वृन्दमाधवापरनामा-सिद्धयोगः

[[वृन्दमाधवापरनामा-सिद्धयोगः Source: EB]]

[

.

[TABLE]

अथ श्रीवृन्दमाधवान्तर्गतविषयानुक्रमः।

विषयानुक्रमः विषयानुक्रमः
ज्वराधिकारः कल्याणकं सापैः
मङ्गलाचरणम् षट्कटवराख्यं तैलम्
परिभाषाप्रकरणम् अङ्गारकं तैलम्
अरुचेः प्रतीकारः ज्वरमुक्तिलक्षणम्
अरुचि हितभोजनम् ज्वरमुक्तस्य व्यायामादिनिषेधः
नवज्वरे निषिद्धानि ज्वराविसाराधिकारः
ज्वरस्य पक्वलक्षणम् दशमूलीकषायः
सर्वज्वरे पाचनम् **३ ** अतिसाराधिकारः
परिणामप्रयुक्तभेषजगुणाः पेयासुरभोगद्रव्याणि
वातज्वरे पाचनम् आमे संग्रहणनिषेधः
वातज्वरसंशमनक्वाथः आमे पाचनविधिः
पिताज्वरे पाचनम् कफजातिसारचिकित्सितम्
पितज्वरसंशमनक्वाथः रक्तजातिसारचिकित्सितम्
पितज्वरदाद्दप्रतीकारः पैत्तिक आमातिसारे सिद्धतमयोगः
पितज्वरकृच्छोषप्रतीकारः पुटपाकविधिः
कफज्वरे पाचनम् कुटजलेहः
कफज्वरेऽवलेहद्वयम् कुटजाष्टकम्
अवलेहचर्णद्रव्यमानापरिभाषा षडङ्गघृतम्
सन्नपातज्वरचिकित्साविधि ग्रहण्यधिकारः
संनिषातज्य नस्यदानम् चित्रकगुटिका
चर्तुदेशाङ्गाः क्वाथः नागरादिचूर्णम्
अष्टादशाङ्गः क्वाथः भूनिम्बाद्यं चूर्णम्
जीर्णमनिपाते योगः मसुरघृतम्
संनिपातज्वरस्य मोक्षवधयोरवाधि अष्टपलघृतम्
भृतज्वरचिकित्सा बिम्बाद्यं घृतम्
जीर्णज्वरचिकित्सा बालचाङ्गेरीघृतम्
विषमज्वरसंप्राप्तिकारणकथनम् चाङ्गेरीघृतम्
दिवारात्रिज्वरयोः कारणानि मरिचाद्यं घृतम्
तृतीयकचतुर्थकयोलक्षणम् शुण्ठीघृतम्
विषमज्वरप्रकारः कल्याणगुडः
विषमज्वरेऽष्टङ्गधूपः अर्शोधिकारः
पिप्पल्यादिघृतम्
विषयानुक्रमः विषयानुक्रमः
अग्निरक्षावश्यकत्वम् व्योषाद्यं धृतम्
कल्याणलवणम् मण्डूरवटकः
प्राणदो मोदकः पुनर्नवाभण्डूरः
काङ्कायनमोदकः मण्डूरवज्रवटकः.
लवणोत्तमाद्यं चूर्णम् रक्तपित्ताधिकारः
समशर्करचूर्णम् स्तम्भनयोगाः
चतुःसमामोदकः सिद्धतमयोगः
सूरणपिण्डी एलादिगुटिका
स्वल्पभूरणमोदकः दुर्वाद्यं घृतम्
बृहत्सुरणमोदकः वासाद्यं घृतम्
च द्यं घृतम् शतावरीघृतम्
पिप्पल्याद्यं तैलम् खण्डकूष्माण्डकः
बाहुशालगुड ः वासाखण्डकूष्माण्डः
गुडपाकलक्षणम् वासाखण्डः
भल्लातकगुडः खण्डखाद्यलोहः
भल्लातकलोहः १० राजनक्ष्माधिकार
रक्तार्शसश्चिकित्सा षडङ्गयूषः
कुटजावलेहः एलामन्थः
अजीर्णाद्यधिकारः सर्पिर्गुडः
हिङ्ग्ग्वष्टकम् च्यवनप्राशः
अजीर्णचिकित्सा अगस्तिहरीतकी
प्रातराशाद्यजीर्णे सायमाशादिदूषणाभावादिकथनम् जीवन्त्याद्यं घृतम्
अग्निमुखं चूर्णम् पिप्पलीघृतम्
वृहदग्निमुखं चूर्णम् षडङ्गघृतम्
भास्करलवणम् पराशरघृतम्
वार्ताकगुटिका छागलाद्यं घृतम्
अग्निघृतम् बलागर्भधृतम्
चित्रकगुडः बलाद्यं घृतम्
बृहच्चुक्रम् चन्दनाद्यं तैलम्
स्वल्पचुक्रम् ११ कासाधिकारः
चिपचिकाचिकित्सितम् नवाङ्गयूषः
कुम्यधिकारः कट्फलादियोगः
कृमिन्नोऽवलेहः तालीसाद्यो मोदकः
कृमिन्नपूलिका मरीचादिवटिका
विहङ्गघृतम् समशर्करं चूर्णम्
पाण्डुरोगाधिकारः दशमूलघृतम्
कामलाचिकित्सा बृहत्कण्टकारीघृतम्
हरिद्राद्यं घृतम् रास्त्राद्यं धृतम्
विषयानुक्रमः विषयानुक्रमः
दशमूलपटपलकं घृतम् महावैतसं घृतम्
व्योपान्तिका गुटिका ब्राह्मीघृतम्
१२ हिक्वाश्वासाधिकारः कृष्माण्डकं घृतम्
नावनत्रयम् स्वल्पपञ्चगव्यं घृतम्
हिस्रद्यं घृतम् बृहत्ञ्चगव्यं घृतम्
भाङ्गीगुडः २२ वाताधिकारः
कुलत्थगुडः साल्वणस्वेदः
१३ स्वरभेदाधिकारः आर्माशयगतवायोश्चिकित्सा
पैत्तिकस्वरभेदचिकित्सा षट्चरणयोगः
कफजस्वरभेदचिकित्सा पक्वाशयगतवायोश्चिकित्सा
१४ अरोचकाधिकारः बस्तिगतवायोश्चिकित्सा
बातजारोचकचिकित्सा धातूपधातुगतवायोश्चिकित्सा
पित्तजारोचकचिकित्सा स्नायुसंधिगतवायोश्चिकित्सा
कफजारोचकचिकित्सा शुक्रगतवायोश्चिकित्सा
सांनिपातिकारोचकचिकित्सा अल्परसोनपिण्डः
यनाखडवः दशमूलीक्वाथः
१५ छर्द्यधिकारः पक्षमुलीक्वाथः
वातजवमाचिकित्सा कल्याणकलेहः
एलादि चूर्णम् आदित्यपाकगुग्गुलुः
पद्मकाद्यं धूतम् त्रयोदशाङ्गगुग्गुलुः
१६ तृष्णाधिकारः दशमृलीघृतम्
क्षनोद्भवतृष्णाचिकित्सा अश्वगन्धाघृतम्
क्षयोन्यिततृष्णाचिकित्सा छागलाद्यं घृतम्
क्षयोन्यतृष्णायां जलस्यादाने फलम् एलाद्यं तैलम्
जलदानेन तृष्णानुरमणविधिः बलातैलम्
१७ मूर्छाधिकारः नारायणतैलम्
१८ मदात्ययाधिकारः महानारायणतैलम्
पानचिजमचिकित्सा अश्वागन्धातैलम्
१९ दाहाधिकारः मापतैलम्
कृशाद्यं तैलम् बृहन्माषतैलम्
२० उन्मादाधिकारः महामासतैलम्
वालयासज्ञो स्मः मध्यमप्रसारणीतैलम्
महाशाविक घृतम् कुब्जप्रसारणीतैलम्
वैतमं घृतम् सप्तसतकाप्रसारणीतैलम्
हिडम्बाद्यं घृतम् एकादशशतकीप्रसारणीतैलम्
२२ अपस्माराधिकारः कस्तूरिकापरीक्षा
सैन्धवाद्यं तैलम्
२३ वातरक्ताधिकारः
विषयानुक्रमः विषयानुक्रमः
नवकार्षिकः कषायः समुद्राद्यं चूर्णम्
गुग्गुलुवटिका पिप्पली घृतम्
गुडूचीघृतम् कोलादिमण्डूरः
शतावरीघृतम् भीमवटकमण्डूरः
बलातैलम् क्षीरमण्डूरः
पिण्डतैलम् वटिकामण्डूरः
नागबलातैलम् शतावरीमण्डूरः
कैशोरकगुग्गुलुः गुडमण्डूरः
अमृताद्यो गुग्गुलुः खण्डामलकी
पुनर्नवागुग्गुलुः २८ उदारवर्ताधिकारः
योगसारामृतम् नाराचकचूर्णम्
२४ ऊरुस्तम्भाधिकारः जृम्भजोदावर्ताचिकित्सा
स्नेहादीनां निषेधः अश्रुजोदावर्ताचिकित्सा
स्नेहनिषेधेऽपवादः २९ अनाहाराधिकारः
अष्टकट्वरतैलम् शुष्कमूलकाद्यं घृतम्
२५ आमवाताधिकारः ३० गुल्माधिकारः
रास्त्रादिपञ्चकम् वातगुल्माचिकित्सा
रास्त्रादिसप्तकम् जाङ्गलरसपानम्
वैश्वानरचूर्णम् यौगिकस्वेदाः
योगराजः हिड्वादिचूर्णम्
अलम्बुषाद्यं चूर्णम् हपुषाद्यं घृतम्
अजमोदादिवटकः दन्तीहरीतकी
शुण्ठीघृतम् त्र्यूषणाद्यं घृतम्
गुडूचीघृतम् द्राक्षाद्यं घृतम्
काञ्जिकषट्पलघृतम् व्योषाद्यं घृतम्
रसोनपिण्डः क्षीरषट्पलकघृतम्
बृहद्रसोनपिण्डः धात्रीषट्पलकघृतम्
अमृतरसोनपिण्डः वार्श्वीवारिष्टः
२६ शूलाधिकारः गुल्मनिषिध्दानि
पित्तजशूलचिकित्सा ३१ हृद्रोगाधिकारः
कफजशूलचिकित्सा वातहृद्रोगाचिकित्सा
त्रिदोषजशूलचिकित्सा पिप्पल्याद्यं चूर्णम्
एरण्डद्वादशकः पित्तहृद्रोगे वमनम्
आमशूलचिकित्सा श्लैष्मिकहृद्रोगचिकित्सा
एरण्डसप्तकः कृमिहृद्रोगचिकित्सा
रुचकादिचूर्णम् पीतविरेचकस्यानुपातम्
दाधिकं घृतम् वल्लभघृतम्
२७ परिणामशूलाधिकार श्वदंष्ट्राद्यं घृतम्
विषयानुक्रमः विषयानुक्रमः
वलाद्यं घृतम् पटोलादिचूर्णम्
अर्जुनघृतम् नारायणचूर्णम्
३२ मूत्रकृच्छ्राधिकारः दशमूलषट्पलकघृतम्
शतावरीक्वाथः चित्रकघृतम्
हरीतकीक्वाथः बिन्दुघृतम्
गोक्षुरबीजक्वाथः नाराचघृतम्
एलादिचूर्णम् चित्रकघृतम्
शतावरीक्वाथः पिप्पलीघृतम्
त्रिकण्टकाद्यं घृतम् रोहितकघृतम्
३३ मूत्राघाताधिकारः महारोहितकघृतम्
चित्रकाद्यं घृतम् ३८ शोथोदराधिकारः
३४ अश्मर्यधिकारः पुनर्नवदनां चूर्णम्
पित्ताश्मरीचिकित्सा ३९ शोथाधिकारः
कफाश्मरीचिकित्सा सर्वशोधहर आर्द्राकरसः
शुकादमर्यो सामान्यविधिः पुर्नवायद्यं धृतम्
कुलत्थायं घृतम् पञ्चकोलाद्यं धृतम्
शराद्यं धृतम् माणकघृतम्
वरुणाद्यं घृतम् शैलेयाद्यं तैलम्
वीरतराद्यं घृतम् शुष्कमूलकायं तैलम्
३५ प्रमेहाधिकारः केसहरीतकी
कफप्रमेहे सामान्ययोगाः दशमूलहरीतकी
पित्तप्रमेहे सामान्ययोगाः पुनर्नबालेहः
वातिकमेहचतुष्टयचिकित्सा ४० वृद्ध्यधिकारः
मेहेषु सामान्ययोगाः वर्ध्मलक्षणम्
न्यग्रोधादिचूर्णम् सैन्धवादितैलम्
त्रिकण्टकाख्यं घृतम् सौरेश्वरं घृतम्
धन्वन्तरं घृतम् वृद्धौ परिहार्याणि
सुवर्णादिधातुगुणाः ४१ गलगण्डाधिकारः
प्रमेहपिटिकाचिकित्सा अमृताद्यं तैलम्
प्रमेहनिवृत्तिलक्षणम् तुम्बीतैलम्
३६ मेदोवृद्ध्यधिकारः गण्डमालाचिकित्सा
स्थौल्यनाशकविडङ्गादियोगः ग्रन्थिचिकित्सा
व्योषादियोगः प्रन्थिविशेषेण लेपाः
त्रिफलायं तैलम् अर्बुदचिकित्सा
नवकगुग्गुलुः अपचीचिकित्सा
३७ उदराधिकारः शाखोटकबिम्बाद्यं तैलम्
सामुद्राद्यं चूर्णम् निर्गुण्डीतैलम्
विषयानुक्रमः विषयानुक्रमः
छुच्छुन्दरीतैलम् ४७ नाडीव्रणाधिकारः
चन्दनादितैलम् सूत्राविचारणप्रकारः
व्योषाद्यं तैलम् सप्ताङ्गो गुरुगुलुः
४२ श्लीपदाद्यधिकारः स्वर्जिकाद्यं तैलम्
वृद्धदारुकचूर्णम् कुम्भीपाकाद्यं तैलम्
पिप्पल्याद्यं चूर्णम् भल्लातकतैलम्
कृष्णाद्यो मोदकः निर्गुण्डीतैलम्
सौरेश्वरधृतम् **४८ ** भगंदराधिकारः
विडङ्गादितैलम् नवकार्षिकगुग्गुलुः
**४२ ** विद्रध्यधिकारः गुग्गुलुपञ्चत्तिक्तकम्
मुरुङ्गीसौभाञ्जनकः विष्यन्दनं तैलम्
प्रियंग्वायं तैलम् करवीराद्यं तैलम्
४४ व्रणशोथाधिकारः **४९ ** उगंदराधिकारः
विम्लापनविविः करञ्जादितैलम्
पीडनविधिः आगारधूमाद्यं तैलम्
दारणविधिः ५० शूकाधिकारः
प्रक्षालनविधिः ५१ कुष्ठाधिकारः
कल्कादिविधिः नवककषायः
त्रिफलागुग्गुलुः पञ्चनिम्बाद्यं चूर्णम्
वढिकागुग्गुलः एकविंशतिको गुग्गुलुः
अमृतावटिकागुग्गुलु तिक्तषट्पलकं घृतम्
४५ आगन्तुव्रणाधिकारः पञ्चतिक्तकघृतम्
गौराद्यं धृतम् तिक्तकघृतम्
करञ्जाद्यं घृतम् महातिक्तकघृतम्
जात्याद्यं घृतम् महाखादिरं घृतम्
प्रपौण्डरीकाद्यं घृतम् गुरगुलुपञ्चतिक्तिकं घृतम्
मधूच्छिष्टाद्यं घृतम् वज्रकघृतम्
पाटलीतैलम् तृणतैलम्
चन्दनाद्यं यमकम् महातृणतैलम्
कुठारकतैलम् वज्रकतैलम्
दुर्वातैलम् मरिचाद्यं तैलम्
**४६ ** भग्नाधिकारः बृहन्मरिचाद्यं तैलम्
संधिमुक्तकाण्डभग्नानां प्रतीकारोपायाः विषतैलम्
भग्ने लेपद्रव्याणि करवीराद्यं तैलम्
भग्ने हितमन्नपानम् श्वेतकरवीराद्यं तैलम्
लाक्षागुरगुलुः सिन्दूराद्यं तैलम्
आभागुग्गुलुः बृहत्सिन्दूराद्यं तैलम्
अग्नेऽसेव्यानि द्वितीयं सिन्दूराद्यं तैलम्
विषयानुक्रमः विषयानुक्रमः
आदित्यपाकतैलम् प्रपौण्डरीकाद्यं तैलम्
दूर्वातैलम् चन्दनाद्यं तैलम्
अर्कतैलम् ५८ मुखरोगाधिकारः
गण्डीरिकाद्यं तैलम् दन्तमूलगतरोगचिकित्सा
कुष्ठे कालावधिशोधनम् उपरिजदन्तानुद्धारे हेतुः
कुष्ठे प्रतिषेधविधिः दन्तरोगचिकित्सा
५२ शीतपित्ताद्यधिकारः जिह्वागतरोगचिकित्सा
५३ अम्लपित्ताधिकारः तालुगतरोगचिकित्सा
दशाङ्गः क्वाथः कण्ठरोगचिकित्सा
वासादिगुग्गुलुः कालकचूर्णम्
पञ्चनिम्बाद्यं चूर्णम् पीतिकं चूर्णम्
जीरकाद्यं घृतम् मुखपाके सामान्यचिकित्सा
पिप्पलीघृतम् सहचराद्यं तैलम्
द्राक्षाद्यं घृतम् इरिमेदाद्यं तैलम्
शतावरीघृतम् लाक्षातैलम्
गुडायो मोदक अकुलाद्यं तैलम्
५४ विसर्पाधिकारः स्वल्पखदिरवटिका
५५ विस्फोटाधिकारः बृहत्खादिरवटिका
वृषाद्यं घृतम् ५९ कर्णरोगाधिकारः
पञ्चतिक्तं घृतम् दीपिकातैलम्
स्रायुकरोगचिकित्सा क्षारतैलम्
५६ मसूरिकाधिकारः अपामार्गतैलम्
निम्बादिक्वाथः दशमूलीतैलम्
खदिराष्टकक्वथः पञ्चकषायचूर्णम्
गुडूच्यादिक्वाथः जम्वाद्यं तैलम्
५७ क्षुद्ररोगाधिकारः कर्णप्रतीनाहविधिः
यवप्रख्याचिकित्सा कर्णपाके चिकित्सा
चाङ्गेरीघृतम् कर्णकण्डूचिकित्सा
मूषिकाद्यं तैलम् कर्णगूथचिकित्सा
कनकतैलम् पूतिकर्णचिकित्सा
मञ्जिष्ठादितैलम् कृमिकर्णेचिकित्सा
कुडकुमाद्यं तैलम् कृमिकृतदौर्गन्ध्यचिकित्सा
हरिद्राद्यं तैलम् पूतिकर्णस्व विशेषचिकित्सा
स्नुह्याद्यं तैलम् कुष्ठाद्यं तैलम्
त्रिफलाद्यं तैलम् ६० नासारोगाधिकारः
चित्रकाद्यं तैलम् व्योषाद्यं चूर्णम्
भृङ्गराजतैलम् पाठाद्यं तैलम्
विषयानुक्रमः विषयानुक्रमः
व्याघ्रीतैलम् हरीतक्यादिवातः
त्रिकटुतैलम् कुसुमिकावर्तिः चन्दप्रभावर्तिः
नासापाके भेषजम् नागार्जुनवर्तिः
शुण्ठीतैलम् श्लैष्मिके दृष्टिनाशे शस्त्रकर्म
दीप्तरोगचिकित्सा शूलप्रतीकारः
नासाबाहचिकित्सा अञ्जनगुणाः
वातिकप्रतिश्यायचिकित्सा गुटिकाञ्जनम्
पित्तरक्तकृतप्रतिश्यायचिकित्सा नक्तान्ध्ये प्रयोगः
कफजप्रतिश्यायचिकित्सा त्रिफलाद्यं घृतम्
करवीराद्यं तैलम् महान्नैफलाद्यं घृतम्
चित्रकहरीतकी त्रिफलाधृतम्
शिखरितैलम् भृङ्गराजतैलम्
६१ नेत्ररोगाधिकारः राजवल्लभे तैलघृते
नेत्ररोगे वर्ज्यानि शुक्लजरोगचिकित्सा
ऋतुभेदादञ्जनोपयोगः शक्तिकाचिकित्सा
अञ्जनप्रमाणम् स्वादुशीतद्रव्याणि
रसक्रियाञ्जनप्रमाणम् उपनाहचिकित्सा
चूर्णाञ्चनमाणम् कृमिग्रन्थिचिकित्सा
अञ्जने शलाकाप्राशस्त्यम् अञ्जननामिकायाश्चिकित्सा
कफाभिष्यन्दे स्वेदद्रव्याणि अभिन्नाञ्जननामिकाचिकित्सा
आश्चोतनप्रमाणम् लगणचिकित्सा
लेखनादीनां बिन्दुसंख्या ६२ शिरोरोगाधिकारः
रक्ताभिष्यन्दे सर्पेिष्पानादिक्रियाकलापः शिरोबस्तिः
बिल्वाञ्जनम् कफजशिरोरोगचिकित्सा
षडङ्गो गुग्गुलुः जीवकाद्यं तैलम्
साध्यवाप्यासाध्यविशेषः सूर्यावर्तकचिकित्सा
अगर्तघृतम् शिरोलेपः
शिरोत्पातचिकित्सा यक्ष्याद्यं घृतम्
शुक्रघ्नान्यञ्जनानि मयूराद्यं धृतम्
पटोलाद्यं घृतम् प्रपौण्डरीकाद्यं तैलम्
कृष्णाद्यं तैलम् ६३ प्रदराधिकारः
शशकाद्यं घृतम् पुष्यानुगं चूर्णम्
दृष्टिजरोगाणां चिकित्सा मुद्गद्यं घृतम्
मन्दधियां सुखस्मरणायसाध्यादिभेदः शीतकल्याणकं घृतम्
आहारोपयोगीनि चक्षुष्यशाकानि ६४ योनिरोगाधिकारः.
सुखावतीवर्तिः लक्ष्मणालक्षणं तद्विधानं च
चन्द्रोदयावर्तिः फलघृतम्
विषयानुक्रमः विषयानुक्रमः
बृहत्फलघृतम् ७६ निरूहाधिकारः
सोमघृतम् हीननिरूहितलक्षणम्
नीलोत्पलाद्यं घृतम् अतिनिरूढलिङ्गम्
६५ स्त्रीरोगाधिकारः सम्यङ्निरूढलिङ्गम्
वज्रकाञ्जिककथनम् सुनिरूढस्य पश्चात्कर्म
६६ बालरोगाधिकारः निरूढस्य पुनरनुवासनविधिः
६७ वालग्रहाधिकारः भुक्तवतो निरूहनिषेधः
६८ विषाधिकारः निरुहृद्रव्याणां मानक्रमः
अगदकोशः पिच्छाबस्तिविधिः
दशाङ्गोऽगदः अर्धमात्रिकवस्तिः
६९ रसायनाधिकारः क्षारबस्तिः
७० वाजीकरणाधिकारः वैतरणबस्तिः
आहारजं क्लैव्यम् ७७ धूमविध्यधिकारः
विशिष्टविहारजं क्लैव्यम् धूमोपयोगफलम्
नरसिंहचूर्णम् ७८ नस्याधिकारः
शतावरीघृतम् नरुयविषयप्रदर्शनम्
गोधमाद्यं धृतम् शिरोविरेचनविषयावसरः
महागुगन्धितैलम् स्नेहस्य चाल्पमध्यमोत्तमं प्रमाणम्
गुरुकुष्माण्डकम् नस्यानर्हाः
७१ स्नेहाधिकारः प्रतिमर्शस्य प्रमाणम्
जीर्णस्नेहस्याऽऽहारोपचारः सामान्येन नस्यफलम्
सद्यः स्नेहनयोगाः शिरोविरेचनावपीडस्य विषयः
७२ स्वेदाधिकारः स्तम्भनावपीडनविधिः
स्वेदगुणाः ७९ कवलाधिकारः
स्वेदस्य पूर्वकर्म कम्बलग्रहाद्गण्डूषस्याल्पभेदः
७३ वमनाधिकारः कियन्दं कालं धारणीय इति विचारः
वमनफलाभिधानम् शोधनकवलस्य विधानम्
७४ विरेचनाधिकारः योगादिलक्षणम्
विरेचनम् कवलवोगाद्योगसंभवात्प्रतिसारणम्
अभयाद्यो मोदकः ८० अरिष्टाधिकारः
विरेचनफलम् अरिष्टे मरणदोषव्यभिचारः
अबिरेच्याः रिष्टाज्ञाने दोषः
७५ बस्तिविध्याधिकारः अप्रशस्तदूताः
स्नेहवस्ते प्राधान्यम् शकुनाः
बक्तिपीडनविधि प्रशस्तस्वप्ननिरूपणं
अभुक्तस्तो वस्तिप्रतिषेधः रूपप्रहणस्य विप्रतिपत्तिः
ह्रीप्रभृतीनां विप्रतिपत्तिः
ओष्ठादीनामवयवानां विकृतिकथनम्
विषयानुक्रमः विषयानुक्रमः
८१ स्वस्थाधिकारः पादाभ्यङ्गगुणाः
स्वस्थ एव कथं ज्ञेयः ८२ मिश्रकाधिकारः
व्याध्यारोग्ययोर्निरूपणम् वैद्यलक्षणम्
साममललिङ्गमाह व्याधितलक्षणम्
आमलक्षणम् भेषजलक्षणम्
समत्वम् परिचारकलक्षणम्
पित्तलक्षणम् देशविशेषविचारः
संयोगविरुद्धानि नानाविधक्रियाविचारः
कर्मविरुद्धानि रसपरिवर्तनविचारः
धातवः अनौपक्रम्यव्याधितलक्षणम्
दोषाः मानसंख्यालक्षणानि
बहिर्मुखप्रक्षालनम् द्रवार्द्रयोर्मानविशेषः
अन्तर्मुखप्रक्षालनम् मानभेदाः
सामान्याञ्जनगुणाः ग्रन्थसमाप्तिश्लोकः
वृष्यत्वे कारणम्

समाप्तेयमनुक्रमणिका।

<MISSING_FIG href="../../../books_images/U-IMG-1706246927Screenshot2024-01-26105827.png"/>

ॐ तत्सद्ब्रह्मणे नमः।

वृन्दप्रणीतो

वृन्दमाधवापरनामा-सिद्धयोगः।
<MISSING_FIG href="../../../books_images/U-IMG-1706247058Screenshot2024-01-26101424.png"/>

श्रीकण्ठदत्तविरचितव्याख्याकुसुमावल्याख्य-
टीकासमेतः।
<MISSING_FIG href="../../../books_images/U-IMG-1706247090Screenshot2024-01-26101557.png"/>

तत्र प्रथमो ज्वराधिकारः।

मौलौ स्वर्गतरङ्गिणी विजयते चन्द्रार्धचूडामणेः
कन्दर्पोन्मथनाय नेत्रदहने निर्याति तापक्लमात्॥

मग्नस्याप्सु फणोद्गमैः फणभृतां भर्तुर्जटाशेखरी-
भूतस्योद्गतपुण्डरीकमुकुलस्रग्विभ्रमं बिभ्रती॥१॥

मौलिषु नमदमराणां मरकतरुचिदन्तुरेषु संक्रान्ताः॥
दूर्वातण्डुलभासः पादनखाः पान्तु भारत्याः॥२॥

चित्वा कतिपयुटीकाविटपिभ्यो वाड्ययप्रसूनमसौ॥
क्रियते श्रीकण्ठेन व्याख्याकुसुमावलीगुम्फः॥३॥

अथ पृथुतरनिसर्गदुर्बोधनिर्विरोधविश्वजनीनगीयमानमान वायुर्वेदतत्त्वमधुमधुपमतिप्रसरसंरब्धपूर्वकल्मषभुजंग मोग्दीगदगर्णगद्गरलगरिमगारुडिकजागरूक चिकित्सितविधिजनितजनस्तवस्तबकमुखरितदिङ्मुखकन्दरो वृन्दकण्ठः शेमुषीरङ्कागदंकारकारुण्यात्प्रकामकामदुःखदुर्लङ्ङ्क्षयसंहितानिवहयोगविग्रहसंग्रहं चिकीर्षुरन्तरायनिरासार्थं स्वेष्टदेवताध्यानमायुर्वेदप्रणेतमुनिप्रणतिं च प्रणीतवान्—

ध्यात्वा शिवं परमतत्त्वविचारवेद्यं चण्डीमभीष्टफलदां सगणं गणेशम्॥
धन्वन्तरिंमुनिवरं मुनिसुश्रुतादीनात्रेयमुग्रतपसंमनसा प्रणम्य॥१॥

** ध्यात्वेति।** भावनयाऽभिमुखीकृत्य।परमतत्त्वविचारवेद्यमिति।आत्मतत्त्वविचारज्ञेयम्। शिवं हि वैराग्यादात्मतत्त्वविचारेण विचिन्वन्तस्तच्चिन्तासंतानभाजो नीरजस्तमसः परं स्वरूपतः परिकलयन्ति। सगणमिति। नन्द्यादिगणसहितम्। गणेशमिति।गणपतिमेकदन्तम्। ध्यात्वेति संबध्यते। मुनिवरमिति। तपोयोगर्द्धिसंपन्नाः पुरुषातिशया मुनयस्तेषां श्रेष्ठम्। ध्यात्वा प्रणम्येत्यत्र द्वितयेऽपि लेखनक्रियापेक्षयापूर्वकालभावित्वेन क्त्वाप्रत्ययः॥१॥

दुरधिगमगहनचिकित्सातत्त्वप्रणयने स्वातन्त्र्यमसर्वज्ञत्वेनाऽऽत्मनः परिहरन्नाह —

नानामतमथितदृष्टफलमयोगैः प्रस्ताववाक्यसहितैरिह सिद्धयोगः॥
वृन्देन मन्दमतिनाऽऽत्महितार्थिनाऽयं संलिख्यते गदविनिश्चयजक्रमेण॥२॥

नानामतं नानायुर्वेदतन्त्रं तत्र तस्य वा प्रथिताः ख्याता दृष्टफलाः प्रत्यक्षफला ये प्रयोगाश्चिकित्सायोगास्तैः। प्रस्ताववाक्यसहितैरिति। प्रस्ताववाक्यं प्रस्तुतोपयुक्तमात्मनः शास्त्रस्य च वचनं तयुक्तैः। एतेन प्रमाण्यभिधेय संबन्धप्रयोजनोपदर्शनं च प्रेक्षावतां प्रवृत्यङ्गमुक्तं भवति। नानामुनिकथितचिकित्सायोगानामेवायमुपदेश इति प्रामाण्यम्। अत एवं संलिख्यत इति कृतम्। प्रस्ताववाक्यसहिश्चिकित्सायोगा एवाभिधेयास्तैः सह संबन्धोऽपि वाच्यवाचकलक्षणः। प्रयोजनमारोग्यं चिकित्सयां रोगनिवृत्तिफलत्वात्। इहेत नरायुर्वेदे। सिद्धयोग इति। सिद्धयोगाख्यः संग्रहः सिद्धाः साध्यसाधनाव्यभिचारिणो योगा यत्र स तथा। मन्दमतिनाऽऽत्महितार्थिना चेति स्वविनयप्रकाशनार्थमुक्तम्। गदविनिश्चयजक्रमेणेति। रुग्विनिश्चयाख्यनिदान संग्रहोक्ताध्यायपरिपाट्या॥२॥

चिकित्साप्रणयनस्य रोगभेषजज्ञानाधीनतां प्रतिपादयन्नाह—

रोगमादौ परीक्षेत ततोऽनन्तरमौषधम्॥
ततः कर्म भिषक्पश्चाज्ज्ञानपूर्व समाचरेत्॥ ३॥

ओषध्यधिकरणत्वेन पूर्वं परीक्ष्यो रोगस्ततो रोगनिवृत्तिहेत्वौषधं ततस्तदुभयज्ञानाधीना चिकित्सेति साधुः क्रमोपन्यासः। परीक्षेतेति। देशकालकारणस्वरूपलक्षणादिभिः परिसर्वत ईक्षेत जानीयात्। तत इति पश्चादित्यनेन संबन्धनीयम्। ततः पाश्चादित्यर्थः। कर्म चिकित्सितम्। ज्ञानपूर्वमिति। कर्मदर्शनजनितज्ञानपूर्वकम्॥३॥

रोगमज्ञात्वा चिकित्साकरणे दोषमाह—

यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक्॥
अप्यौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया॥४

** यदृच्छयेति**। अनियमेन॥४॥

अन्वये गुणमाह—

यस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः॥
देशकाल1विशेषज्ञस्तस्य सिद्धिरसंशयम्॥५॥
आदावन्ते रुजां ज्ञाने प्रयतेत चिकित्सकः॥
साध्यासाध्यविभागज्ञस्ततः कुर्याच्चिकित्सितम्॥६॥

सुगमम्॥५॥६॥

ननु रोगस्याऽऽनन्त्यादनुक्तस्य कथं ज्ञानमित्याह**—**

नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः2
अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत्॥७॥

दोषाणां लिङ्गैर्व्याधिमुपाचरेदित्यत्र ज्ञावेतिशेषः। तेन लिङ्गैर्व्याधि ज्ञात्वोपाचरेदित्यर्थः। एतच्च प्रकृतिसमसमवायजं रोगमभिसंधायोक्तम्॥

अथ डल्लणव्याख्यानम्—व्याधीनामानन्त्याद्दोषभेदेनानुक्तस्य व्याघेर्दोषसव्यपेक्षचिकित्सार्थं तथा रोगकृतस्यापि रोगस्य चिकित्सामपि कर्तुं न कार्यव्याधिमात्रस्य नापि हेतुव्याधिमात्रस्येति कथयन्नाह—नास्ती रोग इत्यादि। अनुक्तमपि व्याधिं दोषाणां लिङ्गैर्ज्ञात्वोपाचरेदिति संबन्धः॥

अथ सोमव्याख्या—उद्दिष्टानुद्दिष्टव्याधिप्रतीकाराय दोषलिङ्गत्वात्तत्प्रत्यनीकोपचरणेन प्रस्तुवन्नाह—नास्तीत्यादि। विचक्षणग्रहणेनैवं ख्यापयति द्विविधा हि व्याधयः प्रकृतिसमसमवेता विकृतिविषमसमवेताश्च। कारणविलक्षणाः कारणान्विताश्च ये तेषां लिङ्गोषकरमन्येषां त्वनन्वितानां व्याधिप्रत्यनीकमेव यथास्वं यद्विहितं तदेव तत्र विधातव्यम्। वक्ष्यति हि—

तस्मात्प्रदोषं संयम्य दोषलिङ्गविकल्पनैः।
लिङ्गं विदित्वोपचरेद्रसमेदैर्यथोदितम्’॥

तदुक्तमत्रैव विकारनामेत्यादि॥७॥
अनुक्तरोगस्य नामाज्ञाने वैद्यस्य मा भूदज्ञत्वमित्याह—

विकारनामाकुशलो न जिह्रीयात्कथंचन3
न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः॥८॥

** न** जिह्रीयात्कथंचनेति। न कदाचिल्लज्जेत यतः सर्वविकाराणां स्थितिर्व्यावस्थितिर्नामतो न ध्रुवा। हि यस्मादर्थे।

अव्यवस्थितनामत्व एव हेतुमाह—

एव कुपितो दोषः समुत्थानविशेषतः॥
स्थानान्तरगतश्चापि विकारान्कुरुते बहून्॥९॥

** समुत्थानविशेषत** इति। निमित्तभेदात्। [ननु4 येषां विकाराणां नामग्राहं चिकित्सा नोक्ता तेषां नामाकुशलो वैद्यः किं चिकित्सेदित्याशङ्कयाऽऽह—विकारेत्यादि। विकारा रोगास्तेषां नामानि तेष्वकुशलो वैद्यो न जिह्रीयाद्रोगसंज्ञानभिज्ञोऽहमिति लज्जां न कुर्याच्चिकित्सामेव विदध्यादित्यर्थः। कुतो हेतोरित्याह। न हीत्यादि। यस्मात्सर्वविकाराणांनामतः संज्ञातो ध्रुवा निश्चिता स्थितिरवस्थानं नास्ति। ननु कुतोऽशेषरोगाणां नामतो नास्ति स्थितिरित्याशङ्कयाऽऽह यस्मात्स एक एव दोषो वाताद्यन्यतमः समुत्थानविशेषतो हेतुभेदात्तथा स्थानान्तराणि स्वं स्वं स्थानं हित्वा पराणि स्थानानि प्राप्य गत्वा बहूविकारान्कुरुते। उक्तं च— यो दोषः शरीरसंधीनाविशति तेन जृम्भा ज्वराश्चोपजायन्ते यस्त्वामाशयमप्युपैति तेन रोगा भवन्त्युरसि। अरोचकश्च यः कण्ठमभिपद्यते कण्ठस्ततो ध्वंसते स्वरश्चावसीदति यः प्राणवहानि स्रोतांस्युपैति प्रतिश्यायश्च तेनोपजायते]अरुणदत्तात्॥८॥९॥

रोगस्य ज्ञानोपायमाह—

दर्शनस्पर्शनमश्नैर्व्याधिज्ञानं त्रिधा मतम्॥
आयुरादि, दृशा स्पर्शाच्छीतादि प्रश्नतोऽपरम्॥१०॥

** आयुरादीति**। आयुः शरीरेन्द्रियसत्त्वात्मसंयोगः। आयुः शब्देनेह दीर्घायुःख्यापकलक्षणविशेषो विवक्षितः शरीरेन्द्रियादिसंयोगरूपस्याऽऽयुषः प्रत्यक्षाप्रत्यक्षवृत्तित्वेनाचक्षुष्यत्वात्। स तु दीर्घायुर्लक्षणैर्व्यावेः साध्यत्वमसाध्यत्वमन्यथा।दृशा दर्शनेन। अत्रोत्तरत्र जानीयादिति शेषः। एवं सर्वत्र।अत्राऽऽदिशब्दाद्वर्णवैकृतादिकम्। शीतादीत्यत्राप्यादेशव्दादौष्ण्यमादव काठिन्यादीनामवरोधः। अवयवानां स्वभावसिद्धे शीतोष्णत्वादौ साध्यत्वं विपर्ययादसाध्यत्वं व्याधेः। अपरमित्यन्तर्दाहादिकम्॥१०॥

दर्शनादिज्ञातयोः साध्यत्वासाध्यत्वयोर्भेदमाह—

कृच्छ्रोपायः सुखोपायो5 द्विविधः साध्य उच्यते॥
असाध्यो द्विविधो ज्ञेयो याप्यो यश्चाप्रतिक्रियः॥११॥

॥११॥

याप्यत्वायाप्यत्वयोवैचित्र्यमाह—

याप्सः केचित्मकृत्यैव साध्या याप्या उपेक्षया॥
स्वभावीन्यायोऽसाव्याः केचिद्याप्या उपेक्षिताः॥१२॥

याप्याः प्रकृत्या यथा पैत्तिकाः प्रमेहा असाध्या इत्युपेक्षणीयाः॥१२॥

साध्याः साध्या एवस्युर्याप्यायाप्या एवेति नियमं निराकुर्वन्नाह—

साध्या याप्यत्वमायान्ति याप्याश्वासाध्यतां तथा॥
घ्नन्ति प्राणानसाव्यास्तु नराणामक्रियावताम्॥१३॥

कालान्तरमाणहरा अपि सद्य एवं प्राणान्घ्रन्ति। अक्रियावतां विरुद्धक्रियाकारिणां क्रियानिवृत्तानां वा। नञयं तद्विरोधे तदभावे वा॥१३॥

रोगस्य त्वरया चिकित्साकरणार्थमाह—

जातमात्रश्चिकात्सत्स्यस्तु नोपेक्ष्योऽल्पतया गदः॥
वह्निशत्रुविषैस्तुल्यः स्वल्पोऽपि विकारोत्यसौ॥१४॥

वह्न्यादीनां दृष्टान्तकथनं च स्फोटादिविविधकार्यकारित्वप्रदर्शनार्थम्।अत्र स्थाने स एव कुपितो दोष इति श्लोकस्य क्वचित्पुस्तके पाठः स त्वयुक्तः संबन्धाभावात्। चरकेऽपि हि विकारनामेत्यादिश्लोकानन्तरमेवायं पठितः॥१४॥

चिकित्सानिवृत्तस्यापि व्याधेरपचारसेवया संभवमाह—

निवृत्तोऽपि पुनर्व्याधिः स्वल्पेनाऽऽयाति हेतुना॥
क्षीणे मार्गीकृते दोषे शेषः सूक्ष्म इवानलः॥१५॥

निवृत्त इव निवृत्तो विद्यमानस्वल्पदोषमूलो न तु सर्वथा निवृत्तस्तस्याल्पेन हेतुना प्रत्यागमनस्यासंगतत्वात्सूक्ष्मानलदृष्टान्तविसदृशत्वाच्च। क्षीणेऽपचितमांसादिके मार्गीकृते व्याधिप्रत्यनुगुणतया मार्गसदृशीकृते। मार्गो हि गतिं प्रत्यनुगुण एव भवति॥१५॥

एवं व्यवस्थिते कर्तव्यतामाह—

तस्मात्तमनुबघ्नीयात्प्रयोगेणानपायिना॥
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा॥१६॥

अनुबघ्नीयादनुबन्धेन भेषजप्रयोगेणोपचरेत्। अनपायिना विकारान्तरमकुर्वता॥१६॥

एतादृशं कारयत्यपि वैद्ये यदि स विकारो न निवर्तते तदा वैद्यस्य दोषपरिहारमाह—

व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः॥
एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः॥१७॥

॥१७॥

वैद्येन सम्यक्किकित्स्यमाना अपि विकाराः केचित्र निवर्तन्त इति प्रतिपादयितुं तेषां प्रपञ्चमाह—

कर्मजा व्याधयः केचिद्दोषजाः सन्ति चापरे॥
कर्मदोषोद्भवाश्चान्ये कर्मजास्तेष्वहेतुकाः॥१८॥

कर्मजा इत्यादिना कर्मजानां विवरणम्।अहेतुका इत्यनपेक्षितनिदानाख्यहेतुकाः। निदांनमन्तरेण व्याधिबलं यत्र स कर्मज इत्यर्थः। दैवहेतुका इति तु पाठो व्यक्तार्थः।

**अथ डल्लणव्याख्या—**व्याधीनां कर्मजादिभेदेन त्रैविध्यमाह—कर्मजा इत्यादि। तत्र सद्वृत्तरतानां शास्त्रोक्ताहारविहारसेविनां हेमन्तशिशिरे रक्तपित्ताद्युत्पत्तिर्वसन्ते वातव्याध्युत्पत्तिः प्रावृषि श्लेष्मव्याध्युत्पत्तिरित्यादयो निमित्तमन्तरेण ये चोत्पद्यन्ते ते कर्मजाः। यत्र पुनरसात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामलक्षणैर्मिथ्याहाराचारैः शास्त्रविरुद्धैरासेव्यमानैर्दोषाः कुपिता व्याधीञ्जनयन्ति ते दोषजाः। तेषां मध्ये कर्मजानां सूत्रलक्षणमाहकर्मजास्तेष्वहेतुकास्तेषु कर्मज़ादिषु त्रिषु कर्मजा अहेतुका दोषागन्तुहेतुरहिता इति॥ १८॥

यथाशास्त्रं सुनिर्णीतो यथाव्याधि चिकित्सितः॥
न शमं याति यो व्याधिः स ज्ञेयः कर्मजो बुधैः॥
स्वल्पदोषो गरीयान्यः स ज्ञेयः कर्मदोषजः॥१९॥

** यथाशास्त्रमिति।**शास्त्रानतिक्रमेण।यथाव्याधीति। व्याधितत्वानुरूपम्। कर्मज इति। नियतेन कर्मणा जनितः। अत्र हि निदानानधिगमेन व्याघेरल्पत्वं मत्वा भिषजा सम्यइनिर्णीय साध्वी विहिता चिकित्सा वैफल्यादृदृष्टाख्यं कारणं गरीयो गमयति। स्वल्पदोषो रीयानित्यादिना कर्मदोषजस्य विवरणम्। अल्पीयसि निदाने गरीयान्विकारो निदानाननुरूपत्वेनादृष्टमपि कारणान्तरं महद्बोधयति। निदानानुरूपसंभवस्तु दोषः। स तु प्रसिद्धहृतः संग्रहकारेण। अत्रेदं विचार्यते—दृष्टं तावन्न मन्दकलकुचादिशीलनं॥ क्तनकर्मोपस्थितिमन्तरेण स्वकार्यं जनयतीति। तदवधारयामो ऽनन्यथा सिद्धान्वयव्याते कं कर्मैव सर्वत्र कारणं न दृष्टं व्यभिचारात्। दृष्टं तु तत्कर्माकृष्टमेवोपतिष्ठते तत्कयं कर्मदोषजस्तथा दोषजोऽपि व्याधिर्न पृथङ्गी क्रियते। मैवं सुखार्थे खगादौ दुःखार्थे कण्टवान नियमेन प्रवृत्तिरस्ति सुखं प्रति स्रगादेदुःखं प्रति च कण्टकादेर्दृष्टस्य कारण॥ वोऽन्यथा तत्कर्म सुखार्थिनं दुःखसाधन एवं प्रवर्तयेदृष्टस्याकिंचित्करत्वात्। केंच केवलकर्मवादिनः कर्मसद्भावे प्रमाणाभावप्रसङ्गः। दृष्टे हि व्याप्तिं गृहीत्वा कर्मानुमेन्वन्ति विद्वांसः॥ तस्मादवश्यं दृष्टं पूर्वकृतं च कर्म कारणमेष्टव्यम्॥ तच्च प्राक्तनं कर्म त्रिविधं प्रवरमवरं मध्यमे च।यदुक्तं **चरके—**अदृष्टं त्रिविधं कर्म हीनं मध्यममुत्तम मेति। तत्र प्रवरं कालविपाकनियमादतिबलवदितरानेरपेक्षं तद्यत्र जनकं स कर्मजो याधिः। मध्यमं कालविपाकानियमाद नातेबलवत्तच्चावश्यं दृष्टं प्रत्ययमपेक्षते तद्यत्राऽऽम्भकं स कर्मदोषजः। हीनं पुनरत्यल्पबलं तदल्पबलवत्त्वात्प्रवलं दृष्टमेव पुरस्कृत्य नयतीति दृष्टेनैव तत्र व्यपदेशो दोषज इति॥१९॥

संप्रति कर्मजादिव्याधीनां प्रशमनमाह—

कर्मक्षयात्कर्मकृतो दोषजः स्वशमौषधैः॥
कर्मदोषोद्भवो याति कर्मदोषक्षयात्मयम्॥२०॥

सत्यां सम्यक्किकित्सायां तत्कालफलजनननियतस्य कर्मण एवोपभोगेन प्रक्षयात्। स्वशमौषधैरिति स्वस्य प्रशमौषधैर्यद्यस्य प्रशमायौषधं तैरित्यर्थः। कर्मदोषक्षयादिति दैवयुक्तिव्यपाश्रयचिकित्साभ्यां कृतात्कर्मदोषयोः क्षयात्॥२०॥

रोगपरीक्षां समाप्याथ भेषजपरीक्षाया अवसरः। अत्राविज्ञातस्य भेषजस्य बलवदनर्थकारितेति दर्शयितुं दृष्टान्तमाह—

यथा विषं यथा शस्त्रं यथाऽग्निरशनिर्यथा॥
तथौषधमविज्ञातं विज्ञातममृतं यथा6॥२१॥

विषादिबहुदृष्टान्तकथनमविज्ञातं भेषजं किंचिद्विषवत्संज्ञानाशेन किंचिच्छस्त्रवन्मर्मभेदेन किंचिदग्निवत्स्फोटजननेन किंचिदशनिवत्सद्यो मारयतीतिप्रतिपादनार्थम्। विज्ञातममृतं यथेति नामरूपगुणयोजनादिभिर्ज्ञातं तदमृतवदत्यन्तमुपकारकं भवति ॥

** अथेशानदेवव्याख्या—**यद्योषधीनां योगो न ज्ञायते ततः को दोषः स्यात्, ब्रूमः, यथा विषं यथा शस्त्रमित्यादि दुर्योगस्यौषधस्यानेकप्रकारत्वात्सद्धेतुका अपि मरणफला व्याधयोऽनेकप्रकाराः प्रादुर्भवन्तीति दृष्टान्तवहुत्वेन दर्शयति। किंचिद्वालिशवैद्यप्रयुक्तमौषधं विषमिव संज्ञाप्रणाशं कृत्वा व्यापादयेत्किंचिच्छस्त्रमिव विविधा रुज़श्छेदभेदव्यधनरूपाः कुर्वाणं मारयति किंचिदग्निरिव स्फोटकदाहतृष्णाविसर्पादीन्कृत्वाऽसून्निरुणाद्भि किंचिदशनिरिवाऽऽश्वपमृद्य प्राणैविंयोजयति। अन्ये नामरूपगुणयोगाज्ञातस्य यथासंत्र्येनैतद्दृष्टान्तचतुष्टयं कृतमिति वर्णयन्ति। अथ विज्ञातमौषधं कं गुणमावहतीत्युच्यते विज्ञातममृतं यथा सम्यग्विज्ञातस्यौषधस्यैक एवं दृष्टातोऽमृतेक्त आरोग्यायुष्करत्वे निरतिशयत्वादमृतस्येति॥२१॥

रोगभेषजे परीक्ष्याथावसरप्राप्तायाश्चिकित्सायाः स्वरूपमाह—

याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः॥
सा चिकित्सा विकाराणां कर्म तद्भिषजां मतम्॥२२॥

याभिः क्रियाभिरिति शोधनशमनरूपाभिः। धातवः समा इति। अत्रार्थाद्विषमाः सन्त इत्यवगन्तव्यम्। कर्म तदिति स व्यापारः। चिकित्सालक्षणं तु चरके द्रष्टव्यम्।

तद्यथा—

“चतुर्णां भिषगादीनां शस्तानां धातुवैकृते।
प्रवृत्तिर्धातुसाम्यार्थां चिकित्सेत्यभिधीयते” इति॥२२॥

तस्याश्चिकित्साया अवस्थाविशेषेण नियतत्वमाह—

उत्पद्यते हि साऽवस्था देशकाललं प्रति॥
यस्यां कार्यमकार्यंस्यात्कर्म कार्य7ं विवर्जितम्॥२३॥

कार्यमकार्यं स्यादिति कर्तव्यतयोक्तमकर्तव्यं स्यात्। कर्म चिकित्सितम्। कार्यं विवर्जितमिति निषिद्धमपि कर्म कर्तव्यं भवेत्॥२३॥

अथ सर्वरोगप्राधान्याज्ज्वरस्याऽऽसौ चिकित्सा।यदुक्तम्— “रोगानीकस्य सर्वस्य ज्वरो राजा यतः स्मृतः। तस्मात्प्रथमतस्तस्य प्रवक्ष्यामि चिकित्सितम्” इति। चिकित्सा च ज्वरज्ञानाधीना ज्वरज्ञानं च लक्षणतः। अतस्तल्लक्षणमाह—

स्वेदावरोधः संतापः सर्वागग्रहणं तथा8
युगपद्यत्र रोगे तु स ज्वरो व्यपदिश्यते॥२४॥

स्वेदावरोधो घर्मस्यानिर्गमः। सर्वाङ्गग्रहणं सर्वाङ्गे च वेदना। युगपदित्येककालम्। एतेन मिलितमेतल्लक्षणं प्रत्येकं व्यभिचारात्। यथा स्वेदावरोधः कुष्ठपूर्वरूपे संतापश्चदाहाख्ये रोगे सर्वाङ्गग्रहणं सर्वाङ्गवातरोग इति। पैत्तिके ज्वरे स्वेदोद्गमाद्वातिके चाऽऽरम्भविसर्गयोर्वैषम्यात्सर्वाङ्गग्रहणस्य चाव्यवस्थितत्वादव्यापकं लक्षणं मन्यमानाः समादधुः स्वेदोऽग्निः स्विद्यतेऽनेनेति व्युत्पत्त्या तस्यावरोधो दोषव्याप्तिर्वातजे ज्वरे वायोश्चलत्वेनाऽऽरम्भविसर्गयोर्वैषम्येऽपि सर्वदेहज्वरारम्भकदोषदुष्ठ्यनिवृत्तेरव्यक्तं सर्वाङ्गग्रहणं विद्यमानमेवेति न व्यभिचार इत्याहुः॥२४॥

लक्षणतः प्रतीतस्य तस्योत्पादं दर्शयितुं संप्राप्तिमाह—

आमाशयस्थो हत्वाऽग्निं सामो मार्गान्पिधाय च॥
विदधाति ज्वरं दोषस्तस्माल्लङ्घन9माचरेत्॥२५॥10

** साम इति।** सामदोषादिस्वरूपनिरूपणे श्रीवाग्भटाचार्यः

“ऊष्मणोऽल्पबलत्वेन धातुमान्द्यमपाचितम्।
दुष्टमामाशयगतं रसमामं प्रचक्षते।
अन्ये दोषेभ्य एवातिदुष्टेभ्योऽन्योन्यमूर्छनात्।
कोद्रवेभ्यो विषस्येव वदन्त्यामस्य संभवम्।

आमेन तेन संपृक्ता दोषा दूष्याश्च दूषिताः।
सामा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः” इति॥

** लङ्घनमाचरेदिति**। लङ्घनं यद्यपि चरके दशविधमुक्तम्। तद्यथा—

“चतुष्प्रकारा संशुद्धिः पिपासा मारुतातपौ।
पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम”॥

इत्यनेन परिभाषितम्। चतुष्प्रकारा संशुद्धिरनुवासनं विहाय तस्य बृंहणत्वात्। तथाऽप्यत्रोपवास एवाभिप्रेतो यतो व्यायाममारुतयोस्तावत्सर्वथा प्रतिषेधः। पिपासानिग्रहश्च नास्ति। ‘कफवातज्वरार्तेभ्यो हितमुष्णाम्बु तृट्र्छिदे’ इति वचनेन दुःसहपिपासायां पानीयदानस्य विहितत्वात्। शेषाणां चावस्थासु विनियोगः। तद्यथा— ‘सोत्क्लेशे बलिने देयं वमनं श्लैष्मिके ज्वरे’इति।

“सरुजेऽनिलजे कार्यं सोदावर्ते निरूहणम्।
पित्तप्राये विरेकस्तु कार्यः प्रशिथिलाशये॥
कफाभिपन्ने शिरासे कार्यं मूर्ध्नि विरेचनम्” इति॥

आतपोऽपि संगृहीत एव।यदाह—

“कफवातोत्थयोश्चैव ज्वरयोः शीतपीडितम्।
दि (द) त्यादुष्णेन वर्गेण परश्चोष्णो विधिर्हितः” इति॥

पाचनं च “लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते” इत्यादिना विहितमेव। तस्मात्स्थितमेतल्लङ्घऩमत्रोपवास इति। तच्चाऽऽमाशयानुपूर्व्यात्पन्नेषु ज्वरेषूपवासार्हेषु रोगेषु हितमित्यर्थः।

अथ **श्रीब्रह्मदेवव्याख्या—**लङ्घनशब्द उपवासपर्यायो न तु वमनविरेचनानुवासनादिपर्यायः। श्रीमाधवोऽप्याह

“लङ्घनं तद्द्विधा ज्ञेयं शमनं शोधनं च तत्।
शमनं शमयेद्दोषाशोधनं शोधयेन्मलान्॥
शमनं सप्तधा क्षुत्तृङ्व्यायामपवनातपाः॥
पाचनं दीपनं च स्यात्पञ्चधा शोधनं मतम्॥
ऊर्ध्वं विरेचनं नस्यं निरूहोऽस्त्रस्य विस्स्रुतिः॥
निरूहं बृंहणं वाते पित्ते शमनरेचनम्॥
वमनं लङ्घनं कुर्यात्कफे रक्षन्बलादिकम्” इति॥

सामज्वरे लङ्घनमेवौषधं नान्यदस्तीति। द्विविधा हि सामता रससामता मलसामताचेति॥ २९॥

लड्घनफल्लमाह—

लङ्घनेन क्षयं नीते दोषे संधुक्षितेऽनले॥
विज्वरत्वं लघुत्वं च क्षुच्चैवास्योपजायते॥२६॥

** लङ्घयेन क्षयं नीते दोष इति।** आहारनिवृत्त्या स्वाशये विक्षिप्तावशिष्टेन वह्निनट पाकादामसंपेपृक्ते दोषे क्षीणतां नीते। संधुषितेऽनर इति स्त्रोतःशुदध्या विक्षिप्तदोषक्षयेण दीप्तेऽग्नौ। विज्वरत्वं यथोक्तसंग्राप्तिमज्ञाद्विगतज्वरत्वम्‌। लघुत्वं देहस्याऽऽमरसाहितगौरवाभावात्‌।क्षुच्चाग्निदीप्त्या क्षुद्बुभुक्षा। एवं वक्ष्यमाणे खलङ्घनगुणेऽपिव्याख्येयं लङ्घनप्रकारत्वाल्लङ्घनसह भवेनापि विधानाच्च॥२६॥

लङ्घनप्रसस्तावे नवज्वरे निषिद्धमपि वमनमवस्थायां दर्शयन्नाह—

सद्यो भुक्तस्य संजाते ज्वरे सामे विशेषतः॥
वमनं वमनार्हस्य शस्तमित्याह बाग्भटः॥२७॥

सामे विशेषत इत्यस्य स्थाने संतर्पणोत्थित इति पाठान्तरम्‌। वमनं वमनार्हस्‍येत्यनेनावम्यगर्भिण्यादिनिराकरणम्‌। अच स्थाने—

“कफमप्रधानानुत्क्लिष्टान्दोषानामाशयस्थितान्‌॥
बुद्ध्वा ज्वारकरान्काले वम्यानां वमनैहरेत्‌”॥

इति श्लोकं चरकोक्तं पठान्ति केचित्। अस्यायमर्थः। उत्क्लिष्टान्हल्लासादिनाबहिर्निर्गन्तुमुन्मुखान्‌। आमाशयस्थिताञ्शाखाः संत्यज्याऽऽमाशयमागतान्‌। काले यथोक्तायामवस्थायाम्‌। वमनैरिति बहुवचनं प्रकृत्याद्यपेक्षया बहुवमनद्रव्याप्रयोगसूचनार्थम्‌। अत्र वमने दोषाणां स्वयमेवोत्क्लिष्टत्वादुत्क्लेशप्रयोजनकौ स्नैहस्वेदौ न कर्तव्यो वा स्वल्पौ वा कार्यावित्याह॥२७॥

उक्तावस्थाव्यतिरेकेण विहिते वमने दोषमाह—

अन्नुत्क्लिष्टेषु दोषेषु मोहाद्यस्तरुणे वयेत्‌॥
प्राप्नुयात्सोऽङ्गभङ्गदीन्हद्रोगविषमज्वरान्॥२८॥

सुगमम्‌॥२८॥
अनुत्क्लिष्टे दोषे लङ्घनमुपदिशिन्ति तस्य प्रवृत्तिं पाटवार्थं च गुणमाह—

अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम्‌॥
ज्वरघ्नं दीपन काङ्क्षारुचिछाघवकारकम्‌॥२९॥

** अनवस्थितदोषाग्नेरिति**। अनवस्थितः स्वस्थानादितस्ततो गतो दोषोऽनवस्थितदोषः। अनवस्थितो बहिर्निर्गतोऽग्निश्च यस्य स तथा तस्य नवज्वरिणः। दोषपाचनमिति। निरिन्धनोऽग्निर्हि दोषान्पक्तुं प्रयुङ्क इति। उक्तं

“उदर्योऽग्निः पचेद्रलमन्त्राभावे पचेन्मलान्।
मलाभावे पत्रेद्धातून्धात्वभावे पचेदसून्” इति॥

काङ्क्षारुचिलाघवकारकमिति। काङ्क्षाऽन्नप्रार्थना रुचिरम्यवहारपाटवं लाघवं देहगतं तेषां कारकम्। यथोक्तसंगत्या च लङ्घनेनेत्यादि लोकेन सममस्य श्लोकस्य स्फुटोऽर्थभेदः॥२९॥

वमितं लङ्घयेत्प्राज्ञो लघित न तु वामयेत्॥
वमनं क्लेशबाहुल्याद्वन्याल्लङ्घनकर्शितम्॥३०॥

सुगमम्॥३०॥

लङ्घनस्यावधिमाह—

अवेक्ष्य दोषं प्राणं च कार्य स्यादपतर्पणम्॥३१॥

अवेक्ष्य दोषं कफं पित्तं च स्वभावलङ्घनीयं बुद्ध्वा बहु लङ्घनीयम्। यदुक्तम्— कफपित्ते द्रवे धातू सहेते लघनं महदिति। वातं स्वभावालङ्घनीयं बुद्ध्वाऽल्प ः लङ्ङ्घनम्। तन्त्रान्तरं हि सामे वातेऽपि लङ्घनं कुर्यादेवाऽऽमपक्त्यर्थं युक्त्या न तु यथा कफ इति। प्राणं बलम्। तेन बलवति बहुलङ्घनले चाल्पमिति। अत . एवोक्तम् – बलाविरोधिना चैनं लङ्घनेनोपपादयेदिति। अपतर्पणं लङ्घनम्॥३१॥

तस्यापवादमाह—

तद्धि मारुततृष्णामुख शोषभ्रमान्विते॥
कार्य न वाले वृद्धे वा न गर्भिण्यां न दुर्बले॥
न तथाऽध्व श्रमकोधशोककाम11क्षयज्वरे॥३२॥

मारुतशब्देनेह निरामवातजन्यो रोग उच्यते कार्यकारणयोरमेदोपचारात्। मुखशोषभ्रमावण्यत्र निरामौ विवक्षितौ। आमरुद्धस्रोतः संभूतौ तौ लङ्घनीयावेव। केचिदूर्ध्वमारुतेति पठन्ति। अत्रोर्ध्वमारुताः कासश्वासहिक्कादयः। अन्ये तूर्ध्ववातं रोगान्तर मेवाऽऽहुः।

तद्यथा—

“भुक्तेऽयुक्ते तथा सुप्ते यस्योद्गारोऽति संभवेत्।
तमूर्ध्ववातं जानीयादुदानव्यापदुद्भवम् इति “॥

कार्यं न बालेवृद्धे वेति निषेधोऽन्नामं मलामं च विहाय। कोधसमुद्भवः पतिकस्तत्रापि न ऌङ्ङ्घयेत्। क्षयज्वर इति कफपित्तरक्तादिधातुक्षयजे ज्वरे राजयक्ष्मने वा। तथा च सुश्रुतः—न लङ्घयेन्मारतजे क्षयजे मानसे तथा। अस्यार्थः– क्षयजे धातुक्षयने यक्ष्मज्वरे वा। अन्ये त्वत्रैवं व्याख्यानयन्ति–मारुतजे ज्वरे न लङ्घयेत्किंभूते क्षयजे। एतेन धातुक्षयप्रकुपितवातज इत्युक्तम्। अथवा क्षयजे न लङ्घयेत्किंभूते मारुतजे। एतेनयक्ष्मज्वरे मारुतसंभूते न लङ्घयेत्। यः सामावस्थायां मारुतज्वरो यक्ष्मज्वरश्च स लङ्घनीय इति ब्रह्मदेवडल्लणौ॥३२॥

बलाविरोधिना चैनं लङ्घनेनोपपादयेत्॥
बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः॥३३॥

बलाविरोधिनाऽनतिबलदायकारिणा। यदर्थ इति। आरोग्यार्थः॥३३॥

लङ्घनस्य सम्यग्योगलक्षणमाह—

वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे॥
हृदयोद्गारकण्ठास्यशुद्धौ तन्द्राक्लमे गते॥३४॥

स्वेदे जाते रुचौ वाऽपि क्षुत्पिपासासहोदये॥
कृतं लङ्घनमादेश्यं निर्व्यये चान्तरात्मनि॥३५॥

**हृदयोद्गारकण्ठास्यशुद्धाविति।**हृदयस्य शुद्धिगौरवादिरहितत्वम्। उद्गारस्य शुद्धिरमोद्गारता। कण्ठस्य शुद्धिः कफालिप्तत्वम्। आयशुद्धिरविकृतरसत्वम्। तन्द्राक्लम इति। तन्द्रा च क्लमश्च तन्द्राक्लमं तस्मिन्। तन्द्रा निद्रावतः क्लान्तिः। क्लोमो दोषजनिता ग्लानिः। क्षुत्पिपासासहोदय इति। क्षुत्पिपासयोर्युगपदुदये सतीति वाष्पचन्द्रःचक्रस्त्वाह—क्षुत्पिपासयोरसहे पीडाकरत्वेनोदये। अत एवोक्तं सुश्रुते —

“सृष्टमारुतविण्मूत्रं क्षुत्पिपासासहं लघुम्।
प्रसन्नात्मेन्द्रियं क्षामं नरं विद्यात्सुलङ्धितम्”।

क्षुत्पिपासयोरसहेऽसाह्य उदय इति चक्रस्याभिप्रायो लक्ष्यतेऽन्यार्थस्यासंगतत्वात्। असहशब्दस्तु न सहोऽसह इति पचाद्यजन्तः कर्तरि दृश्यते सर्वत्र। सुश्रुतेनापि क्षुत्पिपासासहमिति कर्तर्येवासहशब्दः प्रयुक्तः। कृतं सम्यक्कृतम्। अन्तरात्मनि मनसि। एतानि लक्षणानि मिलितान्येव सम्यग्योगं ख्यापयन्ति न प्रत्येकम्। एवमतियोगलक्षणेऽपि ज्ञेयम्॥३४॥३५॥

लङ्घनस्यातियोगलक्षणमाह—

पर्वभेदोङ्गमर्दश्च कासः शोषो मुखस्य च॥
क्षुत्मणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः॥३६॥

मनसः संभ्रमोऽभीक्ष्णपूर्ध्ववातस्तमो हृदि॥
देहाग्निबलहानिश्च लङ्घनेऽतिकृते भवेत्॥३७॥

दौर्बल्यं श्रोत्रनेत्रयोरिति। दौर्बल्यं स्वविषयग्रहणाशक्तिः। मनसः संभ्रम इति। संभ्रमो हृदयस्यानवस्थितत्वमिति बाष्पचन्द्रः।भ्रान्तिरेवेति चक्रः। अभीक्षणं संततम्। ऊर्ध्ववातो हिघ्माश्वासादिः। तमो मोहः॥३६॥३७॥

ज्वरितानां लङ्घनानन्तरं भोजने हितसेवां नियमयन्नाह—

विनाऽपि भेषजैर्व्याधिः पथ्यादेव निवर्तते॥
न तु पथ्यविहीनस्य भेषजानां शतैरपि॥३८॥

सुगमम्॥३८॥

किं तद्धितमित्याह—

रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह॥
यवाग्वोदनलाजाश्च ज्वरितानां ज्वरापहाः॥ ३९॥

पुराणा अनवाः। शूकधान्यं शिम्बिधान्यं समातीतं प्रशस्यत इत्यनेन पुराणानां रक्तशाल्यादीनां ग्रहणे सिद्धे पुराणा इत्युक्तमतिपुराणानां तेषां ग्रहणनिषेधार्थम्॥३९॥

ज्वरसात्म्यादिना ज्वरितेभ्यो हितां रक्तशाल्यादिसाध्यां यवागूमाह—

**दीपनी पाचनी लघ्वी ज्वरार्तानां ज्वरापहा॥
अन्नकाले हिता पेया यथास्वं पाचनैः कृता॥४०॥ **

ननु तत्रान्तरे कालतिक्तकरसौ पाचनत्वेन निर्दिष्टौ। तद्यथा—

“लङ्घनं स्वेदनं कालो यवागूस्तितको रसः।
पाचनान्यविपक्कानां दोषाणां तरुणज्वरे” इति।

तत्कथमत्र तयोरनिर्देशः। उच्यते—षडङ्गकल्पनया पानीयसंस्कारेण तिक्तकरसो गृहीतः सप्तरात्रात्परं केचिदित्यादिना कालो गृहीत इति कार्तिकेडल्लणौ। पाचन्यामदोषपाचनार्थं यवागूः कथमामे प्रयुज्यते। सत्यम्। द्विप्रकारा ह्यामता प्रभूताऽल्पा च। तत्र प्रभूतामतां विहायाल्पामतायां प्रयुज्यत इति डल्लणःज्वरार्तानां ज्वरापहेति। ज्वरापहेत्यनेनैव ज्वरार्तानां हितत्वे लब्धे ज्वरार्तानामिति पदं भाविनोऽपि ज्वरस्य प्रतिबन्धाय हितेति प्रतिपादनार्थमिति कार्तिकःअन्नकाल इति। लङ्घितस्यान्नदानोचिते काले। अन्ये प्रातर्भोजनकालं मुक्त्वा दिनान्तमाहुः।

तदुक्तम्—

“न द्विरद्यान्न पूर्वाह्णे नाभिप्यन्दि कदाचन।
न तीक्ष्णं न गुरुप्रायं भुञ्जीत तरुणज्वरी " इति।

पाराशरेणाप्युक्तम्—

“ज्वरितं ज्वरमुक्तं वा दिनान्ते भोजयेल्लघु।
स्फुटो यस्यान्तराग्निः स्यात्स्तैमित्योपरमात्तदा” इति।

तथा च —

“दोषाः शैथिल्यमायान्ति वह्निरन्तश्च वर्धते।
स्फुटी भवन्ति स्रोतांसि दिनान्ते ज्वरितस्य हि”इति।

** यथास्वं पाचनैरिति।** यत्र दोषे यान्युक्तानि पाचनौषधानि पञ्चमूल्यादीनि तैःकृता संस्कृता। अन्ये तु पाचनैरित्यत्र बहुवचनमाद्यर्ये तेन दीपनपाचनसंशमनीयादिभिः संस्कृतेति व्याख्यानयन्ति॥४०॥

पेयाया अपवादमाह —

दाहच्छर्द्यर्दितं क्षामं निरन्नं तृष्णयाऽन्वितम्॥
शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम्॥४१॥

निरन्नमामाजीर्णरहितम्। पाययेल्लाजतर्पणमिति। द्रवानुक्त्या लाजतर्पणपानं शृतशीताम्बुना किंवा द्राक्षादिफलरसेन। यदुक्तं चरके

“तत्र तर्पणमेवाऽऽदौ प्रदेयं लाज्ञसक्तुभिः।
ज्वरापहैः फलरलैर्युकं समधुशर्करम् " इति॥

ज्वरापहानि द्राक्षादिफलान्येव। यदाह चरक एव—

“द्राक्षादाडिमखर्जूरप्रियालैः सपरूषकैः।
तर्पणार्हेषु कर्तव्यं तर्पणं ज्वरनाशनम्” इति॥

अन्यत्राप्युक्तम्—

“दाडिमामलकं द्राक्षा खर्जूरं सपरूषकम्॥
फलान्येतानि मुख्यानि ज्वरघ्नानि विभावयेत्” इति॥

लाजसक्तूनां तर्पणं लाजतर्पणं तर्पणं तोयपरिप्लुताः सक्तवः॥४१॥

श्रमो12पवासानिलजे हितो नित्यं रसौदनः13॥४२॥

** हितो नित्यं रसौदन इति।** नित्यं सर्वदा नवे पुराणे च। रसेनोपसिक्त आदनो रसौदनः। रसो मांतरसः। अन्नेन व्यञ्जनमिति समासः। एवं वक्ष्यमाणे मुद्द्रयूषौदनेऽपि समासः॥४२॥

मुद्गयूषौदनचापि देयः कफसमुत्थिते॥
स एव सितया युक्तः शीतः पित्तज्वरे हितः॥४३॥

मुद्गयूषौदनश्चापीति। कफजेऽन्नकाले मुद्गयूषौदन एव देयो यवाग्वा अहितत्वात्। यदुक्तम्—

“पांशुधाने यथा वृष्टिः क्लेदयत्यतिकर्दनम्॥
तथा श्लेष्मणि संवृद्धे यवागूः श्लेष्मवर्धनी” इति॥

अत्र वातज्वरादनुवक्तुमुचितं पित्तज्वरं त्यक्त्वा कफज्वरस्याभिधानं कफज्वरोक्तमुद्गयूपौदनस्य वातिके ज्वरेऽग्नौ मन्दे हितत्वप्रतिपादनार्थं न तु पैत्तिके मुद्गयूषौदनातिदेशानुरोधात्क्रमलङ्घनम्। यद्ययमर्थोऽभिमतः स्यात्तदा—

“मुद्गयूषौदनः शीत ससितः पैत्तिके ज्वरे॥
स एव शर्करां त्यक्त्वा देयः कफसमुत्थिते’॥

इत्येवमभिदध्यात्। स एवेति। मुद्गयूषौदन एव। ननु कफजे तावद्यग्वा अहितत्त्वं दर्शितं पैत्तिकेऽन्नकाले सशर्करमुद्गयूषौदनस्य दानं तथा वातिके रसौदनस्य विधिस्वदेवं कतमो दोषो ज्वरे यथोक्तयवागूविधिविषयः। उच्यते। कफजेऽतिमात्रवृद्धे कफे यवाग्वा अहित्वम्। पित्तज्वरेऽप्यतिवृद्धे पित्ते सशर्करमुद्गयूषौदनो देयः। अनतिवृद्धयोस्तु कफपित्तयोर्यवागूविधिरेव। तथा च तन्त्रान्तरम्—

“कफजेऽपि यदा क्षीणो लङ्घनादिक्रमात्कफः॥
शस्ता एव यवागूस्तु तथा पित्तेऽप्ययं क्रमः” इति॥

वातिके तु निरामे वाते दीप्तेऽग्नौ रसौदनः। यदाह सुश्रुत एव—

“उपवासश्रमकृते ज्वरे वाताधिके तथा।
दीप्ताग्निं भोजयेत्प्राज्ञो नरं मांसरसौदनम् " इति॥

उपवासश्रमाभ्यां निराम एव वातः कुप्यति सामे तु वाते मन्देऽग्नौ यवागूर्दीयत एवेति न कश्चिद्दोषः॥४३॥

संप्रति द्वंद्वनेष्वाहारविधिः—

मुद्गामलकयूषस्तु वातपित्तात्मके हितः॥

अत्राऽऽमलकापेक्षयाऽऽहारद्रव्यत्वान्मुद्गस्य भूयसी मात्रा। योगोऽयमन्नपानाध्याये सुश्रुतेन पित्तकफहरत्वेन निर्दिष्टस्तत्कथमिह वातपित्तज्वरेऽभिहितो न विकृतौ तस्याप्यन्यथाशक्तित्वादिति कार्तिकः।

ह्रस्वमूलकयूषस्तु कफवातात्मके हितः॥१४॥

ह्रस्वमूलकयूषस्त्विति। ह्रस्वमूलकं बालमूलकं शिम्बीधान्यं विना यूषस्य व्यपदेशाभावात्। अत्र मुद्गादीन्यपिदयानीत्याहुः। अन्ये पुनर्यूषशब्देन काथमेव ब्रुवते यथा वाट्यालककृतो यूष इत्यादौ। एवमन्यत्रापि व्याख्येयम्॥४४॥

निम्बकूलकयूषस्तु हितः पित्तकफात्मके

निम्बकूलकयूषस्त्विति। कूलकं पटोलपत्रम्।

यथास्वं पाचनैः सिद्धं वातपित्तकफात्मके14॥४५॥

यथास्वं पाचनैरिति। प्रत्येकं वाताद्युक्तपाचनद्रव्यैमिलितैः। वातपित्तकफज्वर इति। प्रत्येकं वातादिज्वरे। सिद्धमिति। अतः परमन्नं हितमिति शेषः॥४५॥

द्वंद्वसंनिपातयोरन्नसाधनाय योगान्तरमाह—

लघुना पञ्चमूलेन पिप्पल्या सह धान्यया॥
महत्या पञ्चमूल्या तु व्याघ्रीदुःस्पर्शगोक्षुरैः॥४६॥

सिद्धानि भिषगन्नानि प्रयुञ्जीत यथाक्रमम्॥
वातपित्ते श्लेष्मपित्ते कफवाते त्रिदोषजे॥४७॥

लघुना स्वल्पेन। व्याघ्रीदुःस्पर्शगोक्षुरैरिति। व्याघ्री कण्टकारी। दुःस्पर्शो दुरालभा॥४६॥४७॥

उक्तयवाग्वादिसाधने जलभेषजयोर्मानव्यवस्थापनाय परिभाषात्रयमाह—

क्कथ्यद्रव्याञ्जलिं क्षुण्णं श्रपयित्वा जलाढके।
अर्धशृतेन तेनाथ यवाग्वाद्युपकल्पयेत्॥४८॥

अञ्जलिः पलचतुष्टयम्। श्रपयित्वा पाचयित्वा। जलाढके जलस्य षोडशशरावे। द्रव्यं तावद्विविधं वीर्यप्रधानं रसप्रधानं च। वीर्यप्रधानं भेषजद्रव्यं रसप्रधानमाहारद्रव्यम्। तत्र रसप्रधानाहारद्रव्याभिप्रायेणात्र चतुष्पलद्रव्याभिधानं तेन परिभाषेयम्। सिद्धा वराहनिर्यूहे यवागूर्वैृहणी मतेत्यादिकार्यार्थं यवाग्वादयो ज्ञेयाः॥४८॥

वृद्धवैद्याः पलं द्रव्यं ग्राहयन्त्याढकेऽम्भसि॥
भेषजस्यातिबाहुल्यात्कदाचिदरुचिर्भवेत्॥४९॥

वृद्धवैद्यव्यवहारोद्भटव्याख्यातो वृन्देन श्लोकं कृत्वा लिखितः॥४९॥

यदप्सु शृतशीतासु षडङ्गादि प्रयुज्यते॥
कर्षमात्रं ततो द्रव्यं साध्यायेत्प्रास्थिकेऽम्भसि॥
अर्धशृतं प्रयोक्तव्यं पाने पेयादिसंविधौ॥५०॥

यदप्सु शृतशीतास्विति। सप्तमीयं निमित्तात्कर्मयोग इत्यनेन। तेन शृतशीतजलनिमित्तमित्यर्थः। षडङ्गादीत्यत्राऽऽदिशब्दाद्यवाग्वादिपरिग्रहः। अत्र षडङ्गस्य साधनाय मध्यवीर्यस्यापि द्रव्यस्य कर्षो मन्दानलपुरुषविषयो ज्ञेयः। मध्यवीर्यस्य हि द्रव्यस्यार्धपलत्वमग्रे व्यवस्थाप्यम्। इमामेव परिभाषां व्यवहारायाऽऽद्रियन्ते भिषजः॥५०॥

कर्षार्धै वा कणाशुण्ठ्योः कल्कद्रव्यस्य वा पलम्॥५१॥
विनीयपाचयेद्युक्त्या वारि प्रस्थेन चापरान्॥
यूषान्नरसकांचैव15 कल्पेनानेन साधयेत्॥५२॥

कर्षार्धं वेति प्रत्येकम्। कणाशुण्ठ्योरिति तीक्ष्णद्रव्यापलक्षणं तेन तीक्ष्णद्रव्यस्य कर्षो ग्राह्यः। कल्कद्रव्यस्यवा वा पलमिति। मृदुवीर्यस्याऽऽमलकादेः पलं ग्राह्यम्। अत्र तीक्ष्णमृदुद्रव्ययोः कर्षपलमानव्यवस्थया मध्यवीर्यस्यापि बिल्वाग्निमन्थादेर्मध्यवीर्यविधिनाऽर्धपलत्वमूह्यमित्याहुः। विनीय प्रक्षिप्य। युक्त्या वारि प्रस्थेन चेति। युक्त्या प्रस्थेन वारि देयम्। अयमर्थः। यस्योत्तमबलानलत्वेन बहु यवाग्वादियुज्यते तस्य युक्त्या जलप्रस्थद्वयत्रयमनुरूपतो दत्त्वाऽन्यतो दर्शनादर्धशृतं कृत्वा यवाग्वादि साधनीयम्। अल्पबलानलस्य तु वारि प्रस्थेन। अपरानिति यूषरसादीन्। चक्रस्त्वपरामिति पठति व्याचष्टे च। अपरामुक्तायाः क्वाथसाध्ययवागूतोऽन्यां कल्कसाध्यामित्यर्थः। तन्मते परिभाषेयं कल्कसाध्ययवागूविषया ज्ञेया। यवाग्वां चास्यां तण्डुलमानं सुश्रुतवचनाद्वद्धव्यम्। तद्यथा—

**‘विलेपीमुचिताद्भक्ताच्चतुर्भागकृतां वदेत् ’ इति। **

तन्त्रान्तरोक्तो विशेषः—

“स्याद्धितः साधितो यूषस्त्वष्टादशगुणे जले।
चतुर्दशगुणे पेया यवागूः षड्गुणे जले।
शृतं पञ्चगुणे भक्तं विलेपी च चतुर्गुणे” इति॥

अत्र हेमाद्रिव्याख्यानम्।कर्षार्धमित्यादि। अत्र द्वात्रिंशत्पले जले क्वाथ्यस्य कर्षार्ध कर्षः पलं वा तीक्ष्णसौम्यातिसौम्यत्वे सति कणाशुण्ठ्योरिति षडङ्गादीति कल्कद्रव्यस्येति पदैस्तीक्ष्णादीनां ग्रहणात्। यस्य कल्कोऽप्यतिसौम्यत्वात्पातुं न शक्यते किं पुनः क्वाथस्तत्कल्कद्रव्यम्। अपरान्सार्धकर्षद्विकर्षादीन्युक्त्या तीक्ष्णाद्यवयवान्तरविशेषपर्यालोचनया पाचयेत्। आढकेऽञ्जलिः पलं वेत्येतत्प्रस्थे पलं कर्षो वेत्यनेन गतार्थमप्यरुचिर्यथा न स्यात्तथा कल्प्यमित्येतदर्थमुक्तम्॥५१॥५२॥

यवाग्वा अनन्तरं पाचनत्वसामान्यात्सदाप्राणयात्राहेतुत्वेनानिषिद्धत्वाच्च दोषापेक्षया जलमुष्णं शृतशीतं चाऽऽह—

कफवातज्वरे देयं जलमुष्णं पिपासवे॥

जलं सदा प्राणयात्राहेतुत्वेनापि निषिद्धमिति चेत्। न। आदाने सद्योऽत्ययहेतुत्वात्। उक्तं हि हारीते

**“तृष्णा गरीयसी घोरा सद्यः प्राणविनाशिनी।
तस्माद्देयं तृषार्ताय पानीयं प्राणधारणम्” इति॥ **

तच्चार्धावशिष्टं देयम्। कफवातज्वर इति। व्यस्तसमस्तकफवातज्वरे कफज्वरे वातज्वरे कफवातज्वरे च। पिपासवेऽत्यर्थतृषिताय न स्वल्पतृषिताय। जलं दोषपाकान्तरायत्वात्।

उक्तं च—

“निरिन्धनो हि कायाग्निर्दोषानिन्धन वत्पचेत्॥
तस्मादनशनं कुर्यात्पक्त्यर्थं तरुणे ज्वरे।
अत्यर्थतृषितानां च दोषपाकानुकूलयोः”॥

पित्तमारुतयोरुद्गमाद्दोषपाकान्तरायो नास्ति। एवंगुणमप्युष्णोदकं ज्वरेऽल्पं देयमित्याचार्याः।

**“विपाके मधुरं वीर्ये शीतमुष्णमपि स्मृतम्॥
यतस्ततोऽल्पयोगेन लाघवाय प्रयोजयेत्” इत्युक्तत्वात्। **

शृतशीतगुणमाह—

पित्तमद्यविषोत्थेषु तिक्तकैः शृतशीतलम्॥५३॥

एतेन ज्वरे कफवातजेऽवशिष्टमुष्णं जलं हितम्। पित्तजे तिक्तकशृतशीतं जलं हितम्।असंस्कृतं शीतं शृतशीतं च निषिद्धम्। अत्रोच्यते—

“वह्रिसादकरं श्लेष्मस्त्यानत्वापादकं तथा।
पित्तवातावरणकृत्कफबातज्वरे हितम्॥

तृष्णाकरं च दोषाणां स्रोतसां कठिनत्वकृत्।
शीतं वा शृतशीतं वा पीतं स्यादुष्णतोऽन्यथा”॥

** पित्तमद्यविषोत्येष्विति**। मद्यविषयोरपि पित्तकर्तृत्वात्तज्जन्यज्वरस्य पित्तजन्यत्वेन परिग्रहे सिद्धे पुनस्तदभिधानमन्यस्मिन्नपि मद्यविषोत्थरोगे तिक्तकशृतशीत जलस्थयौगिकबोधनार्थमिति गदाधरः। मद्यविषोत्थे ज्वरे कफवातजेऽपि तिक्तकशृतशीतपिध्यर्थमित्यन्ये। तिक्तकैः शृतशीतलमिति। तिक्तकशृतमेव शीतलम्। तिक्तकानि च वक्ष्यमाणमुस्तादीनि॥५३॥

आमज्वरे हि तिक्तकरसः पाचनं तिक्तकस्य बहुत्वाद्यौगिकतितकं च मुस्तादि तदाह—

मुस्तापर्पटकोशीरचन्दनोदीच्यनागरैः॥
शृतशीतं जलं दद्यात्पिपासाज्वरशान्तये॥५४॥

अत्र शुण्ठ्यतिक्ताऽप्यामाशयसमुत्थे ज्वरे पाचनत्वाद्विहितेत श्रीब्रह्मदेवः। यद्यव्यतिक्ता शुण्ठी तथाऽपि प्रक्षेपणीयत्वात्पाचनीयत्वेन यौगिकत्वाचास्मिन्डङ्गादियोगे नागरस्य प्रक्षेष इति। चन्दनं रक्तचन्दनम्। अविशेषोक्तौ च सर्वत्र चन्दनं रक्तचन्दनं गृह्यते। उदीच्यं वालकम्। यदप्सु शृतशीतास्वित्यादिना शृतशीतमेव तत्कर्तव्यम्॥५४॥

पञ्चविधकषायकल्पनायां शृतंशीतकपायेऽर्धशतस्यावश्यमन्तर्भावान्नवज्वरे च कषायनिषेधात्षडङ्गादेरपि निषेधः स्यादित्याशङ्क्य वृन्दः स्वनिर्मितमाथया सिद्धान्तं कुरुते—

पादशिष्टः कषायः स्याद्यः षोडशगुणाम्भसा॥
क्वथितोऽतः षडङ्गादिर्न निषिद्धो नवज्वरे॥५५॥

पादशिष्टः षोडशगुणाम्भसा क्वथितो यः स कषायो मुख्यत्वान्नवज्वरे निषिद्धो न त्वर्धशृतषडङ्गादिरमुख्यत्वात्। अत एवाऽऽह चक्रः—

“मुख्यभेषजसंबन्धो निषिद्धस्तरुणज्वरे।
तोयपेयादिसंस्कारै16र्निर्दोषं तेन भेषजम्” इति।

मुख्यत्वं चान्नपानसाधनव्यतिरिक्तकल्पनोपयोग्यत्वं तन्त्रे साक्षात्काल्पनोप्रयोज्यत्वं वा। न चेह पादाशिष्टकषायनिषेधेनाष्टभागावाशेष्टकषायस्य स्वरसादेर्वा प्रसङ्गो येन पादशिष्टकषायो दोषावहमुख्यभेषजोपलक्षणम्। तेनाष्टभागशिष्टकषायस्वरमादेरपि निषेधा बोद्धव्या लघोरर्धशृतषडङ्गादेर्विधानसमर्थनार्थम्। एवंविधायां सृष्टौ का वा कथा गुरुतमाष्टभागशिष्टकषायस्वरसादिविधानस्य। अत एव वृद्धसुश्रुतेन न दद्यात्तत्र भेषजमिति सामान्येनैव नवज्वरे भेषजनिषेधः कृत इति॥१५॥

नवज्वरे सामरसदोषे रसनादुष्टावारुचिः स्यातस्याः प्रतीकारमाह—

अरुचौ मातुलुङ्गस्य केसरं साज्यसैन्धवम्।
धात्रीद्राक्षासितानां वा कल्कभास्येन धारयेत्॥५६॥

आज्यं घृतम्॥१६॥
ज्वरितस्यारुचावपि हितभोजनं नियमयन्नाह—

ज्वरितो हितमश्रीयाद्यद्यप्यस्यारुचिर्भवेत्॥
अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽपि वा॥५७॥

अस्यायमर्थः। यद्यप्यस्यारुचिः स्यात्तथाऽपि ज्वरितो हिलमेवाश्रीयादेवेत्युमयत्रापि नियमः।सिद्धे हि विधिरारम्यमाणो नियमार्थः। तत्र हि दिनान्ते भोजयेदित्यनेन मुजिक्रियाऽप्युक्ता। हितमप्युक्तमेव। अत एवाभोजनाहितभोजनैर्दोषं वक्ष्यति। अन्ये स्वरुचौ सत्यां हितस्याशिलुमप्रतिभासनादपिशब्दं भिन्नक्रमेण योजयित्वा नञं च प्रश्लिष्यान्यथा व्याचक्षते। ज्वरितोऽहितमश्रीयाद्यद्यप्यस्यारुचिर्भवेत्। अभुञ्जानस्य क्षयमरणलब्धेः। अस्यां व्याख्यायामुत्तरश्लोकोऽपि नाहितप्रतिषेधायान्यथा व्याख्यामात्। गुर्वभिष्यन्द्यकाले च ज्वरी ना नरोऽद्यात्कथंचन सकृत्। यतो भुक्तं भोजनं तस्य नाहितमायुषे वा सुखाय वा तुशब्दस्य निपातस्यानेकार्थत्वाद्वेति भवत्येवैषा व्याख्या यद्यहितार्थमुपदेशः स्यात्किं तु हितस्यैव सर्वत्रोपदेशः। अथावस्थार्या तु तदपि हितमिति चेत्तर्ह्यहितमिति व्याहृतं तस्माद्वितमेव कल्पनाविधिभिस्तैस्तैर्मनः प्रियं यथा स्यात्तथाऽश्रीयात्। तथाचोक्तं सातत्यादिति। एवं चोत्तरश्लोकोऽप्यहितप्रतिषेधायैव युज्यते।

** अथ डल्लणव्याख्या**—इदानीं जीर्णज्वरितस्यारुचावपि हितभोजनोपदेशमाह—ज्वरितो हितमित्यादि। अस्य जीर्णज्वरणो यदि हितभोजने कथंचिदरुचिः स्यात्तदा हितमेवानेकप्रकाराभिः कल्पनार्मुिखप्रियं कृत्वा रुचितृप्त्यर्थं ज्वरितोऽश्नीयात्।

तथाच—

“सावत्यात्स्वाद्वभावाच्च पथ्यं द्वेष्यत्वमागतम्॥
कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत्पुनः” इति॥

तस्मादेवंविधमपि कृत्वा ज्वरितोऽश्नीयादित्याह—अन्नकाले ह्यभुञ्जान इत्यादि। अभ्ये तु यद्यस्य जीर्णज्वरिणोऽरुचिः स्यात्ताऽहितमप्यश्नीयादिति व्याख्यानयन्ति। ननु यद्यरुचौ सत्यामहितभोजनं क्रियते तर्हि गुर्वभिष्यन्द्यकाले चेत्याद्युत्तरोक्तश्लोकेन सह विरोधः। सत्यम्, अहितस्य सातत्य सेवननिराकरणार्थं गुर्वभिष्यन्द्यकाले चेत्यादिश्लोक इति॥१७॥

किं तदहितं यन्त्र भोज्यमित्याह—

गुर्वभिष्वन्धकाले च ज्वरी नाद्यात्कथंचन॥
न तु तस्याहितं भुक्तमायुषे वा सुखाय वा॥५८॥

अभिष्यन्दि दोषधातुमलस्त्रोतसां क्लेदजनकम्। अकालेऽतीतेऽप्राप्ते वा काले। कथंचम कदाचित्॥५८॥
अन्नकालं दर्शयति—

ज्वरितं ज्वरमुक्तं वा दिनान्ते भोजयेल्लघु॥
श्लेष्मक्षयविवृद्धोष्मा बलवाननल17स्तदा18॥५९॥

दिनान्तेऽपराह्ने॥१९॥
हिते कुतो हेतोररूचिः स्यादित्याह—

सातत्यात्स्वाद्वभावाञ्च पथ्यं द्वेष्यत्वमागतम्॥
कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत्पुनः॥६०॥

सातत्यात्सततोपयोगात्। स्वाद्वभावात्स्वादुरभीष्टो रसस्तस्याभावात्। स्वाद्वपि द्रव्यं सर्वदोपयोगादप्रियं स्यात्। अस्वादु तु सुतरामप्रियम्। उक्तहेतुभ्यां यदि पथ्यं द्वेष्यं स्यात्तदाऽपि तदेव पथ्यं कल्पनाविधिभिः कल्पनाप्रकारैस्तैस्तैर्भावैः स्वरसादिभिः सूदशास्त्रोक्तैश्च यूषरसपानकादिमिरातुरस्य प्रियत्वं नयेत्। अहितनिवृत्तेरापि चिकित्सितत्वात्॥६०॥

नवज्वरे निषिद्धांन्याह—

परिषेकान्मदेहांश्च स्नेहान्संशोधनानि च॥
दिवास्वप्नं व्यवायं च व्यायामं शिशिरं जलम्॥
क्रोधाप्रवातभोज्यानि वर्जयेत्तरुणज्वरी॥६१॥

परिषेकान्प्रदेहांश्चेत्यत्र परिषेकावगाहांश्चेति पाठं केचित्पठन्ति व्याख्यानयन्ति च। परिषेकः प्रसेकः। अवगाहो जलपूर्णकटाहादौ निमज्जनम्। अवगाहनिषेधात्स्नाननिषेधोबोद्धव्यः। स्नेहानिति स्नेहपानमभ्यङ्गं च। संशोधनानि वमनादीनि। संशोधनानीत्यत्र ज्वरे निषिद्धमपि संनिपातज्वरे प्रागेव संज्ञाप्रबोधनार्थं मार्गविशोधनार्थं च धूमाञ्जनावपीडमातुलुङ्गरसगण्डूषादिसंशोधनं वृद्धवैद्यव्यवहाराच्छास्त्रान्तरोतत्वाच्च प्रवुज्यते। भोज्यानि गुरूण्यत्र।यदुक्तं सुश्रुतेन—सारवन्ति च भोज्यानि वर्नयेत्तरुणज्वरीति। सारवन्ति स्निग्धगुरूणि॥६९॥

परिपेकादिसेवनया किं स्वादित्याह—

शोषच्छार्दिर्मदो मूर्छा भ्रमस्तृष्णा ह्यरोचकः॥
प्राप्नोत्युपद्रवानेतान्परिषेकादिसेवनात्॥६२॥

एतत्तु परिषेकादौ यथार्ह ज्ञेयम्।हारीतेन तु प्रत्येकमेव दूषणमुक्तम्—

“व्यायामाज्ज्वरसंवृद्धिर्व्यवायात्स्तम्भमूर्छनम्॥
मरणं पानतः स्नेहाच्छार्दिर्मूर्छा मदोऽरूचिः॥

