रसरत्नाकरः

[[रसरत्नाकरः Source: EB]]

[

१,१
स्वर्गापवर्गविस्फारौ भुवनस्योदये यथा ।
भवरोगहरौ वन्दे चण्डिकाचन्द्रशेखरौ ॥ १,१.१ ॥
रसोपरसलोहानां तैलमूलफलैः सह ।
असाध्यं प्रत्ययोपेतं कथ्यते रससाधनम् ॥ १,१.२ ॥
वैद्यानां यशसेऽर्थाय व्याधितानां हिताय च ।
वादिनां कौतुकार्थाय वृद्धानां देहसिद्धये ॥ १,१.३ ॥
मन्त्रिणां मन्त्रसिद्ध्यर्थं विविधाश्चर्यकारणम् ।
पञ्चखण्डमिदं शास्त्रं साधकानां हितप्रदम् ॥ १,१.४ ॥
रसखण्डे तु वैद्यानां व्याधितानां रसेन्द्रके ।
वादिनां वादखण्डे च वृद्धानां च रसायने ॥ १,१.५ ॥
मन्त्रिणां मन्त्रखण्डे च रससिद्धिः प्रजायते ।
सुतरां नास्ति संदेहः तत्तत्खण्डविलोकिनाम् ॥ १,१.६ ॥
हतो हन्ति जरामृत्युं मूर्छितो व्याधिघातकः ।
धत्ते च खेगतिं बद्धः कोऽन्यः सूतात्कृपाकरः ॥ १,१.७ ॥
जरामरणदारिद्र्यरोगनाशकरोमतः ।
मूर्छितो हरते व्याधीन्नसो देहे चरन्नपि ॥ १,१.८ ॥
मोहयेद्यः परान्बद्धो जीवयेच्च मृतः परान् ।
मूर्छितो बोधयेदन्यांस्तं सूतं को न सेवते ॥ १,१.९ ॥
आयुर्द्रविणमारोग्यं वह्निर्मेधा महद्बलम् ।
रूपयौवनलावण्यं रसोपासनया भवेत् ॥ १,१.१० ॥
मारयेज्जारितं सूतं गन्धकेनैव मूर्छयेत् ।
बद्धः स्याद्द्रुतिसत्वाभ्यां रसस्यैवं त्रिधा गतिः ॥ १,१.११ ॥
दोषहीनो रसो ब्रह्मा मूर्छितस्तु जनार्दनः ।
मारितो रुद्ररूपः स्याद्बद्धः साक्षान्महेश्वरः ॥ १,१.१२ ॥
वेधको देहलोहाभ्यां सूतो देवि सदाशिवः ।
दर्शनाद्रसराजस्य ब्रह्महत्यां व्यपोहति ॥ १,१.१३ ॥
स्पर्शनान्नाशयेद्देवि गोहत्यां नात्र संशयः ।
किं पुनर्भक्षणाद्देवि प्राप्यते परमं पदम् ॥ १,१.१४ ॥
अल्पमात्रोपयोगित्वादरुचेरप्रप्सङ्गतः ।
क्षिप्रमारोग्यदायित्वाद्भेषजेभ्यो रसोऽधिकः ॥ १,१.१५ ॥
यदुक्तं शम्भुना पूर्वं रसखण्डे रसायने ।
रसस्य वन्दनार्थे च दीपिका रसमङ्गले ॥ १,१.१६ ॥
व्याधितानां हितार्थाय प्रोक्तं नागार्जुनेन यत् ।
उक्तं चर्पटिसिद्धेन स्वर्गवैद्यकपालिके ॥ १,१.१७ ॥
अनेकरसशास्त्रेषु संहितास्वागमेषु च ।
यदुक्तं वाग्भटे तन्त्रे सुश्रुते वैद्यसागरे ॥ १,१.१८ ॥
अन्यैश्च बहुभिः सिद्धैर्यदुक्तं च विलोक्य तत् ।
तत्र यद्यदसाध्यं स्याद्यद्यद्दुर्लभमौषधम् ॥ १,१.१९ ॥
तत्तत्सर्वं परित्यज्य सारभूतं समुद्धृतम् ।
क्वचिच्छास्त्रे क्रिया नास्ति क्रमसंख्या न च क्वचित् ॥ १,१.२० ॥
मात्रा युक्तिः क्वचिन्नास्ति सम्प्रदायो न च क्वचित् ।
तेन सिद्धिर्न तत्रास्ति रसे वाथ रसायने ॥ १,१.२१ ॥
वैद्ये वादे प्रयोगे च यस्माद्यत्नो मया कृतः ।
यद्यद्गुरुमुखाज्ज्ञातं स्वानुभूतं च यन्मया ।
तत्तल्लोकहितार्थाय प्रकटीक्रियतेऽधुना ॥ १,१.२२ ॥
श्रीमान् सूतनृपो ददाति विलसंल्लक्ष्मीं वपुः शाश्वतंस्वानां प्रीतिकरीमचञ्चलमनो मातेव पुंसां यथा ।
अन्यो नास्ति शरीरनाशकगदप्रध्वंसकारी ततः कार्यं नित्यमहोत्सवैः प्रथमतः सूताद्वपुःसाधनम् ॥ १,१.२३ ॥
साक्षादक्षयदायको भुवि नृणां पञ्चत्वमुच्चैः कुतो मूर्च्छां मूर्छितविग्रहो गदभृतां हन्त्युञ्चकैः प्राणिनाम् ।
बद्धं प्राप्य सुरासुरेन्द्रचरितां तां तां गतिं प्रापयेत् ।
सोऽयं पातु परोपकारचतुरः श्रीसूतराजो जगत् ॥ १,१.२४ ॥
यदन्यत्र तदत्रास्ति यदत्रास्ति न तत्क्वचित् ।
रसरत्नाकरः सोऽयं नित्यनाथेन निर्मितः ।
ततः कुर्यात्प्रयत्नेन रससंस्कारमुत्तमम् ॥ १,१.२५ ॥
अविज्ञात्या च शास्त्रार्थं प्रयोगकुशलो भिषक् ।
यम एव स विज्ञेयः मर्त्यानां मृत्युरूपधृक् ॥ १,१.२६ ॥
{रसस्य महादोषाः}
नागो वङ्गो मलो वह्निश्चांचल्यं च विषं गिरिः ।
असह्याग्निर्महादोषा निषिद्धाः पारदे स्थिताः ॥ १,१.२७ ॥
जायं गण्डस्तनौ नागात्कुष्ठं वङ्गाद्रुजा मलात् ।
वह्नेर्दाहो बीजनाशश्चाञ्चल्यान्मरणं विषात् ॥ १,१.२८ ॥
गिरेः स्फोटो ह्यसह्याग्नेर्दोषान्मोह उपजायते ।
{निर्दोषपारदस्य गुणाः}
दोषहीनो यदा सूतस्तदा मृत्युजरापहः ॥ १,१.२९ ॥
साक्षादमृतमप्येष दोषयुक्तो रसो विषम् ।
तस्माद्दोषविशुद्ध्यर्थं रसशुद्धिर्विधीयते ॥ १,१.३० ॥
रसो ग्राह्यः सुनक्षत्रे पलानां शतमात्रकम् ।
पञ्चाशतं पञ्चविंशद्वा द्वादशं चैकमेव वा ॥ १,१.३१ ॥
पलादूनं न कर्तव्यं रससंस्कारमुत्तमम् ।
अघोरेण च मन्त्रेण रससंस्कारपूजनम् ॥ १,१.३२ ॥
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः ।
सर्वेभ्यः सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥ १,१.३३ ॥

१, २
निःसारं वीक्ष्य विश्वं गदविकलवपुर्व्याप्तमेवातितप्तम् ।
भूयः कारुण्यसिन्धोः सकलगुणनिधेः सूतराजस्य युक्तिम् ॥ १,२.१ ॥
दृष्ट्वा सूतस्य शास्त्राण्यवहितमनसा प्राणिनामिष्टसिद्ध्यै ।
शृण्वन्तूच्चैर्मयोक्तं सुविपुलमतयो भोगिकेन्द्राः सरेन्द्राः ।
यावत्सूतं न शुद्धं न च मृतमथ नो मूर्छितं गन्धबन्धं ।
नो वज्रं मारितं वा न च गगनवधो नापसूताश्च शुद्धाः ।
स्वर्णाद्यं सर्वलोहं विषमपि न मृतं तैलपातो न यावत् ।
तावद्वैद्यः क्व सिद्धो भवति वसुभुजां मण्डले श्लाघ्ययोग्यः ॥ १,२.२ ॥
{अष्टदोषनिवारण}
अथातः सम्प्रवक्ष्यामि दोषाष्टकनिवारणम् ।
इष्टकारजनीचूर्णैः षोडशांशैः रसस्य तु ॥ १,२.३ ॥
मर्दयेत्तप्तखल्वे तं जम्बीरोत्थद्रवैर्दिनम् ।
खल्वं लोहमयं वाथ पाषाणाश्ममथापि वा ॥ १,२.४ ॥
काञ्जिकैः क्षालयेत्सूतं नागदोषस्य शान्तये ।
विशालाङ्कोलचूर्णेन वङ्गदोषं विनाशयेत् ॥ १,२.५ ॥
राजवृक्षो मलं हन्ति चित्रकं हन्ति वह्निजम् ।
चाञ्चल्यं कृष्णधत्तूरैस्त्रैफलैर्विषनाशनम् ॥ १,२.६ ॥
कटुत्रयं गिरिं हन्ति असह्याग्निं त्रिकण्टकः ।
{(२)}
प्रतिदोषं कलांशेन तत्र चूर्णं सकन्यकम् ॥ १,२.७ ॥
सुवस्त्रगालितं सूतं खल्वे क्षिप्त्वा यथाक्रमम् ।
प्रत्येकं प्रत्यहं यत्नात्सप्तरात्रं विमर्दयेत् ॥ १,२.८ ॥
उद्धृत्योष्णारनालेन मृद्भाण्डे क्षालयेत्सुधीः ।
सर्वदोषविनिर्मुक्तः सप्तकञ्चुकवर्जितः ॥ १,२.९ ॥
जायते शुद्धः सूतोऽयं युज्यते वैद्यकर्मणि ।
{पारदशोधन}
अजाशकृत्तुषाग्निं च ज्वालयित्वा भुवि क्षिपेत् ।
तस्योपरि स्थितं खल्वं तत्रोक्तं मर्दयेद्रसम् ॥ १,२.१० ॥
श्रीखण्डं देवदारु च काकतुण्डीं जयाद्रवैः ।
कर्कोटीमूषलीकन्याद्रवे दत्त्वा विमर्दयेत् ।
दिनैकं पातनायन्त्रे शुद्धं च विनियोजयेत् ॥ १,२.११ ॥
कुमार्याश्च निशाचूर्णे दिनं सूतं विमर्दयेत् ।
पातयेत्पातनायन्त्रे सम्यक्शुद्धो भवेद्रसः ॥ १,२.१२ ॥
{हिंगुलोत्थपारदशोधन}
पारिभद्ररसैः पेष्यं हिंगुलं याममात्रकम् ।
जम्बीराणां द्रवैर्वाथ पात्यं पातालयन्त्रके ॥ १,२.१३ ॥
तं सूतं योजयेद्योगे सप्तकञ्चुकवर्जितम् ।
इत्येवं शुद्धयः ख्याता यथेष्टैका प्रकारयेत् ॥ १,२.१४ ॥
{शुद्धसूतमारणौषधयः}
अथैतां मूलिकां वक्ष्ये शुद्धसूतस्य मारणे ।
ब्रह्मदण्डी मेघनादा चित्रकं तृणमुस्तिका ॥ १,२.१५ ॥
वज्रवल्ली बला शुण्ठी कटुतुम्ब्यर्धचन्द्रिका ।
विषमुष्ट्यर्कलाक्षाश्च गोक्षुरः काकतुण्डिका ॥ १,२.१६ ॥
कन्या चण्डालिनीकन्दं सर्पाक्षी सरपुङ्खिका ।
वस्ता रक्ताग्रनिर्गुण्डी लज्जाली देवदालिका ॥ १,२.१७ ॥
जाती जयन्ती वाराही भूकदम्बं कुरण्टकम् ।
कोषातकी नीरकणा लाङ्गली सहदेविकाः ॥ १,२.१८ ॥
चक्रमर्दोऽमृताकन्दं काकमाची रविप्रिया ।
विष्णुक्रान्ता हस्तिशुण्डी स्नुक्पयो भृङ्गराट्पटुः ॥ १,२.१९ ॥
इत्येताः मूलिका आख्याता योज्या पारदमारिकाः ।
एताः समस्ता व्यस्ता वा देया ह्यष्टादशाधिकाः ॥ १,२.२० ॥
{पारदभस्मनिर्माण}
अप्रसूतगवां मूत्रे पेषयेद्रक्तमूलिकाम् ।
तद्द्रवैः शोधितं सूतं तुल्यं गन्धकसंयुतम् ॥ १,२.२१ ॥
तप्तखल्वे चतुर्याममविच्छिन्नं विमर्दयेत् ।
तत्पिण्डं पातयेद्यन्त्रे त्रिंशद्धट्टमहापुटे ॥ १,२.२२ ॥
एवं दशपुटैर्मार्यं मर्द्यं पात्यं पुनः पुनः ।
तदुद्धृत्य पुनर्मर्द्यं वज्रमूषान्तरे क्षिपेत् ॥ १,२.२३ ॥
भूधराख्ये पुटे पच्याद्दशधा भस्मतां व्रजेत् ।
द्रवैर्द्रवैः पुनर्मर्द्यं सिद्धोऽयं वज्रसूतकः ॥ १,२.२४ ॥
मूलिकामारितः सूतो जारणक्रमवर्जितः ।
न क्रमेद्देहलोहाभ्यां रोगहर्ता भवेद्ध्रुवम् ॥ १,२.२५ ॥
{पारदभस्मनिर्माण (२)}
रसं गन्धकतैलेन द्विगुणेन विमर्दयेत् ।
दिनैकं वाथ सर्पाक्षीविष्णुक्रान्ताह्वभृङ्गजैः ॥ १,२.२६ ॥
त्र्यहं विमर्दयेद्द्रावैस्त्रिंशद्धट्टमहापुटे ।
इत्येवमष्टधा पाच्यं रसो भस्मीभवेद्ध्रुवम् ॥ १,२.२७ ॥
{रसभस्मनिर्माण (३)}
श्वेताङ्कोटजटावारि सूतं मर्द्यं दिनत्रयम् ।
पुटयेद्भूधरे यन्त्रे मूषायां भस्मतां व्रजेत् ॥ १,२.२८ ॥
देवदालीं हरिक्रान्तामारनालेन पेषयेत् ।
सप्तधा सूतकं तेन कुर्याद्धमनमुत्थितम् ॥ १,२.२९ ॥
तं सूतं खर्परे कुर्याद्दत्त्वा दत्त्वा चतुर्द्रवम् ।
चुल्ल्योपरि पचेद्वह्नौ भस्म स्यादरुणोपमम् ॥ १,२.३० ॥
{पारदमारण (४)}
काष्ठोदुम्बरजैः क्षीरैः सितां हिंगु विभावयेत् ।
सप्तवारं प्रयत्नेन शोध्यं पेष्यं पुनः पुनः ॥ १,२.३१ ॥
काष्ठोदुम्बरपञ्चाङ्गैः कषायं षोडशांशकम् ।
दत्त्वा तेन पुनर्मर्द्यं हिंगु वङ्गरसेश्वरम् ॥ १,२.३२ ॥
क्षिप्त्वा निरुध्य मूषायां भूधराख्ये पुटे पचेत् ।
अष्टधा म्रियते सूतो देयं हिंगु पुटे पुटे ॥ १,२.३३ ॥
{पारदमारण (५)}
अपामार्गस्य बीजानि तथैरण्डस्य चूर्णयेत् ।
तच्चूर्णं पारदे देयं मूषायामेव रोधयेत् ॥ १,२.३४ ॥
रुद्ध्वा लघुपुटे पच्याच्चतुर्भिर्भस्मतां व्रजेत् ।
{पारदमारण (६)}
कटुतुम्ब्युद्भवे कन्दे गर्भे नारीपयःसु वै ॥ १,२.३५ ॥
सप्तधा म्रियते सूतः स्वेदयेद्गोमयाग्निना ।
{पारदमारण (७)}
अङ्कोलस्य जटातोयैः पिष्ट्वा खल्वे विमर्दयेत् ॥ १,२.३६ ॥
सूतं गन्धकसंयुक्तं दिनान्ते तं निरोधयेत् ।
पुटयेद्भूधरे यन्त्रे दिनान्ते तं समुद्धरेत् ॥ १,२.३७ ॥
{पारदमारण (८)}
धान्याभ्रं सूतकं तुल्यं मर्दयेन्मारकद्रवैः ।
दिनैकं तेन कल्केन वस्त्रे लिप्त्वा च वर्तिकाम् ॥ १,२.३८ ॥
विलिप्य तैलैर्वर्तिं तामेरण्डोत्थैः पुनः पुनः ।
प्रज्वाल्य तद्धृतं भाण्डे ग्राहयेत्पतितामधः ॥ १,२.३९ ॥
कृष्णभस्म भवेत्तच्च पुनर्मर्द्यं त्रियामकैः ।
दिनैकं तत्पचेद्यन्त्रे कच्छपाख्ये न संशयः ॥ १,२.४० ॥
मृतः सूतो भवेत्सद्यस्तत्तद्योगेषु योजयेत् ।
{पारदमारण (९)}
द्विपलं शुद्धसूतं तु सूतार्धशुद्धगन्धकम् ॥ १,२.४१ ॥
मर्दयेन्मारकद्रावैर्दिनमेकं निरन्तरम् ।
बद्ध्वा तु भूधरे यन्त्रे दिनैकं मारयेत्पुटात् ॥ १,२.४२ ॥
{वज्रमूषा}
तुषदग्धस्य भागौ द्वावेको वल्मीकमृत्तिका ।
लोहकिट्टस्य भागैकं श्वेतपाषाणभागकम् ॥ १,२.४३ ॥
नरकेशसमं किंचिच्छागीक्षीरेण पेषयेत् ।
यामद्वयं दृढं मर्द्यं तेन मूषान्धसंपुटाम् ॥ १,२.४४ ॥
शोषयित्वाथ संलिप्य तत्कल्कैः संनिरुध्य च ।
वज्रमूषा समाख्याता सम्यक्पारदमारिका ॥ १,२.४५ ॥
{भस्मसूतवर्णाः}
श्वेतं पीतं तथा रक्तं कृष्णं चेति चतुर्विधम् ।
लक्षणं भस्मसूतस्य श्रेष्ठं स्यादुत्तरोत्तरम् ॥ १,२.४६ ॥

१, ३
{जारणपूर्वं मारणम्}
अथातो जारणापूर्वं बीजं मारणमुच्यते ।
अजीर्णं चाप्यबीजं च सूतकं यस्तु मारयेत् ॥ १,३.१ ॥
ब्रह्महा स दुराचारो मम द्रोही महेश्वरि ।
तस्मात्सर्वप्रयत्नेन जारितं मारयेद्रसम् ॥ १,३.२ ॥
{रसस्य समुखकरणम्}
संस्थाप्य गोमयं भूमौ पक्वमूषां ततः परम् ।
तन्मध्ये कटुतुम्ब्युत्थं तैलं दत्त्वा रसं क्षिपेत् ॥ १,३.३ ॥
काकमाचीरसं देयं तैलं तुल्यं ततः पुनः ।
गन्धकं व्रीहिमात्रं च क्षिप्त्वा तं च निरोधयेत् ॥ १,३.४ ॥
तत्पृष्ठे पावको देयः पूर्णं वा वह्निखर्परम् ।
स्वाङ्गशीतलतां ज्ञात्वा जीर्णे तैले च गन्धकम् ॥ १,३.५ ॥
काकमाचीद्रवं चाग्नौ दत्त्वा दत्त्वा च जारयेत् ।
मूषाधो गोमयं चात्र दत्त्वा चोदधर्वं च पावकम् ॥ १,३.६ ॥
षड्गुणं गन्धकं जार्यं सूतस्यैवं मुखं भवेत् ।
{समुखपारदस्य जारणापूर्वको मारणविधिः}
तं सूतं मर्दयेन्नीरैर्जम्बीरोत्थैः पुनः पुनः ॥ १,३.७ ॥
चतुःषष्ट्यंशकैः पूर्वैर्द्वात्रिंशांशं ततः पुनः ।
षोडशांशं शुद्धहेमपत्रं सूतेषु निक्षिपेत् ॥ १,३.८ ॥
शिखिपित्तेन सम्पिष्टं तैलैश्च सर्षपोद्भवैः ।
लिप्त्वा हेमं क्षिपेत्सूतं यामं जम्बीरजैर्द्रवैः ॥ १,३.९ ॥
मर्द्यं तं पूर्ववत्पच्यान्मूषायां जम्बीरद्रवैः ।
पूरयेद्रोधयेच्चाग्निं दत्त्वा यत्नेन जारयेत् ॥ १,३.१० ॥
ग्रासे ग्रासे च तन्मर्द्यं जम्बीराणां द्रवैः दृढम् ।
मूलिका लवणं गन्धमभावे पित्ततैलयोः ॥ १,३.११ ॥
पिष्ट्वा जम्बीरनीरेण हेमपत्रं प्रलेपयेत् ।
इत्येवं जारणा कार्या ततः सूतं च मारयेत् ॥ १,३.१२ ॥
अथवा निर्मुखं सूतं विडयोगेन मारयेत् ।
{विडनिर्माणविधि}
विडमत्र प्रवक्ष्यामि साधयेद्भिषजां वरः ॥ १,३.१३ ॥
शंखचूर्णं रविक्षीरैश्चातपे भावयेद्दिनम् ।
तद्वज्जम्बीरजैर्द्रावैर्दिनैकं धूमसारकम् ॥ १,३.१४ ॥
सुवर्चलमजामूत्रैः क्वाथ्यं यामचतुष्टयम् ।
कण्टकारीं च संक्वाथ्यं दिनैकं नरमूत्रकैः ॥ १,३.१५ ॥
सज्जीक्षारं तिन्तिडीकं काशीशं च शिलाजतुम् ।
जम्बीरोत्थैर्द्रवैर्भाव्यं पृथग्यामं चतुष्टयम् ॥ १,३.१६ ॥
जयपालबीजं त्वग्घीनं मूलकानां द्रवैर्दिनम् ।
सैन्धवं टङ्कणं गुञ्जां शिग्रुमूलद्रवैर्दिनम् ॥ १,३.१७ ॥
एतत्सर्वं समांशं तु मर्द्यं जम्बीरजैर्द्रवैः ।
तद्गोलं रक्षयेद्यत्नाद्विडोऽयं वाडवानलः ।
अनेन मर्दयेत्सूतं ग्रसते तप्तखल्वके ॥ १,३.१८ ॥
{विडयोगेन पारदादिमारणप्रकारः}
स्वर्णाभ्रकसर्वलोहानि यथेष्टानि च जारयेत् ।
मारयेत्पूर्वयोगेन मारणं चात्र कथ्यते ॥ १,३.१९ ॥
{पारदमारण (१)}
कुम्भीं समूलामुद्धृत्य गोमूत्रेण सुपेषयेत् ।
तद्द्रवैर्मर्दयेत्सूतं दिनैकं कान्तसम्पुटे ॥ १,३.२० ॥
लिप्त्वा नियामका देया ऊर्ध्वश्चाधस्तदन्वयेत् ।
मृद्वग्निना दिनैकं तु पचेच्चुल्यां मृतो भवेत् ॥ १,३.२१ ॥
{पारदमारण (२)}
गोघृतं गन्धकं सूतं पिष्ट्वा पिण्डीं प्रकल्पयेत् ।
कुमारीदलमध्यस्थं कृत्वा सूत्रेण वेष्टयेत् ॥ १,३.२२ ॥
तं कान्तसम्पुटे रुद्ध्वा त्रिभिर्लघुपुटैः पचेत् ।
ततो ध्माते भवेद्भस्म चान्धमूषे क्षयं ध्रुवम् ॥ १,३.२३ ॥
{पारदमारण (३)}
शाकवृक्षस्य पक्वानि फलान्यादाय शोधयेत् ।
पेषयेद्रविदुग्धेन तेन मूषां प्रलेपयेत् ॥ १,३.२४ ॥
आदिप्रसूतगोर्जातजरायोश्चूर्णपूरितः ।
तन्मध्ये सूतकं रुद्ध्वा ध्मातो भस्मत्वमाप्नुयात् ॥ १,३.२५ ॥
{पारदमारण (४)}
कर्कोटकीं काकमाचीं च कञ्चुकीं कटुतुम्बिकाम् ।
काकजङ्घां काकतुण्डीं काकिनीं काकमञ्जरीः ॥ १,३.२६ ॥
पिष्ट्वैतान् वज्रमूषास्तैर्लेपं कृत्वा रसं क्षिपेत् ।
मर्दितं दिनमेकं तु तैरेवार्द्रोत्थितै रसैः ॥ १,३.२७ ॥
रुद्ध्वाथ भूधरे पच्यादष्टवारं पुनः पुनः ।
मर्दयेल्लिप्तमूषास्ता रुद्ध्वा ध्मातो मृतो भवेत् ॥ १,३.२८ ॥
{पारदमारण (५)}
रसैर्नियामकैर्मर्द्यो दृढं यामचतुष्टयम् ।
द्विगुणैर्गन्धतैलैश्च पचेन्मृद्वग्निना शनैः ॥ १,३.२९ ॥
यावत्खोटो भवेत्तत्तद्रोधयेल्लौहसम्पुटे ।
हरीतकीं जले पिष्ट्वा लौहकिट्टेन मूषिकाम् ॥ १,३.३० ॥
कृत्वा तन्मध्यतः क्षिप्त्वा सम्पुटं चान्धयेत्पुनः ।
तस्योर्ध्वं स्रावकाकारं हृत्वा नागद्रुतं क्षिपेत् ॥ १,३.३१ ॥
कठिनेन धमेत्तावद्यावन्नागो द्रुतो भवेत् ।
न धमेच्च पुनस्तावद्यावत्कठिनतां व्रजेत् ॥ १,३.३२ ॥
एवं पुनः पुनर्ध्मातस्त्रियामैर्म्रियते रसः ।
{नियामकौषध्यः}
नियामकास्ततो वक्ष्ये सूतस्य मारकर्मणि ॥ १,३.३३ ॥
सर्पाक्षी क्षीरिणी वन्ध्या मत्स्याक्षी शरपुङ्खिका ।
काकजङ्घा शिखिशिखा ब्रह्मदण्ड्याखुपर्णिका ॥ १,३.३४ ॥
वर्षाभूः कञ्चुकी मूर्वा पद्मकोत्पलचिञ्चिका ।
शतावरी वज्रलता वज्रकन्दा त्रिपर्णिका ॥ १,३.३५ ॥
मण्डूकपर्णी पाटली चित्रको ग्रीष्मसुन्दरः ।
काकमाची महाराष्ट्री हरिद्रा तिलकर्णिका ॥ १,३.३६ ॥
श्वेतार्कशिग्रुधत्तूरमृगदूर्वाहरीतकी ।
गुडूची मूषली पुङ्खा भृङ्गराड्रक्तचित्रकम् ॥ १,३.३७ ॥
तगरं शूरणं मुण्डी मयङ्का पोतकोकिलम् ।
सैन्धवं श्वेतवर्षाभूः साम्भरं हिंगु माक्षिकम् ॥ १,३.३८ ॥
विष्णुकान्ता सोमवल्ली व्रणघ्नी यक्षलोचनम् ।
व्याघ्रपादी हंसपदी वृश्चिकाली कुरण्टकम् ॥ १,३.३९ ॥
स्वयम्भूकुसुमं कुञ्ची हस्तिशुण्डीन्द्रवारुणी ।
बीजान्यहस्करस्यापि सर्वत्रैते नियामकाः ॥ १,३.४० ॥
एताः समस्ता व्यस्ता वा देया ह्यष्टादशाधिकाः ।
मारणे मूर्च्छने बन्धे रसस्यैतानि योजयेत् ॥ १,३.४१ ॥
{रसस्य जारणमारणविधिः}
अप्रसूतगवां मूत्रैः पिष्ट्वा पूर्वनियामिकाः ।
तद्द्रवैर्मर्दयेत्सूतं यथा पूर्वोदितं क्रमात् ॥ १,३.४२ ॥
इत्येवं जारणं प्रोक्तं मारणं परिकीर्तितम् ।
{रसभस्मपरीक्षा}
परीक्षा मारिते सूते कर्तव्या च यथोदिता ॥ १,३.४३ ॥
अधस्तुषाग्निना तप्तो ह्यक्षीणस्तिष्ठते यदा ।
तदा भस्म विजानीयाच्चुल्ल्यां यामं निरीक्षयेत् ॥ १,३.४४ ॥
मूलिकामारितं सूतं सर्वयोगेषु योजयेत् ।
जारितो याति सूतोऽसौ जरादारिद्र्यरोगनुत् ॥ १,३.४५ ॥
मूर्छितो व्याधिनाशाय बद्धः सर्वत्र योजयेत् ॥ १,३.४६ ॥

१, ४
{मूर्छन}
अथातः शुद्धसूतस्य मूर्च्छना विधिरुच्यते ।
मेघनादो वचा हिंगु शूरणैर्मर्दयेद्रसम् ॥ १,४.१ ॥
नष्टपिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद्बहिः ।
पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्निना ॥ १,४.२ ॥
ऊर्ध्वलग्नं समारुह्य दृढं वस्त्रेण बन्धयेत् ।
ऊर्ध्वाधो गन्धकं तुल्यं दत्त्वा सौम्यानले पचेत् ॥ १,४.३ ॥
जीर्णे गन्धे पुनर्देयं षड्भिर्वारैः समं समम् ।
षड्गुणे गन्धके जीर्णे मूर्छितो रोगहा भवेत् ॥ १,४.४ ॥
{मेर्चुर्य्ःः मूर्छन}
गन्धकं मधुसारं च शुद्धसूतं समं समम् ।
यामैकं पाचयेत्खल्वे काचकुप्यां निवेशयेत् ॥ १,४.५ ॥
रुद्ध्वा द्वादशयामं तं वालुकायन्त्रगं पचेत् ।
स्फोटयेत्स्वांगशीतं तं तदूर्ध्वं गन्धकं त्यजेत् ॥ १,४.६ ॥
अधःस्थं रसमादाय सर्वरोगेषु योजयेत् ।
{मेर्चुर्य्ःः fओर्मुलतिओन्}
शुद्धं सूतं द्विधा गन्धं सूतार्द्धं सैन्धवं क्षिपेत् ॥ १,४.७ ॥
द्रवैः सितजयन्त्याश्च मर्दयेद्दिवसत्रयम् ।
कृत्वा गोलं च संशोष्य क्षिप्त्वा मूषां निरुन्धयेत् ॥ १,४.८ ॥
शोषयित्वा धमेत्किंचित्सुतप्तां तां जले क्षिपेत् ।
तस्माद्रसं समुद्धृत्य त्रिकण्टरसभावितम् ॥ १,४.९ ॥
योजयेत्सर्वरोगेषु धमेद्वा भूधरे पचेत् ।
{मेर्चुर्य्ःः fओर्मुलतिओन्}
रसार्धं गन्धकं मर्द्यं घृतैर्युक्तं तु गोलकम् ॥ १,४.१० ॥
कृत्वा तं बन्धयेद्वस्त्रे दोलायन्त्रगतं पचेत् ।
गोमूत्रान्तः कृतं यामं नरमूत्रैर्दिनत्रयम् ॥ १,४.११ ॥
शोषयेच्च पुनर्वस्त्रे बद्ध्वावेष्ट्य सदा दृढम् ।
शुष्कं निरुध्य मूषायां ततस्तुषाग्निना पचेत् ॥ १,४.१२ ॥
ऊर्ध्वभागमधः कृत्वा अधोभागं च ऊर्ध्वगम् ।
इत्यादिपरिवर्तेन स्वेदयेद्दिवसत्रयम् ॥ १,४.१३ ॥
पश्चादुद्धृत्य तं सूतं योगवाहं रुजापहम् ॥ १,४.१४ ॥
{मेर्चुर्य्ःः fओर्मुलतिओन्}
सद्योजातस्य बालस्य विष्ठां पालाशबीजकम् ।
चाण्डाली रुधिरं सूतं सूतपादं च टङ्कणम् ॥ १,४.१५ ॥
जयन्त्या मर्दयेद्द्रावैर्दिनैकं तत्तु गोलकम् ।
पेषयेत्सहदेव्याथ लेपयेत्ताम्रसंपुटम् ॥ १,४.१६ ॥
तन्मध्ये गोलकं क्षिप्त्वा द्वियामं स्वेदयेल्लघु ।
वालुकायन्त्रमध्ये तु समुद्धृत्य ततः पुनः ॥ १,४.१७ ॥
चित्रकैः सहदेव्या च गन्धकैर्लेपयेद्बहिः ।
सम्पुटं बन्धयेद्वस्त्रे मृदालेप्य च शोषयेत् ॥ १,४.१८ ॥
तं रुद्ध्वान्धमूषायां ध्माते सम्पुटमाहरेत् ।
सूक्ष्मचूर्णं हरेद्रोगान् योगवाहो महारसः ॥ १,४.१९ ॥
सम्पुटं सूततुल्यं स्याच्छास्त्रदृष्टेन कर्मणा ॥ १,४.२० ॥
{मेर्चुर्य्ःः fओर्मुलतिओन्}
धत्तूरकद्रवैर्मर्द्यं दिनं गन्धं ससूतकम् ।
अन्धमूषे दिनं स्वेद्यं भूधरे मूर्छितो भवेत् ॥ १,४.२१ ॥
कृत्वा षडङ्गुलां मूषां सुपक्वां मृन्मयीं दृढाम् ।
मूषागर्भं विलेप्याथ मूलैर्बहुलपत्रकैः ॥ १,४.२२ ॥
तन्मध्ये सूतकं क्षिप्त्वा मूषां पूर्यात्तु तद्द्रवैः ।
रुद्ध्वा सलवणैर्यन्त्रैश्चुल्यां दीप्ताग्निना पचेत् ॥ १,४.२३ ॥
सप्ताहान्ते समुद्धृत्य यवमानं ज्वरापहम् ।
{मेर्चुर्य्ःः मूर्छन}
काशीशं सैन्धवं सूतं तुल्यं तुल्यं विमर्दयेत् ॥ १,४.२४ ॥
काशीशस्यास्य भागेन दातव्या फुल्लतूरिका ।
स्तोकस्तोकं क्षिपेत्खल्वे त्रियामं चैव मूर्छयेत् ॥ १,४.२५ ॥
प्रत्येकं शतनिष्कं स्यादूनं नैवाधिकं भवेत् ।
स्थालीसम्पुटयन्त्रेण दिनं चण्डाग्निना पचेत् ॥ १,४.२६ ॥
ऊर्ध्वलग्नं ततश्चुल्ल्यां मूर्छितं चाहरेत्सूतम् ।
{मेर्चुर्य्ःः मूर्छन}
कुरण्टकरसैर्भाव्यमातपे मर्दयेद्रसम् ॥ १,४.२७ ॥
लताकरञ्जपत्रैर्वाङ्गुष्ठाग्रेन विमर्दयेत् ।
दिनैकं मूर्छितं सम्यक्सर्वरोगेषु योजयेत् ॥ १,४.२८ ॥
{हैरण्यगर्भक}
अथ सूतस्य शुद्धस्य मूर्छितस्याप्ययं विधिः ।
सूततुल्यं घृतं जीर्णं द्वाभ्यां तुल्यं च गन्धकम् ॥ १,४.२९ ॥
रविक्षीरैर्दिनं मर्द्यमन्धयित्वा च भूधरे ।
पुटकेन भवेत्सिद्धो रसो हैरण्यगर्भकः ॥ १,४.३० ॥
{वैक्रान्तबद्धरस}
कटुतुम्ब्युद्भवे कन्दे वन्ध्यायाः क्षीरकन्दके ।
अपक्वैकं समादाय तद्गर्भे पिण्डिका ततः ॥ १,४.३१ ॥
दशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् ।
स्तोकं स्तोकं क्षिपेद्गन्धं पाषाणे तं तु कुट्टयेत् ॥ १,४.३२ ॥
याममात्रे भवेत्पिण्डी रसं कन्दे विनिक्षिपेत् ।
अध ऊर्ध्वं भस्म वैक्रान्तं दत्त्वा निष्कार्द्धमात्रकम् ॥ १,४.३३ ॥
ततः कन्दस्य मज्जाभिर्मुखं बद्ध्वा मृदा दृढम् ।
लिप्तमङ्गुलमानेन सर्वतः शोष्य गोलकम् ॥ १,४.३४ ॥
पाचयेद्भूधरे यन्त्रे तत उद्धृत्य पुनः पचेत् ।
ऊर्ध्वभागमधः कुर्यादित्येवं परिवर्तयेत् ॥ १,४.३५ ॥
क्रमेण चालयेदूर्ध्वं बहिर्युग्मोपलैः पचेत् ।
ततो भिन्नस्तु संग्राह्यो बद्धः स्याद्दाडिमोपमम् ।
नाम्ना वैक्रान्तबद्धोऽयं सर्वरोगेषु योजयेत् ॥ १,४.३६ ॥
{गन्धबद्धपारद}
अथवा गन्धपीठीनां वस्त्रे बद्ध्वा तु गन्धकम् ।
तुल्यं दत्त्वा निरुन्ध्याथ सम्पुटे लोहजे दृढे ॥ १,४.३७ ॥
पुटयेद्भूधरे तावद्यावज्जीर्यति गन्धकम् ।
एवं पुनः पुनर्देयं यावद्गन्धस्तु षड्गुणम् ॥ १,४.३८ ॥
इत्येवं गन्धके बद्धः सूतः स्यात्सर्वरोगहृत् ।
{गन्धबद्धपारद (२)}
मूषा जम्बीरविस्तारा दैर्घ्येण षोडशाङ्गुला ।
अपक्वा सुदृढा कार्या सिकताभाण्डमध्यगा ॥ १,४.३९ ॥
त्रिभागं वालुका लग्ना पादांशेन बहिः स्थिताः ।
पलैकं चूर्णितं गन्धं मूषामध्ये विनिक्षिपेत् ॥ १,४.४० ॥
शुद्धसूतं समं पश्चात्क्षिपेद्गन्धपलं ततः ।
भाण्डमारोपयेच्चुल्ल्यां मूषामाच्छाद्य यत्नतः ॥ १,४.४१ ॥
मन्दाग्निना पचेत्तावद्यावन्निर्धूमतां व्रजेत् ।
गन्धधूमे गते पूर्या काकमाचीद्रवैस्तु सा ॥ १,४.४२ ॥
द्रवे जीर्णे पुनः पूर्या नागवल्लीदलद्रवैः ।
जीर्णे धुस्तूरकद्रावैः पूरयित्वा पुनः पचेत् ॥ १,४.४३ ॥
यावज्जीर्यति तद्गन्धं काकमाच्यादिभिः पुनः ।
दत्त्वा दत्त्वा पचेत्तद्वद्धुस्तुरादिक्रमाद्रसम् ॥ १,४.४४ ॥
भित्त्वा मूषां समादाय जराव्याधिहरो रसः ।
योजयेद्गन्धबद्धोऽयं योगवाहेषु सर्वतः ॥ १,४.४५ ॥
{मेर्चुर्य्ःः मूर्छनःः तेस्त्}
कज्जलाभो यदा सूतो विहाय घनचापलम् ।
मूर्छितः स तदा ज्ञेयो नानारसगतः क्वचित् ॥ १,४.४६ ॥
माधुर्यगौरवोपेतः तेजसा भास्करोपमः ।
वह्निमध्ये यदा तिष्ठेत्तदा वृक्षस्य लक्षणम् ॥ १,४.४७ ॥
स जयति रसराजो मृत्युशङ्कापहारी सकलगुणनिधानः कायकल्पाधिकारी ।
वलिपलितविनाशं सेवनाद्वीर्यवृद्धिं स्थिरमपि कुरुते यः कामिनीनां प्रसङ्गे ॥ १,४.४८ ॥
इत्येता मारिताः सूता मूर्छिता बद्धमागताः ।
प्रत्येकं योगवाहः स्यात्तत्तद्योगेषु योजयेत् ॥ १,४.४९ ॥
मारितं देहसिद्ध्यर्थं मूर्छितं व्याधिनाशनम् ।
रसभस्म क्वचिद्रोगे देहार्थे मूर्छितं क्वचित् ॥ १,४.५० ॥
बद्धं द्वाभ्यां प्रयुञ्जीत शास्त्रदृष्टेन कर्मणा ।
{मेर्चुर्य्ःः स्तोरगे}
दन्ते शृङ्गेऽथवा वंशे रक्षयेत्साधितं रसम् ॥ १,४.५१ ॥
{मेर्चुर्य्ःः मेदिच्. प्रोपेर्तिएस्}
पारदं क्रिमिकुष्ठघ्नं बल्यमायुष्यदृष्टिदम् ।
सेवनात्सर्वरोगघ्नं रुच्यं गुरुकषायकम् ॥ १,४.५२ ॥
सूते गुणानां शतकोटिर्वज्रे चाभ्रे सहस्रं कनके शतैकम् ।
तारे गुणाशीतिस्तदर्धं कान्ते तीक्ष्णे चतुःषष्टिः रवौ तदर्धम् ॥ १,४.५३ ॥
रसादिभिर्या क्रियते चिकित्सा दैवीति सद्भिः परिकीर्तिता सा ।
सा मानुषी मन्त्रकृता शिफाद्यैः सा राक्षसी शस्त्रकृतादिभिर्या ॥ १,४.५४ ॥

१, ५
{उपरसनामानि}
गन्धकं वज्रवैक्रान्तं वज्राभ्रं तालकं शिला ।
खर्परं शिखितुत्थं च विमलां हेममाक्षिकम् ॥ १,५.१ ॥
कासीसं कान्तपाषाणं वराटीमथ हिंगुलम् ।
कङ्कुष्ठं शंखभूनागं टंकणश्च शिलाजतु ॥ १,५.२ ॥
एते उपरसाः शोध्याः मार्या द्राव्याः पुटे क्वचित् ॥ १,५.३ ॥
{गन्धःः अशुद्धःः मेदिच्. प्रोपेर्तिएस्}
अपक्वगन्धं कुरुतेऽति कुष्ठं तापं भ्रमं पित्तरुजां करोति ।
रूपं सुखं वीर्यबलं च हन्ति तस्मात्संशुद्धं विधियोजनीयम् ॥ १,५.४ ॥
{गन्धकशोधन}
साज्यं भाण्डे पयः क्षिप्त्वा मुखं वस्त्रेण बन्धयेत् ।
तत्पृष्ठे चूर्णितं गन्धं क्षिप्त्वा स्रावेण रोधयेत् ॥ १,५.५ ॥
भाण्डं निक्षिप्य भूम्यन्ते ऊर्ध्वे देयं पुटं लघु ।
ततः क्षीरे द्रुतं गन्धं शुद्धं योगेषु योजयेत् ॥ १,५.६ ॥
{गन्धकशोधन (२)}
अथवार्कस्नुहीक्षीरैर्वस्त्रं लेप्यं च सप्तधा ।
गन्धकं नवनीतेन पिष्ट्वा वस्त्रं प्रलेपयेत् ॥ १,५.७ ॥
तद्वह्निज्वलिता देशे हृत्वा धार्या ह्यधोमुखा ।
तैलं पतेदधोभाण्डे ग्राह्यं योगेषु योजयेत् ॥ १,५.८ ॥
{सुल्fउर्ःः शुद्धःः मेदिच्. प्रोपेर्तिएस्}
शुद्धो गन्धो हरेद्रोगान् कुष्ठमृत्युज्वरादिकान् ।
अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ॥ १,५.९ ॥
{वज्रःः शोधन}
व्याघ्रीकन्दयुतं वज्रं दोलायन्त्रेण पाचितम् ।
सप्ताहात्कौद्रवे क्वाथे कौलत्थे विमलं भवेत् ॥ १,५.१० ॥
{वज्रःः मारण}
त्रिसप्तकृत्वस्तत्तप्तं खरमूत्रेण सेचयेत् ।
षड्गुणैस्तालकं पिष्ट्वा तद्गोले कुलिशं क्षिपेत् ॥ १,५.११ ॥
प्रध्मातं वाजिमूत्रेण सिक्तं पूर्वोदितक्रमैः ।
भस्मीभवति तद्वज्रं वज्रवत्कुरुते तनुम् ॥ १,५.१२ ॥
{वज्रःः मारण}
ऊर्णाशृङ्गं परिपिष्य पिण्डमेतस्य मध्ये तु निधाय वज्रम् ।
पिण्डेऽथवाधाय च वज्रवल्ल्याः पुटत्रयं तस्य रसे विदध्यात् ॥ १,५.१३ ॥
मृत्युरेव भवेदस्य वज्राख्यस्य न संशयः ॥ १,५.१४ ॥
{वज्रःः अशुद्धःः मेदिच्. प्रोपेर्तिएस्}
अशुद्धवज्रमायुर्घ्नं पीडां कुष्ठं करोति च ।
पाण्डुतापगुरुत्वं च तस्माच्छुद्धं तु कारयेत् ॥ १,५.१५ ॥
{वज्रःः सुब्त्य्पेस्ःः चोलोउर्, चस्ते}
श्वेतरक्तपीतकृष्णा द्विजाद्याः वज्रजातयः ।
रसायने भवेद्विप्रः श्वेतः सिद्धिप्रदायकः ॥ १,५.१६ ॥
क्षत्रियो मृत्युजिद्रक्तो वलीपलितरोगहा ।
द्रवकारी भवेद्वैश्यः पीतो देहस्य दार्ढ्यकृत् ॥ १,५.१७ ॥
कृष्णः शूद्रो रुजां हन्ति वयःस्थैर्यं करोति च ।
पुंस्त्रीनपुंसकाश्चैते लक्षणेन तु लक्षयेत् ॥ १,५.१८ ॥
{वज्रःः पुंवज्रःः परीक्षा}
वृत्ताः फलकसम्पूर्णास्तेजस्वन्तो बृहद्भवाः ।
पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥ १,५.१९ ॥
{वज्रःः स्तीवज्रःः परीक्षा}
रेखाबिन्दुसमायुक्ताः षट्कोणास्ताः स्त्रियः स्मृताः ।
{वज्रःः नपुंसकःः परीक्षा}
त्रिकोणायत्ता दीर्घा विज्ञेयास्ता नपुंसकाः ॥ १,५.२० ॥
पूर्वपूर्वमिमे शस्ताः पुरुषाः बलवत्तराः ।
शरीरकान्तिजनका भोगदा वज्रयोषितः ॥ १,५.२१ ॥
नपुंसकास्त्वल्पवीर्याः कामुकाः सत्त्ववर्जिताः ।
स्त्री तु स्त्रीणां प्रदातव्या क्लीबं क्लीबे तथैव च ॥ १,५.२२ ॥
सर्वेषां सर्वदा योज्याः पुरुषाः बलवत्तराः ॥ १,५.२३ ॥
{वज्रःः शोधन}
गृहीत्वा तु शुभं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् ।
महिषीविष्ठया लेप्यं करीषाग्नौ विपाचयेत् ॥ १,५.२४ ॥
निशायां तु चतुर्यामं निशान्ते वाश्वमूत्रके ।
सेचयेत्तानि प्रत्येकं सप्तरात्रेण शुध्यति ॥ १,५.२५ ॥
{वज्रःः शोधन}
मेघनादा शमी श्यामा शृङ्गी मदनकोद्भवम् ।
कुलत्थं वेतसं चाथ अगस्त्यं सिन्धुवारकाः ॥ १,५.२६ ॥
एतेषां सजलैः क्वाथैर्वज्रं जम्बीरमध्यगम् ।
दोलायन्त्रे त्र्यहं पाच्यमेवं वज्रं विशुद्धयेत् ॥ १,५.२७ ॥
{वज्रःः शोधन}
कुलत्थकोद्रवक्वाथे दोलायन्त्रे विपाचयेत् ।
व्याघ्रीकन्दगतं वज्रं सप्ताहाच्छुद्धिमृच्छति ॥ १,५.२८ ॥
{वज्रःः शोधन}
व्याघ्रीं कन्दगतं वज्रं मृदा लिप्तं पुटे पचेत् ।
अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ॥ १,५.२९ ॥
वज्रीक्षीरेण वा सिञ्चेदेवं शुद्धं च मारयेत् ॥ १,५.३० ॥
{वज्रःः ब्राह्मणःः मारण}
विप्रजात्यादिवज्राणां मारणं कथ्यते पुनः ।
अश्वत्थबदरीझिण्टीमाक्षिकं कर्कटास्थि च ॥ १,५.३१ ॥
तुल्यं स्नुहीपयः पिष्ट्वा वज्रं तद्गोलके क्षिपेत् ।
रुद्ध्वा गजपुटे पच्याद्विप्रजातिर्मृतो भवेत् ॥ १,५.३२ ॥
{वज्रःः क्षत्रियःः मारण}
करवीरं मेषशृङ्गं च बदरं च उदुम्बरम् ।
अर्कदुग्धसमं पिष्ट्वा विप्रवन्मारयेन्नृपम् ॥ १,५.३३ ॥
{वज्रःः वैश्यःः मारण}
बलां चातिबलां गन्धं पेषयेत्कच्छपास्थि च ।
एतैर्वा वारुणीदुग्धैः म्रियेद्वैश्योऽपि विप्रवत् ॥ १,५.३४ ॥
{वज्रःः शूद्रःः मारण}
सूरणं लसुनं शङ्खं समं पेष्यं मनःशिलाम् ।
वटक्षीरेण मूषान्तर्विप्रवच्छूद्रमारणम् ॥ १,५.३५ ॥
{वज्रःः स्त्री, नपुंसकःः मारण}
स्त्रियस्तेषां म्रियन्ते च तत्तदौषधयोगतः ।
नपुंसकमृतिस्तेषां चतुर्णामौषधैः समम् ॥ १,५.३६ ॥
{वज्रःः मारण}
द्विवर्षरूढकार्पासैर्मूलं कान्तमुखैः सह ।
नारीस्तन्येन सम्पिष्य पिष्ट्वा ध्मातं मृतं भवेत् ॥ १,५.३७ ॥
{वज्रःः मारण}
मेषशृङ्गभुजङ्गास्थिकूर्मपृष्ठाम्लवेतसैः ।
गजदन्तसमं पिष्ट्वा वज्रीदुग्धेन गोलकम् ॥ १,५.३८ ॥
कृत्वा तन्मध्यगं वज्रं म्रियते धमनेन तु ।
{वज्रःः मारण}
त्रिवर्षनागवन्ध्यास्तु कार्पासस्याथ मूलिका ।
पिष्ट्वा तन्मध्यगं वज्रं कृत्वा मूषां निरोधयेत् ॥ १,५.३९ ॥
पचेद्गजपुटे तं च म्रियते सप्तधा पुटैः ॥ १,५.४० ॥
{वज्रःः मारण}
मत्कुणानां तु रक्तेन सप्तधातपशोषितम् ।
कुलिशं भावितं तदक्ध्रूर्णितापि मनःशिला ॥ १,५.४१ ॥
लिप्त्वा च बदरीपत्रैः वेष्टयित्वा पुरे पचेत् ।
पुनर्लेप्यं पुनः पाच्यं सप्तधा म्रियतेऽपि च ॥ १,५.४२ ॥
{वज्रःः मारण}
वज्रं महानदीशुक्तौ क्षिप्तं भाव्यं मुहुर्मुहुः ।
स्नुह्यर्कोन्मत्तकन्यानां द्वयेणैकेन चाह्निकम् ॥ १,५.४३ ॥
कृष्णकर्कटमांसेन पिष्टितं वेष्टयेद्बहिः ।
भूनागस्य मृदा सम्यग्ध्माते भस्मत्वमाप्नुयात् ॥ १,५.४४ ॥
{वज्रःः मारण}
रक्तोत्पलस्य मूलैश्च मेघनादस्य कुड्मलैः ।
पिण्डितैर्वेष्टितं ध्मातं वज्रं भस्म भवत्यलम् ॥ १,५.४५ ॥
{वज्रःः मृतःः मेदिच्. प्रोपेर्तिएस्}
वज्रमायुर्बलं रूपं देहसौख्यं करोति च ।
सेवितो हन्ति रोगांश्च मृतो वज्रो न संशयः ।
{वैक्रान्तःः शोधन}
वैक्रान्तं वज्रवच्छोध्यं नीलं वा लोहितं च वा ।
{वैक्रान्तःः मारण}
हयमूत्रे तत्सेच्यं तप्तं तप्तं त्रिसप्तधा ॥ १,५.४६ ॥
ततश्चोत्तरवारुण्याः पञ्चाङ्गे गोलके क्षिपेत् ।
रुद्ध्वा मूषापुटे पच्यादुद्धृत्य गोलके पुनः ॥ १,५.४७ ॥
क्षिप्त्वा रुद्ध्वा पचेदेवं सप्तधा भस्मतां व्रजेत् ।
{वैक्रान्तःः सुब्स्तितुते fओर्वज्र}
भस्मीभूतं च वैक्रान्तं वज्रस्थाने नियोजयेत् ॥ १,५.४८ ॥

१, ६
{अभ्रःः अशुद्धःः मेदिच्. प्रोपेर्तिएस्}
अशुद्धाभ्रं निहन्त्यायुर्वर्धयेन्मारुतं कफम् ।
अहतं छेदयेद्देहं मन्दाग्निक्रिमिदायकम् ॥ १,६.१ ॥
{अभ्रःः सुब्त्य्पेस्}
कृष्णं पीतं सितं रक्तं योज्यं योगे रसायने ।
पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधम् ॥ १,६.२ ॥
पिनाकाद्यास्त्रयो वर्ज्या वज्रं यत्नात्समाहरेत् ।
{पिनाकःः परीक्षा}
मुञ्चत्यग्नौ विनिक्षिप्ते पिनाको दलसंचयम् ॥ १,६.३ ॥
अज्ञानाद्भक्षणं तस्य महाकुष्ठप्रदायकम् ।
{दर्दुर}
दर्दुरो निहितो ह्यग्नौ कुरुते दर्दुरध्वनिम् ॥ १,६.४ ॥
{नाग}
नागश्चाग्निगतः शब्दं फूत्कारं च विमुञ्चति ।
स च देहगतो नित्यं व्याधिं कुर्याद्भगन्दरम् ॥ १,६.५ ॥
{वज्राभ्र}
वज्राभ्रकं वह्निसंस्थं न किंचिद्विकृतिं व्रजेत् ।
तस्माद्वज्राभ्रकं योज्यं व्याधिवार्द्धक्यमृत्युजित् ॥ १,६.६ ॥
{धान्याभ्रकःः प्रोदुच्तिओन्}
धमेद्वज्राभ्रकं वह्नौ ततः क्षीरे निषेचयेत् ।
भिन्नपत्रं तु तं ज्ञात्वा मेघनादद्रवाम्लयोः ॥ १,६.७ ॥
भावयेदष्टयामं तद्धान्याभ्रं कारयेत्सुधीः ।
{धान्याभ्रकःः प्रोदुच्तिओन्}
अथवाभ्रस्य भागौ द्वौ टङ्कश्चैकं जलैः सह ॥ १,६.८ ॥
द्विदिनं स्थापयेत्पात्रे सूक्ष्मं कृत्वा प्रपेषयेत् ।
बद्ध्वा धान्ययुतं वस्त्रे मर्दयेत्काञ्जिकैः सह ॥ १,६.९ ॥
अधो यद्गालितं सूक्ष्मं शुद्धं धान्याभ्रकं भवेत् ॥ १,६.१० ॥
{अभ्रःः मारणःः निश्चन्द्र}
पुनर्नवामेघनादद्रवैर्धान्याभ्रकं दिनम् ।
मर्द्यं गजपुटे पच्यात्पुनश्चिञ्चाथ सूरणैः ॥ १,६.११ ॥
द्रवैर्मुस्तभवैर्मर्द्यं पृथग्देयं पुटत्रयम् ।
एवं मर्कदलैर्वेष्ट्यं देयं वा मोचसम्पुटे ॥ १,६.१२ ॥
निश्चन्द्रं जायते ह्यभ्रं यथा दोषेषु योजयेत् ।
{अभ्रःः मारणःः निश्चन्द्र}
गोघृतैस्त्रिफलां क्वाथैः पक्त्वा च पूर्ववत्पचेत् ॥ १,६.१३ ॥
पञ्चविंशत्पुटैरेव कासमर्द्याः द्रवैः पचेत् ।
देयं पुटत्रयं क्षीरैर्मर्दयेच्च पुटे पुटे ॥ १,६.१४ ॥
निश्चन्द्रं जायते ह्यभ्रं जरामृत्युरुजापहम् ।
{अभ्रःः मारण}
धान्याभ्रकस्य भागैकं द्वौ भागौ टंकणस्य च ॥ १,६.१५ ॥
पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् ।
स्वभावशीतलं चूर्णं सर्वरोगेषु योजयेत् ॥ १,६.१६ ॥
{धान्याभ्रकःः मारण}
धान्याभ्रकमम्लंपिष्टं पुटे तप्तेऽम्लसेचनम् ।
तत्पिष्ट्वा धारयेत्खल्वे भाव्यमम्लारनालकैः ॥ १,६.१७ ॥
तप्तं तप्तं चारनालैः पाच्यं शोध्यं पुनः पुनः ।
पुटे वा धमने पाच्यं विंशद्वारं पुनः पुनः ॥ १,६.१८ ॥
तप्तं तप्तं क्षिपेद्दुग्धे पिष्ट्वाथ शोषयेत्पुनः ।
दुग्धतप्तं पुटं पच्यात्तप्तं दुग्धेन सेचयेत् ॥ १,६.१९ ॥
एवं त्रिसप्तवाराणि शोष्यं पेष्यं पुटे पचेत् ।
पेषयित्वा पचेत्स्थाल्यां लौहदर्व्या विचालयेत् ॥ १,६.२० ॥
दुग्धस्थं च ततो दुग्धैः पुटे पच्यात्पुनः पुनः ।
एवं सप्तदिनं पच्याद्दिवा चैकं पुटे निशि ॥ १,६.२१ ॥
तण्डुली वज्रवल्ली च तालमूली पुनर्नवा ।
चाङ्गेरी मरिचं चैव बलायाः पयसा सह ॥ १,६.२२ ॥
एभिश्च पेषयेच्चाभ्रं प्रत्येकं तं त्र्यहं त्र्यहम् ।
स्थित्वा तप्ते पुटे पश्चात्प्रत्येकेन पुनः पुनः ॥ १,६.२३ ॥
पिष्ट्वा पुनः पुटे घृष्टं कज्जलाभं मृतं भवेत् ॥ १,६.२४ ॥
{अभ्रःः मारणःः निश्चन्द्र}
धान्याभ्रकस्य शुद्धस्य दशांशं मरिचं क्षिपेत् ।
पेषयेदम्लवर्गेण चाम्ले भाव्यं दिनत्रयम् ॥ १,६.२५ ॥
तं शुष्कं सम्पुटे धाम्यं खदिराङ्गारकैर्दृढम् ।
ऊर्ध्वपात्रं निरूप्याथ सेचयेदम्लकेन तत् ॥ १,६.२६ ॥
अगस्त्यशिग्रुवर्षाभूमूलैस्तं पत्रजै रसैः ।
पिष्ट्वाभ्रं सेचयेत्तेन यद्वान्याम्लरसेन च ॥ १,६.२७ ॥
सितामध्वाज्यगोक्षीरैर्दध्नाम्लं पेष्यमभ्रकम् ।
मत्स्याक्ष्याः करवीरायाः द्रवैः पिष्ट्वा त्रिधा पचेत् ॥ १,६.२८ ॥
ततो गजपुरे पाच्यं निश्चन्द्रं जायतेऽभ्रकम् ।
{अभ्रःः मारणःः निश्चन्द्र}
धान्याभ्रकं द्रवैर्मर्द्यं मत्स्याक्षीतुलसीद्रवैः ॥ १,६.२९ ॥
मूलजैः कोकिलाक्षस्य कुमारीश्वेतदूर्वयोः ।
व्याघ्रीकन्दपुनर्नवया दिनमेतैर्विमर्दयेत् ॥ १,६.३० ॥
कुञ्जराख्यैः पुटैः सप्त पिष्ट्वा पिष्ट्वा पचेत्पुनः ।
तद्वत्पञ्चामृतैः पाच्यं पिष्ट्वा पिष्ट्वा तु सप्तधा ॥ १,६.३१ ॥
एवं निश्चन्द्रतां याति सर्वरोगेषु योजयेत् ॥ १,६.३२ ॥
{अभ्रःः मारणःः निश्चन्द्र}
धान्याभ्रं टंकणं तुल्यं गोमूत्रैस्तुलसीदलैः ।
वाकुच्याः सूरणैरल्पैर्दिनं पिष्ट्वा पुटे पचेत् ॥ १,६.३३ ॥
जयन्त्याश्च द्रवैः पश्चान्मर्द्यं मर्द्य त्रिधा पुटेत् ।
चतुर्गजपुटेनैवं निश्चन्द्रं सर्वरोगजित् ॥ १,६.३४ ॥
{अभ्रःः मारण}
धान्याभ्रकं रविक्षीरैः रविमूलद्रवैश्च वा ।
मर्द्यं मर्द्यं पुटे पच्यात्सप्तधा म्रियते ध्रुवम् ॥ १,६.३५ ॥
{अभ्रःः मारण}
धान्याभ्रकं तुषाम्लाम्लैरातपे स्थापयेद्दिनम् ।
यामं मर्द्यं चतुर्गोलं रुद्ध्वा गजपुटे पचेत् ॥ १,६.३६ ॥
एवं गोक्षीरमध्यस्थं स्थाप्यं मर्द्य पुटे पचेत् ।
एवं कार्पासतोयेन स्थाप्यं पेष्यं पुटे पचेत् ॥ १,६.३७ ॥
ततोऽम्लैश्चैव कार्पासैर्गवां क्षीरैः पुनः पुनः ।
घर्मपाकं मर्दनं च पुटं चैवमनुक्रमात् ॥ १,६.३८ ॥
एवं विंशत्पुटे प्राप्ते मृतो भवति निश्चितम् ॥ १,६.३९ ॥
{अभ्रःः मृतःः अमृतीकरण}
सर्वेषां घातिताभ्राणाममृतीकरणं शृणु ।
त्रिफलोत्थकषायस्य पलान्यादाय षोडश ॥ १,६.४० ॥
गोमूत्रस्य पलान्यष्टौ मृताभ्रस्य पलान्दश ।
एकीकृत्य लौहपात्रे पाचयेन्मृदुवह्निना ॥ १,६.४१ ॥
द्रवे जीर्णे समादाय सर्वं रोगेषु योजयेत् ।
{अभ्रःः मेदिच्. प्रोपेर्तिएस्}
अनुपानं विना ह्यभ्रं जरामृत्युरुजापहम् ॥ १,६.४२ ॥
योजयेदनुपानैर्वा तत्तद्रोगहरं क्षणात् ।
मृतं चाभ्रं हरेद्रोगान् जरामृत्युमनेकधा ॥ १,६.४३ ॥
सेवितं देहदार्ढ्यं च रूपवीर्यं विवर्धयेत् ॥ १,६.४४ ॥

१, ७
{हरितालःः अशुद्धःः मेदिच्. प्रोपेर्तिएस्}
अशुद्धतालमायुर्घ्नं ककमारुतमेहकृत् ।
तापशोफाङ्गसंकोचं कुरुते तेन शोधयेत् ॥ १,७.१ ॥
{हरितालःः शोधन}
तालकं कणशः कृत्वा दशांशेन च टङ्कणम् ।
जम्बीराणां द्रवैः क्षाल्यं काञ्जिकैः क्षालयेत्पुनः ॥ १,७.२ ॥
वस्त्रैश्चतुर्गुणैर्बद्ध्वा दोलायन्त्रे दिनं पचेत् ।
संयुक्तं चारनालेन दिनं कुष्माण्डजैः रसैः ॥ १,७.३ ॥
तिलतैलैः पचेद्यामं यामं च त्रिफलाजलैः ।
त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रैश्च काञ्जिकैः ॥ १,७.४ ॥
तत्फलैर्दशभिर्देयं रुद्ध्वा पुटं च पेषयेत् ।
एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत् ॥ १,७.५ ॥
{हरितालःः शोधन}
तालकं पोटलीबद्धं सप्ताहं काञ्जिके पचेत् ।
दोलायन्त्रेण यामैकं ततः कुष्माण्डजैः रसैः ॥ १,७.६ ॥
तिलतैले पचेद्यामं यामं च त्रिफलाजलैः ।
एवं यन्त्रे चतुर्यामं पाच्यं शुध्यति तालकः ॥ १,७.७ ॥
{हरितालःः शुद्धःः मेदिच्. प्रोपेर्तिएस्}
तालको हरते रोगान् कुष्ठमृत्युज्वरापहः ।
शोधितः शीतवीर्ये च कुरुते वायुवर्धनम् ॥ १,७.८ ॥
{मनःशिलाःः अशुद्धःः मेदिच्. प्रोपेर्तिएस्}
अश्मरीं मूत्रहृद्रोगमशुद्धा कुरुते शिला ।
मन्दाग्निं मलबन्धं च शुद्धा सर्वरुजापहा ॥ १,७.९ ॥
{मनःशिलाःः शोधन}
अजामूत्रे त्र्यहं पाच्या दोलायन्त्रे मनःशिला ।
सप्तधा तैरजापित्तैर्घर्मे भाव्यं विशुद्धये ॥ १,७.१० ॥
{मनःशिलाःः शोधन}
जयन्तीभृङ्गराजोत्थरक्तागस्त्यरसैः शिला ।
दोलायन्त्रे दिनं पाच्या यामं छागस्य मूत्रके ॥ १,७.११ ॥
क्षालयेदारनालेन सर्वरोगेषु योजयेत् ॥ १,७.१२ ॥
{रसकःः शोधन}
नरमूत्रैश्च गोमूत्रैः सप्ताहं रसकं पचेत् ।
दोलायन्त्रेण सम्यक्तच्छुद्धं योगेषु योजयेत् ॥ १,७.१३ ॥
{तुत्थःः शोधन}
विष्ठया मर्दयेत्खल्वे मार्जारकपोतयोः ।
दशांशं टङ्कणं दद्यात्पाच्यं मृद्वग्निना ततः ॥ १,७.१४ ॥
पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये ॥ १,७.१५ ॥
{विमलाःः शोधन}
विमला त्रिविधं पाच्या रम्भातोयेन संयुता ।
अम्लवेतसधान्याम्लमेषीमूत्रेण पेषयेत् ॥ १,७.१६ ॥
दोलायन्त्रे चतुर्यामं शुद्धिरेषा महोत्तमा ।
{विमलःः शोधन}
कर्कटीमेषशृङ्ग्युत्थद्रवैर्जम्बीरजैर्द्रवैः ॥ १,७.१७ ॥
भावयेदातपे तीव्रे विमला शुध्यति ध्रुवम् ॥ १,७.१८ ॥
{माक्षिकःः अशुद्धःः मेदिच्. प्रोपेर्तिएस्}
मन्दाग्निं बलहानिं च व्रणविष्टम्भनेत्ररुक् ।
कुरुते माक्षिको मृत्युमशुद्धो नात्र संशयः ॥ १,७.१९ ॥
{माक्षिकःः शोधन}
माक्षिकं नरमूत्रेण क्वाथयेत्कोद्रवैर्द्रवैः ।
वेतसेनाम्लवर्गेण टंकणेन कटुत्रिकैः ॥ १,७.२० ॥
दोलायन्त्रे दिनं पाच्यं सूरणस्यैव मध्यगम् ।
दिनं रम्भाद्रवैः पच्यात्तद्धृत्वा पेषयेद्घृतैः ॥ १,७.२१ ॥
एरण्डतैलसंयुक्तं पुटे पच्याद्विशुद्धये ।
{माक्षिकःः शोधन}
माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च ॥ १,७.२२ ॥
मातुलुङ्गद्रवैर्वाथ जम्बीरोत्थद्रवैः पचेत् ।
लोहपात्रे पचेत्तावद्यावत्पात्रं सुलोहितम् ॥ १,७.२३ ॥
ताम्रवर्णमयो याति तावच्छुध्यति माक्षिकम् ।
{माक्षिकःः शोधन}
अगस्त्यपुष्पनिर्यासैः शिग्रुमूलं विघर्षयेत् ॥ १,७.२४ ॥
द्रवैः पाषाणभेद्याश्च पच्यादेभिश्च माक्षिकम् ।
तद्वटीं चान्धमूषायां विंशद्भिरुपलैः पचेत् ॥ १,७.२५ ॥
पुनः पिष्ट्वाथ रुन्ध्याच्च पुटैःषड्भिर्विशुध्यति ॥ १,७.२६ ॥
{माक्षिकःः शोधन}
मेघनादपाषाणभेदी पिष्ट्वा तत्पिण्डमध्ये माक्षिकं कणशः कृत्वा निक्षिपेत् ।
तद्गोलकं वस्त्रे बद्ध्वा दोलायन्त्रे कुलत्थक्वाथे दिनमेकं पचेत् ।
एतच्छुद्धलोहानां युक्तस्थाने मारणे योज्यम् ॥ १,७.२७ ॥
{माक्षिकःः परीक्षाःः गोओदॄउअलित्य्}
भङ्गे सुवर्णसंकाशोऽन्तः कृष्णो बहिश्छविः ।
बृहद्वर्णमिति ख्यातो माक्षिकः श्रेष्ठ उच्यते ॥ १,७.२८ ॥
व्यापयत्यङ्गमङ्गानि तैलबिन्दुरिवाम्भसि ।
न विना शोधनं सर्वे धातवः प्रबलादयः ॥ १,७.२९ ॥
रोगोपशमकर्तारः शोधनं तेन वक्ष्यते ॥ १,७.३० ॥
{चोरल्ःः मारण}
प्रवालानां स्त्रीदुग्धेन भावना पश्चाद्धण्डिकामध्ये स्थापयित्वा निरुध्योपरि शरावकं दत्त्वा लेपयेत् ।
वह्निसंदीपनं कृत्वा प्रहरद्वयेन विद्रुमं म्रियते ॥ १,७.३१ ॥
{उपरस (?):: मारण}
कुलत्थस्य पचेद्द्रोणे वारिद्रोणेन बुद्धिमान् ।
तेन पादावशेषेण क्वाथेऽष्टौ मणयः शिला ॥ १,७.३२ ॥
आतपे त्रिदिनं शुष्कं क्वाथसिक्तं पुनः पुनः ।
मुक्ताचूर्णं समादाय करकाम्बुविभावितम् ॥ १,७.३३ ॥
आतपे त्रिदिनं भाव्यं चूर्णितं मृत्युमाप्नुयात् ॥ १,७.३४ ॥
{शिलाजतुःः शोधन}
शङ्खं नीलाञ्जनं चैव पूर्ववच्छोधयेद्दिनम् ।
गोमूत्रैस्त्रिफलाक्वाथैर्भृङ्गराजद्रवैर्जतुम् ॥ १,७.३५ ॥
मर्दयेदायसे पात्रे दिनाच्छुद्धिः शिलाजतोः ।
{दरदःः शोधन}
मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् ॥ १,७.३६ ॥
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ।
{उपरसःः शोधन}
सूर्यावर्तं वज्रकन्दं कदली देवदालिका ॥ १,७.३७ ॥
शिग्रु कोशातकी वन्ध्या काकमाची च वायसी ।
आसामेकरसेनैव त्रिक्षारैर्लवणैर्युतम् ॥ १,७.३८ ॥
भावयेदम्लवर्गेण दिनमेकं प्रयत्नतः ।
सौवीरं कान्तपाषाणं शुद्धभूनागमृत्तिका ॥ १,७.३९ ॥
शङ्खं नीलाञ्जनं चैव सर्वोपरसाश्च ये ।
पृथग्भाव्यं विधानेन शुद्धिं यान्ति दिने दिने ॥ १,७.४० ॥
ततः पश्चात्तु तद्द्रावैर्दोलायन्त्रे दिनं सुधीः ।
शुध्यन्ते नात्र सन्देहः सर्वेषु परमा अमी ॥ १,७.४१ ॥
मुञ्चन्ति द्रुतसत्त्वांश्च मतं साधारणं स्मृतम् ॥ १,७.४२ ॥
{?:: सत्त्वपातन}
गुग्गुलुं टङ्कणं लाक्षा मज्जा सर्जरसं पुनः ।
ऊर्णा गुञ्जा क्षेत्रमीनमस्थीनि शशकस्य च ॥ १,७.४३ ॥
गुडमध्वाज्यपिण्याकं तुत्थं पेष्यमजाजलैः ।
सर्वं तुल्यं च धान्याभ्रं भूनागं मृत्तिकापि च ॥ १,७.४४ ॥
कान्तपाषाणतुल्यं च कठिन्युपरसाश्च ये ।
मेलयेन्माहिषैः पच्याद्दध्यादिगोमयान्तिकैः ॥ १,७.४५ ॥
दृढं मर्द्यं वटीं कुर्यात्कर्षमात्रं तु शोषयेत् ।
कोष्ठीयन्त्रे धमेद्गाढमङ्गारैश्च चिरोद्भवैः ॥ १,७.४६ ॥
त्रिवारं धमनादेव सत्त्वं पतति निर्मलम् ।
असाध्यान्मोचयेत्सत्त्वान्मृत्तिकादेश्च का कथा ॥ १,७.४७ ॥
{हरितालःः सत्त्वपातन}
लाक्षा आज्यं तिलाः शिग्रुः टंकणं लवणं गुडम् ।
तालकार्धेन संयोज्य छिद्रमूषां निरोधयेत् ॥ १,७.४८ ॥
पुटे पातालयन्त्रेण सत्वं पतति निश्चितम् ।
{??}
चाङ्गेरी चणकाम्लं च मातुलुङ्गाम्लवेतसम् ।
चिञ्चा नारङ्गं जम्बीरनम्ण वर्ग इति स्मृतम् ।
{हरितालःः सत्त्वपातन}
तालकं चूर्णयित्वा तु छागीक्षीरेण भावयेत् ॥ १,७.४९ ॥
वारत्रयं ततो विद्धिमूलं पिष्ट्वा तु मिश्रितम् ।
कृत्वा च गुडकं शुष्कं सत्वं ग्राह्यं च पूर्ववत् ॥ १,७.५० ॥
{हरितालःः सत्त्वपातन}
तालकं मर्दयेद्दुग्धैः सर्पाक्षीं वाथ मूलकैः ।
पूर्ववद्ग्राहयेत्सत्त्वं छिद्रमूषां निरुध्य च ॥ १,७.५१ ॥
{मनःशिलाःः सत्त्वपातन}
तालवच्च शिलासत्वं ग्राह्यं तैरेव चौषधैः ।
तुल्येन टंकणेनैव ध्मातं सत्त्वं चतुर्थकम् ॥ १,७.५२ ॥
{माक्षिकःः सत्त्वपातन}
गोक्षीरैश्च तुत्थक्षीरैर्भाव्यमेरण्डतैलकैः ।
माक्षिकं दिनमेकं तु मर्दितं वटकीकृतम् ॥ १,७.५३ ॥
अभ्रवद्धमने सत्वं सम्यगस्याप्ययं विधिः ।
{माक्षिक (?):: सत्त्वपातन}
जयन्ती त्रिफलाचूर्णं हरिद्रागुडटङ्कणम् ॥ १,७.५४ ॥
पादांशं टङ्कणस्येदं पिष्ट्वा मूषां विलेपयेत् ।
नालिकां सम्पुटे बद्ध्वा शोषयेदातपे खरे ॥ १,७.५५ ॥
ग्राह्यं पातालयन्त्रे च सत्वं ध्मातं पुटेन च ॥ १,७.५६ ॥

१, ८
{मेतल्स्}
स्वर्णं तारं ताम्रं नागं वङ्गं कान्तं च तीक्ष्णकम् ।
मुण्डान्तमष्टधा लोहं कांस्यारं घोषकं त्रिधा ॥ १,८.१ ॥
{उपलोहाः}
उपलौहाः समाख्याता मण्डूरोलौहकिट्टकम् ।
एते द्वादशधा शोध्या मार्या द्राव्याः पुटादिषु ॥ १,८.२ ॥
{मेतल्स्ःः शोधन}
तैले तक्रे गवां मूत्रे ह्यारनाले कुलत्थके ।
क्रमात्प्राप्तं तथा तप्तं द्रावे द्रावे तु सप्तधा ॥ १,८.३ ॥
स्वर्णादिलोहपत्राणां शुद्धिरेषा प्रकीर्तिता ।
{मेतल्स्ःः मारण}
हेम्नः पादं मृतं सूतं पिष्टमम्लेन केनचित् ॥ १,८.४ ॥
पत्रे लिप्त्वा पुटे पच्यादष्टाभिर्म्रियते ध्रुवम् ।
शुद्धानां सर्वलौहानां मारणे रीतिरीदृशी ॥ १,८.५ ॥
{गोल्द्ःः अशुद्धःः मेदिच्. प्रोपेर्तिएस्}
सौख्यं वीर्यं बलं हन्ति नानारोगं करोति च ।
अशुद्धं स्वर्णं सूतं च तस्माच्छुद्धं तु मारयेत् ॥ १,८.६ ॥
{पञ्चमृत्तिकाः}
वल्मीकमृत्तिकाधूमगैरिकं चेष्टिकापुटे ।
{गोल्द्ःः शोधन}
इत्याद्याः मृत्तिकाः पञ्च जम्बीरैरारनालकैः ॥ १,८.७ ॥
पिष्ट्वा लेप्यं स्वर्णपत्रं श्रेष्ठं पुटेन शुध्यति ।
{गोल्द्ःः शोधन}
भावयेन्मातुलुङ्गाम्लैस्त्रिदिनं पञ्चमृत्तिका ॥ १,८.८ ॥
सैन्धवं भूमिभस्मापि स्वर्णं शुध्यति पूर्ववत् ॥ १,८.९ ॥
{सुब्स्तन्चेस्fओर्मारण ओf मेतल्स्}
नागैः सुवर्णं रजतं च ताप्यैर्गन्धेन ताम्रं शिलया च नागम् ।
तालेन वङ्गं त्रिविधं च लौहं नारीपयो हन्ति च हिंगुलेन ॥ १,८.१० ॥
{गोल्द्ःः मारण}
माक्षिकं नागचूर्णं च पिष्टमर्करसेन तु ।
हेमपत्रं पुटेनैव म्रियते क्षणमात्रतः ॥ १,८.११ ॥
{गोल्द्ःः मारण}
स्वर्णार्धं पारदं दत्त्वा कुर्याद्यत्नेन पिष्टिकाम् ।
दत्त्वोर्ध्वाधो नागचूर्णं पुटनान्म्रियते ध्रुवम् ॥ १,८.१२ ॥
{गोल्द्ःः मारण}
नागचूर्णं शिलां वज्रीक्षीरेण परियसितम् ।
तेनालिप्य सुवर्णस्य कल्कश्च म्रियते पुटात् ॥ १,८.१३ ॥
{गोल्द्ःः मारण}
मृतं नागं स्नुहीक्षीरैरथवाम्लेन केनचित् ।
पिष्ट्वा लेप्यं सुवर्णपत्रं रुद्ध्वा गजपुटे पचेत् ॥ १,८.१४ ॥
आदाय पेषयेदम्लैर्मृन्नागं चाष्टमांशकम् ।
बद्ध्वा गजपुटे पच्यात्पूर्वनागयुतं युतम् ॥ १,८.१५ ॥
एवं पुनः पुनः पच्यादष्टधा म्रियते ध्रुवम् ।
{गोल्द्ःः मारणःः निरुत्थ}
शुद्धसूतसमं गन्धं माक्षिकं च महाम्लकैः ॥ १,८.१६ ॥
अष्टाभिश्च पुटैर्हेम्नो म्रियते पूर्ववत्क्रियाम् ।
शुद्धसूतं समं स्वर्णं खल्वे कुर्याच्च गोलकम् ॥ १,८.१७ ॥
अधो वै गन्धकं दत्त्वा सर्वं तुल्यं निरुध्य च ।
त्रिंशद्वनोपलैर्देयं पुटान्येवं चतुर्दश ॥ १,८.१८ ॥
निरुत्थं जायते भस्म गन्धं देयं पुटे पुटे ।
{गोल्द्ःः मारणःः निरुत्थ}
स्वर्णस्य द्विगुणं सूतं याममम्लेन मर्दयेत् ॥ १,८.१९ ॥
अधः ऊर्ध्वं माक्षिकं पिष्ट्वा मूषायां स्वर्णतुल्यकम् ।
तत्पृष्ठे मर्दितं हेम तत्पृष्ठे हेममाक्षिकम् ॥ १,८.२० ॥
देयं स्वर्णं समं तच्च पृष्ठे गन्धं च तत्समम् ।
षड्वारं चूर्णितं दत्त्वा रुद्ध्वा मूषां धमेद्दृढम् ॥ १,८.२१ ॥
स्वभावशीतलं ग्राह्यं तद्भस्म भागपञ्चकम् ।
टंकणं श्वेतकाचं च भागैकं च प्रयोजयेत् ॥ १,८.२२ ॥
त्रितयं मधुनाज्येन मिलितं गोलकीकृतम् ।
धान्याभ्रकस्य भागैकमधश्चोर्ध्वं च दापयेत् ॥ १,८.२३ ॥
निरुध्य तद्धमेद्गाढं मूषायां घटिकाद्वयम् ।
निरुत्थं जायते भस्म तत्तद्योगेषु योजयेत् ॥ १,८.२४ ॥
{गोल्द्ःः मारणःः निरुत्थ}
शुद्धमाक्षिकं भागैकं भागं चावोटमाक्षिकम् ।
त्रिभागं सूतकं क्षिप्त्वा त्रयमम्लेन मर्दयेत् ॥ १,८.२५ ॥
तद्गोलं पातालयन्त्रे तदा यामत्रयं पचेत् ।
इत्येवं म्रियते स्वर्णं निरुत्थं नात्र संशयः ॥ १,८.२६ ॥
{गोल्द्ःः मारण}
तथैव च राजवृक्षभल्लातैष्टंकणेन च ।
लिप्त्वा स्वर्णस्य पत्राणि रुद्ध्वा गजपुटे पचेत् ॥ १,८.२७ ॥
तैः द्रवैश्च पुनः पिष्ट्वा म्रियते सप्तधा पुटे ।
हेममारभ्य तोलैकं माषैकं शुद्धनागकम् ॥ १,८.२८ ॥
लिप्त्वा देयं तु तं चूर्णं तच्छुद्धैर्गन्धमाक्षिकैः ।
अम्लेन मर्दयेद्यामं रुद्ध्वा लघुपुटे पचेत् ॥ १,८.२९ ॥
गन्धं पुनः पुनर्देयं म्रियते दशभिः पुटैः ।
{गोल्द्ःः मृतःः मेदिच्. प्रोपेर्तिएस्}
सुवर्णं च भवेच्छीतं तिक्तं स्निग्धं हिमं गुरु ॥ १,८.३० ॥
बुद्धिविद्यास्मृतिकरं विषहारि रसायनम् ॥ १,८.३१ ॥
{सिल्वेर्ःः अशुद्धःः मेदिच्. प्रोपेर्तिएस्}
आयुः शुक्रं बलं हन्ति रोगवेगं करोति च ।
अशुद्धममृतं तारं शुद्धं मार्यमतो बुधैः ॥ १,८.३२ ॥
{सिल्वेर्ःः शोधन}
नागेन टङ्कणेनैव द्रावितं शुद्धिमृच्छति ।
{सिल्वेर्ःः मारण}
माक्षिकं गन्धकं चैवमर्कक्षीरेण मर्दयेत् ॥ १,८.३३ ॥
तेन लिप्तं रूप्यपत्रं पुटेन म्रियते ध्रुवम् ।
{सिल्वेर्ःः मारण}
तारं त्रिवारं निक्षिप्तं तैले ज्योतिष्मती भवेत् ॥ १,८.३४ ॥
स्नुक्क्षीरैः पेषयेत्ताम्रं तारपत्राणि लेपयेत् ।
रुद्ध्वा गजपुटे पच्यात्पूर्वोक्तैः पेषयेत्पुनः ॥ १,८.३५ ॥
भूधात्री माक्षिकं तुल्यं पिप्पली सैन्धवाम्लकैः ।
लिप्त्वा तारस्य पत्राणि रुद्ध्वा सप्तपुटे पचेत् ॥ १,८.३६ ॥
द्रवैः पुनः पुनः पिष्ट्वा म्रियते नात्र संशयः ।
{सिल्वेर्ःः मारणःः निरुत्थ}
तारपत्रैस्त्रिभिर्भागैर्भागैकं शुद्धमाक्षिकम् ॥ १,८.३७ ॥
मर्द्यं जम्बीरजैर्द्रावैस्तारपत्राणि लेपयेत् ।
शोषयेदन्धयेत्तं च त्रिंशद्वन्योपलैः पचेत् ॥ १,८.३८ ॥
चतुर्दशपुटेनैवं निरुत्थं म्रियते ध्रुवम् ।
{सिल्वेर्ःः मारण}
रूप्यपत्रं चतुर्भागाद्भागैकं मृतवङ्गकम् ॥ १,८.३९ ॥
अथवा गन्धतालेन लेप्यं जम्बीरपेषितम् ।
रुद्ध्वा त्रिःपुटैः पच्यात्पञ्चविंशद्वनोपलैः ॥ १,८.४० ॥
म्रियते नात्र संदेहो गन्धो देयः पुटे पुटे ।
{सिल्वेर्ःः मारण}
रसगन्धौ समौ कृत्वा काकतुण्डस्य मूलकम् ॥ १,८.४१ ॥
मर्दयेन्महिषीक्षीरैः पिष्ट्वा तं क्षालयेज्जलैः ।
हरिद्रागोलके क्षिप्त्वा गोलं हयपुरीषके ॥ १,८.४२ ॥
क्षिप्त्वा दिनैकविंशं तं तद्गोलमुद्धरेत्पुनः ।
तत्पिष्ट्वा तारपत्राणि लेप्यान्यम्लेन केनचित् ॥ १,८.४३ ॥
पुटैर्विंशतिभिर्भस्म जायते नात्र संशयः ।
भस्मना चाम्लपिष्टेन मेलयेत्तालकं पुटैः ॥ १,८.४४ ॥
जायते तद्विधानेन सर्वरोगापहारकम् ॥ १,८.४५ ॥
{चोप्पेर्ःः अशुद्धःः मेदिच्. प्रोपेर्तिएस्}
अपक्वताम्रमायुर्घ्नं कान्तिघ्नं सर्वधातुहा ।
भ्रान्तिमूर्च्छाभ्रमोत्केशं नानारुक्कुष्ठशूलकृत् ॥ १,८.४६ ॥
{चोप्पेर्ःः शोधन}
स्नुह्यर्कक्षीरलवणकाञ्जिकैस्ताम्रपत्रकं लिप्त्वा ।
प्रताप्यं निर्गुण्डीरसैः सिञ्च्यात्पुनः पुनः ॥ १,८.४७ ॥
वारद्वादशदाहत्वं लेपनात्ताम्रसिञ्चनात् ।
खटिका लवणं तक्रैरारनालैश्च पेषयेत् ॥ १,८.४८ ॥
तेन लिप्त्वा ताम्रपत्रं तप्तं तप्तं निषेचयेत् ।
षड्वारमम्लपिष्टेन निर्गुण्ड्यास्तु विशुद्धये ॥ १,८.४९ ॥
{चोप्पेर्ःः शोधन}
गोमूत्रेण पचेत्ताम्रपत्रं यामं दृढाग्निना ।
शुध्यते नात्र सन्देहो मारणं कथ्यतेऽधुना ॥ १,८.५० ॥
{चोप्पेर्ःः मारण}
गन्धेन ताम्रतुल्येन ह्यम्लपिष्टेन लेपयेत् ।
कण्टकवेधीकृतं पत्रं सिद्धयित्वा पुटे पचेत् ॥ १,८.५१ ॥
उद्धृत्य चूर्णयेत्तस्मिन् पादांशं गन्धकं क्षिपेत् ।
जम्बीरैरारनालैर्वा मृगदूर्वाद्रवैस्तथा ॥ १,८.५२ ॥
पिष्ट्वा पिष्ट्वा पचेत्तद्वत्सगन्धं च चतुष्पुटे ।
मातुलङ्गरसैः पिष्ट्वा पुटमेकं प्रदापयेत् ॥ १,८.५३ ॥
अनेनैव विधानेन ताम्रभस्म भवेद्ध्रुवम् ।
{चोप्पेर्ःः मारण}
ताम्रस्य द्विगुणं सूतं जम्बीराम्लेन मर्दयेत् ॥ १,८.५४ ॥
सितशर्करयाप्येवं पुटत्रये मृतं भवेत् ।
{चोप्पेर्ःः मारण}
पाषाणभेदीमत्स्याक्षीद्रवैर्द्विगुणगन्धकैः ॥ १,८.५५ ॥
ताम्रस्य लेपयेत्पत्रं रुद्ध्वा गजपुटे पचेत् ।
सप्तांशेन पुनर्दग्धं दत्त्वा द्रावैश्च पेषयेत् ॥ १,८.५६ ॥
एवं सप्तपुटे पक्वं ताम्रभस्म भवेद्ध्रुवम् ।
{चोप्पेर्ःः मारण}
ताम्रस्य हिङ्गुलं सूतं जम्बीराम्लेन पेषयेत् ॥ १,८.५७ ॥
आदौ मूषान्तरे क्षिप्त्वा धत्तूरस्य तु पत्रकम् ।
तत्पृष्ठे ताम्रतुल्यं तु गन्धकं चूर्णितं क्षिपेत् ॥ १,८.५८ ॥
तत्पृष्ठे मर्दितं ताम्रं पूर्वतुल्यं तु गन्धकम् ।
आच्छाद्य धुस्तूरपत्रे रुद्ध्वा गजपुटे पचेत् ॥ १,८.५९ ॥
स्वांगशीतं तु तच्चूर्णं भस्मीभवति निश्चितम् ।
{चोप्पेर्ःः मारण}
किंचिद्गन्धेन चाम्लेन क्षालयेत्ताम्रपत्रकम् ॥ १,८.६० ॥
तेन गन्धेन सूतेन ताम्रपत्रं प्रलेपयेत् ।
गन्धेन पुटितं पश्चान्म्रियते नात्र संशयः ॥ १,८.६१ ॥
{चोप्पेर्ःः मारण}
ताम्रद्विगुणगन्धेन चाम्लपिष्टेन तत्पुनः ।
क्षिप्त्वा ह्यधोऽर्धभागेन देया पिष्टाम्लकैर्बुधः ॥ १,८.६२ ॥
तत्पिण्डं भाण्डगर्भे तु रुद्ध्वा चुल्यां विपाचयेत् ।
यामैकं तीव्रपाकेन भस्मीभवति निश्चितम् ॥ १,८.६३ ॥
{चोप्पेर्ःः मारण}
सूतमेकं द्विधा गन्धं यामं कृत्वा विमर्दितम् ।
द्वयोस्तुल्यं ताम्रपत्रं स्थाल्यां गर्भे निधापयेत् ॥ १,८.६४ ॥
सम्यग्लवणयन्त्रस्थं पार्श्वे भस्म निधापयेत् ।
चतुर्यामं पचेच्चुल्ल्यां पात्रपृष्ठे सगोमयम् ॥ १,८.६५ ॥
जलं पुनः पुनर्देयं स्वाङ्गशैत्यं विचूर्णयेत् ।
म्रियते नात्र संदेहः सर्वरोगेषु योजयेत् ॥ १,८.६६ ॥
{चोप्पेर्ःः मारण (शोधन?)}
नानाविधं मतं ताम्रं शुद्ध्यर्थं भागपञ्चकम् ।
भागैकं श्वेतकाचं च भागपञ्चैकटंकणम् ॥ १,८.६७ ॥
मूषायां मिलितं कृत्वा भागैकं ताम्रपत्रकम् ।
ऊर्ध्वे दत्त्वा निरुद्ध्याय ध्मातैर्ग्राह्यं सुशीतलम् ॥ १,८.६८ ॥
निर्दोषं तु भवेत्ताम्रं सर्वरोगहरं भवेत् ।
{चोप्पेर्ःः मृतःः मेदिच्. अप्प्लिचतिओन्}
अथवा मारितं ताम्रमम्लेनैकेन मर्दयेत् ॥ १,८.६९ ॥
तद्गोलं सूरणस्यान्तरुर्ध्वारुद्ध्वा तु लेपयेत् ।
शुष्कं गजपुटे पच्यात्सर्वदोषहरो भवेत् ॥ १,८.७० ॥
वान्तिं भ्रान्तिं विरेकं च न करोति कदाचन ।
{चोप्पेर्ःः मृतःः मेदिच्. प्रोपेर्तिएस्}
ताम्रं तीक्ष्णोष्णमधुरं कषायं शीतलं सरम् ॥ १,८.७१ ॥
कफपित्तक्षयं पाण्डुकुष्ठघ्नं च रसायनम् ।
परिणामशूलमर्शांसि मन्दाग्निं च विनाशयेत् ॥ १,८.७२ ॥
{तिन्, लेअद्ःः अमृतःः मेदिच्. प्रोपेर्तिएस्}
पाकहीनौ नागवंगौ कुष्ठगुल्मरुजाकरौ ।
मेहपाण्डूदरवातकफमृत्युकरौ किल ॥ १,८.७३ ॥
{लेअद्ःः शोधन}
निर्गुण्डीमूलचूर्णेन मार्कदुग्धेन लेपयेत् ।
नागपत्रं तु तं शुष्कं द्रावयित्वा निषेचयेत् ॥ १,८.७४ ॥
निर्गुण्डीद्रवमध्ये तु ततः पत्रं तु कारयेत् ।
लिप्त्वा भाव्यं पुनः सेच्यं सप्तवारं विशुद्धये ॥ १,८.७५ ॥
{लेअद्ःः शोधन}
निशा तुम्बरुबीजानि कोकिलाक्षं कुठारिकाम् ।
गौरीफलाम्लिका चण्डी क्षुद्रा ब्राह्मी सजीरकम् ॥ १,८.७६ ॥
यथालाभेन भस्मैकं वज्रीक्षीरेण भावयेत् ।
तन्मध्ये भावितं नागं शुद्धं सेकं तु सप्तधा ॥ १,८.७७ ॥
{लेअद्ःः मारणःः निरुत्थ}
अश्वत्थचिञ्चात्वग्भस्म नागस्य चतुरंशतः ।
क्षिप्त्वा चुल्ल्यां पचेत्पात्रे चालयेल्लोहचट्टके ॥ १,८.७८ ॥
यावद्भस्म भवेदेतच्च भस्म तुल्यं मनःशिलाम् ।
जम्बीरैरारनालैर्वा पिष्ट्वा रुद्ध्वा पुटे पचेत् ॥ १,८.७९ ॥
स्वांगशीतं पुनः पिष्ट्वा विंशत्यंशैः शिलाम्लकैः ।
एवं षड्भिः पुटे पाको नागस्यापि निरुत्थितः ॥ १,८.८० ॥
{लेअद्ःः मारण}
अथवा नागपत्राणि चूर्णलिप्तानि खर्परे ।
अत्यग्नौ पाचयेद्यामं तद्भस्म चित्रकद्रवैः ॥ १,८.८१ ॥
भर्जयेल्लौहजे पात्रे चाल्यमर्जुनदण्डकैः ।
यामषोडशपर्यन्तं द्रवं देयं पुनः पुनः ॥ १,८.८२ ॥
दण्डेन मर्दयेत्क्वाथ्यमुद्धृत्य चित्रकद्रवैः ।
गोलयित्वा निरुध्याथ षट्पुटे मारयेल्लघु ॥ १,८.८३ ॥
{लेअद्ःः मारण}
चिञ्चाक्षमिक्षुभल्लातबलावज्रलताभवैः ।
अपामार्गार्जुनाश्वत्थभस्मभिर्भर्जयेद्दृढम् ॥ १,८.८४ ॥
लोहपात्रं तु सप्ताहं तुल्यं भस्मानि चाशु च ।
दण्डपलाशकेनैव म्रियते नात्र संशयः ॥ १,८.८५ ॥
{लेअद्ःः मारण}
पिष्ट्वागस्तिं च भूनागं लिप्त्वा पात्रं विशोषयेत् ।
तद्भाण्डे द्रावयेद्यामं दृढे भाण्डे विनिक्षिपेत् ॥ १,८.८६ ॥
वासाचिर्चिटयोः क्षारे वासादले विघट्टयेत् ।
यामैकं पाचयेच्चुल्ल्यां समुद्धृत्य विमिश्रयेत् ॥ १,८.८७ ॥
तच्चूर्णं तु शिलाताप्यैर्वासकक्षारसंयुतैः ।
तत्तुल्यं पूर्वनागं विंशदेकपुटे पचेत् ॥ १,८.८८ ॥
द्विपुटं चिर्चिटाक्षारैः देयं वासारसैः सह ।
नागः सिन्दूरवर्णाभो म्रियते सर्वकार्यकृत् ॥ १,८.८९ ॥
{लेअद्ःः मारण}
कुनटी माक्षिकं चैव समभागं तु कारयेत् ।
अर्कपर्णेन तत्पिष्ट्वा सीसपत्राणि मारयेत् ॥ १,८.९० ॥
{लेअद्ःः मृतःः मेदिच्. प्रोपेर्तिएस्}
सतिक्तमधुरो नागो मृतो भवति भस्मसात् ।
आयुष्कीर्तिं वीर्यवृद्धिं करोति सेवनात्सदा ॥ १,८.९१ ॥
{तिन्ःः मारण}
माक्षिकं हरितालं च पलाशस्वरसेन च ।
कृतकल्केन संलिप्य वंगपत्राणि मारयेत् ॥ १,८.९२ ॥
नागवच्छोधयेद्वङ्गं तद्वदश्वत्थचिंचयोः ।
तद्भस्म हरितालं च तुल्यमम्लेन केनचित् ॥ १,८.९३ ॥
पलाशोत्थद्रवैर्वाथ गोलयित्वान्धयेत्पुटे ।
उद्धृत्य दशमांशेन तालेन सह मर्दयेत् ॥ १,८.९४ ॥
पूर्वद्रावैः सहालोड्य रुद्ध्वा गजपुटे पचेत् ।
एवं विंशत्पुटे पक्त्वा मृतं भवति भस्मसात् ॥ १,८.९५ ॥
{तिन्ःः मारण}
वङ्गपादेन सूतेन वङ्गपत्राणि लेपयेत् ।
चिञ्चावृक्षस्य संगृह्य चान्तश्छन्नं च तण्डुलैः ॥ १,८.९६ ॥
पिष्ट्वा तत्पिण्डमध्ये तु वङ्गपत्राणि लेपयेत् ।
शिरीषरजनीचूर्णैः कुमार्याः शुभगोलकम् ॥ १,८.९७ ॥
सूतलिप्तं वङ्गपत्रं गोलके समलेपितम् ।
रुद्ध्वा गजपुटे पक्वं पूर्वसंख्या मृतो भवेत् ॥ १,८.९८ ॥
{तिन्ःः मारण}
अक्षभल्लातकं तोयैः पिष्ट्वा तानि विलेपयेत् ।
ततस्तिलखली मध्ये क्षिप्त्वा रुद्ध्वा पुटे पचेत् ॥ १,८.९९ ॥
गजाख्ये जायते भस्म चत्वारिंशतिवङ्गकम् ।
{तिन्ःः मृतःः मेदिच्. प्रोपेर्तिएस्}
सतिक्तलवणं वङ्गं पाण्डुघ्नं क्रिमिमेहजित् ॥ १,८.१०० ॥
लेखिनं पित्तलं किंचित्सर्वदेहामयापहम् ॥ १,८.१०१ ॥

