिशाचा गन्धर्वाः पितरो यक्षराक्षसाः
अभिद्र वन्ति ये ये त्वां ब्रह्माद्या घ्नन्तु तान् सदा २१
पृथिव्यामन्तरिक्षे च ये चरन्ति निशाचराः
दिक्षु वास्तुनिवासाश्च पान्तु त्वां ते नमस्कृताः २२
पान्तु त्वां मुनयो ब्राह्म्या दिव्या राजर्षयस्तथा
पर्वताश्चैव नद्यश्च सर्वाः सर्वे च सागराः २३
अग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च
सोमो व्यानमपानं ते पर्जन्यः परिरक्षतु २४
उदानं विद्युतः पान्तु समानं स्तनयित्नवः
बलमिन्द्रो बलपतिर्मनुर्मन्ये मतिं तथा २५
कामांस्ते पान्तु गन्धर्वाः सत्त्वमिन्द्रो ऽभिरक्षतु
प्रज्ञां ते वरुणो राजा समुद्रो नाभिमण्डलम् २६
चक्षुः सूर्यो दिशः श्रोत्रे चन्द्र माः पातु ते मनः
नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव २७
रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा
आकाशं खानि ते पान्तु देहं तव वसुन्धरा २८
वैश्वानरः शिरः पातु विष्णुस्तव पराक्रमम्
पौरुषं पुरुषश्रेष्ठो ब्रह्माऽत्मानं ध्रुवो भ्रुवौ २९
एता देहे विशेषेण तव नित्या हि देवताः
एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ३०
स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश्च कुर्वताम् स्विस्ति ते चन्द्र सूर्यौ च स्वस्ति नारदपर्वतौ स्वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्र गाः ३१
पितामहकृता रक्षा स्वस्त्यायुर्वर्धतां तव
ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ३२
इति स्वाहा एतैर्वेदात्मकैर्मन्त्रैः कृत्याव्याधिविनाशनैः मयैवं कृतरक्षस्त्वं दीर्घमायुरवाप्नुहि ३३
ततः कृतरक्षमातुरमागारं प्रवेश्य आचारिकमादिशेत् ३४
ततस्तृतीयेऽहनि विमुच्यैवमेव बध्नीयाद्वस्त्र पट्टेन न चैनं त्वरमाणोऽपरेद्युर्मोक्षयेत् ३५
द्वितीयदिवसपरिमोक्षणाद्विग्रथितोव्रणश्चिरा दुपसंरोहति तीव्ररुजश्च भवति ३६
अत ऊर्ध्वं दोषकालबलादीनवेक्ष्य कषा यालेपनबन्धाहाराचारान् विदध्यात् ३७
न चैनं त्वरमाणः सान्तर्दोषं रोपयेत्स ह्यल्पेनाप्यप चारेणाभ्यन्तरमुत्सङ्गं कृत्वा भूयोऽपि विकरोति ३८
भवन्ति चात्र तस्मादन्तर्बहिश्चैव सुशुद्धं रोपयेद्व्रणम् रूढेऽप्यजीर्णव्यायामव्यवायादीन् विवर्जयेत् हर्षं क्रोधं भयं चापि यावत् स्थैर्योपसंभवात् ३९
हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत् त्र्! यहाद्द्व्यहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धिमान् ४०
अतिपातिषु रोगेषु नेच्छेद्विधिमिमं भिषक् प्रदीप्तागारवच्छीघ्रं तत्र कुर्यात् प्रतिक्रियाम् ४१
या वेदना शस्त्रनिपातजाता तीव्रा शरीरं प्रदुनोति जन्तोः धृतेन सा शान्तिमुपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेन ४२
इति सुश्रुतसंहितायां सूत्रस्थानेऽग्रोपहरणीयो नाम पञ्चमोऽध्यायः ५
षष्ठोऽध्यायः
अथात ऋतुचर्यमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कालो हि नाम भगवान्स्वयम्भुरनादिमध्यनिधनः अत्र रस व्यापत्संपत्ती जीवितमरणे च मनुष्याणामायत्ते स सूक्ष्मामपि कलां न लीयत इति कालः संकलयति कालयति वा भूतानीति कालः ३
तस्य संवत्सरात्मनो भगवानादित्यो गतिविशेषेणाक्षिनिमेषकाष्ठाकलामुहूर्ताहोरात्रपक्षमासर्त्वयनसंवत्सरयुगप्रविभागं करोति ४
तत्र लघ्वक्षरोच्चारणमात्रोऽक्षिनिमेषः पञ्चदशाक्षिनिमेषाः काष्ठा त्रिंशत्काष्ठाः कला विंशतिकलो मुहूर्तः कलादशभागश्च त्रिंशन्मुहूर्तमहोरात्रं पञ्चदशाहोरात्राणि पक्षः स च द्विविधः शुक्लः कृष्णश्च तौ मासः ५
तत्र माघादयो द्वादश मासाः द्विमासिकमृतुं कृत्वा षडृतवो भवन्ति ते शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताःतेषां तपस्तपस्यौ शिशिरः मधुमाधवौ वसन्तः शुचिशुक्रौ ग्रीष्मः नभोनभस्यौ वर्षाः इषोर्जौ शरत् सहःसहस्यौ हेमन्त इति ६
त एते शीतोष्णवर्षलक्षणाश्चन्द्रादित्ययोः कालविभागकरत्वादयने द्वे भवतोदक्षिणमुत्तरं च तयोर्दक्षिणं वर्षाशरद्धेमन्ताः तेषु भगवानाप्यायते सोमः अम्ललवणमधुराश्च रसा बलवन्तो भवन्ति उत्तरोत्तरं च सर्वप्राणिनां बलमभिवर्धते उत्तरं च शिशिर वसन्तग्रीष्माः तेषु भगवानाप्यायतेऽर्कः तिक्तकषायकटुकाश्च रसा बलवन्तो भवन्ति उत्तरोत्तरं च सर्वप्राणिनां बलमपहीयते ७
भवति चात्र शीतांशुः क्लेदयत्युर्वीं विवस्वान् शोषयत्यपि तावुभावपि संश्रित्य वायुः पालयति प्रजाः ८
अथ खल्वयने द्वे युगपत् संवत्सरो भवति ते तु पञ्च युगमिति संज्ञां लभन्ते स एष निमेषादिर्युगपर्यन्तः कालश्चक्रवत्परिवर्तमानः कालचक्रमित्युच्यत इत्येके ९
इह तु वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रावृषः षडृतवो भवन्ति दोषोपचयप्रकोपोपशमनिमित्तं ते तु भाद्रपदाद्येन द्विमासिकेन व्याख्याताः तद्यथा भाद्रपदाश्वयुजौ वर्षाः कार्तिकमार्गशीर्षौ शरत् पौषमाघौ हेमन्तः फाल्गुनचैत्रौ वसन्तः वैशाखज्येष्ठौ ग्रीष्मः आषाढश्रावणौ प्रावृडिति १०
तत्र वर्षास्वोषधयस्तरुण्योऽल्पवीर्या आपश्चाप्रशान्ताः क्षितिमलप्रायाः ता उपयुज्यमाना नभसि मेघावतते जलप्रक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातविष्टम्भिताग्नीनां विदह्यन्ते विदाहात्पित्तसंचयमापादयन्ति स संचयः शरदि प्रविरलमेघे वियत्युपशुष्यति पङ्केऽर्ककिरणप्रविलायितः पैत्तिकान् व्याधीञ्जनयति ता एवौषधयः कालपरिणामात् परिणतवीर्या बलवत्यो हेमन्ते भवन्त्यापश्च प्रशान्ताः स्निग्धा अत्यर्थं गुर्व्यश्च ता उपयुज्यमाना मन्दकिरणत्वाद्भानोः सतुषारपवनोपस्तम्भितदेहानां देहिनामविदग्धाः स्नेहाच्छैत्याद्गौरवादुपलेपाच्च श्लेष्मसंचयमापादयन्ति स संचयो वसन्तेऽर्करश्मिप्रविलायित ईषत्स्तब्धदेहानां देहिनां श्लैष्मिकान् व्याधीञ्जनयति ता एवौषधयो निदाघे निःसारा रूक्षा अतिमात्रं लघ्व्यो भवन्त्यापश्च ता उपयुज्यमानाः सूर्यप्रतापोपशोषितदेहानां देहिनां रौक्ष्याल्लघुत्वाच्च वायोः संचयमापादयन्ति स संचयः प्रावृषि चात्यर्थं जलोपक्लिन्नायां भूमौ क्लिन्नदेहानां देहिनां शीतवातवर्षेरितो वातिकान्व्याधीञ्जनयति एवमेष दोषाणां संचयप्रकोपहेतुरुक्तः ११
तत्र वर्षाहेमन्तग्रीष्मेषु संचितानां दोषाणां शरद्वसन्तप्रावृट्सु च प्रकुपितानां निर्हरणं कर्तव्यम् १२
तत्र पैत्तिकानां व्याधीनामुपशमो हेमन्ते श्लैष्मिकाणां निदाघे वातिकानां शरदि स्वभावत एव त एते संचयप्रकोपोपशमा व्याख्याताः १३
तत्र पूर्वाह्णे वसन्तस्य लिङ्गं मध्याह्ने ग्रीष्मस्य अपराह्णे प्रावृषः प्रदोषे वार्षिकं शारदमर्धरात्रे प्रत्युषसि हैमन्तमुपलक्षयेत् एवमहोरात्रमपिवर्षमिव शीतोष्णवर्षलक्षणं दोषोपचयप्रकोपोपशमैर्जानीयात् १४
तत्र अव्यापन्नेषु ऋतुष्वव्यापन्ना ओषधयो भवन्त्यापश्च ता उपयुज्यमानाः प्राणायुर्बलवीर्यौजस्कर्यो भवन्ति १५
तेषां पुनर्व्यापदोऽदृष्टकारिताः शीतोष्णवातवर्षाणि खलु विपरीतान्योषधीर्व्यापादयन्त्यपश्च १६
तासामुपयोगाद्विविधरोगप्रादुर्भावो मरको(णो) वा भवेदिति १७
तत्र अव्यापन्नानामोषधीनामपां चोपयोगः १८
कदाचिदव्यापन्नेष्वपि ऋतुषु कृत्याभिशापरक्षः क्रोधाधर्मैरुपध्वस्यन्ते जनपदाः विषौषधिपुष्पगन्धेन वा वायुनोपनीतेनाक्रम्यतेयो देशस्तत्र दोषप्रकृत्यविशेषेण कासश्वासवमथुप्रतिश्यायशिरोरुग्ज्वरैरुपतप्यन्ते ग्रहनक्षत्रचरितैर्वा गृहदारशयनासनयानवाहनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावैर्वा १९
तत्र स्थानपरित्यागशान्तिकर्मप्रायश्चित्तमङ्गलजपहोमोपहारेज्याञ्जलिनमस्कारतपोनियमदयादानदीक्षाभ्युपगम देवताब्राह्मणगुरुपरैर्भवितव्यम् एवं साधु भवति २०
अत ऊर्ध्वमव्यापन्नानामृतूनां लक्षणान्युपदेक्ष्यामः २१
वायुर्वात्युत्तरः शीतो रजोधूमाकुला दिशः
छन्नस्तुषारैः सविता हिमानद्धा जलाशयाः २२
दर्पिता ध्वाङ्क्षखङ्गाह्वमहिषोरभ्रकुञ्जराः
रोध्रप्रियङ्गुपुन्नागाः पुष्पिता हिमसाह्वये २३
शिशिरे शीतमधिकं वातवृष्ट्याकुला दिशः
शेषं हेमन्तवत् सर्वं विज्ञेयं लक्षणं बुधैः २४
सिद्धविद्याधरवधूचरणालक्तकाङ्किते
मलये चन्दनलतापरिष्वङ्गाधिवासिते २५
वाति कामिजनानन्दजननोऽनङ्गदीपनः
दम्पत्योर्मानभिदुरो वसन्ते दक्षिणोऽनिलः २६
दिशो वसन्ते विमलाः काननैरुपशोभिताः
किंशुकाम्भोजबकुलचूताशोकादिपुष्पितैः २७
कोकिलाषट्पदगणैरुपगीता मनोहराः
दक्षिणानिलसंवीताः सुमुखाः पल्लवोज्ज्वलाः २८
ग्रीष्मे तीक्ष्णांशुरादित्यो मारुतो नैरृतोऽसुखः
भूस्तप्ता सरितस्तन्व्यो दिशः प्रज्वलिता इव २९
भ्रान्तचक्राह्वयुगलाः पयःपानाकुला मृगाः
ध्वस्तवीरुत्तृणलता विपर्णाङ्कितपादपाः ३०
प्रावृष्यम्बरमानद्धं पश्चिमानिलकर्षितैः
अम्बुदैर्विद्युदुद्द्योतप्रस्रुतैस्तुमुलस्वनैः ३१
कोमलश्यामशष्पाढ्या शक्रगोपोज्ज्वला मही
कदम्बनीपकुटजसर्जकेतकिभूषिता ३२
तत्र वर्षासु नद्योऽम्भश्छन्नोखाततटद्रुमाः
वाप्यः प्रोत्फुल्लकुमुदनीलोत्पलविराजिताः ३३
भूरव्यक्तस्थलश्वभ्रा बहुशस्योपशोभिता
नातिगर्जत्स्रवन्मेघनिरुद्धार्कग्रहं नभः ३४
बभ्रुरुष्णः शरद्यर्कः श्वेताभ्रविमलं नभः
तथा सरांस्यम्बुरुहैर्भान्ति हंसांसघट्टितैः ३५
पङ्कशुष्कद्रुमाकीर्णा निम्नोन्नतसमेषु भूः
वाणसप्ताह्वबन्धूककाशासनविराजिता ३६
स्वगुणैरतियुक्तेषु विपरीतेषु वा पुनः
विषमेष्वपि वा दोषाः कुप्यन्त्यृतुषु देहिनाम् ३७
हरेद्वसन्ते श्लेष्माणं पित्तं शरदि निर्हरेत्
वर्षासु शमयेद्वायुं प्राग्विकारसमुच्छ्रयात् ३८
इति सुश्रुतसंहितायां सूत्रस्थाने ऋतुचर्या नाम षष्ठोऽध्यायः ६
सप्तमोऽध्यायः
अथातो यन्त्रविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
यन्त्रशतमेकोत्तरम् अत्र हस्तमेव प्रधानतमं यन्त्राणामवगच्छ किं कारणं यस्माद्धस्तादृते यन्त्राणामप्रवृत्तिरेव तदधीनत्वाद्यन्त्रकर्मणाम् ३
तत्र मनः शरीराबाधकराणि शल्यानि तेषामाहरणोपायो यन्त्राणि ४
तानि षट्प्रकाराणि तद्यथास्वस्तिकयन्त्राणि संदंशयन्त्राणि तालयन्त्राणि नाडीयन्त्राणि शलाकायन्त्राणि उपयन्त्राणि चेति ५
तत्र चतुर्विंशतिः स्वस्तिकयन्त्राणि द्वे संदंशयन्त्रे द्वे एव तालयन्त्रेविंशतिर्नाड्यः अष्टाविंशतिः शलाकाः पञ्चविंशतिरुपयन्त्राणि ६
तानि प्रायशो लौहानि भवन्ति तत्प्रतिरूपकाणि वा तदलाभे ७
तत्र नानाप्रकाराणां व्यालानां मृगपक्षिणां मुखैर्मुखानि यन्त्राणां प्रायशः सदृशानि तस्मात्तत्सारूप्यादागमादुपदेशादन्ययन्त्रदर्शना द्युक्तितश्च कारयेत् ८
समाहितानि यन्त्राणि खरश्लक्ष्णमुखानि च
सुदृढानि सुरूपाणि सुग्रहाणि च कारयेत् ९
तत्र स्वस्तिकयन्त्राणिअष्टादशाङ्गुलप्रमाणानि सिंहव्याघ्रवृकत रक्ष्वृक्षद्वीपिमार्जारशृगालमृगैरवारुककाककङ्ककुररचास भासशशघात्युलूक चिल्लिश्येनगृघ्रक्रौञ्चभृङ्गराजाञजलिकर्णावभञ्जन नन्दीमुख मुखानि मसूराकृतिभिः कीलैरवबद्धानि मूलेऽङकुशवदावृत्त वारङ्गाणि अस्थि विदष्टशल्योद्धरणार्थमुपदिश्यन्ते १०
सनिग्रहोऽनिग्रहश्च संदंशौ षोडशाङ्गुलौ भवतः त्वङ्मांससिरास्नायुगतशल्योद्धरणार्थमुपदिश्येते ११
तालयन्त्रे द्वादशाङ्गुले मत्स्यतालवदेकतालद्वितालके कर्णनासानाडीशल्यानामाहरणार्थम् १२
नाडीयन्त्राणिअनेकप्रकाराणि अनेकप्रयोजनानि एकतोमुखान्युभयतोमुखानि च तानि स्रोतोगतशल्योद्धरणार्थं रोगदर्शनार्थम् आचूषणार्थं क्रियासौकर्यार्थं चेति तानि स्रोतोद्वरापरिणाहानि यथायोगदीर्घाणि च तत्र भगन्दरार्शोव्रणबस्त्युत्तरबस्तिमूत्रवृद्धिदकोदरधूमनिरुद्धप्रकश सन्निरुद्धगुदयन्त्राण्यलाबूशृङ्गयन्त्राणि चोपरिष्टाद्वक्ष्यामः १३
शलाकायन्त्राण्यपि नानाप्रकाराणि नानाप्रयोजनानि यथायोगपरिणाहदीर्घाणि च तेषां गण्डूपदसर्पफणशरपुङ्खबडिशमुखे द्वे द्वे एषणव्यूहनचालनाहरणार्थमुपदिश्येते मसूरदलमात्रमुखे द्वए किंचिदानताग्रे स्रोतोगतशल्योद्धरणार्थं षट् कार्पासकृतोष्णीषाणि प्रमार्जनक्रियासु त्रीणि दर्व्याकृतीनि खल्लमुखानि क्षारौषधप्रणिधानार्थां त्रीण्यन्यानि जाम्बववदनानि त्रीण्यङ्कुशवदनानि षडेवाग्निकर्मस्वभिप्रेतानि नासार्बुदहरणार्थमेकं कोलास्थिदलमात्रमुखं खल्लतीक्ष्णौष्ठं अञ्जनार्थमेकं कलायपरिमण्डलमुभयतो मुकुलाग्रं मूत्रमार्गविशोधनार्थमेकं मालतीपुष्पवृन्ताग्रप्रमाणपरिमणडलमिति १४
उपयन्त्राण्यपि रज्जुवेणिकापट्टचर्मान्तवल्कललता वस्त्राष्ठीलाश्ममुद्गरपाणि पादतलाङ्गुलिजिह्वादन्तनख मुखबालाश्वकटकशाखा ष्ठीवनप्रवाहणहर्षयस्कान्तमयानि क्षाराग्निभेषजानि चेति १५
एतानि देहे सर्वस्मिन् देहस्यावयवे तथा
संधौ कोष्ठे धमन्यां च यथायोगं प्रयोजयेत् १६
यन्त्रकर्माणितु निर्घातनपूरणबन्धनव्यूहनवर्तनचालनववर्तनविवरण पीडनमार्गविशोधनविकर्षणाहरणाञ्छनोन्नमनविनमन भञ्जनोन्मथना चूषणैषणदारणर्जूकरणप्रक्षालनप्रधमनप्रमार्जनानिचतुर्विंशतिः १७
स्वबुद्ध्या चापि विभजेद्यन्त्रकर्माणि बुद्धिमान्
असंख्येयविकल्पत्वाच्छल्यानामिति निश्चयः १८
तत्र अतिस्थूलम् असारम् अतिदीर्घम् अतिह्रस्वम् अग्राहि विषमग्राहि वक्रं शिथिलम् अत्युन्नतम् मृदुकीलं मृदुमुखं मृदुपाशम् इति द्वादश यन्त्रदोषाः १९
एतैर्दोषैर्विनिर्मुक्तं यन्त्रमष्टादशाङ्गुलम् प्रशस्तं भिषजा ज्ञेयं तद्धि कर्मसु योजयेत् २०
दृश्यं सिंहमुखाद्यैस्तु गूढं कङ्कमुखादिभिः निर्हरेत शनैः शल्यं शास्त्रयुक्तिव्यपेक्षया २१
निवर्तते साध्ववगाहते च शल्यं निगृह्योद्धरते च यस्मात् यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधिकारि चैव २२
इति सुश्रुतसंहितायां सूत्रस्थाने यन्त्रविधिर्नाम सप्तमोऽध्यायः ७
अष्टमोऽध्यायः
अथातः शस्त्रावचारणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
विंशतिः शस्त्राणि तद्यथा मण्डलाग्रकरपत्रवृद्धिपत्रनखशस्त्रमुद्रि कोत्पलपत्रकार्ध धारसूचिकुशपत्राटी मुखशरारिमुखान्त र्मुखत्रि कूर्चककुठारिकाव्रीहिमुखारावेतसपत्रकबडिशदन्तशङ्क्वेषण्य इति ३
तत्र मण्डलाग्रकरपत्रे स्यातां छेदने लेखने च वृद्धिपत्रनखशस्त्रमुद्रि कोत्पलपत्रकार्धधाराणि छेदने भेदने च सूचीकुशपत्राटीटिआमिउखशरारिमुखान्तर्मुखत्रिकूर्चकानि विस्रावणे कुठारिकाव्रीहिमुखारावेतसपत्रकाणि व्यधने सूची च बडिशं दन्तशङ्कुश्चाहरणे एषण्येषणे आनुलोम्ये च सूच्यः सीवने इत्यष्टविधेकर्मण्युपयोगः शस्त्राणां व्याख्यातः ४
तेषामथ यथायोगं ग्रहणसमासोपायः कर्मसुवक्ष्यतेतत्र वृद्धिपत्रंवृन्तफलसाधारणे भागे गृह्णीयात् भेदनान्येवं सर्वाणि वृद्धिपत्रंमण्डलाग्रं च किंचिदुत्तानेन पाणिना लेखने बहुशोऽवचार्यंवृन्ताग्रे विस्रावणानि विशेषेण तु बालवृद्धसुकुमारभीरुनारीणांराज्ञां राजमापिउ!त्रिआ!णां च त्रिकूर्चकेन विस्रावयेत् तलप्रच्छादितवृन्तमङ्गुष्ठप्रदेशिनीभ्यां व्रीहिमुखं कुठारिकां वामहस्तन्यस्तामितरहस्तमध्यमाङ्गुल्याऽङगुष्ठविष्टब्धयाऽभिहन्यात् आराकरपत्रैषण्यो मूले शेषाणि तु यथायोगं गृह्णीयात् ५
तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ६
तत्र नखशस्त्रैषण्यावष्टाङ्गुले सूच्यो वक्ष्यन्ते प्रिदेशिन्यग्रपर्वप्रदेशप्रमाणा मुद्रि का दशाङ्गुला शरारिमुखी सा च कर्तरीति कथ्यते शेषाणि तु षडङ्गुलानि ७
तानि सुग्रहाणि सुलोहानि सुधाराणि सुरूपाणि सुसमाहितमुखाग्राणि अकरालानि चेतिशस्त्रसंपत् ८
तत्र वक्रं कुण्ठं खण्डं खरधारम् अतिस्थूलम् अत्यल्पम् अतिदीर्घम् अतिह्रस्वम् इत्यष्टौ शस्त्रदोषाः अतो विपरीतगुणमाददीत अन्यत्र करपत्रात् तद्धि खरधारमस्थिच्छेदनार्थम् ९
तत्र धारा भेदनानां मासूरी लेखनानामर्धमासूरी व्यधनानां विस्रावणानां च कैशिकी छेदनानामर्धकैशिकीति १०
वडिशं दन्तशङ्कुश्चानताग्रे तीक्ष्णकण्टकप्रथम यवपत्रमुख्येषणी गिण्डूपदाकारमुखी च ११
तेषां पायना त्रिविधा क्षारोदकतैलेषु तत्र क्षारपायितं शरशल्यास्थिच्छेदनेषु उदकपायितं मांसच्छेदनभेदनपाटनेषु तैलपायितं सिराव्यधनस्नायुच्छेदनेषु १२
तेषां निशानार्थं श्लक्ष्णशिला माषवर्णा धारासंस्थापनार्थं शाल्मलीफलकमिति १३
भवति चात्र यदा सुनिशितं शस्त्रं रोमच्छेदि सुसंस्थितम् सुगृहीतं प्रमाणेन तदा कर्मसु योजयेत् १४
अनुशस्त्राणि तु त्वक्सारस्फटिककाचकुरुविन्दजलौकोग्निक्षा रनखगोजीशेफालिकाशाकपत्रकरीरबालाङ्गुलय इति १५
शिशूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत्
त्वक्सारादिचतुर्वर्गं छेद्ये भेद्ये च बुद्धिमान् १६
आहार्यच्छेद्यभेद्येषु नखं शक्येषु योजयेत्
विधिः प्रवक्ष्यते पश्चात् क्षारवह्निजलौकसाम् १७
ये स्युर्मुखगता रोगा नेत्रवर्त्मगताश्च ये
गोजीशेफालिकाशाकपत्रैर्विस्रावयेत्तु तान् १८
एष्येष्वेषण्यलाभे तु बालाङ्गुल्यङ्कुरा हिताः
शस्त्राण्येतानि मतिमान् शुद्धशैक्यायसानि तु
कारयेत् करणप्राप्तं कर्मारं कर्मकोविदम् १९
प्रयोगज्ञस्य वैद्यस्य सिद्धिर्भवति नित्यशः
तस्मात् परिचयं कुर्याच्छस्त्राणां ग्रहणे सदा २०
इति सुश्रुतसंहितायां सूत्रस्थाने शस्त्रावचारणीयो नामाष्टमोऽध्यायः ८
नवमोऽध्यायः
अथातो योग्यासूत्रीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अधिगतसर्वशास्त्रार्थमपि शिष्यं योग्यां कारयेत्
स्नेहादिषु छेद्यादिषु च कर्मपथमुपदिशेत्
सुबहुश्रुतोऽप्यकृतयोग्यः कर्मस्वयोग्यो भवति ३
तत्र पुष्पफलालाबूकालिन्दकत्रपुसैर्वारुकर्कारुकप्रभृतिषु छेद्यविशेषान् दर्शयेत् उत्कर्तनापकर्तनानि चोपदिशेत् दृतिबस्ति प्रसेवकप्रभृतिषूदकपङ्कपूर्णेषु भेद्ययोग्यां सरोम्णि चर्मण्यातते लेख्यस्य मृतपशुसिरासूत्पलनालेषु च वेध्यस्य घुणोपहत काष्ठवेणुनलनालीशुष्कालाबूमुखेष्वेष्यस्य पनसबिम्बीबिल्व फलमज्जमृतपशुदन्तेष्वाहार्यस्य मधूच्छिष्टोपलिप्ते शाल्मलीफलके विस्राव्यस्य सूक्ष्मघनवस्त्रान्तयोर्मृदुचर्मानतयोश्च सीव्यस्य पुस्तमयपुरुषाङ्गप्रत्यङ्गविशेषेषु बन्धनयोग्यां मृदुषु मांसखण्डेष्वग्नि क्षारयोग्यां मृदुचर्ममांसपेशीषूत्पलनालेषु च कर्णसन्धिबन्धयोग्याम् उदकपूर्णघटपार्श्वस्रोतस्यलाबूमुखादिषु च नेत्रप्रणिधानवस्तिव्रणबस्तिपीडनयोग्यामिति ४
भवतश्चात्र एवमादिषु मेधावी योग्यार्हेषु यथाविधि द्र व्येषु योग्यां कुर्वाणो न प्रमुह्यति कर्मसु ५
तस्मात् कौशलमन्विच्छन् शस्त्रक्षाराग्निकर्मसु
यस्य यत्रेह साधर्म्यं तत्र योग्यां समाचरेत् ६
इति सुश्रुतसंहितायां सूत्रस्थाने योग्यासूत्रीयो नाम नवमोऽध्यायः ९
दशमोऽध्यायः
अथातो विशिखानुप्रवेशनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अधिगततन्त्रेणोपासिततन्त्रार्थेन दृष्टकर्मणा कृतयोग्येन शास्त्रं निगदता राजानुज्ञातेन नीचनखरोम्णा शुचिना शुक्लवस्त्रपरिहितेन छत्रवता दण्डहस्तेन सोपानत्केनानुद्धतवेशेन सुमनसा कल्याणाभिव्याहारेणाकुहकेन बन्धुभूतेन भूतानां सुसहायवता वैद्येनविशिखाऽनुप्रवेष्टव्या ३
ततो दूतनिमित्तशकुनमङ्गलानुलोम्येनातुरगृहमभिगम्य उपविश्यआतुरमभिपश्येत् स्पृशेत् पृच्छेच्च त्रिभिरेतैर्विज्ञानोपायै रोगाः प्रायशोवेदितव्या इत्येके तत्तु न सम्यक् षड्विधो हि रोगाणांविज्ञानोपायः तद्यथापञ्चभिः श्रोत्रादिभिः प्रश्नेन चेति ४
तत्र श्रोत्रेन्द्रि यविज्ञेया विशेषा रोगेषु व्रणास्रावविज्ञानीयादिषु वक्ष्यन्तेतत्र सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छति इत्येवमादयः स्पर्शनेन्द्रि यविज्ञेयाः शीतोष्णश्लक्ष्ण कर्कशमृदुकठिनत्वादयःस्पिर्शविशेषाज्विरशोफादिषु चक्षुरि न्द्रि यविज्ञेयाः शरीरोपचयापचयायुर्लक्षणबलवर्ण विकारादयःरसनेन्द्रि यविज्ञेयाः प्रमेहादिषु रसविशेषाः घ्राणेन्द्रि यविज्ञेयाअरिष्टलिङ्गादिषु व्रणानामव्रणानां च गन्धविशेषाः प्रश्नेन चविजानीयाद्देशं कालं जातिं सात्म्यमातङ्कसमुत्पत्तिं वेदनासमुच्छ्रायं बलमन्तरग्निं वातमूत्रपुरीषाणां प्रवृत्तिमप्रवृत्तिं कालप्रकर्षादींश्च विशेषान् आत्मसदृशेषु विज्ञानाभ्युपायेषु तत्स्थानीयैर्जानीयात् ५
एवमभिसमीक्ष्य साध्यान् साधयेत् याप्यान् यापयेत् असाध्यान्नैवोपक्रमेत परिसंवत्सरोत्थितांश्च विकारान्प्रायशो वर्जयेत् ६
भवति चात्र मिथ्यादृष्टा विकारा हि दुराख्यातास्तथैव च तथा दुष्परिमृष्टाश्च मोहयेयुश्चिकित्सकम् ७
तत्र साध्या अपि व्याधयः प्रायेणैषां दुश्चिकित्स्यतमा भवन्ति तद्यथा श्रोत्रियनृपतिस्त्रीबालवृद्ध भीरुराजसेवककितवदुर्बलवैद्यविदग्धव्याधिगोपकदरिद्र कृपणक्रोधनानाम-नात्मवतामनाथानां च एवं निरूप्य चिकित्सां कुर्वन् धर्मार्थकामयशांसि प्राप्नोति ८
भवति चात्र स्त्रीभिः सहास्यां संवासं परिहासं च वर्जयेत् दत्तं च ताभ्यो नादेयमन्नादन्यद्भिषग्वरैः ९
इति सुश्रुतसंहितायां सूत्रस्थाने विशिखानुप्रवेशनीयो नाम दशमोऽध्यायः १०
एकादशोऽध्यायः
अथातः क्षारपाकविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शस्त्रानुशस्त्रेभ्यः क्षारः प्रधानतमः छेद्यभेद्यलेख्यकरणात्त्रिदोषघ्नत्वाद्विशेषक्रियावचारणाच्च ३
तत्र क्षरणात् क्षणनाद्वा क्षारः ४
नानौषधिसमवायात्त्रिदोषघ्नः शुक्लत्वात् सौम्यः तस्य सौम्यस्यापि सतो दहनपचनदारणादिशक्तिरविरुद्धा आग्नेयौषधिगुणभूयिष्ठत्वात् कटुक उष्णस्तीक्ष्णः पाचनओ विलयनः शोधनो रोपणः शोषणः स्तम्भनो लेखनः कृम्यामकफकुष्ठविषमेदसामुपहन्तापुंस्त्वस्य चातिसेवितः ५
स द्विविधः प्रतिसारणीयः पानीयश्च ६
तत्र प्रतिसारणीयः कुष्ठकिटिभदद्रुमण्डलकिलासभगन्दरार्बुदार्शोदुष्ट व्रणनाडीचर्मकीलतिलकालकन्यच्छव्यङ्गमशकबाह्यविद्र धिकृमिविषादिषूपदिश्यते सप्तसु च मुखरोगेषूपजिह्वाधिजिह्वोपकुशदन्त वैदर्भेषु तिसृषु च रोहिणीषु एतेष्वेवानुशस्त्रप्रणिधानमुक्तम् ७
पानीयस्तु गरगुल्मोदराग्निसङ्गाजीर्णारोचकानाहशर्कराश्मर्याभ्यन्तरविद्र धिकृमिविषार्शःसूपयुज्यते ८
अहितस्तु रक्तपित्तज्वरितपित्तप्रकृतिबालवृद्धदुर्बलभ्र ममदमूर्च्छातिमिरपरीतेभ्योऽन्येभ्यश्चैवंविधेभ्यः ९
तं चेतरक्षारवद्दग्ध्वा परिस्रावयेत् तस्य विस्तरोऽन्यत्र १०
अथेतरस्त्रिविधो मृदुर्मध्यस्तीक्ष्णश्च तं चिकीर्षुः शरदि गिरिसानुजं शुचिरुपोष्य प्रशस्तेऽहनि प्रशस्तदेशजातमनुपहतं मध्यमवयसं महान्तमसितमुष्ककमधिवास्यापरेद्युः पाटयित्वा खण्डशः प्रकल्प्यावपाट्य निवाते देशे निचितिं कृत्वा सुधाशर्कराश्च प्रक्षिप्य तिलनालैरादीपयेत् अथोपशान्तेऽग्नौ तद्भस्म पृथग्गृह्णीयाद्भस्मशर्कराश्च अथानेनैवविधानेन कुटजपलाशाश्व कर्णपारिभद्र कबिभीतकारग्वधतिल्वकार्कस्नुह्य पामार्गपाटलानक्त मालवृषकदलीचित्रकपूतीकेन्द्र वृक्षास्फोताश्वमारक सप्तच्छदाग्निमन्थगुञ्जाश्चतस्रश्च कोशातकीः समूलफलपत्रशाखा दहेत् ततः क्षारद्रो णमुदकद्रो णैः षड्भिरालोड्य मूत्रैर्वा यथोक्तैरेकविंशतिकृत्वः परिस्राव्य महति कटाहे शनैर्दर्व्याऽवघट्टयन् विपचेत् स यदा भवत्यच्छो रक्तस्तीक्ष्णः पिच्छिलश्च तमादाय महति वस्त्रे परिस्राव्येतरं विभज्य पुनरग्नावधिश्रयेत् तत एव क्षारोदकात्कुडवमध्यर्धंवाऽपनयेत् ततः कटशर्कराभस्मशर्कराक्षीरपाक शङ्खनाभीरग्निवर्णाः कृत्वाऽयसे पात्रे तस्मिन्नेव क्षारोदके निषिच्य पिष्ट्वा तेनैव द्विद्रो णेऽष्टपलसंमितं शङ्खनाभ्यादीनां प्रमाणं प्रतिवाप्य सततमप्रमत्तश्चैनमवघट्टयन् विपचेत् स यथा नातिसान्द्रो नातिद्र वश्च भवति तथा प्रयतेत अथैनमागतपाकमवतार्यानु गुप्तमायसे कुम्भे संवृतमुखे निदध्यादेष मध्यमः ११
एष चैवाप्रतीवापः पक्वः संव्यूहिमो मृदुः १२
प्रतीवापे यथालाभं दन्तीद्र वन्तीचित्रकलाङ्गलीपूतिकप्रवालतालप त्रीविडसुवर्चिकाकनकक्षीरीहिङ्गुवचातिविषाः समाःश्लक्ष्णचूर्णाः शुक्तिप्रमाणाः प्रतीवापः स एव सप्रतीवापः पक्वः पाक्यस्तीक्ष्णः १३
तेषां यथाव्याधिबलमुपयोगः १४
क्षीणबले तु क्षारोदकमावपेद्बलकरणार्थम् १५
भवतश्चात्र नैवातितीक्ष्णो न मृदुः शुक्लः श्लक्ष्णोऽथपिच्छिलः अविष्यन्दी शिवः शीघ्रः क्षारो ह्यष्टगुणः स्मृतः १६
अतिमार्दवश्वैत्यौष्ण्यतैक्ष्ण्यपैच्छिल्यसर्पिताः
सान्द्र ताऽपक्वता हीनद्र व्यता दोष उच्यते १७
तत्र क्षारसाध्यव्याधिव्याधितमुपवेश्य निवातातपेदेशेऽसबाधेऽग्रोपहरणीयोक्तेन विधानेनोपसंभृतसंभारं ततोऽस्य तमवकाशं निरीक्ष्यावघृष्यावलिख्य प्रच्छयित्वा शलाकया क्षारं प्रतिसारयेत् दत्त्वा वाक्शतमात्रमुपेक्षेत १८
तस्मिन्निपतिते व्याधौ कृष्णता दग्धलक्षणम्
तत्राम्लवर्गः शमनः सर्पिर्मधुकसंयुतः १९
अथ चेत् स्थिरमूलत्वात् क्षारदग्धं न शीर्यते
इदमालेपनं तत्र समग्रमवचारयेत् २०
अम्लकाञ्जिकबीजानि तिलान् मधुकमेव च
प्रपेष्य समभागानि तेनैनमनुलेपयेत् २१
तिलकल्कः समधुको घृताक्तो व्रणरोपणः
रसेनाम्लेन तीक्ष्णेन वीर्योष्णेन च योजितः २२
आग्नेयेनाग्निना तुल्यः कथं क्षारः प्रशाम्यति
एवं चेन्मन्यसे वत्स प्रोच्यमानं निबोध मे २३
अम्लवर्जान् रसान् क्षारे सर्वानेव विभावयेत्
कटुकस्तत्र भूयिष्ठो लवणोऽनुरसस्तथा
अम्लेन सह संयुक्तः स तीक्ष्णलवणो रसे २४
माधुर्यं भजतेऽत्यर्थं तीक्ष्णभावं विमुञ्चति
माधुर्याच्छममाप्नोति वह्निरद्भिरिवाप्लुतः २५
तत्र सम्यग्दग्धे विकारोपशमो लाघवमनास्रावश्च
हीनदग्धे तोदकण्डुजाड्यानि व्याधिवृद्धिश्च
अतिदग्धे दाहपाकरागस्रावाङ्गमर्दक्लम
पिपासामूर्च्छाः स्युर्मरणं वा २६
क्षारदग्धव्रणं तु यथादोषं यथाव्याधि चोपक्रमेत् २७
अथ नैते क्षारकृत्याः तद्यथा दुर्बलबालस्थविरभीरुसर्वाङ्गशूनोदररक्तपित्तिगर्भिण्यृतुमतीप्रवृद्धजवरिप्रमेहिरूक्षक्षत-क्षीणतृष्णा मूर्च्छोपद्रुतक्लीबापवृत्तोद्वृत्तफलयोनयः २८
तथा मर्मसिरास्नायुसन्धितरुणास्थिसेवनीधमनीगलनाभिनखान्तः शेफः स्रोतः स्वल्पमांसेषु च देशेष्वक्ष्णोश्च न दद्यादन्यत्र वर्त्मरोगात् २९
तत्र क्षारसाध्येष्वपि व्याधिषु शूनगात्रमस्थिशूलिनमन्नद्वेषिणं हृदयसन्धिपीडोपद्रुतं च क्षारो न साधयति ३०
भवति चात्र विषाग्निशस्त्राशनिमृत्युकल्पः क्षारो भवत्यल्पमतिप्रयुक्तः स धीमता सम्यगनुप्रयुक्तो रोगान्निहन्यादचिरेण घोरान् ३१
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने क्षारपाकविघिर्नामैकादशोऽध्यायः ११
द्वादशोऽध्यायः
अथातोऽग्निकर्मविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
क्षारादग्निर्गरीयान् क्रियासु व्याख्यातः तद्दग्धानां रोगा
णामपुनर्भावाद्भेषजशस्त्रक्षारैरसाध्यानां तत्साध्यत्वाच्च ३
अथेमानि दहनोपकरणानि भवन्तितद्यथा पिप्पल्यजाशकृद्गो दन्तशरशलाकाजाम्बवौष्ठेतरलौहाः क्षौद्र गुडस्नेहाश्च तत्र पिप्पल्य जाशकृद्गोदन्तशरशलाकास्त्वग्गतानां जाम्बवौष्ठेतरलौहामांसगतानां क्षौद्र गुडस्नेहाः सिरास्नायुसन्ध्यस्थिगतानाम् ४
तत्राग्निकर्म सर्वर्तुषु कुर्यादन्यत्र शरद्ग्रीष्माभ्यां तत्राप्यात्य
यिकेऽग्निकर्मसाध्ये व्याधौ तत्प्रत्यनीकं विधिं कृत्वा ५
सर्वव्याधिष्वृतुषु च पिच्छिलमन्नं भुक्तवतः मूढगर्भा
श्मरीभगन्दरोदरार्शोमुखरोगेष्वभुक्तवतः कर्म कुर्वीत ६
तत्र द्विविधमग्निकर्माहुरेके त्वग्दग्धं मांसदग्धं च
इहतु सिरास्नायुसन्ध्यस्थिष्वपि न प्रतिषिद्धोऽग्नि ७
तत्र शब्दप्रादुर्भावो दुर्गन्धता त्वक्संकोचश्च त्वग्दग्धे कपोत वर्णताऽल्पश्वयथुवेदना शुष्कसंकुचितव्रणता च मांसदग्धे कृष्णोन्नतव्रणता स्रावसन्निरोधश्च सिरास्नायुदग्धे रुक्षारुणता कर्कशस्थिरव्रणता च सन्ध्यस्थिदग्धे ८
तत्र शिरोरोगाधिमन्थयोर्भ्रूललाटशङ्खप्रदेशेषु दहेत्वर्त्मरोगेष्वार्द्रा लक्तकप्रतिच्छन्नां दृष्टिं कृत्वा वर्त्मरोमकूपान् ९
त्वङ्मांससिरास्नायुसन्ध्यस्थिस्थितेऽत्युग्ररुजि वायावुच्छ्रितकठिन सुप्तमांसे व्रणे ग्रन्थ्यर्शोऽबुदभगन्दरापचीश्लीपदचर्मकीलतिलकालकान्त्रवृद्धिसन्धिसिराच्छेदनादिषु नाडीशोणितातिप्रवृत्तिषुचाइग्नकर्म कुर्यात् १०
तत्र वलयबिन्दुविलेखाप्रतिसारणानीति दहनविशेषाः ११
भवति चात्र रोगस्य संस्थानमवेक्ष्य सम्यङ्नरस्य मर्माणि बलाबलं च व्याधिं तथर्तुं च समीक्ष्य सम्यक्ततोऽव्यवस्येद्भिषगग्निकर्म १२
तत्र सम्यग्दग्धे मधुसर्पिर्भ्यामभ्यङ्गः १३
अथेमानग्निना परिहरेत्पित्तप्रकृतिमन्तःशोणितं भिन्नकोष्ठमनुद्धृत शल्यं दुर्बलं बालं वृद्धं भीरुमनेकव्रणपीडितमस्वेद्यांश्चेति १४
अत ऊर्ध्वमितरथादग्धलक्षणं वक्ष्यामः तत्र स्निग्धं रूक्षं वाचिआइश्रित्य द्र व्यमग्निर्दहति अग्निसंतप्तो हि स्नेहः सूक्ष्म सिरानुसारित्वात्त्वगादीननुप्रविश्याशु दहति तस्मात् स्नेहदग्धेऽधिका रुजो भवन्ति १५
तत्र प्लुष्टं दुर्दग्धं सम्यग्दग्धमतिदग्धं चेति चतुर्विधमग्निदग्धम् तत्र यद्विवर्णं प्लुष्यतेऽतिमात्रं तत् प्लुष्टं यत्रोत्तिष्ठन्ति स्फोटा स्तीव्राश्चोषदाहरागपाकवेदनाश्चिराच्चोपशाम्यन्ति तद्दुर्दग्धं सम्यग्दग्धमनवगाढं तालवर्णं सुसंस्थितं पूर्वलक्षणयुक्तं च अतिदग्धे मांसावलम्बनं गात्रविश्लेषः सिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रं ज्वरदाह पिपासा मूर्च्छाश्चोपद्र वा भवन्ति व्रणश्चास्य चिरेण रोहति रूढश्च विवर्णो भवति तदेतच्चतुर्विधमग्निदग्धलक्षणमात्मकर्मप्रसाधकं भवति १६
भवन्ति चात्र अग्निना कोपितं रक्तं भृशं जन्तोः प्रकुप्यति ततस्तेनैव वेगेन पित्तमस्याभ्युदीर्यते १७
तुल्यवीर्ये उभे ह्येते रसतो द्र व्यतस्तथा
तेनास्य वेदनास्तीव्राः प्रकृत्या च विदह्यते १८
स्फोटाः शीघ्रं प्रजायन्ते ज्वरस्तृष्णा च बाधते
दग्धस्योपशमार्थाय चिकित्सा संप्रवक्ष्यते १९
प्लुष्टस्याग्निप्रतपनं कार्यमुष्णं तथौषधम्
शरीरे स्विन्नभूयिष्ठे स्विन्नं भवति शोणितम् २०
प्रकृत्या ह्युदकं शीतं स्कन्दयत्यतिशोणितम्
तस्मात् सुखयति ह्युष्णं ननु शीतं कथंचन २१
शीतामुष्णां च दुर्दग्धे क्रियां कुर्याद्भिषक् पुनः
घृतालेपनसेकांस्तु शीतानेवास्य कारयेत् २२
सम्यग्दग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः
सामृतैः सर्पिषा स्निग्धैरालेपं कारयेद्भिषक् २३
ग्राम्यानूपौदकैश्चैनं पिष्टैर्मांसैः प्रलेपयेत्
पित्तविद्र धिवच्चैनं संततोष्माणमाचरेत् २४
अतिदग्धे विशीर्णानि मांसान्युद्धृत्य शीतलाम्
क्रियां कुर्याद्भिषक् पश्चाच्छालितण्डुलकण्डनैः २५
तिन्दुकीत्वक्कपालैर्वा घृतमिश्रैः प्रलेपयेत्
व्रणं गुडूचीपत्रैर्वा छादयेदथवौदकैः २६
क्रियां च निखिलां कुर्याद्भिषक् पित्तविसर्पवत्
मधूच्छिष्टं समधुकं रोध्रं सर्जरसं तथा २७
मञ्जिष्ठां चन्दनं मूर्वां पिष्ट्वा सर्पिर्विपाचयेत्
सर्वेषामग्निदग्धानामेतद्रो पणमुत्तमम् २८
स्नेहदग्धे क्रियां रूक्षां विशेषेणावचारयेत्
अत ऊर्ध्वं प्रवक्ष्यामि धूमोपहतलक्षणम् २९
श्वसिति क्षौति चात्यर्थमप्याधमति कासते
चक्षुषोः परिदाहश्च रागश्चैवोपजायते ३०
सधूमकं निश्वसिति घ्रेयमन्यन्न वेत्ति च
तथैव च रसान् सर्वान् श्रुतिश्चास्योपहन्यते ३१
तृष्णादाहज्वरयुतः सीदत्यथ च मूर्च्छति
धूमोपहत इत्येषः शृणु तस्य चिकित्सितम् ३२
सर्पिरिक्षुरसं द्रा क्षां पयो वा शर्कराम्बु वा
मधुराम्लौ रसौ वाऽपि वमनाय प्रदापयेत् ३३
वमतः कोष्ठशुद्धिः स्याद्धूमगन्धश्च नश्यति
विधिनाऽनेन शाम्यन्ति सदनक्षवथुज्वराः ३४
दाहमूर्च्छातृडाध्मानश्वासकासाश्च दारुणाः
मधुरैर्लवणाम्लैश्च कटुकैः कवलग्रहैः ३५
सम्यग्गृह्णातीन्द्रि यार्थान् मनश्चास्य प्रसीदति
शिरोविरेचनं चास्मै दद्याद्योगेनशास्त्रवित् ३६
दृष्टिर्विशुध्यते चास्य शिरोग्रीवं च देहिनः
अविदाहि लघु स्निग्धमाहारं चास्य कल्पयेत् ३७
उष्णवातातपैर्दग्धे शीतः कार्यो विधिः सदा
शीतवर्षानिलैर्दग्धे स्निग्धमुष्णं च शस्यते ३८
तथाऽतितेजसा दग्धे सिद्धिर्नास्ति कथंचन
इन्द्र वज्राग्निदग्धेऽपि जीवति प्रतिकारयेत्
स्नेहाभ्यङ्गपरीषेकैः प्रदेहैश्च तथा भिषक् ३९
इति श्रीसुश्रुतसंहितायां सूत्रस्थानेऽग्निकर्मविधिर्नाम द्वादशोऽध्यायः १२
त्रयोदशोऽध्यायः
अथातो जलौकावचारणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
नृपाढ्यबालस्थविरभीरुदुर्बल नारी सुकुमाराणा मनुग्रहार्थं परमसुकुमारोऽय शोणितावसेचनोपायोऽभिहितो जलौकसः ३
तत्र वातपित्तकफदुष्टशोणितं यथासंख्यं शृङ्गजलौकाला बुभिरवसेचयेत् सर्वाणि सर्वैर्वा विशेषस्तु विस्राव्यं शृङ्गजलौकालाबुभिर्गृह्णीयात् ४
भवन्ति चात्र श्लोकाः उष्णं समधुरं स्निग्धं गवां शृङ्गं प्रकीर्तितम् तस्माद्वातोपसृष्टे तु हितं तदवसेचने ५
शीताधिवासा मधुरा जलौका वारिसंभवा
तस्मात् पित्तोपसृष्टे तु हिता सा त्ववसेचने ६
अलाबु कटुकं रूक्षं तीक्ष्णं च परिकीर्तितम्
तस्माच्छ्लेष्मोपसृष्टे तु हितं तदवसेचने ७
तत्र प्रच्छिते तनुबस्तिपटलावनद्धेन शृङ्गेण शोणितमवसेचयेदा चूषणात् सान्तर्दीपयाऽलाब्वा जिलायुका वक्ष्यन्तेइ ८
जलमासामायुरिति जलायुकाः जलमासामोक इति जलौकसः ९
ता द्वादश तासां सविषाः षट् तावत्य एव निर्विषाः १०
तत्र सविषाःकृष्णा कर्बुरा अलगर्दा इन्द्रा युधा सामुद्रि का गोचन्दना चेति तासु अञ्जनचूर्णवर्णा पृथुशिराः कृष्णा वर्मिमत्स्यवदायता छिन्नोन्नतकुक्षिः कर्बुरा रोमशा महापार्श्वा कृष्णमुखी अलगर्दा इन्द्रा युधवदूर्ध्वराजिभिश्चित्रा इन्द्रा युधा ईषदसितपीतिका विचित्रपुष्पाकृतिचित्रा सामुद्रि काः गोवृषणवदधोभागे द्विधाभूताकृतिरणुमुखी गोचन्दनेति ताभिर्दष्टे पुरुषे दंशे श्वयथुरतिमात्रं कण्डूर्मूर्च्छा ज्वरो दाहश्छर्दिर्मदः सदनमिति लिङ्गानि भवन्ति तत्र महागदः पानालेपननस्यकर्मादिषूपयोज्यः इन्द्रा युधादष्टमसाध्यम् इत्येताः सविषाः सचिकित्सिता व्याख्याताः ११
अथ निर्विषाःकपिला पिङ्गला शङ्कुमुखी मूषिका पुण्डरीक मुखी सावरिका चेति तत्र मनः शिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृष्ठे स्निग्धा मुद्गवर्णा कपिला किंचिद्र क्ता वृत्तकाया पिङ्गाऽशुगा च पिङ्गला यकृद्वर्णा शीघ्रपायिनी दीर्घतीक्ष्णमुखी शङ्कुमुखी मूषिकाकृतिवर्णाऽनिष्टगन्धा च मूषिका मुद्गवर्णा पुण्डरीकतुल्यवक्त्रा पुण्डरीकमुखी स्निग्धा पद्म पत्रवर्णाऽष्टादशाङ्गुल प्रमाणा सावरिका सा च पश्वर्थे इत्येता अविषा व्याख्याताः १२
तासा यवनपाण्ड्यसह्यपौतनादीनि क्षेत्राणि तेषु महाशरीरा बलवत्यः शीघ्रपायिन्यो महाशना निर्विषाश्च विशेषेण भवन्ति १३
तत्र सविषमत्स्यकीटदर्दुरमूत्रपुरीषकोथजताः कलुषेष्वम्भसु च सविषाः पद्मोत्पलनलिनकुमुदसौगन्धिककुवलय पुण्डरीकशैवलकोथजाता विलेष्वम्भः सु च निर्विषाः १४
भवति चात्र क्षेत्रेषु विचरन्त्येताः सलिलाढ्यसुगन्धिषु न च संकीर्णचारिण्यो न च पङ्केशयाः सुखाः १५
तासां ग्रहणमार्द्र चर्मणा अन्यैर्वा प्रयोगैर्गृह्णीयात् १६
अथैनां नवे महति घटे सरस्तडागोदकपङ्कमावाप्य निदध्यात्भक्ष्यार्थे चासामुपहरेच्छवलं वल्लूरमौदकांश्च कन्दांश्चूर्णीकृत्यशय्यार्थं तृणमौदकानि च पत्राणि त्र्! यहात्त्र्यहाच्चाभ्योऽन्यज्जलंभक्ष्यं च दद्यात् सप्तरात्रात् सप्तरात्राच्च घटमन्यं संक्रामयेत् १७
भवति चात्र स्थूलमध्याः परिक्लिष्टाः पृथ्व्यो मन्दविचेष्टिताः अग्राहिण्योऽल्पपायिन्यः सविषाश्च न पूजिताः १८
अथ जलौकोवसेकसाध्यव्याधितमुपवेश्य सवेश्य वा विरूक्ष्य चास्य तमवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात् गृहीताश्च ताः सर्षपरजनीकल्कोदकप्रदिग्धगात्रीः सलिलसरकमध्ये मुहूर्तस्थिता विगतक्लमा ज्ञात्वा ताभी रोगं ग्राहयेत् श्लक्ष्णशुक्लार्द्र पिचु प्रोतावच्छन्नां कृत्वा मुखमपावृणुयात् अगृह्णन्त्यै क्षीरबिन्दुं शोणितबिन्दुं वादद्यात् शस्त्रपदानि वा कुर्वीत यद्येवमपि न गृह्णीयात्तदान्यां ग्राहयेत् १९
यदा च निविशतेऽश्वखुरवदाननं कृत्वोन्नम्य च स्कन्धं तदा जानीयाद्गृह्णातीति गृह्णन्तीं चार्द्र वस्त्रावच्छन्नां कृत्वा धारयेत् २०
दंशे तोदकण्डुप्रादुर्भावैर्जानीयाच्छुद्धमियमादत्त इति शुद्ध माददानामपनयेत् अथ शोणितगन्धेन न मुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत् २१
अथ पतितां तण्डुलकण्डनप्रदिग्धगात्रीं तैललवणाभ्यक्तमुखीं वामहस्ताङ्गुष्ठाङ्गुलीभ्यां गृहीतपुच्छां दक्षिणहस्ताङ्गुष्ठाङ्गुलिभ्यां शनैः शनैरनुलोममनुमार्जयेदामुखात् वामयेत् तावद्यावत् सम्यग्वान्तलिङ्गानीति सम्यग्वान्ता सलिलसरकेन्यस्ता भोक्तुकामा सती चरेत् या सीदती न चेष्टतेसा दुर्वान्ता तां पुनः सम्यग्वामयेत् दुर्वान्ताया व्याधिरसाध्य इन्द्र मदो नाम भवति अथ सुवान्तां पूर्ववत् सन्निदध्यात् २२
शोणितस्य योगायोगानवेक्ष्य शतधौतघृताभ्यङ्गः तत्पिचुधारणं वा जलौकोव्रणान् मधुनाऽवघट्टयेत् शीताभिरद्भिः परिषेचयेद्बध्नीत वा कषायमधुरस्निग्धशीतैश्च प्रदेहैः प्रदिह्यादिति २३
भवति चात्र क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम् जलौकसां च यो वेत्ति तत्साध्यान् स जयेद्गदान् २४
इति सुश्रुतसंहितायां सूत्रस्थाने जलौकावचारणीयो नाम त्रयोदशोऽध्यायः १३
चतुर्दशोऽध्यायः
अथातः शोणितवर्णनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
तत्र पाञ्चभौतिकस्य चतुर्विधस्य षड्रसस्य द्विविधवीर्यस्याष्ट विधवीर्यस्य वाऽनेकगुणस्योपयुक्तस्याहारस्य सम्यक्परिणतस्य यस्तेजोभूतः सारः परमसूक्ष्मः स रसः इत्युच्यते तस्य हृदयं स्थानं स हृदयाच्चतुर्विंशतिधमनीरनुप्रविश्योर्ध्वगा दश दशा धोगामिन्यश्चतस्रश्च तिर्यग्गाः कृत्स्नं शरीरमहरहस्तर्पयति वर्धयति धारयति यापयति चादृष्टहेतुकेन कर्मणा तस्य शरीरमनुसरतोऽनुमानाद्गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः तस्मिन् सर्वशरीरावयवदोषधातुमलाशयानुसारिणि रसे जिज्ञासाकिमयं सौम्यस्तैजस इति अत्रोच्यतेस खलु द्र वानुसारी स्नेहनजीवनत र्पणधारणादिभिर्विशेषैः सौम्य इत्यवगम्यते ३
स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैति ४
श्लोकौ चात्र भवतः रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम्
अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते ५
रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रवर्तते
तद्वर्षाद्द्वादशादूर्ध्वं याति पञ्चाशतः क्षयम् ६
आर्तवं शोणितं त्वाग्नेयम् अग्नीषोमीयत्वाद्गर्भस्य ७
पाञ्चभौतिकं त्वपरे जीवरक्तमाहुराचार्याः ८
विस्रता द्र वता रागः स्पन्दनं लघुता तथा
भूम्यादीनां गुणा ह्येते दृश्यन्ते चात्र शोणिते ९
रसाद्र क्तं ततो मांसं मांसान्मेदः प्रजायते
मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रं तु जायते १०
तत्रैतेषां धातूनामन्नपानरसः प्रीणयिता ११
रसजं पुरुषं विद्याद्र सं रक्षेत् प्रयत्नतः
अन्नात्पानाच्च मतिमानाचाराच्चाप्यतन्द्रि तः १२
तत्र रसगतौ धातुः अहरहर्गच्छतीत्यतो रसः १३
स खलु त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला एकैकस्मिन् धाताववतिष्ठते एवं मासेन रसः शुक्रं स्त्रीणां चार्तवं भवति १४
भवति चात्र अष्टादशसहस्राणि सङ्ख्या ह्यस्मिन् समुच्चये
कलानां नवतिः प्रोक्ता स्वतन्त्रपरतन्त्रयोः १५
स शब्दार्चिर्जलसन्तानवदणुना विशेषेणानुधावत्येवं शरीरं केवलम् १६
वाजीकरण्यस्त्वोषधयः स्वबलगुणोत्कर्षाद्विरेचनवदुपयुक्ताः शुक्रं शीघ्रं विरेचयन्ति १७
यथाहि पुष्पमुकुलस्थो गन्धो न शक्यमिहास्तीति वक्तुं नैव नास्तीति अथ चास्ति सतां भावानामभिव्यक्तिरिति ज्ञात्वा केवलं सौक्ष्म्यान्नाभिव्यज्यते स एव विवृतपत्रकेशरे पुष्पे कालान्तरेणाभिव्यक्तिं गच्छति एवं बालानामपि वयःपरिणामा च्छुक्रप्रादुर्भावो भवति रोमराज्यादयश्च विशेषा नारीणाम् १८
स एवान्नरसो वृद्धानांजिरापिरिपक्वशरीरत्वादप्रीणनो भवति १९
त एते शरीरधारणाद्धातव इत्युच्यन्ते २०
तेषां क्षयवृद्धी शोणितनिमित्ते तस्मात्तदधिकृत्य वक्ष्यामः तत्र फेनिलमरुणं कृष्णं परुषं तनुशीघ्रगमस्कन्दि च वातेनदुष्टं नीलं पीतं हरितं श्यावं विस्रमनिष्टं पिपीलिकामक्षिकाणामस्कन्दि च पित्तेन दुष्टं गैरिकोदकप्रतीकाशं स्निग्धंशीतलं बहलं पिच्छिलं चिरस्रावि मांसपेशीप्रभं च श्लेष्मदुष्टंसर्वलक्षणसंयुक्तं काञ्जिकाभं विशेषतो दुर्गन्धि च सन्निपातदुष्टंद्विदोषलिङ्गं संसृष्टम् २१
इन्द्र गोपकप्रतीकाशमसंहतमविवर्णं च प्रकृतिस्थं जानीयात् २२
विस्राव्याण्यन्यत्र वक्ष्यामः २३
अथाविस्राव्याःसर्वाङ्गशोफः क्षीणस्य चाम्लभोजननिमित्तः पाण्डुरोग्यर्शसोदरिशोषिगर्भिणीनां च श्वयथवः २४
शस्त्रविस्रावणं द्विविधंप्रच्छानं सिराव्यधनं च २५
तत्र ऋज्वसंकीर्णं सूक्ष्मं सममनवगाढमनुत्तानमाशु च शस्त्रं पातयेन्मर्मसिरास्नायुसन्धीनां चानुपघाति २६
तत्र दुर्दिने दुर्विद्धे शीतवातयोरस्विन्ने भुक्तमात्रे स्कन्दत्वाच्छोणितं न स्रवत्यल्पं वा स्रवति २७
मदमूर्च्छाश्रमार्तानां वातविण्मूत्रसंगिनाम् निद्रा भिभूतभीतानां नृणां नासृक् प्रवर्तते २८
तद्दुष्टं शोणितमनिर्ह्रियमाणं शोफदाहरागपाकवेदना जनयेत् २९
अत्युष्णेऽतिस्विन्नेऽतिविद्धेऽज्ञर्विस्रावितमतिप्रवर्तते तदतिप्रवृत्तं शिरोऽभितापमान्ध्यमधिमन्थतिमिरप्रादुर्भावं धातुक्षयमाक्षेपकं दाहं पक्षाघातमेकाङ्गविकारं हिक्कां श्वासकासौ पाण्डुरोगं मरणं चापादयति ३०
तस्मान्न शीते नात्युष्णे नास्विन्ने नातितापिते
यवागूं प्रतिपीतस्य शोणितं मोक्षयेद्भिषक् ३१
सम्यग्गत्वा यदा रक्तं स्वयमेवावतिष्ठते
शुद्धं तदा विजानीयात् सम्यग्विस्रावितं च तत् ३२
लाघवं वेदनाशान्तिर्व्याधेर्वेगपरिक्षयः
सम्यग्विस्राविते लिङ्गं प्रसादो मनसस्तथा ३३
त्वग्दोषा ग्रन्थयः शोफा रोगाः शोणितजाश्च ये
रक्तमोक्षणशीलानां न भवन्ति कदाचन ३४
अथ खल्वप्रवर्तमाने रक्ते एलाशीतशिवकुष्ठतगरपाठाभद्र दारुवि डङ्गचित्रकत्रिकटुकागारधूमहरिद्रा र्काङ्कुरनक्तमालफलैर्यथालाभं त्रिभिश्चतुर्भिः समस्तैर्वा चूर्णीकृतैर्लवण तैलप्रगाढैर्व्रण मुखमवघर्षयेत् एवं सम्यक् प्रवर्तते ३५
अथातिप्रवृत्ते रोध्रमधुकप्रियङ्गुपत्तङ्गगैरिकसर्जरसरसाञ्जनशाल्म लीपुष्पशङ्खशुक्तिमाषयवगोधूमचूर्णै शनैः शनैर्व्रणमुखमवचूर्ण्या ङ्गुल्यग्रेणावपीडयेत् सालसर्जार्जुनारिमेदमेषशृङ्गधवधन्वनत्वग्भिर्वा चूर्णिताभिः क्षौमेण वा ध्मापितेन समुद्र फेनलाक्षाचूणैर्वा यथोक्तैर्व्रणबन्धनद्र व्यैर्गाढं बध्नीयात् शीताच्छादनभोजनागारैः शीतैः प्रदेहपरिषेकैश्चोपचरेत् क्षारेणाग्निना वा दहेद्यथोक्तं व्यधादनन्तरं तामेवातिप्रवृत्तां सिरां विध्येत् काकोल्यादिक्वाथं वा शर्करा मधुमधुरं पाययेत् एणहरिणोरभ्रशशमहिषवराहाणां वा रुधिरं क्षीरयूषरसैः सुस्निग्धैश्चाश्नीयात् उपद्र वांश्च यथास्वमुपचरेत् ३६
भवन्ति चात्र धातुक्षयात् स्रुते रक्ते मन्दः संजायतेऽनलः
पवनश्च परं कोपं याति तस्मात् प्रयत्नतः ३७
तं नातिशीतैर्लघुभिः स्निग्धैः शोणितवर्धनैः
ईषदम्लैरनम्लैर्वा भोजनैः समुपाचरेत् ३८
चतुर्विधं यदेतद्धि रुधिरस्य निवारणम्
संधानं स्कन्दनं चैव पाचनं दहनं तथा ३९
व्रणं कषायः संधत्ते रक्तं स्कन्दयते हिमम्
तथा संपाचयेद्भस्म दाहः संकोचयेत् सिराः ४०
अस्कन्दमाने रुधिरे संधानानि प्रयोजयेत्
संधाने भ्रश्यमाने तु पाचनैः समुपाचरेत् ४१
कल्पैरेतैस्त्रिभिर्वैद्यः प्रयतेत यथाविधि
असिद्धिमत्सु चैतेषु दाहः परम इष्यते ४२
शेषदोषे यतो रक्ते न व्याधिरतिवर्तते
सावशेषे ततः स्थेयं न तु कुर्यादतिक्रमम् ४३
देहस्य रुधिरं मूलं रुधिरेणैव धार्यते
तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ४४
स्रुतरक्तस्य सेकाद्यैः शीतैः प्रकुपितेऽनिले
शोफं सतोदं कोष्णेन सर्पिषा परिषेचयेत् ४५
इति सुश्रुतसंहितायां सूत्रस्थाने शोणितवर्णनीयो नाम चतुर्दशोऽध्यायः १४
पञ्चदशोऽध्यायः
अथातो दोषधातुमलक्षयवृद्धिविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
दोषधातुमलमूलं हि शरीरं तस्मादेतेषां लक्षणमुच्यमानमुपधारय ३
तत्र प्रस्पन्दनोद्वहनपूरणविवेकधारणलक्षणो वायुः पञ्चधा प्रविभक्तः शरीरं धारयति १
रागपक्त्योजस्तेजोमेधोष्मकृत् पित्तं पञ्चधा
प्रविभक्तमग्निकर्मणाऽनुग्रहं करोति २
सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्यकृच्छ्लेष्मा पञ्चधा प्रविभक्त उदककर्मणाऽनुग्रहं करोति ४
रसस्तुष्टिं प्रीणनं रक्तपुष्टिं च करोति रक्तं वर्णप्रसादं मांसपुष्टिंजीवयति च मांसं शरीरपुष्टिं मेदसश्च मेदः स्नेहस्वेदौ दृढत्वंपुष्टिमस्थ्नां च अस्थीनि देहधारणं मज्ज्ञः पुष्टिं च मज्जास्नेहं बलं शुक्रपुष्टिं पूरणमस्थ्नां च करोति शुक्रं धैर्यं च्यवनंप्रीतिं देहबलं हर्षं बीजार्थं च १
पुरीषमुपस्तम्भं वाय्वग्निधारणं च बस्तिपूरणविक्ले दकृन्मूत्रं स्वेदः क्लेदत्वक्सौकुमार्यकृत् २
रक्तलक्षणमार्तवं गर्भकृच्च गर्भो गर्भलक्षणं स्तन्यं स्तनयोरापीनत्वजननं जीवनं चेति ५
तत्र विधिवत् परिरक्षणं कुर्वीत ६
अत ऊर्ध्वमेषां क्षीणलक्षणं वक्ष्यामः तत्र वातक्षये मन्दचेष्टताऽल्पवाक्त्वमप्रहर्षो मूढसंज्ञता च पित्तक्षये मन्दोष्माग्निता निष्प्रभता च श्लेष्मक्षये रूक्षताऽन्तर्दाह आमाशयेतरश्लेष्माशयशून्यता सन्धिशैथिल्यं तिऋष्णा दौर्बल्यं प्रजागरणं च ७
तत्र स्वयोनिवर्धनान्येव प्रतीकारः ८
रसक्षये हृत्पीडाकम्पशून्यतास्तृष्णा च शोणितक्षये त्वक्पारुष्यमम्लशीतप्रार्थना सिराशैथिल्यं च मांसक्षये स्फिग्गण्डौष्ठोपस्थोरुवक्षः कक्षापिण्डिकोदरग्रीवाशुष्कता रौक्ष्यतोदौ गात्राणां सदनं धमनीशैथिल्यं च मेदःक्षये प्लीहाभिवृद्धिः सन्धिशून्यता रौक्ष्यं मेदुरमांसप्रार्थना च अस्थिक्षयेऽस्थिशूलं दन्तनखभङ्गो रौक्ष्यं च मज्जक्षयेऽल्पशुक्रता पर्वभेदोऽस्थिनिस्तोदोऽस्थिशून्यता च शुक्रक्षये मेढ्रवृषणवेदनाऽशक्तिर्मैथुने चिराद्वा प्रसेकः प्रसेके चाल्परक्तशुक्रदर्शनम् ९
तत्रापि स्वयोनिवर्धनद्र व्योपयोगः प्रितीकारः १०
पुरीषक्षये हृदयपार्श्वपीडा सशब्दस्य च वायोरूर्ध्वगमनं कुक्षौ संचरणं च मूत्रक्षये बस्तितोदोऽल्पमूत्रता च अत्रापि स्वयो निवर्धनद्र व्योपयोगः स्वेदक्षये स्तब्धरोमकूपता त्वक्शोषः स्पर्शवैगुण्यं स्वेदनाशश्च तत्राभ्यङ्गः स्वेदोपयोगश्च ११
आर्तवक्षये यथोचितकालादर्शनमल्पता वा योनिवेदना च तत्र संशोधनमाग्नेयानां च द्र व्याणां विधिवदुपयोगः स्तनक्षये स्तनयोर्म्लानता स्तन्यासंभवोऽल्पता वा तत्र श्लेष्मवर्धनद्रव्यो पयोगः गर्भक्षये गर्भास्पन्दनमनुन्नतकुक्षिता च तत्र प्राप्तबस्ति कालायाः क्षीरबस्तिप्रयोगो मेद्यान्नोपयोगश्चेति १२
अत ऊर्ध्वमतिवृद्धानां दोषधातुमलानां लक्षणं वक्ष्यामः वृद्धिः पुनरेषां स्वयोनिवर्धनात्युपसेवनाद्भवति तत्र वातवृद्धौ वाक्पारुष्यं कार्श्यं कार्ष्ण्यं गात्रस्फुरणमुष्णकामिता निद्रा नाशोऽल्पबलत्वं गाढवर्चस्त्वं च पित्तवृद्धौ पीतावभासता संतापः शीतकामित्वमल्पनिद्र ता मूर्च्छा बलहानिरिन्द्रि यदौर्बल्यं पीत विण्मूत्रनेत्रत्वं च श्लेष्मवृद्धौ शौक्ल्यं शैत्यं स्थैर्यं गौरवमवसादस्तन्द्रा निद्रा सन्धिविश्लेषश्च १३
रसोऽतिवृद्धो हृदयोत्क्लेदं प्रसेकं चापादयति रक्तं रक्ताङ्गाक्षितां सिरापूर्णत्वं च मांसं स्फिग्गण्डौष्ठोपस्थोरुबाहुजङ्घासु वृद्धिं गुरुगात्रतां च मेदः स्निग्धाङ्गतामुदरपाश्वर्वृद्धिं कासश्वासादीन् दौर्गन्ध्यं च अस्थ्यध्यस्थीन्यधिदन्तांश्चा मज्जा सर्वाङ्गनेत्रगौरवं च शुक्रं शुक्राश्मरीमतिप्रादुर्भावं च १४
पुरीषमाटोपं कुक्षौ शूलं च मूत्रं मूत्रवृद्धिं मुहुर्मुहुः प्रवृत्तिं बस्तितोदमाध्मानं च स्वेदस्त्वचो दौर्गन्ध्यं कण्डूं च १५
आर्तवमङ्गमर्दमतिप्रवृत्तिं दौर्गन्ध्यं च स्तन्यं स्तनयोरापीनत्वं मुहुर्मुहुः प्रवृत्तिं तोदं च गर्भो जठराभिवृद्धिं स्वेदं च १६
तेषां यथास्वं संशोधनं क्षपणं च क्षयाद विरुद्धैः क्रियाविशेषैः प्रकुर्वीत १७
पूर्वः पूर्वोऽतिवृद्धत्वाद्वर्धयेद्धि परं परम्
तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम् १८
बललक्षणं बलक्षयलक्षणं चात ऊर्ध्वमुपदेक्ष्यामः तत्र रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खल्वोजस्तदेव बलमित्युच्यते स्वशास्त्रसिद्धान्तात् १९
तत्र बलेन स्थिरोपचितमांसता सर्वचेष्टास्वप्रतिघातः स्वरवर्णप्रसादो बाह्यानामाभ्यन्तराणां च करणानामात्मकार्यप्रतिपत्तिर्भवति २०
भवन्ति चात्र ओजः सोमात्मकं स्निग्धं शुक्लं शीतं स्थिरं सरम् विविक्तं मृदु मृत्स्नं च प्राणायतनमुत्तमम् २१
देहः सावयवस्तेन व्याप्तो भवति देहिनः
तदभावाच्च शीर्यन्ते शरीराणि शरीरिणाम् २२
अभिघातात्क्षयात्कोपाच्छोकाद्ध्य्नाआच्छ्रमात्क्षुधः
ओजः संक्षीयते ह्येभ्यो धातुग्रहणनिःसृतम्
तेजः समीरितं तस्माद्विस्रंसयति देहिनः २३
तस्य विस्रंसो व्यापत् क्षय इति त्रियो दोषाःइ लिङ्गानि भवन्ति संन्धिविश्लेषो गात्राणां सदनं दोषच्यवनं क्रियासन्निरोधश्च विस्रंसे स्तब्धगुरुगात्रता वातशोफो वर्णभेदो ग्लानिस्तन्द्रा निद्रा च व्यापन्ने मूर्च्छा मांसक्षयो मोहः प्रलापोमरणमिति च क्षये २४
भवन्ति चात्र त्रयो दोषा बलस्योक्ता व्यापद्विस्रंसनक्षयाः विश्लेषसादौ गात्राणां दोषविस्रंसनं श्रमः २५
अप्राचुर्यं क्रियाणां च बलविस्रंसलक्षणम्
गुरुत्वं स्तब्धताऽङ्गेषु ग्लानिर्वर्णस्य भेदनम् २६
तन्द्रा निद्रा वातशोफो बलव्यापदि लक्षणम्
मूर्च्छा मांसक्षयो मोहः प्रलापोऽज्ञानमेव च २७
पूर्वोक्तानि च लिङ्गानि मरणं च बलक्षये तत्र विस्रंसेव्यापन्ने च क्रियाविशेषैरविरुद्धैर्बलमाप्याययेत् इतरं तु मूढसंज्ञं वर्जयेत् २८
दोषधातुमलक्षीणो बलक्षीणोऽपि वा नरः
स्वयोनिवर्धनं यत्तदन्नपानं प्रकाङ्क्षति २९
यद्यदाहारजातं तु क्षीणः प्रार्थयते नरः
तस्य तस्य स लाभे तु तं तं क्षयमपोहति ३०
यस्य धातुक्षयाद्वायुः संज्ञां कर्म च नाशयेत्
प्रक्षीणं च बलं यस्य नासौ शक्यश्चिकित्सितुम् ३१
रसनिमित्तमेव स्थौल्यं कार्श्यं च तत्र श्लेष्मलाहारसेविनोऽध्यशनशीलस्याव्यायामिनो दिवास्वप्नरतस्य चाम एवान्नरसो मधुरतरश्च शरीरमुनक्रामन्नतिस्नेहान्मेदो जनयति तदतिस्थौल्यमापादयति तमतिस्थूलं क्षुद्र श्वासपिपासाक्षुत्स्वप्नस्वेदगात्रदौर्गन्ध्यक्रथनगात्रसादगद्गदत्वान क्षिप्रमेवाविशन्ति सौकुमार्यान्मेदसः सर्वक्रियास्वसमर्थः कफमेदोनिरुद्धमार्गत्वाच्चाल्पव्यवयो भवति आवृतमार्गत्वादेव शेषा धातवो नाप्यायन्तेऽत्यर्थमतोऽल्पप्राणो भवति प्रमेहपिडकाज्वरभगन्दरविद्र धिवातविकाराणामन्यतमं प्राप्य पञ्चत्वमुपयाति सर्व एव चास्य रोगा बलवन्तो भवन्त्यावृतमार्गत्वात् स्रोतसाम् अतस्तस्योत्पत्तिहेतुं परिहरेत् उत्पन्ने तु शिलाजतुगुग्गुलुगोमूत्रत्रिफला लोहरजोरसाञ्जन मधु यवमुद्गकोरदूषकश्यामाकोद्दालकादीना विरूक्षणच्छेदनीयानां च द्र व्याणां विधिवदुपयोगो व्यायामो लेखनबस्त्युपयोगश्चेति ३२
तत्र पुनर्वातलाहारसेविनोऽतिव्यायामव्यवयाध्ययनभयशोकध्यानरात्रिजाग-रणपिपासक्षुत्कषायाल्पाशनप्रभृतिभिरुपशोषितोरसधातुः शरीरमननुक्रामन्नल्पत्वान्न प्रीणाति तस्मादतिकार्श्यं भवति सोऽतिकृशः क्षुत्पिपासाशीतोष्णवातवर्षभारादानष्वसहिष्णुर्वातरोगप्रायोऽल्पप्राणश्च क्रियासु भवति श्वासकासशोषप्लीहोदराग्निसादगुल्मरक्तपित्ता नामन्यतममासाद्य मरणमुपयाति सर्व एव चास्य रोगा बलवन्तो भवन्त्यल्पप्राणत्वात् अतस्तस्योत्पत्तिहेतुं परिहरेत् उत्पन्ने तु पयस्याश्वगन्धा विदारिगन्धा शतावरीबलातिबलानागबलानां मधुराणामन्यासां चौषधी नामुपयोगः क्षीरदधिघृतमांसशालिषष्टिकयवगोधूमानां च दिवास्वप्नब्रह्मचर्याव्यायामबृंहणबस्त्युपयोगश्चेति ३३
यः पुनरुभयसाधारणान्यासेवेत तस्यान्नरसः शरीरमनुक्रामन् समान् धातूनुपचिनोति समधातुत्वान्मध्यशरीरो भवति सर्वक्रियासु समर्थः क्षुत्पिपासाशीतोष्णवातवर्षातपसहो बलवांश्च स सततमनुपालयितव्य इति ३४
भवन्ति चात्र अत्यन्तगर्हितावेतौ सदा स्थूलकृशौ नरौ
श्रेष्ठो मध्यशरीरस्तु कृशः स्थूलात्तु पूजितः ३५
दोषः प्रकुपितो धातून् क्षपयत्यात्मतेजसा
इद्धः स्वतेजसा वह्निरुखागतमिवोदकम् ३६
वैलक्षण्याच्छरीराणामस्थायित्वात्तथैव च
दोषधातुमलानां तु परिमाणं न विद्यते ३७
एषां समत्वं यच्चापि भिषग्भिरवधार्यते
न तत् स्वास्थ्यादृते शक्यं वक्तुमन्येन हेतुना ३८
दोषादीनां त्वसमतामनुमानेन लक्षयेत्
अप्रसन्नेन्द्रि यं वीक्ष्य पुरुषं कुशलो भिषक् ३९
स्विस्थस्य रक्षणं कुर्यादस्वस्थस्य तु बुद्धिमान्
क्षपयेद्बृंहयेच्चापि दोषधातुमलान् भिषक्
तावद्यावदरोगः स्यादेतत्साम्यस्य लक्षणम् ४०
समदोषः समाग्निश्च समधातुमलक्रियः
प्रसन्नात्मेन्द्रि यमनाः स्वस्थ इत्यभिधीयते ४१
इति सुश्रुतसंहितायां सूत्रस्थाने दोषधातुमलक्षयवृद्धिविज्ञानीयो
नाम पञ्चदशोऽध्यायः १५
षोडशोऽध्यायः
अथातः कर्णव्यधबन्धविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
रक्षाभूषणनिमित्तं बालस्य कर्णौ विध्येते तौ षष्ठे मासि सप्तमे वा शुक्लपक्षे प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु कृतमङ्गलस्वस्तिवाचनं धात्र् यङ्के कुमारधराङ्के वा कुमारमुपवेश्य बालक्रीडनकैःप्रलोभ्याभिसान्त्वयन् भिषग्वामहस्तेनाकृषय कर्णं दैवकृते छिद्र आदित्यकरावभासिते शनैः शनैर्दक्षिणहस्तेनर्जु विध्येत् प्रतनुकं सूच्या बहलमारया पूर्वं दक्षिणं कुमारस्य वामं कुमार्याः ततः पिचुवर्तिं प्रवेशयेत् ३
शोणितबहुत्वेन वेदनया चान्यदेशविद्धमिति जानीयात् निरुपद्र वतया तद्देशविद्धमिति ४
तत्राज्ञेन यदृच्छया विद्धासु सिरासु कालिकामर्मरिकालोहितिकासूपद्र वा भवन्ति तत्र कालिकायां ज्वरो दाहः श्वयथुर्वेदना च भवति मर्मरिकायां वेदना ज्वरो ग्रन्थयश्च लोहितिकायां मन्यास्तम्भापतानकशिरोग्रहकर्णशूलानि भवन्ति तेषु यथास्वं प्रतिकुर्वीत ५
क्लिष्टजिह्माप्रशस्तसूचीव्यधाद्गाढतरवर्तित्वाद्दोषसमुदाया प्रशस्तव्यधाद्वा यत्र संरम्भो वेदना वा भवति तत्र वर्तिमुपहृत्याशु मधु कैरण्डमूलमञ्जिष्ठायवतिलकल्कैर्मधुघृतप्रगाढैरालेपयेत्तावद्यावत् सुरूढ इति सुरूढं चैनं पुनर्विध्येत् विधानं तु पूर्वोक्तमेव ६
तत्र सम्यग्विद्धमामतैलेन परिषेचयेत् त्र् यहात्त्र् यहाच्च वर्ति स्थूलतरां दद्यात् परिषेकं च तमेव ७
अथ व्यपगतदोषोपद्र वे कर्णे वर्धनार्थं लघु वर्धनकं कुर्यात् ८
एवं विवर्धितः कर्णश्छिद्यते तु द्विधा नृणाम्
दोषतो वाऽभिघाताद्वा सन्धानं तस्य मे शृणु ९
तत्र समासेन पञ्चदशकर्णबन्धाकृतयः तद्यथानेमिसन्धानक उत्पलभेद्यको वल्लूरक आसङ्गिमो गण्डकर्ण आहार्यो निर्वेधिमो व्यायोजिमः कपाटसन्धिकोऽधकपाटसन्धिकः संक्षिप्तो हीनकर्णो वल्लीकर्णो यष्टिकर्णः काकौष्ठकः इति तेषु पृथुलायतसमोभयपालिर्नेमिसन्धानकः वृत्तायतसमोभयपालिरुत्पलभेद्यकः ह्रस्ववृत्तसमोभयपालिर्वल्लूरकः अभ्यन्तरदीर्घैकपालिरासङ्गिमः बाह्यदीर्घैकपालिर्गण्डकर्णः अपालि रुभयतोऽप्याहार्यः पीठोपमपालिरुभयतः क्षीणपुत्रिकाश्रितो निर्वेधिम् स्थूलाणुसमविषमपालिर्व्यायोजिमःअभ्यन्तर दीर्घैकपालिरितराल्पपालि कपाटसन्धिकः बाह्यदीर्घैकपालि रितराल्पपालिरर्धकपाटसन्धिकः तत्र दशैते कर्णबन्धविकल्पाः साध्याः तेषां स्वनामभिरेवाकृतयः प्रायेण व्याख्याताः संक्षिप्तादयः पञ्चासाध्याः तत्र शुष्कशष्कुलिरुत्सन्नपालिरितराल्पपलि संक्षिप्तः अनधिष्ठानपालि पर्यन्तयोः क्षीणमांसो हीनकर्णः तनुविषमाल्पपालिर्वल्लीकर्णः ग्रथितमांसस्तब्धसिरातत सूक्ष्मपालिर्यष्टिकर्णः निर्मांससंक्षिप्ताग्राल्पशोणितपाल काकौष्ठक इति बद्धेषवपि तु शोफदाहरागपाकपिडकास्रावयुक्ता न सिद्धिमुपयान्ति १०
भवन्ति चात्र यस्य पालिद्वयमपि कर्णस्य न भवेदिह
कर्णपीठं समे मध्ये तस्य विद्ध्वा विवर्धयेत् ११
वाह्यायामिह दीर्घायां सन्धिराभ्यन्तरो भवेत्
आभ्यन्तरायां दीर्घायां बाह्यसन्घिरुदाहृतः १२
एकैव तु भवेत् पालि स्थूला पृथ्वी स्थिरा च या
तां द्विधा पाटयित्वा तु छित्त्वा चोपरि सन्धयेत् १३
गण्डादुत्पाट्य मांसेन सानुबन्धेन जीवता
कर्णपालीमपालेस्तु कुर्यान्निर्लिख्य शास्त्रवित् १४
अतोऽन्यतमं बन्धं चिकीर्षुरग्रोपहरणीयोक्तोपसंभृतसंभरं विशेषतश्चात्रोपहरेत् सुरामण्डं क्षीरमुदकं धान्याम्लं कपालचूर्णं चेति ततोऽङ्गनां पुरुषं वा ग्रथितकेशान्तं लघु भुक्तवन्तमाप्तऐः सुपरिगृहीतं च कृत्वा बन्धमुपधार्य छेद्यभेद्यलेख्यव्यधनैरुपपन्नैरुपपद्य कर्णशोणितमवेक्ष्य दुष्टमदुष्टं वेति तत्र वातदुष्टे धान्याम्लोष्णोदकाभ्यां पित्तदुष्टे शीतोदकपयोभ्यां श्लेष्मदुष्टे सुरामण्डोष्णोदकाभ्यां प्रक्षाल्य कर्णौ पुनवलिख्यानुन्नतमहीनमविषमं च कर्णसन्धिं सन्निवेश्य स्थितरक्तं संदध्यात् ततो मधुघृतेनाभ्यज्य पिचुप्रोतयोरन्यतरेणावगुण्ठ्य सूत्रेणानवगाढमनतिशिथिलं च बद्ध्वा कपालचूर्णे नावकीर्याचारिकमुपदिशेत् द्विव्रणीयोक्तने च विधानेनोपचरेत् १५
भवति चात्र विघट्टनं दिवास्वप्नं व्यायाममतिभोजनम् व्यवायमग्निसंतापं वाक्श्रमं च विवर्जयेत् १६
न चाशुद्धरक्तमतिप्रवृत्तरक्तं क्षीणरक्तं वा संदध्यात् स हि वातदुष्टे रक्ते रूढोऽपि परिपुटनवान् पित्तदुष्टे दाहपाकरागवेदनावान् श्लेष्मदुष्टे स्तब्धः कण्डूमान् अतिप्रवृत्तरक्ते श्यावशोफवान् क्षीणोऽल्पमांसो न वृद्धिमुपैति १७
आमतैलेन त्रिरात्रं परिषेचयेत् त्रिरात्राच्च पिचुं परिवर्तयेत् स यदा सुरूढो निरुपद्र वः सवर्णो भवति तदैनं शनैः शनैरभिवर्धयेत् अतोऽन्यथा संरम्भदाहपाकरागवेदनावान् पुनश्छिद्यते वा १८
अथास्याप्रदुष्टस्याभिवर्धनार्थमभ्यङ्गः तद्यथा गोधाप्रतुदविष्किरानूपौदकवसामज्जान पयः सर्पिस्तैलं गौरसर्षपजं च यथालाभं संभृत्यार्कालर्कबलातिबलानन्तापामार्गाश्वगन्धा विदारिगन्धाक्षीरशुक्लाजलशूकमधुरवरगपयस्याप्रतिवापं तैलं वा पाचयित्वा स्वनुगुप्तं निदध्यात् १९
स्वेदितोन्मर्दितं कर्णं स्नेहेनैतेन योजयेत्
अथानुपद्र वः सम्यग्बलवांश्च विवर्धते २०
यवाश्वागन्धायष्ट्याह्वैस्तिलैश्चोद्वर्तनं हितम्
शतावर्यश्वगन्धाभ्यां पयस्यैरण्डजीवनैः २१
तैलं विपक्वं सक्षीरमभ्यङ्गात् पालिवर्धनम्
ये तु कर्णा न वर्धन्ते स्वेदस्नेहोपपादिताः २२
तेषामपाङ्गदेशे तु कुर्यात् प्रच्छानमेव तु
बाह्यच्छेदंन कुर्वीत व्यापदः स्युस्ततो ध्रुवाः २३
बद्धमात्रं तु यः कर्णं सहसैवाभिवर्धयेत्
आमकोशी समाध्मातः क्षिप्रमेव विमुच्यते २४
जातरोमा सुवर्त्मा च श्लिष्टसन्धिः समः स्थिरः
सुरूढोऽवेदनो यश्च तं कर्णं वर्धयेच्छनैः २५
अमिताः कर्णबन्धास्तु विज्ञेयाः कुशलैरिह
यो यथा सुविशिष्टः स्यात्तं तथा विनियोजयेत् २६
किर्णपाल्यामयान्नॄणां पुनर्वक्ष्यामि सुश्रुत
कर्णपाल्यां प्रकुपिता वातपित्तकफास्त्रयः १
द्विधा वाऽप्यथ संसृष्टाः कुर्वन्ति विविधा रुजः
विस्फोटः स्तब्धता शोफः पाल्यां दोषे तु वातिके २
दाहविस्फोटजननं शोफः पाकश्च पैत्तिके
कण्डूः सश्वयथुः स्तम्भो गुरुत्वं च कफात्मके ३
यथादोषं च संशोध्य कुर्यात्तेषां चिकित्सितम्
स्वेदाभ्यङ्गपरीषेकैः प्रलेपासृग्विमोक्षणैः ४
मृद्वीं क्रियां बृंहणीयैर्यथास्वं भोजनैस्तथा
य एवं वेत्ति दोषाणां चिकित्सां कर्तुमर्हति ५
अत ऊर्ध्वं नामलिङ्गैर्वक्ष्ये पाल्यामुपद्र वान्
उत्पाटकश्चोत्पुटकः श्यावः कण्डूयुतो भृशम् ६
अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा
स्रावी च दाहवांश्चैव शृण्वेषां क्रमशः क्रियाम् ७
अपामार्गः सर्जरसः पाटलालकुचत्वचौ
उत्पाटके प्रलेपः स्यात्तैलमेभिश्च पाचयेत् ८
शम्पाकशिग्रुपूतीकान् गोधामेदोऽथ तद्वसाम्
वाराहं गव्यमैणेयं पित्तं सर्पिश्च संसृजेत् ९
लेपमुत्पुटके दद्यात्तैलमेभिश्च साधितम्
गौरीं सुगन्धां सश्यामामनन्तां तण्डुलीयकम् १०
श्यावे प्रलेपनं दद्यात्तैलमेभिश्च साधितम्
पाठां रसाञ्जनं क्षौद्रं तथा स्यादुष्णकाञ्जिकम् ११
दद्याल्लेपं सकण्डूके तैलमेभिश्च साधितम्
व्रणीभूतस्य देयं स्यादिदं तैलं विजानता १२
मधुकक्षीरकाकोलीजीवकाद्यैर्विपाचितम्
गोधावराहसर्पाणां वसाः स्युः कृतबृंहणे १३
प्रलेपनमिदं दद्यादवसिच्यावमन्थके
प्रपौण्डरीकं मधुकं समङ्गां धवमेव च १४
तैलमेभिश्च संपक्वं शृणु कण्डूमतः क्रियाम्
सहदेवा विश्वदेवा अजाक्षीरं ससैन्धवम्
एतैरालेपनं दद्यात्तैलमेभिश्च साधितम् १५
ग्रन्थिके गुटिकां पूर्वं स्रावयेदवपाट्य तु
ततः सैन्धवचूर्णं तु घृष्ट्वा लेपं प्रदापयेत् १६
लिखित्वा तत्स्रुतं घृष्ट्वा चूर्णैर्लोध्रस्य जम्बुले
क्षीरेण प्रतिसार्यैनं शुद्धं संरोपयेत्ततः १७
मधुपर्णी मधूकं च मधुकं मधुना सह
लेपः स्राविणि दातव्यस्तैलमेभिश्च साधितम् १८
पञ्चवल्कैः समधुकैः पिष्टैस्तैश्च घृतान्वितैः
जीवकाद्यैः ससर्पिष्कैर्दह्यमानं प्रलेपयेत् १९
विश्लेषितायास्त्वथ नासिकाया वक्ष्यामि सन्धानविधिं यथावत् नासाप्रमाणं पृथिवीरुहाणां पत्रं गृहीत्वा त्ववलम्बि तस्य २७
तेन प्रमाणेन हि गण्डपार्श्वादुत्कृत्य बद्धं त्वथ नासिकाग्रम् विलिख्य चाशु प्रतिसंदधीत तत् साधुबन्धैर्भिषगप्रमत्तः २८
सुसंहितं सम्यगतो यथावन्नाडीद्वयेनाभिसमीक्ष्य बद्ध्वा प्रोन्नम्य चैनामवचूर्णयेत्तुपतङ्गयष्टीमधुकाञ्जनैश्च २९
संछाद्य सम्यक् पिचुना सितेन तैलेन सिञ्चेदसकृत्तिलानाम् घृतं च पाय्यः स नरः सुजीर्णे स्निग्धो विरेच्यः स यथोपदेशम् ३०
रूढं च सन्धानमुपागतं स्यात्तदर्धशेषं तु पुनर्निकृन्तेत् हीनां पुनर्वर्धयितुं यतेत समां च कुर्यादतिवृद्धमांसाम् ३१
नाडीयोगं विनौष्ठस्य नासासन्धानवद्विधिम्
य एवमेव जानीयात् स राज्ञः कर्तुमर्हति ३२
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने कर्णव्यधबन्धविधिर्नाम षोडशोऽध्यायः १६
सप्तदशोऽध्यायः
अथात आमपक्वैषणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शोफसमुत्थाना ग्रन्थिविद्र ध्यलजीप्रभृतयः प्रायेण व्याधयोऽभिहिता अनेकाकृतयः तैर्विलक्षणः पृथुर्ग्रथितः समो विषमो वा त्वङ्मांसस्थायी दोषसंघातः शरीरैकदेशोत्थितः शोफ इत्युच्यते ३
स षड्विधो वातपित्तकफशोणितसन्निपातागन्तुनिमित्तः तस्य दोषरूपव्यञ्जनैर्लक्षणानि व्याख्यास्यामः तत्र वातशोफः कृष्णोऽरुणो वा परुषो मृदुरनवस्थितास्तोदादयश्चात्र वेदना विशेषा भवन्ति पित्तशोफः पीतो मृदुः सरक्तो वा शीघ्रानुसार्योषादयश्चत्रा वेदनाविशेषा भवन्ति श्लेष्मश्वयथुः पाण्डुः कठिनः स्निग्धः शीतो स्निग्धो मन्दानुसारी कण्ड्वादयश्चात्र वेदना विशेषा भवन्ति सर्ववर्णवेदनः सन्निपातश्वयथ् पित्तवच्छोणितजोऽतिकृष्णश्चा पित्तरक्तलक्षण आगन्तुर्लोहितावभासश्च ४
स यदा बाह्याभ्यन्तरैः क्रियाविशेषैर्न संभावितः प्रशमयितुं क्रियाविपर्ययाद्बहुत्वाद्वा दोषाणां तदा पाकाभिमुखो भवति तस्यामस्य पच्यमानस्य पक्वस्य च लक्षणमुच्यमानमुपधारय तत्र मन्दोष्मता त्वक्सवर्णता शीतशोफता स्थैर्यं मन्दवेदनताऽल्पशोफता चामलक्षणमुद्दिष्टं सूचिभिरिव निस्तुद्यते दश्यत इव पिपीलिकाभिः ताभिश्चसंसर्प्यत इव छिद्यत इव शस्त्रेणभिद्यत इव शक्तिभिः ताड्यत इव दण्डेन पीड्यत इव पाणिना घट्यत इव चाङ्गुल्या दह्यते पच्यत इव चाग्निक्षाराभ्याम् ओषचोषपरीदाहाश्च भवन्ति वृश्चिकविद्ध इव च स्थानासनशयनेषु न शान्तिमुपैति आध्मातबस्तिरिवाततश्चशोफो भवति त्वग्वैवर्ण्यं शोफाभिवृद्धिर्ज्वरदाहपिपासा भक्तारुचिश्च पच्यमानलिङ्गं वेदनोपशान्तिः पाण्डुताऽल्पशोफता वलीप्रादुर्भावस्त्वक्परिपुटनं निम्नदर्शनमङ्गुल्याऽवपीडिते प्रत्युन्नमनं बस्ताविवोदकसंचरणं पूयस्य प्रपीडयत्येकमन्तमन्ते चावपीडिते मुहुर्मुहुस्तोदः कण्डूरुन्नतता व्याधेरुपद्र वशान्तिर्भक्ताभिकाङ्क्षा च पक्वलिङ्गम् कफजेषु तु रोगेषु गम्भीरगतित्वादभिघातजेषु वा केषुचिदसमस्तं पक्वलक्षणं दृष्ट्वा पक्वमपक्वमिति मन्यमानो भिषङ्मोहमुपैति तत्र हि त्वक्सवर्णता शीतशोफता स्थैर्यमल्परुजताऽश्मवच्च घनता न मोहमुपेयादिति ५
भवन्ति चात्र आमं विपच्यमानं च सम्यक् पक्वं च यो भिषक् जानीयात् स भवेद्वैद्यः शेषास्तस्करवृत्तयः ६
वातादृते नास्ति रुजा न पाकः पित्तादृते नास्ति कफाच्च पूयः तस्मात् समस्तान् परिपाककाले पचन्ति शोफांस्त्रय एव दोषाः ७
कालान्तरेणाभ्युदितं तु पित्तं कृत्वा वशे वातकफौ प्रसह्य पचत्यतः शोणितमेव पाकोमतोऽपरेषां विदुषां द्वितीयः ८
तत्र आमच्छेदे मांससिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रं शोणितातिप्रवृत्तिर्वेदनाप्रादुर्भवोऽवदरणमनेकोपद्र व दर्शनं क्षतविद्र धिर्वा भवति स यदा भयमोहाभ्यां पक्वमप्यपक्वमिति मन्यमानश्चिरमुपेक्षते व्याधिं वैद्यस्तदा गम्भीरानुगतो द्वारमलभमानः पूयः स्वमाश्रयमवदार्योत्सङ्गं महान्तमवकाशं कृत्वा नाडीं जनयित्वा कृच्छ्रसाध्यो भवत्यसाध्यो वेति ९
भवति चात्र यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते श्वपचाविव मन्तव्यौ तावनिश्चितकारिणौ १०
प्राक् शस्त्रकर्मणश्चेष्टं भोजयेदातुरं भिषक्
मद्यपं पाययेन्मद्यं तीक्ष्णं यो वेदनाऽसहः ११
न मूर्च्छत्यन्नसंयोगान्मत्तः शस्त्रं न बुध्यते
तस्मादवश्यं भोक्तव्यं रोगेषूक्तेषु कर्मणि १२
प्राणो ह्याभ्यन्तरो नॄणां बाह्यप्राणगुणान्वितः
धारयत्यविरोधेन शरीरं पाञ्चभौतिकम् १३
अल्पो महान् वा क्रियया विना यः समुच्छ्रितः पाकमुपैति शोफः विशालमूलो विषमं विदग्धः स कृच्छ्रतां यात्यवगाढदोषः १४
आलेपविस्रावणाशोधनैस्तु सम्यक् प्रयुक्तैर्यदि नोपशाम्येत् पच्येत शीघ्रं सममल्पमूलः स पिण्डितश्चोपरि चोन्नतः स्यात् १५
कक्षं समासाद्य यथैव वह्निर्वाय्वीरितः संदहति प्रसह्य तथैव पूयोऽप्यविनिःसृतो हि मांसं सिराः स्नायु च खादतीह १६
आदौ विम्लापनं कुर्याद्द्वितीयमवसेचनम्
तृतीयमुपनाहं तु चतुर्थीं पाटनक्रियाम् १७
पञ्चमं शोधनं कुर्यात् षष्ठं रोपणमिष्यते
एते क्रमा व्रणस्योक्ताः सप्तमं वैकृतापहम् १८
इति सुश्रुतसंहितायां सूत्रस्थाने आमपक्वैषणीयो नाम सप्तदशोऽध्यायः १७
अष्टादशोऽध्यायः
अथातो व्रणालेपनबन्धविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
आलेप आद्य उपक्रमः एष सर्वशोफानां सामान्यः प्रधानतमश्च तं च प्रतिरोगं वक्ष्यामः ततो बन्धः प्रधानं तेन शुद्धिर्व्रणरोपणमस्थिसंधिस्थैर्यं च ३
तत्र प्रतिलोममालिम्पेत् प्रतिलोमे हि सम्यगौषधमवतिष्ठतेऽनु प्रविशति च रोमकूपान् स्वेदवाहिभिश्च सिरामुखैर्वीर्यं प्राप्नोति ४
न च शुष्यमाणमुपेक्षेत अन्यत्र पीडयितव्यात्
शुष्को ह्यपार्थको रुक्करश्च ५
स त्रिविधः प्रलेपः प्रदेह आलेपश्च प्रलेपप्रदेहयोरन्तरंतत्र प्रलेपः शीतस्तनुरविशोषी विशोषी वा प्रदेहस्तूष्णः शीतो वा बहलोऽबहुरविशोषी च मध्यमोऽत्रालेपः तत्र रक्तपित्त प्रसादकृदालेपः प्रदेहो वातश्लेष्मप्रशमनः शोधनो रोपणः शोफवेदनापहश्च तस्योपयोगः क्षताक्षतेषु यस्तु क्षतेषूपयुज्यते स भूयः कल्क इति संज्ञां लभते निरुद्धालेपनसंज्ञः तेनास्रावसन्निरोधो मृदुता पूतिमांसापकर्षणमनन्तर्दोषता व्रणशुद्धिश्च भवति ६
अविदग्धेषु शोफेषु हितमालेपनं भवेत्
यथास्वं दोषशमनं दाहकण्डूरुजापहम् ७
त्वक्प्रसादनमेवाग्र्यं मांसरक्तप्रसादनम्
दाहप्रशमनं श्रेष्ठं रुजाकण्डूविनाशनम् ८
मर्मदेशेषु ये रोगा गुह्येष्वपि तथा नृणाम्
संशोधनाय तेषां हि कुर्यादालेपनं भिषक् ९
षिड्भागं पैत्तिके स्नेहं चतुर्भागं तु वातिके
अष्टभागं तु कफजे स्नेहमात्रां प्रदापयेत् १०
तस्य प्रमाणं महिषार्द्र चर्मोत्सेधमुपदिशन्ति ११
न चालेपं रात्रौ प्रयुञ्जीत मा भूच्छत्यविहतोष्मणस्तदनिर्गमाद्विकारप्रवृत्तिरिति १२
प्रदेहसाध्ये व्याधौ तु हितमालेपनं दिवा
पित्तरक्ताभिघातोत्थे सविषे च विशेषतः १३
न च पर्युषितं लेपं कदाचिदवचारयेत्
उपर्युपरि लेपं च न कदाचित् प्रदापयेत् १४
ऊष्माणं वेदनां दाहं घनत्वाज्जनयेत् स हि
न च तेनैव लेपेन प्रदेहं दापयेत् पुनः
शुष्कभावात्स निर्वीर्यो युक्तोऽपि स्यादपार्थकः १५
अत ऊर्ध्वं व्रणबन्धनद्र व्याण्युपदेक्ष्यामः
तद्यथाक्षौमकार्पासाविकदुकूलकौशेयपत्रोर्णचीनपट्टचर्मान्तर्वल्कला-लाबशकललताविदलरज्जुतूलफलसन्तानिकालौहानीति तेषां व्याधिं कालं चावेक्ष्योपयोगः प्रकरणतश्चैषामादेशः १६
तत्र कोशदामस्वस्तिकानुवेल्लितमुत्तोलीमण्डलस्थगिकायमकखट्वा-चीनविबन्धवितानगोफणाः पञ्चाङ्गी चेति चतुर्दशबन्धविशेषाः तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः १७
तत्र कोशमङ्गुष्ठाङ्गुलिपर्वसु विदध्यात् दाम संबाधेऽङ्गे सन्धिकूर्चकभ्रूस्तनान्तरतलकर्णेषु स्वस्तिकम् अनुवेल्लितं शाखासु ग्रीवामेढ्रयोः प्रतोलीं वृत्तेऽङ्गे मण्डलम् अङ्गुष्ठाङ्गुलिमेढ्राग्रेषु स्थगिकां यमलव्रणयोर्यमकं हनुशङ्खगण्डेषु खट्वाम् अपाङ्गयोश्चीनं पृष्ठोदरोरःसु विबन्धं मूर्धनि वितानं चिबुकनासौष्ठांसबस्तिषु गोफणां जत्रुण ऊर्ध्वं पञ्चाङ्गीमिति यो वा यस्मिन् शरीरप्रदेशे सुनिविष्टो भवति तं तस्मिन् विदध्यात् १८
यन्त्रणमूर्ध्वमधस्तिर्यक् च १९
तत्र घनां कवलिकां दत्त्वा वामहस्तपरिक्षेपमृजुमनाविद्धमसंकुचतं मृदु पट्टं निवेश्य बध्नीयात् न च व्रणस्योपरि कुर्याद्ग्रन्थिमाबाधकरं च २०
न च विकेशिकौषधे अतिस्निग्धे अतिरूक्षे विषमे वा कुर्वीता यस्मादतिस्नेहात् क्लेदो रौक्ष्याच्छेदोदुर्न्यासाद्व्रणवर्त्मावघर्षणमिति २१
तत्र व्रणायतनविशेषाद्बन्धविशेषस्त्रिविधो भवतिगाढः समःशिथिल इति २२
पीडयन्नरुजो गाढः सोच्छ्वासः शिथिलः स्मृतः नैव गाढो न शिथिलः समो बन्धः प्रकीर्तितः २३
तत्र स्फिक्कुक्षिकक्षावङ्क्षणोरुशिरःसु गाढः शाखावदनकर्ण कण्ठमेढ्रमुष्कपृष्ठपार्श्वोदरोरःसु समः अक्ष्णोः सन्धिषु च शिथिल इति २४
तत्र पैत्तिकं गाढस्थाने समं बध्नीयात् समस्थाने शिथिलं शिथिलस्थाने नैवा एवं शोणितदुष्टं च श्लैष्मिकं शिथिलस्थाने समं समस्थाने गाढं गाढस्थाने गाढतरं एवं वातदुष्टं च २५
तत्र पैत्तिकं शरदि ग्रीष्मे द्विरह्नो बध्नीयात् रक्तोपद्रुतमप्येवां श्लैष्मिकं हेमन्तवसन्तयोस्त्र् यहात् वातोपद्रुतमप्येवम् एवमभ्यूह्य बन्धविपर्ययं च कुर्यात् २६
तत्र समशिथिलस्थानेषु गाढं बद्धे विकेशिकौषधनैरर्थक्यं शोफवेदनाप्रादुर्भावश्च गाढसमस्थानेषु शिथिलं बद्धे विके शिकौषधपतनं पट्टसंचाराद्द्र णवर्त्मावघर्षणमिति गाढशिथिलस्थानेषु समं बद्धे गुणाभाव इति २७
अविपरीतबन्धे वेदनोपशान्तिरसृक्प्रसादो मार्दवं च २८
अबध्यमानो दंशमशकतृणकाष्ठोपलपांशुशीतवातातपप्रभृतिभिर्विशेषैरभिहन्यते व्रणः विविधवेदनोपद्रुतश्च दुष्टतामुपैति आलेपनादीनि चास्य विशोषमुपयान्ति २९
चूर्णितं मथितं भग्नं विश्लिष्टमतिपातितम्
अस्थिस्नायुसिराच्छिन्नमाशु बन्धेन रोहति ३०
सुखमेवं व्रणी शेते सुखं गच्छति तिष्ठति
सुखं शय्यासनस्थस्य क्षिप्रं संरोहति व्रणः ३१
अबन्ध्याः पित्तरक्ताभिघातविषनिमित्ता यदा शोफदाहपाकरागतोदवेदनाभिभूताः क्षाराग्निदग्धाः पाकात् प्रकुथितप्रशीर्णमांसाश्च भवन्ति ३२
कुष्ठिनामग्निदग्धानां पिडका मधुमेहिनाम्
कर्णिकाश्चोन्दुरुविषे विषजुष्टाश्च ये व्रणाः ३३
मांसपाके न बध्यन्ते गुदपाके च दारुणे
स्वबुद्ध्या चापि विभजेत्कृत्याकृत्यांश्च बुद्धिमान् ३४
देशं दोषं च विज्ञाय व्रणं च व्रणकोविदः
ऋतूंश्च परिसंख्याय ततो बन्धान्निवेशयेत् ३५
ऊर्ध्वं तिर्यगधस्ताच्च यन्त्रणा त्रिविधा स्मृता
यथा च बध्यते बन्धस्तथा वक्ष्याम्यशेषतः ३६
घनां कवलिकां दत्त्वा मृदु चैवापि पट्टकम्
विकेशिकामौषधं च नातिस्निग्धं समाचरेत् ३७
प्रक्लेदयत्यतिस्निग्धा तथा रूक्षा क्षिणोति च
युक्तस्नेहा रोपयति दुर्न्यस्ता वर्त्म घर्षति ३८
विषमं च व्रणं कुर्यात् स्तम्भयेत् स्रावयेत्तथा
यथाव्रणं विदित्वा तु योगं वैद्यः प्रयोजयेत् ३९
पित्तजे रक्तजे वाऽपि सकृदेव परिक्षिपेत्
असकृत् कफजे वाऽपि वातजे च विचक्षणः ४०
तलेन प्रतिपीड्याथ स्रावयेदनुलोमतः
सर्वांश्च बन्धान् गूढान्तान् सन्धींश्च विनिवेशयेत् ४१
ओष्ठस्याप्येष सन्धाने यथोद्दिष्टो विधिः स्मृतः
बुद्ध्य्त्प्रोए!क्ष्याभियुक्तेन तथा चास्थिषु जानता ४२
उत्तिष्ठतो निषण्णस्य शयनं चाधिगच्छतः
गच्छतो विविधैर्यानैर्नास्य दुष्यति स व्रणः ४३
ये च स्युर्मांससंस्था वै त्वग्गताश्च तथा व्रणाः
सन्ध्यस्थिकोष्ठप्राप्ताश्च सिरास्नायुगतास्तथा ४४
तथाऽवगाढगम्भीराः सर्वतो विषमस्थिताः
नैते साधयितुं शक्या ऋते बन्धाद्भवन्ति हि ४५
इति सुश्रुतसंहितायां सूत्रस्थाने व्रणालेपनबन्धविधिर्नामाष्टादशोऽध्यायः १८
एकोनविंशोऽध्यायः
अथातो व्रणितोपासनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
व्रणितस्य प्रथममेवागारमन्विच्छेत्
तच्चागारं प्रशस्तवास्त्वादिकं कार्यम् ३
प्रशस्तवास्तुनि गृहे शुचावातपवर्जिते
निवाते न च रोगाः स्युः शारीरागन्तुमानसाः ४
तस्मिञ् शयनमसंबाधं स्वास्तीर्णं मनोज्ञं प्राक्शिरस्कं सशस्त्रं कुर्वीत ५
सुखचेष्टाप्रचारः स्यात् स्वास्तीर्णे शयने व्रणी
प्राच्यां दिशि स्थिता देवास्तत्पूजार्थं च तच्छिरः ६
तस्मिन् सुहृद्भिरनुकूलैः प्रियंवदैरुपास्यमानो यथेष्टमासीत ७
सुहृदो विक्षिपन्त्याशु कथाभिर्व्रणवेदनाः
आश्वासयन्तो बहुशः स्वनुकूलाः प्रियंवदाः ८
न च दिवानिद्रा वशगः स्यात् ९
दिवास्वप्नाद्व्रणे कण्डूर्गात्राणां गौरवं तथा
श्वयथुर्वेदना रागः स्रावश्चैव भृशं भवेत् १०
उत्थानसंवेशनपरिवर्तनचङ्क्रमणोच्चैर्भाषणाद्यास्वात्मचेष्टास्वप्रमत्तो व्रणं संरक्षेत् ११
स्थानासनं चङ्क्रमणं दिवास्वप्नं तथैव च
व्रणितो न निषेवेत शक्तिमानपि मानवः १२
उत्थानाद्यासनं स्थानं शय्या चातिनिषेविता
प्राप्नुयान्मारुतादङ्गरुजस्तस्माद्विवर्जयेत् १३
गम्यानां च स्त्रीणां संदर्शनसंभाषणसंस्पर्शनानि दूरत एव परिहरेत् १४
स्त्रीदर्शनादिभिः शुक्रं कदाचिच्चलितं स्रवेत्
ग्राम्यधर्मकृतान्दोषान् सोऽससर्गेऽप्यवाप्नुयात् १५
नवधान्यमाषतिलकलायकुलत्थनिष्पावहरितकशाकाम्ललवणकटुकगुडपिष्ट-विकृतिवल्लूरशुष्कशाकाजाविकानूपौदकमांसवसाशीतोदककृशरापायसद-धिदुग्धतक्रप्रभृतीनि परिहरेत् १६
तक्रान्तो नवधान्यादिर्योऽय वर्ग उदाहृतः
दोषसंजननो ह्येष विज्ञेयः पूयवर्धनः १७
मद्यपश्च मैरेयारिष्टासवसीधुसुराविकारान् परिहरेत् १८
मद्यमम्लं तथा रूक्षं तीक्ष्णमुष्णं च वीर्यतः
आशुकारि च तत् पीतं क्षिप्रं व्यापादयेद्व्रणम् १९
वातातपरजोधूमावश्यायातिसेवनातिभोजनानिष्टभोजनश्रवणदर्शनेर्ष्यामर्षभयशो-कध्यानरात्रिजागरणविषमाशनशयनोपवासवाग्व्यायामस्थानचङ्क्रमणशीत वातविरुद्धाध्यश-नाजीर्णमक्षिकाद्याबाधाः परिहरेत् २०
व्रणिनः संप्रतप्तस्य कारणैरेवमादिभिः
क्षीणशोणितमांसस्य भुक्तं सम्यङ्न जीर्यति २१
अजीर्णात् पवनादीनां विभ्रमो बलवान् भवेत्
ततः शोफरुजास्रावदाहपाकानवाप्नुयात् २२
सदा नीचनखरोम्णा शुचिना शुक्लवाससा शान्तिमङ्गलदेवताब्राह्मणगुरुपरेण भवितव्यमिति तत् कस्य हेतोः हिंसाविहाराणि हिमहावीर्याणि रक्षांसि पशुपतिकुबेरकुमारानुचराणि मांसशोणितप्रियत्वात् क्षतजनिमित्तं व्रणिनमुपसर्पन्ति सत्कारार्थंजिघांसूनि वा कदाचित् २३
भवति चात्र
तेषां सत्कारकामानां प्रयतेतान्तरात्मना
धूपबल्युपहारांश्च भक्ष्यांश्चैवोपहारयेत् २४
ते तु संतर्पिता आत्मवन्तं न हिंस्युः तस्मात् सततमतन्द्रि तो जनपरिवृतो नित्यं दीपोदकशस्त्रस्रग्दामपुष्पलाजाद्यलङ्कृते वेश्मनि संपन्मङ्गलमनोऽनुकूलाः कथाः शृण्वन्नासीत २५
संपदाद्यनुकूलाभिः कथाभिः प्रीतमानसः
आशावान् व्याधिमोक्षाय क्षिप्रं सुखमवाप्नुयात् २६
ऋग्यजुःसामाथर्ववेदाभिहितैरपरैश्चाशीर्विधानैरुपा
ध्याया भिषजश्च सन्ध्ययो रक्षां कुर्युः २७
सर्षपारिष्टपत्राभ्यां सर्पिषा लवणेन च
द्विरह्नः कारयेद्धूपं दशरात्रमतन्द्रि तः २८
छत्रामतिच्छत्रां लाङ्गूङ्गिलिद्यं जटिलां ब्रह्मचारिणीं लक्ष्मीं गुहामतिगुहां
वचामतिविषां शतवीर्यां सहस्रवीर्यां सिद्धार्थकांश्च शिरसा धारयेत् २९
व्यज्येत बालव्यजनैर्व्रणं न च विघट्टयेत्
न तुदेन्न च कण्डूयेच्छयानः परिपालयेत् ३०
अनेन विधिना युक्तमादावेव निशाचराः
वनं केशरिणाऽक्रान्तं वर्जयन्ति मृगा इव ३१
जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्र वोत्तरम्
भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति ३२
तण्डुलीयकजीवन्तीसुनिषण्णकवास्तुकैः
बालमूलकवार्ताकपटोलैः कारवेल्लकैः ३३
सदाडिमैः सामलकैर्घृतभृष्टैः ससैन्धवैः
अन्यैरेवंगुणैर्वाऽपि मुद्गादीनां रसेन वा
शक्तून् विलेपीं कुल्माषाञ्जलं चापि शृतं पिबेत् ३४
दिवा न निद्रा वशगो निवातगृहगोचरः
व्रणी वैद्यवशे तिष्ठञ् शीघ्रं व्रणमपोहति ३५
व्रिणे श्वयथुरायासात् स च रागश्च जागरात्
तौ च रुक् च दिवास्वापात्ताश्च मृत्युश्च मैथुनात् ३६
एवंवृत्तसमाचारो व्रणी संपद्यते सुखी
आयुश्च दीर्घमाप्नोति धन्वन्तरिवचो यथा ३७
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने व्रणितोपासनीयोनामैकोनविंशोऽध्यायः १९
विंशतितमोऽध्यायः
अथातो हिताहितीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
यद्वायोः पथ्यं तत् पित्तस्यापथ्यमित्यनेन हेतुना न किंचिद्द्र व्यमेकान्तेन हितमहितं वाऽस्तीति केचिदाचार्या ब्रुवते तत्तु न सम्यक् इह खलु यस्माद्द्र व्याणि स्वभावतः संयोगतश्चैकान्तहितान्येकान्ताहितानि हिताहितानि च भवन्ति ३
तत्र एकान्तहितानि जातिसात्म्यात् सलिलघृतदुग्धौदनप्रभृतीनि एकान्ताहितानि तु दहनपचनमारणादिषुप्रवृत्तान्यनलक्षारविषादीनि संयोगादपराणि विषतुल्यानि भवन्ति हिताहितानि तु यद्वायोः पथ्यं तत् पित्तस्यापथ्यमिति ४
अतः सर्वप्राणिनामयमाहारार्थं वर्ग उपदिश्यते तद्यथारक्तशालिषष्टिककङ्गुकमुकुन्दकपाण्डुकपीतकप्रमोदक कालकासनपुष्पककर्दमकशकुनाहृतसुगन्धककलमनीवारकोद्र वोद्दालक श्यामाकगोधूमयववैणवैणहरिणकुरङ्गमृगमातृकाश्वदंष्ट्राकरालक्रकरकपोतलावतित्ति-रिकपिञ्जलवर्तीरवर्तिकामुद्गवनमुद्गमकुष्ठकलायमसूरमङ्गल्यचणकहरेण्वाढकीसतीना-श्चिल्लिवास्तुकसुनिषण्णक जीवन्ती तण्डुलीयकमण्डूकपर्ण्यः गव्यं घृतं सैन्धवं दाडिमामलकमित्येष वर्गः सर्वप्राणिनां सामान्यतः पथ्यतमः ५
तथा ब्रह्मचर्यनिवातशयनोष्णोदकस्नाननिशास्वप्नव्यायामाश्चैकान्ततः पथ्यतमाः ६
एकान्तहितान्येकान्ताहितानि तु प्रागुपदिष्टानि हिताहितानि तु यद्वायोः पथ्यं तत् पित्तस्यापथ्यमिति ७
संयोगतस्त्वपराणि विषतुल्यानि भवन्ति तद्यथावल्लीफलकवककरीराम्लफललवणकुलत्थपिण्याकदधितै-लविरोहिपिष्टशुष्कशाकाजाविकमांसमद्यजाम्बवचिलिचिममत्स्यगोधावराहांश्च नैकध्यमश्र्नीयात् पयसा ८
रोगं सात्म्यं च देशं च कालं देहं च बुद्धिमान्
अवेक्ष्याग्न्यादिकान् भावान् रोगवृत्तेः प्रयोजयेत् ९
अवस्थान्तरबाहुल्याद्रो गादीनां व्यवस्थितम्
द्र व्यं नेच्छन्ति भिषज इच्छन्ति स्वस्थरक्षणे १०
द्वयोरन्यतरादाने वदन्ति विषदुग्धयोः
दुग्धस्यैकान्तहिततां विषमेकान्ततोऽहितम् ११
एवं युक्तरसेष्वेषु द्र व्येषु सलिलादिषु
एकान्तहिततां विद्धि वत्स सुश्रुत नान्यथा १२
अतोऽन्यान्यपि संयोगादहितानि वक्ष्यामःनवविरूढधान्यैर्वसामधुपयगुडमाषैर्वा ग्राम्यानूपौदकपिशितादीनि नाभ्यवहरेत् न पयोमधुभ्यां रोहिणीशाकं जातुकशाकंवाऽश्र्नीयात् बलाकां वारुणीकुल्माषाभ्यां काकमाचीं पिप्पलीमरिचाभ्यां नाडीभङ्गशककुक्कुटदधीनि च नैकध्यां मधु चोष्णोदकानुपानां पित्तेन चाममांसानि सुराकृशरापायसांश्च नैकध्यं सव्रकेण सहतिलशष्कुल्ममत्स्यैः सहेक्षुविकाराना गुडेन काकमाचीं मधुना मूलकं गुडेन वाराहं मधुना च सह विरुद्धं क्षीरेण मूलकम् आम्रजाम्बवश्वाविच्छूकरगोधाश्चा सर्वांश्च मत्स्यान् पयसा विशेषेण चिलिचिमं कदलीफलं तालफलेन पयसा दध्ना तक्रेण वा लकुचफलं पयसा दध्ना माषसूपेन वा प्राक्पयसः पयसोऽन्ते वा १३
अतः कर्मविरुद्धान् वक्ष्यामःकपोतान् सर्षपतैलभृष्टान्नाद्याता कपिञ्जलमयूरलावतित्तिरिगोधाश्चैरण्डदार्व्यग्निसिद्धा एरण्डतैलसिद्धा वा नाद्यात् कांस्यभाजने दशरात्रपर्युषितं सर्पिः मधु चोष्णैरुष्णे वा मत्स्यपरिपचने शृङ्गवेरपरिपचने वा सिद्धां काकमाचीं । तिलकल्कसिद्धमुपोदिकाशाकं नारिकेलेन वराहवसापरिभृष्टां बलाकां भासमङ्गारशूल्यं नाश्नीयादिति १४
अतो मानविरुद्धान् वक्ष्यामःमध्वम्बुनी मधुसर्पिषी मानतस्तुल्ये नाश्नीयात् स्नेहौ मधुस्नेहौ जलस्नेहौ वा विशेषादान्तरीक्षोदकानुपानौ १५
अत ऊर्ध्वं रसद्वन्द्वानि रसतो वीर्यतो विपाकतश्च विरुद्धानिवक्ष्यामःतत्र मधुराम्लौ रसवीर्यविरुद्धौ मधुरलवणौ च मधुरकटुकौ च सर्वतः मधुर तिक्तौ रसविपाकाभ्यां मधुरकषायऔ च अम्ललवणौ रसतः अम्लकटुकौ रसविपाकाभ्याम् अम्लतिक्तावम्लकषायौ च सर्वतः लवणकटुकौ रसविपाकाभ्यां लवणतिक्तौ लवणकषायौ च सर्वतः कटुतिक्तौ रसवीर्याभ्यां कटुकषायौ च तिक्तकषायौ रसतः १६
तरतमयोगयुक्तांश्च भावानतिस्निग्धानतिरूक्षानत्यु ष्णानतिशीतानित्येवमादीन् विवर्जयेत् १७
भवन्ति चात्र
विरुद्धान्येवमादीनि वीर्यतो यानि कानिचित्
तान्येकान्ताहितान्येव शेषं विद्याद्धिताहितम् १८
व्याधिमिन्द्रि यदौर्बल्यं मरणं चाधिगच्छति
विरुद्धरसवीर्याणि भुञ्जानोऽनात्मवान्नरः १९
यत्किंचिंद्दोषमुत्क्लेश्य भुक्तं कायान्न निर्हरेत्
रसादिष्वयथार्थं वा तद्विकाराय कल्पते २०
विरुद्धाशनजान् रोगान् प्रतिहन्ति विरेचनम्
वमनं शमनं वाऽपि पूर्वं वा हितसेवनम् २१
सात्म्यतोऽल्पतया वाऽपि दीप्ताग्नेस्तरुणस्य च
स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् २२
अथ वातगुणान् वक्ष्याम पूर्वः समधुरः स्निग्धो लवणश्चैव मारुतः गुरुर्विदाहजननो रक्तपित्ताभिवर्धनः २३
क्षतानां विषजुष्टानां व्रणिनः श्लेष्मलाश्च ये
तैषामेव विशेषेण सदा रोगविवर्धनः २४
वातलानां प्रशस्तश्च श्रान्तानां कफशोषिणाम्
मधुरश्चाविदाही च कषायानुरसो लघुः
दक्षिणो मारुतः श्रेष्ठश्चक्षुष्यो बलवर्धनः २५
रक्तपित्तप्रशमनो न च वातप्रकोपणः
विशदो रूक्षपरुषः खरः स्नेहबलापहः २६
पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः
सद्यः प्राणक्षयकरः शोषणस्तु शरीरिणाम् २७
उत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च
कषायानुरसः शीतो दोषाणां चाप्रकोपणः २८
तस्माच्च प्रकृतिस्थानां क्लेदनो बलवर्धनः
क्षीणक्षयविषार्तानां विशेषेण तु पूजितः २९
इति सुश्रुतसंहितायां सूत्रस्थाने हिताहितीयो नाम विंशोऽध्यायः २०
एकविंशोऽध्यायः
अथातो व्रणप्रश्नमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातपित्तश्लेष्माण एव देहसंभवहेतवः तैरेवाव्यापन्नैरधोमध्योर्ध्वसन्निविष्टैः शरीरमिदं धार्यतेऽगारमिव स्थूणाभिस्तिसृभिः अतश्च त्रिस्थूणमाहुरेके त एव च व्यापय्ननाः प्रलयहेतवः तदेभिरेव शोणितचतुर्थैः संभवस्थितिप्रलयेष्वप्यविरहितं शरीरं भवति ३
भवति चात्र
नर्ते देहः कफादस्ति न पित्तान्न च मारुतात्
शोणितादपि वा नित्यं देह एतैस्तु धार्यते ४
तत्र वा गतिगन्धनयोः इति धातुः तप संतापे श्लिष आलिङ्गने एतेषां कृद्विहितैः प्रत्ययैर्वातः पित्तं श्लेष्मेति च रूपाणि भवन्ति ५
दोषस्थानान्यत ऊर्ध्वं वक्ष्यामःतत्र समासेन वातः श्रोणिगुदसंश्रयःतदुपर्यधो नाभेः पक्वाशयः पक्वामाशयमध्यं पित्तस्य आमाशयः श्लेष्मणः ६
अतः परं पञ्चधा विभज्यन्ते तत्र वातस्य वातव्याधौ वक्ष्यामः पित्तस्य यकृत्प्लीहानौ हृदयं दृष्टिस्त्वक् पूर्वोक्तं च श्लेष्मण उरः शिरः कण्ठो जिह्वामूलं सन्धय इति पूर्वोक्तं च एतानि खलु दोषाणां स्थानान्यव्यापन्नानाम् ७
भवति चात्र
विसर्गोदानविक्षेपैः सोमसूर्यानिला यथा
धारयन्ति जगद्देहं कफपित्तानिलास्तथा ८
तत्र जिज्ञास्यं किं पित्तव्यतिरेकादन्योऽग्नि आहोस्वित् पित्तमेवाग्निरिति अत्रोच्यते न खलु पित्तव्यतिरेकादन्योऽग्निरुपलभ्यते आग्नेयत्वात् पित्ते दहनपचनादिष्वभिप्रवर्तमानेऽर्निगवदुपचारः क्रियतेऽन्तरग्निरिति क्षीणे ह्यग्निगुणे तत्समानद्र व्योपयोगात् अतिवृद्धे शीतक्रियोपयोगात् आगमाच्च पश्यामो न खलु पित्तव्यतिरेकादन्योऽग्निरिति ९
तच्चादृष्टहेतुकेन विशेषेण पक्वामाशयमध्यस्थं पित्तं चतुर्विधमन्नपानं पचति विवेचयति च दोषरसमूत्रपुरीषाणि तत्रस्थमेव चात्मशक्त्या शेषाणां पित्तस्थानानां शरीरस्य चाग्निकर्मणाऽनुग्रहं करोति तस्मिन् पित्ते पाचकोऽग्निरिति संज्ञा यत्तु यकृत्प्लीह्नोः पित्तं तस्मिन् रञ्जकोऽग्निरिति संज्ञा स रसस्य रागकृदुक्ताः यत् पित्तं हृदयस्थं तस्मिन् साधकोऽग्निरिति संज्ञा सोऽभिप्रार्थितमनोरथसाधनकृदुक्तः यदृष्ट्यां पित्तं तस्मिन्नालोचकोऽन्निगरिति संज्ञा स रूपग्रहणाधिकृताः यत्तु त्वचि पित्तं तस्मिन् भ्राजकोऽग्निरिति संज्ञा सोऽभ्यङ्गपरिषेकावगाहालेपनादीनां क्रियाद्र व्याणां पक्ता छायानां च प्रकाशकः १०
भवति चात्र
पित्तं तीक्ष्णं द्र वं पूति नीलं पीतं तथैव च
उष्णं कटुरसं चैव विदग्धं चाम्लमेव च ११
अत ऊर्ध्वं श्लेष्मस्थानान्यनुव्याख्यास्यामः
तत्र आमाशयः पित्ताशयस्योपरिष्टात् तत्प्रत्यनीकत्वादूर्ध्वगतित्वात्तेजसः चन्द्र इव आदित्यस्य चतुर्विधस्याहारस्याधाराः स च तत्रौदकैर्गुणैराहारःप्रक्लिन्नो भिन्नसंघातः सुखजरो भवति १२
माधुर्यात् पिच्छिलत्वाच्च प्रक्लेदित्वात्तथैव च
आमाशये संभवति श्लेष्मा मधुरशीतलः १३
स तत्रस्थ एव स्वशक्त्या शेषाणां श्लेष्मस्थानानां शरीरस्य चोदककर्मणाऽनुग्रहं करोति उरःस्थस्त्रिकसन्धारणमात्मवीर्येणान्नरससहितेन हृदयावलम्बनं करोति जिह्वामूलकण्ठस्थो जिह्वेन्द्रि यस्य सौम्यत्वात् सम्यग्रसज्ञाने वर्तते शिरःस्थः स्नेहसंतर्पणाधिकृतत्वादिन्द्रि याणामात्मवीर्येणानुग्रहं करोति सन्धिस्थः श्लेष्मा सर्वसन्धिसंश्लेषात् सर्वसन्ध्यनुग्रहं करोति १४
भवति चात्र
श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छिलः शीत एव च
मधुरस्त्वविदग्धः स्याद्विदग्धो लवणः स्मृतः १५
शोणितस्य स्थानं यकृत्प्लीहानौ तच्च प्रागभिहितं
तत्रस्थमेव शेषाणां शोणितस्थानानामनुग्रहं करोति १६
भवति चात्र
अनुष्णशीतं मधुरं स्निग्धं रक्तं च वर्णतः
शोणितं गुरु विस्रं स्याद्विदाहश्चास्य पित्तवत् १७
एतानि खलु दोषस्थानानि एषु संचीयन्ते दोषाः प्राक् संचयहेतुरुक्तः तत्र संचितानां खलु दोषाणां स्तब्धपूर्णकोष्ठता पीतावभासता मन्दोष्मता चाङ्गानां गौरवमालस्यं चयकारणविद्वेषश्चेति लिङ्गआनि भवन्ति तत्र प्रथमः क्रियाकालः १८
अत ऊर्ध्वं प्रकोपणानि वक्ष्यामः तत्र बलवद्विग्रहातिव्यायामव्यवायाध्ययनप्रपतनप्रधावनप्रपीडनाभिघात लङ्घनप्लवनप्रतरण रात्रिजागरणभारहरणगजतुरगरथपदातिचर्या कटुकषायतिक्तरूक्षलघुशीत-वीर्यशुष्कशाकवल्लूरवरकोद्दलाक कोरदूषश्यामाकनीवारमुद्गमसूराढकीहरेणुकलायनिष्पावान-शनविषमाशनाध्यशनवातमूत्रपुरीषशुक्रच्छर्दिक्षवथूद्गार बाष्पवेग विघातादिभिर्विशेषैर्वायुः प्रकोपमापद्यते १९
स शीताभ्रप्रवातेषु घर्मान्ते च विशेषतः
प्रत्यूषस्यपराह्णे च जीर्णेऽन्ने च प्रकुप्यति २०
क्रोधशोकभयायासोपवासविदग्धमैथुनोपगमनकट्वम्ललवणतीक्ष्णोष्णलघुवि-दाहितिलतैलपिण्याककुलत्थसर्षपातसीहरितकशाकगोधामत्स्याजावि-कमांसदधितक्रकूर्चिकामस्तुसौवीरकसुराविकाराम्लफलकट्वरप्रभृतिभिः पित्तं प्रकोपमापद्यते २१
तदुष्णैरुष्णकाले च घनान्ते च विशेषतः
मध्याह्ने चार्धरात्रे च जीर्यत्यन्ने च कुप्यति २२
दिवास्वप्नाव्यायामालस्यमधुराम्ललवणशीतस्निग्धगुरुपिच्छिलाभिष्यन्दिहाय-नकयवकनैषधेत्कटमाषमहामाषगोधूमतिलपिष्टविकृतिद-धिदुग्धकृशरापायसेक्षुविकारानूपौदकमांसवसाबि समृणालकसेरुकशृङ्गटाकमधुरवल्ली फलसमशनाध्यशनप्रभृतिभिः श्लेष्मा प्रकोपमापद्यते २३
स शीतैः शीतकाले च वसन्ते च विशेषतः
पूर्वाह्णे च प्रदोषे च भुक्तमात्रे प्रकुप्यति २४
पित्तप्रकोपणैरेव चाभीक्ष्णं द्र वस्निग्धगुरुभिराहारैर्दिवास्वप्नक्रोधानलातपश्रमाभिघाताजीर्णविरुद्धाध्यश-नादिभिर्विशेषैरसृक् प्रकोपमापद्यते २५
यस्माद्र क्तं विना दोषैर्न कदाचित् प्रकुप्यति
तस्मात्तस्य यथादोषं कालं विद्यात् प्रकोपणे २६
तेषां प्रकोपात् कोष्ठतोदसंचरणाम्लीकापिपासापरिदाहान्नद्वेषहृदयोत्क्लेदाश्च जायन्ते तत्र द्वितीयः क्रियाकालः २७
अत ऊर्ध्वं प्रसरं वक्ष्यामःतेषामेभिरातङ्कविशेषैः प्रकुपितानां किण्वोकपिष्टसमवाय इवोद्रि क्तानां प्रसरो भवति तेषां वायुर्गतिमत्त्वात् प्रसरणहेतुः सत्यप्यचैतन्ये स हि रजोभूयिष्ठाः रजश्च प्रवर्तकं सर्वभावानाम् यथामहानुदकसंचयोऽतिवृद्धः सेतुमवदार्यापरेणोदकेन व्यामिश्रः सर्वतः प्रधावति एवं दोषाः कदाचिदेकशो द्विशः समस्ताः शोणितसहिता वाऽनेक्रधा प्रसरन्ति तद्यथावातः पित्तं श्लेष्मा शोणितं वातपित्ते वातश्लेष्माणौ पित्तश्लेष्माणौ वातशोणिते पित्तशोणिते श्लेष्मशोणिते वातपित्तशोणितानि वातश्लेष्मशोणितानि पित्तश्लेष्मशोणितानि वातपित्तकफाः वातपित्तकफशोणितानीति एवं पश्चदशधा प्रसरन्ति २८
कृत्स्नेऽधेऽवयवे वाऽपि यत्राङ्गे कुपितो भृशम्
दोषो विकारं नभसि मेघवत्तत्र वर्षति २९
नात्यर्थं कुपितश्चापि लीनो मार्गेषु तिष्ठति
निष्प्रत्यनीकः कालेन हेतुमासाद्य कुप्यति ३०
तत्र वायोः पित्तस्थानगतस्य पित्तवत् प्रतीकारः पित्तस्य च कफस्थानगतस्य कफवत् कफस्य च वातस्थानगतस्य वातवता एष क्रियाविभागः ३१
एवं प्रकुपितानां प्रसरतां वायोर्विमार्गगमनाटोपौ ओषचोषपरिदाहधूमायनानि पित्तस्य अरोचकाविपाकाङ्गसादाश्छर्दिश्चेति श्लेष्मणो लिङ्गानि भवन्ति तत्र तृतीयः क्रियाकालः ३२
अत ऊर्ध्वं स्थानसंश्रयं वक्ष्यामः एवं प्रकुपितातांस्ताञ् शरीरप्रदेशानागम्य तांस्तान् व्याधीन् जनयन्ति ते यदोदरसन्निवेशं कुर्वन्ति तदा गुल्म विद्र ध्युदराग्निसङ्गानाहविसूचिकातिसारप्रभृतीञ्जनयन्ति वस्तिगताः प्रमेहाश्मरीमूत्राघातमूत्रदोषप्रभृतीना मेढ्रगता निरुद्ध प्रकशोपदंशशूकदोष प्रभृतीन् गुदगता भगन्दरार्शः प्रभृतीना वृषणगता वृद्ध् ऊर्ध्वजत्रुगतास्तूर्ध्वजाना त्वङ्मांसशोणितस्थाः क्षुद्र रोगान् कुष्ठानि विसर्पांश्चा मेदोगताग्रन्थ्यपच्यर्बुदगलगण्डालजीप्रभृतीना अस्थिगताविद्र ध्यनुशयी प्रभृतीना पादगताः श्लीपदवातशोणितवातकण्टकप्रभृतीना सर्वाङ्गगता ज्वरसर्वाङ्गरोगप्रभृतीन् तेषामेवमभिसंनिविष्टानां पूर्वरूपप्रादुर्भावाः तं प्रतिरोगं वक्ष्यामः तत्र पूर्वरूपगतेषु चतुर्थः क्रियाकालः ३३
अत ऊर्ध्वं व्याधेर्दर्शनं वक्ष्यामःशोफार्बुदग्रन्थिविद्र धिविसर्प प्रभृतीनां प्रव्यक्तलक्षणता ज्वरातीसारप्रभृतीनां च तत्र पञ्चमः क्रियाकालः ३४
अत ऊर्ध्वमेतेषामवदीर्णानां व्रणभावमापन्नानां षष्ठः क्रियाकालः ज्वरातिसारप्रभृतीनां च दीर्घकालानुबन्धः तत्राप्रतिक्रियमाणेऽसाध्यतामुपयान्ति ३५
भवति चात्र
संचयं च प्रकोपं च प्रसरं स्थानसंश्रयम्
व्यक्तिं भेदं च यो वेत्ति दोषाणां स भवेद्भिषक् ३६
संचयेऽपहृता दोषा लभन्ते नोत्तरा गतीः
ते तूत्तरासु गतिषु भवन्ति बलवत्तराः ३७
सर्वैर्भावैस्त्रिभिर्वाऽपि द्वाभ्यामेकेन वा पुनः
संसर्गे कुपितः क्रुद्धं दोषं दोषोऽनुधावति ३८
संसर्गे यो गरीयान् स्यादुपक्रम्यः स वै भवेत्
शेषदोषाविरोधेन सन्निपाते तथैव च ३९
वृणोति यस्माद्रू ढेऽपि व्रणवस्तु न नश्यति
आदेहधारणात्तस्माद्ब्रण इत्युच्यते बुधैः ४०
इति सुश्रुतसंहितायां सूत्रस्थाने व्रणप्रश्नाध्यायोनामैकविंशोध्यायः २१
द्वाविंशोऽध्यायः
अथातो व्रणास्रावविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
त्वङ्मांससिरास्नाय्वस्थिसन्धिकोष्ठमर्माणीत्यष्टौ व्रणवस्तूनि
अत्र सर्वव्रणसन्निवेशः ३
तत्र आद्यैकवस्तुसन्निवेशी त्वग्भेदी व्रणः सूपचरः शेषाः स्वयमवदीर्यमाणा
दुरुपचाराः ४
तत्रायतश्चतुरस्रो वृत्तस्त्रिपुटक इति व्रणाकृतिसमासः शेषास्तु विकृताकृतयो
दुरुपक्रमा भवन्ति ५
सर्व एव व्रणाः क्षिप्रं संरोहन्त्यात्मवतां सुभिषग्भिश्चोपक्रान्ताः अनात्मवतामज्ञैश्चोपक्रान्ताः प्रदुष्यन्ति प्रवृद्धत्वाद्दोषाणाम् ६
तत्रातिसंवृतोऽतिविवृतोऽतिकठिनोऽतिमृदुरुत्सन्नोऽवसन्नोऽतिशीतोऽत्युष्णः कृष्णरक्तपीतशुक्लादीनां वर्णानामन्यतमवर्णो भैरवः पूतिपूयमांससिरास्नायुप्रभृतिभिः पूर्णः पूतिपूयास्राव्युन्मार्ग्युत्सङ्ग्यमनोज्ञदर्शनगन्धोऽत्यर्थं वेदनावान् दाहपाकरागकण्डूशोफपिडकोपद्रुतोऽत्यर्थं दुष्टशोणितास्रावी दीर्घकालानुबन्धी चेति दुष्टव्रणलिङ्गानि तस्य दोषोच्छ्रायेण षट्त्वं विभज्य यथास्वं प्रतीकारे प्रयतेत ७
अत ऊर्ध्वं सर्वस्रावान् वक्ष्यामः– तत्र घृष्टासु छिन्नासु वा त्वक्षु स्फोटे भिन्ने विदारिते वा सलिलप्रकाशो भवत्यास्रावः किंचिद्विस्रः पीतावभासश्चा मांसगतः सर्पिःप्रकाशः सान्द्रः श्वेतः पिच्छिलश्चा सिरागतः सद्यश्छिन्नासु सिरासु रक्तातिप्रवृत्तिः पक्वासु च तोयनाडीभिरिव तोयागमनं पूयस्य आस्रावश्चात्र तनुर्विच्छिन्नः पिच्छिलोऽवलम्बी श्यावोऽवश्यायप्रतिमश्च स्नायुगतः स्निग्धो घनः सिंघाणकप्रतिमः सरक्तश्चा अस्थिगतोऽस्थन्यभिहते स्फुटिते भिन्ने दोषावदारिते वा दोषभक्षितत्वादस्थि निःसारं शुक्तिधौत मिवाभाति आस्रावश्चात्र मज्जमिश्रः सरुधिरः स्निग्धश्च संधिगतः पीड्यमानो न प्रवर्तते आकुञ्चनप्रसारणोन्नमनविनमनप्रधावनोत्कासनप्रवाहणैश्च स्रवति आस्रावश्चात्र पिच्छिलोऽवलम्बी सरुधिरोन्मथितश्चा कोष्ठगतोऽसृङ्मूत्रपुरीषपूयोदकानि स्रवति मर्मगतस्त्वगादिष्ववरुद्धत्वान्नोच्यते तत्र त्वगादिगतानामास्रा वाणां यथाक्रमं पारुष्यश्यावावश्यायदधिमस्तुक्षारोदकमांस धावनपुलाकोदकसन्निभत्वानि मारुताद्भवन्ति पित्ताद्गोमेदकगोमूत्रभस्मशङ्खकषायोदकमाध्वीकतैलसन्निभत्वानि पित्तवद्र क्तादति विस्रत्वं चा कफान्नवनीतकासीसमज्जपिष्टतिलनालिकेरोदकव राहवसासन्निभत्वानि सन्निपातान्नालिकेरोदकैर्वारुकरसकाञ्जिक प्रसादारुकोदकप्रियङ्गुफलयकृन्मुद्गयूषसवर्णत्वानीति ८
श्लेकौ चात्र भवत
पक्वाशयादसाध्यस्तु पुलाकोदकसन्निभः
क्षारोदकनिभः स्रावो वर्ज्यो रक्ताशयात्स्रवन् ९
आमाशयात् कलायाम्भोनिभश्च त्रिकसन्धिजः
स्रावानेतान् परीक्ष्यादौ ततः कर्माचरेद्भिषक् १०
अत ऊर्ध्वं सर्वव्रणवेदना वक्ष्यामःतोदनभेदनताडनच्छेदनाया मनमन्थनविक्षेपणचुमुचुमायननिर्दहनावभञ्जनस्फोटनविदारणोत्पाटन-कम्पनविविधशूलविश्लेषण विकिरणस्तम्भनपूरणस्वप्नाकुञ्चनाङ् कुशिकाः संभवन्ति अनिमित्तविविधवेदनाप्रादुर्भावो वा मुहुर्मुहुर्यत्रागच्छन्ति वेदनाविशेषास्तं वातिकमिति विद्याताओषचोषपरिदाहधूमायनानि यत्र गात्रमङ्गारावकीर्णमिव पच्यतेयत्र चोष्माभिवृद्धिः क्षते क्षारावसिक्तवच्च वेदना विशेषास्तं पैत्तिकमिति विद्याता पित्तवद्र क्तसमुत्थं जानीयाता कण्डूर्गुरुत्वं सुप्तत्वमुपदेहोऽल्पवेदनत्वं स्तम्भः शैत्यं च यत्र तं श्लैष्मिकमिति विद्याता यत्र सर्वासां वेदनानामुत्पत्तिस्तं सान्निपातिकमिति विद्यात् ११
अत ऊर्ध्वं व्रणवर्णान् वक्ष्यामःभस्मकपोतास्थिवर्णः परुषोऽरुणः कृष्ण इति मारुतजस्या नीलः पीतो हरितः श्यावः कृष्णो रक्तः पिङ्गलः कपिल इति रक्तपित्तसमुत्थयोः श्वेतः स्निग्धः पाण्डुरिति श्लेष्मजस्या सर्ववर्णोपेतः सान्निपातिक इति १२
भवति चात्र
न केवलं व्रणेषूक्तो वेदनावर्णसंग्रहः
सर्वशोफविकारेषु व्रणवल्लक्षयेद्भिषक् १३
इति सुश्रुतसंहितायां सूत्रस्थाने व्रणास्रावविज्ञानीयो नाम द्वाविंशतितमोऽध्यायः २२
त्रयोविंशतितमोऽध्यायः
अथातः कृत्याकृत्यविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
तत्र वयःस्थानां दृढानां प्राणवतां सत्त्ववतां आत्मवतां च सुचिकित्स्या व्रणाः एकस्मिन् वा पुरुषे यत्रैतद्गुणचतुष्टयं तस्य सुखसाधनीयतमाः तत्र वयः स्थानां प्रत्यग्रधातुत्वादाशु व्रणा रोहन्ति दृढानां स्थिरबहुमांसत्वाच्छस्त्रमवचार्यमाणं सिरास्नाय्वादिविशेषान्न प्राप्नोति प्राणवतां वेदनाभिघाताहारयन्त्रणादिभिर्न ग्लानिरुत्पद्यते सत्त्ववतां दारुणैरपि क्रियाविशेषैर्न व्यथा भवति तस्मादेतेषां सुखसाधनीयतमाः ३
त एव विपरीतगुणा वृद्धकृशाल्पप्राणभीरुषुद्र ष्टव्याः ४
स्फिक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफलकोषो
दरजत्रुमुखाभ्यन्तरसंस्थाः सुखरोपणीया व्रणाः ५
अक्षिदन्तनासापाङ्गश्रोत्रनाभिजठरसेवनीनितम्बपार्श्वकुक्षिवक्षः कक्षास्तनसन्धिभागगताः सफेनपूयरक्तानिलवाहिनोऽन्त शल्याश्च दुश्चिकित्स्याः अधो भागाश्चौर्ध्वभागनिर्वाहिणो रोमान्तोपनखमर्मजङ्घास्थिसंश्रिताश्च भगन्दरमपि चान्तर्मुखं सेवनीकुटकास्थिसंश्रितम् ६
कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम्
व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणाः ७
अवपाटिकानिरुद्धप्रकशसन्निरुद्धगुदजठराणि ग्रन्थिक्षतक्रिमयः प्ररिश्यायजाः कोष्ठजाश्च त्वग्दोषिणां प्रमेहिणां वा ये परिक्षतेषु दृश्यन्ते शर्करा सिकतामेहो वातकुण्डलिकाऽष्ठीला दन्तशर्क रोपकुशः कण्ठशालूकं निष्कोषणदूषिताश्च दन्तवेष्टा विसर्पा स्थिक्षतोरःक्षतव्रणग्रन्थिप्रभृतयश्च याप्याः ८
साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा
घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ९
यापनीयं विजानीयात् क्रिया धारयते तु यम्
क्रियायां तु निवृत्तायां सद्य एव विनश्यति १०
प्राप्ता क्रिया धारयति याप्यव्याधितमातुरम्
प्रपतिष्यदिवागारं विष्कम्भः साधुयोजितः ११
अत ऊर्ध्वमसाध्यान् वक्ष्यामःमांसपिण्डवदुद्गताः प्रसेकिनोऽन्त पूयवेदनावन्तोऽश्वापानवदुद्वृत्तौष्ठाः केचित् कठिना गोशृङ्गवदुद्गतमृदुमांसप्ररोहाः अपरे दुष्टरुधिरास्राविणस्तनुशीतपिच्छि लास्राविणो वा मध्योन्नताः केचिदवसन्नशुषिरपर्यन्ताः शणतूलवत् स्नायुजालवन्तो दुर्दर्शनाः वसामेदोमज्जमस्तुलुङ्गस्राविणश्च दोषसमुत्थाः पीतासितमूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः त एवोभयतोभागव्रणमुखेषु पूयरक्तनिर्वाहिणः क्षीणमांसानां च सर्वतोगतयश्चाणुमुखा मांसबुद्बुदवन्तः सशब्दवातवाहिनश्च शिरःकण्ठस्थाः क्षीणमांसानां च पूयरक्तनिर्वाहिणोऽरोचका विपाककासश्वासोपद्र वयुक्ताः भिन्ने वा शिरः कपाले यत्र मस्तु लुङ्गदर्शनं त्रिदोषलिङ्गप्रादुर्भावः कासश्वासौ वा यस्येति १२
भवति चात्र
वसां मेदोऽथ मज्जानं मस्तुलुङ्गं च यः स्रवेत्
आगन्तुस्तु व्रणः सिध्येन्न सिध्येद्दोषसंभवः १३
अमर्मोपहिते देशे सिरासन्ध्यस्थिवर्जिते
विकारोयोऽनुपर्येति तदसाध्यस्य लक्षणम् १४
क्रमेणोपचयं प्राप्य धातूननुगतः शनैः
न शक्य उन्मूलयितुं वृद्धो वृक्ष इवामयः १५
स स्थिरत्वान्महत्त्वाच्च धात्वनुक्रमणेन च
निहन्त्यौषधवीर्याणि मन्त्रान् दुष्टग्रहो यथा १६
अतो यो विपरीतः स्यात् सुखसाध्यः स उच्यते
अबद्धमूलः क्षुपको यद्वदुत्पाटने सुखः १७
त्रिभिर्दोषैरनाक्रान्तः श्यावौष्ठः पिडकी समः
अवेदनो निरास्रावो व्रणः शुद्ध इहोच्यते १८
कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः
स्थिराश्चिपिटिकावन्तो रोहतीति तमादिशेत् १९
रूढवर्त्मानमग्रन्थिमशूनमरुजं व्रणम्
त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत् २०
दोषप्रकोपाद्व्यामादभिघातादजीर्णतः
हर्षात् क्रोघाद्भयाद्वाऽपि व्रणो रूढोऽपि दीर्यते २१
इति सुश्रुतसंहितायां सूत्रस्थाने कृत्याकृत्यविधिर्नाम त्रयोविंशोऽध्यायः २३
चतुर्विंशतितमोऽध्यायः
अथातो व्याधिसमुद्देशीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
द्विविधास्तु व्याधयःशस्त्रसाध्याः स्नेहादिक्रियासाध्याश्च तत्र शस्त्रसाध्येषु स्नेहादिक्रिया न प्रतिषिध्यते स्नेहादिक्रियासाध्येषु शस्त्रकर्म न क्रियते ३
अस्मिन् पुनः शास्त्रे सर्वतन्त्रसामान्यात् सर्वेषां व्याधीनां यथास्थूलमवरोधः क्रियते प्रागभिहितं तद्दुःखसंयोगा व्याधय इति तच्च दुःखं त्रिविधम् आध्यात्मिकम् आघिभौतिकम् आधिदैविकमिति तत्तु सप्तविधे व्याधावुपनिपतति ते पुनः सप्तविधा व्याधयः तद्यथाआदिबलप्रवृत्ताः जन्मबलप्रवृत्ताः दोषबलप्रवृत्ताः संघातबलप्रवृत्ताः कालबलप्रवृत्ताः दैवबलप्रवृत्ताः स्वभावबलप्रवृत्ता इति ४
तत्र आदिबलप्रवृत्ता ये शुक्रशोणितदोषान्वयाः कुष्ठार्शःप्रभृतयः तेऽपि द्विविधाःमातृजाः पितृजाश्च जन्मबलप्रवृत्ता ये मातुरपचारात् पङ्गुजात्यन्धबधिरमूकमिन्मिनवामनप्रभृतयो जायन्ते तेऽपि द्विविधा रसकृताः दौहृदापचारकृताश्च दोषबलप्रवृत्ता ये आतङ्कसमुत्पन्ना मिथ्याहाराचारकृताश्च तेऽपि द्विविधाःआमाशयसमुत्थाः पक्वाशयसमुत्थाश्च पुनश्च द्विविधाः शारीरा मानसाश्च त एते आध्यात्मिकाः ५
संघातबलप्रवृत्ता य आगन्तवो दुर्बलस्य बलवद्विग्रहात् तेऽपि द्विविध शस्त्रकृता व्यालकृताश्च एते आधिभौतिकाः ६
कालबलप्रवृत्ता ये शीतोष्णवातवर्षातपप्रभृतिनिमित्ताः तेऽपि द्विविधा व्यापन्नर्तुकृता अव्यापन्नर्तुकृताश्च दैवबलप्रवृता ये देवद्रो हादभिशप्तका अथर्वणकृता उपसर्गजाश्च तेऽपि द्विविधाःविद्युदशनिकृताः पिशाचादिकृताश्च पुनश्च द्विविधाःसंसर्गजा आकस्मिकाश्च स्वभावबलप्रवृत्ता ये क्षुत्पिपासाजरामृत्युनिद्रा प्रभृतयाः तेऽपि द्विविधाःकालजा अकालजाश्च तत्र परिरक्षणकृताः कालजाः अपरिरक्षणकृता अकालजाः एते आधिदैविकाः अत्र सर्वव्याध्यवरोधः ७
सर्वेषां च व्याधीनां वातपित्तश्लेष्माण एव मूलं तल्लिङ्गत्वाद्दृष्टफलत्वादागमाच्च यथा हि कृत्स्नं विकारजातं विश्वरूपेणावस्थितं सत्त्वरजस्तमांसि न व्यतिरिच्यन्ते एवमेव कृत्स्नं विकारजातं विश्वरूपेणावस्थितमव्यतिरिच्य वातपित्तश्लेषमाणो वर्तन्ते दोषधातुमल संसर्गादायतनविशेषान्निमित्ततश्चैषां विकल्पः दोष दूषितेष्वत्यर्थं धातुषु संज्ञारसजोऽय शोणितजोऽय मांसजोऽय मेदोजोऽय अस्थिजोऽयमज्जजोऽय शुक्रजोऽय व्याधिरिति ८
तत्र अन्नाश्रद्धारोचकाविपाकाङ्गमर्दज्वरहृल्लासतृप्तिगौरवहृत्पाण्डुरोगमार्गो-परोधकार्श्यवैरस्याङ्गसादाकालजवलीपलितदर्शनप्रभृतयो रसदोषजा विकाराः कुष्ठविसर्पपिडकामशकनीलिकातिलकालकन्यच्छव्यङ्गन्द्रे लुप्तप्लीहविद्र धिगुल्मवातशोणितार्शोऽबुदाङ्गमर्दासृग्दर रक्तपित्तप्रभृतयो रक्तदोषजाः गुदमुखमेढ्रपाकाश्चा अघिमांसार्बुदार्शोऽधिजिह्वोपजिह्वोपकुशगलशुण्डिका-लजीमांससंघातौष्ठप्रकोपगलगण्डगण्डमालाप्रभृतयो मांसदोषजाः ग्रन्थिवृद्धिगल गण्डार्बुदमेदोजौष्ठप्रकोपम धुमे हातिस्थौल्यातिस्वेदप्रभृतयो मेदोदोषजाः अध्यस्थ्यधिदन्तास्थितोदशूलकुनख प्रभृतयोऽस्थिदोषजाः तमोदर्शनमूर्च्छाभ्रमपर्वस्थूलमूलारुर्जन्मनेत्राभिष्यन्दप्रभृतयो मज्जदोषजाः क्लैब्याप्रहर्षशुक्राश्मरीशुक्रमेहशुक्रदोषादयश्च तद्दोषाः त्वग्दोषाः सङ्गोऽतिप्रवृत्तिरयथाप्रवृत्तिर्वा मलायतनदोषाः इन्द्रि याणामप्रवृत्तिरयथाप्रवृत्तिर्वेन्द्रि यायतनदोषाः इत्येष समास उक्त् विस्तरं निमित्तानि चैषां प्रतिरोगं वक्ष्यामः ९
भवति चात्र
कुपितानां हि दोषाणां शरीरे परिधावताम्
यत्र सङ्गः खवैगुण्याद्व्याधिस्तत्रोपजायते १०
भूयोऽत्र जिज्ञास्यं किं वातादीनां ज्वरादीनां च
नित्यः संश्लेषः परिच्छेदो वा इति यदि नित्यः
संश्लेषः स्यात्तर्हि नित्यातुराःसर्व एव प्राणिनः
स्युः अथाप्यन्यथा वातादीनां ज्वरादीना च अन्यत्र
वर्तमानानामन्यत्र लिङ्गं न भवति इति कृत्वा यदुच्यते
वातादयो ज्वरादीनां मूलानीति तन्न अत्रोच्यते
दोषान् प्रत्याख्याय ज्वरादयो न भवन्ति अथ च न
नित्यःसिंबन्धः यथाहि विद्युद्वाताशनिवर्षाण्याकाशं
प्रत्याख्याय न भवन्ति सत्यप्याकाशे कदाचिन्न भवन्ति अथ च निमित्ततस्तत एवोत्पत्तिरिति तरङ्गबुद्बुदादयश्चोदकविशेषा एव वातादीनां ज्वरादीनां च नाप्येवं संश्लेषो न परिच्छेदः शाश्वतिकः अथ च निमित्तत एवोत्पत्तिरिति ११
भवति चात्र
विकारपरिमाणं च संख्या चैषां पृथक् पृथक्
विस्तरेणोत्तरे तन्त्रे सर्वाबाधाश्च वक्ष्यते १२
इति सुश्रुतसंहितायां सूत्रस्थाने व्याधिसमुद्देशीयो नाम चतुर्विंशोऽध्यायः २४
पञ्चविंशतितमोऽध्यायः
अथातोऽष्टविधशस्त्रकर्मीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
छेद्या भगन्दरा ग्रन्थिः श्लैष्मिकस्तिलकालकः
व्रणवर्त्मार्बुदान्यर्शश्चर्मकीलोऽस्थिमांसगम् ३
शल्यं जतुमणिर्मांससंघातो गलशुण्डिका
स्नायुमांससिराकोथो वल्मीकं शतपोनकः ४
अध्रुषश्चोपदंशाश्च मांसकन्द्यधिमांसकः
भेद्या विद्र धयोऽन्यत्र सर्वजाद्ग्रन्थयस्त्रयः ५
आदितो ये विसर्पाश्च वृद्धयः सविदारिकाः
प्रमेहपिडकाः शोफः स्तनरोगोऽवमन्थकः ६
कुम्भीकाऽनुशयी नाड्यो वृन्दौ पुष्करिकाऽलजी
प्रायशः क्षुद्र रोगाश्च पुप्पुटौ तालुदन्तजौ ७
तुण्डिकेरी गिलायुश्च पूर्वं ये च प्रपाकिणः
बस्तिस्तथाऽश्मरीहेतोर्मेदोजा ये च केचन ८
लेख्याश्चतस्रो रोहिण्यः किलासमुपजिह्विका
मेदोजो दन्तवैदर्भो ग्रन्थिर्वर्त्माधिजिह्विका ९
अर्शांसि मण्डलं मांसकन्दी मांसोन्नतिस्तथा
वेध्याः सिरा बहुविधा मूत्रवृद्धिर्दकोदरम् १०
एष्या नाड्यः सशल्याश्च व्रणा उन्मार्गिणश्च ये
आहार्याः शर्करास्तिस्रो दन्तकर्णमलोऽश्मरी ११
शल्यानि मूढगर्भाश्च वर्चश्च निचितं गुदे
स्राव्या विद्र धयः पञ्च भवेयुः सर्वजादृते १२
कुष्ठानि वायुः सरुजः शोफो यश्चैकदेशजः
पाल्यामयाः श्लीपदानि विषजुष्टं च शोणितम् १३
अर्बुदानि विसर्पाश्च ग्रन्थयश्चादितश्च ते
त्रयस्त्रयश्चोपदंशाः स्तनरोगा विदारिका १४
सुषिरो गलशालूकं कण्टकाः कृमिदन्तकः
देन्तवेष्टः सोपकुशः शीतादो दन्तपुप्पुटः १५
पित्तासृक्कफजाश्चौष्ठ्याः क्षुद्र रोगाश्च भूयशः
सीव्या मेदःसमुत्थाश्च भिन्नाः सुलिखिता गदाः १६
सद्योव्रणाश्च ये चैव चलसन्धिव्यपाश्रिताः
न क्षाराग्निविषैर्जुष्टा न च मारुतवाहिनः १७
नान्तर्लोहितशल्याश्च तेषु सम्यग्विशोधनम्
पांशुरोमनखादीनि चलमस्थि भवेच्च यत् १८
अहृतानि यतोऽमूनि पाचयेयुर्भृशं व्रणम्
रुजश्च विविधाः कुर्युस्तस्मादेतान् विशोधयेत् १९
ततो व्रणं समुन्नम्य स्थापयित्वा यथास्थितम्
सीव्येत् सूक्ष्मेण सूत्रेण वल्केनाश्मन्तकस्य वा २०
शणजक्षौमसूत्राभ्यां स्नाय्वा बालेन वा पुनः
मूर्वागुडूचीतानैर्वा सीव्येद्वेल्लितकं शनैः २१
सीव्येद्गोफणिकां वाऽपि सीव्येद्वा तुन्नसेवनीम्
ऋजुग्रन्थिमथो वाऽपि यथायोगमथापि वा २२
देशेऽल्पमांसे सन्धौ च सूची वृत्ताऽङगुलद्वयम्
आयता त्र्यङ्गुला त्र्यस्रा मांसले चाऽपि पूजिता २३
धनुर्वक्रा हिता मर्मफलकोशोदरोपरि
इतयेतास्त्रिविधाः सूचीस्तीक्ष्णाग्राः सुसमाहिताः २४
कारयेन्मालतीपुष्पवृन्ताग्रपरिमण्डलाः
नातिदूरे निकृष्टे वा सूचीं कर्मणि पातयेत् २५
दूराद्रुजो व्रणौष्ठस्य सन्निकृष्टेऽवलुञ्चनम् २६
अथ क्षौमपिचुच्छन्नं सुस्यूतं प्रतिसारयेत्
प्रियङ्ग्वञ्जनयष्ट्याह्वरोध्रचूर्णैः समन्ततः २७
शल्लकीफलचूर्णैर्वा क्षौमध्यामेन वा पुनः
ततो व्रणं यथायोगं बद्ध्वाऽचारिकमादिशेत् २८
एतदष्टविधं कर्म समासेन प्रकीर्तितम्
चिकित्सितेषु कार्त्स्न्येन विस्तरस्तस्य वक्ष्यते २९
हीनातिरिक्तं तिर्यक् च गात्रच्छेदनमात्मनः
एताश्चतस्रोऽष्टविधे कर्मणि व्यापदः स्मृताः ३०
अज्ञानलोभाहितवाक्ययोग भयप्रमोहैरपरैश्च भावैः
यदा प्रयुञ्जीत भिषक् कुशस्त्रं
तदा स शेषान् कुरुते विकारान् ३१
तं क्षारशस्त्राग्निभिरौषधैश्च भूयोऽभियुञ्जानमयुक्तियुक्तम्
जिजीविषुर्दूरत एव वैद्यंविवर्जयेदुग्रविषाहितुल्यम् ३२
तदेव युक्तं त्वति मर्मसन्धीन् हिंस्यात् सिराः स्नायुमथास्थि चैव
मूर्खप्रयुक्तं पुरुषं क्षणेन प्राणैर्वियुञ्ज्यादथवा कदाचित् ३३
भ्रमः प्रलापः पतनं प्रमोहो विचेष्टनं संलयनोष्णते च
स्रस्ताङ्गता मूर्च्छनमूर्ध्ववातस्तीव्रा रुजो वातकृताश्च तास्ताः ३४
मांसोदकाभं रुधिरं च गच्छेत् सर्वेन्द्रि यार्थोपरमस्तथैव
दशार्धसंख्येष्वपि विक्षतेषु सामान्यतो मर्मसु लिङ्गमुक्तम् ३५
सुरेन्द्र गोपप्रतिमं प्रभूतं रक्तं स्रवेद्वै क्षततश्च वायुः
करोति रोगान् विविधान् यथोक्तांश्छिन्नासु भिन्नास्वथवा सिरासु ३६
कौब्ज्यं शरीरावयवावसादः क्रियास्वशक्तिस्तुमुला रुजश्च
चिराद्व्रणो रोहति यस्य चापि तं स्नायुविद्धं मनुजं व्यवस्येत् ३७
शोफातिवृद्धिस्तुमुला रुजश्चबलक्षयः पर्वसु भेदशोफौ
क्षतेषु सन्धिष्वचलाचलेषु स्यात् सन्धिकर्मोपरतिश्च लिङ्गम् ३८
घोरा रुजो यस्य निशादिनेषु सर्वास्ववस्थासु न शान्तिरस्ति
तृष्णाऽङ्गसादौ श्वयथुश्च रुक् च तमस्थिविद्धं मनुजं व्यवस्येत् ३९
यथास्वमेतानि विभावयेच्च लिङ्गानि मर्मस्वभिताडितेषु
स्पर्शं न जानाति विपाण्डुवर्णो यो मांसमर्मण्यभिताडितः स्यात् ४०
आत्मानमेवाथ जघन्यकारी शस्त्रेण यो हन्ति हि कर्म कुर्वन्
तमात्मवानात्महनं कुवैद्यं विवर्जयेदायुरभीप्समानः ४१
तिर्यक्प्रणिहिते शस्त्रे दोषाः पूर्वमुदाहृताः
तस्मात् परिहरन् दोषान् कुर्याच्छस्त्रनिपातनम् ४२
मातरं पितरं पुत्रान् बान्धवानपि चातुरः
अप्येतानभिशङ्केत वैद्ये विश्वासमेति च ४३
विसृजत्यात्मनाऽत्मानं न चैनं परिशङ्कते
तस्मात् पुत्रवदेवैनं पालयेदातुरं भिषक् ४४
धर्मार्थौ कीर्तिमित्यर्थं सतां ग्रहणमुत्तमम्
प्राप्नुयात् स्वर्गवासं च हितमारभ्य कर्मणा ४५
कर्मणा कश्चिदेकेन द्वाभ्यां कश्चित्त्रिभिस्तथा
विकारः साध्यते कश्चिच्चतुर्भिरपि कर्मभिः ४६
इति सुश्रुतसंहितायां सूत्रस्थानेऽष्टविधशस्त्रकर्मीयो नाम पञ्चविंशोऽध्यायः २५
षड्विंशतितमोऽध्यायः
अथातः प्रनष्टशल्यविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शल श्वल आशुगमने धातू तयोराद्यस्य शल्यमितिरूपम् ३
तद्द्विविधं शारीरमागन्तुकं च ४
सर्वशरीराबाधकरं शल्यं तदिहोपदिश्यत इत्यतः शल्यशास्त्रम् ५
तत्र शारीरं दन्तरोमनखादि धातवोऽन्नमला दोषाश्च दुष्टाः
आगन्त्वपि शारीरशल्यव्यतिरेकेण यावन्तो भावा दुःखमुत्पादयन्ति ६
अधिकारो हि लोहवेणुवृक्षतृणशृङ्गास्थिमयेषु तत्रापि विशेषतो लोहेष्वेव विशसनार्थोपपन्नत्वाल्लोहस्य लोहानामपि दुर्वारत्वादणुमुखत्वाद्दूरप्रयोजनकरत्वाच्च शर एवाधिकृतः स च द्विविधः कर्णी श्लक्ष्णश्च प्रायेण विविधवृक्षपत्रपुष्पफलतुल्याकृतयो व्याख्याताः व्यालमृगपक्षिवक्त्रसदृशाश्च ७
सर्वशल्यानां तु महतामणूनां वा पञ्चविधो गतिविशेषऊर्ध्वमधोऽवाचीनस्तिर्यगृजुरिति ८
तानि वेगक्षयात् प्रतिघाताद्वात्वगादिषु व्रणवस्तुष्ववतिष्ठन्तेधमनीस्रोतोऽस्थिविवरपेशीप्रभृतिषु वा शरीरप्रदेशेषु ९
तत्र शल्यलक्षणमुच्यमानमुपधारय तद्द्विविधं सामान्यं वैशेषिकं च श्यावं पिडकाचितं शोफवेदनावन्तं मुहुर्मुहुः शोणितास्राविणं बुद्बुदवदुन्नतं मृदुमांसं च व्रणं जानीयात् सशल्योऽयमिति सामान्यमेतल्लक्षणमुक्तम् वैशेषिकं तुत्वग्गते विवर्णः शोफो भवत्यायतः कठिनश्च मांसगते शोफाभिवृद्धिः शल्यमार्गानुपसंरोहः पीडनासहिष्णुता चोषपाकौ च पेश्यन्तरस्थेऽप्येतदेव चोषशोफवर्जं सिरागते सिराध्मानं सिराशूलं सिराशोफश्च स्नायुगते स्नायुजालोत्क्षेपणं संरम्भश्चोग्रा रुक् च स्रोतोगते स्रोतसां स्वकर्मगुणहानिः धमनीस्थे सफेनं रक्तमीरयन्ननिलः स शब्दो निर्गच्छत्यङ्गमर्दःपिपासा हृल्लासश्च अस्थिगते विविध वेदनाप्रादुर्भावःशोफश्च अस्थिविवरगतेऽस्थिपूर्णताऽस्थिनिस्तोदः संहर्षोबलवांश्च सन्धिगतेऽस्थिवच्चेष्टोपरमश्च कोष्ठगत आटोपानाहौ मूत्रपुरीषाहारदर्शनं च व्रणमुखात् मर्मगते मर्मविद्धवच्चेष्टते सूक्ष्मगतिषु शल्येष्वेतान्येव लक्षणान्यस्पष्टानि भवन्ति १०
महान्त्यल्पानि वा शुद्धदेहानामनुलोमसन्निविष्टानि रोहन्ति विशेषतः कण्ठस्रोतःसिरात्वक्पेश्यस्थिविवरेषु दोषप्रको पव्यायामाभिघाताजीर्णेभ्यः प्रचलितानि पुनर्बाधन्ते ११
तत्र त्वक्प्रनष्टे स्निग्धस्विन्नायां मृन्माषयवगो धूमगोमयमृदितायां त्वचि यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् स्त्यानघृतमृच्चन्द नकल्कैर्वा प्रदिग्धायां शल्योष्मणाऽशु विसरति घृतमुपशुष्यति चालेपो यत्र तत्र शल्यं विजानीयात् मांसप्रनष्टे स्नेहस्वेदादिभिः क्रियाविशेषैरविरुद्धैरातुरमुपपादयेत् कर्शितस्य तु शिथिलीभूतम नवबद्धं क्षुभ्यमाणं यत्र संरम्भं वेदनां वा जनयति तत्र शल्यं विजानीयात् कोष्ठास्थिसन्धिपेशीविव रेष्ववस्थितमेवमेव परीक्षेत सिराधमनीस्रोतः स्नायुप्रनष्टे खण्डचक्रसंयुक्ते याने व्याधितमारोप्याशु विषमेऽध्वनि यायात् यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् अस्थिप्रनष्टे स्नेहस्वेदोपपन्नान्यस्थीनि बन्धनपीडनाभ्यां भृशमु पाचरेत् यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् सन्धिप्रनष्टे स्नेहस्वेदोपपन्नान् सन्धीन् प्रसरणाकुञ्चनबन्धनपीडनैर्भृशमुपा चरेत् यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् सन्धिप्रनष्टे स्नेहस्वेदोपपन्नान् सन्धीन् प्रसरणाकुञ्चन बन्धनपीडनैर्भृशमुपाचरेत् यत्र संरम्भो वेदना वा भवति शल्यं विजानीयात् मर्मप्रनष्टे त्वनन्यभावान्मर्मणामुक्तं परीक्षणं भवति १२
सामान्यलक्षणमपि च हस्तिस्कन्धाश्वपृष्ठपर्वत द्रुमारोहणधनुर्व्यायामद्रुतयान नियुद्धाध्वगमनलङ्घनप्लवनप्रतरणव्यायामैर्जृम्भोद्गार कासक्षवथुष्ठीवन हसनप्राणायामैर्वातमूत्रपुरीषशुक्रोत्सर्गैर्वा यत्र संरम्भो वेदना वा भवति तत्र शल्यं विजानीयात् १३
भवन्ति चात्र
यस्मिंस्तोदादयो देशे सुप्तता गुरुताऽपि च
घट्टते बहुशो यत्र शूयते रुज्यतेऽपि च १४
आतुरश्चापि यं देशमभीक्ष्णं परिरक्षति
संवाह्यमानो बहुशस्तत्र शल्यं विनिर्दिशेत् १५
अल्पाबाधमशूनं च नीरुजं निरुपद्र वम्
प्रसन्नं मृदुपर्यन्तं निराघट्टमनुन्नतम् १६
एषण्या सर्वतो दृष्ट्वा यथामार्गं चिकित्सकः
प्रसाराकुञ्चनान्नूनं निःशल्यमिति निर्दिशेत् १७
अस्थ्यात्मकं भज्यते तु शल्यमन्तश्च शीर्यते
प्रायो निर्भुज्यते शार्ङ्गमायसं चेति निश्चयः १८
वार्क्षवैणवतार्णानि निर्ह्रियन्ते तु नो यदि
पचन्ति रक्तं मांसं च क्षिप्रमेतानि देहिनाम् १९
कानकं राजतं ताम्रं रैतिकं त्रपुसीसकम्
चिरस्थानाद्विलीयन्ते पित्ततेजःप्रतापनात् २०
स्वभावशीता मृदवो ये चान्येऽपीदृशा मताः
द्र वीभूताः शरीरेऽस्मिन्नेकत्वं यान्ति धातुमिः २१
विषाणदन्तकेशास्थिवेणुदारूपलानि तु
शल्यानि न विशीर्यन्ते शरीरे मृन्मयानि च २२
द्विविधं पञ्चगतिमत्त्वगादिव्रणवस्तुषु
यो वेत्ति विष्टितं शल्यं स राज्ञः कर्तुमर्हति २३
इति सुश्रुतसंहितायां सूत्रस्थाने प्रनष्टशल्यविज्ञानीयोनाम षड्विंशतितमोऽध्यायः २६
सप्तविंशतितमोऽध्यायः
अथातः शल्यापनयनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शल्यं द्विविधमवबद्धमनवबद्धं च ३
तत्र समासेनानवबद्धशल्योद्धरणार्थं पञ्चदश हेतून् वक्ष्यामः तद्यथास्वभावः पाचनं भेदनं दारणं पीडनं प्रमार्जनं निर्ध्मापनं वमनं विरेचनं प्रक्षालनं प्रतिमर्शः प्रवाहणम् आचूषणम् अयस्कान्तो हर्षश्चेति ४
तत्राश्रुक्षवथूद्गारकासमूत्रपुरीषानिलैः स्वभावबलप्रवृत्तैर्नयनादिभ्यः पतति मांसावगाढं शल्यमविदह्यमानं पाचयित्वा प्रकोथात्तस्य पूयशोणितवेगाद्गौरवाद्वा पतति पक्वमभिद्यमानं भेदयेद्दारयेद्वआ भिन्नमनिरस्यमानं पीडनीयैः पीडयेत् पाणिभिर्वा अणून्यक्षशल्यानि परिषेचनाध्मापनैर्बालवस्त्रपाणिभिः प्रमार्जयेत् आहारशेषश्लेष्महीनाणुशल्यानि श्वसनोत्कासनप्रधमनैर्निर्धमेत् अन्नशल्यानि वमनाङगुलिप्रतिमर्शप्रभृतिभिः विरेचनैः पक्वाशयगतानि व्रणदोषाशयगतानि प्रक्षालनैः वातमूत्रपुरीषगर्भसङ्गेषु प्रवाहणमुक्तम् मारुतोदकसविषरुधिरदुष्टस्तन्येष्वाचूषणमास्येन विषाणैर्वा अनुलोममनवबद्धमकर्णमनल्पव्रणमुखमयस्कान्तेन हृद्यवस्थितमनेककारणोत्पप्ननं शोकशल्यं हर्षेणेति ५
सर्वशल्यानां तु महतामणूनां वा द्वावेवाहरणहेतू भवतः प्रतिलोमोऽनुलोमश्च ६
तत्र प्रतिलोममर्वाचीनमानयेत् अनुलोमं पराचीनम् ७
उत्तुण्डितं छित्त्वा निर्घातयेच्छेदनीयमुखम् ८
छेदनीयमुखान्यपि कुक्षिवक्षःकक्षावंक्षणपर्शुकान्तरपतितानि च हस्तशक्यं यथामार्गेण हस्तेनैवापहर्तुं प्रयतेत ९
हस्तेनैवापहर्तुमशक्यं विशस्य शस्त्रेण यन्त्रेणापहरेत् १०
भवति चात्र
शीतलेन जलेनैनं मूर्च्छन्तमवसेचयेत्
संरक्षेदस्य मर्माणि मुहुराश्वासयेच्च तम् ११
ततः शल्यमुद्धृत्य निर्लोहितं व्रणं कृत्वा स्वेदार्हमग्निघृतप्रभृतिभिः संस्वेद्यावदह्य प्रदिह्य सर्पिर्मधुभ्यां बद्ध्वाऽचारिकमुपदिशेत् सिरास्नायुविलग्नं शलाकादिभिर्विमोच्यापनयेत् श्वयथुग्रस्तवारङ्गं समवपीड्य श्वयथुं दुर्बलवारङ्गं कुशादिभिर्बद्ध्वा १२
हृदयमभितो वर्तमानं शल्यं शीतजलादि भिरुद्वेजितस्यापहरेद्यथामार्गं दुरुपहरमन्यतोऽपबाध्यमानं पाटयित्वोद्धरेत् १३
अस्थिविवरप्रविष्टमस्थिविदष्टं वाऽवगृह्य पादाभ्यां यन्त्रेणापहरेत् अशक्यमेवं वा बलवद्भिः सुपरिगृहीतस्य यन्त्रेण ग्राहयित्वा शल्यवारङ्गं प्रविभुज्य धनुर्गुणैर्बद्ध्वैकतश्चास्य पञ्चाङ्ग्यामुपसंयतस्याश्वस्य वक्त्रकविके बध्नीयात् अथैनं कशया ताडयेद्यथोन्नामयञ् शिरो वेगेन शल्यमुद्धरति दृढां वा वृक्ष शाखामवनम्य तस्यां पूर्ववद्बद्ध्वोद्धरेत् १४
अदेशोत्तुण्डितमष्ठीलाश्ममुद्गराणामन्यतमस्य प्रहारेण विचाल्य यथामार्गमेव यन्त्रेण १५
विमृदितकर्णानि कर्णवन्त्यनाबाधकरदेशोत्तुण्डितानि पुरस्तादेव १६
जातुषे कण्ठासक्ते कण्ठे नाडीं प्रवेश्याग्नितप्तां च शलाकां तयाऽवगृह्य शीताभिरद्भिः परिषिच्य स्थिरीभूतं शल्यमुद्धरेत् १७
अजातुषं तु जतुमधूच्छिष्टप्रलिप्तया शलाकया पूर्वकल्पेनेत्येके १८
अस्थिशल्यमन्यद्वा तिर्यक्कण्ठासक्तमवेक्ष्य केशोण्डुकं दृढैकदीर्घसूत्रबद्धं
द्र वभक्तोपहितं पाययेदाकण्ठात् पूर्णकोष्ठं च वामयेत् वमतश्चशल्यैकदेशसक्तं ज्ञात्वा सूत्रं सहसा त्वाक्षिपेत् मृदुना वादन्तधावनकूर्चकेनापहरेत् प्रणुदेद्वाऽन्त क्षतकण्ठाय च मधु सर्पिषी लेढुं प्रयच्छेत्त्रिफलाचूर्णं वा मधुशर्कराविमिश्रम् १९
उदकपूर्णोदरमवाक्शिरसमवपीडयेद्धुनीयाद्वामयेद्वा भस्मराशौ वा निखनेदामुखात् २०
ग्रासशल्ये तु कण्ठासक्ते निःशङ्कमनवबुद्धं स्कन्धे
मुष्टिनाऽभिहन्यात् स्नेहं मद्यं पानीयं वा पाययेत् २१
बाहुरज्जुलतापाशैः कण्ठपीडनाद्वायुः प्रकुपितः श्लेष्माणं कोपयित्वा स्रोतो निरुणद्धि लालास्रावं फेनागमनं संज्ञानाशं चापादयति तमभ्यज्य संस्वेद्य शिरोविरेचनं तस्मै तीक्ष्णं विदध्याद्र सं च वातघ्नंदद्यादिति २२
भवन्ति चात्र
शल्याकृतिविशेषांश्च स्थानान्यावेक्ष्य बुद्धिमान्
तथा यन्त्रपृथक्त्वं च सम्यक् शल्यमथाहरेत् २३
कर्णवन्ति तु शल्यानि दुःखाहार्याणि यानि च
आददीत भिषक् तस्मात्तानि युक्त्या समाहितः २४
एतैरुपायैः शल्यं तु नैव निर्यात्यते यदि
मत्या निपुणया वैद्यो यन्त्रयोगैश्च निर्हरेत् २५
शोथपाकौ रुजश्चोग्राः कुर्याच्छल्यमनाहृतम्
वैकल्यं मरणं चापि तस्माद्यत्नाद्विनिर्हरेत् २६
इति सुश्रुतसंहितायां सूत्रस्थाने शल्यापनयनीयोनाम सप्तविंशतितमोऽध्यायः २७
अष्टाविंशतितमोऽध्यायः
अथातो विपरीताविपरीतव्रणविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
फलाग्निजलवृष्टीनां पुष्पभूमाम्बुदा यथा
ख्यापयन्ति भविष्यत्त्वं तथा रिष्टानि पञ्चताम् ३
तानि सौक्ष्म्यात् प्रमादाद्वा तथैवाशु व्यतिक्रमात्
गृह्यन्ते नोद्गतान्यज्ञैर्मुमूर्षोर्न त्वसंभवात् ४
ध्रुवं तु मरणं रिष्टे ब्राह्मणैस्तत् किलामलैः
रसायनतपोजप्यतत्परैर्वा निवार्यते ५
नक्षत्रपीडा बहुधा यथा कालं विपच्यते
तथैवारिष्टपाकं च ब्रुवते बहवो जनाः ६
असिद्धिमाप्नुयाल्लोके प्रतिकुर्वन् गतायुषः
अतोऽरिष्टानि यत्नेन लक्षयेत् कुशलो भिषक् ७
गन्धवर्णरसादीनां विशेषाणां स्वभावतः
वैकृतं यत् तदाचष्टे व्रणिनः पक्वलक्षणम् ८
कटुस्तीक्ष्णश्च विस्रश्च गन्धस्तु पवनादिभिः
लोहगन्धिस्तु रक्तेन व्यामिश्रः सान्निपातिकः ९
लाजातसीतैलसमाः किंचिद्विस्राश्च गन्धतः
ज्ञेयाः प्रकृतिगन्धाःस्युरतोऽन्यद्गन्धवैकृतम् १०
मद्यागुर्वाज्यसुमनापद्मचन्दनचम्पकैः
सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः ११
श्ववाजिमूषिकध्वाङ्क्षपूतिवल्लूरमत्कुणैः
सगन्धाः पङ्कगन्धाश्च भूमिगन्धाश्च गर्हिताः १२
कुङ्कुमध्यामकङ्कुष्ठसवर्णाः पित्तकोपतः
न दह्यन्ते न चूष्यन्ते भिषक् तान् परिवर्जयेत् १३
कण्डूमन्तः स्थिराः श्वेताः स्निग्धाः कफनिमित्ततः
दूयन्ते वाऽपि दह्यन्ते भिषक् तान् परिवर्जयेत् १४
कृष्णास्तु ये तनुस्रावा वातजा मर्मतापिनः
स्वल्पामपि न कुर्वन्ति रुजं तान् परिवर्जयेत् १५
क्ष्वेडन्ति घुर्घुरायन्ते ज्वलन्तीव च ये व्रणाः
त्वङ्मांसस्थाश्च पवनं सशब्दं विसृजन्ति ये १६
ये च मर्मस्वसंभूता भवन्त्यत्यर्थवेदनाः
दह्यन्ते चान्तरत्यर्थं बहिः शीताश्च ये व्रणाः १७
दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः
शक्तिध्वजरथाः कुन्तवाजिवारणगोवृषाः १८
येषु चाप्यवभासेरन् प्रासादाकृतयस्तथा
चूर्णावकीर्णा इव ये भान्तिचानवचूर्णिताः १९
प्राणमांसक्षयश्वासकासारोचकपीडिताः
प्रवृद्धपूयरुधिरा व्रणा येषां च मर्मसु २०
क्रियाभिः सम्यगारब्धा न सिद्ध्य्न्ति च ये व्रणाः
वर्जयेत्तानपि प्राज्ञः संरक्षन्नात्मनो यशः २१
इति सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीतव्रणविज्ञानीयो
नामाष्टाविंशतितमोऽध्यायः २८
एकोनत्रिंशत्तमोऽध्यायः
अथातो विपरीताविपरीतस्वप्ननिदर्शनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
दूतदर्शनसंभाषा वेषाश्चेष्टितमेव च
ऋक्षं वेला तिथिश्चैव निमित्तं शकुनोऽनिलः ३
देशो वैद्यस्य वाग्देहमनसां च विचेष्टितम्
कथयन्त्यातुरगतं शुभं वा यदि वाऽशुभम् ४
पाखण्डाश्रमवर्णानां सपक्षाः कर्मसिद्धये
त एव विपरीताः स्युर्दूताः कर्मविपत्तये ५
नपुंसकं स्त्री बहवो नैककार्या असूयकाः
गर्दभोष्ट्ररथप्राप्ताः प्राप्ता वा स्युः परम्पराः ६
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः
पाशदण्डायुधधराः पाण्डुरेतरवाससः ७
आर्द्र जीर्णापसव्यैकमलिनोद्ध्ववस्तवाससः
न्यूनाधिकाङ्गा उद्विग्ना विकृता रौद्र रूपिणः ८
रूक्षनिष्ठुरवक्तारस्त्वमङ्गल्याभिधायिनः
छिन्दन्तस्तृणकाष्ठानि स्पृशन्तो नासिकां स्तनम् ९
वस्त्रान्तानामिकाकेशनखरोमदशास्पृशः
स्रोतोवरोधहृद्गण्डमूर्धोरःकुक्षिपाणयः १०
कपालोपलभस्मास्थितुषाङ्गारकराश्च ये
विलिखन्तो महीं किंचिन्मुञ्चन्तो लोष्टभेदिनः ११
तैलकर्दमदिग्धाङ्गा रक्तस्रगनुलेपनाः
फलं पक्वमसारं वा गृहीत्वाऽन्यच्च तद्विधम् १२
नखैर्नखान्तरं वाऽपि करेण चरणं तथा
उपानच्चर्महस्ता वा विकृतव्याधिपीडिताः १३
वामाचारा रुदन्तश्च श्वासिनो विकृतेक्षणाः
याम्यां दिशि प्राञ्जलयो विषमैकपदे स्थिताः १४
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः
दक्षिणाभिमुखं देशे त्वशुचौ वा हुताशनम्
ज्वलयन्तं पचन्तं वा क्रूरकर्मणि चोद्यतम् १५
नग्नं भूमौ शयानं वा वेगोत्सर्गेषु वाऽशुचिम्
प्रकीर्णकेशमभ्यक्तं स्विन्नं विक्लवमेव वा १६
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः
वैद्यस्य पैत्र्ये दैवे वा कार्ये चोत्पातदर्शने १७
मध्याह्ने चार्धरात्रे वा सन्ध्ययोः कृत्तिकासु च
आर्द्रा श्लेषामघामूलपूर्वासु भरणीषु च १८
चतुर्थ्यां वा नवम्यां वा षष्ठ्यां सन्धिदिनेषु च
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः १९
स्विन्नाभितप्ता मध्याह्ने ज्वलनस्य समीपतः
गर्हिता पित्तरोगेषु दूता वैद्यमुपागताः २०
त एव कफरोगेषु कर्मसिद्धिकराः स्मृताः
एतेन शेषं व्याख्यातं बुद्ध्वा संविभजेत्तु तत् २१
रक्तपित्तातिसारेषु प्रमेहेषु तथैव च
प्रशस्तो जलरोधेषु दूतवैद्यसमागमः २२
विज्ञायैव विभागं तु शेषं बुध्येत पण्डितः
शुक्लवासाः शुचिर्गौरः श्यामो वा प्रियदर्शनः २३
स्वस्यां जातौ स्वगोत्रो वा दूतः कार्यकरः स्मृतः
गोयानेनागतस्तुष्टः पादाभ्यां शुभचेष्टितः २४
स्मृतिमान् विधिकालज्ञः स्वतन्त्रः प्रतिपत्तिमान्
अलङ्कृतो मङ्गलवान् दूतः कार्यकरः स्मृतः २५
स्वस्थं प्राङ्मुखमासीनं समे देशे शुचौ शुचिम्
उपसर्पति यो वैद्यं स च कार्यकरः स्मृतः २६
मांसोदकुम्भातपत्रविप्रवारणगोवृषाः
शुक्लवर्णाश्च पूज्यन्ते प्रस्थाने दर्शनं गताः २७
स्त्री पुत्रिणी सवत्सा गौर्वर्धमानमलङ्कृता
कन्या मत्स्याः फलं चामं स्वस्तिकं मोदका दधि २८
हिरण्याक्षतपात्रं वा रत्नानि सुमनो नृपः
अप्रशान्तोऽनलो वाजी हंसश्चापः शिखी तथा २९
ब्रह्मदुन्दुभिजीमूतशङ्खवेणुरथस्वनाः
सिंहगोवृषनादाश्च ह्रेषितं गजबृंहितम् ३०
शस्तं हंसरुतं नॄणां कौशिकं चैव वामतः
प्रस्थाने यायिनः श्रेष्ठा वाचश्च हृदयङ्गमाः ३१
पत्रपुष्पफलोपेतान् सक्षीरान्नीरुजो द्रुमान्
आश्रिता वा नभोवेश्मध्वजतोरणवेदिकाः ३२
दिक्षु शान्तासु वक्तारो मधुरं पृष्ठतोऽनुगाः
वामा वा दक्षिणा वाऽपि शकुनाः कर्मसिद्धये ३३
शुष्केऽशनिहतेऽपत्रे वल्लीनद्धे सकण्टके
वृक्षेऽथवाऽश्मभस्मास्थिविट्तुषाङ्गारपांशुषु ३४
चैत्यवल्मीकविषमस्थिता दीप्तखरस्वराः
पुरतो दिक्षु दीप्तासु वक्तारो नार्थसाधकाः ३५
पुन्नामानः खगा वामाः स्त्रीसंज्ञा दक्षिणाः शुभाः
दक्षिणाद्वामगमनं प्रशस्तं श्वश्रृगालयोः
वामं नकुलचाषाणां नोभयं शशसर्पयोः ३६
भासकौशिकयोश्चैव न प्रशस्तं किलोभयम्
दर्शनं वा रुतं वाऽपि न गोधाकृकलासयोः ३७
दूतैरनिष्टैस्तुल्यानामशस्तं दर्शनं नृणाम्
कुलत्थतिलकार्पासतुषपाषाणभस्मनाम् ३८
पात्रं नेष्टं तथाऽङ्गारतैलकर्दमपूरितम्
प्रसन्नेतरमद्यानां पूर्णं वा रक्तसर्षपैः ३९
शवकाष्ठपलाशानां शुष्काणां पथि सङ्गमाः
नेष्यन्ते पतितान्तस्थदीनान्धरिपवस्तथा ४०
मृदुः शीतोऽनुकूलश्च सुगन्धिश्चानिलः शुभः
खरोष्णोऽनिष्टगन्धश्च प्रतिलोमश्च गर्हितः ४१
ग्रन्थ्यर्बुदादिषु सदा छेदशब्दस्तु पूजितः
विद्र ध्युदरगुल्मेषु भेदशब्दस्तथैव च ४२
रक्तपित्तातिसारेषु रुद्धशब्दः प्रशस्यते
एवं व्याधिविशेषेण निमित्तमुपधारयेत् ४३
तथैवाक्रुष्टहाकष्टमाक्रन्दरुदितस्वनाः
छर्द्यां वातपुरीषाणां शब्दो वै गर्दभोष्ट्रयोः ४४
प्रतिषिद्धं तथा भग्नं क्षुतं स्खलितमाहतम्
दौर्मनस्यं च वैद्यस्य यात्रायां न प्रशस्यते ४५
प्रवेशेऽप्येतदुद्देशादवेक्ष्यं च तथाऽतुरे
प्रतिद्वारं गृहे चास्य पुनरेतन्न गण्यते ४६
केशभस्मास्थिकाष्ठाश्मतुषकार्पासकण्टकाः
खट्वोर्ध्वपादा मद्यापो वसा तैलं तिलास्तृणम् ४७
नपुंसकव्यङ्गभग्ननग्नमुण्डासिताम्बराः
प्रस्थाने वा प्रवेशे वा नेष्यन्ते दर्शनं गताः ४८
भाण्डानां संकरस्थानां स्थानात् संचारणं तथा
निखातोत्पाटनं भङ्गः पतनं निर्गमस्तथा ४९
वैद्यासनावसादो वा रोगी वा स्यादधोमुखः
वैद्यं संभाषमाणोऽङ्ग कुड्यमास्तरणानि वा ५०
प्रमृज्याद्वा धुनीयाद्वा करौ पृष्ठं शिरस्तथा
हस्तं चाकृष्य वैद्यस्य न्यसेच्छिरसि चोरसि ५१
यो वैद्यमुन्मुखः पश्यन्नुन्मार्ष्टि स्वाङ्गमातुरः
न स सिध्यति वैद्यो वा गृहे यस्य न पूज्यते ५२
भवने पूज्यते वाऽपि यस्य वैद्यः स सिध्यति
शुभं शुभेषु दूतादिष्वशुभं ह्यशुभेषु च ५३
आतुरस्य ध्रुवं तस्माद्दूतादीन् लक्षयेद्भिषक्
स्वप्नानतः प्रवक्ष्यामि मरणाय शुभाय च ५४
सुहृदो यांश्च पश्यन्ति व्याधितो वा स्वयं तथा
स्नेहाभ्यक्तशरीरस्तु करभव्यालगर्दभैः ५५
वराहैर्महिषैर्वाऽपि यो यायाद्दक्षिणामुखः
रक्ताम्बरधरा कृष्णा हसन्ती मुक्तमूर्धजा ५६
यं चाकर्षति बद्ध्वा स्त्री नृत्यन्ती दक्षिणामुखम्
अन्तावसायिभिर्यो वाऽकृष्यते दक्षिणामुखः ५७
परिष्वजेरन् यं वाऽपि प्रेताः प्रव्रजितानिस्तिथा
मुहुराघ्रायते यस्तु श्वापदैर्विकृताननैः ५८
पिबेन्मधु च तैलं च यो वा पङ्केऽवसीदति
पङ्कप्रदिग्धगात्रो वा प्रनृत्येत् प्रहसेत्तथा ५९
निरम्बरश्च यो रक्तां धारयेच्छिरसा स्रजम्
यस्य वंशो नलो वाऽपि तालो वोरसि जायते ६०
यं वा मत्स्यो ग्रसेद्यो वा जननीं प्रविशेन्नरः
पर्वताग्रात् पतेद्यो वा श्वभ्रे वा तमसाऽवृते ६१
ह्रियेत स्रोतसा यो वा यो वा मौण्ड्यमवाप्नुयात्
पराजीयेत बध्येत काकाद्यैर्वाऽभिभूयते ६२
पतनं तारकादीनां प्रणाशं दीपचक्षुषोः
यः पश्येद्देवतानां वा प्रकम्पमवनेस्तथा ६३
यस्य छर्दिर्विरेको वा दशनाः प्रपतन्ति वा
शाल्मलद्यं किंशुकं यूपं वल्मीकं पारिभद्र कम् ६४
पुष्पाढ्यं कोविदारं वा चितां वा योऽधिरोहति
कार्पासतैलपिण्याकलोहानि लवणं तिलान् ६५
लभेताश्नीत वा पक्वमन्नं यश्च पिबेत् सुराम्
स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ६६
यथास्वं प्रकृतिस्वप्नो विस्मृतो विहतस्तथा
चिन्ताकृतो दिवा दृष्टो भवन्त्यफलदास्तु ते ६७
ज्वरितानां शुना सख्यं कपिसख्यं तु शोषिणाम्
उन्मादे राक्षसैः प्रेतैरपस्मारे प्रवर्तनम् ६८
मेहातिसारिणां तोयपानं स्नेहस्य कुष्ठिनाम्
गुल्मेषु स्थावरोत्पत्तिः कोष्ठे मूर्ध्नि शिरोरुजि ६९
शष्कुलीभक्षणं छर्द्यामध्वा श्वासपिपासयोः
हारिद्रं भोजनं वाऽपि यस्य स्यात् पाण्डुरोगिणः ७०
रक्तपित्ती पिबेद्यस्तु शोणितं स विनश्यति
स्वप्नानेवंविधान् दृष्ट्वा प्रातरुत्थाय यत्नवान् ७१
दद्यान्माषांस्तिलांल्लोहं विप्रेभ्यः काञ्चनं तथा
जपेच्चापि शुभान् मन्त्रान् गायत्रीं त्रिपदां तथा ७२
दृष्ट्वा तु प्रथमे यामे स्वप्याद् ध्यात्वा पुनः शुभम्
जपेद्वाऽन्यतमं वेदं ब्रह्मचारी समाहितः ७३
न चाचक्षीत कस्मैचिद्दृष्ट्वा स्वप्नमशोभनम्
देवतायतने चैव वसेद्रा त्रित्रयं तथा
विप्रांश्च पूजयेन्नित्यं दुःस्वप्नात् प्रविमुच्यते ७४
अत ऊर्ध्वं प्रवक्ष्यामि प्रशस्तं स्वप्नदर्शनम्
देवान् द्विजान्गोवृषभान् जीवतः सुहृदो नृपान् ७५
समिद्धमग्निं साधूंश्च निर्मलानि जलानि च
पश्येत् कल्याणलाभाय व्याधेरपगमाय च ७६
मांसं मत्स्यान् स्रजः श्वेता वासांसि च फलानि च
लभेत धनलाभाय व्याधेरपगमाय च ७७
महाप्रासादसफलवृक्षवारणपर्वतान्
आरोहेद्दुव्यलाभाय व्याधेरपगमाय च ७८
नदीनदसमुद्रांश्च क्षुभितान् कलुषोदकान्
तरेत् कल्याणलाभाय व्याधेरपगमाय च ७९
उरगो वा जलौको वा भ्रमरो वाऽपि यं दशेत्
आरोग्यं निर्दिशेत्तस्य धनलाभं च बुद्धिमान् ८०
एवं रूपाञ् शुभान् स्वप्नान् यः पश्येद्व्याधितो नरः
स दीर्घायुरिति ज्ञेयस्तस्मै कर्म समाचरेत् ८१
इति सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीतस्वप्ननिदर्शनीयो
नामैकोनत्रिंशत्तमोऽध्यायः २९
त्रिंशोऽध्यायः
अथातः पञ्चेन्द्रि यार्थविप्रतिपत्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत्
तत्त्वरिष्टं समासेन व्यासतस्तु निबोध मे ३
शृणोति विविधाञ् शब्दान् यो दिव्यानामभावतः
समुद्र पुरमेघानामसंपत्तौ च निःस्वनान् ४
तान् स्वनान्नावगृह्णाति मन्यते चान्यशब्दवत्
ग्राम्यारण्यस्वनांश्चापि विपरीताञ् शृणोति च ५
द्विषच्छब्देषु रमते सुहृच्छब्देषु कुप्यति
न शृणोति च योऽकस्मात्तं ब्रुवन्ति गतायुषम् ६
यस्तूष्णमिव गृह्णाति शीतमुष्णं च शीतवत्
संजातशीतपिडको यश्च दाहेन पीड्यते ७
उष्णगात्रोऽतिमात्रं च यः शीतेन प्रवेपते
प्रहारान्नाभिजानाति योऽङ्गच्छेदमथापि वा ८
पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते
वर्णान्यता वा राज्यो वा यस्य गात्रे भवन्ति हि ९
स्नातानुलिप्तं यं चापि भजन्ते नीलमक्षिकाः
सुगन्धिर्वाऽति योऽकस्मात्तं ब्रुवन्ति गतायुषम् १०
विपरीतेन गृह्णाति रसान् यश्चोपयोजितान्
उपयुक्ताः क्रमाद्यस्य रसा दोषाभिवृद्धये ११
यस्य दोषाग्निसाम्यं च कुर्युर्मिथ्योपयोजिताः
यो वा रसान्न संवेत्ति गतासुं तं प्रचक्षते १२
सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम्
गृह्णीते वाऽन्यथा गन्धं शान्ते दीपे च नीरुजः १३
यो वा गन्धं न जानाति गतासुं तं विनिर्दिशेत्
द्वन्द्वान्युष्णहिमादीनि कालावस्था दिशस्तथा १४
विपरीतेन गृह्णाति भावानन्यांश्च यो नरः
दिवा ज्योतींषि यश्चापि ज्वलितानीव पश्यति १५
रात्रौ सूर्यं ज्वलन्तं वा दिवा वा चन्द्र वर्चसम्
अमेघोपप्लवे यश्च शक्रचापतडिद्गुणान् १६
तडित्त्वतोऽसितान् यो वा निर्मले गगने घनान्
विमानयानप्रासादैर्यश्च संकुलमम्बरम् १७
यश्चानिलं मूर्तिमन्तमन्तरिक्षं च पश्यति
धूमनीहारवासोभिरावृतामिव मेदिनीम् १८
प्रदीप्तमिव लोकं च यो वा प्लुतमिवाम्भसा
भूमिमष्टापदाकारां लेखाभिर्यश्च पश्यति १९
न पश्यति सनक्षत्रां यश्च देवीमरुन्धतीम्
ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषम् २०
ज्योत्स्नादर्शोष्णतोयेषु छायां यश्च न पश्यति
पश्यत्येकाङ्गहीनां वा विकृतां वाऽन्यसत्त्वजाम् २१
श्वकाकङ्कगृध्राणां प्रेतानां यक्षरक्षसाम्
पिशाचोरगनागानां भूतानां विकृतामपि २२
यो वा मयूरकण्ठाभं विधूमं वह्निमीक्षते
आतुरस्य भवेन्मृत्युः स्वस्थो व्याधिमवाप्नुयात् २३
इति सुश्रुतसंहितायां सूत्रस्थाने पञ्चेन्द्रि यार्थविप्रतिपत्तिर्नाम त्रिंशोऽध्यायः ३०
एकत्रिंशत्तमोऽध्यायः
अथातश्छायाविप्रतिपत्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
श्यावा लोहितिका नीला पीतिका वाऽपि मानवम्
अभिद्र वन्ति यं छायाः स परासुरसंशयम् ३
ह्रीरपक्रमते यस्य प्रभास्मृतिधृतिश्रियः
अकस्माद्यं भजन्ते वा स गतासुरसंशयम् ४
यस्याधरौष्ठः पतितः क्षिप्तश्चोर्ध्वं तथोत्तरः
उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम् ५
आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा
खञ्जनप्रतिमा वाऽपि तं गतायुषमादिशेत् ६
कृष्णा स्तब्धाऽवलिप्ता वा जिह्वा शूना च यस्य वै
कर्कशा वा भवेद्यस्य सोऽचिराद्विजहात्यसून् ७
कुटिला स्फुटिता वाऽपि शुष्का वा यस्य नासिका
अवस्फूर्जति मग्ना वा न स जीवति मानवः ८
संक्षिप्ते विषमे स्तब्धे रक्ते स्रस्ते च लोचने
स्यातां वा प्रस्रुते यस्य स गतायुर्नरो ध्रुवम् ९
केशाः सीमन्तिनो यस्य संक्षिप्ते विनते भ्रुवौ
लुण्डन्ति चाक्षिपक्ष्माणि सोऽचिराद्याति मृत्यवे १०
नाहरत्यन्नमास्यस्थं न धारयति यः शिरः
एकाग्रदृष्टिर्मूढात्मा सद्यः प्राणान् जहाति सः ११
बलवान् दुर्बलो वाऽपि संमोहं योऽधिगच्छति
उत्थाप्यमानो बहुशस्तं पक्वं भिषगादिशेत् १२
उत्तानः सर्वदा शेते पादौ विकुरुते च यः
विप्रसारणशीलो वा न स जीवति मानवः १३
शीतपादकरोच्छ्वासश्छिन्नोच्छ्वासश्च यो भवेत्
काकोच्छ्वासश्च यो मर्त्यस्तं धीरः परिवर्जयेत् १४
निद्रा न छिद्यते यस्य यो वा जागर्ति सर्वदा
मुह्येद्वा वक्तुकामश्च प्रत्याख्येयः स जानता १५
उत्तरौष्ठं च यो लिह्यादुत्कारांश्च करोति यः
प्रेतैर्वा भाषते सार्धं प्रेतरूपं तमादिशेत् १६
खेभ्यः सरोमकूपेभ्यो यस्य रक्तं प्रवर्तते
पुरुषस्याविषार्तस्य सद्यो जह्यात् स जीवितम् १७
वाताष्ठीला तु हृदये यस्योर्ध्वमनुयायिनी
रुजान्नविद्वेषकरी स परासुरसंशयम् १८
अनन्योपद्र वकृतः शोफः पादसमुत्थितः
पुरुषं हन्ति नारीं तु मुखजो गुह्यजो द्वयम् १९
अतिसारो ज्वरो हिक्का छर्दिः शूनाण्डमेढ्रता
श्वासिनः कासिनो वाऽपि यस्य तं क्षीणमादिशेत् २०
स्वेदो दाहश्च बलवान् हिक्का श्वासश्च मानवम्
बलवन्तमपि प्राणैर्वियुञ्जन्ति न संशयः २१
श्यावा जिह्वा भवेद्यस्य सव्यं चाक्षि निमज्जति
मुखं च जायते पूति यस्य तं परिवर्जयेत् २२
वक्त्रमापूर्यतेऽश्रूणां स्विद्यतश्चरणावुभौ
चक्षुश्चाकुलतां याति यमराष्ट्रं गमिष्यतः २३
अतिमात्रं लघूनि स्युर्गात्राणि गुरुकाणि वा
यस्याकस्मात् स विज्ञेयो गन्ता वैवस्वतालयम् २४
पङ्कमत्स्यवसातैलघृतगन्धांश्च ये नराः
मृष्टगन्धांश्च ये वान्ति गन्तारस्ते यमालयम् २५
यूका ललाटमायान्ति बलि नाश्नन्ति वायसाः
येषां चापि रतिर्नास्ति यातारस्ते यमालयम् २६
ज्वरातिसारशोफाः स्युर्यस्यान्योन्यावसादिनः
प्रक्षीणबलमांसस्य नासौ शक्यश्चिकित्सितम् २७
क्षीणस्य यस्य क्षुत्तृष्णे हृद्यैर्मिष्टैर्हितैस्तथा
न शाम्यतोऽन्नपानैश्च तस्य मृत्युरुपस्थितः २८
प्रवाहिका शिरःशूलं कोष्ठशूलं च दारुणम्
पिपासा बलहानिश्च तस्य मृत्युरुपस्थितः २९
विषमेणोपचारेण कर्मभिश्च पुराकृतैः
अनित्यत्वाच्च जन्तूनां जीवितं निधनं व्रजेत् ३०
प्रेता भूताः पिशाचाश्च रक्षांसि विविधानि च
मरणाभिमुखं नित्यमुपसर्पन्ति मानवम् ३१
तानि भेषजवीर्याणि प्रतिघ्नन्ति जिघांसया
तस्मान्मोघाः क्रियाः सर्वा भवन्त्येव गतायुषाम् ३२
इति सुश्रुतसंहितायां सूत्रस्थाने छायाविप्रतिपत्तिर्नामैकत्रिंशत्तमोऽध्यायः ३१
द्वात्रिंशत्तमोऽध्यायः
अथातः स्वभावविप्रतिपत्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्वभावसिद्धानां शरीरैकदेशानामन्यभावित्वं मरणाय तद्यथाशुक्लानां कृष्णत्वं कृष्णानां शुक्लता रक्तानामन्यवर्णत्वं स्थिराणां मृदुत्वं मृदूनां स्थिरता चलानामचलत्वम् अचलानां चलता पृथूनां संक्षिप्तत्वं संक्षिप्तानां पृथुता दीर्घाणां ह्रस्वत्वं ह्रस्वानां दीर्घता अपतनधर्मिणां पतनधर्मित्वं पतनधर्मिणामपतनधर्मित्वमकस्मात् शैत्यौष्ण्यस्नैग्ध्यरौक्ष्यप्रस्तम्भवैवर्ण्यावसादनं चाङ्गानाम् ३
स्वेभ्यः स्थानेभ्यः शरीरैकदेशानामवस्रस्तोत्क्षिप्तभ्रान्तावक्षिप्त पतितविमुक्त निर्गतान्तर्गुरुलघुत्वानि प्रवालवर्णव्यङ्गप्रादुर्भावो वाऽप्यकस्मात्सिराणां च दर्शनं ललाटे नासावंशे वा पिडकोत्पत्तिः ललाटे वा प्रभातकाले स्वेदः नेत्ररोगाद्विना वाऽश्रुप्रवृत्तिः गोमयचूर्णप्रकाशस्य वा रजसो दर्शनमुत्तमाङ्गे निलयनं वा कपोतकङ्ककाकप्रभृतीनां मूत्रपुरीषवृद्धिरभुञ्जानानां तत्प्रणाशो वा भुञ्जानानां स्तनमूलहृदयोरःसु च शूलोत्पत्तयः मध्ये शूनत्वमन्तेषु परिम्लायित्वं विपर्ययो वा तथाऽधाङ्गे श्वयथुः शोषोऽङ्गपक्षयोर्वा नष्टहीनविकलविकृतस्वरता वा विवर्णपुष्पप्रादुर्भावो वा दन्तमुखनखशरीरेषु यस्य वाऽप्सु कफपुरीषरेतांसि निमज्जन्ति यस्य वा दृष्टिमण्डले भिन्नविकृतानि रूपाण्यालोक्यन्ते स्नेहाभ्यक्तकेशाङ्ग इव यो भाति यश्च दुर्बलो भक्तद्वेषातिसाराभ्यां पीड्यते कासमानश्च तृष्णाभिभूतः क्षीणश्छर्दिभक्तद्वेषयुक्तः सफेनपूयरुधिरोद्वामी हतस्वरः शूलाभिपन्नश्च मनुष्यः शूनकरचरणवदनः क्षीणोऽन्नद्वेषी स्रस्तपिण्डिकांसपाणिपादो ज्वरकासाभिभूतः यस्तु पूर्वाह्णे भुक्तमपराह्णे छर्दयत्यविदग्धमतिसार्यते वा स श्वासान्म्रियते बस्तवद्विलपन् यश्च भूमौ पतति स्रस्तमुष्कः स्तब्धमेढ्रो भग्नग्रीवः प्रनष्टमेहनश्च मनुष्यः प्राग्विशुष्यमाणहृदय आर्द्र शरीरः यश्च लोष्टं लोष्टेनाभिहन्ति काष्ठं काष्ठेन तृणानि वा छिनत्ति अधरोष्ठं दशति उत्तरोष्ठं वा लेढि आलुञ्चति वा कर्णौ केशांश्च देवद्विजगुरुसुहृद्वैद्यांश्च द्वेष्टि यस्य वक्रानुवक्रगा ग्रहा गर्हितस्थानगताः पीडयन्ति जन्मर्क्षं वा यस्योल्का शनिभ्यामभिहन्यते होरा वागृहदारशयनासनयानवाहनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावो वेति ४
भवन्ति चात्र
चिकित्स्यमानः सम्यक् च विकारो योऽभिवर्धते
प्रक्षीणबलमांसस्य लक्षणं तद्गतायुषः ५
निवर्तते महाव्याधिः सहसा यस्य देहिनः
न चाहारफलं यस्य दृश्यते स विनश्यति ६
एतान्यरिष्टरूपाणि सम्यग् बुध्येत यो भिषक्
साध्यासाध्यपरीक्षायां स राज्ञः संमतो भवेत् ७
इति सुश्रुतसंहितायां सूत्रस्थाने स्वभावविप्रतिपत्तिर्नाम द्वात्रिंशोऽध्यायः ३२
त्रयस्त्रिंशत्तमोऽध्यायः
अथातोऽवारणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
उपद्र वैस्तु ये जुष्टा व्याधयो यान्त्यवार्यताम्
रसायनाद्विना वत्स तान् शृण्वेकमना मम ३
वातव्याधिः प्रमेहश्च कुष्ठमर्शो भगन्दरम्
अश्मरी मूढगर्भश्च तथैवोदरमष्टमम् ४
अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः
प्राणमांसक्षयः शोषस्तृष्णा च्छर्दिर्ज्वरस्तथा ५
अतीसारश्च मूर्च्छा च हिक्का श्वासस्तथैव च
एतैरुपद्र वैर्जुष्टान् सर्वानेव विवर्जयेत् ६
शूनं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम्
नरं रुजार्तमन्तश्च वातव्याधिर्विनाशयेत् ७
यथोक्तोपद्र वाविष्टमतिप्रस्रुतमेव वा
पिडकापीडितं गाढं प्रमेहो हन्ति मानवम् ८
प्रभिन्नप्रस्रुताङ्गं च रक्तनेत्रं हतस्वरम्
पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ९
तृष्णारोचकशूलार्तमतिप्रस्रुतशोणितम्
शोफातीसारसंयुक्तमर्शोव्याधिर्विनाशयेत् १०
वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च
भगन्दरात् प्रस्रवन्ति यस्य तं परिवर्जयेत् ११
प्रशूननाभिवृषणं रुद्धमूत्रं रुगन्वितम्
अश्मरी क्षपयत्याशु सिकताशर्करान्विता १२
गर्भकोषपरासङ्गो मक्कल्लो योनिसंवृतिः
हन्यात् स्त्रियं मूढगर्भे यथोक्ताश्चाप्युपद्र वाः १३
पार्श्वभङ्गान्नविद्वेषशोफातीसारपीडितम्
विरिक्तं पूर्यमाणं च वर्जयेदुदरार्दितम् १४
यस्ताम्यति विसंज्ञश्च शेते निपतितोऽपि वा
शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः १५
यो हृष्टरोमा रक्ताक्षो हृदि संघातशूलवान्
नित्यं वक्त्रेण चोच्छ्वस्यात्तं ज्वरो हन्ति मानवम् १६
हिक्काश्वासपिपासार्तं मूढं विभ्रान्तलोचनम्
संततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः १७
आविलाक्षं प्रताम्यन्तं निद्रा युक्तमतीव च
क्षीणशोणितमांसं च नरं नाशयति ज्वरः १८
श्वासशूलपिपासार्तं क्षीणं ज्वरनिपीडितम्
विशेषेण नरं वृद्धमतीसारो विनाशयेत् १९
शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम्
कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् २०
श्वासशूलपिपासान्नविद्वेषग्रन्थिमूढताः
भवन्ति दुर्बलत्वं च गुल्मिनो मृत्युमेष्यतः २१
आध्मातं बद्धनिष्यन्दं छर्दिहिक्कातृडन्वितम्
रुजाश्वाससमाविष्टं विद्र धिर्नाशयेन्नरम् २२
पाण्डुदन्तनखो यश्च पाण्डुनेत्रश्च मानवः
पाण्डुसंघातदर्शी च पाण्डुरोगी विनश्यति २३
लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः
रक्तानां च दिशां द्र ष्टा रक्तपित्ती विनश्यति २४
अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः
जागरिष्णुरसंदेहमुन्मादेन विनश्यति २५
बहुशोऽपस्मरन्तं तु प्रक्षीणं चलितभ्रुवम्
नेत्राभ्यां च विकुर्वाणमपस्मारो विनाशयेत् २६
इति सुश्रुतसंहितायां सूत्रस्थानेऽवारणीयो नाम त्रयस्त्रिंशत्तमोऽध्यायः ३३
चतुस्त्रिंशत्तमोऽध्यायः
अथातो युक्तसेनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
नृपतेर्युक्तसेनस्य परानभिजिगीषतः
भिषजा रक्षणं कार्यं यथा तदुपदेक्ष्यते ३
विजिगीषुः सहामात्यैर्यात्रायुक्तः प्रयत्नतः
रक्षितव्यो विशेषेण विषादेव नराधिपः ४
पन्थानमुदकं छायां भक्तं यवसमिन्धनम्
दूषयन्त्यरयस्तच्च जानीयाच्छोधयेत्तथा ५
तस्य लिङ्गं चिकित्सा च कल्पस्थाने प्रवक्ष्यते
एकोत्तरं मृत्युशतमथर्वाणः प्रचक्षते ६
तत्रैकः कालसंयुक्तः शेषा आगन्तवः स्मृताः
दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ ७
रक्षेतां नृपतिं नित्यं यत्तौ वैद्यपुरोहितौ
ब्रह्मा वेदाङ्गमष्टाङ्गमायुर्वेदमभाषत ८
पुरोहितमते तस्माद्वर्तेत भिषगात्मवान्
संकरः सर्ववर्णानां प्रणाशो धर्मकर्मणाम्
प्रजानामपि चोच्छित्तिर्नृपव्यसनहेतुतः ९
पुरुषाणां नृपाणां च केवलं तुल्यमूर्तिता १०
आज्ञा त्यागः क्षमा धैर्यं विक्रमश्चाप्यमानुषः
तस्माद्देवमिवाभीक्ष्णं वाङ्मनःकर्मभिः शुभैः ११
चिन्तयेन्नृपतिं वैद्यः श्रेयांसीच्छन् विचक्षणः
स्कन्धावारे च महति राजगेहादनन्तरम् १२
भवेत्सन्निहितो वैद्यः सर्वोपकरणान्वितः
तत्रस्थमेनं ध्वजवद्यशःख्यातिसमुच्छ्रितम् १३
उपसर्पन्त्यमोहेन विषशाल्यामयार्दिताः
स्वतन्त्रकुशलोऽन्येषु शास्त्रार्थेष्वबहिष्कृतः १४
वैद्यो ध्वज इवाभाति नृपतद्विद्यपूजितः
वैद्यो व्याध्युपसृष्टश्च भेषजं परिचारकः १५
एते पादाश्चिकित्सायाः कर्मसाधनहेतवः
गुणवद्भिस्त्रिभिः पादैश्चतुर्थो गुणवान् भिषक् १६
व्याधिमल्पेन कालेन महान्तमपि साधयेत्
वैद्यहीनास्त्रयः पादा गुणवन्तोऽप्यपार्थकाः १७
उद्गातृहोतृब्रह्माणो यथाऽध्वर्युं विनाऽध्वरे
वैद्यस्तु गुणवानेकस्तारयेदातुरं सदा १८
प्लवं प्रतितरैर्हीनं कर्णधार इवाम्भसि
तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयंकृती १९
लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः
प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः २०
सत्यधर्मपरो यश्च स भिषक् पाद उच्यते
आयुष्मान् सत्त्ववान् साध्यो द्र व्यवानात्मवानपि २१
आस्तिको वैद्यवाक्यस्थो व्याधितः पाद उच्यते
प्रशस्तदेशसंभूतं प्रशस्तेऽहनि चोद्धृतम् २२
युक्तमात्रं मनस्कान्तं गन्धवर्णरसान्वितम्
दोषध्नमग्लानिकरमविकारि विपर्यये
समीक्ष्य दत्तं काले च भेषजं पाद उच्यते २३
स्निग्धोऽजुगुप्सुर्बलवान् युक्तो व्याधितरक्षणे
वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः २४
इति सुश्रुतसंहितायां सूत्रस्थाने युक्तसेनीयो नाम चतुस्त्रिंशत्तमोऽध्यायः ३४
पञ्चत्रिंशत्तमोऽध्यायः
अथात आतुरोपक्रमणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
आतुरमुपक्रममाणेन भिषजाऽयुरादावेव परीक्षितव्यं सत्यायुषि व्याध्यृत्वग्निवयोदेहबलसत्त्वसात्म्यप्रकृतिभेषजदेशान् परीक्षेत ३
तत्र महापाणिपादपार्श्वपृष्ठस्तनाग्रदशनवदनस्कन्धललाटं दीर्घाङ्गुलिपर्वोच्छ्वासप्रेक्षणबाहुं विस्तीर्णभ्रूस्तनान्तरोरस्कं ह्रस्वजङ्घामेढ्रग्रीवं गम्भीरसत्त्वस्वरनाभिम् अनुच्चैर्बद्धस्तनम् उपचितमहारोमशकर्णं पश्चान्मस्तिष्कं स्नतानुलिप्तं मूर्धानुपूर्व्या विशुष्यमाणशरीरं पश्चाच्च विशुष्यमाणहृदयं पुरुषं जानीयाद्दीर्घायुः खल्वयमिति तमेकान्तेनोपक्रमेत् एभिर्लक्षणैर्विपरीतैरल्पायुः मिश्रैर्मध्यमायुरिति ४
भवन्ति चात्र
गूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रि यः
उत्तरोत्तरसुक्षेत्रो यः स दीर्घायुरुच्यते ५
गर्भात् प्रभृत्यरोगो यः शनैः समुपचीयते
शरीरज्ञानविज्ञानैः स दीर्घायुः समासतः ६
मध्यमस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे
अधस्तादक्षयोर्यस्य लेखाः स्युर्व्यक्तमायताः ७