गुर्वन्नभोजनाञ्चापि विष्टम्भो दोषकोपनम्॥
शीतवारिकषायाच्च दोषविष्टम्भनाऽहिते॥

अग्निसादः खरत्वं च स्त्रोतसां वातवर्धनम्॥
तस्मादामज्वरे सर्वान्विषवत्परिवर्जयेत्’ इति॥६२॥

ननु कियन्तं कालं यावत्तरूणे ज्वरे परिषेकादि न कर्तव्यमित्याह—

आसप्तरात्रातरुणं ज्वरमाहुर्मनीषिणः॥
मध्यं चतुर्दशाहं तु पुराणमत उत्तरम्॥६३॥

आससरात्रादिति। सप्तरात्रं व्याप्य।अभिविधावयमाङ्न मर्यादायां निरामज्वरकालत्वेनाष्टाहस्योक्तत्वात्।तरुणमत्यर्थमामम्। पुराणं जीर्णम्।यदुक्तं जातूकर्णे—जीर्णस्त्रयोदशे दिवस इति।

“त्रिसप्ताहे व्यतीते तु ज्वरो यस्तनुतां गतः।
प्लीहाग्निसादं कुरुते स जीर्णज्वर उच्यते”॥

इति तान्त्रान्तरमतिजीर्णामिप्रायेणोक्तम्। मध्यपुराणयोस्तु प्रसङ्गादिहोक्तिः॥६३॥

अथ दोषस्य सामतां प्रतिपाद्य निरामतां प्रतिपादयितुं पक्वलक्षणमाह—

मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च॥
पक्कं दोषं विजानीयाज्ज्वरे देयं तदौषधम्॥६४॥

मृदौ मन्दीभूते। मान्द्यं च ज्वरस्याऽऽमरसे क्षीणे स्त्रोतासि शुद्धे पुनः कोष्ठगते चोष्मणि भवति। प्रचलेषु प्रकर्षेण चलेष्वविबद्धेष्वित्यर्थः। मलेषु वातपित्तकफशकृदादिषु। पक्कं निरामम्। दोषमित्यनेन दुःखकर्तृत्वाच्छकृदाद्यप्युच्यत इत्याहुः। देर्यं सदौषधमिति। तस्मिन्काले दानार्हमौषधं चात्र शमनं शोधनं वा। तदा पाचनस्यनिरामत्वेनार्हत्वात्। तत्राल्पदोषे स्वस्थानाच्चलितेऽल्पवलस्य शमनम्।प्रभूते च दोषे स्वस्थानस्थे बलस्थस्य शोधनमिति। यदुक्तं दोषाः क्षीणा वर्धयितव्याश्चलिताश्च शमयितव्या वृद्धा निर्हर्तव्या इति॥१४॥

ज्वरस्य संतापरूपायाः प्रकृतेर्विकृतिरूपं मृदुत्वं पक्कलक्षणमभिधाय दोषाणां प्रकृतेविकृतिरूपं पक्कलक्षणमेकीयमतेनाऽऽह—

दोषप्रकृतिवैकृत्यादेकेषां पक्कलक्षणम्॥६५॥

दोषत्रकृतिवैकृत्यादिति। ज्वरारम्भकाले यो दोषस्वभावः संप्राप्तिरूपस्तस्यान्यथाभावात्तदन्यत्वादेकेषां पक्कलक्षणम्। अन्ये तु प्रथमाक्कतिरामरसमूर्च्छितानां ज्वरजननसमर्थानां दोषाणां स्वकार्यस्य ज्वरतीक्ष्णत्वदेहगुरुत्वमलविवन्धादेरुत्पादनम्। ततो विपर्ययो वैकृत्यम्। प्रथमाकृतिरप्याम एव। यदुक्तम्– ‘प्रथमां दोषदृष्टिं तु केचिदामं प्रचक्षते’ इति॥६५॥

वातिकः सप्तरात्रेण दशरात्रेण पैत्तिकः॥
श्लैष्मिको द्वादशाहेन ज्वरः पाकं नियच्छति॥६६॥

सुगमम्॥६६॥

तत्र पक्कदोषस्य बलवतः स्वस्थानस्थस्य शोधनस्याविधाने दोषमाह—

पक्को ह्यनिर्हृतो दोषो देहे तिष्ठन्महात्ययम्॥
विषमं वा ज्वरं कुर्याद्वलव्यापदयेव वा॥६७॥

पक्को लङ्घनस्वेदनतिक्ताम्बुपानपेयादिना स पुनरेवंभूतो भूयान्दोषः शोधनविषयो भवतीति। अनिर्हृतो वमनादिनाऽनिःस्रारितः। महात्ययं विषमं चातुर्थिकं विषमस्य तस्यैव महात्ययत्वादिति गदाधरः।महात्ययं गम्भीरमिति। ननु भूयादोषो विषमन्वरं कथमारभते दोषोऽल्पोऽहितसंभूत इत्यनेनल्पदोषस्यैव विषमज्वरकारणत्वेनोत्तत्वात्। मैवं, भूयसोऽपि दोषस्य लङ्घनादिभिरुपक्षीणशक्तित्वादिति गदाधरः। अहितसंभूत इत्यनेन तत्रापि भूयस एव दोषस्य विषमन्वरकारणत्वमिति कार्तिकः।बलव्यापदं बलक्षयम्। बलं त्रिविधं कालकृतं युक्तिकृतं सहजं च। तस्य त्रिविधस्यापि व्यापदं व्यापत्रतां करोति॥ ६७॥

दोषपाकं लक्षणतः प्रतिपाद्यैकीयमतेन कालतः प्रतिपादियन्नह—

सप्तरात्रात्परं केचिन्मन्यन्ते देयमौषधम्॥
दशरात्रात्परं केचिद्दातव्यमिति निश्चिताः॥६८

सप्तरात्रादेव परं दशदिनपर्यन्तमौषधं पाचनं देयं दानार्ह केचिन्मन्यन्ते न सप्तरात्रादर्वाक्। तथाचोक्तम्—

सप्ताहात्परतोऽस्तब्धे सामे स्थात्पाचनं ज्वर इति। ननु सप्तरात्रादूर्ध्वं ज्वरस्य निरामत्वात्किमर्थं तत्र पाचनम्। यदुक्तं हरिश्चन्द्रेण—अष्टाहं निरामम्वरलक्षणमिति।

अन्ये तु—

**“सप्ताहेन तु पच्यन्ते सप्तधातुगता मलाः।
निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि”॥ **

उच्यते। द्विविधा हि सामता। एका दोषस्य तरुणत्वरूपाऽपरा रसस्य मुखवैरस्यतृष्णारीचकादिलक्षणा। तत्र प्रथमाऽष्टाहादपैति। यदुक्तम्—‘सप्ताहेन तु पच्यन्ते’ इत्यादिना। अपरा पुनरष्टाहात्परतोऽप्यनुवर्तते। तत्रं च पाचनं दीयत एव। अतएवाऽऽह सुश्रुतः

“बहुदोषस्य मन्दाग्नेः सप्तरात्रात्परं ज्वरे।
लङ्घनाम्बुवागूभिर्यदा दोषो न पच्यते॥

**तदा तं मुखवैरस्वतृष्णारोचकनाशनैः।
कषायैः पाचनैर्हृयैर्ज्वरन्घैः समुपाचरेत् " इति। **

यद्येवम्—

“ज्वरितं षड़हेऽतीते लध्वन्नं प्रतिभोजितम्।
पाचनं शमनीयं वा कषायं पाययेत्तु तम्॥

इति चरकवचने। तथा—

“पाययेदात्लरं सामं पाचनं सप्तमे दिने।
शमनेनाथवा दृष्ट्वा निरामं तमुपाचरेत् “॥

इति च तन्त्रान्तरे सप्ताह एवं पावनोपदेशः कथं न विरुध्यते। उच्यते। पूर्वश्लोकस्य तावदयमर्थस्तात्पर्याच्चक्रेण व्याख्यातः। षडहेऽतीत इति सप्तमे दिने लत्वन्नं प्रतियोजितमष्टमे कषायं पाययेदिति। उत्तरश्लोके चोत्पाददिनत्यागेन गणनया समाधानमुक्तवान्कार्तिकः। यथा सुश्रुतोक्तंञ्यहपरिहारकाल एव बस्तिदानदिनं त्यक्त्या चरकेण द्विगुणः परिहारकाल उक्त इति। पित्तज्वराभिप्रायेण सप्तमे दिने कषायाविधिरित्यन्ये।

उक्तं हि —

**“पैत्तिके वा ज्वरे देयमल्यकालसमुत्थिते।
अचिरज्वरितस्यापि देयं स्याद्दोषपाकतः”इति। **

पैत्तिक इत्यादि। अत्यार्थः। पैत्तिके ज्वरे पित्ते तेजसैव शीघ्रं ज्वरः पाकमागच्छतीत्यल्पकालसमुत्थितेऽपि यदौषधं देयं दातव्यं भवेत्तद्देयमिति पिण्डार्थः। वाशब्दाद्वातश्लेष्मादिज्वरेऽपि दोषपाके सत्यौषधं देयम्।

उक्तंच—

**“यदा वातशकृनन्मून्नक्षवोद्गारप्रवर्तनम्।
अचिरज्वरितस्यापि तदा शमनशोधनम् " इति। **

दशरात्रात्परं केचिद्दातव्यमिति निश्चिता इति। दशरात्रात्परं दोषामतारसामतयोःसर्वथा निवृत्तत्वादौषधं शमनं शोधनं वा दानार्हमिति केचिव्द्यवस्थिताः। यत्तु ज्वरितं षडहेऽतीत इत्यादिना तथा—

**“सप्ताहात्परतोऽस्तब्धे सामे स्यात्पाचनं ज्वरे।
निरामे शमनं स्तब्धे सामे नौषधमाचरेत्”। **

इत्यनेन च सप्ताहादूर्ध्वमेव शमनं विहितं तत्र सामताया अल्पत्वेन निरामत्वं मत्वै तत्समाधेयम्। किंवा यत्र दोषाणासनतिवृद्धत्वात्सप्ताहेनैव रसामताऽपि निवृत्ता तत्र तच्छमनं प्रत्येतव्यम्। अन्ये तु सप्ताहादूर्ध्व दशदिनपर्यन्तं पाचनमेव दशदिनादूर्ध्वं तु शमनमिति योग्यतयाऽत्रापि विरोधसमाधानार्थं व्याख्यानयन्ति॥६८॥
संप्रति सप्ताहात्पूर्वं कषायद्रव्यकृतं पाचनं कषायमपि निषेधयन्नाह—

न कषायं प्रशंसन्ति नराणां तरुणज्वरे॥
कषायेणाऽऽकुलीभूता दोषा जेतुं सुदुस्तराः॥६९॥

कषायमिति कषायद्रव्यंकृतपाचनविषयं शमनस्यातिप्रसक्तत्वात्। आकुलीभूता इति। इतस्ततो भृशं मूर्छिताः॥१९॥

निषेधोऽयं कषायकषायस्य न सामान्यतः स्वरसादिकपायनिषेध इत्यत आह—

न तु कल्पनमुद्दिश्य कषायः प्रतिषिध्यते॥
यः कषायः कषायः स्यात्स वर्ज्यस्तरुणज्वरे॥७०॥

कल्पनमुद्दिश्य स्वरसकल्कादिरूपं कल्पनं लक्षीकृत्य। कषायस्याऽऽमलकादेः कषायः स्वरसादिः। कषायद्रव्यकृतस्वरसादिनिषेधेन मधुरादिद्रव्यकृतस्वरसादीनां दानप्रयोगप्रसङ्गो नोद्भावनीयः। यतो विहितषडङ्गादेस्तिकस्य कषायांश्च विवर्जयेदित्यनेन समविरोधसाधनार्थं चरके कषायकषायवचनं न त्वविहितस्वरसादिविधानार्थं स्वरसादिगुरुभेषजस्य नवज्वरे दोषकर्तृत्वात्। यदुक्तम्—भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरमिति। यद्येवं, कषायेतरकषायस्यापि दोषकर्तृत्वात्कषायकषायनिषेधः किमर्थम्। उच्यते। विशेषेण दोषकर्तृत्वख्यापनार्थम्। यथा ज्वरमात्रनिषिद्धस्य मैथुनादेस्तरुणज्वरे निषेधः॥७०॥

ननु कषायकषायकरणे को दोषो येनासौ निषिध्यत इत्याह—

दोषा बद्धाः19 कषायेण स्तम्भित्वात्तरुणज्वरे20
स्तभ्यन्ते21 न विपच्यन्ते कुर्वन्ति विषमज्वरम्॥७१॥

बद्धा इत्यनुबद्धाः सानुबन्धा इति यावत्। विबन्धस्थाः स्तभ्यन्त इत्यनेनैवोक्तत्वात्। स्तम्भित्वादिति स्तम्भनस्वभावत्वात्। उक्तं हि— कषायः स्तम्भन शीत इत्यादि। स्तभ्यन्त इति। प्रबला भवन्ति। विपच्यन्त इति। चिरेणापि सुखं न विपच्यन्ते। चरके त्वस्य श्लोकस्य स्तभ्यन्त इत्यादिकमेव पूर्वार्धम्॥७१॥

नवज्वरे तथा शोधनमपि निषेधयन्नाह—

पाययेद्दोषहरणं मोहादामज्वरे तु यः॥
स सुप्तं कृष्णसर्पंतु कराग्रेण परामृशेत्॥७२॥

दोषहरणं संशोधनम्। परामृशेदिति स्पृशेत्। यद्यपि स्नेहं संशोधनादि चेत्यनेन पूर्वं शोधननिषेधो दर्शित एव तथाऽपि महात्ययत्वप्रतिपादनार्थं स पुनरुच्यत इत्थदोषः॥७२॥

शोधनं शमनं च यैर्न सेव्यं तानाह—

पीताम्बुर्लङ्घितः क्षीणोऽजीर्णी भुक्तः पिपासितः॥
न पिवेदौषधं जन्तुः संशोधनमथेतरत्॥७३॥

पीताम्बुः सद्य एव पीतोदकः। लङ्धितः सुलङ्धितः। अजीर्ण्यपरिपक्वभोजनः। भुक्त इति भुक्तवान्। कर्तरि क्तः। सद्य एव कृताहार इत्यर्थः। पिपासितस्तृष्णातुरः। अथशब्दः समुच्चये निपातस्यानेकार्थत्वात्। शममं चेतरदित्यर्थः॥७३॥

निषिद्धशोधनस्यापि दुर्बलस्याऽऽवस्थिकं शोधनमाह—

रोगे शोधनसाध्ये तु यं विद्याद्दोपदुर्बलम्॥
तं समीक्ष्य भिषक्कुर्याद्दोषमच्यावनं मृदु॥७४

** दोषदुर्बलमिति**। दोषाभिभवेन दुर्बलम्। एवंभूतस्य दोषो हर्तव्य एव दोषहरणेनैवास्य बललाभोदयात्।यस्तूपवासादिकृशो न तस्य दोषहरणमत एवोक्तं समीक्ष्येति। दोषप्रच्यावनं शोधनम्। मृद्विति। मृदुवीर्यं चतुरङ्गुलादिकृतम्॥७४॥

अपरमपि दुर्बलस्याऽऽवस्थिकं शोधनमाह—

चले दोपे मृदौ कोष्ठे नेक्षेतात्र बलं नृणाम्॥
अव्यापद्दुर्वलस्यापि शोधनं हि तदा भवेत्॥७५॥

** नेक्षेतात्र बलमिति**। अत्रास्यामेवावस्थायामनतिग्लानिकरत्वाच्छोधनस्य बलं नास्तीति नापेक्ष्यम्। बलं कुतो नापेक्ष्यमित्यत उक्तमव्यापदिति। अल्पदोषमित्यन्ये। स्वयमेव दोषाणां प्रवृत्त्युन्मुखत्वाच्छोधनमल्पदोषं भवतीत्यर्थः। यच्छोघनं दृष्टफलत्वाच्छूलादिव्यापत्तेरजनकमिति तु गदाधरःतदेति। तस्यामवस्थायां। हि यस्मादर्थे॥७५॥

भैषज्यद्रव्येषु कर्षादिमानपरिच्छेदार्थं पलव्यवस्थामाह—

द्विचत्वारिंशता माषैरष्टादशनिवद्धकैः॥
पलं द्वादशवद्धं स्याद्गुञ्जषट्कसमन्वितैः॥७६॥

अस्यायमर्थः। अष्टादशमाषगुडकैः कृतो यो मापकस्तैर्द्विचत्वारिंशता मिलित्वाऽधिकत्वेन षड्गुञ्जान्वितैः कस्यचित्तन्त्रस्य पल (म्) बद्धक इत्यत्र स्वार्थे कः। तदेव च पलं सुश्रुतमानाविशिष्टमित्याह— द्वादशवद्धमिति। द्वादशमाषगुडकैः कृता ये माषकास्त्रैश्चतुःषट्या बद्धं सौश्रुतं पलं भवति। अयं तात्पर्यर्थः। अष्टादशमाषगुडकैः कृता ये द्विचत्वारिंशन्माषकास्ते तु द्वादशमापगुडकैर्मापकं कृत्वा विभक्ताः परिशिष्टपण्माषगुडककृतमाषकार्यैश्चत्वारिंशतैकविंशतिमाषरूपैः सह त्रिषष्टिमाषका एकमाषश्च न्यूनो गुञ्जाषट्केन पूर्यते। अतएवाऽऽह बकुलकरः सुश्रुते षड्रक्तिकं माषकं चरके तु ततो द्विगुणं व्याचष्टे। चक्रस्तु सौश्रुतं पञ्चरक्तिकं माषकमिच्छति। यदाह स्वसंग्रहे

“द्वात्रिंशन्माषको माषश्चरकस्य तु तैः पलम्।
अष्टचत्वारिंशता स्यात्सुश्रुतस्य तु माषकः॥

द्वादशभिर्धान्यमाषैश्चतुःषष्ट्या च तैः पलम्।
एतच्च तुलितं पञ्चरक्तिमाषात्मकं पलम्॥

चरकार्धपलोन्मानं चरके दशरक्तिकैः।
मापैः पलं चतुःषष्ट्या यद्भवेत्तत्तथेरितम्॥

तस्मात्पलं चतुःषष्ट्या मापकैर्दशरक्तिकैः।
चरकानुमतं वैद्यैश्चिकित्सासूपयुज्यते” इति॥

ननु चरकस्याष्टचत्वारिंशता मापकैः पलं सुश्रुतस्य चतुःषष्ट्या तत्कथं चरकपलार्घ सौश्रुतं पलम्। उच्यते। चरके द्वात्रिंशन्मागुडकैः कृता येऽष्टचत्वारिंशन्मापकास्ते द्वात्रिंशन्माषगुडकगुणिताः सन्तः षट्त्रिंशन्मापगुडकाधिकानि माषगुडकशतानि पञ्चदश भवन्ति। सुश्रुते द्वादशमापगुडकैः कृता ये चतुःषष्टिमाषकास्ते द्वादशमाषगुडकगुणिताः सन्तोऽष्टषष्टिगुडकाधिकानि मापशतानि सप्त स्युः। इत्थं चरकमानार्धं सुश्रुतमानमिति न कश्चिद्विरोधः। अन्ये त्वष्टादशरक्तिकाबद्धत्वं माषस्याभिधाय पूर्वोक्तव्याख्याप्रकारेणापरं ग्रन्थं व्याख्याय व्यवह्रियमाणद्वादशरक्तिकचतुःषष्टिमापकरूपमेव पलमाहुः। गुखापट्टन्यूनताऽत्र पक्षेऽल्पत्वान्न गणनीया॥ ७६॥

पलं व्यवस्थाप्य पलोपक्रमेणैव पाचनादिकपायेषु भेषजवारिक्वाथशेषाणां प्रमाणं निर्देष्टुं परिभाषाद्वयमाह—

उत्तमस्य पलं मात्रा त्रिभिश्चाक्षैश्च मध्यमे॥
जघन्यस्य पलार्वेन स्नेहक्वाथ्यौषर्धेषु च॥७७॥

** स्नेहक्कथ्यौषधेष्विति**। स्नेहक्काथ्यरूपाण्यौपचानि स्नेहक्काथ्यौषधानि तेषु। किं वौषधं गुडादि॥७७॥

क्वाथ्यद्रव्यपले वारि द्विरष्टगुणमिष्यते॥
चतुर्भागावशिष्टं तु पेयं षलचतुष्टयम्॥७८॥

** द्विरष्टगुणमिति**। गोडशगुणं पलपर्यन्तं ज्ञेयं तेन पलादर्वगपि षोडशगुणमेव जलम्। तथाचोक्तम्— “कर्षादौ तु पलं यावद्दद्यात्षोडशिकं जलम्” इति॥७८॥

दीप्तानलं महाकायं पाययन्त्यञ्जलिं जलम्॥
अन्ये त्वर्धंपरित्यज्य प्रसृतिं तु चिकित्सकाः॥७९॥

क्वाथत्यागमनिच्छन्तस्त्वष्टभागावरोपितम्॥
पारंपर्योपदेशेन वृद्धवैद्याः पलद्वयम्॥८०॥

** अञ्जलिमिति।**पलचतुष्टयं दीप्तानलमित्यादिश्लोकद्वयं वैद्ययुत्तयुपदर्शकं वृन्दस्येतिकल्प्यते। अन्ये त्वर्धं परित्यज्येत्यस्य स्थानेऽन्यमर्धं परित्यज्येति पाठेऽन्यं दीप्तानलमहाकायादितरम्॥७९॥८०॥

पाचनशमनयोर्वक्तव्ययोर्विषयमाह—

पाययेदातुरं सामं पाचनं सप्तमे दिने॥
शमनेनाथवा दृष्ट्वा निरामं तमुपाचरेत्॥८१॥

** सप्तमे दिन इति**। आरम्भदिनत्यागेन गणनयाऽष्टाह इति फलति। एतच्च सप्तरात्रादित्यादिश्लोकव्याख्याने व्याख्यातमेव॥८१॥

सामान्यपूर्वकत्वाद्विशेषस्य पूर्वं सर्वज्वरपाचनमाह—

नागरं देवकाष्ठं च धान्यकं बृहतीद्वयम्॥
दद्यात्पाचनकं पूर्व22ंसर्वज्वरेषु पाचनम्॥२॥

** सर्वज्वरेष्विति**। योगोऽयं द्रव्यगुणपत्रलोचनया वातकफेऽतिभद्रकः। व्याप्रित्यनीकतया तु पित्तजेऽपि हितत्वमस्याभ्युपगम्य सर्वज्वरविषयत्वं ज्ञेयमित्याहुः। **बृहतीद्वसमिति।**बृहतीकण्टकार्यो।एवं सर्वत्र॥८२॥

परिणामप्रयुक्तभेषजगुणमाह—

वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तदायमसंशयमाशु चैव॥
तद्धालवृद्धवनितामृवोऽथ पीत्वा ग्लानिं परां समुपयान्ति वलक्षयं च॥८३॥

** वीर्याधिकमिति।**भोजनसमये क्रियमाणौपचापेक्षया वीर्येणोत्कृष्टम्। अन्नहीनमिति हेतुगर्भविशेषणम्। अन्नहीनं हि भेषजमभितररसानभिभवादखिलमेव स्रोतः प्रतिपद्यते कोष्ठं च सम्यग्भावयति। अन्नहीन इति पाठान्तरे कोष्ठ इति शेषः। वालादीनामभक्तौषधस्य दूषणमभिदधद्वालादिभ्य इतरेऽभक्तविषया इति बोधयति॥८३॥

अनुलोमानिलः स्वास्थ्यं क्षुत्तृष्णा सुमनस्कता॥
लघुत्वमिन्द्रियोद्गारशुद्धिर्जीर्णौषाधाकृतिः23॥८४॥

सुगमम्॥८४॥

क्लमो दाहोऽङ्गसदनं भ्रमो मूर्छा शिरोरुजा॥
अरतिर्बलहानिश्च सावशेषौषधाकृतिः॥८५॥

सुगमम्॥८५॥

भेषजां भेषजाजीर्णेऽन्नस्यान्नाजीर्णे च भेषजस्योपयोगे दोषमाह—

औषधशेषे भुक्तं पीतं च तथौषधं हि शेषेऽन्ने॥
न करोति गदोपशमं प्रकोपयत्यन्यरोगांश्च॥८६॥

भुक्तं भोजनम्। एतच्चन्नाभ्यवहारोपलक्षणं तेन पानस्याध्यवरोधः। भुक्तमित्यस्य तु संबन्धे न करोति गदोपशममित्यत्रान्तर्भावितण्यर्थो ज्ञेयः। यतः प्रस्तुतत्वादौषधमेव गदोपशमकं युक्तं तेनायमर्थो भेषजाजीर्णे भोजनमौषधमेव गदोपशमं न करोतीति। पीतमित्यन्तः परिमार्जनाभिप्रायेणोक्तं तेन लेहादयोऽप्यवरुध्यन्ते॥८६॥

भोजनसमयोपयुज्यमानभैषज्यगुणमाह—

शीघ्रं विपाकमुपयाति बलं न हिंस्यादन्नावृतं न च मुहुर्बदनान्निरेति॥
प्राग्भक्तसेवितमथौषधमेतदेव दद्याच्च वृद्धशिशुभीरुवराङ्गनाभ्यः॥८७॥

** शीघ्रंविषाकमुपयातीति**। विदाहः स्वल्पकालमस्य भवति। बलं न हिंस्यादिति। चिरं विदाहाभावाद्वलं न हन्ति। न च मुहुर्वदनान्निरेतीति। आहाराश्रितत्वान्मुहुर्मुहुर्वारं वारं वक्त्राद्वहिर्न निःसरति द्वेष्यमपि भेषजमन्नवृतात्वान्न वम्यत इत्यर्थः। प्राग्भक्तसेवितमिति। भक्तात्पूर्वं सेवितमौषधमेतदेवेति प्राग्भक्ताख्यमौषधम्॥८७॥

वातज्वरे पाचनमाह—

बिल्वादिपञ्चमूलाम्बु पाचनं वातिके ज्वरे॥

बिल्वादिपञ्चमूलं महत्पञ्चमूलम्। अवचारणाऽप्यनेन क्रियते क्वाथार्थमुक्तपाचनयोगेन गणरूपेणैवावचारणा क्रियते न पुनरगणरूपेणावचारणयोभेनापि गणरूपेण पाचनकषायोऽपि क्रियते तेन धान्यपिप्पल्यादिना न कषायविधिः। क्वाथोक्तपाचनयोगेन गणरूपेणाप्यवचारणं केचिदाहुः॥

अथ पाचनमभिधाय शमनयोगान्विवक्षुः शमनस्य लक्षणमेव तावदाह—

न शोधयति यद्दोषान्समान्नोदीरयत्यपि॥
समी करोति यत्क्रुद्धांस्तत्संशमनमुच्यते॥८८॥

न शोधयति यद्दोषानिति। दुष्टान्दोषान्यद्देहान्न निःसारयति। एतेन शोधनं व्यवच्छिनत्ति। समान्नोदीरयत्यपि। अदुष्टानपि दोषान्यद्वृद्ध्या न विमार्गी करोति। अनेन पाचनाव्द्यच्छेदः। पाचनं हि दोषान्वृद्ध्या विमार्गगानपि करोति यथाऽग्निः स्थाल्यां जलतण्डुलादीनि विमार्गीकुर्वन्पचतीति। न कोपयतीति क्वचित्पाठः स च नसंगतो नोदीरयतीत्यनेन पुनरुक्तत्वात्। किंचास्मिन्पाठे शोधनव्यवच्छेदाय पदान्तरं मृग्यम्॥२८॥

इदानीं प्रथमं वातज्वरे संशमनमाह—

किराताब्दामृतोदीच्यबृहतीद्वयगोक्षुरैः॥
सस्थिराकलशीविश्वैः क्वाथो वातज्वरापहः॥८९॥

किरातं किराततिक्तकम्। अब्दो मुस्तकम्। अमृता गुडूची। उदीच्यं वालकम्। स्थिरा शालिपर्णी। कलशी पृश्निपर्णी। विश्वं शुण्ठी। विश्वस्थाने क्वचिद्विल्व इति पाठः। वृद्धवैद्यव्यवहाराद्रव्यस्य कनीयसी मात्रामर्धपलानुरूपामुपादाय षोडशगुणेनाम्भसा निष्क्काथ्य चतुर्भागावशेषं कषायः कर्तव्यः पाचनशमनक्काथयोरेवं सर्वत्र॥८९॥

पिप्पलीसारिवाद्राक्षाशतपुष्पाहरेणुभिः॥
कृतः कषायः सगुडो हन्याच्छ्रसनजं ज्वरम्॥९०॥

सारिवाऽनन्तामूलम्। द्राक्षाभावे सर्वत्र गम्भारीफलं ग्राह्यम्। हरेणुका रेणुकम्।सगुड इति। गुडोऽत्र प्रक्षेपः स च शास्त्रयुक्त्या क्वथनीयद्रव्यापेक्षया पादिकः। यदुक्तम्— “सितोपलागुडक्षाराः सामान्यांशप्रकल्पनाः”। अस्यार्थः। सामान्यमुत्सर्गसिद्धं पलत्रिकर्पार्धपलरूपं क्वाथ्यद्रव्यमानं यत्तस्यांशेन चतुर्भागेण प्रकल्पना येषां ते तथा। सितोपलादयश्चात्रोपलक्षणं तेन मध्वादिप्रक्षेपोऽपि पादिक एव ज्ञेयः। अत एवान्यत्र सामान्येनोक्तं प्रक्षेपः पादिकः क्वाथ्यादिति। अन्ये समानैषां प्रकल्पनेति पठित्वा प्रक्षेप्यं कर्षमाहुः। समानेति चूर्णसमाना। अन्यत्राप्युक्तम्— “मात्रा क्षौद्रघृतादीनां स्नेहक्काथेषु चूर्णवत्” इति। वृद्धवैद्यव्यवहारस्तु प्रायः पञ्चषण्मा (मा)षकप्रक्षेपेण। एवं
सर्वत्र।श्वसनजं वातजम्॥

** अथ डल्लणव्याख्या**—पिप्पल्यादिद्रव्यपलमुदकषोडशभिः पलैरुत्क्वाथ्यं चतुर्भागावशिष्टं पलचतुष्टयं गृहीत्वा गुडकर्षसंयुक्तं पाययेत्।

तथाच—

**“भेषजात्पोडशगुणं जलं क्वाथ्यं पलं मतम्।
चतुर्भागावशेषं तु पेयमेवं सुखार्थिना” इति।
क्वाथ्यद्रव्यस्य यत्पलप्रमाणं तदुत्तमाङ्गानाम्। **

तथाचोक्तम् —

**“उत्तमस्य पलं मात्रा त्रिभिश्वाक्षैश्च मध्यमे।
जघन्यस्य पलार्धं च स्नेहक्वाथ्यौषधेषु च” इति। **

** वृद्धवैद्याश्च** मध्यमप्रमाणेनाष्टौ शरावानुदकस्य प्रक्षिप्याष्टभागावशेषितं शरावमेकं गृह्णन्ति शेषं सममेव व्याचक्षते गुडावापमपि वृद्धवैद्या न मन्यन्त इति॥९०॥

गुडूचीसारिवाद्राक्षाशतपुष्पापुनर्नवाः॥
सगुडोऽयं कषायः स्याद्वातज्वरविनाशनः॥९१॥

सुगमम्।

“गुडूच्याः स्वरसो ग्राह्यः शतावर्याश्च तत्समः।
गुडप्रगाढः शमयेत्सद्योऽनिलकृतं ज्वरम्।
शृतशीतं कषायं वा गुडूच्याः पेयमेव तु॥
दर्भं बला गोक्षुरकं पाठा पादावशेषितम्।
शर्कराघृतसंयुक्तं पिबेद्वातज्वरापहम्॥

तन्त्रान्तरस्यैते प्रयोगाः शर्कराघृतसंयुक्तमत्र काथ्यद्रव्यपादांशेन शर्कराघृतावापः कर्तव्यः। गुडस्य शर्कराघृतयोश्च संयोगशक्तेरचिन्त्यत्वात्। उक्तं च—“ऋषयस्त्वेव जानन्ति योगसंयोगजं फलम्” इति। यद्यप्येवं तथाऽपि वृद्धवैद्यागुडप्रक्षेपं न मन्यन्त इति ब्रह्मदेवव्याख्या॥९९॥

द्राक्षागुडूचीकाश्मर्यत्रायमाणाः ससारिवाः॥
निष्काथ्य सगुढं क्वाथं पिवेद्वातज्वरापहम्॥९२॥

काश्मर्यं गम्भारीफलम्। सगुडमिति। क्वाथोपरि कर्षप्रमाणस्य गुडस्य पश्चान्त्रिक्षेपः। अविशेषेणोक्ता अप्यमी योगा ज्वरे दोषांशबलविकल्पनाः परिकल्प्य रसवीर्यविपाकादींश्च द्रव्यस्य निरूप्य सुज्ञेन भिषजा विशेष एव योजनीयाः॥९२॥

इति वातज्वरचिकित्सा।
<MISSING_FIG href=”../../../books_images/U-IMG-1706444901Screenshot2024-01-26105827.png”/>

पित्तज्वरे पाचनमाह—

सक्षौद्रं पाचनं पैत्ते तिक्ताब्देन्द्रयवैः कृतम्॥९३॥

** सक्षौद्रमिति।** सौद्रमत्र प्रक्षेपणे। तिक्ता कटुरोहिणी॥९३॥

पैत्तिके ज्वरे संशमनमाह—

लोध्रोत्पलामृतापद्मसारिवाणां सशर्करः॥
क्वाथःपित्तज्वरं हन्यादथवा पर्पटोद्भवः॥९४॥

** अथवा पर्पटोद्भव इति।** अयमपि क्वाथः सशर्कर एव॥९४॥

दुरालभापर्पटकप्रियङ्गूभूनिम्बवासाकटुरोहिणीनाम्॥
जलं पिबेच्छर्करयाऽवगाढं तृष्णास्रपित्तज्वरदाहयुक्तः॥९५॥

प्रियङ्गुः प्रसिद्धः। भूनिम्बं किराततिक्तकम्। किरातेति24 लोके। जलं क्वाथः।शर्करयाऽवगाढमिति। सितशर्करयाऽनुगतं तेन प्रक्षेपविधिनैवात्र शर्करा। चक्रस्त्व—वगाढमित्यभिधानात्प्रक्षेपमानाधिका शर्करा सम्यङ्मामाधुर्यार्थं देयेत्याह॥१९॥

पटोलयवनिष्काथो मधुना मधुरीकृतः॥
तीव्रपित्तज्वरामदर्दी पानात्तृड्दाहनाशनः॥९६॥

** मधुना मधुरीकृत इति**। यावता प्रमाणेन मधुना मधुरः क्वाथो भवति तावदेव प्रक्षेतव्यम्॥१६॥

एकः पर्पटकः श्रेष्ठः पित्तज्वरनिबर्हणः25
किं पुनर्यदि युज्येत चन्दनोदीच्यनागरैः॥९७॥

** चन्दनोदीच्यनागरैरिति**। चन्दनं रक्तचन्दनम्। अत्र नागरं कटुकमपि न पित्तविरोधि मधुरपाकित्वात्॥९७॥

विश्वाम्बुपर्पटीशीरघनचन्दनसाधितम्॥
दद्यात्सुशीतलं वारि तृट्छर्दिज्वरदानुत्॥९८॥

अम्बु वालकम्। घनो मुस्तम्। सुशीतलमिति। व्यजनादिभिराहितशीतगुणम्॥९८॥

पर्पटामृतधात्रीणां क्वाथः पित्तज्वरं26 जयेत्॥

अमृतशब्देनामृता गुडूची। छन्दोनुरोधाद्द्ध्रस्वत्वम्॥

द्राक्षारग्वधयोश्चापि काश्मर्यस्याथवा पुनः॥९९॥

आरग्त्रधः सुवर्णालुः। अस्य चरके फलवर्गे सुश्रुते च पत्रवर्गे पाठादन्तःपरिमार्जने फलं बहिःपरिमार्जने कुष्ठादौ पत्रं ज्ञेयम्। काश्मर्यं गम्भारीफलम्। योगद्वयमिदम्। अत्र द्वयोरपि क्वाथ इत्यनुवर्तते।

“गुड्वूचीपद्मराघ्राणां सारिवोत्पलयोस्तथा।
शर्करामधुरः क्वाथः शतिः27 पित्तज्वरापहः॥

अस्यानन्तरं सुश्रुते तु योगद्वयमिदं पठितं तत्र च टीकाकारैः शर्करानुवृत्तिर्व्याख्याता तेनात्रापि शर्कराप्रक्षेपो ज्ञेयः। द्राक्षाभयेत्यादियोगः सुश्रुते पैत्तकफज्वर उक्तः।

तथाच —

कटुकाविजयाद्राक्षामुस्तपर्पटकैः कृतः।
कपायो नाशयेत्पीतः श्लेष्मपित्तभवं ज्वरम्”॥

अत्र योग आरग्वधो नास्ति। यद्यप्यत्र केवले पित्तभव28 उक्तस्तथाऽपि चकारादत्र कफजोऽपि गृह्यते॥९९॥

द्राक्षाभयापर्पटकाब्दतिक्ताक्वाथं सशम्याकफलं विदध्यात्॥
प्रलापमुर्छाभ्रमदाहशोपतृष्णान्विते पित्तभवे ज्वरे च॥१००॥

** सशम्याकफलमिति**। शम्याकः सुवर्णालुः शम्याकफलं च प्रक्षेप्यं क्वथनीयं वा॥१००॥

पर्युषितं धान्यजलं प्रातः पीतं सशर्करं पुंसाम्॥
अन्तर्दाहं शमयेत्मवृद्धमपि तत्क्षणादेव॥१०१॥

** पर्युषितं धान्यजलमिति**। धान्याकक्वथ एव पर्युषितः कार्यः शीतकषायो वा। शीतकषायविधिश्च भेषजपलं क्षुण्णमुष्णाम्बुचतुष्पलेनाऽऽप्लुतं रात्रिस्थितं पूतं ग्राह्यमिति।

तथाच तत्रान्तरम् —

‘‘द्रव्यादापोथितात्तोये प्रतप्ते निशि संस्थितात्॥
कषायो योऽभिनिर्याति स शीतः समुदाहृतः।

षड्भिः पलैश्चतुर्भिर्वा सलिलाच्छीतफाण्टयोः॥
आप्लुतं भेषजपलं रसाख्यायां पलद्वयम्”॥

इति शास्त्रयुक्तिः। भिषजस्तु भेषजार्धपलं जलं पलम्। सशर्करमिति। शर्कराऽत्र प्रक्षेपः। एते सर्व एवानन्तरोक्ताः पाच्यकषायशीतकषाया दोषादिबलं दृष्ट्वा वैद्येन योज्याः॥१०१॥

पित्तज्वरे दाहः प्रबलो भवत्यतस्तत्प्रतीकारार्थमाह—

अम्लपिष्टैः सुशीतैर्वा पलाशतरुजैर्दिहेत्॥
बदरीपल्लवोत्थेन फेनेनारिष्टकस्य च॥१०२॥

अम्लं काञ्चिकम्। पलाशतरुजैः पलाशपल्लवैः। दिहेल्लिम्पेद्वाह्यदाहनिवारणायेति ब्रह्मदेवः

** बदरीपल्लवोत्थेन फेनेनारिष्टकस्येति**। बदरीपल्लवकल्कस्थकाञ्जिकस्य मथनोत्थेन फेनेनेत्यर्थः। अरिष्टकस्येति। निम्बस्य फेनिलवृक्षस्य वा द्वयोरपि शीतत्वात्। अत्रापि फेनेनेत्यनुवर्तते। फेनकल्पनामाह। बदरीपल्लवान्काञ्जिकपिष्टान्काञ्जिकपूर्णभाजने निक्षिप्य करेण विलोडयेत्फेन उत्तिष्ठेत्तेन लिम्पेदिति डल्लणः॥१०२॥

विदारी दाडिमं लोध्रं दधित्थं वीजपूरकम्॥
एभिः प्रदिह्यन्मूर्धानं तृड्दाहार्तस्य देहिनः॥१०३॥

विदारी विदारीकन्दः। दाडिमं दाडिमफलम्। दधित्थं कपित्थम्। अयं च विधिः प्रायः पुराण एव ज्वरे प्रचरति॥१०३॥

उत्तानसुप्तस्य गभीरताम्रकांस्यादिपात्रं प्रणिधाय नाभौ॥
तत्राम्बुधाराबहला29 पतन्ती निहन्ति दाहं त्वरितं सुशीता॥१०४॥

सुगमम्॥१०४॥

वाप्यः कमलहासिन्यो दलयन्त्रगृहाः शुभाः॥
नार्याश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः॥१०५॥

सुगमम्॥१०९॥

हर्म्ये शुभ्राभ्रसंकाशे शशाङ्ककरशीतले॥
मलयोदकसिक्ते वा स्वप्यात्पित्तज्वरी नरः30॥१०६॥

सुगमम्॥१०६॥

पित्तज्वर एव जिह्वाताल्वादिगतं पित्तं शोषं जनयति तत्र प्रतिक्रियामाह—

जिह्वातालुगलक्लोमशोषे मूर्ध्नि तु दापयेत्॥
केसरं मातुलुङ्गस्य मधुसैन्धवसंयुतम्॥१०७॥

क्लोम तिलकम्। मूर्ध्नि मस्तके।मूर्धप्रलेपोऽयम्। अत्र सुश्रुतपाठक्रमे श्रीडल्लणाचार्यो व्याख्याति —

**“पद्मकं मधुकं द्राक्षां पुण्डरीकमथोत्पलम्।
यवान्भृष्टानुशीराणि समङ्गां काश्मरीफलम्। **

**निदध्यादप्सु चाऽऽलोड्य निशापर्युषितं ततः॥
क्षौद्रेण युक्तं पिबतो ज्वरदाहौ प्रशाम्यतः। **

**जिह्वातालुगलक्लोमशोषे मूर्ध्नि च दापयेत्॥
केसरं मातुलुङ्गस्य मधुसैन्धवसंयुतम्। **

शर्करादाडिमाभ्यां च द्राक्षाखर्जूरयोस्तथा॥
वैरस्ये धारयेत्कल्कं गण्डूषं च यथाहितम्”।

** इत्यस्मिन्सौश्रुते** पाठ एक एवं व्याख्यानयन्ति। पित्तज्वरस्यावस्थायां शीतकषायमाह—पद्मकमित्यादि ज्वरदाहौ प्रशाम्यत इत्यन्तम्। समङ्गाऽञ्जलिकारिका वाराहक्रान्तामपरे। काश्मरीफलमित्युक्तेऽपि काश्मरीफलमज्जा ग्राह्योऽत्यन्तपित्तहरत्वात्। निदध्याद्धारयेत्। अप्सु चाऽऽलोड्येति। अर्धक्कथिताम्बुनि प्रतप्त आलोड्येत्यर्थः। अथवाऽनुष्णमपि वार्योषधान्वितं पर्युषितं शीतकषायमविशेषात्। ज्वरदाहौ प्रशाम्यत इति। ज्वरश्च दाहश्च तौ शाम्यतः। एतेन ज्वरसंयुक्तो दाहः प्रशाम्यति ज्वरं विनाऽपि यो दाहः सोऽपि शाम्यतीत्यर्थः। पित्तज्वरेऽवस्थायां मूर्धप्रलेपमाह—जिह्वाताल्वित्यादि दापयेदित्यन्तम्। जिह्वाताल्वादिशोषे मूर्ध्नि च तं शीतकषायं दापयेत्। एतेन पद्मकादिशीतकपायस्य जिह्वादिशोपेऽभ्यन्तरमुपयोगः स्पर्शतश्च। पित्तज्वर आवस्थिकं क्रममाह—केसरमित्यादि। मातुलुङ्गस्य केसरं मधुसैन्धवसंयुतं वैरस्ये मुखवैरस्ये धारयेन्मुख इति वाक्यशेष इत्येको योगः। तथा शर्करादाडिमाभ्यां सह द्राक्षाखर्जूरयोः कल्कं वैरस्ये धारयेदिति द्वितीयो योगः।यद्यपि मुखवैरस्यं वातलिङ्गं तथाऽपि पित्तादपिवैरस्यं ज्ञेयम्। ‘कट्वम्लमुष्णं विरसं च पूति पित्तेन विद्याल्लवणं च वक्त्रम्’ इति तन्त्रातरोक्तत्वात्। गण्डूषं च यथाहितं विशिष्टदोषारब्धज्वरप्रत्यनीकमिति॥१०७॥

इति पित्तज्वरचिकित्सा।
<MISSING_FIG href=”../../../books_images/U-IMG-1706449096Screenshot2024-01-26105827.png”/>

कफजे पाचनमाह—

पिप्पल्यादिकषायंन्तु पाचनं कफजे ज्वरे॥

** पिप्पल्यादिकषायमिति**। पिप्पली पिप्पलीमूल इत्यादिकः सौश्रुतो गणः॥

कफजे संशमनमाह—

कुष्ठमिन्द्रयवं31 मूर्वा पटीलं चापि साधितम्॥
पिबेन्मरिचसंयुक्तं सक्षौद्रं श्लैष्मिके ज्वरे॥१०८॥

मूर्वा स्वनामख्याता तदभावे जिललमूलम्। पटोलं पटोलपत्रम्। ‘पटोलादेश्छदं तथा’ इति वचनात्। साधितमित्यतः परं कषायमिति शेषः। पिबेत्परं शीतं कृतं मधुन उष्णेन सह निषिद्धत्वात्। मधु पुराणमत्यन्तकफप्रत्यनीकम्। उक्तं च— ‘न कफो मधुना सार्धं चिरं देहेषु तिष्ठति। मरिचसंयुक्तं सक्षौद्रमिति। मरिचमधुनी प्रक्षेप्ये तत्र मरिचस्य तीक्ष्णवीर्यत्वान्माषकत्रयं व्यवहरति मधुनो मृदुवीर्यत्वात्पञ्च वा षण्माषकाः। सक्षौद्रमित्यत्र सगुडमित्यन्ये पठन्ति॥१०८॥

त्रिफला पटोलवासा छिन्नरुहा तिक्तरोहिणी च पड्ग्रन्था॥
मधुना श्लेष्मसमुत्थे दशमूलीवासकस्य वा क्वाथः॥१०९॥

वासाया मूलम्। छिन्नरुहा गुडूची। तिक्तरोहिणी कटुरोहिणी। षड्ग्रन्था वचा। अयं योगः क्वाथप्रस्तावात्क्वाथ एव।दशमूलीवासकस्येति। दशमूलवासकाम्यां क्वाथः। अत्रापि मधुप्रक्षेपः॥१०९॥

मध्वादीनां प्रक्षेपाणां मात्रामाह—

मात्राक्षौद्रघृतादीनां क्वाथस्त्रेहेषु चूर्णवत्॥११०॥

आदिशब्दाद्गुडतैलादीनि।चूर्णवदिति। कर्षो मात्रान्तरं व्यवहारश्च यादृशः स सगुड इत्यस्य व्याख्याने दर्शित एवास्माभिः॥११०॥

आमलक्यभया कृष्णा चित्रकश्चेत्ययं गणः॥
सर्वज्वरकफातङ्कभेदी दीपनपाचनः32॥१११॥

सुगमम्॥१११॥

कफजेऽवलेहद्वयमाह—

कट्फलं पौष्करं शृङ्गी कृष्णा च मधुना सह॥
श्वासकासज्वरहरः श्रेष्ठो लेहः कफान्तकृत्॥११२॥

कट्फलं स्वनामख्यातम्। पुष्करं पुष्करमूलं तदभावे सर्वत्र कुष्ठम्। कृष्णा पिप्पली शृङ्गी कर्कटशृङ्गी चातुर्भद्रिकावलेहः॥११२॥

क्षौद्रोपकुल्यासंयोगः कासश्वासज्वरापहः॥
प्लीहानं हन्ति हिक्कां च बालानां तु प्रशस्यते॥११३॥

सुगमम्॥११३॥

अवलेह चूर्णद्रव्योर्मानं दर्शयितुं परिभाषामाह—

कर्षश्चर्णस्य कल्कस्य गुटिकानां तु सर्वशः33
द्रवशुक्त्याऽवलेढव्यः पातव्यश्च चतुर्द्रवः॥११४॥

** द्रवशुक्त्येति**। द्रवस्यार्धपलेन चतुर्द्रवश्चतुर्गुणद्रवः। कर्षश्चोत्तम बलानलपुरुषविषयस्तेन मध्यमजघन्यबलानलापेक्षया तु कपदपकर्षो ज्ञेयः। अत एवानन्तरं वक्ष्यति ‘मात्राया नास्त्यवस्थानम्’ इत्यादि। प्रचारस्तु द्वित्रैचूर्णमाषकैर्यावता लेहयोग्यता तावन्मध्विति। अयं च लेहः प्रायेणार्ध्वजत्रुगरोगहरत्वात्सायमुपयुज्यते यस्त्वधोभागदोषहरः स भोजनात्पूर्वम्। अधिकमानं च किंचित्। तथाच चक्रः

“ऊर्ध्वजत्रुगरोगघ्नी सायं स्यादवलेहिका।
अधोरोगहरी या तु सा पूर्वं भोजनान्मता” इति॥११४॥

मात्राया नास्त्यवस्थानं दोपमग्निं बलं वयः॥**
व्याधिं द्रव्यं च कोष्ठं च वीक्ष्य मात्रां प्रयोजयेत्॥११५**॥

सुगमम्॥११५॥

संसर्गे पाचनमाह—

संसृष्टदोषेषु हितं संसृष्टमथ पाचनम्

संमृष्टं मिश्रम्। ननु सांनिपातिके कुतः पाचनं नोक्तम्। उच्यते। संसृष्टशब्देन त्रिदोषनस्यापि ग्रहणात्॥

त्रिफलाशाल्मलीरास्त्राराजवृक्षाटरूषकैः
शृतमम्बु हरेचूर्णंवातपित्तोद्भवं ज्वरम्११६

शाल्मली शिवली (सावरी) मूलम्। राजवृक्षः सुवर्णालुकस्य फलम्। आटरूषको वासा। अम्बु क्वाथः॥११६॥

नवाङ्गमाह—

विश्वामताब्दभूनिम्वैः पञ्चमूलीसमन्वितैः॥
कृतः कपायो हन्त्याशु वातपित्तोद्भवं ज्वरम्॥१७॥

पञ्चमूली स्वल्पा॥११७॥

किराततिक्तममृतां द्राक्षामामलकीं शठीम्॥
निष्क्वाथ्य पित्तानिलजे तत्क्वाथं सगुडं पिबेत्॥११८॥

सुगमम्॥११८॥

निदिग्धिकाबलारास्त्रात्रायमाणामृतायुतैः॥
मसूरविदलैः क्वाथो वातपित्तज्वरं जयेत्॥११९॥

** मसूरविदलैः क्वाथ इति।** व्रीहिसमसूरस्य विदलैरिति बकुलःअन्ये तु श्यामां मसूरविदलमित्याहुः। अतस्तत्पलम्। यद्यप्यस्याः पर्याये मसूरविदलाशब्दः पठ्यते तथाऽपि लिङ्गेऽनादरः। अस्या द्रव्यगुणे ज्वरहरत्वम्। व्यवहारस्तु क्वचिदनया क्वाचिन्मसूरविदलेनोचितः॥११९॥

गुडूची पर्पटं मुस्तं किरातं विश्वभेषजम्॥
वातपित्तज्वरे देयं पञ्चभद्रमिदं शुभम्॥१२०॥

गुडूचीत्यादिको योगः क्वाथाधिकारात्क्वाथो वातपैत्तिके॥१२०॥

किरातं नागरं मुस्तं गुदूचीं च कफाधिके॥
पाठोदीच्यमृणालैश्च सह पित्ताधिके पिबेत्॥१२१॥

** पाठोदीच्यमृणालैश्च सह पित्ताधिके पिबेदिति**। किरातादि पाठादिभिः सह मिलित्वा पिबेत्। अतः पाठासप्तकत्वम्। अत्र मृणालमुशीरम्। पित्ताधिक इत्यत्र कफ इति शेषः। जातूकर्णेनाप्युक्तम् —भूनिम्बघनगुडूचीशुण्ठ्यस्ता वा सवार्यभयपाठा इति। चातुर्भद्रकपाठासप्तकौ॥१२१॥

कण्टकार्यमृताभाङ्गीनागरेन्द्रयवासकम्॥
भूनिम्बं चन्दनं मुस्तं पटोलं कटुरोहिणी॥१२२॥

कषायं पाययेदेनं पित्तश्लेष्मज्वरापहम्॥
दाहतृष्णा34ज्वरच्छर्दिकासहृत्पार्श्वशूलनुत्॥१२३॥

भाङ्गी ब्राह्मणयष्टिः। इन्द्रं इन्द्रयवम्। यवासं दुरालभा। एष योगः पित्तोत्तरश्लेप्मणि प्रचरति। कण्टकार्यादिः॥१२२॥१२३॥

गुडूचीनिम्बधान्याकं35 चन्दनं पद्मकानि36 च॥१२४॥
एष सर्वज्वरान्हन्ति गुडूच्यादिस्तु37 दीपनः॥
हृल्लासारोचकच्छर्दिःपिपासादाहनाशनः॥१२५॥

कुस्तुम्बुरु धान्याकम्। पद्मकं पद्मकाष्ठम्। यत्र तु पद्ममित्यस्ति तत्र प्रायः पद्मकेसरम्।गुडूच्यादिः॥१२४॥१२५॥

पटोलं चन्दनं मूर्वापाठातिक्तामृतागणः॥
पित्तश्लेष्मज्वरच्छर्दिदाहकहविषापहः॥१२६॥

सुगमम्। पटोलादिः॥१२६॥

सपत्रपुष्पवासाया रसः क्षौद्रसितायुतः॥
कफपित्तज्वरं हन्ति सासृक्पित्तं सकामलम्॥१२७॥

** सपत्रपुष्पवासाया रस इति**। रसः स्वरसः क्वाथो वा। स्वरसस्तु गुरुत्वादर्धपलः प्रायेणोपयुज्यते। सितामधुनोः प्रत्येकं चतुर्माषकयोरत्र प्रक्षेपः॥१२७॥

सशर्करामक्षमात्रां कटुकामुष्णवारिणा॥
पीत्वा ज्वरं जयेज्जन्तुः कफपित्तसमुद्भवम्॥१२८॥

** सशर्करामक्षमात्रां कटुकामित्यादि**। शर्कराकटुरोहिण्योस्तुल्यमानेन मिलित्वा कर्षः। वैद्यप्रसारके सम एव भाग उक्तः। चक्रस्तु कटुरोहिण्या द्वादश माषकाः सिताया माषचतुष्टयमित्येवं कर्षमित्याह। विरेचनार्थं चैष योगः॥१२८॥

पटोलं पिचुमन्दं च त्रिफलां मधुकं बलाम्॥
साधितोऽयं कषायः स्यात्पित्तश्लेष्मोद्भवे ज्वरे॥१२९॥

सुगमम्॥१२९॥

दीपनं कफविच्छेदि पित्तवातानुलोमनम्॥
ज्वरघ्नं पाचनं भेदि शृतं धान्यपटोलयोः॥१३०॥

** धान्यपटोलयोरिति**। धान्याकस्य दश माषकाः पटोलस्य षण्माषका इत्येवं कर्षः। व्यवहारस्तु व्यञ्जनेन पित्तश्लैष्मिके॥१३०॥

खर्परभृष्टपटस्थितकाञ्जिकसिक्तो हि वालुकास्वेदः॥
शमयति वातकफामयमस्तकशूलाङ्गभङ्गादीन्॥१३१॥

** बालुकास्वेद इति**। वालुकै स्वेदो वालुकास्वेदः। स्विद्यतेऽनेनेति व्युत्पत्त्या स्वेदः। एतेन खर्परभृष्टत्वादिविशेषणयोगः संगतः॥१३१॥

स्रोतसां मार्दवं कृत्वा नीत्वा पावकमाशयम्॥
हत्वा वातकफस्तम्भं स्वेदो ज्वरमपोहति॥१३२॥

तथाचाग्निवेशः—

“प्रवेषमाने ज्वरिते शीते हृष्टतनूरुहे॥
कट्यूरुजङ्घापार्श्वास्थिशूलिने स्वेदनं हितम्॥

सोऽस्य मूत्रशकृद्भेदी प्रवर्तयति मारुतम्॥
संधिश्रितांस्ततो दोषान्मार्दवो कुरुते भृशम्”॥इति।

वालुकास्वेदः॥१३२॥

मातुलुङ्गफलकेसरो धृतः सिन्धुजन्ममरिचान्वितो मुखे॥
हन्ति वातकफरोगमास्यगं शोषमाशुजडतामरोचकम्॥१३३॥

सुगमम्॥१३३॥

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः॥
दीपनीयः स्मृतो वर्गः कफानिलगदापहः॥१३४॥

एतानि कोलप्रमाणोपयोगित्वात्पञ्चकोलकानीत्युच्यन्ते। तथाच खारणादिः

“पिप्पलीपिप्पलीमूलचव्यचित्रकनागरम्॥
कोलमात्रोपयोगित्वात्पञ्चकोलकसंज्ञितम् " इति।

पञ्चकोलकम्॥१३४॥

आरग्वधग्रन्थिकमुस्ततिक्ताहरीतकीभिः क्वथितः कषायः॥
सामे सशूले कफवातयुक्ते ज्वरे हितो दीपनपाचनश्च॥१३५॥

गिरिमालापञ्चकम्। ग्रन्थिकं पिप्पलीमूलम्। तिक्ता कटुरोहिणी॥१३५॥

पिप्पलीभिः शृतं तोयमनभिष्यन्दि दीपनम्॥
वातश्लेष्मविकारघ्नं प्लीहघ्नं ज्वरनाशनम्॥१३६॥

** पिप्पलीभिः शृतमिति।**पिप्पल्याः कटूष्णत्वादर्घपलादमानेन तावत्क्काथो न युज्यते। तेन तस्याः कर्षमेकमल्पं वा गृहीत्वा क्वाथः कार्यः। प्रजलश्लेष्मणि वाते प्रयोज्यः॥१३६॥

मुस्तपर्पटदुस्पर्शगुडूचीविश्व38भेषजम्॥
कफवातारुचिच्छर्दिदाहशोषज्वरापहम्॥१३७॥

दुस्पर्शो दुरालभा॥१३७॥

क्षुद्रामृतानागरपुष्कराह्वयैः कृतः कषायः कफमारुतोत्तरे।
सश्वासकासारुचिपार्श्वरुक्करे ज्वरे त्रिदोषप्रभवेऽपि शस्यते॥१३८॥

क्षुद्रा कण्टकारी। क्षुद्रादिः॥१३८॥

दशमूलीरसः पेयः कणायुक्तः कफानिले॥
अविपाकेऽतिनिद्रायां पार्श्वरुक्श्वासकासके॥१३९॥

** कणायुक्त** इति। कणा पिप्पली। सा च माषद्वयरूपा चूर्णीकृता प्रक्षेप्या वातश्लैष्मिके॥१३९॥

संप्रति संनिपातज्वरे चिकित्साविधिः—

श्लेष्मनिग्रहमेवाऽऽदौ कर्याद्व्याधौ त्रिदोषजे॥
निरस्ते श्लेष्मणि ह्यस्य स्रोतःसूद्घाटितेषु च॥
लाघवं जायते सद्यस्तन्द्रा39 चैवोपशाम्यति॥१४०॥

आमाशयाश्रयणात्सर्वस्मिन्नेव नवज्वरे सन्धसंनिधिः श्लेष्मा स्रोतोरोधहेतुः। संनिपातजे तु सुतरामतः स एवाऽऽदौ जेतव्यः। भोजेऽप्युक्तम्—

‘संनिपातज्वरे सर्वं कुर्यादामकफापहम्।
पश्चाच्छ्लेष्माणि संक्षिप्ते शमयेत्पित्तमारुतौ’ इति॥

ननु तन्त्रान्तरे पित्तस्याऽऽदौ प्रतिक्रियोक्ता तथाऽन्यत्र वातस्य। तद्यथा—

“शमयेत्पित्तमेवाऽऽदौ ज्वरेषु समवायिषु।
दुर्निवारतरं तद्धि ज्यशर्तेषु विशेषतः॥

वातस्यानु जयेत्पित्तं पित्तस्यानु जयेत्कफम्।
त्रयाणां वा जयेत्पूर्वं यो भवेद्वलवत्तमः”इति॥

तत्कथमुच्यते श्लेष्मनिग्रहमेवाऽऽदौ कुर्यादिति। उच्यते। तत्र त्रयस्थाप्यवस्थायां चरितार्थत्वं बोद्धव्यम्। तथाहि—सामे ज्वरे कफमेवाऽऽदितः प्रतिकुर्यात्। आमपाकान्ते पित्तमेवाऽऽदौ मारुतमेवाऽऽदाविति। अत्रार्थे तन्त्रान्तरम्—

**‘ज्वरे त्रिदोषजे सामे शमयेत्कफमादितः।
पाकान्तमागते पित्तं चिरजे विषमेऽनिलम्’ इति॥ **

अन्ये तु वातस्यानु जयेत्पित्तमित्यादिश्लोकमतिसारविषयं वर्णयन्तीति। ननु वातादीनां विभिन्नचयप्रकोपकालत्वेन युगपदवस्थानाभावात्संचयप्रकोपकालादीनां युगपदुदयस्थापनाभावात्कथं संभूय संनिपातज्वरारम्भकत्वम्। अथ मन्यसे त्रिदोषकरनिदानबलेन प्रकोपादेषां युगपदुपस्थितिरिति। तदपि न हृद्यं सति निदानोपसेवनेऽपि दोषाणां विपरीतैर्गुणैः परस्परमुपशमात्प्रकोपस्यानुपपत्तेः। उच्यते। न खलु निखिल एव गुणो विपरीतः समानस्यापि कतिपयगुणस्य सद्भावात्। समानेन हि गुणेन दोषाणामन्योन्यप्रकोपः संभावी। तथाहि रौक्ष्यलाघववैशद्यैर्वायुः पित्तं प्रकोपयति। पित्तमप्येवमेव वायुम्। वायुरपि शैत्यात्कफम्। कफऽपि शैत्याद्वायुम्। पित्तं च द्रवत्वेन कफम्। कफोऽपि पित्तमिति गुणसामान्यम्। विपरीतस्तु गुणो भूयानल्प समानं गुणमभिभूय प्रशममेव कुतो न करोतीति न कल्पनीयम्। यतः कर्मापेक्षया त्रिदोषकरद्रव्यप्रभावाद्दोषगुणा दूषयन्ति परं तु न शमयन्तीति। दृढबलस्तु समादधाति—

‘विरुद्धैरपि न त्वेते गुणैर्ध्नन्ति परस्परम्।
दोषाः सहजसात्म्यत्वाद्विषं घोरमहीनिव’ इति॥

किंत्वत्र तद्वद्वलासं बस्तिस्थं स40 रौक्ष्याद्धन्ति सोऽनिल इत्यादिवचनैः सहजसात्म्यत्वेऽपि दोषाणामन्योन्यमुपधाताभिधानान्न घ्नन्तीत्येतत्सर्वथा न विनाशयन्तीत्यभिप्रायेण वर्णयितव्यमिति संक्षेपः॥१४०॥

संनिपाते त्वरया चिकित्साकरणार्थमाह—

दुर्गेऽम्भसि यथा मज्जद्भाजनं त्वरया बुधः॥
गृह्णीयात्तलमप्राप्तं तथाऽभिन्यासपीडितम्॥१४१॥

** अभिन्यासपीडितमिति।** अभिन्यासः संनिपातज्वरविशेषस्तेन पीडितम्॥१४१॥

अभिन्यासमेवाऽऽह—

निद्रोपेतमभिन्यासं क्षीणं विद्याद्धतौजसम्॥१४२॥

अस्यायमर्थः। संनिपातज्वरमिति निद्रोपेतमभिन्यासं विद्यात्। क्षीणं तं हतौजसमित्येतच्छ्लोकात्पूर्वम्। यदाह सुश्रुत एव—

‘अभिन्यासं तु तं प्राहुर्हतौजसमथापरे॥
संनिपातज्वरं कृच्छ्रमसाध्यमपरे जगुः’ इति॥

क्षीणबलत्वेन क्षीणम्॥१४२॥

लङ्घनं वालुकास्वेदो नस्यं निष्ठीवनं तथा॥
अवलेहोऽञ्जनं चैव प्राक्प्रयोज्यं त्रिदोषजे॥१४३॥

सुगमम्॥१४३॥

त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा॥
लङ्घनं संनिपातेषु कुर्यादारोग्यदर्शनात्॥१४४॥

त्रिरात्रादिलङ्घनविधिविकल्पो यथाक्रममुल्बणवाताद्यपेक्षया विज्ञेयः। कुर्यादारोग्यदर्शनादित्यभिधानं समवृद्धदोषत्रयापेक्षया बलसंपदि वा॥१४४॥

एतावन्तं कालं कथं लङ्घनं सह्यत इत्याशङ्क्याऽऽह—

दोषाणामेव सा शक्तिर्लङ्धने या सहिष्णुता॥
न तु दोषक्षये कश्चित्सहते लङ्घनादिकम्॥१४५॥

कफपिचे द्रवे धातू सहेते लङ्घनं महत्॥
आमक्षयादूर्ध्वमपि वायुर्न सहते क्षणम्॥१४६॥

सुगमम्॥१४९॥१४६॥

आर्द्रकस्वरसोपेतं सैन्धवं कटुकत्रयम्॥
आकण्ठं धारयेदास्ये निष्ठीवेच्च पुनः पुनः॥१४७॥

तेनास्यहृद्गतः41 श्लेष्मा मन्यापार्श्वशिरोगलात्॥
लीनोऽप्याकृष्यते शुष्को लाघवं चास्य जायते॥१४८॥

पर्वभेदो ज्वरो मूर्छानिद्राकासगलामयाः42
मुखाक्षिगौरवं जाड्यमुत्क्लेशोश्चोपशाम्यति॥१४९॥

आर्द्रकवरसः कोष्णः कार्यः॥१४७॥१४८॥१४९॥

सकृद्द्वित्रिचतुः कुर्यादृष्ट्वा दोषबलाबलम्॥
एतद्धि परमं प्राहुर्भेषजं संनिपातिनाम्॥१५०॥

सुगमम्। कवलग्रहः॥१५०॥

मातुलुङ्गार्द्रकरसं कोष्णं त्रिलवणान्वितम्॥
अन्यद्वा सिद्धिविहितं नस्यं तीक्ष्णं प्रयोजयेत्॥१५१॥
तेन प्रभिद्यते श्लेष्मा प्रभिन्नश्च प्रसिच्यते॥
शिरोत्हृदयकण्ठास्यपार्श्वरुक्कोपशाम्यति॥१५२॥

** त्रिलवणान्वितमिति**। सौवर्चलसैन्धवबिडानितैयुक्तं नस्यमेतत्। अन्यद्वा सिद्धिविहितमितिभालुकितनत्रोक्तत्वादस्य योगस्य भालुकितन्त्रस्यैव सिद्धिस्थानं ज्ञेयम्॥१५१॥१५२॥

मधूकसारसिन्धूत्थवचोषणकणाः समाः॥
श्लक्ष्णं पिष्ट्वाम्भसा नस्यं कुर्यात्संज्ञामबोधनम्॥१५३॥

इति नस्यदानम्। ऊषणं मरिचम्। अम्भसा कोष्णेन॥१५३॥

शिरीषवीजगोमूत्रकृष्णामरिचसैन्धवैः॥
अञ्जनं स्यात्प्राबोधाय सरसोनशिलालकैः43॥१५४॥

शिला मनःशिला॥१५४॥

कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी॥
श्लक्ष्णं चूर्णीकृतं चैतन्मधुना सह लेहयेत्॥१५५॥

एषाऽवलेहिका हन्ति संनिपातं सुदारुणम्॥
हिक्कां श्वासं च कासं च कण्ठरोधं नियच्छति॥
एतद्योज्यं कफोद्रेके चूर्णमार्द्रकजै रसैः॥१५६॥

व्योषं त्रिकटुकम्। यासो दुरालभा। कारवी कृष्णजीरकम्। अष्टाङ्गावक्लेहिका॥१५५॥१५६॥

सर्वेषु संनिपातेषु न क्षौद्रमवचारयेत्॥
शीतोपचारि क्षौद्रं स्याच्छीतं चात्र विरुध्यते॥१५७॥

** सर्वेषु संनिपातेषु न क्षौद्रमवचारयेदिति।** सर्वसंनिपातज्वरेषु स्वेदस्य सर्वदा हितत्वेनाग्निसंबन्धादनुबन्धभूतं देहस्योष्णात्वमुष्णविरोधि च मधु तस्मान्नावचारणीयम्। चक्रेणाप्युक्तम्—विरोध्युष्णे मधु त्यक्त्वा कार्यैषाऽऽर्द्रकजै रसैरिति। शीतोपचारोऽस्यास्तीति शीतोपचारि शीतोपचारोचितमित्यर्थः॥१५७॥

ननु—

“क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत्।
पूर्वस्यां शान्तवेगायां न क्रियासंकरो हितः॥

इत्यनेन क्रियासंकरो निषिद्धः। तत्कथमत्र नस्यनिष्ठीवनाञ्जनादयो युगपद्विधीयन्त इत्यत आह—

क्रियाभिस्तुल्यरूपाभिः क्रियासांकर्यमिष्यते॥
भिन्नरूपतया तास्तु तन्न कुर्वन्ति दूषणम्**॥१५८॥**

** तुल्यरूपाभिरिति**। वीर्येण कल्पनया तुल्याभिः। क्रियासांकर्यमिष्यत इति। क्रियासांकर्यदोष इष्यत इत्यर्थो ज्ञेयः। परतस्तु तन्न कुर्वन्ति दूषणमित्युक्तेः। सांकर्यं मिश्रता। तुल्यरूपाणामपि बह्वीनां क्रियाणामेकदा करणेऽग्निमन्दता। भिन्नरूपतयेति। कल्पनया वीर्येण वाऽतुल्यरूपतया। ता इति क्रियाः। तन्न कुर्वन्ति दूषणमिति। सांकर्यदूषणं न कुर्युः। भिन्नरूपता च विरोधासंभवे सति हेतुः। तेन नस्यनिष्ठीवनाञ्जनादीनां भिन्नवीर्यकल्पनानामनवस्थितत्वेनापरिणामित्वादविरुद्धानां तथाऽवलेहादेश्चातुल्यवीर्यकल्पनस्य प्रधानक्वाथाद्यौषधाङ्गत्वेन वृद्धवैद्यैर्व्यवह्रियमाणत्वाद्दोषादर्शनाच्चाविरुद्धस्य न सांकर्यदोषः। यासां तुल्यवीर्यकल्पनानां क्रियाणां युगपत्करणेऽभिमतकार्याजनकत्वेन विरोधो दृश्यते ताभिः सांकर्यदोषोऽङ्गी क्रियत एवेति ज्ञेयः। अन्ये त्वाहुः। क्रियाभिरित्यादि श्लोकार्धमन्तःपरिमार्जनाभिप्रायेण वर्णनीयम्।परिशिष्टं तु श्लोकार्धं बहिष्परिमार्जनाभिप्रायेण। तेनायमर्थः। एकस्मिन्नन्तः परिमार्जने मक्षिते यद्यपरमन्तः परिमार्जनमिष्यते तदा सांकर्यदूषणं न बहिष्परिमार्जने तु कर्तव्येऽवलेहभक्षणे न सांकर्यदोषः। तस्य क्वाथाद्यङ्गत्वेन व्यवहारात्॥११८॥

शस्तं44 सुलङ्घितस्याऽऽदौ विधाय कवलग्रहम्॥
लाजसक्तुकपथ्यं स्यात्सैन्धवेनावचूर्णितम्॥१५९॥

लाजसक्तुकपथ्यं स्यादिति कस्यचिन्मतम्॥११९॥

रक्तपित्तहितत्वेन दाहज्वर45हृतेस्तथा॥
सक्तवः शीतवीर्याः स्युर्लाजपूर्वा हिता न ते॥१६॥

तद्दूषयति—सक्तवः शीतवीर्याः स्युर्लाजपूर्वा हिता न त इति। लाजपूर्वाः सक्तवो लाजसक्तवः शीतवीर्या अतः संनिपातज्वरे हिता न स्युः॥१६०॥

पाचनो दीपनो लाजमण्डस्तेनोष्ण इष्यते॥१६१॥
अतोऽयं दशमूलादिसाधितो भिषजां मतः॥
तच्चेज्जीर्यत्यविघ्न्रेन ज्वरी जीवेत्तदा ध्रुवम्॥१६२॥

सुगमम्॥१६१॥१६२॥

पञ्चमुष्टिकयूषेण त्रिकण्टककृतेन वा॥
आ दोषशमनात्पथ्यं त्रिकण्टेनैव साधयेत्॥१६३॥

त्रिकष्टककृतेन वेति। त्रिकण्टकानि कण्टकारीदुरालभागोक्षुरकास्तैः कृतेन यूषेण॥१६३॥

यवकोलकुलत्थानां मुद्रमूलकशुण्ठयोः॥
एकैकं मुष्टिमाहृत्य पचेदष्टगुणे जले॥१६४॥

पञ्चमुष्टिक इत्येष वातपित्तकफापहः॥
शस्यते गुल्मशूले च श्वासे कासे क्षये ज्वरे46॥१६५॥

** एकैकं मुष्टिमाहृत्येति।** प्रत्येकमेषामन्तर्नखमुष्टिमाहृत्य न तु मुष्टिः पलं द्रव्यस्य बहुत्वादयमेव पक्षः प्रचारी। एकैकमाहृत्य मिलितानां मुष्टिं पलं पचेदित्यर्थः। चक्रस्तु प्रत्येकमेषां च पलं द्रव्यबहुत्वं चाऽऽहारद्रव्यत्वान्न दोषायेन्याह। पञ्चमुष्टिकयूषः॥१६४॥१६५॥

पञ्चमूली किरातादिर्गणो योज्यस्त्रिदोषजे॥
पित्तोत्कटे च मधुना कणया वा कफोत्कटे47॥१६६॥

पित्तोत्कटेऽल्पा पञ्चमूली कफोत्कटे तु महती। किरातं नागरं मुस्तं गुडूची चेति किरातादिः क्वाथोऽयम्। अत्र पित्तोत्कटे मधु कणा वा प्रक्षेपः। चातुर्भद्रकपञ्चमूलम्॥१६६॥

बिल्वस्योनाकगम्भारीपाटलीगणकारिका॥
दीपनं48 श्लेष्मवातघ्नं पञ्चमूलमिदं महत्॥१६७॥

** महदिति**। महातरुसंभवत्वान्महत्। वक्ष्यमाणशालिपण्र्यादीनामपि स्वल्पपञ्चमूलत्वं स्वल्पतरुसंभवत्वात्॥१६७॥

शालिपर्णी पृथक्पर्णी बृहतीद्वयगोक्षुरम्॥
वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम्॥१६८॥

सुगमम्॥१६८॥

उभयं दशमूलं तु संनिपातज्वरापहम्॥
कासे श्वासे च तन्द्रायां पार्श्वशूले च शस्यते॥
पिप्पलीचूर्णसंयुक्तं कण्डहृद्वनाशनम्॥१६९॥

सुगमम्। दशमूलम्॥१६९॥

चिरज्वरे वातकफोल्बणे वा त्रिदोषजे वा दशमूलमिश्रः॥
किराततिक्तादिगणः प्रयोज्यः शुद्ध्यर्थिने वा त्रिवृता विमिश्रः॥१७०॥

शुद्ध्यर्थने वा त्रिवृता विमिश्र इति। मलविबन्धे सति शोधनार्थं त्रिचतुरत्रिवृचूर्णमाषकाणां प्रक्षेपः। क्वाथोऽयं चतुर्दशाङ्गः॥१७०॥

दशमूली शठी शृङ्गी पौष्करं सदुरालभम्॥
भार्गी कुटजबीजं च पटोलं कटुरोहिणी॥१७१॥

अष्टादशाङ्ग इत्येष संनिपातज्वरापहः॥
कासहृद्रहपावर्तिश्वासहिक्वावमीहरः॥१७२॥

वातश्लेष्महरोऽष्टादशाङ्गः॥१७१॥१७२॥

भूनिम्बदारुदशमूलमहौषधाब्द-
तिक्तेन्द्रबीजधनिकेभकणाकषायः॥
तन्द्रामलापकसनारुचिदाइमोह-
श्वासादियुक्तमखिलं ज्वरमाशु हन्ति॥१७३॥

दारु देवदारु। तिक्ता कटुरोहिणी। इन्द्रबीजमिन्द्रयवः। धनिकं धान्यम्। इभकणा हस्तिपिप्पली। अष्टादशाङ्गः॥१७३॥

द्राक्षाऽमृता शठी शृङ्गी मुस्तकं रक्तचन्दनम्॥१७४॥
नागरं कटुकं पाठा भूनिम्बं सदुरालभम्॥

उशीरं पद्मकं धान्यं बालकं कण्टकारिका॥१७५॥

पुष्करं पिचुमन्दं चाष्टादशाङ्गमिदं शुभम्॥
जीर्णज्वरारुचिश्वासकासश्वयथुनाशनम्॥१७६॥

इत्यष्टादशाङ्कः। सुगमम्॥१७४॥१७५॥१७६॥

कट्फलं पौष्करं शृङ्गी मुस्तकं कटुकं शठी॥
समांशान्येकशो वाऽपि ऋक्ष्णचूर्णानि कारयेत्**॥१७७॥**

आर्द्रकस्वरसक्षौद्रं49 लिह्यात्कफविनाशनम्॥
शूलानिलारुचिच्छर्दिकासश्वासक्षयापहम्॥१७८॥

मुस्तापर्पटकोशीरदेवदारुमहौषधम्॥
त्रिफला धन्वयासश्च नीली कम्पिल्लकं त्रिवृत्॥१७९॥

किराततिक्तकं पाठा बला कटुकरोहिणी॥
मधुकं पिप्पलीमूलं मुस्ताद्यो गण उच्यते॥१८०॥

अष्टादशाङ्गमुदितमेतद्वा संनिपातनुत्॥
पित्तोत्तरे संनिपाते हितं चोक्तं मनीषिभिः॥
मन्यास्तम्भ उरोघात उरःपार्श्वशिरोग्रहे॥१८१॥

** नीली कम्पिल्लकमिति**। नीली। नीलिवुह्रा(?)। स्वनामप्रसिद्धेति चक्रः। कम्पिल्लकं गुडारोचनिका। अष्टादशाङ्गः॥१७९॥१८०॥१८१॥

बृहत्यौ पौष्करं भार्गी शठी शृङ्गी दुरालभा॥
वत्सकस्य च बीजानि पटोलं कटुरोहिणी॥१८२॥

बृहत्यादिर्गणः प्रोक्तः संनिपातज्वरापहः॥
कासादिषु च सर्वेषु हितः सोपद्रवेषु च॥१८३॥

** कासादिषु च सर्वेष्विति**। शठ्यादियोगोक्तेषु। चरके शठ्यायद्यनन्तरं बृहत्यादिपाठाद्बृहत्यादिः पित्तश्लेप्मोत्तरे हितः शठ्यादिश्च वातश्लेष्मोत्तरे। बृहत्यादिः॥१८२॥१८३॥

शठी पुष्करमूलं च व्याघ्री शृङ्गी दुरालभा॥
गुडूची नागरं पाठा किरातं कटुरोहिणी॥१८४॥

एष शठ्यादिको वर्गः संनिपातज्वरापहः॥
कासहृद्गहपार्श्वार्तिश्वासे तन्द्यां च शस्यते50॥१८५॥

सुगमम्।शठ्यादिः॥१८४॥१८९॥

स्वेदोद्गमे भृष्टकुलत्थचूर्णनिपातनं शस्तमिति ब्रुवन्ति॥१८६

स्वेदोद्गमे भृष्टकुलत्थचूर्णनिपातनमिति। कुलत्थस्य स्तम्भनत्वाच्छोपकत्वाञ्च स्वेदे हितत्वम्॥१८६॥

मृत्युश्च तस्मिन्बहुपिच्छिलत्वाच्छीतस्य जन्तोः परितः सरत्वात्॥
स्वेदो ललाटे हिमवान्नरस्य शीतार्दिनस्यैति सुपिच्छिलश्च॥
कण्ठस्थितो यस्य न याति वक्षो नूनं यमस्यैति गृहं स मर्त्यः॥१८७॥

स्वेदविशेषविषयमसाध्यत्वं ख्यापयितुमधिकश्च ग्रन्थः क्वचित्पठ्यते।

तद्यथा—

“स्रुतस्वेदो ललाटाद्यः श्लथसंधानबन्धनः।
मुह्येदुत्थाप्यमानस्तु स स्थूलोऽपि न जीवति॥

यस्य स्वेदोऽतिबहुलः पिच्छिलो याति सर्वतः।
रोगिणः शीतगात्रस्य तदा मरणमादिशेत्”॥१८७॥

जीर्णसंनिपातजे योगमाह—

त्रिवृद्विशालाकटुकात्रिफलारग्वधैः कृतः॥
सक्षारो भेदनः क्वाथः पेयः सर्वज्वरापहः॥१८८॥

विशाला गोरक्षकर्कटी। कटुका कटुरोहिणी। सक्षार इति। क्षारो यवक्षारः स। च प्रक्षेपः। सर्वज्वरापह इति। सर्वज्वरहन्ता। योगोऽयं जीर्णसंनिपातज्वराभिप्रायः॥१८८॥

संनिपातज्वरस्य मोक्षवधयोरवधिमाह—

पित्तकफानिलवृद्ध्या दशदिवसद्वादशाहसप्ताहात्॥
हन्ति विमुञ्चति पुरुषं त्रिदोषजो धातुमलपाकात्॥१८९॥

पित्तवृद्ध्यादशाहात्। कफवृद्ध्या द्वादशाहात्। अनिलवृद्ध्या सप्ताहात्। पित्तवृद्ध्येव पित्तानिलवृध्द्या कफवृद्ध्येव कफानिवृद्ध्या योगवाहित्वाद्वायोः पित्तकफवृद्ध्या तु मध्यविघयैकादशाहादिति ज्ञेयम्। धातुपाकाद्धन्ति। मलपाकाद्विमुञ्चति। धातुमलपाके च प्राक्तनं कर्म कारणं तत्र यदि जीवनसंवर्तकं कर्मास्ति तदा मलपाकोऽन्यथा धातुपाकः स च मज्जशुक्रादिपातादवगन्तव्यः। दशाहादिव्यवस्था च मध्यमन्दशीघ्रशक्तित्वाद्दोषाणाम्। यथोक्तकालनियमश्च तथास्वभावाद्वयाधे। विचित्रा हि व्याधिविशेषस्य स्वभावाः। तथाहि —अग्निरोहिणी सप्ताहान्निहन्ति न तथाऽन्ये विकारा इति॥१८९॥

सप्तमी द्विगुणा या51 तु नवम्येकादशी तथा॥
एषा त्रिदोषमर्यादा मोक्षाय च वधाय च॥१९०॥

वातवृद्ध्या सप्तमी द्विगुणा पित्तवृद्ध्या नवमी द्विगुणा कफवृद्धयैकादशी द्विगुणा। अत्र सर्वत्र रात्रिरित्यध्याहार्यं तेन सप्तमी रात्रिर्नवमी रात्रिरित्यर्थो भवति। अत्र निपातस्यानेकार्थत्वात्तशब्दश्चार्थे तेनाद्विगुणा अपि सप्तम्यादयो ग्राह्याः। एतत्संवादात्पूर्वश्लोकेऽपि दशमदिनप्रत्यासत्त्या नवम्येकादशी च ग्राह्या। वृद्ध्येति पदमावर्त्य च सर्वत्र द्वैगुण्यमपि ज्ञेयम्। तथाऽत्रापि श्लोक एकादशीत्यस्यैकेति पदमावर्तनीयं मत्वर्थीयप्रत्ययान्तं प्रत्येतव्यं तेन नवम्येकया सहिता दशम्येकादेश्यकसहिता द्वादशीतिमियोऽविरोधः।

“सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा।
पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा॥

इत्यत्र सुश्रुतवचनेऽपि पुनःशब्देऽपि द्वैगुण्यं व्याख्येयम्। प्रत्यासत्या च नवमैकादशदिनपरिग्रहः। एवमेवंभूतमन्यदपि वचनं समाधेयम्। चतुर्विंशत्यधिकश्च मर्यादादिवसो नास्त्यागमादर्शनात्॥१९॥

संनिपाते प्रकम्पन्तं विलपन्तं च यो नरम्॥
भोजयेत्पिशितैः सार्धे स वैद्याख्यां व्रजेत्कथम्॥१९१॥

सुगमम्॥१९९॥

संनिपाते प्रकम्पन्तं विलपन्तं च यो घृतम्॥
भोजयेत्पाययेच्चापि तौ स्यातां च कथं शुभौ॥१९२॥

सुगमम्॥१९२॥

संनिपातेषु दाहार्ते यः सिञ्चेच्छीतवारिणा॥
आतुरः स कथं जीवेद्भिपग्वा स कथं भवेत्॥१९३॥

सुगमम्॥१९३॥

संनिपातार्णवे मग्नं योऽभ्युद्धरति मानवम्॥
कस्तेन न कृतो धर्मः कां तु पूजा न सोऽर्हति॥१९४॥

सुगमम्॥१९४॥

मृत्युना सह योद्धव्यं संनिपातं चिकित्सता॥
यश्च तत्र भवेज्जेता स जेताऽऽमयसंकरे॥१९५॥

आममयसंकर इति। रोगसंकरे॥१९९॥

संनिपातान्तकर्णस्य शोफे महतिदारुणे52॥१९६॥

संनिपातान्तकर्णस्य शोथ इत्यत्र चिकित्सोच्यत इति शेषः॥१९६॥

रक्तावसेचनैः पूर्वे सर्पिष्पानैश्च तं जयेत्॥
प्रदेहैः कफपित्तघ्नैर्वमनैः कवलग्रहैः॥१९७॥

सर्पिष्पानैरिति। सर्पिः पञ्चतिक्तादि तस्य सर्पिषः पानैः प्रदेहैः। कफपित्तघ्नैरिति। कफपित्तहरद्रव्यकृतैः प्रलेपैः॥१९७॥

बीजपूरकमूलानि अग्निमन्थस्तथैव च॥
सनागरं देवदारु रास्त्राचित्रकपेषितम्॥१९८॥

प्रलेपनमिदं श्रेष्ठं गलशोथविनाशनम्॥
कुलत्थं कट्फलं शुण्ठी कारवी च समांशकैः॥
सुखोष्णैर्लेपनं कार्ये कर्णमूले53 मुहुर्मुहुः54॥१९९॥

सुगमम्॥१९८॥ १९९॥

क्रमप्राप्तामागन्तुचिकित्सामाह—

अभिचाराभिशापोत्थो ज्वरौ होमादिना जयेत्॥

अभिचारोऽथर्ववेदविदां श्येनादियागे विपरीतमन्त्रैर्लहे स्त्रुचा सर्षपादिहोम इत्याहुः। डल्लणस्त्वभिचारो यन्त्रमन्त्रादिभिरवपीडनमित्याह। अभिशापो गुरुवृद्धादीनामनिष्टाभिशपनं तदुत्थौ। होमादिनेत्यत्राऽऽदिग्रहणेन प्रायश्चित्तबलिमङ्गलजाप्यादयो गृह्यन्ते॥

दानस्वस्त्ययनातिथ्यैरुत्पातग्रहपीडजौ॥२००॥

** दानस्वस्त्ययनातिथ्यैरिति**। दानं देवब्राह्मणादिभ्यः सुवर्णाद्युपढौकनम्। स्वस्त्ययनमाशीर्वादः। आतिथ्यमतिथिपूजा। उत्पातग्रहपीडजाविति। उत्पातजं ग्रहपीडाजं च। उत्पातोऽनिष्टसूचकं निर्घातादि। ग्रहा आदित्यादयः। ड्यापोः संज्ञाछन्दसोर्बहुलमित्यनेन पीडाशब्दस्याऽऽकारस्य ह्रस्वत्वम्॥ २०॥

ओषधीगन्धविषजौ विषपित्तप्रबाधनैः॥
जयेत्कषायैर्मतिमान्सर्वगन्धकृतर्भिषक्॥२०१॥

** ओषधीगन्धविषजाविति**। तीव्रौषधीगन्धाघ्राणस्थावरविषभक्षणकृतौ।विषपित्तप्रबाधनैरिति। विषपित्तचिकित्सितैः। कैस्तैरित्यत उक्तम्—जयेत्कषायैरित्यादि। सर्वगन्धकृतैरिति। सर्वगन्ध एलादिगणस्तत्कृतैः सौश्रुतत्वादस्य योगस्य।

यत्तु—

‘चातुर्जातककर्पूरकङ्कोलागरुसिह्ललकम्॥
लवङ्गसहितं चैव सर्वगन्धं विनिर्दिशेत्’॥

इति निघण्टुकारवचनं क्वचिच्छूयते तदुद्वर्तनादिविषयं ज्ञेयम्। अन्ये विषपीतप्रसाधनैरिति पठन्ति व्याख्यानयन्ति च विषपीतस्य यानि चिकित्सितानि तैरित्यर्थः॥२०१॥

क्रोधजे पित्तजित्काम्या अर्थाः सद्वाक्यमेव च॥ २०२॥
सद्वाक्यमिति। सान्त्वनार्थं साधुवचनम्॥२०२॥

अश्वासनेष्टलाभेन वायोः प्रशमनेन च॥
हर्षणैश्च शमं यान्ति कामशोकभयज्वराः॥२०३॥

हर्षणैश्चेति चकारः क्रोधादिभिः परस्परं प्रतिद्वंद्वैरिति समुच्चिनोति।

यदुक्तम् –

“कामात्क्रोधज्वरो नाशं क्रोधात्कामसमुद्भवः॥
याति ताम्यामुभाम्यां तु भयशोकसमुद्भवः” इति॥२०३॥

भूतज्वरचिकित्सितमतिदेशेनाऽऽह—

भूतविद्यासमुद्दिष्टैर्बन्धावेशन55पूजनैः॥
जयेद्भुताभिषड्गोत्थं मनः सान्त्वैश्च मानसम्॥२०४॥

** बन्धावेशनपूजनैरिति।** अन्तर्निविष्टस्य भूतस्य पुनरपसरतः संयमनं बन्धः। मन्त्रेणाऽऽकृप्य मस्तकनिवेशनमावेशनम्। तोगर्धिबल्यादिदानं पूजनं तैः। पूजन शब्दस्य स्थाने क्वचित्ताडनशब्दस्य पाठः। ताडनं सर्षपादिभिः समन्त्रैरभिहननम्। भूताभिषङ्गोत्थमिति। भूतसंबन्धसमुत्थमिति। मनःसान्त्वैरित्यत्र विज्ञानाद्यैरिति केचित्पठन्ति॥२०४॥

संप्रति जीर्णज्वरचिकित्साया अवसरः—

निदिग्धिकानागरकामृतानां क्वाथं पिबेन्मिश्रितपिप्पलीकम्॥
जीर्णज्वरारोचककासशूलश्वासाग्निमान्द्यार्दितपीनसेषु॥२०५॥

निदिग्धिका कण्टकारी। मिश्रितपिप्पलीकमिति। प्रक्षिप्तपिप्पलीचूर्णम्। पिप्पलीचूर्णस्य मापकद्वयं प्रक्षेपः प्रचारात्। एवमन्यत्रापि। निदिग्धिकादिर्वातकफे क्रियते। पित्तानुबन्धे पिप्पलीं त्यक्त्वा मधु क्षिपन्ति वृद्धाः। पुराणप्रतिश्याये दृष्टफलोऽयं योगः॥२०५॥

अस्य सोपपत्तिं वृद्धवैद्यव्यवहारसिद्धमुपयोगसमयं वृन्द आह—

हन्त्यूर्वजानयं प्रायः सायं तेनोपयुज्यते॥

किंतु प्रातरुत्थाय तां पिबेदिति बिन्दुसारदर्शनात्प्रातःसमयेऽपि कर्तव्योऽसौ।

कासाजीर्णारुचिश्वासहृन्याण्डुकृमिरोगनुत्॥
जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली॥२०६॥

शस्यते गुडपिप्पीति। गुडपिप्पयोः प्रायः प्रत्येकं मापत्रयेण प्रचारः॥२०६॥

पिप्पलीचूर्णसंयुक्तः काथरिछन्नोद्भवोद्भवः॥
जीर्णज्वरकफध्वसी पञ्चमूलीकृतोऽथवा॥२०७॥

** छिन्नोद्भवोद्भव इति।** छिन्नोद्भवा गुडूची। पञ्चमूलीकृतोऽथवेति। पञ्चमूली महती। अत्रापि पिप्पलीचूर्णप्रक्षेपः। एतत्काथद्वयं प्रायः सायमुपयुज्यते॥२०७॥

शिरोगौरवशूलघ्नमिन्द्रियप्रतिबोधनम्॥
जीर्णज्वरे रुचिकरं दद्याच्छीर्षविरेचनम्॥२०८॥

जीर्णज्वरे न तरुणे। सांनिपातिके पुनः संज्ञाप्रबोधनार्थं तरुणेऽपि प्रयुज्यते शीर्षविरेचनमिति नस्यम्॥२०८॥

इदानीं दुर्बलस्य चिरोत्थिते ज्वरे पथ्यसंभोजनैबृंहणविधिमाह—

संततं विषमं वाऽपि क्षीणस्य सुचिरोत्थितम्॥
ज्वरं संभोजनैः पथ्यैर्ज्वरघ्नैः समुपाचरेत्॥२०९॥

संततमिति नित्यानुषक्तं न तु पारिभाषिकम्। तस्य विषममित्यनेनैव गृहीतत्वात्। विषमं सततान्येद्युष्कादिकम्।संभोजनैरिति बृंहणैः। पथ्यैरिति लघुहितैः।

अन्यत्राप्युक्तम्—

“दौर्बल्याद्देहधातूनां ज्वरो जीर्णोऽनुवर्तते॥
बल्यैः संबृंहणैस्तस्मादाहारैः समुपाचरेत्” इति॥२०९॥

किं तत्संभोजनं पथ्यमित्यत आह—

तण्डुलीयकवास्तूकबालमूलकपर्पटान्॥२१०॥
पटोलममृतापत्रं शाकार्ये दार्विपत्रिकाम्॥
मांसार्थमेणलावादीन्दद्याद्युक्त्या विचक्षणः॥२११॥

दार्विपत्रिका दार्विकाशाकम्॥२१०॥२११॥

ज्वरक्षणस्य न हितं वमनं न विरेचनम्॥
कामं तु पयसा तस्य निरूहैर्वा हरेन्मालान्॥२१२॥

काममित्यनुमतम्। पयसेति दुग्धपानेन। दुग्धं लनुलोमकतया दोषहरं भवत्येव॥२१२॥

अतः परं ज्वरोपशमेऽरोचकादिप्रतिषेधार्थमाह—

अरोचके गात्रसादे वैवर्ण्येऽङ्गमलादिषु॥
शान्तज्वरोऽपि शोध्यः स्यादनुबन्धभयान्नरः॥२१३॥