१, ९
{इरोन्ःः अशुद्धःः मेदिच्. प्रोपेर्तिएस्}
अशुद्धममृतं लौहमायुर्हानिरुजाकरम् ।
हृत्पीडां च तृषां जाड्यं तस्माच्छुद्धं च मारयेत् ॥ १,९.१ ॥
{कान्तलोहःः परीक्षा}
पात्रे यस्मिन्प्रसरति न चेत्तैलबिन्दुर्विसृष्टः ।
हिङ्गुर्गन्धं प्रसरति निजं तिक्ततां निम्बुकश्च ।
पाके दग्धं भवति शिखराकारता नैव भूमौ ।
कान्तं लौहं तदिदमुदितं लक्षणोक्तं न चान्यत् ॥ १,९.२ ॥
कान्तं मृदुतरं तारं रुक्माभं तिमिरं करम् ।
स्वादुर्यतो भवेन्निम्बकल्को रात्रिनिवेशितः ॥ १,९.३ ॥
कान्तं तदुत्तमं यच्च रूप्येनावर्तितं मिलेत् ।
सर्वरोगहरमेतत्सर्वकुष्ठहरं परम् ॥ १,९.४ ॥
{इरोन्ःः सुब्त्य्पेस्ःः शोधन}
शशछागरक्तसंलिप्तं त्रिवारं चाग्नितापितम् ।
कान्तादिमुण्डपर्यन्तं सर्वरोगहरं परम् ॥ १,९.५ ॥
{इरोन्ःः शोधनःः अद्रि}
त्रिफलाष्टगुणैस्तोयैस्त्रिफलाषोडशं पलम् ।
तत्क्वाथे पादशेषे तु लौहस्य पत्रपञ्चकम् ॥ १,९.६ ॥
कृत्वा पत्राणि तप्तानि सप्तवाराणि सेचयेत् ।
एवं प्रलीयते दोषो गिरिजो लौहसम्भवः ॥ १,९.७ ॥
{इरोन्ःः शोधन}
त्रिविधं लौहचूर्णं वा गोमूत्रैः षड्गुणैः पचेत् ।
प्रक्षालयेदारनाले शोष्यं शुद्धिमवाप्नुयात् ॥ १,९.८ ॥
{इरोन्ःः सुब्त्य्पेस्ःः शोधन}
रक्तमाला हंसपादो गोजिह्वा त्रिफलामृता ।
गोपाली तुम्बुरुर्दन्ती तुल्यगोमूत्रपेषितम् ॥ १,९.९ ॥
अस्मिन्मध्ये लौहपत्त्रं तप्तं तप्तं द्विसप्तधा ।
सेचयेत्कान्तमुण्डान्तं सर्वदोषापनुत्तये ॥ १,९.१० ॥
सर्वेष्वौषधकल्पेषु लौहकल्पं प्रशस्यते ।
तस्मात्सर्वं प्रयत्नेन लौहमादौ विमारयेत् ॥ १,९.११ ॥
अयः पञ्चपलादूर्ध्वं यावत्पलत्रयोदशात् ।
आदौ मन्त्रस्ततः कर्म यथाकर्तव्यमुच्यते ॥ १,९.१२ ॥
{इरोन्ःः मारण}
हिङ्गुलस्य पलान् पञ्च नारीस्तन्येन पेषयेत् ।
तेन लौहस्य पत्राणि लेपयेत्पलपञ्चकम् ॥ १,९.१३ ॥
रुद्ध्वा गजपुटे पच्यात्कषायैस्त्रैफलैः पुनः ।
जम्बीरैरारनालैर्वा विंशत्यंशेन हिङ्गुलम् ॥ १,९.१४ ॥
पिष्ट्वा रुद्ध्वा पुटेल्लोहं तथैवं पाचयेत्पुनः ।
चत्वारिंशत्पुटैरेवं कान्तं तीक्ष्णं च मुण्डकम् ॥ १,९.१५ ॥
हो म्रियते त्रालसन्दे दत्त्वा दत्त्वा च हिङ्गुलम् ।
{इरोन्ःः मारण}
अर्जुनस्य त्वचा पेष्या काञ्जिकेनातिलोहिता ॥ १,९.१६ ॥
तन्मध्ये लोहचूर्णं च कांस्यपात्रे विनिक्षिपेत् ।
दिनैकं भावयेद्घर्मे द्रवैः पूर्यं पुनः पुनः ॥ १,९.१७ ॥
अर्जुनैः सारनालैर्वा त्रिविधं मारयेदयः ।
{इरोन्ःः मारण}
दन्तीपत्रं द्रवं यच्च लौहचूर्णं विलोडयेत् ॥ १,९.१८ ॥
दिनैकं भावयेद्घर्मे द्रवं देयं पुनः पुनः ।
रुद्ध्वा रात्रौ पुटैः पच्यादेभिर्द्रावैश्च भावयेत् ॥ १,९.१९ ॥
एवमष्टदिनं कुर्यात्त्रिविधं म्रियते ह्ययः ।
{इरोन्ःः मारण}
चिञ्चापत्रनिभां कुर्यात्त्रिविधं लोहपत्रकम् ॥ १,९.२० ॥
मृत्पात्रस्थं क्षिपेद्घर्मे दन्त्या द्रावैः प्रपूरयेत् ।
पत्रं पुनः पुनस्तावद्यावज्ज्वरति वै त्वयः ॥ १,९.२१ ॥
म्रियते तीव्रघर्मेण चूर्णीकृत्य नियोजयेत् ।
{इरोन्ःः मारण}
कान्तं तीक्ष्णं तथा मुण्डचूर्णं मत्स्याक्षजैर्द्रवैः ॥ १,९.२२ ॥
आतपे त्रिदिनं भाव्यं द्विदिनं चित्रकद्रवैः ।
त्रिकण्टकद्रवैस्त्र्यहं सहदेव्या द्रवैस्त्र्यहम् ॥ १,९.२३ ॥
गोमूत्रैस्त्रिफलाक्वाथे भावयेच्च त्र्यहं त्र्यहम् ।
धातक्याश्च ततो मर्द्यं क्रमाद्देयं पुटं पुटम् ॥ १,९.२४ ॥
रुद्ध्वा गजपुटेनैवं मृतं योगेषु योजयेत् ।
{इरोन्ःः मारण}
द्रवैः कुरण्टपत्रोत्थैः लौहचूर्णं विमर्दयेत् ॥ १,९.२५ ॥
दिनैकमातपे तीव्रे द्रवैर्मर्द्यं त्रिकण्टकैः ।
वन्ध्याभृङ्गीपुनर्नवयोर्गोमूत्रैश्च दिनं पुनः ॥ १,९.२६ ॥
गोमूत्रैस्त्रिफला क्वाथ्या तत्कषायेण भावयेत् ।
त्रिसप्ताहं प्रयत्नेन दिनैकं मर्दयेत्ततः ॥ १,९.२७ ॥
रुद्ध्वा गजपुटे पञ्चादिं क्वाथेन मर्दयेत् ।
दिवा मर्द्यं पुटं रात्रावेकविंशतिदिनानि वै ॥ १,९.२८ ॥
एकविंशद्दिनेनैव म्रियते त्रिविधं ह्ययः ।
{इरोन्ःः मारण}
माक्षिकं च शिला ह्यम्लैर्हरिद्रा मरिचानि च ॥ १,९.२९ ॥
पिष्ट्वा मर्द्यं लोहपत्रं तप्तं तप्तं निषेचयेत् ।
सप्तधा त्रिफलाक्वाथे जलेन क्षालयेत्पुनः ॥ १,९.३० ॥
कुट्टयेल्लोहदण्डेन पेषयेत्त्रिफलाजलैः ।
षोडशांशेन लोहस्य दातव्यं माक्षिकं शिला ॥ १,९.३१ ॥
अम्लेन लोडितं रुद्ध्वा गजान्धकपुटे पचेत् ।
निरुत्थं जायते भस्म कान्तं तीक्ष्णादिमुण्डकम् ॥ १,९.३२ ॥
{इरोन्ःः मारण}
तिन्दूफलस्य मज्जाभिर्लिप्त्वा स्थाप्यातपे खरे ।
धारयेत्कांस्यपात्रस्थं दिनैकेन पुटत्यलम् ॥ १,९.३३ ॥
लेप्यं पुनः पुनः कुर्यात्दिनान्तान्तं प्रलेपयेत् ।
त्रिफलाक्वाथसंयुक्तं दिनैकेन मृतं भवेत् ॥ १,९.३४ ॥
{इरोन्ःः मारण}
स्थाल्यां वा लोहपात्रे वा लौहदर्व्या विलोडयेत् ।
पाचयेत्त्रिफलाक्वाथे दिनैकं लोहचूर्णकम् ॥ १,९.३५ ॥
तत्पिण्डं त्रिफलातोयैः पिष्ट्वा रुद्ध्वा पुटे पचेत् ।
षोडशांशेन मूषायां निर्वातेऽहर्निशं पचेत् ॥ १,९.३६ ॥
एवं त्रिधा प्रकर्तव्यं स्थालीपाकं पुटान्तरम् ।
भृङ्ग्या द्रावं तालमूली हस्तिकर्णस्य मूलकम् ॥ १,९.३७ ॥
शतावरी विदार्याश्च मूलक्वाथे च त्रैफले ।
पिष्ट्वा तत्पूर्ववत्स्थाल्यां पाच्यं पेष्यं पुटे त्रिधा ॥ १,९.३८ ॥
ततः पुनर्नवातोयैर्दशमूलकषायकैः ।
बृहत्याश्च कषायैर्वा बीजपूरस्य तोयतः ॥ १,९.३९ ॥
ब्रह्मबीजस्तथाशिग्रुक्वाथे गोपयसापि वा ।
प्रत्येकेन प्रपेष्यादौ पूर्वगर्भपुटे पचेत् ॥ १,९.४० ॥
भावयेत्तु द्रवेनैव पुटान्ते याममात्रकम् ।
प्रत्येकेन क्रमादेवं पिष्ट्वा पुटैश्च भावयेत् ॥ १,९.४१ ॥
म्रियते नात्र संदेहः कान्तं तीक्ष्णं च मुण्डकम् ।
सर्वमेतन्मृतं लौहं ध्मातव्यं मित्रपञ्चकैः ।
यद्येवं स्यान्निरुत्थानं सेव्यं वारितरं भवेत् ॥ १,९.४२ ॥
{इरोन्ःः मारण}
मध्वाज्यं मृतं लौहं च सरूप्यं संपुटे क्षिपेत् ।
रुद्ध्वा दभायं तु संग्राह्यं रूप्यं च पूर्वमानकम् ॥ १,९.४३ ॥
तदा लौहं मृतं विद्यादमृतं मारयेत्पुनः ॥ १,९.४४ ॥
{इरोन्ःः मारणःः निरुत्थ}
गन्धकं तु मृतं लौहं तुल्यं खल्वे विमर्दयेत् ।
दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् ॥ १,९.४५ ॥
इत्येवं सर्वलोहानां कर्तव्योऽयं निरुत्थितः ॥ १,९.४६ ॥
{इरोन्ःः मारणःः वारितर}
शुद्धसूतं द्विधा गन्धं कृत्वा खल्वे तु कज्जलीम् ।
द्वयोः समं लौहचूर्णं मर्दयेत्कन्यकाद्रवैः ॥ १,९.४७ ॥
यामद्वयात्समुद्धृत्य तद्गोलं ताम्रपात्रके ।
आच्छाद्यैरण्डपत्रैश्च यामार्द्धेणोष्णतां व्रजेत् ॥ १,९.४८ ॥
धान्यराशौ न्यसेत्पश्चात्त्रिदिनान्ते समुद्धरेत् ।
सम्पिष्य गालयेद्वस्त्रे सद्यो वारितरं भवेत् ॥ १,९.४९ ॥
कान्तं तीक्ष्णं तथा मुण्डं निरुत्थं जायते मृतम् ।
स्वर्णादीन्मारयेदेवं चूर्णीकृत्य तु लोहवत् ॥ १,९.५० ॥
सिद्धयोगमिदं ख्यातं सिद्धानां सम्मुखागतम् ।
{इरोन्ःः मृतःः मेदिच्. उसे}
अन्नभूतमायसाद्यं सर्वरोगज्वरापहम् ॥ १,९.५१ ॥
त्रिफलारससंयुक्तं सर्वरोगेषु योजयेत् ॥ १,९.५२ ॥
मृतानि लौहानि वशीभवन्ति ।
निघ्नन्ति युक्त्या ह्यखिलामयानि ।
अभ्यासयोगाद्दृढयोगसिद्धम् ।
कुर्वन्ति रुङ्मृत्युजराविनाशम् ॥ १,९.५३ ॥
{इरोन्ःः मृतःः अमृतीकरण}
तोयाष्टभागशेषेन त्रिफलापलपञ्चकम् ।
घृतं क्वाथस्य तुल्यं स्याच्चूर्णं तुल्यं मृतायसम् ॥ १,९.५४ ॥
पाचयेत्ताम्रपात्रे च लौहदर्व्या विचालयेत् ।
मृद्वग्निना पचेत्तावद्यावज्जीर्यति गन्धकम् ॥ १,९.५५ ॥
लौहतुल्या शिवा योज्या सुपक्वेनैवावतारयेत् ।
योगवाहमिदं ख्यातं मृतं लोहं महामृतम् ॥ १,९.५६ ॥
एवं कान्तस्य तीक्ष्णस्य मुण्डस्यापि विधिः स्मृतः ।
{इरोन्ःः मृतःः अमृतीकरण}
गुडस्य कुडवे पक्वं लौहभस्म पलान्वितम् ॥ १,९.५७ ॥
कोलप्रमाणं रोगेषु तच्च योगेन योजयेत् ।
घृतं तुल्यं मृतं लोहं लोहपात्रगतं पचेत् ॥ १,९.५८ ॥
जीर्णे घृतं समादाय योगवाहेषु योजयेत् ॥ १,९.५९ ॥
ओममृतेन भक्ष्याय नमः अनेन मनुना लौहं भक्षयेत् ।
{इरोन्ःः मृतःः मेदिच्. प्रोपेर्तिएस्}
आयुर्वीर्यं बलं दत्ते पाण्डुमेहादिकुष्ठनुत् ।
आमवातहरं लौहं वलीपलितनाशनम् ॥ १,९.६० ॥
{उपलोहःः शोधन}
त्रिक्षारं पञ्चलवणं सप्तधाम्लेन मर्दयेत् ।
कांस्यारघोषपत्राणि तिलकल्केन लेपयेत् ॥ १,९.६१ ॥
रुद्ध्वा गजपुटे पच्याच्छुद्धिमायाति नान्यथा ।
{उपलोहःः मारण}
ताम्रवन्मारयेत्तेषां कृत्वा सर्वत्र योजयेत् ॥ १,९.६२ ॥
{ब्रोन्शेःः मेदिच्. प्रोपेर्तिएस्}
कांस्यं कषायमुष्णं च लघु रूक्षं च तिक्तकम् ।
कफपित्तरुजं हन्ति हृद्देहायुष्यवर्धनम् ॥ १,९.६३ ॥
{ब्रस्स्ःः मेदिच्. प्रोपेर्तिएस्}
रीतिका च गलं रूक्षमतिक्तलवणं सरम् ।
शोधनं सर्वरोगघ्नं बलवीर्यायुष्यवर्द्धनम् ॥ १,९.६४ ॥
{मण्डूरःः प्रोदुच्तिओन्}
अल्पाङ्गारे धमेत्किट्टं लौहजं च गवां जलैः ।
सेचयेदक्षपत्रैश्च सप्तवारं पुनः पुनः ॥ १,९.६५ ॥
मण्डूरोऽयं समाख्यातः शुद्धं श्लक्ष्णं नियोजयेत् ।
किट्टाच्छतगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् ॥ १,९.६६ ॥
तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते गुणम् ।
तस्मात्कान्तं सदा सेव्यं जरामृत्युहरं परम् ॥ १,९.६७ ॥

१, १०
तैलानां पातनं वक्ष्ये सूर्यपाकेऽथवानले ।
यन्त्रयोगेन यत्तैलं ग्राह्यं योगेषु योजयेत् ॥ १,१०.१ ॥
{धत्तूरःः ओइल्}
धत्तूरबीजचूर्णानि वस्त्रपूतानि कारयेत् ।
आलिप्य कांस्यपात्रं तु धारयेदातपे खरे ॥ १,१०.२ ॥
सुतप्तं वस्त्रपूतं च पातयेत्तैलमाहरेत् ।
{शिग्रुःः ओइल्}
शिग्रुपुष्करबीजानां बीजस्य मार्कवस्य च ॥ १,१०.३ ॥
ग्राह्यं धत्तूरवत्तैलमेकैकस्य पृथक्पृथक् ।
यथा धत्तूरजं तैलं क्वाथाद्घर्मे समुद्धृतम् ॥ १,१०.४ ॥
तथा सर्वत्र तैलानि संग्राह्यान्यौषधान्तरैः ।
{अङ्कोटःः ओइल्}
अङ्कोटस्यापि तैलं स्यात्काकतुण्डया समूलया ॥ १,१०.५ ॥
वाकुचीदेवदाल्याश्च कर्कोटीमूलतः भवेत् ।
अपामार्गकषायेण तैलं स्याद्विषतुण्डजम् ॥ १,१०.६ ॥
मूलक्वाथैः कुमार्यास्तु तैलं जैपालजं भवेत् ।
क्वाथेन रक्तमार्गस्य वाकुचीतैलमाहरेत् ॥ १,१०.७ ॥
क्वाथेन चेन्द्रवारुण्यास्तैलमारग्वधं भवेत् ।
काकतुण्ड्यपामार्गोत्थक्वाथात्तैलं समाहरेत् ॥ १,१०.८ ॥
{कटुतुम्बीःः ओइल्}
बीजानि कटुतुम्ब्याश्च गोमयेन विलोडयेत् ।
शुष्कं धान्यतुषैः सार्द्धं कुट्टयेच्च उलूखले ॥ १,१०.९ ॥
निस्तुषं तं विचूर्ण्याथ भृङ्गराजरसैः सह ।
मर्दयित्वातपे तैलं गृह्णीयात्पीडने सति ॥ १,१०.१० ॥
{ओइल्fरों कृष्णा अन्द्काकतुण्डी}
कृष्णायाः काकतुण्ड्याश्च बीजं चूर्णानि कारयेत् ।
कान्तपाषाणचूर्णं चैकीकृत्य निरोधयेत् ॥ १,१०.११ ॥
धान्यराशिगतं पक्त्वा उद्धृते तैलमाहरेत् ।
धात्रीफलरसैर्भाव्यं चूर्णं पाषाणबीजकम् ॥ १,१०.१२ ॥
दिनैकं च ततो यन्त्रे तैलं ग्राह्यं च तैलके ।
{ओइल्ःः fरों गुञ्जा अन्द्करञ्ज}
गुञ्जाकरञ्जफलं च नरमूत्रेण भावयेत् ॥ १,१०.१३ ॥
सप्तवारं ततो घर्मे लेपयेत्कांस्यभाजनम् ।
उद्धृत्य धारयेद्घर्मे तैलं पतति पीडनात् ॥ १,१०.१४ ॥
{ओइल्ःः ज्योतिष्मती}
वर्धमानारनालेन पिष्ट्वा चूर्णं विभावयेत् ।
ज्योतिष्मत्युत्थबीजानामातपे तैलमाहरेत् ॥ १,१०.१५ ॥
{ओइल्ःः पुत्रजीव}
पुत्रजीवस्य बीजानां चूर्णमगस्त्यबीजजम् ।
आम्रातवत्प्रकर्तव्यं ततस्तैलं पृथक्पृथक् ॥ १,१०.१६ ॥
{ओइल्ःः बिल्व}
नारिकेलाम्बुना भाव्यं बिल्वबीजस्य चूर्णकम् ।
दिनैकं तैलयन्त्रेण तैलमाकृष्य योजयेत् ॥ १,१०.१७ ॥
{ओइल्ःः अङ्कोल}
निस्तुषाङ्कोलबीजानां सुखं किंचिद्विघर्षयेत् ।
प्रलेपयेत्कांस्यपात्रे पिष्ट्वा चणकलेपने ॥ १,१०.१८ ॥
तन्मुखे टंकणं चूर्णं किंचित्किंचित्प्रलेपयेत् ।
धारयेदातपे तीव्रे मुखात्तैलं समाहरेत् ॥ १,१०.१९ ॥
{केशतैल}
शमीचूर्णसमं पिष्ट्वा छिद्रमाण्डे निवेशयेत् ।
छिद्राधः स्थापयेद्भाण्डं छिद्रे केशं च दापयेत् ॥ १,१०.२० ॥
जलेन सेचयेद्द्रव्यं छिद्राधो ग्राहयेच्च तम् ।
तन्मध्ये धृतकेशस्य क्षिपेदूर्ध्वं पुटं शनैः ॥ १,१०.२१ ॥
तत्क्षणाच्छ्रवरूपं च केशतैलमिदं भवेत् ।
{ओइल्ःः एxत्रच्तिओन् (गेन्.)}
अपक्वभानुपत्राणां रसमादाय भावयेत् ॥ १,१०.२२ ॥
समस्तं बीजचूर्णं चोक्तानुक्तं पृथक्पृथक् ।
आतपे मुच्यते तैलं साध्यासाध्यं न संशयः ॥ १,१०.२३ ॥
{ओइल्}
तथैवोत्तरवारुण्याः कषायेण समाहरेत् ।
तैलं समस्तबीजानां ग्राहयेदातपे खरे ॥ १,१०.२४ ॥
{ओइल्}
सर्वबीजास्थिमांसानां शुष्कं पिष्ट्वा ह्यनेकधा ।
सर्वबीजेषु वा तैलं ग्राह्यं पातालयन्त्रके ॥ १,१०.२५ ॥
{ओइल्}
वंशादिसर्वकाष्ठानां नारिकेलकपालकम् ।
तुषधान्यादिबीजानां गर्भयन्त्रेण तैलकम् ॥ १,१०.२६ ॥
ग्राहयेत्सर्वबीजानां तं च योगेषु योजयेत् ॥ १,१०.२७ ॥
{वत्सनाभ}
वत्सनाभं विषं स्वादु दीपनं कफवातजित् ।
त्रिदोषशमनं योगयुक्तं सुधामयं भवेत् ॥ १,१०.२८ ॥
बृंहणं बलवीर्यस्य वाडबाग्निशतोपमम् ।
सन्निपाते प्रतीकारे प्रभवः प्रभवोऽस्य हि ॥ १,१०.२९ ॥
उद्धृतं फलपाकान्ते नवं स्निग्धं घनं गुरु ।
अव्यापकं विषहरं वातातपविशोषितम् ॥ १,१०.३० ॥
रक्तसर्षपतैलेन लिप्तं वाससि धारयेत् ।
अथवापि यथा प्राप्तं विषं गोमूत्रसंयुतम् ॥ १,१०.३१ ॥
आतपे त्रिदिनं शुष्कं निहितं वीर्यधृक्भवेत् ।
मृतं सूताभ्रकं लौहं विषं च तुल्यवीर्यकम् ॥ १,१०.३२ ॥
तस्माद्विषं योगवाहे योज्यं योगे रसायने ।
तानि चैव तु मानानि अष्टौ षड्वा चतुर्थकम् ॥ १,१०.३३ ॥
मात्रात्रयं समाख्यातमुत्तमाधममध्यम् ।
दातव्यं सर्वरोगेषु घृताशिने हिताशिने ॥ १,१०.३४ ॥
क्षीराशिने प्रदातव्यं रसायनवते नरे ।
न क्रोधिने न पित्ताढ्ये न क्लीबे राजयक्ष्मणि ॥ १,१०.३५ ॥
क्षुत्तृष्णाश्रमकर्माध्वशोषिणे क्षयरोगिणे ।
गर्भिणीबालवृद्धेषु न विषं राजमन्दिरे ॥ १,१०.३६ ॥
न दातव्यं न भोक्तव्यं विसंवादे कदाचन ।
आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम् ॥ १,१०.३७ ॥
अनेन मन्त्रेण मर्दयेद्भूमौ न स्थापयेत् ।
अमृतमिति वदेदिति क्रमोऽयम् ।
ओं सिद्धगुरुभ्यो नमः ।
परमगुरुभ्यो नमः ।
परात्परगुरुभ्यो नमः ।
परमेष्ठिगुरुभ्यो नमः ।
{वेगेतब्ले पोइसोन्स्}
सक्तुकं मुस्तकं शृङ्गी वालकं सर्षपाह्वयम् ।
वत्सनाभं च कूर्मश्च श्वेतशृङ्गी तथाष्टमम् ॥ १,१०.३८ ॥
इत्यष्टौ योजयेद्योगे कालकूटादि वर्जयेत् ।
{पोइसोन्स्}
कालकूटं मेषशृङ्गी हालाहलं च दर्दुरम् ॥ १,१०.३९ ॥
कर्कटं मर्कटं ग्रन्थि हारिद्रं रक्तशृङ्गकम् ।
केशवं दशमं चेति वर्जनीयं भिषग्वरैः ॥ १,१०.४० ॥
सक्तुकाद्यान् प्रयुञ्जीत सर्वरोगे रसायने ।
एतद्विषं जातिचतुष्टयं च विचार्य योज्यं भिषगुत्तमेन ॥ १,१०.४१ ॥
विप्रो रक्षति यौवनं नरपतिस्तद्भूतले पालतां वैश्यः कुष्ठविनाशने च कुशलः शूद्रो हरेज्जीवनम् ।
तस्माच्चापि भिषग्वरेण निपुणैस्तद्वेदिना भावयेत्कुर्यादेव ततो विषं नृपवरो मृत्युंजयाय क्षितौ ॥ १,१०.४२ ॥
श्वेता वा यदि वा पिङ्गा मधुरा ऊषरापि वा ।
लोमशा ब्रह्मजातिः स्यात्क्षत्रजातिस्तु लोहिता ॥ १,१०.४३ ॥
पीता वा मधुरा किंचिद्वैश्यजातिस्तु धूसरा ।
कृष्णा शूद्रस्य दृश्येत एतेषां च भिषग्वरैः ॥ १,१०.४४ ॥
क्षीरं सम्पूर्णभाण्डेऽपि विषं दत्त्वा विचिन्तयेत् ।
जायतेऽपि यदा वर्णं तदा जातिं विनिर्दिशेत् ॥ १,१०.४५ ॥
शुक्लं रक्तं तथा पीतं कृष्णं चेति चतुर्विधम् ।
ब्रह्मक्षत्रविट्शूद्राणां ज्ञातव्यो जातिनिर्णयः ॥ १,१०.४६ ॥
क्षिप्तं दुग्धे विषं वैद्यो जानीयात्क्रमशो यदि ।
श्वेतं रक्तं तथा पीतं कृष्णं चोष्णलमेव च ॥ १,१०.४७ ॥
तुत्थेन टङ्कणेनैव म्रियते पेषणाद्विषम् ।
विषेषु जङ्गमाख्येषु विषं नागभवं हितम् ॥ १,१०.४८ ॥
इदमेव महाश्रेष्ठं त्रिदोषक्षपणं क्षणात् ।
दीपनं कुरुते सद्यो वडवाग्निशतोपमम् ॥ १,१०.४९ ॥
संनिपातप्रतिकारे प्रभावः प्रभवो हि सः ॥ १,१०.५० ॥
नागोद्भवं यथाप्राप्तं विषं गोमूत्रसंयुतम् ।
आतपे त्रिदिनं शुष्कं निहितं वीर्यधृग्भवेत् ॥ १,१०.५१ ॥
अतिमात्रं यदा भुङ्क्ते तदार्ज्य टङ्कणं पिबेत् ।
रजनी मेघनादा वा सर्पाक्षी वा घृतान्विता ॥ १,१०.५२ ॥
लिहेद्वा मधुसर्पिर्भ्यां चूर्णितामर्जुनत्वचम् ।
पुत्रजीवकमज्जां वा पिबेद्वा निम्बकद्वयम् ॥ १,१०.५३ ॥
एवं विषविधिः ख्यातः प्रयोगं च वदाम्यहम् ।
विषं त्रिकटुकं मुस्तं हरिद्रानिम्बपत्रकम् ॥ १,१०.५४ ॥
विडङ्गमष्टमं चूर्णं छागमूत्रैः समं समम् ।
चणकाभा वटी ख्याता स्याज्जया योगवाहिका ॥ १,१०.५५ ॥
विषं पाठाश्वगन्धाश्च बला तालीसपत्त्रकम् ।
मरिचं पिप्पली निम्बमजामूत्रेण तुल्यकम् ॥ १,१०.५६ ॥
वटिका पूर्ववत्कार्या वटिका योगवाहिका ।
निद्रां तन्द्रां क्लमं दाहं सफेनं लोमहर्षणम् ॥ १,१०.५७ ॥
शोषं चैवातिसारं च कुरुते जङ्गमं विषम् ।
स्थावरं तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम् ॥ १,१०.५८ ॥
फेनछर्द्यरुचिश्वासं मूर्च्छां च कुरुते विषम् ।
न जानाति यदा मन्त्री विषं भक्षेच्चिकित्सितम् ॥ १,१०.५९ ॥
विषमेव तदादाय मज्जत्यम्बुनिधाविव ।
तस्माद्यत्नेन संरक्षेद्राजा विषचिकित्सकात् ॥ १,१०.६० ॥
प्रथमं वह्निखर्परिकायां मनाग्भृष्ट्वा वक्ष्यमाणमन्त्रेण निर्विषं विधाय गृह्णीयादिति ।
निम्बुद्रवे पित्तं वारत्रयं विभाव्य प्रक्षाल्य संशोष्य गृह्णीयादिति ।
{शिलाजतुःः ओरिगिन्}
हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः ।
जत्वाभं मृदु मृत्स्नाभं यन्मलं तच्छिलाजतु ॥ १,१०.६१ ॥
{शिलाजतुःः मेदिच्. प्रोपेर्तिएस्}
अनघं चाल्पकषायं च कटु पाके शिलाजतु ।
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः ॥ १,१०.६२ ॥
{शिलाजतुःः fरों गोल्द्ःः मेदिच्. प्रोपेर्तिएस्}
हेम्नोऽथ रजतात्ताम्राद्वरं कालायसादपि ।
मधुरं च सतिक्तं च जपापुष्पनिभं च यत् ॥ १,१०.६३ ॥
विपाके कटु शीतं च तत्सुवर्णस्य निसृतम् ।
{शिलाजतुःः fरों सिल्वेर्ःः मेदिच्. प्रोपेर्तिएस्}
राजतं कटुकं श्वेतं शीतं स्वादु विपच्यते ॥ १,१०.६४ ॥
{शिलाजतुःः fरों चोप्पेर्ःः मेदिच्. प्रोपेर्तिएस्}
ताम्राद्बर्हिणकण्ठाभं तीक्ष्णोष्णं पच्यते कटु ।
{शिलाजतुःः fरोमिरोन्ःः मेदिच्. प्रोपेर्तिएस्}
यच्च गुग्गुलुसंकाशं सतिक्तं लवणान्वितम् ॥ १,१०.६५ ॥
विपाके कटु शीतं च सर्वश्रेष्ठं तदायसम् ।
गोमूत्रगन्धः सर्वेषां सर्वकर्मसु यौगिकाः ॥ १,१०.६६ ॥
रसायनप्रयोगेषु पश्चिमं तु विशिष्यते ।
यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु ॥ १,१०.६७ ॥
विशेषेण प्रशस्यन्ते मला हेमादिधातुजाः ।
{शिलाजतुःः फ्य्स्. प्रोपेर्तिएस्}
लौहः किट्टायते वह्नौ विधूमं दह्यतेऽम्भसि ॥ १,१०.६८ ॥
तृणाद्यग्रे कृतं श्रेष्ठमधो गलति तन्तुवत् ।
दंशदंष्ट्रौषधादिदोषहरणार्थं मेषशृङ्गं भूर्जपत्रेण धूपयेत् ।
क्वाथ्यद्रव्यं शिलाजतुसमं चतुर्गुणेन जलं दत्त्वा चतुर्भागावशेषेण भावयेदित्येकः पक्षः ।
वाग्भट्टस्तु अष्टगुणजलदानेनाष्टावशेषे पूर्ववदुभयथैव व्यवहारः ।
भद्रशिलाजतु त्रिफलादशमूलोष्णक्वाथे निक्षिप्य ।
केवलोष्णोदके वा स्थिते ऊर्ध्वं वीभूते पद्धपत्रवत्सर्वं ग्राह्यम् ।
ततः शिवागुडिकोक्तक्रमेण भावनां दत्त्वा विशोध्य सालसारादिना भावयेद्यथा ।
सालयुग्मौ करञ्जौ द्वौ खदिरं चन्दनद्वयम् ।
गर्दभाण्डोऽर्जुनश्चेह लोध्रयुग्मधवासनाः ॥ १,१०.६९ ॥
शिरीषागुरुकालीयपूगपूतिककर्कटाः ।
सालसारादिरप्येष गणः श्लेष्मगदापहः ॥ १,१०.७० ॥
मेहगुल्मार्शःकुष्ठारिमेदःपाण्डुरुजापहः ।
एभिर्दिवातपे शोष्यं रात्रौ रात्रौ च भावयेत् ॥ १,१०.७१ ॥
द्रवेण यावता द्रव्यमेकीभूयार्द्रतां व्रजेत् ।
भवेत्प्रमाणं निर्दिष्टं भिषग्भिर्भावनाविधौ ॥ १,१०.७२ ॥
भवेद्द्रव्यं समं क्वाथ्यं क्वाथं चाष्टावशेषितम् ।
तेनार्द्रसमं द्रव्यं शोषयेत्प्रबलातपे ॥ १,१०.७३ ॥
दग्धहीरकं योज्यं निक्षिप्याग्नौ ध्मापयित्वा निर्गुण्डीरसेन सप्तवारान्निर्वाप्य प्रक्षाल्य च गृह्णीयात् ॥ १,१०.७४ ॥
जायन्ते वामरुक्वाथे जनपदे ग्रीष्मेऽर्कतापार्दिताः ।
शीतोषणे शिशिरे च गुग्गुलुरसं मुञ्चन्ति ते पञ्चधा ॥ १,१०.७५ ॥
हेमाभं महिषाक्षतुल्यमपरं तत्पद्मरागोपमं भृङ्गाभं कुमुदद्युतिं च विधिना ग्राह्या परीक्ष्या ततः ॥ १,१०.७६ ॥
वह्नौ ज्वलन्ति तपने विलयं प्रयान्ति क्लिद्यन्ति कोष्णसलिले पयसा समानाः ॥ १,१०.७७ ॥
ग्राह्याः शुभाः परिहरेच्चिरकालजातानङ्गात्स्फुटं खर्परगन्धिकतुल्यवर्णान् ॥ १,१०.७८ ॥
{गुग्गुलुःः मेदिच्. प्रोपेर्तिएस्}
स्वादे स्वादुः कषायतिक्तकटुको वीर्ये विपाके कटुः ।
वृष्यो मार्गविशोधनेऽतिविशदस्तीक्ष्णो विकाशी सरः ॥ १,१०.७९ ॥
सायुष्यः स्वरदस्त्रिदोषशमनो मेधास्मृतिश्रीकरः ।
धन्यः पापनिसूदनोऽग्निजननो हृत्कण्ठशोधीपुनः ॥ १,१०.८० ॥
{गुग्गुलुःः शोधन}
दशमूलक्वाथे उष्णे पूते गुग्गुलुं परिक्षिप्यालोड्य च वस्त्रपूतं विधाय चण्डातपे विशोष्य घृतं दत्त्वा पिण्डितव्यम् ॥ १,१०.८१ ॥
{चोन्छ्ःः शोधन}
शंखनाभिं तथाम्लेन सप्तवारं हि भावयेत् ।
रौद्रे मलादिकं त्यक्त्वा प्रक्षाल्य ग्राहयेदिति ॥ १,१०.८२ ॥
{मोनेय्चोwरिएःः शोधन}
वराटीं तक्रचाङ्गेरीजम्बीराणां रसे शुभे ।
प्रक्षिप्य भावयेत्तावद्यावच्छुक्ला न पश्यति ॥ १,१०.८३ ॥
पश्चादुद्धृत्य गृह्णीयाद्वराटीं शुद्धिमागताम् ॥ १,१०.८४ ॥
{पेअर्ल्ःः शोधन}
भौमिकं जलमादाय मुक्तां च व्युषितामपि ।
त्यक्त्वा मलादिकां तां च प्रक्षाल्य ग्राहयेदिति ॥ १,१०.८५ ॥

२, १

जयति स रसराजो मृत्युशङ्कापहारी सकलगुणनिधानं कायकल्पाधिकारी ।
वलिपलितविनाशं सेवितो वीर्यवृद्धिं स्थिरमपि कुरुते यः कामिनीनां प्रसङ्गम् ॥ २,१.१ ॥
अथातः सम्प्रवक्ष्यामि देहसिद्धिं सुशोभनाम् ।
यस्याः सिद्धौ मनुष्याणां जायन्ते सर्वसिद्धयः ॥ २,१.२ ॥
न देहेन विना किंचिदिष्टमस्ति जगत्त्रये ।
तस्मात्सर्वप्रयत्नेन तस्मिन् यत्नो विधीयताम् ॥ २,१.३ ॥
शुभनक्षत्रदिवसे वमने रेचने कृते ।
ततो विशेषशुद्ध्यर्थं केतकीस्तनजं द्रवम् ॥ २,१.४ ॥
त्रिदिनं कुडवैकैकं लोणदोषहरं पिबेत् ।
विडङ्गं च वचा कुष्ठं केतकीस्तनसंयुतम् ॥ २,१.५ ॥
क्वथितं त्रिदिनं पीतमम्लदोषहरं परम् ।
श्यामावह्निविडङ्गानि त्र्यूषणं त्रिफला वृषः ॥ २,१.६ ॥
सैन्धवं देवदारुश्च मुस्ता चैतत्समं समम् ।
घृतैर्लेह्यं तु कर्षैकं सप्ताहात्सर्वदोषजित् ॥ २,१.७ ॥
एवं विशुद्धदेहस्तु पूजयेद्देवतां गुरुम् ।
कुमारीं योगिनीचक्रं ततः कुर्याद्रसायनम् ॥ २,१.८ ॥
{रसायन}
निर्वाते भूगृहे वाथ बाह्यचिन्ताविवर्जितः ।
जितेन्द्रियो जितक्रोधः क्षीरशाल्यन्नभुग्भवेत् ॥ २,१.९ ॥
षष्ट्योदनं यवान्नं च गोधूमं मुद्गयूषकम् ।
जाङ्गलं भक्षयेन्मांसं केवलं क्षीरमेव वा ॥ २,१.१० ॥
बलान्नं वाथ भुञ्जीत शाकलोणविवर्जितम् ।
अभ्यङ्गं मस्तुना कुर्यात्स्नानं चैव सुखाम्बुना ॥ २,१.११ ॥
काकिनीं स्त्रीं भजेन्नित्यं स्वानुकूलां सुयौवनाम् ।
रसेन्द्रे भक्ष्यमाणे तु कामान्धो जायते नरः ॥ २,१.१२ ॥
मैथुनेन विना तस्य ह्यजीर्णो जायते रसः ।
अजीर्णे कम्पदाहार्ती हिक्का मूर्छा ज्वरोऽरतिः ॥ २,१.१३ ॥
कासश्वासारुचिच्छर्दिभ्रममोहा भवन्ति हि ।
सेवेत सुभगां तस्माद्दुर्भगां परिवर्जयेत् ॥ २,१.१४ ॥
अभ्यङ्गं कटुतैलेन काञ्जिकं मदिरां दधि ।
कलिङ्गकारवल्ल्यम्लतैलकूष्माण्डराजिकाः ॥ २,१.१५ ॥
बिल्वच्छत्राकवार्ताकविदलं काकमाचिकाम् ।
मूलकं लशुनं तीक्ष्णं शीतमुष्णं च वर्जयेत् ॥ २,१.१६ ॥
रात्रौ जागरणं त्याज्यं दिवास्वापं च मैथुनम् ।
कलहोद्वेगचिन्ताश्च शोकं चैव विवर्जयेत् ॥ २,१.१७ ॥
आवर्जनाद्भवेच्छूलं निद्रालस्यं ज्वरोऽरतिः ।
त्र्यहं पिबेत्तत्प्रशान्त्यै वारिणा कर्कटीफलम् ॥ २,१.१८ ॥
शुण्ठीसैन्धवचूर्णं वा मातुलुङ्गाम्लकैर्लिहेत् ।
सौवर्चलं गवां मूत्रैः पिबेद्वा तत्प्रशान्तये ॥ २,१.१९ ॥
वन्ध्याकर्कोटकीं पुङ्खां पातालगरुडीं जलैः ।
क्वाथयेदष्टगुणितैस्तदष्टांशं ससैन्धवम् ॥ २,१.२० ॥
पिबेत्सर्वविकारघ्नं त्रिदिनं शिवभाषितम् ।
मूलं वा कारवल्ल्युत्थं सैन्धवं वा गवां जलैः ॥ २,१.२१ ॥
त्रिदिनं कर्षमात्रं तु पिबेत्सर्वविकारजित् ।
अपथ्यशीलिनामेतत्कथितं रससेविनाम् ॥ २,१.२२ ॥
अमुमेव विधिं कुर्याद्रसायनविधौ किल ।
अमृतं विधिसंयुक्तं विधिहीनं तु तद्विषम् ॥ २,१.२३ ॥
चातुर्जातककर्पूरकङ्कोलं कटुकीफलम् ।
खादेत्ताम्बूलसंयुक्तं रससङ्क्रामणे हितम् ॥ २,१.२४ ॥
अथात्र वक्ष्यते सम्यगादौ पारदमारणम् ।
समुखस्य रसेन्द्रस्य वासनामुखितस्य वा ॥ २,१.२५ ॥
क्रमेण जारयेत्स्वर्णं समांशं पूर्ववत्ततः ।
तत्तुल्यं गन्धकं तस्मिन् दत्त्वा दिव्यौषधिद्रवैः ॥ २,१.२६ ॥
मर्दयेत्त्रिदिनं खल्वे मूषायां चान्धितं ततः ।
करीषाग्नौ दिवारात्रं त्रिरात्रं वा तुषाग्निना ॥ २,१.२७ ॥
स्वेदितं मर्दयेद्भूयो बीजैर्दिव्यौषधोद्भवैः ।
तुल्यं खल्वे चतुर्यामं वज्रमूषान्धितं धमेत् ॥ २,१.२८ ॥
भस्मसूतं भवेत्तद्वै योज्यं सर्वरसायने ।
शुद्धसूतं समं स्वर्णं याममम्लैर्विमर्दयेत् ॥ २,१.२९ ॥
प्रक्षाल्य ग्राहयेत्पिष्टीं पिष्ट्यर्धं शुद्धगन्धकम् ।
गन्धार्धं टङ्कणं दत्त्वा सर्वतुल्यां हरिद्रिकाम् ॥ २,१.३० ॥
स्त्रीपुष्पेण तु तत्सर्वं मर्द्यं रम्भाद्रवान्वितम् ।
दिनान्ते गोलकं कृत्वा वालुकायन्त्रगं पचेत् ॥ २,१.३१ ॥
दिनं मन्दाग्निना तं वै समुद्धृत्य विचूर्णयेत् ।
चूर्णांशं गन्धकं दत्त्वा गर्भयन्त्रे त्र्यहं पचेत् ॥ २,१.३२ ॥
तुषाग्निना लघुत्वेन जायते भस्मसूतकः ।
शुद्धसूतस्त्रिभागः स्याद्भागैकं ताम्रचूर्णकम् ॥ २,१.३३ ॥
दिनैकं मर्दयेदम्लैः क्षालितं पिष्टिमाहरेत् ।
माक्षिकाद्धौतसत्त्वं च पिष्टितुल्यं प्रकल्पयेत् ॥ २,१.३४ ॥
तत्सर्वं त्रिदिनं मर्द्यं चक्रमर्ददलद्रवैः ।
तद्गोलं गर्भयन्त्रस्थं त्रिदिनं तुषवह्निना ॥ २,१.३५ ॥
करीषाग्नौ दिवारात्रं पचेद्वा भस्मतां व्रजेत् ।
शुद्धसूतं व्योमसत्त्वं सुवर्णं च समं समम् ॥ २,१.३६ ॥
सर्वतुल्यं विडं दत्त्वा मर्द्यं रम्भाद्रवैर्दिनम् ।
बीजैर्दिव्यौषधीनां च तुल्यैर्मर्द्यं दिनद्वयम् ॥ २,१.३७ ॥
गर्भयन्त्रगतं पच्यान्म्रियते पूर्ववत्पुटे ।
चतुरङ्गुलदीर्घं स्याद्विस्तारे चाङ्गुलत्रयम् ॥ २,१.३८ ॥
मृन्मयं सम्पुटं कृत्वा छायाशुष्कं च कारयेत् ।
लवणं विंशभागं स्याद्भागमेकं तु गुग्गुलुम् ॥ २,१.३९ ॥
सर्वं तोयैः प्रपिष्याथ तेनैव सम्पुटोदरम् ।
लिप्त्वा तत्र रसं रुन्ध्याद्गर्भयन्त्रमिदं भवेत् ॥ २,१.४० ॥
विमला पारदं शुद्धं तुल्यं निर्गुण्डिकाद्रवैः ।
मर्दयेत्त्रिदिनं तं वै काचकूप्यां निवेशयेत् ॥ २,१.४१ ॥
काचकूप्या ह्यभावे तु निरुन्ध्याच्छरावसम्पुटे ।
पाचयेद्वालुकायन्त्रे चतुर्यामान्मृतो भवेत् ॥ २,१.४२ ॥
माक्षिकाद्धौतसत्त्वं तु तत्समं शुद्धगन्धकम् ।
द्वाभ्यां तुल्यं शुद्धरसं दिनं निर्गुण्डिकाद्रवैः ॥ २,१.४३ ॥
तत्सर्वं मर्दितं गोलं वज्रमूषान्धितं पचेत् ।
दिनैकं वालुकायन्त्रे मृतं स्याद्रक्तवर्णकम् ॥ २,१.४४ ॥
ऊर्ध्वाधो गन्धकं तुल्यं दातव्यं शुद्धपारदे ।
उदरे पक्वमूषायाः काकमाचीद्रवं पुनः ॥ २,१.४५ ॥
द्वाभ्यां चतुर्गुणं दत्त्वा तामाच्छाद्य पचेच्छनैः ।
क्रमाग्नौ वालुकायन्त्रे चतुर्यामान्मृतो भवेत् ॥ २,१.४६ ॥
स्नुह्या वा हेमवल्ल्या वा क्षीरैः शुद्धरसं दिनम् ।
मर्दयेद्गन्धकं तुल्यं गर्भयन्त्रगतं पुटेत् ॥ २,१.४७ ॥
पूर्ववत्क्रमयोगेन मृतं योगेषु योजयेत् ।
शुद्धसूतसमं गुञ्जालाक्षोर्णामधुटङ्कणम् ॥ २,१.४८ ॥
तत्सर्वं भृङ्गजैर्द्रावैर्दिनमेकं विमर्दयेत् ।
वज्रमूषान्धितं ध्मातं म्रियते शशिसन्निभम् ॥ २,१.४९ ॥
द्रवैस्तु कीटमारिण्या ह्यजमोदाद्रवैश्च वा ।
अहिमार्या द्रवैर्वाथ किंवा श्वेताङ्कुलद्रवैः ॥ २,१.५० ॥
मर्दयेत्पारदं शुद्धं समगन्धं दिनत्रयम् ।
सम्पुटे मृन्मये रुद्ध्वा करीषाग्नौ दिवानिशि ॥ २,१.५१ ॥
पचेत्तुषाग्निना वाथ त्रिदिनान्म्रियते ध्रुवम् ।
शुद्धसूतं मृतं वज्रं समांशं तप्तखल्वके ॥ २,१.५२ ॥
हंसपाद्या द्रवैर्मर्द्यं त्रिदिनान्ते समुद्धरेत् ।
बीजैर्दिव्यौषधीनां च वज्रमूषां प्रलेपयेत् ॥ २,१.५३ ॥
तत्र पूर्वरसं रुद्ध्वा त्रिदिनं तुषवह्निना ।
पाचयित्वा समुद्धृत्य तत्समं शुद्धपारदम् ॥ २,१.५४ ॥
एकीकृत्य त्र्यहं मर्द्यं हंसपाद्या द्रवैर्दृढम् ।
तद्गोलं पूर्ववत्पच्यान्मृतं भवति शोभनम् ॥ २,१.५५ ॥
वज्राभ्राद्यष्टलोहानां रसखण्डे यथोदितम् ।
मारणं वादिखण्डे वा तथा ज्ञेयं रसायने ॥ २,१.५६ ॥
एवं मृतो रसवरः परमामूतः स्यात्तत्सेवकाः सततमस्य दृढं तु तेषाम् ।
देहं करोति सहसा सुरसुन्दरीणां क्रीडाक्षमं परमसुन्दरमेव नित्यम् ॥ २,१.५७ ॥

२, २
धर्मज्ञैः शिववत्सलैर्निर्जरैर्भूपैर्महासाधकैः सम्यग्दिव्यरसायनेन सततं कल्पान्तसीमावधि ।
रक्ष्यं गात्रमनन्तपुण्यनिचये मुक्तिश्च यस्माद्भवेत्तद्वक्ष्ये परमाद्भुतं सुखकरं साम्राज्यदं धीमताम् ॥ २,२.१ ॥
अभ्रकं भक्षयेदादौ मारितं चामृतीकृतम् ।
मासैकं निष्कनिष्कं वै क्षेत्रीकरणहेतवे ॥ २,२.२ ॥
यस्मादभ्रं रसक्षेत्रं ततः कुर्याद्रसायनम् ।
अक्षेत्रीकरणे सूतो ह्यमृतो विषतां व्रजेत् ॥ २,२.३ ॥
फलसिद्धिः कुतस्तस्य सुबीजस्योषरे यथा ।
वज्रपारदयोर्भस्म समभागं प्रकल्पयेत् ॥ २,२.४ ॥
सूतपादं मृतं स्वर्णं सर्वं मर्द्यं दिनावधि ।
हंसपाद्या द्रवैरेव तद्गोलं चान्धितं पुटेत् ॥ २,२.५ ॥
अर्कक्षीरैः पुनर्मर्द्यं तद्वद्गजपुटे पचेत् ।
भक्षयेत्सर्षपवृद्धं यावन्माषं विवर्धयेत् ॥ २,२.६ ॥
शरण्यः साधकानां तु रसोऽयं वज्रपञ्जरः ।
चित्रकार्द्रकसिन्धूत्थमृततीक्ष्णसुवर्चलम् ॥ २,२.७ ॥
समं सर्वं सदा चानु भक्ष्यं स्यात्क्रामणे हितम् ।
मासषट्कप्रयोगेण जीवेदाचन्द्रतारकम् ॥ २,२.८ ॥
वलीपलितनिर्मुक्तो दिव्यकायो महाबलः ।
मृतसूताद्द्वादशांशं मृतं वज्रं प्रकल्पयेत् ॥ २,२.९ ॥
द्वाभ्यां तुल्यं मृतं कान्तं कान्ततुल्यं मृताभ्रकम् ।
तत्सर्वं भृङ्गजैर्द्रावैर्मर्दितं भावयेत्त्र्यहम् ॥ २,२.१० ॥
त्र्यहं गोक्षुरकद्रावैः क्षौद्रैर्माषं ततो लिहेत् ।
रसो वज्रेश्वरो नाम वज्रकायकरो नृणाम् ॥ २,२.११ ॥
चतुर्मासैर्जरां हन्ति जीवेद्ब्रह्मदिनं किल ।
भृङ्गराजस्य पञ्चाङ्गं चूर्णयेत्त्रिफलासमम् ॥ २,२.१२ ॥
पलैकं मधुना लेह्यं क्रामकं परमं रसे ।
वज्रसूताभ्रहेम्नां तु भस्म शुद्धं तु माक्षिकम् ॥ २,२.१३ ॥
तुल्यं सप्तदिनं मर्द्यं दिव्यौषधिरसैर्दृढम् ।
रुद्ध्वा तं त्रिदिनं पच्याद्वालुकायन्त्रगं पुनः ॥ २,२.१४ ॥
उद्धृत्य त्रिदिनं भाव्यं भृङ्गसर्पाक्षिजैर्द्रवैः ।
माषैकं मधुसर्पिर्भ्यां वज्रधारारसं लिहेत् ॥ २,२.१५ ॥
मासषट्कप्रयोगेण रुद्रतुल्यो भवेन्नरः ।
वलीपलितनिर्मुक्तो वायुवेगो महाबलः ॥ २,२.१६ ॥
पुनर्नवाभृङ्गतिलवाजिगन्धाः समांशकाः ।
सर्वतुल्या सिता योज्या चूर्णितं भक्षयेत्पलम् ॥ २,२.१७ ॥
सुवर्णं पारदं कान्तं मृतं सर्वं समं भवेत् ।
शतावर्याः शिफाद्रावैर्भावयेद्दिवसत्रयम् ॥ २,२.१८ ॥
त्रिदिनं त्रिफलाक्वाथैर्भृङ्गद्रावैर्दिनत्रयम् ।
भावितं मधुसर्पिर्भ्यां भक्षयेद्भैरवं रसम् ॥ २,२.१९ ॥
माषैकैकं वर्षमात्रं जीवेच्चन्द्रार्कतारकम् ।
मूलचूर्णं शतावर्याः कृष्णाजपयसा युतम् ॥ २,२.२० ॥
पलैकैकं पिबेच्चानु क्रामकं परमं हितम् ।
रसभस्म समं गन्धं शिलाजत्वम्लवेतसम् ॥ २,२.२१ ॥
यामैकं मर्दयेत्सर्वं मधुसर्पिर्युतं लिहेत् ।
निष्कैकैकं वर्षमात्रं शिलावीरो महारसः ॥ २,२.२२ ॥
जराकालं निहन्त्याशु जीवेद्वर्षशतत्रयम् ।
पलार्धं मुसलीचूर्णं भृङ्गराजरसैः पिबेत् ॥ २,२.२३ ॥
धात्रीफलरसैर्वाथ क्रामकं ह्यनुपानकम् ।
मेघनादद्रवैर्मर्द्यं शुद्धसूतं दिनत्रयम् ॥ २,२.२४ ॥
विडङ्गं द्विनिशं व्योषं समं चूर्णं प्रकल्पयेत् ।
आरग्वधस्य मूलं तु चूर्णस्य द्विगुणं भवेत् ॥ २,२.२५ ॥
चूर्णस्य द्विगुणं चाज्यं क्षौद्रं चैव चतुर्गुणम् ।
सर्वं पूर्वरसे क्षिप्त्वा मृद्वग्नौ चालयत्पचेत् ॥ २,२.२६ ॥
तत्पिण्डं कर्षमेकैकं भक्षयेदमृतार्णवः ।
वर्षमात्राञ्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २,२.२७ ॥
वाकुचीचूर्णकर्षैकं धात्रीफलरसैः पिबेत् ।
पारदाद्द्विगुणं गन्धं शुद्धं सर्वं विमर्दयेत् ॥ २,२.२८ ॥
मुण्ड्यार्द्रकरसैः खल्वे त्रिसप्ताहं पुनः पुनः ।
एतत्तुल्यं शुद्धताम्रं सम्पुटे तन्निरोधयेत् ॥ २,२.२९ ॥
वेष्टयेद्वस्त्रखण्डेन वज्रमृत्तिकया बहिः ।
लिप्त्वा विशोषयेत्तं वै सम्यग्गजपुटे पचेत् ॥ २,२.३० ॥
उद्धृत्य सम्पुटं चूर्ण्यं देवदाल्या द्रवैस्त्र्यहम् ।
भङ्गीपुनर्नवाद्रावैः पृथग्भाव्यं त्र्यहं त्र्यहम् ॥ २,२.३१ ॥
तत्तुल्यं नागराच्चूर्णं क्षिप्त्वा मध्वाज्यसंयुतम् ।
लिहेन्माषद्वयं नित्यं यावत्संवत्सरावधि ॥ २,२.३२ ॥
रसोऽयमुदयादित्यो जरामृत्युहरः परः ।
पुनर्नवादेवदालीभृङ्गचूर्णं समं समम् ॥ २,२.३३ ॥
मध्वाज्याभ्यां लिहेत्कर्षमनु स्यात्क्रामणं परम् ।
पारदो गगनं कान्तं तीक्ष्णं च मारितं समम् ॥ २,२.३४ ॥
भृङ्गधात्रीफलद्रावैश्छायायां भावयेत्त्र्यहम् ।
सितामध्वाज्यकैस्तुल्यं सर्वं भाण्डे निरोधयेत् ॥ २,२.३५ ॥
धान्यराशौ स्थितं मासं ततो निष्कत्रयं समम् ।
भक्षयेच्च पिबेत्क्षीरं कर्षैकं त्रिफलामनु ॥ २,२.३६ ॥
रात्रौ शुण्ठीं कणां खादेद्वर्षैकादमरो भवेत् ।
जीवेद्ब्रह्मदिनं वीरः स्याद्रसो गगनेश्वरः ॥ २,२.३७ ॥
वटक्षीरैस्त्र्यहं मर्द्यं गन्धं शुद्धरसं समम् ।
वटकाष्ठाग्निना पच्यान्मृत्पात्रे यामपञ्चकम् ॥ २,२.३८ ॥
क्षिपन् क्षिपन् वटक्षीरं तत्काष्ठेनैव चालयेत् ।
समुद्धृत्य त्र्यहं भाव्यं देवदालीदलद्रवैः ॥ २,२.३९ ॥
उष्णकाले तु गुञ्जैकं ताम्बूलपत्रसंयुतम् ।
चन्द्रवृद्ध्या सदा भक्ष्यं यावत्षोडशगुञ्जकम् ॥ २,२.४० ॥
चूर्णमुत्तरवारुण्या वाकुच्या देवदालिजम् ।
मध्वाज्याभ्यां लिहेत्कर्षं क्रामकं ह्यनुपानकम् ॥ २,२.४१ ॥
वर्षमात्राज्जरां हन्ति जीवेद्वर्षशतत्रयम् ।
रसो वटेश्वरो नाम वज्रकायकरो नृणाम् ॥ २,२.४२ ॥
मृतं सूतं शुद्धगन्धं त्रिफलां गुग्गुलुं समम् ।
सर्वं वातारितैलेन मिश्रं कर्षं लिहेत्सदा ॥ २,२.४३ ॥
षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
तस्य मूत्रपुरीषेण शुल्बं भवति काञ्चनम् ॥ २,२.४४ ॥
अजस्य वृषणं पाच्यं गवां क्षीरेण तं निशि ।
सितायुक्तं पिबेच्चानु रसोऽयमचलेश्वरः ॥ २,२.४५ ॥
रसं वज्रं स्वर्णकान्ते मुण्डं च मारितं समम् ।
माक्षिकं गन्धकं शुद्धं सर्वं जम्बीरजैर्द्रवैः ॥ २,२.४६ ॥
सप्ताहं मर्दयेत्खल्वे तद्गोलं चान्धितं पुटेत् ।
भूधरे दिनमेकं तु ख्यातः सिद्धरसः परः ॥ २,२.४७ ॥
माषैकं मधुना लेह्यं वर्षान्मृत्युजरापहम् ।
दिव्यकायो नरः सिद्धो भवेद्विष्णुपराक्रमः ॥ २,२.४८ ॥
श्वेतपौनर्नवं मूलं क्षीरपिष्टं सदा पिबेत् ।
भक्षयेद्वा सिता सार्धं क्रामकं परमे रसे ॥ २,२.४९ ॥
मृतसूतस्य द्विगुणं शुद्धं गन्धं विमिश्रयेत् ।
दिनैकं कन्यकाद्रावैर्मर्दयित्वा निरोधयेत् ॥ २,२.५० ॥
दिनैकं मधुना पच्यान्निष्कैकं मधुना लिहेत् ।
गन्धामृतो रसो नाम वत्सरान्मृत्युजिद्भवेत् ॥ २,२.५१ ॥
समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् ।
तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ॥ २,२.५२ ॥
एकीकृत्य पलैकैकं भक्षयेदनुपानकम् ।
पारदाभ्रं मृतं तुल्यं द्वाभ्यां तुल्यं तु गन्धकम् ॥ २,२.५३ ॥
तत्सर्वं भृङ्गजैर्द्रावैर्मर्दयेद्दिनसप्तकम् ।
षड्वारं चाङ्कुलीतैलैर्भावयित्वाथ भक्षयेत् ॥ २,२.५४ ॥
माषमात्रं तु वर्षैकं रसोऽयं कालकण्टकः ।
पिष्ट्वा करञ्जपत्राणि गवां क्षीरैः पिबेदनु ॥ २,२.५५ ॥
जरामृत्युविनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः ।
मृतसूताभ्रकं कान्तं विषं ताप्यं शिलाजतु ॥ २,२.५६ ॥
तुल्यांशं मधुसर्पिर्भ्यां लिहेद्गुञ्जात्रयं सदा ।
षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥ २,२.५७ ॥
अश्वगन्धामूलचूर्णं सप्तभागघृतैः समम् ।
भागाष्टकं गुडं तस्मिन् क्षिपेद्भागं च पिप्पलीम् ॥ २,२.५८ ॥
मृद्वग्निना च तत्सर्वं पिण्डितं भक्षयेत्पलम् ।
क्रामकं ह्यमृतेशस्य रसराजस्य सिद्धये ॥ २,२.५९ ॥
त्रिगुणं शुद्धसूतस्य योजयेच्छुद्धगन्धकम् ।
लोहपर्पटिकाचूर्णं सूततुल्यं विनिक्षिपेत् ॥ २,२.६० ॥
स्नुह्यर्कपयसा मर्द्यं तत्सर्वं दिवसत्रयम् ।
तच्छुष्कं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् ॥ २,२.६१ ॥
ततश्च टङ्कणं काचं दत्त्वा रुद्ध्वा धमेद्दृढम् ।
गुञ्जैकं मधुना खादेद्रसवीरो महारसः ॥ २,२.६२ ॥
अब्दैकेन जरां हन्ति जीवेदाचन्द्रतारकम् ।
मुसलीमूलचूर्णं तु गुञ्जापत्रद्रवैः पिबेत् ॥ २,२.६३ ॥
छागीमूत्रेण वा तं वै कर्षैकं क्रामकं परम् ।
मृतसूतसमं गन्धं काकमाच्या द्रवैर्दिनम् ॥ २,२.६४ ॥
मर्दितं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् ।
दिव्यौषधदलद्रावैर्दिनं मर्द्यं तमन्धयेत् ॥ २,२.६५ ॥
ध्मातं तस्मात्समुद्धृत्य तत्तुल्यं हाटकं मृतम् ।
एकीकृत्य घृतैर्लेह्यं माषैकं वत्सरावधि ॥ २,२.६६ ॥
जरां मृत्युं निहन्त्याशु सत्यं काञ्चायनो रसः ।
काकमाचीद्रवैर्भाव्यं चूर्णं धात्रीफलोद्भवम् ॥ २,२.६७ ॥
मधुना भक्षयेत्कर्षमनु स्यात्क्रामकं परम् ।
मृतसूताभ्रकं गन्धं तुल्यं सप्तदिनावधि ॥ २,२.६८ ॥
शिग्रुमूलद्रवैर्मर्द्यं तद्गोलं भाण्डमध्यगम् ।
रुद्ध्वा पच्याल्लघुत्वेन शाककाष्ठैर्दिनावधि ॥ २,२.६९ ॥
परानन्दो रसो नाम घृतैर्निष्कं सदा लिहेत् ।
दिनैकं त्रिफलाक्वाथैः कुष्ठं सम्यग्विपाचयेत् ॥ २,२.७० ॥
तच्छुष्कं चूर्णितं कर्षं मध्वाज्याभ्यां लिहेदनु ।
संवत्सरप्रयोगेण जीवेदाचन्द्रतारकम् ॥ २,२.७१ ॥
मृतसूताभ्रकं तुल्यं मृतलोहं तयोः समम् ।
लोहांशं शोधितं गन्धं भावयेद्दिनसप्तकम् ॥ २,२.७२ ॥
तत्सर्वं त्रिफलाक्वाथैर्भृङ्गशिग्रुकचित्रकैः ।
द्रवैः पृथक्पृथग्भाव्यं सप्तधा सप्तधा क्रमात् ॥ २,२.७३ ॥
सप्तधा कटुकीक्वाथैर्भावितं चूर्णयेत्पुनः ।
चूर्णतुल्यं कणाचूर्णं पुरातनगुडैः समैः ॥ २,२.७४ ॥
सर्वमेकीकृतं खादेन्निष्कैकं वत्सरावधि ।
महाकालो रसो नाम जराकालभयंकरः ॥ २,२.७५ ॥
तिलकोरण्टपत्त्राणि गुडेन भक्षयेदनु ।
मृतपारदसंतुल्यं लोहपर्पटकं भवेत् ॥ २,२.७६ ॥
त्रिगुणं गन्धकं सूतात्सर्वं दिव्यौषधद्रवैः ।
मर्दितं तद्दिनं रुद्ध्वा ध्मातो बद्धो भवेद्रसः ॥ २,२.७७ ॥
तस्मिन् पादं मृतं स्वर्णं क्षिप्त्वा वह्न्यार्द्रकद्रवैः ।
मर्द्यं यामं विचूर्ण्याथ व्योषजीरकसैन्धवैः ॥ २,२.७८ ॥
तुल्यं पूर्वरसं तुल्यं निष्कैकैकं च भक्षयेत् ।
जरामृत्युं निहन्त्याशु हेमपर्पटको रसः ॥ २,२.७९ ॥
अश्वगन्धासमां यष्टिं धात्रीफलरसैर्दिनम् ।
भावितां लेहयेत्क्षौद्रैः पलैकां क्रामकं परम् ॥ २,२.८० ॥
स्वर्णतारार्ककान्तं च तीक्ष्णं वा मारितं समम् ।
कृष्णाभ्रसत्त्वमाक्षीकं प्रत्येकं स्वर्णतुल्यकम् ॥ २,२.८१ ॥
तत्सर्वं चान्धितं धाम्यं तत्खोटं मृतपारदम् ।
समं सूतान्मृतं वज्रं पादांशं तत्र योजयेत् ॥ २,२.८२ ॥
सर्वं जम्बीरजैर्द्रावैस्तप्तखल्वे विमर्दयेत् ।
दिनैकं तं निरुध्याथ भूधरे पावयेद्दिनम् ॥ २,२.८३ ॥
उद्धृत्य गन्धकं तुल्यं दत्त्वा रुद्ध्वा धमेद्द्रुतम् ।
तच्चूर्णं मधुनाज्येन माषमात्रं लिहेत्सदा ॥ २,२.८४ ॥
रसः श्रीकण्ठनामायं खेचरत्वं प्रयच्छति ।
संवत्सरप्रयोगेन जीवेत्कल्पान्तमेव च ॥ २,२.८५ ॥
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् ।
पलैकं गन्धकं क्षीरैः क्रामकं चानु पाययेत् ॥ २,२.८६ ॥
शुद्धताम्रस्य भागैकं द्विषट्शुद्धरसस्य च ।
त्रयं भूनागसत्त्वस्य भागमेकत्र वारयेत् ॥ २,२.८७ ॥
सर्वं मर्द्यं तप्तखल्वे जम्बीराणां द्रवैर्दिनम् ।
तत्सर्वं कच्छपे यन्त्रे क्षिप्त्वा तत्रैव गन्धकम् ॥ २,२.८८ ॥
कासमर्दरसैः पिष्टं तुल्यं दत्त्वा निरुध्य च ।
यावज्जीर्णं पुटे पच्यादेवं षड्गुणगन्धकम् ॥ २,२.८९ ॥
जारयेत्क्रमयोगेन समुद्धृत्याथ मर्दयेत् ।
यामं जम्बीरजैर्द्रावैस्ततो निश्चन्द्रमभ्रकम् ॥ २,२.९० ॥
अम्लवेतससंतुल्यं मर्दितं दापयेद्रसे ।
षोडशांशं तप्तखल्वे चणकाम्लं च तालकम् ॥ २,२.९१ ॥
कासीसं च दशांशेन दत्त्वा मर्द्यं दिनावधि ।
तत्सर्वं पक्वमूषायां क्षिप्त्वा वस्त्रेण बन्धयेत् ॥ २,२.९२ ॥
दोलायन्त्रे सारनाले त्र्यहं लघ्वग्निना पचेत् ।
उद्धृत्य क्षालयेदुष्णैः काञ्जिकैर्जीर्यते यदि ॥ २,२.९३ ॥
अजीर्णं चेत्पचेद्यन्त्रे कच्छपाख्ये विडान्वितम् ।
एव पुनः पुनर्जार्यं गगनं सूततुल्यकम् ॥ २,२.९४ ॥
शिखिपित्तप्रलिप्तानि स्वर्णपत्त्राणि तस्य वै ।
चतुःषष्ट्यंशयोगेन दत्त्वा खल्वे विमर्दयेत् ॥ २,२.९५ ॥
स्वेदयेत्पूर्ववद्यन्त्रे जीर्णे स्वर्णं च दापयेत् ।
इत्येवं षोडशांशं तु स्वर्णं जार्यं रसस्य वै ॥ २,२.९६ ॥
ततो जार्यं मृतं वज्रं षोडशांशं च हेमवत् ।
तालकासीसजम्बीरयुक्तं मर्द्यं च तत्परम् ॥ २,२.९७ ॥
ततो दिव्यौषधद्रावैस्तं सूतं मर्दयेत्त्र्यहम् ।
वज्रमूषान्धितं धाम्यं बद्धं स्याच्चूर्णयेत्पुनः ॥ २,२.९८ ॥
मधुशर्करया सार्धं गुञ्जामात्रं च भक्षयेत् ।
रसः खेचरबद्धोऽयं षण्मासान्मृत्युजिद्भवेत् ॥ २,२.९९ ॥
वलीपलितनिर्मुक्तो महाबलपराक्रमः ।
सप्ताहं भृङ्गजैर्द्रावैर्नीलमुण्डीफलत्रयम् ॥ २,२.१०० ॥
भावयेन्मधुसर्पिर्भ्यां कर्षमात्रं लिहेदनु ।
शुद्धसूतं द्विधा गन्धं कुर्यात्खल्वेन कञ्जलम् ॥ २,२.१०१ ॥
तयोस्तुल्यं कान्तचूर्णं तीक्ष्णं वा मुण्डमेव वा ।
सर्वमेकीकृतं खल्वे मर्दयेत्कन्यकाद्रवैः ॥ २,२.१०२ ॥
दिनैकं गोलकं कृत्वा ताम्रपात्रे निवेशयेत् ।
आच्छाद्यैरण्डपत्त्रैस्तु यामार्धेऽत्युष्णतां व्रजेत् ॥ २,२.१०३ ॥
धान्यराशौ न्यसेत्तं तु द्विदिनान्ते समुद्धरेत् ।
कन्याभृङ्गीकाकमाचीमुण्डीनिर्गुण्डीचित्रकम् ॥ २,२.१०४ ॥
कोरण्टवाकुचीब्राह्मीसहदेवीपुनर्नवाः ।
शाल्मलीविजयाधूर्ता द्रवैरेषां पृथक्पृथक् ॥ २,२.१०५ ॥
सप्तधा सप्तधा भाव्यं सप्तधा त्रिफलोद्भवैः ।
कषायैर्भावितं चूर्ण्यं जातीफललवंगकम् ॥ २,२.१०६ ॥
त्रिकटु त्रिफला चैला चूर्णयेन्नवकं समम् ।
तच्चूर्णं पूर्वचूर्णं च समं क्षौद्रेण कर्षकम् ॥ २,२.१०७ ॥
वर्षैकं लेहयेन्नित्यं जराकालप्रशान्तये ।
स्वयमग्निरसो नाम सिद्धानां सुमुखागतः ॥ २,२.१०८ ॥
तिलाश्वगन्धयोश्चूर्णं पलार्धं मधुना लिहेत् ।
निर्गुण्डी नीलिका वज्री ब्रह्मदण्डी त्रिदण्डिका ॥ २,२.१०९ ॥
शतपुष्पा मुद्गपर्णी श्वेतार्को वानरी जया ।
पेटारीकृष्णधत्तूरविजयाक्षीरकन्दकम् ॥ २,२.११० ॥
एतैः समस्तैर्व्यस्तैर्वा द्रव्यैर्मर्द्यं दिनत्रयम् ।
शुद्धसूतं तप्तखल्वे तत्कल्कं क्षीरकन्दके ॥ २,२.१११ ॥
वज्रकन्देऽथवा रुद्ध्वा तन्मज्जाभिर्मृदा पुनः ।
तं कन्दं वज्रमूषायां रुद्ध्वा लघुपुटे पचेत् ॥ २,२.११२ ॥
पुनर्मर्द्यं पुनः पाच्यमित्येवं सप्तधा क्रमात् ।
रसः कक्षपुटो नाम गुञ्जैकं मधुना लिहेत् ॥ २,२.११३ ॥
जीवेद्ब्रह्मदिनैकं तु वलीपलितवर्जितः ।
वर्षैकेन न संदेहो रसकायो भवेन्नरः ॥ २,२.११४ ॥
भल्लातबीजचूर्णं च हयगन्धामृताघृतैः ।
पलैकं भक्षयेच्चानु क्रामकं परमं हितम् ॥ २,२.११५ ॥
मृतसूताभ्रकं वज्रं कान्ततारार्कहाटकम् ।
तीक्ष्णं च तुल्यतुल्यांशं सर्वेषां गन्धकं समम् ॥ २,२.११६ ॥
सर्वं पालाशतैलेन मर्दयेद्दिनसप्तकम् ।
महाशक्तिरसो नाम क्षौद्रैर्माषं लिहेत्सदा ॥ २,२.११७ ॥
षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
वत्सरात्सप्तकल्पानि जीवत्येव न संशयः ॥ २,२.११८ ॥
इच्छावेगी महासिद्धः पराशक्तिसमो भवेत् ।
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥ २,२.११९ ॥
पालाशबीजजं तैलं क्षौद्रैर्लेह्यं पलाष्टकम् ।
क्रामकं ह्यनुपानं स्यात्सम्यक्छक्त्या प्रकाशितम् ॥ २,२.१२० ॥
लोहितं वाथ वा कृष्णं वैक्रान्तं मारितं पलम् ।
स्वर्णचूर्णपलैकं च द्विपलं शुद्धपारदम् ॥ २,२.१२१ ॥
बालरण्डाजमूत्राभ्यां तत्सर्वं मर्दयेद्दिनम् ।
शरपुङ्खा मेषशृङ्गी सर्पाक्षीकटुतुम्बिका ॥ २,२.१२२ ॥
इन्द्रवारुणिका चैषां द्रवैर्मर्द्यं दिनत्रयम् ।
तद्गोलं गर्भयन्त्रे तु रुद्ध्वा पच्याद्दिनत्रयम् ॥ २,२.१२३ ॥
तुषाग्निना लघुत्वेन समुद्धृत्य विचूर्णयेत् ।
सप्तधा भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्पुनः ॥ २,२.१२४ ॥
त्रिफलात्र्यूषमध्वाज्यैः समं चूर्णं विमिश्रयेत् ।
माषैकैकं सदा खादेद्रसोऽयं नाटकेश्वरः ॥ २,२.१२५ ॥
सर्वरोगजरामृत्यून् वत्सरान्नाशयत्यलम् ।
दिव्यतेजा महाकायो जीवेदाचन्द्रतारकम् ॥ २,२.१२६ ॥
मूलत्वचं ब्रह्मवृक्षाच्छायाशुष्कां विचूर्णिताम् ।
पिबेन्निष्कद्वयां तक्रैः क्रामकं परमं शुभम् ॥ २,२.१२७ ॥
सुशुद्धं श्वेतवैक्रान्तं सप्ताहं भाव्यमातपे ।
अम्लवेतससम्पिष्टं तेनैव द्रुतिमाप्नुयात् ॥ २,२.१२८ ॥
एतद्द्रुतिं शुद्धसूतं समं क्षौद्रैर्दिनत्रयम् ।
मर्दितं लेहयेन्माषं मासाद्बालो भवेन्नरः ॥ २,२.१२९ ॥
वत्सराद्ब्रह्मतुल्यः स्याद्रसोऽयं बालसुन्दरः ।
वाकुचीबीजकर्षैकं मध्वाज्याभ्यां लिहेदनु ॥ २,२.१३० ॥
चतुःपलं शुद्धसूतं पलैकं मृतहाटकम् ।
पलाशकुड्मलद्रावैस्तत्तैलैश्च दिनत्रयम् ॥ २,२.१३१ ॥
मर्दयेत्तप्तखल्वे तु स्वर्णतुल्यं च गन्धकम् ।
शोधितं निक्षिपेत्तस्मिन् पूर्वोक्तैर्मर्दयेद्दिनम् ॥ २,२.१३२ ॥
माषमात्रां वटीं खादेद्वत्सरान्मृत्युजिद्भवेत् ।
जीवेद्ब्रह्मदिनं वीरो रसोऽयं ब्रह्मपञ्जरः ॥ २,२.१३३ ॥
वानरीकाकतुण्ड्युत्थबीजचूर्णं समं समम् ।
शाल्मलीत्वग्दलद्रावैर्भावयेद्दिवसत्रयम् ॥ २,२.१३४ ॥
त्र्यहं च भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्ततः ।
पुरातनगुडैस्तुल्यं कर्षैकमनु भक्षयेत् ॥ २,२.१३५ ॥
रक्तभूमौ तु भूनागान् ग्राहयित्वा परीक्षयेत् ।
छेदे निर्याति रक्तं चेत्तान् स्वीकुर्यात्प्रयत्नतः ॥ २,२.१३६ ॥
कृष्णवर्णागवाज्येन समेन सह तान् पचेत् ।
लोहजे चालयन् पात्रे यावत्सिन्दूरवर्णकम् ॥ २,२.१३७ ॥
तत्सर्वं जायते भस्म तत्तुल्यं मृतपारदम् ।
मधुनालोडितं सर्वं गुञ्जार्धार्धं विवर्धयन् ॥ २,२.१३८ ॥
पश्चाद्गुञ्जां सदा खादेद्यावत्संवत्सरावधि ।
शिवामृतो रसो नाम जरामृत्युहरो नृणाम् ।
आयुर्ब्रह्मदिनं दत्ते शिवाम्बु पाययेदनु ॥ २,२.१३९ ॥
एवं दिव्यरसायनैः समुचितैः सारातिसारैः शुभैः सिद्धं देहमनेकसाधनबलाद्येषां तु दृष्टं मया ।
तानाराध्य च तेषु सारमखिलं संगृह्य शास्त्रादपि भूपानां विदुषां महामतिमतां प्रोक्तं हितार्थाय वै ॥ २,२.१४० ॥

२, ३
दिव्ययोगगुटिकारसायनं क्रामणेन रहितं न सिध्यति ।
शीघ्रसिद्धिकरमेव सेव्यतां क्रामणार्थमनुपानमत्र वै ॥ २,३.१ ॥
काकतुम्बी काकमाची निर्गुण्डी च कुमारिका ।
गोजिह्वा सैन्धवं गुञ्जा ह्यार्द्रकं च समं समम् ॥ २,३.२ ॥
पिष्ट्वा तेन प्रलेप्तव्या मूषा सर्वाङ्गुलावधि ।
पारदं व्योमसत्त्वं च कान्तं तीक्ष्णं च मुण्डकम् ॥ २,३.३ ॥
ताप्यसत्त्वं च तुल्यांशं सर्वं संचूर्ण्य मर्दयेत् ।
दिनं जम्बीरजैर्द्रावैस्तन्मूषायां विनिक्षिपेत् ॥ २,३.४ ॥
आच्छाद्यालेप्य कल्केन चान्धयित्वा विशोषयेत् ।
करीषाग्नौ दिवारात्रं पुटे पक्त्वा समुद्धरेत् ॥ २,३.५ ॥
पुनः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा पुटेत्ततः ।
इत्येवं दशमूषासु प्रलिप्तासु विपाचयेत् ॥ २,३.६ ॥
जायते गुटिका दिव्या मृतसंजीवनी परा ।
वक्त्रे शिरसि कण्ठे वा कर्णे वा धारिता करे ॥ २,३.७ ॥
हेम्ना सुवेष्टिता सम्यग्वयःस्तम्भकरी परा ।
वलीपलितकालाग्निमृत्युशङ्काविनाशनी ॥ २,३.८ ॥
वर्षमात्रान्न संदेहो जीवेद्वर्षशतत्रयम् ।
शुद्धपलैकं तु गवां क्षीरैः पिबेत्सदा ॥ २,३.९ ॥
अनेन त्वनुपानेन देहे संक्रमते रसः ।
समुखं पारदं कान्तं मुण्डलोहाभ्रसत्त्वकम् ॥ २,३.१० ॥
तत्त्वं मृतं वज्रं सर्वं जम्बीरजैर्द्रवैः ।
सप्ताहं मर्दयेत्तुल्यं कृत्वा गोलं समुद्धरेत् ॥ २,३.११ ॥
निर्गुण्डी सैन्धवं क्षौद्रं गोजिह्वा काकतुण्डिका ।
पिष्ट्वा तु लेपयेद्गोलं सर्वतोऽङ्गुलमात्रकम् ॥ २,३.१२ ॥
तं रुद्ध्वा वज्रमूषायां पचेद्यामं तु भूधरे ।
लिप्त्वा रुद्ध्वा पुनः पाच्यमित्येवं पक्षमात्रकम् ॥ २,३.१३ ॥
यवचिञ्चापलाशोत्थराजीकार्पासबीजकैः ।
सुपिष्टैर्लेपयेन्मूषां तन्मध्ये पूर्वगोलकम् ॥ २,३.१४ ॥
टङ्कणं श्वेतकाचं च दत्त्वा पृष्ठे निरुध्य च ।
खदिराङ्गारयोगेन धमेद्यावद्द्रुतं भवेत् ॥ २,३.१५ ॥
ततस्तं विडलिप्तायां मूषायां च निवेशयेत् ।
तत्तुल्यं दापयेत्स्वर्णं जयेत्तं धमन् धमन् ॥ २,३.१६ ॥
जीर्णे स्वर्णे समुद्धृत्य तप्तखल्वे विमर्दयेत् ।
त्र्यहं दिव्यौषधिद्रावैर्वज्रमूषान्धितं धमेत् ॥ २,३.१७ ॥
जायते गुटिका दिव्या नाम्ना वज्रेश्वरी परा ।
वक्त्रस्था सा जरां मृत्युं हन्ति संवत्सरात्किल ॥ २,३.१८ ॥
शस्त्रस्तम्भं च कुरुते ब्रह्मायुर्यच्छति ध्रुवम् ।
कृष्णाष्टम्यां समादाय सहदेवीं सु चूर्णयेत् ॥ २,३.१९ ॥
कर्षैकां भक्षयेदाज्यैरनु स्यात्क्रामेण हितम् ।
आरक्तं मेघनादं तु तथा पाषाणभेदकम् ॥ २,३.२० ॥
स्त्रीस्तन्यसहितं पिष्ट्वा तेन मूषां प्रलेपयेत् ।
भगैकं मृतवज्रस्य स्वर्णचूर्णस्य षोडश ॥ २,३.२१ ॥
क्षिप्त्वा तस्यां निरुध्याथ याममात्रं दृढं धमेत् ।
उद्धृत्य निक्षिपेत्खल्वे शुद्धसूतं च तत्समम् ॥ २,३.२२ ॥
मर्दयेच्चार्द्रकद्रावैर्यावद्भवति गोलकः ।
चण्डालीकन्दमादाय स्त्रीस्तन्येन सु पेषयेत् ॥ २,३.२३ ॥
अनेन गोलकं लिप्त्वा वज्रमूषायां निरोधयेत् ।
पक्त्वा गजपुटे ग्राह्या गुटिका वज्रसुन्दरी ॥ २,३.२४ ॥
वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् ।
ब्रह्मवृक्षस्य त्वक्चूर्णं क्षीरैर्नित्यं पलं पिबेत् ॥ २,३.२५ ॥
क्रामणं ह्यनुपानं स्यात्साधकस्यातिसिद्धिदम् ।
तदुद्भवमलैर्लिप्तं ताम्रं तु धमनेन हि ॥ २,३.२६ ॥
जायते कनकं दिव्यं सत्यं शंकरभाषितम् ।
समुखस्य रसेन्द्रस्य पूर्ववत्काञ्चनं समम् ॥ २,३.२७ ॥
जारयेद्विडयोगेन ततो मर्द्यं दिनत्रयम् ।
दिव्यौषधैः सगोमूत्रैर्वज्रमूषान्धितं धमेत् ॥ २,३.२८ ॥
उद्धृत्य धारयेद्वक्त्रे गुटिका हेमसुन्दरी ।
पलार्धं गन्धकं चाज्यैर्द्विगुणैर्लेहयेदनु ॥ २,३.२९ ॥
वर्षैकेन जरां हन्ति जीवेदाचन्द्रतारकम् ।
शुद्धसूतं मृतं वज्रं व्योमसत्त्वं सहाटकम् ॥ २,३.३० ॥
अम्लवर्गे समं सर्वं मर्दयेद्दिवसत्रयम् ।
तद्गोलकं दृढं कृत्वा छायायां शोषयेत्ततः ॥ २,३.३१ ॥
ब्रह्मकार्पासबीजानि राजिका यवचिञ्चिका ।
वन्ध्या सर्वं समं पिष्ट्वा पूर्वगोलं प्रलेपयेत् ॥ २,३.३२ ॥
रुद्ध्वा गजपुटे पच्यात्समुद्धृत्याथ लेपयेत् ।
रुद्ध्वा मूषायां धमेद्गाढं गुटिका वज्रखेचरी ॥ २,३.३३ ॥
जायते धारिता वक्त्रे वत्सरान्मृत्युनाशिनी ।
भूतारवटचूर्णं तु पलैकं सितया युतम् ॥ २,३.३४ ॥
भक्षयेत्क्रामणार्थं तु ब्रह्मायुर्जायते नरः ।
कार्पास्याः काकमाच्याश्च कन्यायाश्च दलद्रवैः ॥ २,३.३५ ॥
शुद्धसूतं दिनं मर्द्यं क्षाल्यमम्लैः समुद्धरेत् ।
तद्रसं निष्कचत्वारि निष्कार्धं ताम्रचूर्णकम् ॥ २,३.३६ ॥
पादोननिष्कमभ्रोत्थं सत्त्वं पादं च हाटकम् ।
हेमतुल्यं मुण्डचूर्णं सर्वमम्लैर्विमर्दयेत् ॥ २,३.३७ ॥
दिनान्ते गोलकं कृत्वा जम्बीरस्योदरे क्षिपेत् ।
त्रिदिनं दोलकायन्त्रे पाचयेत्सारनालके ॥ २,३.३८ ॥
उद्धृत्य धारयेद्वक्त्रे गुटिका व्योमसुन्दरी ।
वर्षमात्राज्जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥ २,३.३९ ॥
चित्रमूलस्य चूर्णं तु सक्षौद्रं कान्तपात्रके ।
आलोड्य भक्षयेत्कर्षमनु स्यात्क्रामणे हितम् ॥ २,३.४० ॥
निष्कमेकं स्वर्णपत्त्रं त्रिनिष्कं शुद्धपारदम् ।
जम्बीरशरपुङ्खोत्थद्रवैर्मर्द्यं दिनावधि ॥ २,३.४१ ॥
तद्गोलं बन्धयेद्वस्त्रे पचेद्गोक्षीरपूरिते ।
दोलायन्त्रे दिवारात्रं गुटिका हाटकेश्वरी ॥ २,३.४२ ॥
जायते धारिता वक्त्रे जरामृत्युविनाशिनी ।
वर्षमात्रान्न संदेहो जीवेद्वर्षायुतं नरः ॥ २,३.४३ ॥
दिनैकं त्रिफलाचूर्णं क्वाथैः खदिरबीजकैः ।
भावितं मधुसर्पिर्भ्यां पलैकं क्रामकं लिहेत् ॥ २,३.४४ ॥
रसनिष्कत्रयं शुद्धं निष्कैकं ताम्रचूर्णकम् ।
चिञ्चाफलाम्लतक्राभ्यां खल्वे मर्द्यं दिनावधि ॥ २,३.४५ ॥
तद्गोलं बन्धयेद्वस्रैस्तक्रचिञ्चाम्लपूरिते ।
दोलायन्त्रे दिनं पच्याद्गुटिकार्कप्रभावती ॥ २,३.४६ ॥
वर्षैकं धारयेद्वक्त्रे सूर्यतुल्यो भवेन्नरः ।
पालाशबीजजं तैलं गोक्षीरैः कर्षमात्रकम् ॥ २,३.४७ ॥
क्रामकं ह्यनुपानं स्याज्जरामृत्युहरं परम् ।
स्वर्णमेकं कान्तमेकं पञ्चतारं द्विपारदम् ॥ २,३.४८ ॥
त्रिभागं व्योमसत्त्वं स्यात्षड्भागं शुल्बचूर्णकम् ।
सर्वमेतत्कृतं सूक्ष्मं तप्तखल्वे दिनत्रयम् ॥ २,३.४९ ॥
मर्दयेदम्लवर्गेण दोलायन्त्रे सकाञ्जिके ।
तद्गोलं त्रिदिनं पच्याद्गुटिका सुरसुन्दरी ॥ २,३.५० ॥
जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा ।
भूतारवटमूलं च कर्षं क्षीरैः पिबेदनु ॥ २,३.५१ ॥
स्वर्णतारार्कमुण्डं च वङ्गसीसाभ्रसत्त्वकम् ।
एतत्सर्वं समं चूर्णं चूर्णांशं मृतवज्रकम् ॥ २,३.५२ ॥
सर्वतुल्यं शुद्धसूतं सर्वं दिव्यौषधिद्रवैः ।
मर्दयेद्दिनमेकं तु वज्रमूषान्धितं धमेत् ॥ २,३.५३ ॥
गुटिका वज्रतुण्डेयं जायते धारिता मुखे ।
जरामृत्युं शस्त्रसंघं नाशयेद्वत्सरात्किल ॥ २,३.५४ ॥
वज्रकायो महावीरो जीवेद्वर्षशतत्रयम् ।
कुमार्याः स्वरसं ग्राह्यं गुडेन सह लोडयेत् ॥ २,३.५५ ॥
पलैकं क्रामकं लेह्यमनुपानं सदैव हि ।
स्वर्णचूर्णं तु भागैकं त्रिभागं शुद्धपारदम् ॥ २,३.५६ ॥
पादभागं मृतं वज्रं तत्सर्वं क्षीरकन्दजैः ।
द्रवैश्च देवदाल्युत्थैस्तप्तखल्वे दिनावधि ॥ २,३.५७ ॥
मर्दयेत्कान्तचूर्णं च वज्रतुल्यं क्षिपेच्च वै ।
वज्रमूषान्धितं धाम्यं गुटिका कामसुन्दरी ॥ २,३.५८ ॥
जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा ।
निष्कत्रयं ब्रह्मतैलं गवां क्षीरं पलद्वयम् ॥ २,३.५९ ॥
मिश्रितं पाययेच्चानु लक्षायुर्जायते नरः ।
लोहपात्रे द्रुते गन्धे पादांशं पारदं क्षिपेत् ॥ २,३.६० ॥
किंचिच्चाल्यं तु काष्ठेन मुहूर्तादवतारयेत् ।
शतावरी क्षीरकन्दो वज्रवल्लीन्द्रवारुणी ॥ २,३.६१ ॥
पाठा पुनर्नवा चिञ्चा लाङ्गली सुरदालिका ।
एतासां वस्त्रपूतैश्च द्रवैर्मर्द्यं दिनत्रयम् ॥ २,३.६२ ॥
तस्मिन् पात्रे लोहमुष्ट्या छायाशुष्कं वटीकृतम् ।
लोहसम्पुटगं रुद्ध्वा संधिं मृल्लवणैर्दृढम् ॥ २,३.६३ ॥
तं धमेत्खदिराङ्गारे यावदारक्तमुद्धरेत् ।
उत्खन्योत्खन्य तन्मध्यादुद्धरेत्तद्रसं पुनः ॥ २,३.६४ ॥
काचटङ्कणसंयुक्तं मूषायां चान्धितं पचेत् ।
गान्धारीगुटिका सिद्धा वर्षं वक्त्रे स्थिता सदा ॥ २,३.६५ ॥
काकतुण्डीबीजतैलं कर्षैकं नस्यमाचरेत् ।
क्रामकं ह्यनुपानं स्याज्जीवेद्वर्षसहस्रकम् ॥ २,३.६६ ॥
शुद्धसूतसमं गन्धं मर्दनात्कज्जलीकृतम् ।
तत्ताम्रसम्पुटे रुद्ध्वा लवणेन मृदा दृढम् ॥ २,३.६७ ॥
शुष्कं दीपाग्निना पच्याद्यामैकं भस्मयन्त्रके ॥ २,३.६८ ॥
सम्पुटस्योर्ध्वलग्नं तत्समुद्धृत्याथ मर्दयेत् ।
तुल्यपारदसंयुक्तं पूर्ववत्सम्पुटे पचेत् ॥ २,३.६९ ॥
उद्धृत्य तुल्यसूतेन संयुक्तं मर्दितं पचेत् ।
इत्येवं सप्तधा कुर्यात्पुनः पारदटङ्कणम् ॥ २,३.७० ॥
तुल्यं तुल्यं क्षिपेत्तस्मिन् दिनं सर्वं विमर्दयेत् ।
वज्रमूषागतं रुद्ध्वा ध्माते खोटो भवेद्रसः ॥ २,३.७१ ॥
मार्तण्डी गुटिका ह्येषा वर्षैकं यस्य वक्त्रगा ।
वलीपलितमुक्तोऽसौ जीवेदाचन्द्रतारकम् ॥ २,३.७२ ॥
पलाशबीजजं तैलं पलैकं क्षीरतुल्यकम् ।
क्रामणं प्रपिबेन्नित्यं तत्क्षणान्मूर्छितो भवेत् ॥ २,३.७३ ॥
तस्य वक्त्रे गवां क्षीरं स्तोकं स्तोकं निषेचयेत् ।
प्रबुद्धे क्षीरमन्नं स्याद्भोजने परमं हितम् ॥ २,३.७४ ॥
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ।
वायुवेगो महासिद्धश्छिद्रां पश्यति मेदिनीम् ॥ २,३.७५ ॥
काकमाच्यमृताद्रावैः पारदं तालकं समम् ।
मर्दयेद्दिनमेकं तु कृत्वा गोलं विशोषयेत् ॥ २,३.७६ ॥
निक्षिपेद्वज्रमूषायामाच्छाद्य लोहपर्पटैः ।
रुद्ध्वा संधिं धमेद्गाढं खोटबद्धो भवेद्रसः ॥ २,३.७७ ॥
लोहपर्पटकं दत्त्वा तद्वद्धाम्यं त्रिधा पुनः ।
वर्षैकं धारयेद्वक्त्रे गुटिका तारकेश्वरी ॥ २,३.७८ ॥
वाकुचीबीजकर्षैकं गवां क्षीरैः पिबेदनु ।
व्योमसत्त्वं मृतं वज्रं स्वर्णतारार्कमुण्डकम् ॥ २,३.७९ ॥
तीक्ष्णं कान्तं तालकं च शुद्धं कृत्वा विमिश्रयेत् ।
सूक्ष्मचूर्णं समं सर्वं चूर्णांशं शुद्धपारदम् ॥ २,३.८० ॥
त्रिदिनं चाम्लवर्गेण मर्दितं चान्धितं धमेत् ।
विद्यावागीश्वरी ख्याता गुटिका वत्सरावधि ॥ २,३.८१ ॥
यस्य वक्त्रे स्थिता तस्य जरा मृत्युर्न विद्यते ।
कर्षं ज्योतिष्मतीतैलं क्रामणार्थं पिबेत्सदा ॥ २,३.८२ ॥
वाक्पतिर्जायते धीरो जीवेच्चन्द्रार्कतारकम् ।
कान्तपाषाणमाक्षीकं टङ्कणं कर्कटास्थि च ॥ २,३.८३ ॥
स्नुह्यर्कक्षीरभूनागं सर्वमेतत्समं भवेत् ।
स्त्रीस्तन्येन दिनं मर्द्यं तेन मूषां प्रलेपयेत् ॥ २,३.८४ ॥
तन्मध्ये द्रुतसूतं तु वज्रभस्म समं समम् ।
क्षिप्त्वा रुद्ध्वा पुटे पच्याद्गजाख्ये याममात्रकम् ॥ २,३.८५ ॥
ततः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा धमेद्धठात् ।
एवं पुनः पुनः कार्यं वज्रसूतं मिलत्यलम् ॥ २,३.८६ ॥
ततस्तस्यैव दातव्यं समं काचं सटङ्कणम् ।
एवं मूषाशते देयं तुल्यं तुल्यं धमन् धमन् ॥ २,३.८७ ॥
तेजःपुञ्जो रसेन्द्रोऽसौ भवेन्मार्तण्डसंनिभः ।
गुटिका वज्रतुण्डेयं वक्त्रस्था मृत्युनाशिनी ॥ २,३.८८ ॥
वर्षमात्रान्न संदेहो रुद्रतुल्यो भवेन्नरः ।
तस्य मूत्रपुरीषाभ्यां पूर्ववत्काञ्चनं भवेत् ॥ २,३.८९ ॥
पञ्चाङ्गं भक्षयेत्कर्षं रुदन्त्या मधुसर्पिषा ।
टङ्कणं कर्कटास्थीनि ऊर्णा चैव शिलाजतु ॥ २,३.९० ॥
महिषीकर्णनेत्रोत्थं मलं स्त्रीस्तन्यकैः समम् ।
पिष्ट्वा तल्लिप्तमूषायामभ्रसत्त्वं क्षिपेद्धमेत् ॥ २,३.९१ ॥
सत्त्वतुल्यं क्षिपेत्तत्र पूर्ववद्द्रुतपारदम् ।
द्रवं दिव्यौषधीनां च दत्त्वा तत्रैव तद्धमेत् ॥ २,३.९२ ॥
मिलितो जायते बद्धः पूर्ववत्काचटङ्कणैः ।
ध्मातो मूषाशतेनायं तेजःपुञ्जो भवेद्रसः ॥ २,३.९३ ॥
वर्षैकं धारयेद्वक्त्रे शिवतुल्यो भवेन्नरः ।
अजरामरकारीयं गुटिका गगनेश्वरी ॥ २,३.९४ ॥
बिल्वबीजोत्थितं तैलं निष्कमात्रं पिबेदनु ।
उदरे जायते वह्निः पिबेत्क्षीरं पुनः पुनः ॥ २,३.९५ ॥
साक्षाज्जातिस्मरत्वं च कवित्वं श्रुतधारणम् ।
खेचरत्वमदृश्यत्वं जायते नात्र संशयः ॥ २,३.९६ ॥
अग्निमन्थो वज्रवल्ली सूरणं वनशूरणम् ।
चित्रकश्च द्रवैरेषां शुद्धसूतं दिनावधि ॥ २,३.९७ ॥
मर्दयेत्तप्तखल्वे तु तं रसं पलमात्रकम् ।
पलं पलं तालवङ्गौ तत्सर्वं चाम्लवेतसैः ॥ २,३.९८ ॥
मर्दयेद्दिनमेकं तु कृत्वा तं गोलकं पुनः ।
चतुःपलां नागमूषां कृत्वा तस्यां तु तत्क्षिपेत् ॥ २,३.९९ ॥
चतुःपले शुद्धताम्रसम्पुटे तां निरोधयेत् ।
मृण्मूषायां तु तां रुद्ध्वा आरण्योत्पलकैः पुटेत् ॥ २,३.१०० ॥
शतद्वयप्रमाणैस्तु स्वाङ्गशीतं समुद्धरेत् ।
सर्वं दिव्यौषधद्रावैर्मर्दयेद्दिवसत्रयम् ॥ २,३.१०१ ॥
चतुर्निष्कमिता कार्या वटिका शोषयेत्ततः ।
एकैकां वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥ २,३.१०२ ॥
आनन्दगुटिका ह्येषा वक्त्रस्था मृत्युनाशिनी ।
वत्सरान्नात्र संदेहो जीवेद्ब्रह्मदिनत्रयम् ॥ २,३.१०३ ॥
तैलं वातारिबीजोत्थं गोक्षीरैर्निष्कमात्रकम् ।
क्रामणार्थं पिबेन्नित्यं शीघ्रसिद्धिकरं परम् ॥ २,३.१०४ ॥
वज्रभस्मसमं सूतं हंसपाद्या द्रवैस्त्र्यहम् ।
मर्दितं द्वंद्वलिप्तायां मूषायां चान्धितं पुटेत् ॥ २,३.१०५ ॥
भूधराख्ये दिवारात्रौ समुद्धृत्याथ तस्य वै ।
पूर्वांशं पारदं दत्त्वा हंसपाद्या द्रवैस्त्र्यहम् ॥ २,३.१०६ ॥
मर्दितं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं धमनाच्छोध्यं काचटङ्कणयोगतः ॥ २,३.१०७ ॥
नक्षत्राभं भवेद्यावत्तावद्धाम्यं पुनः पुनः ।
तद्रसं व्योमसत्त्वं च काञ्चनं च समं समम् ॥ २,३.१०८ ॥
समावर्त्य ततः कार्या गुटिका वक्त्रमध्यगा ।
वज्रखेचरिका नाम वत्सरान्मृत्युनाशिनी ॥ २,३.१०९ ॥
वलीपलितनिर्मुक्तो दिव्यकायो भवेन्नरः ।
निर्गुण्डीमुनिचूर्णं तु कर्षमाज्यैः पिबेदनु ॥ २,३.११० ॥
कान्तं शुल्बं समं चूर्णं वज्रमूषान्धितं धमेत् ।
तत्खोटसिद्धचूर्णं तु गन्धकाम्लेन मर्दयेत् ॥ २,३.१११ ॥
रुद्ध्वा सम्यक्पुटे पच्यात्समुद्धृत्याथ मर्दयेत् ।
पूर्ववत्क्रमयोगेन पुटेद्वारांश्चतुर्दश ॥ २,३.११२ ॥
वज्रेण द्वंद्वितं स्वर्णमनेनैव तु रञ्जयेत् ।
मूषामध्ये धमन्नेवं सप्तवारं समं क्षिपेत् ॥ २,३.११३ ॥
तत्खोटं चूर्णितं भाव्यं स्त्रीपुष्पेण दिनावधि ।
तत्तुल्यं द्रुतसूतं तु सर्वं यामं विमर्दयेत् ॥ २,३.११४ ॥
वेष्टयेद्भूर्जपत्त्रेण वस्त्रे बद्ध्वा पचेत्त्र्यहम् ।
दोलायन्त्रे सारनाले जातं गोलं समुद्धरेत् ॥ २,३.११५ ॥
गान्धारी जीवनी चैव लाङ्गली चेन्द्रवारुणी ।
एतासां पिण्डकल्केन वेष्टयेत्पूर्वगोलकम् ॥ २,३.११६ ॥
अन्धयित्वा दिनं पच्याद्भूधरे तं समुद्धरेत् ।
पुनर्लेप्यं पुनः पाच्यं चतुर्दशदिनावधि ॥ २,३.११७ ॥
गुटिका जायते दिव्या नाम्ना रत्नेश्वरी तथा ।
वक्त्रस्था वर्षमात्रं तु नन्दितुल्यो भवेन्नरः ॥ २,३.११८ ॥
जीवेद्वर्षसहस्राणि दिव्यतेजा महाबलः ।
वर्षद्वादशपर्यन्तं यस्य वक्त्रे स्थिता तु सा ॥ २,३.११९ ॥
तस्य प्रस्वेदसम्पर्कादष्टलोहानि काञ्चनम् ।
जायन्ते नात्र संदेहः सत्यमीश्वरभाषितम् ॥ २,३.१२० ॥
पञ्चाङ्गचूर्णं मध्वाज्यै रुदन्त्युत्थं लिहेदनु ।
स्वर्णं कृष्णाभ्रसत्त्वं च तारं ताम्रं सुचूर्णितम् ॥ २,३.१२१ ॥
समांशं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं भागचत्वारि भागैकं मृतवज्रकम् ॥ २,३.१२२ ॥
माक्षिकं तीक्ष्णकान्तं च भागैकैकं सुचूर्णितम् ।
समस्तं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ॥ २,३.१२३ ॥
तत्खोटं सूक्ष्मचूर्णं तु चूर्णांशं द्रुतसूतकम् ।
त्रिदिनं तप्तखल्वे तु मर्द्यं दिव्यौषधिद्रवैः ॥ २,३.१२४ ॥
रुद्ध्वाथ भूधरे पच्यादहोरात्रात्समुद्धरेत् ।
द्रुतसूतं पुनस्तुल्यं दत्त्वा मर्द्यं पुटेत्तथा ॥ २,३.१२५ ॥
इत्येवं सप्तवारांस्तु द्रुतं सूतं समं समम् ।
दत्त्वा मर्द्यं पुटे पच्याज्जायते भस्मसूतकः ॥ २,३.१२६ ॥
भस्मसूतसमं गन्धं दत्त्वा रुद्ध्वा धमेद्दृढम् ।
जायते गुटिका दिव्या विख्याता दिव्यखेचरी ॥ २,३.१२७ ॥
वर्षैकं धारयेद्वक्त्रे जीवेत्कल्पसहस्रकम् ।
तस्य मूत्रपुरीषाभ्यां सर्वलोहस्य लेपनात् ॥ २,३.१२८ ॥
जायते कनकं दिव्यं समावर्ते न संशयः ।
पलद्वयं भृङ्गराजद्रव्यं चानु पिबेत्सदा ॥ २,३.१२९ ॥
पूर्वोक्तं भस्मसूतं वा गुञ्जामात्रं सदा लिहेत् ।
वर्षैकं मधुनाज्येन लक्षायुर्जायते नरः ॥ २,३.१३० ॥
वलीपलितनिर्मुक्तो महाबलपराक्रमः ।
स्वर्णं वैक्रान्तसत्त्वं च द्वंद्वितं जारयेद्रसे ॥ २,३.१३१ ॥
समांशं तु भवेद्यावत्ततस्तेनैव सारयेत् ।
समेन जायते बद्धो धारयेत्तं मुखे सदा ॥ २,३.१३२ ॥
संवत्सरप्रयोगेण जराकालापमृत्युजित् ।
कुमार्या दलजं द्रावं सितायुक्तं पिबेदनु ॥ २,३.१३३ ॥
स्वर्णवैक्रान्तबद्धोऽयं ब्रह्मायुर्यच्छते नृणाम् ।
वैक्रान्तसत्त्वतुल्यांशं शुद्धसूतं विमर्दयेत् ॥ २,३.१३४ ॥
दिनं दिव्यौषधद्रावैस्तद्गोलं निगडेन वै ।
लिप्त्वा लवणगर्भायां वज्रमूष्यां निरोधयेत् ॥ २,३.१३५ ॥
छायायां शोषयेत्संधिं त्रिदिनं तुषवह्निना ।
स्वेदयेद्वा करीषाग्नौ दिवारात्रमथोद्धरेत् ॥ २,३.१३६ ॥
तद्गोलं निगडेनैव लिप्त्वा तद्वन्निरुध्य च ।
छायाशुष्कं धमेद्गाढं बन्धमायाति निश्चितम् ॥ २,३.१३७ ॥
वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् ।
वैक्रान्तगुटिका ह्येषा सर्वकामफलप्रदा ॥ २,३.१३८ ॥
कर्षैकं त्रिफलाचूर्णं मध्वाज्याभ्यां लिहेदनु ।
हेम्ना यद्द्वंद्वितं वज्रं कुर्यात्तत्सूक्ष्मचूर्णितम् ॥ २,३.१३९ ॥
एतद्देयं गुह्यसूते मूषायामधरोत्तरम् ।
पादमात्रं प्रयत्नेन रुद्ध्वा संधिं विशोषयेत् ॥ २,३.१४० ॥
भूधराख्ये दिनं पच्यात्समुद्धृत्याथ मर्दयेत् ।
दिव्यौषधफलद्रावैस्तप्तखल्वे दिनावधि ॥ २,३.१४१ ॥
रुद्ध्वाथ भूधरे पच्याद्दिनं लघुपुटैः पुटेत् ।
समुद्धृत्य पुनस्तद्वन्मर्द्यं रुद्ध्वा दिनत्रयम् ॥ २,३.१४२ ॥
तुषाग्निना शनैः स्वेद्यमूर्ध्वाधः परिवर्तयन् ।
जायते भस्मसूतोऽयं सर्वयोगेषु योजयेत् ॥ २,३.१४३ ॥
द्रुतसूतस्य भागैकं भागैकं पूर्वभस्मकम् ।
शुद्धनागस्य भागैकं सर्वमम्लेन मर्दयेत् ॥ २,३.१४४ ॥
अन्धमूषागतं धाम्यं खोटो भवति तद्रसः ।
धमेत्प्रकटमूषायां यावन्नागक्षयो भवेत् ॥ २,३.१४५ ॥
द्रुतसूतप्रकारेण द्रावयित्वा त्विमं रसम् ।
निक्षिपेत्कच्छपे यन्त्रे विडं दत्त्वा दशांशतः ॥ २,३.१४६ ॥
स्वर्णादिसर्वलोहानि क्रमेणैव च जारयेत् ।
प्रत्येकं षड्गुणं पश्चाद्वज्रद्वंद्वं च जारयेत् ॥ २,३.१४७ ॥
त्रिगुणं तु भवेद्यावत्ततो रत्नानि वै क्रमात् ।
जारयेद्द्रावितान्येव प्रत्येकं त्रिगुणं शनैः ॥ २,३.१४८ ॥
ततो यन्त्रात्समुद्धृत्य दिव्यौषधद्रवैर्दिनम् ।
मर्द्यं रुद्ध्वा धमेद्गाढं जायते गुटिका शुभा ॥ २,३.१४९ ॥
पूजयेदङ्कुशीमन्त्रैर्नाम्नेयं दिव्यखेचरी ।
यस्य वक्त्रे स्थिता ह्येषा स भवेद्भैरवोपमः ॥ २,३.१५० ॥
दिव्यतेजा महाकायः खेचरत्वेन गच्छति ।
यत्रेच्छा तत्र तत्रैव क्रीडते ह्यङ्गनादिभिः ॥ २,३.१५१ ॥
महाकल्पान्तपर्यन्तं तिष्ठत्येव न संशयः ।
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥ २,३.१५२ ॥
पलाशपुष्पचूर्णं तु तिलाः कृष्णाः सशर्कराः ।
सर्वं पलत्रयं खादेन्नित्यं स्यात्क्रामणे हितम् ॥ २,३.१५३ ॥
चूर्णमश्वखुरस्यैव गुह्यसूते समं क्षिपेत् ।
त्रिदिनं मातुलुङ्गाम्लैस्तत्सर्वं मर्दयेद्दृढम् ॥ २,३.१५४ ॥
सूततुल्यं मृतं वज्रं तस्मिन् क्षिप्त्वाथ मर्दयेत् ।
तप्तखल्वे दिनं चाम्लैस्तद्गोलं चान्धितं पुटेत् ॥ २,३.१५५ ॥
दिनैकं भूधरे यन्त्रे भागैकं पूर्वपारदम् ।
क्षिप्त्वा तस्मिन् दृढं मर्द्यं मातुलुङ्गद्रवैर्दिनम् ॥ २,३.१५६ ॥
रुद्ध्वाथ पूर्ववत्पच्यात्पुनर्देयश्च पारदः ।
मर्द्यं पाच्यं यथापूर्वमेवं कुर्याच्च सप्तधा ॥ २,३.१५७ ॥
रसं पुनः पुनर्दत्त्वा स्यादेवं भस्मसूतकः ।
योजयेत्सर्वयोगेषु जरामृत्युहरो भवेत् ॥ २,३.१५८ ॥
भागैकं नागचूर्णस्य भागैकं पूर्वभस्मनः ।
द्रुतसूतस्य भागैकं खोटं कुर्याच्च पूर्ववत् ॥ २,३.१५९ ॥
तद्वद्धाम्यं गते नागे द्रावितं जारयेत्पुनः ।
पूर्ववल्लोहरत्नान्तं जीर्णे बद्धा स्थिता मुखे ॥ २,३.१६० ॥
प्रचण्डखेचरीनाम्नी गुटिका खे गतिप्रदा ।
पूर्ववल्लभते वीरः फलमत्यन्तदुर्लभम् ॥ २,३.१६१ ॥
निर्गुण्डीमूलचूर्णं तु कर्षं तक्रैः पिबेदनु ।
शुद्धसूतस्य दातव्यं कलांशं मृतवज्रकम् ॥ २,३.१६२ ॥
तत्सर्वमम्लवर्गेण तप्तखल्वे दिनत्रयम् ।
मर्दयित्वा ततस्तेन लेपयेत्समभागतः ॥ २,३.१६३ ॥
पक्वबीजस्य पत्त्राणि तानि भानुदलैः पुनः ।
वेष्टितानि निरुध्याथ निखनेच्चुल्लिगर्भतः ॥ २,३.१६४ ॥
आच्छाद्य ज्वालयेत्तत्र काष्ठाग्निं दिवसत्रयम् ।
उद्धृत्य द्वंद्वलिप्तायां मूषायां तं निरोधयेत् ॥ २,३.१६५ ॥
करीषाग्नौ पुटे पच्यादहोरात्रात्समुद्धरेत् ।
वासनामुखिते सूते तुल्यमेतद्विनिक्षिपेत् ॥ २,३.१६६ ॥
अम्लेन मर्दयेद्यामं जातं गोलं समुद्धरेत् ।
क्षिपेज्जम्बीरगर्भे तं वस्त्रे बद्ध्वा त्र्यहं पचेत् ॥ २,३.१६७ ॥
दोलायन्त्रे सारनाले जायते गुटिका शुभा ।
कङ्कालखेचरी नाम्ना वक्त्रस्था मृत्युनाशिनी ॥ २,३.१६८ ॥
वर्षैकं धारयेद्यस्तु स जीवेद्ब्रह्मणो दिनम् ।
गन्धकं गुग्गुलुं तुल्यमाज्यैः कर्षं लिहेदनु ॥ २,३.१६९ ॥
कृष्णाभ्रकस्य सत्त्वं तु कान्तमाक्षीककाञ्चनम् ।
तीक्ष्णं सौवीरचूर्णं च तुल्यं रुद्ध्वा धमेद्दृढम् ॥ २,३.१७० ॥
तत्खोटं सूक्ष्मचूर्णं तु द्रुतसूतसमं भवेत् ।
सूतार्धं मारितं वज्रं सर्वमम्लेन मर्दयेत् ॥ २,३.१७१ ॥
दिनैकं तप्तखल्वे तु तं रुद्ध्वा भूधरे पचेत् ।
अहोरात्रात्समुद्धृत्य तत्समं पूर्वसूतकम् ॥ २,३.१७२ ॥
दत्त्वा दिव्यौषधद्रावैर्मर्द्यं सर्वं दिनावधि ।
पूर्ववद्भूधरे पच्याद्द्रुतसूतं पुनः समम् ॥ २,३.१७३ ॥
दत्त्वा मर्द्यं पुनः पच्यादित्येवं सप्तवारकम् ।
एतद्भस्मसमं गन्धं दत्त्वा चान्ध्यं धमेद्दृढम् ॥ २,३.१७४ ॥
जायते गुटिका दिव्या कालविध्वंसिका परा ।
यस्य वक्त्रे स्थिता ह्येषा तस्य कालः करोति किम् ॥ २,३.१७५ ॥
वर्षषट्कप्रयोगेण जीवेत्कल्पसहस्रकम् ।
तद्गात्रस्वेदमात्रेण सर्वलोहानि काञ्चनम् ॥ २,३.१७६ ॥
जायन्ते नात्र संदेहः शिवाम्बु क्रामकं पिबेत् ।
स्वर्णतारार्ककान्तं च तीक्ष्णचूर्णं समं समम् ॥ २,३.१७७ ॥
द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं चूर्णितं कृत्वा चाभिषिक्तं तु पूर्ववत् ॥ २,३.१७८ ॥
समुखे जारयेत्सूते यावत्पञ्चगुणं क्रमात् ।
दिव्यौषधद्रवैस्तं वै मर्दयेद्दिवसत्रयम् ॥ २,३.१७९ ॥
अन्धमूषागतं ध्मातं जायते गुटिका शुभा ।
नाम्ना पञ्चानना धार्या वक्त्रे संवत्सरावधि ॥ २,३.१८० ॥
वलीपलितनिर्मुक्तो जीवेच्चन्द्रार्कतारकम् ।
हस्तिकर्णी समूला तु चूर्ण्या मध्वाज्यसंयुता ॥ २,३.१८१ ॥
स्निग्धभाण्डे तु तां रुद्ध्वा धान्यराशौ निवेशयेत् ।
त्रिसप्ताहात्समुद्धृत्य पलैकं भक्षयेदनु ॥ २,३.१८२ ॥
ऋद्धिखण्डे तु यत्प्रोक्तं विविधं रसबन्धनम् ।
अत्र तस्यैव वक्ष्यामि देहवेधक्रमं यथा ॥ २,३.१८३ ॥
जारितैर्बन्धितैस्तैस्तै रसराजैः पृथक्पृथक् ।
कारयेद्गुटिकां दिव्यां बदराण्डप्रमाणकाम् ॥ २,३.१८४ ॥
सा धार्या वत्सरं वक्त्रे स्वानुरूपफलप्रदा ।
गुटिका शतवेधी स्याद्युगायुष्यकरी नृणाम् ॥ २,३.१८५ ॥
सहस्रवेधी गुटिका अष्टकल्पान्तरक्षिका ।
लक्षवेधकरी या तु सा दत्ते विष्णुवद्बलम् ॥ २,३.१८६ ॥
वेधिका दशलक्षे या सा रुद्रपददायिनी ।
कोटिवेधकरी या सा ईश्वरत्वकरी नृणाम् ॥ २,३.१८७ ॥
वेधिका दशकोटीनां सा सदाख्यपदप्रदा ।
गुटिकार्बुदवेधी या सा श्रीकण्ठपदप्रदा ॥ २,३.१८८ ॥
सम्यग्भवपदं दत्ते गुटिका शङ्खवेधिका ।
धूम्रवेधी तु या सिद्धा सा शक्तिपददायिनी ॥ २,३.१८९ ॥
पराशक्तिपदं दत्ते स्पर्शवेधकरी तु या ।
शब्दवेधकरा या तु सा यस्य वत्सरावधि ॥ २,३.१९० ॥
वक्त्रे स्थिता स वै सिद्धो नित्यं नित्यपदं लभेत् ।
स्वेच्छाचारी वज्रकायो वज्रपातैर्न भिद्यते ॥ २,३.१९१ ॥
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् ।
जायन्ते स्वेदसम्पर्काद्गात्रसंस्पर्शनादपि ॥ २,३.१९२ ॥
सर्वेषामुक्तयोगानामनु स्याच्छुद्धगन्धकम् ।
पलार्धं भक्षयेन्नित्यं रससंक्रामणे हितम् ॥ २,३.१९३ ॥
कालि कालि महाकालि मांसशोणितभोजिनि ।
रक्तकृष्णमुखे देवि रससिद्धिं ददस्व मे ॥ २,३.१९४ ॥
स्वाहा अनेन सिद्धमन्त्रेण शक्तिचक्रं प्रपूजयेत् ।
कालिकां भैरवं सिद्धान् कुमारीं साधितं रसम् ॥ २,३.१९५ ॥
ततो रसायनं दिव्यं सेवयेत्सिद्धिमाप्नुयात् ।
गुटिकां धारयेद्वक्त्रे पूर्वमन्त्रं जपेत्सदा ॥ २,३.१९६ ॥
रसमन्त्रप्रयोगेण शीघ्रं सिद्धिमवाप्नुयात् ।
कालान्तरससिद्धिर्या प्रोक्ता मन्थानभैरवे ॥ २,३.१९७ ॥
तदर्थं पञ्च तत्त्वानि षष्ठं जीवं च साधयेत् ।
काकिन्याः पुष्पकाले तु सङ्गं कृत्वा समाहरेत् ॥ २,३.१९८ ॥
तद्योनिस्थं रजोबीजं गगनं तं विदुर्बुधाः ।
काकिन्युत्पन्नपुत्रस्य सद्योविड्वायुरुच्यते ॥ २,३.१९९ ॥
तेजस्तु काकिनीपुष्पं जलं तत्पुत्रशोणितम् ।
काकिनीपुत्रसर्वाङ्गं पृथिवीतत्त्वमुच्यते ॥ २,३.२०० ॥
रससेवकदेहोत्थवीर्यं जीवस्तु कथ्यते ।
तत्प्रत्येकं कोटिवेधं कर्षैकं रससंयुतम् ॥ २,३.२०१ ॥
कृत्वा संरक्षयेद्भिन्नं सुपिष्टं गोलकीकृतम् ।
उन्नतं पौरुषं यावद्विस्तारेण तदर्धकम् ॥ २,३.२०२ ॥
कुर्यात्ताम्रकटाहं तु स्थूलं यावत्षडङ्गुलम् ।
चतुर्मुखस्य कोष्ठस्य पृष्ठे धार्यं दृढं यथा ॥ २,३.२०३ ॥
गोघृतं नरतैलं च समभागेन मेलयेत् ।
तेनापूर्य कटाहं तं सिद्धचक्रं ततोऽर्चयेत् ॥ २,३.२०४ ॥
कुमारीगुरुदेवाग्नीन् भैरवं भैरवीयुतम् ।
तर्पयेद्बलिमांसेन क्षेत्रपालं च पूजयेत् ॥ २,३.२०५ ॥
धमनं तत्र कुर्वीत चतुर्दिक्षु शनैः शनैः ।
चतुर्भिर्वङ्कनालैश्च खदिराङ्गारयोगतः ॥ २,३.२०६ ॥
सुतप्तं फेननिर्मुक्तं निर्धूमं च यदा भवेत् ।
चन्द्रार्कग्रहनक्षत्रदेवताभुवनानि च ॥ २,३.२०७ ॥
नमस्कृत्य गुरुं देवं देहं तत्र विनिक्षिपेत् ।
सुद्रुतं तं विजानीयान्निक्षिपेत्पार्थिवं रसम् ॥ २,३.२०८ ॥
धमन्नत्रैव यत्नेन यावत्तत्कल्कतां व्रजेत् ।
अप्तत्त्वाख्यं रसं तस्मिन् क्षिपेद्रक्तं भवेत्तु तत् ॥ २,३.२०९ ॥
वायुयुक्तं रसं क्षिप्त्वा शुभ्रवर्णं प्रजायते ।
तेजोयुक्तं रसं क्षिप्याद्घनीभूतं भवेत्तु तत् ॥ २,३.२१० ॥
तत आकाशसंयुक्तं रसं तत्र विनिक्षिपेत् ।
आवर्तितं सुवर्णाभं जायते तत्र निक्षिपेत् ॥ २,३.२११ ॥
जीवयुक्तं रसं दिव्यं ततो हुंकारमुच्चरेत् ।
कृत्वा तत्र महारावं हुंकारत्रयसंयुतम् ॥ २,३.२१२ ॥
ततश्चोत्तिष्ठते सिद्धः पूर्वाह्णे भास्करो यथा ।
दिव्यतेजा महाकायो महाबलपराक्रमः ॥ २,३.२१३ ॥
नवनागसहस्राणां बलं तस्याधिकं भवेत् ।
जीवते वज्रदेहः सन् सत्यं सत्यं शिवोदितम् ॥ २,३.२१४ ॥
जराजर्जरिताङ्गानामन्धानां पङ्गुकुष्ठिनाम् ।
नष्टवाग्जडषण्डानां कुब्जानां कुष्ठदेहिनाम् ॥ २,३.२१५ ॥
अनेकव्याधियुक्तानां भ्रान्तोन्मत्तपिशाचिनाम् ।
किं पुनः स्वच्छदेहानां भूपानां रससेविनाम् ॥ २,३.२१६ ॥
वीराणां साधकानां च दिव्यसिद्धिप्रदो भवेत् ।
तस्माद्वीरतरो योऽत्र भैरवोऽसौ न संशयः ॥ २,३.२१७ ॥
वज्रकायो भवेत्सिद्धो मेधावी दिव्यरूपवान् ।
अर्धयोजनविस्तीर्णं विमानं चाप्सरोयुतम् ॥ २,३.२१८ ॥
आयाति नात्र संदेहस्तस्य सिद्धस्य सम्मुखम् ।
तत्रारूढो रुद्रलोके क्रीडते भैरवो यथा ॥ २,३.२१९ ॥
क्षुत्पिपासाविनिर्मुक्तो जगन्नाशे न नश्यति ।
भुञ्जानः सर्वभोगांश्च योगिनां स प्रियो भवेत् ।
इच्छासिद्धो महावीरो नित्यानन्दमयो भवेत् ॥ २,३.२२० ॥
दृष्ट्वा समस्तमनुभूय रसायनेषु सारातिसारसुखसाध्यतरं नराणाम् ।
देहस्य दार्ढ्यकरणे गुटिकाप्रयोगाः प्रोक्ताः परं शिवकराः सततं सुसिद्ध्यै ॥ २,३.२२१ ॥