द्वे वा तिस्रोऽधिका वाऽपि पादौ कर्णौ च मांसलौ
नासाग्रमूर्ध्वं च भवेदूर्ध्वं लेखाश्च पृष्ठतः ८
यस्य स्युस्तस्य परममायुर्भवति सप्ततिः
जघन्यस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे ९
ह्रस्वानि यस्य पर्वाणि सुमहच्चापि मेहनम्
तथोरस्यवलीढानि न च स्यात्पृष्ठमायतम् १०
ऊर्ध्वं च श्रवणौ स्थानान्नासा चोच्चा शरीरिणः
हसतो जल्पतो वाऽपि दन्तमांसं प्रदृश्यते
प्रेक्षते यश्च विभ्रान्तं स जीवेत्पञ्चविंशतिम् ११
अथ पुनरायुषो विज्ञानार्थमङ्गप्रत्यङ्गप्रमाणसारानुपदेक्ष्यामः तत्राङ्गान्यन्तराधिसक्थिबाहुशिरांसि तदवयवाः प्रत्यङ्गानीति तत्र स्वैरङ्गुलैः पदाङ्गुष्ठप्रदेशिन्यौ द्व्यङ्गुलायते प्रदेशिन्यास्तु मध्यमानामिकाकनिष्ठिका यथोत्तरं पञ्चमभागहीनाः चतुरङ्गुलायते पञ्चाङ्गुलविस्तृते प्रपदपादतले पञ्चचतुरङ्गुलायतविस्तृता पार्ष्णिः चतुर्दशाङ्गुलायतः पादः चतुर्दशाङ्गुलपरिणाहानि पादगुल्फजङ्घोजानुमध्यानि अष्टादशाङ्गुला जङ्घा जानूपरिष्टाच्च द्वात्रिंशदङ्गुलम् एते पञ्चाशत् जङ्घायामसमावूरू द्व्यङ्गुलानि वृषणचिबुकदशननासापुटभागकर्णमूलभ्रूनयनान्तराणि चतुरङ्गुलानि मेहनवदनान्तरनासाकर्णललाटग्रीवोच्छ्रायदृष्टयन्तराणि द्वादशाङ्गुलानि भगविस्तारमेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्रकोष्ठस्थौल्यानि इन्द्रबस्तिपरिणाहांसपीठकूर्परान्तरायामः षोडशाङ्गुलः चतुर्विंशत्यङ्गुलो हस्तः द्वात्रिंशदङ्गुलपरिमाणौ भुजौ द्वात्रिंशत्परिणाहावूरू मणिबन्धकूर्परान्तरं षोडशाङ्गुलं तलं षट्चतुरङ्गुलायामविस्तारम् अङ्गुष्ठमूलप्रदेशिनीश्रवणापाङ्गान्तरमध्यमाङ्गुल्यौ पञ्चाङ्गुले अर्धपञ्चाङ्गुले प्रदेशिन्यनामिके सार्धत्र्यङ्गुलौ कनिष्ठाङ्गुष्ठौ चतुर्विंशतिविस्तारपरिणाहं मुखग्रीवं त्रिभागाङ्गुलविस्तारा नासापुटमर्यादा नयनत्रिभागपरिणाहा तारका नवमस्तारकांशो दृष्टिः केशान्तमस्तकान्तरमेकादशाङ्गुलं मस्तकादवटुकेशान्तो दशाङगुलः कर्णावट्वन्तरं चतुर्दशाङ्गुलं पुरुषोरः प्रमाणविस्तीर्णा स्त्रीश्रोणिः अष्टादशाङ्गुलविस्तारमुरः तत्प्रमाणा पुरुषस्य कटी सविंशमङ्गुलशतंपुरुषायाम इति १२
भवन्ति चात्र श्लोकाः
पञ्चविंशे ततो वर्षे पुमान् नारी तु षोडशे
समत्वागतवीर्यौ तौ जानीयात् कुशलो भिषक् १३
देहः स्वैरङ्गुलैरेष यथावदनुकीर्तितः
युक्तः प्रमाणेनानेन पुमान् वा यदि वाऽङ्गना १४
दीर्घमायुरवाप्नोति वित्तं च महदृच्छति
मध्यमं मध्यमैरायुर्वित्तं हीनैस्तथाऽवरम् १५
अथ सारान् वक्ष्यामःस्मृतिभक्तिप्रज्ञाशैचशौर्योपेतं कल्याणाभिनिवेशं सत्त्वसरं विद्यात् स्निग्धसंहतश्वेतास्थिदन्तनखं बहुलकामप्रजं शुक्रेण अकृशमुत्तमबलं स्निग्धगम्भीरस्वरं सौभाग्योपपय्ननं महानेत्रं च मज्ज्ञा महाशिरः स्कन्धं दृढदन्तहन्वस्थिनखमस्थिभिः स्निग्धमूत्रस्वेदस्वरं बृहच्छरीरमायासासहिष्णुं मेदसा अच्छिद्र गात्रं गूढास्थिसन्धिं मांसोपचितं च मांसेन स्निग्धताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलं रक्तेन सुप्रसन्नमृदुत्वग्रोमाणं त्वक्सारं विद्यादिति एषां पूर्वं पूर्वं प्रधानमायुः सौभाग्ययोरिति १६
विशेषतोऽङ्गप्रत्यङ्गप्रमाणादथ सारतः
परीक्ष्यायुः सुनिपुणो भिषक् सिध्यति कर्मसु १७
व्याधिविशेषास्तु प्रागभिहिताः सर्व एवैते त्रिविधाः साध्या याप्याः प्रत्याख्येयाश्च तत्रैतान् भूयस्त्रिधा परीक्षेतकिमयमौपसर्गिकः प्राक्केवलः अन्यलक्षण इति तत्र औपसर्गिको नाम यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजति स तन्मूल एवोपद्र वसंज्ञः प्राक्केवलो नाम यः प्रागेवोत्पन्नो व्याधिरपूर्वरूपोऽनुपद्र वश्च अन्यलक्षणो नाम यो भविष्यद्व्याधिख्यापकः स पूर्वरूपसंज्ञः तत्र सोपद्र वमन्योन्या विरोधेनोपक्रमेत बलवन्तमुपद्र वं वा प्राक्केवलं यथास्वं प्रतिकुर्वीत अन्यलक्षणे त्वादिव्याधौ प्रयतेत १८
भवति चात्र
नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः
अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् १९
प्रागभिहिता ऋतवः २०
शीते शीतप्रतीकारमुष्णे चोष्णनिवारणम्
कृत्वा कुर्यात् क्रियां प्राप्तां क्रियाकालं न हापयेत् २१
अप्राप्ते वा क्रियाकाले प्राप्ते वा न कृता क्रिया
क्रिया हीनाऽतिरिक्ता वा साध्येष्वपि न सिध्यति २२
या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च
सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत् २३
प्रागभिहितोऽग्निरन्नस्य पाचकः स चतुर्विधो भवति दोषानभिपन्न एकः विक्रियामापन्नस्त्रिविधो भवतिविषमो वातेन तीक्ष्णः पित्तेन मन्दः श्लेष्मणा चतुर्थः समः सर्वसाम्यादिति तत्र यो यथाकालमुपयुक्तमन्नं सम्यक् पचति स समः समैर्दोषैः यः कदाचित् सम्यक् पचति कदाचिदाध्मानशूलोदावर्तातिसारजठरगौरवान्त्रकूजनप्रवाहणानि कृत्वा स विषमः यः प्रभूतमप्युपयुक्तमन्नमाशुपचति स तीक्ष्णः स एवाभिवर्धमानोऽत्यग्निरित्याभाष्यते स मुहुर्मुहुः प्रभूतमप्युपयुक्तमन्नमाशुतरं पचति पाकान्ते च गलताल्वोष्ठशोषदाहसंतापाञ्जनयति यस्त्वल्पमप्युपयुक्तमुदरशिरोगौरवकासश्वासप्रसेकच्छर्दिगात्रसदनानि कृत्वा महताकालेन पचति स मन्दः २४
विषमो वातजान् रोगांस्तीक्ष्णः पित्तनिमित्तजान्
करोत्यग्निस्तथा मन्दो विकरान्कफसंभवान् २५
तत्र समे परिरक्षणं कुर्वीत विषमे स्निग्धाम्ललवणैः क्रियाविशेषैः प्रतिकुर्वीत तीक्ष्णे मधुरस्निग्धशीतैर्विरेकैश्च एवमेवात्यग्नौ विशेषेण माहिषैश्च क्षीरदधिसर्पिर्भिः मन्दे कटुतिक्तकषायैर्वमनैश्च २६
जाठरो भगवानग्निरीश्वरोऽन्नस्य पाचकः
सौक्ष्म्याद्र सानाददानो विवेक्तुं नैव शक्यते २७
प्राणापानसमानैस्तु सर्वतः पवनैस्त्रिभिः
ध्मायते पाल्यते चापि स्वां स्वां गतिमवस्थितैः २८
वयस्तु त्रिविधंबाल्यं मध्यं वृद्धमिति तत्रोनषोडशवर्षीया बालाः ते त्रिविधाःक्षीरपाः क्षीरान्नादा अन्नादा इति तेषु संवत्सरपराः क्षीरपाः द्विसंवत्सरपराः क्षीरान्नादाः परतोऽन्नादा इति षोडशसप्तत्योरन्तरे मध्यं वयः तस्य विकल्पोवृद्धिः यौवनं संपूर्णता परिहाणिरिति तत्र आविंशतेर्वृद्धिः आत्रिंशतो यौवनम् आचत्वारिंशतः सर्वधात्विन्द्रि यबलवीर्यसंपूर्णता अत ऊर्ध्वमीषत्परिहाणिर्यावत्सप्ततिरिति सप्ततेरूर्ध्वं क्षीयमाणधात्विन्द्रि यबलवीर्योत्साहमहन्यहनि वलीपलित खालित्यजुष्टं कासश्वासप्रभृतिभिरुपद्र वैरभिभूयमानं सर्वक्रियास्वसमर्थं जीर्णागारमिवाभिवृष्टमवसीदन्तं वृद्धमाचक्षते २९
तत्रोत्तरोत्तरासु वयोवस्थासूत्तरोत्तरा भेषजमात्राविशेषा
भवन्ति ऋते च परिहाणेः तत्राद्यापेक्षया प्रतिकुर्वीत ३०
भवन्ति चात्रबाले विवर्धते श्लेष्मा मध्यमे पित्तमेव तु
भूयिष्ठं वर्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत् ३१
अग्निक्षारविरेकैस्तु बालवृद्धौ विवर्जयेत्
तत्साध्येषु विकारेषु मृद्वीं कुर्यात् क्रियां शनैः ३२
देहः स्थूलः कृशो मध्य इति प्रागुपदिष्टः ३३
कर्शयेद्बृंहयेच्चापि सदा स्थूलकृशौ नरौ
रक्षणं चैव मध्यस्य कुर्वीत सततं भिषक् ३४
बलमभिहितगुणं दौर्बल्यं तु स्वभावदोषजरादिभिरवेक्षितव्यम् यस्माद्बलवतः सर्वक्रियाप्रवृत्तिस्तस्माद्बलमेव प्रधानमधिकरणानाम् ३५
केचित् कृशाः प्राणवन्तः स्थूलाश्चाल्पबला नराः
तस्मात् स्थिरत्वं व्यायामैर्बलं वैद्यः प्रतर्कयेत् ३६
सत्त्वं तु व्यसनाभ्युदयक्रियादिस्थानेष्वविक्लवकरम् ३७
सत्त्ववान् सहते सर्वं संस्तभ्यात्मानमात्मना
राजसः स्तभ्यमानोऽन्यै सहते नैव तामसः ३८
सात्म्यानि तु देशकालजात्यृतुरोगव्यायामोदकदिवास्वप्नरसप्रभृतीनि प्रकृतिविरुद्धान्यपि यान्यबाधकराणि भवन्ति ३९
यो रसः कल्पते यस्य सुखायैव निषेवितः
व्यायामजातमन्यद्वा तत् सात्म्यमिति निर्दिशेत् ४०
प्रकृतिं भेषजं चोपरिष्टाद्वक्ष्यामः ४१
देशस्त्वानूपो जाङ्गलः साधारण इति तत्र बहूदकनिम्नोन्नतनदीवर्षगहनो मृदुशीतानिलो बहुमहापर्वतवृक्षो मृदुसुकुमारोपचितशरीरमनुष्यप्रायः कफवातरोगभूयिष्ठश्चानूपः आकाशसमः प्रविरलाल्पकण्टकिवृक्ष प्रायोऽल्पवर्षप्रस्रवणोदपानोदकप्राय उष्णदारुणवातः प्रविरलाल्पशैलः स्थिरकृशशरीरमनुष्यप्रायो वातपित्तरोगभूयिष्ठश्च जाङ्गलः उभयदेशलक्षणः साधारण इति ४२
भवन्ति चात्रसमाः साधारणे यस्माच्छीतवर्षोष्ममारुताः
दोषाणां समता जन्तोस्तस्मात्साधारणो मतः ४३
न तथा बलवन्तः स्युर्जलजा वा स्थलाहृताः
स्वदेशे निचिता दोषा अन्यस्मिन् कोपमागताः ४४
उचिते वर्तमानस्य नास्ति देशकृतं भयम्
आहारस्वप्नचेष्टादौ तद्देशस्य गुणे सति ४५
देशप्रकृतिसात्म्यर्तुविपरीतोऽचिरोत्थितः
संपत्तौ भिषगादीनां बलसत्त्वायुषां तथा ४६
केवलः समदेहाग्नेः सुखसाध्यतमो गदः
अतोऽन्यथा त्वसाध्यः स्यात्कृच्छ्रो व्यामिश्रलक्षणः ४७
क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत्
पूर्वस्यां शान्तवेगायां न क्रियासंकरो हितः ४८
गुणालाभेऽपि सपदि यदि सैव क्रिया हिता
कर्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि ४९
य एवमेनं विधिमेकरूपं बिभर्ति कालादिवशेन धीमान्
स मृत्युपाशाञ्जगतो गदौघाञ्छिनत्ति भैषज्यपरश्वधेन ५०
इति सुश्रुतसंहितायां सूत्रस्थाने आतुरोपक्रमणीयो नाम पञ्चत्रिंशोऽध्यायः ३५
षट्त्रिंशत्तमोऽध्यायः
अथातो भूमिप्रविभागीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
श्वभ्रशर्कराश्मविषमवल्मीकश्मशानाघातनदेवतायतनसिकताभिरनुपह-तामनूषरामभङ्गुरामदूरोदकां स्निग्धां प्ररोहवतीं मृद्वीं स्थिरा समां कृष्णां गौरीं लोहितां वा भूमिमौषधग्रहणाय परीक्षेत तस्यां जातमपि कृमिविषशस्त्रातपपवनदहनतोयसंबाधमार्गैरनुपहतमेकरसं पुष्टं पृथ्ववगाढमूलमुदीच्यां चौषधमाददीतेत्येष भूमिपरीक्षाविशेषः सामान्यः ३
विशेषतस्तु तत्र अश्मवती स्थिरा गुर्वी श्यामा कृष्णा वा स्थूलवृक्षशस्यप्राया स्वगुणभूयिष्ठा स्निग्धा शीतलाऽसन्नोदका स्निग्शस्यतृणकोमलवृक्षप्राय शुक्लाऽम्बुगुणभूयिष्ठा नानावर्णा लघ्वश्मवति प्रविरलाल्पपाण्डुवृक्षप्ररोहाऽग्निगुणभूयिष्ठा रूक्षा भस्मरासभवर्णा तनुवृक्षाल्परस कोटरवृक्षप्रायाऽनिलगुणभूयिष्ठा मृद्वी समा श्वभ्रवत्यव्यक्तरसजला सर्वतोऽसारवृक्षा महापर्वतवृक्षप्राया श्यामा चाकाशगुणभूयिष्ठा ४
अत्र केचिदाहुराचार्याःप्रावृड्वर्षाशरद्धेमन्तवसन्तग्रीष्मेषु यथासंख्यं मूलपत्रत्वक्क्षीरसारफलान्याददीतेति तत्तु न सम्यक् सौम्याग्नेयत्वाज्जगतः सौम्यान्यौषधानि सौम्येष्वृतुष्वाददीत आग्नेयान्याग्नेयेषु एवमव्यापय्ननगुणानि भवन्ति सौम्यान्यौषधानि सौम्येष्वृतुषुगृहीतानि सोमगुणभूयिष्ठायां भूमौ जातान्यतिमधुरस्निग्ध शीतानि जायन्ते एतेन शेषं व्याख्यातम् ५
तत्र पृथिव्यम्बुगुणभूयिष्ठायां भूमौ जातानि विरेचनद्र व्याण्याददीत अग्न्या काशमारुतगुणभूयिष्ठायां वमनद्र व्याणि उभयगुणभूयिष्ठायामुभयतोभागानि
आकाशगुणभूयिष्ठायां संशमनानि एवं बलवत्तराणि भवन्ति ६
सर्वाण्येव चाभिनवानि अन्यत्र मधुघृतगुडपिप्पलीविडङ्गेभ्यः ७
विडङ्गं पिप्पली क्षौद्रं सर्पिश्चाप्यनवं हितम्
शेषमन्यत्वभिनवं गृह्णीयाद्दोषवर्जितम् ८
सर्वाण्येव सक्षीराणि वीर्यवन्ति तेषामसंपत्तावति क्रान्तसंवत्सराण्याददीतेति ९
भवन्ति चात्र
गोपालास्तापसा व्याधा ये चान्ये वनचारिणः
मूलाहाराश्च ये तेभ्यो भेषजव्यक्तिरिष्यते १०
सर्वावयवसाध्येषु पलाशलवणादिषु
व्यवस्थितो न कालोऽस्ति तत्र सर्वो विधीयते ११
गन्धवर्णरसोपेता षडिवधा भूमिरिष्यते
तस्माद्भूमिस्वभावेन बीजिनः षड्रसायुताः १२
अव्यक्तः किल तोयस्य रसो निश्चयनिश्चितः
रसः स एव चाव्यक्तो व्यक्तो भूमिरसाद्भवेत् १३
सर्वलक्षणसंपन्ना भूमिः साधारणा स्मृता
द्र व्याणि यत्र तत्रैव तद्गुणानि विशेषतः १४
विगन्धेनापरामृष्टमविपन्नं रसादिभिः
नवं द्र व्यं पुराणं वा ग्राह्यमेवं विनिर्दिशेत् १५
जङ्गमानां वयःस्थानां रक्तरोमनखादिकम्
क्षीरमूत्रपुरीषाणि जीर्णाहारेषु संहरेत् १६
प्लोतमृद्भाण्डफलकशङ्कुविन्यस्तभेषजम्
प्रशस्तायां दिशि शुचौ भेषजागारमिष्यते १७
इति सुश्रुतसंहितायां सूत्रस्थाने भूमिप्रविभागीयो नाम षट्त्रिंशोऽध्यायः ३६
सप्तत्रिंशत्तमोऽध्यायः
अथातो मिश्रकमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मातुलुङ्ग्यग्निमन्थौ च भद्र दारु महौषधम्
अहिंस्रा चैव रास्ना च प्रलेपो वातशोफजित् ३
दूर्वा च नलमूलं च मधुकं चन्दनं तथा
शीतलाश्च गणाः सर्वे प्रलेपः पित्तशोफहृत् ४
आगन्तुजे रक्तजे च ह्येष एव विधिः स्मृतः
विधिर्विषघ्नो विषजे पित्तघ्नोऽपि हितस्तथा ५
अजगन्धाऽश्वगन्धा च काला सरलया सह
एकैषिकाऽजशृङ्गी च प्रलेपः श्लेष्मशोफहृत् ६
एते वर्गास्त्रयो लोध्रं पथ्या पिण्डीतकानि च
अनन्ता चेति लेपोऽय सन्निपातिकशोफहृत् ७
स्निन्धाम्ललवणो वाते कोष्णः शीतः पयोयुतः
पित्ते चोष्णः कफे क्षारमूत्राढ्यस्तत्प्रशान्तये ८
शणमूलकशिग्रूणां फलानि तिलसर्षपाः
सक्तवः किण्वमतसी द्र व्याण्युष्णानि पाचनम् ९
चिरबिल्वोऽग्निको दन्ती चित्रको हयमारकः
कपोतकङ्कगृध्राणां पुरीषाणि च दारणम्
क्षारद्र व्याणि वा यानि क्षारो वा दारणं परम् १०
द्र व्याणां पिच्छिलानां तु त्वङ्मूलानि प्रपीडनम्
यवगोधूममाषाणां चूर्णानि च समासतः ११
शङ्खिन्यङ्कोठसुमनःकरवीरसुवर्चलाः
शोधनानि कषायाणि वर्गश्चारग्वधादिकः १२
अजगन्धाऽजशृङ्गी च गवाक्षी लाङ्गलाह्वया
पूतीकश्चित्रकः पाठा विडङ्गैलाहरेणवः १३
कटुत्रिकं यवक्षारो लवणानि मनः शिला
कासीसं त्रिवृता दन्ती हरितालं सुराष्ट्रजा १४
संशोधनीनां वर्तीनां द्र व्याण्येतानि निर्दिशेत्
एतैरेवौषधैः कुर्यात्कल्कानपि च शोधनान् १५
अर्कोत्तमां स्नुहीक्षीरं पिष्ट्वा क्षारोत्तमानि च
जातीमूलं हरिद्रे द्वे कासीसं कटुरोहिणीम् १६
पूर्वोद्दिष्टानि चान्यानि कुर्यात् संशोधनं घृतम्
मयूरको राजवृक्षो निम्बः कोशातकी तिलाः १७
बृहती कण्टकारी च हरितालं मनः शिला
शोधनानि च योज्यानि तैले द्र व्याणि शोधने १८
कासीसे सैन्धवे किण्वे वचायां रजनीद्वये
शोधनाङ्गेषु चान्येषु चूर्णं कुर्वीत शोधनम् १९
सालसारादिसारेषु पटोलत्रिफलासु च
रसक्रिया विधातव्या शोधनी शोधनेषु च २०
श्रीवेष्टके सर्जरसे सरले देवदारुणि
सारेष्वपि च कुर्वीत मतिमान् व्रणधूपनम् २१
कषायाणामनुष्णानां वृक्षाणां त्वक्षु साधितः
शृतः शीतकषायो वा रोपणार्थं प्रशस्यते २२
सोमामृताश्वगन्धासु काकोल्यादौ गणे तथा
क्षीरिप्ररोहेष्वपि च वर्तयो रोपणाः स्मृताः २३
समङ्गा सोमसरला सोमवल्कः सचन्दनः
काकोल्यादिश्च कल्कः स्यात् प्रशस्तो व्रणरोपणे २४
पृथक्पर्ण्यात्मगुप्ता च हरिद्रे मालती सिता
काकोल्यादिश्च योज्यः स्याद्भिषजा रोपणे घृते २५
कालानुसार्यागुरुणी हरिद्रे देवदारु च
प्रियङ्गवश्च रोध्रं च तैले योज्यानि रोपणे २६
कङ्गुका त्रिफला रोध्रं कासीसं श्रवणाह्वया
धवाश्वकर्णयोस्त्वक् च रोपणं चूर्णमिष्यते २७
प्रियङ्गुका सर्जरसः पुष्पकासीसमेव च
त्वक्चूर्णं धवजं चैव रोपणार्थं प्रशस्यते २८
त्वक्षु न्यग्रोधवर्गस्य त्रिफलायास्तथैव च
रसक्रियां रोपणार्थे विदधीत यथाक्रमम् २९
अपामार्गोऽश्वगन्धा च तालपत्री सुवर्चला
उत्सादने प्रशस्यन्ते काकोल्यादिश्च यो गणः ३०
कासीसं सैन्धवं किण्वं कुरुविन्दो मनः शिला
कुक्कुटाण्डकपालानि सुमनोमुकुलानि च ३१
फले शैरीषकारञ्जे धातुचूर्णानि यानि च
व्रणेषूत्सन्नमांसेषु प्रशस्तान्यवसादने ३२
समस्तं वर्गमर्धं वा यथालाभमथापि वा
प्रयुञ्जीत भिषक् प्राज्ञो यथोद्दिष्टेषु कर्मसु ३३
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने मिश्रकाध्यायो नाम सप्तत्रिंशत्तमोऽध्यायः ३७
अष्टत्रिंशत्तमोऽध्यायः
अथातो द्र व्यसंग्रहणीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
समासेन सप्तत्रिंशद्द्र व्यगणा भवन्ति ३
तद्यथाविदारिगन्धा विदारी विश्वदेवा सहदेवा श्वदंष्ट्रा पृथक्पर्णी शतावरी सारिवा कृष्णसारिवा जीवकर्षभकौ महासहा क्षुद्र सहा बृहत्यौ पुनर्नवैरण्डो हंसपादी वृश्चिकाल्यृषभी चेति ४
विदारिगन्धादिरयं गणः पित्तानिलापहः
शोषगुल्माङ्गमर्दोर्ध्वश्वासकासविनाशनः ५
आरग्वधमदनगोपघोण्टाकण्टकीकुटजपाठापाटलामूर्वेन्द्र यवसप्तपर्णनिम्ब-कुरुण्टकदासीकुरण्टकगुडूचीचित्रकशार्ङ्गष्टाकरञ्जद्वयपटोलकिराततिक्तकानि सुषवी चेति ६
आरग्वधादिरित्येष गणः श्लेष्मविषापहः
मेहकुष्ठज्वरवमीकण्डूघ्नो व्रणशोधनः ७
सालसाराजकर्णखदिरकदरकालस्कन्धक्रमुकभूर्जमेषशृङ्गतिनिशचन्दनकुचन्दन-शिंशपाशिरीषासनधवार्जुनतालशाकनक्तमालपूतीकाश्वकर्णागुरूणि कालीयकं चेति ८
सालसारादिरित्येष गणः कुष्ठविनाशनः
मेहपाण्ड्वामयहरः कफमेदोविशोषणः ९
वरुणार्तगलशिग्रुमधुशिग्रुतर्कारीमेषशृङ्गीपूतीकनक्तमालमोरटाग्निमन्थसैरे-यकद्वयबिम्बीवसुकवसिरचित्रक शतावरीबिल्वाजशृङ्गीदर्भा बृहतीद्वयंचेति १०
वरुणादिर्गणो ह्येष कफमेदोनिवारणः
विनिहन्ति शिरःशूलगुल्माभ्यन्तरविद्र धीन् ११
वीरतरुसहचरद्वयदर्भवृक्षादनीगुन्द्रा नलकुशकाशाश्मभेदकाग्निमन्थमोरटावसुकवसिरभल्लूककुरण्टिकेन्दीवरकपोतवङ्काः श्वदंष्ट्रा चेति १२
वीरतर्वादिरित्येष गणो वातविकारनुत्
अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः १३
लोध्रसावरलोध्रपलाशकुटन्नटाशोकफञ्जीकट्फलैलवालुकशल्लकीजिङ्गिनीक-दम्बसालाः कदली चेति १४
एष रोध्रादिरित्युक्तो मेदःकफहरो गणः
योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः १५
अर्कालर्ककरञ्जद्वयनागदन्तीमयूरकभार्गीरास्नेन्द्र पुष्पीक्षुद्र श्वेतामहाश्वेतावृश्चिकाल्यलवणास्तापसवृक्षश्चेति १६
अर्कादिको गणो ह्येष कफमेदोविषापहः
कृमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः १७
सुरसाश्वेतसुरसाफणिज्झकार्जकभूस्तृणसुगन्धकसुमुख कालमाल कुठेरकका समर्दक्षवकखरपुष्पाविडङ्गकट् फलसुरसीनिर्गुण्डी कुलाहलोन्दुरुकर्णिकाफञ्जीप्राचीबलकाकमाच्यो विषमुष्टिकश्चेति १८
सुरसादिर्गणो ह्येष कफहृत् कृमिसूदनः
प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः १९
मुष्ककपलाशधवचित्रकमदनवृक्षकशिंशपावज्रवृक्षास्त्रिफला चेति २०
मुष्ककादिर्गणो ह्येष मेदोघ्नः शुक्रदोषहृत्
मेहार्शःपाण्डुरोगाश्मशर्करानाशनः परः २१
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पलीहरेणु-कैलाजमोदेन्द्रयवपाठाजीरकसर्षपमहानिम्बफलहिङ्गुभार्गीमधुरसातिविषाव-चाविडङ्गानि कटुरोहिणी चेति २२
पिप्पल्यादिः कफहरः प्रतिश्यायानिलारुचीः
निहन्याद्दीपनो गुल्मशूलघ्नश्चामपाचनः २३
एलातगरकुष्ठमांसीध्यामकत्वक्पत्रनागपुष्पप्रियङ्गुहरेणुकाव्याघ्रनख शुक्तिचण्डास्थौणेयकश्रीवेष्टकचोचचोरकवालुकगुग्गुलुसर्जरसतुरुष्ककुन्दुरुका-गुरुस्पृक्कोशीरभद्र दारुकुङकुमानि पुन्नागकेशरं चेति २४
एलादिको वातकफौ विहन्याद्विषमेव च
वर्णप्रसादनः कण्डूपिडकाकोठनाशनः २५
वचामुस्तातिविषाभयाभद्र दारूणि नागकेशरं चेति २६
हरिद्रा दारुहरिद्रा कलशीकुटजबीजानि मधुकं चेति २७
एतौ वचाहरिद्रा दी गणौ स्तन्यविशोधनौ
आमातिसारशमनौ विशेषाद्दोषपाचनौ २८
श्यामामहाश्यामात्रिवृद्दन्तीशङ्खिनीतिल्वककम्पिल्लकरम्यकक्रमुकपुत्रश्रेणीग-वाक्षीराजवृक्षकरञ्जद्वयगुडूचीसप्तलाच्छगलान्त्रीसुधाः सुवर्णक्षीरी चेति २९
उक्तः श्यामादिरित्येष गणो गुल्मविषापहः
आनाहोदरविड्भेदी तथोदावर्तनाशनः ३०
बृहतीकण्टकारिकाकुटजफलपाठा मधुकं चेति ३१
पाचनीयो बृहत्यादिर्गणः पित्तानिलापहः
कफारोचकहृद्रो गमूत्रकृच्छ्ररुजापहः ३२
पटोलचन्दनकुचन्दनमूर्वागुडूचीपाठाः कटुरोहिणी चेति ३३
पटोलादिर्गणः पित्तकफारोचकनाशनः
ज्वरोपशमनो व्रण्यश्छर्दिकण्डूविषापहः ३४
काकोलीक्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमाषपर्णीमेदामहामेदाच्छिन्नरुहाकर्कटशृङ्गीतु-गाक्षीरीपद्मकप्रपौण्डरीकर्धि वृद्धिमृद्वीकाजीवन्त्यो मधुकं चेति ३५
काकोल्यादिरयं पित्तशोणितानिलनाशनः
जीवनो बृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा ३६
ऊषकसैन्धवशिलाजतुकासीसद्वयहिङ्गूनि तुत्थकं चेति ३७
ऊषकादिः कफं हन्ति गणो मेदोविशोषणः
अश्मरीशर्करामूत्रकृच्छ्रगुल्मप्रणाशनः ३८
सारिवामधुकचन्दनकुचन्दनपद्मककाश्मरीफलमधू कपुष्पाण्युशीरं चेति ३९
सारिवादिः पिपासाघ्नो रक्तपित्तहरो गणः
पित्तज्वरप्रशमनो विशेषाद्दाहनाशनः ४०
अञ्जनरसाञ्जननागपुष्पप्रियङ्गुनीलोत्पल नलदनलिनकेशराणि मधुकं चेति ४१
अञ्जनादिर्गणो ह्येष रक्तपित्तनिबर्हणः
विषोपशमनो दाहं निहन्त्याभ्यन्तरं भृशम् ४२
परूषकद्रा क्षाकट्फलदाडिमराजादनकतकफलशाकफलानि त्रिफला चेति ४३
परूषकादिरित्येष गणोऽनिलविनाशनः
मूत्रदोषहरो हृद्यः पिपासाघ्नो रुचिप्रदः ४४
प्रियङ्गुसमङ्गाधातकीपुन्नागनागपुष्पचन्दनकुचन्दनमोचरसरसाञ्जनकुम्भी कस्रोतोजपद्मकेसरयोजनवल्ल्यो दीर्घमूला चेति ४५
अम्बष्ठाधातकीकुसुमसमङ्गाकट्वङ्गमधुकबिल्वपेशिकासावररोध्रपलाशनन्दीवृक्षाः पद्मकेशराणि चेति ४६
गणौ प्रियङ्ग्वम्बष्ठादी पक्वातीसारनाशनौ
सन्धानीयौ हितौ पित्ते व्रणानां चापि रोपणौ ४७
न्यग्रोधोदुम्बराश्वत्थप्लक्षमधुककपीतनककुभाम्रकोशाम्रचोरकपत्रजम्बूद्वय प्रियालमधूकरोहिणीवञ्जुलकदम्बबदरीतिन्दुकीसल्लकीरोध्रसावररोध्रभ-ल्लातकपलाशा नन्दीवृक्षश्चेति ४८
न्यग्रोधादिर्गणो व्रण्यः संग्राही भग्नसाधकः
रक्तपित्तहरो दाहमेदोघ्नो योनिदोषहृत् ४९
गुडूचीनिम्बकुस्तुम्बुरुचन्दनानि पद्मकं चेति ५०
एष सर्वज्वरान् हन्ति गुडूच्यादिस्तु दीपनः
हृल्लासारोचकवमीपिपासादाहनाशनः ५१
उत्पलरक्तोत्पलकुमुदसौगन्धिककुवलयपुण्डरीकाणि मधुकं चेति ५२
उत्पलादिरयं दाहपित्तरक्तविनाशनः
पिपासाविषहृद्रो गच्छर्दिमूर्च्छाहरो गणः ५३
मुस्ताहरिद्रा दारुहरिद्रा हरीतक्यामलकबिभीतककुष्ठहैमवतीवचापाठाकटु रोहिणीशार्ङ्गष्टातिविषाद्रा विडीभल्लातकानि चित्रकश्चेति ५४
एष मुस्तादिको नाम्ना गणः श्लेष्मनिषूदनः
योनिदोषहरः स्तन्यशोधनः पाचनस्तथा ५५
हरीतक्यामलकबिभीतकानीति त्रिफला ५६
त्रिफला कफपित्तघ्नी मेहकुष्ठविनाशनी
चक्षुष्या दीपनी चैव विषमज्वरनाशनी ५७
पिप्पलीमरिचशृङ्गवेराणीति त्रिकटुकम् ५८
त्र्यूषणं कफमेदोघ्नं मेहकुष्ठत्वगामयान्
निहन्याद्दीपनं गुल्मपीनसाग्न्यल्पतामपि ५९
आमलकीहरीतकीपिप्पल्यश्चित्रकश्चेति ६०
आमलक्यादिरित्येष गणः सर्वज्वरापहः
चक्षुष्यो दीपनो वृष्यः कफारोचकनाशनः ६१
त्रपुसीसताम्ररजतसुवर्णकृष्णलोहानि लोहमलश्चेति ६२
गणस्त्रप्वादिरित्येष गरक्रिमिहरः परः
पिपासाविषहृद्रो गपाण्डुमेहहरस्तथा ६३
लाक्षारेवतकुटजाश्वमारकट्फलहरिद्रा द्वयनि
म्बसप्तच्छदमालत्यस्त्रायमाणा चेति ६४
कषायतिक्तमधुरः कफपित्तार्तिनाशनः
कुष्ठक्रिमिहरश्चैव दुष्टव्रणविशोधनः ६५
पञ्च पञ्चमूलान्यत ऊर्ध्वं वक्ष्यामःतत्र त्रिकण्टकबृहतीद्वयपृथ
क्पर्ण्यो विदारिगन्धा चेति कनीयः ६६
कषायतिक्तमधुरं कनीयः पञ्चमूलकम्
वातघ्नं पित्तशमनं बृंहणं बलवर्धनम् ६७
बिल्वाग्निमन्थटिण्टुकपाटलाः काश्मरी चेति महत् ६८
सतिक्तं कफवातघ्नं पाके लघ्वग्निदीपनम्
मधुरानुरसं चैव पश्चमूलं महत् स्मृतम् ६९
अनयोर्दशमूलमुच्यते ७०
गणः श्वासहरो ह्येष कफपित्तानिलापहः
आमस्य पाचनश्चैव सर्वज्वरविनाशनः ७१
विदारीसारिवारजनीगुडूच्योऽजशृङ्गी चेति वल्लीसंज्ञः ७२
करमर्दीत्रिकण्टकसैरीयकशतावरीगृध्रनख्य इति कण्टकसंज्ञः ७३
रक्तपित्तहरौ ह्येतौ शोफत्रयविनाशनौ
सर्वमेहहरौ चैव शुक्रदोषविनाशनौ ७४
कुशकाशनलदर्भकाण्डेक्षुका इति तृणसंज्ञकः ७५
मूत्रदोषविकारं च रक्तपित्तं तथैव च
अन्त्यः प्रयुक्तः क्षीरेण शीघ्रमेव विनाशयेत् ७६
एषां वातहरावाद्यावन्त्यः पित्तविनाशनः
पञ्चकौ श्लेष्मशमनावितरौ परिकीर्तितौ ७७
त्रिवृतादिकमन्यत्रोपदेक्ष्यामः ७८
समासेन गणा ह्येते प्रोक्तास्तेषां तु विस्तरम्
चिकित्सितेषु वक्ष्यामि ज्ञात्वा दोषबलाबलम् ७९
एभिर्लेपान् कषायांश्च तैलं सर्पींषि पानकान्
प्रविभज्य यथान्यायं कुर्वीत मतिमान् भिषक् ८०
धूमवर्षानिलक्लेदैः सर्वर्तुष्वनभिद्रुते
ग्राहयित्वा गृहे न्यस्येद्विधिनौषधसंग्रहम् ८१
समीक्ष्य दोषभेदांश्च भिन्नान् मिश्रान् प्रयोजयेत्
पृथङ्मिश्रान् समस्तान्वा गणं वा व्यस्तसंहतम् ८२
इति सुश्रुतसंहितायां सूत्रस्थाने द्र व्यसंग्रहणीयो नामाष्टत्रिंशोऽध्यायः ३८
एकोनचत्वारिंशत्तमोऽध्यायः
अथातः संशोधनसंशमनीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मदनकुटजजीमूतकेक्ष्वाकुधामार्गवकृतवेधनसर्षपविडङ्गपिप्पलीकरञ्जप्रपु-न्नाडकोविदारकर्बुदारारिष्टाश्वगन्धाविदुलबन्धुजीवकश्वेताशणपुष्पीबिम्बीव-चामृगेर्वारवश्चित्रा चेत्यूर्ध्वभागहराणि तत्र कोविदारपूर्वाणां फलानि कोविदारादीनां मूलानि ३
विवृताश्यामादन्तीद्र वन्तीसप्तलाशङ्खिनीविषाणिकागवाक्षीच्छगलान्त्रीस्नु-क्सुवर्णक्षीरीचित्रककिणिहीकुशकाशतिल्वककम्पिल्लकरम्यकपाटलापू-गहरीतक्यामलकबिभीतकनीलिनीचतुरङ्गुलैरण्डपूतीकमहावृक्षसप्तच्छदार्का ज्योतिष्मती चेत्यधोभागहराणि तत्र तिल्वकपूर्वाणां मूलानि इतल्वकादीनां पाटलान्तानां त्वचः कम्पिल्लकफलरजः पूगादीनामेरण्डान्तानां फलानि पूतीकारग्वधयोः पत्राणि शेषाणां क्षीराणीति ४
कोशातकी सप्तला शङ्खिनी देवदाली कारवेल्लिका चेत्युभयतोभागहराणि एषां स्वरसा इति ५
पिप्पलीविडङ्गापामार्गशिग्रुसिद्धार्थकशिरीषमरिचकरवीर बिम्बीगिरिकर्णि काकिणिहीवचाज्योतिष्मतीकरञ्जा र्कालर्कलशुनातिविषाशृङ्गवेरतालीशत मालसुरसार्जकेङ्गुदीमेषशृङ्गीमातुलुङ्गीमुरङ्गीपीलुजातीशालतालमधूकला-क्षाहिङ्गुलवणमद्यगोशकृद्र समूत्राणीति शिरोविरेचनानि तत्र करवीरपूर्वाणां फलानि करवीरादीनामर्कान्तानां मूलानि तालीशपूर्वाणां कन्दाः तालीशादीनामर्जकान्तानां पत्राणि इङ्गुदीमेषशृङ्ग्योस्त्वचः मातुलुङ्गीमुर ङ्गीपीलुजातीनां पुष्पाणि शालतालमधूकानां साराः हिङ्गुलाक्षे निर्यासौ लवणानि पार्थिवविशेषाः मद्यान्यासुतसंयोगाः शकृद्र समूत्रे मलाविति ६
संशमनान्यत ऊर्ध्वं वक्ष्यामःतत्र भद्र दारुकुष्ठहरिद्रा वरुण मेषशृङ्गीबलातिबलार्तगलकच्छुराशल्लकीकुबेराक्षी वीरतरुसहचराग्निमन्थवत्सादन्येरण्डा-श्मभेदकालर्का र्कशतावरीपुनर्नवावसुकवशिरकाञ्चनकभार्गीकार्पा सीवृश्चिकाली पत्तूरबदरयवकोलकुलत्थप्रभृतीनि विदारिगन्धादिश्च द्वे चाद्ये पञ्चमूल्यौ समासेन वातसंशमनो वर्गः ७
चन्दनकुचन्दनह्रीबेरोशीरमञ्जिष्ठापयस्याविदारीशतावरीगुन्द्राशैवलकह्लार कुमुदोत्पलकन्दलीदूर्वामूर्वाप्रभृतीनि काकोल्यादिः सारिवादिरञ्जनादिरुत्पलादिर्न्यग्रोधादिस्तृणपञ्चमूलमिति समासेन पित्तसंशमनो वर्गः ८
कालेयकागुरुतिलपर्णीकुष्ठहरिद्रा शीतशिवशतपुष्पासरलारास्नाप्रकीर्योदकी-र्येङ्गुदीसुमनाकाकादनीलाङ्गलकीहस्तिकर्णमुञ्जातकलामज्जकप्रभृतीनि वल्लीकण्टकपञ्चमूल्यौ पिप्पल्यादिर्बृहत्यादिर्मुष्ककादिर्वचादिः सुरसादिरारग्वधादिरिति समासेन श्लेष्मसंशमनो वर्गः ९
तत्र सर्वाण्येवौषधानि व्याध्यग्निपुरुषबलान्यभिसमीक्ष्य विदध्यात् तत्र व्याधिबलादधिकमौषधमुपयुक्तं तमुपशम्य व्याधिं व्याधिमन्यमावहति अग्निबलादधिकमजीर्णं विष्टभ्य वा पच्यते पुरुषबलादधिकंग्लानिमूर्च्छामदानावहति संशमनम् एवं संशोधनमतिपातयति हीनमेभ्यो दत्तमकिंचित्करं भवति तस्मात् सममेव विदध्यात् १०
भवन्ति चात्र
रोगे शोधनसाध्ये तु यो भवेद्दोषदुर्बलः
तस्मै दद्याद्भिषक् प्राज्ञो दोषप्रच्यावनं मृदु ११
चले दोषे मृदौ कोष्ठे नेक्षेतात्र बलं नृणाम्
अव्याधिदुर्बलस्यापि शोधनं हि तदा भवेत् १२
स्वयं प्रवृत्तदोषस्य मृदुकोष्ठस्य शोधनम्
भवेदल्पबलस्यापि प्रयुक्तं व्याधिनाशनम् १३
व्याध्यादिषु तु मध्येषु क्वाथस्याञ्जलिरिष्यते
बिडालपदकं चूर्णं देयः कल्कोऽक्षसंमितः १४
इति सुश्रुतसंहितायां सूत्रस्थाने संशोधनसंशमनीयो नामैकोनचत्वारिंशोऽध्यायः ३९
चत्वारिंशत्तमोऽध्यायः
अथातो द्र व्यरसगुणवीर्यविपाकविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
केचिदाचार्या ब्रुवतेद्र व्यं प्रधानं कस्मात् व्यवस्थितत्वात् इह खलु द्र व्यं व्यवस्थितं न रसादयः यथा आमे फले ये रसादयस्ते पक्वे न सन्ति नित्यत्वाच्च नित्यं हि द्र व्यमनित्या गुणाः यथा कल्कादिप्रविभागः स एव संपन्नरसगन्धो व्यापन्नरसगन्धो वा भवति स्वजात्यवस्थानाच्च यथा हि पार्थिवं द्र व्यमन्यभावं न गच्छत्येवं शेषाणि पञ्चेन्द्रि यग्रहणाच्च पञ्चभिरिन्द्रि यैर्गृह्यते द्र व्यं न रसादयः आश्रयत्वाच्च द्र व्यमाश्रिता रसादयः आरम्भसामर्थ्याच्च द्र व्याश्रित आरम्भः यथाविदारिगन्धादिमाहृत्य संक्षुद्य विपचेत इत्येवमादिषुन रसादिष्वारम्भः शास्त्रप्रामाण्याच्च शास्त्रे हि द्र व्यं प्रधानमुपदेशे योगानां यथा मातुलुङ्गाग्निमन्थौ च इत्यादौ न रसादय उपदिश्यन्ते क्रमापेक्षितत्वाच्च रसादीनां रसादयो हि द्र व्यक्रममपेक्षन्ते यथातरुणे तरुणाः संपूर्णे संपूर्णा इति एकदेशसाध्यत्वाच्च द्र व्याणामेकदेशेनापि व्याधयः साध्यन्ते यथामहावृक्षक्षीरेणेति तस्माद्द्र व्यं प्रधानं न रसादयः कस्मात् निरवयवत्वात् द्र व्यलक्षणं तु क्रियागुणवत् समवायिकारणम् इति ३ नेत्याहुरन्ये रसास्तु प्रधानं कस्मात् आगमात् आगमो हि शास्त्रमुच्यते शास्त्रे हि रसा अधिकृताः यथारसायत्त आहार इति तस्मिंस्तु प्राणाः उपदेशाच्च उपदिश्यन्ते हि रसाः यथामधुराम्ललवणा वातं शमयन्ति अनुमानाच्च रसेन ह्यनुमीयते द्र व्यं यथामधुरमिति ऋषिवचनाच्च ऋषिवचनं वेदो यथाकिंचिदिज्यार्थं मधुरमाहरेदिति तस्माद्र साः प्रधानं रसेषु गुणसंज्ञा रसलक्षणमन्यत्रोपदेक्ष्यामः ४
नेत्याहुरन्ये वीर्यं प्रधानमिति कस्मात् तद्वशेनौषधकर्मनिष्पत्तेः इहौषधकर्माण्यूर्ध्वाधोभागोभयभागसंशोधनसंशमनसां ग्राहिकाग्निदीपन पीडनलेखनबृंहणरसायनवाजीकरणश्वयथुकरविलयन दहन दारणमादनप्राणर्नघविषप्रशमनादीनि वीर्यप्राधान्याद्भवन्ति तच्च वीर्यं द्विविधमुष्णं शीतं च अग्नीषोमीयत्वाज्जगतः केचिदष्टविधमाहुःशीतमुष्णं मुष्णं स्निग्धं रूक्षं विशदं पिच्छिलं मृदु तीक्ष्णं चेति एतानि वीयार्णि स्वबलगुणोत्कर्षाद्र समभिभूयात्म कर्म कुर्वन्ति यथा तावन्महत्पञ्चमूलं कषायं तिक्तानुरसं वातं शमयति उष्णवीर्यत्वात् तथा कुलत्थः कषायः कटुकः पलाण्डुः स्नेहभावाच्च मधुरश्चेक्षुरसो वातं वर्धयति शीतवीर्यत्वाता कटुका पिप्पली पित्तं शमयति मृदुशीतवीर्यत्वात् अम्लमामलकं लवणं सैन्धवं च तिक्ता काकमाची पित्तंवर्धयति उष्णवीर्यत्वात् मधुरा मत्स्याश्च कटुकं मूलकं श्लेष्माणं वर्धयति स्निग्धवीर्यत्वात् अम्लंकपित्थं श्लेष्माणं शमयति रूक्षवीर्यत्वात् मधुरं क्षौद्रं च तदेतन्निदर्शनमात्रमुक्तम् ५
भवन्ति चात्रये रसा वातशमना भवन्ति यदि तेषु वै रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम् ६
ये रसाः पित्तशमना भवन्ति यदि तेषु वै
तैक्ष्ण्यौष्ण्यलघुताश्चैव न ते तत्कर्मकारिणः ७
ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै
स्नेहगौरवशैत्यानि न ते तत्कर्मकारिणः ८
तस्माद्वीर्यं प्रधानमिति ९
नेत्याहुरन्ये विपाकः प्रधानमिति कस्मात् सम्यङ्मिथ्याविपक्वत्वात् इह सर्वद्र वाण्यभ्यवहृतानि सम्यङ्मिथ्याविपक्वानि गुणं दोषं वा जनयन्ति तत्राहुरन्येप्रति रसं पाक इति केचित्त्रिविधमिच्छन्ति मधुरमम्लं कटुकं चेति तत्तु न सम्यक् भूतगुणादामाच्चान्योऽम्लो विपाको नास्ति पित्तं हि विदग्धमम्लतामुपैत्याग्नेयत्वात् यद्येवं लवणोऽप्यन्यः पाको भविष्यति श्लेष्मा हि विदग्धो लवणतामुपैतीति मधुरो मधुरस्याम्लोऽम्लस्यैवं सर्वेषामिति केचिदाहुः दृष्टान्तं चोपदिशन्तियथा तावत् क्षीरमुखागतं पच्यमानं मधुरमेव स्यात्तथा शालियवमुद्गादयः प्रकीर्णाः स्वभावमुत्तरकालेऽपि न परित्यजन्ति तद्वदिति केचिद्वदन्तिअबलवन्तो बलवतां वशमायान्तीति एवमनवस्थितिः तस्मादसिद्धान्त एषः आगमे हि द्विविध एव पाको मधुरः कटुकश्च तयोर्मधुराख्यो गुरुः कटुकाख्यो लघुरिति तत्र पृथिव्यप्तेजोवाय्वाकाशानां द्वैविध्यं भवति गुणसाधर्म्याद्गुरुता लघुता च पृथिव्यापश्च गुर्व्यः शेषाणि लघूनितस्माद्द्विविध एव पाक इति १०
भवन्ति चात्रद्र व्येषु पच्यमानेषु येष्वम्बुपृथिवीगुणाः
निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते ११
तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु
निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते १२
पृथक्त्वदर्शिनामेष वादिनां वादसंग्रहः
चतुर्णामपि सामग्र्यमिच्छन्त्यत्र विपश्चितः १३
तद्द्र व्यमात्मना किंचित्किंचिद्वीर्येण सेवितम्
किंचिद्र सविपाकाभ्यां दोषं हन्ति करोति वा १४
पाको नास्ति विना वीर्याद्वीर्यं नास्ति विना रसात्
रसो नास्ति विना द्र व्याद्द्र व्यं श्रेष्ठतमं स्मृतम् १५
जन्म तु द्र व्यरसयोरन्योन्यापेक्षिकं स्मृतम्
अन्योन्यापेक्षिकं जन्म यथा स्याद्देहदेहिनोः १६
वीर्यसंज्ञा गुणा येऽष्टौ तेऽपि द्र व्याश्रयाः स्मृताः
रसेषु न भवन्त्येते निर्गुणास्तु गुणाः स्मृताः १७
द्र व्ये द्र व्याणि यस्माद्धि विपच्यन्ते न षड्रसाः
श्रेष्ठं द्र व्यमतो ज्ञेयं शेषा भावास्तदाश्रयाः १८
अमीमांस्यान्यचिन्त्यानि प्रसिद्धानि स्वभावतः
आगमेनोपयोज्यानि भेषजानि विचक्षणैः १९
प्रत्यक्षलक्षणफलाः प्रसिद्धाश्च स्वभावतः
नौषधीर्हेतुभिर्विद्वान् परीक्षेत कदाचन २०
सहस्रेणापि हेतूनां नाम्बष्ठादिर्विरेचयेत्
तस्मात्तिष्ठेत्तु मतिमानागमे न तु हेतुषु २१
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने द्र व्यगुणरसवीर्यविपाकविज्ञानीयो
नाम चत्वारिंशत्तमोऽध्यायः ४०
एकचत्वारिंशत्तमोऽध्यायः
अथातो द्र व्यविशेषविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
तत्र पृथिव्यप्तेजोवाय्वाकाशानां समुदायाद्द्र व्याभिनिर्वृत्तिः उत्कर्षस्त्वभिव्यञ्जको भवति इदं पार्थिवमिदमाप्यमिदं तैजसमिदं वायव्यमिदमाकाशीयमिति ३
तत्र स्थूलसान्द्र मन्दस्थिरगुरुकठिनं गन्धबहुलमीषत्कषायं प्रायशो मधुरमिति पार्थिवं तत् स्थैर्यबलगौरवसंघातोपचयकरं विशेषतश्चाधोगतिस्वभावमिति १
शीतस्तिमितस्निग्धमन्दगुरुसरसान्द्र मृदुपिच्छिलं रसबहुलमीषत्कषायाम्ललवणं मधुररसप्रायमाप्यं तत् स्नेहनह्लादनक्लेदनबन्धन विष्यन्दनकरमिति २
उष्णतीक्ष्णसूक्ष्मरूक्षखरलघुविशदं रूपबहुलमीषदम्ललवणं कटुकरसप्रायं विशेषतश्चोर्ध्वगतिस्वभावमिति तैजसं तद्दहनपचनदारणतापनप्रकाशनप्रभावर्णकरमिति ३
सूक्ष्मरूक्षखरशिशिरलघुविशदं स्पर्शबहुलमीषत्तिक्तं विशेषतः कषायमिति वायवीयं तद्वैशद्यलाघवग्लपनविरूक्षणविचारणकरमिति ४
श्लक्ष्णसूक्ष्ममृदुव्यवायिविशदविविक्तमव्यक्तरसं शब्दबहुल माकाशीयं तन्मार्दवशौषिर्यलाघवकरमिति ५ ४
अनेन निदर्शनेन नानौषधीभूतं जगति किंचिद्द्र व्यमस्तीति कृत्वा तं तं युक्तिविशेषमर्थं चाभिसमीक्ष्य स्ववीर्यगुणयुक्तानि द्र व्याणि कार्मुकाणि भवन्ति तानि यदा कुर्वन्ति स कालः यत् कुर्वन्ति तत् कर्म येन कुर्वन्ति तद्वीर्यं यत्र कुर्वन्ति तदधिकरणं यथा कुर्वन्ति स उपायः यन्निष्पादयन्ति तत् फलमिति ५
तत्र विरेचनद्रव्याणि पृथिव्यम्बुगुणभूयिष्ठानि पृथिव्यापोगुर्व्यः तानि गुरुत्वादधो गच्छन्ति तस्माद्विरेचनमधोगुणभूयिष्ठमनुमानात् वमनद्र व्याण्य ग्निवायुगुणभूयिष्ठानि अग्निवायू हि लघू लघुत्वाच्च तान्यूर्ध्वमुत्तष्ठन्ति तस्माद्वमनमप्यूर्ध्वगुणभूयिष्ठम् उभयगुणभूयिष्ठमुभयतोभागमाकाशगुण भूयिष्ठं संशमनं सांग्राहिकमनिलगुणभूयिष्ठम् अनिलस्यशोषणात्मकत्वात् दीपनमग्निगुणभूयिष्ठं तत्समानत्वात्लेखनमनिलानलगुणभूयिष्ठं बृंहणं पृथिव्यम्बुगुणभूयिष्ठम् एवमौषधकर्माण्यनुमानात् साधयेत् ६
भवन्ति चात्रभूतेजोवारिजैर्द्र व्यैः शमं याति समीरणः
भूम्यम्बुवायुजैः पित्तं क्षिप्रमाप्नोति निर्वृतिम् ७
खतेजोनिलजैः श्लेष्मा शममेति शरीरिणाम्
वियत्पवनजाताभ्यां वृद्धिमभ्येति मारुतः ८
आग्नेयमेव यद्द्र व्यं तेन पित्तमुदीर्यते
वसुधाजलजाताभ्यां बलासः परिवर्धते ९
एवमेतद्गुणाधिक्यं द्र व्ये द्र व्ये विनिश्चितम्
द्विशो वा बहुशो वाऽपि ज्ञात्वा दोषेषु चाचरेत् १०
तत्र य इमे गुणा वीर्यसंज्ञकाः शीतोष्णस्निग्धरूक्षमृदुतीक्ष्णपिच्छिल विशदास्तेषां तीक्ष्णोष्णावाग्नेयौ शीतपिच्छिलावम्बुगुणभूयिष्ठौ पृथिव्य म्बुगुणभूयिष्ठः स्नेहः तोयाकाशगुणभूयिष्ठं मृदुत्वं वायुगुणभूयिष्ठं रौक्ष्यं क्षितिसमीरणगुणभूयिष्ठं वैशद्यंविपाकावुक्तगुणौ तत्र उष्णस्निग्धौ वातघ्नौ शीतमृदुपिच्छिलाः पित्तघ्नाः तीक्ष्णरूक्षविशदाः श्लेष्मघ्नाः गुरुपाको वातपित्तघ्नः लघुपाकः पाकः श्लेष्मघ्नः तेषां मृदुशीतोष्णाः स्पर्शग्राह्याः पिच्छिलविशदौ चक्षुःस्पर्शाभ्यां स्निग्धरूक्षौ चक्षुषा तीक्ष्णो मुखे दुःखोत्पादनात् गुरुपाकः सृष्टविण्मूत्रतया कफोत्क्लेशेन च लघुर्बद्धविण्मूत्रतया मारुतकोपेन च तत्र तुल्यगुणेषु भूतेषु रसवैशेष्य मुपलक्षयेत् तद्यथामधुरो गुरुश्च पार्थिवः मधुरः स्निग्धश्चाप्य इति ११
भवति चात्रगुणा य उक्ता द्र व्येषु शरीरेष्वपि ते तथा स्थानवृद्धिक्षयास्तस्माद्देहिनां द्र व्यहेतुकाः १२
इति सुश्रुतसंहितायां सूत्रस्थाने द्र व्यविशेषविज्ञानीयो नामैकचत्वारिंशत्तमोऽध्यायः ४१
द्विचत्वारिंशत्तमोऽध्यायः
अथातो रसविशेषविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
आकाशपवनदहनतोयभूमिषु यथासङ्ख्यमेकोत्तरपरिवृद्धाःशब्दस्पर्शरूप रसगन्धाः तस्मादाप्यो रसः परस्परसंसर्गात् परस्परानुग्रहात् परस्परानुप्रवेशाच्च सर्वेषु सर्वेषांसान्निध्यमस्ति उत्कर्षापकर्षात्तउ ग्रहणम् स खल्वाप्यो रसः शेषभूतसंसर्गाद्विदग्धः षोढा विभज्यते तद्यथामधुरोऽम्लो लवणः कटुकस्तिक्तः कषाय इति ते च भूयः परस्परसंसर्गात्त्रिषष्टिधा भिद्यन्ते तत्र भूम्यम्बुगुणबाहुल्यान्मधुरः भूम्यग्निगुणबाहुल्यादम्लः तोयाग्निगुणबाहुल्याल्लवणः वाय्वग्निगुणबाहुल्यात् कटुकः वाय्वा काशगुणबाहुल्यात्तिक्तः पृथिव्यनिलगुणबाहुल्यात्कषाय इति ३
तत्र मधुराम्ललवणा वातघ्नाः मधुरतिक्तकषायाः
पित्तघ्नाः कटुतिक्तकषायाः श्लेष्मघ्नाः ४
तत्र वायोरात्मैवात्मा पित्तमाग्नेयं श्लेष्मा सौम्य इति ५
त एते रसाः स्वयोनिवर्धना अन्ययोनिप्रशमनाश्च ६
केचिदाहुःअग्नीषोमीयत्वाज्जगतो रसा द्विविधाःसौम्या आग्नेयाश्च मधुरतिक्तकषायाः सौम्याः कट्वम्ललवणा आग्नेयाः तत्र मधुराम्ललवणाः स्निग्धा गुरवश्च कटुतिक्तकषाया रूक्षा लघवश्च सौम्याः शीताः आग्नेया उष्मा ७
तत्र शैत्यरौक्ष्यलाघववैशद्यवैष्टम्भ्यगुणलक्षणो वायुः तस्य समानयोनिः कषायो रसः सोऽस्य शैत्याच्छत्यं वर्धयति रौक्ष्याद्रौ क्ष्यं लाघवाल्लाघवं वैशद्याद्वैशद्यं वैष्टम्भ्याद्वैष्टम्भ्यमिति ८
औष्ण्यतैक्ष्यरौक्ष्यलाघववैशद्यगुणलक्षणं पित्तं तस्य समानयोनिः कटुको रसः सोऽस्य औष्ण्यादौष्ण्यं वर्धयति तैक्ष्ण्यात्तैक्ष्ण्यं रौक्ष्याद्रौ क्ष्यं लाघवाल्लाघवं वैशद्याद्वैशद्यमिति ९
माधुर्यस्नेहगौरवशैत्यपैच्छिल्यगुणलक्षणः श्लेष्मा तस्य समान योनिर्मधुरो रसः सोऽस्य माधुर्यान्माधुर्यं वर्धयति स्नेहात् स्नेहं गौरवाद्गौरवं शैत्याच्छत्यं पैच्छिल्यात् पैच्छिल्यमिति १०
तस्य पुनरन्योनिः कटुको रसः स श्लेष्मणः प्रत्यनीकत्वात् कटुकत्वान्माधुर्यमभिभवति रौक्ष्यात् स्नेहं लाघवाद्गौरवम् औष्ण्याच्छत्यं वैशद्यात् पैच्छिल्यमिति तदेतन्निदर्शनमात्रमुक्तं भवति ११
रसलक्षणमत ऊर्ध्वं वक्ष्यामः–तत्र यः परितोषमुत्पादयति प्रह्लादयति तर्पयति जीवयति मुखोपलेपं जनयति श्लेष्माणं चाभिवर्धयति स मधुरः यो दन्तहर्षमुत्पादयति मुखास्रावं जनयति श्रद्धां चोत्पादयति सोऽम्ल यो भक्तरुचिमुत्पादयति कफप्रसेकं जनयति मार्दवं चापादयति स लवणः यो जिह्वाग्रं बाधते उद्वेगं जनयति शिरो गृह्णीते नासिकां च स्रावयति स कटुकः यो गले चोषमुत्पादयति मुखवैशद्यं जनयति भक्तरुचिं चापादयति हर्षं च स तिक्तः यो वक्त्रं परिशोषयति जिह्वां स्तम्भयति कण्ठं बध्नाति हृदयं कर्षति पीडयति च स कषाय इति १२
रसगुणानत ऊर्ध्वं वक्ष्यामःतत्र मधुरो रसो रसरक्तमांसमेदोऽस्थिमज्जौजः शुक्रस्तन्यवर्धनश्चक्षुष्यः केश्यो वर्ण्यो बलकृत्सन्धानः शोणितरसप्रसादनो बालवृद्धक्षतक्षीणहितः षट्पदपिपीलिकानामिष्टतमस्तृष्णामूर्च्छादाह प्रशमनः षडिन्द्रि यप्रसादनः कृमिकफकरश्चेति स एवंगुणोऽप्येक एवात्यर्थमासेव्य मानः कासश्वासालसकवमथुवदनमाधुर्यस्वरोपघातकृमिगलगण्डानापा दयति तथाऽबुदश्लीपद बस्तिगुदोपलेपाभिष्यन्दप्रभृतीञ्जनयति १३
अम्लो जरणः पाचनो दीपनः पवननिग्रहणोऽनुलोमनः कोष्ठविदाही बहिः शीतः क्लेदनः प्रायशो हृद्यश्चेति स एवंगुणोऽप्येकएवार्थमुपसेव्यमानो दन्तहर्षनयनसंमीलनरोमसंवेजनकफविलयनशरीरशैथिल्यान्यापादयति तथा क्षताभिहतदग्धदष्टभग्नरुग्णशूनप्रच्युतावमूत्रितविसर्पितच्छिन्नभिन्नविद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात् परिदहति कण्ठमुरो हृदयं चेति १४
लवणः संशोधनः पाचनो विश्लेषणः क्लेदनः शैथिल्यकृदुष्णः सर्वरसप्रत्यनीको मार्गविशोधनः सर्वशरीरावयवमार्दवकरश्चेति स एवंगुणोऽप्येकएवात्यर्थमासेव्यमानो गात्रकण्डूकोठशोफवैवर्ण्यपुंस्त्वोपघातेन्द्रि योपताप मुखाक्षिपाकरक्तपित्तवातशोणिताम्लीकाप्रभृतीनापादयति १५
कटुको दीपनः पाचनो रोचनः शोधनः स्थौल्यालस्यकफकृमिविषकुष्ठकण्डूप्रशमनः सन्धिबन्धविच्छेदनोऽवसादनः स्तन्यशुक्रमेदसामुपहन्ता चेति स एवंगुणोप्येक एवात्यर्थमुपसेव्यमानो भ्रममदगलताल्वोष्ठ शोषदाहसंतापबल विघातकम्पतोदभेदकृत करचरणपार्श्वपृष्ठप्रभृतिषु च वातशूलानापादयति १६
तिक्तश्छेदनो रोचनो दीपनः शोधनः कण्डूकोठतृष्णामूर्च्छाज्वरप्रशमनः स्तन्यशोधनो विण्मूत्रक्लेदमेदोवसापूयोपशोषणश्चेति स एवंगुणोऽप्येक एवात्यर्थ मुपसेव्यमानोगात्रमन्यास्तम्भाक्षेप कार्दितशिरः शूलभ्रमतोदभेदच्छेदास्यवैरस्यान्यापादयति १७
कषायः संग्राहको रोपणः स्तम्भनः शोधनोलेखनः शोषणः पीडनः क्लेदोपशोषण श्चेति स एवंगुणोऽप्येक एवात्यर्थमुपसेव्यमानो हृत्पीडास्यशोषोदरा-ध्मानवाक्यग्रहमन्यास्तम्भगात्रस्फुरणचुमुचुमायनाकुञ्चनाक्षेप-णप्रभृतीञ्जनयति १८
अतः सर्वेषामेव द्र व्याण्युपदेक्ष्यामः तद्यथा काकोल्यादिः क्षीरघृतव सामज्जशालिषष्टिकयवगोधूममापशृङ्गाटककसेरुकत्रपुसैर्वारुकर्कारुकाला बूकालिन्दकतकगिलोड्यप्रियालपुष्करबीजकाशमर्यमधूकद्रा क्षाखर्जूरराजा दनतालनालिकेरेक्षुविकारवलातिबलात्मगुप्ताविदारीपयस्यागोक्षुरकक्षीर मोरटमधूलिकाकूष्माण्डप्रभृतीनि समासेन मधुरो वर्गः १९
दाडिमामलकमा तुलुङ्गाम्रातककपित्थकरमर्दबदरकोलप्राचीनामलकति-न्तिडीककोशाम्रक भव्यपारावतवेत्रफललकुचाम्लवेतसदन्तशठदधितक्रसु-राशुक्तसौवीरकतु षोदकधान्याम्लप्रभृतीनिसमासेनाम्लो वर्गः सैन्धवसौवर्चलविडपाक्यरोम कसामुद्र कपक्त्रिमयवक्षारोषरप्रसूतसुवर्चिकाप्रभृतीनि समासेन लवणो वर्गः २१
पिप्पल्यादिः सुरसादिः शिग्रुमधुशिग्रुमूलकलशुनसुमुखशीतशिव कुष्ठदेवदारुहरेणुकावल्गुजफलचण्डागुग्गुलुमुस्तलाङ्गलकीशुकनासापीलु प्रभृतीनि सालसारादिश्चप्रायशः कटुको वर्गः २२
आरग्वधादिर्गुडूच्यादिर्मण्डूकपर्णीवेत्रकरीरहरिद्रा द्वयेन्द्र यववरुणस्वादुकण्टकसप्तपर्णबृहती द्वयशङ्खिनीद्र वन्ती त्रिवृत्कृतवेधनकर्कोटककारवेल्लवार्ताककरीरकरवीर सुम-नःशङ्खपुष्प्यपामार्गत्रायमाणाशोकरोहिणीवैजयन्ती-सुवर्चलापुनर्नवावृश्चिकालीज्योतिष्मतीप्रभृतीनि समासेन तिक्तो वर्गः २३ न्यग्रोधादिरम्बष्ठादिः प्रियङ्ग्वादीरोध्रादिस्त्रिफलाशल्लकीजम्ब्वाम्रबकुल-तिन्दुकफलानि कतकशाकफलपाषाणभेदकवनस्पतिफलानि सालसारादिश्च प्रायशः कुरुवककोविदारकजीवन्तीचिल्लीपालङ्क्यासुनिषण्णकप्रभृतीनि वरकादयो मुद्गादयश्च समासेन कषायो वर्गः २४
तत्रैतेषां रसानां संयोगास्त्रिषष्टिर्भवन्ति तद्यथापञ्चदश द्विकाः विंशतिस्त्रिकाः पञ्चदश चतुष्काः षट् पञ्चकाः एकशः षड्रसाः एकःषट्क इति तेषामन्यत्र प्रयोजनानि वक्ष्यामः २५
भवति चात्र
जग्धाः षडधिगच्छन्ति बलिनो वश्यतां रसाः
यथा प्रकुपिता दोषा वशं यान्ति बलीयसः २६
इति सुश्रुतसंहितायां सूत्रस्थाने रसविशेषविज्ञानीयोनाम द्विचत्वारिंशत्तमोऽध्यायः ४२
त्रिचत्वारिंशत्तमोऽध्यायः
अथातो वमनद्र व्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वमनद्रव्याणां फलादीनां मदनफलानि श्रेष्ठतमानि भवन्ति अथ मदनपुष्पाणामातपपरिशुष्काणां चूर्णप्रकुञ्जं प्रत्यक्पुष्पीसदापुष्पीनिम्बकषायाणामन्यतमेनालोड्य मधुसैन्धवयुक्तां पुष्पचूर्णमात्रां पाययित्वा वामयेत् मदनशलाटुचूर्णान्येवं वा बकुलरम्यकोपयुक्तानि मधुलवणयुक्तान्यभिप्रतप्तानि मदनशलाटुचूर्णसिद्धां वा तिलतण्डुलयवागूम् निर्वृत्तानां वा नातिहरितपाण्डूनां कुशगूढावबद्धमृद्गोमयप्रलिप्तानां यवबुषमुद्गमाषशाल्यादिधान्यराशावष्टरात्रोषितक्लिन्नभिन्नानां फलानां फलपिप्पलीरुद्धृत्यातपे शोषयेत् तासां दधिमधुपललविमृदितपरि शुष्काणां सुभाजनस्थानामन्तर्नखमुइष्टमुष्णे यष्टीमधुककषाये कोविदारादी नामन्यतमे वा कषाये प्रमृद्य रात्रिपर्युषितं मधुसैन्धवयुक्तमाशीर्भिरभिमन्त्रितमुदङ्मुखः प्राङ्मुखमातुरं पाययेदनेनमन्त्रेणाभिमन्त्र्य ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानलानिलाः ऋषयः सौषधिग्रामा भूतसंघाश्च पान्तु ते १
रसायनमिवर्षीणां देवानाममृतं यथा
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते २
विशेषेण श्लेष्मज्वरप्रतिश्यायान्तर्विद्र धिषु अप्रवर्तमाने वा दोषे पिप्पलीवचागौरसर्षपकल्कोन्मिश्रैः सलवणैरुष्णाम्बुभिः पुनः पुनः प्रवर्तयेदासम्यग्वान्तलक्षणादिति मदनफलमज्जचूर्णं वा तत्क्वाथपरिभावितं मदनफलकषायेण मदनफलमज्जसिद्धस्य वा पयसः सन्तानिकां क्षौद्र युक्तां मदनफलमज्जसिद्धं वा पयः मदनफलमज्जसिद्धेन वा पयसा यवागूम् अधोभागासृक्पित्तहृद्दाहयोः मदनफलमज्जसिद्धस्य वा पयसो दधिभावमुपगतस्य दध्युत्तरं दधि वा कफप्रसेकच्छर्दिमूर्च्छातमकेषु मदनफलमज्जरसं स्नेहं वा भल्लातकस्नहेवदादाय फाणितीभूतं लेहयेत् आतपपरिशुष्कं वा तमेव जीवन्तीकषायेण पित्ते कफस्थानगते मदनफलमज्जक्वाथं वा पिप्पल्यादिप्रतीवापं तच्चूर्णं वा निम्बरूपिकाकषाययोरन्यतरेण संतर्पणकफजव्याधिहरं मदनफलमज्जचूर्णं वा मधूककाश्मर्यद्रा क्षाकषायेण मदनफलविधानमुक्तम् ३
जीमूतककुसुमचूर्णं पूर्ववदेव क्षीरेण निर्वृत्तेषु क्षीरयवागूं रोमशेषु सन्तानिकां अरोमशेषु दध्युत्तरं हरितपाण्डुषु दधि तत्कषायसंसृष्टां वा सुरां कफारोचककासश्वासपाण्डुरोगयक्ष्मसु पर्यागतेषुमदनफलमज्जवदुपयोगः ४
तद्वदेव कुटजफलविधानम् ५
कृतवेधनानामप्येष एव कल्पः ६
इक्ष्वाकुकुसुमचूर्णं वा पूर्ववत् एवं क्षीरेण
कासश्वासच्छर्दिकफरोगेषूपयोगः ७
धामार्गवस्यापि मदनफलमज्जवदुपयोगः विशेषतस्तु गरगुल्मोदरकासश्वासश्लेष्मामयेषु वायौच कफस्थानगते ८
कृतवेधनफलपिप्पलीनां वमनद्र व्यकषायपरिपीतानां बहुशश्चूर्णमुत्पलादिषुदत्तमाघ्रातं वामयति तत्त्वनवबद्धदोषेषु यवागूमाकण्ठात्पीतवत्सु च विदध्यात् वमनविरेचनशिरोविरेचनद्र व्याण्येवं वा प्रधानतमानि भवन्ति ९
भवतश्चात्र
वमनद्र व्ययोगाणां दिगियं संप्रकीर्तिता
तान् विभज्य यथाव्याधि कालशक्तिविनिश्चयात् १०
कषायैः स्वरसैः कल्कैश्चूर्णैरपि च बुद्धिमान्
पेयलेह्याद्यभोज्येषु वमनान्युपकल्पयेत् ११
इति सुश्रुतसंहितायां सूत्रस्थाने वमनद्र व्यविकल्पविज्ञानीयो
नाम त्रिचत्वारिंशत्तमोऽध्यायः ४३
चतुश्चत्वारिंशत्तमोऽध्यायः
अथातो विरेचनद्र व्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अरुणाभं त्रिवृन्मूलं श्रेष्ठं मूलविरेचने
प्रधानं तिल्वकस्त्वक्षु फलेष्वपि हरीतकी ३
तैलेष्वेरण्डजं तैलं स्वरसे कारवेल्लिका
सुधापयः पयःसूक्तमिति प्राधान्यसंग्रहः
तेषां विधानं वक्ष्यामि यथावदनुपूर्वशः ४
वैरेचनद्र व्यरसानुपीतं मूलं महत्त्रैवृतमस्तदोषम्
चूर्णीकृतं सैन्धवनागराढ्यमम्लैः पिबेन्मारुतरोगजुष्टः ५
इक्षोर्विकारैर्मधुरै रसैस्तत् पैत्ते गदे क्षीरयुतं पिबेच्च
गुडूच्यरिष्टत्रिफलारसेन सव्योषमूत्रं कफजे पिबेत्तत् ६
त्रिवर्णकत्र्यूषणयुक्तमेतद्गुडेन लिह्यादनवेन चूर्णम्
प्रस्थे च तन्मूलरसस्य दत्वा तन्मूलकल्कं कुडवप्रमाणम् ७
कर्षोन्मिते सैन्धवनागरे च विपाच्य कल्कीकृतमेतदद्यात्
तत्कल्कभागः समहौषधार्धः ससैन्धवो मूत्रयुतश्च पेयः ८
समास्त्रिवृन्नागरकाभयाः स्युर्भागार्धकं पूगफलं सुपक्वम्
विडङ्गसारो मरिचं सदारु योगः ससिन्धूद्भवमूत्रयुक्तः ९
विरेचनद्र व्यभवं तु चूर्णं रसेन तेषां भिषजा विमृद्य
तन्मूलसिद्धेन च सर्पिषाऽक्त सेव्यं तदाज्ये गुटिकीकृतं च १०
गुडे च पाकाभिमुखे निधाय चूर्णीकृतं सम्यगिदं विपाच्य
शीतं त्रिजाताक्तमथो विमृद्य योगानुरूपा गुटिकाः प्रयोज्याः ११
वैरेकीयद्र व्यचूर्णस्य भागं सिद्धं सार्धं क्वाथभागैश्चतुर्भिः
आमृद्गीयात् सर्पिषा तच्छृतेन तत्क्वाथोष्मस्वेदितं सामितं च १२
पाकप्राप्ते फाणिते चूर्णितं तत् क्षिप्तं पक्वं चावतार्य प्रयत्नात्
शीतीभूता मोदका हृद्यगन्धाः कार्यास्त्वेते भक्ष्यकल्पाः समासात् १३
रसेन तेषां परिभाव्य मुद्गान् यूषः ससिन्धूद्भवसर्पिरिष्टः
वैरेचनेऽन्यैरपि वैदलैः स्यादेवं विदध्याद्वमनौषधैश्च १४
भित्त्वा द्विधेक्षुं परिलिप्य कल्कैस्त्रिभण्डिजातैः प्रतिबध्य रज्ज्वा
पक्वं च सम्यक् पुटपाकयुक्त्या खादेत्तु तं पित्तगदी सुशीतम् १५
सिताजगन्धात्वक्क्षीरीविदारीत्रिवृतः समाः
लिह्यान्मधुघृताभ्यां तु तृड्दाहज्वरशान्तये १६
शर्कराक्षौद्र संयुक्तं त्रिवृच्चूर्णावचूर्णितम्
रेचनं सुकुमाराणां त्वक्पत्रमरिचांशकम् १७
पचेल्लेहं सिताक्षौद्र पलार्धकुडवान्वितम्
त्रिवृच्चूर्णयुतं शीतं पित्तघ्नं तद्विरेचनम् १८
त्रिवृच्छ्यामाक्षारशुण्ठीपिप्पलीर्मधुनाऽप्नुयात्
सर्वश्लेष्मविकाराणां श्रेष्ठमेतद्विरेचनम् १९
बीजाढ्यपथ्याकाश्मर्यधात्रीदाडिमकोलजान्
तैलभृष्टान् रसानम्लफलैरावाप्य साधयेत् २०
घनीभूतं त्रिसौगन्ध्यत्रिवृत्क्षौद्र समन्वितम्
लेह्यमेतत्कफप्रायैः सुकुमारैर्विरेचनम् २१
नीलीतुल्यं त्वगेलं च तैस्त्रिवृत्ससितोपला
चूर्णं संतर्पणं क्षौद्र फलाम्लं सन्निपातनुत् २२
त्रिवृच्छ्यामासिताकृष्णात्रिफलामाक्षिकैः समैः
मोदकाः सन्निपातोर्ध्वरक्तपित्तज्वरापहाः २३
त्रिवृद्भागास्त्रयः प्रोक्तास्त्रिफला तत्समा तथा
क्षारकृष्णाविडङ्गानि संचूर्ण्य मधुसर्पिषा २४
लिह्याद्गुडेन गुटिकाः कृत्वा वाऽप्यथ भक्षयेत्
कफवातकृतान् गुल्मान् प्लीहोदरहलीमकान् २५
हन्त्यन्यानपि चाप्येतन्निरपायं विरेचनम्
चूर्णं श्यामा त्रिवृन्नीली कट्वी मुस्ता दुरालभा २६
चव्येन्द्र बीजं त्रिफला सर्पिर्मांसरसाम्बुभिः
पीतं विरेचनं तद्धि रूक्षाणामपि शस्यते २७
वैरेचनिकनिःक्वाथभागाः शीतास्त्रयो मताः
द्वौ फाणितस्य तच्चापि पुनरग्नावधिश्रयेत् २८
तत् साधुसिद्धं विज्ञाय शीतं कृत्वा निधापयेत्
कलसे कृतसंस्कारे विभज्यर्तू हिमाहिमौ २९
मासादूर्ध्वं जातरसं मधुगन्धं वरासवम्
पिबेदसावेव विधिः क्षारमूत्रासवेष्वपि ३०
वैरेचनिकमूलानां क्वाथे माषान् सुभावितान्
सुधौतांस्तत्कषायेण शालीनां चापि तण्डुलान् ३१
अवक्षुद्यैकतः पिण्डान् कृत्वा शुष्कान् सुचूर्णितान्
शालितण्डुलचूर्णं च तत्कषायोष्मसाधितम् ३२
तस्य पिष्टस्य भागांस्त्रीन् किण्वभागविमिश्रितान्
मण्डोदकार्थे क्वाथं च दद्यात्तत्सर्वमेकतः ३३
निदध्यात्कलसे तां तु सुरां जातरसां पिबेत्
एष एव सुराकल्पो वमनेष्वपि कीर्तितः ३४
मूलानि त्रिवृदादीनां प्रथमस्य गणस्य च
महतः पञ्चमूलस्य मूर्वाशार्ङ्गष्टयोरपि ३५
सुधां हैमवतीं चैव त्रिफलातिविषे वचाम्
संहृत्यैतानि भागौ द्वौ कारयेदेकमेतयोः ३६
कुर्यान्निःक्वाथमेकस्मिन्नेकस्मिंश्चूर्णमेव तु
क्षुण्णांस्तस्मिंस्तु निःक्वाथे भावयेद्बहुशो यवान् ३७
शुष्काणां मृदुभृष्टानां तेषां भागास्त्रयो मताः
चतुर्थं भागमावाप्य चूर्णानामत्र कीर्तितम् ३८
प्रक्षिप्य कलसे सम्यक् ततस्तं तदनन्तरम्
तेषामेव कषायेण शीतलेन सुयोजितम् ३९
पूर्ववत् सन्निदध्यात्तु ज्ञेयं सौवीरकं हि तत्
पूर्वोक्तं वर्गमाहृत्य द्विधा कृत्वैकमेतयोः ४०
भागं संक्षुद्य संसृज्य यवैः स्थाल्यामधिश्रयेत्
अजशृङ्ग्याः कषायेण तमभ्यासिच्य साधयेत् ४१
सुसिद्धांश्चावतार्यैतानौषधिभ्यो विवेचयेत्
विमृद्य सतुषान् सम्यक् ततस्तान् पूर्ववन्मितान् ४२
पूर्वोक्तौषधभागस्य चूर्णं दत्त्वा तु पूर्ववत्
तेनैव सह यूषेण कलसे पूर्ववत् क्षिपेत् ४३
ज्ञात्वा जातरसं चापि तत्तुषोदकमादिशेत्
तुषाम्बुसौवीरकयोर्विधिरेष प्रकीर्तितः ४४
षड्रात्रात् सप्तरात्राद्वा ते च पेये प्रकीर्तिते
वैरेचनेषु सर्वेषु त्रिवृन्मूलविधिः स्मृतः ४५
दन्तीद्र वन्त्योर्मूलानि विशेषान्मृत्कुशान्तरे
पिप्पलीक्षौद्र युक्तानि स्विन्नान्युद्धृत्य शोषयेत् ४६
ततस्त्रिवृद्विधानेन योजयेच्छ्लेष्मपित्तयोः
तयोः कल्ककषायाभ्यां चक्रतैलं विपाचयेत् ४७
सर्पिश्च पक्वं वीसर्पकक्षादाहालजीर्जयेत्
मेहगुल्मानिलश्लेष्मविबन्धांस्तैलमेव च ४८
चतुःस्नेहं शकृच्छुक्रवातसंरोधजा रुजः
दन्तीद्र वन्तीमरिचकनकाह्वयवासकैः ४९
विश्वभेषजमृद्वीकाचित्रकैर्मूत्रभावितम्
सप्ताहं सर्पिषा चूर्णं योज्यमेतद्विरेचनम् ५०
जीर्णे संतर्पणं क्षौद्रं पित्तश्लेष्मरुजापहम्
अजीर्णपार्श्वरुक्पाण्डुप्लीहोदरनिबर्हणम् ५१
गुडस्याष्टपले पथ्या विंशतिः स्युः पलं पलम्
दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर्दश ५२
कृत्वैतान्मोदकानेकं दशमे दशमेऽहनि
ततः खादेदुष्णतोयसेवी निर्यन्त्रणास्त्विमे ५३
दोषघ्ना ग्रहणीपाण्डुरोगार्शःकुष्ठनाशनाः
व्योषं त्रिजातकं मुस्ता विडङ्गामलके तथा ५४
नवैतानि समांशानि त्रिवृदष्टगुणानि वै
श्लक्ष्णचूर्णीकृतानीह दन्तीभागद्वयं तथा ५५
सिर्वाणि चूर्णितानीह गालितानि विमिश्रयेत्
षड्भिश्च शर्कराभागैरीषत्सैन्धवमाक्षिकैः ५६
पिण्डितं भक्षयित्वा तु ततः शीताम्बु पाययेत्
बस्तिरुक्तृड्ज्वरच्छर्दिशोषपाण्डुभ्रमापहम् ५७
निर्यन्त्रणमिदं सर्वविषघ्नं तु विरेचनम्
त्रिवृदष्टकसंज्ञोऽय प्रशस्तः पित्तरोगिणाम् ५८
भक्ष्यः क्षीरानुपानो वा पित्तश्लेष्मातुरैर्नरैः
भक्ष्यरूपसधर्मत्वादाढ्येष्वेव विधीयते ५९
तिल्वकस्य त्वचं बाह्यामन्तर्वल्कविवर्जिताम्
चूर्णयित्वा तु द्वौ भागौ तत्कषायेण गालयेत् ६०
तृतीयं भावितं तेन भागं शुष्कं तु भावितम्
दशमूलीकषायेण त्रिवृद्वत्संप्रयोजयेत् ६१
विधानं त्वक्षु निर्दिष्टं फलानामथ वक्ष्यते
हरीतक्याः फलं त्वस्थिविमुक्तं दोषवर्जितम् ६२
योज्यं त्रिवृद्विधानेन सर्वव्याधिनिबर्हणम्
रसायनं परं मेध्यं दुष्टान्तर्व्रणशोधनम् ६३
हरीतकी विडङ्गानि सैन्धवं नागरं त्रिवृत्
मरिचानि च तत्सर्वं गोमूत्रेण विरेचनम् ६४
हरीतकी भद्र दारु कुष्ठं पूगफलं तथा
सैन्धवं सृङ्गवेरं च गोमूत्रेण विरेचनम् ६५
नीलिनीफलचूर्णं तु नागराभययोस्तथा
लिह्याद्गुडेन सलिलं पश्चादुष्णं पिबेन्नरः ६६
पिप्पल्यादिकषायेण पिबेत्पिष्टां हरीतकीम्
सैन्धवोपहितां सद्य एष योगो विरेचयेत् ६७
हरीतकी भक्ष्यमाणा नागरेण गुडेन वा
सैन्धवोपहिता वाऽपि सातत्येनाग्निदीपनी ६८
वातानुलोमनी वृष्या चेन्द्रि याणां प्रसादनी
संतर्पणकृतान् रोगान् प्रायो हन्ति हरीतकी ६९
शीतमामलकं रूक्षं पित्तमेदःकफापहम्
बिभीतकमनुष्णं तु कफपित्तनिबर्हणम् ७०
त्रीण्यप्यम्लकषायाणि सतिक्तमधुराणि च
त्रिफला सर्वरोगघ्नी त्रिभागघृतमूर्च्छिता ७१
वयसः स्थापनं चापि कुर्यात् संततसेविता
हरीतकीविधानेन फलान्येवं प्रयोजयेत् ७२
विरेचनानि सर्वाणि विशेषाच्चतुरङ्गुलात्
फलं काले समुद्धृत्य सिकतायां निधापयेत् ७३
सप्ताहमातपे शुष्कमतो मज्जानमुद्धरेत्
तैलं ग्राह्यं जले पक्त्वा तिलवद्वा प्रपीड्य च ७४
तस्योपयोगो बालानां यावद्वर्षाणि द्वादश
लिह्यादेरण्डतैलेन कुष्ठत्रिकटुकान्वितम् ७५
सुखोदकं चानुपिबेदेष योगो विरेचयेत्
एरण्डतैलं त्रिफलाक्वाथेन त्रिगुणेन तु ७६
युक्तं पीतं तथा क्षीररसाभ्यां तु विरेचयेत्
बालवृद्धक्षतक्षीणंसुकुमारेषु योजितम् ७७
फलानां विधिरुद्दिष्टः क्षीराणां शृणु शुश्रुत
विरेचनानां तीक्ष्णानां पयः सौधं परं मतम् ७८
अज्ञप्रयुक्तं तद्धन्ति विषवत् कर्मविभ्रमात्
विजानता प्रयुक्तं तु महान्तमपि संचयम् ७९
भिनत्त्याश्वेव दोषाणां रोगान् हन्ति च दुस्तरान्
महत्याः पञ्चमूल्यास्तु बृहत्योश्चैकशः पृथक् ८०
कषायैः समभागं तु तदङ्गारेषु शोषितम्
अम्लादिभिः पूर्ववत्तु प्रयोज्यं कोलसंमितम् ८१
महावृक्षपयः पीतैर्यवागूस्तण्डुलैः कृता
पीता विरेचयत्याशु गुडेनोत्कारिका कृता ८२
लेहो वा साधितः सम्यक् स्नुहीक्षीरपयोघृतैः
भावितास्तुस्नुहीक्षीरे पिप्पल्यो लवणान्विताः ८३
चूर्णं काम्पिल्लकं वाऽपि तत्पीतं गुटिकीकृतम्
सप्तला शङ्खिनी दन्ती त्रिवृदारग्वधं गवाम् ८४
मूत्रेणाप्लाव्य सप्ताहं स्नुहीक्षीरे ततः परम्
कीर्णं तेनैव चूर्णेन माल्यं वसनमेव च ८५
आघ्रायावृत्य वा सम्यङ्मृदुकोष्ठो विरिच्यते
क्षीरत्वक्फलमूलानां विधानैः परिकीर्तितैः
अवेक्ष्य सम्यग्रोगादीन् यथावदुपयोजयेत् ८६
त्रिवृच्छाणा मितास्तिस्रस्तिस्रश्च त्रिफलात्वचः
विडङ्गपिप्पलीक्षारशाणास्तिस्रश्च चूर्णिताः ८७
लिह्यात् सर्पिर्मधुभ्यां च मोदकं वा गुडेन वा
भक्षयेन्निष्परीहारमेतच्छ्रेष्ठं विरेचनम् ८८
गुल्मं प्लीहोदरं कासं हलीमकमरोचकम्
कफवातकृतांश्चान्यान् व्याधीनेतद्व्यपोहति ८९
घृतेषु तैलेषु पयःसु चापि मद्येषु मूत्रेषु तथा रसेषु
भक्ष्यान्नलेह्येषु च तेषु तेषु विरेचनान्यग्रमतिर्विदध्यात् ९०
क्षीरं रसः कल्कमथो कषायः शृतश्च शीतश्च तथैव चूर्णम्
कल्पाः षडेते खलु भेषजानां यथोत्तरं ते लघवः प्रदिष्टाः ९१
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने विरेचनद्र व्यविकल्पविज्ञानीयो
नाम चतुश्चत्वारिंशोऽध्यायः ४४
पञ्चचत्वारिंशत्तमोऽध्यायः
अथातो द्र वद्र व्यविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पानीयमान्तरीक्षमनिर्देश्यरसममृतं जीवनं तर्पणं धारणमाश्वासजननं श्रमक्लमपिपासामदमूर्च्छातन्द्रा निद्रा दाहप्रशमनमेकान्ततः पथ्यतमं च ३
तदेवावनिपतितमन्यतमं रसमुपलभते स्थानविशेषान्नदीनदसरस्तडागवापीकूपचुण्टीप्रस्रवणोद्भिदवि किरकेदारपल्वलादिषु स्थानेष्ववस्थितमिति ४
तत्र लोहितकपिलपाण्डुनीलपीतशुक्लेष्ववनिप्रदेशेषु मधुराम्ललवणकटुतिक्तकषायाणि यथासङ्ख्यमुदकानि संभवन्ति इत्येके भाषन्ते ५
तत्तु न सम्यक् पृथिव्यादीनामन्योन्यानुप्रवेशकृतः सलिलरसो भवत्युत्कर्षापकर्षेण तत्र स्वलक्षणभूयिष्ठायां भूमावम्लं लवणं च अम्बुगुणभूयिष्ठायां मधुरं तेजोगुणभूयिष्ठायां कटुकं तिक्तं च वायुगुणभूयिष्ठायां कषायम् आकाशगुणभूयिष्ठायामव्यक्तरसम् अव्यक्तं ह्याकाशमित्यतः तत् प्रधानम् व्यक्तरसत्वात् तत्पेयमान्तरीक्षालाभे ६
तत्रान्तरीक्षं चतुर्विधम् तद्यथाधारं कारं तौषारं हैममिति तेषां धारं प्रधानं लघुत्वात् तत् पुनर्द्विविधंगाङ्गं सामुद्रं चेति तत्र गाङ्गमाश्वयुजे मासि प्रायशो वर्षति तयोर्द्वयोरपि परीक्षणं कुर्वीत शाल्योदनपिण्डमकुथितमविदग्धं रजतभाजनोपहितं वर्षति देवे बहिष्कुर्वीत स यदि मुहूर्तं स्थितस्तादृश एव भवति तदा गाङ्गं पततीत्यवगन्तव्यं वर्णान्यत्वे सिक्थप्रक्लेदे च सामुद्र मिति विद्यात् तन्नोपादेयम् सामुद्र मप्याश्वयुजे मासि गृहीतं गाङ्गवद्भवति गाङ्गं पुनः प्रधानं तदुपाददीताश्वयुजे मासि शुचिशुक्लविततपटैकदेशच्युतमथवा हर्म्यतलपरिभ्रष्टमन्यैर्वा शुचिभिर्भाजनैर्गृहीतं सौवर्णे राजते मृन्मये वा पात्रे निदध्यात् तत् सर्वकालमुपयुञ्जीत तस्यालाभे भौमम् तच्चाकाशगुण बहुलम् तत् पुनः सप्तविधम् तद्यथाकौपं नादेयं सारसं ताडागं प्रास्रवणम् औद्भिदं चौण्ट्यमिति ७
तत्र वर्षास्वान्तरिक्षमौद्भिदं वा सेवेत महागुणत्वात्शरदि सर्वं प्रसन्नत्वात् हेमन्ते सारसं ताडागं वावसन्ते कौपं प्रास्रवणं वा ग्रीष्मेऽप्येवं प्रावृषि चौण्ट्यमनभिवृष्टं सर्वं चेति ८
कीटमूत्रपुरीषाण्डशवकोथप्रदूषितम्
तृणपर्णोत्करयुतं कलुषं विषसंयुतम् ९
योऽवगाहेत वर्षासु पिबेद्वाऽपि नवं जलम्
स बाह्याभ्यन्तरान् रोगान् प्राप्नुयात् क्षिप्रमेव तु १०
तत्र यत् पङ्कशैवलहठतृणपद्मपत्रप्रभृतिभिरवच्छन्नं रविशशिकिरणानि लैनाभिजुष्टं गन्धवर्णरसोपसृष्टं तद्व्यापन्नमिति विद्यात् तस्य स्पर्शरूपरसगन्धवीर्यविपाकदोषाः षट् संभवन्ति तत्र खरता पैच्छिल्यमौष्ण्यं दन्तग्राहिता च स्पर्शदोषः पङ्कसिकताशैवालबहुवर्णता रूपदोषः व्यक्तरसता रसदोषः अनिष्टगन्धता गन्धदोषाः यदुपयुक्तं तृष्णागौरवशूलकफप्रसेकानापादयति स वीर्यदोषः यदुपयुक्तं चिराद्विपच्यते विष्टम्भयति वा स विपाकदोष इति त एते आन्तरिक्षे न सन्ति ११
व्यापन्नस्य चाग्निक्वथनं सूर्यातपप्रतापनं तप्तायः पिण्डसिकतालोष्ट्राणां वा निर्वापणं प्रसादनं च कर्तव्यं नागचम्पकोत्पलपाटलापुष्पप्रभृतिभिश्चाधिवासनमिति १२
सौवर्णे राजते ताम्रे कांस्ये मणिमयेऽपि वा
पुष्पावतंसं भौमे वा सुगन्धि सलिलं पिबेत् १३
व्यापन्नं वर्जयेन्नित्यं तोयं यच्चाप्यनार्तवम्
दोषसंजननं ह्येतन्नाददीताहितं तु तत् १४
व्यापन्नमुदकं यस्तु पिबतीहाप्रसादितम्
श्वयथुं पाण्डुरोगं च त्वग्दोषमविपाकताम् १५
श्वासकासप्रतिश्यायशूलगुल्मोदराणि च
अन्यान्वा विषमान्रोगान्प्राप्नुयादचिरेण सः १६
तत्र सप्त कलुषस्य प्रसादनानि भवन्ति तद्यथाकतकगोमे
दकबिसग्रन्थिशैवालमूलवस्त्राणि मुक्तामणिश्चेति १७
पञ्च निक्षेपणानि भवन्ति तद्यथाफलकं त्र्यष्टकं
मुञ्जवलय उदकमञ्चिका शिक्यं चेति १८
सप्त शीतीकरणानि भवन्ति तद्यथाप्रवातस्थापनम्
उदकप्रक्षेपणं यष्टिकाभ्रामणं व्यजनं वस्त्रोद्धरणं
वालुकाप्रक्षेपणं शिक्यावलम्बनं चेति १९
निर्गन्धमव्यक्तरसं तृष्णाघ्नं शुचि शीतलम्
अच्छं लघु च हृद्यं च तोयं गुणवदुच्यते २०
तत्र नद्यः पश्चिमाभिमुखाः पथ्याः लघूदकत्वात् पूर्वाभिमुखास्तु न प्रशस्यन्ते गुरूदकत्वात् दक्षिणाभिमुखा नातिदोषलाः साधारणत्वात् तत्र सह्यप्रभवाः कुष्ठं जनयन्ति विन्ध्यप्रभवाः कुष्ठं पाण्डुरोगं च मलयप्रभवाः कृमीन् महेन्द्र प्रभवाः श्लीपदोदराणि हिमवत्प्रभवा हृद्रो गश्वयथुशिरोरोगश्लीपदगलगण्डान् प्राच्यावन्त्या अपरावन्त्याश्चार्शांस्युपजन यन्ति पारियात्रप्रभवाः पथ्याबलारोग्यकर्य इति २१
नद्यः शीघ्रवहा लघ्व्यः प्रोक्ता याश्चामलोदकाः
गुर्व्यः शैवालसंछन्नाः कलुषा मन्दगाश्च याः २२
प्रायेण नद्यो मरुषु सतिक्ता लवणान्विताः
लघ्व्यः समधुराश्चैव पौरुषेया बले हिताः २३
तत्र सर्वेषामेव भौमानां ग्रहणं प्रत्यूषसि तत्र ह्यमलत्वं शैत्यं चाधिकं भवति स एव चापां परो गुण इति २४
दिवार्ककिरणैर्जुष्टं निशायामिन्दुरश्मिभिः
अरूक्षमनभिष्यन्दि तत्तुल्यं गगनाम्बुना २५
गगनाम्बु त्रिदोषघ्नं गृहीतं यत् सुभाजने
बल्यं रसायनं मेध्यं पात्रापेक्षि ततः परम् २६
रक्षोघ्नं शीतलं ह्लादि ज्वरदाहविषापहम्
चन्द्र कान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम् २७
मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदात्यये
भ्रमक्लमपरीतेषु तमके वमथौ तथा २८
ऊर्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते
पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे २९
आध्माने स्तिमिते कोष्ठे सद्यःशुद्धे नवज्वरे
हिक्कायां स्नेहपीते च शीताम्बु परिवर्जयेत् ३०
नादेयं वातलं रूक्षं दीपनं लघु लेखनम्
तदभिष्यन्दि मधुरं सान्द्रं गुरु कफावहम् ३१
तृष्णाघ्नं सारसं बल्यं कषायं मधुरं लघु
ताडागं वातलं स्वादु कषायं कटुपाकि च ३२
वातश्लेष्महरं वाप्यं सक्षारं कटु पित्तलम्
सक्षारं पित्तलं कौपं श्लेष्मघ्नं दीपनं लघु ३३
चौण्ट्यमग्निकरं रूक्षं मधुरं कफकृन्न च
कफघ्नं दीपनं हृद्यं लघु प्रस्रवणोद्भवम् ३४
मधुरं पित्तशमनमविदाह्यौद्भिदं स्मृतम्
वैकिरं कटु सक्षारं श्लेष्मघ्नं लघु दीपनम् ३५
कैदारं मधुरं प्रोक्तं विपाके गुरु दोषलम्
तद्वत्पाल्वलमुद्दिष्टं विशेषाद्दोषलं तु तत् ३६
सामुद्र मुदकं विस्रं लवणं सर्वदोषकृत्
अनेकदोषमानूपं वार्यभिष्यन्दि गर्हितम् ३७
एभिर्दोषैरसंयुक्तं निरवद्यं तु जाङ्गलम्
पाकेऽविदाहि तृष्णाघ्नं प्रशस्तं प्रीतिवर्धनम् ३८
दीपनं स्वादु शीतं च तोयं साधारणं लघु
कफमेदोऽनिलामघ्नं दीपनं बस्तिशोधनम् ३९
श्वासकासज्वरहरं पथ्यमुष्णोदकं सदा
यत् क्वाथ्यमानं निर्वेगं निष्फेनं निर्मलं लघु ४०
चतुर्भागावशेषं तु तत्तोयं गुणवत् स्मृतम्
न च पर्युषितं देयं कदाचिद्वारि जानता ४१
अम्लीभूतं कफोत्क्लेदि न हितं तत् पिपासवे
मद्यपानात्समुद्भूते रोगे पित्तोत्थिते तथा ४२
सन्निपातसमुत्थे च शृतशीतं प्रशस्यते
स्निग्धं स्वादु हिमं हृद्यं दीपनं बस्तिशोधनम् ४३
वृष्यं पित्तपिपासाघ्नं नालिकेरोदकं गुरु
दाहातीसारपित्तासृङ्मूर्च्छामद्यविषार्तिषु ४४
शृतशीतं जलं शस्तं तृष्णाच्छर्दिभ्रमेषु च
अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये ४५
मन्देऽग्नावुदरे कुष्ठे ज्वरे नेत्रामये तथा
व्रणे च मधुमेहे च पानीयं मन्दमाचरेत् ४६
इति जलवर्गः
अथ क्षीरवर्गः
गव्यमाजं तथा चौष्ट्रमाविकं माहिषं च यत्
अश्वायाश्चैव नार्याश्च करेणूनां च यत्पयः ४७
तत्त्वनेकौषधिरसप्रसादं प्राणदं गुरु मधुरं पिच्छिलं शीतं स्निग्धं श्लक्ष्णं सरं मृदु सर्वप्राणभृतां तस्मात् सात्म्यं क्षीरमिहोच्यते ४८
तत्र सर्वमेव क्षीरं प्राणिनामप्रतिषिद्धं जातिसात्म्यात् वातपित्तशोणित मानसेष्वपि विकारेष्वविरुद्धं जीर्णज्वरकासश्वासशोषक्षयगुल्मोन्मादोदरमूर्च्छा-भ्रममददाहपिपासाहृद्बस्तिदोषपाणडुरोगग्रहणीदोषार्शः शूलोदावर्तातिसार-प्रवाहिकायोनिरोगगर्भास्रावरक्तपित्तश्रमक्लमहरं पाप्मापहं बल्यं वृष्यं वाजीकरणं रसायनं मेध्यं वयःस्थापनमायुष्यं जीवनं बृंहणं संधानं वमनविरेचनास्थापनं तुल्यगुणत्वाच्चौजसो वर्धनं बालवृद्धक्षतक्षीणानां क्षुद्व्ययवायव्यायामकर्शितानां च पथ्यतमम् ४९
अल्पाभिष्यन्दि गोक्षीरं स्निग्धं गुरु रसायनम्
रक्तपित्तहरं शीतं मधुरं रसपाकयोः ५०
जीवनीयं तथा वातपित्तघ्नं परमं स्मृतम्
गव्यतुल्यगुणं त्वाजं विशेषाच्छोषिणां हितम् ५१
दीपनं लघु संग्राहि श्वासकासास्रपित्तनुत्
अजानामल्पकायत्वात् कटुतिक्तनिषेवणात् ५२
नात्यम्बुपानाद्व्यायामात् सर्वव्याधिहरं पयः
रूक्षोष्णं लवणं किंचिदौष्ट्रं स्वादुरसं लघु ५३
शोफगुल्मोदरार्शोघ्नं कृमिकुष्ठविषापहम्
आविकं मधुरं स्निग्धं गुरु पित्तकफावहम् ५४
पथ्यं केवलवातेषु कासे चानिलसंभवे
महाभिष्यन्दि मधुरं माहिषं वह्निनाशनम् ५५
निद्रा करं शीततरं गव्यात् स्निग्धतरं गुरु
उष्णमैकशफं बल्यं शाखावातहरं पयः ५६
मधुराम्लरसं रूक्षं लवणानुरसं लघु
नार्यास्तु मधुरं स्तन्यं कषायानुरसं हिमम् ५७
नस्याश्च्योतनयोः पथ्यं जीवनं लघु दीपनम्
हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु ५८
स्निग्धं स्थैर्यकरं शीतं चक्षुष्यं बलवर्धनम्
प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम् ५९
रात्र्याः सोमगुणत्वाच्च व्यायामाभावतस्तथा
दिवाकराभितप्तानां व्यायामानिलसेवनात् ६०
श्रमघ्नं वातनुच्चैव चक्षुष्यं चापराह्णिकम्
पयोऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्तितम् ६१
तदेवोक्तं लघुतरमनभिष्यन्दि वै शृतम्
वर्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम् ६२
धारोष्णं गुणवत् क्षीरं विपरीतमतोऽन्यथा
तदेवातिशृतं शीतं गुरु बृंहणमुच्यते ६३
अनिष्टगन्धमम्लं च विवर्णं विरसं च यत्
वर्ज्यं सलवणं क्षीरं यच्च विग्रथितं भवेत् ६४
इति क्षीरवर्गः
अथ दधिवर्गः
दधि तु मधुरमम्लमत्यम्लं चेति तत्कषायानुरसंस्निग्धमुष्णं पीनसविषम ज्वरातिसारारोचकमूत्रकृच्छ्रकार्श्यापहं वृष्यं प्राणकरं मङ्गल्यं च ६५
महाभिष्यन्दि मधुरं कफमेदोविवर्धनम्
कफपित्तकृदम्लं स्यादत्यम्लं रक्तदूषणम् ६६
विदाहि सृष्टविण्मूत्रं मन्दजातं त्रिदोषकृत्
स्निग्धं विपाके मधुरं दीपनं बलवर्धनम् ६७
वातापहं पवित्रं च दधि गव्यं रुचिप्रदम्
दध्याजं कफपित्तघ्नं लघु वातक्षयापहम् ६८
दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम्
विपाके मधुरं वृष्यं वातपित्तप्रसादनम् ६९
बलासवर्धनं स्निग्धं विशेषाद्दधि माहिषम्
विपाके कटु सक्षारं गुरु भेद्यौष्ट्रिकं दधि ७०
वातमर्शांसि कुष्ठानि कृमीन् हन्त्युदराणि च
कोपनं कफवातानां दुर्नाम्नां चाविकं दधि ७१
रसे पाके च मधुरमत्यभिष्यन्दि दोषलम्
दीपनीयमचक्षुष्यं वाडवं दधि वातलम् ७२
रूक्षमुष्णं कषायं च कफमूत्रापहं च तत्
स्निग्धं विपाके मधुरं बल्यं संतर्पणं गुरु ७३
चक्षुष्यमग्र्यं दोषघ्नं दधि नार्या गुणोत्तरम्
लघु पाके बलासघ्नं वीर्योष्णं पक्तिनाशनम् ७४
कषायानुरसं नाग्या दधि वर्चोविवर्धनम्
दधीन्युक्तानि यानीह गव्यादीनि पृथक् पृथक् ७५
विज्ञेयमेवं सर्वेषु गव्यमेव गुणोत्तरम्
वातघ्नं कफकृत् स्निग्धं बृंहणं नातिपित्तकृत् ७६
कुर्याद्भक्ताभिलाषं च दधि यत् सुपरिस्रुतम्
शृतात् क्षीरात्तु यज्जातां गुणवद्दधि तत् स्मृतम् ७७
वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम्
दध्नः सरो गुरुर्वृष्यो विज्ञेयोऽनिलनाशनः ७८
वह्नेर्विधमनश्चापि कफशुक्रविवर्धनः
दधि त्वसारं रूक्षं च ग्राहि विष्टम्भि वातलम् ७९
दीपनीयं लघुतरं सकषायं रुचिप्रदम्
शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ८०
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते
तृष्णाक्लमहरं मस्तु लघु स्रोतोविशोधनम् ८१
अम्लं कषायं मधुरमवृष्यं कफवातनुत्
प्रह्लादनं प्रीणनं च भिनत्त्याशु मलं च तत्
बलमावहते क्षिप्रं भक्तच्छन्दं करोति च ८२
स्वाद्वम्लमत्यम्लकमन्दजातं तथा शृतक्षीरभवं सरश्च
असारमेवं दधि सप्तधाऽस्मिन् वर्गे स्मृता मस्तुगुणास्तथैव ८३
इति दधिवर्गः
अथ तक्रवर्गः
तक्रं तु मधुरमम्लं कषायानुरसमुष्णवीर्यं लघु रूक्षमग्निदीपनं गरशोफातिसारग्रहणीपाण्डुरोगार्शः प्लीहगुल्मारोचकविषमज्वरतृष्णाच्छर्दिप्रसेकशूलमेदः श्लेष्मानिलहरं मधुरविपाकं हृद्यं मूत्रकृच्छ्रस्नहेव्यापत्प्रशमनमवृष्यं च ८४
मन्थनादिपृथग्भूतस्नेहमर्धोदकं च यत्
नातिसान्द्र द्र वं तक्रं स्वाद्वम्लं तुवरं रसे
यत्तु सस्नेहमजलं मथितं घोलमुच्यते ८५
नैव तक्रं क्षते दद्यान्नोष्णकाले न दुर्बले
न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ८६
शीतकालेऽग्निमान्द्ये च कफोत्थेष्वामयेषु च
मार्गावरोधे दुष्टे च वायौ तक्रं प्रशस्यते ८७
तत् पुनर्मधुरं श्लेष्मप्रकोपणं पित्तप्रशमनं च
अम्लं वातघ्नं पित्तकरं च ८८
वातेऽम्ल सैन्धवोपेतं स्वादु पित्ते सशर्करम्
पिबेत्तक्रं कफे चापि व्योषक्षारसमन्वितम् ८९
ग्राहिणी वातला रूक्षा दुर्जरा तक्रकूर्चिका
तक्राल्लघुतरो मण्डः कूर्चिकादधितक्रजः ९०
गुरुः किलाटोऽनिलहा पुंस्त्वनिद्रा प्रदः स्मृतः
मधुरौ बृंहणौ वृष्यौ तद्वत्पीयूषमोरटौ ९१
नवनीतं पुनः सद्यस्कं लघु सुकुमारं मधुरं कषायमीषदम्लं शीतलं मेध्यं दीपनं हृद्यं संग्राहि पित्तानिलहरं वृष्यमविदाहि क्षयकासव्रणशोषार्शोऽदितापहं चिरोत्थितं गुरु कफमेदोविवर्धनं बलकरं बृंहणं शोषघ्नं विशेषेण बालानां प्रशस्यते ९२
क्षीरोत्थं पुनर्नवनीतमुत्कृष्टस्नेहमाधुर्यमतिशीतं सौकुमार्यकरं चक्षुष्यं संग्राहि रक्तपित्तनेत्ररोगहरं प्रसादनं च ९३
संतानिका पुनर्वातघ्नी तर्पणी वृष्या बल्या स्निग्धा रुच्या मधुरा मधुरविपाका रक्तपित्तप्रसादनीगुर्वी च ९४
विकल्प एष दध्यादिः श्रेष्ठो गव्योऽभिवर्णितः
विकल्पानवशिष्टांस्तु क्षीरवीर्यात्समादिशेत् ९५
इति तक्रवर्गः
अथ घृतम्
घृतं तु मधुरं सौम्यं मृदुशीतवीर्यमनभिष्यन्दिस्नेहनमुदावर्तोन्मादापस्मार-शूलज्वरानाहवातपित्तप्रशमनमग्निदीपनं स्मृतिमतिमेधाकान्तिस्वरलावण्य-सौकुमार्यौजस्तेजोबलकरमायुष्यं वृष्यं मेध्यं वयःस्थापनं गुरु चक्षुष्यं श्लेष्माभिवर्धनं पाप्मालक्ष्मीप्रशमनं विषहरं रक्षोघ्नं च ९६
विपाके मधुरं शीतं वातपित्तबिषापहम्
चक्षुष्यमग्र्यं बल्यं च गव्यं सर्पिर्गुणोत्तरम् ९७
आजं घृतं दीपनीयं चक्षुष्यं बलवर्धनम्
कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु ९८
मधुरं रक्तपित्तघ्नं गुरु पाके कफावहम्
वातपित्तप्रशमनं सुशीतं माहिषं घृतम् ९९
औष्ट्रं कटु घृतं पाके शोफक्रिमिविषापहम्
दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् १००
पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपणम्
कफेऽनिले योनिदोषे शोषे कम्पे च तद्धितम् १०१
पाके लघूष्णवीर्यं च कषायं कफनाशनम्
दीपनं बद्धमूत्रं च विद्यादैकशफं घृतम् १०२
चक्षुष्यमग्र्यं स्त्रीणां तु सर्पिः स्यादमृतोपमम्
वृद्धिं करोति देहाग्न्योर्लघुपाकं विषापहम् १०३
कषायं बद्धविण्मूत्रं तिक्तमग्निकरं लघु
हन्ति कारेणवं सर्पिः कफकुष्ठविषक्रिमीन् १०४
क्षीरघृतं पुनः संग्राहि रक्तपित्तभ्रममूर्च्छाप्रशमनं नेत्ररोगहितं च १०५
सर्पिर्मण्डस्तु मधुरः सरो योनिश्रोत्राक्षिशिरसां शूलघ्नो बस्तिनस्याक्षिपूरणेषूपदिश्यते १०६
सर्पिः पुराणं सरं कटुविपाकं त्रिदोषापहं मूर्च्छामदोन्मादोदरज्वरगरशोषापस्मारयोनिश्रोत्राक्षिशिर शूलघ्नं दीपनं बस्तिनस्यपूरणेषूपदिश्यते १०७
भवति चात्रपुराणं तिमिरश्वासपीनसज्वरकासनुत्
मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम् १०८
एकादशशतं चैव वत्सरानुषितं घृतम्
रक्षोघ्नं कुम्भसर्पिः स्यात् परतस्तु महाघृतम् १०९
पेयं महाघृतं भूतैः कफघ्नं पवनाधिकैः
बल्यं पवित्रं मेध्यं च विशेषात्तिमिरापहम् ११०
सर्वभूतहरं चैव घृतमेतत् प्रशस्यते १११
इति घृतवर्गः
अथ तैलानि
तैलं त्वाग्नेयमुष्णं तीक्ष्णं मधुरं मधुरविपाकं बृंहणं प्रीणनं व्यवायि सूक्ष्मं विशदं गुरु सरं विकासि वृष्यं त्वक् प्रसादनं मेधामार्दवमांसस्थैर्यवर्णबलकरं चक्षुष्यं बद्धमूत्रं लेखनं तिक्तकषायानुरसं पाचनमनिलबलासक्षयकरं क्रिमिघ्नमशितपित्तजननं योनिशिरः कर्णशूलप्रशमनं गर्भाशयशोधनं च तथा छिन्नभिन्नविद्धोत्पिष्टच्युतमथितक्षतपिच्चितभग्न स्फुटितक्षाराग्निदग्धविश्लि-ष्टदारिताभिहतदुर्भग्नमृगव्यालविदष्टप्रभृतिषु च परिषेकाभ्यङ्गावगाहादिषु तिलतैलं प्रशस्यते ११२
तद्बस्तिषु च पानेषु नस्ये कर्णाक्षिपूरणे
अन्नपानविधौ चापि प्रयोज्यं वातशान्तये ११३
एरण्डतैलं मधुरमुष्णं तीक्ष्णं दीपनं कटु कषायानुरसं सूक्ष्मं स्रोतोविशोधनं त्वच्यं वृष्यं मधुरविपाकं वयःस्थापनं योनिशुक्रविशोधनमारोग्य मेधाकान्तिस्मृतिबलकरं वातकफहरमधोभागदोषहरं च ११४
निम्बातसीकुसुम्भमूलकजीमूतकवृक्षककृतवेधनार्ककम्पिल्लकहस्तिकर्ण पृथ्वीकापीलुकरञ्जेङ्गुदीशिग्रुसर्षपसुवर्चलाविडङ्गज्योतिष्मतीफलतैलानि तीक्ष्णानि लघून्युष्णवीर्याणि कटूनि कटुविपाकानि सराण्यनिलकफकृमिकुष्ठप्रमेहशिरोरोगापहराणि चेति ११५
वातघ्नं मधुरं तेषु क्षौमं तैलं बलापहम्
कटुपाकमचक्षुष्यं स्निग्धोष्णं गुरुपित्तलम् ११६
कृमिघ्नं सार्षपं तैलं कण्डूकुष्ठापहं लघु
कफमेदोनिलहरं लेखनं कटु दीपनम् ११७
कृमिघ्नमिङ्गुदीतैलमीषत्तिक्तं तथा लघु
कुष्ठामयकृमिहरं दृष्टिशुक्रबलापहम् ११८
विपाके कटुकं तैलं कौसुम्भं सर्वदोषकृत्
रक्तपित्तकरं तीक्ष्णमचक्षुष्यं विदाहि च ११९
किराततिक्तकातिमुक्तकबिभीतकनालिकेरकोलाक्षोडजीवन्तीप्रियालकर्बुदा-रसूर्यवल्लीत्रपुसैर्वारुककर्कारुकूष्माण्डप्रभृतीनां तैलानि मधुराणि मधुरविपाकानि वातपित्तप्रशमनानि शीतवीर्याण्यभिष्यन्दीनि सृष्टमूत्राण्यग्निसादनानि चेति १२०
मधूककाश्मर्यपलाशतैलानि मधुरकषायाणि कफपित्तप्रशमनानि १२१
तुवरकभल्लातकतैले उष्णे मधुरकषाये तिक्तानुरसे वातकफकुष्ठमेदोमेहकृमिप्रशमने उभयतोभागदोषहरे च १२२
सरलदेवदारुशिंशपागुरुगण्डीरसारस्नेहास्तिक्तकटुकषाया दुष्टव्रणशोधनाः कृमिकफकुष्ठानिलहराश्च १२३
तुम्बीकोशम्रदन्तीद्र वन्तीश्यामासप्तलानीलिकाकम्पिल्ल कशङ्खिनी स्नेहास्तिक्तकटुकषाया अधोभागदोषहराः कृमिकफकुष्ठानिलहरा दुष्टव्रणशोधनाश्च १२४
यवतिक्तातैलं सर्वदोषप्रशमनमीषत्तिक्तमग्निदीपनं लेखनं मेध्यं पथ्यं च १२५
एकैषिकातैलं मधुरमतिशीतं पित्तहरमनिलप्रकोपणं श्लेष्माभिवर्धनं च १२६
सहकारतैलमीषत्तिक्तमतिसुगन्धि वातकफहरं रूक्षं मधुरकषायं रसवन्नातिपित्तकरं च १२७
फलोद्भवानि तैलानि यान्युक्तानीह कानिचित्
गुणान् कर्म च विज्ञाय फलानीव विनिर्दिशेत् १२८
यावन्तः स्थावराः स्नेहाः समासात्परिकीर्तिताः
सर्वे तैलगुणा ज्ञेयाः सर्वे चानिलनाशनाः १२९
सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं विशिष्यते
निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि १३०
ग्राम्यानूपौदकानां च वसामेदोमज्जानो गुरूष्णमधुरा वातघ्नाः जाङ्गलैकशफक्रव्यादादीनां लघुशीतकषाया रक्तपित्तघ्नाः प्रतुदविष्किराणां श्लेष्मघ्नाः तत्र घृततैलवसामेदोमज्जानो यथोत्तरं गुरुविपाका वातहराश्च १३१
इति तैलवर्गः
अथ मधुवर्गः
मधु तु मधुरं कषायानुरसं रूक्षं शीतमग्निदीपनं वर्ण्यं स्वर्यं लघु सुकुमारं लेखनं हृद्यं वाजीकरणं सन्धानं शोधनं रोपणं सिंग्राहि चक्षुष्यं प्रसादनं सूक्ष्ममार्गानुसारि पित्तश्लेष्ममेदोमेहहिक्काश्वासकासातिसारच्छर्दितृष्णाकृ-मिविषप्रशमनं ह्लादि त्रिदोषप्रशमनं च तत्तुलघुत्वात् कफघ्नं पैच्छिल्यान्माधुर्यात् कषायभावाच्च वातपित्तघ्नम् १३२
पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च
आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः १३३
विशेषात्पौत्तिकं तेषु रूक्षोष्णं सविषान्वयात्
वातासृक्पित्तकृच्छेदि विदाहि मदकृन्मधु १३४
पैच्छिल्यात् स्वादुभूयस्त्वाद्भ्रामरं गुरुसंज्ञितम्
क्षौद्रं विशेषतो ज्ञेयं शीतलं लघु लेखनम् १३५
तस्माल्लघुतरं रूक्षं माक्षिकं प्रवरं स्मृतम्
श्वासादिषु च रोगेषु प्रशस्तं तद्विशेषतः १३६
स्वादुपाकं गुरु हिमं पिच्छिलं रक्तपित्तजित्
श्वित्रमेहकृमिघ्नं च विद्याच्छात्रं गुणोत्तरम् १३७
आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परम्
कषायं कटु पाके च बल्यं तिक्तमवातकृत् १३८
औद्दालकं रुचिकरं स्वर्यं कुष्ठविषापहम्
कषायमम्लमुष्णं च पित्तकृत् कटुपाकि च १३९
छर्दिमेहप्रशमनं मधु रूक्षं दलोद्भवम्
बृंहणीयं मधु नवं नातिश्लेष्महरं समम् १४०
मेदःस्थौल्यापहं ग्राहि पुराणमतिलेखनम्
दोषत्रयहरं पक्वमाममम्लं त्रिदोषकृत् १४१
तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून्
नानाद्र व्यात्मकत्वाच्च योगवाहि परं मधु १४२
तत्तु नानाद्र व्यरसगुणवीर्यविपाकविरुद्धानां पुष्प
रसानां मक्षिकासंभवत्वाच्चानुष्णोपचारम् १४३
उष्णैर्विरुध्यते सर्वं विषान्वयतया मधु
उष्णार्तमुष्णैरुष्णे वा तन्निहन्ति यथा विषम् १४४
तत्सौकुमार्याच्च तथैव शैत्यान्नानौषधीनां रससंभवाच्च
उष्णैर्विरुध्येत विशेषतश्च तथाऽन्तरीक्षेण जलेन चापि १४५
उष्णेन मधु संयुक्तं वमनेष्ववचारितम्
अपाकादनवस्थानान्न विरुध्येत पूर्ववत् १४६
मध्वामात्परतस्त्वन्यदामं कष्टं न विद्यते
विरुद्धोपक्रमत्वात्तत् सर्वं हन्ति यथा विषम् १४७
इति मधुवर्गः
अथेक्षुवर्गः
इक्षवो मधुरा मधुरविपाका गुरवः शीताः स्निग्धा बल्या वृष्या मूत्रला रक्तपित्तप्रशमनाः कृमिकफकराश्चेति ते चानेकविधाः तद्यथा १४८
पौण्ड्रको भीरुकश्चैव वंशकः श्वेतपोरकः
कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः १४९
नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत्
इत्येता जातयः स्थौल्याद् गुणान् वक्ष्याम्यतः परम् १५०
सुशीतो मधुरः स्निग्धो बृंहणः श्लेष्मलः सरः
अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तथा १५१
आभ्यां तुल्यगुणः किंचित्सक्षारो वंशको मतः
वंशवच्छ्वेतपोरस्तु किंचिदुष्णः स वातहा १५२
कान्तारतापसाविक्षू वंशकानुगतौ मतौ
एवंगुणस्तु काष्ठेक्षुः स तु वातप्रकोपणः १५३
सूचीपत्रो नीलपोरौ नैपालो दीर्घपत्रकः
वातलाः कफपित्तघ्नाः सकषाया विदाहिनः १५४
कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः
अतीव मधुरो मूले मध्ये मधुर एव तु १५५
अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणो रसः १५६
अविदाही कफकरो वातपित्तनिवारणः
वक्त्रप्रह्लादनो वृष्यो दन्तनिष्पीडितो रसः १५७
गुरुर्विदाही विष्टम्भी यान्त्रिकस्तु प्रकीर्तितः
पक्वोगुरुःसरःस्निग्धः सतीक्ष्णः कफवातनुत् १५८
फाणितं गुरु मधुरमभिष्यन्दि बृंहणमवृष्यं त्रिदोषकृच्च १५९
गुडः सक्षारमधुरो नातिशीतः स्निग्धो मूत्ररक्तशोधनो नाति पित्तजिद्वातघ्नो मेदःकृमिकफकरो बल्यो वृष्यश्च १६०
पित्तघ्नो मधुरः शुद्धो वातघ्नोऽसृक्प्रसादनः
सपुराणोऽधिकगुणो गुडः पथ्यतमः स्मृतः १६१
मत्स्यण्डिकाखण्डशर्करा विमलजाता उत्तरोत्तरं शीताः स्निग्धाः गुरुतरा मधुरतरा वृष्या रक्तपित्तप्रशमनास्तृष्णाप्रशमनाश्च १६२
यथा यथैषां वैमल्यं मधुरत्वं तथा तथा
स्नेहगौरवशैत्यानि सरत्वं च तथा तथा १६३
यो यो मत्स्यण्डिकाखण्डशर्कराणां स्वको गुणः
तेन तेनैव निर्देश्यस्तेषां विस्रावणो गुणः १६४
सारस्थिता सुविमला निःक्षारा च यथा यथा
तथा गुणवती सर्वा विज्ञेया शर्करा बुधैः १६५
मधुशर्करा पुनश्छर्द्यतीसारहरी रूक्षा छेदनी प्रसादनी कषायमधुरा मधुरविपाका च १६६
यवासशर्करा मधुरकषाया तिक्तानुरसा श्लेष्महरी सरा चेति १६७
यावत्यः शर्कराः प्रोक्ताः सर्वा दाहप्रणाशनाः
रक्तपित्तप्रशमनाश्छर्दिमूर्च्छातृषापहाः १६८
रूक्षं मधूकपुष्पोत्थं फाणितं वातपित्तकृत्
कफघ्नं मधुरं पाके कषायं बस्तिदूषणम् १६९
इतीक्षुवर्गः
अथ मद्यवर्गः
सर्वं पित्तकरं मद्यमम्लं रोचनदीपनम्
भेदनं कफवातघ्नं हृद्यं बस्तिविशोधनम् १७०
पाके लघु विदाह्युष्णं तीक्ष्णमिन्द्रि यबोधनम्
विकासि सृष्टविण्मूत्रं शृणु तस्य विशेषणम् १७१
मार्द्वीकमविदाहित्वान्मधुरान्वयतस्तथा
रक्तपित्तेऽपि सततं बुधैर्न प्रतिषिध्यते १७२
मधुरं तद्धि रूक्षं च कषायानुरसं लघु
लघुपाकि सरं शोषविषमज्वरनाशनम् १७३
मार्द्वीकाल्पान्तरं किंचित् खार्जूरं वातकोपनम्
तदेव विशदं रुच्यं कफघ्नं कर्शनं लघु १७४
कषायमधुरं हृद्यं सुगन्धीन्द्रि यबोधनम्
कासार्शोग्रहणीदोषमूत्राघातानिलापहा १७५
स्तन्यरक्तक्षयहिता सुरा बृंहणदीपनी
कासार्शोग्रहणीश्वासप्रतिश्यायविनाशनी १७६
श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरा
छर्द्यरोचकहृत्कुक्षितोदशूलप्रमर्दनी १७७
प्रसन्ना कफवातार्शोविबन्धानाहनाशनी
पित्तलाऽल्पकफा रूक्षा यवैर्वातप्रकोपणी १७८
विष्टम्भिनी सुरा गुर्वी श्लेष्मलं तु मधूलकम्
रूक्षा नातिकफा वृष्या पाचनी चाक्षिकी स्मृता १७९
त्रिदोषो भेद्यवृष्यश्च कोहलो वदनप्रियः
ग्राह्युष्णो जगलः पक्ता रूक्षस्तृट्कफशोफकृत् १८०
हृद्यः प्रवाहिकाटोपदुर्नामानिलशोषहृत्
बक्कसो हृतसारत्वाद्विष्टम्भी वातकोपनः १८१
दीपनः सृष्टविण्मूत्रो विशदोऽल्पमदो गुरुः
कषायो मधुरः शीधुर्गौडः पाचनदीपनः १८२
शार्करो मधुरो रुच्यो दीपनो बस्तिशोधनः
वातघ्नो मधुरः पाके हृद्य इन्द्रि यबोधनः १८३
तद्वत् पक्वरसः शीधुर्बलवर्णकरः सरः
शोफघ्नो दीपनो हृद्यो रुच्यः श्लेष्मार्शसां हितः १८४
कर्शनः शीतरसिकः श्वयथूदरनाशनः
वर्णकृज्जरणः स्वर्यो विबन्धघ्नोऽशसां हितः १८५
आक्षिकः पाण्डुरोगघ्नो व्रण्यः संग्राहको लघुः
कषायमधुरः शीधुः पित्तघ्नोऽसृक्प्रसादनः १८६
जाम्बवो बद्धनिस्यन्दस्तुवरो वातकोपनः
तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् १८७
मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः
लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः १८८
तिक्तः कषायः शोफघ्नस्तीक्ष्णः स्वादुरवातकृत्
तीक्ष्णः कषायो मदकृद्दुर्नामकफगुल्महृत् १८९
कृमिमेदोनिलहरो मैरेयो मधुरो गुरुः
बल्यः पित्तहरो वर्ण्यो हृद्यश्चेक्षुरसासवः १९०
शीधुर्मधूकपुष्पोत्थो विहाह्यग्निबलप्रदः
रूक्षः कषायः कफहृद्वातपित्तप्रकोपणः १९१
निर्दिशेद्र सतश्चान्यान् कन्दमूलफलासवान्
नवं मद्यमभिष्यन्दि गुरु वातादिकोपनम् १९२
अनिष्टगन्धि विरसमहृद्यं च विदाहि च
सुगन्धि दीपनं हृद्यं रोचिष्णु कृमिनाशनम् १९३
स्फुटस्रोतस्करं जीर्णं लघु वातकफापहम्
अरिष्टो द्र व्यसंयोगसंस्कारादधिको गुणैः १९४
बहुदोषहरश्चैव दोषाणां शमनश्च सः
दीपनः कफवातघ्नः सरः पित्ताविरोधनः १९५
शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः
पिप्पल्यादिकृतो गुल्मकफरोगहरः स्मृतः १९६
चिकित्सितेषु वक्ष्यन्तेऽरिष्टा रोगहराः पृथक्
अरिष्टासवशीधूनां गुणान् कर्माणि चादिशेत् १९७
बुद्ध्या यथास्वं संस्कारमवेक्ष्य कुशलो भिषक्
सान्द्रं विदाहि दुर्गन्धं विरसं कृमिलं गुरु १९८
अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम्
अल्पौषधं पर्युषितमत्यच्छं पिच्छिलं च यत् १९९
तद्वर्ज्यं सर्वथा मद्यं किंचिच्छेषं च यद्भवेत्
तत्र यत् स्तोकसम्भारं तरुणं पिच्छिलं गुरु २००
कफप्रकोपि तन्मद्यं दुर्जरं च विशेषतः
पित्तप्रकोपि बहलं तीक्ष्णमुष्णं विदाहि च २०१
अहृद्यं पेलवं पूति कृमिलं विरसं च यत्
तथा पर्युषितं चापि विद्यादनिलकोपनम् २०२
सर्वदोषैरुपेतं तु सर्वदोषप्रकोपणम्
चिरस्थितं जातरसं दीपनं कफवातजित् २०३
रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम्
तस्यानेकप्रकारस्य मद्यस्य रसवीर्यतः २०४
सौक्ष्म्यादौष्ण्याच्च तैक्ष्ण्याच्च विकासित्वाच्च वह्निना
समेत्य हृदयं प्राप्य धमनीरूर्ध्वमागतम्
विचाल्येन्द्रि यचेतांसि वीर्यं मदयतेऽचिरात् २०
चिरेण श्लैष्मिके पुंसि पानतो जायते मदः
अचिराद्वातिके दृष्टः पैत्तिके शीघ्रमेव च २०६
सात्त्विके शौचदाक्षिण्यहर्षमण्डनलालसः
गीताध्ययनसौभाग्यसुरतोत्साहकृन्मदः २०७
राजसे दुःखशीलत्वमात्मत्यागं ससाहसम्
कलहं सानुबन्धं तु करोति पुरुषे मदः २०८
अशौचनिद्रा मात्सर्यागम्यागमनलोलताः
असत्यभाषणं चापि कुर्याद्धि तामसे मदः २०९
रक्तपित्तकरं शुक्तं छेदनं भुक्तपाचनम्
वैस्वर्यं जरणं श्लेष्मपाण्डुक्रिमिहरं लघु २१०
तीक्ष्णोष्णं मूत्रलं हृद्यं कफघ्नं कटुपाकि च
तद्वत्तदासुतं सर्वं रोचनं च विशेषतः २११
गौडानि रसशुक्तानि मधुशुक्तानि यानि च
यथापूर्वं गुरुतराण्यभिष्यन्दकराणि च २१२
तुषाम्बु दीपनं हृद्यं हृत्पाण्डुकृमिरोगनुत्
ग्रहण्यर्शोविकारघ्नं भेदि सौवीरकं तथा २१३
धान्याम्लं धान्ययोनित्वाज्जीवनं दाहनाशनम्
स्पर्शात् पानात्तु पवनकफतृष्णाहरं लघु २१४
तैक्ष्ण्याच्च निर्हरेदाशु कफं गण्डूषधारणात्
मुखवैरस्यदौर्गन्ध्यमलशोषक्लमापहम् २१५
दीपनं जरणं भेदि हितमास्थापनेषु च
समुद्र माश्रितानां च जनानां सात्म्यमुच्यते २१६
इति मद्यवर्गः
अथ मूत्राणि
मूत्राणि गोमहिष्यजाविगजहयखरोष्ट्राणां तीक्ष्णान्युष्णानि कटूनि तिक्तानि लवणानुरसानि लघूनि शोधनानि कफवातकृतिमेदोविषगुल्मार्शउदरकुष्ठशोफारोचकपाण्डुरोगहराणि हृद्यआनि दीपनानि च सामान्यतः २१७
भवतश्चात्र
तत् सर्वं कटु तीक्ष्णोष्णं लवणानुरसं लघु
शोधनं कफवातघ्नं कृमिमेदोविषापहम् २१८
अर्शोजठरगुल्मघ्नं शोफारोचकनाशनम्
पाण्डुरोगहरं भेदि हृद्यं दीपनपाचनम् २१९
गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम्
लघ्वग्निदीपनं मेध्यं पित्तलं कफवातनुत् २२०
शूलगुल्मोदरानाहविरेका स्थापनादिषु
मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् २२१
दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु
आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् २२२
कासश्वासापहं शोफकामलापाण्डुरोगनुत्
कटुतिक्तान्वितं छागमीषन्मारुतकोपनम् २२३
कासप्लीहोदरश्वासशोषवर्चोग्रहे हितम्
सक्षारं तिक्तकटुकमुष्णं वातघ्नमाविकम् २२४
दीपनं कटु तीक्ष्णोष्णं वातचेतोविकारनुत्
आश्वं कफहरं मूत्रं कृमिदद्रुषु शस्यते २२५
सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम्
तीक्ष्णं क्षारे किलासे च नागं मूत्रं प्रयोजयेत् २२६
गरचेतोविकारघ्नं तीक्ष्णं ग्रहणिरोगनुत्
दीपनं गार्दभं मूत्रं कृमिवातकफापहम् २२७
शोफकुष्ठोदरोन्मादमारुत क्रिमिनाशनम्
अर्शोघ्नं कारभं मूत्रं मानुषं च विषापहम् २२८
द्र वद्र व्याणि सर्वाणि समासात् कीर्तितानि तु
कालदेशविभागज्ञो नृपतेर्दातुमर्हति २२९
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने द्र वद्र व्यविज्ञानीयो नाम पञ्चचत्वारिंशोऽध्यायः ४५
षट्चत्वारिंशत्तमोऽध्यायः
अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
धन्वन्तरिमभिवाद्य सुश्रुत उवाचप्रागभिहितः प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च स षट्सु रसेष्वायत्तः रसाः पुनर्द्रव्याश्रयिणः द्रव्यरसगुणवीर्यविपाकनिमित्ते च क्षयवृद्धी दोषाणां साम्यं च ब्रह्मादेरपि च लोकस्याहारः स्थित्युत्पत्तिविनाशहेतुः आहारादेवाभिवृद्धिर्बलमारोग्यं वर्णेन्द्रि यप्रसादश्च तथा ह्याहारवैषम्यादस्वास्थ्यां तस्याशितपीतलीढखा दितस्य नानाद्र व्यात्मकस्यानेकविधविकल्पस्यानेकविधप्रभावस्य पृथक् पृथग्द्र व्यरसगुणवीर्यविपाककर्माणीच्छामि ज्ञातुं न ह्यनवबुद्धस्वभावा भिषजः स्वस्थानुवृत्तिं रोगनिग्रहणं च कर्तुं समर्थाः आहारायत्ताश्च सर्वप्राणिनो यस्मात्तस्मादन्नपानविधिमुपदिशतु मे भगवानित्युक्तः प्रोवाच भग वान् धन्वन्तरिःअथ खलु वत्स सुश्रुत यथाप्रश्नमुच्यमानमुपधारयस्व ३
तत्र लोहितशालिकलमकर्दमकपाण्डुकसुगन्धकशकुनाहृतपुष्पाण्डकपुण्ड-रीकमहाशालिशीतभीरुकरोध्रपुष्पकदीर्घशूककाञ्चनकमहिषमहाशूक हायन-कदूषकमहादूषकप्रभृतयः शालयः ४
मधुरा वीर्यतः शीता लघुपाका बलावहाः
पित्तघ्नाल्पानिलकफाः स्निग्धा बद्धाल्पवर्चसः ५
तेषां लोहितकः श्रेष्ठो दोषघ्नः शुक्रमूत्रलः
चक्षुष्यो वर्णबलकृत् स्वर्यो हृद्यस्तृषापहः ६
व्रण्यो ज्वरहरश्चैव सर्वदोषविषापहः
तस्मादल्पान्तरगुणाः क्रमशः शालयोऽवराः ७
षष्टिककाङ्गुकमुकुन्दकपीतकप्रमोदककाकलकासनपुष्पकमहाषष्टिकचूर्णककुर-वककेदारप्रभृतयः षष्टिकाः ८
रसे पाके च मधुराः शमना वातपित्तयोः
शालीनां च गुणैस्तुल्या बृंहणाः कफशुक्रलाः ९
षष्टिकः प्रवरस्तेषां कषायानुरसो लघुः
मृदुः स्निग्धस्त्रिदोषघ्नः स्थैर्यकृद्बलवर्धनः १०
विपाके मधुरो ग्राही तुल्यो लोहितशालिभिः
शेषास्त्वल्पान्तरास्तस्मात् षष्टिकाः क्रमशो गुणैः ११
कृष्णव्रीहिशालामुखजतुमुखनन्दीमुखलावाक्षकत्वरि
तककुक्कुटाण्डकपारावतकपाटलप्रभृतयो व्रीहयः १२
कषायमधुराः पाकेऽमधुरा वीर्यतोऽहिमाः
अल्पाभिष्यन्दिनस्तुल्याः षष्टिकैर्बद्धवर्चसः १३
कृष्णव्रीहिर्वरस्तेषां कषायानुरसो लघुः
तस्मादल्पान्तरगुणाः क्रमशो व्रीहयोऽपरे १४
दग्धायामवनौ जाताः शालयो लघुपाकिनः
कषाया बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षणाः १५
स्थलजाः कफपित्तघ्नाः कषायाः कटुकान्वयाः
किंचित्सतिक्तमधुराः पवनानलवर्धनाः १६
कैदारा मधुरा वृष्या बल्याः पित्तनिबर्हणाः
ईषत्कषायाल्पमला गुरवः कफशुक्रलाः १७
रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः
अदाहिनो दोषहरा बल्या मूत्रविवर्धनाः १८
शालयश्छिन्नरूढा ये रूक्षास्ते बद्धवर्चसः
तिक्ताः कषायाः पित्तघ्नालघुपाकाः कफापहाः १९
विस्तरेणायमुद्दिष्टः शालिवर्गो हिताहितः
इति शालिवर्गः
अथ कुधान्यवर्गः
तद्वत् कुधान्यमुद्गादिमाषादीनां च वक्ष्यते २०
कोरदूषकश्यामाकनीवारशान्तनुवरकोद्दालकप्रियङ्गुमधूलिकानन्दी मुखीकुरु विन्दगवेधुकसरबरुक तोदयिपिर्णीमुकुन्दकवेणुयवप्रभृतयः कुधान्यविशेषाः २१
उष्णाः कषायमधुरा रूक्षाः कटुविपाकिनः
श्लेष्मघ्ना बद्धनिस्यन्दा वातपित्तप्रकोपणाः २२
कषायमधुरस्तेषां शीतः पित्तापहः स्मृतः
कोद्र वश्च सनीवारः श्यामाकश्च सशान्तनुः २३
कृष्णा रक्ताश्च पीताश्च श्वेताश्चैव प्रियङ्गवः
यथोत्तरं प्रधानाः स्यू रूक्षाः कफहराः स्मृताः २४
मधूली मधुरा शीता स्निग्धा नन्दीमुखी तथा
विशोषी तत्र भूयिष्ठं वरुकः समुकुन्दकः २५
रूक्षा वेणुयवा ज्ञेया वीर्योष्णा कटुपाकिनः
बद्धमूत्राः कफहराः कषाया वातकोपनाः २६
मुद्गवनमुद्गकलायमकुष्ठमसूरमङ्गल्यचणकसतीनत्रिपुटकहरेण्वाढकीप्रभृतयो वैदलाः २७
कषायमधुराः शीताः कटुपाका मरुत्कराः
बद्धमूत्रपुरीषाश्च पित्तश्लेष्महरास्तथा २८
नात्यर्थं वातलास्तेषु मुद्गा दृष्टिप्रसादनाः
प्रधाना हरितास्तत्र वन्या मुद्गसमाः स्मृताः २९
विपाके मधुराः प्रोक्ता मसूरा बद्धवर्चसः
मकुष्ठकाः कृमिकराः कलायाः प्रचुरानिलाः ३०
आढकी कफपित्तघ्नी नातिवातप्रकोपणी
वातलाः शीतमधुराः सकषाया विरूक्षणाः ३१
कफशोणितपित्तघ्नाश्चणकाः पुंस्त्वनाशनाः
त एव घृतसंयुक्तास्त्रिदोषशमनाः परम् ३२
हरेणवः सतीनाश्च विज्ञेया बद्धवर्चसः
ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारकाः ३३
माषो गुरुर्भिन्नपुरीषमूत्रः स्निग्धोष्णवृष्यो मधुरोऽनिलघ्नः
संतर्पणः स्तन्यकरो विशेषाद्बलप्रदः शुक्रकफावहश्च ३४
कषायभावान्न पुरीषभेदी न मूत्रलो नैव कफस्य कर्ता
स्वादुर्विपाके मधुरोऽलसान्द्रः संतर्पणः स्तन्यरुचिप्रदश्च ३५
माषैः समानं फलमात्मगुप्तमुक्तं च काकाण्डफलं तथैव
आरण्यमाषा गुणतः प्रदिष्टा रूक्षाः कषाया अविदाहिनश्च ३६
उष्णः कुलत्थो रसतः कषायः कटुर्विपाके कफमारुतघ्नः
शुक्राश्मरीगुल्मनिषूदनश्च सांग्राहिकः पीनसकासहन्ता ३७
आनाहमेदोगुदकीलहिक्काश्वासापहः शोणितपित्तकृच्च
कफस्य हन्ता नयनामयघ्नो विशेषतो वन्यकुलत्थ उक्तः ३८
ईषत्कषायो मधुरः सतिक्तः सांग्राहिकः पित्तकरस्तथोष्णः
तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणे लेपन एव पथ्यः ३९
दन्त्योऽग्निमेधाजननोऽल्पमूत्रस्त्वच्योऽथ केश्योऽनिलहा गुरुश्च
तिलेषु सर्वेष्वसितः प्रधानो मध्यः सितो हीनतरास्तथाऽन्ये ४०
यवः कषायो मधुरो हिमश्च कटुर्विपाके कफपित्तहारी
व्रणेषु पथ्यस्तिलवच्च नित्यं प्रबद्धमूत्रो बहुवातवर्चाः ४१
स्थैर्याग्निमेधास्वरवर्णकृच्च सपिच्छिलः स्थूलविलेखनश्च
मेदोमरुत्तृड्हरणोऽतिरूक्षः प्रसादनः शोणितपित्तयोश्च ४२
एभिर्गुणैर्हीनतरैस्तु किंचिद्विद्याद्यवेभ्योऽतियवानशेषैः
गोधूम उक्तो मधुरो गुरुश्च बल्यः स्थिरः शुक्ररुचिप्रदश्च ४३
स्निग्धोऽतिशीतोऽनिलपित्तहन्ता सन्धानकृच्छ्लेष्मकरः सरश्च
रूक्षः कषायो विषशोषशुक्रबलासदृष्टिक्षयकृद्विदाही ४४
कटुर्विपाके मधुरस्तु शिम्बः प्रभिन्नविण्मारुतपित्तलश्च
सितासिताः पीतकरक्तवर्णा भवन्ति येऽनेकविधास्तु शिम्बाः ४५
यथादितस्ते गुणतः प्रधाना ज्ञेयाः कटूष्णा रसपाकयोश्च
सहाद्वयं मूलकजाश्च शिम्बाः कुशिम्बिवल्लीप्रभवास्तु शिम्बाः ४६
ज्ञेया विपाके मधुरा रसे च बलप्रदाः पित्तनिबर्हणाश्च
विदाहवन्तश्च भृशं विरूक्षा विष्टभ्य जीर्यन्त्यनिलप्रदाश्च ४७
रुचिप्रदाश्चैव सुदुर्जराश्च सर्वे स्मृता वैदलिकास्तु शिम्बाः
कटुर्विपाके कटुकः कफघ्नो विदाहिभावादहितः कुसुम्भः ४८
उष्णाऽतसी स्वादुरसाऽनिलघ्नी पित्तोल्बणा स्यात् कटुका विपाके
पाके रसे चापि कटुः प्रदिष्टः सिद्धार्थकः शोणितपित्तकोपी ४९
तीक्ष्णोष्णरूक्षः कफमारुतघ्न स्तथागुणश्चासितसर्षपोऽपि
अनार्तवं व्याधिहतमपर्यागतमेव च
अभूमिजं नवं चापि न धान्यं गुणवत् स्मृतम् ५०
नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम्
विदाहि गुरु विष्टम्भि विरूढं दृष्टिदूषणम् ५१
शाल्यादेः सर्षपान्तस्य विविधस्यास्य भागशः
कालप्रमाणसंस्कारमात्राः संपरिकीर्तिताः ५२
इति कुधान्यवर्गः
अथ मांसवर्गः
अत ऊर्ध्वं मांसवर्गानुपदेक्ष्यामः तद्यथाजलेशया आनूपा ग्राम्याः क्रव्यभुज एकशफा जाङ्गलाश्चेति षण्मांसवर्गा भवन्ति एतेषां वर्गाणामुत्तरोत्तरा प्रधानतमाः ते पुनर्द्विविधा जाङ्गला आनूपाश्चेति तत्र जाङ्गलवर्गोऽष्टविधः तद्यथाजङ्घाला विष्किराः प्रतुदा गुहाशयाः प्रसहाः पर्णमृगा बिलेशया ग्राम्याश्चेति तेषां जङ्घालविष्किरौ प्रधानतमौ ५३
तावेणहरिणर्क्षकुरङ्गकरालकृतमालशरभश्वदंष्ट्रापृषतचारुष्करमृगमातृकाप्रभृतयो जङ्घाला मृगाः कषाया मधुरा लघवो वातपित्तहरास्तीक्ष्णा हृद्या बस्तिशोधनाश्च ५४
कषायमधुरो हृद्यः पित्तासृक्कफरोगहा
संग्राही रोचनो बल्यस्तेषामेणो ज्वरापहः ५५
मधुरो मधुरः पाके दोषघ्नोऽनलदीपनः
शीतलो बद्धविण्मूत्रः सुगन्धिर्हरिणो लघुः ५६
एणः कृष्णस्तयोर्ज्ञेयो हरिणस्ताम्र उच्यते
यो न कृष्णो न ताम्रश्च कुरङ्गः सोऽभिधीयते ५७
शीताऽसृक्पित्तशमनी विज्ञेया मृगमातृका
सन्निपातक्षयश्वासकासहिक्कारुचिप्रणुत् ५८
लावतित्तिरिकपिञ्जलवर्तीरवर्तिकावर्तकनप्तृकावार्तीकच कोरकलविङ्कमयू-रक्रकरोपचक्रकुक्कुटसारङ्गशतपत्रकुतित्तिरिकुरुवाहकयवालकप्रभृतयस्त्र्या हला विष्किराः ५९
लघवः शीतमधुराः कषाया दोषनाशनाः
संग्राही दीपनश्चैव कषायमधुरो लघुः
लावः कटुविपाकश्च सन्निपाते तु पूजितः ६०
ईंषद्गुरुष्णमधुरो वृष्यो मेधाग्निवर्धनः
तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः ६१
रक्तपित्तहरः शीतो लघुश्चापि कपिञ्जलः
कफोत्थेषु च रोगेषु मन्दवाते च शस्यते ६२
हिक्काश्वासानिलहरो विशेषाद्गौरतित्तिरिः
वातपित्तहरा वृष्या मेधाग्निबलवर्धनाः ६३
लघवः क्रकरा हृद्यास्तथा चैवोपचक्रकाः
कषायः स्वादुलवणस्त्वच्यः केश्योऽरुचौ हितः ६४
मयूरः स्वरमेधाग्निदृक्श्रोत्रेन्द्रि यदार्ढ्यकृत्
स्निग्धोष्णोऽनिलहा वृष्यः स्वेदस्वरबलावहः ६५
बृंहणः कुक्कुटो वन्यस्तद्वद्ग्राम्यो गुरुस्तु सः
वातरोगक्षयवमीविषमज्वरनाशनः ६६
कपोतपारावतभृङ्गराजपरभृतकोयष्टिककुलिङ्गगृहकुलिङ्गगोक्ष्वेडकडिण्डि-माणवकशतपत्रकमातृनिन्दकभेदाशिशुकसारिकावल्गुलीगिरिशालट्वालट्टूषक-सुगृहाखञ्जरीटहारीतदात्यूहप्रभृतयः प्रतुदाः ६७
कषायमधुरा रूक्षाः फलाहारा मरुत्कराः
पित्तश्लेष्महराः शीता बद्धमूत्राल्पवर्चसः ६८
सर्वदोषकरस्तेषां भेदाशी मलदूषकः
कषायस्वादुलवणो गुरुः काणकपोतकः ६९
रक्तपित्तप्रशमनः कषायविशदोऽपि च
विपाके मधुरश्चापि गुरुः पारावतः स्मृतः ७०
कुलिङ्गो मधुरः स्निग्धः कफशुक्रविवर्धनः
रक्तपित्तहरो वेश्मकुलिङ्गस्त्वतिशुक्रलः ७१
सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्जारशृगालमृगेर्वारुकप्रभृतयो गुहाशयाः ७२
मधुरा गुरवः स्निग्धा बल्या मारुतनाशनाः
उष्णवीर्या हिता नित्यं नेत्रगुह्यविकारिणाम् ७३
काककङ्ककुररचाषभासशशघात्युलूकचिल्लिश्येनगृध्रप्रभृतयः प्रसहाः ७४
एते सिंहादिभिः सर्वे समाना वायसादयः
रसवीर्यविपाकेषु विशेषाच्छोषिणे हिताः ७५
मद्गुमूषिकवृक्षशायिकावकुशपूतिघासवानरप्रभृतयः पर्णमृगाः ७६
मधुरा गुरवो वृष्याश्चक्षुष्याः शोषिणे हिताः
सृष्टमूत्रपुरीषाश्च कासार्शःश्वासनाशनाः ७७
श्वाविच्छल्यकगोधाशशवृषदंशलोपाकलोमशकर्णकदलीमृगप्रिंयकाजगर सर्प मूषिकनकुलमहाबभ्रुप्रभृतयो बिलेशयाः ७८
वर्चोमूत्रं संहतं कुर्युरेते वीर्ये चोष्णाः पूर्ववत् स्वादुपाकाः वातं हन्युः श्लेष्मपित्ते च कुर्युः स्निग्धाः कासश्वासकार्श्यापहाश्च ७९
कषायमधुरस्तेषां शशः पित्तकफापहः
नातिशीतलवीर्यत्वाद्वातसाधारणो मतः ८०
गोधा विपाके मधुरा कषायकटुका स्मृता
वातपित्तप्रशमनी बृंहणी बलवर्धनी ८१
शल्यकः स्वादुपित्तघ्नो लघुः शीतो विषापहः
प्रिंयको मारुते पथ्योऽजगरस्त्वर्शसां हितः ८२
दुर्नामानिलदोषघ्नाः कृमिदूषीविषापहाः
चक्षुष्या मधुराः पाके सर्पा मेधाग्निवर्धनाः ८३
दर्वीकरा दीपकाश्च तेषूक्ताः कटुपाकिनः
मधुराश्चातिचक्षुष्याः सृष्टविण्मूत्रमारुताः ८४
अश्वाश्वतरगोखरोष्ट्रबस्तोरभ्रमेदः पुच्छकप्रभृतयो ग्राम्याः ८५
ग्राम्या वातहराः सर्वे बृंहणाः कफपित्तलाः
मधुरा रसपाकाभ्यां दीपना बलवर्धनाः ८६
नातिशीतो गुरुः स्निग्धो मन्दपित्तकफः स्मृतः
छगलस्त्वनभिष्यन्दी तेषां पीनसनाशनः ८७
बृंहणं मांसमौरभ्रं पित्तश्लेष्मावहं गुरु
मेदःपुच्छोद्भवं वृष्यमौरभ्रसदृशं गुणैः ८८
श्वासकासप्रतिश्यायविषमज्वरनाशनम्
श्रमात्यग्निहितं गव्यं पवित्रमनिलापहम् ८९
औरभ्रवत्सलवणं मांसमेकशफोद्भवम्
अल्पाभिष्यन्द्ययं वर्गो जाङ्गलः समुदाहृतः ९०
दूरे जनान्तनिलया दूरे पानीयगोचराः
ये मृगाश्च विहङ्गाश्च तेऽल्पाभिष्यन्दिनो मताः ९१
अतीवासन्ननिलयाः समीपोदकगोचराः
ये मृगाश्च विहङ्गाश्च महाभिष्यन्दिनस्तु ते ९२
आनूपवर्गस्तु पञ्चविधः तद्यथाकूलचराः प्लवाः
कोषस्थाः पादिनो मत्स्याश्चेति ९३
तत्र गजगवयमहिषरुरुचमरसृमररोहितवराहखङ्गिगोकर्णकालपुच्छकोद्रन्यङ्क्वरण्य-गवयप्रभृतयः कूलचराः पशवः ९४
वातपित्तहरा वृष्या मधुरा रसपाकयोः
शीतला बलिनः स्निग्धा मूत्रलाः कफवर्धनाः ९५
विरूक्षणो लेखनश्च वीर्योष्णः पित्तदूषणः
स्वाद्वम्ललवणस्तेषां गजः श्लेष्मानिलापहः ९६
गवयस्य तु मांसं हि स्निग्धं मधुरकासजित्
विपाके मधुरं चापि व्यवायस्य तु वर्धनम् ९७
स्निग्धोष्णमधुरो वृष्यो महिषस्तर्पणो गुरुः
निद्रा पुंस्त्वबलस्तन्यवर्धनो मांसदार्ढ्यकृत् ९८
रुरोर्मांसं समधुरं कषायानुरसं स्मृतम्
वातपित्तोपशमनं गुरु शुक्रविवर्धनम् ९९
तथा चमरमांसं तु स्निग्धं मधुरकासजित्
विपाके मधुरं चापि वातपित्तप्रणाशनम् १००
सृमरस्य तु मांसं च कषायानुरसं स्मृतम्
वातपित्तोपशमनं गुरु शुक्रविवर्धनम् १०१
स्वेदनं बृंहणं वृष्यं शीतलं तर्पणं गुरु
श्रमानिलहरं स्निग्धं वाराहं बलवर्धनम् १०२
कफघ्नं खङ्गिपिशितं कषायमनिलापहम्
पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम् १०३
गोकर्णमांसं मधुरं स्निग्धं मृदु कफावहम्
विपाके मधुरं चापि रक्तपित्तविनाशनम् १०४
हंससारसक्रौञ्चचक्रवाककुररकादम्बकारण्डवजीवञ्जीवकबकबलाकापु-ण्डरीकप्लवशरारीमुखनन्दीमुखमद्गूत्क्रोशकाचाक्षमल्लिकाक्षशुक्लाक्षपु-ष्करशायिकाकोनालकाम्बुकुक्कुटिकामेघरावश्वेतवारलप्रभृतयः प्लवाः संघातचारिणः १०५
रक्तपित्तहराः शीताः स्निग्धा वृष्या मरुज्जितः
सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः १०६
गुरूष्णमधुरः स्निग्धः स्वरवर्णबलप्रदः
बृंहणः शुक्रलस्तेषां हंसो वातविकारनुत् १०७
शङ्खशङ्खनकशुक्तिशम्बूकभल्लूकप्रभृतयः कोशस्थाः १०८
कूर्मकुम्भीरकर्कटककृष्णकर्कटकशिशुमारप्रभृतयः पादिनः १०९
शङ्खकूर्मादयः स्वादुरसपाका मरुन्नुदः
शीताः स्निग्धा हिताः पित्ते वर्चस्याः श्लेष्मवर्धनाः ११०
कृष्णकर्कटकस्तेषां बल्यः कोष्णोऽनिलापहः
शुक्लः सन्धानकृत् सृष्टविण्मूत्रोऽनिलपित्तहा १११
मत्स्यास्तु द्विविधा नादेयाः सामुद्रा श्च ११२
तत्र नादेयाःरोहितपाठीनपाटलाराजीववर्मिगोमत्स्य
कृष्णमत्स्यवागुञ्जारमुरलसहस्रदंष्ट्रप्रभृतयः ११३
नादेया मधुरा मत्स्या गुरवो मारुतापहाः
रक्तपित्तकराश्चोष्णा वृष्याः स्निग्धाल्पवर्चसः ११४
कषायानुरसस्तेषां शष्पशैवालभोजनः
रोहितो मारुतहरो नात्यर्थं पित्तकोपनः ११५
पाठीनः श्लेष्मलो वृष्यो निद्रा लुः पिशिताशनः
दूषयेद्र क्तपित्तं तु कुष्ठरोगं करोत्यसौ
मुरलो बृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा ११६
सरस्तडागसंभूताः स्निग्धाः स्वादुरसाः स्मृताः
महाह्रदेषु बलिनः स्वल्पेऽम्भस्यबलाः स्मृताः ११७
तिमितिमिङ्गिलकुलिशपाकमत्स्यनिरुलनन्दिवारलकमकरगर्गकरचन्द्र कमहामीनराजीवप्रभृतयः सामुद्राः ११८
सामुद्रा गुरवः स्निग्धा मधुरा नातिपित्तलाः
उष्णा वातहरा वृष्या वर्चस्याः श्लेष्मवर्धनाः ११९
बलावहा विशेषेण मांसाशित्वात् समुद्र जाः
समुद्र जेभ्यो नादेया बृंहणत्वाद्गुणोत्तराः १२०
तेषामप्यनिलघ्नत्वाच्चौण्ट्यकौप्यौ गुणोत्तरौ
स्निग्धत्वात् स्वादुपाकत्वात्तयोर्वाप्यागुणाधिकाः १२१
नादेया गुरवो मध्ये यस्मात् पुच्छास्यचारिणः
सरस्तडागजानां तु विशेषेण शिरो लघु १२२
अदूरगोचरा यस्मात्तस्मादुत्सोदपानजाः
किंचिन्मुक्त्वा शिरोदेशमत्यर्थं गुरवस्तु ते १२३
अधस्ताद्गुरवो ज्ञेया मत्स्याः सागरसंभवाः
उरोविचरणात्तेषां पूर्वमङ्गं लघु स्मृतम् १२४
इत्यानूपो महाष्यन्दी मांसवर्ग उदीरितः १२५
तत्र शुष्कपूतिव्याधिविषसर्पहतदिग्धविद्धजीर्णकृशबा लानामसात्म्यचारिणां च मांसान्यभक्ष्याणि यस्माद्विगतव्यापन्ना पहतपरिणताल्पासंपूर्णवीर्यत्वाद्दोषकराणि भवन्ति एभ्योऽन्येषामुपादेयं मांसमिति १२६
अरोचकं प्रतिश्यायं गुरु शुष्कं प्रकीर्तितम्
विषव्याधिहतं मृत्युं बालं छर्दिं च कोपयेत् १२७
कासश्वासकरं वृद्धं त्रिदोषं व्याधिदूषितम्
क्लिन्नमुत्क्लेशजननं कृशं वातप्रकोपणम् १२८
स्त्रियश्चतुष्पात्सु पुमांसो विहङ्गेषु महाशरीरेष्वल्पशरीराः अल्पशरीरेषु महाशरीराः प्रधानतमाःएवमेकजातीयानां महाशरीरेभ्यः कृशशरीराः प्रधानतमाः १२९
स्थानादिकृतं मांसस्य गुरुलाघवमुपदेक्ष्यामः तथद्यारक्तादिषु शुक्रान्तेषु धातुषूत्तरोत्तरा गुरुतराः तथा सक्थिस्कन्धक्रोडशिरःपादकरकटीपृष्ठचर्मकलेयकयकृदन्त्राणि १३०
शिरः स्कन्धं कटी पृष्ठं सक्थिनी चात्मपक्षयोः
गुरु पूर्वं विजानीयाद्धातवस्तु यथोत्तरम् १३१
सर्वस्य प्राणिनो देहे मध्यो गुरुरुदाहृतः
पूर्वभागो गुरुः पुंसामधोभागस्तु योषिताम् १३२
उरोग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम्
पक्षोत्क्षेपात्समो दृष्टो मध्यभागस्तु पक्षिणाम् १३३
अतीव रूक्षं मांसं तु विहङ्गानां फलाशिनाम्
बृंहणं मांसमत्यर्थं खगानां पिशिताशिनाम् १३४
मत्स्याशिनां पित्तकरं वातघ्नं धान्यचारिनाम्
जलजानूपजा ग्राम्या क्रव्यादैकशफास्तथा १३५
प्रसहा बिलवासाश्च ये च जङ्घालसंज्ञिताः
प्रतुदा विष्किराश्चैव लघवः स्युर्यथोत्तरम्
अल्पाभिष्यन्दिनश्चैव यथापूर्वमतोऽन्यथा १३६
प्रमाणाधिकास्तु स्वजातावल्पसारा गुरवश्च सर्वप्राणिनां सर्वशरीरेभ्यः प्रधानतमा भवन्ति यकृत्प्रदेशवर्तिनस्तानाददीता प्रधानालाभे मध्यमवयस्कं सद्यस्कमक्लिष्टमुपादेयं मांसमिति १३७
भवति चात्र
चरः शरीरावयवाः स्वभावो धातवः क्रिया
लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते १३८
इति मांसवर्गः
अथ फलवर्गः
अत ऊर्ध्वं फलान्युपदेक्ष्यामः तद्यथादाडिमामलकबदरकोलकर्कन्धुसौ-वीरसिञ्चितिकाफलकपित्थमातुलुङ्गाम्राम्रा तक करमर्द प्रियालनारङ्गजम्बीरलकुचभव्यपारावतवेत्रफलप्राचीनामलकतिन्तिडीक नीपकोशाम्राम्लीकाप्रभृतीनि १३९
अम्लानि रसतः पाके गुरूण्युष्णानि वीर्यतः
पित्तलान्यनिलघ्नानि कफोत्क्लेशकराणि च १४०
कषायानुरसं तेषां दाडिमं नातिपित्तलम्
दीपनीयं रुचिकरं हृद्यं वर्चोविबन्धनम् १४१
द्विविधं तत्तु विज्ञेयं मधुरं चाम्लमेव च
त्रिदोषघ्नं तु मधुरमम्लं वातकफापहम् १४२
अम्लं समधुरं तिक्तं कषायं कटुकं सरम्
चक्षुष्यं सर्वदोषघ्नं वृष्यमामलकीफलम् १४३
हन्ति वातं तदम्लत्वात् पित्तं माधुर्यशैत्यतः
कफं रूक्षकषायत्वात् फलेभ्योऽभ्यधिकं च तत् १४४
कर्कन्धुकोलबदरमामं पित्तकफावहम्
पक्वं पित्तानिलहरं स्निग्धं समधुरं सरम् १४५
पुरातनं तृट्शमनं श्रमघ्नं दीपनं लघु
सौवीरं बदरं स्निग्धं मधुरं वातपित्तजित् १४६
कषायं स्वादु संग्राहि शीतं सिञ्चितिकाफलम्
आमं कपित्थमस्वर्यं कफघ्नं ग्राहि वातलम् १४७
कफानिलहरं पक्वं मधुराम्लरसं गुरु
श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोधनम् १४८
लघ्वम्लं दीपनं हृद्यं मातुलुङ्गमुदाहृतम्
त्वक् तिक्ता दुर्जरा तस्य वातक्रिमिकफापहा १४९
स्वादु शीतं गुरु स्निग्धं मांसं मारुतपित्तजित्
मेध्यं शूलानिलच्छर्दिकफारोचकनाशनम् १५०
दीपनं लघु संग्राहि गुल्मार्शोघ्नं तु केसरम्
शूलाजीर्णविबन्धेषु मन्देऽग्नौ कफमारुते १५१
अरुचौ च विशेषेण रसस्तस्योपदिश्यते
पित्तानिलकरं बालं पित्तलं बद्धकेसरम् १५२
हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम्
कषायानुरसं स्वादु वातघ्नं बृंहणं गुरु १५३
पित्ताविरोधि संपक्वमाम्रं शुक्रविवर्धनम्
बृंहणं मधुरं बल्यं गुरु विष्टभ्य जीर्यति १५४
आम्रातकफलं वृष्यं सस्नेहं श्लेष्मवर्धनम्
त्रिदोषविष्टम्भकरं लकुचं शुक्रनाशनम् १५५
अम्लं तृषापहं रुच्यं पित्तकृत् करमर्दकम्
वातपित्तहरं वृष्यं प्रियालं गुरु शीतलम् १५६
हृद्यं स्वादु कषायाम्लं भव्यमास्यविशोधनम्
पित्तश्लेष्महरं ग्राहि गुरु विष्टम्भि शीतलम् १५७
पारावतं समधुरं रुच्यमत्यग्निवातनुत्
गरदोषहरं नीपं प्राचीनामलकं तथा १५८
वातापहं तिन्तिडीकमामं पित्तबलासकृत्
ग्राह्युष्णं दीपनं रुच्यं संपक्वं कफवातनुत् १५९
तस्मादल्पान्तरगुणं कोशाम्रफलमुच्यते
अम्लीकायाः फलं पक्वं तद्वद्भेदि तु केवलम् १६०
अम्लं समधुरं हृद्यं विशदं भक्तरोचनम्
वातघ्नं दुर्जरं प्रोक्तं नारङ्गस्य फलं गुरु १६१
तृष्णाशूलकफोत्क्लेशच्छर्दिश्वासनिवारणम्
वातश्लेष्मविबन्धघ्नं जम्बीरं गुरु पित्तकृत्
एरावतं दन्तशठमम्लं शोणितपित्तकृत् १६२
क्षीरवृक्षफलजाम्बवराजादनतोदनशीतफलतिन्दुकबकुलधन्वनाश्मन्तका श्वकर्णफल्गुपरूषकगाङ्गेरुकीपुष्करवर्तिबिल्वबिम्बीप्रभृतीनि १६३
फलान्येतानि शीतानि कफपित्तहराणि च
स्रंगाहकाणि रूक्षाणि कषायमधुराणि च १६४
क्षीरवृक्षफलं तेषां गुरु विष्टम्भि शीतलम्
कषायं मधुरं साम्लं नातिमारुतकोपनम् १६५
अत्यर्थं वातलं ग्राहि जाम्बवं कफपित्तजित्
स्निग्धं स्वादु कषायं च राजादनफलं गुरु १६६
कषायं मधुरं रूक्षं तोदनं कफवातजित्
अम्लोष्णं लघु संग्राहि स्निग्धं पित्ताग्निवर्धनम् १६७
आमं कषायं संग्राहि तिन्दुकं वातकोपनम्
विपाके गुरु संपक्वं मधुरं कफपित्तजित् १६८
मधुरं च कषायं च स्निग्धं संग्राहि बाकुलम्
स्थिरीकरं च दन्तानां विशदं फलमुच्यते १६९
सकषायं हिमं स्वादु धान्वनं कफवातजित्
तद्वद्गाङ्गेरुकं विद्यादश्मन्तकफलानि च १७०
विष्टम्भि मधुरं स्निग्धं फल्गुजं तर्पणं गुरु
अत्यम्लमीषन्मधुरं कषायानुरसं लघु १७१
वातघ्नं पित्तजनमामं विद्यात् परुषकम्
तदेव पक्वं मधुरं वातपित्तनिबर्हणम् १७२
विपाके मधुरं शीतं रक्तपित्तप्रसादनम्
पौष्करं स्वादु विष्टम्भि बल्यं कफकरं फलम् १७३
कफानिलहरं तीक्ष्णं स्निग्धं संग्राहि दीपनम्
कटुतिक्तकषायोष्णं बालं बिल्वमुदाहृतम् १७४
विद्यात्तदेव संपक्वं मधुरानुरसं गुरु
विदाहि विष्टम्भकरं दोषकृत् पूतिमारुतम् १७५
बिम्बीफलं साश्वकर्णं स्तन्यकृत् कफपित्तजित्
तृड्दाहज्वरपित्तासृक्कासश्वासक्षयापहम् १७६
तालनालिकेरपनसमोचप्रभृतीनि १७७
स्वादुपाकरसान्याहुर्वातपित्तहाणि च
बलप्रदानि स्निग्धानि बृंहणानि हिमानि च १७८
फलं स्वादुरसं तेषां तालजं गुरु पित्तजित्
तद्बीजं स्वादुपाकं तु मूत्रलं वातपित्तजित् १७९
नालिकेरं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम्
बलमांसप्रदं हृद्यं बृंहणं बस्तिशोधनम् १८०
पनसं सकषायं तु स्निग्धं स्वादुरसं गुरु
मौचं स्वादुरसं प्रोक्तं कषायं नातिशीतलम्
रक्तपित्तहरं वृष्यं रुच्यं श्लेष्मकरं गुरु १८१
द्रा क्षाकाश्मर्यमधूकपुष्पखर्जूरप्रभृतीनि १८२
रक्तपित्तहराण्याहुर्गुरूणि मधुराणि च
तेषां द्रा क्षा सरा स्वर्या मधुरा स्निग्धशीतला १८३
रक्तपित्तज्वरश्वासतृष्णादाहक्षयापहा
हृद्यं मूत्रविबन्धघ्नं पित्तासृग्वातनाशनम् १८४
केश्यं रसायनं मेध्यं काश्मर्यं फलमुच्यते
क्षतक्षयापहं हृद्यं शीतलं तर्पणं गुरु १८५
रसे पाके च मधुरं खार्जूरं रक्तपित्तनुत्
बृंहणीयमहृद्यं च मधूककुसुमं गुरु
वातपित्तोपशमनं फलं तस्योपदिश्यते १८६
वातामाक्षोडाभिषुकनिचुलपिचुनिकोचकोरुमाणप्रभृतीनि १८७
पित्तश्लेष्महराण्याहुः स्निग्धोष्णानि गुरूणि च
बृंहणान्यनिलघ्नानि बल्यानि मधुराणि च १८८
कषायं कफपित्तघ्नं किंचित्तिक्तं रुचिप्रदम्
हृद्यं सुगन्धि विशदं लवलीफलमुच्यते १८९
वसिरं शीतपाक्यं च सारुष्करनिबन्धनम्
विष्टम्भि दुर्जरं रूक्षं शीतलं वातकोपनम् १९०
विपाके मधुरं चापि रक्तपित्तप्रसादनन्
एरावतं दन्तशठमम्लं शोणितपित्तकृत् १९१
शीतं कषायं मधुरं टङ्कं मारुतकृद्गुरु
स्निग्धोष्णं तिक्तमधुरं वातश्लेष्मघ्नमैङ्गुदम् १९२
शमीफलं गुरु स्वादु रूक्षोष्णं केशनाशनम्
गुरु श्लेष्मातकफलं कफकृन्मधुरं हिमम् १९३
करीराक्षिकपीलूनि तृणशून्यफलानि च
स्वादुतिक्तकटूष्णानि कफवातहराणि च १९४
तिक्तं पित्तकरं तेषां सरं कटुविपाकि च
तीक्ष्णोष्णं कटुकं पीलु सस्नेहं कफवातजित् १९५
आरुष्करं तौवरकं कषायं कटुपाकि च
उष्णं कृमिज्वरानाहमेहोदावर्तनाशनम्
कुष्ठगुल्मोदरार्शोघ्नं कटुपाकि तथैव च १९६
करञ्जकिंशुकारिष्टफलं जन्तुप्रमेहनुत्
अङ्कोलस्य फलं विस्रं गुरु श्लेष्महरं हिमम् १९७
रूक्षोष्णं कटुकं पाके लघु वातकफापहम्
तिक्तमीषद्विषहितं विडङ्गं कृमिनाशनम् १९८
व्रण्यमुष्णं सरं मेध्यं दोषघ्नं शोफकुष्ठनुत्
कषायं दीपनं चाम्लं चक्षुष्यं चाभयाफलम् १९९
भेदनं लघु रूक्षोष्णं वैस्वर्यक्रिमिनाशनम्
चक्षुष्यं स्वादुपाक्याक्षं कषायं कफपित्तजित् २००
कफपित्तहरं रूक्षं वक्त्रक्लेदमलापहम्
कषायमीषन्मधुरं किंचित् पूगफलं सरम् २०१
जातीकोशोऽथ कर्पूरं जातीकटुकयोः फलम्
कक्कोलकं लवङ्गं च तिक्तं कटु कफापहम् २०२
लघु तृष्णापहं वक्त्रक्लेददौर्गन्ध्यनाशनम्
सतिक्तः सुरभिः शीतः कर्पूरो लघु लेखनः २०३
तृष्णायां मुखशोषे च वैरस्ये चापि पूजितः
लताकस्तूरिका तद्वच्छीता बस्तिविशोधनी २०४
प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः
बैभीतको मदकरः कफमारुतनाशनः २०५
कषायमधुरो मज्जा कोलानां पित्तनाशनः
तृष्णाच्छर्द्यनिलघ्नश्च तद्वदामलकस्य च २०६
बीजपूरकशम्याकमज्जा कोशाम्रसंभवः
स्वादुपाकोऽग्निबलदः स्निग्धः पित्तानिलापहः २०७
यस्य यस्य फलस्येह वीर्यं भवति यादृशम्
तस्य तस्यैव वीर्येण मज्जानमपि निर्दिशेत् २०८
फलेषु परिपक्वं यद्गुणवत्तदुदाहृतम्
बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणोत्तरम्
ग्राह्युष्णं दीपनं तद्धि कषायकटुतिक्तकम् २०९
व्याधितं कृमिजुष्टं च पाकातीतमकालजम्
वर्जनीयं फलं सर्वमपर्यागतमेव च २१०
इति फलवर्गः
अथ शाकवर्गः
शाकान्यत ऊर्ध्वं वक्ष्यामः
तत्र पुष्पफलालाबुकालिन्दकप्रभृतीनि २११
पित्तघ्नान्यनिलं कुर्युस्तथा मन्दकफानि च
सृष्टमूत्रपुरीषाणि स्वादुपाकरसानि च २१२
पित्तघ्नं तेषु कूष्माण्डं बालं मध्यं कफावहम्
शुक्लं लघूष्णं सक्षारं दीपनं बस्तिशोधनम् २१३
सर्वदोषहरं हृद्यं पथ्यं चेतोविकारिणाम्
दृष्टिशुक्रक्षयकरं कालिन्दं कफवातकृत् २१४
अलाबुर्भिन्नविट्का तु रूक्षा गुर्व्यतिशीतला
तिक्तालाबुरहृद्या तु वामिनी वातपित्तजित् २१५
त्रपुसैर्वारुकर्कारुकशीर्णवृन्तप्रभृतीनि २१६
स्वादुतिक्तरसान्याहुः कफवातकराणि च
सृष्टमूत्रपुरीषाणि रक्तपित्तहराणि च २१७
बालं सनीलं त्रपुसं तेषां पित्तहरं स्मृतम्
तत्पाण्डु कफकृज्जीर्णमम्लं वातकफापहम् २१८
एर्वारुकं सकर्कारु संपक्वं कफवातकृत्
सक्षारं मधुरं रुच्यं दीपनं नातिपित्तलम् २१९
सक्षारं मधुरं चैव शीर्णवृन्तं कफापहम्
भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघु २२०
पिप्पलीमरिचशृङ्गवेरार्द्र कहिङ्गुजीरककुस्तुम्बुरुजम्बीरसुमुखसुरसार्जकभूस्तृणसुगन्धककासमर्दककालमालकु-ठेरकक्षवकखरपुष्पशिग्रुमधुशिग्रुफणिज्झकसर्षपराजिकाकुलाहलावगुत्थगण्डीरतिल-पर्णिकावर्षाभूचित्रकमूलकलशुनकलायपलाण्डुप्रभृतीनि २२१
कटून्युष्णानि रुच्यानि वातश्लेष्महराणि च
कृतान्नेषूपयुज्यन्ते संस्कारार्थमनेकधा २२२
तेषां गुर्वी स्वादुशीता पिप्पल्यार्द्रा कफावहा
शुष्का कफानिलघ्नी सा वृष्या पित्ताविरोधिनी २२३
स्वादुपाक्यार्द्र मरिचं गुरु श्लेष्मप्रसेकि च
कटूष्णं लघु तच्छुष्कमवृष्यं कफवातजित् २२४
नात्युष्णं नातिशीतं च वीर्यतो मरिचं सितम्
गुणवन्मरिचेभ्यश्च चक्षुष्यं च विशेषतः २२५
नागरं कफवातघ्नं विपाके मधुरं कटु
वृष्योष्णं रोचनं हृद्यं सस्नेहं लघु दीपनम् २२६
कफानिलहरं स्वर्यं विबन्धानाहशूलनुत्
कटूष्णं रोचनं हृद्यं वृष्यं चैवार्द्र कं स्मृतम् २२७
लघूष्णं पाचनं हिङ्गु दीपनं कफवातजित्
कटु स्निग्धं सरं तीक्ष्णं शूलाजीर्णविबन्धनुत् २२८
तीक्ष्णोष्णं कटुकं पाके रुच्यं पित्ताग्निवर्धनम्
कटु श्लेष्मानिलहरं गन्धाढ्यं जीरकद्वयम् २२९
कारवी करवी तद्वद्विज्ञेया सोपकुञ्चिका
भक्ष्यव्यञ्जनभोज्येषु विविधेष्ववचारिता २३०
आर्द्रा कुस्तुम्बरी कुर्यात् स्वादुसौगन्ध्यहृद्यताम्
सा शुष्का मधुरा पाके स्निग्धा तृड्दाहनाशनी २३१
दोषघ्नी कटुका किंचित् तिक्ता स्रोतोविशोधनी
जम्बीरः पाचनस्तीक्ष्णः कृमिवातकफापहः २३२
सुरभिर्दीपनो रुच्यो मुखवैशद्यकारकः
कफानिलविषश्वासकासदौर्गन्ध्यनाशनः २३३
पित्तकृत् पार्श्वशूलघ्नः सुरसः समुदाहृतः
तद्वत्तु सुमुखो ज्ञेयो विशेषाद्गरनाशनः २३४
कफघ्ना लघवो रूक्षास्तीक्ष्णोष्णाः पित्तवर्धनाः
कटुपाकरसाश्चैव सुरसार्जकभूस्तृणाः २३५
मधुरः कफवातघ्नः पाचनः कण्ठशोधनः
विशेषतः पित्तहरः सतिक्तः कासमर्दकः २३६
कटुः सक्षारमधुरः शिग्रुस्तिक्तोऽथ पिच्छिलः
मधुशिग्रुः सरस्तिक्तः शोफघ्नो दीपनः कटुः २३७
विदाहि बद्धविण्मूत्रं रूक्षं तीक्ष्णोष्णमेव च
त्रिदोषं सार्षपं शाकं गाण्डीरं वेगनाम च २३८
चित्रकस्तिलपर्णी च कफशोफहरे लघू
वर्षाभूः कफवातघ्नी हिता शोफोदरार्शसाम् २३९
कटुतिक्तरसा हृद्या रोचनी वह्निदीपनी
सर्वदोषहरा लघ्वी कण्ठ्या मूलकपोतिका २४०
महत्तद्गुरु विष्टम्भि तीक्ष्णमामं त्रिदोषकृत्
तदेव स्नेहसिद्धं तु पित्तनुत् कफवातजित् २४१
त्रिदोषशमनं शुष्कं विषदोषहरं लघु
विष्टम्भि वातलं शाकं शुष्कमन्यत्र मूलकात् २४२
पुष्पं च पत्रं च फलं तथैव यथोत्तरं ते गुरवः प्रदिष्टाः
तेषां तु पुष्पं कफपित्तहन्तृ फलं निहन्यात् कफमारुतौ तु २४३
स्निग्धोष्णतीक्ष्णः कटुपिच्छिलश्च गुरुः सरः स्वादुरसश्च बल्यः
वृष्यश्च मेधास्वरवर्णचक्षुर्भग्नास्थिसन्धानकरो रसोनः २४४
हृद्रो गजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान्
दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति २४५
नात्युष्णवीर्योऽनिलहा कटुश्च तीक्ष्णो गुरुर्नातिकफावहश्च
बलावहः पित्तकरोऽथ किंचित् पलाण्डुरग्निं च विवर्धयेत्तु २४६
स्निग्धो रुचिष्यः स्थिरधातुकारी बल्योऽथ मेधाकफपुष्टिदश्च
स्वादुर्गुरुः शोणितपित्तशस्तः सपिच्छिलः क्षीरपलाण्डुरुक्तः २४७
कलायशाकं पितघ्नं कफघ्नं वातलं गुरु
कषायानुरसं चैव विपाके मधुरं च तत् २४८
जन्तुघ्नचुच्चूयूथिकातरुणीजीवन्तीबिम्बीतिकानदीभल्लातकच्छगलान्त्रीवृक्षादनी-फञ्जीशाल्मलीशेलुवनस्पतिप्रसवशणकर्बुदारकोविदारप्रभृतीनि २४९
कषायस्वादुतिक्तानि रक्तपित्तहराणि च
कफघ्नान्यनिलं कुर्युः स्रंगाहीणि लघूनि च २५०
लघुः पाके च जन्तुघ्नः पिच्छिलो व्रणिनां हितः
कषायमधुरो ग्राही चुच्चूस्तेषां त्रिदोषहा २५१
चक्षुष्या सर्वदोषघ्नी जीवन्ती समुदाहृता
वृक्षादनी वातहरा फञ्जी त्वल्पबला मता २५२
क्षीरवृक्षोत्पलादीनां कषायाः पल्लवाः स्मृताः
शीताः संग्राहिणः शस्ता रक्तपित्तातिसारिणाम् २५३
पुनर्नवावरुणतर्कार्युरुबूकवत्सादनीबिल्वशाकप्रभृतीनि २५४
उष्णानि स्वादुतिक्तानि वातप्रशमनानि च
तेषु पौनर्नवं शाकं विशेषाच्छोफनाशनम् २५५
तण्डुलीयकोपोदकाऽश्वबलाचिल्लीपालङ्क्यावास्तूकप्रभृतीनि २५६
सृष्टमूत्रपुरीषाणि सक्षारमधुराणि च
मन्दवातकफान्याहू रक्तपित्तहराणि च २५७
मधुरो रसपाकाभ्यां रक्तपित्तमदापहः
तेषां शीततमो रूक्षस्तण्डुलीयो विषापहः २५८
स्वादुपाकरसा वृष्या वातपित्तमदापहा
उपोदका सरा स्निग्धा बल्या श्लेष्मकरी हिमा २५९
कटुर्विपाके कृमिहा मेधाग्निबलवर्धनः
सक्षारः सर्वदोषघ्नो वास्तूको रोचनः सरः २६०
चिल्ली वास्तूकवज्ज्ञेया पालङ्क्या तण्डुलीयवत्
वातकृद्बद्धविण्मूत्रा रूक्षा पित्तकफे हिता
शाकमाश्वबलं रूक्षं बद्धविण्मूत्रमारुतम् २६१
मण्डूकपर्णीसप्तलासुनिषण्णकसुवर्चलापिप्पलीगुडूचीगोजिह्वा काकमाची-पपुन्नाडावल्गुजसतीनबृहतीकण्टकारिका फलपटोलवार्ताककारवेल्लक-कटुकिकाकेबुकोरुबूकपर्पटककिराततिक्तकर्कोटकारिष्टकोशातकीवेत्रकरी-राटरूषकार्कपुष्पीप्रभृतीनि २६२
रक्तपित्तहराण्याहुर्हृद्यानि सुलघूनि च
कुष्ठमेहज्वरश्वासकासारुचिहराणि च २६३
कषाया तु हिता पित्ते स्वादुपाकरसा हिमा
लघ्वी मण्डूकपर्णी तु तद्वद्गोजिह्विका मता २६४
अविदाही त्रिदोषघ्नः संग्राही सुनिषण्णकः
अवल्गुजः कटुः पाके तिक्तः पित्तकफापहः २६५
ईषत्तिक्तं त्रिदोषघ्नं शाकं कटु सतीनजम्
नात्युष्णशीतं कुष्ठघ्नं काकमाच्यास्तु तद्विधम् २६६
कण्डूकुष्ठकृमिघ्नानि कफवातहराणि च
फलानि बृहतीनां तु कटुतिक्तलघूनि च २६७
कफपित्तहरं व्रण्यमुष्णं तिक्तमवातलम्
पटोलं कटुकं पाके वृष्यं रोचनदीपनम् २६८
कफवातहरं तिक्तं रोचनं कटुकं लघु
वार्ताकं दीपनं प्रोक्तं जीर्णं सक्षारपित्तलम्
तद्वत् कर्कोटकं विद्यात् कारवेल्लकमेव च २६९
आटरूषकवेत्राग्रगुडूचीनिम्बपर्पटाः
किराततिक्तसहितास्तिक्ताः पित्तकफापहाः २७०
कफापहं शाकमुक्तं वरुणप्रपुनाडयोः
रूक्षं लघु च शीतं च वातपित्तप्रकोपणम् २७१
दीपनं कालशाकं तु गरदोषहरं कटु
कौसुम्भं मधुरं रूक्षमुष्णं श्लेष्महरं लघु २७२
वातलं नालिकाशाकं पित्तघ्नं मधुरं च तत्
ग्रहण्यर्शोविकारघ्नी साम्ला वातकफे हिता
उष्णा कषायमधुरा चाङ्गेरी चाग्निदीपनी २७३
लोणिकाजातुकत्रिपर्णिकापत्तूरजीवकसुवर्चलाडुडुरककुतुम्बककुठिञ्जरकुन्तलिकाकु-रण्टिकाप्रभृतयः २७४
स्वादुपाकरसाः शीताः कफघ्ना नातिपित्तलाः
लवणानुरसा रूक्षाः सक्षारा वातलाः सराः २७५
स्वादुतिक्ता कुन्तलिका कषाया सकुरण्टिका
संग्राहि शीतलं चापि लघु दोषापहं तथा
राजक्षवकशाकं तु शटीशाकं च तद्विधम् २७६
स्वादुपाकरसं शाकं दुर्जरं हरिमन्थजम्
भेदनं मधुरं रूक्षं कालायमतिवातलम् २७७
स्रंसनं कटुकं पाके लघु वातकफापहम्
शोफघ्नमुष्णवीर्यं च पत्रं पूतिकरञ्जजम् २७८
ताम्बूलपत्रं तीक्ष्णोष्णं कटु पित्तप्रकोपणम्
सुगन्धि विशदं तिक्तं स्वर्यं वातकफापहम् २७९
स्रंसनं कटुकं पाके कषायं वह्निदीपनम्
वक्त्रकण्डूमलक्लेददौर्गन्ध्यादिविशोधनम् २८०
अथ पुष्पवर्गः
कोविदारशणशाल्मलीपुष्पाणि मधुराणि मधुर विपाकानि रक्तपित्तहराणि च वृषागस्त्ययोः पुष्पाणि तिक्तानि कटुविपाकानि क्षयकासापहानि च २८१
आगस्त्यं नातिशीतोष्णं नक्तान्धानां प्रशस्यते २८२
करीरकुसुमानि कटुविपाकानि वातहराणि सृष्टमूत्रपुरीषाणि च २८३
रक्तवृक्षस्य निम्बस्य मुष्ककार्कासनस्य च
कफपित्तहरं पुष्पं कुष्ठघ्नं कुटजस्य च २८४
सतिक्तं मधुरं शीतं पद्मं पित्तकफापहम्
मधुरं पिच्छिलं स्निग्धं कुमुदं ह्लादि शीतलम्
तस्मादल्पान्तरगुणे विद्यात् कुवलयोत्पले २८५
सिन्धुवारं विजानीयाद्धिमं पित्तविनाशनम्
मालतीमल्लिके तिक्ते सौरभ्यात् पित्तनाशने २८६
सुगन्धि विशदं हृद्यं बाकुलं पाटलानि च
श्लेष्मपित्तविषघ्नं तु नागं तद्वच्च कुङ्कुमम् २८७
चम्पकं रक्तपित्तघ्नं शीतोष्णं कफनाशनम्
किंशुकं कफपित्तघ्नं तद्वदेव कुरण्टकम् २८८
यथावृक्षं विजानीयात् पुष्पं वृक्षोचितं तथा
मधुशिग्रुकरीराणि कटूनि श्लेष्महराणि च २८९
क्षवककुलेवरवंशकरीरप्रभृतीनि कफकराणि सृष्टमूत्रपुरीषाणि च २९०
क्षवकं कृमिलं तेषु स्वादुपाकं सपिच्छलम्
विस्यन्दि वातलं नातिपित्तश्लेष्मकरं च तत् २९१
वेणोः करीराः कफला मधुरा रसपाकतः
विदाहिनो वातकराः सकषाया विरूक्षणाः २९२
उद्भिदानि पलालेक्षुकरीषवेणुक्षितिजानि तत्र पलालजातं मधुरं मधुरविपाकं रूक्षं दोषप्रशमनं च इक्षुजं मधुरं कषायानुरसं कटुपाकं शीतलं च तद्वदेवोष्णं कारीषं कषायं वातकोपनं च वेणुजातं कषायं वातकोपनं च भूमिजं गुरु नातिवातलं भूमितश्चास्यानुरसः २९३
पिण्याकतिलकल्कस्थूणिकाशुष्कशाकानि सर्वदोषप्रकोपणानि २९४
विष्टम्भिनः स्मृताः सर्वे वटका वातकोपनाः
सिण्डाकी वातला सार्द्रा रुचिष्याऽनलदीपनी २९५
विड्भेदि गुरु रूक्षं च प्रायो विष्टम्भि दुर्जरम्
सकषायं च सर्वं हि स्वादु शाकमुदाहृतम्
पुष्पं पत्रं फलं नालं कन्दाश्च गुरवः क्रमात् २९६
कर्कशं परिजीर्णं च कृमिजुष्टमदेशजम्
वर्जयेत् पत्रशाकं तद्यदकालविरोहि च २९७
अथ कन्दवर्गः
कन्दानत ऊर्ध्वं वक्ष्यामः विदारीकन्दशतावरीबिसमृणालशृङ्गाटककशेरुकपिण्डालुकमध्वालुक-हस्त्यालुककाष्ठालुकशङ्खा लुकरक्तालुकेन्दीवरोत्पलकन्दप्रभृतीनि २९८
रक्तपित्तहराण्याहुः शीतानि मधुराणि च
गुरूणि बहुशुक्राणि स्तन्यवृद्धिकराणि च २९९
मधुरो बृंहणो वृष्यः शीतः स्वर्योऽतिमूत्रलः
विदारीकन्दो बल्यश्च पित्तवातहरश्च सः ३००
वातपित्तहरी वृष्या स्वादुतिक्ता शतावरी
महती चैव हृद्या च मेधाग्निबलवर्धिनी ३०१
ग्रहण्यर्शोविकारघ्नी वृष्या शीता रसायनी
कफपित्तहरास्तिक्तास्तस्या एवाङ्कुराः स्मृताः ३०२
अविदाहि बिसं प्रोक्तं रक्तपित्तप्रसादनम्
विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् ३०३
गुरू विष्टम्भिशीतौ च शृङ्गाटककशेरुकौ
पिण्डालुकं कफकरं गुरु वातप्रकोपणम् ३०४
सुरेन्द्र कन्दः श्लेष्मघ्नो विपाके कटु पित्तकृत्
वेणोः करीरा गुरवः कफमारुतकोपनाः ३०५
स्थूलसूरणमाणकप्रभृतयः कन्दा ईषत्कषायाः कटुका रूक्षा
विष्टम्भिनो गुरवः कफवातलाः पित्तहराश्च ३०६
मानणिकिं स्वादु शीतं च गुरु चापि प्रकीर्तितम्
स्थूलकन्दस्तु नात्युष्णः सूरणो गुदकीलहा ३०७
कुमुदोत्पलपद्मानां कन्दा मारुतकोपनाः
कषायाः पित्तशमना विपाके मधुरा हिमाः ३०८
वराहकन्दः श्लेष्मघ्नः कटुको रसपाकतः
मेहकुष्ठकृमिहरो बल्यो वृष्यो रसायनः ३०९
तालनारिकेलखर्जूरप्रभृतीनां मस्तकमज्जानः ३१०
स्वादुपाकरसानाहू रक्तपित्तहरांस्तथा
शुक्रलाननिलघ्नांश्च कफवृद्धिकरानपि ३११
बालं ह्यनार्तवं जीर्णं व्याधितं क्रिमिभक्षितम्
कन्दं विवर्जयेत् सर्वं यो वा सम्यङ्न रोहति ३१२
अथ लवणवर्गः
अथ लवणानिसैन्धवसामुद्र विडसौवर्चलरोमकौद्भिदप्रभृतीनि यथोत्तरमुष्णानि वातहराणि कफपित्तकराणिकटुपाकीनि यथापूर्वं स्निग्धानि स्वादूनि सृष्टमूत्रपुरीषाणि चेति ३१३
चक्षुष्यं सैन्धवं हृद्यं रुच्यं लघ्वग्निदीपनम्
स्निग्धं समधुरं वृष्यं शीतं दोषघ्नमुत्तमम् ३१४
सामुद्रं मधुरं पाके नात्युष्णमविदाहि च
भेदनं स्निग्धमीषच्च शूलघ्नं नातिपित्तलम् ३१५
सक्षारं दीपनं सूक्ष्मं शूलहृद्रो गनाशनम्
रोचनं तीक्ष्णमुष्णं च विडं वातानुलोमनम् ३१६
लघु सौवर्चलं पाके वीर्योष्णं विशदं कटु
गुल्मशूलविबन्धघ्नं हृद्यं सुरभि रोचनम् ३१७
रोमकं तीक्ष्णमत्युष्णं व्यवायि कटुपाकि च
वातघ्नं लघुविस्यन्दि सूक्ष्मं विड्भेदि मूत्रलम् ३१८
लघु तीक्ष्णोष्णमुत्क्लेदि सूक्ष्मं वातानुलोमनम्
सतिक्तं कटु सक्षारं विद्याल्लवणमौद्भिदम् ३१९
कफवातक्रिमिघ्नं च लेखनं पित्तकोपनम्
दीपनं पाचनं भेदि लवणं गुटिकाह्वयम् ३२०
ऊषसूतं वालुकैलं शैलमूलाकरोद्भवम्
लवणं कटुकं छेदि विहितं कटु चोच्यते ३२१
यवक्षारस्वर्जिकाक्षारोषक्षारपाकिमटङ्कणक्षारप्रभृतयः
गुल्मार्शोग्रहणीदोषशर्कराश्मरिनाशनाः
क्षारास्तु पाचनाः सर्वे रक्तपित्तकराः सराः ३२२
ज्ञेयौ वह्निसमौ क्षारौ स्वर्जिकायावशूकजौ
शुक्रश्लेष्मविबन्धार्शोगुल्मप्लीहविनाशनौ ३२३
उष्णोऽनिलघ्नः प्रक्लेदी चोषक्षारो बलापहः
मेदोघ्नः पाकिमः क्षारस्तेषां बस्तिविशोधनः ३२४
विरूक्षणोऽनिलकरः श्लेष्मघ्नः पित्तदूषणः
अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणः क्षार उच्यते ३२५
सुवर्णं स्वादु हृद्यं च बृंहणीयं रसायनम्
दोषत्रयापहं शीतं चक्षुष्यं विषसूदनम् ३२६
रूप्यमम्लं सरं शीतं सस्नेहं पित्तवातनुत्
ताम्रं कषायं मधुरं लेखनं शीतलं सरम् ३२७
सतिक्तं लेखनं कांस्यं चक्षुष्यं कफवातजित्
वातकृच्छीतलं लोहं तृष्णापित्तकफापहम् ३२८
कटु क्रिमिघ्नं लवणं त्रपु सीसं च लेखनम्
मुक्ताविद्रुमवज्रेन्द्र वैदूर्यस्फटिकादयः ३२९
चक्षुष्या मणयः शीता लेखना विषसूदनाः
पवित्रा धारणीयाश्च पाप्मालक्ष्मीमलापहाः ३३०
इति लवणादिवर्गः
धान्येषु मांसेषु फलेषु चैव शाकेषु चानुक्तमिहाप्रमेयात्
आस्वादतो भूतगुणैश्च मत्वा तदादिशेद्द्र व्यमनल्पबुद्धिः ३३१
षष्टिका यवगोधूमा लोहिता ये च शालयः
मुद्गाढकीमसूराश्च धान्येषु प्रवराः स्मृताः ३३२
लावतित्तिरिसारङ्गकुरङ्गैणकपिञ्जलाः
मयूरवर्मिकूर्माश्च श्रेष्ठा मांसगणेष्विह ३३३
दाडिमामलकं द्रा क्षा खर्जूरं सपरूषकम्
राजादनं मातुलुङ्गं फलवर्गे प्रशस्यते ३३४
सतीनो वास्तुकश्चुच्चूचिल्लीमूलकपोतिकाः
मण्डूकपर्णी जीवन्ती शाकवर्गे प्रशस्यते ३३५
गव्यं क्षीरं घृतं श्रेष्ठं सैन्धवं लवणेषु च
धात्रीदाडिममम्लेषु पिप्पली नागरं कटौ ३३६
तिक्ते पटोलवार्ताकं मधुरे घृतमुच्यते
क्षौद्रं पूगफलं श्रेष्ठं कषाये सपरूषकम् ३३७
शर्करेक्षुविकारेषु पाने मध्वासवौ तथा
परिसंवत्सरं धान्यं मांसं वयसि मध्यमे ३३८
अपर्युषितमन्नं तु संस्कृतं मात्रया शुभम्
फलं पर्यागतं शाकमशुष्कं तरुणं नवम् ३३९
अथ कृतान्नवर्गः
अतः परं प्रवक्ष्यामि कृतान्नगुणविस्तरम्
लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः ३४०
वातानुलोमनो हृद्यः पिप्पलीनागरायुतः
स्वेदाग्निजननी लघ्वी दीपनी बस्तिशोधनी ३४१
क्षुत्तृट्श्रमग्लानिहरी पेया वातानुलोमनी
विलेपी तर्पणी हृद्या ग्राहिणी बलवर्धनी ३४२
पथ्या स्वादुरसा लघ्वी दीपनी क्षुत्तृषापहा
हृद्या संतर्पणी वृष्या बृंहणी बलवर्धनी ३४३
शाकमांसफलैर्युक्ता विलेप्यम्ला च दुर्जरा
सिक्थैर्विरहितो मण्डः पेया सिक्थसमन्विता ३४४
विलेपी बहुसिक्था स्याद्यवागूर्विरलद्र वा
विष्टम्भी पायसो बल्यो मेदःकफकरो गुरुः ३४५
कफपित्तकरी बल्या कृशराऽनिलनाशना
धौतस्तु विमलः शुद्धो मनोज्ञः सुरभिः समः ३४६
स्विन्नः सुप्रस्रुतस्तूष्णो विशदस्त्वोदनो लघुः
अधौतोऽप्रस्रुतोऽस्विन्नः शीतश्चाप्योदनो गुरुः ३४७
लघुः सुगन्धिः कफहा विज्ञेयो भृष्टतण्डुलः
स्नेहैर्मांसैः फलैः कन्दैर्विदलाम्लैश्च संयुताः ३४८
गुरवो बृंहणा बल्या ये च क्षीरोपसाधिताः
सुस्विन्नो निस्तुषो भृष्ट ईषत् सूपो लघुर्हितः ३४९
स्विन्नं निष्पीडितं शाकं हितं स्यात् स्नेहसंस्कृतम्
अस्विन्नं स्नेहरहितमपीडितमतोऽन्यथा ३५०
मांसं स्वभावतो वृष्यं स्नेहनं बलवर्धनम्
स्नेहगोरसधान्याम्लफलाम्लकटुकैः सह ३५१
सिद्धं मांसं हितं बल्यं रोचनं बृंहणं गुरु
तदेव गोरसादानं सुरभिद्र व्यसंस्कृतम् ३५२
विद्यात्पित्तकफोद्रे की बलमांसाग्निवर्धनम्
परिशुष्कं स्थिरं स्निग्धं हर्षणं प्रीणनं गुरु ३५३
रोचनं बलमेधाग्निमांसौजःशुक्रवर्धनम्
तदेवोल्लुप्तपिष्टत्वादुल्लुप्तमिति पाचकाः ३५४
परिशुष्कगुणैर्युक्तं वह्नौ पक्वमतो लघु
तदेव शूलिकाप्रोतमङ्गारपरिपाचितम् ३५५
ज्ञेयं गुरुतरं किंचित् प्रदिग्धं गुरुपाकतः
उल्लुप्तं भर्जितं पिष्टं प्रतप्तं कन्दुपाचितम् ३५६
परिशुष्कं प्रदिग्धं च शूल्यं यच्चान्यदीदृशम्
मांसं यत्तैलसिद्धं तद्वीर्योष्णं पित्तकृद्गुरु ३५७
लघ्वग्निदीपनं हृद्यं रुच्यं दृष्टिप्रसादनम्
अनुष्णवीर्यं पित्तघ्नं मनोज्ञं घृतसाधितम् ३५८
प्रीणनः प्राणजननः श्वासकासक्षयापहः
वातपित्तश्रमहरो हृद्यो मांसरसः स्मृतः ३५९
स्मृत्योजःस्वरहीनानां ज्वरक्षीणक्षतोरसाम्
भग्नविश्लिष्टसन्धीनां कृशानामल्परेतसाम् ३६०
आप्यायनः संहननः शुक्रदो बलवर्धनः
स दाडिमयुतो वृष्यः संस्कृतो दोषनाशनः ३६१
प्रीणनः सर्वभूतानां विशेषान्मुखशोषिणाम्
क्षुत्तृष्णापहरः श्रेष्ठः सौरावः स्वादुशीतलः ३६२
यन्मांसमुद्धृतरसं न तत् पुष्टिबलावहम्
विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् ३६३
दीप्ताग्नीनां सदा पथ्यः खानिष्कस्तु परं गुरुः
मांसं निरस्थि सुस्विन्नं पुनर्दृषदि पेषितम् ३६४
पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम्
एकध्यं पाचयेत् सम्यग्वेसवार इति स्मृतः ३६५
वेसवारो गुरुः स्निग्धो बल्यो वातरुजापहः
कफघ्नो दीपनो हृद्यः शुद्धानां व्रणिनामपि ३६६
ज्ञेयः पथ्यतमश्चैव मुद्गयूषः कृताकृतः
स तु दाडिममृद्वीकायुक्तः स्याद्रा गषाडवः ३६७
रुचिष्यो लघुपाकश्च दोषाणां चाविरोधकृत्
मसूरमुद्गगोधूमकुलत्थलवणैः कृतः ३६८
कफपित्ताविरोधी स्याद्वातव्याधौ च शस्यते
मृद्वीकादाडिमैर्युक्तः स चाप्युक्तोऽनिलार्दिते ३६९
रोचनो दीपनो हृद्यो लघुपाक्युपदिश्यते
पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ ३७०
पित्तघ्नौ दीपनौ हृद्यौ कृमिकुष्ठज्वरापहौ
श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान् ३७१
हन्ति मूलकयूषस्तु कफमेदोगलग्रहान्
कुलत्थयूषोऽनिलहा श्वासपीनसनाशनः ३७२
तूणीप्रतूणीकासाश्मगुल्ममेदः कफापहः
दाडिमामलकैर्यूषो हृद्यः संशमनो लघुः ३७३
प्राणाग्निजननो मूर्च्छामेदोघ्नो वातपित्तजित्
मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः ३७४
यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः
सर्वधान्यकृतस्तद्वद्बृहणः प्राणवर्धनः ३७५
खडकाम्बलिकौ हृद्यौ तथा वातकफे हितौ
बल्यः कफानिलौ हन्ति दाडिमाम्लोऽग्निदीपनः ३७६
दध्यम्लः कफकृद्बल्यः स्निग्धो वातहरो गुरुः
तक्राम्लः पित्तकृत् प्रोक्तो विषरक्तप्रदूषणः ३७७
खडाः खडयवाग्वश्च षाखिडिवाः पानकानि च
एवमादीनि चान्यानि क्रियन्ते वैद्यवाक्यतः ३७८
अस्नेहलवणं सर्वमकृतं कटुकैर्विना
विज्ञेयं लवणस्नेहकटुकैः संयुतं कृतम् ३७९
अथ गोरसधान्याम्लफलाम्लैरम्लितं च यत्
यथोत्तरं लघु हितं संस्कृतासंस्कृतं रसम् ३८०
दधिमस्त्वम्लसिद्धस्तु यूषः काम्बलिकः स्मृतः
तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम् ३८१
सिण्डाकी च गुरूणि स्युः कफपित्तकराणि च
तद्वच्च वटकान्याहुर्विदाहीनि गुरूणि च ३८२
लघवो बृंहणा वृष्या हृद्या रोचनदीपनाः
तृष्णामूर्च्छाभ्रमच्छर्दिश्रमघ्ना रागषाडवाः ३८३
रसाला बृंहणी बल्या स्निग्धा वृष्या च रोचनी
स्नेहनं गुडसंयुक्तं हृद्यं दध्यनिलापहम् ३८४
सक्तवः सर्पिषाऽभ्यक्ताः शीतवारिपरिप्लुताः
नातिद्र वा नातिसान्द्रा मन्थ इत्युपदिश्यते ३८५
मन्थः सद्योबलकरः पिपासाश्रमनाशनः
साम्लस्नेहगुडो मूत्रकृच्छ्रोदावर्तनाशनः ३८६
शर्करेक्षुरसद्रा क्षायुक्तः पित्तविकारनुत्
द्रा क्षामधूदकयुतः कफरोगनिबर्हणः ३८७
वर्गत्रयेणोपहितो मलदोषानुलोमनः
गौडमम्लमनम्लं वा पानकं गुरु मूत्रलम् ३८८
तदेव खण्डमृद्वीकाशर्करासहितं पुनः
साम्लं सतीक्ष्णं सहिमं पानकं स्यान्निरत्ययम् ३८९
मार्द्वीकं तु श्रमहरं मूर्च्छादाहतृषापहम्
परूषकाणां कोलानां हृद्यं विष्टम्भि पानकम् ३९०
द्र व्यसंयोगसंस्कारं ज्ञात्वा मात्रां च सर्वतः
पानकानां यथायोगं गुरुलाघवमादिशेत् ३९१
इति कृतान्नवर्गः
अथ भक्ष्यवर्गः
वक्ष्याम्यतः परं भक्ष्यान् रसवीर्यविपाकतः
भक्ष्याः क्षीरकृता बल्या वृष्णा हृद्याः सुगन्धिनः ३९२
अदाहिनः पुष्टिकरा दीपनाः पित्तनाशनाः
तेषां प्राणकरा हृद्या घृतपूराः कफावहाः ३९३
वातपित्तहरा वृष्या गुरवो रक्तमांसलाः
बृंहणा गौडिका भक्ष्या गुरवोऽनिलनाशनाः ३९४
अदाहिनः पित्तहराः शुक्रलाः कफवर्धनाः
मधुशीर्षकसंयावाः पूपा ये ते विशेषतः ३९५
गुरवो बृंहणाश्चैव मोदकास्तु सुदुर्जराः
रोचनो दीपनः स्वर्यः पित्तघ्नः पवनापहः ३९६
गुरुर्मृष्टतरश्चैव सट्टकः प्राणवर्धनः
हृद्यः सुगन्धिर्मधुरः स्निग्धः कफकरो गुरुः ३९७
वातापहस्तृप्तिकरो बल्यो विष्यन्द उच्यते
बृंहणा वातपित्तघ्ना भक्ष्या बल्यास्तु सामिताः ३९८
हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः
मुद्गादिवेसवाराणां पूर्णा विष्टम्भिनो मताः ३९९
वेसवारैः सपिशितैः संपूर्णा गुरुबृंहणाः
पाललाः श्लेष्मजननाः शष्कुल्यः कफपित्तलाः ४००
वीर्योष्णाः पैष्टिका भक्ष्याः कफपित्तप्रकोपणाः
विदाहिनो नातिबला गुरवश्च विशेषतः ४०१
वैदला लघवो भक्ष्याः कषायाः सृष्टमारुताः
विष्टम्भिनः पित्तसमाः श्लेष्मघ्ना भिन्नवर्चसः ४०२
बल्या वृष्यास्तु गुरवो विज्ञेया माषसाधिताः
कूर्चिकाविकृता भक्ष्या गुरवो नातिपित्तलाः ४०३
विरूढककृता भक्ष्या गुरवोऽनिलपित्तलाः
विदाहोत्क्लेशजनना रूक्षा दृष्टिप्रदूषणाः ४०४
हृद्याः सुगन्धिनो भक्ष्या लघवो घृतपाचिताः
वातपित्तहरा बल्या वर्णदृष्टिप्रसादनाः ४०५
विदाहिनस्तैलकृता गुरवः कटुपाकिनः
उष्णा मारुतदृष्टिघ्नाः पित्तलास्त्वक्प्रदूषणाः ४०६
फलमांसेक्षुविकृतितिलमाषोपसंस्कृताः
भक्ष्या बल्याश्च गुरवो बृंहणा हृदयप्रियाः ४०७
कपालाङ्गारपक्वास्तु लघवो वातकोपनाः
सुपक्वास्तनवश्चैव भूयिष्ठं लघवो मताः ४०८
सकिलाटादयो भक्ष्या गुरवः कफवर्धनाः
कुल्माषा वातला रूक्षा गुरवो भिन्नवर्चसः ४०९
उदावर्तहरो वाट्यः कासपीनसमेहनुत्
धानोलुम्बास्तु लघवः कफमेदोविशोषणाः ४१०
शक्तवो बृंहणा वृष्यास्तृष्णापित्तकफापहाः
पीताः सद्योबलकरा भेदिनः पवनापहाः ४११
गुर्वी पिण्डी खराऽत्यर्थं लघ्वी सैव विपर्ययात्
शक्तूनामाशु जीर्येत मृदुत्वादवलेहिका ४१२
लाजाश्छर्द्यतिसारघ्ना दीपनाः कफनाशनाः
बल्याः कषायमधुरा लघवस्तृण्मलापहाः ४१३
तृट्छर्दिदाहघर्मार्तिनुदस्तत्सक्तवो मताः
रक्तपित्तहराश्चैव दाहज्वरविनाशनाः ४१४
पृथुका गुरवः स्निग्धा बृंहणाः कफवर्धनाः
बल्याः सक्षीरभावात्तु वातघ्ना भिन्नवर्चसः ४१५
संधानकृत् पिष्टमामं ताण्डुलं कृमिमेहनुत्
सुदुर्जरः स्वादुरसो बृंहणस्तण्डुलो नवः ४१६
सन्धानकृन्मेहहरः पुराणस्तण्डुलः स्मृतः
द्र व्यसंयोगसंस्कारविकारान् समवेक्ष्य च ४१७
यथाकारणमासाद्य भोक्तॄणां छन्दतोऽपि वा
अनेकद्र व्ययोनित्वाच्छास्त्रतस्तान् विनिर्दिशेत् ४१८
इति भक्ष्यवर्गः
अतः सर्वानुपानान्युपदेक्ष्यामः
अम्लेन केचिद्विहता मनुष्या माधुर्ययोगे प्रणयीभवन्ति
तथाऽम्लयोगे मधुरेण तृप्तास्तेषां यथेष्टं प्रवदन्ति पथ्यम् ४१९
शीतोष्णतोयासवमद्ययूषफलाम्लधान्याम्लपयोरसानाम्
यस्यानुपानं तु हितं भवेद्यत्तस्मै प्रदेयं त्विह मात्रता तत् ४२०
व्याधिं च कालं च विभाव्य धीरैर्द्र व्याणि भोज्यानि च तानि तानि
सर्वानुपानेषु वरं वदन्ति मैघ्यं यदम्भः शुचिभाजनस्थम् ४२१
लोकस्य जन्मप्रभृति प्रशस्तं तोयात्मकाः सर्वरसाश्च दृष्टाः
सङ्क्षेप एषोऽभिहितोऽनुपानेष्वतः परं विस्तरतोऽभिधास्ये ४२२
उष्णोदकानुपानं तु स्नेहानामथ शस्यते
ऋते भल्लातकस्नेहात् स्नेहात्तौवरकात्तथा ४२३
अनुपानं वदन्त्येके तैले यूषाम्लकाञ्जिकम्
शीतोदकं माक्षिकस्य पिष्टान्नस्य च सर्वशः ४२४
दधिपायसमद्यार्तिविषजुष्टे तथैव च
केचित् पिष्टमयस्याहुरनुपानं सुखोदकम् ४२५
पयो मांसरसो वाऽपि शालिमुद्गादिभोजिनाम्
युद्धाध्वातपसंतापविषमद्यरुजासु च ४२६
माषादेरनुपानं तु धान्याम्लं दधिमस्तु वा
मद्यं मद्योचितानां तु सर्वमांसेषु पूजितम् ४२७
अमद्यपानामुदकं फलाम्लं वा प्रशस्यते
क्षीरं घर्माध्वभाष्यस्त्रीक्लान्तानाममृतोपमम् ४२८
सुरा कृशानां स्थूलानामनुपानं मधूदकम्
निरामयानां चित्रं तु भुक्तमध्ये प्रकीर्तितम् ४२९
स्निग्धोष्णं मारुते पथ्यं कफे रूक्षोष्णमिष्यते
अनुपानं हितं चापि पित्ते मधुरशीतलम् ४३०
हितं शोणितपित्तिभ्यः क्षीरमिक्षुरसस्तथा
अर्कशेलुशिरीषाणामासवास्तु विषार्तिषु ४३१
अतः परं तु वर्गाणामनुपानं पृथक् पृथक्
प्रवक्ष्याम्यनुपूर्वेण सर्वेषामेव मे शृणु ४३२
तत्र पूर्वशस्यजातानां बदराम्लं वैदलानां धान्याम्लं जङ्घालानां धन्वजानां च पिप्पल्यासवः विष्किराणां कोलबदरासवः प्रतुदानां क्षीरवृक्षासवः गुहाशयानां खर्जूरनालिकेरासवः प्रसहानामश्वगन्धासवः पर्णमृगाणां कृष्णगन्धासवः बिलेशयानां फलासवः एकशफानां त्रिफलासवः अनेकशफानां खदिरासवः कूलचराणां शङ्गाटककशेरुकासवः कोशवासिनां पादिनां च स एव प्लवानामिक्षुरसासवः नादेयानां मत्स्यानां मृणालासवः सामुद्रा णां मातुलुङ्गासवः अम्लानां फलानां पद्मोत्पलकन्दासवः कषायाणां दाडिमवेत्रासवः मधुराणां त्रिकटुकयुक्तः खण्डासवः तालफलादीनां धान्याम्लं कटुकानां दूर्वानलवेत्रासवः पिप्पल्यादीनां श्वदंष्ट्रावसुकासवः कूष्माण्डादीनां दार्वीकरीरासवः चुच्चप्रुभृतीनां लोध्रासवः जीवन्त्यादीनां त्रिफलासवः कुसुम्भशाकस्य स एव मण्डूकपर्ण्यादीनां महापञ्चमूलासवः तालमस्तकादीनामम्लफलासवः सैन्धवादीनां सुरासव आरनालं च तोयं च सर्वत्रेति ४३३
भवन्ति चात्र
सर्वेषामनुपानानां माहेन्द्रं तोयमुत्तमम्
सात्म्यं वा यस्य यत्तोयं तत्तस्मै हितमुच्यते ४३४
उष्णं वाते कफे तोयं पित्ते रक्ते च शीतलम्
दोषवद्गुरु वा भुक्तमतिमात्रमथापि वा ४३५
यथोक्तेनानुपानेन सुखमन्नं प्रजीर्यति
रोचनं बृंहणं वृष्यं दोषसंघातभेदनम् ४३६
तर्पणं मार्दवकरं श्रमक्लमहरं सुखम्
दीपनं दोषशमनं पिपासाच्छेदनं परम् ४३७
बल्यं वर्णकरं सम्यगनुपानं सदोच्यते
तदादौ कर्शयेत्पीतं स्थापयेन्मध्यसेवितम् ४३८
पश्चात्पीतं बृंहयति तस्माद्वीक्ष्य प्रयोजयेत्
स्थिरतां गतमक्लिन्नमन्नमद्र वपायिनाम् ४३९
भवत्याबाधजननमनुपानमतः पिबेत्
न पिबेच्छ्वासकासार्तो रोगे चाप्यूर्ध्वजत्रुगे ४४०
क्षतोरस्कः प्रसेकी च यस्य चोपहतः स्वरः
पीत्वाऽध्वभाष्याध्ययनगेयस्वप्नान्न शीलयेत् ४४१
प्रदूष्यामाशयं तद्धि तस्य कण्ठोरसि स्थितम्
स्यन्दाग्निसादच्छर्द्यादीनामयाञ्जनयेद्बहून् ४४२
गुरुलाघवचिन्तेयं स्वभावं नातिवर्तते
तथा संस्कारमात्रान्नकालांश्चाप्युत्तरोत्तरम् ४४३
मन्दकर्मानलारोग्याः सुकुमाराः सुखोचिताः
जन्तवो ये तु तेषां हि चिन्तेयं परिकीर्त्यते ४४४
बलिनः खरभक्ष्या ये ये च दीप्ताग्नयो नराः
कर्मनित्याश्च ये तेषां नावश्यं परिकीर्त्यते ४४५
इत्यनुपानवर्गः
अथाहारविधिं वत्स विस्तरेणाखिलं शृणु
आप्तास्थितमसंकीर्णं शुचि कार्यं महानसम् ४४६
तत्राप्तैर्गुणसंपन्नं भक्ष्यमन्नं सुसंस्कृतम्
शुचौ देशे सुसंगुप्तं समुपस्थापयेद्भिषक् ४४७
विषघ्नैरगदैः स्पृष्टं प्रोक्षितं व्यजनोदकैः
सिद्धैर्मन्त्रैर्हतविषं सिद्धमन्नं निवेदयेत् ४४८
वक्ष्याम्यतः परं कृत्स्नामाहारस्योपकल्पनाम्
घृतं कार्ष्णायसे देयं पेया देया तु राजते ४४९
फलानि सर्वभक्ष्यांश्च प्रदद्याद्वै दलेषु तु
परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत् ४५०
प्रद्र वाणि रसांश्चैव राजतेषूपहारयेत्
कट्वराणि खडांश्चैव सर्वाञ्छैलेषु दापयेत् ४५१
दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं पयः
पानीयं पानकं मद्यं मृन्मयेषु प्रदापयेत् ४५२
काचस्फटिकपात्रेषु शीतलेषु शुभेषु च
दद्याद्वैदूर्यचित्रेषु रागषाडवसट्टकान् ४५३
पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे
सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ४५४
फलानि सर्वभक्ष्यांश्च परिशुष्काणि यानि च
तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ४५५
प्रद्र वाणि रसांश्चैव पानीयं पानकं पयः
खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ४५६
सर्वान् गुडविकारांश्च रागषाडवसट्टकान्
पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ४५७
एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम्
भोक्तारं विजने रम्ये निःसंपाते शुभे शुचौ ४५८
सुगन्धपुष्परचिते समे देशे च भोजयेत्
विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टै रसादिभिः ४५९
मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम्
पूर्वं मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ ५६०
पश्चाच्छेषान् रसान् वैद्यो भोजनेष्ववचारयेत्
आदौ फलानि भुञ्जीत दाडिमादीनि बुद्धिमान् ५६१
ततः पेयांस्ततो भोज्यान् भक्ष्यांश्चित्रांस्ततः परम्
घनं पूर्वं समश्नीयात् केचिदाहुर्विपर्ययम् ५६२
आदावन्ते च मध्ये च भोजनस्य तु शस्यते
निरत्ययं दोषहरं फलेष्वामलकं नृणाम् ५६३
मृणालबिसशालूककन्देक्षुप्रभृतीनि च
पूर्वं योज्यानि भिषजा न तु भुक्ते कदाचन ४६४
सुखमुच्चैः समासीनः समदेहोऽन्नतत्परः
काले सात्म्यं लघु स्निग्धमुष्णं क्षिप्रं द्र वोत्तरम् ४६५
बुभुक्षितोऽन्नमश्नीयान्मात्रावद्विदितागमः
काले प्रीणयते भुक्तं सात्म्यमन्नं न बाधते ४६६
लघु शीघ्रं व्रजेत् पाकं स्निग्धोष्णं बलवह्निदम्
क्षिप्रं भुक्तं समं पाकं यात्यदोषं द्र वोत्तरम् ४६७
सुखं जीर्यति मात्रावद्धातुसाम्यं करोति च
अतीवायतयामास्तु क्षपा येष्वृतुषु स्मृताः ४६८
तेषु तत्प्रत्यनीकाढ्यं भुज्जीत प्रातरेव तु
येषु चापि भवेयुश्च दिवसा भृशमायताः ४६९
तेषु तत्कालविहितमपराह्णे प्रशस्यते
रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः ४७०
कृत्वा सममहोरात्रं तेषु भुञ्जीत भोजनम्
नाप्राप्तातीतकालं वा हीनाधिकमथापि वा ४७१
अप्राप्तकालं भुञ्जानः शरीरे ह्यलघौ नरः
तांस्तान् व्याधीनवाप्नोति मरणं वा नियच्छति ४७२
अतीतकालं भुञ्जानो वायुनोपहतेऽनले
कृच्छ्राद्विपच्यते भुक्तं द्वितीयं च न काङ्क्षति ४७३
हीनमात्रमसंतोषं करोति च बलक्षयम्
आलस्यगौरवाटोपसादांश्च कुरुतेऽधिकम् ४७४
तस्मात् सुसंस्कृतं युक्त्या दोषैरेतैर्विवर्जितम्
यथोक्तगुणसंपन्नमुपसेवेत भोजनम् ४७५
विभज्य दोषकालादीन् कालयोरुभयोरपि
अचोक्षं दुष्टमुत्सृष्टं पाषाणतृणलोष्टवत् ४७६
द्विष्टं व्युषितमस्वादु पूति चान्नं विवर्जयेत्
चिरसिद्धं स्थिरं शीतमन्नमुष्णीकृतं पुनः ४७७
अशान्तमुपदग्धं च तथा स्वादु न लक्ष्यते
यद्यत् स्वादुरतं तत्तद्विदध्यादुत्तरोत्तरम् ४७८
प्रक्षालयेदद्भिरास्यं भुञ्जानस्य मुहुर्मुहुः
विशुद्धे रसने तस्य रोचतेऽन्नमपूर्ववत् ४७९
स्वादुना तस्य रसनं प्रथमेनातितर्पितम्
न तथा स्वादयेदन्यत्तस्मात् प्रक्षाल्यमन्तरा ४८०
सौमनस्यं बलं पुष्टिमुत्साहं हर्षणं सुखम्