गात्रसादोऽङ्गग्लानिः। वैवर्ण्येऽङ्गमलादिष्विति। देहमूत्रपुरीषादिषु वातपित्तकफैः क्रमादरुणपीतशुक्ललक्षणविपरीतवर्णयोगे कृते सति। अनेन मलाश्रितदोषकृतवैवर्ण्यवचनेन दोषस्य कोष्ठगतत्वं प्रतीत्य शोधनविषयत्वमुक्तम्। शान्तज्वरोऽपीति।शान्त इव शान्तो लीनज्वर इत्यर्थः। सर्वथा शान्तस्यारोचकादिकर्तृत्वानुपपत्तेः। शोध्य इति। शोधयितव्यः शोधनजितानां व्याधीनामपुनर्भुतेः।

यदुक्तम् –

“दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः।
जिताः संशोधनैर्ये तु न तेषां पुनरुद्भवः” इति।

अनुबन्धभयादिति। अनुवन्धः पुनरुद्भवस्तस्य शङ्कातः॥२१३॥

क्षीरावस्थामाह—

जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम्॥

कफे क्षीण इति। कफक्षयाद्वातपित्तोत्तरतायां जातायां क्षीरममृतायते।

यदुक्तम् —

**“दाहतृष्णापरीतस्य वातपित्तोत्तरं ज्वरम्।
बद्धप्रच्युतदोषं वा निरामं पयसां जयेत् " इति। **

क्षीरस्यानेकविधिमास्तत्रान्तरीयाः—

“संस्कृतं शीतमुष्णं वा दद्याद्धारोष्णमेव वा।
विभज्य काले भुञ्जीत ज्वरिणं हन्त्यतोऽन्यथा " इति॥

क्षीरं तरुणज्वरे पीतं सत्किं कुर्यादित्याह—

तदेव तरुणे पीतं विषवद्धन्ति मानवम्॥२१४॥

तदेवेति पयः। तरुणे तरुणज्वरे। यद्यप्यस्य जीर्णज्वरे विधानान्तरणे दोषकरत्वावगतिस्तथाऽपि प्रमादादपि तरुणे न प्रयोक्तव्यमिति तद्दूषणाभिधानम्॥२१४॥

कासाच्छ्वासाच्छिरःशूलात्पार्श्वशूलात्सपीनसात्॥
मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः॥२१५॥

** पञ्चमूलीशृतमिति।** पञ्चमूल्यत्र कनीयसी वातपित्तहरत्वात्। क्षीरपाकपरिभाषया पञ्चमूलद्रव्यार्घपले क्षीरपलचतुष्टयं षोडशजलपलानि दत्त्वा क्षीरशेषः कार्यः एवं सर्वत्र॥२१५॥

त्रिकण्टक56वचाव्याघ्रीगुडनागरसाधितम्॥
वर्चोमूत्रविबन्धघ्नं शोषज्वरहरं पयः॥२१६॥

** गुडनागरसाधितमिति**। गुडो द्रव्यान्तरतुल्यमान एवात्र प्रक्षेपः। गुडक्काथस्य निष्प्रयोजकत्वादिति केचित्॥२१६॥

ग्रन्थान्तरात्क्षीरपाकस्य विशेषविधिः—

द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम्॥
क्षीरावशेषः कर्तव्यः क्षीरपाके त्वयं विधिः॥२१७॥

“नस्यान्मुक्तरसं सम्यग्द्रव्यं क्षीरादिभिः सह।
तन्निर्दिशेद्वारि पूर्वं पादवत्साधयेद्भिषक्॥

इत्यनेन पूर्व षोडशभागं वारि चतुर्भागावशेषं साधयेत्पश्चात्तेन वारिणा तुल्यानि क्षीरादीन्यावारिक्षयात्पचेत्॥२१७॥

पञ्चमूलीशृतं क्षीरं चतुगुर्णजलेन वा॥
शिंशपागण्डिकाभिर्वा धारोष्णं वा ज्वरापहम्॥२१८॥

पञ्चमूलीशृतं क्षीरं चतुर्गुणजलेन वेत्येको योगः। चतुर्गुणजलेन निरौषधमेव क्षीरं साध्यमित्यन्यः। पञ्चमूलीशृतं क्षीरमुक्तमपि समस्तश्लोकानुरोधात्पुनर्लिखितम्।शिंशपागण्डिकाभिरिति। शिंशपा शिंशवीति लोके। तस्या गण्डिका खण्डगण्डिका ताभिः। अयं च क्षीरविधिः सुश्रुतर्मतेन। चरके तु कषायानन्तरं सर्पिस्ततः क्षीरम्।
तद्यथा—ज्वरे पेयाः कषायाश्च सर्पिः क्षीरं विरेचनमिति॥२१८॥

सतताद्विविषमज्वराणां चिकित्सां विवक्षुस्तेषां संप्राप्तिमाह—

कृशानां ज्वरमुक्तानां मिथ्याहारविहारिणाम्॥
दोषः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः॥२१९॥

सततान्येद्युष्कत्र्याख्यचतुर्थान्सप्रलेपकान्॥
कफस्थानविभागेन यथासंख्यं करोति हि॥२२०॥

अहोरात्रादहोरात्रात्स्थानात्स्थानं प्रपद्यते॥
ततश्चाऽऽमाशयं प्राप्य दोषः कुर्याज्ज्वरं नृणाम्॥२२१॥

अस्यायमर्थः। कृशानां मिथ्याहारविहारिणां ज्वरमुक्तानां च मिथ्याहारविहारिणां दोषः पूर्व पथ्यसेवया स्वल्पोऽपि मिथ्याविहाराभ्यामतिसंवृद्धो लब्धबलोऽनिलेरितो वातप्रेरितः सन्सततादीञ्जनयति। कफस्थानविभागेनेति। आमाशयहृदयकण्ठाशिरः संघय इति पञ्च कफस्थानानि तेषां विभागेन। यथासंख्यं दोषैरहोरात्रात्स्थानात्स्थानं प्रपद्याऽऽमाशयं गत्वा सततादयः क्रियन्ते। तदयमर्थः। आमाशयस्थो दोषोऽहोरात्रात्सततं करोति द्विकालम्। न च सर्वदा।आमाशयप्राप्त्या सदाऽस्य संभवप्रसङ्गः। अहोरात्रात्स्वकोपकालापेक्षया तदुत्पत्तेः। हृदयस्थो दोष आमाशयं प्रपद्यान्येद्युष्कमेककालं करोति सततारम्भकदोषापेक्षयाऽस्य व्यवहितत्वात्। कण्ठस्थो दोष एकस्मिन्दिने हृदयमायाति। अपरस्मिन्दिन आमाशयमागम्य तृतीयेऽह्नि तृतीयकं कुर्यात्। शिरस्यो दोषः कण्ठहृदयामाशयांस्त्रिभिर्दिनैः क्रमेण प्राप्य चतुर्थेऽह्नि चतुर्थकं करोति। संधिस्थस्तु प्रलेपकं कुर्यात्। संघयाऽऽमाशयेऽपि सन्तीति। अयं सर्वदा भवतीति। प्रभावाच्च शोषिणामेव स्यात्। अयं त्वविषमः। अन्ये चत्वारो मुक्तानुबन्धत्वेन विषमाः। सर्वेषु कफस्थानेषु व्यवस्थितो दोषः संततं करोतीति ज्ञेयं तत्रान्तरीक्तत्वात्। दोषशब्दोऽत्र पृथग्द्वंद्वसमस्तरूपो वातादिर्ग्राह्यः। अनिलेरितत्वं च वातस्यापि स्थितस्य बाह्यहेतुप्रचुरीभूतेनापरेण वातेन संभवति॥२१९॥२२०॥२२१॥

अपरो विषमो रात्रिज्वरो दिवाज्वरश्च तावाह—

समौ वातकफौ यस्य हीनपित्तस्य देहिनः॥
प्रायो रात्रौ ज्वरस्तस्य दिवा हीनकफस्य च॥२२२॥

** दिवाहीनकफस्य चेति**। हीनकफस्य चकारात्समवातपित्तस्य दिवाज्वरो भवति॥२२२॥

प्रलेपकस्त्वविषमः प्रायः क्लेशाय शोषिणाम्57
कलिङ्गकाः पटोलस्य पत्रं च कटुरोहिणी॥२२३॥

सुगमम्॥२२३॥

पटोलं सारिवा मुस्तं पाठा कटुकरोहिणी॥
निम्बं पटोलं त्रिफला मृद्वीकामुस्तवत्सकैः॥२२४॥

किराततिक्तममृता चन्द्रनं विश्वभेषजम्॥
गुडूच्यामलकं मुस्तमर्घश्लोकसमापनाः॥
कपायाः शमयन्त्याशु पञ्च पञ्चविधं ज्वरम्॥२२५॥

** पञ्चविधं ज्वरमिति।** प्रलेषकवर्जं संततसततान्येद्युष्कतृतीयकचतुर्थकम्। यतश्चरकस्यैते पञ्च योगाः तत्रैतत्पञ्चकमेव पठित्वाऽमी योगा उक्ताः। संग्रहकारस्तुसततान्येद्युष्कत्र्याख्यचतुर्थकप्रलेपकान्पठित्वा योगानिमाल्लिँखितवानिति न मनोहरम्। एते च योगाः पञ्च पञ्चसु यथासंख्यं ज्ञेयाः। सर्वे वा सर्वत्रेत्यन्यः॥२२४॥२२५॥

कपायाः संततादीनां पञ्चैते चरकादिना॥
प्रलेपकं विहायैव तथा वातवलासकम्॥२२६॥

** गद्यम्— कषायाः क्रमेण व्यतिक्रमेण वा क्रियन्ते॥२२७॥**

सुगमम्॥२२६॥२२७॥

अजाजी गुडसंयुक्ता विषमज्वरनाशिनी॥
अग्निमान्द्यं जयेत्सम्यग्वातरोगांश्च नाशयेत्॥२२८॥

** अजाजी गुडसंयुक्तेति**। अजाजी कृष्णजीरकं प्रचारात्। तच्च समेन गुडेन योज्यम्। सितजीरकमित्यन्ये॥२२८॥

गुडप्रगाढां त्रिफलां पिबेद्वा विषमार्दितः॥

गुड़प्रगाढां किंचिदधिककर्षप्रतिवाडयुतां त्रिफलां पिबेत्क्कथितामिति शेषः। विषमार्दितो विषमज्वरपीडितः। ज्वरशब्दलुप्तनिर्देशात्॥

गुडूचीनिम्बधात्रीणां कषायं वा समाक्षिकम्॥२२९॥

धात्री, आमलकी। एष योगश्चतुर्थकज्वरघ्नः समानतन्त्रोक्तत्वात्॥२२९॥

मुस्तामलकगुडूचीविश्वौषधकण्टकारिकाक्वायः॥
पीतः सकणाचूर्णः समधुर्विषमज्वरं हन्ति॥२३०॥

मुगमम्॥२३०॥

प्रातः प्रातः ससर्पिर्वा रसोनमुपकल्पयेत्॥

सुगमम्॥

पिप्पलीर्वर्धमानं वा पिवेत्क्षीररसाशनः॥२३१॥

पिप्पलीवर्धमानं वातकफजे प्लीहोदसेक्तमात्रया। क्षीररसाशन इत्यभिधानमधिकविधानार्थं ज्ञेयम्। क्षीरं मांसरसश्च प्रयोगासात्म्यं पिप्पलीवर्धमानकविधाने क्षीररसाशनस्य दर्शितत्वात्। अत्र पुनरभिधानमधिकमात्रार्थमिति कार्तिकः॥२३१॥

दिनमेकं तु विश्रम्य प्रत्येति स तृतीयकः॥
दिनद्वयं तु विश्रम्य प्रत्येति सचतुर्थकः58॥२३२॥

सुगमम्॥२३२॥

** वृन्दस्तु** तृतीयकचतुर्थकयोः स्वरूपं दर्शयित्वा तयोश्चिकित्साविशेषं वक्तुं चरकार्धश्लोकेन सममात्मनः श्लोकार्धं ब्रूते—

कर्म साधारणं जह्यात्तृतीयकचतुर्थकौ॥
अतस्तौ प्रतिकर्तव्यौ विशेषोदितभेषजैः॥२३३॥

साधारणं ज्वरमात्रसाधारणं विषमज्वरसाधारणं वा कर्म तृतीय कचतुर्थकौ कर्मभूतौ जह्मात्त्यजति न स्फोटयतीति यावत्। अतः साधारणक्रियां त्यक्त्वा प्रतिपदोक्तक्रियया चिकित्स्यावियं वृन्दाभिप्रायेण व्याख्या। चरके तु कर्म साधारणमित्यादेरर्थः साधारणं कर्म दैवयुक्तिव्यपाश्रयं तृतीयकचतुर्थकौ जह्यादन्तर्भावितण्यर्थत्वेन हापयतीति टीकाकारैरागन्तुरनुबन्धो हि प्रायशो विषमज्वर इति चरकोक्तहेत्वनुरोधाव्द्याख्यातः।

अस्य श्लोकस्येशानदेवोक्ता व्याख्या लिख्यते—कर्म साधारणमित्यादि। कुतः। यस्मादागन्तुरनुबन्धः प्रायशो विषमज्वरे भवति। विषमज्वरग्रहणाञ्च केचिदेतावेव द्वौ तृतीयकचतुर्थकौ विषमज्वराविति प्रतिपन्ना न तु सततान्येकौ। यद्यपि तौ विषमं ज्वरयतः। अत्र संशयः। साधारणं कर्म दैवयुक्तिव्यपाश्रयमुत वा निजागन्त्वोर्द्वयोरपि यद्योगं ददाति तत्साधारणं कर्म। यथा पयसा सह वृषदंशशकृत्पयो निजं दोषं जयति विडालशकृत्त्वागन्तुम्॥२३३॥

महौषधामृतामुस्तचन्दनोशीरधान्यकैः॥
क्वाथस्तृतीयकं हन्ति शर्करामधुयोजितः59॥२३४॥

सुगमम्॥२३४॥

अपामार्गजटा कट्यां लोहितैः सप्ततन्तुभिः॥
बद्धा वारे रवेस्तूर्ण ज्वरं हन्ति तृतीयकम्॥२३५॥

** अपामार्गजटेति**। जटा मूलम्॥२३९॥

गङ्गाया उत्तरे कूले अपुत्रस्तापसो मृतः॥
तस्मै तिलोदकं दद्यान्मुञ्चत्यैकाहिको60 ज्वरः61॥२३६॥

** तस्मै तिलोदकमिति**। अत्रोदकमनुदये नवपात्रानीतं भूमावनवस्थापितं ग्राह्यं प्रचारात्। कुशाश्वत्थपत्रहस्तस्य च तर्पणम्॥२३६॥

वासाबाबीस्थिरादारुपथ्यानागरसाधितः॥
सितामधुयुतः क्वाथश्चतुर्थिकनिवारणः62॥२३७॥

सुगमम्॥२३७॥

अगस्तिपत्रस्वरसेन नस्यं निहन्ति चातुर्थिकमुग्र63रूपम्64

अगस्तिपत्रस्वरसेन तद्रसेन॥

यथोक्तविषमज्वरविपरीतानपरानपि विषमप्रकारानाह—

कफस्थानेषु वा तिष्ठन्दोषो द्वित्रिचतुर्षु वा॥
विपर्ययाख्यान्कुरुते विषमान्कष्टसाधनान्॥२३८॥

अस्यार्थः। ककस्थानेष्वामाशयादिपु द्वयोस्त्रिषु चतुर्षु वा तिष्ठन्दोषो वातादिको विपर्ययान्कुरुते तत्र द्वयोः कफस्थानयोरामाशयत्हृदययोस्तिष्ठन्दोषो वातादिरन्येद्युष्कविपर्ययं कुर्यात्। विपर्ययश्च सततस्याहोरात्रे पूर्वाह्लादीनां मध्ये कालमेकं त्यक्त्वा सर्वाहोरात्रभवनम्। एवं त्रिषु ककस्थानेष्वामाशयहृदयकण्टेषु तिष्ठन्दोषस्तृतीयकविपर्ययंकरोति। यत्र दिने हृदयस्थो दोष आमाशयमागत्य ज्वरयति तत्र दिने कण्ठस्थो दोषो हृदयमायाति। अपरस्मिन्दिने सोऽप्यामाशयमागत्य ज्वरयति। एवं दिनद्वयं भूत्वा तृतीये दिने न भवतीति तृतीयकविपर्ययः। चतुर्ष्वामाशयहृदयकण्ठशिरस्सु कफस्थानेषु तिष्ठन्दोषश्चतुर्थकविपर्ययं करोति। यस्मिन्दिने हृदयस्थो दोष आमाशयमागत्य ज्वरयति तस्मिन्नेव दिने कण्ठस्थो हृदयं शिरस्थश्च कण्ठमेति। अपरस्मिन्दिने हृंदयस्थ आमाशयमागत्य ज्वरयति कण्ठस्थश्च हृदयमेति। अपरदने हृदयस्थ आमाशयमागत्य ज्वरयति। एवं दिनत्रयं भूत्वा चतुर्थेऽह्नि न भवतीति चतुर्थकविपर्ययः। सततकस्य विपर्ययो नास्ति। एकस्मिन्नेव कफस्थाने स्थितेन दोषेण तत्करणादिति कार्तिकः। केचिदुदाहरणमात्रमेतदिति मन्यमानाः सततकस्यापि विपर्ययं ब्रुवते। कालद्वयं त्यक्त्वा सकलमहोरात्रं ज्वरयतीति सततकविपर्ययः। अन्यैः पुनरन्यादृशोऽपि तृतीयकादिविपर्ययो दर्शितः। तद्यथा। तेषां कालविभागमाह। तत्र प्रत्यहोरात्रं सत्रिभागाः प्रहराः षट्कालाः पूर्वाह्नमध्याह्नापराह्णप्रदोषार्धरात्रप्रत्यूषभेदेन। तत्रान्येस्त्वहोरात्र एककालं सत्रिभागं प्रहरं प्रवर्तते। तद्विपर्ययस्त्वेककालं मुञ्चति। तृतीयकस्तृतीककालं सत्रिभाग प्रहरं प्रवर्तते। तद्विपर्ययस्तु तृतीयेऽह्येकं कालं विमुञ्चति चतुर्थकश्चतुर्थेऽहन्येककालं प्रवर्तते। तद्विपर्ययस्तु चतुर्थेऽहन्येककालं विमुञ्चति। संततसततप्रलेपकानां विपर्यया नोक्तास्तेषामसंभवात्। अत्र संततादिषु विपर्ययेषु च दोषादिबलतः प्रोक्तकालाद्विनाऽऽधिक्यमपि स्यादिति ज्ञेयम्। कफस्थानेषु वा दोष इत्यत्र दोषशब्दः पृथग्द्वंद्वसमस्तप्रतिपादकः सामान्येनोक्तत्वात्। सत्रान्तरेऽप्युक्तम्

“कफपित्तान्त्रिकग्राही पृष्ठाद्वातकफात्मकः॥
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः॥

**चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः॥
जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्थोऽनिलसंभवः " इति॥ **

यस्य यो विपर्ययस्तस्यैव तत्र चिकित्सा कार्या॥ २३८॥

रसोनकल्कं तिलतैलयुक्तं योऽश्नाति नित्यं विषमज्वरार्तः॥
विमुच्यते सोऽप्यचिराज्ज्वरेण बातामयैश्चापि सुघोररूपैः॥२३९॥

सुगमम्॥ २३९॥

रक्ताश्वमारपुष्पं च धात्री धान्यं वचामयम्॥
पिष्ट्वा कोष्णो ज्वरे कार्यो लेपो मूर्धरुजापहः॥२४०॥

सुगमम्॥ २४०॥

विषमज्वरेऽष्टाङ्गधूपमाह—

पलंकषा निम्बपत्रं वचा कुष्ठं हरीतकी॥
सर्षपाः सयवाः सपिर्धूपनं ज्वरनाशनम्॥२४१॥

पलंकषा गुग्गुलुः। विषमज्वरोक्तोऽप्यसौ योगो जीर्णज्वरे भूतविषमज्वरे च प्रयोक्तव्यः समानतन्त्रोक्तत्वात्॥२४१॥

अवस्थाविशेषेण धूपनमाह—

बैडालं वा शकुद्योज्यं वेपमानस्य धूपने॥२४२॥

बैडालं शकृढ्बिडालविष्ठा॥२४२॥

आगन्त्वनुबन्धप्रतिषेधार्थं दैवव्यपाश्रयां चिकित्सामाह—

सोमं सानुचरं देवं समातृगणमीश्वरम्॥
पूजयन्प्रयतः शीघ्रं मुच्यते विषमज्वरात्॥२४३॥

सोममुमया सहितम्। सानुचरं सनन्द्यादिगणम्। समातृगणं मातृसमूहयुक्तम्। प्रयतः पवित्रः। ईश्वरादिपूजनाद्दुरितोपशान्तिर्धर्मोत्पत्तिश्च॥२४३॥

विष्णुं सहस्रमूर्धानं चराचरपतिं विभुम्॥
स्तुवन्नामसहस्रेण ज्वरान्सर्वान्व्यपोहति॥२४४॥

सुगमम्॥२४५ ॥

** सहस्रमूर्धानमिति**। सहस्रशोर्षा पुरुषः सहस्त्राक्षः सहस्रपादित्यादिना चोक्तम्। नामसहस्रेण **भारतोक्तेन।**ज्वरस्यापि देवतात्मकत्वात्पूजा कार्या। तथाच विदेह—

“तीर्थायतनदेवाग्निगुरुवृद्धोपसर्पणैः।
ज्वरश्च पूजनैश्चापि सहसैवोपशाम्यति” इति॥२४४॥

मूलं भूमिजयन्त्याश्च सहदेवोद्भवं तथा॥
तण्डुलीयकमूलं वा वद्धं मूर्ध्नि ज्वरापहम्॥२४५॥

सुगमम्॥ २४५॥

विषमज्वरेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम्॥

ऊर्ध्वं शोधनं वमनम्। तच्च कफाधिके विषमज्वरे। अधःशोधनं विरेचनम्। तच्च पित्ताधिके। एतेन सर्वेष्वेव विषमज्वरेषु कफपित्ताधिकतया वमनविरेचने प्रयोक्तव्ये इत्युक्तं तत्रान्तरे कफपित्तयोर्वमनविरेचनयोरुपदेशात्।

तद्यथा—

“वमनं पाचनं रूक्षमन्नपानं विलङ्घनम्।
कषायोष्णं च विषमे ज्वरे शस्तं कफोत्तरे”इति॥

तथा—

“विरेचनेन पयसा सर्पिषा संस्तुतेन च।
विषमं तिक्तशीतैश्च ज्वरं पित्तभवं जयेत्” इति ॥

** अन्ये** तु विषमज्वरेष्वित्यत्र यद्यपि विषमज्वरशब्देन संततं विहायान्ये विषमज्वराःप्रोक्तास्तथाऽप्यन्त्र तृतीयकचतुर्थकावेव विषमज्वरौ ग्राह्यौ। यतस्तयोरेव साधारणं कर्म वातपित्तश्लेष्महरमास्थापनं विरेचनं वमनादिकं65 युक्तमिति व्याचक्षते॥

शान्ति नयेत्रिवृद्वाऽपि सक्षौद्रा विषमज्वरम्॥२४६॥

** त्रिवृद्वाऽपि सक्षौद्रेति**। लेहोऽयं विरेचकार्थम्। अत्र विषमज्वरमिति पाठोऽनार्षः। घरकसुश्रुतयोरस्य योगस्य नित्यज्वर एव विहितत्वात्। प्रबलज्वरमिति पाठः साधुः। अस्यार्थः। प्रबलज्वरं प्रकृष्टवलस्य ज्वरं प्रकृष्टबलं वा ज्वरं बहुदोषबल एवं शोधनस्य योग्यत्वात्॥२४६॥

मधुना वाऽभया लीढा हन्त्याशु विषमज्वरम्॥

सुगमम्॥

ज्वरवेगं च कालं च चिन्तयञ्ज्चर्यते तु यः॥
तस्येष्टैरद्गुतैर्वाऽपि विषयैर्नाशयेत्स्मृतिम्॥२४७॥

चिन्तयन्नित्यतो मानसज्वरप्रकारोऽयम्। अतस्तस्येष्टैर्विचित्रैश्च विषयैर्ज्वरकालो विस्मारणीयः। ज्वरस्य वेगकालयोः स्मरणेन मनोविषादाज्ज्वरसंवृद्धिः। **तदुक्तम्—**विषादो रोगवर्धनानामिति वचनात्॥२४७॥

ज्वरे घृतप्रयोगान्विवक्षुर्घृतस्य कालं विषयं चाऽऽह—

घृतं द्वादशरात्रात्तु देयं क्षीणकफे ज्वरे॥२४८॥

लङ्घनलघुभोजनादिभिः कफे क्षीणे रूक्षस्य द्वादशरात्रादेव घृतं देयम्। तेन हि दोषाणां सर्वथा निरामतया स्वाशयगतेः। यदुक्तं सुश्रुते

“घृतं द्वादशरात्रे तु देयं सर्वज्वरेषु वै॥
तेनान्तरेणाऽऽशयं स्वं गता दोषा भवन्ति हि” इति॥

अस्यार्थः। ननु दशाहात्परमौषधदानाभ्यनुज्ञानाद्दशाहेन दोषपाकप्रदर्शनात्कथमेवमिति चेत्। सर्वज्वरेष्वित्यभिधानात्। यतः संनिपाते द्वादशाहादपि पाको भवति। अथ पाके सति दोषाणां कथं स्वाशयगमनं भवतीति चेत्। न। दोषाणां ह्रासं विनामार्दवसंभूतिः66। ततश्च ह्रासेन दोषाणां स्वाशयगतिः। क्वचित्पाकाद्विकारोपशान्तिरपिस्यात्तत्र सर्वभावेणैव दोषाणां स्वाशयप्राप्तिरिति॥२४८॥

पिप्पल्यादिघृतमाह—

पिप्पल्यश्चन्दनं मुस्तमुशीरं कटुरोहिणी॥
कलिङ्गकास्तामलकी सारिवाऽतिविषा स्थिरा॥२४९॥

द्राक्षामलकबिल्वानि त्रायमाणा निदिग्धिका॥
सिद्धमेभिर्घृतं सद्यो ज्वरं जीर्णे व्यपोहति॥२५०॥

क्षयं कासं शिरःशूलं पार्श्वशूलमरोचकम्॥
अंसाभितापमग्निं च विषमं संनियच्छति॥२५१॥

कलिङ्गमिन्द्रयवम्। तामलकी भूम्यामलकी। बिल्वं बिल्वशलादुः। अत्रैके विशेषानुक्तेः पिप्पल्यादीनां क्वाथकल्करूपतां वर्णयन्ति। अन्येत्वेषां कल्कमेवेच्छन्ति। द्रवं तु जलमेव देयम्। द्रवेऽप्यनुक्ते जलमेव देयमिति वचनात्। गण एव हि क्वाथस्य कल्कस्य च कारणम्। उक्तं च **सुश्रुते—**क्वाथकल्कावनिर्देशे गणात्तस्मात्समावपेदिति। गणेऽपि यत्राधिकरणत्वेन कीर्तनं तत्रैव क्वाथकल्कविधिः। तथा च तत्रान्तरम्

“यत्राधिकरणे नोक्तिर्गणे स्यात्स्नेहसंविधौ॥
तत्रैव कल्कनिर्यूहाविष्येते स्नेहवेदिना " इति॥

प्रचारोऽपि कल्कमात्रेण। तस्मात्पिप्पल्यादीनां कल्के जलं चतुर्गुणमत्र। एवमेवंजातीयेऽन्यत्रापि विज्ञेयम्। पिप्पल्याद्यं घृतम्॥२४९॥२५०॥२११॥

कल्काच्चतुर्गुणः स्नेहः67 स्नेहात्क्वाथश्चतुर्गुणः॥
क्काथ्याच्चतुर्गुणं68 वारि क्वाथः काथ्यसमो मतः॥२५२॥

** काथ्याच्चतुर्गुणमिति**। चतुर्गुणं तु द्विगुणं बोद्धव्यम्। यदुक्तम्—चतुर्गुणं त्वष्टगुणं द्रवद्वैगुण्यतो भवेदिति वचनात्तत्रान्तरेप्यष्टगुणमेव तोयम्।

यदुक्तम्—

“क्वाथ्यादष्टगुणं तोयं क्वाथः स्याज्जलपादिकः।
क्वाथाच्च पादिकः स्नेहः कल्कश्च स्नेहपादिकः”इति॥

क्वाथः क्वाथ्यसमो मत इति मानेऽनियतोऽतस्तावत्सर्वत्र घृतस्य प्रस्थः पक्तव्यः। प्रस्थे च षोडशपलरूपे क्वाथः पाकार्थमुत्सर्गसिद्धश्चतुर्गुणः। स च चतुःषष्टिपलरूपः चतुर्गुणश्च क्वाथश्चतुःषष्टिपले क्वाथनीयद्रव्ये चतुर्गुणजलेन द्वात्रिंशच्छरावरूपेण पादशिष्टेन। एवं क्वाथशेषः क्वथनीयद्रव्यसमः स्नेहाच्चतुर्गुणेन भवति। एषा च गणना द्रवद्वैगुण्यमगृहीत्वा ज्ञेया।अतन्यत्राप्युक्तम्—क्वाथ्याच्चतुर्गुणं वारि पादस्थं स्याच्चतुर्गुणम् स्नेहात्स्नेहसमं क्षीरमित्यादिपरिभाषार्थमृजुं बुद्ध्वा क्षीरयोगे सर्वत्रैवमेव पाकं व्याचष्टे। चक्रस्त्वाह—यत्र क्वाथः क्षीरं चास्ति तत्र क्षीरेणैव सह स्नेहाच्चतुर्गुणं जलं कार्यं येन स्नेहपाके चतुर्गुणमेव द्रवमुत्सर्गसिद्धं स्नेहात्तोयं चतुर्गुणमित्यत्र तोयस्य द्रवोपलक्षणत्वादिनि। तन्मतेन क्वाथोऽत्र त्रिगुणः क्षीरं स्नेहसमम्। एवं सर्वत्रान्यत्रापि ज्ञेयम्। क्षीरं च सर्वत्र गव्यं ग्राह्यं श्रेष्ठगुणत्वात्॥२५२॥

दशमूलीरसैः सर्पिः सक्षारैः पञ्चकोलकैः॥
सक्षीरं हन्ति तत्सिद्धं ज्वरकासाग्निनिमन्दताम्॥
वातपित्तकफव्याधीन्प्लीहानं वाऽपि पाण्डुताम्॥२५३॥

** सक्षारैरिति**। क्षारो यवक्षारः। पञ्चकोलयवक्षाराः प्रत्येकं पालिकाः। भावियोगकल्कमानसाहचर्यात्षट्पर्लत्वान्यथानुपपत्तेश्च। दशमूलषट्पलं घृतम्॥२५३॥

पञ्चकोलैः ससिन्धूत्थैः पलिकैः पयसा समम्॥
सर्पिः प्रस्थं शृतं प्लीहविषमज्वरगुल्मनुत्॥२५४॥

** पयसा सममिति**। अन्ये तुल्यार्थतास्वीकारेण स्नेहसमं क्षीरं त्रिगुणं च जलमशीसिदर्शितपट्पलकसंवादाब्रुवते। तद्यथा—

सक्षारैः पञ्चकोलेस्तु पलिकैस्त्रिगुणोदिके। समक्षीरंघृतप्रस्थमित्यादि।

**“क्षीरदध्यारनालैस्तु पाको यत्रेरितः क्वचित्।
चतुर्गुणं जलं तत्र वीर्याधानार्थमावपेत्”। **

इति परिभाषां तु क्षीरयोगे चतुर्गुणमलदानार्थमुक्तां नाऽऽद्रियन्ते। सममित्यस्य सहार्यतामाश्रित्य चक्रस्त्वाह—

**“यत्र द्रवान्तरानुक्तौ क्षीरमेव चतुगुर्णम्।
द्रवान्तरेण योगे हि क्षीरं स्नेहसमं भवेत्”॥इति। **

एतत्तु न मनोहरम्। यतः सुश्रुतोक्तोदरचिकित्सितषट्पलकेऽस्मिन्घृतप्रस्थं तुल्यक्षीरमिति पठ्यते परं तु तत्र जैज्जटकार्तिकभोजादिभिस्तुल्येनैव पयसा जलं विना पाको दर्शितः। तथा चरके गुल्मेऽस्मिन्घृते घृतप्रस्थं विपाचयेत्क्षीरप्रस्थेनेत्येवं परं पठितम्। प्रचारी तु पाकः प्रायश्चतुर्गुणोदकेन। षट्पलकं घृतम्॥२९४॥

पानीयकल्याणकमाह—

विशाला त्रिफला कौन्ती देवदार्वेलवालुकम्॥२५५॥
स्थिरा नतं हरिद्रे द्वे सारिखे द्वे प्रियङ्गुका॥
नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमकेसरम्॥२५६॥

विडङ्गं पृन्शिपार्णी च कुष्ठचन्दनपद्मकैः।
तालीसपत्रं बृहती मालत्याः कुसुमं नवम्॥२५७॥

अष्टाविंशतिभिः कल्कैरेतैरक्षसमन्वितैः॥
चतुर्गुणं जलं दत्त्वा घृतप्रस्थं विपाचयेत्॥२५८॥

अपस्मारे ज्वरे कासे शोषे मन्देऽनले क्षये॥
वातरक्ते69 प्रतिश्याये तृतीयकचतुर्थके॥२५९॥

छर्द्यर्शोमूलकृच्छ्रे च विसर्पोषद्रवेषु च॥
कण्डूपाण्ड्वामयोन्मादविषमेहगरेषु च॥२६०॥

**भूतो रहतचित्तानां गद्गदानामरेतसाम्॥
शस्तं स्त्रीणां च वन्ध्यानामायुर्वर्णबलप्रदम्॥२६१॥ **

अलक्ष्मीपापरक्षोघ्नं सर्वग्रहनिवारणम्॥
कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च॥२६२॥

विशाला गोरक्षकर्कटी। त्रिफला हरीतक्यामलकविभीतकानि। एषां च प्रत्येकमक्षभागता द्रव्यप्रधानत्वानित्वान्निर्देशस्य। यत्र हि द्रव्यप्रधानो निर्देशस्तत्र प्रत्येकमेव भागपरिग्रहः। यथा—त्रिफला दशमूलानि पालिकानीति। यत्र तु द्रव्यस्य षष्ठ्यन्तनिर्देशान्मानं प्रधानं तत्र समुदितस्य भागः। यथा त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य चेति। अन्ये त्वत्राष्टाविंशतिभिरिति पदस्य तात्पर्येण त्रिफलायाः प्रत्येकं भागमाहुः। त्रिफलाशब्देन यद्यपि द्राक्षाकाश्मर्यपरूपकाण्यचप्युच्यन्ते।

यद्भुक्तम्—

**“पथ्याबिभीतकधात्रीभित्रिफला महती स्मृता।
ह्रस्वा काश्मर्यमृद्वीकपरूपकफलैर्भवेत्”इति। **

तथाऽपि सर्वत्र विशेषानुक्तौ गुणप्राधान्याद्धरीतक्यादय एवं त्रिफलाशब्देन गृह्यन्ते। कौन्ती रेणुकम्। एलवालुकं स्वनामख्यातम्। स्थिरा शालिपर्णी। नतं तगरपादिका। तद्भावे सर्वत्र शीयलीछोडः। हरिद्रे द्वे हरिद्रा दारुहरिद्रा। सारिखे द्वे अनन्तमूला श्यामालता च। दाडिमं दाडिमफलम्। केसरं नागकेसरम्। तालीसपत्रं स्वनामख्यातम्। मालत्याः पुष्पं जातीपुष्पम्। पाठादेवात्र कल्कानामष्टाविंशतित्वे सिद्धेऽष्टाविंशतिभिरित्यम्योपादानं दाडिमस्य केसरं दाडिमकेसर मित्येकद्रव्यसंदेहः स्यात्तथा (स्य) तालीसं च पत्रं चेति तालीसपत्रमिति द्रव्यद्वयशङ्कायाश्च निरासार्थम्। किंत्र—अष्टाविंशत्यौषधस्य सर्पिषः पानमिष्यत इत्यादावष्टाविंशत्यौषधसंज्ञया संव्यवहारार्यमस्याभिधानम्। अष्टाविंशत्येति प्रयोगे प्राप्तेऽष्टाविंशतिभिरिति निर्देशो विंशत्याद्याः सर्देकत्वे स्त्रियां संख्येसंख्ययोरिति वचनस्य प्रायिकत्वपरिकल्पनात्। तेन पञ्चाशद्भिरथातैरित प्रयोगोऽपि साधुः। कल्कैरक्षसमैरेतैर्विशत्याऽष्टाभिरेव चेति चरके बहुपुस्तकेषु पाठो निर्दोषः। चतुर्गुणं जलमित्येतत्परिभाषासिद्धमपि तदर्थदार्ढ्यार्थमुक्तम्॥॥ २५५॥ २५६॥ २५७॥ २५८॥ २५९॥ २६॥ २६१॥ २६२॥

इंदांनीमन्तः परिमार्जनमभिधाय बहिप्यरिमार्जनार्थं पट्कट्वराख्यं तैलमाह—

सुवर्चिकानागरकुष्ठमूर्वालाक्षानिशालोहितयष्टिकाभिः॥
तैलं ज्वरे षड्गुणतक्रसिद्धमभ्यञ्जनाच्छीतविदाहनुत्स्यात्॥२६३॥

सुवर्चिका स्वर्जिकाक्षारः। लोहितयष्टिका मञ्जिष्ठा।

“लाक्षा निशा कुष्ठशुण्ठी मञ्जिष्ठा च सुवर्चिका।
मूर्वाचन्दनसंसिद्धं तैलं तक्रेऽथ षड्गुणे”॥

इति विदेहदर्शनादत्र लोहितं रक्तचन्दनं यष्टिका मञ्जिष्ठेति केचिद्व्याचक्षते।

परं तु —

“स्वर्जिकाविश्वमञ्जिष्ठालाक्षामूर्वानिशामयैः॥
तैलं षड्गुणतक्रेण सिद्धं ज्वरहरं परम्”॥

इत्यत्र तत्रे रक्तचन्दनस्य (स्या) पाठाद्विदेहोक्तं प्रयोगान्तरं कल्पनीयम्। प्रचारोऽपि मञ्जिष्ठयैव। अभ्यञ्जनाच्छीतविदाहनुदिति। प्रभावादभ्यङ्गेन तैलमिदं शीतं दाहं च हन्ति। षट्कट्वरं तैलम्॥२६३॥

दध्नः ससारकस्यात्र तक्रं कट्वरमिष्यते॥

भाष्यान्तरात्— दध्नः ससारकस्यात्र तक्रं कट्टरमिति। अस्नेहं दधि।

अन्ये तु—

“सौवीरासुताद्यत्यम्लं काञ्जिकं कट्वरं विदुः॥
अन्ये तु तदधोभागं तक्रं वाऽत्यम्लतां गतम्॥
सस्नेहं दधिजं तक्रमाहुरन्ये तु कट्वरम्”इति॥

घृततैलगुडादींश्च एकाहान्नैव70 साधयेत्॥
उषितास्तु प्रकुर्वन्ति विशेषेण गुणान्यतः॥२६४॥

सुगमम्॥२६४॥

स्नेहकल्को यदाऽङ्गुल्या वर्तितो वर्तिकद्भवेत्॥
वह्नौ क्षिप्ते च नो शब्दस्तदासिद्धिं71विनिर्दिशेत्॥२६५॥

सुगमम्॥२६५॥

शब्दव्युपरमे प्राप्ते फेनस्योपरमे तथा॥
गन्धवर्णरसादीनां संपत्तौ सिद्धिमादिशेत्॥२६६॥

तथेति। तथा तेन फेनोपरमप्रकारेण गुडगुडाशब्दस्य व्युपरमे सति स्नेहे गुडगुडाशब्दफेनयोरपि द्रवकार्यत्वात्। गन्धवर्णरसादीनां संपत्ताविति। गन्धादीनां स्नेहभेषजागतानां सम्यगुदये। स्नेहपाकस्तु मृदुमध्यखरभावात्रिविधः। एषां विषयोपलक्षणं च दृढबलेनोक्तम्—

“तुल्ये कल्केन निर्यासे भेषजानां मृदुः स्मृतः।
संयावद्रवनिर्यासे मध्यो दर्वी विमुञ्चति॥

शीर्यमाणे तु निर्यासे वर्तमाने खरः स्मृतः॥
मृदुर्नस्ये खरोऽभ्यङ्गे पाने बस्तौ च मध्यमः " इति॥

अत्र तुल्ये कल्केन निर्यास इति प्रथमक्षिप्तकल्कनिमे निर्यासे सति। निर्यासं किट्टम्। संयाव इति। संयावः समघृतगुडः कणिकचूर्णः। मृदुपाके द्रवसद्भावात्किट्टं सर्वथा न पीडनीयम्। मध्ये मनाक्पीडनं द्रवाल्पत्वात्। खरे तु यथेष्टं पीडनीयं द्रवविरहात्। मध्यपाकस्तु श्रेष्ठः।

उक्तं हि —

“सर्वेषामेव पाकानां मध्यः पाकः प्रशस्यते।
वरं पाको मृदुः कार्यः स्नेहस्य न खरो मतः॥

किंचिच्च वीर्यमादत्ते तज्जहाति खरः सदा”इति॥२६६॥

घृतस्यैवं विपक्वस्य जानीयात्कुशलो भिषक्॥

सुगमम्॥

फेनोऽतिमात्रं तैलस्य शेषं घृतवदादिशेत्॥२६७॥

सुगमम्॥२६७॥

मुकुन्द गोविन्द हरे मुरारे वैकुण्ठ शौरे कुरु मेऽनुकम्पाम्॥
लोकत्रयंत्राणविधानदक्ष क्षमस्व दोषं दुहिणाद्य वैद्य॥२६८॥

सुगमम्॥२६८॥

चन्दनाद्यं हितं तैलं शोषाधिकारकीर्तितम्॥
तथा नारायणं तैलं जीर्णज्वरहरं परम्॥२६९॥

सुगमम्॥२६९॥

मूर्वालाक्षाहरिद्रे द्वे मञ्जिष्ठा सेन्द्रवारुणी॥
बृहती सैन्धवं कुष्ठं रास्त्रा मांसी शतावरी॥२७०॥

आरनालाढकेनैवं तैलं प्रस्थं विपाचयेत्॥
तैलमङ्गारकं नाम सर्वज्वरविमोक्षणम्॥२७१॥

मञ्जौ श्रेष्ठे वर्णे तिष्ठतीति नैरुक्तेन विधिना मञ्जिष्ठा व्युत्पाद्यते। अङ्गारकं तैलम्॥२७०॥२७१॥

अब्दादूर्ध्वंघृतं पक्वं हीनवीर्यंच तद्भवेत्॥
तैले विपर्ययं विद्यात्पक्वे चापक्व एव च॥२७२॥

सुगमम्॥२७२॥

निःशेषदोषनिवृत्तिप्रतिपादनाय ज्वरमुक्तिलक्षणमाह—

देहो लघुर्व्यपगतक्लममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम्॥
स्वेदःक्षवःप्रकृतियोगिमनोऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगतज्वरलक्षणानि॥२७३॥

पाको मुखे ज्वरोष्मकोपितात्पित्तात्। यत्तु पूर्वं नाकार्षीन्मुखादन्यत्र वा स प्रभावः। स्वेदः शोषकोष्मव्यपगमात्त्रोतःस्फुटत्वाच्च। अन्नलिप्साऽन्नाकाङ्क्षा। सा च ज्वरप्रभावजाऽरोचकनिर्गमात्। कण्डूश्च शिरसि विरोधिज्वरोष्मापगमात्स्वस्थाने लब्धबलेन
लेष्मणा॥२७३॥

ज्वरमुक्तस्यापि व्यायामादिनिषेधार्थमाह—

व्यायामं च व्यवायं च स्नानं चंक्रमणानि च॥
ज्वरमुक्तो72 न सेवेत यावन्न बलवान्भवेत्॥२७४॥

व्यायामं कृत्वाऽपि व्यवायं चेत्युक्तमात्यन्तिकनिषेधार्थम्। स्नानमूर्जस्करमपि प्रभावाज्ज्वरं प्रत्यानयति॥

** यदुक्तम्** –

“स्नानमाशु ज्वरं कुर्याज्ज्वरमुक्तस्य देहिनः॥
तस्मान्मुक्तज्वरः स्नानं विषवत्परिवर्जयेत्”इति॥२७४॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्री
श्रीकण्ठदत्तकृतायां व्याख्याकुसमावल्याख्यायां प्रथमो

ज्वराधिकारः समाप्तः॥१॥
<MISSING_FIG href=”../../../books_images/U-IMG-1706806578Screenshot2024-02-01222435.png”/>

अथ द्वितीयो ज्वरातिसाराधिकारः।
<MISSING_FIG href=”../../../books_images/U-IMG-1706806606Screenshot2024-01-07185627.png”/>

ज्वरस्योपद्रवत्वेनातिसारस्य संभवाज्ज्वरचिकित्सानन्तरं ज्वरातिसारचिकित्सितप्रणयनम्। ज्वरातिसारमेलकश्च ज्वरातीसाराभ्यामनन्यत्वान्माधवकारेण निदानसंग्रहे पृथङ्न दर्शितः। चिकित्साविशेषं तु वक्तुं वृन्दः पृथगमुं कल्पितवान्—

पृथगुक्तनिदानेन ज्वरातीसारनिर्णयः॥
कर्तव्यो भिषजा चात्र तत्क्रमेण विधिर्यतः॥१॥

** पृथगुक्तनिदानेनेति**। पृथग्दर्शितं यन्निदानं तेन मिलितेन ज्वरातीसारमेलकस्य निर्णयः कार्यः। तत्क्रमेण विधिर्यत इति। तस्मिञ्ज्वरेऽतीसारे च यो दोषस्य पुरीषस्य चाऽऽमपक्वताक्रमस्तेन क्रमेणेहापि विधिर्यस्मात्। विधिराहाराचारादिर्न तु भेषजम्। तस्यानन्तरं निषिद्धत्वात्। अयमर्थः। ज्वरे चातिसारे चाऽऽमपक्वताक्रमेण यदुक्तंमाहारादि तन्मिलितेऽपि क्रियत इति चेत्।अतस्तयोरुक्तनिदानेनैव मिलितेन ज्वसतिसारौ निश्चेतव्यावित्यर्थः॥१॥

ज्वरातिसारयोरुक्तं भेषजं यत्पृथक्पृथक्॥
न तम्मिलितयोः कार्यमन्योन्यं वर्धयेद्यतः॥२॥

** अन्योन्यं वर्धयेदिति।** प्रायेण ज्वरहरमौषधमनुलोमनमतीसारहरं च स्तम्भनमतःपरस्परं विरुद्धत्वान्मिलित्वा भेषजं न कर्तव्यम्॥२ ॥

अतस्तौ प्रतिकुर्वीत विशेषोदितभेषजैः॥

सुगमम्॥

लङघनमुभयोरुक्तं मिलिते कार्ये विशेषतस्तदनु॥
उत्पलषष्ठकसिद्धं लाजामण्डादिकं सकलम्॥३॥

सुगमम्॥३॥

पृश्निपर्णीवलाबिल्वनागरोत्पलधान्यकैः॥
ज्यरातिसारी पेयां वा षिवेत्साम्लां शृतां नरः॥१४॥

पेयां वेति। वाशब्दश्वरके यवाग्वन्तरापेक्षया यूषादावप्युपसंग्रहार्थं साम्लामित्यस्थानन्तरं वा द्रष्टव्यः। तेनानम्लामपीति फलति। अतिसारे हि पुरीषातिस्त्रुतत्वात्प्रायेण वातप्रकोपः। तेन साम्लामित्युक्तम्। साम्लामीषदम्लाम् \। साम्लत्वं च दाडिमरसादिना। एतच्च न प्रचरति। उत्पलपष्ठकम्॥४॥

नागरातिविपामुस्ताभूनिम्वामृतवत्सकैः॥
सर्वज्वरहरः क्वाथः सर्वातीसारनाशनः॥५॥

सुगमम्॥५॥

पाठेन्द्रयवभूनिम्वमुस्तापर्पटकामृताः॥
जयन्त्याममतीसारं ज्वरं च समहौपधाः॥६॥

अयं योगः क्वाथः॥६॥

हीवेरातिविषामुस्ताबिल्वनागरधान्यकम्॥७॥
पिबेत्पिच्छाविबन्धघ्नं शूलदोषामपाचनम्॥

सरक्तं हन्त्यतीसारं सज्वरं वाऽथ विज्वरम्॥८॥

** **वातलेष्मणि योगोऽयमवचारणया क्रियते॥७॥८॥

गुडूच्यतिविपाधान्यशुण्ठीबिल्वाब्दबालकैः॥
पाठाभूनिम्बकुटर्जेश्चन्दनोशीरपद्मकैः॥९॥

कंषायः शीतलः पेयो ज्वरातीसारशान्तये॥
हृल्लासारोचकच्छर्दिः पिपासादाहनाशनः॥१०॥

कुटजेन कुटजफलं ग्राह्यं लघुत्वात्पाचनत्वाच्च। एवमन्यत्राप्यतीसारे। अयं पित्तश्लेष्मणि। बृहद्गुडूच्यादिः॥९॥१०॥

कलिङ्गातिविषाशुण्ठीकिराताम्बुयवासकम्॥
ज्वरातीसारसंतापं नाशयेदविकल्पतः॥११॥

यवासकं दुरालभा। अयं पित्तोत्तरे वक्ष्यमाणयोगद्वयं च॥११॥

वत्सकस्य फलं दारु रोहिणी गजपिप्पली॥
श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका॥१२॥

द्वावप्येतौ सिद्धयोगौ श्लोकार्धेनाभिभाषितौ॥
ज्वरातिसारशमनौ विशेषाद्दाहनाशनौ॥१३॥

रोहिणी कटुका॥१२॥१३॥

पञ्चमूलीबलाविल्बगुडूचीमुस्तनागरैः॥
पाठाभूनिम्बह्रीवेरकुटजत्वक्पलैः शृतम्॥१४॥

हन्ति सर्वानतीसाराञ्ज्वरदोषं वमिं तथा॥
सशूलोपद्रवं श्वासं कासं हन्यात्सुदुस्तरम्॥१५॥

पञ्चमूलीति सामान्यायोज्या पित्ते कनीयसी॥
महती पञ्चमूली तु वातश्लेष्माधिके हिता॥१६॥

सुगमम्। पञ्चमूल्यादिः॥१४॥१५॥१६॥

उत्पलं दाडिमत्वक्व पद्मकेसरमेव च॥
पिबेत्तण्डुलतोयेन ज्वरातीसारनाशनम्॥१७॥

** दाडिमत्वगिति**। दाडिमफलत्वक्। फलं स्याद्दाडिमादीनामिति वचनात्। एवं सर्वत्र। उत्पलादिद्रव्यं कल्कं चूर्णं वा कृत्वा तण्डुलोदकेन पेयम्। तण्डुलोदकविधिश्च—

**“जलमष्टगुणं दत्त्वा पलं कण्डिततण्डुलात्।
भावयित्वा ततो देयं तण्डुलोदककर्मणि” इति। **

योगोऽयं रक्ते पित्ते च्चातिसारे॥१७॥

उशीरं वालकं मुस्तं धान्यकं बिल्वमेव च॥
समङ्गा धातकी रोध्रं विश्वं पाचनदीपनम्॥१८॥

हन्त्यरोचकपिच्छामं विबन्धं सातिवेदनम्॥
सशोणितमतीसारं सज्वरं वाऽथ विज्वरम्॥१९॥

समङ्गा वराहक्रान्ता। उशीरादिः॥१८॥१९॥

दशमूलीकषायेण विश्वमक्षसमं पिबेत्॥
ज्वरे चैवातिसारे च सशोफे ग्रहणीगदे॥२०॥

** दशमूलीकषायेण विश्वमक्षसममिति**। क्वाथोऽत्र दशमूलस्यार्धपलमेव गृहीत्वा कर्तव्यः। न तु चूर्णाच्चतुर्गुणः। विश्वचूर्णापेक्षयाऽतीसारे दशमूलस्य पाचनदीपनत्वेनातियौगिकत्वात्। एवमन्यत्रापि क्वाथेन कल्कस्य चूर्णस्य च पाने। अमुमर्थं वृन्दोऽपिरुचकादिचूर्णे दर्शयिष्यति।

तद्यथा—

**“क्वाथेन चूर्णपानं यत्तत्र क्वाथप्रधानता।
प्रवर्तते न तेनात्र चूर्णापेक्षी चतुर्द्रवः”इति। **

विश्वं शुण्ठी तस्याश्वर्णमत्र प्रक्षेपः। अक्षं विभीतकफलं तत्सममक्षसमं कर्षमानमित्यर्थः। शुण्ठीत्रिचतुरमाषकैस्तु प्रचारः॥२०॥

विडङ्गाऽतिविषा मुस्तं दारु पाठा कलिङ्गकम्॥
मरिचेन समायुक्तं शोफातीसारनाशनम्॥२१॥

सुगमम्॥२१॥

गुडूचीचित्रबिल्वाब्दरक्तचन्दनवालकैः॥
कलिङ्गैकसमायुक्तैर्ज्वरातीसारशोफनुत्॥२२॥

सुगमम्॥२२॥

किराताब्दामृता73निम्बचन्दनोदीच्यवत्सकैः॥
शोषातीसारशमनं74 विशेषाज्ज्वरनाशनम्॥२३॥

सुगमम्॥२३॥

सिताञ्जनकणालाजमधुकं नीलमुत्पलम्॥
पित्तज्वरातिसारघ्नं प्रलीढं मधुना सह॥२४॥

सुगमम्॥२४॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्री श्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां
द्वितीयो ज्वरातिसाराधिकारः समाप्तः॥२॥

<MISSING_FIG href="../../../books_images/U-IMG-1706807400Screenshot2024-02-01222435.png"/>

अथ तृतीयोऽतिसाराधिकारः।
<MISSING_FIG href="../../../books_images/U-IMG-1706807717Screenshot2024-01-23130809.png"/>

ज्वरोपद्रवभूतम्यातीसारस्य चिकित्सां निर्दिश्य वह्न्युपधातजत्वादामपक्वावस्थायोगसाधाम्यीत्मंप्रति स्वतन्त्रस्य तस्य चिकित्सारम्भः। गुदेन द्रवस्यातिसरणमतीसारः।

तदुक्तम्—

“अतिरतिक्रमणेऽधस्त्रात्सरतिर्गतिकर्मणि॥
मलाद्यत्यर्थममनादतीसारः स्मृतो बुधैः”इति॥

लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजं बलिनः॥
समुदीर्णे दोषनिचयं शमयति तत्पाचयत्यपि च॥१॥

लङ्घनं केवलमादौ प्रशस्तमतिशयमुपहतत्वादग्नेरतिसामत्वाच्च दोषाणाम्। समुदीर्णं दोषचयं समन्ताहूनं दोषचयं लङ्घनं पाचयति पाकद्वारेणैव तदुद्गतमुपशमयति॥१॥

लङ्घनं एवं पिपासातिरके दोषपाकार्थं षडङ्गविधिना कृतार्धशृतजलस्य चतुरो घोगानाह—

धान्योदीच्यशृतं तोयं तृष्णादाहातिसारिणे॥
ह्रीवेरशृङ्गचेराभ्यां मुस्तपर्पटकेन वा॥
मुस्तोदीच्यशृतं तोयं देयं75 चातिपिपासवे॥२॥

नोयग्रहणं चात्र शृतोदकत्वमेषां दर्शयति कषायत्वं च निषेधयति। तोयान्येनि चत्वारे तृष्णोपशमनार्थमतीसारिभिः पेयानि न त्वेतानि कषायाणीति। अत्रोव्यते। द्वे द्वे द्रव्ये प्रत्येकं कार्षिके भागे शृतोदकसंस्कारार्थं गृह्येते इति॥ २॥

नागरातिविषामुस्तैः शृतं वा धान्यनागरैः॥
तृष्णाशूलातिसारघ्नं रोचनं दीपनं परम्॥३॥

ननु नागरस्योष्णतीक्ष्णत्वात्तृष्णाग्रहणाभिधानं नोपपन्नम्। उच्यते। मधुरविपाकेत्वान्मधुरम्य च विषाकस्यावश्यं तृष्णाप्रशमने सामर्थ्यमिति॥ ३॥

ह्रीवेरशृङ्गवेराभ्यां मुस्तपर्पटकेन वा॥
आभ्यामेव सपाटाभ्यां सिद्धमाहारमाचरेत्॥४॥

मृगमम्॥ ४॥

शालिपर्ण्यादिकाद्यैस्तु साधितेन ससिन्धुजम्॥
मसूरजेन यूपेण पथ्यं स्याल्लाजसक्तुभिः॥५॥

शालिपर्ण्यादिर्महानल्पो वा। आदिशव्दाद्धान्यपञ्चकादिपरिग्रहः। ससिन्धुजमिति।ससैन्धवं लाजसक्तुजपथ्यं पितश्लेष्मणि युक्तं ज्ञेयम्। अन्यत्रैवंविधे विषय एवास्य विहितत्वात्॥५॥

गुर्वी पिण्डी खराऽत्यर्थंलध्वी सैव विपर्ययात्॥
सक्तुनामाशु जीर्येत मृदुत्वादवलेहिका॥६॥

** गुर्वी पिण्डी खराऽत्यर्थमिति।** अतिकठिना लाजसक्तुपिण्डिका गुर्वी स्यात्। लध्वी सैव विपर्ययादिति। मृद्वी सा लध्वी भवति। अवलेहिकाऽवलेहनयोग्या पिण्डी॥६॥

लाजमण्डकृतैर्योगैस्तैः कृता हस्तमण्डिका॥७॥
वस्रस्रुता यवागूर्वा प्रस्रुतं क्षुद्रभक्तकम्76
सुनिषण्णकवार्ताककञ्चटंहितमुच्यते77॥८॥

** योगैरिति।** धान्यपश्चकादिभिः। यवागूर्वस्त्रास्रुतेति वस्रात्साृतायवागूरपरिस्रुतमण्डा पेयाह स्तपिण्डिका वा। ननु लाजमण्डादिविधानमत्रविरुद्धमतीसारे द्रषान्नस्य निषिद्धत्वात्।

** यदुक्तम्—**

**“वर्नयेद्विदलं शूली कुष्ठी मांसं क्षयी स्त्रियम्।
द्रवमन्नमतीसारी सर्वं च तरुणज्वरी"। **

** भोजे**ऽप्युक्तम्—

**“व्रोणोदरास्थापनपीडितानां प्रमेहिणे छर्द्यतिसारिणं च।
द्रवं न दद्यादथवाऽपि कोष्णं स्वल्पं हितं भेषजसंप्रयुक्तम्” इति। **

मैवम्। अविहितद्रवान्ननिषेधार्थमेतद्वचनं ज्ञेयम्। विहितं तु लाजमण्डादि विधानसामर्थ्यान्न निषिध्यत एव।

अत एवाऽऽह सुश्रुतः—

**“कार्यं चानशनस्यान्ते प्रद्रवं लघुभोजनम्” इति। **

प्रद्रवं प्रकृष्टद्रवं लघु। तच्च विहितलाजमण्डादिकमेवेति। अन्ये तु प्रगतं द्रवं प्रदूषंयथा प्रणायको देशः प्रगतनायक इति कथयन्ति। तन्न। अतीसारे यवाग्वाद्युपदेशात्॥७॥८॥

पेयाद्युपभोगद्रव्याण्याह—

शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका॥
बलाऽश्वदंष्ट्रा बिल्वानि पाठा नागरधान्यकम्॥
एतदाहारसंयोगे हितं सर्वातिसारिणाम्॥९॥

बिल्वानि बिल्वशलाटवः संग्राहित्वात्।

यदुक्तम्—

**“कफानिलहरं तीक्ष्णं स्निग्धं संग्राहि दीपनम्।
कटुतिक्तकषायोष्णं बिल्वमाममुदाहृतम्”इति। **

एवं सर्वत्र स्तम्भनयोगे। छर्द्यां तु बिल्वस्य मूलम्। बिल्वमूलं मरुच्छ्लेष्मच्छर्दिघ्नं न च पित्तकृदेिति गुणपाठात्। पाठानागरधान्यकमिति। नागरस्य ग्राहिवर्गमध्यपाठाद्विपाकमधुरस्यापि सृष्टपुरीषता विचार्यत इति केचित्। विपाकमधुरत्वात्सृष्टपुरीषत्वस्य संग्राहित्ववर्गपाठात्संग्राहित्वस्य च सिद्धिरित्युभयात्मकत्वम्। तत्क्षीरवदित्यन्ये। एष शालिपर्ण्यादिः। आहारसंयोग इति। आहारस्य संयोजने पेयादिसंस्कारं (र इति) यावत्। हितं सर्वातिसारिणामिति। आमपच्यमानपक्वातिसारिणां प्रत्येकं दोषद्वंद्वसंनिपातातिसारिणां चेति। युज्यते तद्वातश्लेष्मणि चरकसंवादात्।

** यथा—**

“वातश्लेष्महरो ह्येष गणो दीपनपाचनः।
ग्राही बल्यो रोचनश्च तस्माच्छस्तोऽतिसारिणाम्" इति।

** वैद्यास्तु** रक्तपित्तरतातिसारेऽप्येतत्प्रयुञ्जत एव। संस्कारश्च शालिपर्ण्यादिद्रव्यपलचतुष्टयं जलांढके साधयित्वाऽर्धशृतेन तेन पेयादि साधनीयम्। वृद्धवैद्यास्तु बहुद्रव्यसाधिताम्बुसंस्कृताहारस्यारुचिकरत्वादाढकेऽम्भासि पलमात्रं द्रव्यं साधयन्ति। भक्तादिसाधने द्रवप्रमाणं तत्रान्तराज्ज्ञेयम्

तथा हि —

“भक्तं पञ्चगुणे तोये यवागूं षड्गुणे पचेत्।
चतुर्दशगुणे पेयां विलेपीं च चतुर्गुणे"॥

एष शालिपर्ण्यादिर्दशाङ्गत्वेन प्रसिद्धः। बृहच्छालिपर्ण्यादिः॥९॥

शाकमांसफलैर्युक्ता विलेप्योऽम्लाश्च दुर्जराः॥१०॥

शाकमांसफलैरिति व्यञ्जनोपलक्षणन्। तथाचोक्तम्— यवागूमुपयुजानो न तु व्यञ्जनमाचरेदिति। अम्ला इति। अम्लपाकाः॥१०॥

शालिपर्णीबलाबिल्वैः पृथक्पर्ण्या च साधिता॥
दाडिमाऽल्मा हिता पेया पित्तश्लेष्मातिसारिणाम्॥११॥

सुगमम्। शालिपर्ण्यादिः॥११॥

धान्यपञ्चकसिद्धो वा धान्यविश्वकृतोऽपि वा॥
आहारो भिषजा योज्यो वातश्लेष्मातिसारिणाम्॥१२॥

सुगमम्॥ १२॥

लघुना पञ्चमूलेन वातपित्ते प्रशस्यते॥

सुगमम्॥

अतीसारचिकित्साया आमपक्वक्रमेण प्रवृत्तेरतीसारस्याऽऽमपक्वलक्षणैरवश्यज्ञेयतामाह—

आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः॥
अतः सर्वेऽतिसारास्तु ज्ञेयाः पक्वामलक्षणैः॥१३॥

सुगमम्॥१३॥

आमाऽऽमान्विता। पक्वा निरामा। द्वयोरप्यामपक्वलक्षमणयोरपवादमाह—

मज्जत्यामा गुरुत्वाद्विट् पक्वा तूत्प्लवते जले॥
विनाऽतिद्रवसंघातशैत्यश्लेष्ममदूषणात्॥१४॥

** विनेत्यादि**। अतिद्रवरूपत्वादत्राऽऽमाऽपि विड्डत्प्लवते। अतिसंहतादतिकाठिन्यात्। तथा शैत्यजात श्लेष्मदूषणात्कफकृद्गौरवेण पक्वाऽपि मज्जति। शैत्यस्थाने श्वैत्यपाठे श्वैत्यं श्वेतवर्णता। अतो द्रवत्वादिकं विना मज्जनोत्प्लवने सामनिरामविलक्षणे ज्ञेये। किंच सर्वाऽपि विट् पक्वाऽनुत्प्लवाऽत इत्याह— विनेति। अतिद्रवा पक्वाऽपि जलेन सहैकतां गतत्वादेव न प्लवते। अतिसंहता पक्वाऽप्यतिसंहतत्वादेव मज्जति। शैत्यजातश्लेष्मजातद्रूपणाच्च पक्वाऽपि श्लेष्मसंबन्धादेव मज्जति॥१४॥

अपरमामपक्वालक्षणम्—

शकृद्दुर्गन्धि साटोपविष्टम्भार्तिप्रसेकिनः॥
विपरितं निरामं तु कफात्पक्वं च मज्जति॥१५॥

** साटोपविष्टम्भार्तीति**। आटोपविष्टम्भावेवार्ती, आटोपविष्टम्भार्ती तत्सहितम्। किंवाऽर्तिः शूलम्। आटोपो रुजापूर्वक उदरक्षोभः। विष्टम्भः सतोदशूलामलाप्रवृत्तिः। ताभ्यां सह वर्तते यत्तत्तथा। प्रसेकिनः कफप्रसेकिनः॥१५॥

आमे संग्रहणनिषेधमाह—

नाऽघमे संग्रहणं दद्यादतीसारे कथंचन॥
अकाले संगृहीतो हि विकारान्कुरुते बहून्॥१६॥

शोथपाण्ड्वामयप्लीहकुष्ठगुल्मोदरज्वरान्॥
दण्डकालसकाध्मानग्रहण्यर्शोगदांस्तथा॥१७॥

संग्रहणं स्तम्भनं न देयं पाचनमेव परं कर्तव्यम्। अन्यस्त्वाह—संग्रहणमेव यत्केवलं कुटजत्वगादि तन्न देयं पाचनं संग्रहणं तु मुस्तोदीच्यादि देयमेवेति। आमे लङ्घनपाचनयोरेवोपदेशेनार्थात्संग्रहणनिषेधे सिद्धे यत्पुनरस्याभिधानं तदामसंग्रहणे दोषोपन्यासार्थम्। अत एवोक्तम्—अकाले संगृहीतो हि विकारान्कुरुते बहूनिति। वक्ष्यमाणरोगान्दण्डकालसकादीन्। दण्डकालसकोऽजीर्णभेदः। अलसकोऽवस्थाविशेषः॥

** ** यदाह काश्यपः—

**“नाधो याति न चाप्यूर्ध्वमाहारो न च पच्यते।
स कोष्ठस्थोऽलसीभूतस्तेन सोऽलसकः स्मृतः। **

यदि वाऽलसके दोषाश्छर्द्यतीसारवर्जिताः।
कारकास्तीव्रशूलादेः स्रोतसः संनिरोधकाः।

तिर्यग्यान्तस्तनुं स्तब्धां दण्डवत्स्तम्भयन्ति चेत्।
स दण्डालसकस्त्याज्यः शीघ्रं देहविधातकृत्”इति॥१६॥१७॥

अवस्थायामामेऽपि संग्रहणमाह—

क्षीणधातुबलार्तस्य बहुदोषोऽतिनिःस्रुतः॥
आमोऽपि स्तम्भनीयः स्यात्पाचनान्मरणं व्रजेत्78॥१८॥

** क्षीणधातुबलार्तस्येति**। पुरीषस्यातिस्रुत्या धातुबलक्षयपीडितस्य बहुदोषो विपुलदोषः। पाचनादिति केवलपाचनात्। पाचनस्तम्भनं तु हितमेव च॥१८॥

आगे दोषे सविबन्धमल्पमल्पं प्रवर्तमाने सम्यक्प्रवर्तनार्थमाह—

स्तोकं स्तोकं विबद्धं वा सशूलं योऽतिसार्यते॥
अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत्॥१९॥

सुखोष्णैरिति किंचिदुष्णैः। किंचिदुष्णताऽभयापिप्पलीकल्कस्य कोण्णजलयोगाज्ज्ञेया। चरकेऽप्युक्तम्—कृच्छ्रं वा वहतां दद्यादभयां संप्रवर्तिनीमिति॥१९॥

आमे पाचनविधिमाह—

हरिद्रार्दि बचादिं वा पिबेदामेषु बुद्धिमान्॥

हरिद्रादिः क्वाथः पैत्तिके। पित्तश्लैष्मिके चातिसारे वातिके वातकफजे वा वचादिः क्वाथः। एतौ च सौश्रुगणौ। आमेषु,आमतिप्तरेषु॥

खडयूषयवागूषु पिप्पल्यादिं च योजयेत्॥२०॥

पिप्पल्यादिश्च वक्ष्यमाणः सौश्रुत एव गणः। खडयूषयवागूष्विति। अत्र खडः कपित्थबिल्वचाङ्गेरीमरिचाजाजिचित्र कैरित्यादिनोक्तः॥२०॥

आमे विलङ्घनं शस्तमादौ पाचनमेव वा। अस्यार्थः। आमातिसारे लङ्घनं कार्यं परं यदि लङ्घनक्षमं शरीरमन्नानभिलाषश्च भवति। अतो विपर्यय आदौ पाचनमिति। तेनाऽऽमे लङ्वनानर्हस्य पाचनं देयम्। अतो धान्यपञ्चकाख्यं पाचनयोगमाह—

धान्यनागरमुस्तं च बालकं बिल्वमेव च॥
आमशूलविबन्धघ्नं पाचनं वह्निदीपनम्॥२१॥

अस्य धान्यपञ्चकत्वेन प्रसिद्धस्य योगस्य चूर्णं धान्याम्लोष्णोदकमद्यानामन्यतमेन पिबेत्। अथवाऽस्य निष्क्वाथं साधुसाधितं पिबेत्। यतः सुश्रुते कलिङ्गेत्यादीञ्श्लोकार्धपठितान्विंशतिं पाचनयोगान्सधान्यपञ्चकानाभिधायोक्तम्—

“प्रयोज्या विंशतिर्योगाः श्लोकार्धविहितास्त्विमे।
धान्याम्लोष्णाम्बुमद्यानां पिबेदन्यतरेण वा॥

**निष्क्वाथान्वा पिबेदेषां सुखोष्णान्साधुसाधितान्।
निखिलेनोपदिष्टोऽयं विधिरामोपशान्तये” इति। **

उपयोगविधिर्दर्शितः॥२१॥

पैत्ते धान्यचतुष्कं तु79शुण्ठीत्यागाद्वदन्ति हि॥२२॥

पित्तसाधर्म्याद्धर्मकस्य रक्त(र्म्याद्रक्त)जेऽपि शुण्ठीत्यागः। ननु शुण्ठीत्यागो न संमतः। अगणत्वेनात्रावापोद्वापयोरनर्हत्वात्। अथ मन्यसे, अस्त्वावापोद्वापसंगतिरत्र धान्यपञ्चकाद्यनन्तरम् —‘तीक्ष्णोष्णं वर्जयेत्तं तु विधिं कुर्याच्च पैत्तिके’ इति सुश्रुतवचनात्। एतदपि न हृदयंगमम्। मधुरपाकित्वेन शुण्ठ्याः पित्ते यौगिकत्वात्। आत एव चरके पित्तरक्तातिसारे नागराद्यं चूर्णं दर्शितं धान्यपञ्चकं च तिस्रः प्रमथ्य विहिता इत्यत्र पैत्तिक एवातिसारे टीकाकारैर्व्याख्यातम्। उच्यते। नात्राऽऽगमानुगमः किंत्वियं वृद्धवैद्ययुक्तिर्वृन्देन निबद्धा। दृश्यते च शुण्ठी कटुकत्वात्पित्तातिसारे भक्ष्यमाणा न तु गुणेत्यदोषः। धान्यपञ्चकम्॥२२॥

निरामातिसारिणामनुबन्धे स्तम्भनमाह—

पक्वोऽसकृदतीसारो ग्रहणीमार्दवाद्यदा॥
प्रवर्तते तदा कार्यः क्षिप्रं सांग्राहिको विधिः॥२३॥

असकृन्निरन्तरम्। ग्रहणीमार्दवादिति। जाठराग्न्यधिष्ठानं ग्रहणी तस्या मृदुत्वात्। मृदुत्वं च तस्याः पाचनविधिनाऽऽमाशये पित्तोद्रेकात्। सांग्राहिको विधिः स्तम्भनो विधिरिति डल्लणःश्रीब्रह्मदेवस्तु व्याख्यानयति—

“संग्राहि स्तम्भनाद्भिन्नं यथा तदभिदघ्महे॥

आग्नेयगुणभूयिष्ठं तोयं संपरिशोषयेत्॥
संगृह्णाति मलं तत्स्यााह्राहि शुण्ठ्यादयो यथा॥

समीरगुणभूयिष्ठं शीतत्वाद्यन्नभस्वतः॥
विधाय वृद्धिं स्तभ्नाति स्तम्भनं तद्यथा वटः”॥२३॥

“संप्रति स्तम्भनयोगानाह—

“सलोध्रधातकी बिल्वं मुस्ताम्रास्थिकलिङ्गकम्॥
पिबेन्माहिषतक्रेण पक्वतीसारनाशनम्”॥१॥

सुगमम्। क्षेपकः “॥१॥

पञ्चमूलीबलाविश्वधान्यकोत्पलबिल्वजाः॥
वातातिसारिणे देयास्तक्रेणान्यतमेन वा॥२४॥

पञ्चमूल्यन्त्र स्वल्पा महती वा। धान्यकोत्पलबिल्वजा इति। बिल्वशलाटुः। किं च बिल्वजा इत्यतः परं कल्पना इति शेषः। तेन पञ्चमूल्यादिबिल्वान्तसर्वद्रव्यजाः कल्पना देया इत्यर्थः। कल्पनाया विशेषानभिधानेऽप्यत्र योग्यतया कल्कश्चूर्णो वा कर्तव्यः। तक्रेणान्यतमेन वेति। अन्यतमेनोष्णाम्बुकाञ्जिकादिना**॥२४॥**

कंचटजम्बूदाडिमशृङ्गाटकपत्रबिल्बहीवेरम्॥
जलधरनागरसहितं गङ्गामपि80 वेगिनीं रुन्ध्यात्॥२५॥

कंचटं कलोकलं च याशाकम् (?) कंचटादीनां चतुर्णां पत्रम्। जलधरं मुस्ता। नागरं शुण्ठी। एतैर्मिलित्वा क्वाथः। कंचटादिः॥२९॥

किराततिक्तकं मुस्तं वत्सकं सारसाञ्जनम्॥
पिबेत्पित्तातिसारघ्नं सक्षौद्रं वदनापहम्॥२६॥

सुगमम्॥२६॥

पलं वत्सकबीजस्य श्रपयित्वा जलं पिबेत्॥
यो रसाशी जयेच्छीघ्रं स पैत्तं जठरामयम्॥२७॥

सुगमम्॥ २७॥

कुटजातिविषामुस्तं हरिद्रापर्णिनीद्वयम्॥
सक्षौद्रशर्करं शस्तं पित्तश्लेष्मातिसारणाम्॥२८॥

अस्य योगस्य क्वाथः। हरिद्रापर्णिनीद्वयम्। हरिद्राद्वयं पर्णिनीद्वयं च। पर्णिनीद्वयं भाषपर्णीपृथक्ययौ॥२८॥

कुटजत्वक्फलं मुस्तं क्वाथायित्वा पिबेज्जलम्॥
अतीसारं जयेदाशु शर्करामधुयोजितम्॥२९॥

सुगमम्॥२९॥

बिल्वचूतास्थिनिर्यूहः पतिः सक्षौद्रशर्करः॥
निहन्याच्छर्यतीसारं वैश्वानर इवाऽऽहुतिम्॥३०॥

सुगमम्॥३०॥

प्रियङ्ग्वञ्जनमुस्ताख्यं पाययेत्तु यथाबलम्॥
तृष्णातीसारच्छर्दिघ्नं सक्षौद्रं तण्डुलाम्बुना॥३१॥

अञ्जनं रसाञ्जनम्॥३१॥

पटोलयवधान्याकक्वाथः पेयः सुशीतलः॥
शर्करामधुसंयुक्तश्छर्द्यतीसारनाशनः॥३२॥

सुगमम्॥३२॥

“पृश्निपर्णीवलाविल्बनागरोत्पलधान्यकैः॥
विडङ्गातिविषामुस्तदारुपाठाकलिङ्गकैः॥
मरिचेन समायुक्तं शोथातीसारनाशनम्॥१॥

“सुगमम्॥ क्षेपकः”॥१॥

कफजातिसारचिकित्सितं ब्रूते—

श्लेष्मातिसारे प्रथमं कार्ये81 लङ्घनपाचनम्॥
योज्यश्चामातिसारघ्नो यथोक्तो दीपनो गणः॥३३॥

** यथोक्तो दीपनो गण इति ।** हरिद्रादिर्वचादिश्च॥३३॥

त्र्यूषणातिविपाहिङ्गुवचासौवर्चलाभयाः॥
पीत्वोष्णेनाम्बुना जह्यादामातीसारमुद्धतम्॥३४॥

सुगमम्॥३४॥

दलोत्थः स्वरसः पीतो विज्जलस्य82 समाक्षिकः॥
जयत्याममतीसारं क्वथो वा कुटजत्वचः॥३५॥

सुगमम्॥३९॥

सामान्ययोगानाह—

कुटजत्वक्वृतः क्वाथो घनीभूतः सुशोभनः॥
लेहितोऽतिविषायुक्तः सर्वातीसारनुद्भवेत्॥३६॥

लेहे यत्रास्ति नो भागो निर्दिष्टो द्रवकल्कयोः॥
प्रायेण पादिकः कल्को द्रवात्कार्यो विजानता॥
इच्छन्त्यत्राष्टमांशेन क्वाथादतिविषारजः॥३७॥

** घनीभूत इति ।** क्वाथ एव पुनः पाकात्तथा घनः कार्यो यथा चूर्णे प्रक्षिप्ते लेहः स्यात् । अत एव सुशोभन इत्युक्तम् । चूर्णप्रक्षेपश्च क्वाथात्पादेनाष्टांशेन वा । प्रचारस्तु पञ्चषट्चूर्णमाषकैः । प्रायेण पादिकः कल्क इति । अत्र कल्क इत्युपलक्षणम् । तेन चूर्णमपि ग्राह्यम् ।

** अथ डल्लणव्याख्या—कुटजत्वगित्यादि**। अत्र कल्पना। बृहत्फलशुक्लकुसुमस्निग्धपत्रस्य पुंनामधेयस्य कुटजस्य कल्ककत्व (वल्कलं गृ)हीत्वा षोडशगुणेऽष्टगुणे चतुर्गुणे वा जले क्वाथायित्वाऽर्घावशिष्टं क्वाथमादाय वस्त्रगालितं कृत्वा पुनस्तावत्पचेत्। यावत्फाणिताकृतिः। ततस्तन्मध्येऽतिविषाचूर्णं चतुर्थांशेन निक्षिप्यावतार्यमिति। अन्ये तु कुटजत्वक्स्वरसं गृहीत्वा तावत्क्लथयेद्यावत्फाणिताकृतिरिति व्याख्यानयन्ति॥ ३६॥॥ ३७॥

तद्वत्कार्षासपर्कट्योः स्वरसः समधुर्मतः॥३८॥

सुगमम्॥३८॥

रक्तजातिसारचिकित्सितमाह—

कषायो मधुना पीतस्त्वचो दाडिमवत्सकात्॥
सद्यो जयेदतीसारं रक्तजं दुर्निवारकम्॥३९॥

सुगमम्॥३९ ॥

गुडेन खादयेद्धिल्वं रक्तातीसारनाशनम्॥
आमशूलविबन्धघ्नं कुक्षिरोगविनाशनम्॥१०॥

** गुडेनेति**। गुडेन समभागेन बिल्वसमेन भक्षयेत्। बिल्वमिति। उत्स्विन्नं पर्युषितं बिल्वशलाटुम्। उत्स्वेदनशेषपानीयेनानुपानमत्र॥४०॥

शल्लकीबदरीजम्बुप्रियालाम्रार्जुनत्वचः॥
पीताः क्षीरेण मध्वाढ्याः पृथक्शोणितवारणाः॥४१॥

** पीताः क्षीरेणेति।** क्षीरमाजं ग्राह्यम्॥४१॥

पीत्वा शतावरीकल्कं पयसा क्षीरभुग्जयेत्॥
रक्तातिसारं पीत्वा वा तया सिद्धं घृतं नरः॥४२॥

वातपित्तोत्तरे ज्ञेयम्। तया सिद्धमिति। शतावर्या कल्करूपया स्वरसरूपया वा साधितम्॥४२॥

पैत्तिक आमातिसारे सिद्धतमं योगमाह—

सवत्सकः सातिविषः सबिल्वः सोदीच्यमुस्तश्च कृतः कषायः ॥
सामे सशूले सहशोणिते च चिरप्रवृत्तेऽपि हितोऽतिसारे॥४३॥

वत्सकः कुटजस्तस्य फलं लघुत्वात्पाचनत्वाच्च। अतीसारे चिरंतनेऽपि सामतायाः स्वल्पायाः प्रायेणानुवृत्तिरस्ति सर्वथा निरामत्वेऽपि दीप्तेऽग्नौ त्वक्। सुश्रुतसंवादात्पुनर्योगेऽस्मिन्कुटजफलमपि ग्राह्यम्।

यदाह सुश्रुतः—

“बिल्वशक्रयवाम्भोदवालकातिविषाकृतः।
कषायो हन्त्यतीसारं सामं पित्तसमुद्भवम्” इति॥

बिल्वं बिल्वफलं कोमलम्। कृतः कषाय इति। कृतग्रहणं शीतकषायादिनिषेधार्थम्। वत्सकादिः॥४३॥

भयशोकसमुद्भुते क्रिया चोभयशर्मदा॥

** क्रिया चोभयशर्मदेति**। हेतुविकारसुखजननी। डल्लणेन सुस्पष्टं कृत्वा व्याख्यातम्उभयशर्मदेति। भयशोकहिता तज्जनितातिसारहिता चेत्यर्थः। एतेन हेतुव्याधिप्रत्यनीका क्रियोक्तेति॥

संप्रति यादृशो फ्लीहसारः पुटपाकेनोपचर्यः। यथा च पुटपाकविधिस्तमाह—

सर्वजे बहुवर्णत्वात्पुटपाकक्रिया मता॥४४॥

सर्वजे पुटपाकक्रिया हिता सर्वजत्वं च कथं ज्ञेयमित्यत उक्तं बहुवर्णत्वादिति॥४४॥

अवेदनं सुसंपक्वं दीप्ताग्नेः सुचिरोत्थितम्॥
नानावर्णमतीसारं पुटपाकैरुपाचरेत्॥४५॥

अवेदनमशूलमल्पशूलं वा। सुसंपकं सर्वथा निरामम्। दीप्ताग्नेरनतिमन्दाग्नेः। अग्निमान्द्ये सत्यतीसारस्योत्पत्तेः। यदुक्तम्— संशम्यापां धातुरग्निं प्रवृद्ध इत्यादि। नानावर्णमित्यनेन सांनिषातिकमतीसारं (पुटपाकैरुपाचरेदिति83) दर्शयति। पुटपाकैरिति। पुटेनपाको येषु योगेषु तैः॥४५॥

स्निग्धं घनं कुटजवल्कमजन्तुजग्धमादाय तत्क्षणमतीव च पोथयित्वा॥
जम्बूपलाशपुटतण्डुलतोयसिक्तं बद्धं कुशेन च बहिर्घनपङ्कलितम्॥४६॥

सुस्विन्नमेतदवपीड्य रसं गृहीत्वा क्षौद्रेण युक्तमतिसारवते प्रदद्यात्॥
कृष्णात्रिपुत्रमतपूजित एष योगः सर्वातिसारहरणेष्वयमेव राजा ॥४७॥

भेषजत्वात्पलं पेयं पुटपाकरसस्य च॥४८

पोथयित्वा छेदयित्वा। जम्बूपत्ररचितपुटे तण्डुलतोयसिक्तं जम्बूपलाशपुटतण्डुलतोयसिक्तम्। योगोऽयं रक्तपित्तोत्तरे। कुटजपुटपाकः॥४६॥४७॥४८॥

पुटपाकविधिमाह—

त्वक्पिण्डं दीर्घवृन्तस्य काश्मरीपर्णवेष्टितम्॥
मृदाऽवलिप्तं सुकृतमङ्गारेष्ववकूलयेत्॥४९॥

स्विन्नमुद्धृत्य निष्पीड्य रसमादाय यत्नतः॥
शीतीकृतं मधुयुतं पाययेदुदरामये॥५०॥

पुटपाकस्य पाकोऽयं बहिरारक्तवर्णता॥
भेषजत्वात्पलं मानं संमतं स्वरसादिवत्॥५१॥

त्वक्पिण्डं त्वचां पिण्डं कल्करूपम्। दीर्घवृन्तस्य श्योनाकस्यारलुकस्येति यावत्। मृदाऽवलिप्तं पङ्कदिग्धम्। सुकृतं कुशवेष्टनेन संस्कृतम्।
तथा च पराशरः—

“परिवेष्टय कुशैर्लिप्त्वा घनपङ्केन तत्पचेत्॥
अङ्गारेषु न यावत्स्याद्वहिरारक्तवर्णता” इति॥

अवकूलयेद्दहेत्। उदरामयेऽतिसारे प्रकरणात्। अयं योगो वातकफोत्तरे।

सुश्रुते पुटपाकस्य विशेषपाठो दृश्यते—

“त्वक्पिण्डं दीर्घवृन्तस्य पद्मकेसरसंयुतम्॥
काश्मरीपद्मपत्रैश्च वेष्ट्य सूत्रेण संदृढम्॥

मृदाऽवलिप्तं सुकृतम्” इत्यादि।

शेषं समम्। तेनायमर्थः। अरलुकस्य त्वचं पद्मकेसरं च समभागं गृहीत्वा संपिष्य तत्पिण्डं काश्मरीपद्मपुटके निक्षिप्य सूत्रेणाऽऽवेष्ट्य मृत्तिकयाऽऽलिप्य निर्धूमखदिराङ्गारेषु तावत्पचेत्। यावद्वाह्ये रक्तवर्णता भवति। ततोऽङ्गारेभ्य आकृष्य तत्पिण्डं निष्पीड्य स्वरप्तं गृहीत्वा शीतं भूतं च कर्षप्रमितमधुसहितमतिसारे क्वाथमात्रया पाययेत्। अनेन विधिना सर्वपुटपाककल्पनेति डल्लणः। (भेषजत्वात्पलं84 पेयमिति) भेषजत्वादिति भेषजेनावरुद्धत्वात्। अयमभिसंधिर्वृन्दस्य। उत्तमस्य पलं मात्रेत्यादिपरिभाषायां स्नेहक्वाथ्यौषधेष्वित्यत्रोपात्तौषधपदेनावरुद्धत्वात्स्वरसस्योत्तमबलानले पुरुषे पलं पेयमिति वृन्दाभिप्रायः। चक्रेण तूक्तम् स्व—रसस्य गुरुत्वेन पुटपाके पलं पिबेदिति॥४९॥५०॥५१॥

कुटजलेहमाह—

शतं कुटजमूलस्य क्षुण्णं तोयार्मणे पचेत्॥
क्वाथे पादावशेषेऽस्मिल्ँलेहे85 पूते पुनः पचेत्॥

सौवर्चलयवक्षारविडसैन्धवपिप्पलीः॥५२॥

धातकीन्द्रयवाजाजीचूर्ण दत्त्वा पलद्वयम्॥
लिह्याद्बदरमात्रं तु शीतं क्षौद्रेण संप्लुतम्॥५३॥

पक्वापक्वामतीसारं नानावर्णे सवेदनम्॥
दुर्वारं ग्रहणीरोगं जयेच्चैव प्रवाहिकाम्॥५४॥

तोयार्मण इति तोयद्रोणे। चूर्णे दत्त्वा पलद्वयमिति। पलद्वयं मिलित्वा मानप्रधानत्वान्निर्देशस्य। व्यवहाराञ्चत्यासन्नपाके चूर्णप्रक्षेपः। यवक्षारस्थाने गुडक्षारपाठोन प्रसिद्धः। लिह्याद्बदरमात्रमिति। अष्टमाषकम्। माषकचतुष्टयेन व्यवहारः। क्षौद्रेण संप्लुतमिति। उपयोगकाले क्षौद्रदानम्। कुटजावलेहः॥५२॥५३॥॥५४॥

कुटजाष्टकमाह—

तुलामथाऽऽर्द्रे गिरिमल्लिकायाः संक्षुद्य पक्त्वा रसमाददीत॥
तस्मिन्सुपूते पलसंमितानि श्लक्ष्णानि पिष्ट्वा सह शाल्मलेन॥५५॥

पाठासमङ्गातिविषाः समुस्ता बिल्वं च पुष्पाणि च धातकीनाम्॥
प्रक्षिप्य भूयो विपचेच्च तावद्दर्वीप्रलेपः स्वरसस्तु यावत्॥५६॥

पीतस्त्वसौ कालविदा जलेन मण्डेन वाऽजापयसाऽथवाऽपि॥
निहन्ति सर्वे त्वतिसारमुग्रं कृष्णं सितं लोहितपीतकं वा॥५७॥

दोषं ग्रहण्या विविधं च रक्तं86 पित्तं तथाऽर्शासि स शोणितानि॥
असृग्दरं चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाष्टकोऽयम्॥५८॥

तुलाद्रव्ये जलद्रोणो द्रोणे87 द्रव्यतुला मता॥५९॥

** आर्द्रामिति।**

**“वासाकुटजकूष्माण्डशतमूलीसहाचराः।
नित्यमार्द्राः प्रयोक्तव्या मानतो द्विगुणा न ते”॥ **

इतिपरिभाषाव्यापारात्। पलसंमितानि प्रत्येकं द्रव्यप्रधानत्वान्निर्देशस्य। प्रचारोऽपीत्थमेव। शाल्मलेन शाल्मलीवेष्टकेन। चूर्णं दत्त्वैव पाकः प्रक्षिप्य भूयो विपचेदिति वचनात्प्रचाराच्च। जलेनेति तप्तशीतेन। मण्डेन पेयामण्डेनान्नमण्डेन वा। कुटजाष्टकः॥५५॥५६॥५७॥५८॥५९॥

कुटजस्य पलं ग्राह्यमष्टभागे जले शृतम्॥
तथैव विपचेद्भयो दाडिमोदकसंयुतम्॥

यावच्च लसिकाभासं शृतं तमुपकल्पयेत्॥६०॥
तस्यार्धकर्षं तक्रेण पिवेद्रक्तातिसारवान्॥

अवश्यमरणीयोऽपि न मृत्योर्याति गोचरम्॥
कुटजक्वथतुल्योऽत्र दाडिमस्य रसो मतः॥६१॥

** दाडिमोदकसंयुतमिति**। दाडिमफलमौत्तरापथिकमिति केचिदाहुः। वैद्यास्तु, एतद्देशीयमेव दाडिमफलं ग्राहयन्ति। दाडिमोदकं दाडिमफलत्वक्क्वाथः। अस्य च कुटजक्वायतुल्यत्वं वृन्देनैव व्याकर्तव्यम्। चक्रेणाप्युक्तम्—

क्वाथतुल्यं दाडिमाम्बु भागानुक्तो समं यत इति॥६०॥६१॥

षडङ्गवृतमाह—

वत्सकस्य च बीजानि द्रार्व्याश्च त्वच उत्तमाः॥
पिप्पलीशृङ्गवेरं च लाक्षा कटुकरोहिणी॥६२॥

षड्भिरेतैर्घृतं सिद्धं पेयामण्डावचारितम्॥
अतीसारं जयेच्छीघ्रं त्रिदोषमपि दारुणम्॥६३॥

** द्रार्व्याश्च त्वच उत्तमा इति**। सर्वत्र दार्व्याश्च त्वच एव ग्राह्याः। उत्तमगुणत्वात्। तस्या दुर्लभत्वादत्र काष्ठमेव गृह्यते। षड्भरेतैरितिपदं यथालाभग्रहणनिषेधार्थम्। एषां षण्णां कल्कः। जलं चतुर्गुणम्। षडङ्गघृतम्॥६२॥६३॥

अथ चिरजे रक्तपित्तोत्तरेऽतीसारे क्षीरविधिः—

यथाऽमृतं तथा क्षीरमतीसारेषु पूजितम्॥
चिरोत्थितेषु तत्पेयमपां भागैस्त्रिभिः शृतम्॥६४॥

अमृतसमत्वं क्षीरस्य जीवनहेतुत्वात्। चिरोत्थितेष्वित्यनेन निरामावस्थायां क्षीरदानं दर्शयति। अपां भागैस्रिभिश्चतुर्भिर्वा। अपां भागैरित्युपादानात्केवलं जलेन क्षीरसाधनमत्रोक्तम्॥६४॥

प्रवाहिकायाश्चिकित्सां विवक्षुस्तस्या लक्षणमेव तावदाह—

स्रुते रक्ते पुरीषे च वायुना विड्विवर्जितम्॥
प्रवाहिकेति तत्ख्यातं यत्फेनाभं प्रवर्तते॥६५॥

सुगमम्॥६५॥

बालविल्वं गुडं तैलं पिप्पली विश्वभेषजम्॥
लिह्याद्वाते प्रतिहते सशूले सप्रवाहिके88॥६६॥

पयसा पिप्पलीकल्कः पीतो वा मरिचोद्भवः89
त्र्यहान्निर्वाहिकां हन्याच्चिरकालसमुत्थिताम्90॥६७॥

अयं विधिर्विवन्धे। निर्वाहिकां प्रवाहिकाम्॥६६॥६७॥

बिल्वपेशीं गुडं रोध्रं तैलं मरिचयोजितम्॥
लीढ्वा प्रवाहिकां हन्ति क्षिप्रं सुखमवाप्नुयात्॥६८॥

बिल्वपेशी बिल्वशलाटुमध्यम्॥६८॥

बिल्वपश्यादिकं लीढ्वा भोजनमित्याह—

दघ्ना ससारेण समाक्षिकेण भुञ्जीत निश्चारकपीडितस्तु॥
सुतप्तकुप्यक्वथितेन वाऽपि क्षीरेण शीतेन मधुप्लुतेन॥६९॥

दध्ना ससारेणोपरितनस्निग्धभागसाराख्यसहितेन। समाक्षिकेण मधुसहितेन। एवंविधने दध्ना सह भोजनं कुर्वीतेत्यर्थः। निश्चारकपीडित इति। निश्चारकः प्रवाहिका।

यदाह पराशरः—

“निर्वाहयेत्सफेनं च निष्पुरीषं मुहुर्मुहुः॥
प्रवाहिकेति सा ख्याता कैश्चिन्निश्चरकस्तु सः” इति॥

निश्चारकः प्रवाहिकाभेदः पुरीषक्षयापरपर्यायस्तेन पीडित इति डल्लणःअन्ये तु निश्चारकाभिधानेनातिसारा (रः) प्रवाहिका चोच्यत इति मन्यन्ते। अत्रोक्तयागानामुभयहितत्वापादनार्थं सुतप्तकुप्यक्वथितेनेति। अत्यन्ततप्तसुवर्णरजतेतरलोहप्रक्षेपेण क्वथितेन।अन्ये त्वघटितं रूप्यादि कुप्यं ब्रुवते। केचित्कुप्यस्थाने कुप्यां पठन्ति व्याचक्षते च। कुप्या पाषणभेदो दक्षिणापथे ख्यातः शङ्खमुण्डाकृती रसरसायनवादे प्रयुज्यत इति। एतदप्रसिद्धम्। एवंविधेन क्षीरेण वा भुञ्जीतेति संबध्यते। मधुप्लुतेनेति। उपरिदत्तमधुना मधुप्लुतं प्लवनयोग्यं यत्र तत्तथेति व्याख्यानात्॥६९॥