२, ४
सूतगन्धगगनायसशुल्बं मारितं च परमामृतीकृतम् ।
इष्टमेकमपि मूलिकागणं देहसिद्धिकरमाशु सेवितम् ॥ २,४.१ ॥
मृतकान्ताभ्रकं सूतं गन्धं भृङ्गविडङ्गकम् ।
त्वग्वर्जं बिल्वबीजं च प्रत्येकं पलषोडश ॥ २,४.२ ॥
त्रिंशत्पलं त्र्यूषणं च त्रिंशत्त्रिंशद्घृतं मधु ।
चित्रमूलं दशपलं सर्वं चूर्णं विलोडयेत् ॥ २,४.३ ॥
पलानि त्रिफलायास्तु विंशपूर्वं चतुःशतम् ।
क्वाथ्यमष्टगुणैस्तोयैर्ग्राह्यमष्टावशेषितम् ॥ २,४.४ ॥
कषायं भावयेत्तेन मासैकं पूर्वलोडितम् ।
लोहपात्रे खरे घर्मे तत्पलार्धं सदा पिबेत् ॥ २,४.५ ॥
क्षीरैः शयनकाले तु वर्षान्मृत्युजरापहम् ।
बालो निबिडसंधिश्च जीवेच्चन्द्रार्कतारकम् ॥ २,४.६ ॥
महारसायनं दिव्यं कामिनीशततोषकम् ।
अग्निवर्णं क्षिपेत्क्षीरे कृष्णाभ्रं वह्नितापितम् ॥ २,४.७ ॥
भिन्नपत्त्रं ततः कृत्वा जलमध्ये विनिक्षिपेत् ।
त्रिंशत्पलानि यत्नेन मरिचं पलपञ्चकम् ॥ २,४.८ ॥
चूर्णितं निक्षिपेत्तस्मिंस्त्रिदिनान्ते समुद्धरेत् ।
तत्सर्वं पेषयेच्छ्लक्ष्णं सितवस्त्रेण बन्धयेत् ॥ २,४.९ ॥
जलपूर्णे घटे घर्मे दोलायन्त्रेण धारयेत् ।
शुष्के तोये पुनस्तोयं दद्याद्यावज्जले गतम् ॥ २,४.१० ॥
तदभ्रकं ततो वस्त्रं संत्यजेद्रक्षयेज्जलम् ।
त्रिंशद्भागं ततः कुर्यात्तज्जलं साभ्रकं सुधीः ॥ २,४.११ ॥
तद्भागैकेन संलोड्य पलैकं श्वेततण्डुलात् ।
त्रिंशत्पले गवां क्षीरे तत्पचेच्चाथ शीतलम् ॥ २,४.१२ ॥
मध्वाज्यैर्द्विपलैर्युक्तं निष्कैकैश्च मरीचकैः ।
साधको भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥ २,४.१३ ॥
केशा दन्ता नखास्तस्य पतन्ति ह्युद्भवन्ति च ।
वज्रकायो भवेत्सिद्धो वायुवेगो महाबलः ॥ २,४.१४ ॥
अमृताभ्रकयोगोऽयं शम्भुना गदितः पुरा ।
मृताभ्रं गन्धकं शुद्धं कणा सर्वं समं घृतैः ॥ २,४.१५ ॥
कर्षैकं भक्षयेन्नित्यं वर्षान्मृत्युजरापहम् ।
कोरण्टकस्य पत्त्राणि मृताभ्रं गन्धकं समम् ॥ २,४.१६ ॥
तत्सर्वं नीलिकाद्रावैः सप्ताहं भाव्यमातपे ।
तत्कर्षैकं पिबेत्क्षीरैरब्दान्मृत्युजरापहम् ॥ २,४.१७ ॥
मृताभ्रकस्य कर्षैकं गवां क्षीरं पलं तथा ।
समूलपत्त्रां सर्पाक्षीं सार्द्रां पिष्ट्वा च गन्धकम् ॥ २,४.१८ ॥
एकीकृत्य पिबेत्सर्वं वर्षैकेन जरां जयेत् ।
वज्रकायः खेचरश्च जीवेद्ब्रह्मदिनत्रयम् ॥ २,४.१९ ॥
मृताभ्रं कान्तलोहं च त्रिफला मागधी समम् ।
पञ्चाङ्गं बदरीचूर्णमभ्रतुल्यं नियोजयेत् ॥ २,४.२० ॥
सितामध्वाज्यसंयुक्तं पलार्धं भक्षयेत्सदा ।
हन्ति वर्षाज्जरां मृत्युमायुः स्याद्ब्रह्मणो दिनम् ॥ २,४.२१ ॥
अमृतक्रीडे विष्णुसंवरणि स्वाहा ।
अनेन मन्त्रेण सर्वे अभ्रकयोगा अभिमन्त्र्य भक्षणीयाः ।
मृतं कान्तं तिलाः कृष्णा बदरीफलचूर्णकम् ।
काकतुण्डीबीजचूर्णं सर्वं तुल्यं प्रकल्पयेत् ॥ २,४.२२ ॥
शाल्मलीमल्लिपत्त्राणां द्रवैर्भाव्यं दिनत्रयम् ।
त्रिदिनं भृङ्गजैर्द्रावैर्भावितं शोषयेत्पुनः ॥ २,४.२३ ॥
तस्मिन् तुल्यं गुडं क्षिप्त्वा वटिकाः कर्षमात्रकाः ।
रुदन्त्युत्थद्रवैः क्षीरैर्मध्वाज्याभ्यां पिबेत्सदा ॥ २,४.२४ ॥
वर्षैकेन जरां मृत्युं हन्ति सत्यं न संशयः ।
मृतं कान्तं कृष्णतिलांस्त्रिफलां चूर्णयेत्समम् ॥ २,४.२५ ॥
शाल्मलीकेतकीद्रावैर्लोडितं कान्तपात्रके ।
स्थितं रात्रौ पिबेत्प्रातः पलार्धं मृत्युनाशनम् ॥ २,४.२६ ॥
वत्सरैकाज्जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
कान्तभस्म कणाचूर्णं निम्बनिर्यासमेव च ॥ २,४.२७ ॥
त्रिफलातुल्यतुल्यांशं मध्वाज्याभ्यां पलार्धकम् ।
लिहेन्मासाष्टकं नित्यं जीवेद्ब्रह्मदिनं नरः ॥ २,४.२८ ॥
कुष्ठखण्डानि संपाच्य कषाये त्रैफले समे ।
शोषयित्वा विचूर्ण्याथ तानि कान्तं मृतं समम् ॥ २,४.२९ ॥
मध्वाज्याभ्यां लिहेत्कर्षं वर्षान्मृत्युजरापहम् ।
कोरण्टपत्त्रचूर्णं तु कान्तभस्म तिला गुडम् ॥ २,४.३० ॥
तुल्यं भक्ष्यं पलार्धं तद्वर्षान्मृत्युजरापहम् ।
कान्तभस्म समं गन्धं तैलैर्ज्योतिष्मतीभवैः ॥ २,४.३१ ॥
लिहेन्नित्यं चतुर्निष्कं ब्रह्मायुर्जायते नरः ।
बृहस्पतिसमो वाचा वत्सराद्भवति ध्रुवम् ॥ २,४.३२ ॥
मृततीक्ष्णं त्रयो भागाः शुद्धगन्धाष्टभागकम् ।
घर्मे भाव्यं त्रिसप्ताहं तत्सर्वं कन्यकाद्रवैः ॥ २,४.३३ ॥
गोक्षीरैस्तत्पिबेत्कर्षं जीवेद्ब्रह्मदिनत्रयम् ।
वर्षमात्रान्न संदेहो दिव्यतेजा महाबलः ॥ २,४.३४ ॥
मृतं कान्तं शिला शुद्धा तुल्यं मध्वाज्यकैर्लिहेत् ।
निष्कं निष्कं तु वर्षैकं जीवेद्ब्रह्मदिनत्रयम् ॥ २,४.३५ ॥
त्रिनिष्कं मृततीक्ष्णं तु मुण्डं वा कान्तमेव वा ।
पिबेद्धारोष्णपयसा वयःस्तम्भकरं नृणाम् ॥ २,४.३६ ॥
वर्षद्वयप्रयोगेण जीवेदाचन्द्रतारकम् ।
सम्यक्कान्तमये पात्रे धात्रीचूर्णं शिवाम्बुना ॥ २,४.३७ ॥
रात्रौ पलैकं संलिप्य प्रातरुत्थाय भक्षयेत् ।
वलीपलितनिर्मुक्तो वत्सरान्मृत्युजिद्भवेत् ॥ २,४.३८ ॥
लेपयेत्कान्तपात्रान्तः पलैकं त्रिफलामधु ।
दिवारात्रं स्थितं पेयं तन्नित्यं तु शिवाम्बुना ।
वर्षान्मृत्युं जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २,४.३९ ॥
ओं हः अमृते अमृतशक्ति अमृतगन्धोपजीवि निष्पन्नं चन्द्रामृतमाज्ञापितंकुरु कुरुस्वाहा हे हे हं हः गमिति गन्धकलोहयोर्भक्षणमन्त्रः ।
सर्वेषां लोहयोगानामनु स्यात्क्षीरपानकम् ।
आस्वादयेत्स्वादुमुस्तानां स्वरसं दन्तपीडितम् ॥ २,४.४० ॥
मूलानि भक्षयेत्तासामास्यवैरस्यशान्तये ।
बद्धे कोष्ठे तु दीप्ताग्नौ तप्तं क्षीरं पिबेत्सदा ॥ २,४.४१ ॥
स्नानमर्दनतीक्ष्णोष्णं विष्टम्भे सति वर्जयेत् ।
ताम्बूलं भक्षयेन्नित्यं सकर्पूरं मुहुर्मुहुः ॥ २,४.४२ ॥
सम्यग्जीर्णे तु दीप्ताग्नौ पिबेत्पश्चाद्बुभुक्षितः ।
शृतं क्षीरं ततोऽन्नं च सेव्यं लौहरसायने ॥ २,४.४३ ॥
ब्रह्मवृक्षस्य पञ्चाङ्गं छायाशुष्कं सुचूर्णितम् ।
मध्वाज्याभ्यां लिहेत्कर्षं वर्षैकेन जरां जयेत् ॥ २,४.४४ ॥
जीवेद्वर्षसहस्रैकं दिव्यतेजा महाबलः ।
ब्रह्मवृक्षस्य पुष्पाणि छायाशुष्काणि कारयेत् ॥ २,४.४५ ॥
त्रिंशत्पलं तु तच्चूर्णं चतुर्विंशत्पलं घृतम् ।
एकीकृत्य क्षिपेद्भाण्डे तं रुद्ध्वा धान्यराशिगम् ॥ २,४.४६ ॥
कृत्वा मासात्समुद्धृत्य भागान् कुर्याच्चतुर्दश ।
भागैकं भक्षयेन्नित्यं भुञ्जीत कान्तभाजने ॥ २,४.४७ ॥
एवं मासत्रयं कुर्याद्वज्रकायो भवेन्नरः ।
तस्य मूत्रपुरीषाभ्यां ताम्रमायाति काञ्चनम् ॥ २,४.४८ ॥
ब्रह्मवृक्षस्य बीजानि चूर्णितानि घृतैः सह ।
पूर्ववद्धान्यमध्ये तु क्षिप्त्वा मासात्समुद्धरेत् ॥ २,४.४९ ॥
पलैकैकं सदा खादेद्वत्सरान्मृत्युजिद्भवेत् ।
वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् ॥ २,४.५० ॥
ब्रह्मबीजोत्थितं तैलं गवां क्षीरैः पलद्वयम् ।
तुल्यैः पिबेद्भवेन्मूर्छा सिञ्चेत्तस्य मुखे पयः ॥ २,४.५१ ॥
बोधे क्षीरौदनं दद्यान्मासाज्ज्ञानी भवेन्नरः ।
द्वितीये शुक्रतुल्यः स्यात्तृतीये वज्रवद्भवेत् ॥ २,४.५२ ॥
दूरश्रावी चतुर्थे तु पञ्चमे खेगतिर्भवेत् ।
मासषट्के स्वयं कर्ता शिवतुल्यपराक्रमः ॥ २,४.५३ ॥
महाकल्पान्तपर्यन्तं जीवेद्वर्षैकसेवनात् ।
ब्रह्मवृक्षमतिस्थूलं छेदयेदूर्ध्वभागतः ॥ २,४.५४ ॥
अधो रक्ष्यं त्रिहस्तं स्यात्तस्य मूर्ध्नि बिलं कृतम् ।
पक्वधात्रीफलैः पूर्यं तत्काष्ठेन निरुध्य च ॥ २,४.५५ ॥
कुशैस्तु वेष्टयेत्सर्वं लेप्यं मृद्गोमयैः पुनः ।
आवेष्ट्य वस्त्रखण्डेन लिम्पेन्मृद्गोमयैस्ततः ॥ २,४.५६ ॥
शुष्के गजपुटं देयं परितोऽरण्यकोत्पलैः ।
स्वाङ्गशीतलमुद्धृत्य सद्रवाणि फलानि च ॥ २,४.५७ ॥
क्षिपेन्मध्वाज्यसंयुक्ते भाण्डे तान्येव भक्षयेत् ।
यथेष्टं भूगृहान्तस्थः क्षीराहारी जरां जयेत् ॥ २,४.५८ ॥
मासद्वयेन वसुधां छिद्रां पश्यति निश्चितम् ।
जीवेद्ब्रह्मदिनं यावत्सर्पवत्कञ्चुकं त्यजेत् ॥ २,४.५९ ॥
श्वेतपालाशपञ्चाङ्गं चूर्णितं मधुना सह ।
कर्षैकं भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥ २,४.६० ॥
ब्रह्मायुर्जायते सिद्धो वर्षमात्रान्न संशयः ।
अजाघृतेन तद्बीजमेकैकं भक्षयेत्सदा ॥ २,४.६१ ॥
शरीरं भस्मना मर्द्यं मासान्मृत्युजरां जयेत् ।
जीवेद्ब्रह्मदिनं यावद्दिव्यकायो भवेन्नरः ॥ २,४.६२ ॥
अन्ये योगा यथा रक्ते ब्रह्मवृक्षे च ये गुणाः ।
तथैव श्वेतपालाशे भवेयुः साधकस्य वै ॥ २,४.६३ ॥
अमृतं कुरु कुरु अमृतमालिन्यै नमः ।
अनेन मन्त्रेण सर्वयोगाः सप्ताभिमन्त्रिता भक्षणीयाः ।
शुक्लपक्षेऽथ पूर्णायां पुष्ये वा श्रवणे तथा ।
रेवत्यां वाथ सम्पूज्य मुण्डीपञ्चाङ्गमुद्धरेत् ॥ २,४.६४ ॥
छायाशुष्कं तु तच्चूर्णं कर्षं गोपयसा सह ।
वर्षैकेन जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २,४.६५ ॥
तस्य मूत्रपुरीषाभ्यां ताम्रं सौवर्णतां व्रजेत् ।
तच्चूर्णं तु घृतैर्लेह्यं तद्वत्स्याद्बलमद्भुतम् ॥ २,४.६६ ॥
ओं नमोऽमृतोद्भवाय अमृतं कुरु कुरु स्वाहा ओं ह्रां सः ।
इति औषधभक्षणमन्त्रः ।
छायाशुष्कं देवदालीपञ्चाङ्गं चूर्णयेत्ततः ।
मध्वाज्याभ्यां लिहेत्कर्षं वर्षान्मृत्युजरां जयेत् ॥ २,४.६७ ॥
जीवेत्कल्पसहस्रं तु रुद्रतुल्यो भवेन्नरः ।
तच्चूर्णं कर्षमात्रं तु नित्यं पेयं शिवाम्बुना ॥ २,४.६८ ॥
पूर्ववज्जायते सिद्धिर्वत्सरान्नात्र संशयः ।
तच्चूर्णं वाकुचीवह्निसर्पाक्षीभृङ्गराट्समम् ॥ २,४.६९ ॥
चूर्णितं कर्षमात्रं तु नित्यं पेयं शिवाम्बुना ।
वर्षान्मृत्युं जरां हन्ति छिद्रां पश्यति मेदिनीम् ॥ २,४.७० ॥
पुनर्नवादेवदाल्योर्नीरैर्नित्यं पिबेन्नरः ।
देवदाल्याश्च सर्पाक्ष्याः पलैकं वा शिवाम्बुना ॥ २,४.७१ ॥
पिबेत्स्यात्पूर्ववत्सिद्धिर्वत्सरान्नात्र संशयः ।
देवदालीं च निर्गुण्डीं पिबेत्कर्षं शिवाम्बुना ।
वर्षैकेन जरां हन्ति जीवेदाचन्द्रतारकम् ॥ २,४.७२ ॥
ओममृतगण रुद्रगणाम्भः स्वाहा ।
अयं च ग्रहणमन्त्रः ।
नमो भगवते रुद्राय हुं फट्स्वाहा ।
अयं साधकस्य शिखाबन्धनमन्त्रः ।
ओं चर र र ।
अयं भक्षणमन्त्रः ॥ २,४.७३ ॥
पुष्ये श्वेतार्कमूलं तु ग्राह्यं छायाविशोषितम् ।
चूर्णकर्षं गवां क्षीरैः पलद्वंद्वैर्युतं पिबेत् ॥ २,४.७४ ॥
मासषट्काज्जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
द्रवं श्वेतार्कपत्त्राणां भृङ्गराजद्रवैः समम् ॥ २,४.७५ ॥
एकीकृत्यातपे शुष्कं चूर्णं क्षीरैश्चतुर्गुणैः ।
मृद्वग्निना पचेत्तावद्यावत्पिण्डत्वमागतम् ।
तत्कर्षैकं घृतैर्लेह्यं वर्षात्स्यात्पूर्ववत्फलम् ॥ २,४.७६ ॥
ओमां हं वासरमालिने स्वाहा ।
अयं भक्षणमन्त्रः ।
ग्राह्यं सोमत्रयोदश्यां हस्तिकर्णस्य पत्त्रकम् ।
छायाशुष्कं तु तच्चूर्णं गवां क्षीरैः पिबेत्पलम् ॥ २,४.७७ ॥
वर्षमात्राज्जरां हन्ति जीवेद्ब्रह्मदिनं नरः ।
हस्तिकर्णस्य पञ्चाङ्गं छायाशुष्कं विचूर्णितम् ॥ २,४.७८ ॥
कर्षमात्रं पिबेन्नित्यं मासैकमुदकैः सह ।
आरनालैस्ततस्तक्रैर्दधिक्षीराज्यक्षौद्रकैः ॥ २,४.७९ ॥
प्रत्येकेन क्रमात्सेव्यं मासैकेन जरापहम् ।
जीवेद्ब्रह्मदिनं सार्धं वज्रकायो महाबलः ॥ २,४.८० ॥
ओं गरविषं दृष्टौ गृह्णामि स्वाहा ।
हस्तिकर्णग्रहणमन्त्रः ।
ओममृतकुटीजातानाममृतं कुरु कुरु स्वाहा ।
अनेन पूजयेत् ।
ओममृतोद्भवाय अमृतं कुरु कुरु नित्यं नमो नमः ।
भक्षणमन्त्रः ॥ २,४.८१ ॥
रुदन्त्याश्चैव पञ्चाङ्गं छायाशुष्कं विचूर्णयेत् ।
तदर्धं मुसलीचूर्णं मुसल्यर्धं फलत्रयम् ॥ २,४.८२ ॥
मूलानां कतकोत्थानां तैलं पातालयन्त्रके ।
ग्राहयेद्गर्भयन्त्रे वा तत्तैलं क्षालयेज्जलैः ॥ २,४.८३ ॥
नालिकेरजलैर्वाथ क्षाल्यं पञ्चांशवारकम् ।
एतत्तैलेन संयुक्तं पूर्वचूर्णं लिहेत्क्रमात् ॥ २,४.८४ ॥
कर्षादिवर्धनं कार्यं पलान्तं चाथ वर्धयेत् ।
एवमब्दाज्जरां हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥ २,४.८५ ॥
सिद्धयोगो ह्ययं ख्यातो वज्रकायकरो नृणाम् ।
पुष्यार्के ग्राहयेत्प्रातर्निर्गुण्डीमूलजां त्वचम् ॥ २,४.८६ ॥
छायाशुष्कां विचूर्ण्याथ कर्षमेकं पिबेत्सदा ।
अजामूत्रपलैकेन षण्मासादमरो भवेत् ॥ २,४.८७ ॥
वर्षमात्रप्रयोगेण शिवतुल्यो भवेन्नरः ।
तच्चूर्णं क्षीरमध्वाज्यैर्लोडितं स्निग्धभाण्डके ॥ २,४.८८ ॥
रुद्ध्वा क्षिपेद्धान्यराशौ मासादुद्धृत्य भक्षयेत् ।
द्विपलं वर्षपर्यन्तं जीवेच्चन्द्रार्कतारकम् ॥ २,४.८९ ॥
तच्चूर्णार्धपलं चाज्यैर्लिहेत्स्यात्पूर्ववत्फलम् ।
तच्चूर्णं त्रिफला मुण्डी भृङ्गी निम्बो गुडूचिका ॥ २,४.९० ॥
वचा चैषां समं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् ।
वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥ २,४.९१ ॥
निर्गुण्डीपत्त्रजं द्रावं भाण्डे मृद्वग्निना पचेत् ।
गुडवत्पाकमापन्नं पीतं वान्तिविरेककृत् ॥ २,४.९२ ॥
निर्यान्ति कृमयस्तस्य मुखनासाक्षिकर्णतः ।
राजयक्ष्मादिरोगांश्च सप्ताहेन विनाशयेत् ।
मासत्रयाज्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २,४.९३ ॥
ओं नमो माय गणपतये भूपतये कुबेराय स्वाहा इति भक्षणमन्त्रः ।
भल्लातकोऽभया वीरा काकतुण्ड्याः फलं वचा ।
लाङ्गली निम्बपत्त्राणि सहदेवी समं समम् ॥ २,४.९४ ॥
एषां पातालयन्त्रेण तैलं ग्राह्यं प्रयत्नतः ।
तत्तैलं नीलिकामूलयुक्तमर्धपलं पिबेत् ॥ २,४.९५ ॥
वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् ।
तैलार्धनिष्के तन्नस्ये कृते स्यात्पूर्ववत्फलम् ॥ २,४.९६ ॥
कृष्णजीरकप्रस्थैकं तत्तुल्यं भृङ्गजद्रवम् ।
यष्टी नीलोत्पलं चैव प्रति प्रस्थार्धमाहरेत् ॥ २,४.९७ ॥
पादप्रस्थं तिलात्तैलं सर्वमेकत्र पाचयेत् ।
ग्राह्यं तैलावशेषं तन्नस्यं तेनैव कारयेत् ॥ २,४.९८ ॥
नस्यं चाङ्कोल्लतैलेन कुर्यान्मृत्युजरापहम् ।
निष्कार्धनिष्कं वर्षैकं जीवेद्वर्षशतत्रयम् ॥ २,४.९९ ॥
काकमाचीफलं पिष्ट्वा कर्षैकमुदकैः पिबेत् ।
वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥ २,४.१०० ॥
गुडूची मुसली मुण्डी निर्गुण्डी च शतावरी ।
विजया च समं चूर्णं सितामध्वाज्यसंयुतम् ॥ २,४.१०१ ॥
खादेत्कर्षद्वयं नित्यं वत्सरात्पलितं जयेत् ।
उक्तं गोरक्षनाथेन जीवेद्ब्रह्मदिनत्रयम् ॥ २,४.१०२ ॥
कृष्णाष्टम्यां कृष्णसूत्रैर्वृक्षं शुनकशाल्मलेः ।
आवेष्ट्याघोरमन्त्रेण रात्रौ कृष्णाजकं बलिम् ॥ २,४.१०३ ॥
दत्त्वाघोरं जपेत्तत्र यावदष्टसहस्रकम् ।
तस्य मूलत्वचं ग्राह्यं छायाशुष्कं विचूर्णयेत् ॥ २,४.१०४ ॥
मध्वाज्याभ्यां सदा खादेत्पलैकं वत्सरावधि ।
वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः ॥ २,४.१०५ ॥
तस्य पुष्पाणि संगृह्य गवां क्षीरैः सदा पचेत् ।
पुष्पवर्जं पिबेत्क्षीरं मासान्मृत्युजरापहम् ॥ २,४.१०६ ॥
फलैकं तस्य वृक्षस्य गवां क्षीरेण पाचयेत् ।
फलवर्जं पिबेत्क्षीरं क्षीरमेवं पिबेद्बुधः ॥ २,४.१०७ ॥
चतुर्मासप्रयोगेण वज्रकायो भवेन्नरः ।
जीवेत्कल्पान्तपर्यन्तं वायुवेगो महाबलः ॥ २,४.१०८ ॥
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ।
काकमाची भृङ्गराजः सर्पाक्षी सहदेविका ॥ २,४.१०९ ॥
समूला देवदाली च निम्बवाकुचीबीजकम् ।
फलानि काकतुण्ड्याश्च मूलं ब्रह्माश्वगन्धयोः ॥ २,४.११० ॥
नीलकोरण्टपत्त्राणि त्रिफला च समं समम् ।
चूर्णं तत्कन्यकाद्रावैर्भावयेत्सप्तवासरम् ॥ २,४.१११ ॥
छायायां शोषितं कुर्यात्सितामध्वाज्यसंयुतम् ।
भक्षेत्कर्षद्वयं नित्यं वर्षमात्राज्जरां जयेत् ।
जीवेच्चन्द्रार्कनक्षत्रं महाकायो महाबलः ॥ २,४.११२ ॥
ओं ठः ठः ठः सः सः सः अमृते अमृतवर्षिणि अमृतसंजीवनि सर्वकामप्रदे भगवान् सोमराज आज्ञापयति स्वाहा इति भक्षणमन्त्रः ।
त्रिफला वाकुचीबीजं पिप्पली चाश्वगन्धिका ।
सर्वं तुल्यं कृतं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् ।
वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥ २,४.११३ ॥
ओं ह्रां ह्रीं ह्रूं सः स्वाहा अनेन मन्त्रेण भक्षयेत् ।
मूलिकाकल्पयोगेषु गुञ्जैकं मृतपारदम् ।
प्रतियोगयुतं खादेत्फलं शतगुणं भवेत् ।
रसेन्द्रस्य प्रभावेण शीघ्रं सिद्धिमवाप्नुयात् ॥ २,४.११४ ॥
अस्थिमुद्राधरो मन्त्री लक्षमेकं श्मशानतः ।
जपेन्महाभयं हन्ति सिद्धिं दत्ते रसायनम् ॥ २,४.११५ ॥
तेन भक्षितमात्रेण जीवेदाचन्द्रतारकम् ।
अजेयो देवदैत्यानां पर्वतानपि चालयेत् ॥ २,४.११६ ॥
ओं ह्रीं महाभयेरुम् ।
प्रातः पुष्यार्कमुख्ये विविधशुभदिने मन्त्रपूजाविधानैर्ग्राह्यं दिव्यौषधीनां फलदलकुसुमं मूलपत्त्रं रसं वा ।
सर्वाङ्गं वाथ सिद्ध्यै सकलमभिनवं सेवयेद्ब्रह्मचारी क्षीरान्नं चोदकान्नं हितमशनमिदं सर्वमन्यद्विवर्ज्यम् ॥ २,४.११७ ॥

२, ५
उद्वर्तनं पलितहारि परं नराणां शोभावहं सुखकरं कचरञ्जनं च ।
वृद्धोपयोगिसुखसाध्यमनेकयुक्त्या वक्ष्ये सुसिद्धमनुभूतिपथेन दृष्टम् ॥ २,५.१ ॥
पारदं गन्धकं तुल्यं नारीस्तन्येन मर्दयेत् ।
विष्णुक्रान्ता मेघनादा सर्पाक्षी मुनिमुण्डिका ॥ २,५.२ ॥
आसां द्रवैर्दिनं खल्वे मर्दयेत्तत्समुद्धरेत् ।
यवचूर्णं तिलाश्चैव प्रत्येकं रसतुल्यकम् ॥ २,५.३ ॥
क्षिपेत्तस्मिन् घृतैः क्षौद्रैः सर्वमालोड्य रक्षयेत् ।
अनेनोद्वर्तनं सम्यग्वलीपलितनाशनम् ॥ २,५.४ ॥
वत्सराद्दिव्यदेहः स्याज्जीवेद्वर्षसहस्रकम् ।
वज्रकापालिनीमूलं पारदं च समं समम् ॥ २,५.५ ॥
शिवाम्बुना त्र्यहं मर्द्यमुद्वर्तात्पूर्ववत्फलम् ।
उत्पलानि समूलानि पारदं च समं समम् ॥ २,५.६ ॥
सप्ताहं मर्दयेत्खल्वे स्वकीयेनाशिवाम्बुना ।
तेनैव मर्दयेद्गात्रं जायते पूर्ववत्फलम् ॥ २,५.७ ॥
पारदस्य समांशेन ब्रह्मदण्डीयमूलकम् ।
क्षिप्त्वा सप्तदिनं मर्द्यं स्वकीयेनाशिवाम्बुना ॥ २,५.८ ॥
अनेनोद्वर्तयेद्गात्रं जायते पूर्ववत्फलम् ।
गन्धकं कटुतैलेन घर्मे भाव्यं दिनावधि ॥ २,५.९ ॥
तत्पलार्धं सदा खादेद्दिव्यकायकरं नृणाम् ।
जायते स्वर्णवद्देहो वत्सराद्वलिवर्जितः ॥ २,५.१० ॥
कुष्ठचूर्णं समध्वाज्यं नित्यं कर्षं लिहेत्तु यः ।
वत्सराद्दिव्यदेहः स्याद्गन्धेन शतपुष्पवत् ॥ २,५.११ ॥
कान्तपाषाणचूर्णं तु तैलमध्वाज्यसंयुतम् ।
काकतुण्डीफलं सर्वं सममेतत्तु कल्पयेत् ॥ २,५.१२ ॥
भाण्डे रुद्ध्वा क्षिपेन्मासं धान्यराशावथोद्धरेत् ।
अनेन लेपयेच्छीर्षं नस्यं कुर्यादनेन वै ॥ २,५.१३ ॥
त्र्यहाद्भ्रमरसंकाशाः केशाः स्युर्वत्सरार्धकम् ।
नागचूर्णपलैकं तु शङ्खचूर्णपलद्वयम् ॥ २,५.१४ ॥
पथ्याचूर्णं निष्कमेकं सर्वं पेष्यं दिनावधि ।
अम्लदध्ना युतं यत्नात्स्नात्वादौ शिरसि क्षिपेत् ॥ २,५.१५ ॥
मर्दयेद्घटिकार्धं तु वेष्ट्यमेरण्डपत्त्रकैः ।
शिरः संवेष्ट्य वस्त्रेण प्रातः स्नानं समाचरेत् ॥ २,५.१६ ॥
इत्येवं त्रिदिनं यत्नात्कृत्वा केशांश्च रञ्जयेत् ।
पञ्चाङ्गं नीलिकाभृङ्गत्रिफलालोहचूर्णकम् ॥ २,५.१७ ॥
तुल्यं सर्वं कृतं सूक्ष्ममिडामूत्रेण मर्दयेत् ।
दिनार्धं तेन कल्केन पूर्ववत्केशरञ्जनम् ॥ २,५.१८ ॥
गुञ्जाबीजं तु त्वग्वर्ज्यं कुष्ठैलादेवदारुकम् ।
तुल्यं चूर्णं दिनं भाव्यं भृङ्गराजभवैर्द्रवैः ॥ २,५.१९ ॥
सर्वं चतुर्गुणे तैले पाचयेन्मृदुवह्निना ।
तेनाभ्यङ्गेन केशानां रञ्जनं भ्रमरोपमम् ॥ २,५.२० ॥
हस्तिदन्तस्य दग्धस्य समं योज्यं रसाञ्जनम् ।
अजाक्षीरेण तत्पिष्ट्वा लेपनात्केशरञ्जनम् ॥ २,५.२१ ॥
त्रिफला लोहचूर्णं तु कृष्णमृद्भृङ्गजद्रवम् ।
इक्षुदण्डद्रवं चैव मासं भाण्डे निरोधयेत् ॥ २,५.२२ ॥
तल्लेपाद्रञ्जयेत्केशान् स्याद्यावन्मासपञ्चकम् ।
लोहकिट्टं जपापुष्पं पिष्ट्वा धात्रीफलं समम् ॥ २,५.२३ ॥
त्रिदिनं लेपितास्तेन कचाः स्युर्भ्रमरोपमाः ।
भृङ्गराजरसप्रस्थं तैलं कृष्णतिलोद्भवम् ॥ २,५.२४ ॥
तुल्यं च नीलिकाद्रावं सर्वं यामं विमर्दयेत् ।
तल्लेपस्त्रिदिनं कार्यः केशानां रञ्जनं भवेत् ॥ २,५.२५ ॥
सिन्दूरस्य समं चूर्णं साबुणं च तयोः समम् ।
तज्जले पेषितं लेप्यं तत्क्षणात्कचरञ्जनम् ॥ २,५.२६ ॥
शतपुष्पा काकमाची तिलाः कृष्णाश्च रोचनम् ।
दिनं शिवाम्बुना सर्वं मर्दयेल्लोहपात्रके ॥ २,५.२७ ॥
तल्लेपं त्रिदिनं कुर्यात्केशानां रञ्जनं भवेत् ।
चूर्णं सर्जी यवक्षारं सिद्धार्थं काञ्जिकैः सह ॥ २,५.२८ ॥
नागपुष्पाद्रवैर्मर्द्यं तल्लेपाद्रञ्जनं भवेत् ।
नीलीपत्त्राणि कासीसं भृङ्गराजरसं दधि ॥ २,५.२९ ॥
लोहचूर्णं समं पिष्ट्वा तल्लेपं केशरञ्जनम् ।
चूर्णं सिन्दूरमङ्गारं कदलीकन्दसंयुतम् ॥ २,५.३० ॥
लोहपात्रे लोहमुष्ट्या मर्द्यं जम्बीरजैर्द्रवैः ।
दिनैकं च ततो लेप्यं केशानां रञ्जनं भवेत् ॥ २,५.३१ ॥
कुरण्टकस्य पत्त्राणि नागमुष्ट्या विमर्दयेत् ।
तल्लेपं त्रिदिनं कुर्याज्जायते केशरञ्जनम् ॥ २,५.३२ ॥
आम्रास्थि त्रिफला भृङ्गी प्रियङ्गुर्मातुलुङ्गकम् ।
निशा नीली मृणालानि नागं लोहं च चूर्णितम् ॥ २,५.३३ ॥
समं कल्कं कान्तपात्रे निम्बतैलेन भावयेत् ।
मासमात्रं ततस्तेन लेपाद्भवति रञ्जनम् ॥ २,५.३४ ॥
काकमाचीयबीजानि समाः कृष्णतिलास्तथा ।
तत्तैलं ग्राहयेद्यन्त्रे तन्नस्यं केशरञ्जनम् ॥ २,५.३५ ॥
गोघृतं भृङ्गजं द्रावं मयूरशिखया सह ।
मृद्वग्निना पचेत्तेन स्यान्नस्यं केशरञ्जनम् ॥ २,५.३६ ॥
जपापुष्पद्रवं क्षौद्रं कर्षैकं नस्यमाचरेत् ।
सप्ताहाद्रञ्जयेत्केशान् सर्वनस्येष्वयं विधिः ॥ २,५.३७ ॥
त्रिफला लोहचूर्णं तु वारिणा पेषयेत्समम् ।
तत्तुल्येन च तैलेन भृङ्गराजरसेन च ॥ २,५.३८ ॥
पचेत्तैलावशेषं तत्स्निग्धभाण्डे निरोधयेत् ।
मासैकं भूगतं कुर्यात्तेन शीर्षं प्रलेपयेत् ॥ २,५.३९ ॥
कारवल्ल्या दलैर्वेष्ट्य ततो वस्त्रेण बन्धयेत् ।
निर्वाते क्षीरभोजी स्यात्क्षालयेत्त्रिफलाजलैः ॥ २,५.४० ॥
नित्यमेवं प्रकर्तव्यं लेपनं दिनसप्तकम् ।
कपालरञ्जनं ख्यातं यावज्जीवं न संशयः ॥ २,५.४१ ॥
बीजानि काकतुण्ड्याश्च सिर्यालीबीजसंयुतम् ।
तच्चूर्णं दिनचत्वारि भाव्यं निर्गुण्डीजैर्द्रवैः ॥ २,५.४२ ॥
जपापुष्पद्रवैस्तावत्ततः पातालयन्त्रके ।
तैलं प्राह्यं तु तल्लेपात्केशानां रञ्जनं भवेत् ॥ २,५.४३ ॥
वेष्ट्यमेरण्डपत्त्रैश्च निर्वाते क्षीरभोजनम् ।
कुर्यात्स्नानं काञ्जिकैश्च नित्यं सप्तदिने कृते ॥ २,५.४४ ॥
यावज्जीवं न संदेहः केशाः स्युर्भ्रमरोपमाः ।
भृङ्गराजं काचमाचीं समांशं जलमण्डवीम् ॥ २,५.४५ ॥
संपिष्ट्यापूपिकां कृत्वा तैलमध्ये विपाचयेत् ।
पक्वां तां पेषयेत्तैलैर्लेपः स्यात्केशरञ्जनम् ॥ २,५.४६ ॥
पूर्ववत्क्रमयोगेन सप्ताहात्तत्फलं भवेत् ।
अयस्कान्तमये पात्रे रात्रौ लेप्यं फलत्रयम् ॥ २,५.४७ ॥
भृङ्गराजद्रवैः सार्धं प्रातः केशान् प्रलेपयेत् ।
एवं कुर्यात्त्रिसप्ताहं जायते पूर्ववत्फलम् ॥ २,५.४८ ॥
प्रक्षिपेन्माहिषे शृङ्गे कृष्णजीरं तदन्धयेत् ।
गृहाग्रे कर्दमे क्षिप्त्वा षण्मासात्तत्समुद्धरेत् ॥ २,५.४९ ॥
तद्द्रुतं जायते कृष्णं कर्षैकं शिरसि क्षिपेत् ।
वेष्टयेत्पूर्वयोगेन कपालरञ्जनं भवेत् ॥ २,५.५० ॥
भ्रमराञ्जनसंकाशं यावज्जीवं न संशयः ।
नीलीपत्त्रं भृङ्गराजं त्रिफला कृष्णमायसम् ॥ २,५.५१ ॥
मदनस्य च बीजानि पुष्पं कोरण्टकस्य च ।
अर्जुनस्य त्वचं चूर्णं नलिनीमूलकर्दमम् ॥ २,५.५२ ॥
सर्वं तुल्यं क्षिपेद्भाण्डे लोहजे तन्निरोधयेत् ।
पक्षमेकं क्षिपेद्भूमौ भाण्डात्कल्कं समुद्धरेत् ॥ २,५.५३ ॥
कल्काच्चतुर्गुणं तैलं तैलाच्चतुर्गुणं द्रवम् ।
भृङ्गत्रिफलजं योज्यं पचेत्तैलावशेषकम् ॥ २,५.५४ ॥
परीक्षार्थं क्षिपेत्पक्षं बलाकाया यदा भवेत् ।
कृष्णवर्णं तदा सिद्धं पात्रे कृष्णायसे क्षिपेत् ॥ २,५.५५ ॥
मासैकं धारयेत्तस्मिंस्ततः केशान्विलेपयेत् ।
तिष्ठन्ति मासषट्कं तु भ्रमरस्तोमसंनिभाः ॥ २,५.५६ ॥
वासापलाशचिञ्चोत्थैर्दण्डैर्वाश्वत्थजैर्दृढम् ।
नागं पात्रगतं चाल्यं यावद्भवति मूर्छितम् ॥ २,५.५७ ॥
पलैकं तत्समादाय लोहचूर्णं पलद्वयम् ।
त्रिपलं त्रिफलाचूर्णं दाडिमस्य फलत्वचः ॥ २,५.५८ ॥
शुष्कं चूर्णं पलैकं तत्सर्वेषां काञ्जिकं समम् ।
भाण्डे सर्वं पचेत्किंचित्तं क्षिपेल्लोहभाजने ॥ २,५.५९ ॥
भृङ्गराजकुरण्टोत्थद्रवं दत्त्वातपे क्षिपेत् ।
त्रिसप्ताहं प्रयत्नेन द्रवो देयः पुनः पुनः ॥ २,५.६० ॥
ततस्तं रक्षयेत्तेन लेपात्स्यात्केशरञ्जनम् ।
उक्तानुक्तेषु लेपेषु वेष्ट्यमेरण्डपत्त्रकैः ॥ २,५.६१ ॥
शिरो रात्रौ दिवा स्नानं युक्तिरेषा प्रशस्यते ।
वज्रीक्षीरेण सप्ताहं भावयेदभयाफलम् ।
तच्चूर्णयुक्ततैलस्य लेपाच्छुक्ला भवन्ति हि ॥ २,५.६२ ॥
केशाश्च सर्वरोमाणि शङ्खवर्णा भवन्ति वै ।
सप्ताहं वज्रदुग्धेन सुश्वेतान् भावयेत्तिलान् ॥ २,५.६३ ॥
तेभ्यस्तैलं गृहीत्वा तल्लेपाच्छुक्ला भवन्ति वै ।
गौर्यामलकचूर्णं तु वज्रीक्षीरेण सप्तधा ॥ २,५.६४ ॥
भावयेत्तेन लेपेन शुक्लतां यान्ति मूर्धजाः ।
सिन्दूरं स्फटिकां श्वेतां जलेन सह लेपयेत् ॥ २,५.६५ ॥
तल्लेपेन तु रोमाणि सुशुक्लानि भवन्ति हि ।
मासैकं मागधीचूर्णं वज्रीक्षीरेण भावयेत् ॥ २,५.६६ ॥
नराश्वगजवाजिनां शुक्लीकरणमुत्तमम् ।
इन्द्रगोपं तैलिनी च तालकं रजनीद्वयम् ॥ २,५.६७ ॥
मनःशिला च तुल्यांशं चूर्णं स्नुक्पयसा त्र्यहम् ।
भावयेदर्कजैः क्षीरैस्त्रिदिनं चातपे खरे ॥ २,५.६८ ॥
ततः कुष्माण्डजैर्द्रावैर्भावयेद्दिनसप्तकम् ।
कूष्माण्डस्य ततो गर्भे क्षिप्त्वा मासात्समुद्धरेत् ॥ २,५.६९ ॥
तैलेन सर्वरोमाणि केशान् संलेपयेत्त्र्यहम् ।
वेष्टयेदर्कजैः पत्त्रैः शुक्लवर्णा भवन्ति च ॥ २,५.७० ॥
स्नाने कृते शुष्ककचेषु रात्रौ लेपे कृते पूर्वदलैस्तु वेष्ट्यम् ।
दध्ना तिलैः स्नानमतः प्रभाते कुर्यात्त्र्यहं लेपनमित्थमेव ॥ २,५.७१ ॥

२, ६
येषां रामा रमणकुशला रागसक्ताः प्रगल्भाः कामासक्ता हरिणनयनाश्चन्द्रबिम्बाननाश्च ।
तेषां वक्ष्ये मदनसुखदां वीर्यवृद्धिं प्रभूतां मत्ताः सिद्धाः शतमपि दृढास्तादृशास्तोषयन्ति ॥ २,६.१ ॥
वज्रहेमार्कसूताभ्रलोहभस्म क्रमोत्तरम् ।
सर्वं कन्याद्रवैर्मर्द्यं शाल्मल्याश्च द्रवैस्त्र्यहम् ॥ २,६.२ ॥
तद्रुद्ध्वा काचकूप्यन्तर्वालुकायां त्र्यहं पचेत् ।
तत्कल्कं मुसलीक्वाथैर्वज्रार्कक्षीरसंयुतैः ॥ २,६.३ ॥
दिनैकं मर्दयेत्खल्वे रुद्ध्वान्तर्भूधरे पुटेत् ।
यामादुद्धृत्य संचूर्ण्यं सिताकृष्णात्रिजातकैः ॥ २,६.४ ॥
समैः समं विमिश्र्याथ माषैकं भक्षयेत्सदा ।
मागधी मुसली यष्टी वानरीबीजकं समम् ॥ २,६.५ ॥
चूर्णं सिताज्यगोक्षीरैः पलार्धं पाययेदनु ।
कामिनीनां सहस्रैकं रममाणो न मुह्यति ।
सेवनाद्दृढकायः स्याद्रसोऽयं मकरध्वजः ॥ २,६.६ ॥
शुद्धसूतं समं गन्धं रक्तोत्पलदलद्रवैः ।
यामं मर्द्यं पुनर्गन्धं सार्धं तत्र विनिक्षिपेत् ॥ २,६.७ ॥
पूर्वद्रावैर्दिनं मर्द्यं रसार्धं गन्धकं पुनः ।
दत्त्वा तद्वद्दिनं मर्द्यं काचकूप्यां निरोधयेत् ॥ २,६.८ ॥
दिनैकं वालुकायन्त्रे पक्वमुद्धृत्य चूर्णयेत् ।
भूकुष्माण्डीकषायेण भावयेद्दिनसप्तकम् ॥ २,६.९ ॥
छायायां तत्सितातुल्यं निष्कैकं भक्षयेत्सदा ।
शणमूलं सबीजं च मुसली शर्करा समम् ॥ २,६.१० ॥
गवां क्षीरैः पलार्धं तु अनु रात्रौ सदा पिबेत् ।
अनन्तं वर्धते वीर्यं रसोऽयं मदनोदयः ॥ २,६.११ ॥
शुद्धसूतसमं गन्धं बदरीचित्रकद्रवैः ।
मर्द्यं चाङ्कोल्लजैर्द्रावैस्तप्तखल्वे दिनत्रयम् ॥ २,६.१२ ॥
सद्यो हताजमांसस्य पिण्डे न्यस्तं च सीवयेत् ।
तत्पिण्डं तिलतैलेन लोहपात्रे शनैः पचेत् ॥ २,६.१३ ॥
यावन्मांसं रक्तवर्णं ततः सूतं समुद्धरेत् ।
त्रिदिनं मुसलीक्वाथैर्भावितं सितया युतम् ॥ २,६.१४ ॥
निष्कैकं भक्षयेन्नित्यं रसोऽयं मदनेश्वरः ।
विदारीकन्दचूर्णं तु क्षीराज्येन पलं पिबेत् ॥ २,६.१५ ॥
रमयेत्स्त्रीशतं नित्यं तत्त्यागादन्धतां व्रजेत् ।
मृताभ्रं पारदं स्वर्णं तुल्यं मर्द्यं दिनत्रयम् ॥ २,६.१६ ॥
मुसलीत्रिफलाक्वाथैर्वाजिगन्धाकषायकैः ।
कदलीकन्दजैर्द्रावैस्तद्गोलं चान्धितं पुटेत् ॥ २,६.१७ ॥
भूधरे दिनमात्रं तु समुद्धृत्याथ मर्दयेत् ।
दिनैकं पूर्वजैर्द्रावैस्तद्वद्रुद्ध्वा पुटे पचेत् ॥ २,६.१८ ॥
पुनर्मर्द्यं पुनः पाच्यमेवमष्टपुटैः पचेत् ।
शाल्मलीजातनिर्यासैस्तुल्यं शर्करया सह ॥ २,६.१९ ॥
खादेन्निष्कद्वयं नित्यं द्रावयेद्वनिताशतम् ।
गोक्षीरैर्मर्कटीबीजं पलार्धं पाययेदनु ॥ २,६.२० ॥
सर्वाङ्गोद्वर्तनं कुर्यात्सयवैः शाल्मलीद्रवैः ।
रसः कामकलाख्योऽयं महावीर्यकरो नृणाम् ॥ २,६.२१ ॥
मृतसूतं त्रयो भागा भागैकं हाटकं मृतम् ।
कदलीकन्दजैर्द्रावैः शाल्मलीजद्रवैर्दिनम् ॥ २,६.२२ ॥
गोक्षीरैश्च दिनं मर्द्यं क्षणैकं पाचयेद्घृतैः ।
तन्मध्ये शर्करां द्राक्षां धात्रीं रम्भाफलं मधु ॥ २,६.२३ ॥
गोक्षीरं मुसलीं माषान् कोकिलाक्षस्य बीजकम् ।
सूताच्चतुर्गुणं क्षिप्त्वा मर्द्यं शाल्मलिजैर्द्रवैः ॥ २,६.२४ ॥
तत्सर्वं दिनमेकं तु कामदेवो रसो भवेत् ।
निष्कमात्रं सदा भक्ष्यं गवां क्षीरं पिबेदनु ॥ २,६.२५ ॥
मैथुने दृढलिङ्गः स्याद्द्रावयेद्वनिताकुलम् ।
प्रारम्भरजसा स्त्रीणां मर्दयेद्भस्मसूतकम् ॥ २,६.२६ ॥
मृतं ताम्रं च तारं च गन्धकं च समं दिनम् ।
सितामध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥ २,६.२७ ॥
रतिकामरसो नाम कामिनीरमणे हितः ।
वानरीमूलगोधूमं कोकिलाक्षस्य बीजकम् ॥ २,६.२८ ॥
माषाश्चेक्षुरसैः सर्वं लोडितं पाचयेद्घृतैः ।
तेनैव वटकाः कार्या नित्यं खादेद्द्वयं द्वयम् ॥ २,६.२९ ॥
अनुपानमिदं सिद्धं सेवनाद्रमयेच्छतम् ।
शुद्धसूतसमं गन्धं त्र्यहं कह्लारजैर्द्रवैः ॥ २,६.३० ॥
मर्दितं चान्धितं पच्याद्यामं वालुकयन्त्रके ।
रक्तागस्त्यद्रवैर्भाव्यं दिनैकं तु सितायुतम् ॥ २,६.३१ ॥
निष्कमात्रं सदा खादेद्रसोऽयं मदवर्धनः ।
अजस्य वृषणं क्षीरे पक्वं तिलसितायुतम् ॥ २,६.३२ ॥
यथेष्टं भक्षयेच्चानु रमयेत्कामिनीशतम् ।
पलद्वयं द्वयं शुद्धं पारदं गन्धकं शुभम् ॥ २,६.३३ ॥
कर्षैकं मारितं स्वर्णं पलैकं मृतताम्रकम् ।
रौप्यभस्म चतुर्निष्कं सर्वं पञ्चामृतैर्दिनम् ॥ २,६.३४ ॥
मर्द्यं रुद्ध्वा दिनं पच्याद्भूधरे तं समुद्धरेत् ।
पिष्ट्वा पञ्चामृतैः खादेद्वटिकां बदराकृतिम् ॥ २,६.३५ ॥
अनङ्गसुन्दरी ख्याता रामाणां रमते शतम् ।
शाल्मलीमूलचूर्णं तु मधुशर्करयान्वितम् ॥ २,६.३६ ॥
पलैकं भक्षयेच्चानु सिताक्षीरं तु पाययेत् ।
शाल्मल्युत्थैर्द्रवैर्मर्द्यः पक्षैकं शुद्धपारदः ॥ २,६.३७ ॥
शुद्धगन्धं त्रिसप्ताहं तद्द्रवैर्मर्दयेत्पृथक् ।
समावेतौ पुनर्मर्द्यौ घृतैर्यामचतुष्टयम् ॥ २,६.३८ ॥
तद्गोलं बन्धयेद्वस्त्रे घृतैर्यामद्वयं पचेत् ।
ततस्तं शाल्मलीद्रावैर्मर्दयेद्दिवसत्रयम् ॥ २,६.३९ ॥
निक्षिपेत्काचकूप्यन्तर्वालुकायन्त्रगं पचेत् ।
क्षिपेच्छाल्मलिजं द्रावं कूप्या गर्भे दिनावधि ॥ २,६.४० ॥
सार्द्रमेव समुद्धृत्य मिश्र्यं तत्सितया समम् ।
निष्कमात्रं सदा खादेद्रसोऽयं कामनायकः ॥ २,६.४१ ॥
मुसलीं ससितां क्षीरैः पलैकां पाययेदनु ।
कामिनीनां सहस्रं तु क्षोभयेन्निमिषान्तरे ॥ २,६.४२ ॥
शुद्धसूतत्रयो भागा भागैकं ताम्रचूर्णकम् ।
कृत्वा पिष्टीं निरुध्याथ रम्भाकन्दोदरे पुनः ॥ २,६.४३ ॥
मृल्लिप्तं शोषितं पच्याद्दिनैकं करीषाग्निना ।
एवं सप्तदिनं पच्यात्कन्दे कन्दे दिनं दिनम् ॥ २,६.४४ ॥
उद्धृत्य बन्धयेद्वस्त्रे दृढे चैव चतुर्गुणे ।
क्षुद्रशम्बूकमांसाक्तछागीरक्तगतं पचेत् ॥ २,६.४५ ॥
दोलायन्त्रे त्र्यहं यावद्देयं रक्तं पुनः पुनः ।
गुडूच्या गजपिप्पल्या कदल्या कोकिलाक्षकैः ॥ २,६.४६ ॥
गोक्षुरीवानरीमूलजातीमूलस्य च द्रवैः ।
पाचयेत्तत्कषायैर्वा दोलायन्त्रे दिनत्रयम् ॥ २,६.४७ ॥
ततः क्षीरे सितायुक्ते तद्वत्पच्याद्दिनावधि ।
उद्धृत्य मुसलीक्वाथैर्मर्द्यं यामचतुष्टयम् ॥ २,६.४८ ॥
रसः पूर्णेन्दुनामायं खादेन्मांसं सितायुतम् ।
गोक्षुरो वानरीबीजं गुडूची गजपिप्पली ॥ २,६.४९ ॥
कोकिलाक्षस्य बीजानि मज्जा कार्पासबीजजा ।
शतावरी च रम्भायाः फलं सर्वं समं भवेत् ॥ २,६.५० ॥
सर्वतुल्या सिता योज्या मधुना लोडितं लिहेत् ।
पलार्धमनुपानं स्यात्ततः पेयं गवां पयः ॥ २,६.५१ ॥
कामिनीनां सहस्रैकं रमते कामदेववत् ।
पद्मबीजं कसेरुं च कन्दं नालं च कर्णिकाम् ॥ २,६.५२ ॥
मुसली भृङ्गराट्द्राक्षा पक्वं श्लेष्मातकं फलम् ।
विजया मर्कटी माषाः शणबीजानि वै तिलाः ॥ २,६.५३ ॥
कोकिलाक्षस्य बीजानि भूकुष्माण्डी शतावरी ।
शृङ्गाटं चिर्भिटं फञ्जीबीजानि चाश्वगन्धिका ॥ २,६.५४ ॥
एतत्सर्वं समं चूर्ण्य पादांशं चाहरेत्पृथक् ।
पादांशस्याष्टमांशेन शुद्धं सूतं विमिश्रयेत् ॥ २,६.५५ ॥
पारदादष्टमांशं च कर्पूरं तत्र निक्षिपेत् ।
चातुर्जातकमेकैकं कर्पूराद्द्विगुणं भवेत् ॥ २,६.५६ ॥
सूततुल्या सिता योज्या मर्द्यं रम्भाद्रवैर्दिनम् ।
तद्गोलं डामरे यन्त्रे क्रमवृद्धाग्निना पचेत् ॥ २,६.५७ ॥
दिनान्ते चोर्ध्वलग्नं तद्ग्राह्यं रम्भाद्रवैर्दृढम् ।
मर्दितं सितया तुल्यं माषैकं भक्षयेत्सदा ॥ २,६.५८ ॥
रसो मदनकामोऽयं बलवीर्यविवर्धनः ।
दिव्यरूपा भजेद्रामाः कामाकुलकलान्विताः ॥ २,६.५९ ॥
भागत्रयं तु यत्पूर्वं पृथक्चूर्णं सुरक्षितम् ।
कुलीरमांसच्छागाण्डचटकाण्डानि वै पृथक् ॥ २,६.६० ॥
प्रत्येकं चूर्णयेत्तुल्यं सर्वतुल्यं गवां पयः ।
तत्सर्वं चालयन् पच्याद्यावत्पिण्डत्वमागतम् ॥ २,६.६१ ॥
प्रसार्य काष्ठपात्रान्तश्छायाशुष्कं विचूर्णयेत् ।
अस्य चूर्णस्य कर्पूरं चतुःषष्ट्यंशकं क्षिपेत् ॥ २,६.६२ ॥
चातुर्जातकचूर्णं तु क्षिपेद्द्वात्रिंशदंशतः ।
सर्वतुल्या सिता योज्या रक्षयेन्नूतने घटे ॥ २,६.६३ ॥
कर्षद्वयं गवां क्षीरैरनुपानैः सदा पिबेत् ।
निषेकं मारितं चाभ्रं खादेच्छर्करया समम् ॥ २,६.६४ ॥
शाल्मलीमूलचूर्णं तु भृङ्गराजस्य मूलकम् ।
पलैकं सितया चानु सेवेत कामिनीशतम् ॥ २,६.६५ ॥
वानरीकोकिलाक्षस्य बीजानि तिलमाषकाः ।
वासागोक्षुरयोर्मूलं सर्वं चूर्णं समं भवेत् ॥ २,६.६६ ॥
चूर्णतुल्यं मृतं चाभ्रं सर्वतुल्या तु शर्करा ।
एतत्कर्षं गवां क्षीरैः पिबेत्कामाङ्गनायकः ॥ २,६.६७ ॥
तैलेन पक्वं चटकं खादेत्पूर्वं तु भोजनात् ।
भोजनान्ते पिबेत्क्षीरं रामाणां रमयेच्छतम् ॥ २,६.६८ ॥
अश्वगन्धाशतावर्योः शाल्मल्याश्चित्रकस्य च ।
मूलं मुसलीजं कन्दं कोकिलाक्षस्य बीजकम् ॥ २,६.६९ ॥
विदारीपद्मिनीकन्दं वानरीबीजकं समम् ।
एतच्चूर्णं मृताभ्रं तु तुल्यं शर्करया समम् ॥ २,६.७० ॥
पलार्धं पाययेत्क्षीरैः खादेत्कुक्कुटमांसकम् ।
क्षीरपानं ततः कृत्वा रमयेत्कामिनीशतम् ॥ २,६.७१ ॥
धात्रीफलस्य चूर्णं तु भावयेत्तत्फलद्रवैः ।
एकविंशतिवारान् वै शोष्यं पेष्यं पुनः पुनः ॥ २,६.७२ ॥
तत्पादांशं मृतं लोहं मध्वाज्यशर्करान्वितम् ।
पलैकं भक्षयेन्नित्यं सिताक्षीरं पिबेदनु ॥ २,६.७३ ॥
धात्रीलोहप्रभावेन रमयेत्कामिनीशतम् ।
पुनर्नवा नागबला वाजिगन्धा शतावरी ॥ २,६.७४ ॥
गोक्षुरं मुसलीकन्दं मृतं सूतं समं समम् ।
चूर्णं मध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥ २,६.७५ ॥
तण्डुलं वानरीबीजं चूर्णयेत्सितया समम् ।
आलोडयेद्गवां क्षीरैस्तेन पच्यादपूपिकाम् ॥ २,६.७६ ॥
तां घृतैर्भक्षयेच्चानु रमयेत्कामिनीकुलम् ।
वानरीबीजचूर्णं तु त्वग्वर्ज्यं माषचूर्णकम् ॥ २,६.७७ ॥
नालिकेरोदकैर्भाव्यं यामान्ते पेषयेत्ततः ।
विंशत्यंशेन पिष्टस्य मृतमभ्रं विमिश्रयेत् ॥ २,६.७८ ॥
घृतैस्तद्वटकं पक्त्वा मध्वाज्याभ्यां तु भक्षयेत् ।
क्षीरं सितां चानुपिबेद्रामाणां रमते शतम् ॥ २,६.७९ ॥
वालुकासम्भवं मत्स्यं सुपक्वं भक्षयेद्घृतैः ।
षण्ढोऽपि जायते कामी वीर्यस्तम्भः प्रजायते ॥ २,६.८० ॥
ऊर्णनाभिं समं क्षौद्रैः पिष्ट्वा नाभिं प्रलेपयेत् ।
मुच्यते बद्धषण्ढोऽपि क्षीरैर्वह्निं पिबेदनु ॥ २,६.८१ ॥
स्वयमग्निरसं चात्र त्रिनिष्कं भक्षयेत्सदा ।
घृताक्ता दलिता माषाः क्षीरेण सह पाचिताः ॥ २,६.८२ ॥
सिताज्यसंयुता भक्ष्या वीर्यवृद्धिकरा ह्यलम् ।
क्षणे क्षणे भजेद्रामां यथा पारावतो ध्रुवम् ॥ २,६.८३ ॥
सम्यङ्मारितमभ्रकं कटुफलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारिमुसलीगोकण्टकेक्षुरकाम् ।
रम्भाकन्दशतावरी ह्यजमोदा माषास्तिला धान्यकं यष्टी नागबला कचोरमदनं जातीफलं सैन्धवम् ॥ २,६.८४ ॥
भार्गीकर्कटशुङ्गिभृङ्गत्रिकटु द्वौ जीरकौ चित्रकं चातुर्जातपुनर्नवागजकणाद्राक्षाशणं वासकः ।
शाल्मल्यङ्घ्रि फलत्रिकं कपिभवं बीजं समं चूर्णयेच्चूर्णांशा विजयासिताद्विगुणिता मध्वाज्यमिश्रंतु तत् ॥ २,६.८५ ॥
कर्षार्धां गुलिकां विलेह्यमथवा कृत्वा सदा सेवयेत्पेया क्षीरसितानु वीर्यकरणे स्तम्भेऽप्यलं कामिनाम् ।
श्यामावश्यकरः समाधिसुखदः सङ्गेऽङ्गनाद्रावकः क्षीणे पुष्टिकरः क्षयक्षयकरो नानामयध्वंसकः ॥ २,६.८६ ॥
कासश्वासमहातिसारशमनो मन्दाग्निसंदीपनो ह्यर्शांसि ग्रहणीप्रमेहनिचयश्लेष्मातिसारप्रणुत् ।
नित्यानन्दकवेर्विशेषकवितावाचाविलासोद्भवं दत्ते सर्वं महास्थिरदशां ध्यानावसाने भृशम् ॥ २,६.८७ ॥
अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरात्सर्वेषां हितकारको निगदितः श्रीनित्यनाथेन वै वृद्धानामपि कामवर्धनकरः प्रौढाङ्गनासंगमे सिद्धोऽयं धनवस्त्वमोघसुखदो भूपैः सदा सेव्यताम् ॥ २,६.८८ ॥
इत्येतदुक्तं बहुवीर्यवर्धनं रात्रौ सदा क्षीरसितासमन्वितम् ।
भुक्तोत्तरं सेवितमाशु कामिनां विदग्धरामाकुलवश्यकारकम् ॥ २,६.८९ ॥

२, ७
वीर्यं स्थिरं योनिमुखेषु येषां स्थूलं दृढं दीर्घतमं च लिङ्गम् ।
तेषां प्रगल्भाः प्रमदाश्च सर्वा भवन्ति तृप्ताः सुरतप्रसङ्गे ॥ २,७.१ ॥
नागवल्लीदलद्रावैः सप्ताहं शुद्धपारदम् ।
मर्दयेत्तप्तखल्वे तु क्षालयेत्काञ्जिकैस्ततः ॥ २,७.२ ॥
तत्क्षिपेद्विषकन्दस्य गर्भे निष्कचतुष्टयम् ।
विषेण तन्मुखं रुद्ध्वा स्थूलवाराहमांसके ॥ २,७.३ ॥
पिण्डं गर्भे निरुध्याथ मुखं सूत्रेण सीवयेत् ।
संध्याकाले बलिं दत्त्वा कुक्कुटं मदिरायुतम् ॥ २,७.४ ॥
ततश्चुल्ल्यां लोहपात्रे तैले धत्तूरसम्भवे ।
तं विंशतिपले पच्यात्सपिण्डं मन्दवह्निना ॥ २,७.५ ॥
संध्यामारभ्य यत्नेन यावत्सूर्योदयं तथा ।
हठाज्जागरणं कुर्यादन्यथा तन्न सिध्यति ॥ २,७.६ ॥
प्रातरुद्धृत्य गुटिकां क्षीरभाण्डे विनिक्षिपेत् ।
तत्क्षीरं शुष्यति क्षिप्रमेतत्प्रत्ययमद्भुतम् ॥ २,७.७ ॥
दृष्ट्वा तां धारयेद्वक्त्रे वीर्यस्तम्भकरीं रतौ ।
क्षीरं पीत्वा रमेद्रामाः कामाकुलकलान्विताः ॥ २,७.८ ॥
मुखाद्धस्तं यदा प्राप्ता तदा वीर्यं पतत्यलम् ।
ब्रह्माण्डगुटिका नाम शोषयन्ती महोदधिम् ॥ २,७.९ ॥
दग्धमङ्कोल्लमूलं तु कर्पूरं कुङ्कुमं तथा ।
रोचना सहदेवी च समं सर्वं प्रपेषयेत् ॥ २,७.१० ॥
विषमुष्टिकतैलेन लिप्तलिङ्गो ह्यनेन वै ।
नरो नारीसहस्रैकं गच्छन्वीर्यं न मुञ्चति ॥ २,७.११ ॥
श्वेतार्कतूलजां वर्तिं कृत्वा सूकरमेदसा ।
यावज्ज्वलति दीपोऽयं तावद्वीर्यं स्थिरं नृणाम् ॥ २,७.१२ ॥
इन्द्रवारुणिकामूलं पुष्ये नग्नः समुद्धरेत् ।
त्र्यूषणैश्च गवां क्षीरैः पिष्ट्वा कुर्याद्वटीं दृढाम् ॥ २,७.१३ ॥
छायाशुष्का स्थिता वक्त्रे वीर्यस्तम्भकरी नृणाम् ।
वरमङ्कोलतैलेन नाभिलेपोऽपि वीर्यधृक् ॥ २,७.१४ ॥
रक्तापामार्गामूलं तु सोमवारेऽभिमन्त्रयेत् ।
भौमे प्राप्तः समुद्धृत्य बन्धेत्कट्यां च वीर्यधृक् ॥ २,७.१५ ॥
चटकानङ्कुलीतैलैः पादाधः संप्रलेपयेत् ।
न मुञ्चति नरो वीर्यं शय्यां पादेन न स्पृशेत् ॥ २,७.१६ ॥
डुण्डुभो नाम यः सर्पः कृष्णवर्णस्तमाहरेत् ।
तस्यास्थि धारयेत्कट्यां नरो वीर्यं न मुञ्चति ॥ २,७.१७ ॥
तन्मुक्ते मुञ्चते वीर्यं सिद्धयोग उदाहृतः ।
सहदेवीयमूलं तु तत्समं पद्मकेसरम् ॥ २,७.१८ ॥
पिष्ट्वा मध्वाज्यसंयुक्तो लेपो नाभौ तु वीर्यधृक् ।
श्वेतस्य कोकिलाक्षस्य बीजं मूलं समाहरेत् ॥ २,७.१९ ॥
पिष्टं तण्डुलसम्भूतं बदरीणां फलं समम् ।
जलैः पिष्ट्वा वटी धार्या वीर्यस्तम्भकरी मुखे ॥ २,७.२० ॥
नागवल्लीपयःपिष्टं लज्जामूलं प्रलेपयेत् ।
तन्नाभौ वीर्यधृक्पुंसां मूलं वा तुलसीभवम् ॥ २,७.२१ ॥
मूलेन श्वेतगुञ्जाया वर्तिं कृत्वा प्रदीपयेत् ।
दीपं सूकरतैलेन वीर्यस्तम्भकरं नृणाम् ॥ २,७.२२ ॥
बीजमीश्वरलिङ्ग्यास्तु सूतं वृश्चिककण्टकम् ।
सर्वं पूगफलस्यान्तः क्षिप्त्वा वेष्ट्यं त्रिलोहकैः ॥ २,७.२३ ॥
जिह्वोपरि स्थिते तस्मिन्नरो वीर्यं न मुञ्चति ।
श्लेष्मातस्य कुरण्टस्य बीजं फञ्ज्याः समाहरेत् ॥ २,७.२४ ॥
अजाक्षीरेण तं पिष्ट्वा कर्षं भुक्त्वा तु वीर्यधृक् ।
सूरणं तुलसीमूलं ताम्बूलैः सह भक्षयेत् ॥ २,७.२५ ॥
न मुञ्चति नरो वीर्यं कर्षैकेन पृथक्पृथक् ।
नखास्थीनि समादाय मार्जारस्य सितस्य वै ॥ २,७.२६ ॥
श्वेतापराजितामूलं नीलीमूलं श्मशानजम् ।
सर्वं बद्ध्वा कटौ वीर्यं चिरकालं न मुञ्चति ॥ २,७.२७ ॥
भूलता सिक्थकं तुल्यं लिम्पेत्तैलैः कुसुम्भजैः ।
पादौ वीर्यधरो भूयात्पद्भ्यां शय्यां न संस्पृशेत् ॥ २,७.२८ ॥
नवनीतेन वा लेप्यं चटकाण्डं च पूर्ववत् ।
इन्द्रवारुणीमूलमुन्मत्ताजस्य मूत्रतः ॥ २,७.२९ ॥
भावयेत्तेन लेपेन नरो वीर्यं न मुञ्चति ।
दाडिमस्य त्वचश्चूर्णं फलं भल्लातकाक्षयोः ॥ २,७.३० ॥
पिष्ट्वा तत्कटुतैलेन लेपः स्यात्पूर्ववत्फलम् ।
कर्पूरं टङ्कणं सूतं मुनिपुष्परसं मधु ॥ २,७.३१ ॥
मर्दयित्वा लिम्पेत्तेन लिङ्गं यावत्समन्ततः ।
जलैः प्रक्षालयेल्लिङ्गं भजेद्रामां यथोचिताम् ॥ २,७.३२ ॥
वीर्यं स्तम्भयते पुंसां याममात्रं न संशयः ।
कृष्णधत्तूरतैलेन पारदं घर्षयेद्दिनम् ॥ २,७.३३ ॥
त्रिलोहैर्वेष्टितं बद्धं तत्कट्यां वीर्यधारकम् ।
स्वर्णं व्योमसत्त्वं तारं ताम्रं च रोचनम् ॥ २,७.३४ ॥
बीजं वै शरपुङ्खायाः कृष्णधत्तूरबीजकम् ।
सर्वं मर्द्यं वटक्षीरैः कुबेराक्षस्य बीजके ॥ २,७.३५ ॥
तत्क्षिप्त्वा धारयेद्वक्त्रे वीर्यस्तम्भकरं चिरम् ।
कृकलासस्य पुच्छाग्रं मुद्रिकाकारतां कृतम् ॥ २,७.३६ ॥
ऊर्णनाभस्य जालेन वेष्टयित्वाथ धारयेत् ।
वामहस्ते कनिष्ठायां नरो वीर्यं न मुञ्चति ॥ २,७.३७ ॥
स्थलमीनं समादाय शुष्कं चूर्णेन लेपयेत् ।
उल्लिप्तं रक्षयेत्किंचिद्वक्त्रे धार्यश्च वीर्यधृक् ॥ २,७.३८ ॥
पश्चिमसमुद्रस्य तटे अमरचण्डेश्वरो नाम देवतायतनं तस्याग्रे वालुकामध्ये स्थलमीनास्तिष्ठन्ति ते च वालुकामीनाः कथ्यन्ते ।
शुद्धसूते विनिक्षिप्य स्वर्णं वा नागमेव वा ।
अष्टमांशेन तत्सर्वं मर्दयेत्तप्तखल्वके ॥ २,७.३९ ॥
शाल्मल्याश्चैव पञ्चाङ्गरसं तत्र विनिक्षिपेत् ।
श्लेष्मान्तस्य फलं पक्वं कोकिलाक्षस्य बीजकम् ॥ २,७.४० ॥
तिलपिण्याकचूर्णं तु दत्त्वा तावद्विमर्दयेत् ।
जलौका जायते यावत्ततः कर्पूरटङ्कणम् ॥ २,७.४१ ॥
कपिकच्छुकरोमाणि वाकुचीतैलकं पटु ।
मागधीं च जलैः पिष्ट्वा तत्सर्वं तप्तखल्वके ॥ २,७.४२ ॥
क्षिपेत्पूर्वजलौकां च त्रिसप्ताहं विमर्दयेत् ।
सा योज्या कामकाले तु नारीणां योनिगह्वरे ॥ २,७.४३ ॥
मददर्पहरा तासां मदविह्वलकारका ।
बाल्ये षडङ्गुला योज्या यौवने सा नवाङ्गुला ॥ २,७.४४ ॥
द्वादशाङ्गुलिका योज्या प्रगल्भानां जलौकिका ।
यो वा तां धारयेन्मूर्ध्नि वीर्यं तस्य स्थिरं भवेत् ॥ २,७.४५ ॥
पारदादष्टमांशेन सुवर्णं नागमेव वा ।
योजयेत्तप्तखल्वे तु शाल्मलीत्वङ्निजद्रवैः ॥ २,७.४६ ॥
मुनिपत्त्ररसैर्नीलीमूलद्रावैश्च मर्दयेत् ।
श्लेष्मातकफलं पक्वं कोकिलाक्षस्य बीजकम् ॥ २,७.४७ ॥
मज्जा सुपक्वा बिल्वस्य क्षिपेत्तत्रैव मर्दयेत् ।
जलौका जायते यावत्ततस्तस्मात्समुद्धरेत् ॥ २,७.४८ ॥
त्रिसप्ताहं तप्तखल्वे कर्पूराद्यैश्च पूर्ववत् ।
मर्दयेच्च फलं तद्वज्जायते नात्र संशयः ॥ २,७.४९ ॥
रसादष्टमभागं तु सुवर्णं नागमेव वा ।
योज्यं च त्रिफला भृङ्गी शुण्ठी छागपयो घृतम् ॥ २,७.५० ॥
क्षौद्रं गोमूत्रकं चैव सर्वं सप्तदिनावधि ।
मर्दयेत्तदवच्छिन्नं जलौका यावता भवेत् ॥ २,७.५१ ॥
कर्पूराद्यैः पुनर्मर्द्यं तप्तखल्वे तु पूर्ववत् ।
पूर्ववज्जायते सिद्धिस्तद्वद्योगे न संशयः ॥ २,७.५२ ॥
त्रिदिनं मर्दयेत्खल्वे सूतं निष्कचतुष्टयम् ।
त्रिफलायास्तु निर्यासं स्तोकं स्तोकं विनिक्षिपेत् ॥ २,७.५३ ॥
पयश्चैव महाशृङ्ग्या दातव्यं मर्दनक्षमम् ।
जलौका मर्दनाख्येयं जायते सुखदा नृणाम् ॥ २,७.५४ ॥
रामाणां मदमत्तानां द्राविकाग्नौ घृतं यथा ।
पूर्ववत्क्रमयोगेन वीर्यस्तम्भकरी भवेत् ॥ २,७.५५ ॥
पारदं मरिचं कुष्ठं तगरं कण्टकारिका ।
अश्वगन्धातिलक्षौद्रसैन्धवश्वेतसर्षपाः ॥ २,७.५६ ॥
अपामार्गो यवा माषाः पिप्पली च समं जलैः ।
पिष्ट्वा विमर्दयेत्तेन लिङ्गं मासमहर्निशम् ॥ २,७.५७ ॥
वर्धते हस्तमात्रं तत्स्थौल्येन मुसलोपमम् ।
वराहवसया क्षौद्रैर्लिङ्गं मासं विलेपयेत् ॥ २,७.५८ ॥
अतिदीर्घं दृढं स्थूलं जायते नात्र संशयः ।
अश्वगन्धा वचा कुष्ठं बृहती च शतावरी ॥ २,७.५९ ॥
पाचयेत्तिलतैलेन मर्दयेत्तेन पूर्ववत् ।
लिङ्गं स्थूलं दृढं दीर्घं मासमात्रात्प्रजायते ॥ २,७.६० ॥
जम्बूसूकरजं तैलं महाराष्ट्री च टङ्कणम् ।
मधुना सह लेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥ २,७.६१ ॥
मिश्रितं मुसलीचूर्णं माहिषैर्नवनीतकैः ।
तद्भाण्डं धान्यराशौ च स्थितं सप्तदिनैर्हरेत् ॥ २,७.६२ ॥
तेन प्रलेपयेल्लिङ्गं वर्धते मासमात्रतः ।
पिप्पली मरिचं क्षीरं सिता तुल्यं विमर्दयेत् ॥ २,७.६३ ॥
मासैकं वृद्धिकृल्लिङ्गे नात्र कार्या विचारणा ।
माहिषं गोघृतं तुल्यं सैन्धवं च समं समम् ॥ २,७.६४ ॥
अनेन लेपयेल्लिङ्गं स्थूलं स्यान्मासमात्रतः ।
अश्वगन्धापमार्गौ च सारिवाक्षफलं तिलाः ॥ २,७.६५ ॥
सर्षपेन्द्रयवं तुल्यमजाक्षीरेण पेषयेत् ।
तेन लिङ्गं तु मासैकं मर्दनाद्वृद्धिमाप्नुयात् ॥ २,७.६६ ॥
मांसीमक्षफलं कुष्ठमश्वगन्धां शतावरीम् ।
तैले पक्त्वा प्रलेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥ २,७.६७ ॥
रोहीतमत्स्यजं पित्तं जलौका लाङ्गली समम् ।
अनेन लेपयेल्लिङ्गं स्यान्मासान्मुसलोपमम् ।
निशा सिताश्वगन्धा च पारदं मर्दयेत्समम् ।
अनेन मर्दयेल्लिङ्गं योनिकर्णस्तनांस्तथा ।
वर्धन्ते मासमात्रेण नात्र कार्या विचारणा ॥ २,७.६८ ॥
ओं नमो भगवते उड्डामरेश्वराय सर प्रसर २ कुरु ठ ठः ।
अनेन मन्त्रेण सर्वे वर्धनयोगाः सप्ताभिमन्त्रिताः सिद्धा भवन्ति ।
जाम्बूमार्जारयोः पित्तं यवागूमर्दितं दिहेत् ।
मासैकाद्वर्धते लिङ्गं स्तनौ कर्णौ च मर्दनात् ॥ २,७.६९ ॥
ओं नमो भगवते उड्डामरेश्वराय सर प्रसर प्रसर निकल निकल निकालय निकालय स्वाहा ठः ठः ॥ २,७.७० ॥
गृहगोधा शुनो जिह्वा स्त्रीजरायुः समं समम् ।
पिष्ट्वा धार्यं ताम्रपात्रे सप्ताहात्तं पुनः पचेत् ॥ २,७.७१ ॥
तिलतैलेन तत्तैलमर्दनाद्वर्धते खलु ।
लिङ्गं स्तनौ च कर्णौ च हस्तौ पादौ न संशयः ।
ओं नमो भगवते उड्डामरेश्वराय सर सर हिलि हिलि स्वाहा ठः ठः ।
अतितरसुखसाध्यैर्योगराजैः प्रसिद्धैः सततसुरतयोग्यं स्तम्भनं वर्धनं च ।
निपुणरसिकरामारञ्जकं मोहकं स्याद्गदितमिह समस्तं भोगिनां सौख्यहेतुः ॥ २,७.७२ ॥

२, ८
श्रीशैले देहसिद्धिः प्रभवति सहसा वृक्षमृत्कन्दतोयैस्तच्छास्त्रं शम्भुनोक्तं प्रगहनमखिलं वीक्षितं यत्तु सारम् ।
व्याहृत्यानेकयुक्त्या सकलसुखकरं दृष्टसिद्धं तु यद्यत्तद्वक्ष्ये साधकानामनुभवपथगं भुक्तये मुक्तये च ॥ २,८.१ ॥
{Fएल्स्मित्गुग्गुलु बेइ ंल्लिकार्जुन}
मल्लिकार्जुनदेवस्य पुरतो गजसंनिभा ।
शिला तिष्ठति या रात्रौ स्रवते गुग्गुलुं सदा ॥ २,८.२ ॥
पालाशचाटुना ग्राह्यं क्षिपेदलाबुपात्रके ।
तद्गुग्गुलुसमं गन्धं निष्कैकं भक्षयेत्सदा ॥ २,८.३ ॥
मासान्मृत्युजरां हन्ति जीवेदाचन्द्रतारकम् ।
तद्गुग्गुलुं द्रुते ताम्रे कोटिभागेन योजयेत् ॥ २,८.४ ॥
तद्भवेत्कनकं दिव्यं जाम्बूनदसमप्रभम् ।
{ङ्लोच्के बेइ ङ्हण्टासिद्धेश्वर}
वामतो मल्लिनाथस्य घण्टासिद्धेश्वरः स्थितः ॥ २,८.५ ॥
तद्द्वारे विद्यते कुण्डं तत्र घण्टा विलम्बते ।
रात्रौ कृष्णचतुर्दश्यां सोपवासैस्त्रिभिर्जनैः ॥ २,८.६ ॥
कर्तव्यं साधनं तत्र निर्विकल्पैरनिद्रितैः ।
एकस्तु स्नापयेद्देवं जलमेकस्तु वाहयेत् ॥ २,८.७ ॥
एकस्तु वादयेद्घण्टामविच्छिन्नं निशावधि ।
ततस्तुष्टो भवेच्छम्भुः खेचरत्वं प्रयच्छति ॥ २,८.८ ॥
घण्टासिद्धेश्वरस्यैव दक्षिणे क्रोशमात्रके ।
निखनेद्दृश्यते तत्र मृद्गोरोचनसंनिभा ॥ २,८.९ ॥
सिताक्षीरैः पिबेत्कर्षं सप्ताहादमरो भवेत् ।
{चन्द्रोदक इम् ॡ वोन् ंल्लिनाथ}
चन्द्रोदकं प्रसिद्धं वै मल्लिनाथस्य पश्चिमे ॥ २,८.१० ॥
स्थितं वैशाखमासे तु पूर्णमास्यां सुसाधयेत् ।
साधको निर्विकल्पेन स्थित्वा तस्य समीपतः ॥ २,८.११ ॥
रात्रौ जपं प्रकुर्वाणस्तत्तोयं चार्धरात्रके ।
स्प्रष्टुं चन्द्रो यदा गच्छेत्तदा क्षिप्रं कराञ्जलिम् ॥ २,८.१२ ॥
कृत्वा तिष्ठेद्यदा याति तज्जलं तत्क्षणात्पिबेत् ।
वज्रकायो भवेद्वीरो जीवेदाचन्द्रतारकम् ॥ २,८.१३ ॥
{टमरिन्देन्बौमिम् Oस्तेन् वोन् श्रीशैल}
श्रीशैलपूर्वद्वारे तु देवोऽस्ति त्रिपुरान्तकः ।
देवस्योत्तरदिग्भागे चिञ्चावृक्षः समीपतः ॥ २,८.१४ ॥
विद्यते तस्य मूले तु भैरवो दृश्यते स्वयम् ।
तस्याग्रे निखनेद्भूमिं पुरुषस्य प्रमाणतः ॥ २,८.१५ ॥
दृश्यते तप्तकुण्डं तु नीलवर्णजलान्वितम् ।
चिञ्चावृक्षस्य पत्त्राणि सम्यग्वस्त्रेण बन्धयेत् ॥ २,८.१६ ॥
तस्मिन् कुण्डे विनिक्षिप्य तानि मीना भवन्ति वै ।
संगृह्य तस्य काष्ठेन पचेत्तेषां विवर्जयेत् ॥ २,८.१७ ॥
कण्टकानि शिरः पुच्छं शेषं भक्षेत साधकः ।
क्षणं मूर्छा भवेत्तेन प्रबुद्धो जायते स्वयम् ॥ २,८.१८ ॥
छिद्रं पश्यति मेदिन्यां जीवेद्वर्षायुतं नरः ।
त्रिपुरान्तकदेवस्य पश्चिमे गव्यूतिद्वये ॥ २,८.१९ ॥
मणिपल्लिरिति ग्रामस्तस्य पश्चिमतो गिरिः ।
तस्य पश्चिमदिग्भागे कपाटं दृश्यते शुभम् ॥ २,८.२० ॥
पूर्वाभिमुखः प्रविशेत्ततो गच्छेच्च दक्षिणम् ।
दशधन्वन्तरं यावद्दृश्यन्ते ज्वलनप्रभाः ॥ २,८.२१ ॥
आम्राकाराः सुपाषाणा ग्राह्या वस्त्रेण बन्धयेत् ।
रक्तवर्णं भवेद्वस्त्रं क्षीरमध्ये क्षिपेत्ततः ॥ २,८.२२ ॥
तत्क्षीरं जायते रक्तं तत्क्षीरं साधकः पिबेत् ।
सप्ताहाद्वज्रकायः स्याज्जीवेच्चन्द्रार्कतारकम् ॥ २,८.२३ ॥
त्रिपुरान्तकदेवस्य उत्तरे कोकिलाबिलम् ।
विख्यातं सर्वलोकेषु कृत्वा वमनरेचनम् ॥ २,८.२४ ॥
साधकः प्रविशेत्तत्र दशधन्वन्तरावधि ।
पाषाणाः कोकिलाकारास्तिष्ठन्ति तांस्तु चाहरेत् ॥ २,८.२५ ॥
तेषां पृष्ठे तिलाः क्षिप्ताः स्फुटन्त्येव हि तत्क्षणात् ।
इत्येवं प्रत्ययं दृष्ट्वा तांश्च घृष्ट्वा परस्परम् ॥ २,८.२६ ॥
क्षीरमध्ये क्षिपेत्तान् वै क्षीरं कृष्णं प्रजायते ।
आकण्ठान्तं पिबेत्तत्तु दिव्यकाव्यो भवेन्नरः ॥ २,८.२७ ॥
वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् ।
छिद्रं पश्यति मेदिन्यां वायुवेगो महाबलः ॥ २,८.२८ ॥
त्रिपुरान्तकदेवस्य पूर्वदिग्योजनान्तरे ।
देवः स्वर्गपुरी नाम विद्यते तत्र वै खनेत् ॥ २,८.२९ ॥
देवाग्रे भूमिकां जानुमात्रां तत्र फला इव ।
निर्गच्छन्ति तु पाषाणाः खरस्पर्शा भवन्ति वै ॥ २,८.३० ॥
त्रिपुरान्तकदेवस्य पश्चिमे योजनार्धके ।
विद्यते हि बिलद्वारं तन्मध्ये धनुषां त्रयम् ॥ २,८.३१ ॥
गच्छेत्खर्जूरवृक्षो वै दृश्यते कृष्णवर्णकः ।
तत्फलानां रसं पीत्वा मूर्छा संजायते क्षणम् ॥ २,८.३२ ॥
ततः संजायते सिद्धो जीवेच्चन्द्रार्कतारकम् ।
श्रीशैले दक्षिणे द्वारे जालेश्वरसुरेश्वरौ ॥ २,८.३३ ॥
देवौ प्रसिद्धौ विद्येते निखनेत्तत्र भूमिकाम् ।
पाषाणाः श्रीफलाकारा निर्यान्ति स्पर्शभेदकाः ॥ २,८.३४ ॥
देवो रामेश्वरस्तत्र विद्यते तस्य संनिधौ ।
रुद्राक्षाकारपाषाणाः खरस्पर्शा भवन्ति ते ॥ २,८.३५ ॥
ज्योतिःसिद्धवटे वृक्षे एकपादेन तिष्ठति ।
आवर्तदेवको नाम तत्समीपे तु पश्चिमे ॥ २,८.३६ ॥
विद्यते पर्वतस्तत्र पाषाणास्तालकोपमाः ।
आदाय तान् धमेत्तीव्रं दिव्यं भवति काञ्चनम् ॥ २,८.३७ ॥
तत्रैव दक्षिणद्वारे देवः स्यात्कुण्डलेश्वरः ।
तत्समीपे खनेद्भूमिं जानुमात्रां ततो हरेत् ॥ २,८.३८ ॥
पाषाणाः श्रीफलाकारा रक्ताश्च स्पर्शवेधकाः ।
पुरुषेश्वरदेवस्य कुण्डमस्ति समीपतः ॥ २,८.३९ ॥
गुञ्जा च रिठ्ठकश्चैव द्वौ वृक्षौ तत्र तिष्ठतः ।
तयोः पत्त्राणि संभक्ष्य तत्क्षणादमरो भवेत् ॥ २,८.४० ॥
तथा हस्तिशिला तत्र तस्या दक्षिणतः खनेत् ।
हस्तमात्रं ततः पश्येज्जम्बूफलसमाकृतिः ॥ २,८.४१ ॥
शिला तत्र समाख्याता स्पर्शग्राह्या प्रयत्नतः ।
नाम्ना हस्तिशिरः ख्यातं सैव हस्तिशिला भवेत् ॥ २,८.४२ ॥
तस्या दक्षिणदिग्भागे योजनैकेन तिष्ठति ।
छायाछत्त्रं प्रसिद्धं तच्छिवरूपं शिवोदितम् ॥ २,८.४३ ॥
शतहस्तप्रमाणं तु तत्क्षेत्रं परिवर्तुलम् ।
योऽसौ गच्छति तस्याधो नासौ केनापि दृश्यते ॥ २,८.४४ ॥
रुद्रतुल्यो भवेत्सिद्धः क्रीडते भुवनत्रये ।
अथवा साधयेद्दूरात्ख्यातं सिद्ध्यष्टकं तु यत् ॥ २,८.४५ ॥
कान्ताभ्रं काञ्चनं सूतं मर्द्यं क्रमगुणोत्तरम् ।
तद्गोलं वेष्टयेल्लोहैस्त्रिभिर्यत्नात्क्रमेण वै ॥ २,८.४६ ॥
वस्त्रे बद्ध्वा तु तद्वस्त्रं वंशाग्रे बन्धयेद्दृढम् ।
मन्त्रयेत्कालीमन्त्रेण छायाछत्त्रे निवेशयेत् ॥ २,८.४७ ॥
तद्वंशाग्रं क्षणैकेन जायते गुटिका तु ताम् ।
साधको धारयेद्वक्त्रे खेचरत्वप्रदायिकाम् ॥ २,८.४८ ॥
तालकं कुनटीं तद्वद्वंशे बद्ध्वा निवेशयेत् ।
ताभ्यामञ्जितनेत्रो यो निधिं पश्यति भूगतम् ॥ २,८.४९ ॥
वंशे बद्ध्वा क्षिपेत्खड्गं पूर्वमन्त्रेण मन्त्रितम् ।
तत्खड्गं धारयेद्धस्ते त्रैलोक्यविजयी भवेत् ॥ २,८.५० ॥
वस्त्रे गोरोचनं बद्ध्वा वंशस्थं तत्र वेशयेत् ।
तेनैव तिलकं कुर्याद्दृष्ट्वा मोहयते जगत् ॥ २,८.५१ ॥
स्रोतोञ्जनं कज्जलं च क्षिप्त्वा तत्रैव पूर्ववत् ।
तेन चाञ्जितनेत्रो यो देवैरपि न दृश्यते ॥ २,८.५२ ॥
पादुकां तेन योगेन क्षिप्त्वा पद्भ्यां तु धारयेत् ।
यत्रेच्छा तत्र तत्रैव गन्ता भवति तत्क्षणात् ॥ २,८.५३ ॥
तद्वद्रक्तपटं तत्र क्षिप्त्वा संवेष्ट्य साधकः ।
अदृश्यो जायते सम्यक्पटे मुक्ते तु दृश्यते ॥ २,८.५४ ॥
कान्ताभ्रं काञ्चनं सूतं कृत्वा गोलं तु वेशयेत् ।
वंशाग्रस्थं मन्त्रयुक्तं स्पर्शवेधी भवेत्तु तत् ॥ २,८.५५ ॥
श्रीशैले पश्चिमे द्वारे नाम्ना ब्रह्मेश्वरेश्वरः ।
तल्लिङ्गं स्पर्शमित्याहुर्दुर्गा तत्रैव तादृशी ॥ २,८.५६ ॥
नवमं यत्तु सोपानं नद्यां तत्तादृशं स्थितम् ।
देवस्य तिष्ठति द्वारे मुद्गवर्णं विलोकयेत् ॥ २,८.५७ ॥
ब्रह्मेश्वरस्य नैरृत्ये संस्थितं तिन्तिणीवनम् ।
तस्मिन् वने स्थितं कुण्डं तत्र तिष्ठति चण्डिका ॥ २,८.५८ ॥
एकपादेन चिञ्चाधस्तद्वृक्षात्पत्त्रमाहरेत् ।
बद्ध्वा वस्त्रे क्षिपेत्कुण्डे स्नानं तत्र समाचरेत् ॥ २,८.५९ ॥
स्नानान्ते पोटली ग्राह्या सर्वे मत्स्या भवन्ति ते ।
तत्काष्ठैः पाचयेत्तानि कण्ठं पुच्छं शिरस्त्यजेत् ॥ २,८.६० ॥
भागं देवाय संकल्प्य द्वितीयमतिथेर्भवेत् ।
तृतीयं साधको भुक्त्वा क्षणं भवति मूर्छितः ॥ २,८.६१ ॥
तत्क्षणाज्जायते सिद्धश्छिद्रां पश्यति मेदिनीम् ।
अजरामरतां याति न बाध्यस्त्रिदशैरपि ॥ २,८.६२ ॥
अलम्पुरोत्तरे भागे ग्रामः स्याद्भीमपादुकः ।
तस्य ग्रामस्य पार्श्वे तु हस्तमात्रं खनेद्भुवम् ॥ २,८.६३ ॥
पाषाणाः सर्पवद्वक्रा ग्राह्याः स्पर्शा भवन्ति ते ।
योगेश्वरीति विख्याता देवता या त्वलम्पुरे ॥ २,८.६४ ॥
देव्या ह्यग्रे गुहा रम्या तन्मध्ये निखनेद्भुवम् ।
पाषाणा भेकसंकाशा ग्राह्या मार्जारविष्ठया ॥ २,८.६५ ॥
मिश्रीकृत्य क्षिपेद्वङ्गे तद्वङ्गं तारतां व्रजेत् ।
मध्वाज्यसहितान् भक्षेत्पाषाणांस्तान्विचक्षणः ॥ २,८.६६ ॥
श्रीशैलस्योत्तरद्वारे महेशो नाम देवता ।
भ्रमराम्रः स्थितस्तत्र तस्य पक्वफलानि वै ॥ २,८.६७ ॥
स्फोटयेत्तत्र निर्यान्ति भ्रमरा जीवसंयुताः ।
इत्येवं प्रत्ययं ज्ञात्वा भ्रमरांस्तान् परित्यजेत् ॥ २,८.६८ ॥
फलानि पाचयेत्क्षीरैः पिबेत्क्षीरं यथेष्टकम् ।
किंचिन्मूर्छा भवेत्तेन ततो बोधे पिबेत्पुनः ॥ २,८.६९ ॥
एवं कुर्यात्त्रिसप्ताहं वज्रकायो भवेन्नरः ।
वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥ २,८.७० ॥
सर्ववाङ्मयवेत्ता च वायुवेगी भवेन्नरः ।
तेनैवाम्रफलैकेन वर्जितभ्रमरेण च ।
सहस्रपलवङ्गं तु द्रावितं स्तम्भयेद्ध्रुवम् ॥ २,८.७१ ॥
क्षेपात्तारमवाप्नोति सत्यमीश्वरभाषितम् ।
तत्फलं छिद्रितं कृत्वा उत्पात्य भ्रमरं ततः ॥ २,८.७२ ॥
शुद्धपारदकर्षैकं तत्तुल्यं कृष्णमभ्रकम् ।
क्षिप्त्वा तस्मिन्मुखं रुद्ध्वा लिम्पेन्मृद्गोमयेन च ॥ २,८.७३ ॥
छायाशुष्कं तदाम्रोत्थैः क्वाथैर्यामं विपाचयेत् ।
स्वभावशीतला ग्राह्या गुटिका फलमध्यगा ॥ २,८.७४ ॥
मुखस्था खेचरं दत्ते अदृश्यत्वं महाबला ।
क्वाथे वाक्पतितुल्यः स्याज्जीवेदाचन्द्रतारकम् ॥ २,८.७५ ॥
तारं ताम्रं भुजंगं वा कोटिभागेन वेधयेत् ।
कृष्णाभ्रं शुद्धसूतं च पूर्ववत्तत्फले क्षिपेत् ॥ २,८.७६ ॥
लिम्पेन्मृद्गोमयैस्तद्वदारण्योत्पलकैः पुटेत् ।
स्वभावशीतलं ग्राह्यं तद्रसं मधुसर्पिषा ॥ २,८.७७ ॥
गुञ्जामात्रं सदा खादेन्मासाद्बालो भवेन्नरः ।
जीवेद्ब्रह्मदिनं वीरो नवनागबलान्वितः ॥ २,८.७८ ॥
विद्यते लोकविख्यातः पूज्यः पञ्चोपचारकैः ।
ओं हुं फट्कारमन्त्रेण निर्विकल्पेन साधकैः ॥ २,८.७९ ॥
वीक्ष्य पश्चिमदिग्भागे ह्यन्तरिक्षे च तत्क्षणात् ।
पश्येद्दिव्यविमानानि जायते प्रत्ययो महान् ॥ २,८.८० ॥
ततः पश्चिमदिग्भागे गच्छेन्नदीं तरेत्सुधीः ।
गह्वरं दृश्यते तत्र प्रविशेत्पश्चिममुखम् ॥ २,८.८१ ॥
योजनत्रितयं गच्छेदेकाकी निर्विकल्पकः ।
पञ्चयोजनविस्तीर्णं दृश्यते कदलीवनम् ॥ २,८.८२ ॥
तस्य मध्येऽतिविस्तीर्णं जलपूर्णं सरोवरम् ।
सिंहासनं तु तन्मध्ये शुद्धस्फटिकसंनिभम् ॥ २,८.८३ ॥
तं दृष्ट्वा दण्डवद्भूमौ निपतेन्मन्त्रमुच्चरेत् ।
ओं ह्रीं विद्यावागीश्वराधिपतये ह्रीमों स्वाहा ।
स्नानं कृत्वा प्रयत्नेन लक्षमेकं जपेदनु ।
यथेष्टं भोजनं कृत्वा कन्दमूलफलादिकम् ॥ २,८.८४ ॥
ततः सिंहासनस्योर्ध्वं शुद्धस्फटिकसंनिभः ।
चतुर्भुजस्त्रिनेत्रश्च दृश्यते परमेश्वरः ॥ २,८.८५ ॥
स्तोत्रमन्त्रैर्नमस्कारैः प्रणिपत्य पुनः पुनः ।
वरं दत्ते यथेष्टं वै साधकस्य न संशयः ॥ २,८.८६ ॥
शतमायतनं तत्र कूपानां च शतं नव ।
तावत्संख्यास्तथारामा नन्दनाख्यवनानि च ॥ २,८.८७ ॥
तथा नवशतं वाप्यो विद्यन्ते कदलीवने ।
बिलद्वाराणि तावन्ति कल्पवृक्षास्तथैव च ॥ २,८.८८ ॥
तत्रैव मौकली नाम यक्षिणी प्रकटा स्थिता ।
सा वक्ति भोजनं देहि यदीच्छसि समीहितम् ॥ २,८.८९ ॥
ततस्तस्य प्रवक्तव्यं दास्यामि परमेश्वरि ।
क्षीरान्नं वा फलाहारं तदग्रे दापयेत्सुधीः ॥ २,८.९० ॥
सा वक्ति मम पुत्रोऽयं क्षणं वक्षसि धारय ।
यदा न मुञ्चसे भूमौ तदा सिद्ध्यष्टकं तव ॥ २,८.९१ ॥
दास्येऽहं नात्र संदेहो भोजनान्तेऽथवा पुनः ।
त्यक्ते करोमि संहारं तस्माद्यत्नेन रक्षय ॥ २,८.९२ ॥
इत्येवं साधको वीरः कुर्यात्सिद्धिमवाप्नुयात् ।
गच्छेदुत्तरदिग्भागे तत्सरो योजनार्धकम् ॥ २,८.९३ ॥
तत्रास्ति पुष्पसम्पूर्णं दिव्याख्यं नन्दनं वनम् ।
पुष्पाणां घ्राणमात्रेण क्षुत्पिपासा न विद्यते ॥ २,८.९४ ॥
अथवा भक्षयेत्तस्मात्फलमेकं यथाचितम् ।
तेन भक्षितमात्रेण वज्रकायो भवेन्नरः ॥ २,८.९५ ॥
सरो दक्षिणदिग्भागं गच्छेद्योजनपादकम् ।
तत्र दाडिमसम्पूर्णं दृश्यते नन्दनं वनम् ॥ २,८.९६ ॥
तत्फलं भक्षयेत्सिद्धो जीवेद्युगसहस्रकम् ।
तत्सरःपूर्वदिग्भागे गच्छेत्क्रोशार्धमात्रकम् ॥ २,८.९७ ॥
तत्र धात्रीफलैः पूर्णं श्यामलं नन्दनं वनम् ।
फलानि भक्षयेत्तानि जीवेत्कल्पशतत्रयम् ॥ २,८.९८ ॥
तत्सरःपश्चिमभागे गच्छेद्योजनमात्रकम् ।
तत्र बिल्वफलैः पूर्णं दृश्यते नन्दनं वनम् ॥ २,८.९९ ॥
तत्फलं भक्षयेद्वीरो जीवेच्चन्द्रार्कतारकम् ।
तन्नन्दनवने रम्ये लिङ्गं स्यान्नीलवर्णकम् ॥ २,८.१०० ॥
प्रविशेदुत्तरद्वारे तत्र नागो महाबलः ।
उग्रः सप्तफणाकारो दृश्यतेऽतिभयंकरः ॥ २,८.१०१ ॥
तस्य कुर्यान्नमस्कारं ह्रुं ह्रुं कुर्यात्समुद्धरेत् ।
तदासौ वदते वाणीमदृश्यत्वं ददामि ते ॥ २,८.१०२ ॥
गच्छ त्वं पश्चिमद्वारे तत्रास्ति दिव्यकन्यका ।
गच्छेत्तत्र महावीरः साधको मन्त्रमुच्चरन् ॥ २,८.१०३ ॥
हारं दास्यति सा तुष्टा न प्रवेशं प्रयच्छति ।
तं हारं धारयेत्कण्ठे साक्षाद्वागीश्वरो भवेत् ॥ २,८.१०४ ॥
ततस्तु दक्षिणं द्वारं गच्छेत्तत्र भयंकरम् ।
मुक्तकेशं वक्रनेत्रं गदाहस्तं दिगम्बरम् ॥ २,८.१०५ ॥
नीलवर्णं क्षेत्रपालं दृष्ट्वा मन्त्रं समुच्चरेत् ।
ह हा हे हे हं ह्रुंकारं फठुं स्वाहान्तमेव च ॥ २,८.१०६ ॥
अनेन मन्त्रपाठेन क्षेत्रपालः प्रसीदति ।
ददाति खेचरीं सिद्धिं न प्रवेशं कदाचन ॥ २,८.१०७ ॥