स्वादु संजनयत्यन्नमस्वादु च विपर्ययम् ४८१
भुक्त्वाऽपि यत् प्रार्थयते भूयस्तत् स्वादु भोजनम्
अशितश्चोदकं युक्त्या भुञ्जानश्चान्तरा पिबेत् ४८२
दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः
कुर्यादनिर्हृतं तद्धि मुखस्यानिष्टगन्धताम् ४८३
जीर्णेऽन्ने वर्धते वायुर्विदग्धे पित्तमेव तु
भुक्तमात्रे कफश्चापि तस्माद्भुक्तेरितं कफम् ४८४
धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः
पूगकङ्कोलकर्पूरलवङ्गसुमनःफलैः ४८५
फलैः कटुकषायैर्वा मुखवैशद्यकारकैः
ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः ४८६
भुक्त्वा राजवदासीत यावदन्नक्लमो गतः
ततः पादशतं गत्वा वामपार्श्वेन संविशेत् ४८७
शब्दान्रूपान्रसान् गन्धान् स्पर्शांश्च मनसः प्रियान्
भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति ४८८
शब्दरूपरसा गन्धाः स्पर्शाश्चापि जुगुप्सिताः
अशुच्यन्नं तथा भुक्तमतिहास्यं च वामयेत् ४८९
शयनं चासनं वाऽपि नेच्छेद्वाऽपि द्र वोत्तरम्
नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम् ४९०
न चैकरससेवायां प्रसज्येत कदाचन
शाकावरान्नभूयिष्ठमम्लं च न समाचरेत् ४९१
एकैकशः समस्तान् वा नाध्यश्नीयाद्र सान् सदा
प्राग्भुक्ते त्वविविक्तेऽग्नौ द्विरन्नं न समाचरेत् ४९२
पूर्वभुक्ते विदग्धेऽन्ने भुञ्जानो हन्ति पावकम्
मात्रागुरुं परिहरेदाहारं द्र व्यतश्च यः ४९३
पिष्टान्नं नैव भुज्जीत मात्रया वा बुभुक्षितः
द्विगुणं च पिबेत्तोयं सुखं सम्यक् प्रजीर्यति
पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम् ४९४
गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते
द्र वोत्तरो द्र वश्चापि न मात्रागुरुरिष्यते ४९५
द्र वाढ्यमपि शुष्कं तु सम्यगेवोपपद्यते
विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति ४९६
पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति
स्रोतस्यन्नवहे पित्तं पक्तौ वा यस्य तिष्ठति ४९७
विदाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते
शुष्कं विरुद्धं विष्टम्भि वह्निव्यापदमावहेत् ४९८
आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः
अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ४९९
अत्यम्बुपानाद्विषमाशनाद्वा संधारणात् स्वप्नविपर्ययाच्च
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ५००
ईर्ष्याभयक्रोधपरिक्षतेन लुब्धेन शुग्दैन्यनिपीडितेन
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति ५०१
माधुर्यमन्नं गतमामसंज्ञं विदग्धसंज्ञं गतमम्लभावम्
किंचिद्विपक्वं भृशतोदशूलं विष्टब्धमानद्धविरुद्धवातम् ५०२
उद्गारशुद्धावपि भक्तकाङ्क्षा न जायते हृद्गुरुता च यस्य
रसावशेषेण तु सप्रसेकं चतुर्थमेतत् प्रवदन्त्यजीर्णम् ५०३
मूर्च्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः
उपद्र वा भवन्त्येते मरणं चाप्यजीर्णतः ५०४
तत्रामे लङ्घनं कार्यं विदग्धे वमनं हितम्
विष्टब्धे स्वेदनं पथ्यं रसशेषे शयीत च ५०५
वामयेदाशु तं तस्मादुष्णेन लवणाम्बुना
कार्यं वाऽनशनं तावद्यावन्न प्रकृतिं भजेत् ५०६
लघुकायमतश्चैनं लङ्घनैः समुपाचरेत्
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ५०७
हिताहितोपसंयुक्तमन्नं समशनं स्मृतम्
बहु स्तोकमकाले वा तज्ज्ञेयं विषमाशनम् ५०८
अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते
त्रयमेतन्निहन्त्याशु बहून्व्याधीन्करोति वा ५०९
अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति
तद्ध्य्स्य शैत्येन निहन्ति पित्तमाक्लेदिभावाच्च नयत्यधस्तात् ५१०
विदह्यते यस्य तु भुक्तमात्रे दह्येत हृत्कोष्ठगलं च यस्य
द्रा क्षाभयां माक्षिकसंप्रयुक्तां लीढ्वाऽभयां वा स सुखं लभेत ५११
भवेदजीर्णं प्रति यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्नकाले
प्रातः सशुण्ठीमभयामशङ्को भुञ्जीत संप्राश्य हितं हितार्थी ५१२
स्वल्पं यदा दोषविबद्धमामं लीनं न तेजःपथमावृणोति
भवत्यजीर्णेऽपि तदा बुभुक्षा या मन्दबुद्धिं विषवन्निहन्ति ५१३
अत ऊर्ध्वं प्रवक्ष्यामि गुणानां कर्मविस्तरम्
कर्मभिस्त्वनुमीयन्ते नानाद्र व्याश्रया गुणाः ५१४
ह्लादनः स्तम्भनः शीतो मूर्च्छातृट्स्वेददाहजित्
उष्णस्तद्विपरीतः स्यात्पाचनश्च विशेषतः ५१५
स्नेहमार्दवकृत् स्निग्धो बलवर्णकरस्तथा
रूक्षस्तद्विपरीतः स्याद्विशेषात् स्तम्भनः खरः ५१६
पिच्छिलो जीवनो बल्यः सन्धानः श्लेष्मलो गुरुः
विशदो विपरीतोऽस्मात् क्लेदाचूषणरोपणः ५१७
दाहपाककरस्तीक्ष्णः स्रावणो मृदुरन्यथा
सादोपलेपबलकृद्गुरुस्तर्पणबृंहणः ५१८
लघुस्तद्विपरीतः स्याल्लेखनो रोपणस्तथा
दशाद्याः कर्मतः प्रोक्तास्तेषां कर्मविशेषणैः ५१९
दशैवान्यान् प्रवक्ष्यामि द्र वादींस्तान्निबोध मे
द्र वः प्रक्लेदनः सान्द्रः स्थूलः स्याद्बन्धकारकः ५२०
श्लक्ष्णः पिच्छिलवज्ज्ञेयः कर्कशो विशदो यथा
सुखानुबन्धी सूक्ष्मश्च सुगन्धो रोचनो मृदुः ५२१
दुर्गन्धो विपरीतोऽस्माद्धृल्लासारुचिकारकः
सरोऽनुलोमनः प्रोक्तो मन्दो यात्राकरः स्मृतः ५२२
व्यवायी चाखिलं देहं व्याप्य पाकाय कल्पते
विकासी विकसन्नेवं धातुबन्धान् विमोक्षयेत् ५२३
आशुकारी तथाऽशुत्वाद्धावत्यम्भसि तैलवत्
सूक्ष्मस्तु सौक्ष्म्यात् सूक्ष्मेषु स्रोतःस्वनुसरः स्मृतः ५२४
गुणा विंशतिरित्येवं यथावत्परिकीर्तिताः
संप्रवक्ष्याम्यतश्चोर्ध्वमाहारगतिनिश्चयम् ५२५
पञ्चभूतात्मके देहे ह्याहारः पाञ्चभौतिकः
विपक्वः पञ्चधा सम्यग्गुणान् स्वानभिवर्धयेत् ५२६
अविदग्धः कफं पित्तं विदग्धः पवनं पुनः
सम्यग्विपक्वो निःसार आहारः परिबृंहयेत् ५२७
विण्मूत्रमाहारमलः सारः प्रागीरितो रसः
स तु व्यानेन विक्षिप्तः सर्वान् धातून् प्रतर्पयेत् ५२८
कफः पित्तं मलः खेषु स्वेदः स्यान्नखरोम च
नेत्रविट् त्वक्षु च स्नेहो धातूनां क्रमशो मलाः ५२९
दिवा विबुद्धे हृदये जाग्रतः पुण्डरीकवत्
अन्नमक्लिन्नधातुत्वादजीर्णेऽपि हितं निशि ५३०
हृदि संमीलिते रात्रौ प्रसुप्तस्य विशेषतः
क्लिन्नविस्रस्तधातुत्वादजीर्णे न हितं दिवा ५३१
इमं विधिं योऽनुमतं महामुनेर्नृपर्षिमुख्यस्य पठेद्धि यत्नतः
स भूमिपालाय विधातुमौषधं महात्मनां चार्हति सूरिसत्तमः ५३२
इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन
विरचितायां सुश्रुतसंहितायां सूत्रस्थाने षट्चत्वारिंशत्तमोऽध्यायः
समाप्तं चेदं सूत्रस्थानम्
इति सुत्रस्थान समाप्ता
सुश्रुत संहिता
Sushruta Saṁhitā
निदानस्थान
Nidāna Sthāna
Chapter 1 2 3 4 5 6 7 8 9 10 11 12 13 14
15 16
निदानस्थान
प्रथमोऽध्यायः
अथातो वातव्याधिनिदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
धन्वन्तरिं धर्मभृतां वरिष्ठममृतोद्भवम्
चरणावुपसंगृह्य सुश्रुतः परिपृच्छति ३
वायोः प्रकृतिभूतस्य व्यापन्नस्य च कोपनैः
स्थानं कर्म च रोगांश्च वद मे वदतां वर ४
तस्य तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां वरः
स्वयंभूरेष भगवान् वायुरित्यभिशब्दितः ५
स्वातन्त्रयान्नित्यभावाच्च सर्वगत्वात्तथैव च
सर्वेषामेव सर्वात्मा सर्वलोकनमस्कृतः ६
स्थित्युत्पत्तिविनाशेषु भूतानामेष कारणम्
अव्यक्तो व्यक्तकर्मा च रूक्षः शीतो लघुः खरः ७
तिर्यग्गो द्विगुणश्चैव रजोबहुल एव च
अचिन्त्यवीर्यो दोषाणां नेता रोगसमूहराट् ८
आशुकारी मुहुश्चारी पक्वाधानगुदालयः
देहे विचरतस्तस्य लक्षणानि निबोध मे ९
दोषधात्वग्निसमतां संप्राप्तिं विषयेषु च
क्रियाणामानुलोम्यं च करोत्यकुपितोऽनिलः १०
इइन्द्रि यार्थोपसंप्राप्तिं दोषधात्वग्न्यवैकृतम्
क्रियाणामानुलोम्यं च कुर्याद्वायुरदूषितः १०
यथाऽग्नि पञ्चधा भिन्नो नामस्थानक्रियामयैः
भिन्नोऽनिलस्तस्था ह्येको नामस्थानक्रियामयैः ११
प्राणोदानौ समानश्च व्यानश्चापान एव च
स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम् १२
यो वायुर्वक्त्रसंचारी स प्राणो नाम देहधृक्
सोऽन्न प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते १३
प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान्
उदानो नाम यस्तूर्ध्वमुपैति पवनोत्तमः १४
तेन भाषितगीतादिविशेषोऽभिप्रवर्तते
ऊर्ध्वजत्रुगतान् रोगान् करोति च विशेषतः १५
आमपक्वाशयचरः समानो वह्निसङ्गतः
सोऽन्न पचति तज्जांश्च विशेषान्विविनक्ति हि १६
गुल्माग्निसादातीसारप्रभृतीन् कुरुते गदान्
कृत्स्नदेहचरो व्यानो रससंवहनोद्यतः १७
स्वेदासृक्स्रावणश्चापि पञ्चधा चेष्टयत्यपि
क्रुद्धश्च कुरुते रोगान् प्रायशः सर्वदेहगान् १८
पक्वाधानालयोऽपानः काले कर्षति चाप्यधः
समीरणः शकृन्मूत्रं शुक्रगर्भार्तवानि च १९
क्रुद्धश्च कुरुते रोगान् घोरान् बस्तिगुदाश्रयान्
शुक्रदोषप्रमेहास्तु व्यानापानप्रकोपजाः २०
युगपत् कुपिताश्चापि देहं भिन्द्युरसंशयम्
अत ऊर्ध्वं प्रवक्ष्यामि नानास्थानान्तराश्रितः २१
बहुशः कुपितो वायुर्विकारान् कुरुते हि यान्
वायुरामाशये क्रुद्धश्छर्द्यादीन् कुरुते गदान् २२
मोहं मूर्च्छां पिपासां च हृद्ग्रहं पार्श्ववेदनाम्
पक्वाशयस्थोऽन्त्रकूजं शूलं नाभौ करोति च २३
कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम्
श्रोत्रादिष्विन्द्रि यवधं कुर्यात् क्रुद्धः समीरणः २४
वैवर्ण्यं स्फुरणं रौक्ष्यं सुप्तिं चुमुचुमायनम्
त्वक्स्थो निस्तोदनं कुर्यात् त्वग्भेदं परिपोटनम् २५
व्रणांश्च रक्तगो ग्रन्थीन् सशूलान् मांससंश्रितः
तथा मेदःश्रितः कुर्याद्ग्रन्थीन्मन्दरुजोऽव्रणान् २६
कुर्यात् सिरागतः शूलं सिराकुञ्चनपूरणम्
स्नायुप्राप्तः स्तम्भकम्पौ शूलमाक्षेपणं तथा २७
हन्ति सन्धिगतः सन्धीन् शूलशोफौ करोति च
अस्थिशोषं प्रभेदं च कुर्याच्छूलं च तच्छ्रितः २८
तथा मज्जगते रुक् च न कदाचित् प्रशाम्यति
अप्रवृत्तिः प्रवृत्तिर्वा विकृता शुक्रगेऽनिले २९
हस्तपादशिरोधातूंस्तथा संचरति क्रमात्
व्याप्नुयाद्वाखिलं देहं वायुः सर्वगतो नृणाम् ३०
स्तम्भनाक्षेपणस्वापशोफशूलानि सर्वगः
स्थानेषूक्तेषु संमिश्रः संमिश्राः कुरुते रुजः ३१
कुर्यादवयवप्राप्तो मारुतस्त्वमितान् गदान्
दाहसंतापमूर्च्छाः स्युर्वायौ पित्तसमन्विते ३२
शैत्यशोफगुरुत्वानि तस्मिन्नेव कफावृते
सूचीभिरिव निस्तोदः स्पर्शद्वेषः प्रसुप्तता ३३
शेषाः पित्तविकाराः स्युर्मारुते शोणितान्विते
प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते ३४
दौर्बल्यं सदनं तन्द्रा वैवर्ण्यं च कफावृते
उदाने पित्तसंयुक्ते मूर्च्छादाहभ्रमक्लमाः ३५
अस्वेदहर्षौ मन्दोऽग्नि शीतस्तम्भौ कफावृते
समाने पित्तसंयुक्ते स्वेददाहौष्ण्यमूर्च्छनम् ३६
कफाधिकं च विण्मूत्रं रोमहर्षः कफावृते
अपाने पित्तसंयुक्ते दाहौष्ण्ये स्यादसृग्दरः ३७
अधःकायगुरुत्वं च तस्मिन्नेव कफावृते
व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः ३८
गुरूणि सर्वगात्राणि स्तम्भनं चास्थिपर्वणाम्
लिङ्गं कफावृते व्याने चेष्टास्तम्भस्तथैव च ३९
प्रिआयशः सुकुमाराणां मिथ्याऽहारविहारिणाम्
रोगाध्वप्रमदामद्यव्यायामैश्चातिपीडनात् ४०
ऋतुसात्म्यविपर्यासात् स्नेहादीनां च विभ्रमात्
अव्यवाये तथा स्थूले वातरक्तं प्रकुप्यति ४१
हस्त्यश्वोष्ट्रैर्गच्छतोऽन्यैश्च वायुः कोपं यातः कारणैः सेवितैः स्वैः
तीक्ष्णोष्णाम्लक्षारशाकादिभोज्यैः संतापाद्यैर्भूयसा सेवितैश्च ४२
क्षिप्रं रक्तं दुष्टिमायाति तच्च वायोर्मार्गं संरुणद्ध्याशु यातः
क्रुद्धोऽत्यर्थं मार्गरोधात् स वायुरत्युद्रि क्तं दूषयेद्र क्तमाशु ४३
तत् संपृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम्
तद्वत् पित्तं दूषितेनासृजाऽक्त श्लेष्मा दुष्टो दूषितेनासृजाऽक्त ४४
स्पर्शोद्विग्नौ तोदभेदप्रशोषस्वापोपेतौ वातरक्तेन पादौ
पित्तासृग्भ्यामुग्रदाहौ भवेतामत्यर्थोष्णौ रक्तशोफौ मृदू च ४५
कण्डूमन्तौ श्वेतशीतौ सशोफौ पीनस्तब्धौ श्लेष्मदुष्टे तु रक्ते
सर्वैर्दुष्टे शोणिते चापि दोषाः स्वं स्वं रूपं पादयोर्दर्शयन्ति ४६
प्राग्रूपे शिथिलौ स्विन्नौ शीतलौ सविपर्ययौ
वैवर्ण्यतोदसुप्तत्वगुरुत्वौषसमन्वितौ ४७
पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि
आखोर्विषमिव क्रुद्धं तद्देहमनुसर्पति ४८
आजानुस्फुटितं यच्च प्रभिन्नं प्रस्रुतं च यत्
उपद्र वैश्च यज्जुष्टं प्राणमांसक्षयादिभिः ४९
शोणितं तदसाध्यं स्याद्याप्यं संवत्सरोत्थितम्
यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः ५०
तदाक्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चरः
मुहुर्मुहुस्तदाक्षेपादाक्षेपक इति स्मृतः ५१
सोऽपतानकसंज्ञो यः पातयत्यन्तराऽन्तरा
कफान्वितो भृशं वायुस्तास्वेव यदि तिष्ठति ५२
स दण्डवत् स्तम्भयति कृच्छ्रो दण्डापतानकः
हनुग्रहस्तदाऽत्यर्थं सोऽन्न कृच्छ्रान्निषेवते ५३
धनुस्तुल्यं नमेद्यस्तु स धनुःस्तम्भसंज्ञकः
अङ्गुलीगुल्फजठरहृद्वक्षोगलसंश्रितः ५४
स्नायुप्रतानमनिलो यदाऽक्षिपति वेगवान्
विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन् ५५
अभ्यन्तरं धनुरिव यदा नमति मानवः
तदाऽस्याभ्यन्तरायामं कुरुते मारुतो बली ५६
बाह्यस्नायुप्रतानस्थो बाह्यायामं करोति च
तमसाध्यं बुधाः प्राहुर्वक्षःकट्यूरुभञ्जनम् ५७
कफपित्तान्वितो वायुर्वायुरेव च केवलः
कुर्यादाक्षेपकं त्वन्यं चतुर्थमभिघातजम् ५८
गर्भपातनिमित्तश्च शोणितातिस्रवाच्च यः
अभिघातनिमित्तश्च न सिध्यत्यपतानकः ५९
अधोगमाः सतिर्यग्गा धमनीरूर्ध्वदेहगाः
यदा प्रकुपितोऽत्यर्थं मातरिश्वा प्रपद्यते ६०
तदाऽन्यतरपक्षस्य सन्धिवन्धान् विमोक्षयन्
हन्ति पक्षं तमाहुर्हि पक्षाघातं भिषग्वराः ६१
यस्य कृत्स्नं शरीरार्धमकर्मण्यमचेतनम्
ततः पतत्यसून् वाऽपि त्यजत्यनिलपीडितः ६२
शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः
साध्यमन्येन संसृष्टमसाध्यं क्षयहेतुकम् ६३
वायुरूर्ध्वं व्रजेत् स्थानात् कुपितो हृदयं शिरः
शङ्खौ च पीडयत्यङ्गान्याक्षिपेन्नमयेच्च सः ६४
निमीलिताक्षो निश्चेष्टः स्तब्धाक्षो वाऽपि कूजति
निरुच्छ्वासोऽथवा कृच्छ्रादुच्छ्वस्यान्नष्टचेतनः ६५
स्वस्थः स्याद्धृदये मुक्ते ह्यावृते तु प्रमुह्यति
कफान्वितेन वातेन ज्ञेय एषोऽपतन्त्रकः ६६
दिवास्वप्नासनस्थानविवृताध्वनिरीक्षणैः
मन्यास्तम्भं प्रकुरुते स एव श्लेष्मणाऽवृतः ६७
गिर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये
उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि वा
हसतो जृम्भतो भाराद्विषमाच्छयनादपि ६८
शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः
अर्दयित्वाऽनिलो वक्त्रमर्दितं जनयत्यतः ६९
वक्रीभवति वक्त्रार्धं ग्रीवा चाप्यपवर्तते
शिरश्चलति वाक्सङ्गो नेत्रादीनां च वैकृतम् ७०
ग्रीवाचिबुकदन्तानां तस्मिन् पार्श्वे तु वेदना
यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलम् ७१
वायुरूर्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः
तमर्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः ७२
क्षीणस्यानिमिषाक्षस्य प्रसक्तं सक्तभाषिणः
न सिध्यत्यर्दितं बाढं त्रिवर्षं वेपनस्य च ७३
पार्ष्णिप्रत्यङ्गुलीनां तु कण्डरा याऽनिलार्दिता
सन्क्थः क्षेपं निगृह्णीयाद्गृध्रसीति हि सा स्मृता ७४
तलप्रत्यङ्गुलीनां तु कण्डरा बाहुपृष्ठतः
बाह्वोः कर्मक्षयकरी विश्वाचीति हि सा स्मृता ७५
वातशोणितजः शोफो जानुमध्ये महारुजः
शिरः क्रोष्टुकपूर्वं तु स्थूलः क्रोष्टुकमूर्धवत् ७६
वायुः कट्यां स्थितः सन्क्थः कण्डरामाक्षिपेद्यदा
खञ्जस्तदा भवेज्जन्तुः पङ्गुः सन्क्थोर्द्वयोर्वधात् ७७
प्रक्रामन् वेपते यस्तु खञ्जन्निव च गच्छति
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् ७८
न्यस्ते तु विषमं पादे रुजः कुर्यात् समीरणः
वातकण्टक इत्येष विज्ञेयः खुडकाश्रितः ७९
पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः
विशेषतश्चङ्क्रमणात् पाददाहं तमादिशेत् ८०
हृष्यतश्चरणौ यस्य भवतश्च प्रसुप्तवत्
पादहर्षः स विज्ञेयः कफवातप्रकोपजः ८१
अंसदेशस्थितो वायुः शोषयित्वांऽसबन्धनम्
सिराश्चाकुञ्च्य तत्रस्थो जनयत्यवबाहुकम् ८२
यदा शब्दवहं स्रोतो वायुरावृत्य तिष्ठति
शुद्धः श्लेष्मान्वितो वाऽपि बाधिर्यं तेन जायते ८३
हनुशङ्खशिरोग्रीवं यस्य भिन्दन्निवानिलः
कर्णयोः कुरुते शूलं कर्णशूलं तदुच्यते ८४
आवृत्य सकफो वायुर्धमनीः शब्दवाहिनी
नरान् करोत्यक्रियकान्मूकमिन्मिणगद्गदान् ८५
अधो या वेदनां याति वर्चोमूत्राशयोत्थिता
भिन्दतीव गुदोपस्थं सा तूनीत्यभिधीयते ८६
गुदोपस्थोत्थिता सैव प्रतिलोमविसर्पिणी
वेगैः पक्वाशयं याति प्रतितूनीति सा स्मृता ८७
साटोपमत्युग्ररुजमाध्मातमुदरं भृशम्
आध्मानमिति जानीयाद्धोरं वातनिरोधजम् ८८
विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम्
प्रत्याध्मानं विजानीयात् कफव्याकुलितानिलम् ८९
अष्ठीलावद्धनं ग्रन्थिमूर्ध्वमायतमुन्नतम्
वाताष्ठीलां विजानीयाद्बहिर्मार्गावरोधिनीम् ९०
एनामेव रुजायुक्तां वातविण्मूत्ररोधिनीम्
प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् ९१
इति सुश्रुतसंहितायां निदानस्थाने वातव्याधिनिदानं नाम प्रथमोऽध्यायः १
द्वितीयोऽध्यायः
अथातोऽशसां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
षडर्शांसि भवन्ति वातपित्तकफशोणितसन्निपातैः सहजानि चेति ३
तत्रानात्मवतां यथोक्तैः प्रकोपणैर्विरुद्धाध्यशनस्त्रीप्रसङ्गोत्कटुकासनपृष्ठयानवेग विधारणादिभिर्विशेषैः प्रकुपिता दोषा एकशो द्विशः समस्ताः शोणितसहिता वा यथोक्तं प्रसृताः प्रधानधमनी रनुप्रपद्याधो गत्वा गुदमागम्य प्रदूष्य गुदवली र्मांसप्ररोहाञ्जनयन्ति विशेषतो मन्दाग्नेः तथातृणकाष्ठोपललोष्ठवस्त्रादिभिः शीतोदकसंस्पर्शनाद्वा कन्दाः परिवृद्धिमासादयन्तितान्यर्शांसीत्याचक्षते ४
तत्र स्थूलान्त्रप्रतिबद्धमर्धपञ्चाङ्गुलं गुदमाहुः तस्मिन् वलयस्तिस्रोऽध्याङ्गुलान्तर संभूतां प्रवाहणी विसर्जनी संवरणी चेति चतुरङ्गुलायताः सर्वास्तिर्यगेकाङ्गुलोच्छ्रिताः ५
शङ्खावर्तनिभाश्चापि उपर्युपरि संस्थिताः गजतालुनिभाश्चापि वर्णतः संप्रकीर्तिताः रोमान्तेभ्यो यवाध्यर्धो गुदौष्ठः परिकीर्तितः ६
प्रथमा तु गुदौष्ठादङ्गुलमात्रे ७
तेषां तु भविष्यतां पूर्वरूपाणिअन्नेऽश्रद्धा कृच्छ्रात् पक्तिरम्लीका परिदाहो विष्टम्भः पिपासा सक्थिसदनमाटोपः कार्श्यमुद्गारबाहुल्यमक्ष्णोः श्वयथुरन्त्रकूजनं गुदपरिकर्तनमाशङ्का पाणडुरोगग्रहणीदोषशोषाणां कासश्वासौ बलहानिर्भ्रमस्तन्द्रा निद्रे न्द्रि यदौर्बल्यं च ८
जातेष्वेतान्येव लक्षणानि प्रव्यक्ततराणि भवन्ति ९
तत्र मारुतात् परिशुष्कारुणविवर्णानि विषममध्यानि कदम्बपुष्पतुण्डिकेरीनाडीमुकुलशूचीमुखाकृतीनि च भवन्ति तैरुपद्रुतः सशूलं संहतमुपवेश्यते कटीपृष्ठपार्श्वमेढ्रगुदनाभिप्रदेशेषु चास्य वेदना भवन्ति गुल्माष्ठीलाप्लीहोदराणि चास्य तन्निमित्तान्येव भवन्ति कृष्णत्वङ्नखनयनदशनवदनमूत्रपुरीषश्चपुरुषो भवति १०
पित्तान्नीलाग्राणि तनूनि विसर्पीणि पीतावभासानि यकृत्प्रकाशानि शुकजिह्वासंस्थानानि यवमध्यानि जलौकोवक्त्रसदृशानि प्रक्लिन्नानि च भवन्ति तैरुपद्रुतः सदाहं सरुधिरमतिसार्यते ज्वरदाहपिपासामूर्च्छाश्चास्यो पद्र वा भवन्ति पीतत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति ११
श्लेष्मजानि श्वेतानि महामूलानि स्थिराणि वृत्तानि स्निग्धानि पाण्डूनि करीरपनसास्थिगोस्तनाकाराणि न भिद्यन्ते न स्रवन्ति कण्डूबहुलानि च भवन्ति तैरुपद्रुतः सश्लेष्माणमनल्पं मांसधावनप्रकाशमतिसार्यते शोफशीतज्वरारोचकाविपाकशिरोगौरवाणि चास्य तय्निनमित्तान्येव भवन्ति शुक्लत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति १२
रक्तजानि न्यग्रोधप्ररोहविद्रुमकाकणन्तिकाफलसदृशानि पित्तलक्षणानि च यदाऽवगाढपुरीषपीडितानि भवन्ति तदाऽत्यर्थं दुष्टमनल्पमसृक् सहसा
विसृजन्ति तस्य चातिप्रवृत्तौ शोणितातियोगोपद्र वा भवन्ति १३
सन्निपातजानि सर्वदोषलक्षणयुक्तानि १४
सहजानि दुष्टशोणितशुक्रनिमित्तानि तेषां दोषत एव प्रसाधनं कर्तव्यं विशेषतश्चैतानि दुर्दर्शनानि परुषाणि पांसूनि दारुणान्यन्तर्मुखानि तैरुपद्रुतः कृशोऽल्पभुक् सिरासन्ततगात्रोल्पप्रजः क्षीणरेताः क्षामस्वरः क्रोधनोऽल्पाग्निप्राणः परमलसश्च तथा घ्राणशिरोऽक्षिनासाश्रवणरोगी सततमन्त्रकूजाटोपहृदयोपलेपारोचकप्रभृतिभिः पीड्यते १५
भवति चात्र
बाह्यमध्यवलिस्थानां प्रतिकुर्याद्भिषग्वरः अन्तर्वलिसमुत्थानां प्रत्याख्यायाचरेत् क्रियाम् १६
प्रकुपितास्तु दोषा मेढ्रमभिप्रपन्ना मांसशोणिते प्रदूष्य कण्डूं जनयन्ति ततः कण्डूयनात् क्षतं समुपजायते तस्मिंश्च क्षते दुष्टमांसजाः प्ररोहाः पिच्छिलरुधिरस्राविणो जायन्ते कूर्चकिनोऽभ्यन्तरमुपरिष्टाद्वा ते तु शेफो विनाशयन्त्युपघ्नन्ति च पुंस्त्वां योनिमभिप्रपन्नाः सुकुमारान् दुर्गन्धान् पिच्छिलरुधिरस्राविणश्छत्राकारान् करीराञ्जनयन्ति ते तु योम्पघ्नन्त्यार्तवं च नाभिमभिप्रपन्नाः सुकुमारान् दुर्गन्धान् पिच्छिलान् गण्डूपदमुखसदृशान् करीराञ्जनयन्ति त एवोर्ध्वमागताः श्रोत्रा क्षिघ्राणवदनेष्वर्शांस्युपनिर्वर्तयन्ति तत्र कर्णजेषु बाधिर्यं शूलं पूतिकर्णता च नेत्रजेषु वर्त्मावरोधो वेदना स्रावो दर्शननाशश्च घ्राणजेषु प्रतिश्यायोऽतिमात्रं क्षवथुः कृच्छ्रोच्छ्वासता पूतिनस्यं सानुनासिकवाक्यत्वं शिरोदुःखं च वक्त्रजेषु कण्ठौष्ठतालूनामन्यतमस्मिंस्तैर्गद्गद वाक्यता रसाज्ञानं मुखरोगाश्च भवन्ति १७
व्यानस्तु प्रकुपितः श्लेष्माणं परिगृह्य बहिः स्थिराणि कीलवदर्शांसि निर्वर्तयति तानि चर्मकीलान्यर्शांसीत्याचक्षते १८
भवन्ति चात्र
तेषु कीलेषु निस्तोदो मारुतेनोपजायते श्लेष्मणा तु सवर्णत्वं ग्रन्थित्वं च विनिर्दिशेत् १९
पित्तशोणितजं रौक्ष्यं कृष्णत्वं श्लक्ष्णता तथा समुदीर्णखरत्वं च चर्मकीलस्य लक्षणम् २०
अर्शसां लक्षणं व्यासादुक्तं सामान्यतस्तु यत् तत्सर्वं प्राग्विनिर्दिष्टात्साधयेद्भिषजां वरः २१
अर्शःसु दृश्यते रूपं यदा दोषद्वयस्य तु संसर्गं तं विजानीयात् संसर्गः स च षड्विधः २२
त्रिदोषाण्यल्पलिङ्गानि याप्यानि तु विनिर्दिशेत् द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च २३
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च सन्निपातसमुत्थानि सहजानि तु वर्जयेत् २४
सर्वाः स्युर्वलयो येषां दुर्नामभिरुपद्रुताः तैस्तु प्रतिहतो वायुरपानः सन्निवर्तते २५
ततो व्यानेन सङ्गम्य ज्योतिर्मृद्गाति देहिनाम् २६
इति सुश्रुतसंहितायां निदानस्थानेऽशोनिदानं नाम द्वितीयोऽध्यायः २
तृतीयोऽध्यायः
अथातोऽश्मरीणां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
चतस्रोऽश्मर्यो भवन्ति श्लेष्माधिष्ठानाः तद्यथा
श्लेष्मणा वातेन पित्तेन शुक्रेण चेति ३
तत्रासंशोधनशीलस्यापथ्यकारिणः प्रकुपितः श्लेष्मा मूत्रसंपृक्तोऽनुप्रविश्य बस्तिमश्मरीं जनयति ४
तासां पूर्वरूपाणिज्वरो बस्तिपीडारोचकौ मूत्रकृच्छ्रं बस्तिशिरोमुष्कशेफसां वेदना कृच्छ्रावसादो बस्तगन्धित्वं मूत्रस्येति ५
यथास्ववेदनावर्णं दुष्टं सान्द्र मथाविलम् पूर्वरूपेऽश्मनः कृच्छ्रान्मूत्रं सृजति मानवः ६
अथ जातासु नाभिबस्तिसेवनीमेहनेष्वन्यतमस्मिन् मेहतो वेदना मूत्रधारासङ्गः सरुधिरमूत्रता मूत्रविकिरणं गोमेदकप्रकाशमत्याविलं ससिकतं विसृजति धनवनलङ्घनप्लवनपृष्ठयानोष्णाध्वगमनैश्चास्य वेदना भवन्ति ७
तत्र श्लेष्माश्मरी श्लेष्मलमन्नमभ्यवहरतोऽत्यर्थमुपलिप्याधः परिवृद्धिं प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि तस्य मूत्रप्रतिघाताद्दाल्यते भिद्यते निस्तुद्यत इव च बस्तिर्गुरुः शीतश्च भवति अश्मरी चात्र श्वेता स्निग्धा महती कुक्कुटाण्डप्रतीकाशा मधूकपुष्पवर्णा वा भवति तां श्लैष्मिकीमिति विद्यात्८
पित्तयुतस्तु श्लेष्मा संघातमुपगम्य यथोक्तां परिवृद्धिं प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि तस्य मूत्रप्रतीघातादूष्यते चूष्यते दह्यते पच्यत इव बस्तिरुष्णवातश्च भवति अश्मरी चात्र सरक्ता पीतावभासा कृषणा भल्लात कास्थिप्रतिमा मधुवर्णा वा भवति तां पैत्तिकीमिति विद्यात् ९
वातयुतस्तु श्लेष्मा संघातमुपगम्य यथोक्तां परिवृद्धिं प्राप्य बस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि तस्य मूत्रप्रतीघातात्तीव्रा वेदना भवति तदाऽत्यर्थं पीड्यमानो दन्तान् खादति नाभिं पीडयति मेढ्रं प्रमृद्गाति पायुं स्पृशति विशर्धते विदहति वातमूत्रपुरीषाणि कृच्छ्रेण चास्य मेहतो निःसरन्ति अश्मरी चात्र श्यावा परुषा विषमा खरा कदम्बपुष्पवत्कण्टकाचिता भवति तां वातिकीमिति विद्यात् १०
पायेणैतास्तिस्रोऽश्मर्यो दिवास्वप्नसमसनाध्यशनशीतस्निग्धगुरुमधुराहारप्रियत्वाद्विशेषेण बालानां भवन्ति तेषामेवाल्प बस्तिकायत्वादनुपचितमांसत्वाच्च बस्तेः सुखग्रहणाहरणा भवन्ति महतां तु शुक्राश्मरी शुक्रनिमित्ता भवति ११
मैथुनविघातादतिमैथुनाद्वा शुक्रं चलितमनि र्गच्छद्विमार्गगमनादनिलोऽभितः संगृह्य मेढ्रवृषणयोरन्तरे संहरति संहृत्य चोपशोषयति सा मूत्रमार्गमावृणोति मूत्रकृच्छ्रं बस्तिवेदनां वृषणयोश्च श्वयथुमापादयति पीडितमात्रे च तस्मिन्नेव प्रदेशे प्रविलयमापद्यते तां शुक्राश्मरीमिति विद्यात् १२
भवन्ति चात्र
शर्करा सिकता मेहो भस्माख्योऽश्मरिवैकृतम् अश्मर्या शर्करा ज्ञेया तुल्यव्यञ्जनवेदना १३
पवनेऽनुगुणे सा तु निरेत्यल्पा विशेषतः सा भिन्नमूर्तिर्वातेन शर्करेत्यभिधीयते १४
हृत्पीडा सक्थिसदनं कुक्षिशूलं च वेपथुः तृष्णोर्ध्वगोऽनिलः कार्ष्ण्यं दौर्बल्यं पाण्डुगात्रता १५
अरोचकाविपाकौ तु शर्करार्ते भवन्ति च मूत्रमार्गप्रवृत्ता सा सक्ता कुर्यादुपद्र वान् १६
दौर्बल्यं सदनं कार्श्यं कुक्षिशूलमरोचकम् पाण्डुत्वमुष्णवातं च तृष्णां हृत्पीडनं वमिम् १७
नाभिपृष्ठकटीमुष्कगुदवङ्क्षणशेफसाम् एकद्वारस्तनुत्वक्को मध्ये बस्तिरधोमुखः १८
बस्तिर्बस्तिशिरश्चैव पौरुषं वृषणौ गुदः एकसंबन्धिनो ह्येते गुदास्थिविवराश्रिताः १९
अलाब्वा इव रूपेण सिरास्नायुपरिग्रहः मूत्राशयो मलाधारः प्राणायतनमुत्तमम् २०
पक्वाशयगतास्तत्र नाड्यो मूत्रवहास्तु याः तर्पयन्ति सदा मूत्रं सरितः सागरं यथा २१
सूक्ष्मत्वान्नोपलभ्यन्ते मुखान्यासां सहस्रशः नाडीभिरुपनीतस्य मूत्रस्यामाशयान्तरात् २२
जाग्रतः स्वपतश्चैव स निः स्यन्देन पूर्यते आमुखात्सलिले न्यस्तः पार्श्वेभ्यः पूर्यते नवः २३
घटो यथा तथा विद्धि बस्तिर्मूत्रेण पूर्यते एवमेव प्रवेशेन वातः पित्तं कफोऽपि वा २४
मूत्रयुक्तमुपस्नेहात् प्रविश्य कुरुतेऽश्मरीम् अप्सु स्वच्छास्थिआस्विपि यथा निषिक्तासु नवे घटे २५
कालान्तरेण पङ्कः स्यादश्मरीसंभवस्तथा संहन्त्यापो यथा दिव्या मारुतोऽग्निश्च वैद्युतः २६
तद्वद्बलासं बस्तिस्थमूष्मा संहन्ति सानिलः मारुते प्रगुणे बस्तौ मूत्रं सम्यक् प्रवर्तते विकारा विविधाश्चापि प्रतिलोमे भवन्ति हि २७
मूत्राघाताः प्रमेहाश्च शुक्रदोषास्तथैव च मूत्रदोषाश्च ये केचिद्वस्तावेव भवन्ति हि २८
इति सुश्रुतसंहितायां निदानस्थानेऽश्मरीनिदानं नाम तृतीयोऽध्यायः ३
चतुर्थोऽध्यायः
अथातो भगन्दराणां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातपित्तश्लेष्मसन्निपातागन्तुनिमित्ताः शतपोनकोष्ट्रग्रीवपरिस्राविशम्बूकावर्तोन्मार्गिणो यथासंख्यं पञ्च भगन्दरा भवन्ति ते तु भगगुदबस्तिप्रदेशदारणाच्च भगन्दरा इत्युच्यन्ते अभिन्नाः पिडकाः भिन्नास्तु भगन्दराः ३
तेषां तु पूर्वरूपाणि कटीकपालवेदना कण्डूर्दाहः शोफश्च गुदस्य भवति ४
तत्रापथ्यसेविनां वायुः प्रकुपितः सन्निवृत्तः स्थिरीभूतो गुदमभितोऽङ्गुलेद्व्यङ्गुले वा मांसशोणित प्रदूष्यारुणवर्णां पिडकां जनयति साऽस्य तोदादीन् वेदनाविशेषाञ्जनयति अप्रतिक्रियमाणा च पाकमुपैति मूत्राशयाभ्यासगतत्वाच्च व्रणः प्रक्लिन्नः शतपोनकवदणुमुखैश्छिद्रै रापूर्यते तानि च छिद्रा ण्यजस्रमच्छं फेनानुविद्धमधिकमास्रावं स्रवन्ति व्रणश्च ताड्य्ते भिद्यते छिद्यते सूचीभिरिव निस्तुद्यते गुदं चावदीर्यते उपेक्षिते च वातमूत्रपुरीषरेत सामप्यागमश्च तैरेव छिद्रै र्भवति तं भगन्दरं शतपोनकमित्याचक्षते ५
पित्तं तु प्रकुपितमनिलेनाधः प्रेरितं पूर्ववदवस्थित रक्तां तन्वीमुच्छ्रितामुष्ट्रग्रीवाकारां पिडकां जनयति साऽस्य चोषादीन् वेदनाविशेषाञ्जनयति अप्रतिक्रियमाणा च पाकमुपैति व्रणश्चाग्निक्षाराभ्यामिव दह्यते दुर्गन्धमुष्णमास्रावं स्रवति उपेक्षितश्च वातमूत्रपुरीषरेतांसि विसृजति तं भगन्दरमुष्ट्रग्रीवमित्याचक्षते ६
श्लेष्मा तु प्रकुपितः समीरणेनाधः प्रेरितः पूर्ववदवस्थितः शुक्लावभासां स्थिरां कण्डूमतीं पिडकां जनयति साऽस्य कण्ड्वादीन् वेदनाविशेषाञ्जनयति अप्रतिक्रियमाणा च पाकमुपैति व्रणश्च कठिनः संरम्भी कण्डूप्रायः पिच्छिलमजस्रमास्रावं स्रवति उपेक्षितश्च वातमूत्रपुरीषरेतांसि विसृजतितं भगन्दरं परिस्राविणमित्याचक्षते ७
वायुः प्रकुपितः प्रकुपितौ पित्तश्लेष्माणौ परिगृह्याधो गत्वा पूर्ववदवस्थितः पादाङ्गुष्ठाग्रप्रमाणां सर्वलिङ्गां पिडकां जनयति साऽस्य तोददाहकण्ड्वादीन् वेदनाविशेषाञ्जनयति अप्रतिक्रियमाणा च पाकमुपैति व्रणश्च नानाविधवर्णमास्रावं स्रवति पूर्णनदीशम्बूकावर्तवच्चात्र समुत्तिष्ठन्ति वेदनाविशेषाः तं भगन्दरं शम्बूकावर्तमित्याचक्षते ८
मूढेन मांसलुब्धेन यदस्थिशल्यमन्नेन सहाभ्यवहृतंयदाऽव गाढपुरीषोन्मिश्रमपानेनाधःप्रेरितमसम्यगागतं गुदमपक्षिणोति तदा क्षतनिमित्तः कोथ उपजायते तस्मिंश्च क्षते पूयरुधिरावकीर्णमांसकोथे भूमाविव जलप्रक्लिन्नायाक्रिमयः संजायन्ते ते भक्षयन्तो गुदमनेकधा पार्श्वतो दारयन्ति तस्य तैर्मार्गैः कृमिकृतैर्वातमूत्रपुरीषरेतांस्यभिनिः सरन्ति तं भगन्दरमुन्मार्गिणमित्याचक्षते ९
भवन्ति चात्र उत्पद्यतेऽल्परुक् शोफात् क्षिप्रं चाप्युपशाम्यति पाय्वन्तदेशे पिडका सा ज्ञेयाऽन्या भगन्दरात् १०
पायोः स्याद् द्व्यङ्गुले देशे गूढमूला सरुग्ज्वरा भागन्दरीति विज्ञेया पिडकाऽतो विपर्ययात् ११
यानयानान्मलोत्सर्गात् कण्डूरुग्दाहशोफवान् पायुर्भबेद्रुजः कट्यां पूर्वरूपं भगन्दरे १२
घोराः साधयितुं दुःखाः सर्व एव भगन्दराः तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्च भगन्दरः १३
इति सुश्रुतसंहितायां निदानस्थाने भगन्दरनिदानं नाम चतुर्थोऽध्यायः ४
पञ्चमोऽध्यायः
अथातः कुष्ठनिदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मिथ्याहाराचारस्य विशेषाद्गुरुविरुद्धासात्म्याजीर्णाहिताशिनः स्नेहपीतस्य वान्तस्य वा व्यायामग्राम्यधर्मसेविनो ग्राम्यानूपौदकमांसानि वा पयसाऽभीक्ष्णमश्नतो यो वा मज्जत्यप्सूष्माभितप्तः सहजा छर्दिर्वा प्रतिहन्ति तस्य पित्तश्लेष्माणौ प्रकुपितौ परिगृह्यानिलः प्रवृद्धस्तिर्यग्गाः सिराः संप्रपद्य समुद्धूय बाह्यं मार्गं प्रति समन्ताद्विक्षिपति यत्र यत्र च दोषो विक्षिप्तो निश्चरति तत्र तत्र मण्डलानि प्रादुर्भवन्ति एवं समुत्पप्ननस्त्वचि दोषस्तत्र तत्र च परिवृद्धिं प्राप्याप्रतिक्रियमाणोऽभ्यन्तरं प्रतिपद्यतेधातूनभिदूषयन् ३
तस्य पूर्वरूपाणित्वक्पारुष्यमकस्माद्रो महर्षः कण्डूः स्वेदबाहुल्यमस्वेदनं वाऽङ्गप्रदेशानां स्वापः क्षतविसर्पणमसृजः कृष्णता चेति ४
तत्र सप्त महाकुष्ठानि एकादश क्षुद्र कुष्ठानि एवमष्टादश कुष्ठानि भवन्ति तत्र महाकुष्ठान्यरुणो दुम्बरर्ष्यर्क्षिइजिह्वकपाल काकणकपुण्डरीकदद्रुकुष्ठानीति क्षुद्र कुष्ठान्यपि स्थूलारुषकं महाकुष्ठमेककुष्ठं चर्मदलं विसर्पः परिसर्पः सिध्मं विचर्चिका किटिभं मिंपामा रकसा चेति ५
सर्वाणि कुष्ठानि सवातानि सपित्तानि सश्लेष्माणि सक्रिमीणि च भवन्ति उत्सन्नतस्तु दोषग्रहणमभिभवात् ६
तत्र वातेनारुणं पित्तेनोदुम्बरर्ष्यर्क्षिइजिह्वकपालकाकणकानि श्लेष्मणा पुण्डरीकं दद्रुकुष्ठं चेति तेषां महत्त्वं क्रियागुरुत्वमुत्तरोत्तरं धात्वनुप्रवेशादसाध्यत्वं चेति ७
तत्र वातेनारुणाभानि तनूनि विसर्पीणि तोदभेदस्वापयुक्तान्यरुणानि पित्तेन पक्वोदुम्बरफलाकृतिवर्णान्यौदुम्बराणि ऋष्यजिह्वाप्रकाशानि खराणि ऋष्यजिह्वानि कृष्णकपालिकाप्रकाशानि कपालकुष्ठानि काकणन्तिकाफलसदृशान्यतीव रक्तकृष्णानि काकणकानि तेषां चतुर्णामप्योषचोषपरिदाहधूमायनानि क्षिप्रोत्थानप्रपाकभेदित्वानि क्रिमिजन्म च सामान्यानि लिङ्गानि श्लेष्मणा पुण्डरीकपत्रप्रकाशानि पौण्डरीकाणि अतसीपुष्पवर्णानि ताम्राणि वा विसर्पीणि पिडकावन्ति च दद्रुकुष्ठानि तयोर्द्वयोरप्युत्सन्नता परिमण्डलता कण्डूश्चिरोत्थानत्वं चेति सामान्यानि रूपाणि ८
क्षुद्र कुष्ठान्यत ऊर्ध्वं वक्ष्यामःस्थूलानि सन्धिष्वतिदारुणानि स्थूलारुषि स्युः
कठिनान्यरूंषि त्वक्कोचभेदस्वपनाङ्गसादाः कुष्ठे महत्पूर्वयुते भवन्ति ९
कृष्णारुणं येन भवेच्छरीरं तदेककुष्ठं प्रवदन्ति कुष्ठम्
स्युर्येन कण्डूव्यथनौषचोषास्तलेषु तच्चर्मदलं वदन्ति १०
विसर्पवत् सर्पति सर्वतो यस्त्वग्रक्तमांसान्यभिभूय शीघ्रम्
मूर्च्छाविदाहारतितोदपाकान् कृत्वा विसर्पः स भवेद्विकारः ११
शनैः शरीरे पिडकाः स्रवन्त्यः सर्पन्ति यास्तं परिसर्पमाहुः
कण्ड्वन्वितं श्वेतमपायि सिध्म विद्यात्तनु प्रायश ऊर्ध्वकाये १२
राज्योऽतिकण्ड्वर्तिरुजः सरूक्षा भवन्ति गात्रेषु विचर्चिकायाम्
कण्डूमती दाहरुजोपपन्ना विपादिका पादगतेयमेव १३
यत् स्रावि वृत्तं घनमुग्रकण्डु तत् स्निग्धकृष्णं किटिभंमिंविदन्ति
सास्रावकण्डूपरिदाहकाभिः पामाऽणुकाभिः पिडकाभिरूह्या १४
स्फोटैः सदाहैरति सैव कच्छूः स्फिक्पाणिपादप्रभवैर्निरूप्या
कण्ड्वन्विता या पिडका शरीरे संस्रावहीना रकसोच्यते सा १५
अरुः ससिध्मं रकसा महच्च यच्चैककुष्ठं कफजान्यमूनि
वायोः प्रकोपात् परिसर्पमेकं शेषाणि पित्तप्रभवाणि विद्यात् १६
किलासमपि कुष्ठविकल्प एव तत्त्रिविधं वातेन पित्तेनश्लेष्मणा चेति कुष्ठकिलासयोरन्तरत्वग्गतमेव किलासमपरिस्रावि च तद्वातेन मण्डलमरुणं परुषं परिध्वंसि च पित्तेन पद्मपत्रप्रतीकाशं सपरिदाहं च श्लेष्मणा श्वेतं स्निग्धं बहलं कण्डूमच्च तेषु संबद्धमण्डलमन्तेजातं रक्तरोमचासाध्यमग्निदग्धं च १७
कुष्ठेषु तु त्वक्संकोचस्वापस्वेदशोफभेदकौण्यस्वरोपघाता वातेन पाकावदरणाङ्गुलिपतनकर्णनासाभङ्गाक्षिरागसत्त्वोत्पत्तयः पित्तेन कण्डूवर्णभेदशो फास्रावगौरवाणि श्लेष्मणा १८
तत्रादिबलप्रवृत्तं पौण्डरीकं काकणं चासाध्यम् १९
भवन्ति चात्र
यथा वनस्पतिर्जातः प्राप्य कालप्रकर्षणम्
अन्तर्भूमिं विगाहेत मूलैर्वृष्टिविवर्धितैः २०
एवं कुष्ठं समुत्पन्नं त्वचि कालप्रकर्षतः
क्रमेण धातून् व्याप्नोति नरस्याप्रतिकारिणः २१
स्पर्शहानिः स्वेदनत्वमीषत्कण्डूश्च जायते
वैवर्ण्यं रूक्षभावश्च कुष्ठे त्वचि समाश्रिते २२
त्वक्स्वापो रोमहर्षश्च स्वेदस्याभिप्रवर्तनम्
कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रिते २३
बाहुल्यं वक्त्रशोषश्च कार्कश्यं पिडकोद्गमः
तोदः स्फोटः स्थिरत्वं च कुष्ठे मांससमाश्रिते २४
दौर्गन्ध्यमुपदेहश्च पूयोऽथ क्रिमयस्तथा
गात्राणां भेदनं चापि कुष्ठे मेदःसमाश्रिते २५
नासाभङ्गोऽक्षिरागश्च क्षते च क्रिमिसंभवः
भवेत् स्वरोपघातश्च ह्यस्थिमज्जसमाश्रिते २६
कौण्यं गतिक्षयोऽङ्गानां संभेदः क्षतसर्पणम्
शुक्रस्थानगते लिङ्गं प्रागुक्तानि तथैव च २७
स्त्रीपुंसयोः कुष्ठदोषाद्दुष्टशोणितशुक्रयोः
यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम् २८
कुष्ठमात्मवतः साध्यं त्वग्रक्तपिशिताश्रितम्
मेदोगतं भवेद्याप्यमसाध्यमत उत्तरम् २९
ब्रह्मस्त्रीसज्जनवधपरस्वहरणादिभिः
कर्मभिः पापरोगस्य प्राहुः कुष्ठस्य संभवम् ३०
म्रियते यदि कुष्ठेन पुनर्जातेऽपि गच्छति
नातः कष्टतरो रोगो यथा कुष्ठं प्रकीर्तितम् ३१
आहाराचारयोः प्रोक्तामास्थाय महतीं क्रियाम्
औषधीनां विशिष्टानां तपसश्च निषेवणात्
यस्तेन मुच्यते जन्तुः स पुण्यां गतिमाप्नुयात् ३२
प्रसङ्गाद्गात्रसंस्पर्शान्निश्वासात् सहभोजनात्
सहशय्यासनाच्चापि वस्त्रमाल्यानुलेपनात् ३३
कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च
औपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम् ३४
इति सुश्रुतसंहितायां निदानस्थाने कुष्ठनिदानं नाम पञ्चमोऽध्यायः ५
षष्ठोऽध्यायः
अथातः प्रमेहनिदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
दिवास्वप्नाव्यायामालस्यप्रसक्तं शीतस्निग्धमधुरमेद्यद्र वान्नपानसेविनं पुरुषं
जानीयात् प्रमेही भविष्यतीति ३
तस्य चैवंप्रवृत्तस्यापरिपक्वा एव वातपित्तश्लेष्माणो यदा मेदसा सहैकत्वमुपेत्य मूत्रवाहिस्रोतांस्यनुसृत्याधो गत्वा बस्तेर्मुखमाश्रित्य निर्भिद्यन्ते तदा प्रमेहाञ्जनयन्ति ४
तेषां तु पूर्वरूपाणिहस्तपादतलदाहः स्निग्धपिच्छिलगुरुता गात्राणां मधुरशुक्लमूत्रता तन्द्रा सादः पिपासा दुर्गन्धश्च श्वासस्तालुगलजिह्वादन्तेषु मलोत्प त्तिर्जटिलीभावः केशानां वृद्धिश्च नखानाम् ५
तत्राविलप्रभूतमूत्रलक्षणाः सर्व एव प्रमेहा भवन्ति ६
सर्व एव सर्वदोषसमुत्थाः सह पिडकाभिः ७
तत्र कफादुदकेक्षुवालिकासुरासिकताशनैर्लवणपिष्टसान्द्र शुक्रफेनमेहा दशसाध्याः दोषदूष्याणां समक्रिंयत्वात् पित्तान्नीलहरिद्रा म्लक्षार मञ्जिष्ठा शोणितमेहाः षड् याप्याः दोषदूष्याणां विषमक्रियत्वात् वातात् सर्पिर्वसाक्षौद्र हस्तिमेहाश्चत्वारोऽसाध्यतमाः महात्ययिकत्वात् ८
तत्र वातपित्तमेदोभिरन्वितः श्लेष्मा श्लेष्मप्रमेहाञ्जनयति वातकफशोणितमेदोभि रन्वितं पित्तं पित्तप्रमेहान् कफपित्तवसामज्जमेदोभिरन्वितो वायुर्वातप्रमेहान् ९
तत्र श्वेतमवेदनमुदकसदृशमुदकमेही मेहति इक्षुरसतुल्यमि क्षुवालि कामेही सुरातुल्यं सुरामेही सरुजं सिकतानुविद्धं सिकतामेही शनैः सकफं मृत्स्नं शनैर्मेही विशदं लवणतुल्यं लवणमेही हृष्टरोमा पिष्टरसतुल्यं पिष्टमेही आविलं सान्द्रं सान्द्र मेही शुक्रतुल्यं शुक्रमेही स्तोकं स्तोकं सफेनमच्छं फनमेही मेहति १०
अत ऊर्ध्वं पित्तनिमित्तान् वक्ष्यामःसफेनमच्छं नीलं नीलमेही मेहति सदाहं हरिद्रा भं दरिद्रा मेही अम्लरसगन्धमम्लमेही स्रुतक्षारप्रतिमं क्षारमेही मञ्जि ष्ठोदकप्रकाशं मञ्जिष्ठामेही शोणितप्रकाशं शोणितमेही मेहति ११
अत ऊर्ध्वं वातनिमित्तान् वक्ष्यामःसर्पिःप्रकाशं सर्पिर्मेही मेहति वसाप्रकाशं वसामेही क्षौद्र रसवर्णं क्षौद्र मेही मत्तमातङ्गवदनुप्रबन्धं हस्तिमेही मेहति १२
मक्षिकोपसर्पणमालस्यं मांसोपचयः प्रतिश्यायः शैथिल्यारोचकाविपाकाः कफप्रसेकच्छर्दिनिद्रा कासश्वासाश्चेति श्लेष्मजानामुपद्र वाः वृषणयोरवदरणं बस्तिभेदो मेढ्रतोदो हृदि शूलमम्लीकाज्वरातीसारारोचका वमथुः परिधूपनं दाहो मूर्च्छा पिपासा निद्रा नाशः पाण्डुरोगः पीतविण्मूत्रनेत्रत्वं चेति पैत्तिकानां हृद्ग्रहो लौल्यमनिद्रा स्तम्भः कम्पः शूलं बद्धपुरीषत्वं चेति वातजानाम् एवमेते विंशति प्रमेहाः सोपद्र वा व्याख्याताः १३
तत्र वसामेदोभ्यामभिपन्नशरीरस्य त्रिभिर्दोषैश्चानुगतधातोः प्रमेहिणो दश पिडका जायन्ते तद्यथाशराविका सर्षपिका कच्छपिका जालिनी विनता पुत्रिणी मसूरिका अलजी विदारिका विद्रधिका चेति १४
शरावमात्रा तद्रू पा निम्नमध्या शराविका
गौरसर्षपसंस्थाना तत्प्रमाणा च सार्षपी १५
सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः
जालिनी तीव्रदाहा तु मांसजालसमावृता १६
महती पिडका नीला पिडका विनता स्मृता
महत्यल्पाचिता ज्ञेया पिडका सा तु पुत्रिणी १७
मसूरसमसंस्थाना ज्ञेया सा तु मसूरिका
रक्ता सिता स्फोटवती दारुणा त्वलजी भवेत् १८
विदारीकन्दवद्वृत्ता कठिना च विदारिका
विद्र धेर्लक्षणैर्युक्ता ज्ञेया विद्र धिका बुधैः १९
ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तत्कृताः
गुदे हृदि शिरस्यंसे पृष्ठे मर्मणि चोत्थिताः
सोपद्र वा दुर्बलाग्नेः पिडकाः परिवर्जयेत् २०
कृत्स्नं शरीरं निष्पीड्य मेदोमज्जवसायुतः
अधः प्रक्रमते वायुस्तेनासाध्यास्तु वातजाः २१
प्रमेहपूर्वरूपाणामाकृतिर्यत्र दृश्यते
किंचिच्चाप्यधिकं मूत्रं तं प्रमेहिणमादिशेत् २२
कृत्स्नान्यर्धानि वा यस्मिन् पूर्वरूपाणि मानवे
प्रवृत्तमूत्रमत्यर्थं तं प्रमेहिणमादिशेत् २३
पिडकापीडितं गाढमुपसृष्टमुपद्र वैः
मधुमेहिनमाचष्टे स चासाध्यः प्रकीर्तितः २४
स चापि गमनात् स्थानं स्थानादासनमिच्छति
आसनाद्वृणुते शय्यां शयनात् स्वप्नमिच्छति २५
यथा हि वर्णानां पञ्चानामुत्कर्षापकर्षकृतेन संयोगविशेषेण शबलबभ्रुकपिलकपोतमेचकादीनां वर्णानामनेकेषामुत्पत्तिर्भवति एवमेव दोषधातुमलाहार विशेषेणोत्कर्षापकर्षकृतेन संयोगविशेषेण प्रमेहाणां नानाकरणं भवति २६
भवति चात्र
सर्व एव प्रमेहास्तु कालेनाप्रतिकुर्वतः
मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति हि २७
इति सुश्रुतसंहितायां निदानस्थाने प्रमेहनिदानं नाम षष्ठोऽध्यायः ६
सप्तमोऽध्यायः
अथात उदराणां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
धन्वन्तरिर्धर्मभृतां वरिष्ठो राजर्षिरिन्द्र प्रतिमोऽभवद्यः
ब्रह्मर्षिपुत्रं विनयोपपन्नं शिष्यं शुभं सुश्रुतमन्वशात् सः ३
पृथक् समस्तैरपि चेह दोषैः प्लीहोदरं बद्धगुदं तथैव
आगन्तुकं सप्तममष्टमं च दकोदरं चेति वदन्ति तानि ४
सुदुर्बलाग्नेरहिताशनस्य संशुष्कपूत्यन्ननिषेवणाद्वा
स्नेहादिमिथ्याचरणाच्च जन्तोर्वृद्धिं गताः कोष्ठमभिप्रपन्नाः ५
गुल्माकृतिव्यञ्जितलक्षणानि कुर्वन्ति घोराण्युदराणि दोषाः
कोष्ठादुपस्नेहवदन्नसारो निःसृत्य दुष्टोऽनिलवेगनुन्नः ६
त्वचः समुन्नम्य शनैः समन्ताद्विवर्धमानो जठरं करोति
तत्पूर्वरूपं बलवर्णकाङ्क्षावलीविनाशो जठरे हि राज्यः ७
जीर्णापरिज्ञानविदाहवत्यो बस्तौ रुजः पादगतश्च शोफः
संगृह्य पार्श्वोदरपृष्ठनाभीर्यद्वर्धते कृष्णसिरावनद्धम् ८
सशूलमानाहवदुग्रशब्दं सतोदभेदं पवनात्मकं तत्
यच्चोषतृष्णाज्वरदाहयुक्तं पीतं सिरा भान्ति च यत्र पीताः ९
पीताक्षिविण्मूत्रनखाननस्य पित्तोदरं तत्त्वचिराभिवृद्धि
यच्छीतलं शुक्लसिरावनद्धं गुरु स्थिरं शुक्लनखाननस्य १०
स्निग्धं महच्छोफयुतं ससादं कफोदरं तत्तु चिराभिवृद्धि
स्त्रियोऽन्नपानं नखरोममूत्रविडार्तवैर्युक्तमसाधुवृत्ताः ११
यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसेवनाद्वा
तेनाशु रक्तं कुपिताश्च दोषाः कुर्वन्ति घोरं जठरं त्रिलिङ्गम् १२
तच्छीतवाताभ्रसमुद्भवेषु विशेषतः कुप्यति दह्यते च
स चातुरो मूर्च्छति संप्रसक्तं पाण्डुः कृशः शुष्यति तृष्णया च १३
प्रकीर्तितं दूष्युदरं तु घोरं प्लीहोदरं कीर्तयतो निबोध
विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक् कफश्च १४
प्लीहाभिवृद्धिं सततं करोति प्लीहोदरं तत् प्रवदन्ति तज्ज्ञाः
वामे च पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र १५
मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीणबलोऽतिपाण्डुः
सव्येतरस्मिन् यकृति प्रदुष्टे ज्ञेयं यकृद्दाल्युदरं तदेव १६
यस्यान्त्रमन्नैरुपलेपिभिर्वा बालाश्मभिर्वा सहितैः पृथग्वा
संचीयते तत्र मलः सदोषः क्रमेण नाड्यामिव संकरो हि १७
निरुध्यते चास्य गुदे पुरीषं निरेति कृच्छ्रादपि चाल्पमल्पम्
हृन्नाभिमध्ये परिवृद्धिमेति तच्चोदरं विट्समगन्धिकं च १८
प्रच्छर्दयन् बद्धगुदी विभाव्यः ततः परिस्राव्युदरं निबोध
शल्यं यदन्नोपहितं तदन्त्रं भिनत्ति यस्यागतमन्यथा वा १९
तस्मात् स्रुतोऽन्त्रात् सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः
नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यतेऽतीव विदह्यते च २०
एतत् परिस्राव्युदरं प्रदिष्टं दकोदरं कीर्तयतो निबोध
यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथवा निरूढः २१
पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दुष्यन्ति हि तद्वहानि
स्नेहोपलिप्तेष्वथवाऽपि तेषु दकोदरं पूर्ववदभ्युपैति २२
स्निग्धं महत् संपरिवृत्तनाभि भृशोन्नतं पूर्णमिवाम्बुना च
यथा दृतिः क्षुभ्यति कम्पते च शब्दायते चापि दकोदरं तत् २३
आध्मानं गमनेऽशक्तिर्दौर्बल्यं दुर्बलाग्निता
शोफः सदनमङ्गानां सङ्गो वातपुरीषयोः
दाहस्तृष्णा च सर्वेषु जठरेषु भवन्ति हि २४
अन्ते सलिलभावं हि भजन्ते जठराणि तु
सर्वाण्येव परीपाकात्तदा तानि विवर्जयेत् २५
इति सुश्रुतसंहितायां निदानस्थाने उदरनिदानं नाम सप्तमोऽध्यायः ७
अष्टमोऽध्यायः
अथातो मूढगर्भनिदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
ग्राम्यधर्मयानवाहनाध्वगमनप्रस्खलनप्रपतनप्रपीडनधावनाभिघातविषमशयना-सनोपवासवेगाभिघातातिरूक्षकटुतिक्तभोजनशोकातिक्षार-सेवनातिसारवमनविरेचनप्रेङ्खोलनाजीर्णगर्भशातन-प्रभृतिभिर्विशेषैर्बन्धनान्मुच्यते गर्भः फलमिव वृन्तबन्धनादभिघातविशेषैः स विमुक्तबन्धनो गर्भाशयम तिक्रम्य यकृत्प्लीहान्त्रविवरैरवस्रंसमानः कोष्ठसंक्षोभमापादयति तस्या जठरसंक्षोभाद्वायुरपानो मूढःपार्श्वबस्तिशीर्षोदरयोनिशूलानाहमूत्रसङ्गा नामन्यतममा पाद्य गर्भं च्यावयति तरुणं शोणितस्रावेण तमेव कदा चिद्विवृद्धमसम्यगागतमपत्यपथमनुप्राप्तमनिरस्यमानं विगुणापानसंमोहितं गर्भं मूढगर्भमित्याचक्षते ३
ततः कीलः प्रतिखुरो बीजकः परिघ इति तत्र ऊर्ध्वबाहुशिरःपादो यो योनिमुखं निरुणद्धि कील इव स कीलः निःसृतहस्तपादशिराः कायसङ्गी प्रतिखुरः यो निर्गच्छत्येक शिरोभुजः स बीजकःयस्तु परिघ इव योनिमुखमावृत्य तिष्ठति स परिघः इति चतुर्विधो भवतीत्येके भाषन्ते तत्तु न सम्यक् कस्मात् स यदा विगुणानिलप्रपीडितोऽपत्यपथमनेकधा प्रपद्यते तदा सङ्ख्या हीयते ४
तत्र कश्चिद्द्वाभ्यां सक्थिभ्यां योनिमुखं प्रतिपद्यते कश्चिदाभुग्नैकसक्थिरेकेन कश्चिदाभुग्नसक्थिशरीरः स्फिग्देशेन तिर्यगागतः कश्चिदुरः पार्श्वपृष्ठानामन्यतमेन योनिद्वरां पिधायावतिष्ठते अन्तःपार्श्वपवृत्तशिराः कश्चिदेकेन बाहुना कश्चिदाभुग्नशिरा बाहुद्वयेन कश्चिदाभुग्नमध्यो हस्तपादशिरोभिः कश्चिदेकेन सन्कथा योनिमुखं प्रतिपद्यतेऽपरेण पायुम् इत्यष्टविधा मूढगर्भगतिरुद्दिष्टा समासेन ५
तत्र द्वावन्त्यावसाध्यौ मूढगर्भौ शेषानपि विपरीतेन्द्रियार्थाक्षेपकयोनिभ्रंशसंवरणमक्कल्लश्वासकासभ्रमनिपीडितान् परिहरेत् ६
भवन्ति चात्र
कालस्य परिणामेन मुक्तं वृन्ताद्यथा फलम्
प्रपद्यते स्वभावेन नान्यथा पतितुं ध्रुवम् ७
एवं कालप्रकर्षेण मुक्तो नाडीनिबन्धनात्
गर्भाशयस्थो यो गर्भो जननाय प्रपद्यते ८
कृमिवाताभिघातैस्तु तदेवोपद्रुतं फलम्
पतत्यकालेऽपि यथा तथा स्याद्गर्भविच्युतिः ९
आचतुर्थात्ततो मासात् प्रस्रवेद्गर्भविच्युतिः
ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः १०
प्रविध्यति शिरो या तु शीताङ्गी निरपत्रपा
नीलोद्धतसिरा हन्ति सा गर्भं स च तां तथा ११
गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता
भवत्युच्छ्वासपूतित्वं शूलं चान्तर्मृते शिशौ १२
मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः
गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः १३
बस्तमारविपन्नायाः कुक्षिः प्रस्पन्दते यदि
तत्क्षणाज्जन्मकाले तं पाटयित्वोद्धरेद्भिषक् १४
इति सुश्रुतसंहितायां निदानस्थाने मूढभर्गनिदानं नामाष्टमोऽध्यायः ८
नवमोऽध्यायः
अथातो विद्र धीनां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सर्वामरगुरुः श्रीमान्निमित्तान्तरभूमिपः
शिष्यायोवाच निखिलमिदं विद्र धिलक्षणम् ३
त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः
दोषाः शोफं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् ४
महामूलं रुजावन्तं वृत्तं चाप्यथवाऽऽयतम्
तमाहुर्विद्र धिं धीरा विज्ञेयः स च षडिवधः ५
पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा
षण्णामपि हि तेषां तु लक्षणं संप्रवक्ष्यते ६
कृष्णोऽरुणो वा परुषो भृशमत्यर्थवेदनः
चित्रोत्थानप्रपाकश्च विद्र धिर्वातसंभवः ७
पक्वोदुम्बरसङ्काशः श्यावो वा ज्वरदाहवान्
क्षिप्रोत्थानप्रपाकश्च विद्र धिः पित्तसंभवः ८
शरावसदृशः पाण्डुः शीतः स्तब्धोऽल्पवेदनः
चिरोत्थानप्रपाकश्च सकण्डुश्च कफोत्थितः ९
तनुपीतसिताश्चैषामास्रावाः क्रमशः स्मृताः
नानावर्णरुजास्रावो घाटालो विषमो महान् १०
विषमं पच्यते चापि विद्र धिः सान्निपातिकः
तैस्तैर्भावैरभिहते क्षते वाऽपथ्यसेविनः ११
क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत्
ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः १२
एष विद्र धिरागन्तुः पित्तविद्र धिलक्षणः
कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः १३
पित्तविद्र धिलिङ्गस्तु रक्तविद्र धिरुच्यते
उक्ता विद्र धयो ह्येते तेष्वसाध्यस्तु सर्वजः १४
आभ्यन्तरानतस्तूर्ध्वं विद्र धीन् परिचक्षते
गुर्वसात्म्यविरुद्धान्नशुष्कसंसृष्टभोजनात् १५
अतिव्यवायव्यायामवेगाघातविदाहिभिः
पृथक् संभूय वा दोषाः कुपिता गुल्मरूपिणम् १६
वल्मीकवत्समुन्नद्धमन्तः कुर्वन्ति विद्र धिम्
गुदे बस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा १७
वृक्कयोर्यकृति प्लीह्नि हृदये क्लोम्नि वा तथा
तेषां लिङ्गानि जानीयाद्बाह्यविद्र धिलक्षणैः १८
आमपक्वैषणीयाच्च पक्वापक्वं विनिर्दिशेत्
अधिष्ठानविशेषेण लिङ्गं शृणु विशेषतः १९
गुदे वातनिरोधस्तु बस्तौ कृच्छ्राल्पमूत्रता
नाभ्यां हिक्का तथाऽटोपः कुक्षौ मारुतकोपनम् २०
कटीपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु विद्र धौ
वृक्कयोः पार्श्वसङ्कोचः प्लीह्न्युच्छ्वासावरोधनम् २१
सर्वाङ्गप्रग्रहस्तीव्रो हृदि शूलश्च दारुणः
श्वासो यकृति तृष्णा च पिपासा क्लोमजेऽधिका २२
आमो वा यदि वा पक्वो महान् वा यदि वेतरः
सर्वो मर्मोत्थितश्चापि विद्र धिः कष्ट उच्यते २३
नाभेरुपरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः
जीवत्यधो निःस्रुतेषु स्रुतेषूर्ध्वं न जीवति २४
हृन्नाभिबस्तिवर्ज्या ये तेषु भिन्नेषु बाह्यतः
जीवेत् कदाचित् पुरुषो नेतरेषु कदाचन २५
स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः
दाहज्वरकरो घोरो जायते रक्तविद्र धिः २६
अपि सम्यक्प्रजातानामसृक् कायादनिःसृतम्
रक्तजं विद्र धिं कुर्यात् कुक्षौ मक्कल्लसंज्ञितम् २७
सप्ताहान्नोपशान्तश्चेत्ततोऽसौ संप्रपच्यते
विशेषमथ वक्ष्यामि स्पष्टं विद्र धिगुल्मयोः २८
गुल्मदोषसमुत्थानाद्विद्र धेर्गुल्मकस्य च
कस्मान्न पच्यते गुल्मो विद्र धिः पाकमेति च २९
न निबन्धोऽस्ति गुल्मानां विद्र धिः सनिबन्धनः
गुल्माकाराः स्वयं दोषा विद्र धिर्मांसशोणिते ३०
विवरानुचरो ग्रन्थिरप्सु बुद्बुदको यथा
एवंप्रकारो गुल्मस्तु तस्मात् पाकं न गच्छति ३१
मांसशोणितबाहुल्यात् पाकं गच्छति विद्र धिः
मांसशोणितहीनत्वाद्गुल्मः पाकं न गच्छति ३२
गुल्मस्तिष्ठति दोषे स्वे विद्र धिर्मांसशोणिते
विद्र धिः पच्यते तस्माद्गुल्मश्चापि न पच्यते ३३
हृन्नाभिबस्तिजः पक्वो वर्ज्यो यश्च त्रिदोषजः
अथ मज्जपरीपाको घोरः समुपजायते ३४
सोऽस्थिमांसनिरोधेन द्वारं न लभते यदा
ततः स व्याधिना तेन ज्वलनेनेव दह्यते ३५
अस्थिथिमिज्जोष्मणा तेन शीर्यते दह्यमानवत्
विकारः शल्यभूतोऽय क्लेशयेदातुरं चिरम् ३६
अथास्य कर्मणा व्याधिर्द्वारं तु लभते यदा
ततो मेदःप्रभं स्निग्धं शुक्लं शीतमथो गुरु ३७
भिन्नेऽन्स्थि निःस्रवेत् पूयमेतदस्थिगतं विदुः
विद्र धिं शास्त्रकुशलाः सर्वदोषरुजावहम् ३८
इति सुश्रुतसंहितायां निदानस्थाने विद्र धिनिदानं नाम नवमोऽध्यायः ९
दशमोऽध्यायः
अथातो विसर्पनाडीस्तनरोगनिदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
त्वङ्मांसशोणितगताः कुपितास्तु दोषाः सर्वाङ्गसारिणमिहास्थितमात्मलिङ्गम्
कुर्वन्ति विस्तृतमनुन्नतमाशु शोफं तं सर्वतो विसरणाच्च विसर्पमाहुः ३
वातात्मकोऽसितमृदुः परुषोऽङ्गमर्दसंभेदतोदपवनज्वरलिङ्गयुक्तः
गण्डैर्यदा तु विषमैरतिदूषितत्वाद्युक्तः स एव कथितः खलु वर्जनीयः ४
पित्तात्मको द्रुतगतिर्ज्वरदाहपाकस्फोटप्रभेदबहुलः क्षतजप्रकाशः
दोषप्रवृद्धिहतमांससिरो यदा स्यात् स्रोतोजकर्दमनिभो न तदा स सिध्येत् ५
श्लेष्मात्मकः सरति मन्दमशीघ्रपाकः
स्निग्धः सितश्वयथुरल्परुगुग्रकण्डुः
सर्वात्मकस्त्रिविधवर्णरुजोऽवगाढः
पक्वो न सिध्यति च मांससिराप्रशातात् ६
सद्यःक्षतव्रणमुपेत्य नरस्य पित्तं रक्तं च दोषबहुलस्य करोति शोफम्
श्यावं सलोहितमतिज्वरदाहपाकं स्फोटैः कुलत्थसदृशैरसितैश्च कीर्णम् ७
सिध्यन्ति वातकफपित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति
पैत्तानिलावपि च दर्शितपूर्वलिङ्गौ सर्वे च मर्मसु भवन्ति हि कृच्छ्रसाध्याः ८
शोफं न पक्वमिति पक्वमुपेक्षते यो यो वा व्रणं प्रचुरपूयमसाधुवृत्तः
अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः स पूयः ९
तस्यातिमात्रगमनाद्गतिरित्यतश्च नाडीव यद्वहति तेन मता तु नाडी
दोषैस्त्रिभिर्भवति सा पृथगेकशश्च संमूर्च्छितैरपि च शल्यनिमित्ततोऽन्या १०
तत्रानिलात् परुषसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्रवति क्षपायाम्
तृट्तापतोदसदनज्वरभेदहेतुः पीतं स्रवत्यधिकमुष्णमहःसु पित्तात् ११
ज्ञेया कफाद्बहुघनार्जुनपिच्छिलास्रा रात्रिस्रुतिः स्तिमितरुक्कठिना सकण्डूः
दोषद्वयाभिहितलक्षणदर्शनेन तिस्रो गतीर्व्यतिकरप्रभवास्तु विद्यात् १२
दाहज्वरश्वसनमूर्च्छनवक्त्रशोषा यस्यां भवन्त्यभिहितानि च लक्षणानि
तामादिशेत् पवनपित्तकफप्रकोपाद्घोरामसुक्षयकरीमिव कालरात्रिम् १३
नष्टं कथंचिदनुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति
सा फेनिलं मथितमच्छमसृग्विमिश्रमुष्णं स्रवेत सहसा सरुजा च नित्यम् १४
यावत्यो गतयो यैश्च कारणैः संभवन्ति हि
तावन्तः स्तनरोगाः स्युः स्त्रीणां तैरेव हेतुभिः १५
धमन्यः संवृतद्वाराः कन्यानां स्तनसंश्रिताः
दोषाविसरणात्तासां न भवन्ति स्तनामयाः १६
तासामेव प्रजातानां गर्भिणीनां च ताः पुनः
स्वभावादेव विवृता जायन्ते संभवन्त्यतः १७
रसप्रसादो मधुरः पक्वाहारनिमित्तजः
कृत्स्नदेहात् स्तनौ प्राप्तः स्तन्यमित्यभिधीयते १८
विशस्तेष्वपि गात्रेषु यथा शुक्रं न दृश्यते
सर्वदेहाश्रितत्वाच्च शुक्रलक्षणमुच्यते १९
तदेव चेष्टयुवतेर्दर्शनात् स्मरणादपि
शब्दसंश्रवणात् स्पर्शात् संहर्षाच्च प्रवर्तते २०
सुप्रसन्नं मनस्तत्र हर्षणे हेतुरुच्यते
आहाररसयोनित्वादेवं स्तन्यमपि स्त्रियाः २१
तदेवापत्यसंस्पर्शाद्दर्शनात् स्मरणादपि
ग्रहणाच्च शरीरस्य शुक्रवत् संप्रवर्तते २२
स्नेहो निरन्तरस्तत्र प्रस्रवे हेतुरुच्यते
तत् कषायं भवेद्वातात् क्षिप्तं च प्लवतेऽम्भसि २३
पित्तादम्लं सकटुकं राज्योऽम्भसि च पीतिकाः
कफाद्घनं पिच्छिलं च जले चाप्यवसीदति
सर्वैर्दुष्टैः सर्वलिङ्गमभिघाताच्च दुष्यति २४
यत् क्षीरमुदके क्षिप्तमेकीभवति पाण्डुरम्
मधुरं चाविवर्णं च प्रसन्नं तद्विनिर्दिशेत् २५
सक्षीरौ वाऽप्यदुग्धौ वा प्राप्य दोषः स्तनौ स्त्रियाः
रक्तं मांसं च सन्दूष्य स्तनरोगाय कल्पते २६
पञ्चानामपि तेषां तु हित्वा शोणितविद्र धिम्
लक्षणानि समानानि बाह्यविद्र धिलक्षणैः २७
इति सुश्रुतसंहितायां निदानस्थाने विसर्पनाडीस्तनरोगनिदानं नाम दशमोऽध्यायः १०
एकादशोऽध्यायः
अथातो ग्रन्थपच्यर्बुदगलगण्डानां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातादयो मांसमसृक् च दुष्टाः संदूष्य मेदश्च कफानुविद्धम्
वृत्तोन्नतं विग्रथितं तु शोफं कुर्वन्त्यतो ग्रन्थिरिति प्रदिष्टः ३
आयम्यते व्यथ्यत एति तोदं प्रत्यस्यते कृत्यत एति भेदम्
कृष्णोऽमृदुर्बस्तिरिवाततश्च भिन्नः स्रवेच्चानिलजोऽस्रमच्छम् ४
दन्दह्यते धूप्यति चूष्यते च पापच्यते प्रज्वलतीव चापि
रक्तः सपीतोऽप्यथवाऽपि पित्ताद्भिन्नः स्रवेदुष्णमतीव चास्रम् ५
शीतोऽविवर्णोऽल्परुजोऽतिकण्डूः पाषाणवत् संहननोपपन्नः
चिराभिवृद्धिश्च कफप्रकोपाद्भिन्नः स्रवेच्छुक्लघनं च पूयम् ६
शरीरवृद्धिक्षयवृद्धिहानिः स्निग्धो महानल्परुजोऽतिकण्डूः
मेदःकृतो गच्छति चात्र भिन्ने पिण्याकसर्पिःप्रतिमं तु मेदः ७
व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुर्हि सिराप्रतानम्
संपीड्य सङ्कोच्य विशोष्य चापि ग्रन्थिं करोत्युन्नतमाशु वृत्तम् ८
ग्रन्थिः सिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात् सरुजश्चलश्च
अरुक् स एवाप्यचलो महांश्च मर्मोत्थितश्चापि विवर्जनीयः ९
हन्वस्थिकक्षाक्षकबाहुसन्धिमन्यागलेषूपचितं तु मेदः
ग्रन्थिं स्थिरं वृत्तमथायतं वा स्निग्धं कफश्चाल्परुजं करोति १०
तं ग्रन्थिभिस्त्वामलकास्थिमात्रैर्मत्स्याण्डजालप्रतिमैस्तथाऽन्यै
अनन्यवर्णैरुपचीयमानं चयप्रकर्षादपचीं वदन्ति ११
कण्डूयुतास्तेऽल्परुजः प्रभिन्नाः स्रवन्ति नश्यन्ति भवन्ति चान्ये
मेदःकफाभ्यां खलु रोग एष सुदुस्तरो वर्षगणानुबन्धी १२
गात्रप्रदेशे क्वचिदेव दोषाः संमूर्च्छिता मांसमभिप्रदूष्य
वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्ध्य्पाकम् १३
कुर्वन्ति मांसोपचयं तु शोफं तमर्बुदं शास्त्रविदो वदन्ति
वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा च १४
तज्जायते तस्य च लक्षणानि ग्रन्थेः समानानि सदा भवन्ति
दोषः प्रदुष्टो रुधिरं सिरास्तु संपीड्य सङ्कोच्य गतस्त्वपाकम् १५
सास्रावमुन्नह्यति मांसपिण्डं मांसाङ्कुरैराचितमाशुवृद्धिम्
स्रवत्यजस्रं रुधिरं प्रदुष्टमसाध्यमेतद्रुधिरात्मकं स्यात् १६
रक्तक्षयोपद्र वपीडितत्वात् पाण्डुर्भवेत् सोऽबुदपीडितस्तु
मुष्टिप्रहारादिभिरर्दितेऽङ्गे मांसं प्रदुष्टं प्रकरोति शोफम् १७
अवेदनं स्निग्धमनन्यवर्णमपाकमश्मोपममप्रचाल्यम्
प्रदुष्टमांसस्य नरस्य बाढमेतद्भवेन्मांसपरायणस्य १८
मांसार्बुदं त्वेतदसाध्यमुक्तं साध्येष्वपीमानि विवर्जयेत्तु
संप्रस्रुतं मर्मणि यच्च जातं स्रोतःसु वा यच्च भवेदचाल्यम् १९
यज्जायतेऽन्यत् खलु पूर्वजाते ज्ञेयं तदध्यर्बुदमर्बुदज्ञैः
यद्द्वन्द्वजातं युगपत् क्रमाद्वा द्विरर्बुदं तच्च भवेदसाध्यम् २०
न पाकमायान्ति कफाधिकत्वान्मेदोबहुत्वाच्च विशेषतस्तु
दोषस्थिरत्वाद्ग्रथनाच्च तेषां सर्वार्बुदान्येव निसर्गतस्तु २१
वातः कफश्चैव गले प्रवृद्धौ मन्ये तु संसृत्य तथैव मेदः
कुर्वन्ति गण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलगण्डमाहुः २२
तोदान्वितः कृष्णसिरावनद्धः कृष्णोऽरुणो वा पवनात्मकस्तु
मेदोन्वितश्चोपचितश्च कालाद्भवेदतिस्निग्धतरोऽरुजश्च २३
पारुष्ययुक्तश्चिरवृद्धयपाको यदृच्छया पाकमियात् कदाचित्
वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः २४
स्थिरः सवर्णोऽल्परुगुग्रकण्डूः शीतो महांश्चापि कफात्मकस्तु
चिराभिवृद्धिं कुरुते चिराच्च प्रपच्यते मन्दरुजः कदाचित् २५
माधुर्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रलेपः
स्निग्धो मृदुः पाण्डुरनिष्टगन्धो मेदःकृतो नीरुगथातिकण्डूः २६
प्रलम्बतेऽलाबुवदल्पमूलो देहानुरूपक्षयवृद्धियुक्तः
स्निग्धास्यता तस्य भवेच्च जन्तोर्गलेऽनुशब्दं कुरुते च नित्यम् २७
कृच्छ्राच्छ्वसन्तं मृदुसर्वगात्रं संवत्सरातीतमरोचकार्तम्
क्षीणं च वैद्यो गलगण्डिनं तु भिन्नस्वरं चैव विवर्जयेत्तु २८
निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले
महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् २९
इति सुश्रुतसंहितायां निदानस्थाने गलगण्डगण्डमालापच्यर्बुदनिदानं नामैकादशोऽध्यायः ११
द्वादशोऽध्यायः
अथातो वृद्ध्य्पुदंशश्लीपदानां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातपित्तश्लेष्मशोणितमेदोमूत्रान्त्रनिमित्ताः सप्तवृद्धयो भवन्ति तासां मूत्रा न्त्रनिमित्ते वृद्धी वातसमुत्थे केवलमुत्पत्तिहेतुरन्यतमः ३
अधः प्रकुपितोऽन्यतमो हि दोषः फलकोशवाहिनीरभिप्रपद्य धमनीः फल कोषयोर्वृद्धिं जनयति तांवृद्धिमित्याचक्षते ४
तासां भविष्यतीनां पूर्वरूपाणि बस्तिकटीमुष्कमेढ्रेषु वेदना मारुतनिग्रहः फलकोशशोफश्चेति ५
तत्रानिलपरिपूर्णां बस्तिमिवाततां परुषामनिमित्तानिलरुजां वातवृद्धिमाचक्षते पक्वोदुम्बरसङ्काशांज्वरदाहोष्मवतीं चाशुसमुत्थानपाकां पित्तवृद्धिंकठिनामल्पवेदनां शीतां कण्डूमतीं श्लेष्मवृद्धिं कृष्णस्फोटावृतां पित्तवृद्धिलिङ्गां रक्तवृद्धिं मृदुस्निग्धां कण्डूमतीमल्पवेदनां तालफलप्रकाशां मेदोवृद्धिं मूत्रसंधारणशीलस्य मूत्रवृद्धिर्भवति सा गच्छतोम्बुपूर्णा दृतिरिव क्षुभ्यति मूत्रकृच्छ्रवेदनां वृषणयोः श्वयथुं कोशयोश्चापादयति तां मूत्रवृद्धिं विद्यात् भारहरणबलवद्विग्रहवृक्षप्रपतनादिभिरायास विशेषैर्वायुरभिप्रवृद्ध प्रकुपितश्च स्थूलान्त्रस्येतरस्य चैकदेशं विगुणमादायाधो गत्वा वङ्क्षणसन्धिमुपेत्य ग्रन्थिरूपेण स्थित्वाऽप्रतिक्रियमाणे च कालान्तरेणफलकोशं प्रविश्य मुष्कशोफमापादयति आध्मातो बस्तिरिवाततः प्रदीर्घः स शोफो भवति सशब्दमवपीडितश्चोर्ध्वमुपैति विमुक्तश्चपुनराध्मायते तामन्त्रवृद्धिमसाध्यामित्याचक्षते ६
तत्रातिमैथुनादतिब्रह्मचर्याद्वा तथाऽतिब्रह्मचारिणीं चिरोत्सृष्टां रजस्वलां दीर्घरोमां कर्कशरोमांसङ्कीर्णरोमां निगूढरोमामल्पद्वारां महाद्वारामप्रिंयामकामामचौक्षसलिलप्रक्षालितयोनिमप्रक्षालितयोनिं योनिरोगोपसृष्टां स्वभावतो वा दुष्टयोनिं वियोनिं वा नारीमत्यर्थमुपसेवमानस्य तथा करजद शनविषशूकनिपातनाद्बन्धनाद्धस्ताभिघाताच्चतुष्पदीगमनादचौक्षसलि-लप्रक्षालनादवपीडनाच्छुक्रवेगविधारणान्मैथुनान्ते वाऽप्रक्षालनादिभिर्मेढ्र मागम्य प्रकुपितादोषाः क्षतेऽक्षते वा श्वयथुमुपजनयन्ति तमुपदंशमित्याचक्षते ७
स पञ्चविधस्त्रिभिर्दोषैः पृथक् समस्तैरसृजा चेति ८
तत्र वातिके पारुष्यं त्वक्परिपुटनं स्तब्धमेढ्रता परुषशोफता विविधाश्चवातवेदनाः पैत्तिके ज्वरः श्वयथुः पक्वोदुम्बरसङ्काशस्तीव्रदाहः क्षिप्रपाकः पित्तवेदनाश्च श्लैष्मिके श्वयथुः कण्डूमान् कठिनः स्निग्धः श्लेष्मवेदनाश्च रक्तजे कृष्णस्फोटप्रादुर्भावोऽत्यर्थमसृक्प्रवृत्तिः पित्तलिङ्गान्यत्यर्थं ज्वरदाहौ शोषश्च याप्यश्चैव कदाचित् सर्वजे सर्वलिङ्गदर्शनमवदरणं च शेफसः कृमि प्रादुर्भावो मरणं चेति ९
कुपितास्तु दोषा वातपित्तश्लेष्माणोऽधप्रपन्नावङ्क्षणोरुजानुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शोफं जनयन्ति तं श्लीपदमित्याचक्षते तत्त्रिविधंवातपित्तकफनिमित्तमिति १०
तत्र वातजं खरं कृष्णं परुषमनिमित्तानिलरुजं परिस्फुटति च बहुशः पित्तजं तु पीतावभासमीषन्मृदु ज्वरदाहप्रायं च श्लेष्मजं तु श्वेतं स्निग्धावभासं मन्दवेदनं भारिकं महाग्रन्थिकं कण्टकैरुपचितं च ११
तत्र संवत्सरातीतमतिमहद्वल्मीकजातं प्रसृतमिति वर्जनीयानि १२
भवन्ति चात्र
त्रीण्यप्येतानि जानीयाच्छ्लीपदानि कफोच्छ्रयात्
गुरुत्वं च महत्त्वं च यस्मान्नास्ति विना कफात् १३
पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः
ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः १४
पादवद्धस्तयोश्चापि श्लीपदं जायते नृणाम्
कर्णाक्षिनासिकौष्ठेषु केचिदिच्छन्ति तद्विदः १५
इति सुश्रुतसंहितायां निदानस्थाने वृद्ध्य्पुदंशश्लीपदनिदानं नाम द्वादशोऽध्यायः १२
त्रयोदशोऽध्यायः
अथातः क्षुद्र रोगाणां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
समासेन चतुश्चत्वारिंशत् क्षुद्र रोगा भवन्ति तद्यथा अजगल्लिका यवप्रख्या अन्धालजी विवृता कच्छपिका वल्मीकं इन्द्र वृद्धा पनसिका पाषाणगर्दभः जालगर्दभः कक्षा विस्फोरकः अग्निरोहिणी चिप्पं कुनखः अनुशयी विदारिका शर्करार्बुदं पामा विचर्चिका रकसा पाददारिका कदरं अलसेन्द्र लुप्तौ दारुणकः अरुंषिका पलितं मसूरिका यौवनपिडका पद्मिनीकण्टकः जतुमणिः मशकः चर्मकीलः तिलकालकः न्यच्छं व्यङ्गः परिवर्तिका अवपाटिका निरुद्धप्रकश् संनिरुद्ध गुदः अहिपूतनं वृषणकच्छ्रः गुदभ्रंशश्चेति ३
स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा
कफवातोत्थिता ज्ञेया बालानामजगल्लिका ४
यवाकारा सुकठिना ग्रथिता मांससंश्रिता
पिडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते ५
घनामवक्त्रां पिडकामुन्नतां परिमण्डलाम्
अन्धालजीमल्पपूयां तां विद्यात् कफवातजाम् ६
विवृतास्यां महादाहां पक्वोदुम्बरसन्निभाम्
विवृतामिति तां विद्यात् पित्तोत्थां परिमण्डलाम् ७
ग्रथिताः पञ्च वा षड्वा दारुणाः कच्छपोन्नताः
कफानिलाभ्यां पिडका ज्ञेया कच्छपिका बुधैः ८
पाणिपादतले सन्धौ ग्रीवायामूर्ध्वजत्रुणि
ग्रन्थिर्वल्मीकवद्यस्तु शनैः समुपचीयते ९
तोदक्लेदपरीदाहकण्डूमद्भिर्मुखैर्वृतः
व्याधिर्वल्मीक इत्येष कफपित्तानिलोद्भवः १०
पद्मपुष्करवन्मध्ये पिडकाभिः समाचिताम्
इन्द्र वृद्धां तु तां विद्याद्वातपित्तोत्थितां भिषक् ११
मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकाचितम्
रुजाकरीं गर्दभिकां तां विद्याद्वातपित्तजाम्
कर्णौ परि समन्ताद्वा पृष्ठे वा पिडकोग्ररुक्
शालूकवत्पनसिकां तां विद्याच्छ्लेष्मवातजाम् १२
हनुसन्धौ समुद्भूतं शोफमल्परुजं स्थिरम्
पाषाणगर्दभं विद्याद्बलासपवनात्मकम् १३
विसर्पवत् सर्पति योदाहज्वरकरस्तनुः
अपाकः श्वयथुः पित्तात् स ज्ञेयो जालगर्दभः १४
पिडिकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम्
सर्वात्मकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम् १५
बाहुपार्श्वांसकक्षासु कृष्णस्फोटां सवेदनाम्
पित्तप्रकोपसंभूतां कक्षामिति विनिर्दिशेत् १६
एकामेवंविधां दृष्ट्वा पिटिकां स्फोटसन्निभाम्
त्वग्गतां पित्तकोपेन गन्धनामां प्रचक्षते १७
अग्निदग्धनिभाः स्फोटाः सज्वराः पित्तरक्ततः
क्वचित् सर्वत्र वा देहे स्मृता विस्फोटका इति १८
कक्षाभागेषु ये स्फोटा जायन्ते मांसदारुरिणिआः
अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः १९
सप्ताहाद्वा दशाहाद्वा पक्षाद्वा घ्नन्ति मानवम्
तामग्निरोहिणीं विद्यादसाध्यां सन्निपाततः २०
नखमांसमधिष्ठाय पित्तं वातश्च वेदनाम्
करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत् २१
तदेवाक्षतरोगाख्यं तथोपनखमित्यपि
अभिघातात् प्रदुष्टो यो नखो रूक्षोऽसितः खरः २२
भवेत्तं कुनखं विद्यात् कुलीनमिति संज्ञितम्
गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थिताम् २३
कफादन्तःप्रपाकां तां विद्यादनुशयीं भिषक्
विदारीकन्दवद्वृत्तां कक्षावङ्क्षणसन्धिषु २४
रक्तां विदारिकां विद्यात् सर्वजां सर्वलक्षणाम्
प्राप्य मांससिरास्नायु श्लेष्मा मेदस्तथाऽनिलः २५
ग्रन्थिं कुर्वन्ति भिन्नोऽसौ मधुसर्पिर्वसानिभम्
स्रवत्यास्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः २६
मांसं विशोष्य ग्रथितां शर्करां जनयेत् पुनः
दुर्गन्धं क्लिन्नमत्यर्थं नानावर्णं ततः सिराः २७
स्रवन्ति सहसा रक्तं तद्विद्याच्छर्करार्बुदम्
पामाविचर्च्यौ कुष्ठेषु रकसा च प्रकीर्तिता २८
परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः
पादयोः कुरुते दारीं सरुजां तलसंश्रितः २९
शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः
मेदोरक्तानुगैश्चैव दोषैर्वा जायते नृणाम् ३०
सकीलकठिनो ग्रन्थिर्निम्नमध्योन्नतोऽपि वा
कोलमात्रः सरुक् स्रावी जायते कदरस्तु सः ३१
क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहरुगन्वितौ
दुष्टकर्दमसंस्पर्शादलसं तं विनिर्दिशेत् ३२
रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम्
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ३३
रुणद्धि रोमकूपांस्तु ततोऽन्येषामसंभवः
तदिन्द्र लुप्तं खालित्यं रुज्येति च विभाव्यते ३४
दारुणा कण्डुरा रूक्षा केशभूमिः प्रपाट्यते
कफवातप्रकोपेण विद्याद्दारुणकं तु तम् ३५
अरूंषि बहुवक्त्राणि बहुक्लेदीनि मूर्धनि
कफासृक्कृमिकोपेन नृणां विद्यादरुंषिकाम् ३६
क्रोधशोकश्रमकृतं शरीरोष्मा शिरोगतः
पित्तं च केशान् पचति पलितं तेन जायते ३७
दाहज्वररुजावन्तस्ताम्राः स्फोटाः सपीतकाः
गात्रेषु वदने चान्तर्विज्ञेयास्ता मसूरिकाः ३८
शाल्मलीकण्टकप्रख्याः कफमारुतशोणितैः
जायन्ते पिडका यूनां वक्त्रे या मुखदूषिकाः ३९
कण्टकैराचितं वृत्तं कण्डूमत् पाण्डुमण्डलम्
पद्मिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम् ४०
नीरुजं सममुत्सन्नं मण्डलं कफरक्तजम्
सहजं रक्तमीषच्च श्लक्ष्णं जतुमणिं विदुः ४१
अवेदनं स्थिरं चैव यस्य गात्रेषु दृश्यते
माषवत्कृष्णमुत्सन्नमनिलान्मषकं वदेत् ४२
कृष्णानि तिलमात्राणि नीरुजानि समानि च
वातपित्तकफोच्छोषात्तान् विद्यात्तिलकालकान् ४३
मण्डलं महदल्पं वा श्यामं वा यदि वा सितम्
सहजं नीरुजं गात्रे न्यच्छमित्यभिधीयते ४४
समुत्थाननिदानाभ्यां चर्मकीलं प्रकीर्तितम्
क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः ४५
सहसा मुखमागत्य मण्डलं विसृजत्यतः
नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् ४६
कृष्णमेवंगुणं गात्रे मुखे वा नीलिकां विदुः
मर्दनात् पीडनाच्चाति तथैवाप्यभिघाततः
मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरः ४७
तदा वातोपसृष्टं तु चर्म प्रतिनिवर्तते
मणेरधस्तात् कोशश्च ग्रन्थिरूपेण लम्बते ४८
सवेदनः सदाहश्चपाकं च व्रजति क्वचित्
मारुतागन्तुसंभूतां विद्यात्तां परिवर्तिकाम् ४९
सकण्डूः कठिना चापि सैव श्लेष्मसमुत्थिता
अल्पीयःखां यदा हर्षाद्बालां गच्छेत् स्त्रियंनरः ५०
हस्ताभिघातादथवा चर्मण्युद्वर्तिते बलात्
मर्दनात्पीडनाद्वाऽपि शुक्रवेगविघाततः ५१
यस्यावपाट्यते चर्म तां विद्यादवपाटिकाम्
वातोपसृष्टमेवं तु चर्म संश्रयते मणिम् ५२
मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च
निरुद्धप्रकशे तस्मिन्मन्दधारमवेदनम् ५३
मूत्रं प्रवर्तते जन्तोर्मणिर्न च विदीर्यते
निरुद्धप्रकशं विद्याद्दुरूढां चावपाटिकाम् ५४
वेगसंधारणाद्वायुर्विहतो गुदमाश्रितः
निरुणद्धि महत्स्रोतः सूक्ष्मद्वारं करोति च ५५
मार्गस्य सौक्ष्म्यात् कृच्छ्रेण पुरीषं तस्य गच्छति
सन्निरुद्धगुदं व्याधिमेनं विद्यात् सुदुस्तरम् ५६
शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत्
स्विन्नस्यास्नाप्यमानस्य कण्डू रक्तकफोद्भवा ५७
कण्डूयनात्ततः क्षिप्रं स्फोटाः स्रावश्च जायते
एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम् ५८
स्नानोत्सादनहीनस्य मलो वृषणसंश्रितः
यदा प्रक्लिद्यते स्वेदात् कण्डूं संजनयेत्तदा ५९
तत्र कण्डूयनात् क्षिप्रं स्फोटाः स्रावश्च जायते
प्राहुर्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम् ६०
प्रवाहणातिसाराभ्यां निर्गच्छति गुदं बहिः
रूक्षदुर्बलदेहस्य तं गुदभ्रंशमादिशेत् ६१
इति सुश्रुतसंहितायां निदानस्थाने क्षुद्र रोगनिदानं नाम त्रयोदशोऽध्यायः १३
चतुर्दशोऽध्यायः
अथातः शूकदोषनिदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
लिङ्गवृद्धिमिच्छतामक्रमप्रवृत्तानां शूकदोषनिमित्ता दश चाष्टौ च व्याधयो जायन्ते तद्यथासर्षपिका अष्ठीलिका ग्रथितं कुम्भीका अलजी मृदितं संमूढपिडका अवमन्थः पुष्करिका स्पर्शहानिः उत्तमा शतपोनकः त्वक्पाकः शोणितार्बुदं मांसार्बुदं मांसपाकः विद्र धिः तिलकालकश्चेति ३
गौरसर्षपतुल्या तु शूकदुर्भग्नहेतुका
पिडका कफरक्ताभ्यां ज्ञेया सर्षपिका बुधैः ४
कठिना विषमैरन्तैर्मारुतस्य प्रकोपतः
शूकैस्तु विषसंभुग्नैः पिडकाऽष्ठीलिका भवेत् ५
शूकैर्यत् पूरितं शश्वद्र् गथितं तत् कफोत्थितम्
कुम्भीका रक्तपित्तोत्था जाम्बवास्थिनिभाऽशुभा ६
अलजीलक्षणैर्युक्तामलजीं च वितर्कयेत्
मृदितं पीडितं यत्तु संरब्धं वायुकोपतः ७
पाणिभ्यां भृशसंमूढे संमूढपिडका भवेत्
दीर्घा बह्व्यश्च पिडका दीर्यन्ते मध्यतस्तु याः ८
सोऽवमन्थः कफासृग्भ्यां वेदनारोमहर्षकृत्
पित्तशोणितसंभूता पिडका पिडकाचिता ९
पद्मपुष्करसंस्थाना ज्ञेया पुष्करिकेति सा
जनयेत् स्पर्शहानिं तु शोणितं शूकदूषितम् १०
मुद्गमाषोपमा रक्ता पिडका रक्तपित्तजा
उत्तमैषा तु विज्ञेया शूकाजीर्णनिमित्तजा ११
छिद्रै रणुमुखैर्वस्तु चितं यस्य समन्ततः
वातशोणितजो व्याधिर्विज्ञेयः शतपोनकः १२
पित्तरक्तकृतो ज्ञेयस्त्वक्पाको ज्वरदाहवान्
कृष्णैः स्फोटैः सरक्तैश्च पिडकाभिश्च पीडितम्
यस्य वस्तु रुजश्चोग्रा ज्ञेयं तच्छोणितार्बुदम् १३
मांसदोषेण जानीयादर्बुदं मांससंभवम्
शीर्यन्ते यस्य मांसानि यत्र सर्वाश्च वेदनाः १४
विद्यात्तं मांसपाकं तु सर्वदोषकृतं भिषक्
विद्र धिं सन्निपातेन यथोक्तमभिनिर्दिशेत् १५
कृष्णानि चित्राण्यथवा शूकानि सविषाणि च
पातितानि पचन्त्याशु मेढ्रं निरवशेषतः १६
कालानि भूत्वा मांसानि शीर्यन्ते यस्य देहिनः
सन्निपातसमुत्थानं तं विद्यात्तिलकालकम् १७
तत्र मांसार्बुदं यच्च मांसपाकश्च यः स्मृतः
विद्र धिश्च न सिध्यन्ति ये च स्युस्तिलकालकाः १८
इति सुश्रुतसंहितायां निदानस्थाने शूकदोषनिदानं नाम चतुर्दशोऽध्यायः १४
पञ्चदशोऽध्यायः
अथातो भग्नानां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पतनपीडनप्रहाराक्षेपणव्यालमृगदशनप्रभृतिभिरभिघातविशेषैरनेकविधमन्स्थां भङ्गमुपदिशन्ति ३
तत्र भङ्गजातमनुसार्यमाणं द्विविधमेवोपपद्यते सन्धिमुक्तं काण्डभग्नं च तत्र षड्विधं सन्धिमुक्तं द्वादशविधं काण्डभग्नं भवति ४
तत्र सन्धिमुक्तमुत्पिष्टं विश्लिष्टं विवर्तितम् अवक्षिप्तम् अतिक्षिप्तं तिर्यक्क्षिप्तमिति षड्विधम् ५
तत्र प्रसारणाकुञ्चनविवर्तनाक्षेपणाशक्तिरुग्ररुजत्वं स्पर्शासहत्वं चेति सामान्यं सन्धिमुक्तलक्षणमुक्तम् ६
वैशेषिकं तूत्पिष्टे सन्धावुभयतः शोफो वेदनाप्रादुर्भावो विशेषतश्च नानाप्रकारा वेदना रात्रौ प्रादुर्भवन्ति विश्लिष्टेऽल्पः शोफो वेदनासातत्यं सन्धिविक्रिया च विवर्तिते तु सन्धिपार्श्वापगमनाद्विषमाङ्गता वेदना च अवक्षिप्ते सन्धिविश्लेषस्तीव्ररुजत्वं च अतिक्षिप्ते द्वयोः सन्ध्यन्स्थोरतिक्रान्तता वेदना च तिर्यक्क्षिप्ते त्वेकास्थिपार्श्वापगमनमत्यर्थं वेदना चेति ७
काण्डभग्नमत ऊर्ध्वं वक्ष्यामःकर्कटकम् अश्वकर्णं चूर्णितं पिच्चितम् अस्थिच्छल्लितं काण्डभग्नं मज्जानुगतम् अतिपातितं वक्रं छिन्नं पाटितं स्फुटितमिति द्वादशविधम् ८
श्वयथुबाहुल्यं स्पन्दनविवर्तनस्पर्शासहिष्णुत्वमवपीड्यमाने शब्दः स्रस्ताङ्गता विविधवेदनाप्रादुर्भावः सर्वास्ववस्थासु न शर्मलाभ इति समासेन काण्डभग्नलक्षणमुक्तम् ९
विशेषस्तु संमूढमुभयतोऽस्थि मध्ये भलिग्निं ग्रन्थिरिवोन्नतं कर्कटकम् अश्वकर्णवदुद्गतमश्वकर्णकं स्पृश्यमानं शब्दवच्चूर्णितमवगच्छेत् पिच्चितं पृथुतां गतमनल्पशोफं पार्श्वयोरस्थि हीनोद्गतमस्थिच्छलितं वेल्लते प्रकम्पमानं काण्डभग्नम् अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्य मज्जानमुन्नह्यतीति मज्जानुगतम् अस्थि निःशेषतश्छिन्नमतिपातितम् आभुग्नमविमुक्तास्थि वक्रम् अन्यतरपार्श्वावशिष्टं छिन्नं पाटितमणुबहुविदारितं वेदनावच्च शूपूर्णमिवाध्मातं विपुलं विस्फुटितं स्फुटितमिति १०
तेषु चूर्णितच्छिन्नातिपातितमज्जानुगतानि कृच्छ्रसाध्यानि कृशवृद्धबालानां क्षतक्षीणकुष्ठिश्वासिनां सन्ध्युपगतं चेति ११
भवन्ति चात्र
भिन्नं कपालं कट्यां तु सन्धिमुक्तं तथा च्युतम्
जघनं प्रति पिष्टं च वर्जयेत्तच्चिकित्सकः १२
असंश्लिष्टं कपालं तु ललाटे चूर्णितं च यत्
भग्नं स्तनान्तरे शङ्खे पृष्ठे मूर्ध्नि च वर्जयेत् १३
आदितो यच्च दुर्जातमस्थि सन्धिरथापि वा
सम्यग्यमितमप्यस्थि दुर्न्यासाद्दुर्निबन्धनात् १४
सङ्क्षोभाद्वाऽपि यद्गच्छेद्विक्रियां तच्च वर्जयेत्
मध्यस्य वयसोऽवस्थास्तिस्रो याः परिकीर्तिताः १५
तत्र स्थिरो भवेज्जन्तुरुपक्रान्तो विजानता
तरुणास्थीनि नम्यन्ते भज्यन्ते नलकानि तु १६
कपालानि विभिद्यन्ते स्फुटन्ति रुचकानि च
इति सुश्रुतसंहितायां निदानस्थाने भग्ननिदानं नाम पञ्चदशोध्यायः १५
षोडशोऽध्यायः
अथातो मुखरोगाणां निदानं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मुखरोगाः पञ्चषष्टिर्भवन्ति सप्तस्वायतनेषु तत्रायतनानिओष्ठौ दन्तमूलानि दन्ताः जिह्वा तालुकण्ठः सर्वाणि चेति तत्राष्टावोष्ठयोः पञ्चदशदन्तमूलेषु अष्टौ दन्तेषु पञ्च जिह्वायां नव तालुनिसप्तदश कण्ठे त्रयः सर्वेष्वायतनेषु ३
तत्रौष्ठप्रकोपा वातपित्तश्लेष्मसन्निपातरक्तमांसमेदोभिघातनिमित्ताः ४
कर्कशौ परुषौ स्तब्धौ कृष्णौ तीव्ररुगन्वितौ
दाल्येते परिपाट्येते ह्योष्ठौ मारुतकोपतः ५
आचितौ पिडकाभिस्तु सर्षपाकृतिभिर्भृशम्
सदाहपाकसंस्रावौ नीलौ पीतौ च पित्ततः ६
सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ
कण्डूमन्तौ कफाच्छूनौ पिच्छिलौ शीतलौ गुरू ७
सकृत् कृष्णौ सकृत् पीतौ सकृच्छ्वेतौ तथैव च
सन्निपातेन विज्ञेयावनेकपिडिकाचितौ ८
खर्जूरफलवर्णाभिः पिडकाभिः समाचितौ
रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ९
मांसदुष्टौ गुरू स्थूलौ मांसपिण्डवदुद्गतौ
जन्तवश्चात्र मूर्च्छन्ति सृक्कस्योभयतो मुखात् १०
मेदसा घृतमण्डाभौ कण्डूमन्तौ स्थिरौ मृदू
अच्छं स्फटिकसङ्काशमास्रावं स्रवतो गुरू ११
क्षतजाभौ विदीर्येते पाट्येते चाभिघाततः
ग्रथितौ च समाख्यातावोष्ठौ कण्डूसमन्वितौ १२
दन्तमूलगतास्तुशीतादो दन्तपुप्पुटको दन्तवेष्टकः
शौषिरो महाशौषिरः परिदर उपकुशो दन्तवैदर्भो
वर्धनः अधिमांसो नाड्यः पञ्चेति १३
शोणितं दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्तते
दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च १४
दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम्
शीतादो नाम स व्याधिः कफशोणितसंभवः १५
दन्तयोस्त्रिषु वा यस्य श्वयथुः सरुजो महान्
दन्तपुप्पुटको ज्ञेयः कफरक्तनिमित्तजः १६
स्रवन्ति पूयरुधिरं चला दन्ता भवन्ति च
दन्तवेष्टः स विज्ञेयो दुष्टशोणितसंभवः १७
श्वयथुर्दन्तमूलेषु रुजावान् कफरक्तजः
लालास्रावी स विज्ञेयः कण्डूमाञ् शौषिरो गदः १८
दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते
दन्तमांसानि पच्यन्ते मुखं च परिपीड्यते १९
यस्मिन् स सर्वजो व्याधिर्महाशौषिरसंज्ञकः
दन्तमांसानि शीर्यन्ते यस्मिन् ष्ठीवति चाप्यसृक् २०
पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः
वेष्टेषु दाहः पाकश्च तेभ्यो दन्ताश्चलन्ति च २१
आघट्टिताः प्रस्रवन्ति शोणितं मन्दवेदनाः
आध्मायन्ते स्रुते रक्ते मुखं पूति च जायते २२
यस्मिन्नुपकुशः स स्यात् पित्तरक्तकृतो गदः
घृष्टेषु दन्तमूलेषु संरम्भो जायते महान् २३
भवन्ति च चला दन्ताः स वैदर्भोऽभिघातजः
मारुतेनाधिको दन्तो जायते तीव्रवेदनः २४
वर्धनः स मतो व्याधिर्जाते रुक् च प्रशाम्यति
हानव्ये पश्चिमे दन्ते महाञ्छोथो महारुजः २५
लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः
दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः २६
दन्तगतास्तुदालनः क्रिमिदन्तको दन्तहर्षो भञ्जनकः
दन्तशर्करा कपालिका श्यावदन्तको हनुमोक्षश्चेति २७
दाल्यन्ते बहुधा दन्ता यस्मिंस्तीव्ररुगन्विताः
दालनः स इति ज्ञेयः सदागतिनिमित्तजः २८
कृष्णश्छिद्री चलः स्रावी ससंरम्भो महारुजः
अनिमित्तरुजो वाताद्विज्ञेयः कृमिदन्तकः २९
शीतमुष्णं च दशनाः सहन्ते स्पर्शनं न च
यस्य तं दन्तहर्षं तु व्याधिं विद्यात् समीरणात् ३०
वक्त्रं वक्रं भवेद्यस्मिन् दन्तभङ्गश्च तीव्ररुक्
कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः ३१
शर्करेव स्थिरीभूतो मलो दन्तेषु यस्य वै
सा दन्तानां गुणहरी विज्ञेया दन्तशर्करा ३२
दलन्ति दन्तवल्कानि यदा शर्करया सह
ज्ञेया कपालिका सैव दशनानां विनाशिनी ३३
योऽसृङ्मिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः
श्यावतां नीलतां वाऽपि गतः स श्यावदन्तकः ३४
वातेन तैस्तैर्भावैस्तु हनुसन्धिर्विसंहतः
हनुमोक्ष इति ज्ञेयो व्याधिरर्दितलक्षणः ३५
जिह्वागतास्तुकण्टकास्त्रिविधास्त्रिभिर्दोषैः
अलास उपजिह्विका चेति ३६
जिह्वाऽनिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा
पित्तेन पीता परिदह्यते च चिता सरक्तैरपि कण्टकैश्च
कफेन गुर्वी बहला चिता च मांसोद्गमैः शाल्मलिकण्टकाभैः ३७
जिह्वातले यः श्वयथुः प्रगाढः सोऽलाससंज्ञः कफरक्तमूर्तिः
जिह्वां स तु स्तम्भयति प्रवृद्धो मूले तु जिह्वा भृशमेति पाकम् ३८
जिह्वाग्ररूपः श्वयथुर्हि जिह्वामुन्नम्य जातः कफरक्तयोनिः
प्रसेककण्डूपरिदाहयुक्ता प्रकथ्यतेऽसावुपजिह्विकेति ३९
तालुगतास्तुगलशुण्डिका तुण्डिकेरी अध्रुषः कच्छपः
अर्बुदं मांससङ्घातः तालुपुप्पुटः तालुशोषः तालुपाकइति ४०
श्लेष्मासृग्भ्यां तालुमूलात् प्रवृद्धो दीर्घः शोफो ध्मातबस्तिप्रकाशः
तृष्णाकासश्वासकृत् संप्रदिष्टो व्याधिर्वैद्यैः कण्ठशुण्डीति नाम्ना ४१
शोफः स्थूलस्तोददाहप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु
शोफः स्तब्धो लोहितस्तालुदेशे रक्ताज्ज्ञेयः सोऽध्रुषो रुग्ज्वराढ्यः ४२
कूर्मोत्सन्नोऽवेदनोऽशीघ्रजन्माऽरक्तो ज्ञेयः कच्छपः श्लेष्मणा स्यात्
पद्माकारं तालुमध्ये तु शोफं विद्याद्र क्तादर्बुदं प्रोक्तलिङ्गम् ४३
दुष्टं मांसं श्लेष्मणा नीरुजं च ताल्वन्तःस्थं मांससङ्घातमाहुः
नीरुक् स्थायी कोलमात्रः कफात् स्यान्मेदोयुक्तात् पुप्पुटस्तालुदेशे४४
शोषोऽत्यर्थं दीर्यते चापि तालुः श्वासो वातात्तालुशोषः सपित्तात्
पित्तं कुर्यात् पाकमत्यर्थघोरं तालुन्येनं तालुपाकं वदन्ति ४५
कण्ठगतास्तुरोहिण्यः पञ्च कण्ठशालूकम् अधिजिह्वो बलयो बलास एकवृन्दो वृन्दः शतघ्नी गिलायुः गलविद्र धिः गलौघः स्वरघ्नो मांसतानो विदारी चेति ४६
गलेऽनिलः पित्तकफौ च मूर्च्छितौ पृथक् समस्ताश्च तथैव शोणितम्
प्रदूष्य मांसं गलरोधिनोऽङकुरान् सृजन्ति यान् साऽसुहरा हि रोहिणी ४७
जिह्वां समन्ताद्भृशवेदना ये मांसाङ्कुराः कण्ठनिरोधिनः स्युः
तां रोहिणीं वातकृतां वदन्ति वातात्मकोपद्र वगाढयुक्ताम् ४८
क्षिप्रोद्गमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजा स्यात्
स्रोतोनिरोधिन्यपि मन्दपाका गुर्वी स्थिरा सा कफसंभवा वै ४९
गम्भीरपाकाऽप्रतिवारवीर्या त्रिदोषलिङ्गा त्रयसंभवा स्यात्
स्फोटाचिता पित्तसमानलिङ्गाऽसाध्या प्रदिष्टा रुधिरात्मिकेयम् ५०
कोलास्थिमात्रः कफसंभवो यो ग्रन्थिर्गले कण्टकशूकभूतः
खरः स्थिरः शस्त्रनिपातसाध्यस्तं कण्ठशालूकमिति ब्रुवन्ति ५१
जिह्वाग्ररूपः श्वयथुः कफात्तु जिह्वाप्रबन्धोपरि रक्तमिश्रात्
ज्ञेयोऽधिजिह्वः खलु रोग एष विवर्जयेदागतपाकमेनम् ५२
बलास एवायतमुन्नतं च शोफं करोत्यन्नगतिं निवार्य
तं सर्वथैवाप्रतिवारवीर्यं विवर्जनीयं वलयं वदन्ति ५३
गले तु शोफं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम्
मर्मच्छिदं दुस्तरमेतदाहुर्बलाससंज्ञं निपुणा विकारम् ५४
वृत्तोन्नतो यः श्वयथुः सदाहः कण्ड्वन्वितोऽपाक्यमृदुर्गुरुश्च
नाम्नैकवृन्दः परिकीर्तितोऽसौ व्याधिर्बलासक्षतजप्रसूतः ५५
समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति
तं चापि पित्तक्षतजप्रकोपाद्विद्यात् सतोदं पवनास्रजं तु ५६
वर्तिर्घना कण्ठनिरोधिनी या चिताऽतिमात्रं पिशितप्ररोहैः
नानारुजोच्छ्रायकरी त्रिदोषाज्ज्ञेया शतघ्नीव शतघ्न्यसाध्या ५७
ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽल्परुक् स्यात् कफरक्तमूर्तिः
संलक्ष्यते सक्तमिवाशनं च स शस्त्रसाध्यस्तु गिलायुसंज्ञः ५८
सर्वं गलं व्याप्य समुत्थितो यः शोफो रुजो यत्र च सन्ति सर्वाः
स सर्वदोषो गलविद्र धिस्तु तस्यैव तुल्यः खलु सर्वजस्य ५९
शोफो महानन्नजलावरोधी तीव्रज्वरो वातगतेर्निहन्ता
कफेन जातो रुधिरान्वितेन गले गलौघः परिकीर्त्यतेऽसौ ६०
योऽतिप्रताम्यन् श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः
कफोपदिग्धेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात् स्वरघ्नः ६१
प्रतानवान् यः श्वयथुं सुकष्टो गलोपरोधं कुरुते क्रमेण
स मांसतानः कथितोऽवलम्बी प्राणप्रणुत् सर्वकृतो विकारः ६२
सदाहतोदं श्वयथुः सरक्तमन्तर्गले पूतिविशीर्णमांसम्
पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात् स तु येन शेते ६३
सर्वसरास्तु वातपित्तकफशोणितनिमित्ताः ६४
स्फोटैः सतोदैर्वदनं समन्ताद्यस्याचितं सर्वसरः स वातात्
रक्तैः सदाहैस्तनुभिः सपीतैर्यस्याचितं चापि स पित्तकोपात् ६५
कण्डूयुतैरल्परुजैः सवर्णैर्यस्याचितं चापि स वै कफेन
रक्तेन पित्तोदित एक एव कैश्चित् प्रदिष्टो मुखपाकसंज्ञः ६६
इति सुश्रुतसंहितायां निदानस्थाने मुखरोगनिदानं नाम षोडशोऽध्यायः १६
इति भगवता श्री धन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुत संहितायां द्वितीये निदान स्थानम् २
इति निदानस्थान समाप्ता
सुश्रुत संहिता
Sushruta Saṁhitā
शारीरस्थान
Shārīra Sthāna
Chapter 1 2 3 4 5 6 7 8 9 10
शारीरस्थान
प्रथमोऽध्यायः
अथातः सर्वभूतचिन्ताशारीरं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सर्वभूतानां कारणमकारणं सत्त्वरजस्तमोलक्षणमष्टरूपमखिलस्य जगतः संभवहेतुरव्यक्तं नाम तदेकं बहूनां क्षेत्रज्ञानामधिष्ठानं समुद्र इवौदकानां भावानाम् ३
तस्मादव्यक्तान्महानुत्पद्यते तल्लिङ्ग एव तल्लिङ्गाच्चमहतस्तल्लक्षणएवाहङ्कार उत्पद्यते स त्रिविधो वैकारिकस्तैजसो भूतादिरिति तत्र वैकारिकादहङ्कारात्तैजससहायात्तल्लक्षणान्येवैकादशेन्द्रि याण्युत्पद्यन्ते तद्यथाश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाग्घस्तोपस्थपायुपादमनांसीति तत्र पूर्वाणि पञ्च बुद्धीन्द्रि -याणि इतराणि पञ्च कर्मेन्द्रि याणि उभयात्मकं मनः भूतादेरपि तैजससहाया-त्तल्लक्षणान्येव पञ्चतन्मात्राण्युत्पद्यन्ते शब्दतन्मात्रं स्पर्श तन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमिति तेषां विशेषाःशब्दस्पर्शरूपरसगन्धाः तेभ्यो भू-तानिव्योमानिलानलजलोर्व्यः एवमेषातत्त्वचतुर्विंशतिर्व्याख्याता ४
तत्र बुद्धीन्द्रि याणां शब्दादयो विषयाः कर्मेन्द्रि याणां यथासङ्ख्यं वचनादानानन्दविसर्गविहरणानि ५
अव्यक्तं महानहङ्कारः पञ्चतन्मात्राणि चेत्यष्टौ प्रकृतयःशेषाः षोडशविकाराः ६
स्वः स्वश्चैषां विषयोऽधिभूतां स्वयमध्यात्मम् अधिदैवतमथ बुद्धेर्ब्रह्मा अहङ्कारस्येश्वरः मनसश्चन्द्र माः दिशः श्रोत्रस्य त्वचो वायुः सूर्यश्चक्षुषः रसनस्यापः पृथिवी घ्राणस्य वाचोऽग्नि हस्तयोरिन्द्रः पादयोर्विष्णुः पायोर्मित्रः प्रजापतिरुपस्थस्येति ७
तत्र सर्व एवाचेतन एष वर्गः पुरुषः पञ्चविंशतितमः कार्यकारणसंयुक्तश्चेतयिता भवति सत्यप्यचैतन्ये प्रधानस्य पुरुषकैवल्यार्थं प्रवृत्तिमुपदिशन्तिक्षीरादींश्चात्र हेतूनुदाहरन्ति ८
अत ऊर्ध्वं प्रकृतिपुरुषयोः साधर्म्यवैधर्म्ये व्याख्यास्यामः तद्यथा उभावप्यनादी उभावप्यनन्तौ उभावप्यलिङ्गौ उभावपि नित्यौ उभावप्यनपरौ उभौ च सर्वगताविति एका तु प्रकृतिरचेतना त्रिगुणा बीजधर्मिणी प्रसवधर्मिण्यमध्यस्थधर्मिणी चेति बहवस्तु पुरुषाश्चेतनावन्तोऽगुणा अबीजधर्माणोऽप्रसवधर्माणो मध्यस्थधर्माणश्चेति ९
तत्र कारणानुरूपं कार्यमिति कृत्वा सर्व एवैते विशेषाः सत्त्वरजस्तमोमया भवन्ति तदञ्जनत्वात्तन्मयत्वाच्च तद्गुणा एव पुरुषा भवन्तीत्येके भाषन्ते १०
वैद्यके तु
स्वभावमीश्वरं कालं यदृच्छां नियतिं तथा
परिणामं च मन्यन्ते प्रकृतिं पृथुदर्शिनः ११
तन्मयान्येव भूतानि तद्गुणान्येव चादिशेत्
तैश्च तल्लक्षणः कृत्स्रो भूतग्रामो व्यजन्यत १२
तस्योपयोगोऽभिहितश्चिकित्सां प्रति सर्वदा
भूतेभ्यो हि परं यस्मान्नास्ति चिन्ता चिकित्सिते १३
यतोऽभिहितंतत्संभवद्र व्यसमूहो भूतादिरुक्तः भौतिकानि चेन्द्रि याण्यायुर्वेदे
वर्ण्यन्ते तथेन्द्रि यार्थाः १४
भवति चात्र
इन्द्रि येणेन्द्रि यार्थं तु स्वं स्वं गृह्णाति मानवः
नियतं तुल्ययोनित्वान्नान्येनान्यमिति स्थितिः १५
न चायुर्वेदशास्त्रेषूपदिश्यन्ते सर्वगताः क्षेत्रज्ञा नित्याश्च असर्वगतेषु च क्षेत्रज्ञेषु नित्यपुरुषख्यापकान् हेतूनुदाहरन्ति आयुर्वेदशास्त्रेष्वसर्वगताः क्षेत्रज्ञा नित्याश्च तिर्यग्योनिमानुषदेवेषु संचरन्ति धर्माधर्मनिमित्तं त एतेऽनुमानग्राह्याः परमसूक्ष्माश्चेतनावन्तः शाश्वता लोहितरेतसोः सन्निपातेष्वभिव्यज्यन्ते यतोऽभिहितंपञ्चमहाभूतशरीरिसमवायः पुरुषः इति स एष कर्मपुरुषश्चिकित्साधिकृतः १६
तस्य सुखदुःखे इच्छाद्वेषौ प्रयत्नः प्राणापानावुन्मेषनिमेषौ बुद्धिर्मनः सङ्कल्पोविचारणा स्मृतिर्विज्ञानमध्यवसायो विषयोपलब्धिश्च गुणाः १७
सात्त्विकास्तुआनृशंस्यं संविभागरुचिता तितिक्षा सत्यं धर्म आस्तिक्यं ज्ञानं बुद्धिर्मेधा स्मृतिर्धृतिरनभिषङ्गश्च राजसास्तु दुःखबहुलताऽटनशीलताऽधृतिरहङ्कार आनृतिकत्वमकारुणयं दम्भो मानो हर्षः कामः क्रोधश्च तामसास्तु विषादित्वंनास्तिक्यमधर्मशीलता बुद्धेर्निरोधोऽज्ञानं दुर्मेधस्त्वमकर्मशीलता निद्रा लुत्वं चेति १८
आन्तरिक्षाःशब्दः शब्देन्द्रि यं सर्वच्छिद्र समूहो विविक्तता च वायव्यास्तु स्पर्शः स्पर्शेन्द्रि यं सर्वचेष्टासमूहः सर्वशरीरस्पन्दनं लघुता च तैजसास्तु रूपं रूपेन्द्रि यं वर्णः सन्तापो भ्राजिष्णुता पक्तिरमर्षस्तैक्ष्ण्यं शौर्यं च आप्यास्तुरसो रसनेन्द्रियं सर्वद्र वसमूहो गुरुता शैत्यं स्नेहो रेतश्च पार्थिवास्तु गन्धौगन्धेन्द्रियं सर्वमूर्तसमूहो गुरुता चेति १९
तत्र सत्त्वबहुलमाकाशं रजोबहुलो वायुः सत्त्वरजोबहुलोऽग्नि सत्त्वतमोबहुला आपः तमोबहुला पृथिवीति २०
श्लोकौ चात्र भवत
अन्योऽन्यानुप्रविष्टानि सर्वाण्येतानि निर्दिशेत्
स्वे स्वे द्र व्ये तु सर्वेषां व्यक्तं लक्षणमिष्यते २१
अष्टौ प्रकृतयः प्रोक्ता विकाराः षोडशैव तु
क्षेत्रज्ञश्च समासेन स्वतन्त्रपरतन्त्रयोः २२
इति सुश्रुतसंहितायां शारीरस्थाने सर्वभूतचिन्ताशारीरं नाम प्रथमोऽध्यायः १
द्वितीयोऽध्यायः
अथातः शुक्रशोणितशुद्धिशारीरं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातपित्तश्लेष्मकुणपग्रन्थिपूतिपूयक्षीणमूत्रपुरीषरेतसः प्रजोत्पादने न समर्थाभवन्ति ३
तेषु वातवर्णवेदनं वातेन पित्तवर्णवेदनं पित्तेन श्लेष्मवर्णवेदनं श्लेष्मणा कुणपगन्ध्यनल्पं च रक्तेन ग्रन्थिभूतं श्लेष्मवाताभ्यां पूतिपूयनिभं पित्तश्लेष्मभ्यां क्षीणं प्रागुक्तं पित्तमारुताभ्यां मूत्रपुरीषगन्धि सन्निपातेनेति तेषुकुण पग्रन्थिपूतिपूयक्षीणरेतसः कृच्छ्रसाध्याः मूत्रपुरीषरेतसस्त्वसाध्या इति ४
आर्त्तवमपि त्रिभिर्दोषैः शोणितचतुर्थैः पृथग्द्वन्द्वैः समस्तैश्चोपसृष्टमबीजं भवति तदपि दोषवर्णवेदनादिभिर्विज्ञेयम् तेषु कुणपग्रन्थिपूतिपूयक्षीणमूत्रपुरीषप्रकाशमसाध्यं साध्यमन्यच्चेति ५
भवन्ति चात्र
तेष्वाद्याञ् शुक्रदोषांस्त्रीन् स्नेहस्वेदादिभिर्जयेत्
क्रियाविशेषैर्मतिमांस्तथा चोत्तरबस्तिभिः ६
पाययेत नरं सर्पिर्भिषक् कुणपरेतसि
धातकीपुष्पखदिरदाडिमार्जुनसाधितम् ७
पाययेदथवा सर्पिः शालसारादिसाधितम्
ग्रन्थिभूते शटीसिद्धं पालाशे वाऽपि भस्मनि ८
परूषकवटादिभ्यां पूयप्रख्ये च साधितम्
प्रागुक्तं वक्ष्यते यच्च तत् कार्यं क्षीणरेतसि ९
विट्प्रभे पाययेत् सिद्धं चित्रकोशीरहिङ्गुभिः
स्निग्धं वान्तं विरिक्तं च निरूढमनुवासितम् १०
योजयेच्छुक्रदोषार्तं सम्यगुत्तरबस्तिना
स्फटिकाभं द्र वं स्निग्धं मधुरं मधुगन्धि च ११
शुक्रमिच्छन्ति केचित्तु तैलक्षौद्र निभं तथा
विधिमुत्तरवस्त्यन्तं कुर्यादार्तवशुद्धये १२
स्त्रीणां स्नेहादियुक्तानां चतसृष्वार्तवार्तिषु
कुर्यात्कल्कान् पिचूंश्चापि पथ्यान्याचमनानि च १३
ग्रन्थिभूते पिबेत् पाठां त्र्यूषणं वृक्षकाणि च
दुर्गन्धिपूयसङ्काशे मज्जतुल्ये तथाऽतवे १४
पिबेद्भद्र श्रियः क्वाथं चन्दनक्वाथमेव च
शुक्रदोषहराणां च यथास्वमवचारणम् १५
योगानां शुद्धिकरणं शेषास्वप्यार्तवार्तिषु
अन्नं शालियवं मद्यं हितं मांसं च पित्तलम् १६
शशासृक्प्रतिमं यत्तु यद्वा लाक्षारसोपमम्
तदार्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत् १७
तदेवातिप्रसङ्गेन प्रवृत्तमनृतावपि
असृग्दरं विजानीयादतोऽन्यद्र क्तलक्षणात् १८
असृग्दरो भवेत् सर्वः साङ्गमर्दः सवेदनः
तस्यातिवृत्तौ दौर्बल्यं भ्रमो मूर्च्छा तमस्तृषा १९
दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः
तरुण्या हितसेविन्यास्तमल्पोपद्र वं भिषक् २०
रक्तपित्तविधानेन यथावत् समुपाचरेत्
दोषैरावृतमार्गत्वादार्तवं नश्यति स्त्रियाः २१
तत्र मत्स्यकुलत्थाम्लतिलमाषसुरा हिताः
पाने मूत्रमुदश्विच्च दधि शुक्तं च भोजने २२
क्षीणं प्रागीरितं रक्तं सलक्षणचिकित्सितम्
तथाऽप्यत्र विधातव्यं विधानं नष्टरक्तवत् २३
एवमदुष्टशुक्रः शुद्धार्तवा च २४
ऋतौ प्रथमदिवसात् प्रभृति ब्रह्मचारिणी दिवास्वप्नाञ्जनाश्रुपातस्नानानुलेपनाभ्यङ्गनखच्छेदनप्रधावनहसनकथ नातिशब्दश्रवणावलेखनानिलायासान् परिहरेत् किं कारणं दिवा स्वपन्त्याः स्वापशीलः अञ्जनादन्धः रोदनाद्विकृतदृष्टिः स्नानानुलेपनाद्दुःखशीलः तैलाभ्यङ्गात् कुष्ठी नखापकर्तनात् कुनखी प्रधावनाच्चञ्चलः हसनाच्छ्यावदन्तौष्ठतालुजिह्वःप्रलपी चातिकथनात् अतिशब्दश्रवणाद्बधिरः अवलेखनात् खलतिः मारुतायाससेवनादुन्मत्तो गर्भो भवतीत्येवमेतान् परिहरेत् दर्भसंस्तरशायिनीं करतलशरावपर्णान्यतमभोजिनीं हविष्यं त्र्यहं च भर्तुः संरक्षेत् ततः शुद्धस्नातां चतुर्थेऽहन्यहतवासःसमलङ्कृतां कृतमङ्गलस्वस्तिवाचनां भर्तारंदर्शयेत् तत् कस्य हेतोः २५
पूर्वं पश्येदृतुस्नाता यादृशं नरमङ्गना
तादृशं जनयेत् पुत्रं भर्तारं दर्शयेदतः २६
ततो विधानं पुत्रीयमुपाध्यायः समाचरेत्
कर्मान्ते च क्रमं ह्येतमारभेत विचक्षणः २७
ततोऽपराह्णे पुमान् मासं ब्रह्मचारी सर्पिःस्निग्धः सर्पिःक्षीराभ्यां शाल्योदनं भुक्त्वा मासं ब्रह्मचारिणीं तैलस्निग्धां तैलमाषोत्तराहारां नारीमुपेयाद्रात्रौ सामभिरभिविश्वास्य विकल्यैवं चतुर्थ्यां षष्ठयामष्टम्यां दशम्यां द्वादश्यां चोपेयादिति पुत्रकामः २८
एषूत्तरोत्तरं विद्यादायुरारोग्यमेव च
प्रजासौभाग्यमैश्वर्यं बलं च दिवसेषु वै २९
अतः परं पञ्चम्यां सप्तम्यां नवम्यामेकादश्यां च स्त्रीकामः त्रयोदशीप्रभृयो निन्द्याः ३०
तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं पुंसां भवति यश्च तत्राधीयते गर्भः स प्रसवमानो विमुच्यते द्वितीयेऽप्येवं सूतिकागृहे वा तृतीयेऽप्येवमसंपूर्णाङ्गोल्पायुर्वा भवति चतुर्थे तु संपूर्णाङ्गो दीर्घायुश्च भवति न च प्रवर्तमाने रक्ते बीजं प्रविष्टं गुणकरं भवति यथा नद्यां प्रतिस्रोतः प्लाविद्रव्यं प्रक्षिप्तं प्रतिनिवर्तते नोर्ध्वं गच्छति तद्वदेतद्द्रष्टव्यम् तस्मान्नियमवतीं त्रिरात्रं परिहरेत् अतः परं मासादुपेयात् ३१
लब्धगर्भायाश्चैतेष्वहःसु लक्ष्मणावटशुङ्ग सहदेवा विश्वदेवानामन्यतमां क्षीरेणाभिषुत्य त्रींश्चतुरो वा बिन्दून् दद्याद्दक्षिणे नासापुटे पुत्रकामायै न चतान्निष्ठीवेत् ३२
ध्रुवं चतुर्णां सान्निध्याद्गर्भः स्याद्विधिपूर्वकम्
ऋतुक्षेत्राम्बुबीजानां सामग्र्यादङ्कुरो यथा ३३
एवं जाता रूपवन्तः सत्त्ववन्तश्चिरायुषः
भवन्त्यृणस्य मोक्तारः सत्पुत्राः पुत्रिणे हिताः ३४
तत्र तेजोधातुर्वर्णानां प्रभवः स यदा गर्भोत्पत्तावब्धातुप्रायो भवति तदा गर्भं गौरं करोति पृथिवीधातुप्रायः कृष्णं पृथिव्याकाशघातुप्रायः कृष्णश्यामं तोयाकाशधातुप्रायो गौरश्यामम् यादृग्वर्णमाहारमुपसेवते गर्भिणी तादृग्वर्णप्रसवा भवति इत्येके भाषन्ते तत्र दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति तदेव रक्तानुगतं रक्ताक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षं वातानुगतं विकृताक्षमिति ३५
भवन्ति चात्र
घृतपिण्डो यथैवग्निमाश्रितः प्रविलीयते
विसर्पत्यार्तवं नार्यास्तथा पुंसां समागमे ३६
बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ
यमावित्यभिधीयेते धर्मेतरपुरःसरौ ३७
पित्रोरत्यल्पबीजत्वादासेक्यः पुरुषो भवेत्
स शुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम् ३८
यः पूतियोनौ जायेत स सौगन्धिकसंज्ञितः
स योनिशेफसोर्गन्धमाघ्राय लभते बलम् ३९
स्वे गुदेऽब्रह्मचर्याद्यः स्त्रीषु पुंवत् प्रवर्तते
कुम्भीकः स तु विज्ञेयः ईर्ष्यकं शृणु चापरम् ४०
दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते
ईर्ष्यकः स तु विज्ञेयः षण्ढकं शृणु पञ्चमम् ४१
यो भार्यायामृतौ मोहादङ्गनेव प्रवर्तते
ततः स्त्रीचेष्टिताकारो जायते षण्ढसंज्ञितः ४२
ऋतौ पुरुषवद्वाऽपि प्रवर्तेताङ्गना यदि
तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता ४३
आसेक्यश्च सुगन्धी च कुम्भीकश्चेर्ष्यकस्तथा
सरेतसस्त्वमी ज्ञेया अशुक्रः षण्ढसंज्ञितः ४४
अनया विप्रकृत्या तु तेषां शुक्रवहाः सिराः
हर्षात्स्फुटत्वमायान्तिध्वजोच्छ्रायस्ततो भवेत् ४५
आहाराचारचेष्टाभिर्यादृशीभिः समन्वितौ
स्त्रीपुंसौ समुपेयातां तयोः पुत्रोऽपि तादृशः ४६
यदा नार्यावुपेयातां वृषस्यन्त्यौ कथंचन
मुञ्चतः शुक्रमन्योन्यमनस्थिस्तत्र जायते ४७
ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत्
आर्तवं वायुरादाय कुक्षौ गर्भं करोति हि ४८
मासि मासि विवर्धेत गर्भिण्या गर्भलक्षणम्
कललं जायते तस्या वर्जितं पैतृकैर्गुणैः ४९
सर्पवृश्चिककूष्माण्डविकृताकृतयश्च ये
गर्भास्त्वेते स्त्रियाश्चैव ज्ञेयाः पापकृतो भृशम् ५०
गर्भो वातप्रकोपेण दौहृदे वाऽवमानिते
भवेत् कुब्जः कुणिः पङ्गुर्मूको मिन्मिण एव वा ५१
मातापित्रोस्तु नास्तिक्यादशुभैश्च पुराकृतैः
वातादीनां प्रकोपेण गर्भो वैकृतमाप्नुयात् ५२
मलाल्पत्वादयोगाच्च वायोः पक्वाशयस्य च
वातमूत्रपुरीषाणि न गर्भस्थः करोति हि ५३
जरायुणा मुखे च्छन्ने कण्ठे च कफवेष्टिते
वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति ५४
निःश्वासोच्छ्वाससङ्क्षोभस्वप्नान् गर्भोऽधिगच्छति
मातुर्निश्वसितोच्छ्वाससङ्क्षोभस्वप्नसंभवान् ५५
सन्निवेशः शरीराणां दन्तानां पतनोद्भवौ
तलेष्वसंभवो यश्च रोम्णामेतत् स्वभावतः ५६
भाविताः पूर्वदेहेषु सततं शास्त्रबुद्धयः
भवन्ति सत्वभूयिष्ठाः पूर्वजातिस्मरा नराः ५७
कर्मणा चोदितो येन तदाप्नोति पुनर्भवे
अभ्यस्ताः पूर्वदेहे ये तानेव भजते गुणान् ५८
इति सुश्रुतसंहितायां शारीरस्थाने शुक्रशोणितशुद्धिशारीरं नाम द्वितीयोऽध्यायः २
तृतीयोऽध्यायः
अथातो गर्भावक्रान्तिं शारीरं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सौम्यं शुक्रमार्तवमाग्नेयमितरेषामप्यत्र भूतानां सान्निध्यमस्त्यणुना विशेषेणपरस्परोपकारात् पिरस्परानुग्रहात्पिरस्परानुप्रवेशाच्च ३
तत्र स्त्रीपुंसयोः संयोगे तेजः शरीराद्वायुरुदीरयति ततस्तेजोनिलसन्निपाताच्छुक्रं च्युतंयोनिमभिप्रतिपद्यते संसृज्यते चार्तवेन ततोऽग्नीषोमसंयोगात् संसृज्यमानो गर्भाशयमनुप्रतिपद्यते क्षेत्रज्ञो वेदयिता स्प्रष्टा घ्राता द्र ष्टा श्रोता रसयिता पुरुषः स्रष्टा गन्ता साक्षी धाता वक्ता यः कोऽसावित्येवमादिभिः पर्यायवाचकैर्नामभिरभिधीयते दैवसंयोगादक्षयोऽव्ययोऽचिन्त्यो भूतात्मना सहान्वक्षं सत्त्वरजस्तमोभिर्दैवासुरैरपरैश्च भावैर्वायुनाऽभिप्रेर्यमाणो गर्भाशयमनुप्रविश्यावतिष्ठते ४
तत्र शुक्रबाहुल्यात् पुमान् आर्तवबाहुल्यात् स्त्री साम्यादुभयोर्नपुंसकमिति ५
ऋतुस्तु द्वादशरात्रं भवति दृष्टार्तवः अदृष्टार्तवोऽप्यस्तीत्येके भाषन्ते ६
भवन्ति चात्र
पीनप्रसन्नवदनां प्रक्लिन्नात्ममुखद्विजाम्
नरकामां प्रियकथां स्रस्तकुक्ष्यक्षिमूर्धजाम् ७
स्फुरद्भुजकुचश्रोणिनाभ्यूरुजघनस्फिचाम्
हर्षौत्सुक्यपरां चापि विद्यादृतुमतीमिति ८
नियतं दिवसेऽतीते सङ्कुचत्यम्बुजं यथा
ऋतौ व्यतीते नार्यास्तु योनिः संव्रियते तथा ९
मासेनोपचितं काले धमनीभ्यां तदार्तवम्
ईषत्कृष्णं विवर्णं च वायुर्योनिमुखं नयेत् १०
तद्वर्षाद्द्वादशात् काले वर्तमानमसृक् पुनः
जरापक्वशरीराणां याति पञ्चाशतः क्षयम् ११
युग्मेषु तु पुमान् प्रोक्तो दिवसेष्वन्यथाऽबला
पुष्पकाले शुचिस्तस्मादपत्यार्थी स्त्रियं व्रजेत् १२
तत्र सद्योगृहीतगर्भाया लिङ्गानिश्रमो ग्लानिः पिपासा सक्थिसदनं शुक्रशोणितयोरवबन्धः स्फुरणं च योनेः १३
स्तनयोः कृष्णमुखता रोमराज्युद्गमस्तथा
अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः १४
अकामतश्छर्दयति गन्धादुद्विजते शुभात्
प्रसेकः सदनं चापि गर्भिण्या लिङ्गमुच्यते १५
तदा प्रभृति व्यवायं व्यायाममतितर्पणमतिकर्शनं दिवास्वप्नं रात्रिजागरणंशोकं यानारोहणं भयमुत्कुटुकासनं चैकान्ततः स्नेहादि क्रियां शोणितमोक्षणंचाकाले वेगविधारणं च न सेवेत १६
दोषाभिघातैर्गर्भिण्या यो यो भागः प्रपीड्यते
स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते १७
तत्र प्रथमे मासि कललं जायते द्वितीये शीतोष्मानिलैरभिप्रपच्यमानानां महाभूतानां संघातोघनः संजायते यदि पिण्डः पुमान् स्त्री चेत् पेशी नपुंसकं चेदर्बुदमिति तृतीये हस्तपादशिरसां पञ्च पिणडका निर्वर्तन्तेऽङ्गप्रत्यङ्गविभागश्च सूक्ष्मो भवति चतुर्थे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्तो भवति गर्भहृदयप्रव्यक्तिभावाच्चेतनाधातुरभिव्यक्तो भवति कस्मात् तत्स्थानत्वात् तस्माद्गर्भश्चतुर्थे मास्यभिप्रायमिन्द्रि यार्थेषु करोति द्विहृदयां च नारीं दौहृदिनीमाचक्षते दौहृदविमाननात् कुब्जं कुणिं खञ्जं जडं वामनं विकृताक्षमनक्षं वा नारी सुतं जनयति तस्मात् सा यद्यदिच्छेत्तत्तस्यै दापयेत् लब्दौहृदा हि वी र्यवन्तं चिरायुषं च पुत्रं जनयति १८
भवन्ति चात्र
इन्द्रि यार्थांस्तु यान् यान् सा भोक्तुमिच्छति गर्भिणी
गर्भाबाधभयात्तांस्तान् भिषगाहृत्य दापयेत् १९
सा प्राप्तदौहृदा पुत्रं जनयेत गुणान्वितम्
अलब्धदौहृदा गर्भे लभेतात्मनि वा भयम् २०
येषु येष्विन्द्रि यार्थेषु दौहृदे वै विमानना
प्रजायेत सुतस्यार्तिस्तस्मिंस्तस्मिंस्तथेन्द्रि ये २१
राजसंदर्शने यस्या दौर्हृदं जायते स्त्रियाः
अर्थवन्तं महाभागं कुमारं सा प्रसूयते २२
दुकूलपट्टकौशेयभूषणादिषु दौहृदात्
अलङ्कारैषिणं पुत्रं ललितं सा प्रसूयते २३
आश्रमे संयतात्मानं धर्मशीलं प्रसूयते
देवताप्रतिमायां तु प्रसूते पार्षदोपमम्
दर्शने व्यालजातीनां हिंसाशीलं प्रसूयते २४
गोधामांसाशने पुत्रं सुषुप्सुं धारणात्मकम्
गवां मांसे तु बलिनं सर्वक्लेशसहं तथा २५
माहिषे दौहृदाच्छूरं रक्ताक्षं लोमसंयुतम्
वराहमांसात् स्वप्नालुं शूरं संजनयेत् सुतम् २६
मार्गाद्विक्रान्तजङ्घालं सदा वनचरं सुतम्
सृमराद्विग्नमनसं नित्यभीतं च तैत्तिरात् २७
अतोऽनुक्तेषु या नारी समभिध्याति दौर्हृदम्
शरीराचारशीलैः सा समानं जनयिष्यति २८
कर्मणा चोदितं जन्तोर्भवितव्यं पुनर्भवेत्
यथा तथा दैवयोगाद्दौर्हृदं जनयेद्धृदि २९
पञ्चमे मनः प्रतिबुद्धतरं भवति षष्ठे बुद्धिः सप्तमे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्ततरः अष्टमेऽस्थिरीभवत्योजः तत्र जातश्चेन्न जीवेन्निरोजस्त्वात्ननैरृतभागत्वाचच ततो बलि मांसौदनमस्मै दापयेत्नवमदशमैकादशद्वादशानामन्यतमस्मिञ्जायते अतोऽन्यथा विकारी भवति ३०
मातुस्तु खलु रसवहायां नाड्यां गर्भनाभिनाडीप्रतिबद्धा साऽस्य मातुराहाररसवीर्यमभिवहति तेनोपस्नेहेनास्याभिवृद्धिर्भवति असंजाताङ्गप्रत्यङ्गप्रविभागमानिषेकात् प्रभृति सर्वशरीरावय वानुसारिणीनां रसवहानां तिर्यग्गतानां धमनीनामुपस्नेहो जीवयति ३१
गर्भस्य खलु संभवतः पूर्वं शिरः संभवतीत्याह शौनकः शिरोमूलत्वात् प्रधानेन्द्रि याणां हृदयमिति कृतवीर्यो बुद्धेर्मनसश्च स्थानत्वात् नाभिरिति पाराशर्यः ततो हि वर्धते देहो देहिनः पाणिपादमिति मार्कण्डेयः तन्मूलत्वाच्चेष्टाया गर्भस्य मध्यशरीरमिति सुभूतिर्गौतमः तन्निबद्धत्वात् सर्वगात्रसंभवस्य तत्तु न सम्यक् सर्वाण्यङ्गप्रत्यङ्गानि युगपत् संभवन्तीत्याह धन्वन्तरिः गर्भस्य सूक्ष्मत्वाव्ननोपलभ्यन्ते वंशाङ्कुरवच्चूतफलवच्च तद्यथाचूतफले परिपक्वेकेशरमांसास्थिमज्जानः पृथक् पृथग्दृश्यन्ते कालप्रकर्षात् तान्येव तरुणे नोपलभ्यन्ते सूक्ष्मत्वात् तेषां सूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति एतेनैव वंशाङकुरोऽपि व्याख्यातः एवं गर्भस्य तारुण्ये सर्वेष्वङ्गप्रत्यङ्गेषु सत्स्वपि सौक्ष्म्यादनुपलब्धिः तान्येव कालप्रकर्षात् प्रव्यक्तानि भवन्ति ३२
तत्र गर्भस्य पितृजमातृजरसजात्मजसत्त्वजसात्म्यजानि शरीरलक्षणानि व्याख्यास्यामः गर्भस्य केशश्मश्रुलोमास्थिनखदन्तसिरास्नायुधमनीरेतः प्रभृतीनि स्थिराणि पितृजानि मांसशोणितमेदोमज्जहृथ्ननाभियकृत्प्लीहान्त्रगुदप्रभृतीनि मृदूनि मातृजानि शरीरोपचयो बलं वर्णः स्थितिर्हानिश्च रसजानि इन्द्रि याणि ज्ञानं विज्ञानमायुः सुखदुःखादिकं चात्मजानि सत्त्वजान्युत्तरत्र वक्ष्यामः वीर्यमारोग्यं बलवर्णौ मेधा च सात्म्यजानि ३३
तत्र यस्या दक्षिणे स्तने प्राक् पयोदर्शनं भवति दक्षिणकुक्षिमहत्त्वं च पूर्वं च दक्षिणं सक्थ्युत्कर्षति बाहुल्याच्च पुन्नामधेयेषु द्र व्येषु दौर्हृदमभिध्यायति स्वप्नेषु चोपलभते पद्मोत्पलकुमुदाम्रातकादीनि पुन्नामान्येव प्रसन्नमुखवर्णा च भवति तां ब्रूयात्पुत्रमियं जनयिष्यतीति तद्विपर्यये कन्यां यस्याः पार्श्वद्वयमवनतं पुरस्तान्निर्गतमुदरं प्रागभिहितं च लक्षणं च तस्या नपुंसकमिति विद्यात् यस्या मध्ये निम्नं द्रो णीभूतमुदरं सा युग्मं प्रसूयत इति ३४
भवन्ति चात्र
देवताब्राह्मणपराः शौचाचारहिते रताः
महागुणान् प्रसूयन्ते विपरीतास्तु निर्गुणान् ३५
अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते
अङ्गप्रत्यङ्गनिर्वृत्तौ ये भवन्ति गुणागुणाः
ते ते गर्भस्य विज्ञेया धर्माधर्मनिमित्तजाः ३६
इति सुश्रुतसंहितायां शारीरस्थाने गर्भावक्रान्तिशारीरं नाम तृतीयोऽध्यायः ३
चतुर्थोऽध्यायः
अथातो गर्भव्याकरणं शारीरं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अग्निः सोमो वायुः सत्त्वं रजस्तमः पञ्चेन्द्रि याणि भूतात्मेति प्राणाः ३
तस्य खल्वेवंप्रवृत्तस्य शुक्रशोणितस्याभिपच्यमानस्य क्षीरस्येव सन्तानिकाः सप्त त्वचो भवन्ति तासां प्रथमाऽवभासिनी नाम या सर्वान् वर्णानवभासयति पञ्चविधां च छायां प्रकाशयति सा व्रीहेरष्टादशभागप्रमाणा सिध्मपद्मकण्टकाधिष्ठाना द्वितीया लोहिता नाम षोडशभागप्रमाणा तिलकालकन्यच्छव्यङ्गाधिष्ठाना तृतीया श्वेता नाम द्वादशभागप्रमाणा चर्मदलाजगल्लीमषकाधिष्ठाना चतुर्थी ताम्रा नामाष्टभागप्रमाणा विविधकिलासकुष्ठाधिष्ठाना पञ्चमी वेदिनी नाम पञ्चभागप्रमाणा कुष्ठविसर्पाधिष्ठाना षष्ठी रोहिणी नाम व्रीहिप्रमाणा ग्रन्थ्यपच्यर्बुदश्लीपदगलगण्डाधिष्ठाना सप्तमी मांसधरा नाम व्रीहिद्वयप्रमाणा भगन्दरविद्र ध्यर्शोऽधिष्ठाना यदेतत् प्रमाणं निर्दिष्टं तन्मांसलेष्ववकाशेषु न ललाटे सूक्ष्माङ्गुल्यादिषु च यतोवक्ष्यत्युदरेषुव्रीहिमुखेनाङ्गुष्ठोदरप्रमाणमवगाढं विध्येत् इति ४
कलाः खल्वपि सप्त भवन्ति धात्वाशयान्तरमर्यादाः ५
भवतश्चात्र
यथा हि सारः काष्ठेषु छिद्यमानेषु दृश्यते
तथाहि धातुर्मांसेषु छिद्यमानेषु दृश्यते ६
स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा
श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान् विदुः ७
तासां प्रथमा मांसधरा यस्यां मांसे सिरास्नायुधमनीस्रोतसां प्रताना भवन्ति ८
यथा बिसमृणालानि विवर्धन्ते समन्ततः
भूमौ पङ्कोदकस्थानि यथा मांसे सिरादयः ९
द्वितीया रक्तधरा मांसस्याभ्यन्तरतः तस्यां शोणितं
विशेषतश्च सिरासु यकृत्प्लीह्नोश्च भवति १०
वृक्षाद्यथाभिप्रहतात् क्षीरिणः क्षीरिमावहेत्
मांसादेवं क्षतात् क्षिप्रं शोणितं संप्रसिच्यते ११
तृतीया मेदोधरा मेदो हि सर्वभूतानामुदरस्थमण्वस्थिषु च महत्सु च मज्जाभवति १२
स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तराश्रितः
अथेतरेषु सर्वेषु सरक्तं मेद उच्यते
शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्तिता १३
चतुर्थी श्लेष्मधरा सर्वसन्धिषु प्राणभृतां भवति १४
स्नेहाभ्यक्ते यथा ह्यक्षे चक्रं साधु प्रवर्तते
सन्धयः साधु वर्तन्ते संश्लिष्टाः श्लेष्मणा तथा १५
पञ्चमी पुरीषधरा नाम याऽन्तकोष्ठे मलमभिविभजते पक्वाशयस्था १६
यकृत्समन्तात् कोष्ठं च तथाऽन्त्राणि समाश्रिता
उण्डुकस्थं विभजते मलं मलधरा कला १७
षष्ठी पित्तधरा या चतुर्विधमन्नपानमामाशयात्
प्रच्युतं पक्वाशयोपस्थितं धारयति १८
अशितं खादितं पीतं लीढं कोष्ठगतं नृणाम्
तज्जीर्यति यथाकालं शोषितं पित्ततेजसा १९
सप्तमी शुक्रधरा या सर्वप्राणिनां सर्वशरीरव्यापिनी २०
यथा पयसि सर्पिस्तु गूढश्चेक्षौ रसो यथा
शरीरेषु तथा शुक्रं नृणां विद्याद्भिषग्वरः २१
द्व्यङ्गुले दक्षिणे पार्श्वे बस्तिद्वारस्य चाप्यधः
मूत्रस्रोतः पथाच्छुक्रं पुरुषस्य प्रवर्तते २२
कृत्स्नदेहाश्रितं शुक्रं प्रसन्नमनसस्तथा
स्त्रीषु व्यायच्छतश्चापि हर्षात्तत् संप्रवर्तते २३
गृहीतगर्भाणामार्तववहानां स्रोतसां वर्त्मान्यवरुध्यन्ते गर्भेण तस्माद्गृहीतगर्भाणामार्तवं न दृश्यतेततस्तदधः प्रतिहतमूर्ध्वमागतमपरं चोपचीयमानमपरेत्यभिधीयते शेषं चोर्ध्वतरमागतं पयो धरावभिप्रतिपद्यते तस्माद्गर्भिण्यःपीनोन्नतपयोधरा भवन्ति २४
गर्भस्य यकृत्प्लीहानौ शोणितजौ शोणितफेनप्रभवः फुप्फुसः शोणितकिट्टप्रभव उण्डुकः २५
असृजः श्लेष्मणश्चापि यः प्रसादः परो मतः
तं पच्यमानं पित्तेन वायुश्चाप्यनुधावति २६
ततोऽस्यान्त्राणि जायन्ते गुदं बस्तिश्च देहिनः
उदरे पच्यमानानामाध्मानाद्रुक्मसारवत् २७
कफशोणितमांसानां साराज्जिह्वा प्रजायते
यथार्थमूष्मणा युक्तो वायुः स्रोतांसि दारयेत् २८
अनुप्रविश्य पिशितं पेशीर्विभजते तथा
मेदसः स्नेहमादाय सिरास्नायुत्वमाप्नुयात् २९
सिराणां तु मृदुः पाकः स्नायूनां च ततः खरः
आशय्याभ्यासयोगेन करोत्याशयसंभवम् ३०
रक्तमेदःप्रसादाद्वृक्कौ मांसासृक्कफमेदःप्रसादाद्वृषणौ शोणितकफप्रसादजं हृदयं यदाश्रया हि धमन्यः प्राणवहाः तस्याधो वामतः प्लीहा फुप्फुसश्च दक्षिणतो यकृत् क्लोम च तद्विशेषेण चेतनास्थानम् अस्तस्मिंस्तमसाऽवृतेसर्वप्राणिनः स्वपन्ति ३१
भवति चात्र
पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम्
जाग्रतस्तद्विकसति स्वपतश्च निमीलति ३२
निद्रा ंतु वैष्णवीं पाप्मानमुपदिशन्ति सा स्वभावत एव सर्वप्राणिनोऽभिस्पृशति तत्र यदा संज्ञावहानि स्रोतांसि तमोभूयिष्ठः श्लेष्मा प्रतिपद्यते तदा तामसी नाम निद्रा संभवत्यनवबोधिनी सा प्रलयकाले तमोभूयिष्ठानामहःसु निशासु च भवति रजोभूयिष्ठानामनिमित्तं सत्त्वभूयिष्ठानामर्धरात्रे क्षीणश्लेष्मणामनिलबहुलानां मनःशरीराभितापवतां च नैव सा वैकारिकीभवति ३३
भवतश्चात्र
हृदयं चेतनास्थानमुक्तं सुश्रुत देहिनाम्
तमोभिभूते तस्मिंस्तु निद्रा विशति देहिनम् ३४
निद्रा हेतुस्तमः सत्त्वं बोधने हेतुरुच्यते
स्वभाव एव वा हेतुर्गरीयान् परिकीर्त्यते ३५
पूर्वदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुः
रजोयुक्तेन मनसा गृह्णात्यर्थाञ् शुभाशुभान् ३६
करणानां तु वैकल्ये तमसाऽभिप्रवर्धिते
अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते ३७
सर्वर्तुषु दिवास्वापः प्रतिषिद्धोऽन्यत्र ग्रीष्मात् प्रतिषिद्धेष्वपि तु बालवृद्धस्त्रीकर्शितक्षतक्षीणमद्यनित्ययानवाहनाध्वकर्मपरिश्रान्तानामभुक्तवतां मेदःस्वेदकफरसरक्तक्षीणानामजीर्णिनां च मुहूर्तं दिवास्वपनमप्रतिषिद्धम् रात्रावपि जागरितवतां जागरितकालादर्ध मिष्यते दिवास्वपनम् विकृतिर्हि दिवास्वप्नो नाम तत्र स्वपतामधर्मः सर्वदोषप्रकोपश्च तत्प्रकोपाच्च कासश्वास प्रतिश्यायशिरोगौरवाङ्गमर्दारोचकज्वराग्निदौर्बल्यानि भवन्ति रात्रावपि जागरितवतां वातपित्तनिमित्तास्त एवोपद्र वा भवन्ति ३८
भवन्ति चात्र
तस्मान्न जागृयाद्रा त्रौ दिवास्वप्नं च वर्जयेत्
ज्ञात्वा दोषकरावेतौ बुधः स्वप्नं मितं चरेत् ३९
अरोगः सुमना ह्येवं बलवर्णान्वितो वृषः
नातिस्थूलकृशः श्रीमान् नरो जीवेत् समाः शतम् ४०
निद्रा सात्म्यीकृता यैस्तु रात्रौ च यदि वा दिवा
दिवारात्रौ च ये नित्यं स्वप्नजागरणोचिताः
न तेषां स्वपतां दोषो जाग्रतां वाऽपि जायते ४१
निद्रा नाशोऽनिलात् पित्तान्मनस्तापात् क्षयादपि
संभवत्यभिघाताच्च प्रत्यनीकैः प्रशाम्यति ४२
निद्रा नाशेऽभ्यङ्गयोगो मूर्ध्नि तैलनिषेवणम्
गात्रस्योद्वर्तनं चैव हितं संवाहनानि च ४३
शालिगोधूमपिष्टान्नभक्ष्यैरैक्षवसंस्कृतैः
भोजनं मधुरं स्निग्धं क्षीरमांसरसादिभिः ४४
रसैर्बिलेशयानां च विष्किराणां तथैव च
द्रा क्षासितेक्षुद्र व्याणामुपयोगो भवेन्निशि ४५
शयनासनयानानि मनोज्ञानि मृदूनि च
निद्रा नाशे तु कुर्वीत तथाऽन्यान्यपि बुद्धिमान् ४६
निद्रा तियोगे वमनं हितं संशोधनानि च
लङ्घनं रक्तमोक्षश्च मनोव्याकुलनानि च ४७
कफमेदोविषार्तानां रात्रौ जागरणं हितम्
दिवास्वप्नश्च तृट्शूलहिक्काजीर्णातिसारिणाम् ४८
इन्द्रि यार्थेष्वसंप्राप्तिर्गौरवं जृम्भणं क्लमः
निद्रा र्तस्येव यस्येहा तस्य तन्द्रा विनिर्दिशेत् ४९
पीत्वैकमनिलोच्छ्वासमुद्वेष्टन् विवृताननः
यं मुञ्चति सनेत्रास्रं स जृम्भ इति संज्ञितः ५०
योऽनायासः श्रमो देहे प्रवृद्धः श्वासवर्जितः
क्लमः स इति विज्ञेय इन्द्रि यार्थप्रबाधकः ५१
सुखस्पर्शप्रसङ्गित्वं दुःखद्वेषणलोलता
शक्तस्य चाप्यनुत्साहः कर्मस्वालस्यमुच्यते ५२
उत्क्लिश्यान्नं न निर्गच्छेत् प्रसेकष्ठीवनेरितम्
हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत् ५३
वक्त्रे मधुरता तन्द्रा हृदयोद्वेष्टनं भ्रमः
न चान्नमभिकाङ्क्षेत ग्लानिं तस्य विनिर्दिशेत् ५४
आर्द्र चर्मावनद्धं वा यो गात्रं मन्यते नरः
तथा गुरु शिरोऽत्यर्थं गौरवं तद्विनिर्दिशेत् ५५
मूर्च्छा पित्ततमःप्राया रजःपित्तानिलाद्भ्रमः
तमोवातकफात्तन्द्रा निद्रा श्लेष्मतमोभवा ५६
गर्भस्य खलु रसनिमित्ता मारुताध्माननिमित्ता च परिवृद्धिर्भवति ५७
भवन्ति चात्र
तस्यान्तरेण नाभेस्तु ज्योतिःस्थानं ध्रुवं स्मृतम्
तदाधमति वातस्तु देहस्तेनास्य वर्धते ५८
ऊष्मणा सहितश्चापि दारयत्यस्य मारुतः
ऊर्ध्वं तिर्यगधस्ताच्च स्रोतांस्यपि यथा तथा ५९
दृष्टिश्च रोमकूपाश्च न वर्धन्ते कदाचन
ध्रुवाण्येतानि मर्त्यानामिति धन्वन्तरेर्मतम् ६०
शरीरे क्षीयमाणेऽपि वर्धेते द्वाविमौ सदा
स्वभावं प्रकृतिं कृत्वा नखकेशाविति स्थितिः ६१
सप्त प्रकृतयो भवन्तिदोषैः पृथक् द्विशः समस्तैश्च ६२
शुक्रशोणितसंयोगे यो भवेद्दोष उत्कटः
प्रकृतिर्जायते तेन तस्या मे लक्षणं शृणु ६३
तत्र वातप्रकृतिः प्रजागरूकः शीतद्वेषी दुर्भगः स्तेनो मत्सर्यनार्यो गन्धर्वचित्तः स्फुटितकरचरणोऽल्परूक्षश्मश्रुनखकेशः क्राथी दन्तखादी च भवति ६४
अधृतिरदृढसौहृदः कृतघ्नः कृशपरुषो धमनीततः प्रलापीद्रुतगतिरटनोऽनवस्थितात्मा वियति च गच्छति संभ्रमेण सुप्तः ६५
अव्यवस्थितमतिश्चलदृष्टिर्मन्दरत्नधनसंचयमित्रः
किंचिदेव विलपत्यनिबद्धं मारुतप्रकृतिरेष मनुष्यः ६६
विआतिकाश्चाजगोमायुशशाखूष्ट्रशुनां तथा
गृध्रकाकखरादीनामनूकैः कीर्तिता नराः ६७
पित्तप्रकृतिस्तु स्वेदनो दुर्गन्धः पीतशिथिलाङ्गस्ताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलो दुर्भगोवलीपलितखालित्यजुष्टो बहुभुगुष्णद्वेषी क्षिप्रकोपप्रसादोमध्यबलो मध्यायुश्च भवति ६८
मेधावी निपुणमतिर्विगृह्य वक्ता तेजस्वी समितिषु दुर्निवारवीर्यः सुप्तः सन् कनकपलाशकर्णिकारान् संपश्येदपि च हुताशविद्युदुल्काः ६९
न भयात् प्रणमेदनतेष्वमृदुः प्रणतेष्वपि सान्त्वनदानरुचिःभवतीह सदा व्यथितास्यगतिः स भवेदिह पित्तकृतप्रकृतिः ७०
भिउजङ्गोलूकगन्धर्वयक्षमार्जारवानरैः
व्याघ्रर्क्षनकुलानूकैः पैत्तिकास्तु नराः स्मृताः ७१
श्लेष्मप्रकृतिस्तु दूर्वेन्दीवरनिस्त्रिंशाद्रा र्रिष्टकशरकाण्डानामन्यतमवर्णः सुभगः प्रियदर्शनो मधुरप्रियः कृतज्ञो धृतिमान् सहिष्णुरलोलुपो बलवांश्चिरग्राही दृढवैरश्च भवति ७२
शुक्लाक्षः स्थिरकुटिलालिनीलकेशो लक्ष्मीवान् जलदमृदङ्गसिंहघोषः सुप्तः सन् सकमलहंसचक्रवाकान् संपश्येदपि च जलाशयान् मनोज्ञान् ७३
रक्तान्तनेत्रः सुविभक्तगात्रः स्निग्धच्छविः सत्त्वगुणोपपन्नः
क्लेशक्षमो मानयिता गुरूणां ज्ञेयो बलासप्रकृतिर्मनुष्यः ७४
दिऋढशास्त्रमतिः स्थिरमित्रधनः परिगण्य चिरात् प्रददाति बहु
परिनिश्चितवाक्यपदः सततं गुरुमानकरश्च भवेत् स सदा ७५
ब्रह्मरुद्रे न्द्र वरुणैः सिंहाश्वगजगोवृषैः
तार्क्ष्यहंससमानूकाः श्लेष्मप्रकृतयो नराः ७६
द्वयोर्वा तिसृणां वाऽपि प्रकृतीनां तु लक्षणैः
ज्ञात्वा संसर्गजा वैद्यः प्रकृतीरभिनिर्दिशेत् ७७
प्रकोपो वाऽन्यथाभावो क्षयो वा नोपजायते
प्रकृतीनां स्वभावेन जायते तु गतायुषः ७८
विषजातो यथा कीटो न विषेण विपद्यते
तद्वत्प्रकृतयो मर्त्ये शक्नुवन्ति न बाधितुम् ७९
प्रकृतिमिह नराणां भौतिकीं केचिदाहुः पवनदहनतोयैः कीर्तितास्तास्तु तिस्रः
स्थिरविपुलशरीरः पार्थिवश्च क्षमावाञ् शुचिरथ चिरजीवी नाभसः खैर्मह
द्भिः ८०
शौचमास्तिक्यमध्यासो वेदेषु गुरुपूजनम्
प्रियातिथित्वमिज्या च ब्रह्मकायस्य लक्षणम् ८१
माहात्म्यं शौर्यमाज्ञा च सततं शास्त्रबुद्धिता
भृत्यानां भरणं चापि माहेन्द्रं कायलक्षणम् ८२
शीतसेवा सहिष्णुत्वं पैङ्गल्यं हरिकेशता
प्रियवादित्वमित्येतद्वारुणं कायलक्षणम् ८३
मध्यस्थता सहिष्णुत्वमर्थस्यागमसंचयौ
महाप्रसवशक्तित्वं कौबेरं कायलक्षणम् ८४
गन्धमाल्यप्रियत्वं च नृत्यवादित्रकामिता
विहारशीलता चैव गान्धर्वं कायलक्षणम् ८५
प्राप्तकारी दृढोत्थानो निर्भयः स्मृतिमाञ्छुचिः
रागमोहमदद्वेषैर्वर्जितो याम्यसत्त्ववान् ८६
जपव्रतब्रह्मचर्यहोमाध्ययनसेविनम्
ज्ञानविज्ञानसंपन्नमृषिसत्त्वं नरं विदुः ८७
सप्तैते सात्त्विकाः काया राजसांस्तु निबोध मे
ऐश्वर्यवन्तं रौद्रं च शूरं चण्डमसूयकम् ८८
एकाशिनं चौदरिकमासुरं सत्त्वमीदृशम्
तीक्ष्णमायासिनं भीरुं चण्डं मायान्वितं तथा ८९
विहाराचारचपलं सर्पसत्त्वं विदुर्नरम्
प्रवृद्धकामसेवी चाप्यजस्राहार एव च ९०
अमर्षणोऽनवस्थायी शाकुनं कायलक्षणम्
एकान्तग्राहिता रौद्र मसूया धर्मबाह्यता ९१
भृशमात्रं तमश्चापि राक्षसं कायलक्षणम्
उच्छिष्टाहारता तैक्ष्ण्यं साहसप्रियता तथा ९२
स्त्रीलोलुपत्वं नैर्लज्ज्यं पैशाचं कायलक्षणम्
असंविभागमलसं दुःखशीलमसूयकम् ९३
लोलुपं चाप्यदातारं प्रेतसत्त्वं विदुर्नरम्
षडेते राजसाः कायाः तामसांस्तु निबोध मे ९४
दुर्मेधस्त्वं मन्दता च स्वप्ने मैथुननित्यता
निराकरिष्णुता चैव विज्ञेयाः पाशवा गुणाः ९५
अनवस्थितता मौर्ख्यं भीरुत्वं सलिलार्थिता
परस्पराभिमर्दश्च मत्स्यसत्त्वस्य लक्षणम् ९६
एकस्थानरतिर्नित्यमाहारे केवले रतः
वानस्पत्यो नरः सत्त्वधर्मकामार्थवर्जितः ९७
इत्येते त्रिविधाः कायाः प्रोक्ता वै तामसास्तथा
कायानां प्रकृतीर्ज्ञात्वा त्वनुरूपां क्रियां चरेत् ९८
महाप्रकृतयस्त्वेता रजःसत्त्वतमःकृताः
प्रोक्ता लक्षणतः सम्यग्भिषक् ताश्च विभावयेत् ९९
इति सुश्रुतसंहितायां शारीरस्थाने गर्भव्याकरणं शारीरं नाम चतुर्थोऽध्यायः ४
पञ्चमोऽध्यायः
अथातः शरीरसंख्याव्याकरणं शारीरं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकारसंमूर्च्छितं गर्भं इत्युच्यते तं चेतनावस्थितं वायुर्विभजति तेज एनं पचति आपः क्लेदयन्ति पृथिवी संहन्ति आकाशं विवर्धयति एवं विवर्धितः स यदा हस्तपादजिह्वघ्राणकर्णनितम्बादिभिरङ्गैरुपेतस्तदा शरीर इति संज्ञां लभते तच्च षडङ्गं शाखाश्चतस्रो मध्यंपञ्चमं षष्ठं शिर इति ३
अतः परं प्रत्यङ्गानि वक्ष्यन्ते मस्तकोदरपृष्ठनाभिललाटनासाचिबुकबस्तिग्रीवा इत्येता एकैकाः कर्णनेत्रभ्रूशङ्खांसगण्ड कक्षस्तनवङ्क्षण वृषणपार्श्वस्फिग्जानुकूर्परबाहूरुप्रभृतयो द्वे द्वे विंशतिरङ्गुलयः स्रोतांसि वक्ष्यमाणानिएष प्रत्यङ्गविभाग उक्तः ४
तस्य पुनः संख्यानं त्वचः कला धातवो मला दोषा यकृत्प्लीहानौ फुप्फुस उण्डुको हृदयमाशया अन्त्राणि वृक्कौ स्रोतांसि कण्डरा जालानि कूर्चा रज्जवः सेवन्यः सङ्घाताः सीमन्ता अस्थीनि सन्धयः स्नायवः पेश्यो मर्माणिसिरा धमन्यो योगवहानि स्रोतांसि च ५
त्वचः सप्त कलाः सप्त आशयाः सप्त धातवः सप्त सप्त सिराशतानि पञ्च पेशीशतानि नव स्नायुशतानि त्रीण्यस्थिशतानि द्वे दशोत्तरे संधिशते सप्तोत्तरं मर्मशतं चतुर्विंशतिर्धमन्यः त्रयो दोषाः त्रयो मलाः नव स्रोतांसि षोडश कण्डराः षोडश जालानि षट् कूर्चाः चतस्रो रज्जवः सप्त सेवन्यः चतुर्दश सङ्घाताः चतुर्दशसीमन्ताः द्वाविंशतिर्योगवहानि स्रोतांसि द्विकान्यन्त्राणिचेति समासः ६
विस्तारोऽत ऊर्ध्वं त्वचोऽभिहिताः कला धातवोमला दोषा यत्कृत्प्लीहानौफुप्फुस उण्डुको हृदय वृक्कौ च ७
आशयास्तु वाताशयः पित्ताशयः श्लेष्माशयो रक्ताशय आमाशयः पक्वाशयो मूत्राशयः स्त्रीणां गर्भाशयोऽष्टम इति ८
सार्धत्रिव्यामान्यन्त्राणि पुंसां स्त्रीणामर्धव्यामहीनानि ९
श्रवणनयनवदनघ्राणगुदमेढ्राणि नव स्रोतांसिनराणां बहिर्मुखानि एतान्येवस्त्रीणामपराणिच त्रीणि द्वे स्तनयोरधस्ताद्र क्तवहं च १०
षोडश कण्डराः तासां चतस्रः पादयोः तावत्यो हस्तग्रीवापृष्ठेषु तत्र हस्तपादगतानां कण्डराणां नखा अग्रप्ररोहाः ग्रीवाहृदयनिबन्धिनीनामधोभागगतानां मेढ्रं श्रोणिपृष्ठनिबन्धिनीनामधोभागगतानां बिम्ब मूर्धोरुवक्षंऽसपिण्डादीनां च ११
मांससिरास्नाय्वस्थिजालानि प्रत्येकं चत्वारि तानि मणिबन्धगुल्फसंश्रितानिपरस्परनिबद्धानिपरस्परगवाक्षितानि चेति यैर्गवाक्षितमिदं शरीरम् १२
षट् कूर्चाः ते हस्तपादग्रीवामेढ्रेषु हस्तयोर्द्वौ पादयोर्द्वौ ग्रीवामेढ्रयोरेकैकः १३
महत्यो मांसरज्जवश्चतस्रःपृष्ठवंशमुभयतः पेशी निबन्धनार्थं द्वे बाह्ये आभ्यन्तरे च द्वे १४
सप्त सेवन्यः शिरसि विभक्ताः पञ्च जिह्वाशेफसोरेकैका ताः परिहर्त्तव्याःशस्त्रेण १५
चतुर्दशास्थ्नां संघाताः तेषां त्रयो गुल्फजानुवङ्क्षणेषु एतेनेतरसक्थिबाहू चव्याख्यातौ त्रिकशिरसोरेकैकः १६
चतुर्दशैव सीमन्ताः ते चास्थिसङ्घातवद्गणनीयाः यतस्तैर्युक्ता अस्थिसंघाताःये ह्युक्ताः संघातास्तेखल्वष्टादशैकेषाम् १७
त्रीणि सषष्टान्यस्थिशतानि वेदवादिनो भाषन्ते शल्य तन्त्रेषु तु त्रीण्येव शतानि तेषां सविंशमस्थिशतं शाखासु सप्तदशोत्तरं शतं श्रोणिपार्श्वपृष्ठोरःसुग्रीवां प्रत्यूर्ध्वं त्रिषष्टिः एवमन्स्थां त्रीणिशतानि पूर्यन्ते १८
एकैकस्यां तु पादाङ्गुल्यां त्रीणि त्रीणि तानि पञ्चदश तलकूर्चगुल्फसंश्रितानि दश पार्ष्ण्यामेकं जङ्घायां द्वे जानुन्येकम् एकमूराविति त्रिंशदेवमेकस्मिन् सन्क्थि भवन्ति एतेनेतरसक्थिबाहू च व्याख्यातौ श्रोण्यां पञ्च तेषां गुदभगनितम्बेषु चत्वारि त्रिकसंश्रितमेकं पार्श्वे षट्त्रिंशदेकस्मिन् द्वितीयेऽप्येवं पृष्ठे त्रिंशत् अष्टावुरसि द्वे अंसफलके ग्रीवायां नव कण्ठनाड्यां चत्वारि द्वे हन्वोः दन्ता द्वात्रिंशत् नासायां त्रीणि एकं तालुनि गण्डकर्णशङ्खेष्वेकैकं षट्शिरसीति १९
एतानि पञ्चविधानि भवन्ति तद्यथाकपालरुचकतरुणवलयनलकसंज्ञानि तेषां जानुनितम्बांसगण्डतालुशङ्खशिरःसु कपालानि दशनास्तु रुचकानिघ्राणकर्णग्रीवाक्षिकोषेषु तरुणानि पाश्वर्पृष्ठोरःसु वलयानि शेषाणि नलकसंज्ञानि २०
भवन्ति चात्र
अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः
अस्थिसारैस्तथा देहा ध्रियन्ते देहिनां ध्रुवम् २१
तस्माच्चिरविनष्टेषु त्वङ्मांसेषु शरीरिणाम्
अस्थीनि न विनश्यन्ति साराण्येतानि देहिनाम् २२
मांसान्यत्र निबद्धानि सिराभिः स्रायुभिस्तथा
अस्थीन्यालम्बनं कृत्वा न शीर्यन्ते पतन्ति वा २३
सन्धयस्तु द्विविधाश्चेष्टावन्तः स्थिराश्च २४
शाखासु हन्वोः कट्यां च चेष्टावन्तस्तु सन्धयः
शेषास्तु सन्धयः सर्वे विज्ञेया हि स्थिरा बुधैः २५
सङ्ख्यातस्तु दशोत्तरे द्वे शते तेषां शाखास्वष्टषष्टिः एकोनषष्टिः कोष्ठे ग्रीवांप्रत्यूर्ध्वं त्र्यशीतिः एकैकस्यां पादाङ्गुल्यां त्रयस्त्रयः द्वावङ्गुष्ठे ते चतुर्दश जानुगुल्फवङ्क्षणेष्वेकैकः एवं सप्तदशैकस्मिन् सक्थ्नि भवन्ति एतेनेतरसक्थि बाहू च व्याख्यातौ त्रयः कटीकपालेषु चतुर्विंशतिः पृष्ठवंशे तावन्त एव पार्श्वयोः उरस्यष्टौ तावन्त एव ग्रीवायां त्रयः कण्ठे नाडीषु हृदयक्लोमनिबद्धास्वष्टादश दन्तपरिमाणा दन्तमूलेषु एकः काकलके नासायां च द्वौ वर्त्ममण्डलयोर्नेत्राश्रयौ गण्डकर्णशङ्खेष्वेकैकः द्वौ हनुसन्धी द्वावुपरिष्टाद्भ्रुवोःशङ्खयोश्च पञ्च शिरःकपालेषु एको मूर्ध्नि २६
त एते सन्धयोऽष्टविधाःकोरोलूखलसामुद्गप्रतरतुन्नसेवनीवायसतुण्ड मण्डल शङ्खावर्त्ताः तेषामङ्गुलिमणिबन्धगुल्फजानुकूर्परषु कोराः सन्धयः कक्षावङ्क्षणदशनेषूलूखलाः अंसपीठगुदभगनितम्बेषु सामुद्गाः ग्रीवापृष्ठवंशयोः प्रतराः शिरःकटीकपालेषु तुन्नसेवन्यः हन्वोरुभयतस्तु वायस्तुण्डाः कण्ठहृदयनेत्रक्लोमनाडीषु मण्डलाः श्रोत्रशृङ्गाटकेषु शङ्खावर्ताः तेषां नामभिरेवाकृतयःप्रायेण व्याख्याताः २७
अन्स्थां तु सन्धयो ह्येते केवलाः परिकीर्तिताः
पेशीस्नायुसिराणां तु सन्धिसङ्ख्या न विद्यते २८
नव स्नायुशतानि तासां शाखासु षट्शतानि द्वे शते त्रिंशच्च कोष्ठे ग्रीवां प्रत्यूर्ध्वं सप्ततिः एकैकस्यां तु पादाङ्गुल्यां षण्निचितास्तास्त्रिंशत् तावत्य एव तलकूर्चगुल्फेषु तावत्य एव जङ्घायां दश जानुनि चत्वारिंशदूरौ दश वङ्क्षणे शतमध्यर्धमेवमेकस्मिन् सन्क्थि भवन्ति एतेनेतरसक्थि बाहू च व्याख्यातौ षष्टिः कट्यां पृष्ठेऽशीतिः पार्श्वयोः षष्टिः उरसित्रिंशत् षट्त्रिंशद्ग्रीवायां मूर्ध्नि चतुस्त्रिंशत् एवं नव स्नायुशतानि व्याख्यातानि भवन्ति २९
भवन्ति चात्र
स्नायूश्चतुर्विधा विद्यात्तास्तु सर्वा निबोध मे
प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च शुषिरास्तथा ३०
प्रतानवत्यः शाखासु सर्वसन्धिषु चाप्यथ
वृत्तास्तु कण्डराः सर्वा विज्ञेयाः कुशलैरिह ३१
आमपक्वाशयान्तेषु बस्तौ च शुषिराः खलु
पार्श्वोरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ ३२
नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्युता
भारक्षमा भवेदप्सु नृयुक्ता सुसमाहिता ३३
एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः
स्नायुभिर्बहुभिर्बद्धास्तेन भारसहा नराः ३४
न ह्यस्थीनि न वा पेश्यो न सिरा न च सन्धयः
व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणाम् ३५
यः स्नायूः प्रविजानाति बाह्याश्चाभ्यन्तरास्तथा
स गूढं शल्यमाहर्त्तुं देहाच्छक्नोति देहिनाम् ३६
पञ्च पेशीशतानि भवन्ति तासां चत्वारि शतानि शाखासु कोष्ठे षट्षष्टिः ग्रीवां प्रत्यूर्ध्वं चतुस्त्रिंशत् एकैकस्यां तु पादाङ्गुल्यां तिस्रस्तिस्रस्ताः पञ्चदश दश प्रपदे पादोपरि कूर्चसन्निविष्टास्तावत्य एव दश गुल्फतलयोः गुल्फजान्वन्तरे विंशतिः पञ्च जानुनि विंशतिरूरौ दश वङ्क्षणे शतमेवमेकस्मिन् सन्क्थि भवति एतेनेतरसक्थिबाहू च व्याख्यातौ तिस्रः पायौ एका मेढ्रे सेवन्यां चापरा द्वे वृषणयोः स्फिचोः पञ्च पञ्च द्वे बस्तिशिरसि पञ्चोदरे नाभ्यामेका पृष्ठोर्ध्वसन्निविष्टाः पञ्च पञ्च दीर्घाः षट् पार्श्वयोः दश वक्षसि अक्षकांसौ प्रति समन्तात् सप्त द्वे हृदयामाशययोः षट् यकृत्प्लीहोण्डुकेषु ग्रीवायां चतस्रः अष्टौ हन्वोः एकैका काकलकगलयोः द्वे तालुनि एका जिह्वायां द्वे ओष्ठयोः द्वे नासायां द्वे नेत्रयोः गण्डयोश्चतस्रः कर्णयोर्द्वे चतस्रो ललाटे एका शिर सीतिएवमेतानि पञ्च पेशीशतानि ३७
भवति चात्र
सिरास्नाय्वस्थिपर्वाणि सन्धयश्च शरीरिणाम्
पेशीभिः संवृतान्यत्र बलवन्ति भवन्त्यतः ३८
स्त्रीणां तु विंशतिरधिका दश तासां स्तनयोरेकैकस्मिन् पञ्च पञ्चेति यौवने तासां परिवृद्धिःअपत्यपथे चतस्रःतासां प्रसृते अभ्यन्तरतो द्वे मुखाश्रिते बाह्ये च वृत्ते द्वे गर्भच्छिद्र संश्रितास्तिस्रः शुक्रार्तवप्रवेशिन्यस्तिस्र एव पित्तपक्वाशययोर्मध्ये गर्भशय्या यत्र गर्भस्तिष्ठति ३९
तासां बहलपेलवस्थूलाणुपृथुवृत्तह्रस्वदीरघ्थिरमृदुश्लक्ष्णकर्कशभावाः सन्ध्यस्थिसिरास्नायुप्रच्छादका यथाप्रदेशं स्वभावत एव भवन्ति ४०
भवति चात्र
पुंसां पेश्यः पुरस्ताद्याः प्रोक्ता लक्षणमुष्कजाः
स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः ४१
मर्मसिराधमनीस्रोतसामन्यत्र प्रविभागः ४२
शङ्खनाभ्याकृतिर्योनिस्त्र् यावर्ता सा प्रकीर्तिता
तस्यास्तृतीये त्वावर्ते गर्भशय्या प्रतिष्ठिता ४३
यथा रोहितमत्स्यस्य मुखं भवति रूपतः
तत्संस्थानां तथारूपां गर्भशय्यां विदुर्बुधाः ४४
आभुग्नोऽभिमुखः शेते गर्भो गर्भाशये स्त्रियाः
स योनिं शिरसा याति स्वभावात् प्रसवं प्रति ४५
त्वक्पर्यन्तस्य देहस्य योऽयमङ्गविनिश्चयः
शल्यज्ञानादृते नैष वर्ण्यतेऽङ्गेषु केषुचित् ४६
तस्मान्निःसंशयं ज्ञानं हर्त्रा शल्यस्य वाञ्छता
शोधयित्वा मृतं सम्यग्द्र ष्टव्योऽङ्गविनिश्चयः ४७
प्रत्यक्षतो हि यद्दृष्टं शास्त्रदृष्टं च यद्भवेत्
समासतस्तदुभयं भूयो ज्ञानविवर्द्धनम् ४८
तस्मात् समस्तगात्रमविषोपहतमदीर्घव्याधिपीडतमवर्षशतिकं निःसृष्टान्त्रपुरीषं पुरुषमावहन्त्यामापगायां निबद्धं पञ्जरस्थं मुञ्जवल्कलकुशशणादीनामन्यतमेनावेष्टिताङ्गमप्रकाशे देशे कोथयेत् सम्यक्प्रकुथितं चोद्धृत्य ततो देहं सप्तरात्रादुशीरबालवेणुबल्वजकूर्चानामन्यतमेन शनैः शनैरवघर्षयंस्त्वगादीन् सर्वानेव बाह्याभ्यन्तरानङ्गप्रत्यङ्गविशेषान् यथोक्तान् लक्षयेच्चक्षुषा ४९
न शक्यश्चक्षुषा द्र ष्टुं देहे सूक्ष्मतमो विभुः
दृश्यते ज्ञानचक्षुर्भिस्तपश्चक्षुर्भिरेव च ५०
शरीरे चैव शास्त्रे च दृष्टार्थः स्याद्विशारदः
दृष्टश्रुताभ्यां संदेहमवापोह्याचरेत् क्रियाः ५१
इति सुश्रुतसंहितायां शारीरस्थाने शरीरसंख्याव्याकरणशारीरं नाम पञ्चमोऽध्यायः ५
षष्ठोऽध्यायः
अथातः प्रत्येकमर्मनिर्देशं शारीरं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सप्तोत्तरं मर्मशतम् तानि मर्माणि पञ्चात्मकानिभवन्ति तद्यथामांसमर्माणि सिरामर्माणि स्नायुमर्माणि अस्थिमर्माणि सन्धिमर्माणि चेति न खलु मांससिरास्नय्वास्थिसन्धिव्यतिरेकेणान्यानि मर्माणि भवन्ति यस्मान्नोपलभ्यन्ते३
तत्रैकादश मांसमर्माणि एकचत्वारिंशत् सिरामर्माणि सप्तविंशतिः स्नायुमर्माणि अष्टावस्थिमर्माणि विंशतिः सन्धिमर्माणि चेति तदेतत् सप्तोत्तरं मर्मशतम् ४
तेषामेकादशैकस्मिन् सन्क्थि भवन्ति एतेनेतरसक्थि बाहू च व्याख्यातौ उदरोरसोर्द्वादश चतुर्दश पृष्ठे ग्रीवां प्रत्यूर्ध्वं सप्तत्रिंशत् ५
तत्र सक्थिमर्माणि क्षिप्रतलहृदयकूर्चकूर्चशिरोगुल्फेन्द्र बस्तिजान्वाण्युर्विलोहिताक्षाणि विटपं चेति एतेनेतरत्सक्थि व्याख्यातम् उदरोरसोस्तु गुदबस्तिनाभिहृदयस्तनमूलस्तनरोहितापलापान्यपस्तम्भौ चेति पृष्ठमर्माणि तु कटीकतरुणकुकुन्दरनितम्बपाश्वर्सन्धिबृहत्यंसफलकान्यंसौ चेति बाहुमर्माणि तु शिप्रतलहृदयकूर्चकूर्चशिरोमणिबन्धेन्द्र बस्तिकूर्पराण्युर्वीलोहिताक्षाणि कक्षधरं चेति एतेनेतरो बाहुर्व्याख्यातः जत्रुण ऊर्ध्वं चतस्रो धमन्योऽष्टौ मातृका द्वे कृकाटिके द्वे विधुरे द्वए फणे द्वावपाङ्गौ द्वावावर्तौ द्वावुत्क्षेपौ द्वौ शङ्खावेका स्थपनी पञ्च सीमन्ताश्चत्वारि शृङ्गाटकान्येकोऽधिपतिरिति ६
तत्र तलहृदयेन्द्र बस्तिगुदस्तनरोहितानि मांसमर्माणि नीलधमनीमातृकाशृङ्गाटकापाङ्गस्थपनीफणस्तनमूलापलापापस्तम्भहृदयनाभिपारव-सन्धिबृहतीलोहिता क्षोर्व्यः सिरामर्माणि आणीइणिइविटपकक्षधरकूर्चकूर्चशिरोबस्तिक्षिप्रांसविधुरोत्क्षेपाः स्नायुमर्माणि कटीकतरुण नितम्बांसफलकशङ्खास्त्वस्थिमर्माण जानुकूर्परसीमन्ताधिपतिगुल्फमणिबन्धकुकुन्दरावर्तकृकाटिकाश्चेति सन्धिमर्माणि ७
तान्येतानि पञ्चविकल्पानि भवन्ति तद्यथासद्यःप्राणहराणि कालान्तरप्राणहराणि विशल्यघ्नानि वैकल्यकराणि रुजाकराणि चेति तत्र सद्यःप्राणहराण्येकोनविंशतिः कालान्तरप्राणहराणि त्रयस्त्रिंशत् त्रीणि विशल्यघ्नानि चतुश्चत्वारिंशद्वैकल्यकराणि अष्टौ रुजाकराणीति ८
भवन्ति चात्र
शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठसिरा गुदम्
हृदयं बस्तिनाभी च घ्नन्ति सद्योहतानि तु ९
वक्षोमर्माणि सीमन्ततलक्षिप्रेन्द्र बस्तयः
कटीकतरुणे सन्धी पार्श्वजौ बृहती च या १०
नितम्बाविति चैतानि कालान्तरहराणि तु
उत्क्षेपौ स्थपनी चैव विशल्यघ्नानि निर्दिशेत् ११
लोहिताक्षाणि जानूर्वीकूर्चविटपकूर्पराः
कुकुन्दरे कक्षधरे विधुरे सकृकाटिके १२
अंसांसफलकापाङ्गा नीले मन्ये फणौ तथा
वैकल्यकरणान्याहुरावर्तौ द्वौ तथैव च १३
गुल्फौ द्वौ मणिबन्धौ द्वौ द्वे द्वे कूर्चशिरांसि च
रुजाकराणि जानीयादष्टावेतानि बुद्धिमान्
क्षिप्राणि विद्धमात्राणि घ्नन्ति कालान्तरेण च १४
मर्माणि मांससिरास्नाय्वस्थिसन्धिसन्निपाताः तेषु स्वभावत एव विशेषेणप्राणास्तिष्ठन्ति तस्मान्मर्मस्वभिहतास्तांस्तान् भावानापद्यन्ते १५
तत्र सद्यःप्राणहराण्याग्नेयानि अग्निगुणेष्वाशु क्षीणेषु क्षपयन्ति कालान्तरप्राणहराणि सौम्याग्नेयानि अग्निगुणेष्वाशु क्षीणेषु क्रमेण च सोमगुणेषु कालान्तरेण क्षपयन्ति विशल्यप्राणहराणि वायव्यानि शल्यमुखावरुद्धो यावदन्तर्वायुस्तिष्ठति तावज्जवीति उद्धृतमात्रे तु शल्ये मर्मस्थानाश्रितो वायुर्निष्क्रामति तस्मात् सशल्यो जीवत्युद्धृतशल्यो म्रियते पाकात्पतितशल्यो वा जीवति वैकल्यकराणि सौम्यानि सोमो हि स्थिरत्वाच्छत्याच्च प्राणावलम्बनं करोति रुजाकराण्यग्निवायुगुण भूयिष्ठानि विशेषतश्च तौ रुजाकरौ पाञ्चभौतिकीं च रुजामाहुरेके १६
केचिदाहुर्मांसादीनां पञ्चानामपि समस्तानां विवृद्धानां समवायात् सद्यः प्राणहराणि एकहीनानामल्पानां वा कालान्तरप्राणहराणि द्विहीनानां विशल्यप्राणहराणि त्रिहीनानां वैकल्यकराणि एकस्मिन्नेव रुजाकराणीति नैवं यतोस्थिमर्मस्वप्यभिहतेषु शोणितागमनं भवति १७
चतुर्विधा यास्तु सिराः शरीरे प्रायेण ता मर्मसु सन्निविष्टाः
स्नाय्वस्थिमांसानि तथैव सन्धीन् सन्तर्प्य देहं प्रतियापयन्ति १८
ततः क्षते मर्मणि ताः प्रवृद्धः समन्ततो वायुरभिस्तृणोति
विवर्धमानस्तु स मातरिश्वारुजः सुतीव्राः प्रतनोति काये १९
रुजाभिभूतं तु ततः शरीरं प्रलीयते नश्यति चास्य संज्ञा
अतो हि शल्यं विनिहर्तुमिच्छन्मर्माणि यत्नेन परीक्ष्य कर्षेत् २०
एतेन शेषं व्याख्यातम् २१
तत्र सद्यःप्राणहरमन्ते विद्धं कालान्तरेण मारयति कालान्तरप्राणहरमन्ते विद्धं वैकल्यमापादयति विशल्यघ्नं वैकल्यकरं च भवति वैकल्यकरं कालान्तरेणक्लेशयति रुजां च करोति रुजाकरमतीव्रवेदनं भवति २२
तत्र सद्यःप्राणहराणि सप्तरात्राभ्यन्तरान्मारयन्ति कालान्तरप्राणहराणि पक्षान्मासाद्वा तेष्वपि तु क्षिप्राणि कदाचिदाशु मारयन्ति विशल्यप्राणहराणि वैकल्यकराणि च कदाचिदत्यभिहतानि मारयन्ति २३
अत ऊर्ध्वं सक्थिमर्माणि व्याख्यास्यामःतत्र पादस्याङ्गुष्ठाङ्गुल्योर्मध्ये क्षिप्रं नाम मर्म तत्र विद्धस्याक्षेपकेण मरणं मध्यमाङ्गुलीमनुपूर्वेण मध्ये पादतलस्य तलहृदयं नाम तत्र रुजाभिर्मरणं क्षिप्रस्योपरिष्टादुभयतः कूर्चो नाम तत्र पादस्य भ्रमणवेपने भवतः गुल्फसन्धेरध उभयतः कूर्चशिरः तत्र रुजाशोफौ पादजङ्घयोः सन्धाने गुल्फः तत्र रुजः स्तब्धपादता खञ्जता वा पार्ष्णिं प्रति जङ्घामध्ये इन्द्र बस्तिः तत्र शोणितक्षयेण मरणं जङ्घोर्वोः सन्धाने जानु तत्र खञ्जता जानुन ऊर्ध्वमुभयतस्त्र् यङ्गुलमाणी तत्र शोफाभिवृद्धिः स्तब्धसक्थिता च ऊरुमध्ये उर्वी तत्र शोणित् क्षयात् सक्थिशोषःउर्व्या ऊर्ध्वमधो वङ्क्षणसंधेरूरुमूले लोहिताक्षं तत्र लोहितक्षयेण मरणं पक्षाघातो वा वङ्क्षणवृषणयोरन्तरे विटपं तत्र षाण्ढ्यमल्पशुक्रता वा भवति एवमेतान्येकादश सक्थिमर्माणि व्याख्यातानि एतेनेतरसक्थि बाहू च व्याख्यातौ विशेषतस्तु यानि सन्क्थि गुल्फजानुविटपानि तानि बाहौ मणिबन्धकूर्परकक्षधराणितथा वङ्क्षणवृषणयोरन्तरे विटपमेवं वक्षःकक्षयोर्मध्ये कक्षधरं तस्मिन् विद्धते एवोपद्र वाः विशेषतस्तु मणिबन्धे कुण्ठता कूर्पराख्ये कुणिः कक्षधरे पक्षाघातः एवमेतानि चतुश्चत्वारिंशच्छाखासु मर्माणि व्याख्यातानि २४
अत ऊर्ध्वमुदरोरसोर्मर्माण्यनुव्याख्यस्यामःतत्र वातवर्चोनिरसनं स्थूलान्त्रप्रतिबद्धं गुदं नाम मर्म तत्र सद्योमरणं अल्पमांसशोणितोऽभ्यन्तरतः कट्यां मूत्राशयो बस्तिः तत्रापि सद्योमरणमश्मरीव्रणादृते तत्राप्युभयतो भिन्ने न जीवति एकतो भिन्ने मूत्रस्रावी व्रणो भवति स तु यत्नेनोपक्रान्तो रोहति पक्वामाशययोर्मध्ये सिराप्रभवा नाभिः तत्रापि सद्यो मरणं स्तनयोर्मध्यमधिष्ठायोरस्यामाशयद्वारं सत्त्वरजस्तमसामधिष्ठानं हृदयं तत्रापि सद्य एव मरणंस्तनयोरधस्ताद् द्व्यङ्गुलमुभयतः स्तनमूले तत्र कफपूर्णकोष्ठतया कासश्वासाभ्यां म्रियते स्तनचूचुकयोरूर्ध्वं द्वयङ्गुलमुभयतः स्तनरोहितौ तत्र लोहितपूर्णकोष्ठतया कासश्वसाभ्यां च म्रियते अंसकूटयोरधस्तात्पार्श्वोपरिभागयोरपलापौ नाम तत्र रक्तेन पूयभावं गतेन मरणं उभयत्रोरसो नाड्यौ वातवहे अपस्तम्भौ नाम तत्र वातपूर्णकोष्ठतया कासश्वासाभ्यां च मरणम् एवमेतान्युदरोरसोर्द्वादश मर्माणि व्याख्यातानि २५
अत ऊर्ध्वं पृष्ठमर्माणि व्याख्यास्यामःतत्र पृष्ठवंशमुभयतः प्रतिश्रोणिकाण्डमस्थिनी कटीकतरुणे तत्र शोणितक्षयात् पाण्डुर्विवर्णो हीनरूपश्च म्रियतेपार्श्वयोर्जघनबहिर्भागे पृष्ठवंशमुभयतो कुकुन्दरे तत्र स्पर्शाज्ञानमधःकाये चेष्टोपघातश्च श्रोणीकाण्डयोरुपर्याशयाच्छादनौ पार्श्वान्तरप्रतिबद्धौ नितम्बौ तत्राधःकायशोषो दौर्बल्याच्च मरणंअधः पार्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ययोस्तिर्यगूर्ध्वं च जघनात् पार्श्वसन्धी तत्र लोहितपूर्णकोष्ठतयाम्रियतेस्तनमूलादृजूभयतः पृष्ठवंशस्यबृहती तत्र शोणितातिप्रवृत्तिनिमित्तैरुपद्र वैर्म्रियते पृष्ठोपरि पृष्ठवंशमुभयतस्त्रिकसंबद्धे अंसफलके तत्र बाह्वोः स्वापशोषौबाहुमूर्धग्रीवामध्येंऽसपीठस्कन्धबन्धनावंसौ तत्र स्तब्धबाहुता एवमेतानि चतुर्दशपृष्ठमर्माणि व्याख्यातानि २६
अत ऊर्ध्वमूर्ध्वजत्रुगतानि व्याख्यास्यामःतत्र कण्ठनाडी मुभयतश्चतस्रोधमन्यो द्वे नीले द्वे च मन्ये व्यत्यासेन तत्र मूकता स्वरवैकृतमरसग्राहिता च ग्रीवायामुभयतश्चतस्रः सिरा मातृकाः तत्र सद्योमरणं शिरोग्रीवयोः सन्धाने कृकाटिके तत्र चलमूर्धता कर्णपृष्ठतोऽधसंश्रिते विधुरे तत्र बाधिर्यं घ्राणमार्गमुभयतः स्रोतोमार्गप्रतिबद्धे अभ्यन्तरतः फणे तत्र गन्धाज्ञानां भ्रूपुच्छान्तयोरधोऽक्ष्णो र्बाह्यतोऽपाङ्गौ तत्रान्ध्यं दृष्ट्युपघातो वा भ्रुवोरुपरि निम्नयोरावर्तौ नाम तत्राप्यान्ध्यं दृष्ट्युपघातो वा भ्रुवोरन्तयोरुपरि कर्णललाटयोर्मध्ये शङ्खौ तत्र सद्योमरणं शङ्खयोरुपरि केशान्त उत्क्षेपौ तत्र सशल्यो जीवेत् पाकात् पतितशल्यो वा नोद्धृतशल्यः भ्रुवोर्मध्ये स्थपनी तत्रोत्क्षेपवत् पञ्च सन्धयः शिरसि विभक्ताः सीमन्ता नाम तत्रोन्मादभयचित्तनाशैर्मरणंघ्राणश्रोत्राक्षिजिह्वसांतर्पणीनां सिराणां मध्ये सिरासन्निपातः शृङ्गाटकानि तानि चत्वारि मर्माणि तत्रापि सद्योमरणंमस्तकाभ्यन्तरोपरिष्ठात् सिरासन्धिसन्निपातो रोमावर्तोऽधिपतिः तत्रापि सद्य एव एवमेतानि सप्तत्रिंशदूर्ध्वजत्रुगतानि मर्माणि व्याख्यातानि २७
भवन्ति चात्र श्लोका
उर्व्यः शिरांसि विटपे च सकक्षपार्श्वे एकैकमङ्गुलमितं स्तनपूर्वमूलम् विद्ध्य्ङ्गुलद्वयमितं मणिबन्धगुल्फं त्रीण्येव जानुसपरं सह कूर्पराभ्याम् २८
हृद्बस्तिकूर्चगुदनाभि वदन्ति मूर्ध्नि चत्वारि पञ्च च गले दश यानि च द्वे
तानि स्वपाणितलकुञ्चितसंमितानि शेषाण्यवेहि परिविस्तरतोऽङ्गुलार्धम् २९
एतत्प्रमाणमभिवीक्ष्य वदन्ति तज्ज्ञाः शस्त्रेण कर्मकरणं परिहृत्य कार्यम्
पार्श्वाभिघातितमपीह निहन्ति मर्म तस्माद्धि मर्मसदनं परिवर्जनीयम् ३०
छिन्नेषु पाणिचरणेषु सिरा नराणां सङ्कोचमीयुरसृगल्पमतो निरेति
प्राप्यामितव्यसनमुग्रमतो मनुष्याः संच्छिन्नशाखतरुवन्निधनं न यान्ति ३१
क्षिप्रेषु तत्र सतलेषु हतेषु रक्तं गच्छत्यतीव पवनश्च रुजं करोति
एवं विनाशमुपयान्ति हि तत्र विद्धा वृक्षा इवायुधनिपातनिकृत्तमूलाः ३२
तस्मात्तयोरभिहतस्य तु पाणिपादं छेत्तव्यमाशु मणिबन्धनगुल्फदेशे
मर्माणि शल्यविषयार्धमुदाहरन्ति यस्माच्च मर्मसु हता न भवन्ति सद्यः ३३
जीवन्ति तत्र यदि वैद्यगुणेन केचित्ते प्राप्नुवन्ति विकलत्वमसंशयं हि
संभिन्नजर्जरितकोष्ठशिरःकपाला जीवन्ति शस्त्रनिहतैश्च शरीरदेशैः ३४
छिन्नैश्च सक्थिभुजपादकरैरशेषैर्येषां न मर्मसु कृता विविधाः प्रहाराः
सोममारुततेजांसि रजःसत्त्वतमांसि च
मर्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते ३५
मर्मस्वभिहतास्तस्मान्न जीवन्ति शरीरिणः
इन्द्रि यार्थेष्वसंप्राप्तिर्मनोबुद्धिविपर्ययः ३६
रुजश्च विविधास्तीव्रा भवन्त्याशुहरे हते
हते कालान्तरघ्ने तु ध्रुवं धातुक्षयो नृणाम् ३७
ततो धातुक्षयाज्जन्तुर्वेदनाभिश्च नश्यति
हते वैकल्यजनने केवलं वैद्यनैपुणात् ३८
शरीरं क्रियया युक्तं विकलत्वमवाप्नुयात्
विशल्यघ्ने तु विज्ञेयं पूर्वोक्तं यच्च कारणम् ३९
रुजाकराणि मर्माणि क्षतानि विविधा रुजः
कुर्वन्त्यन्ते च वैकल्यं कुवैद्यवशगो यदि ४०
छेदभेदाभिघातेभ्यो दहनाद्दारणादपि
उपघातं विजानीयान्मर्मणां तुल्यलक्षणम् ४१
मर्माभिघातस्तु न कश्चिदस्ति योऽल्पात्ययो वाऽपि निरत्ययो वा
प्रायेण मर्मस्वभिताडितास्तु वैकल्यमृच्छन्त्यथवा म्रियन्ते ४२
मर्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम्
प्रायेण ते कृच्छ्रतमा भवन्ति नरस्य यत्नैरपि साध्यमानाः ४३
इति सुश्रुतसंहितायां शारीरस्थाने प्रत्येकमर्मनिर्देशशारीरं नाम षष्ठोऽध्यायः ६
सप्तमोऽध्यायः
अथातः सिरावर्णविभक्तिशारीरं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सप्त सिराशतानि भवन्ति याभिरिदं शरीरमाराम इव जलहारिणीभिः केदार इव च कुल्याभिरुपस्निह्यतेऽनुगृह्यते चाकुञ्चनप्रसारणादिभिर्विशेषैः द्रुमपत्रसेवनीनामिव तासां प्रतानाः तासां नाभिर्मूलं ततश्च प्रसरन्त्यूर्ध्वमधस्तिर्यक् च ३
भवतश्चात्र श्लोकौ
यावत्यस्तु सिराः काये संभवन्ति शरीरिणाम्
नाभ्यां सर्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः ४
नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिर्व्युपाश्रिता
सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः ५
तासां मूलसिराश्चत्वारिंशत् तासां वातवाहिन्यो दश पित्तवाहिन्यो दश कफ वाहिन्यो दश दशरक्तवाहिन्यः तासां तु वातवाहिनीनां वातस्थानगतानां पञ्चसप्ततिशतं भवति तावत्य एव पित्तवाहिन्यः पित्तस्थाने कफवाहिन्यश्चकफस्थाने रक्तवाहिन्यश्च यकृत्प्लीह्नोः एवमेतानि सप्त सिराशतानि ६
तत्र वातवाहिन्यः सिरा एकस्मिन् सन्क्थि पञ्चविंशतिः एतेनेतरसक्थि बाहू च व्याख्यातौ विशेषतस्तु कोष्ठे चतुस्त्रिंशत् तासां गुदमेढ्राश्रिताः श्रोण्यामष्टौ द्वे द्वे पार्श्वयोः षट् पृष्ठे तावत्य एवोदरे दश वक्षसि एकचत्वारिंशज्जत्रुण ऊर्ध्वंतासां चतुर्दश ग्रीवायां कर्णयोश्चतस्रः नव जिह्वायां षण् नासिकायां अष्टौ नेत्रयोः एवमेतत् पञ्चसप्ततिशतं वातवाहिनीनां सिराणां व्याख्यातं भवति एष एव विभागः शेषाणामपि विशेषतस्तु पित्तवाहिन्यो नेत्रयोर्दश कर्णयोर्द्वे एवं रक्तवहाः कफवहाश्च एवमेतानि सप्त सिराशतानि सविभागानिव्याख्यातानि ७
भवन्ति चात्र
क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम्
करोत्यन्यान् गुणांश्चापि स्वाः सिराः पवनश्चरन् ८
यदा तु कुपितो वायुः स्वाः सिराः प्रतिपद्यते
तदाऽस्य विविधा रोगा जायन्ते वातसंभवाः ९
भ्राजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम्
संसर्पत् स्वाः सिराः पित्तं कुर्याच्चान्यान् गुणानपि १०
यदा प्रकुपितं पित्तं सेवते स्ववहाः सिराः
तदाऽस्य विविधा रोगा जायन्ते पित्तसंभवाः ११
स्नेहमङ्गेषु सन्धीनां स्थैर्यं बलमुदीर्णताम्
करोत्यन्यान् गुणांश्चापि बलासः स्वाः सिराश्चरन् १२
यदा तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते
तदाऽस्य विविधा रोगा जायन्ते श्लेष्मसंभवाः १३
धातूनां पूरणं वर्णं स्पर्शज्ञानमसंशयम्
स्वाः सिराः संचरद्र क्तं कुर्याच्चान्यान् गुणानपि १४
यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः
तदाऽस्य विविधा रोगा जायन्ते रक्तसंभवाः १५
न हि वातं सिराः काश्चिन्न पित्तं केवलं तथा
श्लेष्माणं वा वहन्त्येता अतः सर्ववहाः स्मृताः १६
प्रदुष्टानां हि दोषाणां मूर्च्छितानां प्रधावताम्
ध्रुवमुन्मार्गगमनमतः सर्ववहाः स्मृताः १७
तत्रारुणा वातवहाः पूर्यन्ते वायुना सिराः
पित्तादुष्णाश्च नीलाश्च शीता गौर्यः स्थिराः कफात्
असृग्वहास्तु रोहिण्यः सिरा नात्युष्ण शीतलाः १८
अत ऊर्ध्वं प्रवक्ष्यामि न विध्येद्याः सिरा भिषक्
वैकल्यं मरणं चापि व्यधात्तासां ध्रुवं भवेत् १९
सिराशतानि चत्वारि विद्याच्छाखासु बुद्धिमान्
षट्त्रिंशच्च शतं कोष्ठे चतुःषष्टं च मूर्धनि २०
शाखासु षोडश सिराः कोष्ठे द्वात्रिंशदेव तु
पञ्चाशज्जत्रुणश्चोर्ध्वमव्यध्याः परिकीर्तिताः २१
तत्र सिराशतमेकस्मिन् सन्क्थि भवति तासां जालधरा त्वेका तिस्रश्चाभ्यन्तराःतत्रोर्वीसंज्ञे द्वे लोहिताक्षसंज्ञा चैका तास्त्वव्यध्याः एतेनेतरसक्थि बाहू च व्याख्यातौ एवमशस्त्रकृत्याः षोडश शाखासु द्वात्रिंशच्छ्रोण्यां तासामष्टावशस्त्रकृत्याःद्वे द्वे विटपयोः कटीकतरुणयोश्च अष्टावष्टावेकैकस्मिन् पार्श्वे तासामेकैकामूर्ध्वगां परिहरेत् पार्श्वसन्धिगते च द्वे चतस्रो विंशतिश्च पृष्ठे पृष्ठवंशमुभयतः तासामूर्ध्वगामिन्यौ द्वे द्वे परिरेद्बृहतीसिरे तावत्य एवोदरे तासां मेढ्रोपरि रोमराजीमुभयतो द्वे द्वे परिहरेत् चत्वारिंशद्वक्षसि तासां चतुर्दशाशस्त्रकृत्याःहृदये द्वे द्वे द्वे स्तनमूले स्तनरोहितापलापस्तम्भेषूभयतोऽष्टौ एवं द्वात्रिंशदशस्त्रकृत्याः पृष्ठोदरोरःसु भवन्ति चतुःषष्टं सिराशतं जत्रुण ऊर्ध्वं भवति तत्र षट्पञ्चाशच्छिरोधरायां तासामष्टौ चतस्रश्च मर्मसंज्ञाः परिहरेत् द्वे कृकाटिकयोः द्वे विधुरयोः एवं ग्रीवायां षोडशाव्यध्याः हन्वोरुभयतोऽष्टावष्टौ तासां तु सन्धिधमन्यौ द्वे द्वे परिहरेत्षट्त्रिंशज्जिह्वायां तासामधः षोडशाशस्त्रकृत्याः रसवहे द्वे वाग्वहे च द्वे द्विर्द्वादश नासायां तासामौपनासिक्यश्चतस्रः परिहरेत् तासा मेवच तालुन्येकां मृदावुद्देशे अष्टत्रिंशदुभयोर्नेत्रयोः तासामे कैकामपाङ्गयोः परिहरेत्कर्णयोर्दश तासां शब्दवाहिनी मेकैकां परिहरेत् नासानेत्रगतास्तु ललाटे षष्टिः तासां केशान्तानुगताश्चतस्रः आवर्तयोरेकैका स्थपन्यां चैका परिहर्तव्या शङ्खयोर्दश तासां शङ्खसन्धिगतामेकैकां परिहरेत् द्वादश मूर्ध्नि तासामुत्क्षेपयोर्द्वे परिहरेत् सीमन्तेष्वेकैकाम्एकामधिपताविति एवमशस्त्रकृत्याः पञ्चाशज्जत्रुण ऊर्ध्वमिति २२
भवति चात्र
व्याप्नुवन्त्यभितो देहं नाभितः प्रसृताः सिराः
प्रतानाः पद्मिनीकन्दाद्बिसादीनां यथा जलम् २३
इति सुश्रुतसंहितायां शारीरस्थाने सिरावर्णविभक्तिशारीरं नाम सप्तमोऽध्यायः ७
अष्टमोऽध्यायः
अथातः सिराव्यधविधिं शारीरं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
बालस्थविररूक्षक्षतक्षीणभीरुपरिश्रान्तमद्यपाध्वस्त्रीकर्शितवमितविरिक्तास्थापि-तानुवासितजागरितक्लीबकृशगर्भिणीनां कासश्वासशोष प्रवृद्धज्वराक्षेपकपक्षा घातोपवासपिपासामूर्च्छाप्रपीडितानां च सिरां न विध्येत् याश्चव्याध्याः व्यध्याश्चादृष्टाः दृष्टाश्चायन्त्रिताः यन्त्रिताश्चानुत्थिता इति ३
शोणितावसेकसाध्याश्च ये विकाराः प्रागभिहितास्तेषु चाप क्वेष्वन्येषु चानुक्तेषु यथाभ्यासं यथान्यायं च सिरां विध्येत् ४
प्रतिषिद्धानामपि च विषोपसर्गे आत्ययिके च सिराव्यधनमप्रतिषिद्धम् ५
त्र स्निग्धस्विन्नमातुरं यथादोषप्रत्यनीकं द्र वप्रायमन्नं भुक्तवन्तं यवागूं पीतवन्तं वा यथाकालमुपस्थाप्यासीनं स्थितं वा प्राणानबाधमानो वस्त्रपट्टचर्मान्तर्वल्कललतानामन्यतमेन यन्त्रयित्वा नातिगाढं नातिशिथिलं शरीरप्रदेशमासाद्य प्राप्तं शस्त्रमादाय सिरां विध्येत् ६
नैवातिशीते नात्युष्णे न प्रवाते न चाभ्रिते
सिराणां व्यधनं कार्यमरोगे वा कदाचन ७
तत्र व्यध्यसिरं पुरुषं प्रत्यादित्यमुखमरत्निमात्रोच्छ्रिते उपवेश्यासने सन्क्थोराकुञ्चितयोर्निवेश्य कूर्परे सन्धिद्वयस्योपरि हस्तावन्तर्गूढाङ्गुष्ठकृतमुष्टी मन्ययोःस्थापयित्वा यन्त्रणशाटकं ग्रीवामुष्टयोरुपरि परिक्षिप्यान्येन पुरुषेण पश्चात्स्थितेन वामहस्तेनोत्तानेन शाटकान्तद्वयं ग्राहयित्वा ततो ब्रूयात् दक्षिणहस्तेन सिरोत्थापनार्थं नात्यायतशिथिलं यन्त्रमावेष्टयेति असृक्स्रावणार्थं च यन्त्रं पृष्ठमध्ये पीडयेति कर्मपुरुषं च वायुपूर्णमुखं स्थापयेत् एष उत्तमाङ्गगतानामन्तर्मुखवर्जानां सिराणां व्यधने यन्त्रणविधिः पादव्यध्यसिरस्य पादं समे स्थाने सुस्थितं स्थापयित्वाऽन्य पादमीषत्संकुचितमुच्चैः कृत्वा व्यध्यसिरं पादं जानुसन्धेरधः शाटकेनावेष्ट्य हस्ताभ्यां प्रपीड्य गुल्फं व्यध्यप्रदेशस्योपरि चतुरङ्गुले प्लोतादीनामन्यतमेन बद्ध्वा वा पादसिरां विध्येत् अथोपरिष्ठाद्धस्तौ गूढाङ्गुष्ठकृत मुष्टी सम्यगासने स्थायिपत्वा सुखोपविष्टस्य पूर्ववद्यन्त्रं बद्ध्वा हस्तसिरां विध्येत् गृध्रसी विश्वाच्योः सङ्कुचित जानु कूर्परस्य श्रण्पृष्ठस्कन्धेषून्नामितपृष्ठस्यावाक्शिरस्कस्योपविष्टस्य विस्फूर्जितपृष्ठस्य विध्येत् उदरोरसोः प्रसारितोरस्कस्योन्ना मितशिरस्कस्य विस्फूर्जितदेहस्य बाहुभ्यामवलम्बमानदेहस्य पार्श्वयोः अनामितमेढ्रस्य मेढ्रे उन्नमितविदष्टजिह्वाग्रस्याधोजिह्वायाम् अतिव्यात्ताननस्य तालुनि दन्तमूलेषु च एवं यन्त्रोपायानन्यांश्च सिरोत्थापनहेतून् बुद्ध्याऽवेक्षय शरीरवशेन व्याधिवशेन च विदध्यात् ८
मांसलेष्ववकाशेषु यवमात्रं शस्त्रं निदध्यात् अतोऽन्यथाऽधयवमात्रं व्रीहि
मात्रं वा व्रीहिमुखेन अन्स्थामुपरि कुठारिकया विध्येदर्धयवमात्रम् ९
व्यभ्रे वर्षासु विध्येत्तु ग्रीष्मकाले तु शीतले
हेमन्तकाले मध्याह्ने शस्त्रकालास्त्रयः स्मृताः १०
सम्यक्शस्त्रनिपातेन धारया या स्रवेदसृक्
मुहूर्तं रुद्धा तिष्ठेच्च सुविद्धां तां विनिर्दिशेत् ११
यथा कुसुम्भपुष्पेभ्यः पूर्वं स्रवति पीतिका
तथा सिरासु विद्धासु दुष्टमग्रे प्रवर्तते १२
मूर्च्छितस्यातिभीतस्य श्रान्तस्य तृषितस्य च
न वहन्ति सिरा विद्धास्तथाऽनुत्थितयन्त्रिताः १३
क्षीणस्य बहुदोषस्य मूर्च्छयाऽभिहतस्य च
भूयोऽपराह्णे विस्राव्या साऽपरेद्युस्त्र् यहेऽपि वा १४
रक्तं सशेषदोषं तु कुर्यादपि विचक्षणः
न चातिनिःस्रुतं कुर्याच्छेषं संशमनैर्जयेत् १५
बलिनो बहुदोषस्य वयःस्थस्य शरीरिणः
परं प्रमाणमिच्छन्ति प्रस्थं शोणितमोक्षणे १६
तत्र पाददाहपादहर्षचिप्पविसर्पवातशोणितवतकण्टकविचर्चिकापाददारीप्रभृतिषु क्षिप्रमर्मण उपरिष्ठाद् द्व्यङ्गुले व्रीहिमुखेन सिरां विध्येत् श्लीपदे तच्चिकित्सिते यथा वक्ष्यते क्रोष्टुकशिरःखञ्जपङ्गलुवातवेदनासु जङ्घायां गुल्फस्योपरि चतुरङ्गुले अपच्यामिन्द्र बस्तेरधस्ताद् द्व्यङ्गुले जानुसन्धेरुपर्यधो वा चतुरङ्गुले गृध्रस्यां ऊरुमूलसंश्रितां गलगण्डे एतेनेतरसक्थि बाहू च व्याख्यातौ विशेषतस्तु वामबाहौ कूर्परसन्धेरभ्यन्तरतो बाहुमध्ये प्लीह्निकनिष्ठिकानामिकयोर्मध्ये वा एवं दक्षिणबाहौ यकृद्दाल्ये किफोदरे च एतामेव च कासश्वासयोरप्यादिशन्ति गृध्रस्यामिव विश्वाच्यां श्रोणिं प्रति समन्ताद् द्व्यङ्गुले प्रवाहिकायां शूलिन्यां परिवर्तिकोपदंशशूकदोषशुक्रव्यापत्सु मेढ्रमध्ये विऋषणयोः पार्श्वे मूत्रवृद्ध्यां नाभेरधश्चतुरङ्गुले सेवन्या वामपार्श्वे दकोदरे वामपार्श्वे कक्षास्तनयोरन्तरेऽन्तर्विद्र धौ पार्श्वशूले च बाहुशोषावबाहुकयोरप्येके वदन्त्यंसयोरन्तरे त्रिकसन्धिमध्यगतां तृतीयके अधःस्कन्धसन्धिगतामन्यतरपार्श्वसंस्थितां चतुर्थके हनुसन्धिमध्यगतामपस्मारे शङ्खकेशान्तसन्धिगतामुरोऽपाङ्गललाटेषु चोन्मादे जिह्वारोगेष्वधोजिह्वायांदन्त व्याधिषु च तालुनि तालव्येषु कर्णयोरुपरि समन्तात् कर्णशूले तद्रो गेषु च गन्धाग्रहणे नासारोगेषु च नासाग्रे तिमिराक्षिपाकप्रभृतिष्वक्ष्यामयेषूपनासिके लालाट्यामपाङ्ग्यां वा एता एव शिरोरोगाधिमन्थप्रभृतिषु रोगेष्विति १७
दुष्टव्यधा विंशतिःदुर्विद्धाऽतिविद्धा कुञ्चितापिच्चिता कुट्टिताऽप्रस्रुताऽत्युद्दी र्णाऽन्ते विद्धा परिशुष्का कूणिता वेपिताऽनुत्थितविद्धा शस्त्रहता तिर्यग्विद्धावि द्धाऽव्यध्या विद्रुता धेनुका पुनः पुनर्विद्धा सिरास्नय्वास्थिसन्धिमर्मसु चेति १८
तत्र या सूक्ष्मशस्त्रविद्धाऽव्यक्तमसृक् स्रवति रुजाशोफवती च सा दुर्विद्धा प्रमाणातिरिक्तविद्धायामन्तः प्रविशति शोणितं शोणितातिप्रवृत्तिर्वा साऽतिविद्धा कुञ्चितायामप्येवं कुण्ठशस्त्रप्रमथिता पृथुलीभावमापन्ना पिच्चिता अनासादिता पुनः पुनरन्तयोश्च बहुशः शस्त्राभिहता कुट्टिता शीतभय मूच्छार्भिरप्रवृत्तशोणिता अप्रस्रुता तीक्ष्णमहा मुखशस्त्र विद्धा ऽत्युदीर्णा अल्परक्तस्राविण्यन्तेविद्धा क्षीणशोणितस्यानिलपूर्णा परिशुष्का चतुर्भागा सादिता किंचित्प्रवृत्तशोणिता कूणिता दुःस्थानबन्धनाद्वेपमानायाः शोणितसंमोहो भवति सा वेपिता अनुत्थितविद्धायामप्येवं छिन्नाऽतिप्रवृत्तशोणिता क्रियासङ्गकरी शस्त्रहता तिर्यक्प्रणिहितशस्त्रा किंचिच्छेषा तिर्यग्विद्धा बहुशः क्षता हीनशस्त्रप्रणिधा नेनाविद्धा अशस्त्रकृत्या अव्यध्या अनवस्थितविद्धा विद्रुता प्रदेशस्य बहुशोऽवघट्टनादारोहद्व्यधा मुहुर्मुहुः शोणितस्रावा धेनुका सूक्ष्मशस्त्रव्यधनाद्बहुशो भिन्ना पुनः पुनर्विद्धा स्नाय्वस्थिसिरासन्धिमर्मसु विद्धा रुजां शोफं वैकल्यं मरणं चापादयति १९
भवन्ति चात्र
सिरासु शिक्षितो नास्ति चला ह्येताः स्वभावतः
मत्स्यवत् परिवर्तन्ते तस्माद्यत्नेन ताडयेत् २०
अजानता गृहीते तु शस्त्रे कायनिपातिते
भवन्ति व्यापदश्चैता बहवश्चाप्युपद्र वाः २१
स्नेहादिभिः क्रियायोगैर्न तथा लेपनैरपि
यान्त्याशु व्याधयः शान्तिं यथा सम्यक् सिराव्यधात् २२
सिराव्यधश्चिकित्सार्धं शल्यतन्त्रे प्रकीर्तितः
यथा प्रणिहितः सम्यग्बस्तिः कायचिकित्सिते २३
तत्र स्निग्धस्विन्नवान्तविरिक्तास्थापितानुवसितसिराविद्धैः परिहर्तर्व्यानिक्रोधायासमैथुनदिवास्वप्नवाग्व्यायामयानाध्ययनस्थानासन चङ्क्रमणशीतवातातपविरुद्धासात्म्याजीर्णान्याबललाभात् मासमेके मन्यन्ते एतेषां विस्तरमुपरिष्ठाद्वक्ष्यामः २४
सिराविषाणतुम्बैस्तु जलौकाभिः पदैस्तथा
अवगाढं यथापूर्वं निर्हरेद्दुष्टशोणितम् २५
अवगाढे जलौका स्यात् प्रच्छन्नं पिण्डिते हितम्
सिराऽङ्गव्यापके रक्ते शृङ्गालाबू त्वचि स्थिते २६
इति सुश्रुतसंहितायां शारीरस्थाने सिराव्यधविधिशारीरं नामाष्टमोऽध्यायः८
नवमोऽध्यायः
अथातो धमनीव्याकरणं शारीरं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
चतुर्विंशतिर्धमन्यो नाभिप्रभवा अभिहिताः तत्र केचिहाहुःसिरा धमनीस्रोतसामविभागः सिराविकारा एव हि धमन्यः स्रोतांसि चेति तत्तु न सम्यक् अन्या एव हि धमन्यः स्रोतांसि च सिराभ्यः कस्मात् व्यञ्जनान्यत्वान् मूलसन्नियमात् कर्मवैशेष्यात् आगमाच्च केवलं तु परस्परसन्निकर्षात् सदृशागमकर्मत्वात् सौक्ष्म्याच्च विभक्तकर्मणामप्यविभाग इव कर्मसु भवति ३
तासां तु खलु नाभिप्रभवाणां धमनीनामूर्ध्वगा दश दश चाधोगामिन्यः चतस्रस्तिर्यग्गाः ४
ऊर्ध्वगाः शब्दस्पर्शरूपरसगन्धप्रश्वासोच्छ्वसजृम्भि तक्षुद्धसितकथित रुदितादीन् विशेषानभिवहन्त्यः शरीरं धारयन्ति तास्तु हृदयमभिप्रपन्नास्त्रिधा जायन्ते तास्त्रिंशत् तासां तु वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश शब्दरूपरसगन्धानष्टाभिर्गृह्णीते द्वाभ्यां भाषते द्वाभ्यां घोषं करोति द्वाभ्यां स्वपिति द्वाभ्यां प्रतिबुध्यते द्वे चाश्रुवाहिन्यौ द्वे स्तन्यं स्त्रिया वहतः स्तनसंश्रिते ते एव शुक्रं नरस्य स्तनाभ्यामभिवहतः तास्त्वेतास्त्रिंशत् सविभागा व्याख्याताः एताभिरूर्ध्वं नाभेरुदरपार्श्वपृष्ठोरःस्कन्धग्रीवाबाहवो धार्यन्तेयाप्यन्ते च ५
भवति चात्र
ऊर्ध्वंगमास्तु कुर्वन्ति कर्माण्येतानि सर्वशः
अधोगमास्तु वक्ष्यामि कर्म चासां यथायथम् ६
अधोगमास्तु वातमूत्रपुरीषशुक्रार्तवादीन्यधो वहन्ति तास्तु पित्ताशयमभिप्रपन्नास्तत्रस्थमेवान्नपानरसं विपक्वमौष्ण्याद्विवेचयन्त्योऽभिवहन्त्यः शरीरं तर्पयन्ति अर्पयन्ति चोर्ध्वगानां तिर्यग्गाणां च रसस्थानं चाभिपूरयन्ति मूत्रपुरीषस्वेदांश्च विवेचयन्ति आमपक्वाशयान्तरे च त्रिधा जायन्ते तास्त्रिंशत् तासां तु वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश द्वे अन्नवाहिन्यावन्त्राश्रिते तोयवहे द्वे मूत्रबस्तिमभिप्रपन्ने मूत्रवहे द्वे शुक्रवहे द्वे शुक्रप्रादुर्भावाय द्वे विसर्गाय ते एव रक्तमभिवहतो विसृजतश्च नारीणामार्तवसंज्ञं द्वे वर्चोनिरसन्यौ स्थूलान्त्रप्रतिबद्धे अष्टावन्यास्तिर्यग्गामिनीनां धमनीनां स्वेदमर्पयन्ति तास्त्वेतास्त्रिंशत् सविभागा व्याख्याताः एताभिरधोनाभेः पक्वाशयकटीमूत्रपुरीषगुदबस्तिमेढ्रसक्थीनि धार्यन्ते याप्यन्ते च ७
भवति चात्र
अधोगमास्तु कुर्वन्ति कर्माण्येतानि सर्वशः
तिर्यग्गाः संप्रवक्ष्यामि कर्म चासां यथायथम् ८
तिर्यग्गाणां तु चतसृणां धमनीनामेकैका शतधा सहस्रधा चोत्तरोत्तरं विभज्यन्ते तास्त्वसङ्ख्येयाः ताभिरिदं शरीरं गवाक्षितं विबद्धमाततं च तासां मुखानि रोमकूपप्रतिबद्धानि यैः स्वेदमभिवहन्ति रसं चाभितर्पयन्त्यन्तर्बहिश्च तैरेव चाभ्यङ्गपरिषेकावगाहालेपन वीर्याण्यन्तः शरीरमभिप्रतिपद्यन्ते त्वचि विपक्वानि तैरेव च स्पर्शं सुखमसुखं वा गृह्णीते तास्त्वेताश्चतस्रोधमन्यः सर्वाङ्गगताः सविभागा व्याख्याताः ९
यथा स्वभावतः खानि मृणालेषु बिसेषु च
धमनीनां तथा खानि रसो यैरुपचीयते १०
पञ्चाभिभूतास्त्वथ पञ्चकृत्वः पञ्चेन्द्रि यं पञ्चसु भावयन्ति
पञ्चेन्द्रि यं पञ्चसु भावयित्वा पञ्चत्वमायान्ति विनाशकाले ११
अत ऊर्ध्वं स्रोतसां मूलविद्धलक्षणमुपदेक्ष्यामः तानि तु प्राणान्नोदकरसरक्तमांसमेदोमूत्रपुरीषशुक्रार्तववहानि येष्वधिकारः एकेषां बहूनि एतेषां विशेषा बहवः तत्र प्राणवहे द्वे तयोर्मूलं हृदयं रसवाहिन्यश्च धमन्यः तत्र विद्धस्याक्रोशनविनमनमोहनभ्रमणवेपनानि मरणं वा भवतिअन्नवहे द्वे तयोर्मूलमामाशयोऽन्नवाहिन्यश्चधमन्यः तत्र विद्धस्याध्मानं शूलोऽन्नद्वेषश्छर्दिः पिपासाऽन्ध्य मरणं चउदकवहे द्वे तयोर्मूलं तालु क्लोम च तत्र विद्धस्य पिपासा सद्योमरणं च रस वहे द्वे तयोर्मूलं हृदयं रस वाहिन्यश्च धमन्यः तत्र विद्धस्य शोषःप्राणवहविद्धवच्च मरणं तल्लिङ्गानि च रक्तवहे द्वे तयोर्मूलं यकृत्प्लीहानौ रक्तवाहिन्यश्च धमन्यः तत्र विद्धस्य श्यावाङ्गता ज्वरो दाहः पाण्डुता शोणितागमनं रक्तनेत्रता च मांसवहे द्वे तयोर्मूलं स्नायुत्वचं रक्तवहाश्च धमन्यः तत्र विद्धस्य श्वयथुर्मांसशोषः सिराग्रन्थयो मरणं च मेदोवहे द्वे तयोर्मूलं कटी वृक्कौ च तत्र विद्धस्य स्वेदागमनं स्निग्धाङ्गता तालुशोषः स्थूलशो फता पिपासा च मूत्रवहे द्वे तयोर्मूलं बस्तिर्मेढ्रं च तत्र विद्धस्यानद्धबस्तिता मूत्रनिरोधः स्तब्धमेढ्रता च पुरीषवहे द्वे तयोर्मूलं पक्वाशयो गुदं च तत्र विद्धस्यानाहो दुर्गन्धता ग्रथितान्त्रता चशुक्रवहे द्वे तयोर्मूलं स्तनौ वृषणौ च तत्र विद्धस्य क्लीबता चिरात् प्रसेको रक्तशुक्रता च आर्तवहे द्वे तयोर्मूलं गर्भाशय आर्तववाहिन्यश्च धमन्यः तत्र विद्धाया वन्ध्यात्वं मैथुनासहिष्णुत्वमार्तवनाशश्च सेवनीच्छेदाद्रुजाप्रादुर्भावः बस्तिगुदविद्धलक्षणं प्रागुक्तमिति स्रोतोविद्धं तु प्रत्याख्यायोपचरेत् उद्धृतशल्यं तु क्षतविधानेनोपचरेत् १२
भवति चात्र
मूलात् खादन्तरं देहे प्रसृतं त्वभिवाहि यत्
स्रोतस्तदिति विज्ञेयं सिराधमनिवर्जितम् १३
इति सुश्रुतसंहितायां शारीरस्थाने धमनीव्याकरणशारीरं नाम नवमोऽध्यायः ९
दशमोऽध्यायः
अथातो गर्भिणीव्याकरणं शारीरं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
गर्भिणी प्रथमदिवसात् प्रभृति नित्यं प्रहृष्टा शुच्यलङ्कृता शुक्लवसना शान्तिमङ्गलदेवताब्राह्मणगुरुपरा च भवेत् मलिनविकृतहीनगात्राणि न स्पृशेत् दुर्गन्धदुर्दर्शनानि परिहरेत् उद्वेजनीयाश्च कथाः शुष्कं पर्युषितं कुथितं क्लिन्नं चान्नं नोपभुञ्जीत बहिर्निष्क्रमणं शून्यागारचैत्यश्म शानवृक्षाश्रयान् क्रोधमयशस्करांश्च भावानुच्चैर्भाष्यादिकं च परिहरेद्यानि च गर्भं व्यापादयन्ति न चाभीक्ष्णं तैलाभ्यङ्गोत्सादनादीनि सेवेत न चायासयेच्छरीरं पूर्वोक्तानि च परिहरेत् शयनासनं मृद्वास्तरणं नात्युच्चमपाश्रयोपेतमसंबाधं च विदध्यात् हृद्यं द्र वमधुरप्रायं स्निग्धं दीपनीयसंस्कृतं च भोजनं भोजयेत् सामान्यमेतदप्रसवात् ३
विशेषतस्तु गर्भिणी प्रथमद्वितीयतृतीयमासेषु मधुरशीतद्र वप्रायमाहारमुसेवेत विशेषतस्तु तृतीये षष्टिकौदनं पयसा भोजयेत् चतुर्थे दध्ना पञ्चमे पयसा षष्ठे सर्पिषेत्येके चतुर्थे पयोनवनीतसं सृष्टमाहारयेज्जाङ्गलमांससहितं हृद्यमन्नं च भोजयेत् पञ्चमे क्षीरसर्पिःसंसृष्टं षष्ठे श्वदंष्ट्रासिद्धस्य सर्पिषो मात्रां पाययेद् यवागूं वा सप्तमे सर्पिः पृथक्पर्ण्यादिसिद्धम् एवमाप्यायते गर्भः अष्टमे बदरोदकेन बलातिबलाशतपुष्पापललपयोदधिमस्तुतैललवणमदनफलमधुघृतमिश्रेणा स्थापयेत् पुराणपुरीषशुर्द्ध्य्थमनुलोमनार्थं च वायोः ततः पयोमधर कषायसिद्धेन तैलेनानुवासयेत् अनुलोमे हि वायौ सुखं प्रसूयते निरुपद्र वा च भवति अत ऊर्ध्वं स्निग्धाभिर्यवागूभिर्जाङ्गलरसैश्चोपक्रमेदाप्रसवका लातेवमुपक्रान्ता स्निग्धा बलवती सुखमनुपद्र वा प्रसूयते ४
नवमे मासि सूतिकागारमेनां प्रवेशयेत् प्रशस्ते तिथ्यादौ तत्रारिष्टंब्राह्मणक्षत्रियवैश्यशूद्रा णां श्वेतरक्तपीतकृष्णेषु भूमिप्रदेशेषु बिल्वन्यग्रोध तिन्दुकभल्लातकनिर्मितसर्वागारं यथासङ्ख्यं तन्मयपर्यङ्कं समुपलिप्तभित्तिं सुविभक्तपरिच्छदं प्राग्द्वारं दक्षिणद्वारं वाऽष्टहस्तायतं चतुर्हस्तविस्तृतं रक्षामङ्गल
संपन्नं विधेयम् ५
जाते हि शिथिले कुक्षौ मुक्ते हृदयबन्धने
सशूले जघने नारी ज्ञेया सा तु प्रजायिनी ६
तत्रोपस्थितप्रसवायाः कटीपृष्ठं प्रति समन्ताद्वेदना भवत्यभीक्ष्णं पुरीषप्रवृत्तिर्मूत्रं प्रसिच्यते योनिमुखाच्छ्लेष्मा च ७
प्रजनयिष्यमाणां कृतमङ्गलस्वस्तिवाचनां कुमारपरिवृतां पुन्नामफलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तामथैनां सम्भृतां यवागूमाकण्ठात् पाययेत् ततः कृतोपधाने मृदुनि विस्तीर्णे शयने स्थितामाभुग्नसक्थी मुत्तनामशङ्कनीयाश्चतस्रः स्त्रियः परिणतवयसः प्रजननकुशलाः कर्तितनखाः परिचरेयुरिति ८
अथास्या विशिखान्तरमनुलोममनुसुखमभ्यज्यानुब्रूयाच्चैतामेकासुभगे प्रवाहस्वेति नचाप्राप्तावी प्रवाहस्व ततो विमुक्ते गर्भनाडीप्रबन्धे सशूलेषु श्रोणिवङ्क्षणबस्तिशिरःसु च प्रवाहेथाः शनैः शनैः ततो गर्भनिर्गमे प्रगाढं ततो गर्भे योनिमुखं प्रपर्नने गाढतरमाविशल्यभावात् अकालप्रवाहणाद्बधिरं मूकंकुब्जं व्यस्तहनुमूर्ध्वाभिघातिनं कासश्वासशोषोपद्रुतं विकटं वा जनयति ९
तत्र प्रतिलोममनुलोमयेत् प्राञ्जलमाकर्षेत् १०
गर्भसङ्गे तु योनिं धूपयेत् कृष्णसर्पनिर्मोकेण पिण्डीतकेन वा बध्नीयाद्धिरण्यपुष्पीमूलं हस्तपादयोः धारयेत् सुवर्चलां विशल्यां वा ११
अथ जातस्योल्बं मुखं च सैन्धवसर्पिषा विशोध्य घृताक्तं मूर्ध्नि पिचुं दद्यात् ततो नाभिनाडीमष्टाङ्गुलमायम्य सूत्रेण बद्ध्वा छेदयेत् तत्सूत्रैकदेशं च कुमारस्य ग्रीवायां सम्यग् बध्नीयात् १२
अथ कुमारं शीताभिरद्भिराश्वास्य जातकर्मणि कृते मधुसर्पिरनन्तचूर्णमङ्गुल्याऽनामिकया लेहयेत् ततो बलातैलेनाभ्यज्य क्षीरवृक्षकषायेण सर्वगन्धोदकेन वा रूप्यहेमप्रतप्तेन वा वारिणा स्नापयेदेनं कपित्थपत्रकषायेण वाकोष्णेन यथाकालं यथादोषं यथाविभवं च १३
धमनीनां हृदिस्थानां विवृतत्वादनन्तरम्
चतूरात्रात्त्रिरात्राद्वा स्त्रीणां स्तन्यं प्रवर्तते १४
तस्मात् प्रथमेऽह्नि मधुसर्पिरनन्तमिश्रं मन्त्रपूतं त्रिकालं पाययेत् द्वितीये लक्ष्मणासिद्धं सर्पिः तृतीये च ततः प्राङिनवारितस्तन्यं मधुसर्पिः स्वपाणितलसंमितं द्विकालं पाययेत् १५
अथ सूतिकां बलातैलाभ्यक्तां वातहरौषधनिष्क्वाथेनोपचरेत् सशेषदोषां तु तदहः पिप्पलीपिप्पलीमूलहस्तिपिप्पलीचित्रकशृङ्गवेरचूर्णं गुडोदके नोष्णेन पाययेत् एवं द्विरात्रं त्रिरात्रं वा कुर्यादादुष्टशोणितात् विशुद्धे ततो विदारिगन्धादिसिद्धां स्नेहयवागूं क्षीरयवागूं वा पाययेत्त्रिरात्रम् ततो यवकोलकुलत्थसिद्धेन जाङ्गलरसेन शाल्योदनं भोजयेद्बलमग्निबलं चावेक्ष्य अनेन विधिनाऽध्यर्धमासमुपसंस्कृता विमुक्ताहाराचारा विगतसूतिकाभिधानास्यात् पुनरार्तवदर्शनादित्येके १६
धन्वभूमिजातां तु सूतिकां घृततैलयोरन्यतरस्य मात्रां पाययेत् पिपल्यादिकषायानुपानां स्नेहनित्या च स्यात्त्रिरात्रं पञ्चरात्रं वा बलवती अबलां यवागूंपाययेत्त्रिरात्रं पञ्चरात्रं वा अत ऊर्ध्वं स्निग्धेनान्नसंसर्गेणोपचरेत् १७
प्रायशश्चैनां प्रभूतेनोष्णोदकेन परिषिञ्चेत् क्रोधायासमैथुनादींश्च परिहरेत् १८
मिथ्याचारात् सूतिकाया यो व्याधिरुपजायते
स कृच्छ्रसाध्योऽसाध्यो वा भवेदत्यपतर्पणात् १९
तस्मात्तां देशकालौ च व्याधिसात्म्येन कर्मणा
परीक्ष्योपचरेन्नित्यमेवं नात्ययमाप्नुयात् २०
अथापराऽपतन्त्यानाहाध्मानौ कुरुते तस्मात् कण्ठमस्याः केशवेष्टितयाऽङ्गल्युआ प्रमृजेत् कटुकालाबुकृतवेधनसर्षपसर्पनिर्मोकैर्वा कटुतैलविमिश्रैर्योनिमुखं धूपयेत् लाङ्गलीमूलकल्केन वाऽस्या पाणिपादतलमालिम्पेत् मूर्ध्नि वाऽस्या महावृक्षक्षीरमनुसेचयेत् कुष्ठलाङ्गलीमूलकल्कं वा मद्यमूत्रयोरन्यतरेण पाययेत् शालमूलकल्कं वा पिप्पल्यादिं वा मद्येनसिद्धार्थककुष्ठलाङ्गलीमहावृक्षक्षीरमिश्रेण सुरामण्डेन वाऽस्थापयेत् एतैरेव सिद्धेन सिद्धार्थकतैलेनोत्तरबस्तिं दद्यात् स्निग्धेन वा कृत्तनखेन हस्तेनापहरेत् २१
प्रजातायाश्च नार्या रूक्षशरीरायास्तीक्ष्णैरविशोधितं रक्तं वायुना तद्देशगतेनातिसंरुद्धं नाभेरधः पार्श्वयोर्बस्तौ बस्तिशिरसि वा ग्रन्थिं करोतिततश्च नाभिबस्त्युदरशूलानि भवन्ति सूचीभिरिव निस्तुद्यते भिद्यते दीर्यत इव च पक्वाशयः समन्तादाध्मानमुदरे मूत्रसङ्गश्च भवतीति मक्कल्ललक्षणम् तत्र वीरतर्वादिसिद्धं जलमुषकादिप्रतीवापं पाययेत् यवक्षारचूर्णं वा सुखोदकेन पिप्पल्यादिक्वाथेन वा पिप्पल्यादिचूर्णं वा सुरामण्डेन वरुणादि क्वाथं वा पञ्च कोलैला प्रतीवापं पृथक् पर्ण्यादि क्वाथं वा भद्र दारु मरिच संसृष्टं पुराण गुडं वा त्रिकटुकचतुर्जातककुस्तुम्बुरुमिश्रं खादेत् अच्छं वा पिबेदरिष्टमिति २२
अथ बालं क्षौमपरिवृतं क्षौमवस्त्रास्तृतायां शय्यायां शाययेत् पीलुबदरीनिम्बपरूषकशाखाभिश्चैनं परिवीजयेत् मूर्ध्निचास्याहरहस्तैलपिचुमवचारयेत् धूपयेच्चैनं रक्षोघ्नैर्धूपैः रक्षोघ्नानि चास्य पाणिपादशिरोग्रीवास्ववसृजेत् तिलातसीसर्षपकणांश्चात्र प्रकिरेत् अधिष्ठाने चाग्निं प्रज्वालयेत्व्रणितोपासनीयं चावेक्षेत २३
ततो दशमेऽहनि मातापितरौ कृतमङ्गलकौतुकौ स्वस्तिवाचनं कृत्वा नाम कुर्यातां यदभिप्रेतं नक्षत्रनाम वा २४
ततो यथावर्णं धात्रीमुपेयान्मध्यमप्रमाणां मध्यमवयस्कासिआमिरोगां शीलवतीमचपलामलोलुपामकृशामस्थूलांप्रसन्नक्षीरामलम्बौष्ठी मलम्बो र्ध्वस्त नीमव्यङ्गामव्यसनिनीं जीवद्वत्सां दोग्ध्रद्यं वत्सलामक्षुद्र कर्मिणीं कुले जातामतो भूयिष्ठैश्च गुणैरन्वितां श्यामामारोग्यबलवृद्धये बालस्य तत्रोर्ध्वस्तनी करालं कुर्यात् लम्बस्तनी नासिकामुखं छादयित्वा मरणमापादयेत् ततः प्रशस्तायां तिथौ शिरःस्नातमहतवाससमुदङ्मुखं शिशुमुपवेश्य धात्रीं प्राङ्मुखीं चोपवेश्य दक्षिणं स्तनंधौतमीषत्परिस्रुतमभिमन्त्र् य मन्त्रेणानेन पाययेत् २५
चत्वारः सागरास्तुभ्यं स्तनयोः क्षीरवाहिनः
भवन्तु सुभगे नित्यं बालस्य बलवृद्धये २६
पयोऽमृतरसं पीत्वा कुमारस्ते शुभानने
दीर्घमायुरवाप्नोतु देवाः प्राश्यामृतं यथा २७
अतोऽन्यथा नानास्तन्योपयोगस्यासात्म्याद्व्याधिजन्म भवति २८
अपरिस्रुतेऽप्यतिस्तब्धस्तन्यपूर्णस्तनपानादुत्सुहितस्रोतसः शिशोः कासश्वासवमीप्रादुर्भावः तस्मादेवंविधानां स्तन्यं न पाययेत् २९
क्रोधशोकावात्सल्यादिभिश्च स्त्रियाः स्तन्यनाशो भवति अथास्याः क्षीरजननार्थं सौमनस्यमुत्पाद्य यवगोधूमशालिषष्टिकमांसरस सुरासौवीरकपिण्याकलशुनमत्स्य कशेरुकशृङ्गाटकबिसविदारि कन्द मधुकशतावरीनालि कालाबूकालशाकप्रभृतीनि विदध्यात् ३०
अथास्याः स्तन्यमप्सु परीक्षेत तच्चेच्छीतलममलं तनु शङ्खावभासमप्सुन्यस्तमेकीभावं गच्छत्यफेनिलमतन्तुमन्नोत्प्लवतेऽवसीदति वा तच्छुद्धमिति विद्यात् तेन कुमारस्यारोग्यं शरीरोपचयो बलवृद्धिश्च भवति न च क्षुधितशोकार्तश्रान्तप्रदुष्टधातुगर्भिणीज्वरितातिक्षीणातिस्थूल विदग्धभक्तविरुद्धा हारतर्पितायाः स्तन्यं पाययेत् नाजीर्णौषधं च बालं दोषौषधमलानां तीव्रवेगोत्पत्तिभयात् ३१
भवन्ति चात्र
धात्र् यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा
दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति ३२
मिथ्याहारविहारिण्या दुष्टा वातादयः स्त्रियाः
दूषयन्ति पयस्तेन शारीरा व्याधयः शिशोः
भवन्ति कुशलस्तांश्च भिषक् सम्यग्विभावयेत् ३३
अङ्गप्रत्यङ्गदेशे तु रुजा यत्रास्य जायते
मुहुर्मुहुः स्पृशति तं स्पृश्यमाने च रोदिति ३४
निमीलिताक्षो मूर्धस्थे शिरो रोगे न धारयेत्
बस्तिस्थे मूत्रसङ्गार्तो रुजा तृष्यति मूर्च्छति ३५
विण्मूत्रसङ्गवैवर्ण्यच्छर्द्याध्मानान्त्रकूजनैः
कोष्ठेदोषान् विजानीयात् सर्वत्रस्थांश्च रोदनैः ३६
तेषु यथाभिहितं मृद्वच्छेदनीयमौषधं मात्रया क्षीरपस्य क्षीरसर्पिषा संयुक्तं विदध्यात् धात्र् याश्च केवलं क्षीरान्नादस्यात्मनि धात्र् याश्च पूर्ववत् अन्नादस्य कषायादीनात्मन्येव न धात्र् याः ३७
तत्र मासादूर्ध्वं क्षीरपायाङ्गुलिपर्वद्वयग्रहणसंमितामौषधमात्रां विदध्यात् कोलास्थिसंमितां कल्कमात्रां क्षीरान्नादाय कोलसंमितामन्नादायेति ३८
येषां गदानां ये योगाः प्रवक्ष्यन्तेऽगदङ्कराः
तेषु तत्कल्कसंलिप्तौ पाययेत शिशुं स्तनौ ३९
एकं द्वे त्रीणि चाहानि वातपित्तकफज्वरे
स्तन्यपायाहितं सर्पिरितराभ्यां यथार्थतः ४०
न च तृष्णाभयादत्र पाययेत शिशुं स्तनौ
विरेकबस्तिवमनान्यृते कुर्याच्च नात्ययात् ४१
मस्तुलुङ्गक्षयाद्यस्य वायुस्ताल्वस्थि नामयेत्
तस्य तृड्दैन्ययुक्तस्य सर्पिर्मधुरकैः शृतम् ४२
पानाभ्यञ्जनयोर्योज्यं शीताम्बूद्वेजनं तथा
वातेनाध्मापितां नाभिं सरुजां तुण्डिसंज्ञिताम् ४३
मारुतघ्नैः प्रशमयेत् स्नेहस्वेदोपनाहनैः
गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम्
रसाञ्जनं विशेषेण पानालेपनयोर्हितम् ४४
क्षीराहाराय सर्पिः पाययेत् सिद्धार्थकवचामांसीपयस्यापामार्गशतवरी सारिवाब्राह्मीपिप्पलीहरिद्रा कुष्ठसैन्धवसिद्धं क्षीरान्नादाय मधुकवचापिप्पली चित्रकत्रि फलासिद्धम् अन्नादाय द्विपञ्चमूलीक्षीरतगरभद्र दारु मरिचमधुकविडङ्गद्रा क्षर्धिब्राह्मीसिद्धां तेनारोग्यबलमेधायूंषि शिशोर्भवन्ति ४५
बालं पुनर्गात्रसुखं गृह्णीयात् न चैनं तर्जयेत् सहसा न प्रतिबोधयेद्वित्रासभयात् सहसा नापहरेदुत्क्षिपेद्वा वातादिविघातभयात् नोपवेशयेत् कौब्ज्यभयात् नित्यं चैनमनुवर्तेत प्रियशतैरजिघांसुः एवमविहतमना ह्यभिवर्धते नित्यमुदग्रसत्त्वसंपन्नो नीरोगः सुप्रसन्नमनाश्च भवति वातातपविद्युत्प्रभापादपलताशून्यागारनिम्नस्थानग्रहच्छायादिभ्यो दुर्ग्रहोपसर्गतश्च बालं रक्षेत् ४६
नाशुचौ विसृजेद्बालं नाकाशे विषमे न च
नोष्ममारुतवर्षेषु रजोधूमोदकेषु च ४७
क्षीरासात्म्यतया क्षीरमाजं गव्यमथापि वा
दद्यादास्तन्यपर्याप्तेर्बालानां वीक्ष्य मात्रया ४८
षण्मासं चैनमन्नं प्राशयेल्लघु हितं च ४९
नित्यमवरोधरतश्चस्यात् कृतरक्ष उपसर्गभयात्
प्रयत्नतश्च ग्रहोपसर्गेभ्यो रक्ष्या बाला भवन्ति ५०
अथ कुमार उद्विजते त्रस्यति रोदिति नष्टसंज्ञो भवति नखदशनैर्धात्रीमात्मानं च परिणुदति दन्तान् खादति कूजति जृम्भते भ्रुवौ विक्षिपत्यूर्ध्वं निरीक्षते फेनमुद्वमति सन्दष्टौष्ठः क्रूरोभिर्ननामवर्चा दीनार्तस्वरो निशि जागर्ति दुर्वलो म्लानाङ्गो मत्स्यच्छुच्छुन्दरिमत्कुणगन्धा यथा पुरा धात्र् याः स्तन्यमभिलषति तथा नाभिलषतीति सामान्येन ग्रहोपसृष्टलक्षणमुक्तं विस्तरेणोत्तरे वक्ष्यामः ५१
शक्तिमन्तं चैनं ज्ञात्वा यथावर्णं विद्यां ग्राहयेत् ५२
अथास्मै पञ्चविंशतिवर्षाय षोडशदशवर्षां पत्नी
मावहेत् पित्र् यधर्मार्थकामप्रजाः प्राप्स्यतीति ५३
ऊनषोडशवर्षायामप्राप्तः पञ्चविंशतिम्
यद्याधत्ते पुमान् गर्भं कुक्षिस्थः स विपद्यते ५४
जातो वा न चिरं जीवेज्जीवेद्वा दुर्बलेन्द्रि यः
तस्मादत्यन्तबालायां गर्भाधानं न कारयेत् ५५
अतिवृद्धायां दीर्घरोगिण्यामन्येन व विकारेणोपसृष्टायां गर्भाधानं नैव कुर्वीत पुरुषस्याप्येवंविधस्य त एव दोषाः संभवन्ति ५६
तत्र पूर्वोक्तैः कारणैः पतिष्यति गर्भे गर्भाशयकटीवङ्क्षणबस्तिशूलानि रक्तदर्शनं च तत्र शीतैः परिषेकावगाहप्रदेहादिभिरुपचरेज्जीवनीय शृतक्षीरपानैश्च गर्भस्फुरणे मुहुर्मुहुस्तत्सन्धारणार्थं क्षीरमुत्पलादिसिद्धं पाययेत् प्रस्रंसमाने सदाहपार्श्वपृष्ठशूलासृग्दरानाहमूत्रसङ्गाः स्थानात् स्थानं भच प्रक्रामति गर्भे कोष्ठे संरम्भः तत्र स्निग्धशीताः क्रियाः वेदनायां महासहाक्षुद्र सहामधुकश्वदंष्ट्राकण्टकारिकासिद्ध पयः शर्कराक्षौद्र मिश्रं पाययेत् मूत्रसङ्गे दर्भादिसिद्धमानाहे हिङ्गुसवौर्चललशुनवचासिद्धम् अत्यर्थं स्रवति रक्ते कोष्ठागारिकागारमृत्पिण्डसमङ्गाधातकीकुसुमनवमालिकागैरिकसर्जरसरसाञ्जनचूर्णं मध्राऽवलिह्यात् यथालाभंन्यग्रोधा दित्वक्प्रवालकल्कं वा पयसा पाययेत् उत्पलादिकल्कं वा कशेरुशृङ्गटाकशालूककल्कं वा शृते पयसा उदुम्बरफलौदककन्दक्वाथेन वा शर्करामधुमधुरेण शालिपिष्टां न्यग्रोधादिस्वर सपरिपीतं वा वस्त्रावयवं योन्यां धारयेत् अथादृष्टशोणितवेदनायां मधुकदेवदारुमञ्जिष्ठापयस्यासिद्धं पयः पाययेत् तदेवाश्मन्तकशतावरीपयस्यासिद्धं विदारिगन्धादिसिद्धं वा बृहतीद्वयोत्पलशतावरीसारिवापयस्यामधुकसिद्धं वा एवमुपक्रान्ताया उपावर्तन्ते रुजो गर्भश्चाप्यायते व्यवस्थिते च गर्भे गव्येनोदुम्बरशलाटुसिद्धेन पयसा भोजयेत् अतीते लवणस्नहेवर्ज्याभिर्य वागूभिरुद्दालकादीनां पाचनीयोपसंस्कृताभिरुपक्रमेत यावन्तो मासा गर्भस्य तावन्त्यहानि बस्त्युदरशूलेषु पुराणगुडं दीपनीयसंयुक्तं पाययेदरिष्टं वा वातोपद्र वगृहीतत्वात् स्रोतसां लीयते गर्भः सोऽतिकालमवतिष्ठमानो व्यापद्यते तां मृदुना स्नह्दिक्रमेणोपचरेत् उत्क्रोशरससंसिद्धामनल्पस्नेहां यवागूं पाययेत् माषतिलबिल्वशलाटुसिद्धान् वा कुल्माषान् भक्षयेन्मधुमाध्वीकं चानुपिबेत् सप्तरात्रम् कालातीतस्थायिनि गर्भे विशेषतः सधा न्यमुदूखल मुसलेनाभिहन्याद्विषमे वा यानासने सेवेत वाताभिपन्न एव शुष्यति गर्भः समातुः कुक्षिं न पूरयति मन्दं स्पन्दते च तं बृहणीयैः पयोभिर्मांसरसैश्चोपचरेत् शुक्रशोणितं वायुनाऽभिप्रपन्नम वक्रान्तजीवमाध्मापयत्युदरं तं कदाचिद्यदृच्छयोपशान्तं नैगमेषापहृतमिति भाषन्ते तमेव कदाचित्प्रलीयमानं नागोदरमित्याहुः तत्रापि लीनवत् प्रतीकारः ५७
अत ऊर्ध्वं मासानुमासिकं वक्ष्याम ५८
मधुकं शाकबीजं च पयस्या सुरदारु च
अश्मन्तकस्तिलाः कृष्णास्ताम्रवल्ली शतावरी ५९
वृक्षादनी पयस्या च लता सोत्पलसारिवा
अनन्ता सारिवा रास्ना पद्मा मधुकमेव च ६०
बृहत्यौ काश्मरी चापि क्षीरिशुङ्गास्त्वचो घृतम्
पृश्निपर्णी बला शिग्रुः श्वदंष्ट्रा मधुपर्णिका ६१
शृङ्गाटकं बिसं द्रा क्षा कशेरु मधुकं सिता
वत्सैते सप्त योगाः स्युरर्धश्लोकसमापनाः
यथासंख्यं प्रयोक्तव्या गर्भस्रावे पयोयुताः ६२
कपित्थबृहतीबिल्वपटोलेक्षुनिदिग्धिका
मूलानि क्षीरसिद्धानि पाययेद्भिषगष्टमे ६३
नवमे मधुकानन्तापयस्यासारिवाः पिबेत्
क्षीरं शुण्ठीपयस्याभ्यां सिद्धं स्याद्दशमे हितम् ६४
सक्षीरा वा हिता शुण्ठी मधुकं सुरदारु च
एवमाप्यायते गर्भस्तीव्रा रुक् चोपशाम्यति ६५
निवृत्तप्रसवायास्तु पुनः षड्भ्यो वर्षेभ्य ऊर्ध्वं
प्रसवमानाया नार्याः कुमारोऽल्पायुर्भवति ६६
अथ गर्भिणीं व्याध्युत्पत्तावत्यये छर्दयेन्मधुराम्लेनान्नोपहितेनानुलमयेच्च संशमनीयं च मृदु विदध्यादन्नपानयोः अश्नीयाच्च मृदुवीर्यं मधुरप्रायं गर्भाविरुद्धं च गर्भाविरुद्धाश्च क्रिया यथायोगं विदधीत मृदुप्रायाः ६७
सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतं वचा
मत्स्याक्षकः शङ्खपुष्पी मधु सर्पिः सकाञ्चनम् ६८
अर्कपुष्पी मधु घृतं चूर्णितं कनकं वचा
हेमचूर्णानि कैडर्यः श्वेता दूर्वा घृतं मधु ६९
चत्वारोऽभिहिताः प्राशाः श्लोकार्धेषु चतुर्ष्वपि
कुमाराणां वपुर्मेधाबलबुद्धिविवर्धनाः ७०
इति सुश्रुतसंहितायां शारीरस्थाने गर्भिणीव्याकरणं शारीरं नाम दशमोऽध्यायः १०
इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायांतृतीयं शारीरस्थानं समाप्तम् ३
इति शारीरस्थान समाप्ता
सुश्रुत संहिता
Sushruta Saṁhitā
चिकित्सास्थान
Chikitsā Sthcna
Chapter 1 2 3 4 5 6 7 8 9 10 11 12 13 14
15 16 17 18 19 20 21 22 23
24 25 26 27 28 29 30 31 32 33 34 35 36 37
38 39 40
चिकित्सास्थान
प्रथमोऽध्यायः
अथातो द्विव्रणीयं चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
द्वौ व्रणौ भवतःशारीर आगन्तुश्च तयोः शारीरः पवनपित्तकफशोणितसन्निपातनिमित्तः आगन्तुरपि पुरुषपशुपक्षि व्यालसरी सृपप्रपतनपीडनप्रहारार्निगक्षारविषतीक्ष्णौषधशकलकपाल शृङ्गचक्रेषुपरशुशक्तिकुन्ताद्यायुधाभिघातनिमित्तः तत्र तुल्ये व्रण सामान्ये द्विकारणोत्थानप्रयोजनसामर्थ्याद् द्विव्रणीय इत्युच्यते ३
सर्वस्मिन्नेवागन्तुव्रणे तत्कालमेव क्षतोष्मणः प्रसृतस्योपशमार्थं पित्तवच्छीतक्रियावचारणविधिविशेषः सन्धानार्थं च मधुघृतप्रयोग इत्येतदिद्वकारणोत्थानप्रयोजनम् उत्तरकालं तु दोषोपप्लवविशेषाच्छारीरवत् प्रतीकारः ४
दोषोपप्लवविशेषः पुनः समासतः पञ्चदशप्रकारः प्रसरणसामर्थ्यात् यथोक्तो व्रणप्रश्नाधिकारा शुद्धत्वात् षोडशप्रकार इत्येके ५
तस्य लक्षणं द्विविधंसामान्यं वैशेषिकं च तत्र सामान्यं रुक् व्रण गात्रविचूर्णने व्रणयतीति व्रणः विशेषलक्षणं पुनर्वातादिलिङ्गविशेषः ६
तत्र श्यावारुणाभस्तनुः शीतः पिच्छिलोऽल्पस्रावी रूक्षश्चटचटायनशीलः स्फुरणायामतोदभेदवेदनाबहुलो निर्मांसश्चेति वातात् क्षिप्रजः पीतनीलाभः किंशुकोदकाभोष्णस्रावी दाहपाकरागविकारकारी पीतपिडकाजुष्टश्चेति पित्तात् प्रततचण्डकण्डूबहुलः स्थूलौष्ठः स्तब्धसिरास्नायुजालावततः कठिनः पाण्ड्ववभासो मन्दवेदनः शुक्लशीतसान्द्रपिच्छिलास्रावी गुरुश्चेति कफात् प्रवालदलनिचयप्रकाशः कृष्णस्फोटपिडकाजालोपचितस्तुरङ्गस्थानगन्धिः सवेदनो धूमायनशीलो रक्तस्रावी पित्तलिङ्गश्चेति रक्तात् तोददाहधूमायनप्रायः पीतारुणाभस्तद्वर्णस्रावी चेति वातपित्ताभ्यां कण्डूयनशीलः सनिस्तोदो रूक्षो गुरुर्दारुणो मुहुर्मुहुः शीतपिच्छिलाल्पस्रावी चेति वातश्लेष्मभ्यां गुरुः सदाह उष्णः शीतपाण्डुस्रवी चेति पित्तश्लेष्मभ्यां रूक्षस्तनुस्तोदबहुलः सुप्त इव च रक्तारुणाभस्तद्वर्णास्रावी चेति वातशोणिताभ्यां घृतमण्डाभो मीनधावनतोयगन्धिर्मृदुर्विसर्प्युष्णकृष्णस्रावी चेति पित्तशोणिताभ्यां रक्तो गुरुः स्निग्धः पिच्छिलः कणडूप्रायः स्थिरो सरक्तपाण्डुस्रावी चेति श्लेष्मशोणिताभ्यां स्फुरणतोददाहधूमायनप्रायः पीततनुरक्तस्रावी चेति वातपित्तशोणितेभ्यः कण्डूस्फुरणचुमचुमायमानप्रायः पाण्डुघनरक्तास्रावी चेति वातश्लेष्म शोणितेभ्यः दाहपाकरागकण्डूप्रायः पाण्डुघनरक्तास्रावी चेति पित्तश्लेष्मशोणितेभ्यः त्रिविधवर्णवेदनास्रावविशेषोपेतः पवन पित्तकफेभ्यः निर्दहननिर्मथनस्फुरणतोददाहपाकरागकण्डूस्वापबहुलो नानावर्णवदनास्रावविशेषोपेतः पवनपित्तकफशोणितेभ्यः जिह्वातलाभो मृदुः स्निग्धः श्लक्ष्णो विगतवेदनः सुव्यवस्थितो निरास्रावश्चेति शुद्धो व्रण इति ७
तस्य व्रणस्य षष्टिरुपक्रमा भवन्ति तद्यथाअपतर्पणमालेपः परिषेकोऽभ्यङ्गः स्वेदो विम्लापनमुपनाहः पाचनं विस्रावणं स्नेहो वमनं विरेचनं छेदनं भेदनं दारणं लेखनमेषणमाहरणं व्यधनं विस्रवाणं सीवनं सन्धानं पीडनं शोणितास्थापनं निर्वापणमुत्कारिका कषायो वर्तिः कल्कः सर्पिस्तैलं रसक्रियाऽवचूर्णनं व्रणधू पनमुत्सादनमवसादनं मृदुकर्म दारुणकर्म क्षारकर्माग्निकर्म कृष्णकर्म पाण्डुकर्म प्रतिसारणं रोमसञ्जननं लोमापहरणं बस्तिकर्मोत्तरबस्तिकर्म बन्धः पत्रदनां कृमिघ्नं बृंहणं विषघ्नं शिरोविरेचनं नस्यं कवलधारणं धूमो मधु सर्पिर्यन्त्रमाहारो रक्षाविधानमिति ८
तेषु कषायो वर्तिः कल्कः सर्पिस्तैलं रसक्रियाऽवचूर्णनमिति शोधनरोपणानि तेष्वष्टौ शस्त्रकृत्याः शोणितास्थापनं क्षारोऽग्निर्यन्त्रमाहारो रक्षाविधानं बन्धविधानं चोक्तानि स्नेहस्वेदनवमन विरेचनबस्त्युत्तरबस्तिशिरोविरेचननस्यधूमकवलधा रणान्यन्यत्र वक्ष्यामः यदन्यदवशिष्टमुपक्रमजातं तदिह वक्ष्यते ९
षडिवधः प्रागुपदिष्टः शोफः तस्यैकादशोपक्रमा भवन्त्यपतर्पणादयो विरेचनान्ताः ते च विशेषेण शोथप्रतीकारे वर्तन्ते व्रणभावमापन्नस्य च न विरुध्यन्ते शेषास्तु प्रायेण व्रणप्रतीकारहेतव एव १०
अपतर्पणमाद्य उपक्रमः एष सर्वशोफानां सामान्यः प्रधानतमश्च ११
भवन्ति चात्र
दोषोच्छ्रायोपशान्त्यर्थं दोषानद्धस्य देहिनः
अवेक्ष्य दोषं प्राणं च कार्यं स्यादपतर्पणम् १२
ऊर्ध्वमारुततृष्णाक्षुन्मुखशोषश्रमान्वितैः
न कार्यं गर्भिणीवृद्धबालदुर्बलभीरुभिः १३
शोफेषूत्थितमात्रेषु व्रणेषूग्ररुजेषु च
यथास्वैरौषधैर्लेपं प्रत्येकश्येन कारयेत् १४
यथा प्रज्वलिते वेश्मन्यम्भसा परिषेचनम्
क्षिप्रं प्रशमयत्यग्निमेवमालेपनं रुजः १५
प्रह्लादने शोधने च शोफस्य हरणे तथा
उत्सादने रोपणे च लेपः स्यात्तु तदर्थकृत् १६
वातशोफे तु वेदनोपशमार्थं सर्पिस्तैलधान्याम्लमांसरसवातहरौषधनिष्क्वाथैरशीतैः परिषेकान् कुर्वीत पित्तरक्ताभिघातविषनिमित्तेषु क्षीरघृतमधुशर्करोदकेक्षुरसमधुरौषधक्षीरवृक्षनिष्क्वाथैरनुषणैः परिषेकान् कुर्वीत श्लेष्मशोफे तु तैलमूत्रक्षारोदकसुराशुक्तकफघ्नौषधनिष्क्वाथैरशीतैः परिषेकान् कुर्वीत १७
यथाऽम्बुभिः सिच्यमानः शान्तिमग्निर्नियच्छति
दोषाग्निरेवं सहसा परिषेकेण शाम्यति १८
अभ्यङ्गस्तु दोषमालोक्योपयुक्तो दोषोपशमं मृदुतां च करोति १९
स्वेदविम्लापनादीनां क्रियाणां प्राक् स उच्यते
पश्चात् कर्मसु चादिष्टः स च विस्रावणादिषु २०
रुजावतां दारुणानां कठिनानां तथैव च
शोफानां स्वेदनं कार्यं ये चाप्येवंविधा व्रणाः २१
स्थिराणां रुजतां मन्दं कार्यं विम्लापनं भवेत्
अभ्यज्य स्वेदयित्वा तु वेणुनाड्या ततः शनैः २२
विमर्दयेद्भिषक् प्राज्ञस्तलेनाङ्गुष्ठकेन वा
शोफयोरुपनाहं तु कुर्यादामविदग्धयोः २३
अविदग्धः शमं याति विदग्धः पाकमेति च
निवर्तते न यः शोफो विरेकान्तैरुपक्रमैः २४
तस्य संपाचनं कुर्यात् समाहृत्यौषधानि तु
दधितक्रसुराशुक्तधान्याम्लैर्योजितानि तु २५
स्निग्धानि लवणीकृत्य पचेदुत्कारिकां शुभाम्
सैरण्डपत्रया शोफं नाहयेदुष्णया तया २६
हितं सम्भोजनं चापि पाकायाभिमुखो यदि
वेदनोपशमार्थाय तथा पाकशमाय च २७
अचिरोत्पतिते शोफे कुर्याच्छोणितमोक्षणम्
सशोफे कठिने ध्यामे सरक्ते वेदनावति २८
संरब्धे विषमे चापि व्रणे विस्रावणं हितम्
सविषे च विशेषेण जलौकोभिः पदैस्तथा २९
वेदनायाः प्रशान्त्यर्थं पाकस्याप्राप्तये तथा
सोपद्र वाणां रूक्षाणां कृशानां व्रणशोषिणाम् ३०
यथास्वमौषधैः सिद्धं स्नेहपानं विधीयते
उत्सन्नमांसशोफे तु कफजुष्टे विशेषतः ३१
संक्लिष्टश्यामरुधिरे व्रणे प्रच्छर्दनं हितम्
वातपित्तप्रदुष्टेषु दीर्घकालानुबन्धिषु ३२
विरेचनं प्रशंसन्ति व्रणेषु व्रणकोविदाः
अपाकेषु तु रोगेषु कठिनेषु स्थिरेषु च ३३
स्नायुकोथादिषु तथा च्छेदनं प्राप्तमुच्यते
अन्तःपूयेष्ववक्त्रेषु तथैवोत्सङ्गवत्स्वपि ३४
गतिमत्सु च रोगेषु भेदनं प्राप्तमुच्यते
बालवृद्धासहक्षीणभीरूणां योषितामपि ३५
मर्मोपरि च जातेषु रोगेषूक्तेषु दारणम्
सुपक्वे पिण्डिते शोफे पीडनैरुपपीडिते ३६
पाकोद्वृत्तेषु दोषेषु तत्तु कार्यं विजानता
सुपिष्टैर्दारणद्र व्यैर्युक्तः क्षारेण वा पुनः ३७
कठिनान् स्थूलवृत्तौष्ठान् दीर्यमाणान् पुनः पुनः
कठिनोत्सन्नमांसांश्च लेखनेनाचरेद्भिषक् ३८
समं लिखेत् सुलिखितं लिखेन्निरवशेषतः
वर्त्मनां तु प्रमाणेन समं शस्त्रेण निर्लिखेत् ३९
क्षौमं प्लोतं पिचुं फेनं यावशूकं ससैन्धवम्
कर्कशानि च पत्राणि लेखनार्थे प्रदापयेत् ४०
नाडीव्रणाञ् शल्यगर्भानुन्मार्ग्युत्सङ्गिनः शनैः
करीरबालाङ्गुलिभिरेषण्या वैषयेद्भिषक् ४१
नेत्रवर्त्मगुदाभ्यासनाड्योऽवक्त्राः सशोणिताः
चुच्चूपोदकजैः श्लक्ष्णैः करीरैरेषयेत्तु ताः ४२
संवृतासंवृतास्येषु व्रणेषु मतिमान् भिषक्
यथोक्तमाहरेच्छल्यं प्राप्तोद्धरणलक्षणम् ४३
रोगे व्यधनसाध्ये तु यथोद्देशं प्रमाणतः
शस्त्रं निदध्याद्दोषं च स्रावयेत् कीर्तितं यथा ४४
अपाकोपद्रुता ये च मांसस्था विवृताश्च ये
यथोक्तं सीवनं तेषु कार्यं सन्धानमेव च ४५
पूयगर्भानणुद्वारान् व्रणान्मर्मगतानपि
यथोक्तैः पीडनद्र व्यैः समन्तात् परिपीडयेत् ४६
शुष्यमाणमुपेक्षेत प्रदेहं पीडनं प्रति
न चाभिमुखमालिम्पेत्तथा दोषः प्रसिच्यते ४७
तैस्तैर्निमित्तैर्बहुधा शोणिते प्रस्रुते भृशम्
कार्यं यथोक्तं वैद्येन शोणितास्थापनं भवेत् ४८
दाहपाकज्वरवतां व्रणानां पित्तकोपतः
रक्तेन चाभिभूतानां कार्यं निर्वापणं भवेत् ४९
यथोक्तैः शीतलद्र व्यैः क्षीरपिष्टैर्घृताप्लुतैः
दिह्यादबहलान् सेकान् सुशीतांश्चावचारयेत् ५०
व्रणेषु क्षीणमांसेषु तनुस्राविष्वपाकिषु
तोदकाठिन्यपारुष्यशूलवेपथुमत्सु च ५१
वातघ्नवर्गेऽम्लगणे काकोल्यादिगणे तथा
स्नैहिकेषु च बीजेषु पचेदुत्कारिकां शुभाम् ५२
तेषां च स्वेदनं कार्यं स्थिराणां वेदनावताम्
दुर्गन्धानां क्लेदवतां पिच्छिलानां विशेषतः ५३
कषायैः शोधनं कार्यं शोधनैः प्रागुदीरितैः
अन्तःशल्यानणुमुखान् गम्भीरान् मांससंश्रितान्
शोधनद्र व्ययुक्ताभिर्वर्तिभिस्तान् यथाक्रमम् ५४
पूतिमांसप्रतिच्छन्नान् महादोषांश्च शोधयेत् ५५
कल्कीकृतैर्यथालाभं वर्तिद्र व्यैः पुरोदितैः
पित्तप्रदुष्टान् गम्भीरान् दाहपाकप्रपीडितान् ५६
कार्पासीफलमिश्रेण जयेच्छोधनसर्पिषा
उत्सन्नमांसानस्निग्धानल्पस्रावान् व्रणांस्तथा ५७
सर्षपस्नेहयुक्तेन धीमांस्तैलेन शोधयेत्
तैलेनाशुध्यमानानां शोधनीयां रसक्रियाम् ५८
व्रणानां स्थिरमांसानां कुर्याद्द्र व्यैरुदीरितैः
कषाये विधिवत्तेषां कृते चाधिश्रयेत् पुनः ५९
सुराष्ट्रजां सकासीसां दद्याच्चापि मनःशिलाम्
हरितालं च मतिमांस्ततस्तामवचारयेत् ६०
मातुलुङ्गरसोपेतां सक्षौद्रा मतिमर्दिताम्
व्रणेषु दत्त्वा तां तिष्ठेत्त्रींस्त्रींश्च दिवसान् परम् ६१
मेदोजुष्टानगम्भीरान् दुर्गन्धांश्चूर्णशोधनैः
उपाचरेत् भिषक् प्राज्ञः श्लक्ष्णैः शोधनवर्तिजैः ६२
शुद्धलक्षणयुक्तानां कषायं रोपणं हितम्
तत्र कार्यं यथोद्दिष्टैर्द्र व्यैर्वैद्येन जानता ६३
अवेदनानां शुद्धानां गम्भीराणां तथैव च
हिता रोपणवर्त्यङ्गकृता रोपणवर्तयः ६४
अपेतपूतिमांसानां मांसस्थानामरोहताम्
कल्कः संरोहणः कार्यस्तिलजो मधुसंयुतः ६५
स माधुर्यात्तथौष्ण्याच्च स्नेहाच्चानिलनाशनः
कषायभावान्माधुर्यात्तिक्तत्वाच्चापि पित्तहृत् ६६
औष्ण्यात् कषायभावाच्च तिक्तत्वाच्च कफे हितः
शोधयेद्रो पयेच्चापि युक्तः शोधनरोपणैः ६७
निम्बपत्रमधुभ्यां तु युक्तः संशोधनः स्मृतः
पूर्वाभ्यां सर्पिषा चापि युक्तश्चाप्युपरोपणः ६८
तिलवद्यवकल्कं तु केचिदाहुर्मनीषिणः
शमयेदविदग्धं च विदग्धमपि पाचयेत् ६९
पक्वं भिनत्ति भिन्नं च शोधयेद्रो पयेत्तथा
पित्तरक्तविषागन्तून् गम्भीरानपि च व्रणान् ७०
रोपयेद्रो पणीयेन क्षीरसिद्धेन सर्पिषा
कफवाताभिभूतानां व्रणानां मतिमान् भिषक् ७१
कारयेद्रो पणं तैलं भेषजैस्तद्यथोदितैः
अबन्ध्यानां चलस्थानां शुद्धानां च प्रदुष्यताम् ७२
द्विहरिद्रा युतां कुर्याद्रो पणार्थां रसक्रियाम्
समानां स्थिरमांसानां त्वक्स्थानां रोपणं भिषक् ७३
चूर्णं विदध्यान्मतिमान् प्राक्स्थानोक्तो विधिर्यथा
शोधनो रोपणश्चैव विधिर्योऽय प्रकीर्तितः ७४
सर्वव्रणानां सामान्येनोक्तो दोषाविशेषतः
एष आगमसिद्धत्वात्तथैव फलदर्शनात् ७५
मन्त्रवत् संप्रयोक्तव्यो न मीमांस्यः कथञ्चन
स्वबुद्ध्या चापि विभजेत् कषायादिषु सप्तसु ७६
भेषजानि यथायोगं यान्युक्तानि पुरा मया
आद्ये द्वे पञ्चमूल्यौ तु गणो यश्चानिलापहः ७७
स वातदुष्टे दातव्यः कषायादिषु सप्तसु
न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यः स्मृतः ७८
तौ पित्तदुष्टे दातव्यौ कषायादिषु सप्तसु
आरग्वधादिस्तु गणो यश्चोष्णः परिकीर्तितः ७९
तौ देयौ कफदुष्टे तु संसृष्टे संयुता गणाः
वातात्मकानुग्ररुजान् सास्रावानपि च व्रणान् ८०
सक्षौमयवसर्पिर्भिर्धूपनाङ्गैश्च धूपयेत्
परिशुष्काल्पमांसानां गम्भीराणां तथैव च ८१
कुर्यादुत्सादनीयानि सर्पींष्यालेपनानि च
मांसाशिनां च मांसानि भक्षयेद्विधिवन्नरः ८२
विशुद्धमनसस्तस्य मांसं मांसेन वर्धते
उत्सन्नमृदुमांसानां व्रणानामवसादनम् ८३
कुर्याद्द्र व्यैर्यथोद्दिष्टैश्चूर्णितैर्मधुना सह
कठिनानाममांसानां दुष्टानां मातरिश्वना ८४
मृद्वी क्रिया विधातव्या शोणितं चापि मोक्षयेत्
वातघ्नौषधसंयुक्तान् स्नेहान् सेकांश्च कारयेत् ८५
मृदुत्वमाशुरोहं च गाढो बन्धः करोति हि
व्रणेषु मृदुमांसेषु दारुणीकरणं हितम्
धवप्रियङ्ग्वशोकानां रोहिण्याश्च त्वचस्तथा ८६
त्रिफलाधातकीपुष्परोध्रसर्जरसान् समान्
कृत्वा सूक्ष्माणि चूर्णानि व्रणं तैरवचूर्णयेत् ८७
उत्सन्नमांसान् कठिनान् कण्डूयुक्तांश्चिरोत्थितान्
तथैव खलु दुःशोध्याञ् शोधयेत् क्षारकर्मणा ८८
स्रवतोऽश्मभवान्मूत्रं ये चान्ये रक्तवाहिनः
निःशेषच्छिन्नसन्धींश्च साधयेदग्निकर्मणा ८९
दुरूढत्वात्तु शुक्लानां कृष्णकर्म हितं भवेत्
भल्लातकान् वासयेत्तु क्षीरे प्राङ्मूत्रभावितान्
ततो द्विधा च्छेदयित्वा लौहे कुम्भे निधापयेत् ९०
कुम्भेऽन्यस्मिन् निखाते तु तं कुम्भमथ योजयेत्
मुखं मुखेन सन्धाय गोमयैर्दाहयेत्ततः ९१
यः स्नेहश्च्यवते तस्माद्ग्राहयेत्तं शनैर्भिषक्
ग्राम्यानूपशफान् दग्ध्वा सूक्ष्मचूर्णानि कारयेत् ९२
तैलेनानेन संसृष्टं शुक्लमालेपयेद्व्रणम्
भल्लातकविधानेन सारस्नेहांस्तु कारयेत् ९३
ये च केचित् फलस्नेहा विधानं तेषु पूर्ववत्
दुरूढत्वात्तु कृष्णानां पाण्डुकर्म हितं भवेत् ९४
सप्तरात्रं स्थितं क्षीरे छागले रोहिणीफलम्
तेनैव पिष्टं सुश्लक्ष्णं सवर्णकरणं हितम् ९५
नवं कपालिकाचूर्णं वैदुलं सर्जनाम च
कासीसं मधुकं चैव क्षौद्र युक्तं प्रलेपयेत् ९६
कपित्थमुद्धृते मांसे मूत्रेणाजेन पूरयेत्
कासीसं रोचनां तुत्थं हरितालं मनःशिलाम् ९७
वेणुनिर्लेखनं चापि प्रपुन्नाडरसाञ्जनम्
अधस्तादर्जुनस्यैतन्मासं भूमौ निधापयेत् ९८
मासादूर्ध्वं ततस्तेन कृष्णमालेपयेद्व्रणम्
कुक्कुटाण्डकपालानि कतकं मधुकं समम् ९९
तथा समुद्र मण्डूकी मणिचूर्णं च दापयेत्
गुटिका मूत्रपिष्टास्ता व्रणानां प्रतिसारणम् १००
हस्तिदन्तमसीं कृत्वा मुख्यं चैव रसाञ्जनम्
रोमाण्येतेन जायन्ते लेपात्पाणितलेष्वपि १०१
चतुष्पदानां त्वग्रोमखुरशृङ्गास्थिभस्मना
तैलाक्ता चूर्णिता भूमिर्भवेद्रो मवती पुनः १०२
कासीसं नक्तमालस्य पल्लवांश्चैव संहरेत्
कपित्थरसपिष्टानि रोमसञ्जननं परम् १०३
रोमाकीर्णो व्रणो यस्तु न सम्यगुपरोहति
क्षुरकर्तरिसन्दंशैस्तस्य रोमाणि निर्हरेत् १०४
शिङ्खचूर्णस्य भागौ द्वौ हरितालं च भागिकम्
शुक्तेन सह पिष्टानि लोमशातनमुत्तमम् १०५
तैलं भल्लातकस्याथ स्नुहीक्षीरं तथैव च
प्रगृह्यैकत्र मतिमान् रोमशातनमुत्तमम् १०६
कदलीदीर्धवृन्ताभ्यां भस्मालं लवणं शमी
बीजं शीतोदपिष्टं वा रोमशातनमाचरेत् १०७
आगारगोधिकापुच्छं रम्भाऽल बीजमैङ्गुदम्
दग्ध्वा तद्भस्मतैलाम्बु सूर्यपक्वं कचान्तकृत् १०८
वातदुष्टो व्रणो यस्तु रूक्षश्चात्यर्थवेदनः
अधःकाये विशेषेण तत्र बस्तिर्विधीयते १०९
मूत्राधाते मूत्रदोषे शुक्रदोषेऽश्मरीव्रणे
तथैवार्तवदोषे च बस्तिरप्युत्तरो हितः ११०
यस्माच्छुध्यति बन्धेन व्रणो याति च मार्दवम्
रोहत्यपि च निःशङ्कस्तस्माद्बन्धो विधीयते १११
स्थिराणामल्पमांसानां रौक्ष्यादनुपरोहताम्
पत्रदानं भवेत् कार्यं यथादोषं यथर्तुच ११२
एरण्डभूर्जपूतीकहरिद्रा णां तु वातजे
पत्रमाश्वबलं यच्च काश्मरीपत्रमेव च ११३
पत्राणि क्षीरवृक्षाणामौदकानि तथैव च
दूषिते रक्तपित्ताभ्यां व्रणे दद्याद्विचक्षणः ११४
पाठामूर्वागुडूचीनां काकमाचीहरिद्र योः
पत्रं च शुकनासाया योजयेत् कफजे व्रणे ११५
अकर्कशमविच्छिन्नमजीर्णं सुकुमारकम्
अजन्तुजग्धं मृदु च पत्रं गुणवदुच्यते ११६
स्रेहमौषधसारं च पट्टः पत्रान्तरीकृतः
नादत्ते यत्ततः पत्रं लेपस्योपरि दापयेत् ११७
शैत्यौष्ण्यजननार्थाय स्नेहसंग्रहणाय च
दत्तौषधेषु दातव्यं पत्रं वैद्येन जानता ११८
मक्षिका व्रणमागत्य निःक्षिपन्ति यदा कृमीन्
श्वयथुर्भक्षिते तैस्तु जायते भृशदारुणः ११९
तीव्रा रुजो विचित्राश्च रक्तास्रावश्च जायते
सुरसादिर्हितस्तत्र धावने पूरणे तथा १२०
सप्तपर्णकरञ्जार्कनिम्बराजादनत्चचः
हिता गोमूत्रपिष्टाश्च सेकः क्षारोदकेन वा १२१
प्रच्छाद्य मांसपेश्या वा कृमीनपहरेद्व्रणात्
विंशतिं कृमिजातीस्तु वक्ष्याम्युपरि भागशः १२२
दीर्घकालातुराणां तु कृशानां व्रणशोषिणाम्
बृंहणीयो विधिः सर्वः कायाग्निं परिरक्षता १२३
विषजुष्टस्य विज्ञानं विषनिश्चयमेव च
चिकित्सितं च वक्ष्यामि कल्पेषु प्रतिभागशः १२४
कण्डूमन्तः सशोफाश्च ये च जत्रूपरि व्रणाः
शिरोविरेचनं तेषु विदध्यात्कुशलो भिषक् १२५
रुजावन्तोऽनिलाविष्टा रूक्षा ये चोर्ध्वजत्रुजाः
व्रणेषु तेषु कर्तव्यं नस्यं वैद्येन जानता १२६
दोषप्रच्यावनार्थाय रुजादाहक्षयाय च
जिह्वादन्तसमुत्थस्य हरणार्थं मलस्य च १२७
शोधनो रोपणश्चैव व्रणस्य मुखजस्य वै
उष्णो वा यदि वा शीतः कवलग्रह इष्यते १२८
ऊर्ध्वजत्रुगतान् रोगान् व्रणांश्च कफवातजान्
शोफस्रावरुजायुक्तान् धूमपानैरुपाचरेत् १२९
क्षतोष्मणो निग्रहार्थं सन्धानार्थं तथैव च
सद्योव्रणेष्वायतेषु क्षौद्र सर्पिर्विधीयते १३०
अवगाढास्त्वणुमुखा ये व्रणाः शल्यपीडिताः
निवृत्तहस्तोद्धरणा यन्त्रं तेषु विधीयते १३१
लघुमात्रो लघुश्चैव स्निग्ध उष्णेऽग्निदीपनः
सर्वव्रणिभ्यो देयस्तु सदाऽहारो विजानता १३२
निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः
रक्षाविधानैरुद्दिष्टैर्यमैः सनियमैस्तथा १३३
षण्मूलोऽष्टपरिग्राही पञ्चलक्षणलक्षितः
षष्ट्या विधानैर्निर्दिष्टैश्चतुर्भिः साध्यते व्रणः १३४
योऽल्पौषधकृतो योगो बहुग्रन्थभयान्मया
द्र व्याणां तत्समानानां तत्रावापो न दुष्यति १३५
प्रसङ्गाभिहितो यो वा बहुदुर्लभभेषजः
यथोपपत्ति तत्रापि कार्यमेव चिकित्सिम् १३६
गणोक्तमपि यद्द्र व्यं भवेद्व्याधावयौगिकम्
तदुद्धरेद्यौगिकं तु प्रक्षिपेदप्यकीर्तितम् १३७
उपद्र वास्तु विविधा व्रणस्य व्रणितस्य च
तत्र गन्धादयः पञ्च व्रणस्योपद्र वाः स्मृताः १३८
ज्वरातिसारौ मूर्च्छा च हिक्का च्छर्दिररोचकः
श्वासकासाविपाकाश्च तृष्णा च व्रणितस्य तु १३९
व्रणक्रियास्वेवमासु व्यासेनोक्तास्वपि क्रियाम्
भूयोऽप्युपरि वक्ष्यामि सद्योव्रणचिकित्सिते १४०
इति सुश्रुतसंहितायां चिकित्सास्थाने द्विव्रणीयचिकित्सितं नाम प्रथमोऽध्यायः १
द्वितीयोऽध्यायः
अथातः सद्योव्रणचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
धन्वन्तरिर्धर्मभृतां वरिष्ठो वाग्विशारदः
विश्वामित्रसुतं शिष्यमृषिं सुश्रुतमन्वशात् ३
नानाधारामुखैः शस्त्रैर्नानास्थाननिपातितैः
नानारूपा व्रणा ये स्युस्तेषां वक्ष्यामि लक्षणम् ४
आयताश्चतुरस्राश्च त्र्यस्रा मण्डलिनस्तथा
अर्धचन्द्र प्रतीकाशा विशालाः कुटिलास्तथा ५
शरावनिम्नमध्याश्च यवमध्यास्तथाऽपरे
एवंप्रकाराकृतयो भवन्त्यागन्तवो व्रणाः ६
दोषजा वा स्वयं भिन्ना न तु वैद्यनिमित्तजाः
भिषग्व्रणाकृतिज्ञो हि न मोहमधिगच्छति ७
भृशं दुर्दर्शरूपेषु व्रणेषु विकृतेष्वपि
अनन्ताकृतिरागन्तुः स भिषग्भिः पुरातनैः ८
समासतो लक्षणतः षड्विधः परिकीर्तितः
छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च ९
घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम्
तिरश्चीन ऋजुर्वाऽपि यो व्रणश्चायतो भवेत् १०
गात्रस्य पातनं चापि छिन्नमित्युपदिश्यते
कुन्तशक्यृष्टिखड्गाग्रविषाणादिभिराशयः ११
हतः किञ्चित् स्रवेत्तद्धि भिन्नलक्षणमुच्यते
स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च १२
हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते
तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते १३
मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति
मूर्च्छाश्वासतृडाध्मानमभक्तच्छन्द एव च १४
विण्मूत्रवातसङ्गश्च स्वेदास्रावोऽक्षिरक्तता
लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च १५
हृच्छूलं पार्श्वयोश्चापि विशेषं चात्र मे शृणु
आमाशयस्थे रुधिरे रुधिरं छर्दयेत् पुनः १६
आध्मानमतिमात्रं च शूलं च भृशदारुणम्
पक्वाशयगते चापि रुजो गौरवमेव च १७
शीतता चाप्यधो नाभेः खेभ्यो रक्तस्य चागमः
अभिन्नेऽप्याशयेऽन्त्राणां खैः सूक्ष्मैरन्त्रपूरणम् १८
पिहितास्ये घटे यद्वल्लक्ष्यते तस्य गौरवम्
सूक्ष्मास्यशल्याभिहतं यदङ्गं त्वाशयाद्विना १९
उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत्
नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम् २०
विषमं व्रणमङ्गे यत्तत् क्षतं त्वभिनिर्दिशेत्
प्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम् २१
सास्थि तत् पिच्चितं विद्यान्मज्जरक्तपरिप्लुतम्
विगतत्वग्यदङ्गं हि संघर्षादन्यथाऽपि वा २२
उषास्रावान्वितं तत्तु घृष्टमित्युपदिश्यते
छिन्ने भिन्ने तथा विद्धे क्षते वाऽसृगतिस्रवेत् २३
रक्तक्षयाद्रुजस्तत्र करोति पवनो भृशम्
स्नेहपानं हितं तत्र तत्सेको विहितस्तथा २४
वेशवारैः सकृशरैः सुस्निग्धैश्चोपनाहनम्
धान्यस्वेदांश्च कुर्वीत स्निग्धान्यालेपनानि च २५
वातघ्नौषधसिद्धैश्च स्नेहैर्बस्तिर्विधीयते
पिच्चिते च विघृष्टे च नातिस्रवति शोणितम् २६
अगच्छति भृशं तस्मिन् दाहः पाकश्च जायते
तत्रोष्मणो निग्रहार्थं तथा दाहप्रपाकयोः २७
शीतमालेपनं कार्यं परिषेकश्च शीतलः
षट्स्वेतेषु यथोक्तेषु छिन्नादिषु समासतः २८
ज्ञेयं समर्पितं सर्वं सद्योव्रणचिकित्सितम्
अत ऊर्ध्वं प्रवक्ष्यामि छिन्नानां तु चिकित्सितम् २९
ये व्रणा विवृताः केचिच्छिरःपार्श्वावलम्बिनः
तान् सीव्येद्विधिनोक्तेन बघ्नीयाद्गाढमेव च ३०
कर्णं स्थानादपहृतं स्थापयित्वा यथास्थितम्
सीव्येद्यथोक्तं तैलेन स्रोतश्चाभिप्रतर्पयेत् ३१
कृकाटिकान्ते छिन्ने तु गच्छत्यपि समीरणे
सम्यङिनवेश्य बध्नीयात् सीव्येच्चापि निरन्तरम् ३२
आजेन सर्पिषा चैवं परिषेकं तु कारयेत्
उत्तानोऽन्न समश्नीयाच्छयीत च सुयन्त्रितः ३३
शाखासु पतितांस्तिर्यक् प्रहारान् विवृतान् भृशम्
सीव्येत् सम्यङ्निवेश्याशु सन्ध्यस्थीन्यनुपूर्वशः ३४
बद्ध्वा वेल्लितकेनाशु ततस्तैलेन सेचयेत्
चर्मणा गोफणाबन्धः कार्यो यो वा हितो भवेत् ३५
पृष्ठे व्रणो यस्य भवेदुत्तानं शाययेत्तु तम्
अतोऽन्यथा चोरसिजे शाययेत् पुरुषं व्रणे ३६
छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन बुद्धिमान्
बध्नीयात् कोशबन्धेन प्राप्तं कार्यं च रोपणम् ३७
चन्दनं पद्मकं रोध्रमुत्पलानि प्रियङ्गवः
हरिद्रा मधुकं चैव पयः स्यादत्र चाष्टमम् ३८
तैलमेभिर्विपक्वं तु प्रधानं व्रणरोपणम्
चन्दनं कर्कटाख्या च सहे मांस्याह्वयाऽमृता ३९
हरेणवो मृणालं च त्रिफला पद्मकोत्पले
त्रयोदशाङ्गं त्रिवृतमेतद्वा पयसाऽन्वितम् ४०
तैलं विपक्वं सेकार्थे हितं तु व्रणरोपणे
अत ऊर्ध्वं प्रवक्ष्यामि भिन्नानां तु चिकित्सितम् ४१
भिन्नं नेत्रमकर्मण्यमभिन्नं लम्बते तु यत्
तन्निवेश्य यथास्थानमव्याविद्धसिरं शनैः ४२
पीडयेत् पाणिना सम्यक् पद्मपत्त्रान्तरेण तु
ततोऽस्य तर्पणं कार्यं नस्यं चानेन सर्पिषा ४३
आजं घृतं क्षीरपात्रं मधुकं चोत्पलानि च
जीवकर्षभकौ चैव पिष्ट्वा सर्पिर्विपाचयेत् ४४
सर्वनेत्राभिघाते तु सर्पिरेतत् प्रशस्यते
उदरान्मेदसो वर्तिर्निर्गता यस्य देहिनः ४५
कषायभस्ममृत्कीर्णां बद्ध्वा सूत्रेण सूत्रवित्
अग्नितप्तेन शस्त्रेण छिन्द्यान्मधुसमायुतम् ४६
बद्ध्वा व्रणं सुजीर्णेऽन्ने सर्पिषः पानमिष्यते
स्नेहपानादृते चापि पयःपानं विधीयते ४७
शर्करामधुयष्टिभ्यां लाक्षया वा श्वदंष्ट्रया
चित्रासमन्वितं चैव रुजादाहविनाशनम् ४८
आटोपो मरणं वा स्याच्छूलो वाऽच्छिद्यमानया
मेदोग्रन्थौ तु यत्तैलं वक्ष्यते तच्च योजयेत् ४९
त्वचोऽतीत्य सिरादीनि भित्त्वा वा परिहृत्य वा
कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्र वान् ५०
तत्रान्तर्लोहितं पाण्डुं शीतपादकराननम्
शीतोच्छ्वासं रक्तनेत्रमानद्धं च विवर्जयेत् ५१
आमाशयस्थे रुधिरे वमनं पथ्यमुच्यते
पक्वाशयस्थे देयं च विरेचनमसंशयम् ५२
आस्थापनं च निःस्नेहं कार्यमुष्णैर्विशोधनैः
यवकोलकुलत्थानां निःस्नेहेन रसेन च ५३
भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धवसंयुताम्
अतिनिःस्रुतरक्तो वा भिन्नकोष्ठः पिबेदसृक् ५४
स्वमार्गप्रतिपन्नास्तु यस्य विण्मूत्रमारुताः
व्युपद्र वः स भिन्नेऽपि कोष्ठे जीवति मानवः ५५
अभिन्नमन्त्रं निष्क्रान्तं प्रवेश्यं नान्यथा भवेत्
पिपीलिकाशिरोग्रस्तं तदप्येके वदन्ति तु ५६
प्रक्षाल्य पयसा दिग्धं तृणशोणितपांशुभिः
प्रवेशयेत् कृत्तनखो घृतेनाक्तं शनैः शनैः ५७
प्रवेशयेत् क्षीरसिक्तं शुष्कमन्त्रं घृताप्लुतम्
अङ्गुल्याऽभिमृशेत् कण्ठं जलेनोद्वेजयेदपि ५८
हस्तपादेषु संगृह्य समुत्थाप्य महाबलाः
भवत्यन्तःप्रवेशस्तु यथा निर्धुनुयुस्तथा ५९
तथाऽन्त्राणि विशन्त्यन्तः स्वां कलां पीडयन्ति च
व्रणाल्पत्वाद्बहुत्वाद्वा दुष्प्रवेशं भवेत्तु यत् ६०
तदापाट्य प्रमाणेन भिषगन्त्रं प्रवेशयेत्
यथास्थानं निविष्टे च व्रणं सीव्येदतन्द्रि तः ६१
स्थानादपेतमादत्ते प्राणान् गुपितमेव वा
वेष्टयित्वा तु पट्टेन घृतसेकं प्रदापयेत् ६२
घृतं पिबेत् सुखोष्णं च चित्रातैलसमन्वितम्
मृदुक्रियार्थं शकृतो वायोश्चाधःप्रवृत्तये ६३
ततस्तैलमिदं कुर्याद्रो पणार्थं चिकित्सकः
त्वचोऽश्वकर्णधवयोर्मोचकीमेषशृङ्गयोः ६४
शल्लक्यर्जुनयोश्चापि विदार्याः क्षीरिणां तथा
बलामूलानि चाहृत्य तैलमेतैर्विपाचयेत् ६५
व्रणं संरोपयेत्तेन वर्षमात्रं यतेत च
पादौ निरस्तमुष्कस्य जलेन प्रोक्ष्य चाक्षिणी ६६
प्रवेश्य तुन्नसेवन्या मुष्कौ सीव्येत्ततः परम्
कार्यो गोफणिकाबन्धः कट्यामावेश्य यन्त्रकम् ६७
न कुर्यात् स्नेहसेकं च तेन क्लिद्यति हि व्रणः
कालानुसार्यागुर्वेलाजातीचन्दनपद्मकैः ६८
शिलादार्व्यमृतातुत्थैस्तैलं कुर्वीत रोपणम्
शिरसोऽपहृते शल्ये बालवर्ति निवेशयेत् ६९
बालवर्त्यामदत्तायां मस्तुलुङ्गं व्रणात् स्रवेत्
हन्यादेनं ततो वायुस्तस्मादेवमुपाचरेत् ७०
व्रणे रोहति चैकैकं शनैर्बालमपक्षिपेत्
गात्रादपहृतेऽन्यस्मात् स्नेहवर्ति प्रवेशयेत् ७१
कृते निःशोणिते चापि विधिः सद्यःक्षते हितः
दूरावगाढाः सूक्ष्माः स्युर्ये व्रणास्तान् विशोणितान् ७२
कृत्वा सूक्ष्मेण नेत्रेण चक्रतैलेन तर्पयेत्
समङ्गां रजनीं पद्मां त्रिवर्गं तुत्थमेव च ७३
बिडङ्गं कटुकां पथ्यां गुडूचीं सकरञ्जिकाम्
संहृत्य विपचेत् काले तैलं रोपणमुत्तमम् ७४
तालीशं पद्मकं मांसी हरेण्वगुरुचन्दनम्
हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः ७५
पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम्
क्षते क्षतविधिः कार्यः पिच्चिते भग्नवद्विधिः ७६
घृष्टे रुजो निगृह्याशु चूर्णैरुपचरेद्व्रणम्
विश्लिष्टदेहं पतितं मथितं हतमेव च ७७
वासयेत्तैलपूर्णायां द्रो ण्यां मांसरसाशनम्
अयमेव विधिः कार्यः क्षीणे मर्महते तथा ७८
रोपणे सपरीषेके पाने च व्रणिनां सदा
तैलं घृतं वा संयोज्यं शरीरर्तूनवेक्ष्य हि ७९
घृतानि यानि वक्ष्यामि यत्नतः पित्तविद्र धौ
सद्योव्रणेषु देयानि तानि वैद्येन जानता ८०
सद्यःक्षतव्रणं वैद्यः सशूलं परिषेचयेत्
सर्पिषा नातिशीतेन बलातैलेन वा पुनः ८१
समङ्गां रजनीं पद्मां पथ्यां तुत्थं सुवर्चलाम्
पद्मकं रोध्रमधुकं विडङ्गानि हरेणुकाम् ८२
तालीशपत्रं नलदं चन्दनं पद्मकेशरम्
मञ्जिष्ठोशीरलाक्षाश्च क्षीरिणां चापि पल्लवान् ८३
प्रियालबीजं तिन्दुक्यास्तरुणानि फलानि च
यथालाभं समाहृत्य तैलमेभिर्विपाचयेत् ८४
सद्योव्रणानां सर्वेषामदुष्टानां तु रोपणम्
कषायमधुराः शीताः क्रियाः स्निग्धाश्च योजयेत् ८५
सद्योव्रणानां सप्ताहं पश्चात् पूर्वोक्तमाचरेत्
दुष्टव्रणेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम् ८६
विशोषणं तथाऽहारः शोणितस्य च मोक्षणम्
कषायं राजवृक्षादौ सुरसादौ च धावनम् ८७
तयोरेव कषायेण तैलं शोधनमिष्यते
क्षारकल्पेन वा तैलं क्षारद्र व्येषु साधितम् ८८
द्र वन्ती चिरबिल्वश्च दन्ती चित्रकमेव च
पृथ्वीका निम्बपत्राणि कासीसं तुत्थमेव च ८९
त्रिवृत्तेजोवती नीली हरिद्रे सैन्धवं तिलाः
भूमिकदम्बः सुवहा शुकाख्या लाङ्गलाह्वया ९०
नैपाली जालिनी चैव मदयन्ती मृगादनी
सुधामूर्वार्ककीटारिहरितालकरञ्जिकाः ९१
यथोपपत्ति कर्तव्यं तैलमेतैस्तु शोधनम्
घृतं वा यदि वा प्राप्तं कल्काः संशोधनास्तथा ९२
सैन्धवत्रिवृदेरण्डपत्रकल्कस्तु वातिके
त्रिवृद्धरिद्रा मधुककल्कः पैत्ते तिलैर्युतः ९३
कफजे तिलतेजोह्वादन्तीस्वर्जिकचित्रकाः
दुष्टव्रणविधिः कार्यो मेहकुष्ठव्रणेष्वपि ९४
षडिवधः प्राक् प्रदिष्टो यः सद्योव्रणविनिश्चयः
नातः शक्यं परं वक्तुमपि निश्चितवादिभिः ९५
उपसर्गैर्निपातैश्च तत्तु पण्डितमानिनः
केचित् संयोज्य भाषन्ते बहुधा मानगर्विताः ९६
बहु तद्भाषितं तेषां षट्स्वेष्वेवावतिष्ठते
विशेषा इव सामान्ये षट्त्वं तु परमं मतम् ९७
इति सुश्रुतसंहितायां चिकित्सास्थाने सद्योव्रणचिकित्सितं नाम द्वितीयोऽध्यायः २
तृतीयोऽध्यायः
अथातो भग्नानां चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च
उपद्र वैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिध्यति ३
लवणं कटुकं क्षारमम्लं मैथुनमातपम्
व्यायामं च न सेवेत भग्नो रूक्षान्नमेव च ४
शालिर्मांसरसः क्षीरं सर्पिर्यूषः सतीनजः
बृंहणं चान्नपानं स्याद्देयं भग्नाय जानता ५
मधूकोदुम्वराश्वत्थपलाशककुभत्वचः
वंशसर्जवटानां च कुशार्थमुपसंहरेत् ६
आलेपनार्थं मञ्जिष्ठां मधुकं रक्तचन्दनम्
शतधौतघृतोन्मिश्रं शालिपिष्टं च संहरेत् ७
सप्ताहादथ सप्ताहात् सौम्येष्वृतुषु बन्धनम्
साधारणेषु कर्तव्यं पञ्चमे पञ्चमेऽहनि ८
आग्नेयेषु त्र्यहात् कुर्याद्भग्नदोषवशेन वा
तत्रातिशिथिलं बद्धे सन्धिस्थैर्यं न जायते ९
गाढेनापि त्वगादीनां शोफो रुक् पाक एव च
तस्मात् साधारणं बन्धं भग्ने शंसन्ति तद्विदः १०
न्यग्रोधादिकषायं तु सुशीतं परिषेचने
पञ्चमूलीविपक्वं तु क्षीरं कुर्यात् सवेदने ११
सुखोष्णमवचार्यं वा चक्रतैलं विजानता
विभज्य कालं दोषं च दोषघ्नौषधसंयुतम् १२
परिषेकं प्रदेहं च विदध्याच्छीतमेव च
गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम् १३
शीतलं लाक्षया युक्तं प्रातर्भग्नः पिबेन्नरः
सव्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तरैः १४
प्रतिसार्य कषायैस्तु शेषं भग्नवदाचरेत्
प्रथमे वयसि त्वेवं भग्नं सुकरमादिशेत् १५
अल्पदोषस्य जन्तोस्तु काले च शिशिरात्मके
प्रथमे वयसि त्वेवं मासात् सन्धिः स्थिरो भवेत् १६
मध्यमे द्विगुणात् कालादुत्तरे त्रिगुणात् स्मृतः
अवनामितमुन्नह्येदुन्नतं चावपीडयेत् १७
आञ्छेदतिक्षिप्तमधो गतं चोपरि वर्तयेत्
आञ्छनैः पीडनैश्चैव सङ्क्षेपैर्बन्धनैस्तथा १८
सन्धीञ्छरीरे सर्वांस्तु चलानप्यचलानपि
एतैस्तु स्थापनोपायैः स्थापयेन्मतिमान् भिषक् १९
उत्पिष्टमथ विश्लिष्टं सन्धिं वैद्यो न घट्टयेत्
तस्य शीतान् परीषेकान् प्रदेहांश्चावचारयेत् २०
अभिघाते हृते सन्धिः स्वां याति प्रकृतिं पुनः
घृतदिग्धेन पट्टेन वेष्टयित्वा यथाविधिं २१
पट्टोपरि कुशान् दत्त्वा यथावद्बन्धमाचरेत्
प्रत्यङ्गभग्नस्य विधिरत ऊर्ध्वं प्रवक्ष्यते २२
नखसन्धिं समुत्पिष्टं रक्तानुगतमारया
अवमथ्य स्रुते रक्ते शालिपिष्टेन लेपयेत् २३
भग्नां वा सन्धिमुक्तां वा स्थापयित्वाऽङ्गुलद्यंसमाम्
अणुनाऽवेष्ट्य पट्टेन घृतसेकं प्रदापयेत् २४
अभ्यज्य सर्पिषा पादं तलभग्नं कुशोत्तरम्
वस्त्रपट्टेन बध्नीयान्न च व्यायाममाचरेत् २५
अभ्यज्यायामयेज्जङ्घामूरुं च सुसमाहितः
दत्त्वा वृक्षत्वचः शीता वस्त्रपट्टेन वेष्टयेत् २६
मतिमांश्चक्रयोगेन ह्याञ्छेदूर्वस्थि निर्गतम्
स्फुटितं पिच्चितं चापि बध्नीयात् पूर्ववद्भिषक् २७
आञ्छेदूर्ध्वमधो वाऽपि कटिभग्नं तु मानवम्
ततः स्थानस्थिते संधौ बस्तिभिः समुपाचरेत् २८
पर्शुकास्वथ भग्नासु घृताभ्यक्तस्य तिष्ठतः
दक्षिणास्वथवा वामास्वनुमृज्य निबन्धनीः २९
ततः कवलिकां दत्त्वा वेष्टयेत् सुसमाहितः
तैलपूर्णे कटाहे वा द्रो ण्यां वा शाययेन्नरम् ३०
मुसलेनोत्क्षिपेत् कक्षामंससन्धौ विसंहते
स्थानस्थितं च बध्नीयात् स्वस्तिकेन विचक्षणः ३१
कौर्परं तु तथा सन्धिमङ्गुष्ठेनानुमार्जयेत्
अनुमृज्य ततः सन्धिं पीडयेत् कूर्पराच्च्युतम् ३२
प्रसार्याकुञ्चयेच्चैनं स्नेहसेकं च दापयेत्
एवं जानुनि गुल्फे च मणिबन्धे च कारयेत् ३३
उभे तले समे कृत्वा तलभग्नस्य देहिनः
बध्नीयादामतैलेन परिषेकं च कारयेत् ३४
मृत्पिण्डं धारयेत् पूर्वं लवणं च ततः परम्
हस्ते जातबले चापि कुर्यात् पाषाणधारणम् ३५
सन्नमुन्नमयेत् स्विन्नमक्षकं मुसलेन तु
तथोन्नतं पीडयेच्च बध्नीयाद्गाढमेव च ३६
ऊरुवच्चापि कर्तव्यं बाहुभग्नचिकित्सितम्
ग्रीवायां तु विवृत्तायां प्रविष्टायामधोऽपि वा ३७
अवटावथ हन्वोश्च प्रगृह्योन्नमयेन्नरम्
ततं कुशां समं दत्त्वा वस्त्रपट्टेन वेष्टयेत् ३८
उत्तानं शाययेच्चैनं सप्तरात्रमतन्द्रि तः
हन्वस्थिनी समानीय हनुसन्धौ विसंहते ३९
स्वेदयित्वा स्थिते सम्यक् पञ्चाङ्गीं वितरेद्भिषक्
वातघ्नमधुरैः सर्पिः सिद्धं नस्ये च पूजितम् ४०
अभग्नांश्चलितान् दन्तान् सरक्तानवपीडयेत्
तरुणस्य मनुष्यस्य शीतैरालेपयेद्बहिः ४१
सिक्त्वाऽम्बुभिस्ततः शीतैः सन्धानीयैरुपाचरेत्
उत्पलस्य च नालेन क्षीरपानं विधीयते ४२
जीर्णस्य तु मनुष्यस्य वर्जयेच्चलितान् द्विजान्
नासां सन्नां विवृत्तां वा ऋज्वीं कृत्वा शलाकया ४३
पृथङ्नासिकयोर्नाड्यौ द्विमुख्यौ संप्रवेशयेत्
ततः पट्टेन संवेष्ट्य घृतसेकं प्रदापयेत् ४४
भग्नं कर्णं तु बध्नीयात् समं कृत्वा घृतप्लुतम्
सद्यःक्षतविधानं च ततः पश्चात् समाचरेत् ४५
मस्तुलुङ्गाद्विना भिन्ने कपाले मधुसर्पिषी
दत्त्वा ततो निबध्नीयात् सप्ताहं च पिबेद्घृतम् ४६
पतनादभिघाताद्वा शूनमङ्गं यदक्षतम्
शीतान् प्रदेहान्सेकांश्च भिषक् तस्यावचारयेत् ४७
अथ जङ्घोरुभग्नानां कपाटशयनं हितम्
कीलका बन्धनार्थं च पञ्च कार्या विजानता ४८
यथा न चलनं तस्य भग्नस्य क्रियते तथा
सन्धेरुभयतो द्वौ द्वौ तले चैकश्च कीलकः ४९
श्रोण्यां वा पृष्ठवंशे वा वक्षस्यक्षकयोस्तथा
भग्नसन्धिविमोक्षेषु विधिमेनं समाचरेत् ५०
सन्धींश्चिरविमुक्तांस्तु स्निग्धान् स्विन्नान् मृदूकृतान्
उक्तैर्विधानैर्बुद्ध्या च सम्यक् प्रकृतिमानयेत् ५१
काण्डभग्ने प्ररूढे तु विषमोल्वणसंहिते
आपोथ्य समयेद्भग्नं ततो भग्नवदाचरेत् ५२
कल्पयेन्निर्गतं शुष्कं व्रणान्तेऽस्थि समाहितः
सन्ध्यन्ते वा क्रियां कुर्यात् सव्रणे व्रणभग्नवत् ५३
ऊर्ध्वकाये तु भग्नानां मस्तिष्क्यं कर्णपूरणम्
घृतपानं हितं नस्यं प्रशाखास्वनुवासनम् ५४
अत ऊर्ध्वं प्रवक्ष्यामि तैलं भग्नप्रसाधकम्
रात्रौ रात्रौ तिलान् कृष्णान् वासयेदस्थिरे जले ५५
दिवा दिवा शोषयित्वा गवां क्षीरेण भावयेत्
तृतीयं सप्तरात्रं तु भावयेन्मधुकाम्बुना ५६
ततः क्षीरं पुनः पीतान् सुशुष्कांश्चूर्णयेद्भिषक्
काकोल्यादिं सयष्ठ्याह्वं मञ्जिष्ठां सारिवां तथा ५७
कुष्ठं सर्जरसं मांसीं सुरदारु सचन्दनम्
शतपुष्पां च संचूर्ण्य तिलचूर्णेन योजयेत् ५८
पीडनार्थं च कर्तव्यं सर्वगन्धशृतं पयः
चतुर्गुणेन पयसा तत्तैलं विपचेद्भिषक् ५९
एलामंशुमतीं पत्रं जीवकं तगरं तथा
रोध्रं प्रपौण्डरीकं च तथा कालानुसारिणम् ६०
सैरेयकं क्षीरशुक्लामनन्तां समधूलिकाम्
पिष्ट्वा शृङ्गाटकं चैव पूर्वोक्तान्यौषधानि च ६१
एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुनाऽग्निना
एतत्तैलं सदा पथ्यं भग्नानां सर्वकर्मसु ६२
आक्षेपके पक्षघाते तालुशोषे तथाऽदिते
मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे ६३
बाधिर्ये तिमिरे चैव ये च स्त्रीषु क्षयं गताः
पथ्यं पाने तथाऽभ्यङ्गे नस्ये बस्तिषु भोजने ६४
ग्रीवास्कन्धोरसां वृद्धिरमुनैवोपजायते
मुखं च पद्मप्रतिमं ससुगन्धिसमीरणम् ६५
गन्धतैलमिदं नाम्ना सर्ववातविकारनुत्
राजार्हमेतत् कर्तव्यं राज्ञामेव विचक्षणैः ६६
त्रपुसाक्षप्रियालानां तैलानि मधुरैः सह
वसां दत्त्वा यथालाभं क्षीरे दशगुणे पचेत् ६७
स्नेहोत्तममिदं चाशु कुर्याद्भग्नप्रसाधनम्
पानाभ्यञ्जननस्येषु बस्तिकर्मणि सेचने ६८
भग्नं नैति यथापाकं प्रयतेत तथा भिषक्
पक्वमांससिरास्नायु तद्धि कृच्छ्रेण सिध्यति ६९
भग्नं सन्धिमनाविद्धमहीनाङ्गमनुल्वणम्
सुखचेष्टाप्रचारं च संहितं सम्यगादिशेत् ७०
इति सुश्रुतसंहितायां चिकित्सास्थाने भग्नचिकित्सितं नाम तृतीयोऽध्यायः ३
चतुर्थोऽध्यायः
अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
आमाशयगते वाते च्छर्दयित्वा यथाक्रमम्
देयः षड्धरणो योगः सप्तरात्रं सुखाम्बुना ३
चित्रकेन्द्र यवे पाठा कटुकाऽतिविषाऽभया
वातव्याधिप्रशमनो योगः षड्धरणः स्मृतः ४
पक्वाशयगते चापि देयं स्नेहविरेचनम्
बस्तयः शोधनीयाश्च प्राशाश्च लवणोत्तराः ५
कार्यो बस्तिगते चापि विधिर्बस्तिविशोधनः
श्रोत्रादिषु प्रकुपिते कार्यश्चानिलहा क्रमः ६
स्नेहाभ्यङ्गोपनाहाश्च मर्दनालेपनानि च
त्वङ्मांसासृक्सिराप्राप्ते कुर्यात् चासृग्विमोक्षणम् ७
स्नेहोपनाहाग्निकर्मबन्धनोन्मर्दनानि च
स्नायुसन्ध्यस्थिसंप्राप्ते कुर्याद्वायावतन्द्रि तः ८
निरुद्धेऽस्थनि वा वायौ पाणिमन्थेन दारिते
नाडीं दत्त्वाऽस्थनि भिषक् चूषयेत्पवनं बली ९
शुक्रप्राप्तेऽनिले कार्यं शुक्रदोषचिकित्सितम्
अवगाहकुटीकर्षूप्रस्तराभ्यङ्गबस्तिभिः १०
जयेत् सर्वाङ्गजं वातं सिरामोक्षैश्च बुद्धिमान्
एकाङ्गगं च मतिमाञ्छृङ्गैश्चावस्थितं जयेत् ११
बलासपित्तरक्तैस्तु संसृष्टमविरोधिभिः
सुप्तिवाते त्वसृङ्मोक्षं कुर्यात्तु बहुशो भिषक् १२
दिह्याच्च लवणागारधूमैस्तैलसमन्वितैः
पञ्चमूलीशृतं क्षीरं फलाम्लो रस एव च १३
सुस्निग्धो धान्ययूषो वा हितो वातविकारिणाम्
काकोल्यादिः सवातघ्नः सर्वाम्लद्र व्यसंयुतः १४
सानूपौदकमांसस्तु सर्वस्नेहसमन्वितः
सुखोष्णः स्पष्टलवणः साल्वणः परिकीर्तितः १५
तेनोपनाहं कुर्वीत सर्वदा वातरोगिणाम्
कुञ्च्यमानं रुजार्तं वा गात्रं स्तब्धमथापि वा १६
गाढं पट्टैर्निबध्नीयात् क्षौमकार्पासिकौर्णिकैः
बिडालनकुलोन्द्रा णां चर्मगोण्यां मृगस्य वा १७
प्रवेशयेद्वा स्वभ्यक्तं साल्वणेनोपनाहितम्
स्कन्धवक्षस्त्रिकप्राप्तं वायुं मन्यागतं तथा १८
वमनं हन्ति नस्यं च कुशलेन प्रयोजितम्
शिरोगतं शिरोबस्तिर्हन्ति वाऽसृग्विमोक्षणम् १९
स्नेहं मात्रासहस्रं तु धारयेत्तत्र योगतः
सर्वाङ्गगतमेकाङ्गस्थितं वाऽपि समीरणम् २०
रुणद्धि केवलो बस्तिर्वायुवेगमिवाचलः
स्नेहस्वेदस्तथाऽभ्यङ्गो बस्तिः स्नेहविरेचनम् २१
शिरोबस्तिः शिरःस्नेहो धूमः स्नैहिक एव च
सुखोष्णः स्नेहगण्डूषो नस्यं स्नैहिकमेव च २२
रसाः क्षीराणि मांसानि स्नेहाः स्नेहान्वितं च यत्
भोजनानि फलाम्लानि स्निग्धानि लवणानि च २३
सुखोष्णाश्च परीषेकास्तथा संवाहनानि च
कुङ्कुमागुरुपत्राणि कुष्ठैलातगराणि च २४
कौशेयौर्णिकरौमाणि कार्पासानि गुरूणि च
निवातातपयुक्तानि तथा गर्भगृहाणि च २५
मृद्वी शय्याऽग्निसंतापो ब्रह्मचर्यं तथैव च
समासेनैवमादीनि योज्यान्यनिलरोगिषु २६
त्रिवृद्दन्तीसुवर्णक्षीरीसप्तलाशङ्खिनीत्रिफलाविडङ्गानामक्षसमाः भागाः बिल्वमात्रः कल्कस्तिल्वकमूलकम्पिल्लकयोः त्रिफलारसदधिपात्रे द्वे द्वे घृतपात्रमेकं तदैकध्यं संसृज्य विपचेत् तिल्वकसर्पिरेतत् स्नहेविरेचनमुपदिशन्ति वातरोगिषु तिल्वकविधिरेवाशोकरम्यकयोर्द्रष्टव्यः २७
तिलपरिपीडनोपकरणकाष्ठान्याहृत्यानल्पकालं तैलपरिपीतान्यणूनि खण्डशः कल्पयित्वाऽवक्षुद्य महति कटाहे पानीयेनाभिप्लाव्य क्वाथयेत् ततः स्नेहमम्बुपृष्ठाद्यदुदेति तत् सरकपाण्योरन्यतरेणादाय वातघ्नौषधप्रतीवापं स्नेहपाककल्पेन विपचेत् एतदणुतैलमुपदिशन्ति वातरोगिषु अणुभ्यस्तैलद्रव्येभ्यो निष्पाद्यत इत्यणुतैलम् २८
अथ महापञ्चमूलकाष्ठैर्बहुभिरवदह्यावनिप्रदेशमसितमुषितमेकरात्रमुप शान्तेऽग्नावपोह्य भस्म निवृत्तां मूमिं विदारिगन्धादिसिद्धेन तैलघटशतेनतुल्यपयसाऽभिषिच्यैकरात्रमवस्थाप्य ततो यावती मृत्तिका स्निग्धा स्यात्ता-मादायोष्णोदकेन महति कटाहेऽभ्यासिञ्चेत् तत्र यत्तैलमुत्तिष्ठेत्तत् पाणिभ्यां पर्यादाय स्वनुगुप्तं निदध्यात् ततस्तैलं वातहरौषधक्वाथमांसरसक्षीराम्लभागसहस्रेण सहस्रपाकं विपचेद्यावता कालेन शक्नुयात् पक्तुं प्रतिवापश्चात्र हैमवता दक्षिणापथगाश्च गन्धा वातघ्नानि च तस्मिन् सिध्यति शङ्खानाध्मापयेद्दुन्दुभीनाघातयेच्छत्रं धारयेद्वालव्यजनैश्च वीजयेद्ब्राह्मणसहस्रं भोजयेत् तत् साधु सिद्धमवतार्य सौवर्णे राजते मृन्मये वा पात्रे स्वनुगुप्तं निदध्यात् तदेतत् सहस्रपाकमप्रतिवारवीर्यं राजार्हं तैलम् एवं भागशतविपक्वं शतपाकम् २९
गन्धर्वहस्तमुष्ककनक्तमालाटरूषकपूतीकारग्वधचित्रकादीनां पत्राण्यार्द्राणि लवणेन सहोदूखलेऽवक्षुद्य स्नेहघटे प्रक्षिप्यावलिप्य गोशकृद्भिर्दाहयेत् एतत्पत्रलवणमुपदिशन्ति वातरोगेषु ३०
एवं स्नूहीकाण्डवार्ताकुशिग्रुलवणानि संक्षुद्य घटंपूरयित्वा सर्पिस्तैलवसामज्जभिः प्रक्षिप्यावलिप्य गोशकृद्भिर्दाहयेत् एतत् स्नेहलवणमुपदिशन्ति वातरोगेषु ३१
गण्डीरपलाशकुटजबिल्वार्कस्नुह्यपामार्गपाटलापारिभद्र कनादेयीकृष्णगन्धानीपनिम्ब-निर्दहन्यटरूषकनक्तमालकपूतिकबृहतीकण्टकारिकाभल्लातकेङ्गुदीवैजयन्तीकद-लीबाष्पद्वयेक्षुरकेन्द्र वारुणीश्वतेमोक्षकाशोका इत्येवं वर्गं समूलपत्रशाखमार्द्र माहृत्य लवणेन सह संसृज्य पूर्ववद्दग्ध्वा क्षारकल्पेन परिस्राव्य विपचेत् प्रतिवापश्चात्र हिङ्ग्वादिभिः पिप्पल्यादिभिर्वा इत्येतत् कल्याणकलवणं वातरोगगुल्मप्लीहाग्निषङ्गाजीर्णार्शोऽरोचकार्तानां कासादिभिः कृमिभिरुपद्रुतानां चोपदिशन्ति पानभोजनेष्वपीति ३२
भवति चात्र
विष्यन्दनादुष्णभावाद्दोषाणां च विपाचनात्
संस्कारपाचनाच्चेदं वातरोगेषु शस्यते ३३
इति श्रीसुश्रुतसंहितायां चिकित्सास्थाने वातव्याधिचिकित्सितं नाम चतुर्थोऽध्यायः ४
पञ्चमोऽध्यायः
अथातो महावातव्याधिचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
द्विविधं वातशोणितमुत्तानमवगाढं चेत्येके भाषन्ते तत्तु न सम्यक् तद्धि कुष्ठवदुत्तानं भूत्वा कालान्तरेणावगाढीभवति तस्मान्न द्विविधम् ३
तत्र बलवद्विग्रहादिभिः प्रकुपितस्य वायोर्गुरूष्णाध्यशनशीलस्य प्रदुष्टं शोणितं मार्गमावृत्य वातेन सहैकीभूतं युगपद्वातरक्तनिमित्तां वेदनां जनयतीति वातरक्तम् तत्तु पूर्वं हस्तपादयोरवस्थानं कृत्वा पश्चाद्देहं व्याप्नोति तस्य पूर्वरूपाणितोददाहकणडूशोफस्तम्भत्वक्पारुष्यसिरास्नायुध-मनीस्पन्दनसक्थिदौर्बल्यानि श्यावारुणमण्डलोत्पत्तिश्चाकस्मात् पाणिपादतलांगुलिगुल्फमणि बन्धप्रभृतिषु तत्राप्रतिकारिणोऽपचारिणश्च रोगो व्यक्ततरः तस्य लक्षणमुक्तं तत्राप्रतिकारिणो वैकल्यं भवति ४
भवति चात्र
प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम्
स्थूलानां सुखिनां चापि वातरक्तं प्रकुप्यति ५
तत्र प्राणमांसक्षयपिपासाज्वरमूर्च्छाश्वासकासस्तम्भारोचकाविपाकविसरणसं-कोचनैरनुपद्रुतंबलवन्तमात्मवन्तमुपकरणवन्तं चोपक्रमेत् ६
तत्र आदावेव बहुवातरूक्षम्लानाङ्गादृते मार्गावरणादृष्टशोणित मसकृदल्पा ल्पमवसिञ्चेद्वातकोपभयात् ततो वमनादिभिरुपक्रमैरुपपाद्य प्रतिसंसृष्टभक्तं वातप्रबले पुराणघृतं पाययेत् अजाक्षीरं वाऽधतैलं मधुकाक्षययुक्तं शृगालविन्नासिद्धअं वा शर्करामधुमधुरं शुण्ठीशृङ्गाटककशेरुकसिद्धं वा श्यामारास्नासुषवीशृगालविन्ना पीलु शतावरीश्वदंष्ट्राद्विपञ्चमूलीसिद्धं वा द्विपञ्चमूलीक्वाथाष्टगुणसिद्धेन पयसा मधुकमेषशृङ्गीश्वदंष्ट्रासरलभद्र दारुवचासुरभिकल्कप्रतीवापं तैलं पाचयित्वा पानादिषूपयुञ्जीत शतावरी मयूरककिणिह्यजमोदामधुक क्षीरविदारीबला तिबलातृणपञ्चमूली क्वाथसिद्धं वा काकोल्यादिप्रतिवापं बलातैलं शतपाकं वेति वातहरमूलसिद्धेन च पयसा परिषेचनमम्लैर्वा कुर्वीत यवमधुकैरणडतिलवर्षाभूभिर्वा प्रदेहः कार्यः तत्र चूर्णितेषु यवगोधूमतिलमुद्गमाषेषु प्रत्येकशः काकोलीक्षीरकाकोलीजीव कर्षभकबलातिबलाबि समृणालशृगाल विन्नामेषशृङ्गीप्रियाल शर्कराकशेरुकसुर भिवचाकल्कमिश्रेषूपनाहार्थं सर्पिस्तैलवसामज्जदुग्धसिद्धाः पञ्च पायसा व्याख्याताः स्नऐहिकफलसारोत्कारिका वा चूर्णितेषु यवगोधूमतिलमुद्गमाषेषु मत्स्यपिशितवेशवारो वा बिल्वपेशिकातगरदेवदारुसरलारास्नाहरेणुकुष्ठशतपुष्पैलासुरादधिमस्तुयुक्त उपनाहः मातुलुङ्गाम्लसैन्धवघृतमिश्रअं मधुशिग्रुमूलमालेपस्तिलकल्को वेति वातप्रबले ७
पित्तप्रबलेद्रा क्षारेवतकट्फलपयस्यामधुकचन्दनकाश्मर्यकषायं शर्करामधु मधुरं पाययेत् शतावरीमधुकपटोलत्रिफलाकटुरोहिणीकषायं गुडूचीकषायं वा पित्तज्वरहरं वा चन्दनादिकषायं शर्करामधुमधुरं मधुरतिक्तकषायसिद्धं वा सर्पिः बिसमृणालभद्र श्रियपद्मककषायेणार्धक्षीरेण परिषेकः क्षीरेक्षुरसैर्मधुरिकशर्करातण्डुलोदकैर्वा द्रा क्षेक्षुकषायमिश्रैर्वा मस्तुमद्यधान्याम्लैःजीवनीयसिद्धेन वा सर्पिषाऽभ्यङ्गः शतधौतघृतेन वा काकोल्यादिकल्ककषायविपक्वेन वा सर्पिषा शालिषष्टिकनल वञ्जुलतालीसशृङ्गाटकगलोड्यगौरीगैरि कशैवलपद्म कपद्मपत्रप्रभृतिभिधा र्न्याम्ल पिष्टैः प्रदेहो घृतमिश्रः वातप्रबलेऽप्येष सुखोष्णः प्रदेहः कार्यः ८
रक्तप्रबलेऽप्येवं बहुशश्च शोणितमवसेचयेत् शीततमाश्च प्रदेहाः कार्या इति ९
श्लेष्मप्रबले त्वामलकहरिद्रा कषायं मधुमधुरं पाययेत् त्रिफलाकषायं वा मधुकशृङ्गवेरहरीतकीतिक्तरोहिणीकल्कं वा सक्षौद्रं मूत्रतोययोरन्यतरेण गुडहरीतकीं वा भक्षयेता तैलमूत्रक्षारोदकसुराशुक्तकफघ्नौषधनिःक्वाथैश्च परषेकः आरग्वधादिकषायैर्वोष्णैः मस्तुमूत्रसुराशुक्तमधुकसारिवापद्मकसिद्धं वा घृतमभ्यङ्गः तिलसर्षपातसीयवचूर्णानि श्लेष्मातककपित्थमधुशिग्रुमिश्राणि क्षारमूत्रपिष्टानि प्रदेहः श्वेतसर्षपकल्कः तिलाश्वगन्धाकल्कः प्रियालसेलुकपित्थकल्कः मधुशिग्रुपुनर्नवाकल्कः व्योषतिक्तापृथक् पर्णीवृहतीकल्क इत्येतेषां पञ्च प्रदेहाः सुखोष्णाः क्षारोदकपिष्टाः शालिपर्णी पृश्निपर्णी बृहत्यौ वा क्षीरपिष्टास्तर्पणमिश्राः १०
संसर्गे सन्निपाते च क्रियापथमुक्तं मिश्रं कुर्यात् ११
सर्वेषु च गुडहरीतकीमासेवेत पिप्पलीर्वा क्षीरपिष्टा वारिपिष्टा वा पञ्चाभिवृद्ध्या दशाभिवृद्ध्या वा पिबेत् क्षीरौदनाहारो दशरात्रं भूयश्चापकर्षयेत् एवं यावत् पञ्च दश वेति तदेतत् पिप्पलीवर्धमानकं वातशोणितविषमज्वरारोचकपाण्डुरोगप्लीहोदरार्शःकासश्वासशोफशोषाग्निसादहृद्रो गोदराण्यपहन्ति जीवनीयप्रतीवापं सर्पिः पयसा पाचयित्वाऽभ्यज्यात् सहासहदेवाचन्दनमूर्वामुस्ताप्रियालशतावरीकशेरु पद्मकमधुकशतपुष्पाविदारी कुष्ठानि क्षीरपिष्टः प्रदेहो घृतमण्डयुक्तः सैरेयकाटरूषकबलातिबलाजीवन्तीसुषवीकल्को वा च्छागक्षीरपिष्टः गोक्षीरपिष्टः काश्मर्यमधुकतर्पणकल्को वा मधूच्छिष्टमञ्जिष्ठासर्जरससारिवाक्षीरसिद्धं पिण्डतैलमभ्यङ्गः सर्वेषु च पुराणघृतमामलकरसविपक्वं वा पानार्थे जीवनीयसिद्धं परिषेकार्थे काकोल्यादिक्वाथकल्कसिद्धं वा सुषवीक्वाथकल्कसिद्धं वा कारवेल्लकक्वाथमात्रसिद्धं वा बलातैलं वा परिषेकावगाहबस्तिभोजनेषु शालिषष्टिकयवगोधूमान्नमनवं भुञ्जीत पयसा जाङ्गलरसेन वा मुद्गयूषेण वाऽनम्लेन शोणितमोक्षं चाभीक्ष्णं कुर्वीत उच्छ्रितदोषे च वमनविरेचना स्थापनानुवासनकर्मकर्तव्यम् १२
पिटोलत्रिफलाभीरुगुडूचीकटुकाकृतम्
क्वाथं पीत्वा जयत्याशु वातशोणितजां रुजम् १३
भवन्ति चात्र
एवमाद्यैः क्रियायोगैरचिरोत्पतितं सुखम्
वातासृक् साध्यते वैद्यैर्याप्यते तु चिरोत्थितम् १४
उपनाहपरीषेकप्रदेहाभ्यञ्जनानि च
शरणान्यप्रवातानि मनोज्ञानि महान्ति च १५
मृदुगण्डोपधानानि शयनानि सुखानि च
वातरक्ते प्रशस्यन्ते मृदुसंवाहनानि च १६
व्यायामं मैथुनं कोपमुष्णाम्ललवणाशनम्
दिवास्वप्नमभिष्यन्दि गुरु चान्नं विवर्जयेत् १७
अपतानकिनमस्रस्ताक्षमवक्रभ्रुवमस्तब्धमेढ्रमस्वेदनमवेपनमप्रलापिनमखट्वा पातिनमबहिरायामिनं चोपक्रमेत् तत्र प्रागेव स्नेहाभ्यक्तं स्विन्नशरीरमवपीडनेन तीक्ष्णेनोपक्रमेत शिरःशुर्द्ध्य्थं अनन्तरं विदारिगन्धादिक्वाथमांसरसक्षीरदधिपक्वं सर्पिरच्छं पाययेत् तथा हि नातिमात्रं वायुः प्रसरति ततो भद्र दार्वादिवातघ्नगणमाहृत्य सयवकोलकुलत्थं सानूपौदकमांसं पञ्चवर्गमेकतः प्रक्वाथ्य तमादाय कषायमम्लक्षीरैः सहोन्मिश्र्य सर्पिस्तैलवसामज्जभिः सह विपचेन्मधुरकप्रतीवापं तदेतत्त्रैवृतमपतानकिनां परिषेकावगाहाभ्यङ्गपान भोजनानुवासननस्येषु विदध्यात् यथोक्तैश्च स्वेदविधानैः स्वेदयेत् बलीयसि वाते सुखोष्णतुषबुसकरीषपूर्णे कूपे निदध्यादामुखात् तप्तयां वा रथकारचुल्ल्यां तप्तायां वा शिलायां सुरापरिषिक्तायां पलाशदलच्छन्नायां शाययेत् कृशरावेशवारपायसैर्वा स्वेदयेत् मूलकोरुबूस्फूर्जार्जकार्कसप्तलाशङ्खिनीस्वरससिद्धं तैलमपतानकिनां परिषेकादिषूपयोज्यम् अभुक्तवता पीतमम्लं दधि मरिचवचायुक्तमपतानकं हन्ति तैलसर्पिर्वसाक्षौद्रा णि वा एतच्छुद्धवातापतानकविधानमुक्तं संसृष्टे संसृष्टं कर्तव्यम् वेगान्तरेषु चावपीडं दद्यात् ताम्रचूडकर्कटकृष्ण मत्स्यशिशुमारवराहवसाश्चासेवेत क्षीराणि वा वातहरसिद्धानि यवकोलकुलत्थमूलकदधिघृततैलसिद्धआ वा यवागूः स्नेहविरेचना स्थापनानुवासनैश्चैनं दशरात्राहृतवेगमुपक्रमेतवातव्याधिचिकित्सितं चावेक्षेत रक्षाकर्म च कुर्यादिति १८
पक्षाघातोपद्रुतमम्लानगात्रं सरुजमात्मवन्तमुपकरणवन्तं चोपक्रमेत् तत्र प्रागेव स्नेहस्वेदोपपन्नं मृदुना शोधनेन संशोध्यानुवास्यास्थाप्य च यथाका लमाक्षेपकविधानेनोपचरेत् वैशेषिकश्चात्र मस्तिष्क्यः शिरोबस्तिः अणुतैलमभ्यङ्गार्थे साल्वणमुपनाहार्थे बलातैलमनुवासनार्थे एवमतन्द्रि तस्त्रींश्चतुरो वा मासान् क्रियापथमुपसेवेत १९
मन्यास्तम्भेऽप्येतदेव विधानं विशेषतो वातश्लेष्महरैर्नस्यै रूक्षस्वेदैश्चोपचरेत् २०
अपतन्त्रकातुरं नापतर्पयेत् वमनानुवासनास्थापनानि न निषेवेत वातश्ले ष्मोपरुद्धोच्छ्वासं तीक्ष्णैः प्रध्मापनैर्मोक्षयेत् तुम्बरुपुष्कराह्वहिङ्ग्वम्लवेतसपथ्यालवणत्रयं यवक्वाथेन पातुं प्रयच्छेत् पथ्याशतार्धे सौवर्चलद्विपले चतुर्गुणे पयसि सर्पिः प्रस्थं सिद्धं वातश्लेष्मापनुच्च कर्म कुर्यात् २१
अर्दितातुरं बलवन्तमात्मवन्तमुपकरणवन्तं च वातव्याधिविधानेनोपचरेत् वैशेषिकैश्च मस्तिष्क्यशिरोबस्तिनस्यधूमोपनाहस्नेहनाडीस्वेदादिभिः ततः सतृणं महापञ्चमूलं काकोल्यादिं विदारिगन्धादिमौदकानूपमांसं तथैवौदककन्दांश्चाहृत्य द्विगुणोदके क्षीरद्रो णे निःक्वाथ्य क्षीरावशिष्टमवतार्य परिस्राव्य तैलप्रस्थेनोन्मिश्र्य पुनरग्नावधिश्रयेत् ततस्तैलं क्षीरानुगतमव तार्य शीतीभूतमभिमथ्नीयात् तत्र यः स्नेह उत्तिष्ठेत्तमादाय मधुरौषधसहाक्षीरयुक्तं विपचेत् एतत् क्षीरतैलमर्दितातुराणां पानाभ्यङ्गादिषूपयोज्यं तैलहीनं वा क्षीरसर्पिरक्षितर्पणमिति २२
गृध्रसीविश्वाची क्रोष्टुकशिरःखञ्जपङ्गुल वातकण्टकपाददाहपादहर्षावबाहुकबा धिर्य धमनीगतवातरोगेषु यथोक्तं यथोद्देशं च सिराव्यधं कुर्यात् अन्यत्रावबाहुकात् वातव्याधिचिकित्सितं चावेक्षेत २३
कर्णशूले तु शृङ्गवेररसं तैलमधुसंसृष्टं सैन्धवोपहितं सुखोष्णं कर्णे दद्यात् अजामूत्रमधुतैलानि वा मातुलुङ्गदाडिमतिन्तिडीकस्वरसमूत्रसिद्धं तैलं शुक्तसुरातक्रमूत्रलवणसिद्धं वा नाडीस्वेदैश्च स्वेदयेत् वातव्याधिचिकित्सां चावेक्षेत भूयश्चोत्तरे वक्ष्यामः २४
तूनीप्रतून्योः स्नेहलवणमुष्णोदकेन पाययेत् पिप्पल्यादिचूर्णं वा हिङ्गुयवक्षारप्रगाढं वा सर्पिः बस्तिभिश्चैनमुपक्रमेत् २५
आध्माने त्वपतर्पणपाणिताप दीपनचूर्ण फलवर्तिक्रियापाचनीयदीपनीय बस्तिभिरुपाचरेत् लङ्घनानन्तरं चान्नकाले धान्यकजीरकादिदीपन सिद्धान्यन्नानि प्रत्याध्माने छर्दनापतर्पणदीपनानि कुर्यात् २६
अष्ठीलाप्रत्यष्ठीलयोर्गुल्माभ्यन्तरविद्र धिवत् क्रियाविभाग इति २७
हिङ्गुत्रिकटुवचाजमोदाधान्याजगन्धादाडिमतिन्तिडीकपाठाचित्रकयवक्षार सैन्वविडसौर्वचलस्वर्जिकापिप्पलीमूलाम्लवेतसशटीपुष्करमूलहपुषाचव्याजा-जीपथ्याश्चूर्णयित्वा मातुलुङ्गाम्लेन बहुशः परिभाव्याक्षमात्रा गुटिकाः कारयेत् ततः प्रातरेकैकां वातविकारी भक्षयेत् एष योगः कासश्वासगुल्मोदरारोचकहृद्रो गाध्मानपार्श्वोदरबस्तिशूलानाहमूत्रकृच्छ्र प्लीहा र्शस्तूनीप्रतूनीरपहन्ति २८
भवन्ति चात्र
केवलो दोषयुक्तो वा धातुभिर्वाऽवृतोनिलः
विज्ञेयो लक्षणोहाभ्यां चिकित्स्यश्चाविरोधतः २९
रुजावन्तं घनं शीतं शोफं मेदोयुतोऽनिलः
करोति यस्य तं वैद्यः शोथवत् समुपाचरेत् ३०
कफमेदोवृतो वायुर्यदोरू प्रतिपद्यते
तदाऽङ्गमर्दस्तैमित्यरोमहर्षरुजाज्वरैः ३१
निद्र या चार्दितौ स्तब्धौ शीतलावप्रचेतनौ
गुरुकावस्थिरावूरू न स्वाविव च मन्यते ३२
तमूरुस्तम्भमित्याहुराढ्यवातमथापरे
स्नेहवर्जं पिबेत्तत्र चूर्णं षड्धरणं नरः ३३
हितमुष्णाम्बुना तद्वत् पिप्पल्यादिगणैः कृतम्
लिह्याद्वा त्रैफलं चूर्णं क्षौद्रे ण कटुकान्वितम् ३४
मूत्रैर्वा गुग्गुलं श्रेष्ठं पिबेद्वाऽपि शिलाजतु
ततो हन्ति कफाक्रान्तं समेदस्कं प्रभञ्जनम् ३५
हृद्रो गमरुचिं गुल्मं तथाऽभ्यन्तरविद्र धिम्
सक्षारमूत्रस्वेदांश्च रूक्षाण्युत्सादनानि च ३६
कुर्याद्दिह्याच्च मूत्राढ्यैः करञ्जफलसर्षपैः
भोज्याः पुराणश्यामाककोद्र वोद्दालशालयः ३७
शुष्कमूलकयूषेण पटोलस्य रसेन वा
जाङ्गलैरघृतैर्मांसैः शाकैश्चालवणैर्हितैः ३८
यदा स्यातां परिक्षीणे भूयिष्ठे कफमेदसी
तदा स्नेहादिकं कर्म पुनरत्रावचारयेत् ३९
सुगन्धिः सुलघुः सूक्ष्मस्तीक्ष्णोष्णः कटुको रसे
कटुपाकः सरो हृद्यो गुग्गुलुः स्निग्धपिच्छिलः ४०
स नवो बृंहणो वृष्यः पुराणस्त्वपकर्षणः
तैक्ष्ण्यौष्ण्यात्कफवातघ्नः सरत्वान्मलपित्तनुत् ४१
सौगन्ध्यात् पूतिकोष्ठघ्नः सौक्ष्म्याच्चानलदीपनः
तं प्रातस्त्रिफलादार्वीपटोलकुशवारिभिः ४२
पिबेदावाप्य वा मूत्रैः क्षारैरुष्णोदकेन वा
जीर्णे यूषरसैः क्षीरैर्भुञ्जानो हन्ति मासतः ४३
गुल्मं मेहमुदावर्तमुदरं सभगन्दरम्
कृमिकण्ड्वरुचिश्वित्राण्यर्बुदं ग्रन्थिमेव च ४४
नाड्याढ्यवातश्वयथून् कुष्ठदुष्टव्रणांश्च सः
कोष्ठसन्ध्यस्थिगं वायुं वृक्षमिन्द्रा शनिर्यथा ४५
इति सुश्रुतसंहितायां चिकित्सास्थाने महावातव्याधिचिकित्सितं
नाम पञ्चमोऽध्यायः ५
षष्ठोऽध्यायः
अथातोऽशसां चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
चतुर्विधोऽशसां साधनोपायः तद्यथाभेषजं क्षारोऽग्नि शस्त्रमिति तत्र अचिरकालजातान्यल्पदोषलिङ्गोपद्र वाणि भेषजसाध्यानि मृदुप्रसृतावगाढान्युच्छ्रितानि क्षारेण कर्कशस्थिरपृथुकठिनान्यइग्नना तनुमूलान्युच्छ्रितानि क्लेदवन्ति च शस्त्रेण तत्र भेषजसाध्यानामर्शसामदृश्यानां च भेषजं भवति क्षाराग्निशस्त्रसाध्यानां तु विधानमुच्यमानमुपधारय ३
तत्र बलवन्तमातुरमर्शोभिरुपद्रुतमुपस्निग्धं परिस्विन्नमनिलवेदनाभिवृद्धिप्रशमार्थं स्निग्धमुष्णमल्पमन्नं द्रवप्रायं भुक्तवन्तमुपवेश्य संवृते शुचौ देशे साधारणे व्यभ्रे काले समे फलके शय्यायां वआ प्रत्यादित्यगुदमन्यस्योत्सङ्गे निषण्णपूर्वकायमुत्तानं किञ्चिदुन्नतकटिकं वस्त्रकम्बलकोपविष्टं यन्त्रणशाटकेन परिक्षिप्तग्रीवासक्थिं परिकर्मिभिः सुपरिगृहीतमस्पन्दनशरीरं कृत्वा ततोऽस्मै घृताभ्यक्तगुदाय घृताभ्यक्तं यन्त्रमृज्वनुमुखं पायौ शनैः शनैः प्रवाहमाणस्य प्रणिधाय प्रविष्टे चार्शो वीक्ष्य शलाकयोत्पीड्य पिचुवस्त्रयोरन्यतरेण प्रमृज्यक्षारं पातयेत् पातयित्वा च पाणिना यन्त्रद्वारं पिधाय वाक्च्छतमात्रमुपेक्षेत ततः प्रमृज्य क्षारबलं व्याधिबलं चावेक्ष्य पुनरालेपयेत् अथार्शः पक्वजाम्बवप्रतीकाशमवसन्नमीषन्नतमभिसमीक्ष्योपावर्तयेत् क्षारं प्रक्षालयेद्धान्याम्लेन दधिमस्तुशुक्तफलाम्लैर्वा ततो यष्टीमधुकमिश्रेण सर्पिषा निर्वाप्य यन्त्रमपनीयोत्थाप्यातुरमुष्णोदकोपविष्टं शीताभिरद्भिः परिषिञ्चेत् अशीताभिरित्येके ततो निर्वातमागारं प्रवेश्याचारिकमादिशेत् सावशेषं पुनर्दहेत् एवं सप्तरात्रात् सप्तरात्रादेकैकमुपक्रमेत तत्र बहुषु पूर्वं दक्षिणं साधयेत् दक्षिणाद्वामं वामात् पृष्ठजं ततोऽग्रजमिति ४
तत्र वातश्लेष्मनिमित्तान्यग्निक्षाराभ्यां साधयेत् क्षारेणैव मृदुना पित्तरक्तनिमित्तानि ५
तत्र वातानुलोम्यमन्नरुचिरग्निदीप्तिर्लाघवं बलवर्णोत्पत्तिर्मनस्तुष्टिरिति सम्यग्दग्धलिङ्गानि अतिदग्धे तु गुदावदरणं दाहो मूर्च्छा ज्वरः पिपासा शोणितातिप्रवृत्तिस्तन्निमित्ता श्चोपद्र वा भवन्ति ध्यामाल्पव्रणता कण्डूर निलवैगुण्यमिन्द्रि याणामप्रसादो विकारस्य चाशान्तिर्हीनदग्धे ६
महान्ति च प्राणवतश्छित्त्वा दहेत् निर्गतानिचात्यर्थं दोषपूर्णानि यन्त्राद्विना स्वेदाभ्यङ्गस्नेहावगाहोपनाहविस्रावणाले पक्षाराग्निशस्त्रैरुपाचरेत् प्रवृत्तरक्तानि च रक्तपित्तविधानेन भिन्नपुरीषाणि चातीसारविधानेन बद्धवर्चांसि स्नेहपानविधानेनोदावर्तविधानेन वा एष सर्वस्थानगतानामर्शसां दहनकल्पः ७
आसाद्य च दर्वीकूर्चकशलाकानामन्यतमेन क्षारं पातयेत् भ्रष्टगुदस्य तु विना यन्त्रेण क्षारादिकर्म प्रयुञ्जीत सर्वेषु च शालिषष्टिकयवगोधू मान्नं सर्पिःस्निग्धमुपसेवेत पयसा निम्बयूषेण पटोलयूषेण वा यथादोषं शाकैर्वास्तूकतण्डुलीयकजीवन्त्युपोदिकाश्वबला बालमूलकपालङ्क्यसन चिल्लीचुच्चूकलायवल्लीभिरन्यैर्वा यच्चान्यदपि स्निग्धमग्निदीपनमर्शोघ्नं सृष्टमूत्रपुरीषं च तदुपसेवेत ८
दग्धेषु चार्शःस्वभ्यक्तोऽनलसन्धुक्षणार्थमनिलप्रकोपसंरक्षणार्थं च स्नेहादीनां सामान्यतः क्रियापथमुपसेवेत विशेषतस्तु वातार्शःसु सर्पींषि च वातहरदीपनीयसिद्धानि हिङ्ग्वादिभिश्चूर्णैः प्रतिसंसृज्य पिबेत् पित्तार्शःसु पृथक्पर्ण्यादीनां कषायेण दीपनीयप्रतीवापं सर्पिः शोणितार्शःसु मञ्जिष्ठामुरुङ्ग्यादीनां कषाये पाचयेत् श्लेष्मार्शःसु सुरसादीनां कषाये उपद्र वांश्च यथास्वमुपाचरेत् ९
परं च यत्नमास्थाय गुदे क्षाराग्निशस्त्राण्यवचारयेत् तद्विभ्रमाद्धि षाण्ढ्यशोफदाहमदमूर्च्छाटोपानाहातीसारप्रवाहणानि भवन्ति मरणं वा १०
अत ऊर्ध्वं यन्त्रप्रमाणमुपदेक्ष्यामःतत्र यन्त्रं लौहं दान्तं शार्ङ्गं वार्क्षं वा गोस्तनाकारं चतुरङ्गुलायतं पञ्चाङ्गुलपरिणाहं पुंसां षडङ्गुलपरिणाहं नारीणां तलायतं तद् द्विच्छिद्रं दर्शनार्थम् एकछिद्रं तु कर्मणि एकद्वारे हि शस्त्रक्षाराग्नीनामतिक्रमो न भवति छिद्र प्रमाणं तु त्र्यङ्गुलायतमङ्गुष्ठोदरपरिणाहं यदङ्गुलमवशिष्टं तस्यार्धाङ्गुलादधस्तादर्धाङ्गुलोच्छ्रितोपरिवृत्तकर्णिकम् एष यन्त्राकृतिसमासः ११
अत ऊर्ध्वमर्शसामालेपान् वक्ष्यामःस्नुहीक्षीरयुक्तं हरिद्रा चूर्णमालेपः प्रथमः कुक्कुटपुरीषगुञ्जाहरिद्रा पिप्पलीचूर्णमिति गोमूत्रपित्तपिष्टो द्वितीयः दन्तीचित्रकसुवर्चिकालाङ्गलीकल्को वा गोपित्तपिष्टस्तृतीयः पिप्पलीसैन्धवकुष्ठशिरीषफलकल्कः स्नह्क्षीरपिष्टोऽकक्षीरपिष्टो वा चतुर्थः कासीसहरितालसैन्धवाश्वमारकविडङ्गपूतीककृतवेधनजम्ब्वर्कोत्त मारणी दन्तीचित्रकालर्कस्नुहीपयःसु तैलं विपक्वमभ्यञ्जनेनार्शः शातयति १२
अत ऊर्ध्वं भेषजसाध्येष्वदृश्येष्वर्शःसु योगान् यापनार्थं वक्ष्यामःप्रातः प्रातर्गुडहरीतकीमासेवेत ब्रह्मचारी गोमूत्रद्रो णसिद्धं वा हरीतकीशतं प्रातः प्रातर्यथाबलं क्षौद्रे ण अपामार्गमूलं वा तण्डुलोदकेन सक्षौद्र महरहः शतावरीमूलकल्कं वा क्षीरेण चित्रकचूर्णयुक्तं वा सीधुं परार्ध्यं भल्लातचूर्णयुक्तं वा सक्तुमन्थमलवणं तक्रेण कलशे वाऽन्तश्चित्रकमूलकल्कावलिप्ते निषिक्तं तक्रमम्लमनम्लं वा पानभोजनेषूपयुञ्जीत एष एव भार्ग्यास्फोतायवान्यामलकगुडूचीषु तक्रकल्पः पिप्पलीपिप्पली मूलचव्यचित्रकविडङ्गशुण्ठीहरीतकीषु च पूर्ववदेव निरन्नो वा तक्रमहरहर्मासमुपसेवेत शृङ्गवेरपुनर्नवाचित्रककषायसिद्धं वा पयः कुटजमूलत्वक् फाणितं वा पिप्पल्यादिप्रतीवापं क्षौद्रे ण महावातव्याध्युक्तं हिङग्वादिचूर्णमुपसेवेत तक्राहारः क्षीराहारो वा क्षारलवणांश्चित्रकमूलक्षारोदकसिद्धान् वा कुल्माषान् भक्षयेत् चित्रकमूलक्षारोदकसिद्धं वा पयः पलाशतरुक्षारसिद्धं वा पलाशतरुक्षारसिद्धान् वा कुल्माषान् पाटलापामार्ग वृहतीपलाशक्षारं वा परिस्रतुमहरहर्घृतसंसृष्टं कुटजबन्दाकमूलकल्कं वा तक्रेण चित्रकपूतीकनागरकल्कं वा पूतीकक्षारेण क्षारोदकसिद्धं वा सर्पिःपिप्पल्यादिप्रतीवापं कृष्णतिलप्रसृतं प्रकुञ्चं वा प्रातः प्रातरुपसेवेत शीतोदकानुपानम् एभिरभिवर्धतेऽग्निरर्शांसि चोपशाम्यन्ति १३
द्विपञ्चमूलीदन्तीचित्रकपथ्यानां तुलामाहृत्य जलचतुर्द्रोणे विपाचयेत् ततः पादावशिष्टं कषायमादाय सुशीतं गुडतुलया सहोन्मिश्र्य घृतभाजने निःक्षिप्य मासमुपेक्षेत यवपल्ले ततः प्रातः प्रातर्मात्रां पाययेत तेनार्शोग्रहणीदोषपाण्डुरोगोदावर्तारोचका न भवन्ति दीप्तश्चाग्निर्भवति १४
पिप्पलीमरिचविडङ्गैलवालुकलोध्राणां द्वे द्वे पले इन्द्र वारुण्याः पञ्च पलानि कपित्थमध्यस्य दश पथ्याफलानामर्धप्रस्थः प्रस्थो धात्रीफलानां एतदैकध्यं जलचतुर्द्रोणे विपाच्य पादावशेषं परिस्राव्य सुशीतं गुडतुलाद्वयेनोन्मिश्र्य घृतभाजने निःक्षिप्य पक्षमुपेक्षेत यवपल्ले ततः प्रातः प्रातर्यथाबलमुपयुञ्जीत एष खल्वरिष्टः प्लीहाग्निषङ्गा र्शोग्रहणीहृत्पाण्डुरोगशोफकुष्ठगुल्मोदरकृमिहरो बलवर्णकरश्चेति १५
तत्र वातप्रायेषु स्नेहस्वेदवमनविरेचनास्थापनानुवासनमप्रतिषिद्धं पित्तजेषु विरेचनम् एवं रक्तजेषु संशमनं कफजेषु शृङ्गवेरकुलत्थोपयोगः सर्वदोषहरं यथोक्तं सर्वजेषु यथास्वौषधिसिद्धं च पयः सर्वेष्विति १६
अत ऊर्ध्वं भल्लातकविधानमुपदेक्ष्यामः भल्लातकानि परिपक्वान्यनुपहतान्याहृत्य तत एकमादाय द्विधा त्रिधा चतुर्धा वा छेदयित्वा कषायकल्पेनविपाच्य तस्य कषायस्य शुक्तिमनुष्णां घृताभ्यक्ततालुजिह्वष्ठौः प्रातः प्रातरुपसेवेत ततोऽपराह्णे क्षीरं सर्पिरोदन इत्याहारः एवमेकैकं वर्धयेद्यावत्पञ्चति ततः पञ्च पञ्चाभिवर्धयेद्यावत् सप्ततिरिति प्राप्य च सप्ततिमपकर्षयेद्भूयः पञ्च पञ्च यावत् पञ्चेति पञ्चभ्यस्त्वेकैकं यावदेकमिति एवं भल्लातकसहस्रमुपयुज्य सर्वकुष्ठार्शोभिर्विमुक्तो बलवानरोगः शतायुर्भवति १७
द्विव्रणीयोक्तेन विधानेन भल्लातकनिश्च्युतितं स्नेहमादाय प्रातः प्रातः शुक्तिमात्रमुपयुञ्जीत जीर्णे पूर्ववदाहारः फलप्रकर्षश्च भल्लातकमज्जभ्यो वा स्नेहमादायापकृष्टदोषः प्रतिसंसृष्टभक्तो निवातमागारं प्रविश्य यथाबलं प्रसृतिं प्रकुञ्चं वोपयुञ्जीत तस्मिञ्जीर्णे क्षीरं सर्पिरोदन इत्याहारः एवं मासमुपयुज्य मासत्रयमादिष्टाहारो रक्षेदात्मानं ततः सर्वोपतापानपहृत्य वर्णवान् बलवाञ् श्रवणग्रहणधारणशइक्तसंपन्नो वर्षशतायुर्भवति मासे मासे च प्रयोगे वर्षशतं वर्षमायुषोऽभिवृद्धिर्भवति एवं दशमासानुपयुज्य वर्षसहस्रायुर्भवति १८
भवन्ति चात्र
यथा सर्वाणि कुष्ठानि हतः खदिरबीजकौ
तथैवार्शांसि सर्वाणि वृक्षकारुष्करौ हतः १९
हरिद्रा याः प्रयोगेण प्रमेहा इव षोडश
क्षाराग्नी नातिवर्तन्ते तथा दृश्या गुदोद्भवाः २०
घृतानि दीपनीयानि लेहायस्कृतयः सुराः
आसवाश्च प्रयोक्तव्या वीक्ष्य दोषसमुच्छ्रितिम् २१
वेगावरोधस्त्रीपृष्ठयानान्युत्कुटुकासनम्
यथास्वं दोषलं चान्नमर्शःसु परिवर्जयेत् २२
इति सुश्रुतसंहितायां चिकित्सास्थानेऽशश्चिकित्सितं नाम षष्ठोऽध्यायः ६
सप्तमोऽध्यायः
अथातोऽश्मरीचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अश्मरी दारुणो व्याधिरन्तकप्रतिमो मतः
औषधैस्तरुणः साध्यः प्रवृद्धश्छेदमर्हति ३
तस्य पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते
तेनास्यापचयं यान्ति व्याधेर्मूलान्यशेषतः ४
पाषाणभेदो वसुको वशिराश्मन्तकौ तथा
शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका ५
कपोतवङ्काऽतगलः कच्चकोशीरकुब्जकाः
वृक्षादनी भल्लुकश्च वरुणः शाकजं फलम् ६
यवाः कुलत्थाः कोलानि कतकस्य फलानि च
ऊषकादिप्रतीवापमेषां क्वाथैर्घृतं कृतम् ७
भिनत्ति वातसंभूतामश्मरीं क्षिप्रमेव तु
क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च ८
भोजनानि च कुर्वीत वर्गेऽस्मिन् वातनाशने
कुशः काशः सरो गुन्द्रा इत्कटो मोरटोऽश्मभित् ९
वरी विदारी वाराही शालिमूलत्रिकण्टकम्
भल्लूकः पाटला पाठा पत्तूरोऽथ कुरुण्टिका १०
पुनर्नवा शिरीषश्च क्वथितास्तेषु साधितम्
घृतं शिलाजमधुकबीजैरिन्दीवरस्य च ११
त्रपुसैर्वारुकादीनां बीजैश्चावापितं शुभम्
भिनत्ति पित्तसंभूतामश्मरीं क्षिप्रमेव तु १२
क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च
भोजनानि च कुर्वीत वर्गेऽस्मिन् पित्तनाशने १३
गणो वरुणकादिस्तु गुग्गुल्वेलाहरेणवः
कुष्ठभद्रा दिमरिचचित्रकैः ससुराह्वयैः १४
एतैः सिद्धमजासर्पिरूषकादिगणेन च
भिनत्ति कफसंभूतामश्मरीं क्षिप्रमेव तु १५
क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च
भोजनानि च कुर्वीत वर्गेऽस्मिन् कफनाशने १६
पिचुकाङ्कोलकतकशाकेन्दीवरजैः फलैः
चूर्णितैः सगुडं तोयं शर्कराशमनं पिबेत् १७
क्रौञ्चोष्ट्ररासभास्थीनि श्वदंष्ट्रा तालमूलिका
अजमोदा कदम्बस्य मूलं नागरमेव च १८
पीतानि शर्करां भिन्द्युः सुरयोष्णोदकेन वा
त्रिकण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम् १९
अविक्षीरेण सप्ताहमश्मरीभेदनं पिबेत्
द्र व्याणां तु घृतोक्तानां क्षारोऽविमूत्रगालितः २०
ग्राम्यसत्त्वशकृत्क्षारैः संयुक्तः साधितः शनैः
तत्रोषकादिरावापः कार्यस्त्रिकटुकान्वितः २१
एष क्षारोऽश्मरीं गुल्मं शर्करां च भिनत्त्यपि
तिलापामार्गकदलीपलाशयवकल्कजः २२
क्षारः पेयोऽविमूत्रेण शर्करानाशनः परः
पाटलाकरवीराणां क्षारमेवं समाचरेत् २३
श्वदंष्ट्रायष्टिकाब्राह्मीकल्कं वाऽक्षसमं पिबेत्
सहैडकाख्यौ पेयौ वा शोभाञ्जनकमार्कवौ २४
कपोतवङ्कामूलं वा पिबेदम्लैः सुरादिभिः
तत्सिद्धं वा पिबेत् क्षीरं वेदनाभिरुपद्रुतः २५
हरीतक्यादिसिद्धं वा वर्षाभूसिद्धमेव वा
सर्वथैवोपयोज्यः स्याद्गणो वीरतरादिकः २६
घृतैः क्षारैः कषायैश्च क्षीरैः सोत्तरबस्तिभिः
यदि नोपशमं गच्छेच्छेदस्तत्रोत्तरो विधिः २७
कुशलस्यापि वैद्यस्य यतः सिद्धिरिहाध्रुवा
उपक्रमो जघन्योऽयमतः संपरिकीर्तितः २८
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत्
तस्मादापृच्छ्य कर्तव्यमीश्वरं साधुकारिणा २९
अथ रोगान्वितमुपस्निग्धमपकृष्टदोषमीषत्कर्शितमभ्यक्तस्विन्नशरीरं भुक्तवन्तं कृतबलिमङ्गलस्वस्तिवाचनमग्रोपहरणीयोक्तेन विधानेनोपकल्पि तसम्भारमाश्वास्य ततो बलवन्तमविक्लवमाजानुसमे फलके प्रागुपविष्टान्यपुरुषस्योत्सङ्गे निषण्णपूर्वकायमुत्तानमुन्नतकटीकं वस्त्राधा रकोपविष्टं सङ्कुचितजानुकूर्परमितरेण सहावबद्धं सूत्रेण शाटकैर्वा ततः स्वभ्यक्तनाभिप्रदेशस्य वामपार्श्वं विमृद्य मुष्टिनाऽवपीडयेदधो नाभेर्यावदश्मर्यधः प्रपन्नेति ततः स्नेहाभ्यक्ते कॢप्तनखे वामहस्तप्रदेशिनीमध्यमे अङ्गुल्यौ पायौ प्रणिधायानुसेवनीमासाद्य प्रयत्नबलाभ्यां पायुमेढ्रान्तरमानीय निर्व्यलीकमनायतमविषमं च बस्तिं सन्निवेश्य भृशमुत्पीडयेदङ्गुलिभ्यां यथा ग्रन्थिरिवोन्नतं शल्यं भवति ३०
स चेद्गृहीतशल्ये तु विवृताक्षो विचेतनः
हतवल्लम्बशीर्षश्च निर्विकारो मृतोपमः ३१
न तस्य निर्हरेच्छल्यं निर्हरेत्तु म्रियेत सः
विना त्वेतेषु रूपेषु निर्हर्तुं प्रयतेत वै ३२
ततः सव्ये पार्श्वे सेवनीं यवमात्रेण मुक्त्वाऽवचारयेच्छस्त्रमश्मरीप्रमाणं दक्षिणतो वा क्रियासौकर्यहेतोरित्येके यथा सा न भिद्यते चूर्ण्यते वा तथा प्रयतेत चूर्णमल्पमप्यवस्थितं हि पुनः परिवृद्धिमेति तस्मात् समस्तामग्रवक्रेणाददीत स्त्रीणां तु बस्तिपार्श्वगतो गर्भाशयः सन्निकृष्टः तस्मात्तासामुत्सङ्ग वच्छस्त्रं पातयेत् अतोऽन्यथा खल्वासां मूत्रस्रावी व्रणो भवेत् पुरुषस्य वा मूत्रप्रसेकक्षणनान्मूत्रक्षरणम् अश्मरीव्रणादृते भिन्नबस्तिरेकधापि न भवति द्विधा भिन्नबस्तिराश्मरिको न सिध्यति अश्मरीव्रणनिमित्तमेकधाभिन्नबस्तिर्जीवति क्रियाभ्या साच्छास्त्र विहितच्छेदान्निः स्यन्दपरिवृद्धत्वाच्च शल्यस्येति उद्धृतशल्यं तूष्णोदकद्रो ण्यामवगाह्य स्वेदयेत् तथा हि बस्ति सृजा न पूर्यते पूर्णे वा क्षीरवृक्षकषायं पुष्पनेत्रेण विदध्यात् ३३
भवति चात्र
क्षीरवृक्षकषायस्तु पुष्पनेत्रेण योजितः
निर्हरेदश्मरीं तूर्णं रक्तं बस्तिगतं च यत् ३४
मूत्रमार्गविशोधनार्थं चास्मै गुडसौहित्यं वितरेत् उद्धृत्य चैनं मधुघृताभ्यक्तव्रणं मूत्रविशोधनद्र व्यसिद्धामुषणां सघृतां यवागूं पाययेतोभयकालं त्रिरात्रां त्रिरात्रादूर्ध्वं गुडप्रगाढेन पयसा मृद्वोदनमल्पं भोजयेद्दशरात्रं दशरात्रादूर्ध्वं फलाम्लैर्जाङ्गलरसैरुपाचरेत् ततो दशरात्रं चैनमप्रमत्तः स्वेदयेत् स्नेहेन द्र वस्वेदेन वा क्षीरवृक्षकषायेण चास्य व्रणं प्रक्षालयेत् रोध्रमधुकमञ्जिष्ठाप्रपौण्डरीककल्कैर्व्रणं प्रतिग्राहयेत् एतेष्वेव हरिद्रा युतेषु तैलं घृतं वा विपक्वं व्रणाभ्यञ्जनमिति स्त्यानशोणितं चोत्तरबस्तिभिरुपाचरेत् सप्तरात्राच्च स्वमार्गमप्रतिपद्यमाने मूत्रे व्रणं यथोक्तेन विधिना दहेदग्निना स्वमार्गप्रतिपन्ने चोत्तरबस्त्यास्थापनानुवासनैरुपाचरेन्मधुरकषायैरिति यदृच्छया वा मूत्रमार्गप्रतिपन्नामन्तरासक्तां शुक्राश्मरीं शर्करां वा स्रोतसापहरेत् एवं चाशक्ये विदार्य नाडीं शस्त्रेण बडिशेनोद्धरेत् रूढव्रणश्चाङ्गनाश्वनगनागरथद्रुमान् नारोहेत वर्षं नाप्सु प्लवेत भुञ्जीत वा गुरु ३५
मूत्रवहशुक्रवहमुष्कस्रोतोमूत्रप्रसेकसेवनीयोनिगुदबस्तीनष्टौ परिहरेत् तत्र मूत्रवहच्छेदान्मरणं मूत्रपूर्णबस्तेः शुक्रवहच्छेदान्मरणं क्लैब्यं वा मुष्कस्रोतउपघाताद् ध्वजभङ्गः मूत्रप्रसेकक्षणनान्मूत्रप्रक्षरणं सेवनीयोनिच्छेदाद्रुजः प्रादुभार्वः बस्तिगुदविद्धलक्षणं प्रागुक्तमिति ३६
भवति चात्र
मर्माण्यष्टावसंबुध्य स्रोतोजानि शरीरिणाम्
व्यापादयेद्बहून्मर्त्यान् शस्त्रकर्मापटुर्भिषक् ३७
सेवनी शुक्रहरणी स्रोतसी फलयोर्गुदम्
मूत्रसेकं मूत्रवहं योनिर्बस्तिस्तथाऽष्टमः ३८
इति सुश्रुतसंहितायां चिकित्सास्थानेऽश्मरीचिकित्सितं नाम सप्तमोऽध्यायः ७
अष्टमोऽध्यायः
अथातो भगन्दराणां चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पञ्च भगन्दरा व्याख्याताः तेष्वसाध्यः शम्बूकावर्तः शल्यनिमित्तश्च शेषाः कृच्छ्रसाध्याः ३
तत्र भगन्दरपिडकोपद्रुतमातुरमपतर्पणादिविरेचनान्तेनैकादशविधेनो-पक्रमेणोपक्रमेतापक्वपिडकं पक्वेषु चोपस्निग्धमवगाहस्विन्नं शय्यायां सन्निवेश्यार्शसमिव यन्त्रयित्वा भगन्दरं समीक्ष्य पराचीनमवाचीनं वा ततः प्रणिधायैषणीमुन्नम्य साशयमुद्धरेच्छस्त्रेण अन्तर्मुखे चैवं सम्यग्यन्त्रं प्रणिधाय प्रवाहमाणस्य भगन्दरमुखमासाद्यैषणीं दत्त्वा शस्त्रं पातयेत् आसाद्य वाऽग्नि क्षारं चेति एतत् सामान्यं सर्वेषु ४
विशेषतस्तु नाड्यन्तरे व्रणान् कुर्याद्भिषक् तु शतपोनके ततस्तेषूपरूढेषु शेषा नाडीरुपाचरेत् ५
गतयोऽन्योन्यसंबद्धा बाह्याश्छेद्यास्त्वनेकधा
नाडीरनभिसंबद्धा यश्छिनत्त्येकधा भिषक् ६
स कुर्याद्विवृतं जन्तोर्व्रणं गुदविदारणम्
तस्य तद्विवृतं मार्गं विण्मूत्रमनुगच्छति ७
आटोपं गुदशूलं च करोति पवनो भृशम्
तत्राधिगततन्त्रोऽपि भिषङ्मुह्येदसंशयम् ८
तस्मान्न विवृतः कार्यो व्रणस्तु शतपोनके
व्याधौ तत्र बहुच्छिद्रे भिषजा वै विजानता ९
अर्धलाङ्गलकश्छेदः कार्यो लाङ्गलकोऽपि वा
सर्वतोभद्र कोवाऽपि कार्यो गोतीर्थकोऽपि वा १०
सर्वतः स्रावमार्गांस्तु दहेद्वैद्यस्तथाऽग्निना
सुकुमारस्य भीरोर्हि दुष्करः शतपोनकः ११
रुजास्रावापहं तत्र स्वेदमाशु प्रयोजयेत्
स्वेदद्र व्यैर्यथोद्दिष्टैः कृशरापायसादिभिः १२
ग्राम्यानूपौदकैर्मांसैर्लावाद्यैर्वाऽपि विष्किरैः
वृक्षादनीमथैरण्डं बिल्वादिं च गणं तथा १३
कषायं सुकृतं कृत्वा स्नेहकुम्भे निषेचयेत्
नाडीस्वेदेन तेनास्य तं व्रणं स्वेदयेद्भिषक् १४
तिलैरण्डातसीमाषयवगोधूमसर्षपान्
लवणान्यम्लवर्गं च स्थाल्यामेवोपसाधयेत् १५
आतुरं स्वेदयेत्तेन तथा सिध्यति कुर्वतः
स्विन्नं च पाययेदेनं कुष्ठं च लवणानि च १६
वचाहिङ्ग्वजमोदं च समभागानि सर्पिषा
मार्द्वीकेनाथवाऽम्लेन सुरासौवीरकेण वा १७
ततो मधुकतैलेन तस्य सिञ्चेद्भिषग्व्रणम्
परिषिञ्चेद्गुदं चास्य तैलैर्वातरुजापहैः १८
विधिनाऽनेन विण्मूत्रं स्वमार्गमधिगच्छति
अन्येचोपद्र वास्तीव्राः सिध्यन्त्यत्र न संशयः १९
शतपोनक आख्यात उष्ट्रग्रीवे क्रियां शृणु
अथोष्ट्रग्रीवमेषित्वा छित्त्वा क्षारं निपातयेत् २०
पूतिमांसव्यपोहार्थमग्निरत्र न पूजितः
अथैनं घृतसंसृष्टैस्तिलैः पिष्टैः प्रलेपयेत् २१
बन्धं ततोऽनुकुर्वीत परिषेकं तु सर्पिषा
तृतीये दिवसे मुक्त्वा यथास्वं शोधयेद्भिषक् २२
ततः शुद्धं विदित्वा च रोपयेत्तु यथाक्रमम्
उत्कृत्यास्रावमार्गंस्तु परिस्राविणि बुद्धिमान् २३
क्षारेण वा स्रावगतिं दहेद्धुतवहेन वा
सुखोष्णेनाणुतैलेन सेचयेद्गुदमण्डलम् २४
उपनाहाः प्रदेहाश्च मूत्रक्षारसमन्विताः
वामनीयौषधैः कार्याः परिषेकाश्च मात्रया २५
मृदुभूतं विदित्वैनमल्पस्रावरुगन्वितम्
गतिमन्विष्य शस्त्रेण छिन्द्यात् खर्जूरपत्रकम् २६
चन्द्रा र्धं चन्द्र चक्रं च सूचीमुखमवाङ्मुखम्
छित्त्वाऽग्निना दहेत् सम्यगेवं क्षारेण वा पुनः २७
ततः संशोधनैरेव मृदुपूर्वैर्विशोधयेत्
बहिरन्तर्मुखश्चापि शिशोर्यस्य भगन्दरः २८
तस्याहितं विरेकाग्निशस्त्रक्षारावचारणम्
यद्यन्मृदु च तीक्ष्णं च तत्तत्तस्यावचारयेत् २९
आरग्वधनिशाकालाचूर्णं मधुघृताप्लुतम्
अग्रवर्तिप्रणिहितं व्रणानां शोधनं हितम् ३०
योगोऽय नाशयत्याशु गतिं मेघमिवानिलः
आगन्तुजे भिषङ्नाडीं शस्त्रेणोत्कृत्य यत्नतः ३१
जम्ब्वोष्ठेनाग्निवर्णेन तप्तया वा शलाकया
दहेद्यथोक्तं मतिमांस्तं व्रणं सुसमाहितः ३२
कृमिघ्नं च विधिं कुर्याच्छल्यानयनमेव च
प्रत्याख्यायैष चारभ्यो वर्ज्यश्चापि त्रिदोषजः ३३
एतत् कर्म समाख्यातं सर्वेषामनुपूर्वशः
एषां तु शस्त्रपतनाद्वेदना यत्र जायते ३४
तत्राणुतैलेनोष्णेन परिषेकः प्रशस्यते
वातघ्नौषधसंपूर्णां स्थालद्यं छिद्र शराविकाम् ३५
स्नेहाभ्यक्तगुदस्तप्तामध्यासीत सबाष्पिकाम्
नाड्या वाऽस्याहरेत् स्वेदं शयानस्य रुजापहम्
उष्णोदकेऽवगाह्यो वा तथा शाम्यति वेदना ३६
कदलीमृगलोपाकप्रियकाजिनसंभृतान्
कारयेदुपनाहांश्च साल्वणादीन् विचक्षणः ३७
कटुत्रिकं वचाहिङ्गुलवणान्यथ दीप्यकम्
पाययेच्चाम्लकौलत्थसुरासौवीरकादिभिः ३८
ज्योतिष्मतीलाङ्गलकीश्यामादन्तीत्रिवृत्तिलाः
कुष्ठं शताह्वा गोलोमी तिल्वको गिरिकर्णिका ३९
कासीसं काञ्चनक्षीर्यौ वर्गः शोधन इष्यते
त्रिवृत्तिला नागदन्ती मञ्जिष्ठा पयसा सह ४०
उत्सादनं भवेदेतत् सैन्धवक्षौद्र संयुतम्
रसाञ्जनं हरिद्रे द्वे मञ्जिष्ठानिम्बपल्लवाः ४१
त्रिवृत्तेजोवतीदन्तीकल्को नाडीव्रणापहः
कुष्ठं त्रिवृत्तिला दन्ती मागध्यः सैन्धवं मधु ४२
रजनी त्रिफला तुत्थं हितं स्याद्व्रणशोधनम्
मागध्यो मधुकं रोध्रं कुष्ठमेला हरेणवः ४३
समङ्गा धातकी चैव सारिवा रजनीद्वयम्
प्रियङ्गवः सर्जरसः पद्मकं पद्मकेसरम् ४४
सुधा वचा लाङ्गलकी मधूच्छिष्टं ससैन्धवम्
एतत् संभृत्य संभारं तैलं धीरो विपाचयेत् ४५
एतद्वै गण्डमालासु मण्डलेष्वथ मेहिषु
रोपणार्थं हितं तैलं भगन्दरविनाशनम् ४६
न्यग्रोधादिगणश्चैव हितः शोधनरोपणे
तैलं घृतं वा तत्पक्वं भगन्दरविनाशनम् ४७
त्रिवृद्दन्तीहरिद्रा र्कमूलं लोहाश्वमारकौ
विडङ्गसारं त्रिफला स्नुह्यर्कपयसी मधु ४८
मधूच्छिष्टसमायुक्तैस्तैलमेतैर्विपाचयेत्
भगन्दरविनाशार्थमेतद्योज्यं विशेषतः ४९
चित्रकार्कौ त्रिवृत्पाठे मलपूं हयमारकम्
सुधां वचां लाङ्गलकीं सप्तपर्णं सुवर्चिकाम् ५०
ज्योतिष्मतीं च सम्भृत्य तैलं धीरो विपाचयेत्
एतद्धि स्यन्दनं तैलं भृशं दद्याद्भगन्दरे ५१
शोधनं रोपणं चैव सवर्णकरणं तथा
द्विव्रणीयमवेक्षेत व्रणावस्थासु बुद्धिमान् ५२
छिद्रा दूर्ध्वं हरेदोष्ठमर्शोयन्त्रस्य यन्त्रवित्
ततो भगन्दरे दद्यादेतदर्धेन्दुसन्निभम् ५३
व्यायामं मैथुनं कोपं पृष्ठयानं गुरूणि च
संवत्सरं परिहरेदुपरूढव्रणो नरः ५४
इति सुश्रुतसंहितायां चिकित्सास्थाने भगन्दरचिकित्सितं नामाष्टमोऽध्यायः ८
नवमोऽध्यायः
अथातः कुष्ठचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
विरुद्धाध्यशनासात्म्यवेगविघातैः स्नेहादीनां चायथारम्भैः पापक्रियया पुराकृतकर्मयोगाच्च त्वग्दोषा भवन्ति ३
तत्र त्वग्दोषी मांसवसादुग्धदधितैलकुलत्थमाषनिष्पावेक्षुपिष्टविकाराम्ल विरुद्धाध्यशनाजीर्णविदाह्यभिष्यन्दीनि दिवास्वप्नं व्यवायं च परिहरेत् ४
ततः शालिषष्टिकयवगोधूमकोरदूषश्यामाकोद्दालकादीननवान् भुञ्जीत मुद्गाढक्योरन्यतरस्य यूषेण सूपेन वा निम्बपत्रारुष्करव्यामिश्रेण मण्डूकपर्ण्यवल्गुजाटरूषकरूपिकापुष्पैः सर्पिःसिद्धैःसर्षपतैलसिद्धैर्वा तिक्तवर्गेण वाऽभिहितेन मांससात्म्याय वा जाङ्गलमांसममेदस्कं वितरेत् तैलं वज्रकमभ्यङ्गार्थे आरग्वधादिकषायमुत्सादनार्थे पानपरिषे कावगाहादिषु च खदिरकषायम् इत्येष आहाराचारविभागः ५
तत्र पूर्वरूपेषूभयतः संशोधनमासेवेत तत्र त्वक्संप्राप्ते शोधनालेपनानि शोणितप्राप्ते संशोधनालेपनकषायपानशोणितावसेचनानि मांसप्राप्ते शोधनालेपनकषायपानशोणितावसेचनारिष्टमन्थप्राशाः चतुर्थकर्मगुणप्राप्तं याप्यमात्मवतः संविधानवतश्च तत्र संशोधनाच्छोणितावसेचनाच्चोर्ध्वं भल्लातशिलाजतुधातुमाक्षीकगुग्गुल्वगुरुतुवरकखदिरासनायस्कृतिविधा नमासे वेत पञ्चमं नैवोपक्रमेत् ६
तत्र प्रथममेव कुष्ठिनं स्नेहपानविधानेनोपपादयेत् मेषशृङ्गीश्वदंष्ट्राशार्ङ्गेष्टागुडूचीद्विपञ्चमूलीसिद्धं तैलं घृतं वा वातकुष्ठिनां पानाभ्यङ्गयोर्विदध्यात् धवाश्वकर्णककुभपलाशपिचुमर्दपर्पटक मधुकरोध्रसमङ्गासिद्धं सर्पिः पित्तकुष्ठिनां प्रियालशालारग्वधनिम्बसप्तपर्णचित्रकमरिचवचाकुष्ठसिद्धंश्लेष्मकुष्ठिनां भल्लातकाभया विडङ्गसिद्धं वा सर्वेषां तुवरकतैलं भल्लातकतैलं
वेति ७
सप्तपर्णारग्वधातिविषेक्षुरपाठाकटुरोहिण्यमृतात्रिफला पटोलपिचुमर्दपर्पटकदुरालभात्रायमाणामुस्ताचन्दनपद्मकहरिद्रो पकुल्या विशालामूर्वाशतावरीसारिवेन्द्र यवाटरूषकषड्ग्रन्थामधुकभूनिम्बगृष्टिका इति समभागाः कल्कः स्यात् कल्काच्चतुर्गुणं सर्पिः प्रक्षिप्य तद्दिवगुणो धात्रीफलरसस्तच्चतुर्गुणा आपस्तदैकध्यं समालोड्य विपचेत् एतन्महातिक्तकं नाम सर्पिः कुष्ठविषमज्वररक्तपित्तहृद्रो गोन्मादापस्मार गुल्मपिडकासृग्दरगलगण्डगण्डमाला श्लीपदपाण्डुरोगविसर्पार्शः षाण्ढ्यकण्डूपामादीञ्छमयेदिति ८
त्रिफलापटोलपिचुमन्दाटरूषककटुरोहिणीदुरालभात्रायमाणाः पर्पटकश्चैतेषां द्विपलिकान् भागाञ्जलद्रो णे प्रक्षिप्य पादावशेषं कषायमादाय कल्कपेष्याणीमानि भेषजान्यर्धपलिकानि त्रायमाणामुस्तेन्द्र यवचन्दन किराततिक्तानि पिप्पल्य श्चैतानि घृतप्रस्थे समावाप्य विपचेत् एतत्तिक्तकं नाम सर्पिः कुष्ठविषमज्वरगुल्मार्शोग्रहणीदोषशोफपाण्डुरोगविसर्पषाण्ढ्यशमनमूर्ध्वजत्रुग
तरोगघ्नं चेति ९
अतोऽन्यतमेन घृतेन स्निग्धस्विन्नस्यैकां द्वे तिस्रश्चतस्रः पञ्च वा सिरा विध्येत् मण्डलानि चोत्सन्नान्यवलिखेदभीक्ष्णं प्रच्छयेद्वा समुद्र फेनशाकगोजीकाकोदुम्बरिकापत्रैर्वाऽवघृष्यलेपयेल्ला क्षासर्जरसर साञ्जनप्रपुर्ननाडा वल्गुजतेजोत्यश्वमारकार्ककुटजारेवतमूलकल्कैर्मूत्रपिष्टैः पित्तपिष्टैर्वा स्वर्जिकातुत्थकासीस विडङ्गागारधूमचित्रककटुकसुधाहरिद्रा सैन्धवकल्कैर्वा एतान्येवावाप्य क्षारकल्पेन निःस्नुते पालाशे क्षारे ततो विपाच्य फाणीतमिव संजातमवतार्य लेपयेत् ज्योतिषकफललाक्षामरिचपिप्पलीसुमनः पत्रैर्वा हरितालमनः शिलार्कक्षीरतिलशिग्रुमरिचकल्कैर्वास्वर्जिकाकुष्ठतुत्थकुटजचित्रकविडङ्गमरिच रोध्रमनः शिलाकल्कैर्वा हरीतकीकरञ्जिकाविडङ्गसिद्धा
र्थकलवणरोचनावल्गुजहरिद्रा कल्कैर्वा १०
सर्वे कुष्टापहाः सिद्धा लेपाः सप्त प्रकीर्तिताः
वैशेषिकानतस्तूर्ध्वं दद्रू श्वित्रेषु मे शृणु ११
लाक्षा कुष्ठं सर्षपाः श्रीनिकेतं रात्रिर्व्योषं चक्रमर्दस्य बीजम्
कृत्वैकस्थं तक्रपिष्टः प्रलेपो दद्रू षूक्तो मूलकाद्बीजयुक्तः १२
सिन्धूद्भूतं चक्रमर्दस्य बीजमिक्षूद्भूतं केशरं तार्क्ष्यशैलम्
पिष्टो लेपोऽय कपित्थाद्र सेन दद्रू स्तूर्णं नाशयत्येष योगः १३
हेमक्षीरी व्याधिघातः शिरीषो निम्बः सर्जो वत्सकः साजकर्णः
शीघ्रं तीव्रा नाशयन्तीह दद्रूः स्नानालेपोद्घर्षणेषूपयुक्ताः १४
भद्रा संज्ञोदुम्बरीमूलतुल्यं दत्त्वा मूलं क्षोदयित्वा मलप्वाः
सिद्धं तोयं पीतमुष्णे सुखोष्णं स्फोटाञ्छ्वित्रे पुण्डरीके च कुर्यात् १५
द्वैपं दग्धं चर्म मातङ्गजं वा भिन्ने स्फोटे तैलयुक्तं प्रलेपः
पूतिः कीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रमेको निहन्ति १६
कृष्णस्य सर्पस्य मसी सुदग्धा बैभीतकं तैलमथ द्वितीयम्
एतत् समस्तं मृदितं प्रलेपाच्छ्वित्राणि सर्वाण्यपहन्ति शीघ्रम् १७
अध्यर्धतोये सुमतिस्रुतस्य क्षारस्य कल्पेन तु सप्तकृत्वः
तैलं शृतं तेन चतुर्गुणेन श्वित्रापहं म्रक्षणमेतदग्र्यम् १८
घृतेन युक्तं प्रपुनाडबीजं कुष्ठं च यष्टीमधुकं चपिष्ट्वा
श्वेताय दद्याद्गृहकुक्कुटाय चतुर्थभक्ताय ब्भुक्षिताय १९
तस्योपसंगृह्य च तत् पुरीषमुत्पाचितं सर्वत एव लिम्पेत्
अभ्यन्तरं मासमिमं प्रयोगं प्रयोजयेच्छ्वित्रमथो निहन्ति २०
क्षारे सुदग्धे जलगण्डजे तु गजस्य मूत्रेण बहुस्रुते च
द्रो णप्रमाणे दशभागयुक्तं दत्त्वा पचेद्बीजमवल्गुजस्य २१
एतद्यदा चिक्कणतामुपैति तदा समस्तं गुटिका विदध्यात्
श्वित्रं प्रलिम्पेदथ संप्रघृष्य तया व्रजेदाशु सवर्णभावम् २२
कषायकल्पेन सुभावितां तु जलं त्वचा चूतहरीतकीनाम्
तां ताम्रदीपे प्रणिधाय धीमान् वर्तिं वटक्षीरसुभावितां तु २३
आदीप्य तज्जातमसीं गृहीत्वा तां चापि पथ्याम्भसि भावयित्वा
संप्रच्छितं तद्बहुशः किलासं तैलेन सिक्तं कटुना प्रयाति २४
आवल्गुजं बीजमग्र्यं नदीजं काकाह्वानोदुम्बरी या च लाक्षा
लौहं चूर्णं मागधी तार्क्ष्यशैलं तुल्याः कार्याः कृष्णवर्णास्तिलाश्च २५
वर्तिं कृत्वा तां गवां पित्तपिष्टां लेपः कार्यः श्वित्रिणां श्वित्रहारी
लेपात् पित्तं शैखिनं श्वित्रहारि ह्रीबेरं वा दग्धमेतेन युक्तम् २६
तुत्थालकटुकाव्योषसिंहार्कहयमारकाः
कुष्ठावल्गुजभल्लातक्षीरिणीसर्षपाः स्नुही २७
तिल्वकारिष्टपीलूनां पत्राण्यारग्वधस्य च
बीजं विडङ्गाश्वहन्त्रोर्हरिद्रे बृहतीद्वयम् २८
आभ्यां श्वित्राणि योगाभ्यां लेपान्नश्यन्त्यशेषतः
वायसीफल्गुतिक्तानां शतं दत्त्वा पृथक् पृथक् २९
द्वे लोहरजसः प्रस्थे त्रिफलात्र्याढकं तथा
त्रिद्रो णेऽपा पचेद्यावद्भागौ द्वावसनादपि ३०
शिष्टौ च विपचेद्भूय एतैः श्लक्ष्णप्रपेषितैः
कल्कैरिन्द्र यवव्योषत्वग्दारुचतुरङ्गुलैः ३१
पारावतपदीदन्तीबाकुचीकेशराह्वयैः
कण्टकार्या च तत्पक्वं घृतं कुष्ठिषु योजयेत् ३२
दोषधात्वाश्रितं पानादभ्यङ्गात्त्वग्गतं तथा
अप्यसाध्यं नृणां कुष्ठं नाम्ना नीलं नियच्छति ३३
त्रिफलात्वक् त्रिकटुकं सुरसा मदयन्तिका
वायस्यारग्वधश्चैषां तुलां कुर्यात् पृथक् पृथक् ३४
काकमाच्यर्कवरुणदन्तीकुटजचित्रकात्
दार्वीनिदिग्धिकाभ्यां तु पृथग्दशपलं तथा ३५
त्रिद्रो णेऽपा पचेद्यावत् षट्प्रस्थं परिशेषितम्
शकृद्र सदधिक्षीरमूत्राणां पृथगाढकम् ३६
तद्वद्घृतस्य तत्साध्यं भूनिम्बव्योषचित्रकैः
करञ्जफलनीलिकाश्यामावल्गुजपीलुभिः ३७
नीलिनीनिम्बकुसुमैः सिद्धं कुष्ठापहं घृतम्
म्रक्षणादङ्गसावर्ण्यं श्वित्रिणां जनयेन्नृणाम्
भगन्दरं कृमीनर्शो महानीलं नियच्छति ३८
मूत्रं गब्यं चित्रकव्योषयुक्तं सर्पिःकुम्भे क्षौद्र युक्तं स्थितं हि
पक्षादूर्ध्वं श्वित्रिभिः पेयमेतत् कुर्याच्चास्मिन् कुष्ठदिष्टं विधानम् ३९
पूतीकार्कस्रुङ्नरेन्द्र द्रुमाणां मूत्रैः पिष्टाः पल्लवाः सौमनाश्च
लेपः श्वित्रं हन्ति दद्रू र्व्रणांश्च दुष्टान्यर्शांस्येष नाडीव्रणांश्च ४०
अस्मादूर्ध्वं निःस्रुते दुष्टरक्ते जातप्राणं सर्पिषा स्नेहयित्वा
तीक्ष्णैर्योगैश्छर्दयित्वा प्रगाढं पश्चाद्दोषं निर्हरेच्चाप्रमत्तः ४१
दुर्वान्तो वा दुर्विरिक्तोऽपि वा स्यात् कुष्ठी दोषैरुद्धतैर्व्याप्तदेहः
निःसन्दिग्धं यात्यसाध्यत्वमाशु तस्मात् कृत्स्नान्निर्हरेत्तस्य दोषान् ४२
पक्षात् पक्षाच्छर्दनान्यभ्युपेयान्मासान्मासात् स्रंसनं चापि देयम्
स्राव्यं रक्तं वत्सरे हि द्विरल्पं नस्यं दद्याच्च त्रिरात्रात्त्रिरात्रात् ४३
पथ्या व्योषं सेक्षुजातं सतैलं लीढ्वा शीघ्रं मुच्यते कुष्ठरोगात्
धात्रीपथ्याक्षोपकुल्याविडङ्गान् क्षौद्रा ज्याभ्यामेकतो वाऽवलिह्यात् ४४
पीत्वा मासं वा पलांशां हरिद्रां मूत्रेणान्तं पापरोगस्य गच्छेत्
एवं पेयश्चित्रकः श्लक्ष्णपिष्टः पिप्पल्यो वा पूर्ववन्मूत्रयुक्ताः ४५
तद्वत्तार्क्ष्यं मासमात्रं च पेयं तेनाजस्रं देहमालेपयेच्च
आरिष्टीत्वक् साप्तपर्णी च तुल्या लाक्षा मुस्तं पञ्चमूल्यौ हरिद्रे ४६
मञ्जिष्ठाक्षौ वासको देवदारु पथ्यावह्नी व्योषधात्रीविडङ्गाः
सामान्यांशं योजयित्वा विडङ्गैश्चूर्णं कृत्वा तत्पलोन्मानमश्नन् ४७
कुष्ठाज्जन्तुर्मुच्यते त्रैफलं वा सर्पिर्द्रोणं व्योषयुक्तं च युञ्जन्
गोमूत्राम्बुद्रो णसिद्धेऽक्षपीडे सिद्धं सर्पिर्नाशयेच्चापि कुष्ठम् ४८
आरग्वधे सप्तपर्णे पटोले सवृक्षके नक्तमाले सनिम्बे
जीर्णं पक्वं तद्धरिद्रा द्वयेन हन्यात् कुष्ठं मुष्कके चापि सर्पिः ४९
रोध्रारिष्टं पद्मकं रक्तसारः सप्ताह्वाक्षौ वृक्षको बीजकश्च
योज्याः स्नआने दह्यमानस्य जन्तोः पेया वा स्यात् क्षौद्र युक्ता त्रिभण्डी ५०
खादेत् कुष्ठी मांसशाते पुराणान् मुद्गान् सिद्धान्निम्बतोये सतैलान्
निम्बक्वाथं जातसत्त्वः पिबेद्वा क्वाथं वाऽकालर्कसप्तच्छदानाम् ५१
जग्धेष्वङ्गेष्वश्वमारस्य मूलं लेपो युक्तः स्याद्विडङ्गैः समूत्रैः
मूत्रैश्चैनं सेचयेद्भोजयेच्च सर्वाहारान् संप्रयुक्तान् विडङ्गैः ५२
कारञ्जं वा सार्षपं वा क्षतेषु क्षेप्यं तैलं शिग्रुकोशाम्रयोर्वा
पक्वं सर्वैर्वा कटूष्णैः सतिक्तैः शेषं च स्याद्दुष्टवत् संविधानम् ५३
सप्तपर्णकरञ्जार्कमालतीकरवीरजम्
स्नुहीशिरीषयोर्मूलं चित्रकास्फोतयोरपि ५४
विषलाङ्गलवज्राख्यकासीसालमनःशिलाः
करञ्जबीजं त्रिकटु त्रिफलां रजनीद्वयम् ५५
सिद्धार्थकान् विडङ्गानि प्रपुन्नाडं च संहरेत्
मूत्रपिष्टैः पचेदेतैस्तैलं कुष्ठविनाशनम् ५६
एतद्वज्रकमभ्यङ्गान्नाडीदुष्टव्रणापहम्
सिद्धार्थकः करञ्जौ द्वौ द्वे हरिद्रे रसाञ्जनम् ५७
कुटजश्च प्रपुन्नाडसप्तपर्णौ मृगादनी
लाक्षा सर्जरसोऽकश्च सास्फोतारग्वधौ स्नुही ५८
शिरीषस्तुवराख्यस्तु कुटजारुष्करौ वचा
कुष्ठं कृमिघ्नं मञ्जिष्ठा लाङ्गली चित्रकं तथा ५९
मालती कटुतुम्बी च गन्धाह्वा मूलकं तथा
सैन्धवं करवीरश्च गृहधूमं विषं तथा ६०
कम्पिल्लकं ससिन्दूरं तेजोह्वातुत्थकाह्वये
समभागानि सर्वाणि कल्कपेष्याणि कारयेत् ६१
गोमूत्रं द्विगुणं दद्यात्तिलतैलाच्चतुर्गुणम्
कारञ्जं या महावीर्यं सार्षपं वा महागुणम् ६२
अभ्यङ्गात् सर्वकुष्ठानि गण्डमालाभगन्दरान्
नाडीदुष्टव्रणान् घोरान् नाशयेन्नात्र संशयः ६३
महावज्रकमित्येतन्नाम्ना तैलं महागुणम्
पित्तावापैर्मूत्रपिष्टैस्तैलं लाक्षादिकैः कृतम् ६४
सप्ताहं कटुकालाब्वां निदधीत चिकित्सकः
पीतवन्तं ततो मात्रां तेनाभ्यक्तं च मानवम् ६५
शाययेदातपे तस्य दोषा गच्छन्ति सर्वशः
स्रुतदोषं समुत्थाप्य स्नातं खदिरवारिणा ६६
यवागूं पाययेदेनं साधितां खदिराम्बुना
एवं संशोधने वर्गे कुष्ठघ्नेष्वौषधेषु च ६७
कुर्यात्तैलानि सर्पींषि प्रदेहोद्धर्षणानि च
प्रातः प्रातश्च सेवेत योगान् वैरेचनाञ् शुभान्
पञ्च षट् सप्त चाष्टौ वा यैरुत्थानं न गच्छति ६८
कारभं वा पिबेन्मूत्रं जीर्णे तत्क्षीरभोजनम्
जातसत्त्वानि कुष्ठानि मासैः षड्भिरपोहति ६९
दिदृक्षुरन्तं कुष्ठस्य खदिरं कुष्ठपीडितः
सर्वथैव प्रयुञ्जीत स्नानपानाशनादिषु ७०
यथा हन्ति प्रवृद्धत्वात् कुष्ठमातुरमोजसा
तथा हन्त्युपयुक्तस्तु खदिरः कुष्ठमोजसा ७१
नीचरोमनखः श्रान्तो हिताश्यौषधतत्परः
योषिन्मांससुरावर्जी कुष्ठी कुष्ठमपोहति ७२
इति सुश्रुतसंहितायां चिकित्सास्थाने कुष्ठचिकित्सितं नाम नवमोऽध्यायः ९
दशमोऽध्यायः
अथातो महाकुष्ठचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कुष्ठेषु मेहेषु कफामयेषु सर्वाङ्गशोफेषु च दारुणेषु
कृशत्वमिच्छत्सु च मेदुरेषु योगानिमानग्र्यमतिर्विदध्यात् ३
क्षुण्णान् यवान्निष्पूतान् रात्रौ गोमूत्रपर्युषितान् महति किलिञ्जे शोषयेत् एवं सप्तरात्रं भावयेच्छोषयेच्च ततस्तान् कपालभृष्टान् शक्तून् कारयित्वा प्रातः प्रातरेव कुष्ठिनं प्रमेहिणं वा सालसारादिकषायेण कण्टकिवृक्षकषायेण वा पाययेद्भल्लातकप्रपुन्नाडावल्गुजार्कचित्रकविडङ्गमुस्त चूर्णचतुर्भाग युक्तान् एव मेव सालसारादिकषायपरिपीतानामारग्वधादिकषायपरिपीतानां वा गवाश्वा शकृद्भूतानां वा यवानां शक्तून् कारयित्वाभल्लातकादीनां चूर्णान्यावाप्य खदिराशननिम्बराजवृक्षरोहीतकगुडूचीनामन्यतमस्य कषायेण शर्करामधुमधुरेण द्रा क्षायुक्तेन दाडिमामलकवेतसाम्लेन सैन्धवलवणान्वितेन पाययेत् एष सर्वमन्थकल्पः ४
यावकांश्च भक्ष्यान् धानोलुम्बककुल्माषापूपपूर्णकोशोत्कारिकाशष्कुलिका कुणावीप्रभृतीन् सेवेत यवविधानेन गोधूमवेणुयवानुपयुञ्जीत ५
अरिष्टानतो वक्ष्यामःपूतीकचव्यचित्रकसुरदारुसारिवादन्तीत्रिवृत्त्रिकटुकानां प्रत्येकं षट्पलिका भागा बदरकुडवस्त्रिफलाकुडव इत्येतेषां चूर्णानि ततः पिप्पलीमधुघृतैरन्तःप्रलिप्ते घृतभाजने प्राक्कृतसंस्कारे सप्तोदककुडवानयोरजोर्धकुडवमर्धतुलां च गुडस्याभिहितानि चूर्णान्यावाप्य स्वनुगुप्तं कृत्वा यवपल्ले सप्तरात्रं वासयेत् ततो यथाबलमुपयुञ्जीत एषोऽरिष्टः कुष्ठमेहमेदः पाण्डुरोगश्वयथूनपहन्ति एवं शालसारादौ न्यग्रोधादावारग्वधादौ चारिष्टान् कुर्वीत ६
आसवानतो वक्ष्यामःपलाशभस्मपरिस्रुतस्योष्णोदकस्य शीतीभूतस्य त्रयो भागा द्वौ फाणितस्यैकध्यमरिष्टकल्पेन विदध्यात् एवं तिलादीनां क्षारेषु शालसारादौ न्यग्रोधादावारग्वधादौ मूत्रेषु चासवान् विदध्यात् ७
अथ सुरा वक्ष्यामःशिंशपाखदिरयोः सारमादायोत्पाट्य चोत्तमारणीब्राह्मीकोशवतीस्तत्सर्वमेकतः कषायकल्पेन विपाच्योदकमाददीत मण्डोदकार्थं किण्वपिष्टमभिषुणुयाच्च यथोक्तम् एवं सुराः शालसारादौ न्यग्रोधादावारग्वधादौ च विदध्यात् ८
अतोऽवलेहान् वक्ष्यामःखदिरासननिम्बराजवृक्षशालसारक्वाथे तत्सारपिण्डाञ्छ्लक्ष्णपिष्टान् प्रक्षिप्य विपचेत् ततो नातिद्र वं नातिसान्द्र मवतार्य तस्य पाणितलं पूर्णमप्रातराशो मधुमिश्रं लिह्यात् एवं शालसारादौ न्यग्रोधादावारग्वधादौ च लेहान् कारयेत् ९
अतश्चूर्णक्रियां वक्ष्यामःशालसारादीनां सारचूर्णप्रस्थमाहृत्यारग्वधादिकषायपरिपीतमनेकशः शालसारादिकषायेणैव पाययेत् एवं न्यग्रोधादीनां फलेषु पुष्पेष्वारग्वधादीनां चूर्णक्रियां कारयेत् १०
अत ऊर्ध्वमयस्कृतीर्वक्ष्यामःतीक्ष्मलोहपत्राणि तनूनि लवणवर्गप्रदिग्धानि गोमयाग्निप्रतप्तानि त्रिफलाशालसारादिकषायेण निर्वापयेत् षोडशवारान् ततः खदिराङ्गारतप्तान्युपशान्ततापानि सूक्ष्मचूर्णानि कारयेद्धनतान्तवपरिस्रावितानि ततो यथाबलं मात्रां सर्पिर्मधुभ्यां संसृज्योपयुञ्जीत जीर्णे यथाव्याध्यनम्लमलवणमाहारं कुर्वीत एवं तुलामुपयुज्य कुष्ठमेहमेदःश्वयथुपाण्डुरोगोन्मादापस्मारानपहत्य वर्षशतं जीवति तुलायां तुलायां वर्षशतमुत्कर्षः एतेन सर्वलौहेष्वयस्कृतयो व्याख्याताः ११
त्रिवृच्छ्यामाग्निमन्थसप्तलाकेवुकशङ्खिनीतिल्वक त्रिफलापलाशशिंशपानां स्वरसमादाय पालाश्यां द्रो ण्यामभ्यासिच्य खदिराङ्गारतप्तमयः पिण्डं त्रिसप्तकृत्वो निर्वाप्य तमादाय पुनरासिच्य स्थाल्यां गोमयाग्निना विपचेत् ततश्चतुर्थभागावशिष्टमवतार्य परिस्राव्य भूयोऽइग्नतप्तान्ययः पत्राणि प्रक्षिपेत् सिध्यति चास्मिन् पिप्पल्यादिचूर्णभागं द्वौ मधुनस्तावद्घृतस्येति दद्यात् ततः प्रशान्तमायसे पात्रे स्वनुगुप्तं निदध्यात् ततो यथायोगं शुक्तिं प्रकुञ्चं वोपयुञ्जीत जीर्णे यथाव्याध्याहारमुपसेवेत एषौषधायस्कृतिरसाध्यं कुष्ठं प्रमेहं वा साधयति स्थूलमपकर्षति शोफमुपहन्ति सन्नमग्निमुद्धरति विशेषेण चोपदिश्यते राजयक्ष्मिणां वर्षशतायुश्चानया पुरुषो भवति शालसारादिक्वाथमासिच्य पालाश्यां द्रो ण्यामयोघनांस्तप्तात्निनर्वाप्य कृतसंस्कारे कलशेऽभ्यासिच्य पिप्पल्यादिचूर्णभागं क्षौद्रं गुडमिति च दत्त्वास्वनुगुप्तं निदध्यात् एतां महौषधायस्कृतिं मासमर्धमासं वा स्थितां यथाबलमुपयुञ्जीत एवं न्यग्रोधादावारेवतादिषु च विदध्यात् १२
अतः खदिरविधानमुपदेक्ष्यामःप्रशस्तदेशजातमनुपहतं मध्यमवयसं खदिरं परितः खानयित्वा तस्य मध्यमं मूलं छित्त्वाऽयोमयं कुम्भं तस्मिन्नन्तरे निदध्याद्यथा रसग्रहणसमर्थो भवति ततस्तं गोमयमृदाऽवलिप्तमवकीर्येन्धनैर्गोमयमिश्रैरादीपयेद्यथाऽस्य दह्यमानस्य रसः स्रवत्यधस्तात् तद्यदा जानीयात् पूर्णं भाजनमिति अथैनमुद्धृत्य परिस्राव्य रसमन्यस्मिन् पात्रे निधायानुगुप्तं निदध्यात् ततो यथायोगं मात्रामामलकरसमधुसर्पिर्भिः संसृज्योपयुञ्जीत जीर्णे भल्लातकविधानवदाहारः परिहारश्च प्रस्थे चोपयुक्तए शतं वर्षाणामायुषोऽभिवृद्धिर्भवति खदिरसारतुलामुदकद्रो णे विपाच्य षोडशांशावशिष्टमवतार्यानुगुप्तं निदध्यात् तमामलकरसमधु सर्पिर्भिः संसृज्योपयुञ्जीत एष एव सर्ववृक्षसारेषु कल्पः खदिरसारचूर्णतुलां खदिरसारक्वाथमात्रां वा प्रातः प्रातरुपसेवेत खदिरसारक्वाथसिद्धमाविकं वा सर्पिः १३
अमृतवल्लीस्वरसं क्वाथं वा प्रातः प्रातरुपसेवेत तत्सिद्धं वा सर्पिः अपराह्णे ससर्पिष्कमोदनमामलकयूषेण भुञ्जीत एवं मासमुपयुज्य सर्वकुष्ठैर्विमुच्यत इति १४
कृष्णतिलभल्लातकतैलामलकरससर्पिषां द्रो णं शालसारादिकषायस्य च त्रिफलात्रिकटुकपरूषफलमज्जविडङ्गफलसारचित्रार्कावल्गुजहरिद्रा द्वयत्रिवृद्दन्तीद्र वन्तीन्द्र यवयष्टीमधुकातिविषारसाञ्जनप्रियङ्गूणां पालिका भागास्तानैकध्यं स्नेहपाकविधानेन पचेत् तत् साधुसिद्धमवतार्य परिस्राव्यानुगुप्तं निदध्यात् तत उपसंस्कृतशरीरः प्रातः प्रातरुत्थाय पाणिशुक्तिमात्रं क्षौद्रे ण प्रतिसंसृज्योपयुञ्जीत जीर्णे मुद्गामलकयूषेणालवणेन सर्पिष्मन्तं खदिरोदकसिद्धं मृद्वोदनमश्नीयात् खदिरोदकसेवी इत्येवं द्रो णमुपयुज्य सर्वकुष्ठैर्विमुक्तः शुद्धतनुः स्मृतिमान् वर्षशतायुररोगो भवति १५
भवति चात्र
सुरामन्थासवारिष्टांल्लेहांश्चूर्णान्ययस्कृतीः
सहस्रशोऽपि कुर्वीत बीजेनानेन बुद्धिमान् १६
इति सुश्रुतसंहितायां चिकित्सास्थाने महाकुष्ठचिकित्सितं नाम दशमोऽध्यायः १०
एकादशोऽध्यायः
अथातः प्रमेहचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
द्वौ प्रमेहौ भवतःसहजोऽपथ्यनिमित्तश्च तत्र सहजो मातृपितृबीजदोषकृतः अहिताहारजोऽपथ्यनिमित्तः तयोः पूर्वेणोपद्रुतः कृशो रूक्षोऽल्पाशी पिपासुर्भृशं परिसरणशीलश्च भवति उत्तरेण स्थूलो बह्वाशी स्निग्धः शय्यासनस्वप्नशीलः प्रायेणेति ३
तत्र कृशमन्नपानप्रतिसंस्कृताभिः क्रियाभिश्चिकित्सेत स्थूलमपतर्पणयुक्ताभिः ४
सर्व एव च परिहरेयुः सौवीरकतुषोदकशुक्तमैरेयसुरासवतोयपयस्तैल घृते
क्षुविकारदधिपिष्टान्नाम्लयवागूपानकानि ग्राम्यानूपौदकमांसानि चेति ५
ततः शालिषष्टिकयवगोधूमकोद्र वोद्दालकाननवान् भुञ्जीत चणकाढकीकुलत्थमुद्गविकल्पेन तिक्तकषायाभ्यां च शाकगणाभ्यां निकुम्भेङ्गुदीसर्षपात सीतैलसिद्धाभ्यां बद्धमूत्रैर्वा जाङ्गलैर्मांसैरपहृतमेदोभिरनम्लैरघृतैश्चेति ६
तत्रादित एव प्रमेहिणं स्निग्धमन्यतमेन तैलेन प्रियङ्ग्वादिसिद्धेन वा घृतेन वामयेत् प्रगाढं विरेचयेच्च विरेचनादनन्तरं सुरसादि कषायेणास्थापयेन्महौषधभद्र दारुमुस्तावापेन मधु सैन्धवयुक्तेन दह्यमानं च न्यग्रोधादिकषायेण निस्तैलेन ७
ततः शुद्धदेहमामलकरसेन हरिद्रां मधुसंयुक्तां पाययेत् त्रिफलाविशाला देवदारुमुस्तकषायं वा शालकम्पिल्लकमुष्कककल्कमक्षमात्रं वा मधुमधुरमामलकरसेन हरिद्रा युतं कुटजकपित्थरोहीतकबिभीतक सप्तपर्ण पुष्प कल्कं वा निम्बारग्वधसप्तपर्णमूर्वाकुटजसोमवृक्षपलाशानां वा त्वक्पत्र मूलफलपुष्पकषायाणि एते पञ्च योगाः सर्वमेहानामपहन्तारो व्याख्याताः ८
विशेषश्चात ऊर्ध्वंतत्रोदकमेहिनं पारिजातकषायं पाययेत् इक्षुमेहिनं वैजयन्तीकषायं सुरामेहिनं निम्बकषायं सिकतामेहिनं चित्रककषायं शनैर्मेहिनं खदिरकषायं लवणमेहिनं पाठाऽगुरुहरिद्रा कषायं पिष्टमेहिनं हरिद्रा दारुहरिद्रा कषायं सान्द्र मेहिनं सप्तपर्णकषायं शुक्रमेहिनं दूर्वाशैवलप्लवहठकरञ्जकसेरुककषायं ककुभचन्दनकषायं वा फेनमेहिनं त्रिफलारग्वधमृद्वीकाकषायं मधुमधुरमिति पैत्तिकेषु नीलमेहिनं शालसारादिकषायमश्वत्थकषायं वा पाययेत् हरिद्रा मेहिनं राजवृक्षकषायं अम्लमेहिनं न्यग्रोधादिकषायं क्षारमेहिनं त्रिफलाकषायं मञ्जिष्ठमोहिनं मञ्जिष्ठाचन्दनकषायं शोणितमेहिनं गुडूचीतिन्दुकास्थिकाश्मर्यखर्जूरकषायं मधुमिश्रं अत ऊर्ध्वमसाध्येष्वपि योगान् यापनार्थं वक्ष्यामः तद्यथा सर्पिर्मेहिनं कुष्ठकुटजपाठाहिङ्गुकटुरोहिणीकल्कं गुडूचीचित्रककषायेण पाययेत् वसामेहिनमग्निमन्थकषायं शिंशपाकषायं वा क्षौद्र मेहिनं कदरक्रमुककषायं हस्तिमेहिनं तिन्दुककपित्थशिरीषपला शपाठामूर्वा दुःस्पर्शाकषायं मधुमधुरंहस्त्यश्वशूकरखरोष्ट्रास्थिक्षारं चेति दह्यमानमौदककन्दक्वाथसिद्धां यवागूं क्षीरेक्षुरसमधुरां पाययेत् ९
ततः प्रियङ्ग्वनन्तायूथिकापद्मात्रायन्तिकालोहितिकाम्बष्ठादाडिमत्वक् शालपर्णीपद्मतुङ्गकेशरधातकीबकुलशाल्मली श्रीवेष्टकमोचर सेष्वरिष्टानयस्कृतीर्लेहानासवांश्च कुर्वीता शृङ्गाटकगिलोड्यबि समृणालकाशकसेरुकमधुकाम्रजम्ब्वसनतिनिशककुभकट्वङ्गरोध्रभल्लातकपलाश चर्म वृक्षगिरिकर्णिकाशीतशिवनिचुल दाडिमाजकर्ण हरिवृक्षराजादनगोपघोण्टाविकङ्कतेषु वा यवान्नविकारांश्च सेवेत यथोक्तकषायसिद्धां यवागूं चास्मै प्रयच्छेत्कषायाणि वा पातुम् १०
महाधनमहिताहारमौषधद्वेषिणमीश्वरं वा पाठाभयाचित्रकप्रगाढमनल्पमाक्षिकमन्यतममासवं पाययेत् अङ्गारशूल्योपदंशं वा माध्वीकमभीक्ष्णं क्षौद्र कपित्थमरिचानुविद्धानि चास्मै पानभोजनान्युपहरेत् उष्ट्राश्वतरखरपुरीषचूर्णानि चास्मै दद्यादशनेषु हिङगुसैन्धवयुक्तैर्यूषैः सार्षपैश्च रागैर्भोजयेत् अविरुद्धानि चास्मै पानभोजनान्युपहरेद्र सगन्धवन्ति च प्रवृद्धमेहास्तु व्यायामनियुद्धक्रीडागजतुरगरथपदातिचर्यापरिक्रमणान्यस्त्रोपास्त्रे वा सेवेरन् ११
अधनस्त्वबान्धवो वा पादत्राणातपत्र विरहितो भैक्ष्याशी ग्रामैकरात्रवासी मुनि रिव संयतात्मा योजनशतमधिकं वा गच्छेत् महाधनो वा श्यामाकनीवार वृत्तिरामलककपित्थतिन्दुकाश्मन्तकफलाहारो मृगैः सह वसेत् तन्मूत्रशकृद्भक्षः सततमनुव्रजेद्गाः ब्राह्मणो वा शिलोञ्छवृत्तिर्भूत्वा ब्रह्मरथमुद्धरेत् कृषेत् सततमितरः खनेद्वा कूपं कृशं तु सततं रक्षेत् १२
भवति चात्र
अधनो वैद्यसन्देशादेवं कुर्वन्नतन्द्रि तः
संवत्सरादन्तराद्वा प्रमेहात् प्रतिमुच्यते १३
इति सुश्रुतसंहितायां चिकित्सास्थाने प्रमेहचिकित्सितं नामैकादशोऽध्यायः ११
द्वादशोऽध्यायः
अथातः प्रमेहपिडकाचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शराविकाद्या नव पिडकाः प्रागुक्ताःताःप्राणवतोऽल्पास्त्वङ्मांसप्राप्ता मृद्व्योऽल्परुजः क्षिप्रपाकभेदिन्यश्च साध्याः ३
ताभिरुपद्रुतं प्रमेहिणमुपचरेत् तत्र पूर्वरूपेष्वपतर्पणं वनस्पतिकषायं बस्तमूत्रं चोपदिशेत् एवमकुर्वतस्तस्य मधुराहारस्य मूत्रं स्वेदः श्लेष्मा च मधुरीभवति प्रमेहश्चाभिव्यक्तो भवति तत्रोभयतः संशोधनमासेवेत एवमकुर्वतस्तस्य दोषाः प्रवृद्धा मांसशोणिते प्रदूष्य शोफं जनयन्त्युपद्र वान् वा कांश्चित् तत्रोक्तः प्रतीकारः सिरामोक्षश्च एवमकुर्वतस्तस्य शोफो वृद्धोऽतिमात्रं रुजो विदाहमापद्यते तत्र शस्त्रप्रणिधानमुक्तं व्रणक्रियोपसेवा च एवमकुर्वतस्तस्य पूयोऽभ्यन्तरमवदार्योत्सङ्गं महान्तमवकाशं कृत्वा प्रवृद्धो भवत्यसाध्यः तस्मादादित एव प्रमेहिणमुपक्रमेत् ४
भल्लातकबिल्वाम्बुपिप्पलीमूलोदकीर्यावर्षाभूपुनर्नवाचित्रकशटीस्नुही वरुणकपुष्करदन्तीपथ्या दशपलोन्मिता यवकोलकुलत्थांश्च प्रास्थिकान् सलिलद्रो णे निष्क्वाथ्य चतुर्भागावशिष्टेऽवतार्य वचात्रिवृत्क म्पिल्लकभार्गीनिचुलशुण्ठीगजपिप्पलीविडङ्गरोध्रशिरीषाणां भागैरर्धपलिकैर्घृतप्रस्थं विपाचयेन्मेहश्वयथुकुष्ठगुल्मो दरार्शःप्लीहविद्र धिपिडकानां नाशनं नाम्ना धान्वन्तरम् ५
दुर्विरेच्या हि मधुमेहिनो भवन्ति मेदोऽभिव्याप्तशरीरत्वात् तस्मात्तीक्ष्णमेतेषां शोधनं कुर्वीत पिडकापीडिताः सोपद्र वाः सर्व एव प्रमेहामूत्रादिमाधुर्येमधुगन्धसामान्यात् पारिभाषिकीं मधुमेहाख्यां लभन्ते ६
न चैतान् कथंचिदपि स्वेदयेत् मेदोबहुत्वादेतेषां विशीर्यते देहः स्वेदेन ७
रसायनीनां च दौर्बल्यान्नोर्ध्वमुत्तिष्ठन्ति प्रमेहिणां दोषाः ततो मधुमेहिनामधः काये पिडकाः प्रादुर्भवन्ति ८
अपक्वानां तु पिडकानां शोफवत् प्रतीकारः पक्वानां व्रणवदिति तैलं तु व्रणरोपणमेवादौ कुर्वीत आरग्वधादिकषायमुत्सादनार्थे शालसारादिकषायं परिषेचने पिप्पल्यादिकषायं पानभोजनेषु पाठाचित्रकशार्ङ्गेष्टाक्षुद्रा बृहतीसारिवासोमवल्कसप्तपर्णारग्वधकुटजमूलचूर्णानि मधुमिश्राणि प्राश्नीयात् ९
शालसारादिवर्गकषायं चतुर्भागावशिष्टमवतार्य परिस्राव्य पुनरुपनीय साधयेत् सिध्यति चामलकरोध्रप्रियङ्गुन्दन्तीकृष्णायस्ताम्रचूर्णान्यावपेत् एतदनुपदग्धं लेहीभूतमवतार्यानुगुप्तं निदध्यात् ततो यथायोगमुपयुञ्जीत एष लेहः सर्वमेहानां हन्ता १०
त्रिफलाचित्रकत्रिकटुकविडङ्गमुस्तानां नव भागास्तावन्त एव कृष्णायश्चूर्णस्य तत्सर्वमैकध्यं कृत्वा यथायोगं मात्रां सर्पिर्मधुभ्यां संसृज्योपयुञ्जीत एतन्नवायसम् एतेन जाठर्यं न भवति सन्नोऽग्निराप्या यते दुर्नामशोफपाण्डुकुष्ठरोगाविपाककासश्वसाप्रमेहाश्च न भवन्ति ११
शालसारादिनिर्यूहे चतुर्थांशावशेषिते
परिस्रुते ततः शीते मधु माक्षिकमावपेत् १२
फाणितीभावमापन्नं गुडं शोधितमेव च
श्लक्ष्णपिष्टानि चूर्णानि पिप्पल्यादिगणस्य च १३
एकध्यमावपेत् कुम्भे संस्कृते घृतभाविते
पिप्पलीचूर्णमधुभिः प्रलिप्तेऽन्तशुचौ दृढे १४
श्लक्ष्णानि तीक्ष्णलोहस्य तत्र पत्राणि बुद्धिमान्
खदिराङ्गारतप्तानि बहुशः सन्निपातयेत् १५
सुपिधानं तु तं कृत्वा यवपल्ले निधापयेत्
मासांस्त्रींश्चतुरो वाऽपि यावदालोहसंक्षयात् १६
ततो जातरसं तं तु प्रातः प्रातर्यथाबलम्
निषेवेत यथायोगमाहारं चास्य कल्पयेत् १७
कार्श्यकृद्बलिनामेष सन्नस्याग्नेः प्रसाधकः
शोफनुद्गुल्महृत् कुष्ठमेहपाण्ड्वामयापहः १८
प्लीहोदरहरः शीघ्रं विषमज्वरनाशनः
अभिष्यन्दापहरणो लोहारिष्टो महागुणः १९
प्रमेहिणो यदा मूत्रमपिच्छिलमनाविलम्
विशदं तिक्तकटुकं तदाऽरोग्यं प्रचक्षते २०
इति सुश्रुतसंहितायां चिकित्सास्थाने प्रमेहपिडकाचिकित्सितं
नाम द्वादशोऽध्यायः १२
त्रयोदशोऽध्यायः
अथातो मधुमेहचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मधुमेहित्वमापन्नं भिषग्भिः परिवर्जितम्
योगेनानेन मतिमान् प्रमेहिणमुपाचरेत् ३
मासे शुक्रे शुचौ चैव शैलाः सूर्यांशुतापिताः
जतुप्रकाशं स्वरसं शिलाभ्यः प्रस्रवन्ति हि ४
शिलाजत्विति विख्यातं सर्वव्याधिविनाशनम्
त्रप्वादीनां तु लोहानां षण्णामन्यतमान्वयम् ५
ज्ञेयं स्वगन्धतश्चापि षड्योनि प्रथितं क्षितौ
लोहाद्भवति तद्यस्माच्छिलाजतु जतुप्रभम् ६
तस्य लोहस्य तद्वीर्यं रसं चापि बिभर्ति तत्
त्रपुसीसायसादीनि प्रधानान्युत्तरोत्तरम् ७
यथा तथा प्रयोगेऽपि श्रेष्ठे श्रेष्ठगुणाः स्मृताः
तत्सर्वं तिक्तकटुकं कषायानुरसं सरम् ८
कटुपाक्युष्णवीर्यं च शोषणं छेदनं तथा
तेषु यत् कृष्णमलघु स्निग्धं निःशर्करं च यत् ९
गोमूत्रगन्धि यच्चापि तत् प्रधानं प्रचक्षते
तद्भावितं सारगणैर्हृतदोषो दिनोदये १०
पिबेत् सारोदकेनैव श्लक्ष्णपिष्टं यथाबलम्
जाङ्गलेन रसेनान्नं तस्मिञ्जीर्णे तु भोजयेत् ११
उपयुज्य तुलामेवं गिरिजादमृतोपमात्
वपुर्वर्णबलोपेतो मधुमेहविवर्जितः १२
जीवेद्वर्षशतं पूर्णमजरोऽमरसन्निभः
शतं शतं तुलायां तु सहस्रं दशतौलिके १३
भल्लातकविधानेन परिहारविधिः स्मृतः
मेहं कुष्ठमपस्मारमुन्मादं श्लीपदं गरम् १४
शोषं शोफार्शसी गुल्मं पाण्डुतां विषमज्वरम्
अपोहत्यचिरात्कालाच्छिलाजतु निषेवितम् १५
न सोऽस्ति रोगो यं चापि निहन्यान्न शिलाजतु
शर्करां चिरसंभूतां भिनत्ति च तथाऽश्मरीम् १६
भावनालोडने चास्य कर्तव्ये भेषजैर्हितैः
एवं च माक्षिकं धातुं तापीजममृतोपमम् १७
मधुरं काञ्चनाभासमम्लं वा रजतप्रभम्
पिबन् हन्ति जराकुष्ठमेहपाण्ड्वामयक्षयान् १८
तद्भावितः कपोतांश्च कुलत्थांश्च विवर्जयेत्
पञ्चकर्मगुणातीतं श्रद्धावन्तं जिजीविषुम् १९
योगेनानेन मतिमान् साधयेदपि कुष्ठिनम्
वृक्षास्तुवरका ये स्युः पश्चिमार्णवभूमिषु २०
वीचीतरङ्गविक्षेपमारुतोद्धूतपल्लवाः
तेषां फलानि गृह्णीयात् सुपक्वान्यम्बुदागमे २१
मज्जां तेभ्योऽपि संहृत्य शोषयित्वा विचूर्ण्य च
तिलवत् पीडयेद्द्रो ण्यां स्रावयेद्वा कुसुम्भवत् २२
तत्तैलं संहृतं भूयः पचेदातोयसंक्षयात्
अवतार्य करीषे च पक्षमात्रं निधापयेत् २३
स्निग्धः स्विन्नो हृतमलः पक्षादूर्ध्वं प्रयत्नवान्
चतुर्थभक्तान्तरितः शुक्लादौ दिवसे शुभे २४
मन्त्रपूतस्य तैलस्य पिबेन्मात्रां यथाबलम्
तत्र मन्त्रं प्रवक्ष्यामि येनेदमभिमन्त्र्यते २५
मज्जसार महावीर्य सर्वान् धातून् विशोधय
शङ्खचक्रगदापाणिस्त्वामाज्ञापयतेऽच्युतः २६
तेनास्योर्ध्वमधश्चापि दोषा यान्त्यसकृत्ततः
अस्नेहलवणां सायं यवागूं शीतलां पिबेत् २७
पञ्चाहं प्रपिबेत्तैलमनेन विधिना नरः
पक्षं परिहरेच्चापि मुद्गयूषौदनाशनः २८
पञ्चभिर्दिवसैरेवं सर्वकुष्ठैर्विमुच्यते
तदेव खदिरक्वाथे त्रिगुणे साधु साधितम् २९
निहितं पूर्ववत् पक्षात् पिबेन्मासमतन्द्रि तः
तेनाभ्यक्तशरीरश्च कुर्वीताहारमीरितम् ३०
भिन्नस्वरं रक्तनेत्रं विशीर्णं कृमिभक्षितम्
अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम् ३१
सर्पिर्मधुयुतं पीतं तदेव खदिराम्बुना
पक्षिमांसरसाहारं करोति द्विशतायुषम् ३२
तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम्
वपुष्मन्तं श्रुतिधरं करोति त्रिशतायुषम् ३३
शोधयन्ति नरं पीता मज्जानस्तस्य मात्रया
महावीर्यस्तुवरकः कुष्ठमेहापहः परः ३४
सान्तर्धूमस्तस्य मज्जा तु दग्धः क्षिप्तस्तैले सैन्धवं चाञ्जनं च
पैल्ल्यं हन्यादर्मनक्तान्ध्यकाचान् नीलीरोगं तैमिरं चाञ्जनेन ३५
इति सुश्रुतसंहितायां चिकित्सास्थाने
मधुमेहचिकित्सितं नाम त्रयोदशोऽध्यायः १३
चतुर्दशोऽध्यायः
अथात उदराणां चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अष्टावुदराणि पूर्वमुद्दिष्टानि तेष्वसाध्यं बद्धगुदं परिस्रावि च अवशिष्टानि कृच्छ्रसाध्यानिसर्वाण्येव प्रत्याख्यायोपक्रमेत तेष्वाद्यश्चतुर्वर्गो भेषजसाध्यः उत्तरः शस्त्रसाध्यः कालप्रकर्षात् सर्वाण्येव शस्त्रसाध्यानि वर्जयितव्यानि वा ३
उदरी तु गुर्वभिष्यन्दिरूक्षविदाहिस्निग्धपिशितपरिषेकावगाहान् परिहरेत् शालिषष्टिकयवगोधूमनीवारान् नित्यमश्नीयात् ४
तत्र वातोदरिणं विदारिगन्धादिसिद्धेन सर्पिषास्नेहयित्वा तिल्वकवि पक्वेना नुलोम्य चित्राफलतैलप्रगाढेन विदारिगन्धादिकषायेणास्थापयेदनुवासयेच्च साल्वणेन चोपनाहयेदुदरं भोजयेच्चैनं विदारिगन्धादिसिद्धेन क्षीरेण जाङ्गलरसेन च स्वेदयेच्चाभीक्ष्णम् ५
पित्तोदरिणं तु मधुरगणविपक्वेन सर्पिषा स्नेहयित्वा श्यामात्रिफलात्रिवृद्विपक्वेनानुलोम्य शर्करामधुघृतप्रगाढेन न्यग्रोधादिकषायेणास्थापयेदनुवासयेच्च पायसेनोपनाहयेदुदरं भोजयेच्चनैं विदारिगन्धादिसिद्धेन पयसा ६
श्लेष्मोदरिणं तु पिप्पल्यादिकषायसिद्धेन सर्पिषोपस्नेह्य स्नुहीक्षीरविपक्वेनानुलोम्य त्रिकटुकमूत्रक्षारतैलप्रगाढेन मुष्ककादिकषायेण स्थापयेदनुवासयेच्च शणातसीधातकीकिण्वसर्षपमूलकबीजकल्कैश्चो पनाहयेदुदरं भोजयेच्चैनं त्रिकटुकप्रगाढेन कुलत्थयूषेण पायसेन वा स्वेदयेच्चाभीक्ष्णम् ७
दूष्योदरिणं तु प्रत्याख्याय सप्तलाशङ्खिनीस्वरससिद्धेन सर्पिषा विरेचयेन्मासमर्धमासं वा महावृक्षक्षीरसुरागोमूत्रसिद्धेन वा शुद्धकोष्ठं तु मद्येनाश्वमारकगुञ्जाकाकादनीमूलकल्कं पाययेत् इक्षुकाण्डानि वा कृष्णसर्पेण दंशयित्वा भक्षयेद्वल्लीफलानि वा मूलजं कन्दजं वा विषमासेवयेत् तेनागदो भवत्यन्यं वा भावमापद्यते ८
भवति चात्र
कुपितानिलमूलत्वात् संचितत्वान्मलस्य च
सर्वोदरेषु शंसन्ति बहुशस्त्वनुलोमनम् ९
अत ऊर्ध्वं सामान्ययोगान् वक्ष्यामः तद्यथाएरण्डतैलमहरहर्मासं द्वौ वा केवलं मूत्रयुक्तं क्षीरयुक्तं वा सेवेतोदकवर्जी माहिषं वा मूत्रं क्षीरेण निराहारः सप्तरात्रम् उष्ट्रीक्षीराहारो वान्नवारिवर्जी पक्षं पिप्पलद्यं वा मासं पूर्वोक्तेन विधानेनासेवेत सैन्धवाजमोदायुक्तं वा निकुम्भतैलम् आर्द्र शृङ्गवेररसपात्रशतसिद्धं वा वातशूलेऽवचार्यं शृङ्गवेररसविपक्वं क्षीरमासेवेत चव्यशृङ्गवेरकल्कं वा पयसा सरलदेवदारुचित्रकमेव वा मुरङ्गश्लपर्णीश्यामापुनर्नवाकल्कं वा ज्योतिष्कफलतैलं वा क्षीरेण स्वर्जिकाहिङ्गुमिश्रं पिबेत् गुडद्वितीयां वा हरीतकीं भक्षयेत् स्नुहीक्षीरभावितानां वा पिप्पलीनां सहस्रं कालेन पथ्याकृष्णाचूर्णं वा स्नुहीक्षीरभावितमुत्कारिकां पक्वां दापयेत् हरीतकीचूर्णं प्रस्थमाढके घृतस्यावाप्याङ्गारेष्वभिविलाप्य खजेनाभिमथ्यानुगुप्तं कृत्वाऽधमासं यवपल्ले वासयेत् ततश्चोद्धृत्य परिस्राव्य हरीतकीक्वाथाम्लदधीन्यावाप्य विपचेत् तद्यथायोगं मासमर्धमासं वा पायेयत् गव्ये पयसि महावृक्षक्षीरमावाप्य विपचेत् विपक्वं चावतार्य शीतीभूतं मन्थानेनाभिमथ्य नवनीतमादाय भूयो महावृक्षक्षीरेणैव विपचेत् तद्यथायोगं मासं मासार्धं वा पाययेत् चव्यचित्रकदन्त्यतिविषाकुष्ठसारिवात्रिफलाजमोदहरिद्रा शङ्खिनीत्रिवृत्त्रिकटुकानामर्धकार्षिका भागा राजवृक्ष फलमज्ज्ञामष्टौ कर्षाः महावृक्षक्षीरपले द्वे गवांक्षीरमूत्रयोरष्टावष्टौ पलानि एतत् सर्वं घृतप्रस्थे समावाप्य विपचेत् तद्यथायोगं मासमर्धमासं वा पाययेत् एतानि तिल्वकघृतचतुर्थानिसर्पीष्युदरगुल्म विद्र ध्यष्ठीलानाहकुष्ठन्म्दापस्मारेषूपयोज्यानि विरेचनार्थं मूत्रासवारिष्टसुराश्चाभीक्ष्णं महावृक्षक्षीरसंभृताः सवेत विरेचनद्र व्यकषायं वा शृङ्गवेरदेवदारुप्रगाढम् १०
वमनविरेचनशिरोविरेचनद्र व्याणां पालिका भागाः पिप्पल्यादिवचादिहरिद्रा दिपरिपठितानां च द्र व्याणां श्लक्ष्णपिष्टानां यथोक्तानां च लवणानां तत्सर्वं मूत्रगणे प्रक्षिप्य महावृक्षक्षीरप्रस्थं च मृद्वग्निनाऽवघट्टयन् विपचेदप्रदग्धकल्कं तत्साधुसिद्धमवतार्य शीतीभूतमक्षमात्रा गुटिका वर्तयेत् तासामेकां द्वे तिस्रो वा गुटिका बलापेक्षया मासांस्त्रींश्चतुरो वा सेवेत एषाऽनाहंवर्तिक्रिया विशेषेण महाव्याधिषूपयुज्यते कोष्ठजांश्च कृमीनपहन्ति कासश्वसाकृमिकुष्ठप्रतिश्यायारोचकाविपाकोदावर्तांश्च नाशयति ११