गुददाहे प्रपाके वा पटोलमधुकाम्बुना॥
सेकादिकं प्रशंसन्ति च्छागेन पयसाऽथवा॥७०॥

** पटोलमधुकाम्बुनेति**। अर्धशृतेन। सेकादिकमित्यत्राऽऽदिशब्दात्प्रलेपादिपरिग्रहः॥७०॥

स्वेदो वा मूषिकामांसैर्गोवसाम्रक्षणं तथा॥७१॥

** स्वेदो वा मूषिकामांसैरिति।** काञ्जिकेन मूषिकामांसमुत्स्वेद्यैरण्डादिपत्रे बद्ध्वा स्वेदः॥७१॥

गुदनिःसरणे शस्तं चाङ्गेरीघृतमुत्तमम्॥

चाङ्गेरीघृतं क्षुद्ररोगोक्तम्॥

शोथादीनविरोधाच्च साधयेत्स्वैश्चिकित्सितैः॥७२॥

सुगमम्॥७२॥

शोथं शूलं ज्वरं तृष्णां श्वासं कासमरोचकम्॥
छर्दि मूर्छा च हिक्कां च दृष्ट्वाऽतीसारिणं त्यजेत्॥७३॥

सुगमम्॥७३॥

स्रानाभ्यङ्गावगाहं च गुरुस्रिग्धादिभोजनम्॥
व्यायाममग्निसंतापमतीसारी विवर्जयेत्॥७४॥

सुगमम्॥ ७४॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्री श्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां
तृतीयोऽतिसाराधिकारः समाप्तः॥३॥

अथ चतुर्थो ग्रहण्यधिकारः।
<MISSING_FIG href="../../../books_images/U-IMG-1706846630Screenshot2024-01-07185627.png"/>

परम्परानुबन्धित्वाद्गुदेन द्रवसरणसाधर्म्याच्चातीसारानन्तरं ग्रहणीरोगचिकित्सारम्भः—

ग्रहणीमाश्रितं दोषमजीर्णवदुपाचरेत॥
अतीसारोक्तविधिना तस्याऽऽमं च विपाचयेत्॥१॥

ग्रहणी जाठरवद्विस्थानं तदाश्रयो रोगो ग्रहणीरोगः।

स च–

**“सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति।
पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्रवम्॥
ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः"। **

इत्यनेन परिभाषितो ज्ञेयः। तेन नाग्निमान्द्यादेर्ग्रहणीरोगत्वम्। यत्पुनरस्य चरकेण ग्रहणीरोगत्वमुक्तम्—

‘यश्चाग्निः पूर्वमुद्दिष्टो रोगानीके चतुर्विधः।
तं चापि ग्रहणीरोगं समवर्जं प्रचक्ष्महे"॥

इत्यनेन तहहणीगदमात्रे च ज्ञेयम्। दोषमिति। ग्रहणीरोगारम्भकं वातादिकम्। अजीर्णवदुपाचरेदिति। आमाद्यजीर्णेषु यथा वमनाद्यपचारस्तथेत्यर्थः। अतीसारोक्तविधिनेति। लङ्घनलध्वन्नपाचनादिना विधानेन॥१॥

कपित्यबिल्वचाङ्गेरीतक्रदाडिमसाधिता॥
यवागूः पाचयत्यामं शकृत्संवर्तयत्यपि॥२॥

कपित्थादीनां मिलित्वा पलं कल्कः। कपित्थबिल्वयोः फलम्। तक्रं द्रवत्वकार्यार्थम्। तच्च तावद्देयं यावता यवागूः सिध्यति। अन्ये पुनरत्यम्लगुरुत्वभयात्तक्रजलाभ्यां पाकमाहुः। एषा यवागूर्वातश्लेष्मणि। संवर्तयति कठिनयति॥२॥

लघुना पञ्चमूलेन पञ्चकोलेन पाठया॥
अन्नानि कल्पयेद्विद्वान्बिल्ववृक्षाम्लदाडिमैः॥३॥

लघुना पञ्चमूलेन वातपित्ते। पञ्चकोलेन वातकफे। पाठया केवलया॥३॥

तक्रस्य ग्रहणीरोगसात्म्यतां दोषत्रयहितत्वं च प्राह—

ग्रहणीदोषिणां तक्रं दीपनं ग्राहि लाघवात्॥
पथ्यं मधुरपाकित्वान्न च पित्तप्रकोपणम्॥४॥

कषायोष्णविकाषित्वाद्रूक्षत्वाच्च कफे हितम्॥
वाते स्वाद्वम्लसान्द्रत्वात्सद्यस्कमविदाहि तत्॥५॥

पथ्यत्वं तक्रस्य ग्राहित्वादग्निस्थानस्थितस्य पित्तस्य प्रवृत्तिविघातेन। पथ्यं मधुरपाकित्वान्न च पित्तप्रकोपणमिति। सर्वमेवान्नं प्रायो ह्यस्य विदह्यत इत्यभिधानेनविदाहजनकं यदस्ति पित्तं तदम्लत्वादुचितप्रकोपमपि न प्रकोपयति नापि शमयतीत्याहुः। विकाषित्वादिति। विकाषी विकषन्संधिबन्धविमोक्षकारिगुणः। यदुकम्—विकाषी विकषन्नेव संधिबन्धान्विमोक्षयेदिति। तस्य भावो विकाषित्वं तस्माद्दोषावृतस्रोतःशोधकत्वादित्यर्थः। अत एव शोषिणां बलवतां तक्रदानम्।वैशद्यादिति91। तत्पैच्छिल्यविपरीताद्गुणात्। सद्यस्कमविदाहि तदिति। सद्योमथितं तक्रं पच्यमानावस्थायामपि भूरिविदाहकरं न भवति किंचित्कालस्थितं तु विदाहकरमेव॥४॥॥५॥

शुठीं समुस्तां सविषां गुदूर्ची पिबेज्जलेन क्वथितां समांशाम्॥
मन्दानलत्वे सततामतायामामेऽनुबन्धे ग्रहणीगदे च॥६॥

शुषति शुष्यति वा शुण्ठी। सततामतायामिति। सर्वदाऽऽमकोष्ठतायाम्। आमेऽनुबन्धे प्रवर्तमान इत्याहुः। ग्रहणीगद विशेषणतयाऽऽमानुबन्ध इति क्वचित्पाठो हृश्यते॥६॥

धान्यकातिविषोदीच्ययवानीमुस्तनागरम्॥
बलाद्विपर्णीबिल्वं च दद्याद्दीपनपाचनम्92॥७॥

अस्य योगस्य क्वाथः॥७॥

चित्रकगुटिकामाह—

चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च॥
व्योषं हिग्वजमोदां च चव्यं चैकत्र चूर्णयेत्॥८॥

गुटिका मातुलुङ्गस्य दाडिमस्य रसेन वा॥
कृता विपाचयत्यामं दीपयत्याशु चानलम्॥९॥

द्वौ क्षारौ यवक्षारस्वर्जिकाक्षारौ। एवं सर्वत्र।लवणानि पञ्च।

तानि यथा—

**“सौवर्चलं सैन्धवं च बिडमौद्भिदमेव च
सामुद्रेण सहैतानि पञ्च स्युर्लवणानि च। **

**[सामुद्रेण93समं पञ्च लवणान्यत्र योजयेत्।] **

** इत्यनेन वृन्द** एव व्याकरोति। अत्रौद्भिदं साम्भरिलवणं नुत्कारिलवणं वा।सामुद्रं कटकचकम्। एवं सर्वत्र।केचित्कपिञ्जलाधिकरणन्यायाल्लवणत्रयमाहुः। प्रचारस्तु लवणपश्चकेनैव। अजमोदां यवानिकाम्। एवमन्तः परिमार्जने सर्वत्र।गुटिकेयं वाते। चित्रगुटिका॥८॥९॥

श्रीफलशलाटुकल्को नागरचूर्णेन मिश्रितः सगुडः॥
ग्रहणीगदमत्युग्रं तक्रभुजा शीलितो जयति॥१०॥

नागरचूर्णेन मिश्रित इति। नागरचूर्ण कटुतामात्रकारकं देयम्। सगुडः समगुडः। अयमपि योगो वाते॥१०॥

जम्बूदाडिमशृङ्गाटपाठाकंचटपल्लवैः।
पक्वं पर्युषितं बालबिल्वं सगुडनागरम्॥
हन्ति सर्वानतीसरान्ग्रहणीमतिदुस्तराम्94॥११॥

जम्ब्वादीनां पञ्चानां पद्धवास्तरणे पाकार्थमनुरूपं जलं दत्त्वा पुठे बालबिल्वफलत्स्वेद्य निशापर्युषितं कार्यम्। सगुडनागरमिति।समो गुडः।नागरचूर्ण कटुतामात्रकारकम्।रक्ते तु नागरं न देयम्।उत्स्वेदनशेषपानीयमत्रानुषानम्॥११॥

नागरातिविषामुस्ताक्वाथः स्यादामपाचनः॥

सुगमम्॥

चूर्ण हिङ्ग्वष्टकं वाऽपि वातिकेऽष्टपलं घृतम्॥१२॥

सुगमम्॥१२॥

सागरादि चूर्णमाह—

नागरातिविषामुस्तं धातकी सरसाञ्जनम्॥
वत्सकत्ववफलं बिल्वं पाठां कटुकरोहिणीम्॥१३॥

पिबेत्समांशं तच्चूर्णे सक्षौद्रं तण्डुलाम्बुना॥
पैत्तिके ग्रहणीदोषे रक्तं यच्चोपवेश्यते॥१४॥

अर्शोस्यथ गुदे शूलं जयेच्चैव प्रवाहिकाम्॥
नागराद्यमिदं चूर्णे कृष्णात्रेयेण पूजितम्॥१५॥

सागराख्ये देशे भवं नागरन्। कृष्णात्रेयेण पूजितमित्यस्याभिधानं सिद्धयोगफलत्वोपदर्शनार्थम्।कृष्णात्रेयः पुनर्वसुः॥१३॥१४॥१९॥

जलमष्टगुणं दत्त्वा पलं कण्डिततण्डुलात्॥
भावयित्वा ततो देयं तण्डुलोदककर्मणि॥१६॥

जलमष्टगुणं दत्त्वा पलं कण्डिततण्डुलात्। भावयित्वा ततो देयं तण्डुलोदककर्मणीति टिप्पणी वृन्दस्य।

** चक्र**स्त्वाह—शीतकषायमानेन तण्डुलोदककल्पनेति। शीतं कषायमानं च च्छर्द्यधिकार एव दर्शयिष्यामः।नागराद्यं चूर्णम्॥१६॥

मूनिम्बाद्यं चूर्णमाह—

भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान्समान्॥
द्वौ चित्रकाद्वत्सकत्वग्भागान्षोडश चूर्णयेत्॥१७॥

गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत्॥
कामलाज्वरपाण्डुत्वमेद्दारुच्यतिसारजित्95॥१८॥

द्वौ चित्रकाद्वत्सकत्वग्भागान्षोडशेति। प्रथमभागापेक्षया विभागषोडशभागपरिग्रहः। गुडशीताम्बुनेति। गुडयुतं शीताम्बु तेन। गुडयोगाडाम्बु स्याद्गुडवर्णरसान्वितमिति चक्रःविदेहेऽप्युक्तम् —चूर्णितान्प्रपिबेच्छीतैर्द्वारिभिर्गुडमिश्रितैरिति। वैद्यप्रसारकेऽपि सर्वसमो गुडो व्याख्यातः। भूनिम्बाद्यं चूर्णम्॥१७॥१८॥

ग्रहण्यां श्लेष्मदुष्टायां वमितस्य यथाविधि।
कट्वम्ललवणक्षारैस्तिक्तैश्चाग्निं विवर्धयेत्॥१९॥

** सुगमम्॥१९॥**

सर्वजायां ग्रहण्यां तु सामान्यो विधिरिष्यते॥२०॥

प्रत्येकदोषोक्तचिकित्सामेलकेन त्रिदोषग्रहण्यां चिकित्सा कार्येत्यर्थः॥२०॥

निरामेऽतिदुर्बलाग्नौ ग्रहणीरोगे घृतानि हितानि।

यदुक्तं चरके —

‘स्नेहमेव परं विद्याद्दुर्बलानलदीपनम्।
नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि”॥

ततः संप्रति घृतानि दर्शयति—

मसूरस्य कषायेण बिल्वगर्भे पचेद्धृतम्॥
हन्ति कुक्ष्यामयान्सर्वान्ग्रहपाण्डुकामलाः॥
व्रीहिप्राण्यङ्गयोः क्वाथ व्युषितं दोषलं विदुः॥२१॥

सुगमम्। मसूरघृतम्॥२१॥

मसूरस्य तुलाक्वाथे बिल्वगर्भे पचेद्घृतम्॥
भिन्नविट्के प्रशंसन्ति मसूरघृतमुत्तमम्॥२२॥

** मसूरस्य तुलाक्वाथ इति।** मसूरस्य तुलया कृतक्वाथे। तुला पलशतम्। मसूरश्च कर्पटे पोटलकं बद्ध्वा क्वाथ्यः। एवं माषकुलत्थादिक्वाथेऽपि। घृतमत्र प्रस्थमानम्। मसूरिकाघृतम्॥२२॥

अष्टपलघृतमाह—

त्र्यूषणत्रिफलाकल्के बिल्वमात्रे गुडात्पले॥
सर्पिरष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत्॥२३॥

बिल्वमात्र इति मिलित्वा पलमाने न प्रत्येकं कल्काञ्चचतुर्गुणः स्नेह इत्यादिपरिभाषया जलेन पाकः। अष्टपलमानस्यैवात्र घृतस्य पाकः। इत्थमेव फलदानक्षमत्वमस्य भवतीति महर्षिवचनादुन्नीयते। मात्राया अनलापेक्षया परिमाणम्॥अष्टपलकं घृतम्॥२३॥

बिल्याग्निचव्यार्द्रकशृङ्गवरेक्वाथेन कल्केन च सिद्धमाज्यम्॥
सच्छागदुग्धं ग्रहणीगुदोत्थे शोथाग्निसादारुचिरिष्ठम्॥२४॥

आर्द्रकशृङ्गवेरमार्द्रकमेव।बिल्वादीनां क्वाथः कल्कश्च। क्वाथोऽत्र त्रिगुणः कार्यः। छागीक्षीरं स्नेहसमम्।बिल्वाद्यं घृतम्॥२४॥

बालचाङ्गेरीघृतमाह—

मोचसिन्धूत्पलव्योषलज्जाबिल्वाम्बुधातकि॥२५॥
सिद्धमाज्यमजाक्षीरे चाङ्गेरीरसवच्छिशोः॥
हन्याद्गहण्यतीसारौ पथ्यापथ्याशिनो द्रुतम्॥२६॥

मोचः शाल्मलीवेष्टकम्। सिन्धुः सैन्धवम्।उत्पलमुत्पलकोंटिका। लज्जा वराहक्रान्ता। अम्बु वालकम्। चाङ्गेरी, अम्लपत्रिका। अजाक्षीरचाङ्गेरीरसौ प्रत्येकं घृताद्दिगुणौ। यतश्चाङ्गेरीरसवदिति निर्देशः। स चानाक्षीर इत्यस्य विशेषणम्। तेन चाङ्गेरीरससमेऽजाक्षीर इत्यर्थः। चतुर्गुणं च द्रवस्नेहपाकविधाम्बूत्सर्गसिद्धम्। प्रचरत्ययं पक्षः। अन्यस्त्वाह—क्षीरं स्नेहसमं रसस्त्रिगुण इति। **जैज्जटमते—**क्षीरं स्नेहसमं रसश्चतुर्गुणः।रसवदिति घृतविशेषणतया योजयित्वा घृतसमो रस इत्याह कश्चित्। शिशोरिति निर्देशो विशेषार्थः। तेन चान्यस्यापि हितमेतद्धृतम्॥२९॥२६॥

पाठान्तरे कपित्थोऽपि विशत्यत्र घृते पुनः96

कपित्थोऽपि विशत्यत्र घृतपाठान्तरे पुनरिति। पाठान्तरायोगे97। चाङ्गेरीस्वरसे सर्पिश्छागीक्षीरसमे पचेत्। कपित्थव्योषसिन्धूत्थसमङ्गोत्पलवालकैः। सबिल्वधातकीमोचैः सिद्धं सर्वातिसारनुत्।बालचाङ्गेरीघृतम्॥

चाङ्गेरीघृतमाह—

नागरं पिप्पलीमूलं चित्रको हस्तिपिप्पली॥२७॥
श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका॥
चाङ्गेरीस्वरसे सर्पिः कल्कैरेभिर्विपाचितम्॥२८॥

चतुर्गुणेन दध्ना च तद्घृतं कफवातनुत्॥
अर्शांसि ग्रहणीदोषं मूत्रकृच्छ्रं प्रवाहिकाम्॥
गुदभ्रंशार्तिमानाहंघृतमेतद्व्यपोहति॥२९॥

हस्तिपिप्पली चवी जातूकर्णे संभवात्।

तद्यथा—

“दधिधान्यबिल्वपाठायवानिकापञ्चकोलगोक्षुरकैः।
चाङ्गेरीस्वरसे गुदनिःसृतिमूत्रकृच्छ्रार्तिनुद्ग्राहीति।

द्रव्यावल्यां च चवीफलस्य हस्तिपिप्पलीपर्यायो दृश्यते। बिल्वस्थाने विषापाठः। विषाऽतिविषा। पाठः पुनरयं जातकर्णसंवादाभावादसंगतः। चाङ्गेरीस्वरसोऽप्यत्र चतुर्गुणः। चतुर्गुणेन दध्ना चेत्यत्र चकारस्य समुच्चयार्थत्वात्। स्वरसे क्षीरवद्विधिरिति वचनात्स्वरसः स्नेहसम इति केचित्। इदं तु वचनं नाऽऽद्रियन्ते भिषजः। चाङ्गेरीघृतम्।

सुनिषण्णचाङ्गेरीघृतं क्वचित्पठ्यते।

तदाह—

“अवाक्पुष्पीबला दार्वीपृश्निपर्णी त्रिकण्टकः॥
न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः॥१॥

कषाय एष पेष्यास्तु जीवन्ती कटुरोहिणी॥
पिप्पली पिप्पलीमूलं मरिचं देवदारु च॥२॥

कलिङ्गाःशाल्मलीपुष्पं वीरा चन्दनमञ्जनम्॥
कट्फलं चित्रको मुस्तं प्रियङ्ग्वतिविषा स्थिरा॥३॥

पद्मोत्पलानां किञ्चल्कंसमङ्गा च निदिग्धिका।
बिल्वं मोचरसः पाठा भागाः कर्षसमाः पृथक्॥४॥

चतुष्प्रस्थगृतं प्रस्थं कषायमवतारयेत्॥
एतदर्शःस्वतीसारे रक्तस्रावे त्रिदोषजे॥५॥

प्रवाहणे गुदभ्रंशे पिच्छासु विविधासु च॥
उत्थाने चातिबहुशः शोफशूले गुदाश्रये॥६॥

मूत्रग्रहे मूढवाते मन्दाग्नावरुचावपि॥
प्रयोज्यं विधिवत्सर्पिर्बलवर्णाग्निवर्धनम्॥७॥

विविधेष्वन्नपानेषु केवलं वा निरत्ययम्॥

अवाक्पुष्पी हेठाहुली।शुङ्गा, अविकसितं पत्रमुकुलम्। द्विपलोन्मिताः प्रत्येकं तेन क्वाथ्यं द्रव्यं षोडशपलमानं भवति। नन्वत्र ‘क्वाथ्याच्चतुर्गुणं वारि’ इत्यादिपरिभाषयैव चतुष्प्रस्थमानं जलमुत्सर्गसिद्धं पाकार्थं प्राप्यते तदा शेषश्च पादस्थः स पुनः प्रस्थ एव। तत्किमर्थमुच्यते— चतुष्प्रस्थगृतं प्रस्थं कषायमुपकल्पयेदिति। उच्यते।तदुत्सर्गविधौ चतुर्गुणजलदानपादशेषकषायविसूचनार्थम्। एतदेव चरकवचः परिभाषास्थानीयं ज्ञेयं चरकेऽस्याः परिभाषाया अभावात्। पिप्पली पिप्पलीमूलामित्यस्य स्थाने क्वचिदवाक्पुष्पीभवं मूलमतिपठ्यते। वीरा क्षीरकाकोली पृश्निपर्णी वा। अञ्जनं रसाञ्जनम्।

अत्र—

“शुष्कद्रव्येष्विदं मानमेवमादि प्रकीर्तितम्।
द्विगुणं तद्द्रवेष्विष्टं सद्य एवोद्धृतेषु च "

इति परिभाषयैव द्रवद्वैगुण्ये सिद्धे यत्त्रिंशत्पलानि तु प्रस्थो विज्ञेयो द्विपलाधिक इत्यस्याभिधानं तत्कुडवादारभ्य द्रवार्द्रद्वैगुण्यसूचनार्थम्। तेन कुडवपूर्वे माने द्रवार्द्रयोर्द्वैपुण्यं न भवति। तथाच तत्रान्तरम्

“रक्तिकादिषु मानेषु यावन्न कुडवो भवेत्।
शुष्के द्रवार्द्रयोश्चैव तुल्यमानं प्रकीर्तितम्” इति।

अर्शःस्वतीसारे वा यो रक्तस्त्रावस्त्रिदोषजस्तत्रैतद्धृतं प्रयोज्यं नान्यत्र त्रिदोषजरक्तस्रावे। तस्यासाध्यत्वम्। परिभाषा हि— यत्त्रिदोषमसाध्यं तदिति। चाङ्गेरीघृतम्॥२७॥२८॥२९॥

मरिचाद्यं घृतमाह—

मरीचं पिप्पलीमूलं नागरं पिप्पली तथा॥३०॥

भल्लातकं यवानी च विडङ्गं हस्तिपिप्पली॥
हिङ्गु सौवर्चलं चैव बिडसैन्धवचव्यकम्॥३१॥

सामुद्रं सयवक्षारं चित्रको वचया सह॥
एतैरर्धपलैर्भागैर्घृतमस्थं विपाचयेत्॥३२॥

दशमूलीरसे सिद्धं पयसा द्विगुणेन च॥
मन्दाग्नीनां घृतं श्रेष्ठं ग्रहणीदोषनाशनम्॥३३॥

विष्टम्भमामदौर्बल्यप्लीहानमपकर्षति॥
कासं श्वासं क्षयं चापि दुर्नाम सभगंदरम्॥३४॥

कफजान्हन्ति रोगांश्च वातजान्कृमिसंभवान्॥
तान्सर्वान्नाशयत्याशु शुष्कं दार्वनलो यथा॥३५॥

पयसा द्विगुणेन चेति। चकाराद्दशमूलीरसोऽपि द्विगुणः।प्रचारोऽपीत्थमेव। दशमूलीरसश्चतुर्गुण इति जैज्जटमतानुयायिनां पन्थाः।मरिचाद्यंघृतम्॥३०॥३१॥३२॥३३॥३४॥३५॥

विश्वौषधस्य गर्भेण दशमूलजले शृतम्॥
घृतं निहन्याच्छ्वयथुं ग्रहणीमामतामयम्॥३६॥

युग्मम्। शुण्ठीघृतम्॥३६॥

घृतं नागरकल्केन सिद्धं वातानुलोमनम्॥
ग्रहणीपाण्डुरोगघ्नं प्लीहकासज्वरापहम्॥३७॥

घृतस्य प्रस्थं द्रवद्रव्यत्वाद्द्वात्रिंशत्पलानि। करकस्य चत्वारि पलानि। अन्ये पुनः कल्कमानमष्टपलमाहुरिति डल्लणः। शुण्ठीघृतम्॥३७॥

कल्याणगुडमाह—

प्रस्थत्रयेणाऽऽमलकीरसस्य शुद्धस्य दत्त्वाऽर्धतुलांगुडस्य॥
चूर्णीकृतैर्ग्रन्थिकजीरचव्यव्योषेभकृष्णाहपुषाजमोदैः॥३८॥

विडङ्गसिन्धुत्रिफलायवानीपाठाग्निधान्यैश्चपलप्र98माणैः॥
दत्त्वात्रिवृच्चूर्णपलानि चाष्टावष्टौ च तैलस्य पचेद्यथावत्॥३९॥

तं भक्षयेदक्षफलप्रमाणं यथेष्टचेष्टं त्रिसुगन्धियुक्तम्॥
अनेन सर्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोफाः॥४०॥

शाम्यन्ति चायं चिरमन्तरग्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः॥
स्त्रीणां च बन्ध्यामयमाशु99 हन्यात्कल्याणको नाम गुडः प्रसिद्धः100॥४१॥

तैले त्रिवृन्मनाभृष्ट्वा त्रिसुगन्धि पलं पलम्॥
सिद्धे निधेयमत्रैव गुडे कल्याणपूर्वके101॥४२

ग्रन्थिकं पिप्पलीमूलम्।व्योषं त्रिकटु।इमकृष्णा गजपिप्पली। हपुषा स्वनामख्याता।सिन्धु सैन्धवम्। अग्निश्चित्रकः। पलप्रमाणैरिति प्रत्येकम्। डल्लणः पलप्रमाणैरिति पाठं नेच्छति। समानतन्त्रविरोधात्। तस्मात्पिचुप्रामाणैरिति पाठमिच्छति। तत्रान्तरे कार्षिकत्वेन चूर्णानामुक्तेः। त्रिवृच्चूर्णपलाष्टकं तैलपलाष्टके पचेत्। यथावन्मृदुमध्यक्रूरकोष्ठानुरूपं खरमध्यमृदुपाकेनेत्यर्थः। अक्षफलप्रमाणं कर्षः। चतुष्पञ्चमाषकैस्तु प्रचारः।त्रिसुगन्धियुक्तमिति।त्रिसुगन्धि त्वगेलापत्रकम्। तत्प्रमाणं यावता गन्धस्यौत्कट्यं स्यात्। पिचुप्रमाणैर्वा त्रिसुगन्धिभिर्युक्तमित्येके। त्रिवृच्चूर्णं तैले मानाग्भर्जनीयम्।भर्जनेन च तस्य मन्दवीर्यत्वादतिविरेचकत्वं न भवति।त्रिवृच्चूर्णसहित एव तैले गुडमामलकीरसगालितं102 प्रदाय पाकः। सिद्धे च लेहे ग्रन्थिकादिचूर्णप्रक्षेप इति प्रचारः।त्रिसुगधि पलं पलमिति वृन्दटिप्पणीं निर्युक्तिकां मत्वा चक्रेणोकम्—

“तैले मनाग्भर्जयन्ति त्रिवृतां च चिकित्सकाः।
अत्रोक्तमानसाधर्म्यात्त्रिसुगन्धि पलं पृथक्” इति॥

अयमिति कल्याणकः। पुंस्त्वस्य शुक्रस्य। अत्रापि हतस्येति संबध्यते।कल्याणक इति कल्यकरणादिति डल्लणः।कल्यं नैरुज्यमणतीति कल्याणकः। कल्याणगुडः॥३८॥३९॥४०॥४१॥४२॥

लिङ्गैरसाध्यो ग्रहणीविकारो यैस्तैरतीसारगदो न सिध्येत्॥
वृद्धस्य नूनं ग्रहणीविकारो हत्वा तनुं नो न निवर्तते च॥४३॥

अस्यार्थः। यैर्लिङ्गैरतीसारगदो न सिध्यति तैर्ग्रहणीविकारोऽध्यसाध्यः। असाध्यातिसारलिङ्गानि च शोफं शूलं ज्वरं तृष्णामित्यादिनोक्तानि। हत्वा तनुं नो न निवर्तत इति। नो न निवर्तते निवर्तत एव। द्वौ निषेधौ प्रकृतमर्थं गमयत इति वचनात्॥४३॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां चतुर्थो
ग्रहणीरोगचिकित्साधिकारः समाप्तः॥४॥
<MISSING_FIG href=”../../../books_images/U-IMG-17061918871..b.jpg"/>

अथ पञ्चमोऽर्शोधिकारः।
_________

अथातीसारग्रहण्यर्शसांपरस्परानुबन्धित्वादतीसारग्रहण्यनन्तरमर्श उच्यते। अरिवच्छृणातीत्यर्शः।पृषोदरादित्वाद्रूपसिद्धिः। अर्शसि वह्निरक्षाभिधानावसरेऽतीसारग्रहणीरोगयोरपि विशेषादन्निरक्षामाह—

त्रयो विकाराः प्रायेण ये परस्परहेतवः॥
अर्शंसि चातिसारश्चग्रहणीदोष एव च॥१॥

तेषामग्निबले हीने वृद्धिर्वृद्धे परिक्षयः॥
अग्रिमूलं बलं पुंसां बलमूलं हि जीवितम्॥
तस्मादग्निं सदा रक्षेदेषु त्रिषु विशेषतः॥२॥

परस्परहेतुत्वमर्शः सूत्पन्नेष्वतीसारग्रहणीरोगयोरुत्पत्तिः। तदुत्पत्त्याऽथवाऽनन्तरमर्श उत्पादः।एषां त्रयाणामप्यग्निबले होने वृद्धिराधिक्यम्। वृद्धेऽग्नौ परिक्षयोह्रासः। एषु त्रिषु विशेषत इति। अनेनान्यस्मिन्नपि रोगे रक्षणीयोऽग्निरिति दर्शयति॥१॥२॥

दुर्नाम्नां साधनोपायश्चतुर्धा परिकीर्तितः॥
भेषजक्षारशस्त्राग्निसाध्यत्वादाद्य उच्यते॥३॥

आद्य उच्यत इति। भेषजोपायः कथ्यत इत्यर्थः। विस्तरेण वक्ष्यमाणां चिकित्सां सारोद्धारेण ब्रूते॥३॥

यद्वायोरानुलोम्याय यदग्निबलवृद्धये॥
अन्नपानौषधं सर्वं तत्सेव्यं नित्यमर्शसः॥४॥

अन्नपानौषधमिति। अन्नपानं रसप्रधानम्। औषधं वीर्यप्रधानं मुख्यम्॥४॥

वातातिसारवद्भिन्नवर्चांस्यार्शांस्युपाचरेत्॥५॥

सुगमम् ॥ ५ ॥

उदावर्तविधानेन गाढविट्कानि चासकृत्॥

सुगमम्॥

प्रवृत्तबहुलास्राणि पित्तशोणितनाशनैः॥६॥

सुगमम् ॥ ६ ॥

विड्विबन्धे हितं तक्रं यवानीविडसंयुतम्॥
न विरोहन्ति गुदजाः पुनस्तक्रसमाहताः॥७॥

सुगमम्॥७॥

स्रोतःसु तक्रशुद्धेषु रसः सम्यगुपैति यः॥
तेन पुष्टिर्बलंवर्णः प्रहर्षश्चोपजायते॥
वातश्लेष्मविकाराणां शतं च विनिवर्तते॥८॥

वातश्लेष्मविकाराणां शतमिति। अशीतिर्वातजा रोगाः। विंशतिः श्लैष्मिकाः। एवं मिलित्वा शतम्॥८॥

सगुडां पिप्पलीयुक्तामभयां घृतभर्जिताम्॥
त्रिवृद्दन्तीयुतां वाऽपि भक्षयेदानुलोमिकाम्॥९॥

घृतभृष्टहरीतकीं पिप्पलीमिश्रितां गुडेन संयोज्य॥९॥

तिलारुष्करसंयोगं भक्षयेदग्निवर्धनम्॥
कुष्ठरोगहरं श्रेष्ठमर्शसां नाशनं परम्॥१०॥

सुगमम्॥१०॥

तिला भल्लातकं पथ्या गुडश्चेतिसमांशकम्॥
दुर्नामश्वासकासघ्नं प्लीहपाण्डुज्वरापहम्॥११॥

सुगमम्। चतुःसमः॥११॥

मृल्लिप्तंसौरणं कन्दं पक्त्वाऽग्नौपुटपाकवत्॥
अद्यात्सतैललवणं दुर्नामविनिवृत्तये॥१२॥

सौरणं कन्दमिति। वन्यसूरणमूलं तदभावे ग्राम्यसूरणमूलम्। एवं सर्वत्रार्शसि॥१२॥

असितानां तिलानां प्राक् प्रकुञ्चं शीतवार्यनु॥
खादतोऽर्शांसिशाम्यन्ति द्विजदार्ढ्याङ्गपुष्टिदम्॥१३॥

असितानां तिलानामिति।मध्येऽपि कृष्णवर्णानां तिलानामिति। प्रकुञ्चः पलम्। शीतवार्यन्विति। शीतवार्यनुपानम्॥१३॥

स्विन्नं वार्ताकफलं घोषायाः क्षारजेन सलिलेन॥
तद्धृतभृष्टं युक्तं गुडेन वा तृप्तितो योऽत्ति॥१४॥

पिबति च तक्रं नूनं तस्याऽऽश्वेवातिवृद्धगुदजानि॥
यान्ति विनाशं पुंसः सहजान्यपि सप्तरात्रेण॥१५॥

वार्ताकफलं घोषक्षारतोयेनोत्स्विन्नं घृततलितमनुरूपेण गुडेन संयुक्तं भक्ष्यं प्रचारात्॥१४॥१५॥

पित्तश्लेष्मप्रशमनी कच्छूकण्डूरुजापहा॥
गुदजान्नाशयत्याशु योजिता सगुडाऽभया॥१६॥

गुदजानित्यत्र मांसाङ्कुरानिति शेषः। तेन पुंलिङ्गता संगता॥१६॥

चित्रकं हपुषा हिङ्गु दद्याद्वा तक्रसंयुतम्॥१७॥

सुगमम्॥१७॥

पञ्चकोलकयुक्तं वा तक्रमस्मै प्रदापयेत्॥

सुगमम्॥

त्वचं चित्रकमूलस्य पिष्ट्वाकुम्भं मलेपयेत्॥
तक्रं वा दधि वा तत्र जातमर्शोहरं पिबेत्॥१८॥

त्वचं चित्रकमूलस्येति। प्रत्यहोपयोगे कर्षमानी (नां) चित्रकमूलत्वचं पिष्ट्वाकुम्भगर्भलेपनम्। लेपनं च तिलोत्सेधमानं दिशन्ति॥१८॥

दन्त्यरिष्टमाह—

त्रिफलादशमूलाग्निनिकुम्भानां पलं पलम्॥१९॥

वारि द्रोणे शृतं पादशेषे गुडतुलायुतः॥
आज्यभाण्डस्थितो मासं दन्त्यरिष्टो निषेवितः॥२०॥

गुदजकम्युदावर्तग्रहणीपाण्डुरोगहा॥
अरिष्टादेस्तु संधानं धातकीलिप्तभाजने॥२१॥

स्थितो मासमिति। चरके मासार्धमिति तु पठितम्। अरिष्टादेस्तु संधानं धातकी लिप्तभाजन इति वृन्दः। पात्रेऽरिष्टादिसंधानं धातकीलोध्रलेपित इति तु चक्रदत्तः। आदिशब्दाच्छुक्तादिग्रहः। दन्त्यरिष्टः॥१९॥२०॥२१॥

अभयारिष्टमाह—

हरीतकीनां प्रस्थार्धंप्रस्थमामलकस्य च॥
कपित्थानां दशपलं ततोऽर्धेनेन्द्रवारुणी॥२२॥

विडङ्गपिप्पलीलोध्रमरिचं सैलवालुकम्॥
द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत्॥२३॥

द्रोणशेषरसे तस्मिन्पूते शीते प्रदापयेत्॥
गुडस्य द्विशतं तिष्ठेन्मासार्धं घृतभाजने॥२४॥

पक्षादूर्ध्वं भवत्येवं ततो मात्रां यथाबलम्॥
अस्याभ्यासादरिष्टस्य गुदजा यान्ति संक्षयम्॥२५॥

ग्रहणीपाण्डुत्दृद्रोगप्लीहगुल्मोदरापहः॥
अष्टशोफारुचिहरोबलवर्णाग्निवर्धनः॥२६॥

सिद्धोऽयमभयारिष्टः कामलाश्वित्रनाशनः॥
कृमिग्रन्थ्यर्बुदव्यङ्गराजयक्ष्मज्वरापहः॥२७॥

पानपानमरिष्टादेः क्वाथपानसमं जगुः॥
भेषजत्वात्पलं केचित्प्रथमं मन्दलक्षणम्॥२८॥

इन्द्रवारुणी गोरक्षकर्कटी।क्वाथपानसममिति। अधममात्रापरिग्रहेण पलद्वयम्। भेषजत्वात्पलं केचिदिति। भेषजत्वादित्यस्यार्थो भेषजत्वात्पलं पेयमिति तत्रैव व्याख्यातः।अभयारिष्टः॥२२॥२३॥२४॥२५॥२६॥२७॥२८॥

भल्लातकानि त्रिफला दन्ती चित्रकमेव च॥
समभागानि सर्वाणि सैन्धवं द्विगुणं भवेत्॥२९॥

कपालसंधौ तत्पक्वंमृदुना गोमयाग्निना॥
एतत्कल्याणलवणं श्रेष्ठमर्शोविकारिणाम्103॥३०॥

सुगमम्। कल्याणलवणम्॥२९॥३०॥

प्राणदं मोदकमाह—

त्रिपलं शृङ्गेवरस्य चतुर्थं मरिचस्य च॥
पिप्पल्याःकुडवार्धंच चव्यायाः पलमेव च॥३१॥

तालीसपत्रस्य पलं पलार्धं केसरस्य च॥
द्विपले पिप्पलीमूलादर्धकर्षं च पत्रकात्॥३२॥

सूक्ष्मैलाकर्षमेकं तु कर्षंच त्वङ्मृणालयोः॥
गुडात्पलानि त्रिंशच्चचूर्णमेकत्र कारयेत्॥३३॥

अक्षप्रमाणा गुटिकाः प्राणदा इति विश्रुताः॥
पूर्वं भक्ष्यास्तु पश्चाच्च भोजनस्य यथाबलम्॥३४॥

मद्यं मांसरसं यूषंक्षीरं तोयं पिबदनु॥
हन्यादर्शांसि सर्वाणि सहजान्यस्रजानि च॥३५॥

वातपित्तकफोत्थानि संनिपातोद्भवानि च॥
पानात्यये मूत्रकृच्छ्रे वातरोगे गलग्रहे॥३६॥

विषम104ज्वरे च मन्देऽग्नौपाण्डुरोगे तथैव च॥
कृमिहद्रोगिणां चैव गुल्मशूलार्तिनां तथा॥३७॥

श्वासकासपरीतानामेताः स्युरमृतोपमाः॥
शुण्ठ्याःस्थानेऽभया देया विड्ग्रहे पित्तपायुजे॥३८॥

प्राणदोऽयं सितां दत्वाचूर्णमा105नाच्चतुर्गुणाम्॥
अम्लपित्ताग्निमान्द्यादौ प्रयोज्यो गुदजातुरे106॥३९॥

अनुपानं प्रयोक्तव्यं व्याधौ श्लेष्मभवे पलम्॥
पलद्वयं चानिलजे पित्तजे तु107 पलत्रयम्॥४०॥

चतुर्थं मरिचस्येति। पलमेकम्।केसरस्य नागकेसरचूर्णस्य।कर्षं च त्वङ्मृणालयोरिति। त्वग्गुडत्वक्। अत्र मृणालमुशीरम्। अनयोर्मिलित्वा कर्षः। पूर्वं भक्ष्यास्तु पश्चाच्चमद्यादिकं पिबेदिति योज्यम्। मण्डूरादिवत्पूर्वं पश्चाच्चभोजनस्य गुटिका भक्ष्येति न कल्पनीयम्। अर्शसि क्वचिदन्यस्य विधेरदृष्टत्वात्। मद्यं वातकफेऽनुपानं मांसरसो वाते मुद्गयूषः कफे क्षीरं पित्ते वातपित्ते च तोयमुष्णं वातकफे। एवं सर्वत्रानुपाने पाने च बहुद्रवोपादाने व्यवस्था। विड्ग्रहे विड्विबन्धे। पित्तपायुज इति। पित्तजेऽर्शसि। प्राणदोऽयं सितां दत्त्वा चूर्णमानाच्चतुर्गुणामिति पाठः साधुः। चूर्णमानात्समुदितचूर्णमानात्। गुडमानाच्चतुर्गुणामिति पाठं नाऽऽद्रियन्ते प्रभुततरशर्कराप्रसङ्गात्।प्राणदो मोदकः॥३१॥३२॥३३॥३४॥३९॥३६॥३७॥ ३८॥३९॥४०॥

काङ्कायनमोदकमाह—

पथ्यापञ्चपलान्येकमजाज्या मरिचस्य च॥
पिप्पली पिप्पलीमूलं चव्यचित्रकनागराः॥४१॥

पलाभिवृद्धाः क्रमशो यवक्षारपलद्वयम्॥
भल्लातकपलान्यष्टौ कन्दस्तु द्विगुणो मतः॥४२॥

द्विगुणेन गुडेनैषां वटकानक्षसंमितान्॥
कृत्वैकं भक्षयेत्प्रातस्तक्रमम्भोऽनु वा पिबेत्॥४३॥

मन्दाग्निं दीपयत्येष ग्रहणीपाण्डुरोगनुत्॥
काङ्कायनेन शिष्येभ्यः शस्त्रक्षाराग्निभिर्विना॥
भिषग्जितमिदं प्रोक्तं श्रेष्ठमर्शोविकारिणाम्॥४४॥

वातश्लेष्मण्यर्शसिबोद्धव्यम्। मरिचस्येत्यत्रैकमिति संबध्यते। मरिचस्य पलमेकमित्यर्थः। पलाभिवृद्धाः क्रमश इति। यथाक्रमं पलेन पलेन परिवृद्धाः।कन्दस्तु द्विगुण इति षोडशपलः। द्विगुणेन गुडेनेति। समुदायाद्द्विगुणेन। अक्षसंमितान्कर्षमानान्। षडष्टमाषकैः प्रचारः। काङ्कायनमोदकः॥४१॥४२॥४३॥४४॥

लवणोत्तमाद्यं चूर्णमाह—

लवणोत्तमवह्निकलिङ्गयवांश्चिरबिल्वमहापिचुमन्दयुतान्॥
पिब सप्तदिनं मथितालुलितान्यदि मर्दितुमिच्छसि पायुरुहान्॥४५॥

लवणोत्तमं सैन्धवम्।कलिङ्गयव इन्द्रयवः। चिरबिल्वः करञ्जः।तस्य च मूलमत्र।यत्पुनरस्य सुश्रुते फलग्रहणमुक्तं तच्छोधनविषयम्। महापिचुमन्दः पर्वत निम्बः।निम्बसदृशबृहत्पत्रो वृक्षो बकायणीति लोके। ग्रामनिम्ब एव पर्वतभक्त्वेन पर्वतनिम्बउच्यतइत्याहुरन्ये। एतस्य त्वग्ग्राह्या। मथितालुलितान्घोलेनाऽऽलोडितान् लवणोत्तमाद्यं चूर्णम्॥४५॥

समशर्कर चूर्णमाह—

शुण्ठीकणामरिचनागदलत्वगेलं चूर्णीकृतं क्रमविवर्धितमूर्ध्वमन्त्यात्॥
खादेदिदं समसितं गुदजाग्निमान्द्यगुल्मारुचिश्वसनकण्ठहदामयेषु॥४६॥

नागो नागकेसरचूर्णम्। दलं पत्रकम्।ऋमविवर्धितमूर्ध्वमन्त्यादिति। अन्तस्थितद्रव्यादारभ्य तदुपरितनद्रव्यमेकद्वित्रादिभागक्रमेण वर्धयेदित्यर्थः। समसितमिति सर्वचूर्णसमशर्करम्। श्वसनमिति श्वासः। समशर्करचूर्णम्॥४६॥

चतुःसममोदकमाह—

सनागरारुष्करवृद्धदारकं गुडेन यो मोदकमत्युदारकम्॥
अशेषदुर्नामकरोगदारकं करोति वृद्धं सहसैव दारकम्॥४७॥

अरुष्करं भल्लातकम्। अत्र चक्रेण लिखितम्— चूर्णे चूर्णसमो ज्ञेयो मोदके द्विगुणो गुड इति। एतद्वचनमभियुक्तस्य कस्यचित्। मोदके गुडद्वैगुण्यं च केचिन्नाऽऽद्रियन्ते। समेनापि गुडेन किंचिज्जलं दत्त्वाऽग्नौविपक्केन मोदकस्योत्पन्नत्वात्। भिषजांतु द्विगुणेनैव गुडेन सर्वमोदकेषु प्रचारो दृश्यते। अत्र चतुःसम इतिनामश्रुत्या सम एव गुडो युज्यते। चतुःसमो मोदकः॥४७॥

व्योषाग्न्यरुष्करविडङ्गतिलाभयानां
चूर्णं गुडेन सहितं तु सदोपयोज्यम्॥
दुर्नामशोफगरकुष्ठशकृद्विबन्धा-
नग्नेर्जयत्यबलतां कृमिपाण्डुतां च॥४८॥

चूर्णे चूर्णसमो ज्ञेयो मोदके द्विगुणो गुडः॥४९॥

सुगमम्। व्योषाद्यं चूर्णम्॥४८॥४९॥

सूरणपिण्डीमाह—

चूर्णीकृताः षोडश सूरणस्य भागास्ततोऽर्थेन च चित्रकस्य॥
महौषधाद्द्वौ मरिचस्य चैको गुडेन दुर्नामजयाय पिण्डी॥५०॥

अत्र गुडो द्विगुणः। तथा च चक्रः—पिण्ड्यां गुडो मोदकवत्पिण्डत्वात्पक्तिकारक इति। सूरणपिण्डी॥५०॥

मरिचमहौषधचित्रकसूरणभागा यथोत्तरं द्विगुणाः॥
सर्वसमो गुडभागःसेव्योऽयं मोदकः प्रसिद्धफलः॥५१॥

ज्वलनं ज्वलयति जाठरमुन्मूलयति शूलगुल्मगदान्॥
निःशेषयति श्वयथुंश्लीपदमर्शंसि नाशयत्याशु॥५२॥

सुगमम्।स्वल्पसूरणमोदकः॥५१॥१२॥

बृहत्सूरणमोदकमाह—

षोडश सूरणभागा वह्नेरष्टौमहौषधस्यापि॥
अर्धेन भागयुक्तिर्मरिचस्य ततो108ऽपि चार्धेन॥५३॥

त्रिफलाकणासमूलातालीसारुष्करकृमिघ्नानाम्॥
भागा महौषधसमा दहनांशा तालमूली च॥५४॥

भागःसूरणतुल्यो दातव्यो वृद्धदारकस्यापि॥
भृङ्गैले मरिचांशे सर्वाण्येकत्र कारयेच्चूर्णम्॥५५॥

द्विगुणेन गुडेन युतः सेव्योऽयं मोदकः प्रकामधनैः॥
गुरुवृष्यभोज्यरहितेष्विवरेषूपद्रवं कुरुते॥५६॥

भस्मकमनेन जनितं पूर्वमगस्त्यस्य योगराजेन॥
भीमस्य मारुतेरपि महाशनौ येन तो जातौ॥५७॥

अग्निबलमत्र हेतुर्न केवलं सूरणो महावीर्यः॥
प्रभवति शस्त्रक्षाराग्निभिर्विनाऽप्यर्शसामेषः॥५८॥

श्वयथुश्लीपदजिदयं हरति ग्रहणीं कफानिलजाम्॥
नाशयति वलीपलितं मेधां कुरुते वृषत्वं च॥५९॥

हिक्कां श्वास कासं सराजयक्ष्मप्रमेहांश्च॥
प्लीहानं च तथोग्रं हन्त्याशु रसायनं पुंसाम्॥६०॥

त्रिफलाकणासमूलातालीसारुष्करकृमिघ्नानाम्।भागा महौषधसमा इति। त्रिफलादीनां प्रत्येकं महौषधसमा भागा अष्टार्धरूपा भागा इत्यर्थः। त्रिफलाया अपि प्रत्येकं भागः। कणासमूला।पिप्पल्याः फलं मूलं चेत्यर्थः। समूलेत्यत्र ‘स्त्रियाः पुंवद्धाषितपुंस्कादनूङ्’ इत्यादिना पुंवद्भावो नोद्भावनीयः। तस्योत्तरपदे स्त्रीप्रत्यये परतो विधानात्। विशेषणत्वादस्य पूर्वनिपातोऽपि न वक्तव्यः। विवक्षावशादस्यैव विशेष्यत्वात्। भृङ्गैले मरिचांशे प्रत्येकम्।भृङ्गं गुडत्वक्। गुरुवृष्यभोज्यरहितेष्वितरेषूपद्रवं कुरुत इति। इतरेषु प्रकामधनप्रतियोगितया दरिद्वेषु। उपद्रवं च व्यापदम्।बृहत्पूरणमोदकः॥५३॥५४॥५५॥५६॥५७॥५८॥५९॥६०॥

संप्रत्यग्निदीपनवातानुलोमनानि घृतान्याह—

चव्यं त्रिकटुकं पाठां क्षारं कुस्तुम्बुरूणि च॥
यवानी पिप्पलीमूलमुभे च बिडसैन्धवे॥६१॥

चित्रकं चिल्वमभयां पिष्ट्वासर्पिर्विपाचयेत्॥
शकृद्वातानुलोमार्थं जाते दध्निचतुर्गुणे॥६२॥

प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम्॥
गुदवङ्क्षणशूलं च घृतमेतद्व्यपोहति॥६३॥

कुस्तुम्बुरुणीति।कुस्तुम्बुरु धान्याकम्।परिस्रवमिति। गुदपरिस्त्रवम्।चव्याद्यं घृतम्॥६१॥६२॥६३॥

पिप्पल्यादितैलमाह—

पिप्पलीं मधुकं बिल्वं शताह्वांमदनं वचाम्॥
पुष्कराख्यं शठीं कुष्ठं चित्रकं देवदारु च॥६४॥

पिष्ट्वा तैलं विपक्तव्यं द्विगुणक्षीरसंयुतम्॥
अर्शसां मूढवातानां तच्छ्रेष्ठमनुवासनम्॥६५॥

गुदनिःसरणं शूलं मूत्रकृच्छ्रं प्रवाहिकाम्॥
कट्यूरुपृष्ठदौर्बल्यमानाहंवङ्क्षणाश्रयम्॥६६॥

पिच्छास्रावं गुदे शोथं वातवर्चोविनिग्रहम्॥
उत्थानं बहुशो यच्च जयेच्चैवानुवासनात्109॥६७॥

बिल्वं विल्वशलादु।मदनं मदनफलम्। द्विगुणक्षीरसंयुतमिति। द्विगुणेनैव केवलक्षीरेण पाकः। प्रचारोऽपीत्थंभूतः। अन्यस्तु यन्न्यूनं च तदम्भसेति वचनाच्चतुर्गुणद्रवेण च पाकस्योत्सर्गसिद्धत्वाज्जलमपि द्विगुणमाह।वृद्धसुश्रुते तु तैलेऽस्मिंश्चतुर्गुणं तोयं दर्शितम्।

तद्यथा—

“शठीकृष्णापुष्कराह्वमदनामरदारुभिः।
शताह्वाकुष्ठयष्ट्याह्ववचाबिल्वहुताशनैः॥

संपिष्टैर्द्विगुणं क्षीरं तैलं तोयचतुर्गुणम्।
पक्त्वा बस्तौ विधातव्यं मूढवातानुलोमनम्” इत्यादि॥

चतुर्गुणतोयदर्शनात्तत्प्रयोगान्तरमवगन्तव्यम्। आनाहं वङ्क्षणाश्रयमिति। वङ्ङ्क्षणानाहो वङ्क्षणरुद्धवातता।पिप्पल्याद्यं तैलम्॥६४॥६९॥६६॥६७॥

बाहुशालगुडमाह—

त्रिवृत्तेजोवती दन्ती श्वदंष्ट्रा चित्रकः शठी॥
गवाक्षीविश्वमुस्ताह्वविडङ्गानि हरीतकी॥६८॥

पलोन्मितानि चैतानि पलान्यष्टावरुष्करात्॥
षट्पलं वृद्धदारस्य सूरणस्य तु षोडश॥६९॥

जलद्रोणद्वये क्वाथ्यं चतुर्भागावशेषितम्॥
पूतं तु तं रसं भूयः क्वाथ्येभ्यस्त्रिगुणो गुडः॥७०॥

लेहं पचेत्तु तं तावद्यावद्दर्वीप्रलेपनम्॥
अवतार्य ततः पश्चाच्चूर्णानीमानि दापयेत्॥७१॥

त्रिवृत्तेजोवतीकन्दचित्रकान्द्विपलांशिकान्॥
एलात्वङ्मरिचं चापि नागाह्वंचापि षट्पलम्॥७२॥

द्वात्रिंशच्च पलान्येव चूर्णं दत्त्वा निधापयेत्॥
ततो मात्रां प्रयुञ्जीत जीर्णे क्षीररसाशनः॥७३॥

पञ्च गुल्मान्प्रमेहांश्च पाण्डुरोगं हलीमकम्॥
जयेदर्शांसि सर्वाणि तथा सर्वोदराणि च॥७४॥

दीपयेद्ग्रहणीं मन्दां यक्ष्माणं चापि कर्षति॥
पीनसे च प्रतिश्याय आढ्यवाते तथैव च॥७५॥

अयं सर्वगदेष्वेव कल्याणो लेह उत्तमः॥
दुर्नामारिरयं चाऽऽशु दृष्टो वारसहस्रशः॥७६॥

जीवन्त्येनं प्रयुञ्जानाः शतवर्षाण्यनामयाः॥
आयुषो दैर्घ्यजननो वलीपलितनाशनः॥७७॥

रसायनवरचैव मेधाजनन उत्तमः॥
गुडःश्रीबाहुशालोऽयं दुर्नामारिः प्रकीर्तितः॥७८॥

तेजोवती चवी।यत्र पुनश्चवी तेजोवती चास्ति तत्र परं तेजोवती ज्योतिष्मती गृह्यते। यथा गुग्गुलुपञ्चतिक्तके घृते। गवाक्षी गोरक्षकर्कटी तस्या मूलमेव सर्वत्र न तु गवाक्षी श्वेतांपराजिता क्वापि टीकाकारैरव्याख्यातत्वात्। क्वाथ्येभ्यस्त्रिगुणो गुड इति। एकचत्वारिंशत्क्वाथ्यपलेभ्यस्त्रैगुण्येन त्रयोविंशतिपलाधिकं पलशतं गुडस्य भवति। कन्दःसूरणः।एलादिचतुष्टयस्य प्रत्येकं षट्पलत्वम्। गजाह्वं नागकेसरचूर्णम्। अत्रानुपानमनुक्तमपि कोष्णाम्बुना वातकफे पित्तादौ क्षीरादिना ज्ञेयम्। न चात्र मल्लातकप्रवेशात्कोष्णं जलमनर्हमिति शङ्कनीयम्। यतो भल्लातकस्नेहे कोष्णजलस्य निषेधो न भल्लातकयोगमात्रे।

यथाचोक्तम्—

“कोष्णोदकानुपानं तु स्नेहानामथ शस्यते॥
ऋते भल्लातकस्नेहात्तत्र तोयं सुशीतलम्" इति।

बाहुशालो गुडः॥६८॥६९॥७०॥७१॥७२॥७३॥७४॥७५॥७६॥७७॥७८॥

गुडपाकलक्षणमाह—

तोयपूर्णे यदा पात्रे क्षिप्तो न प्लवते गुडः॥
क्षिप्तस्तु निश्चलस्तिष्ठेत्पतितस्तु न शीर्यते॥७९॥

यदा दर्वीप्रलेपः स्याद्यदा वा सन्तुली भवेत्॥
एष पाको गुडादीनां सर्वेषां परिकीर्तितः॥८०॥

सुखमर्दःसुखस्पर्शो गन्धवर्णरसान्वितः॥
पीडितो भजते मुद्रां गुडःपाकमुपागतः॥८१॥

तोयपूर्णपात्रोपरि कोमलकदलीदलं दत्त्वा गुडस्य मुद्रापाको निरूपणीयः। सर्वगुडस्यैवायं पाकः॥७९॥८०॥८१॥

भल्लातकगुडमाह—

भल्लातकसहस्रेद्वे जलद्रोणे विपाचयेत्॥
पादशेषे रसे तस्मिन्पचेद्गुडतुलां भिषक्॥८२॥

भल्लातकसहस्रार्धं छित्त्वा तत्रैव दापयेत्॥
सिद्धेऽस्मिंस्त्रिफलाव्योषयवानीमुस्तसैन्धवैः॥८३॥

कर्षोशैश्चूर्णितैर्दद्या110त्त्वगेलापत्रकेसरम्॥
खादेदग्निबलापेक्षी प्रातरुत्थाय मानवः॥८४॥

कुष्ठार्शःकामलामेहग्रहणीगुल्मपाण्डुताः॥
हन्यात्प्लीहोदरं कासं कृमिरोगभगंदरान्॥
भल्लातकगुडो ह्येष श्रेष्ठश्चार्शोविकारिणाम्॥८५॥

भल्लातकसहस्त्रे द्वे इति। भल्लातकगुडकानां सहस्रद्वयम्। एवं सर्वत्र पलादिमानश्रुतिविरहे। यथाऽऽमवातोक्तसैन्धवाद्ये तैले भल्लातकास्थीनि विंशतिरिति। यत्र तु पलादिश्रुतिरस्ति तत्र तथैव व्यवहर्तव्यम्। यथा बाहुशाले पलान्यष्टावरूष्करादिति। एवं हरीतक्यादावपि ज्ञेयम्। त्वगेलापत्रकेसरमिति।त्वगेलादि प्रत्येकं कर्षांशम्। भल्लातकगुडः॥८२॥८३॥८४॥८५॥

गुडभल्लातकं द्वितीयमाह—

दशमूल्यमृता भार्ङ्गीश्वदंष्ट्रा चित्रकं शठी॥८६॥

भल्लातकसहस्रं तु पलांशं क्वाथयेद्बुधः॥
दत्त्वा गुडतुलामेकां लेहीभूतं समुद्धरेत्॥८७॥

माक्षिकं पिप्पलीं तैलमौरुबूकं च दापयेत्॥
कुडवं कुडवं चात्र त्वगेलामरिचं तथा॥८८॥

अर्शः कासमुदावर्तं पाण्डुत्वं शोफमेव च॥
नाशयेद्वह्निसादं च गुडो भल्लातकः स्मृतः॥८९॥

पलांशमिति। दशमूल्यादिभिर्योज्यम्। क्वाथयेदिति। अमृतभल्लातके गुडे गुडतुलापाकार्थंजलद्रोणाभिधानादिहापि जलद्रोणक्वाथः किंवा क्वाथ्यद्रव्येभ्योऽष्टगुणोजल इति। माक्षिकं मधु। पिप्पली चूर्णिता। तैलमौरुबूकमेरण्डजं तैलम्। अत्र च तत्प्रममेवदत्त्वा गुडः पचनीयः। पक्वेतु प्रक्षेपदानं स्यात्। कुडवं चात्र त्वगेलामरिचमिति।त्वगेलादीनां प्रत्येकं कुडवः।कुडवार्धं चेति पाठेऽपि प्रत्येकं कुडवार्धम्। गुडभल्लातकः॥८६॥८७॥८८॥८९॥

भल्लातकलोहमाह—

चित्रकं त्रिफला मुस्तं ग्रन्थिकं चविकाऽमृता॥
हस्तिपिप्पल्यपामार्गदण्डोत्पलकुठेरकाः॥९०॥

एषां चतुष्पलान्भागाञ्जलद्रोणे विपाचयेत्॥
भल्लातकसहस्रेद्वे छित्त्वा तत्रैव दापयेत्॥९१॥

तेन पादावशेषेण लोहपात्रे पचेद्भिषक्॥
तुलार्धं तीक्ष्णलोहस्य घृतस्य कुडवद्वयम्॥९२॥

त्र्यूषणं त्रिफलां वह्निं सैन्धवं विडमौद्भिदम्॥
सौवर्चलं विडङ्गं च पलिकांश प्रकल्पयेत्॥९३॥

कुडवं वृद्धदारस्य तालमूल्यास्तथैव च॥
सूरणस्य पलान्यष्टौ चूर्णं कृत्वा विनिक्षिपेत्॥९४॥

सिद्धे शीते प्रदातव्यं मधुनः कुडवद्वयम्॥
प्रातर्भोजनकाले वा ततः खादेद्यथाबलम्॥९५॥

अर्शांसि ग्रहणीदोषं पाण्डुरोगमरोचकम्॥
कृमिगुल्माश्मरीमेहाञ्शूलं चाऽऽशु व्यपोहति॥९६॥

करोति शुक्रोपचयंवलीपलितनाशनम्॥
रसायनमिदं श्रेष्ठं सर्वरोगहरं परम्*111॥९७॥

तीक्ष्णलोहस्य तीक्ष्णं112 लोहविशेषः। स च मारितो ग्राह्यः। गुणोत्कर्षाद्वज्रपद्यादि प्रशस्तमत्र। तामलकी तालमूली स्वनामख्याता।भल्लातकलोहः॥९०॥९१॥९२॥९३॥९४॥९५॥९६॥९७॥

संप्रति रक्तार्शसश्चिकित्सामाह—

रक्तार्शसामुपेक्षेत रक्तमादौ स्रवद्भिषक॥
दुष्टास्रेनिगृहीते तु शूलानाहावसृग्गदाः॥९८॥

निगृहीते स्तम्भिते। शूलानाहावत्र रक्तावृतवातजन्यौ। असृग्गदा इति। रक्तप्राया रोगाः। ते च विसर्पादयः॥९८॥

कुटजत्वङ्निर्यूहः सनागरः स्निग्धरक्तसंग्रहणः॥
त्वग्दाडिमस्य तद्वत्सनागरश्चन्दनरसश्च॥९९॥

सुगमम्॥९९॥

चन्दनकिराततिक्तकधन्वयवासाः सनागराः क्वथिताः॥
रक्तार्शसां प्रशमना दार्वीत्वगुशीरनिम्बाश्च॥१००॥

सुगमम्॥१००॥

नवनीततिलाभ्यासार्त्केसरनवनीतशर्कराभ्यासात्॥
दधिसरमथिताभ्यासाद्गुदजाः शाम्यन्ति रक्तवहाः॥१०१॥

दधिसरमथिताभ्यासादिति। दधिसरस्य मथितदधिसरस्य तक्रं तस्य शीलनात्॥१०१॥

समङ्गोत्पलमोचाह्वतिरीटतिलचन्दनैः॥
छागीक्षीरं प्रयोक्तव्यं गुदजे शोणितापहम्॥१०२॥

मोचाह्वं शाल्मलीवेष्टकम्।तिरीटं पट्टिकालोध्रम्। समङ्गादिभिः क्षीरपरिभाषया छागीक्षीरं पक्त्वा पेयम्। समङ्गादीनां कल्को वा छागक्षीरेण समालोड्य पेयः।

चरकेऽप्युक्तम्—

नीलोत्पलं समङ्गांमोचरसं चन्दनं तिलाल्ँलोध्रम्।
पीत्वा छगलीपयसा भोज्यं पयसैव शाल्यन्नम्” इति॥१०२॥

कुटजफलवल्कलकेसरनीलोत्पललोध्रधातकीकल्कैः॥
सिद्धं घृतं विधेयं शूले रक्तार्शसां भिषजा॥१०३॥

सुगमम्।कुटजाद्यंघृतम्॥१०३॥

कुटजलेहमाह—

कुटजत्वक्पलशतं जलद्रोणे विपाचयेत्॥
अष्टभागावशेषं तु कषायमवतारयेत्॥१०४॥

वस्त्रपूतं पुनः क्वाथंपचेल्लेहत्वमागतम्॥
भल्लातकं विडङ्गानि त्रिकटु त्रिफलां तथा॥१०५॥

रसाञ्जनं चित्रकं च कुटजस्य फलानि च॥
वचामतिविषां बिल्वं प्रत्येकं तु पलं पलम्॥१०६॥

त्रिंशत्पलानि113 गुडस्य चूर्णीकृत्य निधापयेत्॥
मधुनः कुडवं दद्याद्धृतस्य कुडवं तथा॥१०७॥

एष लेहस्तु शमयेदर्शोरक्तसमुद्भवम्॥
वातिकं पैत्तिकं चैव श्लैष्मिकं सांनिपातिकम्॥१०८॥

ये च दुर्नामजा रोगास्तान्सर्वान्नाशयत्यपि॥
अम्लपित्तमतीसारं पाण्डुरोगमरोचकम्॥१०९॥

ग्रहणीमार्दवं कार्श्यंश्वयथुं कामलामपि॥
अनुपानं घृतं दद्यान्मधु तक्रं जलं पयः॥
रोगानीकवधार्थाय114 कौटजो लेह उच्यते॥११०॥

गुडस्य त्रिंशत्पलानि। घृतकुडवं च प्रथममेव दत्त्वा लेहः पक्तव्यः। सिद्धे च तस्मिन्भल्लातकादिचूर्णप्रक्षेपः। मधुनः कुडवोऽष्टौ पलानि। एवं घृतकुडवोऽपि। कुटजावलेहः॥१०४॥१०५॥१०६॥१०७॥१०८॥१०९॥११०॥

क्षारमाह—

तोये कालकमुष्ककस्य विपचेद्भस्मादकं षड्गुणे
पात्रे लोहमये दृढे विपुलधीर्दर्व्याशनैर्घट्टयेत्॥
दग्ध्वाऽग्नौबहुशङ्खनाभिशकलान्पूतावशेषे क्षिपे-
द्यद्येरण्डजनालमेषदहति क्षारो वरो वाक्शतात्॥१११॥

कालकमुष्ककः कृष्णपुष्पा घण्टापाटली।सा हि श्रेष्ठगुणा।

तथा च विश्वामित्रः

“श्वेतपुष्पः कृष्णपुष्पो रक्तपुष्पस्तथैव च॥
पीतैरन्यो वरस्तेषु कालमुष्कः प्रकीर्तितः” इति॥

अस्याश्च काष्ठं तिलनालैर्दग्ध्वा भस्म ग्राह्यम्। इत्थमेव क्षारान्तरेषु सुश्रुतेन दर्शितत्वात्। भस्माढकं भस्मनश्चतुःषष्टिपलानि। षड्गुणे षडाढके व्यवहाराद्द्विगुणे।पात्रे लोहमय इति। लोहपात्र एव क्षारपाकः।तत्रैव गुणोत्कर्षोदयात्। तृतीयभागशेषेणाच्छपैच्छिल्यादिलक्षणोदये कल्कमपनीय च्छाणयित्वा क्षाराम्बु ग्राह्यम्। तच्च पुनः शङ्खनाभिचूर्णं दत्त्वा पचेत्। शङ्खचूर्णस्य तुर्येणेत्यादिना वक्ष्यमाणमानानुसारेण दानम्। यद्येरण्डजनालमेषदहति क्षारो वरो वाक्शतादिति। पक्वशीते क्षारो यदि निस्त्वचमेरण्डनालं लेपेन दग्ध्वा वाक्शताच्छिनत्ति तदा श्रेष्ठः। वाक्शताच्छोटिकाशतात्। क्षारः॥१११॥

पानाय भावनायाथ परिस्राव्यं चतुर्गुणम्॥११२॥

पानं तथा भेषजभावनं च यत्तदर्थं चतुर्गुणजले पक्त्वाऽर्धावशिष्टे कल्कमुपसार्य क्षारोदकमेकविंशतिवारान्परिस्रावणीयं न प्रतिसारणीयक्षारवदस्य पुनः पाक इति तात्पर्येतो व्याख्येयम्। गदाधरादिटीकाकारैः सुश्रुते पानीयक्षारविधावेवं व्याख्यातत्वात्।

अत्र विश्वामित्रः

“पानीयभावनायाथ परिस्राव्यं चतुर्गुणम्।
जलेऽर्धमवशिष्टं च क्षाराम्भो ग्राह्यमिष्यते" इति॥

अन्ये तु षड्गुणेनापि तोयेन पाकं विनैव क्षारोदकं स्राव्यं ब्रुवते।

चक्रस्त्वाह—

“पानीयो यस्तु गुल्मादौ तं वारानेकविंशतिम्।
स्रावयेत्षड्गुणेतोये केचिदाहुश्चतुर्गुणे” इति॥

पानीयक्षारपानमात्रा च पलत्रिकर्षार्धपलरूपा क्रमादुत्तममध्यमाधमबलानलानां पुंसां ज्ञेया॥११२॥

द्वैगुण्यं नाऽऽढकेऽप्यत्रभागमात्रोपलक्षणात्॥

द्वैगुण्यं नाऽऽढकेऽप्यत्र भागमात्रोपलक्षणादिति वृन्देन व्यवहारो लिखितः। परमार्थतस्तु क्षारपाकार्थमुपात्ते जले द्वैगुण्यमुचितमेव विशेषाभावात्। आढकेऽप्यत्र न द्वैगुण्यमिति सुश्रुते क्षारपाकाध्याये कैश्चिव्द्याख्यातं तच्च ते हि चक्षुषा न पश्यन्ति मनसाऽपि न पश्यन्तीति वदता टीकाकृता गोमिना दूषितम्॥

अच्छपैच्छिल्यरक्तत्वे क्षाराम्भो ग्राह्यमिष्यते॥११३॥

अच्छपैच्छिल्यादिप्रादुर्भावश्च प्रायेण तृतीयभागशिष्टे जले।

तथा च चक्रः

“प्रायस्त्रिभागशिष्टेऽस्मिन्नच्छपैच्छिल्यरक्तता।
संजायते तदा स्राव्यं क्षाराम्भो ग्राह्यमिष्यते" इति॥११३॥

पानीयःप्रतिसारणीय इति च क्षारो द्विधा
शस्यते तत्राऽऽद्यो गरगुल्मकादिशमने दुर्नामकादौ परः॥

प्रतिसारणीय इति म्रक्षणप्राया (प्रयो)जनकः॥

उक्तशङ्खकचूर्णस्य दाने मानमाह—

तुर्येणाष्टमकेन षोडशभवेनांशेन संव्यूहिमो
मध्यः श्रेष्ठ इति क्रमेण विहितः क्षारोदकाच्छङ्खकः॥११४॥

तुर्येण चतुर्भागेण। संव्यूहिमो मृदुः संव्यूहिमे क्षारोदकाच्चतुर्थांशेन दीयमानः शङ्खको यद्यपीतरापेक्षया प्रभूतस्तथाऽपि मृदुत्वमेव शङ्खापेक्षया क्षारोदकस्यातितीक्ष्णतयाऽभिभूतत्वात्। प्रतिसारणीयपाकलक्षणं चक्रेणोक्तम्— नातिसान्द्रो नातितनुः क्षारपाक उदाहृत इति। पानीयक्षारे च न शङ्खचूर्णयोगः। क्षारः॥११४॥

भावितं रजनीचूर्णैः स्नुहीक्षीरे पुनः पुनः॥
बन्धनात्सुदृढं सूत्रं छिनत्त्यर्शोभगंदरम्॥११५॥

सुगमम्।क्षारसूत्रम्॥११५॥

प्राग्दक्षिणं ततो वामं पृष्ठजं वाऽग्रजं क्रमात्॥
पञ्चतिक्तेन संस्नेह्यदहेत्क्षारेण वह्निना॥
वातजं श्लेष्मजं चार्शःक्षारेणास्रजपित्तजे॥११६॥

क्रमोपदर्शनं मङ्गलप्रयोजनकमस्मद्विशिष्टपुरुषगम्यं वा। एतच्च क्रमकथनं यस्य चतुर्ष्वपि पार्श्वेष्वर्शांसि सन्ति तं प्रति बोद्धव्यम्। यस्य पुनरेकतरपार्श्वेऽर्शस्तस्य तदेव दहनीयम्। एष क्रमः क्षारे क्षारसूत्रेऽग्नौ च ज्ञेयः। अग्रजस्य पुनरण्डकोषसमीपवर्तिनो न दाहः प्रचरति षाण्ढ्यभयात्। पञ्चतिक्तेन संस्नेह्येति।पञ्चतिक्तकघृतेन पानादिना स्नेहयित्वेत्यर्थः। क्षारेण वह्निना च कफजंवातजं च रक्तजं पित्तजं च क्षारेणैव दहेत्। क्षारस्तु सर्वत्रैवोचितः। यदाह सुश्रुतः— क्षारस्तु सर्वत्रैवाप्रतिषिद्धो न त्वग्निरिति। दहेदन्यतरेण वेति। क्षारेण वह्निना च॥११६॥

गोजीशेफालिकापत्रैरर्शःसंलिख्य लेपयेत्॥११७॥

क्षारेण वाक्शतं तिष्ठेद्यन्त्रद्वारं पिधाय च॥
तं चापनीय वीक्षेत पक्वजम्बुफलोपमम्॥११८॥

यदि तत्स्यात्तदा भद्रं नो चेल्लिम्पेत्तथा पुनः॥
तत्तुषाम्बुप्लुतं साज्ययष्टीकल्केन लेपयेत्॥११९॥

गोजी शाखोटकः। यन्त्रद्वारं पिधायेति। गुदस्थितयन्त्रद्वारं कर्पटादिना ढक्कयित्वा। पक्वजम्बूफलोपममिति। कृष्णम्। तत्र सर्वमप्यर्शः क्षारेण सम्यम्दग्धं पक्कजम्बूफलोपममिति सामान्यलक्षणमुक्तम्। तन्त्रान्तरीयास्तु पृथक्पृथग्विशेषणमाहुः—

“अर्शोदग्धं मस्तुनिभं श्यावं कृष्णं ततो भवेत्।
सामान्यलिङ्गं सर्वेषां विशेषं त्वपरं शृणु॥

पक्वजाम्बवकाश्मर्यवर्णदग्धेऽनिलार्शसि।
पित्तजेशृङ्गमायूरकण्ठवर्णं विनिर्दिशेत्॥

बृहतीपुष्पवर्णत्वं सम्यग्दग्धे कफार्शसि” इति।

हीनदग्धं तु लोहितम्। यदाह। वाग्भटः—

“पक्कजम्बसितं शस्तं सम्यग् विपर्यये।
ताम्रता तोदकण्ड्वादौ दुर्गन्धं तु पुनर्दहेत्॥

अतिदग्धे स्रवेद्रक्तं मूर्छादाहज्वरादयः।
गुदे विशेषाद्विमूत्रसंरोधो वाऽतिवर्तनम्” इति॥११७॥११८॥११९॥

न निम्नं तालकर्णाभं115 वह्निदग्धे स्थितास्रकम्116

तालकर्णाभ117मितिपदं तालफलसमवर्णम्। तालवर्णाभमितिपाठेऽप्ययमेवार्थः। स्थितास्रकमितिपाठे स्थितरक्तम्। एतच्चूर्णं यदाऽर्शश्छित्त्वा दह्यते तदा ज्ञेयम्। दाहश्च सिरासंकोचेन रक्तस्तम्भकरः। सम्यग्दग्धलक्षणमिदम्॥

निर्वाप्य मधुसर्पिर्भ्यांवह्निसंजातवेदनम्॥१२०॥

सम्यग्दग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः॥
सामृतैः सर्पिषा युक्तैरालेपं कारयेद्भिषक्॥१२१॥

तुगाक्षीरीप्लक्षचन्दनगैरिकैरिति। तुगाक्षीरी वंशरोचना।तदभावे तालक्षीरी। प्लक्षः पर्कटी तस्याश्च वल्कः।सामृतैरिति। अमृता गुडूची। ननु गुडूच्या उष्णवीर्यत्वाद्दाहनिर्वापकत्वमनुपपन्नम्। अत एव चरके षड्विरेचनशताश्रितीयेऽध्याये दाहप्रशमकदर्शके भट्टारकहरिश्चन्द्रेणाप्युक्तम्— गुडूच्या दाहनिर्वापकत्वं चिन्त्यमस्माद्विशिष्टा मेधाविनो व्याकरिष्यन्तीति। उच्यते—गुडूच्यम्यवहारादुष्णवीर्या स्पर्शात्तु शीतैव। तर्हि शीतस्पर्शे काञ्जिकादौ विद्यमाने गुडूच्येव कुतश्चरकेण पठितेति न वाच्यम्। यतः प्रभावादियमेवान्येषु शीतस्पर्शेषु विशेषेण दाहप्रशमनी। एष एव भट्टारकस्याभिप्रायः। परमाचार्याभिप्रायज्ञानं (ने) चान्यो हेतुर्नास्ति। प्रभावश्च यथाकथंचिदयं हेतुरिति मन्यमाना भट्टारकमेधाविनो व्याकरिष्यन्तीत्युक्तवानिति। चक्रस्तूष्णवीर्याया अपि गुडूच्या आचार्यपाठानुरोधाद्द्रव्यान्तरसंयोगमहिम्ना दाहप्रशमकत्वमिच्छति। (न) खलु टीकाकारहरिश्चन्द्रवचसा महर्षिवचनं बाधामर्हतीति॥१२०॥१२१॥

मुहूर्तमुपवेश्योऽसौ तोयसंपूर्णभाजने॥

तोयसंपूर्णभाजन इति। कोष्णतोयपूर्णपात्रे॥

क्षारमुष्णाम्बुना(नो) पास्यो(स्यं) विबन्धे मूत्रवर्चसोः॥१२२॥

क्षारमुष्णाम्बुनेति। क्षारं यवक्षारम्॥१२२॥

दाहे बस्त्यादिजे लेपः शतधौतेन सर्पिषा॥

सुगमम्॥

नवान्नमाषतक्रादि सेव्यं पाकाय मात्रया॥१२३॥

सुगमम्॥१२३॥

पिबेद्व्रणविशुद्ध्यर्थं वराक्वाथं सगुग्गुलुम्॥

वराक्वाथमिति।वरा त्रिफला॥

जीर्णशाल्यन्नमुद्गादि पथ्यं तिक्ताज्यसैन्धवम्॥१२४॥

सुगमम्॥१२४॥

रूढसर्वव्रणं वैद्यः क्षारं दत्त्वाऽनुवासयेत्॥
पिप्पल्याद्येन तैलेन सेवेद्दीपनभेषजम्॥१२५॥

क्षारं दत्त्वेति। क्षारबस्तिं दत्त्वा।अनुवासयेत्, पिप्पल्याद्येनेति। क्षारपुटकदानात्पूर्वं पश्चाच्चात्रोक्तेन च तैलेनानुवासयेत्॥१२५॥

महांति गुरुमू118लानि च्छित्त्वैवं बलिनो दहेत्॥

सुगमम्॥

चर्मकीलं तथा छित्त्वा दहेदन्यतरेण वा॥१२६॥

अन्यतरेण क्षारेण वह्निना वा॥१२६॥

पक्वजम्बूसमो वर्णः क्षारदग्धे प्रशस्यते॥
वेगावरोधं स्त्रीपृष्ठयानमुत्कटकासनम्॥
यथास्वं दोषलं चान्नमर्शसां प119रिवर्जयेत्॥१२७॥

पृष्ठयानं हस्त्यादिपृष्ठेन गमनम्॥१२७॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्री श्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां
पञ्चमोऽर्शोधिकारः समाप्तः॥५॥

<MISSING_FIG href="../../../books_images/U-IMG-17062511631..b.jpg"/>

अथ षष्ठोऽजीर्णाद्यधिकारः।
_________

अर्शः कार्यत्वात्तदनन्तरमग्निमान्द्यादेस्तच्चिकित्सामाह—

समस्य रक्षणं कार्यं विषमे वातनिग्रहः॥
तीक्ष्णे पित्तप्रतीकारो मन्दे श्लेष्मविशोधनम्॥१॥

समस्य रक्षणं कार्यमित्यनेन समस्य वह्नेःप्रशस्तत्वादनुपालनमेव धातुसाम्यहेतुरिति दर्शयति॥१॥

हिङ्ग्वष्टकमाह—

त्रिकटुकमजमोदा सैन्धवं जीरके द्वे समधरणधृतानामष्टमो हिङ्गुभागः॥
प्रथमकवलभुक्तं स120र्पिषा चूर्णमेतत्प्रवलयति121 हुताशं वातरोगान्नि122हन्ति॥२॥

अजमोदा यवानिका। एवं सर्वत्रान्तः परिमार्जने बहिष्परिमार्जने। पुनरजमोदा चाजमोदैव गृह्यते। अस्यार्थे कस्यचिट्टिप्पणी—

“अन्तःप्रमार्जने प्रायेणाजमोदा यवानिका॥
बहिःसंमार्जने योज्या त्वजमोदाऽजमोदिका" इति॥

समधरणधृतानामिति।समेन धरणेन तुलया धृतानां समभागानामित्यर्थः। ध्रियतेऽनयेति व्युत्पत्त्या धरणशब्देन तुलोच्यते। किंवा पलस्य दशमांशो धरणम्। अष्टानां पूरणोऽष्टमः। त्रिकट्वादीनां सप्तानामेकद्रव्यसमो हिङ्गुभाग इत्यर्थः। हिङ्ग्वष्टकः॥२॥

आदौ म123ण्डं पिबेदुष्णं हिङ्गुसौवर्चलान्वितम्॥
विषमोऽपि समस्तेन मन्दो दीप्येत पावकः॥३॥

सुगमम्॥३॥

क्षुद्बोधनो बस्तिविशोधनश्च प्राणप्रदः शोणितबर्धनश्च॥
ज्वरापहारी कफपित्तहन्ता वायुं जयेदष्टगुणो हि मण्डः॥४॥

** अष्टगुणो हि मण्ड इति।** मण्डोऽन्नमण्डः। लाघवाच्चतुर्गुणाम्बुसाधितो वा। अन्ये तु—

“सुतण्डुलानां प्रसृतिद्वयं च तदर्धमुद्गः कटुकं च तक्रम्॥
कुस्तुम्बरीसैन्धवहिङ्गुतैलमेभिस्तु सर्वैः क्रियते तु मण्डः”॥

इत्यस्यात्रैव स्थाने क्वचित्पठितस्य गुणं मन्यन्ते। अस्य तथाऽन्नमण्डस्य च मण्डत्वसामान्याद्गुणाष्टकमिति संगतम्॥४॥

सुतण्डुलानां प्रसृतिद्वयं च तदर्धमुद्गंकटुकं सतक्रम्124
कुस्तुम्बरीसैन्धवहिङ्गुतैलमेभिश्च सर्वैः क्रियते हि मण्डः॥५॥

कटुकं त्रिकटुकम्। कुस्तुम्बरी धान्याकं तन्मनाभृष्टं ग्राह्यम्। विधिः पुनरस्य मण्डस्य—यथोक्तमानौ तण्डुलमुद्गौतक्रजले युक्त्या दत्त्वा विपाच्य मण्डो ग्राह्यः पश्चात्त्रिकट्वादिमियथार्हसंस्कार इति॥५॥

वर्धमानो भवेत्तीक्ष्णो भस्मकाख्यो महानलः॥
तस्मात्तं माहिषैः सर्पिर्दधिक्षीरैर्जयेद्भिषक्॥६॥

सुगमम्॥६॥

यत्किंचिद्गुरु मेध्यं च श्लेष्मकारि च भेषजम्॥
सर्वं तदत्यग्निहितंभुक्त्वा प्रस्वरपनं दिवा॥७॥

सुगमम्॥७॥

हरीतकी भक्ष्यमाणा नागरेण गुडेन च125
सैन्धवोपहिता वाऽपि सातत्येनाग्निदीपनी॥८॥

हरीतक्याः सर्वरोगापहन्तृत्वं दीपनत्वमजहद्वृत्तत्वं च केवलाया अप्याम्नातं किमुत द्रव्यान्तरसहितायाः। हरीतक्यादियुतो गुडोऽप्यग्निदीपनः संयोगशक्तित्वात्॥

उक्तं च—

“गुडःकर्ताऽग्निसादस्य स हिनस्त्यभयादिभिः॥
कुष्ठं तत्कार्यपि तिलो हन्ति मल्लातकैःसह” इति॥

सातत्येन निरन्तरोपयोगेन। अत्र गुडनागरसैन्धवानां भिन्नकार्याणां दोषदेहधातुबलकालवयोवस्थान्तरविकारापेक्षया व्यवस्थितकल्पास्तेन नागरेण कफे गुडेन वाते सैन्धवेन दोषत्रये वातकफे च॥८॥

भोजनाग्रे सदा पथ्यं जिह्वाकण्ठविशोधनम्॥
अग्निसंदीपनं हृद्यं लवणार्द्रकभक्षणम्॥९॥

सिन्धूत्थपथ्यमगधोद्भववह्निचूर्णमुष्णाम्बुना पिबति यः खलु नष्टवह्निः॥
तस्याऽऽमिषेण सघृतेन वरं नवान्नं भस्मी भवत्यशितमात्रमपि क्षणेन॥१०॥

सिन्धूत्थपथ्यमगधोद्भववह्निचूर्णमिति। सिन्धूत्थं सैन्धवम्।पथ्या हरीतकी। छन्दोनुरोधाद्ध्रास्वत्वम्। मगधोद्भवापिप्पली। अत्रापि पूर्ववद्ध्रस्वत्वम्।आमिषेण सघृतेन वरमिति। वरं प्रकृष्टमधिकमिति यावत्। मांसघृताभ्यामधिकमपीत्यर्थः। केचिदिह सैन्धवादीनां मानभेदार्थं नातिप्रसिद्धं हरिश्चन्द्रमतमुपदर्शयन्ति॥

तद्यथा—

“हरीतकी हरिहिहरतुल्यषङ्गुणा चतुर्गुणां चतुरहिविलासपिप्पली (?)॥
द्विचित्रकं वरदवरैकसैन्धवं रसायनं कुरु नृप वह्निदीपनम्” इति॥

समेन भागेन व्यवहारः॥९॥१०॥

विश्वाभयागुडूचीनां कषायेण पडूषणम्॥
पिबेच्छ्लेष्माणि मन्देऽग्नौत्वक्पत्रसुरभीकृतम्॥११॥

षडूषणं पञ्चकोलं समरिचम्। अस्य चूर्णम्।त्वक्पत्रसुरभीकृतमिति। सौरभ्यं यावता भवति तावत्त्वक्पत्रचूर्णं प्रदेयम्। एवमन्यत्रानुक्ते माने॥११॥

सिन्धूत्थहिङ्गुत्रिफलायवानीव्योषैर्गुडांशैर्गुटिकां प्रकुर्यात्॥
तां भक्षयेत्तृप्तिमवाप्नुवन्ना भुञ्जीत मन्दाग्निरपि प्रभूतम्॥१२॥

गुडांशैरिति। एकद्रव्यसमोऽत्र गुडभागः।प्रायेण हि श्लेष्माधिकोऽग्निसादः। श्लेष्मणि च गुडो बहुतरो न युक्त इत्याहुरेके। अन्ये त्वाहुः सर्वचूर्णद्विगुणो गुडः। गुडादर्धमंशो येषां समुदितानां ते गुडांशा इति व्याख्यानात्। तेन मोदके द्विगुणो गुडइत्यपि वचनमनुकूलितं भवति। तृप्तिमवाप्नुवन्निति। मन्दाग्निरपि तावत्प्रभूतं भुङ्क्ते यथा तृप्तिमवाप्नोति। अनाप्नुवन्निति पाठे पुनरत्यग्नित्वात्प्रभूतं भुञ्जानोऽपि न तृप्यतीत्यर्थः। उपदेशात्केचिद्द्विजीरकं प्रक्षेपयन्ति तदाऽग्निमुखं भवति॥१२॥

गुडेन शुण्ठीमथवोपकुल्यां पथ्यातृ126तीयामथ दाडिमं च127
आमेष्वजीर्णेषु गुदामयेषु वर्चोविबन्धेषु च नित्यमद्यात्॥१३॥

गुडेन पथ्यातृतीयामितिपदद्वयं शुठ्यादिषु प्रत्येकं योज्यम्। तेन गुडेन पथ्यातृतीयां शुण्ठीमद्यात्। तथा गुडेन पथ्यातृतीयामुपकुल्यामद्यात्। उपकुल्या पिप्पली। गुडेन पथ्यातृतीयं दाडिमफलमिति विभक्ति (लिङ्ग) विपरिणामेनेति त्रयः प्रयोगाः। यथायोगमामाजीर्णादिषु त्रयम्। गुडशुण्ठीभक्षणं गुडपिप्पलीभक्षणं वा तत्प्रयोगान्तरमेव। अन्यस्त्वाह— गुडेनेतिपदं शठ्यादिभिश्चतुर्भिः समं प्रत्येकं योज्यं तेन चत्वारो योगा यथाक्रममामादिषु चतुर्षु।अस्मिन्व्याख्याने पथ्यां तृतीयामिति पाठः॥१३॥

विडङ्गभल्लातकचित्रकामृताः सनागरास्तुल्यगुडेन सर्पिषा॥
लिहन्ति ये मन्दहुताशना नरा भवन्ति ते वाडवतुल्यवह्नयः॥१४॥

तुल्यगुडेनेत्यत्र युक्ता इत्यध्याहार्यम्। एकभागसमो गुडः। सर्वचूर्णद्विगुणेन सर्पिषा लेह इति व्याख्यानयन्ति केचित्अन्ये तुल्यगुडेनेतिपदं सर्पिषेत्यस्य विशेषणं वर्णयित्वा समुदितचूर्णत्वाद्द्विगुणे मिलित्वा गुडसर्पिषी(इति) व्याचक्षते।युक्तश्चायं पक्षो नागार्जुनयोगसंवादात्।

तथा हि —

“संचूर्णिता गुडूची विडङ्गभल्लातनागरहुताशाः।
ज्वलयन्ति जाठराग्निं समानगुडसर्पिषा लीढाः"

इति॥१४॥

हरीतकी धान्यतुषोदसिद्धा सपिप्पली सैन्धवहिङ्नुयुक्ता॥
सोद्गारधूमं भृशमप्यजीर्णं विजित्य सद्यो जनयेद्धुता128शम्॥१५॥

हरीतकी धान्यतुषोदसिद्धेति। धान्यतुषोदकं संधानविशेषः। तदभावे काञ्जिकम्।सिद्धा, उत्स्विन्ना।सोद्गारधूममिति सधूमोद्दारम्॥१५॥

ग्लानिगौरवविष्टम्भभ्रममारुतमूढताः॥
विबन्धोऽतिप्रवृत्तिर्वा सामान्याजीर्णलक्षणम्॥१६॥

सुगमम्॥१६॥

प्रायेणाऽऽहारवैषम्यादजीर्णंजायते नृणाम्॥
तन्मूलो रोगसंघातस्तद्विनाशाद्विनश्यति॥

सुगमम्॥

अग्निमान्द्याजीर्णयोरन्योन्यहेतुत्वादग्निमान्द्येऽजीर्णचिकित्सामुपदिशति—

वचालवणतोयेन वान्तिरामे प्रशस्यते॥१७॥

वचाकल्कलवणयुक्तेनोष्णोदकेन। नोचेद्वचया कृतार्धशृतोष्णोदकेन लवणेन वमनम्॥१७॥

अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति॥
तद्ध्यस्य शैत्येन निहन्ति पित्तमाक्लेदिभावान्निपतत्यधस्तात्॥१८॥

अन्नं विदग्धमिति। विदग्धं पक्वापक्वम्। शीताम्बुना कुतः शीघ्रं परिपाकमेतीत्यत उक्तं तद्ध्यस्येति। तदिति शीताम्बु। हिशब्दो हेतौ। तत्तस्येति पाठान्तरम्। निहन्ति पित्तमिति। स्वाशये विदग्धं पित्तं शमयति। आक्लेदिभावाद्द्रवत्वात्॥१८॥

विष्टब्धे स्वेदनं कार्यं पेयं च लवणोदकम्॥

अजीर्णे सर्वथा भेषजनिषेधं मत्वाऽमुं श्लोकं तथा “भवेदजीर्णं प्रति यस्य शङ्का" इत्यादिश्लोकं तथा विदह्यते यत्तु भुक्तमात्रमित्यादि श्लोकं केनापि घस्मरवैद्येन कल्पितमिदं योगत्रयमित्यभिदधानोऽनार्षंवर्णयति जैज्जटः। प्रचाराद्भूरिपाठदर्शनाच्च श्लोकत्रयमेतदन्येऽनुमन्यन्त एव। किं त्वेतदनुत्क्लिष्टेकफे कार्यम्॥

रसशेषे दिवास्वप्नो लङ्घनं वातवर्जनम्*129॥१९॥

रसशेष इति। जीर्णेऽप्याहारे कदाचिदाहारसारो रसोऽजीर्णः स्यात्तस्य शेषो रसशेषस्तस्मिन्।तेनाजीर्णादर्थान्तरभूत एवायं रसशेषः। अतश्च रसस्य रुधिरादिहेतोरसम्यक्परिपाक इत्यर्थः। इत्यरुणचन्द्रनन्दनौहेमाद्रिस्तु व्याख्याति—रसशेष इति। रसस्य शेषो रसशेषः। रसशब्देन रसभूताहारराशिर्लक्ष्यते। न हि रसधातोरपक्वस्याजीर्णत्वम्। स ह्यपक्वएव रसशब्देनोच्यते पक्वस्तु रुधिरशब्देन। दुष्टत्वादजीर्णमिति चेत्। न। तस्याऽऽमत्वात्।

उक्तं च—

“ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्।
दुष्टमामाशयगतं रसमामं प्रचक्षते” इति।

दिवास्वप्नइति। दिवास्वस्तु मुहूर्तमात्र एव। तथा च वाग्भटः—

शयीत किंचिदेवात्रेति। अस्य व्याख्या— अत्र रसशेषे किंचिदेव मुहूर्तमेव स्वप्यात्। नाजीर्ण इव प्रभूतम्। इत्यरुणदत्तहेमाद्री। लङ्घनमित्यत्र लङ्घनशब्देन लाघवकरोविधिरिष्यते। तेन लघ्वन्नं जरणार्थं कालप्रतीक्षणमत्र पाने पाचनौषधावचारणं स्वेदश्च प्राप्यते न त्विह लङ्घनमुपवासः। दोषस्याल्पत्वादित्याहुः। यदाह खारणादिः—रसशेषे हितः स्वप्नो घर्माम्बु लघुभोजनमिति।वातवर्जनमिति वातस्यासेवनम्॥१९॥

व्यायामप्रमदाध्ववाहनरतक्लान्तानतीसारिणः
शूलश्वासवतस्तृषापरिगतान्हिक्कामरुत्पीडितान्।
क्षीणान्क्षीणकफाञ्शिशून्मदहतान्वृद्धान्रसाजीर्णिनो
रात्रौ जागरितान्नरान्निरशनान्कामं दिवा स्वापयेत्॥२०॥