ततस्तु पूर्वदिग्भागे द्वारं तत्र गणेश्वरः ।
दृश्यते पूजयेत्तं वै साधकः प्रविशेत्ततः ॥ २,८.१०८ ॥
दृश्यते दिव्यचापं तु तथा लिङ्गं मनोहरम् ।
पूजयेच्छिवमन्त्रेण रकारेणैव नान्यथा ॥ २,८.१०९ ॥
ततस्तत्र जपं कुर्यादहोरात्रमुपोषितः ।
प्रत्यक्षो जायते रुद्रो वरं दत्ते यथेप्सितम् ॥ २,८.११० ॥
इत्येवमादयः सन्ति सिद्धयः कदलीवने ।
अक्षरैर्लिखितं द्वारे तत्र पद्मावतीबिलम् ॥ २,८.१११ ॥
सरसः पूर्वदिग्भागे योजनैकेन तिष्ठति ।
वमनं रेचनं कृत्वा प्रविशेत्तत्र साधकः ॥ २,८.११२ ॥
धन्वन्तरं शतं यावद्गच्छेत्तत्र मृदङ्गम् ।
दृष्ट्वा तं वादयेद्वीरः सम्यक्पद्मावती ततः ॥ २,८.११३ ॥
आगत्य चामृतं दत्ते यत्पानादमरो भवेत् ।
ततस्तं प्रार्थयत्येव आगच्छ मम मन्दिरम् ॥ २,८.११४ ॥
दिव्यं कन्यापञ्चशतं परिवारेण स्वीकुरु ।
अहं पत्नी भविष्यामि यावद्ब्रह्मा च जीवति ॥ २,८.११५ ॥
तदन्ते परमं स्थानं गच्छामो नात्र संशयः ।
कदम्बेश्वरदेवस्तु आग्नेय्यां दिशि विद्यते ॥ २,८.११६ ॥
तस्य पूर्वतटाकाग्रे स्थितो वृक्षः कदम्बकः ।
तस्य पत्त्राणि संगृह्य कटुतैलेन लेपयेत् ॥ २,८.११७ ॥
तद्वृक्षबीजतैलैर्वा तत्काष्ठैः पाचयेत्सुधीः ।
मत्स्या भवन्ति ते सर्वे ताम्रपात्रे विनिक्षिपेत् ॥ २,८.११८ ॥
कण्ठपुच्छशिरोवर्जं मध्वाज्याभ्यां तु भक्षयेत् ।
तत्क्षणाज्जायते सिद्धो रुद्रतुल्यो महाबलः ॥ २,८.११९ ॥
नदीस्थाने च यो वृक्षो विद्यते कुण्डलेश्वरे ।
पूर्ववत्क्रमयोगेन सिद्धिः स्यान्नात्र संशयः ॥ २,८.१२० ॥
कपोतेश्वरदेवस्योत्तरे पुष्पगिरिः स्थितः ।
तस्य कुर्यात्प्रयत्नेन त्रिवारं तु प्रदक्षिणम् ॥ २,८.१२१ ॥
ततः शिरः समारुह्य खेचरत्वं लभेन्नरः ।
तत्पूर्वोत्तरदिग्भागे छेलिकाद्वारस्थितम् ॥ २,८.१२२ ॥
उत्तराभिमुखं तत्र प्रविशेद्धनुषां त्रयम् ।
मूषिकाकारपाषाणास्तिष्ठन्ति तान् समाहरेत् ॥ २,८.१२३ ॥
तक्रैः पिष्ट्वा तदेकं तु पिबेन्मूर्छामवाप्नुयात् ।
क्षणादुत्तिष्ठते सिद्धो जीवेद्ब्रह्मदिनत्रयम् ॥ २,८.१२४ ॥
स एव सर्वलोहानां स्पर्शवेधकरो भवेत् ।
अहोरात्रोषितो भूत्वा देवाग्रे सिद्धिमाप्नुयात् ॥ २,८.१२५ ॥
कपोतेश्वरदेवस्य दक्षिणे देवताद्वयम् ।
तन्मध्ये कटिमात्रं तु खनेद्गोरोचनोपमाः ॥ २,८.१२६ ॥
पाषाणास्तान् समादाय मध्वाज्याभ्यां प्रपेषयेत् ।
तत्पानाज्जायते मर्त्यः कल्पायुर्नात्र संशयः ॥ २,८.१२७ ॥
कपोतेश्वरदेवस्य वायव्ये हस्तमात्रकम् ।
खनेत्पारावतप्रख्याः पाषाणाः स्पर्शभेदकाः ॥ २,८.१२८ ॥
तिष्ठन्ति ग्राहयेदेकं देवताराधने कृते ।
मल्लिकार्जुनदेवस्य ऐशान्यां भृगुपातनम् ॥ २,८.१२९ ॥
विद्यते तत्समीपस्थं कुण्डं तस्मान्मृदाहरेत् ।
पञ्चगव्येन सम्मिश्रां खदिराङ्गारकैर्धमेत् ॥ २,८.१३० ॥
नीलोत्पलसमं लोहं पतत्येवाथ सेचयेत् ।
मध्वाज्याभ्यां सुतप्तं तत्सप्तवारं पुनः पुनः ॥ २,८.१३१ ॥
तद्गोलं धारयेद्वक्त्रे विष्णुतुल्यो भवेन्नरः ।
भृगुपातात्पूर्वभागे क्रोशोदधिकपाटके ॥ २,८.१३२ ॥
तस्याग्रे अच्छतैलाख्यः पर्वतो नाम विश्रुतः ।
तत्पश्चिमे बिलद्वारं तन्मध्ये धन्वपञ्चकम् ॥ २,८.१३३ ॥
गते तु दृश्यते कुण्डं रसो लाक्षारसप्रभः ।
अलाबुपात्रे संगृह्य कोटिवेधी भवेत्तु सः ॥ २,८.१३४ ॥
{स्पर्शवेधःः रोच्क्नेअर तेम्पुल्}
मल्लिकार्जुनदेवस्य पूर्वतो लोकविश्रुतः ।
प्राकारश्चन्द्रगुप्तस्य विद्यते तत्र मन्दिरम् ॥ २,८.१३५ ॥
तस्य पूर्वे स्थितश्चैत्यश्चैत्यपूर्वे महाशिला ।
मुद्गवर्णा च सा ख्याता स्पर्शवेधकरा तु सा ॥ २,८.१३६ ॥
गजस्तत्रैव विख्यातस्तमारुह्य समाहितः ।
तस्य पृष्ठात्तृणं ग्राह्यं तत्सर्वं कनकं भवेत् ॥ २,८.१३७ ॥
गजस्य चोत्तरे पार्श्वे जानुमात्रं खनेद्भुवम् ।
जम्बूफलसमाकाराः सन्ति ते स्पर्शवेधकाः ॥ २,८.१३८ ॥
गजस्याधः खनेद्वाथ जानुमात्रं लभेत्ततः ।
त्रिकोणगुटिकां सिद्धां लक्षवेधकरां पराम् ॥ २,८.१३९ ॥
श्रीशैलस्य तु वायव्ये तीर्थं देवह्रदः स्थितम् ।
तत्र कुण्डे मुद्गवर्णाः पाषाणाः स्पर्शवेधकाः ॥ २,८.१४० ॥
तत्र कूर्मोपमं लिङ्गं स्पर्शवेधकरं परम् ।
कृत्तिकायां सुपूर्णायां कृत्वा पूजां समाहरेत् ॥ २,८.१४१ ॥
गव्यूतिद्वयतस्तस्मान्नाम्ना नीलवनं स्मृतम् ।
तत्र लिङ्गं नीलवर्णं जलं चैव तु तादृशम् ॥ २,८.१४२ ॥
अश्वाभ्रकाकसदृशाः पाषाणाः स्पर्शवेधकाः ।
सन्ति देवगृहस्यान्तः खनेज्जान्वन्तराद्धरेत् ॥ २,८.१४३ ॥
श्रीशैलस्य तु नैरृत्ये नाम्ना गुण्डिप्रभा स्थिता ।
तस्याग्राद्गर्तमृद्ग्राह्या पीतवर्णा पुटैर्दहेत् ॥ २,८.१४४ ॥
तस्मान्निःसरते हेम स्फुरद्रूपं न संशयः ।
तत्रैव भ्रमराः स्युश्च पूर्ववत्फलदायकाः ॥ २,८.१४५ ॥
तथा तम्बीपुरे नाम्नि तीर्थे च विपुले शुभम् ।
सदाफलं तु विख्यातं पूर्ववत्साधयेत्सुधीः ॥ २,८.१४६ ॥
महानन्देश्वरं नाम श्रीशैलस्य तु नैरृते ।
तस्य पूर्वोत्तरे पार्श्वे गच्छेद्राजपथेन तु ॥ २,८.१४७ ॥
कालवर्णेश्वरो नाम देवस्तस्याग्रकुण्डकम् ।
इन्द्रगोपकसंकाशस्तन्मध्ये विद्यते रसः ॥ २,८.१४८ ॥
तप्तानि सप्तलोहानि तत्सेकात्काञ्चनं भवेत् ।
श्रीशैलस्य तु ईशाने देवः स्यात्तुरलेश्वरः ॥ २,८.१४९ ॥
तस्योत्तरे सुविख्यात उमापर्वत उत्तमः ।
तस्य मूर्ध्नि त्रिशूलाभा दर्भास्तिष्ठन्ति शोभनाः ॥ २,८.१५० ॥
तस्याधः कटिमात्रं तु खात्वा नीलां मृदं हरेत् ।
तां पचेदक्षजैः काष्ठैर्भागं देवाय कल्पयेत् ॥ २,८.१५१ ॥
अतिथेश्च तथाग्नेश्च भागं भागं प्रकल्पयेत् ।
भागमात्मनि भुञ्जीत जीवेत्कल्पायुतं नरः ॥ २,८.१५२ ॥
तत्र कोटीश्वरं ख्यातमिलेश्वरसमीपतः ।
तस्याग्रे पुष्पमात्रं तु स्पर्शवेधकरं भवेत् ॥ २,८.१५३ ॥
अचलेशश्च तत्रैव स्पर्शवेधकरः परः ।
दक्षिणे लेशस्य योजनैकेन विद्यते ॥ २,८.१५४ ॥
अमरेश्वरदेवाख्यस्तत्र स्वर्णशिला शुभा ।
तस्य पृष्ठे च गोमांसं महामांसं च वा क्षिपेत् ॥ २,८.१५५ ॥
प्रज्वाल्य बदरीकाष्ठैः प्रातः स्वर्णोपमा तु सा ।
दृश्यते रजसा स्त्रीणां भावितं वस्त्रखण्डकम् ॥ २,८.१५६ ॥
तच्छिलालोडितं कुर्याद्रक्षेदलाबुपात्रके ।
तेन संस्पर्शमात्रेण लोहं भवति हाटकम् ॥ २,८.१५७ ॥
श्रीशैले तत्र तत्रैव पाषाणाः पिण्डभूस्थिताः ।
तच्चूर्णं त्रिफलासार्धं कर्षैकं भक्षयेत्सदा ॥ २,८.१५८ ॥
मासार्धं तु जरां हन्ति जीवेदाचन्द्रतारकम् ।
नैरृत्ये शैलराजस्य पटाहकर्ण ईश्वरः ॥ २,८.१५९ ॥
तस्य चेशानदिग्भागे पञ्चविंशतिधन्वके ।
द्विहस्तमात्रोर्ध्वशिला तत्र हस्तद्वयं खनेत् ॥ २,८.१६० ॥
श्रावसम्पुटसंकाशान् पाषाणांस्त्रिंशदाहरेत् ।
कृत्वा तानग्निवर्णांश्च सिञ्चेत्कूष्माण्डजैर्द्रवैः ॥ २,८.१६१ ॥
तन्मध्यान्नवनीतं तु गृह्णीयाद्देवाय भागकम् ।
अतिथेर्भागैकं तु भागैकं भक्षयेद्बुधः ॥ २,८.१६२ ॥
मूर्छा भवेद्दिवारात्रं प्रबुद्धो जायते नरः ।
जीवेद्वर्षायुतं वीरो वलीपलितवर्जितः ॥ २,८.१६३ ॥
तस्य देवस्य सोपानं द्वितीयं स्पर्शवेधकम् ।
तस्य देवस्य पार्श्वे तु पाषाणाः श्वेतपीतकाः ॥ २,८.१६४ ॥
सर्वस्पर्शा न संदेह एकमेव समाहरेत् ।
तस्य देवस्य पूर्वे तु कूपः स्यान्नातिदूरतः ॥ २,८.१६५ ॥
तन्मध्ये भेकसंकाशाः पाषाणाः स्पर्शवेधाः ।
उत्तरे तस्य देवस्य विख्यातो लिङ्गपर्वतः ॥ २,८.१६६ ॥
तस्य चोत्तरपार्श्वे तु नदी स्यात्पूर्ववाहिनी ।
नद्याः पश्चिमदिग्भागे लिङ्गं पिङ्गलवर्णकम् ॥ २,८.१६७ ॥
तत्र शैलोदकैः कुण्डं पूर्णं स्यात्क्षणवेधकम् ।
महेशाद्दक्षिणे भागे चण्डिका योजनद्वये ॥ २,८.१६८ ॥
पिण्डादेवीति विख्याता तस्या वायव्यकोणतः ।
कूपस्तिष्ठति तन्मध्ये पाषाणा मुद्गवर्णकाः ॥ २,८.१६९ ॥
तथा पथ्यानिभाश्चैव सर्वे ते स्पर्शवेधकाः ।
स्पर्शनादत्र सर्वेषां वेधयुक्तिर्विधीयते ॥ २,८.१७० ॥
स्थूलश्चेत्पेषयेच्छ्लक्ष्णं तेन मूषां तु कारयेत् ।
अष्टलोहानि तन्मध्ये समावर्त्यानि कारयेत् ॥ २,८.१७१ ॥
तत्सर्वं जायते स्वर्णमेवं कुर्याद्यथेप्सितम् ।
सूक्ष्मश्चेदष्टलोहानां द्रुतानां यत्र कुत्रचित् ॥ २,८.१७२ ॥
तं सर्वं निक्षिपेन्मध्ये सर्वं तत्काञ्चनं भवेत् ।
मल्लिकार्जुनवायव्ये तीर्थं सर्वेश्वरं स्थितम् ॥ २,८.१७३ ॥
तस्य दक्षिणदिग्भागे जलमार्गेऽर्धयोजने ।
गते डाङ्गरिकं तत्र दृश्यते तस्य मूर्धनि ॥ २,८.१७४ ॥
धात्रीफलानि कृष्णानि विद्यन्ते तानि भक्षयेत् ।
यथेष्टानि तु सप्ताहं वज्रकायो भवेन्नरः ॥ २,८.१७५ ॥
वलीपलितनिर्मुक्तो जीवेत्कल्पशतत्रयम् ।
तस्माच्च दक्षिणे भागे काकलेरीमहानवम् ॥ २,८.१७६ ॥
तत्रास्ति स्तम्भकदली प्रविशेत्तत्र साधकः ।
गच्छेत्क्रोशार्धमात्रं तु दृश्यते रसकुण्डकम् ॥ २,८.१७७ ॥
गृहीत्वालाबुपात्रे तु कोटिवेधी भवेद्रसः ।
तस्मिन् वने मयूरः स्यान्नीलवर्णशिलामयः ॥ २,८.१७८ ॥
मुखाग्रे तस्य कुण्डं तु द्वादशाङ्गुलनीलकम् ।
तन्मध्ये शुष्कवंशं तु क्षिप्त्वा स्यान्नूतनः क्षणात् ॥ २,८.१७९ ॥
दिने पत्त्रं फलं पुष्पं जायते तस्य नान्यथा ।
तत्र पारदप्रस्थैकं क्षिप्त्वा तावज्जलं हरेत् ॥ २,८.१८० ॥
क्षौद्रतुल्यं पिबेत्तं वै तत्क्षणान्मूर्छितो भवेत् ।
मुहूर्ताल्लब्धराज्यःस्याज्जीवेद्युगसहस्रकम् ॥ २,८.१८१ ॥
शैलस्याग्नेयभागे तु गुटिकासिद्धकेश्वरः ।
विद्यते तस्य पुरतः पञ्चहस्तां खनेद्भुवम् ॥ २,८.१८२ ॥
पाषाणा बदराकाराः सन्ति खेगतिदायकाः ।
एकमेव समाहृत्य वक्त्रे धार्यः खगामिभिः ॥ २,८.१८३ ॥
श्रीशैले सर्वयोगानामुक्तानां विधिरुच्यते ।
मन्त्रन्यासं पुरा कृत्वा पश्चाल्लक्षं जपेदनु ॥ २,८.१८४ ॥
अघोरं तेन वै शीघ्रं तत्तत्सिद्धिमवाप्नुयात् ।
क्षेत्रदेवतामावाहयेत् ।
तत्र स्वप्ने देवता प्रत्यक्षीभूय वरं ददाति ।
एवं मन्त्रपरैः सुनिश्चलतरैर्भक्तैश्च तत्साधकैः शम्भोः पूजनतत्परैः प्रतिदिनं पूजाविधेः पालकैः ।
कार्यं श्रीगिरिसाधनं जपपरैराम्नायपारंगतैर्नो चेत्क्लेशकरं पराकृतमहो व्यर्थं भवेन्निश्चितम् ॥ २,८.१८५ ॥

३, १
येन सृष्टं विदा चिदात्मस्वमरुत्तेजोजलोर्वीगणाः सत्संविच्छिवशक्तिभैरवकलाः श्रीकण्ठपञ्चाननः ।
ईशो रुद्रमुरारिधातृविबुधाश्चन्द्रार्कतारागणाः सोऽयं पातु चराचरं जगदिदं निर्नामनामाधिपः ॥ ३,१.१ ॥
सूते सूतवरो वरं च कनकं शब्दात्परं स्पर्शनाद्धूमाद्विध्यति तत्क्षणादघहरं संख्यां सखर्वांशतः ।
संख्यामर्बुदकोटिलक्षमयुतं युक्त्या सहस्रं शतं दत्ते खेगतिमक्षयं शिवपदं तस्मै परस्मै नमः ॥ ३,१.२ ॥
नत्वा श्रीपार्वतीं देवीं भैरवं सिद्धसंततिम् ।
रसरत्नाकरं वक्ष्ये देहे लोहे शिवंकरम् ॥ ३,१.३ ॥
{रसनामानि}
शिवबीजः सूतराजः पारदश्च रसेन्द्रकः ।
एतानि रसनामानि तथान्यानि शिवे यथा ॥ ३,१.४ ॥
दत्ते शिवपदं सिद्धिं साधकानां महोत्तमाम् ।
शिवबीजं तदाख्यातं सर्वसिद्धिप्रदायकम् ॥ ३,१.५ ॥
{मेर्चुर्य्ःः निरुक्ति}
यतः परशिवात्सूतस्तेन सूतः स चोदितः ।
संसारस्य परं पारं दत्तेऽसौ पारदः स्मृतः ॥ ३,१.६ ॥
रसीभवन्ति लोहानि देहा अपि सुसेवनात् ।
रसेन्द्रस्तेन विख्यातो द्रवत्वाच्च रसः स्मृतः ॥ ३,१.७ ॥
रसशास्त्रेषु सर्वेषु शम्भुना सूचितं पुरा ।
रसो रसायनं दिव्यं सूचनान्नैव बुध्यते ॥ ३,१.८ ॥
सिद्धैः शिवमुखात्प्राप्तं तेषां सिद्धिस्तु साधनात् ।
सम्प्रदायक्रमो युक्तिस्तैः स्वशास्त्रेषु गोपिता ॥ ३,१.९ ॥
मयापि तन्मुखात्प्राप्तं साधितं बहुधा ततः ।
रसशास्त्राणि सर्वाणि समालोक्य यथाक्रमम् ॥ ३,१.१० ॥
साधकानां हितार्थाय प्रकटीक्रियतेऽधुना ।
न क्रमेण विना शास्त्रं न शास्त्रेण विना क्रमः ॥ ३,१.११ ॥
शास्त्रं क्रमयुतं ज्ञात्वा यः करोति स सिद्धिभाक् ।
{आचार्य}
आचार्यो ज्ञानवान्दक्षो रसशास्त्रविशारदः ॥ ३,१.१२ ॥
मन्त्रसिद्धो महावीरो निश्चलः शिववत्सलः ।
देवीभक्तः सदा धीरो देवतायागतत्परः ॥ ३,१.१३ ॥
सर्वाम्नायविशेषज्ञः कुशलो रसकर्मणि ।
एवं लक्षणसंयुक्तो रसविद्यागुरुर्भवेत् ॥ ३,१.१४ ॥
{शिष्य}
गुरुभक्ताः सदाचाराः सत्यवन्तो दृढव्रताः ।
निरालसाः स्वधर्मज्ञाः सदाज्ञापरिपालकाः ॥ ३,१.१५ ॥
दम्भमात्सर्यनिर्मुक्ताः कुलाचारेषु दीक्षिताः ।
अत्यन्तसाधकाः शान्ता मन्त्राराधनतत्पराः ॥ ३,१.१६ ॥
इत्येवं लक्षणैर्युक्ताः शिष्याः स्यू रससिद्धये ।
{अनुचराः}
सहायाः सोद्यमाः सर्वे यथा शिष्यास्ततोऽधिकाः ॥ ३,१.१७ ॥
कुलीनाः स्वामिभक्ताश्च कर्तव्या रसकर्मणि ।
{बदल्छेमिस्त्स्}
नास्तिका ये दुराचाराश्चुम्बका गुरुतल्पगाः ॥ ३,१.१८ ॥
विद्यां गृहीतुमिच्छन्ति चौर्येण च बलाच्छलात् ।
न तेषां सिध्यते किंचिन्मणिमन्त्रौषधादिकम् ॥ ३,१.१९ ॥
कुर्वन्ति यदि मोहेन नाशयन्ति स्वकं धनम् ।
इह लोके सुखं नास्ति परलोके तथैव च ॥ ३,१.२० ॥
तस्माद्भक्तिबलादेव संतुष्यति यथा गुरुः ।
तथा शिष्येण सा ग्राह्या रसविद्यात्मसिद्धये ॥ ३,१.२१ ॥
हस्तमस्तकयोगेन वरं लब्ध्वा सुसाधयेत् ।
{रसशाला}
आतङ्करहिते देशे धर्मराज्ये मनोरमे ॥ ३,१.२२ ॥
उमामहेश्वरोपेते समृद्धे नगरे शुभे ।
कर्तव्यं साधनं तत्र रसराजस्य धीमता ॥ ३,१.२३ ॥
अत्यन्तोपवने रम्ये चतुर्द्वारोपशोभिते ।
तत्र शाला प्रकर्तव्या सुविस्तीर्णा मनोरमा ॥ ३,१.२४ ॥
सम्यग्वातायनोपेता दिव्यचित्रैर्विचित्रिता ।
{रसमण्डप}
तत्समीपे समे दीर्घे कर्तव्यं रसमण्डपम् ॥ ३,१.२५ ॥
अतिगुप्तं सुविस्तीर्णकपाटार्गलभूषितम् ।
ध्वजछत्त्रवितानाढ्यं पुष्पमालाविलम्बितम् ॥ ३,१.२६ ॥
भेरीकाकलघण्टादिशृङ्गिनादविनादितम् ।
भूः समा तत्र कर्तव्या सुदृढा दर्पणोपमा ॥ ३,१.२७ ॥
तन्मध्ये वेदिका रम्या कर्तव्या लक्षणान्विता ।
{रसलिङ्ग}
निष्कत्रयं हेमपत्त्रं रसेन्द्रो नवनिष्ककम् ॥ ३,१.२८ ॥
अम्लेन मर्दयेद्यामं तेन लिङ्गं तु कारयेत् ।
दोलायन्त्रे सारनाले जम्बीरस्थं दिनं पचेत् ॥ ३,१.२९ ॥
{रसलिङ्गःः wओर्स्हिप्}
तल्लिङ्गं पूजयेत्तत्र सुशुभैरुपचारकैः ।
लिङ्गकोटिसहस्रस्य यत्फलं सम्यगर्चनात् ॥ ३,१.३० ॥
तत्फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत् ।
ब्रह्महत्यासहस्राणि गोहत्याप्रयुतान्यपि ॥ ३,१.३१ ॥
तत्क्षणाद्विलयं यान्ति रसलिङ्गस्य दर्शनात् ।
स्पर्शनात्प्राप्यते मुक्तिरिति सत्यं शिवोदितम् ।
वाङ्मायां श्रीमद्घोरेण मन्त्रराजेन वार्चयेत् ॥ ३,१.३२ ॥
अष्टादशभुजं शुभ्रं पञ्चवक्त्रं त्रिलोचनम् ॥ ३,१.३३ ॥
प्रेतारूढं नीलकण्ठं रसलिङ्गं विचिन्तयेत् ।
तस्योत्सङ्गे महादेवीमेकवक्त्रां चतुर्भुजाम् ॥ ३,१.३४ ॥
अक्षमालाङ्कुशं दक्षे वामे पाशाभयं शुभम् ।
दधन्तीं तप्तहेमाभां पीतवस्त्रां विचिन्तयेत् ॥ ३,१.३५ ॥
वाङ्माया श्री कामराजशक्तिर्बीजरसाङ्कुशा ।
यै नमो द्वादशैतेषां कामविद्या रसाङ्कुशा ॥ ३,१.३६ ॥
अनया पूजयेद्देवीं गन्धपुष्पाक्षतादिभिः ।
नन्दिभृङ्गिमहाकालान्पूजयेत्पूर्वदिक्क्रमात् ॥ ३,१.३७ ॥
पूजयेन्नाममन्त्रैस्तु प्रणवादिनमोऽन्तकैः ।
एवं नित्यार्चनं तत्र कर्तव्यं रससिद्धये ॥ ३,१.३८ ॥
{रसदीक्षा}
रसदीक्षा शिवेनोक्ता दातव्या साधकाय वै ।
यथोक्तेन विधानेन गुरुणा मुदितात्मना ॥ ३,१.३९ ॥
सुमुहूर्ते सुनक्षत्रे चन्द्रताराबलान्विते ।
कलशं तोयसम्पूर्णं हेमरत्नफलैर्युतम् ॥ ३,१.४० ॥
स्थापयेद्रसलिङ्गाग्रे दिव्यवस्त्रेण वेष्टितम् ।
गन्धपुष्पाक्षतधूपदीपैर्नैवेद्यतोऽर्चयेत् ॥ ३,१.४१ ॥
पूजान्ते हवनं कुर्याद्योनिकुण्डे सुलक्षणे ।
तिलाज्यैः पायसैः पुष्पैरष्टाधिकशतैः पृथक् ॥ ३,१.४२ ॥
अघोरेण रसाङ्कुश्या होमान्ते शिष्यमावहेत् ।
काकिनीशक्तिसंयुक्तं रससिद्धिपरायणम् ॥ ३,१.४३ ॥
{काकिनी (देf.)}
यस्याः संकुचिताः केशाः श्यामा या पद्मलोचना ।
सुरूपा तरुणी चित्रा विस्तीर्णजघना शुभा ॥ ३,१.४४ ॥
संकीर्णरदना पीनस्तनभारेण चानता ।
चुम्बनालिङ्गनस्पर्शकोमला मृदुभाषिणी ॥ ३,१.४५ ॥
अश्वत्थपत्त्रसदृशयोनिदेशेन शोभिता ।
कृष्णपक्षे पुष्पवती सा नारी काकिनी स्मृता ॥ ३,१.४६ ॥
रसबन्धे प्रयोगे च उत्तमा रससाधने ।
{काकिणीःः सुब्स्तितुते}
तदभावे सुरूपा तु या काचित्तरुणाङ्गना ॥ ३,१.४७ ॥
तस्या देयं त्रिसप्ताहं गन्धकं घृतसंयुतम् ।
कर्षैकैकं प्रभाते तु सा भवेत्काकिनीसमा ॥ ३,१.४८ ॥
{रसदीक्षा (चोन्त्.)}
एवं शक्तियुतो योऽसौ दीक्षयेत्तं गुरूत्तमः ।
सुस्नातमभिषिञ्चेत विमलैः कलशोदकैः ॥ ३,१.४९ ॥
अघोरमङ्कुशीं विद्यां दद्याच्छिष्याय सद्गुरुः ।
यथाशक्त्याथ शिष्येण दातव्या गुरुदक्षिणा ॥ ३,१.५० ॥
अथाज्ञया गुरोर्मन्त्रं लक्षं लक्षं पृथग्जपेत् ।
दशांशेन हुनेत्कुण्डे त्रिकोणे हस्तमात्रके ॥ ३,१.५१ ॥
कमलं चतुरस्रं च चतुर्द्वारैः सुशोभितम् ।
जातिपुष्पं त्रिमध्वक्तं पूर्णान्ते कन्यकार्चनम् ।
कृत्वाथ प्रविशेच्छालां शुभां लिप्तां सुवेदिकाम् ॥ ३,१.५२ ॥
षट्कोणं मण्डलं तत्र सिन्दूरेण द्विहस्तकम् ।
वेदिकायां लिखेत्सम्यक्तद्बहिश्चाष्टपत्त्रकम् ॥ ३,१.५३ ॥
कमलं चतुरस्रं च चतुर्द्वारेषु शोभितम् ।
कर्णिकायां न्यसेत्खल्वं लोहजं स्वर्णरेखितम् ॥ ३,१.५४ ॥
तन्मध्ये रसराजं तु पलानां शतमात्रकम् ।
पञ्चाशत्पञ्चविंशं वा पूजयेद्रसलिङ्गवत् ॥ ३,१.५५ ॥
वज्रवैक्रान्तवज्राभ्रकान्तपाषाणटङ्कणम् ।
भूनागं शक्तयश्चैताः षट्सु पत्त्रेषु पूजयेत् ॥ ३,१.५६ ॥
{उपरसाः}
गन्धतालककासीसशिलाकङ्कुष्ठभूखगम् ।
राजावर्तो गैरिकं च ख्याता उपरसा अमी ॥ ३,१.५७ ॥
{उपरसःः wओर्स्हिप्}
पूज्या अष्टदलेष्वेते पूर्वादीशान्तगाः क्रमात् ।
{महारसाः}
रसकं विमला ताप्यं चपला तुत्थमञ्जनम् ॥ ३,१.५८ ॥
हिङ्गुलं सस्यकं चैव ख्याता एते महारसाः ।
पूर्वादीशानपर्यन्तं पत्त्राग्रेषु प्रपूजयेत् ॥ ३,१.५९ ॥
पूर्वद्वारे स्वर्णरौप्ये दक्षिणे ताम्रसीसके ।
पश्चिमे वङ्गकान्तौ च उत्तरे तीक्ष्णमुण्डके ॥ ३,१.६० ॥
सर्वमेतमघोरेण पूजयेदङ्कुशान्वितम् ।
{आउस्स्तत्तुन्ग्देसाल्छेमिस्तेन्}
विडकाञ्जिकयन्त्राणि क्षारमृल्लवणानि च ॥ ३,१.६१ ॥
कोष्ठी मूषा वङ्कनाली तुषाङ्गारवनोपलाः ।
भस्त्रिका दंशकानेका शिला खल्वोऽप्युदूखलम् ॥ ३,१.६२ ॥
स्वर्णकारोपकरणं समस्ततुलनानि च ।
मृत्काष्ठताम्रलोहाद्यपात्राणि विविधानि च ॥ ३,१.६३ ॥
दिव्यौषधानि वर्गाश्च रञ्जकं स्नेहनानि च ।
एतानि द्वारबाह्ये तु मूलमन्त्रेण पूजयेत् ॥ ३,१.६४ ॥
वाङ्मायां हें ततः क्ष्में च क्ष्मश्च पञ्चाक्षरो मनुः ।
अनेन मूलमन्त्रेण भैरवं तत्र पूजयेत् ॥ ३,१.६५ ॥
{रससिद्धस्}
सर्वेषां रससिद्धानां नामानि कीर्तयेत्तदा ।
व्यालाचार्यश्चन्द्रसेनः सुबुद्धिर्नरवाहनः ॥ ३,१.६६ ॥
नागार्जुनो रत्नघोषः सुरानन्दो यशोधरः ।
इन्द्रद्युम्नश्च माण्डव्यश्चर्पटिः शूरसेनकः ॥ ३,१.६७ ॥
वाडबो नागबुद्धिश्च खण्डः कापालिको हरः ।
कामली तात्त्विकः शम्भुर्लोको लम्पटशारदौ ॥ ३,१.६८ ॥
बाणासुरो मुनिश्रेष्ठो गोविन्दः कपिलो बलिः ।
एते सर्वे तु भूपेन्द्रा रससिद्धा महाबलाः ॥ ३,१.६९ ॥
चरन्ति सर्वलोकेषु निर्जरामरणाः सदा ।
सप्तविंशतिसंख्याका रससिद्धिप्रदायकाः ॥ ३,१.७० ॥
वन्द्याः पूज्याः प्रयत्नेन ततः कुर्याद्रसायनम् ।
हर्षयेद्द्विजदेवांश्च तर्पयेदिष्टदेवताम् ॥ ३,१.७१ ॥
कुमारीयोगिनीयोगिमुनिमायिकसाधकान् ।
तर्पयेत्पूजयेद्भक्त्या निजशक्त्यनुसारतः ॥ ३,१.७२ ॥
इत्येवं सर्वसम्भारयुक्तं कुर्याद्रसोत्सवम् ।
सर्वविघ्नप्रशान्त्यर्थं सर्वेप्सितफलप्रदम् ॥ ३,१.७३ ॥
अन्यथा चेद्विमूढात्मा मन्त्रदीक्षाक्रमं विना ।
कर्तुमिच्छति सूतस्य साधनं गुरुवर्जितः ॥ ३,१.७४ ॥
नासौ सिद्धिमवाप्नोति यत्नकोटिशतैरपि ।
तस्मात्सर्वप्रयत्नेन शास्त्रोक्तां कारयेत्क्रियाम् ॥ ३,१.७५ ॥
सम्यक्साधनसोद्यमा गुरुयुता राजाज्ञयालंकृता नानाकर्मणि कोविदा रसपरास्त्वाढ्या जनैश्चार्थिताः ।
मात्रायन्त्रसुपाककर्मकुशलाः सर्वौषधीकोविदास्तेषां सिध्यति नान्यथा विधिबलात्श्री पारदः पारदः ॥ ३,१.७६ ॥

३, २
भक्त्या शास्त्रविचारणादनुदिनं पूजाविधेः पालनात्स्वात्मानन्दनिमज्जनात्परहितात्कार्यक्रियागोपनात् ।
नित्यं सद्गुरुसेवनादनुभवात्सूतस्य सद्भावनाद्दास्यन्ते निजरश्मयो वरबलात्सत्सम्प्रदायात्स्फुटम् ॥ ३,२.१ ॥
रसादिलोहपर्यन्तं शोधने मारणे हितम् ।
भावनायां क्वचिच्चैव नानावर्गो निगद्यते ॥ ३,२.२ ॥
{देfऔल्त्वलुएस्}
अङ्गे नोक्ते भवेन्मूलं द्रवः सर्वाङ्गतो भवेत् ।
अमात्रायां समा मात्रा विज्ञेया रसकर्मणि ॥ ३,२.३ ॥
{क्षारवर्ग}
तिलापामार्गकदलीचित्रकार्द्रकमूलकम् ।
शिग्रुमोक्षपलाशं च सर्वमन्तःपुटे दहेत् ॥ ३,२.४ ॥
समालोड्य जलैर्वस्त्रैर्बद्ध्वा ग्राह्यमधोजलम् ।
शोधयेत्पाचयेदग्नौ मृद्भाण्डेन तु तज्जलम् ॥ ३,२.५ ॥
ग्राह्यं क्षारावशेषं तद्वृक्षक्षारमिदं स्मृतम् ।
{श्वेतवर्ग, शुक्लवर्ग}
चुन्नं कूर्पं शङ्खशुक्तिवराटैः शुक्लवर्गकः ॥ ३,२.६ ॥
{विड्वर्ग}
कपोतचाषगृध्राणां शिखिकुक्कुटयोश्च विट् ।
{अम्लवर्ग}
चाङ्गेरी चणकाम्लं तु मातुलुङ्गाम्लवेतसम् ॥ ३,२.७ ॥
चिञ्चानारङ्गजम्बीरमम्लवर्ग इति स्मृतः ।
{लवणपञ्चक}
सामुद्रं सैन्धवं काचं चुल्लिका च सुवर्चलम् ॥ ३,२.८ ॥
चूलिकानवसारः स्यादेतल्लवणपञ्चकम् ।
{त्रिक्षार}
सज्जीक्षारं यवक्षारं टङ्कणं च तृतीयकम् ॥ ३,२.९ ॥
{मूत्रवर्ग}
क्षारत्रयमिदं ख्यातमजाश्वमहिषीगवाम् ।
नारीमेषीखरोष्ट्राणां मूत्रवर्गो गजस्य च ॥ ३,२.१० ॥
{मित्रपञ्चक}
मध्वाज्यटङ्कणं गुञ्जा गुडः स्यान्मित्रपञ्चकम् ।
{पित्तवर्ग}
नराश्वशिखिगोमत्स्यपित्तानि पित्तवर्गके ॥ ३,२.११ ॥
{वसावर्ग}
मत्स्याहिनरमेषीणां शिखिनां च वसा मता ।
{रक्तवर्ग}
मञ्जिष्ठा कुङ्कुमं लाक्षा दाडिमं रक्तचन्दनम् ॥ ३,२.१२ ॥
बन्धूकं करवीरं च रक्तवर्गो ह्ययं भवेत् ।
{पीतवर्ग}
कुसुम्भं किंशुकं रात्रिः पतंगं मदयन्तिका ॥ ३,२.१३ ॥
पीतवर्गो ह्ययं ख्यातो दिव्यौषधिगणं शृणु ।
{दिव्यौषधिगण}
अजकर्णी शङ्खपुष्पी रुदन्ती काकतुण्डिका ॥ ३,२.१४ ॥
हंसपादी व्याघ्रनखी चाण्डाली क्षीरकन्दकः ।
वन्ध्याकर्कोटकी रम्भा गोजिह्वा कोकिलाक्षकः ॥ ३,२.१५ ॥
शाकवृक्षो हेमवल्ली पातालगरुडी शमी ।
कटुतुम्बी वज्रलता सूरणं वनसूरणम् ॥ ३,२.१६ ॥
मेषशृङ्गी चक्रमर्दो जलकुम्भी शतावरी ।
गुञ्जा कोशातकी नीली आखुकर्णी त्रिपर्णिका ॥ ३,२.१७ ॥
कुक्कुटी कृष्णतुलसी पुङ्खा श्वेतापराजिता ।
गरुडी लाङ्गली ब्राह्मी चाङ्गेरी पद्मचारिणी ॥ ३,२.१८ ॥
{वज्रशोधनम् (१)}
गृहीत्वाथ शुभं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् ।
महिषीविष्ठया लिप्त्वा तुलाग्नौ च पुटे पचेत् ॥ ३,२.१९ ॥
अहोरात्रात्समुद्धृत्य हयमूत्रैर्निषेचयेत् ।
व्याघ्रीकन्दे पुनः क्षिप्त्वा वज्रकंदोदरे क्षिपेत् ।
हयमूत्रैर्निषिञ्च्याच्च पुटेत्सिञ्च्याच्च पूर्ववत् ॥ ३,२.२० ॥
एवं सप्तदिनैः शुद्धं वज्रं स्यान्नात्र संशयः ।
{वज्रशोधनम् (२)}
कुलत्थकोद्रवक्वाथहयमूत्रस्नुहीपयः ॥ ३,२.२१ ॥
क्षिप्त्वा भाण्डे क्षिपेत्तस्मिन् व्याघ्रीकन्दगतं पविम् ।
दोलायंत्रे दिवारात्रौ समुद्धृत्य पुनः क्षिपेत् ॥ ३,२.२२ ॥
व्याघ्रीकन्दं महाकन्दे क्षिप्त्वा गजपुटे पचेत् ।
तत्पक्वं काञ्चनीद्रावैः सेचयेच्छुद्धिमाप्नुयात् ।
{वज्रशोधनम् (३)}
आखुकर्णी मेघनादः प्रियङ्गुर्मेषशृङ्गिका ।
अम्लवेतसनिर्गुण्डीकुलत्थकोद्रवाः शमी ॥ ३,२.२३ ॥
मुनिश्च हयमूत्रेण कषायं कारयेच्छुभम् ।
जम्बीरे सूरणे वाथ क्षिप्त्वा वज्रं दिनं पचेत् ॥ ३,२.२४ ॥
पूर्वक्वाथेन दोलायां शुद्धिमाप्नोति नान्यथा ।
{वज्रःः मारण}
शुद्धं वज्रं मत्कुणानां रक्तैर्लिप्त्वा धमेत्तु तत् ॥ ३,२.२५ ॥
अग्निवर्णं क्षिपेन्मूत्रे गर्दभोत्थे पुनः पुनः ।
लेपितं धामितं तद्वदेवं कुर्यात्त्रिसप्तधा ॥ ३,२.२६ ॥
{वज्रःः मारण}
तालकं मत्कुणैः पिष्ट्वा गोले तस्मिन्क्षिपेत्तु तत् ।
रुद्ध्वा मूषां धमेद्दार्ढ्याथयमूत्रे विनिक्षिपेत् ॥ ३,२.२७ ॥
समुद्धृत्य पुनस्तद्वत्सप्तवारान्मृतो भवेत् ।
{वज्रमारणम् (३)}
मेषशृंगी भुजगास्थि कूर्मपृष्ठं शिलाजतु ॥ ३,२.२८ ॥
गन्धकं कान्तपाषाणं मुनिपुष्पं सतालकम् ।
त्रिक्षारं पंचलवणं मेषशृङ्गीन्द्रवारुणी ॥ ३,२.२९ ॥
वज्रवल्ली मूषकर्णी बदरीकुड्मलानि च ।
मूषकस्य मलं स्तन्यं स्नुह्यर्कक्षीरमत्कुणाः ॥ ३,२.३० ॥
पञ्चाङ्गां शरपुङ्खां च हस्तिनीरं नृछागयोः ।
पेटारीबीजं स्त्रीपुष्पं पारावतमलं शिलाम् ॥ ३,२.३१ ॥
पुष्पाणि चैव वाकुच्याः पञ्चाङ्गं निम्बकस्य च ।
धात्रीवृक्षस्य पञ्चाङ्गं गोरम्भा चाजमूत्रकम् ॥ ३,२.३२ ॥
हंसपादी वज्रकन्दं बृहतीफलसूरणे ।
गोजिह्वा कर्कटं मांसं मूत्रवर्गं च मिश्रयेत् ॥ ३,२.३३ ॥
एतत्समस्तं व्यस्तं वा यथालाभं सुपिण्डितम् ।
तत्पिण्डे निक्षिपेद्वज्रमन्धमूषागतं पुटेत् ॥ ३,२.३४ ॥
कुलत्थं कोद्रवं पिष्ट्वा हयमूत्रैर्विलोडयेत् ।
तन्मध्ये सेचयेत्तप्तां मूषां पुटविनिर्गताम् ॥ ३,२.३५ ॥
एवं पुनः पुनः कुर्यादेकविंशतिवारकम् ।
आदाय पूर्वजं वज्रताले मत्कुणपेषिते ॥ ३,२.३६ ॥
गोलके निक्षिपेद्रुद्ध्वा मूषां तीव्रानले धमेत् ।
इत्येवं सप्तधा धाम्यं हयमूत्रैर्निषेचयेत् ॥ ३,२.३७ ॥
अनेन क्रमयोगेन मृतं भवति निश्चितम् ।
तं मृतं चूर्णयेत्खल्वे सिद्धयोग उदाहृतः ॥ ३,२.३८ ॥
{मेर्चुर्य्ःः शोधन}
भ्रामकस्य मुखं ताप्यं पेटारीबीजटङ्कणे ।
क्षारं चोत्तरवारुण्या गन्धकं तालकं शमी ॥ ३,२.३९ ॥
भूधरस्थं पुटैकेन समुद्धृत्य विमर्दयेत् ।
पूर्ववत्पूर्वजैर्द्रावैस्तद्वद्रुद्ध्वा च पाचयेत् ॥ ३,२.४० ॥
पुनर्मर्द्यं पुनः पाच्यं दशवारं च पूर्ववत् ।
पातयेत्पातनायंत्रे सम्यक्शुद्धो भवेद्रसः ॥ ३,२.४१ ॥
{मेर्चुर्य्ःः शोधन}
रसस्य दशमांशं तु गन्धं दत्त्वा विमर्दयेत् ।
जम्बीरोत्थैर्द्रवैर्यामं पात्यं पातनयन्त्रके ॥ ३,२.४२ ॥
पुनर्मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये ।
{मेर्चुर्य्ःः शोधन}
अथवा पारदं मर्द्यं तप्तखल्वे दिनावधि ।
कुमारीरजनीचुन्नैः पात्यं पातनयन्त्रके ॥ ३,२.४३ ॥
कन्याग्नित्रिफलाभिश्च पुनर्मर्द्यं च पातयेत् ।
पुनर्मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये ।
इत्येवं सप्तधा कुर्यात्सम्यक्शुद्धो भवेद्रसः ॥ ३,२.४४ ॥
{मेर्चुर्य्ःः मर्दनःः अप्प्लिचतिओन्}
युक्तं सर्वस्य सूतस्य तप्तखल्वे विमर्दनम् ।
शोधने चारणे चैव जारणे च विशेषतः ।
मूर्छने मारणे चैव बन्धने च प्रशस्यते ॥ ३,२.४५ ॥
{तप्तखल्व}
अजाशकृत्तुषाग्निं च भूगर्ते त्रितयं क्षिपेत् ।
तस्योपरि स्थितं खल्वं तप्तखल्वमिदं भवेत् ॥ ३,२.४६ ॥
खल्वं लोहमयं शस्तं मर्दकं चैव लोहजम् ।
तदभावे शिलोत्थं वा योग्यं खल्वं च मर्दकम् ॥ ३,२.४७ ॥
{मेर्चुर्य्ःः हिङ्गुलाकृष्ट}
अथवा हिंगुलात्सूतं ग्राहयेत्तन्निगद्यते ।
गोमूत्रैर्माहिषैर्मूत्रैस्तिलतैलसुराम्लकैः ॥ ३,२.४८ ॥
सप्ताहं हिंगुलं पाच्यं लोहपात्रे क्रमाग्निना ।
चालयेल्लोहदण्डेन द्रावं दत्त्वा पुनः पुनः ॥ ३,२.४९ ॥
सद्रवं तं समादाय शिखिपित्तेन भावयेत् ।
दिनान्ते पातनायन्त्रे पातयेच्चण्डवह्निना ॥ ३,२.५० ॥
सप्तकञ्चुकनिर्मुक्तः ख्यातोऽयं शुद्धसूतकः ॥ ३,२.५१ ॥
कन्याभिस्त्रिफलाभिश्च पुनर्मर्द्यं च पातयेत् ।
इत्येवं सप्तधा कुर्यात्सम्यक्शुद्धो भवेद्रसः ॥ ३,२.५२ ॥
{मेर्चुर्य्ःः हिङ्गुलाकृष्ट}
दिनैकं हिङ्गुलं खल्वे मर्द्यमम्लेन केनचित् ।
पातयेत्पातनायंत्रे दिनान्ते तत्समुद्धरेत् ।
विना कर्माष्टकेनैव सूतोऽयं सर्वकार्यकृत् ॥ ३,२.५३ ॥
सर्वसिद्धमतमेतदीरितं सूतशुद्धिकरमद्भुतं परम् ।
अल्पकर्मविधिभूरिसिद्धिदं देहलोहकरणे हि शस्यते ॥ ३,२.५४ ॥

३, ३
षट्काष्टकं ह्यष्टकमष्टकं च शोध्यं विमर्द्यं च यथोदितं तत् ।
वज्रादिलोहान्तकमुक्तपूर्वं तद्वक्ष्यते सूतवरस्य सिद्ध्यै ॥ ३,३.१ ॥
{वज्रःः सुब्त्य्पेस्}
श्वेता रक्ताः पीतकृष्णा द्विजाद्या वज्रजातयः ।
पुंस्त्रीनपुंसकाश्चेति लक्षणेन तु लक्षयेत् ॥ ३,३.२ ॥
{पुंवज्रःः परीक्षा}
वृत्ताः फलकसम्पूर्णास्तेजस्वन्तो बृहत्तराः ।
पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥ ३,३.३ ॥
{स्त्रीवज्रःः परीक्षा}
रेखाबिन्दुसमायुक्ताः षडस्रास्ताः स्त्रियः स्मृताः ।
{नपुंसकःः परीक्षा}
त्रिकोणं पत्त्रदेहं यद्दीर्घं यत्स्यान्नपुंसकम् ॥ ३,३.४ ॥
सर्वेषां पुरुषाः श्रेष्ठा वेधका रसबन्धकाः ।
स्त्रीवज्रा देहसिद्ध्यर्थं क्रामकं स्यान्नपुंसकम् ॥ ३,३.५ ॥
{दिव्यौषधि}
अजामारी काकमाची देवदालीन्द्रवारुणी ।
काकजङ्घा शिखिशिखा सर्पाक्षी नागवल्लिका ॥ ३,३.६ ॥
मीनाक्षी कृष्णधत्तूरो बला नागवल्ली जया ।
मुण्डी महाबला पूगी त्रिविधं चित्रकं निशा ॥ ३,३.७ ॥
मूर्वा काञ्चाननं कन्या पेटारी सूर्यवर्तकः ।
विष्णुक्रान्ता कारवल्ली वाकुची सिन्दुवारिका ॥ ३,३.८ ॥
स्वर्णपुष्पी खण्डजारी मञ्जिष्ठा पीलुकं वचा ।
स्नुही रक्तस्नुही बिल्वं कार्पासः कंगुणी घना ॥ ३,३.९ ॥
पलाशाङ्कोलविजया मेघनादार्कसर्षपाः ।
ब्रह्मदण्डी महाराष्ट्री श्वेता रक्ता पुनर्नवा ॥ ३,३.१० ॥
उदुम्बरसोमलता कुम्भी पुष्करमूलकम् ।
तिलपर्णी कृष्णजीरा वृश्चिकाली च कालिका ॥ ३,३.११ ॥
करवीरोऽग्निदमनी बृहती भूमिपाटली ।
यवचिञ्ची चन्द्रलता मर्कटी वनराजकम् ॥ ३,३.१२ ॥
बदरी लज्जरी लाक्षा चणा वर्तुलपत्रका ।
अपामार्गो भूकदम्बो विषमुष्ट्येकवीरकः ॥ ३,३.१३ ॥
गोरम्भा कदली जाती मुसली सहदेविका ।
एरण्डः सैन्धवं पथ्या शुंठी मण्डूकपर्णिका ॥ ३,३.१४ ॥
मरूवको हिंगु वालो लक्ष्मणा हस्तिमूलिका ।
क्षीरवृक्षाश्च ये सर्वे तथा नानाविधं विषम् ॥ ३,३.१५ ॥
दिव्यौषधिगणः ख्यातो रसराजस्य साधने ।
व्यस्तं वाथ समस्तं वा यथालाभं नियोजयेत् ॥ ३,३.१६ ॥
{विषवर्गः}
तीव्रगन्धरसस्पर्शैर्विविधैस्तु वनोद्भवैः ।
मर्दनात्स्वेदनात्सूतो म्रियते बध्यतेऽपि च ॥ ३,३.१७ ॥
रक्तशृङ्गी कालकूटं हारिद्रं सक्तूकं तथा ।
मौस्तिकं विषवर्गः स्यात्मूषाकरणमुच्यते ।
{वज्रमूषाःः प्रोदुच्तिओन्}
तुषं वस्त्रं समं दग्धं तत्पादांशा च मृत्तिका ।
कूपीपाषाणपादं च वज्रवल्ल्या द्रवैर्दिनम् ॥ ३,३.१८ ॥
मर्दयेत्कारयेन्मूषां वज्राख्यां रसबन्धकाम् ।
{वज्रमूषा (२)}
वल्मीकमृत्तिकाङ्गाराः पुराणं लोहकिट्टकम् ॥ ३,३.१९ ॥
श्वेतपाषाणकं चैतत्सर्वं चूर्ण्यं समं समम् ।
सर्वतुल्यं तुषं दग्धं सर्वं तोयैश्च मर्दयेत् ॥ ३,३.२० ॥
मूषासंपुटकं कुर्यात्सन्धिं लिप्याच्च तेन वै ।
सर्वकार्यकरा एषा वज्रमूषा महाबला ॥ ३,३.२१ ॥
{वज्रमूषा (३)}
गारा दग्धास्तुषा दग्धा दग्धा वल्मीकमृत्तिका ।
गजाश्वानां मलं दग्धं यावत्तत्कृष्णतां गतम् ॥ ३,३.२२ ॥
पाषाणभेदीपत्राणि कृष्णा मृच्च समं समम् ।
वज्रवल्ल्या द्रवैर्मर्द्यं दिनं वा शोषयेद्दृढम् ॥ ३,३.२३ ॥
तेन कोष्ठं वङ्कनालं वज्रमूषां च कारयेत् ।
वर्तुला गोस्तनाकारा वज्रमूषा प्रकीर्तिता ॥ ३,३.२४ ॥
मूर्छने मारणे बन्धे द्वंद्वमेलापके हिता ।
सैव छिद्रान्विता मध्यगम्भीरा सारणोचिता ॥ ३,३.२५ ॥
प्रकटा शरावकाकारा बीजनिर्वापणे हिता ।
{वज्रःः मारण}
सूतं धान्याभ्रकं तुल्यं दिनं पुनर्नवाद्रवैः ।
मर्दितं तप्तखल्वे तु वज्रमूषान्धितं पचेत् ॥ ३,३.२६ ॥
चिञ्चाबीजं मेषशृंगी स्त्रीपुष्पं चाम्लवेतसम् ।
पञ्चाङ्गं शरपुङ्खायाः शशदन्ताः शिलाजतु ॥ ३,३.२७ ॥
एतत्समस्तं व्यस्तं वा यथालाभं सुचूर्णयेत् ।
स्नुह्यर्कोन्मत्तवारुण्याः क्षीरैः स्तन्यैर्विमर्दयेत् ॥ ३,३.२८ ॥
तद्गोलके क्षिपेद्वज्रं रुद्ध्वा मूषां धमेद्दृढम् ।
गुडूचीं सैन्धवं हिंगु समुस्तोत्तरवारुणीम् ॥ ३,३.२९ ॥
क्वाथैः कौलत्थकैः पिष्ट्वा तस्मिन्द्रावे निषेचयेत् ।
तद्वज्रं पूर्ववद्गोले क्षिप्त्वा रुद्ध्वा धमेत्तथा ॥ ३,३.३० ॥
सेचनान्तं पुनः कुर्यादेकविंशतिवारकम् ।
तालमत्कुणयोगेन सप्तवारं पुनर्धमेत् ॥ ३,३.३१ ॥
सेचयेदश्वमूत्रेण तद्वज्रं म्रियते ध्रुवम् ।
{वज्रःः मारण}
त्रिवर्षरूढकार्पासमूलमादाय पेषयेत् ॥ ३,३.३२ ॥
त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत् ।
तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् ॥ ३,३.३३ ॥
एवं सप्तपुटैः पक्व एकैकेन मृतो भवेत् ।
{वज्रमारणम् (६)}
तालकासीससौराष्ट्रयोर्ह्यपामार्गस्य भस्म च ॥ ३,३.३४ ॥
पिष्ट्वा कौलत्थकैः क्वाथैस्तस्मिन्वज्रं सुतापितम् ।
क्षिप्त्वा त्रिसप्तवाराणि म्रियते नात्र संशयः ॥ ३,३.३५ ॥
{वज्रमारणम् (७)}
वैक्रान्तभस्मना सार्धं पेषयेदम्लवेतसम् ।
तद्गोलके क्षिपेद्वज्रमन्धमूषागतं धमेत् ॥ ३,३.३६ ॥
सेचयेदश्वमूत्रेण पूर्वगोले पुनः क्षिपेत् ।
रुद्ध्वा ध्मातं पुनः सेच्यमेवं कुर्यात्त्रिसप्तकम् ॥ ३,३.३७ ॥
म्रियते नात्र सन्देहः सर्वकर्मसु योजयेत् ।
{वज्रमारणम् (८)}
उत्तरावारुणीक्षीरैः कान्तपाषाणजं मुखम् ॥ ३,३.३८ ॥
क्षणं पिष्ट्वा तु तद्गोले वज्रं क्षिप्त्वा पचेदनु ।
नृतैले गन्धतैले वा म्रियते नात्र संशयः ॥ ३,३.३९ ॥
{वज्रमारणम् (९)}
भूनागं गन्धकं वाथ नारीस्तन्येन पेषयेत् ।
तद्गोलस्य पचेद्वज्रं पूर्वतैले मृतं भवेत् ॥ ३,३.४० ॥
{वज्रमारणम् (१०)}
स्नुहीक्षीरेण विमलां पिष्ट्वा तद्गोलके क्षिपेत् ।
वज्रं निरुध्य मूषां तां शुष्कां तीव्राग्निना धमेत् ॥ ३,३.४१ ॥
तप्तमश्वस्य मूत्रे तु क्षिप्त्वा वज्रं समाहरेत् ।
इत्येवं सप्तधा कार्यं ततस्तालकमत्कुणाः ॥ ३,३.४२ ॥
कृत्वा गोलं क्षिपेत्तस्मिन्वज्रमूषां निरुध्य च ।
धामितं पूर्ववत्सेच्यं सप्तवारैर्मृतं भवेत् ॥ ३,३.४३ ॥
{वज्रमारणम् (११)}
वज्रं मत्कुणरक्तेषु क्षिप्त्वा लिप्त्वातपे क्षिपेत् ।
शुष्कं लेप्यं पुनः शोष्यं यावत्सप्तदिनावधि ॥ ३,३.४४ ॥
विष्णुक्रान्तापेटकार्योर्द्रवैः सिञ्चेत्पुनः पुनः ।
तप्तं तप्तं तु तद्वज्रं शतवारान्मृतं भवेत् ॥ ३,३.४५ ॥
{वज्रमारणम् (१२)}
गन्धकं चूर्णितं भाव्यं स्त्रीपुष्पेण तु सप्तधा ।
पुनः स्त्रीरजसालोड्य तस्मिन्वज्रं सुतापितम् ॥ ३,३.४६ ॥
सेचयेत्तापयेदेवं मृतं स्यात्तु त्रिसप्तधा ।
{वज्रःः मृदूकरण}
मातुलुङ्गगतं वज्रं रुद्ध्वा बाह्ये मृदा लिपेत् ।
पचेत्पुटे समुद्धृत्य तद्वच्छतपुटैः पचेत् ॥ ३,३.४७ ॥
नागवल्ल्या द्रवैर्लिप्तं तत्पत्रेणैव वेष्टितम् ।
जानुमध्यस्थितं यामं तद्वज्रं मृदुतां व्रजेत् ॥ ३,३.४८ ॥
{वज्रौदनं वज्रमृदूकरणम् (२)}
मातृवाहकजीवस्य मध्ये वज्रं विनिक्षिपेत् ।
जम्बीरोदरगं वाथ दोलायन्त्रे दिनं पचेत् ॥ ३,३.४९ ॥
कुलत्थकोद्रवक्वाथैस्त्रैफले वा कषायके ।
अहोरात्रात्समुद्धृत्य जम्बीरे तु पुनः क्षिपेत् ॥ ३,३.५० ॥
मातृवाहकजीवे वा क्षिप्त्वा पक्त्वा च पूर्ववत् ।
पुनः क्षेप्यं पुनः पाच्यं त्रिदिनान्ते समुद्धरेत् ॥ ३,३.५१ ॥
बदरीवटनिम्बानामङ्कुराणि समाहरेत् ।
पिष्ट्वा तद्गोलके वज्रं पूर्वपक्वं विनिक्षिपेत् ॥ ३,३.५२ ॥
अश्वत्थपत्रकैर्वेष्ट्यं तद्गोलं जानुमध्यगम् ।
दिनं वा धारयेत्कक्षे मृदुर्भवति निश्चितम् ॥ ३,३.५३ ॥
{वज्रमृदूकरणम् (३)}
पारदं तीक्ष्णचूर्णं च दिनमम्लेन मर्दयेत् ।
तद्गोले निक्षिपेद्वज्रं सूत्रेणावेष्टयेद्बहिः ॥ ३,३.५४ ॥
नागवल्लीद्रवैश्चैव वेष्टितं धान्यराशिगम् ।
मासान्ते तत्समुद्धृत्य नागवल्ल्या द्रवैर्लिपेत् ।
तद्दलैर्वेष्टितं जानुमध्यस्थं मृदुतां व्रजेत् ॥ ३,३.५५ ॥
{वज्रमृदूकरणम् (४)}
कान्तपाषाणवज्रं वा चूर्णं वा कान्तलोहजम् ॥ ३,३.५६ ॥
ससूतमम्लयोगेन दिनमेकं विमर्दयेत् ।
तद्गोले निक्षिपेद्वज्रं निम्बकार्पासकोलजैः ॥ ३,३.५७ ॥
पत्रैः पिष्टैस्तु संवेष्ट्य नागवल्लीदलैस्ततः ।
वेष्ट्यं तज्जानुमध्यस्थं दिनान्ते मृदुतां व्रजेत् ॥ ३,३.५८ ॥
{वर्जमृदूकरणम् (५)}
एरण्डवृक्षमध्ये तु तत्फले वा क्षिपेत्पविम् ।
मासमात्रात्समुद्धृत्य जानुमध्ये तु पूर्ववत् ॥ ३,३.५९ ॥
कोमलं जायते वज्रं दिनान्ते नात्र संशयः ।
{वज्रमृदूकरणम् (६)}
वज्रं तित्तिरमांसेन वेष्टयेन्निक्षिपेन्मुखे ॥ ३,३.६० ॥
अतिस्थूलस्य भेकस्य मुखं सूत्रेण वेष्टयेत् ।
निखनेद्धस्तमात्रायां भूमौ मासात्समुद्धरेत् ॥ ३,३.६१ ॥
मण्डूकसंपुटे रुद्ध्वा सम्यग्गजपुटे पचेत् ।
तद्वज्रं पूर्वगोलस्थं जानुमध्ये गतं दिनम् ॥ ३,३.६२ ॥
भवेद्वज्रौदनं साक्षान्मार्यं पश्चाच्च योजयेत् ।
सर्ववज्रौदनानां तु मारणं पूर्ववद्भवेत् ॥ ३,३.६३ ॥
{वैक्रान्तशोधनम्}
त्रिक्षारैः पञ्चलवणैर्वसामूत्राम्लकोद्रवैः ।
मत्स्यपित्तैस्तैलघृतैः कुलत्थैः काञ्जिकान्वितैः ॥ ३,३.६४ ॥
सप्ताहं दोलकायन्त्रे व्याघ्रीकन्दगतं पचेत् ।
सप्तवर्णं तु वैक्रान्तं शुद्धिमायाति निश्चितम् ॥ ३,३.६५ ॥
{उपरसानां शोधनम्}
जम्बीराणां द्रवे मग्नमातपे धारयेद्दिनम् ।
शुध्यन्ति टङ्कणं शंखो वराटाञ्जनगैरिकम् ।
कासीसं भूखगं चैव शुद्धं योगेषु योजयेत् ॥ ३,३.६६ ॥
{गन्धकशुद्धिः (१)}
यामैकं गन्धकं मर्द्यं द्रवैर्निम्बाजगन्धयोः ।
शृङ्गीधत्तूरयोर्वाथ तिलपर्ण्याश्च वा द्रवैः ।
तदादाय घृतैस्तुल्यं लोहपात्रे क्षणं पचेत् ॥ ३,३.६७ ॥
लघ्वग्निना द्रुतं तद्वै अजाक्षीरे विनिक्षिपेत् ।
इत्येवं सप्तधा कुर्याच्छुद्धिमायाति गन्धकम् ॥ ३,३.६८ ॥
{गन्धकशोधनम् (२)}
करञ्जैरण्डतैलं च छागीदुग्धं च भाण्डके ॥ ३,३.६९ ॥
क्षिप्त्वा तस्य मुखं रुद्ध्वा स्वच्छवस्त्रेण बुद्धिमान् ।
गन्धकं धूर्तजैर्द्रावैर्दिनं भाव्यं विशोषयेत् ॥ ३,३.७० ॥
तच्चूर्णं पूर्वभाण्डस्य वस्त्रोपरि निधारयेत् ।
आच्छाद्य च शरावेण पृष्ठे देयं पुटं लघु ॥ ३,३.७१ ॥
द्रुतं गन्धं समादाय भाव्यं धत्तूरजैर्द्रवैः ।
तद्वद्द्राव्यं पुनर्भाव्यं द्रावयेच्च पुनस्ततः ॥ ३,३.७२ ॥
आदाय मत्स्यपित्तेन सप्तधा भाव्यमातपे ।
ततः कोशातकीबीजचूर्णेन सह पेषयेत् ॥ ३,३.७३ ॥
भावयेद्भृङ्गजैर्द्रावैः सप्ताहमातपे खरे ।
तोयेन क्षालितं शोष्यं ततो मृद्वग्निना क्षणम् ॥ ३,३.७४ ॥
घृताक्ते लोहपात्रे तु द्रावितं ढालयेत्ततः ।
भृङ्गराजद्रवान्तस्थं सम्यक्शुद्धं भवेत्तु तत् ॥ ३,३.७५ ॥
{गन्धतैल}
अथ शुद्धस्य गन्धस्य तैलपातनमुच्यते ।
अम्लपर्णी देवदाली दाडिमं मातुलुङ्गकम् ॥ ३,३.७६ ॥
नारङ्गं वा यथालाभं द्रवमेकस्य चाहरेत् ।
गन्धकस्य तु पादांशं टङ्कणं द्रवसंयुतम् ॥ ३,३.७७ ॥
एताभ्यां गन्धकं भाव्यं घर्मे वारत्रयं पुनः ।
धत्तूरस्तुलसी कृष्णा लशुनं देवदालिका ॥ ३,३.७८ ॥
शिग्रुमूलं काकमाची कर्पूरं शङ्खपुष्पिका ।
कृष्णागुरु च कस्तूरी वन्ध्याकर्कोटकी समम् ॥ ३,३.७९ ॥
मातुलुङ्गरसैः पिष्ट्वा क्षिपेदेरण्डतैलके ।
अनेन लोहपात्रस्थं भावयेत्पूर्वगन्धकम् ॥ ३,३.८० ॥
त्रिवारं क्षौद्रतुल्यं तज्जायते गन्धवर्जितम् ।
इदं गन्धकतैलं स्यात्तत्तद्योगेषु योजयेत् ॥ ३,३.८१ ॥
{हरितालशुद्धिः (१)}
सचूर्णेणारनालेन दोलायन्त्रेण तालकम् ।
दिनं पक्वं विचूर्ण्याथ भाव्यं कूष्माण्डजैर्द्रवैः ॥ ३,३.८२ ॥
शोष्यं पेष्यं पुनर्भाव्यं शतवारं विशुद्धये ।
{हरितालशुद्धिः (२)}
तालकं कणशः कृत्वा तालात्पादांशटङ्कणम् ॥ ३,३.८३ ॥
द्वयं जम्बीरजैर्द्रावैः क्षालयेत्काञ्जिकैस्तथा ।
तच्छुष्कं पोटलीबद्धं सचूर्णे काञ्जिके पचेत् ॥ ३,३.८४ ॥
द्विदिनं दोलकायन्त्रे तद्वत्कूष्माण्डजैर्द्रवैः ।
पाचितं शुद्धिमायाति तालं सर्वत्र योजयेत् ॥ ३,३.८५ ॥
{विमलशुद्धिः}
सुवर्णवर्णं विमलं ताप्यं वा कणशः कृतम् ।
पुनर्नवायाः कल्कस्थं कौलत्थे स्वेदयेज्जले ॥ ३,३.८६ ॥
सैन्धवैर्बीजपूराक्तैर्युक्तं वा पोटलीकृतम् ।
दोलायन्त्रे दिनं स्वेद्यं शुद्धिमायाति निश्चितम् ॥ ३,३.८७ ॥
{रसकशुद्धिः}
रजस्वलारजोमूत्रै रसकं भावयेद्दिनम् ।
तैरेव दिनमेकं तु मर्दयेच्छुद्धिमाप्नुयात् ॥ ३,३.८८ ॥
{उपरसःः शोधन}
पुनर्नवामेघनादकपिजम्बीरतिन्दुकैः ।
अगस्तिपुष्पकुमुदयवचिञ्चाम्लवेतसैः ॥ ३,३.८९ ॥
यवसूरणभूधात्रीमाण्डूकीकरवीरकैः ।
कारवल्लीक्षीरकन्दरक्तोत्पलशमीवनैः ॥ ३,३.९० ॥
मेषशृङ्ग्या चोष्ट्रवसाशक्रवारुणिटङ्कणैः ।
तैलमत्स्यवसाव्योषैर्द्रवैरेतैः सकाञ्जिकैः ॥ ३,३.९१ ॥
एतैः समस्तैर्व्यस्तैर्वा दोलायन्त्रे दिनत्रयम् ।
अभ्रपत्राद्युपरसान् शुद्धिहेतोस्तु पाचयेत् ॥ ३,३.९२ ॥
{उपरसःः शोधन}
सूर्यावर्तो वज्रकन्दः कदली देवदालिका ।
शिग्रुः कोशातकी वन्ध्या काकमाची च वालुकम् ॥ ३,३.९३ ॥
आसामेकरसेनैव त्रिक्षारपटुपञ्चकम् ।
भावयेदम्लवर्गेण तीव्रघर्मे दिनावधि ॥ ३,३.९४ ॥
एतत्कल्केन संलेप्यमभ्रकं वज्रमाक्षिकम् ।
वैक्रांतं सस्यकं तालं कान्तपाषाणमञ्जनम् ॥ ३,३.९५ ॥
विमलां च शिलां तुत्थमन्यानुपरसांस्तथा ।
दोलायन्त्रे सारनाले पूर्वकल्कयुते पचेत् ।
तीव्रानले दिनैकेन शुद्धिमायान्ति तानि वै ॥ ३,३.९६ ॥
{धान्याभ्रकरणम्}
शुद्धमभ्रं भिन्नपत्रं कृत्वा व्रीहियुते दृढे ।
वस्त्रे बद्ध्वा सारनाले भाण्डमध्ये विमर्दयेत् ॥ ३,३.९७ ॥
हस्ताभ्यां स्वयमायाति यावदम्लान्तरे तु तत् ।
द्रवं त्यक्त्वा तु तच्छोष्यं दिनं धान्याभ्रकं भवेत् ॥ ३,३.९८ ॥
{अभ्रःः मारणःः निश्चन्द्र}
एतद्धान्याभ्रकं मर्द्यं भानुदुग्धैर्दिनावधि ।
कृत्वा पूपं भानुपत्रैर्वेष्टितं पाचयेत्पुटे ॥ ३,३.९९ ॥
इत्येवं दशधा पाच्यं दुग्धैर्भाव्यं पुनः पुनः ।
ततो वटजटाक्वाथैर्मर्द्यं दशपुटैः पचेत् ॥ ३,३.१०० ॥
सघृतैर्महिषीक्षीरैर्मर्द्यं देयं पुटत्रयम् ।
निश्चन्द्रं जायते ह्यभ्रं योजनीयं रसायने ॥ ३,३.१०१ ॥
{अभ्रकभस्म (२)}
पुनर्नवाद्यौषधानि ख्यातानि ह्यभ्रशोधने ॥ ३,३.१०२ ॥
धान्याभ्रकं तु तैरेव त्रिदिनं तु पुटे पचेत् ।
पूर्ववत्क्रमयोगेन म्रियते पञ्चभिः पुटैः ॥ ३,३.१०३ ॥
{मेतल्स्ःः शोधन}
तैले तक्रे गवां मूत्रे काञ्जिके रविदुग्धके ।
कुलत्थानां कषाये च जम्बीराणां द्रवे तथा ॥ ३,३.१०४ ॥
तप्त्वा तप्त्वा निषिञ्चेदेकैकस्मिंस्तु सप्तधा ।
स्वर्णादिलोहपत्राणि शुद्धिमायान्ति निश्चितम् ॥ ३,३.१०५ ॥
{लेअद्, तिन्ःः शोधन}
द्राविते नागवङ्गे च पचेत्तद्वद्विशुद्धये ।
{ब्रोन्शे, चोप्पेर्ःः शोधन}
त्रिक्षारं पंचलवणं जम्बीराम्लेन सप्तधा ॥ ३,३.१०६ ॥
भावयेदातपे तीव्रे तत्कल्केन विलेप्य च ।
घोषारताम्रपत्राणां शुद्ध्यै गजपुटे पचेत् ॥ ३,३.१०७ ॥
{लेअद्ःः मारण}
लोहपात्रे पचेन्नागं तुल्यं यावद्द्रुतं भवेत् ।
चाल्यं पलाशदण्डेन भस्मीभूतं समुद्धरेत् ॥ ३,३.१०८ ॥
भस्मतुल्यां शिलां तस्मिन्क्षिप्त्वा चाम्लेन केनचित् ।
पेषयेद्याममात्रं तु रुद्ध्वा गजपुटे पचेत् ॥ ३,३.१०९ ॥
स्वाङ्गशीतं पुनः पिष्ट्वा विंशत्यंशशिलायुतम् ।
अम्लेन याममात्रं च रुद्ध्वा पचेच्च पूर्ववत् ।
एवं षष्टिपुटैः पक्वो मृतो भवति पन्नगः ॥ ३,३.११० ॥
{इरोन् (गेन्.):: मारण}
नारीस्तन्येन सम्पिष्टं हिङ्गूलं पलपञ्चकम् ॥ ३,३.१११ ॥
तेन लोहस्य पत्राणि लेपयेत्पलपञ्चकम् ।
रुद्ध्वा गजपुटे पच्यात्कषायैस्त्रैफलैः पुनः ॥ ३,३.११२ ॥
जम्बीरैरारनालैर्वा विंशांशदरदेन च ।
पिष्ट्वा रुद्ध्वा पुटेल्लोहं तद्वत्पाच्यं पुनः पुनः ॥ ३,३.११३ ॥
चत्वारिंशत्पुटैरेव तीक्ष्णं कान्तं च मुण्डकम् ।
म्रियते नात्र संदेहो दत्त्वा दत्त्वैव हिङ्गुलम् ॥ ३,३.११४ ॥
{वङ्गभस्म}
लोहपात्रे द्रुते वङ्गे पादांशं तालकं क्षिपेत् ।
चाल्यमश्वत्थदण्डेन जातं भस्म समुद्धरेत् ॥ ३,३.११५ ॥
तद्भस्म हरितालं तु तुल्यमम्लेन मर्दयेत् ।
पलाशकद्रवैर्वाथ यामान्ते चोद्धृतं पुटेत् ॥ ३,३.११६ ॥
उद्धृत्य दशमांशेन तालेन सह मर्दयेत् ।
पूर्वद्रावैस्तु यामैकं रुद्ध्वा गजपुटे पचेत् ।
चत्वारिंशत्पुटैरेवं पक्वं स्यान्मृतवङ्गकम् ॥ ३,३.११७ ॥
{चोप्पेर्ःः मारण}
कण्टवेधीकृतं ताम्रपत्रं तुल्यांशगन्धकैः ॥ ३,३.११८ ॥
अम्लपिष्टैः प्रलिप्याथ रुद्ध्वा गजपुटे पचेत् ।
उद्धृत्य चूर्णयेत्तस्मिन् पादांशं गन्धकं क्षिपेत् ॥ ३,३.११९ ॥
जम्बीरैरारनालैर्वा पिष्ट्वा रुद्ध्वा पुटेत्पुनः ।
एवं चतुःपुटैः पच्याद्गन्धो देयः पुटे पुटे ॥ ३,३.१२० ॥
मातुलुङ्गद्रवैरेवं पुटमेकं प्रदापयेत् ।
सितशर्करया पञ्चपुटं देयं मृतं भवेत् ॥ ३,३.१२१ ॥
{सिल्वेर्ःः मारण}
माक्षिकेनाम्लपिष्टेन तत्तुल्यं तारपत्रकम् ।
लिप्त्वा रुद्ध्वा पुटे पक्त्वा समुद्धृत्य विचूर्णयेत् ॥ ३,३.१२२ ॥
कणामाक्षिकसिन्धूत्थभूधात्र्यश्च समं समम् ।
पूर्वचूर्णेन तुल्यांशमिदमम्लेन मर्दयेत् ॥ ३,३.१२३ ॥
रुद्ध्वा गजपुटे पच्यात्तैरेव मर्दयेत्पुटेत् ।
एवं सप्तपुटैः पक्वं तारं भस्मत्वमाप्नुयात् ॥ ३,३.१२४ ॥
{गोल्द्ःः मारण}
मृतं नागं स्नुहीक्षीरैरथवाम्लेन केनचित् ।
पिष्ट्वा तेन समांशेन स्वर्णपत्राणि लेपयेत् ॥ ३,३.१२५ ॥
रुद्ध्वा गजपुटे पक्त्वा समुद्धृत्य विचूर्णयेत् ।
तस्मिन्नेवं मृतं नागमष्टमांशेन लेपयेत् ॥ ३,३.१२६ ॥
यामैकं मर्दयेदम्लै रुद्ध्वा गजपुटे पचेत् ।
एवमष्टपुटैः पक्वं मृतं भवति हाटकम् ।
{ब्रस्स्, ब्रोन्शेःः मारण}
आरे घोषे प्रकर्तव्यं ताम्रवन्मारणं परम् ॥ ३,३.१२७ ॥
विविधपरमयोगैर्युक्तिर्युक्तैः प्रसिद्धैरनुभवपथदृष्टैः शोधनं मारणं च ।
पविबलिगगनानां सर्वलोहे विशेषाद्गदितमिह हितार्थं वार्तिकानां विभूत्यै ॥ ३,३.१२८ ॥

३, ४
सम्यक्सिद्धमतान्तरैः समुचितैः सत्संप्रदायैः शुभैः ख्यातैर्गन्धकजारणादिविविधैर्योगैः सुसिद्धैः क्रमात् ।
यद्दृष्टं सुलभं सुवर्णकरणं तारस्य संरंजनात् ।
सत्यं सज्जनरक्षणातुरतया संतन्यते तत्त्वतः ॥ ३,४.१ ॥
{गन्धपिष्टि}
दशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् ।
स्तोकं स्तोकं क्षिपेत्खल्वे मर्दकेन शनैः शनैः ॥ ३,४.२ ॥
कुट्टनाज्जायते पिष्टिः सेयं गन्धकपिष्टिका ।
{स्वर्णपिष्टि}
भागत्रयं शुद्धसूतं भागैकं शुद्धहाटकम् ॥ ३,४.३ ॥
अम्लेन मर्दयेद्यामं ख्यातेयं स्वर्णपिष्टिका ।
{सुल्fउर्ःः षड्गुणजारण}
गन्धपिष्टिं हेमपिष्ट्या समया वेष्टयेद्बहिः ॥ ३,४.४ ॥
वस्त्रेण वेष्टयेद्गाढं सूताख्ये लोहसंपुटे ।
निधाय पोटलीमध्ये सर्वतुल्यं च गन्धकम् ॥ ३,४.५ ॥
क्षिप्त्वा निरोधयेत्संधिं मृल्लोणेन च रोधयेत् ।
भूधराख्ये पुटे पक्त्वा जीर्णे गन्धं पुनः क्षिपेत् ॥ ३,४.६ ॥
षड्गुणे गन्धके जीर्णे शनैर्वस्त्रं निवारयेत् ।
पुनः पुनः समं गन्धं दत्त्वा जार्यं शनैः शनैः ॥ ३,४.७ ॥
निःशेषं नैव कर्तव्यं प्रमादाद्याति सूतकः ।
एवं शतगुणे जीर्णे यन्त्रादुद्धृत्य पिष्टिकाम् ॥ ३,४.८ ॥
{वेधःः सिल्वेर्=> गोल्द्}
तत्तुल्ये संपुटे हेम्नि रुद्ध्वा बाह्ये च वेष्टयेत् ।
कुमारीद्रवपिष्टेन काचेनाङ्गुलमात्रकम् ॥ ३,४.९ ॥
तद्बहिष्टङ्कणेनैव लोणमृत्तिकया ततः ।
वेष्ट्यमङ्गुलितैलेन सूर्यतापेन शोषितम् ॥ ३,४.१० ॥
कोष्ठीयन्त्रे गतं धाम्यं वङ्कनाले दृढाग्निना ।
तत्खोटं जायते दिव्यं सिन्दूरारुणसंनिभम् ॥ ३,४.११ ॥
तेन वेधस्तु तारस्य द्रुतस्य शतभागतः ।
देयः संजायते स्वर्णं सिद्धयोग उदाहृतः ॥ ३,४.१२ ॥
{गन्धपिष्टि}
गन्धकं शोधितं चूर्ण्यं सप्तधा कनकद्रवैः ।
भावयेदातपे तद्वन्नारीणां रजसा पुनः ॥ ३,४.१३ ॥
तद्गन्धं कर्षमेकं तु नरपित्तेन लोलितम् ।
पलैकं पारदं शुद्धमातपे खर्परे क्षिपेत् ॥ ३,४.१४ ॥
तत्पृष्ठे लोलितं गन्धं क्षिप्त्वाङ्गुष्ठेन मर्दयेत् ।
पिष्टिका जायते दिव्या सर्वकामफलप्रदा ॥ ३,४.१५ ॥
{गन्धपिष्टि}
तिलपर्णीरसेनैव सप्तधा शुद्धगंधकम् ।
भावयेत्पेषयेत्तच्च छायाशुष्कं पुनः पुनः ॥ ३,४.१६ ॥
शुद्धं सूतं पलैकं च मूषायां हि निधापयेत् ।
शुद्धस्वर्णस्य गुलिकां निष्कमात्रां विनिक्षिपेत् ॥ ३,४.१७ ॥
तां मूषां वालुकायन्त्रे स्थापयेत्पूर्वगन्धकम् ।
त्रुटिशस्त्रुटिशो दत्त्वा चुल्ल्यां मन्दाग्निना पचेत् ॥ ३,४.१८ ॥
पादांशे गन्धके जीर्णे जायते गन्धपिष्टिका ।
गन्धपिष्टिः पृथग्ग्राह्या स्वर्णस्य गुलिकां विना ॥ ३,४.१९ ॥
{गन्धपिष्टि}
छायायां गन्धकं भाव्यं शतधा मर्कटीद्रवैः ।
घर्मे मृत्खर्परे सूतं क्षिपेत्किंचिच्च गन्धकम् ॥ ३,४.२० ॥
मर्कटीद्रवसंयुक्तं जीर्णे गन्धे द्रवं पुनः ।
देयं पादांशकं यावद्गन्धकं सद्रवं क्रमात् ॥ ३,४.२१ ॥
जायते पिष्टिका दिव्या सर्वकामफलप्रदा ।
{गन्धपिष्टि}
गन्धकं सूक्ष्मचूर्णं तु काञ्जिकैः क्षालयेत्त्रिधा ॥ ३,४.२२ ॥
त्रिधा जम्बीरजैर्द्रावैर्हंसपाद्याश्च सप्तधा ।
कर्पूरं च पृथग्भाव्यं श्वेताद्रिकर्णिकाद्रवैः ॥ ३,४.२३ ॥
आतपे त्रीणि वाराणि ततो जारणमारभेत् ।
द्विगुञ्जामात्रकर्पूरैर्यन्त्रगर्भं प्रलेपयेत् ॥ ३,४.२४ ॥
तद्गर्भे भावितं गन्धं सार्धनिष्कं प्रदापयेत् ।
शुद्धसूतं पलं चार्धं कर्पूरं पूर्वतुल्यकम् ॥ ३,४.२५ ॥
पूर्वतुल्यं ततो गन्धं क्रमेणाथ प्रदापयेत् ।
श्वेताद्रिकर्णिकामूलं गोमूत्रेण प्रपेषयेत् ॥ ३,४.२६ ॥
आच्छाद्य तेन कल्केन शरावेण निरुध्य च ।
पाचयेन्नलिकायन्त्रे दिनान्ते तं समुद्धरेत् ॥ ३,४.२७ ॥
कर्पूरादि पुनर्देयं तद्वज्जार्यं दिनावधि ।
इत्येवं तु पुनः कुर्याज्जायते गन्धपिष्टिका ॥ ३,४.२८ ॥
{गन्धपिष्टि}
पारदस्य पलैकं तु कर्षैकं शुद्धगन्धकम् ।
स्निग्धखल्वे कराङ्गुल्या देवदालीद्रवे प्लुतम् ॥ ३,४.२९ ॥
मर्दयेदातपे तीव्रे जायते गन्धपिष्टिका ।
{गन्धपिष्टि}
शुद्धसूतं पलैकं तु कर्षार्धं शुद्धगन्धकम् ॥ ३,४.३० ॥
निधाय ताम्रखल्वे तु तदधोऽग्निं मृदुं क्षिपेत् ।
कराङ्गुष्ठेन संमर्द्य यामाद्भवति पिष्टिका ॥ ३,४.३१ ॥
{गन्धपिष्टिःः स्तम्भन}
तिक्तकोशातकीबीजं चाण्डालीकन्द एव च ।
नारीस्तन्येन सम्पिष्य लेपयेद्गन्धपिष्टिकाम् ॥ ३,४.३२ ॥
निक्षिपेत्सूरणे कन्दे क्षीरकन्दोदरे तथा ।
वन्ध्याकर्कोटकीवज्रकन्दे वा कुडुहुञ्जिके ॥ ३,४.३३ ॥
मुखं कन्दस्य मज्जाभी रुद्ध्वा कन्दं मृदा लिपेत् ।
पुटयेद्भूधरे यन्त्रे करीषाग्नौ दिनावधि ॥ ३,४.३४ ॥
ऊर्ध्वाधः परिवर्तेन यथा कन्दो न दह्यते ।
ततः पिष्टीं समुद्धृत्य स्तम्भिता जायते ध्रुवम् ॥ ३,४.३५ ॥
{गन्धपिष्टिःः स्तम्भितःः जारण}
अथास्या जारणा कार्या स्तनाख्ये लोहसंपुटे ।
निधाय जारयेद्गन्धं तुल्यं तुल्यं तु भूधरे ॥ ३,४.३६ ॥
जीर्णे गन्धे पुनर्देयं यन्त्रे जार्यं च पूर्ववत् ।
एवं शतगुणं जार्यं जीर्णे यन्त्रात्समुद्धरेत् ॥ ३,४.३७ ॥
सर्वासां गन्धपिष्टीनां रञ्जनं स्यात्तु जारणात् ।
{गन्धपिष्टिःः मारण}
दिव्यौषधगणद्रावैः पिष्टिः खल्वे विमर्दयेत् ।
दिनान्ते गोलकं कृत्वा बीजैर्दिव्यगणोद्भवैः ॥ ३,४.३८ ॥
लेपयेद्वज्रमूषां तु गोलं तत्र निरोधयेत् ।
दिनैकं भूधरे पच्यादूर्ध्वाधः परिवर्तयेत् ॥ ३,४.३९ ॥
समुद्धृत्य पुनर्मर्द्यं पूर्वद्रावैस्तु पूर्ववत् ।
पुटान्तं कारयेदेवं दशवारं पुनः पुनः ॥ ३,४.४० ॥
{गन्धपिष्टिःः वेधःः सिल्वेर्=> गोल्द्}
म्रियते नात्र संदेहो गन्धपिष्ट्यास्ततः पुनः ।
मृतपिष्टिपलैकं तु पेषयेद्वासकद्रवैः ॥ ३,४.४१ ॥
तत्कल्कैर्नागपत्रं तु लेपयित्वा पलाष्टकम् ।
छायाशुष्कं न्यसेत्पिण्डे वासापत्रसमुद्भवे ॥ ३,४.४२ ॥
तं पिण्डं संपुटे रुद्ध्वा पुटेदारण्यकोत्पलैः ।
समुद्धृत्य पुनर्देया पलैका मृतपिष्टिका ॥ ३,४.४३ ॥
वासाद्रावैर्दिनं मर्द्यं तं गोलं वेष्टयेत्पुनः ।
वासापत्रोत्थपिण्डेन रुद्ध्वा गजपुटे पचेत् ॥ ३,४.४४ ॥
एवं पुनः पुनः कुर्याद्रक्तवर्णं मृतं भवेत् ।
तन्नागं पलमात्रं तु यामैकं वासकद्रवैः ॥ ३,४.४५ ॥
मर्दितं लेपयेत्तेन ताम्रपत्रं पलाष्टकम् ।
दिनैकं पाचनायन्त्रे पाचयेन्म्रियते ध्रुवम् ॥ ३,४.४६ ॥
षोडशांशेन तेनैव तारे वेधं प्रदापयेत् ।
तत्तारं जायते स्वर्णं जाम्बूनदसमप्रभम् ॥ ३,४.४७ ॥
यया कया गन्धपिष्ट्या स्तम्भनं जारणं विना ।
पूर्ववत्क्रमयोगेन दिव्यं भवति काञ्चनम् ॥ ३,४.४८ ॥
{वेधःः सिल्वेर्=> गोल्द्}
अर्जुनस्य त्वचो भस्म वासाभस्म समं समम् ।
गृहकन्याद्रवैर्मर्द्यं दिनैकं तेन लेपयेत् ॥ ३,४.४९ ॥
कण्टवेध्यं नागपत्रं रुद्ध्वा लघुपुटे पचेत् ।
उद्धृत्य मर्दयेद्यामं पूर्वद्रावैः सभस्मकैः ॥ ३,४.५० ॥
रुद्ध्वा गजपुटे पक्त्वा स्वाङ्गशीतं समुद्धरेत् ।
एवं शतपुटैः पाच्यं भस्म द्रावैश्च मर्दयेत् ॥ ३,४.५१ ॥
तेनैव तारपत्राणि मधुलिप्तानि लेपयेत् ।
रुद्ध्वा गजपुटे पक्त्वा पुनर्लिप्त्वा पुटे पचेत् ॥ ३,४.५२ ॥
इत्येवं तु त्रिधा कुर्यात्तारमायाति काञ्चनम् ।
{वेधःः सिल्वेर्=> गोल्द्}
लोहपात्रे द्रुते नागे चूर्णितं रसकं समम् ॥ ३,४.५३ ॥
क्षिप्त्वा चुल्ल्यां पचेद्यामं चाल्यं पाषाणमुष्टिना ।
यामान्ते हिङ्गुलं क्षेप्यं चूर्णितं नागतुल्यकम् ॥ ३,४.५४ ॥
सुसूक्ष्मं मर्दयेत्तावत्दृढं पाषाणमुष्टिना ।
पचेच्चण्डाग्निना तावद्दिनानामेकविंशतिम् ॥ ३,४.५५ ॥
जायते कुङ्कुमाभं तु तारं तेनैव वेधयेत् ।
चतुःषष्टितमांशेन दिव्यं भवति काञ्चनम् ॥ ३,४.५६ ॥
{वेधःः सिल्वेर्=> गोल्द्}
द्रावयेत्खर्परे नागं पादांशं तत्र निक्षिपेत् ।
चिञ्चाश्वत्थत्वचः क्षारं लोहदर्व्या विमर्दयेत् ॥ ३,४.५७ ॥
यामान्ते तत्समुद्धृत्य वज्रीक्षीरैर्दिनावधि ।
मर्द्यं खल्वे समुद्धृत्य मृद्भाण्डान्तर्निरोधयेत् ॥ ३,४.५८ ॥
पचेद्रात्रौ चतुर्यामं चुल्ल्यां चण्डाग्निना पुनः ।
उद्धृत्य मर्दयेत्खल्वे वज्रीक्षीरैर्दिनावधि ॥ ३,४.५९ ॥
रात्रौ पाच्यं दिवा मर्द्यं यावत्षण्मासमेव च ।
यथा न पतते तस्मिञ्जलं धूलिस्तु रक्षयेत् ।
सहस्रांशे धृते शरे वेधे दत्ते सुकाञ्चनम् ॥ ३,४.६० ॥
{वेधःः सिल्वेर्=> गोल्द्}
शिलागन्धककर्पूरकुङ्कुमं मर्दयेत्समम् ।
जम्बीरोत्थद्रवैर्यामं तत्समं नागपत्रकम् ॥ ३,४.६१ ॥
लिप्त्वा लिप्त्वा पुटैः पच्याद्यावच्छष्टिपुटी भवेत् ॥ ३,४.६२ ॥
तन्नागं विद्युदाभासं जायते तेन वेधयेत् ।
चतुःषष्टितमांशेन तारमायाति काञ्चनम् ।
{वेधःः सिल्वेर्=> गोल्द्}
तीक्ष्णं शुल्बं नागवङ्गौ द्रुतं नागं तु तुत्थकम् ।
चूर्णितं भागमेकैकं द्वौ भागौ हेममाक्षिकम् ॥ ३,४.६३ ॥
वज्रमूषागतं रुद्ध्वा ध्मातं खोटं सुचूर्णितम् ।
सिद्धचूर्णेन संयुक्तं तारमायाति काञ्चनम् ॥ ३,४.६४ ॥
{तारारिष्ट}
शुल्बचूर्णं तीक्ष्णचूर्णं तुल्यं रुद्ध्वा धमेथठात् ।
तत्खोटं सिद्धचूर्णं च मर्द्यं पाच्यं च पूर्ववत् ॥ ३,४.६५ ॥
तेनैव मधुयुक्तेन तारपत्राणि लेपयेत् ।
रुद्ध्वा गजपुटे पच्यादेवं वारत्रयं कृते ॥ ३,४.६६ ॥
पीतवर्णं भवेत्तत्तु तारारिष्टं निगद्यते ।
{तारारिष्ट}
वङ्गनागसमं कान्तमथवा ताम्रनागकम् ॥ ३,४.६७ ॥
माक्षिकं शुल्बतीक्ष्णं वा शुल्बनागं सवङ्गकम् ।
एते योगास्तु चत्वारः पृथक्चूर्णानि कारयेत् ॥ ३,४.६८ ॥
पृथग्ध्मातानि खोटानि सिद्धचूर्णयुतानि च ।
मर्दनादिपुटान्तानि तारारिष्टकराणि वै ॥ ३,४.६९ ॥
पूर्ववल्लेपयोगेन प्रत्येकेन तु कारयेत् ।
तारारिष्टस्य तस्यैव स्वर्णीकरणमुच्यते ॥ ३,४.७० ॥
{वेधःः सिल्वेर्=> गोल्द्}
शुद्धवैक्रान्तभागैकं किंवा वैक्रान्तसत्त्वकम् ।
नागचूर्णं च भागैकमन्धमूषागतं धमेत् ॥ ३,४.७१ ॥
सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् ।
कर्तव्यं पूर्ववत्प्राज्ञैस्तामादाय विमर्दयेत् ॥ ३,४.७२ ॥
मधुना याममात्रं तु तेन लेपं तु कारयेत् ।
शतांशेन तु पत्राणां तारारिष्टस्य यत्नतः ॥ ३,४.७३ ॥
रुद्ध्वा गजपुटे पच्याद्दिव्यं भवति काञ्चनम् ।
{वेधःः सिल्वेर्=> गोल्द्}
मूलपत्रफलं बिल्वाच्छाकवृक्षाच्च तत्त्रयम् ।
शिग्रुमूलं रसं चैतन्मर्दयेत्किंशुकद्रवैः ॥ ३,४.७४ ॥
अनेन नागचूर्णं तु मर्द्यं मर्द्यं पुटे पचेत् ।
एवं शतपुटैः पक्वं जायते पद्मरागवत् ॥ ३,४.७५ ॥
तेनैव तारपत्राणि मधुलिप्तानि लेपयेत् ।
रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥ ३,४.७६ ॥
तत्तारं जायते दिव्यं जाम्बूनदसमप्रभम् ।
{वेधःः सिल्वेर्=> गोल्द्}
राजावर्तं हिंगुलकं कंकुष्ठं च प्रवालकम् ॥ ३,४.७७ ॥
प्रत्येकं कर्षमात्रं स्याद्रसकस्य पलं तथा ।
सूक्ष्मचूर्णं कृतं सर्वं सिद्धचूर्णेन संयुतम् ॥ ३,४.७८ ॥
अन्धमूषागतं ध्मातं मर्दनादिपुटान्तकम् ।
पूर्ववत्कारयेत्पश्चान्मधुना सह मिश्रयेत् ॥ ३,४.७९ ॥
तारारिष्टस्य पत्राणि लेपयित्वा पुटे पचेत् ।
एवं वारत्रयं कुर्याद्दिव्यं भवति काञ्चनम् ॥ ३,४.८० ॥
{वेधःः सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}
माक्षिकं दरदं तुत्थं राजावर्तं प्रवालकम् ।
एतानि समभागानि द्विभागं रसकं भवेत् ॥ ३,४.८१ ॥
मेषीक्षीरेण तत्सर्वं दिनमेकं विमर्दयेत् ।
छायाशुष्कं तु तत्कृत्वा तुल्यांशं मित्रपञ्चकम् ॥ ३,४.८२ ॥
दत्त्वा तु मर्दयेत्खल्वे तारारिष्टं तु लेपयेत् ।
प्रथमं समकल्केन रुद्ध्वा गजपुटे पचेत् ॥ ३,४.८३ ॥
अर्धकल्केन लेप्याथ पादकल्केन वा पुनः ।
एवं पुटत्रयं देयं दिव्यं भवति काञ्चनम् ॥ ३,४.८४ ॥
{वेधःः सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}
रसकं नागसंतुल्यं रुद्ध्वा खोटं प्रकारयेत् ।
सिद्धचूर्णेन संयुक्तं पुटान्तं पूर्ववत्कृतम् ॥ ३,४.८५ ॥
तेनैव मधुनोक्तेन तारारिष्टं प्रलेपयेत् ।
रुद्ध्वा रुद्ध्वा पुटे पच्यात्त्रिधा भवति काञ्चनम् ॥ ३,४.८६ ॥
{वेधःः सिल्वेर्=> गोल्द्(wइथ्लेअद्)}
गंधकं तालकं शुल्वं समहिंगुलपेषितम् ।
मातुलुङ्गद्रवैः सार्धं नागपत्राणि तेन वै ॥ ३,४.८७ ॥
लिप्त्वा रुद्ध्वा पुटे पच्यात्पुनस्तेनैव मर्दयेत् ।
एवं षष्टिपुटैः पक्वो नागः स्यात्कुङ्कुमप्रभः ॥ ३,४.८८ ॥
तेन तारस्य पत्राणि मधुलिप्तानि लेपयेत् ।
रुद्ध्वा तीव्राग्निना धाम्यमेवं वारत्रये कृते ॥ ३,४.८९ ॥
तत्तारं जायते दिव्यं जाम्बूनदसमप्रभम् ।
{वेधःः लेअद्=> गोल्द्}
लाङ्गली गिरिकर्ण्यग्निः करवीरजमूलकम् ।
सौवीरं टङ्कणं स्तन्यैः पिष्ट्वा पिण्डं प्रकल्पयेत् ॥ ३,४.९० ॥
चतुर्धा विमला शुद्धा तेष्वेका पलमात्रकम् ।
द्विपलं पारदं शुद्धं शुद्धं हेमपलत्रयम् ॥ ३,४.९१ ॥
यामैकं मर्दयेत्सर्वं पूर्वपिण्डोदरे क्षिपेत् ।
तत्पिण्डं वज्रमूषायां रुद्ध्वा धाम्यं हठाग्निना ।
तत्खोटं शतमांशेन द्रुतं नागं तु वेधयेत् ॥ ३,४.९२ ॥
तन्नागेन शतांशेन द्रुतं शुल्बं तु वेधयेत् ।
तत्खोटं शतमांशेन द्रुतं नागं तु वेधयेत् ।
जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥ ३,४.९३ ॥
{वेधःः सिल्वेर्=> गोल्द्}
पारदं कुङ्कुमं गन्धं स्त्रीपुष्पेण दिनावधि ।
मर्दयेत्तुल्यतुल्यांशं तेन कल्केन साधयेत् ॥ ३,४.९४ ॥
शुद्धानि तारपत्राणि लिप्त्वा रुद्ध्वा धमेद्धठात् ।
पत्रं कृत्वा पुनर्लेप्यं रुद्ध्वा धाम्यं च पूर्ववत् ॥ ३,४.९५ ॥
इत्येवं सप्तधा कुर्याल्लेपनं द्रावणं क्रमात् ।
ततस्तस्यैव पत्राणि तेन कल्केन लेपयेत् ॥ ३,४.९६ ॥
उद्घाटं द्रावयेत्तं च द्रुतमाज्ये विनिक्षिपेत् ।
सप्ताहं धारयेत्तस्मिन्दिव्यं भवति काञ्चनम् ॥ ३,४.९७ ॥
{वेधःः सिल्वेर्=> गोल्द्}
कुङ्कुमं गन्धकं सूतं मञ्जिष्ठा तत्समं समम् ।
शाकवृक्षफलद्रावैः सुपक्वैर्मर्दयेद्दिनम् ॥ ३,४.९८ ॥
तेन तारस्य पत्राणि प्रलिप्तानि विशोषयेत् ।
आवर्त्य ढालयेत्तस्मिंस्तेन कल्केन भावितम् ॥ ३,४.९९ ॥
एवं पुनः पुनः कुर्यादेकविंशतिवारकम् ।
तत्तारं जायते स्वर्णं सम्यग्द्वादशवर्णकम् ॥ ३,४.१०० ॥
{वेधःः सिल्वेर्=> गोल्द्}
पारदं कान्तपाषाणं गन्धकं रक्तचन्दनम् ।
रुदन्तीद्रवसंयुक्तं दिनमेकं विमर्दयेत् ॥ ३,४.१०१ ॥
तेन तारस्य पत्राणि प्रविलिप्तानि शोषयेत् ।
धामयेदन्धमूषायामेवं कुर्यात्त्रिसप्तधा ॥ ३,४.१०२ ॥
शाकवृक्षस्य मूलं तु भाव्यं तत्पत्रजैर्द्रवैः ।
रक्ताश्वमारजैश्चैव पृथग्भाव्यं त्रिधा त्रिधा ॥ ३,४.१०३ ॥
अनेन पूर्वतारस्य द्रुतस्य प्रतिवापनम् ।
दापयेत्सप्तवारं तु दिव्यं भवति काञ्चनम् ॥ ३,४.१०४ ॥
{सिद्धचूर्ण}
गन्धकं गन्धमूली च रविदुग्धेन मर्दयेत् ।
मृण्मये संपुटे रुद्ध्वा मासं भूमौ विनिक्षिपेत् ॥ ३,४.१०५ ॥
उद्धृत्य तेन तारस्य पत्रलेपं तु कारयेत् ।
पूर्वतारे द्रुते देयः प्रतिवापः पुनः पुनः ॥ ३,४.१०६ ॥
सप्तविंशतिमे वापे तत्तारं काञ्चनं भवेत् ।
{सिद्धचूर्ण}
शुद्धसूतसमं गन्धं खल्वे मर्द्यं दिनावधि ॥ ३,४.१०७ ॥
जायते कज्जली श्रेष्ठा सर्वकार्यकरी शुभा ।
कज्जली टङ्कणं ताप्यं प्रत्येकं कर्षमात्रकम् ॥ ३,४.१०८ ॥
कर्षद्वयं शुद्धगन्धं यामं सर्वं विचूर्णयेत् ।
सिद्धचूर्णमिदं ख्यातं भवेत्पादादिकं पलम् ॥ ३,४.१०९ ॥
यत्र यत्र मिलत्येतत्तत्र चूर्णं पलं पलम् ।
योजयेल्लोहवादेषु तदिदानीं निगद्यते ॥ ३,४.११० ॥
{वेध, रञ्जनःः सिल्वेर्=> गोल्द्}
ताम्रतीक्ष्णारकान्तानां चूर्णमेकस्य चाहरेत् ।
यथा लोहे पलैकं तु सिद्धचूर्णेन संयुतम् ॥ ३,४.१११ ॥
वज्रमूषागतं रुद्ध्वा ध्मातं खोटं भवेत्तु तत् ।
तुल्यैर्भूनागजीवैर्वा गन्धकेन समेन वा ॥ ३,४.११२ ॥
मर्दयेन्मातुलुङ्गाम्लैः पूर्वखोटं दिनावधि ।
तत्पिण्डं पक्वमूषायां रुद्ध्वा गजपुटे पचेत् ॥ ३,४.११३ ॥
आरण्योपलकैरेवं पुटं दद्याच्चतुर्दश ।
इन्द्रगोपकसंकाशं जायते पूजयेच्छिवम् ॥ ३,४.११४ ॥
क्षौद्रयुक्तेन तेनैव तारपत्राणि लेपयेत् ।
रुद्ध्वा धमेत्पुटेद्वाथ एवं वारत्रये कृते ॥ ३,४.११५ ॥
जायते कनकं दिव्यं सिद्धोऽयं ताररञ्जकः ।
इत्येवं सर्वयोगानामत्रत्यानां पृथक्पृथक् ॥ ३,४.११६ ॥
सिद्धचूर्णेन संयुक्तं कर्तव्यं विधिना बुधैः ।
{वेधःः सिल्वेर्=> गोल्द्}
शुल्बं नागं समं धाम्यं समं वा शुल्ववङ्गकम् ॥ ३,४.११७ ॥
आवर्तते तु तच्चूर्णं सिद्धचूर्णेन पूर्ववत् ।
शुल्बं नागं वङ्गघोषं यथेष्टैकं विचूर्णयेत् ॥ ३,४.११८ ॥
तत्समं तीक्ष्णचूर्णं च त्वन्धमूषागतं धमेत् ।
एतत्खोटं विचूर्ण्याथ सिद्धचूर्णेन संयुतम् ॥ ३,४.११९ ॥
पूर्ववत्क्रमयोगेन तारमायाति काञ्चनम् ।
{??}
शुल्बस्य भागत्रितयमेकैकं नागवङ्गयोः ॥ ३,४.१२० ॥
समावर्त्य विचूर्ण्याथ सिद्धचूर्णेन पूर्ववत् ।
नागमेकं द्वयं शुल्बं तच्छुल्वेनैव पन्नगम् ॥ ३,४.१२१ ॥
रुद्ध्वा ध्मातं च तच्चूर्ण्य सिद्धचूर्णेन पूर्ववत् ।
सिद्धचूर्णत्रयो भागा भागैकं हेमगैरिकम् ॥ ३,४.१२२ ॥
रुद्ध्वा ध्मातं पुनश्चूर्ण्य सिद्धचूर्णेन पूर्ववत् ।
{वेधःः सिल्वेर्=> गोल्द्}
गन्धकेन हतं शुल्वं माक्षिकं च समं समम् ॥ ३,४.१२३ ॥
हंसपाच्चित्रकद्रावैर्दिनमेकं विमर्दयेत् ।
तेनैव तारपत्राणि लिप्त्वा रुद्ध्वा पुटे पचेत् ॥ ३,४.१२४ ॥
तमुद्धृत्य धमेत्पश्चात्कृत्वा पत्राणि लेपयेत् ।
पूर्वकल्केन रुद्ध्वाथ पुटं दत्त्वा समुद्धरेत् ॥ ३,४.१२५ ॥
इत्येवं दशधा कुर्यात्तारमायाति काञ्चनम् ।
{सिल्वेर्ःः रञ्जन}
तीक्ष्णं द्वयं त्रयं घोषमारं भागचतुष्टयम् ॥ ३,४.१२६ ॥
नवभागं ताम्रचूर्णं नागं च नवभागकम् ।
अंधमूषागतं ध्मातं तत्खोटं सूक्ष्मचूर्णितम् ॥ ३,४.१२७ ॥
सिद्धचूर्णेन संयुक्तं पूर्ववत्ताररञ्जनम् ।
{??}
मृतनागसमं तुत्थं द्वाभ्यां तुल्यं च माक्षिकम् ॥ ३,४.१२८ ॥
केवलं मृतनागं वा सिद्धचूर्णेन पूर्ववत् ।
{वेधःः सिल्वेर्=> गोल्द्}
नागाभ्रं वाथ वङ्गाभ्रमन्धयित्वा धमेद्धठात् ॥ ३,४.१२९ ॥
तत्खोटं सूक्ष्मचूर्णं तु सिद्धचूर्णेन संयुतम् ।
पूर्ववत्क्रमयोगेन तारमायाति काञ्चनम् ॥ ३,४.१३० ॥
{वेधःः सिल्वेर्=> गोल्द्}
तीक्ष्णं शुल्बं नागवङ्गं मृतं नागं तु तुत्थकम् ।
चूर्णितं भागमेकैकं द्वौ भागौ हेममाक्षिकम् ॥ ३,४.१३१ ॥
वज्रमूषागतं रुद्ध्वा ध्मातं खोटं सुचूर्णितम् ।
सिद्धचूर्णेन संयुक्तं तारमायाति काञ्चनम् ॥ ३,४.१३२ ॥
{तारारिष्टःः प्रोदुच्तिओन्}
शुल्बचूर्णं तीक्ष्णचूर्णं तुल्यं रुद्ध्वा धमेद्धठात् ।
तत्खोटं सिद्धचूर्णं तु मर्द्यं पाच्यं च पूर्ववत् ॥ ३,४.१३३ ॥
तेनैव मधुयुक्तेन तारपत्राणि लेपयेत् ।
रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥ ३,४.१३४ ॥
पीतवर्णं भवेत्तत्तु तारारिष्टं निगद्यते ।
{तारारिष्टःः प्रोदुच्तिओन्}
वङ्गं नागं समं कान्तमथवा ताम्रनागकम् ॥ ३,४.१३५ ॥
माक्षिकं शुल्बतीक्ष्णं च शुल्वं नागं सवङ्गकम् ।
एते योगास्तु चत्वारः पृथक्चूर्णानि कारयेत् ॥ ३,४.१३६ ॥
पृथग्ध्मातानि खोटानि सिद्धचूर्णयुतानि च ।
मर्दनादिपुटान्तानि तारारिष्टकराणि वै ॥ ३,४.१३७ ॥
{वेधःः सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}
पूर्ववल्लेपयोगेन प्रत्येकेन तु कारयेत् ।
तारारिष्टस्य तस्यैव स्वर्णीकरणमुच्यते ॥ ३,४.१३८ ॥
{वेधःः सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}
शुद्धवैक्रान्तभागैकं किंवा वैक्रान्तसत्त्वकम् ।
नागचूर्णं तु भागैकमन्धमूषागतं धमेत् ॥ ३,४.१३९ ॥
सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् ।
कर्तव्यं पूर्ववत्प्राज्ञैस्तमादाय विमर्दयेत् ॥ ३,४.१४० ॥
मधुना याममात्रं तु तेन लेपं तु कारयेत् ।
शतांशेन तु पत्राणां तारारिष्टस्य यत्नतः ॥ ३,४.१४१ ॥
रुद्ध्वा गजपुटे पक्त्वा दिव्यं भवति काञ्चनम् ।
{वेधःः सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}
राजावर्तं हिङ्गुलकं कंकुष्ठं च प्रवालकम् ॥ ३,४.१४२ ॥
प्रत्येकं कर्षमात्रं स्याद्रसकस्य पलं तथा ।
सूक्ष्मचूर्णं कृतं सर्वं सिद्धचूर्णेन संयुतम् ॥ ३,४.१४३ ॥
अन्धमूषागतं ध्मातं मर्दनादिपुटान्तकम् ।
पूर्ववत्कारयेत्पश्चान्मधुना सह मिश्रयेत् ॥ ३,४.१४४ ॥
तारारिष्टस्य पत्राणि लेपयित्वा पुटे पचेत् ।
एवं वारत्रयं कुर्याद्दिव्यं भवति काञ्चनम् ॥ ३,४.१४५ ॥
{वेधःः सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}
माक्षिकं दरदं तुत्थं राजावर्तं प्रवालकम् ।
एतानि समभागानि द्विभागो रसको भवेत् ॥ ३,४.१४६ ॥
मेषीक्षीरेण तत्सर्वं दिनमेकं विमर्दयेत् ।
छायाशुष्कं तु तत्कृत्वा तुल्यांशं मित्रपंचकम् ॥ ३,४.१४७ ॥
दत्त्वा तु मर्दयेत्खल्वे तारारिष्टं तु लेपयेत् ।
प्रथमं समकल्केन रुद्ध्वा गजपुटे पचेत् ॥ ३,४.१४८ ॥
अर्धकल्केन लेप्योऽथ पादकल्केन वै पुनः ।
एवं पुटत्रये दत्ते दिव्यं भवति कांचनम् ॥ ३,४.१४९ ॥
{वेधःः सिल्वेर्=> गोल्द्(wइथ्तारारिष्ट)}
रसकं नागसंतुल्यं रुद्ध्वा खोटं प्रकारयेत् ।
सिद्धचूर्णेन संयुक्तं पुटान्ते पूर्ववत्कृतम् ॥ ३,४.१५० ॥
तेनैव मधुनाक्तेन तारारिष्टं प्रलेपयेत् ।
रुद्ध्वा रुद्ध्वा पुटैः पच्यात्त्रिधा भवति काञ्चनम् ॥ ३,४.१५१ ॥
{वेधःः सिल्वेर्=> गोल्द्(wइथ्चोप्पेर्)}
शुल्बपत्राणि तप्तानि आरनाले विनिक्षिपेत् ।
पुनः पाच्यं पुनः क्षेप्यं यावत्तत्रैव शीर्यते ॥ ३,४.१५२ ॥
तत्पत्रमारनालस्थं क्षालयेदारनालकैः ।
पादांशं टङ्कणं दत्त्वा याममम्लेन पेषयेत् ॥ ३,४.१५३ ॥
रुद्ध्वा लघुपुटैः पच्यादेवं शतपुटैः पचेत् ।
मध्वाज्यं टङ्कणः पश्चात्पच्याद्रुद्ध्वा धमेद्धठात् ॥ ३,४.१५४ ॥
तच्छुल्बं कालिकाहीनं जायते शुकतुण्डवत् ।
तच्छुल्बं त्रिगुणं तारे निर्वाप्यं काञ्चनं भवेत् ॥ ३,४.१५५ ॥
{वेधःः सिल्वेर्=> गोल्द्}
शिग्रुपत्रसमैः पत्रैर्मूलैः प्रवालसंनिभैः ।
ज्ञेया दिव्यौषधी सिद्धा नाम्ना सा कीटमारिणी ॥ ३,४.१५६ ॥
तद्द्रवैः पारदो मर्द्यो यावत्सप्तदिनावधि ।
तेनैव तारपत्राणि प्रलिप्तानि विशोषयेत् ॥ ३,४.१५७ ॥
रुद्ध्वा गजपुटे पच्यादेवं कुर्यात्त्रिसप्तधा ।
जायते कनकं दिव्यं पुरा नागार्जुनोदितम् ॥ ३,४.१५८ ॥
{वेधःः सिल्वेर्=> गोल्द्}
शुद्धसूतसमा राजी सूतपादं च गन्धकम् ।
मृद्भाण्डे पाचयेच्चुल्ल्यां धत्तूरद्रवसंयुतम् ॥ ३,४.१५९ ॥
वासाकाष्ठेन तन्मर्द्यं द्रवो देयः पुनः पुनः ।
एवं दिनत्रयं कुर्याज्जायते भस्मसूतकः ॥ ३,४.१६० ॥
तन्मर्द्यं मातुलुङ्गाम्लैर्दिनमेकं तु तेन वै ।
चतुःषष्टितमांशेन तारपत्राणि लेपयेत् ॥ ३,४.१६१ ॥
रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ।
तत्तारं जायते स्वर्णं महादेवेन भाषितम् ॥ ३,४.१६२ ॥
तारस्य रञ्जनमिदं सुखभोगहेतुं कृत्वा विवेकमतिभिर्भुवने जनानाम् ।
देयं सदा सकलकीर्तिशुभाप्तिसिद्ध्यै नो चेद्वने वसतिरेव परा हि धन्या ॥ ३,४.१६३ ॥