मदनफलमज्जकुटजजीमूतकेक्ष्वाकुधामार्गवत्रिवृत्त्रिकटुकसर्षपलवणानि महावृक्षक्षीरमूत्रयोरन्यतरेण पिष्ट्वाऽङ्गुष्ठमात्रां वर्तिं कृत्वोदरिण आनाहे तैललवणाभ्यक्तगुदस्यैकां द्वे तिस्रो वा पायौ निदध्यात् एषाऽना हवर्तिक्रिया वातमूत्रपुरीषोदावर्ताध्मानानाहेषु विधेया १२
प्लीहोदरिणः स्निग्धस्विन्नस्य दध्ना भुक्तवतो वामबाहौ कूर्पराभ्यन्तरतः सिरां विध्येत् विमर्दयेच्च पाणिना प्लीहानं रुधिरस्यन्दनार्थां ततः संशुद्धदेहं समुद्र शुक्तिकाक्षारं पयसा पाययेत हिङ्गुसौवर्चिके वा क्षीरेण स्रुतेन पलाशक्षारेण वा यवक्षारं किंशुकक्षारोदकेन वा बहुशः स्रुतेन यवक्षारं पारिजातकेक्षुरकापामार्गक्षारं वा तैलसंसृष्टं शोभाञ्जनकयूषं पिप्पलीसैन्धवचित्रकयुक्तं पूतिकरञ्जक्षारंवाऽम्लस्रुतं विड्लवणपिप्पलीप्रगाढम् १३
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरयवक्षारसैन्धवानां पालिका भागाः घृतप्रस्थं तत्तुल्यं च क्षीरं तदैकध्यं विपाचयेत् एतत् षट्पलकं नाम सर्पिः प्लीहाग्निसङ्गगुल्मोदरोदावर्तश्वयथुपाण्डुरोगकासश्वासप्रतिश्यायोर्ध्ववातविष-मज्वरानपहन्ति मन्दाग्निर्वा हिङग्वादिकं चूर्णमुपयुञ्जीत १४
यकृद्दाल्येऽप्येष एव क्रियाविभागः
विशेषतस्तु दक्षिणबाहौ सिराव्यधः १५
मणिबन्धं सकृन्नाम्य वामाङ्गुष्ठसमीरिताम्
दहेत् सिरां शरेणाशु प्लीह्नो वैद्यः प्रशान्तये १६
बद्धगुदे परिस्राविणि च स्निग्धस्विन्नस्याभ्यक्तस्याधो नाभेर्वामतश्चतुरङ्गुलमपहाय रोमराज्या उदरं पाटयित्वा चतुरङ्गुलप्रमाणमन्त्राणि निष्कृष्यनिरीक्ष्य बद्धगुदस्यान्त्रप्रतिरोधकरमश्मानं बालं वाऽपोह्य मलजातं वा ततो मधुसर्पिर्भ्यामभ्यज्यान्त्राणि यथास्थानं स्थापयित्वा बाह्यं व्रणमुदरस्य सीव्येत् परिस्राविण्यप्येवमेव शल्यमुद्धृत्यान्त्रस्रावान् संशोध्य तच्छिद्र मान्त्रं समाधाय कालपिपीलिकाभिर्दंशयेत् दष्टे च तासां कायानपहरेन्न शिरांसि ततः पूर्ववत् सीव्येत् संधानं च यथोक्तं कारयेत् यष्टीमधुकमिश्रया च कृष्णमृदाऽवलिप्य बन्धेनोपचरेत् ततो निवातमागारं प्रवेश्याचारिकमुपदिशेत् वासयेच्चैनं तैलद्रो ण्यां सर्पिर्द्रोण्यं वा पयोवृत्तिमिति १७
दकोदरिणस्तु वातहरतैलाभ्यक्तस्योष्णोदकस्विन्नस्य स्थितस्याप्तैः सुपरिगृहीतस्याकक्षात् परिवेष्टितस्याधोनाभेर्वामतश्चतुरङ्गुलमपहाय रोमराज्या व्रीहिमुखेनाङ्गुष्ठोदरप्रमाणमवगाढं विध्येत् तत्र त्रप्वादीनामन्यतमस्य नाडीं द्विद्वरां पक्षनाडीं वा संयोज्य दोषोदकमवसिञ्चेत् ततो नाडीमपहृत्य तैललवणेनाभ्यज्य व्रणं बन्धेनोपचरेत् न चैकस्मिन्नेव दिवसे सर्वं दोषोदकमपहरेत् सहसा ह्यपहृते तृष्णाज्वराङ्गमर्दातीसारश्वासकासपाददाहा उत्पद्येरन्नापूर्यते वा भृशतरमुदरमसञ्जताप्राणस्यतस्मात्तृतीयचतुर्थपञ्च मषष्ठाष्टमदशमद्वादशषोडशरात्राणामन्यतममन्तरीकृत्य दोषोदकमल्पाल्पम वसिञ्चेत् निःसृते च दोषे गाढतरमाविककौशेयचर्मणामन्यतमेन परिवेष्टयेदुदरं तथा नाध्मापयति वायुः षण्मासांश्च पयसा भोजयेज्जाङ्गलरसेन वा ततस्त्रीन्मासानर्धोदकेन पयसा फलाम्लेन जाङ्गलरसेन वा अवशिष्टं मासत्रयमन्नं लघु हितं वा सेवेत एवंसंवत्सरेणागदो भवति १८
भवति चात्र
आस्थापने चैव विरेचने च पाने तथाऽहारविधिक्रियासु
सर्वोदरिभ्यः कुशलैः प्रयोज्यं क्षीरं शृतं जाङ्गलजो रसो वा १९
इति सुश्रुतसंहितायां चिकित्सास्थाने उदरचिकित्सितं नाम चतुर्दशोऽध्यायः १४
पञ्चदशोऽध्यायः
अथातो मूढगर्भचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
नातोऽन्यत् कष्टतममस्ति यथा मूढगर्भशल्योद्धरणम् अत्र हि योनियकृत्प्ली हान्त्रविवरगर्भाशयानां मध्ये कर्म कर्तव्यं स्पर्शेन उत्कर्षणापकर्षणस्थानापवर्तनोत्कर्तनभेदनच्छेदनपीडनर्जूकरणदारणानि चैकहस्तेन गर्भं गर्भिणीं चाहिंसता तस्मादधिपतिमापृच्छ्य परं च यत्नमास्थायोपक्रमेत ३
तत्र समासेनाष्टविधा मूढगर्भगतिरुद्दिष्टा स्वभावगता अपि त्रयः सङ्गाभवन्तिशिरसो वैगुण्यादंसयोर्जघनस्य वा ४
जीवति तु गर्भे सूतिकागर्भनिर्हरणे प्रयतेत निर्हर्तुमशक्ये च्यावनान् मन्त्रानुपशृणुयात् तान् वक्ष्यामः ५
इहामृतं च सोमश्च चित्रभानुश्च भामिनि
उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते ६
इदममृतमपां समुद्धृतं वै तव लघु गर्भमिमं प्रमुञ्चतु स्त्रि
तदनलपवनार्कवासवास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिम् ७
मुक्ताः पशोर्विपाशाश्च मुक्ताः सूर्येण रश्मयः
मुक्तः सर्वभयाद्गर्भ एह्येहि विरमावितः ८
औषधानि च विदध्याद्यथोक्तानि मृते चोत्तानाया आभुग्नसक्थ्यावस्त्राधार कोन्नमितकट्या धन्वननगवृत्तिकाशाल्मलीमृत्स्नघृताभ्यां म्रक्षयित्वा हस्तं योनौ प्रवेश्य गर्भमुपहरेत् तत्र सक्थिभ्यामागतमनुलोममेवाञ्छेत् एकसन्क्था प्रतिपन्नस्येतरसक्थि प्रसार्यापहरेत् स्फिग्देशेनागतस्य स्फिग्देशं प्रपीड्योर्ध्वमुत्क्षिप्य सक्थिनी प्रसार्यापहरेत् तिर्यगागतस्य परिघस्येव तिरश्चीनस्य पश्चादर्धमूर्ध्वमुत्क्षिप्य पूर्वार्धमपत्यपथं प्रत्यार्जवमानीयापहरेत् पार्श्वापवृत्तशिरसमंसं प्रपीड्योर्ध्वमुत्क्षिप्य शिरोऽपत्यपथमानीयापहरेत् बाहुद्वयप्रतिपन्नस्योर्ध्वमुत्पीड्यांसौ शिरोऽनुलोममानीयापहरेत् द्वावन्त्यावसाध्यौ मुढगर्भौ एवमशक्ये शस्त्रमवचारयेत् ९
सचेतनं च शस्त्रेण न कथञ्चन दारयेत्
दार्यमाणो हि जननीमात्मानं चैव घातयेत् १०
अविषह्ये विकारे तु श्रेयो गर्भस्य पातनम्
न गर्भिण्या विपर्यासस्तस्मात्प्राप्तं न हापयेत् ११
ततः स्त्रियमाश्वास्य मण्डलाग्रेणाङ्गुलीशस्त्रेण वा शिरो विदार्य शिरःकपालान्याहृत्य शङ्कुना गृहीत्वोरसि कक्षायां वाऽपहरेत् अभिन्नशिरसमक्षिकूटे गण्डे वा अंससंसक्तस्यांसदेशे बाहू छित्त्वा दृतिमिवाततं वातपूर्णोदरं वा विदार्य निरस्यान्त्राणि शिथिलीभूतमाहरेत् जघनसक्तस्य वा जघनकपालानीति १२
किंबहुनायद्यदङ्गं हि गर्भस्य तस्य सज्जति तद्भिषक् सम्यग्विनिर्हरेच्छित्त्वा रक्षेन्नारीं च यत्नतः १३
गर्भस्य गतयश्चित्रा जायन्तेऽनिलकोपतः
तत्रानल्पमतिर्वैर्द्यो वर्तेत विधिपूर्वकम् १४
नोपेक्षेत मृतं गर्भं मुहूर्तमपि पण्डितः
स ह्याशु जननीं हन्ति निरुच्छ्वासं पशुं यथा १५
मण्डलाग्रेण कर्तव्यं छेद्यमन्तर्विजानता
वृद्धिपत्रं हि तीक्ष्णाग्रं नारीं हिंस्यात् कदाचन १६
अथापतन्तीमपरां पातयेत् पूर्ववद्भिषक्
हस्तेनापहरेद्वाऽपि पार्श्वभ्यां परिपीड्य वा १७
धुनुयाच्च मुहुर्नारीं पीडयेद्वांऽसपिण्डिकाम्
तैलाक्तयोनेरेवं तां पातयेन्मतिमान् भिषक् १८
एवं निर्हृतशल्यां तु सिञ्चेदुष्णेन वारिणा
ततोऽभ्यक्तशरीराया योनौ स्नेहं निधापयेत् १९
एवं मृद्वी भवेद्योनिस्तच्छूलं चोपशाम्यति
कृष्णातन्मूलशुण्ठ्येलाहिङ्गुभार्गीः सदीप्यकाः २०
वचामतिविषां रास्नां चव्यं संचूर्ण्य पाययेत्
स्नेहेन दोषस्यन्दार्थं वेदनोपशमाय च २१
क्वाथं चैषां तथा कल्कं चूर्णं वा स्नेहवर्जितम्
शाकत्वग्घिङ्ग्वतिविषापाठाकटुकरोहिणीः २२
तथा तेजोवतीं चापि पाययेत् पूर्ववद्भिषक्
त्रिरात्रं पञ्चसप्ताहं ततः स्नेहं पुनः पिबेत् २३
पाययेतासवं नक्तमरिष्टं वा सुसंस्कृतम्
शिरीषककुभाभ्यां च तोयमाचमने हितम् २४
उपद्र वाश्च येऽन्ये स्युस्तान् यथास्वमुपाचरेत्
सर्वतः परिशुद्धा च स्निग्धपथ्याल्पभोजना २५
स्वेदाभ्यङ्गपरा नित्यं भवेत् क्रोधविवर्जिता
पयो वातहरैः सिद्धं दशाहं भोजने हितम् २६
रसं दशाहं शेषे तु यथायोगमुपाचरेत्
व्युपद्र वां विशुद्धां च ज्ञात्वा च वरवर्णिनीम् २७
ऊर्ध्वं चतुर्भ्यो मासेभ्यो विसृजेत् परिहारतः
योनिसन्तर्पणेऽभ्यङ्गे पाने बस्तिषु भोजने २८
बलातैलमिदं चास्यै दद्यादनिलवारणम्
बलामूलकषायस्य दशमूलीशृतस्य च २९
यवकोलकुलत्थानां क्वाथस्य पयसस्तथा
अष्टावष्टौ शुभा भागास्तैलादेकस्तदेकतः ३०
पचेदावाप्य मधुरं गणं सैन्धवसंयुतम्
तथाऽगुरुं सर्जरसं सरलं देवदारु च ३१
मञ्जिष्ठां चन्दनं कुष्ठमेलां कालानुसारिवाम्
मांसीं शैलेयकं पत्रं तगरं सारिवां वचाम् ३२
शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम्
तत् साधुसिद्धं सौवर्णे राजते मृन्मयेऽपि वा ३३
प्रक्षिप्य कलशे सम्यक् स्वनुगुप्तं निधापयेत्
बलातैलमिदं ख्यातं सर्ववातविकारनुत् ३४
यथाबलमतो मात्रां सूतिकायै प्रदापयेत्
याच गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान् ३५
वातक्षीणे मर्महते मथितेऽभिहते तथा
भग्ने श्रमाभिपन्ने च सर्वथैवोपयुज्यते ३६
एतदाक्षेपकादीन् वै वातव्याधीनपोहति
हिक्कां कासमधीमन्थं गुल्मं श्वासं च दुस्तरम् ३७
षण्मासानुपयुज्यैतदन्त्रवृद्धिमपोहति
प्रत्यग्रधातुः पुरुषो भवेच्च स्थिरयौवनः ३८
राज्ञामेतद्धि कर्तव्यं राजमात्राश्च ये नराः
सुखिनः सुकुमाराश्च धनिनश्चापि ये नराः ३९
बलाकषायपीतेभ्यस्तिलेभ्यो वाऽप्यनेकशः
तैलमुत्पाद्य तत्क्वाथशतपाकं कृतं शुभम् ४०
निवाते निभृतागारे प्रयुञ्जीत यथाबलम्
जीर्णेऽस्मिन् पयसा स्निग्धमश्नीयात्षष्टिकौदनम् ४१
अनेन विधिना द्रो णमुपयुज्यान्नमीरितम्
भुञ्जीत द्विगुणं कालं बलवर्णान्वितस्ततः ४२
सर्वपापैर्विनिर्मुक्तः शतायुः पुरुषो भवेत्
शतं शतं तथोत्कर्षो द्रो णे द्रो णे प्रकीर्तितः ४३
बलाकल्पेनातिबलागुडूच्यादित्यपर्णिषु
सैरेयके वीरतरौ शतावर्यां त्रिकण्टके ४४
तैलानि मधुके कुर्यात् प्रसारिण्यां च बुद्धिमान्
नीलोत्पलं वरीमूलं गव्ये क्षीरे विपाचयेत् ४५
शतपाकं ततस्तेन तिलतैलं पचेद्भिषक्
बलातैलस्य कल्कांस्तु सुपिष्टांस्तत्र दापयेत् ४६
सर्वेषामेव जानीयादुपयोगं चिकित्सकः
बलातैलवदेतेषां गुणांश्चैव विशेषतः ४७
इति सुश्रुतसंहितायां चिकित्सास्थाने मूढगर्भचिकित्सितं नाम पञ्चदशोऽध्यायः १५
षोडशोऽध्यायः
अथातो विद्र धीनां चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
उक्ता विद्र धयः षड्ये तेष्वसाध्यस्तु सर्वजः
शेषेष्वामेषु कर्तव्या त्वरितं शोफवत् क्रिया ३
वातघ्नमूलकल्कैस्तु घृततैलवसायुतैः
सुखोष्णो बहलो लेपः प्रयोज्यो वातविद्र धौ ४
सानूपौदकमांसस्तु काकोल्यादिः सतर्पणः
स्नेहाम्लसिद्धो लवणः प्रयोज्यश्चोपनाहने ५
वेशवारैः सकृशरैः पयोभिः पायसैस्तथा
स्वेदयेत् सततं चापि निर्हरेच्चापि शोणितम् ६
स चेदेवमुपक्रान्तः पाकायाभिमुखो यदि
तं पाचयित्वा शस्त्रेण भिन्द्याद्भिन्नं च शोधयेत् ७
पञ्चमूलकषायेण प्रक्षाल्य लवणोत्तरैः
तैलैर्भद्रा दिमधुकसंयुक्तैः प्रतिपूरयेत् ८
वैरेचनिकयुक्तेन त्रैवृतेन विशोध्य च
पृथक्पर्ण्यादिसिद्धेन त्रैवृतेन च रोपयेत् ९
पैत्तिकं शर्करालाजामधुकैः सारिवायुतैः
प्रदिह्यात् क्षीरपिष्टैर्वा पयस्योशीरचन्दनैः १०
पाक्यैः शीतकषायैर्वा क्षीरैरिक्षुरसैस्तथा
जीवनीयघृतैर्वाऽपि सेचयेच्छर्करायुतैः ११
त्रिवृद्धरीतकीनां च चूर्णं लिह्यान्मधुद्र वम्
जलौकोभिर्हरेच्चासृक् पक्वं चापाट्य बुद्धिमान् १२
क्षीरवृक्षकषायेण प्रक्षाल्यौदकजेन वा
तिलैः सयष्टीमधुकैः सक्षौद्रैः सर्पिषा युतैः १३
उपदिह्य प्रतनुना वाससा वेष्टयेद्व्रणम्
प्रपौण्डरीकमञ्जिष्ठामधुकोशीरपद्मकैः १४
सहरिद्रैः कृतं सर्पिः सक्षीरं व्रणरोपणम्
क्षीरशुक्लापृथक्पर्णीसमङ्गारोध्रचन्दनैः १५
न्यग्रोधादिप्रवालेषु तेषां त्वक्ष्वथवा कृतम्
नक्तमालस्य पत्राणि तरुणानि फलानि च १६
सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा
द्वे हरिद्रे मधूच्छिष्टं मधुकं तिक्तरोहिणी १७
प्रियङ्गुः कुशमूलं च निचुलस्य त्वगेव च
मञ्जिष्ठाचन्दनोशीरमुत्पलं सारिवे त्रिवृत् १८
एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत्
दुष्टव्रणप्रशमनं नाडीव्रणविशोधनम् १९
सद्यश्छिन्नव्रणानां च करञ्जाद्यमिदं शुभम्
दुष्टव्रणाश्च ये केचिद्ये चोत्सृष्टक्रिया व्रणाः २०
नाड्यो गम्भीरिका याश्च सद्यश्छिन्नास्तथैव च
अग्निक्षारकृताश्चैव ये व्रणा दारुणा अपि २१
करञ्जाद्येन हविषा प्रशाम्यन्ति न संशयः
इष्टकासिकतालोष्टगोशकृत्तुषपांशुभिः २२
मूत्रैरुष्णैश्च सततं स्वेदयेच्छ्लेष्मविद्र धिम्
कषायपानेर्वमनैरालेपैरुपनाहनैः २३
हरेद्दोषानभीक्ष्णं चाप्यलाब्वाऽसृक् तथैव च
आरग्वधकषायेण पक्वं चापाट्य धावयेत् २४
हरिद्रा त्रिवृताशक्तुतिलैर्मधुसमायुतैः
पूरयित्वा व्रणं सम्यग्बध्नीयात् कीर्तितं यथा २५
ततः कुलत्थिकादन्तीत्रिवृच्छ्यामार्कतिल्वकैः
कुर्यात्तैलं सगोमूत्रं हितं तत्र ससैन्धवम् २६
पित्तविद्र धिवत् सर्वाः क्रिया निरवशेषतः
विद्र ध्योः कुशलः कुर्याद्र क्तागन्तुनिमित्तयोः २७
वरुणादिगणक्वाथमपक्वेऽभ्यन्तरोत्थिते
ऊषकादिप्रतीवापं पिबेत् सुखकरं नरः २८
अनयोर्वर्गयोः सिद्धं सर्पिर्वैरेचनेन च
अचिराद्विद्र धिं हन्ति प्रातः प्रातर्निषेवितम् २९
एभिरेव गणैश्चापि संसिद्धं स्नेहसंयुतम्
कार्यमास्थापनं क्षिप्रं तथैवाप्यनुवासनम् ३०
पानालेपनभोज्येषु मधुशिग्रुद्रुमोऽपि वा
दत्तावापो यथादोषमपक्वं हन्ति विद्र धिम् ३१
तोयधान्याम्लमूत्रैस्तु पेयो वाऽपि सुरादिभिः
यथादोषगणक्वाथैः पिबेद्वाऽपि शिलाजतु ३२
प्रधानं गुग्गुलं चापि शुण्ठीं च सुरदारु च
स्नेहोपनाहौ कुर्याच्च सदा चाप्यनुलोमनम् ३३
यथोद्दिष्टां सिरां विध्येत् कफजे विद्र धौ भिषक्
रक्तपित्तानिलोत्थेषु केचिद्बाहौ वदन्ति तु ३४
पक्वं वा बहिरुन्नद्धं भित्त्वा व्रणवदाचरेत्
स्रुतेषूर्ध्वमधो वाऽपि मैरेयाम्लसुरासवैः ३५
पेयो वरुणकादिस्तु मधुशिग्रुद्रुमोऽपि वा
शिग्रुमूलजले सिद्धं ससिद्धार्थकमोदनम् ३६
यवकोलकुलत्थानां यूषैर्भुञ्जीत मानवः
प्रातः प्रातश्च सेवेत मात्रया तैल्वकं घृतम् ३७
त्रिवृतादिगणक्वाथसिद्धं वाऽप्युपशान्तये
नोपगच्छेद्यथापाकं प्रयतेत तथा भिषक् ३८
पर्यागते विद्र धौ तु सिद्धिर्नैकान्तिकी स्मृता
प्रत्याख्याय तु कुर्वीत मज्जजाते तु विद्र धौ ३९
स्नेहस्वेदोपपन्नानां कुर्याद्र क्तावसेचनम्
विद्र ध्युक्तां क्रियां कुर्यात् पक्वे वाऽस्थि तु भेदयेत् ४०
निःशल्यमथ विज्ञाय कर्तव्यं व्रणशोधनम्
धावेत्तिक्तकषायेण तिक्तं सर्पिस्तथा हितम् ४१
यदि मज्जपरिस्रावो न निवर्तेत देहिनः
कुर्यात् संशोधनीयानि कषायादीनि बुद्धिमान् ४२
प्रियङ्गुधातकीरोध्रकट्फलं तिनिसैन्धवम्
एतैस्तैलं विपक्तव्यं विद्र धिव्रणरोपणम् ४३
इति सुश्रुतसंहितायां चिकित्सास्थाने विद्र धिचिकित्सितं नाम षोडशोऽध्यायः १६
सप्तदशोऽध्यायः
अथातो विसर्पनाडीस्तनरोगचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
साध्या विसर्पास्त्रय आदितो ये न सन्निपातक्षतजौ हि साध्यौ
साध्येषु तत्पथ्यगणैर्विदध्याद्धृतानि सेकांश्च तथोपदेहान् ३
मुस्ताशताह्वासुरदारूकुष्ठवाराहिकुस्तुम्बुरुकृष्णगन्धाः
वातात्मके चोष्णगणाः प्रयोज्याः सेकेषु लेपेषु तथा शृतेषु ४
यत् पञ्चमूलं खलु कण्टकाख्यमल्पं महच्चाप्यथ वल्लिजं च
तच्चोपयोज्यं भिषजा प्रदेहे सेके घृते चापि तथैव तैले ५
कसेरुशृङ्गाटकपद्मगुन्द्राः सशैवलाः सोत्पलकर्दमाश्च
वस्त्रान्तराः पित्तकृते विसर्पे लेपा विधेयाः सघृताः सुशीताः ६
ह्रीवेरलामज्जकचन्दनानि स्रोतोजमुक्तामणिगैरिकाश्च
क्षीरेण पिष्टाः सघृताः सुशीता लेपाः प्रयोज्यस्तनवः सुखाय ७
प्रपौण्डरीकं मधुकं पयस्या मञ्जिष्ठिका पद्मकचन्दने च
सुगन्धिका चेति सुखाय लेपः पैत्ते विसर्पे भिषजा प्रयोज्यः ८
न्यग्रोधवर्गैः परिषेचनं च घृतं च कुर्यात् स्वरसेन तस्य
शीतैः पयोभिश्च मधूदकैश्च सशर्करैरिक्षुरसैश्च सेकान् ९
घृतस्य गौरीमधुकारविन्दरोध्राम्बुराजादनगैरिकेषु
तथर्षभे पद्मकसारिवासु काकोलिमेदाकुमुदोत्पलेषु १०
सचन्दनायां मधुशर्करायां द्रा क्षास्थिरापृश्निशताह्वयासु
कल्कीकृतासूदकमत्र दत्त्वा न्यग्रोधवर्गस्य तथा स्थिरादेः ११
गणस्य बिल्वादिकपञ्चमूल्याश्चतुर्गुणं क्षीरमथापि तद्वत्
प्रस्थं विपक्वं परिषेचनेन पैत्तीर्निहन्यात्तु विसर्पनाडीः १२
विस्फोटदुष्टव्रणशीर्षरोगान् पाकं तथाऽस्यस्य निहन्ति पानात्
ग्रहार्दिते शोषिणि चापि बाले घृतं हि गौर्यादिकमेतदिष्टम् १३
अजाऽश्वगन्धा सरला सकाला सैकैषिका चाप्यथवाऽजशृङ्गी
गोमूत्रपिष्टो विहितः प्रदेहो हन्याद्विसर्पं कफजं स शीघ्रम् १४
कालानुसार्यागुरुचोचगुञ्जारास्नावचाशीतशिवेन्द्र पर्ण्यः
पालिन्दिमुञ्जातमहीकदम्बा हिता विसर्पेषु कफात्मकेषु १५
गणस्तु योज्यो वरुणप्रवृत्तः क्रियासु सर्वासु विचक्षणेन
संशोधनं शोणितमोक्षणं च श्रेष्ठं विसर्पेषु चिकित्सितं हि १६
सर्वांश्च पक्वान् परिशोध्य धीमान् व्रणक्रमेणोपचरेद्यथोक्तम्
नाडी त्रिदोषप्रभवा न सिध्येच्छेषाश्चतस्रः खलु यत्नसाध्याः १७
तत्रानिलोत्थामुपनाह्य पूर्वमशेषतः पूयगतिं विदार्य
तिलैरपामार्गफलैश्च पिष्ट्वा ससैन्धवैर्बन्धनमत्र कुर्यात् १८
प्रक्षालने चापि सदा व्रणस्य योज्यं महद्यत् खलु पञ्चमूलम्
हिंस्रां हरिद्रां कटुकां बलां च गोजिह्विकां चापि सबिल्वमूलाम् १९
संहृत्य तैलं विपचेद्व्रणस्य संशोधनं पूरणरोपणं च
पित्तात्मिकां प्रागुपनाह्य धीमानुत्कारिकाभिः सपयोघृताभिः २०
निपात्य शस्त्रं तिलनागदन्तीयष्ट्याह्वकल्कैः परिपूरयेत्ताम्
प्रक्षालने चापि ससोमनिम्बा निशा प्रयोज्या कुशलेन नित्यम् २१
श्यामात्रिभण्डीत्रिफलासु सिद्धं हरिद्र यो रोध्रकवृक्षयोश्च
घृतं सदुग्धं व्रणतर्पणेन हन्याद्गतिं कोष्ठगताऽपि या स्यात् २२
नाडीं कफोत्थामुपनाह्य सम्यक् कुलत्थसिद्धार्थकशक्तुकिण्वैः
मृदूकृतामेष्य गतिं विदित्वा निपातयेच्छस्त्रमशेषकारी २३
दद्याद्व्रणे निम्बतिलान् सदन्तीन् सुराष्ट्रजासैन्धवसंप्रयुक्तान्
प्रक्षालने चापि करञ्जनिम्बजात्यक्षपीलुस्वरसाः प्रयोज्याः २४
सुवर्चिकासैन्धवचित्रकेषु निकुम्भतालीतलरूपिकासु
फलेष्वपामार्गभवेषु चैव कुर्यात् समूत्रेषु हिताय तैलम् २५
नाडीं तु शल्यप्रभवां विदार्य निर्हृत्य शल्यं प्रविशोध्य मार्गम्
संशोधयेत् क्षौद्र घृतप्रगाढैस्तिलैस्ततो रोपणमाशु कुर्यात् २६
कुम्भीकखर्जूरकपित्थबिल्ववनस्पतीनां च शलाटुवर्गैः
कृत्वा कषायं विपचेत्तु तैलमावाप्य मुस्तासरलाप्रियङ्गूः २७
सुगन्धिकामोचरसाहिपुष्पं रोध्रं विदध्यादपि धातकीं च
एतेन शल्यप्रभवा तु नाडी रोहेद्व्रणो वा सुखमाशु चैव २८
कृशदुर्बलभीरूणां नाडी मर्माश्रिता च या
क्षारसूत्रेण तां च्छिन्द्यान्न तु शस्त्रेण बुद्धिमान् २९
एषण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम्
सूचीं निदध्याद्गत्यन्ते तथोन्नम्याशु निर्हरेत् ३०
सूत्रस्यान्तं समानीय गाढं बन्धं समाचरेत्
ततः क्षारबलं वीक्ष्य सूत्रमन्यत् प्रवेशयेत् ३१
क्षाराक्तं मतिमान् वैद्यो यावन्न छिद्यते गतिः
भगन्दरेऽप्येष विधिः कार्यो वैद्येन जानता ३२
अर्बुदादिषु चोत्क्षिप्य मूले सूत्रं निधापयेत्
सूचीभिर्यववक्त्राभिराचितान् वा समन्ततः
मूले सूत्रेण बध्नीयाच्छिन्ने चोपचरेद्व्रणम् ३३
या द्विव्रणीयेऽभिहितास्तु वर्त्यस्ताः सर्वनाडीषु भिषग्विदध्यात्
घोण्टाफलत्वग्लवणानि लाक्षापूगीफलं चालवणं च पत्रम् ३४
स्नुह्यर्कदुग्धेन तु कल्क एष वर्तीकृतो हन्त्यचिरेण नाडीः
बिभीतकाम्रास्थिवटप्रवाला हरेणुकाशङ्खिनिबीजमस्यः ३५
वाराहिकन्दश्च तथा प्रदेयो नाडीषु तैलेन च मिश्रयित्वा ३६
धत्तूरजं मदनकोद्र वजं च बीजं कोशातकी शुकनसा मृगभोजिनी च
अङ्कोटबीजकुसुमं गतिषु प्रयोज्यं लाक्षोदकाहृतमलासु विकृत्य चूर्णम् ३७
तथा च गोमांसमसीं हिताय कोष्ठाश्रितस्यादरतो दिशन्ति
वर्तीकृतं माक्षिकसंप्रयुक्तं नाडीघ्नमुक्तं लवणोत्तमं वा ३८
दुष्टव्रणे यद्विहितं च तैलं तत् सर्वनाडीषु भिषग्विदध्यात्
चूर्णीकृतैरथ विमिश्रितमेभिरेव तैलं प्रयुक्तमचिरेण गतिं निहन्ति ३९
एष्वेव मूत्रसहितेषु विधाय तैलं तत् साधितं गतिमपोहति सप्तरात्रात्
पिण्डीतकस्य तु वराहविभावितस्य मूलेषु कन्दशकलेषु च सौवहेषु ४०
तैलं कृतं गतिमपोहति शीघ्रमेतत् कन्देषु चामरवरायुधसाह्वयेषु
भल्लातकार्कमरिचैर्लवणोत्तमेन सिद्धं विडङ्गरजनीद्वयचित्रकैश्च ४१
स्यान्मार्कवस्य च रसेन निहन्ति तैलं नाडीं कफानिलकृतामपचीं व्रणांश्च
स्तन्ये गते विकृतिमाशु भिषक् तु धात्रीं पीतां घृतं परिणतेऽहनि वामयेत्तु ४२
निम्बोदकेन मधुमागधिकायुतेन वान्तागतेऽहनि च मुद्गरसाशना स्यात्
एवं त्र्यहं चतुरहं षडहं वमेद्वा सर्पिः पिबेत्त्रिफलया सह संयुतं वा ४३
भार्गीं वचामतिविषां सुरदारु पाठां मुस्तादिकं मधुरसां कटुरोहिणीं च
धात्री पिबेत्तु पयसः परिशोधनार्थमारग्वधादिषु वरं मधुना कषायम् ४४
सामान्यमेतदुपदिष्टमतो विशेषाद्दोषान् पयोनिपतितान् शमयेद्यथास्वम्
रोगं स्तनोत्थितमवेक्ष्य भिषग्विदध्याद्यद्विद्र धावभिहितं बहुशो विधानम् ४५
संपच्यमानमपि तं तु विनोपनाहैः संभोजनेन खलु पाचयितुं यतेत
शीघ्रं स्तनो हि मृदुमांसतयोपनद्धः सर्वं प्रकोथमुपयात्यवदीर्यते च ४६
पक्वे तु दुग्धहरिणीः परिहृत्य नाडीः कृष्णं च चूचुकयुगं विदधीत शस्त्रम्
आमे विदाहिनि तथैव गते च पाकं धात्र्याः स्तनौ सततमेव च निर्दुहीत ४७
इति सुश्रुतसंहितायां चिकित्सास्थाने विसर्पनाडीस्तनरोगचिकित्सितं नाम सप्तदशोऽध्यायः १७
अष्टादशोऽध्यायः
अथातो ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
ग्रन्थिष्वथामेषु भिषग्विदध्याच्छोफक्रियां विस्तरशो विधिज्ञः
रक्षेद्बलं चापि नरस्य नित्यं तद्र क्षितं व्याधिबलं निहन्ति ३
तैलं पिबेत् सर्पिरथो द्वयं वा दत्त्वा वसां वा त्रिवृतं विदध्यात्
अपेहिवातादशमूलसिद्धं वैद्यश्चतुःस्नेहमथो द्वयं वा ४
हिंस्राऽथ रोहिण्यमृताऽथ भार्गी श्योनाकबिल्वागुरुकृष्णगन्धाः
गोजी च पिष्टा सह तालपत्र्या ग्रन्थौ विधेयोऽनिलजे प्रलेपः ५
स्वेदोपनाहान् विविधांश्च कुर्यात्तथा प्रसिद्धानपरांश्च लेपान्
विदार्य वा पक्वमपोह्य पूयं प्रक्षाल्य बिल्वार्कनरेन्द्र तोयैः ६
तिलैः सपञ्चाङ्गुलपत्रमिश्रैः संशोधयेत् सैन्धवसंप्रयुक्तैः
शुद्धं व्रणं वाऽप्युपरोपयेत्तु तैलेन रास्नासरलान्वितेन ७
विडङ्गयष्टीमधुकामृताभिः सिद्धेन वा क्षीरसमन्वितेन
जलौकसः पित्तकृते हितास्तु क्षीरोदकाभ्यां परिषेचनं च ८
काकोलिवर्गस्य च शीतलानि पिबेत् कषायाणि सशर्कराणि
द्रा क्षारसेनेक्षुरसेन वाऽपि चूर्णं पिबेच्चापि हरीतकीनाम् ९
मधूकजम्ब्वर्जुनवेतसानां त्वग्भिः प्रदेहानवचारयेत
सशर्करैर्वा तृणशून्यकन्दैर्दिह्यादभीक्ष्णं मुचुलुन्दजैर्वा १०
विदार्य वा पक्वमपोह्य पूयं धावेत् कषायेण वनस्पतीनाम्
तिलैः सयष्टीमधुकैर्विशोध्य सर्पिः प्रयोज्यं मधुरैर्विपक्वम् ११
हृतेषु दोषेषु यथानुपूर्व्या ग्रन्थौ भिषक् श्लेष्मसमुत्थिते तु
स्विन्नस्य विम्लापनमेव कुर्यादङ्गुष्ठलोहोपलवेणुदण्डैः १२
विकङ्कतारग्वधकाकणन्तीकाकादनीतापसवृक्षमूलैः
आलेपयेत् पिण्डफलार्कभार्गीकरञ्जकालामदनैश्च विद्वान् १३
अमर्मजातं शममप्रयान्तमपक्वमेवापहरेद्विदार्य
दहेत् स्थिते चासृजि सिद्धकर्मा सद्यःक्षतोक्तं च विधिं विदध्यात् १४
या मांसकन्द्यः कठिना बृहत्यस्तास्वेष योज्यश्च विधिर्विधिज्ञैः
शस्त्रेण वाऽपाठ्य सुपक्वमाशु प्रक्षालयेत् पथ्यतमैः कषायैः १५
संशोधनैस्तं च विशोधयेत्तु क्षारोत्तरैः क्षौद्र गुडप्रगाढैः
शुद्धे च तैलं त्ववचारणीयं विडङ्गपाठारजनीविपक्वम् १६
मेदःसमुत्थे तिलकल्कदिग्धं दत्त्वोपरिष्टाद्द्विगुणं पटान्तम्
हुताशतप्तेन मुहुः प्रमृज्याल्लोहेन धीमानदहन् हिताय १७
प्रलिप्य दार्वीमथ लाक्षया वा प्रतप्तया स्वेदनमस्य कार्यम्
निपात्य वा शस्त्रमपोह्य मेदो दहेत् सुपक्वं त्वथवा विदार्य १८
प्रक्षाल्य मूत्रेण तिलैः सुपिष्टैः सुवर्चिकाद्यैर्हरितालमिश्रैः
ससैन्धवैः क्षौद्र घृतप्रगाढैः क्षारोत्तरैरेनमभिप्रशोध्य १९
तैलं विदद्यादिद्वकरञ्जगुञ्जावंशावलेखेङ्गुदमूत्रसिद्धम्
जीमूतकैः कोशवतीफलैश्च दन्तीद्र वन्तीत्रिवृतासु चैव २०
सर्पिः कृतं हन्त्यपचीं प्रवृद्धां द्विधा प्रवृत्तं तदुदारवीर्यम्
निर्गुण्डिजातीबरिहिष्ठयुक्तं जीमूतकं माक्षिकसैन्धवाढ्यम् २१
अभिप्रतप्तं वमनं प्रगाढं दुष्टापचीषूत्तममादिशन्ति
कैडर्यबिम्बीकरवीरसिद्धं तैलं हितं मूर्धविरेचनं च २२
शाखोटकस्य स्वरसेन सिद्धं तैलं हितं नस्यविरेचनेषु
मधूकसारश्च हितोऽवपीडे फलानि शिग्रोः खरमञ्जरेर्वा २३
ग्रन्थीनमर्मप्रभवानपक्वानुद्धृत्य चाग्निं विदधीत पश्चात्
क्षारेण वाऽपि प्रतिसारयेत्तु संलिख्य शस्त्रेण यथोपदेशम् २४
पार्ष्णि प्रति द्वे दश चाङ्गुलानि मित्वेन्द्र बस्तिं परिवर्ज्य धीमान्
विदार्य मत्स्याण्डनिभानि वैद्यो निष्कृष्य जालान्यनलं विदध्यात् २५
आ गुल्फकर्णात् सुमितस्य जन्तोस्तस्याष्टभागं खुडकाद्विभज्य
घोणर्जुवेधः सुरराजबस्तेर्हित्वाऽक्षिमात्रं त्वपरे वदन्ति २६
मणिबन्धोपरिष्टाद्वा कुर्याद्रे खात्रयं भिषक्
अङ्गुल्यन्तरितं सम्यगपचीनां निवृत्तये २७
चूर्णस्य काले प्रचलाककाकगोधाहिकूर्मप्रभवां मसीं तु
दद्याच्च तैलेन सहेङ्गुदीनां यद्वक्ष्यते श्लीपदिनां च तैलम् २८
विरेचनं धूममुपाददीत भवेच्च नित्यं यवमुद्गभोजी
कर्कारुकैर्वारुकनारिकेलप्रियालपञ्चाङ्गुलबीजचूर्णैः २९
वातार्बुदं क्षीरघृताम्बुसिद्धैरुष्णैः सतैलैरुपनाहयेत्तु
कुर्याच्च मुख्यान्युपनाहनानि सिद्धैश्च मांसैरथ वेसवारैः ३०
खेदं विदध्यात् कुशलस्तु नाड्या शृङ्गेण रक्तं बहुशो हरेच्च
वातघ्ननिर्यूहपयोम्लभागैः सिद्धं शताख्यं त्रिवृतं पिबेद्वा ३१
स्वेदोपनाहा मृदवस्तु कार्याः पित्तार्बुदे कायविरेचनं च
विघृष्य चोदुम्बरशाकगोजीपत्रैर्भृशं क्षौद्र युतैः प्रलिम्पेत् ३२
श्लक्ष्णीकृतैः सर्जरसप्रियङ्गुपत्तङ्गरोध्राञ्जनयष्टिकाह्वैः
विस्राव्य चारग्वधगोजिसोमाः श्यामा च योज्या कुशलेन लेपे ३३
श्यामागिरिह्वाञ्जनकीरसेषु द्रा क्षारसे सप्तलिकारसे च
घृतं पिबेत् क्लीतकसंप्रसिद्धं पित्तार्बुदी तज्जठरी च जन्तुः ३४
शुद्धस्य जन्तोः कफजेऽबुदे तु रक्तेऽवसिक्ते तु ततोऽबुदं तत्
द्र व्याणि यान्यूर्ध्वमधश्च दोषान् हरन्ति तैः कल्ककृतैः प्रदिह्यात् ३५
कपोतपारावतविडिवमिश्रैः सकांस्यनीलैः शुकलाङ्गलाख्यैः
मूत्रैस्तु काकादनिमूलमिश्रैः क्षारप्रदिग्धैरथवा प्रदिह्यात् ३६
निष्पावपिण्याककुलत्थकल्कैर्मांसप्रगाढैर्दधिमस्तुयुक्तैः
लेपं विदध्यात् कृमयो यथाऽत्र मूर्च्छन्ति मुञ्चन्त्यथ मक्षिकाश्च ३७
अल्पावशिष्टे कृमिभक्षिते च लिखेत्ततोऽग्नि विदधीत पश्चात्
यदल्पमूलं त्रपुताम्रसीसपट्टैः समावेष्ट्य तदायसैर्वा ३८
क्षाराग्निशस्त्राण्यसकृद्विदध्यात् प्राणानहिंसन् भिषगप्रमत्तः
आस्फोतजातीकरवीरपत्रैः कषायमिष्टं व्रणशोधनार्थम् ३९
शुद्धे च तैलं विदधीत भार्गीविडङ्गपाठात्रिफलाविपक्वम्
यदृच्छया चोपगतानि पाकं पाकक्रमेणोपचरेद्विधिज्ञः ४०
मदोर्बुदं स्विन्नमथो विदार्य विशोध्य सीव्येद्गतरक्तमाशु
ततो हरिद्रा गृहधूमरोध्रपतङ्गचूर्णैः समनःशिलालैः ४१
व्रणं प्रतिग्राह्य मधुप्रगाढैः करञ्जतैलं विदधीत शुद्धे
सशेषदोषाणि हि योऽबुदानि करोति तस्याशु पुनर्भवन्ति ४२
तस्मादशेषाणि समुद्धरेत्तु हन्युः सशेषाणि यथा हि वह्निः
संस्वेद्य गण्डं पवनोत्थमादौ नाड्याऽनिलघ्नौषधपत्रभङ्गैः ४३
अम्लैः समूत्रैर्विविधैः पयोभिरुष्णैः सतैलैः पिशितैश्च विद्वान्
विस्रावयेत् स्विन्नमतन्द्रि तश्च शुद्धं व्रणं चाप्युपनाहयेत्तु ४४
शणातसीमूलकशिग्रुकिण्वप्रियालमज्जानुयुतैस्तिलैस्तु
कालामृताशिग्रुपुनर्नवार्कगजादिनामाकरहाटकुष्ठैः ४५
एकैषिकावृक्षकतिल्वकैश्च सुराम्लपिष्टैरसकृत् प्रदिह्यात् ४६
तैलं पिबेच्चामृतवल्लिनिम्बहंसाह्वयावृक्षकपिप्पलीभिः
सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे ४७
खेदोपनाहैः कफसंभवं तु संस्वेद्य विस्रावणमेव कुर्यात्
ततोऽजगन्धातिविषाविशल्याविषाणिकाकुष्ठशुकाह्वयाभिः ४८
पलाशभस्मोदकपेषिताभिर्दिह्यात् सुगुञ्जाभिरशीतलाभिः
दशार्धसङ्ख्यैर्लवणैश्च युक्तं तैलं पिबेन्मागधिकादिसिद्धम् ४९
प्रच्छर्दनं मूर्धविरेचनं च धूमश्च वैरेचनिको हितस्तु
पाकक्रमो वाऽपि सदा विधेयो वैद्येन पाकङ्गतयोः कथञ्चित् ५०
कटुत्रिकक्षौद्र युताः समूत्रा भक्ष्या यवान्नानि रसाश्च मौद्गाः
सशृङ्गवेराः सपटोलनिम्बा हिताय देया गलगण्डरोगे ५१
मेदःसमुत्थे तु यथोपदिष्टां विध्येत् सिरां स्निग्धतनोर्नरस्य
श्यामासुधालोहपुरीषदन्तीरसाञ्जनैश्चापि हितः प्रदेहः ५२
मूत्रेण वाऽलोड्य हिताय सारं प्रातः पिबेत् सालमहीरुहाणाम्
शस्त्रेण वाऽपाट्य विदार्य चैनं मेदः समुद्धृत्य हिताय सीव्येत् ५३
मज्जाज्यमेदोमधुभिर्दहेद्वा दग्धे च सर्पिर्मधु चावचार्यम्
कासीसतुत्थे च ततोऽत्र देये चूर्णीकृते रोचनया समेते ५४
तैलेन चाभ्यज्य हिताय दद्यात् सारोद्भवं गोमयजं च भस्म
हितश्च नित्यं त्रिफलाकषायो गाढश्च बन्धो यवभोजनं च ५५
इति सुश्रुतसंहितायां चिकित्सास्थाने ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितं नामाष्टादशोऽध्यायः १८
एकोनविंशोऽध्यायः
एकोनविंशोऽध्यायः
अथातो वृद्ध्य्पुदंशश्लीपदचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अन्त्रवृद्ध्या विना षड्या वृद्धयस्तासु वर्जयेत्
अश्वादियानं व्यायामं मैथुनं वेगनिग्रहम् ३
अत्यासनं चङ्क्रमणमुपवासं गुरूणि च
तत्रादितो वातवृद्धौ त्रैवृतस्निग्धमातुरम् ४
स्विन्नं चैनं यथान्यायं पाययेत विरेचनम्
कोशाम्रतिल्वकैरण्डफलतैलानि वा नरम् ५
सक्षीरं वा पिबेन्मासं तैलमेरण्डसंभवम्
ततः कालेऽनिलघ्नानां क्वाथैः कल्कैश्च बुद्धिमान् ६
निरूहयेन्निरूढं च भुक्तवन्तं रसौदनम्
यष्टीमधुकसिद्धेन ततस्तैलेन योजयेत् ७
स्नेहोपनाहौ कुर्याच्च प्रदेहांश्चानिलापहान्
विदग्धां पाचयित्वा वा सेवनीं परिवर्जयेत् ८
भिन्द्यात्ततः प्रभिन्नायां यथोक्तं क्रममाचरेत्
पित्तजायामपक्वायां पित्तग्रन्थिक्रमो हितः ९
पक्वां वा भेदयेद्भिन्नां शोधयेत् क्षौद्र सर्पिषा
शुद्धायां च भिषग्दद्यात्तैलं कल्कं च रोपणम् १०
रक्तजायां जलौकोभिः शोणितं निर्हरेद्भिषक्
पिबेद्विरेचनं वाऽपि शर्कराक्षौद्र संयुतम् ११
पित्तग्रन्थिक्रमं कुर्यादामे पक्वे च सर्वदा
वृद्धिं कफात्मिकामुष्णैर्मूत्रपिष्टैः प्रलेपयेत् १२
पीतदारुकषायं च पिबेन्मूत्रेण संयुतम्
विम्लापनादृते वाऽपि श्लेष्मग्रन्थिक्रमो हितः १३
पक्वायां च विभिन्नायां तैलं शोधनमिष्यते
सुमनारुष्कराङ्कोठसप्तपर्णेषु साधितम् १४
मेदःसमुत्थां संस्वेद्य लेपयेत् सुरसादिना
शिरोविरेकद्र व्यैर्वा सुखोष्णैर्मूत्रसंयुतैः १५
स्विन्नां चावेष्ट्य पट्टेन समाश्वास्य तु मानवम्
रक्षन् फले सेवनीं च वृद्धिपत्रेण दारयेत् १६
मेदस्ततः समुद्धृत्य दद्यात् कासीससैन्धवे
बघ्नीयाच्च यथोद्दिष्टं शुद्धे तैलं च दापयेत् १७
मनःशिलाललवणैः सिद्धमारुष्करेषु च
मूत्रजां स्वेदयित्वा तु वस्त्रपट्टेन वेष्टयेत् १८
सेवन्याः पार्श्वतोऽधस्ताद्विध्येद् व्रीहिमुखेन तु
अथात्र द्विमुखां नाडीं दत्त्वा विस्रावयेद्भिषक् १९
मूत्रं नाडीमथोद्धृत्य स्थगिकाबन्धमाचरेत्
शुद्धायां रोपणं दद्याद्वर्जयेदन्त्रहैतुकीम् २०
अप्राप्तफलकोषायां वातवृद्धिक्रमो हितः
तत्र या वङ्क्षणस्था तां दहेदर्धेन्दुवक्त्रया २१
सम्यङ्मार्गावरोधार्थं कोशप्राप्तां तु वर्जयेत्
त्वचं भित्त्वाऽङ्गुष्ठमध्ये दहेच्चाङ्गविपर्ययात् २२
अनेनैव विधानेन वृद्धी वातकफात्मिके
प्रदहेत् प्रयतः किन्तु स्नायुच्छेदोऽधिकस्तयोः २३
शङ्खोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीम्
व्यत्यासाद्वा सिरां विध्येदन्त्रवृद्धिनिवृत्तये २४
उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिनः
सिरां विध्येन्मेढ्रमध्ये पातयेद्वा जलौकसः २५
हरेदुभयतश्चापि दोषानत्यर्थमुच्छ्रितान्
सद्योऽपहृतदोषस्य रुक्शोफावुपशाम्यतः २६
यदि वा दुर्बलो जन्तुर्न वा प्राप्तं विरेचनम्
निरूहेण हरेत्तस्य दोषानत्यर्थमुच्छ्रितान् २७
प्रपौण्डरीकयष्ट्याह्ववर्षाभूकुष्ठदारुभिः
सरलागुरुरास्नाभिर्वातजं संप्रलेपयेत् २८
निचुलैरण्डबीजानि यवगोधूमसक्तवः
एतैश्च वातजं स्निग्धैः सुखोष्णैः संप्रलेपयेत् २९
प्रपौण्डरीकपूर्वैश्च द्र व्यैः सेकः प्रशस्यते
गैरिकाञ्जनयष्ट्याह्वसारिवोशीरपद्मकैः ३०
सचन्दनोत्पलैः स्निग्धैः पैत्तिकं संप्रलेपयेत्
पद्मोत्पलमृणालैश्च ससर्जार्जुनवेतसैः ३१
सर्पिःस्निग्धैः समधुकैः पैत्तिकं संप्रलेपयेत्
सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः ३२
अथवाऽपि सुशीतेन कषायेण वटादिना
सालाश्वकर्णाजकर्णधवत्वग्भिः कफोत्थितम् ३३
सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत्
रजन्यतिविषामुस्तासुरसासुरदारुभिः ३४
सपत्रपाठापत्तूरैरथवा संप्रलेपयेत्
सुरसारग्वधाद्योश्च क्वाथाभ्यां परिषेचयेत् ३५
एवं संशोधनालेपसेकशोणितमोक्षणैः
प्रतिकुर्यात् क्रियायोगैः प्राक्स्थानोक्तैर्हितैरपि ३६
न याति च यथा पाकं प्रयतेत तथा भिषक्
विदग्धैस्तु सिरास्नायुत्वङ्मांसैः क्षीयते ध्वजः ३७
शस्त्रेणोपचरेच्चापि पाकमागतमाशु वै
तदाऽपोह्य तिलैः सर्पिःक्षौद्र युक्तैः प्रलेपयेत् ३८
करवीरस्य पत्राणि जात्यारग्वधयोस्तथा
प्रक्षालने प्रयोज्यानि वैजयन्त्यर्कयोरपि ३९
सौराष्ट्रीं गैरिकं तुत्थं पुष्पकासीससैन्धवम्
रोध्रं रसाञ्जनं दार्वीं हरितालं मनःशिलाम् ४०
हरेणुकैले च तथा सूक्ष्मचूर्णानि कारयेत्
तच्चूर्णं क्षौद्र संयुक्तमुपदंशेषु पूजितम् ४१
जम्ब्वाम्रसुमनानिम्बश्वेतकाम्बोजिपल्लवाः
शल्लकीबदरीबिल्वपलाशतिनिशत्वचः ४२
क्षीरिणां च त्वचो योज्याः क्वाथे त्रिफलया सह
तेन क्वाथेन नियतं व्रणं प्रक्षालयेद्भिषक् ४३
अस्मिन्नेव कषाये तु तैलं धीरो विपाचयेत्
गोजीविडङ्गयष्टीभिः सर्वगन्धैश्च संयुतम् ४४
एतत् सर्वोपदंशेषु श्रेष्ठं रोपणमिष्यते
स्वर्जिकातुत्थकासीसं शैलेयं च रसाञ्जनम् ४५
मनःशिलासमैश्चूर्णं व्रणवीसर्पनाशनम्
गुन्द्रां दग्ध्वा कृतं भस्म हरितालं मनःशिला ४६
उपदंशविसर्पाणामेतच्छान्तिकरं परम्
मार्कवस्त्रिफला दन्ती ताम्रचूर्णमयोरजः ४७
उपदंशं निहन्त्येष वृक्षमिन्द्रा शनिर्यथा
उपदंशद्वयेऽप्येतां प्रत्याख्यायाचरेत् क्रियाम् ४८
तयोरेव च या योग्या वीक्ष्य दोषबलाबलम्
उपदंशे विशेषेण शृणु भूयस्त्रिदोषजे ४९
दुष्टव्रणविधिं कुर्यात् कुथितं मेहनं त्यजेत्
जम्ब्वोष्ठेनाग्निवर्णेन पश्चाच्छेषं दहेद्भिषक् ५०
सम्यग्दग्धं च विज्ञाय मधुसर्पिः प्रयोजयेत्
शुद्धे च रोपणं दद्यात् कल्कं तैलं हितं च यत् ५१
स्नेहस्वेदोपपन्ने तु श्लीपदेऽनिलजे भिषक्
कृत्वा गुल्फोपरि सिरां विध्येत्तु चतुरङ्गुले ५२
समाप्यायितदेहं च वस्तिभिः समुपाचरेत्
मासमेरण्डजं तैलं पिबेन्मूत्रेण संयुतम् ५३
पयसौदनमश्नीयान्नागरक्वथितेन च
त्रैवृतं चोपयुञ्जीत शस्तो दाहस्तथाऽग्निना ५४
गुल्फस्याधः सिरां विध्येच्छ्लीपदे पित्तसंभवे
पित्तघ्नीं च क्रियां कुर्यात् पित्तार्बुदविसर्पवत् ५५
सिरां सुविदितां विध्येदङ्गुष्ठे श्लैष्मिके भिषक्
मधुयुक्तानि चाभीक्ष्णं कषायाणि पिबेन्नरः ५६
पिबेद्वाऽप्यभयाकल्कं मूत्रेणान्यतमेन च
कटुकाममृतां शुण्ठीं विडङ्गं दारु चित्रकम् ५७
हितं वा लेपने नित्यं भद्र दारु सचित्रकम्
विडङ्गमरिचार्केषु नागरे चित्रकेऽथवा ५८
भद्र दार्वेलुकाख्ये च सर्वेषु लवणेषु च
तैलं पक्वं पिबेद्वाऽपि यवान्नं च हितं सदा ५९
पिबेत् सर्षपतैलं वा श्लीपदानां निवृत्तये
पूतीकरञ्जपत्राणां रसं वाऽपि यथाबलम् ६०
अनेनैव विधानेन पुत्रञ्जीवकजं रसम्
प्रयुञ्जीत भिषक् प्राज्ञः कालसात्म्यविभागवित् ६१
केवुकाकन्दनिर्यासं लवणं त्वथ पाकिमम्
रसं दत्त्वाऽथ पूर्वोक्तं पेयमेतद्भिषग्जितम् ६२
काकादनीं काकजङ्घां बृहतीं कण्टकारिकाम्
कदम्बपुष्पीं मन्दारीं लम्बां शुकनसां तथा ६३
दग्ध्वा मूत्रेण तद्भस्म स्रावयेत् क्षारकल्पवत्
तत्र दद्यात् प्रतीवापं काकोदुम्बरिकारसम् ६४
मदनाच्च फलात् क्वाथं शुकाख्यस्वरसं तथा
एष क्षारस्तु पानीयः श्लीपदं हन्ति सेवितः ६५
अपचीं गलगण्डं च ग्रहणीदोषमेव च
भक्तस्यानशनं चैव हन्यात् सर्वविषाणि च ६६
एष्वेव तैलं संसिद्धं नस्याभ्यङ्गेषु पूजितम्
एतानेवामयान् हन्ति ये च दुष्टव्रणा नृणाम् ६७
द्र वन्तीं त्रिवृतां दन्तीं नीलद्यं श्यामां तथैव च
सप्तलां शङ्खिनीं चैव दग्ध्वा मूत्रेण गालयेत् ६८
दद्याच्च त्रिफलाक्वाथमेष क्षारस्तु साधितः
अधो गच्छति पीतस्तु पूर्वैश्चाप्याशिषः समाः ६९
इति सुश्रुतसंहितायां चिकित्सास्थाने वृद्ध्य्पुदंशश्लीपदचिकित्सितं नामैकोनविंशोऽध्यायः १९
विंशतितमोऽध्यायः
अथातः क्षुद्र रोगचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
तत्राजगल्लिकामामां जलौकोभिरुपाचरेत्
शुक्तिश्रघ्न्यवक्षारकल्कैश्चालेपयेद्भिषक् ३
श्यामालाङ्गलकिपाठाकल्कैर्वाऽपि विचक्षणः
पक्वां व्रणविधानेन यथोक्तेन प्रसाधयेत् ४
अन्धालजीं यवप्रख्यां पनसीं कच्छपीं तथा
पाषाणगर्दभं चैव पूर्वं स्वेदेन योजयेत् ५
मनःशिलातालकुष्ठदारुकल्कैः प्रलेपयेत्
परिपाकगतान् भित्त्वा व्रणवत् समुपाचरेत् ६
विवृतामिन्द्र वृद्धां च गर्दभीं जालगर्दभम्
इरिवेल्लीं गन्धनाम्नीं कक्षां विस्फोटकांस्तथा ७
पित्तजस्य विसर्पस्य क्रियया साधयेद्भिषक्
रोपयेत् सर्पिषा पक्वान् सिद्धेन मधुरौषधैः ८
चिप्य मुष्णाम्बुना सिक्तमुत्कृत्य स्रावयेद् भिषक्
चक्रतैलेन चाभ्यज्य सर्जचूर्णेन चूर्णयेत् ९
बन्धेनोपचरेच्चैनमशक्यं चाग्निना दहेत्
मधुरौषधसिद्धेन ततस्तैलेन रोपयेत् १०
कुनखे विधिरप्येष कार्यो हि भिषजा भवेत्
उपाचरेदनुशयीं श्लेष्मविद्र धिवद्भिषक् ११
विदारिकां समभ्यज्य स्विन्नां विम्लाप्य लेपयेत्
नगवृत्तिकवर्षाभूबिल्वमूलैः सुपेषितैः १२
व्रणभावगतायां वा कृत्वा संशोधनक्रियाम्
रोपणार्थं हितं तैलं कषायमधुरैः शृतम् १३
प्रच्छानैर्वा जलौकोभिः स्राव्याऽपक्वा विदारिका
अजकर्णैः सपालाशमूलकल्कैः प्रलेपयेत् १४
पक्वां विदार्य शस्त्रेण पटोलपिचुमर्दयोः
कल्केन तिलयुक्तेन सर्पिर्मिश्रेण लेपयेत् १५
बद्ध्वा च क्षीरवृक्षस्य कषायैः खदिरस्य च
व्रंणं प्रक्षालयेच्छुद्धां ततस्तां रोपयेत् पुनः १६
मेदोऽबुदविधानेन साधयेच्छर्करार्बुदम्
कच्छूं विचर्चिकां पामां कुष्ठवत् समुपाचरेत् १७
लेपश्च शस्यते सिक्थशताह्वागौरसर्षपैः
वचादार्वीसर्षपैर्वा तैलं वा नक्तमालजम् १८
सारतैलमथाभ्यङ्गे कुर्वीत कटुकैः शृतम्
पाददार्यां सिरां विद्ध्वा स्वेदाभ्यङ्गौ प्रयोजयेत् १९
मधूच्छिष्टवसामज्जसर्जचूर्णघृतैः कृतः
यवाह्वगैरिकोन्मिश्रैः पादलेपः प्रशस्यते २०
पादौ सिक्त्वाऽरनालेन लेपनं ह्यलसे हितम्
कल्कीकृतैर्निम्बतिलकासीसालैः ससैन्धवैः २१
लाक्षारसोऽभया वाऽपि कार्यं स्याद्र क्तमोक्षणम्
सिद्धं रसे कण्टकार्यास्तैलं वा सार्षपं हितम् २२
कासीसरोचनशिलाचूर्णैर्वा प्रतिसारणम्
उत्कृत्य दग्ध्वा स्नेहेन जयेत् कदरसंज्ञकम् २३
इन्द्र लुप्ते सिरां मूर्ध्नि स्निग्धस्विन्नस्य मोक्षयेत्
कल्कैः समरिचैर्दिह्याच्छिलाकासीसतुत्थकैः २४
कुटन्नटदारुकल्कैर्लेपनं वा प्रशस्यते
प्रच्छयित्वाऽवगाढं वा गुञ्जाकल्कैर्मुहुर्मुहुः २५
लेपयेदुपशान्त्यर्थं कुर्याद्वाऽपि रसायनम्
मालतीकरवीराग्निनक्तमालविपाचितम् २६
तैलमभ्यञ्जने शस्तमिन्द्र लुप्तापहं परम्
अरूंषिकां हृते रक्ते सेचयेन्निम्बवारिणा २७
दिह्यात् सैन्धवयुक्तेन वाजिविष्ठारसेन तु
हरितालनिशानिम्बकल्कैर्वा सपटोलजैः २८
यष्टीनीलोत्पलैरण्डमार्कवैर्वा प्रलेपयेत्
इन्द्र लुप्तापहं तैलमभ्यङ्गे च प्रशस्यते
सिरां दारुणके विद्ध्वा स्निग्धस्विन्नस्य मूर्धनि २९
अवपीडं शिरोबस्तिमभ्यङ्गं च प्रयोजयेत्
क्षालने कोद्र वतृणक्षारतोयं प्रशस्यते ३०
उपरिष्टात् प्रवक्ष्यामि विधिं पलितनाशनम्
मसूरिकायां कुष्ठघ्नलेपनादिक्रिया हिता ३१
पित्तश्लेष्मविसर्पोक्ता क्रिया वा संप्रशस्यते
जतुमणिं समुत्कृत्य मषकं तिलकालकम् ३२
क्षारेण प्रदहेद्युक्त्या वह्निना वा शनैः शनैः
न्यच्छे व्यङ्गे सिरामोक्षो नीलिकायां च शस्यते ३३
यथान्यायं यथाभ्यासं लालाट्यादिसिराव्यधः
घृष्ट्वा दिह्यात्त्वचं पिष्ट्वा क्षीरिणां क्षीरसंयुताम् ३४
बलातिबलयष्ट्याह्वरजनीर्वा प्रलेपनम्
पयस्यागुरुकालीयलेपनं वा सगैरिकम् ३५
क्षौद्रा ज्ययुक्तया लिम्पेद्दंष्ट्रया शूकरस्य च
कपित्थराजादनयोः कल्कं वा हितमुच्यते ३६
यौवने पिडकास्वेष विशेषाच्छर्दनं हितम्
लेपनं च वचारोध्रसैन्धवैः सर्षपान्वितैः ३७
कुस्तुम्बुरुवचालोध्रकुष्ठैर्वा लेपनं हितम्
पद्मिनीकण्टके रोगे छर्दयेन्निम्बवारिणा ३८
तेनैव सिद्धं सक्षौद्रं सर्पिःपानं प्रदापयेत्
निम्बारग्वधयोः कल्को हित उत्सादने भवेत् ३९
परिवृत्तिं घृताभ्यक्तां सुस्विन्नामुपनाहयेत्
ततोऽभ्यज्य शनैश्चर्म चानयेत् पीडयेन्मणिम् ४०
प्रविष्टे च मणौ चर्म स्वेदयेदुपनाहनैः
त्रिरात्रं पञ्चरात्रं वा वातघ्नैः साल्वणादिभिः ४१
दद्याद्वातहरान् बस्तीन् स्निग्धान्यन्नानि भोजयेत्
वपाटिकां जयेदेवं यथादोषं चिकित्सकः ४२
निरुद्धप्रकशे नाडीं लौहीमुभयतोमुखीम्
दारवीं वा जतुकृतां घृताभ्यक्तां प्रवेशयेत् ४३
परिषेके वसामज्जशिशुमारवराहयोः
चक्रतैलं तथा योज्यं वातघ्नद्र व्यसंयुतम् ४४
त्र्यहात्त्र्यहात् स्थूलतरां सम्यङ्नाडीं प्रवेशयेत्
स्रोतो विवर्धयेदेवं स्निग्धमन्नं च भोजयेत् ४५
भित्त्वा वा सेवनीं मुक्त्वा सद्यःक्षतवदाचरेत्
सन्निरुद्धगुदं रोगं वल्मीकं वह्निरोहिणीम् ४६
प्रत्याख्याय यथायोगं चिकित्सितमथाचरेत्
विसर्पोक्तेन विधिना साधयेदग्निरोहिणीम् ४७
सन्निरुद्धगुदे योज्या निरुद्धप्रकशक्रिया
शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसाधयेत् ४८
विधानेनार्बुदोक्तेन शोधयित्वा च रोपयेत्
वल्मीकं तु भवेद्यस्य नातिवृद्धममर्मजम् ४९
तत्र संशोधनं कृत्वा शोणितं मोक्षयेद्भिषक्
कुलत्थिकाया मूलैश्च गुडूच्या लवणेन च ५०
आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च
श्यामामूलैः सपललैः शक्तुमिश्रैः प्रलेपयेत् ५१
सुस्निग्धैश्च सुखोष्णैश्च भिषक् तमुपनाहयेत्
पक्वं वा तद्विजानीयाद्गतीः सर्वा यथाक्रमम् ५२
अभिज्ञाय ततश्छित्त्वा प्रदहेन्मतिमान् भिषक्
संशोध्य दुष्टमांसानि क्षारेण प्रतिसारयेत् ५३
व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान् भिषक्
सुमना ग्रन्थयश्चैव भल्लातकमनःशिले ५४
कालानुसारी सूक्ष्मैला चन्दनागुरुणी तथा
एतैः सिद्धं निम्बतैलं वल्मीके रोपणं हितम् ५५
पाणिपादोपरिष्टात्तु छिद्रै र्बहुभिरावृतम्
वल्मीकं यत् सशोफं स्याद्वर्ज्यं तत्तु विजानता ५६
धात्र्याः स्तन्यं शोधयित्वा बाले साध्याऽहिपूतना
पटोलपत्रत्रिफलारसाञ्जनविपाचितम् ५७
पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनाम्
त्रिफलाकोलखदिरकषायं व्रणरोपणम् ५८
कासीसरोचनातुत्थहरितालरसाञ्जनैः
लेपोऽम्लपिष्टो बदरीत्वग्वा सैन्धवसंयुता ५९
कपालतुत्थजं चूर्णं चूर्णकाले प्रयोजयेत्
चिकित्सेन्मुष्ककच्छूं चाप्यहिपूतनपामवत् ६०
गुदभ्रंशे गुदं स्विन्नं स्नेहाभ्यक्तं प्रवेशयेत्
कारयेद्गोफणाबन्धं मध्यच्छिद्रे ण चर्मणा ६१
विनिर्गमार्थं वायोश्च स्वेदयेच्च मुहुर्मुहुः
क्षीरे महत्पञ्चमूलं मूषिकां चान्त्रवर्जिताम् ६२
पक्त्वा तस्मिन् पचेत्तैलं वातघ्नौषधसंयुतम्
गुदभ्रंशमिदं कृच्छ्रं पानाभ्यङ्गात् प्रसाधयेत् ६३
इति सुश्रुतसंहितायां चिकित्सास्थाने क्षुद्र रोगचिकित्सितं
नाम विंशोऽध्यायः २०
एकविंशोऽध्यायः
अथातः शूकदोषचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
संलिख्य सर्षपीं सम्यक् कषायैरवचूर्णयेत्
कषायेष्वेव तैलं च कुर्वीत व्रणरोपणम् ३
अष्ठीलिकां जलौकोभिर्ग्राहयेच्च पुनः पुनः
तथा चानुपशाम्यन्तीं कफग्रन्थिवदुद्धरेत् ४
स्वेदयेद्ग्रथितं शश्वन्नाडीस्वेदेन बुद्धिमान्
सुखोष्णैरुपनाहैश्च सुस्निग्धैरुपनाहयेत् ५
कुम्भीकां पाकमापन्नां भिन्द्याच्छुद्धां तु रोपयेत्
तैलेन त्रिफलालोध्रतिन्दुकाम्रातकेन तु ६
ग्राहयित्वा जलौकोभिरलजीं सेचयेत्ततः
कषायैस्तेषु सिद्धं च तैलं रोपणमिष्यते ७
बलातैलेन कोष्णेन मृदितं परिषेचयेत्
मधुरैः सर्पिषा स्निग्धैः सुखोष्णैरुपनाहयेत् ८
संमूढपिडकां क्षिप्रं जलौकोभिरुपाचरेत्
भित्त्वा पर्यागतां चापि लेपयेत् क्षौद्र सर्पिषा ९
अवमन्थे गते पाकं भिन्ने तैलं विधीयते
धवाश्वकर्णपत्तङ्गसल्लकीतिन्दुकीकृतम् १०
क्रियां पुष्करिकायां तु शीतां सर्वां प्रयोजयेत्
जलौकोभिर्हरेच्चासृक् सर्पिषा चावसेचयेत् ११
स्पर्शहान्यां हरेद्र क्तं प्रदिह्यान्मधुरैरपि
क्षीरेक्षुरससर्पिर्भिः सेचयेच्च सुशीतलैः १२
पिडकामुत्तमाख्यां च बडिशेनोद्धरेद्भिषक्
उद्धृत्य मधुसंयुक्तैः कषायैरवचूर्णयेत् १३
रसक्रिया विधातव्या लिखिते शतपोनके
पृथक्पर्ण्यादिसिद्धं च देयं तैलमनन्तरम् १४
क्रियां कुर्याद्भिषक् प्राज्ञस्त्वक्पाकस्य विसर्पवत्
रक्तविद्र धिवच्चापि क्रिया शोणितजेऽबुदे १५
कषायकल्कसर्पींषि तैलं चूर्णं रसक्रियाम्
शोधनं रोपणं चैव वीक्ष्य वीक्ष्यावचारयेत् १६
हितं च सर्पिषः पानं पथ्यं चापि विरेचनम्
हितः शोणितमोक्षश्च यच्चापि लघु भोजनम् १७
अर्बुदं मांसपाकं च विद्र धिं तिलकालकम्
प्रत्याख्याय प्रकुर्वीत भिषक् सम्यक् प्रतिक्रियाम् १८
इति सुश्रुतसंहितायां चिकित्सास्थाने शूकरोगचिकित्सितं नामैकविंशोऽध्यायः २१
द्वाविंशोऽध्यायः
अथातो मुखरोगचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
चतुर्विधेन स्नेहेन मधुच्छिष्टयुतेन च
वातजेऽभ्यञ्जनं कुर्यान्नाडीस्वेदं च बुद्धिमान् ३
विदध्यादोष्ठकोपे तु साल्वणं चोपनाहने
मस्तिष्के चैव नस्ये च तैलं वातहरं हितम् ४
श्रीवेष्टकं सर्जरसं सुरदारु सगुग्गुलु
यष्टीमधुकचूर्णं तु विदध्यात् प्रतिसारणम् ५
पित्तरक्ताभिघातोत्थं जलौकोभिरुपाचरेत्
पित्तविद्र धिवच्चापि क्रियां कुर्यादशेषतः ६
शिरोविरेचनं धूमः स्वेदः कवल एव च
हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके ७
त्र्यूषणं स्वर्जिकाक्षारो यवक्षारो विडं तथा
क्षौद्र युक्तं विधातव्यमेतच्च प्रतिसारणम् ८
मेदोजे स्वेदिते भिन्ने शोधिते ज्वलनो हितः
प्रियङ्गुत्रिफलालोध्रं सक्षौद्रं प्रतिसारणम् ९
एतदोष्ठप्रकोपानां साध्यानां कर्म कीर्तितम्
दन्तमूलगतानां तु रोगाणां कर्म वक्ष्यते १०
शीतादे हृतरक्ते तु तोये नागरसर्षपान्
निष्क्वाथ्य त्रिफलां मुस्तं गण्डूषः सरसाञ्जनः ११
प्रियङ्गवश्च मुस्तं च त्रिफला च प्रलेपनम्
नस्यं च त्रिफलासिद्धं मधुकोत्पलपद्मकैः १२
दन्तपुप्पुटके कार्यं तरुणे रक्तमोक्षणम्
सपञ्चलवणः क्षारः सक्षौद्रः प्रतिसारणम् १३
हितः शिरोविरेकश्च नस्यं स्निग्धं च भोजनम्
विस्राविते दन्तवेष्टे व्रणांस्तु प्रतिसारयेत् १४
रोध्रपत्तङ्गयष्ट्याह्वलाक्षाचूर्णैर्मधूत्तरैः
गण्डूषे क्षीरिणो योज्याः सक्षौद्र घृतशर्कराः १५
काकोल्यादौ दशक्षीरसिद्धं सर्पिश्च नस्यतः
शौषिरे हृतरक्ते तु रोध्रमुस्तरसाञ्जनैः १६
सक्षौद्रैः शस्यते लेपो गण्डूषे क्षीरिणो हिताः
सारिवोत्पलयष्ट्याह्वसावरागुरुचन्दनैः १७
क्षीरे दशगुणे सिद्धं सर्पिर्नस्ये च पूजितम्
क्रियां परिदरे कुर्याच्छीतादोक्तां विचक्षणः १८
संशोध्योभयतः कार्यं शिरश्चोपकुशे तथा
काकोदुम्बरिकागोजीपत्रैर्विस्रावयेदसृक् १९
क्षौद्र युक्तैश्च लवणैः सव्योषैः प्रतिसारयेत्
पिप्पलद्यः सर्षपाञ् श्वेतान्नागरं नैचूलं फलम् २०
सुखोदकेन संसृज्य कवलं चापि धारयेत्
घृतं मधुरकैः सिद्धं हितं कवलनस्ययोः २१
शस्त्रेण दन्तवैदर्भे दन्तमूलानि शोधयेत्
ततः क्षारं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः २२
उद्धृत्याधिकदन्तं तु ततोऽग्निमवचारयेत्
कृमिदन्तकवच्चापि विधिः कार्यो विजानता २३
छित्त्वाऽधिमांसं सक्षौद्रै रेभिश्चूर्णैरुपाचरेत्
वचातेजोवतीपाठास्वर्जिकायावशूकजैः २४
क्षौद्र द्वितीयाः पिप्पल्यः कवलश्चात्र कीर्तितः
पटोलत्रिफलानिम्बकषायश्चात्र धावने
हितः शिरोविरेकश्च धूमो वैरेचनश्च यः २५
सामान्यं कर्म नाडीनां विशेषं चात्र मे शृणु
नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत् २६
यं दन्तमभिजायेत नाडी तं दन्तमुद्धरेत्
छित्त्वा मांसानि शस्त्रेण यदि नोपरिजो भवेत् २७
शोधयित्वा दहेच्चापि क्षारेण ज्वलनेन वा
भिनत्त्युपेक्षिते दन्ते हनुकास्थि गतिर्ध्रुवम् २८
समूलं दशनं तस्मादुद्धरेद्भग्नमस्थिरम्
उद्धृते तूत्तरे दन्ते समूले स्थिरबन्धने २९
रक्तातियोगात् पूर्वोक्ता रोगा घोरा भवन्ति हि
काणः संजायते जन्तुरर्दितं चास्य जायते ३०
चलमप्युत्तरं दन्तमतो नापहरेद्भिषक्
धावने जातिमदनस्वादुकण्टकखादिरम् ३१
कषायं जातिमदनकटुकस्वादुकण्टकैः
यष्ट्याह्वरोध्रमञ्जिष्ठाखदिरैश्चापि यत् कृतम् ३२
तैलं संशोधनं तद्धि हन्याद्दन्तगतां गतिम्
कीर्तिता दन्तमूले तु क्रिया दन्तेषु वक्ष्यते ३३
स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य वा
निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः ३४
स्नैहिकश्च हितो धूमो नस्यं स्निग्धं च भोजनम्
रसो रसयवाग्वश्च क्षीरं सन्तानिका घृतम् ३५
शिरोबस्तिर्हितश्चापि क्रमो यश्चानिलापहः
अहिंसन् दन्तमूलानि शर्करामुद्धरेद्भिषक् ३६
लाक्षाचूर्णैर्मधुयुतैस्ततस्ताः प्रतिसारयेत्
दन्तहर्षक्रियां चापि कुर्यान्निरवशेषतः ३७
कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता
जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम् ३८
तथाऽवपीडैर्वातघ्नैः स्नेहगण्डूषधारणैः
भद्र दार्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः ३९
चलमुद्धृत्य च स्थानं विदहेत् सुषिरस्य च
ततो विदारीयष्ट्याह्वशृङ्गाटककसेरुकैः ४०
तैलं दशगुणे क्षीरे सिद्धं नस्ये हितं भवेत्
हनुमोक्षे समुद्दिष्टां कुर्याच्चार्दितवत् क्रियाम् ४१
फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम्
तथाऽतिकठिनान् भक्ष्यान् दन्तरोगी विवर्जयेत् ४२
साध्यानां दन्तरोगाणां चिकित्सितमुदीरितम्
जिह्वागतानां साध्यानां कर्म वक्ष्यामि सिद्धये ४३
ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक् चिकित्सितम्
कण्टकेष्वनिलोत्थेषु तत् कार्यं भिषजा भवेत् ४४
पित्तजेषु विघृष्टेषु निःसृते दुष्टशोणिते
प्रतिसारणगण्डूषं नस्यं च मधुरं हितम् ४५
कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये
पिप्पल्यादिर्मधुयुतः कार्यस्तु प्रतिसारणे ४६
गृह्णीयात् कवलांश्चापि गौरसर्षपसैन्धवैः
पटोलनिम्बवार्ताकुक्षारयूषैश्च भोजयेत् ४७
उपजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत्
शिरोविरेकगण्डूषधूमैश्चैनमुपाचरेत् ४८
जिह्वागतानां कर्मोक्तं तालव्यानां प्रवक्ष्यते
अङ्गुष्ठाङ्गुलिसंदंशेनाकृष्य गलशुण्डिकाम् ४९
छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम्
नोत्कृष्टं चैव हीनं च त्रिभागं छेदयेद्भिषक् ५०
अत्यादानात् स्रवेद्र क्तं तन्निमित्तं म्रियेत च
हीनच्छेदाद्भवेच्छोफो लाला निद्रा भ्रमस्तमः ५१
तस्माद्वैद्यः प्रयत्नेन दृष्टकर्मा विशारदः
गलशुण्डीं तु सञ्छिद्य कुर्यात् प्राप्तमिमं क्रमम् ५२
मरिचातिविषापाठावचाकुष्ठकुटन्नटैः
क्षौद्र युक्तैः सलवणैस्ततस्तां प्रतिसारयेत् ५३
वचामतिविषां पाठां रास्नां कटुकरोहिणीम्
निष्क्वाथ्य पिचुमन्दं च कवलं तत्र योजयेत् ५४
इङ्गुदीकिणिहीदन्तीसरलासुरदारुभिः
पञ्चाङ्गीं कारयेत् पिष्टैर्वर्तिं गन्धोत्तरां शुभाम् ५५
ततो धूमं पिबेज्जन्तुर्द्विरह्नः कफनाशनम्
क्षारसिद्धेषु मुद्गेषु यूषश्चाप्यशने हितः ५६
तुण्डिकेर्यध्रुषे कूर्मे सङ्घाते तालुपुप्पुटे
एष एव विधिः कार्यो विशेषः शस्त्रकर्मणि ५७
तालुपाके तु कर्तव्यं विधानं पित्तनाशनम्
स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः ५८
कीर्तितं तालुजानां तु कण्ठ्यानां कर्म वक्ष्यते
साध्यानां रोहिणीनां तु हितं शोणितमोक्षणम् ५९
छर्दनं धूमपानं च गण्डूषो नस्यकर्म च
वातिकीं तु हृते रक्ते लवणैः प्रतिसारयेत् ६०
सुखोष्णान् स्नेहगण्डूषान् धारयेच्चाप्यभीक्ष्णशः
पतङ्गशर्कराक्षौद्रैः पैत्तिकीं प्रतिसारयेत् ६१
द्रा क्षापरूषकक्वाथो हितश्च कवलग्रहे
अगारधूमकटुकैः श्लैष्मिकीं प्रतिसारयेत् ६२
श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम्
नस्यकर्मणि योक्तव्यं तथा कवलधारणे ६३
पित्तवत् साधयेद्वैद्यो रोहिणीं रक्तसंभवाम्
विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् ६४
एककालं यवान्नं च भुञ्जीत स्निग्धमल्पशः
उपजिह्विकवच्चापि साधयेदधिजिह्विकाम् ६५
एकवृन्दं तु विस्राव्य विधिं शोधनमाचरेत्
गिलायुश्चापि यो व्याधिस्तं च शस्त्रेण साधयेत् ६६
अमर्मस्थं सुपक्वं च भेदयेद्गलविद्र धिम्
वातात् सर्वसरं चूर्णैर्लवणैः प्रतिसारयेत् ६७
तैलं वातहरैः सिद्धं हितं कवलनस्ययोः
ततोऽस्मै स्नैहिकं धूममिमं दद्याद्विचक्षणः ६८
शालराजादनैरण्डसारैङ्गुदमधूकजाः
मज्जानो गुग्गुलुध्याममांसीकालानुसारिवाः
श्रीसर्जरसशैलेयमधूच्छिष्टानि चाहरेत् ६९
तत्सर्वं सुकृतं चूर्णं स्नेहेनालोड्य युक्तितः
टिण्टूकवृन्तं सक्षौद्रं मतिमांस्तेन लेपयेत् ७०
एष सर्वसरे धूमः प्रशस्तः स्नैहिको मतः
कफघ्नो मारुतघ्नश्च मुखरोगविनाशनः ७१
पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः
सर्वः पित्तहरः कार्यो विधिर्मधुरशीतलः ७२
प्रतिसारणगण्डूषौ धूमः संशोधनानि च
कफात्मके सर्वसरे विधिं कुर्यात् कफापहम् ७३
पिबेदतिविषां पाठां मुस्तं च सुरदारु च
रोहिणीं कटुकाख्यां च कुटजस्य फलानि च ७४
गवां मूत्रेण मनुजो भागैर्धरणसंमितैः
एष सर्वान् कफकृतान् रोगान् योगोऽपकर्षति ७५
क्षीरेक्षुरसगोमूत्रदधिमस्त्वम्लकाञ्जिकैः
विदध्यात् कवलान् वीक्ष्य दोषं तैलघृतैरपि ७६
रोगाणां मुखजातानां साध्यानां कर्म कीर्तितम्
असाध्या अपि वक्ष्यन्ते रोगा ये तत्र कीर्तिताः ७७
ओष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजाः
दन्तमूलेषु वर्ज्यौ तु त्रिलिङ्गगतिसौषिरौ ७८
दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः
जिह्वागतेष्वलासस्तु तालव्येष्वर्बुदं तथा ७९
स्वरघ्नो वलयो वृन्दो विदार्यलस एव च
गलौष्ठो मांसतानश्च शतघ्नी रोहिणी च या ८०
असाध्याः कीर्तिता ह्येते रोगा नव दशैव च
तेषां चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ८१
इति सुश्रुतसंहितायां चिकित्सास्थाने मुखरोगचिकित्सितं नाम द्वाविंशोऽध्यायः २२
त्रयोविंशतितमोऽध्यायः
अथातः शोफानां चिकित्सतं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
षडिवधोऽवयवसमुत्थः शोफोऽभिहितो लक्षणतः प्रतीकारतश्च सर्वसरस्तु
पञ्चविधः तद्यथावातपित्तश्लेष्मसन्निपातविषनिमित्तः ३
तत्रापतर्पितस्याध्वगमनातिमात्रमभ्यवहरतो वा पिष्टान्नहरितकशाक लवणानिक्षीणस्य वाऽतिमात्रमम्लमुपसेवमानस्य मृत्पक्वलोष्टकटशर्करानूपौदकमांससेवनादजीर्णिनो वा ग्राम्यधर्मसेवनाद्विरुद्धहारसेवनात् वा हस्त्यश्वोष्ट्ररथपदातिसङ्क्षोभणादयो सितस्य दोषा धातून् प्रदूष्य श्वयथुमापादयन्त्यखिले शरीरे ४
तत्र वातश्वयथुररुणः कृष्णो वा मृदुरनवस्थितास्तोदादयश्चात्र वेदनाविशेषाः पित्तश्वयथुः पीतः सरक्तो वा मृदुः शीघ्रानुसार्यूषादयश्चात्र वेदनाविशेषाः श्लेष्मश्वयथुः पाण्डुः शुक्लो वा स्निग्धः कठिनः शीतो मन्दानुसारी कण्ड्वादयश्चात्र वेदनाविशेषाः सन्निपातश्वयथुः सर्ववर्णवेदनः विषनिमित्तस्तु गरोपयोगाद्दुष्टतोयसेवनात् प्रकुथितोदकावगाहनात् सविषसत्त्वदिग्धचूर्णेनावचूर्णनाद्वा सविषमूत्रपुरीषशुक्रस्पृष्टानां वा तृणकाष्ठादीनां संस्पर्शनात् स तु मृदुः क्षिप्रोत्थानोऽवलम्बी चलोऽचलो वा दाहपाकरागप्रायश्च भवति ५
भवन्ति चात्र
दोषाः श्वयथुमूर्ध्वं हि कुर्वन्त्यामाशयस्थिताः
पक्वाशयस्था मध्ये च वर्चःस्थानगतास्त्वधः ६
कृत्स्नं देहमनुप्राप्ताः कुर्युः सर्वसरं तथा
श्वयथुर्मध्यदेशे यः स कष्टः सर्वगश्च यः ७
अर्धाङ्गेऽरिष्टभूतश्च यश्चोर्ध्वं परिसर्पति
श्वासः पिपासा दौर्बल्यं ज्वरश्च्छर्दिररोचकः ८
हिक्कातीसारकासाश्च शूनं सङ्क्षपयन्ति हि
सामान्यतो विशेषाच्च तेषां वक्ष्यामि भेषजम् ९
शोफिनः सर्व एव परिहरेयुरम्ललवणदधिगुड
वसापयस्तैलघृतपिष्टमयगुरूणि १०
तत्र वातश्वयथौ त्रैवृतमेरण्डतैलं वा मासमर्ध मासं वा पाययेत् न्यग्रोधादिककषायसिद्धं सर्पिः पित्तश्वयथौ आरग्वधादिसिद्धं सर्पिः श्लेष्मश्वयथौ सन्निपातश्वयथौ स्नुहीक्षीरपात्रं द्वादशभिरम्लपात्रैः प्रतिसंसृज्य दन्तीद्र वन्तीप्रतीवापं सर्पिः पाचयित्वा पाययेत् विषनिमित्तेषु कल्पेषु प्रतीकारः ११
अत ऊर्ध्वं सामान्यचिकित्सितमुपदेक्ष्यामः तिल्वकघृतचतुर्थानि यान्युक्तान्युदरेषु ततोऽन्यतममुपयुज्यमानं श्वयथुमपहन्ति मूत्रवर्तिक्रियां वा सेवेत नवायसं वाऽहरहर्मधुना विडङ्गातिविषाकुटजफलभद्रदारुनागरमरिचचूर्णं वा धरणमुष्णाम्बुना त्रिकटुक्षारायश्चूर्णानि वा त्रिफलाकषायेण मूत्रं वा तुल्यक्षीरं हरीतकीं वा तुल्यगुडामुपयुञ्जीत देवदारुशुण्ठीं वा गुग्गुलुं वा मूत्रेण वर्षाभूकषायानुपानं वा तुल्यगुडं शृङ्गवेरं वा वर्षाभूकषायं मूलकल्कं वा सशृङ्गवेरं पयोऽनुपानमहरहर्मासं व्योषवर्षाभूकषायसिद्धेन वा सर्पिषा मुद्गोलुम्बान् भक्षयेत् पिप्पलीपिप्पलीमूलचव्यचित्रकमयूरकवर्षाभूसिद्धं वा क्षीरं पिबेत् सहौषधमुरङ्गीमूलसिद्धं वा त्रिकटुकैरण्डश्यामामूलसिद्धं वा वर्षाभूशृङ्गवेरसहादेवदारुसिद्धं वा तथाऽलाबूबिभीतकफलकल्कं वा तण्डुलाम्बुना क्षारपिप्पलीमरि चशृङ्गवेरानुसिद्धेन च मुद्गयूषेणालवणेनाल्पस्नेहेन भोजयेद्यवान्नं गोधूमान्नं वा वृक्षकार्कनक्तमालनिम्बवर्षाभूक्वाथैश्च परिषेकः सर्षपसुवर्चलासैन्धवशार्ङ्गेष्टाभिश्च प्रदेहः कार्यःयथादोषं च वमनविरेचनास्थापनानि तीक्ष्णान्यजस्रमुपसेवेत स्नेहस्वेदोपनाहांश्च सिराभिश्चाभीक्षणं शोणितमवसेचयेदन्यत्रोपद्र वशोफादिति १२
भवति चात्र
पिष्टान्नमम्लं लवणानि मद्यं मृदं दिवास्वप्नमजाङ्गलं च
स्त्रियो घृतं तैलपयोगुरूणि शोफं जिघांसुः परिवर्जयेत्तु १३
इति सुश्रुतसंहितायां चिकित्सास्थाने शोथचिकित्सितं नाम त्रयोविंशोऽध्यायः २३
चतुर्विंशतितमोऽध्यायः
अथातोऽनागताबाधाप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
उत्थायोत्थाय सततं स्वस्थेनारोग्यमिच्छा
धीमता यदनुष्ठेयं तत् सर्वं संप्रवक्ष्यते ३
तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम्
कनिष्ठिकापरीणाहमृज्वग्रन्थितमव्रणम् ४
अयुग्मग्रन्थि यच्चापि प्रत्यग्रं शस्तभूमिजम्
अवेक्ष्यर्तुं च दोषं च रसं वीर्यं च योजयेत् ५
कषायं मधुरं तिक्तं कटुकं प्रातरुत्थितः
निम्बश्च तिक्तके श्रेष्ठः कषाये खदिरस्तथा ६
मधूको मधुरे श्रेष्ठः करञ्जः कटुके तथा
क्षौद्र व्योषत्रिवर्गाक्तं सतैलं सैन्धवेन च ७
चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत्
एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन च ८
दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन्
तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणं चापकर्षति ९
वैशद्यमन्नाभिरुचिं सौमनस्यं करोति च
न खादेद्गलताल्वोष्ठजिह्वारोगसमुद्भवे १०
अथास्यपाके श्वासे च कासहिक्कावमीषु च
दुर्बलोऽजीर्णभक्तश्च मूर्च्छार्तो मदपीडितः ११
शिरोरुजार्तस्तृषितः श्रान्तः पानक्लमान्वितः
अर्दिती कर्णशूली च दन्तरोगी च मानवः १२
जिह्वानिर्लेखनं रौप्यं सौवर्णं वार्क्षमेव च
तन्मलापहरं शस्तं मृदु श्लक्ष्णं दशाङ्गुलम् १३
मुखवैरस्यदौर्गन्ध्यशोफजाड्यहरं सुखम्
दन्तदार्ढ्यकरं रुच्यं स्नेहगण्डूषधारणम् १४
क्षीरवृक्षकषायैर्वा क्षीरेण च विमिश्रितैः
भिल्लोटककषायेण तथैवामलकस्य वा १५
प्रक्षालयेन्मुखं नेत्रे स्वस्थः शीतोदकेन वा
नीलिकां मुखशोषं च पिडकां व्यङ्गमेव च १६
रक्तपित्तकृतान् रोगान् सद्य एव विनाशयेत्
सुखं लघु निरीक्षेत दृढं पश्यति चक्षुषा १७
मतं स्रोतोञ्जनं श्रेष्ठं विशुद्धं सिन्धुसंभवम्
दाहकण्डूमलघ्नं च दृष्टिक्लेदरुजापहम् १८
तेजोरूपावहं चैव सहते मारुतातपौ
न नेत्ररोगा जायन्ते तस्मादञ्जनमाचरेत् १९
भुक्तवाञ्छिरसा स्नातः श्रान्तश्छर्दनवाहनैः
रात्रौ जागरितश्चापि नाञ्ज्याज्ज्वरित एव च २०
कर्पूरजातीकक्कोललवङ्गकटुकाह्वयैः
सचूर्णपूगैः सहितं पत्रं ताम्बूलजं शुभम् २१
मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम्
हनुदन्तस्वरमलजिह्वेन्द्रि यविशोधनम् २२
प्रसेकशमनं हृद्यं गलामयविनाशनम्
पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे २३
रक्तपित्तक्षतक्षीणतृष्णामूर्च्छापरीतिनाम्
रूक्षदुर्बलमर्त्यानां न हितं चास्यशोषिणाम् २४
शिरोगतांस्तथा रोगाञ्छिरोभङ्गोऽपकर्षति
केशानां मार्दवं दैर्घ्यं बहुत्वं स्निग्धकृष्णताम् २५
करोति शिरसस्तृप्तिं सुत्वक्कमपि चाननम्
सन्तर्पणं चेन्द्रि याणां शिरसः प्रतिपूरणम् २६
मधुकं क्षीरशुक्ला च सरलं देवदारु च
क्षुद्र कं पञ्चनामानं समभागानि संहरेत् २७
तेषां कल्ककषायाभ्यां चक्रतैलं विपाचयेत्
सदैव शीतलं जन्तोर्मूर्ध्नि तैलं प्रदापयेत् २८
केशप्रसाधनी केश्या रजोजन्तुमलापहा
हनुमन्याशिरःकर्णशूलघ्नं कर्णपूरणम् २९
अभ्यङ्गो मार्दवकरः कफवातनिरोधनः
धातूनां पुष्टिजननो मृजावर्णबलप्रदः ३०
सेकः श्रमघ्नोऽनिलहृद्भग्नसन्धिप्रसाधकः
क्षताग्निदग्धाभिहतविघृष्टानां रुजापहः ३१
जलसिक्तस्य वर्धन्ते यथा मूलेऽङकुरास्तरोः
तथा धातुविवृद्धिर्हि स्नेहसिक्तस्य जायते ३२
सिरामुखै रोमकूपैर्धमनीभिश्च तर्पयन्
शरीरबलमाधत्ते युक्तः स्नेहोऽवगाहने ३३
तत्र प्रकृतिसात्म्यर्तुदेशदोषविकारवित्
तैलं घृतं वा मतिमान् युञ्ज्यादभ्यङ्गसेकयोः ३४
केवलं सामदोषेषु न कथञ्चन योजयेत्
तरुणज्वर्यजीर्णी च नाभ्यक्तव्यौ कथञ्चन ३५
तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः
पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा ३६
शेषाणां तदहः प्रोक्ता अग्निमान्द्यादयो गदाः
सन्तर्पणसमुत्थानां रोगाणां नैव कारयेत् ३७
शरीरायासजननं कर्म व्यायामसंज्ञितम्
तत् कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः ३८
शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता
दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा ३९
श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता
आरोग्यं चापि परमं व्यायामादुपजायते ४०
न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्
न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात् ४१
न चैनं सहसाऽक्रम्य जरा समधिरोहति
स्थिरीभवति मांसं च व्यायामाभिरतस्य च ४२
व्यायामस्विन्नगात्रस्य पद्भ्यामुद्वर्तितस्य च
व्याधयो नोपसर्पन्ति सिंहं क्षुद्र मृगा इव ४३
वयोरूपगुणैर्हीनमपि कुर्यात् सुदर्शनम्
व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् ४४
विदग्धमविदग्धं वा निर्दोषं परिपच्यते
व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम् ४५
स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः
सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः ४६
वलस्यार्धेन कर्तव्यो व्यायामो हन्त्यतोऽन्यथा
हृदि स्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते ४७
व्यायामं कुर्वतो जन्तोस्तद्बलार्धस्य लक्षणम्
वयोबलशरीराणि देशकालाशनानि च ४८
समीक्ष्य कुर्याद्व्यायाममन्यथा रोगमाप्नुयात्
क्षयतृष्णारुचिच्छर्दिरक्तपित्तभ्रमक्लमाः ४९
कासशोषज्वरश्वासा अतिव्यायामसंभवाः
रक्तपित्ती कृशः शोषी श्वासकासक्षतातुरः ५०
भुक्तवान् स्त्रीषु च क्षीणस्तृड्भ्रमार्तश्च वर्जयेत्
उद्वर्तनं वातहरं कफमेदोविलापनम् ५१
स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्
सिरामुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम् ५२
उद्घर्षणोत्सादनाभ्यां जायेयातामसंशयम्
उत्सादनाद्भवेत् स्त्रीणां विशेषात् कान्तिमद्वपुः ५३
प्रहर्षसौभाग्यमृजालाघवादिगुणान्वितम्
उद्घर्षणं तु विज्ञेयं कण्डूकोठानिलापहम् ५४
ऊर्वोः संजनयत्याशु फेनकः स्थैर्यलाघवे
कण्डूकोठानिलस्तम्भमलरोगापहश्च सः ५५
तेजनं त्वग्गतस्याग्नेः सिरामुखविवेचनम्
उद्घर्षणं त्विष्टिकया कण्डूकोठविनाशनम् ५६
निद्रा दाहश्रमहरं स्वेदकण्डूतृषापहम्
हृद्यं मलहरं श्रेष्ठं सर्वेन्द्रि यविबोधनम् ५७
तन्द्रा पाप्मोपशमनं तुष्टिदं पुंस्त्ववर्धनम्
रक्तप्रसादनं चापि स्नानमग्नेश्च दीपनम् ५८
उष्णेन शिरसः स्नानमहितं चक्षुषः सदा
शीतेन शिरसः स्नानं चक्षुष्यमिति निर्दिशेत् ५९
श्लेष्ममारुतकोपे तु ज्ञात्वा व्याधिबलाबलम्
काममुष्णं शिरःस्नानं भैषज्यार्थं समाचरेत् ६०
अतिशीताम्बु शीते च श्लेष्ममारुतकोपनम्
अत्युष्णमुष्णकाले च पित्तशोणितकोपनम् ६१
तच्चातिसारज्वरितकर्णशूलानिलार्तिषु
आध्मानारोचकाजीर्णभुक्तवत्सु च गर्हितम् ६२
सौभाग्यदं वर्णकरं प्रीत्योजोबलवर्धनम्
स्वेददौर्गन्ध्यवैवर्ण्यश्रमघ्नमनुलेपनम् ६३
स्नानं येषां निषिद्धं तु तेषामप्यनुलेपनम्
रक्षोघ्नमथ चौजस्यं सौभाग्यकरमुत्तमम् ६४
सुमनोम्बररत्नानां धारणं प्रीतिवर्धनम्
मुखालेपाद्दृढं चक्षुः पीनगण्डं तथाऽननम् ६५
अव्यङ्गपिडकं कान्तं भवत्यम्बुजसन्निभम्
पक्ष्मलं विशदं कान्तममलोज्ज्वलमण्डलम् ६६
नेत्रमञ्जनसंयोगाद्भवेच्चामलतारकम्
यशस्यं स्वर्ग्यमायुष्यं धनधान्यविवर्धनम् ६७
देवतातिथिविप्राणां पूजनं गोत्रवर्धनम्
आहारः प्रीणनः सद्यो बलकृद्देहधारकः ६८
आयुस्तेजःसमुत्साहस्मृत्योजोग्निविवर्धनः
पादप्रक्षालनं पादमलरोगश्रमापहम् ६९
चक्षुःप्रसादनं वृष्यं रक्षोघ्नं प्रीतिवर्धनम्
निद्रा करो देहसुखश्चक्षुष्यः श्रमसुप्तिनुत् ७०
पादत्वङ्मृदुकारी च पादाभ्यङ्गः सदा हितः
पादरोगहरं वृष्यं रक्षोघ्नं प्रीतिवर्धनम् ७१
सुखप्रचारमोजस्यं सदा पादत्रधारणम्
अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत् ७२
पादाभ्यामनुपानद्भ्यां सदा चङ्क्रमणं नृणाम्
पाप्मोपशमनं केशनखरोमापमार्जनम् ७३
हर्षलाघवसौभाग्यकरमुत्साहवर्धनम्
बाणवारं मृजावर्णतेजोबलविवर्धनम् ७४
पवित्रं केश्यमुष्णीषं वातातपरजोपहम्
वर्षानिलरजोघर्महिमादीनां निवारणम् ७५
वर्ण्यं चक्षुष्यमौजस्यं शङ्करं छत्रधारणम्
शुनः सरीसृपव्यालविषाणिभ्यो भयापहम् ७६
श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते
सत्त्वोत्साहबलस्थैर्यधैर्यवीर्यविवर्धनम् ७७
अवष्टम्भकरं चापि भयघ्नं दण्डधारणम्
आस्या वर्णकफस्थौल्यसौकुमार्यकरी सुखा ७८
अध्वा वर्णकफस्थौल्यसौकुमार्यविनाशनः
अत्यध्वा विपरीतोऽस्माज्जरादौर्बल्यकृच्च सः ७९
यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत्
तदायुर्बलमेधाग्निप्रदमिन्द्रि यबोधनम् ८०
श्रमानिलहरं वृष्यं पुष्टिनिद्रा धृतिप्रदम्
सुखं शय्यासनं दुःखं पिपरीतगुणं मतम् ८१
बालव्यजनमौजस्यं मक्षिकादीनपोहति
शोषदाहश्रमस्वेदमूर्च्छाघ्नो व्यजनानिलः ८२
प्रीतिनिद्रा करं वृष्यं कफवातश्रमापहम्
संवाहनं मांसरक्तत्वक्प्रसादकरं सुखम् ८३
प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपक्तिनुत्
स्वेदमूर्च्छापिपासाघ्नमप्रवातमतोऽन्यथा ८४
सुखं वातं प्रसेवेत ग्रीष्मे शरदि मानवः
निवातं ह्यायुषे सेव्यमारोग्याय च सर्वदा ८५
आतपः पित्ततृष्णाग्निस्वेदमूर्च्छाभ्रमास्रकृत्
दाहवैवर्ण्यकारी च छाया चैतानपोहति ८६
अग्निर्वातकफस्तम्भशीतवेपथुनाशनः
आमाभिष्यन्दजरणो रक्तपित्तप्रदूषणः ८७
पुष्टिवर्णबलोत्साहमग्निदीप्तिमतन्द्रि ताम्
करोति धातुसाम्यं च निद्रा काले निषेविता ८८
तत्रादित एव नीचनखरोम्णा शुचिना शुक्लवाससा लघूष्णीषच्छत्रोपानत्केन दण्डपाणिना काले हितमितमधुरपूर्वाभिभाषिणा बन्धुभूतेन भूतानां गुरुवृद्धानुमतेन सुसहायेनानन्यमनसा खलूपचरितव्यं तदपि न रात्रौ न केशास्थिकण्टकाश्मतुषभस्मोत्करकपालाङ्गारामेध्यस्नानबलि भूमिषु न विषमेन्द्र कीलचतुष्पथश्वभ्राणामुपरिष्टात् ८९
न राजद्विष्टपरुषपैशुन्यानृतानि वदेत् न देवब्राह्मणपितृपरिवादांश्च न नरेन्द्र द्विष्टोन्मत्तपतितक्षुद्र नीचानुपासीत ९०
वृक्षपर्वतप्रपातविषमवल्मीकदुष्टवाजिकुञ्जराद्यधिरोहणानि परिहरेत् पूर्णनदीसमुद्रा विदितपल्वलश्वभ्रकूपावतरणानि भिन्नशून्या गारश्मशान विजनारण्यवासाग्निसंभ्रमव्यालभुजङ्गकीटसेवाश्च ग्रामाघातकल हशस्त्रसन्नि पातव्यालसरीसृपशृङ्गिसन्निकर्षांश्च ९१
नाग्निगोगुरुब्राह्मणप्रेङ्खादम्पत्यन्तरेण यायात् न शवमनुयायात् देवगोब्राह्मणचैत्यध्वजरोगिपतितपापकारिणां च छायां नाक्रमेत नास्तं गच्छन्तमुद्यन्तं वाऽदित्यं वीक्षेत गां धापयन्तीं धयन्तीं परशस्यं वा चरन्तीं न कस्मै चिदाचक्षीत न चोल्कापातोत्पातेन्द्र धनूंषि नाग्निंमुखेनोपधमेत् नापो भूमिं वा पाणिपादेनाभिहन्यात् ९२
न वेगान् धारयेद् वातमूत्रपुरीषादीनाम् न बहिर्वेगान् ग्रामनगरदेवतायतनश्मशानचतुष्पथसलिलाशयपथिसन्निकृष्टानुत्सृजेन्न प्रकाशं न वाय्वग्निसलिलसोमार्कगोगुरुप्रतिमुखम् ९३
न भूमिं विलिखेत् नासंवृतमुखः सदसि जृम्भोद्गारकासश्वासक्षवथूनुत्सृजेत् न पर्यङ्किकावष्टम्भपादप्रसारणानि गुरुसन्निधौ कुर्यात् ९४
न बालकर्णनासास्रोतोदशनाक्षिविवराण्यभिकुष्णीयात् न वीजयेत् केशमुखनखवस्त्रगात्राणि न गात्रनखवक्त्रवादित्रं कुर्यात् न काष्ठलोष्टतृणादीनभिहन्याच्छिन्द्याद्भिन्द्याद्वा ९५
न प्रतिवातातपं सेवेत न भुक्तमात्रोऽग्निमुपासीत नोत्कटकाल्पकाष्ठासनमध्यासीत न ग्रीवांविषमं धारयेत् न विषमकायः क्रियां भजेत भुञ्जीत वा न प्रततमीक्षेत विशेषाज्ज्योतिर्भास्करसूक्षमचलभ्रान्तानि न भारं शिरसां वहेत् न स्वप्नजागरणशयनासनस्थानचङ्क्रमणयानवाहनप्रधावनलङ्घ नप्लवन प्रतरणहास्यभाष्यव्यवायव्यायामादीनुचितानप्यतिसेवेत ९६
उचितादप्यहितात् क्रमशो विरमेत् हितमनुचितमप्यासेवेत क्रमशः न चैकान्ततः पादहीनात् ९७
नावाक्शिराः शयीत न भिन्नपात्रे भुञ्जीत न विना पात्रेण नाञ्जलिपुटेनापः पिबेत् काले हितमितस्निग्धमधुरप्रायमाहारं वैद्यप्रत्यवेक्षितमश्नीयात् ग्रामगणगणिकापणिकशत्रुसत्रशठपतितभोजनानि परिहरेत् शेषाण्यपि चानिष्टरूपरसगन्धस्पर्शशब्दमानसानि अन्यान्येवंगुणान्यपि संभ्रमदत्तानि मक्षिकाबालोपहतानि नाप्रक्षालितपादो भुञ्जीत न मूत्रोच्चारपीडितो न सन्ध्ययोर्नानुपाश्रितो नातीतकालं हीनमतिमात्रं चेति ९८
न भुञ्जीतोद्धृतस्नेहं नष्टं पर्युषितं पयः
न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम् ९९
नामुद्गयूषं नाक्षौद्रं नोष्णं नामल कैर्विना
अन्यथा जनयेत् कुष्ठविसर्पादीन् गदान् बहून्
नात्मानमुदके पश्येन्न नग्नः प्रविशेज्जलम् १००
द्यूतमद्यातिसेवाप्रतिभूत्वसाक्षित्वसमाह्वानगोष्ठीवादित्राणि न सेवेत स्रजं छत्रोपानहौ कनकमतीतवासांसि न चान्यैर्धृतानि धारयेत् ब्राह्मणमग्निं गां च नोच्छिष्टः स्पृशेत् १०१
भवन्ति चात्र
यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम्
तेषु तेषु प्रदातव्या रसास्ते ते विजानता १०२
वर्षासु न पिबेत्तोयं पिबेच्छरदि मात्रया
वर्षासु चतुरो मासान् मात्रावदुदकं पिबेत् १०३
उष्णं हैमे वसन्ते च कामं ग्रीष्मे तु शीतलम्
हेमन्ते च वसन्ते च सीध्वरिष्टौ पिबेन्नरः १०४
शृतशीतं पयो ग्रीष्मे प्रावृट्काले रसं पिबेत्
यूषं वर्षति तस्यान्ते प्रपिबेच्छीतलं जलम् १०५
स्वस्थ एवमतोऽन्यस्तु दोषाहारगतानुगः
स्नेहं सैन्धवचूर्णेन पिप्पलीभिश्च संयुतम् १०६
पिबेदग्निविवृर्द्ध्य्थं न च वेगान् विधारयेत्
अग्निदीप्तिकरं नॄणां रोगाणां शमनं प्रति १०७
प्रावृट्शरद्वसन्तेषु सम्यक् स्नेहादिमाचरेत्
कफे प्रच्छर्दनं पित्ते विरेको बस्तिरीरणे १०८
शस्यते त्रिष्वपि सदा व्यायामो दोषनाशनः
भुक्तं बिरुद्धमप्यन्नं व्यायामान्न प्रदुष्यति १०९
उत्सर्गमैथुनाहारशोधने स्यात्तु तन्मनाः
नेच्छेद्दोषचयात् प्राज्ञः पीडां वा कायमानसीम् ११०
अतिस्त्रीसंप्रयोगाच्च रक्षेदात्मानमात्मवान्
शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः १११
अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः
आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः ११२
स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः
त्रिभिस्त्रिभिरहोभिर्वा समीयात् प्रमदां नरः ११३
सर्वेष्वृतुषु घर्मेषु पक्षात् पक्षाद्व्रजेद्बुधः
रजस्वलामकामां च मलिनामप्रियां तथा ११४
वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम्
हीनाङ्गीं गर्भिणीं द्वेष्यां योनिदोषसमन्विताम् ११५
सगोत्रां गुरुपत्नीं च तथा प्रव्रजितामपि
सन्ध्यापर्वस्वगम्यां च नोपेयात् प्रमदां नरः ११६
गोसर्गे चार्धरात्रे च तथा मध्यन्दिनेषु च
लज्जासमावहे देशे विवृतेऽशुद्ध एव च ११७
क्षुधितो व्याधितश्चैव क्षुब्धचित्तश्च मानवः
वातविण्मूत्रवेगी च पिपासुरतिदुर्बलः ११८
तिर्यग्योनावयोनौ च प्राप्तशुक्रविधारणम्
दुष्टयोनौ विसर्गं तु बलवानपि वर्जयेत् ११९
रेतसश्चातिमात्रं तु मूर्धावरणमेव च
स्थितावुत्तानशयने विशेषेणैव गर्हितम् १२०
क्रीडायामपि मेधावी हितार्थी परिवर्जयेत्
रजस्वलां प्राप्तवतो नरस्यानियतात्मनः १२१
दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत्
लिङ्गिनीं गुरुपत्नीं च सगोत्रामथ पर्वसु १२२
वृद्धां च सन्ध्ययोश्चापि गच्छतो जीवितक्षयः
गर्मिण्या गर्भपीडा स्याद् व्याधितायां बलक्षयः १२३
हीनाङ्गीं मलिनां द्वेष्यां कामं वन्ध्यामसंवृते
देशेऽशुद्धे च शुक्रस्य मनसश्च क्षयो भवेत् १२४
क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः
स्थितश्च हानिं शुक्रस्य वायोः कोपं च विन्दति १२५
अतिप्रसङ्गाद्भवति शोषः शुक्रक्षयावहः
व्याधितस्य रुजा प्लीह्नि मृत्युर्मूर्च्छा च जायते १२६
प्रत्यूषस्यर्धरात्रे च वातपित्ते प्रकुप्यतः
तिर्यग्योनावयोनौ च दुष्टयोनौ तथैव च १२७
उपदंशस्तथा वायोः कोपः शुक्रस्य च क्षयः
उच्चारिते मूत्रिते च रेतसश्च विधारणे १२८
उत्ताने च भवेच्छीध्रं शुक्राश्मर्यास्तु संभवः
सर्वं परिहरेत्तस्मादेतल्लोकद्वयेऽहितम् १२९
शुक्रं चोपस्थितं मोहान्न सन्धार्यं कथंचन
वयोरूपगुणोपेतां तुल्यशीलां कुलान्विताम् १३०
अभिकामोऽभिकामां तु हृष्टो हृष्टामलङ्कृताम्
सेवेत प्रमदां युक्त्या वाजीकरणबृंहितः १३१
भक्ष्याः सशर्कराः क्षीरं ससितं रस एव च
स्नानं सव्यजनं स्वप्नो व्यवायान्ते हितानि तु १३२
मुखमात्रं समासेन सद्वृत्तस्यैतदीरितम्
आरोग्यमायुरर्थो वा नासद्भिः प्राप्यते नृभिः १३३
इति सुश्रुतसंहितायां चिकित्सास्थानेऽनागताबाध चिकित्सितं नाम चतुर्विंशोऽध्यायः २४
पञ्चविंशतितमोऽध्यायः
अथातो मिश्रकचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पाल्यामयास्तु विस्राव्या इत्युक्तं प्राङ्निबोध तान्
परिपोटस्तथोत्पात उन्मन्थो दुःखवर्धनः ३
पञ्चमः परिलेही च कर्णपाल्यां गदाः स्मृताः
सौकुमार्याच्चिरोत्सृष्टे सहसाऽभिप्रवर्धिते ४
कर्णशोफो भवेत् पाल्यां सरुजः परिपोटवान्
कृष्णारुणनिभः स्तब्धः स वातात् परिपोटकः ५
गुर्वाभरणसंयोगात्ताडनाद्घर्षणादपि
शोफः पाल्यां भवेच्छ्यावो दाहपाकरुगन्वितः ६
रक्तो वा रक्तपित्ताभ्यामुत्पातः स गदो मतः
बलाद्वर्धयतः कर्णं पाल्यां वायुः प्रकुप्यति ७
गृहीत्वा सकफं कुर्याच्छोफं तद्वर्णवेदनम्
उन्मन्थकः सकण्डूको विकारः कफवातजः ८
वर्धमाने यदा कर्णे कण्डूदाहरुगन्वितः
शोफो भवति पाकश्च त्वक्स्थोऽसौदुःखवर्धनः ९
कफासृक्कृमयः कुर्युः सर्षपाभा विकारिणीः
स्राविणीः पिडकाः पाल्यां कण्डूदाहरुगन्विताः १०
कफासृक्कृमिसंभूतः स विसर्पन्नितस्ततः
लिह्यात् सशष्कुलद्यं पालद्यं परिलेहीति स स्मृतः ११
पाल्यामया ह्यमी घोरा नरस्याप्रतिकारिणः
मिथ्याहारविहारस्य पालि हिंस्युरुपेक्षिताः १२
तस्मादाशु भिषक् तेषु स्नेहादिक्रममाचरेत्
तथाऽभ्यङ्गपरीषेकप्रदेहासृग्विमोक्षणम् १३
सामान्यतो विशेषाच्च वक्ष्याम्यभ्यञ्जनं प्रति
खरमञ्जरियष्ट्याह्वसैन्धवामरदारुभिः १४
सुपिष्टैः साश्वगन्धैश्च मूलकावल्गुजैः फलैः
सर्पिस्तैलवसामज्जमधूच्छिष्टानि पाचयेत् १५
सक्षीराण्यथ तैः पालि प्रदिह्यात् परिपोटके
मञ्जिष्ठातिलयष्ट्याह्वसारिवोत्पलपद्मकैः १६
सरोध्रैः सकदम्बैश्च बलाजम्ब्वाम्रपल्लवैः
सिद्धं धान्याम्लसंयुक्तं तैलमुत्पातनाशनम् १७
तालपत्र्यश्वगन्धार्कबाकुचीफलसैन्धवैः
तैलं कुलीरगोधाभ्यां वसया सह पाचितम् १८
सरलालाङ्गलीभ्यां च हितमुन्मन्थनाशनम्
तथाऽश्मन्तकजम्ब्वाम्रपत्रक्वाथेन सेचनम् १९
प्रपौण्डरीकमधुकमञ्जिष्ठारजनीद्वयैः
चूर्णैरुद्वर्तनैः पालद्यं तैलाक्तामवचूर्णयेत् २०
लाक्षाविडङ्गकल्केन तैलं पक्त्वाऽवचारयेत्
स्विन्नां गोमयपिण्डेन प्रदिह्यात् परिलेहिके २१
पिष्टैर्विडङ्गैरथवा त्रिवृच्छ्यामार्कसंयुतैः
करञ्जेङ्गुदिबीजैर्वा कुटजारग्वधायुतैः २२
सर्वैर्वा सार्षपं तैलं सिद्धं मरिचसंयुतम्
सनिम्बपत्रैरभ्यङ्गे मधूच्छिष्टान्वितं हितम् २३
पालीषु व्याधियुक्तासु तन्वीषु कठिनासु च
पुष्ट्यर्थं मार्दवार्थं च कुर्यादभ्यञ्जनं त्विदम् २४
लोपाकानूपमज्जानं वसां तैलं नवं घृतम्
पचेद्दशगुणं क्षीरमावाप्य मधुरं गणम् २५
अपामार्गाश्वगन्धे च तथा लाक्षारसं शुभम्
तत्सिद्धं परिपूतं च स्वनुगुप्तं निधापयेत् २६
तेनाभ्यञ्ज्यात् सदा पालद्यं सुस्विन्नामतिमर्दिताम्
एनेन पाल्यो वर्धन्ते निरुजो निरुपद्र वाः २७
मृद्व्यः पुष्टाः समाः स्निग्धा जायन्ते भूषणक्षमाः
नीलीदलं भृङ्गरजोऽजुनत्वक् पिण्डीतकं कृष्णमयोरजश्च
बीजोद्भवं साहचरं च पुष्पं पथ्याक्षधात्रीसहितं विचूर्ण्य २८
एकीकृतं सर्वमिदं प्रमाय पङ्केन तुल्यं नलिनीभवेन
संयोज्य पक्षं कलशे निधाय लौहे घटे सद्मनि सापिधाने २९
अनेन तैलं विपचेद्विमिश्रं रसेन भृङ्गत्रिफलाभवेन
आसन्नपाके च परीक्षणार्थं पत्रं बलाकाभवमाक्षिपेच्च ३०
भवेद्यदा तद्भ्रमराङ्गनीलं तदा विपक्वं विनिधाय पात्रे
कृष्णायसे मासमवस्थितं तदभ्यङ्गयोगात् पलितानि हन्यात् ३१
सैरीयजम्ब्वर्जुनकाश्मरीजं पुष्पं तिलान्मार्कवचूतबीजे
पुनर्नवे कर्दमकण्टकार्यौ कासीसपिण्डीतकबीजसारम् ३२
फलत्रयं लोहरजोऽञ्जनं च यष्ट्याह्वयं नीरजसारिवे च
पिष्ट्वाऽथ सर्वं सह मोदयन्त्या साराम्भसा बीजकसंभवेन ३३
साराम्भसः सप्तभिरेव पश्चात् प्रस्थैः समालोड्य् दशाहगुप्तम्
लौहे सुपात्रे विनिधाय तैलमक्षोद्भवं तच्च पचेत् प्रयत्नात् ३४
पक्वं च लौहैऽभिनवे निधाय नस्यं विदध्यात् परिशुद्धकायः
अभ्यङ्गयोगैश्च नियुज्यमानं भुञ्जीत माषान् कृशरामथो वा ३५
मासोपरिष्टाद्घनकुञ्चिताग्राः केशा भवन्ति भ्रमराञ्जनाभाः
केशास्तथाऽन्ये खलतौ भवेयुर्जरा न चैनं सहसाऽभ्युपैति ३६
बलं परं संभवतीन्द्रि याणां भवेच्च वक्त्रं वलिभिर्विमुक्तम्
नाकामिनेऽनर्थिनि नाकृताय नैवारये तैलमिदं प्रदेयम् ३७
लाक्षा रोध्रं द्वे हरिद्रे शिलाले कुष्ठं नागं गैरिका वर्णकाश्च
मञ्जिष्ठोग्रा स्यात् सुराष्ट्रोद्भवा च पत्तङ्गं वै रोचना चाञ्जनं च ३८
हेमाङ्गत्वक् पाण्डुपत्रं वटस्य कालीयं स्यात् पद्मकं पद्ममध्यम्
रक्तं श्वेतं चन्दनं पारदं च काकोल्यादिः क्षीरपिष्टश्च वर्गः ३९
मेदो मज्जा सिक्थकं गोघृतं च दुग्धं क्वाथः क्षीरिणां च द्रुमाणाम्
एतत् सर्वं पक्वमैकध्यतस्तु वक्त्राभ्यङ्गे सर्पिरुक्तं प्रधानम् ४०
हन्याद् व्यङ्गं नीलिकां चातिवृद्धां वक्त्रे जाताः स्फोटिकाश्चापि काश्चित्
पद्माकारं निर्वलीकं च वक्त्रं कुर्यादेतत् पीनगण्डं मनोज्ञम् ४१
राज्ञामेतद्योषितां चापि नित्यं कुर्याद्वैद्यस्तत्समानां नृणां च
कुष्ठघ्नं वै सर्पिरेतत् प्रधानं येषां पादे सन्ति वैपादिकाश्च ४२
हरीतकीचूर्णमरिष्टपत्रं चूतत्वचं दाडिमपुष्पवृन्तम्
पत्रं च दद्यान्मदयन्तिकाया लेपोऽङ्गरागो नरदेवयोग्यः ४३
इति सुश्रुतसंहितायां चिकित्सास्थाने मिश्रकचिकित्सितं नाम पञ्चविंशोऽध्यायः २५
षड्विंशतितमोऽध्यायः
अथातः क्षीणबलीयं वाजीकरणचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कल्यस्योदग्रवयसो वाजीकरणसेविनः
सर्वेष्वृतुष्वहरहर्व्यवायो न निवारितः ३
स्थविराणां रिरंसूनां स्त्रीणां वाल्लभ्यमिच्छताम्
योषित्प्रसङ्गात् क्षीणानां क्लीवानामल्परेतसाम् ४
विलासिनामर्थवतां रूपयौवनशालिनाम्
नृणां च बहुभार्याणां योगा वाजीकरा हिताः ५
सेवमानो यदौचित्याद्वाजीवात्यर्थवेगवान्
नारीस्तर्पयते तेन वाजीकरणमुच्यते ६
भोजनानि विचित्राणि पानानि विविधानि च
वाचः श्रोत्रानुगामिन्यस्त्वचः स्पर्शसुखास्तथा ७
यामिनी सेन्दुतिलका कामिनी नवयौवना
गीतं श्रोत्रमनोहारि ताम्बूलं मदिराः स्रजः ८
गन्धा मनोज्ञा रूपाणि चित्राण्युपवनानि च
मनसश्चाप्रतीघातो वाजीकुर्वन्ति मानवम्
तैस्तैर्भावैरहृद्यैस्तु रिरंसोर्मनसि क्षते ९
द्वेष्यस्त्रीसंप्रयोगाच्च क्लैब्यं तन्मानसं स्मृतम्
कटुकाम्लोष्णलवणैरतिमात्रोपसेवितैः १०
सौम्यधातुक्षयो दृष्टः क्लैब्यं तदपरं स्मृतम्
अतिव्यवायशीलो यो न च वाजीर्किंयारतः ११
ध्वजभङ्गमवाप्नोति तच्छुक्रक्षयहेतुकम्
महता मेढ्ररोगेण मर्मच्छेदेन वा पुनः १२
क्लैब्यमेतच्चतुर्थं स्यान्नृणां पुंस्त्वोपघातजम्
जन्मप्रभृति यः क्लीबः क्लैब्यं तत् सहजं स्मृतम् १३
बलिनः क्षुब्धमनसो निरोधाद् ब्रह्मचर्यतः
षष्ठं क्लैब्यं मतं तत्तु खरशुक्रनिमित्तजम् १४
असाध्यं सहजं क्लैब्यं मर्मच्छेदाच्च यद्भवेत्
साध्यानामितरेषां तु कार्यो हेतुविपर्ययः १५
विधिर्वाजीकरो यस्तु तं प्रवक्ष्याम्यतः परम्
तिलमाषविदारीणां शालीनां चूर्णमेव वा १६
पौण्ड्रकेक्षुरसैरार्द्रं मर्दितं सैन्धवान्वितम्
वराहमेदसा युक्तां घृतेनोत्कारिकां पचेत् १७
तां भक्षयित्वा पुरुषो गच्छेत्तु प्रमदाशतम्
बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान् १८
शिशुमारवसापक्वाः शष्कुल्यस्तैस्तिलैः कृताः
यः खादेत् स पुमान् गच्छेत् स्त्रीणां शतमपूर्ववत् १९
पिप्पलीलवणोपेते बस्ताण्डे क्षीरसर्पिषि
साधिते भक्षयेद्यस्तु स गच्छेत् प्रमदाशतम् २०
पिप्पलीमाषशालीनां यवगोधूमयोस्तथा
चूर्णभागैः समैस्तैस्तु घृते पूपलिकां पचेत् २१
तां भक्षयित्वा पीत्वा तु शर्करामधुरं पयः
नरश्चटकवद्गच्छेद्दशवारान्निरन्तरम् २२
विदार्याः सुकृतं चूर्णं स्वरसेनैव भावितम्
सर्पिर्मधुयुतं लीढ्वा दश स्त्रीरधिगच्छति २३
एवमामलकं चूर्णं स्वरसेनैव भावितम्
शर्करामधुसर्पिर्भिर्युक्तं लीढ्वा पयः पिबेत् २४
एतेनाशीतिवर्षोऽपि युवेव परिहृष्यति
पिप्पलीलवणोपेते बस्ताण्डे घृतसाधिते २५
शिशुमारस्य वा खादेत्ते तु वाजीकरे भृशम्
कुलीरकूर्मनक्राणामण्डान्येवं तु भक्षयेत् २६
महिषर्षभबस्तानां पिबेच्छुक्राणि वा नरः
अश्वत्थफलमूलत्वक्शुङ्गासिद्धं पयो नरः २७
पीत्वा सशर्कराक्षौद्रं कुलिङ्ग इव हृष्यति
विदारिमूलकल्कं तु शृतेन पयसा नरः २८
उडुम्बरसमं पीत्वा वृद्धोऽपि तरुणायते
माषाणां पलमेकं तु संयुक्तं क्षौद्र सर्पिषा २९
अवलिह्य पयः पीत्वा तेन वाजी भवेन्नरः
क्षीरपक्वांस्तु गोधूमानात्मगुप्ताफलैः सह ३०
शीतान् घृतयुतान् खादेत्ततः पश्चात् पयः पिबेत्
नक्रमूषिकमण्डूकचटकाण्डकृतं घृतम् ३१
पादाभ्यङ्गेन कुरुते बलं भूमिं तु न स्पृशेत्
यावत् स्पृशति नो भूमिं तावद्गच्छेन्निरन्तरम् ३२
स्वयंगुप्तेक्षुरकयोः फलचूर्णं सशर्करम्
धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत् ३३
उच्चटाचूर्णमप्येवं क्षीरेणोत्तममिष्यते
शतावर्युच्चटाचूर्णं पेयमेवं बलार्थिना
स्वयंगुप्ताफलैर्युक्तं माषसूपं पिबेन्नरः ३४
गुप्ताफलं गोक्षुरकाच्च बीजं तथोच्चटां गोपयसा विपाच्य
खजाहतं शर्करया च युक्तं पीत्वा नरो हृष्यति सर्वरात्रम् ३५
माषान् विदारीमपि सोच्चटां च क्षीरे गवां क्षौद्र घृतोपपन्नाम्
पीत्वा नरः शर्करया सुयुक्तां कुलिङ्गवद्धृष्यति सर्वरात्रम् ३६
गृष्टीनां वृद्धवत्सानां माषपर्णभृतां गवाम्
यत् क्षीरं तत् प्रशंसन्ति बलकामेषु जन्तुषु ३७
क्षीरमांसगणाः सर्वे काकोल्यादिश्च पूजितः
वाजीकरणहेतोर्हि तस्मात्तत्तु प्रयोजयेत् ३८
एते वाजीकरा योगाः प्रीत्यपत्यबलप्रदाः
सेव्या विशुद्धोपचितदेहैः कालाद्यपेक्षया ३९
इति सुश्रुतसंहितायां क्षीणबलीयवाजीकरणचिकित्सितं
नाम षड्विंशोऽध्यायः २६
सप्तविंशतितमोऽध्यायः
अथातः सर्वोपघातशमनीयं रसायनं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पूर्वे वयसि मध्ये वा मनुष्यस्य रसायनम्
प्रयुञ्जीत भिषक् प्राज्ञः स्निग्धशुद्धतनोः सदा ३
नाविशुद्धशरीरस्य युक्तो रासायनो विधिः
न भाति वाससि क्लिष्टे रङ्गयोग इवाहितः ४
शरीरस्योपघाता ये दोषजा मानसास्तथा
उपदिष्टाः प्रदेशेषु तेषां वक्ष्यामि वारणम् ५
शीतोदकं पयः क्षौद्रं सर्पिरित्येकशो द्विशः
त्रिशः समस्तमथवा प्राक् पीतं स्थापयेद्वयः ६
तत्र विडङ्गतण्डूलचूर्णमाहृत्य यष्टीमधुकमधुयुक्तं यथाबलं शीततोयेनोपयुञ्जीत शीततोयं चानुपिबेदेवमहरहर्मासं तदेव मधुयुक्तं भल्लातकक्वाथेन वा मधुद्रा क्षाक्वाथयुक्तं वा मध्वामलकरसाभ्यां वा गुडूचीक्वाथेन वा एवमेते पञ्च प्रयोगा भवन्ति जीर्णे मुद्गामलकयूषेणालवणेनाल्पस्नेहेन घृतवन्तमोदनमश्नीयात् एते खल्वर्शांसि क्षपयन्ति कृमीनुपघ्नन्ति ग्रहणधारणशक्तिं जनयन्ति मासे मासे च प्रयोगे वर्षशतं वर्षशतमायुषोऽभिवृद्धिर्भवति ७
विडङ्गतण्डुलानां द्रो णं पिष्टपचने पिष्टवदुपस्वेद्य विगतकषायं स्विन्नमवतार्य दृषदि पिष्टमायसे दृढे कुम्भे मधूदकोत्तरं प्रावृषि भस्मराशावन्तर्गृहे चतुरो मासान्निदध्यात् वर्षाविगमे चोद्धत्य्पसंस्कृतशरीरः सहस्रसंपाताभिहुतं कृत्वा प्रातःप्रातर्यथाबलमुपयुञ्जीत जीर्णे मुद्गामलकयूषेणालवणेन घृतवन्तमोदन मश्नीयात् पांशुशय्यायां शयीत तस्य मासादूर्ध्वं सर्वाङ्गेभ्यः कृमयो निष्क्रामन्ति तानणुतैलेनाभ्यक्तस्य वंशविदलेनापहरेत् द्वितीये पिपीलिकास्तृतीये यूकास्तथैवापहरेत् चतुर्थे दन्तनखरोमाण्यवशीर्यन्ते पञ्चमे प्रशस्तगुण लक्षणानि जायन्ते अमानुषं चादित्यप्रकाशं वपुरधिगच्छति दूराच्छ्रवणानि दर्शनानिचास्य भवन्ति रजस्तमसी चापोह्य सत्त्वमधितिष्ठति श्रुतनिगाद्यपूर्वोत्पादी गजबलोऽश्वजवः पुनर्युवाऽष्टौ वर्षशतान्यायुरवाप्नोतितस्याणुतैलमभ्यङ्गार्थे अजकर्णकषायमुत्सादनार्थे सोशीरं कूपोदकं स्नानार्थे चन्दनमुपलेपनार्थे भल्लातकविधानवदाहारः परिहारश्च ८
काश्मर्याणां निष्कुलीकृतानामेष एव कल्पः पांशुशय्याभोजनवर्जां अत्र हि पयसा शृतेन भोक्तव्यं समानमन्यत् पूर्वेणाशिषश्च शोणितपित्तनिमित्तेषु विकारेष्वेतेषामुपयोगः ९
यथोक्तमागारं प्रविश्य बलामूलार्धपलं पलं वा पयसाऽलोड्य पिबेत् जीर्णे पयः सर्पिरोदन इत्याहारः एवं द्वादशरात्रमुपयुज्य द्वादश वर्षाणि वयस्तिष्ठति एवं दिवसशतमुपयुज्य वर्षशतं वयस्तिष्ठति एवमेवातिबलानागबलाविदारीशतावरीणामुपयोगः विशेषतस्त्वति बलामुदकेन नागबलाचूर्णं मधुना विदारीचूर्णं क्षीरेण शतावरीमप्येवं पूर्वेणान्यत् समानमाशिषश्च समाः एतास्त्वौषधयो बलकामानां शोषिणां रक्तपित्तपोसृष्टानां शोणितं छर्दयतां विरिच्यमानानां चोपदिश्यन्ते १०
वाराहीमूलतुलाचूर्णं कृत्वा ततो मात्रां मधुयुक्तांपयसाऽलोड्य पिबेत् जीर्णे पयः सर्पिरोदन इत्याहारः प्रतिषेधोऽत्र पूर्ववत् प्रयोगमिममुपसेवमानो वर्षशतमायुरवाप्नोति स्त्रीषु चाक्षयताम् एतेनैव चूर्णेन पयोऽवचूर्ण्य शृतशीतमभिमथ्याज्यमुत्पाद्य मधुयुतमुपयुञ्जीत सायंप्रातरेककालं वा जीर्णे पयः स
र्पिरोदन इत्याहारः एवं मासमुपयुज्य वर्षशतायुर्भवति ११
चक्षुःकामः प्राणकामो वा बीजकसाराग्निमन्थमूलं निष्क्वाथ्य माषप्रस्थं साधयेत् तस्मिन् सिध्यति चित्रकमूलानामक्षमात्रं कल्कं दद्यादामलकरस चतुर्थभागं ततः स्विन्नमवतार्य सहस्रसंपाताभिहुतं कृत्वा शीतीभूतं मधुस र्पिर्भ्यां संसृज्योपयुञ्जीत यथाबलं यथासात्म्यं च लवणं परिहरन् भक्षयेत् जीर्णे मुद्गामलकयूषेणालवणेन घृतवन्तमोदनमश्नीयात् पयसा वा मासत्रयम् एवमाभ्यां प्रयोगाभ्यां चक्षुः सौपर्णं भवत्यनल्पबलः स्त्रीषु चाक्षयो वर्षशतायुर्भवतीति १२
भवति चात्र
पयसा सह सिद्धानि नरः शणफलानि यः
भक्षयेत् पयसा सार्धं वयस्तस्य न शीर्यते १३
इति सुश्रुतसंहितायां चिकित्सास्थाने सर्वोपघातशमनीयं रसायनचिकित्सतं
नाम सप्तविंशोऽध्यायः २७
अष्टाविंशतितमोऽध्यायः
अथातो मेधायुष्कामीयं रसायनचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मेधायुः कामः श्वेतावल्गुजफलान्यातपपरिशुष्काण्यादाय सूक्ष्मचूर्णानि कृत्वा गुडेन सहालोड्य स्नेहकुम्भे सप्तरात्रं धान्यराशौ निदध्यात् सप्तरात्रादुद्धृत्य हृतदोषस्य यथाबलं पिण्डं प्रयच्छेदनुदिते सूर्ये उष्णोदकं चानुपिबेत् भल्लातकविधानवच्चागारप्रवेशः जीर्णौषधश्चापराह्णे हिमाभिरद्भिः परिषिक्तगात्रः शालीनां षष्टिकानां च पयसा शर्करामधुरेणौदनमश्नीयात् एवं षणमासानुपयुज्य विगतपाप्मा बलवर्णोपेतः श्रुतनिगादी स्मृतिमानरोगो वर्षशतायुर्भवति कुष्ठिनं पाण्डुरोगिणमुदरिणं वा कृष्णाया गोर्मूत्रेणालोड्यार्धपलिकं पिण्डं विगतलौहित्ये सवितरि पाययेत् पराह्णे चालवणेनामलकयूषेण सर्पिष्मन्तमोदनमश्नीयात् एवं मासमुपयुज्य स्मृतिमानरोगो वर्षशतायुर्भवति एष एवोपयोगश्चित्रकमूलानां रजन्याश्च चित्रकमूले विशेषो द्विपलिकं पिण्डं परं प्रमाणं शेषं पूर्ववत् ३
हृतदोष एव प्रतिसंसृष्टभक्तो यथाक्रममागारं प्रविश्य मण्डूकपर्णीस्वरसमादाय सहस्रसंपाताभिहुतं कृत्वा यथाबलं पयसाऽलोड्य पिबेत् पयोऽनुपानं वा तस्यां जीर्णायां यवान्नं पयसोपयुञ्जीत तिलैर्वा सह भक्षयेत्त्रीन् मासान् पयोऽनुपानं जीर्णे पयः सर्पिरोदन इत्याहारः एवमुपयुञ्जानो ब्रह्मवर्चसी श्रुतनिगादी भवति वर्षशत मायुर वाप्नोति त्रिरात्रोपोषितश्च त्रिरात्रमेनां भक्षयेत्त्रिरात्रादूर्ध्वं पयः सर्पिरिति चोपयुञ्जीत बिल्वमात्रं पिण्डं वा पयसाऽलोड्य पिबेत् एवं द्वादशरात्रमुपयुज्य मेधावी वर्षशतायुर्भवति ४
हृतदोष एवागारं प्रविश्य प्रतिसंसृष्टभक्तो ब्राह्मीस्वरसमादाय सहस्रसंपाता भिहुतं कृत्वा यथा बलमुपयुञ्जीत जीर्णौषधश्चापराह्णे यवागूमलवणां पिबेत् क्षीरसात्म्यो वा पयसा भुञ्जीत एवं सप्तरात्रमुपयुज्य ब्रह्मवर्चसी मेधावी भवति द्वितीयं सप्तरात्रमुपयुज्य ग्रन्थमीप्सितमुत्पादयति नष्टं चास्य प्रादुर्भवति तृतीयं सप्तरात्रमुपयुज्य द्विरुच्चारितं शतमप्यवधारयति एवमेकविंशतिरात्रमुपयुज्यालक्ष्मीरपक्रामति मूर्तिमती चैनं वाग्देव्यनुप्रविशति सर्वाश्चैनं श्रुतय उपतिष्ठन्ति श्रतुधरः पञ्चवर्षशतायुर्भवति ५
ब्राह्मीस्वरसप्रस्थद्वये घृतप्रस्थं विडङ्गतण्डुलानां कुडवं द्वे द्वे पले वचामृतयोर्द्वादश हरीतक्यामलकविभीतकानि श्लक्ष्णपिष्टान्यावाप्यैकध्यं साधयित्वास्वनुगुप्तं निदध्यात् ततः पूर्वविधानेन मात्रां यथाबलमुपयुञ्जीत जीर्णे पयः सर्पिरोदन इत्याहारः पूर्ववच्चात्र परीहारः एतेनोर्ध्वमधस्तिर्यक् कृमयो निष्क्रमन्ति अलक्ष्मीरपक्रामति पुष्करवर्णः स्थिरवयाः श्रुतनिगादी त्रिवर्षशतायुर्भवति एतदेवकुष्ठविषमज्वरापस्मारोन्मादविषभूतग्रहेष्वन्येषु च महाव्याधिषु संशोधनमादिशन्ति ६
हृतदोष एवागारं प्रविश्य हैमवत्या वचायाः पिण्डमामलकमात्रमभिहुतं पयसाऽलोड्य पिबेत् जीर्णे पयः सर्पिरोदन इत्याहारः एवं द्वादशरात्र मुपयुञ्जीत ततोऽस्य श्रोत्रं विव्रियते द्विरभ्यासात् स्मृतिमान् भवति त्रिरभ्यासाच्छरुतमादत्ते चतुर्द्वादशरात्रमुपयुज्य सर्वं तरति किल्बिषं तार्क्ष्यदर्शनमुत्पद्यते शतायुश्च भवति द्वे द्वे पले इत रस्या वचाया निष्क्वाथ्य पिबेत् पयसा समानं भोजनं समाः पूर्वेणाशिषश्च ७
वचाशतपाकं वा सर्पिर्द्रोणमुपयुज्य पञ्चवर्षशतायुर्भवति गलगण्डापचीश्लीपदस्वरमेदांश्चापहन्तीति ८
अत ऊर्ध्वं प्रवक्ष्यामि आयुष्कामरसायनम्
मन्त्रौषधसमायुक्तं संवत्सरफलप्रदम् ९
बिल्वस्य चूर्णं पुष्ये तु हुतं वारान् सहस्रशः
श्रीसूक्तेन नरः कल्ये ससुवर्णं दिने दिने १०
सर्पिर्मधुयुतं लिह्यादलक्ष्मीनाशनं परम्
त्वचं विहाय बिल्वस्य मूलक्वाथं दिने दिने ११
प्राश्नीयात् पयसा सार्धं स्नात्वा हुत्वा समाहितः
दशसाहस्रमायुष्यं स्मृतं युक्तरथं भवेत् १२
हुत्वा बिसानां क्वाथं तु मधुलाजैश्च संयुतम्
अमोघं शतसाहस्रं युक्तं युक्तरथं स्मृतम् १३
सुवर्णं पद्मबीजानि मधु लाजाः प्रियङ्गवः
गव्येन पयसा पीतमलक्ष्मीं प्रतिषेधयेत् १४
नीलोत्पलदलक्वाथो गव्येन पयसा शृतः
ससुवर्णस्तिलैः सार्धमलक्ष्मीनाशनः स्मृतः १५
गव्यं पयः सुवर्णं च मधूच्छिष्टं च माक्षिकम्
पीतं शतसहस्राभिहुतं युक्तरथं स्मृतम् १६
वचाघृतसुवर्णं च बिल्वचूर्णमिति त्रयम्
मेध्यमायुष्यमारोग्यपुष्टिसौभाग्यवर्धनम् १७
वासामूलतुलाक्वाथे तैलमावाप्य साधितम्
हुत्वा सहस्रमश्नीयान्मेध्यमायुष्यमुच्यते १८
यावकांस्तावकान् खादेदभिभूय यवांस्तथा
पिप्पलीमधुसंयुक्तान् शिक्षा चरणवद्भवेत् १९
मध्वामलकचूर्णानि सुवर्णमिति च त्रयम्
प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंशयात् २०
शतावरीघृतं सम्यगुपयुक्तं दिने दिने
सक्षौद्रं ससुवर्णं च नरेन्द्रं स्थापयेद्वशे २१
गोचन्दना मोहनिका मधुकं माक्षिकं मधु
सुवर्णमिति संयोगः पेयः सौभाग्यमिच्छता २२
पद्मनीलोत्पलक्वाथे यष्टीमधुकसंयुते
सर्पिरासादितं गव्यं ससुवर्णं सदा पिबेत् २३
पयश्चानुपिबेत् सिद्धं तेषामेव समुद्भवे
अलक्ष्मीघ्नं सदाऽयुष्यं राज्याय सुभगाय च २४
यत्र नोदीरितो मन्त्रो योगेष्वेतेषु साधने
शब्दिता तत्र सर्वत्र गायत्री त्रिपदा भवेत् २५
पाप्मानं नाशयन्त्येता दद्युश्चौषधयः श्रियम्
कुर्युर्नागबलं चापि मनुष्यममरोपमम् २६
सतताध्ययनं वादः परतन्त्रावलोकनम्
तद्विद्याचार्यसेवा च बुद्धिमेधाकरो गुगिणिः २७
आयुष्यं भोजनं जीर्णे वेगानां चाविधारणम्
ब्रह्मचर्यमहिंसा च साहसानां च वर्जनम् २८
इति सुश्रुतसंहितायां चिकित्सास्थाने मेधायुष्कामीयं रसायनं
नामाष्टाविंशोऽध्यायः २८
एकोनत्रिंशत्तमोऽध्यायः
अथातः स्वभावव्याधिप्रतिषेधनीयं रसायनं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
ब्रह्मादयोऽसृजन् पूर्वममृतं सोमसंज्ञितम्
जरामृत्युविनाशाय विधानं तस्य वक्ष्यते ३
एक एव खलु भगवान् सोमः स्थान नामाकृतिवीर्यविशेषैश्चतुर्विंशतिधा
भिद्यते ४
तद्यथा
अंशुमान् मुञ्जवांश्चैव चन्द्र मा रजतप्रभः
दूर्वासोमः कनीयांश्च श्वेताक्षः कनकप्रभः ५
प्रतानवांस्तालवृन्तः करवीरॐऽशवानपि
स्वयंप्रभो महासोमो यश्चापि गरुडाहृतः ६
गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः शाक्वरस्तथा
अग्निष्टोमो रैवतश्च यथोक्त इति संज्ञितः ७
गायत्र्या त्रिपदा युक्तो यश्चोडुपतिरुच्यते
एते सोमाः समाख्याता वेदोक्तैर्नामभिः शुभैः ८
सर्वेषामेव चैतेषामेको विधिरुपासने
सर्वे तुल्यगुणाश्चैव विधानं तेषु वक्ष्यते ९
अतोऽन्यतमं सोममुपयुयुक्षुः सर्वोपकरणपरिचारकोपेतः प्रशस्ते देशे त्रिवृतमागारं कारयित्वा हृतदोषः प्रतिसंसृष्टभक्तः प्रशस्तेषु तिथिकरणमु हूर्तनक्षत्रेषु अंशुमन्तमादायाध्वरकल्पेनाहृतमभिषुतमभिहुतं चान्तरागारे कृतमङ्गलस्वस्तिवाचनः सोमकन्दं सुवर्णसूच्या विदार्य पयो गृह्णीयात् सौवर्णे राजते वा पात्रेऽञ्जलिमात्रं ततः सकृदेवोपयुञ्जीत नास्वादयन् तत उपस्पृश्य शेषमप्स्ववसाद्य यमनियमाभ्यामात्मानं संयोज्य वाग्यतोऽभ्यन्तरतः सुहृद्भिरुपास्यमानो विहरेत् १०
रसायनं पीतवांस्तु निवाते तन्मनाः शुचिः
आसीत तिष्ठेत् क्रामेच्च न कथंचन संविशेत् ११
सायं वा भुक्तवानुपश्रुतशान्तिः कुशशय्यायां कृष्णाजिनोत्तरायां सुहृद्भिरुपास्यमानः शयीत तृषितो वा शीतोदकमात्रां पिबेत् अशनायितो वा क्षीरं ततः प्रातरुत्थायोपश्रुतशान्तिः कृतमङ्गलो गां स्पृष्ट्वा तथैवासीत तस्य जीर्णे सोमे छर्दिरुत्पद्यते ततः शोणिताक्तं कृमिव्यामिश्रं छर्दितवते सायं शृतशीतं क्षीरं वितरेत् ततस्तृतीयेऽहनि कृमिव्यामिश्रमतिसार्यते स तेनानिष्टप्रतिग्रहभुक्तप्रभृतिभिर्विशेषैर्विनिर्मुक्तः शुद्धतनुर्भवति ततः सायं स्नाताय पूर्ववदेव क्षीरं वितरेत् क्षौमवस्त्रास्तृतायां चैनं शय्यायां शाययेत् ततश्चतुर्थेहनितस्य श्वयथुरुत्पद्यते ततः सर्वाङ्गेभ्यः कृमयो निष्क्रामन्ति तदहश्च शय्यायां पांशुभिरवकीर्यमाणः शयीत ततः सायं पूर्ववदेव क्षीरं वितरेत् एवं पञ्चमषष्ठयोर्दिवसयोर्वर्तेत केवलमुभयकालमस्मै क्षीरं वितरेत् ततः सप्तमेऽहनि निर्मांसस्त्वगस्थिभूतः केवलं सोमपरिग्रहादेवोच्छ्वसिति तदहश्च क्षीरेण सुखोष्णेन परिषिच्य तिलमधुकचन्दनानुलिप्तदेहं पयः पाययेत् ततोऽष्टमेऽहनि प्रातरेव क्षीरपरिषिक्तअं चन्दनप्रदिग्धगात्रं पयः पाययित्वा पांशुशय्यां समुत्सृज्य क्षौमवस्त्रास्तृतायां शय्यायां शाययेत् ततोऽस्य मांसमाप्याय्यते त्वक् चावदलति दन्तनखरोमाणि चास्य पतन्ति तस्य नवमदिवसात् प्रभृत्यणुतैलाभ्यङ्गः सोमवल्ककषायपरिषेकः ततोदशमेऽहन्येतदेव वितरेत् ततोऽस्य त्वक् स्थिरतामुपैति एवमेकादशद्वादशयोर्वर्तेत ततस्त्रयोदशात् प्रभृति सोमवल्ककषायपरिषेकः एवमाषोडशाद्वर्तेत ततः सप्तदशाष्टादशयो र्दिवसयोर्दशना जायन्ते शिखरिणः स्निग्धवज्रवैदूर्यस्फटिकप्रकाशाः समाः स्थिराः सहिष्णवः तदा प्रभृति चानवैः शालितण्डुलैः क्षीरयवागूमुपसेवेत यावत् पञ्चविंशतिरिति ततोऽस्मै दद्याच्छाल्योदनं मृदूभयकालं पयसा ततोऽस्य नखा जायन्ते विद्रुमेन्द्र गोपकतरुणादित्यप्रकाशाः स्थिराः स्निग्धा लक्षणसंपन्नाः केशाश्च सूक्ष्मा जायन्ते त्वक् च नीलोत्पलातसीपुष्पवैदूर्यप्रकाशा ऊर्ध्वं च मासात् केशान् वापयेत् वापयित्वा चोशीरचन्दनकृष्णतिलकल्कैः शिरः प्रदिह्यात् पयसा वा स्नापयेत् ततोऽस्यानन्तरं सप्तरात्रात् केशा जायन्ते भ्रमराञ्जननिभाः कुञ्चिताः स्थिराः स्निग्धाः ततस्त्रिरात्रात् प्रथमावसथपरिसरान्निष्क्रम्य मुहूर्तं स्थित्वा पुनरेवान्तः प्रविशेत् ततोऽस्य बलातैलमभ्यङ्गार्थेऽवचार्यं यवपिष्टमुद्वर्तनार्थे सुखोष्णं च पयः परिषेकार्थे अजकर्णकषायमुत्सादनार्थेसोशीरं कूपोदकं स्नानार्थे चन्दनमनुलेपार्थे आमलकरसविमिश्राश्चास्य यूषसूपविकल्पाः क्षीरमधुकसिद्धं च कृष्णतिलमवचारणार्थे एवं दशरात्रां ततोऽन्यद्दशरात्रं द्वितीये परिसरे वर्तेत ततस्तृतीये परिसरेस्थिरीकुर्वन्नात्मा नमन्यद्दशरात्रमासीत किञ्चिदातपपवनान् वा सेवेत पुनश्चान्तः प्रविशेत् न चात्मानमादर्शेऽप्सु वा निरीक्षेत रूपशालित्वात् ततोऽन्यद्दशरात्रंक्रोधादीन् परिहरेत् एवं सर्वेषामुपयोगविकल्पः विशेषतस्तु वल्लीप्रतानक्षुपकादयः सोमा ब्राह्मणक्षत्रियवैश्यैर्भक्षयितव्याः तेषां तु प्रमाणमर्धचतुष्कमुष्टयः १२
अंशुमन्तं सौवर्णे पात्रेऽभिषुणुयात् चन्द्र मसं राजते तावुपयुज्याष्टगुणमैश्वर्यमवाप्येशानं देवमनुप्रविशति शेषांस्तु ताम्रमये मृन्मये वा रोहिते वा चर्मणि वितते शूद्र वर्जं त्रिभिर्वर्णैः सोमा उपयोक्तव्याः ततश्चतुर्थे मासे पौर्णमास्यां शुचौ देशे ब्राह्मणानर्चयित्वा कृतमङ्गलो निष्क्रम्य यथोक्तं व्रजेदिति १३
ओषधीनां पतिं सोममुपयुज्य विचक्षणः
दशवर्षसहस्राणि नवां धारयते तनुम् १४
नाग्निर्न तोयं न विषं न शस्त्रं नास्त्रमेव च
तस्यालमायुःक्षपणे समर्थानि भवन्ति हि १५
भद्रा णां षष्टिवर्षाणां प्रस्रुतानामनेकधा
कुञ्जराणां सहस्रस्य बलं समधिगच्छति १६
क्षीरोदं शक्रसदनमुत्तरांश्च कुरूनपि
यत्रेच्छति स गन्तुं वा तत्राप्रतिहता गतिः १७
कन्दर्प इव रूपेण कान्त्या चन्द्र इवापरः
प्रह्लादयति भूतानां मनांसि स महाद्युतिः १८
साङ्गोपाङ्गांश्च निखिलान् वेदान् विन्दति तत्त्वतः
चरत्यमोघसङ्कल्पो देववच्चाखिलं जगत् १९
सर्वेषामेव सोमानां पत्राणि दश पञ्च च
तानि शुक्ले च कृष्णे च जायन्ते निपतन्ति च २०
एकैकं जायते पत्रं सोमस्याहरहस्तदा
शुक्लस्य पौर्णमास्यां तु भवेत् पञ्चदशच्छदः २१
शीर्यते पत्रमेकैकं दिवसे दिवसे पुनः
कृष्णपक्षक्षये चापि लता भवति केवला २२
अंशुमानाज्यगन्धस्तु कन्दवान् रजतप्रभः
कदल्याकारकन्दस्तु मुञ्जवांल्लशुनच्छदः २३
चन्द्र माः कनकाभासो जले चरति सर्वदा
गरुडाहृतनामा च श्वेताक्षश्चापि पाण्डुरौ २४
सर्पनिर्मोकसदृशौ तौ वृक्षाग्रावलम्बिनौ
तथाऽन्ये मण्डलैश्चित्रैश्चित्रिता इव भान्ति ते २५
सर्व एव तु विज्ञेयाः सोमाः पञ्चदशच्छदाः
क्षीरकन्दलतावन्तः पत्रैर्नानाविधैः स्मृताः २६
हिमवत्यर्बुदे सह्ये महेन्द्रे मलये तथा
श्रीपर्वते देवगिरौ गिरौ देवसहे तथा २७
पारियात्रे च विन्ध्ये च देवसुन्दे ह्रदे तथा
उत्तरेण वितस्तायाः प्रवृद्धा ये महीधराः २८
पञ्च तेषामधो मध्ये सिन्धुनामा महानदः
हठवत् प्लवते तत्र चन्द्र माः सोमसत्तमः २९
तस्योद्देशेषु चाप्यस्ति मुञ्जवानंशुमानपि
काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्र कमानसम् ३०
गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः शाक्वरस्तथा
अत्र सन्त्यपरे चापि सोमाः सोमसमप्रभाः ३१
यैश्चात्र मन्दभाग्यैस्ते भिषजश्चापमानिताः
न तान् पश्यन्त्यधर्मिष्ठाः कृतघ्नाश्चापि मानवाः ३२
इति सुश्रुतसंहितायां चिकित्सास्थाने स्वभावव्याधिप्रतिषेधनीयं रसायनचिकित्सितं नामैकोनत्रिंशोऽध्यायः २९
त्रिंशोऽध्यायः
अथातो निवृत्तसन्तापीयं रसायनं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
यथा निवृत्तसन्तापा मोदन्ते दिवि देवताः
तथौषधीरिमाः प्राप्य मोदन्ते भुवि मानवाः ३
अथ खलु सप्त पुरुषा रसायनं नोपयुञ्जीरन् तद्यथा अनात्मवानलसो दरिद्रः प्रमादी व्यसनी पापकृद् भेषजापमानी चेति सप्तभिरेव कारणैर्न संपद्यते तद्यथा अज्ञानादनारम्भा दस्थिर चित्तत्वाद्दारिद्र य्दानायत्तत्वादधर्मादौषधालाभाच्चेति ४
अथौषधीर्व्याख्यास्यामः तत्राजगरी श्वेतकापोती कृष्णकापोती गोनसी वाराही कन्या छत्रा अतिच्छत्रा करेणु अजा चक्रका आदित्यपर्णी ब्रह्मसुवर्चला श्रावणी महाश्रावणी गोलोमी अजलोमी महावेगवती चेत्यष्टादश सोमसमवीर्या महौषधयो व्याख्याताः तासां सोमवत् क्रियाशीलस्तुतयः शास्त्रेऽभिहिताः तासामागारेऽभिहुतानां याः क्षीरवत्यस्तासां क्षीरकुडवं सकृदेवोपयुञ्जीत यास्त्वक्षीरा मूलवत्यस्तासां प्रदेशिनीप्रमाणानि त्रीणि काण्डानि प्रमाणमुपयोगे श्वेतकापोती समूलपत्रा भक्षयितव्या गोनस्यजगरीकृषणकापोतीनां सनखमुष्टिं खण्डशः कल्पयित्वा क्षीरेण विपाच्य परिस्राव्याभिघारितमभिहुतं च सकृदेवोपयुञ्जीत चक्रकायाः पयः सकृदेव ब्रह्मसुवर्चला सप्तरात्रमुपयोक्तव्या भक्ष्यकल्पने शेषाणां पञ्च पञ्च पलानि क्षीराढकक्वथितानि प्रस्थेऽवशिष्टेवतार्य परिस्राव्य सकृदेवोपयुञ्जीत सोमवदाहारविहारौ व्याख्यातौ केवलं नवनीतमभ्यङ्गार्थे शेषं सोमवदानिर्गमादिति ५
भवन्ति चात्र
युवानं सिंहविक्रान्तं कान्तं श्रुतनिगादिनम्
कुर्युरेताः क्रमेणैव द्विसहस्रायुषं नरम् ६
अङ्गदी कुण्डली मौली दिव्यस्रक्चन्दनाम्बरः
चरत्यमोघसङ्कल्पो नभस्यम्बुददुर्गमे ७
व्रजन्ति पक्षिणो येन जललम्बाश्च तोयदाः
गतिः सौषधिसिद्धस्य सोमसिद्धे गतिः परा ८
अथ वक्ष्यामि विज्ञानमौषधीनां पृथक् पृथक्
मण्डलैः कपिलैश्चित्रैः सर्पाभा पञ्चपर्णिनी ९
पञ्चारत्निप्रमाणा च विज्ञेयाऽजगरी बुधैः
निष्पत्रा कनकाभासा मूले ह्यङ्गुलसंमिता १०
सर्पाकारा लोहितान्ता श्वेतकापोतिरुच्यते
द्विपर्णिनीं मूलभवामरुणां कृष्णमण्डलाम् ११
द्व्यरत्निमात्रां जानीयाद्गोनसीं गोनसाकृतिम्
सक्षीरां रोमशां मृद्वीं रसेनेक्षुरसोपमाम् १२
एवंरूपरसां चापि कृष्णकापोतिमादिशेत्
कृष्णसर्पस्वरूपेण वाराही कन्दसंभवा १३
एकपात्रा महावीर्या भिन्नाञ्जनसमप्रभा
छत्रातिच्छत्रके विद्याद्र क्षोघ्ने कन्दसंभवे १४
जरामृत्युनिवारिण्यौ श्वेतकापोतिसंस्थिते
कान्तैर्द्वादशभिः पत्रैर्मयूराङ्गरुहोपमैः १५
कन्दजा काञ्चनक्षीरी कन्या नाम महौषधी
करेणुः सुबहुक्षीरा कन्देन गजरूपिणी १६
हस्तिकर्णपलाशस्य तुल्यपर्णा द्विपर्णिनी
अजास्तनाभकन्दा तु सक्षीरा क्षुपरूपिणी १७
अजा महौषधी ज्ञेया शङ्खकुन्देन्दुपाण्डुरा
श्वेतां विचित्रकुसुमां काकादन्या समां क्षुपाम् १८
चक्रकामोषधीं विद्याज्जरामृत्युनिवारिणीम्
मूलिनी पञ्चभिः पत्रैः सुरक्तांशुककोमलैः १९
आदित्यपर्णिनी ज्ञेया सदाऽदित्यानुवर्तिनी
कनकाभा जलान्तेषु सर्वतः परिसर्पति २०
सक्षीरा पद्मिनीप्रख्या देवी ब्रह्मसुवर्चला
अरत्निमात्रक्षुपका पत्रैर्ह्यङ्गुलसंमितैः २१
पुष्पैर्नीलोत्पलाकारैः फलैश्चाञ्जनसन्निभैः
श्रावणी महती ज्ञेया कनकाभा पयस्विनी २२
श्रावणी पाण्डुराभासा महाश्रावणिलक्षणा
गोलोमी चाजलोमी च रोमशे कन्दसंभवे २३
हंसपादीव विच्छिन्नैः पत्रैर्मूलसमुद्भवैः
अथवा शङ्खपुष्प्या च समाना सर्वरूपतः २४
वेगेन महताऽविष्टा सर्पनिर्मोकसन्निभा
एषा वेगवती नाम जायते ह्यम्बुदक्षये २५
सप्तादौ सर्परूपिण्यो ह्यौषध्यो याः प्रकीर्तिताः
तासामुद्धरणं कार्यं मन्त्रेणानेन सर्वदा २६
महेन्द्र रामकृष्णानां ब्राह्मणानां गवामपि
तपसा तेजसा वाऽपि प्रशाम्यध्वं शिवाय वै २७
मन्त्रेणानेन मतिमान् सर्वा एवाभिमन्त्रयेत्
अश्रद्दधानैरलसैः कृतघ्नैः पापकर्मभिः २८
नैवासादयितुं शक्याः सोमाः सोमसमास्तथा
पीतावशेषममृतं देवैर्ब्रह्मपुरोगमैः २९
निहितं सोमवीर्यासु सोमे चाप्योषधीपतौ
देवसुन्दे ह्रदवरे तथा सिन्धौ महानदे ३०
दृश्यते च जलान्तेषु मेध्या ब्रह्मसुवर्चला
आदित्यपर्णिनी ज्ञेया तथैव हिमसंक्षये ३१
दृश्यतेऽजगरी नित्यं गोनसी चाम्बुदागमे
काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्र कमानसम् ३२
करेणुस्तत्र कन्या च छत्रातिच्छत्रके तथा
गोलोमी चाजलोमी च महती श्रावणी तथा ३३
वसन्ते कृष्णसर्पाख्या गोनसी च प्रदृश्यते
कौशिकीं सरिंत तीर्त्वा सञ्जयन्त्यास्तु पूर्वतः ३४
क्षितिप्रदेशो वल्मीकैराचितो योजनत्रयम्
विज्ञेया तत्र कापोती श्वेता वल्मीकमूर्धसु ३५
मलये नलसेतौ च वेगवत्यौषधी ध्रुवा
कार्तिक्यां पौर्णमास्यां च भक्षयेत्तामुपोषितः ३६
सोमवच्चात्र वर्तेत फलं तावच्च कीर्तितम्
सर्वाविचेयास्त्वोषध्यः सोमाश्चाप्यर्बुदे गिरौ ३७
स शृङ्गैर्देवचरितैरम्बुदानीकभेदिभिः
व्याप्तस्तीर्थैश्च विख्यातैः सिद्धर्षिसुरसेवितैः ३८
गुहाभिर्भीमरूपाभिः सिंहोन्नादितकुक्षिभिः
गजालोडिततोयाभिरापगाभिः समन्ततः
विविधैर्धातुभिश्चित्रैः सर्वत्रैवोपशोभितः ३९
नदीषु शैलेषु सरःसु चापि पुण्येष्वरण्येषु तथाऽश्रमेषु
सर्वत्र सर्वाः परिमार्गितव्याः सर्वत्र भूमिर्हि वसूनि धत्ते ४०
इति सुश्रुतसंहितायां चिकित्सास्थाने निवृत्तसंतापीयं
रसायनं नाम त्रिंशोऽध्यायः ३०
एकत्रिंशत्तमोऽध्यायः
अथातः स्नेहोपयौगिकचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्नेहसारोऽय पुरुषः प्राणाश्च स्नेहभूयिष्ठाः स्नेहसाध्याश्च भवन्ति स्नेहो हिपानानुवासनमस्तिष्कशिरोबस्त्युत्तरबस्तिनस्यकर्णपूरणगात्राभ्यङ्गभोजनेषूपयोज्यः ३
तत्र द्वियोनिश्चतुर्विकल्पोऽभिहितः स्नेहः स्नेहगुणाश्च तत्र जङ्गमेभ्यो गव्यं घृतं प्रधानं स्थावरेभ्यस्तिलतैलं प्रधानमिति ४
अत ऊर्ध्वं यथाप्रयोजनं यथाप्रधानं च स्थावरस्नेहानुपदेक्ष्यामःतत्र तिल्वकैरण्डकोशाम्रदन्तीद्र वन्तीसप्तलाशङ्खिनी पलाशविषाणिकाग वाक्षीकम्पिल्लकश म्पाकनीलिनीस्नेहा विरेचयन्ति जीमूतककुटजकृतवेधनेक्षवाकुधामार्गवमदनस्नेहा वामयन्ति विडङ्गखरमञ्जरीमधुशिग्रुसूर्यवल्लीपीलुसिद्धार्थकज्योतिष्मतीस्नेहाः शिरो विरेचयन्ति करञ्जपूतीककृतमालमातुलुङ्गेङ्गुदीकिराततिक्तकस्नेहा दुष्टव्रणेषूपयुज्यन्ते तुवरककपित्थकम्पिल्लकभल्लातकपटोलस्नेहा महाव्याधिषु त्रपुसैर्वारुककर्कारुकतुम्बीकूष्माण्डस्नेहा मूत्रसङ्गेषु कपोतवङ्कावल्गुज हरीतकीस्नेहाः शर्कराश्मरीषु कुसुम्भसर्षपातसीपिचुमर्दातिमुक्त कभाण्डीकटुतुम्बीकटभीस्नेहाः प्रमेहेषु तालनारिकेलपनसमोचप्रियाल बिल्वमधूकश्लेषमातकाम्रातकफलस्नेहाः पित्तसंसृष्टे वायौ बिभीतक भल्लातकपिण्डीतकस्नेहाः कृष्णीकरणे श्रवणकङ्गुकटुण्टुकस्नेहाः पाण्डूकरणे सरलपीतदारुशिंशपागुरुसारस्नेहा दद्रुकुष्ठकिटिभेषु सर्व एव स्नेहा वातमुपघ्नन्ति तैलगुणाश्च समासेन व्याख्याताः ५
अत ऊर्ध्वं कषायस्नेहपाकक्रममुपदेक्ष्यामः तत्र केचिदाहुः त्वक्पत्रफलमूलादीनां भागस्तच्चतुर्गुणं जलं चतुर्भागावशेषं निष्क्वाथ्यापहरेदित्येष कषायपाककल्पः स्नेहप्रसृतेषु षट्सु चतुर्गुणं द्र वमावाप्य चतुरश्चाक्षसमान् भेषजपिणडानित्येष स्नेहपाककल्पः एतत्तु न सम्यक् कस्मात् आगमासिद्धत्वात् ६
पलकुडवादीनामतो मानं तु व्याख्यास्यामः तत्र द्वादश धान्यमाषा मध्यमाः सुवर्णमाषकः ते षोडश सुवर्णम् अथवा मध्यमनिष्पावा एकोनविंशतिर्धरणं तान्यर्धतृतीयानि कर्षः ततश्चोर्ध्वं चतुर्गुणमभिवर्धयन्तः पलकुडवप्रस्थाढकद्रो णा इत्यभिनिष्पद्यन्ते तुला पुनः पलशतं ताः पुनर्विंशतिर्भारः शुष्काणामिदं मानम् आर्द्र द्र वाणां च द्विगुणमिति ७
तत्रान्यतमपरिमाणसंमितानां यथायोगं त्वक्पत्रफलमूलादीनामातपपरिशोषितानां छेद्यानि खण्डशश्छेदयित्वा भेद्यान्यणुशो भेदयित्वाऽवकुट्याष्टगुणेन षोडशगुणेन वाऽम्भसाऽभिषिच्य स्थाल्यां चतुर्भागावशिष्टं क्वाथयित्वाऽपहरेदित्येष कषायपाककल्पः स्नेहाच्चतुर्गुणो द्र वः स्नेहचतुर्थांशो भेषजकल्कः तदैकध्यं संसृज्य विपचेदित्येष स्नहेपाककल्पः अथवा तत्रोदकद्रो णे त्वक्पत्रफलमूलादीनां तुलामावाप्य चतुर्भागावशिष्टं निष्क्वाथ्यापहरेदित्येष कषायपाककल्पः स्नेहकुडवे भेषजपलं पिष्टं कल्कं चतुर्गुणं द्र वमावाप्य विपचेदित्येष स्नेहपाककल्पः ८
भवतश्चात्र
स्नेहभेषजतोयानां प्रमाणं यत्र नेरितम्
तत्रायं विधिरास्थेयो निर्दिष्टे तद्वदेव तु ९
अनुक्ते द्र वकार्ये तु सर्वत्र सलिलं मतम्
कल्कक्वाथावनिर्देशे गणात्तस्मात् प्रयोजयेत् १०
अत ऊर्ध्वं स्नेहपाकक्रममुपदेक्ष्यामः स तु त्रिविधः तद्यथामृदुः मध्यमः खर इति तत्र स्नेहौषधिविवेकमात्रं यत्र भेषजं स मृदुरिति मधूच्छिष्टमिव विशदमविलेपि यत्र भेषजं स मध्यमः कृष्णमवसन्नमीषद्विशदं चिक्कणं च यत्र भेषजं स खर इति अत ऊर्ध्वं दग्धस्नेहो भवति तं पुनः साधुसाधयेत् तत्र पानाभ्यवहारयोर्मृदुः नस्याभ्यङ्गयोर्मध्यमः बस्तिकर्णपूरण योस्तु खर इति ११
भवतश्चात्र
शब्दस्योपरमे प्राप्ते फेनस्योपशमे तथा
गन्धवर्णरसादीनां संपत्तौ सिद्धिमादिशेत् १२
घृतस्यैवं विपक्वस्य जानीयात् कुशलो भिषक्
फेनोऽतिमात्रं तैलस्य शेषं घृतवदादिशेत् १३
अत ऊर्ध्वं स्नेहपानक्रममुपदेक्ष्यामःअथ खलु लघुकोष्ठायातुराय कृतमङ्गलस्वस्तिवाचनायोदयगिरिशिखरसंस्थितेप्रतप्तकन कनिकरपीत लोहितेसवितरि यथाबलं तैलस्य घृतस्य वा मात्रां पातुं प्रयच्छेत् पीतमात्रे चोषणोदकेनोपस्पृश्य सोपानत्को यथासुखं विहरेत् १४
रूक्षक्षतविषार्तानां वातपित्तविकारिणाम्
हीनमेधास्मृतीनां च सर्पिःपानं प्रशस्यते १५
कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः
पिबेयुस्तैलसात्म्याश्च तैलं दार्ढ्यार्थिनश्च ये १६
व्यायामकर्शिताः शुष्करेतोरक्ता महारुजः
महाग्निमारुतप्राणा वसायोग्या नराः स्मृताः १७
क्रूराशयाः क्लेशसहा वातार्ता दीप्तवह्नयः
मज्जानमाप्नुयुः सर्वे सर्पिर्वा स्वौषधान्वितम् १८
केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम्
देयं बहुकफे चापि व्योषक्षारसमायुतम् १९
दोषाणामल्पभूयस्त्वं संसर्गं समवेक्ष्य च
युञ्ज्यात्त्रिषष्टिधाभिन्नैः समासव्यासतो रसैः २०
स्नेहसात्म्यः क्लेशसहः काले नात्युष्णशीतले
अच्छमेव पिबेत् स्नेहमच्छपानं हि पूजितम् २१
शीतकाले दिवा स्नेहमुष्णकाले पिबेन्निशि
वातपित्ताधिको रात्रौ वातश्लेष्माधिको दिवा २२
वातपित्ताधिकस्योष्णे तृण्मूर्च्छोन्मादकारकः
शीते वातकफार्तस्य गौरवारुचिशूलकृत् २३
स्नेहपीतस्य चेत्तृष्णा पिबेदुष्णोदकं नरः
एवं चानुपशाम्यन्त्यां स्नेहमुष्णाम्बुना वमेत् २४
दिह्याच्छीतैः शिरः शीतं तोयं चाप्यवगाहयेत्
या मात्रा परिजीर्येत चतुर्भागगतेऽहनि २५
सा मात्रा दीपयत्यग्निमल्पदोषे च पूजिता
या मात्रा परिजीर्येत तथाऽधदिवसे गते २६
सा वृष्या बृंहणी या च मध्यदोषे च पूजिता
या मात्रा परिजीर्येत चतुर्भागावशेषिते २७
स्नेहनीया च सा मात्रा बहुदोषे च पूजिता
या मात्रा परिजीर्येत्तु तथा परिणतेऽहनि २८
ग्लानिमूर्च्छामदान् हित्वा सा मात्रा पूजिता भवेत्
अहोरात्रादसंदुष्टा या मात्रा परिजीर्यति २९
सा तु कुष्ठविषोन्मादग्रहापस्मारनाशिनी
यथाग्नि प्रथमां मात्रां पाययेत विचक्षणः ३०
पीतो ह्यतिबहुः स्नेहो जनयेत् प्राणसंशयम्
मिथ्याचाराद्बहुत्वाद्वा यस्य स्नेहो न जीर्यति ३१
विष्टभ्य चापि जीर्येत्तं वारिणोष्णेन वामयेत्
ततः स्नेहं पुनर्दद्याल्लघुकोष्ठाय देहिने
जीर्णाजीर्णविशङ्कायां स्नेहस्योष्णोदकं पिबेत् ३२
तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा
स्युः पच्यमाने तृड्दाहभ्रमसादारतिक्लमाः ३३
परिषिच्याद्भिरुष्णाभिर्जीर्णस्नेहं ततो नरम्
यवागूं पाययेच्चोष्णां कामं क्लिन्नाल्पतण्डुलाम् ३४
देयौ यूषरसौ वाऽपि सुगन्धी स्नेहवर्जितौ
कृतौ वाऽत्यल्पसर्पिष्कौ विलेपी वा विधीयते ३५
पिबेत्त्र्यहं चतुरहं पञ्चाहं षडहं तथा
सप्तरात्रात् परं स्नेहः सात्म्यीभवति सेवितः ३६
सुकुमारं कृशं वृद्धं शिशुं स्नेहद्विषं तथा
तृष्णार्तमुष्णकाले च सह भक्तेन पाययेत् ३७
पिप्पल्यो लवणं स्नेहाश्चत्वारो दधिमस्तुकः
पीतमैकध्यमेतद्धि सद्यःस्नेहनमुच्यते ३८
भृष्टा मांसरसे स्निग्धा यवागूः सूपकल्पिता
प्रक्षुद्रा पीयमाना तु सद्यःस्नेहनमुच्यते ३९
सर्पिष्मती पयःसिद्धा यवागूः स्वल्पतण्डुला
सुखोष्णा सेव्यमाना तु सद्यःस्नेहनमुच्यते ४०
पिप्पल्यो लवणं सर्पिस्तिलपिष्टं वराहजा
वसा च पीतमैकध्यं सद्यःस्नेहनमुच्यते ४१
शर्कराचूर्णसंसृष्टे दोहनस्थे घृते तु गाम्
दुग्ध्वा क्षीरं पिबेद्रू क्षः सद्यःस्नेहनमुच्यते ४२
यवकोलकुलत्थानां क्वाथो मागधिकान्वितः
पयो दधि सुरा चेति घृतमप्यष्टमं भवेत् ४३
सिद्धमेतैर्घृतं पीतं सद्यःस्नेहनमुत्तमम्
राज्ञे राजसमेभ्यो वा देयमेतद्घृतोत्तमम् ४४
बलहीनेषु वृद्धेषु मृद्वग्निस्त्रीहतात्मसु
अल्पदोषेषु योज्याः स्युर्ये योगाः सम्यगीरिताः ४५
विवर्जयेत् स्नेहपानमजीर्णी तरुणज्वरी
दुर्बलोऽरोचकी स्थूलो मूर्च्छार्तो मदपीडितः ४६
छर्द्यर्दितः पिपासार्तः श्रान्तः पानक्लमान्वितः
दत्तबस्तिर्विरिक्तश्च वान्तो यश्चापि मानवः ४७
अकाले दुर्दिने चैव न च स्नेहं पिबेन्नरः
अकाले च प्रसूता स्त्री स्नेहपानं विवर्जयेत् ४८
स्नेहपानाद्भवन्त्येषां नृणां नानाविधा गदाः
गदा वा कृच्छ्रतां यान्ति न सिध्यन्त्यथवा पुनः ४९
गर्भाशयेऽवशेषाः स्यू रक्तक्लेदमलास्ततः
स्नेहं जह्यान्निषेवेत पाचनं रूक्षमेव च ५०
दशरात्रात्ततः स्नेहं यथावदवचारयेत्
पुरीषं ग्रथितं रूक्षं कृच्छ्रादन्नं विपच्यते ५१
उरो विदहते वायुः कोष्ठादुपरि धावति
दुर्वर्णो दुर्बलश्चैव रूक्षो भवति मानवः ५२
सुस्निग्धा त्वग्विट्शैथिल्यं दीप्तोऽग्निर्मृदुगात्रता
ग्लानिर्लाघवमङ्गानामधस्तात् स्नेहदर्शनम्
सम्यक्स्निग्धस्य लिङ्गानि स्नेहोद्वेगस्तथैव च ५३
भक्तद्वेषो मुखस्रावो गुददाहः प्रवाहिका
पुरीषातिप्रवृत्तिश्च भृशस्निग्धस्य लणक्षम् ५४
रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम्
श्यामाककोरदूषान्नतक्रपिण्याकशक्तुभिः ५५
दीप्तान्तरग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः
दृढेन्द्रि यो मन्दजरः शतायुः स्नेहोपसेवी पुरुषो भवेत्तु ५६
स्नेहो हितो दुर्बलवह्निदेहसन्धुक्षणे व्याधिनिपीडितस्य
बलान्वितौ भोजनदोषजातैः प्रमर्दितुं तौ सहसा न साध्यौ ५७
इति सुश्रुतसंहितायां चिकित्सास्थाने स्नेहोपयौगिकचिकित्सितं नामैकत्रिंशत्तमोऽध्यायः ३१
द्वात्रिंशत्तमोऽध्यायः
अथातः स्वेदावचारणीयं चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
चतुर्विधः स्वेदः तद्यथातापस्वेद ऊष्मस्वेद उपनाहस्वेदो द्र वस्वेद इति अत्र सर्वस्वेदविकल्पावरोधः ३
तत्र तापस्वेदः पाणिकांस्यकन्दुककपालवालुकावस्त्रैः प्रयुज्यते शयानस्य चाङ्गतापो बहुशः खादिराङ्गारैरिति ४
ऊष्मस्वेदस्तु कपालपाषाणेष्टकालोहपिण्डानग्निवर्णानद्भिरासिञ्चेदम्लद्रव्यैर्वा तैरार्द्रालक्तकपरिवेष्टितैरङ्गप्रदेशं स्वेदयेत् मांसरसपयोदधिस्नेहधान्याम्लवातहरपत्रभङ्गक्वाथपूर्णा वा क ुम्भीमनुतप्तां प्रावृत्योष्माणं गृह्णीयात् पार्श्वच्छिद्रे ण वा कुम्भेनाधोमुखेन तस्या मुखमभिसन्धाय तस्मिञ्छिद्रे हस्तिशुणडाकारां नाडीं प्रणिधाय तं स्वेदयेत् ५
सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम्
हस्तिशुण्डिकया नाड्या स्वेदयेद्वातरोगिणम्
सुखा सर्वाङ्गगा ह्येषा न च क्लिश्नाति मानवम् ६
व्यामार्धमात्रा त्रिर्वक्रा हस्तिहस्तसमाकृतिः
स्वेदनार्थे हिता नाडी कैलिञ्जी हस्तिशुण्डिका ७
पुरुषायाममात्रां च भूमिमुत्कीर्य खादिरैः
काष्ठैर्दग्ध्वा तथाऽभ्युक्ष्य क्षीरधान्याम्लवारिभिः ८
पत्रभङ्गैरवच्छाद्य शयानं स्वेदयेत्ततः
पूर्ववत् स्वेदयेद्दग्ध्वा भस्मापोह्यापि वा शिलाम् ९
पूर्ववत् कुटीं वा चतुर्द्वारां कृत्वा तस्यामुपविष्ट
स्यान्तश्चतुर्द्वारेऽङ्गारानुपसन्धाय तं स्वेदयेत् १०
कोशधान्यानि वा सम्यगुपस्वेद्यास्तीर्य किलिञ्जेऽन्यस्मिन् वा तत्प्रतिरूपके शयानं प्रावृत्य स्वेदयेतेवं पांशुगोशकृत्तुषबुसपलालोष्मभिः स्वेदयेत् ११
उपनाहस्वेदस्तु वातहरमूलकल्कैरम्लपिष्टैर्लवणप्रगाढैः सुस्निग्धैः सुखोष्णैः प्रदिह्य स्वेदयेत् एवं काकोल्यादिभिरेलादिभिः सुरसादिभिस्तिलातसीसर्षपकल्कैः कृशरापायसोत्कारिकाभिर्वेशवारैः साल्वणैर्वा तनुवस्त्रावनद्धैः स्वेदयेत् १२
द्र वस्वेदस्तु वातहरद्र व्यक्वाथपूर्णे कोष्णकटाहे द्रो ण्यां वाऽवगाह्य स्वेदयेत् एवं पयोमांसरसयूषतैलधान्याम्लघृतवसामूत्रेष्ववगाहेत एतैरेव सुखोष्णैः कषायैश्च परिषिञ्चेदिति १३
तत्र तापोष्मस्वेदौ विशेषतः श्लेष्मघ्नौ उपनाहस्वेदो वातघ्नः अन्यतरस्मिन् पित्तसंसृष्टे द्र वस्वेद इति १४
कफमेदोन्विते वायौ निवातातपगुरुप्रावरणनियुद्धाध्वव्यायामभारहरणामर्षैः स्वेदमुत्पादयेदिति १५
भवन्ति चात्र
चतुर्विधो योऽभिहितो द्विधा स्वेदः प्रयुज्यते
सर्वस्मिन्नेव देहे तु देहस्यावयवे तथा १६
येषां नस्यं विधातव्यं बस्तिश्चैव हि देहिनाम्
शोधनीयाश्च ये केचित् पूर्वं स्वेद्यास्तु ते मताः १७
पश्चात् स्वेद्या हृते शल्ये मूढगर्भाऽनुपद्र वा
सम्यक् प्रजाता काले या पश्चात् स्वेद्या विजानता १८
स्वेद्यः पूर्वं च पश्चाच्च भगन्दर्यर्शसस्तथा
अश्मर्या चातुरो जन्तुः शेषाञ्छास्त्रे प्रचक्ष्महे १९
नानभ्यक्ते नापि चास्निग्धदेहे स्वेदो योज्यः स्वेदविधिः कथञ्चित्
दृष्टं लोके काष्ठमस्निग्धमाशु गच्छेद्भङ्गं स्वेदयोगैर्गृहीतम् २०
स्नेहक्लिन्ना धातुसंस्थाश्च दोषाः स्वस्थानस्था ये च मार्गेषु लीनाः
सम्यक् स्वेदैर्योजितैस्ते द्र वत्वं प्राप्ताः कोष्ठं शोधनैर्यान्त्यशेषम् २१
अग्नेर्दीप्तिं मार्दवं त्वक्प्रसादं भक्तश्रद्धां स्रोतसां निर्मलत्वम्
कुर्यात् स्वेदो हन्ति निद्रां सतन्द्रां सन्धीन् स्तब्धांश्चेष्टयेदाशु युक्तः २२
स्वेदास्रावो व्याधिहानिर्लघुत्वं शीतार्थित्वं मार्दवं चातुरस्य
सम्यक्स्विन्ने लक्षणं प्राहुरेतन्मिथ्यास्विन्ने व्यत्ययेनैतदेव २३
स्विन्नेऽत्यर्थं सन्धिपीडा विदाहः स्फोटोत्पत्तिः पित्तरक्तप्रकोपः
मूर्च्छा भ्रान्तिर्दाहतृष्णे क्लमश्च कुर्यात्तूर्णं तत्र शीतं विधानम् २४
पाण्डुर्मेही पित्तरक्ती क्षयार्तः क्षामोऽजीर्णी चोदरार्तो विषार्तः
तृड्च्छर्द्यार्तो गर्भिणी पीतमद्यो नैते स्वेद्या यश्च मर्त्योऽतिसारी २५
स्वेदादेषां यान्ति देहा विनाशं नोसाध्यत्वं यान्ति चैषां विकाराः
स्वेदैः साध्यो दुर्बलोऽजीर्णभक्तः स्यातां चेद्द्वौ स्वेदनीयौ ततस्तौ २६
एतेषां स्वेदसाध्या ये व्याधयस्तेषु बुद्धिमान्
मृदून् स्वेदान् प्रयुञ्जीत तथा हृन्मुष्कदृष्टिषु २७
सर्वान् स्वेदान्निवाते च जीर्णान्नस्यावचारयेत्
स्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी २८
स्विद्यमानस्य च मुहुर्हृदयं शीतलैः स्पृशेत्
सम्यक्स्विन्नं विमृदितं स्नातमुष्णाम्बुभिः शनैः २९
स्वभ्यक्तं प्रावृताङ्गं च निवातशरणस्थितम्
भोजयेदनभिष्यन्दि सर्वं चाचारमादिशेत् ३०
इति सुश्रुतसंहितायां चिकित्सास्थाने स्वेदावचारणीयं चिकित्सितं नाम द्वात्रिंशोऽध्यायः ३२
त्रयस्त्रिंशत्तमोऽध्यायः
अथातो वमनविरेचनसाध्योपद्र वचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
दोषाः क्षीणा बृंहयितव्याः कुपिताः प्रशमयितव्याः
वृद्धा निर्हर्तव्याः समाः परिपाल्या इति सिद्धान्तः ३
प्राधान्येन वमनविरेचने वर्तेते निर्हरणे दोषाणाम् तस्मात्तयोर्विधानमुच्यमानमुपधारय ४
अथातुरं स्निग्धं स्विन्नमभिष्यन्दिभिराहारैरनवबद्धदोषमवलोक्य श्वो वमनं पाययिताऽस्मीतिसंभोजयेत्तीक्ष्णाग्निं बलवन्तं बहुदोषं महाव्याधिपरीतं वमनसात्म्यं च ५
भवति चात्र
पेशलैर्विविधैरन्नैर्दोषानुत्क्लेश्य देहिनः
स्निग्धस्विन्नाय वमनं दत्तं सम्यक् प्रवर्तते ६
अथापरेद्युः पूर्वाह्णे साधारणे काले वमनद्र व्यकषायकल्कचूर्णस्नेहा नामन्यतमस्य मात्रां पाययित्वा वामयेद्यथायोगं कोष्ठविशेषमवेक्ष्य असात्म्यबीभत्सदुर्गन्धदुर्दर्शनानि च वमनानि विदध्यात अतो विपरीतानि विरेचनानि तत्र सुकुमारं कृशंबालं वृद्धं भीरुं वा वमनसाध्येषु विकारेषु क्षीरदधितक्रयवागूनामन्यतममाकण्ठं पाययेत् पीतौषधं च पाणिभिरग्नितप्तैः प्रताप्यमानं मुहूर्तमुपेक्षेत तस्य च स्वेदप्रादुर्भावेण शिथिलतामापन्नं स्वेभ्यः स्थानेभ्यः प्रचलितं कुक्षिमनुसृतं जानीयात् ततः प्रवृत्तहृल्लासं ज्ञात्वा जानुमात्रासनोपविष्टमाप्तैर्ललाटे पृष्ठे पार्श्वयोः कण्ठे च पाणिभिः सुपरिगृहीतमङ्गुलीगन्धर्वहस्तोत्पलनालानामन्यतमेन कणठमभिस्पृशन्तं वामयेत्तावद्यावत् सम्यग्वान्तलिङ्गानीति ७
भवतश्चात्र
कफप्रसेकं हृदयाविशुद्धिं कण्डूं च दुश्छर्दितलिङ्गमाहुः
पित्तातियोगं च विसंज्ञतां च हृत्कण्ठपीडामपि चातिवान्ते ८
पित्ते कफस्यानु सुखं प्रवृत्ते शुद्धेषु हृत्कण्ठशिरःसु चापि
लघौ च देहे कफसंस्रवे च स्थिते सुवान्तं पुरुषं व्यवस्येत् ९
सम्यग्वान्तं चैनमभिसमीक्ष्य स्नेहनविरेचनशमनां
धूमानामन्यतमं सामर्थ्यतः पाययित्वाऽचारिकमादिशेत् १०
भवन्ति चात्र
ततोऽपराह्णे शुचिशुद्धदेहमुष्णाभिरद्भिः परिषिक्तगात्रम्
कुलत्थमुद्गाढकिजाङ्गलानां यूषै रसैर्वाऽप्युपभोजयेत्तु ११
कासोपलेपस्वरभेदनिद्रा तन्द्रा स्यदौर्गन्ध्यविषोपसर्गाः
कफप्रसेकग्रहणीप्रदोषा न सन्ति जन्तोर्वमतः कदाचित् १२
छिन्ने तरौ पुष्पफलप्ररोहा यथा विनाशं सहसा व्रजन्ति
तथा हृते श्लेष्मणि शोधनेन तज्जा विकाराः प्रशमं प्रयान्ति १३
न वामयेत्तैमिरिकोर्ध्ववातगुल्मोदरप्लीहकृमिश्रमार्तान्
स्थूलक्षतक्षीणकृशातिवृद्धमूत्रातुरान् केवलवातरोगान् १४
स्वरोपघाताध्ययनप्रसक्तदुश्छर्दिदुःकोष्ठतृडार्तबालान्
ऊर्ध्वास्रपित्तिक्षुधितातिरूक्षगर्भिण्युदावर्तिनिरूहितांश्च १५
अवम्यवमनाद्रो गाः कृच्छ्रतां यान्ति देहिनाम्
असाध्यतां वा गच्छन्ति नैते वाम्यास्ततः स्मृताः १६
एतेऽप्यजीर्णव्यथिता वाम्या ये च विषातुराः
अतीव चोल्बणकफास्ते च स्युर्मधुकाम्बुना १७
वाम्यास्तुविषशोषस्तन्यदोषमन्दाग्न्युन्मादापस्मारश्लीपदार्बुदविदारिकामेदोमे हगरज्वरारुच्यपच्यामातीसारहृद्रो गचित्तविभ्रमविसर्पविद्र ध्यजीर्णमुखप्रसेकहृ ल्लासश्वासकासपीनसपूतीनासकण्ठौष्ठवक्त्रपाककर्णस्रवाधिजिह्वोपजिह्विका गलशुण्डिकाधः शोणितपित्तिनः कफस्थानजेषु विकारेष्वन्ये च कफव्याधिपरीता इति १८
विरेचनमपि स्निग्धस्विन्नाय वान्ताय च देयमवान्तस्य हि सम्यग्विरिक्तस्यापि सतोऽध स्रस्तः श्लेष्मा ग्रहणीं छादयति गौरवमापादयति प्रवाहिकां वा जनयति १९
अथातुरं श्वो विरेचनं पाययिताऽस्मीति पूर्वाह्णे लघु भोजयेत् फलाम्लमुष्णोदकं चैनमनुपाययेत् अथापरेऽहनि विगतश्लेष्मधातुमातुरोपक्रमणीयादवेक्ष्यातुरमथास्मै औषधमात्रां पातुं प्रयच्छेत् २०
तत्र मृदुः क्रूरो मध्यम इति त्रिविधः कोष्ठ भवति तत्र बहुपित्तो मृदुः स दुग्धेनापि विरिच्यते बहुवातश्लेष्मा क्रूरः स दुर्विरेच्यः समदोषो मध्यमः स साधारण इति तत्र मृदौ मात्रा मृद्वी तीक्ष्णा क्रूरे मध्ये मध्या कर्तव्येति पीतौषधश्च तन्मनाः शय्याभ्याशे विरेच्यते २१
विरेचनं पीतवांस्तु न वेगान् धारयेद्बुधः
निवातशायी शीताम्बु न स्पृशेन्न प्रवाहयेत् २२
यथा च वमने प्रसेकौषधकफपित्तानिलाः क्रमेण
गच्छन्ति एवं विरेचने मूत्रपुरीषपित्तौषधकफा इति २३
भवन्ति चात्र
हृत्कुक्ष्यशुद्धिः परिदाहकण्डूविण्मूत्रसङ्गाश्च न सद्विरिक्ते
मूर्च्छागुदभ्रंशकफातियोगाः शूलोद्गमश्चातिविरिक्तलिङ्गम् २४
गतेषु दोषेषु कफान्वितेषु नाभ्या लघुत्वे मनसश्च तुष्टौ
गतेऽनिले चाप्यनुलोमभावं सम्यग्विरिक्तं मनुजं व्यवस्येत् २५
मन्दाग्निमक्षीणमसद्विरिक्तं न पाययेताहनि तत्र पेयाम्
क्षीणं तृषार्तं सुविरेचितं च तन्वीं सुखोष्णां लघु पाययेच्च २६
बुद्धेः प्रसादं बलमिन्द्रि याणां धातुस्थिरत्वं बलमग्निदीप्तिम्
चिराच्च पाकं वयसः करोति विरेचनं सम्यगुपास्यमानम् २७
यथौदकानामुदकेऽपनीते चरस्थिराणां भवति प्रणाशः
पित्ते हृते त्वेवमुपद्र वाणां पित्तात्मकानां भवति प्रणाशः २८
मन्दाग्न्यतिस्नेहितबालवृद्धस्थूलाः क्षतक्षीणभयोपतप्ताः
श्रान्तस्तृषार्तोऽपरिजीर्णभक्तो गर्भिण्यधो गच्छति यस्य चासृक् २९
नवप्रतिश्यायमदात्ययी च नवज्वरी या च नवप्रसूता
शल्यार्दिताश्चाप्यविरेचनीयाः स्नेहादिभिर्ये त्वनुपस्कृताश्च ३०
अत्यर्थपित्ताभिपरीतदेहान् विरेचयेत्तानपि मन्दमन्दम्
विरेचनैर्यान्ति नरा विनाशमज्ञप्रयुक्तैरविरेचनीयाः ३१
विरेच्यास्तुज्वरगरारुच्यर्शोऽबुदोदरग्रन्थिविद्र धिपाण्डुरोगापस्मारहृद्रो ग वातरक्तभगन्दरच्छर्दियोनिरोगविसर्पगुल्मपक्वाशयरुग्विबन्धविसूचि कालसकमूत्रा घातकुष्ठविस्फोटकप्रमेहानाहप्लीहशोफवृद्धि शस्त्र क्षतक्षाराइग्नदग्धदुष्टव्रणाक्षिपाक काचतिमिरा भिष्यन्दशिरः कर्णाक्षिनासास्यगुदमेढ्रदाहोर्ध्वरक्तपित्तकृमि कोष्ठिनः पित्तस्थानजेष्वन्येषु च विकारेष्वन्ये च पैत्तिकव्याधिपरीता इति ३२
सरत्वसौक्ष्म्यतैक्ष्ण्यौष्ण्यविकाशित्वैर्विरेचनम्
वमनं तु हरेद्दोषं प्रकृत्या गतमन्यथा ३३
यात्यधो दोषमादाय पच्यमानं विरेचनम्
गुणोत्कर्षाद्व्रजत्यूर्ध्वमपक्वं वमनं पुनः ३४
मृदुकोष्ठस्य दीप्ताग्नेरतितीक्ष्णं विरेचनम्
न सम्यङ्निर्हरेद्दोषानतिवेगप्रधावितम् ३५
पीतं यदौषधं प्रातर्भुक्तपाकसमे क्षणे
पक्तिं गच्छति दोषांश्च निर्हरेत्तत् प्रशस्यते ३६
दुर्बलस्य चलान् दोषानल्पानल्पान् पुनः पुनः
हरेत् प्रभूतानल्पांस्तु शमयेत् प्रच्युतानपि ३७
हरेद्दोषांश्चलान् पक्वान् बलिनो दुर्बलस्य वा
चला ह्युपेक्षिता दोषाः क्लेशयेयुश्चिरं नरम् ३८
मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैघृतैः
सन्धुक्षिताग्निं स्निग्धं च स्विन्नं चैव विरेचयेत् ३९
स्निग्धस्विन्नस्य भैषज्यैर्दोषस्तूत्क्लेशितो बलात्
निलीयते न मार्गेषु स्निग्धे भाण्ड इवोदकम् ४०
न चातिस्नेहपीतस्तु पिबेत् स्नेहविरेचनम्
दोषाः प्रचलिताः स्थानाद्भूयः श्लिष्यन्ति वर्त्मसु ४१
विषाभिघातपिडकाशोफपाण्डुविसर्पिणः
नातिस्निग्धा विशोध्याः स्युस्तथा कुष्ठिप्रमेहिणः ४२
विरूक्ष्य स्नेहसात्म्यं तु भूयः संस्नेह्य शोधयेत्
तेन दोषा हृतास्तस्य भवन्ति बलवर्धनाः ४३
प्रागपीतं नरं शोध्यं पाययेतौषधं मृदु
ततो विज्ञातकोष्ठस्य कार्यं संशोधनं पुनः ४४
सुखं दृष्टफलं हृद्यमल्पमात्रं महागुणम्
व्यापत्स्वल्पात्ययं चापि पिबेन्नृपतिरौषधम् ४५
स्नेहस्वेदावनभ्यस्य यस्तु संशोधनं पिबेत्
दारु शुष्कमिवानामे देहस्तस्य विशीर्यते ४६
स्नेहस्वेदप्रचलिता रसैः स्निग्धैरुदीरिताः
दोषाः कोष्ठगता जन्तोः सुखा हर्तुं विशोधनैः ४७
इति सुश्रुतसंहितायां चिकित्सास्थाने वमनविरेचनसाध्योपद्र वचिकित्सितं नाम त्रयस्त्रिंशोऽध्यायः ३३
चतुस्त्रिंशत्तमोऽध्यायः
अथातो वमनविरेचनव्यापच्चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वैद्यातुरनिमित्तं वमनं विरेचनं च पञ्चदशधा व्यापद्यते तत्र वमनस्याधो गतिरूर्ध्वं विरेचनस्येति पृथक् सामान्यमुभयोःसावशेषौषधत्वं जीर्णौषधत्वं हीनेदोषापहृतत्वं वातशूलम् अयोगो अतियोगो जीवादानम् आध्मानं परिकर्तिका परिस्रावः प्रवाहिका हृदयोपसरणं विबन्ध अङ्गप्रग्रह इति ३
तत्र बुभुक्षापीडितस्यातितीक्ष्णाग्नेर्मृदुकोष्ठस्य चावतिष्ठमानं दुर्वमस्य वा गुणसामान्यभावाद्वमनमधो गच्छति तत्रेप्सितानवाप्तिर्दोषोत्क्लेशश्च तमाशु स्नेहयित्वा भूयस्तीक्ष्णतरैर्वामयेत् ४
अपरिशुद्धामाशयस्योत्क्लिष्टश्लेष्मणः सशेषान्नस्य वाऽहृद्यमतिप्रभूतं वा विरेचनं पीतमूर्ध्वं गच्छति तत्रेप्सितानवाप्तिर्दोषोक्लेशश्च तत्राशुद्धामाशयमुल्बणश्लेष्माणमाशु वामयित्वा भूयस्तीक्ष्णतरैर्विरेचयेत् आमान्वये त्वामवत् संविधानम् अहृद्येऽतिप्रभूते च हृद्यं प्रमाणयुक्तं च अत ऊर्ध्वमुत्तिष्ठत्यौषधे न तृतीयं पाययेत् ततस्त्वेनं मधुघृतफाणितयुक्तैर्लेहैर्विरेचयेत् ५
दोषविग्रथितमल्पमौषधमवस्थितमूर्ध्वभागिकमधोभागिकं वा न स्रंसयति दोषान् तत्र तृष्णा पार्श्वशूलं छर्दिर्मूर्च्छा पर्वभेदो हृल्लासोऽरतिरुद्गाराविशुद्धिश्च भवति तमुष्णाभिरद्भिराशु वामयेदूर्ध्वभागिके अधोभागिकेऽपि च सावशेषौषधमतिप्रधावितदोषमतिबलमसम्यग्विरिक्तलक्षणमप्येवं वामयेत् ६
क्रूरकोष्ठस्यातितीक्ष्णाग्नेरल्पमौषधमल्पगुणं वा भक्तवत् पाकमुपैति तत्र समुदीर्णा दोषा यथाकालमनिर्ह्रीयमाणा व्याधिविभ्रमं बलविभ्रंशं चापादयन्ति तमनल्पममन्दमौषधं च पाययेत् ७
अस्निग्धस्विन्नेनाल्पगुणं वा भेषजमुपयुक्तमल्पान् दोषान् हन्ति तत्र वमने दोषशेषो गौरवमुत्क्लेशं हृदयाविशुद्धिं व्याधिवृद्धिं च करोति तत्र तं यथायोगं पाययित्वा वामयेद्दृढतरां विरेचने तु गुदपरिकर्तनमाध्मानं गिरोगौरवमनिः सरणं वा वायोर्व्याधिवृद्धिअं च करोति तमुपपाद्य भूयः स्नेहस्वेदाभ्यां विरेचयेद्दृढतरं दृढं बहुप्रचलितदोषं वा तृतीये दिवसेऽल्पगुणं चेति ८
अस्निग्धस्व्न्नेन रूक्षौषधमुपयुक्तमब्रह्मचारिणा वा वायुं कोपयति तत्र वायुः प्रकुपितः पार्श्वपृष्ठश्रोणिमन्यामर्मशूलं मूर्च्छां भ्रमं मदं संज्ञानाशं च करोति तं वातशूलमित्याचक्षते तमभ्यज्य धान्यस्वेदेन स्वेदयित्वा यष्टीमधुकविपक्वेन तैलेनानुवासयेत् ९
स्नेहस्वेदाभ्यामविभावितशरीरेणाल्पमौषधमल्पगुणं वा पीतमूर्ध्वमधो वा नाभ्येति दोषांश्चोत्क्लेश्य तैः सह बलक्षयमापादयति तत्राध्मानं हृदयग्रहस्तृष्णा मूर्च्छा दाहश्च भवति तमयोगमित्याचक्षते तमाशुवामयेन्मदनफललवणाम्बुभिर्विरेचयेत्तीक्ष्णतरैः कषायैश्च दुर्वान्तस्य तु समुत्क्लिष्टा दोषा व्याप्य शरीरं कण्डूश्वयथुकुष्ठपिडकाज्वराङ्गमर्दनिस्तोदनानि कुर्वन्ति ततस्तानशेषान्महौषधेनापहरेत् अस्निग्धस्विन्नस्य दुर्विरिक्तस्याधोनाभेः स्तब्धपूर्णोदरता शूलं वातपुरीषसङ्गः कण्डूमण्डलप्रादुर्भावो वा भवति तमास्थाप्य पुनः संस्नेह्य विरेचयेत्तीक्ष्णेन नातिप्रवर्तमाने तिष्ठति वा दुष्टसंशोधने तत्सन्तेजनार्थमुष्णोदकं पाययेत् पाणितापैश्च पार्श्वोदरमुपस्वेदयेत् ततः प्रवर्तन्ते दोषाः अनुप्रवृत्ते चाल्पदोषे जीर्णौषधं बहुदोषमहः शेषं बलं चावेक्ष्य भूयो मात्रां विदध्यात् अप्रवृत्तदोषं दशरात्रादूर्ध्वमुपसंस्कृतदेहं स्नहेस्वेदाभ्यां भूयः शोधयेत् दुर्विरेच्यमास्थाप्य पुनः संस्नेह्य विरेचयेत् ह्रीभयलोभैर्वेगाघातशीलाः प्रायशः स्त्रियो राजसमीपस्था वणिजः श्रोत्रियाश्च भवन्ति तस्मादेते दुर्विरेच्याः बहुवातत्वात् अत एव तानतिस्निग्धान् स्वेदोपपन्नाञ् शोधयेत् १०
स्निग्धस्विन्नस्यातिमात्रमतिमृदुकोष्ठस्य वाऽतितीक्ष्णमधिकं वा दत्तमौषधमतियोगं कुर्यात् तत्र वमनातियोगे पित्तातिप्रवृत्तिर्बलविस्रंसो वातकोपश्च बलवान् भवति तं घृतेनाभ्यज्यावगाह्य शीतास्वप्सु शर्करामधुमिश्रैर्लेहैरुपचरेद्यथास्वां विरेचनातियोगे कफस्यातिप्रवृत्तिरुत्तरकालं च सरक्तस्य तत्रापि बलविस्रंसो वातकोपश्च बलवान् भवति तमतिशीताम्बुभिः परिषिच्यावगाह्य वा शीतैस्तण्डुलाम्बुभिर्मधुमिश्रैश्छर्दयेत् पिच्छाबस्तिं चास्मै दद्यात् क्षीरसर्पिषा चैनमनुवासयेत् प्रियङ्ग्वादिं चास्मै तण्डुलाम्बुना पातुं प्रयच्छेत् क्षीररसयोश्चान्यतरेण भोजयेत् ११
तस्मिन्नेव वमनातियोगे प्रवृद्धे शोणितंष्ठीवतिछर्दयति वा तत्र जिह्वानिः सरणमपसरणमक्ष्णोर्व्यावृत्तिर्हनुसंहननं तृष्णा हिक्का ज्वरो वैसंज्ञ्यमित्युपद्र वा भवन्ति तमजासृक्चन्दनोशीराञ्जलाजचूर्णैः सशर्करोदकैर्मन्थं पाययेत् फलरसैर्वासघृतक्षौद्र शर्करैः शुङ्गाभिर्वा वटादीनां पेयां सिद्धां सक्षौद्रां वर्चोग्राहिभिर्वा पयसा जाङ्गलरसेन वा भोजयेत् अतिस्रुतशोणितविधानेनोपचरेत् जिह्वामतिसर्पितां कटुकलवणचूर्णप्रघृष्टां तिलद्रा क्षाप्रलिप्तां वाऽन्त पीडयेत् अन्तः प्रविष्टायामम्लमन्ये तस्य पुरस्तात् खादयेयुः व्यावृत्ते चाक्षिणी घृताभ्यक्ते पीडयेत् हनुसंहनने वातश्लेष्महरं नस्यं स्वेदांश्च विदध्यात् तृष्णादिषु च यथास्वं प्रतिकुर्वीत विसंज्ञे वेणुवीणागीतस्वनं श्रावयेत् १२
विरेचनातियोगे च सचन्द्र कं सलिलमधः स्रवति ततो मांसधावनप्रकाशमुत्तरकालं जीवशोणितं च ततो गुदनिःसरणं वेपथुर्वमनातियोगोपद्र वाश्चास्य भवन्ति तमपि निःस्रुतशोणितविधानेनोपचरेत् निःसर्पितगुदस्य गुदमभ्यज्य परिस्वेद्यान्तः पीडयेत् क्षुद्र रोगचिकित्सितं वा वीक्षेत वेपथौ वातव्याधिविधानं कुर्वीत जिह्वानिःसरणादिषूक्तः प्रतीकारः अतिप्रवृत्ते वा जीवशोणिते काश्मरीफलबदरीदूर्वोशीरैः शृतेन पयसा घृतमण्डाञ्जनयुक्तेन सुशीतेनास्थापयेत् न्यग्रोधादिकषायेक्षुरसघृतशोणितसंसृष्टैश्चैनं बस्तभिरुपाचरेत् शोणितष्ठीवने रक्तपित्तरक्तातीसारक्रियाश्चास्य विदध्यात् न्यग्रोधादिं चास्य विदध्यात् पानभोजनेषु १३
जीवशोणितरक्तपित्तयोश्च जिज्ञासार्थं तस्मिन् पिचुं प्लोतं वा क्षिपेत् यद्युष्णोदकप्रक्षालितमपि वस्त्रं रञ्जयति तज्जीवशोणितमवगन्तव्यं सभक्तं च शुने दद्याच्छक्तुसंमिश्रं वा स यद्युपभुञ्जीत तज्जीवशोणितमवगन्तव्यम् अन्यथा रक्तपित्तमिति १४
सशेषान्नेन बहुदोषेण रूक्षेणानिलप्रायकोष्ठेनानुष्णमस्निग्धं वा पीतमौषधमाध्मापयति तत्रानिलमूत्रपुरीषसङ्गः समुन्नद्धोदरता पार्श्वभङ्गो गुदबस्तिनिस्तोदनं भक्तारुचिश्च भवति तं चाध्मानमित्याचक्षते तमुपस्वेद्यानाहवर्तिदीपनबस्तिक्रियाभिरुपचरेत् १५
क्षामेणातिमृदुकोष्ठेन मन्दाग्निना रूक्षेण वाऽतितीक्ष्णोष्णातिलवणमतिरूक्षं वा पीतमौषधं पित्तानिलौ प्रदूष्य परिकर्तिकामापादयति तत्र गुदनाभिमेढ्रबस्तिशिरःसु सदाहं परिकर्तनमनिलसङ्गो वायुविष्टम्भो भक्तारुचिश्च भवति तत्र पिच्छाबस्तिर्यष्टीमधुककृष्णतिलकल्कमधुघृतयुक्तः शीताम्बुपरिषिक्तं चैनं पयसा भुक्तवन्तं घृतमण्डेन यष्टीमधुकसिद्धेन तैलेन वाऽनुवासयेत् १६
क्रूरकोष्ठस्यातिप्रभूतदोषस्य मृद्वौषधमवचारितं समुत्क्लिश्य दोषान्न निःशेषानपहरति ततस्ते दोषाः परिस्रावमापादयन्ति तत्र दौर्बल्योदरविष्टम्भारुचिगात्रसदनानि भवन्ति सवेदनौ चास्य पित्तश्लेष्माणौ परिस्रवतः तं परिस्रावमित्याचक्षते तमजकर्णधवतिनिशपलाशबलाकषायैर्मधुसंयुक्तैरास्थापयेत् उपशान्तदोषं स्निग्धं च भूयः संशोधयेत् १७
अतिरूक्षेऽतिस्निग्धे वा भेषजमवचारितमप्राप्तं वातवर्च उदीरयति वेगाघातेन वा तदा प्रवाहिका भवति तत्र सवातं सदाहं सशूलं गुरु पिच्छिलं श्वेतं कृष्णं सरक्तअं वा भृशं प्रवाहमाणः कफमुपविशति तां परिस्रावविधानेनोपचरेत् १८
यस्तूर्ध्वमधो वा भेषजवेगं प्रवृत्तमज्ञत्वाद्विनिहन्ति तस्योपसरणं हृदि कुर्वन्ति दोषाः तत्र प्रधानमर्मसन्तापाद्वेदनाभिरत्यर्थं पीड्यमानो दन्तान् किटकिटायते उद्गताक्षो जिह्वां खादति प्रताम्यत्यचेताश्च भवति तं परिवर्जयन्ति मूर्खाः तमभ्यज्य धान्यस्वेदेन स्वेदयेत् यष्टिमधु कसिद्धेन च तैलेनानुवासयेत् शिरोविरेचनं चास्मै तीक्ष्णं विदध्यात् ततो यष्टिमधुकमिश्रेण तण्डुलाम्बुना छर्दयेत् यथादोषोच्छ्रायेण चैनं बस्तिभिरुपाचरेत् १९
यस्तूर्ध्वमधो वा प्रवृत्तदोषः शीतागारमुदकमनिलमन्यद्वा सेवेत तस्य दोषाः स्रोतःस्ववलीयमाना घनीभावमापन्ना वातमूत्रशकृद्ग्रहमापाद्य विबध्यन्ते तस्याटोपो दाहो ज्वरो वेदनाश्च तीव्रा भवन्ति तमाशु वामयित्वा प्राप्तकालां क्रियां कुर्वीत अधोभागे त्वधोभागदोषहरद्र व्यं सैन्धवाम्लमूत्रसंसृष्टं विरेचनाय पाययेत् आस्थापनमनुवासनं च यथादोषं विदध्यात् यथादोषमाहारक्रमं च उभयतोभागे तूपद्र वविशेषान् यथास्वं प्रतिकुर्वीत २०
या तु विरेचने गुदपरिकर्तिका तद्वमने कण्ठक्षणनं यदधः परिस्रवणं स ऊर्ध्वभागे श्लेष्मप्रसेकः या त्वधः प्रवाहिका सा तूर्ध्वं शुष्कोद्गारा इति २१
भवति चात्र
यास्त्वेता व्यापदः प्रोक्ता दश पञ्च च तत्त्वतः
एता विरेकातियोगदुर्योगायोगजाः स्मृताः २२
इति सुश्रुतसंहितायां चिकित्सास्थाने वमनविरेचनव्याप
च्चिकित्सितं नाम चतुस्त्रिंशोऽध्यायः ३४
पञ्चत्रिंशत्तमोऽध्यायः
अथातो नेत्रबस्तिप्रमाणप्रविभागचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
तत्र स्नेहादीनां कर्मणां बस्तिकर्म प्रधानतममाहुराचार्याः कस्मात् अनेककर्मकरत्वाद्बस्तेः इह खलु बस्तिर्नानाविधद्र व्यसंयोगाद्दष्णां संशोधनसंशमनसंग्रहणानि करोति क्षीणशुक्रं वाजीकरोति कृशं बृंहयति स्थूलं कर्शयति चक्षुः प्रीणयति वलीपलितमपहन्ति वयः स्थापयति ३
शरीरोपचयं वर्णं बलमारोग्यमायुषः
कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः ४
तथा ज्वरातीसारतिमिरप्रतिश्यायशिरोरोगाधिमन्थार्दिताक्षेपकपक्षाघातैकाङ्ग-सर्वाङ्गरोगाध्मानोदरयोनिशूलशर्कराशूलवृद्ध्य्पुदंशानाहमूत्रकृच्छ्रगुल्मवातशोणि-तवातमूत्रपुरीषोदावर्तशुक्रार्तवस्तन्यनाशहृद्धनुमन्याग्रहशर्कराश्मरीमूढगर्भप्रभृतिषु चात्यर्थमुपयुज्यते ५
भवति चात्र
बस्तिर्वाते च पित्ते च कफे रक्ते च शस्यते
संसर्गे सन्निपाते च बस्तिरेव हितः सदा ६
तत्र सांवत्सरिकाष्टद्विरष्टवर्षाणां षडष्टदशाङ्गुलप्रमाणानि कनिष्ठिकानामिकामध्यमाङ्गुलिपरिणाहान्यग्रेऽध्यर्धाङ्गुलद्व्यङ्गुलार्धतृ-तीयाङ्गुलसन्निविष्टकर्णिकानि कङ्कशयेनबर्हिणपक्षनाडीतुल्यप्रवेशानिमुद्गमाष-कलायमात्रस्रोतांसि विदध्यान्नेत्राणि तेषु चास्थापनद्र व्यप्रमाणमातुरहस्तसंमितेन प्रसृतेन संमितौ प्रसृतौ द्वौ चत्वारोऽष्टौ च विधेयाः ७
वर्षान्तरेषु नेत्राणां बस्तिमानस्य चैव हि
वयोबलशरीराणि समीक्ष्योत्कर्षयेद्विधिम् ८
पश्चविंशतेरूर्ध्वं द्वादशाङ्गुलं मूलेऽङ्गुष्ठोदरपरीणाहम् अग्रेकनिष्ठिकोदर परीणाहम् अग्रे त्र्यङ्गुलसन्निविष्टकर्णिकं गृध्रपक्षनाडींतुल्यप्रवेशं कोलास्थिमात्रछिद्रं इक्लन्नकलायमात्रछिद्र मित्येके सर्वाणि मूले बस्तिनिबन्धनार्थं द्विकर्णिकानि आस्थापनद्र व्यप्रमाणं तु विहितं द्वादशप्रसृताः सप्ततेस्तूर्ध्वं नेत्रप्रमाणमेतदेव द्र व्यप्रमाणं तु द्विरष्टवर्षवत् ९
मृदुर्बस्तिः प्रयोक्तव्यो विशेषाद्बालवृद्धयोः
तयोस्तीक्ष्णः प्रयुक्तस्तु बस्तिर्हिंस्याद् बलायुषी १०
व्रिणनेत्रमष्टाङ्गुलं मुद्गवाहिस्रोतः व्रणमवेक्ष्य यथास्वं स्नेहकषाये विदधीत ११
तत्र नेत्राणि सुवर्णरजतताम्रायोरीतिदन्तशृङ्गमणितरुसारमयानि श्लक्ष्णानि दृढानि गोपुच्छाकृतीन्यृजूनि गुटिकामुखानि च १२
बस्तयश्च बन्ध्या मृदवो नातिवहला दृढाः प्रमाणवन्तो गोमहिषवराहाजोरभ्राणाम् १३
नेत्रालाभे हिता नाडी नलवंशास्थिसंभवा
बस्त्यलाभे हितं चर्म सूक्ष्मं वा तान्तवं घनम् १४
बस्तिं निरुपदिग्धं तु शुद्धं सुपरिमार्जितम्
मृद्वनुद्धतहीनं च मुहुः स्नेहविमर्दितम् १५
नेत्रमूले प्रतिष्ठाप्य न्युब्जं तु विवृताननम्
बद्ध्वा लोहेन तप्तेन चर्मस्रोतसि निर्दहेत् १६
परिवर्त्य ततो बस्तिं बद्ध्वा गुप्तं निधापयेत्
आस्थापनं च तैलं च यथावत्तेन दापयेत् १७
तत्र द्विविधो बस्तिःनैरूहिकः स्नैहिकश्च आस्थापनं निरूह इत्यनर्थान्तरं तस्य विकल्पोमाधुतैलिकः तस्य पर्यायशब्दो यापनो युक्तरथः सिद्धबस्तिरिति स दोषनिर्हरणाच्छरीरनीरोहणाद्वा निरूहः वयः स्थापनादायुःस्थापनाद्वा आस्थापनम् माधुतैलिकविधानं च निरूहोपक्रमचिकित्सिते वक्ष्यामः यथाप्रमाणगुणविहितः स्नेहबस्तिविकल्पोऽनुवासनः पादावकृष्टः अनुवसन्नपिन दुष्यत्यनुदिवसं वा दीयत इत्यनुवासनः तस्यापि विकल्पोऽधार्धमात्रावकृष्टोऽपरिहार्यो मात्राबस्तिरिति १८
निरूहः शोधनो लेखी स्नैहिको बृंहणो मतः
निरूहशोधितान्मार्गान् सम्यक् स्नेहोऽनुगच्छति १९
अपेतसर्वदोषासु नाडीष्विव वहज्जलम्
सर्वदोषहरश्चासौ शरीरस्य च जीवनः
तस्माद्विशुद्धदेहस्य स्नेहबस्तिर्विधीयते २०
तत्रोन्मादभयशोकपिपासारोचकाजीर्णार्शः पाण्डुरोगभ्रममदमूर्च्छाच्छर्दि कुष्ठमेहोदरस्थौल्यश्वासकासकण्ठशोषशोफोपसृष्टक्ष-तक्षीणचतुस्त्रिमासगर्भिणीदुर्बलाग्न्यसहा बालवृद्धौ च वातरोगादृते क्षीणा नानुवास्या नास्थापयितव्याः २१
उदरी च प्रमेही च कुष्ठी स्थूलश्च मानवः
अवश्यं स्थापनीयास्ते नानुवास्याः कथञ्चन २२
असाध्यता विकाराणां स्यादेषामनुवासनात्
असाध्यत्वेऽपि भूयिष्ठं गात्राणां सदनं भवेत् २३
पक्वाशये तथा श्रोण्यां नाभ्यधस्ताच्च सर्वतः
सम्यक्प्रणिहितो बस्तिः स्थानेष्वेतेषु तिष्ठति २४
पक्वाशयाद्बस्तिवीर्यं खैर्देहमनुसर्पति
वृक्षमूले निषिक्तानामपां वीर्यमिव द्रुमम् २५
स चापि सहसा बस्तिः केवलः समलोऽपि वा
प्रत्येति वीर्यं त्वनिलैरपानाद्यैर्विनीयते २६
वीर्येण बस्तिरादत्ते दोषानापादमस्तकात्
पक्वाशयस्थोऽम्बरगो भूमेरर्को रसानिव २७
स कटीपृष्ठकोष्ठस्थान् वीर्येणालोड्य संचयान्
उत्खातमूलान् हरति दोषाणां साधुयोजितः २८
दोषत्रयस्य यस्माच्च प्रकोपे वायुरीश्वरः
तस्मात्तस्यातिवृद्धस्य शरीरमभिनिघ्नतः २९
वायोर्विषहते वेगं नान्या बस्तेरृते क्रिया
पवनाविद्धतोयस्य वेला वेगमिवोदधेः ३०
शरीरोपचयं वर्णं बलमारोग्यमायुषः
कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः ३१
अत ऊर्ध्वं व्यापदो वक्ष्यामः तत्र नेत्रं विचलितं विवर्तितं पार्श्वावपीडितम् अत्युत्क्षिप्तम् अवसन्नं तिर्यक्प्रक्षिप्तमिति षट् प्रणिधानदोषाः अतिस्थूलं कर्कशम् अवनतं अणुभिन्नं सन्निकृष्टविप्रकृष्टकर्णिकं सूक्ष्मातिच्छिद्र म् अतिदीर्घम् अतिह्रस्वम् अस्रिमदित्येकादश नेत्रदोषाः बहलता अल्पता सच्छिद्र ता प्रस्तीर्णता दुर्बद्धतेति पञ्च बस्तिदोषाः अतिपीडितता शिथिलपीडितता भूयो भूयोऽवपीडनं कालातिक्रम इति चत्वारः पीडनदोषाः आमता हीनता अतिमात्रता अतिशीतता अत्युष्णता अतितीक्ष्णता अतिमृदुता अतिस्निग्धता अतिरूक्षता अतिसान्द्र ता अतिद्र वता इत्येकादश द्र व्यदोषाः अवाक्शीर्षोच्छीर्षन्युब्जोत्तान सङ्कुचितदेहस्थितदक्षिणपार्श्वशायिनः प्रदानमिति सप्त शय्यादोषाः एवमेताश्चतुश्चत्वारिंशद्व्यापदो वैद्यनिमित्ताः आतुरनिमित्ताः पञ्चदश आतुरोपद्र वचिकित्सिते वक्ष्यन्ते स्नेहस्त्वष्टभिः कारणैः प्रतिहतो न प्रत्यागच्छति त्रिभिर्दोषैः अशनाभिभूतो मलव्यामिश्रो दूरानुप्रविष्टो अस्विन्नस्य अनुष्णो अल्पम्भुक्तवतो अल्पश्चेति वैद्यातुरनिमित्तआ भवन्ति अयोगस्तूभयोः आध्मानं परिकर्तिका परिस्रावः प्रवाहिका हृदयोपसरणम् अङ्गप्रग्रहो अतियोगो जीवादानमिति नव व्यापदो वैद्यनिमित्ता भवन्ति ३२
भवति चात्र
षट्सप्ततिः समासेन व्यापदः परिकीर्तिता
तासां वक्ष्यामि विज्ञानं सिद्धिं च तदनन्तरम् ३३
इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिप्रमाणप्रविभाग
चिकित्सितं नाम पञ्चत्रिंशोऽध्यायः ३५
षट्त्रिंशत्तमोऽध्यायः
अथातो नेत्रबस्तिव्यापच्चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अथ नेत्रे विचलिते तथा चैव विवर्तिते
गुदे क्षतं रुजा वा स्यात्तत्र सद्यःक्षतक्रियाः ३
अत्युत्क्षिप्तेऽवसन्ने च नेत्रे पायौ भवेद्रुजा
विधिरत्रापि पित्तघ्नः कार्यः स्नेहैश्च सेचनम् ४
तिर्यक्प्रणिहिते नेत्रे तथा पार्श्वावपीडिते
मुखस्यावरणाद्बस्तिर्न सम्यक् प्रतिपद्यते
ऋजु नेत्रं विधेयं स्यात्तत्र सम्यग्विजानता ५
अतिस्थूले कर्कशे च नेत्रेऽस्त्रिमति घर्षणात्
गुदे भवेत् क्षतं रुक् च साधनं तस्य पूर्ववत् ६
आसन्नकर्णिके नेत्रे भिन्नेऽणौ वाऽप्यपार्थकः
अवसेको भवेद्बस्तेस्तस्माद्दोषान् विवर्जयेत् ७
प्रकृष्टकर्णिके रक्तं गुदमर्मप्रपीडनात्
क्षरत्यत्रापि पित्तघ्नो विधिर्बस्तिश्च पिच्छिलः ८
ह्रस्वे त्वणुस्रोतसि च क्लेशो बस्तिश्च पूर्ववत्
प्रत्यागच्छंस्ततः कुर्याद्रो गान् बस्तिविघातजान् ९
दीर्घे महास्रोतसि च ज्ञेयमत्यवपीडवत्
प्रस्तीर्णे बहले चापि बस्तौ दुर्बद्धदोषवत् १०
बस्तावल्पेऽल्पता वाऽपि द्र व्यस्याल्पा गुणा मताः
दुर्बद्धे चाणुभिन्ने च विज्ञेयं भिन्ननेत्रवत् ११
अतिप्रपीडितो बस्तिः प्रयात्यामाशयं ततः
वातेरितो नासिकाभ्यां मुखतो वा प्रपद्यते १२
तत्र तूर्णं गलापीडं कुर्याच्चाप्यवधूननम्
शिरःकायविरेकौ च तीक्ष्णौ सेकांश्च शीतलान् १३
शनैः प्रपीडितो बस्तिः पक्वाधानं न गच्छति
न च संपादयत्यर्थं तस्माद्युक्तं प्रपीडयेत् १४
भूयो भूयोऽवपीडेन वायुरन्तः प्रपीड्यते