रतशब्देनेह रक्तिरित्युच्यते। रक्तिरनुरक्तिः। भावे क्तः। न तु रतं सुरतं प्रमदाग्रहणेनैव लब्धत्वात्। व्यायामादिक्लान्तानां च धातुपुष्ट्यर्थं दिवास्वप्नः। यदुक्तम्— स्वप्नप्रसङ्गाच्च कृशो130 वराह इव पुष्यतीति। अतीसारे च दिवास्वप्नेन(प्नः) प्रकोपितकफेन स्रोतोवरोधं कृत्वा प्रभावाद्वा स्तम्भनकरः। स च सर्वातिसारकफवर्जं वा ज्ञेयः। शूलश्वासतृष्णादिषु च वातशीत्या प्रभावाद्धितः। क्षीणान्धातुक्षीणान्। तेन सुश्रुतोक्तरसवातादिक्षीणेऽपि131 दिवास्वापः प्राप्यते। क्षीणकफानिति स्वतन्त्रं पदम्।केचिद्व्यायामादिष्वपि योजयन्ति। तेन व्यायामादिक्लान्तान्क्षीणकफानेव दिवा स्वापयेत्। शिशूनां निद्रासात्म्यत्वाद्विवानिद्रा।मदहतानिति प्रमत्तान्। तेषां मद्यजरणार्थं च दिवास्वापः। वृद्धानिति धातुपुष्ट्यर्थम्। रसाजीर्णिनां रसशेषपाकार्थं दिवानिद्रा।रात्रावपि निद्रयैवाऽऽहारपाकस्य दृष्टत्वात्। किंच निद्राणस्य स्रोतः संकोचादनिर्गच्छञ्शारीरो जठरानलो बलकरः संपद्यते। तेन शीघ्रमजीर्णस्य पाकः। ननु दिवास्वप्नाच्छ्रलेष्मपित्ते प्रकुप्येते इति चरकवचनाद्दिवानिद्रयाकफपित्तप्रकोप उक्तः। कफपित्तप्रकोपाच्चाग्न्युपघातः। अग्नेरुपघाताच्चापाकः। तत्कथमजीर्णे निदानभूतकफपित्तजनकस्यैव दिवास्वप्नस्योपदेशः। उच्यते। नायं नियमो यत्कफपित्ते प्रकुपिते अवश्यमग्निवैगुण्यमावहत इति। पित्तकफजन्यतिमिरादावग्निवैगुण्यस्यादृष्टत्वात्। तस्मादिह पित्तकफवृद्धावपि नाग्नेर्वैगुण्यं भविष्यति। भविष्यति त्वालस्यवातादिप्रादुर्भाव इति बाष्पचन्द्रः

गदाधरस्त्वाह—स्रोतः संमीलनोपजातजाठराग्निपाटवादजीर्णपाक एवं निदानभूतपित्तकफयोः कोपः प्रतिनियतशक्तित्वाद्भेषजानामिति। रात्रौजागरितानां जागरणजन्यवातक्षोभशमनार्थं दिवास्वप्नः। स च गौरवाज्जागरणकालादर्धं कार्यः। यदाह क्षीरपाणिः

“यावत्कालं न सुप्तिः स्याद्रात्रौ स्वप्नाद्यथोचितात्।
ततोऽर्धमात्रं तत्कालं दिवास्वप्नो विधीयते” इति।

दिवास्वप्नश्चाभुक्तवतामेव। यदाह हारीतः— भुक्त्वा स्वप्नं न सेवेत स्वस्थोऽप्यसुखितो भवेदिति। अत्राप्युक्तं नरान्निरशनानिति॥२०॥

धान्यनागरसंसिद्धं तोयं दद्याद्विचक्षणः॥
आमाजीर्णप्रशमनं शूलघ्नं बस्तिशोधनम्॥२१॥

धान्यनागरसंसिद्धमिति। कर्षार्धंवा कणाशुण्ठ्योरितिवचनेन तीक्ष्णद्रव्यस्याल्पमानत्वमुक्तं तेनेहाप्यतीक्ष्णतीक्ष्णयोर्धान्यनागरयोरुत्तममात्रायां पले गृह्यमाणे धान्यं साकर्षद्वयमानं नागरं सार्धकर्षमानं ग्राह्यम्। यत्तु धान्यशुण्ठ्युपयोगे तु शुण्ठ्यक्षं धान्यतस्त्रयमिति केनाप्युक्तं तन्नाऽऽद्रियन्ते। प्रचारस्तु शुण्ठ्याः षण्माषका धान्यस्य दश, एवं कर्षेण॥२१॥

पथ्यापिप्पलिसंयुक्तं चूर्णं सौवर्चलं पिबेत्॥
मस्तुनोष्णोदकेनापि बुद्ध्वा दोषगतिं भिषक्॥२२॥

चतुर्विधमजीर्णं च मन्दानलमथारूचिम्॥
आध्मानं वातगुल्मं च शूलं चाऽऽशु नियच्छति॥२३॥

अजीर्णमामशेषो न तु तरुणाजीर्णं तत्रौषधनिषेधात्॥२२॥२३॥

भवेदजीर्णं प्रति यस्य शङ्का स्त्रिग्धस्य जन्तोर्वलिनोऽन्नकाले॥
पूर्वं सशुण्ठीमभयामशङ्को भुञ्जीत संप्राश्य हितं हिताशी॥२४॥

पूर्वमित्येतदजीर्णं प्रति यस्य शङ्केत्यनेन सह योज्यं न परेण।पूर्वं प्रातरजीर्णशङ्का यस्य स्यादित्यर्थः। ननु(तु) पूर्वं संप्राश्येति। अयमत्रार्थः संप्राश्येत्यनेनैव पूर्वकालस्य लब्धत्वात्। रसाजीर्णविषयं संशमनमेतदिति गदाधरः॥२४॥

विदह्यते यस्य तु भुक्तमात्रं दह्येत हृत्कोष्ठगलं च यस्य॥
द्राक्षासितामाक्षिकसंप्रयुक्तां लीढ्वाऽभयां वै स सुखं लभेत॥२५॥

भुक्तमात्रमिति। मात्रशब्दः कार्त्स्न्ये। यथा कन्यामात्रं रचयतीति। तेन विदाह्यविदाहि च कृत्स्नं भुक्तमिति फलति। आमाशयस्थितान्नविदाहे शमनमिदमित्याहुः॥२५॥

यथा नैशाजीर्णे भोजनं दुष्यति तथा प्रातराशाजीर्णे सायमाशो न दुष्यतीत्याह—

प्रातराशे त्वजीर्णे तु सायमाशो न दुष्यति॥
सायमाशे त्वजीर्णे तु प्रातराशो हि दुष्यति॥२६॥

अत्रापि हेतुश्चरकोक्तो ज्ञेयः।

तद्यथा—

“दिवा विबुध्यतेऽर्केण हृदयं पुण्डरीकवत्।
तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः॥

व्यायामाच्च विहाराच्च विक्षिप्तत्वाच्च चेतसः132
न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः॥

अक्लिन्नेष्वन्नमासिक्तमन्यत्तेषु न दुष्यति।
अविदग्ध इव क्षीरे क्षीरमन्यद्विमिश्रितम्” इति।

अयमस्य तात्पर्यार्थः—हृदयपुण्डरीकप्रबोधे स्रोतसां विवृतत्वादव्याहतं वहति रसे निर्याति च वहज्जाठरजातवेदोर्चिषि नान्ने क्लेदविदाहोदयः। तदभावात्सायं भुक्तं न दुष्यति। क्लेदविदाहाद्भवति। न ( होद्भवात्तु) पुनर्निशाजीर्णे भुक्तं दुष्यत्येवेति। अत्रार्थे चरक एव—

“रात्रौ तद्धृदये म्लाने संवृतेष्वयनेषु च।
परिक्लेदं यान्ति कोष्ठे संवृते देहधातवः।
क्लिन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति।
विदग्धेषु पयःस्वन्यत्पयस्तप्तेष्विवार्पितम्।
नैशेष्वाहारजातेषु नविपक्वेषु बुद्धिमान्।
तस्मान्नान्नं समश्नीयात्पालयिष्यन्बलायुषी” इति॥२६॥

हिङ्गुभागो भवेदेको वचा च द्विगुणा भवेत्॥२७॥

पिप्पली त्रिगुणा देया शृङ्गवेरं चतुर्गुणम्॥
यवानिका पञ्चगुणा षड्गुणा च हरीतकी॥२८॥

चित्रकं सप्तगुणितं कुष्ठं चाष्टगुणं भवेत्॥
एतद्वातहरं चूर्णं पीतमात्रं प्रसन्नया॥२९॥

पिबेद्दध्ना मस्तुना वा सुरया कोष्णवारिणा॥
सोदावर्तमजीर्णं च प्लीहानमुदरं तथा॥३०॥

अङ्गानि यस्य शीर्यन्ते विषं वा येन भक्षितम्॥
अर्शोघ्नं दीपनं चैव शूलघ्नं गुल्मनाशनम्॥३१॥

कासं श्वासं निहन्त्याशु तथैव क्षयनाशनम्॥
चूर्णमग्निमुखं नाम न क्वचित्प्रतिहन्यते॥३२॥

सुगमम्।अग्निमुखं चूर्णम्॥२७॥२८॥२९॥३०॥३१॥३२॥

बृहदग्निमुखमाह—

द्वौ क्षारौ चित्रकं पाठा करञ्जं लवणानि च॥
सूक्ष्मैला पत्रकं भार्ङ्गी कृमिघ्नं हिङ्गु पुष्करम्॥३३॥

शठी दार्वी त्रिवृन्मुस्तं वचा चेन्द्रयवास्तथा॥
धात्री जीरकवृक्षाग्लश्रेयसी चोपकुञ्चिका॥३४॥

अम्लवेतसमम्लीका दाडिमं सकटुत्रिकम्॥
भल्लातकाजमोदं च यवानी सुरदारुच॥३५॥

अभयाऽतिविषा श्यामा हपुषाऽऽरग्वधं समम्॥
तिलमुष्ककशिग्रूणां कोकिलाक्षपलाशयोः॥३६॥

क्षाराणि लोहकिट्टंच तप्तं गोमूत्रसेचितम्॥
समभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत्॥३७॥

मातुलुङ्गरसेनैव भावयेच्च दिनत्रयम्॥
दिनत्रयं तु शुक्तेन आर्द्रकस्वरसेन च॥३८॥

अत्यग्निकारकं चूर्णं प्रदीप्ताग्रिसमप्रभम्॥
उपयुक्तं विधानेन नाशयत्यचि133राद्गदान्॥३९॥

अजीर्णकमथो गुल्मान्प्ली134हानं गुदजानि च॥
उदराण्यन्त्रवृद्धिं च अष्ठीलां वातशोणितम्॥४०॥

प्रणुदत्युल्वणान्रोगान्नष्टमग्निं प्रदीपयेत्॥
समस्तव्यञ्जनोपेतं भक्तं दत्वा तु भोजने॥४१॥

दापयेदस्य चूर्णस्य विडालपदमात्रकम्॥
गोदोहमात्रात्तत्सर्वं द्रवी भवति सोष्मकम्॥४२॥

करञ्जस्य मूलम्। यथै(च्चै)तस्य सुश्रुतेन कोविदारपूर्वाणां फलमित्यनेन फलग्रहणमुपदिष्टं तच्छोधनविषयं ज्ञेयम्। लवणानि पञ्च।वृक्षाम्लं महार्द्रकम्।श्रेयसी हस्तिपिप्पलीफलम्। एवं सर्वत्राग्निदीपने योगे। वाते तु श्रेयसी रास्ना। उपकुञ्चिका स्वल्पजीरकम्। अम्लवेतसं स्वनामख्यातम्। अम्लिका तित्तिडीका। एवं सर्वत्र दीपनयोगे।पुरीषसंग्रहणादौ पुनरम्लिका। श्यामा वृद्धदारकः। आरम्वधं सुवर्णालुफलम्। लोहकिटं लोहमलम्। तच्च पुराणमण्डूरमिति प्रसिद्धं ग्राह्यं श्रेष्ठगुणत्वात्।जैज्जटस्तु लोहकिटं पृथक्पार्थिवद्रव्यं मण्डूरं वदति। तप्तमिति। अत्यर्थं तप्तम्। गोमूत्रसेचितमिति।सप्तधा गोमूत्रे निर्वापितमित्यर्थः। एवमस्य शुद्धिः।शुक्तेन संधानविशेषेण। तस्याभावे काञ्जिकम्। बृहदग्निमुखं चूर्णम्। अत्र स्थाने क्वचित्पुस्तके भास्करलवणस्य वार्ताकगुटिकायाश्च पाठः। तत्र भास्करलवणमाह—

“पिप्पली पिप्पलीमूलं धान्यकं कृष्णजीरकम्।
सैन्धवं च बिडं चैव पत्रं तालीसकेसरम्॥१॥

एषां द्विपलिकान्भागान्पञ्च सौवर्चलस्य च।
सारिवाजाजिशुण्ठीनामेकैकस्य पलं पलम्॥२॥

त्वगेले चार्धभागे च सामुद्रात्कुडवद्वयम्॥
दाडिमात्कुडवं चैकं द्वे पले चाम्लवेतसात्॥

एतच्चूर्णीकृतं श्लक्ष्णं गन्धाढ्यममृतोपमम्॥
लवणं भास्करं नाम भास्करेण विनिर्मितम्॥

जगतस्तु हितार्थाय वातश्लेष्मामयापहम्॥
वातगुल्मं निहन्त्याशु वातशूलानि यानि च॥

तक्रमस्तुसुराशीघ्रसुक्त(सक्तु) काञ्जिकयोजितम्॥
जाङ्गलानां तु मांसेन विविधेषु रसेषु च॥

मन्दाग्नेरश्नतः शक्तो भवेदाश्वेव पावकः॥
अर्शंसि ग्रहणीदोषकुष्ठामयभगंदरान्॥

हृद्रोगमामदोषांश्च विविधानुदरे स्थितान्॥
प्लीहानमश्मरीं चैव श्वासकासोदरकृमीन्॥

विशेषतः शर्करादीन्रोगान्नानाविधांस्तु तत्॥
पाण्डुरोगांश्च विविधान्नाशयत्यश135निर्यथा॥

पञ्च सौवर्चलस्येति। पञ्चभागाःसौवर्चलस्य।त्वगेले चार्धभागिके इति। त्वगेले प्रत्येकमर्धपले। गन्धाढ्यं पत्रतालीसादिद्रव्ययोगादेव गन्धबहुलं न पुनरपरचतुर्जातकप्रक्षेपणात्। भास्करलवणम्।

वार्ताकगुटिकामाह—

चतुष्पलं सुधाकाण्डात्त्रिपलं लवणत्रयात्॥
वार्ताककुडवश्चार्कादष्टौ द्वे चित्रकात्पले॥

दग्ध्वा च वार्ताकरसे गुटिका भोजनोत्तराः॥
भुक्तं भुक्तं पचन्त्याशु कासश्वासार्शसां हिताः॥

विषूचिकाप्रतिश्यायहृद्रोगघ्न्यश्च ता हिताः॥

त्रिपलं लवणत्रयादित्यस्य स्थाने त्रिफला लवणानि चेति पाठान्तरे लवणानि पञ्चैव। त्रिफलालवणेषु चतुष्पलमित्येव संबन्धनीयम्। तच्च मिलित्वा ग्राह्यम्। वार्ताककुडवो वार्ताकफलकुडवः। दग्ध्वा च वार्ताकरसे गुटिका इति। क्षारकृतानि सुधाकाण्डादीनि (दग्ध्वा)पुनर्वार्ताकफलरसेनैव गुटिकाःकार्या इत्यर्थः। भोजनोत्तरा इति। भोजनमुत्तरं याम्यस्तास्तथा। वार्ताकगुटिका॥३३॥३४॥३५॥३६॥३७॥३८॥३९॥४०॥४१॥४२॥

पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पली॥
हिङ्गु चव्याजमोदे च पञ्चैव लवणानि च॥४३॥

द्वौ क्षारौ हपुषा चैव दद्यादर्धपलोन्मितान्॥
दधिकाञ्जिकशुक्तानि घृतमात्रासमानि च॥४४॥

आर्द्रकस्यरसप्रस्थे घृतप्रस्थं विपाचयेत्॥
एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते॥४५॥

अर्शसां नाशनं श्रेष्ठं तथा गुल्मोदरापहम्॥
ग्रन्थ्यर्बुदापचीकासकफमेदोनिलानपि136॥४६॥

नाशयेद्ग्रहणीदोषंश्वयथुं सभगंदरम्॥
ये च बस्तिगता रोगा ये च कुक्षिसमाश्रिताः॥
सर्वांस्तान्नाशयत्याशु सूर्यस्तम इवोदितः॥४७॥

सुगमम्। अग्निघृतम्॥४३॥४४॥४५॥४६॥४७॥

चित्रकगुडमाह—

वह्नेर्द्विपञ्चमूलस्य क्वाथे पलशतद्वये॥४८॥

अमृताया रसस्यैके पूतेऽस्मिन्नभयाढकम्॥
पचेद्गुडतुलां दत्त्वा यावदापाकलक्षणम्॥४९॥

अन्येद्युस्तत्र मधुनः सुशीतकुडद्वयम्॥
प्रक्षिपेत्त्रिसुगन्धस्य त्रिकटोश्चपलद्वयम्॥५०॥

प्रत्येकं स्याद्यवक्षाराद्यु(च्छु) क्तिस्तस्मिन् रसायने॥
उत्तमं कथितं पुंसामश्विभ्यामग्निवृद्धये॥५१॥

जीर्यत्यपि च काष्ठानि कासश्वासक्षयकृमीन्॥
गुल्मोदरार्शःशूलानि137 सान्त्रवृद्धीनि हन्ति च॥५२॥

योगशतैरप्यजितांस्त्र्यहाज्जयति पीनसान्॥
पाठान्तरे चात्र प्रविशति धात्रीरसपलशतम्॥५३॥

वह्नेर्द्विपञ्चमूलस्य क्वाथे पलशतद्वय इति। चित्रकमूलस्य क्वाथे दशमूलस्य च क्वाथे पादशिष्टे प्रत्येकं शतं पलेऽर्धत्रयोदशशरावरूपे न तु चित्रकदशमूलयोर्मिलितयोःक्वाथे पलशतद्वयमान इति। अयमत्रार्थः। यतश्चित्रकहरीतक्या नासारोगोक्तया सहाऽऽमलकीरसं विहायान्यत्सर्वं द्रव्यं मानं च समानम्। तत्र च चित्रकस्य दशमूलस्य च पृथक्पृथक्क्वाथशतपलमुक्तम्। तेनेहापि तथैवमुक्तम्। किंच मिलित्वा क्वाथाविधानपक्षे संदेहः स्यात्किमस्य दशमूलैकद्रव्यसमो भाग उत मिलितदशमूलसम इति। असमासेन च विनिर्देशस्तदा निष्प्रयोजनः स्यात्। अत एव चक्रः प्राह—

“नासारोगेऽभिधातव्या या चित्रकहरीतकी।
विना धात्रीरसं साऽस्मिन्प्रोक्तश्चित्रगुडोऽग्निदः”॥

अमृताया रसस्यैक इति। गुडूचीरसस्यैके पलशत इत्यर्थः। अभयाढक इति। अभयाचूर्णाढके। अभयाढकमिति पाठः संगतः। पचेदित्यस्य संबन्धात्। अभयाढक इत्यपि पाठो द्रवमेवानन्तरोक्तमभयाढके दत्त्वा पचेदिति यथाकथंचित्समाधेयः। मधुनः सुशीतकुडवद्वयमिति। कुडवद्वयं षोडश पलानि। त्रिसुगन्धस्य द्विपलं प्रत्येकम्। एवं कटुत्रयस्यापि। शुक्तिरर्धपलम्। चित्रकगुडः॥४८॥४९॥५०॥५१॥५२॥५३॥

बृहच्चुक्रमाह—

प्रस्थं तण्डुलतोयतस्तुषजलात्प्रस्थत्रयं चाम्लतः
प्रस्थार्धंदधितोऽपि मूलकपलान्यष्टौ गुडान्मानिके॥
मान्यौ शोधितशृङ्गवेरशकलाद्द्वे सिन्ध्वजाज्योः
पले द्वे कृष्णोषणयोर्निशापलयुगं निक्षिप्य भाण्डे दृढे॥५४॥

स्निग्धेधान्ययवादिराशिनिहितं त्रीन्वासरान्वासये-
द्ग्रीष्मे तोगधरात्यये च चतुरो वर्षासु पुष्पागमे॥
षट्शीतेऽष्ट दिनान्यतः परमिदं विस्राव्य संचूर्णये-
च्चातुर्जातपलेन संहित138मिदं शुक्तं च चुक्रं च तत्॥
हन्याद्वातकफामदोषजनितान्नानाविधानामया-
न्दुर्नामानिलशूलगुल्मजठरान्हत्वाऽनलं दीपयेत्॥५५॥

तुषजलादिति। अस्य विशेषणमम्लत इति। तुषजलं सतुषयवकृतः संधानविशेषः। तदभावे काञ्जिकम्। गुडान्मानिके इति। गुडस्य मानिकाद्वयम्। तच्च षोडशपलानि। कृष्णोषणयोरिति। उषणं मरिचम्।तोयधरात्ययेऽपि त्रीनेव वासरान्धारयेच्चकारात्। बृहच्चुक्रसंधानम्॥५४॥५५॥

स्वल्पचुक्रमाह—

यन्मस्त्वादि शुचौ भाण्डे सगुडक्षौद्रकाञ्जिकम्॥
धान्यराशौ त्रिरात्रस्थं शुक्तं चक्रं तदुच्यते॥५६॥

मस्त्वादीति। आदिभूतं मस्तु।त्रिरात्रस्थितमिति ग्रीष्माभिप्रायेण। वर्षादिषु पुनः पूर्वचुक्रवदवस्थापनकालव्यवस्थाऽम्लत्वं वा यावत्॥५६॥

तन्त्रान्तरे परिमाणमुक्तम् (अनुवदति)—

गुडक्षौद्रारनालानि समस्तूनि यथोत्तरम्॥
शंसन्ति द्विगुणान्भागान्सम्यक्चुक्रस्य सिद्धये॥५७॥

॥५७॥

संप्रति विषूचिकाचिकित्सितमाह—

कुष्ठसैन्धवयोः कल्कं चुक्रतैलसमन्वितम्॥
विषूच्यां मर्दनं कोष्णं खल्लीशूलनिवारणम्॥५८॥

चुक्राभावे काञ्जिकम्। तदात्वे च पाकस्याशक्यत्वे किंचिच्चुक्रंतैलं च दत्त्वा कुष्ठसैन्धवकल्को वडवडायितव्यो यथावत्तैलपाकविधिसूचित एव॥१८॥

करञ्जनिम्बशिखरीगुडूच्यर्जकवत्सकैः॥
पीतः कषायो वमनाद्धोरां हन्ति विषूचिकाम्॥५९॥

करञ्जफलम्। शिखरी, अपामार्गः। तस्य च बीजम्।अर्नकः श्वेतपह्नासः।पीतः कषायो वमनादिति। वमनार्थं कषायः क्वाथ्यद्रव्यस्य कुडवं श्रपयित्वेत्यादिपरिभाषया कार्यः। वमनं च स्तोकवमिकारकाजीर्णशमनार्थम्॥५९॥

विषूच्यां प्रमीलकादिशान्त्यर्थमञ्जनमाह—

व्योषं करञ्जस्य फलं हरिद्रां मूलं समावाप्य च मातुलुङ्ग्याः॥
छायाविशुष्का गुटिकाः कृतास्ता हन्युर्विषूचीं नयनाञ्जनेन॥६०॥

मातुलुङ्ग्याइति। मातुलुङ्गीमधुकर्कटीमाहुः।विषूचीशब्देन विषूचीजनिताः प्रमीलिकाशिरोरोगादयो गृह्यन्ते कारणे कार्योपचारात्। अथवा विषूचीमेवाञ्जनेन प्रभावाद्धन्युः॥६०॥

त्वक्पत्ररास्नागुरुशिग्रुकुष्ठैरम्लप्रपिष्टैः सवचाशताह्वैः॥
उद्वर्तनं खल्लिविषूचिकाघ्नं तैलं विपक्वंच तदर्थकारि॥६१॥

तैलं विपक्वंच तदर्थकारीति।त्वक्पत्रादिभिः कल्कीकृतैः काञ्जिकेन द्रवेण तैलमपि पक्वंखल्लीविषूचिकासु शस्यत इत्यर्थः। खल्ली हस्तादौ शिरामोटनम्।विषूच्यां खल्ली प्रायः संभवति। तस्यायं विधिः। केवलानिलजायां पुनरनिलहरमेव तैलम्॥६१॥

पिपासायामनुत्क्लेशे लवङ्गस्याम्बु शस्यते॥
जातीफलस्य वा शीतं शृतं भद्रघनस्य वा॥६२॥

लवङ्गस्याम्बु शस्यत इति। लवङ्गस्याम्बु, अर्धशृतम्। एवं जातीफलाम्बु च ज्ञेयम्। भद्रघनं भद्रमुस्तकम्॥६२॥

विषूच्यामतिवृद्धायां पार्ष्ण्योर्दाहः प्रशस्यते॥६३॥

पार्ष्ण्योर्दाह इति। पादपार्ष्णियुगे मूर्छाशान्त्यर्थमधोतिप्रवृत्तिनिवारणार्थं च मूर्छेतरासाध्यलक्षणाभावेऽपि सति तप्तशरादिशलाकया दाहः। स च प्रभावात्पार्ष्णिकृत एवहितो भवतीति वचनादुन्नीयते॥६३॥

सरुक्चाऽऽनद्धमुदरमम्लपिष्टैश्च ले139पयेत्॥
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः॥६४॥

सुगमम्॥६४॥

तक्रेण युक्तं यवचूर्णमुष्णं सक्षारमर्तिं जठरे निहन्यात्॥

तक्रेण युक्तं यवचूर्णमुष्णमिति।तक्रकाञ्जिकाभ्यां सयवक्षारं यवचूर्णं पक्त्वा पोटलिकया स्वेद इति व्यवहारः। लेपोऽयमित्यन्ये॥

स्वेदो घटैर्वा बहुबाष्पपूर्णैरुष्णैस्तथाऽन्यैरपि पाणितापैः॥६५॥

सुगमम्॥६५॥

तीव्रार्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम्॥
दोषच्छन्नोऽनलो नालं पक्तुं दोषौषधाशनम्॥६६॥

दोषच्छन्न इति। आमदोषाभिभूतः॥६६॥

अथ विषूच्यां वमनादिविधानानन्तरं पेयादिविधिमाह—

सुवामितं साधु विरेचितं च सुलङ्घितं वा मनुजं विदित्वा॥
पेयादिभिर्दीपनपाचनीयैः सम्यक्क्षुधार्तं समुपक्रमेत॥६७॥

दीपनपाचनीयैरिति। दीपनपाचनधान्यपञ्चकादिसंस्कृतैः॥६७॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां षष्ठोऽग्निमान्द्याजीर्णविषूचिकाधिकारः समाप्तः॥६॥
<MISSING_FIG href=”../../../books_images/U-IMG-17062803481.png”/>

अथ सप्तमः कृम्यधिकारः।
___________

अजीर्णात्कृमिसंभूतेरजीर्णानन्तरं कृमिः—

पारसीययवानी पीता पर्युषितवारिणा प्रातः॥
गुडपूर्वा कृमिजालं कोष्ठगतं पातयत्याशु॥१॥

पारसीययवानी पारसदेशसमुद्भवा यवानी।गुडपूर्वेति। भक्षणे गुडः पूर्वोऽस्या इति गुडपूर्वा। गुडं भक्षयित्वा मनाग्विलम्बंकृत्वा सा पातव्येत्यर्थः। पेषणमप्यत्र पर्युषितवारिणैव ज्ञेयम्॥१॥

अपरमपि पानयोगमाह—

पारिभद्रकपत्रोत्थं रसं क्षौद्रयुतं पिबेत्॥
कम्बुकस्य रसं वाऽपि पत्तूरस्याथवा रसम्*140॥२॥

पारिभद्रः पर्वतनिम्बः कम्बुकरसे पत्तूररसेऽपि क्षौद्रमशनवर्तनीयम्।पत्तूरः शालिम् (?) ॥२॥

दीपनीयमन्नमण्डं विडङ्गं व्योषसंयुतम्॥
पाययेत्कृमिनाशाय अग्निंच कुरुते भृशम्॥३॥

दीपनीयमन्नमण्डमिति। दीपनीयमग्निमान्द्योक्तम्। दीपनीयपञ्चकोलाद्यर्धशृतक्वाथसिद्धं चान्नमण्डम्॥३॥

कृमिघ्नमवलेहयोगमाह—

लिह्याद्वाऽश्वशकृच्चूर्णं विडङ्गं वा समाक्षिकम्॥

अश्वशकृच्चूर्णं घोटकपुरीषचूर्णम्। विडङ्गं विडङ्गचूर्णम्। विडङ्गमित्यत्र बैडालमिति केचित्पठन्ति। तत्र बिडालविट्चूर्णमिति व्याख्यानम्॥

विडङ्गपिप्पली141मूलशिग्रुभिर्मरिचेन च॥
तक्रसिद्धा यवागूःस्यात्कृमिघ्नी ससुवर्चिका॥४॥

सुगमम्॥४॥

मुस्ताखुपर्णीफलदारुशिग्रुक्वाथःसकृष्णाकृमिशत्रुकल्कः॥
मार्गद्वयेनापि चिरप्रवृत्तान्कृमीन्निहन्यात्कृमिजांश्च रोगान्॥५॥

आखूपर्णी मूषकपर्णी दन्तीभेदो वा। फलशब्देनेह त्रिफला ग्राह्या॥५॥

कृमिघ्नपूलिकामाह—

आखुपर्णीदलैःपिष्टैःपिष्टकेन च पूलिकाम्142
जग्ध्वासौवीरकं चानु पिबेत्कृमिहरं परम्॥६॥

आखूपर्णी दन्ती। अन्ये मूषिकपर्णाख्यं द्रव्यान्तरमाहुः। सौवीरकं काञ्जिकम्। अन्विति। पूलिकाभक्षणादनन्तरम्।

यद्यपि—

“क्षाराणि मांसानि घृतानि चैव दधीनि शाकानि च पर्णवन्ति।
समासतोऽम्लान्मधुरान्हिमांश्च कृमीञ्जिघांसुः परिवर्जयेत॥"

इत्युक्तादम्लवर्जनादत्र काञ्जिकस्यापि वर्जनं प्राप्नोति तथाऽपि काञ्जिकस्य प्रायोगिकत्वादपवर्गत्वाच्च *तथाहि143 गुणोपवर्णने काञ्जिकं कृमिघ्नत्वेन निर्दिष्टम्। आखुपर्णीपत्रंपिष्टकसमं पिष्ट्वा पिष्टकेन सहैकीकृत्य पोलिका कर्तव्या। आखुपर्णीपत्रस्य भागत्रयं पिष्टकस्यैको भाग इति वा मानव्यवस्था। पिष्टकं च यवस्येच्छन्ति कृमिहरत्वात्॥६॥

पलाशबीजस्वरसं पिबेद्वा क्षौद्रसंयुतम्॥
पिबेत्तद्बीजकल्कं वा तक्रेण कृमिनाशनम्॥७॥

सुगमम्। किं बहुजल्पितेन॥७॥

सुरसादिगणं वाऽपि सर्वथैवोपयोजयेत्॥८॥

सर्वथैवेति। कल्कस्वरसादिना। सुरसादि तु सर्वेषु सर्वथैवोपयोजयेत्। सर्वेषु पुरीषजादिषु सर्वथैवात्र पानस्नानादिविधिना, इति डल्लणपाठव्याख्या॥८॥

त्रिफला त्रिवृतादन्ती वचा कम्पिल्लकं तथा॥
सिद्धमेभिर्गवां मूत्रे सर्पिः कृमिविनाशनम्॥९॥

कम्पिल्लकमिति। गुन्द्रा रोचनिका॥९॥

त्रिफलायास्त्रयः प्रस्था विडङ्गप्रस्थ एव च॥
दीपनं दशमूलं च लाभतस्तूपपादयेत्॥१०॥

पादशेषजलद्रोणे शृते सर्पिर्विपाचयेत्॥
प्रस्थोन्मितं सिन्धुयुतं तत्पेयं कृमिनाशनम्॥११॥

विडङ्गघृतमित्येतल्लेह्यं शर्करया सह॥
सर्वान्कृमीन्प्रणुदति मुक्तं वज्रमिवासुरान्॥१२॥

सुगमम्। विडङ्गघृतम्॥१०॥११॥१२॥

रसेन्द्रेण समायुक्तो रसो धत्तूरपत्रजः॥
ताम्बूलपत्रजो वाऽथ लेपनं यौकनाशनम्144॥१३॥

रसेन्द्रेणेति पारदेन। यौकनाशनमिति। यौकं यूकावृन्दम्॥१३॥

क्षीराणि145 मांसानि घृतानि चैव दधीनि शाकानि च पर्णवन्ति॥

समासतोऽम्लान्मधुरान्हिमांश्चकृमीञ्जिघांसुः परिवर्जयेच्च॥१४॥

सुगमम्146॥१४॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां सप्तमः
कृमिचिकित्साधिकारः समाप्तः॥७॥
<MISSING_FIG href="../../../books_images/U-IMG-17062812991..b.jpg"/>

अथाष्टमः पाण्डुरोगाधिकारः।
_________

पुरीषकृमितः पाण्डुरोगस्य समुद्भवात्कृम्यनन्तरं पाण्डुरोगः—

साध्यं तु पाण्ड्वामयिनं समीक्ष्य सिग्धं घृतेनोर्ध्वमधश्चशुद्धम्॥
संपादयेत्क्षौद्रघृतप्रागाढैर्हरीतकीचूर्णयुतैः प्र147योगैः॥१॥

साध्यमिति।साध्यगतिस्त्वसाध्यलक्षणवैपरीत्येन।समीक्ष्येति।अनुबन्ध्यानुबन्धभूतदोषविशेषेण सम्यगुपलभ्य।स्त्रिग्धं घृतेनेति। सर्वेषां पाण्डुरोगाणां पित्तप्रधानत्वात्पित्ते च घृतस्यैव विदितत्वाद्घृतेन स्नेह्यः। घृतं च भेषजसंस्कृतमेव देयम्।

यदुक्तम्—

“कल्याणकं दाधिकषट्पलं च तिक्तं महातिक्तमथापि सर्पिः॥
स्यात्स्नेहनं पाण्डुषु चोपदिष्टं घृतं तथा पञ्चसु गव्यम्" इति॥

ऊर्ध्वमधश्च शुद्धमिति। ऊर्ध्वं वान्त्या, अधश्च विरेकेण शुद्धमिति। ननु पाण्डुरोगे वमनस्य निषिद्धत्वात्कथं वमनाभिधानम्।

यदुक्तम्—

“न वामयेत्तैमिरिकं न गुल्मिनं न चापि पाण्डूदररोगपीडितम्।
स्थूलक्षतक्षीणकृशातिवृद्धानर्शेर्दिताक्षेपकपीडितांश्च’ इति॥

नैतत्। अत्राजीर्णाद्यवस्थायां वमनस्य विहितत्वात्।

तथा च सुश्रुतः

“एतेऽप्यजीर्णव्यथिता वाम्या ये च विषातुराः।
अतीव चोल्वणकफास्ते च स्युर्मधुकाम्बुना" इति।

हारीतेऽप्युक्तम्—

“कालं तु देशं प्रकृतिं शरीरं समीक्ष्य दद्याद्वमनं विधिज्ञः।
वान्तस्य तीक्ष्णान्यनुलोमनानि कल्पोपदिष्टानि भिषग्विदध्यात्” इति।

हरीतकीचूर्णयुतैः प्रयोगैरिति। हरीतकीचूर्णयुक्ताये प्रयोगा नवायसगुडहरीतकीत्रिफलालोहादयस्तैः। चूर्णमयैरितिपाठपक्षे प्रचुरार्थेतत्प्रकृतिवचने मयडिति मयट्। हरीतकीचूर्णप्रचुरैर्योगैरित्यर्थः। अत्र संसर्जनक्रमोऽनुक्तोऽपि शोधनाङ्गत्वेनोह्यः॥१॥

पिबेद्घतंवा रजनीविपक्वंस्यात्त्रैफलं तैल्वकमेव वाऽपि॥
विरेचनद्रव्यकृतं पिबेद्वा योगांश्च वैरेचनिकान्घृतेन॥२॥

रजनीविपक्वमिति। हरिद्वाकल्कजलद्रवेण सिद्धम्। क्वाथकल्कयोगेन विषयत्वात् (?) हरिद्राक्वाथकल्कसिद्धमित्यन्यः। त्रैफलं त्रिफलाक्वाथकल्कसिद्धं कुष्ठाद्युक्तं वा तैल्वकं वातव्याध्युक्तं विरेचनद्रव्यकृतं त्रिवृदादिसंस्कृतं वा। करोतेः संस्कारे प्रवृत्तेः। योगांश्च वैरेचनिकान्घृतेनेति। विरेचनाध्यायोक्तान्सुश्रुतवैरेचनिकान्योगान्घृतेन पिबेदिति संबन्धनीयं क्रियान्तरानिर्देशात्॥२॥

सुगमम्॥

विधिः स्निग्धोऽथ बातोत्थे तिक्तशीतस्तु पैत्तिके॥
श्लैष्मिके कटुरूक्षोष्णः कार्यो मिश्रस्तु मिश्रके॥

सुगमम्॥

द्विशर्करं त्रिवृच्चूर्णं पलार्धं पैत्तिके पिबेत्॥३॥

द्विशर्करं सत्त्रिवृच्चूर्णं पलार्धम्।तेन शर्करामाषः१ रती ४ त्रिवृच्चूर्णमाषाः१०रती ६ एवं पलार्धं भवति। न तु त्रिवृच्चूर्णपलार्धं द्विशर्करमतः सार्धपलं प्रत्यहोपयोगोऽस्या मात्राया अनर्हत्वात्॥३॥

द्विपञ्चमूलीक्वथितं सविश्वं कफात्मके पाण्डुगदे पिबेद्वा॥
ज्वरेऽतिसारे श्वयथौ ग्रहण्यां श्वासेऽरुचौ कण्ठहृदामये च॥४॥

सुगमम्॥४॥

फलत्रिकामृतावासातिक्ताभूनिम्बनिम्बजः॥
क्वाथः क्षौद्रयुतो हन्यात्पाण्डुरोगं सकामलम्॥५॥

फलत्रिकं त्रिफला॥५॥

अयस्तिलत्र्यूषणकोलभागैः सर्वैः समं माक्षिकधातुचूर्णम्॥
तैर्मोदकः क्षौद्रयुतोऽनुतक्रंपाण्ड्वामये दूरगतेऽपि शस्तः॥६॥

अयो मारितलोहचूर्णम्। तदभावे लोहपत्रिका ग्राह्या। सा च सालिंचरसत्रिफलाक्वाथौदत्त्वा पुटकेन संस्करणीया।एवं सर्वत्र। कोलं बदरफलम्। नाष्टमाषकपर्यायः।यदाह सुदान्तसेनः

“अयः कोलतिलव्योषैः समैर्माक्षिकधातुना।
मधुना वटकान्कृत्वा जग्ध्वा तक्रं पिबेदनु"॥

माक्षिकधातुर्धातुमाक्षिकम्। अनुतक्रं तक्रानुपानम्॥६॥

अयोमलं तु संतप्तं भूयो गोमूत्रसेचितम्॥७॥

मधुसर्पिर्युतं चूर्णं सह भक्तेन योजयेत्॥
दीपनं चाग्रिजननं शोथपाण्ड्वामयापहम्॥८॥

भूयो गोमूत्रसेचितमिति। सप्तवारान्गोमूत्रनिर्वापितम्। अयोमलचूर्णस्य माषकद्वयं त्रिर्वा विभज्यान्यतोदर्शनात्। भोजनस्याऽऽदिमध्यान्तेषु मधुसर्पिर्भ्यांभक्ष्यम्। पश्चादभ्यासक्रमेणातोऽधिकं वर्धयेत्। अनुपानमिह तक्रं दुग्धं वा॥७॥८॥

त्र्यूषणत्रिफलामुस्तविडङ्गचित्रकाः समाः॥
नवायोरजसो भागास्तच्चूर्णं मधुसर्पिषा॥
भक्षयेत्पाण्डुहृद्रोगकुष्ठार्शःकामलापहम्॥९॥

नवायोरजसो भागा इति। एकद्रव्यभागापेक्षया नवगुणमयश्चूर्णम्। तेन त्र्यूषणादीनां मिलितानां चूर्णेन समं स्यादयश्चूर्णं तच्चूर्णं मधुसर्पिषा भक्षयेदिति। नवायसं चूर्णम्॥९॥

संप्रति कामलायाश्चिकित्सितमाह—

रेचनं कामलार्तस्य स्निग्धस्याऽऽदौ प्रयोजयेत्॥
ततः प्रशमनी कार्या क्रिया वैद्येन जानता॥१०॥

सुगमम्॥१०॥

त्रिफलाया गुडूच्या वा दार्व्यानिम्बस्य वा रसः॥
प्रातर्माक्षिकसंयुक्तः शीलितः कामलापहः॥११॥

सुगमम्॥११॥

अञ्जनं कामलार्तानां द्रोणपुष्पीरसः शुभः॥
निशागैरिकधात्रीणां चूर्णं वा संप्रकल्पयेत्॥१२॥

अञ्जनं कामलार्तानामिति। अञ्जनं नयनाञ्जनमभ्यङ्गो वा। निशागैरिकेत्यादियोगमञ्जनमाहुः। अञ्जनं च मध्वक्तशलाकया कार्यम्॥१२॥

नस्यं कर्कोटमूलं स्याद्घ्रेयं वा जालिनीफलम्॥१३॥

जालिनीफलमिति।पीतघोषफलम्॥१३॥

अयोरजोव्योषविडङ्गचूर्णं लिहेद्धरिद्रां त्रिफलान्वितां वा॥

अयोरज इत्यादिना विडङ्गान्तेनैको योगः।हरिद्रामित्यादिना द्वितीयः। अन्यस्त्वाह।अयोरज इत्यादित्रिफलान्तेनैक एवायं योगः। वाशब्दश्च पूर्वयोगापेक्षया। युक्तश्चायं पक्षः। तत्रान्तरसंवादात्।

तथा चोक्तम् –

“दार्वीत्वक्त्रिफलाव्योषविडङ्गान्ययसो रजः॥
मधुसर्पिर्युतंलिह्यात्कामलापाण्डुरोगवान्” इति॥

हरिद्रामिति दारुहरिद्राम्। अनेनैव दार्वीत्वग्वचनेन। लेहोऽयं मधुसर्पिभ्याम्। एतदनन्तरं सुश्रुते मधुसर्पिर्भ्यामिति पाठात्॥

सशर्करा कामलिनां त्रिभण्डी हिता गवाक्षी सगुडा च शुण्ठी॥१४॥

**सशर्करा कामलिनां त्रिभण्डीति।**त्रिभण्डी त्रिवृत्सशर्करा कामलिनां हिता। विरेचनार्थं योगोऽयम्। हिता गवाक्षी सशर्करैव। कार्तिकस्तु सगुडा च शुण्ठीत्यत्र चकारं भिन्नक्रमं योजयित्वा शुण्ठी च सगुडेति व्याख्याय गवाक्षीमपि सगुडामाह। गवाक्षी श्वेतापराजिता गोरक्षकर्कटी वा॥१४॥

धात्रीलोहरजोव्योषनिशाक्षौद्राज्यशर्कराः॥
लेहो निवारयत्याशु कामलामुद्धतामपि*148॥१५॥

सुगमम्॥१५॥

कुम्भाह्वये सिद्धतमं योगमाह—

दग्ध्वाऽक्षकाष्ठैर्मलमायसं तु गोमूत्रनिर्वापितमष्टवारान्।
विचूर्ण्य लीढं मधुनाऽचिरेण कुम्भाह्वयं पाण्डुगदं निहन्ति॥१६॥

अक्षो विभीतकः॥१६॥

पाण्डुरोगक्रियां सर्वांयोजयेच्च हलीमके॥
कामलायां तु या दृष्टा साऽपि कार्या भिषग्वरैः॥१७॥

सुगमम्॥१७॥

हरिद्राद्यं घृतमाह—

हरिद्रात्रिफलानिम्बबलामधुकसाधितम्॥
सक्षीरं माहिषं सर्पिः कामलाहरमुत्तमम्॥१८॥

**सक्षीरमिति।**क्षीरमेवेह चतुर्गुणं द्रवान्तराभावात्। अत्र माहिषं सर्पिः संयोगमहिम्ना नियमितं तेन पाण्डुरोगे घृतान्तरे गव्यमेव सर्पिः पक्तव्यम्। हरिद्राद्यं घृतम्॥१८॥

मूर्वातिक्तानिशायासकृष्णाचन्दनपर्पटैः॥
त्रायन्तीवत्सभूनिम्बपटोलाम्बुददारुभिः॥१९॥

अक्षमात्रैर्घृतं प्रस्थं सिद्धं क्षीरचतुर्गुणम्॥
पाण्डुताज्वरविस्फोटशोथार्शोरक्तपित्तजित्॥२०॥

सुगमम्। मूर्वाद्यं घृतम्॥१९॥२०॥

व्योषाद्यं घृतमाह—

व्योषं बिल्वं द्वे रजन्यौ त्रिफला द्विपुनर्नवम्॥
मुस्तमायोरजः पाठा विडङ्गं देवदारु च॥२१॥

वृश्चिकाली च भार्ङ्गी च सक्षीरस्तैः शृतं घृतम्॥
सर्वान्प्रशमयत्येतद्विकारान्मृत्तिकाकृतान्॥२२॥

द्विरजनी हरिद्रा दारुहरिद्रा। द्विपुनर्नवं शुक्ललोहितनालभेदेन पुनर्नवाद्वयम्। वृश्चिकाली विच्छावती। क्षीरं चतुर्गुणमिह पाकार्थम्। व्योषाद्यंघृतम्॥२१॥२२॥

मण्डूरवटकमाह—

त्र्यूषणं त्रिफला मुस्तं विडङ्गं चव्यचित्रकौ॥
दार्वीत्वङ्माक्षिको धातुर्ग्रन्थिकं देवदारु च॥२३॥

एषां द्विपलिकान्भागांश्चूर्णं कृत्वा पृथक्पृथक्॥
मण्डूरं द्विगुणं चूर्णाच्छुद्धमञ्जनसंनिभम्॥२४॥

मूत्रे चाष्टगुणे पक्त्वा तस्मिंस्तु प्रक्षिपेत्ततः॥
उदुम्बरसमान्कुर्याद्वटकांस्तान्यथाग्नि च॥२५॥

उपयुञ्जीत तक्रेण सात्म्यं जीर्णे च भोजयेत्॥
मण्डूरवटका ह्येते प्राणदाः पाण्डुरोगिणाम्॥२६॥

कुष्ठान्यजरकं शोफमूरुस्तम्भकफामयान्॥
अर्शांसि कामलामेहं प्लीहानं नाशयन्ति च॥२७॥

दार्वीत्वग्दारुहरिद्रायास्त्वक्।अस्याश्च त्वगेव श्रेष्ठा।दार्व्याश्च त्वच उत्तमा इति चचनात्। त्वगभावे काष्ठमेव गृह्यते।मांक्षिको धातुर्माक्षिकम्।ग्रन्थिकं पिप्पलीमूलम्। त्र्यूषणादीनां पृथग्द्विपलिकभागेनाष्टाविंशतिः पलानि। मण्डूरं द्विगुणं चूर्णादिति। समुदितचूर्णाद्द्विगुणं च मण्डूरचूर्णं षट्पञ्चाशत्पलानि। शुद्धमिति। ध्मापनसप्तधागोमूत्रनिर्वापणाभ्यां विशुद्धम्। अञ्जनसंनिभमिति। अञ्जनवत्कृष्णवर्णं मसृणं च। अञ्जनं कज्जलम्। एवंविधमेव श्रेष्ठगुणं भवति। मूत्रे चाष्टगुण इति। त्र्यूषणादिचूर्णमण्डूरचूर्णापेक्षयाऽष्टगुणे मूत्रे। अष्टगुणं च मूत्रं पलोल्लेखविहितत्वात्। अद्विगुणं सत्तद्द्वासप्तत्यधिकषट्शतपलं मानम्। अतश्चतुरशीतिः शरावा भवन्ति। चक्रेणाप्युक्तम्—

“निर्वाप्य बहुशो मूत्रे मण्डूरं ग्राह्यमिष्यते।
ग्राहयन्त्यष्टगुणितं गोमूत्रं सर्वचूर्णतः” इति॥

अन्ये तु मूत्रमष्टगुणं मण्डूरचूर्णादेवाऽऽहुः। प्रचारस्तु सर्वचूर्णाष्टगुणे(ण)मूत्रेण। द्वितीयपृथक्शब्दपाठान्मण्डूरचूर्णमेव पृथङ्मूत्रेण पक्तव्यम्। आसन्नपाके च तस्मिंश्चूर्णानां पाको नास्तीतिवचनात्तथा चूर्णबहुत्वाच्च चूर्णप्रक्षेपः। एवं सर्वत्र बहुचूर्णप्रयोगे। अत्रार्थे कस्यचिच्छ्लोकः—

“प्रायो न पाकश्चूर्णानां भूरिचूर्णस्य तेन हि।
आसन्नपाके प्रक्षेपः स्वल्पस्य पाकमागते” इति॥

पाकलक्षणं च—रसो गन्धः शुभः पाके वर्तिः स्याद्गाढमर्दनादिति। उदुम्बरसमानिति। कर्षसमानान्। पञ्चषण्माषकैः प्रायेण प्रचारः। अजरकमित्यजीर्णम्।मण्डूरवटकः॥२३॥२४॥२५॥२६॥२७॥

पुनर्नवामण्डूरमाह—

पुनर्नवा त्रिवृच्छुण्ठी पिप्पली मरिचानि च॥
विडङ्गं देवकाष्टं च चित्रकं पुष्कराह्वयम्॥२८॥

हरिद्रे द्वे च त्रिफला दन्ती च चविका तथा॥
कुटजस्य फलं तिक्ता पिप्पलीमूलमुस्तकम्॥२९॥

एतानि समभागानि मण्डूरं द्विगुणं ततः॥
मूत्रे चाष्टगुणे पक्त्वा धारयेत्स्निग्धभाजने॥
पाण्डुशोथोदरानाहशूलार्शः कृमिगुल्मनुत्॥३०॥

मण्डूरं लोहकिट्टानुकारि द्रव्यम्। मूत्रे चाष्टगुण इति। मण्डूरचूर्णापेक्षया व्यवहारात्। पुनर्नवामण्डूरः॥२८॥२९॥३०॥

मण्डूरवज्रवटकमाह—

पञ्चकोलं समरिचं देवदारु फलत्रिकम्॥३१॥

विडङ्गमुस्तयुक्ताश्च भागास्त्रिपलसंमिताः॥
यावन्त्येतानि चूर्णानि मण्डूरं द्विगुणं ततः॥३२॥

पक्त्वाऽष्टगुणिते मूत्रे घनीभूते तदुद्धरेत्॥
ततोऽक्षमात्रान्वटकान्पिबेत्तक्रेणनक्तभु149क्॥३३॥

पाण्डुरोगं जयत्येष मन्दाग्नित्वमरोचकम्॥
अर्शांसि ग्रहणीदोषमूरुस्तम्भं हलीमकम्॥३४॥

कृमिप्लीहानमुदरं गलरोगं च नाशयेत्॥
मण्डूरवज्रनामाऽयं रोगानीकप्रणाशनः॥३५॥

विडङ्गमुस्तयुक्ताश्चभागास्त्रिपलसंमिता इति। पञ्चकोलादिभागा विडङ्गमुस्तसहिताः प्रत्येकं त्रिपलिका इत्यर्थः। अत्र मूत्रमष्टगुणं मण्डूरापेक्षया ग्राह्यं प्रचारात्। मण्डूरवज्रवटकः॥३१॥३२॥३३॥३४॥३५॥

यवगोधूमशाल्यन्नं रसैर्जाङ्गलजैः शुभैः॥
मुद्राढकीमसूराद्यैस्तयोर्भोजनमिष्यते॥३६॥

तयोरिति पाण्डुकामलयोः॥३६॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामष्टमः
पाण्डुरोगाधिकारः समाप्तः॥८॥
<MISSING_FIG href="../../../books_images/U-IMG-17062834491..b.jpg"/>

अथ नवमो रक्तपित्ताधिकारः
__________

पाण्डुरोगवद्रक्तपित्तपित्तरक्तकारणत्वाव्यभिचारात्पाण्डुरोगानन्तरं रक्तपित्तम्। आदौ बलवतो रक्तपित्तसंग्रहणनिषेधमाह—

नोद्रिक्तमादौ संग्राह्यमश्नतो बलिनस्तु यत्॥
हृत्पाण्डुग्रहणीरोगप्लीहगुल्मज्वरादिकृत्॥१॥

नोद्रिक्तमादौ संग्राह्यमिति। उद्रिक्तमत्यर्थप्रवृत्त्युन्मुखमामं नाऽऽदौ स्तम्भनीयम्। अश्नतइत्यनेन संतर्पणोत्थत्वं दर्शयति॥१॥

ऊर्ध्वं प्रवृत्तदो150षस्य पूर्वं लोहितपित्तिनः॥
अक्षीणबलमांसाग्नेःकर्तव्यमपतर्पणम्॥२॥

अतिप्रवृद्धदो151षस्येति सुश्रुते पाठः। तत्रैवमापातनिका।संशोधनार्हस्य लङ्घनमपि हितमिति दर्शयितुमाह—अतिप्रवृद्धदोषस्येति। कर्तव्यमपतर्पणमिति। अपतर्पणमिह लङ्घनम्। यदाह चरकः

“मार्गौ दोषानुबन्धं वा निदानं प्रसमीक्ष्य च।
लङ्घनं रक्तपित्तादौ तर्पणं च प्रयोजयेत्” इति॥

अस्यायमर्थः। यदूर्ध्वो मार्गः पित्तं कफश्च सामो दोषः स्निग्धोष्णं च निदानं तदा लङ्घनमन्यथा (तर्पणम्।) तर्पणमितिपदेन हि तर्प्यतेऽनेनेति व्युत्पत्त्या यवागूरपि गृह्यते॥२॥

पथ्यं सतीनयूषेण ससितैर्लाजसक्तुभिः॥

पथ्यं सतीनयूषेणेत्यादिना तर्पणविधिरूर्ध्वगे। चरकेऽप्युक्तम्—ऊर्ध्वगे तर्पणं पूर्वं पेया पूर्वमधोगमइति। सतीनो वर्तुलो महान्कलायः। चरके तु द्राक्षादिगृतशीतजलेनापि यत्तर्पणं च दर्शितं तल्लङ्घनेन क्षीणे कफे वह्नौ च दीप्ते ज्ञेयम्॥

ऊर्ध्वगे रेचनं पूर्वमधोगे वमनं हितम्॥३॥

ऊर्ध्वगं मार्गमहिम्ना कफसंसृष्टम्। अधोगं च वातानुगम्। यदुक्तम्—ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगमिति। तेनोर्ध्वगेकफसंसर्गवाते वमनमेवोचितम्। अधोगे तु वाताशयप्रत्यासन्नदोषहरं विरेचनमेव युक्तमुच्यते रक्तपित्ते प्रतीपमार्गस्यैवेष्टत्वात्। तथाचोक्तम्—प्रतिमार्गं च हरणं रक्तपित्ते विधीयत इति। नोद्रिक्तमादावित्यादिना संग्रहस्यानौचित्यं दर्शितं तर्हि तत्र किं कुर्यादित्याह— ऊर्ध्वग इत्यादि। संशोधनार्हस्य बलवतो नस्यम्। ऊर्ध्वगे बहुदोषे रेचनं पूर्व हितम्। एवंविधस्याधोगे वमनं हितमिति॥३॥

त्रिवृतात्रिफलाश्यामापिप्पलीशर्करामधु॥
मोदकः संनिपातोत्थर152क्तपित्तज्वरापहः॥४॥

त्रिवृदरुणमूला श्यामा श्याममूला त्रिवृन्नतु श्यामा वृद्धदारुकः श्यामलता वा। चरके श्यामात्रिवृत्कल्पयोगस्य दर्शितत्वात्। अत्र मिलितचूर्णद्विगुणा शर्करा मध्वेकद्रव्यसममित्याचक्षते। युक्तं तु मधुशर्करयोर्मिलित्वैव चूर्णाद्द्वैगुण्यमुभयोरपि मोदककर्तृत्वात्॥४॥

मुस्तेन्द्रयवयष्ट्याह्वमदनाढ्यं पयोमधु॥
शिशिरं वमनं योज्यं रक्तपित्तहरं परम्॥५॥

सुगमम्॥५॥

शालिपर्ण्यादिना सिद्धा पेया पूर्वमधोगते॥
रक्तातीसारहन्ता च योज्यो विधिरशेषतः॥६॥

शालिपर्ण्यादिना सिद्धेति। शालिपर्ण्यादि स्वल्पपञ्चमूलम्। अतीसारोक्तोमहान्स्वल्पो वा शालिपर्ण्यादिः। स्वल्पपञ्चमूलेन तु प्रायः प्रचारः॥६॥

क्षीणमांसबलं बालं वृद्धं शोषसमन्वितम्।
अवम्यमविरेच्यं च स्तम्भनैः समुपाचरेत्॥७॥

सुगमम्॥७॥

स्तम्भनयोगानाह—

वृषपत्राणि निष्पीड्य रसं समधुशर्करम्॥
पिबेत्तेन शमं याति रक्तपित्तं सुदारुणम्॥८॥

वृषपत्राणि पत्रे बद्ध्वा दग्ध्वा च निष्पीडनीयानि। एवं रसः सुग्रहो भवति।

समधुशर्करमिति।व्यवहारात्प्रक्षेपो मधुमाषः शर्करामाषः। अयं च योगः सामान्योक्तादूर्ध्वगे विशेषेण प्रयोज्यः॥८॥

आटरूषकनिर्यूहे प्रियंगुं मृत्तिकाञ्जने॥
विनीय लोध्रंसक्षौद्रं रक्तपित्तहरं पिबेत्॥९॥

आटरूषको वासकः। मृत्तिका सौराष्ट्री मृत्। तदभावे कृष्णपञ्चकपर्पटी।अञ्जनं रसाञ्जनम्। विनीय प्रक्षिप्य। अत्र शास्त्रयुक्त्या प्रियंग्वादिकल्कक्षौद्रयोर्मिलित्वा कर्षः प्रक्षेपेऽर्हति। तदुक्तम्— मात्रा क्षौद्रघृतादीनां स्नेहक्वाथेषु चूर्णवत्। व्यवहारात्प्रक्षेप्यं मिलित्वा प्रियंग्वादिमाषाश्चत्वारः। मधुमाषाश्चत्वारः॥९॥

इदानीं वेगवति रक्तपित्ते सिद्धतमं योगमाह—

वासाकषायोत्पलमृत्प्रियंगुलोध्राञ्जनाम्भोरुहकेसराणि॥
पीत्वा सिताक्षौद्रयुतानि जह्यात्पित्तासृजो वेगमुदीर्णमाशु॥१०॥

वासायाः कषायः। उत्पलादीनां क्षौद्रान्तानां प्रक्षेपः। उत्पलं नीलोत्पलम्। मृत्केदारमृत्तिकेति डल्लणः। मृन्मृत्तिका सा च सौराष्ट्री ग्राह्या।धूली नूरीति कथ्यते लोकैः। अम्भोरुहकेसरं पद्मकेसरम्। कल्पनामाह—वासाकषायमुत्पलमृदादिचूर्णप्रक्षेपसिताक्षौद्रुयुतं पीत्वा नरो रक्तपित्तस्योदीर्णं वेगमाशु जह्याच्छीघ्रं परित्यजेदिति॥१०॥

वासायां विद्यमानायामाशायां जीवितस्य च॥
रक्तपित्ती क्षयी कासी किमर्थमवसीदति॥११॥

सुगमम्॥११॥

तालीसचूर्णयुक्तः पेयः क्षौद्रेण वासकस्वरसः॥
कफपित्तकासतमकश्वासस्वरभेदरक्तपित्तहरः॥१२॥

सुगमम्॥१२॥

आटरूषकमृद्वीकापथ्याक्वाथःसशर्करः॥
क्षौद्राढ्यःकसनश्वासरक्तपित्तनिवर्हणः॥१३॥

सुगमम्॥१३॥

समाक्षिकःफल्गुफलोद्भवो वा पीतो रसः शोणितमाशु हन्ति॥१४॥

फल्गुफलोद्भव इति। फल्गुः काकोदुम्बरिका। अयं च प्रयोगोऽधोगे प्रचरति॥१४॥

चन्दनेन्द्रयवाः पाठा कटुका सदुरालभा॥
गुडुची वासकं लोध्रं पिप्पलीक्षौद्रसंयुतम्॥
कफान्वितं जयेद्रक्तं कुष्ठकासज्वरापहम्॥१५॥

सुगमम्॥१५॥

क्षीरप्रयोगानभिधित्सुः क्षीरस्य विषयं ब्रूते—

कषायैर्विविधैर्योगैर्दीप्तेऽग्नौ विजिते कफे॥
रक्तपित्तं न चेच्छाम्येत्तत्र वातोल्बणे पयः॥१६॥

कषायाः कल्कचूर्णादयः। कषायशब्देनेह पञ्चविधकषायकल्पनाया अभीष्टत्वात्॥१६॥

छागंपयः स्यात्परमं प्रयोगे गवां153 शृतं पञ्चगुणे जले वा॥
सशर्करं माक्षिकसंप्रयुक्तं विदारिगन्धादिगणे शृतं वा॥१७॥

परमं प्रयोग इति। अभ्यास उत्कृष्टगुणम्। विदारिगन्धादिगणे शृतं वेति। विदारिगन्धादिः स्वल्पपञ्चमूलम्। इहापि शर्करामधुप्रक्षेपः॥१७॥

द्राक्षया पर्णिनीभिर्वा बलया मधुकेन वा॥
श्वदंष्ट्रयाशतावर्या रक्तजित्साधितं पयः॥१८॥

पर्णिनीभिर्वेति। पर्णिन्यश्चतस्रएव। ताश्च शालिपर्णी पृश्निपर्णी मुद्रपर्णी माषपर्णी।एवं सर्वत्र बहुवचनान्तनिर्देशे।द्विवचनप्रयोगे त्वाद्ये द्वे ग्राह्ये।द्राक्षादिभिर्द्रव्यगुणपर्यालोचनया यथार्हंपित्ताद्युल्बणे क्षीरसंस्काराः॥१८॥

पक्वोदुम्बरकाश्मर्यपथ्याखर्जूरगोस्तनाः॥
मधुना घ्नन्ति संलीढा रक्तपित्तं पृथक्पृथक्॥१९॥

खर्जूरस्य फलम्।गोस्तना द्राक्षा।मधुना घ्नन्ति संलीढा इति। मधुनो दैवादप्राप्तावनर्हत्वे वा सर्वत्र शार्करं जलम्। वङ्गसेनस्तु कदल्यादिकुसुमसंभवं वा मधु ग्राह्यम्॥१९॥

खदिरस्य प्रियंगूणां कोविदारस्य शाल्मलेः॥
पुष्पचूर्णं तु मधुना लिहन्नारोग्यमश्नुते॥२०॥

पुष्पचूर्णलेहो व्यस्तः सर्वत्र विभक्त्यन्तस्य निर्देशात्॥२०॥

लिहेत्तथा वास्तुकबीजचूर्णं क्षौद्रान्वितं तण्डुलजाह्वयं वा॥

वास्तुकबीजचूर्णं ट(प)क्ववास्तुकबीजचूर्णं क्षौद्रान्वितं लिहेत्। तण्डुलाह्वयं वेति। तण्डुलीयं क्षौद्रान्वितं वा लिहेदित्यर्थः। केचिदेवं पठन्ति—सतण्डुलीयं मधुनाऽवलेहयेत्सितायुतं वास्तुकमूलमेव वा। अयं पाठो यद्यपि टीकाकृदिर्न स्वीकृतस्तथाऽपि वास्तुकबीजचूर्णस्य सक्षौद्रस्यावलेहे सद्यःफलत्वादङ्गीकृतः। लिहेत्तथेत्यादि नार्षत्वादस्माभिर्नाभ्युपगम्यते॥

लिह्याच्च लाजाञ्जनचूर्णमेकमेवं सिताक्षौद्रयुतां तुगाख्याम्॥२१॥

लाजा भृष्टधान्यानि। अञ्जनं सौवीराञ्जनं स्त्रोतोञ्जनं वा। एकं प्रधानम्। एवं क्षौद्रेणेत्यर्थः। लाजाञ्जनचूर्णमित्यत्र कालाञ्जनचूर्णमिति केचित्पठन्ति। तत्र कालाञ्जनं सौवीराञ्जनम्। सिताक्षौद्रयुतामित्यादि। तुगाख्यां वंशरोचनानुकारि पार्थिवं द्रव्यम्।अन्ये वंशरोचनामाहुः। तां च शर्कराक्षौद्रयुतां लिह्यात्॥२१॥

वासकस्वरसे पथ्या सप्तधा परिभाविता॥
कृष्णा वा मधुना लीढा रक्तपित्तं द्रुतं जयेत्॥२२॥

द्रवेण यावता चूर्णमेकीभूयाऽऽर्द्रतां व्रजेत्॥
तावत्प्रमाणं निर्दिष्टं भिषग्भिर्भावनाविधौ॥२३॥

सुगमम्॥२२॥२३॥

अभया मधुना युक्ता पाचनी दीपनी मता॥
श्लेष्माणं रक्तपित्तं च हन्ति शूलातिसारनुत्॥२४॥

सुगमम्॥२४॥

लोहगन्धिनिनिश्वास उद्गारे धूमगन्धिनि॥
पृथ्वीकां शाणमात्रां च खादेद्द्विगुणशर्कराम्॥२५॥

पृथ्वीकां शाणमात्रामिति। पृथ्वीका कृष्णजीरकं न तु सूक्ष्मैला टीकाकृद्भिर्व्याख्यातत्वात्। शाणो माषचतुष्टयम्॥२५॥

एलादिगुटिकामाह—

एलापत्रत्वचोऽर्धाक्षाः पिप्पल्यर्धपलं तथा॥
सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः॥२६॥

संचूर्ण्य मधुसंयुक्ता गुटिकाःसंप्रकल्पयेत्॥
अक्षमात्रां ततश्चैकांभक्षयेत्तां दिने दिने॥२७॥

कासं श्वासं ज्वरं हिक्कां छर्दिं मूर्छां मदं भ्रमम्॥
रक्तनिष्टीवनं तृष्णां पार्श्वशूलमरोचकम्॥२८॥

शोषं प्लीहाढ्यवातांश्चस्वरभेदं क्षतक्षयम्॥
गुटिका तर्पणी वृष्या रक्तपित्तं च नाशयेत्॥२९॥

अर्धाक्षा इति प्रत्येकं कर्षार्धमानाः। एलाद्राक्षादिमोदकः॥२६॥२७॥२८॥२९॥

नासाप्रवृत्तरुधिरं घृतभृष्टं श्लक्ष्णपिष्टमामलकम्॥
सेतुरिव तोयवेगं रुणद्धि मूर्ध्नि प्रलेपेन॥३०॥

सुगमम्॥३०॥

घ्राणप्रवृत्ते जलमाशु देयं सशर्करं नासिकया पयो वा।
द्राक्षारसं क्षीरघृतं पिबेद्वासशर्करं चेक्षुरसं हिमं154 वा॥३१॥

नासास्रुतशोणितदुष्टदोषनिस्रावार्थं वाग्भटादेलादिगुटिका—

“त्रिजातमर्धकर्षशं पिप्पल्यर्धपलं सितम्।
द्राक्षां मधूकं खर्जूरं पलांशं श्लक्ष्णचूर्णितम्॥

मधुना गुटिका घ्नन्ति ता वृष्याःपित्तशोणितम्॥
कासश्वासारुचिच्छर्दिर्मूर्छाहिध्मामदभ्रमान्॥

क्षतक्षयस्वरभ्रंशप्लीहशोपाढ्यमारुतान्॥
रक्तनिष्ठीवनं पार्श्वरुक्पिपासाज्वरानपि”॥

त्रिजातं त्वक्पत्रैलम्। अर्धकर्षाशं प्रत्येकं द्रव्यं शाणद्वयप्रमाणम्। पिप्पल्पर्धपलम्। सिता शर्करा।द्राक्षा गोस्तनी।मधूकं मधूकपुप्पम्। खर्जूरम्। एतानि चत्वारि द्रव्याणि पलप्रमाणानि प्रत्येकम्। ततः समस्तं श्लक्ष्णचूर्णितम्। मधुना माक्षिकेण गुटिकाः कृतास्ता वृष्याभवन्ति पित्तशोणितं रक्तपित्तं घ्नन्ति कासादींश्च। आढ्यमारुतं वातशोणितम्। इत्येलादिवाष्पचन्द्रनन्दनविरचितं द्वित्रिदिनमुपेक्षते। जलं सशर्करं तस्य।पयः सशर्करम्।द्राक्षारसः केवलः। क्षीरघृतं क्षीरादुत्थितंघृतम्। केचिन्नासिकयेत्यत्र नस्तकयोरिति पठन्ति।

अथ डल्लणव्याख्या—घ्राणगेऽपरमपि नस्ययोगमाह—द्राक्षारसमिति।द्राक्षारसं सशर्करं नासिकया पिबेत्। क्षीरघृतं क्षीरमथनोद्भूतं तद्वा सशर्करं नासिकया पिबेत्। इक्षुरसं हिमं वा तथैव पिबेत्। इत्थं त्रयो योगाः कल्पनीयाः। तथा च तत्रान्तरम्

" द्राक्षारसस्य नस्यं नस्यं वा क्षीरसर्पिषः सपदि।
इक्षो रसस्य नस्यं सशर्करं रक्तमु(नु)द्भवति" इति॥३१॥

नस्यं दाडिमपुष्पोत्थो रसो दूर्वाभवोऽथवा॥
आम्रास्थिजः पलाण्डोर्वा नासिकास्रुतरक्तजित्*155
मेढ्रगेऽतिप्रवृत्ते तु बस्तिरुत्तरसंज्ञितः॥३२॥

सुगमम्॥३२॥

सच्छागदुग्धश्च सशर्करश्चरसो हितो दाडिमपुष्पजश्च॥३३॥

दाडिमपुष्पस्वरस एव च्छागदुग्धशर्करे प्रक्षिप्य नस्यम्॥३३॥

शृतं क्षीरं पिबेद्वाऽपि पञ्चमूल्या तृणाह्वया॥

पञ्चमूल्या तृणाह्वयेति। तृणपञ्चमूल्या। तृणपञ्चमूली सुश्रुतस्य कुशकाशशरेक्षुदर्भा इति। अत्र दर्भ उलूअ(?)। चरकस्य तु—शरेक्षुदर्भकाशानां शालीनां मूलमेव चेति। द्वितयमपीह प्रशस्तम्॥

दूर्वाद्यंघृतमाह—

दूर्वासोत्पलकिञ्जल्कमञ्जिष्ठा सैलवालुका॥३४॥

सितासितमुशीरं च मुस्तचन्दनपद्मकैः॥
विपचेत्कार्षिकैरेतैः सर्पिराजं सुखाग्निना॥३५॥

तण्डुलाम्बु त्वजाक्षीरं दत्त्वा चैव चतुर्गुणम्॥
तत्पानं वमतो रक्तं नावनं नासिकागते॥३६॥

कर्णाभ्यां यस्य गच्छेत्तु तस्य कर्णौ प्रपूरयेत्॥
चक्षुःस्राविणि रक्ते च पूरयेत्तेन चक्षुषी॥३७॥

मेढ्रपायुप्रवृत्ते च बस्तिकर्मसु तद्धितम्॥
रोमकूपप्रवृत्ते च तदभ्यङ्गे प्रयोजयेत्॥३८॥

सितं श्वेतचन्दनमिति क्वचिद्वृन्दटिप्पण्यां दृश्यते। बहुवारवृक्षत्वग्रसाञ्जनं चेतिचक्रः। श्वेतचन्दनेन प्रचारः। तण्डुलोदकमजाक्षीरं च प्रत्येकं चतुर्गुणं दत्त्वा चैवेति चकारात्। दूर्वाद्यंघृतम्॥३४॥३५॥३६॥३७॥३८॥

वासाद्यं घृतमाह—

वासां सशाखां सपलाशमूलां कृत्वा कषायं कुसुमानि चास्याः॥
प्रदाय कल्कं विपचेद्घृतं तु सक्षौद्रमाश्वेव निहन्ति रक्तम्॥३९॥

शणस्य कोविदारस्य वृषस्य ककुभस्य च॥
कल्काढ्यत्वात्प्रशंसन्ति पुष्पकल्कं चतुष्पलम्॥४०॥

वासां सशाखां सपलाशमूलामित्यनेन वासायाः सर्वाङ्गोपयोगार्हत्वं दर्शयति। अस्याश्चाऽऽर्द्रायाअप्यद्वि156गुणाया एव क्वाथविधिः।

यदुक्तम्—

“वासाकुटजकूष्माण्डशतमूलासहामृताः॥
नित्यमार्द्राः प्रयोक्तव्या मानतो द्विगुणा157 न ताः” इति॥

वासापुष्पकल्कश्च कल्कबाहुल्याच्चतुष्पलः। प्रस्थमाने घृते। मानविशेषानिर्देशेऽपि घृतस्येह प्रस्थ एव पक्तव्यः स्नेहपाकस्य प्रायेण प्रस्थश्रुतेः। आढकादिश्रुतिस्तु क्वचिदेव।

यत्पुनः—

“स्नेहपाकविधौ यत्र प्रमाणं नोदितं क्वचित्॥
स्नेहस्य कुडवं तत्र पचेत्कल्कपलेन तु"॥

इति परिभाषया स्नेहकुडवपाकाभिधानं तन्नस्यविषयं ज्ञेयम्। सक्षौद्रमिति। क्षौद्रं पादिकं ज्ञेयं तच्च सिद्धे शीते घृते प्रक्षेप्यम्। वासाद्यं घृतम्॥३९॥४०॥

शतावरीदाडिमतित्तिडीककाकोलिमेदे मधुकं विदारीम्॥
पिष्ट्वा च मूलं फलपूरकस्य घृतं पचेत्क्षीरचतुर्गुणं च158
कासज्वरानाहविबन्धशूलं तद्रक्तपित्तं च घृतं निहन्ति॥४१॥

सुगमम्।शतावरीघृतम्॥४१॥

शतावरीघृतमाह—

शतावर्यास्तु मूलानां रसप्रस्थद्वयं मतम्॥४२॥

तत्समं च भवेत्क्षीरं घृतप्रस्थं विपाचयेत्॥
जीवकर्षभकौमेदा महामेदा तथैव च॥४३॥

काकोली क्षीरकाकोली मृद्वीका मधुकं तथा॥
मुद्गपर्णी माषपर्णी विदारी रक्तचन्दनम्॥४४॥

शर्करामधुसंयुक्तं सिद्धं विस्रावयेद्भिषक्॥
रक्तपित्तविकारेषु वातरक्तगदेषु च॥४५॥

क्षीणशुक्रे च दातव्यं वाजीकरणमुत्तमम्॥
अंसदाहं शिरोदाहंज्वरं पित्तसमुद्भवम्॥४६॥

योनिशूलं च दाहं च मूत्रकृच्छ्रं च पैत्तिकम्।
एतान्रोगान्निहन्त्याशु च्छन्नाभ्रमिव मारुतः॥४७॥

शतावरीसर्पिरिदं बलवर्णाग्निवर्धनम्।
शतावरीघृते चास्मिञ्शर्करामधु पादिकम्॥
मध्वेव पादिकं देयं159 वासासर्पिषि संमतम्॥४८॥

शर्करामधुसंयुक्तमिति। सिद्धे घृते शीते मधुशर्करयोर्मिलित्वा पादिकयोः प्रक्षेपः।

चक्रेणाप्युक्तम्—

“स्नेहपादः स्मृ160तः कल्कः कल्कवन्मधुशर्करे।
इतिवाक्यबलात्स्नेहे प्रक्षेप्यं पादिकं भवेत्" इति।

शतावरीघृतम्॥४२॥४३॥४४॥४५॥४६॥४७॥४८॥

खण्डकूष्माण्डमाह—

कुष्माण्डकात्पलशतं सुस्विन्नं निष्कुलीकृतम्॥४९॥

पचेत्तदा घृ161तप्रस्थे शनैस्ताम्रमये दृढे॥
यदा मधुनिभः पाकस्तदा खण्डशतं न्यसेत्॥५०॥

पिप्पलीशङ्कवेराभ्यां द्वे पले जीरकस्य च॥
त्वगेलापत्रमरिचधान्यकानां पलार्धकम्॥५१॥

न्यसेच्चूर्णीकृतं तत्र दर्व्या संघट्टयेत्तदा162
लेहीभूते सुशीते च दद्यात्क्षौद्रं घृतार्धकम्॥५२॥

तद्यथाग्निबलं खादेद्रक्तपित्ती क्षतक्षयी॥
कासश्वासतमश्छर्दितृष्णाज्चरनिपीडितः॥५३॥

वृष्यं पुनर्नवकरं बलवर्णप्रसादनम्॥
उरःसंधानकरणं बृंहणं स्वरबोधनम्163॥५४॥

अश्विभ्यां निर्मितं श्रेष्ठं कूष्माण्डकरसायनम्*164
खण्डकामलकीन्यायाद्रसप्रस्थद्वयोक्तितः॥५५॥

खण्डकूष्माण्डके पात्रं165 स्विन्नकूष्माण्डकद्रवात्।
अन्यत्र खण्डकूष्माण्डात्संमतः सकलो रसः॥
युक्तसर्पिषि कूष्माण्डे पाको गन्धेन मुद्रया॥५६॥

निष्कुलीकृतमिति।निस्त्वगस्थिकृतं कूष्माण्डं शलाकया कृतच्छिद्रं किंचिज्जलं दत्त्वोत्स्वेद्य क्षौमे निवेश्य पोडयेत्। आतपे मनाक्संशोष्य पिष्ट्वाच पलशतं गृहीत्वा विपक्तव्यमिति कर्ममार्गः। पिप्पलीशृङ्गवेराभ्यां द्वे पले इति। कणाशुण्ठ्योः प्रत्येकं पलद्वयम्। जीरकस्य च द्वे पले। तन्त्रान्तरसंमतं चैतत्। तद्यथा—द्विपलांशैः कणाशुण्ठीजीरकैरवचूर्णितैरिति। वैद्यप्रसारकेऽप्येतादृशमेव विवृतम्। व्यवहारोऽपीत्थमेव। चक्रस्तु पारणसंबन्धादर्धपलत्वमाह। त्वगादीनां पलार्धं प्रत्येकम्। घृतार्धकमिति प्रस्थार्धमानम्। पाकलक्षणं तस्य—‘युक्तसर्पिषि कूष्माण्डे पाको गन्धेन मुद्रया’ इति। चक्रेणाप्युक्तम्—अत्रापि मुद्रया पाको निस्त्वचं निष्कुलीकृतमिति। खण्डकामलकीन्यायाद्रसप्रस्थद्वयोक्तित इति। खण्डामलक्यामामलकरसप्रस्थः कूष्माण्डकरसप्रस्थश्चकूष्माण्डतुलार्धे दर्शितः। तेनेह शतपले द्वैगुण्येन कूष्माण्डरसस्य पात्रं देयम्। अन्यत्र खण्डकूष्माण्डात्संमतः सकलो रसः। तत्रान्तरे कूष्माण्डपलशताद्यावान्रसः पीडनेन संभवति तावता पाक उक्तः। तेनेहापि तथैवाऽऽकूतम्। प्रचारश्चेत्थमेव। अत्र तन्त्रान्तरम्

“वृद्धं पुरातनं चापि कूष्माण्डं कठिनं दृढम्।
त्वक्साराभ्यां विनिर्मुक्तमन्तर्बीजैर्विवर्जितम्।

स्विन्नंसुपिष्टं दृपदि वस्त्रेण च प्रपीडितम्।
विशुष्कमातपे किंचिद्ग्राह्यं तत्तुलया धृतम्।

उदुम्बरे कटाहे च पचेत्प्रस्थेन सर्पिषः।
कृत्वा क्षौद्रनिभं तस्मिन्क्षिपेत्खण्डशतं भिषक्।

कूष्माण्डपीडनात्तोयं यत्तेन विपचेत्पुनः॥
सुशीतपाके निष्पन्ने सर्पिषाऽर्धं क्षिपेन्मधु॥

कणापलद्वयं चापि जीरकं च सनागरम्।
त्रिसुगन्धि सधान्याकं मरिचंशुक्तिमानिकम्” इत्यादि।

खण्डकूष्माण्डकः॥४९॥५०॥५१॥५२॥५३॥५४॥५५॥५६॥

वासाखण्डकूष्माण्डमाह—

पञ्चाशच्च पलं स्विन्नकूष्माण्डात्प्रस्थमाज्यतः॥५७॥

पक्वंपलशतं खण्डं वासाक्वाथाढके पचेत्॥
शुभाधात्रीघनाभार्ङ्गीत्रिसुगन्धैश्च कार्षिकैः॥५८॥

ऐलेयविश्वधान्याकमरिचैश्च पलांशकैः॥
पिप्पलीकुडवं चैवमधुमानीं प्रदापयेत्॥५९॥

कासं श्वासं क्षयं हिक्कां रक्तपित्तं हलीमकम्॥
हृद्रोगमम्लपित्तं च पीनसं च व्यपोहति॥६०॥

पञ्चाशच्च पलं स्विन्नकूष्माण्डादिति। पूर्ववत्स्विन्नसंस्कृतकूष्माण्डात्पञ्चाशत्पलं न चात्र खण्डकूष्माण्डकवत्कूष्माण्डकस्य रसो ग्राह्यः।पाकार्थं वासाक्वाथस्योपात्तत्वात्। शुभा वंशरोचना।ऐलेयमेलवालुकम्। मधुमानीमिति।मधुनोऽष्टौ पलानि। मानिकाऽष्टौ पलान्येव, इत्यवधारणात्। अष्टावेव पलानि न तु कुडवद्वयकल्पनायोग्यतया द्वैगुण्यम्। वासाखण्डकूष्माण्डः॥५७॥५८॥५९॥६०॥

वासाखण्डमाह—

तुलामादाय वासायाः पचेदष्टगुणे जले॥
तेन पादावशेषेण पाचयेदाढकं भिषक्॥६१॥

चूर्णानामभयानां तु खण्डाच्छुद्धाच्छतं तथा॥
द्वे पले पिप्पलीचूर्णात्सिद्धशीते च माक्षिकात्॥६२॥

कुडवं पलमानं च चातुर्जातं सुचूर्णितम्॥
क्षिप्त्वा विलोडितं खादेद्रक्तपित्ती यथाबलम्166॥६३॥

कासश्वासगृहीतश्च यक्ष्मणा च निपीडितः167॥६४॥

पाचयेदाढकं भिषक्। चूर्णानामभयानामिति। अभयाचूर्णाढकमेव पचेत्। तथैव निर्देशात्। तेनेह चूर्णानां पाको नास्तीति परिभाषा न प्रवर्तते। **पलमानं च चातुर्जातमिति।**चातुर्जातं त्वगेलापत्रनागकेसरम्।

तदुक्तम्—

“चातुर्जातं समाख्यातं त्वगेलापत्रकेसरैः।
तदेव पुनराख्यातं त्रिसुगन्धमकेसरम्” इति।

तच्च प्रत्येकं पलिकम्। वासाखण्डः॥६१॥६२॥६३॥६४॥

खण्डखाद्यलो168हमाह—

शतावरी छिन्नरुहा वृषो मुण्डितिका बला॥६५॥

तालमूली च गायत्री त्रिफलायास्त्वचस्तथा॥
भार्ङ्गीपुष्करमूलं च पृथक्पञ्च पलानि च॥६६॥

जलद्रोणे विपक्तव्यमष्टभागावशेषितम्॥
दिव्यौषधिहतस्यापि माक्षिकेण हतस्य च॥६७॥

पलद्वादशकं देयं रुक्मलोहस्य चूर्णितम्॥
खण्डतुल्यं घृतं देयं पलषोडशकं बुधैः॥६८॥

पचेत्ताम्रमये पात्रे गुडपाको मतो यथा॥
प्रस्थार्धंमधुनो देयं शुभाश्मजतुकं त्वचम्॥६९॥

शृङ्गी विडङ्गं कृष्णा च शुण्ठ्यजाजी पलं मतम्॥
त्रिफला धान्यकं पत्रं द्व्यक्षं मरिचकेसरम्॥७०॥

चूर्णं दत्त्वा सुमथितं स्निग्धभाण्डे निवासयेत्॥
यथाकालं प्रयुञ्जीत बिडालपदकं ततः॥७९॥

गव्यक्षीरानुपानं च सेव्यं मांसरसं पयः॥
गुरुवृष्यान्नपानानि स्निग्धमांसादि बृंहणम्॥७२॥

रक्तपित्तं क्षयं कासं पक्तिशूलं विशेषतः॥
वातरक्तं प्रमेहं च शीतपित्तं वमिं क्लमम्॥७३॥

श्वयथुंपाण्डुरोगं च कुष्ठं प्लीहोदरं तथा॥
आनाहं169मुत्रसंस्रावमम्लपित्तं निहन्ति च॥७४॥

चक्षुष्यं बृंहणं वृष्यं माङ्गल्यं प्रीतिवर्धनम्॥
आरोग्यपुत्रदं श्रेष्ठं कायाग्निबलवर्धनम्॥७५॥

श्रीकरं लाघवकरं खण्डखाद्यं प्रकीर्तितम्॥
छागं पारावतं मांसं तित्तिरिःक्रकरः शशः॥७६॥

कुलिङ्गाः170 कृष्णसाराश्च तेषां मांसानि योजयेत्॥
नारिकेलपयः पानं सुनिषण्णकवास्तुकम्॥७७॥

शुष्कमूलकजीवाख्यं पटोलंबृहतीफलम्॥
फलं वार्ताकपक्वाम्रं171खर्जूरं स्वादुदाडिमम्॥७८॥

ककारपूर्वकं यच्च मांसं चानूपसंभवम्॥
वर्जनीयं विशेषेण खण्डखाद्यं प्रकु172 शीतलेजे दाहे सद्यःस्मृतिविभ्रमे च॥२॥ एतद्धितं मूर्ध्नि गते च वाते श्वासे सहिक्कासहृदामये च॥ मनोभितापे च ततोऽङ्गतापे योन्यामये सप्रदरेऽतिवेगे॥३॥ रक्तेऽतिमात्रं पतिते मुखे च गुदेऽथ नासामुखमेढ्रयोनौ॥प्रोक्तं रक्तपित्तविनिग्रहार्थं चूर्णं विशिष्टेन महागदघ्नम्॥४॥ पत्रकाद्यं चूर्णम्॥ चन्दनं नलदं रोध्रमुशीरं पद्मकेसरम्॥नागपुष्पं तथा बिल्वं भद्रमुस्तं सशर्करम्॥५॥ह्रीवेरं चैव पाठां च कुटजस्य फलं त्वचम्।शृङ्गवेरं चातिविषं धातकीसरसाञ्जनम्॥६॥ आम्रास्थि जन्तुसारश्च तथा मोचरसो भवेत्॥ तण्डुलोदकसंयुक्त क्षौद्रेण सह संयुतम्॥७॥ हितं लोहितपित्तानामर्शःसु लोहितेषु च॥ मूर्छातमोपसृष्टानां ज्वरार्तानां च दापयेत्॥८॥ चलतां चाऽऽमगर्भाणां स्तम्भनं परमुच्यते॥अश्विभ्यां विहितं पूर्वं रक्तपित्तविनाशनम्॥९॥ चन्दनादिचूर्णम्। इत्यधिकमत्र।")र्वता173॥७९॥

वृषो वासा। मुण्डितिका मुण्डिनी।गायत्री खदिरः। त्रिफलायास्त्वच इति। निरस्थित्रिफला। दिव्यौषधिर्मनःशिला कशीमूलं च।माक्षिकेणेति। सुवर्णमाक्षिकेण। मनः शिलासुवर्णमाक्षिकाभ्यां प्रत्येकं मिलित्वा वा प्रलिप्य दग्ध्वा च लोहं मारणीयम्। लोहान्तरवदत्रापि पुटनादिक्रियेष्यत इति चक्रःरुक्मलोहस्येति। तीक्ष्णलोहस्य। वज्रपाण्ड्यादिलोहमपीह प्रशस्यम्। खण्डतुल्यमिति। रक्तपित्ते मृदुद्रव्यस्य हितत्वात्। परेण घृतेन समं संबन्धाद्घृतवत्खण्डं षोडशपलं ज्ञेयम्। अन्यस्त्वाह—अनन्तरगतविधिपरित्यागे प्रमाणाभावाल्लोहे तुल्यं खण्डं द्वादशपलमिति। एवं प्रचारः प्रायेण।शुभा वंशरोचना।अश्मजतु शिलाजतु। त्वचं गुडत्वक्।पलं मतमिति। शुभादीनां प्रत्येकं पलम्। त्रिफलादीनां प्रत्येकं द्विकर्षः। बिडालपदकं कर्षः। प्रचारस्तु पुनरितरलोहवदिहापि भक्षणे मानक्रमः। गव्यक्षीरानुपानं च चतुःषष्टिगुणं लोहान्तरे तथा दर्शनात्। उक्तं हि—अनुपानं चतुःषष्टिगुणं प्राहुः सदा बुधा इति। ककारपूर्वकमिति। विहितक्रकरकुलिङ्गकादीन्विहाय यदन्यत्ककारपूर्वकं कपोतकालचटकादि तत्परित्याज्यम्।जीवाख्यं जीवशाकं स्वल्पमारिषाकारः। स्वण्डखाद्यलोहः॥६९॥६६॥६७॥६८॥६९॥७०॥७१॥७२॥७३॥७४॥७५॥७६॥७७॥७८॥७९॥

यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम्॥
रक्तपित्ते हितं तच्च क्षतक्षीणहितं च यत्॥८०॥

सुगमम्॥८०॥

शालिपष्टिकगोधूमचणमुद्गमसूरिकाः॥
श्यामाकाश्चप्रियंग्वश्चभोजनं रक्तपित्तिनः॥८१॥

सुगमम्॥८१॥

पटोलनिम्बवेत्राग्रतण्डुलीयादयो हिताः॥

सुगमम्।

पारावतकपोताद्याः शशैणहरिणास्तथा॥८२॥

सुगमम्॥८२॥

वृषस्य स्वरसं कृत्वा द्रव्यैरेभिः प्रयोजयेत्॥
प्रियंगुमृत्तिकालोध्रमञ्जनं चेति चूर्णयेत्॥८३॥

एतच्चूर्णं पाययेत्तद्रसैः क्षौद्रसमन्वितैः॥
नासिकामुखपायुभ्यो यानि मेढ्राच्च वेगितम्॥८४॥

रक्तपित्तं स्रवद्धन्ति सिद्ध एष प्रयोगराट्॥
यच्च शस्त्रक्षतेनैव रक्तं तिष्ठति वेगितम्॥
तदप्यनेन चूर्णेन तिष्ठत्येवावचूर्णितम्॥८५॥

सुगमम्॥८३॥८४॥८५॥

सामान्योदितयोगेषु द्रव्यशक्तिं समीक्ष्य हि॥
प्रयोज्यो रक्तपित्तादौ योगो वातादिजे गदे॥८६॥

वातादिजे गद इति। सामान्योक्तोऽपि योगो रक्तपित्तादौ गदे वाताद्युद्रेके सति विशेष एव योज्यत इत्यर्थः॥८६॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां नवमो
रक्तपित्ताधिकारः समाप्तः॥९॥
<MISSING_FIG href="../../../books_images/U-IMG-17062877501..b.jpg"/>

अथ दशमो राजयक्ष्माधिकारः।
_________

यक्ष्मरूपेषु पित्ताद्रक्तस्य चाऽऽगम इत्यभिधानाद्रक्तपित्तानन्तरं यक्ष्मा।

शालिषष्टिकगोधूमयवमुद्गादयः शुभाः॥
मद्यानि जाङ्गलाः पक्षिमृगाः शस्ता विशुष्यतः॥१॥

“न शालिघृतगोधूमदधिदुग्धसमं भवेत्।
किंचिदाजन्मसात्म्यत्वाद्द्रव्यं संतर्पणे हितम्” इति॥१॥

षडङ्गयूषमाह—

सपिप्पलीकं सयवं सकुलत्थं सनागरम्॥
सदाडिमं174 सामलकं स्निग्धमाजं रसं पिबेत्॥२॥

तेन षड्विनिवर्तन्ते विकाराः पीनसादयः॥
द्रव्यतो द्विगुणं मांसं सर्वतोऽष्टगुणं जलम्॥
पादस्थं संस्कृतं चाऽऽज्ये षडङ्गो यूष उच्यते॥३॥

यवकुलत्थावन्यद्रव्यापेक्षया प्रचुरौ देयौ। पिप्पली शुण्ठी च तावती देया यावतीभ्यां कटुत्वमात्रं स्यात्। एवमम्लत्वार्थं दाडिमामलकयोर्दानम्। एतच्च सर्वं सर्वद्विगुणमांसेन सहैकीकृत्याष्टगुणे जले क्वथनीयम्। तत्र पादस्थं घृतेन संस्कृतं ग्राह्यमिति वृन्दसंमतम्। चक्रमते तु षडङ्गपानीयन्यायेन द्रव्यं जलं च गृहीत्वाऽर्धशृतं कार्यम्।तेन सह सूदशास्त्रोक्तपरिभाषया परिमितसुपिष्टमांसं पक्त्वा यूपः साध्यः। यदाह चरकः

“द्रव्याम्बुमानं पेयावत्सूदशास्त्रवशादिह।
पलानि द्वादश प्रस्थे वनेऽथ तनुके च षट्।
मांसस्य वटकं कुर्यात्पलमच्छतरे रसे” इति।

एवं सर्वत्र रसविधौ विधाद्वयी बोद्धव्या। वृन्दमते तनुप्रचारः।पीनसादय इति। प्रतिश्यायादयः। चरके हि

“प्रतिश्याये शिरःशूले कासे श्वासे स्वरक्षये।
पार्श्वशूले च विविधाः क्रियाः साधारणीः शृणु” इत्यादि।

ग्रन्थान्तरेऽप्ययं पठितः—तेनैत एव षड्विकारा इहाभिमताः। षडङ्गयूषः॥२॥३॥

धान्याकपिप्पलीविश्वदशमूलीजलं पिबेत्॥
पार्श्वशूलज्वरश्वासपीनसादिनिवृत्तये॥४॥

योगो वातकफोत्तरे।त्रयोदशाङ्गः॥४॥

अश्वगन्धामृताभीरुदशमूलीबलावृषाः॥
पुष्करातिविषे घ्नन्ति क्षयं क्षीररसाशिनः॥५॥

अश्वगन्धेत्यादिक्वाथः। असमासनिर्देशादिह पुष्करातिविषे प्रक्षेपः। अभीरुः शतावरी।सप्तदशाङ्गः॥५॥

दशमूलीबलारास्नापुष्करैः सुरदारुभिः॥
नागरैः क्वथितं पेयं क्षयकासादिशान्तये॥६॥

सुगमम्॥६॥

ककुभत्वङ्नागबलावानरिबीजानि चूर्णितं पयसि॥
पक्वंमधुघृतयुक्तं ससितं यक्ष्मादिकासहरम्॥७॥