३, ५
महारसैश्चोपरसैः ससूतैर्हेम्नो दलं रञ्जनमत्र युक्त्या ।
नानाविधं वर्णविवर्धनं च तत्कथ्यते वार्त्तिकभुक्तियोग्यम् ॥ ३,५.१ ॥
{गोल्द्ःः fरों सितस्वर्ण}
वैक्रान्तसत्त्वभागैकं शुद्धवैक्रान्तमेव वा ।
कांस्याख्या विमला वापि हेमाख्या विमलापि वा ॥ ३,५.२ ॥
समेन नागचूर्णेन अन्धमूषागतं धमेत् ।
सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् ॥ ३,५.३ ॥
आदाय मधुना पेष्यं याममात्रं प्रयत्नतः ।
स्वर्णं तारं समं द्राव्यं तेन पत्राणि कारयेत् ॥ ३,५.४ ॥
सितस्वर्णमिदं ख्यातं पूर्वकल्केन लेपयेत् ।
रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥ ३,५.५ ॥
जायते कनकं दिव्यं सेचयेल्लवणोदकैः ।
लोहसंक्रान्तिनुत्त्यर्थं सेच्यं ब्राह्मीद्रवेण वा ॥ ३,५.६ ॥
एवं विमलनागाभ्यां पृथग्योग उदाहृतः ।
{गोल्द्ःः fरों सितस्वर्ण}
नागवैक्रान्तयोगेन मधूच्छिष्टेन लेपयेत् ॥ ३,५.७ ॥
सहस्रांशे सिते हेमे दिव्यं भवति काञ्चनम् ।
{सितस्वर्ण => गोल्द्}
मेषीक्षीराम्लवर्गाभ्यां दरदं घर्मभावितम् ॥ ३,५.८ ॥
शतधा तत्प्रयत्नेन शोष्यं पेष्यं पुनः पुनः ।
अनेन सितस्वर्णस्य पत्रं लिप्त्वा पुटे पचेत् ॥ ३,५.९ ॥
एवं त्रिसप्तधा कुर्याद्दिव्यं भवति काञ्चनम् ।
{सितस्वर्ण => गोल्द्}
नागचूर्णं ताप्यचूर्णं नागवैक्रान्तमेव वा ॥ ३,५.१० ॥
अंधमूषागतं खोटं सिद्धचूर्णेन संयुतम् ।
मर्दनं पुटपाकं च पूर्ववत्कारयेत्क्रमात् ॥ ३,५.११ ॥
तेनैव मधुनाक्तेन शुद्धं हाटकपत्रकम् ।
लिप्त्वा लिप्त्वा पुटैः पच्याद्यावत्कुङ्कुमसंनिभम् ॥ ३,५.१२ ॥
एतत्स्वर्णशतांशेन सितस्वर्णं तु वेधयेत् ।
जायते कनकं दिव्यं रक्तवर्गेण सेचयेत् ॥ ३,५.१३ ॥
{सितस्वर्ण => गोल्द्}
वैक्रान्तं नागचूर्णं च पुटान्तं पूर्ववत्कृतम् ।
शतांशे नैव वेधंतु सितहेमेन पूर्ववत् ॥ ३,५.१४ ॥
लेपनात्पुटपाकाच्च दिव्यं भवति कांचनम् ।
{सितस्वर्ण => गोल्द्}
माक्षिकस्य समांशेन राजावर्तं दिनत्रयम् ॥ ३,५.१५ ॥
मातुलुङ्गद्रवैर्मर्द्य तेन पत्राणि लेपयेत् ।
पूर्वाक्तसितस्वर्णस्य रुद्ध्वा गजपुटे पचेत् ॥ ३,५.१६ ॥
पुनर्लेप्यं पुनः पाच्यं सप्तधा कांचनं भवेत् ।
{सिल्वेर्=> गोल्द्}
राजावर्तं च सिन्दूरं पारावतमलं समम् ॥ ३,५.१७ ॥
अशीत्यंशेन कुरुते स्वर्णं रौप्यं च पूर्ववत् ।
{मिxतुरे ओf गोल्दन्द्सिल्वेर्=> गोल्द्}
रसैः शिरीषपुष्पस्य आर्द्रकस्य रसैः समैः ॥ ३,५.१८ ॥
भावयेत्सप्तवाराणि राजावर्तं सुचूर्णितम् ।
तेनैव शतमांशेन स्वर्णतारं द्रुतं समम् ॥ ३,५.१९ ॥
वेधयेत्पूर्ववत्सिद्धं दिव्यं भवति काञ्चनम् ।
{मिxतुरे ओf गोल्दन्द्सिल्वेर्=> गोल्द्}
कङ्कुष्ठं विमला ताप्यं रसकं दरदं शिला ॥ ३,५.२० ॥
राजावर्तं प्रवालं च काङ्क्षीगैरिकटङ्कणम् ।
सैन्धवं चूर्णयेत्तुल्यमशीत्यंशेन वापयेत् ॥ ३,५.२१ ॥
द्रुते समे स्वर्णतारे पूर्ववत्सेचयेत्क्रमात् ।
त्रिवारं वापयेदेवं दिव्यं भवति काञ्चनम् ॥ ३,५.२२ ॥
{बीजःः पक्वःः प्रोदुच्तिओन्}
गैरिकं च प्रवालं च काकमाच्या द्रवैः समम् ।
यामं मर्द्यं तु तद्रुद्ध्वा आरण्योत्पलकैः पुटेत् ॥ ३,५.२३ ॥
इत्येवं तु त्रिधा कुर्यान्मर्दनं पुटपाचनम् ।
तदर्धं हिङ्गुलं शुद्धं क्षिप्त्वा तस्मिन्विमर्दयेत् ॥ ३,५.२४ ॥
काञ्जिकैर्याममात्रं तु पुटेनैकेन पाचयेत् ।
अस्य कल्कस्य भागैकं भागाश्चत्वारि हाटकम् ॥ ३,५.२५ ॥
अन्धमूषागतं ध्मातं समादाय विचूर्णयेत् ।
पूर्ववत्पूर्वकल्केन रुद्ध्वा देयं पुटं पुनः ॥ ३,५.२६ ॥
एवं चतुःपुटैः पक्वं स्वर्णं गुञ्जानिभं भवेत् ।
पक्वबीजमिदं सिद्धं तत्तत्कर्मणि योजयेत् ॥ ३,५.२७ ॥
{सितस्वर्ण => गोल्द्}
अनेन षोडशांशेन सितस्वर्णं तु वेधयेत् ।
सेचयेत्कुङ्कुणीतैले रक्तवर्गेण वापितम् ॥ ३,५.२८ ॥
पुनर्वेध्यं पुनः सेच्यं षोडशांशेन बुद्धिमान् ।
एवं वारत्रयं वेध्यं दिव्यं भवति काञ्चनम् ॥ ३,५.२९ ॥
{गोल्द्ःः रञ्जनःः दशवर्ण}
पूर्वोक्तपक्वबीजेन वेधयेदष्टवर्गकम् ।
तत्स्वर्णं दशवर्णं स्यात्पुटे दत्ते न हीयते ॥ ३,५.३० ॥
{गोल्द्ःः रक्ती (रञ्जन)}
निष्काः षोडश तुत्थस्य सूतहिङ्गुलगन्धकम् ।
टङ्कणं च तथैकैकं योज्यं निष्कचतुष्टयम् ॥ ३,५.३१ ॥
सर्वमेतद्दिनं मर्द्यं त्रिधारस्नुक्पयोऽन्वितम् ।
निष्कमात्रां वटीं कृत्वा श्रेष्ठे स्वर्णे द्रुते क्षिपेत् ॥ ३,५.३२ ॥
एकैकं निष्कमात्रं तु मूषामध्ये दिनं धमेत् ।
जीर्णे जीर्णे पुनर्देया एवं सर्वाः प्रदापयेत् ॥ ३,५.३३ ॥
गुञ्जावर्णं भवेत्स्वर्णं ख्यातेयं हेमरक्तिका ।
{गोल्द्ःः रञ्जनःः अष्टवर्ण => दशवर्ण}
अष्टवर्णसुवर्णस्य द्रावितस्य दशांशतः ॥ ३,५.३४ ॥
क्षिपेत्तज्जायते सत्यं दशवर्णं तु शोभनम् ।
{गोल्द्ःः रञ्जनःः अष्टवर्ण => दशवर्ण}
ताम्रतुल्येन नागेन शोधयेद्धमनेन च ॥ ३,५.३५ ॥
ताम्रतुल्यं शुद्धहेम समावर्त्य तु पत्त्रयेत् ।
इष्टिका तुवरी चैव खटिका लवणं तथा ॥ ३,५.३६ ॥
गैरिकं भागवृद्ध्यांशमारनालेन पेषयेत् ।
तेन लिप्त्वा पूर्वपत्रं रुद्ध्वा गजपुटे पचेत् ॥ ३,५.३७ ॥
एवं पुनः पुनः पाच्यं यावत्स्वर्णावशेषितम् ।
तत्स्वर्णं ताम्रसंयुक्तं समावर्त्य तु पत्त्रयेत् ॥ ३,५.३८ ॥
पूर्ववत्पुटपाकेन पचेत्स्वर्णावशेषितम् ।
इत्येवं षड्गुणं ताम्रं स्वर्णे बाह्यं क्रमेण तु ॥ ३,५.३९ ॥
तत्सर्वं जायते दिव्यं पद्मरागसमप्रभम् ।
षट्त्रिंशांशेन तेनैव अष्टवर्णं तु वेधयेत् ॥ ३,५.४० ॥
तत्स्वर्णं जायते दिव्यं दशवर्णं न संशयः ।
{गोल्द्ःः रञ्जनःः अष्टवर्ण => दशवर्ण}
समं ताप्यं ताम्रचूर्णं ताप्यार्धं लोहचूर्णकम् ॥ ३,५.४१ ॥
कन्याद्रावैः क्षणं मर्द्य घर्मे तेनैव भावयेत् ।
एवं वारांश्चतुःषष्टिस्ततः शुष्कं विचूर्णयेत् ॥ ३,५.४२ ॥
षोडशांशेन तेनैव अष्टवर्णं तु वेधयेत् ।
तत्स्वर्णं जायते दिव्यं दशवर्णं न संशयः ॥ ३,५.४३ ॥
{गोल्द्ःः रञ्जनःः अष्टवर्ण => दशवर्ण}
रसकं घोषताम्रं च काचं श्वेतं नृकेशकम् ।
पलानि पञ्चपञ्चैव प्रत्येकं चूर्णयेत्पृथक् ॥ ३,५.४४ ॥
रसकात्त्रिगुणं योज्यं तीक्ष्णचूर्णं पुनस्ततः ।
गन्धकं रसकं कांस्यमाक्षिकं चाष्टनिष्ककम् ॥ ३,५.४५ ॥
विंशनिष्कं धूमसारं सर्वमेतद्दिनावधि ।
मर्द्यं जम्बीरजैर्द्रावैः कर्षांशं वटकीकृतम् ॥ ३,५.४६ ॥
कोष्ठीयन्त्रे हठाद्धाम्यं यावत्ताम्रावशेषितम् ।
षड्गुणं तस्य ताम्रस्य सीसे वाह्यं धमन्धमन् ॥ ३,५.४७ ॥
षट्त्रिंशांशेन तेनैव अष्टवर्णं तु वेधयेत् ।
दशवर्णं भवेत्तत्तु नात्र कार्या विचारणा ॥ ३,५.४८ ॥
{चोप्पेर्ःः रेमोविन्ग्कालिका}
अथान्यस्य च ताम्रस्य नागशुद्धस्य कारयेत् ।
निर्गुण्डिकारसेनैव पञ्चाशद्वारढालनम् ॥ ३,५.४९ ॥
कुष्माण्डस्य रसेनैव सप्तवारं तु ढालनम् ।
निशायुक्तेन तक्रेण सप्तवारं तु ढालनम् ।
एवं ताम्रं द्रुतं ढाल्यं कालिकारहितं भवेत् ॥ ३,५.५० ॥
{चोप्पेर्, सिल्वेर्, गोल्द्=> गोल्द्}
एतत्ताम्रं त्रिभागं स्याद्भागाः पञ्चैव हाटकम् ।
रौप्यं भागद्वयं शुद्धं सर्वमावर्तयेत्ततः ॥ ३,५.५१ ॥
जायते कनकं दिव्यं पुरा नागार्जुनोदितम् ।
{गोल्द्ःः रञ्जनःः Vएर्बेस्सेरुन्गुं श्wएइ Fअर्ब्स्तुfएन्}
अङ्कोल्लकाष्ठं प्रज्वाल्य आरण्योपलचूर्णकम् ॥ ३,५.५२ ॥
अङ्कोल्लबीजचूर्णं तु ज्वलत्काष्ठोपरि क्षिपेत् ।
तदङ्गारान् समादाय शीतलांश्च पुनर्धमेत् ॥ ३,५.५३ ॥
अङ्कोल्लबीजचूर्णं तु क्षिप्त्वा वस्त्रेण बन्धयेत् ।
तद्धूमैः स्वर्णपत्राणि दशवर्णानि धूपयेत् ॥ ३,५.५४ ॥
द्रावयित्वा क्षिपेत्तैले पुत्रजीवोत्थिते पुनः ।
एवं वारद्वये क्षिप्ते वर्धते वर्णकद्वयम् ॥ ३,५.५५ ॥
अल्पाल्पयुक्ति विभवैः सुखसाध्ययोगैरल्पाल्पकर्मविधिना बहुभिर्विशेषैः ।
लाभार्थपाददशमांशकरोपदेशः प्रोक्तो मया सकललोकहिताय सत्यम् ॥ ३,५.५६ ॥

३, ६
नानारक्तसुपीतपुष्पनिचयादादाय सारं निजम् ।
तस्मिञ्छोधितपन्नगं द्रुतमतः संढाल्यं वारं शतम् ।
पश्चाद्रञ्जनवेधनं च विधिना चन्द्रार्कताम्रस्य यत् ।
तत्सर्वं गुरुशास्त्रतः स्वमतिना संकथ्यते सांप्रतम् ॥ ३,६.१ ॥
{मेर्चुर्य्ःः रक्तपारदःः प्रोदुच्तिओन्}
स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता ।
तस्याः षोडशभागा वै भागैकं मृतवज्रकम् ॥ ३,६.२ ॥
देवदाल्याः शङ्खपुष्प्या द्रवैर्मर्द्य दिनत्रयम् ।
पचेत्कच्छपयन्त्रस्थं पुटैकेन समुद्धरेत् ॥ ३,६.३ ॥
यामैकं पूर्वजैर्द्रावैर्मर्द्य तत्पूर्ववत्पुटेत् ।
एवं सप्तपुटैः पक्वो यामं मर्द्यश्च तैर्द्रवैः ॥ ३,६.४ ॥
दिनैकं पातनायन्त्रे पाचयेल्लघुनाग्निना ।
पुनर्मर्द्यं पुनः पाच्यं यावदूर्ध्वं न गच्छति ॥ ३,६.५ ॥
अधोयन्त्रे यदा तिष्ठेत्तदा स्याद्रक्तपारदः ।
{लेअद्=> गोल्द्}
रक्तपारदभागैकं द्वयं कृष्णाभ्रसत्त्वकम् ॥ ३,६.६ ॥
टङ्कणस्य च भागैकं सर्वं मर्द्यं दिनावधि ।
वज्रीक्षीरैस्तु तत्पिण्डं रुद्ध्वा गजपुटे पचेत् ॥ ३,६.७ ॥
पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ।
षोडशांशेन नागस्य वेधे दत्ते च काञ्चनम् ॥ ३,६.८ ॥
जायते दिव्यरूपाढ्यं देवाभरणमुत्तमम् ।
{लेअद्=> गोल्द्}
शाककिंशुककोरण्टद्रवैः कङ्गुणितैलतः ॥ ३,६.९ ॥
मर्दयेन्नागचूर्णं तु दिनं संपुटगं पचेत् ।
सम्यग्गजपुटेनैव मर्द्य पाच्यं पुनः पुनः ॥ ३,६.१० ॥
चत्वारिंशत्पुटैः सिध्यं दिव्यं भवति काञ्चनम् ।
{लेअद्=> गोल्द्}
रसकं कुङ्कुमं तुत्थं बालवत्सपुरीषकम् ॥ ३,६.११ ॥
पीताभ्रकं विषं तुल्यं मातुलुङ्गद्रवैर्दिनम् ।
मर्दितं छायया शुष्कं मधुना सह कल्कयेत् ॥ ३,६.१२ ॥
तेन नागस्य पत्राणि लिप्त्वा शोष्याणि छायया ।
अन्धमूषागतं ध्मातं शाकपत्रद्रवे ततः ॥ ३,६.१३ ॥
सेचयेदुद्धरेत्पश्चात्प्रकटं द्रावयेत्पुनः ।
शाकपत्रद्रवैः सेच्यं पुनर्द्राव्यं च सेचयेत् ॥ ३,६.१४ ॥
इत्येवं सप्तधा कुर्यात्पुनः पत्राणि कारयेत् ।
लेपयेत्पूर्ववच्छोष्यं रुद्ध्वा धाम्यं च पूर्ववत् ॥ ३,६.१५ ॥
सेचनं द्रावणं चैव सप्तवाराणि कारयेत् ।
इत्येवं सप्तधा कुर्याल्लेपादि द्रावणान्तकम् ॥ ३,६.१६ ॥
तन्नागं जायते दिव्यं जाम्बूनदसमप्रभम् ।
{लेअद्=> गोल्द्}
दग्धं तु चुन्नपाषाणमारनाले विनिक्षिपेत् ॥ ३,६.१७ ॥
मृत्पात्रे लोलितं स्थाप्यं दिवारात्रं प्रयत्नतः ।
तत्स्वच्छं ग्राहयेद्द्रावं तद्द्रावैः शाककुड्मलान् ॥ ३,६.१८ ॥
पेषयेत्तेन कल्केन नागचूर्णं विमर्दयेत् ।
यामान्ते शोषयेद्घर्मे पुनर्मर्द्य च शोषयेत् ॥ ३,६.१९ ॥
इत्येवं दशधा कुर्यात्तद्गोलं निक्षिपेत्पुनः ।
शाकदण्डस्य सार्द्रस्य गर्भे तेनैव रोधयेत् ॥ ३,६.२० ॥
मृदा लिप्तं तु तच्छुष्कं सम्यग्गजपुटे पचेत् ।
समुद्धृत्य भवेत्पीतं स्तम्भनं चास्य कथ्यते ॥ ३,६.२१ ॥
{लेअद्=> गोल्द्}
गोमूत्रैः क्षालयेदादौ भूनागाञ्जीवसंयुतान् ।
सौवीराञ्जनमेतेषु तुल्यं क्षिप्त्वा विमर्दयेत् ॥ ३,६.२२ ॥
दिनैकं महिषीमूत्रैर्जातं गोलं समुद्धरेत् ।
तस्मात्पातालयन्त्रेण ग्राह्यं तैलं प्रयत्नतः ॥ ३,६.२३ ॥
तस्मिंस्तैले पूर्वनागमथवा शुद्धनागकम् ।
द्रावितं द्रावितं क्षेप्यमेकविंशतिवारकम् ॥ ३,६.२४ ॥
तन्नागं जायते दिव्यं जाम्बूनदसमप्रभम् ।
{लेअद्=> गोल्द्}
शुद्धनागस्य चूर्णं तु समं भूनागचूर्णकम् ॥ ३,६.२५ ॥
शाककिंशुककोरण्टपुष्पाणां ग्राहयेद्रसम् ।
यथालाभेन तद्द्रावैर्दिनमेकं विमर्दयेत् ॥ ३,६.२६ ॥
अंधमूषागतं धाम्यं ततश्चूर्णं तु कारयेत् ।
पूर्ववन्मर्दितं धाम्यमेवं कुर्यात्त्रिसप्तधा ॥ ३,६.२७ ॥
जायते कनकं दिव्यं तन्नागं देवभूषणम् ।
{चोप्पेर्=> गोल्द्}
शुद्धनागपलैकेन मूषा कार्या सुवर्तुला ॥ ३,६.२८ ॥
पलं शुद्धरसं तस्यां क्षिपेद्गन्धं पलद्वयम् ।
तां मूषां मृण्मये पात्रे धारयेदातपे खरे ॥ ३,६.२९ ॥
दिनं जम्बीरनीरेण काकमाचीद्रवैर्दिनम् ।
कासमर्दरसैश्चाहो दिनं धत्तूरजैर्द्रवैः ॥ ३,६.३० ॥
क्रमेण भावयेदेवं घर्मे दिनचतुष्टयम् ।
मृत्पात्रात्सर्वमुद्धृत्य यथा किंचिन्न गच्छति ॥ ३,६.३१ ॥
पिष्ट्वा धत्तूरजैर्द्रावैः करञ्जस्य तु बीजकम् ।
तेनैवाङ्गुलमात्रं तु मूषागर्भं प्रलेपयेत् ॥ ३,६.३२ ॥
पूर्वे पिण्डं क्षिपेत्तत्र पलैकं चाथ गन्धकम् ।
भूनागानां द्रवं तत्र निक्षिपेन्निष्कपञ्चकम् ॥ ३,६.३३ ॥
विधाय लेपकल्केन ततो मूषां निरुध्य च ।
भूधरे दिनमेकं तु करीषाग्नौ विपाचयेत् ॥ ३,६.३४ ॥
स्वाङ्गशीतं समुद्धृत्य मूषायां पूर्ववत्क्षिपेत् ।
लेपं गन्धं च भूनागं पूर्ववच्च पुटे पचेत् ॥ ३,६.३५ ॥
एवं विंशगुणं यावज्जार्यं गन्धं सुसाधितम् ।
सार्धं पलद्वयं तालं रसकं चापि तत्समम् ॥ ३,६.३६ ॥
पलैकं टङ्कणं पिष्ट्वा द्विधा कुर्यात्त्रयं पृथक् ।
काचकूप्यन्तरे क्षिप्त्वा तालकार्धं ततः क्षिपेत् ॥ ३,६.३७ ॥
रसकं टङ्कणं पश्चात्सिद्धं पूर्वरसं पुनः ।
टङ्कणं रसकं तालं क्रमाद्दद्यात्पुनस्त्रयम् ॥ ३,६.३८ ॥
काचकूप्या मुखं दीपतप्तं स्वाङ्गन वेष्टयेत् ।
अथवा काचकीलेन रुद्ध्वा मृल्लवणेन च ॥ ३,६.३९ ॥
कूपिकां च मृदा लेप्य सर्वत्राङ्गुलमात्रकम् ।
तां शुष्कां भूधरे यन्त्रे क्षिप्त्वा पूर्वं च खर्परम् ॥ ३,६.४० ॥
दत्त्वा मृदा लिपेत्संधिं देयं गजपुटं पुनः ।
स्वाङ्गशीतं समुद्धृत्य बलिं पूजां च कारयेत् ॥ ३,६.४१ ॥
चतुःषष्टितमांशेन द्रुतं शुल्बं तु वेधयेत् ।
स्वर्णं भवति रूपाढ्यं सिद्धयोग उदाहृतः ॥ ३,६.४२ ॥
{चन्द्रार्क => गोल्द्}
पलानि दश गन्धस्य सूतकस्यैकविंशतिः ।
महाकालस्य बीजोत्थतैलं पञ्चपलं भवेत् ॥ ३,६.४३ ॥
सर्वं स्निग्धघटे रुद्ध्वा पाचयेन्मृदुवह्निना ।
माषपिष्टप्रलेपेन यथा धूमो न गच्छति ॥ ३,६.४४ ॥
स सूतो जायते खोटश्चन्द्रार्के द्राविते क्षिपेत् ।
सहस्रांशेन तेनैव दिव्यं भवति काञ्चनम् ॥ ३,६.४५ ॥
{चोप्पेर्=> गोल्द्}
पारदं गंधकं तुल्यं देवदालीद्रवैर्दिनम् ।
मर्दितं तेन ताम्रस्य पत्रलेपं तु कारयेत् ॥ ३,६.४६ ॥
आवर्त्य चान्धमूषायां समुद्धृत्य ततः पुनः ।
शाकवृक्षस्य पत्राणां कोमलानां द्रवं हरेत् ॥ ३,६.४७ ॥
तद्द्रवे पूर्वशुल्बं तु द्रावितं द्रावितं क्षिपेत् ।
इत्येवं शतधा कुर्याद्दिव्यं भवति काञ्चनम् ॥ ३,६.४८ ॥
{चोप्पेर्=> गोल्द्}
पीतगन्धकचूर्णं तु नागवल्ल्या द्रवैस्त्र्यहम् ।
भावितं तेन ताम्रस्य पत्रलेपं तु कारयेत् ॥ ३,६.४९ ॥
शुष्कं रुद्ध्वा पुटे पच्यादारण्योपलकैः शुभैः ।
शाकवृक्षत्वचा मर्द्यं द्रवै रक्ताश्वमारकैः ॥ ३,६.५० ॥
पूर्वताम्रस्य पत्राणि कल्केनानेन लेपयेत् ।
रुद्ध्वा तीव्राग्निना धाम्यमेवं वारशते कृते ॥ ३,६.५१ ॥
तत्ताम्रं जायते स्वर्णं जाम्बूनदसमप्रभम् ।
{चोप्पेर्=> गोल्द्}
काञ्चनीमूलचूर्णं तु हरितालं मनःशिला ॥ ३,६.५२ ॥
टङ्कणं माक्षिकं तुल्यं वासापुष्पद्रवैस्त्र्यहम् ।
मर्दितं लेपयेत्तेन ताम्रपात्रं सुशोधितम् ॥ ३,६.५३ ॥
शनैर्मन्दाग्निना ताप्यं शुष्कलेपं च दापयेत् ।
पुनस्ताप्यं पुनर्लेप्यं सप्तधेत्थं प्रयत्नतः ॥ ३,६.५४ ॥
ततस्तीव्राग्निना धाम्यं जायते काञ्चनं शुभम् ।
{चोप्पेर्, सिल्वेर्=> गोल्द्}
तालं ताप्यं दरदकुनटीं सूतकं सार्धभागम् ॥ ३,६.५५ ॥
खल्वे कृत्वा त्रिदिनमथितं काकमाच्या द्रवेत् ।
तेनालेप्यं रविशशिदलं खर्परे वह्निपक्वम् ॥ ३,६.५६ ॥
शुल्बातीतं भवति कनकं सौबलं पान्थिकानाम् ।
{चोप्पेर्=> गोल्द्}
ज्वालामुखीद्रवैर्मर्द्यं पलैकं शुद्धपारदम् ॥ ३,६.५७ ॥
दिनान्ते निक्षिपेत्तस्मिन्पादांशं मृतमभ्रकम् ।
ताम्रचूर्णस्य पादांशं पादांशं फुल्लतोरिका ॥ ३,६.५८ ॥
सर्वं ज्वालामुखीद्रावैर्मर्दयेद्दिनसप्तकम् ।
तद्गोलं वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥ ३,६.५९ ॥
तत्खोटं भागमेकं तु शुद्धताम्रं चतुष्टयम् ।
अंधमूषागतं धाम्यं समुद्धृत्य ततः पुनः ॥ ३,६.६० ॥
द्राव्यं प्रकटमूषायां पुत्रजीवोत्थतैलके ।
ढालयेच्च पुनर्द्राव्यमेवं कुर्यात्त्रिसप्तधा ॥ ३,६.६१ ॥
जायते कनकं दिव्यं नात्र कार्या विचारणा ।
{चोप्पेर्=> गोल्द्}
गन्धकं श्वेतपालाशफलद्रावैर्विभावयेत् ॥ ३,६.६२ ॥
शतवारं प्रयत्नेन शोष्यं पेष्यं पुनः पुनः ।
शतवारं प्रयत्नेन तेन पत्राणि लेपयेत् ॥ ३,६.६३ ॥
सम्यक्शुद्धस्य ताम्रस्य रुद्ध्वा गजपुटे पचेत् ।
समुद्धृत्य पुनर्धाम्यं ततः पत्राणि कारयेत् ॥ ३,६.६४ ॥
पुनर्लेप्यं पुनः पाच्यं पुनरावर्तयेत्क्रमात् ।
एवं त्रिसप्तधा कुर्याद्दिव्यं भवति काञ्चनम् ॥ ३,६.६५ ॥
{सिल्वेर्, चोप्पेर्=> अष्टवर्ण गोल्द्}
भागा द्वादश तारस्य शुल्वस्य भागषोडश ।
आवर्त्य कारयेत्पत्रं लिप्त्वा रुद्ध्वा पुटे पचेत् ॥ ३,६.६६ ॥
महिन्दीपत्रनिर्यासैरेवं वाराणि षोडश ।
रसगन्धशिला भागान्क्रमवृद्ध्या विमर्दयेत् ॥ ३,६.६७ ॥
दिनमङ्कोलतैलेन पूर्ववच्च क्रमेण तु ।
लिप्त्वा रुद्ध्वा धमेद्गाढं पुनः पत्रं च कारयेत् ॥ ३,६.६८ ॥
पुनर्लेप्यं पुनःपाच्यं यावत्कांस्यं क्षयं व्रजेत् ।
अष्टवर्णं भवेद्धेम नात्र कार्या विचारणा ॥ ३,६.६९ ॥
{मेर्चुर्य्=> गोल्द्}
औषधी करुणी नाम प्रावृट्काले प्रजायते ।
नीलपुष्पा श्वेतपत्रा पिच्छिलातिरसा तु सा ॥ ३,६.७० ॥
तद्द्रवं पारदे शुद्धे धाम्यमाने विनिक्षिपेत् ।
वज्रमूषास्थिते चैव यावत्सप्तदिनावधि ॥ ३,६.७१ ॥
जायते कनकं दिव्यं रस एव न संशयः ।
{मेर्चुर्य्, लेअद्, गोल्द्=> गोल्द्}
पलं सूतं पलं गन्धं कृष्णोन्मत्तद्रवैस्त्र्यहम् ॥ ३,६.७२ ॥
मर्दितं वज्रमूषायां रुद्ध्वा वक्त्रं पिधाय च ।
दिनान्ते तत्समुद्धृत्य तद्वन्मर्द्यं च पाचयेत् ॥ ३,६.७३ ॥
एवं सप्तदिनं कुर्यान्मृतो भवति वै रसः ।
तद्रसं पन्नगं स्वर्णं चन्द्रार्कैर्वेष्टयेत्क्रमात् ॥ ३,६.७४ ॥
समांशं चान्धितं धाम्यं दिव्यं भवति काञ्चनम् ।
{चक्रयन्त्र}
गर्तामध्ये रसमूषा बाह्यगर्ते सर्वतोऽग्निः ॥ ३,६.७५ ॥
चक्रयन्त्रमिदं प्रोक्तं सर्वशास्त्रार्थकोविदैः ।
{चोप्पेर्=> गोल्द्}
माक्षिकं रसकं तुल्यं रसकार्धं च सैन्धवम् ।
मातुलुङ्गैर्दिनं मर्द्यं मृद्भाण्डे पाचयेद्दिनम् ॥ ३,६.७६ ॥
यावत्कुङ्कुमवर्णं स्यात्तावच्चुल्ल्यां विपाचयेत् ।
सिताक्षौद्रेण संयुक्तं तत्कल्कं मर्दयेद्दिनम् ॥ ३,६.७७ ॥
पुनर्मृत्खर्परे पच्याद्गोक्षीरेण समायुतम् ।
चालयन् दिनमेकं तु अवतार्य विलेपयेत् ॥ ३,६.७८ ॥
शुद्धानि शुल्वपत्राणि रुद्ध्वा तीव्राग्निना धमेत् ।
ततः पत्त्रीकृतं लेप्यं तद्वद्धाम्यं दृढाग्निना ॥ ३,६.७९ ॥
इत्येवं च पुनः कुर्यात्पीतवर्णं भवेत्तु तत् ।
मुनिपुष्पैस्त्र्यहं भाव्या अतिरक्ता मनःशिला ॥ ३,६.८० ॥
अनया पूर्वशुल्बं तु पत्रं कृत्वा प्रलेपयेत् ।
अन्धमूषागतं ध्मातं कङ्गुणीतैलके क्षिपेत् ॥ ३,६.८१ ॥
इत्येवं तु त्रिधा कुर्याद्दिव्यं भवति काञ्चनम् ।
{तारारिष्ट => गोल्द्}
अनेनैव प्रकारेण तारारिष्टं तु रञ्जयेत् ॥ ३,६.८२ ॥
जायते कनकं दिव्यं जाम्बूनदसमप्रभम् ।
{सुल्fउर्ःः पिष्टी}
शुद्धसूतपलकं तु कर्षैकं गन्धकस्य च ॥ ३,६.८३ ॥
स्निग्धखल्वे विनिक्षिप्य देवदालीरसप्लुतम् ।
मर्दयेत्तु कराङ्गुल्या जायते गन्धपिष्टिका ॥ ३,६.८४ ॥
{मेर्चुर्य्(खोट), चन्द्रार्क => गोल्द्}
धान्याभ्रकस्य भागैकं भागाष्टौ शुद्धपारदम् ।
कुण्डगोलकसंयुक्तं मर्दनात्पिष्टिका भवेत् ॥ ३,६.८५ ॥
एतत्पिष्टिद्वयं मर्द्य जम्बीरोत्थैर्द्रवैर्दिनम् ।
पालाशमूलक्वाथेन मर्दयेच्च दिनत्रयम् ॥ ३,६.८६ ॥
ब्रह्ममूलं गुडं गुञ्जामूर्णा टङ्कणकं समम् ।
पिष्ट्वा क्षौद्रेण संयुक्तं पूर्वपिण्डं विलेपयेत् ॥ ३,६.८७ ॥
रुद्ध्वा तीव्राग्निना धाम्यं खोटो भवति तद्रसः ।
पाच्यं प्रकटमूषायां काचं टङ्कणकं क्षिपेत् ॥ ३,६.८८ ॥
एवं पुनः पुनः शोध्यं यावद्भवति निर्मलम् ।
ततश्च प्रकटं धाम्यं दत्त्वा नागं पुनः पुनः ॥ ३,६.८९ ॥
त्रिगुणं वाहयेदेवं रसराजस्य पन्नगम् ।
कृष्णाभ्रैः पुटितैरेव तत्खोटं रञ्जयेत्क्रमात् ॥ ३,६.९० ॥
मूषायां धाम्यमानं तच्छतवारं पुनः पुनः ।
दत्त्वा दत्त्वाभ्रकं कृष्णं रञ्जितो जायते ध्रुवम् ॥ ३,६.९१ ॥
सहस्रांशेन तेनैव चन्द्रार्कं काञ्चनं भवेत् ।
{मेर्चुर्य्(खोट), लेअद्=> गोल्द्}
स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता ॥ ३,६.९२ ॥
पलैकं मर्दयेत्तस्या जम्बीराणां द्रवैर्दिनम् ।
ब्रह्मक्वाथैस्त्र्यहं पश्चात्तत्समं गुडटङ्कणम् ॥ ३,६.९३ ॥
ऊर्णां गुञ्जां क्षिपेत्तस्मिन्सर्वमेकत्र मर्दयेत् ।
छायाशुष्कां वटीं कुर्यान्महदग्निगतां धमेत् ॥ ३,६.९४ ॥
तं खाठं शोधयेत्पश्चात्श्वेतटङ्कणकाचकैः ।
शोधयेद्धमनेनैव खोटो भवति निर्मलः ॥ ३,६.९५ ॥
तं खोटं कुटिलं गन्धं प्रतिकर्षं प्रलेपयेत् ।
अन्धमूषागतं धाम्यं यावत्खोटावशेषितम् ॥ ३,६.९६ ॥
अनेन क्रमयोगेन वङ्गं निर्वाप्य षड्गुणम् ।
ततो गन्धं च नागं च वाहयेत्षड्गुणं पुनः ॥ ३,६.९७ ॥
शुल्बचूर्णं पलैकं तु सिद्धचूर्णेन संयुतम् ।
रुद्ध्वा तं च धमेत्खोटं गंधकं तेन मर्दयेत् ॥ ३,६.९८ ॥
रुद्ध्वा गजपुटे पच्यादेवं वारांश्चतुर्दश ।
अनेन पूर्ववत्खोटं द्रावितं योजयेच्छनैः ॥ ३,६.९९ ॥
यावत्कुङ्कुमवर्णं स्यात्तावद्रञ्ज्यं क्षिपन्क्षिपन् ।
ततः स्वर्णं च गन्धं च खोटं तुल्यं पृथक्पृथक् ॥ ३,६.१०० ॥
ततो रुद्ध्वा धमेत्तीव्रं यावत्खोटावशेषितम् ।
इत्येवं त्रिगुणं वाह्यं स्वर्णं गन्धकसंयुतम् ॥ ३,६.१०१ ॥
पुनः स्वर्णेन तुल्येन समावर्तं तु कारयेत् ।
पुनर्द्विगुणहेम्ना तु त्रिगुणेन ततः पुनः ॥ ३,६.१०२ ॥
त्रिधैव सारितः सूतः सहस्रांशेन विध्यते ।
द्रुतं शुल्बं न संदेहो दिव्यं भवति काञ्चनम् ॥ ३,६.१०३ ॥
{गोल्द्ःः रञ्जनःः सितस्वर्ण => षड्वर्ण}
पूर्वं यच्छोधितं खोटमावर्त्यं स्वर्णतुल्यकम् ।
सूक्ष्मचूर्णं ततः कृत्वा त्रिगुणे शुद्धपारदे ॥ ३,६.१०४ ॥
दत्त्वा निरुध्य मूषायां स्वेदयेन्मृदुवह्निना ।
तस्यैव द्रवते गर्भे तावत्स्वेद्यं प्रयत्नतः ॥ ३,६.१०५ ॥
अथवा दोलिकायन्त्रे स्वेदयेद्द्रुतसूतकम् ।
अनेन शतमांशेन सितं स्वर्णं विलेपयेत् ॥ ३,६.१०६ ॥
त्रिदिनं दोलिकायन्त्रे अर्कपत्रैश्च वेष्टितम् ।
काञ्जिकैः स्वेदयेत्तं तु अन्धमूषागतं धमेत् ॥ ३,६.१०७ ॥
स्वर्णं भवति रूपाढ्यं षड्वर्णोत्कर्षणं परम् ।
{गोल्द्ःः रञ्जनःः => षड्वर्ण}
शोधितं सूतखोटं च भागमेकं समाहरेत् ॥ ३,६.१०८ ॥
स्वर्णं षोडशभागं स्यादन्धमूषागतं धमेत् ।
पूर्ववत्क्रमयोगेन वेधयेद्रसगर्भकः ॥ ३,६.१०९ ॥
तेनैव शतमांशेन षड्वर्णं पूर्ववद्भवेत् ।
{रञ्जनःः लेअद्=> चोप्पेर्=> सिल्वेर्=> गोल्द्}
अर्कक्षीरेण धान्याभ्रं यामं पिष्ट्वा तथान्ध्रयेत् ॥ ३,६.११० ॥
कपोताख्ये पुटे पच्यात्पुनर्मर्द्यं पुनः पचेत् ।
एवं विंशपुटैः पक्वं तदभ्रं षोडशांशकम् ॥ ३,६.१११ ॥
शुद्धसूते प्रदातव्यं पक्वमूषोदरेण तत् ।
अर्कपत्रद्रवैः पूर्वं रुद्ध्वा स्वेद्यं दिनत्रयम् ॥ ३,६.११२ ॥
तुषाग्निना प्रयत्नेन समुद्धृत्याथ निक्षिपेत् ।
तस्मिन्नभ्रं द्रवं चैव दत्त्वा तद्वत्पचेत्त्र्यहम् ॥ ३,६.११३ ॥
इत्येवं जारयेत्सूते यावत्तुल्याभ्रकं भवेत् ।
तिलपर्णीरसेनैव तत्सूतं चाभ्रकं पुनः ॥ ३,६.११४ ॥
मर्दयेत्तप्तखल्वे तु यावद्भवति गोलकः ।
पृथक्सूतेन तुल्येन गन्धपिष्टीं तु कारयेत् ॥ ३,६.११५ ॥
स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता ।
तत्पिष्टी स्वर्णपिष्टी च रसाभ्रं गोलकं तथा ॥ ३,६.११६ ॥
समांशं त्रितयं मर्द्यं द्रवैः कार्पासजैर्दिनम् ।
तद्गोलं वर्तुलं कृत्वा वस्त्रे बद्ध्वाथ शोषयेत् ॥ ३,६.११७ ॥
पाचयेद्गन्धतैलं तु यावत्कुङ्कुमसंनिभम् ।
संजातं तत्समुद्धृत्य पिष्ट्वा निर्गुण्डिजैर्द्रवैः ॥ ३,६.११८ ॥
तेनैव चाष्टमांशेन नागपत्राणि लेपयेत् ।
पिष्ट्वा कार्पासपत्राणि तत्कल्केन च लेपयेत् ॥ ३,६.११९ ॥
नागपत्राणि रुद्ध्वाथ भूधराख्ये पुटे पचेत् ।
समुद्धृत्य पुनर्लेप्यमष्टमांशेन तेन वै ॥ ३,६.१२० ॥
कार्पासपत्रकल्केन लिप्त्वा रुद्ध्वा पुटे पचेत् ।
ऊर्ध्वाधः परिवर्तेन अहोरात्रात्समुद्धरेत् ॥ ३,६.१२१ ॥
अष्टमांशं पुनर्दत्त्वा पूर्वकल्कं च मर्दयेत् ।
दिनं निर्गुण्डिजैर्द्रावैस्तद्गोलं लेपयेद्बहिः ॥ ३,६.१२२ ॥
कार्पासपत्रकल्केन रुद्ध्वा गजपुटे पचेत् ।
एवं पुनः पुनः कुर्यान्मर्दनं पुटपाचनम् ॥ ३,६.१२३ ॥
म्रियते कुङ्कुमाभं तन्नागं दशपुटैः क्रमात् ।
अनेन चाष्टमांशेन द्रुतं शुल्बं तु वेधयेत् ॥ ३,६.१२४ ॥
तेन शुल्बेन तारं तु अष्टमांशेन वेधयेत् ।
जायते कनकं शुल्बं देवाभरणमुत्तमम् ।
नागरञ्जनमिदं विशेषतः शुल्बसूतरविचन्द्रवेधनम् ।
धर्मकामसुखभाजनैर्जनैः साध्यतामखिललोकरक्षणे ॥ ३,६.१२५ ॥

३, ७
धातुसत्त्वयुतपिष्टिकाक्रमस्तम्भनं च निगडेन लेपनम् ।
खोटबन्धकृतविद्रुतिं तथा वेधयुक्तिरखिला निगद्यते ॥ ३,७.१ ॥
{पिष्टिगोलम्}
दिव्यौषधद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयम् ।
शुद्धं सूतं ततो घर्मे शोष्यं स्वच्छं समाहरेत् ॥ ३,७.२ ॥
स्वर्णनागार्ककान्तं च तीक्ष्णं वङ्गं च रूप्यकम् ।
यथेष्टैकं विचूर्ण्यादौ व्योमसत्त्वमथापि वा ॥ ३,७.३ ॥
पूर्वसूतेन संतुल्यं याममम्लेन मर्दयेत् ।
महारसाष्टकादेकं सूततुल्यं विनिक्षिपेत् ॥ ३,७.४ ॥
दिव्यौषधीद्रवैरेव यामात्स्विन्नातपे खरे ।
मर्दयेत्खल्वके गाढं तद्गोलं वस्त्रवेष्टितम् ॥ ३,७.५ ॥
गन्धतैले दिनं पच्यात्ततो वस्त्रात्समुद्धरेत् ।
पिष्टिगोलमिदं ख्यातं तथान्यमतमुच्यते ॥ ३,७.६ ॥
{पिष्टिगोल}
पूर्वं यन्मर्दितं सूतं तस्य भागत्रयं भवेत् ।
नागद्वयं यथेष्टैकं तस्मिन्नागं विनिक्षिपेत् ॥ ३,७.७ ॥
वैक्रान्तं कुण्डगोलं च दिव्यौषधिद्रवं तथा ।
मर्द्यं यामत्रयं खल्वे छायाशुष्कं तु गोलकम् ॥ ३,७.८ ॥
कृत्वाथ बन्धयेद्वस्त्रे गन्धतैले दिनं पचेत् ।
वस्त्रमध्यात्समुद्धृत्य पिष्टिगोलमिदं भवेत् ॥ ३,७.९ ॥
{पिष्टिगोलःः निगड}
अथास्य पिष्टिगोलस्य निगडः प्रोच्यते शुभः ।
गुग्गुलुं ब्रह्मबीजानि तैस्तुल्यं चैव सैन्धवम् ॥ ३,७.१० ॥
स्नुह्यर्कपयसा मर्द्यं निगडोऽयं महोत्तमः ।
{पिष्टिगोलःः निगड}
पालाशं कोकिलाक्षस्य बीजानि सैन्धवं तथा ॥ ३,७.११ ॥
उन्मत्तनीलिजैर्द्रावैर्मर्द्यः स्यान्निगडोत्तमः ।
{पिष्टिगोलःः निगड}
अभ्रकं सैन्धवं ताप्यं वालूमृल्लोहकिट्टकम् ।
स्नुह्यर्कपयसा पिष्टं यामान्ते निगडो भवेत् ॥ ३,७.१२ ॥
{पिष्टिगोलःः निगड}
वाकुचीब्रह्मधत्तूरबीजानि चाम्लवेतसम् ॥ ३,७.१३ ॥
काकविट्कदलीकन्दतालगन्धमनःशिला ।
गुग्गुलुं पञ्चलोणानि गोजिह्वा कोकिलाक्षकम् ॥ ३,७.१४ ॥
तिक्तकोशातकी नीली विषमुष्टीन्द्रवारुणी ।
जीरद्वयं कर्कटास्थि स्त्रीरजोमूत्रमिश्रितम् ॥ ३,७.१५ ॥
स्नुह्यर्कक्षीरतैलैश्च मर्द्यं यामद्वयं दृढम् ।
व्यस्तं वाथ समस्तं वा निगडोऽयं महोत्तमः ।
{मेर्चुर्य्ःः खोट}
एतेष्वेकेन तद्गोलं लेप्यमङ्गुलमात्रकम् ॥ ३,७.१६ ॥
मूषायां बिल्वमात्रायां लोणं किंचिदधः क्षिपेत् ॥ ३,७.१७ ॥
लिप्तं गोलं क्षिपेत्तस्यामूर्ध्वं लोणं च दापयेत् ।
रुद्ध्वा मृल्लवणैः सन्धिं सर्वतो दग्धशङ्खकैः ॥ ३,७.१८ ॥
मूषालेपः प्रकर्तव्यः छायाशुष्कं तु कारयेत् ।
करीषाग्नौ दिवारात्रौ त्रिरात्रं वा तुषाग्निना ॥ ३,७.१९ ॥
मृदुना स्वेदयेत्पश्चात्समुद्धृत्याथ लेपयेत् ।
सम्यङ्निगडकल्केन पूर्वमूषां निरोधयेत् ॥ ३,७.२० ॥
ऊर्ध्वाधो लवणं दत्त्वा रुद्ध्वा लेप्या च पूर्ववत् ।
छायाशुष्कं धमेद्गाढं रसो भवति खोटताम् ॥ ३,७.२१ ॥
सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा धमेद्दृढम् ।
तच्छुद्धं जायते खोटमभीक्ष्णं नात्र संशयः ॥ ३,७.२२ ॥
इत्येवं सर्वसत्त्वैश्च पिष्टिकां कारयेत्पृथक् ।
पूर्ववत्क्रमयोगेन खोटो भवति तद्रसः ॥ ३,७.२३ ॥
{मेर्चुर्य्ःः खोट}
भागद्वयं सुवर्णस्य त्रिभागं पारदस्य च ।
पूर्ववत्कारयेत्पिष्टीं तद्वत्खोटं च शोधयेत् ॥ ३,७.२४ ॥
इत्येवं पिष्टिखोटानि कृत्वा सर्वत्र योजयेत् ।
{विडवटी}
तत्खोटं स्वर्णसंतुल्यं समावर्तं तु कारयेत् ।
माक्षिकं कान्तपाषाणं शिलागन्धं समं समम् ॥ ३,७.२५ ॥
भूनागैर्मर्दयेद्यामं चणमात्रवटीकृतम् ।
एषा विडवटी ख्याता योज्या सर्वत्र जारणे ॥ ३,७.२६ ॥
एकैकं वाहयेत्सूते धाम्यमाने पुनः पुनः ।
एवं दशगुणं हेम जारयेत्तत्क्रमेण तु ॥ ३,७.२७ ॥
प्रकाशमूषागर्भे तु ग्रसते वडवानलः ।
{मेर्चुर्य्ःः रञ्जन, => शतवेधिन्}
माक्षिकं दरदं गन्धं राजावर्तं प्रवालकम् ।
शिला तुत्थं च कङ्कुष्ठं समं चूर्णं प्रकल्पयेत् ॥ ३,७.२८ ॥
वर्गाभ्यां पीतरक्ताभ्यां कङ्गुणीतैलकैः सह ।
भावयेद्दिवसान्पञ्च सूर्यतापे पुनः पुनः ॥ ३,७.२९ ॥
जारितं सूतखोटं तु कल्केनानेन संयुतम् ।
वालुकाहण्डिमध्यस्थं श्रावसंपुटमध्यगम् ॥ ३,७.३० ॥
त्रिदिनं पाचयेच्चुल्ल्यां कल्कं देयं पुनः पुनः ।
रञ्जितो जायते सूतः शतवेधी न संशयः ॥ ३,७.३१ ॥
तारे ताम्रे भुजङ्गे वा चन्द्रार्के वाथ योजयेत् ।
जायते कनकं दिव्यं जाम्बूनदसमप्रभम् ॥ ३,७.३२ ॥
{द्रुतसूत}
पिष्टिखोटं सूक्ष्मचूर्णं स्त्रीपुष्पेण तु भावयेत् ।
दिनत्रयं खरे घर्मे शुक्तौ वा नालिकेरजे ॥ ३,७.३३ ॥
मीनाक्षी कदलीकन्दं श्वेता रक्ता पुनर्नवा ।
शिलाजतु ससिन्धूत्थं नारीपुष्पेण मर्दयेत् ॥ ३,७.३४ ॥
पूर्ववद्भावितं खोटं तस्मिन्पिण्डे विनिक्षिपेत् ।
पूर्ववद्भावितं खोटं तस्मिन्पिण्डं विनिक्षिपेत् ॥ ३,७.३५ ॥
मुखं तत्पिण्डकल्केन रुद्ध्वा पिण्डं च बन्धयेत् ।
भूर्जपत्त्रं त्र्यहं पच्याद्दोलायन्त्रे सकाञ्जिके ॥ ३,७.३६ ॥
द्रुतं सूतं भवेत्साक्षात्पुनस्तस्मिंश्च दापयेत् ।
पूर्ववद्भावितं खोटं खोटपादं पुनः पुनः ॥ ३,७.३७ ॥
निक्षिपेत्पूर्वपिण्डे तु तद्वत्पच्याद्दिनत्रयम् ।
एवं पुनः पुनर्देयं पिष्टिं खोटं सुभावितम् ॥ ३,७.३८ ॥
आरोटस्य समं यावत्तावद्देयं द्रुतं भवेत् ।
{द्रुतसूत}
आर्द्रकं मूलकं शुण्ठी लशुनं हिङ्गुमाक्षिकम् ॥ ३,७.३९ ॥
त्रिक्षारं पञ्चलवणं काङ्क्षी कासीसगन्धकम् ।
अम्लवर्गेण संयुक्तं मर्द्यं पिण्डं तु कल्पयेत् ॥ ३,७.४० ॥
तस्मिन् पिण्डे यथा पूर्वं द्रुतं सूतं तु कारयेत् ।
मार्जारी चेश्वरी गुञ्जा कुक्कुटी क्षीरकन्दकम् ॥ ३,७.४१ ॥
एतेषां पिण्डमध्ये तु पूर्ववद्भावयेद्रसम् ।
द्रुतसूतमिदं ख्यातं सर्वकर्मसु योजयेत् ॥ ३,७.४२ ॥
{चन्द्रार्क => गोल्द्(wइथ्द्रुतसूत)}
द्रुतसूतस्य भागौ द्वावेकं कृष्णाभ्रसत्त्वकम् ।
भागं रसकसत्त्वस्य कृष्णोन्मत्तद्रवैर्दिनम् ॥ ३,७.४३ ॥
मर्दितं कारयेद्गोलं गोलपादं मृतं पविम् ।
दत्त्वाथ मर्दयेद्यामं सर्वमुन्मत्तवारिणा ॥ ३,७.४४ ॥
रुद्ध्वाथ भूधरे पच्यात्पुटैकेन समुद्धरेत् ।
पूर्वांशं द्रुतसूतं तु तं दत्त्वा मर्दयेत्पुनः ॥ ३,७.४५ ॥
धत्तूरोत्थद्रवैर्यामं तद्वत्पच्याच्च भूधरे ।
इत्येवं सप्तवाराणि सूतं दत्त्वा पुनः पुनः ॥ ३,७.४६ ॥
भूधरे पाचयेद्यन्त्रे भस्मीभवति तद्रसः ।
तेनैव शतभागेन क्षौद्रेण सह पेषयेत् ॥ ३,७.४७ ॥
चन्द्रार्कजातपत्राणि अन्धमूषागतं धमेत् ।
स्वर्णं भवति रूपाढ्यं जाम्बूनदसमप्रभम् ॥ ३,७.४८ ॥
{लेअद्=> गोल्द्}
तद्भस्म गन्धकं तुल्यमन्धमूषागतं धमेत् ।
वेध्यं तेन शतांशेन नागं भवति काञ्चनम् ॥ ३,७.४९ ॥
{चन्द्रार्क => गोल्द्}
रसकाभ्रकयोः सत्त्वं द्रुतं सत्त्वं समं समम् ।
त्रयाणां पलमेकं तु सिद्धचूर्णेन संयुतम् ॥ ३,७.५० ॥
मर्द्यमुन्मत्तकद्रावैर्दिनैकं चान्धितं धमेत् ।
तत्खोटं चूर्णितं मर्द्यं मातुलुङ्गाम्लगन्धकैः ॥ ३,७.५१ ॥
रुद्ध्वा गजपुटे पच्यादेवं वारांस्त्रयोदश ।
मर्द्यं मर्द्यं पचेद्रुद्ध्वा आरण्योत्पलकैः क्रमात् ॥ ३,७.५२ ॥
चन्द्रार्कशतभागेन मधुनाक्तेन तेन वै ।
लिप्त्वा रुद्ध्वा धमेद्गाढं स्वर्णं भवति शोभनम् ॥ ३,७.५३ ॥
{चोप्पेर्=> गोल्द्}
रसकाभ्रकयोः सत्त्वं द्रुतसूतं च टङ्कणम् ।
सर्वमेतत्समं मर्द्य कृष्णोन्मत्तद्रवैर्दिनम् ॥ ३,७.५४ ॥
छायाशुष्कां वटीं कृत्वा महदग्निगतां धमेत् ।
तत्खोटं शोधयेत्पश्चात्सितकाचेन टङ्कणैः ॥ ३,७.५५ ॥
स्वर्णेन च समावर्त्य समेन जारयेत्ततः ।
पूर्वा विडवटी या तु तामेकैकां प्रदापयेत् ॥ ३,७.५६ ॥
धमन्प्रकटमूषायां यावत्सूतावशेषितम् ।
ततः शुद्धसुवर्णेन सारयेत्सारणात्रयम् ॥ ३,७.५७ ॥
वेध्यं तेन शतांशेन शुल्वं भवति काञ्चनम् ।
{सिल्वेर्=> गोल्द्}
भागैकं द्रुतसूतस्य सारणायन्त्रके क्षिपेत् ॥ ३,७.५८ ॥
तस्माच्चतुर्गुणं नागं शुद्धं तद्द्रावितं पृथक् ।
तस्मिन्यन्त्रे विनिक्षिप्य जातं खोटं समाहरेत् ॥ ३,७.५९ ॥
तत्तुल्यं माक्षिकं शुद्धमेकीकृत्य विमर्दयेत् ।
दिनं धत्तूरजैर्द्रावैर्मृद्भाण्डे पाचयेत्ततः ॥ ३,७.६० ॥
यावत्कुङ्कुमवर्णं स्यात्तावच्चुल्ल्यां समुद्धरेत् ।
एतस्यैव पलैकं तु सिद्धचूर्णेन संयुतम् ॥ ३,७.६१ ॥
रुद्ध्वा ध्माते भवेत्खोटं मध्वम्लैर्मर्दयेद्दिनम् ।
आरण्योत्पलकैरेव रुद्ध्वा मधुपुटैः पचेत् ॥ ३,७.६२ ॥
अनेन मधुयुक्तेन तारपत्राणि लेपयेत् ।
रुद्ध्वा धाम्यं पुनर्लेप्यं त्रिभिर्वारैस्तु काञ्चनम् ॥ ३,७.६३ ॥
जायते दिव्यरूपाढ्यं सत्यं शंकरभाषितम् ।
माक्षिकस्य त्वभावे तु वैक्रान्तं वात्र योजयेत् ॥ ३,७.६४ ॥
{मृत लेअद्, सिल्वेर्=> गोल्द्}
द्रुतसूतं हिङ्गुलं च कङ्कुष्ठं गन्धकं शिला ।
एकद्वित्रिचतुःपञ्चपलानि क्रमतो भवेत् ॥ ३,७.६५ ॥
गोपित्तेन तु तत्सर्वं मर्द्यं यामचतुष्टयम् ।
शुद्धानि नागपत्राणि सममानेन लेपयेत् ॥ ३,७.६६ ॥
रुद्ध्वा गजपुटे पच्यात्समुद्धृत्याथ मर्दयेत् ।
समेन पूर्वकल्केन रुद्ध्वा तद्वत्पुटे पचेत् ॥ ३,७.६७ ॥
एवं शतपुटैः पक्वो म्रियते पन्नगो ध्रुवम् ।
अनेन शतभागेन तारवेधात्तु काञ्चनम् ॥ ३,७.६८ ॥
{सिल्वेर्(+ मृतनाग अन्द्गोल्द्) => गोल्द्}
तेन वा मृतनागेन ह्यम्लपिष्टेन लेपयेत् ।
समांशं स्वर्णपत्रं तु रुद्ध्वा गजपुटे पचेत् ॥ ३,७.६९ ॥
नागं पुनः पुनर्देयमेवं देयं पुटत्रयम् ।
अनेन मृतहेम्ना तु द्रुतं तारं तु वेधयेत् ॥ ३,७.७० ॥
सहस्रांशेन तत्सिद्धं दिव्यं भवति कांचनम् ॥ ३,७.७१ ॥
{मेर्चुर्य्ःः खोटबन्ध}
द्रवैस्तुम्बरुवल्ल्यास्तु धान्याभ्रं सप्तधातपे ।
भावयेत्खोटयेत्पश्चात्कर्षैके द्रुतसूतके ॥ ३,७.७२ ॥
माषमात्रं क्षिपेदेतत्तप्तखल्वे विमर्दयेत् ।
गोस्तनाकारमूषायां क्षिप्त्वा मृद्वग्निना पचेत् ।
वालुकायन्त्रमध्ये तु जीर्णे वापं पुनः क्षिपेत् ।
इत्येवं जारयेत्तुल्यं खोटबद्धो भवेद्रसः ॥ ३,७.७३ ॥
{चोप्पेर्=> गोल्द्}
अस्य बद्धस्य माषैकं माषार्धं शुद्धहाटकम् ।
शुद्धसूतस्य माषार्धं सर्वमेकत्र मर्दयेत् ॥ ३,७.७४ ॥
त्रिदिनं मातुलुङ्गाम्लैरेतत्कल्केन लेपयेत् ।
कर्षैकं नागपत्राणि वृश्चिकाल्यास्तथा द्रवैः ॥ ३,७.७५ ॥
लिप्त्वा तत्पातनायन्त्रे पाचयेद्दिवसत्रयम् ।
पिष्ट्वा दिनावधि ॥ ३,७.७६ ॥
अनेन तारपत्राणि कर्षमेकं प्रलेपयेत् ।
पूर्ववत्पातनायन्त्रे पाचयेद्दिवसत्रयम् ॥ ३,७.७७ ॥
अनेनैव द्रुतं शुल्बं सहस्रांशेन वेधयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,७.७८ ॥
{मेर्चुर्य्ःः मारणःः wहिते चोलोउर्}
क्षीरेणोत्तरवारुण्यास्त्रिदिनं शुद्धपारदम् ।
मर्दयेत्तप्तखल्वे व तं [… औ५ Zएइछेन्झ्] ॥ ३,७.७९ ॥
करीषाग्नौ दिवारात्रौ त्रिदिनं वा तुषाग्निना ।
समुद्धृत्य पुनर्मर्द्यं तद्वद्रुद्ध्वाथ पाचयेत् ॥ ३,७.८० ॥
तद्वन्मर्द्यं पुनः पाच्यं म्रियते पाण्डुरो रसः ।
{चन्द्रार्क => गोल्द्}
आर्द्रकं तुवरी सिन्धुकङ्गुणीतैलकं मधु ॥ ३,७.८१ ॥
अम्लवेतसमेतैस्तु तद्रसं मर्दयेद्दिनम् ।
गोलकं बन्धयेद्वस्त्रे दोलायन्त्रे त्र्यहं पचेत् ॥ ३,७.८२ ॥
कङ्गुणीतैलमध्ये तु बद्धो भवति तद्रसः ।
तद्रसं हाटकं नागं समं रुद्ध्वा धमेद्दृढम् ॥ ३,७.८३ ॥
तत्खोटं सूक्ष्मचूर्णं तु चूर्णांशं द्रुतसूतकम् ।
अम्लैर्मर्द्यं भवेद्गोलं काञ्जिकैः स्वेदयेद्दिनम् ॥ ३,७.८४ ॥
गंधकस्य त्रयो भागा गंधतुल्यं सुवर्चलम् ।
कृष्णाभ्रकं तु भागैकं सर्वं स्तन्येन पेषयेत् ॥ ३,७.८५ ॥
अनेन लेपितं गोलमंधमूषागतं धमेत् ।
यावत्सूतावशेषं स्यात्तावद्धाम्यं पुनः पुनः ॥ ३,७.८६ ॥
पूर्वचूर्णं पुनर्दत्त्वा तद्वज्जार्यं क्रमेण तु ।
इत्येवं हाटकं यावज्जारितं त्रिगुणं भवेत् ॥ ३,७.८७ ॥
स्वर्णेन च समावर्त्य सारणात्रयसारितम् ।
चन्द्रार्कं वेधयेत्तेन शतांशात्कांचनं भवेत् ॥ ३,७.८८ ॥
{चोप्पेर्=> गोल्द्}
पिष्टीखोटसमं स्वर्णं स्वर्णतुल्यं च पन्नगम् ।
कान्तलोहं व्योमसत्त्वमेकैकं पन्नगार्धकम् ॥ ३,७.८९ ॥
एकीकृत्य धमेत्तावद्यावत्स्वर्णावशेषितम् ।
दत्त्वा विडवटीं चैव सारयेत्सारणात्रयम् ॥ ३,७.९० ॥
शतांशेन ह्यनेनैव शुल्बं भवति काञ्चनम् ।
{मेर्चुर्य्ःः बन्धःः खोट}
सुवर्णं रजतं ताम्रं कान्तं तीक्ष्णं च माक्षिकम् ।
कृष्णाभ्रकस्य सत्त्वं च समं रुद्ध्वा धमेद्दृढम् ॥ ३,७.९१ ॥
तत्खोटं सूक्ष्मचूर्णं तु पादांशं द्रुतपारदम् ।
दत्त्वाथ मर्दयेदम्लैर्यावद्भवति गोलकम् ॥ ३,७.९२ ॥
गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् ।
मर्दयेत्तप्तखल्वे तु दिनैकं कन्यकाद्रवैः ॥ ३,७.९३ ॥
रुद्ध्वाथ भूधरे पच्याद्दिनान्ते तु समुद्धरेत् ।
तन्मध्ये द्रुतसूतं च पुनः कन्यासु मर्दयेत् ॥ ३,७.९४ ॥
पूर्ववद्भूधरे पच्यादेवं देयं तु सप्तधा ।
द्रुतसूतं क्रमेणैव मर्दनं च पुटं तथा ॥ ३,७.९५ ॥
तद्भस्म गंधतुल्यं च ह्यंधमूषागतं धमेत् ।
जायते खोटबद्धं तु रञ्जनं चास्य कथ्यते ॥ ३,७.९६ ॥
{तारारिष्ट, चन्द्रार्क, माक्षिक => गोल्द्}
कृष्णाभ्रसत्त्वं वङ्गं च द्वंद्वं मेलापयेद्द्रुतम् ।
तुल्यांशमंधमूषायां ध्मातं खोटं भवेत्तु तत् ॥ ३,७.९७ ॥
तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् ।
मर्दयेद्गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् ॥ ३,७.९८ ॥
पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ।
अनेन पूर्वखोटे तु द्रावितं रञ्जयेत्क्रमात् ॥ ३,७.९९ ॥
रञ्जयेच्छतवाराणि भवेत्कुंकुमसन्निभम् ।
सुवर्णेन समावर्त्य सारयेत्सारणात्रयम् ॥ ३,७.१०० ॥
सहस्रांशेन तेनैव तारारिष्टं च वेधयेत् ।
चन्द्रार्कं ताप्यशुल्बं तु दिव्यं भवति कांचनम् ॥ ३,७.१०१ ॥
{लेअद्, सिल्बेर्=> गोल्द्}
तीक्ष्णं शुल्बं समं चूर्ण्य वज्रमूषान्धितं धमेत् ।
तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् ॥ ३,७.१०२ ॥
मर्दयेद्गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् ।
पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ॥ ३,७.१०३ ॥
तद्देयं द्राविते स्वर्णे शतवारं पुनः पुनः ।
पक्वबीजं भवेत्तत्तु द्रुतसूते समं दिनम् ॥ ३,७.१०४ ॥
मर्दयेदम्लयोगेन तस्य भागचतुष्टयम् ।
एवं वज्रस्य भागैकं तप्तखल्वे दिनावधि ॥ ३,७.१०५ ॥
मर्दयेत्कन्यकाद्रावैस्तद्रुद्ध्वा भूधरे पचेत् ।
द्रुतसूतं पुनस्तुल्यं दत्त्वा मर्द्यं पुटे ततः ॥ ३,७.१०६ ॥
इत्येवं सप्तधा देयं द्रुतसूतं पुटान्तकम् ।
ततस्तं मर्दयेदम्लै रुद्ध्वा मूषां पुटेत्तथा ॥ ३,७.१०७ ॥
पुनर्मर्द्यं पुनः पाच्यं षष्ट्याधिकशतत्रयम् ।
पुटं देयं प्रयत्नेन जायते सिन्दूरप्रभम् ॥ ३,७.१०८ ॥
सहस्रांशेन नागस्य द्रुतस्य रजतस्य च ।
देयो वेधो भवेत्स्वर्णं दिव्याभरणमुत्तमम् ॥ ३,७.१०९ ॥
{सिल्वेर्=> गोल्द्}
गंधकं सूक्ष्मचूर्णं तु चणकाम्लेन भावयेत् ।
शतवारं प्रयत्नेन स्त्रीपुष्पेण तु सप्तधा ॥ ३,७.११० ॥
द्रुतपारदमध्ये तु किंचित्कर्पूरसंयुतम् ।
गंधकं दापयेद्घर्मे वापयेत्ताम्रखल्वके ॥ ३,७.१११ ॥
कर्पूरं गंधकं चैव किंचित्किंचित्पुनः पुनः ।
त्रिसप्ताहं प्रदातव्यं जायते गन्धपिष्टिका ॥ ३,७.११२ ॥
कटुकोशातकीबीजं चाण्डालीकन्दसंयुतम् ।
स्तन्येन पेषितं तुल्यं पिष्टीं तेन प्रलेपयेत् ॥ ३,७.११३ ॥
बाह्ये तु मृत्तिका लेप्या सर्वतोऽङ्गुलमात्रकम् ।
शोषितं भूधरे पच्यादूर्ध्वाधः परिवर्तयेत् ॥ ३,७.११४ ॥
जायते स्तम्भितं गोलं समुद्धृत्याथ तं पुनः ।
तुल्यांशे संपुटे हेम्नि लिप्त्वा मूषान्धितं धमेत् ॥ ३,७.११५ ॥
अनेन चाष्टमांशेन तारे वेधं प्रदापयेत् ।
तत्तारं जायते दिव्यं जाम्बूनदसमप्रभम् ॥ ३,७.११६ ॥
{चन्द्रार्क => गोल्द्}
अथवा स्तम्भितं गोलं स्वर्णं संपुटवर्जितम् ।
तस्यैव भागाश्चत्वारो भागैकं मृतवज्रकम् ॥ ३,७.११७ ॥
मर्दयेत्कन्यकाद्रावैर्दिनमेकं ततः पुनः ।
अन्धितं भूधरे पच्याद्यावद्यामचतुष्टयम् ॥ ३,७.११८ ॥
समुद्धृत्य पुनस्तस्मिन्पूर्वांशं पूर्वसूतकम् ।
दत्त्वा मर्द्यं पुटेत्तद्वदेवं कुर्यात्त्रिसप्तधा ॥ ३,७.११९ ॥
तस्मिन् भस्मपलमेकं पारदं गंधकस्य तु ।
अंधमूषागतं ध्मातं तत्खोटं पन्नगं समम् ॥ ३,७.१२० ॥
पन्नगस्य समं स्वर्णं त्रयाणां त्रिगुणं क्षिपेत् ।
द्रुतं च तत्सर्वमम्लवर्गेण मर्दयेत् ॥ ३,७.१२१ ॥
दिनान्ते वज्रमूषायां रुद्ध्वा धाम्यं प्रयत्नतः ।
जायते पन्नगं स्वर्णं त्रयोत्थं जायते क्रमात् ॥ ३,७.१२२ ॥
सारयेच्च त्रिधा हेम चन्द्रार्कं वेधयेत्ततः ।
सहस्रांशेन तेनैव दिव्यं भवति काञ्चनम् ॥ ३,७.१२३ ॥
{सितस्वर्ण => गोल्द्}
हेमार्कतीक्ष्णचूर्णं च समं रुद्ध्वा धमेद्दृढम् ।
तत्खोटं भागमेकं तु त्रिभागं द्रुतसूतकम् ॥ ३,७.१२४ ॥
मर्दयेद्गंधकाम्लेन रुद्ध्वा सम्यक्पुटे पचेत् ।
पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ॥ ३,७.१२५ ॥
अनेन शतमांशेन सितहेम च वेधयेत् ।
जायते कनकं दिव्यं कङ्गुणीतैलसेचनात् ॥ ३,७.१२६ ॥
बद्धे द्रुते रसवरे वरहेम्नि जीर्णे दृष्टो मया दशगुणः सुखसाध्यलाभः ।
वज्रे मृते गगनसत्त्वयुते नराणां तत्रैव भूरिगुणितं फलमस्ति सत्यम् ॥ ३,७.१२७ ॥

३, ८
{तिन्ःः शोधन}
कार्पासार्ककरञ्जधूर्तमुनिजैर्भल्लातगुञ्जाग्निजैः स्नुग्वज्रीपयसा च सूरणभवैर्द्रावैश्च मूलैः फलैः ।
तक्राक्तैर्बहुतप्तखर्परगतं वङ्गं निषिञ्च्यान्मुहुर्यावत्पञ्चदिनं तदेव विमलं वादे सदा योजयेत् ॥ ३,८.१ ॥
{तिन्ःः शोधन}
अथवा वङ्गचूर्णं तु माषैर्भल्लातजैः फलैः ।
समं खल्वे दिनं मर्द्यं भल्लाततैलसंयुतम् ॥ ३,८.२ ॥
तत्पिण्डं माहिषे शृङ्गे क्षिप्त्वा रुद्ध्वा महापुटे ।
पचेत्तस्मात्समुद्धृत्य पुनस्तद्वच्च मर्दयेत् ॥ ३,८.३ ॥
इत्येवं सप्तधा कुर्यात्खोटं पाकं च मर्दनम् ।
तद्वङ्गं मलनिर्मुक्तं स्तम्भकर्मणि योजयेत् ॥ ३,८.४ ॥
{तिन्ःः स्तम्भन}
तीक्ष्णपाषाणसत्त्वं च द्रुतवङ्गे द्रुतं क्षिपेत् ।
चतुःषष्टितमांशेन स्तम्भमायाति निश्चितम् ॥ ३,८.५ ॥
{तिन् => सिल्वेर्}
श्वेताभ्रं श्वेतकाचं च टंकणं शङ्खपुष्पिका ।
विषं च तुल्यतुल्यांशं चूर्णं भाव्यं त्रिसप्तधा ॥ ३,८.६ ॥
काकमाचीद्रवैः क्षीरैः स्नुह्यर्कैश्चातपे खरे ।
द्रुते वङ्गे प्रदातव्यं प्रतिवापं च सेचयेत् ॥ ३,८.७ ॥
पुत्रजीवोत्थतैलेन सप्तवारं पुनः पुनः ।
तत्तारं जायते दिव्यं यावच्चन्द्रार्कतारकम् ॥ ३,८.८ ॥
{तिन् => सिल्वेर्}
श्वेताभ्रं श्वेतकाचं च विषसैन्धवटंकणम् ।
स्नुहीक्षीरैर्दिनं मर्द्यं श्वेतवङ्गस्य पत्रकम् ॥ ३,८.९ ॥
लेप्यं पादांशकल्केन चांधमूषागतं धमेत् ।
आदाय द्रावयेद्भूमौ पूर्वतैलेन सेचयेत् ॥ ३,८.१० ॥
पत्रादिलेपसेकं च सप्तवाराणि सेचयेत् ।
तद्वङ्गं जायते तारं शंखकुन्देन्दुसन्निभम् ॥ ३,८.११ ॥
{तिन् => सिल्वेर्}
समं तालं शिलां पिष्ट्वा देवदाल्या द्रवैर्दिनम् ।
द्रवैरीश्वरलिङ्ग्याश्च दिनमेकं विमर्दयेत् ॥ ३,८.१२ ॥
नागं वङ्गं समं द्राव्यं तच्चूर्णं पलपञ्चकम् ।
पूर्वकल्केन संतुल्यं समालोड्यान्धितं पुटेत् ॥ ३,८.१३ ॥
एवं पुनः पुनः पाच्यं पूर्वकल्केन संयुतम् ।
भवेत्षष्टिपुटैः सिद्धं वङ्गस्तम्भकरं परम् ॥ ३,८.१४ ॥
शतमांशेन दातव्यं वेधात्तारं करोत्यलम् ॥ ३,८.१५ ॥
{तिन् => सिल्वेर्}
सूतकं तालमेकैकं नृकपालं द्विभागकम् ।
सर्वतुल्यं विषं योज्यं पञ्चाङ्गं रक्तचित्रकात् ॥ ३,८.१६ ॥
विषतुल्यं क्षिपेच्चूर्णं वज्रीक्षीरेण भावितम् ।
मासमात्रं दिवारात्रौ तद्वापं षोडशांशतः ॥ ३,८.१७ ॥
दत्ते वारत्रयं वङ्गे तारं भवति शोभनम् ॥ ३,८.१८ ॥
{तिन् => सिल्वेर्}
गोरम्भा ह्यौषधी नाम नरमूत्रेण पेषयेत् ।
तेन पिण्डद्वयं कृत्वा तत्रैकस्योपरि क्षिपेत् ॥ ३,८.१९ ॥
क्षारत्रयस्य चूर्णं तु तत्पृष्ठे वङ्गचूर्णकम् ।
क्षारत्रयं ततो दत्त्वा पिण्डं तस्योपरि क्षिपेत् ॥ ३,८.२० ॥
मुखं बद्ध्वा पुटे पच्यात्स्वाङ्गशीतं समुद्धरेत् ।
एवं वारत्रयं कुर्यात्तारं भवति शोभनम् ॥ ३,८.२१ ॥
वसन्ते जायते सा तु गोरम्भा पीतपुष्पिका ।
तस्या मध्यमकाण्डार्धे श्वेतकार्पासवद्भवेत् ॥ ३,८.२२ ॥
वसन्तपुष्पिकां वापि तदभावे नियोजयेत् ।
बाला नाम समाख्याता कट्या धूलीसमा तथा ॥ ३,८.२३ ॥
{तिन् => सिल्वेर्}
श्वेतपालाशपुष्पाणि छायाशुष्काणि चूर्णयेत् ।
एकविंशतिवारेण मेषीक्षीरेण भावयेत् ॥ ३,८.२४ ॥
तच्चूर्णं षोडशांशेन द्रुते वङ्गे प्रदापयेत् ।
तारं भवति रूपाढ्यं शंखकुन्देन्दुसन्निभम् ॥ ३,८.२५ ॥
{तिन् => सिल्वेर्}
तत्पुष्पं हरितालं च मेषीदुग्धेन पेषयेत् ।
तद्वापं षोडशांशेन द्रुते वङ्गे प्रदापयेत् ॥ ३,८.२६ ॥
तारं भवति रूपाढ्यं शंखकुन्देन्दुसन्निभम् ।
{तिन् => सिल्वेर्}
तक्रेण तानि पुष्पाणि भावयित्वा त्रिसप्तधा ॥ ३,८.२७ ॥
तेन कल्केन वङ्गस्य पत्राणि परिलेपयेत् ।
अंधमूषागतं धाम्यमेवं कुर्यात्त्रिसप्तधा ॥ ३,८.२८ ॥
तत्तारं जायते दिव्यं धर्मकामफलप्रदम् ।
{तिन् => सिल्वेर्}
रसो मूषकपाषाणं फट्किरी नीलमञ्जनम् ॥ ३,८.२९ ॥
अगस्तिपत्रनिर्यासैः सर्वं मर्द्यं दिनावधि ।
भाण्डमध्ये निधायाथ पाचयेद्दीपवह्निना ॥ ३,८.३० ॥
अगस्तिपत्रनिर्यासं जीर्णे जीर्णे प्रदापयेत् ।
दिनान्ते तत्समुद्धृत्य द्रुते वङ्गे प्रदापयेत् ॥ ३,८.३१ ॥
त्रिंशदंशेन तत्तारं जायते देवभूषणम् ।
{तिन् => सिल्वेर्}
तारेण द्वंद्वयेद्वज्रं स्वर्णेन द्वंद्वितं यथा ॥ ३,८.३२ ॥
अस्य द्वंद्वस्य भागौ द्वौ त्रिभागं शुद्धपारदम् ।
अम्लेन मर्दयेत्तावद्यावद्भवति गोलकम् ॥ ३,८.३३ ॥
मेषशृङ्ग्यास्तु पञ्चाङ्गं स्त्रीस्तन्येन तु पेषयेत् ।
अनेन वेष्टयेद्गोलं तद्बहिर्निगडेन च ॥ ३,८.३४ ॥
स्वेदादिधमनान्तं च कर्तव्यं हेमपिष्टिवत् ।
उत्तरावारुणीक्षीरैस्तत्खोटं च प्रलेपयेत् ॥ ३,८.३५ ॥
मूषामध्ये निधायाथ तारं दत्त्वा समं समम् ।
दत्त्वा विडवटीं चैव धमेत्सूतावशेषितम् ॥ ३,८.३६ ॥
एवं पुनः पुनस्ताप्यमेकविंशतिवारकम् ।
दत्त्वा समं समं जार्यं त्रिधा तारेण सारयेत् ॥ ३,८.३७ ॥
इदमेव सहस्रांशं द्रुते वङ्गे विनिक्षिपेत् ।
तद्वङ्गं जायते तारं वङ्गस्तम्भं शिवोदितम् ॥ ३,८.३८ ॥
{तिन् => सिल्वेर्}
रक्तपारदभागैकं भागैकं शंखचूर्णकम् ।
श्वेताभ्रकस्य सत्त्वं च सम्यग्भागद्वयं भवेत् ॥ ३,८.३९ ॥
टंकणस्य च भागैकं सर्वमेतद्दिनत्रयम् ।
वज्रीक्षीरेण संमर्द्यमेवं वारांश्चतुर्दश ॥ ३,८.४० ॥
अनेन शतमांशेन द्रुतं वङ्गं च वेधयेत् ।
स्तम्भते नात्र संदेहस्तारं भवति शोभनम् ॥ ३,८.४१ ॥
{तिन् => सिल्वेर्}
हेमसूताद्यथा जातं पिष्टीखोटं तु शोभनम् ।
तथैव तारसूतेन पिष्टीखोटं तु कारयेत् ॥ ३,८.४२ ॥
तत्खोटं तारवङ्गं च सत्त्वं श्वेताभ्रजं समम् ।
जार्यं विडवटीं दत्त्वा यावत्खोटावशेषितम् ॥ ३,८.४३ ॥
जारणेन त्रिधा सार्यं द्रुते शुल्बे नियोजयेत् ।
शतांशेन तु तत्तारं जायते शंभुभाषितम् ॥ ३,८.४४ ॥
{तिन् => सिल्वेर्}
द्रुतं सूतं तीक्ष्णचूर्णं समांशं तप्तखल्वके ।
टेण्टूछल्लीद्रवैर्मर्द्यं यावद्भवति गोलकम् ॥ ३,८.४५ ॥
गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् ।
तप्तखल्वे दिनं मर्द्यं टेण्टूछल्लीरसैर्नवैः ॥ ३,८.४६ ॥
अन्धितं भूधरे पच्याद्दिनान्ते तत्समुद्धरेत् ।
पूर्वतुल्यं द्रुतं सूतं दत्त्वा मर्द्यं च पूर्ववत् ॥ ३,८.४७ ॥
पूर्ववद्भूधरे पच्यादित्येवं सप्तधा क्रमात् ।
द्रुतसूतं प्रदातव्यं मर्दनं च पुटं क्रमात् ॥ ३,८.४८ ॥
अनेन षोडशांशेन द्रुतं वङ्गं तु वेधयेत् ।
जायते दिव्यरूपाढ्यं तारं कुन्देन्दुसन्निभम् ॥ ३,८.४९ ॥
{तिन् => सिल्वेर्}
षोडशांशेन यद्दत्तं वङ्गं तस्यापरो विधिः ।
तत्तुल्यं गंधकं रुद्ध्वा ध्माते खोटं प्रजायते ॥ ३,८.५० ॥
तत्खोटं तीक्ष्णचूर्णं च समभागं प्रकल्पयेत् ।
ताभ्यां तुल्यं द्रुतं सूतं तत्सर्वं तप्तखल्वके ॥ ३,८.५१ ॥
मर्दयेट्टेण्टुजद्रावैर्यावद्भवति गोलकम् ।
रुद्ध्वाथ भूधरे पच्यादहोरात्रात्समुद्धरेत् ॥ ३,८.५२ ॥
पूर्वांशं द्रुतसूतं च दत्त्वा तद्वच्च मर्दयेत् ।
तं रुद्ध्वा च पुटेत्तद्वदेवं कुर्यात्त्रिसप्तधा ॥ ३,८.५३ ॥
अंधमूषागतं धाम्यं तत्खोटं जायते रसः ।
तुल्येन तीक्ष्णचूर्णेन मर्दयेच्चान्धितं धमेत् ॥ ३,८.५४ ॥
अनेन क्रमयोगेन तीक्ष्णं देयं पुनः पुनः ।
यावत्सप्तगुणं तीक्ष्णं दत्त्वा दत्त्वा धमेद्धि तत् ॥ ३,८.५५ ॥
तं खोटं सारयेत्पश्चात्क्षारेणैव त्रिधा क्रमात् ।
लक्षांशेनैव तेनैव वङ्गवेधं प्रदापयेत् ।
शंखकुन्देन्दुसंकाशं तारं भवति शोभनम् ॥ ३,८.५६ ॥
{चोप्पेर्=> सिल्वेर्}
मधुसंजीवनीं पिष्ट्वा गर्दभस्य तु मूत्रतः ।
सप्ताहं तेन मूत्रेण भावयित्वा ततः पुनः ॥ ३,८.५७ ॥
तेनैव मर्दयेत्सूतं तप्तखल्वे दिनत्रयम् ।
तत्तुल्यं गंधकं दत्त्वा ह्यंधमूषागतं धमेत् ॥ ३,८.५८ ॥
तत्खोटं जायते दिव्यं रञ्जनं तस्य कथ्यते ।
वङ्गं श्वेताभ्रसत्त्वं च द्वंद्वमेलापसंयुतम् ॥ ३,८.५९ ॥
मूषामध्ये तु तत्खोटं पलमात्रं विचूर्णयेत् ।
मर्दयेद्गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् ॥ ३,८.६० ॥
पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ।
अनेन पूर्वखोटं तु रञ्जयेत्सप्तवारकम् ॥ ३,८.६१ ॥
यथा वङ्गाभ्रकेनैव तथा नागाभ्रकैः पुनः ।
रञ्जयेत्सप्तवाराणि सूक्ष्मचूर्णं तु कारयेत् ॥ ३,८.६२ ॥
द्रुतसूतेन संयुक्तं द्रावयेत्पूर्ववत्क्रमात् ।
द्रुतस्य जारयेत्तारं दोलास्वेदेन यत्नतः ॥ ३,८.६३ ॥
त्रिषड्गुणं यदा तारं जीर्णं भवति पारदे ।
सारयेत्सारणास्तिस्रः सहस्रांशेन वेधयेत् ॥ ३,८.६४ ॥
द्रुतं शुल्बं भवेत्तारं शंखकुन्देन्दुसन्निभम् ॥ ३,८.६५ ॥
{चोप्पेर्=> सिल्वेर्}
श्वेताभ्रकस्य सत्त्वं तु कान्तसत्त्वं तथायसम् ।
वङ्गं तारं च वैक्रांतं कदम्बं नागमेव च ॥ ३,८.६६ ॥
तुल्यांशमंधमूषायां ध्माते खोटं विचूर्णयेत् ।
द्रुतसूतेन संमर्द्यं यावदम्लेन गोलकम् ॥ ३,८.६७ ॥
गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् ।
मर्दयेत्तप्तखल्वे तु दिनैकं कन्यकाद्रवैः ॥ ३,८.६८ ॥
रुद्ध्वाथ भूधरे पच्यादेवं कुर्यात्त्रिसप्तधा ।
तत्तुल्यं गंधकं दत्त्वा चांधमूषागतं धमेत् ॥ ३,८.६९ ॥
रजतेन समावर्त्य सारणात्रयसारितम् ।
सहस्रांशेन शुल्बस्य द्रुतस्योपरि दापयेत् ॥ ३,८.७० ॥
तत्तारं जायते दिव्यं पुटे दत्ते न हीयते ॥ ३,८.७१ ॥
{चोप्पेर्Oऋ तिन् => सिल्वेर्}
वज्रेण सारितं यत्तु सूतभस्म पुरा कृतम् ।
तेनैव चाम्लपिष्टेन तारपत्रं चतुर्गुणम् ॥ ३,८.७२ ॥
लिप्त्वा रुद्ध्वा पुटे पच्यात्समुद्धृत्याथ मर्दयेत् ।
पादांशं भस्मसूतं च दत्त्वा रुद्ध्वा पुटे पचेत् ॥ ३,८.७३ ॥
एवं चतुःपुटैः पक्वं तत्तारं म्रियते ध्रुवम् ।
तेनैव षोडशांशेन द्रुतं ताम्रं तु वेधयेत् ।
अथवा द्रावितं वङ्गं तारं भवति शोभनम् ॥ ३,८.७४ ॥
{चोप्पेर्=> सिल्वेर्}
तारवन्मारयेद्वङ्गं तेन ताम्रं तु वेधयेत् ।
तत्तारं जायते दिव्यं षोडशांशे न संशयः ॥ ३,८.७५ ॥
{चोप्पेर्=> सिल्वेर्}
शुद्धसूतसमां राजीं मर्दयेत्कन्यकाद्रवैः ।
त्रिदिनं तप्तखल्वे तु तत्सूतं खर्परोदरे ॥ ३,८.७६ ॥
चुल्ल्यां चण्डाग्निना पाच्यं प्रक्षिपेत्कन्यकाद्रवैः ।
त्रिदिनान्ते समुद्धृत्य सैन्धवं तच्चतुर्गुणम् ॥ ३,८.७७ ॥
दत्त्वा विमर्दयेद्यामं पातनायन्त्रके पचेत् ।
चतुर्यामात्समुद्धृत्य क्षालयेदारनालकैः ॥ ३,८.७८ ॥
अधःस्थितं समादद्यात्शुद्धः स्यात्पारदः शुभः ।
एतत्सूतं मृतं वङ्गं श्वेताभ्रसत्त्वटङ्कणम् ॥ ३,८.७९ ॥
विषं च तुल्यतुल्यांशं तालसत्त्वं चतुःसमम् ।
मर्द्यं स्नुह्यर्कसत्त्वाभ्यां खल्वके दिवसत्रयम् ॥ ३,८.८० ॥
तद्वटीः काचकूप्यान्तः क्षिप्त्वा कूपीं मृदा लिपेत् ।
सच्छिद्रवालुकायन्त्रे हण्डीं मन्दाग्निना पचेत् ॥ ३,८.८१ ॥
शुष्के द्रावे मुखं रुद्ध्वा शनैर्यामाष्टकं पचेत् ।
स्वाङ्गशीतं समुद्धृत्य द्रुतं शुल्बं तु वेधयेत् ।
चतुःषष्टितमांशेन तारं भवति शोभनम् ॥ ३,८.८२ ॥
{तिन् + सिल्वेर्+ चोप्पेर्=> सिल्वेर्}
पलं सूतं पलं तालं तालस्थानेऽथवा शिला ।
कृष्णोन्मत्तद्रवैर्मर्द्यं त्रिदिनान्ते समुद्धरेत् ॥ ३,८.८३ ॥
वज्रमूषागतं रुद्ध्वा चक्रयन्त्रे दिनं पचेत् ।
पुनर्मर्द्यं पुनः पाच्यमेवं सप्तविधे कृते ॥ ३,८.८४ ॥
तन्मृतं वङ्गतारार्कैः क्रमेणावेष्टयेत्समैः ।
रुद्ध्वा तीव्राग्निना धाम्यं तारं भवति शोभनम् ॥ ३,८.८५ ॥
{चोप्पेर्+ सिल्वेर्=> सिल्वेर्}
शुद्धसूतत्रयो भागा भागैकं ताम्रपत्रकम् ।
स्त्रीस्तन्ये मर्दयेद्यामं जायते तारपिष्टिका ॥ ३,८.८६ ॥
बीजान्युत्तरवारुण्याः स्त्रीस्तन्येन तु पेषयेत् ।
तेनैव लेपयेत्पिष्टीं वज्रमूषां निरोधयेत् ॥ ३,८.८७ ॥
दिनैकं भूधरे पच्यात्पुनर्लिप्त्वा च पाचयेत् ।
इत्येवं सप्तधा पाच्यं पिष्टीस्तम्भो भवेद्दृढः ॥ ३,८.८८ ॥
द्वात्रिंशांशेन तेनैव शुल्बे वेधं प्रदापयेत् ।
दशांशं च क्षिपेत्तारं रौप्यं भवति शोभनम् ॥ ३,८.८९ ॥
{चोप्पेर्+ सिल्वेर्=> सिल्वेर्}
शृङ्गाटी शंखचूर्णं तु गोमूत्रैः सारनालकैः ।
पिष्ट्वा तत्कल्कमध्ये तु तप्तं तप्तं निषिञ्चयेत् ॥ ३,८.९० ॥
शुल्बपत्रं भवेद्यावज्जीर्णं तच्च समुद्धरेत् ।
मध्वाज्यटंकणैः सार्धं मूषामध्ये गतं धमेत् ॥ ३,८.९१ ॥
तारार्धेन समावर्त्य शुद्धं तारं भवेत्तु तत् ॥ ३,८.९२ ॥
{चोप्पेर्ःः दलयोग्य}
अर्कापामार्गकदलीक्षारमम्लेन लोलितम् ।
तेन लिप्तं ताम्रपत्रं धाम्यं मूषागतं पुनः ॥ ३,८.९३ ॥
पत्रं कृत्वा प्रलिप्याथ तद्वद्धाम्यं पुनः पुनः ।
इत्येवं सप्तधा कुर्यात्वादे स्याद्दलयोग्यकम् ॥ ३,८.९४ ॥
{चोप्पेर्ःः दलयोग्य}
अथवा ताम्रपत्राणि सुतप्तानि निषेचयेत् ।
लोणारनालमध्ये तु शतधा पूर्ववद्भवेत् ॥ ३,८.९५ ॥
पलाशमूलजं क्षारं फट्किरी चाम्लपेषितम् ।
ताम्रपत्राणि संलिप्य द्रावयेत्पत्त्रयेत्पुनः ॥ ३,८.९६ ॥
इत्येवं सप्तधा कुर्याद्दलयोग्यं भवेत्तु तत् ॥ ३,८.९७ ॥
{चोप्पेर्+ सिल्वेर्=> सिल्वेर्}
सुशुद्धं तालकं सूतं सामुद्रलवणं समम् ।
द्वियामं मर्दयेत्खल्वे नवभाण्डगतं पचेत् ॥ ३,८.९८ ॥
मन्दाग्नौ चालयेत्तावद्यावत्कृष्टिर्भवेत्तु तत् ।
ततः समुद्रलवणं तालांशं मर्दयेत्पृथक् ॥ ३,८.९९ ॥
यावच्चिटचिटीशब्दो निवर्तेत समाहरेत् ।
चूर्णितं मृण्मये यन्त्रे लवणार्धमथो क्षिपेत् ॥ ३,८.१०० ॥
तत्पृष्ठे पूर्वत्रितयं तन्मध्ये लवणार्धकम् ।
क्षिप्त्वा मृल्लवणैः संधिं लिप्त्वा शुष्कं विचूर्णयेत् ॥ ३,८.१०१ ॥
यामद्वादशपर्यन्तं भाण्डपृष्ठे दृढाग्निना ।
तत्सत्त्वं मृतसूताभमूर्ध्वलग्नं समाहरेत् ॥ ३,८.१०२ ॥
बद्ध्वा वस्त्रेण दण्डाग्रे कुन्तवेधं नियोजयेत् ।
दशांशे तु द्रुते ताम्रे ढालयेद्दधिगोमये ।
तारार्धेन समावर्त्य शंखकुन्देन्दुसन्निभम् ॥ ३,८.१०३ ॥
{सिल्वेर्ःः प्रोदुच्तिओन्}
इत्येवं मर्दयेन्नागं कान्तलोहाष्टभागकम् ।
मूषायां द्वंद्वलिप्तायां सर्वचूर्णं दृढं धमेत् ।
तत्खोटं समतारेण द्रावितं तारतां व्रजेत् ॥ ३,८.१०४ ॥
{सिल्वेर्ःः रञ्जन}
ताम्रायस्कांतनागं च चूर्णितं पूर्ववद्धमेत् ।
तारार्धेन समावर्त्य तारं भवति शोभनम् ॥ ३,८.१०५ ॥
{सिल्वेर्ःः रञ्जन, ओप्तिमिसिन्ग्थे चोलोउर्}
तारं बंगं तथा कांस्यं समं द्राव्यं सटङ्कणम् ।
अस्य खोटस्य भागैकं त्रिभागं शुद्धताम्रकम् ॥ ३,८.१०६ ॥
समावर्त्य कृतं खोटं समे तारे विमिश्रयेत् ।
तत्तारं जायते शुद्धं हिमकुंदेन्दुसन्निभम् ॥ ३,८.१०७ ॥
{सिल्वेर्ःः रञ्जन, ओप्तिमिसिन्ग्थे चोलोउर्}
मुण्डलोहस्य चूर्णं तु ग्राहयेद्भागपञ्चकम् ।
तद्गर्भे तालसत्त्वं तु भागैकं संनिवेशयेत् ॥ ३,८.१०८ ॥
टंकणं श्वेतकाचं च ऊर्ध्वं दत्त्वा निरोधयेत् ।
ध्मातं तीव्रं तु संचूर्ण्य पुनः सत्त्वं तु दापयेत् ॥ ३,८.१०९ ॥
काचं टंकणकं दत्त्वा मूषायां चान्धितं धमेत् ।
इत्येवं पञ्चधा कुर्यात्सत्त्वं दत्त्वा पुनः पुनः ॥ ३,८.११० ॥
तत्तुल्यं शुद्धतारं च मृतोत्थं बंगभस्मकम् ।
त्रितयं तु समावर्त्य ताम्रारे द्राविते समे ॥ ३,८.१११ ॥
वेधो देयो दशांशेन बीजं पादं च योजयेत् ।
तत्तारं जायते दिव्यं शंखकुंदेन्दुसन्निभम् ॥ ३,८.११२ ॥
{सिल्वेर्ःः रञ्जन}
शुद्धसूतं मृतं बंगं श्वेताभ्रं टंकणं समम् ।
तथा मूषकपाषाणं पञ्चानां च चतुर्गुणम् ॥ ३,८.११३ ॥
योजयेत्तालकं शुद्धं स्नुह्यर्कपयसा दृढम् ।
सर्वं दिनत्रयं मर्द्यं काचकूप्यां निवेशयेत् ॥ ३,८.११४ ॥
सम्यङ्मृद्वस्त्रलिप्तायां सुशुष्कायां पचेत्ततः ।
सच्छिद्रे वालुकायन्त्रे कूप्यामारोपितं पचेत् ॥ ३,८.११५ ॥
शुष्के द्रवे मुखं रुद्ध्वा लोणमृत्तिकया दृढम् ।
ततश्चण्डाग्निना पच्याद्यावत्षोडशयामकम् ॥ ३,८.११६ ॥
स्वांगशीतं समुद्धृत्य स्फोटयेत्काचकूपिकाम् ।
ऊर्ध्वलग्नं तालसत्त्वं संग्राह्य तेन वेधयेत् ॥ ३,८.११७ ॥
षोडशांशेन शुल्बं तु ढालयेद्दधिगोमये ।
ततः शुद्धेन तारेण समावर्त्य समेन तु ।
तत्तारं जायते शुद्धं हिमकुन्देन्दुसन्निभम् ।
{चोप्पेर्=> सिल्वेर्}
तालकं साबुणीतुल्यं पिष्ट्वा भ्रष्टं च खर्परे ॥ ३,८.११८ ॥
चालयन्नेव लघ्वग्नौ यावत्कृष्णं भवेत्तु तत् ।
मृल्लिप्तकाचकूप्यान्तः क्षिप्त्वा तस्यां क्षिपेत्पुनः ॥ ३,८.११९ ॥
भर्जितं लवणं चैव तालकाद्दशमांशकम् ।
पूर्ववद्वालुकायन्त्रे पक्त्वा सत्त्वं समाहरेत् ॥ ३,८.१२० ॥
साबुणीसत्त्वपादांशं दत्त्वा पिष्ट्वा पचेत्पुनः ।
पूर्ववद्वालुकायन्त्रे कूपिकामष्टयामकम् ॥ ३,८.१२१ ॥
तत्सत्त्वं तिलतैलं च समांशे पिशिते पचेत् ।
चालयेल्लोहपात्रे तु तैलं यावत्तु जीर्यते ॥ ३,८.१२२ ॥
इत्येवं सप्तधा पाच्यं समं तैले पुनः पुनः ।
तद्वच्च सप्तधा पाच्यं सिद्धं कथकेन समं समम् ॥ ३,८.१२३ ॥
चतुःषष्टितमांशेन द्रुतं शुल्बं तु वेधयेत् ।
वेधयेत्कुन्तवेधेन ढालयेद्दधिगोमये ।
पादांशं दापयेद्बीजं तारं भवति शोभनम् ॥ ३,८.१२४ ॥
{सिल्वेर्ःः शोधन (?); चोप्पेर्+ सिल्वेर्=> सिल्वेर्(?)}
टंकणं शुद्धतालस्य दशांशेन दापयेत् ।
मेषीक्षीरैस्तथाज्यैश्च खल्वे मर्द्यं दिनत्रयम् ॥ ३,८.१२५ ॥
दिनमेरंडतैलेन मर्द्यं कूप्यां निवेशयेत् ।
पूर्ववत्पाचयेद्यंत्रे द्रवे शुष्के निवेशयेत् ॥ ३,८.१२६ ॥
ग्राह्यं षोडशयामान्ते सत्त्वं मृदुतरं महत् ।
षोडशांशेन तेनैव शुल्बकं तेन वेधयेत् ॥ ३,८.१२७ ॥
तारार्धं च द्रुतं द्राव्यं शुद्धं भवति पूर्ववत् ॥ ३,८.१२८ ॥
{चोप्पेर्+ सिल्वेर्=> सिल्वेर्}
षण्निष्कं ताम्रमावर्त्य आखुपाषाणनिष्ककम् ।
प्रदेयं कुंतवेधेन ह्यर्धबीजं भवेद्दलम् ॥ ३,८.१२९ ॥
तालकं टंकणं सर्जिक्षारं चैवापामार्गजम् ।
वज्रिदुग्धैः समं मर्द्यं खल्वे यामचतुष्टयम् ॥ ३,८.१३० ॥
अनेन चार्धभागेन ताम्रपत्राणि लेपयेत् ।
अंधमूषागतं ध्मातमेवं वारत्रये कृते ।
तारार्धेन समावर्त्य शुद्धतारं भवेत्तु तत् ॥ ३,८.१३१ ॥
{चोप्पेर्=> सिल्वेर्}
गुंजाकार्पासशिग्रूणां तैलमेकस्य चाहरेत् ।
तस्मिंस्तैले द्रुतं ताम्रं ढालयेच्च त्रिसप्तधा ॥ ३,८.१३२ ॥
षडंशं दापयेद्बीजं शुद्धतारं भवेत्तु तत् ।
शिग्रुमूलप्रलिप्तायां मूषायां द्रावयेत्ततः ॥ ३,८.१३३ ॥
{सिल्वेर्, गोल्द्ःः मृदूकरण}
अर्कापामार्गकदलीभस्मतोयेन लोलयेत् ।
तद्वस्त्रगलितं ग्राह्यं स्वच्छं तोयं तदातपे ॥ ३,८.१३४ ॥
शोषितं लवणं तस्मात्समादाय प्रयत्नतः ।
रौप्ये वा यदि वा स्वर्णे द्राविते शतमांशतः ॥ ३,८.१३५ ॥
तदेव दापयेद्वाप्यं ढालयेत्तिलतैलके ।
इत्येवं तु त्रिधा कुर्यादत्यन्तं मृदुतां व्रजेत् ॥ ३,८.१३६ ॥
{मृदूकरण}
अश्वगोमहिषीणां च खुरं शृङ्गं समाहरेत् ।
तच्चूर्णवापमात्रेण अत्यन्तं मृदुतां व्रजेत् ॥ ३,८.१३७ ॥
{मृदूकरण}
गजदन्तस्य चूर्णं वा शुष्कं वाथ नृणां मलम् ।
कठिने दापयेद्वापं भवेन्मृदुतरं महत् ॥ ३,८.१३८ ॥
{दल (?):: निर्मलीकरण (?)}
नानाविधानि कार्याणि भूषणानि दलेन वै ।
श्वेतं रक्तं च वर्षाभूमूलं पिष्ट्वारनालकैः ॥ ३,८.१३९ ॥
पिष्ट्वाथ लवणं किंचित्क्षिप्त्वा तत्रैव पेषयेत् ।
तत्किंचिद्दलजातं तु घटिकार्धात्समुद्धरेत् ॥ ३,८.१४० ॥
घर्षयन् लवणाम्लाभ्यां धाम्यमग्नौ पुनः पचेत् ।
इत्येवं तु त्रिधा कुर्यात्दलं भवति निर्मलम् ॥ ३,८.१४१ ॥
{दल (?):: निर्मलीकरण (?)}
फट्करीचूर्णमादाय खर्परे ह्यधरोत्तरम् ।
दत्त्वा दलस्य संरुध्य सम्यग्गजपुटे पचेत् ॥ ३,८.१४२ ॥
आदाय रज्जुकां बद्ध्वा दोलायंत्रे दिनं पचेत् ।
चिञ्चारनालभाण्डे तु शुभ्रं भवति शंखवत् ॥ ३,८.१४३ ॥
अभिनवसुखसाध्यैः साधने युक्तिगर्भैर्गदितमिह सुसिद्धं स्तम्भनं शुद्धबंगे ।
सुगममपि च तारं सूतशुल्बारयोगैः दलमतिमलहीनं वार्तिकानां हितार्थम् ॥ ३,८.१४४ ॥