तेनाध्मानं रुजश्चोग्रा यथास्वं तत्र वस्तयः १५
कालातिक्रमणात् क्लेशो व्याधिश्चाभिप्रवर्धते
तत्र व्याधिबलघ्नं तु भूयो बस्तिं निधापयेत् १६
गुदोपदेहशोफौ तु स्नेहोऽपक्वः करोति हि
तत्र संशोधनो बस्तिर्हितं चापि विरेचनम् १७
हीनमात्रावुभौ बस्ती नातिकार्यकरौ मतौ
अतिमात्रौ तथाऽनाहक्लमातीसारकारकौ १८
मूर्च्छां दाहमतीसारं पित्तं चात्युष्णतीक्ष्णकौ
मृदुशीतावुभौ वातविबन्धाध्मानकारकौ १९
तत्र हीनादिषु हितः प्रत्यनीकः क्रियाविधिः
गुदबस्त्युपदेहं तु कुर्यात् सान्द्रो निरूहणः २०
प्रवाहिकां वा जनयेत्तनुरल्पगुणावहः
तत्र सान्द्रे तनुं बस्तिं तनौ सान्द्रं च दापयेत् २१
स्निग्धोऽतिजाड्यकृद्रू क्षः स्तम्भाध्मानकृदुच्यते
बस्तिं रूक्षमतिस्निग्धे स्निग्धं रूक्षे च दापयेत् २२
अतिपीडितवद्दोषान् विद्धि चाप्यवशीर्षके
उच्छीर्षके समुन्नाहं बस्तिः कुर्याच्च मेहनम् २३
तत्रोत्तरो हितो बस्तिः सुस्विन्नस्य सुखावहः
न्युब्जस्य बस्तिर्नाप्नोति पक्वाधानं विमार्गगः २४
हृद्गुदं बाधते चात्र वायुः कोष्ठमथापि च
उत्तानस्यावृते मार्गे बस्तिर्नान्तः प्रपद्यते २५
नेत्रसंवेजनभ्रान्तो वायुश्चान्तः प्रकुप्यति
देहे सङ्कुचिते दत्तः सन्क्थोरप्युभयोस्तथा २६
न सम्यगनिलाविष्टो बस्तिः प्रत्येति देहिनः
स्थितस्य बस्तिर्दत्तस्तु क्षिप्रमायात्यवाङ्मुखः २७
न चाशयं तर्पयति तस्मान्नार्थकरो हि सः
नाप्नोति बस्तिर्दत्तस्तु कृत्स्नं पक्वाशयं पुनः २८
दक्षिणाश्रितपार्श्वस्य वामपार्श्वानुगो यतः
न्युब्जादीनां प्रदानं च बस्तेर्नैव प्रशस्यते २९
पश्चादनिलकोपोऽत्र यथास्वं तत्र कारयेत्
व्यापदः स्नेहबस्तेस्तु वक्ष्यन्ते तच्चिकित्सिते ३०
अयोगाद्यास्तु वक्ष्यामि व्यापदः सचिकित्सिताः
अनुष्णोऽल्पौषधो हीनो बस्तिर्नैति प्रयोजितः ३१
विष्टम्भाध्मानशूलैश्च तमयोगं प्रचक्षते
तत्र तीक्ष्णो हितो बस्तिस्तीक्ष्णं चापि विरेचनम् ३२
सशेषान्नेऽथवा भुक्ते बहुदोषे च योजितः
अत्याशितस्यातिबहुर्बस्तिर्मन्दोष्ण एव च ३३
अनुष्णलवणस्नेहो ह्यतिमात्रोऽथवा पुनः
तथा बहुपुरीषं च क्षिप्रमाध्मापयेन्नरम् ३४
हृत्कटीपार्श्वपृष्ठेषु शूलं तत्रातिदारुणम्
तत्र तीक्ष्णतरो बस्तिर्हितं चाप्यनुवासनम् ३५
अतितीक्ष्णोतिलवणो रूक्षो बस्तिः प्रयोजितः
सपित्तं कोपयेद्वायुं कुर्याच्च परिकर्तिकाम् ३६
नाभिबस्तिगुदं तत्र छिनत्तीवातिदेहिनः
पिच्छाबस्तिर्हितस्तस्य स्नेहश्च मधुरैः शृतः ३७
अत्यम्ललवणस्तीक्ष्णः परिस्रावाय कल्पते
दौर्बल्यमङ्गसादश्च जायते तत्र देहिनः ३८
परिस्रवेत्ततः पित्तं दाहं सञ्जनयेद्गुदे
पिच्छाबस्तिर्हितस्तत्र बस्तिः क्षीरघृतेन च ३९
प्रवाहिका भवेत्तीक्ष्णान्निरूहात् सानुवासनात्
सदाहशूलं कृच्छ्रेण कफासृगुपवेश्यते ४०
पिच्छाबस्तिर्हितस्तत्र पयसा चैव भोजनम्
सर्पिर्मधुरकैः सिद्धं तैलं चाप्यनुवासनम् ४१
अतितीक्ष्णो निरूहो वा सवाते चानुवासनः
हृदयस्योपसरणं कुरुते चाङ्गपीडनम् ४२
दोषैस्तत्र रुजस्तास्ता मदो मूर्च्छाऽङ्गगौरवम्
सर्वदोषहरं बस्तिं शोधनं तत्र दापयेत् ४३
रूक्षस्य बहुवातस्य तथा दुःशायितस्य च
बस्तिरङ्गग्रहं कुर्याद्रू क्षो मृद्वल्पभेषजः ४४
तत्राङ्गसादः प्रस्तम्भो जृम्भोद्वेष्टनवेपकाः
पर्वभेदश्च तत्रेष्टाः स्वेदाभ्यञ्जनबस्तयः ४५
अत्युष्णतीक्ष्णोऽतिबहुर्दत्तोऽतिस्वेदितस्य च
अल्पदोषस्य वा बस्तिरतियोगाय कल्पते ४६
विरेचनातियोगेन समानं तस्य लक्षणम्
पिच्छाबस्तिप्रयोगश्च तत्र शीतः सुखावहः ४७
अतियोगात् परं यत्र जीवादानं विरिक्तवत्
देयस्तत्र हितश्चाप्सु पिच्छाबस्तिः सशोणितः ४८
नवैता व्यापदो यास्तु निरूहं प्रत्युदाहृताः
स्नेहबस्तिष्वपि हि ता विज्ञेयाः कुशलैरिह ४९
इत्युक्ता व्यापदः सर्वाः सलक्षणचिकित्सिताः
भिषजा च तथा कार्यं यथैता न भवन्ति हि ५०
पक्षाद्विरेको वान्तस्य ततश्चापि निरूहणम्
सद्यो निरूढोऽनुवास्यः सप्तरात्राद्विरेचितः ५१
इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिव्याप
च्चिकित्सितं नाम षट्त्रिंशोऽध्यायः ३६
सप्तत्रिंशत्तमोऽध्यायः
अथातोऽनुवासनोत्तरबस्तिचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
विरेचनात् सप्तरात्रे गते जातबलाय वै
कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः ३
यथावयो निरूहाणां या मात्राः परिकीर्तिताः
पादावकृष्टास्ताः कार्याः स्नेहबस्तिषु देहिनाम् ४
उत्सृष्टानिलविण्मूत्रे नरे बस्तिं विधापयेत्
एतैर्हि विहतः स्नेहो नैवान्तः प्रतिपद्यते ५
स्नेहबस्तिर्विधेयस्तु नाविशुद्धस्य देहिनः
स्नेहवीर्यं तथा दत्ते देहं चानुविसर्पति ६
अत ऊर्ध्वं प्रवक्ष्यामि तैलानीह यथाक्रमम्
पानान्वासननस्येषु यानि हन्युर्गदान् बहून् ७
शटीपुष्करकृष्णाह्वामदनामरदारुभिः
शताह्वाकुष्ठयष्ट्याह्ववचाबिल्वहुताशनैः ८
सुपिष्टैर्द्विगुणक्षीरं तैलं तोयचतुर्गुणम्
पक्त्वा बस्तौ विधातव्यं मूढवातानुलोमनम् ९
अर्शांसि ग्रहणीदोषमानाहं विषमज्वरम्
कट्यूरुपृष्ठकोष्ठस्थान् वातरोगांश्च नाशयेत् १०
वचापुष्करकुष्ठैलामदनामरसिन्धुजैः
काकोलीद्वययष्ट्याह्वमेदायुग्मनराधिपैः ११
पाठाजीवकजीवन्तीभार्गीचन्दनकट्फलैः
सरलागुरुबल्वाम्बुवाजिगन्धाग्निवृद्धिभिः १२
विडङ्गारग्वधश्यामात्रिवृन्मागधिकर्धिभिः
पिष्टैस्तैलं पचेत् क्षीरपञ्चमूलरसान्वितम् १३
गुल्मानाहाग्निषङ्गार्शोग्रहणीमूत्रसङ्गिनाम्
अन्वासनविधौ युक्तं शस्यतेऽनिलरोगिणाम् १४
चित्रकातिविषापाठादन्तीबिल्ववचामिषैः
सरलांशुमतीरास्नानीलिनीचतुरङ्गुलैः १५
चव्याजमोदकाकोलीमेदायुग्मसुरद्रुमैः
जीवकर्षभवर्षाभूवस्तगन्धाशताह्वयैः १६
रेण्वश्वगन्धामञ्जिष्ठाशटीपुष्करतस्करैः
सक्षीरं विपचेत्तैलं मारुतामयनाशनम् १७
गृध्रसीखञ्जकुब्जाढ्यमूत्रोदावर्तरोगिणाम्
शस्यतेऽल्पबलाग्नीनां बस्तावाशु नियोजितम् १८
भूतिकैरण्डवर्षाभूरास्नावृषकरोहिषैः
दशमूलसहाभार्गीषड्ग्रन्थामरदारुभिः १९
बलानागबलामुर्वावाजिगन्धामृताद्वयैः
सहाचरवरीविश्वाकाकनासाविदारिभिः २०
यवमाषातसीकोलकुलत्थैः क्वथितैः शृतम्
जीवनीयप्रतीवापं तैलं क्षीरचतुर्गुणम् २१
जङ्घोरुत्रिकपार्श्वांसबाहुमन्याशिरःस्थितान्
हन्याद्वातविकारांस्तु बस्तियोगैर्निषेवितम् २२
जीवन्त्यतिबलामेदाकाकोलीद्वयजीवकैः
ऋषभातिविषाकृष्णाकाकनासावचामरैः २३
रास्नामदनयष्ट्याह्वसरलाभीरुचन्दनैः
स्वयङ्गुप्ताशटीशृङ्गीकलसीसारिवाद्वयैः २४
पिष्टैस्तैलघृतं पक्वं क्षीरेणाष्टगुणेन तु
तच्चानुवासने देयं शुक्राग्निबलवर्धनम् २५
बृंहणं वातपित्तघ्नं गुल्मानाहहरं परम्
नस्ये पाने च संयुक्तमूर्ध्वजत्रुगदापहम् २६
मधुकोशीरकाश्मर्यकटुकोत्पलचन्दनैः
श्यामापद्मकजीमूतशक्राह्वातिविषाम्बुभिः २७
तैलपादं पचेत् सर्पिः पयसाऽष्टगुणेन च
न्यग्रोधादिगणक्वाथयुक्तं वस्तिषु योजितम् २८
दाहासृग्दरवीसर्पवातशोणितविद्र धीन्
पित्तरक्तज्वराद्यांश्च हन्यात् पित्तकृतान् गदान् २९
मृणालोत्पलशालूकसारिवाद्वयकेशरैः
चन्दनद्वयभूनिम्बपद्मबीजकसेरुकैः ३०
पटोलकटुकारक्तागुन्द्रा पर्पटवासकैः
पिष्टैस्तैलघृतं पक्वं तृणमूलरसेन च ३१
क्षीरद्विगुणसंयुक्तं बस्तिकर्मणि योजितम्
नस्येऽभ्यञ्जनपाने वा हन्यात् पित्तगदान् बहून् ३२
त्रिफलातिविषामूर्वात्रिवृच्चित्रकवासकैः
निम्बारग्वधषड्ग्रन्थासप्तपर्णनिशाद्वयैः ३३
गुडूचीन्द्र सुराकृष्णाकुष्ठसर्षपनागरैः
तैलमेभिः समैः पक्वं सुरसादिरसाप्लुतम् ३४
पानाभ्यञ्जनगण्डूषनस्यबस्तिषु योजितम्
स्थूलतालस्यकण्ड्वादीन् जयेत्कफकृतान् गदान् ३५
पाठाजमोदाशार्ङ्गेष्टापिप्पलीद्वयनागरैः
सरलागुरुकालीयभार्गीचव्यामरद्रुमैः ३६
मरिचैलाभयाकट्वीशटीग्रन्थिककट्फलैः
तैलमेरण्डतैलं वा पक्वमेभिः समायुतम् ३७
वल्लीकण्टकमूलाभ्यां क्वाथेन द्विगुणेन च
हन्यादन्वासनैर्दत्तं सर्वान् कफकृतान् गदान् ३८
विडङ्गोदीच्यसिन्धूत्थशटीपुष्करचित्रकैः
कट्फलातिविषाभार्गीवचाकुष्ठसुराह्वयैः ३९
मेदामदनयष्ठ्याह्वश्यामानिचुलनागरैः
शताह्वानीलिनीरास्नाकलसीवृषरेणुभिः ४०
बिल्वाजमोदकृष्णाह्वादन्तीचव्यनराधिपैः
तैलमेरण्डतैलं वा मुष्ककादिरसाप्लुतम् ४१
प्लीहोदावर्तवातासृग्गुल्मानाहकफामयान्
प्रमेहशर्करार्शांसि हन्यादाश्वनुवासनैः ४२
अशुद्धमपि वातेन केवलेनातिपीडितम्
अहोरात्रस्य कालेषु सर्वेष्वेवानुवासयेत् ४३
रूक्षस्य बहुवातस्य द्वौ त्रीनप्यनुवासनान्
दत्त्वा स्निग्धतनुं ज्ञात्वा ततः पश्चान्निरूहयेत् ४४
अस्निग्धमपि वातेन केवलेनातिपीडितम्
स्नेहप्रगाढैर्मतिमान्निरूहैः समुपाचरेत् ४५
अथ सम्यङ्निरूढं तु वातादिष्वनुवासयेत्
बिल्वयष्ट्याह्वमदनफलतैलैर्यथाक्रमम् ४६
रात्रौ बस्तिं न दद्यात्तु दोषोत्क्लेशो हि रात्रिजः
स्नेहवीर्ययुतः कुर्यादाध्मानं गौरवं ज्वरम् ४७
अह्नि स्थानस्थिते दोषे वह्नौ चान्नरसान्विते
स्फुटस्रोतोमुखे देहे स्नेहौजः परिसर्पति ४८
पित्तेऽधिके कफे क्षीणे रूक्षे वातरुगर्दिते
नरे रात्रौ तु दातव्यं काले चोष्णेऽनुवासनम् ४९
उष्णे पित्ताधिके वाऽपि दिवा दाहादयो गदाः
संभवन्ति यतस्तस्मात् प्रदोषे योजयेद्भिषक् ५०
शीते वसन्ते च दिवा ग्रीष्मप्रावृड्घनात्यये
स्नेह्यो दिनान्ते पानोक्तान् दोषान् परिजिहीर्षता ५१
अहोरात्रस्य कालेषु सर्वेष्वेवानिलाधिकम्
तीव्रायां रुजि जीर्णान्नं भोजयित्वाऽनुवासयेत् ५२
न चाभुक्तवतः स्नेहः प्रणिधेयः कथञ्चन
शुद्धत्वाच्छून्यकोष्ठस्य स्नेह ऊर्ध्वं समुत्पतेत् ५३
सदाऽनुवासयेच्चापि भोजयित्वाऽद्र पाणिनम्
ज्वरं विदग्धभुक्तस्य कुर्यात् स्नेहः प्रयोजितः ५४
न चातिस्निग्धमशनं भोजयित्वाऽनुवासयेत्
मदं मूर्च्छां च जनयेद् द्विधा स्नेहः प्रयोजितः ५५
रूक्षं भुक्तवतो ह्यन्नं बलं वर्णं च हापयेत्
युक्तस्नेहमतो जन्तुं भोजयित्वाऽनुवासयेत् ५६
यूषक्षीररसैस्तस्माद्यथाव्याधि समीक्ष्य वा
यथोचितात् पादहीनं भोजयित्वाऽनुवासयेत् ५७
अथानुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः
भोजयित्वा यथाशास्त्रं कृतचङ्क्रमणं ततः ५८
विसृज्य च शकृन्मूत्रं योजयेत् स्नेहबस्तिना
प्रणिधानविधानं तु निरूहे संप्रवक्ष्यते ५९
ततः प्रणिहितस्नेह उत्तानो वाक्शतं भवेत्
प्रसारितैः सर्वगात्रैस्तथा वीर्यं विसर्पति ६०
ताडयेत्तलयोरेनं त्रींस्त्रीन् वाराञ्छनैः शनैः
स्फिचोश्चैनं ततः शय्यां त्रीन् वारानुत्क्षिपेत्ततः ६१
एवं प्रणिहिते बस्तौ मन्दायासोऽथ मन्दवाक्
स्वास्तीर्णे शयने काममासीताचारिके रतः ६२
स तु सैन्धवचूर्णेन शताह्वेन च योजितः
देयः सुखोष्णश्च तथा निरेति सहसा सुखम् ६३
यस्यानुवासनो दत्तः सकृदन्वक्षमाव्रजेत्
अत्यौष्ण्यादतितैक्ष्ण्याद्वा वायुना वा प्रपीडितः ६४
सवातोऽधिकमात्रो वा गुरुत्वाद्वा सभेषजः
तस्यान्योऽल्पतरो देयो न हि स्निह्यत्यतिष्ठति ६५
विष्टब्धानिलविण्मूत्रः स्नेहहीनेऽनुवासने
दाहक्लमप्रवाहार्तिकरश्चात्यनुवासनः ६६
सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु
ओषचोषौ विना शीघ्रं स सम्यगनुवासितः ६७
जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः
लघ्वन्नं भोजयेत् कामं दीप्ताग्निस्तु नरो यदि ६८
प्रातरुष्णोदकं देयं धान्यनागरसाधितम्
तेनास्य दीप्यते वह्निर्भक्ताकाङ्क्षा च जायते ६९
स्नेहबस्तिक्रमेष्वेवं विधिमाहुर्मनीषिणः
अनेन विधिना षड् वा सप्त वाऽष्टौ नवैव वा ७०
विधेया बस्तयस्तेषामन्तरा तु निरूहणम्
दत्तस्तु प्रथमो बस्तिः स्नेहयेद्बस्तिवङ्क्षणौ ७१
सम्यग्दत्तो द्वितीयस्तु मूर्धस्थमनिलं जयेत्
जनयेद्बलवर्णौ च तृतीयस्तु प्रयोजितः ७२
रसं चतुर्थो रक्तं तु पञ्चमः स्नेहयेत्तथा
षष्ठस्तु स्नेहयेन्मांसं मेदः सप्तम एव च ७३
अष्टमो नवमश्चास्थि मज्जानं च यथाक्रमम्
एवं शुक्रगतान् दोषान् द्विगुणः साधु साधयेत् ७४
अष्टादशाष्टादशकान् बस्तीनां यो निषेवते
यथोक्तेन विधानेन परिहारक्रमेण च ७५
स कुञ्जरबलोऽश्वस्य जवैस्तुल्योऽमरप्रभः
वीतपाप्मा श्रुतधरः सहस्रायुर्नरो भवेत् ७६
स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्
स्नेहादग्निवधोत्क्लेशौ निरूहात् पवनाद्भयम् ७७
तस्मान्निरूढोऽनुवास्यो निरूह्यश्चानुवासितः
नैवं पित्तकफोत्क्लेशौ स्यातां न पवनाद्भयम् ७८
रूक्षाय बहुवाताय स्नेहबस्तिं दिने दिने
दद्याद्वैद्यस्ततोऽन्येषामग्न्याबाधभयात्त्र्यहात् ७९
स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः
तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते ८०
अत ऊर्ध्वं प्रवक्ष्यामि व्यापदः स्नेहबस्तिजाः
बलवन्तो यदा दोषाः कोष्ठे स्युरनिलादयः ८१
अल्पवीर्यं तदा स्नेहमभिभूय पृथग्विधान्
कुर्वन्त्युपद्र वान् स्नेहः स चापि न निवर्तते ८२
तत्र वाताभिभूते तु स्नेहे मुखकषायता
जृम्भा वातरुजस्तास्ता वेपथुर्विषमज्वरः ८३
पित्ताभिभूते स्नेहे तु मुखस्य कटुता भवेत्
दाहस्तृष्णा ज्वरः स्वेदो नेत्रमूत्राङ्गपीतता ८४
श्लेष्माभिभूते स्नेहे तु प्रसेको मधुरास्यता
गौरवं छर्दिरुच्छ्वासः कृच्छ्राच्छीतज्वरोऽरुचिः ८५
तत्र दोषाभिभूते तु स्नेहे बस्तिं निधापयेत्
यथास्वं दोषशमनान्युपयोज्यानि यानि च ८६
अत्याशितेऽन्नाभिभवात् स्नेहो नैति यदा तदा
गुरुरामाशयः शूलं वायोश्चाप्रतिसंचरः ८७
हृत्पीडा मुखवैरस्यं श्वासो मूर्च्छा भ्रमोऽरुचिः
तत्रापतर्पणस्यान्ते दीपनो विधिरिष्यते ८८
अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः
तदाऽङ्गसदनाध्माने श्वासः शूलं च जायते ८९
पक्वाशयगुरुत्वं च तत्र दद्यान्निरूहणम्
तीक्ष्णं तीक्ष्णौषधैरेव सिद्धं चाप्यनुवासनम् ९०
शुद्धस्य दूरानुसृते स्नेहे स्नेहस्य दर्शनम्
गात्रेषु सर्वेन्द्रि याणामुपलेपोऽवसादनम् ९१
स्नेहगन्धि मुखं चापि कासश्वासावरोचकः
अतिपीडितवत्तत्र सिद्धिरास्थापनं तथा ९२
अस्विन्नस्याविशुद्धस्य स्नेहोऽल्प संप्रयोजितः
शीतो मृदुश्च नाभ्येति ततो मन्दं प्रवाहते ९३
विबन्धगौरवाध्मानशूलाः पक्वाशयं प्रति
तत्रास्थापनमेवाशु प्रयोज्यं सानुवासनम् ९४
अल्पं भुक्तवतोऽल्पो हि स्नेहो मन्दगुणस्तथा
दत्तो नैति क्लमोत्क्लेशौ भृशं चारतिमावहेत् ९५
तत्राप्यास्थापनं कार्यं शोधनीयेन बस्तिना
अन्वासनं च स्नेहेन शोधनीयेन शस्यते ९६
अहोरात्रादपि स्नेहः प्रत्यागच्छन्न दुष्यति
कुर्याद्बस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत् ९७
यस्य नोपद्र वं कुर्यात् स्नेहबस्तिरनिःसृतः
सर्वोऽल्पोवाऽवृतो रौक्ष्यादुपेक्ष्यः स विजानता ९८
अनायान्तं त्वहोरात्रात् स्नेहं संशोधनैर्हरेत्
स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते ९९
इत्युक्ता व्यापदः सर्वा सलक्षणचिकित्सिताः
वस्तेरुत्तरसंज्ञस्य विधिं वक्ष्याम्यतः परम् १००
चतुर्दशाङ्गुलं नेत्रमातुराङ्गुलसंमितम्
मालतीपुष्पवृन्ताग्रं छिद्रं सर्षपनिर्गमम् १०१
स्नेहप्रमाणं परमं प्रकुञ्चश्चात्र कीर्तितः
पञ्चविंशादधो मात्रां विदध्याद्बुद्धिकल्पिताम् १०२
निविष्टकर्णिकं मध्ये नारीणां चतुरङ्गुले
मूत्रस्रोतःपरीणाहं मुद्गवाहि दशाङ्गुलम् १०३
मेढ्रायामसमं केचिदिच्छन्ति खलु तद्विदः
तासामपत्यमार्गे तु निदध्याच्चतुरङ्गुलम् १०४
द्व्यङ्गुलं मूत्रमार्गे तु कन्यानां त्वेकमङ्गुलम्
विधेयं चाङ्गुलं तासां विधिवद्वक्ष्यते यथा १०५
स्नेहस्य प्रसृतं चात्र स्वाङ्गुलीमूलसंमितम्
देयं प्रमाणं परममर्वाग् बुद्धिविकल्पितम् १०६
औरभ्रः शौकरो वाऽपि बस्तिराजश्च पूजितः
तदलाभे प्रयुञ्जीत गलचर्म तु पक्षिणाम् १०७
तिस्यालाभे दृतेः पादो मृदुचर्म ततोऽपि वा
अथातुरमुपस्निग्धं स्विन्नं प्रशिथिलाशयम् १०८
यवागूं सघृतक्षीरां पीतवन्तं यथाबलम्
निषण्णमाजानुसमे पीठे सोपाश्रये समम् १०९
स्वभ्यक्तबस्तिमूर्धानं तैलेनोष्णेन मानवम्
ततः समं स्थापयित्वा नालमस्य प्रहर्षितम् ११०
पूर्वं शलाकयाऽन्विष्य ततो नेत्रमनन्तरम्
शनैः शनैर्घृताभ्यक्तं विदध्यादङ्गुलानि षट् १११
मेढ्रयामसमं केचिदिच्छन्ति प्रणिध्याच
ततोऽवपीडयेद्बस्तिं शनैर्नेत्रं च निर्हरेत् ११२
ततः प्रत्यागतस्नेहमपराह्णे विचक्षणः
भोजयेत् पयसा मात्रां यूषेणाथ रसेन वा ११३
अनेन विधिना दद्याद्बस्तींस्त्रींश्चतुरोऽपि वा
ऊर्ध्वजान्वै स्त्रियै दद्यादुत्तानायै विचक्षणः ११४
सम्यक् प्रपीडयेद्योनिं दद्यात् सुमृदुपीडितम्
त्रिकर्णिकेन नेत्रेण दद्याद्योनिमुखं प्रति ११५
गर्भाशयविशुर्द्ध्य्थं स्नेहेन द्विगुणेन तु
क्वाथप्रमाणं प्रसृतं स्त्रिया द्विप्रसृतं भवेत् ११६
कन्येतरस्याः कन्यायास्तद्वद्बस्तिप्रमाणकम्
अप्रत्यागच्छति भिषग् बस्तावुत्तरसंज्ञिते ११७
भूयो बस्तिं निदध्यात्तु संयुक्तं शोधनैर्गणैः
गुदे वर्तिं निदध्याद्वा शोधनद्र व्यसंभृताम् ११८
प्रवेशयेद्वा मतिमान् बस्तिद्वारमथैषणीम्
पीडयेद्वाऽप्यधो नाभेर्बलेनोत्तरमुष्टिना ११९
आरग्वधस्य पत्रैस्तु निर्गुण्ड्याः स्वरसेन च
कुर्याद्गोमूत्रपिष्टेषु वर्तीर्वाऽपि ससैन्धवाः १२०
मुद्गैलासर्षपसमाः प्रविभज्य वयांसि तु
बस्तेरागमनार्थाय ता निदध्याच्छलाकया १२१
आगारधूमबृहतीपिप्पलीफलसैन्धवैः
कृता वा शुक्तगोमूत्रसुरापिष्टैः सनागरैः १२२
अनुवासनसिद्धिं च वीक्ष्य कर्म प्रयोजयेत्
शर्करामधुमिश्रेण शीतेन मधुकाम्बुना १२३
दह्यमाने तदा बस्तौ दद्याद्बस्तिं विचक्षणः
क्षीरवृक्षकषायेण पयसा शीतलेन च १२४
शुक्रं दुष्टं शोणितं चाङ्गनानां पुष्पोद्रे कं तस्य नाशं च कष्टम्
मूत्राघातान्मूत्रदोषान् प्रवृद्धान् योनिव्याधिं संस्थितिं चापरायाः १२५
शुक्रोत्सेकं शर्करामश्मरीं च शूलं बस्तौ वङ्क्षणे मेहने च
घोरानन्यान् बस्तिजांश्चापि रोगान् हित्वा मेहानुत्तरो हन्ति बस्तिः १२६
सम्यग्दत्तस्य लिङ्गानि व्यापदः क्रम एव च
बस्तेरुत्तरसंज्ञस्य समानं स्नेहबस्तिना १२७
इति सुश्रुतसंहितायां चिकित्सास्थानेऽनुवासनोत्तरबस्तिचिकित्सितं नाम सप्तत्रिंशोऽध्यायः ३७
अष्टत्रिंशत्तमोऽध्यायः
अथातो निरूहक्रमचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अथानुवासितमास्थापयेत् स्वभ्यक्तस्विन्नशरीरमुत्सृष्टबहिर्वेगमवाते शुचौ वेश्मनि मध्याह्ने प्रततायां शय्यायामधःसुपरिग्रहायां श्रोणिप्रदेशप्रतिव्यूढायामनुपधानायां वामपार्श्वशायिनमाकुञ्चितदक्षिणसक्थिमितर प्रसारितसक्थिं सुमनसं जीर्णान्नं वाग्यतं सुनिषण्णदेहं विदित्वा ततो वामपादस्योपरि नेत्रं कृत्वेतरपादाङ्गुष्ठाङ्गुलिभ्यां कर्णिकामुपरि निष्पीड्य सव्यपाणिकनिष्ठिकानामिकाभ्यां बस्तेर्मुखार्धं सङ्कोच्य मध्यमाप्रदेशिन्यङ्गुष्ठैरर्धं तु विवृतास्यं कृत्वा वस्तावौषधं प्रक्षिप्य दक्षिणहस्ताङ्गुष्ठेन प्रदेशिनीमध्यमाभ्यां चानुसिक्तमनायतमबुद्बुदम सङ्कुचितमवातमौषधासन्नमुपसंगृह्य पुनरुपरि तदितरेण गृहीत्वा दक्षिणेनावसिञ्चेत् ततः सूत्रेणैवौषधान्ते द्विस्त्रिर्वाऽवेष्ट्य बध्नीयात् अथ दक्षिणेनोत्तानेन पाणिना बस्तिं गृहीत्वा वामहस्तमध्यमाङ्गुलिप्रदेशिनीभ्यां नेत्रमुपसंगृह्याङ्गुष्ठेन नेत्रद्वारं पिधाय घृताभ्यक्तग्रानेत्रं घृताक्तमुपादाय प्रयच्छेदनुपृष्ठवंशं सममुन्मुखमाकर्णिकं नेत्रं प्रणिधत्स्वेति ब्रूयात् ३
बस्तिं सव्ये करे कृत्वा दक्षिणेनावपीडयेत्
एकेनैवावपीडेन न द्रुतं न विलम्बितम् ४
ततो नेत्रमपनीय त्रिंशन्मात्राः पीडनकालादुपेक्ष्योत्तिष्ठेत्यातुरं ब्रूयात् अथातुरमुपवेशयेदुत्कुटुकं बस्त्यागमनार्थम् निरूहप्रत्यागमनकालस्तु मुहूर्तो भवति ५
अनेन विधिना बस्तिं दद्याद्बस्तिविशारदः
द्वितीयं वा तृतीयं वा चतुर्थं वा यथार्थतः ६
सम्यङ्निरूढलिङ्गे तु प्राप्ते बस्तिं निवारयेत्
विशेषात् सुकुमाराणां हीन एव क्रमो हितः ७
अपि हीनक्रमं कुर्यान्न तु कुर्यादतिक्रमम्
यस्य स्याद्बस्तिरल्पोऽल्पवेगो हीनमलानिलः ८
दुर्निरूढः स विज्ञेयो मूत्रार्त्यरुचिजाड्यवान्
यान्येव प्राङ्मयोक्तानि लिङ्गान्यतिविरेचिते ९
तान्येवातिनिरूढेऽपि विज्ञेयानि विपश्चिता
यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः १०
लाघवं चोपजायेत सुनिरूढं तमादिशेत्
सुनिरूढं ततो जन्तुं स्नातवन्तं तु भोजयेत् ११
पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात्
सर्वं वा जाङ्गलरसैर्भोजयेदविकारिभिः १२
त्रिभागहीनमर्धं वा हीनमात्रमथापि वा
यथाग्निदोषं मात्रेयं भोजनस्य विधीयते १३
अनन्तरं ततो युञ्ज्याद्यथास्वं स्नेहबस्तिना
विविक्ततामनस्तुष्टिः स्निग्धता व्याधिनिग्रहः १४
आस्थापनस्नेहबस्त्योः सम्यग्दाने तु लक्षणम्
तदहस्तस्य पवनाद्भयं बलवदिष्यते १५
रसौदनस्तेन शस्तस्तदहश्चानुवासनम्
पश्चादग्निबलं मत्वा पवनस्य च चेष्टितम् १६
अन्नोपस्तम्भिते कोष्ठे स्नेहबस्तिर्विधीयते
अनायान्तं मुहूर्तात्तु निरूहं शोधनैर्हरेत् १७
तीक्ष्णैर्निरूहैर्मतिमान् क्षारमूत्राम्लसंयुतैः
विगुणानिलविष्टब्धं चिरं तिष्ठन्निरूहणम् १८
शूलारतिज्वरानाहान्मरणं वा प्रवर्तयेत्
न तु भुक्तवतो देयमास्थापनमिति स्थितिः १९
विसूचिकां वा जनयेच्छर्दिं वाऽपि सुदारुणाम्
कोपयेत् सर्वदोषान् वा तस्माद्दद्यादभोजिने २०
जीर्णान्नस्याशये दोषाः पुंसः प्रव्यक्तिमागताः
निःशेषाः सुखमायान्ति भोजनेनाप्रपीडिताः २१
नवाऽस्थापनविक्षिप्तमन्नमग्निः प्रधावति
तस्मादास्थापनं देयं निराहाराय जानता २२
आवस्थिकं क्रमं चापि बुद्ध्वा कार्यं निरूहणम्
मलेऽपकृष्टे दोषाणां बलवत्त्वं न विद्यते २३
क्षीराण्यम्लानि मूत्राणि स्नेहाः क्वाथा रसास्तथा
लवणानि फलं क्षौद्रं शताह्वा सर्षपं वचा २४
एला त्रिकटुकं रास्ना सरलो देवदारु च
रजनी मधुकं हिङ्गु कुष्ठं संशोधनानि च २५
कटुका शर्करा मुस्तमुशीरं चन्दनं शटी
मञ्जिष्ठा मदनं चण्डा त्रायमाणा रसाञ्जनम् २६
बिल्वमध्यं यवानी च फलिनी शक्रजा यवाः
काकोली क्षीरकाकोली जीवकर्षभकावुभौ २७
तथा मेदा महामेदा ऋद्धिर्वृद्धिर्मधूलिका
निरूहेषु यथालाभमेष वर्गो विधीयते २८
स्वस्थे क्वाथस्य चत्वारो भागाः स्नेहस्य पञ्चमः
क्रुद्धेऽनिले चतुर्थस्तु षष्ठः पित्ते कफेऽष्टमः २९
सर्वेषु चाष्टमो भागः कल्कानां लवणं पुनः
क्षौद्रं मूत्रं फलं क्षीरमम्लं मांसरसं तथा ३०
युक्त्या प्रकल्पयेद्धीमान् निरूहेकल्पना त्वियम् ३१
कल्कस्नेहकषायाणामविवेकाद्भिषग्वरैः
बस्तेः सुकल्पना प्रोक्ता तस्य दानं यथार्थकृत् ३२
दत्त्वाऽदौ सैन्धवस्याक्षं मधुनः प्रसृतद्वयम्
पात्रे तलेन मथ्नीयात्तद्वत् स्नेहं शनैः शनैः ३३
सम्यक् सुमथिते दद्यात् फलकल्कमतः परम्
ततो यथोचितान् कल्कान् भागैः स्वैः श्लक्ष्णपेषितान् ३४
गम्भीरे भाजनेऽन्यस्मिन्मथ्नीयात्तं खजेन च
यथा वा साधु मन्येत न सान्द्रो न तनुः समः ३५
रसक्षीराम्लमूत्राणां दोषावस्थामवेक्ष्य तु
कषायप्रसृतान् पञ्च सुपूतांस्तत्र दापयेत् ३६
अत ऊर्ध्वं द्वादशप्रसृतान् वक्ष्यामः
दत्त्वाऽदौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम्
विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतित्रयम् ३७
एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत्
संमूर्च्छिते कषायं तु चतुःप्रसृतिसंमितम् ३८
वितरेच्च तदावापमन्ते द्विप्रसृतोन्मितम्
एवं प्रकल्पितो बस्तिर्द्वादशप्रसृतो भवेत् ३९
ज्येष्ठायाः खलु मात्रायाः प्रमाणमिदमीरितम्
अपह्रासे भिषक्कुर्यात्तद्वत् प्रसृतिहापनम् ४०
यथावयो निरूहाणां कल्पनेयमुदाहृता
सैन्धवादिद्र वान्तानां सिद्धिकामैर्भिषग्वरैः ४१
अत ऊर्ध्वं प्रवक्ष्यन्ते बस्तयोऽत्र विभागशः
यथादोषं प्रयुक्ता ये हन्युर्नानाविधान् गदान् ४२
शम्पाकोरुबुवर्षाभूवाजिगन्धानिशाच्छदैः
पञ्चमूलीबलारास्नागुडूचीसुरदारुभिः ४३
क्वथितैः पालिकैरेभिर्मदनाष्टकसंयुतैः
कल्कैर्मागधिकाम्भोदहपुषामिसिसैन्धवैः ४४
वत्साह्वयप्रिंयङूग्रायष्ट्याह्वयरसाञ्जनैः
दद्यादास्थापनं कोष्णं क्षौद्रा द्यैरभिसंस्कृतम् ४५
पृष्ठोरुत्रिकशूलाश्मविण्मूत्रानिलसङ्गिनाम्
ग्रहणीमारुतार्शोघ्नं रक्तमांसबलप्रदम् ४६
गुडूचीत्रिफलारास्नादशमूलबलापलैः
क्वथितैः श्लक्ष्णपिष्टैस्तु प्रियङ्गुघनसैन्धवैः ४७
शतपुष्पावचाकृष्णायवानीकुष्ठबिल्वजैः
सगुडैरक्षमात्रैस्तु मदनार्धपलान्वितैः ४८
क्षौद्र तैलघृतक्षीरशुक्तकाञ्जिकमस्तुभिः
समालोड्य च मूत्रेण दद्यादास्थापनं परम् ४९
तेजोवर्णबलोत्साहवीर्याग्निप्राणवर्धनम्
सर्वमारुतरोगघ्नं वयःस्थापनमुत्तमम् ५०
कुशादिपञ्चमूलाब्दत्रिफलोत्पलवासकैः
सारिवोशीरमञ्जिष्ठारास्नारेणुपरूषकैः ५१
पालिकैः क्वथितैः सम्यग् द्र व्यैरेभिश्च पेषितैः
शृङ्गाटकात्मगुप्तेभकेसरागुरुचन्दनैः ५२
विदारीमिसिमञ्जिष्ठाश्यामेन्द्र यवसिन्धुजैः
फलपद्मकयष्ट्याह्वैः क्षौद्र क्षीरघृताप्लुतैः ५३
दत्तमास्थापनं शीतमम्लहीनैस्तथा द्र वैः
दाहासृग्दरपित्तासृक्पित्तगुल्मज्वराञ्जयेत् ५४
रोध्रचन्दनमञ्जिष्ठारास्नानन्ताबलर्धिभिः
सारिवावृषकाश्मर्यमेदामधुकपद्मकैः ५५
स्थिरादितृणमूलैश्च क्वाथः कर्षत्रयोन्मितैः
पिष्टैर्जीवककाकोलीयुगर्धिमधुकोत्पलैः ५६
प्रपौण्डरीकजीवन्तीमेदारेणुपरूषकैः
अभीरुमिसिसिन्धूत्थवत्सकोशीरपद्मकैः ५७
कसेरुशर्करायुक्तैः सर्पिर्मधुपयःप्लुतैः
द्र वैस्तीक्ष्णाम्लवर्ज्यैश्च दत्तो बस्तिः सुशीतलः ५८
गुल्मासृग्दरहृत्पाण्डुरोगान् सविषमज्वरान्
असृक्पित्तातिसारौ च हन्यात्पित्तकृतान् गदान् ५९
भद्रा निम्बकुलत्थार्ककोशातक्यमृतामरैः
सारिवाबृहतीपाठामूर्वारग्वधवत्सकैः ६०
क्वाथः कल्कस्तु कर्तव्यो वचामदनसर्षपैः
सैन्धवामरकुष्ठैलापिप्पलीबिल्वनागरैः ६१
कटुतैलमधुक्षारमूत्रतैलाम्लसंयुतैः
कार्यमास्थापनं तूर्णं कामलापाण्डुमेहिनाम् ६२
मेदस्विनामनग्नीनां कफरोगाशनद्विषाम्
गलगण्डागरग्लानिश्लीपदोदररोगिणाम् ६३
दशमूलीनिशाबिल्वपटोलत्रिफलामरैः
क्वथितैः कल्कपिष्टैस्तु मुस्तसैन्धवदारुभिः ६४
पाठामागधिकेन्द्रा ह्वैस्तैलक्षारमधुप्लुतैः
कुर्यादास्थापनं सम्यङ्मूत्राम्लफलयोजितैः ६५
कफपाण्डुगदालस्यमूत्रमारुतसंगिनाम्
आमाटोपापचीश्लेष्मगुल्मक्रिमिविकारिणाम् ६६
वृषाश्मभेदवर्षाभूधान्यगन्धर्वहस्तकैः
दशमूलबलामूर्वायवकोलनिशाच्छदैः ६७
कुलत्थबिल्वभूनिम्बैः क्वथितैः पलसंमितैः
कल्कैर्मदनयष्ट्याह्वषड्ग्रन्थामरसर्षपैः ६८
पिप्पलीमूलसिन्धूत्थयवानीमिसिवत्सकैः
क्षौद्रे क्षुक्षीरगोमूत्रसर्पिस्तैलरसाप्लुतैः ६९
तूर्णमास्थापनं कार्यं संसृष्टबहुरोगिणाम्
गृध्रसीशर्कराष्ठीलातूनीगुल्मगदापहम् ७०
रास्नारग्वधवर्षाभूकटुकोशीरवारिदैः
त्रायमाणामृतारक्तापञ्चमूलीबिभीतकैः ७१
सबलैः पालिकैः क्वाथः कल्कस्तु मदनान्वितैः
यष्ट्याह्वमिसिसिन्धूत्थफलिनीन्द्र यवाह्वयैः ७२
रसाञ्जनरसक्षौद्र द्रा क्षासौवीरसंयुतैः
युक्तो बस्तिः सुखोष्णोऽय मांसशुक्रबलौजसाम् ७३
आयुषोऽग्नेश्च संस्कर्ता हन्ति चाशु गदानिमान्
गुल्मासृग्दरवीसर्पमूत्रकृच्छ्रक्षतक्षयान् ७४
विषमज्वरमर्शांसि ग्रहणीं वातकुण्डलीम्
जानुजङ्घाशिरोबस्तिग्रहोदावर्तमारुतान् ७५
वातासृक्शर्कराष्ठीलाकुक्षिशूलोदरारुचीः
रक्तपित्तकफोन्मादप्रमेहाध्मानहृद्ग्रहान् ७६
वातघ्नौषधनिष्क्वाथाः सैन्धवत्रिवृतायुताः
साम्लाः सुखोष्णा योज्याः स्युर्बस्तयः कुपितेऽनिले ७७
न्यग्रोधादिगणक्वाथाः काकोल्यादिसमायुताः
विधेया बस्तयः पित्ते ससर्पिष्काः सशर्कराः ७८
आरग्वधादिनिष्क्वाथाः पिप्पल्यादिसमायुताः
सक्षौद्र मूत्रा देयाः स्युर्बस्तयः कुपिते कफे ७९
शर्करेक्षुरसक्षीरघृतयुक्ताः सुशीतलाः
क्षीरवृक्षकषायाढ्या बस्तयः शोणिते हिताः ८०
शोधनद्र व्यनिष्क्वाथास्तत्कल्कस्नेहसैन्धवैः
युक्ताः खजेन मथितबस्तयः शोधनाः स्मृताः ८१
त्रिफलाक्वाथगोमूत्रक्षौद्र क्षारसमायुताः
ऊषकादिप्रतीवापा बस्तयो लेखनाः स्मृताः ८२
बृंहणद्र व्यनिष्क्वाथाः कल्कैर्मधुरकैर्युताः
सर्पिर्मांसरसोपेता बस्तयो बृंहणाः स्मृताः ८३
चटकाण्डोच्चटाक्वाथाः सक्षीरघृतशर्कराः
आत्मगुप्ताफलावापाः स्मृता वाजीकरा नृणाम् ८४
बदर्यैरावतीशेलुशाल्मलीधन्वनाङ्कुराः
क्षीरसिद्धाः क्षौद्र युताः सास्राः पिच्छिलसंज्ञिताः ८५
वाराहमाहिषौरभ्रबैडालैणेयकौक्कुटम्
सद्यस्कमसृगाजं वा देयं पिच्छिलबस्तिषु ८६
प्रियङ्ग्वादिगणक्वाथा अम्बष्ठाद्येन संयुताः
सक्षौद्राः सघृताश्चैव ग्राहिणो बस्तयः स्मृताः ८७
एतेष्वेव च योगेषु स्नेहाः सिद्धाः पृथक् पृथक्
समस्तेष्वथवा सम्यग्विधेयाः स्नेहबस्तयः ८८
वन्ध्यानां शतपाकेन शोधितानां यथाक्रमम्
बलातैलेन देयाः स्युर्बस्तयस्त्रैवृतेन च ८९
नरस्योत्तमसत्त्वस्य तीक्ष्णं बस्तिं निधापयेत्
मध्यमं मध्यसत्त्वस्य विपरीतस्य वै मृदुम् ९०
एवं कालं बलं दोषं विकारं च विकारवित्
बस्तिद्र व्यबलं चैव वीक्ष्य बस्तीन् प्रयोजयेत् ९१
दद्यादुत्क्लेशनं पूर्वं मध्ये दोषहरं पुनः
पश्चात् संशमनीयं च दद्याद्बस्तिं विचक्षणः ९२
एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा
हपुषाफलकल्कश्च बस्तिरुत्क्लेशनः स्मृतः ९३
शताह्वा मधुकं बीजं कौटजं फलमेव च
सकाञ्जिकः सगोमूत्रो बस्तिर्दोषहरः स्मृतः ९४
प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम्
सक्षीरः शस्यते बस्तिर्दोषाणां शमनः परः ९५
नृपाणां तत्समानानां तथा सुमहतामपि
नारीणां सुकुमाराणां शिशुस्थविरयोरपि ९६
दोषनिर्हणार्थाय बलवर्णोदयाय च
समासेनोपदेक्ष्यामि विधानं माधुतैलिकम् ९७
यानस्त्रीभोज्यपानेषु नियमश्चात्र नोच्यते
फलं च विपुलं दृष्टं व्यापदां चाप्यसंभवः ९८
योज्यस्त्वतः सुखेनैव निरूहक्रममिच्छता
यदेच्छति तदैवैष प्रयोक्तव्यो विपश्चिता ९९
मधुतैले समे स्यातां क्वाथश्चैरण्डमूलजः
पलार्धं शतपुष्पायास्ततोऽध सैन्धवस्य च १००
फलेनैकेन संयुक्तः खजेन च विलोडितः
देयः सुखोष्णो भिषजा माधुतैलिकसंज्ञितः १०१
वचामधुकतैलं च क्वाथः सरससैन्धवः
पिप्पलीफलसंयुक्तो बस्तिर्युक्तरथः स्मृतः १०२
सुरदारु वरा रास्ना शतपुष्पा वचा मधु
हिङ्गुसैन्धवसंयुक्तो बस्तिर्दोषहरः स्मृतः १०३
पञ्चमूलीकषायं च तैलं मागधिका मधु
बस्तिरेष विधातव्यः सशताह्वः ससैन्धवः १०४
यवकोलकुलत्थानां क्वाथो मागधिका मधु
ससैन्धवः सयष्ठ्याह्वः सिद्धबस्तिरिति स्मृतः १०५
मुस्तापाठामृतातिक्ताबलारास्नापुनर्नवाः
मञ्जिष्ठारग्वधोशीरत्रायमाणाख्यगोक्षुरान् १०६
पालिकान् पञ्चमूलाल्पसहितान्मदनाष्टकम्
जलाढके पचेत् क्वाथं पादशेषं पुनः पचेत् १०७
क्षीरार्धाढकसंयुक्तमाक्षीरात् सुपरिस्रुतम्
पादेन जाङ्गलरसस्तथा मधुघृतं समम् १०८
शताह्वाफलिनीयष्टीवत्सकैः सरसाञ्जनैः
कार्षिकैः सैन्धवोन्मिश्रैः कल्कैर्बस्तिः प्रयोजितः १०९
वातासृङ्मेहशोफार्शोगुल्ममूत्रविबन्धनुत्
विसर्पज्वरविड्भङ्गरक्तपित्तविनाशनः ११०
बल्यः संजीवनो वृष्यश्चक्षुष्यः शूलनाशनः
यापनानामयं राजा बस्तिर्मुस्तादिको मतः १११
अवेक्ष्य भेषजं बुद्ध्या विकारं च विकारवित्
बीजेनानेन शास्त्रज्ञः कुर्याद्बस्तिशतान्यपि ११२
अजीर्णे न प्रयुञ्जीत दिवास्वप्नं च वर्जयेत्
आहाराचारिकं शेषमन्यत् कामं समाचरेत् ११३
यस्मान्मधु च तैलं च प्राधान्येन प्रदीयते
माधुतैलिक इत्येवं भिषग्भिर्बस्तिरुच्यते ११४
रथेष्वपि च युक्तेषु हस्त्यश्वे चापि कल्पिते
यस्मान्न प्रतिषिद्धोऽयमतो युक्तरथः स्मृतः ११५
बलोपचयवर्णानां यस्माद् व्याधिशतस्य च
भवत्येतेन सिद्धिस्तु सिद्धबस्तिरतो मतः ११६
सुखिनामल्पदोषाणां नित्यं स्निग्धाश्च ये नराः
मृदुकोष्ठाश्च ये तेषां विधेया माधुतैलिकाः ११७
मृदुत्वात् पादहीनत्वादकृत्स्नविधिसेवनात्
एकबस्तिप्रदानाच्च सिद्धबस्तिष्वयन्त्रणा ११८
इति सुश्रुतसंहितायां चिकित्सास्थाने निरूहक्रमचिकित्सितं
नामाष्टत्रिंशोऽध्यायः ३८
एकोनचत्वारिंशत्तमोऽध्यायः
अथात आतुरोपद्र वचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्नेहपीतस्य वान्तस्य विरिक्तस्य स्रुतासृजः
निरूढस्य च कायाग्निर्मन्दो भवति देहिनः ३
सोऽन्नैरत्यर्थगुरुभिरुपयुक्तैः प्रशाम्यति
अल्पो महद्भिर्बहुभिश्छादितोऽग्निरिवेन्धनैः ४
स चाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्धते
काष्ठैरणुभिरल्पैश्च सन्धुक्षित इवानलः ५
हृतदोषप्रमाणेन सदाऽहारविधिः स्मृतः
त्रीणि चात्र प्रमाणानि प्रस्थोऽधाढकमाढकम् ६
तत्रावरं प्रस्थमात्रं द्वे शेषे मध्यमोत्तमे
प्रस्थे परिस्रुते देया यवागूः स्वल्पतण्डुला ७
द्वे चैवार्धाढके देये तिस्रश्चाप्याढके गते
विलेपीमुचिताद्भक्ताच्चतुर्थांशकृतां ततः ८
दद्यादुक्तेन विधिना क्लिन्नसिक्थामपिच्छिलाम्
अस्निग्धलवणं स्वच्छमुद्गयूषयुतं ततः ९
अंशद्वयप्रमाणेन दद्यात् सुस्विन्नमोदनम्
ततस्तु कृतसंज्ञेन हृद्येनेन्द्रि यबोधिना १०
त्रीनंशान् वितरेद्भोक्तुमातुरायौदनं मृदु
ततो यथोचितं भक्तं भोक्तुमस्मै विचक्षणः ११
लावैणहरिणादीनां रसैर्दद्यात् सुसंस्कृतैः
हीनमध्योत्तमेष्वेषु विरेकेषु प्रकीर्तितः १२
एकद्वित्रिगुणः सम्यगाहारस्य क्रमस्त्वयम्
कफपित्ताधिकान्मद्यनित्यान् हीनविशोधितान् १३
पेयाऽभिष्यन्दयेत्तेषां तर्पणादिक्रमो हितः
वेदनालाभनियमशोकवैचित्त्यहेतुभिः १४
नरानुपोषितांश्चापि विरिक्तवदुपाचरेत्
आढकार्धाढकप्रस्थसंख्या ह्येषा विरेचने १५
श्लेष्मान्तत्वाद्विरेकस्य न तामिच्छति तद्विदः
एको विरेकः श्लेष्मान्तो न द्वितीयोऽस्ति कश्चन १६
बलं यत्त्रिविधं प्रोक्तमतस्तत्र क्रमस्त्रिधा
तत्रानुक्रममेकं तु बलस्थः सकृदाचरेत् १७
द्विराचरेन्मध्यबलस्त्रीन् वारान् दुर्बलस्तथा
केचिदेवं क्रमं प्राहुर्मन्दमध्योत्तमाग्निषु १८
संसर्गेण विवृद्धेऽग्नौ दोषकोपभयाद्भजेत्
प्राक् स्वादुतिक्तौ स्निग्धाम्ललवणान् कटुकं ततः १९
स्वाद्वम्ललणान् भूयः स्वादुतिक्तावतः परम्
स्निग्धरूक्षान् रसांश्चैव व्यत्यासात् स्वस्थवत्ततः २०
केवलं स्नेहपीतो वा वान्तो यश्चापि केवलम्
स सप्तरात्रं मनुजो भुज्जीत लघु भोजनम् २१
कृतः सिराव्यधो यस्य कृतं यस्य च शोधनम्
स ना परिहरेन्मासं यावद्वा बलवान् भवेत् २२
त्र्यहं त्र्यहं परिहरेदेकैकं बस्तिमातुरः
तृतीये तु परीहारे यथायोगं समाचरेत् २३
तैलपूर्णाममृद्भाण्डसधर्माणो व्रणातुराः
स्निग्धशुद्धाक्षिरोगार्ता ज्वरातीसारिणश्च ये २४
क्रुध्यतः कुपितं पित्तं कुर्यात्तांस्तानुपद्र वान्
आयास्यतः शोचतो वा चित्तं विभ्रममृच्छति २५
मैथुनोपगमाद्घोरान् व्याधीनाप्नोति दुर्मतिः
आक्षेपकं पक्षघातमङ्गप्रग्रहमेव च २६
गुह्यप्रदेशे श्वयथुं कासश्वासौ च दारुणौ
रुधिरं शुक्रवच्चापि सरजस्कं प्रवर्तते २७
लभते च दिवास्वप्नात्तांस्तान् व्याधीन् कफात्मकान्
प्लीहोदरं प्रतिश्यायं पाण्डुतां श्वयथुं ज्वरम् २८
मोहं सदनमङ्गानामविपाकं तथाऽरुचिम्
तमसा चाभिभूतस्तु स्वप्नमेवाभिनन्दति २९
उच्चैः संभाषणाद्वायुः शिरस्यापादयेद्रुजम्
आन्ध्यं जाड्यमजिघ्रत्वं बाधिर्यं मूकतां तथा ३०
हनुमोक्षमधीमन्थमर्दितं च सुदारुणम्
नेत्रस्तम्भं निमेषं वा तृष्णां कासं प्रजागरम् ३१
लभते दन्तचालं च तांस्तांश्चान्यानुपद्र वान्
यानयानेन लभते छर्दिमूर्च्छाभ्रमक्लमान् ३२
तथैवाङ्गग्रहं घोरमिन्द्रि याणां च विभ्रमम्
चिरासनात्तथा स्थानाच्छ्रोण्यां भवति वेदना ३३
अतिचङ्क्रमणाद्वायुर्जङ्घयोः कुरुते रुजः
सक्थिप्रशोषं शोफं वा पादहर्षमथापि वा ३४
शीतसंभोगतोयानां सेवा मारुतवृद्धये
ततोऽङ्गमर्दविष्टम्भशूलाध्मानप्रवेपकाः ३५
वातातपाभ्यां वैवर्ण्यं ज्वरं चापि समाप्नुयात्
विरुद्धाध्यशनान्मृत्युं व्याधिं वा घोरमृच्छति ३६
असात्म्यभोजनं हन्याद्बलवर्णमसंशयम्
अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः
रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि ३७
व्यापदां कारणं वीक्ष्य व्यापत्स्वेतासु बुद्धिमान्
प्रयतेतातुरारोग्ये प्रत्यनीकेन हेतुना ३८
विरिक्तवान्तैर्हरिणैणलावकाः शशश्च सेव्यः समयूरतित्तिरिः
सषष्टिकाश्चैव पुराणशालयस्तथैव मुद्गा लघु यच्च कीर्तितम् ३९
इति सुश्रुतसंहितायां चिकित्सास्थाने आतुरोपद्र वचिकित्सितं नामैकोनचत्वारिंशोऽध्यायः ३९
चत्वारिंशत्तमोऽध्यायः
अथातो धूमनस्यकवलग्रहचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
धूमः पञ्चविधो भवति तद्यथाप्रायोगिकः स्नैहिको वैरेचनिकः कासघ्नो वामनीयश्चेति ३
तत्रैलादिना कुष्ठतगरवर्ज्येन श्लक्ष्णपिष्टेन द्वादशाङ्गुलं शरकाण्डमङ्गुलिपरिणाहं क्षौमेणाष्टाङ्गुलं वेष्टयित्वा लेपयेदेषा वर्तिः प्रायोगिके स्नेहफलसारमधूच्छिष्टसर्जरसगुग्गुलुप्रभृतिभिः स्नहेमिश्रैः स्नैहिके शिरोविरेचनद्र व्यैर्वैरेचने बृहतीकण्टकारिकात्रि कटुकासमर्दहिङ्ग्विङ्गुदीत्वङ्मनःशिलाच्छिन्नरुहाकर्कट शृङ्गीप्रभृतिभिः कासहरैश्च कासघ्ने स्नायुचर्मखुरशृङ्गकर्कटकास्थिशुष्कमत्स्यवल्लूरकृमिप्रभृतिभिर्वामनीयैश्च वामनीये ४
तत्र बस्तिनेत्रद्र व्यैर्धूमनेत्रद्र व्याणि व्याख्यातानि भवन्ति धूमनेत्रं तु कनिष्ठिकापरिणाहमग्रे कलायमात्रस्रोतो मूलेऽङ्गुष्ठपरिणाहं धूमवर्तिप्रवेशस्रोतोऽङ्गुलान्यष्टचत्वारिंशत् प्रायोगिके द्वात्रिंशत् स्नेहने चतुर्विंशतिर्वैरेचने षोडशाङ्गुलं कासर्नघे वामनीये च एतेऽपि कोलास्थिमात्रच्छिद्रे भवतः व्रणनेत्रमष्टाङ्गुलं व्रणधूपनार्थं कलायपरिमण्डलं कुलत्थवाहिस्रोत इति ५
अथ सुखोपविष्टः सुमना ऋज्वधोदृष्टिरतन्द्रि तः स्नेहाक्तदीप्ताग्रां वर्तिं नेत्रस्रोतसि प्रणिधाय धूमं पिबेत् ६
मुखेन तं पिबेत् पूर्वं नासिकाभ्यां ततः पिबेत्
मुखपीतं मुखेनैव वमेत् पीतं च नासया ७
मुखेन धूममादाय नासिकाभ्यां न निर्हरेत्
तेन हि प्रतिलोमेन दृष्टिस्तत्र निहन्यते ८
विशेषतस्तु प्रायोगिकं घ्राणेनाददीत स्नैहिकं मुखना
साभ्यां नासिकया वैरेचनिकं मुखेनैवेतरौ ९
तत्र प्रायोगिके वर्तिं व्यपगतशरकाण्डां निवातातपशुष्कामङ्गारेष्ववदीप्य नेत्रमूलस्रोतसि प्रयुज्य धूममाहरेति ब्रूयात् एवं स्नेहनं वैरेचनिकं च कुर्यादिति इतरयोर्व्यपेतधूमाङ्गरो स्थिरे समाहिते शरावे प्रक्षिप्य वर्तिं मूलच्छिद्रे णान्येन शरावेण पिधाय तस्मिन् छिद्रे नेत्रमूलं संयोज्यधूममासेवेत प्रशान्ते धूमे वर्तिमवशिष्टां प्रक्षिप्य पुनरपि धूमं पाययेदादोषविशुद्धेः एष धूमपानोपायविधिः १०
तत्रशोकश्रमभयामर्षौष्ण्यविषरक्तपित्तमदमूर्च्छादाहपिपासापाण्डुरोगतालुशो-षच्छर्दिशिरोऽभिघातोद्गारापतर्पिततिमिरप्रमेहोदराध्मानोर्ध्ववातार्ता बालवृद्धदुर्बल-विरिक्तास्थापितजागरितगर्भिणीरूक्षक्षीणक्षतोरस्क मधु घृतदधिदुग्धमत्स्यमद्ययवागूपीताल्पकफाश्च न धूममासेवेरन् ११
अकालपीतः कुरुते भ्रमं मूर्च्छां शिरोरुजम्
घ्राणश्रोत्राक्षिजिह्वानामुपघातं च दारुणम् १२
आद्यास्तु त्रयो धूमा द्वादशसु कालेषूपादेयाः तद्यथाक्षुतदन्तप्रक्षालननस्यस्नानभोजनदिवास्वप्नमैथुनच्छर्दिमूत्रोच्चार-हसितरुषितशस्त्रकर्मान्तेष्विति तत्र विभागोमूत्रोच्चारक्षवथुहसितरुषितमैथुनान्तेषु स्नैहिकः स्नानच्छर्दनदिवास्वप्नान्तेषु वैरेचनिकः दन्तप्रक्षालनस्य स्नानभोजनशस्त्रकर्मान्तेषु प्रायोगिक इति १३
तत्र स्नैहिको वातं शमयति स्नेहादुपलेपाच्च वैरेचनः श्लेष्माणमुत्क्लेश्यापकर्षति रौक्ष्यात्तैक्ष्ण्यादौष्ण्याद्वैशद्याच्च प्रायोगिकः श्लेष्माणमुत्क्लेशयत्युत्क्लिष्टं चापकर्षति शमयति वातं साधारणत्वात पूर्वाभ्यामिति १४
भवति चात्र
नरो धूमोपयोगाच्च प्रसन्नेन्द्रि यवाङ्मनाः
दृढकेशद्विजश्मश्रुः सुगन्धिविशदाननः १५
तथा कासश्वासारोचकास्योपलेपस्वरभेदमुखास्रावक्षवथुवमथु क्रथतन्द्रा निद्रा हनुमन्यास्तम्भाः पीनसशिरोरोगकर्णाक्षिशूला वातकफनिमित्ताश्चास्य मुखरोगा न भवन्ति १६
तस्य योगायोगातियोगा विज्ञातव्याः तत्र योगो रोगप्रशमनः अयोगो रोगाप्रशमनःतालुगलशोषपरिदाहपिपासामूर्च्छाभ्रममद-कर्णक्ष्वेडदृष्टिनासारोगदौर्बल्यान्यतियोगो जनयति १७
प्रायोगिकं त्रींस्त्रीनुच्छ्वासानाददीत मुखनासिकाभ्यां च पर्यायांस्त्रींश्चतुरो वेति स्नैहिकं यावदश्रुप्रवृत्तिः वैरेचनिकमादोषदर्शनात् तिलतण्डुलयवागूपीतेन पातव्यो वामनीयः ग्रासान्तरेषु कासघ्न इति १८
व्रणधूमं शरावसंपुटोपनीतेन नेत्रेण व्रणमानयेत् धूमपानाद्वेदनोपशमो व्रणवैशद्यमास्रावोपशमश्च भवति १९
विधिरेष समासेन धूमस्याभिहितो मया
नस्यस्यातः प्रवक्ष्यामि विधिं निरवशेषतः २०
औषधमौषधसिद्धो वा स्नेहो नासिकाभ्यां दीयत इति नस्यम् तद्द्विविधं शिरोविरेचनं स्नेहनं च तदिद्ववविधमपि पञ्चधा तद्यथानस्यं शिरोविरेचनं प्रतिमर्शो अवपीडः प्रधमनं च तेषु नस्यं प्रधानं शिरोविरेचनं च नस्यविकल्पः प्रतिमर्शः शिरोविरेचनविकल्पोऽवपीडः प्रधमनं च ततो नस्यशब्दः पञ्चधा नियमितः २१
तत्र यः स्नेहनार्थं शून्यशिरसां ग्रीवास्कन्धोरसां च बलजननार्थं दृष्टिप्रसादजननार्थं वा स्नेहो विधीयते तस्मिन् वैशेषिको नस्यशब्दः तत्तु देयं वाताभिभूते शिरसि दन्तकेशश्मश्रुप्रपातदारुण कर्णशूल कर्णक्षवेडतिमिरस्वरोपघातनासा रोगास्यशोषाव बाहुकाकाल जबलीपलितप्रादुर्भावदारुणप्रबोधेषुवातपैत्तिकेषु मुखरोगेष्वन्येषु च वातपित्तहरद्र व्यसिद्धेन स्नेहेनेति २२
शिरोविरेचनंश्लेष्मणाऽभिव्याप्ततालुकण्ठशिरसामरोचकशिरोगौरवशूलपीन-सार्धावभेदककृमिप्रतिश्यायापस्मारगन्धाज्ञानेष्वन्येषुचोर्ध्वजत्रुगतेषु कफजेषु विकारेषु शिरोविरेचनद्र व्यैस्तत्सिद्धेन वा स्नेहेनेति २३
तत्रैतद्द्विविधमप्यभुक्तवतोऽन्नकाले पूर्वाह्णे श्लेष्मरोगिणां मध्याह्ने पित्तरोगिणां अपराह्णे वातरोगिणाम् २४
अथ पुरुषाय शिरोविरेचनीयाय त्यक्तमूत्रपुरीषाय भुक्तवते व्यभ्रे काले दन्तकाष्ठधूमपानाभ्यां विशुद्धवक्त्रस्रोतसे पाणितापपरिस्विन्न मृदितगलकपोलललाटप्रदेशाय वातातपरजोहीने वेश्मन्युत्तानशायिने प्रसारितकर चरणाय किञ्चित् प्रविलम्बितशिरसे वस्त्राच्छादितनेत्राय वामहस्तप्रदेशिन्यग्रोन्नामितनासाग्राय विशुद्धस्रोतसि दक्षिणहस्तेन स्नेहमुष्णाम्बुना प्रतप्तंरजतसुवर्णताम्रमणिमृत्पात्रशुक्तीनामन्यतमस्थं शुक्त्या पिचुना वा सुखोष्णं स्नेहमद्रुतमासिञ्चेदव्यवच्छिन्नधारं यथा नेत्रे न प्राप्नओति २५
स्नेहेऽवसिच्यमाने तु शिरो नैव प्रकम्पयेत्
न कुप्येन्न प्रभाषेच्च न क्षुयान्न हसेत्तथा २६
एतैर्हि विहतः स्नेहो न सम्यक् प्रतिपद्यते
ततः कासप्रतिश्यायशिरोऽक्षिगदसंभवः २७
तस्य प्रमाणमष्टौ बिन्दवः प्रदेशिनीपर्वद्वयनिःसृताः प्रथमा मात्रा द्वितीया शुक्तिः तृतीयापाणिशुक्तिः इत्येतास्तिस्रो मात्रा यथाबलं प्रयोज्याः २८
स्नेहनस्यं नोपगिलेत्कथंचिदपि बुद्धिमान्
शृङ्गाटकमभिप्लाव्य निरेति वदनाद्यथा
कफोत्क्लेशभयाच्चैनं निष्ठीवेदनिधारयन् ३०
दत्ते च पुनरपि संस्वेद्य गलकपोलादीन् धूममासेवेत भोजयेच्चैनमभिष्यन्दि ततोऽस्याचारिकमादिशेत रजोधूमस्नेहातपमद्यद्र वपानशिरः स्नानातियानक्रोधादीनि च परिहरेत् ३१
तस्य योगातियोगायोगानामिदं विज्ञानं भवति ३२
लाघवं शिरसो योगे सुखस्वप्नप्रबोधनम्
विकारोपशमः शुद्धिरिन्द्रि याणां मनःसुखम् ३३
कफप्रसेकः शिरसो गुरुतेन्द्रि यविभ्रमः
लक्षणं मूÞर्यतिस्निग्धे रूक्षं तत्रावचारयेत् ३४
अयोगे वातवैगुण्यमिन्द्रि याणां च रूक्षता
रोगाशान्तिश्च तत्रेष्टं भूयो नस्यं प्रयोजयेत् ३५
चत्वारो बिन्दवः षड् वा तथाऽष्टौ वा यथाबलम्
शिरोविरेकस्नेहस्य प्रमाणमभिनिर्दिशेत् ३६
नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः
शुद्धहीनातिसंज्ञानि विशेषाच्छास्त्रचिन्तकैः ३७
लाघवं शिरसः शुद्धिः स्रोतसां व्याधिनिर्जयः
चित्तेन्द्रि यप्रसादश्च शिरसः शुद्धिलक्षणम् ३८
कण्डूपदेहौ गुरुता स्रोतसां कफसंस्रवः
मूर्ध्नि हीनविशुद्धे तु लक्षणं परिकीर्तितम् ३९
मस्तुलुङ्गागमो वातवृद्धिरिन्द्रि यविभ्रमः
शून्यता शिरसश्चापि मूर्ध्नि गाढविरेचिते ४०
हीनातिशुद्धे शिरसि कफवातघ्नमाचरेत्
सम्यग्विशुद्धे शिरसि सर्पिर्नस्यं निषेचयेत् ४१
एकान्तरं द्व्यन्तरं वा सप्ताहं वा पुनः पुनः
एकविंशतिरात्रं वा यावद्वा साधु मन्यते ४२
मारुतेनाभिभूतस्य वाऽत्यन्तं यस्य देहिनः
द्विकालं चापि दातव्यं नस्यं तस्य विजानता ४३
अवपीडस्तु शिरोविरेचनवदभिष्यण्णसर्पदष्टविसंज्ञेभ्यो दद्याच्छिरो विरे चनद्र व्याणामन्यतममवपिष्यावपीड्य च शर्करेक्षुरसक्षीरघृतमांसरसाना मन्यतमं क्षीणानां शोणितपित्ते च विदध्यात् ४४
कृशदुर्बलभीरूणां सुकुमारस्य योषिताम्
शृताः स्नेहाः शिरःशुद्ध्यै कल्कस्तेभ्यो यथाहितः ४५
चेतोविकारकृमिविषाभिपन्नानां चूर्णं प्रधमेत् ४६
नस्येन परिहर्तव्यो भुक्तवानपतर्पितोऽत्यर्थतरुणप्रतिश्यायी गर्भिणीपीतस्नेहोदकमद्यद्र वोऽजीर्णीदत्तबस्तिः कुद्धो गरार्तस्तृषितः शोकाभिभूतः श्रान्तो बालो वृद्धो वेगावरोधितः शिरःस्नातुकामश्चएति अनार्तवे चाभ्रे नस्यधूमौ परिहरेत् ४७
तत्र हीनातिमात्रातिशीतोष्णसहसाप्रदानादतिप्रविलम्बितशिरस उच्छिङ्घतो विचलतोऽभ्यवहरतो वा प्रतिषिद्धप्रदानाच्च व्यापदो भवन्ति तृष्णोद्गारादयो दोषनिमित्ताः क्षयजाश्च ४८
भवतश्चात्र
नस्ये शिरोविरेके च व्यापदो द्विविधाः स्मृताः
दोषोत्क्लेशात् क्षयाच्चैव विज्ञेयास्ता यथाक्रमम् ४९
दोषोक्लेशनिमित्तास्तु जयेच्छमनशोधनैः
अथ क्षयनिमित्तासु यथास्वं बृंहणं हितम् ५०
प्रतिमर्शश्चतुर्दशसु कालेषूपादेयः तद्यथातल्पोत्थितेन प्रक्षालितदन्तेन मूत्रो
च्चारकवलाञ्जनान्ते भुक्तवता छर्दितवता दिवास्वप्नोत्थितेन सायं चेति ५१
तत्र तल्पोत्थितेनासेवितः प्रतिमर्शो रात्रावुपचितं नासास्रोतोगतं मलमुपहन्ति मनःप्रसादं च करोति प्रक्षालितदन्तेनासेवितो दन्तानां दृढतां वदनसौगन्ध्यं चापादयति गृहान्निर्गच्छता सेवितो नासास्रोतसः क्लिछ्ननतया रजोधूमो वा न बाधते व्यायाममैथुनाध्वपरिश्रान्तेनासेवितः श्रममुपहन्ति मूत्रोच्चारान्ते सेवितो दृष्टेर्गुरुत्वमपनयति कवलाञ्जनान्ते सेवितो दृष्टिं प्रसादयति भुक्तवता सेवितः स्रोतसां विशुद्धिं लघुतां चापादयति वान्तेनासेवितः स्रतोविलग्नं श्लेष्माणमपोह्य भक्ताकाङ्क्षामापादयति दिवास्वप्नोत्थितेनासेवितो निद्रा शेषं गुरुत्वं मलं चापोह्य चित्तैकाग्र्यंजनयति सायं चासेवितः सुखनिद्रा प्रबोधं चेति ५२
ईषदुच्छिङ्घतः स्नेहो यावद्वक्त्रं प्रपद्यते
नस्ये निषिक्तं तं विद्यात् प्रतिमर्शं प्रमाणतः ५३
नस्येन रोगाः शाम्यन्ति नराणामूर्ध्वजत्रुजाः
इन्द्रि याणां च वैमल्यं कुर्यादास्यं सुगन्धि च ५४
हनुदन्तशिरोग्रीवात्रिकबाहूरसां बलम्
वलीपलितखालित्यव्यङ्गानां चाप्यसंभवम् ५५
तैलं कफे सवाते स्यात् केवले पवने वसाम्
दद्यात्सर्पिः सदा पित्ते मज्जानं च समारुते ५६
चतुर्विधस्य स्नेहस्य विधिरेवं प्रकीर्तितः
श्लेष्मस्थानाविरोधित्वात्तेषु तैलं विधीयते ५७
अतः परं प्रवक्ष्यामि कवलग्रहणे विधिम्
चतुर्धा कवलः स्नेही प्रसादी शोधिरोपणौ ५८
स्निग्धोष्णैः स्नैहिको वाते स्वादुशीतैः प्रसादनः
पित्ते कट्वम्ललवणै रूक्षोष्णैः शोधनः कफे ५९
कषायतिक्तमधुरैः कटूष्णै रोपणो व्रणे
चतुर्विधस्य चैवास्य विशेषोऽय प्रकीर्तितः ६०
तत्र त्रिकटुकवचासर्षपहरीतकीकल्कमालोड्य तैलशुक्तसुरामूत्रक्षारमधूनामन्यतमेन सलवणमभिप्रतप्तमुपस्विन्नमृदितगलकपोलललाटप्रदेशो धारयेत् ६१
सुखं संचार्यते या तु मात्रा स कबलः स्मृतः
असंचार्या तु या मात्रा गण्डूषः स प्रकीर्तितः ६२
तावच्च धारयितव्योऽनन्यमनसोन्नतदेहेन यावद्दोषपरिपूर्णकपोलत्वं नासास्रोतोनयनपरिप्लावश्चभवति तदा विमोक्तव्यः पुनश्चान्यो ग्रहीतव्य इति ६३
एवं स्नेहपयःक्षौद्र रसमूत्राम्लसंभृताः
कषायोष्णोदकाभ्यां च कवला दोषतो हिताः ६४
व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम्
इन्द्रि याणां प्रसादश्च कवले शुद्धिलक्षणम् ६५
हीने जाड्यकफोत्क्लेशावरसज्ञानमेव च
अतियोगान्मुखे पाकः शोषतृष्णारुचिक्लमाः ६६
शोधनीये विशेषेण भवन्त्येव न संशयः
तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च ६७
सक्षौद्रो दग्धवक्त्रस्य गण्डूषो दाहनाशनः
कवलस्य विधिर्ह्येष समासेन प्रकीर्तितः ६८
विभज्य भेषजं बुद्ध्या कुर्वीत प्रतिसारणम्
कल्को रसक्रिया क्षौद्रं चूर्णं चेति चतुर्विधम् ६९
अङ्गुल्यग्रप्रणीतं तु यथास्वं मुखरोगिणाम्
तस्मिन् योगमयोगं च कवलोक्तं विभावयेत् ७०
तानेव शमयेद् व्याधीन् कवलो यानपोहति
दोषघ्नमनभिष्यन्दि भोजयेच्च तथा नरम् ७१
इति सुश्रुतसंहितायां चिकित्सास्थाने धूमनस्यकवलग्रह चिकित्सितं नाम चत्वारिंशोऽध्यायः ४०
इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन
विरचितायां सुश्रुत संहितायां चिकित्सास्थानं समाप्तम्
इति चिकित्सास्थान समाप्ता
सुश्रुत संहिता
Sushruta Saṁhitā
कल्पस्थान्
Kalpa Sthān
Chapter 1 2 3 4 5 6 7 8
कल्पस्थान्
प्रथमोऽध्यायः
अथातोऽन्नपानरक्षाकल्पं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
धन्वन्तरिः काशिपतिस्तपोधर्मभृतां वरः
सुश्रुतप्रभृतीञ्छिष्याञ्छशासाहतशासनः ३
रिपवो विक्रमाक्रान्ता ये च स्वे कृत्यतां गताः
सिसृक्षवः क्रोधविषं विवरं प्राप्य तादृशम् ४
विषैर्निहन्युर्निपुणं नृपतिं दुष्टचेतसः
स्त्रियो वा विविधान् योगान् कदाचित्सुभगेच्छया ५
विषकन्योपयोगाद्वा क्षणाज्जह्यादसून्नरः
तस्माद्वैद्येन सततं विषाद्र क्ष्यो नराधिपः ६
यस्माच्च चेतोऽनित्यत्वमश्ववत् प्रथितं नृणाम्
न विश्वस्यात्ततो राजा कदाचिदपि कस्यचित् ७
कुलीनं धार्मिकं स्निग्धं सुभृतं संततोत्थितम्
अलुब्धमशठं भक्तं कृतज्ञं प्रिंयदर्शनम् ८
क्रोधपारुष्यमात्सर्यमायालस्यविवर्जितम्
जितेन्द्रि यं क्षमावन्तं शुचिं शीलदयान्वितम् ९
मेधाविनमसंश्रान्तमनुरक्तं हितैषिणम्
पटुं प्रगल्भं निपुणं दक्षमालस्यवर्जितम् १०
पूर्वोक्तैश्च गुणैर्युक्तं नित्यं सन्निहितागदम्
महानसे प्रयुञ्जीत वैद्यं तद्विद्यपूजितम् ११
प्रशस्तदिग्देशकृतं शुचिभाण्डं महच्छुचि
सजालकं गवाक्षाढ्यमाप्तवर्गनिषेवितम् १२
विकक्षसृष्टसंसृष्टं सवितानं कृतार्चनम्
परीक्षितस्त्रीपुरुषं भवेच्चापि महानसम् १३
तत्राध्यक्षं नियुञ्जीत प्रायो वैद्यगुणान्वितम्
शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः १४
संविभक्ताः सुमनसो नीचकेशनखाः स्थिराः
स्नाता दृढं संयमिनः कृतोष्णीषाः सुसंयताः १५
तस्य चाज्ञाविधेयाः स्युर्विविधाः परिकर्मिणः
आहारस्थितयश्चापि भवन्ति प्राणिनो यतः १६
तस्मान्महानसे वैद्यः प्रमादरहितो भवेत्
माहानसिकवोढारः सौपौदनिकपौपिकाः १७
भवेयुर्वैद्यवशगा ये चाप्यन्येऽत्र केचन
इङ्गितज्ञो मनुष्याणां चाक्चेष्टामुखवैकृतैः १८
विद्याद्विषस्य दातारमेभिर्लिङ्गैश्च बुद्धिमान्
न ददात्युत्तरं पृष्टो विवक्षन् मोहमेति च १९
अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत्
स्फोटयत्यङ्गुलीर्भूमिमकस्माद्विलिखेद्धसेत् २०
वेपथुर्जायते तस्य त्रस्तश्चान्योऽन्यमीक्षते
क्षामो विवर्णवक्त्रश्च नखैः किञ्चिच्छिनत्त्यपि २१
आलभेतासकृद्दीनः करेण च शिरोरुहान्
निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः २२
वर्तते विपरीतं तु विषदाता विचेतनः
केचिद्भयात् पार्थिवस्य त्वरिता वा तदाज्ञया २३
असतामपि सन्तोऽपि चेष्टां कुर्वन्ति मानवाः
तस्मात् परीक्षणं कार्यं भृत्यानामादृतैर्नृपैः २४
अन्ने पाने दन्तकाष्ठे तथाऽभ्यङ्गेऽवलेखने
उत्सादने कषाये च परिषेकेऽनुलेपने २५
स्रक्षु वस्त्रेषु शय्यासु कवचाभरणेषु च
पादुकापादपीठेषु पृष्ठेषु गजवाजिनाम् २६
विषजुष्टेषु चान्येषु नस्यधूमाञ्जनादिषु
लक्षणानि प्रवक्ष्यामि चिकित्सामप्यनन्तरम् २७
नृपभक्ताद्बलि न्यस्तं सविषं भक्षयन्ति ये
तत्रैव ते विनश्यन्ति मक्षिकावायसादयः २८
हुतभुक् तेन चान्नेन भृशं चटचटायते
मयूरकण्ठप्रतिमो जायते चापि दुःसहः २९
भिन्नार्चिस्तीक्ष्णधूमश्च नचिराच्चोपशाम्यति
चकोरस्याक्षिवैराग्यं जायते क्षिप्रमेव तु ३०
दृष्ट्वाऽन्न विषसंसृष्टं म्रियन्ते जीवजीवकाः
कोकिलः स्वरवैकृत्यं क्रौञ्चस्तु मदमृच्छति ३१
हृष्येन्मयूर उद्विग्नः क्रोशतः शुकसारिके
हंसः क्ष्वेडति चात्यर्थं भृङ्गराजस्तु कूजति ३२
पृषतो विसृजत्यश्रुं विष्ठां मुञ्चति मर्कटः
सन्निकृष्टांस्ततः कुर्याद्रा ज्ञस्तान् मृगपक्षिणः ३३
वेश्मनोऽथ विभूषार्थं रक्षार्थं चात्मनः सदा
उपक्षिप्तस्य चान्नस्य वाष्पेणोर्ध्वं प्रसर्पता ३४
हृत्पीडा भ्रान्तनेत्रत्वं शिरोदुःखं च जायते
तत्र नस्याञ्जते कुष्ठं लामज्जं नलदं मधु ३५
कुर्याच्छिरीषरजनीचन्दनैश्च प्रलेपनम्
हृदि चन्दनलेपस्तु तथा सुखमवाप्नुयात् ३६
पाणिप्राप्तं पाणिदाहं नखशातं करोति च
अत्र प्रलेपः श्यामेन्द्र गोपासोमोत्पलानि च ३७
स चेत् प्रमादान्मोहाद्वा तदन्नमुपसेवते
अष्ठीलावत्ततो जिह्वा भवत्यरसवेदिनी ३८
तुद्यते दह्यते चापि श्लेष्मा चास्यात् प्रसिच्यते
तत्र बाष्पेरितं कर्म यच्च स्याद्दान्तकाष्ठिकम् ३९
मूर्च्छां छर्दिमतीसारमाध्मानं दाहवेपथू
इन्द्रि याणां च वैकृत्यं कुर्यादामाशयं गतम् ४०
तत्राशु मदनालाबुबिम्बीकोशातकीफलैः
छर्दनं दध्युदश्विद्भ्यामथवा तण्डुलाम्बुना ४१
दाहं मूर्च्छामतीसारं तृष्णामिन्द्रि यवैकृतम्
आटोपं पाण्डुतां कार्श्यं कुर्यात् पक्वाशयं गतम् ४२
विरेचनं ससर्पिष्कं तत्रोक्तं नीलिनीफलम्
दध्ना दूषीविषारिश्च पेयो वा मधुसंयुतः ४३
द्र वद्र व्येषु सर्वेषु क्षीरमद्योदकादिषु
भवन्ति विविधा राज्यः फेनबुद्बुदजन्म च ४४
छायाश्चात्र न दृश्यन्ते दृश्यन्ते यदि वा पुनः
भवन्ति यमलाश्छिद्रा स्तन्व्यो वा विकृतास्तथा ४५
शाकसूपान्नमांसानि क्लिन्नानि विरसानि च
सद्यः पर्युषितानीव विगन्धानि भवन्ति च ४६
गन्धवर्णरसैर्हीनाः सर्वे भक्ष्याः फलानि च
पक्वान्याशु विशीर्यन्ते पाकमामानि यान्ति च ४७
विशीर्यते कूर्चकस्तु दन्तकाष्ठगते विषे
जिह्वादन्तौष्ठमांसानां श्वयथुश्चोपजायते ४८
अथास्य धातकीपुष्पपथ्याजम्बूफलास्थिभिः
सक्षौद्रैः प्रच्छिते शोफे कर्तव्यं प्रतिसारणम् ४९
अथवाऽङ्कोठमूलानि त्वचः सप्तच्छदस्य वा
शिरीषमाषकावाऽपि सक्षौद्राः प्रतिसारणम् ५०
जिह्वानिर्लेखकवलौ दन्तकाष्ठवदादिशेत्
पिच्छिलो बहुलोऽभ्यङ्गो विवर्णो वा विषान्वितः ५१
स्फोटजन्मरुजास्रावत्वक्पाकः स्वेदनं ज्वरः
दरणं चापि मांसानामभ्यङ्गे विषसंयुते ५२
तत्र शीताम्बुसिक्तस्य कर्तव्यमनुलेपनम्
चन्दनं तगरं कुष्ठमुशीरं वेणुपत्रिका ५३
सोमवल्ल्यमृता श्वेता पद्मं कालीयकं त्वचम्
कपित्थरसमूत्राभ्यां पानमेतच्च युज्यते ५४
उत्सादने परीषेके कषाये चानुलेपने
शय्यावस्त्रतनुत्रेषु ज्ञेयमभ्यङ्गलक्षणैः ५५
केशशातः शिरोदुःखं खेभ्यश्च रुधिरागमः
ग्रन्थिजन्मोत्तमाङ्गेषु विषजुष्टेऽवलेखने ५६
प्रलेपो बहुशस्तत्र भाविताः कृष्णमृत्तिकाः
ऋष्यपित्तघृतश्यामापालिन्दीतण्डुलीयकैः ५७
गोमयस्वरसो वाऽपि हितो वा मालतीरसः
रसो मूषिकपर्ण्या वा धूमो वाऽगारसंभवः ५८
शिरोऽभ्यङ्गः शिरस्त्राणं स्नानमुष्णीषमेव च
स्रजश्च विषसंसृष्टाः साधयेदवलेखनात् ५९
मुखालेपे मुखं श्यावं युक्तमभ्यङ्गलक्षणैः
पद्मिनीकण्टकप्रख्यैः कण्टकैश्चोपचीयते ६०
तत्र क्षौद्र घृतं पानं प्रलेपश्चन्दनं घृतम्
पयस्या मधुकं फञ्जी बन्धुजीवः पुनर्नवा ६१
अस्वास्थ्यं कुञ्जरादीनां लालास्रावोऽक्षिरक्तता
स्फिक्पायुमेढ्रमुष्केषु यातुश्च स्फोटसंभवः ६२
तत्राभ्यङ्गवदेवेष्टा यातृवाहनयोः क्रिया
शोणितागमनं खेभ्यः शिरोरुक्कफसंस्रवः ६३
नस्यधूमगते लिङ्गमिन्द्रि याणां च वैकृतम्
तत्र दुग्धैर्गवादीनां सर्पिः सातिविषैः शृतम् ६४
पाने नस्ये च सश्वेतं हितं समदयन्तिकम्
गन्धहानिर्विवर्णत्वं पुष्पाणां म्लानता भवेत् ६५
जिघ्रतश्च शिरोदुःखं वारिपूर्णे च लोचने
तत्र बाष्पेरितं कर्म मुखालेपे च यत् स्मृतम् ६६
कर्णतैलगते श्रोत्रवैगुण्यं शोफवेदने
कर्णस्रावश्च तत्राशु कर्तव्यं प्रतिपूरणम् ६७
स्वरसो बहुपुत्रायाः सघृतः क्षौद्र संयुतः
सोमवल्करसश्चापि सुशीतो हित इष्यते ६८
अश्रूपदेहो दाहश्च वेदना दृष्टिविभ्रमः
अञ्जने विषसंसृष्टे भवेदान्ध्यमथापि च ६९
तत्र सद्यो घृतं पेयं तर्पणं च समागधम्
अञ्जनं मेषशृङ्गस्य निर्यासो वरुणस्य च ७०
मुष्ककस्याजकर्णस्य फेनो गोपित्तसंयुतः
कपित्थमेषशृङ्ग्योश्च पुष्पं भल्लातकस्य वा ७१
एकैकं कारयेत् पुष्पं बन्धूकाङ्कोटयोरपि
शोफः स्रावस्तथा स्वापः पादयोः स्फोटजन्म च ७२
भवन्ति विषजुष्टाभ्यां पादुकाभ्यामसंशयम्
उपानत्पादपीठानि पादुकावत् प्रसाधयेत् ७३
भूषणानि हतार्चींषि न विभान्ति यथा पुरा
स्वानि स्थानानि हन्युश्च दाहपाकावदारणैः ७४
पादुकाभूषणेषूक्तमभ्यङ्गविधिमाचरेत्
विषोपसर्गो बाष्पादिर्भूषणान्तो य ईरितः ७५
समीक्ष्योपद्र वांस्तस्य विदधीत चिकित्सितम्
महासुगन्धिमगदं यं प्रवक्ष्यामि तं भिषक् ७६
पानालेपननस्येषु विदधीताञ्जनेषु च
विरेचनानि तीक्ष्णानि कुर्यात् प्रच्छर्दनानि च ७७
सिराश्च व्यधयेत् क्षिप्रं प्राप्तं विस्रावणं यदि
मूषिकाऽजरुहा वाऽपि हस्ते बद्धा तु भूपतेः ७८
करोति निर्विषं सर्वमन्नं विषसमायुतम्
हृदयावरणं नित्यं कुर्याच्च मित्रमध्यगः ७९
पिबेद्घृतमजेयाख्यममृताख्यं च बुद्धिमान्
सर्पिर्दधि पयः क्षौद्रं पिबेद्वा शीतलं जलम् ८०
मयूरान्नकुलान् गोधाः पृषतान् हरिणानपि
सततं भक्षयेच्चापि रसांस्तेषां पिबेदपि ८१
गोधानकुलमांसेषु हरिणस्य च बुद्धिमान्
दद्यात् सुपिष्टां पालिन्दीं मधुकं शर्करां तथा ८२
शर्करातिविषे देये मायूरे समहौषधे
पार्षते चापि देयाः स्युः पिप्पल्यः समहौषधाः ८३
सक्षौद्रः सघृतश्चैव शिम्बीयूषो हितः सदा
विषघ्नानि च सेवेत भक्ष्यभोज्यानि बुद्धिमान् ८४
पिप्पलीमधुकक्षौद्र शर्करेक्षुरसाम्बुभिः
छर्दयेद्गुप्तहृदयो भक्षितं यदि वै विषम् ८५
इति सुश्रुतसंहितायां कल्पस्थानेऽन्नपानरक्षाकल्पो नाम प्रथमोऽध्यायः १
द्वितीयोऽध्यायः
अथातः स्थावरविषविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्थाबरं जङ्गमं चैव द्विविधं विषमुच्यते
दशाधिष्ठानमाद्यं तु द्वितीयं षोडशाश्रयम् ३
मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च
निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः ४
तत्र क्लीतकाश्वमारगुञ्जासुगन्धगर्गरककरघाटविद्युच्छिखाविजयानीत्यष्टौ मूलविषाणि विषपत्रिकालम्बावरदारुकरम्भमहाकरम्भाणि पञ्च पत्रविषाणि कुमुद्वतीवेणुकाकरम्भमहाकरम्भकर्कोटकरेणुकखद्योतकचर्मरीभगन्धासर्पघातिनन्दनसा-रपाकानीति द्वादश फलविषाणि वेत्रकादम्बवल्लीजकरम्भमहाकरम्भाणि पञ्च पुष्पविषाणि अन्त्रपाचककर्तरीयसौरीयककरघाटकरम्भनन्दननाराचकानि सप्त त्वक्सारनिर्यासविषाणि कुमुदघ्नीस्नुहीजालक्षीरीणि त्रीणि क्षीरविषाणि फेनाश्मभिस्महिरितालं च द्वे धातुविषे कालकूटवत्सनाभसर्षपपालककर्दमकवैराटकमुस्तकशृङ्गीविषप्रपुण्डरीकमूलकहालाह-लमहाविषकर्कटकानीति त्रयोदश कन्दविषाणि इत्येवं पञ्चपञ्चाशत् स्थावरविषाणि भवन्ति ५
चत्वारि वत्सनाभानि मुस्तके द्वे प्रकीर्तिते
षट् चैव सर्षपाण्याहुः शेषाण्येकैकमेव तु ६
उद्वेष्टनं मूलविषैः प्रलापो मोह एव च
जृम्भाङ्गोद्वेष्टनश्वासा ज्ञेयाः पत्रविषेण तु ७
मुष्कशोफः फलविषैर्दाहोऽन्नद्वेष एव च
भवेत् पुष्पविषैश्छर्दिराध्मानं मोह एव च ८
त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि
आस्यदौर्गन्ध्यपारुष्यशिरोरुक्कफसंस्रवाः ९
फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता
हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि १०
प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत्
कन्दजानि तु तीक्ष्णानि तेषां वक्ष्यामि विस्तरम् ११
स्पर्शाज्ञानं कालकूटे वेपथुः स्तम्भ एव च
ग्रीवास्तम्भो वत्सनाभे पीतविण्मूत्रनेत्रता १२
सर्षपे वातवैगुण्यमानाहो ग्रन्थिजन्म च
ग्रीवादौर्बल्यवाक्सङ्गौ पालकेऽनुमताविह १३
प्रसेकः कर्दमाख्येन विड्भेदो नेत्रपीतता
वैराटकेनाङ्गदुःखं शिरोरोगश्च जायते १४
गात्रस्तम्भो वेपथुश्च जायते मुस्तकेन तु
शृङ्गीविषेणाङ्गसाददाहोदरविवृद्धयः १५
पुण्डरीकेण रक्तत्वमक्ष्णोर्वृद्धिस्तथोदरे
वैवर्ण्यं मूलकैश्छर्दिर्हिक्काशोफप्रमूढताः १६
चिरेणोच्छ्वसिति श्यावो नरो हालाहलेन वै
महाविषेण हृदये ग्रन्थिशूलोद्गमौ भृशम् १७
कर्कटेनोत्पतत्यूर्ध्वं हसन् दन्तान् दशत्यपि
कन्दजान्युग्रवीर्याणि प्रत्युक्तानि त्रयोदश १८
सर्वाणि कुशलैर्ज्ञेयान्येतानि दशभिर्गुणैः
रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशुव्यवायि च १९
विकाशि विशदं चैव लघ्वपाकि च तत् स्मृतम्
तद्रौ क्ष्यात् कोपयेद्वायुमौष्ण्यात् पित्तं सशोणितम् २०
मतिं च मोहयेत्तैक्ष्ण्यान्मर्मबन्धान् छिनत्ति च
शरीरावयवान् सौक्ष्म्यात् प्रविशेद्विकरोति च २१
आशुत्वादाशु तद्धन्ति व्यवायात् प्रकृतिं भजेत्
क्षपयेच्च विकाशित्वाद्दोषान्धातून्मलानपि २२
वैशद्यादतिरिच्येत दुश्चिकित्स्यं च लाघवात्
दुर्हरं चाविपाकित्वात्तस्मात् क्लेशयते चिरम् २३
स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम्
सद्यो व्यापादयेत्तत्तु ज्ञेयं दशगुणान्वितम् २४
यत् स्थावरं जङ्गममकृत्रिंमं वा देहादशेषं यदनिर्गतं तत्
जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा २५
स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति
वीर्याल्पभावान्न निपातयेत्तत् कफावृतं वर्षगणानुबन्धि २६
तेनार्दितो भिन्नपुरीषवर्णो विगन्धवैरस्यमुखः पिपासी
मूर्च्छन् वमन् गद्गदवाग्विषण्णो भवेच्च दुष्योदरलिङ्गजुष्टः २७
आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी
भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः २८
स्थितं रसादिष्वथवा यथोक्तान् करोति धातुप्रभवान् विकारान्
कोपं च शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तत्र रूपम् २९
निद्रा गुरुत्वं च विजृम्भणं च विश्लेषहर्षावथवाऽङ्गमर्दः
ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठमोहान् ३०
धातुक्षयं पादकरास्यशोफं दकोदरं छर्दिमथातिसारम्
वैवर्ण्यमूर्च्छाविषमज्वरान् वा कुर्यात् प्रवृद्धां प्रबलां तृषां वा ३१
उन्मादमन्यज्जनयेत्तथाऽन्यदानाहमन्यत् क्षपयेच्च शुक्रम्
गाद्गद्यमन्यज्जनयेच्च कुष्ठं तांस्तान् विकारांश्च बहुप्रकारान् ३२
दूषितं देशकालान्नदिवास्वप्नैरभीक्ष्णशः
यस्माद्दूषयते धातून् तस्माद्दूषीविषं स्मृतम् ३३
स्थावरस्योपयुक्तस्य वेगे तु प्रथमे नृणाम्
श्यावा जिह्वा भवेत्स्तब्धा मूर्च्छा श्वासश्च जायते ३४
द्वितीये वेपथुः सादो दाहः कण्ठरुजस्तथा
विषमामाशयप्राप्तं कुरुते हृदि वेदनाम् ३५
तालुशोषं तृतीये तु शूलं चामाशये भृशम्
दुर्वर्णे हरिते शूने जायेते चास्य लोचने ३६
पक्वामाशययोस्तोदो हिक्का कासोऽन्त्रकूजनम्
चतुर्थे जायते वेगे शिरसश्चातिगौरवम् ३७
कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे
सर्वदोषप्रकोपश्च पक्वाधाने च वेदना ३८
षष्ठे प्रज्ञाप्रणाशश्च भृशं चाप्यतिसार्यते
स्कन्धपृष्ठकटीभङ्गः सन्निरोधश्च सप्तमे ३९
प्रथमे विषवेगे तु वान्तं शीताम्बुसेचितम्
अगदं मधुसर्पिर्भ्यां पाययेत समायुतम् ४०
द्वितीये पूर्ववद्वान्तं पाययेत्तु विरेचनम्
तृतीयेऽगदपानं तु हितं नस्यं तथाऽञ्जनम् ४१
चतुर्थे स्नेहसंमिश्रं पाययेतागदं भिषक्
पञ्चमे क्षौद्र मधुकक्वाथयुक्तं प्रदापयेत् ४२
षष्ठेऽतीसारवत् सिद्धिरवपीडश्च सप्तमे
मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत् ४३
वेगान्तरे त्वन्यतमे कृते कर्मणि शीतलाम्
यवागूं सघृतक्षौद्रा मिमां दद्याद्विषापहाम् ४४
कोषातक्योऽग्निकः पाठासूर्यवल्ल्यमृताभयाः
शिरीषः किणिही शेलुर्गिर्याह्वा रजनीद्वयम् ४५
पुनर्नवे हरेणुश्च त्रिकटुः सारिवे बला
एषां यवागूर्निष्क्वाथे कृता हन्ति विषद्वयम् ४६
मधुकं तगरं कुष्ठं भद्र दारु हरेणवः
पुन्नागैलैलवालूनि नागपुष्पोत्पलं सिता ४७
विडङ्गं चन्दनं पत्रं प्रियङ्गुर्ध्यामकं तथा
हरिद्रे द्वे बृहत्यौ च सारिवे च स्थिरा सहा ४८
कल्कैरेषां घृतं सिद्धमजेयमिति विश्रुतम्
विषाणि हन्ति सर्वाणि शीघ्रमेवाजितं क्वचित् ४९
दूषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम्
पाययेतागदं नित्यमिमं दूषीविषापहम् ५०
पिप्पल्यो ध्यामकं मांसी शावरः परिपेलवम्
सुवर्चिका ससूक्ष्मैला तोयं कनकगैरिकम् ५१
क्षौद्र युक्तोऽगदो ह्येष दूषीविषमपोहति
नाम्ना दूषीविषारिस्तु न चान्यत्रापि वार्यते ५२
ज्वरे दाहे च हिक्कायामानाहे शुक्रसंक्षये
शोफेऽतिसारे मूर्च्छायां हृद्रो गे जठरेऽपि च ५३
उन्मादे वेपथौ चैव ये चान्ये स्युरुपद्र वाः
यथास्वं तेषु कुर्वीत विषघ्नैरौषधैः क्रियाम् ५४
साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम्
दूषीविषमसाध्यं तु क्षीणस्याहितसेविनः ५५
इति सुश्रुतसंहितायां कल्पस्थाने स्थावरविषविज्ञानीयो
नाम द्वितीयोऽध्यायः २
तृतीयोऽध्यायः
अथातो जङ्गमविषविज्ञानीयं कल्पं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
जङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोडश
समासेन मया यानि विस्तरस्तेषु वक्ष्यते ३
तत्र दृष्टिनिःश्वासदंष्ट्रानखमूत्रपुरीषशुक्रलालार्तवमुखसन्दंशविशर्धिततुण्डास्थिपित्तशूकश-वानीति ४
तत्र दृष्टिनिःश्वासविषा दिव्याः सर्पाः भौमास्तु दंष्ट्राविषाः मार्जारश्ववानरमकरमण्डूकपाकमत्स्यगोधाशम्बूकप्रचलाकगृहगोधिकाचतुष्पादकीटा-स्तथाऽन्ये दंष्ट्रानखविषाः चिपिटपिच्चिटककषायवासिकसर्षपकतोटकवर्चःकीटकौण्डिन्यकाः शकृन्मूत्रविषाः मूषिकाः शुक्रविषाः लूता लालामूत्रपुरीषमुखसन्दंशनखशुक्रार्तवविषाः वृश्चिकविश्वम्भरवरटीराजीवमत्स्योच्चिटिङ्गाः समुद्रवृश्चिकाश्चालविषाः चित्रशिरःसरावकुर्दिशतदारुकारिमेदकसारिकामुखा मुखसन्दंशविशार्धितमूत्रपुरीषविषाः मक्षिकाकणभजलायुका मुखसन्दंशविषाः विषहतास्थि सर्पकण्टकवरटीमत्स्यास्थि चेत्यस्थिविषाणि शकुलीमत्स्यरक्तराजिवरकीमत्स्याश्च पित्तविषाः सूक्ष्मतुण्डोच्चिटिङ्गवरटीशतपदीशूकवलभिकाशृङ्गिभ्रमराः शूकतुण्डविषाः कीटसर्पदेहा गतासवः शवविषाः शेषास्त्वनुक्ता मुखसन्दंशविषेष्वेव गणयितव्याः ५
भवन्ति चात्र
राज्ञोऽरिदेशे रिपवस्तृणाम्बुमार्गान्नधूमश्वसनान् विषेण
संदूषयन्त्येभिरतिप्रदुष्टान् विज्ञाय लिङ्गैरभिशोधयेत्तान् ६
दुष्टं जलं पिच्छिलमुग्रगन्धि फेनान्वितं राजिभिरावृतं च
मण्डूकमत्स्यं म्रियते विहङ्गा मत्ताश्च सानूपचरा भ्रमन्ति ७
मज्जन्ति ये चात्र नराश्वनागास्ते छर्दिमोहज्वरदाहशोफान्
ऋगिच्छिन्ति तेषामपहृत्य दोषान् दुष्टं जलं शोधयितुं यतेत ८
धवाश्वकर्णासनपारिभद्रा न् सपाटलान् सिद्धकमोक्षकौ च
दग्ध्वा सराजद्रुमसोमवल्कांस्तद्भस्म शीतं वितरेत् सरःसु ९
भस्माञ्जलि चापि घटे निधाय विशोधयेदीप्सितमेवमम्भः
क्षितिप्रदेशं विषदूषितं तु शिलातलं तीर्थमथेरिणं वा १०
स्पृशन्ति गात्रेण तु येन येन गोवाजिनागोष्ट्रखरा नरा वा
तच्छूनतां यात्यथ दह्यते च विशीर्यते रोमनखं तथैव ११
तत्राप्यनन्तां सह सर्वगन्धैः पिष्ट्वा सुराभिर्विनियोज्य मार्गम्
सिञ्चेत् पयोभिः सुमृदन्वितैस्तं विडङ्गपाठाकटभीजलैर्वा १२
तृणेषु भक्तेषु च दूषितेषु सीदन्ति मूर्च्छन्ति वमन्ति चान्ये
विड्भेदमृच्छन्त्यथवा म्रियन्ते तेषां चिकित्सां प्रणयेद्यथोक्ताम् १३
विषापहैर्वाऽप्यगदैर्विलिप्य वाद्यानि चित्राण्यपि वादयेत
तारः सुतारः ससुरेन्द्र गोपः सर्वैश्च तुल्यः कुरुविन्दभागः १४
पित्तेन युक्तः कपिलान्वयेन वाद्यप्रलेपो विहितः प्रशस्तः
वाद्यस्य शब्देन हि यान्ति नाशं विषाणि घोराण्यपि यानि सन्ति १५
धूमेऽनिले वा विषसंप्रयुक्ते खगाः श्रमार्ताः प्रपतन्ति भूमौ
कासप्रतिश्यायशिरोरुजश्च भवन्ति तीव्रा नयनामयाश्च १६
लाक्षाहरिद्रा तिविषाभयाब्दहरेणकैलादलवक्रकुष्ठम्
प्रियङ्गुकां चाप्यनले निधाय धूमानिलौ चापि विशोधयेत १७
प्रजामिमामात्मयोनेर्ब्रह्मणः सृजतः किल
अकरोदसुरो विघ्नं कैटभो नाम दर्पितः १८
तस्य क्रुद्धस्य वै वक्त्राद्ब्रह्मणस्तेजसो निधेः
क्रोधो विग्रहवान् भूत्वा निपपातातिदारुणः १९
स तं ददाह गर्जन्तमन्तकाभं महाबलम्
ततोऽसुरं घातयित्वा तत्तेजोऽवर्धताद्भुतम् २०
ततो विषादो देवानामभवत्तं निरीक्ष्य वै
विषादजननत्वाच्च विषमित्यभिधीयते २१
ततः सृष्ट्वा प्रजाः शेषं तदा तं क्रोधमीश्वरः
विन्यस्तवान् स भूतेषु स्थावरेषु चरेषु च २२
यथाऽव्यक्तरसं तोयमन्तरीक्षान्महीगतम्
तेषु तेषु प्रदेशेषु रसं तं तं नियच्छति २३
एवमेव विषं यद्यद्द्र व्यं व्याप्यावतिष्ठते
स्वभावादेव तं तस्य रसं समनुवर्तते २४
विषे यस्माद्गुणाः सर्वे तीक्ष्णाः प्रायेण सन्ति हि
विषं सर्वमतो ज्ञेयं सर्वदोषप्रकोपणम् २५
ते तु वृत्तिं प्रकुपिता जहति स्वां विषार्दिताः
नोपयाति विषं पाकमतः प्राणान् रुणद्धि च २६
श्लेष्मणाऽवृतमार्गत्वादुच्छ्वासोऽस्य निरुध्यते
विसंज्ञः सति जीवेऽपि तस्मात्तिष्ठति मानवः २७
शुक्रवत् सर्वसर्पाणां विषं सर्वशरीरगम्
क्रुद्धानामेति चाङ्गेभ्यः शुक्रं निर्मन्थनादिव २८
तेषां बडिशवद्दंष्ट्रास्तासु सज्जति चागतम्
अनुद्धत्ता विषं तस्मान्न मुञ्चन्ति च भोगिनः २९
यस्मादत्यर्थमुष्णं च तीक्ष्णं च पठितं विषम्
अतः सर्वविषेषूक्तः परिषेकस्तु शीतलः ३०
मन्दं कीटेषु नात्युष्णं बहुवातकफं विषम्
अतः कीटविषे चापि स्वेदो न प्रतिषिध्यते ३१
कीटैर्दष्टानुग्रविषैः सर्पवत् समुपाचरेत्
स्वभावादेव तिष्ठेत्तु प्रहारादंशयोर्विषम् ३२
व्याप्य सावयवं देहं दिग्धविद्धाहिदष्टयोः
लौल्याद्विषान्वितं मांसं यः खादेन्मृतमात्रयोः ३३
यथाविषं स रोगेण क्लिश्यते म्रियतेऽपि वा
अतश्चाप्यनयोर्मांसमभक्ष्य मृतमात्रयोः ३४
मुहूर्तात्तदुपादेयं प्रहारादंशबर्जितम्
सवातं गृहधूमाभं पुरीषं योऽतिसार्यते ३५
आध्मातोऽत्यर्थमुष्णास्रो विवर्णः सादपीडितः
उद्वमत्यथ फेनं च विषपीतं तमादिशेत् ३६
न चास्य हृदयं वह्निर्विषजुष्टं दहत्यपि
तद्धि स्थानं चेतनायाः स्वभावाह्याप्य तिष्ठति ३७
अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु
याम्ये सपित्र्ये परिवर्जनीया ऋक्षे नरा मर्मसु ये च दष्टाः ३८
दर्वीकराणां विषमाशुघाति सर्वाणि चोष्णे द्विगुणीभवन्ति
अजीर्णपित्तातपपीडितेषु बालप्रमेहिष्वथ गर्भिणीषु ३९
वृद्धातुरक्षीणबुभुक्षितेषु रूक्षेषु भीरुष्वथ दुर्दिनेषु
शस्त्रक्षते यस्य न रक्तमेति राज्यो लताभिश्च न संभवन्ति ४०
शीताभिरद्भिश्च न रोमहर्षो विषाभिभूतं परिवर्जयेत्तम्
जिह्वा सिता यस्य च केशशातो नासावभङ्गश्च सकण्ठभङ्गः ४१
कृष्णः सरक्तः श्वयथुश्च दंशे हन्वोः स्थिरत्वं च स वर्जनीयः
वर्तिर्घना यस्य निरेति वक्त्राद्र क्तं स्रवेदूर्ध्वमधश्च यस्य ४२
दंष्ट्रानिपाताः सकलाश्च यस्य तं चापि वैद्यः परिवर्जयेत्तु
उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वाऽप्यथवा विवर्णम् ४३
सारिष्टमत्यर्थमवेगिनं च जह्यान्नरं तत्र न कर्म कुर्यात् ४४
इति सुश्रुतसंहितायां कल्पस्थाने जङ्गमविषविज्ञानीयो
नाम तृतीयोऽध्यायः ३
चतुर्थोऽध्यायः
अथातः सर्पदष्टविषविज्ञानीयं कल्पं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
धन्वन्तरिं महाप्राज्ञं सर्वशास्त्रविशारदम्
पादयोरुपसंगृह्य सुश्रुतः परिपृच्छति ३
सर्पसंख्यां विभागं च दष्टलक्षणमेव च
ज्ञानं च विषवेगानां भगवन् वक्तुमर्हसि ४
तस्य तद्वचनं श्रुत्वा प्राब्रवीद्भिषजां वरः
असंख्या वासुकिश्रेष्ठा विख्यातास्तक्षकादयः ५
महीधराश्च नागेन्द्रा हुताग्निसमतेजसः
ये चाप्यजस्रं गर्जन्ति वर्षन्ति च तपन्ति च ६
ससागरगिरिद्वीपा यैरियं धार्यते मही
क्रुद्धा निःश्वासदृष्टिभ्यां ये हन्युरखिलं जगत् ७
नमस्तेभ्योऽस्ति नो तेषां कार्यं किञ्चिच्चिकित्सया
ये तु दंष्ट्राविषा भौमा ये दशन्ति च मानुषान् ८
तेषां सङ्ख्यां प्रवक्ष्यामि यथावदनुपूर्वशः
अशीतिस्त्वेव सर्पाणां भिद्यते पञ्चधा तु सा ९
दर्वीकरा मण्डलिनो राजिमन्तस्तथैव च
निर्विषा वैकरञ्जाश्च त्रिविधास्ते पुनः स्मृताः १०
दर्वीकरा मण्डलिनो राजिमन्तश्च पन्नगाः
तेषु दर्वीकरा ज्ञेया विंशतिः षट् च पन्नगाः ११
द्वाविंशतिर्मण्डलिनो राजिमन्तस्तथा दश
निर्विषा द्वादश ज्ञेया वैकरञ्जास्त्रयस्तथा १२
वैकरञ्जोद्भवाः सप्त चित्रा मण्डलिराजिलाः
पादाभिमृष्टा दुष्टा वा क्रुद्धा ग्रासार्थिनोऽपि वा १३
ते दशन्ति महाक्रोधास्त्रिविधं भीमदर्शनाः
सर्पितं रदितं चापि तृतीयमथ निर्विषम्
सर्पाङ्गाभिहतं केचिदिच्छन्ति खलु तद्विदः १४
पदानि यत्र दन्तानामेकं द्वे वा बहूनि वा
निमग्नान्यल्परक्तानि यान्युद्वृत्य करोति हि १५
चञ्चुमालकयुक्तानि वैकृत्यकरणानि च
सङ्क्षिप्तानि सशोफानि विद्यात्तत् सर्पितं भिषक् १६
राज्यः सलोहिता यत्र नीलाः पीताः सितास्तथा
विज्ञेयं रदितं तत्तु ज्ञेयमल्पविषं च तत् १७
अशोफमल्पदुष्टासृक् प्रकृतिस्थस्य देहिनः
पदं पदानि वा विद्यादविषं तच्चिकित्सकः १८
सर्पस्पृष्टस्य भीरोर्हि भयेन कुपितोऽनिलः
कस्यचित् कुरुते शोफं सर्पाङ्गाभिहतं तु तत् १९
व्याधितोद्विग्नदष्टानि ज्ञेयान्यल्पविषाणि तु
तथाऽतिवृद्धबालाभिदष्टमल्पविषं स्मृतम् २०
सुपर्णदेवब्रह्मर्षियक्षसिद्धनिषेविते
विषघ्नौषधियुक्ते च देशे न क्रमते विषम् २१
रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः
ज्ञेया दर्वीकराः सर्पाः फणिनः शीघ्रगामिनः २२
मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः
ज्ञेया मण्डलिनः सर्पा ज्वलनर्कसमप्रभाः २३
स्निग्धा विविधवर्णाभिस्तिर्यगूर्ध्वं च राजिभिः
चित्रिता इव ये भान्ति राजिमन्तस्तु ते स्मृताः २४
मुक्तारूप्यप्रभा ये च कपिला ये च पन्नगाः
सुगन्धयः सुवर्णांभास्ते जात्या ब्राह्मणाः स्मृताः २५
क्षत्रियाः स्निग्धवर्णास्तु पन्नगा भृशकोपनाः
सूर्यचन्द्रा कृतिच्छत्रलक्ष्म तेषां तथाऽम्बुजम् २६
कृष्णा वज्रनिभा ये च लोहिता वर्णतस्तथा
धूम्राः पारावताभाश्च वैश्यास्ते पन्नगाः स्मृताः २७
महिषद्वीपिवर्णाभास्तथैव परुषत्वचः
भिन्नवर्णाश्च ये केचिच्छूद्रा स्ते परिकीर्तिताः २८
कोपयन्त्यनिलं जन्तोः फणिनः सर्व एव तु
पित्तं मण्डलिनश्चापि कफं चानेकराजयः २९
अपत्यमसवर्णाभ्यां द्विदोषकरलक्षणम्
ज्ञेयौ दोषैश्च दम्पत्योर्विशेषश्चात्र वक्ष्यते ३०
रजन्याः पश्चिमे यामे सर्पाश्चित्राश्चरन्ति हि
शेषेषूक्ता मण्डलिनो दिवा दर्वीकराः स्मृताः ३१
दर्वीकरास्तु तरुणा वृद्धा मण्डलिनस्तथा
राजिमन्तो वयोमध्या जायन्ते मृत्युहेतवः ३२
नकुलाकुलिता बाला वारिविप्रहताः कृशाः
वृद्धा मुक्तत्वचो भीताः सर्पास्त्वल्पविषाः स्मृताः ३३
तत्र दर्वीकराः–कृष्णसर्पो महाकृष्णः कृष्णोदरः श्वेतकपोतो महाकपोतो बलाहको महासर्पः शङ्खकपालो लोहिताक्षो गवेधुकः परिसर्पः खण्डफणः ककुदः पद्मो महापद्मो दर्भपुष्पो दधिमुखः पुण्डरीको भ्रूकुटीमुखो विष्किरः पुष्पाभिकीर्णो गिरिसर्पः ऋजुसर्पः श्वेतोदरो महाशिरा अलगर्द आशीविष इति १ मिण्डलिनस्तु आदर्शमण्डलः श्वेतमण्डलो रक्तमण्डलः चित्रमण्डलः पृषतो रोध्रपुष्पो मिलिन्दको गोनसो वृद्धगोनसः पनसो महापनसो वेणुपत्रकः शिशुको मदनः पालिन्दिरः पिङ्गलः तन्तुकः पुष्पपाण्डुः षडङ्गो अग्निको बभ्रुः कषायः कलुषः पारावतो हस्ताभरणः चित्रकः एणीपद इति २ राजिमन्तस्तुपुण्डरीको राजिचित्रो अङ्गुलराजिः बिन्दुराजिः कर्दमकः तृणशोषकः सर्षपकः श्वेतहनुः दर्भपुष्पश्चक्रको गोधूमकः किक्किसाद इति ३ निर्विषास्तु–गलगोली शूकपत्रो अजगरो दिव्यको वर्षाहिकः पुष्पशकली ज्योतीरथः क्षीरिकापुष्पको अहिपताको अन्धाहिको गौराहिको वृक्षेशय इति ४ वैकरञ्जास्तु त्रयाणां दर्वीकरादीनां व्यतिकराज्जाताः तद्यथामाकुलि पोटगलः स्निग्धराजिरिति तत्र कृष्णसर्पेण गोनस्यां वैपरीत्येन वा जातो माकुलि राजिलेन गोनस्यां वैपरीत्येन वाजातः पोटगलः कृषणसर्पेण राजिमत्यां वैपरीत्येन वा जातः स्निग्धराजिरिति तेषामाद्यस्य पितृवद्विषोत्कर्षो द्वयोर्मातृवदित्येके ५ त्रयाणां वैकरञ्जानां पुनर्दिव्येलकरोध्रपुष्पकराजिचित्र कपोटगल पुष्पाभिकीर्णदर्भपुष्पवेल्लितकाः सप्ता तेषामाद्यास्त्रयो राजिलवत् शेषा मण्डलिवत् एवमेतेषां सर्पाणामशीतिर्व्याख्याता ३४
तत्र महानेत्रजिह्वास्यशिरसः पुमांसः सुक्ष्मनेत्रजिह्वास्यशिरसः स्त्रियः उभयलक्षणा मन्दविषाअक्रोधा नपुंसका इति ३५
तत्र सर्वेषां सर्पाणां सामान्यत एव दष्टलक्षणं वक्ष्यामः किं कारणं विषं हि निशितनिस्त्रिंशाशनिहुतवहदेश्यमाशुकारि मुहर्तमप्युपेक्षितमातुमतिपातयति न चावकाशोऽस्ति वाक्समूहमुपसर्तुं प्रत्येकमपि दष्टलक्षणेभिहिते सर्वत्रत्रैविध्यं भवति तस्मात् त्रैविध्यमेव वक्ष्यामः एतद्ध्यातुरहितमसंमोहकरं च अपि चात्रैव सर्वसर्पव्यञ्जनावरोधः ३६
तत्र दर्वीकरविषेणत्वङ्नयननखदशनवदनमूत्रपुरीषदंशकृष्णत्वं रौक्ष्यं शिरसो गौरवं सन्धिवेदना कटीपृष्ठग्रीवादौर्बल्यं जृम्भणं वेपथुः स्वरावसादो घुर्घुरको जडता शुष्कोद्गारः कासश्वासौहिक्का वायोरूर्ध्वगमनं शूलोद्वेष्टनं तृष्णा लालास्रावः फेनागमनं स्रोतोऽवरोधस्तास्ताश्च वातवेदना भवन्ति मण्डलिविषेण त्वगादीनां पीतत्वंशीताभिलाषः परिधूपनं दाहस्तृष्णा मदो मूर्च्छाज्वरः शोणितागमनमूर्ध्वमधश्च मांसानामवशातनं श्वयथुर्दंशकोथः पीतरूपदर्शनमाशुकोपस्तास्ताश्च पित्तवेदना भवन्ति राजिमद्विषेण शुक्लत्वंत्वगादीनां शीतज्वरो रोमहर्षः स्तब्धत्वं गात्राणामादंशशोफः सान्द्र कफप्रसेकश्छर्दिरभीक्ष्णमक्ष्णोः कण्डूः कण्ठे श्वयथुर्घुर्घुरक उच्छ्वासनिरोधस्तमः प्रवेशस्तास्ताश्च कफवेदना भवन्ति ३७
पुरुषाभिदष्ट ऊर्ध्वं प्रेक्षते अधस्तात् स्त्रिया सिराश्चोत्तिष्ठन्ति ललाटे नपुंसकाभिदष्टस्तिर्यक्पेक्षी भवति गर्भिण्या पाण्डुमुखोध्मातश्च सूतिकया कुक्षिशूलार्तः सरुधिरं मेहत्युपजिह्विका चास्य भवति ग्रासार्थिनाऽन्न काङ्क्षति वृद्धने चिरान्मन्दाश्च वेगाः बालेनाशु मृदवश्च निर्विषेणाविषलिङ्गं अन्धाहिकेनान्धत्वमित्येके ग्रसनात् अजगरः शरीरप्राणहरो न विषात् तत्र सद्यः प्राणहराहिदष्टः पतति शास्त्राशनिहत इव भूमौस्रस्ताङ्गः स्वपिति ३८
तत्र सर्वेषां सर्पाणां विषस्य सप्त वेगा भवन्ति तत्र दर्वीकराणां प्रथमे वेगे विषं शोणितं दूषयति तत् प्रदुष्टं कृष्णतामुपैति तेन कार्ष्ण्यं पिपीलिकापरिसर्पणमिव चाङ्गे भवति द्वितीये मांसं दूषयति तेनात्यर्थं कृष्णता शोफो ग्रन्थयश्चाङ्गे भवन्ति तृतीये मेदो दूषयति तेन दंशक्लेदः शिरोगौरवं स्वेदश्चक्षुर्ग्रहणं च चतुर्थे कोष्ठमनुप्रविश्यकफप्रधानान् दोषान् दूषयति तेन तन्द्रा प्रसेकसन्धिविश्लेषा भवन्ति पञ्चमेऽस्थीन्यनुप्रविशति प्राणमग्निं च दूषयति तेन पर्वभेदो हिक्का दाहश्चभवति षष्ठे मज्जानमनुप्रविशति ग्रहणीं चात्यर्थंदूषयति तेन गात्राणां गौरवमतीसारो हृत्पीडा मूर्च्छा च भवति सप्तमे शुक्रमनुप्रविशति व्यानंचात्यर्थं कोपयति कफं च सूक्ष्मस्रोतोभ्यः प्रच्यावयति तेन श्लेष्मवर्तिप्रादुर्भावः कटीपृष्ठभङ्गः सर्वचेष्टआविघातो लालास्वेदयोरतिप्रवृत्तिरुच्छ्वासविरोधश्च भवति मण्डलिनां प्रथमे वेगे विषंशोणितं दूषयति तत् प्रदुष्टं पीततामुपैति तत्रपरिदाहः पीतावभासता चाङ्गानां भवति द्वितीयेमांसं दूषयति तेनात्यर्थं पीतता परिदाहो दंशेश्वयथुश्च भवति तृतीये मेदो दूषयति तेन पूर्ववच्चक्षुर्ग्रहणं तृष्णा दंशक्लेदः स्वेदश्च चतुर्थे कोष्ठमनुप्रविश्य ज्वरमापादयति पञ्चमे परिदाहं सर्वगात्रेषु करोति षष्ठसप्तमयोः पूर्ववत् राजिमतां प्रथमे वेगे विषं शोणितं दूषयति तत् प्रदुष्टं पाणडुतामुपैति तेन रोमहर्षः शुक्लावभासश्च पुरुषोभवति द्वितीये मांसं दूषयति तेन पाण्डुताऽत्यर्थं जाड्यं शिरःशोफश्च भवति तृतीये मेदो दूषयतितेन चक्षुर्ग्रहणं दंशक्लेदः स्वेदो घ्राणाक्षिस्रावश्च भवति चतुर्थे कोष्ठमनुप्रविशय मन्यास्तम्भं शिरोगौरवं चापादयति पञ्चमे वाक्सङ्गं शीतज्वरं च करोति षष्ठसप्तमयोः पूर्ववदिति ३९
भवन्ति चात्र
धात्वन्तरेषु याः सप्त कलाः संपरिकीर्तिताः
तास्वेकैकामतिक्रम्य वेगं प्रकुरुते विषम् ४०
येनान्तरेण तु कलां कालकल्पं भिनत्ति हि
समीरणेनोह्यमानं तत्तु वेगान्तरं स्मृतम् ४१
शूनाङ्गः प्रथमे वेगे पशुर्ध्यायति दुःखितः
लालास्रावो द्वितीये तु कृष्णाङ्गः पीड्यते हृदि ४२
तृतीये च शिरोदुःखं कण्ठग्रीवं च भज्यते
चतुर्थे वेपते मूढः खादन् दन्तान् जहात्यसून् ४३
केचिद्वेगत्रयं प्राहुरन्तं चैतेषु तद्विदः
ध्यायति प्रथमे वेगे पक्षी मुह्यत्यतः परम् ४४
द्वितीये विह्वलः प्रोक्तस्तृतीये मृत्युमृच्छति
केचिदेकं विहङ्गेषु विषवेगमुशन्ति हि
मार्जारनकुलादीनां विषं नातिप्रवर्तते ४५
इति सुश्रुतसंहितायां कल्पस्थाने सर्पदष्टविषविज्ञानीयं नाम चतुर्थोऽध्यायः ४
पञ्चमोऽध्यायः
अथातः सर्पदष्टविषचिकित्सितं कल्पं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सर्वै रेवादितः सर्पैः शाखादष्टस्य देहिनः
दंशस्योपरि बध्नीयादरिष्टाश्चतुरङ्गुले ३
प्लोतचर्मान्तवल्कानां मृदुनाऽन्यतमेन वै
न गच्छति विषं देहमरिष्टाभिर्निवारितम् ४
दहेद्दंशमथोत्कृत्य यत्र बन्धो न जायते
आचूषणच्छेददाहाः सर्वत्रैव तु पूजिताः ५
प्रतिपूर्य मुखं वस्त्रैर्हितमाचूषणं भवेत्
स दष्टव्योऽथवा सर्पो लोष्टो वाऽपि हि तत्क्षणम् ६
अथ मण्डलिना दष्टं न कथंचन दाहयेत्
स पित्तबाहुल्यविषाद्दंशो दाहाद्विसर्पते ७
अरिष्टामपि मन्त्रैश्च बध्नीयान्मन्त्रकोविदः
सा तु रज्ज्वादिभिर्बद्धा विषप्रतिकरी मता ८
देवब्रह्मर्षिभिः प्रोक्ता मन्त्राः सत्यतपोमयाः
भवन्ति नान्यथा क्षिप्रं विषं हन्युः सुदुस्तरम् ९
विषं तेजोमयैर्मन्त्रैः सत्यब्रह्मतपोमयैः
यथा निवार्यते क्षिप्रं प्रयुक्तैर्न तथौषधैः १०
मन्त्राणां ग्रहणं कार्यं स्त्रीमांसमधुवर्जिना
मिताहारेण शुचिना कुशास्तरणशायिना ११
गन्धमाल्योपहारैश्च बलिभिश्चापि देवताः
पूजयेन्मन्त्रसिर्द्ध्य्थं जपहोमैश्च यत्नतः १२
मन्त्रास्त्वविधिना प्रोक्ता हीना वा स्वरवर्णतः
यस्मान्न सिद्धिमायान्ति तस्माद्योज्योऽगदक्रमः १३
समन्ततः सिरा दंशाद्विध्येत्तु कुशलो भिषक्
शाखाग्रे वा ललाटे वा व्यध्यास्ता विसृते विषे १४
रक्ते निर्ह्रियमाणे तु कृत्स्नं निर्ह्रियते विषम्
तस्माद्विस्रावयेद्र क्तं सा ह्यस्य परमा क्रिया १५
समन्तादगदैर्दंशं प्रच्छयित्वा प्रलेपयेत्
चन्दनोशीरयुक्तेन वारिणा परिषेचयेत् १६
पाययेतागदांस्तांस्तान् क्षीरक्षौद्र घृतादिभिः
तदलाभे हिता वा स्यात् कृष्णा वल्मीकमृत्तिका १७
कोविदारशिरीषार्ककटभीर्वाऽपि भक्षयेत्
न पिबेत्तैलकौलत्थमद्यसौवीरकाणि च १८
द्र वमन्यत्तु यत्किञ्चित् पीत्वा पीत्वा तदुद्वमेत्
प्रायो हि वमनेनैव सुखं निर्ह्रियते विषम् १९
फणिनां विषवेगे तु प्रथमे शोणितं हरेत
द्वितीये मधुसर्पिर्भ्यां पाययेतागदं भिषक् २०
नस्यकर्माञ्जने युञ्ज्यात्तृतीये विषनाशने
वान्तं चतुर्थे पूर्वोक्तां यवागूमथ दापयेत् २१
शीतोपचारं कृत्वाऽदौ भिषक् पञ्चमषष्ठयोः
पाययेच्छोधनं तीक्ष्णं यवागूं चापि कीर्तिताम् २२
सप्तमे त्ववपीडेन शिरस्तीक्ष्णेन शोधयेत्
तीक्ष्णमेवाञ्जनं दद्यात् तीक्ष्णशस्त्रेण मूर्ध्नि च २३
कृत्वा काकपदं चर्म सासृग्वा पिशितं क्षिपेत्
पूर्वे मण्डलिनां वेगे दर्वीकरवदाचरेत् २४
अगदं मधुसर्पिर्भ्यां द्वितीये पाययेत च
वामयित्वा यवागूं च पूर्वोक्तामथ दापयेत् २५
तृतीये शोधितं तीक्ष्णैर्यवागूं पाययेद्धिताम्
चतुर्थे पञ्चमे चापि दर्वीकरवदाचरेत् २६
काकोल्यादिर्हितः षष्ठे पेयश्च मधुरोऽगदः
हितोऽवपीडे त्वगदः सप्तमे विषनाशनः २७
पूर्वे राजिमतां वेगेऽलाबुभिः शोणितं हरेत्
अगदं मधुसर्पिर्भ्यां संयुक्तं पाययेत च २८
वान्तं द्वितीये त्वगदं पाययेद्विषनाशनम्
तृतीयादिषु त्रिष्वेवं विधिर्दार्वीकरो हितः २९
षष्ठेऽञ्जनं तीक्ष्णतममवपीडश्च सप्तमे
गर्भिणीबालवृद्धानां सिराव्यधनवर्जितम् ३०
विषार्तानां यथोद्दिष्टं विधानं शस्यते मृदु
रक्तावसेकाञ्जनानि नरतुल्यान्यजाविके ३१
त्रिगुणं महिषे सोष्ट्रे गवाश्वे द्विगुणं तु तत्
चतुर्गुणं तु नागानां केवलं सर्वपक्षिणाम् ३२
परिषेकान् प्रदेहांश्च सुशीतानवचारयेत्
माषकं त्वञ्जनस्येष्टं द्विगुणं नस्यतो हितम्
पाने चतुर्गुणं पथ्यं वमनेऽष्टगुणं पुनः ३३
देशप्रकृतिसात्म्यर्तुविषवेगबलाबलम्
प्रधार्य निपुणं बुद्ध्या ततः कर्म समाचरेत् ३४
वेगानुपूर्व्या कर्मोक्तमिदं विषविनाशनम्
कर्मावस्थाविशेषेण विषयोरुभयोः शृणु ३५
विवर्णे कठिने शूने सरुजेऽङ्गे विषान्विते
तूर्णं विस्रवणं कार्यमुक्तेन विधिना ततः ३६
क्षुधार्तमनिलप्रायं तद्विषार्तं समाहितः
पाययेत रसं सर्पिः शुक्तं क्षौद्रं तथा दधि ३७
तृड्दाहघर्मसंमोहे पैत्तं पैत्तविषातुरम्
शीतैः संवाहनस्नानप्रदेहैः समुपाचरेत् ३८
शीते शीतप्रसेकार्तं श्लैष्मिकं कफकृद्विषम्
वामयेद्वमनैस्तीक्ष्णैस्तथा मूर्च्छामदान्वितम् ३९
कोष्ठदाहरुजाध्मानमूत्रसङ्गरुगन्वितम्
विरेचयेच्छकृद्वायुसङ्गपित्तातुरं नरम् ४०
शूनाक्षिकूटं निद्रा र्तं विवर्णाविललोचनम्
विवर्णं चापि पश्यन्तमञ्जनैः समुपाचरेत् ४१
शिरोरुग्गौरवालस्यहनुस्तम्भगलग्रहे
शिरो विरेचयेत् क्षिप्रं मन्यास्तम्भे च दारुणे ४२
नष्टसंज्ञं विवृत्ताक्षं भग्नग्रीवं विरेचनैः
चूर्णैः प्रधमनैस्तीक्ष्णैर्विषार्तं समुपाचरेत् ४३
ताडयेच्च सिराः क्षिप्रं तस्य शाखाललाटजाः
तास्वप्रसिच्यमानासु मूर्ध्नि शस्त्रेण शस्त्रवित् ४४
कुर्यात् काकपदाकारं व्रणमेवं स्रवन्ति ताः
सरक्तं चर्म मांसं वा निक्षिपेच्चास्य मूर्धनि ४५
चर्मवृक्षकषायं वा कल्कं वा कुशलो भिषक्
वादयेच्चागदैर्लिप्त्वा दुन्दुभींस्तस्य पार्श्वयोः ४६
लब्धसंज्ञं पुनश्चैनमूर्ध्वं चाधश्च शोधयेत्
निःशेषं निर्हरेच्चैवं विषं परमदुर्जयम् ४७
अल्पमप्यवशिष्टं हि भूयो वेगाय कल्पते
कुर्याद्वा सादवैवर्ण्यज्वरकासशिरोरुजः ४८
शोफशोषप्रतिश्यायतिमिरारुचिपीनसान्
तेषु चापि यथादोषं प्रतिकर्म प्रयोजयेत् ४९
विषार्तोपद्र वांश्चापि यथास्वं समुपाचरेत्
अथारिष्टां विमुच्याशु प्रच्छयित्वाऽङ्कितं तया ५०
दह्यात्तत्र विषं स्कन्नं भूयो वेगाय कल्पते
एवमौषधिभिर्मन्त्रैः क्रियायोगैश्च यत्नतः ५१
विषे हृतगुणे देहाद्यदा दोषः प्रकुप्यति
तदा पवनमुद्वृत्तं स्नेहाद्यैः समुपाचरेत् ५२
तैलमत्स्यकुलत्थाम्लवर्ज्यैर्विषहरायुतैः
पित्तज्वरहरैः पित्तं कषायस्नेहबस्तिभिः ५३
कफमारग्वधाद्येन सक्षौद्रे ण गणेन तु
श्लेष्मघ्नैरगदैश्चैव तिक्तै रूक्षैश्च भोजनैः ५४
वृक्षप्रपातविषमपतितं मृतमम्भसि
उद्बद्धं च मृतं सद्यश्चिकित्सेन्नष्टसंज्ञवत् ५५
गाढं बद्धेऽरिष्टया प्रच्छिते वा तीक्ष्णैर्लेपैस्तद्विधैर्वाऽवशिष्टैः
शूने गात्रे क्लिन्नमत्यर्थपूति ज्ञेयं मांसं तद्विषात् पूति कष्टम् ५६
सद्यो विद्धं निस्रवेत् कृष्णरक्तं पाकं यायाद्दह्यते चाप्यभीक्ष्णम्
कृष्णीभूतं क्लिन्नमत्यर्थपूति शीर्णं मांसं यात्यजस्रं क्षताच्च ५७
तृष्णा मूर्च्छा भ्रान्तिदाहौ ज्वरश्च यस्य स्युस्तं दिग्धविद्धं व्यवस्येत्
पूर्वोद्दिष्टं लक्षणं सर्वमेतज्जुष्टं यस्यालं विषेण व्रणाः स्युः ५८
लूतादष्टा दिग्धविद्धा विषैर्वा जुष्टा प्रायस्ते व्रणाः पूतिमांसाः
तेषां युक्त्या पूतिमांसान्यपोह्य वार्योकोभिः शोणितं चापहृत्य ५९
हृत्वा दोषान् क्षिप्रमूर्ध्वं त्वधश्च सम्यक् सिञ्चेत् क्षीरिणां त्वक्कषायैः
अन्तर्वस्त्रं दापयेच्च प्रदेहान् शीतैर्द्र व्यैराज्ययुक्तैर्विषघ्नैः ६०
भिन्ने त्वन्स्था दुष्टजातेन कार्यः पूर्वो मार्गः पैत्तिके यो विषे च
त्रिवृद्विशल्ये मधुकं हरिद्रे रक्ता नरेन्द्रो लवणश्च वर्गः ६१
कटुत्रिकं चैव सुचूर्णितानि शृङ्गे निदध्यान्मधुसंयुतानि
एषोऽगदो हन्ति विषं प्रयुक्तः पानाञ्जनाभ्यञ्जननस्ययोगैः ६२
अवार्यवीर्यो विषवेगहन्ता महागदो नाम महाप्रभावः
विडङ्गपाठात्रिफलाजमोदाहिङूनि वक्रं त्रिकटूनि चैव ६३
सर्वश्च वर्गो लवणः सुसूक्ष्मः सचित्रकः क्षौद्र युतो निधेयः
शृङ्गे गवां शृङ्गमयेन चैव प्रच्छादितः पक्षमुपेक्षितश्च ६४
एषोऽगदः स्थावरजङ्गमानां जेता विषाणामजितो हि नाम्ना
प्रपौण्डरीकं सुरदारु मुस्ता कालानुसार्या कटुरोहिणी च ६५
स्थौणेयकध्यामकगुग्गुलूनि पुन्नागतालीशसुवर्चिकाश्च
कुटन्नटैलासितसिन्धुवाराः शैलेयकुष्ठे तगरं प्रियङ्गुः ६६
रोध्रं जलं काञ्चनगैरिकं च समागधं चन्दनसैन्धवं च
सूक्ष्माणि चूर्णानि समानि कृत्वा शृङ्गे निदध्यान्मधुसंयुतानि ६७
एषोऽगदस्तार्क्ष्य इति प्रदिष्टो विषं निहन्यादपि तक्षकस्य
मांसीहरेणुत्रिफलामुरङ्गीरक्तालतायष्टिकपद्मकानि ६८
विडङ्गतालीशसुगन्धिकैलात्वक्कुष्ठपत्राणि सचन्दनानि
भार्गी पटोलं किणिही सपाठा मृगादनी कर्कटिका पुरश्च ६९
पालिन्द्यशोकौ क्रमुकं सुरस्याः प्रसूनमारुष्करजं च पुष्पम्
सूक्ष्मानि चूर्णानि समानि शृङ्गे न्यसेत् सपित्तानि समाक्षिकाणि ७०
वराहगोधाशिखिशल्लकीनां मार्जारजं पार्षतनाकुले च
यस्यागदोऽय सुकृतो गृहे स्यान्नाम्नर्षभो नाम नरर्षभस्य ७१
न तत्र सर्पाः कुत एव कीटास्त्यजन्ति वीर्याणि विषाणि चैव
एंतेन भेर्यः पटहाश्च दिग्धा नानद्यमाना विषमाशु हन्युः ७२
दिग्धाः पताकाश्च निरीक्ष्य सद्यो विषाभिभूता ह्यविषा भवन्ति
लाक्षा हरेणुर्नलदं प्रियङ्गुः शिग्रुद्वयं यष्टिकपृथ्विकाश्च ७३
चूर्णीकृतोऽय रजनीविमिश्रो सर्पिर्मधुभ्यां सहितो निधेयः
शृङ्गे गवां पूर्ववदापिधानस्ततः प्रयोज्योऽञ्जननस्यपानैः ७४
संजीवनो नाम गतासुकल्पानेषोऽगदो जीवयतीह मर्त्यान्
श्लेष्मातकीकट्फलमातुलुङ्ग्यः श्वेता गिरिह्वा किणिही सिता च ७५
सतण्डुलीयोऽगद एष मुख्यो विषेषु दर्वीकरराजिलानाम्
द्रा क्षा सुगन्धा नगवृत्तिका च श्वेता समङ्गा समभागयुक्ता ७६
देयो द्विभागः सुरसाच्छदस्य कपित्थबिल्वादपि दाडिमाच्च
तथाऽधभागः सितसिन्धुवारादङ्कोठमूलादपि गैरिकाच्च ७७
एषोऽगदः क्षौद्र युतो निहन्ति विशेषतो मण्डलिनां विषाणि
वंशत्वगार्द्राऽऽमलकं कपित्थं कटुत्रिकं हैमवती सकुष्ठा ७८
करञ्जबीजं तगरं शिरीषपुष्पं च गोपित्तयुतं निहन्ति
विषाणि लूतोन्दुरपन्नगानां कैटं च लेपाञ्जननस्यपानैः ७९
पुरीषमूत्रानिलगर्भसङ्गान्निहन्ति वर्त्यञ्जननाभिलेपैः
काचार्मकोथान् पटलांश्च घोरान् पुष्पं च हन्त्यञ्जननस्ययोगैः ८०
समूलपुष्पाङ्कुरवल्कबीजात् क्वाथः शिरीषात् त्रिकटुप्रगाढः
सलावणः क्षौद्र युतोऽथ पीतो विशेषतः कीटविषं निहन्ति ८१
कुष्ठं त्रिकटुकं दार्वी मधुकं लवणद्वयम्
मालती नागपुष्पं च सर्वाणि मधुराणि च ८२
कपित्थरसपिष्टोऽय शर्कराक्षौद्र संयुतः
विषं हन्त्यगदः सर्वं मूषिकाणां विशेषतः ८३
सोमराजीफलं पुष्पं कटभी सिन्धुवारकः
चोरको वरुणः कुष्ठं सर्पगन्धा ससप्तला ८४
पुनर्नवा शिरीषस्य पुष्पमारग्वधार्कजम्
श्यामाऽम्बष्ठा विडङ्गानि तथाऽम्राश्मन्तकानि च ८५
भूमी कुरबकश्चैव गण एकसरः स्मृतः
एकशो द्वित्रिशोवाऽपि प्रयोक्तव्यो विषापहः ८६
इति सुश्रुतसंहितायां कल्पस्थाने सर्पदष्टविषचिकित्सितं नाम पञ्चमोऽध्यायः ५
षष्ठोऽध्यायः
अथातो दुन्दुभिस्वनीयं कल्पं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
धवाश्वकर्णशिरीषतिनिशपलाशपिचुमर्दपाटलिपारिभद्रकाम्रोदुम्बरकरहाटकार्जुनककुभ-सर्जकपीतनश्लेष्मातकाङ्कोठामलकप्रग्रहकुटजशमीकपित्थाश्मन्तकार्कचिरबिल्वमहा-वृक्षारुष्करारलुमधुकमधुशिग्रुशाकगोजीमूर्वाभूर्जतिल्वकेक्षुरकगोपघोण्टारिमेदानां भस्मान्याहृत्य गवां मूत्रेण क्षारकल्पेन परिस्राव्य विपचेत् दद्याच्चात्र पिप्पलीमूलतण्डुलीयकवराङ्गचोचमञ्जिष्ठाकरञ्जिकाहस्तिपिप्पलीमरिचविडङगगृहधू-मानन्तासोमसरलाबाह्लीकगुहाकोशाम्रश्वेतसर्षपवरुणलवणप्लक्षनिचुलकवञ्जुलवक्राल-वर्धमानपुत्रश्रेणीसप्तपर्णटुण्टुकैलवालुकनागदन्त्यतिविषाभयाभद्रदारुकुष्ठहरिद्राव-चाचूर्णानि लोहानां च समभागानि ततः क्षारवदागतपाकमवतार्य लोहकुम्भे निदध्यात् ३
अनेन दुन्दुभिं लिम्पेत् पताकां तोरणानि च
श्रवणाद्दर्शनात् स्पर्शात् विषात् संप्रतिमुच्यते ४
एष क्षारागदो नाम शर्करास्वश्मरीषु च
अर्शःसु वातगुल्मेषु कासशूलोदरेषु च ५
अजीर्णे ग्रहणीदोषे भक्तद्वेषे च दारुणे
शोफे सर्वसरे चापि देयः श्वासे च दारुणे ६
सदा सर्वविषार्तानां सर्वथैवोपयुज्यते
एष तक्षकमुख्यानामपि दर्पाङ्कुशोऽगदः ७
विडङ्गत्रिफलादन्तीभद्र दारुहरेणवः
तालीशपत्रमञ्जिष्ठाकेशरोत्पलपद्मकम् ८
दाडिमं मालतीपुष्पं रजन्यौ सारिवे स्थिरे
प्रियङ्गुस्तगरं कुष्ठं बृहत्यौ चैलवालुकम् ९
सचन्दनगवाक्षीभिरेतैः सिद्धं विषापहम्
सर्पिः कल्याणकं ह्येतद्द्ग्रहापस्मारनाशनम् १०
पाण्ड्वामयगरश्वासमन्दाग्निज्वरकासनुत्
शोषिणामल्पशुक्राणां बन्ध्यानां च प्रशस्यते ११
अपामार्गस्य बीजानि शिरीषस्य च माषकान्
श्वेते द्वे काकमाचीं च गवां मूत्रेण पेषयेत् १२
सर्पिरेतैस्तु संसिद्धं विषसंशमनं परम्
अमृतं नाम विख्यातमपि संजीवयेन्मृतम् १३
चन्दनागुरुणी कुष्ठं तगरं तिलपर्णिकम्
प्रपौण्डरीकं नलदं सरलं देवदारु च १४
भद्र श्रियं यवफलां भार्गी नीलद्यं सुगन्धिकाम्
कालेयकं पद्मकं च मधुकं नागरं जटाम् १५
पुन्नागैलैलवालूनि गैरिकं ध्यामकं बलाम्
तोयं सर्जरसं मांसीं शतपुष्पां हरेणुकाम् १६
तालीशपत्रं क्षुद्रै लां प्रियङ्गुं सकुटन्नटम्
शिलापुष्पं सशैलेयं पत्रं कालानुसारिवाम् १७
कटुत्रिकं शीतशिवं काश्मर्यं कटुरोहिणीम्
सोमराजीमतिविषां पृथ्विकामिन्द्र वारुणीम् १८
उशीरं वरुणं मुस्तं कुस्तुम्बुरु नखं तथा
श्वेते हरिद्रे स्थौणेयं लाक्षां च लवणानि च १९
कुमुदोत्पलपद्मानि पुष्पं चापि तथाऽकजम्
चम्पकाशोकसुमनस्तिल्वकप्रसवानि च २०
पाटलीशाल्मलीशैलुशिरीषाणां तथैव च
कुसुमं तृणमूल्याश्च सुरभीसिन्धुवारजम् २१
धवाश्वकर्णपार्थानां पुष्पाणि तिनिशस्य च
गुग्गुलुं कुङ्कुमं बिम्बीं सर्पाक्षीं गन्धनाकुलीम् २२
एतत् संभृत्य संभारं सूक्ष्मचूर्णानि कारयेत्
गोपित्तमधुसर्पिर्भिर्युक्तं शृङ्गे निधापयेत् २३
भग्नस्कन्धं विवृत्ताक्षं मृत्योर्दंष्ट्रान्तरं गतम्
अनेनागदमुख्येन मनुष्यं पुनराहरेत् २४
एषोऽग्निकल्पं दुर्वारं क्रुद्धस्यामिततेजसः
विषं नागपतेर्हन्यात् प्रसभं वासुकेरपि २५
महासुगन्धिनामाऽय पञ्चाशीत्यङ्गसंयुतः
राजाऽगदानां सर्वेषां राज्ञो हस्ते भवेत् सदा २६
स्नातानुलिप्तस्तु नृपो भवेत् सर्वजनप्रियः
भ्राजिष्णुतां च लभते शत्रुमध्यगतोऽपि सन् २७
उष्णवर्ज्यो विधिः कार्यो विषार्तानां विजानता
मुक्त्वा कीटविषं तद्धि शीतेनाभिप्रवर्धते २८
अन्नपानविधावुक्तमुपधार्य शुभाशुभम्
शुभं देयं विषार्तेभ्यो विरुद्धेभ्यश्च वारयेत् २९
फाणितं शिग्रुसौवीरमजीर्णाध्यशनं तथा
वर्जयेच्च समासेन नवधान्यादिकं गणम् ३०
दिवास्वप्नं व्यवायं च व्यायामं क्रोधमातपम्
सुरातिलकुलत्थांश्च वर्जयेद्धि विषातुरः ३१
प्रसन्नदोषं प्रकृतिस्थधातुमन्नाभिकाङ्क्षं समसूत्रजिह्वम्
प्रसन्नवर्णेन्द्रि यचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम् ३२
इति सुश्रुतसंहितायां कल्पस्थाने दुन्दुभिस्वनीयकल्पो नाम षष्ठोऽध्यायः ६
सप्तमोऽध्यायः
अथातो मूषिककल्पं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पूर्वं शुक्रविषा उक्ता मूषिका ये समासतः
नामलक्षणभैषज्यैरष्टादश निबोध मे ३
लालनः पुत्रकः कृष्णो हंसिरश्चिक्विइरस्तथा
छुच्छुन्दरोऽलसश्चैव कषायदशनोऽपि च ४
कुलिङ्गश्चाजितश्चैव चपलः कपिलस्तथा
कोकिलोऽरुणसंज्ञश्च महाकृष्णस्तथोन्दुरः ५
श्वेतेन महता सार्धं कपिलेनाखुना तथा
मूषिकश्च कपोताभस्तथैवाष्टादश स्मृताः ६
शुक्रं पतति यत्रैषां शुक्रस्पृष्टैः स्पृशन्ति वा
नखदन्तादिभिस्तस्मिन् गात्रे रक्तं प्रदुष्यति ७
जायन्ते ग्रन्थयः शोफाः कर्णिका मण्डलानि च
पीडकोपचयश्चोग्रो विसर्पाः किटिभानि च ८
पर्वभेदो रुजस्तीव्रा मूर्च्छाऽङ्गसदनं ज्वरः
दौर्बल्यमरुचिः श्वासो वमथुर्लोमहर्षणम् ९
दष्टरूपं समासोक्तमेतद्व्यासमतः शृणु
लालास्रावो लालनेन हिक्का छर्दिश्च जायते १०
तण्डुलीयककल्कं तु लिह्यात्तत्र समाक्षिकम्
पुत्रकेणाङ्गसादश्च पाण्डुवर्णश्च जायते ११
चीयते ग्रन्थिभिश्चाङ्गमाखुशावकसन्निभैः
शिरीषेङ्गुदकल्कं तु लिह्यात्तत्र समाक्षिकम् १२
कृष्णेन दंशे शोफोऽसृक्छर्दिः प्रायश्च दुर्दिने
शिरीषफलकुष्ठं तु पिबेत् किंशुकभस्मना १३
हंसिरेणान्नविद्वेषो जृम्भा रोम्णां च हर्षणम्
पिबेदारग्वधादिं तु सुवान्तस्तत्र मानवः १४
चिक्विरेण शिरोदुःखं शोफो हिक्का वमिस्तथा
जालिनीमदनाङ्कोठकषायैर्वामयेत्तु तम् १५
यवनालर्षभीक्षारं बृहत्योश्चात्र दापयेत्
छुच्छुन्दरेण तृट् छर्दिर्ज्वरो दौर्बल्यमेव च १६
ग्रीवास्तम्भः पृष्ठशोफो गन्धाज्ञानं विसूचिका
चव्यं हरीतकी शुण्ठी विडङ्गं पिप्पली मधु १७
अङ्कोठबीजं च तथा पिबेदत्र विषापहम्
ग्रीवास्तम्भोऽलसेनोर्ध्ववायुर्दंशे रुजा ज्वरः १८
महागदं ससर्पिष्कं लिह्यात्तत्र समाक्षिकम्
निद्रा कषायदन्तेन हृच्छोषः कार्श्यमेव च १९
क्षौद्रो पेताः शिरीषस्य लिह्यात् सारफलत्वचः
कुलिङ्गेन रुजः शोफो राज्यश्च दंशमण्डले २०
सहे ससिन्धुवारे च लिह्यात्तत्र समाक्षिके
अजितेनाङ्गकृष्णत्वं छर्दिर्मूर्च्छा च हृद्ग्रहः २१
स्नुक्क्षीरपिष्टां पालिन्दीं मञ्जिष्ठां मधुना लिहेत्
चपलेन भवेच्छर्दिर्मूर्च्छा च सह तृष्णया २२
क्षौद्रे ण त्रिफलां लिह्याद्भद्र काष्ठजटान्विताम्
कपिलेन व्रणे कोथो ज्वरो ग्रन्थ्युद्गमः सतृट् २३
लिह्यान्मधुयुतां श्वेतां श्वेतां चापि पुनर्नवाम्
ग्रन्थयः कोकिलेनोग्रा ज्वरो दाहश्च दारुणः २४
वर्षाभूनीलिनीक्वाथकल्कसिद्धं घृतं पिबेत्
अरुणेनानिलः क्रुद्धो वातजान् कुरुते गदान् २५
महाकृष्णेन पित्तं च श्वेतेन कफ एव च
महता कपिलेनासृक् कपोतेन चतुष्टयम् २६
भवन्ति चैषां दंशेषु ग्रन्थिमण्डलकर्णिकाः
पिडकोपचयश्चोग्रः शोफश्च भृशदारुणः २७
दधिक्षीरघृतप्रस्थास्त्रयः प्रत्येकशो मताः
करञ्जारग्वधव्योषबृहत्यंशुमतीस्थिराः २८
निष्क्वाथ्य चैषां क्वाथस्य चतुर्थॐऽश पुनर्भवेत्
त्रिवृद्गोज्यमृतावक्रसर्पगन्धाः समृत्तिकाः २९
कपित्थदाडिमत्वक् च श्लक्ष्णपिष्टाः प्रदापयेत्
तत् सर्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत् ३०
पञ्चानामरुणादीनां विषमेतद्व्यपोहति
काकादनीकाकमाच्योः स्वरसेष्वथवा कृतम् ३१
सिराश्च स्रावयेत् प्राप्ताः कुर्यात् संशोधनानि च
सर्वेषां च विधिः कार्यो मूषिकाणां विषेष्वयम् ३२
दग्ध्वा विस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत्
शिरीषरजनीकुष्ठकुङ्कुमैरमृतायुतैः ३३
छर्दनं जालिनीक्वाथैः शुकाख्याङ्कोठयोरपि
शुकाख्याकोषवत्योश्च मूलं मदन एव च ३४
देवदालीफलं चैव दध्ना पीत्वा विषं वमेत्
सर्वमूषिकदष्टानामेष योगः सुखावहः ३५
फलं वचा देवदाली कुष्ठं गोमूत्रपेषितम्
पूर्वकल्पेन योज्याः स्युः सर्वोन्दुरुविषच्छिदः ३६
विरेचने त्रिवृद्दन्तीत्रिफलाकल्क इष्यते
शिरोविरेचने सारः शिरीषस्य फलानि च ३७
हितस्त्रिकटुकाढ्यश्च गोमयस्वरसोऽञ्जने
कपित्थगोमयरसौ लिह्यान्माक्षिकसंयुतौ ३८
रसाञ्जनहरिद्रे न्द्र यवकट्वीषु वा कृतम्
प्रातः सातिविषं कल्कं लिह्यान्माक्षिकसंयुतम् ३९
तण्डुलीयकमूलेषु सर्पिः सिद्धं पिबेन्नरः
आस्फोतमूलसिद्धं वा पञ्चकापित्थमेव वा ४०
मूषिकाणां विषं प्रायः कुप्यत्यभ्रेष्वनिर्हृतम्
तत्राप्येष विधिः कार्यो यश्च दूषीविषापहः ४१
स्थिराणां रुजतां वाऽपि व्रणानां कर्णिकां भिषक्
पाटयित्वा यथादोषं व्रणवच्चापि शोधयेत् ४२
श्वशृगालतरक्ष्वृक्षव्याघ्रादीनां यदाऽनिलः
श्लेष्मप्रदुष्टो मुष्णाति संज्ञां संज्ञावहाश्रितः ४३
तदा प्रस्रस्तलाङ्गूलहनुस्कन्धोऽतिलालवान्
अत्यर्थबधिरोऽन्धश्च सोऽन्योन्यमभिधावति ४४
तेनोन्मत्तेन दष्टस्य दंष्ट्रिणा सविषेण तु
सुप्तता जायते दंशे कृष्णं चातिस्रवत्यसृक् ४५
दिग्धविद्धस्य लिङ्गेन प्रायशश्चोपलक्षितः
येन चापि भवेद्दष्टस्तस्य चेष्टां रुतं नरः ४६
बहुशः प्रतिकुर्वाणः क्रियाहीनो विनश्यति
दंष्ट्रिणा येन दष्टश्च तद्रू पं यस्तु पश्यति ४७
अप्सु वा यदि वाऽदर्शेऽरिष्टं तस्य विनिर्दिशेत्
त्रस्यत्यकस्माद्योऽभीक्ष्णं दृष्ट्वा स्पृष्ट्वाऽपि वा जलम् ४८
जलत्रासं तु विद्यात्तं रिष्टं तदपि कीर्तितम्
अदष्टो वा जलत्रासी न कथञ्चन सिध्यति ४९
प्रसुप्तोऽथोत्थितो वाऽपि स्वस्थस्त्रस्तो न सिध्यति
दंशं विस्राव्य तैर्दष्टे सर्पिषा परिदाहितम् ५०
प्रदिह्यादगदैः सर्पिः पुराणं पाययेत च
अर्कक्षीरयुतं ह्यस्य दद्याच्चापि विशोधनम् ५१
श्वेतां पुनर्नवां चास्य दद्याद्धत्तूरकायुताम्
पललं तिलतैलं च रूपिकायाः पयो गुडः ५२
निहन्ति विषमालर्कं मेघवृन्दमिवानिलः
मूलस्य शरपुङ्खायाः कर्षं धत्तूरकार्धिकम् ५३
तण्डुलोदकमादाय पेषयेत्तण्डुलैः सह
उन्मत्तकस्य पत्रैस्तु संवेष्ठ्यापूपकं पचेत् ५४
खादेदौषधकाले तमलर्कविषदूषितः
करोति श्वविकारांस्तु तस्मिञ्जीर्यति चौषधे ५५
विकाराः शिशिरे याप्या गृहे वारिविवर्जिते
ततः शान्तविकारस्तु स्नात्वा चैवापरेऽहनि ५६
शालिषष्टिकयोर्भक्तं क्षीरेणोष्णेन भोजयेत्
दिनत्रये पञ्चमे वा विधिरेषोऽधमात्रया ५७
कर्तव्यो भिषजाऽवश्यमलर्कविषनाशनः
कुप्येत् स्वयं विषं यस्य न स जीवति मानवः ५८
तस्मात् प्रकोपयेदाशु स्वयं यावत् प्रकुप्यति
बीजरत्नौषधीगर्भैः कुम्भैः शीताम्बुपूरितैः ५९
स्नापयेत्तं नदीतीरे समन्त्रैर्वा चतुष्पथे
बलि निवेद्य तत्रापि पिण्याकं पललं दधि ६०
माल्यानि च विचित्राणि मांसं पक्वामकं तथा
अलकाधिपते यक्ष सारमेयगणाधिप ६१
अलर्कजुष्टमेतन्मे निर्विषं कुरु माचिरात्
दद्यात् संशोधनं तीक्ष्णमेवं स्नातस्य देहिनः ६२
अशुद्धस्य सुरूढेऽपि व्रणे कुप्यति तद्विषम्
श्वादयोऽभिहिता व्याला येऽत्र दंष्ट्राविषा मया ६३
अतः करोति दष्टस्तु तेषां चेष्टां रुतं नरः
बहुशः प्रतिकुर्वाणो न चिरान्म्रियते च सः ६४
नखदन्तक्षतं व्यालैर्यत्कृतं तद्विमर्दयेत्
सिञ्चेत्तैलेन कोष्णेन ते हि वातप्रकोपकाः ६५
इति सुश्रुतसंहितायां कल्पस्थाने मूषिककल्पो नाम सप्तमोऽध्यायः ७
अष्टमोऽध्यायः
अथातः कीटकल्पं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सर्पाणां शुक्रविण्मूत्रशवपूत्यण्डसंभवाः
वाय्वग्न्यम्बुप्रकृतयः कीटास्तु विविधाः स्मृताः ३
सर्वदोषप्रकृतिभिर्युक्तास्ते परिणामतः
कीटत्वेऽपिसुघोराः स्युः सर्व एव चतुर्विधाः ४
कुम्भीनसस्तुण्डिकेरी शृङ्गी शतकुलीरकः
उच्चिटिङ्गोऽग्निनामा च चिच्चिटिङ्गो मयूरिका ५
आवर्तकस्तथोरभ्रः सारिकामुखवैदलौ
शरावकुर्दोऽभीराजिः परुषश्चित्रशीर्षकः ६
शतबाहुश्च यश्चापि रक्तराजिश्च कीर्तितः
अष्टादशेति वायव्याः कीटाः पवनकोपनाः ७
तैर्भवन्तीह दष्टानां रोगा वातनिमित्तजाः
कौण्डिन्यकः कणभको वरटी पत्रवृश्चिकः ८
विनासिका ब्राह्मणिका बिन्दुलो भ्रमरस्तथा
बाह्यकी पिच्चिटः कुम्भी वर्चःकीटोऽरिमेदकः ९
पद्मकीटो दुन्दुभिको मकरः शतपादकः
पञ्चालकः पाकमत्स्यः कृष्णतुण्डोऽथ गर्दभी १०
क्लीतः कृमिसरारी च यश्चाप्युत्क्लेशकस्तथा
एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेव च ११
तैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः
विश्वम्भरः पञ्चशुक्लः पञ्चकृष्णोऽथकोकिलः १२
सैरेयकः प्रचलको वलभः किटिभस्तथा
सूचीमुखः कृष्णगोधा यश्च काषायवासिकः १३
कीटो गर्दभकश्चैव तथा त्रोटक एव च
त्रयोदशैते सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः १४
तैर्भवन्तीह दष्टानां रोगाः कफनिमित्तजाः
तुङ्गीनासो विचिलकस्तालको वाहकस्तथा १५
कोष्ठागारी क्रिमिकरो यश्च मण्डलपुच्छकः
तुण्डनाभः सर्षपिको वल्गुलिः शम्बुकस्तथा १६
अग्निकीटश्च विज्ञेया द्वादश प्राणनाशनाः
तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्पवत् १७
तास्ताश्च वेदनास्तीव्रा रोगा वै सान्निपातिकाः
क्षाराग्निदग्धवद्दंशो रक्तपीतसितारुणः १८
ज्वराङ्गमर्दरोमाञ्चवेदनाभिः समन्वितः
छर्द्यतीसारतृष्णाश्च दाहो मूर्च्छा विजृम्भिका १९
वेपथुश्वासहिक्काश्च दाहः शीतं च दारुणम्
पिडकोपचयः शोफो ग्रन्थयो मण्डलानि च २०
दद्र वः कर्णिकाश्चैव विसर्पाः किटिभानि च
तैर्भवन्तीह दष्टानां यथास्वं चाप्युपद्र वाः २१
येऽन्ये तेषां विशेषास्तु तूर्णं तेषां समादिशेत्
दूषीविषप्रकोपाच्च तथैव विषलेपनात् २२
लिङ्गं तीक्ष्णविषेष्वेतच्छृणु मन्दविषेष्वतः
प्रसेकारोचकच्छर्दिशिरोगौरवशीतकाः २३
पिडकाकोठकण्डूनां जन्म दोषविभागतः
योगैर्नानाविधैरेषां चूर्णानि गरमादिशेत् २४
दूषीविषप्रकाराणां तथा चाप्यनुलेपनात्
एकजातीनतस्तूर्ध्वं कीटान् वक्ष्यामि भेदतः २५
सामान्यतो दष्टलिङ्गैः साध्यासाध्यक्रमेण च
त्रिकण्टः करिणी चापि हस्तिकक्षोऽपराजितः
चत्वार एते कणभा व्याख्यातास्तीव्रवेदनाः २६
तैर्दष्टस्य श्वयथुरङ्गमर्दो गुरुता गात्राणां दंशः कृष्णश्च भवति २७
प्रतिसूर्यकः पिङ्गाभासो बहुवर्णो निरूपमो गोधेरेक इति पञ्च गोधेरकाः तैर्दष्टस्य शोफो दाहरुजौ च भवतः गोधेरकेणैतदेव ग्रन्थिप्रादुर्भावो ज्वरश्च २८
गलगोलिकाश्वेता कृष्णा रक्तराजी रक्तमण्डला सर्वश्वेता सर्षपिकेत्येवं षट् ताभिर्दष्टे सर्षपिकावर्जं दाहशोफक्लेदा भवन्ति सर्षपिकया हृदयपिडाऽतिसारश्च तासु मध्ये सर्षपिका प्राणहरी २९
शतपद्यस्तुपरुषा कृष्णा चित्रा कपिला पीतिका रक्ता श्वेता अग्निप्रभा इत्यष्टौ ताभिर्दष्टे शोफो वेदना दाहश्च हृदये श्वेताग्निप्रभाभ्यामेतदेव दाहो मूर्च्छा चातिमात्रं श्वेतपिडकोत्पत्तिश्च ३०
मण्डूकाःकृष्णः सारः कुहको हरितो रक्तो यववर्णाभो भृकुटी कोटिकश्चेत्यष्टौ तैर्दष्टस्य दंशेकण्डूर्भवति पीतफेनागमश्च वक्त्रात् भृकुटीकोटिकाभ्यामेतदेव दाहश्छर्दिर्मूर्च्छा चातिमात्रम् ३१
विश्वम्भराभिर्दष्टे दंशः सर्षपाकाराभिः पिडकाभिः सरुजाभिश्चीयते शीतज्वरार्तश्च पुरुषो भवति ३२
अहिण्डुकाभिर्दष्टे तोददाहकण्डुश्वयथवो भवन्ति मोहश्च कण्डूमकाभिर्दष्टे पीताङ्ग श्छर्द्यतीसारज्वरादिभिरभिहन्यते शूकवृन्ताभिर्दष्टे कण्डूकोठाः प्रवर्धन्ते शूकं चात्र लक्ष्यते ३३
पिपीलिकाःस्थूलशीर्षा संवाहिका ब्राह्मणिका अङ्गुलिका कपिलिका
चित्रवर्णेति षट् ताभिर्दष्टे दंशे श्वयथुरग्निस्पर्शवद्दाहशोफौ भवतः ३४
मक्षिकाःकान्तारिका कृष्णा पिङ्गला मधूलिका काषायी स्थालिकेत्येवं षट् ताभिर्दष्टस्य कण्डुशोफदाहरुजो भवन्ति स्थालिकाकाषायीभ्यामेतदेव श्यावपिडकोत्पत्तिरुपद्र वाश्च ज्वरादयो भवन्ति काषायी स्थालिका च प्राणहरे ३५
मशकाःसामुद्रः परिमण्डलो हस्तिमशकः कृष्णः पार्वतीय इति पञ्च तैर्दष्टस्य तीव्रा कण्डूर्दं शशोफश्च पार्वतीयस्तु कीटैः प्राणहरैस्तुल्यलक्षणः ३६
नखावकृष्टेऽत्यर्थं पिडकादाहपाका भवन्ति
जलौकसां दष्टलक्षणमुक्तं चिकित्सितं च ३७
भवन्ति चात्र
गोधेरकः स्थालिका च ये च श्वेताग्निसप्रभे
भृकुटी कोटिकश्चैव न सिध्यन्त्येकजातिषु ३८
शवमूत्रपुरीषैस्तु सविषैरवमर्शनात्
स्युः कण्डूदाहकोठारुःपिडकातोदवेदनाः ३९
प्रक्लेदवांस्तथा स्रावो भृशं संपाचयेत्त्वचम्
दिग्धविद्धक्रिंयास्तत्र यथावदवचारयेत् ४०
नावसन्नं न चोत्सन्नमतिसंरम्भवेदनम्
दंशादौ विपरीतार्ति कीटदष्टं सुबाधकम् ४१
दष्टानुग्रविषैः कीटैः सर्पवत् समुपाचरेत्
त्रिविधानां तु पूर्वेषां त्रैविध्येन क्रिया हिताः ४२
स्वेदमालेपनं सेकं चोष्णमत्रावचारयेत्
अन्यत्र मूर्च्छिताद्दंशात् पाककोथप्रपीडितात् ४३
विषघ्नं च विधिं सर्वं बहुशः शोधनानि च
शिरीषकटुकाकुष्ठवचारजनिसैन्धवैः ४४
क्षीरमज्जवसासर्पिःशुण्ठीपिप्पलिदारुषु
उत्कारिका स्थिरादौ वा सुकृता स्वेदने हिता ४५
न स्वेदयेत चादंशं धूमं वक्ष्यामि वृश्चिके
अगदानेकजातीषु प्रवक्ष्यामि पृथक् पृथक् ४६
कुष्ठं वक्रं वचा पाठा बिल्वमूलं सुवर्चिका
गृहधूमं हरिद्रे द्वे त्रिकण्टकविषे हिताः ४७
रजन्यागारधूमश्च वक्रं कुष्ठं पलाशजम्
गलगोलिकदष्टानामगदो विषनाशनः ४८
कुङ्कुमं तगरं शिग्रु पद्मकं रजनीद्वयम्
अगदो जलपिष्टोऽय शतपद्विषनाशनः ४९
मेषशृङ्गी वचा पाठा निचुलो रोहिणी जलम्
सर्वमण्डूकदष्टानामगदोऽय विषापहः ५०
धवाश्वगन्धातिबलाबलासातिगुहागुहाः
विश्वम्भराभिदष्टानामगदोऽय विषापहः ५१
शिरीषं तगरं कुष्ठं शालिपर्णी सहा निशे
अहिण्डुकाभिर्दष्टानामगदो विषनाशनः ५२
कण्डूमकाभिर्दष्टानां रात्रौ शीताः क्रिया हिताः
दिवा ते नैव सिध्यन्ति सूर्यरश्मिबलार्दिताः ५३
वक्रं कुष्ठमपामार्गः शूकवृन्तविषेऽगदः
भृङ्गस्वरसपिष्टा वा कृष्णवल्मीकमृत्तिका ५४
पिपीलिकाभिर्दष्टानां मक्षिकामशकैस्तथा
गोमूत्रेण युतो लेपः कृष्णवल्मीकमृत्तिका ५५
नखावघृष्टसंजाते शोफे भृङ्गरसो हितः
प्रतिसूर्यकदष्टानां सर्पदष्टवदाचरेत्
त्रिविधा वृश्चिकाः प्रोक्ता मन्दमध्यमहाविषाः ५६
गोशकृत्कोथजा मन्दा मध्याः काष्ठेष्टिकोद्भवाः
सर्पकोथोद्भवास्तीक्ष्णा ये चान्ये विषसंभवाः ५७
मन्दा द्वादश मध्यास्तु त्रयः पञ्चदशोत्तमाः
दश विंशतिरित्येते संख्यया परिकीर्तिताः ५८
कृष्णः श्यावः कर्बुरः पाण्डूवर्णो गोमूत्राभः कर्कशो मेचकश्च
पीतो धूम्रो रोमशः शाड्वलाभो रक्तः श्वेतेनोदरेणेति मन्दाः ५९
युक्ताश्चैते वृश्चिकाः पुच्छदेशे स्युर्भूयोभिः पर्वभिश्चेतरेभ्यः
एभिर्दष्टे वेदना वेपथुश्च गात्रस्तम्भः कृष्णरक्तागमश्च ६०
शाखादष्टे वेदना चोर्ध्वमेति दाहस्वेदौ दंशशोफो ज्वरश्च
रक्तः पीतः कापिलेनोदरेण सर्वे धूम्राः पर्वभिश्च त्रिभिः स्युः ६१
एते मूत्रोच्चारपूत्यण्डजाता मध्या ज्ञेयास्त्रिप्रकारोरगाणाम्
यस्यैतेषामन्वयाद्यः प्रसूतो दोषोत्पत्तिं तत्स्वरूपां स कुर्यात् ६२
जिह्वाशोफो भोजनस्यावरोधो मूर्च्छा चोग्रा मध्यवीर्याभिदष्टे
श्वेतश्चित्रः श्यामलो लोहिताभो रक्तः श्वेतो रक्तनीलोदरौ च ६३
पीतोऽरक्तो नीलपीतोऽपरस्तु रक्तो नीलो नीलशुक्लस्तथा च
रक्तो बभ्रुः पूर्ववच्चैकपर्वा यश्चापर्वा पर्वणी द्वे च यस्य ६४
नानारूपा वर्णतश्चापि घोरा ज्ञेयाश्चैते वृश्चिकाः प्राणचौराः
जन्मैतेषां सर्पकोथात् प्रदिष्टं देहेभ्यो वा घातितानां विषेण ६५
एभिर्दष्टे सर्पवेगप्रवृत्तिः स्फोटोत्पत्तिर्भ्रान्तिदाहौ ज्वरश्च
खेभ्यः कृष्णं शोणितं याति तीव्रं तस्मात् प्राणैस्त्यज्यते शीघ्रमेव ६६
उग्रमध्यविषैर्दष्टं चिकित्सेत् सर्पदष्टवत्
आदंशं स्वेदितं चूर्णैः प्रच्छितं प्रतिसारयेत् ६७
रजनीसैन्धवव्योषशिरीषफलपुष्पजैः
मातुलुङ्गाम्लगोमूत्रपिष्टं च सुरसाग्रजम् ६८
लेपे स्वेदे सुखोष्णं च गोमयं हितमिष्यते
पाने क्षौद्र युतं सर्पिः क्षीरं वा बहुशर्करम् ६९
दंशं मन्दविषाणां तु चक्रतैलेन सेचयेत्
विदारीगणसिद्धेन सुखोष्णेनाथवा पुनः ७०
कुर्याच्चोत्कारिकास्वेदं विषघ्नैरुपनाहयेत्
गुडोदकं वा सुहिमं चातुर्जातकसंयुतम् ७१
पानमस्मै प्रदातव्यं क्षीरं वा सगुडं हिमम्
शिखिकुक्कुटबर्हाणि सैन्धवं तैलसर्पिषी ७२
धूमो हन्ति प्रयुक्तस्तु शीघ्रं वृश्चिकजं विषम्
कुसुम्भपुष्पं रजनी निशा वा कोद्र वं तृणम् ७३
एभिर्घृताक्तैर्धूपस्तु पायुदेशे प्रयोजितः
नाशयेदाशु कीटोत्थं वृश्चिकस्य च यद्विषम् ७४
लूताविषं घोरतमं दुर्विज्ञेयतमं च तत्
दुश्चिकित्स्यतमं चापि भिषग्भिर्मन्दबुद्धिभिः ७५
सविषं निर्विषं चैतदित्येवं परिशङ्किते
विषघ्नमेव कर्तव्यमविरोधि यदौषधम् ७६
अगदानां हि संयोगो विषजुष्टस्य युज्यते
निर्विषे मानवे युक्तोऽगदः संपद्यतेऽसुखम् ७७
तस्मात् सर्वप्रयत्नेन ज्ञातव्यो विषनिश्चयः
अज्ञात्वा विषसद्भावं भिषग्व्यापादयेन्नरम् ७८
प्रोद्भिद्यमानस्तु यथाऽङकुरेण न व्यक्तजातिः प्रविभाति वृक्षः
तद्वद्दुरालक्ष्यतमं हि तासां विषं शरीरे प्रविकीर्णमात्रम् ७९
ईषत्सकण्डु प्रचलं सकोठमव्यक्तवर्णं प्रथमेऽहनि स्यात्
अन्तेषु शूनं परिनिम्नमध्यं प्रव्यक्तरूपं च दिने द्वितीये ८०
त्र्यहेण तद्दर्शयतीह रूपं विषं चतुर्थेऽहनि कोपमेति
अतोऽधिकेऽह्नि प्रकरोति जन्तोर्विषप्रकोपप्रभवान् विकारान् ८१
षष्ठे दिने विप्रसृतं तु सर्वान् मर्मप्रदेशान् भृशमावृणोति
तत् सप्तमेऽत्यर्थपरीतगात्रं व्यापादयेन्मर्त्यमतिप्रवृद्धम् ८२
यास्तीक्ष्णचण्डोग्रविषा हि लूतास्ताः सप्तरात्रेण नरं निहन्युः
अतोऽधिकेनापि निहन्युरन्या यासां विषं मध्यमवीर्यमुक्तम् ८३
यासां कनीयो विषवीर्यमुक्तं ताः पक्षमात्रेण विनाशयन्ति
तस्मात् प्रयत्नं भिषगत्र कुर्यादादंशपाताद्विषघातियोगैः ८४
विषं तु लालानखमूत्रदंष्ट्रारजःपुरीषैरथ चेन्द्रि येण
सप्तप्रकारं विसृजन्ति लूतास्तदुग्रमध्यावरवीर्ययुक्तम् ८५
सकण्डुकोठं स्थिरमल्पमूलं लालाकृतं मन्दरुजं वदन्ति
शोफश्च कण्डूश्च पुलालिका च धूमायनं चैव नखाग्रदंशे ८६
दंशं तु मूत्रेण सकृष्णमध्यं सरक्तपर्यन्तमवेहि दीर्णम्
दंष्ट्राभिरुग्रं कठिनं विवर्णं जानीहि दंशं स्थिरमण्डलं च ८७
रजःपुरीषेन्द्रि यजं हि विद्धि स्फोटं विपक्वामलपीलुपाण्डुम्
एतावदेतत् समुदाहृतं तु वक्ष्यामि लूताप्रभवं पुराणम् ८८
सामान्यतो दष्टमसाध्यसाध्यं चिकित्सितं चापि यथाविशेषम् ८९
विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम्
वशिष्ठं कोपयामास गत्वाऽश्रमपदं किल ९०
कुपितस्य मुनेस्तस्य ललाटात् स्वेदबिन्दवः
अपतन् दर्शनादेव रवेस्तत्समतेजसः ९१
तृणे महर्षिणा लूने धेन्वर्थं संभृतेऽपि च
ततो जातास्त्विमा घोरा नानारूपा महाविषाः
अपकाराय वर्तन्ते नृपसाधनवाहने ९२
यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः
तस्माल्लूतेति भाष्यन्ते सङ्ख्यया ताश्च षोडश ९३
कृच्छ्रसाध्यास्तथाऽसाध्यालूतास्तु द्विविधाः स्मृताः
तासामष्टौ कृच्छ्रसाध्या वर्ज्यास्तावत्य एव तु ९४
त्रिमण्डला तथा श्वेता कपिला पीतिका तथा
आलमूत्रविषा रक्ता कसना चाष्टमी स्मृता ९५
ताभिर्दष्टे शिरोदुःखं कण्डूर्दंशे च वेदना
भवन्ति च विशेषेण गदाः श्लैष्मिकवातिकाः ९६
सौवर्णिका लाजवर्णा जालिन्येणीपदी तथा
कृष्णाऽग्निवर्णा काकाण्डा मालागुणाऽष्टमी तथा ९७
ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च
ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः ९८
पिडका विविधाकारा मण्डलानि महान्ति च
महान्तो मृदवः शोफा रक्ताः श्यावाश्चलास्तथा ९९
सामान्यं सर्वलूतानामेतदादंशलक्षणम्
विशेषलक्षणं तासां वक्ष्यामि सचिकित्सितम् १००
त्रिमण्डलाया दंशेऽसृक् कृष्णं स्रवति दीर्यते
बाधिर्यं कलुषा दृष्टिस्तथा दाहश्च नेत्रयोः १०१
तत्रार्कमूलं रजनी नाकुली पृश्निपर्णिका
पानकर्मणि शस्यन्ते नस्यालेपाञ्जनेषु च १०२
श्वेतायाः पिडका दंशे श्वेता कण्डूमती भवेत्
दाहमूर्च्छाज्वरवती विसर्पक्लेदरुक्करी १०३
तत्र चन्दनरास्नैलाहरेणुनलवञ्जुलाः
कुष्ठं लामज्जकं वक्रं नलदं चागदो हितः १०४
आदंशे पिडका ताम्रा कपिकायाः स्थिरा भवेत्
शिरसो गौरवं दाहस्तिमिरं भ्रम एव च १०५
तत्र पद्मककुष्ठैलाकरञ्जककुभत्चचः
स्थिरार्कपर्ण्यपामार्गदूर्वाब्राहम्यो विषापहाः १०६
आदंशे पीतिकायास्तु पिडका पीतिका स्थिरा
भवेच्छर्दिर्ज्वरः शूलं मूर्ध्नि रक्ते तथाऽक्षिणी १०७
तत्रेष्टाः कुटजोशीरतुङ्गपद्मकवञ्जुलाः
शिरीषकिणिहीशेलुकदम्बककुभत्चचः १०८
रक्तमण्डनिभे दंशे पिडकाः सर्षपा इव
जायन्ते तालुशोषश्च दाहश्चालविषार्दिते १०९
तत्र प्रियङ्गुह्रीबेरकुष्ठलामज्जवञ्जुलाः
अगदः शतपुष्पा च सपिप्पलवटाङ्कुराः ११०
पूतिर्मूत्रविषादंशो विसर्पी कृष्णशोणितः
कासश्वासवमीमूर्च्छाज्वरदाहसमन्वितः १११
मनःशिलालमधुककुष्ठचन्दनपद्मकैः
मधुमिश्रैः सलामज्जैरगदस्तत्र कीर्तितः ११२
आपाण्डुपिडको दंशो दाहक्लेदसमन्वितः
रक्ताया रक्तपर्यन्तो विज्ञेयो रक्तसंयुतः ११३
कार्यस्तत्रागदस्तोयचन्दनोशीरपद्मकैः
तथैवार्जुनशेलुभ्यां त्वग्भिराम्रातकस्य च ११४
पिच्छिलं कसनादंशाद्रुधिरं शीतलं स्रवेत्
कासश्वासौ च तत्रोक्तं रक्तलूताचिकित्सितम् ११५
पुरीषगन्धिरल्पासृक् कृष्णाया दंश एव तु
ज्वरमूर्च्छावमीदाहकासश्वाससमन्वितः ११६
तत्रैलावक्रसर्पाक्षीगन्धनाकुलिचन्दनैः
महासुगन्धिसहितैः प्रत्याख्यायागदः स्मृतः ११७
दंशे दाहोऽग्निवक्त्रायाः स्रावोऽत्यर्थं ज्वरस्तथा
चोषकण्डूरोमहर्षा दाहविस्फोटसंयुतः ११८
कृष्णाप्रशमनं चात्र प्रत्याख्याय प्रयोजयेत्
सारिवोशीरयष्ट्याह्वचन्दनोत्पलपद्मकम् ११९
सर्वासामेव युञ्जीत विषे श्लेष्मातकत्वचम्
भिषक् सर्वप्रकारेण तथा चाक्षीवपिप्पलम् १२०
कृच्छ्रसाध्यविषा ह्यष्टौ प्रोक्ता द्वे च यदृच्छया
अवार्यविषवीर्याणां लक्षणानि निबोध मे १२१
ध्यामः सौवर्णिकादंशः सफेनो मत्स्यगन्धकः
श्वासः कासो ज्वरस्तृष्णा मूर्च्छा चात्र सुदारुणा १२२
आदंशे लाजवर्णाया ध्यामं पूति स्रवेदसृक्
दाहो मूर्च्छाऽतिसारश्च शिरोदुःखं च जायते १२३
घोरो दंशस्तु जालिन्या राजिमानवदीर्यते
स्तम्भः श्वासस्तमोवृद्धिस्तालुशोषश्च जायते १२४
एणीपद्यास्तथा दंशो भवेत् कृष्णतिलाकृतिः
तृष्णामूर्च्छाज्वरच्छर्दिकासश्वाससमन्वितः १२५
दंशः काकाण्डिकादष्टे पाण्डुरक्तोऽतिवेदनः
तृण्मूर्च्छाश्वासहृद्रो गहिक्काकासाः स्युरुच्छ्रिताः १२६
रक्तो मालागुणादंशो धूमगन्धोऽतिवेदनः
बहुधा च विशीर्येत दाहमूर्च्छाज्वरान्वितः १२७
असाध्यास्वप्यभिहितं प्रत्याख्यायाशु योजयेत्
दोषोच्छ्रायविशेषेण दाहच्छेदविवर्जितम् १२८
साध्याभिराभिर्लूताभिर्दष्टमात्रस्य देहिनः
वृद्धिपत्रेण मतिमान् सम्यगादंशमुद्धरेत् १२९
अमर्मणि विधानज्ञो वर्जितस्य ज्वरादिभिः
दंशस्योत्कर्तनं कुर्यादल्पश्वयथुकस्य च १३०
मधुसैन्धवसंयुक्तैरगदैर्लेपयेत्ततः
प्रियङ्गुरजनीकुष्ठसमङ्गामधुकैस्तथा १३१
सारिवां मधुकं द्रा क्षां पयस्यां क्षीरमोरटम्
विदारीगोक्षुरक्षौद्र मधुकं पाययेत वा १३२
क्षीरिणां त्वक्कषायेण सुशीतेन च सेचयेत्
उपद्र वान् यथादोषं विषघ्नैरेव साधयेत् १३३
नस्याञ्जनाभ्यञ्जनपानधूमं तथाऽवपीडं कवलग्रहं च
संशोधनं चोभयतः प्रगाढं कुर्यात्सिरामोक्षणमेव चात्र १३४
कीटदष्टव्रणान् सर्वानहिदष्टव्रणानपि
आदाहपाकात्तान् सर्वाञ्चिकित्सेद्दुष्टवद्भिषग् १३५
विनिवृत्ते ततः शोफे कर्णिकापातनं हितम्
निम्बपत्रं त्रिवृद्दन्ती कुसुम्भं कुसुमं मधु १३६
गुग्गुलुः सैन्धवं किण्वं वर्चः पारावतस्य च
विषवृद्धिकरं चान्नं हित्वा संभोजनं हितम् १३७
विषेभ्यः खलु सर्वेभ्यः कर्णिकामरुजां स्थिराम्
प्रच्छयित्वा मधून्मिश्रैः शोधनीयैरुपाचरेत् १३८
सप्तषष्ठस्य कीटानां शतस्यैतद्विभागशः
दष्टलक्षणमाख्यातं चिकित्सा चाप्यनन्तरम् १३९
सविंशमध्यायशतमेतदुक्तं विभागशः
इहोद्दिष्टाननिर्दिष्टानर्थान् वक्ष्याम्यथोत्तरे १४०
सनातनत्वाद्वेदानामक्षरत्वात्तथैव च
तथा दृष्टफलत्वाच्च हितत्वादपि देहिनाम् १४१
वाक्समूहार्थविस्तारात् पूजितत्वाच्च देहिभिः
चिकित्सितात् पुण्यतमं न किंचिदपि शुश्रुमः १४२
ऋषेरिन्द्र प्रभावस्यामृतयोनेर्भिषग्गुरोः
धारयित्वा तु विमलं मतं परमसंमतम्
उक्ताहारसमाचार इह प्रेत्य च मोदते १४३
इति सुश्रुतसंहितायां कल्पस्थाने कीटकल्पोनामाष्टमोऽध्यायः ८
इति कल्प स्थानम् समाप्तम्
सुश्रुत संहिता
Sushruta Saṁhitā
उत्तरतन्त्रम्
Uttaratantam
Chapter 1 2 3 4 5 6 7 8 9 10 11 12 13 14
15 16 17 18 19 20 21 22 23
24 25 26 27 28 29 30 31 32 33 34 35 36 37
38 39 40 41 42 43 44 45 46 47 48 49 50 51
52 53 54 55 56 57 58 59 60 61 62 63 64 65
66
उत्तरतन्त्रम्
प्रथमोऽध्यायः
अथात औपद्रविकमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अध्यायानां शते विंशे यदुक्तमसकृन्मया
वक्ष्यामि बहुधा सम्यगुत्तरेऽथानिमानिति ३
इदानीं तत् प्रवक्ष्यामि तन्त्रमुत्तरमुत्तमम्
निखिलेनोपदिश्यन्ते यत्र रोगाः पृथग्विधाः ४
शालाक्यतन्त्राभिहिता विदेहाधिपकीर्तिताः
ये च विस्तरतो दृष्टाः कुमाराबाधहेतवः ५
षट्सु कायचिकित्सासु ये चोक्ताः परमर्षिभिः
उपसर्गादयो रोगा ये चाप्यागन्तवः स्मृताः ६
त्रिषष्टी रससंसर्गाः स्वस्थवृत्तं तथैव च
युक्तार्था युक्तयश्चैव दोषभेदास्तथैव च ७
यत्रोक्ता विविधा अर्था रोगसाधनहेतवः
महतस्तस्य तन्त्रस्य दुर्गाधस्याम्बुधेरिव ८
आदावेवोत्तमाङ्गस्थान् रोगानभिदधाम्यहम्
सङ्ख्यया लक्षणैश्चापि साध्यासाध्यक्रमेण च ९
विद्याद्द्यङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसंमितम्
द्व्यङ्गुलं सर्वतः सार्धं भिषङ्नयनबुद्बुदम् १०
सुवृत्तं गोस्तनाकारं सर्वभूतगुणोद्भवम्
पलं भुवोऽग्नितो रक्तं वातात् कृष्णं सितं जलात् ११
आकाशादश्रुमार्गाश्च जायन्ते नेत्रबुद्बुदे
दृष्टिं चात्र तथा वक्ष्ये यथा ब्रूयाद्विशारदः १२
नेत्रायामत्रिभागं तु कृष्णमण्डलमुच्यते
कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः १३
मण्डलानि च सन्धींश्च पटलानि च लोचने
यथाक्रमं विजानीयात् पञ्च षट् च षडेव च १४
पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु
अनुपूर्वं तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम् १५
पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्लगतोऽपरः
शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः
ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः १६
द्वे वर्त्मपटले विद्याच्चत्वार्यन्यानि चाक्षिणि
जायते तिमिरं येषु व्याधिः परमदारुणः १७
तेजोजलाश्रितं बाह्यं तेष्वन्यत् पिशिताश्रितम्
मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम् १८
पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते
सिराणां कण्डराणां च मेदसः कालकस्य च १९
गुणाः कालात् परः श्लेष्मा बन्धनेऽक्ष्णो सिरायुतः
सिरानुसारिभिर्दोषैर्विगुणैरूर्ध्वमागतैः २०
जायन्ते नेत्रभागेषु रोगाः परमदारुणाः
तत्राविलं ससंरम्भमश्रुकण्डूपदेहवत् २१
गुरूषातोदरागाद्यैर्जुष्टं चाव्यक्तलक्षणैः
सशूलं वर्त्मकोषेषु शूकपूर्णाभमेव च २२
विहन्यमानं रूपे वा क्रियास्वक्षि यथा पुरा
दृष्ट्वैव धीमान् बुध्येत दोषेणाधिष्ठितं तु तत् २३
तत्र संभवमासाद्य यथादोषं भिषग्जितम्
विदध्यान्नेत्रजा रोगा बलवन्तः स्युरन्यथा २४
सङ्क्षेपतः क्रियायोगो निदानपरिवर्जनम्
वातादीनां प्रतीघातः प्रोक्तो विस्तरतः पुनः २५
उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् स्वप्नविपर्ययाच्च
प्रसक्तसंरोदनकोपशोकक्लेशाभिघातादतिमैथुनाच्च २६
शुक्तारनालाम्लकुलत्थमाषनिषेवणाद्वेगविनिग्रहाच्च
स्वेदादथो धूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात्
बाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः २७
वाताद्दश तथा पित्तात् कफाच्चैव त्रयोदश
रक्तात् षोडश विज्ञेयाः सर्वजाः पञ्चविंशतिः २८
तथा बाह्यौ पुनर्द्वौ च रोगाः षट्सप्ततिः स्मृताः
हताधिमन्थो निमिषो दृष्टिर्गम्भीरिका च या २९
यच्च वातहतं वर्त्म न ते सिध्यन्ति वातजाः
याप्योऽथतन्मयः काचः साध्याः स्युः सान्यमारुताः ३०
शुष्काक्षिपाकाधीमन्थस्यन्दमारुतपर्ययाः
असाध्यो ह्रस्वजाड्यो यो जलस्रावश्च पैत्तिकः ३१
परिम्लायी च नीलश्च याप्यः काचोऽथ तन्मयः
अभिष्यन्दोऽधिमन्थोऽम्लाध्युषितं शुक्तिका च या ३२
दृष्टिः पित्तविदग्धा च धूमदर्शी च सिध्यति
असाध्यः कफजः स्रावो याप्यः काचश्च तन्मयः ३३
अभिष्यन्दोऽधिमन्थश्च बलासग्रथितं च यत्
दृष्टिः श्लेष्मविदग्धा च पोथक्यो लगणश्च यः ३४
क्रिमिग्रन्थिपरिक्लिन्नवर्त्मशुक्लार्मपिष्टकाः
श्लेष्मोपनाहः साध्यास्तु कथिताः श्लेष्मजेषु तु ३५
रक्तस्रावोऽजकाजातं शोणितार्शोव्रणान्वितम्
शुक्रं न साध्यं काचश्च याप्यस्तज्जः प्रकीर्तितः ३६
मन्थस्यन्दौ क्लिष्टवर्त्म हर्षोत्पातौ तथैव च
सिराजाताऽञ्जनाख्या च सिराजालं च यत् स्मृतम् ३७
पर्वण्यथाव्रणं शुक्रं शोणितार्मार्जुनश्च यः
एते साध्या विकारेषु रक्तजेषु भवन्ति हि ३८
पूयास्रावो नाकुलान्ध्यमक्षिपाकात्ययोऽलजी
असाध्याः सर्वजा याप्यः काचः कोपश्च पक्ष्मणः ३९
वर्त्मावबन्धो यो व्याधिः सिरासु पिडका च या
प्रस्तार्यर्माधिमांसार्म स्नाय्वर्मोत्सङ्गिनी च या ४०
पूयालसश्चार्बुदं च श्यावकर्दमवर्त्मनी
तथाऽशोवर्त्म शुष्कार्शः शर्करावर्त्म यच्च वै ४१
सशोफश्चाप्यशोफश्च पाको बहलवर्त्म च
अक्लिन्नवर्त्म कुम्भीका बिसवर्त्म च सिध्यति ४२
सनिमित्तोऽनिमित्तश्च द्वावसाध्यौ तु बाह्यजौ
षट्सप्ततिर्विकाराणामेषां सङ्ग्रहकीर्तिता ४३
नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः
शुक्लभागे दंशैकश्च चत्वारः कृष्णभागजाः ४४
सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु
बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ
भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः ४५
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे औपद्र विको
नाम प्रथमोऽध्यायः १
द्वितीयोऽध्यायः
अथातः सन्धिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पूयालसं सोपनाहः स्रावाः पर्वणिकाऽलजी
क्रिमिग्रन्थिश्च विज्ञेया रोगाः सन्धिगता नव ३
पक्वः शोफः सन्धिजः संस्रवेद्यः सान्द्रं पूयं पूति पूयालसः सः
ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकः कण्डूप्रायो नीरुजस्तूपनाहः ४
गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावान् रुग्विहीनान् कनीनात्
तान् वै स्रावान् नेत्रनाडीमथैके तस्या लिङ्गं कीर्तयिष्ये चतुर्धा ५
पाकः सन्धौ संस्रवेद्यश्च पूयं पूयास्रावो नैकरूपः प्रदिष्टः
श्वेतः सान्द्रं पिच्छिलं संस्रवेद्यः श्लेष्मास्रावो नीरुजः स प्रदिष्टः ६
रक्तास्रावः शोणितोत्थः सरक्तमुष्णं नाल्पं संस्रवेन्नातिसान्द्र म्
पीताभासं नीलमुष्णं जलाभं पित्तास्रावः संस्रवेत् सन्धिमध्यात् ७
ताम्रा तन्वी दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोफा
जाता सन्धौ कृष्णशुक्लेऽलजी स्यात्तस्मिन्नेव ख्यापिता पूर्वलिङ्गैः ८
क्रिमिग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्युः क्रिमयः सन्धिजाताः
नानारूपा वर्त्मशुक्लस्य सन्धौ चरन्तोऽन्तर्नयनं दूषयन्ति ९
इति सुश्रुतसंहितायामुत्तरतन्त्रे सन्धिगतरोगविज्ञानीयो नाम द्वितीयोऽध्यायः २
तृतीयोऽध्यायः
अथातो वर्त्मगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पृथग्दोषाः समस्ता वा यदा वर्त्मव्यपाश्रयाः
सिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिताः ३
विवर्ध्य मांसं रक्तं च तदा वर्त्मव्यपाश्रयान्
विकाराञ्जनयन्त्याशु नामतस्तान्निबोधत ४
उत्सङ्गिन्यथ कुम्भीका पोथक्यो वर्त्मशर्करा
तथाऽशोवर्त्म शुष्कार्शस्तथैवाञ्जननामिका ५
बहलं वर्त्म यच्चापि व्याधिर्वर्त्मावबन्धकः
क्लिष्टकर्दमवर्त्माख्यौ श्याववर्त्म तथैव च ६
प्रक्लिन्नमपरिक्लिन्नं वर्त्म वातहतं तु यत्
अर्बुदं निमिषश्चापि शोणितार्शश्च यत् स्मृतम् ७
लगणो बिशनामा च पक्ष्मकोपस्तथैव च
एकविंशतिरित्येते विकारा वर्त्मसंश्रयाः ८
नामभिस्ते समुद्दिष्टा लक्षणैस्तान् प्रचक्ष्महे
अभ्यन्तरमुखी बाह्योत्सङ्गेऽधो वर्त्मनश्च या ९
विज्ञेयोत्सङ्गिनी नाम तद्रू पपिडकाचिता
कुम्भीकबीजप्रतिमा पिडका यास्तु वर्त्मजाः १०
आध्मापयन्ति भिन्ना याः कुम्भीकपिडकास्तु ताः
स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसन्निभाः
पिडकाश्च रुजावत्यः पोथक्य इति संज्ञिताः ११
पिडकाभिः सुसूक्ष्माभिर्घनाभिरभिसंवृता
पिडका या खरा स्थूला सा ज्ञेया वर्त्मशर्करा १२
एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः
सूक्ष्माः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीर्त्यते १३
दीर्घोऽङकुरः खरः स्तब्धो दारुणो वर्त्मसंभवः
व्याधिरेष समाख्यातः शुष्कार्श इति संज्ञितः १४
दाहतोदवती ताम्रा पिडका वर्त्मसंभवा
मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जननामिका १५
वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः
सवर्णाभिः समाभिश्च विद्याद्बहलवर्त्म तत् १६
कण्डूमताऽल्पतोदेन वर्त्मशोफेन यो नरः
न समं छादयेदक्षि भवेद्बन्धः स वर्त्मनः १७
मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च
अकस्माच्च भवेद्र क्तं क्लिष्टवर्त्म तदादिशेत् १८
क्लिष्टं पुनः पित्तयुतं विदहेच्छोणितं यदा
तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः १९
यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम्
दाहकण्डूपरिक्लेदि श्याववर्त्मेति तन्मतम् २०
अरुजं बाह्यतः शूनमन्तः क्लिन्नं स्रवत्यपि
कण्डूनिस्तोदभूयिष्ठं क्लिन्नवर्त्म तदुच्यते २१
यस्य धौतानि धौतानि संबध्यन्ते पुनः पुनः
वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत् २२
विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते
एतद्वातहतं विद्यात् सरुजं यदि वाऽरुजम् २३
वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम्
विज्ञेयमर्बुदं पुंसां सरक्तमवलम्बितम् २४
निमेषणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः
चालयत्यति वर्त्मानि निमेषः स गदो मतः २५
छिन्नाश्छिन्ना विवर्धन्ते वर्त्मस्था मृदवोऽङकुराः
दाहकण्डूरुजोपेतास्तेऽश शोणितसंभवाः २६
अपाकः कठिनः स्थूलो ग्रन्थिर्वर्त्मभवोऽरुजः
सकण्डूः पिच्छिलः कोलप्रमाणो लगणस्तु सः २७
शूनं यद्वर्त्म बहुभिः सूक्ष्मैश्छिद्रैः समन्वितम्
बिसमन्तर्जल इव बिसवर्त्मेति तन्मतम् २८
दोषाः पक्ष्माशयगतास्तीक्ष्णाग्राणि खराणि च
निर्वर्तयन्ति पक्ष्माणि तैर्घुष्टं चाक्षि दूयते २९
उद्धृतैरुद्धृतैः शान्तिः पक्ष्मभिश्चोपजायते
वातातपानलद्वेषी पक्ष्मकोपः स उच्यते ३०
इति सुश्रुतसंहितायामुत्तरतन्त्रे वर्त्मगतरोगविज्ञानीयो नाम तृतीयोऽध्यायः ३
चतुर्थोऽध्यायः
अथातः शुक्लगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
प्रस्तारिशुक्लक्षतजाधिमांसस्नाय्वर्मसंज्ञाः खलु पञ्च रोगाः
स्युः शुक्तिका चार्जुनपिष्टकौ च जालं सिराणां पिडकाश्च याः स्युः ३
रोगा बलासग्रथितेन सार्धमेकादशाक्ष्णोः खलु शुक्लभागे
प्रस्तारि प्रथितमिहार्म शुक्लभागे विस्तीर्णं तनु रुधिरप्रभं सनीलम् ४
शुक्लाख्यं मृदु कथयन्ति शुक्लभागे सश्वेतं सममिह वर्धते चिरेण
यन्मांसं प्रचयमुपैति शुक्लभागे पद्माभं तदुपदिशन्ति लोहितार्म ५
विस्तीर्णं मृदु बहलं यकृत्प्रकाशं श्यावं वा तदधिकमांसजार्म विद्यात्
शुक्ले यत् पिशितमुपैति वृद्धिमेतत् स्नाय्वर्मेत्यभिपठितं खरं प्रपाण्डु ६
श्यावाः स्युः पिशितनिभाश्च बिन्दवो ये शुक्त्याभाः सितनयने स शुक्तिसंज्ञः
एको यः शशरुधिरोपमस्तु बिन्दुः शुक्लस्थो भवति तमर्जुनं वदन्ति ७
उत्सन्नः सलिलनिभोऽथ पिष्टशुक्लो बिन्दुर्यो भवति स पिष्टकः सुवृत्तः
जालाभः कठिनासिरो महान् सरक्तः सन्तानः स्मृत इह जालसंज्ञितस्तु ८
शुक्लस्थाः सितपिडकाः सिरावृता यास्ता विद्यादसितसमीपजाः सिराजाः
कांस्याभो भवति सितेऽम्बुबिन्दुतुल्यः स ज्ञेयोऽमृदुररुजो बलासकाख्यः ९
इति सुश्रुतसंहितायामुत्तरतन्त्रे शुक्लगतरोगविज्ञानीयो नाम चतुर्थोऽध्यायः ४
पञ्चमोऽध्यायः
अथातः कृष्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
यत् सव्रणं शुक्रक्लिमिथाव्रणं वा पाकात्ययश्चाप्यजका तथैव
चत्वार एतेऽभिहिता विकाराः कृष्णाश्रयाः संग्रहतः पुरस्तात् ३
निमग्नरूपं हि भवेत्तु कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै
स्रावं स्रवेदुष्णमतीव रुक् च तत् सव्रणं शुक्रमुदाहरन्ति ४
दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि
अवेदनावन्न च युग्मशुक्रं तत्सिद्धिमाप्नोति कदाचिदेव ५
विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासक्तमदृष्टिकृच्च
द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितं चापि विवर्जनीयम् ६
उष्णाश्रुपातः पिडका च कृष्णे यस्मिन् भवेन्मुद्गनिभं च शुक्रम्
तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च यत्तित्तिरिपक्षतुल्यम् ७
सितं यदा भात्यसितप्रदेशे स्यन्दात्मकं नातिरुगश्रुयुक्तम्
विहायसीवाच्छघनानुकारि तदव्रणं साध्यतमं वदन्ति ८
गम्भीरजातं बहलं च शुक्रं चिरोत्थितं चापि वदन्ति कृच्छ्रम्
संच्छाद्यते श्वेतनिभेन सर्वं दोषेण यस्यासितमण्डलं तु ९
तमक्षिपाकात्ययमक्षिकोपसमुत्थितं तीव्ररुजं वदन्ति
अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलाश्रुः
विदार्य कृष्णं प्रचयोऽभ्युपैति तं चाजकाजातमिति व्यवस्येत् १०
इति सुश्रुतसंहितायामुत्तरतन्त्रे कृष्णगतरोगविज्ञानीयो नाम पञ्चमोऽध्यायः ५
षष्ठोऽध्यायः
अथातः सर्वगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्यन्दास्तु चत्वार इहोपदिष्टास्तावन्त एवेह तथाऽधिमन्थाः
शोफान्वितोऽशोफयुतश्च पाकावित्येवमेते दश संप्रदिष्टाः ३
हताधिमन्थोऽनिलपर्ययश्च शुष्काक्षिपाकोऽन्यत एव वातः
दृष्टिस्तथाऽम्लाध्युषिता सिराणामुत्पातहर्षावपि सर्वभागाः ४
प्रायेण सर्वे नयनामयास्तु भवन्त्यभिष्यन्दनिमित्तमूलाः
तस्मादभिष्यन्दमुदीर्यमाणमुपाचरेदाशु हिताय धीमान् ५
निस्तोदनं स्तम्भनरोमहर्षसङ्घर्षपारुष्यशिरोभितापाः
विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ६
दाहप्रपाकौ शिशिराभिनन्दा धूमायनं बाष्पसमुच्छ्रयश्च
उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ७
उष्णाभिनन्दा गुरुताऽक्षिशोफः कण्डूपदेहौ सितताऽतिशैत्यम्
स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ८
ताम्राश्रुता लोहितनेत्रता च राज्यः समन्तादतिलोहिताश्च
पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ९
वृद्धैरेतैरभिष्यन्दैर्नराणामक्रियावताम्
तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः १०
उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा
शिरसोऽध च तं विद्यादधिमन्थं स्वलक्षणैः ११
नेत्रमुत्पाट्यत इव मथ्यतेऽरणिवच्च यत्
सङ्घर्षतोदनिर्भेदमांससंरब्धमाविलम् १२
कुञ्चनास्फोटनाध्मानवेपथुव्यथनैर्युतम्
शिरसोऽध च येन स्यादधिमन्थः स मारुतात् १३
रक्तराजिचितं स्रावि वह्निनेवावदह्यते
यकृत्पिण्डोपमं दाहि क्षारेणाक्तमिव क्षतम् १४
प्रपक्वोच्छूनवर्त्मान्तं सस्वेदं पीतदर्शनम्
मूर्च्छाशिरोदाहयुतं पित्तेनाक्ष्यधिमन्थितम् १५
शोफवन्नातिसंरब्धं स्रावकण्डूसमन्वितम्
शैल्यगौरवपैच्छिल्यदूषिकाहर्षणान्वितम् १६
रूपं पश्यति दुःखेन पांशुपूर्णमिवाविलम्
नासाध्मानशिरोदुःखयुतं श्लेष्माधिमन्थितम् १७
बन्धुजीवप्रतीकाशं ताम्यति स्पर्शनाक्षमम्
रक्तास्रावं सनिस्तोदं पश्यत्यग्निनिभा दिशः १८
रक्तमग्नारिष्टवच्च कृष्णभागश्च लक्ष्यते
यद्दीप्तं रक्तपर्यन्तं तद्र क्तेनाधिमन्थितम् १९
हन्याद्दृष्टिं सप्तरात्रात् कफोत्थोऽधीमन्थोऽसृक्संभवः पञ्चरात्रात्
षड्रात्राद्वै मारुतोत्थो निहन्यान्मिथ्याचारात् पैत्तिकः सद्य एव २०
कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः
दाहसंहर्षताम्रत्वशोफनिस्तोदगौरवैः २१
जुष्टो मुहुः स्रवेच्चास्रमुष्णशीताम्बु पिच्छिलम्
संरम्भी पच्यते यश्च नेत्रपाकः सशोफजः २२
शोफहीनानि लिङ्गानि नेत्रपाके त्वशोफजे
उपेक्षणादक्षि यदाऽधिमन्थो वातात्मकः सादयति प्रसह्य
रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः २३
अन्तःसिराणां श्वसनः स्थितो दृष्टिं प्रतिक्षिपन्
हताधिमन्थं जनयेत्तमसाध्यं विदुर्बुधाः २४
पक्ष्मद्वयाक्षिभ्रुवमाश्रितस्तु यत्रानिलः संचरति प्रदुष्टः
पर्यायशश्चापि रुजः करोति तं वातपर्यायमुदाहरन्ति २५
यत् कूणितं दारुणरूक्षवर्त्म विलोकने चाविलदर्शनं यत्
सुदारुणं यत् प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि २६
यस्यावटूकर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा
कुर्याद्रुजोऽति भ्रुवि लोचने वा तमन्यतोवातमुदाहरन्ति २७
अम्लेन भुक्तेन विदाहिना च संछाद्यते सर्वत एव नेत्रम्
शोफान्वितं लोहितकैः सनीलैरेतादृगम्लाध्युषितं वदन्ति २८
अवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः
मुहुर्विरज्यन्ति च ताः समन्ताद् व्याधिः सिरोत्पात इति प्रदिष्टः २९
मोहात् सिरोत्पात उपेक्षितस्तु जायेत रोगस्तु सिराप्रहर्षः
ताम्राच्छमस्रं स्रवति प्रगाढं तथा न शन्कोत्यभिवीक्षितुं च ३०
इति सुश्रुतसंहितायामुत्तरतन्त्रे सर्वगतरोगविज्ञानीयोनाम षष्ठोऽध्यायः ६
सप्तमोऽध्यायः
अथातो दृष्टिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मसूरदलमात्रां तु पञ्चभूतप्रसादजाम्
खद्योतविस्फुलिङ्गाभामिद्धां तेजोभिरव्ययैः ३
आवृतां पटलेनाक्ष्णोर्बाह्येन विवराकृतिम्
शीतसात्म्यां नृणां दृष्टिमाहुर्नयनचिन्तकाः ४
रोगांस्तदाश्रयान् घोरान् षट् च षट् च प्रचक्ष्महे
पटलानुप्रविष्टस्य तिमिरस्य च लक्षणम् ५
सिराभिरभिसंप्राप्य विगुणोऽभ्यन्तरे भृशम्
प्रथमे पटले दोषो यस्य दृष्टौ व्यवस्थितः ६
अव्यक्तानि स रूपाणि सर्वाण्येव प्रपश्यति
दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते ७
मक्षिका मशकान् केशाञ्जालकानि च पश्यति
मण्डलानि पताकांश्च मरीचीः कुण्डलानि च ८
परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि च
दूरस्थान्यपि रूपाणि मन्यते च समीपतः ९
समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात्
यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति १०
ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते
महान्त्यपि च रूपाणि च्छादितानीव वाससा ११
कर्णनासाक्षियुक्तानि विपरीतानि वीक्षते
यथादोषं च रज्येत दृष्टिर्दोषे बलीयसि १२
अधःस्थिते समीपस्थं दूरस्थं चोपरिस्थिते
पार्श्वस्थिते तथा दोषे पार्श्वस्थानि न पश्यति १३
समन्ततः स्थिते दोषे सङ्कुलानीव पश्यति
दृष्टिमध्यगते दोषे स एकं मन्यते द्विधा १४
द्विधास्थिते त्रिधा पश्येद्बहुधा चानवस्थिते
तिमिराख्यः स वै दोषः चतुर्थं पटलं गतः १५
रुणद्धि सर्वतो दृष्टिं लिङ्गनाशः स उच्यते
तस्मिन्नपि तमोभूते नातिरूढे महागदे १६
चन्द्रा दित्यौ सनक्षत्रावन्तरिक्षे च विद्युतः
निर्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति १७
स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः
तत्र वातेन रूपाणि भ्रमन्तीव स पश्यति १८
आविलान्यरुणाभानि व्याविद्धानि च मानवः
पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान् १९
शिखिबर्हविचित्राणि नीलकृष्णानि पश्यति
कफेन पश्येद्रू पाणि स्निग्धानि च सितानि च २०
गौरचामरगौराणि श्वेताभ्रप्रतिमानि च
पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसंप्लवम् २१
सलिलप्लावितानीव परिजाड्यानि मानवः
तथा रक्तेन रक्तानि तमांसि विविधानि च २२
हरितश्यावकृष्णानि धूमधूम्राणि चेक्षते
सन्निपातेन चित्राणि विप्लुतानि च पश्यति २३
बहुधा वा द्विधा वाऽपि सर्वाण्येव समन्ततः
हीनाधिकाङ्गान्यथवा ज्योतींष्यपि च पश्यति २४
पित्तं कुर्यात् परिम्लायि मूर्च्छितं रक्ततेजसा
पीता दिशस्तथोद्यन्तमादित्यमिव पश्यति २५
विकीर्यमाणान् खद्योतैर्वृक्षांस्तेजोभिरेव च
वक्ष्यामि षड्विधं रागैर्लिङ्गनाशमतः परम् २६
रागोऽरुणो मारुतजः प्रदिष्टः पित्तात् परिम्लाय्यथवाऽपि नीलः
कफात् सितः शोणितजस्तु रक्तः समस्तदोषोऽथ विचित्ररूपः २७
रक्तजं मण्डलं दृष्टौ स्थूलकाचानलप्रभम्
परिम्लायिनि रोगे स्यान्म्लाय्यानीलं च मण्डलम् २८
दोषक्षयात् कदाचित् स्यात्स्वयं तत्र च दर्शनम्
अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा २९
पित्तान्मण्डलमानीलं कांस्याभं पीतमेव वा
श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम् ३०
चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः
संकुचत्यातपेऽत्थ छायायां विस्तृतो भवेत् ३१
मृद्यमाने च नयने मण्डलं तद्विसर्पति
प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् ३२
दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे
यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि ३३
षड् लिङ्गनाशाः षडिमे च रोगा दृष्ट्याश्रयाः षट् च षडेव च स्युः
तथा नरः पित्तविदग्धदृष्टिः कफेन चान्यस्त्वथ धूमदर्शी ३४
यो ह्रस्वजाड्योनकुलान्धता च गम्भीरसंज्ञा च तथैव दृष्टिः
पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद्यस्य नरस्य दृष्टिः ३५
पीतानि रूपाणि च मन्यते यः स मानवः पित्तविदग्धदृष्टिः
प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि वीक्षते च ३६
रात्रौ स शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत्
तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि हि मन्यते तु ३७
त्रिषु स्थितोल्पः पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य
दिवा स सूर्यानुगृहीतचक्षुरीक्षेत रूपाणि कफाल्पभावात् ३८
शोकज्वरायासशिरोभितापैरभ्याहता यस्य नरस्य दृष्टिः
सधूमकान् पश्यति सर्वभावांस्तं धूमदर्शीति वदन्ति रोगम् ३९
स ह्रस्वजाड्यो दिवसेषु कृच्छ्राद्ध्रस्वानि रूपाणि च येन पश्येत्
विद्योतते येन नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत् ४०
चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसंज्ञः
दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कुच्यतेऽभ्यन्तरतश्च याति ४१
रुजावगाढा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः
बाह्यौ पुनर्द्वाविह संप्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च ४२
निमित्ततस्तत्र शिरोभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैश्च
सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्वराणाम् ४३
हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसंज्ञः
तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः ४४
विदीर्यते सीदति हीयते वा नृणामभीघातहता तु दृष्टिः ४५
इत्येते नयनगता मया विकाराः संख्याताः पृथगिह षट् च सप्ततिश्च
एतेषां पृथगिह विस्तरेण सर्वं वक्ष्येऽह तदनु चिकित्सितं यथावत् ४६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रेदृष्टिगतरोगविज्ञानीयो
नाम सप्तमोऽध्यायः ७
अष्टमोऽध्यायः
अथातश्चिकित्सितप्रविभागविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः सुश्रुताय २
षट्सप्ततिर्येऽभिहिता व्याधयो नामलक्षणैः
चिकित्सितमिदं तेषां समासव्यासतः शृणु ३
छेद्यास्तेषु दशैकश्च नव लेख्याः प्रकीर्तिताः
भेद्याः पञ्च विकाराः स्युर्व्यध्याः पञ्चदशैव तु ४
द्वादशाऽशस्त्रकृत्याश्च याप्याः सप्त भवन्ति हि
रोगा वर्जयितव्याः स्युर्दश पञ्च च जानता
असाध्यौ वा भवेतां तु याप्यौ चागन्तुसंज्ञितौ ५
अर्शोऽन्वितं भवति वर्त्म तु यत्तथाऽश शुष्कं तथाऽबुदमथो पिडकाः सिराजाः
जालं सिराजमपि पञ्चविधं तथाऽम छेद्या भवन्ति सह पर्वणिकामयेन ६
उत्सङ्गिनी बहलकर्दमवर्त्मनी च श्यावं च यच्च पठितं त्विह बद्धवर्त्म
क्लिष्टं च पोथकियुतं खलु यच्च वर्त्म कुम्भीकिनी च सह शर्करया च लेख्याः ७
श्लेष्मोपनाहलगणौ च बिसं च भेद्या ग्रन्थिश्च यः कृमिकृतोऽञ्जननामिका च
आदौ सिरा निगदितास्तु ययोः प्रयोगे पाकौ च यौ नयनयोः पवनोऽन्यतश्च ८
पूयालसानिलविपर्ययमन्थसंज्ञाः स्यन्दास्तु यान्त्युपशमं हि सिराव्यधेन
शुष्काक्षिपाककफपित्तविदग्धदृष्टिष्वम्लाख्यशुक्रसहितार्जुनपिष्टकेषु ९
अक्लिन्नवर्त्महुतभुग्ध्वजदर्शिशुक्तिप्रक्लिन्नवर्त्मसु तथैव बलाससंज्ञे
आगन्तुनाऽमययुगेन च दूषितायां दृष्टौ न शस्त्रपतनं प्रवदन्ति तज्ज्ञाः १०
संपश्यतः षडपि येऽभिहितास्तु काचास्ते पक्ष्मकोपसहितास्तु भवन्ति याप्याः
चत्वार एव पवनप्रभवास्त्वसाध्या द्वौ पित्तजौ कफनिमित्तज एक एव
अष्टार्धका रुधिरजाश्च गदास्त्रिदोषास्तावन्त एव गदितावपि बाह्यजौ द्वौ ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे चिकित्सितप्रविभागविज्ञानीयो नामाष्टमोऽध्यायः ८
नवमोऽध्यायः
अथातो वाताभिष्यन्दप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पुराणसर्पिषा स्निग्धौ स्यन्दाधीमन्थपीडितौ
स्वेदयित्वा यथान्यायं सिरामोक्षेण योजयेत् ३
संपादयेद्बस्तिभिस्तु सम्यक् स्नेहविरेचितौ
तर्पणैः पुटपाकैश्च धूमैराश्च्योतनैस्तथा ४
नस्यस्नेहपरीषेकैः शिरोबस्तिभिरेव च
वातघ्नानूपजलजमांसाम्लक्वाथसेचनैः ५
स्नेहैश्चतुर्भिरुष्णैश्च तत्पीताम्बरधारणैः
पयोभिर्वेसवारैश्च साल्वणैः पायसैस्तथा ६
भिषक् संपादयेदेतावुपनाहैश्च पूजितैः
ग्राम्यानूपौदकरसैः स्निग्धैः फलरसान्वितैः ७
सुसंस्कृतैः पयोभिश्च तयोराहार इष्यते
तथा चोपरि भक्तस्य सर्पिःपानंप्रिशस्यते ८
त्रिफलाक्वाथसंसिद्धं केवलं जीर्णमेव वा
सिद्धं वातहरैः क्षीरं प्रथमेन गणेन वा ९
स्नेहास्तैलाद्विना सिद्धा वातघ्नैस्तर्पणे हिताः
स्नैहिकः पुटपाकश्च धूमो नस्यं च तद्विधम् १०
नस्यादिषु स्थिराक्षीरमधुरैस्तैलमिष्यते
एरण्डपल्लवे मूले त्वचि वाऽज पयः शृतम् ११
कण्टकार्याश्च मूलेषु सुखोष्णं सेचने हितम्
सैन्धवोदीच्ययष्ट्याह्वपिप्पलीभिः शृतं पयः १२
हितमर्धोदकं सेके तथाऽश्च्योतनमेव च
ह्रीबेरवक्रमञ्जिष्ठोदुम्बरत्वक्षु साधितम् १३
साम्भश्छागं पयो वाऽपि शूलाश्च्योतनमुत्तमम्
मधुकं रजनीं पथ्यां देवदारुं च पेषयेत् १४
आजेन पयसा श्रेष्ठमभिष्यन्दे तदञ्जनम्
गैरिकं सैन्धवं कृष्णां नागरं च यथोत्तरम् १५
द्विगुणं पिष्टमद्भिस्तु गुटिकाञ्जनमिष्यते
स्नेहाञ्जनं हितं चात्र वक्ष्यते तद्यथाविधि १६
रोगो यश्चान्यतोवातो यश्च मारुतपर्ययः