ककुभोऽर्जुनः। नागबला गोरक्षतण्डुला। अस्याश्च मूलमिह। वानरी शूकशिम्बा। चूर्णमिदं सर्वं शर्करां च दुग्धे प्रक्षिप्य क्षीररसवदुत्कारिका साध्या।घृतमिदं भर्जनार्थम्।मधु शीते देयम्॥७॥

मधुताप्यविडङ्गाश्मजतुलोहघृतामयाः॥
घ्नन्ति यक्ष्माणमत्युग्रं सेव्यमाना हिताशिना॥८॥

ताप्यं सुवर्णमाक्षिकम्। अश्मजतु शिलाजतु।लोहमगुरु।लेहोऽयं मधुना। सप्तामृतलेहः॥८॥

कृष्णाद्राक्षासितालेहः क्षयहा क्षौद्रतैलवान्॥
मधुसर्पिर्युतोवाऽश्वगन्धाकृष्णासितोद्भवः॥९॥

सुगमम्॥९॥

शर्करामधुसंयुक्तं नवनीतं लिहन्क्षयी॥
क्षीराशी लभते पुष्टिमतुल्ये वाऽऽज्यमाक्षिके॥१०॥

अतुल्ये वाऽऽज्यमाक्षिके इत्यत्रापि लिहन्क्षीराशी लभते पुष्टिमिति संबध्यते॥१०॥

सितोपलातुगाक्षीरीपिप्पलीबहुलात्वचः॥११॥

अन्त्यादूर्ध्वं द्विगुणितं लेहयेन्मधुसर्पिषा॥
चूर्णितं प्राशयेद्वाऽपि श्वासकासकफातुरम्॥१२॥

पार्श्वशूलिनमल्पाग्निंसुप्ताजिह्वमरोचिनम्॥
हस्तपादांसदाहेषु ज्वरे रक्ते तथोर्ध्वगे॥१३॥

सितोपला सितशर्करा।तुगाक्षीरी वंशरोचना।तदभावे तद्गुणा तवक्षीरी। एवं सर्वत्र। बहुला, एला। त्वक्, गुडत्वक्।अन्त्यादूर्ध्वं द्विगुणितमिति। अन्त्यायास्त्वच एको भागः। एलाया द्वौ। पिप्पल्याश्चत्वारः।तुगाक्षीर्या अष्टौ। सितोपलायाः षोडश। ऊर्ध्वमित्यनेन चेहातीतमुच्यते विवक्षावशात्। अत ऊर्ध्वमित्यादावूर्ध्वमित्यनेन नानामतमुच्यते। प्राशयेद्वेत्यनेन मधुघृतभक्षणं दर्शयति। हस्तपादांसदाहेष्वित्यादिफलश्रुतिं चरके भाविवासाघृतशतावरीघृताभ्यां सह योजयति। इति जेज्जटः। सितोपलादेरेवेयं फलश्रुतिरितीशानः। सितोपलादिलेहः॥११॥१२॥१३॥

दशमूलीशृता175त्क्षीरात्सर्पिर्यदुदियान्नवम्॥
तत्कणामधुसंयुक्तं घृतं स्वरविशोधनम्॥१४॥

शिरोसपार्श्वशूलघ्नं श्वासकासज्वरापहम्॥
सिद्धं जगति विख्यातं शोषिणां परमौषधम्॥१५॥

सुगमम्॥१४॥१५॥

शतपुष्पां नतं कुष्ठं मधुकं देवदारु च॥
पिष्ट्वा लेपःससर्पिष्कः पृष्ठपार्श्वांसरुक्षु च॥१६॥

सुगमम्॥१६॥

चूर्णं काकुभमिष्टं वासकरसपरिभावितं बहून्वारान्॥
घृतमधुसितोपलाभिर्लेह्यं क्षयकासरक्तपित्तहरम्॥१७॥

बहून्वारानिति। अन्यतो दर्शनात्सप्तवारान्भावयेत्॥१७॥

एलामन्थमाह—

एलाजमोदामलकाभयाक्षगायत्रिनिम्बासनशालसारान्॥
विडङ्गभल्लातकचित्रकांश्चकटुत्रिकाम्भोदसुराष्ट्रजांश्च॥१८॥

पक्त्वा जले तेन पचेत्तु सर्पिस्तस्मिन्सुसिद्धे त्ववतारिते च॥
त्रिंशत्पलान्यत्र सितोपलाया दद्यात्तुगाक्षीरिपलानि षट् च॥१९॥

प्रस्थे घृतस्य द्विगुणं च दद्यात्क्षौद्रं ततो मन्थहतं विदध्यात्॥
पलं पलं प्रातरतो लिहेच्च पश्चात्पिवेत्क्षीरमतन्द्रितश्च॥२०॥

एतद्धि मेध्यं परमं पवित्रं चक्षुष्यमायुष्यतमं तथैव॥
यक्ष्माणमाशु व्यपहन्ति नूनं पाण्ड्वामयं चापि भगंदरं च॥२१॥

श्वासं च हन्ति स्वरभेदकासहृत्प्लीहगुल्मग्रहणीगदांश्च॥
न चात्र किंचित्परिवर्जनीयं रसायनं चैतदुपास्यमानम्॥२२॥

एलादिकान्सुराष्ट्रजातान्कषायकल्पेन विपाच्य तेन क्वाथेन सर्पिर्विपचेदिति संबन्धः। पक्त्वा जले तेन पचेत्तु सर्पिरित्यभिधानात्। क्वाथेनैव केवलेन चतुर्गुणेन साध्यम्। तस्मिन्घृते सिद्धे पूते शर्करायास्त्रिंशत्पलानि दद्यात्। तुगाक्षीर्याश्च षट् पलानि। द्विगुणं च दद्यात्क्षौद्रमिति। घृतप्रस्थापेक्षया द्विगुणं द्विप्रस्थप्रमितं क्षौद्रं मधु दद्यात्। अजमोदा यवानी। अक्षं विभीतकम्। गायत्री खदिरः। अरिष्टो निम्बः। असनः पतिशालो बीजक इति यावत्। शालः शङ्कुः।सारशब्दः खदिरादिभिः संबध्यते। उग्रा वचा।अम्भोदो मुस्तम्। सुराष्ट्रजा सौराष्ट्री मृत्तिका तुवरमृत्तिका।तुगाक्षीरी वंशरोचना। अन्ये वंशरोचनानुकारि पार्थिवं द्रव्यमाहुः। मन्थहतमिति।मन्थो मन्थानदण्डस्तेन विलोडितम्। अतोऽस्माद्रसायनात्। अतन्द्रितोऽनलसः। मेध्यं मेधाजनकम्। अत्र रसायने। एलामन्थः॥१८॥१९॥२०॥२१॥२२॥

सार्पिर्गुडमाह—

बला विदारी हस्वा च पञ्चमूली पुनर्नवा॥
पञ्चानां क्षीरिवृक्षाणां शृङ्गा मुष्ट्यंशका अपि॥२३॥

एषां कषाये द्विक्षीरे विदार्याजरसांशके॥
जीवनीयैः पचेत्कल्कैरक्षमात्रैर्घृताढकम्॥२४॥

सितापलानि पूते च शीते द्वात्रिंशतं क्षिपेत्॥
गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च॥२५॥

समाक्षिकं कौडविकं तत्सर्वं खजमूर्छितम्॥
स्त्यानं सर्पिर्गुडान्कृत्वा भूर्जपत्रेण वेष्टयेत्॥२६॥

ताञ्जग्ध्वा पालिकान्क्षीरं मद्यं चानु पिबेत्कफे॥
शोषे कासे क्षतक्षीणे श्रमस्त्रीभारकर्षिते॥२७॥

रक्तनिष्ठीवने तापे पीनसे चोरसः क्षते॥
हिताः पार्श्वशिरःशूले भेदे च स्वरवर्णयोः॥
द्रोणे वारिगुडे चास्मिन्नथ षोडशिकं जलम्॥२८॥

विदारी विदारीकन्दः।पञ्चानां क्षीरिवृक्षाणामिति। क्षीरिवृक्षाः पञ्च वटोदुम्बरपर्कटीपिप्पलगर्दभाण्डाः। शृङ्गा अविकसितपत्रमुकुलाः। मुष्टयंशकाः प्रत्येकम्। मुष्टिः पलम्। एवं बलादीनां त्रयोदश पलानि। एष्वष्टगुणजलेन जलशरावास्त्रयोदश।पादशेषः शरावत्र्यं पादः १।कषायद्वैगुण्येन क्षीरशरावाः षट् पादद्वयम्।पलकषायसमांशत्वेन विदारीरसशरावत्रयं पादः १ छागमांसरसशरावाः३ पादः१ एवं घृतम्। समद्रवेण पाक इतीशानः।

“द्रव्यमापोथितं क्वाथ्यं दत्त्वा षोडशकं जलम्।
पादशिष्टः कषायः स्यादेष क्वाथविधिः स्मृतः "

इति कृष्णात्रेयपरिभाषया षोडशगुणेन जलेन जलशरावाः२६ शेषशरावाः६ पादौ २ क्षीरशरावाः१३ विदारीरसशरावाः६ पादौ २ मांसरसशरावाः६ पादौ २ एवं घृतात् (?) द्विगुणं (?) द्रवमिति मुनिदासःजातूकर्णसंवादात्रयोदशपल एव क्वाथ्ये जलद्रोणं दत्त्वा षोडश शरावाः पादशेषाः। ततो द्विगुणं क्षीरम्। विदारीमांसरसौ मिलित्वा क्वाथसमौ। एवं चतुर्गुणद्रवेण पाक इति चक्रजिनदासौ

अत्र जातूकर्णः

“वृश्चीरपञ्चमूलं बलां विदारीं वटादिशृङ्गांश्च।
निष्क्वाथ्य च्छागदुग्धे छागविदारीरसे च समे॥
जीवनीयगणकल्कैः पक्त्वा घृताढकम्” इत्यादि।

इह क्वाथ्यद्रव्यमनियतमानमिति विशेषः। क्वाथस्तु स्नेहसम एव ज्ञेयः। केचिद्घृतापेक्षया क्षीरद्वैगुण्यादिकमाहुः। तन्त्रान्तरे तु क्षीरद्वयंगव्याजभेदात्पञ्चगुणं द्रवं च दर्शितम्। तद्यथा— पुनर्नवां बलां विश्वां पञ्चमूलीमित्यारभ्य—

“पलांशकाञ्जलद्रोणे पक्त्वा पादावशेषितम्।
पात्रांशे छागगोक्षरिविदार्याजरसैः पृथक्” इत्यादि।

प्रचारस्तु प्रथमव्याख्यायाः क्वापि। खजमूर्छितमिति।खजो मन्थानदण्डः पञ्चाङ्गुलो वा हस्तः। भूर्जपत्रवेष्टनं चेह शक्त्युत्कर्षार्थम्।सर्पिर्गुडः॥२३॥२४॥२५॥२६॥२७॥२८॥

च्यवनप्राशमाह—

विल्वाग्निमन्थश्योनाककाश्मर्यः पाटली बला॥२९॥

पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम्॥
शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरुः॥३०॥

अभया चामृता ऋद्धिर्जीवकर्षभको शठी॥
मुस्ता176 पुनर्नवा मेदा सूक्ष्मैलोत्पलचन्दनम्॥३१॥

विदारी वृषमूलानि काकोली काकनासिका॥
एषां पलोन्मितान्भागाञ्शतान्यामलकस्य च॥३२॥

पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत्॥
ज्ञात्वा गतरसं द्रव्यं रसं गृह्णीत गालितम्॥३३॥

तच्चाऽऽमलकमुद्धृत्य निष्कुलं तैलसर्पिषोः॥
पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक्॥३४॥

मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत्॥
षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत्॥३५॥

चतुष्पलं तुगाक्षीर्याः पिप्पल्या द्विपलं तथा॥
पलमेकं निदध्याच्च त्वगेलापत्रकेसरात्॥३६॥

इत्ययं च्यवनप्राशः परमुक्तो रसायने॥
कासश्वासहरश्चैव विशेषेणोपदिश्यते॥३७॥

क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः॥
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्॥३८॥

पिपासां मूत्रशुक्रस्थान्दोषांश्चैवापकर्षति॥
अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम्॥
च्यवनोऽस्य प्रयोगाच्च सुवृद्धोऽभूत्पुनर्युवा॥३९॥

मेधांस्मृतिं कान्तिमनामयत्वमायुष्यकर्षं बलमिन्द्रियाणाम्॥
स्त्रीषु प्रहर्षं परमाग्निदीप्तिं वर्णप्रसादं पवनानुलोम्यम्॥४०॥

रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात्॥
जराकृतं रूपमपास्य पूर्वं बिभर्ति रूपं नवयौवनानाम्॥४१॥

केचिदिच्छन्ति मत्स्यण्ड्याः स्थाने तु सितशर्कराम्॥
मृदुकल्कसमः पाको भृष्टधात्र्याःप्रशस्यते॥४२॥

तामलकी भूम्यामलकी। जीवन्ती स्वनामख्याता वणिग्द्रव्यम्। उत्पलं नीलोत्पलं तु कुष्ठं टीकाकारैरव्याख्यातत्वात्। काकनासा काउ आटोटिका यंगलताफलम्। ज्जटस्तु काकनासा वासाफलवदिति। शतान्यामलकस्य च। पञ्चेति। आमलकफलगुडानां पञ्च शतानि। एतानि च कपटे पोटली बद्ध्वा क्वाथ्यानि। तेन तानि सुग्रहाणि दुः। ज्ञात्वा गतरसमिति।गतरसत्वं द्रव्याणां चतुर्भागावशेषेण क्वाथेन किंचित्सुते वाग्भटे च पादावशेषरस इत्युक्तम्। निष्कुलमिति। शिरास्थिरहितम्। तच्चमादिघर्षेण कार्यम्। पलद्वादशक इति। मिलित्वा। समानमानयोस्तैलघृतयोरिह रोधो न शङ्कनीयः। केवलयोस्तयोरुपयोगे विरोधदर्शनात्। मत्स्यण्डिकाशर्करा। विगुप्तेऽपि शर्करा चोक्ता। चक्रपाणिरप्याह—

“सिता मत्स्यण्ड्यलाभेऽत्र धात्र्याश्च मृदु भर्जनम्॥
चतुर्भागे जले प्रायो द्रव्यं गतरसं भवेत्” इति॥

मत्स्यण्ड्यभावे खण्डेनापि प्रचारो दृश्यते। पलमेकं मिलित्वा चातुर्जातकपलमेकम्। च्यवनो नाम मुनिस्तस्य प्राशश्च्यवनप्राशः प्राश्यत इति प्राशः कर्मणि*177 युट्। योपरुन्ध्यान्न भोजनमिति। या मात्रा प्रथमान्नकालोपयुक्ता जरणेन द्वितीयान्नकाले भोजनोपरोधं न कुरुत इत्यर्थः। यदुक्तम्—रुणद्धि नैकमाहारं सा मात्रा या जरं प्रतीति। कुटीप्रवेशादिति। वातातपपरिहारेणेत्यर्थः। च्यवनप्राशः॥२९॥३०॥३१॥३२॥३३॥३४॥३५॥३६॥३७॥३८॥३९॥४०॥४१॥४२॥

अगस्तिहरीतकीमाह—

दशमूलीस्वयंगुप्ताशङ्खपुष्पीशठीबलाः॥१३॥

हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान्॥
भार्ङ्गीपुष्करमूलं च द्विपलांशं यवाढकम्॥४४॥

हरीतकीशतं चैव178 जले पञ्चाढके पचेत्॥
यवैः स्त्रिन्नैः कषायं तं पूतं तत्राभ179याशतम्॥४५॥

पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात्॥
तैलात्सपिप्पलीचूर्णात्सिद्धे शीते च माक्षिकात्॥४६॥

कुडवं पलमानं च चातुर्जातं सुचूर्णितम्॥
लिह्याद्द्वे चाभये नित्यमतः खादेद्रसायनात्॥४७॥

तद्वलीपलितं हृन्याद्वर्णायुर्बलवर्धनम्॥
पञ्च कासान्क्षयं श्वासं हिक्कां च विषमज्वरम्॥४८॥

गुल्ममेहग्रहण्यर्शोहृद्रोगारुचिपीनसान्॥
अगस्त्यभिहितं धन्यमिदं श्रेष्ठंरसायनम्॥४९॥

यथोद्दिष्टगुणं कुर्वत्पित्तं च कुरुते यदि॥
तदा सायं गुडो योज्य एष एवाल्पमात्रया॥५०॥

पादशेषे कषाये च स्विन्नास्तास्ता हरीतकीः॥
भर्जिता घृततैलेन पचेदालोहितोदयात्180॥५१॥

स्वयंगुप्ता शूकशिम्बा। शङ्खपुष्पीस्वनामप्रसिद्धा। हरीतकीगुलकान्तमेकं पक्तव्यं न तु न्यूनाधिकं संयोगसंस्कारशक्तेर चिन्त्यत्वात्। तावतैव यथोक्तगुणलाभो भवति। यवैःस्विन्नैरिति। उपलक्षणार्थे तृतीया।यवस्विन्नता च चतुर्भागशेष एवजले भवति। तेन चतुर्भागावशिष्टमेव क्वाथं कुर्वन्ति। तत्रान्तरेऽप्युक्तम्—वार्याढकैः पञ्चभिः पादशेषं क्वाथमिति। हरीतकीगुडकशतं च सयवं कपटे पोटलीं बद्ध्वा क्वथनीयम्। उत्स्विन्नहरीतकीशतमितस्ततो विद्धावयवदाढ्यार्थं घृततैलकुडवयोर्मनाक्परिभर्जनीयम्। ततः क्वाथे गुडतुलां गालयित्वा छाणयित्वा च तत्र हरीतकीःप्रक्षिप्य पाकः कार्यः। तन्त्रान्तरीयसर्वार्थसिद्धहरीतक्यां हरीतकीभर्जनमुक्तम्। तद्दर्शनादिहापि हरीतक्याःपरिभर्जनं कुर्वन्ति। अवतारणसमये च पिप्पलीचूर्णप्रक्षेपः। शीतीभूते चापरेद्युर्मधुदानम्। उष्णत्वे प्रक्षिप्तक्षौद्रस्य लेहस्य शीतभूतस्याभ्युपयोगे दोषः। नतु मधुनैव सह यत्र पाकः। तस्मात्सिद्धशीते मधु देयमिति वृद्धवैद्यानां कर्ममार्गमाहुः। घृततैलमधूनां कुडवोऽष्टौ पलानि। कुडवेऽपि द्रवद्वैगुण्यात्। तन्त्रान्तरे चात्र योगे मधुनश्च पलाष्टकमित्येवोकम्।लिह्यादिति। एनं प्रकृतिलेहं लिह्यात्। द्वे चाभये खादेदेतो रसायनात्। अत्र गुडभक्षणमानं नोक्तं तद्योगान्तरदर्शनात्कल्पनीयम्। तथाहि भार्ङ्गीगुडे—भक्षयेदभयामेकां लेहस्यार्धपलं लिहेदित्युक्तम्। तेनेह द्विहरीतकीभक्षणात्सिद्धं तावद्गुडात्पलं भक्ष्यमिति योगव्याख्यायां माधवकरा(वा)चार्यःअन्ये पुनरिह गुल्मोक्तदन्तीहरीतकीन्यायाद्गुडस्य द्विपलभक्षणं ब्रुवते। क्वचिदाह—द्वे अभये लिह्यात्खादेच्च द्वे एवाभये इति। तेनाभयासंबद्धं लेह्यगुडभागंलिह्यात्ततस्तदभयाद्वयं च खादेदित्यर्थः फलति। एतत्सर्वमेव न व्यवहरति किंतु बलानलाद्यपेक्षया गुडस्य षड्भिरष्टाभिर्वा माषकैर्हरीतकीगुडकेन चैकेन प्रथमं व्यवहर्तव्यं पश्चाद्यथोचिता वृद्धिरनयोरिति। अगस्त्यभिहितमित्यनेन महाजनसंप्रदायागतत्वादस्यां सिद्धफलत्वमभिधीयते। धन्यमिति। धनार्जनहेतोर्नैरुज्यस्य साधकतमत्वात्। एवं सर्वत्र।ब्रीहिप्राण्यङ्गयोः क्वाथं व्युषितं दोषलं विदुरित्यभिधानात्क्वाथमेतद्व्युषितं न कुर्वन्ति। चक्रस्त्वाह—केवलब्रीहिजन्त्वङ्गक्वाथो व्युषित दोषल इति। अगस्तिहरीतकी॥४३॥४४॥४५॥४६॥४७॥४८॥४९॥५०॥५१॥

जीवन्ती कुटजं181 द्राक्षां फलानि कुटजस्य च॥
शठीं पुष्करमूलं च व्याघ्रीं गोक्षुरकं बलाम्॥५२॥

नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम्॥
पिप्पलीं च समं पिष्ट्वाघृतं वैद्यो विपाचयेत्॥५३॥

एतद्व्याधिसमूहस्य रोगेशस्य समुत्थितम्॥
रूपमेकादशविधं सर्पिरुग्रं182 व्यपोहति॥५४॥

सुगमम्। जीवन्त्याद्यं घृतम्॥५२॥५३॥५४॥

पिप्पलीगुडसंसिद्धं छागक्षीरयुतं घृतम्॥
एतदग्निविवृद्ध्यर्थं सर्पिश्व क्षयकासिनाम्॥५५॥

सुगमम्। पिप्पलीवृतम्॥५५॥

(*षडङ्गघृतमाह183)—

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः॥
सयावशूकैः सक्षीरैः स्रोतसां शोधनं घृतम्॥
[+कल्कोऽत्र184 पादिकः कार्यःक्षीरं चापि चतुर्गुणम्]॥५६॥

किमर्थमेतत्षट्पलं पुनरिहोक्तम्। उक्तमेवैतद्गुल्मचिकित्सिते। यद्यस्तिप्रयोजनमिहानेन तदस्यातिदेशो विषमज्वर इव कार्यो दातव्यं षट्पलं सर्पिः स्रोतसां शोधनमिति। ब्रूमः प्रयोगविशेषज्ञापनार्थमुक्तम्। गौल्मिके हि षट्पले घुते सममेव क्षीरमुक्तम्। इह त्वनिर्दिष्टपरिमाणत्वात्तत्स्नेहपाकपरिभाषया कथं नाम चतुर्गुणं प्रयुज्येतेत्येवमर्थं पुनर्वचनमिति। (*षडङ्गघृतम्185।)॥१६॥

पराशरघृतमाह—

यष्टीबलागुडूच्यल्पपञ्चमूलीतुलां पचेत्॥५७॥

शूर्पेऽपामष्टभागस्थे तत्र पात्रं पचेद्घृतम्॥
धात्रीविदारीक्षुरसत्रिपात्रे पयसोऽर्मणे॥५८॥

सुपिष्टैर्जीवनीयैश्च पाराशरमिदं घृतम्॥
ससैन्यं राजयक्ष्माणमुन्मूलयति शीलितम्॥५९॥

यष्ट्यादीनां मिलित्वा तुला ग्राह्या।शूर्प इति। द्रोणद्वयं शूर्प इति। तुलाद्रव्ये जलद्रोणमेकमुचितं किं तु निर्दिष्टत्वादिह तोयं द्रोणद्वयमेव देयम्। मांसतुलायां जलद्रोणद्वयम्।पात्र इ (मि)ति मिलित्वा। जीवनीयानि दश।एवं सर्वत्र विशेषानुक्तौ। पाराशरघृतम्॥५७॥५८॥५९॥

छागलाद्यं घृतमाह—

छागमांसतुलां गृह्य186 साधयेन्नल्वणेऽम्भसि॥
पादशेषेण तेनैव सर्पिःप्रस्थं विपाचयेत्॥६०॥

ऋद्धिर्वृद्धिश्च मेदे द्वे जीवकर्षभकौतथा॥
काकोली क्षीरकाकोली कल्कैः पृथक्पलोन्मितैः॥६१॥

सम्यक्सिद्धं187 च विज्ञाय शीते तस्मिन्प्रदापयेत्॥
शर्करायाः पलान्यष्टौ मधुनः कुडवं क्षिपेत्॥६२॥

पलं पलं पिबेत्प्रातर्यक्ष्माणं हन्ति दुस्तरम्॥
क्षतक्षयं पञ्च कासान्पार्श्वशूलमरोचकम्॥६३॥

स्वरक्षयरोरोगं श्वासं हन्यात्सुदारुणम्॥
बल्यं मांसकरं वृष्यमग्निसंदीपनं परम्॥६४॥

सुगमम्। छागलाद्यं घृतम्॥६०॥६१॥६२॥६३॥६४॥

तोयद्रोणद्वितये मांसं छागस्य पलशतं पक्त्वा।
जलमष्टांशं सुकृतं तस्मिन्विपचेद्घृतप्रस्थम्॥६५॥

कल्केन जीवनीयानां कुडवेन तु188 मांससर्पिरिदम्॥
पित्तानिलं निहन्यात्तज्जानपि रसकयोजितं पीतम्॥६६॥

कासश्वासावुग्रौ यक्ष्माणं पार्श्वहृद्रुजं घोराम्॥
अध्वव्यवायशोषं शमयति नातःपरं189 किंचित्॥६७॥

कल्केन जीवनीयानां कुडवेनेति। छागलाद्ये घृते पाठा ग्राह्या। मिलित्वा कुडवेन कल्केन। तज्जानपीति। पित्तानिलजान्रोगान्। रसकयोजितमिति। मांसरसकावचारितम्।छागलाद्यं घृतम्॥६९॥६६॥६७॥

बलागर्भघृतमाह—

द्विपञ्चमूलस्य पचेत्कषाये प्रस्थद्वये मांसरसस्य चैके॥
कल्कं बलायाः सुनियोज्य गर्भंसिद्धं पयःप्रस्थयुतं घृतं च॥
सर्वाभिघातोत्थितयक्ष्मशूलक्षतक्षयं कासहरं प्रदिष्टम्॥६८॥

बलागर्भे घृते दशमूलमिलितपलानि ५० जलशरावाः३२ शेषशरावाः५।मांसरसस्य चैक इति। मांसमिह छागस्य क्षयहितत्वात्। प्रस्थ एके।बलागर्भघृतम्॥६८॥

बलाद्यं घृतमाह—

बलां श्वदंष्ट्रां बृहतीं कलशीं धावनीं स्थिराम्॥
निम्बं पर्पटकं मुस्तं त्रायमाणां दुरालभाम्॥६९॥

कृत्वा कषायं पेष्यार्थं दद्यात्तामलकीं शठीम्॥
द्राक्षां पुष्करमूलं च मेदामामलकानि च॥७०॥

घृतं पयसि190 तत्सिद्धं सर्पिर्ज्वरहरं परम्॥
क्षयकासप्रशमनं शिरःपार्श्वरुजापहम्॥७१॥

कलशी पृश्निपर्णी।धावनी कण्टकारी।स्थिरा शालिपर्णी। इह क्वाथस्य क्षीरस्य च प्रत्येकं घृताद्द्वैगुण्यं चक्रेणोक्तम्।

तद्यथा—

“चरकोदितवासाद्यघृतानन्तर्यमुक्तितः।
वदन्तीह घृतात्क्वाथं पयश्च द्विगुणं पृथक्” इति॥

अस्यार्थः—घृतं चरके ज्वरचिकित्सिते वासाघृतानन्तरं पठ्यते। तत्र क्वाथः पयश्च द्विगुणं प्रत्येकम्। तत्साहचर्यादिहापि तथैवेति। घृतसमं क्षीरं क्वाथस्त्रिगुण इत्यन्ये। बलाद्यं घृतम्॥६९॥७०॥७१॥

चन्दनाद्यं तैलमाह—

चन्दनाम्बुनखं वाप्यं यष्टीशैलेयपद्मकम्॥७२॥

मञ्जिष्ठा सरलं दारु शठ्येलापूतिकेसरम्॥
पत्रं चैलं मुरा मांसी कङ्कोलं वनिताऽम्बुदम्॥७३॥

हरिद्रे सारिवे तिक्तालवङ्गागुरुकुङ्कुमम्॥
त्वग्रेणुनालिका चैभिस्तैलं मस्तुचतुर्गुणम्॥७४॥

लाक्षारससमं सिद्धं ग्रहघ्नं बलवर्धनम्॥
अपस्मारज्वरोन्मादपापालक्ष्मीविनाशनम्॥
आयुष्पुष्टिकरं चैव वशीकरणमुत्तमम्॥७५॥

अम्बु बालकम्। वाप्यं कुष्ठम्। पूतिः खटासिका। चैलं सिह्लकम्। मुरा स्वनामख्यातं वणिग्द्रव्यम्। वनिता प्रियंगुः।तिक्ता लता कस्तूरिका।रेणु रेणुकम्।नलिका स्वनामख्याता। लाक्षारससममिति। लाक्षारसो लाक्षाक्वाथः। चन्दनाद्यं तैलम्॥७२॥७३॥७४॥७५॥

ज्वरसंतापदौर्बल्ये लाक्षातैलं प्रयोजयेत्॥
बालरोगाधिकारोक्तं पारंपर्योपदेशतः॥७६॥

सुगमम्॥७६॥

क्षतक्षयस्योपेक्षितस्य यक्ष्महेतुत्वादिहैवाधिकारे क्षतक्षयचिकित्साभिधानम्। क्षतादुरःक्षतात्तथा क्षयाच्छुक्रौजसोः क्षयाज्जातो व्याधिर्वातप्रधानःकारणे कार्योपचारात्क्षतक्षय उच्यते।

बलाऽश्वगन्धा श्री191पर्णी बहुपत्री पुनर्नवा॥
पयसा नित्यमभ्यस्ताः शमयन्ति क्षतक्षयम्॥७७॥

श्रीपणीं गम्भारी। अस्याः फलमिह। बहुपुत्री शतावरी।बलादयो व्यस्ताः समस्ता वा कल्कीकृताः क्षीरेण पेयाः॥७७॥

इक्ष्वालिकाविश्वगन्धाप192द्मकेसरचन्दनैः॥
घृतं पयोमधुयुतं संधानार्थंपिबेत्क्षयी193॥७८॥

इक्ष्वालिका वनखण्डिका॥७८॥

घृतं बलानागबलार्जुनाम्बुसिद्धं सयष्टीमधुपादकल्कम्॥
हृद्रोगशूलक्षतरक्तपित्तशोषानि194लासृक्शमयत्युदीर्णम्॥७९॥

नागबलेति। नागानामिव बलं यस्याः सा नागवला।बलाद्यं घृतम्॥७९॥

हितमत्र विशेषेण खण्डकूष्माण्डसंज्ञितम्॥८०॥

सुगमम्॥८०॥

शुक्रायत्तं195 बलं पुंसां मलायत्तं196 हि जीवितम्॥
तस्माद्यत्नेन संरक्षेद्यक्ष्मिणो मलरेतसी॥८१॥

सुगमम्॥८१॥

नित्यं स्वदेहपूजी भक्तो भैषज्यदेवतागुरुषु॥
छागं मांसपयोऽश्नञ्जीवति यक्ष्मी चिरं धृतिमान्॥८२॥

सुगमम्॥८२॥

स्वरभेदादीनां चिकित्सितमतिदेशेनाऽऽह—

उपद्रवांश्च स्वरवैकृतादीञ्जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम्॥

यस्य यदात्मीयं स्वरभेदादिशास्त्रं तत्प्रसमीक्ष्येत्यर्थः॥

इदानीं परिहार्यमाह—

शोकं स्त्रियः क्रोधमसूयनं197 च त्यजे

क्रोधः पराभिद्रोहलक्षणः। असूया परगुणेषु दोषारोपणम्॥

इदानीं देव198व्यपाश्रयां चिकित्सामाह—

दुदारान्विषयान्भजेच्च॥
गुरून्द्विजातींस्त्रिदशांश्च पूजये-
त्कथाश्च पुण्याः शृणुयाद्द्विजेभ्यः॥८३॥

उदारा विषया धर्माविरुद्धा मनोनुकूलाश्च शब्दादयः। गुरून्पितृमातृप्रभृतीन्द्विजातीन्विप्रान्। त्रिदशान्देवान्।पुण्याः कथा वेदोक्ता रुद्रस्तुतिप्रभृतयः॥८३॥

कासातिसारपार्श्वार्तिस्वरभेदारुचिज्वरैः॥
त्रिभिर्वा पीडितं लिङ्गैःश्वासकासासृगामयैः*199॥८४॥

भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम्॥
स्वरभेदश्च जायेत षड्रूपे राजयक्ष्मणि॥८५॥

त्रिभिर्वा पीडितमतःपरं विद्यादिति शेषः। षड्भिर्वा रूपैस्त्रिभिर्वा रूपैर्यक्ष्मिणंपीडितं विद्यादित्यर्थः। श्वासकासासृगामयास्त्रीणि रूपाणि कासो ज्वरो रक्तपित्तमिति तन्त्रान्तरीयाः॥८४॥८५॥

परं दिनसहस्रं तु यदि जीवति मानवः॥
सुभिषग्भिरुपक्रान्तस्तरुणः शोषपीडितः॥८६॥

सुगमम्॥८६॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां दशमो
राजयक्ष्मचिकित्साधिकारः समाप्तः॥१०॥
<MISSING_FIG href="../../../books_images/U-IMG-17063764441..b.jpg"/>

अथैकादशः कासाधिकारः।
___________

यक्ष्मरूपेषु कासपाठात्कासोपेक्षया च यक्ष्मसंभवाद्यक्ष्मानन्तरं कासः।

पञ्चमूलीकृतः क्वाथः पिप्पलीचूर्णसंयुतः॥
रसान्नमश्नतो नित्यं वातकासमुदस्यति॥१॥

पञ्चमूलीकृतःक्वाथइति। पञ्चमूली महती। उष्णवीर्यतया विशेषेण वातप्रत्यनीकत्वात्। रसान्नमश्चत इति। मांसरसोपसिक्तमन्नं रसान्नम्॥१॥

भार्ङ्गीद्राक्षाशठीशृङ्गीपिप्पलीविश्वभेषजैः॥
गुडतैलयुतो लेहो हितो मारुतकासिनाम्॥२॥

गुडतैलयुतो लेह इत्यत्र तैलं कटु ग्राह्यम्। एवं वक्ष्यमाणयोगेऽपि॥२॥

चूर्णिता विश्वदुःस्पर्शाशृङ्गीद्राक्षाशठीसिताः॥
लीढ्वातैलेन वातोत्थं कासं जयति दुस्तरम्॥३॥

सुगमम्। वाते॥३॥

बलाद्विबृहतीवासाद्राक्षाभिः क्वथितं जलम्॥
पित्तकासहरं पेयं शर्करामधुयोजितम्॥४॥

सुगमम्॥४॥

शरादिपञ्चमूलस्य पिप्पलीद्राक्षयोस्तथा॥
कषायेण शृतं क्षीरं पिबेत्समधुशर्करम्॥५॥

शरादिपञ्चमूलस्येति। तृणपञ्चमूलस्य। कषायेण कृतं क्षीरमिति। षडङ्गपरिभाषया कृतार्धशृताम्बुनाचतुर्गुणेन क्षीरं साध्यम्। किंचाग्निबलाद्यनुरूपतो गृहीतपलत्रिकर्षार्धपलद्रव्यक्वाथपरिभाषया यावान्क्वायो भवति तावतैव यथोचितं क्षीरंसाधनीयम्।क्वाथापन्नक्षीराच्चतुर्गुणः कार्योऽत्यर्थगौरवभयात्। अथवा क्षीरपाकपरिभाषया द्रव्यदुग्धतोयानां मानं व्यवस्थाप्य द्रव्यतोयाभ्यां च क्वाथं कृत्वा तेन क्षीरं साधनीयम्। एवं सर्वत्र क्वाथेन क्षीरसाधने॥५॥

द्राक्षामधुक200खर्जूरपिप्पलीमरिचान्वितम्॥
पित्तकासहरं ह्येतल्लिह्यान्माक्षिकसर्पिषा॥६॥

सुगमम्॥६॥

खर्जूरपिप्पलीद्राक्षासितालाजाःसमांशकाः॥
मधुसर्पिर्युतो लेहः पित्तकासहरः परः॥७॥

सुगमम्॥७॥

नवाङ्गयूषमाह—

मुद्रामलाभ्यां यवदाडिमाभ्यां कर्कन्धुना मूलकशुण्ठकेन॥
शुण्ठीकणाभ्यां च कुलत्थकेन यूषो नवाङ्गः कफकासहन्ता॥८॥

यवामलकदाडिमकर्कन्धुमूलकशुण्ठकैः षडङ्गपरिभाषयाऽर्धशतं कृत्वा मुद्गकुलत्थौ युक्त्या प्रचुरौ दत्त्वा यूषः साध्यः। पश्चात्कटुत्वापादकं कणाचूर्णदानम्। किंवा सकलमेव द्रव्यं यथोचितमात्रया गृहीत्वा क्वाथविधानेन पञ्चमुष्टिवद्यूषः कार्यः। नवाङ्गयूषः॥८॥

पौष्करं कट्फलं भार्ङ्गीपिप्पलीविश्वसाधितम्॥
पिबेत्क्वाथं कफोद्रेके कासे श्वासे च हृद्ग्रहे॥९॥

सुगमम्॥९॥

स्वरसं शृङ्गवेरस्य माक्षिकेण समन्वितम्॥
पाययेच्छ्वासकासघ्नं प्रतिश्यायकफापहम्॥१०॥

सुगमम्॥१०॥

पार्श्वशूले ज्वरे श्वासे कासे श्लेष्मसमुद्भवे॥
पिप्पलीचूर्णसंयुक्तं दशमूलीजलं पिबेत्॥११॥

सुगमम्॥११॥

कट्फलादिमाह—

कट्फलं कत्तृणं भार्ङ्गी मुस्तं धान्यवचाभयाः॥
शुण्ठी पर्यटकं शृङ्गीसुराह्वंच जले शृतम्॥१२॥

मधुहिङ्गुयुतं पेयं कासे वातकफात्मके॥
कण्ठरोगेषु मुख्येषु201 श्वासहिक्काज्वरेषु च॥१३॥

कत्तृणं गन्धतृणम्। अयं योगस्तालीसाद्यश्च सायमुपयोज्यः। कट्फलादि॥१२॥१३॥

तालीसाद्यमाह—

तालीसपत्रं मरिचं नागरं पिप्पली शुभा॥
यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके॥१४॥

पिप्पल्यष्टगुणा चात्र प्रदेया सितशर्करा॥
श्वासकासारुचिच्छर्दिप्लीत्दृत्पार्श्वशूलनुत्202॥१५॥

पाण्डुज्वरातिसारघ्नं मूढवातानुलोमनम्॥
कल्पयेद्गुटिकां चैव चूर्णं203 पक्त्वा सितोपलाम्॥१६॥

गुटिका ह्यग्निसंयोगाच्चूर्णाल्लघुतराः स्मृताः॥
वातश्लेष्मकृते कासे तालीसाद्यं प्रयोजयेत्॥
पित्तयुक्ते भवेच्छ्रेष्ठंवंशरोचनयाऽन्वितम्॥१७॥

शुभेति पिप्पलीविशेषणं न तु शुभा वंशरोचना समानतन्त्रे हारीतादावदृष्टत्वात् याहि हारीतः

“तालीस मरिचं शुण्ठी पिप्पल्योऽक्षांशकोत्तराः।
त्वगेलेऽर्धांशकेदद्याच्छर्कराष्ट्रपलं भवेत्” इत्यादि।

जातूकर्णेनाप्युक्तम्—

“तालीसमरिचनागरकृष्णाः कर्षोत्तरास्त्वगेले च।
अर्धांशे द्विकुडवसितं गुटिका विपाच्य शतम्" इति।

यथोत्तरं भागवृद्ध्येति। तालीसपत्रस्यैको भागः।मरिचस्य द्वौ भागौ। नागरस्य त्रयो भागाः। पिप्पल्याश्चत्वारः। त्वगेले चार्धभागिके इति। त्वगेलयोः प्रथमभागापेक्षया प्रत्येकमर्धभागत्वम्। पिप्पल्यष्टगुणेति।पिप्पलीभागादष्टगुणशर्कराबाह्येत्यर्थः। पक्त्वा सितोपलामिति। सितशर्करां पक्त्वा। तत्रायं गुटिकापाकानिधिः। शर्करासमेन जलेन किंचिदधिकेन वा शर्करां विलाप्य पूत्वा क्वाथयेत यावदीयत्तन्तुली भवेत्। तत्र द्रव्यचूर्णमावाप्य गुटिकां कुर्यादित्यर्थः।मूढवातानुलोमनमिति। तत्र मूढवातं केचित्तु वर्णयन्ति— यः कृच्छ्रप्रमेहयोर्द्वयोरप्यन्तरालं भजते कदाचिन्मूत्रं विबध्यते कदाचिदतिवर्तते स मूढवात इति। पित्तयुक्त भवेच्छ्रेष्ठं वंशरोअनयाऽन्वितमिति। पित्तानुबन्धे शुभाशब्देन वंशरोचना ग्राह्येत्यर्थः। एषा च टिप्पणी वृन्दस्य तन्त्रान्तरदर्शनात्। तदुक्तम्—वांशीपिप्पलीशुण्ठीनां तथोषणता..सयोरित्यादि। तालीसाद्यो मोदकः॥१४॥१५॥१६॥१७॥

वासकस्वरसः पेयो मधुयुक्तो हिताशिना॥
पित्तश्लेष्मकृते कासे रक्तपित्ते विशेषतः॥१८॥

सुगमम्॥१८॥

कासे च क्षतजे बल्यैर्बृंहणैर्जीवनैरपि।
शमनं पित्तकासोक्तैरन्यैश्च मधुरोषधैः॥१९॥

सुगमम्॥१९॥

मधुकं पिप्पली द्राक्षा लाक्षा शृङ्गी शतावरी॥२०॥
द्विगुणा च तुगाक्षीरी सिता सवैश्चतुर्गुणा॥
लेहयेन्मधुसर्पिर्भ्यांक्षतकासनिवृत्तये॥२१॥

द्विगुणा च तुगाक्षीरीति। एकभागापेक्षया द्विगुणा वंशरोचना।सिता सर्वेश्चतुर्गुणेति। सर्वचूर्णतश्चतुर्गुणा शर्करेत्यर्थः॥२०॥२१॥

पिप्पली पद्मकं लाक्षा संपक्वंबृहतीफलम्॥
घृतक्षौद्रयुतो लेहः क्षतका204सनिवर्हणः॥२२॥

सुगमम्॥२२॥

मुखे धृताऽभया शुण्ठी कणया वा विभीतकम्॥
विभीतकमथैकं वा कासश्वासौ व्यपोहति॥२३॥

सुगमम्॥२३॥

पथ्याशुण्ठीघनगुडैर्गुटिकां धारयेन्मुखे॥
सर्वेषु श्वासकासेषु केवलं वा विभीतकम्॥२४॥

घनो मुस्तकः। गुडः सर्वतो द्विगुणः। वैद्यप्रचारके205 द्विगुण एव गुडो दर्शितः। हरीतकीनागरमुस्तचूर्णं गुडेन तुल्यं गुटिका विधेया। इत्यत्रापि तन्त्रान्तरे तुल्यशब्दं सहार्थे वर्णयन्ति। गुटिकां धारयेन्मुख इति। गुटिकेयं यथा द्रवति तथा तथाऽभ्याहरणीया। न पुनरिमां सहसैवाभ्यवहरेत्। कण्ठशोधकत्वादस्य।केवलं वा विभीतकमिति। विभीतकमस्थिसहितमेव धार्यम्॥२४॥

मनः शिलाले मरिचमांसीमुस्तेङ्गुदैःपिबेत्॥
धूमं तस्यानु च पयः सुखोष्णं सगुडं पिबेत्॥२५॥

एषकासान्पृथग्द्वंद्वसर्वदोषसमुत्थितान्॥
शतैरपि प्रयोगाणामसाध्यान्साधयेद्भुतम्॥२६॥

अलं हरितालम्। इङ्गुदी पुत्रजीवकः।तस्य च फलं ग्राह्यम्। इह क्षीरमनुपानं धूमस्य तीक्ष्णत्वादोजःक्षयभयेन॥२५॥२६॥

मनःशिलालिप्तदलं बदर्यातपशोषितम्॥
सक्षीरं धूमपानं च महाकासनिवारणम्*206॥२७॥

बदर्यातपशोषितमिति।मनःशिलालिप्तदलमातपे शोषितमिति योजना।संहितया च निर्देशः पूर्वत्रासिद्धविधेरनित्यत्वात्(?)॥२७॥

कर्षः कर्षांशपलं पलद्वयं स्यात्ततोऽर्धकर्षश्च॥
मरिचस्य पिप्पलीनां दाडिमगुडयावशूकानाम्॥२८॥

सर्वौपरसाध्या ये कासाः सर्ववैद्यविनिर्मुक्ताः॥
अपि पूयं छर्दयतां तेषामिदमौषधं *परमम्207॥२९॥

कर्ष इत्यादिना निर्देशो यथाक्रमेण। कर्षरूपोंऽशः कर्षांशः। कर्षार्धमिति क्वचित्पाठः।वैद्यप्रसारके पिप्पल्याः कर्षार्धं दर्शितम्। इदमौषधं पथ्यमिति। प्रकरणाद्भूममिदमौषधमित्याहुः। चक्रेण तु स्वसंग्रहे भक्ष्यचूर्णप्रस्तावे लिखितोऽयं योगः।वैद्यप्रसारकेऽपि भक्षणमस्योक्तम्। इति मरीचादिवटिका॥२८॥२९॥

अर्कच्छल्लीशिले तुल्ये ततोऽर्धेन कटुत्रिकम्॥
चूर्णितं वह्निनिक्षिप्तं पिबेद्दुग्धमं च योगवित्॥३०॥

भक्षयेदथताम्बूलं पिबेद्दुग्धमथाम्बु वा॥
कासाः पञ्चविधा यान्ति शान्तिमाशु न संशयः॥
कण्टकारीकृतः क्वाथः सकृष्णः सर्वकासहा॥३१॥

शिला मनःशिला।ततोऽर्थेन कटुत्रिकमिति। तयोरुभयोरर्धेन मिलितं त्रिकटु॥३०॥३१॥

लवङ्गजातीफलपिप्पलीनां भागान्प्रकल्प्याक्षसमानमीषाम्॥
पलार्धमेकं मरिचस्य दद्यात्पलानि चत्वारि महौषधस्य॥३२॥

सितासमं चूर्णमिदं प्रसह्य रोगांस्त्विमानाशु बलान्निहन्ति॥
कासज्वरारोचकमेहगुल्मश्वासाग्निमान्द्यग्रहणीदोषान्॥३३॥

सुगमम्।समशर्करं चूर्णम्॥३२॥३३॥

दशमूलघृतमाह—

दशमूलीकषायेण भार्ङ्गीकल्कंपचेद्घृतम्॥
दक्षतित्तिरिनिर्यूहे तत्परं वातकासजित्॥३४॥

दक्षतित्तिरिनिर्यूह इति। दक्षः कुक्कुटः।दक्षतित्तिरिभ्यांमिलित्वा क्वाथः। दशमूलक्वाथेन दक्षतित्तिरिनिर्यूहेण च मिलित्वा चातुर्गुण्यम्। दशमूलघृतम्॥३४॥

दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत्॥
पुष्कराह्वशठीबिल्बसुरसव्योषहिङ्गुभिः॥३५॥

पयोनुपानं तत्पेयं कासे वातकफात्मके॥
श्वासरोगेषु सर्वेषु कफवातात्मकेषु च॥३६॥

दशमूलाढकमि(इ)ति।दशमूलस्य शेषक्वाथाढके किंवा क्वाथः क्वाथ्यसमो मत इति वचनाद्दशमूलमेवाऽऽढकम्। सुरस इतिवन्नाम। दशमूलाद्यं घृतम्॥३५॥३६॥

समूलपत्रशाखायाः कण्टकार्या रसाढके॥३७॥

घृतप्रस्थे बलाव्योषविडङ्गशठिचित्रकैः॥
सौवर्चलयवक्षारबिल्वामलकपौष्करैः॥३८॥

वृश्चीव(र)बृहतीपथ्यायवानीदाडिमर्द्धिभिः॥
द्राक्षापुनर्नवाचव्यदुरालम्भाम्लवेतसैः॥३९॥

शृङ्गीतामलकीभार्ङ्गीरास्नागोक्षुरकैः पचेत्॥
कल्कैस्तत्सर्वकासेषु हिक्काश्वासेषुशस्यते॥
कण्टकारीघृतं208 सर्वकफव्याधिविनाशनम्209॥४०॥

सुगमम्। बृहत्कण्टकारीघृतम्॥३७॥३८॥३९॥४०॥

कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पले रसे॥
प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः॥४१॥

कण्टकारीगुडूच्योः प्रत्येकं पलानि ३० मिलित्वा पलानि ६० जलशरावाः(?) शेषशरावाः१५।कण्टकारीघृतम्॥४१॥

रास्नाद्यं घृतमाह—

द्रोणेऽपां साधयेद्रास्नादशमूलीशतावरीः॥४२॥

पलिकान्मानिकांशांस्त्रीन्कुलत्थं210बदरं यवम्॥
तुलार्धंछागमांसस्य पादशेषेण तेन च॥४३॥

घृताढकं समक्षीरं जीवनीयैः पलोन्मितैः॥
सिद्धं तद्दशभिः कल्कैर्नस्यपानानुवासनैः॥४४॥

सर्वेषु211 वातरोगेषु यथावस्थं प्रयोजयेत्॥
पञ्च कासाञ्छिरःकम्पं योनिवङ्क्षणवेदनाम्॥४५॥

सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलाञ्जयेत्॥
तथा श्वासं क्षयं चैव पार्श्वशूलमरोचकम्॥४६॥

पलिकानिति। रास्नादित्रयेण लगति दशमूलं प्रत्येकं पालिकम्। मानिकांशानिति। अष्ट पलानि।रास्नाद्यं घृतम्॥४२॥४३॥४४॥४५॥४६॥

जीवनीयदशकमाह—

जीवकर्षभकौमेदे काकोल्यौ मधुकं सहे॥
जीवन्ती जीवनीयोऽयं मधुरो जीवनो गणः॥४७॥

सहे माषपर्णीमुद्गपण्यौ। जीवन्ती पटोलसदृशैः पत्रैः कन्दवती पश्चिमे देशे प्रसिद्धैव। लाटदशे स्थूलवल्लिविलक्षणैव॥४७॥

घृतं रास्नाबलाव्योषश्वदंष्ट्राकल्कपाचितम्॥
कण्टकारीरसे पानात्पञ्चकासनिषूदनम्॥४८॥

सुगमम्।कण्टकारीघृतम्॥४८॥

दशमूलषट्पलकमाह—

दशमूलीचतुष्प्रस्थे रसे प्रस्थोन्मितं हविः॥
सक्षारैः पञ्चकोलैस्तु कल्कितं साधु साधितम्॥
कासहृत्पार्श्वशूलघ्नं हिक्काश्चासनिबर्हणम्॥४९॥

यवक्षारादिषट्कल्कः पृथक्पलिकः। दशमूलषट्पलकमितिनामसंकीर्तनात्। दशमूलषट्पलकं घृतम्॥४९॥

व्योषान्तिकामाह—

तालीसवह्निदीप्यकचविकाम्लवेतसव्योषैः॥
तुल्यैस्त्रिसुगन्धियुतैर्गुडेन गुटिका प्रकर्तव्या॥५०॥

कासश्वासारोचकपीनसहृत्कण्ठवाग्विरोधेषु॥
ग्रहणीगुदोद्भवेषु च गुटिका व्योषान्तिका नाम॥५१॥

वह्निश्चित्रकः। दीप्यकं यवानिका।त्रिसुगन्धियुतैरिति। सर्वचूर्णाच्चतुर्थभागेन मिलितं त्रिसुगन्धं व्याचक्षते। व्योषान्तिका नामेति। अत्रान्तशब्द उपान्तमाह। व्योषस्यान्तस्थितत्रिसुगन्धात्पूर्वमवस्थितत्वात्। व्योषान्तिका गुटिका॥५०॥५१॥

इति श्रीवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामेकादशः कासाधिकारः समाप्तः॥११॥
<MISSING_FIG href="../../../books_images/U-IMG-17064439851..b.jpg"/>

अथ द्वादशो हिक्काश्वासाधिकारः।
___________

वेगवदूर्ध्वगतवातयोगित्वसाधर्म्यात्कासानन्तरं हिक्काश्वासौ।

कोलमज्जाञ्जनं लाजातिक्ताकाञ्चनगैरिकम्॥
कृष्णा धात्री सिता शुण्ठी कासीसं दधिनाम च॥१॥

पाटल्याः सफलं पुष्पं कृष्णा खर्जूरमुस्तकम्॥
षडेते पादिका लेहा हिक्काघ्नामधुसंयुताः॥२॥

कोलमज्जा बदरास्थिमध्यम्। अञ्जनं सौवीराञ्जनमाहुः। तिक्ता कटुरोहिणी। काञ्चनगैरिकमुत्तमलोहितगैरिकम्।कासीसं स्वनामख्यातम् । दधिनाम कपित्थफलम्। दधिना सहेति पाठान्तरम्। कासीसं दधि च ना पुरुषः सह लिह्यात्। योगषट्कम्॥१॥२॥

मधुकं मधुसंयुक्तं पिप्पली शर्करान्विता॥
नागरं गुडसंयुक्तं हिक्काघ्नं नावनत्रयम्*212॥३॥

सुगमम्। नावनत्रयम्॥३॥

स्तन्येन मक्षिकाविष्ठा नस्यं वाऽलक्तकाम्बुना॥
योज्यं हिक्काभिभूताय स्तन्यं वा चन्दनान्वितम्॥४॥

सुगमम्॥४॥

मधुसौवर्चलोपेतं मातुलुङ्गरसं पिबेत्॥
हिक्कार्तोमधुना लिह्याच्चछुण्ठीधात्रीकणान्वितम्॥५॥

सुगमम्॥५॥

कृष्णामलकशुण्ठीनां चूर्णं मधुसितायुतम्॥
मुहुर्मुहुः प्रयोक्तव्यं हिक्काश्चासनिवारणम्॥६॥

सुगमम्॥६॥

प्राणावरोधतर्जनविस्मापनशीतवारिपरिषेकैः॥
चित्रैः कथाप्रयोगैः शमयेद्धिक्कां मनोभिघातैश्च॥७॥

मनोभिघातैरिति। मनोरुजाकरैः शोकादिभिः।तर्जनादिविधिश्च विक्षोभयन्नपि वायुं प्रभावात्प्रकृतिं नयतीति ज्ञेयम्॥७॥

हिक्काश्वासातुरे पूर्वं तैलाक्ते स्वेद इष्यते॥
ऊर्ध्वाधः शोधनं शक्ते दुर्बले शमनं मतम्॥८॥

सुगमम्॥८॥

हिक्काश्वासी पिबेद्भार्ङ्गीसविश्वामुष्णवारिणा॥
नागरं वा सिताभार्ङ्गीसौवर्चलसमन्वितम्॥९॥

सुगमम्॥९॥

अभयानागरकल्कं पुष्करयवशूकमरिचकल्कं वा॥
तोयेनोष्णेन पिबेद्धिक्की श्वासी च तच्छान्त्यै॥१०॥

सुगमम्॥१०॥

तृषितो दशमूलस्य क्वाथं वा देवदारुणः॥
मदिरां वा पिबेद्युक्त्या हिक्काश्वासप्रपीडितः213॥११॥

तृषितो दशमूलस्य क्वाथमिति। षडङ्गकल्पनयाऽर्धशृतशीतीकृतं क्वाथम्॥११॥

शृङ्गीकटुत्रिकफलत्रिककण्टकारीभार्ङ्गीसपुष्करजटा लवणानि पञ्च॥
चूर्णं पिबेदशिशिरेण जलेन हिक्काश्वासोर्ध्ववातकसनारुचिपीनसेषु॥१२॥

सपुष्करजटेति। जटा मूलम्।पुष्करमूलाभावे सर्वत्र कुष्ठम्। अशिशिरेण जलेनेति।उप्णाम्बुना॥१२॥

शठीचोरकजीवन्तीत्वङ्पुस्तं पुष्कराह्वयम्॥
सुरसस्तामलक्येलापिप्पल्यगुरुनागरम्॥१३॥

बालकं च समं चूर्णं कृत्वाऽष्टगुणशर्करम्॥
सर्वदा तमके श्वासे हिक्कायां च प्रयोजयेत्॥१४॥

चोरकं चोरपुष्पी। सुरसः पन्नासः।अष्टगुणशर्करमिति। एकभागादष्टगुणा शर्करा॥१३॥१४॥

कासमर्दकपत्राणां यूपः सौभाञ्जनस्य च॥
शुष्कमूलकयूषश्च हिक्काश्वासनिवारणः॥१५॥

यूषत्रये यूषकरणार्थं वातश्लेप्महरः कुलत्थो देयः। शिम्बीधान्यं विना यूषव्यपदेशाभावात्। तत्रौषधस्यैको भागः।त्रयः शिम्बीधान्यस्य।पाकसिद्ध्यनुरूपं च जलं देयम्। यूषः क्वाथ एवोच्यत इत्यन्यः। यथा सुश्रुते तुषोदकेऽजशृङ्गीक्वाथ एव यूषशब्देनोच्यते॥१५॥

यत्किंचित्कफवातघ्नमुष्णं वातानुलोमनम्॥
भेषजं पानमन्नं वा214 हिक्काश्वासेषुतद्धितम्॥१६॥

अमृतानागरफञ्जीव्याघ्रीपर्णाससाधितः क्वाथः॥
पीतः सकणाचूर्णःकासश्वासौ जयत्याशु॥१७॥

फञ्जीब्राह्मणयष्टिः। व्याघ्री कण्टकारी॥१६॥१७॥

सनागराभयातुल्या कासश्वासौ व्यपोहति॥
दशमूलीकषायश्च पुष्करेणावचूर्णितः॥१८॥

कासश्वासप्रशमनः पार्श्वहृच्छूलनाशनः॥
कुलत्थनागरव्याघ्रीवासाभिः क्वथितं जलम्॥
पीतं पुष्करसंयुक्तं श्वास215कासनिवारणम्॥१९॥

सुनागराभयातुल्येति। कल्कोऽयमुष्णाम्बुना पेयः॥१८॥१९॥

गुडं कटुकतैलेन मिश्रयित्वा समं लिहेत्॥
त्रिसप्ताहप्रयोगेण श्वासं निर्मूलतो जयेत्॥२०॥

गुडं कटुकतैलेनेति। लेहो वातोल्बणे मनाक्पुराणे॥२०॥

द्राक्षाहरीतकीकृष्णाकर्कटाख्यादुरालभाः॥
विलिहन्मधुसर्पिर्भ्यांश्वासान्हन्ति सुदारुणान्॥२१॥

सुगमम्॥२१॥

हिंस्राद्यं घृतमाह—

हिंस्राविडङ्गपूतीकत्रिफलाव्योषचित्रकैः॥२२॥

द्विक्षीरं सर्पिषः प्रस्थं चतुर्गुणजलान्वितम्॥
कोलमात्रैः216 पचेत्तद्धि श्वासकासौ व्यपोहति॥२३॥

अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा॥
कोलस्थानेऽत्र कर्षः217 स्यादन्यतोदृष्टहेतुना॥२४॥

हिंस्राकलावडा।कोलमात्रैरष्टमाषकमानैः। कोलस्थानेऽत्र कर्षःस्यादन्यतोदृष्टदृतुनेति। कार्तिकमतमिदं वृन्देन लिखितम्। कार्तिकः किल कोलशब्दोपादानेऽप्यत्रकल्काल्पत्वाद्वृद्धकाश्यपसंवादेन कर्षं व्याचष्टे। तथाच वृद्धकाश्यपः

“विडङ्गव्योषपूतीकवराहिंस्राग्निभिः पचेत्।
कार्षिकैः सर्पिषः प्रस्थं द्विक्षीरं चतुरम्बु च॥
तत्पानाच्छ्वासकासघ्नं शोथदुर्नामगुल्मनुत्" इति।

हिंस्राद्यं घृतम्॥२२॥२३॥२४॥

भार्ङ्गीगुडमाह—

शतं गृहीत्वा218 भार्ङ्ग्यास्तुदशमूल्यास्तथा परम्॥
शतं हरीतकीनां च पचेत्तोये चतुर्गुणे॥२५॥

पादावशेषे तस्मिंस्तु रसे वस्त्रपरिस्रुते॥
आलोड्य च तुलां पूतां गुडस्य त्वभयां ततः॥२६॥

पुनः पचेच्च मृद्वग्नौ यावल्लेहत्वमागतम्॥
शीते च मधुनश्चात्र षट्पलानि प्रदापयेत्॥२७॥

त्रिकटु त्रिसुगन्धं च पालिकं च पृथक्पृथक्॥
कर्षद्वयं यवक्षारं संचूर्ण्य प्रक्षिपेत्ततः॥२८॥

भक्षयेदभयामेकां लेहस्यार्धपलं लिहेत्॥
श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा॥२९॥

स्वरवर्णप्रदो लेहो219 जठराग्निप्रदीपनः॥
हरीतकीशतैकस्य वारिप्रस्थमिहाधिकम्॥३०॥

पचेत्तोये चतुर्गुण इति। चतुर्गुणं तोयं द्वैगुण्यादष्टगुणं ग्राह्यम्। सम्यग्बीर्यसंकान्तिश्च द्रव्याणामित्थमेव भवति। तेन क्वाथार्थं तोयशरावशतत्रयं भवति देयं हरीतक्या अथ तेनैव वारिणा पाकः। हरीतकीशतैकस्य वारिप्रस्थमहाधिकमिति वदतस्तु वृन्दस्याद्विगुणमेव चतुर्गुणमभीष्टमित्युन्नीयते।

चक्रेणाप्युक्तम्—

“पलोल्लेखागते माने न द्वैगुण्यमिहेष्यते।
हरीतकीशतस्यात्र प्रस्थत्वादाढकं जलम्" इति॥

प्रचारस्तु प्रायो वृन्दमते।भार्ङ्गीगुडः॥२५॥२६॥२७॥२८॥२९॥३०॥

कुलत्थगुडमाह—

कुलत्थोदशमूलं च तथैव द्विजयष्टिका॥
शतं शतं च संगृह्य जलद्रोणे विपाचयेत्॥३१॥

पादावशेषे तस्मिंस्तु गुडस्यार्धतुलां क्षिपेत्॥
शीतीभूते च पक्वेच मधुनोऽष्टौपलानि च॥३२॥

षट्पलानि तुगाक्षीर्याः पिप्पल्याश्च पलद्वयम्॥
त्रिसुगन्धिसुगन्धं तं खादेदग्निबलं प्रति॥३३॥

कासं श्वासं ज्वरं हिक्कां नाशयेत्तमकं तथा॥
योगसंदर्शनादत्र वृद्धवैद्योपदेशतः॥३४॥

जलं चतुर्गुणं देयमल्पत्वाद्द्रोणवारिणः॥
मानसांनिध्यसंवादाद्द्विपलं त्रिसुगन्धिनः॥३५॥

योगसंदर्शनादिति। कुलत्थगुडान्तरसंवादात्।

तद्यथा—

‘कुलत्थानां पलशतं दशमूलशतं तथा।
शतं ब्राह्मणयष्ट्याश्च चतुर्गुणजले शृतम्॥

पादशेषेषु पूते च गुडस्यार्धतुलां पचेत्।
पाकं ज्ञात्वाऽवतार्यैव सुशीते श्लक्ष्णचूर्णितम्॥

षट्पलं तु तुगाक्षीर्याः पिप्पल्या द्विगुणं तथा।
मधुनः कुडवं दद्यात्त्रिसुगन्धिपलद्वयम्" इत्यादि।

चक्रेण तूक्तम्—प्रतिशतं द्रोणनियमाज्ज्ञेयं द्रोणत्रयं त्विहेति। व्यवहारस्तु प्रायश्चतुर्गुणजलेनैव द्विगुणेन। मानसांनिध्यात्तन्त्रान्तरसंवादाच्चेत्यर्थः। द्विपलं त्रिसुगन्धिन इति। मिलित्वा। कुलत्थगुडः॥३१॥३२॥३३॥३४॥३५॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां द्वादशो
हिक्काश्वासाधिकारः समाप्तः॥१२॥
<MISSING_FIG href="../../../books_images/U-IMG-17064448921..b.jpg"/>

अथ त्रयोदशः स्वरभेदाधिकारः।
_____________

प्राणोदानदुष्टिसाधर्म्याद्धिक्काश्वासानन्तरं स्वरभेदमाह।स्वरस्य प्रकृतिभूतस्य भेदोऽन्यथाभावः स्वरभेदः। वातिके स्वरभेदेपथ्ययोगमाह—

आद्ये कोष्णजलं पेयं जग्ध्वा घृतगुडौदनम्॥

आद्य इति। वाते। केचिदमुं योगं पैत्तिके मन्यन्ते। तन्न।समानतन्त्रे वातिकस्वरभेऽस्य प्रयुक्तत्वात्॥

पैत्तिकस्वरभेदचिकित्सितमाह—

क्षीरानुपानं पित्तोत्थे पिबेत्सर्पिरतन्द्रितः॥१॥

पिबेत्सर्पिरिति। एतत्सामान्योक्तमपि सुश्रुते श्वासोक्तंवासाघृतं पित्तकासोक्तं वा विदारिगन्धोत्पलसारिवेत्यादिनोक्तं ज्ञेयमिति वर्णयन्ति। अतन्द्रितोऽनलसः॥१॥

कफजस्वरभेदचिकित्सामाह—

पिप्पली पिप्पलीमूलं मरिचं विश्वभेषजम्॥
पिबेन्मूत्रेण मतिमान्कफजे स्वरसंक्षये॥

पिप्पलीत्यादियोगचूर्णं गोमूत्रेण पेयम्। स्वरसंक्षय इति। स्वरभेदे॥

मेदोजस्वरभेदे कफचिकित्सामतिदिशन्नाह—

स्वरोपघाते मेदोत्थे कफवद्विधिरिष्यते॥२॥

कफवद्विधिरिति। कफवत्कफजस्वरभेदवत्। तेनेहापि पिप्पल्यादिचूर्णं गोमूत्रेण पेयम्॥२॥

क्षयजसांनिपातिकयोरसाध्ययोरपि चिकित्सा कर्तव्येत्याह—

क्षयजे सर्वजे वाऽपि प्रत्याख्यायाऽऽचरेत्क्रियाम्॥३॥

क्षयजे सर्वजे वाऽपीति। अत्रापिशब्दान्मेदोजसहजयोरपि ग्रहः। तन्त्रान्तरे ह्येतावप्यसाध्यावुक्तौ। तद्यथा—

“क्षीणस्य वृद्धस्य कृशस्य वाऽपि चिरोत्थितो यश्च सहोपजातः।
मेदस्विनः सर्वसमुद्भुवश्च स्वरोपघातो न स सिद्धिमेति” इति।

प्रत्याख्याय निराकृत्यासाध्यत्वेनाऽऽचरेत्कुर्यात्। क्रिया चेह क्षयजे क्षयकासोक्ता।सर्वजे च प्रत्येकदोषोक्ता मिलिता कार्या। केचिदुद्भयोरपि सामान्यं चिकित्सितं कुर्वन्तीत्याहुः॥३॥

चव्याम्लवेतसकटुत्रिकतित्तिडीकतालीसजीरकतुगादहनैः समांशैः॥
चूर्णं गुडप्रमृदितं त्रिसुगन्धियुक्तं वैस्वर्यपीनसकफारुचिषु प्रशस्तम्॥४॥

तित्तिडीकं महार्द्रकम्।तुगा वंशरोचना।दहनश्चित्रकः। गुडोऽत्र सर्वचूर्णसमः। त्रिसुगन्धि प्रत्येकमेकमागाच्चतुर्थांशेनेति वृद्धः। मिलितचूर्णचतुर्थांशेन मिलित्वा त्रिसुगन्धि॥४॥

बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम्॥
स्वरोपघाते कासे च लेहमेनं प्रयोजयेत्॥५॥

बदरीपत्रपिष्टं ससैन्धवबहुघृते तालित्वा तेनैव घृतेनाऽऽलोड्य लेहः।घृतेनैव पूषिकया व्यवहारः॥५॥

अत्युच्चभाषणोत्थस्वरभेदस्य वातात्मकत्वे सत्यपि निमित्तभेदमाश्रित्य विशिष्टचिकित्सामाह—

शर्करामधुमिश्राणि शृतानि मधुरैः सह।
पिबेत्पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः॥६॥

मधुरैः काकोल्यादिभिः शृतानि पयांसि शर्करामधुमिश्राणीति पिण्डार्थः। पयांसीत्यत्र बहुवचनं गोमहिष्यजानां क्षीरपरिग्रहाय। पयःसाधनं क्षीरपरिपाकपरिभाषया॥६॥

व्याघ्रीस्वरसविपक्वंरास्नावाट्यालगोक्षुरव्योपैः॥
सर्पिः स्वरोपघातं हन्यात्कासं च पञ्चविधम्॥७॥

शुष्कद्रव्यमुपादाय स्वरसानामसंभवे॥
उदकेऽष्टगुणे साध्यं ग्राह्यं पादावशेषितम्॥८॥

आढकं द्रन्यचूर्णानामासुतं सलिलाढके॥
अहोरात्रस्थितं कुर्यात्स्वरसं स्वरसेऽसति॥

इति हेमाद्रौ।कण्टकारीवृतम्।यः श्वासकासविधिरादित एव वोक्तस्तं चाप्यशेषमवतारयितुं यतेतेति सुश्रुतवचनं केचिदत्रापि पठन्ति। तस्यार्थः। अन्यदपि स्वरभेदचिकित्सितमतिदेशेनाऽऽह—यः श्वासकासेत्यादि।श्वासकासप्रतिषेधे सामान्येनाऽऽदौ यः श्वासकासविधिरुद्दिष्टस्तं विधिं सर्वमपि यथादोषं कर्तुं यतेतेति पिण्डार्थः॥७॥८॥

इति श्रीवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां त्रयोदशः
स्वरभेदाधिकारः समाप्तः॥१३॥
<MISSING_FIG href="../../../books_images/U-IMG-17064547131..b.jpg"/>

अथ चतुर्दशोऽरोचकाधिकारः।
_________

ऊर्ध्वविकृतिसाधर्म्यात्स्वरभेदानन्तरमरोचकः। इदानीं वातजारोचकचिकित्सामाह—

वान्तो वचाद्भिरनिले विधिवत्पिबे220च्च स्नेहोष्णतोयमदिरान्यतमेन चूर्णम्॥
कृष्णाविडङ्गयवभस्महरेणुभार्ङ्गीरास्नैलहिङ्गुलवणोत्तमनागराणाम्॥१॥

वान्तो वचाद्भिर्वचाक्वाथेन कृतवमनः पेयादिक्रमेण जातबलश्चूर्णं पिबेत्। न तु सहसेति ज्ञेयम्। अनिल इति। अनिलजेऽरोचके कारणे कार्योपचारात्।अनिलजेऽपि वमनमिह कफस्थानगतत्वेन। स्नेहादिबहुद्रवविकल्पः सात्म्यापेक्षः। स्नेहं तैलमिह वातहरत्वात्। यवभस्म यवक्षारः। एलमेलवालुकम्। पदेष्वपि पदैकदेशप्रवृत्तेरिति कार्तिकःएलेत्यन्यः।लवणोत्तमं सैन्धवम्। इदं चूर्णं वमनैः शुद्धाशयस्य देयम्॥१॥

पित्तजारोचकचिकित्सामाह—

पित्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं लेहः ससैन्धवसितामधुसर्पिरिष्टः॥

पित्त इति। पित्तजारोचक उपचारात्। मधुरैः काकोल्यादिभिः। अत्र मदनफलमपि प्रक्षिपन्ति॥

कफजारोचकचिकित्सामाह—

निम्बाम्बुवामितवतः221 कफजेऽनुपानं राजद्रुमाम्बु मधुना सह दीप्यकाढ्यम्॥

निम्बाम्बु निम्बक्वाथः। निम्बाम्बुना वामितवतः पुंसः। राजद्रुमाम्बु किरमालकक्वाथः समधुरजमोदाढ्यश्चानुपानं स्यात्। कृतभोजनस्येति शेषः। समानतन्त्रदर्शनात्। निम्बाम्बुछर्दितवत इत्यत्राऽऽगमशासनस्यानित्यत्वेन तुगागमाभावात्केवलश्छकारः। तेन नच्छन्दोभङ्गः। कार्तिकस्त्वाह राजद्रुम आरग्वधादिगणोऽधिगन्तव्यः। कफाधिकारे तस्यैवोचितत्वात्। मधुनेति। सहार्थे तृतीया। अन्ये तु—दीप्यकाढ्यमिति।दीप्यकंयवानिका तेनाऽऽढ्यंतद्बहुलमित्याहुः॥

कफजारोचकेऽतिदेशेन चिकित्सितमाह—

चूर्णं यदुक्तमथवाऽनिलजे तदेव

अनिलजे यच्चूर्णमुक्तं कृष्णादि तदेवेह राजद्रुमाम्बुना पिबेत्। अत्रोक्तस्नेहादिद्रवेणानुपाने प्रत्यनीकता न स्यादिति व्याख्यानयन्ति। अयं च विधिर्वातानुबन्धे सति। केवलकफे वातविधेरनर्हत्वात्॥

सांनिपातिकारोचकचिकित्सामाह—

सर्वैश्च सर्वकृतमेवमुपक्रमेत॥२॥

सर्वैश्चसर्वकृतमिति। प्रत्येकदोषोक्तं भेषजं मेलयित्वा सर्वजमरोचकमुपचरेदित्यर्थः। डल्लणस्तु व्याख्याति। सर्वैरिति। वातादिजारोचकहरैःपूर्वोक्तैरेव सर्वजं सांनिपातिकमरोचकमेवमिति पूर्ववद्वमनादि कारयित्वेति यावत्।उपक्रमेत प्रत्याख्यायेति शेषः। असाध्यत्वात्तस्य॥२॥

बस्तिंसमीरणे पित्ते विरेकं वमनं कफे॥
कुर्याद्धृद्यानुकूलानि हर्षणं च मनोघ्नजे॥३॥

बस्तिविरेकाविमौ वमनानन्तरं कार्यौ। वमनं सर्वास्वरुचिषु कफस्थानगतत्वेन हितम्। हर्षणं च मनोघ्नज इति। मनोघ्नजे मनोरुजाहेतुशोकादिजे।हर्षणं चोपलक्षणम्। तेन कामादिजे भयादिकमपि कार्यम्॥३॥

इदानीं पञ्चमारोचकचिकित्सामाह—

इच्छाविनाशभयजेषु तु बाधकेषु
भावान्भवाय वितरेत्खलु शक्यरूपान्॥

बाधकेष्विति। प्रस्तुतत्वादरोचकेषु।भावानिति।हेतुविपरीतान्पदार्थान्भवायार्थवशाद्रुचेरुद्भवाय वितरेद्दद्यात्। कीदृशान्भावान्। शक्यरूपान्प्राप्यान्।

अप्राप्येष्वभीष्टविषयेषु कर्तव्यमाह—

अर्थेषु चातिपतितेषु पुनर्भवाय पौराणिकैः श्रुतिपथैरनुमानयेत्तम्॥४॥

अतिपतितेष्वेकान्तविनष्टेषु पुनर्भवाय पुनरुद्भवाय पौराणिकैः पुराणप्रतीतैः श्रुतिपथैर्वाक्यैः श्रुतिः श्रवणं सैव पन्था मार्गों येषां तानि तैरिति व्याख्यानात्। अनुमानयेत्प्रतिबोधयेत्। पौराणिकश्रुतिशतैरनुमानयेतेति केचित्पठन्ति नलरामयुधिष्ठिरोपाख्यानैरन्यैश्च तथाविधैरनुमानयेदिति व्याख्यानयन्ति॥४॥

सात्म्यान्स्वदेशचरितान्विविधांश्च भक्ष्या-
न्यानानि मूलफलखाडवरागलेहान्॥
सेवेद्रसांश्च विविधान्विविधैः प्रयोगै-
र्भुञ्जीत चापि लघुरूक्षमनःसुखानि॥५॥

सात्म्यान्सुखकरान्।स्वदेशचरितानिति। निजदेशानुरूपान्। भक्ष्यान्पानानीत्यादि। पानानि पानकानि। अत्रापि विविधानीति योज्यम्। तानि यथाभिलाषमम्लफलादिसंस्कृतानि कर्पूरचातुर्जातादिसुरभीणि कार्याणि।मूलमार्द्रकादि। फलमाम्रादि। खाडवो मधुराम्लसुरभिद्रव्यसंयोगः।

रागः

“सितारुचकसिन्धूत्थैःसवृक्षाम्लपरूषकैः॥
जम्बूफलरसैर्युक्तो रागो राजिकयाऽन्वितः”।

इत्यनेनोक्तः। लेहा अम्लादिफलरसोद्भवाः। रसान्मांसरसान्। विविधान्मधुरादिप्रकारान्। भुञ्जीत चापि लघुरूक्षमनः सुखानीत्यनेन लघुरूक्षभोजनोपदेशः कफस्थानगतत्वादरोचकानाम्। अत एववातपित्तजयोरप्यरोचकयोर्वमनमुपदिष्टम्।मनःसुखं मनोनुकूलम्। केचित्सात्म्यातिसात्म्यदेशरोगर्तुप्रकृत्यादीनवेक्ष्य भक्ष्यादीनद्यादिति मन्यन्ते॥५॥

अम्लिका गुडतोयं च त्वगेलामरिचान्वितम्॥
अभक्तच्छन्दरोगेषु शस्तं कवलधारणम्॥६॥

अम्लिका तित्तिडिः। अम्लिकागुडतोये त्वगेलामरिचचूर्णप्रक्षेपः॥६॥

कुष्ठुसौवर्चलाजाजीशर्करामरिचं बिडम्॥७॥

धात्र्येलापद्मकोशीरपिप्पलीचन्दनोत्पलम्॥
लोध्रं तेजोवती पथ्या त्र्यूषणं सयवाग्रजम्॥८॥

आर्द्रदाडिमनिर्यासश्चाजाजीशर्करायुतम्॥
सतैलमाक्षिकाश्चैतेचत्वारः कवलग्रहाः॥
चतुरोऽरोचकान्हन्युर्वाताद्येकजसर्वजान्॥९॥

आर्द्रदाडिमनिर्यास इति। आर्द्रदाडिमफलस्वरसः॥७॥८॥९॥

त्रीण्यूषणानि त्रिफला रजनीद्वयं च चूर्णीकृतानि यवशूकविमिश्रितानि॥
क्षौद्रान्वितानि वितरेन्मुखधावनार्थमन्यानि तिक्तकटुकानि च भेषजानि॥१०॥

त्रीण्यूषणानि त्रिकटुकम्। यवशूको यवक्षारः।वितरेद्दद्यात्। मुखधावनार्थमिति। घर्षणेन मुखशोधनमित्यर्थः। डल्लणो मुखबोधनार्थमिति पाठं पठित्वा मुखबोधे सत्यरोचकहानिरिति भावः। अवलेहप्रयोग इति व्याख्यानयति। अन्यानि तिक्तकटुकानीति। त्वगेलारहितानीति वदन्ति।

यदुक्तम्—

“त्वगेला रहितं सर्वंकटुतिक्कमरोचकी।
लिह्यात्क्षौद्रेण संयुक्तमल्पमल्पं पुनः पुनः” इति॥१०॥

कारव्यजाजीमरिचं द्राक्षावृक्षाम्लदाडिमम्॥
सौवर्चलगुडक्षौद्रं सर्वारोचकनाशनम्॥११॥

अस्य योगस्य गुटिका चतुर्माषकमाना मुखे धार्या॥११॥

यवानीखाडवमाह—

यवानी तित्तिडीकं च नागरं चाम्लवेतसम्॥१२॥

दाडिमं बदरं चाम्लं कार्षिकाण्युपकल्पयेत्॥
धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम्॥१३॥

पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च॥
शर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत्॥१४॥

जिह्वाविशोधनं हृद्यं तच्चूर्णं भक्तरोचनम्॥
हृत्प्लीहपार्श्वशूलघ्नं विबन्धानाहनाशनम्॥
कासश्वासहरं ग्राहि ग्रहण्यर्शोविकारनुत्*222॥१५॥

बदरं चाम्लमिति। अम्लं बदरम्।वराङ्गं गुडत्वक्।पिप्पलीनां शतं चैकमिति। पिप्पलीगुडकशतम्। एवं मरिचस्यापि गुडकशतद्वयम्। एतच्चूर्णं मुखे धृतं शनैः शनैर्गिलनीयम्।यवानीखाडवः॥१२॥१३॥१४॥१५॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां
चतुर्दशोऽरोचकाधिकारः समाप्तः॥१४॥

<MISSING_FIG href="../../../books_images/U-IMG-17064578721..b.jpg"/>

अथ पञ्चदशश्छर्द्यधिकारः।
___________

अरोचकस्य पञ्चविधत्वात्तथा छर्द्यामप्यरोचकसद्भावादकानन्तरं छर्दिः।

आमाशयोत्क्लेशभवा हि सर्वाछर्द्योमता लङ्घनमेव तस्मात्॥
प्राक्कारयेन्मारुतजां विमुच्य संशोधनं वा कफपित्तहारि॥१॥

आमाशयोत्क्लेशभवा हीति।हिशब्दो हेतौ। यस्मादामाशयोत्क्लेशजा छर्दिरामाशयमुक्लिश्य दोषैर्जन्यत इति तात्पर्यार्थः। आमाशयसमुत्थे च रोगे स्थानापेक्षयाऽऽमकफहरं लङ्घनादिकं हितं तस्माल्लङ्घनमवाऽऽदौ कुर्यादित्यर्थः। मारुतजां विमुच्येत्यनेन लङ्घनशोधनयोरपवादः। वातजाया आमाशयसमुत्थत्वेन लङ्घनसाध्ये विद्यमानेऽपि कफे वातस्य लङ्घनशोधनाभ्यां प्रकापः क्षिप्रं महात्ययकारकः स्यादिति मत्वातयोर्निषेधः। लङ्घनमल्पे दोषे बलीयसि च शोधनमिति व्यवस्था।संशोधनं वा कफपित्तहारीति। कफहारि शोधनं वमनम्। पित्तहारि शोधनं विरेचनम्। वमनं च व्याधिविपरीतकारि भेषजमतीसारे विरेचनवत्। सुश्रुतेऽप्युक्तम्। छर्दिषु बहुदोषासु वमनं हितमुच्यत इति॥१॥

वातजवमीचिकित्सितमाह—

हन्यात्क्षीरोदकं पीतं छर्दिं पवनसंभवाम्॥

क्षीरोदकमित्यत्र क्षीरघृतमिति पाठं पठति डल्लणः क्षीरघृतं क्षीरमथनादुद्भूतं क्षीरयुक्तं वा घृतमिति व्याख्याति॥

ससैन्धवं पिबेत्सर्पिर्वातच्छर्दिनिवारणम्॥२॥

ससैन्धवं पिबेत्सर्पिरिति। सर्पिः पक्वमेव॥२॥

मुद्गामलकयूषो वा ससर्पिष्कः ससैन्धवः॥

मुद्गामलकयूषो वा ससर्पिष्क इति। सर्पिरिह यूषसंतलनार्थम्॥

यवागूं मधुमिश्रां वा पञ्चमूलीकृतां पिबेत्॥३॥

पञ्चमूलीकृतामिति। पञ्चमूली महतीति चन्द्रिकाकारः। स्वल्पेति चक्रपाणिः॥३॥

पित्तात्मिकायामनुलोमनार्थंद्राक्षाविदारीक्षुरसैस्त्रिवृत्स्यात्॥

द्राक्षाविदारीक्षुरसैस्त्रिवृत्स्यादिति।द्राक्षादिरसैः प्रत्येकं त्रिवृद्योज्या॥

कफाशयस्थं त्वतिमात्रवृद्धं पित्तं हरेत्स्वादुभिरूर्ध्वमेव॥४॥

कफाशयस्थमिति। आमाशयोरसी इह कफस्थानम्। तत्रस्थम्। स्वादुभिरिति। द्राक्षादिभिः। ऊर्ध्वमेवेति। वमनेनैव॥४॥

शुद्धस्य काले मधुशर्कराभ्यां लाजैश्च मन्थं यदि वाऽपि पेयाम्॥
प्रदापयेन्मुद्गरसेन वाऽपि शाल्योदनं जाङ्गलजै रसैर्वा*223॥५॥

यदिवाऽपि पेयामिति। मन्दाग्निं प्रति पेया ज्ञेया॥५॥

चन्दनेनाक्षमात्रेण संयोज्याऽऽमलकीरसम्॥
पिबेन्माक्षिकसंयुक्तं छर्दिस्तेन निवर्तते॥६॥

संयोज्याऽऽमलकीरसमिति।चन्दनकर्षाच्चतुर्गुणमामलकीरसम्॥६॥

कषोयो भृष्टमुद्गस्य सलाजमधुशर्करः॥
छर्द्यतीसारतृड्दाहज्वरघ्नः संप्रकाशितः॥७॥

कषायो भृष्ट मुद्गस्येति। मुद्गंभृष्टा कषायविधिना कषायः कार्यः। अत्र लाजमधुशर्कराणां प्रक्षेपः। शीतकषायोऽयमित्यन्ये॥७॥

हरीतकीनां चूर्णं च लिह्यान्माक्षिकसंयुतम्॥
अधोभागीकृते दोषे छर्दिः क्षिप्रं निवर्तते॥८॥

क्वाथःपर्पटजः पीतः सक्षौद्रश्छर्दिनाशनः॥
गुडूचीत्रिफलारिष्टपटोलीक्वथितं जलम्॥
सक्षौद्रं224 शर्करायुक्तं छर्दिपित्ताम्लनाशनम्॥९॥

पित्ताम्लसंभवामित्यम्लपित्तजाम्॥८॥९॥

कफात्मिकायां वमनं प्रशस्तं सपिप्पलीसर्षपनिम्बतोयैः225
पिण्डीतकैःसैन्धवसंप्रयुक्तैर्बलाविरोधे कफशो226धनार्थम्॥१०॥

सपिप्पलीसैन्धवनिम्बतोयैरिति। निम्बच्छलस्यार्धशृतक्वाथेपिपल्यादीनां प्रक्षेपः। पिण्डीतको मदनफलम्॥१०॥

विडङ्गत्रिफलाविश्वचूर्णं मधुयुतं पिबेत्227
विडङ्गप्लवशुण्ठीनां हरेद्वा श्ले228ष्मजां वमिम्॥११॥

सजाम्बवं वा बदरस्य चूर्णं मुस्तायुतां कर्कटकस्य शृङ्गीम्॥
दुरालभां वा मधुसंप्रयुक्तां लिह्यात्कफच्छर्दिविनिग्रहार्थम्॥१२॥

जाम्बवं जम्बूफलास्थि।बदरं बदरास्थिमज्जा वक्ष्यमाणयोगे कोलमज्जापाठात्। सजाम्बवं वा बदरस्य चूर्णमित्येको योगः। मुस्तायुतां कर्कटकस्य शृङ्गीमिति द्वितीयः। दुरालभां चेति तृतीयः। अत्र योगत्रयेऽपि मधु संबध्यते॥११॥१२॥

तर्पणं मधुसंयुक्तं तिसृणामथ भे229षजम्॥१३॥

तर्पणं मधुसंयुक्तमिति। तपर्णं तोयपरिछुताः सक्तवः। तिसृणामिति। तिसृणां पृथग्वातादिजानां छर्दीनाम्। एतेन च त्रिदोषजच्छर्दिहरत्वमस्योक्तं भवति। यतोवातादिजासु पृथक्तिसृषु यद्भेषजं तदेव मिलितवातादित्रयजायामपि प्रकृतिसमसमवेतायां हितम्। तथा चोक्तम्—

“येषां पृथक्त्वेन मया क्रियोक्ता तां संनिपातेषु च तस्य बुद्ध्या॥
रोगर्तुदोषाग्निबलाद्यपेक्ष्य कुर्याद्भिषक्शास्त्रविदप्रमत्तः” इति॥

एवं तिसृष्वपीत्यत्रापि व्याख्येयम्॥१३॥

कृतं गुडूच्या विधिवत्कषायं हिमसंज्ञितम्॥
तिसृष्वपि पिबेत्प230थ्यं माक्षिकेण समायुतम्॥१४॥

कषायं हिमसंज्ञितमिति। शीतकषायम्। शीतकषायविधानं च भेषजं पलं क्षुण्णमुष्णाम्बुचतुष्पलाप्लुतं निशि संस्थितं ग्राह्यमिति।तन्त्रान्तरे हि—

“द्रव्यादापोथितात्तोये प्रतप्ते निशि संस्थितात्।
कषायो योऽभिनिर्याति स शीतः समुदाहृतः॥१॥

षड्भिः पलैश्चतुभिर्वा सलिलाच्छीतफाण्टयोः।
आप्लुतं भेषजपलं रसाख्यस्य पलद्वयम्” इति॥

प्रचारस्तु प्रायेण भिषजां भेषजार्धपल एव जलपलद्वयेनेति। ननु गुडूची शाकवर्गे सुश्रुते कफपित्तमात्रशमनी पठिता तत्कथमस्याः शीतकषायो वातादित्रयजासु शस्तत्वेनोपदिश्यते। उच्यते। मधुरसंयोगमहिम्ना दोषत्रयेऽपि हितत्वमस्याः। किंच शाकवर्गे पत्रमस्याः कफपित्तहरमुक्तं लता तु वातं शमयति। तदुक्तम्—अमृता सांग्राहिकदीपनीयवातहर श्लेष्मशोणितविबन्धप्रशमनानामिति॥१४॥

श्रीफलस्य गुडुच्या वा कषायो मधुसंयुतः॥
पेयश्छर्दित्रये शीतो मूर्वा231 वा तण्डुलाम्बुना॥१५॥

श्रीफलस्येति। श्रीफलो बिल्वस्तस्य मूलमिह।बिल्वमूलं मरुच्छ्रलेष्मच्छर्दिघ्नं न च पित्तकृदिति गुणपाठात्। गुडूच्या वा कषाय इति। गुडूच्याः क्वाथ एवं शीतः कार्यो न तु शीतकषायस्तस्योक्तत्वात्। तथा च नागार्जुनवार्तामालायां पठ्यते—

“छिन्नरुहायाःक्वाथं सुशीतलं यो नरः पिबेन्मधुना।
छर्दिं स वातपित्तश्लेष्मसमुत्थां निवारयति" इति॥१५॥

जम्ब्वाम्रपल्लवगवेधुकधान्यसेव्य-
ह्रीवेरवारि मधुना पिबतोऽल्पमल्पम्॥
छर्दिः प्रयाति शमनं त्रिसुगन्धियुक्ता
लीढा निहन्ति मधुना च दुरालभा वा॥१६॥

गवेधुको घुलुञ्चः।धान्यं धान्याकम्। सेव्यमुशीरम्। वारि शीतकषायः। त्रिसुगन्धियुक्तेति। त्रिसुगन्धिचूर्णं तावद्देयं यावता सौरभ्यमात्रं भवति॥१६॥

जात्या232 रसः कपित्थस्य पिप्पलीमरिचान्वितः॥
क्षौद्रेण युक्तो लेहोऽयं निहन्ति च्छर्दिमुल्बणाम्॥१७॥

कपित्थस्येति। कपित्थफलरसः। जाती धात्रीति। जातीशब्देनेह धात्री गृह्यतेऽनुलोमकत्वाच्छीतवीर्यत्वाच्च।

चरकेऽपि

“लेलीतकप्रयोगो रसेन जात्याः समाक्षिकः परमः।
सप्तदश कुष्ठजातीर्माक्षिकधातोश्च मूत्रेण”॥

इत्यत्र योगे जाती धात्रीति जैज्जटेन व्याख्यातम्। द्रव्यावल्यामभिधानेऽप्यामलकपर्याये जातीशब्दः पठ्यते। इह लेलीतकः पाषाणभेद उत्तरापथिकः॥१७॥

सौवर्चलमजाजी च शर्करा मरिचानि च॥
युक्तोऽयं मधुना लेहः श्रेष्ठश्छर्दिनिबर्हणः॥१८॥

कोलमज्जाकणाधात्रीलाजाविश्वफलत्रिकम्॥
श्यामाञ्जनाब्दकोलास्थि मक्षिकाविट्सितायुतम्॥१९॥

कणोषणकपित्थाम्बुत्वगेलापत्रकं समम्॥
सक्षौद्राः पादिका लेहाः षडेते छर्दिनाशनाः॥२०॥

श्यामाञ्जनेति। श्यामा प्रियंगुः। वक्ष्यमाणयोगे प्रियंगुदर्शनात्। अञ्जनं रसाञ्जनम्। मक्षिकाविण्मक्षिकाविष्ठा।सितायुतमिति मक्षिकाविडित्यस्य विशेषणम्। विट्शब्दो वैद्यके नपुंसकोऽपि दृश्यते। कपित्थाम्ब्विति।कपित्थस्य फलम्।अम्बु बालकम्॥१८॥१९॥२०॥

कोलानलकमज्जानो मक्षिकाविट्सिता मधु॥
सकृष्णातण्डुलो लेहश्छर्दिमाशु नियच्छति॥२१॥

लाजाक233पित्थमधुमागधिकोषणानां
क्षौद्राभयात्रिकटुधान्यकजीरकाणाम्॥
पथ्यामृतामरिचमाक्षिकपिप्पलीनां
लेहास्त्रयः सकलवम्यरुचिप्रशान्त्यै॥२२॥

सकृष्णातण्डुल इति। कृष्णातण्डुलः पिप्पलीबीजम्॥२१॥२२॥

एलालवङ्गगजकेसरकोलमज्जा-
लाजाप्रियङ्गुघनचन्दनपिप्पलीनाम्॥
चूर्णानि माक्षिकसितासहितानि लीढ्वा
छार्दिंनिहन्ति कफमारुतपित्तजाताम्॥२३॥

एलादिचूर्णम्॥२३॥

जम्ब्वाम्रपल्लवशृतं क्षौद्रं दत्त्वा सुशीतलं तोयम्॥
लाजैरवचूर्ण्य पिबेच्छर्द्यतिसारे परं सिद्धम्॥२४॥

पवनघ्नीचिरोत्थासु प्रयोज्या छर्दिषु क्रिया॥२५॥

जम्ब्वाम्रपल्लवशृतमिति। क्वाथोऽयं शीतः शीतकषायो वा॥२४॥२५॥

छर्दिप्रसङ्गात्पवनो ह्यवश्यं धातुक्षयाद्वृद्धिमुपैति तस्मात्॥
चिरप्रवृत्तास्वानिलापहानि कार्याण्युपस्तम्भनवृंहणानि॥२६॥

सर्पिर्गुडःक्षीरविमिश्रितानि234 कल्याणकत्र्यूषणजीवनानि॥
वृष्यास्तथा मांसरसाःसलेहाश्छर्दिंप्रसक्तां235 प्रशमं नयन्ति॥२७॥

सर्पिर्गुडो राजयक्ष्मोत्थः।कल्याणकं घृतं ज्वरे।त्र्यूषणाद्यं घृतं कासे। जीवनीयाद्यं वातरक्ते। सलेहा इति। लेहः प्रलेहो व्यञ्जनविशेषः॥२६॥२७॥