३, ९
वज्रेण हेममिलितेन तु रञ्जितेन सूतेन हेममिलितेन सुरञ्जितेन ।
योगैः सुसुन्दरतरैः कनकाद्रिकूटं कृत्वाथ शक्रपदहेतुमखांश्च कुर्यात् ॥ ३,९.१ ॥
{द्वन्द्वमेलापन}
अयस्कांतमुखं गुंजां तयोर्द्विगुणगंधकम् ।
स्त्रीस्तन्यैः पेषितं लेप्यं मूषायां द्वंद्वमेलकम् ॥ ३,९.२ ॥
{द्वन्द्वमेलनःः वज्र}
गंधशशदन्ताश्च भ्रामकस्य मुखं तथा ।
अम्लवेतसः शिलाधातुः सर्वं तुल्यं प्रपेषयेत् ॥ ३,९.३ ॥
मूषालेपेन तेनैव वज्रद्वंद्वं मिलत्यलम् ॥ ३,९.४ ॥
{वज्रद्वन्द्वमेलापन (३)}
महिषीकर्णनेत्रोत्थमलं चूर्णं च टंकणम् ।
स्त्रीस्तन्यं कर्कटास्थीनि शिलाजतु समं समम् ।
पिष्ट्वा मूषां प्रलेपेन वज्रद्वन्द्वेषु मेलकम् ॥ ३,९.५ ॥
{वज्रद्वन्द्वमेलापन (४)}
भ्रमरास्थिनृकेशांश्च टंकणं कांतजं मुखम् ।
बालवत्सपुरीषं च स्त्रीस्तन्येन तु पेषयेत् ।
तत्कल्कलिप्तमूषायां वज्रद्वंद्वं मिलत्यलम् ॥ ३,९.६ ॥
{वज्रसूतमेलापन}
भूनागं कांतपाषाणं माक्षिकं टंकणं मधु ।
स्नुक्पयःकर्कटास्थीनि काचमर्कपयः समम् ॥ ३,९.७ ॥
स्त्रीस्तन्यैः पेषितं सर्वं मूषालेपं तु कारयेत् ।
तन्मध्यस्थं वज्रसूतं हठाद्ध्माते मिलत्यलम् ॥ ३,९.८ ॥
{स्वर्णवज्रमेलापन (द्वन्दखोट)}
मृतवज्रस्य चत्वारो भागा द्वादशहाटकम् ।
नागस्य च त्रयो भागाः षट्शुद्धस्य च पारदात् ॥ ३,९.९ ॥
एकीकृत्य तु तन्मर्द्यं दिनमम्लेन केनचित् ।
तप्तखल्वे तु तत्कल्कं समुद्धृत्य निरोधयेत् ॥ ३,९.१० ॥
मूषायां द्वन्द्वलिप्तायां हठाद्ध्माते मिलत्यलम् ॥ ३,९.११ ॥
{स्वर्णवज्रमेलापन (२)}
क्षारैरुत्पलसारिण्या मृतं वज्रं विभावयेत् ।
दिनैकं शोधितं पिष्टमेकैकां कारयेद्वटीम् ॥ ३,९.१२ ॥
त्रिभागं पारदं चैव भागाश्चत्वारि हाटकम् ।
अम्लेन कारयेत्पिष्टीं तद्गर्भे तां क्षिपेद्वटीम् ॥ ३,९.१३ ॥
भूर्जपत्रेण तद्बद्ध्वा धान्यराशौ विनिक्षिपेत् ।
पक्षमात्रात्समुद्धृत्य पूर्वमूषागतं धमेत् ॥ ३,९.१४ ॥
मिलत्येव न संदेहो धाम्यमानं पुनः पुनः ॥ ३,९.१५ ॥
{स्वर्णवज्रमेलापन (द्वन्द्वखोट, २)}
मृतवज्रस्य भागैकं स्वर्णपत्रेण वेष्टयेत् ।
सम्यक्षोडशभागेन मूषायां पूर्ववत्क्षिपेत् ॥ ३,९.१६ ॥
स्वर्णतुल्यं सितं काचमथवा नृकपालकम् ।
चूर्णयित्वा क्षिपेत्तस्यां रुद्ध्वा तीव्राग्निना धमेत् ॥ ३,९.१७ ॥
समुद्धृत्य पुनर्देयं काचं वा नृकपालकम् ।
लिप्त्वा मूषां धमेत्तदेवं मूषासु सप्तसु ॥ ३,९.१८ ॥
हेम्ना मिलति तद्वज्रमित्येवं मेलयेत्पुनः ।
यावन्मिलति पादांशं सुवर्णे मृतवज्रकम् ॥ ३,९.१९ ॥
{चोप्पेर्=> गोल्द्}
द्विभागं द्वंद्वखोटस्य त्रिभागं द्रुतसूतकम् ।
मर्दयेदम्लयोगेन दिनान्ते तं च गोलकम् ॥ ३,९.२० ॥
मेषशृंग्यास्तु पञ्चाङ्गं स्त्रीस्तन्येन तु पेषयेत् ।
अनेन वेधयेद्गोलं तद्बहिर्निगलेन च ॥ ३,९.२१ ॥
स्वेदादिमेलनान्तं च कारयेद्धेमपिष्टिवत् ।
मेषशृंगीभवैः क्षारैस्तत्खोटं मर्दयेत्क्षणम् ॥ ३,९.२२ ॥
मूषान्तर्लेपयेत्तेन तत्तुल्यं हाटकं क्षिपेत् ।
यावज्जीर्णं धमेत्तावत्पुनः स्वर्णं च दापयेत् ॥ ३,९.२३ ॥
जारयेद्धमनेनैव दत्त्वा विडवटीं क्रमात् ।
एवं विंशगुणं यावत्तावत्स्वर्णं च जारयेत् ॥ ३,९.२४ ॥
स्वर्णेन तु समावर्त्य सारणात्रययोगतः ।
तेनैव वेधयेच्छुल्बं सहस्रांशेन कांचनम् ।
जायते दिव्यरूपाढ्यं जांबूनदसमप्रभम् ॥ ३,९.२५ ॥
{सितस्वर्ण => गोल्द्}
वज्रमूषागतं ध्मातं द्वंद्वखोटं हठाग्निना ।
माक्षिकाद्धौतसत्त्वं वा सत्त्वं वा माक्षिकोद्भवम् ॥ ३,९.२६ ॥
स्तोकं स्तोकं क्षिपेत्तस्मिन्ध्माते जीर्णे पुनः पुनः ।
यावत्तत्कुंकुमाभं स्यात्तावद्वज्रं समुद्धरेत् ॥ ३,९.२७ ॥
लक्षांशेन तु तेनैव सितहेमं तु वेधयेत् ।
जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥ ३,९.२८ ॥
{सितस्वर्ण => गोल्द्}
वैक्रांतं माक्षिकं तुत्थं रसकाञ्जनगैरिकम् ।
विमला चैव वैडूर्यमेतेष्वेकं पलार्धकम् ॥ ३,९.२९ ॥
नागबंगार्ककेष्वेकं यथालाभं पलार्धकम् ।
द्वंद्वचूर्णं ततो रुद्ध्वा वज्रमूषागतं धमेत् ॥ ३,९.३० ॥
पूर्ववद्गंधकाम्लेन मर्द्यं रुद्ध्वा पुटे पचेत् ।
चतुर्दशपुटैरेवं बालार्कसदृशं भवेत् ॥ ३,९.३१ ॥
अनेन वज्रखोटं तु यथापूर्वं तु रञ्जयेत् ।
तद्वद्वध्यं सितं हेम लक्षांशात्कांचनं भवेत् ॥ ३,९.३२ ॥
अथवा द्वंद्वखोटं तु सूक्ष्मचूर्णं तु कारयेत् ।
एतत्खोटं शुद्धचूर्णमंधमूषागतं धमेत् ॥ ३,९.३३ ॥
आरोटरसतस्तुल्यं जम्बीरैर्मर्दयेत्दिनम् ।
वस्त्रे बद्ध्वा दिनं स्वेद्यं दोलायंत्रे सकांजिके ॥ ३,९.३४ ॥
सवस्त्रं पाचयेत्पश्चाद्गन्धतैले दिनावधि ।
ततो वस्त्रात्समुद्धृत्य निगडेन तुले पचेत् ॥ ३,९.३५ ॥
स्वेदादिधमनान्तं च कारयेद्धेमपिष्टिवत् ।
तत्खोटं तु समुद्धृत्य रञ्जयेत्तन्निगद्यते ॥ ३,९.३६ ॥
तीक्ष्णं शुल्बं समं चूर्ण्य अंधमूषागतं धमेत् ।
तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् ॥ ३,९.३७ ॥
चूर्णं रुद्ध्वा धमेद्गाढं तत्खोटं मर्दयेत्पुनः ।
पूर्ववद्गंधकाम्लेन पुटान्दद्याच्चतुर्दश ॥ ३,९.३८ ॥
अनेन पूर्वखोटं तु मूषामध्ये च पूर्ववत् ।
यावत्कुंकुमवर्णं स्यात्तावद्वारं शनैः शनैः ॥ ३,९.३९ ॥
स्वर्णेन च समावर्त्य सारणात्रयसारितम् ।
अनेन लक्षभागेन द्रुतं शुल्वं तु वेधयेत् ॥ ३,९.४० ॥
जायते कनकं दिव्यं सत्यं शंकरभाषितम् ॥ ३,९.४१ ॥
{मेर्चुर्य्ःः रेद्भस्मन्}
कर्षैकं द्रुतसूतस्य ह्यष्टगुंजं तु हाटकम् ।
चतुर्गुंजं मृतं वज्रं हंसपाद्या द्रवैर्दिनम् ॥ ३,९.४२ ॥
मर्दयेत्तप्तखल्वे तु वज्रमूषान्धितं पचेत् ।
भूधराख्यपुटैकेन समुद्धृत्याथ मर्दयेत् ॥ ३,९.४३ ॥
हंसपाद्या द्रवैरेवं तप्तखल्वे दिनावधि ।
पूर्ववद्भूधरे पच्यादेवं शतपुटैः पचेत् ॥ ३,९.४४ ॥
रक्तवर्णं भवेद्भस्म सर्वयोगेषु योजयेत् ॥ ३,९.४५ ॥
{मेर्चुर्य्ःः जारणःः ओf अभ्र}
द्रवैर्वर्तुलपत्रायाः सोमवल्ल्या द्रवैश्च वा ।
धान्याभ्रं सप्तधा भाव्यं ततो जारणमारभेत् ॥ ३,९.४६ ॥
गोस्तनाकारमूषायां सूतं शुद्धं विनिक्षिपेत् ।
पूर्वाभ्रं षोडशांशं च मूषायां चणकद्रवैः ॥ ३,९.४७ ॥
वालुकाभाण्डमध्ये तु चुल्ल्यां मृद्वग्निना पचेत् ।
अभ्रके चणकद्रावं जीर्णे जीर्णे क्षिपेत्पुनः ॥ ३,९.४८ ॥
इत्येवं जारयेत्तुल्यं पारदे गगनं क्रमात् ।
{अभ्रःः पिष्टी}
सोमवल्लीरसैर्यामं मर्द्यं धान्याभ्रकं ततः ॥ ३,९.४९ ॥
रुद्ध्वा वनोत्पलैर्दद्यात्क्रमादेवं पुटत्रयम् ।
सप्तधा भावयेद्घर्मे सोमवल्ल्या द्रवैर्दिनम् ॥ ३,९.५० ॥
श्वेतायाः शरपुङ्खाया मूलैर्गोक्षीरघर्षितैः ।
कल्कितैर्मृण्मयं पात्रं लिप्त्वा तत्राभ्रकं क्षिपेत् ॥ ३,९.५१ ॥
तन्मध्ये निक्षिपेत्सूतं तत्पृष्ठे चाभ्रकं पुनः ।
सोमवल्लीद्रवैः पूर्वं तत्पात्रं चातपे खरे ॥ ३,९.५२ ॥
धारयेच्चरते दीर्घं जायते व्योमपिष्टिका ।
{चोप्पेर्=> गोल्द्; कोटिवेध}
पूर्वोक्ता गन्धपिष्टी या स्तम्भिता जारणं विना ॥ ३,९.५३ ॥
तथा ह्यभ्रकपिष्टी च अभ्रसत्त्वं तृतीयकम् ।
चतुर्थं रक्तभस्मापि पूर्वं वज्रेण यत्कृतम् ॥ ३,९.५४ ॥
चत्वारः प्रतिकर्षांशं जारितं पारदं पलम् ।
सर्वमेतत्तप्तखल्वे हंसपाद्या द्रवैर्दिनम् ॥ ३,९.५५ ॥
मर्दितं तत्समुद्धृत्य पचेत्कच्छपयंत्रके ।
यावत्सूतावशेषं तु तावज्जार्यं पुटेन वै ॥ ३,९.५६ ॥
अस्य सूतस्य तुल्यांशं वज्रद्वंद्वं नियोजयेत् ।
दोलास्वेदेन पक्तव्यं यावद्भवति गोलकम् ॥ ३,९.५७ ॥
जारयेत्कच्छपे यंत्रे यावत्सूतावशेषितम् ।
इत्येवं षड्गुणं जार्यं वज्रद्वंद्वं प्रयत्नतः ॥ ३,९.५८ ॥
तेनैव वज्रद्वंद्वेन सारयेत्सारणात्रयम् ।
अनेन कोटिभागेन द्रुतं शुल्बं तु वेधयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,९.५९ ॥
{चन्द्रार्क => गोल्द्}
भागैकं मृतवज्रस्य शुद्धसूतस्य षोडश ।
मर्दयेदम्लवर्गेण तप्तखल्वे दिनावधि ॥ ३,९.६० ॥
पक्वबीजस्य पत्राणि तुल्यान्येतेन लेपयेत् ।
सुपक्वभानुपत्रैस्तु लिप्तपत्राणि वेष्टयेत् ॥ ३,९.६१ ॥
शरावसंपुटे रुद्ध्वा निखनेच्चुल्लिमध्यतः ।
त्रिदिनं ज्वालयेत्तत्र वह्निमल्पाल्पशः क्रमात् ॥ ३,९.६२ ॥
ततो निगडलिप्तायां मूषायां तेन रोधयेत् ।
कारीषवह्निना पच्यातहोरात्रात्समुद्धरेत् ॥ ३,९.६३ ॥
मधुना मर्दयेत्किंचित्ततस्तेन शतांशतः ।
लिप्त्वा चन्द्रार्कपत्राणि ह्यंधमूषागतं धमेत् ।
स्वर्णं भवति रूपाढ्यं सत्यं शंकरभाषितम् ॥ ३,९.६४ ॥
{चोप्पेर्=> गोल्द्}
मृतवज्रस्य भागैकं भागैकं हाटकस्य च ।
त्रिभागं द्रुतसूतस्य सर्वं स्तन्येन मर्दयेत् ॥ ३,९.६५ ॥
तद्गोलं बन्धयेद्वस्त्रे गन्धतैले त्र्यहं पचेत् ।
ततस्तुल्येन स्वर्णेन समावर्तं तु कारयेत् ॥ ३,९.६६ ॥
दत्त्वा विडवटीं चैव एकविंशतिवारकम् ।
एकविंशगुणे जीर्णे सारयेत्सारणात्रयम् ॥ ३,९.६७ ॥
सहस्रांशेन तेनैव शुल्बे वेधं प्रदापयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,९.६८ ॥
{सिल्वेर्, चोप्पेर्=> गोल्द्}
शुद्धसूतं मृतं वज्रं हंसपाद्या द्रवैः समम् ।
मर्दयेत्तप्तखल्वे तु त्रिदिनान्ते समुद्धरेत् ॥ ३,९.६९ ॥
बीजैर्दिव्यौषधानां च पिष्ट्वा मूषां प्रलेपयेत् ।
तत्र पूर्वरसं क्षिप्त्वा रुद्ध्वा तत्करिषाग्निना ॥ ३,९.७० ॥
समुद्धृत्य पुनस्तस्मिन् शुद्धसूतं समं क्षिपेत् ।
हंसपाद्या द्रवैर्मर्द्यं पूर्ववद्दिवसत्रयम् ॥ ३,९.७१ ॥
तद्गोलं पूर्वमूषायां रुद्ध्वा गजपुटे पचेत् ।
जायते भस्म सूतोऽयं सर्वकर्मसु योजयेत् ॥ ३,९.७२ ॥
अस्य तुल्यं शुद्धसूतं सूतपादं च टंकणम् ।
सर्वमम्लैर्दिनं मर्द्यं कृत्वा गोलं समुद्धरेत् ॥ ३,९.७३ ॥
रक्तकार्पासयोर्बीजं राजिका यवचिञ्चिका ।
वन्ध्याकर्कोटकी चैव पिष्ट्वा गोलं प्रलेपयेत् ॥ ३,९.७४ ॥
ऊर्ध्वाधो लवणं दत्त्वा रुद्ध्वा मूषां विशोषयेत् ।
कारीषाग्नौ दिवारात्रौ पाचयित्वा समुद्धरेत् ॥ ३,९.७५ ॥
पूर्वकल्केन तद्गोलं क्षिप्त्वा रुद्ध्वाथ पूर्ववत् ।
पुटे पच्याद्दिवारात्रौ एवं कुर्याच्च सप्तधा ॥ ३,९.७६ ॥
ततस्तेनैव कल्केन लिप्त्वा रुद्ध्वाथ शोषयेत् ।
सम्यग्गजपुटे पच्यात्ततो मूषागतं धमेत् ॥ ३,९.७७ ॥
शतमांशेन तेनैव चन्द्रार्कौ वेधयेद्द्रुतम् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,९.७८ ॥
{चन्द्रार्क => गोल्द्}
अथवा भस्मसूतं तत्कार्यं टंकणसंयुतम् ।
अंधमूषागतं ध्मातं खोटं भवति शोभनम् ॥ ३,९.७९ ॥
खोटतुल्यं शुद्धहेम सर्वमेकत्र द्रावयेत् ।
चन्द्रार्कं वेधयेत्तेन पूर्ववत्कांचनं भवेत् ॥ ३,९.८० ॥
{शतवेधिकल्कः - तारे ताम्रे}
वज्रभस्म स्नुहीक्षीरैर्दिनमेकं विमर्दयेत् ।
रुद्ध्वा गजपुटे पच्यातेवं शतपुटैः पचेत् ॥ ३,९.८१ ॥
तत्तुल्यं पारदं शुद्धं क्षिप्त्वा मर्द्यं दिनत्रयम् ।
देवदाल्या द्रवैरेवं तद्गोलं चान्धितं पुटेत् ॥ ३,९.८२ ॥
कारीषाग्नौ दिवारात्रौ समुद्धृत्याथ मर्दयेत् ।
देवदाल्या द्रवैस्त्र्यहं तद्वद्रुद्ध्वा पुटे पचेत् ॥ ३,९.८३ ॥
एवं दशपुटैः पाच्यं वज्रतुल्यं च हाटकम् ।
क्षिप्त्वा कांचनकद्रावैर्मर्दयेद्दिवसत्रयम् ॥ ३,९.८४ ॥
पूर्ववत्पुटपाकेन एवं दशपुटैः पचेत् ।
स्वर्णतुल्यं ततस्तीक्ष्णं चूर्णं कृत्वा नियोजयेत् ॥ ३,९.८५ ॥
मर्दयेत्त्रिफलाद्रावैस्तत्सर्वं दिवसत्रयम् ।
पुटयेत्पूर्वयोगेन एवं दशपुटैः पचेत् ॥ ३,९.८६ ॥
तीक्ष्णतुल्यं मृतं नागं दत्त्वा सर्वं विमर्दयेत् ।
वासारक्ताश्वमारोत्थद्रावैः खल्वे दिनत्रयम् ॥ ३,९.८७ ॥
रुद्ध्वा गजपुटे पच्यात्पुनर्मर्द्यं च पाचयेत् ।
एवं दशपुटैः पक्वं समुद्धृत्याथ मर्दयेत् ॥ ३,९.८८ ॥
अम्लवर्गेण तत्सर्वं मर्द्यं यामचतुष्टयम् ।
रुद्ध्वा गजपुटे पच्यात्पुनर्मर्द्यं च पाचयेत् ॥ ३,९.८९ ॥
एवं दशपुटैः पाच्यं सिन्दूरसदृशं भवेत् ।
अनेन शतमांशेन चन्द्रार्कं वेधयेद्द्रुतम् ॥ ३,९.९० ॥
अथवा मधुनाक्तेन चन्द्रार्कौ लेपयेत्ततः ।
जायते कनकं दिव्यं पुटे दत्ते न हीयते ॥ ३,९.९१ ॥
अथवा तारपत्राणि मधुनाक्तेन लेपयेत् ।
चतुःषष्टितमांशेन दिव्यं भवति कांचनम् ॥ ३,९.९२ ॥
{चन्द्रार्क => गोल्द्(शतवेधिकल्कः)}
चतुःषष्टिगुणं सूतं भागैकं मृतवज्रकम् ।
मर्दयेदम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥ ३,९.९३ ॥
भागत्रयं हेमपत्रमनेनैव प्रलेपयेत् ।
रुद्ध्वाथ भूधरे पच्यात्समुद्धृत्याथ मर्दयेत् ॥ ३,९.९४ ॥
शुद्धेन सूतराजेन त्रिगुणेन च संयुतम् ।
अम्लवर्गैस्त्र्यहं मर्द्यं रुद्ध्वाथ भूधरे पुटेत् ॥ ३,९.९५ ॥
पुनर्मर्द्यं पुनः पाच्यमेकविंशतिवारकम् ।
अनेन शतमांशेन चंद्रार्कं मधुना सह ॥ ३,९.९६ ॥
लिप्त्वा रुद्ध्वा धमेद्गाढं दिव्यं भवति काञ्चनम् ॥ ३,९.९७ ॥
{सिल्वेर्=> गोल्द्(षोडशवेधिकल्कः)}
पूर्वोक्तभस्मसूतेन अम्लपिष्टेन लेपयेत् ।
चतुर्गुणं स्वर्णपत्रं रुद्ध्वा गजपुटे पचेत् ।
पादांशेन पुनस्तस्मिन् भस्मसूतं नियोजयेत् ॥ ३,९.९८ ॥
मर्दयेदम्लवर्गेण तद्वद्रुद्ध्वा पुटे पचेत् ।
एवं चतुःपुटैः पक्वं म्रियते हाटकं शुभम् ॥ ३,९.९९ ॥
तेनैव षोडशांशेन द्रुतं तारं तु वेधयेत् ।
अथवा पत्रलेपेन दिव्यं भवति कांचनम् ॥ ३,९.१०० ॥
{चोप्पेर्=> गोल्द्; शतवेधिकल्कः}
मृतवज्रस्य भागैकं शुद्धसूतस्य षोडश ।
देवदालीशङ्खपुष्पीरसैर्मर्द्यं दिनत्रयम् ॥ ३,९.१०१ ॥
वज्रमूषागतं रुद्ध्वा दिनैकं भूधरे पचेत् ।
समुद्धृत्याथ तद्द्रावैर्दिनं मर्द्यं निरुध्य च ॥ ३,९.१०२ ॥
दिनैकं भूधरे पच्यात्तद्वन्मर्द्यं च पाचयेत् ।
इत्येवं सप्तधा कुर्याज्जायते भस्मसूतकम् ॥ ३,९.१०३ ॥
तद्भस्मसूतकं तुल्यं वज्रमूषान्धितं धमेत् ।
तत्खोटं जायते दिव्यं रञ्जयेत्तन्निगद्यते ॥ ३,९.१०४ ॥
तीक्ष्णं शुल्बं समं चूर्ण्य अंधमूषागतं धमेत् ।
तत्खोटं सिद्धचूर्णं तु गंधकाम्लेन मर्दयेत् ॥ ३,९.१०५ ॥
पूर्ववत्क्रमयोगेन पुटान्दद्याच्चतुर्दश ।
अनेन पूर्वखोटं तु द्रुतं वाप्यं पुनः पुनः ॥ ३,९.१०६ ॥
तद्भस्म गंधकं तुल्यं वज्रमूषान्धितं धमेत् ।
दशवारेण तत्खोटं जायते कुंकुमप्रभम् ॥ ३,९.१०७ ॥
स्वर्णेन च त्रिधा सार्यं शतवेधी भवेच्च तत् ।
द्रुतशुल्बे प्रदातव्यं दिव्यं भवति कांचनम् ॥ ३,९.१०८ ॥
{तारारिष्ट => गोल्द्(सहस्रवेधिकल्कः)}
पूर्वोक्तं भस्मसूतं तु पलैकं समपन्नगम् ।
कांतपात्रगतं मर्द्यं दिनैकं लोहमुष्टिना ॥ ३,९.१०९ ॥
मृद्वग्निना तु तत्पात्रे मर्दयेत्पाचयेच्छनैः ।
यावन्मिश्रं समुद्धृत्य रुद्ध्वा गजपुटे पचेत् ॥ ३,९.११० ॥
मर्द्यं वासारसैः पच्यादेवं वारचतुर्दश ।
गोपित्तेन पुनर्मर्द्यं देयं पुटचतुर्दश ॥ ३,९.१११ ॥
तत्तुल्यं स्वर्णचूर्णं च दत्त्वा पित्तेन मर्दयेत् ।
दिनान्ते तत्समुद्धृत्य क्रामणेन समायुतम् ॥ ३,९.११२ ॥
सहस्रांशेन तेनैवं तारारिष्टं तु वेधयेत् ।
जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥ ३,९.११३ ॥
नागस्थाने यदा बंगं पूर्ववत्क्रमयोगतः ।
तारचूर्णेन संयुक्तं शुल्बे वेधं प्रदापयेत् ।
सहस्रांशेन तत्तारं भवेत्कुंदेन्दुसन्निभम् ॥ ३,९.११४ ॥
{चोप्पेर्=> गोल्द्}
द्रुतसूतेन वज्रेण वज्रैः शुद्धरसेन वा ।
मृतसूतेन वज्रेण वज्रैः शुद्धरसेन वा ॥ ३,९.११५ ॥
दिव्ययोगवरैः खोटं पूर्वं नानाविधं तु यत् ।
प्रोक्तं तत्खोटमेकं तु द्रावयेत्पिष्टिखोटवत् ॥ ३,९.११६ ॥
द्रुतं तु पारदं दिव्यं मृत्युदारिद्र्यनाशनम् ।
अथास्य द्रुतसूतस्य जारयेत्पक्वबीजकम् ॥ ३,९.११७ ॥
क्रमेण षड्गुणं यावत्कच्छपाख्ये विडान्विते ।
वक्ष्यमाणप्रकारेण व्योमसत्त्वं यथा जरेत् ॥ ३,९.११८ ॥
जारितं तत्त्रिधा सार्यं पक्वबीजेन वै क्रमात् ।
अनेन कोटिमांशेन द्रुतशुल्बं तु वेधयेत् ॥ ३,९.११९ ॥
जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,९.१२० ॥
{वज्रःः द्रावण}
अथास्य कोटिवेधस्य रसेन्द्रस्यापरो विधिः ।
विष्णुक्रान्ता च चक्राङ्का कण्टारी चैव चिञ्चिका ॥ ३,९.१२१ ॥
एतासां द्रवमादाय मूषालेपं तु कारयेत् ।
तस्यां पूर्वरसं क्षिप्त्वा धमेद्द्रावं क्षिपन् क्षिपन् ॥ ३,९.१२२ ॥
वज्रं तत्रैव दातव्यं द्रवत्येव न संशयः ।
{मेर्चुर्य्ःः शब्दवेधिन्}
ततस्तस्मात्समुद्धृत्य दोलायंत्रे त्र्यहं पचेत् ॥ ३,९.१२३ ॥
उद्धृत्य विडलिप्तायां मूषायां प्रकटं धमेत् ।
ग्रसन्त्येव न संदेहस्तीव्रध्मातानलेन च ॥ ३,९.१२४ ॥
वज्रं वा पद्मरागं वा जार्यं दशगुणे रसे ।
कारयेद्वज्रबीजेन शब्दवेधी भवेद्रसः ॥ ३,९.१२५ ॥
{सप्फिरेःः द्रावण}
अथवा मारिते तस्मिन् जारणं सारयेत्पुनः ।
उच्चटा मीननयना सर्पाक्षी रक्तचित्रकम् ॥ ३,९.१२६ ॥
एतासां निक्षिपेद्द्रावं द्रुते मूषागते रसे ।
इन्द्रनीलं क्षिपेत्तत्र द्रवत्येव न संशयः ॥ ३,९.१२७ ॥
{सप्फिरेःः => खेचरी}
पूर्ववत्स्वेदनेनैव विडयोगेन जारयेत् ।
इत्येवं त्रिगुणं जार्यमिन्द्रनीलं क्रमेण तु ॥ ३,९.१२८ ॥
तद्रसं वक्त्रमध्ये तु यः करोति नरोत्तमः ।
स पूज्यो देवदेवानां खेचरत्वेन मोदते ॥ ३,९.१२९ ॥
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि कांचनम् ।
जायते दिव्यरूपाढ्यं सत्यं शंकरभाषितम् ॥ ३,९.१३० ॥
इत्येवं विष्टिखोटं परिरसमपरं संकरैः खोटबद्धं जातं तद्द्रावितं वै मृतमथ विमलं स्वर्णराशिं करोति ।
किंवा सा पक्वबीजं ग्रसति यदि द्रुतो जायते कोटिवेधी वज्राभ्रं रत्नजातं चरति यदि रसः खेचरत्वं प्रदत्ते ॥ ३,९.१३१ ॥

३, १०
लोहैर्महारसवरैर्विडपक्वबीजं कृत्वाथ पारदवरे विधिवच्च जार्यम् ।
योज्यं तथा सकलसारणकर्मयोगे तद्वक्ष्यते विविधबीजविडाधिकारम् ॥ ३,१०.१ ॥
{पक्वबीज (१)}
ताम्रं समं शुद्धं द्रावितं लेपयेत्पुनः ।
साम्लेन ताप्यकल्केन धमेत्स्वर्णावशेषितम् ॥ ३,१०.२ ॥
एवं दशगुणं वाह्यं ताप्यं वा तुत्थसत्त्वकम् ।
पक्वबीजमिदं ख्यातं स्वर्णशेषं समाहरेत् ॥ ३,१०.३ ॥
{पक्वबीज}
नागाभ्रं द्वंद्वितं तुल्यं स्वर्णे वाह्यं द्विषड्गुणम् ।
पूर्ववत्स्वर्णशेषं तु ग्राह्यं स्यात्पक्वबीजकम् ॥ ३,१०.४ ॥
{पक्वबीज (३)}
स्वर्णं पीताभ्रसत्त्वं च तुल्यांशं द्वंद्वितं धमेत् ।
ताप्यं तालकवापेन स्वर्णशेषं समाहरेत् ।
एवं दशगुणं सत्त्वं वाह्यं स्यात्पक्वबीजकम् ॥ ३,१०.५ ॥
{पक्वबीज (४)}
रसकाभ्रकयोः सत्त्वं ताम्रं नागं क्रमोत्तरम् ॥ ३,१०.६ ॥
चूर्णितं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं माक्षिकं तुत्थमम्लैः पिष्ट्वा पुटे पचेत् ॥ ३,१०.७ ॥
समुद्धृत्य पुनश्चाम्लैर्मर्द्यं रुद्ध्वा पुटे पचेत् ।
एवं पञ्चपुटैः पक्वं द्रुते स्वर्णे तु वाहयेत् ।
धमेद्दशगुणं यावत्तावत्स्यात्पक्वबीजकम् ॥ ३,१०.८ ॥
{बीजःः fरों लेअद्}
लोहस्य कुट्यमानस्य सुतप्तस्य दलानि वै ।
पतन्ति तानि स्वीकृत्य ख्यातोऽयं लोहपर्पटः ॥ ३,१०.९ ॥
लोहपर्पटमाक्षीकं कंकुष्ठं विमलाभ्रकम् ।
मृतशुल्बं शिलासूतं दरदार्कस्नुहीपयः ॥ ३,१०.१० ॥
एतैः समं नागचूर्णं मर्द्यं रुद्ध्वा पुटे पचेत् ।
पुनर्मर्द्यं पुनः पाच्यं यावद्वारांश्चतुर्दश ॥ ३,१०.११ ॥
एवं शतगुणं वाह्यं शुद्धहेम्नि धमन् धमन् ।
तत्स्वर्णं नागबीजं स्याद्गोरोचननिभं भवेत् ॥ ३,१०.१२ ॥
{बीजःः fरों लेअद्ःः पक्वःः रञ्जन}
खर्परस्थे द्रुते नागे ब्रह्मबीजदलानि हि ।
क्षिप्त्वाग्निं ज्वालयेच्चण्डं ब्रह्मदण्डेन चालयेत् ॥ ३,१०.१३ ॥
चतुर्यामात्तु तद्भस्म जातं पात्रात्समुद्धरेत् ।
रुद्ध्वा गजपुटे पच्यात्पादांशं गंधकं पुनः ॥ ३,१०.१४ ॥
दत्त्वाम्लमर्दितं पच्यादेवं वारांश्चतुर्दश ।
रक्तवर्णं भवेद्भस्म तद्भागं खर्परे क्षिपेत् ॥ ३,१०.१५ ॥
भागत्रयं शिलाचूर्णं पृथक्पात्रे विनिक्षिपेत् ।
पञ्चाङ्गं वासकाचूर्णं त्वक्चूर्णं चार्जुनस्य वै ॥ ३,१०.१६ ॥
शाककिंशुककोरण्टशिग्रूणां पुष्पमाहरेत् ।
नागिनी नागकन्या च कुमारी चाहिमारकम् ॥ ३,१०.१७ ॥
सर्वेषां प्रतिभागैकं शिलामध्ये विनिक्षिपेत् ।
सर्वं चतुर्गुणैर्मूत्रैश्छागजैः क्वाथमाचरेत् ॥ ३,१०.१८ ॥
पूर्वोक्तनागभूतैश्च खर्परस्थस्य संक्षिपेत् ।
चालयेत्पाचयेच्चुल्ल्यां यावत्सप्तदिनावधि ॥ ३,१०.१९ ॥
यत्नेन मृतनागेन वापो देयो द्रुतस्य च ।
पक्वबीजस्य वारांस्त्रीन् रञ्जितं जायते शुभम् ॥ ३,१०.२० ॥
{लेअद्ःः मृतःः अल्छेम्. उसे}
दलानां चैव बीजानां पिष्टीस्तम्भे विशेषतः ।
उच्चाटे क्रामणे योज्यं पूर्वोक्तं मृतनागकम् ॥ ३,१०.२१ ॥
{बीजःः पक्वःः रञ्जन}
मञ्जिष्ठा ब्रह्मपुष्पं च पुष्पं च करवीरकम् ॥ ३,१०.२२ ॥
सर्वासां वृक्षजातीनां रक्तपुष्पाणि चाहरेत् ।
खादिरं देवदारुं च द्विनिशा रक्तचन्दनम् ॥ ३,१०.२३ ॥
सर्वं लाक्षारसैः पिष्ट्वा क्षिप्त्वा तैलं चतुर्गुणम् ।
पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् ।
त्रिसप्तधा पक्वबीजं रञ्जते जायते शुभम् ॥ ३,१०.२४ ॥
{बीजःः पक्व, रञ्जितःः अल्छेम्. उसे}
गर्भद्रावैः प्रयोक्तव्यं तथा सर्वत्र सारणे ।
समेन जारयेत्सूतं द्विगुणेन तु सारयेत् ॥ ३,१०.२५ ॥
त्रिगुणेन ह्यनेनैव कर्तव्यं प्रतिसारणम् ।
सारितं क्रामणेनैव वेधकाले नियोजयेत् ॥ ३,१०.२६ ॥
{बीजःः fरों सिल्वेर्}
विमला तीक्ष्णचूर्णं च सत्त्वं श्वेताभ्रकस्य च ।
रसकं तारमाक्षीकं समभागं विचूर्णयेत् ॥ ३,१०.२७ ॥
चूर्णाच्चतुर्गुणं वङ्गं द्वंद्वमेलापकं धमेत् ।
मर्दयेदम्लयोगेन रुद्ध्वा गजपुटे पचेत् ॥ ३,१०.२८ ॥
एवं पञ्चपुटैः पक्वं ततस्तारे तु वाहयेत् ।
धमन्दशगुणं यावत्तत्तारं तारबीजकम् ॥ ३,१०.२९ ॥
{बीजःः fरों सिल्वेर्}
ताप्येन मारयेद्बंगं यथा तालेन मारितम् ।
तद्द्वात्रिंशगुणं तारे वाहयेत्तालवापतः ।
ताम्रबीजं तु तच्छ्रेष्ठं सारणे रञ्जने हितम् ॥ ३,१०.३० ॥
{बीजःः fरों सिल्वेर्}
कुटिलं विमला तीक्ष्णं समं चूर्णं प्रकल्पयेत् ।
ध्मातव्यं द्वंद्वलिप्तायां खोटमम्लेन पेषितम् ॥ ३,१०.३१ ॥
पुटितं पञ्चवारं तु तारे वाह्यं शनैर्धमेत् ।
यावद्दशगुणं तत्तु तारबीजं भवेच्छुभम् ॥ ३,१०.३२ ॥
{बीजःः fरों सिल्वेर्}
बंगं श्वेताभ्रसत्त्वं च तारमाक्षिकसत्त्वकम् ।
द्वंद्वमूषागतं धाम्यं त्रितयं चूर्णितं समम् ॥ ३,१०.३३ ॥
वाह्यं दशगुणं तारे तारमाक्षिकवापतः ।
तत्तारं जायते बीजं सर्वकार्यकरक्षमम् ॥ ३,१०.३४ ॥
{तारबीजरञ्जन}
यथाप्राप्तैः श्वेतपुष्पैर्नानावृक्षसमुद्भवैः ॥ ३,१०.३५ ॥
रसं चतुर्गुणं योज्यं कङ्गुणीतैलवापतः ।
पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् ॥ ३,१०.३६ ॥
द्रावितं तारबीजं तु एकविंशतिवारकम् ।
रञ्जितं जायते तत्तु रसराजस्य रञ्जकम् ॥ ३,१०.३७ ॥
{सारणातैल}
ज्योतिष्मतीकरञ्जाक्षकटुतुम्बीसमुद्भवम् ।
तैलमेकं समादाय मण्डूकवसया समम् ॥ ३,१०.३८ ॥
कूर्मसूकरमेषाहिजलूकामत्स्यजापि वा ।
एतेष्वेका वसा ग्राह्या पूर्वतैलं समाहरेत् ॥ ३,१०.३९ ॥
रक्तवर्गं पीतवर्गं कार्यं क्षीरैश्चतुर्गुणैः ।
पुष्पाणां रक्तपीतानामेकैकानां द्रवं हरेत् ॥ ३,१०.४० ॥
एतद्द्वंद्वविभागं स्यात्पूर्वक्वाथचतुष्टयम् ।
पाटलीकाकतुण्ड्युत्थं महाराष्ट्रीद्रवं तथा ॥ ३,१०.४१ ॥
प्रत्येकं भागमेकैकं पूर्वतैलवसायुतम् ।
योज्यं भागद्वयं तत्र भूलतामलताप्यकम् ॥ ३,१०.४२ ॥
द्वन्द्वमेलापयोरेकं तैलात्षोडशकांशकम् ।
प्रत्येकं योजयेत्तस्मिन् सर्वमेकत्र पाचयेत् ॥ ३,१०.४३ ॥
ग्राह्यं तैलावशेषं तु वस्त्रपूतं सुरक्षयेत् ।
विख्यातं सारणातैलं रसराजस्य कर्मणि ॥ ३,१०.४४ ॥
{क्रामणःः सुब्स्तन्चेस्fओर्ँ}
नागं वङ्गं मृतं तुल्यमम्लेन च वटीकृतम् ।
क्रामणार्थे प्रयोक्तव्यं वेधकाले रसस्य तु ॥ ३,१०.४५ ॥
{क्रामणःः सुब्स्तन्चेस्fओर्}
सौराष्ट्रीं भावयेद्घर्मे गवां पित्तैः त्रिधाततः ।
तत्सत्त्वं सोमवद्ग्राह्यं क्रामकं योजयेद्रसे ॥ ३,१०.४६ ॥
{क्रामणःः सुब्स्तन्चेस्fओर्ँ}
मनःशिला विषं ताप्यं महिषीकर्णजं मलम् ।
काकविट्खररक्तं च क्रामणं स्नुक्पयोऽन्वितम् ॥ ३,१०.४७ ॥
{क्रामणःः सुब्स्तन्चेस्fओर्ँ}
नररक्तार्कदुग्धं च टंकणं भूलता शिला ।
समांशं क्रामकं योज्यं वेधकाले रसस्य तु ॥ ३,१०.४८ ॥
{क्रामणसत्त्व (५)}
इन्द्रगोपं विषं कांतं नररक्तं स्नुहीपयः ।
रसकं दरदं तैलं सर्वमेकत्र मर्दयेत् ।
क्रामकं क्षेपलेपाभ्यां वेधकाले नियोजयेत् ॥ ३,१०.४९ ॥
{क्रामणःः सुब्स्तन्चेस्fओर्ँ; वेधःः ँ}
रसं धान्याभ्रकं सत्त्वं काकविठरितालकम् ।
नयनं सहदेवानां भूनागश्च समं समम् ॥ ३,१०.५० ॥
पिण्डितं क्रामणे सिद्धं क्षेपे लेपे नियोजयेत् ॥ ३,१०.५१ ॥
{क्रामणसत्त्व (७)}
कदलीकन्दसौवीरं कण्टकारीरसप्लुतम् ।
क्रामणं सर्वधातूनां सर्वद्वंद्वेषु मेलनम् ॥ ३,१०.५२ ॥
क्रामणेन विना सूतो न क्रमेद्देहलोहयोः ।
उक्तस्थानेषु योगेषु तस्मात्सर्वेषु योजयेत् ॥ ३,१०.५३ ॥
{महाविड}
दग्धं शंखं रविक्षीरैर्भावितं शतधातपे ।
ततः पञ्चपुटैः पक्वं रुद्ध्वा रुद्ध्वाथ संपुटे ॥ ३,१०.५४ ॥
तत्समं टंकणं क्षिप्त्वा ह्यम्लवर्गेण भावयेत् ।
राजावर्तं प्रवालं च दरदं गंधकं शिला ॥ ३,१०.५५ ॥
पञ्चानां तु समं चूर्णं शङ्खतुल्यं नियोजयेत् ।
सर्वं तदम्लवर्गेण मर्दयेद्दिवसत्रयम् ॥ ३,१०.५६ ॥
अयं महाविडः ख्यातः खोटानां जारणे हितः ।
मूषालेपं तु सर्वत्र जारणे योजयेत्सदा ॥ ३,१०.५७ ॥
तत्क्षणाज्जरते सूतो वज्रादीनि न संशयः ॥ ३,१०.५८ ॥
{विड (२)}
त्रिक्षारं पञ्चलवणं नवसारं कटुत्रयम् ।
इन्द्रगोपं घनं शिग्रु सूरणं वनसूरणम् ॥ ३,१०.५९ ॥
भावयेदम्लवर्गेण त्रिदिनं ह्यातपे खरे ।
अनेन मर्दितः सूतो भक्षयेदष्टलोहकम् ॥ ३,१०.६० ॥
{विड (३)}
व्योषं गंधकं कासीसं स्वर्णपुष्पी सुवर्चलम् ।
सर्जी टंकणं सौवीरं सैन्धवं शिग्रुजैर्द्रवैः ।
दशाहं भावयेद्घर्मे विडोऽयं जारणे हितः ॥ ३,१०.६१ ॥
{विड (४)}
दग्धशङ्खं रविक्षीरैर्भावितं शतधातपे ।
ततः पञ्चपुटैः पक्वं जारणे विडमुत्तमम् ॥ ३,१०.६२ ॥
{विड (५)}
त्रिक्षारं पञ्चलवणमम्लवेतससंयुतम् ।
अनेन मर्दयेत्सूतमभ्रसत्त्वं चरत्यलम् ॥ ३,१०.६३ ॥
{विड (६)}
गोमूत्रं गंधकं घर्मे शतवारं विभावयेत् ।
शिग्रुमूलद्रवैस्तद्वद्दग्धं शङ्खं विभावयेत् ॥ ३,१०.६४ ॥
एतद्गंधकशंखाभ्यां समांशं विषसैन्धवम् ।
एतैर्विमर्दितं सूतं ग्रसते सर्वलोहकम् ॥ ३,१०.६५ ॥
{वह्निमुखो विड (७)}
टंकणं शतधा भाव्यं द्रवैः पालाशवृक्षजैः ।
विडो वह्निमुखो नाम हितः सर्वस्य जारणे ॥ ३,१०.६६ ॥
{विड (८)}
गंधकं नवसारं वा मुखं कांतस्य चातपे ।
शतधा मूत्रवर्गेण भावितं स्याद्विडं पृथक् ॥ ३,१०.६७ ॥
{ज्वालामुखो विडः (९)}
त्रिक्षारं गंधकं तालं भूखगं नवसारकम् ।
सैंधवं च समं सर्वं मूत्रवर्गैर्दिनं पचेत् ॥ ३,१०.६८ ॥
ज्वालामुखो विडो नाम हितः सर्वत्र जारणे ॥ ३,१०.६९ ॥
{विड (१०)}
गंधकं शतधा भाव्यं वनशिग्रुशिफाद्रवैः ।
जम्बीरैर्नवसारं वा भावितं स्याद्विडं पृथक् ॥ ३,१०.७० ॥
{विडःः वडवानल}
वासकैरंडकदली देवदाली पुनर्नवा ।
वासापालाशनिचुलं तिलं काञ्चनमोक्षकम् ॥ ३,१०.७१ ॥
एतान् समूलानादाय नातिशुष्कान् विखण्डयेत् ।
पञ्चाङ्गं मूलकं दग्ध्वा तिलकाण्डं च तत्समम् ॥ ३,१०.७२ ॥
एतत्क्षारैः पूर्वकल्कं मूत्रवर्गेण भावयेत् ।
वस्त्रपूतं द्रवं पच्यात्मृद्वग्नौ लोहपात्रके ॥ ३,१०.७३ ॥
बाष्पाणां बुद्बुदानां च बहूनामुद्गमो यदा ।
तदा कासीसं सौराष्ट्री क्षारत्रयं कटुत्रयम् ॥ ३,१०.७४ ॥
गंधकं पंचलवणं नवसारं च हिंगुलम् ।
एतेषां निक्षिपेच्चूर्णं तस्मिन्पात्रेऽथ चालयेत् ॥ ३,१०.७५ ॥
गुडपाकं समुत्तार्य लोहसंपुटके क्षिपेत् ।
सप्ताहं भूमिगर्भेऽथ धान्यराशौ तथा पुनः ।
सप्ताहं संस्थितः सिद्धो विडोऽयं वडवानलः ॥ ३,१०.७६ ॥
{विडःः fओर्सत्त्वजारण}
भावयेन्निचुलक्षारं देवदालीदलद्रवैः ।
एकविंशतिवारं तु बिडोऽयं सत्त्वजारणे ॥ ३,१०.७७ ॥
{विडःः तीव्रानल}
देवदालीशिफाबीजं गुंजासैंधवटंकणम् ।
समांशं निचुलक्षारमम्लवर्गेण सप्तधा ॥ ३,१०.७८ ॥
कोशातकीदलरसैर्भावयेद्दिनसप्तकम् ।
तीव्रानलो नाम बिडो विहितो हेमजारणे ॥ ३,१०.७९ ॥
{विडःः fओर्जारण ओf गोल्द्}
मूलकार्द्रकवह्नीनां क्षारं गोमूत्रलोलितम् ।
वस्त्रपूतं द्रवं ग्राह्यं गंधकं तेन भावयेत् ॥ ३,१०.८० ॥
शतवारं खरे घर्मे विडोऽयं हेमजारणे ॥ ३,१०.८१ ॥
{विडःः fओर्जारण ओf गोल्द्}
त्रिक्षारं पंचलवणं शङ्खं तालं मनःशिला ।
दिनैकमम्लवर्गेण पक्वं स्याद्धेमजारणे ॥ ३,१०.८२ ॥
{विडःः fओर्जारण ओf गोल्द्}
गंधकं नवसारं च जम्बीराम्लेन मर्दयेत् ।
शतवारं खरे घर्मे बिडोऽयं हेमजारणे ॥ ३,१०.८३ ॥
{विडःः fओर्जारण}
कन्याहयारिधत्तूरद्रवैर्भाव्यं तु गंधकम् ।
शतधा तं खरे घर्मे विडोऽयं सर्वजारणे ॥ ३,१०.८४ ॥
अनेन ग्रसते शीघ्रं शुक्तिसंभवसंपुटे ॥ ३,१०.८५ ॥
{विडःः fओरिम्प्रोवेमेन्तोf ग्रासन}
सैंधवं गंधकं तुल्यं ताम्रवल्लीद्रवैः प्लुतम् ।
अनेन बिडयोगेन गगनं ग्रसते रसः ॥ ३,१०.८६ ॥
{सिद्धविड}
शिलागंधकसिन्धूत्थं प्रत्येकं च पलं पलम् ।
पलत्रयं च भूनागं सर्वमेकत्र मर्दयेत् ॥ ३,१०.८७ ॥
शोषयेच्च पुनर्देयं भूनागानां पलत्रयम् ।
तद्वन्मर्द्यं पुनः शोष्यं पाचयेन्मन्दवह्निना ॥ ३,१०.८८ ॥
एवमष्टगुणं दत्त्वा मर्द्यं पाच्यं विचूर्णयेत् ।
अयं सिद्धविडो योज्यो जारणे हेमकर्मणि ॥ ३,१०.८९ ॥
सम्यक्संस्कृतगंधकाद्युपरसं सत्त्वं ततो व्योमजं पश्चान्माक्षिकसत्त्वहाटकवरं गर्भद्रुतौ द्रावितम् ।
रागै रञ्जितबीजजालमखिलं बाह्यां द्रुतिं द्वंद्वितां सूते सर्वमिदं क्रमेण विधिना सिद्धैर्बिडैर्जारयेत् ॥ ३,१०.९० ॥

३, ११
{रसस्य १८ संस्काराः}
सिद्धैः सूतवरस्य कर्म विविधं ख्यातं विचित्रैः क्रमैः साध्यासाध्यविवेकतो ह्यनुभवन् दृष्ट्वा समस्तं मया ।
युक्त्याष्टादशधा विशेषविधिना स्वेदादिवेधान्तकं दक्षाणां सुखसाध्यमेव सुखदं संतन्यते साम्प्रतम् ॥ ३,११.१ ॥
{१८ संस्कारस्}
स्वेदनं मर्दनं मूर्छोत्थापनं पातनं त्रिधा ।
निरोधनं नियामश्च दीपनं चानुवासनम् ॥ ३,११.२ ॥
जारणं चारणं चैव गर्भबाह्यद्रुतिस्तथा ।
रञ्जनं सारणं चानुसारणा प्रतिसारणा क्रामणं देहलोहेषु ॥ ३,११.३ ॥
{काञ्जिकःः प्रोदुच्तिओन्}
नानाधान्यैर्यथाप्राप्तैस्तुषवर्जैर्जलान्वितैः ।
मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात् ॥ ३,११.४ ॥
तन्मध्ये भृङ्गराङ्मुण्डी विष्णुक्रान्ता पुनर्नवा ।
मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी ॥ ३,११.५ ॥
त्रिफला गिरिकर्णी च हंसपादी च चित्रकम् ।
समूलं खण्डयित्वा तु यथालाभं निवेशयेत् ॥ ३,११.६ ॥
पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं भवेत् ।
{काञ्ज्कःः उसे}
स्वेदनादिषु सर्वत्र रसराजस्य योजयेत् ।
{काञ्जिकःः सुब्स्तितुतेद्ब्यारनाल}
अत्यम्लमारनालं वा तदभावे नियोजयेत् ॥ ३,११.७ ॥
{स्वेदनम्}
त्र्यूषणं लवणं राजी चित्रकं त्रिफलार्द्रकम् ।
महाबला नागबला मेघनादः पुनर्नवा ॥ ३,११.८ ॥
मेषशृङ्गी चित्रकं च नवसारं समं समम् ।
एतत्समस्तं व्यस्तं वा पूर्वाम्लेनैव मर्दयेत् ॥ ३,११.९ ॥
तत्कल्केन लिम्पेद्वस्त्रे यावदङ्गुलमात्रकम् ।
तन्मध्ये निक्षिपेत्सूतं बद्ध्वा पच्याद्दिनत्रयम् ।
दोलायन्त्रेऽम्लसंयुक्ते स्वेदितो जायते रसः ॥ ३,११.१० ॥
{मर्दनम्}
प्रक्षाल्य काञ्जिकैः सोष्णैस्तमादाय विमर्दयेत् ।
अत्यम्लमारनालं तत्तदभावे नियोजयेत् ॥ ३,११.११ ॥
गृहधूमेष्टिकाचूर्णं दग्धोर्णा लवणं गुडम् ।
राजिका त्रिफला कन्या चित्रकं बृहती कणा ॥ ३,११.१२ ॥
वन्ध्याकर्कोटकी चाथ व्यस्तं वाथ समस्तकम् ।
क्वाथयेदारनालेन तेन मर्द्यं त्र्यहं रसम् ।
प्रक्षाल्य काञ्जिकेनैव समादाय विमूर्छयेत् ॥ ३,११.१३ ॥
{मूर्छनम्}
मेषशृङ्गी कृष्णधूर्तो बला श्वेतापराजिता ॥ ३,११.१४ ॥
कन्याग्नित्रिफला चैव सर्पाक्षी सूरणं वचा ।
गोजिह्वा चाङ्गुली नीली मुरुण्डी क्षीरकन्दकम् ॥ ३,११.१५ ॥
राजिका काकमाची च रविक्षीरं च काञ्चनम् ।
व्यस्तानां वा समस्तानां द्रावैश्चैषां विमर्दयेत् ॥ ३,११.१६ ॥
यामैकं रसराजं च मूषायां संनिरोधयेत् ।
पुटैकेन पचेत्तं तु भूधरे वाथ मर्दयेत् ॥ ३,११.१७ ॥
सर्वद्रावैर्यथापूर्वं रुद्ध्वा रुद्ध्वा विपाचयेत् ।
इत्येवं सप्तधा कुर्याज्जायते मूर्छितो रसः ॥ ३,११.१८ ॥
{उत्थापनम्}
जलैः सोष्णारनालैर्वा लोलनादुत्थितो भवेत् ।
अथवा पातनायन्त्रे पाचनादुत्थितो भवेत् ।
एवमुत्थापितः सूतस्त्रिधा पात्यः क्रमेण तु ॥ ३,११.१९ ॥
{ऊर्ध्वपातनम्}
काकमाची जया ब्राह्मी चाङ्गेरी रक्तचित्रकम् ।
अङ्कोली राजवृक्षश्च तिलपर्णी कुमारिका ॥ ३,११.२० ॥
मण्डूकी चित्रकं पाठा काकजङ्घा शतावरी ।
भूपाटली देवदाली निर्गुण्डी गिरिकर्णिका ॥ ३,११.२१ ॥
शणपुष्प्यार्द्रकं शृङ्गी गोजिह्वा क्षीरकन्दकम् ।
नीली चैषां समस्तानां व्यस्तानां च द्रवैर्दिनम् ॥ ३,११.२२ ॥
ताम्रपादयुतं सूतं मर्दयेदम्लकैः सह ।
तत्पिष्टः पातयेद्यन्त्रे चोर्ध्वपातनके पुनः ॥ ३,११.२३ ॥
आदाय मर्दयेत्तद्वत्ताम्रचूर्णेन संयुतम् ।
पातयेन्मर्दयेच्चैव ताम्रं दत्त्वा पुनः पुनः ।
इत्येवं सप्तधा कुर्यान्मर्दनं पातनं क्रमात् ॥ ३,११.२४ ॥
ऊर्ध्वलग्नं समादाय अधःपातेन पातयेत् ॥ ३,११.२५ ॥
{अधःपातनम्}
त्रिफला राजिका शिग्रुस्त्र्यूषं लवणचित्रकम् ।
सूततुल्यं तु तत्सर्वं काञ्जिकैर्मर्दयेद्दिनम् ॥ ३,११.२६ ॥
तेन लिम्पेदूर्ध्वभाण्डं पृष्ठे देयं पुटं लघु ।
अधःपातनयन्त्रे तु पातितं तु समुद्धरेत् ॥ ३,११.२७ ॥
{तिर्यक्पातनम्}
त्रिफला राजिका शिग्रुस्त्र्यूषं लवणचित्रकम् ।
धान्याभ्रकं रसं सर्वं मर्दयेदारनालकैः ॥ ३,११.२८ ॥
नष्टपिष्टं तु तत्पात्यं तिर्यग्यन्त्रे दृढाग्निना ॥ ३,११.२९ ॥
{निरोधनम्}
लवणेनाम्बुपिष्टेन हण्डिकान्तर्गतं रसम् ।
आच्छाद्याथ जलं किंचित्क्षिप्त्वा श्रावेण रोधयेत् ।
ऊर्ध्वं लघुपुटं देयं लब्ध्वाप्यधो भवेद्रसः ॥ ३,११.३० ॥
{दीपनम्}
त्रिक्षारं पञ्चलवणं भूखगं शिग्रुमूलकम् ।
स्वर्णपुष्पी च कासीसं मरिचं राजिका मधु ॥ ३,११.३१ ॥
क्षीरकन्दो जया कन्या विजया गिरिकर्णिका ।
काकजङ्घा शोणपुष्पी पातालगरुडी कणा ॥ ३,११.३२ ॥
वन्ध्याकर्कोटकी वह्निर्व्यस्तं वाथ समस्तकम् ।
पेषयेदम्लवर्गेण तद्द्रवैर्मर्दयेद्रसम् ॥ ३,११.३३ ॥
दिनान्ते बन्धयेद्वस्त्रे दोलायन्त्रे त्र्यहं पचेत् ।
पूर्वद्रावैर्घटे पूर्णे ग्रासार्थी जायते रसः ॥ ३,११.३४ ॥
{अनुवासनम्}
दीपितं रसराजं तु जम्बीररससंयुतम् ।
दिनैकं धारयेद्घर्मे मृत्पात्रे वासितो भवेत् ॥ ३,११.३५ ॥
स्वेदनादिशुभकर्मसंस्कृतः सप्तकञ्चुकविवर्जितो भवेत् ।
अष्टमांशमवशिष्यते तदा शुद्धसूत इति कथ्यते बुधैः ॥ ३,११.३६ ॥

३, १२
समुखविमुखसूते जारणार्थं प्रवक्ष्ये विविधसुलभयोगैर्भोजनं गंधकस्य ।
तदनु च घनचूर्णैर्भोजनं पाचनं स्यात्निखिलसूतविभूत्यै वार्तिकानां सुखाय ॥ ३,१२.१ ॥
{मेर्चुर्ःः जारण ओf सुल्fउर्}
गंधकं सूक्ष्मचूर्णं तु सप्तधा बृहतीद्रवैः ।
भावयेद्वाथ वृन्ताकरसेनैव तु सप्तधा ॥ ३,१२.२ ॥
पलैकं पारदं शुद्धं काचकूप्यन्तरे क्षिपेत् ।
कर्षकं भावितं गंधं कर्पूरं माषमात्रकम् ॥ ३,१२.३ ॥
क्षिप्त्वा तत्र मुखं रुद्ध्वा मृदा कूपीं च लेपयेत् ।
दीपाग्निना दिनं पच्यान्मुखमुद्घाटयेत्पुनः ॥ ३,१२.४ ॥
जीर्णे गंधं च कर्पूरं दत्त्वा तद्वच्च जारयेत् ।
एवं शतगुणे जीर्णे गंधकं जारयेद्रसे ॥ ३,१२.५ ॥
{मेर्चुर्य्ःः जारण ओf सुल्fउर्}
कासीसं चैव सौराष्ट्री सज्जीक्षारेण मोदकम् ।
शिग्रुतोयेन संयुक्तं कृत्वा भाव्यमनेन वै ॥ ३,१२.६ ॥
सप्ताहं चूर्णितं गंधं तं गंधं जारयेत्पुनः ।
इष्टिकागर्तमध्ये तु सम्यक्शुद्धरसं क्षिपेत् ॥ ३,१२.७ ॥
मुखं स्वच्छेन वस्त्रेण छादयेत्तस्य पृष्ठतः ।
दशांशं गंधकं दत्त्वा श्रावकेण निरोधयेत् ॥ ३,१२.८ ॥
पृष्ठे लघुपुटं देयं जीर्णे गंधं पुनः क्षिपेत् ।
एवं शतगुणं जार्यं गंधकं पारदे शनैः ॥ ३,१२.९ ॥
{मेर्चुर्य्ःः जारण ओf पक्वबीज}
तं रसं तप्तखल्वे तु क्षिपेद्वस्त्रेण गालितम् ।
पादांशकं पक्वबीजं दत्त्वाम्लैर्मर्दयेद्दिनम् ॥ ३,१२.१० ॥
तं क्षिपेच्चारणायन्त्रे जंबीररससंयुतम् ।
तं यंत्रं धारयेद्घर्मे जारितो जायते रसः ॥ ३,१२.११ ॥
{मेर्चुर्य्ःः जारण ओf पक्वबीज}
सविडं कलयेद्यंत्रे दिनैकं तु पुटे पचेत् ।
जारितं स्यात्पुनर्बीजं दत्त्वा जार्यं च पूर्ववत् ।
जारयेच्च पुनस्तद्वदेवं जार्यं समं क्रमात् ॥ ३,१२.१२ ॥
{मेर्चुर्य्ःः सारणा wइथ्पक्वबीज}
जारितं सारणायन्त्रे क्षिपेत्तैलं वसान्वितम् ।
द्रावितं नालमूषायां पक्वबीजरसान्वितम् ॥ ३,१२.१३ ॥
तद्यंत्रे धारयेदेवं सारितो जारयेद्रसः ।
सारितं तत्पुनर्मर्द्यं पूर्ववद्बिडसंयुतम् ॥ ३,१२.१४ ॥
जारयेत्कच्छपे यंत्रे जीर्णे बीजे तु सारयेत् ।
पूर्ववत्सारणायन्त्रे बीजेन द्विगुणेन वै ॥ ३,१२.१५ ॥
पुनस्तं जारयेत्तद्वत्तथैव प्रतिसारयेत् ।
त्रिगुणेन तु बीजेन पूर्ववज्जारयेत्पुनः ॥ ३,१२.१६ ॥
{मेर्चुर्य्ःः मुखःः ँबन्धन}
तद्रसं तालकं तुल्यं तैलं धत्तूरसंभवम् ।
दिव्यौषधीगणद्रावं सर्वं मर्द्यं दिनावधि ॥ ३,१२.१७ ॥
वज्रमूषान्धितं पच्यात्करीषाग्नौ दिनावधि ।
पुनर्दिव्यौषधीद्रावैर्मर्द्यं पाच्यं दिनावधि ।
इत्येवं च पुनः कुर्यात्सूतो बद्धमुखो भवेत् ॥ ३,१२.१८ ॥
{रसबन्धनम्}
तं रसं धौतमाक्षीकं तीक्ष्णं शुल्बं रसः शशी ।
समांशं देवदाल्युत्थद्रवैर्मर्द्यं दिनावधि ॥ ३,१२.१९ ॥
त्रिदिनं मधुसर्पिर्भ्यां मर्दितं गोलकीकृतम् ।
वज्रमूषागतं रुद्ध्वा शोष्यं तीव्राग्निना धमेत् ॥ ३,१२.२० ॥
खदिराङ्गारयोगेन खोटबद्धो भवेद्रसः ।
तत्खोटं टंकणैः काचैः शोधयेद्वै धमन्धमन् ॥ ३,१२.२१ ॥
तेजःपुञ्जो रसो बद्धो बालार्कसदृशो भवेत् ॥ ३,१२.२२ ॥
{सिल्वेर्=> गोल्द्}
तद्रसं सिक्थकेनैव वेष्टयित्वा प्रपूजयेत् ।
शतांशं तु द्रुते तारे क्रामणेनैव संयुतम् ॥ ३,१२.२३ ॥
तत्तारं जायते स्वर्णं जांबूनदसमप्रभम् ।
अष्टानवतिभागं स्यादित्येवं वेधको मतः ॥ ३,१२.२४ ॥
{मेर्चुर्य्ःः मुखकरण}
अथ वक्ष्ये रसेन्द्रस्य वासितस्य मुखं क्रमात् ।
येन व्योमादिवैक्रान्तं चरत्याश्वभिषेचितम् ॥ ३,१२.२५ ॥
अम्लवेतसजंबीरबीजपूरकभूखगैः ।
त्रिदिनं मर्दयेत्सूतं भूनागैश्च दिनत्रयम् ।
तप्तखल्वे दिनं मर्द्यं सूतस्येत्थं मुखं भवेत् ॥ ३,१२.२६ ॥
{मेर्चुर्य्ःः मुखकरण}
मध्यगर्तसमायुक्तं कारयेदिष्टिकाद्वयम् ।
धान्याभ्रं गंधकं शुद्धं प्रत्येकं दशनिष्ककम् ॥ ३,१२.२७ ॥
यामं जम्बीरजैर्द्रावैर्मर्द्यं तेनैव लेपयेत् ।
गर्तद्वयं समांशेन ह्यधोगर्तं सुशोधितम् ॥ ३,१२.२८ ॥
विंशनिष्कं क्षिपेत्सूतमूर्ध्वं देयापरेष्टिका ।
लिप्त्वा मृल्लवणैः संधिं दीप्ताग्निं ज्वालयेदधः ॥ ३,१२.२९ ॥
अविच्छिन्नं दिवारात्रौ यावत्सप्तदिनावधि ।
स्वांगशीतं समुद्धृत्य रसं किट्टविवर्जितम् ।
इत्येवं तु त्रिधा कुर्याद्रसस्य तु मुखं भवेत् ॥ ३,१२.३० ॥
{मेर्चुर्य्ःः मुखकरण}
वंशनालान्धितं सूतं भाण्डे गोमूत्रपूरिते ।
त्रिसप्ताहं पचेच्चुल्ल्यां सूतस्येत्थं मुखं भवेत् ॥ ३,१२.३१ ॥
{परल्लेल्बेत्wएएन् संस्कारसन्द्रितुअल्}
समुखे निर्मुखे सूते वक्ष्यते जारणं क्रमात् ।
खल्वपीतं रसो लिङ्गं मर्दनं मार्जनं स्मृतम् ॥ ३,१२.३२ ॥
नानौषधीरसैः स्नानं सत्त्वैर्बीजैः प्रपूजनम् ।
स्वर्णादिरत्नजातैश्च उपहारं प्रकल्पयेत् ॥ ३,१२.३३ ॥
नैवेद्यं रञ्जनं दिव्यं सारणा स्याद्विसर्जनम् ।
वेधनं देहलोहेषु सम्यक्पूजाविधेः फलम् ॥ ३,१२.३४ ॥
यावद्दिनानि वह्नौ तु धारणे जार्यते रसः ।
तावद्युगसहस्राणि शिवलोके महीयते ॥ ३,१२.३५ ॥
यत्किंचिद्रसराजस्य साधनार्थे व्ययो भवेत् ।
तत्सर्वं कोटिगुणितं दत्ते श्री भैरवी ध्रुवम् ॥ ३,१२.३६ ॥
साधकानां सुधीराणामिह लोके परत्र च ।
अतो भूपैर्वार्तिकेन्द्रैः साध्यः स्याद्भुक्तिमुक्तिदः ॥ ३,१२.३७ ॥
{अभ्रःः प्रेपरतिओन् fओर्चारण}
अर्कक्षीरेण धान्याभ्रं दिनं मर्द्यं निरुध्य च ।
कपोताख्ये पुटे पच्यात्क्षीरैर्यामं विमर्दयेत् ॥ ३,१२.३८ ॥
रुद्ध्वाधः पूर्ववत्पच्यादेवं वारचतुष्टयम् ।
त्रिधा च मूलकद्रावै रम्भाकन्दद्रवैस्त्रिधा ॥ ३,१२.३९ ॥
अपामार्गकाकमाचीमीनाक्षीभृङ्गराण्मुनिः ।
पुनर्नवा मेघनादो विदारिश्चित्रकं तथा ॥ ३,१२.४० ॥
क्रमादेषां द्रवैरेव मर्दनं पुटपाचनम् ।
एकैकेनैकवारं च दत्त्वा तद्भावयेत्पुनः ॥ ३,१२.४१ ॥
शतावरी तालमूली कदली तण्डुलीयकम् ।
अर्कः पुनर्नवा शिग्रुर्यवचिञ्चा ह्यनुक्रमात् ॥ ३,१२.४२ ॥
प्रतिद्रवैर्दिनैकं तु भावितं चारणे हितम् ॥ ३,१२.४३ ॥
{अभ्रःः Vओर्बेरेइतुन्गौf चारण}
अर्कक्षीरैस्तु धान्याभ्रं यामं मर्द्यं निरुध्य च ।
कपोताख्ये पुटे पच्यादेवं वारांश्चतुर्दश ॥ ३,१२.४४ ॥
कदली मुसली शिग्रुर्वन्ध्याङ्कोल्लार्कपीलुकम् ।
नागवल्ली कुबेराक्षी भूम्यपामार्गतुम्बरुः ॥ ३,१२.४५ ॥
एषामेकद्रवं ग्राह्यं कांजिके व्योमसंयुतम् ।
सर्वमेतत्क्षिपेद्भाण्डे तन्मध्ये पाचयेत्त्र्यहम् ॥ ३,१२.४६ ॥
पूर्वाभ्रं दोलिकायन्त्रे समुद्धृत्याथ शोषयेत् ।
कासीसं तुवरी सिन्धुष्टंकणं च समं समम् ॥ ३,१२.४७ ॥
सर्वमेतद्दशांशं तु क्षिप्त्वा तस्मिन्विमर्दयेत् ।
दिनैकं तप्तखल्वे तु क्षिप्त्वा तस्मिन्विमर्दयेत् ॥ ३,१२.४८ ॥
दिनैकं तप्तखल्वे तु तदभ्रं चारणे हितम् ॥ ३,१२.४९ ॥
{अभ्रःः प्रेपरतिओन् fओर्चारण}
शतवारं द्रुतं नागं मुण्डीद्रावे विनिक्षिपेत् ।
तेन द्रावेण धान्याभ्रं मर्दितं सप्तधा पुटेत् ।
मर्द्यं मर्द्यं निरुध्याथ कपोताख्ये पुटे पचेत् ॥ ३,१२.५० ॥
तत्तुल्यं गंधकं दत्त्वा पूर्वोक्तैर्मुण्डिकाद्रवैः ॥ ३,१२.५१ ॥
सस्तन्यैर्बीजपूरोत्थैर्द्रावैर्भाव्यं दिनावधि ।
एतदभ्रं तु सूतस्य चारणे परमं हितम् ॥ ३,१२.५२ ॥
{सिद्धमूली}
व्याघ्रपादी हंसपादी कदल्यग्निकुमारिकाः ।
बृहती लाङ्गली वज्री खण्डजारीन्द्रवारुणी ॥ ३,१२.५३ ॥
वन्ध्याकर्कोटकी मूषा सर्पाक्षी शङ्खपुष्पिका ।
मण्डूकी अग्निमथनो विख्याता सिद्धमूलिका ॥ ३,१२.५४ ॥
एताः समस्ता व्यस्ता वा चोक्तस्थाने नियोजयेत् ॥ ३,१२.५५ ॥
{मेर्चुर्य्ःः समुखःः चारण ओf अभ्र}
अथातः समुखे सूते पूर्वाभ्रं षोडशांशकम् ।
दत्त्वा मर्द्यं तप्तखल्वे सिद्धमूलीद्रवैर्दिनम् ॥ ३,१२.५६ ॥
ततस्तं चारणायंत्रे जंबीररससंयुतम् ।
घर्मे धार्यं दिनैकं तु चरत्येव न संशयः ॥ ३,१२.५७ ॥
{मेर्चुर्य्ःः लक्ष-।कोटिवेधिन्}
चारितं बन्धयेद्वस्त्रे दोलायंत्रे दिनावधि ।
सिद्धमूलीद्रवैर्युक्तैः पातनाज्जीर्यते ह्यलम् ॥ ३,१२.५८ ॥
अजीर्णं चेत्पचेद्यंत्रे कच्छपाख्ये दिनावधि ।
अष्टमांशं विडं दत्त्वा चरत्येव न संशयः ॥ ३,१२.५९ ॥
अनेन क्रमयोगेन चार्यं जार्यं पुनः पुनः ।
जीर्णे शतगुणे सम्यक्सहस्रांशेन विध्यति ॥ ३,१२.६० ॥
सहस्रगुणिते जीर्णे लक्षवेधी भवेद्रसः ।
तद्वल्लक्षगुणे जीर्णे कोटिवेधी भवेद्रसः ॥ ३,१२.६१ ॥
कृष्णाभ्रं वा सुवर्णं वा यथाशक्त्या तु जारयेत् ।
पूर्ववत्क्रमयोगेन फलं स्यादुभयोः समम् ॥ ३,१२.६२ ॥
{मेर्चुर्य्ःः fओर्प्रोदुच्तिओनोf सिल्वेर्}
अनेनैव क्रमेणैव तारं वा श्वेतमभ्रकम् ।
जारयेत्तु यथाशक्त्या तारकर्मणि शस्यते ॥ ३,१२.६३ ॥
{मेर्चुर्य्ःः मुखबन्धन, कोटिवेधिन्}
पूर्ववत्पक्वबीजेन सारणादि यथाक्रमम् ।
कर्तव्यं रसराजस्य वेधनं क्रामणं तथा ॥ ३,१२.६४ ॥
चंद्रार्कं जारयेत्सर्वं ताम्रं वा तारकर्मणि ।
एवं शतगुणे जीर्णे सहस्रांशेन वेधयेत् ॥ ३,१२.६५ ॥
सहस्रगुणिते जीर्णे पूर्ववत्सारणात्रयम् ।
कृत्वा जार्यं पुनस्तद्वच्चारयेच्च त्रिधा पुनः ॥ ३,१२.६६ ॥
इत्येवं च पुनः सार्यं पुनः सार्यं च जारयेत् ।
मुखबन्धादिवेधान्तं कारयेत्पूर्ववद्रसे ॥ ३,१२.६७ ॥
तेनैव लक्षभागेन दिव्यं भवति कांचनम् ।
यदा लक्षगुणे जीर्णे त्रिधा सार्यं च जारयेत् ॥ ३,१२.६८ ॥
इत्येवं सप्तधा कार्यं बन्धयेच्च ततो मुखम् ।
पूर्ववत्क्रामणान्तं च कृतोऽसौ जायते रसः ॥ ३,१२.६९ ॥
कोटिवेधी तु चंद्रार्के सत्यं शंकरभाषितम् ॥ ३,१२.७० ॥
{मेर्चुर्य्ःः निर्मुखःः चारण}
अथ निर्मुखसूतस्य वक्ष्ये चारणजारणे ।
शुद्धसूते तु वैक्रांतं मारितं षोडशांशकम् ॥ ३,१२.७१ ॥
क्षिप्त्वा मर्द्यं तप्तखल्वे सिद्धमूलीरसैस्त्र्यहम् ।
संस्कारेण ह्यनेनैव निर्मुखश्चरति ध्रुवम् ॥ ३,१२.७२ ॥
{मेर्चुर्य्ःः चारणःः निर्मुख}
अथवा तप्तखल्वे तु भूलतासंयुतं रसम् ।
मर्दयेत्त्रिदिनं पश्चात्पात्यं पातनयन्त्रके ॥ ३,१२.७३ ॥
संस्कारेण ह्यनेनापि निर्मुखं चरति क्षणात् ॥ ३,१२.७४ ॥
{मेर्चुर्य्ःः जारणःः निर्मुख}
अस्यैव जारणायोग्यो व्योमसंस्कार उच्यते ।
धान्याभ्रमम्लवर्गेण दोलायंत्रे त्र्यहं पचेत् ।
स्नुहीक्षीरैस्ततो मर्द्यं यामैकं चान्धितं धमेत् ॥ ३,१२.७५ ॥
कपोताख्यपुटैकेन तमादायाथ मर्दयेत् ।
मूलकं कदलीकन्दं मीनाक्षी काकमाचिका ॥ ३,१२.७६ ॥
मुनिरार्द्रकवर्षाभूमेघनादापामार्गकम् ।
एरण्डश्च द्रवैरेषां पृथग्देयं पुटं लघु ॥ ३,१२.७७ ॥
दोलायंत्रे ततः पच्याद्वज्रीक्षीरैर्दिनावधि ।
वचा निम्बं धूमसारं कासीसं च सुचूर्णितम् ॥ ३,१२.७८ ॥
अभ्रस्य षोडशांशेन प्रत्येकं मिश्रयेत्ततः ।
मर्दयेत्ताम्रखल्वे तु चणकाम्लैर्दिनावधि ॥ ३,१२.७९ ॥
नवसारैरयःपात्रं लेपयेत्तत्र निक्षिपेत् ।
पारदं साधितं साभ्रं चणकाम्लं च कांजिकम् ॥ ३,१२.८० ॥
मृद्वग्निना पचेच्चुल्ल्यां रसश्चरति तत्क्षणात् ।
जारयेत्पूर्वयोगेन ततश्चार्यं च जारयेत् ॥ ३,१२.८१ ॥
मात्रा युक्तिर्यथापूर्वं सेयं निर्मुखजारणा ।
कृष्णाभ्रकं सुवर्णं च जार्यं स्याद्धेमकर्मणि ॥ ३,१२.८२ ॥
तारं वा श्वेतमभ्रं वा जार्यं स्यात्तारकर्मणि ।
सारणादिक्रामणान्तं यथापूर्वं तु जारयेत् ॥ ३,१२.८३ ॥
कर्तव्यं सूतराजे तु तद्वद्भवति कांचनम् ।
श्वेतेन जारयेत्श्वेतं यथाबीजं तथाङ्कुरम् ॥ ३,१२.८४ ॥
प्रोक्तं यथा सुगमसाधितपीतगंधं कृष्णाभ्रहेमरजतं सितमभ्रकं च ।
संसार्य तद्रसवरे वरवार्तिकेन्द्रः कुर्यान्महाकनकभारसहस्रसंख्यम् ॥ ३,१२.८५ ॥