अनेनैव विधानेन भिषक् तावपि साधयेत् १७
पूर्वभक्तं हितं सर्पिः क्षीरं वाऽप्यथ भोजने
वृक्षादन्यां कपित्थे च पञ्चमूले महत्यपि १८
सक्षीरं कर्कटरसे सिद्धं चात्र घृतं पिबेत्
सिद्धं वा हितमत्राहुः पत्तूरार्तगलाग्निकैः १९
सक्षीरं मेषशृङ्ग्या वा सर्पिर्वीरतरेण वा
सैन्धवं दारु शुण्ठी च मातुलुङ्गरसो घृतम् २०
स्तन्योदकाभ्यां कर्तव्यं शुष्कपाके तदञ्जनम्
पूजितं सर्पिषश्चात्र पानमक्ष्णोश्च तर्पणम् २१
घृतेन जीवनीयेन नस्यं तैलेन चाणुना
परिषेके हितं चात्र पयः शीतं ससैन्धवम् २२
रजनीदारुसिद्धं वा सैन्धवेन समायुतम्
सर्पिर्युतं स्तन्यघृष्टमञ्जनं वा महौषधम् २३
वसा वाऽनूपजलजा सैन्धवेन समायुता
नागरोन्मिश्रिता किञ्चिच्छुष्कपाके तदञ्जनम् २४
पवनप्रभवा रोगा ये केचिद्दृष्टिनाशनाः
बीजेनानेन मतिमान् तेषु कर्म प्रयोजयेत् २५
इति सुश्रुसंहितायामुत्तरतन्त्रान्तर्गतेशालाक्यतन्त्रे वाताभिष्यन्दप्रतिषेधो
नाम नवमोऽध्यायः ९
दशमोऽध्यायः
अथातः पित्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पित्तस्यन्दे पैत्तिके चाधिमन्थे रक्तास्रावः स्रंसनं चापि कार्यम्
अक्ष्णोः सेकालेपनस्याञ्जनानि पैत्ते च स्याद्यद्विसर्पे विधानम् ३
गुन्द्रां शालि शैवलं शैलभेदं दार्वीमेलामुत्पलं रोध्रमभ्रम्
पद्मात्पत्रं शर्करा दर्भमिक्षुं तालं रोध्रं वेतसं पद्मकं च ४
द्रा क्षां क्षौद्रं चन्दनं यष्टिकाह्वं योषित्क्षीरं रात्र्यनन्ते च पिष्ट्वा
सर्पिःसिद्धं तर्पणे सेकनस्ये शस्तं क्षीरं सिद्धमेतेषु चाजम् ५
योज्यो वर्गो व्यस्त एषोऽन्यथा वा सम्यङ्नस्येऽष्टार्धसंख्येऽपि नित्यम्
क्रियाः सर्वाः पित्तहर्यः प्रशस्तास्त्र्यहाच्चोर्ध्वं क्षीरसर्पिश्च नस्यम् ६
पालाशं स्याच्छोणितं चाञ्जनार्थे शल्लक्या वा शर्कराक्षौद्र युक्तम्
रसक्रियां शर्कराक्षौद्र युक्तां पालिन्द्यां वा मधुके वाऽपि कुर्यात् ७
मुस्ता फेनः सागरस्योत्पलं च कृमिघ्नैलाधात्रिबीजाद्र सश्च
तालीशैलागैरिकोशीरशङ्खैरेवं युञ्ज्यादञ्जनं स्तन्यपिष्टैः ८
चूर्णं कुर्यादञ्जनार्थे रसो वा स्तन्योपेतो धातकीस्यन्दनाभ्याम्
योषित्स्तन्यं शातकुम्भं विघृष्टं क्षौद्रो पेतं कैंशुकं चापि पुष्पम् ९
रोध्रं द्रा क्षां शर्करामुत्पलं च नार्याः क्षीरे यष्टिकाह्वं वचां च
पिष्ट्वा क्षीरे वर्णकस्य त्वचं च तोयोन्मिश्रे चन्दनोदुम्बरे च १०
कार्यः फेनः सागरस्याञ्जनार्थे नारीस्तन्ये माक्षिके चापि घृष्टः
योषित्स्तन्ये स्थापितं यष्टिकाह्वं रोध्रं द्रा क्षां शर्करामुत्पलं च ११
क्षौमाबद्धं पथ्यमाश्च्योतने वा सर्पिर्घृष्टं यष्टिकाह्वं सरोध्रम्
तोयोन्मिश्राः काश्मरीधात्रिपथ्यास्तद्वच्चाहुः कट्फलं चाम्बुनैव १२
एषोऽम्लाख्येऽनुक्रमश्चापि शुक्तौ कार्यः सर्वः स्यात्सिरामोक्षवर्ज्यः १३
सर्पिः पेयं त्रैफलं तैल्वकं वा पेयं वा स्यात् केवलं यत् पुराणम्
दोषेऽधस्ताच्छुक्तिकायामपास्ते शीतैर्द्र व्यैरञ्जनं कार्यमाशु १४
वैदूर्यं यत् स्फाटिकं वैद्रुमं च मौक्तं शाङ्खं राजतं शातकुम्भम्
चूर्णं सूक्ष्मं शर्कराक्षौद्र युक्तं शुक्तिं हन्यादञ्जनं चैतदाशु १५
युञ्ज्यात् सर्पिर्धूमदर्शी नरस्तु शेषं कुर्याद्र क्तपित्ते विधानम्
यच्चैवान्यत् पित्तहृच्चापि सर्वं यद्वीसर्पे पैत्तिके वै विधानम् १६
इति श्रीसुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे पित्ताभिष्यन्दप्रतिषेधो नाम दशमोऽध्यायः १०
एकादशोऽध्यायः
अथातः श्लेष्माभिष्यन्दप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्यन्दाधिमन्थौ कफजौ प्रवृद्धौ जयेत् सिराणामथ मोक्षणेन
स्वेदावपीडाञ्जनधूमसेकप्रलेपयोगैः कवलग्रहैश्च ३
रूक्षैस्तथाऽश्च्योतनसंविधानैस्तथैव रूक्षैः पुटपाकयोगैः
त्र्यहात्त्र्यहाच्चाप्यपतर्पणान्ते प्रातस्तयोस्तिक्तघृतं प्रशस्तम् ४
तदन्नपानं च समाचरेद्धि यच्छ्लेष्मणो नैव करोति वृद्धिम्
कुटन्नटास्फोटफणिज्झबिल्वपत्तूरपिल्वर्ककपित्थभङ्गैः ५
स्वेदं विदध्यात् अथवाऽनुलेपं बर्हिष्ठशुण्ठीसुरकाष्ठकुष्ठैः
सिन्धूत्थहिङ्गुत्रिफलामधूकप्रपौण्डरीकाञ्जनतुत्थताम्रैः ६
पिष्टैर्जलेनाञ्जनवर्तयः स्युः पथ्याहरिद्रा मधुकाञ्जनैर्वा
त्रीण्यूषणानि त्रिफला हरिद्रा विडङ्गसारश्च समानि च स्युः ७
बर्हिष्ठकुष्ठामरकाष्ठशङ्खपाठामलव्योषमनःशिलाश्च
पिष्ट्वाऽम्बुना वा कुसुमानि जातिकरञ्जशोभाञ्जनजानि युञ्ज्यात् ८
फलं प्रकीर्यादथवाऽपि शिग्रोः पुष्पं च तुल्यं बृहतीद्वयस्य
रसाञ्जनं सैन्धवचन्दनं च मनःशिलाले लशुनं च तुल्यम् ९
पिष्ट्वाऽञ्जनार्थे कफजेषु धीमान् वर्तीर्विदध्यान्नयनामयेषु
रोगे बलासग्रथितेऽञ्जनं ज्ञैः कर्तव्यमेतत् सुविशुद्धकाये १०
नीलान् यवान् गव्यपयोऽनुपीतान् शलाकिनः शुष्कतनून् विदह्य
तथाऽजकास्फोतकपित्थबिल्वनिर्गुण्डिजातीकुसुमानि चैव ११
तत्क्षारवत्सैन्धवतुत्थरोचनं पक्वं विदध्यादथ लोहनाड्याम्
एतद्बलासग्रथितेऽञ्जनं स्यादेषोऽनुकल्पस्तु फणिज्झकादौ १२
महौषधं मागधिकां च मुस्तां ससैन्धवं यन्मरिचं च शुक्लम्
तन्मातुलुङ्गस्वरसेन पिष्टं नेत्राञ्जनं पिष्टकमाशु हन्यात् १३
फले बृहत्या मगधोद्भवानां निधाय कल्कं फलपाककाले
स्रोतोजयुक्तं च तदुद्धृतं स्यात्तद्वत्तु पिष्टे विधिरेष चापि १४
वार्ताकशिग्र्विन्द्र सुरापटोलकिराततिक्तामलकीफलेषु
कासीससामुद्र रसाञ्जनानि जात्यास्तथा क्षारकमेव चापि १५
प्रक्लिन्नवर्त्मन्युपदिश्यते तु योगाञ्जनं तन्मधुनाऽवघृष्टम्
नादेयमग्र्यं मरिचं च शुक्लं नेपालजाता च समप्रमाणा १६
समातुलुङ्गद्र व एष योगः कण्डूं निहन्यात् सकृदञ्जनेन
सशृङ्गवेरं सुरदारु मुस्तं सिन्धुप्रभूतं मुकुलानि जात्याः १७
सुराप्रपिष्टं त्विदमञ्जनं हि कण्ड्वां च शोफे च हितं वदन्ति
स्यन्दाधिमन्थक्रममाचरेच्च सर्वेषु चैतेषु सदाऽप्रमत्तः १८
विशेषतो नावनमेव कार्यं संसर्जनं चापि यथोपदिष्टम्
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कफाभिष्यन्दप्रतिषेधो नामैकादशोऽध्यायः ११
द्वादशोऽध्यायः
अथातो रक्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मन्थं स्यन्दं सिरोत्पातं सिराहर्षं च रक्तजम्
एकेनैव विधानेन चिकित्सेच्चतुरो गदान् ३
व्याध्यार्तांश्चतुरोऽप्येतान् स्निग्धान्कौम्भेन सर्पिषा
रसैरुदारैरथवा सिरामोक्षेण योजयेत् ४
विरिक्तानां प्रकामं च शिरांस्येषां विशोधयेत्
वैरेचनिकसिद्धेन सितायुक्तेन सर्पिषा ५
मिज्ज्ञा वा तद्विमिश्रेण मेदसा तच्छृतेन वा
ततः प्रदेहाः परिषेचनानि नस्यानि धूमाश्च यथास्वमेव
आश्च्योतनाभ्यञ्जनतर्पणानि स्निग्धाश्च कार्याः पुटपाकयोगाः ६
नीलोत्पलोशीरकटङ्कटेरीकालीययष्टीमधुमुस्तरोध्रैः
सपद्मकैर्धौतघृतप्रदिग्धैरक्ष्णोः प्रलेपं परितः प्रकुर्यात् ७
रुजायां चाप्यतिभृशं स्वेदाश्च मृदवो हिताः
अक्ष्णोः समन्ततः कार्यं पातनं च जलौकसाम् ८
घृतस्य महती मात्रा पीता चार्तिं नियच्छति
पित्ताभिष्यन्दशमनो विधिश्चाप्युपपादितः ९
कशेरुमधुकाभ्यां वा चूर्णमम्बरसंवृतम्
न्यस्तमप्स्वान्तरिक्षासु हितमाश्च्योतनं भवेत् १०
पाटल्यर्जुनश्रीपर्णीधातकीधात्रिबिल्वतः
पुष्पाण्यथ बृहत्योश्च बिम्बीलोटाच्च तुल्यशः ११
समञ्जिष्ठानि मधुना पिष्टानीक्षुरसेन वा
रक्ताभिष्यन्दशान्त्यर्थमेतदञ्जनमिष्यते १२
चन्दनं कुमुदं पत्रं शिलाजतु सकुङ्कुमम्
अयस्ताम्ररजस्तुत्थं निम्बनिर्यासमञ्जनम् १३
त्रपु कांस्यमलं चापि पिष्ट्वा पुष्परसेन तु
विपुला याः कृता वर्त्यः पूजिताश्चाञ्जने सदा १४
स्यादञ्जनं घृतं क्षौद्रं सिरोत्पातस्य भेषजम्
तद्वत्सैन्धवकासीसं स्तन्यघृष्टं च पूजितम् १५
मधुना शङ्खनैपालीतुत्थदार्व्यः ससैन्धवाः
रसः शिरीषपुष्पाच्च सुरामरिचमाक्षिकैः १६
युक्तं तु मधुना वाऽपि गैरिकं हितमञ्जने
सिराहर्षेऽञ्जनं कुर्यात् फाणितं मधुसंयुतम् १७
मधुना तार्क्ष्यजं वाऽपि कासीसं वा ससैन्धवम्
वेत्राम्लस्तन्यसंयुक्तं फाणितं च ससैन्धवम् १८
पैत्तं विधिमशेषेण कुर्यादर्जुनशान्तये
इक्षुक्षौद्र सितास्तन्यदार्वीमधुकसैन्धवैः १९
सेकाञ्जनं चात्र हितमम्लैराश्च्योतनं तथा
सितामधुककट्वङ्गमस्तुक्षौद्रा म्लसैन्धवैः २०
बीजपूरककोलाम्लदाडिमाम्लैश्च युक्तितः
एकशो वा द्विशो वाऽपि योजितं वा त्रिभिस्त्रिभिः २१
स्फटिकं विद्रुमं शङ्खो मधुकं मधु चैव हि
शङ्खक्षौद्र सितायुक्तः सामुद्रः फेन एव वा २२
द्वाविमौ विहितौ योगावञ्जनेऽजुननाशनौ
सैन्धवक्षौद्र कतकाः सक्षौद्रं वा रसाञ्जनम् २३
कासीसं मधुना वाऽपि योज्यमत्राञ्जने सदा
लोहचूर्णानि सर्वाणि धातवो लवणानि च २४
रत्नानि दन्ताः शृङ्गाणि गणश्चाप्यवसादनः
कुक्कुटाण्डकपालानि लशुनं कटुकत्रयम् २५
करञ्जबीजमेला च लेख्याञ्जनमिदं स्मृतम्
पुटपाकावसानेन रक्तविस्रावणादिना २६
संपादितस्य विधिना कृत्स्नेन स्यन्दघातिना
अनेनापहरेच्छुक्रमव्रणं कुशलो भिषक् २७
उत्तानमवगाढं वा कर्कशं वाऽपि सव्रणम्
शिरीषबीजमरिचपिप्पलीसैन्धवैरपि २८
शुक्रस्य घर्षणं कार्यमथवा सैन्धवेन तु
कुर्यात्ताम्ररजःशङ्खशिलामरिचसैन्धवैः २९
अन्त्याद्द्विगुणितैरेभिरञ्जनं शुक्रनाशनम्
कुर्यादञ्जनयोगौ वा सम्यक् श्लोकार्धिकाविमौ ३०
शङ्खकोलास्थिकतकद्रा क्षामधुकमाक्षिकैः
क्षौद्र दन्तार्णवमलशिरीषकुसुमैरपि ३१
क्षाराञ्जनं वा वितरेद्बलासग्रथितापहम्
मुद्गान् वा निस्तुषान् भृष्टान् शङ्खक्षौद्र सितायुतान् ३२
मधूकसारं मधुना योजयेच्चाञ्जने सदा
बिभीतकास्थिमज्जा वा सक्षौद्रः शुक्रनाशनः ३३
शङ्खशुक्तिमधुद्रा क्षामधुकं कतकानि च
द्वित्वग्गते सशूले वा वातघ्नं तर्पणं हितम् ३४
वंशजारुष्करौ तालं नारिकेलं च दाहयेत्
विस्राव्य क्षारवच्चूर्णं भावयेत्करभास्थिजम् ३५
बहुशोऽञ्जनमेतत्स्याच्छुक्रवैवर्ण्यनाशनम्
अजकां पार्श्वतो विद्ध्वा सूच्या विस्राव्य चोदकम् ३६
व्रणं गोमांसचूर्णेन पूरयेत् सर्पिषा सह
वहुशोऽवलिखेच्चापि वर्त्मास्योपगतं यदि ३७
सशोफश्चाप्यशोफश्च द्वौ पाकौ यौ प्रकीर्तितौ
स्नेहस्वेदोपपन्नस्य तत्र विद्ध्वा सिरां भिषक् ३८
सेकाश्च्योतननस्यानि पुटपाकांश्च कारयेत्
सर्वतश्चापि शुद्धस्य कर्तव्यमिदमञ्जनम् ३९
ताम्रपात्रस्थितं मासं सर्पिः सैन्धवसंयुतम्
मैरेयं वाऽपि दध्येवं दध्युत्तरकमेव वा ४०
घृतं कांस्यमलोपेतं स्तन्यं वाऽपि ससैन्धवम्
मधूकसारं मधुना तुल्यांशं गैरिकेण वा ४१
सर्पिःसैन्धवताम्राणि योषित्स्तन्ययुतानि वा
दाडिमारेवताश्मन्तकोलाम्लैश्च ससैन्धवाम्
रसक्रियां वा वितरेत्सम्यक्पाकजिघांसया ४२
मासं सैन्धवसंयुक्तं स्थितं सर्पिषि नागरम्
आश्च्योतनाञ्जनं योज्यमबलाक्षीरसंयुतम् ४३
जात्याः पुष्पं सैन्धवं शृङ्गवेरं कृष्णाबीजं कीटशत्रोश्च सारम्
एतत् पिष्टं नेत्रपाकेऽञ्जनार्थं क्षौद्रो पेतं निर्विशङ्कं प्रयोज्यम् ४४
पूयालसे शोणितमोक्षणं च हितं तथैवाप्युपनाहनं च
कृत्स्नो विधिश्चेक्षणपाकघाती यथाविधानं भिषजा प्रयोज्यः ४५
कासीससिन्धुप्रभवार्द्र कैस्तु हितं भवेदञ्जनमेव चात्र
क्षौद्रा न्वितैरेभिरथोपयुञ्ज्यादन्यत्तु ताम्रायसचूर्णयुक्तैः ४६
स्नेहादिभिः सम्यगपास्य दोषांस्तृप्तिं विधायाथ यथास्वमेव
प्रक्लिन्नवर्त्मानमुपक्रमेत सेकाञ्जनाश्च्योतननस्यधूमैः ४७
मुस्ताहरिद्रा मधुकप्रियङ्गुसिद्धार्थरोध्रोत्पलसारिवाभि
क्षुण्णाभिराश्च्योतनमेव कार्यमत्राञ्जनं चाञ्जनमाक्षिकं स्यात् ४८
पत्रं फलं चामलकस्य पक्त्वा क्रियां विदध्यादथवाऽञ्जनार्थे
वंशस्य मूलेन रसक्रियां वा वर्तीकृतां ताम्रकपालपक्वाम् ४९
रसक्रिंयां वा त्रिफलाविपक्वां पलाशपुष्पैः खरमञ्जरेर्वा
पिष्ट्वा छगल्याः पयसा मलं वा कांसस्य दग्ध्वा सह तान्तवेन ५०
प्रत्यञ्जनं तन्मरिचैरुपेतं चूर्णेन ताम्रस्य सहोपयोज्यम्
समुद्र फेनं लवणोत्तमं च शङ्खोऽथ मुद्गो मरिचं च शुक्लम् ५१
चूर्णाञ्जनं जाड्यमथापि कण्डूमक्लिन्नवर्त्मान्युपहन्ति शीघ्रम्
प्रक्लिन्नवर्त्मन्यपि चैत एव योगाः प्रयोज्याश्च समीक्ष्य दोषम् ५२
सकज्जलं ताम्रघटे च घृष्टं सर्पिर्युतं तुत्थकमञ्जनं च ५३
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे रक्ताभिष्यन्दप्रतिषेधो नाम द्वादशोऽध्यायः १२
त्रयोदशोऽध्यायः
यथोवाच भगवान् धन्वन्तरिः २
नव येऽभिहिता लेख्याः सामान्यस्तेष्वयं विधिः
स्निग्धवान्तविरिक्तस्य निवातातपसद्मनि ३
आप्तैर्दृढं गृहीतस्य वेश्मन्युत्तानशायिनः
सुखोदकप्रतप्तेन वाससा सुसमाहितः
स्वेदयेद्वर्त्म निर्भुज्य वामाङ्गुष्ठाङ्गुलिस्थितम् ४
अङ्गुल्यङ्गुष्ठकाभ्यां तु निर्भुग्नं वर्त्म यत्नतः
प्लोतान्तराभ्यां न यथा चलति स्रंसतेऽपि वा ५
ततः प्रमृज्य प्लोतेन वर्त्म शस्त्रपदाङ्कितम्
लिखेच्छस्त्रेण पत्रैर्वा ततो रक्ते स्थिते पुनः ६
स्विन्नं मनोह्वाकासीसव्योषार्द्राञ्जनसैन्धवैः
श्लक्ष्णपिष्टैः समाक्षीकैः प्रतिसार्योष्णवारिणा ७
प्रक्षाल्य हविषा सिक्तं व्रणवत् समुपाचरेत्
स्वेदावपीडप्रभृतींस्त्र्यहादूर्ध्वं प्रयोजयेत् ८
व्यासतस्ते समुद्दिष्टं विधानं लेख्यकर्मणि
असृगास्रावरहितं कण्डूशोफविवर्जितम् ९
समं नखनिभं वर्त्म लिखितं सम्यगिष्यते
रक्तमक्षि स्रवेत् स्कन्नं क्षताच्छस्त्रकृताद्ध्रुवम् १०
रागशोफपरिस्रावास्तिमिरं व्याध्यनिर्जयः
वर्त्म श्यावं गुरु स्तब्धं कण्डूहर्षोपदेहवत् ११
नेत्रपाकमुदीर्णं वा कुर्वीताप्रतिकारिणः
एतद्दुर्लिखितं ज्ञेयं स्नेहयित्वा पुनर्लिखेत् १२
व्यावर्तते यदा वर्त्म पक्ष्म चापि विमुह्यति
स्यात् सरुक् स्रावबहुलं तदतिस्रावितं विदुः १३
स्नेहस्वेदादिरिष्टः स्यात् क्रमस्तत्रानिलापहः
वर्त्मावबन्धं क्लिष्टं च बहलं यच्च कीर्तितम् १४
पोथकीश्चाप्यवलिखेत् प्रच्छयित्वाऽग्रतः शनैः
समं लिखेत्तु मेधावी श्यावकर्दमवर्त्मनी १५
कुम्भीकिनीं शर्करां च तथैवोत्सङ्गिनीमपि
कल्पयित्वा तु शस्त्रेण लिखेत् पश्चादतन्द्रि तः १६
भवेयुर्वर्त्मसु च याः पिडकाः कठिना भृशम्
ह्रस्वास्ताम्राश्च ताः पक्वा भिन्द्याद्भिन्ना लिखेदपि १७
तरुणीश्चाल्पसंरम्भा पिडका बाह्यवर्त्मजाः
विदित्वैताः प्रशमयेत् स्वेदालेपनशोधनैः १८
रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे लेख्यरोगप्रतिषेधो
नाम त्रयोदशोऽध्यायः १३
चतुर्दशोऽध्यायः
अथातो भेद्यरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्वेदयित्वा बिसग्रन्थिं छिद्रा ण्यस्य निराशयम्
पक्वं भित्त्वा तु शस्त्रेण सैन्धवेनावचूर्णयेत् ३
कासीसमागधीपुष्पनेपाल्येलायुतेन तु
ततः क्षौद्र घृतं दत्त्वा सम्यग्बन्धमथाचरेत् ४
रोचनाक्षारतुत्थानि पिप्पल्यः क्षौद्र मेव च
प्रतिसारणमेकैकं भिन्ने लगण इष्यते ५
महत्यपि च युञ्जीत क्षाराग्नी विधिकोविदः
स्विन्नांभिन्नां विनिष्पीड्य भिषगञ्जननामिकाम् ६
शिलैलानतसिन्धूत्थैः सक्षौद्रैः प्रतिसारयेत्
रसाञ्जनमधुभ्यां तु भित्त्वा वा शस्त्रकर्मवित् ७
प्रतिसार्य्याञ्जनैर्युञ्ज्यादुष्णैर्दीपशिखोद्भवैः
सम्यक् स्विन्ने कृमिग्रन्थौ भिन्ने स्यात् प्रतिसारणम् ८
त्रिफलातुत्थकासीससैन्धवैश्च रसक्रिया
भित्त्वोपनाहं कफजं पिप्पलीमधुसैन्धवैः ९
लेखयेन्मण्डलाग्रेण समन्तात् प्रच्छयेदपि
संस्नेह्य पत्रभङ्गैश्च स्वेदयित्वा यथासुखम् १०
आपाकाद्विधिनोक्तेन पञ्चभेद्यानुपाचरेत्
सर्वेष्वेतेषु विहितं विधानं स्नेहपूर्वकम्
संपक्वे प्रयतो भूत्वा कुर्वीत व्रणरोपणम् ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे भेद्यरोगप्रतिषेधो
नाम चतुर्दशोऽध्यायः १४
पञ्चदशोऽध्यायः
अथातश्छेद्यरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्निग्धं भुक्तवतो ह्यन्नमुपविष्टस्य यत्नतः
संरोषयेत्तु नयनं भिषक् चूर्णैस्तु लावणैः ३
ततः संरोषितं तूर्णं सुस्विन्नं परिघट्टितम्
अर्म यत्र वलीजातं तत्रैतल्लगयेद्भिषक् ४
अपाङ्गं प्रेक्षमाणस्य बडिशेन समाहितः
मुचुण्ड्याऽदाय मेधावी सूचीसूत्रेण वा पुनः ५
न चोत्थापयता क्षिप्रं कार्यमभ्युन्नतं तु तत्
शस्त्राबाधभयाच्चास्य वर्त्मनी ग्राहयेद्दृढम् ६
ततः प्रशिथिलीभूतं त्रिभिरेव विलम्बितम्
उल्लिखन्मण्डलाग्रेण तीक्ष्णेन परिशोधयेत् ७
विमुक्तं सर्वतश्चापि कृष्णाच्छुक्लाच्च मण्डलात्
नीत्वा कनीनकोपान्तं छिन्द्यान्नातिकनीनकम् ८
चतुर्भागस्थिते मांसे नाक्षि व्यापत्तिमृच्छति
कनीनकवधादस्रं नाडी वाऽप्युपजायते ९
हीनच्छेदात् पुनर्वृद्धिं शीघ्रमेवाधिगच्छति
अर्म यज्जालवद्व्यापि तदप्युन्मार्ज्य लम्बितम् १०
छिन्द्याद्वक्रेण शस्त्रेण वर्त्मशुक्लान्तमाश्रितम्
प्रतिसारणमक्ष्णोस्तु ततः कार्यमनन्तरम् ११
यावनालस्य चूर्णेन त्रिकटोर्लवणस्य च
स्वेदयित्वा ततः पश्चाद्बध्नीयात् कुशलो भिषक् १२
दोषर्तुबलकालज्ञः स्नेहं दत्त्वा यथाहितम्
व्रणवत् संविधानं तु तस्य कुर्यादतः परम् १३
त्र्यहान्मुक्त्वा करस्वेदं दत्त्वा शोधनमाचरेत्
करञ्जबीजामलकमधुकैः साधितं पयः १४
हितमाश्च्योतनं शूले द्विरह्नः क्षौद्र संयुतम्
मधुकोत्पलकिञ्जल्कदूर्वाकल्कैश्च मूर्धनि १५
प्रलेपः सघृतः शीतः क्षीरपिष्टः प्रशस्यते
लेख्याञ्जनैरपहरेदर्मशेषं भवेद्यदि १६
अर्म चाल्पं दधिनिभं नीलं रक्तमथापि वा
धूसरं तनु यच्चापि शुक्रवत्तदुपाचरेत् १७
चर्माभं बहलं यत्तु स्नायुमांसघनावृतम्
छेद्यमेव तदर्म स्यात् कृष्णमण्डलगं च यत् १८
विशुद्धवर्णमक्लिष्टं क्रियास्वक्षि गतक्लमम्
छिन्नेऽमणि भवेत् सम्यग्यथास्वमनुपद्र वम् १९
सिराजाले सिरा यास्तु कठिनास्ताश्च बुद्धिमान्
उल्लिखेन्मण्डलाग्रेण बडिशेनावलम्बिताः २०
सिरासु पिडका जाता या न सिध्यन्ति भेषजैः
अर्मवन्मण्डलाग्रेण तासां छेदनमिष्यते २१
रोगयोश्चैयतोः कार्यमर्मोक्तं प्रतिसारणम्
विधिश्चापि यथादोषं लेखनद्र व्यसंभृतः २२
सन्धौ संस्वेद्य शस्त्रेण पर्वणीकां विचक्षणः
उत्तरे च त्रिभागे च बडिशेनावलम्बिताम् २३
छिन्द्यात्ततोऽधमग्रे स्यादश्रुनाडी ह्यतोऽन्यथा
प्रतिसारणमत्रापि सैन्धवक्षौद्र मिष्यते २४
लेखनीयानि चूर्णानि व्याधिशेषस्य भेषजम्
शङ्खं समुद्र फेनं च मण्डूकीं च समुद्र जाम् २५
स्फटिकं कुरुविन्दं च प्रवालाश्मन्तकं तथा
वैदूर्यं पुलकं मुक्तामयस्ताम्ररजांसि च २६
समभागानि संपिष्य सार्धं स्रोतोञ्जनेन तु
चूर्णाञ्जनं कारयित्वा भाजने मेषशृङ्गजे २७
संस्थाप्योभयतः कालमञ्जयेत् सततं बुधः
अर्माणि पिडकां हन्यात् सिराजालानि तेन वै २८
अर्शस्तथा यच्च नाम्ना शुष्कार्शोऽबुदमेव च
अभ्यन्तरं वर्त्मशया विधानं तेषु वक्ष्यते २९
वर्त्मोपस्वेद्य निर्भुज्य सूच्योत्क्षिप्य प्रयत्नतः
मण्डलाग्रेण तीक्ष्णेन मूले भिन्द्याद्भिषग्वरः ३०
ततः सैन्धवकासीसकृष्णाभिः प्रतिसारयेत्
स्थिते च रुधिरे वर्त्म दहेत् सम्यक् शलाकया ३१
क्षारेणावलिखेच्चापि व्याधिशेषो भवेद्यदि
तीक्ष्णैरुभयतोभागैस्ततो दोषमधिक्षिपेत् ३२
वितरेच्च यथादोषमभिष्यन्दक्रियाविधिम्
शस्त्रकर्मण्युपरते मासं च स्यात् सुयन्त्रितः ३३
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे छेद्यरोगप्रतिषेधो
नाम पञ्चदशोऽध्यायः १५
षोडशोऽध्यायः
अथातः पक्ष्मकोपप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
याप्यस्तु यो वर्त्मभवो विकारः पक्ष्मप्रकोपोऽभिहितः पुरस्तात्
तत्रोपविष्टस्य नरस्य चर्म वर्त्मोपरिष्टादनुतिर्यगेव ३
भ्रुवोरधस्तात् परिमुच्य भागौ पक्ष्माश्रितं चैकमतोऽवकृन्तेत्
कनीनकापाङ्गसमं समन्ताद्यवाकृति स्निग्धतनोर्नरस्य ४
उत्कृत्य शस्त्रेण यवप्रमाणं बालेन सीव्येद्भिषगप्रमत्तः
दत्त्वा च दर्पिर्मधुनाऽवशेषं कुर्याद्विधानं विहितं व्रणे यत् ५
ललाटदेशे च निबद्धपट्टं प्राक्स्यूतमत्राप्यपरं च बद्ध्वा
स्थैर्यं गते चाप्यथ शस्त्रमार्गे बालान् विमुञ्चेत् कुशलोऽभिवीक्ष्य ६
एवं न चेच्छाम्यति तस्य वर्त्म निर्भुज्य दोषोपहतां वलि च
ततोऽग्निना वा प्रतिसारयेत्तां क्षारेण वा सम्यगवेक्ष्य धीरः ७
छित्त्वा समं वाऽप्युपपक्ष्ममालां सम्यग्गृहीत्वा बडिशैस्त्रिभिस्तु
पथ्याफलेन प्रतिसारयेत्तु घृष्टेन वा तौवरकेण सम्यक् ८
चत्वार एते विधयो विहन्तुं पक्ष्मोपरोधं पृथगेव शस्ताः
विरेचनाश्च्योतनधूमनस्य लेपाञ्जनस्नेहरसक्रियाश्च ९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे पक्ष्मगतरोगप्रतिषेधो
नाम षोडशोऽध्यायः १६
सप्तदशोऽध्यायः
अथातो दृष्टिगतरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
त्रयः साध्यास्त्रयोऽसाध्या याप्याः षट् च भवन्ति हि
तत्रैकस्य प्रतीकारः कीर्तितो धूमदर्शिनः ३
दृष्टौ पित्तविदग्धायां विदग्धायां कफेन च
पित्तश्लेष्महरं कुर्याद्विधिं शस्त्रक्षतादृते ४
नस्यसेकाञ्जनालेपपुटपाकैः सतर्पणैः
आद्ये तु त्रैफलं पेयं सर्पिस्त्रैवृतमुत्तरे ५
तैल्वकं चोभयोः पथ्यं केवलं जीर्णमेव वा
गैरिकं सैन्धवं कृष्णा गोदन्तस्य मषी तथा ६
गोमांसं मरिचं बीजं शिरीषस्य मनःशिला
वृन्तं कपित्थान्मधुना स्वयङ्गुप्ताफलानि च ७
चत्वार एते योगाः स्युरुभयोरञ्जने हिताः
कुब्जकाशोकशालाम्रप्रियङ्गुनलिनोत्पलैः ८
पुष्पैर्हरेणुकृष्णाह्वापथ्यामलकसंयुतैः
सर्पिर्मधुयुतैश्चूर्णैर्वेणुनाड्यामवस्थितैः ९
अञ्जयेद् द्वावपि भिषक् पित्तश्लेष्मविभावितौ
आम्रजम्बूद्भवं पुष्पं तद्र सेन हरेणुकाम् १०
पिष्ट्वा क्षौद्रा ज्यसंयुक्तं प्रयोज्यमथवाऽञ्जनम्
नलिनोत्पलकिञ्जल्कगैरिकैर्गोशकृद्र सैः ११
गुडिकाञ्जनमेतद्वा दिनरात्र्यन्धयोर्हितम्
रसाञ्जनरसक्षौद्र तालीशस्वर्णगैरिकम् १२
गोशकृद्र ससंयुक्तं पित्तोपहतदृष्टये
शीतं सौवीरकं वाऽपि पिष्ट्वाऽथ रसभावितम् १३
कूर्मपित्तेन मतिमान् भावयेद्रौ हितेन वा
चूर्णाञ्जनमिदं नित्यं प्रयोज्यं पित्तशान्तये १४
काश्मरीपुष्पमधुकदार्वीरोध्ररसाञ्जनैः
सक्षौद्र मञ्जनं तद्वद्धितमत्रामये सदा १५
स्रोतोजं सैन्धवं कृष्णां रेणुकां चापि पेषयेत्
अजामूत्रेण ता वर्त्यः क्षणदान्ध्याञ्जने हिताः १६
कालानुसारिवां कृष्णां नागरं मधुकं तथा
तालीशपत्रं क्षणदे गाङ्गेयं च यकृद्र से १७
कृतास्ता वर्तयः पिष्टाश्छायाशुष्काः सुखावहाः
मनःशिलाभयाव्योषबलाकालानुसारिवाः १८
सफेना वर्तयः पिष्टाश्छागक्षीरसमन्विताः
गोमूत्रपित्तमदिरायकृद्धात्रीरसे पचेत् १९
क्षुद्रा ञ्जनं रसेनान्यद्यकृतस्त्रैफलेऽपि वा
गोमूत्राज्यार्णवमलपिप्पलीक्षौद्र कट्फलैः २०
सैन्धवोपहितं युञ्ज्यान्निहितं वेणुगह्वरे
मेदो यकृद्घृतं चाजं पिप्पल्यः सैन्धवं मधु २१
रसमामलकाच्चापि पक्वं सम्यङिनधापयेत्
कोशे खदिरनिर्माणे तद्वत् क्षुद्रा ञ्जनं हितम् २२
हरेणुमगधाजास्थिमज्जैलायकृदन्वितम्
यकृद्र सेनाञ्जनं वा श्लेष्मोपहतदृष्टये २३
विपाच्य गोधायकृदर्धपाटितं सुपूरितं मागधिकाभिरग्निना
निषेवितं तद्यकृदञ्जनेन निहन्ति नक्तान्ध्यमसंशयं खलु २४
तथा यकृच्छागभवं हुताशने विपाच्य सम्यङ्मगधासमन्वितम्
प्रयोजितं पूर्ववदाश्वसंशयं जयेत् क्षपान्ध्यं सकृदञ्जनान्नृणाम् २५
प्लीहा यकृच्चाप्युपभक्षिते उभे प्रकल्प्य शूल्ये घृततैलसंयुते
ते सार्षपस्नेहसमायुतेऽञ्जनं नक्तान्ध्यमाश्वेव हतः प्रयोजिते २६
नदीजशिम्बीत्रिकटून्यथाञ्जनं मनःशिला द्वे च निशे यकृद्गवाम्
सचन्दनेयं गुटिकाऽथवाऽञ्जनं प्रशस्यते वै दिवसेष्वपश्यताम् २७
भवन्ति याप्याः खलु ये षडामया हरेदसृक्तेषु सिराविमोक्षणैः
विरेचयेच्चापि पुराणसर्पिषा विरेचनाङ्गोपहितेन सर्वदा २८
पयोविमिश्रं पवनोद्भवे हितं वदन्ति पञ्चाङ्गुलतैलमेव तु
भवेद्घृतं त्रैफलमेव शोधनं विशेषतः शोणितपित्तरोगयोः २९
त्रिवृद्विरेकः कफजे प्रशस्यते त्रिदोषजे तैलमुशन्ति तत्कृतम्
पुराणसर्पिस्तिमिरेषु सर्वशो हितं भवेदायसभाजनस्थितम् ३०
हितं च विद्यात्त्रिफलाघृतं सदा कृतं च यन्मेषविषाणनामभिः
सदाऽवलिह्यात्त्रिफलां सुचूर्णितां घृतप्रगाढां तिमिरेऽथ पित्तजे ३१
समीरजे तैलयुतां कफात्मके मधुप्रगाढां विदधीत युक्तितः
गवां शकृत्क्वाथविपक्वमुत्तमं हितं तु तैलं तिमिरेषु नावनम् ३२
हितं घृतं केवल एव पैत्तिके ह्यजाविकं यन्मधुरैर्विपाचितम्
तैलं स्थिरादौ मधुरे च यद्गणे तथाऽणुतैलं पवनासृगुत्थयोः ३३
सहाश्वगन्धातिबलावरीशृतं हितं च नस्ये त्रिवृतं यदीरितम्
जलोद्भवानूपजमांससंस्कृताद्घृतं विधेयं पयसो यदुत्थितम् ३४
ससैन्धवः क्रव्यभुगेणमांसयोर्हितः ससर्पिः समधुः पुटाह्वयः
वसाऽथ गृध्रोरगताम्रचूडजा सदा प्रशस्ता मधुकान्विताऽञ्जने ३५
प्रत्यञ्जनं स्रोतसि यत्समुत्थितं क्रमाद्र सक्षीरघृतेषु भावितम्
स्थितं दशाहत्रयमेतदञ्जनं कृष्णोरगास्ये कुशसंप्रवेष्टिते ३६
तन्मालतीकोरकसैन्धवायुतं सदाऽञ्जनं स्यात्तिमिरेऽथ रागिणि
सुभावितं वा पयसा दिनत्रयं काचापहं शास्त्रविदः प्रचक्षते ३७
हविर्हितं क्षीरभवं तु पैत्तिके वदन्ति नस्ये मधुरौषधैः कृतम्
तत्तर्पणे चैव हितं प्रयोजितं सजाङ्गलस्तेषु च यः पुटाह्वयः ३८
रसाञ्जनक्षौद्र सितामनःशिलाः क्षुद्रा ञ्जनं तन्मधुकेन संयुतम्
समाञ्जनं वा कनकाकरोद्भवं सुचूर्णितं श्रेष्ठमुशन्ति तद्विदः ३९
भिल्लोटगन्धोदकसेकसेचितं प्रत्यञ्जने चात्र हितं तु तुत्थकम्
समेषशृङ्गाञ्जनभागसंमितं जलोद्भवं काचमलं व्यपोहति ४०
पलाशरोहीतमधूकजा रसाः क्षौद्रे ण युक्ता मदिराग्रमिश्रिताः
उशीरलोध्रत्रिफलाप्रियङ्गुभिः पचेत्तु नस्यं कफरोगशान्तये ४१
विडङ्गपाठाकिणिहीङ्गुदीत्वचः प्रयोजयेद्धूममुशीरसंयुताः
वनस्पतिक्वाथविपाचितं घृतं हितं हरिद्रा नलदे च तर्पणम् ४२
समागधो माक्षिकसैन्धवाढ्यः सजाङ्गलः स्यात् पुटपाक एव च
मनःशिलात्र्यूषणशङ्खमाक्षिकैः ससिन्धुकासीसरसाञ्जनैः क्रियाः ४३
हिते च कासीसरसाञ्जने तथा वदन्ति पथ्ये गुडनागरैर्युते
यदञ्जनं वा बहुशो निषेचितं समूत्रवर्गे त्रिफलोदके शृते ४४
निशाचरास्थिस्थितमेतदञ्जनं क्षिपेच्च मासं सलिलेऽस्थिरे पुनः
मेषस्य पुष्पैर्मधुकेन संयुतं तदञ्जनं सर्वकृते प्रयोजयेत् ४५
क्रियाश्च सर्वाः क्षतजोद्भवे हितः क्रमः परिम्लायिनि चापि पित्तहृत्
क्रमो हितः स्यन्दहरः प्रयोजितः समीक्ष्य दोषेषु यथास्वमेव च ४६
दोषोदये नैव च विप्लुतिंगते द्र व्याणि नस्यादिषु योजयेद्बुधः
पुनश्च कल्पेऽञ्जनविस्तरः शुभः प्रवक्ष्यतेऽन्यस्तमपीह योजयेत् ४७
घृतं पुराणं त्रिफलां शतावरीं पटोलमुद्गामलकं यवानपि
निषेवमाणस्य नरस्य यत्नतो भयं सुघोरात्तिमिरान्न विद्यते ४८
शतावरीपायस एव केवलस्तथा कृतो वाऽमलकेषु पायसः
प्रभूतसर्पिस्त्रिफलोदकोत्तरो यवौदनो वा तिमिरं व्यपोहति ४९
जीवन्तिशाकं सुनिषण्णकं च सतण्डुलीयं वरवास्तुकं च
चिल्ली तथा मूलकपोतिका च दृष्टेर्हितं शाकुनजाङ्गलं च ५०
पटोलकर्कोटककारवेल्लवार्ताकुतर्कारिकरीरजानि
शाकानि शिग्र्वार्तगलानि चैव हितानि दृष्टेर्घृतसाधितानि ५१
विवर्जयेत्सिरामोक्षं तिमिरे रागमागते
यन्त्रेणोत्पीडितो दोषो निहन्यादाशु दर्शनम् ५२
अरागि तिमिरं साध्यमाद्यं पटलमाश्रितम्
कृच्छ्रं द्वितीये रागि स्यात्तृतीये याप्यमुच्यते ५३
रागप्राप्तेष्वपि हितास्तिमिरेषु तथा क्रियाः
यापनार्थं यथोद्दिष्टाः सेव्याश्चापि जलौकसः ५४
श्लैष्मिके लिङ्गनाशे तु कर्म वक्ष्यामि सिद्धये
न चेदर्धेन्दुघर्माम्बुबिन्दुमुक्ताकृतिः स्थिरः ५५
विषमो वा तनुर्मध्ये राजिमान् वा बहुप्रभः
दृष्टिस्थो लक्ष्यते दोषः सरुजो वा सलोहितः ५६
स्निग्धस्विन्नस्य तस्याथ काले नात्युष्णशीतले
यन्त्रितस्योपविष्टस्य स्वां नासां पश्यतः समम् ५७
मतिमान् शुक्लभागौ द्वौ कृष्णान्मुक्त्वा ह्यपाङ्गतः
उन्मील्य नयने सम्यक् सिराजालविवर्जिते ५८
नाधो नोर्ध्वं न पार्श्वाभ्यां छिद्रे दैवकृते ततः
शलाकया प्रयत्नेन विश्वस्तं यववक्रया ५९
मध्यप्रदेशिन्यङ्गुष्ठस्थिरहस्तगृहीतया
दक्षिणेन भिषक् सव्यं विध्येत् सव्येन चेतरत् ६०
वारिबिन्द्वागमः सम्यग् भवेच्छब्दस्तथा व्यधे
संसिच्य विद्धमात्रं तु योषित्स्तन्येन कोविदः ६१
स्थिरे दोषे चले वाऽपि स्वेदयेदक्षि बाह्यतः
सम्यक् शलाकां संस्थाप्य भङ्गैरनिलनाशनैः ६२
शलाकाग्रेण तु ततो निर्लिखेद्दृष्टिमण्डलम्
विध्यतो योऽन्यपार्श्वेऽक्ष्णस्तं रुद्ध्वा नासिकापुटम् ६३
उच्छिङ्घनेन हर्तव्यो दृष्टिमण्डलगः कफः
निरभ्र इव घर्मांशुर्यदा दृष्टिः प्रकाशते ६४
तदाऽसौ लिखिता सम्यग् ज्ञेया या चापि निर्व्यथा
एवं त्वशक्ये निर्हर्तुं दोषे प्रत्यागतेऽपि वा ६५
स्नेहाद्यैरुपपन्नस्य व्यधो भूयो विधीयते
ततो दृष्टेषु रूपेषु शलाकामाहरेच्छनैः ६६
घृतेनाभ्यज्य नयनं वस्त्रपट्टेन वेष्टयेत्
ततो गृहे निराबाधे शयीतोत्तान एव च ६७
उद्गारकासक्षवथुष्ठीवनोत्कम्पनानि च
तत्कालं नाचरेदूर्ध्वं यन्त्रणा स्नेहपीतवत् ६८
त्र्यहात् त्र्यहाच्च धावेत कषायैरनिलापहैः
वायोर्भयात् त्र्यहादूर्ध्वं स्वेदयेदक्षि पूर्ववत् ६९
दशाहमेवं संयम्य हितं दृष्टिप्रसादनम्
पश्चात्कर्म च सेवेत लघ्वन्नं चापि मात्रया ७०
सिराव्यधविधौ पूर्वं नरा ये च विवर्जिताः
न तेषां नीलिकां विध्येदन्यत्राभिहिताद्भिषक् ७१
पूर्यते शोणितेनाक्षि सिरावेधाद्विसर्पता
तत्र स्त्रीस्तन्ययष्ट्याह्वपक्वं सेके हितं घृतम् ७२
अपाङ्गासन्नविद्धे तु शोफशूलाश्रुरक्तताः
तत्रोपनाहं भ्रूमध्ये कुर्याच्चोष्णाज्यसेचनम् ७३
व्यधेनासन्नकृष्णेन रागः कृष्णं च पीड्यते
तत्राधःशोधनं सेकः सर्पिषा रक्तमोक्षणम् ७४
अथाप्युपरि विद्धे तु कष्टा रुक् संप्रवर्तते
तत्र कोष्णेन हविषा परिषेकः प्रशस्यते ७५
शूलाश्रुरागास्त्वत्यर्थमधोवेधेन पिच्छिलः
शलाकामनु चास्रावस्तत्र पूर्वचिकित्सितम् ७६
रागाश्रुवेदनास्तम्भहर्षाश्चातिविघट्टिते
स्नेहस्वेदौ हितौ तत्र हितं चाप्यनुवासनम् ७७
दोषस्त्वधोऽपकृष्टोऽपि तरुणः पुनरूर्ध्वगः
कुर्याच्छुक्लारुणं नेत्रं तीव्ररुङ्नष्टदर्शनम् ७८
मधुरैस्तत्र सिद्धेन घृतेनाक्ष्णः प्रसेचनम्
शिरोबस्तिं च तेनैव दद्यान्मांसैश्च भोजनम् ७९
दोषस्तु संजातबलो घनः संपूर्णमण्डलः
प्राप्य नश्येच्छलाकाग्रं तन्वभ्रमिव मारुतम् ८०
मूर्धाभिघातव्यायामव्यवायवमिमूर्च्छनैः
दोषः प्रत्येति कोपाच्च विद्धोऽतितरुणश्च यः ८१
शलाका कर्कशा शूलं खरा दोषपरिप्लुतिम्
व्रणं विशालं स्थूलाग्रा तीक्ष्णा हिंस्यादनेकधा ८२
जलास्रावं तु विषमा क्रियासङ्गमथास्थिरा
करोति वर्जिता दोषैस्तस्मादेभिर्हिता भवेत् ८३
अष्टाङ्गुलायता मध्ये सूत्रेण परिवेष्टिता
अङ्गुष्ठपर्वसमिता वक्त्रयोर्मुकुलाकृतिः ८४
ताम्रायसी शातकुम्भी शलाका स्यादनिन्दिता
रागः शोफोऽबुदं चोषो बुद्बुदं शूकराक्षिता ८५
अधिमन्थादयश्चान्ये रोगाः स्युर्व्यधदोषजाः
अहिताचारतो वाऽपि यथास्वं तानुपाचरेत् ८६
रुजायामक्षिरागे वा योगान् भूयो निबोध मे
गैरिकं सारिवा दूर्वा यवपिष्टं घृतं पयः ८७
सुखालेपः प्रयोज्योऽय वेदनारागशान्तये
मृदुभृष्टैस्तिलैर्वाऽपि सिद्धार्थकसमायुतैः ८८
मातुलुङ्गरसोपेतैः सुखालेपस्तदर्थकृत्
पयस्यासारिवापत्रमञ्जिष्ठामधुकैरपि ८९
अजाक्षीरान्वितैर्लेपः सुखोष्णः पथ्य उच्यते
दारुपद्मकशुण्ठीभिरेवमेव कृतोऽपि वा ९०
द्रा क्षामधुककुष्ठैर्वा तद्वत् सैन्धवसंयुतैः
रोध्रसैन्धवमृद्वीकामधुकैर्वाऽप्यजापयः ९१
शृतं सेके प्रयोक्तव्यं रुजारागनिवारणम्
मधुकोत्पलकुष्ठैर्वा द्रा क्षालाक्षासितायुतैः
ससैन्धवैः शृतं क्षीरं रुजारागनिबर्हणम् ९२
शतावरीपृथक्पर्णीमुस्तामलकपद्मकैः
साजक्षीरैः शृतं सर्पिर्दाहशूलनिबर्हणम् ९३
वातघ्नसिद्धे पयसि सिद्धं सर्पिश्चतुर्गुणे
काकोल्यादिप्रतीवापं तद्युञ्ज्यात् सर्वकर्मसु ९४
शाम्यत्येवं न चेच्छूलं स्निग्धस्विन्नस्य मोक्षयेत्
ततः सिरां दहेद्वाऽपि मतिमान् कीर्तितं यथा ९५
दृष्टेरतः प्रसादार्थमञ्जने शृणु मे शुभे
मेषशृङ्गस्य पुष्पाणि शिरीषधवयोरपि ९६
सुमनायाश्च पुष्पाणि मुक्ता वैदूर्यमेव च
अजाक्षीरेण संपिष्य ताम्रे सप्ताहमावपेत् ९७
प्रविधाय च तद्वर्तीर्योजयेच्चाञ्जने भिषक्
स्रोतोजं विद्रुमं फेनं सागरस्य मनःशिलाम् ९८
मरिचानि च तद्वर्तीः कारयेच्चापि पूर्ववत्
दृष्टिस्थैर्यार्थमेतत्तु विदध्यादञ्जने हितम् ९९
भूयो वक्ष्यामि मुख्यानि विस्तरेणाञ्जनानि च
कल्पे नानाप्रकाराणि तान्यपीह प्रयोजयेत् १००
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे दृष्टिगतरोगविज्ञानीयो
नाम सप्तदशोऽध्यायः १७
अष्टादशोऽध्यायः
अथातः क्रियाकल्पं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सर्वशास्त्रार्थतत्त्वज्ञस्तपोदृष्टिरुदारधीः
वैश्वामित्रं शशासाथ शिष्यं काशिपतिर्मुनिः ३
तर्पणं पुटपाकश्च सेक आश्च्योतनाञ्जने
तत्र तत्रोपदिष्टानि तेषां व्यासं निबोध मे ४
संशुद्धदेहशिरसो जीर्णान्नस्य शुभे दिने
पूर्वाह्णे वाऽपराह्णे वा कार्यमक्ष्णोस्तु तर्पणम् ५
वातातपरजोहीने वेश्मन्युत्तानशायिनः
आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ ६
समौ दृढावसंबाधौ कर्तव्यौ नेत्रकोशयोः
पूरयेद्घृतमण्डस्य विलीनस्य सुखोदके ७
आपक्ष्माग्रात्ततः स्थाप्यं पञ्च तद्वाक्शतानि तु
स्वस्थे कफे षट् पित्तेऽष्टौ दश वाते तदुत्तमम् ८
रोगस्थानविशेषेण केचित् कालं प्रचक्षते
यथाक्रमोपदिष्टेषु त्रीण्येकं पञ्च सप्त च ९
दश दृष्ट्यामथाष्टौ च वाक्शतानि विभावयेत्
ततश्चापाङ्गतः स्नेहं स्रावयित्वाऽक्षि शोधयेत् १०
स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः
यथास्वं धूमपानेन कफमस्य विशोधयेत् ११
एकाहं वा त्र्यहं वाऽपि पञ्चाहं चेष्यते परम्
तर्पणे तृप्तिलिङ्गानि नेत्रस्येमानि लक्षयेत् १२
सुखस्वप्नावबोधत्वं वैशद्यं वर्णपाटवम्
निवृतिर्व्याधिविध्वंसः क्रियालाघवमेव च १३
गुर्वाविलमतिस्निग्धमश्रुकण्डूपदेहवत्
ज्ञेयं दोषसमुत्क्लिष्टं नेत्रमत्यर्थतर्पितम् १४
रूक्षमाविलमस्राढ्यमसहं रूपदर्शने
व्याधिवृद्धिश्च तज्ज्ञेयं हीनतर्पितमक्षि च १५
अनयोर्दोषबाहुल्यात् प्रयतेत चिकित्सिते
धूमनस्याञ्जनैः सेकै रूक्षैः स्निग्धैश्च योगवित् १६
ताम्यत्यतिविशुष्कं यद्रू क्षं यच्चातिदारुणम्
शीर्णपक्ष्माविलं जिह्मं रोगक्लिष्टं च यद्भृशम् १७
तदक्षि तर्पणादेव लभेतोर्जामसंशयम्
दुर्दिनात्युष्णशीतेषु चिन्तायासभ्रमेषु च १८
अशान्तोपद्र वे चाक्ष्णि तर्पणं न प्रशस्यते
पुटपाकस्तथैतेषु नस्यं येषु च गर्हितम् १९
तर्पणार्हा न ये प्रोक्ताः स्नेहपानाक्षमाश्च ये
ततः प्रशान्तदोषेषु पुटपाकक्षमेषु च २०
पुटपाकः प्रयोक्तव्यो नेत्रेषु भिषजा भवेत्
स्नेहनो लेखनीयश्च रोपणीयश्च स त्रिधा २१
हितः स्निग्धोऽतिरूक्षस्य स्निग्धस्यापि च लेखनः
दृष्टेर्बलार्थमपरः पित्तासृग्व्रणवातनुत् २२
स्नेहमांसवसामज्जमेदःस्वाद्वौषधैः कृतः
स्नेहनः पुटपाकस्तु धार्यो द्वे वाक्शते तु सः २३
जाङ्गलानां यकृन्मांसैर्लेखनद्र व्यसंभृतैः
कृष्णलोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः २४
समुद्र फेनकासीसस्रोतोजदधिमस्तुभिः
लेखनो वाक्शतं तस्य परं धारणमुच्यते २५
स्तन्यजाङ्गलमध्वाज्यतिक्तद्र व्यविपाचितः
लेखनात्त्रिगुणं धार्यः पुटपाकस्तु रोपणः २६
वितरेत्तर्पणोक्तं तु धूमं हित्वा तु रोपणम्
स्नेहस्वेदौ द्वयोः कार्यौ कार्यो नैव च रोपणे २७
एकाहं वा द्वयहं वाऽपि त्र्यहं वाऽप्यवचारणम्
यन्त्रणा तु क्रियाकालाद्द्विगुणं कालमिष्यते २८
तेजांस्यनिलमाकाशमादर्शं भास्वराणि च
नेक्षेत तर्पिते नेत्रे पुटपाककृते तथा २९
मिथ्योपचारादनयोर्यो व्याधिरुपजायते
अञ्जनाश्च्योतनस्वेदैर्यथास्वं तमुपाचरेत् ३०
प्रसन्नवर्णं विशदं वातातपसहं लघु
सुखस्वप्नावबोध्यक्षि पुटपाकगुणान्वितम् ३१
अतियोगाद्रुजः शोफः पिडकास्तिमिरोद्गमः
पाकोऽश्रु हर्षणं चापि हीने दोषोद्गमस्तथा ३२
अत ऊर्ध्वं प्रवक्ष्यामि पुटपाकप्रसाधनम्
द्वौ बिल्वमात्रौ श्लक्ष्णस्य पिण्डौ मांसस्य पेषितौ ३३
द्र व्याणां बिल्वमात्रं तु द्र वाणां कुडवो मतः
तदैकध्यं समालोड्य पत्रैः सुपरिवेष्टितम् ३४
काश्मरीकुमुदैरण्डपद्मिनीकदलीभवैः
मृदावलिप्तमङ्गारैः खादिरैरबकूलयेत् ३५
कतकाश्मन्तकैरण्डपाटलावृषबादरैः
सक्षीरद्रुमकाष्ठैर्वा गोमयैर्वाऽपि युक्तितः ३६
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं नृणाम्
तर्पणोक्तेन विधिना यथावदवचारयेत् ३७
कनीनके निषेच्यः स्यान्नित्यमुत्तानशायिनः
रक्ते पित्ते च तौ शीतौ कोष्णौ वातकफापहौ ३८
अत्युष्णतीक्ष्णौ सततं दाहपाककरौ स्मृतौ
अप्लुतौ शीतलौ चाश्रुस्तम्भरुग्घर्षकारकौ ३९
अतिमात्रौ कषायत्वसङ्कोचस्फुरणावहौ
हीनप्रमाणौ दोषाणामुत्क्लेशजननौ भृशम् ४०
युक्तौ कृतौ दाहशोफरुग्घर्षस्रावनाशनौ
कण्डूपदेहदूषीकारक्तराजिविनाशनौ ४१
तस्मात् परिहरन् दोषान् विदध्यात्तौ सुखावहौ
व्यापदश्च यथादोषं नस्यधूमाञ्जनैर्जयेत् ४२
आद्यन्तयोश्चाप्यनयोः स्वेद उष्णाम्बुचैलिकः
तथा हितोऽवसाने च धूमः श्लेष्मसमुच्छ्रितौ ४३
यथादोषोपयुक्तं तु नातिप्रबलमोजसा
रोगमाश्च्योतनं हन्ति सेकस्तु बलवत्तरम् ४४
तौ त्रिधैवोपयुज्येते रोगेषु पुटपाकवत्
लेखने सप्त चाष्टौ वा बिन्दवः स्नैहिके दश ४५
आश्च्योतने प्रयोक्तव्या द्वादशैव तु रोपणे
सेकस्य द्विगुणः कालः पुटपाकात् परो मतः ४६
अथवा कार्यनिर्वृत्तेरुपयोगो यथाक्रमम्
पूर्वापराह्णे मध्याह्ने रुजाकालेषु चोभयोः ४७
योगायोगात् स्नेहसेके तर्पणोक्तान् प्रचक्षते
रोगाञ्छिरसि संभूतान् हत्वाऽतिप्रबलान् गुणान् ४८
करोति शिरसो बस्तिरुक्ता ये मूर्धतैलिकाः
शुद्धदेहस्य सायाह्ने यथाव्याध्यशितस्य तु ४९
ऋज्वासीनस्य बध्नीयाद्बस्तिकोशं ततो दृढम्
यथाव्याधिशृतस्नेहपूर्णं संयम्य धारयेत् ५०
तर्पणोक्तं दशगुणं यथादोषं विधानवित्
व्यक्तरूपेषु दोषेषु शुद्धकायस्य केवले ५१
नेत्र एव स्थिते दोषे प्राप्तमञ्जनमाचरेत्
लेखनं रोपणं चापि प्रसादनमथापि वा ५२
तत्र पञ्च रसान् व्यस्तानाद्यैकरसवर्जितान्
पञ्चधा लेखनं युञ्ज्याद्यथादोषमतन्द्रि तः ५३
नेत्रवर्त्मसिराकोशस्रोतःशृङ्गाटकाश्रितम्
मुखनासाक्षिभिर्दोषमोजसा स्रावयेत्तु तत् ५४
कषायं तिक्तकं वाऽपि सस्नेहं रोपणं मतम्
तत्स्नेहशैत्याद्वर्ण्यं स्याद्दृष्टेश्च बलवर्धनम् ५५
मधुरं स्नेहसंपन्नमञ्जनं तु प्रसादनम्
दृष्टिदोषप्रसादार्थं स्नेहनार्थं च तद्धितम् ५६
यथादोषं प्रयोज्यानि तानि रोगविशारदैः
अञ्जनानि यथोक्तानि प्राह्णसायाह्नरात्रिषु ५७
गुटिकारसचूर्णानि त्रिविधान्यञ्जनानि तु
यथापूर्वं बलं तेषां श्रेष्ठमाहुर्मनीषिणः ५८
हरेणुमात्रा वर्तिः स्याल्लेखनस्य प्रमाणतः
प्रसादनस्य चाध्यर्धा द्विगुणा रोपणस्य च ५९
रसाञ्जनस्य मात्रा तु यथावर्तिमिता मता
द्वित्रिचतुःशलाकाश्च चूर्णस्याप्यनुपूर्वशः ६०
तेषां तुल्यगुणान्येव विदध्याद्भाजनान्यपि
सौवर्णं राजतं शार्ङ्गं ताम्रं वैदूर्यकांस्यजम् ६१
आयसानि च योज्यानि शलाकाश्च यथाक्रमम्
वक्त्रयोर्मुकुलाकारा कलायपरिमण्डला ६२
अष्टाङ्गुला तनुर्मध्ये सुकृता साधुनिग्रहा
औदुम्बर्यश्मजा वाऽपि शारीरी वा हिता भवेत् ६३
वामेनाक्षि विनिर्भुज्य हस्तेन सुसमाहितः
शलाकया दक्षिणेन क्षिपेत् कानीनमञ्जनम् ६४
आपाङ्ग्यं वा यथायोगं कुर्याच्चापि गतागतम्
वर्त्मोपलेपि वा यत्तदङ्गुल्यैव प्रयोजयेत् ६५
अक्षि नात्यन्तयोरञ्ज्याद्बाधमानोऽपि वा भिषक्
न चानिर्वान्तदोषेऽक्ष्णि धावनं संप्रयोजयेत् ६६
दोषः प्रतिनिवृत्तः सन् हन्याद् दृष्टेर्बलं तथा
गतदोषमपेताश्रु पश्येद्यत् सम्यगम्भसा ६७
प्रक्षाल्याक्षि यथादोषं कार्यं प्रत्यञ्जनं ततः
श्रमोदावर्तरुदितमद्यक्रोधभयज्वरैः ६८
वेगाघातशिरोदोषैश्चार्तानां नेष्यतेऽञ्जनम्
रागरुक्तिमिरास्रावशूलसंरम्भसंभवात् ६९
निद्रा क्षये क्रियाशक्तिं प्रवाते दृग्बलक्षयम्
रजोधूमहते रागस्रावाधीमन्थसंभवम् ७०
संरम्भशूलौ नस्यान्ते शिरोरुजि शिरोरुजम्
शिरःस्नातेऽतिशीते च रवावनुदितेऽपि च ७१
दोषस्थैर्यादपार्थं स्याद्दोषोत्क्लेशं करोति च
अजीर्णेऽप्येवमेव स्यात् स्रोतोमार्गावरोधनात् ७२
दोषवेगोदये दत्तं कुर्यात्तांस्तानुपद्र वान्
तस्मात् परिहरन् दोषानञ्जनं साधु योजयेत् ७३
लेखनस्य विशेषेण काल एष प्रकीर्तितः
व्यापदश्च जयेदेताः सेकाश्च्योतनलेपनैः ७४
यथास्वं धूमकवलैर्नस्यैश्चापि समुत्थिताः
विशदं लघ्वनास्रावि क्रियापटु सुनिर्मलम् ७५
संशान्तोपद्र वं नेत्रं विरिक्तं सम्यगादिशेत्
जिह्मं दारुणदुर्वर्णं स्रस्तं रूक्षमतीव च ७६
नेत्रं विरेकातियोगे स्यन्दते चातिमात्रशः
तत्र संतर्पणं कार्यं विधानं चानिलापहम् ७७
अक्षि मन्दविरिक्तं स्यादुदग्रतरदोषवत्
धूमनस्याञ्जनैस्तत्र हितं दोषावसेचनम् ७८
स्नेहवर्णबलोपेतं प्रसन्नं दोषवर्जितम्
ज्ञेयं प्रसादने सम्यगुपयुक्तेऽक्षि निर्वृतम् ७९
किञ्चिद्धीनविकारं स्यात्तर्पणाद्धि कृतादति
तत्र दोषहरं रूक्षं भेषजं शस्यते मृदु ८०
साधारणमपि ज्ञेयमेवं रोपणलक्षणम्
प्रसादनवदाचष्टे तस्मिन् युक्तेऽतिभेषजम् ८१
स्नेहनं रोपणं वाऽपि हीनयुक्तमपार्थकम्
कर्तव्यं मात्रया तस्मादञ्जनं सिद्धिमिच्छता ८२
पुटपाकक्रियाद्यासु क्रियास्वेषैव कल्पना
सहस्रशश्चाञ्जनेषु बीजेनोक्तेन पूजिताः ८३
दृष्टेर्बलविवृर्द्ध्य्थं याप्यरोगक्षयाय च
राजार्हान्यञ्जनाग्र्याणि निबोधेमान्यतः परम् ८४
अष्टौ भागानञ्जनस्य नीलोत्पलसमत्विषः
औदुम्बरं शातकुम्भं राजतं च समासतः ८५
एकादशैतान् भागांस्तु योजयेत् कुशलो भिषक्
मूषाक्षिप्तं तदाध्मातमावृतं जातवेदसि ८६
खदिराश्मन्तकाङ्गारैर्गोशकृद्भिरथापि वा
गवां शकृद्र से मूत्रे दध्नि सर्पिषि माक्षिके ८७
तैलमद्यवसाकज्जसर्वगन्धोदकेषु च
द्रा क्षारसेक्षुत्रिफलारसेषु सुहिमेषु च ८८
सारिवादिकषाये च कषाये चोत्पलादिके
निषेचयेत् पृथक् चैनं ध्मातं ध्मातं पुनः पुनः ८९
ततोऽन्तरीक्षे सप्ताहं प्लोतबद्धं स्थितं जले
विशोष्य चूर्णयेन्मुक्तां स्फटिकं विद्रुमं तथा ९०
कालानुसारिवां चापि शुचिरावाप्य योगतः
एतच्चूर्णाञ्जनं श्रेष्ठं निहितं भाजने शुभे ९१
दन्तस्फटिकवैदूर्यशङ्खशैलासनोद्भवे
शातकुम्भेऽथ शार्ङ्गे वा राजते वा सुसंस्कृते
सहस्रपाकवत् पूजां कृत्वा राज्ञः प्रयोजयेत् ९२
तेनाञ्जिताक्षो नृपतिर्भवेत् सर्वजनप्रियः
अधृष्यः सर्वभूतानां दृष्टिरोगविवर्जितः ९३
कुष्ठं चन्दनमेलाश्च पत्रं मधुकमञ्जनम्
मेषशृङ्गस्य पुष्पाणि वक्रं रत्नानि सप्त च ९४
उत्पलस्य बृहत्योश्च पद्मस्यापि च केशरम्
नागपुष्पमुशीराणि पिप्पली तुत्थमुत्तमम् ९५
कुक्कुटाण्डकपालानि दार्वीं पथ्यां सरोचनाम्
मरिचान्यक्षमज्जानं तुल्यां च गृहगोपिकाम् ९६
कृत्वा सूक्ष्मं ततश्चूर्णं न्यसेदभ्यर्च्य पूर्ववत्
एतद्भद्रो दयं नाम सदैवार्हति भूमिपः ९७
वक्रं समरिचं चैव मांसीं शैलेयमेव च
तुल्यांशानि समानैस्तैः समग्रैश्च मनःशिला ९८
पत्रस्य भागाश्चत्वारो द्विगुणं सर्वतोऽञ्जनम्
तावच्च यष्टीमधुकं पूर्ववच्चैतदञ्जनम् ९९
मनःशिलां देवकाष्ठं रजन्यौ त्रिफलोषणम्
लाक्षालशुनमञ्जिष्ठासैन्धवैलाः समाक्षिकाः १००
रोध्रं सावरकं चूर्णमायसं तांम्रमेव च
कालानुसारिवां चैव कुक्कुटाण्डदलानि च १०१
तुल्यानि पयसा पिष्ट्वा गुटिकां कारयेद्बुधः
कण्डूतिमिरशुक्लार्मरक्तराज्युपशान्तये १०२
कांस्यापमार्जनमसी मधुकं सैन्धवं तथा
एरण्डमूलं च समं बृहत्यंशद्वयान्वितम् १०३
आजेन पयसा पिष्ट्वा ताम्रपात्रं प्रलेपयेत्
सप्तकृत्वस्तु ता वर्त्यश्छायाशुष्का रुजापहाः १०४
पथ्यातुत्थकयष्ट्याह्वैस्तुल्यैर्मरिचषोडशा
पथ्या सर्वविकारेषु वर्तिः शीताम्बुपेषिता १०५
रसक्रियाविधानेन यथोक्तविधिकोविदः
पिण्डाञ्जनानि कुर्वीत यथायोगमतन्द्रि तः १०६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे क्रियाकल्पो
नामाष्टादशोऽध्यायः १८
एकोनविंशतितमोऽध्यायः
अथाते नयनाभिघातप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अभ्याहते तु नयने बहुधा नराणां संरम्भरागतुमुलासु रुजासु धीमान्
नस्यास्यलेपपरिषेचनतर्पणाद्यमुक्तं पुनः क्षतजपित्तजशूलपथ्यम् ३
दृष्टिप्रसादजननं विधिमाशु कुर्यात् स्निग्धैर्हिमैश्च मधुरैश्च तथा प्रयोगैः
स्वेदाग्निधूमभयशोकरुजाभिघातैरभ्याहतामपि तथैव भिषक् चिकित्सेत् ४
सद्योहते नयन एष विधिस्तदूर्ध्वं स्यन्देरितो भवति दोषमवेक्ष्य कार्यः
अभ्याहतं नयनमीषदथास्यबाष्पसंखेदितं भवति तन्निरुजं क्षणेन ५
साध्यं क्षतं पटलमेकमुभे तु कृच्छ्रेत्रीणि क्षतानि पटलानि विवर्जयेत्तु
स्यात् पिच्चितं च नयनं ह्यति चावसन्नं स्रस्तं च्युतं च हतदृक् च भवेत्तु याप्यम् ६
विस्तीर्णदृष्टितनुरागमसत्प्रदर्शि साध्यं यथास्थितमनाविलदर्शनं च
प्राणोपरोधवमनक्षुतकण्ठरोधैरुन्नम्यमाशु नयनं यदतिप्रविष्टम् ७
नेत्रे विलम्बिनि विधिर्विहितः पुरस्तादुच्छिङ्घनं शिरसि वार्यवसेचनं च
षट्सप्ततिर्नयनजा य इमे प्रदिष्टा रोगा भवन्त्यमहतां महतां च तेभ्यः ८
स्तन्यप्रकोपकफमारुतपित्तरक्तैर्बालाक्षिवर्त्मभव एव कुकूणकोऽन्य
मृद्गाति नेत्रमतिकण्डुमथाक्षिकूटं नासाललाटमपि तेन शिशुः स नित्यम् ९
सूर्यप्रभां न सहते स्रवति प्रबद्धं तस्याहरेद्रुधिरमाशु विनिर्लिखेच्च
क्षौद्रा युतैश्च कटुभिः प्रतिसारयेत्तु मातुः शिशोरभिहितं च विधिं विदध्यात् १०
तं वामयेत्तु मधुसैन्धवसंप्रयुक्तैः पीतं पयः खलु फलैः खरमञ्जरीणाम् ११
स्यात्पिप्पलीलवणमाक्षिकसंयुतैर्वा नैनं वमन्तमपि वामयितुं यतेत
दत्त्वा वचामशनदुग्धभुजे प्रयोज्यमूर्ध्वं ततः फलयुतं वमनं विधिज्ञैः १२
जम्ब्वाम्रधात्र्यणुदलैः परिधावनार्थं कार्यं कषायमवसेचनमेव चापि
आश्च्योतने च हितमत्र घृतं गुडूचीसिद्धं तथाऽहुरपि च त्रिफलाविपक्वम् १३
नेपालजामरिचशङ्खरसाञ्जनानि सिन्धुप्रसूतगुडमाक्षिकसंयुतानि
स्यादञ्जनं मधुरसामधुकाम्रकैर्वा कृष्णायसं घृतपयो मधु वाऽपि दग्धम् १४
व्योषं पलाण्डु मधुकं लवणोत्तमं च लाक्षां च गैरिकयुतां गुटिकाञ्जनं वा
निम्बच्छदं मधुकदार्वि सताम्रलोध्रमिच्छन्ति चात्र भिषजोऽञ्जनमंशतुल्यम् १५
स्रोतोजशङ्खदधिसैन्धवमर्धपक्षं शुक्रं शिशोर्नुदति भावितमञ्जनेन
स्यन्दे कफादभिहितं क्रममाचरेच्च बालस्य रोगकुशलोऽक्षिगदं जिघांसुः १६
समुद्र इव गम्भीरं नैव शक्यं चिकित्सितम्
वक्तुं निरवशेषेण श्लोकानामयुतैरपि १७
सहस्रैरपि वा प्रोक्तमर्थमल्पमतिर्नरः
तर्कग्रन्थार्थरहितो नैव गृह्णात्यपण्डितः १८
तदिदं बहुगूढार्थं चिकित्साबीजमीरितम्
कुशलेनाभिपन्नं तद्बहुधाऽभिप्ररोहति १९
तस्मान्मतिमता नित्यं नानाशास्त्रार्थदर्शिना
सर्वमूह्यमगाधार्थं शास्त्रमागमबुद्धिना २०
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नयनाभिघातचिकित्सितं नामैकोनविंशोऽध्यायः १९
विंशतितमोऽध्यायः
अथातः कर्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कर्णशूलं प्रणादश्च बाधिर्यं क्ष्वेड एव च
कर्णस्रावः कर्णकण्डूः कर्णवर्चस्तथैव च ३
कृमिकर्णप्रतिनाहौ विद्र धिर्द्विविधस्तथा
कर्णपाकः पूतिकर्णस्तथैवार्शश्चतुर्विधम् ४
कर्णार्बुदं सप्तविधं शोफश्चापि चतुर्विधः
एते कर्णगता रोगा अष्टाविंशतिरीरिताः ५
समीरणः श्रोत्रगतोऽन्यथाचरः समन्ततः शूलमतीव कर्णयोः
करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः ६
यदा तु नाडीषु विमार्गमागतः स एव शब्दाभिवहासु तिष्ठति
शृणोति शब्दान् विविधांस्तदा नरः प्रणादमेनं कथयन्ति चामयम् ७
स एव शब्दानुवहा यदा सिराः कफानुयातो व्यनुसृत्य तिष्ठति
तदा नरस्याप्रतिकारसेविनो भवेत्तु बाधिर्यमसंशयं खलु ८
श्रमात् क्षयाद्रू क्षकषायभोजनात् समीरणः शब्दपथे प्रतिष्ठितः
विरक्तशीर्षस्य च शीतसेविनः करोति हि क्ष्वेडमतीव कर्णयोः ९
शिरोभिघातादथवा निमज्जतो जले प्रपाकादथवाऽपि विद्र धेः
स्रवेत्तु पूयं श्रवणोऽनिलावृतः स कर्णसंस्राव इति प्रकीर्तितः १०
कफेन कण्डूः प्रचितेन कर्णयोर्भृशं भवेत् स्रोतसि कर्णसंज्ञिते
विशोषिते श्लेष्मणि पित्ततेजसा नृणां भवेत् स्रोतसि कर्णगूथकः ११
स कर्णविट्को द्र वतां यदा गतो विलायितो घ्राणमुखं प्रपद्यते
तदा स कर्णप्रतिनाहसंज्ञितो भवेद्विकारः शिरसोऽभितापनः १२
यदा तु मूर्च्छन्त्यथवाऽपि जन्तवः सृजन्त्यपत्यान्यथवाऽपि मक्षिकाः
तदञ्जनत्वाच्छ्रवणो निरुच्यते भिषग्भिराद्यैः कृमिकर्णको गदः १३
क्षताभिघातप्रभवस्तु विद्र धिर्भवेत्तथा दोषकृतोऽपरः पुनः
सरक्तपीतारुणमस्रमास्रवेत् प्रतोदधूमायनदाहचोषवान् १४
भवेत् प्रपाकः खलु पित्तकोपतो विकोथविक्लेदकरश्च कर्णयोः
स्थिते कफे स्रोतसि पित्ततेजसा विलाय्यमाने भृशसंप्रतापवान् १५
अवेदनो वाऽप्यथवा सवेदनो घनं स्रवेत् पूति च पूतिकर्णकः
प्रदिष्टलिङ्गान्यरशांसि तत्त्वतस्तथैव शोफार्बुदलिङ्गमीरितम्
मया पुरस्तात् प्रसमीक्ष्य योजयेदिहैव तावत् प्रयतो भिषग्वरः १६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कर्णगतरोगविज्ञानीयो नाम विंशतितमोऽध्यायः २०
एकविंशतितमोऽध्यायः
अथातः कर्णगतरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सामान्यं कर्णरोधेषु घृतपानं रसायनम्
अव्यायामोऽशिरःस्नानं ब्रह्मचर्यमकत्थनम् ३
कर्णशूले प्रणादे च बाधिर्यक्ष्वेडयोरपि
चतुर्णामपि रोगाणां सामान्यं भेषजं विदुः ४
स्निग्धं वातहरैः स्वेदैर्नरं स्नेहविरेचितम्
नाडीस्वेदैरुपचरेत्पिण्डस्वेदैस्तथैव च ५
बिल्वैरण्डार्कवर्षाभूदधित्थोन्मत्तशिग्रुभिः
बस्तगन्धाश्वगन्धाभ्यां तर्कारीयववेणुभिः ६
आरनालशृतैरेभिर्नाडीस्वेदः प्रयोजितः
कफवातसमुत्थानं कर्णशूलं निरस्यति ७
मीनकुक्कुटलावानां मांसजैः पयसाऽपि वा
पिण्डैः स्वेदं च कुर्वीत कर्णशूलनिवारणम् ८
अश्वत्थपत्रखल्लं वा विधाय बहुपत्रकम्
तदङ्गारैः सुसंपूर्णं निदध्याच्छ्रवणोपरि ९
यत्तैलं च्यवते तस्मात् खल्लादङ्गारतापितात्
तत् प्राप्तं श्रवणस्रोतः सद्यो गृह्णाति वेदनाम् १०
क्षौमगुग्गुल्वगुरुभिः सघृतैर्धूपयेच्च तम्
भक्तोपरि हितं सर्पिर्वस्तिकर्म च पूजितम् ११
निरन्नो निशि तत्सर्पिः पीत्वोपरि पिबेत् पयः
मूर्धवस्तिषु नस्ये च मस्तिष्के परिषेचने १२
शतपाकं बलातैलं प्रशस्तं चापि भोजने
कण्टकारीमजाक्षीरे पक्त्वा क्षीरेण तेन च १३
विपचेत् कुक्कुटवसां कर्णयोस्तत्प्रपूरणम्
तण्डुलीयकमूलानि फलमङ्कोलजं तथा १४
अहिंस्राकेन्दुकान्मूलं सरलं देवदारु च
लशुनं शृङ्गवेरं च तथा वंशावलेखनम् १५
कल्कैरेषां तथाऽम्लैश्च पचेत् स्नेहं चतुर्विधम्
वेदनायाः प्रशान्त्यर्थं हितं तत्कर्णपूरणम् १६
लशुनार्द्र कशिग्रूणां मुरङ्ग्या मूलकस्य च
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे १७
शृङ्गवेररसः क्षौद्रं सैन्धवं तैलमेव च
कदुष्णं कर्णयोर्देयमेतद्वा वेदनापहम् १८
वंशावलेखनायुक्ते मूत्रे चाजाविके भिषक्
सर्पिः पचेत्तेन कर्णं पूरयेत् कर्णशूलिनः १९
महतः पञ्चमूलस्य काण्डमष्टादशाङ्गुलम्
क्षौमेणावेष्ठ्य संसिच्य तैलेनादीपयेत्ततः २०
यत्तैलं च्यवते तेभ्यो धृतेभ्यो भाजनोपरि
ज्ञेयं तद्दीपिकातैलं सद्यो गृह्णाति वेदनाम् २१
कुर्यादेवं भद्र काष्ठे कुष्ठे काष्ठे च सारले
मतिमान् दीपिकातैलं कर्णशूलनिबर्हणम् २२
अर्काङ्कुरानम्लपिष्टांस्तैलाक्तान् लवणान्वितान्
सन्निदध्यात् स्नुहीकाण्डे कोरिते तच्छदावृते २३
पुटपाकक्रमस्विन्नान् पीडयेदारसागमात्
सुखोष्णं तद्र सं कर्णे दापयेच्छूलशान्तये २४
कपित्थमातुलुङ्गाम्लशृङ्गवेररसैः शुभैः
सुखोष्णैः पूरयेत् कर्णं तच्छूलविनिवृत्तये २५
कर्णं कोष्णेन चुक्रेण पूरयेत् कर्णशूलिनः
समुद्र फेनचूर्णेन युक्त्या चाप्यवचूर्णयेत् २६
अष्टानामिह मूत्राणां मूत्रेणान्यतमेन तु
कोष्णेन पूरयेत् कर्णं कर्णशूलोपशान्तये २७
मूत्रेष्वम्लेषु वातघ्ने गणे च क्वथिते भिषक्
पचेच्चतुर्विधं स्नेहं पूरणं तच्च कर्णयोः २८
एता एव क्रियाः कुर्यात् पित्तघ्नैः पित्तसंयुते
काकोल्यादौ दशक्षीरं तिक्तं चात्र हितं हविः २९
क्षीरवृक्षप्रवालेषु मधुके चन्दने तथा
कल्कक्वाथे परं पक्वं शर्करामधुकैः सरैः ३०
इङ्गुदीसर्षपस्नेहौ सकफे पूरणे हितौ
तिक्तौषधानां यूषाश्च स्वेदाश्च कफनाशनाः ३१
सुरसादौ कृतं तैलं पञ्चमूले महत्यपि
मातुलुङ्गरसः शुक्तं लशुनार्द्र कयो रसः ३२
एकैकः पूरणे पथ्यस्तैलं तेष्वपि वा कृतम्
तीक्ष्णा मूर्धविरेकाश्च कवलाश्चात्र पूजिताः ३३
कर्णशूलविधिः कृत्स्नः पित्तघ्नः शोणितावृते
शूलप्रणादबाधिर्यक्ष्वेडानां तु प्रकीर्तितम् ३४
सामान्यतो विशेषेण बाधिर्ये पूरणं शृणु
गवां मूत्रेण बिल्वानि पिष्ट्वा तैलं विपाचयेत् ३५
सजलं च सदुग्धं च बाधिर्ये कर्णपूरणम्
सितामधुकबिम्बीभिः सिद्धं वाऽजे पयस्यपि ३६
बिम्बीक्वाथे विमथ्योष्णं शीतीभूतं तदुद्धृतम्
पुनः पचेद्दशक्षीरं सितामधुकचन्दनैः ३७
बिल्वाम्बुगाढं तत्तैलं बाधिर्ये कर्णपूरणम्
वक्ष्यते यः प्रतिश्याये विधिः सोऽप्यत्र पूजितः ३८
वातव्याधिषु यश्चोक्तो विधिः स च हितो भवेत्
कर्णस्रावे पूतिकर्णे तथैव कृमिकर्णके ३९
समानं कर्म कुर्वीत योगान् वैशेषिकानपि
शिरोविरेचनं चैव धूपनं पूरणं तथा ४०
प्रमार्जनं धावनं च वीक्ष्य वीक्ष्यावचारयेत्
राजवृक्षादितोयेन सुरसादिगणेन वा ४१
कर्णप्रक्षालनं कार्यं चूर्णैरेषां च पूरणम्
क्वाथं पञ्चकषायं तु कपित्थरसयोजितम् ४२
कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह
सर्जत्वक्चूर्णसंयुक्तः कार्पासीफलजो रसः ४३
योजितो मधुना वाऽपि कर्णस्रावे प्रशस्यते
लाक्षा रसाञ्जनं सर्जश्चूर्णितं कर्णपूरणम् ४४
सशैवलं महावृक्षजम्ब्वाम्रप्रसवायुतम्
कुलीरक्षौद्र मण्डूकीसिद्धं तैलं च पूजितम् ४५
तिन्दुकान्यभया रोध्रं समङ्गाऽमलकं मधु
पूरणं चात्र पथ्यं स्यात्कपित्थरसयोजितम् ४६
रसमाम्रकपित्थानां मधूकधवशालजम्
पूरणार्थं प्रशंसन्ति तैलं वा तैर्विपाचितम् ४७
प्रियङ्गुमधुकाम्बष्ठाधातकीशिलपर्णिभिः
मञ्जिष्ठालोध्रलाक्षाभिः कपित्थस्य रसेन वा ४८
पचेत्तैलं तदास्रावमवगृह्णाति पूरणात्
घृतं रसाञ्जनं नार्याः क्षीरेण मधुसंयुतम् ४९
तत्प्रशस्तं चिरोत्थेऽपि सास्रावे पूतिकर्णके
निर्गुण्डीस्वरसस्तैलं सिन्धुर्धूमरजो गुडः ५०
पूरणः पूतिकर्णस्य शमनो मधुसंयुतः
कृमिकर्णकनाशार्थं कृमिघ्नं योजयेद्विधिम् ५१
वार्ताकुधूमश्च हितः सार्षपस्नेह एव च
कृमिघ्नं हरितालेन गवां मूत्रयुतेन च ५२
गुग्गुलोः कर्णदौर्गन्ध्ये धूपनं श्रेष्ठमुच्यते
छर्दनं धूमपानं च कवलस्य च धारणम् ५३
कर्णक्ष्वेडे हितं तैलं सार्षपं चैव पूरणम्
विद्र धौ चापि कुर्वीत विद्र ध्युक्तं चिकित्सितम् ५४
प्रक्लेद्य धीमांस्तैलेन स्वेदेन प्रविलाय्य च
शोधयेत्कर्णविट्कं तु भिषक् सम्यक् शलाकया ५५
नाडीस्वेदोऽथ वमनं धूमो मूर्धविरेचनम्
विधिश्च कफहृत्सर्वः कर्णकण्डूमपोहति ५६
अथ कर्णप्रतीनाहे स्नेहस्वेदौ प्रयोजयेत्
ततो विरिक्तशिरसः क्रियां प्राप्तां समाचरेत् ५७
कर्णपाकस्य भैषज्यं कुर्यात्पित्तविसर्पवत्
कर्णच्छिद्रे वर्तमानं कीटं क्लेदमलादि वा ५८
शृङ्गेणापहरेद्धीमानथवाऽपि शलाकया
शेषाणां तु विकाराणां प्राक् चिकित्सितमीरितम् ५९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कर्णगतरोगप्रतिषेधो नामैकविंशोऽध्यायः २१
द्वाविंशतितमोऽध्यायः
अथातो नासागतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अपीनसः पूतिनस्यं नासापाकस्तथैव च
तथा शोणितपित्तं च पूयशोणितमेव च ३
क्षवथुर्भ्रंशथुर्दीप्तो नासानाहः परिस्रवः
नासाशोषेण सहिता दशैकाश्चेरिता गदाः ४
चत्वार्यर्शांसि चत्वारः शोफाः सप्तार्बुदानि च
प्रतिश्यायाश्च ये पञ्च वक्ष्यन्ते सचिकित्सिताः
एकत्रिंशन्मितास्ते तु नासारोगाः प्रकीर्तिताः ५
आनह्यते यस्य विधूप्यते च प्रक्लिद्यते शुष्यति चापि नासा
न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन ६
तं चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम्
दोषैःर्विदग्धैर्गलतालुमूले संवासितो यस्य समीरणस्तु ७
निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनासं प्रवदन्ति रोगम्
घ्राणाश्रितं पित्तमरूंषि कुर्याद्यस्मिन् विकारे बलवांश्च पाकः ८
तं नासिकापाकमिति व्यवस्येद्विक्लेदकोथावपि यत्र दृष्टौ
चतुर्विधं द्विप्रभवं द्विमार्गं वक्ष्यामि भूयः खलु रक्तपित्तम् ९
दोषैर्विदग्धैरथवाऽपि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तु
नासा स्रवेत् पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् १०
घ्राणाश्रिते मर्मणि संप्रदुष्टे यस्यानिलो नासिकया निरेति ११
कफानुयातो बहुशः सशब्दस्तं रोगमाहुः क्षवथुं विधिज्ञाः
तीक्ष्णोपयोगादतिजिघ्रतो वा भावान् कटूनर्कनिरीक्षणाद्वा १२
सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्धाटितेऽन्य क्षवथुर्निरेति
प्रभ्रश्यते नासिकयैव यश्च सान्द्रो विदग्धो लवणः कफस्तु १३
प्राक् संचितो मूर्धनि पित्ततप्तस्तं भ्रंशथुं व्याधिमुदाहरन्ति
घ्राणे भृशं दाहसमन्विते तु विनिःसरेद्धूम इवेह वायुः १४
नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिं तु तं दीप्तमुदाहरन्ति
कफावृतो वायुरुदानसंज्ञो यदा स्वमार्गे विगुणः स्थितः स्यात् १५
घ्राणं वृणोतीव तदा स रोगो नासाप्रतीनाह इति प्रदिष्टः
अजस्रमच्छं सलिलप्रकाशं यस्याविवर्णं स्रवतीह नासा १६
रात्रौ विशेषेण हि तं विकारं नासापरिस्रावमिति व्यवस्येत्
घ्राणाश्रिते श्लेष्मणि मारुतेन पित्तेन गाढं परिशोषिते च १७
समुच्छ्वसित्यूर्ध्वमधश्च कृच्छ्राद्यस्तस्य नासापरिशोष उक्तः
दोषैस्त्रिभिस्तैः पृथगेकशश्च ब्रूयात्तथाऽशासि तथैव शोफान् १८
शालाक्यसिद्धान्तमवेक्ष्य चापि सर्वात्मकं सप्तममर्बुदं तु
रोगः प्रतिश्याय इहोपदिष्टः स वक्ष्यते पञ्चविधः पुरस्तात् १९
नासास्रोतोगता रोगास्त्रिंशदेकश्च कीर्तिताः
स्रोतःपथे यद्विपुलं कोशवच्चार्बुदं भवेत् २०
शोफास्तु शोफविज्ञाना नासास्रोतोव्यवस्थिताः
निदानेऽशासि निर्दिष्टान्येवं तानि विभावयेत् २१
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नासागतरोगविज्ञानीयो
नाम द्वाविंशोऽध्यायः २२
त्रयोविंशतितमोऽध्यायः
अथातो नासागतरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पूर्वोद्दिष्टे पूतिनस्ये च जन्तोः स्नेहस्वेदौ छर्दनं स्रंसनं च
युक्तं भक्तं तीक्ष्णमल्पं लघु स्यादुष्णं तोयं धूमपानं च काले ३
हिङ्गु व्योषं वत्सकाख्यं शिवाटी लाक्षा बीजं सौरभं कट्फलं च
उग्रा कुष्ठं तीक्ष्णगन्धा विडङ्गं श्रेष्ठं नित्यं चावपीडे करञ्जम् ४
एतैर्द्र व्यैः सार्षपं मूत्रयुक्तं तैलं धीमान्नस्यहेतोः पचेत
नासापाके पित्तहृत्संविधानं कार्यं सर्वं बाह्यमाभ्यन्तरं च ५
हृत्वा रक्तं क्षीरवृक्षत्वचश्च साज्याः सेका योजनीयाश्च लेपाः
वक्ष्याम्यूर्ध्वं रक्तपित्तोपशान्तिं नाडीवत्स्यात् पूयरक्ते चिकित्सा ६
वान्ते सम्यक् चावपीडं वदन्ति तीक्ष्णं धूमं शोधनं चात्र नस्यम्
क्षेप्यं नस्यं मूर्धवैरेचनीयैर्नाड्या चूर्णं क्षवथौ भ्रंशथौ च ७
कुर्यात् स्वेदान् मूर्ध्नि वातामयघ्नान् स्निग्धान् धूमान् यद्यदन्यद्धितं च
दीप्ते रोगे पैत्तिकं संविधानं कुर्यात् सर्वं स्वादु यच्छीतलं च ८
नासानाहे स्नेहपानं प्रधानं स्निग्धा धूमा मूर्धबस्तिश्च नित्यम्
बलातैलं सर्वथैवोपयोज्यं वातव्याधावन्यदुक्तं च यद्यत् ९
नासास्रावे घ्राणतश्चूर्णमुक्तं नाड्या देयं योऽवपीडश्च तीक्ष्णः
तीक्ष्णं धूमं देवदार्वग्निकाभ्यां मांसं वाऽज युक्तमत्रादिशन्ति १०
नासाशोषे क्षीरसर्पिः प्रधानं सिद्धं तैलं चाणुकल्पेन नस्यम्
सर्पिःपानं भोजनं जाङ्गलैश्च स्नेहः स्वेदः स्नैहिकश्चापि धूमः ११
शेषान् रोगान् घ्राणजान् सन्नियच्छेदुक्तं तेषां यद्यथा संविधानम् १२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नासागतरोगप्रतिषेधो
नाम त्रयोविंशोऽध्यायः २३
चतुर्विंशतितमोऽध्यायः
अथातः प्रतिश्यायप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
नारीप्रसङ्गः शिरसोऽभितापो धूमो रजः शीतमतिप्रतापः
संधारणं मूत्रपुरीषयोश्च सद्यः प्रतिश्यायनिदानमुक्तम् ३
चयं गता मूर्धनि मारुतादयः पृथक् समस्ताश्च तथैव शोणितम्
प्रकोप्यमाणा विविधैः प्रकोपणैर्नृणां प्रतिश्यायकरा भवन्ति हि ४
शिरोगुरुत्वं क्षवथोः प्रवर्तनं तथाऽङ्गमर्दः परिहृष्टरोमता
उपद्र वाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः ५
आनद्धा पिहिता नासा तनुस्रावप्रवर्तिनी
गलताल्वोष्ठशोषश्च निस्तोदः शङ्खयोस्तथा ६
स्वरोपघातश्च भवेत् प्रतिश्यायेऽनिलात्मके
उष्णः सपीतकः स्रावो घ्राणात् स्रवति पैत्तिके ७
कृशोऽतिपाण्डुः सन्तप्तो भवेत्तृष्णानिपीडितः
सधूमं सहसा वह्निं वमतीव च मानवः ८
कफः कफकृते घ्राणाच्छुक्लः शीतः स्रवेन्मुहुः
शुक्लावभासः शूनाक्षो भवेद्गुरुशिरोमुखः ९
शिरोगलौष्ठतालूनां कण्डूयनमतीव च
भूत्वा भूत्वा प्रतिश्यायो योऽकस्माद्विनिवर्तते १०
संपक्वो वाऽप्यपक्वो वा स सर्वप्रभवः स्मृतः
लिङ्गानि चैव सर्वेषां पीनसानां च सर्वजे ११
रक्तजे तु प्रतिश्याये रक्तास्रावः प्रवर्तते
ताम्राक्षश्च भवेज्जन्तुरुरोघातप्रपीडितः १२
दुर्गन्धोच्छ्वासवदनस्तथा गन्धान्न वेत्ति च
मूर्च्छन्ति चात्र कृमयः श्वेताः स्निग्धास्तथाऽणवः १३
कृमिमूर्धविकारेण समानं चास्य लक्षणम्
प्रक्लिद्यति पुनर्नासा पुनश्च परिशुष्यति १४
मुहुरानह्यते चापि मुहुर्विव्रियते तथा
निःश्वासोच्छ्वासदौर्गन्ध्यं तथा गन्धान्न वेत्ति च १५
एवं दुष्टप्रतिश्यायं जानीयात् कृच्छ्रसाधनम्
सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः १६
कालेन रोगजनना जायन्ते दुष्टपीनसाः
बाघिर्यमान्ध्यमघ्राणं घोरांश्च नयनामयान्
कासाग्निसादशोफांश्च वृद्धाः कुर्वन्ति पीनसाः १७
नवं प्रतिश्यायमपास्य सर्वमुपाचरेत् सर्पिष एव पानैः
स्वेदैर्विचित्रैर्वमनैश्च युक्तैः कालोपपन्नैरवपीडनैश्च १८
अपच्यमानस्य हि पाचनार्थं स्वेदो हितोऽम्लैरहिमं च भोज्यम्
निषेव्यमाणं पयसाऽद्र कं वा संपाचयेदिक्षुविकारयोगैः १९
पक्वं घनं चाप्यवलम्बमानं शिरोविरेकैरपकर्षयेत्तम्
विरेचनास्थापनधूमपानैरवेक्ष्य दोषान् कवलग्रहैश्च २०
निवातशय्यासनचेष्टनानि मूर्ध्नो गुरूष्णं च तथैव वासः
तीक्ष्णा विरेकाः शिरसः सधूमा रूक्षं यवान्नं विजया च सेव्या २१
शीताम्बुयोषिच्छिशिरावगाहचिन्तातिरूक्षाशनवेगरोधान्
शोकं च मद्यानि नवानि चैव विवर्जयेत् पीनसरोगजुष्टः २२
छर्द्यङ्गसादज्वरगौरवार्तमरोचकारत्यतिसारयुक्तम्
विलङ्घनैः पाचनदीपनीयैरुपाचरेत् पीनसिनं यथावत् २३
बहुद्र वैर्वातकफोपसृष्टं प्रच्छर्दयेत् पीनसिनं वयःस्थम्
उपद्र वाश्चापि यथोपदेशं स्वैर्भेषजैर्भोजनसंविधानैः
जयेद्विदित्वा मृदुतां गतेषु प्राग्लक्षणेषूक्तमथादिशेच्च २४
वातिके तु प्रतिश्याये पिबेत् सर्पिर्यथाक्रमम्
पञ्चभिर्लवणैः सिद्धं प्रथमेन गणेन च २५
नस्यादिषु विधिं कृत्स्नमवेक्षेतार्दितेरितम्
पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम् २६
परिषेकान् प्रदेहांश्च कुर्यादपि च शीतलान्
श्रीसर्जरसपत्तङ्गप्रियङ्गुमधुशर्कराः २७
द्रा क्षामधूलिकागोजीश्रीपर्णीमधुकैस्तथा
युज्यन्ते कवलाश्चात्र विरेको मधुरैरपि २८
धवत्वक्त्रिफलाश्यामातिल्वकैर्मधुकेन च
श्रीपर्णीरजनीमिश्रैः क्षीरे दशगुणे पचेत् २९
तैलं कालोपपन्नं तन्नस्यं स्यादनयोर्हितम्
कफजे सर्पिषा स्निग्धं तिलमाषविपक्वया ३०
यवाग्वा वामयेद्वान्तः कफघ्नं क्रममाचरेत्
उभे बले बृहत्यौ च विडङ्गं सत्रिकण्टकम् ३१
श्वेतामूलं सदाभद्रां वर्षाभूं चात्र संहरेत्
तैलमेभिर्विपक्वं तु नस्यमस्योपकल्पयेत् ३२
सरलाकिणिहीदारुनिकुम्भेङ्गुदिभिः कृताः
वर्तयश्चोपयोज्याः स्युर्धूमपाने यथाविधि ३३
सर्पींषि कटुतिक्तानि तीक्ष्णधूमाः कटूनि च
भेषजान्युपयुक्तानि हन्युः सर्वप्रकोपजम् ३४
रसाञ्जने सातिविषे मुस्तायां भद्र दारुणि
तैलं विपक्वं नस्यार्थे विदध्याच्चात्र बुद्धिमान् ३५
मुस्ता तेजोवती पाठा कट्फलं कटुका वचा
सर्षपाः पिप्पलीमूलं पिप्पल्यः सैन्धवाग्निकौ ३६
तुत्थं करञ्जबीजं च लवणं भद्र दारु च
एतैः कृतं कषायं तु कवले संप्रयोजयेत् ३७
हितं मूर्धविरेके च तैलमेभिर्विपाचितम्
क्षीरमर्धजले क्वाथ्यं जङ्गलैर्मृगपक्षिभिः ३८
पुष्पैर्विमिश्रं जलजैर्वातघ्नैरौषधैरपि
हिमे क्षीरावशिष्टेऽस्मिन् घृतमुत्पाद्य यत्नतः ३९
सर्वगन्धसितानन्तामधुकं चन्दनं तथा
आवाप्य विपचेद्भूयो दशक्षीरं तु तद्घृतम् ४०
नस्ये प्रयुक्तमुद्रि क्तान् प्रतिश्यायाम् व्यपोहति
यथास्वं दोषशमनैस्तैलं कुर्याच्च यत्नतः ४१
समूत्रपित्ताश्चोद्दिष्टाः क्रियाः कृमिषु योजयेत्
यापनार्थं कृमिघ्नानि भेषजानि च बुद्धिमान् ४२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे प्रतिश्यायप्रतिषेधो नाम चतुर्विंशतितमोऽध्यायः २४
पञ्चविंशतितमोऽध्यायः
अथातः शिरोरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शिरो रुजति मर्त्यानां वातपित्तकफैस्त्रिभिः
सन्निपातेन रक्तेन क्षयेण क्रिमिभिस्तथा ३
सूर्यावर्तानन्तवातार्धावभेदकशङ्खकैः
एकादशप्रकारस्य लक्षणं संप्रवक्ष्यते ४
यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम्
बन्धोपतापैश्च भवेद्विशेषः शिरोभितापः स समीरणेन ५
यस्योष्णमङ्गारचितं यथैव दह्येत धूप्येत शिरोक्षिनासम्
शीतेन रात्रौ च भवेद्विशेषः शिरोभितापः स तु पित्तकोपात् ६
शिरोगलं यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमं च
शूनाक्षिकूटं वदनं च यस्य शिरोभितापः स कफप्रकोपात् ७
शिरोभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति
रक्तात्मकः पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च ८
वसाबलासक्षतसंभवानां शिरोगतानामिह संक्षयेण
क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम् ९
संस्वेदनच्छर्दनधूमनस्यैरसृग्विमोक्षैश्च विवृद्धिमेति
निस्तुद्यते यस्य शिरोऽतिमात्रं संभक्ष्यमाणं स्फुटतीव चान्तः १०
घ्राणाच्च गच्छेत्सलिलं सरक्तं शिरोभितापः कृमिभिः स घोरः
सूर्योदयं या प्रति मन्दमन्दमक्षिभ्रुवं रुक् समुपैति गाढम् ११
विवर्धते चांशुमता सहैव सूर्यापवृत्तौ विनिवर्तते च
शीतेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुखमाप्नुयाच्च १२
तं भास्करावर्तमुदाहरन्ति सर्वात्मकं कष्टतमं विकारम्
दोषास्तु दुष्टास्त्रय एव मन्यां संपीड्य घाटासु रुजां सुतीव्राम् १३
कुर्वन्ति साक्षिभ्रुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु
गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजांश्च रोगान् १४
अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम्
यस्योत्तमाङ्गार्धमतीव जन्तोः संभेदतोदभ्रमशूलजुष्टम् १५
पक्षाद्दशाहादथवाऽप्यकस्मात्तस्यार्धभेदं त्रितयाद्वयवस्येत्
शङ्खाश्रितो वायुरुदीर्णवेगः कृतानुयात्रः कफपित्तरक्तैः १६
रुजः सुतीव्राः प्रतनोति मूर्ध्नि विशेषतश्चापि हि शङ्खयोस्तु
सुकष्टमेनं खलु शङ्खकाख्यं महर्षयो वेदविदः पुराणाः १७
व्याधिं वदन्त्युद्गतमृत्युकल्पं भिषक्सहस्रैरपि दुर्निवारम् १८
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे शिरोरोगविज्ञानीयो
नाम पञ्चविंशोऽध्यायः २५
षड्विंशतितमोऽध्यायः
अथातः शिरोरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातव्याधिविधिः कार्यः शिरोरोगेऽनिलात्मके
पयोनुपानं सेवेत घृतं तैलमथापि वा ३
मुद्गान् कुलत्थान्माषांश्च खादेच्च निशि केवलान्
कटूष्णांश्च ससर्पिष्कानुष्णं चानु पयः पिबेत् ४
पिबेद्वा पयसा तैलं तत्कल्कं वाऽपि मानवः
वातघ्नसिद्धैः क्षीरैश्च सुखोष्णैः सेकमाचरेत् ५
तत्सिद्धैः पायसैर्वाऽपि सुखोष्णैर्लेपयेच्छिरः
स्विन्नैर्वा मत्स्यपिशितैः कृशरैर्वा ससैन्धवैः ६
चन्दनोत्पलकुष्ठैर्वा सुश्लक्ष्णैर्मगधायुतैः
स्निग्धस्य तैलं नस्यं स्यात् कुलीररससाधितम् ७
वरुणादौ गणे क्षुण्णे क्षीरमर्धोदकं पचेत्
क्षीरशेषं च तन्मथ्यं शीतं सारमुपाहरेत् ८
ततो मधुरकैः सिद्धं नस्ये तत् पूजितं हविः
तस्मिन् विपक्वे क्षीरे तु पेयं सर्पिः सशर्करम् ९
धूमं चास्य यथाकालं स्नैहिकं योजयेद्भिषक्
पानाभ्यञ्जननस्येषु बस्तिकर्मणि सेचने १०
विदध्यात्त्रैवृतं धीमान् बलातैलमथापि वा
भोजयेच्च रसैः स्निग्धैः पयोभिर्वा सुसंस्कृतैः ११
पित्तरक्तसमुत्थानौ शिरोरोगौ निवारयेत्
शिरोलेपैः ससर्पिष्कैः परिषेकैश्च शीतलैः १२
क्षीरेक्षुरसधान्याम्लमस्तुक्षौद्र सिताजलैः
नलवञ्जुलकह्लारचन्दनोत्पलपद्मकैः १३
वंशशैवलयष्ट्याह्वमुस्ताम्भोरुहसंयुतैः
शिरःप्रलेपैः सघृतैर्वैसर्पैश्च तथाविधैः १४
मधुरैश्च मुखालेपैर्नस्यकर्मभिरेव च
आस्थापनैर्विरेकैश्च पथ्यैश्च स्नेहबस्तिभिः १५
क्षीरसर्पिर्हितं नस्यं वसा वा जाङ्गला शुभा
उत्पलादिविपक्वेन क्षीरेणास्थापनं हितम् १६
भोजनं जाङ्गलरसैः सर्पिषा चानुवासनम्
मधुरैः क्षीरसर्पिस्तु स्नेहने च सशर्करम् १७
पित्तरक्तघ्नमुद्दिष्टं यच्चान्यदपि तद्धितम्
कफोत्थितं शिरोरोगं जयेत् कफनिवारणैः १८
शिरोविरेकैर्वमनैस्तीक्ष्णैर्गण्डूषधारणैः
अच्छं च पाययेत्सर्पिः स्वेदयेच्चाप्यभीक्ष्णशः १९
शिरो मधूकसारेण स्निग्धं चापि विरेचयेत्
इङ्गुदस्य त्वचा वाऽपि मेषशृङ्गस्य वा भिषक् २०
आभ्यामेव कृतां वर्तिं धूमपाने प्रयोजयेत्
घ्रेयं कट्फलचूर्णं च कवलाश्च कफापहाः २१
सरलाकुष्ठशार्ङ्गेष्टादेवकाष्ठैः सरोहिषः
क्षारपिष्टैः सलवणैः सुखोष्णैर्लेपयेच्छिरः २२
यवषष्टिकयोश्चान्नं व्योषक्षारसमायुतम्
पटोलमुद्गकौलत्थैर्मात्रावद्भोजयेद्र सैः २३
शिरोरोगे त्रिदोषोत्थे त्रिदोषघ्नो विधिर्हितः
सर्पिःपानं विशेषेण पुराणं वा दिशन्ति हि २४
क्षयजे क्षयमासाद्य कर्तव्यो बृंहणो विधिः
पाने नस्ये च सर्पिः स्याद्वातघ्नमधुरैः शृतम् २५
क्षयकासापहं चात्र सर्पिः पथ्यतमं विदुः
कृमिभिर्भक्ष्यमाणस्य वक्ष्यते शिरसः क्रिया २६
नस्ये हि शोणितं दद्यात्तेन मूर्च्छन्ति जन्तवः
मत्ताः शोणितगन्धेन समायान्ति यतस्ततः २७
तेषां निर्हरणं कार्यं ततो मूर्धविरेचनैः
ह्रस्वशिग्रुकबीजैर्वा कांस्यनीलीसमायुतैः २८
कृमिघ्नैरवपीडैश्च मूत्रपिष्टैरुपाचरेत्
पूतिमत्स्ययुतान् धूमान् कृमिघ्नांश्च प्रयोजयेत् २९
भोजनानि कृमिघ्नानि पानानि विविधानि च
सूर्यावर्ते विधातव्यं नस्यकर्मादिभेषजम् ३०
भोजनं जाङ्गलप्रायं क्षीरान्नविकृतिर्घृतम्
तथाऽधभेदके व्याधौ प्राप्तमन्यच्च यद्भवेत् ३१
शिरीषमूलकफलैरवपीडोऽनयोर्हितः
वंशमूलककर्पूरैरवपीडं प्रयोजयेत् ३२
अवपीडो हितश्चात्र वचामागधिकायुतः
मधुकेनावपीडो वा मधुना सह संयुतः ३३
मनःशिलावपीडो वा मधुना चन्दनेन वा
तेषामन्ते हितं नस्यं सर्पिर्मधुरसान्वितम् ३४
सारिवोत्पलकुष्ठानि मधुकं चाम्लपेषितम्
सर्पिस्तैलयुतो लेपो द्वयोरपि सुखावहः ३५
एष एव प्रयोक्तव्यः शिरोरोगे कफात्मके
अनन्तवाते कर्तव्यः सूर्यावर्तहरो विधिः ३६
सिराव्यधश्च कर्तव्योऽनन्तवातप्रशान्तये
आहारश्च विधातव्यो वातपित्तविनाशनः ३७
मधुमस्तकसंयावघृतपूरैश्च भोजनम्
क्षीरसर्पिः प्रशंसन्ति नस्ये पाने च शङ्खके ३८
जाङ्गलानां रसैः स्निग्धैराहारश्चात्र शस्यते
शतावरीं तिलान् कृष्णान् मधुकं नीलमुत्पलम् ३९
दूर्वां पुनर्नवां चैव लेपे साध्ववचारयेत्
महासुगन्धामथवा पालिन्दीं चाम्लपेषिताम् ४०
शीतांश्चात्र परीषेकान् प्रदेहांश्च प्रयोजयेत्
अवपीडश्च देयोऽत्र सूर्यावर्तनिवारणः ४१
कृमिक्षयकृतौ हित्वा शिरोरोगेषु बुद्धिमान्
मधुतैलसमायुक्तैः शिरांस्यतिविरेचयेत् ४२
पश्चात्सर्षपतैलेन ततो नस्यं प्रयोजयेत्
न चेच्छान्तिं व्रजन्त्येवं स्निग्धस्विन्नांस्ततो भिषक् ४३
पश्चादुपाचरेत्सम्यक् सिराणामथ मोक्षणैः
षट्सप्ततिर्नेत्ररोगा दशाष्टादश कर्णजाः ४४
एकत्रिंशद् घ्राणगताः शिरस्येकादशैव तु
इति विस्तरतो दृष्टाः सलक्षणचिकित्सिताः ४५
संहितायामभिहिताः सप्तषष्टिर्मुखामयाः
एतावन्तो यथास्थूलमुत्तमाङ्गगता गदाः
अस्मिञ्छास्त्रे निगदिताः सङ्ख्यारूपचिकित्सितैः ४६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे शिरोरोगप्रतिषेधो
नाम षडिंवशोऽध्यायः २६
सप्तविंशतितमोऽध्यायः
अथातो नवग्रहाकृतिविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
बालग्रहाणां विज्ञानं साधनं चाप्यनन्तरम्
उत्पत्तिं कारणं चैव सुश्रुतैकमनाः शृणु ३
स्कन्दग्रहस्तु प्रथमः स्कन्दापस्मार एव च
शकुनी रेवती चैव पूतना चान्धपूतना ४
पूतना शीतनामा च तथैव मुखमण्डिका
नवमो नैगमेषश्च यः पितृग्रहसंज्ञितः ५
धात्रीमात्रोः प्राक्प्रदिष्टापचाराच्छौचभ्रष्टान्मङ्गलाचारहीनान्
त्रस्तान् हृष्टांस्तर्जितान् ताडितान् वा पूजाहेतोर्हिंस्युरेते कुमारान् ६
एश्वर्यस्थास्ते न शक्या विशन्तो देहं द्र ष्टुं मानुषैर्विश्वरूपाः
आप्तं वाक्यं तत्समीक्ष्याभिधास्ये लिङ्गान्येषां यानि देहे भवन्ति ७
शूनाक्षः क्षतजसगन्धिकः स्तनद्विड् वक्रास्यो हतचलितैकपक्ष्मनेत्रः
उद्विग्नः सुलुलितचक्षुरल्परोदी स्कन्दार्तो भवति च गाढमुष्टिवर्चाः ८
निःसंज्ञो भवति पुनर्भवेत्ससंज्ञः संरब्धः करचरणैश्च नृत्यतीव
विण्मूत्रे सृजति विनद्य जृम्भमाणः फेनं च प्रसृजति तत्सखाभिपन्नः ९
स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः संस्राविव्रणपरिपीडितः समन्तात्
स्फोटैश्च प्रचिततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या १०
रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा ज्वरमुखपाकवेदनार्तः
रेवत्या व्यथिततनुश्च कर्णनासं मृद्नाति ध्रुवमभिपीडितः कुमारः ११
स्रस्ताङ्गः स्वपिति सुखं दिवा न रात्रौ विड् भिन्नं सृजति च काकतुल्यगन्धिः
छर्द्याऽतो हृषिततनूरुहः कुमारस्तृष्णालुर्भवति च पूतनागृहीतः १२
यो द्वेष्टि स्तनमतिसारकासहिक्कच्छर्दीभिर्ज्वरसहिताभिरर्द्यमानः
दुर्वर्णः सततमधःशयोऽम्लगन्धिस्तं ब्रूयुर्भिषज इहान्धपूतनार्तम् १३
उद्विग्नो भृशमतिवेपते प्ररुद्यात् संलीनः स्वपिति च यस्य चान्त्रकूजः
विस्राङ्गो भृशमतिसार्यते च यस्तं जानीयाद्भिषगिह शीतपूतनार्तम् १४
म्लानाङ्गः सुरुचिरपाणिपादवक्त्रो बह्वाशी कलुषसिरावृतोदरो यः
सोद्वेगो भवति च मूत्रतुल्यगन्धिः स ज्ञेयः शिशुरिह वक्त्रमण्डिकार्तः १५
यः फेनं वमति विनम्यते च मध्ये सोद्वेगं विलपति चोर्ध्वमीक्षमाणः
ज्वर्येत प्रततमथो वसासगन्धिर्निःसंज्ञो भवति हि नैगमेषजुष्टः १६
प्रस्तब्धो यः स्तनद्वेषी मुह्यते चाविशन्मुहुः
तं बालमचिराद्धन्ति ग्रहः संपूर्णलक्षणः १७
विपरीतमतः साध्यं चिकित्सेदचिरार्दितम्
गृहे पुराणहविषाऽभ्यज्य बालं शुचौ शुचिः १८
सर्षपान् प्रकिरेत्तेषां तैलैर्दीपं च कारयेत्
सदा सन्निहितं चापि जुहुयाद्धव्यवाहनम् १९
सर्वगन्धौषधीबीजैर्गन्धमाल्यैरलङ्कृतम्
अग्नये कृत्तिकाभ्यश्च स्वाहा स्वाहेति संततम् २०
नमः स्कन्दाय देवाय ग्रहाधिपतये नमः
शिरसा त्वाऽभिवन्देऽह प्रतिगृह्णीष्व मे बलिम्
नीरुजो निर्विकारश्च शिशुर्मे जायतां द्रुतम् २१
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रेनवग्रहाकृतिविज्ञानीयो नाम
प्रिथमोऽध्यायः आदितः सप्तविंशोऽध्यायः २७
अष्टाविंशतितमोऽध्यायः
अथातः स्कन्धग्रहप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्कन्दग्रहोपसृष्टानां कुमाराणां प्रशस्यते
वातघ्नद्रुमपत्राणां निष्क्वाथः परिषेचने ३
तेषां मूलेषु सिद्धं च तैलमभ्यञ्जने हितम्
सर्वगन्धसुरामण्डकैडर्यावापमिष्यते ४
देवदारुणि रास्नायां मधुरेषु द्रुमेषु च
सिद्धं सर्पिश्च सक्षीरं पानमस्मै प्रयोजयेत् ५
सर्षपाः सर्पनिर्मोको वचा काकादनी घृतम्
उष्ट्राजाविगवां चैव रोमाण्युद्धूपनं शिशोः ६
सोमवल्लीमिन्द्र वल्लीं शमीं बिल्वस्य कण्टकान्
मृगादन्याश्च मूलानि ग्रथितान्येव धारयेत् ७
रक्तानि माल्यानि तथा पताका रक्ताश्च गन्धा विविधाश्च भक्ष्याः
घण्टा च देवाय बलिर्निवेद्यः सुकुक्कुटः स्कन्दग्रहे हिताय ८
स्नानं त्रिरात्रं निशि चत्वरेषु कुर्यात् पुरं शालियवैर्नवैस्तु
अद्भिश्च गायत्र्यभिमन्त्रिताभिः प्रज्वालनं व्याहृतिभिश्च वह्नेः ९
रक्षामतः प्रवक्ष्यामि बालानां पापनाशिनीम्
अहन्यहनि कर्तव्या या भिषग्भिरतन्द्रि तैः १०
तपसां तेजसां चैव यशसां वपुषां तथा
निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु ११
ग्रहसेनापतिर्देवो देवसेनापतिर्विभुः
देवसेनारिपुहरः पातु त्वां भगवान् गुहः १२
देवदेवस्य महतः पावकस्य च यः सुतः
गङ्गोमाकृत्तिकानां च स ते शर्म प्रयच्छतु १३
रक्तमाल्याम्बरः श्रीमान् रक्तचन्दनभूषितः
रक्तदिव्यवपुर्देवः पातु त्वां क्रौञ्चसूदनः १४
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे स्कन्दप्रतिषेधो नामा
द्वितीयोऽध्यायः आदितोऽष्टाविंशोऽध्यायः २८
एकोनत्रिंशत्तमोऽध्यायः
अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
बिल्वः शिरीषो गोलोमी सुरसादिश्च यो गणः
परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये ३
सर्वगन्धविपक्वं तु तैलमभ्यञ्जने हितम्
क्षीरवृक्षकषाये च काकोल्यादौ गणे तथा ४
विपक्तव्यं घृतं चापि पानीयं पयसा सह
उत्सादनं वचाहिङ्गुयुक्तं स्कन्दग्रहे हितम् ५
गृध्रोलूकपुरीषाणि देशा हस्तिनखा घृतम्
वृषभस्य च रोमाणि योज्यान्युद्धूपनेऽपि च ६
अनन्तां कुक्कुटीं बिम्बीं मर्कटीं चापि धारयेत्
पक्वापक्वानि मांसानि प्रसन्ना रुधिरं पयः ७
भूतौदनो निवेद्यश्च स्कन्दापस्मारिणेऽवटे
चतुष्पथे च कर्तव्यं स्नानमस्य यतात्मना ८
स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा
विशाखसंज्ञश्च शिशोः शिवोऽस्तु विकृताननः ९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रेस्कन्दापस्मारप्रतिषेधो नाम एकोनत्रिंशोऽध्यायः २९
त्रिंशत्तमोऽध्यायः
अथातः शकुनीप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शकुन्यभिपरीतस्य कार्यो वैद्येन जानता
वेतसाम्रकपित्थानां निष्क्वाथः परिषेचने ३
कषायमधुरैस्तैलः कार्यमभ्यञ्जने शिशोः
मधुकोशीरह्रीबेरसारिवोत्पलपद्मकैः ४
रोध्रप्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम्
व्रणेषूक्तानि चूर्णानि पथ्यानि विविधानि च ५
स्कन्दग्रहे धूपनानि तानीहापि प्रयोजयेत्
शतावरीमृगैर्वारुनागदन्तीनिदिग्धिकाः ६
लक्ष्मणं सहदेवां च बृहतीं चापि धारयेत्
तिलतण्डुलकं माल्यं हरितालं मनःशिला ७
बलिरेष करञ्जेषु निवेद्यो नियतात्मना
निष्कुटे च प्रयोक्तव्यं स्नानमस्य यथाविधि ८
स्कन्दापस्मारशमनं घृतं चापीह पूजितम्
कुर्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः ९
अन्तरीक्षचरा देवा सर्वालङ्कारभूषिता
अयोमुखी तीक्ष्णतुण्डा शकुनी ते प्रसीदतु १०
दुर्दर्शना महाकाया पिङ्गाक्षी भैरवस्वरा
लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे शकुनीप्रतिषेधो नाम
चितुर्थोऽध्यायः आदितः त्रिंशोऽध्यायः ३०
तएकत्रिंशत्तमोऽध्यायः
अथातो रेवतीप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अश्वगन्धा च शृङ्गी च सारिवा सपुनर्नवा
सहे तथा विदारी च कषायाः सेचने हिताः ३
तैलमभ्यञ्जने कार्यं कुष्ठे सर्जरसेऽपि च
पलङ्कषायां नलदे तथा गिरिकदम्बके ४
धवाश्वकर्णककुभधातकीतिन्दुकीषु च
काकोल्यादिगणे चैव पानीयं सर्पिरिष्यते ५
कुलत्थाः शङ्खचूर्णं च प्रदेहः सार्वगन्धिकः
गृध्रोलूकपुरीषाणि यवा यवफलो घृतम् ६
सन्ध्ययोरुभयोः कार्यमेतदुद्धूपनं शिशोः
वरुणारिष्टकमयं रुचकं सैन्दुकं तथा ७
सततं धारयेच्चापि कृतं वा पौत्रजीविकम्
शुक्लाः सुमनसो लाजाः पयः शाल्योदनं तथा ८
बलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना
सङ्गमे च भिषक् स्नानं कुर्याद्धात्रीकुमारयोः ९
नानावस्त्रधरा देवी चित्रमाल्यानुलेपना
चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु १०
उपासते यां सततं देव्यो विविधभूषणाः
लम्बा कराला विनता तथैव बहुपुत्रिका
रेवती शुष्कनामा या सा ते देवी प्रसीदतु ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे रेवतीप्रतिषेधो नाम
पिञ्चमोऽध्यायः आदितः एकत्रिंशोऽध्यायः ३१
द्वात्रिंशत्तमोऽध्यायः
अथातः पूतनाप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कपोतवङ्काऽरलुको वरुणः पारिभद्र कः
आस्फोता चैव योज्याः स्युर्बालानां परिषेचने ३
वचा वयःस्था गोलोमी हरितालं मनःशिला
कुष्ठं सर्जरसश्चैव तैलार्थे वर्ग इष्यते ४
हितं घृतं तुगाक्षीर्यां सिद्धं मधुरकेषु च
कुष्ठतालीशखदिरचन्दनस्यन्दने तथा ५
देवदारुवचाहिङ्गुकुष्ठं गिरिकदम्बकः
एला हरेणवश्चापि योज्या उद्धूपने सदा ६
गन्धनाकुलिकुम्भीके मज्जानो बदरस्य च
कर्कटास्थि घृतं चापि धूपनं सर्षपैः सह ७
काकादनीं चित्रफलां बिम्बीं गुञ्जां च धारयेत्
मत्स्यौदनं च कुर्वीत कृशरां पललं यथा
शरावसंपुटे कृत्वा बलि शून्यगृहे हरेत् ८
उच्छिष्टेनाभिषेकेण शिशोः स्नपनमिष्यते
पूज्या च पूतना देवी बलिभिः सोपहारकैः ९
मलिनाम्बरसंवीता मलिना रूक्षमूर्धजा
शून्यागाराश्रिता देवी दारकं पातु पूतना १०
दुर्दर्शना सुदुर्गन्धा कराला मेघकालिका
भिन्नगाराश्रया देवी दारकं पातु पूतना ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे षिष्ठोऽध्यायः आदितः द्वात्रिंशोऽध्यायः ३२
त्रयस्त्रिंशत्तमोऽध्यायः
अथातोऽन्धपूतनाप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
तिक्तकद्रुमपत्राणां कार्यः क्वाथोऽवसेचने
सुरा सौवीरकं कुष्ठं हरितालं मनःशिलाः ३
तथा सर्जरसश्चैव तैलार्थमुपदिश्यते
पिप्पल्यः पिप्पलीमूलं वर्गो मधुरको मधु ४
शालपर्णी बृहत्यौ च घृतार्थमुपदिश्यते
सर्वगन्धैः प्रदेहश्च गात्रेष्वक्ष्णोश्च शीतलैः ५
पुरीषं कौक्कुटं केशांश्चर्म सर्पत्वचं तथा
जीर्णां च भिक्षुसंघाटीं धूमनायोपकल्पयेत् ६
कुक्कुटीं मर्कटीं शिम्बीमनन्तां चापि धारयेत्
मांसमामं तथा पक्वं शोणितं च चतुष्पथे ७
निवेद्यमन्तश्च गृहे शिशो रक्षानिमित्ततः
शिशोश्च स्नपनं कुर्यात् सर्वगन्धोदकैः शुभैः ८
कराला पिङ्गला मुण्डा कषायाम्बरवासिनी
देवी बालमिमं प्रीता संरक्षत्वन्धपूतना ९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रेऽन्धपूतनाप्रतिषेधो नाम
सप्तमोऽध्यायः आदितः त्रयस्त्रिंशोऽध्यायः ३३
चतुस्त्रिंशत्तमोऽध्यायः
अथातः शीतपूतनाप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कपित्थं सुवहां बिम्बीं तथा बिल्वं प्रचीबलम्
नन्दीं भल्लातकं चापि परिषेके प्रयोजयेत् ३
बस्तमूत्रं गवां मूत्रं मुस्तं च सुरदारु च
कुष्ठं च सर्वगन्धांश्च तैलार्थमवचारयेत् ४
रोहिणीसर्जखदिरपलाशककुभत्वचः
निष्क्वाथ्य तस्मिन्निष्क्वाथे सक्षीरं विपचेद्घृतम् ५
गृध्रोलूकपुरीषाणि बस्तागन्धामहेस्त्वचः
निम्बपत्राणि मधुकं धूपनार्थं प्रयोजयेत् ६
धारयेदपि लम्बां च गुञ्जां काकादनीं तथा
नद्यां मुद्गकृतैश्चान्नैस्तर्पयेच्छीतपूतनाम् ७
देव्यै देयश्चोपहारो वारुणी रुधिरं तथा
जलाशयान्ते बालस्य स्नपनं चोपदिश्यते ८
मुद्गौदनाशना देवी सुराशोणितपायिनी
जलाशयालया देवी पातु त्वां शीतपूतना ९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे शीतपूतनाप्रतिषेधो नाम अष्टमोऽध्यायः आदितः चतुस्त्रिंशोऽध्यायः ३४
पञ्चत्रिंशत्तमोऽध्यायः
अथातो मुखमण्डिकाप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कपित्थबिल्वतर्कारीवांशीगन्धर्वहस्तकाः
कुबेराक्षी च योज्याः स्युर्बालानां परिषेचने ३
स्वरसैर्भृङ्गवृक्षाणां तथाऽजहरिगन्धयोः
तैलं वसां च संयोज्य पचेदभ्यञ्जने शिशोः ४
मधूलिकायां पयसि तुगाक्षीर्यां गणे तथा
मधुरे पञ्चमूले च कनीयसि घृतं पचेत् ५
वचा सर्जरसः कुष्ठं सर्पिश्चोद्धूपनं हितम्
धारयेदपि जिह्वाश्च चाषचीरल्लिसर्पजाः ६
वर्णकं चूर्णकं माल्यमञ्जनं पारदं तथा
मनःशिलां चोपहरेद्गोष्ठमध्ये बलि तथा ७
पायसं सपुरोडाशं बल्यर्थमुपसंहरेत्
मन्त्रपूताभिरद्भिश्च तत्रैव स्नपनं हितम् ८
अलङ्कृता रूपवती सुभगा कामरूपिणी
गोष्ठमध्यालयरता पातु त्वां मुखमण्डिका ९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे मुखमण्डिकाप्रतिषेधो नाम निवमोऽध्यायः आदितः पञ्चत्रिंशत्तमोऽध्यायः ३५
षट्त्रिंशत्तमोऽध्यायः
अथातो नैगमेषप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
बिल्वाग्निमन्थपूतीकाः कार्याः स्युः परिषेचने
सुरा सबीजं धान्याम्लं परिषेके च शस्यते ३
प्रियङ्गुसरलानन्ताशतपुष्पाकुटन्नटैः
पचेत्तैलं सगोमूत्रैर्दधिमस्त्वम्लकाञ्जिकैः ४
पञ्चमूलद्वयक्वाथे क्षीरे मधुरकेषु च
पचेद्घृतं च मेधावी खर्जूरीमस्तकेऽपि वा ५
वचां वयःस्थां गोलोमीं जटिलां चापि धारयेत्
उत्सादनं हितं चात्र स्कन्दापस्मारनाशनम् ६
सिद्धार्थकवचाहिङ्गुकुष्ठं चैवाक्षतैः सह
भल्लातकाजमोदाश्च हितमुद्धूपनं शिशोः ७
मर्कटोलूकगृध्राणां पुरीषाणि नवग्रहे
धूपः सुप्ते जने कार्यो बालस्य हितमिच्छता ८
तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि
कुमारपितृमेषाय वृक्षमूले निवेदयेत् ९
अधस्ताद्वटवृक्षस्य स्नपनं चोपदिश्यते
बलि न्यग्रोधवृक्षेषु तिथौ षष्ठ्यां निवेदयेत् १०
अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः
बालं बालपिता देवो नैगमेषोऽभिरक्षतु ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे नैगमेषप्रतिषेधो नाम
दशमोऽध्यायः आदितः षट्त्रिंशोऽध्यायः ३६
सप्तत्रिंशत्तमोऽध्यायः
अथातो ग्रहोत्पत्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
नव स्कन्दादयः प्रोक्ता बालानां य इमे ग्रहाः
श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः ३
एते गुहस्य रक्षार्थं कृत्तिकोमाग्निशूलिभिः
सृष्टाः शरवणस्थस्य रक्षितस्यात्मतेजसा ४
स्त्रीविग्रहा ग्रहा ये तु नानारूपा मयेरिताः
गङ्गोमाकृत्तिकानां ते भागा राजसतामसाः ५
नैगमेषस्तु पार्वत्या सृष्टो मेषाननो ग्रहः
कुमारधारी देवस्य गुहस्यात्मसमः सखा ६
स्कन्दापस्मारसंज्ञो यः सोऽग्निनाऽग्निसमद्युतिः
स च स्कन्दसखा नाम विशाख इति चोच्यते ७
स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा
बिभर्ति चापरां संज्ञां कुमार इति स ग्रहः ८
बाललीलाधरो योऽय देवो रुद्रा ग्निसंभवः
मिथ्याचारेषु भगवान् स्वयं नैष प्रवर्तते ९
कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः
गृह्णातीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः १०
ततो भगवति स्कन्दे सुरसेनापतौ कृते
उपतस्थुर्ग्रहाः सर्वे दीप्तशक्तिधरं गुहम् ११
ऊचुः प्राञ्जलयश्चैनं वृत्तिं नः संविधत्स्व वै
तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत् १२
ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत्
तिर्यग्योनिं मानुषं च दैवं च त्रितयं जगत् १३
परस्परोपकारेण वर्तते धार्यतेऽपि च
देवा मनुष्यान् प्रीणन्ति तैर्यग्योनींस्तथैव च १४
वर्तमानैर्यथाकालं शीतवर्षोष्णमारुतैः
इज्याञ्जलिनमस्कारजपहोमव्रतादिभिः १५
नराः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान्
भागधेयं विभक्तं च शेषं किञ्चिन्न विद्यते १६
तद्युष्माकं शुभा वृत्तिर्बालेष्वेव भविष्यति
कुलेषु येषु नेज्यन्ते देवाः पितर एव च १७
ब्राह्मणाः साधवश्चैव गुरवोऽतिथयस्तथा
निवृत्ताचारशौचेषु परमाकोपजीविषु १८
उत्सन्नबलिभिक्षेषु भिन्नकांस्योपभोजिषु
गृहेषु तेषु ये बालास्तान् गृह्णीध्वमशङ्किताः १९
तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति
एवं ग्रहाः समुत्पन्ना बालान् गृह्णन्ति चाप्यतः २०
ग्रहोपसृष्टा बालास्तु दुश्चिकित्स्यतमा मताः
वैकल्यं मरणं चापि ध्रुवं स्कन्दग्रहे मतम् २१
स्कन्दग्रहोऽत्युग्रतमः सर्वेष्वेव यतः स्मृतः
अन्यो वा सर्वरूपस्तु न साध्यो ग्रह उच्यते २२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे ग्रहोत्पत्त्यध्यायो नाम
एकादशोऽध्यायः आदितः सप्तत्रिंशत्तमोऽध्यायः ३७
अष्टत्रिंशत्तमोऽध्यायः
अथातो योनिव्यापत्प्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
प्रवृद्धलिङ्गं पुरुषं याऽत्यर्थमुपसेवते
रूक्षदुर्बलबाला या तस्या वायुः प्रकुप्यति ३
स दुष्टो योनिमासाद्य योनिरोगाय कल्पते
त्रयाणामपि दोषाणां यथास्वं लक्षणेन तु ४
विंशतिर्व्यापदो योनेर्निर्दिष्टा रोगसंग्रहे
मिथ्याचारेण याः स्त्रीणां प्रदुष्टेनार्तवेन च ५
जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक्
उदावर्ता तथा वन्ध्या विप्लुता च परिप्लुता ६
वातला चेति वातोत्थाः पित्तोत्था रुधिरक्षरा
वामिनी स्रंसिनी चापि पुत्रघ्नी पित्तला च या ७
अत्यानन्दा च या योनिः कर्णिनी चरणाद्वयम्
श्लेष्मला च कफाज्ज्ञेया षण्डाख्या फलिनी तथा ८
महती सूचिवक्त्रा च सर्वजेति त्रिदोषजा
सफेनिलमुदावर्ता रजः कृच्छ्रेण मुञ्चति ९
वन्ध्यां नष्टार्तवां विद्याद्विप्लुतां नित्यवेदनाम्
परिप्लुतायां भवति ग्राम्यधर्मे रुजा भृशम् १०
वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता
चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ११
सदाहं प्रक्षरत्यस्रं यस्यां सा लोहितक्षरा
सवातमुद्गिरेद्बीजं वामिनी रजसा युतम् १२
प्रस्रंसिनी स्यन्दते तु क्षोभिता दुःप्रसूश्च या
स्थितं स्थितं हन्ति गर्भं पुत्रघ्नी रक्तसंस्रवात् १३
अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता
चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत् १४
अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण गच्छति
कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां प्रजायते १५
मैथुनेऽचरणा पूर्वं पुरुषादतिरिच्यते
बहुशश्चातिचरणादन्या बीजं न विन्दति १६
श्लेष्मला पिच्छिला योनिः कण्डूयुक्ताऽतिशीतला
चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रितिर्भवेत् १७
अनार्तवस्तना षण्डी खरस्पर्शा च मैथुने
अतिकायगृहीतायास्तरुण्याः फलिनी भवेत् १८
विवृताऽतिमहायोनिः सूचीवक्त्राऽतिसंवृता
सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा १९
चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रितिर्भवेत्
पञ्चासाध्या भवन्तीमा योनयः सर्वदोषजाः २०
प्रतिदोषं तु साध्यासु स्नेहादिक्रम इष्यते
दद्यादुत्तरबस्तींश्च विशेषेण यथोदितान् २१
कर्कशां शीतलां स्तब्धामल्पस्पर्शां च मैथुने
कुम्भीस्वेदैरुपचरेत् सानूपौदकसंयुतैः २२
मधुरौषधसंयुक्तान् वेशवारांश्च योनिषु
निक्षिपेद्धारयेच्चापि पिचुतैलमतन्द्रि तः २३
धावनानि च पथ्यानि कुर्वीतापूरणानि च
ओषचोषान्वितासूक्तं कुर्याच्छीतं विधिं भिषक् २४
दुर्गन्धां पिच्छिलां चापि चूर्णैः पञ्चकषायजैः
पूरयेद्रा जवृक्षादिकषायैश्चापि धावनम् २५
योन्यां तु पूयस्राविण्यां शोधनद्र व्यसंभृतैः
सगोमूत्रैः सलवणैः शोधनं हितमिष्यते २६
बृहतीफलकल्कस्य द्विहरिद्रा युतस्य च
कण्डूमतीमल्पस्पर्शां पूरयेद्धूपयेत्तथा २७
वर्तिं प्रदद्यात् कर्णिन्यां शोधनद्र व्यसंभृताम्
प्रस्रंसिनीं घृताभ्यक्तां क्षीरस्विन्नां प्रवेशयेत् २८
पिधाय वेशवारेण ततो बन्धं समाचरेत्
प्रतिदोषं विदध्याच्च सुरारिष्टासवान् भिषक् २९
प्रातः प्रातर्निषेवेत रसोनादुद्धृतं रसम्
क्षीरमांसरसप्रायमाहारं विदधीत च ३०
शुक्रार्तवादयो दोषाः स्तनरोगाश्च कीर्तिताः
क्लैब्यस्थानानि मूढस्य गर्भस्य विधिरेव च ३१
गर्भिणीप्रतिरोगेषु चिकित्सा चाप्युदाहृता
सर्वथा तां प्रयुञ्जीत योनिव्यापत्सु बुद्धिमान्
अपप्रजातारोगांश्च चिकित्सेदुत्तराद्भिषक् ३२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे योनिव्यापत्प्रतिषेधो नाम द्वादशोऽध्यायः आदितः अष्टत्रिंशत्तमोऽध्यायः ३८
एकोनचत्वारिंशत्तमोऽध्यायः
अथातो ज्वरप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
येनामृतमपां मध्यादुद्धृतं पूर्वजन्मनि
यतोऽमरत्वं संप्राप्तास्त्रिदशास्त्रिदिवेश्वरात् ३
शिष्यास्तं देवमासीनं पप्रच्छुः सुश्रुतादयः
व्रणस्योपद्र वाः प्रोक्ता व्रणिनामप्यतः परम् ४
समासाद् व्यासतश्चैव ब्रूहि नो भिषजांवर
उपद्र वेण जुष्टस्य व्रणः कृच्छ्रेण सिध्यति ५
उपद्र वास्तु व्रणिनः कृच्छ्रसाध्याः प्रकीर्तिताः
प्रक्षीणबलमांसस्य शेषधातुपरिक्षयात् ६
तस्मादुपद्र वान् कृत्स्नान् ब्रूहि नः सचिकित्सितान्
सर्वकायचिकित्सासु ये दृष्टाः परमर्षिणा ७
तेषां तद्वचनं श्रुत्वा प्राब्रवीद्भिषजांवरः
ज्वरमादौ प्रवक्ष्यामि स रोगानीकराट् स्मृतः ८
रुद्र कोपाग्निसंभूतः सर्वभूतप्रतापनः
तैस्तैर्नामभिरन्येषां सत्त्वानां परिकीर्त्यते ९
जन्मादौ निधने चैव प्रायो विशति देहिनम्
अतः सर्वविकाराणामयं राजा प्रकीर्तितः १०
ऋते देवमनुष्येभ्यो नान्यो विषहते तु तम्
कर्मणा लभते यस्माद्देवत्वं मानुषादपि ११
पुनश्चैव च्युतः स्वर्गान्मानुष्यमनुवर्तते
तस्मात्ते देवभावेन सहन्ते मानुषा ज्वरम् १२
शेषाः सर्वे विपद्यन्ते तैर्यग्योना ज्वरार्दिताः
स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा १३
विकारा युगपद्यस्मिन् ज्वरः स परिकीर्तितः
दोषैः पृथक् समस्तैश्च द्वन्द्वैरागन्तुरेव च १४
अनेककारणोत्पन्नः स्मृतस्त्वष्टविधो ज्वरः
दोषाः प्रकुपिताः स्वेषु कालेषु स्वैः प्रकोपणैः १५
व्याप्य देहमशेषेण ज्वरमापादयन्ति हि
दुष्टाः स्वहेतुभिर्दोषाः प्राप्यामाशयमूष्मणा १६
सहिता रसमागत्य रसस्वेदप्रवाहिणाम्
स्रोतसां मार्गमावृत्य मन्दीकृत्य हुताशनम् १७
निरस्य बहिरूष्माणं पक्तिस्थानाच्च केवलम्
शरीरं समभिव्याप्य स्वकालेषु ज्वरागमम् १८
जनयन्त्यथ वृद्धिं वा स्ववर्णं च त्वगादिषु
मिथ्यातियुक्तैरपि च स्नेहाद्यैः कर्मभिर्नृणाम् १९
विविधादभिघाताच्च रोगोत्थानात् प्रपाकतः
श्रमात् क्षयादजीर्णाच्च विषात्सात्म्यर्तुपर्ययात् २०
ओषधीपुष्पगन्धाच्च शोकान्नक्षत्रपीडया
अभिचाराभिशापाभ्यां मनोभूताभिशङ्कया २१
स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः
स्तन्यावतरणे चैव ज्वरो दोषैः प्रवर्तते २२
तैर्वेगवद्भिर्बहुधा समुद्भ्रान्तैर्विमार्गगैः
विक्षिप्यमाणोऽन्तरग्निर्भवत्याशु बहिश्चरः २३
रुणद्धि चाप्यपांधातुं यस्मात्तस्माज्ज्वरातुरः
भवत्यत्युष्णगात्रश्च ज्वरितस्तेन चोच्यते २४
श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः
इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु २५
जृम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः
अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे २६
सामान्यतो विशेषात्तु जृम्भाऽत्यर्थं समीरणात्
पित्तान्नयनयोर्दाहः कफान्नान्नाभिनन्दनम् २७
सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे
द्वयोर्द्वयोस्तु रूपेण संसृष्टं द्वन्द्वजं विदुः २८
वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम्
निद्रा नाशः क्षुतः स्तम्भो गात्राणां रौक्ष्यमेव च २९
शिरोहृद्गात्ररुग्वक्त्रवैरस्यं बद्धविट्कता
जृम्भाऽध्मानं तथा शूलं भवत्यनिलजे ज्वरे ३०
वेगस्तीक्ष्णोऽतिसारश्च निद्रा ल्पत्वं तथा वमिः
कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते ३१
प्रलापः कटुता वक्त्रे मूर्च्छा दाहो मदस्तृषा
पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ३२
गौरवं शीतमुत्क्लेशो रोमहर्षोऽतिनिद्र ता
स्रोतोरोधो रुगल्पत्वं प्रसेको मधुरास्यता ३३
नात्युष्णगात्रता छर्दिरङ्गसादोऽविपाकता
प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता ३४
निद्रा नाशो भ्रमः श्वासस्तन्द्रा सुप्ताङ्गताऽरुचिः
तृष्णा मोहो मदः स्तम्भो दाहः शीतं हृदि व्यथा ३५
पक्तिश्चिरेण दोषाणामुन्मादः श्यावदन्तता
रसना परुषा कृष्णा सन्धिमूर्धास्थिजा रुजः ३६
निर्भुग्ने कलुषे नेत्रे कर्णौ शब्दरुगन्वितौ
प्रलापः स्रोतसां पाकः कूजनं चेतनाच्युतिः ३७
स्वेदमूत्रपुरीषाणामल्पशः सुचिरात् स्रुतिः
सर्वजे सर्वलिङ्गानि विशेषं चात्र मे शृणु ३८
नात्युष्णशीतोऽल्पसंज्ञो भ्रान्तप्रेक्षी हतस्वरः
खरजिह्वः शुष्ककण्ठः स्वेदविण्मूत्रवर्जितः ३९
सास्रो निर्भुग्नहृदयो भक्तद्वेषी हतप्रभः
श्वसन्निपतितः शेते प्रलापोपद्र वायुतः ४०
तमभिन्यासमित्याहुर्हतौजसमथापरे
सन्निपातज्वरं कृच्छ्रमसाध्यमपरे विदुः ४१
निद्रो पेतमभिन्यासं क्षीणमेनं हतौजसम्
संन्यस्तगात्र संन्यासं विद्यात्सर्वात्मके ज्वरे ४२
आजो विस्रंसते यस्य पित्तानिलसमुच्छ्रयात्
स गात्रस्तम्भशीताभ्यां शयनेप्सुरचेतनः ४३
अपि जाग्रत् स्वपन् जन्तुस्तन्द्रा लुश्च प्रलापवान्
संहृष्टरोमा स्रस्ताङ्गो मन्दसन्तापवेदनः ४४
ओजोनिरोधजं तस्य जानीयात् कुशलो भिषक्
सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा ४५
पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा
द्विदोषोच्छ्रायलिङ्गास्तुद्वन्द्वजास्त्रिविधाः स्मृताः ४६
तृष्णा मूर्च्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा
कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तथा ४७
पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः
स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च ४८
शिरोग्रहः प्रतिश्यायः कासः स्वेदप्रवर्तनम्
सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः ४९
लिप्तातिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा
मुहुर्दाहो मुहुः शीतं श्लेष्मपित्तज्वराकृतिः ५०
जृम्भाध्मानमदोत्कम्पपर्वभेदपरिक्षयाः
तृट्प्रलापाभितापाः स्युर्ज्वरे मारुतपैत्तिके १
शूलकासकफोत्क्लेशशीतवेपथुपीनसाः
गौरवारुचिविष्टम्भा वातश्लेष्मसमुद्भवे २
शीतदाहारुचिस्तम्भस्वेदमोहमदभ्रमाः
कासाङ्गसादहृल्लासा भवन्ति कफपैत्तिके ३
कृशानां ज्वरमुक्तानां मिथ्याहारविहारिणाम्
दोषः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः ५१
सततान्येद्युष्कत्र्याख्यचातुर्थान् सप्रलेपकान्
कफस्थानविभागेन यथासंख्यं करोति हि ५२
अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यते
ततश्चामाशयं प्राप्य दोषः कुर्याज्ज्वरं नृणाम् ५३
तथा प्रलेपको ज्ञेयः शोषिणां प्राणनाशनः
दुश्चिकित्स्यतमो मन्दः सुकष्टो धातुशोषकृत् ५४
कफस्थानेषु वा दोषस्तिष्ठन् द्वित्रिचतुर्षु वा
विपर्ययाख्यान् कुरुते विषमान् कृच्छ्रसाधनान् ५५
परो हेतुः स्वभावो वा विषमे कैश्चिदीरितः
आगन्तुश्चानुबन्धो हि प्रायशो विषमज्वरे ५६
वाताधिकत्वात् प्रवदन्ति तज्ज्ञास्तृतीयकं चापि चतुर्थकं च
औपत्यके मद्यसमुद्भवे च हेतुं ज्वरे पित्तकृतं वदन्ति ५७
प्रलेपकं वातबलासकं च कफाधिकत्वेन वदन्ति तज्ज्ञाः
मूर्च्छानुबन्धा विषमज्वरा ये प्रायेण ते द्वन्द्वसमुत्थितास्तु ५८
त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे
तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च ५९
करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च
प्रशान्ते कुरुतस्तस्मिंश्छीतमन्ते च तावपि ६०
द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ
दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यश्च स स्मृतः ६१
प्रसक्तश्चाभिघातोत्थश्चेतनाप्रभवस्तु यः
रात्र्यह्नोः षट्सु कालेषु कीर्तितेषु यथा पुरा ६२
प्रसह्य विषमोऽभ्येति मानवं बहुधा ज्वरः
स चापि विषमो देहं न कदाचिद्विमुञ्चति ६३
ग्लानिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते
वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते ६४
धात्वन्तरस्थो लीनत्वान्न सौक्ष्म्यादुपलभ्यते
अल्पदोषेन्धनः क्षीणः क्षीणेन्धन इवानलः ६५
दोषोऽल्पोऽहितसंभूतो ज्वरोत्सृष्टस्य वा पुनः
धातुमन्यतमं प्राप्य र्क्ति विषमज्वरम् ६६
सततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः
मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः ६७
कुर्याच्चातुर्थकं घोरमन्तकं रोगसंकरम्
केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ६८
सप्ताहं वा दशाहं वा द्वादशाहमथापि वा
सन्तत्या योऽविसर्गी स्यात्सन्ततः स निगद्यते ६९
अहोरात्रे सततको द्वौ कालावनुवर्तते
अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्तते ७०
तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः
वातेनोदीर्यमाणाश्च ह्रीयमाणाश्च सर्वतः
एकद्विदोषा मर्त्यानां तस्मिन्नेवोदितेऽहनि ७१
वेलां तामेव कुर्वन्ति ज्वरवेगे मुहुर्मुहुः
वातेनोद्धूयमानस्तु यथा पूर्येत सागरः ७२
वातेनोदीरितास्तद्वद्दोषाः कुर्वन्ति वै ज्वरान्
यथा वेगागमे वेलां छादयित्वा महोदधेः ७३
वेगहानौ तदेवाम्भस्तत्रैवान्तर्निलीयते
दोषवेगोदये तद्वदुदीर्येत ज्वरोऽस्य वै ७४
वेगहानौ प्रशाम्येत यथाऽम्भ सागरे तथा
विविधेनाभिघातेन ज्वरो यः संप्रवर्तते ७५
यथादोषप्रकोपं तु तथा मन्येत तं ज्वरम्
श्यावास्यता विषकृते दाहातीसारहृद्ग्रहाः ७६
अभक्तरुक् पिपासा च तोदो मूर्च्छा बलक्षयः
ओषधीगन्धजे मूर्च्छा शिरोरुक् वमथुः क्षवः ७७
कामजे चित्तविभ्रंशस्तन्द्रा ऽलस्यमरोचकः
हृदये वेदना चास्य गात्रं च परिशुष्यति ७८
भयात् प्रलापः शोकाच्च भवेत् कोपाच्च वेपथुः
अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते ७९
भूताभिषङ्गादुद्वेगहास्यकम्पनरोदनम्
श्रमक्षयाभिघातेभ्यो देहिनां कुपितोऽनिलः ८०
पूरयित्वाऽखिलं देहं ज्वरमापादयेद्भृशम्
रोगाणां तु समुत्थानाद्विदाहागन्तुतस्तथा ८१
ज्वरोऽपरः संभवति तैस्तैरन्यैश्च हेतुभिः
दोषाणां स तु लिङ्गानि कदाचिन्नातिवर्तते ८२
गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ
रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते ८३
रक्तनिष्ठीवनं दाहः स्वेदश्छर्दनविभ्रमौ
प्रलापः पिटिका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् ८४
पिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता
ऊष्माऽन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ८५
भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च
दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता ८६
भेदोऽन्स्था कुञ्चजिनिं श्वासो विरेकश्छर्दिरेव च
विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे ८७
तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा
अन्तर्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे
मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे ८८
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः
दग्ध्वेन्धनं यथा वह्निर्धातून् हत्वा यथा विषम् ८९
कृतकृत्यो व्रजेच्छान्तिं देहं हत्वा तथा ज्वरः
वातपित्तकफोत्थानां ज्वराणां लक्षणं यथा ९०
तथा तेषां भिषग्ब्रूयाद्र सादिष्वपि बुद्धिमान्
समस्तैः सन्निपातेन धातुस्थमपि निर्दिशेत् ९१
द्वन्द्वजं द्वन्द्वजैरेव दोषैश्चापि वदेत् कृतम्
गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया ९२
आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च
हतप्रभेन्द्रि यं क्षीणमरोचकनिपीडितम् ९३
गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत्
हीनमध्याधिकैर्दोषैस्त्रिसप्तद्वादशाहिकः ९४
ज्वरवेगो भवेत्तीव्रो यथापूर्वं सुखक्रियः
कालो ह्येष यमश्चैव नियतिर्मृत्युरेव च ९५
तस्मिन् व्यपगते देहाज्जन्मेह पुनरुच्यते
इति ज्वराः समाख्याताः कर्मेदानीं प्रवक्ष्यते ९६
ज्वरस्य पूर्वरूपेषु वर्तमानेषु बुद्धिमान्
पाययेत घृतं स्वच्छं ततः स लभते सुखम् ९७
विधिर्मारुतजेष्वेष पैत्तिकेषु विरेचनम्
मृदु प्रच्छर्दनं तद्वत्कफजेषु विधीयते ९८
सर्वद्विदोषजेषूक्तं यथादोषं विकल्पयेत्
अस्नेहनीयोऽशोध्यश्च संयोज्यो लङ्घनादिना ९९
रूपप्राग्रूपयोर्विद्यान्नानात्वं वह्निधूमवत्
प्रव्यक्तरूपेषु हितमेकान्तेनापतर्पणम् १००
आमाशयस्थे दोषे तु सोत्क्लेशे वमनं परम्
आनद्धः स्तिमितैर्दोषैर्यावन्तं कालमातुरः १०१
कुर्यादनशनं तावत्ततः संसर्गमाचरेत्
न लङ्घयेन्मारुतजे क्षयजे मानसे तथा १०२
अलङ्घ्याश्चापि ये पूर्वं द्विव्रणीये प्रकीर्तिताः
अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् १०३
ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम्
सृष्टमारुतविण्मूत्रं क्षुत्पिपासाऽसहं लघुम् १०४
प्रसन्नात्मेन्द्रि यं क्षामं नरं विद्यात् सुलङ्घितम्
बलक्षयस्तृषा शोषस्तन्द्रा निद्रा भ्रमक्लमाः १०५
उपद्र वाश्च श्वासाद्याः संभवन्त्यतिलङ्घनात्
दीपनं कफविच्छेदि पित्तवातानुलोमनम् १०६
कफवातज्वरार्तेभ्यो हितमुष्णाम्बु तृट्छिदम्
तद्धि मार्दवकृद्दोषस्रोतसां शीतमन्यथा १०७
सेव्यमानेन तोयेन ज्वरः शीतेन वर्धते
पित्तमद्यविषोत्थेषु शीतलं तिक्तकैः शृतम् १०८
गाङ्गेयनागरोशीरपर्पटोदीच्यचन्दनैः
दीपनी पाचनी लघ्वी ज्वरार्तानां ज्वरापहा १०९
अन्नकाले हिता पेया यथास्वं पाचनैः कृता
बहुदोषस्य मन्दाग्नेः सप्तरात्रात् परं ज्वरे ११०
लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते
तदा तं मुखवैरस्यतृष्णारोचकनाशनैः १११
कषायैः पाचनैर्हृद्यैर्ज्वरघ्नैः समुपाचरेत्
पञ्चमूलीकषायं तु पाचनं पवनज्वरे ११२
सक्षौद्रं पैत्तिके मुस्तकटुकेन्द्र यवैः कृतम्
पिप्पल्यादिकषायं तु कफजे परिपाचनम् ११३
द्वन्द्वजेषु तु संसृष्टं दद्यादथ विवर्जयेत्
पीताम्बुर्लङ्घितो भुक्तोऽजीर्णी क्षीणः पिपासितः ११४
तीक्ष्णे ज्वरे गुरौ देहे विबद्धेषु मलेषु च
सामदोषं विजानीयाज्ज्वरं पक्वमतोऽन्यथा
मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च
पक्वं दोषं विजानीयाज्ज्वरे देयं तदौषधम् ११५
दोषप्रकृतिवैकृत्यादेकेषां पक्वलक्षणम्
हृदयोद्वेष्टनं तन्द्रा लालास्रुतिररोचकः ११६
दोषाप्रवृत्तिरालस्यं विबन्धो बहुमूत्रता
गुरूदरत्वमस्वेदो न पक्तिः शकृतोऽरतिः ११७
स्वापः स्तम्भो गुरुत्वं च गात्राणां वह्निमार्दवम्
मुखस्याशुद्धिरग्लानिः प्रसङ्गे बलवाञ्ज्वरः ११८
लिङ्गैरेभिर्विजानीयाज्ज्वरमामं विचक्षणः
सप्तरात्रात्परं केचिन्मन्यन्ते देयमौषधम् ११९
दशरात्रात्परं केचिद्दातव्यमिति निश्चिताः
पैत्तिके वा ज्वरे देयमल्पकालसमुत्थिते १२०
अचिरज्वरितस्यापि देयं स्याद्दोषपाकतः
भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् १२१
शोधनं शमनीयं तु करोति विषमज्वरम्
च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा १२२
अतिप्रवर्तमानं च साधयेदतिसारवत्
यदा कोष्ठानुगाः पक्वा विबद्धाः स्रोतसां मलाः १२३
अचिरज्वरितस्यापि तदा दद्याद्विरेचनम्
पक्वो ह्यनिर्हृतो दोषो देहे तिष्ठन् महात्ययम् १२४
विषमं वा ज्वरं कुर्याद्बलव्यापदमेव च
तस्मान्निर्हरणं कार्यं दोषाणां वमनादिभिः १२५
प्राक्कर्म वमनं चास्य कार्यमास्थापनं तथा
विरेचनं तथा कुर्याच्छिरसश्च विरेचनम् १२६
क्रमशः बलिने देयं वमनं श्लैष्मिके ज्वरे
पित्तप्राये विरेकस्तु कार्यः प्रशिथिलाशये १२७
सरुजेऽनिलजे कार्यं सोदावर्ते निरूहणम्
कटीपृष्ठग्रहार्तस्य दीप्ताग्नेरनुवासनम् १२८
शिरोगौरवशूलघ्नमिन्द्रि यप्रतिबोधनम्
कफाभिपन्ने शिरसि कार्यं मूर्धविरेचनम् १२९
दुर्बलस्य समाध्मातमुदरं सरुजं दिहेत्
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः १३०
अम्लपिष्टैः सुखोष्णैश्च पवने तूर्ध्वमागते
रुद्धमूत्रपूरीषाय गुदे वर्तिं निधापयेत् १३१
पिप्पलीपिप्पलीमूलयवानीचव्यसाधिताम्
पाययेत यवागूं वा मारुताद्यनुलोमिनीम् १३२
शुद्धस्योभयतो यस्य ज्वरः शान्तिं न गच्छति
सशेषदोषरूक्षस्य तस्य तं सर्पिषा जयेत् १३३
कृशं चैवाल्पदोषं च शमनीयैरुपाचरेत्
उपवासैर्बलस्थं तु ज्वरे सन्तर्पणोत्थिते १३४
क्लिन्नां यवागूं मन्दाग्निं तृषार्तं पाययेन्नरम्
तृट्छर्दिदाहघर्मार्तं मद्यपं लाजतर्पणम् १३५
सक्षौद्र मम्भसा पश्चाज्जीर्णे यूषरसौदनम्
उपवासश्रमकृते क्षीणंवाताधिके ज्वरे १३६
दीप्ताग्निं भोजयेत् प्राज्ञो नरं मांसरसौदनम्
मुद्गयूषौदनश्चापि हितः कफसमुत्थिते १३७
स एव सितया युक्तः शीतः पित्तज्वरे हितः
दाडिमामलमुद्गानां यूषश्चानिलपैत्तिके १३८
ह्रस्वमूलकयूषस्तु वातश्लेष्माधिके हितः
पटोलनिम्बयूषस्तु पथ्यः पित्तकफात्मके १३९
दाहच्छर्दियुतं क्षामं निरन्नं तृष्णयाऽदितम्
सिताक्षौद्र युतं लाजतर्पणं पाययेत च १४०
कफपित्तपरीतस्य ग्रीष्मेऽसृक्पित्तिनस्तथा
मद्यनित्यस्य न हिता यवागूस्तमुपाचरेत् १४१
यूषैरम्लैरनम्लैर्वा जाङ्गलैश्च रसैर्हितैः
मद्यं पुराणं मन्दाग्नेर्यवान्नोपहितं हितम् १४२
सव्योषं वितरेत्तक्रं कफारोचकपीडिते
कृशोऽल्पदोषो दीनश्च नरो जीर्णज्वरार्दितः १४३
विबद्धः सृष्टदोषश्च रूक्षः पित्तानिलज्वरी
पिपासार्तः सदाहो वा पयसा स सुखी भवेत् १४४
तदेव तरुणे पीतं विषवद्धन्ति मानवम्
सर्वज्वरेषु सुलघु मात्रावद्भोजनं हितम् १४५
वेगापायेऽन्यथा तद्धि ज्वरवेगाभिवर्धनम्
ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् १४६
अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽथवा
स क्षीणः कृच्छ्रतां याति यात्यसाध्यत्वमेव च १४७
तस्माद्र क्षेद्बलं पुंसां बले सति हि जीवितम्
गुर्वभिष्यन्द्यकाले च ज्वरी नाद्यात् कथञ्चन १४८
न तु तस्याहितं भुक्तमायुषे वा सुखाय वा
संततं विषमं वाऽपि क्षीणस्य सुचिरोत्थितम् १४९
ज्वरं संभोजनैः पथ्यैर्लघुभिः समुपाचरेत्
मुद्गान्मसूरांश्चणकान् कुलत्थान् समकुष्ठकान् १५०
आहारकाले यूषार्थं ज्वरिताय प्रदापयेत्
पटोलपत्रं वार्ताकं कठिल्लं पापचैलिकम् १५१
कर्कोटकं पर्पटकं गोजिह्वां बालमूलकम्
पत्रं गुडूच्याः शाकार्थे ज्वरितानां प्रदापयेत् १५२
लावान् कपिञ्जलानेणान् पृषताञ्छरभाञ्छशान्
कालपुच्छान् कुरङ्गांश्च तथैव मृगमातृकान् १५३
मांसार्थे मांससात्म्यानां ज्वरितानां प्रदापयेत्
सारसक्रौञ्चशिखिनः कुक्कुटांस्तित्तिरांस्तथा १५४
गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः
ज्वरितानां प्रकोपं तु यदा याति समीरणः १५५
तदैतेऽपि हि शस्यन्ते मात्राकालोपपादिताः
परिषेकान् प्रदेहांश्च स्नेहान् संशोधनानि च १५६
स्नानाभ्यङ्गदिवास्वप्नशीतव्यायामयोषितः
कषायगुरुरूक्षाणि क्रोधादीनि तथैव च १५७
सारवन्ति च भोज्यानि वर्जयेत्तरुणज्वरी
तथैव नवधान्यादिं वर्जयेच्च समासतः १५८
अनवस्थितदोषाग्नेरेभिः सन्धुक्षितो ज्वरः
गम्भीरतीक्ष्णवेगत्वं यात्यसाध्यत्वमेव च १५९
शीततोयदिवास्वप्नक्रोधव्यायामयोषितः
न सेवेत ज्वरोत्सृष्टो यावन्न बलवान् भवेत् १६०
मुक्तस्यापि ज्वरेणाशु दुर्बलस्याहितैर्ज्वरः
प्रत्यापन्नो दहेद्देहं शुष्कं वृक्षमिवानलः १६१
तस्मात्कार्यः परीहारो ज्वरमुक्तैर्विरिक्तवत्
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा १६२
ज्वरे प्रमोहो भवति स्वल्पैरप्यवचेष्टितैः
निषण्णं भोजयेत्तस्मान्मूत्रोच्चारौ च कारयेत् १६३
अरोचके गात्रसादे वैवर्ण्येऽङ्गमलादिषु
शान्तज्वरोऽपि शोध्यः स्यादनुबन्धभयान्नरः १६४
न जातु स्नापयेत् प्राज्ञः सहसा ज्वरकर्शितम्
तेन संदूषितो ह्यस्य पुनरेव भवेज्ज्वरः १६५
चिकित्सेच्च ज्वरान् सर्वान्निमित्तानां विपर्ययैः
श्रमक्षयाभिघातोत्थे मूलव्याधिमुपाचरेत् १६६
स्त्रीणामपप्रजातानां स्तन्यावतरणे च यः
तत्र संशमनं कुर्याद्यथादोषं विधानवित् १६७
अतः संशमनीयानि कषायाणि निबोध मे
सर्वज्वरेषु देयानि यानि वैद्येन जानता १६८
पिप्पलीसारिवाद्रा क्षाशतपुष्पाहरेणुभिः
कृतः कषायः सगुडो हन्याच्छ्वसनजं ज्वरम् १६९
शृतं शीतकषायं वा गुडूच्याः पेयमेव तु
बलादर्भश्वदंष्ट्राणां कषायं पादशेषितम् १७०
शर्कराघृतसंयुक्तं पिबेद्वातज्वरापहम्
शतपुष्पावचाकुष्ठदेवदारुहरेणुकाः १७१
कुस्तुम्बुरूणि नलदं मुस्तं चैवाप्सु साधयेत्
क्षौद्रे ण सितया चापि युक्तः क्वाथोऽनिलाधिके १७२
द्रा क्षागुडूचीकाश्मर्यत्रायमाणाः ससारिवाः
निष्क्वाथ्य सगुडं क्वाथं पिबेद्वातकृते ज्वरे १७३
गुडूच्याः स्वरसो ग्राह्यः शतावर्याश्च तत्समः
निहन्यात्सगुडः पीतः सद्योऽनिलकृतं ज्वरम् १७४
घृताभ्यङ्गस्वेदलेपानवस्थासु च योजयेत्
श्रीपर्णीचन्दनोशीरपरूषकमधूकजः १७५
शर्करामधुरो हन्ति कषायः पैत्तिकं ज्वरम्
पीतं पित्तज्वरं हन्यात्सारिवाद्यं सशर्करम् १७६
सयष्टीमधुकं हन्यात्तथैवोत्पलपूर्वकम्
शृतं शीतकषायं वा सोत्पलं शर्करायुतम् १७७
गुडूचीपद्मरोध्राणां सारिवोत्पलयोस्तथा
शर्करामधुरः क्वाथः शीतः पित्तज्वरापहः १७८
द्रा क्षारग्वधयोश्चापि काश्मर्यस्याथवा पुनः
स्वादुतिक्तकषायाणां कषायैः शर्करायुतैः १७९
सुशीतैः शमयेत्तृष्णां प्रवृद्धां दाहमेव च
शीतं मधुयुतं तोयमाकण्ठाद्वा पिपासितम् १८०
वामयेत्पाययित्वा तु तेन तृष्णा प्रशाम्यति
क्षीरैः क्षीरिकषायैश्च सुशीतैश्चन्दनायुतैः १८१
अन्तर्दाहे विधातव्यमेभिश्चान्यैश्च शीतलैः
पद्मकं मधुकं द्रा क्षां पुण्डरीकमथोत्पलम् १८२
यवान् भृष्टानुशीराणि समङ्गां काश्मरीफलम्
निदध्यादप्सु चालोड्य निशापर्युषितं ततः १८३
क्षौद्रे ण युक्तं पिबतो ज्वरदाहौ प्रशाम्यतः
जिह्वातालुगलक्लोमशोषे मूर्ध्नि च दापयेत् १८४
केशरं मातुलुङ्गस्य मधुसैन्धवसंयुतम्
शर्करादाडिमाभ्यां वा द्रा क्षाखर्जूरयोस्तथा १८५
वैरस्ये धारयेत्कल्कं गण्डूषं च तथा हितम्
सप्तच्छदं गुडूचीं च निम्बं स्फूर्जकमेव च १८६
क्वाथयित्वा पिबेत् क्वाथं सक्षौद्रं कफजे ज्वरे
कटुत्रिकं नागपुष्पं हरिद्रा कटुरोहिणी १८७
कौटजं च फलं हन्यात् सेव्यमानं कफज्वरम्
हरिद्रां चित्रकं निम्बमुशीरातिविषे वचाम् १८८
कुष्ठमिन्द्र यवान् मूर्वां पटोलं चापि साधितम्
पिबेन्मरिचसंयुक्तं सक्षौद्रं कफजे ज्वरे १८९
सारिवातिविषाकुष्ठपुराख्यैः सदुरालभैः
मुस्तेन च कृतः क्वाथः पीतो हन्यात् कफज्वरम् १९०
मुस्तं वृक्षकबीजानि त्रिफला कटुरोहिणी
परूषकाणि च क्वाथः कफज्वरविनाशनः १९१
राजवृक्षादिवर्गस्य कषायो मधुसंयुतः
कफवातज्वरं हन्याच्छीघ्रं कालेऽवचारितः १९२
नागरं धान्यकं भार्गीमभयां सुरदारु च
वचां पर्पटकं मुस्तं भूतीकमथ कट्फलम् १९३
निष्क्वाथ्य कफवातोत्थे क्षौद्र हिङ्गुसमन्वितम्
दातव्यं श्वासकासघ्नं श्लेष्मोत्सेके गलग्रहे १९४
हिक्कासु कण्ठश्वयथौ शूले हृदयपार्श्वजे
बलापटोलत्रिफलायष्ट्याह्वानां वृषस्य च १९५
क्वाथो मधुयुतः पीतो हन्ति पित्तकफज्वरम्
कटुकाविजयाद्रा क्षामुस्तपर्पटकैः कृतः १९६
कषायो नाशयेत् पीतः श्लेष्मपित्तभवं ज्वरम्
भार्गीवचापर्पटकधान्यहिङ्ग्वभयाघनैः १९७
काश्मर्यनागरैः क्वाथः सक्षौद्रः श्लेष्मपित्तजे
सशर्करामक्षमात्रां कटुकामुष्णवारिणा १९८
पीत्वा ज्वरं जयेज्जन्तुः कफपित्तसमुद्भवम्
किराततिक्तममृतां द्रा क्षामामलकं शटीम् १९९
निष्क्वाथ्य वातपित्तोत्थे तं क्वाथं सगुडं पिबेत्
रास्ना वृषोऽथ त्रिफला राजवृक्षफलैः सह २००
कषायः साधितः पीतो वातपित्तज्वरं जयेत्
सर्वदोषसमुत्थे तु संसृष्टानवचारयेत् २०१
यथादोषोच्छ्रयं चापि ज्वरान् सर्वानुपाचरेत्
वृश्चीवबिल्ववर्षाभ्वः पयश्चोदकमेव च २०२
पचेत् क्षीरावशिष्टं तु तद्धि सर्वज्वरापहम्
उदकांशास्त्रयः क्षीरं शिंशपासारसंयुतम् २०३
तत् क्षीरशेषं क्वथितं पेयं सर्वज्वरापहम्
नलवेतसयोर्मूले मूर्वायां देवदारुणि २०४
कषायं विधिवत् कृत्वा पेयमेतज्ज्वरापहम्
हरिद्रा भद्र मुस्तं च त्रिफला कटुरोहिणी २०५
पिचुमन्दः पटोली च देवदारु निदिग्धिका
एषां कषायः पीतस्तु सन्निपातज्वरं जयेत् २०६
अविपक्तिं प्रसेकं च शोफं कासमरोचकम्
त्रैफलो वा ससर्पिष्कः क्वाथः पेयस्त्रिदोषजे २०७
अनन्तां बालकं मुस्तां नागरं कटुरोहिणीम्
सुखाम्बुना प्रागुदयात्पाययेताक्षसंमितम् २०८
एष सर्वज्वरान् हन्ति दीपयत्याशु चानलम्
द्र व्याणि दीपनीयानि तथा वैरेचनानि च २०९
एकशो वा द्विशो वाऽपि ज्वरघ्नानि प्रयोजयेत्
सर्पिर्मध्वभयातैललेहोऽय सर्वजं ज्वरम् २१०
शान्तिं नयेत्त्रिवृच्चापि सक्षौद्रा प्रबलं ज्वरम्
ज्वरे तु विषमे कार्यमूर्ध्वं चाधश्च शोधनम् २११
घृतं प्लीहोदरोक्तं वा निहन्याद्विषमज्वरम्
गुडप्रगाढां त्रिफलां पिबेद्वा विषमार्दितः २१२
गुडूचीनिम्बधात्रीणां कषायं वा समाक्षिकम्
प्रातः प्रातः ससर्पिष्कं रसोनमुपयोजयेत् २१३
त्रिचतुर्भिः पिबेत् क्वाथं पञ्चभिर्वा समन्वितैः
मधुकस्य पटोलस्य रोहिण्या मुस्तकस्य च २१४
हरीतक्याश्च सर्वोऽय त्रिविधो योग इष्यते
सर्पिःक्षीरसिताक्षौद्र मागधीर्वा यथाबलम् २१५
दशमूलीकषायेण मागधीर्वा प्रयोजयेत्
पिप्पलीवर्धमानं वा पिबेत् क्षीररसाशनः २१६
ताम्रचूडस्य मांसेन पिबेद्वा मद्यमुत्तमम्
कोलाग्निमन्थत्रिफलाक्वाथे दध्ना घृतं पचेत् २१७
तिल्वकावापमेतद्धि विषमज्वरनाशनम्
पिप्पल्यतिविषाद्रा क्षासारिवाबिल्वचन्दनैः २१८
कटुकेन्द्र यवोशीरसिंहीतामलकीघनैः
त्रायमाणास्थिराधात्रीविश्वभेषजचित्रकैः २१९
पक्वमेतैघृतं पीतं विजित्य विषमाग्निताम्
जीर्णज्वरशिरःशूलगुल्मोदरहलीमकान् २२०
क्षयकासं ससंतापं पार्श्वशूलानपास्यति
गुडूचीत्रिफलावासात्रायमाणायवासकैः २२१
क्वथितैर्विधिवत्पक्वमेतैः कल्कीकृतैः समैः
द्रा क्षामागधिकाम्भोदनागरोत्पलचन्दनैः २२२
पीतं सर्पिः क्षयश्वासकासजीर्णज्वरान् जयेत्
कलशीबृहतीद्रा क्षात्रायन्तीनिम्बगोक्षुरैः २२३
बलापर्पटकाम्भोदशालपर्णीयवासकैः
पक्वमुत्क्वथितैः सर्पिः कल्कैरेभिः समन्वितम् २२४
शटीतामलकीभार्गीमेदामलकपौष्करैः
क्षीरद्विगुणसंयुक्तं जीर्णज्वरमपोहति २२५
शिरःपार्श्वरुजाकासक्षयप्रशमनं परम्
पटोलीपर्पटारिष्टगुडूचीत्रिफलावृषैः २२६
कटुकाम्बुदभूनिम्बयासयष्ट्याह्वचन्दनैः
दार्वीशक्रयवोशीरत्रायमाणाकणोत्पलैः २२७
धात्रीभृङ्गरजोभीरुकाकमाचीरसैर्घृतम्
सिद्धमाश्वपचीकुष्ठज्वरशुक्रार्जुनव्रणान् २२८
हन्यान्नयनवदनश्रवणघ्राणजान् गदान्
विडङ्गत्रिफलामुस्तमञ्जिष्ठादाडिमोत्पलैः २२९
प्रियङ्ग्वेलैलवालूकचन्दनामरदारुभिः
बर्हिष्ठकुष्ठरजनीपर्णिनीसारिवाद्वयैः २३०
हरेणुकात्रिवृद्दन्तीवचातालीशकैसरैः
द्विक्षीरं विपचेत्सर्पिर्मालतीकुसुमैः सह २३१
जीर्णज्वरश्वासकासगुल्मोन्मादगरापहम्
एतत्कल्याणकं नाम सर्पिर्माङ्गल्यमुत्तमम् २३२
अलक्ष्मीग्रहरक्षोग्निमान्द्यापस्मारपापनुत्
शस्यते नष्टशुक्राणां वन्ध्यानां गर्भदं परम् २३३
मेध्यं चक्षुष्यमायुष्यं रेतोमार्गविशोधनम्
एतैरेव तथा द्र व्यैः सर्वगन्धैश्च साधितम् २३४
कपिलाया घृतप्रस्थं सुवर्णमणिसंयुतम्
तत्क्षीरेण सहैकध्यं प्रसाध्य कुसुमैरिमैः २३५
सुमनश्चम्पकाशोकशिरीषकुसुमैर्वृतम्
तथा नलदपद्मानां केशरैर्दाडिमस्य च २३६
तिथौ प्रशस्ते नक्षत्रे साधकस्यातुरस्य च
कृतं मनुष्यदेवाय ब्राह्मणैरभिमन्त्रितम् २३७
दत्तं सर्वज्वरान् हन्ति महाकल्याणकं त्विदम् २३८
दर्शनस्पर्शनाभ्यां च सर्वरोगहरं शिवम्
अधृष्यः सर्वभूतानां वलीपलितवर्जितः २३९
अस्याभ्यासाद्घृतस्येह जीवेद्वर्षशतत्रयम्
गव्यं दधि च मूत्रं च क्षीरं सर्पिः शकृद्र सः २४०
समभागानि पाच्यानि कल्कांश्चैतान् समावपेत्
त्रिफलां चित्रकं मुस्तं हरिद्रा तिविषे वचाम् २४१
विडङ्ग त्र्यूषणं चव्यं सुरदारु तथैव च
पञ्चगव्यमिदं पानाद्विषमज्वरनाशनम् २४२
पञ्चगव्यमृते गर्भात्पाच्यमन्यद् वृषेण च
बलयाऽथ परं पाच्यं गुडूच्या तद्वदेव तु २४३
जीर्णज्वरे च शोफे च पाण्डुरोगे च पूजितम्
एतेनैव तु कल्पेन घृतं पञ्चाविकं पचेत्
पञ्चाजं पञ्चमहिषं चतुरुष्ट्रमथापि च २४४
त्रिफलोशीरशम्पाककटुकातिविषाघनैः
शतावरीसप्तपर्णगुडूचीरजनीद्वयैः २४५
चित्रकत्रिवृतामूर्वापटोलारिष्टबालकैः
किराततिक्तकवचाविशालापद्मकोत्पलैः २४६
सारिवाद्वययष्ट्याह्वचविकारक्तचन्दनैः
दुरालभापर्पटकत्रायमाणाटरूषकैः २४७
रास्नाकुङ्कुममञ्जिष्ठामागधीनागरैस्तथा
धात्रीफलरसैः सम्यग्द्विगुणैः साधितं हविः २४८
परिसर्पज्वरश्वासगुल्मकुष्ठनिवारणम्
पाण्डुप्लीहाग्निसादिभ्य एतदेव परं हितम् २४९
पटोलकटुकादार्वीनिम्बवासाफलत्रिकम्
दुरालभापर्पटकत्रायमाणाः पलोन्मिताः २५०
प्रस्थमामलकानां च क्वाथयेत्सलिलार्मणे
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् २५१
कल्कैः कुटजभूनिम्बघनयष्ट्याह्वचन्दनैः
सपिप्पलीकैस्तत्सिद्धं चक्षुष्यं शुक्लयोर्हितम् २५२
घ्राणकर्णाक्षिवदनवर्त्मरोगव्रणापहम्
रक्तपित्तकफस्वेदक्लेदपूयोपशोषणम् २५३
कामलाज्वरवीसर्पगण्डमालाहरं परम्
शृतं पयः शर्करा च पिप्पल्यो मधुसर्पिषी २५४
पञ्चसारमिदं पेयं मथितं विषमज्वरे
क्षतक्षीणे क्षये श्वासे हृद्रो गे चैतदिष्यते २५५
लाक्षाविश्वनिशामूर्वामञ्जिष्ठास्वर्जिकामयैः
षड्गुणेन च तक्रेण सिद्धं तैलं ज्वरान्तकृत् २५६
क्षीरिवृक्षासनारिष्टजम्बूसप्तच्छदार्जुनैः
शिरीषखदिरास्फोटामृतवल्ल्याटरूषकैः २५७
कटुकापर्पटोशीरवचातेजोवतीघनैः
साधितं तैलमभ्यङ्गादाशु जीर्णज्वरापहम् २५८
निर्विषैर्भुजगैर्नागैर्विनीतैः कृततस्करैः
त्रासयेदागमे चैनं तदहर्भोजयेन्न च २५९
अत्यभिष्यन्दिगुरुभिर्वामयेद्वा पुनः पुनः
मद्यं तीक्ष्णं पाययेत घृतं वा ज्वरनाशनम् २६०
पुराणं वा घृतं काममुदारं वा विरेचनम्
निरूहयेद्वा मतिमान् सुस्विन्नं तदहर्नरम् २६१
अजाव्योश्चर्मरोमाणि वचा कुष्ठं पलङ्कषा
निम्बपत्रं मधुयुतं धूपनं तस्य दापयेत् २६२
बैडालं वा शकृद्योज्यं वेपमानस्य धूपनम्
पिप्पली सैन्धवं तैलं नेपाली चेक्षणाञ्जनम् २६३
उदरोक्तानि सर्पींषि यान्युक्तानि पुरा मया
कल्पोक्तं चाजितं सर्पिः सेव्यमानं ज्वरं जयेत् २६४
भूतविद्यासमुद्दिष्टैर्बन्धावेशनपूजनैः
जयेद्भूताभिषङ्गोत्थं विज्ञानाद्यैश्च मानसम् २६५
श्रमक्षयोत्थे भुञ्जीत घृताभ्यक्तो रसौदनम्
अभिशापाभिचारोत्थौ ज्वरौ होमादिना जयेत् २६६
दानस्वस्त्ययनातिथ्यैरुत्पातग्रहपीडितम्
अभिघातज्वरे कुर्यात् क्रियामुष्णविवर्जिताम् २६७
कषायमधुरां स्निग्धां यथादोषमथापि वा
ओषधीगन्धविषजौ विषपित्तप्रसाधनैः २६८
जयेत् कषायं च हितं सर्वगन्धकृतं तथा
निम्बदारुकषायं वा हितं सौमनसं यथा २६९
यवान्नविकृतिः सर्पिर्मद्यं च विषमे हितम्
संपूजयेद्द्विजान् गाश्च देवमीशानमम्बिकाम् २७०
कफवातोत्थयोश्चापि ज्वरयोः शीतपीडितम्
दिह्यादुष्णेन वर्गेण परश्चोष्णो विधिर्हितः २७१
सिञ्चेत् कोष्णैरारनालशुक्तगोमूत्रमस्तुभिः
दिह्यात् पलाशैः पिष्टैर्वा सुरसार्जकशिग्रुजैः २७२
क्षारतैलेन वाऽभ्यङ्गः सशुक्तेन विधीयते
पानमारग्वधादेश्च क्वथितस्य विशेषतः २७३
अवगाहः सुखोष्णश्च वातघ्नक्वाथयोजितः
जित्वा शीतं क्रमैरेभिः सुखोष्णजलसेचितम् २७४
प्रवेश्यौर्णिककार्पासकौशेयाम्बरसंवृतम्
शाययेत् क्षामदेहं च कालागुरुविभूषितम् २७५
स्तनाढ्या रूपसंपन्नाः कुशला नवयौवनाः
भजेयुः प्रमदा गात्रैः शीतदैन्यापहाः शुभाः २७६
शरच्छशाङ्कवदना नीलोत्पलविलोचनाः
स्फुरितभ्रूलताभङ्गललाटतटकम्पनाः २७७
प्रलम्बबिम्बप्रचलद्बिम्बीफलनिभाधराः
कृशोदर्योऽतिविस्तीर्णजघनोद्वहनालसाः २७८
कुङ्कुमागुरुदिग्धाङ्ग्यो घनतुङ्गपयोधराः
सुगन्धिधूपितश्लक्ष्णस्रस्तांशुकविभूषणाः २७९
गाढमालिङ्गयेयुस्तं तरुं वनलता इव
प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः २८०
तासामङ्गपरिष्वङ्गनिवारितहिमज्वरम्
भोजयेद्धितमन्नं च यथा सुखमवाप्नुयात् २८१
दाहाभिभूते तु विधिं कुर्याद्दाहविनाशनम्
मधुफाणितयुक्तेन निम्बपत्राम्भसाऽपि वा २८२
दाहज्वरार्तं मतिमान् वामयेत् क्षिप्रमेव च
शतधौतघृताभ्यक्तं दिह्याद्वा यवशक्तुमिः २८३
कोलामलकसंयुक्तैः शुक्तधान्याम्लसंयुतैः
अम्लपिष्टैः सुशीतैश्च फेनिलापल्लवैस्तथा २८४
अम्लपिष्टैः सुशीतैर्वा पलाशतरुजैर्दिहेत्
बदरीपल्लवोत्थेन फेनेनारिष्टकस्य च २८५
लिप्तेऽङ्गे दाहतृण्मूर्च्छाः प्रशाम्यन्ति च सर्वशः
यवार्धकुडवं पिष्ट्वा मञ्जिष्ठार्धपलं तथा २८६
अम्लप्रस्थशतोन्मिश्रं तैलप्रस्थं विपाचयेत्
एतत् प्रह्लादनं तैलं ज्वरदाहविनाशनम् २८७
न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यो गणः
उत्पलादिर्गणो यस्तु पिष्टैर्वा तैः प्रलेपयेत् २८८
तत्कषायाम्लसंसिद्धाः स्नेहाश्चाभ्यञ्जने हिताः
तेषां शीतकषाये वा दाहार्तमवगाहयेत् २८९
दाहवेगे त्वतिक्रान्ते तस्मादुद्धृत्य मानवम्
परिषिच्याम्बुभिः शीतैः प्रलिम्पेच्चन्दनादिभिः २९०
ग्लानं वा दीनमनसमाश्लिषेयुर्वराङ्गनाः
पेलवक्षौमसंवीताश्चन्दनार्द्र पयोधराः २९१
बिभ्रत्योऽब्जस्रजश्चित्रा मणिरत्नविभूषिताः
भजेयुस्ताः स्तनैः शीतैः स्पृशन्त्योऽम्बुरुहैः सुखैः २९२
प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः
हितं च भोजयेदन्नं तथाऽप्नोति सुखं महत् २९३
पित्तज्वरोक्तं शमनं विरेकोऽन्यद्धितं च यत्
निर्हरेत्पित्तमेवादौ दोषेषु समवायिषु २९४
दुर्निवारतरं तद्धि ज्वरार्तानां विशेषतः
छर्दिमूर्च्छापिपासादीनविरोधाज्ज्वरस्य च २९५
उपद्र वाञ्जयेच्चापि प्रत्यनीकेन हेतुना
विशेषमपरं चात्र शृणूपद्र वनाशनम् २९६
मधुकं रजनी मुस्तं दाडिमं साम्लवेतसम्
अञ्जनं तिन्तिडीकं च नलदं पत्रमुत्पलम् २९७
त्चचं व्याघ्रनखं चैव मातुलुङ्गरसो मधु
दिह्यादेभिर्ज्वरार्तस्य मधुशुक्तयुतैः शिरः २९८
शिरोभितापसंमोहवमिहिक्काप्रवेपथून्
प्रदेहो नाशयत्येष ज्वरितानामुपद्र वान् २९९
मधूकमथ ह्रीबेरमुत्पलानि मधूलिकाम् ३००
लीढ्वा चूर्णानि मधुना सर्पिषा च जयेद्वमिम्
कफप्रसेकासृक्पित्तहिक्काश्वासांश्च दारुणान् ३०१
लिहन् ज्वरार्तस्त्रिफलां पिप्पलद्यं च समाक्षिकाम्
कासे श्वासे च मधुना सर्पिषा च सुखी भवेत् ३०२
विदारी दाडिमं लोध्रं दधित्थं बीजपूरकम्
एभिः प्रदिह्यान्मूर्धानं तृड्दाहार्तस्य देहिनः ३०३
दाडिमस्य सितायाश्च द्रा क्षामलकयोस्तथा
वैरस्ये धारयेत् कल्कं गण्डूषं च यथाहितम् ३०४
क्षीरेक्षुरसमाक्षीकसर्पिस्तैलोष्णवारिभिः
शून्ये मूर्ध्नि हितं नस्यं जीवनीयशृतं घृतम् ३०५
चूर्णितैस्त्रिफलाश्यामात्रिवृत्पिप्पलिसंयुतैः
सक्षौद्रः शर्करायुक्तो विरेकस्तु प्रशस्यते ३०६
पक्वे पित्तज्वरे रक्ते चोर्ध्वगे वेपथौ तथा
कफवातोत्थयोरेवं स्नेहाभ्यङ्गैर्विशोधयेत् ३०७
हृतदोषो भ्रमार्तस्तु लिह्यात् क्षौद्र सिताभयाः
वातघ्नमधुरैर्योज्या निरूहा वातजे ज्वरे ३०८
अवेक्ष्य दोषं प्राणं च यथास्वं चानुवासनाः
उत्पलादिकषायाद्याश्चन्दनोशीरसंयुताः ३०९
शर्करामधुराः शीताः पित्तज्वरहरा मताः
आम्रादीनां त्वचं शङ्खं चन्दनं मधुकोत्पले ३१०
गैरिकाञ्जनमञ्जिष्ठामृणालान्यथ पद्मकम्
श्लक्ष्णपिष्टं तु पयसा शर्करामधुसंयुतम् ३११
सुपूतं शीतलं बस्तिं दह्यमानाय दापयेत्
ज्वरदाहापहं तेषु सिद्धं चैवानुवासनम् ३१२
आरग्वधगणक्वाथाः पिप्पल्यादिसमायुताः
सक्षौद्र मूत्रा देयाः स्युः कफज्वरविनाशनाः ३१३
कफघ्नैरेव संसिद्धा द्र व्यैश्चाप्यनुवासनाः
संसर्गे सन्निपाते च संसृष्टा बस्तयो हिताः ३१४
संसृष्टैरेव संसृष्टा द्र व्यैश्चाप्यनुवासनाः
वातरोगापहाः सर्वे स्नेहा ये सम्यगीरिताः ३१५
विना तैलं त एव स्युर्योज्या मारुतजे ज्वरे
निखिलेनोपयोज्याश्च त एवाभ्यञ्जनादिषु ३१६
पैत्तिके मधुरैस्तिक्तैः सिद्धं सर्पिश्च पूज्यते
श्लैष्मिके कटुतिक्तैश्च संसृष्टानीतरेषु च ३१७
हृतावशेषं पित्तं तु त्वक्स्थं जनयति ज्वरम्
पिबेदिक्षुरसं तत्र शीतं वा शर्करोदकम् ३१८
शालिषष्टिकयोरन्नमश्नीयात् क्षीरसंप्लुतम्
कफवातोत्थयोरेव स्वेदाभ्यङ्गौ प्रयोजयेत् ३१९
घृतं द्वादशरात्रात्तु देयं सर्वज्वरेषु च
तेनान्तरेणाशयं स्वं गता दोषा भवन्ति हि ३२०
धातून् प्रक्षोभयन् दोषो मोक्षकाले बलीयते
तेन व्याकुलचित्तस्तु म्रियमाण इवेहते ३२१
लघुत्वं शिरसः स्वेदो मुखमापाण्डु पाकि च
क्षवथुश्चान्नकाङ्क्षा च ज्वरमुक्तस्य लक्षणम् ३२२
शम्भुक्रोधोद्भवो घोरो बलवर्णाग्निसादकः
रोगराट् रोघसंघातो ज्वर इत्युपदिश्यते ३२३
व्यापित्वात् सर्वसंस्पर्शात् कृच्छ्रत्वादन्तसंभवात्
अन्तको ह्येष भूतानां ज्वर इत्युपदिश्यते ३२४
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे ज्वरप्रतिषेधो नाम
प्रिथमोऽध्यायः आदितः एकोनचत्वारिंशोऽध्याययः ३९
चत्वारिंशत्तमोऽध्यायः
अथातोऽतीसारप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
गुर्वतिस्निग्धरूक्षोष्णद्र वस्थूलातिशीतलैः
विरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि भोजनैः ३
स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषाद्भयात्
शोकाद्दुष्टाम्बुमद्यातिपानात् सात्म्यर्तुपर्ययात् ४
जलातिरमणैर्वेगविघातैः कृमिदोषतः
नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते ५
संशम्यापांधातुरन्तः कृशानुं वर्चोमिश्रो मारुतेन प्रणुन्नः
वृद्धोऽतीवाधः सरत्येष यस्माद्व्याधिं घोरं तं त्वतीसारमाहुः ६
एकैकशः सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः
केचित् प्राहुर्नैकरूपप्रकारं नैवेत्येवं काशिराजस्त्ववोचत् ७
दोषावस्थास्तस्य नैकप्रकाराः काले काले व्याधितस्योद्भवन्ति
हृन्नाभिपायूदरकुक्षितोदगात्रावसादानिलसन्निरोधाः ८
विट्सङ्ग आध्मानमथाविपाको भविष्यतस्तस्य पुरःसराणि
शूलाविष्टः सक्तमूत्रोऽन्त्रकूजी स्रस्तापानः सन्नकट्यूरुजङ्घः ९
वर्चो मुञ्चत्यल्पमल्पं सफेनं रूक्षं श्यावं सानिलं मारुतेन
दुर्गन्ध्युष्णं वेगवन्मांसतोयप्रख्यं भिन्नं स्विन्नदेहोऽतितीक्ष्णम् १०
पित्तात् पीतं नीलमालोहितं वा तृष्णामूर्च्छादाहपाकज्वरार्तः
तन्द्रा निद्रा गौरवोत्क्लेशसादी वेगाशङ्की सृष्टविट्कोऽपि भूयः ११
शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तं भक्तद्वेषी निःस्वनं हृष्टरोमा
तन्द्रा युक्तो मोहसादास्यशोषी वर्चः कुर्यान्नैकवर्णं तृषार्तः १२
सर्वोद्भूते सर्वलिङ्गोपपत्तिः कृच्छ्रश्चायं बालवृद्धेष्वसाध्यः
तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पावेगः पक्तिमाविध्यश्यिजिन्तोः १३
कोष्ठं गत्वा क्षोभयत्यस्य रक्तं तच्चाधस्तात् काकणन्तीप्रकाशम्
वर्चोमिश्रं निःपुरीषं सगन्धं निर्गन्धं वा सार्यते तेन कृच्छ्रात् १४
शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः
आमाजीर्णोपद्रुताः क्षोभयन्तः कोष्ठं दोषाः संप्रदुष्टाः सभक्तम् १५
नानावर्णं नैकशः सारयन्ति कृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति १६
संसृष्टमेभिर्दोषैस्तु न्यस्तमप्स्ववसीदति
पुरीषं भृशदुर्गन्धि विच्छिन्नं चामसंज्ञकम् १७
एतान्येव तु लिङ्गानि विपरीतानि यस्य तु
लाघवं च मनुष्यस्य तस्य पक्वं विनिर्दिशेत् १८
सर्पिर्मेदोवेसवाराम्बुतैलमज्जाक्षीरक्षौद्र रूपं स्रवेद्यत्
मञ्जिष्ठाभं मस्तुलुङ्गोपमं वा विस्रं शीतं प्रेतगन्ध्यञ्जनाभम् १९
राजीमद्वा चन्द्र कैः सन्ततं वा पूयप्रख्यं कर्दमाभं तथोष्णम्
हन्यादेतद्यत् प्रतीपं भवेच्च क्षीणं हन्युश्चोपसर्गाः प्रभूताः २०
असंवृतगुदं क्षीणं दुराध्मातमुपद्रुतम्
गुदे पक्वे गतोष्माणमतीसारकिणं त्यजेत् २१
शरीरिणामतीसारः संभूतो येन केनचित्
दोषाणामेव लिङ्गानि कदाचिन्नातिवर्तते २२
स्नेहाजीर्णनिमित्तस्तु बहुशूलप्रवाहिकः
विसूचिकानिमित्तस्तु चान्योऽजीर्णनिमित्तजः
विषार्शःकृमिसंमूतो यथास्वं दोषलक्षणः २३
आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः
अतः सर्वेऽतिसारास्तु ज्ञेयाः पक्वामलक्षणैः २४
तत्रादौ लङ्घनं कार्यमतिसारेषु देहिनाम्
ततः पाचनसंयुक्तो यवाग्वादिक्रमो हितः २५
अथवा वामयित्वाऽमे शूलाध्माननिपीडितम्
पिप्पलीसैन्धवाम्भोभिर्लङ्घनाद्यैरुपाचरेत् २६
कार्यं च वमनस्यान्ते प्रद्र वं लघुभोजनम्
खडयूषयवागूषु पिप्पल्याद्यं च योजयेत् २७
अनेन विधिना चामं यस्य वै नोपशाम्यति
हरिद्रा दिं वचादिं वा पिबेत् प्रातः स मानवः २८
आमातीसारिणां कार्यं नादौ संग्रहणं नृणाम्
तेषां दोषा विबद्धाः प्राग्जनयन्त्यामयानिमान् २९
प्लीहपाण्ड्वामयानाहमेहकुष्ठोदरज्वरान्
शोफगुल्मग्रहण्यर्शःशूलालसकहृद्द्ग्रहान् ३०
सशूलं बहुशः कृच्छ्राद्विबद्धं योऽतिसार्यते
दोषान् सन्निचितान् तस्य पथ्याभिः संप्रवर्तयेत् ३१
योऽतिद्र वं प्रभूतं च पुरीषमतिसार्यते
तस्यादौ वमनं कुर्यात् पश्चाल्लङ्घनपाचनम् ३२
स्तोकं स्तोकं विबद्धं वा सशूलं योऽतिसार्यते
अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत् ३३
आमे च लङ्घनं शस्तमादौ पाचनमेव वा
योगाश्चात्र प्रवक्ष्यन्ते त्वामातीसारनाशनाः ३४
कलिङ्गातिविषाहिङ्गुसौवर्चलवचाभयाः
देवदारुवचामुस्तानागरातिविषाभयाः ३५
अभया धान्यकं मुस्तं पिप्पली नागरं वचा
नागरं धान्यकं मुस्तं वालकं बिल्वमेव च ३६
मुस्तं पर्पटकं शुण्ठी वचा प्रतिविषाऽभया
अभयाऽतिविषा हिङ्गु वचा सौवर्चलं तथा ३७
चित्रकः पिप्पलीमूलं वचा कटुकरोहिणी
पाठा वत्सकबीजानि हरीतक्यो महौषधम् ३८
मूर्वा निर्दहनी पाठा त्र्यूषणं गजपिप्पली
सिद्धार्थका भद्र दारु शताह्वा कटुरोहिणी ३९
एला सावरकं कुष्ठं हरिद्रे कौटजा यवाः
मेषशृङ्गी त्वगेले च कृमिघ्नं वृक्षकाणि च ४०
वृक्षादनी वीरतरुर्बृहत्यौ द्वे सहे तथा
अरलुत्वक् तैन्दुकी च दाडिमी कौटजी शमी ४१
पाठा तेजोवती मुस्तं पिप्पली कौटजं फलम्
पटोलं दीप्यको बिल्वं हरिद्रे देवदारु च ४२
विडङ्गमभया पाठा शृङ्गवेरं घनं वचा
वचा वत्सकबीजानि सैन्धवं कटुरोहिणी ४३
हिङ्गुर्वत्सकबीजानि वचा बिल्वशलाटु च
नागरातिविषे मुस्तं पिप्पल्यो वात्सकं फलम् ४४
महौषधं प्रतिविषा मुस्तं चेत्यामपाचनाः
प्रयोज्या विंशतिर्योगाः श्लोकार्धविहितास्त्विमे ४५
धान्याम्लोष्णाम्बुमद्यानां पिबेदन्यतमेन वा
निष्क्वाथान् वा पिबेदेषां सुखोष्णान् साधु साधितान् ४६
पयस्युत्क्वाथ्य मुस्तानां विंशतिं त्रिगुणाम्भसि
क्षीरावशिष्टं तत्पीतं हन्त्यामं शूलमेव च ४७
निखिलेनोपदिष्टोऽय विधिरामोपशान्तये
हरीतकीमतिविषां हिङ्गु सौवर्चलं वचाम् ४८
पिबेत् सुखाम्बुना जन्तुरामातीसारपीडितः
पटोलं दीप्यकं बिल्वं वचापिप्पलिनागरम् ४९
मुस्तं कुष्ठं विडङ्गं च पिबेद्वाऽपि सुखाम्बुना
शृङ्गवेरं गुडूचीं च पिबेदुष्णेन वारिणा ५०
लवणान्यथ पिप्पल्यो विडङ्गानि हरीतकी
चित्रकं शिंशपा पाठा शार्ङ्गेष्टा लवणानि च ५१
हिङ्गुर्वृक्षकबीजानि लवणानि च भागशः
हस्तिदन्त्यथ पिप्पल्यः कल्कावक्षसमौ स्मृतौ ५२
वचा गुडूचीकाण्डानि योगोऽय परमो मतः
एते सुखाम्बुना योगा देयाः पञ्च सतां मताः ५३
निवृत्तेष्वामशूलेषु यस्य न प्रगुणोऽनिलः
स्तोकं स्तोकं रुजामच्च सशूलं योऽतिसार्यते ५४
सक्षारलवणैर्युक्तं मन्दाग्निः स पिबेद्घृतम्
क्षीरनागरचाङ्गेरीकोलदध्यम्लसाधितम् ५५
सर्पिरच्छं पिबेद्वापि शूलातीसारशान्तये
दध्ना तैलघृतं पक्वं सव्योषाजातिचित्रकैः ५६
सबिल्वपिप्पलीमूलदाडिमैर्वा रुगन्वितैः
निखिलो विधिरुक्तोऽय वातश्लेष्मोपशान्तये ५७
तीक्ष्णोष्णवर्ज्यमेनं तु विदध्यात्पित्तजे भिषक्
यथोक्तमुपवासान्ते यवागूश्च प्रशस्यते ५८
बलयोरंशुमत्यां च श्वदंष्ट्रबृहतीषु च
शतावर्यां च संसिद्धाः सुशीता मधुसंयुताः ५९
मुद्गादिषु च यूषाः स्युर्द्र व्यैरेतैः सुसंस्कृताः
मृदुभिर्दीपनैस्तिक्तैर्द्र व्यैः स्यादामपाचनम् ६०
हरिद्रा तिविषापाठावत्सबीजरसाञ्जनम्
रसाञ्जनं हरिद्रे द्वे बीजानि कुटजस्य च ६१
पाठा गुडूची भूनिम्बस्तथैव कटुरोहिणी
एतैः श्लोकार्धनिर्दिष्टैः क्वाथाः स्युः पित्तपाचनाः ६२
मुस्तं कुटजबीजानि भूनिम्बं सरसाञ्जनम्
दार्वी दुरालभा बिल्वं वालकं रक्तचन्दनम् ६३
चन्दनं वालकं मुस्तं भूनिम्बं सदुरालभम्
मृणालं चन्दनं रोध्रं नागरं नीलमुत्पलम् ६४
पाठा मुस्तं हरिद्रे द्वे पिप्पली कौटजं फलम्
फलत्वचं वत्सकस्य शृङ्गवेरं घनं वचा ६५
षडेतेऽभिहिता योगाः पित्तातीसारनाशनाः
बिल्वशक्रयवाम्भोदबालकातिविषाकृतः
कषायो हन्त्यतीसारं सामं पित्तसमुद्भवम् ६६
मधुकोत्पलबिल्वाब्दह्रीबेरोशीरनागरैः
कृतः क्वाथो मधुयुतः पित्तातीसारनाशनः ६७
यदा पक्वोऽप्यतीसारः सरत्येव मुहुर्मुहुः
ग्रहण्या मार्दवाज्जन्तोस्तत्र संस्तम्भनं हितम् ६८
समङ्गा धातकीपुष्पं मञ्जिष्ठा लोध्रमुस्तकम्
शाल्मलीवेष्टको रोध्रं वृक्षदाडिमयोस्त्वचौ ६९
आम्रास्थिमध्यं लोध्रं च बिल्वमध्यं प्रियङ्गवः
मधुकं शृङ्गवेरं च दीर्घवृन्तत्वगेव च ७०
चत्वार एते योगाः स्युः पक्वातीसारनाशनाः
उक्ता य उपयोज्यास्ते सक्षौद्रा स्तण्डुलाम्बुना ७१
मौस्तं कषायमेकं वा पेयं मधुसमायुतम्
लोध्राम्बष्ठाप्रियङ्ग्वादीन् गणानेवं प्रयोजयेत् ७२
पद्मां समङ्गां मधुकं बिल्वजम्बूशलाटु च
पिबेत्तण्डुलतोयेन सक्षौद्र मगदङ्करम् ७३
कच्छुरामूलकल्कं वाऽप्युदुम्बरफलोपमम्
पयस्या चन्दनं पद्मा सितामुस्ताब्जकेशरम् ७४
पक्वातिसारं योगोऽय जयेत्पीतः सशोणितम्
निरामरूपं शूलार्तं लङ्घनाद्यैश्च कर्षितम् ७५
नरं रूक्षमवेक्ष्याग्निं सक्षारं पाययेद्घृतम्
बलाबृहत्यंशुमतीकच्छुरामूलसाधितम् ७६
मधुक्षितं समधुकं पिबेच्छूलैरभिद्रुतः
दार्वीबिल्वकणाद्रा क्षाकटुकेन्द्र यवैर्घृतम् ७७
साधितं हन्त्यतीसारं वातपित्तकफात्मकम्
दध्ना चाम्लेन संपक्वं सव्योषाजाजिचित्रकम् ७८
सचव्यपिप्पलीमूलं दाडिमैर्वा रुगर्दितः
पयो घृतं च मधु च पिबेच्छूलैरभिद्रुतः ७९
सिताजमोदकट्वङ्गमधुकैरवचूर्णितम्
अवेदनं सुसंपक्वं दीप्ताग्नेः सुचिरोत्थितम् ८०
नानावर्णमतीसारं पुटपाकैरुपाचरेत्
त्वक्पिण्डं दीर्घवृन्तस्य पद्मकेसरसंयुतम् ८१
काश्मरीपद्मपत्रैश्चावेष्ट्य सूत्रेण संदृढम्
मृदाऽवलिप्तं सुकृतमङ्गारेष्ववकूलयेत् ८२
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं ततः
शीतं मधुयुतं कृत्वा पाययेतोदरामये ८३
जीवन्तीमेषशृङ्ग्यादिष्वेवं द्र व्येषु साधयेत्
तित्तिरिं लुञ्चितं सम्यक् निष्कृष्टान्त्रं तु पूरयेत् ८४
न्यग्रोधादित्वचां कल्कैः पूर्ववच्चावकूलयेत्
रसमादाय तस्याथ सुस्विन्नस्य समाक्षिकम् ८५
शर्करोपहितं शीतं पाययेतोदरामये
लोध्रचन्दनयष्ट्याह्वदार्वीपाठासितोत्पलान् ८६
तण्डुलोदकसंपिष्टान् दीर्घवृन्तत्वगन्वितान्
पूर्ववत् कूलितात्तस्माद्र समादाय शीतलम् ८७
मध्वाक्तं पाययेच्चैतत् कफपित्तोदरामये
एवं प्ररोहैः कुर्वीत वटादीनां विधानवत् ८८
पुटपाकान् यथायोगं जाङ्गलोपहितान् शुभान्
बहुश्लेष्म सरक्तं च मन्दवातं चिरोत्थितम् ८९
कौटजं फाणितं वाऽपि हन्त्यतीसारमोजसा
अम्बष्ठादिमधुयुतं पिप्पल्यादिसमन्वितम् ९०
पृश्निपर्णीबलाबिल्ववालकोत्पलधान्यकैः
सनागरैः पिबेत् पेयां साधितामुदरामयी ९१
अरलुत्वक् प्रियङ्गुं च मधुकं दाडिमाङ्कुरान्
आवाप्य पिष्ट्वा दधनि यवागूं साधयेद्द्र वाम् ९२
एषा सर्वानतीसारान् हन्ति पक्वानसंशयम्
रसाञ्जनं सातिविषं त्वग्बीजं कौटजं तथा ९३
धातकी नागरं चैव पाययेत्तण्डुलाम्बुना
सशूलं रक्तजं घ्नन्ति एते मधुसमायुताः ९४
मधुकं बिल्वपेशी च शर्करामधुसंयुता
अतीसारं निहन्युश्च शालिषष्टिकयोः कणाः ९५
तद्वल्लीढं मधुयुतं बदरीमूलमेव तु
बदर्यर्जुनजम्ब्वाम्रशल्लकीवेतसत्वचः ९६
शर्कराक्षौद्र संयुक्ताः पीता घ्नन्त्युदरामयम्
एतैरेव यवागूंश्च षडान् यूषांश्च कारयेत् ९७
पानीयानि च तृष्णासु द्र व्येष्वेतेषु बुद्धिमान्
कृतं शाल्मलिवृन्तेषु कषायं हिमसंज्ञितम् ९८
निशापर्युषितं पेयं सक्षौद्रं मधुकान्वितम्
विबद्धवातविट् शूलपरीतः सप्रवाहिकः ९९
सरक्तपित्तश्च पयः पिबेत्तृष्णासमन्वितः
यथाऽमृतं तथा क्षीरमतीसारेषु पूजितम् १००
चिरोत्थितेषु तत् पेयमपां भागैस्त्रिभिः शृतम्
दोषशेषं हरेत्तद्धि तस्मात्पथ्यतमं स्मृतम् १०१
हितः स्नेहविरेको वा बस्तयः पिच्छिलाश्च ये
पिच्छिलस्वरसे सिद्धं हितं च घृतमुच्यते १०२
शकृता यस्तु संसृष्टमतिसार्येत शोणितम्
प्राक् पश्चाद्वा पुरीषस्य सरुक् सपरिकर्तिकः १०३
क्षीरिशुङ्गाशृतं सर्पिः पिबेत् सक्षौद्र शर्करम्
दार्वीत्वक्पिप्पलीशुण्ठीलाक्षाशक्रयवैर्घृतम् १०४
संयुक्तं भद्र रोहिण्या पक्वं पेयादिमिश्रितम्
त्रिदोषमप्यतीसारं पीतं हन्ति सुदारुणम् १०५
गौरवे वमनं पथ्यं यस्य स्यात् प्रबलः कफः
ज्वरे दाहे सविड्बन्धे मारुताद्र क्तपित्तवत् १०६
संपक्वे बहुदोषे च विबन्धे मूत्रशोधनैः
कार्यमास्थापनं क्षिप्रं तथा चैवानुवासनम् १०७
प्रवाहणे गुदभ्रंशे मूत्राघाते कटिग्रहे
मधुराम्लैः शृतं तैलं सर्पिर्वाऽप्यनुवासनम् १०८
गुदपाकस्तु पित्तेन यस्य स्यादहिताशिनः
तस्य पित्तहराः सेकास्तत्सिद्धाश्चानुवासनाः १०९
दधिमण्डसुराबिल्वसिद्धं तैलं समारुते
भोजने च हितं क्षीरं कच्छुरामूलसाधितम् ११०
अल्पाल्पं बहुशो रक्तं सरुग्य उपवेश्यते
यदा वायुर्विबद्धश्च पिच्छाबस्तिस्तदा हितः १११
प्रायेण गददौर्बल्यं दीर्घकालातिसारिणाम्
भवेत्तस्माद्धितं तेषां गुदे तैलावचारणम् ११२
कपित्थशाल्मलीफञ्जीवटकार्पासदाडिमाः
यूथिका कच्छुरा शेलुःशणश्चुच्चूश्च दाधिकाः ११३
शालपर्णी पृश्निपर्णी बृहती कण्टकारिका
बलाश्वदंष्ट्राबिल्वानि पाठानागरधान्यकम् ११४
एष आहारसंयोगे हितः सर्वातिसारिणाम्
तिलकल्को हितश्चात्र मौद्गो मुद्गरसस्तथा ११५
पित्तातिसारी यो मर्त्यः पित्तलान्यतिषेवते
पित्तं प्रदुष्टं तस्याशु रक्तातीसारमावहेत् ११६
ज्वरं शूलं तृषां दाहं गुदपाकं च दारुणम्
यो रक्तं शकृतः पूर्वं पश्चाद्वा प्रतिसार्यते ११७
स पल्लवैर्वटादीनां ससर्पिः साधितं पयः
पिबेत् सशर्कराक्षौद्र मथवाऽप्यभिमथ्य तत् ११८
नवनीतमथो लिह्यात्तक्रं चानुपिबेत्ततः
प्रियालशाल्मलीप्लक्षशल्लकीतिनिशत्चचः ११९
क्षीरे विमृदिताः पीताः सक्षौद्रा रक्तनाशनाः
मधुकं शर्करा लोध्रं पयस्यामथ सारिवाम् १२०
पिबेच्छागेन पयसा सक्षौद्रं रक्तनाशनम्
मञ्जिष्ठां सारिवां लोध्रं पद्मकं कुमुदोत्पलम् १२१
पिबेत् पद्मां च दुग्धेन छागेनासृक्प्रशान्तये
शर्करोत्पललोध्राणि समङ्गा मधुकं तिलाः १२२
तिलाः कृष्णाः सयष्ट्याह्वाः समङ्गा चोत्पलानि च
तिला मोचरसो लोध्रं तथैव मधुकोत्पलम् १२३
कच्छुरा तिलकल्कश्च योगाश्चत्वार एव च
आजेन पयसा पेयाः सरक्ते मधुसंयुताः १२४
द्र वे सरक्ते स्रवति बालबिल्वं सफाणितम्
सक्षौद्र तैलं प्रागेव लिह्यादाशु हितं हि तत् १२५
कोशकारं घृते भृष्टं लाजचूर्णं सिता मधु
सशूलं रक्तपित्तोत्थं लीढं हन्त्युदरामयम् १२६
बिल्वमध्यं समधुकं शर्कराक्षौद्र संयुतम्
तण्डुलाम्बुयुतो योगः पित्तरक्तोत्थितं जयेत् १२७
योगान् सांग्राहिकांश्चान्यान् पिबेत्सक्षौद्र शर्करान्
न्यग्रोधादिषु कुर्याच्च पुटपाकान् यथेरितान् १२८
गुदपाके च ये उक्तास्तेऽत्रापि विधयः स्मृताः
रुजायां चाप्रशाम्यन्त्यां पिच्छाबस्तिर्हितो भवेत् १२९
सक्तविड् दोषवहुलं दीप्ताग्निर्योऽतिसार्यते
विडङ्गत्रिफलाकृष्णाकषायैस्तं विरेचयेत् १३०
अथवैरण्डसिद्धेन पयसा केवलेन वा
यवागूर्वितरेच्चास्य वातघ्नैर्दीपनैः कृताः १३१
दीप्ताग्निर्निष्पुरीषो यः सार्यते फेनिलं शकृत्
स पिबेत् फाणितं शुण्ठीदधितैलपयोघृतम् १३२
स्विन्नानि गुडतैलाभ्यां भक्षयेद्बदराणि च
स्विन्नानि पिष्टवद्वाऽपि समं बिल्वशलाटुभिः १३३
दध्नोपयुज्य कुल्माषान् श्वेतामनुपिबेत् सुराम्
शशमांसं सरुधिरं समङ्गां सघृतं दधि १३४
खादेद्विपाच्य सेवेत मृद्वन्नं सकृतः क्षये
संस्कृतो यमके माषयवकोलरसः शुभः १३५
भोजनार्थं प्रदातव्यो दधिदाडिमसाधितः
विडं बिल्वशलाटूनि नागरं चाम्लपेषितम् १३६
दध्नः सरश्च यमके भृष्टो वर्चःक्षये हितः
सशूलं क्षीणवर्चा यो दीप्ताग्निरतिसार्यते
स पिबेद्दीपनैर्युक्तं सर्पिः संग्राहकैः सह १३७
वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य
प्रवाहमाणस्य मुहुर्मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः १३८
प्रवाहिका वातकृता सशूला पित्तात् सदाहा सकफा कफाच्च
सशोणिता शोणितसंभवा तु ताः स्नेहरूक्षप्रभवा मतास्तु १३९
तासामतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वतां च
न शान्तिमायाति विलङ्घनैर्या योगैरुदीर्णा यदि पाचनैर्वा १४०
तां क्षीरमेवाशु शृतं निहन्ति तैलं तिलाः पिच्छिलबस्तयश्च
आर्द्रैः कुशैः संपरिवेष्टितानि वृन्तान्यथार्द्राणि हि शाल्मलीनाम् १४१
पक्वानि सम्यक् पुटपाकयोगेनापोथ्य तेभ्यो रसमाददीत
क्षीरं शृतं तैलहविर्विमिश्रं कल्केन यष्टीमधुकस्य वाऽपि १४२
बस्तिं विदध्याद्भिषगप्रमत्तः प्रवाहिकामूत्रपुरीषसङ्गे
द्विपञ्चमूलीक्वथितेन शूले प्रवाहमाणस्य समाक्षिकेण १४३
क्षीरेण चास्थापनमग्र्यमुक्तं तैलेन युञ्ज्यादनुवासनं च
वातघ्नवर्गे लवणेषु चैव तैलं च सिद्धं हितमन्नपाने १४४
लोध्रं विडं बिल्वशलाटु चैव लिह्याच्च तैलेन कटुत्रिकाढ्यम्
दध्ना ससारेण समाक्षिकेण भुञ्जीत निश्चारकपीडितस्तु १४५
सुतप्तकुप्यक्वथितेन वाऽपि क्षीरेण शीतेन मधुप्लुतेन
शूलार्दितो व्योषविदारिगन्धासिद्धेन दुग्धेन हिताय भोज्यः १४६
वातघ्नसांग्राहिकदीपनीयैः कृतान् षडांश्चाप्युपभोजयेच्च
खादेच्च मत्स्यान् रसमाप्नुयाच्च वातघ्नसिद्धं सघृतं सतैलम् १४७
एणाव्यजानां तु वटप्रवालैः सिद्धानि सार्धं पिशितानि खादेत्
मेध्यद्यिस्यि सिद्धं त्वथ वाऽपि रक्तं बस्तस्य दध्ना घृततैलयुक्तम् १४८
खादेत् प्रदेहैः शिखिलावजैर्वा भुञ्जीत यूषैर्दधिभिश्च मुख्यैः
माषान् सुसिद्धान् घृतमण्डयुक्तान् खादेच्च दध्ना मरिचोपदंशान् १४९
महारुजे मूत्रकृच्छ्रे भिषग् बस्तिं प्रदापयेत्
पयोमधुघृतोन्मिश्रं मधुकोत्पलसाधितम् १५०
स बस्तिः शमयेत्तस्य रक्तं दाहमथो ज्वरम्
मधुरौषधसिद्धं च हितं तस्यानुवासनम् १५१
रात्रावहनि वा नित्यं रुजार्तो यो भवेन्नरः
यथा यथा सतैलः स्याद्वातशान्तिस्तथा तथा १५२
प्रशान्ते मारुते चापि शान्तिं याति प्रवाहिका
तस्मात् प्रवाहिकारोगे मारुतं शमयेद्भिषक् १५३
पाठाजमोदाकुटजोत्पलं च शुण्ठी समा मागधिकाश्च पिष्टाः
शुखाम्बुपीताः शमयन्ति रोगं मेध्याण्डसिद्धं सघृतं पयो वा १५४
शुण्ठीं घृतं सक्षवकं सतैलं विपाच्य लीढ्वाऽमयमाशु हन्यात्
गजाशनाकुम्भिकदाडिमानां रसैः कृता तैलघृते सदध्नि १५५