बीभत्सजां हृद्यतमैर्दौहृदीं काङ्क्षितैः फलैः॥
लङ्घनैर्वमनैश्चाऽऽमां सात्म्यैर्वा सात्म्यकोपजाम्॥
कृमिहृद्रोगबच्चापि साधयेत्कृामजां वमिम्॥२८॥

हृद्यतमैर्हृदयहितैर्मनोनुकूलैश्च। सर्वत्रात्र साधयेदिति योज्यम्। दौहदीमिति। स्त्रीणां दौहृदाप्राप्तिजाम्। काङ्क्षितैः फलैरित्युपलक्षणं तेन फलादन्यस्यापि वस्तुनः परिग्रहः। लङ्घनैर्वमनैश्चाऽऽमामिति। आमामामजाम्।अल्पदोषबलस्य लङ्घनैर्बहुदोषबलस्य वमनैः साधयेत्। असात्म्यकोपजामिति। अक्रमसेवितासात्म्यविक्रियाभवाम्। कृमिहृद्रोगवदिति। कृमिहृद्रोगोक्तभेषजेन विरेकादिना॥२८॥

पद्मकामृतनिम्बानां धान्यचन्दनयोः पचेत्॥
कल्के क्वाथे च हविषः प्रस्थं छर्दिनिवारणम्॥
तृष्णारुचिप्रशमनं दाहज्वरहरं परम्॥२९॥

पद्मकाद्यं घृतम्॥२९॥

इति श्रीवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां पञ्चदशश्छर्द्यधिकारः
समाप्तः॥१५॥
<MISSING_FIG href="../../../books_images/U-IMG-17064533601…jpg"/>

अथ षोडशस्तृष्णाधिकारः।
_________

अम्बूक्लेशरूपां छार्दिंनिर्दिश्याम्बुशोषलक्षणा तृष्णोच्यते—

तृष्णायां पवनोत्थायां सगुडं दधि शस्यते॥
रसाश्चबृंहणाः शीता गुडूच्या रस एव च236॥१॥

रसाश्च बृंहणा इति। रसा मांसरसाः॥१॥

पञ्चाङ्गिकाः पञ्च गणा य उक्तास्तेष्वम्बु सिद्धं प्रथमे गणे वा॥
पिबेत्सुखोष्णं मनुजोऽल्पशश्च तृष्णोपरोधं न कदाऽपि कुर्यात्॥
पित्तोत्थितां पित्तहरैर्विपक्वंनिहन्ति तोयं237 पयं एवं वाऽपि॥२॥

पञ्चाङ्गिकाःपञ्चगणा इति। स्वल्पमहत्तृणवल्लीकण्टकासंज्ञकानि पञ्च पञ्चमूलानि। तेष्वम्बु सिद्धमिति। अन्बु क्वाथोऽर्धशृतं वा। एते पञ्च योगाः प्रत्येकं क्वाथविधानात्। प्रथमे गण इति। विदारिगन्धाद्ये सौश्रुतत्वादस्य योगस्य।अल्पश इति स्तोकं स्तोकम्। गदाधरः पुनरल्पश इति तृष्णाविशेषणं व्याख्यायाल्पायां संशमनं महत्यां तु वमनमित्याह। पित्तहरैरिति। काकोल्यादिभिः॥२॥

काश्मर्यशर्करायुक्तं चन्दनोशीरपद्मकम्॥
द्राक्षामधुकसंयुक्तं पित्ततर्षेजलं पिबेत्॥३॥

अस्य शीतकषायः कार्यः॥३॥

ससारिवादौ तृणपञ्चमूलैस्तथोत्पलादौ मधुरे गणे वा॥
कुर्यात्कषायांस्तु तथैव युक्तान्मधूकपुष्पादिषु चापरेषु॥४॥

सप्तमीयं षष्ठ्यर्थेतेन सारिवादिगणचतुष्टयस्य कषायान्कुर्यादित्यर्थः। मधुरो गणः काकोल्यादिः। गणचतुष्टयेनानेन चत्वारः कषायाः। तथैव युक्तानिति। शीतकषायविधिकृतान्। सुश्रुते शीतकषायविधिप्रस्तावेऽस्य ग्रन्थस्य पठितत्वात्। तथैव युक्तानित्यस्य स्थाने सुश्रुते तथैव शुक्तानिति पाठः। मधूकपुष्पादिषु चापरेष्विति। मधूकपुष्पादीनि मधूकसौभाञ्जनकोविदारप्रियङ्गुपुष्पाणि सुश्रुते रक्तपित्तस्योक्तानि। आदिशब्दः प्रकारे तेन मधुकपुष्पद्राक्षाकाश्मर्यखर्जूराणीति कार्तिकःएभिरपि शीतकषायविधिः॥४॥

बिल्वाढकीधातकिपञ्चकोलदर्भेषु सिद्धं कफजां निहन्ति॥
हितं भवेच्छर्दितमेव238 चात्र तप्तेन निम्बप्रसवोदकेन॥५॥

सिद्धमित्यतः परं जलमिति शेषः। धातकिपञ्चकोलस्थाने कन्यकपञ्चमूलेति पाठान्तरम्। निम्बप्रसवोदकेनेति। निम्बप्रसवो निम्बपल्लवःप्रसूयत इति प्रसव इति व्युत्पत्त्या। तत्रान्तरे निम्बपल्लवोदकेनैव वमनमुक्तं तद्यथा—

“कफजायां तृषि शस्तं वमनं पिचुमन्दपल्लवजलेन॥
कोष्णेन यच्च वम्यामामजायामिष्यते तच्च" इति।

निम्बप्रभवमुदकं निम्बप्रसवोदकमित्यन्ये॥५॥

सजीरकाण्यार्द्रकशृङ्गबेरसौवर्चलान्यर्धजलप्लुतानि॥
मद्यानि हृद्यानि च गन्धवन्ति पीतानि सद्यः शमयन्ति तृष्णाम्॥६॥

आर्द्रकशृङ्गबेरसौवर्चलानीति।आर्द्रकशृङ्गबेरसौवर्चलवन्ति। अत्र मत्वर्थीयात्। आर्द्रकशृङ्गबेरमार्द्रकमेव। डल्लणस्त्वेवंविधामापातनिकां विधाय व्याख्याति। यथा पीयमानं मद्यं तृष्णाकरं न भवति तथा प्राह सजीरकाणीत्यादि। सजीरकाणि जीरकसहितानि। आर्द्रकं प्रसिद्धम्।शृङ्गबेरं शुण्ठी। आर्द्रकादौ सहशब्दो बोद्धव्यः। नाऽऽर्द्रकशृङ्गबेरसौवर्चलान्यपि मद्यानीत्यस्यविशेषणम्। अर्धजलप्लुतान्यर्धपानीयमिश्रितानि।हृद्यानि मनःप्रियाणि। गन्धवन्ति प्रशस्यगन्धानि।एवंविधानि मद्यानि पीतानि सन्ति सद्यस्तृष्णां शमयन्तीति पिण्डार्थः॥६॥

क्षतोद्भवायास्तृष्णायाश्चिकित्सामाह—

क्षतोद्भवां रुग्विनिवारणेन जयेद्रसानामसृजश्च पानैः॥

रुग्विनिवारणेनेति। व्रणवेदनानिर्वापणेन। कारणभूतव्रणवेदनोच्छेदात्तत्कार्यरूपा क्षतजतृषा शाम्यतीत्यर्थः। रसानां मांसरसानाम्।असृज इति। रक्तस्य।तत्त्वेणादीनां सद्यस्कं ग्राह्यम्। रक्तपानं च क्षतादत्यर्थशोणितप्रवृत्तौ ज्ञेयम्॥

क्षयजायास्तृष्णायश्चिकित्सितमाह—

क्षयोत्थितां क्षीरजलं निहन्यान्मांसोदकं वाऽथ मधूदकं वा॥७॥

क्षीरजलमिति। क्षीरमिश्रं जलम्। क्षीरघृतमिति सुश्रुते पाठः। तत्र क्षीरघृतं क्षीरमथनोद्भूतं घृतं क्षीरमिश्रितं घृतं वेति डल्लणः। मांसोदकं मांसरसं तनुः [न तु]सौरावसंज्ञकः। मधुमिश्रमुदकं मधूदकम्। ननु क्षयजायां बृंहणविधेरुपदेशाद्विरुक्षणं मधूदकं विरुद्धमे (म्।मै) वम्। क्षयजा हि दोषत्रयेणापि जन्यते। यदुक्तम—रसक्षयाद्या क्षयसंभवा सा तां संनिपातादिति केचिदाहुरिति। तत्र यदि कफो वृद्धः पित्तं वा तदा मधूदकं मांसोदकं वा। मधुकोदकं चेति सुश्रुतपाठे मधुकोदकं यष्टीमधुकोदकम्। केचिदत्र माषोदकमिति पठित्वा माषयूषमिति।व्याख्यानयन्तीति डल्लणः॥७॥

भक्तजतृष्णाचिकित्सितमाह—

गुर्वन्नजामुल्लिखनैर्जयेत्तु क्षयादृते सर्वकृतां च तृष्णाम्*239॥८॥

उल्लिखनैरिति। वमनैः। क्षयादृते सर्वकृतां च तृष्णामिति। क्षयजांतृष्णां विहाय सर्वकृतां तृष्णां वातपित्तकफकृतां गुर्वन्नजांच वमनैर्जयेत्। कार्तिकस्त्वाह सर्वकृतामामजाम्। अस्या आमकोपितसर्वदोषजन्यत्वादिति॥८॥

सामान्ययोगानाह—

लाजोदकं मधुयुतं घृतं240 गुडविमिश्रितम्241
काश्मर्यशर्करायुक्तं पिबेत्तृष्णार्दितो नरः॥९॥

लाजाचूर्णभावितमुदकं शीतकपायोऽयं वा॥९॥

आम्रजम्बूकषायं वा पिबेन्माक्षिकसंयुतम्॥
छर्दिं सर्वांप्रणुदति तृष्णां चैवापकर्षति॥१०॥

आम्रजम्बूकषायं वेति। अत्राऽऽम्रजम्ब्वोःफलास्थि ब्रुवते। पल्लवोऽप्यनयोरुचितः। जम्ब्वाम्रपल्लवशृतं क्षौद्रं दत्त्वा सुशीतलमिति च्छर्द्यांपाठात्॥१०॥

गोस्तनेक्षुरसक्षीरयष्टीमधुमत्पलैः॥
नियतं नस्ततः (नासया) पीनस्तृष्णा शाम्यति दारुणा॥११॥

गोस्तनादिभिः प्रत्येकं नम्यम्॥११॥

क्षीरेक्षुरसमार्द्वीकक्षौद्रसीधुगुडोदकः॥
वृक्षाम्लाम्लैश्च242गण्डुपास्तालुशोषप्रणाशनाः॥१२॥

क्षीरादिभिरपि प्रत्येक गण्डूषो गण्डूषाइति बहुचनेन निर्देशात्॥१२॥

मुखपैच्छिल्यादौ गण्डूषमाह—

वैशद्यंजनयत्याम्यंप्ररोहयति यद्व्रणान्243
दाहतृष्णाप्रशमनं मधुगण्डूषधारणम्॥१३॥

वारि शीतं मधुयुतमाकण्ठाच्च पिपासितम्॥
पाययेद्वामयेच्चापि तेन तृष्णा शाम्यति॥१४॥

अयं योगः पित्तजतृष्णायां युक्तः। सुश्रुतेऽपि पित्तज्वरेविधिर्दर्शित एषः॥१३॥१४॥

अनिरूक्षदुर्बलानां शमयेतृष्णामिहाऽऽशु पयः॥
छागो वा घृतभृष्टःशीतो मधुरो रसो हृद्यः॥१५॥

मधुगे रसो हृद्यइति।मधुरगणसाधितत्येन रसोमधुरो ज्ञेयः॥१५॥

स्निग्धेऽन्ने भुक्ते या तृष्णा स्यात्तां गुडाम्बुना शमयेत्॥१६॥

स्निग्धान्नभोजनजनितायां तृषायाम्। अस्यां गुडाम्बुस्निग्धगुडयोगाव्यद्यपि न यौगिकंयदुक्तम्—यदाहारगुणैः पानं विपरीतं तदिष्यत इति। तथाऽपि मधुररसत्वेन प्रभावाद्वा हितं तज्ज्ञेयम्॥१६॥

वटशृङ्गसितालोध्रंदाडिमं मधुकं मधु॥
पिबेत्तण्डुलतोयेन च्छर्दितृष्णानिवारणम्॥१७॥

सुगमम्॥१७॥

तालुशोषे पिबेत्सर्पिर्घृतमण्डमथापि वा॥

तालुशोषे पिबेत्सर्पिरिति। तृष्णामूर्छापरीताश्च गर्भिण्यस्तालुशोषिणः। न पिबेयुर्घृतमिति वचनेन निषिद्धस्यापि तालुशोषे घृतपानस्य विधिरयं वातोल्बणावस्थायां मन्तव्यः। तालुशोषश्च तृष्णाप्रकार एव तेनेह संशक्यगतमस्याभिधानम्॥

मूर्छाछर्दितृषादाहस्त्रीमद्यश्रमक244र्शिताः॥
पिबेयुः शीतलं तोयं रक्तपित्ते मदात्यये॥१८॥

सुगमम्॥१८॥

मुखवैरस्यादौ गण्डूषमाह—

धान्याम्लं मुखवैरस्यमलदौर्गन्ध्यनाशनम्॥

धान्याम्लं काञ्जिकं तस्य गण्डूषः॥

मुखशोषे गण्डूषमाह—

तदेवालवणं शीतं मुखशोषहरं परम्॥१९॥

तद्धान्याम्लम्। अर्थार्त्पूवं सलवणोष्णम्॥१९॥

कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः॥
पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति॥२०॥

चुकीकाऽम्ललोणिका। चुक्रिका कुवावि।मुखालेप इति। मुखकुहरलेपः। चरप्रामाण्याद्धृदयशिरसोरपि लेपो द्रष्टव्यः।

यथा—

“जम्ब्वाम्रातकबदरीनलवेतसपञ्चवल्कपञ्चाम्लैः॥
हृन्मुखशिरः प्रलेपाः सघृता मूर्छाभ्रमतृष्णाघ्नाः” इति॥२०॥

वटप्ररोहं मधुकुष्टमुत्पलं सलाजचूर्णं गुटिकां प्रकल्पयेत्॥
सुसंहिता सा वदनेन धारिता तृष्णां प्रवृद्धामपि हन्ति सत्वरम्॥२१॥

सुगमम्॥२१॥

ओदनं रक्तशालीनां शीतं माक्षिकसंयुतम्॥
भोजयेत्तेन शाम्येते छर्दितृष्णे चिरोत्थिते॥२२॥

ओदनं रक्तशालीनां शीतमिति।सद्यस्कपानीयं भक्तम्॥२२॥

दुःसहतृष्णायामदाने जलस्य दोषमाह—

तृष्यन्पूर्वामयक्षीणो न लभेत जलं यदि॥
मरणं दीर्घरोगं वा प्राप्नुयात्वरितं नरः॥२३॥

पूर्वामयक्षीण इति। प्रथमोत्पन्नरोगकृशः॥२३॥

सात्म्यान्नपा245नभैषज्यैस्तृष्णां तस्य जयेत्पुनः॥
तस्यां जितायामन्योऽपि व्याधिः शक्यश्चिकित्सितुम्॥२४॥

अन्योऽपि व्याधिरिति। तृष्णाशमनार्थं दीयमानान्नपानादिना कृतोऽपि व्याधिरित्यर्थः। शक्यश्चिकित्सितुमिति। तृष्णां महात्ययकारिणीमवेक्ष्य स व्याधिः सुजयो भवतीत्यर्थः॥२४॥

अदाने जलस्य तृष्णातुरः कथं म्रियत इत्यत आह—

तृषितो मोहमायाति मोहात्प्राणान्विमुञ्चति॥
तस्मात्सर्वास्ववस्थासु न क्वचिद्वारि वार्यते॥२५॥

सुगमम्॥२५॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री
कण्ठदत्तविरचितायां व्याख्याकुसुमावल्याख्यायां
षोडशः स्तृष्णाधिकारः समाप्तः॥१६॥
<MISSING_FIG href="../../../books_images/U-IMG-17064494741..b.jpg"/>

अथ सप्तदशो मूर्छाधिकारः।
___________

तृषितस्य मोहोत्पतेस्तृष्णानन्तरं मूर्छा। उक्तं हि तृषितो मोहमायातीति।

सेकावगाहौ मणयः सहाराः शीताः प्रदेहा व्यजनानिलाश्च॥
शीतानि पानानि च गन्धवन्ति सर्वासु मूर्छास्वनिवारितानि॥१॥

मणयःसहारा इति! हारार्पिता मुक्ताः स्फाटिकप्रभृतयो मणयः। शीताः प्रदेहा इति। चन्दनोत्पलप्रभृतिभिः कृताः प्रदेहाः।व्यजनानिला व्यजनवायवः।शीतानि पानानि च गन्धवन्तीति। यानि शीतानि गन्धवन्ति च पानानि तानि सर्वासु मूर्छास्यनिवारितानि प्रशस्तानि।पानानि पानकानि।सर्वासु मूर्छास्वनिवारितानीत्यनेन वातकफजयोरपि मूर्छयोर्हेतुप्रत्यनीकचिकित्साकरणे वारणार्हाअप्येते शीतविधयो व्याधिप्रत्यनीकतयापित्तानुबन्धाच्च न वार्यन्त इत्येतद्दर्शयति॥१॥

किमेतान्येव सर्वमूर्छासु हितान्युतान्यान्यपीत्यत आह—

सिद्धानि वर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च॥
तथा यवालोहितशालयश्च मूर्छासु शस्ताः ससतीनमुद्राः॥२॥

वर्गे मधुर इति। काकोल्यादौ। पयांसि सर्वाण्यपि दुग्धानि सर्वेषां क्षीराणां मूर्छाहरत्वात्। जाङ्गलजा रसा इति। एणादिभवाः। सदाडिमा इति। दाडिमाम्लाः। ये मूर्छासु भोजने हितास्तानाह—तथा यवा इत्यादि।शस्ता हिता भोजन इति शेषः। सतीनो वर्तुलकलायः॥२॥

यथादोषं246 कषायाणि ज्वरघ्नानि प्रयोजयेत्॥

वातादिजासु मूर्छासुयथाक्रमं वातादिज्वरहरकषायाणि प्रयोजयेदित्यर्थः॥

रक्तजायां तु मूर्छायां हितः शीतक्रियाविधिः॥३॥

रक्तजायामिति। रक्तदर्शनजायाम्॥३॥

मद्यजायां वमेन्मद्यं निद्रां सेवेद्यथासुखम्॥

सुगमम्।

विषजायां विषघ्नानि भेषजानि प्रयोजयेत्॥४॥

सुगमम्॥४॥

कोलमज्जोषणोशीरकेसरं शीतवारिणा247
पित्तमूर्छां जयेल्लीढा कृष्णा वा मधुसंयुता*248॥५॥

सुगमम्॥५॥

महौषधामृता क्षुद्रा पौष्करं ग्रन्थिकोद्भवम्॥
पिबेत्कणायुतं क्वाथं मूर्छायां च मदेषु च॥६॥

सुगमम्॥६॥

पिबेदुरालभाक्वाथं सघृतं भ्रमशान्तये॥

सुगमम्॥

त्रिफलायाः प्रयोगो वा प्रयोगः पयसोऽपि वा॥
रसायनानां कौम्भस्य सर्पिषो वा प्रशस्यते॥७॥

रसायनानामिति।शिलाजतुरसायनयोगानाम्।कौम्भस्य सर्पिष इति। कौम्भं सर्पिर्दशाब्दकं तच्च प्रभावान्मूर्छाहरम्।यदुक्तम्—

“सर्पिः पुराणं तिमिरप्रतिश्याश्वासकासनुत्॥
मूर्छाछर्दिविषोन्मादमदापस्मारनाशनम्" इति॥७॥

अञ्जनान्यवपीडाश्चधूमः प्रधमनानि च॥
सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे॥८॥

लुञ्चनं केशलोम्नां च दन्तैर्दशनमेव च॥
आत्मगुप्तावघर्षश्च हितस्तस्यावबोधने*249॥९॥

ननु सर्वासु मूर्छासु पित्तप्राधान्याच्छीतोपचारश्चेदिष्यते तत्कथं तीक्ष्णा अञ्जनादयः शस्ताः। उच्यते। संज्ञावहस्रोतोनिरोधशान्तिकरत्वेन व्याधिप्रत्यनीकत्वादिति कार्तिकः। अञ्जनादयस्तीक्ष्णाः कार्याः। नखान्तर इति। नखमांसयोर्मध्ये। आत्मगुप्तावधर्ष इति। आत्मगुप्ता शूकशिम्बा।अस्याश्च शिम्बित्वग्जातं चूर्णं ग्राह्यम्। तस्येति। मूर्छातुरस्य॥८॥९॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री
कण्ठदत्तविरचितायां व्याख्याकुसुमावल्याख्यायां सप्तदशो
मूर्छाधिकारः समाप्तः॥१७॥
<MISSING_FIG href="../../../books_images/U-IMG-17064507631..b.jpg"/>

अथाष्टादशो मदात्ययाधिकारः।
___________

पि(चि)त्तस्य मोहो(?) मद्येनापि मूर्छायाःसंभवान्मूर्छानन्तरं मदात्ययः। मदशब्देन मदहेतुतया मद्यमुच्यते तेन कृतोऽत्ययो विकारो मदात्ययः किंवा मद्यकृतो मदो यस्तद्धेतुकोऽत्ययो मदात्ययः॥

मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लिकदाडिमैः॥
परूषकैः सामलकैर्युक्तो मद्यविकारनुत्॥१॥

द्रवेणाऽऽलोडिताः सक्तवो मन्थः। खर्जूरादीनां चेह द्रवं ग्राह्यम्। अम्लिकशब्देनाम्लिकोच्यतेऽम्लिका तित्तिडीका वा। छन्दोनुरोधाद्ध्रस्वत्वम्॥१॥

सतीनमुद्रसंमिश्रान्दाडिमामलकान्वितान्॥
द्राक्षामलकखर्जूरपरूषकरसेन वा॥
कल्पयेत्तर्पणान्यूषान्रसांश्च विविधात्मकान्॥२॥

सुगमम्॥२॥

पथ्याक्वाथेन वा सिद्धं घृतं धात्रीरसेन वा॥
सर्पिः कल्याणकं वाऽपि मदमूर्छापहं पिबेत्॥३॥

सुगमम्॥३॥

छर्दिमूर्छातिसारं च मदं पूगफलोद्भवम्॥
सद्यस्तच्छमयेत्पीतमातृप्तेर्वारि शीतलम्॥४॥

सुगमम्॥४॥

वन्यकरीषघ्राणाज्जलपानाल्लवणभक्षणाद्वाऽपि॥
शाम्यति पूगफलमदश्चूर्णरुजाशर्कराकबलात्॥५॥

वन्यः शङ्खकः करीषं शुष्कं गोमयम्। किंवा वनभवं करीषम्। वन्यकरीषघ्राणादयः पृथक्पृथक्प्रयोज्याः। चूर्णरुजाशर्कराकवलादित्येतदार्यासंपूर्णत्वानुरोधाल्लिखितम्॥५॥

मद्योत्थरोगेषु मद्यमेव परमं भेषजं यदुक्तं चरके

“तीक्ष्णोष्णेनातिमात्रेण पीतेनाम्लविदाहिना॥

मद्येनान्नरसक्लेदो विदग्धः क्षारतां गतः।
अन्तर्दाहं ज्वरं तृष्णां प्रमोहं विभ्रमं मदम्॥

जनयत्याशु तच्छान्त्यै मद्यमेव प्रयोजयेत्”

इति तेन मद्यप्रयोगमेवाऽऽह—

मद्यं सौवर्चलव्योषयुक्तं किंचिज्जलान्वितम्॥
जीर्णमद्ये250 प्रदातव्यं वातपानात्ययापहम्॥६॥

सौवर्चलव्योषयुक्तमिति। सौवर्चलं लवणत्वमात्रकारकं व्योषं कटुत्वमात्रकारकमिति॥६॥

मुद्गयूषःसितायुक्तः स्वादुर्वा पैशितो रसः॥
पित्तपानात्यये योज्याः सर्वतश्च क्रिया हिमाः॥७॥

मुद्गयूषस्य च विधिस्तन्त्रान्तराल्लिख्यते—

“मुद्गानां द्विपलं तोये शतमर्धाढकोन्मिते।
पादस्थं मर्दितं पूतं दाडिमस्य पलेन तु॥

युक्तं सैन्धवविश्वाह्नधान्यकैः पादकार्षिकैः।
कणाजीरकयोश्चूर्णाच्छाणैकेनावचूर्णितम्॥

संस्कृतो मुद्गयूषोऽयं पित्तश्लेष्महरो मतः।
मांसलं सक्थिजं मांसं निरस्थि तैत्तिरं तथा॥

चतुष्पलोन्मितं सूक्ष्मं कल्पितं क्षालितं जले।
पिप्पलीपिप्पलीमूलशुण्ठीजीरकधान्यकैः॥

द्विशाणैः संयुते तोये क्वाथ्यमर्धादकोन्मिते।
पादान्विते पलं तत्र दाडिमात्क्षुदिताद्धरेत्॥

तं रसं मर्दितं पूतं हिङ्गुसैन्धवजीरकैः।
युक्तं प्रधूपितं पथ्यं शुद्धानां शुद्धिकाङ्क्षिणाम्॥

भग्नविश्लिष्टसंधीनां क्षीणधात्विन्द्रियौजसाम्” इति।

सुगमम्॥७॥

पानरोगे कफोद्भूते लङ्घनं च यथाबलम्॥
दीपनीयौषधोपेतं पिबेन्मद्यं समाहितः॥८॥

दीपनीयौषधोपेतमिति। दीपनीयौषधं पञ्चकोलादि तच्चूर्णोपेतम्। समाहितनेन मात्रया मद्यं पिबेदिति दर्शयति॥८॥

सर्वजे सर्वमेवेदं प्रयोक्तव्यं चिकित्सितम्॥९॥

सुगमम्॥९॥

आभिः251 क्रियाभिः सिद्धाभिः शान्तिं याति मदात्ययः॥१०॥

सुगमम्॥१०॥

न चेन्मद्यक्रमं मुक्त्वा क्षीरमस्य प्रयोजयेत्॥
लङ्घनाद्यैः कफे क्षीणे जाते दौर्बल्यलाघवे॥११॥

क्षीरमस्य प्रयोजयेदिति। क्षीरमनौषधमेव॥११॥

ओजस्तुल्यगुणं क्षीरं विपरीतं च मद्यतः॥

सुगमम्।

क्षीरप्रयोगं मद्यं च236क्रमेणाल्पाल्पमाचरेत्॥१२॥

सुगमम्॥१२॥

पयःपुनर्नवाक्वाथयष्टीकल्कप्रसाधितम्॥
घृतं पुष्टिकरं पानान्मद्यपानहतौजसाम्॥१३॥

पयः स्नेहसमम्।पुनर्नवाक्वाथस्त्रिगुणश्चतुर्गुणो वा॥१३॥

सौवर्चलमजाज्यश्च वृक्षाम्लं साम्लवेतसम्॥
त्वगेलामरिचार्धांशं शर्कराभागयोजितनि252म्॥१४॥253

एतल्लव253णमष्टाङ्गमग्निसंदीपनं परम्॥
मदात्यये कफप्राये दद्यात्स्त्रोतोविशोधनम्॥१५॥

सौवर्चलादीनां प्रत्यकं समो भागः। त्वगेलामरिचादीनां प्रत्येकमेकभागाषेूर्धांशत्वम्। शर्कराभागोऽपि सौवर्चलाद्येकतमद्रव्यभागसमः॥१४॥१५॥

चव्यं सौवर्चलं हिङ्गु पूरकं254 विश्वदीप्यकम्॥
चूर्णं मद्येन पातव्यं पानात्ययरुजापहम्॥१६॥

पूरकं बीजपूरफलम्। दीप्यकं यवानिका॥१६॥

यथा पीयमानं मद्यं विकारं मदं च न करोति तद्दर्शयति—

जलप्लुतचन्दनभूषिताङ्गः स्रग्वी सभक्तां पिशितोपदंशाम्॥
पिबेत्सुरां नैव लभेत रोगान्मनोमतिघ्नं च मदं न याति॥१७॥

जलप्लुतो जलार्द्रगात्रः। चन्द्रनभूषिताङ्गश्चन्दनानुलिप्तगात्रः। स्रग्वी पुष्पमालायुक्तः। समक्तां भक्तेन सह। पिशितोपदंशामिति। पिशितं मांसमुपदंशो भक्षणं यस्यां सुरायां सा तथा ताम्। रोगानिति प्रकरणान्मद्यपानजान्।मनोमतिघ्नं च मदं न यातीति। द्वितीयादिमदान्मनोमतिविघातकरान्नाऽऽप्नोति। प्रथमं तु मदं मनोमत्यनुपघातकरं लभत एवेति भावः॥१७॥

पानविभ्रमचिकित्सामाह—

द्राक्षाकपित्थफलदाडिमपानकं यत्तत्पानविभ्रमहरं मधुशर्कराढ्यम्॥१८॥

अत्र फलशब्देन विशिष्टानि मातुलुङ्गादिफलानि गृह्यन्ते। द्राक्षादि मधुशर्कराढ्यं पानकं पानविभ्रमे शस्तम्। द्राक्षादिभिः पानकं सूदशास्त्रानुसारेण कार्यम्॥१८॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामष्टादशो मदात्ययाधिकारः समाप्तः॥१८॥
<MISSING_FIG href="../../../books_images/U-IMG-17061664701…jpg"/>

अथैकोनविंशो दाहाधिकारः।
__________

मदात्यये दाहस्य संभवात्तदनन्तरं दाहः—

शतधौतघृताभ्यक्तं लिह्यात्तंयवसक्तुभिः॥
कोलामलकसंयुक्तैर्धान्याम्लैरपि बुद्धिमान्॥१॥

शतधौतं सर्पिर्यत्पुनः पुनः संताप्य शीताम्भसा निर्वाप्यते तच्छतधौतमुच्यत इतीशानदेवः। शतं वाराञ्शीततोयेन धौतं फेनिलं घृतं शतधौतघृतमुच्यत इति डल्लणः॥१॥

छादयेत्तस्य सर्वाङ्गमारनालार्द्रवाससा॥

सुगमम्।

लामज्जेनाथ शुक्तेन चन्दनेनानुलेपयेत्॥२॥

लामज्जेनेति।उशीरेण॥२॥

चन्दनाम्बुकणस्यन्दितालवृन्तोपवीजिते॥
स्वप्याद्दाहार्दितो जन्तुः255 कदलीदलसंस्तरे॥३॥

तालवृन्तं व्यजनम्॥३॥

परिषेकावगाहौ256 च सेवेत व्यजनानि च*257
ससितं258 शिशिरं तोयं तृष्णादाहोपशान्तये॥४॥

क्षीरैः क्षीरकषायैश्च259सुशीतैश्चन्दनान्वितैः॥
अन्तर्दाहं प्रशमयेदेतैश्चान्यैश्च शीतलैः॥५॥

क्षीरैः क्षीरकषायैरिति। क्षीरिकषाया वटादिक्वाथाः। क्षीरादिकं चैतत्पानपरिषेकादौ योज्यम्॥४॥५॥

कुशादिशालिपर्णीभिर्जीवकाद्येन साधितम्॥
तैलं घृतं वा दाहघ्नं वातपित्तविनाशनम्॥६॥

कुशादिशालिपर्णीभिरिति। कुशादि तृणपञ्चमूलं शालीपर्णीभिरिति शालिपर्ण्यादिविदारिगन्धादिगणमाहुः। एताभ्यां क्वाथः। जीवकाद्येनेति। जीवकाद्यष्टवर्गेण। अनेन च कल्कः। जीवकाद्यष्टवर्गश्चर्णभकमेदामहामेदाकाकोलीक्षीरक्वाकोकोलीऋद्धिवृद्धय एवं सर्वत्र सुश्रुतयोगे जीवनीयाष्टकम्।चरकयोगे पुनरेत एवद्भिवृद्धिरहिता माषपर्णीमुद्गपर्णीजीवन्तीमधुकसहिता जीवनीयदशकं ज्ञेयम्। तैलमुष्णवीर्यमपि शीतद्रव्यसंस्कारेण दाहशमनं मन्तव्यम्। ननु तैलस्याग्नेयोष्णत्वात्कथं दाहशान्त्यर्थमुपदेशः। उच्यते। कुशादिद्र्व्यत्वेन गुणान्तराधानात्। यथा सौम्यमेव घृतं तथा कथं नोपदिश्यत इति चेत्तैलवद्रोमकूपैस्तदप्रवेशात्। अत एव तन्त्रान्तरे ज्वरशान्तये चन्दनादिभिः साधितं तैलमेवोपदिष्टमिति। कुशाद्यं तैलं घृतं च॥६॥

पित्तज्वरहरं यच्च दाहे तत्सर्वमिष्यते॥
फलिनीरोध्रसेव्याम्बुहेमपत्रकुटन्नटम्॥
कालीयकरसोपेतं दाहे शस्तं प्रलेपनम्॥७॥

फलिनी प्रियंगुः। सेव्यमुशीरम्। (हेमपत्रम्) नागकेसरचूर्णम्। कालीयकं मलेन्द्री कालीयकरसः पेषणार्थम्॥७॥

श्लक्ष्णशुष्कघनो लेपश्चन्दनस्यापि दाहकृत्॥
त्वग्गतस्योष्मणो रोधाच्छीतकृत्त्वन्यथाऽगुरोः॥८॥

श्लोकार्धस्यापरार्धंकेचिदन्यथा पठन्ति रोमकूपायनोद्गच्छदूष्मणो ह्यवरोधनादिति॥८॥

ह्रीवेरपद्मकोशीरचन्दनक्षोद260वारिणा॥
संपूर्णामवगाहेत द्रोणीं दाहार्दितो नरः॥९॥

क्षोदश्चूर्णम्॥९॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामेकोनविंशतितमो दाहाधिकारः समाप्तः॥१२॥
<MISSING_FIG href="../../../books_images/U-IMG-17061661161..b.jpg"/>

अथ विंश उन्मादाधिकारः।
____________

मदात्यय उन्मादमिव चापरमित्यनेनोन्मादसंकीर्तनं कृतं तत्र दाहोऽप्युक्तस्तेन स्वल्पवक्तव्यं दाहं प्रतिपाद्य संप्रत्युन्मादारम्भः॥

वातिके स्नेहपानं प्राग्विरेकः पित्तसंभवे॥
कफजे वमनं कार्यं परो बस्त्यादिकः क्रमः॥१॥

वातिक इति। निरावरणवातकृते स्नेहपानम्।आवरणसद्भावे तु तत्र स्नेहपानमनर्हमेव। यदुक्तम्—

“मेदःकफाभ्यामनिलो निरुद्धः शूलाङ्गमर्दश्वयथून्करोति॥
स्नेहं नियुञ्जन्विबुधस्तु तस्मै संवर्धयत्येव हि तान्विकारान्” इति।

परो बस्त्यादिकः क्रम इति। पश्चात्स्नेहबस्तिनिरूहशिरोविरेचनार्थकः क्रमः कार्यः। यथा चोक्तम्—

“निरूहान्स्नेहबस्तिं च शिरसश्च विरेचनम्॥
ततः कुर्याद्यथादोषं तेषां भूयस्त्वमादिशेत्” इति॥१॥

यच्चोपदेक्ष्यते261 किंचिदपस्मारचिकित्सिते॥
उन्मादे तच्च कर्तव्यं सामान्याद्दोषदुष्ययोः॥२॥

सामान्याद्दोषदूष्ययोरिति। उन्मादेऽपस्मारे च समानो दोषस्तथा भूतसंप्राप्तिसंप्राप्तो वातादिः समानं च हृदयरूपं दूष्यमित्यर्थः। हेतुदूष्ययोरिति पाठे तु समानो हेतुर्मनोभिघातादिरवगन्तव्यः॥२॥

ब्राह्मीकूष्माण्डीफलषड्ग्रन्थाशङ्खपुष्पिकास्वरसाः॥
उन्मादहृतो दृष्टाः पृथगेते कुष्ठमधुमिश्राः॥३॥

ब्राह्मी ख्याता।कूष्माण्डीफलं पुराणं ग्राह्यम्। एतद्द्वयं प्रचरति॥३॥

दशमूलाम्बु सघृतं युक्तं मांसरसेन वा॥
ससिद्धार्थकचूर्णं वा केवलं वाऽनवं घृतम्॥४॥

** अनवं घृतमिति।** पुराणं तच्च दशाब्दिकम्।
यदुक्तम्—“उग्रगन्धि पुराणं स्याद्दशवर्षस्थितं घृतम्॥

लाक्षारसनिभं शीतं प्रपुराणमतः परम्” इति।

अन्ये पुनरेकवर्षातीतं पुराणं ब्रुवते। तथा च—

“अल्पाभिष्यन्दि मधुरं बल्यं संवत्सरोषितम्॥
अल्पक्लेदंच दोषाणां पुराणं तत्प्रकीर्तिम्" इति॥४॥

उन्मादशान्तये पेयो रसो वा तालशाखजः॥

** रसो वा तालशाखज इति।** रसोऽयं समधुर्व्यवहरति॥

प्रयोज्यं सार्षपं तैलं नस्याभ्यञ्जनयोः सदा॥५॥

सिद्धार्थको वचा हिङ्गु करञ्जो देवदारु च॥
मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक्कटुत्रिकम्॥६॥

समांशानि प्रियङ्गश्चशिरीषो रजनीद्वयम्॥
बस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम्॥७॥

नस्यमालेपनं चैव स्नानमुद्वर्तनं तथा॥
अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापहः॥८॥

भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते॥
सर्पिरेतेन सिद्धं वा सगोमूत्रं तदर्थकृत्॥९॥

करञ्जद्वयस्य फलम्। वक्ष्यमाणयोगेऽपि करञ्जस्य बीजमुक्तम्। श्वेताऽपराजिता वचा वा। कटभी तद्रवडिः (गिरिकर्णी) तस्य त्वक्। शिरीषस्य फलम्। कृत्याऽभिचारा देवता।सर्पि रेतेन सिद्धं वा सगोमूत्रमिति। सिद्धार्थकादीनां कल्कः। गोमूत्रेण द्रवं कार्यम्॥५॥६॥७॥८॥९॥

त्र्यूषणं हिङ्गु लवणं वचा कटुकरोहिणी॥
शिरीषं नक्तमालस्य बीजं श्वेताश्च सर्षपाः॥१०॥

गोमूत्रपिष्टैरेतैस्तु वर्तिर्नेत्राञ्जने हिता॥
चतुर्थकमपस्मारमुन्मादं च नियच्छति262॥११॥

त्र्यूषणाद्या वर्तिः॥१०॥११॥

आश्वासयेत्सुहृद्वाक्यैर्धर्मकार्यार्थसंयुतैः263
ब्रूयादिष्टविनाशं वा दर्शयेदद्भुतानि वा॥१२॥

ब्रूयादिष्टविनाशं वेत्यादि विधानं चित्तोद्भ्रान्तिकरमुद्भ्रान्तस्य चित्तस्य प्रकृतौ व्यवस्थापनार्थम्। दृश्यते घट्टनचलितस्य संधेः पुनर्घट्टनेनैव सम्यगवस्थापनं तथेहापि ज्ञेयम्॥१२॥

बद्धं सर्षपतैलाक्तमुत्तानं चाऽऽतपे न्यसेत्॥
कपिकच्छ्वाऽथ वा ततैर्लोहतैलजलैः स्पृशेत्॥१३॥

बद्धं सर्षपतैलाक्तमित्यादिविधिः स्रोतःशोधनार्थमुद्वेगजननार्थं च। कपिकच्छ्वेति। शूकशिम्बा॥१३॥

कशाभिस्ताडयित्वा च सुबद्धं विजने गृहे॥
रुध्याच्चेतो हि विभ्रान्तं तथा व्रजति तत्सुखम्॥१४॥

** कशाभिरिति।** कशा शाट इति लोके॥१४॥

सर्पेणोद्धृतदंष्ट्रेणदान्तैः सिंहैर्गजैश्चतम्॥
त्रासयेच्छस्रहस्तैश्चशत्रुभिः264 सूरैस्तथा॥१५॥

** दान्तैः सिंहरिति।** आयत्तीकृतैर्व्याघ्रैः॥१५॥

अथ वा राजपुरुषा बहिर्नीत्वा सुसंयतम्॥
त्रासयेयुर्वधैरेनं तर्जयन्तो नृपाज्ञया॥१६॥

** बहिरिति।** ग्रामाद्वहिः॥१६॥

देहदुःखभयेभ्योऽपि परं प्राणभयं मतम्॥
तेन तस्य शमं याति सर्वतो विप्लुतं मनः॥१७॥

** देहदुःखभयेभ्योऽपीति।** देहदुःखानि कपिकच्छूलेपनादीनि तत्कृतेभ्यो भयेभ्य इति॥१७॥

इष्टद्रव्याविनाशाच्चमनो यस्योपहन्यते॥
तस्य तत्सदृशप्राप्तैः सान्त्वाश्वासैः शमं नयेत्॥१८॥

तत्सदृशप्राप्तैरिति। तत्सदृशप्रापकैः। भावे क्तः। सान्त्वं सामप्रयोगः। आश्वासः संतोषजनकं वचनम्॥१८॥

कामशोकभयक्रोधहर्षेर्ष्यालोभसंभवान्॥
परस्परप्रतिद्वंद्वैरेभिरेव शमं नयेत्॥१९॥

बुद्ध्वा दोषं वयः सात्म्यै देशकालबलाबलम्॥
चिकित्सितमिदं कुर्यादुन्मादे दोषभूतजे265॥२०॥

देवषिपितृगन्धर्वैरुन्मत्तस्य च बुद्धिमान्॥
वर्जयेदञ्चनादीनि तीक्ष्णानि क्रूरकर्म च॥२१॥

क्रूरकर्म ताडनात्। तीक्ष्णाञ्जनादिवर्जनं च वैद्यातुरोपघातपरिहारार्थम्। उक्तं हि—वैद्यातुरौ विनिघ्नन्ति ध्रुवं क्रुद्धा महौजस इति॥१९॥२०॥२१॥

तीक्ष्णाञ्जनादीनां निषेधे यत्कर्तव्यं तदाह—

सर्पिष्यानादिरागन्तोर्मन्त्रादिश्रेष्यते विधिः॥
पूजावल्युपहारेष्टिहोममन्त्राञ्जनादिभिः॥

जयेदागन्तुमुन्मादं यथावद्विधिभि266र्भिषक्॥२२॥

सर्पिरिह भूतहरकल्याणकवैतसादि। बलिरन्नादेरुपढौकनम्। उपहारः सपशुर्बलिः। किंवा पूजावल्योरुपहार उपढौकनम्॥२२॥

कल्याणकं प्रयुञ्जीत महद्वावैतसं घृतम्॥
तैलं नारायणं नाम267 महानारायणं तथा॥२३॥

सुगमम्॥२३॥

महापैशाचिकं घृतमाह—

जटिला पूतना केशी चोरटी268 मर्कटी वचा॥
त्रायमाणा जया वीरा चोरकः269 कटुरोहिणी॥२४॥

कायस्था सूकरी छत्रा सातिच्छत्रा पलंकषा॥२५॥
महापुरुषदन्ता च वयस्था नाकुलीद्वयम्॥

कटम्भरा वृश्चिकाली स्थिरा चैतैः शृतं घृतम्॥
सिद्धं चतुर्थकोन्मादग्रहापस्मारनाशनम्॥२६॥

महापैशाचिकं नाम घृतमेतद्यथाऽमृतम्॥
मेधाबुद्धिस्मृतिकरं बालानां चाङ्गवर्धनम्॥२७॥

जटिला मांसी शतावरी वा। पूतना हरीतकी। केशी भूतकेशी। चोरटी कूंवादु ब्रह्मिका वा। मर्कटी शूकशिम्बा। जया जयन्ती। वीरा क्षीरकाकोली पृश्निपर्णीं वा। चोरकश्चण्डा। कायस्था सिन्दुवारः सूक्ष्मैला वा। सूकरी वाराहीकन्दस्तदभावे चर्मकारालुकम्। छत्राऽजाजी मधूलिका वा। अतिच्छत्रा शतपुष्पा। छत्रातिच्छत्रे द्रोणपुष्पीद्वयम्। पलङ्कषा गुग्गुलुः। महापुरुषदन्ताऽपराजिता कान्ता शतावरी वा। वयस्था गुडूची ब्राह्मी वा। नाकुलीद्वयं रास्त्राद्वयं सर्पगन्धाद्वयमन्ये।सर्पगन्धा सर्पच्छत्रिका।कटम्भरा कटभी भद्दा(द्रा)ली वा। वृश्चिकाली वृश्चिपत्री। स्थिरा शालिपर्णी। अयं चार्थोजैज्जटादिभिर्व्याख्यातः प्रायो बकुलकारेण श्लोकैर्निबद्धः।

तद्यथा—“जटिला शतपुष्पी स्यान्मांसीभेदोऽपि चेष्यते।
पूतना अभया केशी मांसी भूकेश एव च॥

चोरटी ब्रह्मिका ज्ञेयां मर्कटी शूकशिम्बिका।
वीरातु पृश्चिपर्णी स्याच्चण्डा स्यादिह चोरकः॥

कायस्था सिन्दुवारस्तु सूक्ष्मैला वाऽथ सूकरी।
वाराही कन्दकाभावाच्चर्मकारालुकग्रहः॥

छत्राऽजाजी त्वतिच्छत्त्रा शतपुष्पा परे त्विमे।
द्रोणपुष्पीद्वयं प्राहुः पलङ्कषा तु गुग्गुलुः॥

महापुरुषदन्ता च विष्णुकान्ताऽथवा वरी।
वयस्था त्वमृता ज्ञेया नाकुलीद्वयमत्र तु॥

सर्पगन्धाद्वयं प्राहू रास्नाद्वयमथापि वा ।
कटम्भरा तु कटभी प्रसारिण्यथ वाऽमृता॥

व्यक्तमन्यञ्चसकलं महापैशाचिके घृते” इति।

द्रव्यैरेतैः कल्कः। द्रवं ञ्जलम्। महापैशाचिकं नामेत्यत्र महच्छब्दः पूजावचनः स्वल्पपैशाचिकस्याभावात्। महापैशाचिकं घृतम्॥२४॥२५॥२६॥२७॥

वैतसघृतमाह—

पञ्चमूल्यावकाशमर्यौरास्नैरण्डत्रिवृद्ब270लाः॥
मूर्वा शतावरी चेति क्वाथैर्द्विपलिकैरिमैः॥२८॥

कल्याणकस्य चाङ्गेन वैतसं नाम तद्घृतम्॥
सर्वचेतोविकाराणां शमनं कीर्तितं परम्॥२९॥

पञ्चमूल्यावकाश्मर्याविति। दशमूली गम्भारीरहिता ग्राह्या। इहेभैरिति प्रयोगश्चिन्त्यो नेदमदसोरकोरित्यनेन भिस ऐसस्ताव-न्निषेधात्। कातन्त्रव्याकरणे तु तस्माद्भिस(सो)भिरित्यत्र सूत्रे तस्माद्ग्रहणात्साधुत्वमस्योपवर्णितम्। तस्माद्ग्रहणं हि कृताकारस्येदमोऽनुवृत्त्यर्थं कृतं तस्य चानुवृत्तिरनन्तरत्वादेव सिध्यति तत्क्रियते “अद्व्यञ्चनेऽनक्” इत्यद्विधेरनित्यत्वज्ञापनार्थम्। तेनान्तविधेरभावादिमैरित्यपि भवति। प्रयोगोऽपि तत्र दर्शितो यथेमैर्गुणैः सप्त ऋषयः स्वर्गं गता इति।वैतसं घृतम्॥२८॥२९॥

कार्यः कषायो द्विगुणाष्टतोयैः पानीयकल्याणककल्कपादः॥३०॥

कार्यः कषायो द्विगुणाष्टतोयैरिति। द्विगुणाष्टतोयं षोडशगुणमम्भः। षोडशगुणं चाम्भः कृष्णात्रेयपरिभाषायां मन्तव्यम्।

यथा—“द्रव्यमापोथितं क्वाथ्यं दत्त्वा षोडशिकं जलम्॥
पादशिष्टः कषायः स्यादेष क्वाथविधिः स्मृतः" इति।

चक्रेणाप्युक्तम्—“घृतप्रस्थोऽत्र पक्तव्यः क्वाथो द्रोणाम्भसा घृतात्॥
चतुर्गुणस्तु संपाद्यः कल्कःकल्याणके घृते"

इति केचित्। तोयद्रोणेनैव क्वाथकरणं प्रचरति। पानीयकल्याणककल्कपाद इति। घृतमिदं यस्य तन्त्रस्य तत्रोक्तकल्याणकापरिज्ञानाच्चरकोक्तपानीयकल्याणकस्य कल्कं गृह्णन्ति तथा च सति तदुक्तकर्षमाने परित्यागात्पादिककल्क-कल्पना पुनरेषा वृन्दस्य व्यवहारानुरोधादवगन्तव्या॥३०॥

हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम्॥
चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनम्271॥३१॥

सुगमम्। हिङ्ग्वाद्यं घृतम्॥३१॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां विंश
उन्मादाधिकारः समाप्तः॥२०॥
___________________

अथैकविंशोऽपस्माराधिकारः।
______________

मनोदुष्टिचिकित्सायाश्च साम्यादुन्मादानन्तरमपस्मारः।

वातिकं बस्तिभिः प्रायः पैत्तं प्रायो विरेचनैः॥
कफजं वमनैर्धीमानपस्मारमुपाचरेत्॥१॥

वातिकं बस्तिभिः प्राय इति। प्रायःशब्दोऽयं विशेषार्थस्तेन क्रियान्तरमपिसूचितं भवति। एवमुत्तरत्रापि प्रायःशब्दो व्याख्येयः। वमनप्रायैरितीह पाठे तु वमनप्रधानैः कर्मभिरिति ज्ञेयम्॥१॥

ततस्तीक्ष्णं प्रयुञ्जीत भिषक्सम्यक्प्रबोधनम्॥

** सम्यक्प्रबोधनमिति(?)।** दोषोपशमनेन सम्यक्स्वव्यापारजनकम्। सम्यक्प्रबोधनमिति वा पाठः॥

सर्वतः शुद्धदेहस्य स्यान्मादहरा क्रिया॥२॥

सुगमम्॥२॥

मनोह्लातार्क्ष्यजं चैव शकृत्पारावतस्य च॥
अञ्जनं हन्त्यपस्मारमुन्मादं च विशेषतः॥३॥

मनोह्वा मनःशिला। तार्क्ष्यजं रसाञ्जनम्॥३॥

यष्टीहिङ्गुवचावक्रशिरीषलशुनामयैः॥
साजमूत्रैरपस्मारे सोन्मादे नावनाञ्जने॥४॥

वक्रं तगरपादिका। आमयः कुष्ठम्॥४॥

कपित्थाञ्शारदान्मुद्गान्मुस्तोशीरयवांस्तथा॥
सव्योषान्वस्तसूत्रेण पिष्ट्वा वर्तीःप्रकल्पयेत्॥५॥

अपस्मारे तथोन्मादे सर्पदष्टे272 गरार्दिते॥
विषपीते जलमृते चैताः स्युरमृतोपमाः॥६॥

कपित्थानित्यस्य स्थाने कायस्थामिति पाठान्तरम्। कायस्था सूक्ष्मैला। शारदान्मुद्गानिति। हरिता मुद्गाःप्रायः संभवन्ति शरदि। वर्तीरिति। नेत्राञ्जनवर्तीः। विषपीत इति। विषपीते (पीतविषे)। जलमृत इति। जलपानेन मृतप्राये। सर्वथा मृते तु भेषजं व्यर्थम्। जलमृतलक्षणं चाग्निवेशेनोक्तम्।

यथा—“विष्टब्धपायुमूर्धाक्षमाध्मातोदरमेहनम्।
विद्याज्जलमृतं जन्तुं शीतपादकराननम्" इति॥

जलमृतचिकित्सा सुश्रुतेनोक्ता—

यथा—“वृक्षप्रपातविषमपतितं मृतमम्भसि॥
उद्धद्धं च मृतं सद्यश्चिकित्सेन्नष्टसंज्ञवत्’।

वृक्षप्रपातो नदीतटादि। विषमो निम्नोन्नतप्रदेशः। वृक्षादिपतितं प्राणिनं मृतमम्भसि च मृतमुद्बद्धमुल्लम्बितं सद्यो झटिति नष्टसंज्ञवच्चिकित्सेत्। तत्र मृतशब्दो मृत्युसमीपेवर्तमानो गृह्यते न पुनर्मृत एव तस्य निष्फलचिकित्सितत्वात्। केचिदाचार्या अमुं पाठं न मन्यन्ते येऽनुमन्यन्ते तन्मतानुसारेण लिखितोऽयमिति न दोषः। नष्टसंज्ञवदिति।

“नष्टसंज्ञं विवृत्ताक्षं भन्नग्रीवं विरेचनैः।
चूर्णैः प्रधमनैस्तीक्ष्णैर्विषार्तं समुपाचरेत्” इति॥५॥६॥

पुष्योद्धृतं शुनः पित्तमपस्मारनमञ्जनम्॥
तदेव सर्पिषा युक्तं धूपनं परमं स्मृतम्॥७॥

पुष्यनक्षत्रे गृहीतम्॥७॥

हृत्कम्पोऽक्षिरुजा यस्य स्वेदो हस्तादिशीतता॥
दशमूलीजलं तस्य कल्याणाज्यं च योजयेत्॥८॥

सुगमम्॥८॥

यः खादेत्क्षीरभक्ताशी माक्षिकेण वचारजः॥
अपस्मारं महाघोरं सुचिरोत्थं जयेद्ध्रुवम्॥९॥

सुगमम्॥९॥

महावैतसघृतमाह—

शणस्त्रिवृत्तथैरण्डो दशमूलं शतावरी॥
रास्ना मागधिका शिग्रुःक्वाथ्यंद्विपलिकं भवेत्॥१०॥

विदारी मधुकं मेदे काकोल्यौ द्वे सिता तथा॥
खर्जूराभीरुमृद्वीकामुञ्जातं गोक्षुरस्तथा॥११॥

वैतसस्य घृतस्याङ्गैःपक्तव्यं सर्पिरुत्तमम्॥
महावैतससंज्ञंतु सर्वापस्मारनाशनम्॥१२॥

गरोन्मा273दप्रतिश्यायतृतीयकचतुर्थकान्॥
पापालक्ष्मीं जयत्येतत्सर्वग्रहनिवारणम्॥१३॥

श्वासकासहरं चैव शुक्रर्तवविशोधनम्॥
द्रव्यमापोथितं क्वाथ्यं दत्त्वा षोडशिकं जलम्॥

पादशेषं च कर्तव्यमेष क्वाथविधिः स्मृतः॥१४॥

शणस्य मूलं बीजं वा। बीजेन प्रचारः। क्वाथ्यं द्विपलिकं भवेदित्यन्तेन क्वाथ्यम्। क्वाथश्च द्रव्यमापोथितं क्वाथ्यमित्यादिपरिभाषया षोडशगुणाम्भसा कार्यः। विदारीप्रभृतिभिः कल्कः। खर्जूरं प्रसिद्धम्। मुञ्जामौत्तरापथकः कन्दः। तदभावे तालमस्तकम्। द्रव्यावल्यभिधानेऽपि मुञ्जातं तालमस्तकं पठितम्। तालसस्येनापि व्यवहारः। वैतसस्य घृतस्याङ्गैरिति। वैतसघृतकल्कैः। तेनोक्तपानीयकल्याणकद्रव्यैरपि कल्कः कार्य इति व्याख्येयं व्यवहारानुरोधात्। युज्यते वैतसोक्तक्वाथ्यद्रव्यग्रहणं यदि ह्यतिदिष्टादेशोऽभीष्टः स्यात्तदा स्पष्टार्थं कल्याणकघृतस्याङ्गैरित्येवं ब्रूयादिति। कल्कश्च मिलित्वा पादिकः।

तथा च चक्रः—

“घृतमानं क्वाथ विधिरिह वैतसवन्मतः॥
कल्कश्च वैतसप्रोक्तैर्द्रव्यैः सार्धं तु पादिकः " इति।

महावैतसं घृतम्॥१०॥११॥१२॥१३॥१४॥

ब्राह्मीरसे वचाकुष्ठशङ्खपुष्पीभिरेव च॥
पुराणं सर्पिरुन्मादग्रहापस्मारनाशनम्॥१५॥

सुगमम्। ब्राह्मीघृतम्॥१५॥

कूष्माण्डकरसे सर्पिरष्टादशगुणे पचेत्॥
यष्ट्याह्वकल्कं तत्पानम274पस्मारहरं परम्॥१६॥

सुगमम्। कूष्माण्डकं(क)घृतम्॥१६॥

गोशकृद्रसदध्यम्लक्षीरमूत्रैः समं घृतम्275
सिद्धं चतुर्थकोन्मादग्रहापस्मारनाशनम्॥१७॥

सुगमम्।

स्वल्पपञ्चगव्यं घृतम्॥१७॥

बृहत्पञ्चगव्यं क्वचित्पठ्यते तदाह—

द्विपञ्चमूलं त्रिफलां रजन्यौ कटुकां वचाम्॥
सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम्॥१८॥

शम्याकं फल्गुमूलं च पौष्करं सदुरालभम्॥
द्विपलानि जलद्रोणे पक्त्वा पादरसे स्थिते॥१९॥

भार्ङ्गीपाठात्रिकटुकं त्रिवृतां निचुलानि च॥
श्रेयसीमाढकीं रास्नां मूर्वीं भूनिम्बचित्रकौ॥२०॥

सारिवे द्वे रोहिषं च भूतिकं मदयन्तिकाम्॥
क्षिपेत्पिष्ट्वाऽक्षमात्राणि तैः प्रस्थं सर्पिषः पचेत्॥२१॥

गोशकृद्रसदध्यम्लक्षीरमूत्रैश्च तत्समैः॥
पञ्चगव्यमिदं ख्यातं महत्तदमृतोपमम्॥२२॥

अपस्मारे तथोन्मादे श्वयथावुदरेषु च॥
गुल्मार्शःपाण्डुरोगेषु कामलायां हलीमके॥

अलक्ष्मीग्रहरक्षोघ्नं चातुर्थिकविनाशनम्॥२३॥

रजन्यौ हरिद्राद्वयम्। नीलिनी नीलवुन्हा। शम्याक आरग्वधफलम्। निचुलं हिज्जलफलम्। श्रेयसी हस्तिपिप्पली।रोहिषं भूतिकं गन्धतृणाह्वयम्। बृहत्पञ्चगव्यं घृतम्॥१८॥१९॥२०॥२१॥२२॥२३॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामेकविं-
शोऽपस्माराधिकारः समाप्तः॥२१॥

अथ द्वाविंशो वाताधिकारः।
______________

वातविकारविशेषस्याऽऽक्षेपकादेरपस्मारवद्वेगकर्तृत्वात्तदनन्तरं वातव्याधिः। वातेन कृतो व्याधिर्वात एव वा विकृतो व्याधिर्वातव्याधिः। अत्र हितं विधिं संक्षिप्याऽऽह—

अभ्यङ्गः स्वेदनं बस्तिर्नस्यं स्नेहविरेचनम्॥
स्निग्धाम्ललवणं स्वादु वृष्यं वातामयापहम्276॥१॥

स्वेदनं स्निग्धम्। यदाह चरकः

“वातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते॥
रूक्षः स्निग्धस्तथाऽस्निग्धो रूक्षश्चाप्युपपादितः” इति।

बस्तिः स्नेहबस्तिः। नस्यं स्नैहिकम्। स्नेहविरेचनं तिल्वकघृतादि। बिल्वकघृतादि॥१॥

पटोलफलकैर्यूषो वृष्यो वातहरो लघुः॥
वाट्यालककृतो यूषः परं वातविनाशनः॥२॥

पटोलफलकैर्यूषइति। यूषोऽत्र यूषसाधर्म्याद्धनः क्वाथोयूषरूप उच्यते। एवं वाट्यालककृतो यूष इत्यत्रापि व्याख्येयम्। अन्ये तु मुद्गादिप्रक्षेपाद्यूषत्वमिच्छन्ति। पटोलफलकृतयूषश्च तिक्तत्वाद्रौक्ष्याच्च कफावृते पित्तावृते वाते प्रयोज्यः॥२॥

पञ्चमूलीबलासिद्धं क्षीरं वातामये277 हितम्॥

**पञ्चमूलीबलासिद्धं क्षीरमिति।**पञ्चमूली स्वल्पा महती वोभयोरपि वातहरत्वात्॥

शीतोष्णस्निग्धरूक्षाद्यैर्वातजो यो न शाम्यति॥
विकारस्तत्र विज्ञेयो दुष्टमेवास्ति शोणितम्॥३॥

वातरोगे पित्तान्विते शीता क्रिया कफान्विते रूक्षोष्णा केवलानिलजे स्निग्धोष्णा हिता। क्रियाभिराभिरपि चेदस्य न प्रशमस्ततोऽधिगम्यतेऽस्त्यत्र महती शोणितदृष्टिरतिवृद्धशोणिताश्रयस्य हि रोगस्याऽऽश्रयप्रभावान्न स्वचिकित्सयोपशमस्तेनेह दुष्टं यदस्ति शोणितं तन्निर्हर्तव्यमित्याकूतम्॥३॥

वाजिगन्धा बलास्तिस्रो दशमूली महौषधम्॥
द्वे गृध्रनख्यौ रास्नाच गणोऽयं वातनाशनः278॥४॥

वाजिगन्धाऽश्वकन्दः। बलाऽतिबला नागबला। अत्र बला पीतपुष्पाऽतिबला श्वेतपुष्पा नागबला गोरक्षतण्डुला। द्वे गृध्रनख्यावहिंस्राद्वयं श्वेतलोहितपुष्पभेदेन कालीयकद्वयं गणत्वादनेन यथायोगं सर्वा क्वाथादिकल्पना कार्या॥४॥

आनूपमत्स्यैश्च सवेसवारैरुष्णैःप्रदेहःपवनापहः स्यात्॥

वेसवारः कुट्टितमांसम्॥

स्नेह्रैश्चतुर्भिर्दशमूलसिद्धैर्गन्धौषधैश्चानिलहा प्रदेहः॥५॥

चत्वारः स्नेहाः सर्पिस्तैलवसामज्जान इति। तत्र सर्पिरिति सृ गतौ संस्कारानुसर्पणात्सर्पिरित्यर्थः।

तथाच—“नान्यः स्नेहस्तथा कश्चित्संस्कारमनुवर्तते॥
यथा सर्पिरतः सर्पिः सर्वस्नेहोत्तमं मतम्”॥

अत एव चास्य प्राधान्यादग्रेऽभिधानम्। तिलेषु भवं तैलं सार्षपादीनामपि सादृश्यात्तैलवचनम्। मेदसि वसनाद्वसा। तथाचाऽऽह सुश्रुतः—शुद्धो मांसस्य यः स्नेहः सा वसा परिकीर्तिता। अस्न्थोमध्ये जायत इति मज्जा। दशमूलमहौषधयोः कल्केन सिद्धैश्चतुःस्नेहैरगालितैः प्रदेहः। किंच दशमूलस्य क्वाथकल्काभ्यां सिद्धैश्चतुःस्नेहैरालोडितगन्धद्रव्यचूर्णेन प्रदेहः। गन्धौषधं सुगधिद्रव्यम्। दशमूलानि क्वाथ्यानि गन्धौषधान्यगुरुकुष्ठादीनि कल्क इतीशानदेवः॥१॥

निरस्थि पिशितं पिष्टं स्विन्नंघृतगुडान्वितम्॥
कृष्णामरिचसंयुक्तं वेसवार इति स्मृतः॥६॥

सुगमम्॥६॥

साल्वणस्वेदमाह—

काकोल्यादिः सवातघ्नः सर्वाम्लद्रव्यसंयुतः॥
सानूपमांसः279सुस्विन्नः सर्वस्नेहसमन्वितः॥७॥

सुखोष्णःस्पष्टलवणःसाल्वणः परिकीर्तितः॥
तेनोपनाहंकुर्वीत280 सर्वदा वातरोगिणाम्॥८॥

काकोल्यादिर्गणोग्राह्यो योज्योऽष्टवर्गसंयुतः281
वातघ्नो भद्रदार्वादिर्वर्गोऽम्लो दाडिमादिकः॥९॥

सर्वस्नेहाचतुःस्नेहा लवणं सैन्धवादिकम्॥
अम्लादिभिश्व संस्कार्यंकाकोल्यादित्रयं त्रिभिः॥१०॥

काकोल्यादिः प्रसिद्धः। सवातघ्नइति। सहवातघ्नैर्भद्रदार्वादिभिर्विदारिगन्धादिभिर्वर्तत इति सवातघ्नः। सर्वाम्लद्रव्यसंयुक्त इति। अम्लद्रव्याणि सक्तुकाञ्जिकसुरासौवीरकदध्यम्लादीनि।केचिदाचार्या एवं वदन्ति। अम्लद्रव्याणि दाडिमादीनि। सानूपमांस इति। आनूपमासं कूलचरप्लवकोशस्थपादिमत्स्यभेदेन पञ्चविधम्। सानूपौदकमांस इति पाठान्तरे सहानूपौदकमांसेन वर्तत इति सानूपौदकमांसः। अत्रानूपशब्दोऽयं कूलचरेष्वेव वर्तत औदकशब्देन तु कोशस्थाः पादिनो मत्स्याश्च गृह्यन्ते। ये पुनरौदकग्रहणं न पठन्ति ते तु पञ्चस्वपि वर्तयन्ति। सर्वस्नेहा घृततैलवसामज्जानस्तैः समन्वितः। सुखोष्णः। स्पष्टानि व्यक्तानि सैन्धवादीनि लवणानि यत्र स स्पष्टलवणः। काकोल्यादयश्च गणत्वाद्यथालाभं ग्राह्याः। सहाऽऽसमन्ताल्लवणेन वर्तत इति साल्वणः। तेनोपनाहमिति। उपनाहः कोष्णो बहुलो लेपः। अत्र च क्षौमकार्पासादिपट्टैर्बन्धः सुश्रुते दर्शितः। पुटकैः स्वेदः पुनरनुकल्पः प्रचरति। द्रव्यस्वभावं स्वेदो वेत्यपरमप्य शमय्या(?) वेक्ष्य कल्पनीय इत्येके वदन्ति॥

अथ वृन्दटिप्पणम्—काकोल्यादिरित्यादि। अम्लादिभिश्च संस्कार्यं काकोल्यादित्रयं त्रिभिरिति। अम्लादिभिस्त्रिभिरम्लस्नेहलवणवर्गैः संस्कारः संस्कारकत्वात्।एतत्त्रयं तावन्मानं देयं यावताऽम्लत्वस्निग्धत्वलवणत्वमात्रं स्यात्। काकोल्यादित्रयं काकोल्यादिर्वातघ्नगणस्तथाऽनूपमासमेतत्त्रयं संस्कार्यं संस्कार्यत्वाच्चास्य प्राधान्यं तेन त्रयमेतत्प्रत्येकं समभागम्।

** चक्रस्त्वाह**—काकोल्यादिवातघ्नगणयोर्मिलितयोर्यावान्भारस्तावदानूपमांसमिति।

यदुक्तं तेन—“मांसेनात्रौषधं तुल्यं यावताऽम्लेन चाम्लता।
तावन्तश्च चतुःस्नेहाः स्निग्धत्वं च यथा भवेत्॥

यावता चाम्लेनाम्लता पट्वीस्यात्स्वेदनार्थं च काञ्जिकाद्यम्लमिष्यते। चतुःस्नेहोऽत्र तावान्स्यात्स्निग्धत्वं यावता स्यादिति॥७॥८॥९॥१०॥

आमाशयगतवायोश्चिकित्सितमाह—

आमाशयगते वाते छर्दिताय यथाक्रमम्॥
देयः षट्चरणो योगः सप्तरात्रं सुखाम्बुना॥११॥

छर्दिताय यथाक्रममिति। स्नेहस्वेदपेयादिक्रमानतिक्रमेण कृतवमनायेत्यर्थः। वमनं च वाते कफस्थानगतत्वेनास्य कफवत्प्रतिकार्यत्वात्। यदुक्तम्—अन्यस्थानगतं दोषं स्थानिवत्समुपाचरेत्” इति। घट्चरणो योगोऽनन्तरमेव वक्तव्यः॥११॥

इदानीं षट्चरणयोगमाह—

चित्रकेन्द्रयवाः पाठाकटुकातिविषाभयाः॥
महाव्याधिप्रशमनो योगः षट्चरणो मतः॥१२॥

कटुकातिविषाक्षिपा इति के चित्पठन्ति। क्षिपा हरिद्रा। महाव्याधिप्रशमन इति। मेदःकफावृतवातव्याधिर्महाव्याधिः। वातव्याधिप्रशमन इति केचित्पठन्ति तत्राऽऽमाशयगत एव व्याधिर्ग्रहीतव्यो न पुनराक्षेपकादी रुक्षविषयत्वेन वातविकारित्वादस्य। अयं योगश्चूर्णरूपः॥१२॥

कर्षोऽष्टादशनिष्पावैर्धरणं त्र्यधिकैस्तु तैः॥
तेन षड्धर282णो योगः सप्तरात्रं प्रयुज्यते॥१३॥

निष्पावः शिम्बीबीजम्। धरणं पुनस्तैरष्टादशनिष्पावैरस्त्र्यधिकैरेकविंशतिसंख्यावच्छिन्नैः। अमुना मानेन षड्भिर्धरणैः सप्त कर्षाः स्युः। एत एव समभागं विभज्य सप्ताहमुपयोज्यास्तेन कर्षश्चूर्णस्य कल्कस्येत्यादिपरिभाषार्थ एव फलति। अन्ये तु मध्य(मा) एकोनविंशतिर्निष्पावा धरणं तान्यर्धतृतीयानि कर्ष इति वृद्धसुश्रुतवाक्यदर्शनात्पलस्य दशमभागं धरणं ब्रुवते। रत्नपरीक्षाशास्त्रेऽप्युक्तम्—पलस्य दशमांशो हि धरणं समुदाहृतमिति। पलदशमांशेन रक्तीद्वयाधिकषण्माषका भवन्ति षड्भिर्धरणैश्च मिलित्वा पञ्चरक्तिकमाषकं कृत्वा रक्तीद्वययुक्तषण्माषकाधिकं कर्षद्वयं स्यात्। एतदे(वमे)व दशरक्तिकमाषकेण व्यवह्रियमाणेनैकरक्तिकायु283क्तमाषकत्रयाधिकः कर्षः। एतावच्च मानं प्रत्यहं सप्ताहं यावद्देयम्। उत्सर्गतः कर्षश्चूर्णस्य दीयते। अत्र तु माषत्रयाधिककर्षग्रहणार्थं विशेषवचनमुचितमेवेति। चक्रेणाप्युक्तम्। पलदशमांशो धरणो योगोऽयं सौश्रुतः। ततस्तस्य मा284नेन पञ्चगुञ्जकमाषकेण प्रत्यहं देय इति। यत्र द्वादश निष्पावा धरणं तान्यर्धतृतीयानि कर्ष इति च वचनं क्वचिद्ब्रूयात्तत्र निष्पावा महान्तो मन्तव्याः। मध्यमा एकोनविंशतिरित्यादिवाक्येन मध्यमा एवोपात्तास्तेनानयोर्वाक्ययोस्तुल्यार्थतैवावगन्तव्या। षट्चरण इति पाठान्तरे षट्चरणाः षडवयवाः। अत्र पक्षे सामान्यविधया मानकल्पनां॥१३॥

पक्वाशयगतवायोश्चिकित्सामाह—

पक्वाशयगते वाते कार्यं स्नेहविरेचनम्॥
बस्तयः शोधनीयाश्च प्राशाश्च285लवणोत्तराः॥१४॥

स्नेहविरेचनं स्नेहेन तिल्वकसर्पिरादिना विरेचनम्। बस्तयः शोधनीया इति। शोधनबस्तयः।

तद्यथा—“शोधनद्रव्यनिष्क्वाथास्तत्कल्कस्नेहसंयुताः।
युक्ताः खजप्रमथिता बस्तयः शोधना मताः” इति।

प्राशाश्चलवणोत्तरा इति। प्राश्यन्त इति प्राशा आहाराः। लवणोत्तरा वातघ्नस्नेहलवणकल्याणलवणादिप्रधानाः। गयी त्वत्राऽऽह—पक्वाशयः पुनारिह द्विविधः पित्तवाताशयभेदेन। तयोर्मध्ये पित्ताशयगते वायौस्नेहविरेचनं तच्चतिल्वकताघृताद्येरण्डतैलादिना। वाताशयगतस्य तु वायोर्मलपित्तकफैरावृतस्य यथादोषं कषायकल्कलेहा बस्तयः। निरावरणे वायौ त्रिवृतादिद्रव्यमूत्रविदारीकल्कसिद्धः स्नेहयुक्तोऽव्यक्तोष्णक्षारश्च बस्तिः। श्लेष्मावरणे वायौ व्यक्तक्षारोष्णो बस्तिः। पित्तावृते पुनरत्र क्षीरबस्तिः शीतः। शेषं समम्॥१४॥

बस्तिगतस्य तु वायोश्चिकित्सितमाह—

कार्यो वस्तिगते चापि विधिर्बस्तिविशोधनः॥

** विधिर्बस्तिविशोधन इति।** अश्मरीचिकित्सितोक्तोमूत्रकृच्छ्रेऽप्युक्तश्च॥ श्रोत्रादिषु तु कुपितवायोश्चिकित्सितमाह—

श्रोत्रादिषु प्रकुपिते कार्याश्चानिलहा क्रमः॥१५॥

आदिशब्दात्त्वग्घ्राणजिह्वानेत्राणीन्द्रियाणि गृह्यन्ते। **कार्यश्चानिलहा क्रम इति।**चकारेणेह स्नेहनापेक्षश्च क्रमः। कार्य इत्यपि ख्याप्यते तेन नेत्रे तैजसे तर्पणं सर्पिषा कर्णे च वातप्रधाने तैलेनेत्यादिविधानमह्यम्। केचिदनन्तरमुक्तग्रन्थं स्नेहाभ्यङ्गो पनाहाश्चेति प्रथमाबहुवचनान्तं पठित्वा श्रोत्रादिकुपितवात एव संबध्नन्ति तन्मते त्वङ्मांसादिगतवाते रक्तविमोक्षणमेकमेव कर्मेति मन्तव्यम्। अन्यदीयमते तु रक्तमोक्षणं योग्यतया रक्तगत एव वाते ज्ञेयम्। चरकेऽप्युक्तम्। शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणमिति। रक्तमुक्तिश्चाऽऽवरकरतापगमार्थम्॥१५॥

धातूपधातुगतस्य वायोश्चिकित्सामाह—

स्नेहाभ्यङ्गोपनाहांश्च मर्दनालेपनानि च॥
त्वङ्मांसासृक्शिराप्राप्ते कुर्याच्चासृग्विमोक्षणम्॥१६॥

उपनाहांश्चेत्यत्र चकारेण त्वग्गतवायोर्हृद्यमप्यन्नक्षपानमनुक्तं समुच्चीयते। त्वङ्यांसासृक्शिराप्राप्तइति। अत्र त्वक्शब्देन तात्स्थ्याद्रसो ग्राह्यः। शिरा पुनरसृक्। उपधातुप्राप्ते गत इत्यर्थः। रक्तगते वायौ रक्तस्रावो रक्ताधिष्ठानवातनिवृत्त्यर्थः। यदा द्रव्यप्रभात्रविशेषेण खर्जूरमातुलुङ्गसौवर्चलादिस्नेहाभ्यङ्गादिभिर्न प्रशममेति तदा नियमेन रक्तावरणं परिज्ञाय रक्तमोक्षणं कर्तव्यं न पुनरन्यथा। मेदोगते पुनरिहानिले चिकित्सा नोपदिष्टा तस्य स्नेहाविषयत्वेन वातव्याधिकर्मणामविषयत्वात्। सुश्रुते महावातव्याधौपुनरावरणप्रसङ्गेन मेदोगतो वायुरुक्तः॥१६॥

स्नायुगतस्य संधिगतस्य च वायोश्चिकित्सामाह—

स्नेहोपनाहग्निकर्मबन्धनोन्मर्दनानि च॥
स्नायुसंध्यस्थिसंप्राप्ते कुर्याद्वाते विचक्षणः॥१७॥

स्नेहोऽत्र बाह्य आभ्यन्तरश्च। अग्निकर्म तप्तशरशलाकादिभिरत्युग्ररुजि वायौ कार्यम्। विचक्षण इत्यत्रातन्द्रितः (इति) पाठः। अत्रातन्द्रितोऽनलसः। एतेन चिरकालं निरन्तरं क्रिया इति दर्शयति॥१७॥

निगूढेऽस्थिगते वाते पाणिमन्थेन दारिते॥
नाडीं दत्वाऽस्थानि भिषक्चूषयेत्पवनं बलीं॥१८॥

निगूढ इति। संमूढे। पाणिमन्थेनेति। भ्रमरेण। नाडीमिति। नालिकाम्। डल्लणस्तु निरुद्धेऽस्थनि वा वायाविति पाठ ईदृशीमाशङ्कां कृत्वा व्याख्याति। अस्थनि गते मज्जस्थे च कर्म निर्देिशन्नाह निरुद्धेऽस्थनि वा वायावित्यादि। त्वङ्मांसं शस्त्रेण विपाट्यास्थि पाणिमन्थेनाऽऽराशस्त्रेण विद्ध्वा तत्र रन्धे द्विमुखीं नाडीं प्रणिधाय मुखमारुता चूषणेन पवनाकर्षणं करणीयमिति। बलीबलयुक्तः॥१८॥

शुक्रगतस्य वायोश्चिकित्सामाह—

शुक्रप्राप्तेऽनिले कार्यं शुक्रदोषचिकित्सितम्॥१९॥

शुक्रदोषचिकित्सितमिति। सुश्रुते रजः शुक्रशुद्धिशरीरोक्तं किंवा मूत्रदोषोक्तबलादिसाधितघृतादिकं मेदो मज्जगत इव चिकित्सितं तत्रान्तरेऽनुमन्तव्यम्।

तदुक्तम्—“विरेको मांसमेदस्थे निरूहाः शमनानि च।
बाह्याभ्यन्तरतः स्नेहैरस्थिमज्जगतं जयेत्” इति॥

सुश्रुते वातव्याधौसुप्तिवातचिकित्सोक्ता—

“सुप्तिवाते त्वसृङ्मोक्षंकुर्याच्च बहुशो भिषक् ।
दिह्याच्चलवणागार(?)धूमैस्तैलसमन्वितैः”॥

अस्यार्थः। रक्तावरणकृतायां(या) सुप्तित(स्त)या लक्षितो वातः सुप्तिवातः। सुप्तिः स्पर्शाज्ञानम्। न पुना रसावरणकृत(ता)या सुप्तित(स्त)या लक्षितो वातस्तस्य स्नेहोपनाहादिविषयत्वात्। अन्यधातुगते वायौ रक्तापकर्षणस्यायुक्तत्वात्। बहुशो बहून्वारानल्पाल्पस्रावणेनान्यथा वातप्रकोपः स्यात्। दिह्याल्लेपयेत्। अन्ये तु सुप्तिवातस्त्वग्गतवातो वैवर्ण्यं स्फुरणं रौक्ष्यं सुप्तिं चुम286चुमायनमित्यादिकः। तेषां ते त्वङ्मांसासृक्शिराप्राप्तइत्यादिना प्रागुक्तमपि शोणितमोक्षणमिह पुनस्तदेवोक्तम्। लवणागारधूमैरित्यादिप्रदेहोऽधिक उक्तः॥१९॥

अवयवविशेषगते वायौ क्रियाविशेषमाह—

वक्षस्त्रिकस्कन्धगतं वायुं मन्यागतं तथा॥
वमनं हन्ति नस्यं च कुशलेन प्रयोजितम्॥२०॥

वक्षस्त्रिस्कन्धगतमिति। वक्षः स्तनान्तरालम्।त्रिक इहांसद्वयान्तराधिसंधिरूर्ध्वत्रिकमित्यर्थः। स हि श्लेष्मस्थानं तद्गत एव वाते वमनं नस्यं च यौगिकम्। नस्यमिह शिरोविरेचनमिति चक्रः। कुशलेन भिषजा क्रियाविदाऽवस्थाविदेत्यर्थः। कुशलेन प्रयोजितमित्यमर्शं विना नस्यविधानात्प्रतिमर्शं विना नस्यं चतुर्विधमप्यत्रेति तु कार्तिकः॥२०॥

माषबलाशुकशिम्बाकत्तृणरास्नाश्वगन्धोरुबूकाणाम्॥
क्वाथो नस्यनिपीतो रामठलवणान्वितः कोष्णः॥२१॥

कत्तृणं गन्धतृणम्। उरुबूक एरण्डः। क्वाथमात्रा चात्र मुखपेयक्वाथतुल्या यस्तु तावन्तं क्वाथं नासया पातुं न शक्नोति तेनासौ स्तोकस्त्याज्यः। पेयश्चायं क्वाथो भुक्त्वा प्रहरत्रयोपरि यत्र पार्श्वे रुजा तत्पार्श्वस्थनासापुटेन रामटलवणे प्रक्षेपः। रामठंहिङ्गु रक्तीत्रयं सैन्धवचूर्णमेकमापकमानं प्रक्षेपः प्रचरति॥२१॥

अपहरति पक्षवातं मन्यास्तम्भं सकर्णनादरुजम्॥
दुर्जयमर्दितवातं सप्ताहाज्जयति चावश्यम्॥२२॥

माषिकं हिङ्गुसिन्धूत्थे जरणाद्यास्तु शाणिकाः॥
माषात्मगुप्तकैरण्डं शृतं वाट्यालकं पि287बेत्॥

हिङ्गुसैन्धवसंयुक्तं पक्षाघातनिवारणम्॥२३॥

सुगमम्॥२२॥२३॥

स्वल्परसोनपिण्डमाह—

पलमर्धपलं वाऽपि रसोनस्य सुकुट्टितम्॥२४॥

हिङ्गुजीरकसिन्धूत्यैःसौवर्चलकटुत्रिकैः॥
चूर्णितैर्माषकोन्मानैरवचूर्ण्य विलोडितम्॥२५॥

यथाग्निभक्षितं प्राता रुवूकक्वाथपा288नतः \।\।
दिने दिने प्रयोक्तव्यं मासमेकं निरन्तरम्॥२६॥

वातरोगं निहन्त्याशु अर्दितं चापतन्त्रकम् \।\।
एकाङ्करोगिणे चैव तथा सर्वाङ्गरोगिणे॥२७॥

ऊरुस्तम्भे च गृध्रस्यांकृमिदोषे विशेषतः॥
कटिकुक्ष्याम289यं हन्याज्जाठरं च विशेषतः ॥ २८ ॥

** पलमर्धपलं वेति।** सार्धपलमेकं वाशब्दः पूर्वयोगापेक्षया चार्थे। त्वग्विरहितपिष्टरसोनस्य सार्धपलमेकं यथोक्तचूर्णयुक्तमेकीकृत्य स्थाप्यं ततो यथानलमष्टादशमाषकानुपयुञ्जीत। अन्यस्त्वाह पलं चार्धपलं वा यथोक्तचूर्णसहितं प्रत्यहं भक्ष्यं न च मात्राधिक्यादग्निवधशङ्का वातरोगिणः प्रायेण दीप्ताग्नित्वात्। यस्तु वातरोगवानवसन्नाग्निर्न स साध्यो बृंहणविधेरसहत्वात्। बृंहणविधिसाध्यत्वाच्च वातव्याधेः। अल्परसोनपिण्डः॥२४॥२५॥२६॥२७॥२८॥

माषपिष्टकृतिं जग्ध्वा290 नवनीतेन सोऽर्दिती॥
क्षीरमांसरसैर्भुक्त्वा दशमूलीजलं पि291बेत्॥२९॥

माषपिष्टकृतिमिति। माषपिष्टविकृतिं जग्ध्वा क्षीरमांसरसैर्भुक्त्वा वाऽर्दिती दशमूलीक्वाथं पिबेदिति योज्यम्॥२९॥

स्नेहाभ्यङ्गप292रो ब293स्तिनस्य294धूमपरायणः॥
अदितं स जयेत्सर्पिः पिबेदुत्तरभक्तकम्॥३०॥

** पिबेदुत्तरभक्तकमिति।** भोजनोत्तरकालम्॥३०॥

दशमूलीबलामाषक्वाथंतैलाज्यमिश्रितम्॥
सायं भुक्त्वा पिबेन्नस्यं विश्वाच्यामवबाहुके॥३१॥

सुगमम्॥३१॥

मूलं बलायास्त्वथ पारिभद्रात्तथाऽऽत्मगुप्तास्वरसं पिबेद्वा॥
नस्यं तु यो माषरसेन कुर्यान्मासादसौ वज्रसमानबाहुः॥३२॥

मूलं बलाया इत्येको योगः। पारिभद्राच्च मूलमपरं(यं) तु द्वितीयः। अनयोश्च स्वरसः क्वाथो वा प्रकरणात्। आत्मगुप्तास्वरसं पिबेद्वेति तृतीयः। पानमेषां तु नासया। नस्यं तु यो माषरसेनेत्यत्र तैलसैन्धवे अपि प्रक्षिपन्ति॥३२॥

पञ्चमूलीकृतः क्वाथो दशमूलकृतोऽथ वा॥
रूक्षः स्वेदस्तथा नस्यं मन्यास्तम्भे प्रशस्यते॥३३॥

अत्र पञ्चमूली महती॥३३॥

बाहुशोषे पिबेद्भुक्त्वा सर्पिः कल्याणकं महत्॥

सर्पिः कल्याणकं महदिति। महाकल्याणकम्। तच्चोन्मादचिकित्सिते चरकोक्तम्॥

हृदयं यदि वा पृष्ठमुन्नतं क्रमशः सरुक्॥
ऊर्ध्वो295 वायुदा कुर्यात्तदा तं कुब्जमादिशेत्॥३४॥

अस्य ग्रन्थस्य पाठो रुग्विनिश्चये कुब्ज(स्य) साक्षादपठितत्वात्। अन्तरायामबहिरायामाभ्यां तु तत्र कुब्जः संगृहीत एव॥३४॥

वातर्घ्नैर्दशमूल्या च नवं कुब्जमुपाचरेत्॥
स्नेहैर्मांसरसैर्वाऽपि प्रवृद्धं तं विवर्जयेत्॥३५॥

वातघ्नैर्दशमूल्येति। गणत्वादाभ्यां क्वाथोपनाहादिकं कार्यम्। नवत्वं कुब्जस्य यावद्रुजापूर्विका वृद्धिः। प्रवृद्धं तं विवर्जयेदिति। प्रवृद्धत्वं वक्षःकट्यूरूभङ्गेन ज्ञेयम्।

यदुक्तम्—तमसाध्यं बुधाः प्राहुर्वक्षःकट्यूरुभञ्जनादिति॥३५॥

पिप्पल्यादिरजस्तूनीप्रतितून्योः सुखाम्बुना॥
पिबेद्वा स्नेहलवणं सघृतं क्षारहिङ्गुवा296॥३६॥

पिप्पल्यादिरज इति। पिप्पल्यादिगणचूर्णम्। एतच्चकफावृते वाते यौगिकम्। स्नेहलवणमिति। सुश्रुते वातव्याध्युक्तम्।

तद्यथा—“स्नुह297ीलवणवार्ताकस्नेहा….. घटे दहेत्।
गोमयैः स्नेहलवणं तत्परं वातनाशनम्” इति॥

इहापि सुखाम्बुनेति योज्यम्। एतदामान्विते वाते भद्रम्। **सघृतं क्षारहिङ्गु वेति।**घृतेनैव क्षार-हिङ्गुनोः पानम्। क्षारो यवक्षारः॥३६॥

आध्माने लङ्घनं पाणितापश्च फ298लवर्तयः॥
दीपनं पाचनं चैव बस्तिश्चैव विशोधनः॥३७॥

दीपनं पाचनं चेति। लङ्घनानन्तरं दोषशेषोपशमनार्थं दीपनं पाचनं भेषजम्। पाचनं किंचिन्न दीपनं यथा पटोलपत्रादि। दीपनं किंचिन्न पाचनं यथा त्रिफला तेनोभयोपादानं साधु॥३७॥

दारुहैमवतीकुष्ठैः सैन्धवक्षारहिङ्गुभिः॥
299म्लपिष्टैः सुखोपणैश्च आध्मान उदरं दिहेत्300॥३८॥

दिहेल्लिम्पेत्॥३८॥

प्रत्याध्याने तु301 वमनं लङ्घनं दीपनं तथा॥३९॥

** प्रत्याध्माने तु वमनमिति।** प्रत्याध्मानस्याऽऽमाशयसमुत्थत्वेन तत्र वमनं हितम्॥३९॥

प्रत्यष्ठीलाष्ठीलिकयोर्गुल्मा302भ्यन्तरविद्वधेः॥
क्रिया हिङ्ग्वादिकं चात्र शस्यतेऽत्र विशेषतः॥४०॥

गुल्माभ्यन्तरविद्रधेरिति। गुल्मो वातजः। अन्तर्विद्रधिरपि वातज एव। तयोश्च वातमूत्र-पुरीषानुलोम्येन चिकित्सा समुचितैव। हिङ्ग्वादिकमिति। गुल्माधिकारोक्तमिह संग्रहे॥४०॥

विश्वाच्यां स्वञ्जपङ्ग्वोश्चदाहे हर्षे च पादयोः॥
कोष्ठुशीर्षविकारे च विकारे वातकण्टके॥
शिरां यथोक्तां निर्विध्य303 चिकित्सा वातरोगवत्॥४१॥

शिरां यथोक्तामिति। शिराव्यधविधौ यः सुश्रुते शिरादेशो व्यध(ध्य) त्वेनोक्तस्तदनतिक्रमेणेत्यर्थः। ननु खञ्जपङ्ग्वोस्तत्राव्यध(ध्य)त्वेन शिरातिदेशो नोक्तः। मैवम्। क्रोष्टुशीर्षवातवेदनाजङ्घा-संश्रितामितामित्यत्र वातवेदनाग्रहणेन जङ्घागतरक्तरुद्धसकलवातवेदनापरिग्रहात्खञ्जपङ्ग्वोरपि रक्तरुद्धवातवेदनायाजङ्घासंधिगताया एव शिराया व्यध इति व्याख्यानयन्ति॥४१॥

जिह्वास्तम्भे क्रि304या श्रेष्ठा सामान्योक्ता तथाऽर्दिते॥

** सामान्योक्ता तथाऽर्दित इति।** सामान्योक्ता तथाऽर्दितोक्ताच क्रिया हितेत्यर्थः॥

शिरोग्रहे तु कर्तव्या शिरोगतमरुत्क्रिया॥४२॥

सुगमम्॥४२॥

कल्याणकलेहमाह—

सहरिद्रा वचा कुष्ठं पिप्पली विश्वभेषजम्॥४३॥

अजाजी चाजमोदा च यष्टीमधुकसैन्धवम्॥
एतानि समभागानि श्लक्ष्णचूर्णानि कारयेत्॥४४॥

तच्चूर्णं सर्पिषाऽऽलोड्य प्रत्यहं भक्षयेन्नरः॥
एकविंशतिरात्रेण भवेच्छ्रुतिधरो नरः॥४५॥

मेघदुन्दुभिनिर्घोषो मत्तकोकिलनिस्वनः॥
जाड्यग305द्गदमूकत्वं लेहः कल्याणको जयेत्॥४६॥

अजमोदा यवानी। यष्टी ब्रह्मयष्टी॥४३॥४४॥४५॥४६॥

गुग्गुलुं क्रोष्टुशीर्षे तु गुडूचीत्रिफलाम्भसा॥
क्षीरेणैरण्डतैलं वा पिबेद्वा वृद्धदारकम्॥४७॥

** गुग्गुलुं क्रोष्टुशीर्ष इति।** गुग्गुलोरुत्तमविधायां(या(?) विरेकार्थं कर्षः। एरण्डतैलस्य कर्षद्वयम्। क्षीरणेति। आहारद्रव्यत्वान्मनाक्प्रभूतेन। **पिबेद्वा वृद्धदारकमिति।**प्रस्तुतत्वात्क्षीरेणैव। उष्णाम्बुना वेत्यन्ये ॥४७॥

श्यामासमालम्बुषाद्यं कार्यं वा वातरक्तनुत्॥

** श्यामासमालम्बुषाद्यमिति।** श्यामा वृद्धदारकं तत्सममलम्बुषादिचूर्णं तच्चाऽऽमवातोक्तं ज्ञेयं तत्र वातरक्तहरत्वं श्रुतं न तु श्लीपदोक्तं तत्र वातरक्तहरत्वश्रुत्यभावात्॥

हृते रक्तेऽनिलहरोविधिः कृत्स्नः प्रशस्यते॥४८॥

दशमूलीबलारास्नागुडूचीविश्वभेषजम्॥
पिबेदेरण्डतैलेन गृध्रसीखञ्जपङ्गुषु॥४९॥

दशमूलादीनां क्वाथः। एरण्डतैलं प्रक्षेपः॥४८॥४९॥

विशोध्यैरण्डबीजानि पिष्ट्वाक्षीरे विपाचयेत्॥
तत्पायसं कटीशूले गृध्रस्यां परमौषधम्॥५०॥

विशोध्य त्वचं स्फोटयित्वा। एरण्डबीजकर्षं किंचित्तण्डुलान्दत्त्वा क्षीरेण पायसं साधयेत्। विरेचकोऽयं योगः॥५०॥

पञ्चमूलीकषायं तु रुबुतैलत्रि306वृद्युतम्॥ .
गृध्रसीगुल्मशूलं च पीतं सद्यो नियच्छति॥५१॥

तैलं घृतं वाऽर्द्रकमातुलुङ्ग्यो रसं सचुक्रं सगुडं पिबेद्वा॥
कट्यूरुपृष्ठत्रिकशूलगुल्मगृध्रस्युदावर्तहरः प्रदिष्टः॥५२॥

आर्द्रकस्वरसमातुलुङ्गीरसचुक्रगुडानां तुल्यो भागः। तं तैलं घृतं वा दत्त्वा पिबेत्। पिबेद्वेति वाशब्दः पूर्वयोगापेक्षया। किंवा तैलं घृतमार्द्रकमातुलङ्गयोमिलियो रसं पृथक्पृथङ्मिलितचुक्रगुडप्रक्षेपात्पिबेत्। तेन योगत्रयमेतत्। मातुलुङ्गी मधुकर्कटी॥५२॥

रास्नायास्तु पलं चैकं कर्षान्पञ्च च गुग्गुलोः॥
सर्पिषा वटिकां कृत्वा खादेद्वा गृध्रसीहराम्॥५३॥307

शु307ण्ठीगन्धर्वबीजाभ्यां पिष्टाभ्यां पायसं कृतम्॥
भक्षितं कटिशूलं च गृध्रसीं हन्त्यसंशयम्॥५४॥