३, १३
दृष्टयोगफलसिद्धिदं ध्रुवं पारदस्य वरजारणे हितम् ।
सत्त्वपातनमनेकयोगतो द्वंद्वमेलमभिषेकमार्यकम् ॥ ३,१३.१ ॥
{अभ्रःः शोधन}
मुस्ताक्वाथेन सप्ताहं कुर्याद्धान्याभ्रकं प्लुतम् ।
शिग्रुसूरणरम्भानां कंदस्यैकस्य च द्रवैः ॥ ३,१३.२ ॥
पेटारीमूलजंबीरद्रावैर्वाप्यं परिप्लुतम् ।
इत्थं प्लुतस्याभ्रकस्य पादांशं टंकणं क्षिपेत् ॥ ३,१३.३ ॥
दिनैकं मर्दयेत्खल्वे युक्तमम्लेन केनचित् ॥ ३,१३.४ ॥
{कान्तलोह, माक्षिक, उपरसःः सत्त्वःः पातन}
गुञ्जागुग्गुलुलाक्षोर्णासर्जीसर्जरसं गुडम् ।
क्षुद्रमीनं यवक्षारं काचपिण्याकसूरणम् ॥ ३,१३.५ ॥
भूलता त्रिफला वह्निः क्षीरकन्दं पुनर्नवा ।
धत्तूरो लाङ्गली पाठा बला गंधकतिक्तकम् ॥ ३,१३.६ ॥
गोक्षीरं पंचलवणं सर्पवृश्चिकविषं मधु ।
षड्बिन्दुः क्षुद्रशम्बूकमस्थीनि शशकस्य च ॥ ३,१३.७ ॥
पारावतमलं त्र्यूषमिंद्रगोपं च शिग्रुकम् ।
गोधूमं सर्षपं तुल्यं छागीदुग्धेन मर्दयेत् ॥ ३,१३.८ ॥
एतद्व्यस्तं समस्तं वा याममात्रेण पिण्डितम् ।
अस्य पिण्डस्य भागैकं द्विभागं शोधिताभ्रकम् ॥ ३,१३.९ ॥
पञ्चमाहिषभागैकं सर्वमेकत्र लोलयेत् ।
कर्षांशा वटिकाः कार्याः किंचिच्छायाविशोषिताः ॥ ३,१३.१० ॥
खदिराङ्गारसंतप्ते कोष्ठीयन्त्रे क्षिपन् क्षिपन् ।
वटिकाः पञ्चपञ्चैव वङ्कनालेन संधमन् ॥ ३,१३.११ ॥
समाप्तौ किट्टमादाय स्फोटयेत्स्वाङ्गशीतलम् ।
वर्तुलं सत्त्वमादाय शेषकिट्टं विचूर्णयेत् ॥ ३,१३.१२ ॥
चूर्णादर्धं पूर्वपिण्डं तद्वन्माहिषपञ्चकम् ।
एकीकृत्य धमेत्तद्वत्सत्त्वं तत्तत्समाहरेत् ॥ ३,१३.१३ ॥
इत्येवं च पुनः कुर्यात्त्रिधा सत्त्वं विमुञ्चति ।
अनेन क्रमयोगेन कान्तसत्त्वं च माक्षिकम् ॥ ३,१३.१४ ॥
कठिनोपरसाश्चान्ये शुद्धा भूनागमृत्तिका ।
मुञ्चन्ति सत्त्वसंघातं ग्राहयेत्तत्पृथक्पृथक् ॥ ३,१३.१५ ॥
{अभ्रःः सत्त्वःः मृदूकरण}
अभ्रसत्त्वं समादाय समांशं काचटंकणम् ।
दत्त्वा दत्त्वा त्रिवारं तु वज्रमूषागतं धमेत् ॥ ३,१३.१६ ॥
अम्लवर्गं स्नुहीपत्रं चिञ्चाबीजं सवल्कलम् ।
कल्कयेत्तत्र तत्सत्त्वं सप्तवारं निषेचयेत् ॥ ३,१३.१७ ॥
मृदुशुभ्रं भवेत्सत्त्वं सप्तवारं निषेचयेत् ॥ ३,१३.१८ ॥
{अभ्रःः सत्त्वःः पातन}
धान्याभ्रं दशभागं स्यात्शुद्धनागं त्रिभागकम् ।
टंकणं माक्षिकं सूतं भागैकैकं सुशोधितम् ॥ ३,१३.१९ ॥
ऊर्णा सर्जी यवक्षारं भागं भागं विमिश्रयेत् ।
मर्द्यं मूत्राम्लवर्गाभ्यां यथाप्राप्तं दिनावधि ॥ ३,१३.२० ॥
अजापञ्चाङ्गसंयुक्तं पूर्ववत्सत्त्वपातनम् ।
कृत्वादाय मृदु साक्षान्निर्मलं योजयेदधः ॥ ३,१३.२१ ॥
{माक्षिकःः सत्त्वम्ःः पातन}
दोलायंत्रे सारनाले माक्षिकं स्वेदयेद्दिनम् ।
चूर्णितं मधुसर्पिर्भ्यां लोहपात्रे दिनं पचेत् ॥ ३,१३.२२ ॥
आदाय भावयेद्घर्मे वज्रीक्षीरैर्दिनावधि ।
गृहधूमैर्घृतैः क्षौद्रैः संयुक्तं मर्दयेद्दिनम् ॥ ३,१३.२३ ॥
अंधमूषागतं ध्मातं सत्त्वं गुंजानिभं भवेत् ॥ ३,१३.२४ ॥
{माक्षिकःः सत्त्वःः पातन}
कदलीकंदतोयेन माक्षिकं शतधातपे ।
भावितं पाचयेद्यामं साज्यैर्वातारितैलकैः ।
पूर्ववद्धमनात्सत्त्वमिंद्रगोपनिभं भवेत् ॥ ३,१३.२५ ॥
{माक्षिकःः सत्त्वम्ःः पातन}
स्नुह्यर्कपयसा स्तन्यैर्माक्षिकं मर्दयेद्दिनम् ।
कंकुष्ठं टंकणं चैव प्रतिपादांशमिश्रितम् ॥ ३,१३.२६ ॥
मूकमूषागतं ध्मातं सत्त्वं मणिनिभं भवेत् ॥ ३,१३.२७ ॥
{माक्षिकःः सत्त्वःः पातन}
कदलीकंदतुलसीजंबीराणां द्रवैः क्रमात् ।
भावयेन्माक्षिकं श्लक्ष्णं प्रतिद्रावेण सप्तधा ।
रुद्ध्वा ध्माते पतेत्सत्त्वं शुकसंनिभं शुभम् ॥ ३,१३.२८ ॥
{माक्षिकःः सत्त्वःः पातन}
मूत्रवर्गाम्लवर्गैश्च द्विसप्ताहं विभावयेत् ।
माक्षिकं तीव्रघर्मेण दिनैरम्लैश्च मर्दयेत् ॥ ३,१३.२९ ॥
मित्रपञ्चकसंयुक्तैर्वटी कृत्वा धमेद्दृढम् ।
व्योमवद्वंकनालेन सत्त्वं शुल्बनिभं भवेत् ॥ ३,१३.३० ॥
{माक्षिकःः सत्त्वःः पातन}
स्तन्यैः कङ्कुष्ठकैश्चैव कदलीतोयसंयुतैः ।
मित्रपंचकसंयुक्तैर्माक्षिकं दिनसप्तकम् ॥ ३,१३.३१ ॥
भावितं मर्दयेद्यामं दिनं वातारितैलकैः ।
मृद्वग्निना पचेद्यामं यावद्भवति गोलकम् ।
सत्त्वं किंशुकपुष्पाभं व्योमवद्धमनाद्भवेत् ॥ ३,१३.३२ ॥
{विमलःः सत्त्वःः पातन}
विमलानां च शुद्धानां सम्यक्स्यात्ताप्यवद्विधिः ॥ ३,१३.३३ ॥
{माक्षिकःः सत्त्वःः धौतसत्त्व}
सुशुद्धं माक्षिकं चूर्णं मर्द्यमम्लेन केनचित् ।
क्षालयेदारनालैस्तु ह्यधस्थं स्वर्णचूर्णवत् ॥ ३,१३.३४ ॥
जायते तत्समुद्धृत्य धौतसत्त्वमिदं भवेत् ।
योजयेद्वापने चैव बीजानां यत्र यत्र वै ॥ ३,१३.३५ ॥
{माक्षिकःः सत्त्वःः पातन}
माक्षिकं पञ्चमित्राक्तं सप्ताहान्ते वटीकृतम् ।
पूर्ववद्धमनेनैव सत्त्वं लाक्षानिभं भवेत् ॥ ३,१३.३६ ॥
{मनःशिलाःः सत्त्वःः पातन}
अगस्त्यशिग्रुजैस्तोयैस्त्र्यहं भाव्या मनःशिला ।
तालकौषधयोगेन सत्त्वं हेमनिभं भवेत् ।
{मनःशिलाःः सत्त्वःः पातन}
गोमूत्रैर्मातुलुङ्गाम्लैर्दिनं भाव्या मनःशिला ।
तां रक्तपीतपुष्पाणां रसैः पित्तैश्च भावयेत् ॥ ३,१३.३७ ॥
दिनान्ते मर्दयेद्यामं मित्रपंचकसंयुतम् ।
गुटिकां काचकूप्यन्तः क्षिप्त्वा तां काचकूपिकाम् ।
सर्वतोऽङ्गुलमानेन वस्त्रमृत्तिकया लिम्पेत् ॥ ३,१३.३८ ॥
शुष्कां तां वालुकायंत्रे शनैर्मृद्वग्निना पचेत् ।
शुष्के द्रवे निरुध्याथ सम्यक्मृल्लवणैर्मुखम् ॥ ३,१३.३९ ॥
चण्डाग्निना पचेत्तावद्यावद्द्वादशयामकम् ।
स्वांगशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत् ॥ ३,१३.४० ॥
ऊर्ध्वलग्नं शिलासत्त्वं बालार्ककिरणोपमम् ॥ ३,१३.४१ ॥
{हरितालःः सत्त्वःः पातन}
भागाः षोडश तालस्य विषं पारदटंकणम् ।
श्वेताभ्रबंगयोश्चूर्णं प्रतिभागं विमिश्रयेत् ॥ ३,१३.४२ ॥
सर्वं स्नुह्यर्कपयसा मर्दयेद्दिवसत्रयम् ।
शिलावद्ग्राहयेत्सत्त्वं तालकात्स्फटिकोपमम् ॥ ३,१३.४३ ॥
{हरितालःः सत्त्वःः पातन}
स्नुक्क्षीरकटुतुम्ब्युत्थैस्तालं भाव्यं द्विसप्तधा ॥ ३,१३.४४ ॥
तिलसर्षपशिग्रूणि लवणं मित्रपंचकम् ।
एभिस्तुल्यं पूर्वतालं दिनमेकं विमर्दयेत् ॥ ३,१३.४५ ॥
छिद्रमूषागतं ध्मातं भूधरे सत्त्वमाहरेत् ॥ ३,१३.४६ ॥
{हरितालःः सत्त्वःः पातन}
लाक्षा राजी गुडं शिग्रुष्टंकणं लवणं तिलाः ।
एभिस्तुल्यं शुद्धतालं मर्दयेद्रविदुग्धकैः ॥ ३,१३.४७ ॥
दिनं वा वज्रिणीदुग्धैः कुष्माण्डस्य द्रवैस्तथा ।
तेन कल्केन लिप्तांतश्छिद्रमूषां निरोधयेत् ॥ ३,१३.४८ ॥
पुटाद्वा धमनाद्ग्राह्यं सत्त्वं पातालयन्त्रके ॥ ३,१३.४९ ॥
{हरितालःः सत्त्वःः पातन}
तालकादष्टमांशेन देयं सूतं च टंकणम् ।
कुष्माण्डस्य रसैः स्नुह्याः क्षीरैर्मर्द्यं दिनत्रयम् ।
तद्गोलं छिद्रमूषांतर्ग्राह्यं सत्त्वं च पूर्ववत् ॥ ३,१३.५० ॥
{तुत्थःः सत्त्वःः पातन}
लाक्षाभया च भूनागं गृहधूमं जटाकणा ।
निशाटंकणमध्वाज्यान्येभिस्तुल्यं च तुत्थकम् ॥ ३,१३.५१ ॥
सर्वं मर्द्यमजाक्षीरैरन्धमूषागतं धमेत् ।
सत्त्वं किंशुकपुष्पाभं जायते नात्र संशयः ॥ ३,१३.५२ ॥
{तुत्थःः सत्त्वःः पातन}
हरिद्रासूरणाङ्कोल्लं तण्डुली गंधकं गुडम् ।
मध्वाज्यटंकणं तुल्यं तुत्थमेभिः समं भवेत् ॥ ३,१३.५३ ॥
स्तन्येन मर्दयेत्सर्वं छिद्रमूषां विलेपयेत् ।
रुद्ध्वा पातालयंत्रेण ध्माते सत्त्वं विमुञ्चति ॥ ३,१३.५४ ॥
{तुत्थःः सत्त्वःः पातन}
तुत्थस्य टंकणं पादं चूर्णयेन्मधुसर्पिषा ।
तुत्थेन मिश्रितं ध्मातं कोष्ठीयन्त्रे दृढाग्निना ।
धामिते मुञ्चते सत्त्वं कीरतुण्डसमप्रभम् ॥ ३,१३.५५ ॥
{वरनागसत्त्व}
सौवीरं तीक्ष्णचूर्णं च मूषायामन्धयेत्समम् ।
हठाद्ध्माते भवेत्सत्त्वं वरनागं तदुच्यते ॥ ३,१३.५६ ॥
{रसकःः सत्त्वःः पातन}
क्षाराम्लं स्नेहपित्तैश्च क्रमाद्भाव्यं दिनं दिनम् ।
पुष्पाणां रक्तपीतानां रसैर्भाव्यं दिनद्वयम् ॥ ३,१३.५७ ॥
रसकं चूर्णयेत्पश्चादूर्णा लाक्षा निशाभया ।
टंकणं शिग्रुधूमं च भूनागं सप्तमं भवेत् ॥ ३,१३.५८ ॥
एभिः समं तु तच्चूर्णमजाक्षीरेण मर्दयेत् ।
याममेतेन कल्केन लेप्या वार्ताकमूषिका ॥ ३,१३.५९ ॥
शुष्का चार्धमुखाङ्गारैर्ध्माते सत्त्वं समाहरेत् ॥ ३,१३.६० ॥
{रसकःः सत्त्वःः पातन}
रसकस्यैकभागं तु त्रिफलामित्रपंचकम् ।
रजनीगृहधूमं च दशानामेकभागकम् ॥ ३,१३.६१ ॥
अजाक्षीरैर्दिनं मर्द्यमथवाम्लेन केनचित् ।
पूर्ववद्ग्राहयेत्सत्त्वं रसकात्कुटिलप्रभम् ॥ ३,१३.६२ ॥
{वैक्रान्तःः सत्त्वःः पातन}
वन्ध्याचूर्णं च वैक्रांतं छायाया मर्दयेत्समम् ।
अजामूत्रैर्दिनैकं तु सत्त्वं रजतवद्भवेत् ॥ ३,१३.६३ ॥
{वैक्रान्तःः सत्त्वःः पातन}
मोक्षमोरटपालाशक्षारं गोमूत्रगालितम् ।
गृहीतमातपे शुष्कं वज्रकन्दं च टंकणम् ॥ ३,१३.६४ ॥
लाक्षा शिखिशिखातुल्यं वैक्रांतं सर्वतुल्यकम् ।
मेषशृंगीद्रवैर्मर्द्यमेतत्सर्वं दिनावधि ॥ ३,१३.६५ ॥
पिण्डितं मूकमूषांतः कृत्वा धाम्यं हठाग्निना ।
तत्रैव मुञ्चते सत्त्वं वैक्रांतं रसबन्धकम् ॥ ३,१३.६६ ॥
{वैक्रान्तःः सत्त्वःः पातन}
वैक्रांतानां पलैकं तु कर्षैकं टंकणस्य च ।
रविक्षीरैर्दिनं भाव्यमथ शिग्रुद्रवैर्दिनम् ॥ ३,१३.६७ ॥
गुंजापिण्याकवह्नीनां प्रतिकर्षं नियोजयेत् ।
एतेन गुलिकां कृत्वा कोष्ठीयन्त्रे धमेद्दृढम् ॥ ३,१३.६८ ॥
शंखकुन्देन्दुसंकाशं सत्त्वं वैक्रांतजं भवेत् ॥ ३,१३.६९ ॥
{वैक्रान्तःः सत्त्वःः पातन}
वैक्रांतं वज्रकंदं च समं स्नुक्पयसा समम् ।
महिषीनवनीतं च सक्षौद्रं मर्दयेद्दिनम् ।
पूर्ववद्धमनात्सत्त्वमिंद्रगोपनिभं भवेत् ॥ ३,१३.७० ॥
{गैरिकःः सत्त्वःः पातन}
गैरिकं रक्तवर्गेण पीतवर्गेण भावितम् ।
सप्ताहं मर्दयेद्यामं मित्रपंचकसंयुतम् ।
तद्वटी कोष्ठिकायंत्रे सत्त्वं मुञ्चति निर्मलम् ॥ ३,१३.७१ ॥
{सौराष्ट्रीःः सत्त्वःः पातन}
सिता सिता च सौराष्ट्री गोपित्तैर्भावयेत्तु ताम् ।
शतवारं प्रयत्नेन मित्रपंचकसंयुतम् ।
धमनान्मुञ्चते सत्त्वं क्रामकं कोष्ठियंत्रके ॥ ३,१३.७२ ॥
{सस्यकःः सत्त्वःः पातन}
सस्यकं चूर्णितं भाव्यं दिनं शशकरक्तकैः ।
स्त्रीमूत्रैर्वाथ गोमूत्रैस्तत्पादांशां निशां क्षिपेत् ।
मर्द्यं करंजतैलेन यामैकं गोलकं च तत् ॥ ३,१३.७३ ॥
अंधमूषागतं धाम्यं घटिकार्धं दृढाग्निना ।
इंद्रगोपकसंकाशं सत्त्वं मुञ्चति शोभनम् ॥ ३,१३.७४ ॥
{कासीसःः सत्त्वःः पातन}
चतुर्विधं तु कासीसं रक्तं पीतं सितासितम् ।
मर्दयेत्पित्तवर्गेण तिक्तकोशातकीद्रवैः ॥ ३,१३.७५ ॥
कासमर्दद्रवैश्चैव मित्रपंचकसंयुतैः ।
तद्वटीः कोष्ठिकायंत्रे ध्माते सत्त्वं विमुञ्चति ॥ ३,१३.७६ ॥
{राजावर्तःः सत्त्वःः पातन}
राजावर्तमयः पात्रे पाचयेन्माहिषैर्घृतैः ।
पयोभिश्च दिनं पच्यान्मित्रपंचकसंयुतम् ॥ ३,१३.७७ ॥
रजन्याः पञ्चगव्येन पिण्डीबद्धं तु कारयेत् ।
खदिरांगारसंयोगात्कोष्ठ्यां सत्त्वं विमुञ्चति ॥ ३,१३.७८ ॥
{स्रोतोञ्जनःः परीक्षा}
वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति ।
घर्षणे गैरिकच्छायं स्रोतोंजनमिदं भवेत् ॥ ३,१३.७९ ॥
{स्रोतोञ्जनःः सत्त्वःः पातन}
राजावर्तकवत्सत्त्वं ग्राह्यं स्रोतोंजनादपि ॥ ३,१३.८० ॥
{द्वन्द्वम्. ओf व्योमसत्त्व अन्द्मिनेरल्स्}
व्योमसत्त्वस्य चूर्णं तु यत्किंचिद्धातुचूर्णकम् ।
द्वन्द्वमेलापलिप्तायां मूषायां तद्द्वयं समम् ॥ ३,१३.८१ ॥
ध्मातव्यमरिवर्गेण क्षिप्ते मिलति तत्क्षणम् ॥ ३,१३.८२ ॥
{सत्त्वःः मेलापन}
विषं टङ्कणगुंजाश्च खुरं शृङ्गं च भेषजम् ।
मण्डूकवसया पिष्ट्वा मूषालेपं तु कारयेत् ॥ ३,१३.८३ ॥
तस्यां मिलति सत्त्वानि चूर्णानि विविधानि च ।
{द्वन्द्वमेल्.:: लेप fओर्ँ}
त्रिक्षारं धातकीपुष्पं गुग्गुलुं च समं समम् ।
स्त्रीस्तन्यैः पेषितो लेपो द्वंद्वमेलापने हितः ॥ ३,१३.८४ ॥
{सर्वसत्त्वमेलापन (२)}
वर्षाभूः कदलीकंदः काकमाची पुनर्नवा ।
गुंजा नरकपालं च टंकणं पेषयेत्समम् ।
अनेन पूर्ववल्लेपाद्धेमाभ्रं मिलति क्षणात् ॥ ३,१३.८५ ॥
{मेलापनःः मेतल्स्, सत्त्व अनोर्महारसस्}
तारं च व्योमसत्त्वं च अनेनैव तु मेलयेत् ।
लाङ्गली चमरीकेशान्कुशकार्पासयोः फलम् ॥ ३,१३.८६ ॥
भूलतामिंद्रगोपं च पाषाणभेदिका समम् ।
नारीस्तन्येन संपेष्य मूषालेपं तु कारयेत् ॥ ३,१३.८७ ॥
सर्वलोहानि सत्त्वानि तथा चैव महारसाः ।
मिलन्ति नात्र संदेहस्तीव्रध्मानानलेन तु ॥ ३,१३.८८ ॥
{द्वन्द्वमेलापक}
विषं छुछुन्दरीमांसं टंकणं समपेषितम् ।
मूषालेपमनेनैव कृत्वा तत्र विनिक्षिपेत् ।
यत्किंचिद्द्वंद्वयोगं तु धमनेन मिलत्यलम् ॥ ३,१३.८९ ॥
{द्वन्द्वमेलापक}
कङ्गुणीतैलसम्पिष्टमपामार्गस्य भस्मकम् ।
तेन प्रलिप्तायां द्वंद्वं क्षिप्त्वा धमेद्धठात् ।
मिलत्येव न संदेहस्तत्तन्मारकवापनात् ॥ ३,१३.९० ॥
{अभ्रःः प्रोदुच्तिओनोf अभ्र-मेतल्-चोम्पोउन्द्स्}
हेमाभ्रं नागताप्याभ्रं शुल्बाभ्रं गंधकेन च ।
सिन्धूत्थहिंगुलाभ्यां तु तीक्ष्णाभ्रं धमनाद्दृढम् ॥ ३,१३.९१ ॥
नागाभ्रं शिलया युक्तं वङ्गाभ्रं तालकेन च ।
ताराभ्रं बंगतालाभ्यां तालवत्सर्वसत्त्वकम् ॥ ३,१३.९२ ॥
{अभ्रःः वङ्गाभ्र}
मिलत्येव न संदेहः पूर्वमूषागतं क्षणात् ।
श्वेताभ्रकस्य सत्त्वं तु वङ्गचूर्णं समं समम् ॥ ३,१३.९३ ॥
कदलीकंदतोयेन मर्दयेट्टंकणैः सह ।
अंधमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात् ॥ ३,१३.९४ ॥
{अभ्रःः वङ्गाभ्र}
गुंजा नरकपालं च टंकणं वनशिग्रुकम् ।
स्त्रीस्तन्येन समं पिष्ट्वा मूषालेपं तु कारयेत् ॥ ३,१३.९५ ॥
बंगं श्वेताभ्रसत्त्वं च चूर्णितं तत्र निक्षिपेत् ।
रुद्ध्वा ध्माते मिलत्येव तारकर्मणि जारयेत् ॥ ३,१३.९६ ॥
{अभ्रःः वङ्गाभ्र}
अभ्रसत्त्वं विचूर्ण्यादौ तत्पादांशं तु टंकणम् ।
पारदं टंकणांशं च काकमाचीद्रवैर्दिनम् ॥ ३,१३.९७ ॥
पिष्ट्वा तद्गोलकं पेष्यमभ्रांशैर्वङ्गपत्रकैः ।
पूर्वमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात् ॥ ३,१३.९८ ॥
{अभिषेक (१)}
सम्यगावर्तितं नागं पलैकं कांजिके क्षिपेत् ।
पलानां शतमात्रे तु शतवारं द्रुतं द्रुतम् ॥ ३,१३.९९ ॥
अनेन कांजिकेनैव शतवारं विभावयेत् ।
यत्किंचिच्चारणावस्तु ततस्तं जारयेद्रसे ।
अभिषेको ह्ययं ख्यातः कथ्यते तु मतान्तरम् ॥ ३,१३.१०० ॥
{अभिषेक (२)}
त्रिक्षारं पंचलवणं काङ्क्षीकासीसगंधकम् ।
माहिषं कांजिकैर्युक्तं ताम्रपात्रे दिनत्रयम् ॥ ३,१३.१०१ ॥
स्थितं घर्मे पुनस्तस्मिन् द्रुतं नागं विनिक्षिपेत् ।
तारकर्मणि बंगं वा शतवाराणि सेचयेत् ॥ ३,१३.१०२ ॥
तद्द्रवं ताम्रपात्रस्थमभिषेकं विदुर्बुधाः ।
अनेन चारणावस्तु शतवाराणि भावयेत् ॥ ३,१३.१०३ ॥
{सारणायां संकेतः}
द्वंद्वितं व्योमसत्त्वं च बीजानि विविधानि च ।
द्वंद्वितं वज्रबीजं च भावितं सारयेत्सदा ॥ ३,१३.१०४ ॥
स्वर्णादि लोहमखिलं कृतशुद्धचूर्णं योज्यं पृथग्गगनसत्त्ववरे समांशम् ।
तद्द्वंद्वितं चरति सूतवरोऽभिषिक्तं विप्रो यथा मधुरपायसमाज्ययुक्तम् ॥ ३,१३.१०५ ॥

३, १४
सूतेन सत्त्वरचितेन च जारितेन पक्वाख्यबीजगुणसंख्यसुसारितेन ।
विज्ञाय यस्तु मतिमान् स तु वार्तिकेन्द्रश्चंद्रार्कवेधविधिना कनकं करोति ॥ ३,१४.१ ॥
{मेर्चुर्य्ःः चारण}
स्वर्णे नागं समावर्त्य माषमात्रं तु घर्षयेत् ।
तप्तखल्वे ततस्तस्मिन्पलमेकं रसं क्षिपेत् ॥ ३,१४.२ ॥
सिद्धमूलीद्रवं दत्त्वा मर्दयेत्कांजिकैर्दिनम् ।
घर्मे वा तप्तखल्वे वा ततो ग्रासं तु दापयेत् ॥ ३,१४.३ ॥
चतुःषष्ट्यंशकं पूर्वं द्वंद्वं सत्त्वं विभावितम् ।
दत्त्वा मर्द्यं दिनैकं तु चारणायंत्रके क्षिपेत् ॥ ३,१४.४ ॥
सजम्बीरैर्दिनं घर्मे धारितं चरति ध्रुवम् ॥ ३,१४.५ ॥
{मेर्चुर्य्ःः जारण}
जारणं त्रिक्षारं पंचलवणमम्लवर्गे स्नुहीपयः ।
गोमूत्रैर्लोलयेत्सर्वं तेन वस्त्रं घनं लिपेत् ॥ ३,१४.६ ॥
तन्मध्ये जारितं सूतं बद्ध्वा भूर्जेन वेष्टयेत् ।
सिद्धमूल्यम्लसंयुक्तं दोलायंत्रे त्र्यहं पचेत् ॥ ३,१४.७ ॥
उद्धृत्योष्णारनालेन क्षालयेल्लोहपात्रके ।
वस्त्रपूतं ततः कृत्वा सोष्णपात्रे विमर्दयेत् ॥ ३,१४.८ ॥
हस्तेनैव भवेद्यावत्सुधौतं पारदं पुनः ।
चतुर्गुणेन वस्त्रेण क्षालयेन्निर्मलो भवेत् ॥ ३,१४.९ ॥
अजीर्णे च पुनर्मर्द्यमम्लं दत्त्वा दिनावधि ।
दोलायां स्वेदयेत्तद्वद्भवेज्जीर्णं न संशयः ॥ ३,१४.१० ॥
{मेर्चुर्य्ःः प्रेपरतिओन् fओर्ग्रासन}
इष्टिका गुडदग्धोर्णा गृहधूमं च सर्जिका ।
सैंधवेन युतं सर्वं षोडशांशं रसस्य तु ॥ ३,१४.११ ॥
दत्त्वा ततोऽम्लवर्गेण घर्मे मर्द्यं दिनावधि ।
इष्टिकादम्लवर्गेण दोलायंत्रे दिनं पचेत् ।
जीर्णे जीर्णे त्विदं कुर्याद्ग्रासग्राही भवेद्रसः ॥ ३,१४.१२ ॥
{मेर्चुर्य्ःः जारण ओf बीजस्}
द्वात्रिंशांशं ततो ग्रासं दत्त्वा चार्यं च जारयेत् ।
पूर्ववत्स्वेदनान्तं च कृत्वा ग्रासं तृतीयकम् ॥ ३,१४.१३ ॥
षोडशांशं प्रदातव्यं तज्जीर्णे चाष्टमांशकम् ।
जारयेत्पूर्वयोगेन ह्येवं ग्रासचतुष्टयम् ॥ ३,१४.१४ ॥
ततः कच्छपयन्त्रेण जारयेत्तन्निगद्यते ।
ऊर्ध्वाधश्चाष्टमांशेन ग्रासे ग्रासे बिडं क्षिपेत् ॥ ३,१४.१५ ॥
चतुर्थांशं ततो ग्रासं ग्रासं देयं समं पुनः ।
जीर्णे जीर्णे समं देयमेवं जार्यं च षड्गुणम् ॥ ३,१४.१६ ॥
रागाणां ग्रहणार्थं च ग्रासे ग्रासे तु पूर्ववत् ।
इत्येवं द्वंद्वयोगानां सत्त्वानां च विशेषतः ॥ ३,१४.१७ ॥
स्वर्णादिसर्वलोहानां बीजानां जारणाहितम् ।
कर्तव्यं वक्ष्यते तत्र मात्रायुक्तिश्च पूर्ववत् ॥ ३,१४.१८ ॥
{मेर्चुर्य्ःः जारण ओf द्वन्द्वस्}
अभावे व्योमसत्त्वस्य कान्तपाषाणसत्त्वकम् ।
तीक्ष्णपाषाणसत्त्वं वा द्वंद्वितं व्योमसत्त्ववत् ॥ ३,१४.१९ ॥
जारयेत्पूर्वयोगेन सर्वेषां स्यात्फलं समम् ।
इत्येवं षड्गुणं द्वंद्वं यत्किंचिज्जारयेद्रसे ॥ ३,१४.२० ॥
{सिद्धबीजःः प्रेपरतिओन्}
जारितं सिद्धबीजेन सारयेत्तन्निगद्यते ।
ताप्यसत्त्वं घोषताम्रं शुद्धहेम समं समम् ॥ ३,१४.२१ ॥
आवर्त्य द्वंद्वलिप्तायां मूषायामन्धितं पुनः ।
समुद्धृत्य पुनर्धाम्यं मूषायां प्रकटं धमेत् ॥ ३,१४.२२ ॥
माक्षिकाद्धौतसत्त्वं च स्तोकं स्तोकं विनिक्षिपेत् ।
स्वर्णशेषं भवेद्यावत्तावत्पाच्यं च तत्पुनः ॥ ३,१४.२३ ॥
पूर्ववच्च धमेत्तावद्यावत्स्वर्णावशेषितम् ।
ताप्यसत्त्वेन ताम्रेण द्वंद्वमेवं पुनः पुनः ॥ ३,१४.२४ ॥
षड्वारं धमनेनैव ग्राह्यं स्वर्णावशेषितम् ।
सिद्धबीजमिदं ख्यातं दाडिमीपुष्पवद्भवेत् ॥ ३,१४.२५ ॥
अनेन सिद्धबीजेन पूर्ववत्सारणात्रयम् ।
कृत्वाथ जारयेत्तद्वज्जीर्णे बद्ध्वा मुखं तथा ॥ ३,१४.२६ ॥
बन्धनं शोधनं चैव क्रामणं चैव पूर्ववत् ।
चंद्रार्के द्राविते योज्यं सहस्रांशेन कांचनम् ॥ ३,१४.२७ ॥
{मेर्चुर्य्ःः जारण ओf सुल्fउर्}
अथातः शुद्धसूतस्य जारणे पूर्वभावितम् ।
अथ शुद्धस्य सत्त्वस्य जारयेत्पूर्वभाषितम् ।
गंधकं तु तुलायन्त्रे पश्चात्सर्वं ग्रसत्यलम् ॥ ३,१४.२८ ॥
मुखनालान्विता ऊर्ध्ववक्त्रा स्याद्द्वादशाङ्गुला ।
दृढा लोहमयी कुर्यादनया सदृशी परा ॥ ३,१४.२९ ॥
एकस्यां निक्षिपेत्सूतमन्यस्यां गंधकं समम् ।
एकस्या मुखमध्ये तु ह्यपरस्या मुखं क्षिपेत् ॥ ३,१४.३० ॥
लिप्त्वा मृल्लवणैः संधिं गंधकाधः पुटं लघु ।
रसस्याधो जलं स्थाप्यं गंधधूमं पिबत्यलम् ॥ ३,१४.३१ ॥
जीर्णे गंधे समुद्घाट्य तुल्यं गंधं च दापयेत् ।
इत्येवं षोडशगुणं गंधं जार्यं पुनः पुनः ॥ ३,१४.३२ ॥
जारितः सूतराजोऽयं वासनामुखितो भवेत् ॥ ३,१४.३३ ॥
{मेर्चुर्य्ःः वासनामुखितःः ?}
व्योमसत्त्वं ताप्यसत्त्वं शुल्बं शुद्धं समं समम् ।
आवर्त्य द्वंद्वलिप्तायां मूषायामथ चूर्णयेत् ॥ ३,१४.३४ ॥
भावयेदभिषेकेण पूर्ववत्शतवारकम् ।
पूर्ववच्चारयेदेतद्वासनामुखिते रसे ॥ ३,१४.३५ ॥
तद्वज्जार्यं प्रयत्नेन यावद्भवति षड्गुणम् ।
तत्सूते सारितं जार्यं सिद्धबीजं तु पूर्ववत् ॥ ३,१४.३६ ॥
मुखं च बंधनं कृत्वा वेधायान्तं प्रदापयेत् ।
क्रामणेन समायुक्तं चंद्रार्कं कांचनं भवेत् ।
सहस्रांशेन तत्सत्यं रसोऽयं कामरूपकः ॥ ३,१४.३७ ॥
{सिल्वेर्=> गोल्द्}
पूर्ववत्शुद्धसूतस्य पूर्वसंस्कृतगंधकम् ।
जारयेत्षड्गुणं सम्यक्तुलायंत्रेण पूर्ववत् ॥ ३,१४.३८ ॥
तिक्तकोशातकीद्रावं लांगलीद्रावसंयुतम् ।
दापयेत्पूर्वसूतस्य खल्वे मर्द्यं दिनावधि ॥ ३,१४.३९ ॥
पादांशं पक्वबीजं च चारयित्वाथ जारयेत् ।
पूर्ववद्बिडयोगेन एवं जार्यं समक्रमात् ॥ ३,१४.४० ॥
त्रिधाथ पक्वबीजं तु सारयित्वाथ जारयेत् ।
तारे वेधं शतांशेन दापयेत्काञ्चनं भवेत् ॥ ३,१४.४१ ॥
{शतांशविधि; प्रोदुच्तिओनोf गोल्द्}
तारं स्यादष्टानवतिभागाः स्वर्णस्य भागकम् ।
भागैकं वेधकं सूतं संख्येयं शतवेधके ॥ ३,१४.४२ ॥
{गोल्द्ःः प्रोदुच्तिओन्}
रसकस्य तु यत्सत्त्वं चूर्णितं वाभिषेकितम् ।
पूर्ववत्क्रमयोगेन रसे चार्यं च जारयेत् ॥ ३,१४.४३ ॥
यावदष्टगुणं पश्चात्समं कृष्णाभ्रसत्त्वकम् ।
चार्यं जार्यं क्रमेणैव पक्वबीजं चतुर्गुणम् ॥ ३,१४.४४ ॥
जारयेच्च पुनः सूते कच्छपाख्ये विडान्विते ।
रागग्रहणपर्यन्तं कृत्वा प्रक्षाल्य तं रसम् ॥ ३,१४.४५ ॥
उन्मत्तमुनिपत्राणि रजनी काकमाचिका ।
धान्याम्लैः पेषयेत्तुल्यं तद्द्रवैर्मर्दयेद्रसम् ॥ ३,१४.४६ ॥
सप्ताहं तप्तखल्वे तु कच्छपे तु दिनं पचेत् ।
ततो दिव्यौषधैरेव मर्दयेद्दिवसत्रयम् ॥ ३,१४.४७ ॥
तं रुद्ध्वा वज्रमूषायां त्रिदिनं तुषवह्निना ।
स्वेदितं च पुनर्मर्द्यं तद्वद्रुद्ध्वा धमेद्दृढम् ॥ ३,१४.४८ ॥
कुक्कुटाण्डनिभं बद्धं जायते चूर्णयेत्पुनः ।
ब्रह्मपुष्पद्रवमर्द्यं दिनैकं चान्धयेत्पुनः ॥ ३,१४.४९ ॥
पचेद्गजपुटेऽप्येवं देयं पुटचतुष्टयम् ।
वृश्चिकाल्या द्रवैरेवं तद्वत्पुटचतुष्टयम् ॥ ३,१४.५० ॥
कुंकुमसुरसेनैव तद्वत्पुटचतुष्टयम् ।
मातुलुङ्गरसेनैकं पुटं दत्त्वा समाहरेत् ॥ ३,१४.५१ ॥
सहस्रांशेन तेनैव तं शुल्बं तु वेधयेत् ।
शुद्धं वा द्रावितं नागं वेधं स्यात्क्रामणेन वै ।
तत्सर्वं जायते स्वर्णं देवाभरणमुत्तमम् ॥ ३,१४.५२ ॥
{बीजःः ओf गोल्द्}
स्वर्णार्कं तीक्ष्णनागं च सम्यक्सस्याभ्रकस्य च ।
वैक्रांतस्य च सत्त्वं च चूर्णं कुर्यात्समं समम् ॥ ३,१४.५३ ॥
द्वन्द्वमेलापलिप्तायां मूषायामन्धितं धमेत् ।
समुद्धृत्य तु तत्खोटं मूषायां प्रकटं धमेत् ॥ ३,१४.५४ ॥
वापो माक्षिकचूर्णेन दत्ते देयः शनैः शनैः ।
यावत्स्वर्णावशेषं स्यादर्कायां दापयेत्पुनः ॥ ३,१४.५५ ॥
पूर्ववत्क्रमयोगेन धमेत्स्वर्णावशेषितम् ।
इत्येवं च पुनः कुर्याज्जायते स्वर्णबीजकम् ॥ ३,१४.५६ ॥
{बीजःः fरों गोल्द्}
अभ्रसत्त्वायसं ताम्रं चूर्णं कृत्वा समं समम् ।
शुद्धताप्यस्य चूर्णं च ताम्रस्य द्विगुणं भवेत् ॥ ३,१४.५७ ॥
मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् ।
तत्खोटं सूक्ष्मचूर्णं च रुद्ध्वा गजपुटे पचेत् ॥ ३,१४.५८ ॥
एवं पञ्चपुटैः पक्वं द्रुते स्वर्णे च वाहयेत् ।
धमेत्प्रकटमूषायां यावद्दशगुणं शनैः ॥ ३,१४.५९ ॥
ताप्यचूर्णं प्रदातव्यं किंचित्किंचित्तु वापयेत् ।
स्वर्णशेषं समुद्धृत्य स्यादिदं स्वर्णबीजकम् ॥ ३,१४.६० ॥
{चन्द्रार्क => गोल्द्}
स्वर्णबीजं समं सूते जारयेदभ्रसत्त्ववत् ।
ततस्तेन शतांशेन मधुनाक्तेन लेपयेत् ॥ ३,१४.६१ ॥
समं चंद्रार्कपत्राणि वेष्टयेच्चार्कपत्रकैः ।
दोलायंत्रे सारनाले दशाहं पाचयेच्छनैः ॥ ३,१४.६२ ॥
उद्धृत्यावर्तयेत्तानि दिव्यं भवति कांचनम् ॥ ३,१४.६३ ॥
{बीजःः fरों गोल्द्}
मृततीक्ष्णार्कभागं च ताप्यचूर्णं समम् ।
एतद्वाह्यं द्रुते स्वर्णे यावद्दशगुणं शनैः ।
स्वर्णशेषं समादाय स्यादिदं स्वर्णबीजकम् ॥ ३,१४.६४ ॥
{बीजःः fरों गोल्द्}
तीक्ष्णं कांतं मृतं चैव शुल्वं तारं समं समम् ।
मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् ॥ ३,१४.६५ ॥
तत्खोटं द्राविते स्वर्णे वाह्यं दशगुणैः शनैः ।
पूर्ववत्ताप्यचूर्णेन स्वर्णबीजमिदं परम् ॥ ३,१४.६६ ॥
{सिल्वेर्=> गोल्द्}
यथेष्टं स्वर्णबीजैकं पादांशं जारयेद्रसे ।
पूर्ववत्क्रमयोगेन सत्त्वबीजेन सारयेत् ॥ ३,१४.६७ ॥
सारिते जारयेत्तद्वदनुसार्येण जारयेत् ।
प्रतिसार्य ततो जार्यं मुखं बद्ध्वा च बन्धयेत् ॥ ३,१४.६८ ॥
पञ्चांशं दशयोगेन तारे वेधं प्रदापयेत् ।
क्रामणेन समायुक्तं दिव्यं भवति कांचनम् ॥ ३,१४.६९ ॥
{सिल्वेर्=> गोल्द्}
नागं रसकसत्त्वं च ताम्रं भागं क्रमोत्तरम् ।
ध्मापितं वाहयेत्स्वर्णे षड्गुणं वापयेच्छनैः ॥ ३,१४.७० ॥
स्वर्णशेषं तु तज्जार्यं समांशं पारदे क्रमात् ।
यथापूर्वं मारणादिबंधनान्तं च कारयेत् ॥ ३,१४.७१ ॥
अनेन षष्टिभागेन पूर्ववत्कांचनं भवेत् ॥ ३,१४.७२ ॥
{चन्द्रार्क => स्वर्ण}
ताप्येन मारयेच्छुल्बं यथागंधेन मारितम् ।
तत्ताम्रं वाहयेन्नागे मूषामध्ये धमन् धमन् ॥ ३,१४.७३ ॥
शनैः शतगुणं यावत्ताप्यचूर्णं क्षिपन्क्षिपन् ।
तत्ताम्रं वाहयेत्स्वर्णे द्वात्रिंशद्गुणितं क्रमात् ॥ ३,१४.७४ ॥
स्वर्णशेषं तु तद्बीजं समांशं जारयेद्रसे ।
अनेनैव तु बीजेन सारयेज्जारयेत्पुनः ॥ ३,१४.७५ ॥
पूर्ववत्क्रमयोगेन बंधनान्तं च कारयेत् ।
क्रामणेन समायुक्तं सहस्रांशेन वेधयेत् ।
चंद्रार्कं जायते स्वर्णं देवाभरणमुत्तमम् ॥ ३,१४.७६ ॥
{सिल्वेर्=> गोल्द्}
रसकाभ्रकयोः सत्त्वं ताम्रचूर्णं क्रमोत्तरम् ।
मूषायां द्वंद्वलिप्तायां रुद्ध्वा ध्माते समुद्धरन् ॥ ३,१४.७७ ॥
तत्खोटांशं ताप्यचूर्णं दत्त्वा चाम्लेन मर्दयेत् ।
रुद्ध्वा लघुपुटे पच्यादेवं पञ्चपुटैः पचेत् ॥ ३,१४.७८ ॥
तच्चूर्णं वाहयेत्स्वर्णे धाम्यमाने शनैः शनैः ।
सहस्रगुणितं यावत्तद्बीजं जारयेद्रसे ॥ ३,१४.७९ ॥
यावच्छतगुणं यत्नादनेनैव तु सारयेत् ।
जारणं सारणं चैव बंधनान्तं च पूर्ववत् ॥ ३,१४.८० ॥
कृत्वाथ लक्षभागेन तारं भवति कांचनम् ॥ ३,१४.८१ ॥
{सिल्वेर्=> गोल्द्}
अभ्रसत्त्वं रविं नागं क्रमवृद्ध्या विचूर्णयेत् ।
मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् ॥ ३,१४.८२ ॥
तत्समं ताप्यचूर्णं तु सर्वमम्लेन मर्दयेत् ।
रुद्ध्वा पञ्चपुटैः पच्यात्तच्चूर्णं वाहयेद्द्रुतम् ॥ ३,१४.८३ ॥
स्वर्णे शतं यावत्तावत्स्वर्णं च जारयेत् ।
युक्त्या शतगुणं यावत्त्रिधानेनैव सारयेत् ॥ ३,१४.८४ ॥
सारिते जारणं कुर्याद्बंधनान्तं च पूर्ववत् ।
अयुतांशेन तेनैव तारं भवति कांचनम् ॥ ३,१४.८५ ॥
{चन्द्रार्क => गोल्द्}
अथवा पूर्वचूर्णं तु सहस्रगुणितं द्रुते ।
स्वर्णे वाह्यं क्रमेणैव तद्बीजं जारयेद्रसे ॥ ३,१४.८६ ॥
सहस्रगुणितं यावत्त्रिधा तेनैव सारयेत् ।
सारितं जारयेत्पश्चात्पुनः सार्यं च जारयेत् ॥ ३,१४.८७ ॥
सप्तशृङ्खलिकायोगात्सारितं जारयेद्बुधः ।
मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः ।
क्रामणेन समायुक्तं चंद्रार्कं कांचनं भवेत् ॥ ३,१४.८८ ॥
{चोप्पेर्=> सिल्वेर्}
विमला तालकं तीक्ष्णं भागवृद्ध्या विचूर्णयेत् ।
मूषायां द्वंद्वलिप्तायां तत्खोटं सुविचूर्णयेत् ॥ ३,१४.८९ ॥
अम्लैर्मर्द्यं पुटे पच्यादित्येवं पंचधा पुटेत् ।
तारे दशगुणं वाह्यं तालचूर्णं क्षिपन्क्षिपन् ॥ ३,१४.९० ॥
एतद्बीजं समं सूते जारयेत्पूर्ववत्क्रमात् ।
ततस्तु तारबीजेन सारयेत्सारणात्रयम् ॥ ३,१४.९१ ॥
तेनैव तु शतांशेन द्रुतं ताम्रं तु वेधयेत् ।
शंखकुंदेन्दुसंकाशं तारं भवति शोभनम् ॥ ३,१४.९२ ॥
{चोप्पेर्=> सिल्वेर्}
मृतबंगं तालसत्त्वं समं चूर्णं प्रकल्पयेत् ।
द्विरष्टगुणितं तारे वाहयेत्तं धमन् धमन् ॥ ३,१४.९३ ॥
तद्बीजं जारयेत्सूते यावद्दशगुणं क्रमात् ।
ततस्तं तारबीजेन सारयेत्सारणात्रयम् ॥ ३,१४.९४ ॥
सहस्रांशेन चानेन ताम्रवेधं प्रदापयेत् ।
तत्ताम्रं जायते तारं शंखकुंदेन्दुसन्निभम् ॥ ३,१४.९५ ॥
{मेर्चुर्य्ःः शतवेधिन्}
श्वेताभ्रतालयोः सत्त्वं रसकस्य च सत्त्वकम् ।
चतुर्थं तारमाक्षीकं समं चूर्णं प्रकल्पयेत् ॥ ३,१४.९६ ॥
चूर्णतुल्यं बंगचूर्णं सर्वमेकत्र तं धमेत् ।
द्वंद्वमेलापलिप्तायां जातं खोटं विचूर्णयेत् ॥ ३,१४.९७ ॥
अम्लपिष्टं पुटे पच्यादित्येवं पंचधा पुटेत् ।
तच्चूर्णं वाहयेत्तारे यावद्दशगुणं धमेत् ॥ ३,१४.९८ ॥
तत्तारं रसराजस्य समं जार्यं क्रमेण वै ।
पूर्ववच्च त्रिधा सार्यं शतवेधी भवेद्रसः ॥ ३,१४.९९ ॥
{चोप्पेर्=> सिल्वेर्}
एवं सत्त्वाभ्रसत्त्वं च चूर्णं द्वंद्वं च पूर्ववत् ।
पादांशं तालकं दत्त्वा अम्लैः पिष्ट्वा निरुध्य च ॥ ३,१४.१०० ॥
पचेत्पञ्चपुटैरेवं तारे वाह्यं द्विषड्गुणम् ।
एतद्बीजं समं जार्यं प्रत्येकं दशभागकम् ॥ ३,१४.१०१ ॥
बंगं श्वेताभ्रसत्त्वं च प्रत्येकं दशभागकम् ।
ताराख्या विमला तीक्ष्णं प्रत्येकं पञ्चभागिकम् ॥ ३,१४.१०२ ॥
द्वंद्वमेलापलिप्तायां मूषायां तं धमेद्दृढम् ।
अम्लपिष्टं पुटे पाच्यं पञ्चवारं पुनः पुनः ॥ ३,१४.१०३ ॥
तद्वाह्यं तारभागस्य तारचूर्णं क्षिपन् क्षिपन् ।
तद्बीजं रसराजस्य जार्यं शतगुणं क्रमात् ॥ ३,१४.१०४ ॥
सारयेत्तारबीजेन विधिना सारणात्रयम् ।
अनेनैवायुतांशेन द्रुतं ताम्रं तु वेधयेत् ।
जायते रजतं दिव्यं शंखकुन्देन्दुसन्निभम् ॥ ३,१४.१०५ ॥
इत्थं रसे कनकबीजमनन्तयोगैः कृत्वा भिषक्तमखिलं विधिवच्च जार्यम् ।
तेनैव हेमनिचयं रजतं च कृत्वा दारिद्र्यदाहमखिलेषु जनेषु कुर्यात् ॥ ३,१४.१०६ ॥

३, १५
गर्भयोग्यमथ बीजसाधनमनेकयोगतो रञ्जने हितम् ।
जारितस्य नरपारदस्य वै तत्समस्तमधुना निगद्यते ॥ ३,१५.१ ॥
{बीजःः प्रेपरतिओन्}
गंधकं माक्षिकं नागं सर्वं तुल्यं विचूर्णयेत् ।
त्रिगुणं वाहयेत्स्वर्णं द्रावितं तु धमन् धमन् ॥ ३,१५.२ ॥
पूतिबीजमिदं स्थूलं गर्भे द्रवति तत्क्षणात् ॥ ३,१५.३ ॥
{बीजःः प्रेपरतिओन्}
नागं स्वर्णं समं ताप्यं शिलाचूर्णं क्षिपन् क्षिपन् ।
जीर्णे नागे पुनर्देयमेवं वारत्रयं शनैः ।
एतद्बीजं द्रवत्येव रसगर्भे तु मर्दनात् ॥ ३,१५.४ ॥
{बीजसाधनम् (३)}
ताप्यसत्त्वं सुवर्णं च धमेत्ताप्यं क्षिपन्क्षिपन् ।
इत्येवं त्रिगुणं वाह्यं ताप्यसत्त्वं च हाटके ।
तद्बीजं रसराजस्य गर्भे द्रवति तत्क्षणम् ॥ ३,१५.५ ॥
{बीजसाधन (४)}
ताप्यसत्त्वं सुवर्णं च समांशं द्रावयेत्ततः ।
कण्टवेधीकृतं पत्रं गंधेन लवणेन च ॥ ३,१५.६ ॥
क्षिप्त्वा साम्लेन तत्पच्यात्पुटे हेमावशेषितम् ।
एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥ ३,१५.७ ॥
{बीजसाधन (५)}
सैन्धवेन समं ताप्यमम्लैर्मर्द्यं पुटे पचेत् ।
पुनर्मर्द्यं पुनः पाच्यं यावद्द्वादशवारकम् ॥ ३,१५.८ ॥
अस्य तुल्यं मृतं नागं सर्वमम्लेन पेषयेत् ।
अनेन स्वर्णपत्राणि लिप्त्वा लिप्त्वा धमेद्दृढम् ॥ ३,१५.९ ॥
द्रुतं च वापयेत्तं तु सप्तवारं पुनः पुनः ।
एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥ ३,१५.१० ॥
{बीजसाधन (६)}
शिला सौवर्चलं ताप्यगंधकासीसटंकणम् ।
मर्दयेच्चणकाम्लैश्च सर्वमेतद्दिनावधि ॥ ३,१५.११ ॥
रसस्यैतत्षोडशांशं दत्त्वा बीजं च दापयेत् ।
मुच्यते यत्र यत्रैव तत्तद्द्रवति तत्क्षणात् ॥ ३,१५.१२ ॥
{मेर्चुर्य्ःः ग्रास ओf अ बीज}
अपामार्गपलाशोत्थभस्मक्षारं समाहरेत् ।
टंकणं च यवक्षारं कासीसं च सुवर्चलम् ॥ ३,१५.१३ ॥
सामुद्रं सैंधवं राजी माक्षिकं नवसारकम् ।
कर्पूरं कांजिकं तुल्यं स्नुह्यर्कक्षीरमर्दितम् ॥ ३,१५.१४ ॥
मूषालेपमनेनैव कृत्वा कुर्याद्बिडेन च ।
लेपमङ्गुलमानेन मूषायन्त्रमिदं भवेत् ॥ ३,१५.१५ ॥
गर्भद्रावितबीजात्तु सूतमत्र विनिक्षिपेत् ।
रुद्ध्वा स्वेद्यं दिनैकं तु कारीषाग्नौ ग्रसत्यलम् ॥ ३,१५.१६ ॥
{मेर्चुर्य्(?):: रञ्जन (?)}
ताप्यसत्त्वाभ्रयोः सत्त्वं द्वंद्वितं द्रावयेत्पुनः ।
मृतशुल्बं ताप्यचूर्णं तस्मिन्वाह्यं शनैः शनैः ॥ ३,१५.१७ ॥
त्रिगुणे वाहिते तस्मिन् रञ्जितं वाहितं तु तत् ॥ ३,१५.१८ ॥
{मेर्चुर्य्ःः रञ्जन (ओf ँ)}
गोमूत्रै रक्तवर्गं तु पिष्ट्वा तेनैव भावयेत् ।
हिङ्गुलं माक्षिकं गंधं शिलाचूर्णं समं समम् ॥ ३,१५.१९ ॥
भावितं सप्तवाराणि शोष्यं पेष्यं पुनः पुनः ।
तीक्ष्णं ताम्रं समं चूर्ण्य पूर्ववद्द्वंद्वमेलितम् ॥ ३,१५.२० ॥
तस्मिन् द्रुतं पूर्वचूर्णं वापयित्वाथ सेचयेत् ।
रक्तवर्गसमायुक्ते तैले ज्योतिष्मतीभवे ।
इत्येवं दशधा कुर्यात्स्यादिदं रसरञ्जकम् ॥ ३,१५.२१ ॥
{रसरञ्जकम् (३)}
रक्तवर्गेण गोमूत्रैर्भावयेद्दरदं त्रिधा ।
समांशे विमले ताम्रे द्राविते वाहयेद्धमन् ।
सप्तधा दरदं तं तु स्यादिदं रसरञ्जकम् ॥ ३,१५.२२ ॥
{रसरञ्जकम् (४)}
स्वर्णनागं व्योमसत्त्वं समांशं द्वंद्वमेलितम् ।
शिला गैरिकं माक्षीकं रसकं रक्तवर्गकम् ॥ ३,१५.२३ ॥
समांशं चूर्णयेत्सर्वं वापो देयो ह्यनेन वै ।
पूर्वद्वंद्वितखोटस्य द्रावितस्य पुनः पुनः ॥ ३,१५.२४ ॥
दशवारं कृते वापे रञ्जकोऽयं रसस्य च ॥ ३,१५.२५ ॥
{लेअद्=> गोल्द्}
यवचिञ्चारसैर्भाव्या रक्तवर्णा मनःशिला ।
विंशवारं प्रयत्नेन तेन कल्केन लेपयेत् ॥ ३,१५.२६ ॥
नागपत्रं पुटे पच्याद्यावच्चूर्णमुपागतम् ।
रसकस्य तु भागांस्त्रीन्भागैकं दरदस्य च ॥ ३,१५.२७ ॥
शिलागंधविषाणां च त्रयाणामेकभागकम् ।
पेषयेन्मातुलुंगाम्लैस्तेन कल्केन लेपयेत् ॥ ३,१५.२८ ॥
मूषागर्भे क्षिपेत्तत्र पूर्वनागं क्षिपेत्ततः ।
द्रुतं यावत्समुद्धृत्य लिप्त्वा मूषां पुनर्धमेत् ॥ ३,१५.२९ ॥
इत्येवं सप्तधा धाम्यं नागं स्वर्णनिभं भवेत् ।
{तारारिष्ट, लेअद्, चोप्पेर्=> गोल्द्}
पीताभ्रकस्य सत्त्वं तु पूर्वनागं च तत्समम् ॥ ३,१५.३० ॥
द्वंद्वितं पूर्वयोगेन ह्यभिषिक्तं च कारयेत् ।
समुखे सूतराजे तु पूर्ववत्षड्गुणं क्रमात् ॥ ३,१५.३१ ॥
ततस्तस्य रसेन्द्रस्य गर्भद्रावणबीजकम् ।
पादांशं दापयेत्खल्वे मातुलुंगद्रवैः सह ॥ ३,१५.३२ ॥
मर्दयेच्चणकाम्लैर्वा गर्भद्रावणकेन वा ।
द्रवत्येव तु तद्गर्भे मूषायन्त्रेऽथ जारयेत् ॥ ३,१५.३३ ॥
इत्येवं द्रावितं जार्यं यावद्बीजसमं रसे ।
सारणादित्रयेणान्तं पूर्ववत्कारयेत्क्रमात् ॥ ३,१५.३४ ॥
तारारिष्टमहिं शुल्बं यथेष्टैकं तु वेधयेत् ।
सहस्रांशेन तेनैव दिव्यं भवति कांचनम् ॥ ३,१५.३५ ॥
{चन्द्रार्क => गोल्द्}
स्वर्णेन द्वंद्वितं वज्रं पूर्ववच्चाभिषेकितम् ।
जारयेत्समुखे सूते समांशमभ्रसत्त्ववत् ॥ ३,१५.३६ ॥
जारितं जारयेत्तेन स्वर्णवज्रेण वै त्रिधा ।
मुखं बद्ध्वा रसं बद्ध्वा क्रामणेन तु योजयेत् ।
चंद्रार्के तु सहस्रांशं दिव्यं भवति कांचनम् ॥ ३,१५.३७ ॥
{गन्धनागद्रुतिः}
वृषस्य मूत्रमादाय गजस्य महिषस्य वा ।
तन्मध्ये सूतनागं तु द्रावितं सप्तधा क्षिपेत् ॥ ३,१५.३८ ॥
ततस्तस्यैव पत्राणि कण्टवेध्यानि कारयेत् ।
गंधकं चूर्णितं शुद्धं पत्राणां तु चतुर्गुणम् ॥ ३,१५.३९ ॥
अलक्तकेन संसिक्तं कार्पासपत्रवत्कृतम् ।
तस्य शुष्कस्य पृष्ठे तु नररोमाणि दापयेत् ॥ ३,१५.४० ॥
तत्पृष्ठे चूर्णितं गंधं ततो नागदलानि च ।
गंधकं नररोमाणि तत्कार्पासं च पृष्ठतः ॥ ३,१५.४१ ॥
अनेन कारयेद्वर्तिं बहिः सूत्रेण वेष्टयेत् ।
करंजतैलमध्ये तु दशरात्रं तु धारयेत् ॥ ३,१५.४२ ॥
प्रज्वाल्य चोभयाग्रे तु द्रुतं तैलं समाहरेत् ।
भाण्डे सकांजिके चैव तस्मादुद्धृत्य रक्षयेत् ।
काचकूप्यां प्रयत्नेन गन्धनागद्रुतिस्त्वियम् ॥ ३,१५.४३ ॥
{मेर्चुर्य्ःः प्रेपरतिओन् fओर्जारण}
शुद्धसूतं दृढं मर्द्यं रजनीचूर्णसंयुतम् ।
चूर्णं यावद्भवेत्कृष्णं क्षालयेदुष्णकांजिकैः ॥ ३,१५.४४ ॥
एवं त्रिसप्तधा कुर्यात्ततो जारणमारभेत् ।
{मेर्चुर्य्ःः गर्भद्रुति}
अम्लैर्मनःशिलां पिष्ट्वा तेन लेपं तु कारयेत् ॥ ३,१५.४५ ॥
गोस्तनाकारमूषायामस्यां पूर्वरसं क्षिपेत् ।
चतुःषष्ट्यंशतः पूर्वा देया गंधद्रुतिः क्रमात् ॥ ३,१५.४६ ॥
रुद्ध्वा मूषां विशोष्याथ गर्ते गोमयपूरिते ।
मूषार्धं विन्यसेत्तत्र करीषतुषवह्निना ॥ ३,१५.४७ ॥
कपोताख्यं पुटं देयं स्वांगशीतं समुद्धरेत् ।
दद्यादजीर्णशङ्कायां सिंहवल्लीरसस्य तु ॥ ३,१५.४८ ॥
चतुर्बिन्दुप्रमाणं तु तद्वद्गर्ते पुटे पचेत् ।
एवं पुनः पुनर्जार्यं गन्धनागद्रुतिः क्रमात् ॥ ३,१५.४९ ॥
त्रिगुणं जारितः सूतो भवेज्जांबूनदप्रभः ।
अस्य सूतस्य पादांशं पक्वबीजं सुचूर्णितम् ।
मर्दयेच्चणकाम्लेन यामाद्गर्भे द्रवत्यलम् ॥ ३,१५.५० ॥
{गोल्द्ःः द्रावण}
मूषायन्त्रगतं द्राव्यं पूर्ववत्स्वेदनेन वै ।
जीर्णे बीजं पुनर्दत्त्वा द्राव्यं गर्भेऽथ जारयेत् ॥ ३,१५.५१ ॥
एवं बीजं समं जार्यं पक्वं वा रञ्जने क्रमात् ।
गर्भं द्रावणबीजं वा यथेष्टैकं तु जारयेत् ॥ ३,१५.५२ ॥
ततस्तु त्रिगुणं रीतिस्तारं वाह्यं धमन् धमन् ।
तारारिष्टं भवेत्तत्तु कृत्वा पत्रं प्रलेपयेत् ॥ ३,१५.५३ ॥
सक्षौद्रं पूर्वसूतेन द्वात्रिंशांशेन तत्पुनः ।
वेष्ट्यमर्कदलैः पच्याद्दोलायंत्रे सकांजिकैः ॥ ३,१५.५४ ॥
दशाहान्ते समुद्धृत्य द्रावितं कांचनं भवेत् ॥ ३,१५.५५ ॥
{मेर्चुर्य्ःः जारण wइथभ्रसत्त्व}
समुखे निर्मुखे वाथ रसराजे तु जारयेत् ।
पूर्ववद्व्योमचूर्णं तु चारितं जारयेत्क्रमात् ॥ ३,१५.५६ ॥
चतुःषष्टिगुणं यावत्ततः सार्यं च जारयेत् ।
चारयेज्जारयेत्तद्वत्यावत्षष्टिगुणं भवेत् ।
ततो माक्षिकसत्वं च पादांशं तत्र जारयेत् ॥ ३,१५.५७ ॥
{मेर्चुर्य्ःः गर्भद्रुति}
महारसैश्चोपरसैर्यत्किंचित्सत्वमाहरेत् ।
तन्मध्यगं तु पादांशं सूते दत्त्वा विमर्दयेत् ॥ ३,१५.५८ ॥
तप्तखल्वे चतुर्यामं गर्भद्रावकसंयुतम् ।
तत्तत्सर्वं द्रवत्येव मूषायन्त्रेऽथ जारयेत् ॥ ३,१५.५९ ॥
इत्येवं सर्वसत्वानि द्रावयोगाच्च जारयेत् ।
{मेर्चुर्य्ःः गर्भद्रुति, जारण}
रञ्जितं पक्वबीजं च शुद्धं ताम्रं च हाटकम् ॥ ३,१५.६० ॥
गर्भद्रावणबीजं च मृततीक्ष्णं समं समम् ।
सर्वं च मर्दितं खोटं कृत्वा धाम्यं पुनः पुनः ॥ ३,१५.६१ ॥
क्षिपेन्माक्षिकचूर्णं च ताम्रे तीक्ष्णे क्षयं गते ।
समुद्धृत्य तु तद्बीजं पादांशं पूर्वपारदे ॥ ३,१५.६२ ॥
पूर्ववद्द्रावयेद्गर्भे मूषायन्त्रेऽथ जारयेत् ।
द्वात्रिंशद्गुणितं बीजं क्रमेणानेन जारयेत् ।
जीर्णे गर्भे द्रुतं सूतं रञ्जयेत्तन्निगद्यते ॥ ३,१५.६३ ॥
{मेर्चुर्य्ःः जारण}
गंधेन यन्मृतं नागं पक्वबीजस्य साधनम् ।
तन्नागं हेमसंतुल्यमंधमूषागतं धमेत् ॥ ३,१५.६४ ॥
तच्चूर्णमभिषिक्तं च पादांशं दापयेद्रसे ।
मर्दयेदम्लवर्गेण गर्भद्रावणकेन वा ॥ ३,१५.६५ ॥
तप्तखल्वे चतुर्यामं मूषायन्त्रेऽथ जारयेत् ।
अनेन क्रमयोगेन जारयेत्तं कलागुणम् ॥ ३,१५.६६ ॥
{चोप्पेर्=> गोल्द्}
मृतं शुल्बं मृतं तीक्ष्णं स्वर्णे वाह्यं तु षड्गुणम् ।
एतद्बीजं ततो जार्यं क्रमाद्यावच्चतुर्गुणम् ॥ ३,१५.६७ ॥
पूर्ववद्द्रावितं खल्वे मूषायन्त्रे च पूर्ववत् ।
बद्धरागस्तदा सूतो जायते कुंकुमप्रभः ॥ ३,१५.६८ ॥
इत्येवं रञ्जनं सूते कृत्वा सार्यं त्रिधा क्रमात् ।
सारितं जारयेन्मूत्रे मूषायन्त्रे पुटन्पुटन् ॥ ३,१५.६९ ॥
जारितं सारयेत्पश्चात्सारितं चैव जारयेत् ।
अनेन क्रमयोगेन सप्तशृङ्खलिकाक्रमात् ॥ ३,१५.७० ॥
ततस्तस्य मुखं बद्ध्वा पूर्ववद्बन्धयेच्च तम् ।
क्रामणेन समायुक्तं कोटिभागेन वेधयेत् ।
द्रुतं ताम्रं तु तद्दिव्यं भवेत्स्वर्णं न संशयः ॥ ३,१५.७१ ॥
{सिल्वेर्=> गोल्द्}
हिंगुलोत्थितसूतं च भूनागैर्मर्दयेत्त्र्यहम् ।
तप्तखल्वे ततः पात्यमूर्ध्वलग्नं समाहरेत् ॥ ३,१५.७२ ॥
पादांशं जारयेत्तस्य द्वंद्वितं व्योमसत्त्वकम् ।
ततो माक्षिकसत्वं च पादांशं तत्र जारयेत् ॥ ३,१५.७३ ॥
पूर्ववद्द्वंद्वयोगेन मात्रापाकं च पूर्ववत् ।
महारसैश्चोपरसैर्यत्सत्त्वं पातितं पुरा ॥ ३,१५.७४ ॥
तत्सत्त्वं च पृथक्पादं सूते दत्त्वा विमर्दयेत् ।
तप्तखल्वे दिनैकं तु गर्भद्रावणसंयुतम् ॥ ३,१५.७५ ॥
द्रवत्येव ततो जार्यं मूषायन्त्रं तु पूर्ववत् ।
जीर्णे जीर्णे पुनर्देयं प्रतिसत्त्वं क्रमेण वै ॥ ३,१५.७६ ॥
ततस्तथैव पादांशं गर्भद्रावणबीजकम् ।
पूर्ववद्द्रावितं जार्यं क्रमेणानेन षड्गुणम् ॥ ३,१५.७७ ॥
सारणादिक्रामणान्तं तारे वेधं प्रदापयेत् ।
सहस्रांशेन तत्स्वर्णं भवेज्जांबूनदप्रभम् ॥ ३,१५.७८ ॥
{मेर्चुर्य्ःः जारण ओf सुल्fउर्}
शाकवृक्षस्य पत्राणां कोमलानां द्रवं हरेत् ।
द्रवं च ब्रह्मपुष्पाणां विष्णुक्रान्ताद्रवं तथा ॥ ३,१५.७९ ॥
द्रवैरेभिः शुद्धगंधं भावयेद्दिनसप्तकम् ।
इष्टिकागर्भमध्ये तु सुशुद्धं पारदं क्षिपेत् ॥ ३,१५.८० ॥
मुखं स्वच्छेन वस्त्रेण छादयेत्तस्य पृष्ठतः ।
दशांशं पूर्वगंधं तु दत्त्वा श्रावेण रोधयेत् ॥ ३,१५.८१ ॥
पृष्ठे लघुपुटं देयं जीर्णे गंधं पुनः क्षिपेत् ।
तद्वज्जार्यं पुटेनैव पुनर्देयं च गंधकम् ॥ ३,१५.८२ ॥
एवं जार्यं समं गंधं ततो यंत्रात्समुद्धरेत् ।
अथवा गंधतुल्यं तु जार्यं तेन रसस्य तु ॥ ३,१५.८३ ॥
जारयेत्पूर्वयोगेन काचकूप्यन्तरेऽपि वा ॥ ३,१५.८४ ॥
{चोप्पेर्, लेअद्=> गोल्द्}
अस्यैव रसराजस्य समांशं व्योमसत्त्वकम् ।
द्वंद्वितं पूर्ववज्जार्यं मात्रायुक्तिश्च पूर्ववत् ॥ ३,१५.८५ ॥
ततो रसकसत्वं च जार्यमष्टगुणं रसे ।
तीक्ष्णशुल्बोरगं चैव क्रमादष्टगुणं रसे ॥ ३,१५.८६ ॥
प्रत्येकं जारयेद्यत्नादभिषिक्तं तु पूर्ववत् ।
पक्वबीजं ततो जार्यं द्वात्रिंशद्गुणितं क्रमात् ॥ ३,१५.८७ ॥
अथास्य रसराजस्य गर्भद्रावणबीजकम् ।
तप्तखल्वे समं दत्त्वा गर्भद्रावकसंयुतम् ॥ ३,१५.८८ ॥
मर्दयेद्दिनमेकं तु गर्भे द्रवति तद्द्रुतम् ।
मूषायन्त्रे ततो जार्यं पूर्ववत्स्वेदनेन वै ॥ ३,१५.८९ ॥
तज्जीर्णे रंजकं बीजं तुल्यं दत्त्वाथ पूर्ववत् ।
द्रावयेत्द्रवगर्भे तु तद्वज्जार्यं क्रमेण वै ॥ ३,१५.९० ॥
यावच्चतुर्गुणं यत्नाद्द्रुतं गर्भेऽथ जारयेत् ।
अनेन क्रमयोगेन भवेल्लाक्षानिभो रसः ॥ ३,१५.९१ ॥
ततस्तं पक्वबीजेन सारितं जारयेत्क्रमात् ।
प्रतिसारणकं कुर्याज्जारयेच्चाथ सारयेत् ॥ ३,१५.९२ ॥
सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् ।
क्रामणेन समायुक्तं शुल्बे वेधं प्रदापयेत् ॥ ३,१५.९३ ॥
नागे वा कोटिभागेन दिव्यं भवति कांचनम् ॥ ३,१५.९४ ॥
{रसबीज}
तिन्तिणीब्रह्ममाण्डूकीद्रवैर्धान्याभ्रकं क्रमात् ।
मर्दयेत्त्रिदिनं चाथ भावयेत्तिंतिणीद्रवैः ॥ ३,१५.९५ ॥
घर्मे दिनत्रयं यावत्शोष्यं पेष्यं पुनः पुनः ।
मृत्खर्परे शुद्धसूतं क्षिप्त्वा सोष्णं तु कारयेत् ॥ ३,१५.९६ ॥
गंधकं त्रुटिमात्रं तु पूर्वाभ्रं त्रुटिमात्रकम् ।
दत्त्वा दत्त्वा च मृद्वग्नौ पचेत्स्यादभ्रपिष्टिका ॥ ३,१५.९७ ॥
एकवीरारसैर्भाव्यं गंधं घर्मे त्रिसप्तधा ।
तं गंधकं स्निग्धभाण्डे द्राव्य मृद्वग्निना क्षिपेत् ॥ ३,१५.९८ ॥
तन्मध्ये पूर्वपिष्टिं तु दोलायंत्रे विधौ पचेत् ।
षड्गुणं जारयेदेवं गंधकं मृदुवह्निना ॥ ३,१५.९९ ॥
तद्रसं भागमेकं तु पक्वबीजस्य षोडश ।
भागाः सुरञ्जितस्यैव चूर्णीकृत्वाथ द्वंद्वयेत् ॥ ३,१५.१०० ॥
पूर्ववद्द्वंद्वलिप्तायां मूषायां धमनेन च ।
रसबीजमिदं ख्यातं चूर्णितं चाभिषेचयेत् ॥ ३,१५.१०१ ॥
{मेर्चुर्य्ःः जारणःः wइथ्रसबीज}
अथातः शुद्धसूतस्य काचकूप्यां गतस्य च ।
पूर्ववद्भावितं गंधं जार्यं तस्यैव षड्गुणम् ॥ ३,१५.१०२ ॥
जारयेद्वा तुलायंत्रे गौरीयंत्रक्रमेण वै ।
तस्यैव रसराजस्य पादांशं रसबीजकम् ॥ ३,१५.१०३ ॥
पूर्ववद्द्रावयेद्गर्भे मूषायन्त्रेऽथ जारयेत् ।
अनेन क्रमयोगेन द्राव्यं जार्यं पुनः पुनः ।
द्विरष्टगुणितं यावद्रसबीजं रसस्य वै ॥ ३,१५.१०४ ॥
{सिल्वेर्=> गोल्द्}
भागद्वयं शुद्धतारं भागैकं शुद्धहाटकम् ।
समावर्त्य तु तत्पत्रं कृत्वा पूर्वरसेन वै ॥ ३,१५.१०५ ॥
लेपयेन्मधुनाक्तेन सहस्रांशेन तत्पुनः ।
वेष्टयेदर्कजैः पत्रैर्दोलायंत्रे सकांजिके ॥ ३,१५.१०६ ॥
दशाहं पाचितं द्राव्यं दिव्यं भवति कांचनम् ॥ ३,१५.१०७ ॥
{मेर्चुर्य्ःः कोटिवेधिन्}
सुशुद्धं नागचूर्णं तु पूर्ववच्चाभिषेकितम् ।
समुखे सूतराजेन्द्रे जारयेदभ्रसत्ववत् ॥ ३,१५.१०८ ॥
षट्त्रिंशगुणितं यावत्तावज्जार्यं क्रमेण वै ।
गर्भद्रावणबीजं च पूर्ववद्द्रावितं क्रमात् ॥ ३,१५.१०९ ॥
जारयेत्त्रिगुणं तस्य बीजं यद्रंजकं पुनः ।
समं जार्यं पुनः जार्यं पक्वबीजेन वै क्रमात् ॥ ३,१५.११० ॥
सप्तशृंखलिकायोगान्मुखं रुद्ध्वाथ बन्धयेत् ।
क्रामणेन समायुक्तं कोटिवेधी भवेद्रसः ॥ ३,१५.१११ ॥
{चोप्पेर्=> सिल्वेर्}
नागवज्जारयेद्बंगं षट्त्रिंशगुणितं क्रमात् ।
पूर्ववद्द्रावितं गर्भे तारबीजं तु जारयेत् ॥ ३,१५.११२ ॥
त्रिगुणं तु भवेद्यावत्ततस्तेनैव सारयेत् ।
सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् ॥ ३,१५.११३ ॥
क्रामणेन समायुक्तं ताम्रे वेधं प्रदापयेत् ।
कोटिभागेन तत्तारं भवेत्कुंदेन्दुसन्निभम् ॥ ३,१५.११४ ॥
{सिल्वेर्, चोप्पेर्, लेअद्=> गोल्द्}
समुखे निर्मुखे वाथ सूतराजे तु जारयेत् ।
द्वंद्वितं व्योमसत्वं तु यावदष्टगुणं तथा ॥ ३,१५.११५ ॥
ततो रसकसत्वं च जार्यमष्टगुणं तथा ।
पक्वबीजं समांशं च जारयेदभ्रसत्ववत् ॥ ३,१५.११६ ॥
स्वर्णेन द्वंद्वितं वज्रं समांशेन तु जारयेत् ।
पूर्ववत्कच्छपे यन्त्रे बिडयोगेन वै तथा ॥ ३,१५.११७ ॥
गर्भद्रावणबीजं च पादांशं तप्तखल्वके ।
मर्दयेन्मातुलिंगाम्लैर्गर्भे द्रवति तत्क्षणात् ॥ ३,१५.११८ ॥
गर्भद्रावणयोगं वा दत्त्वा द्रवति मर्दनात् ।
मूषायन्त्रेण तत्सूतं पचेत्कारीषवह्निना ॥ ३,१५.११९ ॥
जीर्णे बीजं पुनर्द्राव्यं जारयेद्द्रावयेत्पुनः ।
एवं चतुर्गुणं जार्यं गर्भे द्रावणबीजकम् ॥ ३,१५.१२० ॥
ततस्तु रंजकं बीजं तद्वज्जार्यं समं क्रमात् ।
सारणादिक्रामणान्तं पूर्ववत्कारयेत्क्रमात् ॥ ३,१५.१२१ ॥
तारे ताम्रे भुजंगे वा कोटिभागेन योजयेत् ।
करोति कनकं दिव्यं देवाभरणमुत्तमम् ॥ ३,१५.१२२ ॥
{मेर्चुर्य्ःः धूमवेधिन्; चोप्पेर्=> गोल्द्}
समुखे सूतराजेन्द्रे जारयेदभ्रसत्ववत् ।
स्वर्णादिमुण्डपर्यन्तमष्टलोहं पृथक्क्रमात् ॥ ३,१५.१२३ ॥
प्रत्येकमष्टगुणितमभिषेकं च पूर्ववत् ।
अभ्रादिसत्वं यत्सर्वं प्रत्येकं त्रिगुणं क्रमात् ॥ ३,१५.१२४ ॥
पृथग्जार्यं कूर्मयन्त्रे बिडयोगेन पूर्ववत् ।
ततस्तु पादपादांशं गर्भद्रावणबीजकम् ॥ ३,१५.१२५ ॥
पूर्ववद्द्रावितं जार्यं त्रिगुणं तु यदा भवेत् ।
ततस्तु पक्वबीजेन सारयेज्जारयेत्त्रिधा ॥ ३,१५.१२६ ॥
इत्येवं सप्तधा कुर्यान्मुखं बद्ध्वाथ बन्धयेत् ।
धूमावलोकवेधी स्यात्ताम्रं भवति कांचनम् ॥ ३,१५.१२७ ॥
एवं चारणजारणं बहुविधं कृत्वा रसे संक्रमं गर्भे द्रावणबीजकं च विधिना गर्भद्रुतं कारयेत् ।
जीर्णे रंजनसारणामुखमथो बद्ध्वाथ बद्ध्वा रसं कुर्यात्कांचनमभ्रमेरुसदृशं दानाय भोगाय वै ॥ ३,१५.१२८ ॥

३, १६
यासां छेदेन रक्तं प्रवहति सततं प्रायशो रक्तभूमौ ।
संग्राह्या भूलतास्ता विषहरधनदं पातयेत्तेषु सत्त्वम् ।
तद्युक्त्या पारदेन्द्रे चरति यदि समं सारणाकर्मयोगैर्बद्धोऽयं कोटिवेधी समरविरजते योजयेद्भास्करे वा ॥ ३,१६.१ ॥
{भूनागसत्त्व (१)}
भूलता कांतपाषाणं चूर्णं कृत्वा समं समम् ।
तत्सत्वमभ्रवद्ग्राह्यं तत्रत्यैरौषधैः सह ॥ ३,१६.२ ॥
{भूनागसत्त्व (२)}
सौवीरं कांतपाषाणं तीक्ष्णं पाषाणचूर्णकम् ।
एतेषां तुल्यभूनागचूर्णमेकत्र कल्पयेत् ॥ ३,१६.३ ॥
अभ्रवद्ग्राहयेत्सत्वं तत्रत्यैरौषधैर्धमन् ॥ ३,१६.४ ॥
{भूनागसत्त्व (३)}
कांतपाषाणसौवीरचूर्णं स्याद्भूलतासमम् ।
अभ्रवद्ग्राहयेत्सत्वं रसराजस्य बन्धकम् ॥ ३,१६.५ ॥
{भूनागसत्त्व (४)}
सौवीरकांततीक्ष्णानां चूर्णं भूनागमृत्समम् ।
धार्यं भाण्डे क्षिपेत्तस्मिन् सजीवा भूलता पुनः ॥ ३,१६.६ ॥
उदकैः सेचयेन्नित्यं यावत्तद्भक्षयन्ति वै ।
तत्सत्त्वमभ्रवत्पिण्डं बद्ध्वा सत्वं समाहरेत् ॥ ३,१६.७ ॥
{भूनागसत्त्व (५)}
कांतपाषाणचूर्णं तु भूलताचूर्णसंयुतम् ।
अजामूत्रैस्त्रिसप्ताहं भावयेदातपे खरे ।
तत्पिण्डं धारयेत्कोष्ठ्यां सत्वं ग्राह्यं सुशोभनम् ॥ ३,१६.८ ॥
{भूनागसत्त्व (६)}
गोमूत्रं रजनी राजी लवणं कल्कयेत्समम् ।
तेन सिञ्च्यात्तु भूनागं खरे घर्मे द्रवत्यलम् ॥ ३,१६.९ ॥
कंकुष्ठं तद्द्रवं तुल्यं कृत्वा सत्वं समाहरेत् ।
व्योमवत्क्रमयोगेन रसबन्धकरं भवेत् ॥ ३,१६.१० ॥
{भूनागसत्त्व (७)}
गंधकं रसकं चूर्ण्य भूलताचूर्णतुल्यकम् ।
वज्रमूषान्धितं ध्मातं सत्वं भवति शोभनम् ॥ ३,१६.११ ॥
एतत्सत्वं विचूर्ण्याथ पूर्ववच्चाभिषेकितम् ॥ ३,१६.१२ ॥
{भूनागतैल}
दिनं भूनागसंतुल्यं मर्द्यं सौवीरमञ्जनम् ।
पञ्चमाहिषसंमिश्रं कृत्वाथ वटकीकृतम् ।
तस्मात्पातालयंत्रेण तैलं ग्राह्यं पुटेन वै ॥ ३,१६.१३ ॥
{भूनागतैल}
भूलतास्तु गवां मूत्रैः क्षालयेत्ताभिराहरेत् ।
तैलं पातालयंत्रेण तत्तैलं जारणे हितम् ॥ ३,१६.१४ ॥
{गुह्यसूत}
तप्तखल्वे शुद्धसूतं जीवद्भूनागसंयुतम् ।
त्रिदिनं मर्दयेद्गाढं तत्समस्तं समुद्धृतम् ॥ ३,१६.१५ ॥
भूनागचूर्णयुक्तायां मूषायां संनिवेशयेत् ।
तदूर्ध्वं भूलताचूर्णं दत्त्वा रुद्ध्वाथ शोषयेत् ॥ ३,१६.१६ ॥
गर्तान्तर्गोमयं सार्धं क्षिप्त्वा मूषां निवेशयेत् ।
पादमात्रं तु तां गर्भे करीषं तुषवह्निना ॥ ३,१६.१७ ॥
पुटे पच्याद्दिनैकं तु समुद्धृत्याथ दापयेत् ।
ऊर्ध्वाधो भूलताचूर्णं दत्त्वा तद्वत्पुटे पचेत् ॥ ३,१६.१८ ॥
मासमात्रमिदं कुर्याद्भवेदग्निसहो रसः ।
जायते मूर्तिबद्धस्य राक्षसो वडवामुखम् ॥ ३,१६.१९ ॥
ग्रसते सर्वलोहानि सत्वानि विविधानि च ।
वज्रादिसर्वलोहानि दत्तानि च मृतानि च ।
गुह्यसूतमिदं ख्यातं वक्ष्यते चास्य जारणम् ॥ ३,१६.२० ॥
{चन्द्रार्क => गोल्द्}
अस्यैव षोडशांशेन दत्त्वा भूनागसत्त्वकम् ।
तप्तखल्वे दिनं मर्द्यं ततः सिद्धविडान्वितम् ॥ ३,१६.२१ ॥
भूनागतैललिप्तायां मूषायां तन्निवेशयेत् ।
रुद्ध्वा स्वेद्यं करीषाग्नौ जीर्णसत्वं च पूर्ववत् ॥ ३,१६.२२ ॥
दत्त्वा मर्द्यं तप्तखल्वे विडं देयं दशांशतः ।
पूर्ववल्लिप्तमूषायां जारयेत्स्वेदनेन वै ॥ ३,१६.२३ ॥
एवं सत्वं समं जार्यं पूर्ववत्कच्छपेन वा ।
गर्भद्रावेण बीजं च पूर्ववत्षड्गुणं शनैः ॥ ३,१६.२४ ॥
जारयेद्द्रावितं गर्ते मूषायन्त्रे तु पूर्ववत् ।
ततस्तु रंजकं बीजं जार्यमस्यैव षड्गुणम् ॥ ३,१६.२५ ॥
ततस्तु पक्वबीजेन सप्तशृङ्खलिकाक्रमात् ।
सारणं जारणं कुर्यान्मुखं बद्ध्वा तु बन्धयेत् ॥ ३,१६.२६ ॥
अनेन कोटिभागेन चंद्रार्कं कांचनं भवेत् ॥ ३,१६.२७ ॥
{चोप्पेर्=> गोल्द्}
गुह्यसूतं सुवर्णं च तुल्यमम्लेन मर्दयेत् ।
यावद्गोलं तु तं कृत्वा सारणायां तु मध्यतः ॥ ३,१६.२८ ॥
द्वयोस्तुल्यं तु भूनागसत्वं मूषागतं द्रुतम् ।
तस्मिन् सत्वे तु तं ढाल्यं सर्वं खोटं भवेत्तु तत् ॥ ३,१६.२९ ॥
भूनागतैललिप्तायां मूषायां चान्धितं पुटेत् ।
यावत्सूतावशेषं स्यात्तावल्लघुपुटैः पचेत् ॥ ३,१६.३० ॥
एवं पुनः पुनः कुर्यात्लिप्त्वा मूषागतं पुटम् ।
अथवा बिडलिप्तायां मूषायां चान्धितं पुटेत् ॥ ३,१६.३१ ॥
यावत्सूतावशेषं स्यात्तावल्लघुपुटैः पचेत् ।
गर्भद्रावणबीजं च समं तस्यैव सारयेत् ॥ ३,१६.३२ ॥
सारणायन्त्रमध्ये तु पूर्ववज्जारयेत्ततः ।
ततो व्योमादिसत्वानि तुल्यतुल्यानि तस्य वै ॥ ३,१६.३३ ॥
मारितानि पृथग्भूयो जारितानि च कारयेत् ।
ततस्तु रंजकं बीजं सारितं तस्य जारयेत् ॥ ३,१६.३४ ॥
चतुर्गुणं यथा पूर्वं लिप्तमूषागतं पुटेत् ।
तत्सार्यं पक्वबीजेन यथा पूर्वं क्रमेण वै ॥ ३,१६.३५ ॥
सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् ।
कोटिभागेन तेनैव ताम्रं भवति कांचनम् ॥ ३,१६.३६ ॥
{चन्द्रार्क => गोल्द्}
भूनागसत्वसंतुल्यं गुह्यसूतं तु मर्दयेत् ।
दिव्यौषधीद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयम् ॥ ३,१६.३७ ॥
तत्सर्वं वज्रमूषायां रुद्ध्वा सन्धिं विशोषयेत् ।
कारीषाग्नौ दिवारात्रौ त्रिशतं वा तुषाग्निना ॥ ३,१६.३८ ॥
स्वेदयेन्मृदुपाकेन समुद्धृत्याथ मर्दयेत् ।
दिव्यौषधीद्रवैरेव तप्तखल्वे दिनावधि ॥ ३,१६.३९ ॥
ततो रुद्ध्वा धमेद्गाढं खोटं भवति तद्रसः ।
गुह्यसूतं पुनस्तुल्यं दत्त्वा तस्मिन्दिनत्रयम् ॥ ३,१६.४० ॥
मर्दयेत्स्वेदयेत्तद्वत्कुर्याद्बन्धं च पूर्ववत् ।
तुल्येन कांजिकेनैव सारयेच्चाथ तेन वै ।
वेधयेच्छतभागेन चंद्रार्कं कांचनं भवेत् ॥ ३,१६.४१ ॥
{चन्द्रार्क, चोप्पेर्, लेअद्=> गोल्द्}
रक्तवर्णं तु वैक्रांतं सुशुद्धं पलमात्रकम् ।
व्याघ्रीकंदोदरे पच्याद्दोलायां हयमूत्रकैः ॥ ३,१६.४२ ॥
अर्धयामात्समुद्धृत्य व्याघ्रीकंदद्रवैः पुनः ।
भावयेत्सप्तधा घर्मे पश्चात्तत्समकांचने ॥ ३,१६.४३ ॥
शुद्धसूतं पलैकं तु त्रयमेकत्र मर्दयेत् ।
व्याघ्रीकंदद्रवैश्चाश्वमूत्रैर्यामचतुष्टयम् ॥ ३,१६.४४ ॥
तद्गोलं हण्डिकायन्त्रे यामं लघ्वग्निना पचेत् ।
उद्धृत्य मर्दयेद्यामं पूर्वद्रावैः समूत्रकैः ॥ ३,१६.४५ ॥
शतं पलं स्वर्णपत्रे अनेनैव तु लेपयेत् ।
रुद्ध्वा लघुपुटैः पच्याद्विंशद्वारं पुनः पुनः ॥ ३,१६.४६ ॥
व्याघ्रीकंदद्रवैश्चाश्वमूत्रैश्चैव तु मर्दयेत् ।
एतत्स्वर्णं साभिषिक्तं सत्ववत्समुखे रसे ॥ ३,१६.४७ ॥
चारयेज्जारयेदेवं यावच्छतगुणं शनैः ।
तद्रसं चाश्वमूत्रेण व्याघ्रीकंदद्रवेण च ॥ ३,१६.४८ ॥
बीजैर्दिव्यौषधीनां च तप्तखल्वे विमर्दयेत् ।
त्रिदिनान्ते समुद्धृत्य वज्रमूषान्धितं पुटेत् ॥ ३,१६.४९ ॥
दिवारात्रौ करीषाग्नौ त्रिरात्रं च तुषाग्निना ।
एवं पुनः पुनः कुर्यान्मर्दनं पुटपाचनम् ॥ ३,१६.५० ॥
सप्तधा तत्प्रयत्नेन तद्रसो म्रियते ध्रुवम् ।
अनेनैवायुतांशेन क्रामणान्तेन वेधयेत् ॥ ३,१६.५१ ॥
चंद्रार्कं वा द्रुतं ताम्रं नागं वा कांचनं भवेत् ।
चारितं पूर्वसूतं यन्मारणेन विना तु तत् ॥ ३,१६.५२ ॥
मारयेत्पक्वबीजानि त्रिधा तं जारयेत्क्रमात् ।
पूर्ववद्बंधनत्वं च कृत्वा तं क्रामणेन वै ॥ ३,१६.५३ ॥
योजयेल्लक्षभागेन चंद्रार्के द्राविते तु तम् ।
स्वर्णं भवति रूपाढ्यं शंभुना परिकीर्तितम् ॥ ३,१६.५४ ॥
{मेर्चुर्य्ःः कोटिवेधिन्}
पीतवर्णं तु वैक्रांतं शुद्धं भाव्यं दिनावधि ।
व्याघ्रीद्रवाश्वमूत्राभ्यां व्याघ्रीकंदगतं पचेत् ॥ ३,१६.५५ ॥
दोलायंत्रे दिवारात्रं समुद्धृत्याथ चूर्णयेत् ।
एतच्चूर्णं पलैकं तु सूते दशगुणे क्षिपेत् ॥ ३,१६.५६ ॥
व्याघ्रीकंदद्रवैश्चाश्वमूत्रैर्मर्द्यं दिनावधि ।
अनेन लेपयेत्स्वर्णपत्रं शतपलं पुनः ॥ ३,१६.५७ ॥
वज्रमूषागतं रुद्ध्वा त्रिदिनं तुषवह्निना ।
स्वेदयेद्वा दिवारात्रौ कारीषाग्नावथोद्धरेत् ॥ ३,१६.५८ ॥
व्याघ्रीकंदाश्वमूत्राभ्यां मर्द्यं तद्वत्पुटे पचेत् ।
एवं शतपुटैः पक्वमभिषिक्तं च कारयेत् ॥ ३,१६.५९ ॥
समुखे रसराजेन्द्रे चार्यमेतच्च जारयेत् ।
व्योमसत्वक्रमेणैव यावत्शतगुणं शनैः ॥ ३,१६.६० ॥
मूषायन्त्रेऽथवा जार्यं यथा पूर्वं क्रमेण वै ।
तत्रस्थस्य रसेन्द्रस्य गर्भद्रावणबीजकम् ॥ ३,१६.६१ ॥
पूर्ववद्द्रावितं गर्ते क्रमाज्जार्यं चतुर्गुणम् ।
तत्रस्थं पक्वबीजेन जारयेत्सप्तशृङ्खलैः ॥ ३,१६.६२ ॥
मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः ॥ ३,१६.६३ ॥
{चोप्पेर्=> सिल्वेर्}
कृष्णवर्णं तु वैक्रांतं व्याघ्रीकंदोदरे क्षिपेत् ।
अश्वमूत्रैर्दिनं स्वेद्यं तद्भागैकं विचूर्णयेत् ॥ ३,१६.६४ ॥
शुद्धसूतस्य भागैकं तप्तखल्वे दिनावधि ।
व्याघ्रीकंदद्रवैश्चाश्वमूत्रैश्चैव तु मर्दयेत् ॥ ३,१६.६५ ॥
तारं दत्त्वा षडंशेन पुनस्तद्वच्च मर्दयेत् ।
सर्वतुल्यं पुनः सूतं दत्त्वा तत्रैव मर्दयेत् ॥ ३,१६.६६ ॥
जातं गोलं समुद्धृत्य निगलेन तु लेपयेत् ।
वज्रमूषागतं रुद्ध्वा त्रिदिनं तुषवह्निना ॥ ३,१६.६७ ॥
स्वेदयेद्वा दिवारात्रौ निर्वाते करिषाग्निना ।
उद्धृत्य मर्दयेच्चाथ बीजैर्दिव्यौषधीद्रवैः ॥ ३,१६.६८ ॥
त्रिदिनं तप्तखल्वे तु हयमूत्रेण संयुतम् ।
पूर्ववल्लेपितं रुद्ध्वा तद्वत्पाच्यं पुटेन वै ॥ ३,१६.६९ ॥
अनेन क्रमयोगेन सप्तधा पाचयेत्पुटैः ।
अनेन वेधयेत्ताम्रं द्रावितं शतमांशतः ।
पूर्ववत्क्रामणं दत्त्वा तारं भवति शोभनम् ॥ ३,१६.७० ॥
{चोप्पेर्=> सिल्वेर्}
श्वेतवर्णं तु वैक्रांतं सुशुद्धं पूर्ववत्क्रमात् ।
रक्तवैक्रांतयोगेन तारं तेनैव मारयेत् ॥ ३,१६.७१ ॥
तत्तारं जारयेत्सूते तद्वच्छतगुणैः शनैः ।
तद्वन्मार्यं पुटेनैव भवेदयुतवेधकः ॥ ३,१६.७२ ॥
तद्वत्वै तारबीजेन सारितं जारयेत्क्रमात् ।
मुखं बद्ध्वा रसं बद्ध्वा लक्षवेधी भवेद्रसः ॥ ३,१६.७३ ॥
द्रुते ताम्रे प्रदातव्यं तत्तारं जायते शुभम् ॥ ३,१६.७४ ॥
{सिल्वेर्=> गोल्द्}
ताम्रवर्णं तु वैक्रांतं शुद्धहिंगुलसंयुतम् ।
मर्दयेदम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥ ३,१६.७५ ॥
अनेन स्वर्णपत्राणि प्रलिप्तानि पुटे पचेत् ।
समुद्धृत्य पुनर्मर्द्यमम्लवर्गेण संयुतम् ॥ ३,१६.७६ ॥
पचेत्सप्तपुटैरेवं तद्भस्म पलमात्रकम् ।
शुद्धसूतपलैकं तु दिव्यौषधीद्रवैस्त्र्यहम् ॥ ३,१६.७७ ॥
मर्दितं कारयेद्गोलं निर्मलेन च लेपयेत् ।
रुद्ध्वा दिनत्रयं स्वेद्यं करीषतुषवह्निना ॥ ३,१६.७८ ॥
ततो दिव्यौषधीद्रावैर्मर्दितं निगलेन च ।
रुद्ध्वा लिप्त्वा धमेद्गाढं बंधमायाति निश्चितम् ॥ ३,१६.७९ ॥
अनेन शतमांशेन तारं भवति कांचनम् ॥ ३,१६.८० ॥
{सिल्वेर्=> गोल्द्}
रक्तवैक्रांतसत्वं तु सह हेम्ना तु चूर्णयेत् ।
द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ॥ ३,१६.८१ ॥
तत्खोटं वाभिषिक्तं तु समुखे जारयेद्रसे ।
अभ्रसत्वप्रकारेण जारयेत्पारदं समम् ॥ ३,१६.८२ ॥
तद्रसं पक्वबीजेन सारयेत्पूर्ववत्त्रिधा ।
तद्वच्च जारणा कार्या मुखं बद्ध्वाथ बन्धयेत् ॥ ३,१६.८३ ॥
सहस्रांशेन तेनैव तारं भवति कांचनम् ॥ ३,१६.८४ ॥
{सिल्वेर्, चोप्पेर्, लेअद्=> गोल्द्}
रक्तवैक्रांतसत्वं च शुद्धसूतं समं समम् ।
मर्द्यं दिव्यौषधीद्रावैस्तप्तखल्वे दिनत्रयम् ॥ ३,१६.८५ ॥
ततो निगललिप्तायां मूषायां चान्धितं पुटेत् ।
करीषाग्नौ दिवारात्रौ त्रिदिनं च तुषाग्निना ॥ ३,१६.८६ ॥
समुद्धृत्य पुनर्लेप्यं तद्गोलं निगलेन च ।
मूषान्ते लवणं दत्त्वा रुद्ध्वा संधिं विशोषयेत् ॥ ३,१६.८७ ॥
पुनश्च लवणं दत्त्वा रुद्ध्वा संधिं विशोषयेत् ।
लेपयेत्शंखचूर्णेन तां मूषां सर्वतोऽङ्गुलम् ।
कोष्ठीयन्त्रे हठाद्धाम्यं बद्धो भवति तद्रसः ॥ ३,१६.८८ ॥
तारे ताम्रे भुजंगे वा सहस्रांशेन वेधयेत् ।
जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥ ३,१६.८९ ॥
{चपलाभेदाः}
रक्ता पीता सिता कृष्णा चपला तु चतुर्विधा ।
वैक्रांतस्य प्रकारेण शोध्याः स्यू रसबन्धकाः ॥ ३,१६.९० ॥
{चपलाःः वेध wइथ्ँ}
लांगली करवीराग्निगिरिकर्णी च टंकणम् ।
सौवीराञ्जनतुल्यांशं नारीस्तन्येन पेषयेत् ॥ ३,१६.९१ ॥
वज्रमूषोदरं तेन लेपयेत्सर्वतोऽङ्गुलम् ।
चपला रक्तपीता वा भागमेकं विचूर्णयेत् ॥ ३,१६.९२ ॥
सुवर्णभागाश्चत्वारो द्विभागं शुद्धपारदम् ।
दिव्यौषधीद्रवैर्मर्द्यं सर्वमेतद्दिनत्रयम् ॥ ३,१६.९३ ॥
पूर्वमूषां निरुध्याथ छायाशुष्कं धमेद्धठात् ।
तत्सर्वं जायते खोटं शतांशेन तु तेन वै ॥ ३,१६.९४ ॥
सुशुद्धं वेधयेन्नागं भवेद्गुंजानिभं तु तत् ।
नागेनानेन शुल्बं तु शतांशेनैव वेधयेत् ॥ ३,१६.९५ ॥
अरुणाभं भवेच्छुल्बं तेन शुल्बेन वेधयेत् ।
शुद्धतारं शतांशेन तत्तारं कांचनं भवेत् ॥ ३,१६.९६ ॥
तद्वच्च जारणा कार्या मुखं बद्ध्वाथ बन्धयेत् ।
सहस्रांशेन तेनैव तारं भवति कांचनम् ॥ ३,१६.९७ ॥
सुशुद्धं वेधयेन्नागं भवेद्गुंजानिभं च तत् ।
नागेनानेन शुल्बं तु शतांशेनैव वेधयेत् ॥ ३,१६.९८ ॥
{लेअद्=> चोप्पेर्=> सिल्वेर्=> गोल्द्}
षड्भागं चपलाचूर्णं तारं स्यात्सप्तभागकम् ।
भागाष्टकं सुवर्णं च नवभागं च पारदम् ॥ ३,१६.९९ ॥
सर्वं दिव्यौषधीद्रावैर्मर्दयेद्दिवसत्रयम् ।
तद्गोलं निगलेनैव सर्वतो लेपयेद्घनम् ॥ ३,१६.१०० ॥
लांगली करवीराग्निगृध्रविष्ठा समं समम् ।
पेषयेन्मातुलिंगाम्लैस्तेन मूषां प्रलेपयेत् ॥ ३,१६.१०१ ॥
तद्रुद्ध्वा पूर्ववद्गोलं धमेत्खोटं भवेत्तु तत् ।
तेनैव तु शतांशेन नागे वेधं प्रदापयेत् ॥ ३,१६.१०२ ॥
तेन नागेन शुल्बं च शतांशेनैव वेधयेत् ।
ताम्रेण वेधयेत्तारं पूर्ववत्कांचनं भवेत् ॥ ३,१६.१०३ ॥
{सिल्वेर्=> गोल्द्}
पलैकं शुद्धसूतं च काचपात्रे विनिक्षिपेत् ।
पूर्ववज्जारितं गंधं क्षिपेत्तस्मिन्पलत्रयम् ॥ ३,१६.१०४ ॥
जंबीराणां द्रवं दत्त्वा गंधतुल्यं शनैः पचेत् ।
वालुकाभाण्डमध्ये तु यावज्जीर्यति गंधकम् ॥ ३,१६.१०५ ॥
पूर्वसंस्कृतधान्याभ्रं पलमेकं च तत्र वै ।
क्षिप्त्वा जंबीरनीरं च बिडं दत्त्वाथ पाचयेत् ॥ ३,१६.१०६ ॥
जीर्णे यावद्भवेत्तत्तु ह्यम्लं तावत्क्षिपन्पचेत् ।
तस्मिन्स्वर्णं पलैकं तु चूर्णितं चाभिषेकितम् ॥ ३,१६.१०७ ॥
क्षिपेत्तस्मिन्विडं चाथ देयं जंबीरसंयुतम् ।
पचेज्जीर्णं भवेद्यावत्तत्रैव मृदुवह्निना ॥ ३,१६.१०८ ॥
बिडमम्लं क्षिपन्नेव जीर्णे चोद्धृत्य मर्दयेत् ।
त्रिदिनं तप्तखल्वे तु दिव्यौषधीद्रवैर्युतम् ॥ ३,१६.१०९ ॥
मूलमीश्वरलिङ्ग्युत्थं शिग्रुमूलं च पेषयेत् ।
वज्रमूषामनेनैव लिप्त्वा पूर्वरसं क्षिपेत् ॥ ३,१६.११० ॥
रुद्ध्वा स्वेद्यं करीषाग्नावहोरात्रात्समुद्धरेत् ।
पूर्ववन्मर्दितं रुद्ध्वा धमेद्बद्धो भवेद्रसः ॥ ३,१६.१११ ॥
चतुःषष्टितमांशेन दत्ते तारमनेन वै ।
वेधयेज्जारयेद्दिव्यं कांचनं सिद्धसंमतम् ॥ ३,१६.११२ ॥
{सिल्वेर्=> गोल्द्}
शतनिष्कं शुद्धसूतं दशनिष्कं तु गंधकम् ।
क्षणं कन्याद्रवैर्मर्द्यं पातनायंत्रगं पचेत् ॥ ३,१६.११३ ॥
ऊर्ध्वलग्नं समादाय गंधकं दशनिष्ककम् ।
दत्त्वा मर्द्यं पुनस्तद्वद्यंत्रे पच्यात्समुद्धरेत् ॥ ३,१६.११४ ॥
एवं पुनः पुनः कुर्यादेकविंशतिवारकम् ।
गौरीयन्त्रे तु तत्सूतं क्षिप्त्वा देयं तु गंधकम् ॥ ३,१६.११५ ॥
भावितं पूर्वयोगेन विंशत्यंशेन चूर्णितम् ।
रुद्ध्वा लघुपुटे पच्याज्जीर्णे गंधं प्रदापयेत् ॥ ३,१६.११६ ॥
एवं पुनः पुनर्जार्यं यथाशक्ति क्रमेण वै ।
जीर्णे शतगुणे गन्धे शतवेधी भवेद्रसः ॥ ३,१६.११७ ॥
सहस्रगुणिते जीर्णे सहस्रांशेन वेधयेत् ।
लक्षजीर्णे लक्षवेधी कोटिवेधी भवेद्रसः ॥ ३,१६.११८ ॥
जीर्णे कोटिगुणे गन्धेऽप्येवं स्यादुत्तरोत्तरम् ।
सारयेत्पक्वबीजेन पूर्ववज्जारयेत्क्रमात् ॥ ३,१६.११९ ॥
मुखं बद्ध्वा रसं बद्ध्वा तारे वेधं प्रदापयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,१६.१२० ॥
भूसत्त्वकैः परमगुह्यतमैः ससूतैर्वैक्रान्तकैः सचपलै रसगंधकैश्च ।
दृष्ट्वानुभूय सकलं सुखसाध्ययोगैः सम्यक्सुवर्णकरणं गदितं सुधीनाम् ॥ ३,१६.१२१ ॥

३, १७
वज्राभ्रसत्ववरहाटकलोहजालं कुर्याद्द्रुतं द्रवभवं किल बंधयोग्यम् ।
नानाविधैः सुगमसंस्कृतयोगराजैस्तद्वक्ष्यते परमसिद्धिकरं नराणाम् ॥ ३,१७.१ ॥
{अभ्रकद्रुति (१)}
शुद्धकृष्णाभ्रपत्राणि पीलुतैलेन लेपयेत् ।
घर्मे शोष्याणि सप्ताहं लिप्त्वा लिप्त्वा पुनः पुनः ॥ ३,१७.२ ॥
त्रिदिनं चाम्लवर्गेण तद्वच्छोष्याणि चाथ वै ।
स्नुह्यर्कार्जुनवज्रीणां कटुतुंब्या समाहरेत् ॥ ३,१७.३ ॥
क्षारं क्षारत्रयं चैतदष्टकं चूर्णितं समम् ।
वज्रकंदं क्षीरकन्दं बृहती कण्टकारिका ॥ ३,१७.४ ॥
वनवृन्ताक एतेषां द्रवैर्भाव्यं दिनत्रयम् ।
अनेन क्षारकल्केन पूर्वपत्राणि लेपयेत् ॥ ३,१७.५ ॥
आतपे कांस्यपात्रे तु स्थाप्यं लेप्यं पुनः पुनः ।
एवं दिनत्रयं कुर्याद्द्रुतिर्भवति निर्मला ॥ ३,१७.६ ॥
{अभ्रकद्रुति (२)}
अम्लवर्गेण पत्राणि क्षिपेद्घर्मे दिनत्रयम् ।
तथान्यान्यभ्रपत्राणि क्षालयेत्क्षीरकंदकैः ॥ ३,१७.७ ॥
क्षारैर्यावद्भवेत्कल्कस्तत्कल्कैः पूर्वपत्रकम् ।
लिप्त्वा लिप्त्वा क्षिपेद्घर्मे कांस्यपात्रे विशोषयेत् ॥ ३,१७.८ ॥
सप्ताहान्नात्र संदेहो रसरूपा द्रुतिर्भवेत् ॥ ३,१७.९ ॥
{अभ्रकद्रुति (३)}
काकाण्डाफलचूर्णं तु मित्रपंचकसंयुतम् ।
एतत्तुल्यं च धान्याभ्रमम्लैर्मर्द्यं दिनावधि ।
अंधमूषागतं ध्मातं द्रुतिर्भवति निर्मला ॥ ३,१७.१० ॥
{अभ्रकद्रुति (४)}
धान्याभ्रकं सगोमांसमभ्रपादं च सैंधवम् ।
स्नुह्यर्कपयसा द्रावैर्मुनिभिर्मर्दयेत्त्र्यहम् ॥ ३,१७.११ ॥
तद्गोलं कदलीकंदे क्षिप्त्वा बाह्ये मृदा लिपेत् ।
करीषाग्नौ त्र्यहं पच्याद्द्रुतिर्भवति निर्मला ॥ ३,१७.१२ ॥
{अभ्रकद्रुति (५)}
अगस्त्यपत्रनिर्यासैर्मर्द्यं धान्याभ्रकं दिनम् ।
तद्गोलं निक्षिपेत्कंदे सूरणोत्थे निरुध्य च ॥ ३,१७.१३ ॥
तत्कंदं निखनेद्गोष्ठभूमौ मासात्समुद्धरेत् ।
कंदोदराद्द्रुतिर्ग्राह्या सूततुल्या तु निर्मला ॥ ३,१७.१४ ॥
{अभ्रकद्रुति (६)}
धान्याभ्रकं दिनं मर्द्यमजमार्या द्रवैर्दिनम् ।
स्थापयेन्मृण्मये पात्रे त्र्यहाद्घर्मे भवत्यलम् ॥ ३,१७.१५ ॥
{अभ्रकद्रुति (७)}
सप्ताहं मुनितोयेन धान्याभ्रं सैंधवं शिला ।
मर्दयेद्भावयेद्घर्मे ततो दार्वी सुवर्चलम् ॥ ३,१७.१६ ॥
मरिचमभ्रपादांशं मूर्वापत्ररसैर्दिनम् ।
मर्दयेद्वज्रवल्ल्युत्थैर्द्रवैर्भाव्यं दिनावधि ॥ ३,१७.१७ ॥
शरावसंपुटे तं तु रुद्ध्वा ध्माते द्रुतिर्भवेत् ॥ ३,१७.१८ ॥
{अभ्रकद्रुति (८)}
धान्याभ्रकं प्रयोक्तव्यं काकिनीबीजतुल्यकम् ।
स्नुहीक्षीरेण सप्ताहं घर्मे ताप्यं द्रुतिर्भवेत् ॥ ३,१७.१९ ॥
{अभ्रकद्रुति (९)}
वज्रवल्लीद्रवैर्मर्द्यं धान्याभ्रं ससुवर्चलम् ।
तुल्यं त्रिदिनपर्यन्तं ततस्तं शरावसंपुटे ॥ ३,१७.२० ॥
रुद्ध्वा ध्माते द्रवत्येव रसरूपं न संशयः ।
इत्येवं रसरूपं च जायते नैव संशयः ॥ ३,१७.२१ ॥
{अभ्रकद्रुति (१०)}
उदुंबरोद्भवैः क्षीरैरभ्रपत्राणि पाचयेत् ।
स्थाल्यां वा पाचयेदेतान् भवन्ति नवनीतवत् ॥ ३,१७.२२ ॥
ततस्तं वटकं कृत्वा छिद्रमूषां निरुध्य च ।
यामत्रयं धमेद्गाढमधोभाण्डे द्रुतिः पतेत् ॥ ३,१७.२३ ॥
{अभ्रकद्रुति (११)}
काकोदुंबरिजैः क्षीरैर्मर्द्यं धान्याभ्रकं दिनम् ।
वनमूषकबीजानि त्वग्वर्ज्यान्यभ्रकैः समम् ॥ ३,१७.२४ ॥
मर्दयित्वार्धयामं तं द्राव्यं पातालयंत्रकैः ।
अहोरात्रं पुटं देयं द्रुतिर्भवति निर्मला ॥ ३,१७.२५ ॥
{अभ्रकद्रुति (१२)}
कपितिंदुजातफलैः समं धान्याभ्रकं दृढम् ।
मर्दयेद्दिनमेकं तु काचकूप्यां निवेशयेत् ॥ ३,१७.२६ ॥
नरकेशैर्मुखं रुद्ध्वा कूपिकां लेपयेन्मृदा ।
पुटेत्पातालयंत्रेण दिनान्ते द्रुतिमाप्नुयात् ॥ ३,१७.२७ ॥
{अभ्रकद्रुति (१३)}
धान्याभ्रकसमांशेन चूर्णं गुंजाफलस्य तु ।
स्नुहीक्षीरेण सप्ताहं भावितं धमनाद्भवेत् ॥ ३,१७.२८ ॥
{अभ्रकद्रुति (१४)}
रक्तोत्पलस्य नीलोत्थद्रवैर्मर्द्यं दिनत्रयम् ।
धान्याभ्रकं धमेद्रुद्ध्वा वज्रमूषागतं धमेत् ॥ ३,१७.२९ ॥
वेगीफलस्य चूर्णेन तुल्यं धान्याभ्रकं त्र्यहम् ।
भाव्यं घर्मे स्नुहीक्षीरैर्ध्मातं संपुटगं द्रवेत् ॥ ३,१७.३० ॥
{अभ्रकद्रुति (१५)}
अथवा छागमूत्रेण भावयेत्कपितिंदुजम् ।
फलचूर्णं तु तच्छुष्कं द्रुते सत्वे प्रवापयेत् ॥ ३,१७.३१ ॥
द्वित्रिवारप्रयोगेण द्रुतिर्भवति निर्मला ॥ ३,१७.३२ ॥
{अभ्रकसत्त्वद्रुति (२)}
नरकेशोद्भवैस्तैलैः सेचयेदभ्रसत्त्वकम् ।
तद्गोलं गोमयैर्लिप्त्वा वज्रमूषान्तरे क्षिपेत् ।
हठाद्ध्माते द्रवत्येव तिष्ठते रसराजवत् ॥ ३,१७.३३ ॥
{अभ्रकसत्त्वद्रुति (३)}
भावयेन्नरमूत्रेण क्षीरकंदस्य चूर्णकम् ।
दशवारं प्रयत्नेन शोष्यं पेष्यं पुनः पुनः ॥ ३,१७.३४ ॥
तेनावापं द्रुते सत्वे दत्त्वा दत्त्वा च संधमेत् ।
यावत्तद्द्रवतां याति तावद्देयं पुनः पुनः ।
लोहं च द्रवते तेन हठाद्ध्माते न संशयः ॥ ३,१७.३५ ॥
{अभ्रकसत्त्वद्रुति (४)}
पंचांगं देवदाल्युत्थं चूर्णं भाव्यं च तद्द्रवैः ।
शोष्यं पेष्यं पुनर्भाव्यं शतवारं प्रयत्नतः ॥ ३,१७.३६ ॥
तच्चूर्णं दशमांशेन द्रुते सत्वे प्रतापयेत् ।
तत्पुनर्जायते बद्धो वापो देयः पुनः पुनः ॥ ३,१७.३७ ॥
{अभ्रकसत्त्वद्रुति (५)}
क्षीरकंदद्रवैर्भाव्यं शतधा क्षीरकंदकम् ।
तद्वापेन द्रवेत्सत्त्वं लोहानि सकलानि च ॥ ३,१७.३८ ॥
{अभ्रकसत्त्वद्रुति (६)}
सर्वं धान्याम्लसंधानैर्भाव्यमभ्रकसत्वकम् ।
निचुलक्षारसंयुक्तं ध्मातं तिष्ठति सूतवत् ॥ ३,१७.३९ ॥
{सुवर्णद्रुति (१)}
इंद्रगोपकचूर्णं तु देवदालीफलद्रवैः ।
भावितं चैकविंशाहाद्द्रुते हेम्नि प्रवापयेत् ॥ ३,१७.४० ॥
किंचित्किंचित्समं यावत्तावत्तिष्ठति सूतवत् ॥ ३,१७.४१ ॥
{सुवर्णरौप्यद्रुति (२)}
शतधा नरमूत्रेण भावयेद्देवदालिकाम् ।
तच्चूर्णं वापमात्रेण द्रुतिः स्यात्स्वर्णतारयोः ॥ ३,१७.४२ ॥
{तीक्ष्णलोहद्रुति (१)}
सुरदालीभवं भस्म नरमूत्रेण भावितम् ।
त्रिसप्तवारं तं क्षारं वापे तीक्ष्णद्रुतिर्भवेत् ॥ ३,१७.४३ ॥
{तीक्ष्णलोहद्रुति (२)}
मेषशृंगी सकूर्मास्थिशिलाजतुनि वापयेत् ।
सारं द्रुतिर्भवेत्सत्यमावर्त्यादौ प्रदापयेत् ॥ ३,१७.४४ ॥
{सर्वधातुद्रुति (१)}
गंधकं कांतपाषाणं चूर्णयित्वा समं समम् ।
द्रुते लोहे प्रतीवापो देयो लोहाष्टकं द्रवेत् ॥ ३,१७.४५ ॥
{सर्वधातुद्रुति (२)}
देवदाल्या द्रवैर्भाव्यं गंधकं दिनसप्तकम् ।
तेन प्रवापमात्रेण लोहं तिष्ठति सूतवत् ॥ ३,१७.४६ ॥
{सुवर्णद्रुति (३)}
अतिस्थूलस्य भेकस्य निवार्यान्त्राणि निक्षिपेत् ।
उदरे टंकणं पूर्णं तद्रक्षेद्भांडमध्यगम् ॥ ३,१७.४७ ॥
अष्टाहाद्ग्राहयेत्तस्मात्तैलं पातालयंत्रके ।
तत्तैलं द्राविते स्वर्णे क्षिपेद्द्रुतिमवाप्नुयात् ॥ ३,१७.४८ ॥
{सुवर्णद्रुति (४)}
इंद्रगोपोऽश्वलाला च शशमण्डूकयोर्वसा ।
अस्थीनि च समं पिष्ट्वा द्रुते हेम्नि प्रवापयेत् ॥ ३,१७.४९ ॥
जायते रसरूपं तच्चिरकालं च तिष्ठति ॥ ३,१७.५० ॥
{सुवर्णद्रुति (५)}
इंद्रगोपं कुलीरास्थि देवदाल्याश्च बीजकम् ।
चूर्णितं भावयेद्द्रावैर्देवदाल्युद्भवैर्दिनम् ॥ ३,१७.५१ ॥
अनेन द्राविते हेम्नि वापो देयः पुनः पुनः ।
तिष्ठते रसरूपं तच्चिरकालं शिवोदितम् ॥ ३,१७.५२ ॥
{तीक्ष्णलोहद्रुति (३)}
तीक्ष्णचूर्णं च सप्ताहं पक्वधात्रीफलद्रवैः ।
लोलितं भावयेद्घर्मे क्षीरकन्दद्रवैः पुनः ॥ ३,१७.५३ ॥
सप्ताहं भावयेत्सम्यक्स्रावसंपुटके तथा ।
धामितं द्रवमायाति चिरं तिष्ठति सूतवत् ॥ ३,१७.५४ ॥
{कान्तलोहद्रुति}
शृगालमेषकूर्माहिशल्यानि च शिलाजतु ।
एतत्सर्वं चूर्णयित्वा सुतप्ते कांतचूर्णके ।
वापयेद्द्रवतां याति यथा सूतं सुनिश्चितम् ॥ ३,१७.५५ ॥
{सर्वलोहद्रुति (३)}
लोहचूर्णं यथेष्टैकं पनसस्य फलद्रवैः ।
सप्ताहं भावयेद्घर्मे ह्यम्लवर्गेण मर्दयेत् ।
द्रवते धमनेनैव लिपियोग्यं न संशयः ॥ ३,१७.५६ ॥
{सर्वलोहद्रुति (४)}
गंधकं रक्तलवणं तुल्यं देयं पुनः पुनः ।
द्रुतानां तप्तचूर्णानां सर्वेषां द्रावणं परम् ॥ ३,१७.५७ ॥
{सर्वलोहद्रुति (५)}
पीतमण्डूकगर्भे तु चूर्णितं टंकणं क्षिपेत् ।
रुद्ध्वा भांडे क्षिपेद्भूमौ त्रिसप्ताहात्समुद्धरेत् ॥ ३,१७.५८ ॥
तत्समस्तं विचूर्ण्याथ द्रुते लोहे प्रवापयेत् ।
तिष्ठन्ति रसरूपाणि सर्वलोहानि नान्यथा ॥ ३,१७.५९ ॥
{माक्षिकसत्त्वद्रुति (२)}
एरंडोत्थेन तैलेन गुंजाक्षौद्रं च टंकणम् ।
मर्दितं तस्य वापेन सत्वं माक्षिकजं द्रवेत् ॥ ३,१७.६० ॥
{सर्वरत्नानां सर्वलोहानां द्रुतिः}
क्षारत्रयं रामठं च चणकाम्लाम्लवेतसम् ॥ ३,१७.६१ ॥
ज्वालामुखी चेक्षुरकं स्थलकुम्भीफलानि च ।
स्नुह्यर्कपयसा श्लक्ष्णं पिष्ट्वा तद्गोलकं क्षिपेत् ॥ ३,१७.६२ ॥
वज्रमुख्यानि रत्नानि वस्त्रे बद्ध्वा पचेद्धठात् ।
दोलायंत्रेण धान्याम्ले भवेद्यामाष्टकं द्रुतम् ॥ ३,१७.६३ ॥
वज्राभ्रकं नीलपुष्पं मुक्ताविद्रुममाक्षिकम् ।
पौण्ड्रं वैडूर्यमाणिक्यं राजावर्तेन्द्रनीलकम् ॥ ३,१७.६४ ॥
वैक्रांतं स्फाटिकं चैव द्रवन्ति रससन्निभाः ।
एतैरेवौषधैर्लोहजातं द्रवति वापनात् ॥ ३,१७.६५ ॥
{वज्रद्रुति (१)}
वज्रवल्ल्यन्तरस्थं च कृत्वा वज्रं निरुन्धितम् ।
जलभांडगतं स्वेद्यं सप्ताहाद्द्रवतां व्रजेत् ॥ ३,१७.६६ ॥
{वज्रद्रुति (२)}
सूक्ष्मचूर्णं तु सप्ताहं वेतसाम्ले विनिक्षिपेत् ।
सप्ताहादुद्धृतं तं वै पुटे रुद्ध्वा द्रुतिर्भवेत् ॥ ३,१७.६७ ॥
{वैक्रान्तद्रुति (१)}
श्वेतवर्णं तु वैक्रांतमम्लवेतसभावितम् ।
सप्ताहान्नात्र संदेहः खरे घर्मे द्रवत्यलम् ॥ ३,१७.६८ ॥
{वैक्रान्तद्रुति (२)}
केतकीस्वरसं ग्राह्यं सैंधवं स्वर्णपुष्पिका ।
इंद्रगोपकसंयुक्तं सर्वं भांडे विनिक्षिपेत् ॥ ३,१७.६९ ॥
सप्ताहं स्वेदयेत्तस्मिन्वैक्रांतं द्रवतां व्रजेत् ।
लोहाष्टकं च रत्नानि योगस्यास्य प्रभावतः ॥ ३,१७.७० ॥
कुरुते योगराजोऽयं रत्नानां द्रावणं परम् ॥ ३,१७.७१ ॥
{सर्वद्रुतीनां स्थापनाधारः}
कुसुम्भतैलमध्ये तु संस्थाप्या द्रुतयः पृथक् ।
तिष्ठन्ति चिरकालं तु प्राप्ते कार्ये नियोजयेत् ॥ ३,१७.७२ ॥
इत्येवं द्रुतिसंचयं समुचितैः सारातिसारैर्मतैः कृत्वा वार्तिकपुंगवोऽत्र सततं श्रीपारदे मेलयेत् ।
तेनैवाद्भुतभक्षणं सुकनकं कृत्वाथ विद्वद्वरे देयं दीनजने च दुःखविमुखं कुर्यात्समस्तं जगत् ॥ ३,१७.७३ ॥