बिल्वान्विता पथ्यतमा यवागूर्धारोष्णदुग्धस्य तथा च पानम्
लघूनि पथ्यान्यथ दीपनानि स्निग्धानि भोज्यान्युदरामयेषु १५६
हिताय नित्यं वितरेद्विभज्य योगांश्च तांस्तान् भिषगप्रमत्तः १५७
तृष्णापनयनी लघ्वी दीपनी बस्तिशोधनी
ज्वरे चैवातिसारे च यवागूः सर्वदा हिता १५८
रूक्षाज्जाते क्रिया स्निग्धा रूक्षा स्नेहनिमित्तजे
भयजे सान्त्वनापूर्वा शोकजे शोकनाशिनी १५९
विषार्शःकृमिसंभूते हिता चोभयशर्मदा
छर्दिमूर्च्छातृडाद्यांश्च साधयेदविरोधतः १६०
समवाये तु दोषाणां पूर्वं पित्तमुपाचरेत्
ज्वरे चैवातिसारे च सर्वत्रान्यत्र मारुतम् १६१
यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति
दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः १६२
कर्मजा व्याधयः केचिद्दोषजाः सन्ति चापरे
कर्मदोषोद्भवाश्चान्ये कर्मजास्तेष्वहेतुकाः १६३
नश्यन्ति त्वक्रियाभिस्ते क्रियाभिः कर्मसंक्षये
शाम्यन्ति दोषसंभूता दोषसंक्षयहेतुभिः १६४
तेषामल्पनिदाना ये प्रतिकष्टा भवन्ति च
मृदवो बहुदोषा वा कर्मदोषोद्भवास्तु ते १६५
कर्मदोषक्षयकृता तेषां सिद्धिर्विधीयते
दुष्यति ग्रहणी जन्तोरग्निसादनहेतुभिः १६६
अतिसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः
भूयः संदूषितो वह्निर्ग्रहणीमभिदूषयेत् १६७
तस्मात्कार्यः परीहारस्त्वतीसारे विरिक्तवत्
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा १६८
षष्ठी पित्तधरा नाम या कला परिकीर्तिता
पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्तिता १६९
ग्रहण्या बलमग्निर्हि स चापि ग्रहणीं श्रितः
तस्मात् संदूषिते वह्नौ ग्रहणी संप्रदुष्यति १७०
एकशः सर्वशश्चैव दोषैरत्यर्थमुच्छ्रितैः
सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति १७१
पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्र वम्
ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः १७२
तस्योत्पत्तौ विदाहोऽन्ने सदनालस्यतृट्क्लमाः
बलक्षयोऽरुचिः कासः कर्णक्ष्वेडोऽन्त्रकूजनम् १७३
अथ जाते भवेज्जन्तुः शूनपादकरः कृशः
पर्वरुग्लौल्यतृट्छर्दिज्वरारोचकदाहवान् १७४
उद्गिरेच्छुक्ततिक्ताम्ललोहधूमामगन्धिकम्
प्रसेकमुखवैरस्यतमकारुचिपीडितः १७५
वाताच्छूलाधिकैः पायुहृत्पार्श्वोदरमस्तकैः
पित्तात् सदाहैर्गुरुभिः कफात्त्रिभ्यस्त्रिलक्षणैः १७६
दोषवर्णैर्नखैस्तद्वद्विण्मूत्रनयनाननैः
हृत्पाण्डूदरगुल्मार्शःप्लीहाशङ्खी च मानवः १७७
यथादोषोच्छ्रयं तस्य विशुद्धस्य यथाक्रमम्
पेयादिं वितरेत् सम्यग्दीपनीयोपसंभृतम् १७८
ततः पाचनसंग्राहिदीपनीयगणत्रयम्
पिबेत् प्रातः सुरारिष्टस्नेहमूत्रसुखाम्बुभिः १७९
तक्रेण वाऽथ तक्रं वा केवलं हितमुच्यते
कृमिगुल्मोदरार्शोघ्नीः क्रियाश्चात्रावचारयेत् १८०
चूर्णं हिङ्ग्वादिकं चात्र घृतं वा प्लीहनाशनम्
कल्केन मगधादेश्च चाङ्गेरीस्वरसेन च १८१
चतुर्गुणेन दध्ना च घृतं सिद्धं हितं भवेत्
सर्वथा दीपनं सर्वं ग्रहणीरोगिणां हितम्
ज्वरादीनविरोधाच्च साधयेत् स्वैश्चिकित्सितैः १८२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रेऽतिसारप्रतिषेधो
नाम द्वितीयऽध्यायः आदितः चत्वारिंशोऽध्यायः ४०
एकचत्वारिंशत्तमोऽध्यायः
अथातः शोषप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अनेकरोगानुगतो बहुरोगपुरोगमः
दुर्विज्ञेयो दुर्निवारः शोषो व्याधिर्महाबलः ३
संशोषणाद्र सादीनां शोष इत्यभिधीयते
क्रियाक्षयकरत्वाच्च क्षय इत्युच्यते पुनः ४
राज्ञश्चन्द्र मसो यस्मादभूदेष किलामयः
तस्मात्तं राजयक्ष्मेति केचिदाहुः पुनर्जनाः ५
स व्यस्तैर्जायते दोषैरिति केचिद्वदन्ति हि
एकादशानामेकस्मिन् सान्निध्यात्तन्त्रयुक्तितः ६
क्रियाणामविभागेन प्रागेकोत्पादनेन च
एक एव मतः शोषः सन्निपातात्मको ह्यतः ७
उद्रे कात्तत्र लिङ्गानि दोषाणां निपतन्ति हि
क्षयाद्वेगप्रतीघातादाघाताद्विषमाशनात् ८
जायते कुपितैर्दोषैर्व्याप्तदेहस्य देहिनः
कफप्रधानैर्दोषैर्हि रुद्धेषु रसवर्त्मसु ९
अतिव्यवायिनो वापि क्षीणे रेतस्यनन्तरम्
क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः १०
भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम्
स्वरभेदश्च जायेत षड्रूपे राजयक्ष्मणि ११
स्वरभेदोऽनिलाञ्छूलं संलोचश्चांसपार्श्वयोः
ज्वरो दाहोऽतिसारश्च पित्ताद्र क्तस्य चागमः १२
शिरसः परिपूर्णत्वमभक्तच्छन्द एव च
कासः कण्ठस्य चोद्ध्वंसो विज्ञेयः कफकोपतः १३
एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम्
कासातीसारपार्श्वार्तिस्वरभेदारुचिज्वरैः १४
त्रिभिर्वा पीडितं लिङ्गैर्ज्वरकासासृगामयैः
जह्याच्छोषार्दितं जन्तुमिच्छन् सुविपुलं यशः १५
व्यवायशोकस्थाविर्यव्यायामाध्वोपवासतः
व्रणोरःक्षतपीडाभ्यां शोषानन्ये वदन्ति हि १६
व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः
पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः १७
प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः
विना शुक्रक्षयकृतैर्विकारैरभिलक्षितः १८
जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्द्रि यः
कम्पनोऽरुचिमान् भिन्नकांस्यपात्रहतस्वरः १९
ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः
संप्रस्रुतास्यनासाक्षः सुप्तरूक्षमलच्छविः २०
अध्वप्रशोषी स्रस्ताङ्गः संभृष्टपरुषच्छविः
प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः २१
व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः
उरःक्षतकृतैर्लिङ्गैः संयुक्तश्च क्षताद्विना २२
रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात्
व्रणितस्य भवेच्छोषः स चासाध्यतमः स्मृतः २३
व्यायामभाराध्ययनैरभिघातातिमैथुनैः
कर्मणा चाप्युरस्येन वक्षो यस्य विदारितम्
तस्योरसि क्षते रक्तं पूयः श्लेष्मा च गच्छति २४
कासमानश्छर्दयेच्च पीतरक्तासितारुणम्
संतप्तवक्षाः सोऽत्यर्थं दूयनात्परिताम्यति २५
दुर्गन्धवदनोच्छ्वासो भिन्नवर्णस्वरो नरः
केषांचिदेवं शोषो हि कारणैर्मेदमागतः २६
न तत्र दोषलिङ्गानां समस्तानां निपातनम्
क्षया एव हि ते ज्ञेयाः प्रत्येकं धातुसंज्ञिताः २७
चिकित्सितं तु तेषां हि प्रागुक्तं धातुसंक्षये २८
श्वासाङ्गसादकफसंस्रवतालुशोषच्छर्द्यग्निसादमदपीनसपाण्डुनिद्राः शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः २९
स्वप्नेषु काकशुकशल्लकिनीलकण्ठगृध्रास्तथैव कपयः कृकलासकाश्च
तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छुष्कांस्तरून् पवनधूमदवार्दितांश्च ३०
महाशनं क्षीयमाणमतीसारनिपीडितम्
शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत् ३१
उपाचरेदात्मवन्तं दीप्ताग्निमकृशं नवम्
स्थिरादिवर्गसिद्धेन घृतेनाजाविकेन च ३२
स्निग्धस्य मृदु कर्तव्यमूर्ध्वं चाधश्च शोधनम्
आस्थापनं तथा कार्यं शिरसश्च विरेचनम् ३३
यवगोधूमशालींश्च रसैर्भुञ्जीत शोधितः
दृढेऽग्नौ बृंहयेच्चापि निवृत्तोपद्र वं नरम् ३४
व्यवायशोषिणं प्रायो भजन्ते वातजा गदाः
बृंहणीयो विधिस्तस्मै हितः स्निग्धोऽनिलापहः ३५
काकानुलूकान्नकुलान् बिडालान् गण्डूपदान् व्यालबिलेशयाखून्
गृध्रांश्च दद्याद्विविधैः प्रवादैः ससैन्धवान् सर्षपतैलभृष्टान् ३६
देयानि मांसानि च जाङ्गलानि मुद्गाढकीसूपरसाश्च हृद्याः
खरोष्ट्रनागाश्वतराश्वजानि देयानि मांसानि सुकल्पितानि ३७
मांसोपदंशांश्च पिबेदरिष्टान् मार्द्वीकयुक्तान् मदिराश्च सेव्याः
अर्कामृताक्षारजलोषितेभ्यः कृत्वा यवेभ्यो विविधांश्च भक्ष्यान् ३८
खादेत् पिबेत् सर्पिरजाविकं वा कृशो यवाग्वा सह भक्तकाले
सर्पिर्मधुभ्यां त्रिकटु प्रलिह्याच्चव्याविडङ्गोपहितं क्षयार्तः ३९
मांसादमांसेषु घृतं च सिद्धं शोषापहं क्षौद्र कणासमेतम्
द्रा क्षासितामागधिकावलेहः सक्षौद्र तैलः क्षयरोगघाती ४०
घृतेन चाजेन समाक्षिकेण तुरङ्गगन्धातिलमाषचूर्णम्
सिताश्वगन्धामगधोद्भवानां चूर्णं घृतक्षौद्र युतं प्रलिह्यात् ४१
क्षीरं पिबेद्वाऽप्यथ वाजिगन्धाविपक्वमेवं लभतेऽङ्गपुष्टिम्
तदुत्थितं क्षीरघृतं सिताढ्यं प्रातः पिबेद्वाऽपि पयोनुपानम् ४२
उत्सादने चापि तुरङ्गगन्धा योज्या यवाश्चैव पुनर्नवे च
कृत्स्ने वृषे तत्कुसुमैश्च सिद्धं सर्पिः पिबेत्क्षौद्र युतं हिताशी ४३
यक्ष्माणमेतत् प्रबलं च कासं श्वासं च हन्यादपि पाण्डुतां च
शकृद्र सा गोश्वगजाव्यजानां क्वाथा मिताश्चापि तथैव भागैः ४४
मूर्वाहरिद्रा खदिरद्रुमाणां क्षीरस्य भागस्त्वपरो घृतस्य
भागान् दशैतान् विपचेद्विधिज्ञो दत्त्वा त्रिवर्गं मधुरं च कृत्स्नम् ४५
कटुत्रिकं चैव सभद्र दारु घृतोत्तमं यक्ष्मनिवारणाय
द्वे पञ्चमूल्यौ वरुणं करञ्जं भल्लातकं बिल्वपुनर्नवे च ४६
यवान् कुलत्थान् बदराणि भार्गी पाठां हुताशं समहीकदम्बम्
कृत्वा कषायं विपचेद्धि तस्य षड्भिर्हि पात्रैर्घृतपात्रमेकम् ४७
व्योषं महावृक्षपयोऽभयां च चव्यं सुराख्यं लवणोत्तमं च
एतद्धि शोषं जठराणि चैव हन्यात् प्रमेहांश्च सहानिलेन ४८
गोश्वाव्यजेभैणखरोष्ट्रजातैः शकृद्र सक्षीररसक्षतोत्थैः
द्रा क्षाश्वगन्धामगधासिताभिः सिद्धं घृतं यक्ष्मविकारहारि ४९
एलाजमोदामलकाभयाक्षगायत्र्यरिष्टासनशालसारान्
विडङ्गभल्लातकचित्रकोग्राकटुत्रिकाम्भोदसुराष्ट्रजांश्च ५०
पक्त्वा जले तेन पचेद्धि सर्पिस्तस्मिन् सुसिद्धे त्ववतारिते च
त्रिंशत्पलान्यत्र सितोपलाया दत्त्वा तुगाक्षीरिपलानि षट् च ५१
प्रस्थे घृतस्य द्विगुणं च दद्यात् क्षौद्रं ततो मन्थहतं विदध्यात्
पलं पलं प्रातरतः प्रलिह्य पश्चात् पिबेत् क्षीरमतन्द्रि तश्च ५२
एतद्धि मेध्यं परमं पवित्रं चक्षुष्यमायुष्यमथो यशस्यम्
यक्ष्माणमाशु व्यपहन्ति चैतत् पाण्ड्वामयं चैव भगन्दरं च ५३
श्वासं च हन्ति स्वरभेदकासहृत्प्लीहगुल्मग्रहणीगदांश्च
न चात्र किंचित् परिवर्जनीयं रसायनं चैतदुपास्यमानम् ५४
प्लीहोदरोक्तं विहितं च सर्पिस्त्रीण्येव चान्यानि हितानि चात्र
उपद्र वांश्च स्वरवैकृतादीन् जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम् ५५
अजाशकृन्मूत्रपयोघृतासृङ्मांसालयानि प्रतिसेवमानः
स्नानादिनानाविधिना जहाति मासादशेषं नियमेन शोषम् ५६
रसोनयोगं विधिवत् क्षयार्तः क्षीरेण वा नागबलाप्रयोगम्
सेवेत वा मागधिकाविधानं तथोपयोगं जतुनोऽश्मजस्य ५७
शोकं स्त्रियं क्रोधमसूयनं च त्यजेदुदारान् विषयान् भजेत
वैद्यान् द्विजातींस्त्रिदशान् गुरूंश्च वाचश्च पुण्याः शृणुयाद्द्विजेभ्यः ५८
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे एकचत्वारिंशोऽध्यायः ४१
द्विचत्वारिंशत्तमोऽध्यायः
अथातो गुल्मप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
यथोक्तैः कोपनैर्दोषाः कुपिताः कोष्ठमागताः
जनयन्ति नृणां गुल्मं स पञ्चविध उच्यते ३
हृद्बस्त्योरन्तरे ग्रन्थिः संचारी यदि वाऽचलः
चयापचयवान् वृत्तः स गुल्म इति कीर्तितः ४
पञ्च गुल्माश्रया नॄणां पार्श्वे हृन्नाभिबस्तयः
गुपितानिलमूलत्वाद्गूढमूलोदयादपि ५
गुल्मवद्वा विशालत्वाद्गुल्म इत्यभिधीयते
स यस्मादात्मनि चयं गच्छत्यप्स्विव बुद्बुदः ६
अन्तः सरति यस्माच्च न पाकमुपयात्यतः
स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितैः ७
पुरुषाणां तथा स्त्रीणां ज्ञेयो रक्तेन चापरः
सदनं मदन्ता वह्नेराटोपोऽन्त्रविकूजनम् ८
विण्मूत्रानिलसङ्गश्च सौहित्यासहता तथा
द्वेषोऽन्ने वायुरूर्ध्वं च पूर्वरूपेषु गुल्मिनाम् ९
हृत्कुक्षिशूलं मुखकण्ठशोषो वायोर्निरोधो विषमाग्निता च
ते ते विकाराः पवनात्मकाश्च भवन्ति गुल्मेऽनिलसंभवे तु १०
स्वेदज्वराहारविदाहदाहास्तृष्णाऽङ्गरागः कटुवक्त्रता च
पित्तस्य लिङ्गान्यखिलानि यानि पित्तात्मके तानि भवन्ति गुल्मे ११
स्तैमित्यमन्नेऽरुचिरङ्गसादश्छर्दिः प्रसेको मधुरास्यता च
कफस्य लिङ्गानि च यानि तानि भवन्ति गुल्मे कफसंभवे तु १२
सर्वात्मकः सर्वविकारयुक्तः सोऽसाध्य उक्तः क्षतजं प्रवक्ष्ये
नवप्रसूताऽहितभोजना या या चामगर्भं विसृजेदृतौ वा १३
वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं मरुजं सदाहम्
पैत्तस्य लिङ्गेन समानिलङ्गं विशेषणं चाप्यपरं निबोध १४
न स्पन्दते नोदरमेति वृद्धिं भवन्ति लिङ्गानि च गर्भिणीनाम्
तं गर्भकालातिगमे चिकित्स्यमसृग्भवं गुल्ममुशन्ति तज्ज्ञाः १५
वातगुल्मार्दितं स्निग्धं युक्तं स्नेहविरेचनैः
उपाचरेद्यथाकालं निरूहैः सानुवासनैः १६
पित्तगुल्मार्दितं स्निग्धं काकोल्यादिघृतेन तु
विरिक्तं मधुरैर्योगैर्निरूहैः समुपाचरेत् १७
श्लेष्मगुल्मार्दितं स्निग्धं पिप्पल्यादिघृतेन तु
तीक्ष्णैर्विरिक्तं तद्रू पैर्निरूहैः समुपाचरेत् १८
सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः
पित्तवद्र क्तगुल्मिन्या नार्याः कार्यः क्रियाविधिः १९
विशेषमपरं चास्याः शृणु रक्तविमेदनम्
पलाशक्षारतोयेन सिद्धं सर्पिः प्रयोजयेत् २०
दद्यादुत्तरबस्तिं च पिप्पल्यादिघृतेन तु
उष्णैर्वा भेदयेद्भिन्ने विधिरासृग्दरो हितः २१
आनूपौदकमज्जानो वसा तैलं घृतं दधि
विपक्वमेकतः शस्तं वातगुल्मेऽनुवासनम् २२
जाङ्गलैकशफानां तु वसा सर्पिश्च पैत्तिके
तैलं जाङ्गलमज्जान एवं गुल्मे कफोत्थिते २३
धात्रीफलानां स्वरसे षडङ्गं विपचेद्घृतम्
शर्करासैन्धवोपेतं तद्धितं वातगुल्मिने २४
चित्रकव्योषसिन्धूत्थपृथ्वीकाचव्यदाडिमैः
दीप्यकग्रन्थिकाजाजीहपुषाधान्यकैः समैः २५
दध्यारनालबदरमूलकस्वरसैर्घृतम्
तत्पिबेद्वातगुल्माग्निदौर्बल्याटोपशूलनुत् २६
हिङ्गुसौवर्चलाजाजीविडदाडिमदीप्यकैः
पुष्करव्योषधान्याम्लवेतसक्षारचित्रकैः २७
शटीवचाजगन्धैलासुरसैश्च विपाचितम्
शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम् २८
विडदाडिमसिन्धूत्थहुतभुग्व्योषजीरकैः
हिङ्गुसौवर्चलक्षाररुग्वृक्षाम्लाम्लवेतसैः २९
बीजपूररसोपेतं सर्पिर्दधिचतुर्गुणम्
साधितं दाधिकं नाम गुल्महृत् प्लीहशूलजित् ३०
रसोनस्वरसे सर्पिः पञ्चमूलरसान्वितम्
सुरारनालदध्यम्लमूलकस्वरसैः सह ३१
व्योषदाडिमवृक्षाम्लयवानीचव्यसैन्धवैः
हिङ्ग्वम्लवेतसाजाजीदीप्यकैश्च समांशिकैः ३२
सिद्धं गुल्मग्रहण्यर्शःश्वासोन्मादक्षयज्वरान्
कासापस्मारमन्दाग्निप्लीहशूलानिलाञ्जयेत् ३३
दधि सौवीरकं सर्पिः क्वाथौ मुद्गकुलत्थजौ
पञ्चाढकानि विपचेदावाप्य द्विपलान्यथ ३४
सौवर्चलं सर्जिकां च देवदार्वथ सैन्धवम्
वातगुल्मापहं सर्पिरेतद्दीपनमेव च ३५
तृणमूलकषाये तु जीवनीयैः पचेद्घृतम्
न्यग्रोधादिगणे वाऽपि गणे वाऽप्युत्पलादिके ३६
रक्तपित्तोत्थितं घ्नन्ति घृतान्येतान्यसंशयम्
आरग्वधादौ विपचेद्दीपनीययुतं घृतम् ३७
क्षारवर्गे पचेच्चान्यत् पचेन्मूत्रगणेऽपरम्
घ्नन्ति गुल्मं कफोद्भूतं घृतान्येतान्यसंशयम् ३८
यथादोषोच्छ्रयं चापि चिकित्सेत्सान्निपातिकम्
चूर्णं हिङ्वादिकं वाऽपि घृतं वा प्लीहनाशनम् ३९
पिबेद्गुल्मापहं काले सर्पिस्तैल्वकमेव वा
तिलेक्षुरकपालाशसार्षपं यावनालजम् ४०
भस्म मूलकजं चापि गोजाविखरहस्मिनाम्
मूत्रेण महिषीणां च पालिकैश्चावचूर्णितैः ४१
कुष्ठसैन्धवयष्ट्याह्वनागरकृमिघातिभिः
साजमोदैश्च दशभिः सामुद्रा च्च पलैर्युतम् ४२
अयःपात्रेऽग्निनाऽल्पेन पक्त्वा लेह्यमथोद्धरेत्
तस्य मात्रां पिबेद्दघ्ना सुरया सर्पिषाऽपि वा ४३
धान्याम्लेनोष्णतोयेन कौलत्थेन रसेन वा
गुल्मान् वातविकारांश्च क्षारोऽयं हन्त्यसंशयम् ४४
स्वर्जिकाकुष्ठसहितः क्षारः केतकिजोऽपि वा
तैलेन शमयेत् पीतो गुल्मं पवनसंभवम् ४५
पीतं सुखाम्बुना वाऽपि स्वर्जिकाकुष्ठसैन्धवम्
वृश्चीवमुरुबूकं च वर्षाभूर्बृहतीद्वयम् ४६
चित्रकं च जलद्रो णे पक्त्वा पादावशेषितम्
मागधीचित्रकक्षौद्र लिप्ते कुम्भे निधापयेत् ४७
मधुनः प्रस्थमावाप्य पथ्याचूर्णार्धसंयुतम्
बुसोषितं दशाहं तु जीर्णभक्तः पिबेन्नरः ४८
अरिष्टोऽयं जयेद्गुल्ममविपाकमरोचकम्
पाठानिकुम्भरजनीत्रिकटुत्रिफलाग्निकम् ४९
लवणं वृक्षबीजं च तुल्यं स्यादनवो गुडः
पथ्याभिर्वा युतं चूर्नं गवां मूत्रयुतं पचेत् ५०
गुटिकास्तद्घनीभूतं कृत्वा खादेदभुक्तवान्
गुल्मप्लीहाग्निसादांस्ता नाशयेयुरशेषतः ५१
हृद्रो गं ग्रहणीदोषं पाण्डुरोगं च दारुणम्
सशूले सोन्नतेऽस्पन्दे दाहपाकरुगन्विते ५२
गुल्मे रक्तं जलौकोभिः सिरामोक्षेण वा हरेत्
सुखोष्णा जाङ्गलरसाः सुस्निग्धा व्यक्तसैन्धवाः ५३
कटुत्रिकसमायुक्ता हिताः पाने तु गुल्मिनाम्
पेया वातहरैः सिद्धाः कौलत्थाः संस्कृता रसाः ५४
खलाः सपञ्चमूलाश्च गुल्मिनां भोजने हिताः
बद्धवर्चोनिलानां तु सार्द्र कं क्षीरमिष्यते ५५
कुम्भीपिण्डेष्टकास्वेदान् कारयेत् कुशलो भिषक्
गुल्मिनः सर्व एवोक्ता दुर्विरेच्यतमा भृशम् ५६
अतश्चैतांस्तु सुस्विन्नान् स्रंसनेनोपपादयेत्
बिम्लापनाभ्यञ्जनानि तथैव दहनानि च ५७
उपनाहाश्च कर्तव्याः सुखोष्णाः साल्वणादयः
उदरोक्तानि सर्पींषि मूत्रवर्तिक्रियास्तथा ५८
लवणानि च योज्यानि यान्युक्तान्यनिलामये
वातवर्चोनिरोधे तु सामुद्रा र्द्र कसर्षपैः ५९
कृत्वा पायौ विधातव्या वर्तयो मरिचोत्तराः
दन्तीचित्रकमूलेषु तथा वातहरेषु च ६०
कुर्यादरिष्टान् सर्वांश्च श्लोकस्थाने यथेरितान्
खादेद्वाऽप्यङ्कुरान् भृष्टान् पूतीकनृपवृक्षयोः ६१
ऊर्ध्ववातं मनुष्यं च गुल्मिनं न निरूहयेत्
पिबेत्त्रिवृन्नागरं वा सगुडां वा हरीतकीम् ६२
गुग्गुलुं त्रिवृतां दन्तीं द्र वन्तीं सैन्धवं वचाम्
मूत्रमद्यपयोद्रा क्षारसैर्वीक्ष्य बलाबलम् ६३
एवं पीलूनि भृष्टानि पिबेत् सलवणानि तु
पिप्पलीपिप्पलीमूलचव्यचित्रकसैन्धवैः ६४
युक्ता हन्ति सुरा गुल्मं शीघ्रं काले प्रयोजिता
बद्धविण्मारुतो गुल्मी भुञ्जीत पयसा यवान् ६५
कुल्माषान् वा बहुस्नेहान् भक्षयेल्लवणोत्तरान्
अथास्योपद्र वः शूलः कथंचिदुपजायते ६६
शूलं निखानितमिवासुखं येन तु वेत्त्यसौ
तत्र विण्मूत्रसंरोधः कृच्छ्रोच्छ्वासः स्थिराङ्गता ६७
तृष्णा दाहो भ्रमोऽन्नस्य विदग्धपरिवृद्धिता
रोमहर्षोऽरुचिश्छर्दिर्भुक्तवृद्धिर्जडाङ्गता ६८
वाय्वादिभिर्यथासङ्ख्यं मिश्रैर्वा वीक्ष्य योजयेत्
पथ्यात्रिलवणं क्षारं हिङ्गुतुम्बुरुपौष्करम् ६९
यवानीं च हरिद्रां च विडङ्गान्यम्लवेत्सम्
विदारीत्रिफलाऽभीरुशृङ्गाटीगुडशर्कराः ७०
काश्मरीफलयष्ट्याह्वपरूषकहिमानि च
षड्ग्रन्थातिविषादारुपथ्यामरिचवृक्षजान् ७१
कृष्णामूलकचव्यं च नागरक्षारचित्रकान्
उष्णाम्लकाञ्जिकक्षीरतोयैः श्लोकसमापनान् ७२
यथाक्रमं विमिश्रांश्च द्वन्द्वे सर्वांश्च सर्वजे
तथैव सेकावगाहप्रदेहाभ्यङ्गभोजनम् ७३
शिशिरोदकपूर्णानां भाजनानां च धारणम्
वमनोन्मर्दनस्वेदलङ्घनक्षपणक्रियाः ७४
स्नेहादिश्च क्रमः सर्वो विशेषेणोपदिश्यते
वलूरं मूलकं मत्स्यान् शुष्कशाकानि वैदलम् ७५
न खादेदालुकं गुल्मी मधुराणि फलानि च
विना गुल्मेन यच्छूलं गुल्मस्थानेषु जायते ७६
निदानं तस्य वक्ष्यामि रूपं च सचिकित्सितम्
वातमूत्रपुरीषाणां निग्रहादतिभोजनात् ७७
अजीर्णाध्यशनायासविरुद्धान्नोपसेवनात्
पानीयपानात् क्षुत्काले विरूढानां च सेवनात् ७८
पिष्टान्नशुष्कमांसानामुपयोगात्तथैव च
एवंविधानां द्र व्याणामन्येषां चोपसेवनात् ७९
वायुः प्रकुपितः कोष्ठे शूलं संजनयेद्भृशम्
निरुच्छ्वासी भवेत्तेन वेदनापीडितो नरः ८०
शङ्कुस्फोटनवत्तस्य यस्मात्तीव्राश्च वेदनाः
शूलासक्तस्य लक्ष्यन्ते तस्माच्छूलमिहोच्यते ८१
निराहारस्य यस्यैव तीव्रं शूलमुदीर्यते
प्रस्तब्धगात्रो भवति कृच्छ्रेणोच्छ्वसितीव च ८२
वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः
एतैर्लिङ्गैर्विजानीयाच्छूलं वातसमुद्भवम् ८३
तृष्णा दाहो मदो मूर्च्छा तीव्रं शूलं तथैव च
शीताभिकामो भवति शीतेनैव प्रशाम्यति ८४
एतैर्लिङ्गैर्विजानीयाच्छूलं पित्तसमुद्भवम्
शूलेनोत्पीड्यमानस्य हृल्लास उपजायते ८५
अतीव पूर्णकोष्ठत्वं तथैव गुरुगात्रता
एतच्छ्लेष्मसमुत्थस्य शूलस्योक्तं निदर्शनम् ८६
सर्वाणि दृष्ट्वा रूपाणि निर्दिशेत्सान्निपातिकम्
सन्निपातसमुत्थानमसाध्यं तं विनिर्दिशेत् ८७
शूलानां लक्षणं प्रोक्तं चिकित्सां तु निबोध मे
आशुकारी हि पवनस्तस्मात्तं त्वरया जयेत् ८८
तस्य शूलाभिपन्नस्य स्वेद एव सुखावहः
पायसैः कृशरापिण्डैः स्निग्धैर्वा पिशितैर्हितः ८९
त्रिवृच्छाकेन वा स्निग्धमुष्णं भुञ्जीत भोजनम्
चिरबिल्वाङ्कुरान् वापि तैलभृष्टांस्तु भक्षयेत् ९०
वैहङ्गांश्च रसान् स्निग्धान् जाङ्गलान् शूलपीडितः
यथालाभं निषेवेत मांसानि बिलशायिनाम् ९१
सुरा सौविरकं चुक्रं मस्तूदश्वित्तथा दधि
सकाललवणं पेयं शूले वातसमुद्भवे ९२
कुलत्थयूषो युक्ताम्लो लावकीयूषसंस्कृतः
ससैन्धवः समरिचो वातशूलविनाशनः ९३
विडङ्गशिग्रुकम्पिल्लपथ्याश्यामाम्लवेतसान्
सुरसामश्वमूत्रीं च सौवर्चलयुतान् पिबेत् ९४
मद्येन वातजं शूलं क्षिप्रमेव प्रशाम्यति
पृथ्वीकाजाजिचविकायवानीव्योषचित्रकाः ९५
पिप्पल्यः पिप्पलीमूलं सैन्धवं चेति चूर्णयेत्
तानि चूर्णानि पयसा पिबेत् काम्बलिकेन वा ९६
मध्वासवेन चुक्रेण सुरासौवीरकेण वा
अथवैतानि चूर्णानि मातुलुङ्गरसेन वा ९७
तथा बदरयूषेण भावितानि पुनः पुनः
तानि हिङ्गुप्रगाढानि सह शर्करया पिबेत् ९८
सह दाडिमसारेण वर्तिः कार्या भिषग्जिता
सा वर्तिर्वातिकं शूलं क्षिप्रमेव व्यपोहति ९९
गुडतैलेन वा लीढा पीता मद्येन वा पुनः
बुभुक्षाप्रभवे शूले लघु संतर्पणम् हितम् १००
उष्णैः क्षीरैर्यवागूभिः स्निग्धैर्मांसरसैस्तथा
वातशूले समुत्पन्ने रूक्षं स्निग्धेन भोजयेत् १०१
सुसंस्कृताः प्रदेयाः स्युर्घृतपूरा विशेषतः
वारुणीं च पिबेज्जन्तुस्तथा संपद्यते सुखी १०२
एतद्वातसमुत्थस्य शूलस्योक्तं चिकित्सितम्
अथ पित्तसमुत्थस्य क्रियां वक्ष्याम्यतः परम् १०३
स सुखं छर्दयित्वा तु पीत्वा शीतोदकं नरः
शीतलानि च सेवेत सर्वाण्युष्णानि वर्जयेत् १०४
मणिराजतताम्राणि भाजनानि च सर्वशः
वारिपूर्णानि तान्यस्य शूलस्योपरि निक्षिपेत् १०५
गुडः शालिर्यवाः क्षीरं सर्पिःपानं विरेचनम्
जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् १०६
रसान् सेवेत पित्तघ्नान् पित्तलानि विवर्जयेत्
पालाशं धान्वनं वाऽपि पिबेद्यूषं सशर्करम् १०७
परूषकाणि मृद्वीकाखर्जूरोदकजान्यपि
तत् पिबेच्छर्करायुक्तं पित्तशूलनिवारणम् १०८
अशने भुक्तमात्रे तु प्रकोपः श्लैष्मिकस्य च
वमनं कारयेत्तत्र पिप्पलीवारिणा भिषक् १०९
रूक्षः स्वेदः प्रयोज्यः स्यादन्याश्चोष्णाः क्रिया हिताः
पिप्पली शृङ्गवेरं च श्लेष्मशूले भिषग्जितम् ११०
पाठां वचां त्रिकटुकं तथा कटुकरोहिणीम्
चित्रकस्य च निर्यूहे पिबेद्यूषं सहार्जकम् १११
एरण्डफलमूलानि मूलं गोक्षुरकस्य च
शालपर्णीं पृश्निपर्णीं बृहतीं कण्टकारिकाम् ११२
दद्याच्छृगालविन्नां च सहदेवां तथैव च
महासहां क्षुद्र सहां मूलमिक्षुरकस्य च ११३
एतत् संभृत्य संभारं जलद्रो णे विपाचयेत्
चतुर्भागावशेषं तु यवक्षारयुतं पिबेत् ११४
वातिकं पैत्तिकं वाऽपि श्लैष्मिकं सान्निपातिकम्
प्रसह्य नाशयेच्छूलं छिन्नाभ्रमिव मारुतः ११५
पिप्पली स्वर्जिकाक्षारो यवाश्चित्रक एव च
सेव्यं चैतत् समानीय भस्म कुर्याद्विचक्षणः ११६
तदुष्णवारिणा पीतं श्लेष्मशूले भिषग्जितम्
रुणद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः ११७
स संरुद्धः करोत्याशु साध्मानं गुड्गुडायनम्
सूचीभिरिव निस्तोदं कृच्छ्रोच्छ्वासी तदा नरः ११८
नान्नं वाञ्छति नो निद्रा मुपैत्यर्तिनिपीडितः
पार्श्वशूलः स विज्ञेयः कफानिलसमुद्भवः ११९
तत्र पुष्करमूलानि हिङ्गु सौवर्चलं विडम्
सैन्धवं तुम्बुरुं पथ्यां चूर्णं कृत्वा तु पाययेत् १२०
पार्श्वहृद्बस्तिशूलेषु यवक्वाथेन संयुतम्
सर्पिः प्लीहोदरोक्तं वा घृतं वा हिङ्गुसंयुतम् १२१
बीजपूरकसारं वा पयसा सह साधितम्
एरण्डतैलमथवा मद्यमस्तुपयोरसैः १२२
भोजयेच्चापि पयसा जाङ्गलेन रसेन वा
प्रकुप्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः १२३
तदाऽस्य भोजनं भुक्तं सोपस्तम्भं न पच्यते
उच्छ्वसित्यामशकृता शूलेनाहन्यते मुहुः १२४
नैवासने न शयने तिष्ठन् वा लभते सुखम्
कुक्षिशूल इति ख्यातो वातादामसमुद्भवः १२५
वमनं कारयेत्तत्र लङ्घयेद्वा यथाबलम्
संसर्गपाचनं कुर्यादम्लैर्दीपनसंयुतैः १२६
नागरं दीप्यकं चव्यं हिङ्गु सौवर्चलं विडम्
मातुलुङ्गस्य बीजानि तथा श्यामोरुबूकयोः १२७
बृहत्याः कण्टकार्याश्च क्वाथं शूलहरं पिबेत्
वचा सौवर्चलं हिङ्गु कुष्ठं सातिविषाऽभया १२८
कुटजस्य च बीजानि सद्यःशूलहराणि तु
विरेचने प्रयुञ्जीत ज्ञात्वा दोषबलाबलम् १२९
स्नेहबस्तीन्निरूहांश्च कुर्याद्दोषनिबर्हणान्
उपनाहाः स्नेहसेका धान्याम्लपरिषेचनम् १३०
अवगाहाश्च शस्यन्ते यच्चान्यदपि तद्धितम्
कफपित्तावरुद्धस्तु मारुतो रसमूर्च्छितः १३१
हृदिस्थः कुरुते शूलमुच्छ्वासारोधकं परम्
स हृच्छूल इति ख्यातो रसमारुतसंभवः १३२
तत्रापि कर्माभिहितं यदुक्तं हृद्विकारिणाम्
संरोधात् कुपितो वायुर्बस्तिमावृत्य तिष्ठति १३३
बस्तिवङ्क्षणनाभीषु ततः शूलोऽस्य जायते
विण्मूत्रवातसंरोधी बस्तिशूलः स मारुतात् १३४
नाभ्यां वङ्क्षणपार्श्वेषु कुक्षौ मेढ्रान्त्रमर्दकः
मूत्रमावृत्य गृह्णाति मूत्रशूलः स मारुतात् १३५
वायुः प्रकुपितो यस्य रूक्षाहारस्य देहिनः
मलं रुणद्धि कोष्ठस्थं मन्दीकृत्य तु पावकम् १३६
शूलं संजनयंस्तीव्रं स्नोतांस्यावृत्य तस्य हि
दक्षिणं यदि वा वामं कुक्षिमादाय जायते १३७
सर्वत्र वर्धते क्षिप्रं भ्रमन्नथ सघोषवान्
पिपासा वर्धते तीव्रा भ्रमो मूर्च्छा च जायते १३८
उच्चारितो मूत्रितश्च न शान्तिमधिगच्छति
विट्शूलमेतज्जानीयाद्भिषक् परमदारुणम् १३९
क्षिप्रं दोषहरं कार्यं भिषजा साधु जानता
स्वेदनं शमनं चैव निरूहाः स्नेहबस्तयः १४०
पूर्वोद्दिष्टान् पाययेत योगान् कोष्ठविशोधनान्
उदावर्तहराश्चास्य क्रियाः सर्वाः सुखावहाः १४१
अतिमात्रं यदा भुक्तं पावके मृदुतां गते
स्थिरीभूतं तु तत्कोष्ठे वायुरावृत्य तिष्ठति १४२
अविपाकगतं ह्यन्नं शूलं तीव्रं करोत्यति
मूर्च्छाऽऽध्मानं विदाहश्च हृदुत्क्लेशो विलम्बिका
विरिच्यते छर्दयति कम्पतेऽथ विमुह्यति
अविपाकाद्भवेच्छूलस्त्वन्नदोषसमुद्भवः १४४
वमनं लङ्घनं स्वेदः पाचनं फलवर्तयः
क्षाराश्चूर्णानि गुटिकाः शस्यन्ते शूलनाशनाः १४५
गुल्मावस्थाः क्रियाः कार्या यथावत् सर्वशूलिनाम्
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे गुल्मप्रतिषधो नाम द्विचत्वारिंशोऽध्यायः ४२
त्रिचत्वारिंशत्तमोऽध्यायः
अथातो हृद्रो गप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वेगाघातोष्णरूक्षान्नैरतिमात्रोपसेवितैः
विरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि भोजनैः ३
दूषयित्वा रसं दोषा विगुणा हृदयं गताः
कुर्वन्ति हृदये बाधां हृद्रो गं तं प्रचक्षते ४
चतुर्विधः स दोषैः स्यात् कृमिभिश्च पृथक् पृथक्
लक्षणं तस्य वक्ष्यामि चिकित्सितमनन्तरम् ५
आयम्यते मारुतजे हृदयं तुद्यते तथा
निर्मथ्यते दीर्यते च स्फोट्यते पाट्यतेऽपि च ६
तृष्णोषादाहचोषाः स्युः पैत्तिके हृदयक्लमः
धूमायनं च मूर्च्छा च स्वेदः शोषो मुखस्य च ७
गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम्
माधुर्यमपि चाऽऽस्यस्य बलासावतते हृदि ८
उत्क्लेशः ष्ठीवनं तोदः शूलो हृल्लासकस्तमः
अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत् ९
भ्रमक्लमौ सादशोषौ ज्ञेयास्तेषामुपद्र वाः
कृमिजे कृमिजातीनां श्लैष्मिकाणां च ये मताः १०
वातोपसृष्टे हृदये वामयेत् स्निग्धमातुरम्
द्विपञ्चमूलक्वाथेन सस्नेहलवणेन तु ११
पिप्पल्येलावचाहिङ्गुयवभस्मानि सैन्धवम्
सौवर्चलमथो शुण्ठीमजमोदां च चूर्णितम् १२
फलधान्याम्लकौलत्थदधिमद्यासवादिभिः
पाययेत विशुद्धं च स्नेहेनान्यतमेन वा १३
भोजयेज्जीर्णशाल्यन्नं जाङ्गलैः सघृतै रसैः
वातघ्नसिद्धं तैलं च दद्याद्बस्तिं प्रमाणतः १४
श्रीपर्णीमधुकक्षौद्र सितोत्पलजलैर्वमेत्
पित्तोपसृष्टे हृदये सेवेत मधुरैः शृतम् १५
घृतं कषायांश्चोद्दिष्टान् पित्तज्वरविनाशनान्
तृप्तस्य च रसैर्मुख्यैर्मधुरैः सघृतैर्भिषक् १६
सक्षौद्रं वितरेद्बस्तौ तैलं मधुकसाधितम्
वचानिम्बकषायाभ्यां वान्तं हृदि कफात्मके १७
चूर्णं तु पाययेतोक्तं वातजे भोजयेच्च तम्
फलादिमथ मुस्तादिं त्रिफलां वा पिबेन्नरः १८
श्यामात्रिवृत्कल्कयुतं घृतं वाऽपि विरेचनम्
बलातैलैर्विदध्याच्च बस्तिं बस्तिविशारदः १९
कृमिहृद्रो गिणं स्निग्धं भोजयेत् पिशितौदनम्
दध्ना च पललोपेतं त्र्यहं पश्चाद्विरेचयेत् २०
सुगन्धिभिः सलवणैर्योगैः साजाजिशर्करैः
विडङ्गगाढं धान्याम्लं पाययेताप्यनन्तरम् २१
हृदयस्थाः पतन्त्येवमधस्तात् क्रिमयो नृणाम्
यवान्नं वितरेच्चास्य सविडङ्गमतः परम् २२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हृद्रो गप्रतिषेधो नाम त्रिचत्वारिंशोऽध्यायः ४३
चतुश्चत्वारिंशत्तमोऽध्यायः
अथातः पाण्डुरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
व्यवायमम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम्
निषेवमाणस्य विदूष्य रक्तं कुर्वन्ति दोषास्त्वचि पाण्डुभावम् ३
पाण्ड्वामयोऽष्टार्धविधः प्रदिष्टः पृथक्समस्तैर्युगपच्च दोषैः
सर्वेषु चैतेष्विह पाण्डुभावो यतोऽधिकोऽतः खलु पाण्डुरोगः ४
त्वक्स्फोटनं ष्ठीवनगात्रसादौ मृद्भक्षणं प्रेक्षणकूटशोथः
विण्मूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ५
स कामलापानकिपाण्डुरोगः कुम्भाह्वयो लाघरकोऽलसाख्यः
विभाष्यते लक्षणमस्य कृत्स्नं निबोध वक्ष्याम्यनुपूर्वशस्तत् ६
कृष्णेक्षणं कृष्णसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च
वातेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्र वैश्च ७
पीतेक्षणं पीतसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च
पित्तेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्र वैश्च ८
शुक्लेक्षणं शुक्लसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च
कफेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्र वैश्च ९
सर्वात्मके सर्वमिदं व्यवस्येद्वक्ष्यामि लिङ्गान्यथ कामलायाः
यो ह्यामयान्ते सहसाऽन्नमम्लमद्यादपथ्यानि च तस्य पित्तम् १०
करोति पाण्डुं वदनं विशेषात् पूर्वेरितौ तन्द्रि बलक्षयौ च
भेदस्तु तस्याः खलु कुम्भसाह्वः शोफो महांस्तत्र च पर्वभेदः ११
ज्वराङ्गमर्दभ्रमसादतन्द्रा क्षयान्वितो लाघरकोऽलसाख्यः
तं वातपित्ताद्धरिपीतनीलं हलीमकं नाम वदन्ति तज्ज्ञाः १२
उपद्र वास्तेष्वरुचिः पिपासा छर्दिर्ज्वरो मूर्धरुजाऽग्निसादः
शोफस्तथा कण्ठगतोऽबलत्वं मूर्च्छा क्लमो हृद्यवपीडनं च १३
साध्यं तु पाण्ड्वामयिनं समीक्ष्य स्निग्धं घृतेनोर्ध्वमधश्च शुद्धम्
संपादयेत् क्षौद्र घृतप्रगाढैर्हरीतकीचूर्णयुतैः प्रयोगैः १४
पिबेद्घृतं वा रजनीविपक्वं यत्त्रैफलं तैल्वकमेव वाऽपि
विरेचनद्र व्यकृतं पिबेद्वा योगांश्च वैरेचनिकान् घृतेन १५
मूत्रे निकुम्भार्धपलं विपाच्य पिबेदभीक्ष्णं कुडवार्धमात्रम्
खादेद्गुडं वाऽप्यभयाविपक्वमारग्वधादिक्वथितं पिबेद्वा १६
अयोरजोव्योषविडङ्गचूर्णं लिह्याद्धरिद्रां त्रिफलान्वितां वा
सर्पिर्मधुभ्यां विदधीत वाऽपि शास्त्रप्रदेशाभिहितांश्च योगान् १७
हरेच्च दोषान् बहुशोऽल्पमात्रान् श्वयेद्धि दोषेष्वतिनिर्हृतेषु
धात्रीफलानां रसमिक्षुजं च मन्थं पिबेत् क्षौद्र युतं हिताशी १८
उमे बृहत्यौ रजनीं शुकाख्यां काकादनीं चापि सकाकमाचीम्
आदारिबिम्बीं सकदम्बपुष्पीं विपाच्य सर्पिर्विपचेत् कषाये १९
तत् पाण्डुतां हन्त्युपयुज्यमानं क्षीरेण वा मागधिका यथाग्नि
हितं च यष्टीमधुजं कषायं चूर्णं समं वा मधुनाऽवलिह्यात् २०
गोमूत्रयुक्तं त्रिफलादलानां दत्त्वाऽऽयसं चूर्णमनल्पकालम्
प्रवालमुक्ताञ्जनशङ्खचूर्णं लिह्यात्तथा काञ्चनगैरिकोत्थम् २१
आजं शकृत्स्यात् कुडवप्रमाणं विडं हरिद्रा लवणोत्तमं च
पृथक् पलांशानि समग्रमेतच्चूर्णं हिताशी मधुनाऽवलिह्यात् २२
मण्डूरलोहाग्निविडङ्गपथ्याव्योषांशकः सर्वसमानताप्यः
मूत्रासुतोऽयं मधुनाऽवलेहः पाण्ड्वामयं हन्त्यचिरेण घोरम् २३
बिभीतकायोमलनागराणां चूर्णं तिलानां च गुडश्च मुख्यः
तक्रानुपानो वटकः प्रयुक्तः क्षिणोति घोरानपि पाण्डुरोगान् २४
सौवर्चलं हिङ्गु किराततिक्तं कलायमात्राणि सुखाम्बुना वा
मूर्वाहरिद्रा मलकं च लिह्यात् स्थितं गवां सप्तदिनानि मूत्रे २५
मूलं बलाचित्रकयोः पिबेद्वा पाण्ड्वामयार्तोऽक्षसमं हिताशी
सुखाम्बुना वा लवणेन तुल्यं शिग्रोः फलं क्षीरभुजोपयोज्यम् २६
न्यग्रोधवर्गस्य पिबेत् कषायं शीतं सिताक्षौद्र युतं हिताशी
शालादिकं चाप्यथ सारचूर्णं धात्रीफलं वा मधुनाऽवलिह्यात् २७
विडङ्गमुस्तत्रिफलाजमोदपरूषकव्योषविनिर्दहन्यः
चूर्णानि कृत्वा गुडशर्करे च तथैव सर्पिर्मधुनी शुभे च २८
संभारमेतद्विपचेन्निधाय सारोदके सारवतो गणस्य
जातं च लेह्यं मतिमान् विदित्वा निधापयेन्मोक्षकजे समुद्गे २९
हन्त्येष लेहः खलु पाण्डुरोगं सशोथमुग्रामपि कामलां च
सशर्करा कामलिनां त्रिभण्डी हिता गवाक्षी सगुडा च शुण्ठी ३०
कालेयके चापि घृतं विपक्वं हितं च तत् स्याद्र जनीविमिश्रम्
धातुं नदीजं जतु शैलजं वा कुम्भाह्वये मूत्रयुतं पिबेद्वा ३१
मूत्रे स्थितं सैन्धवसंप्रयुक्तं मासं पिबेद्वाऽपि हि लोहकिट्टम्
दग्ध्वाऽक्षकाष्ठैर्मलमायसं वा गोमूत्रनिर्वापितमष्टवारान् ३२
विचूर्ण्य लीढं मधुनाऽचिरेण कुम्भाह्वयं पाण्डुगदं निहन्यात्
सिन्धूद्भवं वाऽग्निसमं च कृत्वा क्षिप्त्वा च मूत्रे सकृदेव तप्तम् ३३
लौहं च किट्टं बहुशश्च तप्त्वा निर्वाप्य मूत्रे बहुशस्तथैव
एकीकृतं गोजलपिष्टमेतदैकध्यमावाप्य पचेदुखायाम् ३४
यथा न दह्येत तथा विशुष्कं चूर्णीकृतं पेयमुदश्विता तत्
तक्रौदनाशी विजयेत रोगं पाण्डुं तथा दीपयतेऽनलं च ३५
द्रा क्षागुडूच्यामलकीरसैश्च सिद्धं घृतं लाघरके हितं च
गौडानरिष्टान् मधुशर्कराश्च मूत्रासवान् क्षारकृतांस्तथैव ३६
स्निग्धान् रसानामलकैरुपेतान् कोलान्वितान् वाऽपि हि जाङ्गलानाम्
सेवेत शोफाभिहितांश्च योगान् पाण्ड्वामयी शालियवांश्च नित्यम् ३७
श्वासातिसारारुचिकासमूर्च्छातृट्छर्दिशूलज्वरशोफदाहान्
तथाऽविपाकस्वरभेदसादान् जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम् ३८
अन्तेषु शूनं परिहीनमध्यं म्लानं तथाऽन्तेषु च मध्यशूनम्
गुदे च शेफस्यथ मुष्कशूनं प्रताम्यमानं च विसंज्ञकल्पम् ३९
विवर्जयेत् पाण्डुकिनं यजोऽर्थी तथाऽतिसारज्वरपीडितं च ४०
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे पाण्डुरोगप्रतिषेधो नाम चतुश्चत्वारिंशत्तमोऽध्यायः ४४
पञ्चचत्वारिंशत्तमोऽध्यायः
अथातो रक्तपित्तप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
क्रोधशोकभयायासविरुद्धान्नातपानलान्
कट्वम्ललवणक्षारतीक्ष्णोष्णातिविदाहिनः ३
नित्यमभ्यसतो दुष्टो रसः पित्तं प्रकोपयेत्
विदग्धं स्वगुणैः पित्तं विदहत्याशु शोणितम् ४
ततः प्रवर्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा
आमाशयाद्व्रजेदूर्ध्वमधः पक्वाशयाद्व्रजेत् ५
विदग्धयोर्द्वयोश्चापि द्विधाभागं प्रवर्तते
केचित् सयकृतः प्लीह्नः प्रवदन्त्यसृजो गतिम् ६
ऊर्ध्वं साध्यमधोयाप्यमसाध्यं युगपद्गतम्
सदनं शीतकामित्वं कण्ठधूमायनं वमिः ७
लोहगन्धिश्च निःश्वासो भवत्यस्मिन् भविष्यति
बाह्यासृग्लक्षणैस्तस्य सङ्ख्यादोषोच्छ्रितीर्विदुः ८
दौर्बल्यश्वासकासज्वरवमथुमदास्तन्द्रि तादाहमूर्च्छा
भुक्ते चान्ने विदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा
तृष्णा कण्ठस्य भेदः शिरसि च दवनं पूतिनिष्ठीवनं च
द्वेषो भक्तेऽविपाको विरतिरपि रते रक्तपित्तोपसर्गाः ९
मांसप्रक्षालनाभं क्वथितमिव च यत् कर्दमाम्भोनिभं वा
मेदःपूयास्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम्
यत् कृष्णं यच्च नीलं भृशमतिकुणपं यत्र चोक्ता विकारा-
स्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति १०
नादौ संग्राह्यमुद्रि क्तं यदसृग्बलिनोऽश्नतः
तत् पाण्डुग्रहणीकुष्ठप्लीहगुल्मज्वरावहम् ११
अधःप्रवृत्तं वमनैरूर्ध्वगं च विरेचनैः
जयेदन्यतरद्वाऽपि क्षीणस्य शमनैरसृक् १२
अतिप्रवृद्धदोषस्य पूर्वं लोहितपित्तिनः
अक्षीणबलमांसाग्नेः कर्तव्यमपतर्पणम् १३
लङ्घितस्य ततः पेयां विदध्यात् स्वल्पतण्डुलाम्
रसयूषौ प्रदातव्यौ सुरभिस्नेहसंस्कृतौ
तर्पणं पाचनं लेहान् सर्पींषि विविधानि च १४
द्रा क्षामधुककाश्मर्यसितायुक्तं विरेचनम्
यष्टीमधुकयुक्तं च सक्षौद्रं वमनं हितम् १५
पयांसि शीतानि रसाश्च जाङ्गलाः सतीनयूषाश्च सशालिषष्टिकाः
पटोलशेलूसुनिषण्णयूथिकावटातिमुक्ताङ्कुरसिन्दुवारजम् १६
हितं च शाकं घृतसंस्कृतं सदा तथैव धात्रीफलदाडिमान्वितम्
रसाश्च पारावतशङ्खकूर्मजास्तथा यवाग्वो विहिता घृतोत्तराः १७
सन्तानिकाश्चोत्पलवर्गसाधिते क्षीरे प्रशस्ता मधुशर्करोत्तराः
हिमाः प्रदेहा मधुरा गणाश्च ये घृतानि पथ्यानि च रक्तपित्तिनाम् १८
मधूकशोभाञ्जनकोविदारजैः प्रियङ्गुकायाः कुसुमैश्च चूर्णितैः
भिषग्विदध्याच्चतुरः समाक्षिकान् हिताय लेहानसृजः प्रशान्तये १९
लिह्याच्च दूर्वावटजांश्च पल्लवान् मधुद्वितीयान् सितकर्णिकस्य च
हितं च खर्जूरफलं समाक्षिकं फलानि चान्यान्यपि तद्गुणान्यथ २०
रक्तातिसारप्रोक्तांश्च योगानत्रापि योजयेत्
शुद्धेक्षुकाण्डमापोथ्य नवे कुम्भे हिमाम्भसा २१
योजयित्वा क्षिपेद्रा त्रावाकाशे सोत्पलं तु तत्
प्रातः स्रुतं क्षौद्र युतं पिबेच्छोणितपित्तवान् २२
पिबेच्छीतकषायं वा जम्ब्वाम्रार्जुनसंभवम्
उदुम्बरफलं पिष्ट्वा पिबेत्तद्र समेव वा २३
त्रपुषीमूलकल्कं वा सक्षौद्रं तण्डुलाम्बुना
पिबेदक्षसमं कल्कं यष्टीमधुकमेव वा २४
चन्दनं मधुकं रोध्रमेवमेव समं पिबेत्
करञ्जबीजमेवं वा सिताक्षौद्र युतं पिबेत् २५
मज्जानमिङ्गुदस्यैवं पिबेन्मधुकसंयुतम्
सुखोष्णं लवणं बीजं कारञ्जं दधिमस्तुना २६
पिबेद्वाऽपि त्र्यहं मर्त्यो रक्तपित्ताभिपीडितः
रक्तपित्तहराः शस्ताः षडेते योगसत्तमाः २७
पथ्याश्चैवावपीडेषु घ्राणतः प्रस्रुतेऽसृजि
अतिनिस्रुतरक्तो वा क्षौद्र युक्तं पिबेदसृक्
यकृद्वा भक्षयेदाजमामं पित्तसमायुतम् २८
पलाशवृक्षस्वरसे विपक्वं सर्पिः पिबेत् क्षौद्र युतं सुशीतम्
वनस्पतीनां स्वरसैः कृतं वा सशर्करं क्षीरघृतं पिबेद्वा २९
द्रा क्षामुशीराण्यथ पद्मकं सिता पृथक्पलांशान्युदके समावपेत्
स्थितं निशां तद्रुधिरामयं जयेत् पीतं पयो वाऽम्बुसमं हिताशिनः ३०
तुरङ्गवर्चःस्वरसं समाक्षिकं पिबेत् सिताक्षौद्र युतं वृषस्य वा
लिहेत्तथा वास्तुकबीजचूर्णं क्षौद्रा न्वितं तण्डुलसाह्वयं वा ३१
लिह्याच्च लाजाञ्जनचूर्णमेकमेवं सिताक्षौद्र युतां तुगाख्याम्
द्रा क्षां सितां तिक्तकरोहिणीं च हिमाम्बुना वा मधुकेन युक्ताम् ३२
पथ्यामहिंस्रां रजनीं घृतं च लिह्यात्तथा शोणितपित्तरोगी
वासाकषायोत्पलमृत्प्रियङ्गुरोध्राञ्जनाम्भोरुहकेशराणि ३३
पीत्वा सिताक्षौद्र युतानि जह्यात् पित्तासृजो वेगमुदीर्णमाशु
गायत्रिजम्ब्वर्जुनकोविदारशिरीषरोध्राशनशाल्मलीनाम् ३४
पुष्पाणि शिग्रोश्च विचूर्ण्य लेहो मध्वन्वितः शोणितपित्तरोगे
सक्षौद्र मिन्दीवरभस्मवारि करञ्जबीजं मधुसर्पिषी च ३५
जम्ब्वर्जुनाम्रक्वथितं च तोयं घ्नन्ति त्रयः पित्तमसृक् च योगाः
मूलानि पुष्पाणि च मातुलुङ्ग्याः पिष्ट्वा पिबेत्तण्डुलधावनेन ३६
घ्राणप्रवृत्ते जलमाशु देयं सशर्करं नासिकया पयो वा
द्रा क्षारसं क्षीरघृतं पिबेद्वा सशर्करं चेक्षुरसं हिमं वा ३७
शीतोपचारं मधुरं च कुर्याद्विशेषतः शोणितपित्तरोगे
द्रा क्षाघृतक्षौद्र सितायुतेन विदारिगन्धादिविपाचितेन ३८
क्षीरेण चास्थापनमग्र्यमुक्तं हितं घृतं चाप्यनुवासनार्थम्
प्रियङ्गुरोध्राञ्जनगैरिकोत्पलैः सुवर्णकालीयकरक्तचन्दनैः ३९
सिताश्वगन्धाम्बुदयष्टिकाह्वयैर्मृणालसौगन्धिकतुल्यपेषितैः
निरूह्य चैनं पयसा समाक्षिकैर्घृतप्लुतैः शीतजलावसेचितम् ४०
क्षीरौदनं भुक्तमथानुवासयेद्धृतेन यष्टीमधुसाधितेन च
अधोवहं शोणितमेष नाशयेत्तथाऽतिसारं रुधिरस्य दुस्तरम् ४१
विरेकयोगे त्वति चैव शस्यते
वाम्यश्च रक्ते विजिते बलान्वितः ४२
एवंविधा उत्तरबस्तयश्च मूत्राशयस्थे रुधिरे विधेयाः
प्रवृत्तरक्तेषु च पायुजेषु कुर्याद्विधानं खलु रक्तपैत्तम् ४३
विधिश्चासृग्दरेऽप्येष स्त्रीणां कार्यो विजानता
शस्त्रकर्मणि रक्तं च यस्यातीव प्रवर्तते ४४
त्रयाणामपि दोषाणां शोणितेऽपि च सर्वशः
लिङ्गान्यालोक्य कर्तव्यं चिकित्सितमनन्तरम् ४५
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे रक्तपित्तप्रतिषेधो नाम पञ्चचत्वारिंशत्तमोऽध्यायः ४५
षट्चत्वारिंशत्तमोऽध्यायः
अथातो मूर्च्छाप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः
वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः ३
करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च
निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः ४
हृत्पीडा जृम्भणं ग्लानिः संज्ञानाशो बलस्य च
सर्वासां पूर्वरूपाणि यथास्वं ता विभावयेत् ५
संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः
तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ६
सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत्
मोहो मूर्च्छेति तां प्राहुः षड्विधा सा प्रकीर्तिता ७
वातादिभिः शोणितेन मद्येन च विषेण च
षट्स्वप्येतासु पित्तं हि प्रभुत्वेनावतिष्ठते ८
अपस्मारोक्तलिङ्गानि तासामुक्तानि तत्त्वतः
पृथिव्यम्भस्तमोरूपं रक्तगन्धश्च तन्मयः ९
तस्माद्र क्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः
द्र व्यस्वभाव इत्येके दृष्ट्वा यदभिमुह्यति १०
गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः
त एव तस्माज्जायेत मोहस्ताभ्यां यथेरितः ११
स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्च्छितः
मद्येन विलपंश्छेते नष्टविभ्रान्तमानसः
गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत् १२
वेपथुस्वप्नतृष्णाः स्युः स्तम्भश्च विषमूर्च्छिते
वेदितव्यं तीव्रतरं यथास्वं विषलक्षणैः १३
सेकावगाहौ मणयः सहाराः शीताः प्रदेहा व्यजनानिलाश्च
शीतानि पानानि च गन्धवन्ति सर्वासु मूर्च्छास्वनिवारितानि १४
सिताप्रियालेक्षुरसप्लुतानि द्रा क्षामधूकस्वरसान्वितानि
खर्जूरकाश्मर्यरसैः शृतानि पानानि सर्पींषि च जीवनानि १५
सिद्धानि वर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च
तथा यवा लोहितशालयश्च मूर्च्छासु पथ्याश्च सदा सतीनाः १६
भुजङ्गपुष्पं मरिचान्युशीरं कोलस्य मध्यं च पिबेत् समानि
शीतेन तोयेन बिसं मृणालं क्षौद्रे ण कृष्णां सितया च पथ्याम् १७
कुर्याच्च नासावदनावरोधं क्षीरं पिबेद्वाऽप्यथ मानुषीणाम्
मूर्च्छां प्रसक्तां तु शिरोविरेकैर्जयेदभीक्ष्णं वमनैश्च तीक्ष्णैः १८
हरीतकीक्वाथशृतं घृतं वा धात्रीफलानां स्वरसैः कृतं वा
द्रा क्षासितादाडिमलाजवन्ति शीतानि नीलोत्पलपद्मवन्ति १९
पिबेत् कषायाणि च गन्धवन्ति पित्तज्वरं यानि शमं नयन्ति
प्रभूतदोषस्तमसोऽतिरेकात् संमूर्च्छितो नैव विबुध्यते यः २०
संन्यस्तसंज्ञो भृशदुश्चिकित्स्यो ज्ञेयस्तदा बुद्धिमता मनुष्यः
यथाऽऽमलोष्टं सलिले निषिक्तं समुद्धरेदाश्वविलीनमेव २१
तद्वच्चिकित्सेत्त्वरया भिषक्तमस्वेदनं मृत्युवशं प्रयातम्
तीक्ष्णाञ्जनाभ्यञ्जनधूमयोगैस्तथा नखाभ्यन्तरतोत्रपातैः २२
वादित्रगीतानुनयैरपूर्वैर्विघट्टनैर्गुप्तफलावघर्षैः
आभिः क्रियाभिश्च न लब्धसंज्ञः सानाहलालाश्वसनश्च वर्ज्यः २३
प्रबुद्धसंज्ञं वमनानुलोम्यैस्तीक्ष्णैर्विशुद्धं लघुपथ्यभुक्तम्
फलत्रिकैश्चित्रकनागराढ्यैस्तथाऽश्मजाताज्जतुनः प्रयोगैः
सशर्करैर्मासमुपक्रमेत विशेषतो जीर्णघृतं स पाय्यः २४
यथास्वं च ज्वरघ्नानि कषायाण्युपयोजयेत्
सर्वमूर्च्छापरीतानां विषजायां विषापहम् २५
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूर्च्छाप्रतिषेधो नाम षट्चत्वारिंशत्तमोऽध्यायः ४६
सप्तचत्वारिंशत्तमोऽध्यायः
अथातः पानात्ययप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव च
रूक्षमाशुकरं चैव व्यवायि च विकाशि च ३
औष्ण्याच्छीतोपचारं तत्तैक्ष्ण्याद्धन्ति मनोगतिम्
विशत्यवयवान् सौक्ष्म्याद्वैशद्यात्कफशुक्रनुत् ४
मारुतं कोपयेद्रौ क्ष्यादाशुत्वाच्चाशुकर्मकृत्
हर्षदं च व्यवायित्वाद्विकाशित्वाद्विसर्पति ५
तदम्लं रसतः प्रोक्तं लघु रोचनदीपनम्
केचिल्लवणवर्ज्यांस्तु रसानत्रादिशन्ति हि ६
स्निग्धैस्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम्
भवेदायुःप्रकर्षाय बलायोपचयाय च ७
काम्यता मनसस्तुष्टिर्धैर्यं तेजोऽतिविक्रमः
विधिवत् सेव्यमाने तु मद्ये सन्निहिता गुणाः ८
तदेवानन्नमज्ञेन सेव्यमानममात्रया
कायाग्निना ह्यग्निसमं समेत्य कुरुते मदम् ९
मदेन करणानां तु भावान्यत्वे कृते सति
निगूढमपि भावं स्वं प्रकाशीकुरुतेऽवशः १०
त्र्यवस्थश्च मदो ज्ञेयः पूर्वो मध्योऽथ पश्चिमः
पूर्वे वीर्यरतिप्रीतिहर्षभाष्यादिवर्धनम् ११
प्रलापो मध्यमे मोहो युक्तायुक्तक्रियास्तथा
विसंज्ञः पश्चिमे शेते नष्टकर्मक्रियागुणः १२
श्लैष्मिकानल्पपित्तांश्च स्निग्धान्मात्रोपसेविनः
पानं न बाधतेऽत्यर्थं विपरीतांस्तु बाधते १३
निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम्
उत्पादयेत् कष्टतमान् विकारानापादयेच्चापि शरीरभेदम् १४
क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन
व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि १५
अत्यम्लभक्ष्यावततोदरेण साजीर्णभुक्तेन तथाऽबलेन
उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान् विकारान् १६
पानात्ययं परमदं पानाजीर्णमथापि वा
पानविभ्रममुग्रं च तेषां वक्ष्यामि लक्षणम् १७
स्तम्भाङ्गमर्दहृदयग्रहतोदकम्पाः पानात्ययेऽनिलकृते शिरसो रुजश्च
स्वेदप्रलापमुखशोषणदाहमूर्च्छाः पित्तात्मके वदनलोचनपीतता च १८
श्लेष्मात्मके वमथुशीतकफप्रसेकाः सर्वात्मके भवति सर्वविकारसंपत्
ऊष्माणमङ्गगुरुतां विरसाननत्वं श्लेष्माधिकत्वमरुचिं मलमूत्रसङ्गम् १९
लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णां रुजां शिरसि सन्धिषु चापि भेदम्
आध्मानमुद्गिरणमम्लरसो विदाहोऽजीर्णस्य पानजनितस्य वदन्ति लिङ्गम् २०
ज्ञेयानि तत्र भिषजा सुविनिश्चितानि पित्तप्रकोपजनितानि च कारणानि
हृद्गात्रतोदवमथुज्वरकण्ठधूममूर्च्छाकफस्रवणमूर्धरुजो विदाहः २१
द्वेषः सुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेन धीराः
हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभास्यमतिपानहतं विजह्यात् २२
जिह्वौष्ठदन्तमसितं त्वथवाऽपि नीलं पीते च यस्य नयने रुधिरप्रभे च
हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं भजन्ते २३
तेषां निवारणमिदं हि मयोच्यमानं व्यक्ताभिधानमखिलेन विधिं निबोध
मद्यं तु चुक्रमरिचार्द्र कदीप्यकुष्ठसौवर्चलायुतमलं पवनस्य शान्त्यै २४
पृथ्वीकदीप्यकमहौषधहिङ्गुभिर्वा सौवर्चलेन च युतं वितरेत् सुखाय
आम्रातकाम्रफलदाडिममातुलुङ्गैः कुर्याच्छुभान्यपि च षाडवपानकानि २५
सेवेत वा फलरसोपहितान् रसादीनानूपवर्गपिशितान्यपि गन्धवन्ति
पित्तात्मके मधुरवर्गकषायमिश्रं मद्यं हितं समधुशर्करमिष्टगन्धम् २६
पीत्वा च मद्यमपि चेक्षुरसप्रगाढं निःशेषतः क्षणमवस्थितमुल्लिखेच्च
लावैणतित्तिरिरसांश्च पिबेदनम्लान् मौद्गान् सुखाय सघृतान् ससितांश्च यूषान् २७
पानात्यये कफकृते कफमुल्लिखेच्च मद्येन बिम्बिविदुलोदकसंयुतेन
सेवेत तिक्तकटुकांश्च रसानुदारान् यूषांश्च तिक्तकटुकोपहितान् हिताय २८
पथ्यं यवान्नविकृतानि च जाङ्गलानि श्लेष्मघ्नमन्यदपि यच्च निरत्ययं स्यात्
कुर्याच्च सर्वमथ सर्वभवे विधानं द्वन्द्वोद्भवे द्वयमवेक्ष्य यथाप्रधानम् २९
सामान्यमन्यदपि यच्च समग्रमग्र्यं वक्ष्यामि यच्च मनसो मदकृत् सुखं च
त्वङ्गागपुष्पमगधैलमधूकधान्यैः श्लक्ष्णैरजाजिमरिचैश्च कृतं समांशैः ३०
पानं कपित्थरसवारिपरूषकाढ्यं पानात्ययेषु विधिवत्स्रुतमम्बरान्ते
ह्रीवेरपद्मपरिपेलवसंप्रयुक्तैः पुष्पैर्विलिप्य करवीरजलोद्भवैश्च ३१
पिष्टैः सपद्मकयुतैरपि सारिवाद्यैः सेकं जलैश्च वितरेदमलैः सुशीतैः
त्वक्पत्रचोचमरिचैलभुजङ्गपुष्पश्लेष्मातकप्रसववल्कगुडैरुपेतम् ३२
द्रा क्षायुतं हृतमलं मदिरामयार्तैस्तत्पानकं शुचि सुगन्धि नरैर्निषेव्यम्
पिष्ट्वा पिबेच्च मधुकं कटुरोहिणीं च द्रा क्षां च मूलमसकृत् त्रपुषीभवं यत् ३३
कार्पासिनीमथ च नागबलां च तुल्यां
पीत्वा सुखी भवति साधु सुवर्चलां च
काश्मर्यदारुविडदाडिमपिप्पलीषु
द्रा क्षान्वितासु कृतमम्बुनि पानकं यत् ३४
तद्बीजपूरकरसायुतमाशु पीतं शान्तिं परां परमदे त्वचिरात् करोति
द्रा क्षासितामधुकजीरकधान्यकृष्णास्वेवं कृतं त्रिवृतया च पिबेत्तथैव ३५
सौवर्चलायुतमुदाररसं फलाम्लं
भार्गीशृतेन च जलेन हितोऽवसेकः ३६
इक्ष्वाकुधामार्गववृक्षकाणि काकाह्वयोदुम्बरिकाश्च दुग्धे
विपाच्य तस्याञ्जलिना वमेद्धि मद्यं पिबेच्चाह्नि गते त्वजीर्णे ३७
त्वक्पिप्पलीभुजगपुष्पविडैरुपेतं
सेवेत हिङ्गुमरिचैलयुतं फलाम्लम्
उष्णाम्बुसैन्धवयुतास्त्वथवा विडत्वक्-
चव्यैलहिङ्गुमगधाफलमूलशुण्ठीः ३८
हृद्यैः खडैरपि च भोजनमत्र शस्तं द्रा क्षाकपित्थफलदाडिमपानकं यत्
तत् पानविभ्रमहरं मधुशर्कराढ्यमाम्रातकोलरसपानकमेव चापि ३९
खर्जूरवेत्रककरीरपरूषकेषु द्रा क्षात्रिवृत्सु च कृतं ससितं हिमं वा
श्रीपर्णियुक्तमथवा तु पिबेदिमानि यष्ट्याह्वयोत्पलहिमाम्बुविमिश्रितानि ४०
क्षीरिप्रवालबिसजीरकनागपुष्पपत्रैलवालुसितसारिवपद्मकानि
आम्रातभव्यकरमर्दकपित्थकोलवृक्षाम्लवेत्रफलजीरकदाडिमानि ४१
सेवेत वा मरिचजीरकनागपुष्पत्वक्पत्रविश्वचविकैलयुतान् रसांश्च
सूक्ष्माम्बरस्रुतहिमांश्च सुगन्धिगन्धान् पानोद्भवान्नुदति सप्तगदानशेषान् ४२
पञ्चेन्द्रि यार्थविषया मृदुपानयोगा हृद्याः सुखाश्च मनसः सततं निषेव्याः
पानात्ययेषु विकटोरुनितम्बवत्यः पीनोन्नतस्तनभरानतमध्यदेशाः ४३
प्रौढाः स्त्रियोऽभिनवयौवनपीनगात्र्यः
सेव्याश्च पञ्चविषयातिशयस्वभावाः ४४
पिबेद्र सं पुष्पफलोद्भवं वा सितामधूकत्रिसुगन्धियुक्तम्
संचूर्ण्य संयोज्य च नागपुष्पैरजाजिकृष्णामरिचैश्च तुल्यैः ४५
वर्षाभूयष्ट्याह्वमधूकलाक्षात्वक्कर्बुदाराङ्कुरजीरकाणि
द्रा क्षां च कृष्णामथ केशरं च क्षीरे समालोड्य पिबेत् सुखेप्सुः ४६
भवेच्च मद्येन तु येन पातितः प्रकामपीतेन सुरासवादिना
तदेव तस्मै विधिवत् प्रदापयेद्विपर्यये भ्रंशमवश्यमृच्छति ४७
यथा नरेन्द्रो पहतस्य कस्यचिद्भवेत् प्रसादस्तत एव नान्यतः
ध्रुवं तथा मद्यहतस्य देहिनो भवेत् प्रसादस्तत एव नान्यतः ४८
विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते
तस्य पानात्ययोद्दिष्टा विकाराः संभवन्ति हि ४९
मद्यस्याग्नेयवायव्यौ गुणावम्बुवहानि तु
स्रोतांसि शोषयेयातां तेन तृष्णोपजायते ५०
पाटलोत्पलकन्देषु मुद्गपर्ण्यां च साधितम्
पिबेन्मागधिकोन्मिश्रं तत्राम्भो हिमशीतलम् ५१
सर्पिस्तैलवसामज्जदधिभृङ्गरसैर्युतम्
क्वाथेन बिल्वयवयोः सर्वगन्धैश्च पेषितैः ५२
पक्वमभ्यञ्जने श्रेष्ठं सेके क्वाथश्च शीतलः
रसवन्ति च भोज्यानि यथास्वमवचारयेत् ५३
पानकानि सुशीतानि हृद्यानि सुरभीणि च
त्वचं प्राप्तस्तु पानोष्मा पित्तरक्ताभिमूर्च्छितः
दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् ५४
शीतं विधानमत ऊर्ध्वमहं प्रवक्ष्ये दाहप्रशान्तिकरमृद्धिमतां नराणाम्
तत्रादितो मलयजेन हितः प्रदेहश्चन्द्रांशुहारतुहिनोदकशीतलेन ५५
शीताम्बुशीतलतरैश्च शयानमेनं हारैर्मृणालवलयैरबलाः स्पृशेयुः
भिन्नोत्पलोज्ज्वलहिमे शयने शयीत पत्रेषु वा सजलबिन्दुषु पद्मिनीनाम् ५६
आसादयन् पवनमाहृतमङ्गनाभिः कह्लारपद्मदलशैवलसंचयेषु
कान्तैर्वनान्तपवनैः परिमृश्यमानः शक्तश्चरेद्भवनकाननदीर्घिकासु ५७
दाहभिभूतमथवा परिषेचयेत्तु लामज्जकाम्बुरुहचन्दनतोयतोयैः
विस्रावितां हृतमलां नववारिपूर्णां पद्मोत्पलाकुलजलामधिवासिताम्बुम् ५८
वापीं भजेत हरिचन्दनभूषिताङ्गः कान्ताकरस्पृशनकर्कशरोमकूपः
तत्रैनमम्बुरुहपत्रसमैः स्पृशन्त्यः शीतैः करोरुवदनैः कठिनैः स्तनैश्च ५९
तोयावगाहकुशला मधुरस्वभावाः संहर्षयेयुरबलाः सुकलैः प्रलापैः
धारागृहे प्रगलितोदकदुर्दिनाभे क्लान्तः शयीत सलिलानिलशीतकुक्षौ ६०
गन्धोदकैः सकुसुमैरुपसिक्तभूमौ पत्राम्बुचन्दनरसैरुपलिप्तकुड्ये
जात्युत्पलप्रियककेशरपुण्डरीकपुन्नागनागकरवीरकृतोपचारे ६१
तस्मिन् गृहे कमलरेण्वरुणे शयीत यत्नाहृतानिलविकम्पितपुष्पदाम्नि
हेमन्तविन्ध्यहिमवन्मलयाचलानां शीताम्भसां सकदलीहरितद्रुमाणाम् ६२
उद्भिन्ननीलनलिनाम्बुरुहाकराणां चन्द्रो दयस्य च कथाः शृणुयान्मनोज्ञाः
म्लानं प्रतान्तमनसं मनसोऽनुकूलाः पीनस्तनोरुजघना हरिचन्दनाङ्ग्यः ६३
ता एनमार्द्र वसनाः सह संविशेयुः
श्लिष्ट्वाऽवलाः शिथिलमेखलहारयष्ट्यः ६४
हर्षयेयुर्नरं नार्यः स्वगुणै रहसि स्थिताः
ताः शैत्याच्छमयेयुश्च पित्तपानात्ययान्तरम् ६५
तृड्दाहरक्तपित्तेषु कार्योऽयं भेषजक्रमः
सामान्यतो विशेषं तु शृणु दाहेष्वशेषतः ६६
हृत्स्नदेहानुगं रक्तमुद्रि क्तं दहति ह्यति
संचूष्यते दह्यते च ताम्राभस्ताम्रलोचनः ६७
लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते
तं विलङ्घ्य विधानेन संसृष्टाहारमाचरेत् ६८
अप्रशाम्यति दाहे च रसैस्तृप्तस्य जाङ्गलैः
शाखाश्रया यथान्यायं रोहिणीर्व्यधयेत् सिराः ६९
पित्तज्वरसमः पित्तात् स चाप्यस्य विधिर्हितः
तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम् ७०
सबाह्याभ्यन्तरं देहं दहेद्वै मन्दचेतसः
संशुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य चेष्टते ७१
तत्रोपशमयेत्तेजस्त्वब्धातुं च विवर्धयेत्
पाययेत् काममम्भश्च शर्कराढ्यं पयोऽपि वा ७२
शीतमिक्षुरसं मन्थं वितरेच्चेरितं विधिम्
असृजा पूर्णकोष्ठस्य दाहो भवति दुःसहः ७३
विधिः सद्योव्रणीयोक्तस्तस्य लक्षणमेव च
धातुक्षयोक्तो यो दाहस्तेन मूर्च्छातृषान्वितः ७४
क्षामस्वरः क्रियाहीनो भृशं सीदति पीडितः
रक्तपित्तविधिस्तस्य हितः स्निग्धोऽनिलापहः ७५
क्षतजेनाश्नतश्चान्यः शोचतो वाऽप्यनेकधा
तेनान्तर्दह्यतेऽत्यर्थं तृष्णामूर्च्छाप्रलापवान् ७६
तमिष्टविषयोपेतं सुहृद्भिरभिसंवृतम्
क्षीरमांसरसाहारं विधिनोक्तेन साधयेत् ७७
मर्माभिघातजोऽप्यस्ति स चासाध्यतमः स्मृतः
सर्व एव च वर्ज्याः स्युः शीतगात्रेषु देहिषु ७८
एवंविधो भवेद्यस्तु मदिरामयपीडितः
प्रशान्तोपद्र वे चापि शोधनं प्राप्तमाचरेत् ७९
सजीरकाण्यार्द्र कशृङ्गवेरसौवर्चलान्यर्धजलप्लुतानि
मद्यानि हृद्यान्यथ गन्धवन्ति पीतानि सद्यः शमयन्ति तृष्णाम् ८०
जलप्लुतश्चन्दनभूषिताङ्गः स्रग्वी सभक्तां पिशितोपदंशाम्
पिबन् सुरां नैव लभेत रोगान् मनोनुविघ्नं च मदं न याति ८१
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मदात्ययप्रतिषेधो नाम सप्तचत्वारिंशत्तमोऽध्यायः ४७
अष्टचत्वारिंशत्तमोऽध्यायः
अथातस्तृष्णाप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सततं यः पिबेद्वारि न तृप्तिमधिगच्छति
पुनः काङ्क्षति तोयं च तं तृष्णार्दितमादिशेत् ३
संक्षोभशोकश्रममद्यपानाद्रू क्षाम्लशुष्कोष्णकटूपयोगात्
धातुक्षयाल्लङ्घनसूर्यतापात्पित्तं च वातश्च भृशं प्रवृद्धौ ४
स्रोतांसि संदूषयतः समेतौ यान्यम्बुवाहीनि शरीरिणां हि
स्रोतःस्वपांवाहिषु दूषितेषु जायेत तृष्णाऽतिबला ततस्तु ५
तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथाऽन्याऽऽमसमुद्भवा च
स्यात् सप्तमी भक्तनिमित्तजा तु निबोध लिङ्गान्यनुपूर्वशस्तु ६
ताल्वोष्ठकण्ठास्यविशोषदाहाः संतापमोहभ्रमविप्रलापाः
पूर्वाणि रूपाणि भवन्ति तासामुत्पत्तिकालेषु विशेषतस्तु ७
शुष्कास्यता मारुतसंभवायां तोदस्तथा शङ्खशिरःसु चापि
स्रोतोनिरोधो विरसं च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ८
मूर्च्छाप्रलापारुचिवक्त्रशोषाः पीतेक्षणत्वं प्रततश्च दाहः
शीताभिकाङ्क्षा मुखतिक्तता च पित्तात्मिकायां परिधूपनं च ९
कफावृताभ्यामनिलानलाभ्यां कफोऽपि शुष्कः प्रकरोति तृष्णाम्
निद्रा गुरुत्वं मधुरास्यता च तयाऽर्दितः शुष्यति चातिमात्रम् १०
कण्ठोपलेपो मुखपिच्छिलत्वं शीतज्वरश्छर्दिररोचकश्च
कफात्मिकायां गुरुगात्रता च शाखासु शोफस्त्वविपाक एव
एतानि रूपाणि भवन्ति तस्यां तयाऽर्दितः काङ्क्षति नाति चाम्भः ११
क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु
तयाऽभिभूतस्य निशादिनानि गच्छन्ति दुःखं पिबतोऽपि तोयम् १२
रसक्षयाद्या क्षयजा मता सा तयाऽर्दितः शुष्यति दह्यते च
अत्यर्थमाकाङ्क्षति चापि तोयं तां सन्निपातादिति केचिदाहुः १३
रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत्
त्रिदोषलिङ्गाऽऽमसमुद्भवा च हृच्छूलनिष्ठीवनसादयुक्ता १४
स्निग्धं तथाऽम्लं लवणं च भुक्तं गुर्वन्नमेवातितृषां करोति
क्षीणं विचित्तं बधिरं तृषार्तं विवर्जयेन्निर्गतजिह्वमाशु १५
तृष्णाभिवृद्धावुदरे च पूर्णे तं वामयेन्मागाधिकोदकेन
विलोभनं चात्र हितं विधेयं स्याद्दाडिमाम्रातकमातुलुङ्गैः १६
तिस्रः प्रयोगैरिह सन्निवार्याः शीतैश्च सम्यग्रसवीर्यजातैः
गण्डूषमम्लैर्विरसे च वक्त्रे कुर्याच्छुभैरामलकस्य चूर्णैः १७
सुवर्णरूप्यादिभिरग्नितप्तैर्लोष्टैः कृतं वा सिकतादिभिर्वा
जलं सुखोष्णं शमयेत्तु तृष्णां सशर्करं क्षौद्र युतं हिमं वा १८
पञ्चाङ्गिकाः पञ्चगणा य उक्तास्तेष्वम्बु सिद्धं प्रथमे गणे वा
पिबेत् सुखोष्णं मनुजोऽचिरेण तृषो विमुच्येत हि वातजायाः १९
पित्तघ्नवर्गैस्तु कृतः कषायः सशर्करः क्षौद्र युतः सुशीतः
पीतस्तृषां पित्तकृतां निहन्ति क्षीरं शृतं वाऽप्यथ जीवनीयैः २०
बिल्वाढकीकन्यकपञ्चमूलीदर्भेषु सिद्धं कफजां निहन्ति
हितं भवेच्छर्दनमेव चात्र तप्तेन निम्बप्रसवोदकेन २१
सर्वासु तृष्णास्वथवाऽपि पैत्तं कुर्याद्विधिं तेन हि ता न सन्ति
पर्यागतोदुम्बरजो रसस्तु सशर्करस्तत्क्वथितोदकं वा २२
वर्गस्य सिद्धस्य च सारिवादेः पातव्यमम्भः शिशिरं तृषार्तैः
कशेरुशृङ्गाटकपद्ममोचबिसेक्षुसिद्धं क्षतजां निहन्ति २३
लाजोत्पलोशीरकुचन्दनानि दत्त्वा प्रवाते निशि वासयेत्तु
तदुत्तमं तोयमुदारगन्धि सितायुतं क्षौद्र युतं वदन्ति २४
द्रा क्षाप्रगाढं च हिताय वैद्यस्तृष्णार्दितेभ्यो वितरेन्नरेभ्यः
ससारिवादौ तृणपञ्चमूले तथोत्पलादौ प्रथमे गणे च २५
कुर्यात् कषायं च यथेरितेन मधूकपुष्पादिषु चापरेषु
राजादनक्षीरिकपीतनेषु षट् पानकान्यत्र हितानि च स्युः २६
सतुण्डिकेराण्यथवा पिबेत्तु पिष्टानि कार्पाससमुद्भवानि
क्षतोद्भवां रुग्विनिवारणेन जयेद्र सानामसृजश्च पानैः २७
क्षयोत्थितां क्षीरघृतं निहन्यान्मांसोदकं वा मधुकोदकं वा
आमोद्भवां बिल्ववचायुतैस्तु जयेत् कषायैरथ दीपनीयैः २८
आम्रातभल्लातबलायुतानि पिबेत् कषायाण्यथ दीपनानि
गुर्वन्नजातां वमनैर्जयेच्च क्षयादृते सर्वकृतां च तृष्णाम् २९
श्रमोद्भवां मांसरसो निहन्ति गुडोदकं वाऽप्यथवाऽपि मन्थः
भक्तोपरोधात्तृषितो यवागूमुष्णां पिबेन्मन्थमथो हिमं च ३०
या स्नेहपीतस्य भवेच्च तृष्णा तत्रोष्णमम्भः प्रपिबेन्मनुष्यः
मद्योद्भवामर्धजलं निहन्ति मद्यं तृषां याऽपि च मद्यपस्य ३१
तृष्णोद्भवां हन्ति जलं सुशीतं सशर्करं सेक्षुरसं तथाऽम्भः
स्वैः स्वैः कषायैर्वमनानि तासां तथा ज्वरोक्तानि च पाचनानि ३२
लेपावगाहौ परिषेचनानि कुर्यात्तथा शीतगृहाणि चापि
संशोधनं क्षीररसौ घृतानि सर्वासु लेहान्मधुरान् हिमांश्च ३३
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे अष्टचत्वारिंशोऽध्याय ४८
एकोनपञ्चाशत्तमोऽध्यायः
अथातश्छर्दिप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अतिद्र वैरतिस्निग्धैरहृद्यैर्लवणैरति
अकाले चातिमात्रैश्च तथाऽसात्म्यैश्च भोजनैः ३
श्रमात् क्षयात्तथोद्वेगादजीर्णात् कृमिदोषतः
नार्याश्चापन्नसत्त्वायास्तथाऽतिद्रुतमश्नतः ४
अत्यन्तामपरीतस्य छर्देर्वै संभवो ध्रुवम्
बीभत्सैर्हेतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात् ५
छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः
निरुच्यते छर्दिरिति दोषो वक्त्राद्विनिश्चरन् ६
दोषानुदीरयन् वृद्धानुदानो व्यानसङ्गतः
ऊर्ध्वमागच्छति भृशं विरुद्धाहारसेवनात् ७
प्रसेको हृदयोत्क्लेशो भक्तस्यानभिनन्दनम्
पूर्वरूपं मतं छर्द्या यथास्वं च विभावयेत् ८
प्रच्छर्दयेत् फेनिलमल्पमल्पं शूलार्दितोऽभ्यर्दितपार्श्वपृष्ठः
श्रान्तः सघोषं बहुशः कषायं जीर्णेऽधिकं साऽनिलजा वमिस्तु ९
योऽम्लं भृशं वा कटुतिक्तवक्त्रः पीतं सरक्तं हरितं वमेद्वा
सदाहचोषज्वरवक्त्रशोषो मूर्च्छान्वितः पित्तनिमित्तजा सा १०
यो हृष्टरोमा मधुरं प्रभूतं शुक्लं हिमं सान्द्र कफानुविद्धम्
अभक्तरुग्गौरवसादयुक्तो वमेद्वमी सा कफकोपजा स्यात् ११
सर्वाणि रूपाणि भवन्ति यस्यां सा सर्वदोषप्रभवा मता तु
बीभत्सजा दौहृदजाऽऽमजा च सात्म्यप्रकोपात् कृमिजा च या हि
सा पञ्चमी तां च विभावयेत्तु दोषोच्छ्रयेणैव यथोक्तमादौ १२
शूलहृल्लासबहुला कृमिजा च विशेषतः
कृमिहृद्रो गतुल्येन लक्षणेन च लक्षिता १३
क्षीणस्योपद्र वैर्युक्तां सासृक्पूयां सचन्द्रि काम्
छर्दिं प्रसक्तां कुशलो नारभेत चिकित्सितुम् १४
आमाशयोत्क्लेशभवा हि सर्वास्तस्माद्धितं लङ्घनमेव तासु १५
वमीषु बहुदोषासु छर्दनं हितमुच्यते
विरेचनं वा कुर्वीत यथादोषोच्छ्रयं भिषक् १६
संसर्गश्चानुपूर्वेण यथास्वं भेषजायुतः
लघूनि परिशुष्काणि सात्म्यान्यन्नानि चाचरेत् १७
यथास्वं च कषायाणि ज्वरघ्नानि प्रयोजयेत्
हन्यात् क्षीरघृतं पीतं छर्दिं पवनसंभवाम् १८
ससैन्धवं पिबेत् सर्पिर्वातच्छर्दिनिवारणम्
मुद्गामलकयूषो वा ससर्पिष्कः ससैन्धवः
यवागूं मधुमिश्रां वा पञ्चमूलीकृतां पिबेत् १९
पिबेद्वा व्यक्तसिन्धूत्थं फलाम्लं वैष्किरं रसम्
सुखोष्णलवणं चात्र हितं स्नेहविरेचनम् २०
पित्तोपशमनीयानि पाक्यानि शिशिराणि च
कषायाण्युपयुक्तानि घ्नन्ति पित्तकृतां वमीम् २१
शोधनं मधुरैश्चात्र द्रा क्षारससमायुतैः
बलवत्यां प्रशंसन्ति सर्पिस्तैल्वकमेव च २२
आरग्वधादिनिर्यूहं दशाङ्गयोगमेव वा
पाययेताथ सक्षौद्रं कफजायां चिकित्सकः २३
कृतं गुडूच्या विधिवत् कषायं हिमसंज्ञितम्
तिसृष्वपि भवेत् पथ्यं माक्षिकेण समन्वितम् २४
बीभत्सजां हृद्यतमैर्दौहृदीं काङ्क्षितैः फलैः
लङ्घनैर्वमनैश्चामां सात्म्यैः सात्म्यप्रकोपजाम् २५
कृमिहृद्रो गवच्चापि कृमिजां साधयेद्वमीम्
वितरेच्च यथादोषं शस्तं विधिमनन्तरम् २६
दधित्थरससंसक्तां पिप्पलीं माक्षिकान्विताम्
मुहुर्मुहुर्नरो लीढ्वा छर्दिभ्यः प्रविमुच्यते २७
समाक्षिका मधुरसा पीता वा तण्डुलाम्बुना
तर्पणं वा मधुयुतं तिसृणामपि भेषजम् २८
स्वयङ्गुप्तां सयष्ट्याह्वां तण्डुलाम्बुमधुद्र वाम्
पिबेद्यवागूमथवा सिद्धां पत्रैः करञ्जजैः २९
युक्ताम्ललवणाः पिष्टाः कुस्तुम्बुर्योऽथवा हिताः
तण्डुलाम्बुयुतं खादेत् कपित्थं त्र्यूषणेन वा ३०
सिताचन्दनमध्वाक्तं लिह्याद्वा मक्षिकाशकृत्
पिबेत् पयोऽग्नितप्तं च निर्वाप्य गृहगोधिकाम् ३१
सर्पिः क्षौद्र युतान् वाऽपि लाजशक्तून् पिबेत्तथा
सर्पिःक्षौद्र सितोपेतां मागधीं वा लिहेत्तथा ३२
धात्रीरसे चन्दनं वा घृष्टं मुद्गदलाम्बुना
कोलामलकमज्जानं लिह्याद्वा त्रिसुगन्धिकम् ३३
सक्षौद्रां शालिलाजानां यवागूं वा पिबेन्नरः
घ्रेयाण्युपहरेच्चापि मनोघ्राणसुखानि च ३४
जाङ्गलानि च मांसानि शुभानि पानकानि च
भोजनानि विचित्राणि कुर्यात्सर्वास्वतन्द्रि तः ३५
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे छर्दिप्रतिषेधो नाम एकोनपञ्चाशत्तमोऽध्यायः ४९
पञ्चाशत्तमोऽध्यायः
अथातो हिक्काप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
विदाहिगुरुविष्टम्भिरूक्षाभिष्यन्दिभोजनैः
शीतपानासनस्थानरजोधूमानिलानलैः ३
व्यायामकर्मभाराध्ववेगाघातापतर्पणैः
आमदोषाभिघातस्त्रीक्षयदोषप्रपीडनैः ४
विषमाशनाध्यनशनैस्तथा समशनैरपि
हिक्का श्वासश्च कासश्च नृणां समुपजायते ५
मुहुर्मुहुर्वायुरुदेति सस्वनो
यकृत्प्लिहान्त्राणि मुखादिवाक्षिपन्
स घोषवानाशु हिनस्त्यसून् यतस्ततस्तु हिक्केति भिषग्भिरुच्यते ६
अन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा
वायुः कफेनानुगतः पञ्च हिक्काः करोति हि ७
मुखं कषायमरतिर्गौरवं कण्ठवक्षसोः
पूर्वरूपाणि हिक्कानामाटोपो जठरस्य च ८
त्वरमाणस्य चाहारं भुञ्जानस्याथवा घनम्
वायुरन्नैरवस्तीर्णः कटुकैरर्दितो भृशम् ९
हिक्कयत्यूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक्
चिरेण यमलैर्वेगैर्या हिक्का संप्रवर्तते १०
कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्दिशेत्
विकृष्टकालैर्या वेगैर्मन्दैः समभिवर्तते ११
क्षुद्रि का नाम सा हिक्का जत्रुमूलात् प्रधाविता
नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी १२
शुष्कौष्ठकण्ठजिह्वास्यश्वासपार्श्वरुजाकरी
अनेकोपद्र वयुता गम्भीरा नाम सा स्मृता १३
मर्माण्यापीडयन्तीव सततं या प्रवर्तते
देहमायम्य वेगेन घोषयत्यतितृष्यतः
महाहिक्केति सा ज्ञेया सर्वगात्रप्रकम्पिनी १४
आयम्यते हिक्कतोऽङ्गानि यस्य दृष्टिश्चोर्ध्वं ताम्यते यस्य गाढम्
क्षीणोऽन्नद्विट् कासते यश्च हिक्की तौ द्वावन्त्यौ वर्जयेद्धिक्कमानौ १५
प्राणायामोद्वेजनत्रासनानि सूचीतोदैः संम्भ्रमश्चात्र शस्तः
यष्ट्याह्वं वा माक्षिकेणावपीडे पिप्पल्यो वा शर्कराचूर्णयुक्ताः १६
सर्पिः कोष्णं क्षीरमिक्षो रसो वा नातिक्षीणे छर्दनं शान्तिहेतोः
नारीपयःपिष्टमशुक्लचन्दनं घृतं सुखोष्णं च ससैन्धवं तथा १७
चूर्णीकृतं सैन्धवमम्भसाऽथवा निहन्ति हिक्कां च हितं च नस्यतः
युञ्ज्याद्धूमं शालनिर्यासजातं नैपालं वा गोविषाणोद्भवं वा १८
सर्पिःस्निग्धैश्चर्मबालैः कृतं वा हिक्कास्थाने स्वेदनं चापि कार्यम्
क्षौद्रो पेतं गैरिकं काञ्चनाह्वं लिह्याद्भस्म ग्राम्यसत्त्वास्थिजं वा १९
तद्वच्छ्वाविन्मेषगोशल्यकानां रोमाण्यन्तर्धूमदग्धानि चात्र
मध्वाज्याक्तं बर्हिपत्रप्रसूतमेवं भस्मौदुम्बरं तैल्वकं वा २०
स्वर्जिक्षारं बीजपूराद्र सेन क्षौद्रो पेतं हन्ति लीढ्वाऽऽशु हिक्काम्
सर्पिः स्निग्धा घ्नन्ति हिक्कां यवाग्वः कोष्णग्रासाः पायसो वा सुखोष्णः २१
शुण्ठीतोये साधितं क्षीरमाजं तद्वत् पीतं शर्करासंयुतं वा
आतृप्तेर्वा सेव्यमानं निहन्याद् घ्रातं हिक्कामाशु मूत्रं त्वजाव्योः २२
सपूतिकीटं लशुनोग्रगन्धाहिङ्ग्वब्जमाचूर्ण्य सुभावितं तत्
क्षौद्रं सितां वारणकेशरं च पिबेद्र सेनेक्षुमधूकजेन २३
पिबेत् पलं वा लवणोत्तमस्य द्वाभ्यां पलाभ्यां हविषः समग्रम्
हरीतकीं कोष्णजलानुपानां पिबेद्घृतं क्षारमधूपपन्नम् २४
रसं कपित्थान्मधुपिप्पलीभ्यां शुक्तिप्रमाणं प्रपिबेत् सुखाय २५
कृष्णां सितां चामलकं च लीढं सशृङ्गवेरं मधुनाऽथवाऽपि
कोलास्थिमज्जाञ्जनलाजचूर्णं हिक्का निहन्यान्मधुनाऽवलीढम् २६
पाटलायाः फलं पुष्पं गैरिकं कटुरोहिणी
खर्जूरमध्यं मागध्यः काशीशं दधिनाम च २७
चत्वार एते योगाः स्युः प्रतिपादप्रदर्शिताः
मधुद्वितीयाः कर्तव्यास्ते हिक्कासु विजानता २८
कपोतपारावतलावशकश्वदंष्ट्रगोधावृषदंशजान् रसान्
पिबेत् फलाम्लानहिमान् ससैन्धवान् स्निग्धांस्तथैवर्ष्यमृगद्विजोद्भवान् २९
विरेचनं पथ्यतमं ससैन्धवं घृतं सुखोष्णं च सितोपलायुतम्
सदागतावूर्ध्वगतेऽनुवासनं वदन्ति केचिच्च हिताय हिक्किनाम् ३०
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हिक्काप्रतिषेधो नाम पञ्चाशत्तमोऽध्यायः ५०
एकपञ्चाशत्तमोऽध्यायः
अथातः श्वासप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
यैरेव कारणैर्हिक्का बहुभिः संप्रवर्तते
तैरेव कारणैः श्वासो घोरो भवति देहिनाम् ३
विहाय प्रकृतिं वायुः प्राणोऽथ कफसंयुतः
श्वासयत्यूर्ध्वगो भूत्वा तं श्वासं परिचक्षते ४
क्षुद्र कस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चधा
भिद्यते स महाव्याधिः श्वास एको विशेषतः ५
प्राग्रूपं तस्य हृत्पीडा भक्तद्वेषोऽरतिः परा
आनाहः पार्श्वयोः शूलं वैरस्यं वदनस्य च ६
किञ्चिदारभमाणस्य यस्य श्वासः प्रवर्तते
निषण्णस्यैति शान्तिं च स क्षुद्र इति संज्ञितः ७
तृट्स्वेदवमथुप्रायः कण्ठघुर्घुरिकान्वितः
विशेषाद्दुर्दिने ताम्येच्छ्वासः स तमको मतः ८
घोषेण महताऽऽविष्टः सकासः सकफो नरः
यः श्वसित्यबलोऽन्नद्विट् सुप्तस्तमकपीडितः ९
स शाम्यति कफे हीने स्वपतश्च विवर्धते
मूर्च्छाज्वराभिभूतस्य ज्ञेयः प्रतमकस्तु सः १०
आध्मातो दह्यमानेन बस्तिना सरुजं नरः
सर्वप्राणेन विच्छिन्नं श्वस्याच्छिन्नं तमादिशेत् ११
निःसंज्ञः पार्श्वशूलार्तः शुष्ककण्ठोऽतिघोषवान्
संरब्धनेत्रस्त्वायम्य यः श्वस्यात् स महान् स्मृतः
मर्मस्वायम्यमानेषु श्वसन्मूढो मुहुश्च यः
ऊर्ध्वप्रेक्षी हतरवस्तमूर्ध्वश्वासमादिशेत् १३
क्षुद्रः साध्यतमस्तेषां तमकः कृच्छ्र उच्यते
त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च १४
स्नेहबस्तिं विना केचिदूर्ध्वं चाधश्च शोधनम्
मृदु प्राणवतां श्रेष्ठं श्वासिनामादिशन्ति हि १५
श्वासे कासे च हिक्कायां हृद्रो गे चापि पूजितम्
घृतं पुराणं संसिद्धमभयाविडरामठैः १६
सौवर्चलाभयाबिल्वैः संस्कृतं वाऽनवं घृतम्
पिप्पल्यादिप्रतीवापं सिद्धं वा प्रथमे गणे १७
सपञ्चलवणं सर्पिः श्वासकासौ व्यपोहति
हिंस्राविडङ्गपूतीकत्रिफलाव्योषचित्रकैः १८
द्विक्षीरं साधितं सर्पिश्चतुर्गुणजलाप्लुतम्
कोलमात्रैः पिबेत्तद्धि श्वासकासौ व्यपोहति १९
अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा
कृत्स्ने वृषकषाये वा पचेत् सर्पिश्चतुर्गुणे २०
तन्मूलकुसुमावापं शीतं क्षौद्रे ण योजयेत्
शृङ्गीमधूलिकाभार्गीशुण्ठीतार्क्ष्यसिताम्बुदैः २१
सहरिद्रैः सयष्ट्याह्वैः समैरावाप्य योगतः
घृतप्रस्थं पचेद्धीमान् शीततोये चतुर्गुणे २२
श्वासं कासं तथा हिक्कां सर्पिरेतन्नियच्छति
सुवहा कालिका भार्गी शुकाख्या नैचुलं फलम् २३
काकादनी शृङ्गवेरं वर्षाभूर्बृहतीद्वयम्
कोलमात्रैर्घृतप्रस्थं पचेदेभिर्जलद्विकम् २४
कटूष्णं पीतमेतद्धि श्वासामयविनाशनम्
सौवर्चलयवक्षारकटुकाव्योषचित्रकैः २५
वचाभयाविडङ्गैश्च साधितं श्वासशान्तये
गोपवल्ल्युदके सिद्धं स्यादन्यद्द्विगुणे घृतम् २६
पञ्चैतानि हवींष्याहुर्भिषजः श्वासकासयोः
तालीशतामलक्युग्राजीवन्तीकुष्ठसैन्धवैः २७
बिल्वपुष्करभूतीकसौवर्चलकणाग्निभिः
पथ्यातेजोवतीयुक्तैः सर्पिर्जलचतुर्गुणम् २८
हिङ्गुपादयुतं सिद्धं सर्वश्वासहरं परम्
वासाघृतं षट्पलं वा घृतं चात्र हितं भवेत् २९
तैलं दशगुणे सिद्धं भृङ्गराजरसे शुभे
सेव्यमानं यथान्यायं श्वासकासौ व्यपोहति ३०
फलाम्ला विष्किररसाः स्निग्धाः प्रव्यक्तसैन्धवाः
एणादीनां शिरोभिर्वा कौलत्था वा सुसंस्कृताः ३१
हन्युः श्वासं च कासं च संस्कृतानि पयांसि च
तिमिरस्य च बीजानि कर्कटाख्या च चूर्णिता ३२
दुरालभाऽथ पिप्पल्यः कटुकाख्या हरीतकी
श्वाविन्मयूररोमाणि कोला मागधिकाकणाः ३३
भार्गीत्वक् शृङ्गवेरं च शर्करा शल्लकाङ्गजम्
नृत्तकौण्डकबीजानि चूर्णितानि तु केवलम् ३४
पञ्च श्लोकार्धिकास्त्वेते लेहा ये सम्यगीरिताः
सर्पिर्मधुभ्यां ते लेह्याः कासश्वासार्दितैर्नरैः ३५
सप्तच्छदस्य पुष्पाणि पिप्पलीश्चापि मस्तुना
पिबेत् संचूर्ण्य मधुना धानाश्चाप्यथ भक्षयेत् ३६
अर्काङ्कुरैर्भावितानां यवानां साध्वनेकशः
तर्पणं वा पिबेदेषां सक्षौद्रं श्वासपीडितः ३७
शिरीषकदलीकुन्दपुष्पं मागधिकायुतम्
तण्डुलाम्बुयुतं पीत्वा जयेच्छ्वासानशेषतः ३८
कोलमज्जां तालमूलमृष्यचर्ममसीमपि
लिह्यात् क्षौद्रे ण भार्गी वा सर्पिर्मधुसमायुताम् ३९
नीचैः कदम्बबीजं वा सक्षौद्रं तण्डुलाम्बुना
द्रा क्षां हरीतकीं कृष्णां कर्कटाख्यां दुरालभाम् ४०
सर्पिर्मधुभ्यां विलिहन् हन्ति श्वासान् सुदारुणान्
हरिद्रां मरिचं द्रा क्षां गुडं रास्नां कणां शटीम् ४१
लिह्यात्तैलेन तुल्यानि श्वासार्तो हितभोजनः
गवां पुरीषस्वरसं मधुसर्पिःकणायुतम् ४२
लिह्याच्छ्वासेषु कासेषु वाजिनां वा शकृद्र सम्
पाण्डुरोगेषु शोथेषु ये योगाः संप्रकीर्तिताः ४३
श्वासकासापहास्तेऽपि कासघ्ना ये च कीर्तिताः
भार्गीत्वक् त्र्यूषणं तैलं हरिद्रां कटुरोहिणीम् ४४
पिप्पलीं मरिचं चण्डां गोशकृद्र समेव च
तलकोटस्य बीजेषु पचेदुत्कारिकां शुभाम् ४५
सेव्यमाना निहन्त्येषा श्वासानाशु सुदुस्तरान्
पुराणसर्पिः पिप्पल्यः कौलत्था जाङ्गला रसाः ४६
सुरा सौवीरकं हिङ्गु मातुलुङ्गरसो मधु
द्रा क्षामलकबिल्वानि शस्तानि श्वासिहिक्किनाम् ४७
श्वासहिक्कापरिगतं स्निग्धैः स्वेदैरुपाचरेत्
आक्तं लवणतैलाभ्यां तैरस्य ग्रथितः कफः ४८
खस्थो विलयनं याति मारुतश्च प्रशाम्यति
स्विन्नं ज्ञात्वा ततश्चैव भोजयित्वा रसौदनम् ४९
वातश्लेष्मविबन्धे वा भिषग् धूमं प्रयोजयेत्
मनःशिलादेवदारुहरिद्रा च्छदनामिषैः ५०
लाक्षोरुबूकमूलैश्च कृत्वा वर्तीर्विधानतः
सर्पिर्यवमधूच्छिष्टशालनिर्यासजं तथा ५१
शृङ्गबालखुरस्नायुत्वक् समस्तं गवामपि
तुरुष्कशल्लकीनां च गुग्गुलोः पद्मकस्य च ५२
एते सर्वे ससर्पिष्का धूमाः कार्या विजानता
बलीयसि कफग्रस्ते वमनं सविरेचनम् ५३
दुर्बले चैव रूक्षे च तर्पणं हितमुच्यते
जाङ्गलोरभ्रजैर्मांसैरानूपैर्वा सुसंस्कृतैः ५४
निदिग्धिकां चामलकप्रमाणां हिङ्ग्वर्धयुक्तां मधुना सुयुक्ताम्
लिहन्नरः श्वासनिपीडितो हि श्वासं जयत्येव बलात्त्र्यहेण ५५
यथाऽग्निरिद्धः पवनानुविद्धो वज्रं यथा वा सुरराजमुक्तम्
रोगास्तथैते खलु दुर्निवाराः श्वासश्च कासश्च विलम्बिका च ५६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हिक्काश्वासप्रतिषेधो नाम एकपञ्चाशत्तमोऽध्यायः ५१
द्विपञ्चाशत्तमोऽध्यायः
अथातः कासप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
उक्ता ये हेतवो नॄणां रोगयोः श्वासहिक्कयोः
कासस्यापि च विज्ञेयास्त एवोत्पत्तिहेतवः ३
धूमोपघाताद्र जसस्तथैव व्यायामरूक्षान्ननिषेवणाच्च
विमार्गगत्वादपि भोजनस्य वेगावरोधात् क्षवथोस्तथैव ४
प्राणो ह्युदानानुगतः प्रदुष्टः संभिन्नकांस्यस्वनतुल्यघोषः
निरेति वक्त्रात् सहसा सदोषः कासः स विद्वद्भिरुदाहृतस्तु ५
स वातपित्तप्रभवः कफाच्च क्षतात्तथाऽन्यः क्षयजोऽपरश्च
पञ्चप्रकारः कथितो भिषग्भिर्विवर्धितो यक्ष्मविकारकृत् स्यात् ६
भविष्यतस्तस्य तु कण्ठकण्डूर्भोज्योपरोधो गलतालुलेपः
स्वशब्दवैषम्यमरोचकोऽग्निसादश्च लिङ्गानि भवन्त्यमूनि ७
हृच्छङ्खमूर्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः
प्रसक्तमन्तःकफमीरणेन कासेत्तु शुष्कं स्वरभेदयुक्तः ८
उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषार्तः
पित्तेन पीतानि वमेत् कटूनि कासेत् स पाण्डुः परिदह्यमानः ९
प्रलिप्यमानेन मुखेन सीदन् शिरोरुजार्तः कफपूर्णदेहः
अभक्तरुग्गौरवसादयुक्तः कासेत ना सान्द्र कफं कफेन १०
वक्षोऽतिमात्रं विहतं तु यस्य व्यायामभाराध्ययनाभिघातैः
विश्लिष्टवक्षाः स नरः सरक्तं ष्ठीवत्यभीक्ष्णं क्षतजं तमाहुः ११
स गात्रशूलज्वरदाहमोहान् प्राणक्षयं चोपलभेत कासी
शुष्यन् विनिष्ठीवति दुर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम् १२
ससर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति
वृद्धत्वमासाद्य भवेत्तु यो वै याप्यं तमाहुर्भिषजस्तु कासम् १३
शृङ्गीवचाकट्फलकत्तृणाब्दधान्याभयाभार्ग्यमराह्वविश्वम्
उष्णाम्बुना हिङ्गुयुतं तु पीत्वा बद्धास्यमप्याशु जहाति कासम् १४
फलत्रिकव्योषविडङ्गशृङ्गीरास्नावचापद्मकदेवकाष्ठैः
लेहः समैः क्षौद्र सिताघृताक्तः कासं निहन्यादचिरादुदीर्णम् १५
पथ्यां सितामामलकानि लाजां समागधीं चापि विचूर्ण्य शुण्ठीम्
सर्पिर्मधुभ्यां विलिहीत कासी ससैन्धवां वोष्णजलेन कृष्णाम् १६
खादेद्गुडं नागरपिप्पलीभ्यां द्रा क्षां च सर्पिर्मधुनाऽवलिह्यात्
द्रा क्षां सितां मागधिकां च तुल्यां सशृङ्गवेरं मधुकं तुगां च १७
लिह्याद्घृतक्षौद्र युतां समांशां सितोपलां वा मरिचांशयुक्ताम्
धात्रीकणाविश्वसितोपलाश्च संचूर्ण्य मण्डेन पिबेच्च दध्नः १८
हरेणुकां मागधिकां च तुल्यां दध्ना पिबेत् कासगदाभिभूतः
उभे हरिद्रे सुरदारुशुण्ठीं गायत्रिसारं च पिबेत् समांशम् १९
बस्तस्य मूत्रेण सुखाम्बुना वा दन्तीं द्र वन्तीं च सतिल्वकाख्याम्
भृष्टानि सर्पींष्यथ बादराणि खादेत् पलाशानि ससैन्धवानि २०
कोलप्रमाणं प्रपिबेद्धि हिङ्गु सौवीरकेणाम्लरसेन वाऽपि
क्षौद्रे ण लिह्यान्मरिचानि वाऽपि भार्गीवचाहिङ्गुकृता च वर्तिः २१
धूमे प्रशस्ता घृतसंप्रयुक्ता वेणुत्वगेलालवणैः कृता वा
मुस्तेङ्गुदीत्वङ्मधुकाह्वमांसीमनःशिलालैश्छगलाम्बुपिष्टैः २२
विधाय वर्तीश्च पयोऽनुपानं धूमं पिबेद्वातबलासकासी
पिबेच्च सीधुं मरिचान्वितं वा तेनाशु कासं जयति प्रसह्य २३
द्रा क्षाम्बुमञ्जिष्टपुराह्वयाभिः क्षीरं शृतं माक्षिकसंप्रयुक्तम्
निदिग्धिकानागरपिप्पलीभिः खादेच्च मुद्गान्मधुना सुसिद्धान् २४
उत्कारिकां सर्पिषि नागराढ्यां पक्त्वा समूलैस्त्रुटिकोलपत्रैः
एभिर्निषेवेत कृतां च पेयां तन्वीं सुशीतां मधुना विमिश्राम् २५
यत् प्लीह्नि सर्पिर्विहितं षडङ्गं तद्वातकासं जयति प्रसह्य
विदारिगन्धादिकृतं घृतं वा रसेन वा वासकजेन पक्वम् २६
विरेचनं स्नैहिकमत्र चोक्तमास्थापनं चाप्यनुवासनं च
धूमं पिबेत् स्नैहिकमप्रमत्तः पिबेत् सुखोष्णं घृतमेव चात्र २७
हिता यवाग्वश्च रसेषु सिद्धाः पयांसि लेहाः सघृतास्तथैव
प्रच्छर्दनं कायशिरोविरेकास्तथैव धूमाः कवलग्रहाश्च २८
उष्णाश्च लेहाः कटुका निहन्युः कफं विशेषेण विशोषणं च
कटुत्रिकं चापि वदन्ति पथ्यं घृतं कृमिघ्नस्वरसे विपक्वम् २९
निर्गुण्डिपत्रस्वरसे च पक्वं सर्पिः कफोत्थं विनिहन्ति कासम्
पाठाविडव्योषविडङ्गसिन्धुत्रिकण्टरास्नाहुतभुग्बलाभिः ३०
शृङ्गीवचाम्भोधरदेवदारुदुरालभाभार्ग्यभयाशटीभिः
सम्यग्विपक्वं द्विगुणेन सर्पिर्निदिग्धिकायाः स्वरसेन चैतत् ३१
श्वासाग्निसादस्वरभेदभिन्नान्निहन्त्युदीर्णानपि पञ्च कासान्
विदारिगन्धोत्पलसारिवादीन् निष्क्वाथ्य वर्गं मधुरं च कृत्स्नम् ३२
घृतं पचेदिक्षुरसाम्बुदुग्धैः काकोलिवर्गे च सशर्करं तत्
प्रातः पिबेत् पित्तकृते च कासे रतिप्रसूते क्षतजे च कासे ३३
खर्जूरभार्गीमगधाप्रियालमधूलिकैलामलकैः समांशैः
चूर्णं सिताक्षौद्र घृतप्रगाढं त्रीन् हन्ति कासानुपयुज्यमानम् ३४
रक्ताहरिद्रा ञ्जनवह्निपाठामूर्वोपकुल्या विलिहेत् समांशाः
क्षौद्रे ण कासे क्षतजे क्षयोत्थे पिबेद्घृतं चेक्षुरसे विपक्वम् ३५
चूर्णं पिबेदामलकस्य वाऽपि क्षीरेण पक्वं सघृतं हिताशी
चूर्णानि गोधूमयवोद्भवानि काकोलिवर्गश्च कृतः सुसूक्ष्मः ३६
कासेषु पेयस्त्रिषु कासवद्भिः क्षीरेण सक्षौद्र घृतेन वाऽपि
गुडोदकं वा क्वथितं पिबेद्धि क्षौद्रे ण शीतं मरिचोपदंशम् ३७
प्रस्थत्रयेणामलकीरसस्य शुद्धस्य दत्त्वाऽर्धतुलां गुडस्य
चूर्णीकृतैर्ग्रन्थिकचव्यजीरव्योषेभकृष्णाहपुषाजमोदैः ३८
विडङ्गसिन्धुत्रिफलायवानीपाठाग्निधान्यैश्च पिचुप्रमाणैः
दत्त्वा त्रिवृच्चूर्णपलानि चाष्टावष्टौ च तैलस्य पचेद्यथावत् ३९
तं भक्षयेदक्षफलप्रमाणं यथेष्टचेष्टस्त्रिसुगन्धियुक्तम्
अनेन सर्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोथाः ४०
शाम्यन्ति चायं चिरमन्तरग्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः
स्त्रीणां च वन्ध्यामयनाशनः स्यात् कल्याणको नाम गुडः प्रतीतः ४१
द्विपञ्चमूलेभकणात्मगुप्ताभार्गीशटीपुष्करमूलविश्वान्
पाठामृताग्रन्थिकशङ्खपुष्पीरास्नाग्न्यपामार्गबलायवासान् ४२
द्विपालिकान् न्यस्य यवाढकं च हरीतकीनां च शतं गुरूणाम्
द्रो ने जलस्याढकसंयुते च क्वाथे कृते पूतचतुर्थभागे ४३
पचेत्तुलां शुद्धगुडस्य दत्त्वा पृथक् च तैलात् कुडवं घृताच्च
चूर्णं च तावन्मगधोद्भवाया देयं च तस्मिन्मधु सिद्धशीते ४४
रसायनात् कर्षमतो विलिह्याद्द्वे चाभये नित्यमथाशु हन्यात्
तद्रा जयक्ष्मग्रहणीप्रदोषशोफाग्निमान्द्यस्वरभेदकासान् ४५
पाण्ड्वामयश्वासशिरोविकारान् हृद्रो गहिक्काविषमज्वरांश्च
मेधाबलोत्साहमतिप्रदं च चकार चैतद्भगवानगस्त्यः ४६
कुलीरशुक्तीचटकैणलावान्निष्क्वाथ्य वर्गं मधुरं च कृत्स्नम्
पचेद्घृतं तत्तु निषेव्यमाणं हन्यात् क्षतोत्थं क्षयजं च कासम् ४७
शतावरीनागबलाविपक्वं घृतं विधेयं च हिताय कासिनाम्
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे कासप्रतिषेधो नाम द्विपञ्चाशत्तमोऽध्यायः ५२
त्रिपञ्चाशत्तमोऽध्यायः
अथातः स्वरभेदप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अत्युच्चभाषणविषाध्ययनातिगीत-
शीतादिभिः प्रकुपिताः पवनादयस्तु
स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां
हन्युः स्वरं भवति चापि हि षड्विधः सः ३
वातेन कृष्णनयनाननमूत्रवर्चा
भिन्नं शनैर्वदति गद्गदवत् स्वरं च
पित्तेन पीतवदनाक्षिपुरीषमूत्रो
ब्रूयाद्गलेन परिदाहसमन्वितेन ४
कृच्छ्रात् कफेन सततं कफरुद्धकण्ठो
मन्दं शनैर्वदति चापि दिवा विशेषः
सर्वात्मके भवति सर्वविकारसंप-
दव्यक्तता च वचसस्तमसाध्यमाहुः ५
धूप्येत वाक् क्षयकृते क्षयमाप्नुयाच्च
वागेष चापि हतवाक् परिवर्जनीयः
अन्तर्गलं स्वरमलक्ष्यपदं चिरेण
मेदश्चयाद्वदति दिग्धगलौष्ठतालुः ६
क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजातः
मेदस्विनः सर्वसमुद्भवश्च स्वरामयो यो न स सिद्धिमेति ७
स्निग्धान् स्वरातुरनरानपकृष्टदोषान्
न्यायेन तान् वमनरेचनबस्तिभिश्च
नस्यावपीडमुखधावनधूमलेहैः
संपादयेच्च विविधैः कवलग्रहैश्च ८
यः श्वासकासविधिरादित एव चोक्त-
स्तं चाप्यशेषमवतारयितुं यतेत
वैशेषिकं च विधिमूर्ध्वमतो वदामि
तं वै स्वरातुरहितं निखिलं निबोध ९
स्वरोपघातेऽनिलजे भुक्तोपरि घृतं पिबेत्
कासमर्दकवार्ताकमार्कवस्वरसे शृतम् १०
पीतं घृतं हन्त्यनिलं सिद्धमार्तगले रसे
यवक्षाराजमोदाभ्यां चित्रकामलकेषु वा ११
देवदार्वग्निकाभ्यां वा सिद्धमाजं समाक्षिकम्
सुखोदकानुपानो वा ससर्पिष्को गुडौदनः १२
क्षीरानुपानं पित्ते तु पिबेत् सर्पिरतन्द्रि तः
अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम् १३
लिह्यान्मधुरकाणां वा चूर्णं मधुघृताप्लुतम्
शतावरीचूर्णयोगं वलाचूर्णमथापि वा १४
पिबेत् कटूनि मूत्रेण कफजे स्वरसंक्षये
लिह्याद्वा मधुतैलाभ्यां भुक्त्वा खादेत् कटूनि वा १५
स्वरोपघाते मेदोजे कफवद्विधिरिष्यते
सर्वजे क्षयजे चापि प्रत्याख्यायाचरेत् क्रियाम् १६
शर्करामधुमिश्राणि शृतानि मधुरैः सह
पिबेत् पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः १७
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे छर्दिप्रतिषेधो नाम त्रिपञ्चाशत्तमोऽध्यायः
चतुःपञ्चाशत्तमोऽध्यायः
अथातः कृमिरोगप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अजीर्णाध्यशनासात्म्यविरुद्धमलिनाशनैः
अव्यायामदिवास्वप्नगुर्वतिस्निग्धशीतलैः ३
माषपिष्टान्नविदलबिसशालूकसेरुकैः
पर्णशाकसुराशुक्तदधिक्षीरगुडेक्षुभिः ४
पललानूपपिशितपिण्याकपृथुकादिभिः
स्वाद्वम्लद्र वपानैश्च श्लेष्मा पित्तं च कुप्यति ५
कृमीन् बहुविधाकारान् करोति विविधाश्रयान्
आमपक्वाशये तेषां कफविड्जन्मनां पुनः
धमन्यां रक्तजानां च प्रसवः प्रायशः स्मृतः ६
विंशते कृमिजातीनां त्रिविधः संभवः स्मृतः
पुरीषकफरक्तानि तासां वक्ष्यामि विस्तरम् ७
अजवा विजवाः किप्याश्चिप्या गण्डूपदास्तथा
चूरवो द्विमुखाश्चैव ज्ञेयाः सप्त पुरीषजाः ८
श्वेताः सूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति च
तेषामेवापरे पुच्छैः पृथवश्च भवन्ति हि ९
शूलाग्निमान्द्यपाण्डुत्वविष्टम्भबलसंक्षयाः
प्रसेकारुचिहृद्रो गविड्भेदास्तु पुरीषजैः १०
रक्ता गण्डूपदा दीर्घा गुदकण्डूनिपातिनः
शूलाटोपशकृद्भेदपक्तिनाशकराश्च ते ११
दर्भपुष्पा महापुष्पाः प्रलूनाश्चिपिटास्तथा
पिपीलिका दारुणाश्च कफकोपसमुद्भवाः १२
रोमशा रोममूर्धानः सपुच्छाः श्यावमण्डलाः
रूढधान्याङ्कुराकाराः शुक्लास्ते तनवस्तथा १३
मज्जादा नेत्रलेढारस्तालुश्रोत्रभुजस्तथा
शिरोहृद्रो गवमथुप्रतिश्यायकराश्च ते १४
केशरोमनखादाश्च दन्तादाः किक्किशास्तथा
कुष्ठजाः सपरीसर्पा ज्ञेयाः शोणितसंभवाः १५
ते सरक्ताश्च कृष्णाश्च स्निग्धाश्च पृथवस्तथा
रक्ताधिष्ठानजान् प्रायो विकारान् जनयन्ति ते १६
माषपिष्टान्नविदलपर्णशाकैः पुरीषजाः
मांसमाषगुडक्षीरदधितैलैः कफोद्भवाः १७
विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि
ज्वरो विवर्णता शूलं हृद्रो गः सदनं भ्रमः १८
भक्तद्वेषोऽतिसारश्च संजातकृमिलक्षणम्
दृश्यास्त्रयोदशाद्यास्तु कृमीणां परिकीर्तिताः १९
केशादाद्यास्त्वदृश्यास्ते द्वावाद्यौ परिवर्जयेत्
एषामन्यतमं ज्ञात्वा जिघांसुः स्निग्धमातुरम् २०
सुरसादिविपक्वेन सर्पिषा वान्तमादितः
विरेचयेत्तीक्ष्णतरैर्योगैरास्थापयेच्च तम् २१
यवकोलकुलत्थानां सुरसादेर्गणस्य च
विडङ्गस्नेहयुक्तेन क्वाथेन लवणेन च २२
प्रत्यागते निरूहे तु नरं स्नातं सुखाम्बुना
युञ्ज्यात् कृमिघ्नैरशनैस्ततः शीघ्रं भिषग्वरः २३
स्नेहेनोक्तेन चैनं तु योजयेत् स्नेहबस्तिना
ततः शिरीषकिणिहीरसं क्षौद्र युतं पिबेत् २४
केवूकस्वरसं वाऽपि पूर्ववत्तीक्ष्णभोजनः
पलाशबीजस्वरसं कल्कं वा तण्डुलाम्बुना २५
पारिभद्र कपत्राणां क्षौद्रे ण स्वरसं पिबेत्
पत्तूरस्वरसं वाऽपि पिबेद्वा सुरसादिजम् २६
लिह्यादश्वशकृच्चूर्णं वैडङ्गं वा समाक्षिकम्
पत्रैर्मूषिकपर्ण्या वा सुपिष्टैः पिष्टमिश्रितैः २७
खादेत् पूपलिकाः पक्वा धान्याम्लं च पिबेदनु
सुरसादिगणे पक्वं तैलं वा पानमिष्यते २८
विडङ्गचूर्णयुक्तैर्वा पिष्टैर्भक्ष्यांस्तु कारयेत्
तत्कषायप्रपीतानां तिलानां स्नेहमेव वा २९
श्वाविधः शकृतश्चूर्णं सप्तकृत्वः सुभावितम्
विडङ्गानां कषायेण त्रैफलेन तथैव च ३०
क्षौद्रे ण लीढ्वाऽनुपिबेद्र समामलकोद्भवम्
अक्षाभयारसं वाऽपि विधिरेषोऽयसामपि ३१
पूतीकस्वरसं वाऽपि पिबेद्वा मधुना सह
पिबेद्वा पिप्पलीमूलमजामूत्रेण संयुतम् ३२
सप्तरात्रं पिबेद्घृष्टं त्रपु वा दधिमस्तुना
पुरीषजान् कफोत्थांश्च हन्यादेवं कृमीन् भिषक्
शिरोहृद्घ्राणकर्णाक्षिसंश्रितांश्च पृथग्विधान्
विशेषेणाञ्जनैर्नस्यैरवपीडैश्च साधयेत् ३४
शकृद्र सं तुरङ्गस्य सुशुष्कं भावयेदति
निष्क्वाथेन विडङ्गानां चूर्णं प्रधमनं तु तत् ३५
अयश्चूर्णान्यनेनैव विधिना योजयेद्भिषक्
सकांस्यनीलं तैलं च नस्यं स्यात्सुरसादिके ३६
इन्द्र लुप्तविधिश्चापि विधेयो रोमभोजिषु
दन्तादानां समुद्दिष्टं विधानं मुखरोगिकम् ३७
रक्तजानां प्रतीकारं कुर्यात् कुष्ठचिकित्सिते
सुरसादिं तु सर्वेषु सर्वथैवोपयोजयेत् ३८
प्रव्यक्ततिक्तकटुकं भोजनं च हितं भवेत्
कुलत्थक्षारसंसृष्टं क्षारपानं च पूजितम् ३९
क्षीराणि मांसानि घृतानि चैव दधीनि शाकानि च पर्णवन्ति
समासतोऽम्लान्मधुरान् हिमांश्च कृमीन् जिघांसुः परिवर्जयेत्तु ४०
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे कृमिप्रतिषेधो नाम चतुःपञ्चाशत्तमोऽध्यायः ५४
पञ्चपञ्चाशत्तमोऽध्यायः
अथात उदावर्तप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अधश्चोर्ध्वं च भावानां प्रवृत्तानां स्वभावतः
न वेगान् धारयेत् प्राज्ञो वातादीनां जिजीविषुः ३
वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रि यैः
व्याहन्यमानैरुदितैरुदावर्तो निरुच्यते ४
क्षुत्तृष्णाश्वासनिद्रा णामुदावर्तो विधारणात्
तस्याभिधास्ये व्यासेन लक्षणं च चिकित्सितम् ५
त्रयोदशविधश्चासौ भिन्न एतैस्तु कारणैः
अपथ्यभोजनाच्चापि वक्ष्यते च तथाऽपरः ६
आध्मानशूलौ हृदयोपरोधं शिरोरुजं श्वासमतीव हिक्काम्
कासप्रतिश्यायगलग्रहांश्च बलासपित्तप्रसरं च घोरम् ७
कुर्यादपानोऽभिहतः स्वमार्गे हन्यात् पुरीषं मुखतः क्षिपेद्वा
आटोपशूलौ परिकर्तनं च सङ्गः पुरीषस्य तथोर्ध्ववातः ८
पुरीषमास्यादपि वा निरेति पुरीषवेगेऽभिहते नरस्य
मूत्रस्य वेगेऽभिहते नरस्तु कृच्छ्रेण मूत्रं कुरुतेऽल्पमल्पम् ९
मेढ्रे गुदे वङ्क्षणबस्तिमुष्कनाभिप्रदेशेष्वथवाऽपि मूर्ध्नि
आनद्धबस्तिश्च भवन्ति तीव्राः शूलाश्च शूलैरिव भिन्नमूर्तेः १०
मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात् पवनात्मकाः स्युः
श्रोत्राननघ्राणविलोचनोत्था भवन्ति तीव्राश्च तथा विकाराः ११
आनन्दजं शोकसमुद्भवं वा नेत्रोदकं प्राप्तममुञ्चतो हि
शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन १२
भवन्ति गाढं क्षवथोर्विघाताच्छिरोक्षिनासाश्रवणेषु रोगाः
कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरुत वाऽप्रवृत्तिः १३
उद्गारवेगेऽभिहते भवन्ति घोरा विकाराः पवनप्रसूताः
छर्देर्विघातेन भवेच्च कुष्ठं येनैव दोषेण विदग्धमन्नम् १४
मूत्राशये पायुनि मुष्कयोश्च शोफो रुजो मूत्रविनिग्रहश्च
शुक्राश्मरी तत्स्रवणं भवेद्वा ते ते विकारा विहते तु शुक्रे १५
तन्द्रा ङ्गमर्दारुचिविभ्रमाः स्युः क्षुधोऽभिघातात् कृशता च दृष्टेः
कण्ठास्यशोषः श्रवणावरोधस्तृष्णाभिघाताद्धृदये व्यथा च १६
श्रान्तस्य निःश्वासविनिग्रहेण हृद्रो गमोहावथवाऽपि गुल्मः
जृम्भाऽङ्गमर्दोऽङ्गशिरोक्षिजाड्यं निद्रा भिघातादथवाऽपि तन्द्रा १७
तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम्
शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत् १८
सर्वेष्वेतेषु विधिवदुदावर्तेषु कृत्स्नशः
वायोः क्रिया विधातव्याः स्वमार्गप्रतिपत्तये १९
सामान्यतः पृथक्त्वेन क्रियां भूयो निबोध मे
आस्थापनं मारुतजे स्निग्धस्विन्ने विशिष्यते २०
पुरीषजे तु कर्तव्यो विधिरानाहिको भवेत्
सौवर्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत् २१
एलां वाऽप्यथ मद्येन क्षीरं वाऽपि पिबेन्नरः
धात्रीफलानां स्वरसं सजलं वा पिबेत्त्र्यहम् २२
रसमश्वपुरीषस्य गर्दभस्याथवा पिबेत्
मांसोपदंशं मधु वा पिबेद्वा सीधु गौडिकम् २३
भद्र दारु घनं मूर्वा हरिद्रा मधुकं तथा
कोलप्रमाणानि पिबेदान्तरिक्षेण वारिणा २४
दुःस्पर्शास्वरसं वाऽपि कषायं कुङ्कुमस्य च
एर्वारुबीजं तोयेन पिबेद्वाऽलवणीकृतम् २५
पञ्चमूलीशृतं क्षीरं द्रा क्षारसमथापि वा
योगांश्च वितरेदत्र पूर्वोक्तानश्मरीभिदः २६
मूत्रकृच्छ्रक्रमं चापि कुर्यान्निरवशेषतः
भूयो वक्ष्यामि योगान् यान् मूत्राघातोपशान्तये
स्नेहैः स्वेदैरुदावर्तं जृम्भाजं समुपाचरेत्
अश्रुमोक्षोऽश्रुजे कार्यः स्निग्धस्विन्नस्य देहिनः २८
तीक्ष्णाञ्जनावपीडाभ्यां तीक्ष्णगन्धोपशिङ्घनैः
वर्तिप्रयोगैरथवा क्षवसक्तिं प्रवर्तयेत् २९
उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् ३०
सुरां सौवर्चलवतीं बीजपूररसान्विताम्
छर्द्याघातं यथादोषं सम्यक् स्नेहादिभिर्जयेत् ३१
सक्षारलवणोपेतमभ्यङ्गं चात्र दापयेत्
बस्तिशुद्धिकरावापं चतुर्गुणजलं पयः ३२
आवारिनाशात् क्वथितं पीतवन्तं प्रकामतः
रमयेयुः प्रिया नार्यः शुक्रोदावर्तिनं नरम् ३३
क्षुद्विघाते हितं स्निग्धमुष्णमल्पं च भोजनम्
तृष्णाघाते पिबेन्मन्थं यवागूं वाऽपि शीतलाम् ३४
भोज्यो रसेन विश्रान्तः श्रमश्वासातुरो नरः
निद्रा घाते पिबेत् क्षीरं स्वप्याच्चेष्टकथा नरः ३५
आध्मानाद्येषु रोगेषु यथास्वं प्रयतेत हि
यच्च यत्र भवेत्प्राप्तं तच्च तस्मिन् प्रयोजयेत् ३६
वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः
भोजनैः कुपितः सद्य उदावर्तं करोति हि ३७
वातमूत्रपुरीषासृक्कफमेदोवहानि वै
स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत् ३८
ततो हृद्बस्तिशूलार्तो गौरवारुचिपीडितः
वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः ३९
श्वासकासप्रतिश्यायदाहमोहवमिज्वरान्
तृष्णाहिक्काशिरोरोगमनःश्रवणविभ्रमान् ४०
लभते च बहूनन्यान् विकारान् वातकोपजान्
तं तैललवणाभ्यक्तं स्निग्धं स्विन्नं निरूहयेत् ४१
दोषतो भिन्नवर्चस्कं भुक्तं चाप्यनुवासयेत्
न चेच्छान्तिं व्रजत्येवमुदावर्तः सुदारुणः ४२
अथैनं बहुशः स्विन्नं युञ्ज्यात् स्नेहविरेचनैः
पाययेत त्रिवृत्पीलुयवानीरम्लपाचनैः ४३
हिङ्गुकुष्ठवचास्वर्जिविडङ्गं वा द्विरुत्तरम्
योगावेतावुदावर्तं शूलं चानिलजं हतः ४४
देवदार्वग्निकौ कुष्ठं शुण्ठीं पथ्यां पलङ्कषाम्
पौष्कराणि च मूलानि तोयस्यर्धाढके पचेत् ४५
पादावशिष्टं तत् पीतमुदावर्तमपोहति
मूलकं शुष्कमार्द्रं च वर्षाभूः पञ्चमूलकम् ४६
आरेवतफलं चाप्सु पक्त्वा तेन घृतं पचेत्
तत् पीयमानं शास्त्युग्रमुदावर्तमशेषतः ४७
वचामतिविषां कुष्ठं यवक्षारं हरीतकीम्
कृष्णां निर्दहनीं चापि पिबेदुष्णेन वारिणा ४८
इक्ष्वाकुमूलं मदनं विशल्यातिविषे वचाम्
कुष्ठं किण्वाग्निकौ चैव पिबेत्तुल्यानि पूर्ववत् ४९
मूत्रेण देवदार्वग्नित्रिफलाबृहतीः पिबेत्
यवप्रस्थं फलैः सार्धं कण्टकार्या जलाढके ५०
पक्त्वाऽर्धप्रस्थशेषं तु पिबेद्धिङ्गुसमन्वितम्
मदनालाबुबीजानि पिप्पलीं सनिदिग्धिकाम् ५१
संचूर्ण्य प्रधमेन्नाड्या विशत्येतद्यथा गुदम्
चूर्णं निकुम्भकम्पिल्लश्यामेक्ष्वाक्वग्निकोद्भवम् ५२
कृतवेधनमागध्योर्लवणानां च साधयेत्
गवां मूत्रेण ता वर्तीः कारयेत्तु गुदानुगाः
सद्यः शर्मकरावेतौ योगावमृतसंमतौ ५३
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे उदावर्तप्रतिषेधो नाम पञ्चपञ्चाशत्तमोऽध्यायः ५५
षट्पञ्चाशत्तमोऽध्यायः
अथातो विसूचिकाप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम्
विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका ३
सूचीभिरिव गात्राणि तुदन् संतिष्ठतेऽनिलः
यस्याजीर्णेन सा वैद्यैरुच्यते ति विसूचिका ४
न तां परिमिताहारा लभन्ते विदितागमाः
मूढास्तामजितात्मानो लभन्ते कलुषाशयाः ५
मूर्च्छातिसारौ वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः
वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः ६
कुक्षिरानह्यतेऽत्यर्थं प्रताम्यति विकूजति
निरुद्धो मारुतश्चापि कुक्षौ विपरिधावति ७
वातवर्चोनिरोधश्च कुक्षौ यस्य भृशं भवेत्
तस्यालसकमाचष्टे तृष्णोद्गारावरोधकौ ८
दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य
विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ९
यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातैः
दोषेण येनावततं स्वलिङ्गैस्तं लक्षयेदामसमुद्भवैश्च १०
यः श्यावदन्तौष्ठनखोऽल्पसंज्ञश्छर्द्यर्दितोऽभ्यन्तरयातनेत्रः
क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरः सोऽपुनरागमाय ११
साध्यासु पार्ष्ण्योर्दहनं प्रशस्तमग्निप्रतापो वमनं च तीक्ष्णम्
पक्वे ततोऽन्ने तु विलङ्घनं स्यात् संपाचनं चापि विरेचनं च १२
विशुद्धदेहस्य हि सद्य एव मूर्च्छातिसारादिरुपैति शान्तिम्
आस्थापनं चापि वदन्ति पथ्यं सर्वासु योगानपरान्निबोध १३
पथ्यावचाहिङ्गुकलिङ्गगृञ्जसौवर्चलैः सातिविषैश्च चूर्णम्
सुखाम्बुपीतं विनिहन्त्यजीर्णं शूलं विसूचीमरुचिं च सद्यः १४
क्षारागदं वा लवणं विडं वा गुडप्रगाढानथ सर्षपान् वा
अम्लेन वा सैन्धवहिङ्गुयुक्तौ सबीजपूर्णौ सधृतौ त्रिवर्गौ १५
कटुत्रिकं वा लवणैरुपेतं पिबेत् स्नुहीक्षीरविमिश्रितं तु
कल्याणकं वा लवणं पिबेत्तु यदुक्तमादावनिलामयेषु १६
कृष्णाजमोदक्षवकाणि वाऽपि तुल्यौ पिबेद्वा मगधानिकुम्भौ
दन्तीयुतं वा मगधोद्भवानां कल्कं पिबेत् कोषवतीरसेन १७
उष्णाभिरद्भिर्मगधोद्भवानां कल्कं पिबेन्नागरकल्कयुक्तम्
व्योषं करञ्जस्य फलं हरिद्रे मूलं समं चाप्यथ मातुलुङ्ग्याः १८
छायाविशुष्का गुटिकाः कृतास्ता हन्युर्विसूचीं नयनाञ्जनेन
सुवामितं साधुविरेचितं वा सुलङ्घितं वा मनुजं विदित्वा १९
पेयादिभिर्दीपनपाचनीयैः सम्यक्क्षुधार्तं समुपक्रमेत
आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन २०
प्रवर्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति
तस्मिन् भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः २१
आमाशये शूलमथो गुरुत्वं हृल्लास उद्गारविघातनं च
स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा स शकृद्वमेच्च २२
श्वासश्च पक्वाशयजे भवन्ति लिङ्गानि चात्रालसकोद्भवानि
आमोद्भवे वान्तमुपक्रमेत संसर्गभक्तक्रमदीपनीयैः २३
अथेतरं यो न शकृद्वमेत्तमामं जयेत् स्वेदनपाचनैश्च
विसूचिकायां परिकीर्तितानि द्र व्याणि वैरेचनिकानि यानि २४
तान्येव वर्तीर्विरचेद्विचूर्ण्य महिष्यजावीभगवां तु मूत्रैः
स्विन्नस्य पायौ विनिवेश्य ताश्च चूर्णानि चैषां प्रधमेत्तु नाड्या २५
मूत्रेषु संसाध्य यथाविधानं द्र व्याणि यान्यूर्ध्वमधश्च यान्ति
क्वाथेन तेनाशु निरूहयेच्च मूत्रार्धयुक्तेन समाक्षिकेण २६
त्रिभण्डियुक्तं लवणप्रकुञ्चं दत्त्वा विरिक्तक्रममाचरेच्च
एष्वेव तैलेन च साधितेन प्राप्तं यदि स्यादनुवासयेच्च २७
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे विसूचिकाप्रतिषेधो नाम षट्पञ्चाशत्तमोऽध्यायः
सप्तपञ्चाशत्तमोऽध्यायः
अथातोऽरोचकप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
दोषैः पृथक् सह च चित्तविपर्ययाच्च भक्तायनेषु हृदि चावतते प्रगाढम्
नान्ने रुचिर्भवति तं भिषजो विकारं भक्तोपघातमिह पञ्चविधं वदन्ति ३
हृच्छूलपीडनयुतं विरसाननत्वं वातात्मके भवति लिङ्गमरोचके तु
हृद्दाहचोषबहुता मुखतिक्तता च मूर्च्छा सतृड् भवति पित्तकृते तथैव ४
कण्डूगुरुत्वकफसंस्रवसादतन्द्राः श्लेष्मात्मके मधुरमास्यमरोचके तु
सर्वात्मके पवनपित्तकफा बहूनि रूपाण्यथास्य हृदये समुदीरयन्ति ५
संरागशोकभयविप्लुतचेतसस्तु चिन्ताकृतो भवति सोऽशुचिदर्शनाच्च
वाते वचाम्बुवमनं कृतवान् पिबेच्च स्नेहैः सुराभिरथवोष्णजलेन चूर्णम् ६
कृष्णाविडङ्गयवभस्महरेणुभार्गीरास्नैलहिङ्गुलवणोत्तमनागराणाम्
पित्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं स्नेहः ससैन्धवसितामधुसर्पिरिष्टः ७
निम्बाम्बुवामितवतः कफजेऽनुपानं राजद्रुमाम्बु मधुना तु सदीप्यकं स्यात्
चूर्णं यदुक्तमथवाऽनिलजे तदेव सर्वैश्च सर्वकृतमेवमुपक्रमेत ८
द्रा क्षापटोलविडवेत्रकरीरनिम्बमूर्वाभयाक्षबदरामलकेन्द्र वृक्षैः
बीजैः करञ्जनृपवृक्षभवैश्च पिष्टैर्लेहं पचेत् सुरभिमूत्रयुतं यथावत् ९
मुस्तां वचां त्रिकटुकं रजनीद्वयं च भार्गीं च कुष्ठमथ निर्दहनीं च पिष्ट्वा
मूत्रेऽविजे द्विरदमूत्रयुते पचेद्वा पाठां तुगामतिविषां रजनीं च मुख्याम् १०
मण्डूकिमर्कममृतां च सलाङ्गलाख्यां मूत्रे पचेत्तु महिषस्य विधानविद्वा
एतान्न सन्ति चतुरो लिहतस्तु लेहान् गुल्मारुचिश्वसनकण्ठहृदामयाश्च ११
सात्म्यान् स्वदेशरचितान् विविधांश्च भक्ष्यान्
पानानि मूलफलषाडवरागयोगान्
अद्याद्र सांश्च विविधान् विविधैः प्रकारै-
र्भुञ्जीत चापि लघुरूक्षमनःसुखानि १२
आस्थापनं विधिवदत्र विरेचनं च कुर्यान्मृदूनि शिरसश्च विरेचनानि
त्रीण्यूषणानि रजनीत्रिफलायुतानि चूर्णीकृतानि यवशूकविमिश्रितानि १३
क्षौद्रा युतानि वितरेन्मुखबोधनार्थमन्यानि तिक्तकटुकानि च भेषजानि
मुस्तादिराजतरुवर्गदशाङ्गसिद्धैः क्वाथैर्जयेन्मधुयुतैर्विविधैश्च लेहैः १४
मूत्रासवैर्गुडकृतैश्च तथा त्वरिष्टैः क्षारासवैश्च मधुमाधवतुल्यगन्धैः
स्यादेष एव कफवातहते विधिश्च शान्तिं गते हुतभुजि प्रशमाय तस्य १५
इच्छाभिघातभयशोकहतेऽन्तरग्नौ भावान् भवाय वितरेत् खलु शक्यरूपान्
अर्थेषु चाप्यपचितेषु पुनर्भवाय पौराणिकैः श्रुतिशतैरनुमानयेत्तम् १६
दैन्यं गते मनसि बोधनमत्र शस्तं
यद्यत् प्रियं तदुपसेव्यमरोचके तु १७
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रेऽरोचकप्रतिषेधो नाम सप्तपञ्चाशत्तमोऽध्यायः ५७
अष्टापञ्चाशत्तमोऽध्यायः
अथातो मूत्राघातप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातकुण्डलिकाऽष्ठीला वातबस्तिस्तथैव च
मूत्रातीतः सजठरो मूत्रोत्सङ्गः क्षयस्तथा ३
मूत्रग्रन्थिर्मूत्रशुक्रमुष्णवातस्तथैव च
मुत्रौकसादौ द्वौ चापि रोगा द्वादश कीर्तिताः ४
रौक्ष्याद्वेगविघाताद्वा वायुरन्तरमाश्रितः
मूत्रं चरति संगृह्य विगुणः कुण्डलीकृतः ५
सृजेदल्पाल्पमथवा सरुजस्कं शनैः शनैः
वातकुण्डलिकां तं तु व्याधिं विद्यात् सुदारुणम् ६
शकृन्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः
अष्ठीलावद्घनं ग्रन्थिं करोत्यचलमुन्नतम् ७
विण्मूत्रानिलसङ्गश्च तत्राध्मानं च जायते
वेदना च परा बस्तौ वाताष्ठीलेति तां विदुः ८
वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः
निरुणद्धि मुखं तस्य बस्तेर्बस्तिगतोऽनिलः ९
मूत्रसङ्गो भवेत्तेन बस्तिकुक्षिनिपीडितः
वातबस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः १०
वेगं सन्धार्य मूत्रस्य यो भूयः स्रष्टुमिच्छति
तस्य नाभ्येति यदि वा कथञ्चित्संप्रवर्तते ११
प्रवाहतो मन्दरुजमल्पमल्पं पुनः पुनः
मूत्रातीतं तु तं विद्यान्मूत्रवेगविघातजम् १२
मूत्रस्य विहते वेगे तदुदावर्तहेतुना
अपानः कुपितो वायुरुदरं पूरयेद्भृशम् १३
नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम्
तं मूत्रजठरं विद्यादधःस्रोतोनिरोधनम् १४
बस्तौ वाऽप्यथवा नाले मणौ वा यस्य देहिनः
मूत्रं म्प्रवृत्तं सज्जेत सरक्तं वा प्रवाहतः १५
स्रवेच्छनैरल्पमल्पं सरुजं वाऽथ नीरुजम्
विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसंज्ञितः १६
रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ
सदाहवेदनं कृच्छ्रं कुर्यातां मूत्रसंक्षयम् १७
अभ्यन्तरे बस्तिमुखे वृत्तोऽल्पः स्थिर एव च
वेदनावानति सदा मूत्रमार्गनिरोधनः १८
जायते सहसा यस्य ग्रन्थिरश्मरिलक्षणः
स मुत्रग्रन्थिरित्येवमुच्यते वेदनादिभिः १९
प्रत्युपस्थितमूत्रस्तु मैथुनं योऽभिनन्दति
तस्य मूत्रयुतं रेतः सहसा संप्रवर्तते २०
पुरस्ताद्वाऽपि मूत्रस्य पश्चाद्वाऽपि कदाचन
भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते २१
व्यायामाध्वातपैः पित्तं बस्तिं प्राप्यानिलावृतम्
बस्तिं मेढ्रं गुदं चैव प्रदहन् स्रावयेदधः २२
मूत्रं हारिद्र मथवा सरक्तं रक्तमेव वा
कृच्छ्रात् प्रवर्तते जन्तोरुष्णवातं वदन्ति तम् २३
विशदं पीतकं मूत्रं सदाहं बहलं तथा
शुष्कं भवति यच्चापि रोचनाचूर्णसन्निभम् २४
मूत्रौकसादं तं विद्याद्रो गं पित्तकृतं बुधः
पिच्छिलं संहतं श्वेतं तथा कृच्छ्रप्रवर्तनम् २५
शुष्कं भवति यच्चापि शङ्खचूर्णप्रपाण्डुरम्
मूत्रौकसादं तं विद्यादामयं द्वादशं कफात् २६
कषायकल्कसर्पींषि भक्ष्यान् लेहान् पयांसि च
क्षारमद्यासवस्वेदान् बस्तींश्चोत्तरसंज्ञितान् २७
विदध्यान्मतिमांस्तत्र विधिं चाश्मरिनाशनम्
मूत्रोदावर्तयोगांश्च कार्त्स्न्येनात्र प्रयोजयेत् २८
कल्कमेर्वारुबीजानामक्षमात्रं ससैन्धवम्
धान्याम्लयुक्तं पीत्वैव मूत्रकृच्छ्रात् प्रमुच्यते २९
सुरां सौवर्चलवतीं मूत्रकृच्छ्री पिबेन्नरः
मधु मांसोपदंशं वा पिबेद्वाऽप्यथ गौडिकम् ३०
पिबेत् कुङ्कुमकर्षं वा मधूदकसमायुतम्
रात्रिपर्युषितं प्रातस्तथा सुखमवाप्नुयात् ३१
दाडिमाम्लां युतां मुख्यामेलाजीरकनागरैः
पीत्वा सुरां सलवणां मूत्रकृच्छ्रात् प्रमुच्यते ३२
पृथक्पर्ण्यादिवर्गस्य मूलं गोक्षुरकस्य च
अर्धप्रस्थेन तोयस्य पचेत् क्षीरचतुर्गुणम् ३३
क्षीरावशिष्टं तच्छीतं सिताक्षौद्र युतं पिबेत्
नरो मारुतपित्तोत्थमूत्राघातनिवारणम् ३४
निष्पीड्य वाससा सम्यग्वर्चो रासभवाजिनोः
रसस्य कुडवं तस्य पिबेन्मूत्ररुजापहम् ३५
मुस्ताभयादेवदारुमूर्वाणां मधुकस्य च
पिबेदक्षसमं कल्कं मूत्रदोषनिवारणम् ३६
अभयामलकाक्षाणां कल्कं बदरसंमितम्
अम्भसाऽलवणोपेतं पिबेन्मूत्ररुजापहम् ३७
उदुम्बरसमं कल्कं द्रा क्षाया जलसंयुतम्
पिबेत् पर्युषितं रात्रौ शीतं मूत्ररुजापहम् ३८
निदिग्धिकायाः स्वरसं पिबेत् कुडवसंमितम्
मूत्रदोषहरं कल्यमथवा क्षौद्र संयुतम् ३९
प्रपीड्यामलकानां तु रसं कुडवसंमितम्
पीत्वाऽगदी भवेज्जन्तुर्मूत्रदोषरुजातुरः ४०
धात्रीफलरसेनैवं सूक्ष्मैलां वा पिबेन्नरः
पिष्ट्वऽथवा सुशीतेन शालितण्डुलवारिणा ४१
तालस्य तरुणं मूलं त्रपुसस्य रसं तथा
श्वेतं कर्कटकं चैव प्रातस्तु पयसा पिबेत् ४२
शृतं वा मधुरैः क्षीरं सर्पिर्मिश्रं पिबेन्नरः
मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् ४३
बलाश्वदंष्ट्राक्रौञ्चास्थिकोकिलाक्षकतण्डुलान्
शतपर्वकमूलं च देवदारु सचित्रकम् ४४
अक्षबीजं च सुरया कल्कीकृत्य पिबेन्नरः
मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् ४५
पाटलाक्षारमाहृत्य सप्तकृत्वः परिस्रुतम्
पिबेन्मूत्रविकारघ्नं संसृष्टं तैलमात्रया ४६
नलाश्मभेददर्भेक्षुत्रपुसैर्वारुबीजकान्
क्षीरे परिशृतान् तत्र पिबेत् सर्पिःसमायुतान् ४७
पाटल्या यावशूकाच्च पारिभद्रा त्तिलादपि
क्षारोदकेन मतिमान् त्वगेलोषणचूर्णकम् ४८
पिबेद्गुडेन मिश्रं वा लिह्याल्लेखान् पृथक् पृथक्
अत ऊर्ध्वं प्रवक्ष्यामि मूत्रदोषे क्रमं हितम् ४९
स्नेहस्वेदोपपन्नानां हितं तेषु विरेचनम्
ततः संशुद्धदेहानां हिताश्चोत्तरबस्तयः ५०
स्त्रीणामतिप्रसङ्गेन शोणितं यस्य दृश्यते
मैथुनोपरमस्तस्य बृंहणश्च विधिः स्मृतः ५१
ताम्रचूडवसा तैलं हितं चोत्तरबस्तिषु
विधानं तस्य पूर्वं हि व्यासतः परिकीर्तितम् ५२
क्षौद्रा र्धपात्रं दत्त्वा च पात्रं तु क्षीरसर्पिषः
शर्करायाश्च चूर्णं च द्रा क्षाचूर्णं च तत्समम् ५३
स्वयङ्गुप्ताफलं चैव तथैवेक्षुरकस्य च
पिप्पलीचूर्णसंयुक्तमर्धभागं प्रकल्पयेत् ५४
तदैकध्यं समानीय खजेनाभिप्रमन्थयेत्
ततः पाणितलं चूर्णं लीढ्वा क्षीरं ततः पिबेत् ५५
एतत् सर्पिः प्रयुञ्जानः शुद्धदेहो नरः सदा
मूत्रदोषाञ्जयेत् सर्वानन्ययोगैः सुदुर्जयान् ५६
जयेच्छोणितदोषांश्च वन्ध्या गर्भं लभेत च
नारी चैतत् प्रयुञ्जाना योनिदोषात् प्रमुच्यते ५७
बला कोलास्थि मधुकं श्वदंष्ट्राऽथ शतावरी
मृणालं च कशेरुश्च बीजानीक्षुरकस्य च ५८
सहस्रवीर्यांऽशुमती पयस्या सह कालया
शृगालविन्नाऽतिबला बृंहणीयो गणस्तथा ५९
एतानि समभागानि मतिमान् सह साधयेत्
चतुर्गुणेन पयसा गुडस्य तुलया सह ६०
द्रो णावशिष्टं तत् पूतं पचेत्तेन घृताढकम्
तत् सिद्धं कलशे स्थाप्यं क्षौद्र प्रस्थेन संयुतम् ६१
सर्पिरेतत् प्रयुञ्जानो मूत्रदोषात् प्रमुच्यते
तुगाक्षीर्याश्च चूर्णानि शर्करायास्तथैव च ६२
क्षौद्रे ण तुल्यान्यालोड्य प्रशस्तेऽहनि लेहयेत्
तस्य खादेद्यथाशक्ति मात्रां क्षीरं ततः पिबेत् ६३
शुक्रदोषाञ्जयेन्मर्त्यः प्राश्य सम्यक् सुयन्त्रितः
व्यवायक्षीणरेतास्तु सद्यः संलभते सुखम् ६४
ओजस्वी बलवान्मर्त्यः पिबन्नेव च हृष्यति
चित्रकः सारिवा चैव बला कालानुसारिवा ६५
द्रा क्षा विशाला पिप्पल्यस्तथा चित्रफला भवेत्
तथैव मधुकं पथ्यां दद्यादामलकानि च ६६
घृताढकं पचेदेभिः कल्कैः कर्षसमन्वितैः
क्षीरद्रो णे जलद्रो णे तत्सिद्धमवतारयेत् ६७
शीतं परिस्रुतं चैव शर्कराप्रस्थसंयुतम्
तुगाक्षीर्याश्च तत् सर्वं मतिमान् परिमिश्रयेत् ६८
ततो मितं पिबेत्काले यथादोषं यथाबलम्
वातरेताः श्लेष्मरेताः पित्तरेतास्तु यो भवेत् ६९
रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगताम्
जीवनीयं च वृष्यं च सर्पिरेतद्बलावहम् ७०
प्रज्ञाहितं च धन्यं च सर्वरोगापहं शिवम्
सर्पिरेतत् प्रयुञ्जाना स्त्री गर्भं लभतेऽचिरात् ७१
असृग्दोषाञ्जयेच्चापि योनिदोषांश्च संहतान्
मूत्रदोषेषु सर्वेषु कुर्यादेतच्चिकित्सितम् ७२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूत्राघातप्रतिषेधो नाम अष्टपञ्चाशत्तमोऽध्यायः ५८
ऊनषष्टितमोऽध्यायः
अथातो मूत्रकृच्छ्रप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातेन पित्तेन कफेन सर्वैस्तथाऽभिघातैः शकृदश्मरीभ्याम्
तथाऽपरः शर्करया सुकष्टो मूत्रोपघातः कथितोऽष्टमस्तु ३
अल्पमल्पं समुत्पीड्य मुष्कमेहनबस्तिभिः
फलद्भिरिव कृच्छ्रेण वाताघातेन मेहति ४
हारिद्र मुष्णं रक्तं वा मुष्कमेहनबस्तिभिः
अग्निना दह्यमानाभैः पित्ताघातेन मेहति ५
स्निग्धं शुक्लमनुष्णं च मुष्कमेहनबस्तिभिः
संहृष्टरोमा गुरुभिः श्लेष्माघातेन मेहति ६
दाहशीतरुजाविष्टो नानावर्णं मुहुर्मुहुः
ताम्यमानस्तु कृच्छ्रेण सन्निपातेन मेहति ७
मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु च
स्रोतःसु मूत्राघातस्तु जायते भृशवेदनः ८
वातबस्तेस्तु तुल्यानि तस्य लिङ्गानि लक्षयेत्
शकृतस्तु प्रतीधाताद्वायुर्विगुणतां गतः ९
आध्मानं च सशूलं च मूत्रसङ्गं करोति हि
अश्मरीहेतुकः पूर्वं मूत्राघात उदाहृतः १०
अश्मरी शर्करा चैव तुल्ये संभवलक्षणैः
शर्कराया विशेषं तु शृणु कीर्तयतो मम ११
पच्यमानस्य पित्तेन भिद्यमानस्य वायुना
श्लेष्मणोऽवयवा भिन्नाः शर्करा इति संज्ञिताः १२
हृत्पीडा वेपथुः शूलं कुक्षौ वह्निः सुदुर्बलः
ताभिर्भवति मूर्च्छा च मूत्राघातश्च दारुणः १३
मूत्रवेगनिरस्तासु तासु शाम्यति वेदना
यावदन्या पुनर्नैति गुडिका स्रोतसो मुखम् १४
शर्करासंभवस्यैतन्मूत्राघातस्य लक्षणम्
चिकित्सितमथैतेषामष्टानामपि वक्ष्यते १५
अश्मरीं च समाश्रित्य यदुक्तं प्रसमीक्ष्य तत्
यथादोषं प्रयुञ्जीत स्नेहादिमपि च क्रमम् १६
श्वदंष्ट्राश्मभिदौ कुम्भीं हपुषां कण्टकारिकाम्
बलां शतावरीं रास्नां वरुणं गिरिकर्णिकाम् १७
तथा विदारिगन्धादिं संहृत्य त्रैवृतं पचेत्
तैलं घृतं वा तत् पेयं तेन वाऽप्यनुवासनम् १८
दद्यादुत्तरबस्तिं च वातकृच्छ्रोपशान्तये
श्वदंष्ट्रास्वरसे तैलं सगुडक्षीरनागरम् १९
पक्त्वा तत् पूर्ववद्योज्यं तत्रानिलरुजापहम्
तृणोत्पलादिकाकोलीन्यग्रोधादिगणैः कृतम् २०
पीतं घृतं पित्तकृच्छ्रं नाशयेत् क्षीरमेव वा
दद्यादुत्तरबस्तिं च पित्तकृच्छ्रोपशान्तये २१
एभिरेव कृतः स्नेहस्त्रिविधेष्वपि बस्तिषु
हितं विरेचनं चेक्षुक्षीरद्रा क्षारसैर्युतम् २२
सुरसोषकमुस्तादौ वरुणादौ च यत् कृतम्
तैलं तथा यवाग्वादि कफाघाते प्रशस्यते २३
यथादोषोच्छ्रयं कुर्यादेतानेव च सर्वजे
फल्गुवृश्चीरदर्भाश्मसारचूर्णं च वारिणा २४
सुरेक्षुरसदर्भाम्बुपीतं कृच्छ्ररुजापहम्
तथाऽभिघातजे कुर्यात् सद्योव्रणचिकित्सितम् २५
मूत्रकृच्छ्रे शकृज्जाते कार्या वातहरी क्रिया
स्वेदावगाहावभ्यङ्गबस्तिचूर्णक्रियास्तथा २६
ये त्वन्ये तु तथा कृच्छ्रे तयोः प्रोक्तः क्रियाविधिः २७
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूत्रकृच्छ्रप्रतिषेधो नाम एकोनषष्टितमोऽध्यायः ५९
षष्टितमोऽध्यायः
अथातोऽमानुषोपसर्गप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः
इति यत् प्रागभिहितं विस्तरस्तस्य वक्ष्यते ३
गुह्यानागतविज्ञानमनवस्थाऽसहिष्णुता
क्रिया वाऽमानुषी यस्मिन् सग्रहः परिकीर्त्यते ४
अशुचिं भिन्नमर्यादं क्षतं वा यदि वाऽक्षतम्
हिंस्युर्हिंसाविहारार्थं सत्कारार्थमथापि वा ५
असङ्ख्येया ग्रहगणा ग्रहाधिपतयस्तु ये
व्यज्यन्ते विविधाकारा भिद्यन्ते ते तथाऽष्टधा ६
देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरो भुजङ्गाः
रक्षांसि या चापि पिशाचजातिरेषोऽष्टको देवगणो ग्रहाख्यः ७
संतुष्टः शुचिरपि चेष्टगन्धमाल्यो निस्तन्द्री ह्यवितथसंस्कृतप्रभाषी
तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः ८
संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः
सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्मा भवति च देवशत्रुजुष्टः ९
हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः
नृत्यन् वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः १०
ताम्राक्षः प्रियतनुरक्तवस्त्रधारी तम्भीरो द्रुतमतिरल्पवाक् सहिष्णुः
तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः ११
प्रेतेभ्यो विसृजति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चापसव्यवस्त्रः
मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भुक्तो भवति पितृग्रहाभिभूतः १२
भूमौ यः प्रसरति सर्पवत् कदाचित् सृक्किण्यौ विलिखति जिह्वया तथैव
निद्रा लुर्गुडमधुदुग्धपायसेप्सुर्विज्ञेयो भवति भुजङ्गमेन जुष्टः १३
मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः
क्रोधालुर्विपुलबलो निशाविहारी शौचद्विड् भवति च रक्षसा गृहीतः १४
उद्धस्तः कृशपरुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः
बह्वाशी विजनहिमाम्बुरात्रिसेवी व्याविग्नो भ्रमति रुदन् पिशाचजुष्टः १५
स्थूलाक्षस्त्वरितगतिः स्वफेनलेही निद्रा लुः पतति च कम्पते च योऽति
यश्चाद्रि द्विरदनगादिविच्युतः सन् संसृष्टो न भवति वार्धकेन जुष्टः १६
देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि
गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ १७
कृष्णक्षये च पितरः पञ्चम्यामपि चोरगाः
रक्षांसि निशि पैशाचाश्चतुर्दश्यां विशन्ति च १८
दर्पणादीन् यथा छाया शितोष्णं प्राणिनो यथा
स्वमणिं भास्करस्योस्रा यथा देहं च देहधृक्
विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणम् १९
तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमाश्च सत्यम्
गुणास्तथाऽष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम् २०
न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति
ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः २१
तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपद्मसंख्याः
असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तमाविशन्ति २२
निशाचराणां तेषां हि ये देवगणमाश्रिताः
ते तु तत्सत्त्वसंसर्गाद्विज्ञेयास्तु तदञ्जनाः २३
देवग्रहा इति पुनः प्रोच्यन्तेऽशुचयश्च ये
देववच्च नमस्यन्ते प्रत्यर्थ्यन्ते च देववत् २४
स्वामिशीलक्रियाचाराः क्रम एष सुरादिषु
निरृतेर्या दुहितरस्तासां स प्रसवः स्मृतः २५
सत्यत्वादपवृत्तेषु वृत्तिस्तेषां गणैः कृता
हिंसाविहारा ये केचिद्देवभावमुपाश्रिताः २६
भूतानीति कृता संज्ञा तेषां संज्ञाप्रवक्तृभिः
ग्रहसंज्ञानि भूतानि यस्माद्वेत्त्यनया भिषक् २७
विद्यया भूतविद्यात्वमत एव निरुच्यते
तेषां शान्त्यर्थमन्विच्छन् वैद्यस्तु सुसमाहितः २८
जपैः सनियमैर्होमैरारभेत चिकित्सितुम्
रक्तानि गन्धमाल्यानि बीजानि मधुसर्पिषी २९
भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरुच्यते
वस्त्राणि गन्धमाल्यानि मांसानि रुधिराणि च ३०
यानि येषां यथेष्टानि तानि तेभ्यः प्रदापयेत्
हिंसन्ति मनुजान् येषु प्रायशो दिवसेषु तु ३१
दिनेषु तेषु देयानि तद्भूतविनिवृत्तये
देवग्रहे देवगृहे हुत्वाऽग्निं प्रापयेद्बलिम् ३२
कुशस्वस्तिकपूपाज्यच्छत्रपायससंभृतम्
असुराय यथाकालं विदध्याच्चत्वरादिषु ३३
गन्धर्वस्य गवां मध्ये मद्यमांसाम्बुजाङ्गलम्
हृद्ये वेश्मनि यक्षस्य कुल्माषासृक्सुरादिभिः ३४
अतिमुक्तककुन्दाब्जैः पुष्पैश्च वितरेद्बलिम्
नद्यां पितृग्रहायेष्टं कुशास्तरणभूषितम् ३५
तत्रैवोपहरेच्चापि नागाय विविधं बलिम्
चतुष्पथे राक्षसस्य भीमेषु गहनेषु वा ३६
शून्यागारे पिशाचस्य तीव्रं बलिमुपाहरेत्
पूर्वमाचरितैर्मन्त्रैर्भूतविद्यानिदर्शितैः ३७
न शक्या बलिभिर्जेतुं योगैस्तान् समुपाचरेत्
अजर्क्षचर्मरोमाणि शल्यकोलूकयोस्तथा ३८
हिङ्गु मूत्रं च बस्तस्य धूममस्य प्रयोजयेत्
एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः ३९
गजाह्वपिप्पलीमूलव्योषामलकसर्षपान्
गोधानकुलमार्जारऋष्यपित्तप्रपेषितान् ४०
नस्याभ्यञ्जनसेकेषु विदध्याद्योगतत्त्ववित्
खराश्वाश्वतरोलूककरभश्वशृगालजम् ४१
पुरीषं गृध्रकाकानां वराहस्य च पेषयेत्
बस्तमूत्रेण तत्सिद्धं तैलं स्यात् पूर्ववद्धितम् ४२
शिरीषबीजं लशुनं शुण्ठीं सिद्धार्थकं वचाम्
मञ्जिष्ठां रजनीं कृष्णां बस्तमूत्रेण पेषयेत् ४३
वर्त्यश्छायाविशुष्कास्ताः सपित्ता नयनाञ्जनम्
नक्तमालफलं व्योषं मूलं श्योनाकबिल्वयोः ४४
हरिद्रे च कृता वर्त्यः पूर्ववन्नयनाञ्जनम्
सैन्धवं कटुकां हिङ्गुं वयःस्थां च वचामपि
बस्तमूत्रेण संपिष्टं मत्स्यपित्तेन पूर्ववत् ४५
ये ये ग्रहा न सिध्यन्ति सर्वेषां नयनाञ्जनम्
पुराणसर्पिर्लशुनं हिङ्गु सिद्धार्थकं वचा ४६
गोलोमी चाजलोमी च भूतकेशी जटा तथा
कुक्कुटा सर्पगन्धा च तथा काणविकाणिके ४७
वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्लिका
अर्कमूलं त्रिकटुकं लता स्रोतोजमञ्जनम् ४८
नैपाली हरितालं च रक्षोघ्ना ये च कीर्तिताः
सिंहव्याघ्रर्क्षमार्जारद्वीपिवाजिनवां तथा ४९
श्वाविच्छल्यकगोधानामुष्ट्रस्य नकुलस्य च
विट्त्वग्रोमवसामूत्ररक्तपित्तनखादयः ५०
अस्मिन् वर्गे भिषक् कुर्यात्तैलानि च घृतानि च
पानाभ्यञ्जननस्येषु तानि योज्यानि जानता ५१
अवपीडेऽञ्जने चैव विदध्याद्गुटिकीकृतम्
विदधीत परीषेके क्वथितं चूर्णितं तथा ५२
उद्धूलने श्लक्ष्णपिष्टं प्रदेहे चावचारयेत्
एष सर्वविकारांस्तु मानासानपराजितः ५३
हन्यादल्पेन कालेन स्नेहादिरपि च क्रमः
न चाचौक्षं प्रयुञ्जीत प्रयोगं देवताग्रहे ५४
ऋते पिशाचादन्यत्र प्रतिकूलं न चाचरेत्
वैद्यातुरौ निहन्युस्ते ध्रुवं क्रुद्धा महौजसः ५५
हिताहितीये यच्चोक्तं नित्यमेव समाचरेत्
ततः प्राप्स्यति सिद्धिं च यशश्च विपुलं भिषक् ५६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽमानुषोपसर्गप्रतिषेधो नाम षष्टितमोऽध्यायः ६०
एकषष्टितमोऽध्यायः
अथातोऽपस्मारप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्मृतिर्भूतार्थविज्ञानमपश्च परिवर्जने
अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत् ३
मिथ्यातियोगेन्द्रि यार्थकर्मणामभिसेवनात्
विरुद्धमलिनाहारविहारकुपितैर्मलैः ४
वेगनिग्रहशीलानामहिताशुचिभोजिनाम्
रजस्तमोभिभूतानां गच्छतां च रजस्वलाम् ५
तथा कामभयोद्वेगक्रोधशोकादिभिर्भृशम्
चेतस्यभिहते पुंसामपस्मारोऽभिजायते ६
हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता
निद्रा नाशश्च तस्मिंस्तु भविष्यति भवन्त्यथ ७
संज्ञावहेषु स्रोतःसु दोषव्याप्तेषु मानवः
रजस्तमःपरीतेषु मूढो भ्रान्तेन चेतसा ८
विक्षिपन् हस्तपादं च विजिह्मभ्रूर्विलोचनः
दन्तान् खादन् वमन् फेनं विवृताक्षः पतेत् क्षितौ ९
अल्पकालान्तरम् चापि पुनः संज्ञां लभेत सः
सोऽपस्मार इति प्रोक्तः स च दृष्टश्चतुर्विधः १०
वातपित्तकफैर्नॄणां चतुर्थः सन्निपाततः
वेपमानो दशन् दन्तान् श्वसन् फेनं वमन्नपि ११
यो ब्रूयाद्विकृतं सत्त्वं कृष्णं मामनुधावति
ततो मे चित्तनाशः स्यात् सोऽपस्मारोऽनिलात्मकः १२
तृट्तापस्वेदमूर्च्छार्तो धुन्वन्नङ्गानि विह्वलः
यो ब्रूयाद्विकृतं सत्त्वं पीतं मामनुधावति १३
ततो मे चित्तनाशः स्यात् स पित्तभव उच्यते
शीतहृल्लासनिद्रा र्तः पतन् भूमौ वमन् कफम् १४
यो ब्रूयाद्विकृतं सत्त्वं शुक्लं मामनुधावति
ततो मे चित्तनाशः स्यात् सोऽपस्मारः कफात्मकः १५
हृदि तोदस्तृडुत्क्लेदस्त्रिष्वप्येतेषु संख्यया
प्रलापः कूजनं क्लेशः प्रत्येकं तु भवेदिह १६
सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे
अनिमित्तागमाद्व्याधेर्गमनादकृतेऽपि च १७
आगमाच्चाप्यपस्मारं वदन्त्यन्ये न दोषजम्
क्रमोपयोगाद्दोषाणां क्षणिकत्वात्तथैव च १८
आगमाद्वैश्वरूप्याच्च स तु निर्वर्ण्यते बुधैः
देवे वर्षत्यपि यथा भूमौ बीजानि कानिचित् १९
शरदि प्रतिरोहन्ति तथा व्याधिसमुद्भवः
स्थायिनः केचिदल्पेन कालेनाभिप्रवर्धिताः २०
दर्श्यन्ति विकारांस्तु विश्वरूपान्निसर्गतः
अपस्मारो महाव्याधिस्तस्माद्दोषज एव तु २१
तस्य कार्यो विधिः सर्वो य उन्मादेषु वक्ष्यते
पुराणसर्पिषः पानमभ्यङ्गश्चैव पूजितः २२
उपयोगो ग्रहोक्तानां योगानां तु विशेषतः
ततः सिध्यन्ति ते सर्वे योगैरन्यैश्च साधयेत्
शिग्रुकट्वङ्गकिण्वाहिनिम्बत्वग्रससाधितम् २३
चतुर्गुणे गवां मूत्रे तैलमभ्यञ्जने हितम्
गोधानकुलनागानां पृषतर्क्षगवामपि २४
पित्तेषु सिद्धं तैलं च पानाभ्यङ्गेषु पूजितम्
तीक्ष्णैरुभयतोभागैः शिरश्चापि विशोधयेत् २५
पूजां रुद्र स्य कुर्वीत तद्गणानां च नित्यशः
वातिकं बस्तिभिश्चापि पैत्तिकं तु विरेचनैः २६
कफजं वमनैर्धीमानपस्मारमुपाचरेत्
कुलत्थयवकोलानि शणबीजं पलङ्कषाम् २७
जटिलां पञ्चमूल्यौ द्वे पथ्यां चोत्क्वाथ्य यत्नतः
बस्तमूत्रयुतं सर्पिः पचेत्तद्वातिके हितम् २८
काकोल्यादिप्रतीवापं सिद्धं च प्रथमे गणे
पयोमधुसितायुक्तं घृतं तत् पैत्तिके हितम् २९
कृष्णावचामुस्तकाद्यैर्युक्तमारग्वधादिके
पक्वं च मूत्रवर्गे तु श्लेष्मापस्मारिणे हितम् ३०
सुरद्रुमवचाकुष्ठसिद्धार्थव्योषहिङ्गुभिः
मञ्जिष्ठारजनीयुग्मसमङ्गात्रिफलाम्बुदैः ३१
करञ्जबीजशैरीषगिरिकर्णीहुताशनैः
सिद्धं सिद्धार्थकं नाम सर्पिर्मूत्रचतुर्गुणम् ३२
कृमिकुष्ठगरश्वासबलासविषमज्वरान्
सर्वभूतग्रहोन्मादानपस्मारांश्च नाशयेत् ३३
दशमूलेन्द्र वृक्षत्वङ्मूर्वाभार्गीफलत्रिकैः
शम्पाकश्रेयसीसप्तपर्णापामार्गफल्गुभिः ३४
शृतैः कल्कैश्च भूनिम्बपूतीकव्योषचित्रकैः
त्रिवृत्पाठानिशायुग्मसारिवाद्वयपौष्करैः ३५
कटुकायासदन्त्युग्रानीलिनीक्रिमिशत्रुभिः
सर्पिरेभिश्च गोक्षीरदधिमूत्रशकृद्र सैः ३६
साधितं पञ्चगव्याख्यं सर्वापस्मारभूतनुत्
चातुर्थकक्षयश्वासानुन्मादांश्च नियच्छति ३७
भार्गीशृते पचेत् क्षीरे शालितण्डुलपायसम्
त्र्यहं शुद्धाय तं भोक्तुं वराहायोपकल्पयेत् ३८
ज्ञात्वा च मधुरीभूतं तं विशस्यान्नमुद्धरेत्
त्रीन् भागांस्तस्य चूर्णस्य किण्वभागेन संसृजेत् ३९
मण्डोदकार्थे देयश्च भार्गीक्वाथः सुशीतलः
शुद्धे कुम्भे निदध्याच्च संभारं तं सुरां ततः ४०
जातगन्धां जातरसां पाययेदातुरं भिषक्
सिरां विध्येदथ प्राप्तां मङ्गल्यानि च धारयेत् ४१
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽपस्मारप्रतिषेधो नाम एकषष्टितमोऽध्यायः ६१
द्विषष्टितमोऽध्यायः
अथात उन्मादप्रतिषेधमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मदयन्त्युद्धता दोषा यस्मादुन्मार्गमाश्रिताः
मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः ३
एकैकशः समस्तैश्च दोषैरत्यर्थमूर्च्छितैः
मानसेन च दुःखेन स पञ्चविध उच्यते ४
विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम्
स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्ति च ५
मोहोद्वेगौ स्वनः श्रोत्रे गात्राणामपकर्षणम्
अत्युत्साहोऽरुचिश्चान्ने स्वप्ने कलुषभोजनम् ६
वायुनोन्मथनं चापि भ्रमश्चक्रगतस्य वा
यस्य स्यादचिरेणैव उन्मादं सोऽधिगच्छति ७
रूक्षच्छविः परुषवाग्धमनीततो वा
शीतातुरः कृशतनुः स्फुरिताङ्गसन्धिः
आस्फोटयत्यटति गायति नृत्यशीलो
विक्रोशति भ्रमति चाप्यनिलप्रकोपात् ८
तृट्स्वेददाहबहुलो बहुभुग्विनिद्र -
श्छायाहिमानिलजलान्तविहारसेवी
तीक्ष्णो हिमाम्बुनिचयेऽपि स वह्निशङ्की
पित्ताद्दिवा नभसि पश्यति तारकाश्च ९
छर्द्यग्निसादसदनारुचिकासयुक्तो
योषिद्विविक्तरतिरल्पमतिप्रचारः
निद्रा परोऽल्पकथनोऽल्पभुगुष्णसेवी
रात्रौ भृशं भवति चापि कफप्रकोपात् १०
सर्वात्मके पवनपित्तकफा यथास्वं
संहर्षिता इव च लिङ्गमुदीरयन्ति ११
चौरैर्नरेन्द्र पुरुषैररिभिस्तथाऽन्यै-
र्वित्रासितस्य धनबान्धवसंक्षयाद्वा
गाढं क्षते मनसि च प्रियया रिरंसो-
र्जायेत चोत्कटतरो मनसो विकारः १२
चित्रं स जल्पति मनोनुगतं विसंज्ञो
गायत्यथो हसति रोदिति मूढसंज्ञः
रक्तेक्षणो हतबलेन्द्रि यभाः सुदीनः
श्यावाननो विषकृतेऽथ भवेत् परासुः १३
स्निग्धं स्विन्नं तु मनुजमुन्मादार्तं विशोधयेत्
तीक्ष्णैरुभयतोभागैः शिरसश्च विरेचनैः १४
विविधैरवपीडैश्च सर्षपस्नेहसंयुतैः
योजयित्वा तु तच्चूर्णं घ्राणे तस्य प्रयोजयेत् १५
सततं धूपयेच्चैनं श्वगोमांसैः सुपूतिभिः
सर्षपानां च तैलेन नस्याभ्यङ्गौ हितौ सदा १६
दर्शयेदद्भुतान्यस्य वदेन्नाशं प्रियस्य वा
भीमाकारैर्नरैर्नागैर्दान्तैर्व्यालैश्च निर्विषैः १७
भीषयेत् संयतं पाशैः कशाभिर्वाऽथ ताडयेत्
यन्त्रयित्वा सुगुप्तं वां त्रासयेत्तं तृणाग्निना १८
जलेन तर्जयेद्वाऽपि रज्जुघातैर्विभावयेत्
बलवांश्चापि संरक्षेत् जलेऽन्तः परिवासयेत्
प्रतुदेदारया चैनं मर्माघातं विवर्जयेत्
वेश्मनोऽन्तः प्रविश्यैनं रक्षंस्तद्वेश्म दीपयेत् १९
सापिधाने जरत्कूपे सततं वा निवासयेत्
त्र्यहात्त्र्यहाद्यवागूश्च तर्पणान् वा प्रदापयेत् २०
केवलानम्बुयुक्तान् वा कुल्माषान् वा बहुश्रुतः
हृद्यं यद्दीपनीयं च तत्पथ्यम् तस्य भोजयेत् २१
ब्राह्मीमैन्द्रीं विडङ्गानि व्योषं हिङ्गु सुरां जटाम्
विषघ्नीं लशुनं रास्नां विशल्यां सुरसां वचाम् ३०
ज्योतिष्मतीं नागरं च अनन्तामभयां तथा
सौराष्ट्रीं च समांशानि गजमूत्रेण पेषयेत् ३१
छायाविशुष्कास्तद्वर्तीर्योजयेद्विधिकोविदः
अवपीडेऽञ्जनेऽभ्यङ्गे नस्ये धूमे प्रलेपने ३२
उरोपाङ्गललाटेषु सिराश्चास्य विमोक्षयेत्
अपस्मारक्रियां चापि ग्रहोद्दिष्टां च कारयेत् ३३
शान्तदोषं विशुद्धं च स्नेहबस्तिभिराचरेत्
उन्मादेषु च सर्वेषु कुर्याच्चित्तप्रसादनम्
मृदुपूर्वां मदेऽप्येवं क्रियां मृद्वीं प्रयोजयेत् ३४
शोकशल्यं व्यपनयेदुन्मादे पञ्चमे भिषक्
विषजे मृदुपूर्वां च विषघ्नीं कारयेत् क्रियाम् ३५
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रे उन्मादप्रतिषेधो नाम द्विषष्टितमोऽध्यायः ६२
त्रिषष्टितमोऽध्यायः
अथातो रसभेदविकल्पमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
दोषाणां पञ्चदशधा प्रसरोऽभिहितस्तु यः
त्रिषष्ट्या रसभेदानां तत्प्रयोजनमुच्यते ३
अविदग्धा विदग्धाश्च भिद्यन्ते ते त्रिषष्टिधा
रसनेदत्रिषष्टिं तु वीक्ष्य वीक्ष्यावचारयेत् ४
एकैकेनानुगमनं भागशो यदुदीरितम्
दोषाणां तत्र मतिमान् त्रिषष्टिं तु प्रयोजयेत् ५
यथाक्रमप्रवृत्तानां द्विकेषु मधुरो रसः
पञ्चानुक्रमते योगानम्लश्चतुर एव तु ६
त्रींश्चानुगच्छति रसो लवणः कटुको द्वयम्
तिक्तः कषायमन्वेति ते द्विका दश पञ्च च ७
तद्यथा–मधुराम्लः १ मधुरलवणः २ मधुरकटुकः ३ मधुरतिक्तः ४ मधुरकषायः ५ एते पञ्चानुक्रान्ता मधुरेण अम्ललवणः १ अम्लकटुकः २ अम्लतिक्तः ३ अम्लकषायः ४ एते चत्वारोऽनुक्रान्ता अम्लेन लवणकटुकः १ लवणतिक्तः २ लवणकषायः ३ एते त्रयोऽनुक्रान्ता लवणेन कटुतिक्तः १ कटुकषायः २ द्वावेतावनुक्रान्तौ कटुकेन तिक्तकषायः १ एक एवानुक्रान्तस्तिक्तेन एवमेते पञ्चदश द्विकसंयोगा व्याख्याताः ८
त्रिकान् वक्ष्यामः–
आदौ प्रयुज्यमानस्तु मधुरो दश गच्छति
षडम्लो लवणस्तस्मादर्धमेकं तथा कटुः ९
तद्यथामधुराम्ललवणः १ मधुराम्लकटुकः २ मधुराम्लतिक्तः ३ मधुराम्लकषायः ४ मधुरलवणकटुकः ५ मधुरलवणतिक्तः ६ मधुरलवणकषायः ७ मधुरकटुकतिक्तः ८ मधुरकटुकषायः ९ मधुरतिक्तकषायः १० एवमेषां दशानां त्रिकसंयोगानामादौ मधुरः प्रयुज्यते अम्ललवणकटुकः १ अम्ललवणतिक्तः २ अम्ललवणकषायः ३ अम्लकटुतिक्तः ४ अम्लकटुकषायः ५ अम्लतिक्तकषायः ६ एवमेषां षण्णामादावम्लः प्रयुज्यते लवणकटुतिक्तः १ लवणकटुकषायः २ लवणतिक्तकषायः ३ एवमेषां त्रयाणामादौ लवणः प्रयुज्यते कटुतिक्तकषायः १ एवमेकस्यादौ कटुकः प्रयुज्यते एवमेते त्रिकसंयोगा विंशतिर्व्याख्याताः १०
चतुष्कान् वक्ष्यामः –
चतुष्करससंयोगान्मधुरो दश गच्छति
चतुरोऽम्लोऽनुगच्छेच्च लवणस्त्वेकमेव तु ११
मधुराम्ललवणकटुकः १ मधुराम्ललवणतिक्तः २ मधुराम्ललवणकषायः ३ मधुराम्लकटुकतिक्तः ४ मधुराम्लकटुकषायः ५ मधुराम्लतिक्तकषायः ६ मधुरलवणकटुकतिक्तः ७ मधुरलवणकटुकषायः ८ मधुरलवणतिक्तकषायः ९ मधुरकटुतिक्तकषायः १० एवमेषां दशानामादौ मधुरः प्रयुज्यते अम्ललवणकटुतिक्तः १ अम्ललवणकटुकषायः २ अम्ललवणतिक्तकषायः ३ अम्लकटुतिक्तकषायः ४ एवमेषां चतुर्णामादावम्लः लवणकटुतिक्तकषायः १ एवमेकस्यादौ लवणः एवमेते चतुष्करससंयोगाः पञ्चदश कीर्तिताः १२
पञ्चकान् वक्ष्यामः –
पञ्चकान् पञ्च मधुर एकमम्लस्तु गच्छति १३
मधुराम्ललवणकटुतिक्तः १ मधुराम्ललवणकटुकषायः २ मधुराम्ललवणतिक्तकषायः ३ मधुराम्लकटुतिक्तकषायः ४ मधुरलवणकटुतिक्तकषायः ५ एवमेषां पञ्चानामादौ मधुरः प्रयुज्यतेअम्ललवणकटुतिक्तकषायः १ एवमेकस्यादावम्लः एवमेते षट् पञ्चकसंयोगा व्याख्याताः १४
षट्कमेकं वक्ष्यामः एकस्तु षट्कसंयोगः–मधुराम्ललवणकटुतिक्तकषायः एष एक एव षट्संयोगः १५
एकैकश्च षड्रसा भवन्ति–मधुरः १ अम्लः २ लवणः ३ कटुकः ४ तिक्तः ५ कषायः ६ इति १६
भवन्ति चात्र–
एषा त्रिषष्टिर्व्याख्याता रसानां रसचिन्तकैः
दोषभेदत्रिषष्ट्यां तु प्रयोक्तव्या विचक्षणैः १७
इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु रसभेदविकल्पाध्यायो नाम त्रिषष्टितमोऽध्यायः ६३
चतुःषष्टितमोऽध्यायः
अथातः स्वस्थवृत्तमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सूत्रस्थाने समुद्दिष्टः स्वस्थो भवति यादृशः
तस्य यद्र क्षणं तद्धि चिकित्सायाः प्रयोजनम् ३
तस्य यद्वृत्तमुक्तं हि रक्षणं च मयाऽऽदितः
तस्मिन्नर्थाः समासोक्ता विस्तरेणेह वक्ष्यते ४
यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम्
तेषु तेषु प्रदातव्याः रसास्ते ते विजानता ५
प्रक्लिन्नत्वाच्छरीराणां वर्षासु भिषजा खलु
मन्देऽग्नौ कोपमायान्ति सर्वेषां मारुतादयः ६
तस्मात् क्लेदविशुद्ध्यर्थं दोषसंहरणाय च
कषायतिक्तकटुकै रसैर्युक्तमपद्र वम् ७
नातिस्निग्धं नातिरूक्षमुष्णं दीपनमेव च
देयमन्नं नृपतये यज्जलं चोक्तमादितः ८
तप्तावरतमम्भो वा पिबेन्मधुसमायुतम्
अह्नि मेघानिलाविष्टेऽत्यर्थशीताम्बुसङ्कुले ९
तरुणत्वाद्विदाहं च गच्छन्त्योषधयस्तदा
मतिमांस्तन्निमित्तं च नातिव्यायाममाचरेत् १०
अत्यम्बुपानावश्यायग्राम्यधर्मातपांस्त्यजेत्
भूबाष्पपरिहारार्थं शयीत च विहायसि ११
शीते साग्नौ निवाते च गुरुप्रावरणे गृहे
यायान्नागवधूभिश्च प्रशस्तागुरुभूषितः १२
दिवास्वप्नमजीर्णं च वर्जयेत्तत्र यत्नतः
सेव्याः शरदि यत्नेन कषायस्वादुतिक्तकाः १३
क्षीरेक्षुविकृतिक्षौद्र शालिमुद्गादिजाङ्गलाः
श्वेतस्रजश्चन्द्र पादाः प्रदोषे लघु चाम्बरम् १४
सलिलं च प्रसन्नत्वात् सर्वमेव तदा हितम्
सरःस्वाप्लवनं चैव कमलोत्पलशालिषु १५
प्रदोषे शशिनः पादाश्चन्दनं चानुलेपनम्
तिक्तस्य सर्पिषः पानैरसृक्स्रावैश्च युक्तितः १६
वर्षासूपचितं पित्तं हरेच्चापि विरेचनैः
नोपेयात्तीक्ष्णमम्लोष्णं क्षारं स्वप्नं दिवाऽतपम् १७
रात्रौ जागरणं चैव मैथुनं चापि वर्जयेत्
हेमन्ते लवणक्षारतिक्ताम्लकटुकोत्कटम् २३
ससर्पिस्तैलमहिममशनं हितमुच्यते
तीक्ष्णान्यपि च पानानि पिबेदगुरुभूषितः २४
तैलाक्तस्य सुखोष्णे च वारिकोष्ठेऽवगाहनम्
साङ्गारयाने महति कौशेयास्तरणास्तृते २५
शयीत शयने तैस्तैर्वृतो गर्भगृहोदरे
स्त्रीः श्लिष्ट्वाऽगुरुधूपाढ्याः पीनोरुजघनस्तनीः २६
प्रकामं च निषेवेत मैथुनं तर्पितो नृपः
एष एव विधिः कार्यः शिशिरे समुदाहृतः ३१
तीक्ष्णरूक्षकटुक्षारकषायं कोष्णमद्र वम्
यवमुद्गमधुप्रायं वसन्ते भोजनं हितम् ३७
व्यायामोऽत्र नियुद्धाध्वशिलानिर्घातजो हितः
उत्सादनं तथा स्नानं वनिताः काननानि च ३८
सेवेत निर्हरेच्चापि हेमन्तोपचितं कफम्
शिरोविरेकवमननिरूहकवलादिभिः ३९
वर्जयेन्मधुरस्निग्धदिवास्वप्नगुरुद्र वान्
व्यायाममुष्णमायासं मैथुनं परिशोषि च ४०
रसांश्चाग्निगुणोद्रि क्तान् निदाघे परिवर्जयेत्
सरांसि सरितो वापीर्वनानि रुचिराणि च ४१
चन्दनानि परार्ध्यानि स्रजः सकमलोत्पलाः
तालवृन्तानिलाहारांस्तथा शीतगृहाणि च ४२
घर्मकाले निषेवेत वासांसि सुलघूनि च
शर्कराखण्डदिग्धानि सुगन्धीनि हिमानि च ४३
पानकानि च सेवेत मन्थांश्चापि सशर्करान्
भोजनं च हितं शीतं सघृतं मधुरद्र वम् ४४
शृतेन पयसा रात्रौ शर्करामधुरेण च
प्रत्यग्रकुसुमाकीर्णे शयने हर्म्यसंस्थिते ४५
शयीत चन्दनार्द्राङ्गः स्पृश्यमानोऽनिलैः सुखैः
तापात्यये हिता नित्यं रसा ये गुरवस्त्रयः ४६
पयो मांसरसाः कोष्णास्तैलानि च घृतानि च
बृंहणं चापि यत्किञ्चिदभिष्यन्दि तथैव च ४७
निदाघोपचितं चैव प्रकुप्यन्तं समीरणम्
निहन्यादनिलघ्नेन विधिना विधिकोविदः ४८
नदीजलं रूक्षमुष्णमुदमन्थं तथाऽतपम्
व्यायामं च दिवास्वप्नं व्यवायं चात्र वर्जयेत् ४९
नवान्नरूक्षशीताम्बुसक्तूंश्चापि विवर्जयेत्
यवषष्टिकगोधूमान् शालींश्चाप्यनवांस्तथा ५०
हर्म्यमध्ये निवाते च भजेच्छय्यां मृदूत्तराम्
सविषप्राणिविण्मूत्रलालादिष्ठीवनादिभिः ५१
समाप्लुतं तदा तोयमान्तरीक्षं विषोपमम्
वायुना विषदुष्टेन प्रावृषेण्येन दूषितम् ५२
तद्धि सर्वोपयोगेषु तस्मिन् काले विवर्जयेत्
अरिष्टासवमैरेयान् सोपदंशांस्तु युक्तितः ५३
पिबेत् प्रावृषि जीर्णांस्तु रात्रौ तानपि वर्जयेत्
निरूहैर्बस्तिभिश्चान्यैस्तथाऽन्यैर्मारुतापहैः ५४
कुपितं शमयेद्वायुं वार्षिकं चाचरेद्विधिम्
ऋतावृतौ य एतेन विधिना वर्तते नरः ५५
घोरानृतुकृतान् रोगान्नाप्नोति स कदाचन
अत ऊर्ध्वं द्वादशाशनप्रविचारान् वक्ष्यामः
तत्र शीतोष्णस्निग्धरूक्षद्र वशुष्कैककालिकद्विकालिकौषधयुक्तमात्राहीनदोषप्रशमनवृत्त्यर्थाः ५६
तृष्णोष्णमददाहार्तान् रक्तपित्तविषातुरान्
मूर्च्छार्तान् स्त्रीषु च क्षीणान् शीतैरन्नैरुपाचरेत् ५७
कफवातामयाविष्टान् विरिक्तान् स्नेहपायिनः
अक्लिन्नकायांश्च नरानुष्णैरन्नैरुपाचरेत् ५८
वातिकान् रूक्षदेहांश्च व्यवायोपहतांस्तथा
व्यायामिनश्चापि नरान् स्निग्धैरन्नैरुपाचरेत् ५९
मेदसाऽभिपरीतांस्तु स्निग्धान्मेहातुरानपि
कफाभिपन्नदेहांश्च रूक्षैरन्नैरुपाचरेत् ६०
शुष्कदेहान् पिपासार्तान् दुर्बलानपि च द्र वैः
प्रक्लिन्नकायान् व्रणिनः शुष्कैर्मेहिन एव च ६१
एककालं भवेद्देयो दुर्बलाग्निविवृद्धये
समाग्नये तथाऽऽहारो द्विकालमपि पूजितः ६२
औषधद्वेषिणे देयस्तथौषधसमायुतः
मन्दाग्नये रोगिणे च मात्राहीनः प्रशस्यते ६३
यथर्तुदत्तस्त्वाहारो दोषप्रशमनः स्मृतः
अतः परं तु स्वस्थानां वृत्त्यर्थं सर्व एव च
प्रविचारानिमानेवं द्वादशात्र प्रयोजयेत् ६४
अत ऊर्ध्वं दशौषधकालान् वक्ष्यामः
तत्राभक्तं प्राग्भक्तमधोभक्तं मध्येभक्तमन्तराभक्तं सभक्तं सामुद्गं मुहुर्मुहुर्ग्रासं ग्रासान्तरं चेति दशौषधकालाः ६५
तत्राभक्तं तु यत् केवलमेवौषधमुपयुज्यते ६६
वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तथाऽऽमयमसंशयमाशु चैवतद्बालवृद्धवनितामृदवस्तु पीत्वा ग्लानिं परां समुपयान्ति बलक्षयं च ६७
प्राग्भक्तं नाम यत् प्राग्भक्तस्योपयुज्यते ६८
शीघ्रं विपाकमुपयाति बलं न हिंस्यादन्नावृतं न च मुहुर्वदनान्निरेतिप्राग्भक्तसेवितमथौषधमेतदेव दद्याच्च वृद्धशिशुभीरुकृशाङ्गनाभ्यः ६९
अधोभक्तं नाम यदधो भक्तस्येति ७०
मध्येभक्तं नाम यन्मध्ये भक्तस्य पीयते ७१
पीतं यदन्नमुपयुज्य तदूर्ध्वकाये हन्याद्गदान् बहुविधांश्च बलं ददातिमध्ये तु पीतमपहन्त्यविसारिभावाद्ये मध्यदेहमभिभूय भवन्ति रोगाः ७२
अन्तराभक्तं नाम-यदन्तरा पीयते पूर्वापरयोर्भक्तयोः ७३
सभक्तं नाम यत् सह भक्तेन ७४
पथ्यं सभक्तमबलाबलयोर्हि नित्यं तद्द्वेषिणामपि तथा शिशुवृद्धयोश्चहृद्यं मनोबलकरं त्वथ दीपनं च पथ्यं सदा भवति चान्तरभक्तकं यत् ७५
सामुद्गं नाम यद्भक्तस्यादावन्ते च पीयते ७६
दोषे द्विधा प्रविसृते तु समुद्गसंज्ञमाद्यन्तयोर्यदशनस्य निषेव्यते तु ७७
मुहुर्मुहुर्नाम-सभक्तमभक्तं वा यदौषधं मुहुर्मुहुरुपयुज्यते ७८
श्वासे मुहुर्मुहुरतिप्रसृते च कासे
हिक्कावमीषु स वदन्त्युपयोज्यमेतत् ७९
ग्रासं तु यत्पिण्डव्यामिश्रम् ८०
ग्रासान्तरं तु यद्ग्रासान्तरेषु ८१
ग्रासेषु चूर्णमबलाग्निषु दीपनीयं वाजीकराण्यपि तु योजयितुं यतेतग्रासान्तरेषु वितरेद्वमनीयधूमान् श्वासादिषु प्रथितदृष्टगुणांश्च लेहान् ८२
एवमेते दशौषधकालाः ८३
विसृष्टे विण्मूत्रे विशदकरणे देहे च सुलघौ विशुद्धे चोद्गारे हृदि सुविमले वाते च सरति तथाऽन्नश्रद्धायां क्लमपरिगमे कुक्षौ च शिथिले प्रदेयस्त्वाहारो भवति भिषजां कालः स तु मतः ८४
इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु स्वस्ववृत्ताध्यायो नाम चतुःषष्टितमोऽध्यायः ६४
पञ्चषष्टितमोऽध्यायः
अथातस्तन्त्रयुक्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
द्वात्रिंशत्तन्त्रयुक्तयो भवन्ति शास्त्रे
तद्यथा–अधिकरणं १ योगः २ पदार्थः ३ हेत्वर्थः ४ उद्देशः ५ निर्देशः ६ उपदेशः ७ अपदेशः ८ प्रदेशः ९ अतिदेशः १० अपवर्जः ११ वा-क्यशेषः १२ अर्थापत्तिः १३ विपर्ययः १४ प्रसङ्गः १५ एकान्तः १६ अने-कान्तः १७ पूर्वपक्षः १८ निर्णयः १९ अनुमतं २० विधानम् २१ अनाग-तावेक्षणम् २२ अतिक्रान्तावेक्षणं २३ संशयः २४ व्याख्यानं २५ स्व-संज्ञा २६ निर्वचनं २७ निदर्शनं २८ नियोगः २९ विकल्पः ३० समुच्च-
यः ३१ ऊह्यम् ३२ इति ३
अत्रासां तन्त्रयुक्तीनां किं प्रयोजनम् उच्यते–वाक्ययोजनमर्थयोजनं च ४
भवन्ति चात्र श्लोकाः
असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधनम्
स्ववाक्यसिद्धिरपि च क्रियते तन्त्रयुक्तितः ५
व्यक्ता नोक्तास्तु ये ह्यर्था लीना ये चाप्यनिर्मलाः
लेशोक्ता ये च केचित्स्युस्तेषां चापि प्रसाधनम् ६
यथाऽम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा
प्रबोधस्य प्रकाशार्थं तथा तन्त्रस्य युक्तयः ७
तत्र यमर्थमधिकृत्योच्यते तदधिकरणं यथा-रसं दोषं वा ८
येन वाक्यं युज्यते स योगः यथा–
तैलं पिबेच्चामृतवल्लिनिम्बहिंस्राभयावृक्षकपिप्पलीभिःसिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगेइत्यत्र तैलं सिद्धं पिबेदिति प्रथमं वक्तव्ये तृतीयपादे सिद्धमिति प्रयुक्तं एवं दूरस्थानामपि पदानामेकीकरणं योगः ९
योऽर्थोऽभिहितः सूत्रे पदे वा स पदार्थः पदस्य पदयोः पदानां वाऽर्थः पदार्थः अपरिमिताश्च पदार्थाः यथा–स्नेहस्वेदाञ्जनेषु निर्दिष्टेषु द्वयोस्त्रयाणां वाऽर्थानामुपपत्तिर्दृश्यते तत्र योऽर्थः पूर्वापरयोगसिद्धो भवति स ग्रहीतव्यः यथा–वेदोत्पत्तिमध्यायं व्याख्यास्याम इत्युक्ते सन्दिह्यते बुद्धिः–कतम-स्य वेदस्योत्पत्तिं वक्ष्यतीति यतः ऋग्वेदादयस्तु वेदाः विद विचारणे वि-द्लृ लाभे इत्येतयोश्च धात्वोरनेकार्थयोः प्रयोगात् तत्र पूर्वापरयोगमुपलभ्य प्रतिपत्तिर्भवति आयुर्वेदोत्पत्तिमयं विवक्षुरिति एष पदार्थः १०
यदन्यदुक्तमन्यार्थसाधकं भवति स हेत्वार्थः यथा–मृत्पिण्डोऽद्भिः प्रक्लिद्यते तथा माषदुग्धप्रभृतिभिर्व्रणः प्रक्लिद्यत इति ११
समासवचनमुद्देशः यथा-शल्यमिति १२
विस्तरवचनं निर्देशः यथा-शारीरमागन्तुकं चेति १३
एवमित्युपदेशः यथा–तथा न जागृयाद्रा त्रौ दिवास्वप्नं च वर्जयेत् इति १४
अनेन कारणेनेत्यपदेशः यथाऽपदिश्यते–मधुरः श्लेष्माणमभिवर्धयतीति १५
प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः यथा–देवदत्तस्यानेन शल्यमुद्धृतं तथा यज्ञदत्तस्याप्ययमुद्धरिष्यतीति १६
प्रकृतस्यानागतस्य साधनमतिदेशः यथा–यतोऽस्य वायुरूर्ध्वमुत्तिष्ठते तेनोदावर्ती स्यादिति १७
अभिव्याप्यापकर्षणमपवर्गः यथा–अस्वेद्या विषोपसृष्टाः अन्यत्र कीटविषादिति १८
येन पदेनानुक्तेन वाक्यं समाप्येत स वाक्यशेषः यथा–शिरःपाणिपादपार्श्वपृष्ठोदरोरसामित्युक्ते पुरुषग्रहणं विनाऽपि गम्यते पुरुषस्येति १९
यदकीर्तितमर्थादापद्यते साऽर्थापत्तिः यथा-ओदनं भोक्ष्ये इत्युक्तेऽर्थादापन्नं भवति नायं पिपासुर्यवागूमिति २०
यद्यत्राभिहितं तस्य प्रातिलोम्यं विपर्ययः यथा–कृशाल्पप्राणभीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढादयः सुचिकित्स्या इति २१
प्रकरणान्तरेण समापनं प्रसङ्गः यद्वा प्रकरणान्तरितो योऽर्थोऽसकृदुक्तः समा-प्यते स प्रसङ्गः यथा–पञ्चमहाभूतशरीरिसमवायः पुरुषस्तस्मिन् क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय भूतचिन्तायां पुनरुक्तं-यतोऽभिहितं प-ञ्चमहाभूतशरीरिसमवायः पुरुष इति स खल्वेष कर्मपुरुषश्चिकित्साधिकृत इति २२
यदवधारणेनोच्यते स एकान्तः यथा–त्रिवृद्विरेचयति मदनफलं वामयति २३
क्वचित्तथा क्वचिदन्यथेति यः सोऽनेकान्तः यथा–केचिदाचार्या ब्रुवते द्र व्यं प्रधानं केचिद्र सं केचिद्वीर्यं केचिद्विपाकमिति २४
आक्षेपपूर्वकः प्रश्नः पूर्वपक्षः यथा–कथं वातनिमित्ताश्चत्वारः प्रमेहा असाध्या भवन्तीति २५
तस्योत्तरं निर्णयः यथा–शरीरं प्रपीड्य पश्चादधो गत्वा वसामेदोमज्जानुविद्धं मूत्रं विसृजति वातः एवमसाध्या वातजा इति २६
तथा चोक्तम्–
कृत्स्नं शरीरं निष्पीड्य मेदोमज्जावसायुतः
अधः प्रकुप्यते वायुस्तेनासाध्यास्तु वातजाः २७
परमतमप्रतिषिद्धमनुमतम् यथा–अन्यो ब्रूयात्–सप्त रसा इति तच्चाप्रतिषेधादनुमन्यते कथंचिदिति २८
प्रकरणानुपूर्व्याऽभिहितं विधानम् यथा–सक्थिमर्माण्येकादश प्रकरणानुपूर्व्याऽभिहितानि २९
एवं वक्ष्यतीत्यनागतावेक्षणम् यथा–श्लोकस्थाने ब्रूयात्–चिकित्सितेषु वक्ष्यामीति ३०
यत्पूर्वमुक्तं तदतिक्रान्तावेक्षणम् यथा–चिकित्सितेषु ब्रूयात्–श्लोकस्थाने यदीरितमिति ३१
उभयहेतुदर्शनं संशयः यथा–तलहृदयाभिघातः प्राणहरः पाणिपादच्छेदनमप्राणहरमिति ३२
तन्त्रेऽतिशयोपवर्णनं व्याख्यानम् यथा–इह पञ्चविंशतिकः पुरुषो व्याख्यायते अन्येष्वायुर्वेदतन्त्रेषु भूतादिप्रभृत्यारभ्य चिन्ता ३३
अन्यशास्त्रासामान्या स्वसंज्ञा यथा–मिथुनमिति मधुसर्पिषोर्ग्रहणं लोकप्रसिद्धमुदाहरणं वा ३४
निश्चितं वचनं निर्वचनम् यथा–आयुर्विद्यतेऽस्मिन्ननेन वा आयुर्विन्दतीत्यायुर्वेदः ३५
दृष्टान्तव्यक्तिर्निदर्शनम् यथा–अग्निर्वायुना सहितः कक्षे वृद्धिं गच्छति तथा वातपित्तकफदुष्टो व्रण इति ३६
इदमेव कर्तव्यमिति नियोगः यथा–पथ्यमेव भोक्तव्यमिति ३७
इदं चेदं चेति समुच्चयः यथा–मांसवर्गे एणहरिणादयो लावतित्तिरिशारङ्गाश्च प्रधानानीति ३८
इदं वेदं वेति विकल्पः यथा–रसौदनः सघृता यवागूर्वा ३९
यदनिर्दिष्टं बुद्ध्याऽवगम्यते तदूह्यम् यथा–अभिहितमन्नपानविधौ चतुर्विधं चान्नमुपदिश्यते–भक्ष्यं भोज्यं लेह्यं पेयमिति एवं चतुर्विधे वक्तव्ये द्विविधमभिहितम् इदमत्रोह्यम्–अन्नपाने विशिष्टयोर्द्वयोर्ग्रहणे कृते चतुर्णामपि ग्रहणं भवतीति चतुर्विधश्चाहारः प्रविरलः प्रायेण द्विविध एव अतो द्वित्वं प्रसिद्धमिति किञ्चान्यत्–अन्नेन भक्ष्यमवरुद्धं घनसाधर्म्यात् पेयेन लेह्यं द्र वसाधर्म्यात् ४०
भवन्ति चात्र–
सामान्यदर्शनेनासां व्यवस्था संप्रदर्शिता
विशेषस्तु यथायोगमुपधार्यो विपश्चिता ४१
द्वात्रिंशद्युक्तयो ह्येतास्तन्त्रसारगवेषणे
मया सम्यग्विनिहिताः शब्दार्थन्यायसंयुताः ४२
यो ह्येता विधिवद्वेत्ति दीपीभूतास्तु बुद्धिमान्
स पूजार्हो भिषक्श्रेष्ठ इति धन्वन्तरेर्मतम् ४३
इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु तन्त्रयुक्तिर्नाम पञ्चषष्टितमोऽध्यायः ६५
षट्षष्टितमोऽध्यायः
अथातो दोषभेदविकल्पमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अष्टाङ्गवेदविद्वांसं दिवोदासं महौजसम्
छिन्नशास्त्रार्थसंदेहं सूक्ष्मागाधागमोदधिम् ३
विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति
द्विषष्टिर्दोषभेदा ये पुरस्तात्परिकीर्तिताः ४
कति तत्रैकशो ज्ञेया द्विशो वाऽप्यथवा त्रिशः
तस्य तद्वचनं श्रुत्वा संशयच्छिन्महातपाः ५
प्रीतात्मा नृपशार्दूलः सुश्रुतायाह तत्त्वतः
त्रयो दोषा धातवश्च पुरीषं मूत्रमेव च ६
देहं सन्धारयन्त्येते ह्यव्यापन्ना रसैर्हितैः
पुरुषः षोडशकलः प्राणाश्चैकादशैव ये ७
रोगाणां तु सहस्रं यच्छतं विंशतिरेव च
शतं च पञ्च द्र व्याणां त्रिसप्तत्यधिकोत्तरम् ८
व्यासतः कीर्तितं तद्धि भिन्ना दोषास्त्रयो गुणाः
द्विषष्टिधा भवन्त्येते भूयिष्टमिति निश्चयः ९
त्रय एव पृथक् दोषा द्विशो नव समाधिकैः
त्रयोदशाधिकैकद्विसममध्योल्बणैस्त्रिशः १०
पञ्चाशदेवं तु सह भवन्ति क्षयमागतैः
क्षीणमध्याधिकक्षीणक्षीणवृद्धैस्तथाऽपरैः ११
द्वादशैवं समाख्यातास्त्रयो दोषा द्विषष्टिधा
मिश्रा धातुमलैर्दोषा यान्त्यसंख्येयतां पुनः १२
तस्मात् प्रसङ्गं संयम्य दोषभेदविकल्पनैः
रोगं विदित्वोपचरेद्र सभेदैर्यथैरितैः १३
भिषक् कर्ताऽथ करणं रसा दोषास्तु कारणम्
कार्यमारोग्यमेवैकमनारोग्यमतोऽन्यथा १४
अध्यायानां तु षट्षष्ट्या ग्रथितार्थपदक्रमम्
एवमेतदशेषेण तन्त्रमुत्तरमृद्धिमत् १५
स्पष्टगूढार्थविज्ञानमगाढमन्दचेतसाम्
यथाविधि यथाप्रश्नं भवतां परिकीर्तितम् १६
सहोत्तरं त्वेतदधीत्य सर्वं ब्राह्मं विधानेन यथोदितेन
न हीयतेऽर्थान्मनसोऽभ्युपेतादेतद्वचो ब्राह्मतीव सत्यम् १७
इति सुश्रुतसंहितायामुत्तरतन्त्रे दोषभेदविकल्पो नाम षट्षष्टितमोऽध्यायः ६६
इति सौश्रुते आयुर्वेदशास्त्रे उत्तरस्थानं समाप्तम्
समाप्तमिदं सुश्रुततन्त्रम्
]