३, १८
द्रुतिरिह परिपाच्या जारयेत्पारदेन्द्रे मुनिगणितमथासौ सारितः कोटिवेधी ।
अथ पविकृतबीजं रत्नगर्भं द्रुतं वा चरति यदि रसेन्द्रः स्यात्तदा शब्दवेधी ॥ ३,१८.१ ॥
{द्रुतीनां रसेन सह मेलापनम् (१)}
पाठा वंध्या तालमूली नीलीसिन्दूरचित्रका ।
पद्मकन्दं क्षीरकन्दं समं नागबला तथा ॥ ३,१८.२ ॥
एतेषां ग्राहयेत्स्वच्छं रसं वस्त्रेण गालितम् ।
द्रुतिं समुखसूतं च औषधीनां तथा द्रवम् ॥ ३,१८.३ ॥
सर्वं क्षिप्त्वा घोषपात्रे शोषयेदातपे खरे ।
द्रवः पुनः पुनर्देयो यावद्यामत्रयं भवेत् ॥ ३,१८.४ ॥
मिलन्ति द्रुतयः सर्वाः पारदे नात्र संशयः ॥ ३,१८.५ ॥
{सर्वद्रुतिमेलापन (२)}
वज्रकंदामृता गुंजा द्रवैर्मर्द्यं च पूर्ववत् ।
मिलन्ति द्रुतयः सर्वा रसराजे न संशयः ॥ ३,१८.६ ॥
{सर्वद्रुतिमेलापन (३)}
कृष्णागुरु सिता हिङ्गु कस्तूरीब्रह्मबीजकम् ।
तुल्यं चूर्णं दशांशेन सूते द्रुतियुते क्षिपेत् ॥ ३,१८.७ ॥
मिलन्ति द्रुतयः सर्वा अनेनैव न संशयः ॥ ३,१८.८ ॥
{सर्वद्रुतिमेलापन (४)}
कृष्णागुरु श्वेतहिंगु सिता लशुननाभयः ।
पूर्ववन्मर्दनेनैव मिलन्ति द्रुतयो रसे ॥ ३,१८.९ ॥
{सर्वद्रुतिमेलापन (५)}
अश्वलालार्द्रकं निम्बपत्राणि लशुनं समम् ।
टंकणेन समायुक्तं पूर्ववद्द्रुतिमेलकम् ॥ ३,१८.१० ॥
{सर्वद्रुतिमेलापन (६)}
माक्षिकं सविषं गुंजा टंकणं स्त्रीरजः समम् ।
स्त्रीस्तन्यं संयुतं पिष्ट्वा तेन मूषां प्रलेपयेत् ॥ ३,१८.११ ॥
द्रुतियुक्तं रसं तत्र क्षिप्त्वा रुद्ध्वा दिनावधि ।
स्वेदयेत्करीषाग्निस्थं त्रिदिनं वा तुषाग्निना ।
मिलन्ति द्रुतयः सर्वा मीलिता जारयेत्ततः ॥ ३,१८.१२ ॥
द्रुतयो मीलिता येन मूषां तेनैव लेपयेत् ।
तथा च जीवयोगेन ख्यातेऽयं लिप्तमूषिका ॥ ३,१८.५७ ॥
{चोप्पेर्=> गोल्द्}
हेमकांतद्रुतिं तुल्यां मेलयेत्समुखे रसे ।
षोडशांशं रसात्सर्वं लिप्तमूषान्धितं पुटेत् ॥ ३,१८.५८ ॥
सतुषेऽथ करीषाग्नौ यावत्सूतावशेषितम् ।
पुनश्च मेलयेत्तद्वत्सर्ववज्जारयेत्ततः ॥ ३,१८.५९ ॥
एवं समां द्रुतिं सूते जारयेत्क्रमयोगतः ।
ततस्तं पक्वबीजेन सारयेज्जारणात्रयम् ॥ ३,१८.६० ॥
मूषायन्त्रे तु तज्जार्यं मुखं बद्ध्वाथ बन्धयेत् ।
तारारे ताम्रसंयुक्ते शतांशेन नियोजयेत् ॥ ३,१८.६१ ॥
क्रामणेन समायुक्तं दिव्यं भवति कांचनम् ॥ ३,१८.६२ ॥
{चोप्पेर्=> गोल्द्}
हेमाभ्रशुल्बद्रुतयो द्विगुणं जारयेद्रसे ।
पूर्ववत्क्रमयोगेन ततो रंजकबीजकम् ॥ ३,१८.६३ ॥
मूषायन्त्रे समं जार्यं सारयेत्सारणात्रयम् ।
मुखं बद्ध्वा रसं बद्ध्वा सहस्रांशेन वेधयेत् ।
तारारं ताम्रसंयुक्तं दिव्यं भवति कांचनम् ॥ ३,१८.६४ ॥
{=> गोल्द्}
कांतशुल्बसुवर्णानां द्रुतयः समुखे रसे ।
जारयेत्पूर्वयोगेन प्रत्येकं द्विगुणं क्रमात् ॥ ३,१८.६५ ॥
ततो रंजकबीजानि द्विगुणं तस्य जारयेत् ।
अथ बीजैस्त्रिधा सार्यं जारयेत्सारयेत्पुनः ॥ ३,१८.६६ ॥
जारितोऽथ मुखं बद्ध्वा रसं बद्ध्वाथ वेधयेत् ।
अयुतांशेन तेनैव पूर्ववत्कांचनं भवेत् ॥ ३,१८.६७ ॥
{लक्षवेधी रसः (द्रुतिजारणेन)}
कांतहेमाभ्रद्रुतयो यावत्पञ्चगुणं क्रमात् ।
जारयेत्पूर्वयोगेन ततो रंजकबीजकम् ॥ ३,१८.६८ ॥
जार्यं पञ्चगुणं तस्मिन्मूषायन्त्रे प्रयत्नतः ।
सारयेत्पक्वबीजेन त्रिधा तं जारयेत्पुनः ॥ ३,१८.६९ ॥
पुनः सार्यं पुनर्जार्यमेवं वारत्रये कृते ।
मुखं बद्ध्वा रसं बद्ध्वा लक्षवेधी भवेद्रसः ॥ ३,१८.७० ॥
{दशलक्षवेधी रसः}
आ रत्नहेमद्रुतयः षड्गुणं जार्यते रसे ।
षड्गुणं रंजकं बीजं ततस्तस्यैव जारयेत् ॥ ३,१८.७१ ॥
त्रिधा सार्यं पुनर्जार्यमेवं वारचतुष्टयम् ।
मुखं बद्ध्वा रसं बद्ध्वा नागतैलेन वेधयेत् ।
दशलक्षांशयोगेन दिव्यं भवति कांचनम् ॥ ३,१८.७२ ॥
{मेर्चुर्य्ःः वेधिन्ःः १०० तो कोटि}
प्रत्येकं सूततुल्यांशमभ्रहेमद्रुतिद्वयम् ।
मेलितं पूर्वयोगेन जारयेत्तत्क्रमेण वै ॥ ३,१८.७३ ॥
शतवेधी भवेत्सूतो द्विधा सहस्रवेधकः ।
त्रिगुणेऽयुतवेधी स्याल्लक्षवेधी चतुर्गुणे ॥ ३,१८.७४ ॥
सम्यक्पञ्चगुणे जीर्णे दशलक्षाणि विध्यति ।
एवं रसगुणे जीर्णे कोटिवेधी भवेद्रसः ॥ ३,१८.७५ ॥
ततः सप्तगुणं तस्य जार्यं रंजकबीजकम् ।
त्रिधाथ पक्वबीजेन सारयेत्पूर्ववत्क्रमात् ॥ ३,१८.७६ ॥
जारणा सारणा कार्या पुनः सारणजारणे ।
अनेन क्रमयोगेन सप्तशृङ्खलिकाक्रमात् ॥ ३,१८.७७ ॥
मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेत्तु सः ।
तारे च ताम्रसंयुक्ते क्रामणान्तं नियोजयेत् ॥ ३,१८.७८ ॥
{मेर्चुर्य्ःः बन्धन (?)}
श्वेताभ्रतारघोषारद्रुतयः समुखे रसे ।
जार्याः समा यथापूर्वं तारबीजेन सारयेत् ।
त्रिधा तं पूर्ववज्जार्यं मुखं बद्ध्वाथ बन्धयेत् ॥ ३,१८.७९ ॥
{तिन् => सिल्वेर्}
कांततारारद्रुतयो द्विगुणाः समुखे रसे ।
जारयेत्त्रिगुणा यावत्पक्वबीजेन चाथवा ॥ ३,१८.८० ॥
सारितं जारितं कुर्यात्पूर्ववच्छृङ्खलात्रयम् ।
मुखं बद्ध्वा रसं बद्ध्वा अयुतांशेन वेधयेत् ॥ ३,१८.८१ ॥
द्रुते बंगे तु तत्तारं भवेत्कुंदेन्दुसन्निभम् ॥ ३,१८.८२ ॥
{तिन्ःः स्तम्भन}
तारतीक्ष्णघोषजाता द्रुतयः समुखे रसे ।
कुर्यात्चतुर्गुणा यावत्तारबीजेन सारयेत् ॥ ३,१८.८३ ॥
चतस्रः शृङ्खला यावन्मुखं बद्ध्वाथ बन्धयेत् ।
अनेन लक्षभागेन बंगस्तम्भो भवेद्दृढः ॥ ३,१८.८४ ॥
{मेर्चुर्य्ःः कोटिवेधी}
तारा कांतद्रुतयो जार्या सप्तगुणा रसे ।
तत्सार्यं तारबीजेन सप्तशृंखलिका क्रमात् ॥ ३,१८.८५ ॥
मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः ॥ ३,१८.८६ ॥
{सप्तशृङ्खला}
समुखस्य रसेन्द्रस्य धान्याभ्रं पूर्वसंस्कृतम् ।
चारयेज्जारयेत्तद्वत्समांशं चाथ तस्य वै ॥ ३,१८.८७ ॥
षड्गुणं द्वंद्विते व्योम्नि सर्वं जार्यं च पूर्ववत् ।
ततो माक्षिकसत्वं च पादांशं तस्य गर्भतः ॥ ३,१८.८८ ॥
द्रावयेज्जारयेत्तद्वत्तावद्रसकसत्वकम् ।
पूर्ववद्द्रावितं जार्यं मूषायन्त्रे तु तत्क्रमात् ॥ ३,१८.८९ ॥
गर्भद्रावणकं बीजं द्रावितं जारयेत्पुनः ।
भवेच्चतुर्गुणं यावत्पश्चादभ्रसुवर्णयोः ॥ ३,१८.९० ॥
द्रुतिं समसमां सूते द्वंद्वयित्वाथ जारयेत् ।
पूर्ववत्क्रमयोगेन कांतहेम्नो द्रुतिः पुनः ॥ ३,१८.९१ ॥
प्रत्येकं जारयेत्तुल्यं स्वर्णतीक्ष्णद्रुतिस्तथा ।
द्वंद्वितां जारयेत्तुल्यां ततो रंजकबीजकम् ॥ ३,१८.९२ ॥
पूर्ववत्क्रमयोगेन जार्ये तस्मिन् चतुर्गुणम् ।
ततस्तं पक्वबीजेन सारयेत्सारणात्रयम् ॥ ३,१८.९३ ॥
तदेव जारितं कुर्यान्मूषायन्त्रे तु पूर्ववत् ।
इत्येवं सप्तवाराणि सारितं तत्त्रिधा त्रिधा ॥ ३,१८.९४ ॥
पूर्ववज्जारणा कार्या ख्यातेयं सप्तशृङ्खला ।
सारणा यत्र यत्रोक्ता विज्ञेया वार्तिकैः पुनः ॥ ३,१८.९५ ॥
मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः ।
क्रामणेन समायुक्तं चंद्रार्कं कांचनं भवेत् ॥ ३,१८.९६ ॥
कर्माष्टादशकेनैव क्रमाद्वेधः प्रकाशितः ।
समुखं निर्मुखं बंधं रसबंधं तथेरितम् ॥ ३,१८.९७ ॥
गोपितं शंभुना सिद्धैः सूचितं न प्रकाशितम् ।
वार्तिकानां हितार्थाय मया तत्प्रकटीकृतम् ॥ ३,१८.९८ ॥
{वज्रबीज}
वज्रभस्म शुद्धहेम व्योमसत्वमयोरजः ।
चत्वारि समभागानि नागचूर्णं चतुःसमम् ॥ ३,१८.९९ ॥
द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ।
एकीभूते समुद्धृत्य मूषायां प्रकटं धमेत् ॥ ३,१८.१०० ॥
माक्षिकाद्धौतसत्त्वं च स्तोकं स्तोकं विनिक्षिपेत् ।
हेमवज्रावशेषं तु यावत्स्यादुद्धरेत्ततः ॥ ३,१८.१०१ ॥
तस्मिन्नागं व्योमसत्त्वमयश्चूर्णं च पूर्ववत् ।
निक्षिपेद्द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ॥ ३,१८.१०२ ॥
मिश्रीभूतं समुद्धृत्य मूषायां प्रकटं धमेत् ।
स्वर्णवज्रावशेषं तद्यावज्जातं समुद्धरेत् ॥ ३,१८.१०३ ॥
एवं पुनः पुनर्जार्यं व्योमसत्वायसं फणी ।
पूर्ववत्क्रमयोगेन षड्गुणं जारयेत्पुनः ॥ ३,१८.१०४ ॥
माक्षिकाद्धौतसत्त्वकम् [… औ६ Zएइछेन्झ्] ।
क्षिपन् क्षिपन्धमेत्तं तु बाह्यमेवं तु षड्गुणम् ॥ ३,१८.१०५ ॥
वज्रबीजमिदं ख्यातं जारणे परमं हितम् ॥ ३,१८.१०६ ॥
{वज्रबीजजारणेन स्पर्शवेधी शब्दवेधी रसः}
वासनामुखिते सूते द्वंद्वितं व्योमसत्वकम् ।
पूर्ववत्क्रमयोगेन षड्गुणं जारयेत्पुनः ॥ ३,१८.१०७ ॥
तस्मिन् जार्यं वज्रबीजं व्योमसत्त्वक्रमेण वै ।
ग्रसते कच्छपे यंत्रे यथाजीर्णं तथा फलम् ॥ ३,१८.१०८ ॥
द्विगुणेऽयुतवेधी स्यात्त्रिगुणे लक्षवेधकः ।
यदा चतुर्गुणं जीर्णं दशलक्षाणि विध्यति ॥ ३,१८.१०९ ॥
कोटिवेधी पञ्चगुणे दशकोट्यस्तु षड्गुणे ।
अर्बुदांशात्सप्तगुणे शङ्खवेध्यष्टमे गुणे ॥ ३,१८.११० ॥
नवमे खर्ववेधी स्याद्दशमे पद्मवेधकः ।
त्रयोदशगुणे जीर्णे स्पर्शवेधी भवेद्रसः ॥ ३,१८.१११ ॥
चतुर्दशगुणे जीर्णे भवेत्पाषाणवेधकः ।
त्रिपञ्चगुणिते जीर्णे सशैलवनकाननाम् ॥ ३,१८.११२ ॥
वेधयेन्मेदिनीं सर्वां स भवेद्भूचरो रसः ।
एवं कलागुणे जीर्णे त्रैलोक्यव्यापको भवेत् ॥ ३,१८.११३ ॥
खेचरो रसराजेन्द्रो मुखस्थः खेगतिप्रदः ।
जायते च यथाशक्त्या ततः सार्यं क्रमेण वै ॥ ३,१८.११४ ॥
वज्रबीजेन तुल्येन प्रथमा सारणा भवेत् ।
पूर्ववज्जारणा कार्या द्विगुणेनानुसारयेत् ॥ ३,१८.११५ ॥
तथैव जारयेद्भूयः कर्तव्या प्रतिसारणा ।
त्रिगुणेन तु तेनैव मुखं बद्ध्वाथ बन्धयेत् ॥ ३,१८.११६ ॥
द्विसहस्रादिलक्षान्तं वेधकस्याप्ययं विधिः ।
इत्येवं च पुनः कुर्यात्सारणां कोटिवेधके ॥ ३,१८.११७ ॥
दशकोट्याद्यर्बुदान्ते च जारिते वेधके रसे ।
त्रिप्रकारा प्रकर्तव्या सारणा तु त्रिधा त्रिधा ॥ ३,१८.११८ ॥
चतुर्गुणा शङ्खवेधे तदूर्ध्वं पञ्चधा भवेत् ।
षड्गुणा पद्मवेधे तु मूलवेधे तु सप्तधा ॥ ३,१८.११९ ॥
अष्टधा स्पर्शवेधे तु दशधा शब्दवेधके ।
ततस्त्रयोदशगुणाः कलागुणे कलागुणाः ॥ ३,१८.१२० ॥
क्रमशः सारणा कार्या यथाशक्त्यानुसारतः ।
मुखं बद्ध्वा रसं बद्ध्वा पश्चाद्वेधं प्रकल्पयेत् ॥ ३,१८.१२१ ॥
चंद्रार्के वा भुजंगे वा क्रामणेन समायुतम् ।
इत्येवं पद्मपर्यन्तं संख्यावेधात्तु यो रसः ॥ ३,१८.१२२ ॥
तद्वेष्टितं मधूच्छिष्टैः कुंतवेधे तु योजयेत् ।
तत्सर्वं कनकं दिव्यं जायते शंभुभाषितम् ॥ ३,१८.१२३ ॥
{धूमवेधविधि}
धूमवेधे रसं पिष्ट्वा तेन वस्त्रं प्रलेपयेत् ।
ततो ज्योतिष्मतीतैले धृत्वा वर्तिं कल्पयेत् ॥ ३,१८.१२४ ॥
ज्वलितां तां ताम्रकूटे योजयेत्पत्त्रतां गते ।
तद्धूमगंधमात्रेण सर्वं भवति कांचनम् ॥ ३,१८.१२५ ॥
{स्पर्शवेधविधि}
स्पर्शवेधी रसो योऽसौ गुटिकां तेन कारयेत् ।
द्रुतानामष्टलोहानां क्षिप्त्वा मध्ये समुद्धरेत् ।
तद्भवेत्कांचनं दिव्यमसंख्यं नात्र संशयः ॥ ३,१८.१२६ ॥
{शब्दवेधविधि}
शब्दवेधी रसो योऽसौ गुटिकां तेन कारयेत् ।
धारयेद्वक्त्रमध्ये तु ततो लोहानि वेधयेत् ।
तत्सर्वं जायते स्वर्णं श्रुते शब्दे न संशयः ॥ ३,१८.१२७ ॥
{पाषाणवेधविधि}
पाषाणवेधको योऽसौ पर्वतानि तु तेन वै ।
वेधयेदग्निना तप्तान् सर्वं भवति कांचनम् ॥ ३,१८.१२८ ॥
{मेदिनीवेधविधि}
मेदिनीवेधको योऽसौ राजिकार्धार्धमात्रकः ।
तेनैव वेधयेत्सर्वां सशैलवनकाननाम् ।
मेदिनी सा स्वर्णमयी भवेत्सत्यं शिवोदितम् ॥ ३,१८.१२९ ॥
{त्रैलोक्यव्यापकविधि}
त्रैलोक्यव्यापको योऽसौ तं करे धारयेत्तु यः ।
स भवेत्खेचरो दिव्यो महाकायो महाबलः ॥ ३,१८.१३० ॥
स्वेच्छाचारी महावीरः शिवतुल्यो भवेत्तु सः ।
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि कांचनम् ॥ ३,१८.१३१ ॥
जायन्ते नात्र संदेहस्तत्स्वेदस्पर्शनादपि ।
रसकायो महासिद्धः सर्वलोकेषु पूज्यते ॥ ३,१८.१३२ ॥
अवध्यो देवदैत्यानां यावच्चन्द्रार्कमेदिनी ।
भुञ्जानो दिव्यभोगांश्च क्रीडते भैरवो यथा ॥ ३,१८.१३३ ॥
{रसबीजं शतवेधी}
भागत्रयं शुद्धसूतं भागैकं मृतवज्रकम् ।
काकिनीरजसा मर्द्यं तप्तखल्वे दिनावधि ॥ ३,१८.१३४ ॥
तेनैव पादभागेन हेमपत्राणि लेपयेत् ।
व्योमवल्लीरसैः पिष्टं कांतटंकणतालकम् ॥ ३,१८.१३५ ॥
अनेन चाष्टमांशेन पूर्वलिप्तानि लेपयेत् ।
रुद्ध्वा स्वेद्यं दिवारात्रौ करीषाग्नौ ततः पुनः ॥ ३,१८.१३६ ॥
कदलीकंदसौवीरटंकणं च समं समम् ।
कण्टकार्या द्रवैः पिष्ट्वा मूषा लेप्या त्वनेन वै ॥ ३,१८.१३७ ॥
तन्मध्ये पूर्वपक्वं यद्रुद्ध्वा धाम्यं दृढाग्निना ।
तत्सर्वं जायते खोटं सौवीरं काचटंकणम् ॥ ३,१८.१३८ ॥
दत्त्वा दत्त्वा धमेत्खोटं जायते भास्करोपमम् ।
रसबीजमिदं ख्यातं वेधके जारणे हितम् ।
चंद्रार्के शतवेधी स्यात्कांचनं कुरुते शुभम् ॥ ३,१८.१३९ ॥
{शब्दवेधी रसः}
अथ वक्ष्ये रसेन्द्रस्य समांशस्य च भक्षणम् ।
पूर्वोक्तं रसबीजं तु समुखे चारयेद्रसे ॥ ३,१८.१४० ॥
अभ्रसत्वप्रकारेण जारयेत्तत्क्रमेण वै ।
पञ्चपञ्चांशगुणितं यदा ग्रसति पारदः ॥ ३,१८.१४१ ॥
ततस्तेनैव बीजेन सारणाक्रामणात्रयम् ।
ततश्च जारितं कुर्यान्मुखं बद्ध्वाथ बन्धयेत् ।
शब्दवेधी भवेत्सो हि रसः शंकरभाषितम् ॥ ३,१८.१४२ ॥
{रसबीजं शतवेधि}
समुखस्य रसेन्द्रस्य पक्वबीजं समांशकम् ।
जारयेच्चाभिषिक्तं तदभ्रसत्त्वक्रमेण वै ॥ ३,१८.१४३ ॥
मृतवज्रं षोडशांशं तस्मिन्सूते विनिक्षिपेत् ।
तालकं टंकणं कांतं तृतीयं चाष्टमांशकम् ॥ ३,१८.१४४ ॥
दत्त्वा तस्मिंस्तदा खल्वे व्योमवल्लीद्रवैर्दिनम् ।
तत्सर्वं मर्दितं कृत्वा छायाशुष्कं प्रयत्नतः ॥ ३,१८.१४५ ॥
द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ।
करीषाग्नौ दिवारात्रौ ध्माते खोटं भवेत्तु तत् ॥ ३,१८.१४६ ॥
काचटंकणसौवीरैः शोधयेत्तं धमन् धमन् ।
रसबीजमिदं ख्यातं पूर्ववत्शतवेधकम् ।
जायते रसराजोऽयं कुरुते कनकं शुभम् ॥ ३,१८.१४७ ॥
{मेर्चुर्य्ःः रञ्जनःः रेद्}
अथवा समुखे सूते पूर्ववज्जारयेद्दिनम् ।
पञ्चपञ्चांशगुणितं यदा ग्रसति पारदः ॥ ३,१८.१४८ ॥
रसबीजेन चान्येन त्रिधा सार्यं क्रमेण वै ।
सारिते जारणा कार्या मुखं बद्ध्वाथ बन्धयेत् ।
शब्दवेधी भवेत्साक्षात्ताम्रं स्वर्णं करोति वै ॥ ३,१८.१४९ ॥
{रसबीजम्}
पक्वबीजस्य चूर्णं तु पूर्ववच्चाभिषेकितम् ।
षोडशांशेन सूतस्य समुखस्य तु चारयेत् ॥ ३,१८.१५० ॥
द्व्यङ्गुल्यां मर्दनेनैव घर्मे चरति तत्क्षणात् ।
तद्बीजं जारयेत्तस्य स्वेदनैश्चाभ्रसत्ववत् ॥ ३,१८.१५१ ॥
अनेन क्रमयोगेन समं बीजं तु सारयेत् ।
तद्वद्द्वादशभागेन पक्वबीजं तु तस्य वै ॥ ३,१८.१५२ ॥
चारयेन्मर्दयन्नेव कच्छपाख्येऽथ जारयेत् ।
अभ्रसत्वप्रकारेण समं यावच्च जारयेत् ॥ ३,१८.१५३ ॥
ततस्तस्याष्टमांशेन पक्वबीजं तु दापयेत् ।
मर्दयेत्तप्तखल्वे तत्चरत्येव हि तत्क्षणात् ॥ ३,१८.१५४ ॥
तं सूतं सूरणे कंदे गर्भे क्षिप्त्वा निरुध्य च ।
लिप्त्वा कंदं पुटे पच्याद्यथा कंदो न दह्यते ॥ ३,१८.१५५ ॥
तत्रैव ग्रसते सूतो जीर्णे ग्रासं तु दापयेत् ।
अनेन क्रमयोगेन समबीजं समं पुनः ॥ ३,१८.१५६ ॥
पादांशं पक्वबीजं तु दत्त्वा चार्यं च मर्दयेत् ।
मूषायन्त्रे ततो जार्यं स्वेदनेन पुनः पुनः ॥ ३,१८.१५७ ॥
अनेन क्रमयोगेन समबीजं च जारयेत् ।
एवं चतुर्गुणे जीर्णे पक्वबीजे तु पारदे ।
जायते कुंकुमाभस्तु रसेन्द्रो बलवत्तरः ॥ ३,१८.१५८ ॥
{धूमवेधी शब्दवेधी पाषाणवेधी रसः}
अभ्रकं भ्रामकं ब्राह्मी मृतलोहाष्टकं तथा ।
महारसाश्चोपरसाः कटुतुम्ब्याश्च बीजकम् ॥ ३,१८.१५९ ॥
शङ्खनाभिर्मेषशृङ्गी वज्रकंदं समं समम् ।
मयूरस्य तु रक्तेन सर्वं पाच्यं दिनावधि ॥ ३,१८.१६० ॥
ततस्तं मर्दयेत्खोटं शिखिरक्ते दिनद्वयम् ।
अनेन मृतवज्रं तु लेपितं कारयेत्ततः ॥ ३,१८.१६१ ॥
मूषामाम्रफलाकारां द्विद्विलिप्तां तु कारयेत् ।
तन्मध्ये पूर्वसूतं तु पादांशं लिप्तवज्रकम् ॥ ३,१८.१६२ ॥
अथवा वज्रबीजं च पूर्वकल्केन लेपितम् ।
अथवा द्वंद्वितं वज्रं समं स्वर्णेन यत्कृतम् ॥ ३,१८.१६३ ॥
तल्लिप्तं पूर्वकल्केन पादांशं तत्र निक्षिपेत् ।
आच्छादितं धमेन्मन्दं मूषाधोमुखवायुना ॥ ३,१८.१६४ ॥
किंचित्किंचिद्बिडं दत्त्वा जीर्णे तस्मात्समुद्धरेत् ।
पुनस्तल्लिप्तमूषायां क्षिप्त्वा वज्रेण संयुतम् ।
पूर्ववत्क्रमयोगेन जीर्णे वज्रे समुद्धरेत् ।
अनेन क्रमयोगेन वज्रं वा वज्रबीजकम् ॥ ३,१८.१६५ ॥
स्वर्णद्वंद्वितवज्रं वा जारयेत्तत्पुनः पुनः ।
एकादशगुणं यावत्तावज्जार्यं रसेन्द्रके ॥ ३,१८.१६६ ॥
सुदग्धां शङ्खनाभिं तु मातुलिंगरसैर्दिनम् ।
मर्दयेल्लोलयेत्तेन मुक्ताचूर्णं सुशोभनम् ॥ ३,१८.१६७ ॥
द्रावितं मौक्तिकं वाथ पूर्ववज्जारयेद्धमन् ।
मूषायां बिडलिप्तायां पादं पादं शनैः शनैः ॥ ३,१८.१६८ ॥
एकादशगुणं यावत्तज्जार्यं कच्छपेन तत् ॥ ३,१८.१६९ ॥
नीलीनिर्याससंतुल्यं शिखिपित्तं विमर्दयेत् ।
इन्द्रनीलं च नीलं च तेन लिप्त्वाथ जारयेत् ॥ ३,१८.१७० ॥
पूर्ववत्क्रमयोगेन धमनात्स्वेदनेन वा ।
विडलेपितमूषायामेकादशगुणं क्रमात् ॥ ३,१८.१७१ ॥
द्रावितं चेन्द्रनीलं वा नीलं च द्रावितं क्रमात् ।
द्वंद्वितं रसराजस्य जार्यमभ्रद्रुतिर्यथा ।
इत्येवं जारयेन्नीलं द्रावितं कठिनं तु वा ॥ ३,१८.१७२ ॥
शिखिपित्तनृरक्ताभ्यां लेपितं पद्मरागकम् ।
जारयेद्रसराजस्य त्वेकादशगुणं क्रमात् ।
जार्यं वा द्रावितं तत्तु यथा चाभ्रद्रुतिः पुरा ॥ ३,१८.१७३ ॥
रजनी तुल्यकंकुष्ठं ब्रह्मपुष्पद्रवैर्दिनम् ।
भावितं तेन लिप्तं तु पुष्परागं तु जारयेत् ॥ ३,१८.१७४ ॥
कठिनं द्रावितं वाथ रुद्रसंख्याक्रमेण वै ।
एवं रत्नैर्भवेत्तृप्तो रसराजो महाबलः ॥ ३,१८.१७५ ॥
अनेनैव शतांशेन मधूच्छिष्टेन लेपयेत् ।
शुद्धहाटकपत्राणि रुद्ध्वा गजपुटे पचेत् ॥ ३,१८.१७६ ॥
इंद्रगोपसमाकारं तत्स्वर्णं जायते शुभम् ।
अनेनैव सुवर्णेन सारयेत्सारणात्रयम् ॥ ३,१८.१७७ ॥
रत्नतृप्तं सूतराजं मूषायन्त्रे विनिक्षिपेत् ।
शनैः शनैर्धमेत्तावद्यावत्सूतावशेषितम् ॥ ३,१८.१७८ ॥
मुखं बद्ध्वा रसं बद्ध्वा धूमवेधी भवेत्तु तत् ।
अनेन क्रमयोगेन पुनः सारणजारणा ॥ ३,१८.१७९ ॥
कर्तव्यास्त्रिप्रकारा वै मुखं बद्ध्वाथ बन्धयेत् ।
शब्दवेधी रसेन्द्रोऽयं जायते खेगतिप्रदः ॥ ३,१८.१८० ॥
पुनश्च त्रिविधा कार्या सारणाज्जारणा क्रमात् ।
तस्यैव तु रसेन्द्रस्य मुखबन्धं च कारयेत् ॥ ३,१८.१८१ ॥
तेनैव वेधयेत्सर्वं गिरिपाषाणभूतलम् ।
जायते कनकं दिव्यं जाम्बूनदसमप्रभम् ॥ ३,१८.१८२ ॥
सिद्धैर्भूचरखेचरा शिवमुखात्प्राप्ता महाजारणा कृत्वा तां च रसे रसातलमिदं स्वर्णेन पूर्णं कृतम् ।
तेषां कर्म विचार्य सारमखिलं स्पष्टीकृतं तन्मया यः कश्चिद्गुरुतन्त्रमन्त्रनिरतस्तस्यैव सिद्धं भवेत् ॥ ३,१८.१८३ ॥

३, १९
संसारे सारभूतं सकलसुखकरं सुप्रभूतं धनं वै तत्साध्यं साधकेन्द्रैर्गुरुमुखविधिना वक्ष्यते तस्य सिद्ध्यै ।
रत्नादीनां विशेषात्करणमिह शुभं गंधवादं समग्रं ज्ञात्वा तत्तत्सुसिद्धं ह्यनुभवपथगं पावनं पण्डितानाम् ॥ ३,१९.१ ॥
{पद्मरागकरणम्}
चतुर्गुणेन तोयेन लाक्षां पिष्ट्वा तु तद्द्रवैः ।
वस्त्रपूतं शतपलं गृह्य मृद्भाण्डगं पचेत् ॥ ३,१९.२ ॥
मृद्वग्निना पादशेषं जातं यावच्च तस्य वै ।
क्षिपेत्पलं पलं चूर्णं सर्जिटंकणलोध्रकम् ॥ ३,१९.३ ॥
किंचित्पच्यात्ततः शीतं काचकूप्यां सुरक्षयेत् ।
स्थूलमत्स्यत्वचं पच्याद्दिवारात्रं जलेन तत् ॥ ३,१९.४ ॥
घनीभूतं समुत्तार्य ख्यातोऽयं मत्स्यकज्जलम् ।
एतत्कर्षद्वयं तस्याः काचकूप्यां विनिक्षिपेत् ॥ ३,१९.५ ॥
वर्षोपलास्तु तेनैव लालयित्वा सुपाचिते ।
मधूकतैलमध्ये तु क्षणं पक्त्वा समुद्धरेत् ।
जायन्ते पद्मरागाणि दिव्यतेजोमयानि च ॥ ३,१९.६ ॥
{इन्द्रनीलकरणम्}
नीलीचूर्णं पलैकं तु पूर्वकूप्यां तु तद्द्रवम् ।
तद्द्रवं द्विपलं चूर्णे क्षिप्त्वा सर्वं विलोलयेत् ॥ ३,१९.७ ॥
क्षिप्त्वा वर्षोत्पलांस्तेन पूर्वतैलगतान्पचेत् ।
इन्द्रनीलानि तान्येव जायन्ते नात्र संशयः ॥ ३,१९.८ ॥
{मरकतमणिकरणम्}
मञ्जिष्ठां तालकं नीली समचूर्णं प्रकल्पयेत् ।
काचकूप्यां स्थितैर्द्रावैः सर्वमेतत्सुलोलयेत् ॥ ३,१९.९ ॥
वर्षोत्पलांस्तु तेनैव सिक्त्वा पच्याच्च पूर्ववत् ।
सर्वे मरकतास्तेन समीचीना भवन्ति वै ॥ ३,१९.१० ॥
{गोमेदमणिकरणम्}
मञ्जिष्ठायाः कषायेण पेषयेन्मत्स्यकज्जलम् ।
वर्षोत्पलांस्तु तेनैव सिक्त्वा पच्याच्च पूर्ववत् ॥ ३,१९.११ ॥
गोमेदानि तु तान्येव प्रवर्तन्ते न संशयः ॥ ३,१९.१२ ॥
{पुष्परागकरणम्}
पिष्ट्वा तालकतुल्यं तु जलैके रसकुङ्कुमम् ।
तन्मध्ये चाष्टमांशं तु क्षिपेन्मत्स्योत्थकज्जलम् ॥ ३,१९.१३ ॥
तत्सर्वं पाचयेद्याममवतार्य सुरक्षयेत् ।
वर्षोपलांस्तु तेनैव सिक्तान्पच्याच्च पूर्ववत् ।
भवन्ति पुष्परागास्ते यथा खन्युत्थितानि च ॥ ३,१९.१४ ॥
{नीलमाणिक्यकरणम्}
नीलीचूर्णस्य तुल्यांशं क्षिपेन्मत्स्योत्थकज्जलम् ।
बीजकाष्ठं च तुल्यांशं जले स्थाप्यं दिनावधि ॥ ३,१९.१५ ॥
तत्सर्वं पाचयेद्याममवतार्य सुरक्षयेत् ।
वर्षोपलांस्तु तेनैव सिक्ताः पच्याच्च पूर्ववत् ।
नीलमाणिक्यसदृशास्ते भवन्ति न संशयः ॥ ३,१९.१६ ॥
{मुक्ताकरणम् (१)}
प्रोक्तानि रङ्गद्रव्याणि काचकूप्यां पृथक्पृथक् ।
रक्षयित्वा प्रयत्नेन प्राप्ते कार्ये नियोजयेत् ॥ ३,१९.१७ ॥
सूर्यकांतस्य मध्ये तु बिलं कुर्यात्सुवर्तुलम् ।
तथान्यं सूर्यकान्तं च कुर्यादाच्छादने हितम् ॥ ३,१९.१८ ॥
सूक्ष्ममुक्ताफलान्यादौ द्रावयेत्पूर्वयोगतः ।
तद्द्रुतं सूर्यकांतस्य बिले पूर्यं प्रयत्नतः ॥ ३,१९.१९ ॥
सूर्यकान्तेनापरेण छादितं घर्मधारितम् ।
याममात्राद्भवेद्बद्धं मौक्तिकं चातिशोभनम् ॥ ३,१९.२० ॥
छिद्रं कृत्वा निबध्याथ सुशुभ्रे वस्त्रखण्डके ।
सुशुभ्रैस्तण्डुलैः सार्धं कण्डयेत्तदुलूखले ॥ ३,१९.२१ ॥
लघुहस्तेन यामैकं तत उद्धृत्य क्षालयेत् ।
त्वचारिष्टफलानां तु जलेन सह पेषयेत् ।
तेनैव क्षालिते मुक्ताफलं भवति शोभनम् ॥ ३,१९.२२ ॥
{मुक्ताकरणम् (२)}
मौक्तिकानि सुसूक्ष्माणि चूर्णितानि विनिक्षिपेत् ।
प्रसूताया इडायास्तु सद्यः क्षीरैः क्षणावधि ॥ ३,१९.२३ ॥
तेनैव वर्तुलाकारा गुटिकाः कारयेत्ततः ।
काचपात्रे स्थिताः शोष्याः छायायां दिनमात्रकम् ॥ ३,१९.२४ ॥
प्रोतयेदश्ववालेन मालां कृत्वाथ शोषयेत् ।
छायायां कठिना यावत्तावत्स्थाप्या विलम्बिताः ॥ ३,१९.२५ ॥
स्थूलस्य कृष्णमत्स्यस्य एककण्टस्य चोदरात् ।
निवार्यान्त्राणि तत्रैव पूर्वमालां निवेशयेत् ॥ ३,१९.२६ ॥
उदरं सीवयेत्सूत्रेणैव भाण्डे निरुध्य तत् ।
मासमात्रात्समुद्धृत्य छायायां शोषयेत्पुनः ॥ ३,१९.२७ ॥
कण्डनं क्षालनं चैव पूर्ववत्कारयेच्छनैः ।
भवन्ति तानि शुभ्राणि सम्यङ्मुक्ताफलानि वै ॥ ३,१९.२८ ॥
{मुक्ताकरणम् (३)}
मुक्ताशुक्तिं समादाय जलशुक्तिमथापि वा ।
घर्षयेत्पृष्ठभागं तु तस्य कार्ष्ण्यापनुत्तये ॥ ३,१९.२९ ॥
ताः शुभ्राश्चूर्णयेच्छ्लक्ष्णमीडाक्षीरादिपूर्ववत् ।
कारयेत्क्षालनान्तं च मौक्तिकानि भवन्ति वै ॥ ३,१९.३० ॥
{मुक्ताकरणम् (४)}
सद्य उद्धृत्य मत्स्यस्य स्थूलस्य चक्षुषी हरेत् ।
एकैकं बन्धयेद्वस्त्रे ईडाक्षीरैर्दिनं पचेत् ॥ ३,१९.३१ ॥
छायायां शोषयेत्पश्चात्कण्डनं क्षालनं ततः ।
कारयेत्पूर्ववत्तानि मौक्तिकानि भवन्ति वै ॥ ३,१९.३२ ॥
{प्रवालकरणम् (१)}
दग्धशंखं च दरदं समं चूर्णं प्रकल्पयेत् ।
प्रसूताया महिष्यास्तु पञ्चमे दिवसे हरेत् ॥ ३,१९.३३ ॥
क्षीरं तेनैव तन्मर्द्यं यामैकं पूर्वचूर्णकम् ।
वर्तुलां गुटिकां कृत्वा प्रोतयेत्ताम्रसूत्रके ॥ ३,१९.३४ ॥
रम्भागर्भदलेनैव मध्यमांगुष्ठतर्जनी ।
वेष्टयित्वा तु तैर्ग्राह्या गुलिकास्ताः पृथक्पृथक् ॥ ३,१९.३५ ॥
आवर्त्यावर्त्य संस्थाप्या रंभापत्रैः प्रयत्नतः ।
छायाशुष्काः शुभाः प्रोत्यास्ताम्रसूत्रेण वै पुनः ॥ ३,१९.३६ ॥
मधुकं तप्ततैलाक्तं धूमेन स्वेदयेच्छनैः ।
जायते पद्मरागाभं प्रवालं नात्र संशयः ॥ ३,१९.३७ ॥
{प्रवालकरणम् (२)}
दग्धः शंखः ससिन्दूरं समांशं चूर्णयेत्ततः ।
क्षीरैः सद्यःप्रसूताया एडाया मर्दयेद्दृढम् ॥ ३,१९.३८ ॥
पूरयेच्च तृणोत्थे वा नाले वंशादिसंभवे ।
सुपक्वे चान्नभाण्डे तु यवागूवर्जिते क्षिपेत् ॥ ३,१९.३९ ॥
आच्छाद्य पच्यान्मन्दाग्नौ घटिकान्ते समुद्धरेत् ।
प्रवाला नलिकागर्भे जायन्ते पद्मरागवत् ॥ ३,१९.४० ॥
{हिङ्गुलकरणम्}
अशुद्धं पारदं भागं चतुर्भागं च टंकणम् ।
उभौ क्षिप्त्वा लोहपात्रे क्षणं मृद्वग्निना पचेत् ॥ ३,१९.४१ ॥
तस्मिन्मनःशिलाचूर्णं पारदाद्दशमांशतः ।
क्षिप्त्वा चाल्यमयोदर्व्या ह्यवतार्य सुशीतलम् ॥ ३,१९.४२ ॥
कृत्वाथ खण्डशः क्षिप्त्वा काचकूप्यां निरुध्य च ।
वस्त्रमृत्तिकया सम्यक्काचकूपीं प्रलेपयेत् ॥ ३,१९.४३ ॥
सर्वतोऽङ्गुलमानेन छायाशुष्कं तु कारयेत् ।
वालुकायंत्रगर्भे तु द्विदिनं मृदुनाग्निना ॥ ३,१९.४४ ॥
क्रमवृद्धाग्निना पश्चात्पचेद्दिवसपञ्चकम् ।
सप्ताहात्तत्समुद्धृत्य हिंगुलं स्यान्मनोहरम् ॥ ३,१९.४५ ॥
{सिन्दूरकरणम् (१)}
चिंचात्वग्भस्मपादांशं द्रुते नागे विनिक्षिपेत् ।
पाचयेल्लोहजे पात्रे लोहदर्व्या निघर्षयेत् ।
चण्डाग्निना दिनैकं तु सिन्दूरं जायते शुभम् ॥ ३,१९.४६ ॥
{सिन्दूरकरणम् (२)}
रक्तशाखिन्यपामार्गकुटजस्य तु भस्मकम् ।
चतुर्थांशं द्रुते नागे दत्त्वा मर्द्यं दिनद्वयम् ॥ ३,१९.४७ ॥
पूर्ववल्लोहपात्रे तु सिन्दूरं जायते शुभम् ॥ ३,१९.४८ ॥
{सिन्दूरकरणम् (३)}
भस्मना पूर्ववन्नागं शाकस्य वारिजस्य वा ।
सिन्दूरं जायते दिव्यं यथेष्टं नात्र संशयः ॥ ३,१९.४९ ॥
{सिन्दूरकरणम् (४)}
पलानां द्विशतं नागं द्रावयेल्लोहभाजने ।
समूलवासकाभस्म पादांशं तत्र निक्षिपेत् ॥ ३,१९.५० ॥
पीतवर्णं भवेद्यावत्तावत्पच्यात्प्रचालयेत् ।
ततः सुशीतलं कृत्वा जलेन चालयेत्पुनः ॥ ३,१९.५१ ॥
पलमात्रा वटी कृत्वा वासाभस्मोपरि क्षिपेत् ।
छायाशुष्का समाहृत्य मृद्भाण्डे नूतने क्षिपेत् ॥ ३,१९.५२ ॥
क्षिप्त्वा रुद्ध्वा पचेच्चुल्ल्यां निर्वाते तीव्रवह्निना ।
छिद्रं कुर्याद्भाण्डवक्त्रे शलाकां लोहजां क्षिपेत् ॥ ३,१९.५३ ॥
रक्तवर्णा यदा स्यात्सा तावत्पच्यात्परीक्षयेत् ।
सिन्दूरं जायते दिव्यं सिद्धयोग उदाहृतः ॥ ३,१९.५४ ॥
{सैन्धवकरणम्}
नवभाण्डे पलशतं सामुद्रलवणं क्षिपेत् ।
निष्कं निष्कं सूतगंधौ क्षिप्त्वा चण्डाग्निना पचेत् ॥ ३,१९.५५ ॥
द्वियामान्ते क्षिपेत्तस्मिंल्लोहनाराचकं यदि ।
रक्तवर्णं भवेत्तद्वै तदा वह्निं निवारयेत् ॥ ३,१९.५६ ॥
स्वभावशीतलं ग्राह्यं सिन्धूत्थं लवणं भवेत् ॥ ३,१९.५७ ॥
{सुवर्चलकरणम्}
आरनालं पलैकं तु द्विनिष्कं च सुवर्चलम् ।
माषैकं गंधकं पिष्ट्वा सर्वं पात्रे तु धारयेत् ॥ ३,१९.५८ ॥
पलैकं सैंधवं तप्तं कृत्वा तत्र निषेचयेत् ।
पुनस्ताप्यं पुनः सेच्यं द्रवो यावद्विशुष्यति ।
सुवर्चलं भवेत्तावन्नात्र कार्या विचारणा ॥ ३,१९.५९ ॥
{हिङ्गुकरणम् (१)}
हिङ्गुनागरमेकैकं लशुनस्य पलद्वयम् ।
चतुष्पलं निम्बबीजं माषचूर्णं पलाष्टकम् ॥ ३,१९.६० ॥
सर्वतुल्यां बिल्वमज्जामजाक्षीरेण पेषयेत् ।
तत्सर्वं बन्धयेद्गाढं सार्द्रगोचर्मगर्भतः ।
पक्षत्रयं धान्यराशौ क्षिपेद्धिंगु भवेत्ततः ॥ ३,१९.६१ ॥
{हिङ्गुकरणम् (२)}
बब्बूलवृक्षनिर्यासं सामुद्रलवणं तथा ।
त्वग्वर्ज्यं च कणा तुल्यं मेषीक्षीरेण पेषयेत् ॥ ३,१९.६२ ॥
अस्य पिण्डस्य पादांशं शुद्धहिंगु नियोजयेत् ।
तत्सर्वं पूर्ववद्बद्धं चर्मणा दिवसत्रयम् ॥ ३,१९.६३ ॥
निर्वाते लम्बितं रक्षेथिंगु स्याच्छुद्धहिंगुवत् ॥ ३,१९.६४ ॥
{हिङ्गुकरणम् (३)}
पलैकैकं गुडं शुण्ठी द्विकं टंकणगुग्गुलुम् ।
एरण्डबीजमज्जा च तुषवर्ज्यं पलद्वयम् ॥ ३,१९.६५ ॥
निस्त्वङ्माषा पलद्वंद्वमेकीकृत्य प्रपेषयेत् ।
त्रिकर्षं हिङ्गु तन्मध्ये क्षिप्त्वा तोयेन लोलयेत् ॥ ३,१९.६६ ॥
तत्सर्वं पूर्ववद्बद्ध्वा सप्ताहाद्धिङ्गुतां व्रजेत् ॥ ३,१९.६७ ॥
{हिङ्गुकरणम् (४)}
द्विपले शुद्धहिंगु स्यादेडाक्षीरं च विंशतिः ।
गोधूममाषयोश्चूर्णं प्रत्येकं तु चतुष्पलम् ॥ ३,१९.६८ ॥
अलाबुपात्रमध्यस्थं तत्सर्वं लोलितं क्षिपेत् ।
छायाशुष्कं भवेत्तावद्यावद्धिंगु शुभं भवेत् ॥ ३,१९.६९ ॥
{वङ्गकरणम् (१)}
धत्तूरबीजचूर्णं तु वज्रीक्षीरेण भावयेत् ।
शोष्यं पेष्यं पुनर्भाव्यमेवं घर्मे त्रिसप्तधा ॥ ३,१९.७० ॥
तद्वाप्यं द्रुतनागस्य दशमांशेन दापयेत् ।
ढालयेत्स्नुक्पयोमध्ये तद्वङ्गं जायते शुभम् ।
भावयेद्रजनीमध्ये तद्बंगं जायते शुभम् ॥ ३,१९.७१ ॥
{वङ्गकरणम् (२)}
भावयेद्रजनीचूर्णं वज्रीदुग्धेन सप्तधा ।
तद्वापं दशमांशेन द्रुते नागे प्रदापयेत् ॥ ३,१९.७२ ॥
तद्वापं द्रुतनागस्य दशमांशेन दापयेत् ।
तत्ढाल्यं त्रिफलाक्वाथे पुनस्तद्वच्च वापयेत् ॥ ३,१९.७३ ॥
टंकणं नवसारं च दत्त्वा सेच्यं नृमूत्रके ।
द्रावितं च पुनर्ढाल्यं नृमूत्रे वङ्गतां व्रजेत् ॥ ३,१९.७४ ॥
{अम्लवेतसकरणम्}
त्वग्बीजरहितं चिंचाफलं कांजिकसंयुतम् ।
पक्त्वा कुर्याद्वस्त्रपूतं जम्बीराम्लं तु तत्समम् ॥ ३,१९.७५ ॥
चाङ्गेरीमातुलिंगाम्लैर्यथाप्राप्तं समाहरेत् ।
वस्त्रपूतं तु तत्सर्वं पचेत्पादावशेषितम् ॥ ३,१९.७६ ॥
सौराष्ट्री तुत्थकासीसं त्रिक्षारं पटुपञ्चकम् ।
मूलसारं च तुल्यांशं सर्वं चूर्णं विनिक्षिपेत् ॥ ३,१९.७७ ॥
पूर्वपक्वे तु पादांशं पुनर्मृद्वग्निना पचेत् ।
घनीभूतं भवेद्यावच्चट्टकेनैव चालयेत् ।
अम्लवेतसमित्येतज्जायते शोभनं परम् ॥ ३,१९.७८ ॥
{साहीकरणम्}
त्रिफला भृङ्गकोरण्टभल्लातकरवीरकम् ।
बीजाम्रसममेतेषां समांशं बोलकज्जले ॥ ३,१९.७९ ॥
क्षिप्त्वा मर्द्यं ताम्रपात्रे पञ्चाहाज्जायते मषी ।
तालपत्त्रेषु भूर्जेषु लिख्यते परमं दृढम् ॥ ३,१९.८० ॥
{घृतकरणम्}
नारिकेलात्फलरसं ग्राह्यं भागचतुष्टयम् ।
तन्मध्ये घृतमेकं तु क्षिप्त्वा भाण्डे विलोलयेत् ॥ ३,१९.८१ ॥
शतांशेन क्षिपेत्तस्मिन् रक्तशाकिनिमूलकम् ।
मृद्वग्निना पचेत्किंचित्तत्सर्वं जायते घृतम् ॥ ३,१९.८२ ॥
{घृतकरणम् (२)}
घृतं तोयं समं कृत्वा विंशत्यंशेन चुन्नकम् ।
क्षिप्त्वा सर्वं तु मृद्भांडे क्षणं हस्तेन मर्दयेत् ।
घृतं तज्जायते सर्वं न चाग्निं सहते क्वचित् ॥ ३,१९.८३ ॥
{घृतकरणम् (३)}
मेषीमेदः पञ्चपलं तिलतैलं च तत्समम् ।
पचेन्मृद्वग्निना तावद्यावत्फेनं निवर्तते ॥ ३,१९.८४ ॥
द्विनिष्कं कांजिकं तस्मिन् क्षिप्त्वा वस्त्रेण चालयेत् ।
पादांशं च घृतं तस्मिन् दद्यात्सर्वं घृतं भवेत् ॥ ३,१९.८५ ॥
{घृतकरणम् (४)}
तिलतैलं विपच्यादौ यावत्फेनं निवर्तते ।
गुग्गुलुं निक्षिपेत्तस्मिन् किंचिद्गंधनिवृत्तये ॥ ३,१९.८६ ॥
विंशत्यंशेन तोयस्य क्षिप्त्वा चुन्नं विलोलयेत् ।
जलतुल्यं पूर्वतैलं मिश्रयेत्तत्सुशीतलम् ॥ ३,१९.८७ ॥
मर्दयेन्मृण्मये पात्रे हस्तेन क्षणमात्रकम् ।
घनीभूते घृतं चार्धं क्षिप्त्वा सर्वं घृतं भवेत् ॥ ३,१९.८८ ॥
{चन्दनकरणम्}
संछेद्य निम्बवृक्षं तु हस्तैकं रक्षयेदधः ।
तस्य मूर्ध्नि बिलं कुर्यात्तत्रैव नवगुग्गुलुम् ॥ ३,१९.८९ ॥
पूरयेत्तेन काष्ठेन बिलं रुद्ध्वाथ लेपयेत् ।
संधिं मृल्लवणेनैव शुष्कं गजपुटे पचेत् ॥ ३,१९.९० ॥
स्वभावशीतलं ग्राह्यं तन्मूलं चन्दनं भवेत् ॥ ३,१९.९१ ॥
{कर्पूरकरणम्}
पलत्रयं पचेद्भक्तं सम्यग्राजान्नतण्डुलम् ।
तद्भक्तं शीतलं कृत्वा गवां क्षीरैः प्रयत्नतः ॥ ३,१९.९२ ॥
निष्कमात्रं च कर्पूरं क्षिप्त्वा तस्मिंश्च पेषयेत् ।
शुष्कस्य वंशनालस्य स्थूलस्य तेन चोदरम् ॥ ३,१९.९३ ॥
लेप्यमङ्गुलमानेन छायाशुष्कं च कारयेत् ।
छित्त्वाथ कदलीपुष्पं तन्निर्यासेन पूरयेत् ॥ ३,१९.९४ ॥
वंशनालं पुनर्वस्त्रखण्डे रुद्ध्वा च तन्मुखम् ।
आतपे त्रिदिनं शोष्यं भूगर्ते निखनेत्ततः ॥ ३,१९.९५ ॥
त्रिसप्ताहात्समुद्धृत्य शोषयित्वा समाहरेत् ।
कर्पूरं तस्य गर्भस्थं रक्षेत्कर्पूरभाजने ।
कर्पूरं जायते दिव्यं यथा बीजं न संशयः ॥ ३,१९.९६ ॥
{जवादीयाङ्कस्तूरीकरणम्}
पनसस्यार्धं पक्वस्य बीजान्येकस्य खण्डयेत् ।
नवभाण्डे विनिक्षिप्य निष्कं शुण्ठी पलं तथा ॥ ३,१९.९७ ॥
चूर्णयित्वा क्षिपेत्तस्मिन् तत्सर्वं द्रवतां व्रजेत् ।
तेन घृष्ट्वा क्षिपेत्तस्मिन् चतुर्निष्कं च चन्दनम् ॥ ३,१९.९८ ॥
मृद्वग्नौ पाचयेत्तावद्यावदारक्ततां गतम् ।
तच्छीतलं काचपात्रे क्षिप्त्वा तस्योपरि क्षिपेत् ॥ ३,१९.९९ ॥
चम्पकं केतकीमल्लीजातीपुष्पाणि तत्पुनः ।
दिनं शुभ्रपटे बद्ध्वा मुखं तस्यैव रक्षयेत् ॥ ३,१९.१०० ॥
ततः पुष्पाणि संत्यक्त्वा कस्तूरीं माषमात्रकाम् ।
माषैकं शुद्धकर्पूरे तस्मिन्नेव विनिक्षिपेत् ॥ ३,१९.१०१ ॥
निक्षिपेद्विंशदंशेन सम्यग्जावादिकामपि ।
तत्सर्वं मथितं पूर्वं सम्यग्जावादिभाजने ॥ ३,१९.१०२ ॥
वेष्टयेन्मल्लिकापुष्पैस्तद्भांडं दिवसत्रयम् ।
सम्यग्भवति जावादि वर्णैः परिमलैरपि ॥ ३,१९.१०३ ॥
{कस्तूरीकरणम्}
मधूकतैलं तैलं वा तिलोत्थं पलपञ्चकम् ।
मुण्डीद्रावं दशपलं सर्वमेकत्र योजयेत् ॥ ३,१९.१०४ ॥
मल्लिका मालती जाती केतकी शतपत्त्रिका ।
अन्यानि च सुगन्धीनि पुष्पाणि तत्र निक्षिपेत् ॥ ३,१९.१०५ ॥
दिनैकं मुद्रितं रक्षेत्पुष्पं निष्पीड्य संत्यजेत् ।
सिक्थकं विंशतिर्निष्कान् क्षिप्त्वा तस्मिन्पचेच्छनैः ॥ ३,१९.१०६ ॥
यावत्तैलावशेषं स्यात्कर्पूरं चार्धनिष्ककम् ।
निष्कं मार्जारजावादिं क्षिप्त्वा तदवतारयेत् ॥ ३,१९.१०७ ॥
अन्यपात्रे विनिक्षिप्य शीतलं तत्पुनः पचेत् ।
क्षणमात्रात्तदुत्तार्य क्षिपेज्जावादि भाजने ॥ ३,१९.१०८ ॥
सान्द्रं भवति तत्सर्वं यथा बीजं न संशयः ।
पुष्पाणि बकुलस्यैव रत्नमालां समं समम् ॥ ३,१९.१०९ ॥
तच्चूर्णमिक्षुदण्डस्य कृतनालस्य चोदरे ।
क्षिप्त्वा तस्य मुखं रुद्ध्वा तन्मज्जाभिर्मृदा पुनः ॥ ३,१९.११० ॥
पुटेत्तृणाग्निना तावद्यावद्गंधो न दह्यते ।
द्रवन्ति तानि पुष्पाणि मुखं भित्त्वा द्रवं हरेत् ॥ ३,१९.१११ ॥
कस्तूरीचर्म निर्लोमं मुस्तातुल्यं विचूर्णयेत् ।
चूर्णस्य दशमांशेन सम्यक्कस्तूरिकां क्षिपेत् ॥ ३,१९.११२ ॥
पूर्वद्रावेण तत्सर्वं पेषितं गोलकीकृतम् ।
कस्तूरीमदनाकारा किंचित्कार्या प्रयत्नतः ॥ ३,१९.११३ ॥
तत्सर्वं छायया शोष्यं मदना रक्षयेत्पृथक् ।
गुटिकाः खण्डशः कृत्वा मदनैः सह मिश्रयेत् ।
कस्तूरीचर्मणा बद्ध्वा सम्यङ्मृगमदो भवेत् ॥ ३,१९.११४ ॥
{कुण्कुमकरणम् (१)}
नारिकेलकपालं वा घृष्टं वा निम्बकाष्ठकम् ।
यत्किंचिच्छुभ्रकाष्ठं वा तोयेन सह कारयेत् ॥ ३,१९.११५ ॥
तत्पादं रजनी चाथ तस्मिन्मध्ये विनिक्षिपेत् ।
गैरिकं वा रजन्यर्धं तत्सर्वं कुंकुमं भवेत् ॥ ३,१९.११६ ॥
{कुङ्कुमकरणम् (२)}
पालाशपुष्पजं क्वाथं घर्मे धार्यं तु खर्परे ।
विंशत्यंशं क्षिपेत्तस्मिन् पेषितं शुभ्रतण्डुलम् ॥ ३,१९.११७ ॥
तण्डुलार्धं तथा चुन्नं सर्वं काष्ठेन लोलयेत् ।
घनीभूतं भवेद्यावत्तावद्घर्मे प्रचालयेत् ।
ततस्तेनैव वटिकाः कृत्वा स्युः कुङ्कुमोपमाः ॥ ३,१९.११८ ॥
{कुङ्कुमकरणम् (३)}
पालाशपुष्पपादांशं सम्यक्शुभ्रं च तण्डुलम् ।
पिष्ट्वाथ वटिकाः कार्या शोष्याः स्युः कुंकुमोपमाः ॥ ३,१९.११९ ॥
{दिव्यधूप (१)}
क्रमात्तरगुणं कुर्यात्कस्तूरी शशिकुङ्कुमम् ।
नखमांसी सर्जरसमुस्ता कृष्णागुरुः सिता ॥ ३,१९.१२० ॥
चन्दनं च दशैतानि चूर्णितानि विमिश्रयेत् ।
चूर्णतुल्यैर्गुग्गुलुभिः सर्वमेकत्र कुट्टयेत् ॥ ३,१९.१२१ ॥
स्तोकं स्तोकं क्षिपेत्तैलं शिलायां लोहमुष्टिना ।
दिनमेकं प्रयत्नेन वर्तिकां तेन कारयेत् ॥ ३,१९.१२२ ॥
तदग्रज्वलितं कुर्याज्ज्वालां निवार्य तत्क्षणात् ।
देवानां दिव्यधूपोऽयं मन्त्राणां साधने हितः ॥ ३,१९.१२३ ॥
{दिव्यधूप (२)}
पाषाणभेदचूर्णं तु गुग्गुलुं च पलं पलम् ।
मांसी मुस्ता नखं बोलचन्दनागुरुवालकम् ॥ ३,१९.१२४ ॥
लाक्षागुडं सर्जरसं सिताकर्पूरसंयुतम् ।
प्रति निष्कद्वयं चूर्ण्य कस्तूरी कुंकुमं तथा ॥ ३,१९.१२५ ॥
माषैकैकं क्षिपेत्तस्मिन् सर्वं कुट्यादुलूखले ।
तिलतैलं क्षिपेत्किंचिल्लोहदण्डेन तद्दृढम् ॥ ३,१९.१२६ ॥
यामैकं कुट्टयेत्सिद्धो दिव्यो धूपः शिवोदितः ।
देवादेवाकरो देयः पूर्ववद्वर्तकीकृतः ।
सर्वसौभाग्यजनकः सर्वमन्त्रोऽघनायकः ॥ ३,१९.१२७ ॥
{पुष्पद्रुति}
वज्रीक्षीरेण संयुक्तं शुद्धं वस्त्रं पुनः पुनः ।
आतपे शोषितं कुर्यादित्येवं दिनसप्तकम् ॥ ३,१९.१२८ ॥
जातीपुष्पपलैकं तु निष्कं चूर्णितटंकणम् ।
क्षौद्रं निष्कत्रयं योज्यं सर्वमेकत्र लोलयेत् ॥ ३,१९.१२९ ॥
मृत्पात्रे धारयेद्घर्मे रम्ये वा काचभाजने ।
आच्छादयेत्तु वस्त्रेण जलसिक्तेन तत्क्षणात् ॥ ३,१९.१३० ॥
द्रवन्ति तानि पुष्पाणि युञ्ज्याद्योगेषु तद्द्रवम् ।
अनेनैव प्रकारेण पुष्पाणां च पृथक्पृथक् ।
द्रुतिः कार्या सुगन्धानां गंधवादेषु योजयेत् ॥ ३,१९.१३१ ॥
{धान्यवृद्धिकरणम् (१)}
मन्दारमूलमार्द्रायां भरण्यां वा कुशोद्भवम् ।
ऊर्ध्वं संग्राह्य यत्नेन धवमाल्ये विनिक्षिपेत् ॥ ३,१९.१३२ ॥
प्रवातातिमुखं यत्तु तत्काष्ठं तु समाहरेत् ।
धान्यस्य राशिगं कुर्याद्धान्यवृद्धिकरं परम् ॥ ३,१९.१३३ ॥
{धान्यवृद्धिकरणम् (२)}
कृकलासस्य वामाक्षि हेम्नावेष्ट्याभिमन्त्रितम् ।
धान्यराशौ विनिक्षिप्य धान्यवृद्धिकरं परम् ॥ ३,१९.१३४ ॥
{धनधान्यवृद्धिकरणम् (३)}
तस्यैव दक्षिणं नेत्रं हेम्नावेष्ट्य ततः क्षिपेत् ।
यस्मिन्कस्मिन्भवे द्रव्ये धान्ये वा वृद्धिकारकम् ॥ ३,१९.१३५ ॥
{द्रव्यादिवृद्धिकरणम्}
कृष्णचित्रकमूलं तु क्षिप्तं यस्मिन् सुवस्तुनि ।
तत्सर्वं चाक्षयं नित्यं व्ययीकृत्य न क्षीयते ॥ ३,१९.१३६ ॥
धनं धान्यं घृतं तैलं सुवर्णं नवरत्नकम् ।
यत्किंचिद्द्रव्यजातं तदक्षय्यं तिष्ठति ध्रुवम् ॥ ३,१९.१३७ ॥
{धान्यवृद्धिकरणम् (४)}
मूलं सुश्वेतगुंजाया जलमध्ये विनिक्षिपेत् ।
तन्मूलं धान्यराशौ च क्षिप्त्वा मन्त्रविधानतः ॥ ३,१९.१३८ ॥
तद्धान्यं वर्धते नित्यं भक्ष्यमाणं सहस्रशः ।
मन्त्रखण्डे यथा प्रोक्तं गुञ्जामूलस्य साधनम् ।
तथैवात्र प्रकर्तव्यं सिद्धिर्भवति नान्यथा ॥ ३,१९.१३९ ॥
आदौ सर्वदिशान्तरेषु गमनं कृत्वा गुरोः संमुखात्प्राप्तं भक्तिबलेन युक्तिविधिना सारातिसारं महत् ।
तत्सर्वं धनवर्धनं निगदितं भूयिष्ठमध्वां क्वचिद्भूपानां विदुषां महामतिमतां विद्वान् भवेत्पालनैः ॥ ३,१९.१४० ॥

३, २०
साङ्गोपाङ्गमनेकयोगनिचयं सारं वरं चोद्धृतं युक्तं पारदबन्धनं मृदुहठात्दृष्टं परं यन्मया ।
तत्सर्वं सुगमं प्रवच्मि सहसा सिद्धाननादागतं प्रत्यक्षानुभवेन वार्तिकगणैः साम्राज्यदं वीक्ष्यतात् ॥ ३,२०.१ ॥
{पारदबन्धन (१)}
शुद्धपारदभागैकं टङ्कणेन समं समम् ।
मर्दयेत्त्रिफलाक्वाथैर्नरमूत्रैर्युतैस्ततः ॥ ३,२०.२ ॥
कर्षांशा गुलिकाः कृत्वा माषचूर्णैर्जलान्वितैः ।
सूतादृष्टगुणैर्लिप्त्वा छायाशुष्कां धमेद्दृढम् ॥ ३,२०.३ ॥
कोष्ठीयन्त्रे वंकनाले किट्टं भित्त्वा समाहरेत् ।
रसोऽसौ वर्तुलाकारः षण्डबद्धो भवत्यलम् ॥ ३,२०.४ ॥
{पारदबन्धनम् (२)}
आरण्यमल्लिकाद्रावैर्मूषां कन्याद्रवैश्च वा ।
द्रवैर्हरिणखुर्या वा नरमूत्रयुतं रसम् ॥ ३,२०.५ ॥
त्रिदिनं मर्दयेत्खल्वे मूत्रं दत्त्वा पुनः पुनः ।
तद्वटीं माषपिष्टेन लिप्त्वा धाम्यं च पूर्ववत् ॥ ३,२०.६ ॥
तद्वत्सूतो भवेद्बद्धस्तच्छोध्यं काचटंकणैः ॥ ३,२०.७ ॥
{पारदबन्धनम् (३)}
मर्कटीमूलजद्रावैः पारदं मर्दयेद्दिनम् ।
मर्कटीमूलजे पिण्डे क्षिपेत्तन्मर्दितं रसम् ॥ ३,२०.८ ॥
तत्पिण्डे वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ।
जायते खोटबद्धोऽयं सर्वकार्यकरक्षमः ॥ ३,२०.९ ॥
{पारदबन्धनम् (४)}
अर्कमूलं रविक्षीरैः पिष्ट्वा मूषां घनं क्षिपेत् ।
तन्मध्ये जारितं सूतं क्षिप्त्वा रुद्ध्वाथ रोधयेत् ॥ ३,२०.१० ॥
मृण्मये संपुटे तं च निरुन्ध्याल्लोहसंपुटे ।
ततो गजपुटे पच्यात्पारदो बन्धमाप्नुयात् ॥ ३,२०.११ ॥
{पारदबन्धनम् (५)}
जलकुम्भ्या द्रवैः सूतं मर्दयेद्दिवसत्रयम् ।
जलकुम्भ्या दलैर्मूषां कृत्वा तत्र क्षिपेत्तु तत् ॥ ३,२०.१२ ॥
रुद्ध्वा तां वज्रमूषायां छायाशुष्कां पुटेल्लघु ।
उत्पलैकैकवृद्ध्या तु विंशद्वारं पुटैः पचेत् ॥ ३,२०.१३ ॥
ततो गजपुटं देयं सम्यग्बद्धो भवेद्रसः ॥ ३,२०.१४ ॥
{पारदबन्धनम् (६)}
एकवीराद्रवैर्मर्द्यं त्रिदिनं शुद्धपारदम् ।
एकवीराकन्दकल्कैर्वज्रमूषां प्रलेपयेत् ।
तस्यां पूर्वरसं रुद्ध्वा ध्माते बद्धो भवेद्रसः ॥ ३,२०.१५ ॥
{पारदबन्धनम् (७)}
आरक्तक्षीरकंदोत्थद्रवैस्त्रीन् स्तन्यसंयुतैः ।
त्रिदिनं पारदं मर्द्यं वज्रकंदद्रवैस्त्र्यहम् ॥ ३,२०.१६ ॥
क्षीरकंदस्य कल्केन वज्रमूषां प्रलेपयेत् ।
तत्र पूर्वरसं रुद्ध्वा ध्माते बद्धो भवेद्रसः ॥ ३,२०.१७ ॥
{पारदबन्धनम् (८)}
कृत्वा ताम्रमयं चक्रं विस्तीर्णं चतुरङ्गुलम् ।
उन्नतं चाङ्गुलीकं तु सुदृढं वर्तुलं समम् ॥ ३,२०.१८ ॥
गंधकं पारदं तुत्थं कुर्यात्खल्वेन कज्जलीम् ।
तत्कज्जलं ताम्रतुल्यं मूषामध्ये विनिक्षिपेत् ॥ ३,२०.१९ ॥
तं चक्रं मूषिकावक्त्रे दत्त्वा रुद्ध्वाथ शोषयेत् ।
तं पचेद्धण्डिकायंत्रे द्वियामं लघुवह्निना ॥ ३,२०.२० ॥
उद्धृत्य ग्राहयेच्चक्राद्रसराजं पुनः पुनः ।
तत्तुल्यं टंकणं काचमूर्ध्वाधस्तस्य दापयेत् ॥ ३,२०.२१ ॥
अंधमूषागतं धाम्यमेवं वारत्रये कृते ।
रसेन्द्रो जायते बद्धो ह्यक्षीणो नात्र संशयः ॥ ३,२०.२२ ॥
{पारदबन्धनम् (९)}
शुद्धसूतं समं गंधं द्वाभ्यां तुल्यं च तालकम् ।
मर्द्यमुन्मत्तकद्रावैः खल्वे यामचतुष्टयम् ॥ ३,२०.२३ ॥
पातयेत्पातनायंत्रे दिनैकं मन्दवह्निना ।
ऊर्ध्वलग्नमधःस्थं च तत्सर्वं तु समाहरेत् ॥ ३,२०.२४ ॥
मर्द्यमुन्मत्तकद्रावैर्दृढं यामचतुष्टयम् ।
तद्गोलं पूर्ववत्पाच्यं पुनरादाय मर्दयेत् ॥ ३,२०.२५ ॥
पुनः पाच्यं पुनर्मर्द्यमूर्ध्वाधःस्थं प्रयत्नतः ।
सर्वं यावदधो भाण्डे तिष्ठते तावतावधिः ॥ ३,२०.२६ ॥
तत्सर्वं पूर्ववन्मर्द्यं गोलं कृत्वाथ शोषयेत् ।
सम्यक्संपेषयेदम्लैर्नलिकं कुष्ठमेव च ॥ ३,२०.२७ ॥
पीताञ्जनं वा पेष्यं च तेन गोलं प्रलेपयेत् ।
वज्रमूषोदरे चाथ तेन कल्केन लेप्य वै ॥ ३,२०.२८ ॥
गोलकं तापयेत्तत्र वंकनालेन तं धमन् ।
खोटबद्धो भवेत्साक्षात्तीव्रधामानलेन तु ॥ ३,२०.२९ ॥
{पारदबन्धनम् (१०)}
पलं सूतं पलं नागं द्वाभ्यां तुल्या मनःशिला ।
पूर्ववत्क्रमयोगेन खोटबद्धो भवेद्रसः ॥ ३,२०.३० ॥
{पारदबन्धनम् (११)}
नागं तारं समं द्राव्यं तच्चूर्णं पलमात्रकम् ।
शुद्धसूतं पलैकं च सर्वतुल्या मनःशिला ।
पूर्ववत्क्रमयोगेन खोटबद्धो भवेद्रसः ॥ ३,२०.३१ ॥
{मेर्चुर्य्ःः बन्धन}
पलं सूतं पलं तारं पिष्टमम्लेन केनचित् ।
द्वाभ्यां तुल्या शिला योज्या पूर्वयोगेन पाचयेत् ॥ ३,२०.३२ ॥
{मेर्चुर्य्ःः बन्धन}
तारवत्स्वर्णपिष्टीं च गंधकेन च पूर्ववत् ॥ ३,२०.३३ ॥
{मेर्चुर्य्ःः बन्धन}
कृष्णाभ्रकस्य सत्वं च तीक्ष्णं कांतं च हाटकम् ।
शुल्बं तारं च माक्षीकं समं सूक्ष्मं विचूर्णयेत् ।
वज्रमूषागतं रुद्ध्वा ध्माते खोटं भवेत्तु तत् ॥ ३,२०.३४ ॥
{मेर्चुर्य्ःः बन्धन}
श्वेताभ्रकस्य सत्वं च तारं तीक्ष्णं च माक्षिकम् ।
समं चूर्ण्य कृतं खोटं खोटांशं शुद्धसूतकम् ॥ ३,२०.३५ ॥
हरितालं द्वयोस्तुल्यं सूक्ष्मं मर्द्यं च पूर्ववत् ।
महदग्निगतं ध्मातं खोटं भवति तद्रसम् ॥ ३,२०.३६ ॥
{मेर्चुर्य्ःः बन्धन}
पारदं गंधकं तुल्यं मर्द्यं कन्याद्रवैर्दिनम् ।
तद्गोलं द्विगुणं गंधं दत्त्वा मूषाधरोत्तरम् ॥ ३,२०.३७ ॥
रुद्ध्वा संधिं विशोष्याथ कोष्ठीयन्त्रे दृढं धमन् ।
तत्सूतं जायते खोटं गन्धबद्धमिदं भवेत् ॥ ३,२०.३८ ॥
{मेर्चुर्य्ःः बन्धन}
पञ्चाङ्गं राजवृक्षस्य क्वाथमष्टावशेषितम् ।
तद्द्रवं तु रसे क्षिप्त्वा पाच्यं यामद्वयं शुभम् ॥ ३,२०.३९ ॥
चोवाबद्धो भवत्येष खोटो वै सर्वकार्यकृत् ॥ ३,२०.४० ॥
{मेर्चुर्य्ःः बन्धन}
चन्द्रवल्ल्या द्रवैर्मर्द्यं त्रिदिनं शुद्धपारदम् ।
टंकणेन तु संयोज्य वटिकां कारयेद्बुधः ।
कोष्ठयन्त्रगतं ध्मातं खोटबद्धो भवेद्रसः ॥ ३,२०.४१ ॥
{मेर्चुर्य्ःः बन्धन}
भल्लातकानां तैलान्तः पलमेकं क्षिपेद्रसम् ।
यावत्तैलं पचेत्तावद्रविक्षीरं क्षिपन् क्षिपन् ॥ ३,२०.४२ ॥
घट्टयेल्लोहदण्डेन खोटबद्धो भवेद्रसः ॥ ३,२०.४३ ॥
{… पारदबन्धनम् (२०)}
द्रवैः समूलकार्पास्यास्त्रिदिनं मर्दयेत्समम् ।
टंकणेन पादांशेन वटिकाः कारयेल्लघु ॥ ३,२०.४४ ॥
वल्मीकमृत्तिकामाषगोधूमानां च चूर्णकम् ।
समं मर्द्योदकेनैव मूषां तेनैव कारयेत् ॥ ३,२०.४५ ॥
तदन्तर्मर्दितं सूतं वटीं क्षिप्त्वा धमेद्दृढम् ।
खोटबद्धो भवेत्सोऽपि अंधमूषागतो रसः ॥ ३,२०.४६ ॥
{पारदबन्धनम् (२१)}
रसं पञ्चगुणं चैव द्विगुणं श्वेतटंकणम् ।
श्वेतवातारितैलानां मज्जामश्वस्य कोमला ॥ ३,२०.४७ ॥
त्रिदिनं मर्दयेत्खल्वे नरमूत्रेण साधकः ।
ततो गोधूमचूर्णं तु क्षिप्त्वा कुर्याद्वटीः शुभाः ॥ ३,२०.४८ ॥
विशोष्याथ धमेत्पश्चात्काचटंकणयोगतः ।
खोटबद्धो भवेत्सूतस्तेजस्वी सर्वकार्यकृत् ॥ ३,२०.४९ ॥
{पारदभस्म (१)}
कर्कोटी लाङ्गलीकंदद्रवैर्मर्द्यं दिनत्रयम् ।
वंध्याकर्कोटकीकंदे तं रसं तु निवेशयेत् ॥ ३,२०.५० ॥
कंदबाह्ये मृदा लेप्यं सर्वतोऽङ्गुलमात्रकम् ।
शुष्कं तुषपुटे पच्यात्त्रिदिनं परिवर्तयन् ॥ ३,२०.५१ ॥
समुद्धृत्य पुनर्मर्द्यं पूर्वकंदद्रवैस्त्र्यहम् ।
पूर्ववत्पुटपाकेन पारदो जायते मृतः ॥ ३,२०.५२ ॥
{पारदभस्म (२)}
हंसपाद्या द्रवैर्मर्द्यं सप्ताहं शुद्धपारदम् ।
क्षीरकंदोदरान्तर्वै क्षिप्त्वा कंदं मृदा लिपेत् ॥ ३,२०.५३ ॥
करीषाग्नौ दिनं पच्यात्पूर्ववन्मर्दयेत्पुनः ।
कंदे क्षिप्त्वा पचेत्तद्वत्ततो मर्द्यं च पूर्ववत् ॥ ३,२०.५४ ॥
क्षीरकंदोदरे रुद्ध्वा मृदा लिप्तं च शोषयेत् ।
सम्यग्गजपुटे पच्यात्मृतो भवति निश्चितम् ॥ ३,२०.५५ ॥
{पारदभस्म (३)}
हंसपादीक्षीरकंदद्रवैर्मर्द्यं दिनत्रयम् ।
रसं तत्क्रौञ्चपादान्तः क्षिप्त्वा पादं मृदा लिपेत् ॥ ३,२०.५६ ॥
करीषाग्नौ दिनं पच्यान्मर्द्यात्पूर्वद्रवैस्त्र्यहम् ।
दिनं तद्वत्पुटे पच्यात्पुनर्मर्द्यं च पाचयेत् ।
जायते भस्मसूतोऽयं सर्वकार्यकरक्षमः ॥ ३,२०.५७ ॥
{मुखकरणम्; सिल्वेर्, चोप्पेर्, लेअद्=> गोल्द्}
उक्तानां खोटबद्धानां मुखं कुर्यात्तदुच्यते ।
वचा चण्डालिनीकंदं ब्रह्मदण्डीयमूलकम् ॥ ३,२०.५८ ॥
गंधकं टंकणं तुल्यं भानुदुग्धेन पेषयेत् ।
चणमात्रां वटीं कृत्वा पूर्वसूते द्रुते क्षिपेत् ॥ ३,२०.५९ ॥
एकामेकां धमन्नेव वटिकासप्तकं क्रमात् ।
ग्रसते सर्वलोहानि यथेष्टानि न संशयः ॥ ३,२०.६० ॥
ग्रासो देयो यथाशक्त्या पूर्ववन्मारयेत्पुनः ।
मुखं बद्ध्वा नियुञ्जीत तारे ताम्रे भुजंगमे ॥ ३,२०.६१ ॥
तत्सर्वं जायते स्वर्णं वेधो दशगुणो मतः ।
सिद्धयोगः समाख्यातः सम्यग्दृष्ट्वा गुरोर्मुखात् ॥ ३,२०.६२ ॥
{चोप्पेर्=> गोल्द्}
सूताभ्रं गंधकं शुद्धं तृणज्योतोयमूलकम् ।
तत्सर्वं मातुलिंगाम्लैर्दिनमेकं समं समम् ॥ ३,२०.६३ ॥
शुद्धानि ताम्रपत्राणि तेन कल्केन लेपयेत् ।
रुद्ध्वा गजपुटे पच्यात्पुनरुत्थाप्य लेपयेत् ॥ ३,२०.६४ ॥
एवं पुटत्रये पक्वं तत्ताम्रं कांचनं भवेत् ॥ ३,२०.६५ ॥
{चोप्पेर्=> गोल्द्}
रक्तस्नुहीपयोभिश्च ताम्रपत्राणि लेपयेत् ।
कारयेदग्नितप्तानि तस्मिन् क्षीरे निषेचयेत् ॥ ३,२०.६६ ॥
इत्येवं सप्तधा कुर्याल्लेपतापनिषेचनम् ।
समावर्त्य तु तत्ताम्रं दिव्यं भवति कांचनम् ॥ ३,२०.६७ ॥
{चोप्पेर्, लेअद्, सिल्वेर्=> गोल्द्}
रसकं दरदं गंधं गगनं कुनटी समम् ।
आरक्तस्नुक्पयोभिस्तन्मर्दयेद्दिवसत्रयम् ॥ ३,२०.६८ ॥
तेन वेध्यं द्रुतं ताम्रं नागं वा तारमेव वा ।
सहस्रांशेन तद्दिव्यं सुवर्णं जायते ध्रुवम् ॥ ३,२०.६९ ॥
{नागस्य स्वर्णम्}
रक्तस्नुहीभवैः क्षीरै रजनीं मर्दयेत्त्र्यहम् ।
तेन नागस्य पत्राणि प्रलिप्तानि पुटे पचेत् ।
पुनर्लेप्यं पुनः पाच्यं सप्तधा कांचनं भवेत् ॥ ३,२०.७० ॥
{चोप्पेर्=> लेअद्}
पद्मिनीपत्रपुष्पाभा विज्ञेया स्थलपद्मिनी ।
भङ्गे रक्तं स्रवेत्क्षीरं ज्ञात्वा तामुद्धरेत्ततः ॥ ३,२०.७१ ॥
पारदं गंधकं तालं माहिषी कुनटी समम् ।
पूर्वोक्तपद्मिनीयुक्तं मर्दयेद्दिनसप्तकम् ।
तेन शुल्बं भवेत्स्वर्णं सहस्रांशेन वेधितम् ॥ ३,२०.७२ ॥
{तारबीजकल्कः}
नागं बंगं तीक्ष्णसारं तारं च क्रमश उत्तरम् ।
पञ्चानां तु समं ताम्रं सर्वं मूषागतं धमेत् ॥ ३,२०.७३ ॥
प्रकटं वंकनालेन यावत्तारावशेषितम् ।
तत्तारं पद्मरागाभं जायते द्रावयेत्पुनः ॥ ३,२०.७४ ॥
वेध्यं रसकसत्वेन पञ्चमांशेन यत्नतः ।
तद्भवेत्कांचनं दिव्यं सिद्धयोग उदाहृतः ॥ ३,२०.७५ ॥
{तिन् => सिल्वेर्}
रक्तचित्रकपञ्चाङ्गं छायाशुष्कं विचूर्णयेत् ।
तद्वापं द्रुतबंगस्य रुद्ध्वा रुद्ध्वा त्रिवारकम् ॥ ३,२०.७६ ॥
देयं तज्जायते तारं शंखकुन्देन्दुसन्निभम् ॥ ३,२०.७७ ॥
{चोप्पेर्=> गोल्द्}
रक्तचित्रकमूलं तु कांजिकं शुद्धपारदम् ।
कङ्गुणीतैलसंयुक्तं सर्वं कल्कं प्रलेपयेत् ॥ ३,२०.७८ ॥
ताम्रपत्राणि तप्तानि तस्मिन् सिञ्चेत्त्रिसप्तधा ।
एतत्ताम्रं द्विषड्भागं तारं षोडशभागकम् ॥ ३,२०.७९ ॥
एकीकृत्य समावर्त्य तेन पत्राणि कारयेत् ।
रक्तचित्रकमूलानि भल्लाततैलपेषितम् ॥ ३,२०.८० ॥
अनेन पूर्वपत्राणि प्रलिप्तानि पुटे पचेत् ।
एवं त्रिसप्तधा कुर्याद्दिव्यं भवति काञ्चनम् ॥ ३,२०.८१ ॥
{चोप्पेर्=> गोल्द्}
नागिनीकन्दसूतेन्द्ररक्तचित्रकमूलकम् ।
पिष्ट्वा तेनैव पत्राणि पूर्वोक्तानि प्रलेपयेत् ।
तद्वत्पच्यात्पुटैरेवं दिव्यं भवति कांचनम् ॥ ३,२०.८२ ॥
{चोप्पेर्=> गोल्द्}
ज्योतिष्मतीभवैस्तैलैस्ताम्रकुम्भं प्रपूरयेत् ।
मुखं रुद्ध्वा क्षिपेद्भूमौ पृष्ठे तुषपुटं सदा ॥ ३,२०.८३ ॥
एवं षण्मासपर्यन्तं पुटयेदुद्धरेत्क्रमात् ।
बहिस्तुषपुटे पच्यात्त्रिदिनं तद्दिवनिशम् ॥ ३,२०.८४ ॥
तत्ताम्रं हाटकं तुल्यं समावर्तं तु कारयेत् ।
क्षिप्ते ज्योतिष्मतीतैले सर्वं भवति कांचनम् ॥ ३,२०.८५ ॥
{चोप्पेर्=> गोल्द्}
क्षीरकन्दभवे क्षीरे तप्तं ताम्रं निषेचयेत् ।
शतवारं प्रयत्नेन तत्ताम्रं कांचनं भवेत् ॥ ३,२०.८६ ॥
{सिल्वेर्=> गोल्द्}
गंधकं रसकं ताप्यं पारदं रक्तचन्दनम् ।
मर्द्यं रुदन्तिकाद्रावैरविच्छिन्नं दिनत्रयम् ॥ ३,२०.८७ ॥
तेन तारस्य पत्राणि लिप्त्वा रुद्ध्वा पुटे पचेत् ।
इत्येवं सप्तधा कुर्यात्दिव्यं भवति कांचनम् ॥ ३,२०.८८ ॥
{चोप्पेर्=> गोल्द्}
कृष्णाया वाथ पीताया देवदाल्या फलद्रवम् ।
विष्णुक्रान्ताद्रवं तुल्यं कृत्वा तेनैव मर्दयेत् ॥ ३,२०.८९ ॥
सप्ताहं पारदं शुद्धं ततस्ताम्रं प्रलेपयेत् ।
रुद्ध्वा गजपुटे पच्यात्ततस्तीव्राग्निना धमेत् ॥ ३,२०.९० ॥
दशांशं तद्रसं क्षिप्त्वा दिव्यं भवति कांचनम् ॥ ३,२०.९१ ॥
{सोfतेनिन्गोf fइस्सुरेद्मिनेरल्स्}
वसुभट्टरसेनाथ त्रिधा सिञ्चेत्सुतापितम् ।
लोणवत्स्फुटितो धातुर्मृदुः स्यात्सिक्थको यथा ॥ ३,२०.९२ ॥
{तिन् => सिल्वेर्}
देवदाल्या फलं मूलमीश्वरीफलजद्रवम् ।
पिष्ट्वा तत्कल्कवापेन द्रुतं बंगं दृढं भवेत् ॥ ३,२०.९३ ॥
भूयो भूयस्त्वयं वाप्यस्तारं भवति शोभनम् ॥ ३,२०.९४ ॥
{चोप्पेर्=> गोल्द्}
कृष्णपक्षे चतुर्दश्यामष्टम्यां ग्रहणेऽथवा ।
नृकपाले श्वेतगुंजां वापयेच्छुद्धभूमिषु ॥ ३,२०.९५ ॥
सेचयेत्सलिलं नित्यं यावत्फलवती भवेत् ।
मन्त्रपूजां ततः कृत्वा पुष्ये ग्राह्य फलानि वै ॥ ३,२०.९६ ॥
शुद्धताम्रपलं श्वेतं विंशत्युत्तरकं शतम् ।
एकैकं पूर्वबीजानां सम्यग्रुद्ध्वा धमेद्दृढम् ॥ ३,२०.९७ ॥
तत्ताम्रं जायते तारं शंखकुन्देन्दुसन्निभम् ।
तारं तज्जायते स्वर्णं सुशुद्धा बद्धरीतिका ॥ ३,२०.९८ ॥
{चोप्पेर्=> सिल्वेर्}
भूनागानां रसैर्मर्द्यं शुद्धं तालं दिनावधि ।
तत्पिण्डं हण्डिकामध्ये तालकांशं निरोधयेत् ॥ ३,२०.९९ ॥
ताम्रपत्राणि तत्पश्चात्ढङ्कणेन निरुध्य च ।
हंडिका भस्मना पूर्या रुद्ध्वा चण्डाग्निना पचेत् ॥ ३,२०.१०० ॥
पञ्चयामात्समुद्धृत्य निष्कटंकणसंयुतम् ।
मूकमूषागतं धाम्यं गुटिकां तां समुद्धरेत् ॥ ३,२०.१०१ ॥
स्वांगशीतं समाहृत्य मूषायां प्रकटं धमेत् ।
वारत्रयं क्षिपेत्तस्मिन् वटिकां वेधनान्मुखम् ॥ ३,२०.१०२ ॥
मुखं तस्य भवेत्तीव्रं शुद्धं बंगं द्रवत्यलम् ।
यदा न ग्रसते तस्माद्वटी देया पुनः पुनः ॥ ३,२०.१०३ ॥
जीर्णे शतगुणे वङ्गे ततरताम्रस्य दापयेत् ।
द्रुतस्य शतभागेन तत्तारं जायते शुभम् ॥ ३,२०.१०४ ॥
{नागमुखकरणम्}
गंधकं धूमसारं च फट्करी टंकणं समम् ।
एरण्डबीजमज्जापि सर्वेषां द्विगुणा भवेत् ॥ ३,२०.१०५ ॥
भूनागाः सर्वतुल्याः स्युः सर्वमेकत्र मर्दयेत् ।
चणमात्रा वटीः कार्या ख्यातेयं वडवामुखा ॥ ३,२०.१०६ ॥
शुद्धनागं द्रुतं क्षेप्यं तैले एरण्डके पुनः ।
द्राव्यं द्राव्यं पुनः क्षेप्यं यावद्वारं शृतं भवेत् ॥ ३,२०.१०७ ॥
पुनस्तस्मिन्द्रुते देया वटिका वडवामुखा ।
द्वित्रिवारं प्रयत्नेन नागस्येत्थं मुखं भवेत् ॥ ३,२०.१०८ ॥
ग्रसते सर्वलोहानि सत्वानि विविधानि च ।
यदा न ग्रसते तस्माद्वटी देया पुनः पुनः ॥ ३,२०.१०९ ॥
{कठिनधातोर्मृदूकरणम्}
मधूकपुष्पी यष्टीकं रंभाकंदं घृतं गुडम् ।
तिलतैलमजाक्षीरं क्षौद्रं च तुल्यतुल्यकम् ॥ ३,२०.११० ॥
तन्मध्ये कठिनं धातु त्रिधा सिञ्च्यात्सुतापितम् ।
मृदुत्वं याति नो चित्रं सूत्रयोग्यं न संशयः ॥ ३,२०.१११ ॥
{कठिनधातोर्मृदूकरणम् (२)}
वसुभद्ररसेनाथ त्रिधा सिञ्च्य सुतापितम् ।
लोणवत्स्फुटितो धातुर्मृदुः स्यात्सिक्थकोपमः ॥ ३,२०.११२ ॥
{कठिनधातोर्मृदूकरणम् (३)}
अतिस्थूलस्य भेकस्य निवार्यान्त्राणि तत्र वै ।
चूर्णितं टंकणं क्षिप्त्वा तद्भाण्डस्थं खनेद्भुवि ॥ ३,२०.११३ ॥
त्रिसप्ताहं समुद्धृत्य तद्वापे मृदुतां व्रजेत् ।
स्वर्णं वा यदि वा रौप्यं मृदु स्यात्पत्रयोग्यकम् ॥ ३,२०.११४ ॥
{अभ्रग्रासी रसः}
तृणज्योतीयमूलेन मातुलिंगरसेन च ।
त्रिदिनं मर्दयेत्सूतं गगनं ग्रसते क्षणात् ॥ ३,२०.११५ ॥
{गुह्याख्यसूतेन नागवेधः}
भूनागसूक्ष्मचूर्णं तु टंकणेन समं भवेत् ।
तच्चूर्णं तु द्रुते नागे वाह्यं शतगुणं धमन् ॥ ३,२०.११६ ॥
गुह्याख्यं तद्भवेत्सिद्धं ग्रासं तस्यैव वक्ष्यते ।
शिलागंधकमाक्षीकैर्भूनागद्रवपेषितैः ॥ ३,२०.११७ ॥
मूषागर्भं लिपेत्तेन गुह्याख्यं तत्र निक्षिपेत् ।
भुक्तं तस्मिन्क्षिपेत्स्वर्णं स्तोकं स्तोकं धमन्धमन् ॥ ३,२०.११८ ॥
ग्रसते भारसंख्या तु मूषा लेप्या पुनः पुनः ।
मुञ्चत्यसौ द्रुते नागे गुह्याद्गुह्यं प्रकाशितम् ॥ ३,२०.११९ ॥
{गुह्याख्यसूतेन वङ्गवेधः}
भूनागं टंकणं तुल्यं सूक्ष्मचूर्णानि कारयेत् ।
तं वाहयेद्द्रुते बंगे यावच्छतगुणं धमन् ॥ ३,२०.१२० ॥
ततः शतगुणं बंगं तस्यैवोपरि वाहयेत् ।
स्तोकं स्तोकं धमन्नेव ग्रसते नात्र संशयः ॥ ३,२०.१२१ ॥
{गुह्यवङ्गकरणं तेन वेधः}
तालकं सैंधवं तुल्यं भूनागद्रवपेषितम् ।
मूषागर्भे लिपेत्तेन तद्बंगं तत्र निक्षिपेत् ॥ ३,२०.१२२ ॥
स्तोकं स्तोकं क्षिपेत्तस्मिन् बिडं दत्त्वा धमन्धमन् ।
भारसंख्या ग्रसत्येवं गुह्यवङ्गमिति स्मृतम् ॥ ३,२०.१२३ ॥
द्रुते बंगे विनिक्षिप्तं यावत्संख्या न संशयः ।
तावद्द्रुते न संदेहः सिद्धयोग उदाहृतः ॥ ३,२०.१२४ ॥
क्षिप्त्वाथ माहिषे शृङ्गे मर्दयन्नग्निना पचेत् ।
निष्कमेकं भवेद्यावत्तावन्मर्द्यं क्षिपन् क्षिपन् ॥ ३,२०.१२५ ॥
तद्भवेद्रसतुल्यं तु समादायाथ तत्समम् ॥ ३,२०.१२६ ॥
{गुह्ययोगः}
पारदं शुद्धहेमाथ सत्वं भूनागसंभवम् ।
चत्वारिंशन्नागभागा मर्द्यं जंबीरजद्रवैः ॥ ३,२०.१२७ ॥
तद्गोलकं विशोष्याथ कल्के भूनागसंभवे ।
मूषागर्भे विलेप्यादौ तस्यां गोलं निरोधयेत् ॥ ३,२०.१२८ ॥
धमेत्तीव्राग्निना तावद्यावन्नात्रावशेषितम् ।
सर्ववद्ग्रसते दत्ते गुह्याख्यं योगमुत्तमम् ॥ ३,२०.१२९ ॥
{कामधेनुः (१)}
अथातः सम्प्रवक्ष्यामि गुटिकाबंधमुत्तमम् ।
समजीर्णं कृतं व्योम समतो रसं जारयेत् ॥ ३,२०.१३० ॥
रविसंख्यांशकं शुल्बं दत्त्वा पिष्टिं च कारयेत् ।
धान्याभ्रकसमं गंधं शुल्बे क्षिप्त्वा विमर्दयेत् ॥ ३,२०.१३१ ॥
तयोर्मूषाकृतिं कृत्वा पिष्टीमध्ये विमोचयेत् ।
नरमांसेन संवेष्ट्य माषपिष्ट्या तथैव च ॥ ३,२०.१३२ ॥
पचेदतसीतैलेन मासमात्रं तु साधकः ।
अक्षया कामधेनुश्च वङ्गस्तम्भनकारिणी ॥ ३,२०.१३३ ॥
{कामधेनुः (२)}
पारदे जार्यं कृष्णाभ्रं रुक्ममष्टगुणं यदि ।
रञ्जितं गन्धरागेण नरमांसेन वेष्टितम् ॥ ३,२०.१३४ ॥
माषपिष्ट्या प्रलिप्याथातसीतैलेन पाचयेत् ।
कामधेनुरियं ख्याता नागस्तम्भनकारिणी ॥ ३,२०.१३५ ॥
{कामधेनुः (३)}
रसात्पादांशकं हेमपिष्टिं कुर्याच्च सुन्दराम् ।
विलिप्य कामधेनुं च नागद्रावे नियोजयेत् ॥ ३,२०.१३६ ॥
तं नागं कुरुते रुक्मं वाञ्छितार्थेषु सिद्धिदम् ।
गुटिकां कामधेनुं तां प्रत्यहं धारयेन्मुखे ।
शस्त्रास्त्रैर्न च भिद्येत दिव्यदेहमवाप्नुयात् ॥ ३,२०.१३७ ॥
{सिल्वेर्=> गोल्द्}
शिलया मारितो नागः सूतराजसमन्वितः ।
रञ्जितो गन्धरागेण समहेम्ना च सारयेत् ।
तारवेधः प्रदातव्यो दिव्यं भवति कांचनम् ॥ ३,२०.१३८ ॥
{लेअद्=> गोल्द्}
शिलया रविदुग्धेन नागपत्राणि लेपयेत् ।
मारयेत्पुटयोगेन दिव्यं भवति कांचनम् ॥ ३,२०.१३९ ॥
{सितस्वर्ण => गोल्द्}
मेषीक्षीराम्लवर्गाभ्यां दरदं घर्मभावितम् ।
शतधा तत्प्रयोगेन शोष्यं पेष्यं खरातपे ॥ ३,२०.१४० ॥
सितस्वर्णस्य पत्राणि लिप्त्वा लिप्त्वा पुटे पचेत् ।
एवं त्रिसप्तधा कुर्याद्दिव्यं भवति कांचनम् ॥ ३,२०.१४१ ॥
{गगनग्रासः}
तृणजातीयमूलं तु मातुलिङ्गरसेन च ।
त्रिदिनं मर्दयेत्सूतं गगनं ग्रसते क्षणात् ॥ ३,२०.१४२ ॥
सिद्धैर्गणैः सुरवरै रससिद्धिकामैर्बद्धं हठात्परममन्त्रबलेन तैश्च ।
तस्माद्विशिष्टमनुजैः कृतमन्त्रजापैः कार्यं ततो रसवरे वरबन्धनं च ॥ ३,२०.१४३ ॥
\Z

]