गन्धर्व एरण्डः॥५३॥५४॥

नाऽऽदौ बस्तिविधिं कुर्याद्यावदूर्ध्वं न शुध्यति॥
स्नेहो निरर्थकस्तत्र भस्मनीव हुतं यथा॥५५॥

यावदूर्ध्वं न शुध्यतीति। ननू[?]र्ध्वं पक्वाशयात्पक्वाशयोर्ध्वदेशश्चाऽऽमाशयस्तस्य च शुद्धिर्वमनविरेचनाभ्यां पित्ताशयो ह्यामाशयैकदेश एव॥५५॥

गृध्रस्यार्तस्य जङ्घायां स्नेहस्वेदे कृते भृशम्॥
पद्भ्यां संमर्दितायां च सूक्ष्ममार्गेण गृध्रसीम्॥५६॥

अवतार्याङ्गुलौसम्यक्कनिष्ठायां शनैः शनैः॥
ज्ञात्वा समुन्नतं ग्रन्थिं कण्डरायां व्यवस्थितम्॥५७॥

तं शस्त्रेण विदार्याऽऽशु प्रवालाङ्कुरसंनिभम्॥
समुद्धृत्याग्निना दग्ध्वा लिम्पेद्यष्ट्याह्वचन्दनैः॥५८॥

॥५६॥५७॥५८॥

विध्येच्छिरामिन्द्रबस्तेरधस्ताञ्चतुरङ्गुले।
यदि नोपशमं गच्छेद्दहेत्पादकनिष्ठिकाम्॥५९॥

**विध्येच्छिरामिन्द्रबस्तेरधस्तादिति।**इन्द्रबस्तिरिह गुल्फजङ्घामध्यभागः॥५९॥

तैलमेरण्डजं वाऽपि गोमूत्रेण पिबेन्नरः॥
मासमेकं प्रयोगोऽयं गृध्रस्यूरुग्रहापहः॥६०॥

मासमेकं प्रयोग इति। योगोऽयं विरेचकत्वेनाल्पमात्रया प्रत्यहं मासं यावदभ्यस्य भूरिमात्रया करणे तु विरेचनव्यापत्तिः स्यात्॥६०॥

रक्तावसेचनं कुर्यादभीक्ष्णं वातकण्टके॥
पिबेदेरण्डतैलं वा दहेत्सूचीभिरेव च॥६१॥

वायुः कट्याश्रितः क्रुद्धः308 सामो वा जनयेद्रुजम्॥
कटिग्रहः स एवोक्तः पङ्गुःसक्थिद्वायाश्रितः॥६२॥

सुगमम्॥६१॥६२॥

दशमूलकषायेण पिबेद्वा नागराम्भसा॥
कटिशूलेषु सर्वेषु तैलमेरण्डसंभवम्॥६३॥

सुगमम्॥६३॥

आदित्यपाकगुग्गुलुमाह—

पृथक्पलांशा त्रिफला पिप्पली च विचूर्णितम्॥
309शमूलाम्बुना भाव्यं310 त्वगेलार्धपलान्वितम्311॥६४॥

दत्त्वा पलानि पञ्चैव गुग्गुलोर्वटकीकृतः॥
एष मांसरसाभ्यासाद्वातरोगानशेषतः॥६५॥

हन्ति संध्यस्थिमज्जस्थान्वृक्षमिन्द्राशनिर्यथा॥
लेहवद्द्विगुणेनायमालोड्याऽऽलोड्य वाऽऽपते॥
दशमूलाम्बुना शोष्यः सप्तवारांस्तु गु312ग्गुलुः॥६६॥

** त्वगेलार्धपलान्वितमिति।** मिलित्वा। त्रिफलादिद्रव्यं गुग्गुलान्तं सर्वमेकीकृत्य भाव्यं लेहवत्। द्विगुणेन दशमूलाम्बुना भाव्यम्। चक्रस्तु पठति—

“भाव्यद्रव्यसमं क्वाथ्यं क्वाथोऽष्टांशशृतेन हि।
आर्द्रं यावदिदं भाव्यं सप्ताहं भावनाविधिः” इति॥६४॥६५॥६६॥

त्रयोदशाङ्गगुग्गुलुमाह—

आभाऽश्वगन्धा हपुषा गुडूची शतावरी गोक्षुरकं समङ्गा313॥६७॥

श्यामा शठी घोषवती यवानी सनागरा चेति समैश्च चूर्णैः314
तुल्यं भवेत्कौशिकमत्र मध्ये देयं तथा सर्पिरतोऽर्धभागम्॥६८॥

अर्धाक्षमात्रं315 च ततः प्रयोगात्कृत्वाऽनुपानं सुरयाऽथ यूषैः॥
मद्येन वा कोष्णजलेन वाऽपि क्षीरेण वा मांसरसेन वाऽपि॥६९॥

कटिग्रहे गृध्रसिबाहुपृष्ठे हनुग्रहे जानुनि पादयुग्मे॥
संधिस्थिते चास्थिगते च वाते मज्जागते स्नायुगते च कोष्ठे॥७०॥

रोगाञ्जयेद्वातकफानुविद्धान्वातेरितान्हृद्ग्रहयोनिदोषान्॥
भग्नास्थिविद्धेषु च खञ्जवाते त्रयोदशाङ्गं प्रवदन्ति सिद्धाः*॥७१॥


*ख. पुस्तके—रास्नैरण्डकणाभयासहचराक्षुद्रामृतासारणीमुस्तापुष्करदासगुग्गुलुवचा ब्राह्मी हरिद्रा शठी। आभा ग्रन्थिकपञ्चमूलहपुषा यासः शताह्वाविषा वर्षाभूः सयवानिका शतपदी (आरग्वधः ) कर्ण्यश्वगन्धाः समाः॥१॥ एष रास्नादिकगणः सर्ववातनिषूदनः। कुब्जे च वामने चैव पक्षघाते हनुग्रहे॥२॥ शुष्यमानेषु गात्रेषु संधीनां बन्धनेषु च। ऊरुस्तम्भेऽग्निसादे व नासाभङ्गे गलग्रहे॥३॥ शोफे पाण्ड्वनिले चोर्ध्वेसामवाते सशोणिते। खञ्जेच कुब्जके चैव मूकत्वे गद्गदेऽपि च॥४॥ उदावर्ते च शूले च संनिपातज्वरेषु च। नराणां रुधिरखावे योनिदोषे भगन्दरे॥५॥ अर्शसि ग्रहणीदोषे तथा कोष्टकजेषु च। एष क्वाथो मया प्रोक्तःप्राणिनां हितकाम्यया॥६॥ रास्नाद्यः क्वाथः। विटपे जाङ्गले देशे क्षीरक्षीप इति स्मृतः। विशेषान्मधुराभ्यासे करीरो विटपाकृतिः॥७॥ पीतस्तच्छल्लनिष्काथः सर्ववातविकारनुत्। सर्वयोगैरसाध्या ये वातास्तान्नाशयन्ति च॥८॥ रास्नायुक्पञ्चमूलीभिशिवरुणबला-मेघपथ्यायवानीशुण्ठीपाठाजमोदासहचरपुषाभङ्गुराबाजिगन्धाः। आभावृश्चीवसोग्राविषममृतशठीसारणीवृद्धदारुरास्नाशम्याकषायैः शतरुवरी(?)-पौष्करैरण्डचव्यैः॥९॥ एतत्सर्वं समांश विधिवत्क्वथितं मुष्टिमात्रं जलेन चूर्णंचाऽऽभादिमस्मिन्प्रपिबति मनुजो गुग्गलुं वा तथैव। आभं पक्षाभिघातं हनुगतपवनं चादितं जानुशूलं गृध्रस्यूरुत्रिकार्तिं कफपवनरुजो हन्ति संध्यस्थसंस्थाः॥१०॥ आभादिचूर्णम्। रास्नावातारिमुलं च वासकश्चदुरा-


आभा ‘आभ’ इत्याख्यातं वाणिग्द्रव्यम्। श्यामा वृद्धदारकम्। घोषवती शतपुष्पेति वृन्दस्य व्याख्या। तुल्यमिति। समुदितचूर्णतुल्यम्। कौशिको गुग्गुलुः। सर्पिरतोऽर्धभागमिति। कौशिकादर्धभागम्। भिषजस्तु गुग्गुलुपिट्टनार्थं यावते(दि)च्छन्ति तावदपरिमितमेव गृह्णन्ति। सुरायूषादिभिरनुपानविकल्पो दोषसंसर्गसात्म्याद्यपेक्ष्यः। त्रयोदशाङ्गो गुग्गुलुः॥६७॥६८॥६९॥७०॥ ७१॥

दशमूलघृतमाह—

दशमूलस्य निर्यूहे जीवनीयैः पलोन्मितैः316
क्षीरेण च घृतं पक्वंतर्पणं पवनार्तिजित्॥७२॥

दशमूलक्वाथस्त्रिगुणः। क्षीरं स्नेहसमम्। तथा च चक्रः—क्वाथोऽत्र त्रिगुणः सर्पिष्प्रस्थः साध्यः पयः समः। जैज्जटमते तु—क्वाथश्चतुर्गुणः क्षीरं स्नेहसमम्। अस्मिन्नर्थेपरिभाषा

“एकद्वित्रिद्रवैर्द्रव्यैः कुर्यात्स्नेहश्चतुर्गुणम्॥
क्षीरं स्नेहसमं दद्याच्चतुर्भिश्च चतुर्गुणम्॥

अस्यायमर्थः। यत्रैको द्रवस्तत्रैकेनैव चातुर्गुण्यं यत्र तु द्वौ त्रयो वा तत्र द्वाभ्यां त्रिभिरपि मिलित्वा चातुर्गुण्यं क्षीरं च तत्र स्नेहसमं चतुर्भिरपि मिलित्वैव चातुर्गुण्यमिति। एवं सर्वत्र व्याख्येयम्। जीवनीयं दशकम्। तथा च—

“जीवकर्षभकौ मेदे काकोल्यौ मधुकं सहे।
जीवन्ती जीवनीयोऽयं मधुरो जीवनो गणः”॥

अनेन कल्कः। दशमूलीघृतम्॥७२॥

अश्वगन्धाघृतमाह—

अश्वगन्धाकषायेण कल्कैः क्षीरं चतुर्गुणम्॥
घृतं पक्वंतु वातघ्नं वृष्यं मांसविवर्धनम्॥७३॥


लभा। शठीदारुवचामुस्तानागरातिविषाभया॥११॥ श्वदंष्ट्रा व्याधिघातश्च मिशिधान्या पुनर्वा। अश्वगन्धामृताकृष्णावृद्धदारुशतावरी॥१२॥बला सहचरा चैव चविका बृहतीद्वयम्। समभागान्वितैरेतैरास्नात्रिगुणभागिका॥१३॥कषायं पाचयेत्सिद्धमष्टभागावशेषितम्। शुण्ठीचूर्णसमायुक्तमाभाद्येनाथ संयुतम्॥१४॥ अथवाऽलम्बुषाद्येन यदि वाऽप्यजमोदया। यथायोगं यथासात्म्यं प्रक्षेपं कारयेद्बुधः॥१५॥वातरोगेषु सर्वेषु संधिमज्जागतेषु च। आनाहेषु च सर्वेषु सर्वगात्रप्रकम्पने॥१६॥ कुब्जेषु वामने चैव पक्षाघाते तथाऽर्दिते। जानुजङ्घासु पीडासु गृध्रस्यां च हनुग्रहे॥१७॥ प्रशस्तो वातरक्तेषु ऊरुस्तम्भे तथाऽर्शसि। अन्त्रवृद्धौ श्लीपदे च योनिशुक्रामये तथा॥१८॥ पुंसां मेढ्रगते रोगे स्त्रीणां वन्ध्यामये तथा। योषितां गर्भदं मुख्यं नान्यत्स्यात्परमं क्वचित्॥१९॥ महारास्नादिकं नाम प्रपापतिविनिर्मितम्। महारास्नादिक्वाथः। इत्यधिकमत्र।


चतुर्गुणक्षीरसाहचर्यादश्वगन्धाक्वाथोऽपि चतुर्गुणः। कल्कैरिति। अश्वगन्धाया एव। अश्वगन्धाघृतम्॥७३॥

आजं चर्मविनिर्मुक्तं त्यक्तशृङ्गखुरादिम्॥
पञ्चमूलीद्वयं सम्यग्जलद्रोणे विपाचयेत्॥७४॥

तेन पादावशेषेण घृतप्रस्थं विपाचयेत्॥
जीवनीयैः सयष्ट्याह्वैःक्षीरं चैव शतावरीम्॥७५॥

छागलाद्यमिदं नाम्ना सर्ववातविकारनुत्॥
अर्दिते कर्णशूले च बाधिर्ये मूकमिम्मिणे॥७६॥

जगद्गदपङ्गूनां खञ्जेगृध्रसिकुब्जयोः॥
अपतानेऽपतन्त्रे च सर्पिरेतत्प्रशस्यते॥७७॥

द्वात्रिंशच्चपलान्यत्र देयानि दशमूलतः॥
घृते तैले च योगे च यद्द्रव्यं पुनरुच्यते॥
तज्ज्ञातव्यमिहाऽऽर्येण भागतो द्विगुणं भवेत्॥७८॥

चर्मादिपरित्यक्तं तरुणच्छागगुडकात्मकं मयूराज्यघृते मयूरगुडकवद्गृहीत्वा दशमूलं च द्वात्रिंशत्पलमानं जलद्रोणे विपक्तव्यमिति वृद्धवैद्यानां व्यवहारः। चक्र स्त्वाह—

" द्रोणे द्रव्यतुला श्रुत्या स्याच्छागदशमूलयोः।
पृथक्तुलार्धं यष्ट्याह्वद्वयं देयं द्विधोक्तितः” इति॥

चर्मशृङ्गादिपरित्यागश्च तन्मते ग्रहणयोग्यतोपदर्शनार्थम्। जीवनीयैः कल्कः। जीवनीयदशकम्। यष्ट्याह्वंयष्टिमधु। जीवनीयदशकस्य ग(कग)णपठितस्याप्यस्येह पुनरुक्तिर्भागद्वयपरिग्रहार्था। स्थलमजलजभेदाद्यष्टीमधुद्वयग्रहणार्थमित्यन्ये। भागद्वयग्रहणेन प्रचारः। **क्षीरं चैव शतावरीमिति।**क्षीरप्रत्यासत्त्याशतावर्या रसो ग्राह्यः। क्षीरशतावरीरसौ प्रत्येकं स्नेहसमौ। रसश्रुत्यभावाच्छतावरी कल्करुपेत्यन्ये। आद्यः पक्षो व्यवहारी। छागलाद्यं घृतम्॥७४॥७५॥७६॥७७॥७८॥

एलामुरासरलशैलजदारुकौन्ती-
चण्डाशठीनलदचम्पकहेमपुष्पम्॥
स्थौणेयगन्धरसपूतिदलं मृणाल-
श्रीवासकुन्दुरुनखाम्बुवराङ्गकुष्ठम्॥७९॥

कालीयकं जलदकर्कटचन्दनश्री-
र्जात्याः फलं सविकसं सहकुङ्कुमं च॥
स्पृक्कातुरूष्कलघु लाभतया विनीय
तैलं बलाक्वथनदुग्धयुतं च दध्ना॥८०॥

सार्धंपचेत्तुहितमेतदुदाहरन्ति
वातामयेषु बलवर्णवपुष्प्रकाशि॥८१॥

कौन्ती रेणुकम्। चण्डा चौरपुष्पी। नलदं मांसी। हेमपुष्पं नागकेसरम्। स्थौणेयकं ग्रन्थिपर्णम्। गन्धरसो बोलः। पूतिः खटासिकाः। दलं पत्रकम्। अत्र मृणालमुशीरम्। श्रीवासो नवनीतखोटः। वराङ्गं गुडत्वक्। चन्दनं श्वेतचन्दनम्। श्रीः काचकोटिः। जात्याः फलं जातीफलम्। सविकसमिति। विकसा मञ्जिष्ठा। तुरुष्कं सिह्लकम्। लघ्वगुरु। लाभतयेति। यथालाभं द्रव्यं मानं च ग्राह्यम्। लभ्यत इति लाभः कर्मणि घञ्। तेनेह भावप्रत्ययः साधुः। विनीय कल्कीकृत्य। तैलं प्रस्थपरिमितम्। बलाक्वथनं बलाक्वाथः। क्वाथश्चतुर्गुणः। दुग्धं दधि च स्नेहसमं किं वा क्वाथो द्विगुणः। दुग्धदधिनी तैलसमे। आद्यः पक्षः प्रचारी। एलाद्यं तैलम्॥७९॥८०॥८१॥

बलातैलमाह—

बलानिष्काथकल्काभ्यां तैलं पक्वंपयः समम्317
सर्ववातविकारघ्नमेवंशैले318यपाचितम्॥८२॥

बलानिष्क्वाथस्त्रिगुणश्चतुर्गुणो वा पयश्च तैलसमम्। बलाशैलेयतैले॥८२॥

बलामूलकषायस्य दशमूलीकृतस्य च॥
यवकोलकुलत्थानां क्वाथस्य पयसस्तथा॥८३॥

अष्टावष्टौ शुभा भागास्तैलादेकस्तदेकतः॥
पचेदावाप्य मधुरं गणं सैन्धवसंयुतम्॥८४॥

तथाऽगुरुं सर्जरसं सरलं देवदारु च॥
मञ्जिष्ठां चन्दनं कुष्ठमेलां कालानुसारिवाम्॥८५॥

मांसीं शैलेयकं पत्रं तगरं सारिवाद्वयम्319 \।\।
शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम्॥८६॥

तत्साधुसिद्धं सौवर्णे राजते मृन्मये तथा॥
प्रक्षिप्य कलशे सम्यक्स्वनुगुप्तं निधापयेत्॥८७॥

बलातैलमिदं नाम्ना सर्ववातविकारनुत्॥
यथाबलमतो मात्रां सूतिकायै प्रदापयेत्॥८८॥

या च गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान्॥
वातक्षीणे मर्महते मथितेऽभिहते तथा॥८९॥

भग्नेश्रमाभिपन्ने च सर्वथैवोपयुज्यते॥
320तदाक्षेपकादींश्चवातव्याधीनपोहति॥९०॥

हिक्कां श्वासमधीमन्थं गुल्मं कासं सुदुस्तरम्॥
षण्मासानुपयुञ्जीत अन्त्रवृद्धिमपोहति॥९१॥

प्रत्यग्रधातुः पुरुषो भवेच्च स्थिरयौवनः॥
एतद्धि राज्ञा कर्तव्यं राजमात्राश्च321 ये नराः॥
सुखिनः सुकुमाराश्चधनिनश्चापि ये नराः॥९२॥

दशमूलस्य मिलित्वा क्वाथः। यवकोलकुलत्थानां च मिलित्वा क्वाथः। एवं बलाक्वाथेन समं त्रयः क्वाथाः पयश्चैषां चतुर्णां प्रत्येकं तैलप्रस्थादष्टगुणो द्रवो भवति। एवं तैलाद्द्वात्रिंशद्गुणं भवति। तैलं च मानविशेषनिर्देशाभावादिह प्रस्थपरिमितं ग्राह्यम्। कालानुसारिवा तगरपादिका। तगरं पिण्डतगरमूलम्। मधुरगणप्रभृतिभिः कल्कः।स्वनुगुप्तमिति। वातातपादिपरिहारेण मन्त्रेण च सुष्टु रक्षितम्। तैलमिदं सुश्रुते मूढगर्भेपठितं तेन सूतिकायै प्रदापयेदिति विशिष्योक्तम्। अन्त्रवृद्धिमपोहतीति। अन्त्रवृद्धिमप्राप्तफलकोशां व्यपोहतीति मन्तव्यं प्राप्तफलकोशायाः पुनरसाध्यत्वात्। राजमात्रा इति। राज्ञेव मात्रा परिच्छेदो येषां ते तथा। महाबलातैलम्॥८३॥८४॥॥८५॥८६॥८७॥८८॥८९॥९०॥९१॥९२॥

नारायणतैलमाह—

बिल्वोऽग्निमन्थःस्यो322नाकः पाटला पारिभद्रकः॥
प्रसारिण्यश्वगन्धा च बृहती कण्टकारिका॥९३॥

बला चातिबला चैव श्वदंष्ट्रा सपुनर्नवा॥
एषां दशपलान्भागांश्चतु323र्द्रोणेऽम्भसः पचेत्॥९४॥

पादशेषं परिस्राव्य तैलपात्रं प्रदापयेत्॥
शतपुष्पा देवदारु मांसी शैलेयकं वचा324॥९५॥

चन्दनं तगरं कुष्ठमेलापर्णीचतुष्टयम्।
रास्नातुरगगन्धा च सैन्धवं च पुनर्नवा॥९६॥

एषां द्विपलिकान्भागान्पेषयित्वा विनिक्षिपेत्॥
शतावरीरसं चैव तैलतुल्यं प्रदापयेत्॥९७॥

आजं वा यदि वा गव्यं क्षीरं दद्याच्चतुर्गुणम्॥
पाने बस्तौ तथाऽभ्यङ्गे भोज्ये नस्ये च शस्यते॥९८॥

अश्वो वा वातसंभग्नो गजो वा यदि वा नरः॥
पङ्गुलःपीठसर्पी च तैलेनानेन सिध्यति॥९९॥

अधोभागे च ये वाताः शिरोमध्यगताश्च ये॥
मन्यास्तम्भे हनुस्तम्भे दन्तरोगे गलग्रहे॥१००॥

यस्य शुष्यति चैकाङ्गं गतिर्यस्य च विह्वला॥
क्षीणेन्द्रिया नष्टशुक्रा ज्वरक्षीणाश्च ये नराः॥१०१॥

बधिरा लल्लजिह्वाश्चस्वल्पमेधस325 एव च॥
अल्पप्रजा च या नारी या च गर्भं न विन्दति॥१०२॥

वातार्तो वृषणो येषामन्त्रवृद्धिश्च दारुणा॥
एतत्तैलं वरं तेषां नाम्नानारायणं स्मृतम्॥१०३॥

पारिभद्रकः पारिभद्रमूलम्। प्रसारिणी भद्राली। बला समङ्गाखिरिं हिटिके इतिलोके। अतिबला कङ्कनिका पिटारकेति प्रसिद्धा। अतिबला बलाभेद इत्यपरे मन्यन्ते। तगरं तगरपादिका तदभावे शैयली चोपडः पिण्डतगरमित्यन्ये। तुरगगन्धाऽश्वगन्धा।आजं वा यदि वा गव्यमिति। आजगव्यपयसोर्यद्यपि प्रायेण गुणसाम्यं तथाऽपि च्छागलक्षीरेण पक्वंतैलमिदमनभिष्यन्दि दोषत्रयहरं च भवतीति प्रत्येतव्यम्। नारायण संज्ञाऽस्य विष्णुनिर्मितत्वाच्छतावरी साधितत्वाद्वा। नारायणीति शतावरीपर्यायोऽस्ति। लल्लजिह्वा इति। जिह्वासङ्गात्थोत्थेलवाचः। नारायणं तैलम्॥९३॥॥९४॥९५॥९६॥९७॥९८॥९९॥१००॥१०१॥१०२॥॥१०३॥

महानारायणं तैलमाह—

शतावरी चांशुमती पृश्चिपर्णी सहा326बला॥
एरण्डस्य च मूलानि बृहत्याः327 पूतिकस्य च॥१०४॥

गवेधुकस्य मूलानि तथा सहचरस्य च॥
एषां दशपलान्भागाञ्जलद्रोणे विपाचयेत्॥१०५॥

पादावशेषे पूते च गर्भेचैव स328मावपेत्॥
पुनर्नवावचादारुशताह्लाचन्दनागुरु॥१०६॥

शैलेयं तगरं कुष्ठमेलां मांसी स्थिरां बलाम्॥
अश्वाह्वांसैन्धवं रास्नांपलार्धानि च योजयेत्॥१०७॥

गव्याजपयसोः प्रस्थौ द्वौ द्वाऽवत्र प्रयोजयेत्329
शतावरीरसप्रस्थं तैलं प्रस्थं विपाचयेत्॥१०८॥

अस्यतैलस्य सिद्धस्य शृणु वीर्यमतः परम्॥
अश्वानां वातभग्नानां कुञ्जराणां नृणां तथा॥१०९॥

तैलमेतत्प्रयोक्तव्यं सर्ववातविकारिणाम्॥
आयुष्मान्स नरः पीत्वा निश्चयेन दृढो भवेत्॥११०॥

गर्भमश्वतरी विन्देक्तिंपुनर्मानुषी तथा॥
हृच्छूलं पार्श्वशूलं च तथैवार्धावभेदकम्॥१११॥

अपचीं गलगण्डं330 च वातरक्तं गलग्रहम्331
कामलां पाण्डुरोगं चापस्मारं चापि ना332शयेत्॥११२॥

तैलमतद्भगवता विष्णुना परिकीर्तितम्॥
नारायणमिति ख्यातं वातान्तकरणं शुभम्॥११३॥

पूतिको लाटकरञ्जः। गवेधुकं गोरक्षतण्डुला। सहचरो नीलझिण्टी।अश्वाह्वाऽश्वकन्दा। निश्चयेनेति। अवश्यम्। तथाऽश्वतरी केस(खच)री। महानारायणं तैलम्॥१०४॥१०५॥१०६॥१०७॥१०८॥१०९॥११०॥१११॥॥११२॥११३॥

अश्वगन्धादितैलमाह—

शतं पक्त्वाऽश्वगन्धाया जलद्रोणेंऽशशेषितम्॥
विस्राव्य विपचेत्तैलं क्षीरं दत्त्वा चतुर्गुणम्॥१९४॥

कल्कैर्मृणालशालूकबिसकिञ्जल्कमालती—
पुष्पैर्हीवेरमधुकसारिवापद्मकेसरैः॥११५॥

मेदापुनर्नवाद्राक्षामञ्जिष्ठाबृहतीद्वयैः॥
एलैलवालुत्रिफलामुस्तचन्दनपद्मकैः॥११६॥

पक्वंरक्ताश्रयं वातं रक्तपित्तमसृग्दरम्॥
हन्यात्पुष्टिं ब333लं कुर्यात्कृशानां मांसवर्धनम्॥११७॥

रेतोयोनिविकारघ्नं व्रणदोषापकर्षणम्॥
षण्ढानपि वृषान्कुर्यात्पानाभ्यङ्गानुवासनैः॥११८॥

अंशशेषितमिति। पादशेषितम्। मृणालं स्थूलम्। बिसं मृणालान्निर्गतः प्रतानः। किञ्चल्क उत्पलवराटः पद्मकेसरस्योपात्तत्वात्। मेदास्थाने सहेति पाठः सहा माषपर्णी। अश्वगन्धा तैलम्॥११४॥११५॥११६॥११७॥११८॥

तैलं संकुचितेऽभ्यङ्गो मा334षसैन्धवसाधितम्॥
बाहुशीर्षगते नस्यं पानं चोपरिभक्तिक335म्॥११९॥

माषसैन्धवसाधितमिति। माषस्य क्वाथः सैन्धवं कल्कः। तथाच चक्रः—क्वाथश्च माषनिष्पाद्यः सैन्धवं कल्क एव त्विति। माषतैलम्॥११९॥

द्वितीयमाषतैलमाह—

माषात्मगुप्तातिरसोरुबूक-
रास्नाशताह्वालवणैः सुपिष्टैः॥
चतुर्गुणे माषबलाकषाये
तैलं कृतं हन्ति च पक्षवातम्॥१२०॥

अतिरसा यष्टीमधु। उरुबूक एरण्डः। माषतैलम्॥१२०॥

तृतीयं माषतैलमाह—

माषप्रस्थं समावाप्य पचेत्सम्यग्जलाढके॥
पादशेषे रसे तस्मिन्क्षीरं दद्याच्चतुर्गुणम्॥१२१॥

प्रस्थं च तिलतैलस्य कल्कं दत्वाऽ336क्षसंमितम्॥
जी337वनीयानि यान्यष्टौ शतपुष्पां ससैन्धवाम्॥१२२॥

रास्नात्मगुसामधुकं बलाव्योषत्रिकण्टकम्॥
पक्षघातेऽर्दिते वाते कर्णशूले सुदारुणे॥१२३॥

मन्दश्रुतौ च श्रवणे तिमिरे च त्रिदोषजे॥
हस्तकम्पेशिरःकम्पे विश्वाच्यामवबाहुके॥१२४ ॥

शस्तं कलायखञ्जे च पानाभ्यञ्जनबस्तिभिः॥
माषतैलमिति ख्यातमूर्ध्वजत्रुगदापहम्॥१२५॥

सुगमम्।माषतैलम्॥१२१॥१२२॥१२३॥१२४॥१२५॥

चतुर्थं माषतैलमाह—

माषातसीयवकुरण्टककण्टकारी-
गोकण्टटुण्टु338कजटाकपिकच्छुतोयैः॥
कार्पासकास्थिशणबीजकुलत्थकोल-
क्वाथेन बस्तपिशितस्य रसेन वाऽपि॥१२६॥

शुण्ठ्या समागधिकया शतपुष्पयाच
सैर339ण्डमूलसपुनर्नवया सरण्या॥
रास्नाबलामृतलताकटुकैर्विपक्वं
माषाख्यमेतदवबाहुकहारि तै340लम्॥१२७॥

अर्धाङ्गशोषमपतानकमाढ्यवात-
माक्षेपकं सभुजकम्पशिरःप्रकम्पम्॥
नस्येन बस्तिविधिना परिषेचनेन
हन्यात्कटीजघनजानुरुजः समीरान्॥१२८॥

** **अतस्युमा। कुरण्टको नीलझिण्टी। गोकण्टको गोक्षुरकः। टुण्टुकः स्योनाकस्तस्य मूलम्। माषादिना कपिकच्छ्वन्तेन मिलित्वैकः क्वाथः। कार्पासास्थ्यादिना कोलान्तेनापरः क्वाथः। बस्तपिशितस्य रसः क्वाथः। एभिस्त्रिभिर्द्रवैर्मिलित्वा चातुर्गुण्यम्।सरण्येति। सरणी भद्राली। अमृतलता गुडूची। कटुकं मरिचम्। माषतैलम्॥१२६॥॥१२७॥१२८॥

बृहन्माषतैलमाह—

माषक्वाथे बलाक्वाथे रास्नाया दशमूलजे॥
यवकोलकुलत्थानां छागमांसरसे पृ341थक्॥१२९॥

प्रस्थे तैलस्य प्रस्थं च क्षीरं दत्त्वा चतुर्गुणम्॥
रास्नात्मगुप्तासिन्धूत्थशताह्वैरण्डमुस्तकैः॥१३०॥

जीवनीयबलाव्योषैः पचेदक्षसमैः पृथक्342
हस्तकम्पे शिरःकम्पे बाहुशोषेऽवबाहुके॥१३१॥

वाधिर्ये कर्णशूले च कर्णनादे च दारुणे॥
विश्वाच्यामर्दिते कुब्जे गृध्रस्यामपतानके॥१३२॥

बस्त्यभ्यञ्जनपानेषु नावने च प्रयोजयेत्॥
माषतैलमिदं श्रेष्ठमूर्ध्वजगदापहम्॥१३३॥

दशमूलस्य मिलित्वा क्वाथः। एवं यवकोलकुलत्थानामपि। क्वाथप्रस्थाः षडेवात्र विभज्य तेन कीर्तिता इति चक्रः। जीवनीयादिदशकम्। बृहन्माषतैलम्॥१२९॥॥१३०॥१३१॥१३२॥१३३॥

द्वितीयबृहन्माषतैलमाह—

द्विपञ्चमूलीं निष्क्वाथ्य तैलात्षोडशभिर्गुणैः॥
माषाढकं साधयित्वा तं निर्यूहं चतुर्गुणम्॥१३४॥

ग्राहयित्वापचेत्तैलं प्रस्थं छागप343यःसमम्॥
कल्कार्धंच समावाप्य भिषग्द्रव्याणि बुद्धिमान्॥१३५॥

अश्वगन्धाशठीदारुबलारास्नाप्रसारणी॥
कुष्ठं परूषकं भार्ङ्गीद्वे विदार्यौ पु344नर्नवा॥ १३६॥

मातुलुङ्गफलाजाज्यौ रामठंशतपुष्पिका॥
शतावरी गोक्षुरकं पिप्पलीमूलचित्रकम्॥१३७॥

जीवनीयगणं सर्वं संहृत्य च ससैन्धवम्॥
तत्साधु सिद्धं विज्ञाय माषतैलमिदं महत्॥१३८॥

पक्षघाते हनुस्तम्भे अर्दिते सापतन्त्रके॥
अवबाहुकविश्वाच्योः खञ्जपङ्गुलयोरपि॥१३९॥

हस्तकम्पे शिरःकम्पे कुब्जवामनयोरपि॥
हनुमन्याग्रहे चैव साधिमन्थे च वातिके345॥१४०॥

शुक्रक्षये कर्ण नादेकर्ण शूले च दारुणे॥
कलायखञ्जशमने भैषज्यमिदमादिशेत्॥
बस्त्यभ्यञ्जनपानेषु नावने च प्रयोजयेत्॥१४१॥

तैलात्षोडशभिर्गुणैरिति। अत्र जलैरिति शेषः। दशमूलस्याऽऽढकं जलद्रोणे क्वथनीयम्। एतेन तैलप्रस्थात्षोडशगुणं जलं भवति तच्च पादशेषं कार्यम्। तथा माषाढकमपि तैलषोडशगुणेन जलेन साधयित्वा क्वाथं पादशेषं कुर्यादिति क्वाथद्वयम्।

चक्रेणाप्युक्तम्—

“दशमूलादकं द्रोणे निष्काथ्य पादिको भवेत्।
क्वाथश्चतुर्गुणस्तैलान्माषक्वाथेऽप्ययं विधिः” इति॥

किंच। दशमूलकषायेण तैलषोडशगुणेन माषाढकं साधयित्वा तेन पादशेषेण तैलप्रस्थः पादिकः। अत्र पक्षे दशमूलपलानि २५६ जलशरावाः २५६ शेषशरावाः ६४ द्वे विदार्यौविदारीकन्दः क्षीरविदारी च। जीवनीयगणो जीवनीयदशकम्। महामाषतैलम्॥१३४॥१३५॥१३६॥१३७॥१३८॥१३९॥१४०॥॥१४१॥

माषस्यार्धाढकं दत्त्वा तुलार्धं दशमूलतः॥१४२॥

पलानि च्छागमांसस्य त्रिंशद्द्रोणेऽम्भसः पचेत्॥
पूतशीते कषाये च चतुर्थांशावतारिते॥१४३॥

प्रस्थं च तिलतैलस्य पयो दत्त्वा चतुर्गुणम्॥
आत्मगुप्तोरुबूकश्च शताह्वालवणत्रयम्॥१४४॥

जीवनीयानि मञ्जिष्ठा चव्यचित्रककट्फलम्॥
सव्योषं पिप्पलीमूलं रास्नामधुकसैन्धवम्॥१४५॥

देवदार्वमृता कुष्ठं वाजिगन्धा वचा शठी॥
एतैरक्षसमैः कल्कैः साधयेन्मृदुवह्निना॥१४६॥

पक्षाघातार्दिते वाते बाधिर्ये हनुसंग्रहे॥
कर्णमन्याशिरःशूले तिमिरे च त्रिदोषजे॥१४७॥

पाणिपादशिरोग्रीवाभ्रमणे मन्दचङ्क्रमे॥
कलायखञ्जपाङ्गुल्ये गृध्रस्यामवबाहुके॥१४८॥

पाने बस्तौ तथाऽभ्यङ्गे नस्ये कर्णाक्षिपूरणे॥
तैलमेतत्प्रशंसन्ति सर्ववातरुजापहम्॥१४९॥

सुगमम्। महामाषतैलम्॥१४२॥१४३॥१४४॥१४५॥१४६॥॥१४७॥१४८॥१४९॥

केतकिमूलबलातिबलानां यद्बहुलेन रसेन विपक्वम्॥
तैलमनल्पतुषोदकसिद्धं मारुतमस्थिगतं विनिहन्ति॥१५०॥

केतक्यादीनां बलान्तानां मिलित्वा क्वाथः। बहुलानल्पशब्दयोः प्रचुरार्थत्वात्केतक्यादिक्वाथतुषोदकयोः प्रत्येकमिह चातुर्गुण्यम्। बहुलेन घनेनाष्टांशशिष्टेनेत्यन्ये। अत्रापि पक्षे केतक्यादिक्वाथश्चतुर्गुण एव ग्राह्यः। अत्र चक्रः

“अनल्पवचनादत्र तुल्ये क्वाथतुषोदके।
अकल्कोऽपि भवेत्स्नेहो यः साध्यः केवले द्रवे” इति॥

विपक्वमिति तथा तुषोदकसिद्धमिति च पदद्वयोपादानादिह **वारद्वयं पाक इत्येके।**एकवारपाकेन पूर्वव्याख्ययैव प्रचारः। केतक्याद्यं तैलम्॥१५०॥

अश्वगन्धाद्यं तैलमाह—

वाजिगन्धाबलाविश्वदशमूल्यम्बुकल्कितम्॥
गृध्रस्यां तैलमैरण्डं पाने वस्तिषु शस्यते॥१५१॥

वाजिगन्धादीनां सर्वेषां क्वाथःकल्कश्च। अश्वगन्धाद्यं तैलम्॥१५१॥

रसोनकल्कस्वरसेन पक्वंतैलं पिबेद्यस्त्वनिलामयार्तः॥
तस्याऽऽशु नश्यन्ति हि वातरोगा ग्रन्थाविशाला इव दुर्गृहीताः॥१५२॥

रसोनतैलम्॥१५२॥

मध्यमप्रसारणी346तैलमाह—

प्रसारण्यास्तुलामश्वगन्धाया दशमूलतः॥
तुलां तुलां पृथग्वारिद्रोणे पक्त्वांऽशशेषिते॥१५३॥

तैलाढकं चतुःक्षीरं दधितुल्यं द्विकाञ्जिकम्॥
द्विपलैर्ग्रन्थिकक्षा347रप्रसारण्यक्षसैन्धवैः॥१५४॥

समञ्जिष्टाग्निनियाष्ट्याह्वैः पलिकैर्जीवनीयकैः॥
शुण्ठ्याः पञ्चदलं दत्त्वा त्रिंशद्भल्लातकानि च॥१५५॥

पचेद्बस्त्यादिना वातं हन्ति संधिशिरास्थितम्348
पुंस्त्वोत्साहस्मृतिप्रज्ञाबलवर्णानिवृद्धये॥१५६॥

दशमूलतस्तुलां मिलितात्। पृथग्वारिद्रोण इत्यनेन प्रतितुलायां जलद्रोणदानं दर्शयति। ग्रन्थिकं पिप्पलीमूलम्। अक्षं सौवर्चलमिति वृन्दस्यैव व्याख्याकारः। प्रसारणीयत्रिश349ती अक्षं सौवर्चलं त्विहेति चक्रः। ग्रन्थिकादीनां यष्ट्याह्वान्तानां द्विपलिकं मानं प्रत्येकं त्रिंशद्भाल्लातकगुडकानि।

“प्रसारण्यादिनिर्दिष्टं शतमेकं पृथक्पृथक्।
जलद्रोणेन चैकैकं साधयेच्छ्लक्ष्णकुट्टितम्”

इति ग्रन्थान्तरे। मध्यमप्रसारणीतैलम्॥११३॥१५४॥१५५॥१५६॥

कुब्जप्रसारणीतैलमाह—

प्रसारणीशतं क्षुण्णं पचेत्तोयार्मणे350 शुभे॥
पादशिष्टे समं तैलं दधि दद्यात्सकाञ्जिकम्॥१५७॥

द्विगुणं च पयो दत्वा कल्कान्द्विपलिकांस्तथा॥
चित्रकं पिप्पलीमूलं मधुकं सैन्धवं वचाम्॥१५८॥

शतपुष्पादेवदारुरास्नावारणपिप्पलीः॥
प्रसारण्याच मूलं च मां351सीभल्लातकानि च॥१५९॥

पचेन्मृद्वग्निना तैलं वातश्लेष्मामयापहम्॥
अशीतिं नरनारीस्थान्वातरोगान्व्यपोहति॥१६०॥

कौब्जं स्तिमितपङ्गुत्वं गृध्रसींखुडुकार्दि352तम्॥
हनुपृष्ठशिरोग्रीवास्तम्भं चाऽऽशु नि353यच्छति॥१६१॥

तैलदाधिकाञ्जिकादीनां प्रत्येकमाढकम्। खुडुकार्दितमिति। खुडुको ग्रन्थिवातः। कुब्जप्रसारणीतैलम्॥१५७॥१५८॥१५९॥१६०॥१६१॥

सप्तशतकीप्रसारणीतैलमाह—

समूलपत्रामुत्पाट्य शरत्काले प्रसारणीम्॥१६२॥

शतं ग्राह्यं सहचराच्छतावर्याः शतं तथा॥
बलाश्वगन्धात्मगुप्ताकेतकीनां शतं शतम्॥१६३॥

पचेच्चतुर्गुणं तोये द्रवैस्तैलाढकं भिषक्॥
मस्तु मांसरसं चक्रं पयश्चाऽऽढकमाढकम्॥१६४॥

दध्याढकसमायुक्तं पाचयेन्मृदुनाऽग्निना॥
द्रव्याणां तु प्रदातव्या मात्रा चार्धपलानिका354॥१६५॥

तगरं मदनं कुष्ठं केसरं मुस्तकं त्वचम्॥
रास्नासैन्धवपिप्यल्यों मांसीमञ्जिष्टयष्टिकम्॥१६६॥

तथा मेदा महामेदा जीवकर्षभको पुनः॥
शतपुष्पा व्याघ्रनखं शुण्ठी देवाह्वमेव च॥१६७॥

काकोली क्षीरकाकोली वचा भल्लातकं तथा॥
पेषयित्वा समानेतान्साधनीया प्रसारणी॥१६८॥

नातिपक्वंन355 शीतं च सिद्धं पूतं निधापयेत्॥
यत्र यत्र प्रयोक्तव्यं तन्मे निगदतः शृणु॥१६९॥

कुब्जानामथ पङ्गूनां वामनानां तथैव च॥
यस्य शुष्यति चैकाङ्गं ये च भग्नास्थिसंधयः॥१७०॥

वातशोणितदुष्टा356नां वातोपहतचेतसाम्॥
स्त्रीमदक्षी357णशुक्राणां वाजीकरणमुत्तमम्॥१७१॥

बस्तौ पाने तथाऽभ्यङ्गे भोज्ये358 चैव प्रदापयेत्॥
प्रभुक्तं359 शमयत्याशुवातजान्विविधान्गदान्॥१७२॥

पचेच्चतुर्गुणे तोय इति। चतुर्गुणमष्टगुणं ग्राह्यं सम्यग्द्रव्यवीर्यसंक्रान्त्यर्थमित्येके। पलोल्लेखागतमानत्वादपि द्विगुणं चतुर्गुणमित्यन्ये। प्रचारः पुनरित्थमेव। अर्धपलानिकाऽर्धपलमाना। यष्टिका यष्टीमधु। देवाह्वं देवदारु। सप्तशतकीप्रसारणीतैलम्॥१६२॥१६३॥१६४॥१६६॥१६७॥१६८॥१६९॥॥१७०॥१७१॥१७२॥

एकादशशतकीप्रसारणीतैलमाह—

शाखामूलदलैः प्रसारणितुलास्तिस्रः कुरण्टात्तुले
छिन्नायाश्च तुले तुले रुबुकतो रास्नाशिरीषात्तुलाम्॥
देवाह्वाच्च सकेतकाद्धटशते निष्क्वाथ्य कुम्भांशके
तोये तैलघटं तुषाम्बुकलशौ दत्त्वाऽऽढकं मस्तुनः॥१७३॥

सुक्ताच्छागरसादथेक्षुरसतः क्षीराच्च दत्त्वाऽऽढकं
स्पृक्काकर्कटजीवकाद्यविकसाकाकोलिकाकच्छुरा

सूक्ष्मैलाघनसारकुन्दुसरलाकाश्मीरमांसीनखैः
कालीयोत्पलपद्मकाह्वयनिशाकङ्कोलकग्रन्थिकैः॥१७४॥

चाम्पेयाभयचोचपूराकटुकाजातीफला भीरुभिः
श्रीवासामरदारुचन्दनवचाशैलेयसिन्धूद्भवैः॥

तैलाम्भोदकटम्भराङ्घ्रिनलिकावृश्चीवकच्चोर360कैः
कस्तुरीदशमूलकेतकिनतध्यामाश्वगधाम्बुभिः॥१७५॥

कौन्तीतार्क्ष्यजशल्लकीफललघुश्यामाशताह्वामयै-
र्भल्लातत्रिफलाब्जकेसरमहाश्यामालवङ्गान्वितैः॥

सव्योषैस्त्रिफलैर्महीयसि पचेन्मन्देन पात्रेऽग्निना
पानाभ्यञ्जनबस्तिनस्यविधिना तन्मारुतं नाशयेत्॥१७६॥

सर्वार्धाङ्गगतं तथाऽवयवगं संध्यस्थिमज्जाश्रितं
श्लेष्मोत्थानपि पैत्तिकांश्च शमयेन्नानाविधानामयान्॥

धातून्बृंहयते स्थिरं च कुरुते पुंसां नवं यौवनं
वृद्धस्यापि बलं करोति सुमहद्वन्ध्यासु गर्भप्रदम्॥१७७॥

** पीत्वा तैलमिदं जरत्यपि सुतं सूतेऽमुना भूरुहाः
सिक्ताः शोषमुपागताश्च फलिनः स्निग्धा भवन्ति स्थिराः॥**

भग्नाङ्गाः सुदृढा भवन्ति मनुजा गावो हयाः कुञ्जराः॥१७८॥

रास्नाशिरीषयोर्मिलित्वा तुला।देवदारुकेतकयोरपि मिलित्वैव तुला। घटशते द्रोणशते। कुम्भांशक इति। द्रोणद्वयशेषे। यदुक्तम्— द्रोणतो द्विगुणः शूर्पोविज्ञेयः कुम्भ एव वेति। **तुषाम्बुकलशाविति।**काञ्जिकद्रोणद्वयम्। सुक्तादीनां प्रत्येकमाढकम्। जीवकाद्यं जीवनीयदशकमष्टकवर्गो वा। काकोल्यादि भागद्वयं जीवनीयगणेऽप्यस्याः स्थितत्वात्। विकसा मञ्जिष्ठा।कच्छुरा शूकशिम्बा दुरालभा वा।घनसारः कर्पूरम्।कुन्दुः कुन्दुरुः।सरला सरलकाष्ठम्। ग्रन्थिकं ग्रन्थिपर्णी। चाम्पेयं चम्पककलिका।अभयमुशीरम्।चोचं गुडत्वक् । पूगं गदारुनेली।कटुका लताकस्तूरी। अभीरुः शतावरी। तैलं सिह्लकम्। कटम्भरा प्रसारणी361 वृश्चिकपत्रिका वा तस्या अङ्घ्रिर्मूलम्। कच्चोरको गन्धशठी।ध्यामं362 गन्धतृणम्।कौन्ती रेणुकम्। तार्क्ष्यजं रसाञ्जनम्। फलं कट्फलं मदनफलं वा। लघ्वगुरु। श्यामा प्रियङ्गुः।महाश्यामा श्यामलता।कल्कभूयस्त्वादिहाधमैःसुगन्धैः प्रथमः पाको मध्यैर्द्वितीय उत्तमैस्तृतीयः। ततो गन्धवृद्ध्यर्थं कर्पूरकस्तूरिकाभ्यां पत्रकलकं कार्यम्। तस्य च मानं तैलानुरूपतः सुगन्धितैलान्तरोक्तमानानुसाराद्वा। पत्रकल्कसंज्ञा च पारिभाषिकी।

तद्यथा—“पक्वपूतेऽप्युष्ण एव सम्यक्पेषितवर्तितम्।
दीयते गन्धवृद्धयर्थं पत्रकल्कं तदुच्यते” इति॥

एकादशशतकं महाप्रसारणीतैलम्॥१७३॥१७४॥१७५॥१७६॥॥१७७॥१७८॥

या गन्धं केतकीनां वहति परिमलं वर्णतः पिञ्जराभा
स्वादे तिक्ता कटुर्वा लघुरपि तुलिता मर्दिता चिक्कणा या॥

दग्धा नो याति भूतिंचिमिचिमितिकरा चर्मगन्धा हुताशे
सा शुद्धा शोभनीया वरमृगतनुजा राजयोग्या प्रदिष्टा॥१७९॥

करतलजलमध्ये स्थापयित्वा महद्भिः
पुनरपि तदवस्थं चिन्तनीयं मुहूर्तम्॥

यदि भवति सरक्तं तज्जलं पीतवर्णं
न भवति मृगनाभिः कृत्रिमोऽसौ विकारः॥१८०॥

वरमृगतनुजेति। कस्तूरिका।कस्तुरीपरीक्षा।कर्पूरकुङ्कुमचन्दनानामपि सुगन्धद्रव्यप्रचारत्वेन प्रशस्तानां लक्षणमुच्यते—

“पक्वात्कर्पूरतः प्राहुरपक्वंगुणवत्तरम्।
तत्रापि स्याद्यदक्षुद्रं स्फाटिकाभं तदुत्तमम्॥

पक्वंच सदलं स्निग्धं हरितद्युति चोत्तमम्।
भङ्गेमनागपि न चेन्निपतन्ति ततः कणाः॥

पाण्डुरैः केसरैस्त्यक्तं रक्तं च मृदु चोत्तमम्।
हीनं विरागि काश्मीरं खरपाण्डुरकेसरम्॥

भवेत्कुचन्दनं रक्तं पीतसारं तदुत्तमम्।
यत्पाण्डुरमसारं च न सम्यक्प्रवदन्ति तत्” इति॥१७९॥१८०॥

सैन्धवाद्यं तैलमाह—

द्वे पले सैन्धवात्पञ्च शुण्ठ्या ग्रन्थिकचित्रकात्॥
द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वेतथाऽऽढके॥१८१॥

आरनालात्पचेत्प्रस्थं तैलमेतैरपत्यदम्॥
गृ363ध्रस्यूरुग्रहार्तस्य स364र्ववातविकारनुत्॥१८२॥

ग्रन्थिकचित्रकात्। द्वे द्वे इति। ग्रन्थिकचित्रकयोः प्रत्येकं पलद्वयमिति।सैन्धवाद्यं तैलम्॥१८१॥१८२॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां द्वाविंशो
वातव्याधिचिकित्साधिकारः समाप्तः॥२२॥
____________________

अथ त्रयोविंशो वातरक्ताधिकारः ।
___________

वातविकारप्रकाराद्वातव्याधिमनु वातरक्तारम्भः।

उत्तानमवगाढं च द्विविधं वातशोणितम्॥
त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्वन्तराश्रयम्॥१॥

** त्वङ्मांसाश्रयमुत्तानमिति।** त्वङ्मांसमात्रमाश्रितमल्पदाहरुजादिकरमुत्तानम्। गम्भीरं त्वन्तराश्रयमिति। त्वङ्मांसेतरगम्भीर-धातुगतं गम्भीरम्। ननु द्वैविध्यमिदं चरकोक्तं सुश्रुते निषिद्धं तद्यथा द्विविधं वातशोणितमुत्तानमवगाढं चेत्येके भाषन्ते। तत्तु न सम्यक्। कस्मात्। कुष्ठवदुत्तानं भूत्वा कालान्तरेणावगाढी भवति। मैवम्। सुश्रुतचने सर्वमुत्तानमेव भूत्वा परं गम्भीरं क्रमेण भवतीति नियमो नास्तितेन प्रथममपि गम्भीरं किंचिदुत्पद्यते प्रतिषेधस्तूत्तानमेवास्तीति यो मन्येत तं प्रति सुश्रुतस्य चरकेऽप्युत्तानमेवास्तीति नायं नियमः किंतु प्रथमं किंचिदुत्तानमुत्पद्यते किंचित्तु गम्भीरमिति नानाविधयोरागमयोर्मिथोऽविरोधः॥१॥

पिण्डतैलादिनाऽभ्यङ्गः पानं तिक्तादिसर्पिषः॥
सेकलेपाद्यसृड्मुक्तिः शोधनं चोभयोर्हितम्॥

सेकादयोऽत्रैव वक्तव्याः। उभयोरित्युत्तानावगाढयोः॥

गाढे विशेषतः सर्पिष्पानं शुद्धिः शिराव्यधः365॥२॥

सुगमम्॥२॥

गोधूमचूर्णं छगलीपयश्च सच्छागदुग्धो रुबुबीजकल्कः॥
लेपे विधेयं शतधौतसर्पिःसेके पयश्चाऽऽविकमेव शस्तम्॥३॥

गोधूमचूर्णं छगलीपयश्चेत्येको योगः।सघृतः पुनश्च चरके पठ्यते। यथा—“वाते सरक्ते सघृतः प्रदेहो गोधूमचूर्णं छगलीपयश्च” इति। सच्छागदुग्धो रुबुबीजकल्क इति द्वितीयः॥३॥

अमृतानागरधान्यककर्षत्रितयेन पाचनं सिद्धम्॥
जयति सरक्तं वातं सामं कुष्ठान्यशेषाणि॥४॥

अमृतादित्रयस्य मिलित्वा कर्षत्रयंक्वथनीयम्॥४॥

वत्सादन्युद्भवः क्वाथः पीतो गुग्गुलुसंयुतः॥
समीरणसमायुक्तंशोणितं संप्रसाधयेत्॥५॥

पीतो गुग्गुलुसंयुत इति। शोधनार्थं प्रायेण गुग्गुलोः कर्षः। शमनार्थं पुनर्माषकचतुष्टयं प्रक्षेप एवं सर्वत्र॥५॥

रास्नागुडूचीचतुरङ्गुलानामेरण्डतैलेन पिबेत्कषायम्॥
क्रमेण सर्वाङ्गजमप्यशेषं जयेदसृग्वातभवं विकारम्॥६॥

चतुरङ्गुलं सुवर्णालुस्तस्येह फलम्॥६॥

तिस्रोऽथ वा पञ्च गुडेन पथ्या जग्ध्वा पिबेच्छिन्नरुहाकषायम् *366
तद्वातरक्तं शमयत्युदीर्णमाजानुसंभिन्नमपि ह्यवश्यम्॥७॥

सुगमम्॥७॥

घृतेन वातं सगुडा विबन्धं पित्तं सिताढ्या मधुना कफं च॥
वातास्रमुग्रंरुबुतैलमिश्रा शुण्ठ्याऽऽमवातं शमयेद्गुडुची॥८॥

सुगमम्॥८॥

अमृता वातपित्तघ्नी367कफमेदोविशोषिणी॥
वातरक्तप्रशमनी कच्छूवीसर्पनाशिनी॥९॥

गुडूच्याः स्वरसं कल्कं चूर्णंवा क्वाथमेव वा॥
प्रभूतकालमासेव्यं मुच्यते वातशोणितात्⁺368॥१०॥

दशमूलीशृतं क्षीरं सद्यः शूलविनाशनम्॥
परिषेकोऽनिलप्राये तद्वत्कोष्णेन सर्पिणा॥११॥

दशमूलशृतं क्षीरं परिषेके योज्यम्। सद्यः शूलविनाशनमिति। शूलं वातरक्तदेशे व्यथा तद्वेति369 परिषेकः॥९॥१०॥११॥

पटोलकदुकाभीरुत्रिफलामृतसाधितम्॥
क्वाथं पीत्वा जयेज्जन्तुः सदाहं वातशोणितम्॥१२॥

कटुका कटुरोहिणी।अभीरुः शतावरी। अयं योगः पित्तप्राये॥१२॥

धात्रीमुस्ताहरिद्राणां कषायं वा कफाधिके॥१३॥

कोकिलाख्यामृताक्वाथे पिबेत्कृष्णां यथाबलम्॥
पथ्यभोजी त्रिसप्ताहान्मुच्यते वातशोणितात्॥१४॥

अयं योगः कफे। अत्र कोकिलाख्यस्य मूलम्॥१३॥१४॥

कफरक्तप्रशमनं कच्छूवीसर्पनाशनम्॥
वातरक्तप्रशमनं हृद्यं गुडघृतं स्मृतम्॥१५॥

इयं गुडघृतमिति। आहारं विहाय गुडघृतेनैव समेन सौहित्यं कर्तव्यमित्याहुः॥१५॥

सर्वेषु सगुडां पथ्यां गुडूचीक्वाथमेव वा॥
पिप्पलीवर्धमानं वा शीलयेत्सुसमाहितः॥१६॥

पिप्पलीः क्षीरपिष्टाः। पञ्चाभिवृद्ध्या दशाभिवृद्ध्या वा पिबेत्क्षीरौदनाहारो दशरात्रं भूयश्चापकर्षयेद्यावत्पञ्चदश वेति। तदेतत्पिप्पलीवर्धमानम्॥१६॥

नवकार्षिकमाह—

त्रिफला निम्बमञ्जिष्ठा वचा कटुकरोहिणी॥
वत्सादनी दारुनिशा कषायो नवकार्षिकः॥१७॥

वातरक्तं तथा कुष्ठं पामानं रक्तमण्डलम्॥
कृच्छ्रं कपालिकाकुष्ठं पानादेवापकर्षति॥१८॥

कर्षादौ तु पलं यावद्दद्यात्षोडशिकं जलम्॥
ततस्तु कुडवं यावत्तोयमष्टगुणं भवेत्॥१९॥

दारूनेशा दारुहरिद्रा। पञ्च रक्तिकमाषकमानेन त्रिफलादीनां नवकर्षान्गृहीत्वाऽष्टगुणेन जलेन क्वाथः स च स्तोकं परित्यज्य पेयः। तदुक्तं चक्रेण—

“पञ्चरक्तिकमाषेण कार्योऽयं नवकार्षिकः॥
किं त्वेवं साधिते क्वाथे योभ्या मात्रा प्रदीयते” इति।

योगोऽयं न व्यवहरति॥१७॥१८॥१९॥

लाङ्गल्यास्त्वमृतसमं कन्दमुद्धृत्य यत्नतः॥
योजयेत्त्रिफलालोहरजस्त्रिकटुकैःसह॥२०॥

गुग्गुल्वमृतवल्लीभिर्द्राक्षालुङ्गरसेन वा॥
त्रिफलाया रसैर्युक्ता गुटिकाःकोलसंमिताः॥
भक्षयेन्मधुनाऽऽलोड्य शृणु कुर्वन्ति यत्फलम्॥२१॥

पादस्फोटं महाघोरं सर्वाङ्गस्फोटनं च यत्॥
तत्सर्वं नाशयत्याशु असाध्यं चैव शोणितम्॥२२॥

लाङ्गल्यास्त्वमृतसमेत्यादियोगोऽधिकः क्वचित्पठ्यते तत्र लाङ्गली लाङ्गलकी। अमृतसमममृतोपमम्। गुग्गुल्वमृतवल्लीभिरिति। गुग्गुलुः सकलचूर्णसमः।अमृतवल्ली गुडूची। बहुवचनं चेह व्यक्तिबहुत्वापेक्षया। **द्राक्षालुङ्गरसेनेति।**लुङ्गो मातुलुङ्गस्तस्येह मूलम्। द्राक्षामातुलुङ्गक्वाथेन त्रिफलाक्वाथेन च भावना ज्ञेया। वाशब्दोऽत्र योगान्तरापेक्षया। अयमपि योगो न व्यवहरति। गुग्गुलुवटिका॥२०॥॥२१॥२२॥

गुडूचीघृतमाह—

गुडूचीक्वाथकल्काभ्यां सपयस्कं घृतं शृतम्॥
हन्ति वातं तथा रक्तं कुष्टं जयति दुस्तरम्॥२३॥

एकद्वित्रिद्रवैर्द्रव्यं द्रवंकुर्याच्च370तुर्गुणम्॥
क्षीरं स्नेहसमं दद्यात्क्षीरातोयं च371तुर्गुणम्॥२४॥

क्वाथश्चतुर्गुणः क्षीरं स्नेहसममिति प्रचारः।गुडूचीघृतम्॥२३॥२४॥

शतावरीकल्कगर्भंरसात्तस्माच्च372तुर्गुणम्॥
क्षीरतुल्यं घृतं पक्वंवातशोणितनाशनम्॥२५॥

सुगमम्। शतावरीघृतम्॥२५॥

बलातैलं दशपाकमाह—

बलाकषायकल्काभ्यां तैलं क्षीरचतुर्गुणम्॥
दशपाकं भवेदेतद्वातासृग्वातपित्तजित्॥२६॥

धन्यं पुंसवनं चैव नराणां शुक्रवर्धनम्॥
रेतोयोनिविकारघ्नमेतद्वातविकारनुत्॥२७॥

बलाक्वाथश्चतुर्गुणश्चतर्गुणक्षीरसाहचर्यात्। तैलमिदं यथोक्तमानेन क्वाथादिना दशवारान्पक्तव्यं वीर्योत्कर्षार्थम्। अनेन पाकेन स्नेहक्षयो नास्ति क्षीरगतस्नेहेन न्यूनताभागस्य पूरणात्। प्रकृतिसमसमवेते व्याधौ तैलादिपाकेष्वनुक्त्तोऽपि बहुधा पाको वीर्योत्कर्षार्थं युज्यत एव। विकृतिविषमसमवेते पुनर्यथोक्तमेव कर्तव्यं संयोगशक्तेरचिन्त्यत्वात्। इह व्याधिहरमेव भेषजं पूर्वत्र तु दोषहरम्।न च दोषहरमेव व्याधिहरमिति वाच्यं वातकारिणा खदिरेण वातिककुष्ठानुपशमप्रसङ्गात्। खदिरो हि वातकृदपि कुष्ठहरत्वप्रभावाद्वातिकमपि कुष्ठमुपशमयतीति। किंच तदा प्रतिव्याधिबहुप्रयोगोपन्यासो मुनीनां मुधा स्यात्तस्माद्व्याधिहरे यथोक्तविध्यनुसरणमेव दोषहरम्। पुनर्वीर्यप्रकर्षार्थं बहुधा पाकोऽपि संगत एवं किंतु वित्तव्ययप्रयासादिबाहुल्याद्वैद्यैर्नायमनुमन्यते पन्था इति। बलातैलं दशपाकम्॥२६॥२७॥

सारिवासर्जमञ्जिष्ठायष्टीसिक्थैःपयोन्वितम्॥
तैलं पक्वंप्रयोक्तव्यं पिण्डाख्यं वातशोणिते॥२८॥

सारिवाऽनन्तमूलम्।सर्जः सर्जरसः स च धूणकम्। यष्टी यष्टीमधु। पयश्चतुर्गुणमिह द्रवान्तराभावात्। **पिण्डाख्यमिति।**पिण्डीभूतत्वान्मण्डनात्मकं मण्डनतैलमित्यर्थः। पिण्डरूपत्वादस्य कल्को न गालनीय इत्याहुः। वैद्याः पुनर्गालयन्त्येव। पिण्डतैलम्॥२८॥

सारिवासर्जयष्ट्याह्वैर्मधूच्छिष्ट्टैः पयोन्वितैः॥
सा373ध्यमेरण्डतैलं वा वात374रक्तरुजापहम्॥२९॥

पिण्डतैलम्॥२९॥

तृतीयं पिण्डतैलमाह—

समधूच्छिष्टमञ्जिष्ठं ससर्जरससारिवम्375
पिण्डतैलमिति ख्यातं वात376रक्तरुजापम्॥३०॥

अस्य नैव पाकः। पिण्डतैलम्॥३०॥

नागबलातैलमाह—

शुद्धां पचेन्नागवलातुलां तु जलार्मणे पादकषायशिष्टाम्॥
विस्राव्य तैलाढकमत्र दद्यादजापयस्तैलविमिश्रितं तु॥३१॥

नतस्य यष्टीमधुकस्य कल्कं पृथक्पृथक्पञ्च377पलं विपक्वम्॥
तद्वातरक्तं शमयत्युदीर्णं बस्तिप्रदानेन हि सप्तरात्रात्॥३२॥

पीतं दशाहेन करोत्यरोगं तैलोत्तमं ह्यश्विमतं378 प्रदिष्टम्॥३३॥

अजापयस्तैलतुल्यम्। नतं तगरपादिकम्। नागबलातैलम्॥३१॥३२॥३३॥

कैशोरकगुग्गुलुमाह—

वरम379हिषलोचनोदरसंनिभवर्णस्य गुग्गुलोः प्रस्थम्॥
प्रक्षिप्य380 तोयराशौ त्रिफलां च यथोक्तपरिमाणाम्॥३४॥

द्वात्रिंशच्छिन्नरुहापलानि देयानि यत्नेन॥
विपचेत्तदप्रमत्तो दर्व्या संघट्टयन्मुहुर्यावत्॥३५॥

अर्धक्षपितं तोयं जातं ज्वलनस्य संपर्कात्॥
अवतार्यवस्त्रपूतं पुनरपि संपादयेदयःपात्रे॥३६॥

सान्द्रीभूते तस्मिन्नवतार्य हिमोपलप्रख्ये॥
त्रिफलाचूर्णार्धपलं त्रिकटोचूर्णं षडक्षपरिमाणम्॥३७॥

कृमिरिपुचूर्णा381र्धपलं कर्षंकर्षं382त्रिवृद्दन्त्योः॥
पलमेकं तु गुडूच्या दत्त्वा संचूर्ण्य यत्नेन॥३८॥

उपयुज्य चानुपानं यूषं तोयं सुगन्धिसलिलेन॥
इच्छाहारविहारी भेषजमुपयुज्य सर्वकालामिदम्॥३९॥

तनुरोधि वातशोणितमेकजमथ द्वंद्वजं चिरोत्थं च॥
जयति स्रुतं परिशुष्कं स्फुटितं चाऽऽजानु यच्चापि॥४०॥

व्रणकासकुष्ठगुल्मश्वयथूदरपाण्डुरोगमेहांश्च॥
मन्दाग्निं च विबन्धं प्रमेहपिटिकाश्च383 नाशयत्याशु॥४२॥

सततं निषेव्यमाणः कालवशाद्धन्ति सर्वगदान्॥
अभिभूय जरादोषं प्रयाति कैशोरकं रूपम्॥४२॥

वरमहिषलोचनोदरसंनिभवर्णस्येति। मत्तमहिषलोचनवल्लोहितवर्णस्य। तोयराशाविति तोयबहुत्वोपलक्षणं राशिशब्देन तु द्रोणाभिधानं न क्वापि दृष्टम्। तथा च तस्य टिप्पणी

“प्रत्येकं त्रिफलाप्रस्थो जलं तत्र षडाढकम्॥
गुडवद्गुग्गुलोः पाकः संबन्धस्तु विशेषतः” इति।

प्रचारः प्रथमपक्षेण।त्रिफलां च यथोक्तपरिमाणामिति। प्रत्येकं प्रस्थमानम्। केचिद्गुग्गुलूपक्षयभयात्क्वाथ्यत्वेनोक्तमपि गुग्गुलुं विहाय क्वाथं कुर्वन्ति पश्चात्सिद्धक्वाथे तप्ते गुग्गुलुं गालयन्ति। युक्तं तु गुग्गुलुना सहैव क्वाथकरणं तथैव निर्देशात्। एवममृतादिगुग्गुलावपि द्रष्टव्यम्। हिमोपलप्रख्य इति। हिमशिलावच्छीतले। अत्र चेत्थमेव शक्त्युत्कर्षो वचनादुन्नीयते। अत्र कोष्ण एव चूर्णदानं दृश्यते त्रिफलाचूर्णार्धपलं प्रत्येकम्।त्रिकटोश्चूर्णं षडक्षपरिमाणं मिलित्वा। कृमिरिपुर्विडङ्गम्। अनुपानं यूषं तोयम्। सुगन्धिसलिलेनेति। सुगन्धिसलिलेन वाशब्दोऽत्र द्रष्टव्यः। तेन यूषं तोयमनुपाने सुगन्धिसलिलेन वाऽनुपानमुपयुज्येत्यर्थः। कैशोरकं रूपमिति। किशोरको यौवनोन्मुखोऽश्वसूनुः। गुग्गुलोरपि गुडवन्मुद्रया पाकः।कैशोरको गुग्गुलुः॥३४॥॥३५॥३६॥३७॥३८॥३९॥४०॥४१॥४२॥

अमृताद्यगुग्गुलुमाह—

प्रस्थमेकं गुडूच्याश्च अर्धमस्थं तु गुग्गुलोः॥
प्रत्येकं त्रिफलायाश्च तत्प्रमाणं विनिर्दिशेत्॥४३॥

सर्वमेकत्र संक्षु384द्यक्वाथये385न्नलवणेऽम्भसि॥
पादशेषं परिस्राव्य पुनरग्नावधिश्रयेत्॥४४॥

तावत्पचेत्कषायं तं यावत्सान्द्रत्वमागतम्॥
दन्तीव्योषविडङ्गानि गुडूची त्रिफलात्वचः॥४५॥

ततश्चार्धपलं पूतं गृह्णीयाच्च प्रति प्रति॥
कर्षं तु त्रिवृतायाश्च सर्वमेकत्र चूर्णयेत्386॥४६॥

तस्मिन्सुसिद्धं विज्ञाय कवोष्णे निक्षिपेद्बुधः॥
ततश्चाग्निबलं ज्ञात्वा तस्य मात्रां प्रयोजयेत्॥४७॥

वातरक्तं तथा कुष्ठंगुदजान्यग्निसादनम्॥
दुष्टव्रणं प्रमेहांश्च आमवातं भगन्दरम्॥४८॥

नाड्याढ्यवातं श्वयथुंसर्वानेतान्व्यपोहति॥
अश्विभ्यां निर्मितः पूर्वममृताद्यो हि गु387ग्गुलुः॥४९॥

तत्प्रमाणमिति। प्रस्थार्धम्। व्योषस्यार्धपलं प्रत्येकम्।**त्रिफलात्वच इति।**निरस्थित्रिफला। एवं सर्वत्र त्रिफलाशब्दाश्रयत्वचः उपादाने। त्रिफलायास्त्वचः प्रत्येकमर्धपलम्। अमृताद्यो गुग्गुलुः॥४३॥४४॥४५॥४६॥४७॥४८॥४९॥

पुनर्नवागुग्गुलुमाह—

अमृतायाश्चद्विप्रस्थं प्रस्थमेकं तु गुग्गुलोः॥
प्रत्येकं त्रिफलाप्रस्थं वर्षाभूप्रस्थमेव च॥५०॥

सर्वमेकत्र संक्षुद्य388क्वाथयेन्नल्वणेऽम्भसि॥
पुनः पचेत्पादशेषं यावत्सान्द्रत्वमागतम्॥५१॥

दन्तीचित्रकमूलानां कणाविश्वफलत्रिकम्॥
गुडूचीत्वग्विङ्गानां प्रत्येकार्धपलान्वित389म्॥५२॥

त्रिताकर्षमेकं तु सर्वमेकत्र चूर्णयेत्॥
सिद्धमुष्णे क्षि390पेत्तत्र अमृतागुग्गुलोः पलम्॥५३॥

यथावह्निबलं खादेदम्लपित्ती विशेषतः॥
वातरक्तं तथा कुष्ठंगुदजान्यग्निसादनम्॥५४॥

दुष्टव्रणप्रमेहांश्च आमवातं भगन्दरम्॥
नाड्याढ्यवातश्वयथून्हन्यात्सर्वामयानयम्॥

अश्विभ्यां निर्मितो ह्येष अमृतगुग्गु391लुः पुरा॥५५॥

अमृता^(…………………)मृतत्वादमृता वा। पुनर्नवायोगात्पुनर्नवागुग्गुलुरिति तु नामास्यामृताद्यगुग्गुलुव्यवच्छेदार्थम्।पुनर्नवागुग्गुलुः॥५०॥५१॥५२॥५३॥५४॥५५॥

योगसारामृतमाह—

शतावरी नागबला वृद्धदारक392मुच्चटा॥५६॥

पुनर्नवाऽमृता कृष्णा वाजिगन्धा त्रिकण्टकम्॥
पृथग्दश पलान्येषां श्लक्ष्णचूर्णानि कारयेत्॥५७॥

तदर्धशर्करायुक्तं चूर्णं संमर्दयेद्बुधः॥
स्थापयेत्सुदृढे भाण्डे माध्वर्धाढकसंयुतम्॥५८॥

घृतप्रस्थेन चाऽऽलोड्य त्रिसुगन्धिपलेन॥
तं खादेदिष्टचेष्टान्नो यथावह्निबलं नरः॥५९॥

वातरक्तं क्षयं कुष्ठं कासं पित्तसमुद्भव393म्॥
वातपित्तकफोत्थांश्चरो394गानन्यांश्च तद्विधान्॥६०॥

हत्वा करोति पुरुषं वलीपलितवर्जितम्॥
योगसारामृतो नाम लक्ष्मीकान्तिविवर्धनः॥६१॥

तदर्धशर्करायुक्तमिति। समुदितचूर्णादर्धमाना शर्करा।**त्रिसुगन्धिपलेनेति।**प्रत्येकम्।योगसारामृतम्॥५६॥५७॥५८॥५९॥६०॥६१॥

दिवास्वप्नादि सं395तापं व्यायामं मैथुनं तथा॥
कटूष्णगुर्वभिष्यन्दिलवणाम्लानि वर्जयेत्॥६२॥

व्यायाममैथुने कायकर्मणी।उष्णमुष्णवीर्यं तेनानूपमांसं मधुरं तिक्तं च काकमाच्यादि कटु च यत्किंचिदुष्णवीर्य तद्गृह्यते। अभिष्यन्दि धातुदोषरक्तस्त्रो396तसां क्लेदप्राप्तिजनकम्।लवणाम्लौ तु विशेषार्थं पृथगेव पठितौ। तथा च सुश्रुतः

“व्यायामं मैथुनं कोपमुष्णाम्ललवणाशनम्।
दिवास्वप्नमभिष्यन्दि गुरु चान्नं च वर्जयेत्”॥

कोपो मानसं कर्मेति। संसृष्टावृतवातस्य चिकित्सा सुश्रुत उक्ता।

तद्यथा—“केवलो दोषयुक्तो वा धातुभिर्वा वृतोऽनिलः।
विज्ञेयो लक्षणोहाभ्यां चिकित्स्यश्चाविरोधतः”॥

अस्य व्याख्या—केवलो दोषाद्यसंसृष्टः। अत्र हि संयुक्तस्यैव चिकित्साविधिरुच्यते ननु(तु) केवलस्योक्तत्वात्। अविरोधत इति वचनात्। न हि केवलस्य वायोश्चिकित्सायां विरोधोऽस्ति। एकमुख्यत्वात्। दोषैर्वातपित्तकफैर्युक्तो दोषयुक्तः। अनेन संयोगमात्रमभिहितं नाऽऽवरकत्वम्। धातवो रसरक्तमांसमेदोस्थिमज्जशुक्राणि स्वेदविण्मूत्राणि वातपित्तकफाश्चोच्यन्ते तेषामपि शरीरधारकत्वात्तैरावृतः। तस्य द्विविधस्यापि विज्ञानोपायं दर्शयन्नाऽऽह।लक्षणोहाभ्यामिति। वातस्य लक्षणं तोदादिकं कृष्णारुणत्वं कम्पादिकं च पित्तस्य चोषादि पीतादि दाहादिकं कफस्य कण्ड्वादि शुक्लादि प्रसेकादिकम्। ऊहः पुनरश्रुतस्य परिकल्पनया। नतु(नु) पित्तकफाम्यां धातुभिश्च मूर्तैरावरणं युज्यते। कथं वातेनेत्यत्राऽऽह।प्राणादीनां पञ्चानां वायूनां परस्परमावार्यावारकभेदेन विंशतिरावरणानि चरकाचार्येणोक्तानि। तथा च—

“मारुतानां च पञ्चानामन्योन्यावरणं शृणु।
लिङ्गव्याससमासाभ्यामुच्यमानमथानघ॥

प्राणो वृणोत्युदानाद्यान्प्राणं वृण्वन्ति तेऽपि च।
उदानाद्यास्तथाऽन्योन्यं सर्व एव यथाक्रमम्॥

विंशत्यावरणान्येतान्युल्बणानां परस्परम्।
मारुतानां तु पञ्चानां तानि सम्यक्प्रतर्कयेत्”॥

** गयदासेना**प्युक्तम्—

“अष्टावाद्ये द्वितीये षट्तृतीये च चतुष्टयम्॥
द्वे चतुर्थेऽनिलेष्वेवं पञ्चधा वृतिविंशतिः”॥

आवरणेषु वातानां प्राणोदानयोरेव गुरुतरमावरणं द्रष्टव्यं धात्वावरणेषु मेदोवृतवातस्य। तत्रोर्ध्वं गच्छन्नुदानः प्राणोवाऽपानस्याधोगामिनो गतिनिरोधं कुर्वन्नावारक इत्युच्यते। अथवा द्वयोर्मरुतयोरभिमुखमपसर्पतोर्बलवता दुर्बलोऽभिभूतः प्रत्यावृत्तः सन्नावृत इत्युच्यते। मेदोवृतवातस्य लक्षणं सुश्रुतोक्तं लिख्यते—

“रुजावन्तं घनं शीतं शोफं मेदोयुतोऽनिलः।
करोति यस्य तं वैद्यः शोफवत्समुपाचरेत्”॥

शोफमित्यपक्वशोफम्॥६२॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसियोगव्याख्यायां
श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां
त्रयोविंशो वातरक्ताधिकारः समाप्तः॥२३॥

अथ चतुर्विंश ऊरुस्तम्भाधिकारः।
_______________

अतो वातजन्यत्वसामान्याद्वातरक्तानन्तरमूरुस्तम्भः। ऊरुस्तम्भे कफमेदःप्रधानैः स्नेहादीनां कर्मणां निषेधमाह—

स्नेहासृक्स्राववमनं बस्तिकर्म विरेचनम्॥
विवर्जयेदाढ्यवाते तैश्च तस्य विरोधतः॥१॥

स्नेहः स्नेहनं तच्च पानाभ्यङ्गाभ्यामपि कफमेदोवर्धनत्वेन निषिद्धम्। बस्तिकर्मानुवासनं निरूहश्च। असृक्स्रुतिराममेदःस्तम्भेन गूढमूलं दोषं न निर्हर्तुं शक्नोतीति निषिद्धा। बस्तिवमनविरेकाश्च प्रायः कोष्ठगतदोषानेवापक्रष्टुं समर्था न तु गम्भीरजङ्घोरुदेशदोषांस्ततस्तेषां निषेधः।स्नेहबस्तिराममेदोजनकत्वेन च निषिद्धः। अत एवाऽऽह चरकः

“वातस्थाने हिते शैत्याद्वायोस्तम्भाच्च तद्गताः॥
न शक्याः सुखमुद्धर्तुं जलं निम्नादिव स्थलम्"(लात्) इति।

**अढ्यवात इति।ऊरुस्तम्भे। तैश्चतस्य विरोधत इति।**वृद्धिलक्षणोऽत्रविरोधः॥१॥

तस्मादत्र सदा कार्यं स्वेदलङ्घनरूक्षणम्॥
आममेदःकफाधिक्यान्मारुतं परिरक्षता॥२॥

सुगमम्॥२॥

यत्स्मात्कफप्रशमनं न च मारुतकोपनम्॥
तत्सर्वंसर्वदा कार्यमूरुस्तम्भस्य भेषजम्*397॥३॥

कफहरं यन्मारुतहरं शुण्ठ्यादि कार्यमित्यर्थः॥३॥

भोज्याः398 पुराणश्यामाककोद्रवोद्दालशालयः॥
जाङ्गलैरघृतैर्मांसैः शाकैश्चालवणैर्हितैः॥४॥

उद्दालोऽरण्यकोद्रवः। शालीः रक्तशाल्यादिः। अघृतैरघृतरहितैः। सर्षपतैलं पुनरुष्णत्वाच्च देयमपीति न प्रतिषिद्धं न विहितं च। शाकैश्चालवणैरिति। शाकानि वायसीवास्तुकवेत्राग्रादीन्यूरुस्तम्भे हितानि ज्ञेयानि। अलवणैलवणरहितैः शाकैः। तदर्थं तु यवक्षारादिक्षाराणां रौक्ष्येण कफमेदोहरत्वादवचारणमिति॥४॥

आवस्थिकं स्नेहविधिमाह—

रूक्षणाद्वातकोपश्चेन्निद्रानाशार्तिसूचकः॥
स्नेहस्वेदक्रमस्तत्र कार्यो वातामयापहः॥५॥

सामान्यस्नेहनिषेधेन सममस्य विधेर्न विरोधः शङ्कनीयोऽपवादरूपत्वात्॥५॥

प्रतारयेत्प्रतिस्रोतो नदींशीतजलां शिवाम्॥
सरश्चविमलं शीतं स्थिरतोयं पुनः पुनः॥६॥

शिवामिति। हिंसकजलजन्तुरहितां सुगमां च॥६॥

यथा399 विशुष्केऽस्य कफे शान्तिमूरूग्रहो व्रजेत्॥

**यथा विशुष्केऽस्य कफ इति।**प्रतरणेन विच्छिन्ने कफे प्रतरणेन च वारिणा बहिर्निर्गच्छदूष्मणा निरुद्धस्यान्तःप्रवेशादिह स्थिरश्लेष्मविच्छेदो बोद्धव्यः॥

शरीरबलमग्निं च कार्येषा रक्षता क्रिया॥७॥

सुगमम्॥७॥

शिलाजतुं गुग्गुलुं वा पिप्पलीमथ नागरम्॥
ऊरुस्तम्भे पिबेन्मूत्रैर्दशमूलरसेन वा॥८॥

शिलाजत्वशोधितमेवाऽऽहुः। प्रत्येकं शिलाजत्वादीनां चतुर्णां गोमूत्रेण दशमूलक्वाथेन च पानम्॥८॥

भल्लातकामृताशुण्डी दारुपथ्यापुनर्नवाः॥
पञ्चमूलीद्वयोन्मिश्रा ऊरुस्तम्भनिबर्हणाः॥९॥

भल्लातकादियोगः क्वाथ्यः॥९॥

पिप्पलीपिप्पलीमूलं भल्लातकफलानि च॥
कल्कं मधुयुतं पीत्वा ऊरुस्तम्भाद्विमु400च्यते॥१०॥

पिप्पल्यादिकल्को मधुना पेयः। क्वाथेऽप्ययं योगः क्रियते पाठान्तरदर्शनात्। तद्यथा—पिप्पलीपिप्पलीमूलं भल्लातक्वाथ एव वेति चक्र इति॥१०॥

त्रिफलाचव्यकटुकं ग्रन्थिकं मधुना लिहेत्॥
ऊरुस्तम्भविनाशाय पुरं मूत्रेण वा पिबेत्॥११॥

चव्यकटुकमिति। कटुकं त्रिकटुकम्। पुरं गोमुत्रेण वा पिबेदिति^(…………..)पूर्वं पुनः संपूर्णः श्लोकः॥११॥

लिह्याद्वात्रिफलाचूर्णं क्षौद्रेण कटुकायुतम्॥
सुखाम्बुनापिबेद्वाऽपि चूर्णं षट्चरणं नरः॥१२॥

**कटुकायुतमिति।**त्रिकटुयुतं कटुरोहिणीयुतं वा। **सुखाम्बुनेति।**उष्णोदकेन। षट्चरणं वातव्याध्युक्तम्। सुखाम्बुनैव षट्चरणस्य पानं दर्शितं पिबेत्षट्चरणमित्थं चेति॥१२॥

पिप्पलीवर्धमानं वा माक्षिकेण गुडेन वा॥
ऊरुस्तम्भे प्रशंसन्ति गण्डीरारिष्टमेव च401॥१३॥

गण्डीरःसमठः स तु स्थलजो ग्राह्यस्तीक्ष्णत्वात्। तस्यारिष्टं संधानम्।तच्च गण्डीरस्य पलशतक्वाथे गुडतुलामावाप्यधातकीलोध्रलिप्तकुम्भे संधानीयम्। ईषदम्लं यदा स्यात्तदोपयोज्यम्। किंवाऽरिष्टो निम्बःसमठनिम्बयोः कल्कं चूर्णं वाऽनन्तरोक्तेन मधुना गुडेन वा सह प्रयोज्यम्॥१३॥

अष्टकट्वरतैलमाह—

पलाभ्यां पिप्पलीमूलनागराष्टकट्वरः॥
तैलप्रस्थः समो दध्ना गृध्रस्यूरुग्रहापहः*402

सैन्धवाद्यं हितं ⁺तैल403ममृताद्यो हि गुग्गुलुः॥१४॥

** पलाभ्यां पिप्पलीमूलनागरा**दिति।पिप्पलीमूलनागरयोः प्रत्येकं पलम्। अष्टकट्वर इति। अष्टगुणं कट्वरं कट्वरं सस्नेहतक्रम्।अष्टकवरतैलम्।सैन्धवाद्यं तैलं वातव्याध्युक्तम्। अमृताख्यो गुग्गुलुः पुनर्नवागुग्गुलुश्च।चक्रेणाप्युक्तम्—सैन्धवाद्यं हितं तैलं वर्षाभ्वमृतगुग्गुलुरिति॥१४॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां चतुर्विंश
ऊरुस्तम्भाधिकारः समाप्तः॥२४॥
___________________

अथ पञ्चविंश आमवाताधिकारः।
_______________

ऊरुस्तम्भे सामस्य वायोः कीर्तनादतोऽनन्तरमामवात उच्यते—

लङ्घनं स्वेदनं तिक्तं दीपनानि कटूनि च॥
विरेचनं स्नेहपानं वस्तयश्चाऽऽममारुते*404॥१॥

लङ्घनविधिरामपाचनार्थं स्नेहपानमुल्बणवाते बस्तयः शोधनाः॥१॥

शठी शुण्ठ्यभया चोग्रा देवाह्वाऽतिविषाऽमृता॥
कषायमामवातस्य पाचनं रूक्षभोजनम्॥२॥

सुगमम्॥२॥

शठीविश्वौषधीकल्कं वर्षाभूक्वाथसंयुतम्॥
सप्तरात्रं पिबेज्जन्तुरामवातविपाचने॥३॥405

405शमूलामृतैरण्डरास्नानागरदारुभिः॥
क्वाथो रुबूकतैलेन सामं हन्त्यनिलं गुरुम्॥४॥

रुबूकतैलेनेति। शोधनार्थमेरण्डतैलस्य सार्धकर्षः समधिको वा प्रक्षेपः। शमनार्थं पुनः षडष्टौ माषकाः। रास्त्नादशमूलम्॥३॥४॥

दशमूलीकषायेण पिबेद्वेनागराम्भसा॥
कुक्षिबस्तिकटीशूले तैलमेरण्डसम्भवम्॥५॥

सुगमम्॥५॥

रास्नादिपञ्चकमाह—

रास्नांगृडूचीमैरण्डं देवदारु महौषधम्॥
पिबेत्सर्वाङ्गगे वाते सामे संध्यस्थिमज्जगे॥६॥

**पिबेदिति।**क्वाथरूपतया। अत्रापि विरेककरणेच्छायामेरण्डतैलं प्रक्षिपन्ति। रास्नादिपञ्चकम्॥६॥

रास्नादिसप्तकमाह—

रास्नामृतारग्वधदेवदारुत्रिकण्टकैरण्डपुनर्नवानाम्॥
क्वाथं पिबेन्नागरचूर्णमिश्रं जङ्घोरुजानुत्रिकपृष्ठशूली॥७॥406

रास्नासप्तकेऽपि केचिदेरण्डतैलं प्रक्षेपं वदन्ति।रास्नादिसप्तकम्॥७॥

शुण्ठीगोक्षुरकक्वाथःप्रातः प्रातर्निषेवितः॥
सामे वाते कटीशूले पाचनो रुग्विनाशनः॥

यवक्षारसमायुक्तो मूत्रकृच्छ्रविनाशनः॥८॥

**शूण्डीगोक्षुरकक्वाथ इति।**प्रचाराच्छुण्ठीभागमेकं गोक्षुरकभागत्रयं गृहीत्वा कर्षस्यार्धपलस्य क्वाथः। विरेचनार्थं पुनर्यवक्षारप्रक्षेपेणाप्ययं पेयः॥८॥

महौषधगुडूच्योस्तु क्वाथंपिप्पलिसंयुतम्॥
पिबेदामे सरुक्शोफे कटीशूले विशेषतः॥९॥

आमवाते कणायुक्तं दशमूलीजलं पिबेत्॥
खादेद्वाऽ407प्यभयाविश्वं गुडूचीं नागरेण वा॥१०॥

सुगमम्॥९॥१०॥

एरण्डतैलयुक्तां हरीतकीं भक्षयेन्नरो विधिवत्॥
आमानिलार्तियुक्तो गृध्रसिद्ध्यर्दितो नित्यम्॥११॥

कर्षं नागरचूर्णस्य काञ्जिकेन पिबेत्सदा॥
आमवातप्रशमनं कफवातहरं परम्॥१२॥

शुण्ठीचूर्णलवणयुक्तस्य काञ्जिकस्य भक्तेन सहोपयोगः प्रचरति॥११॥१२॥

पञ्चकोलकचूर्णं च पिबेदुष्णेन वारिणा॥
मन्दाग्निशूलगुल्मामकफारोचकनाशनम्॥१३॥

अमृतानागरगोक्षुरुमुण्डितिकावरुणकैः कृतं चूर्णम्॥
मस्त्वारनालपीतमामानिलनाशनं ख्यातम्॥१४॥

सुगमम्॥१३॥१४॥

वैश्वानरचूर्णमाह—408

मणि409मन्थस्य भागौद्वौ यवान्यास्तद्वदेव च॥
भागास्त्रयोऽजमोदाया नागराद्भागपञ्चकम्॥१५॥

दश द्वौ च हरीतक्याःश्लक्ष्णचूर्णीकृताः शुभाः॥
मस्त्वारनालतक्रेण सर्पिषोष्णोदकेन वा॥१६॥

पीतं जयत्यामवातं गुल्महृद्बस्तिजान्गदान्॥
प्लीहानं ग्रन्थिशूलादीनर्शांस्थानाहमेव च॥१७॥410

वि410बन्धं जाठरान्रोगांस्तथा वै हस्तपादजान्॥
वातानुलोमनमिदं चूर्णं वैश्वानरं स्मृतम्॥१८॥

**मणिमन्थस्येति।**सैन्धवस्य।**यवान्यास्तद्वदेवेति।**भागद्वयम्।**दश द्वाविति।**द्वादश।मस्त्वारनालादिभिर्दोषसात्म्यापेक्षया पानम्। एवमन्यत्रापि। वैश्वानरं चूर्णम्॥१५॥१६॥१७॥१८॥

अलम्बुषां गोक्षुरकं गुडूचींवूद्धदारक411म्॥१९॥
पिप्पलीं त्रिवृतां मुस्तं वरुणं सपुनर्नवम्॥

त्रिफलां नागरं चैव सूक्ष्मचू412र्णानि कारयेत्॥२०॥
मस्त्वारनालतक्रेण पयोमांसरसेन वा॥

आमवातं निहन्त्याशु श्वयथुं संधिसंस्थितम्॥२१॥

** अलम्बुषां गोक्षुरकमि**ति।अलम्बुषामुण्डितिका।अलम्बुषाद्यं चूर्णम्॥१९॥॥२०॥२१॥

शतपुष्पा विडङ्गानि सैन्धवं मरिचं समम्॥
चूर्णमुष्णाम्बुनापीतमग्निसंदीपनं परम्॥२२॥

सुगमम्॥२२॥

हिङ्गु चव्यं विडं शुण्ठी कृष्णाजाजी सपौष्करम्॥
भागोत्तरमिदं चूर्णंपीतं वातामजिद्भवेत्॥२३॥

कृष्णाजाजी कृष्णजीरकम्। भागोत्तरमिति। यथोत्तरमेकभागापेक्षया परिवृद्धम्। **चूर्णं पीतमिति।**उष्णाम्बुना॥२३॥

योगराजमाह—

चित्रकं पिप्पलीमूलं यवानीं कारवीं तथा॥
विडङ्गान्यजमोदां च जीरकं सुरदारु च॥२४॥

चव्यैलासैन्धवं कुष्ठं रास्नागोक्षुरधान्यकम्॥
त्रिफलामुस्तकं व्योषं त्वगुशीरं यवाग्रजम्॥२५॥

तालीसपत्रं पत्रं च सुक्ष्मचू413र्णानि कारयेत्॥
यावन्त्येतानि द्रव्याणि414 तावन्मात्रं तु गुग्गुलुम्॥२६॥

संमर्द्यसर्पिषा गाढंस्निग्धभाण्डे निधापयेत्॥
अतो मात्रां प्रयुञ्जीत यथेच्छाहा415रवानपि॥२७॥

योगराज इति ख्यातो योगोऽयममृतोपमः॥
आमवाताढ्यवातादीन्कृमिदुष्टव्रणानपि॥२८॥

प्लीहगुल्मोदरानाहदुर्नामानि विनाशयेत्॥
अग्निंच कुरुते दीप्तं तेजोवृद्धिबलं तथा॥
वातरोगाञ्जयत्येष संधिमज्जागतानपि॥२९॥

कारवी कृष्णजीरकम्।त्वग्गुडत्वक्।यवाग्रजं यवक्षारः। **संमर्द्यसर्पिषा गाढमिति।**प्रथमं तावद्द्घृतं दत्त्वा केवलो गुग्गुलुः पिट्टनीयः पश्चात्पुनरल्पमल्पं दत्त्वा चूर्णं पिट्टितव्यं सम्यक्सर्वचूर्णान(नां) मी(मे)लने तु स्निग्धे भाण्डे निधेयः। अतो मात्रां प्रयुञ्जीतेति। षडष्टकमाषकरूपाम्।अत्रोष्णाम्बुना काञ्जिकेन वाऽनुपानम्।योगराजः॥२४॥२५॥२६॥२७॥२८॥२९॥

अलम्बुषाद्यंचूर्णमाह—

अलम्बुषागोक्षुरकत्रिफलानागरामृताः॥
यथोत्तरं भागवृद्ध्या श्यामाचूर्णं तु तत्समम्॥३०॥

पिबेन्मस्तुसुरातक्रकाञ्जिकोष्णोदकेन वा॥
पीतं जयत्यामवातं संशोफं वातशोणितम्॥३१॥

त्रिकजानूरुसंधिस्थं416ज्वरारोचकनाशनम्॥
अलम्बुषाद्यमिदं चूर्णंरोगानीकविनाशनम्॥३२॥

हरीतक्यक्षधात्रीभिः प्रसिद्धा त्रिफला क्रमात्॥
प्रत्येकं तेन चामुष्मायागवृद्धियोत्तरम्॥३३॥

यथोत्तरं भागवृद्ध्येति। यद्यत्परं तत्तदेकभागवृद्धमित्यर्थः। श्यामा वृद्धदारकम्। तत्सममिति। मिलितचूर्णसमम्।हरीतक्यक्षघात्रीभिः प्रसिद्धा त्रिफलेति। वृद्धवैद्यव्यवहारोऽयं वृन्देन लिखितः। हरीतक्यामलकबिभीतकानीति त्रिफलेति सुश्रुतः। प्रत्येकं तेन चामुष्मादिति। अमुष्मात्क्रमात्त्रिफलायाः प्रत्येकं भागवृद्धिरित्यर्थः। अलम्बुषाद्यं चूर्णम्॥३०॥३१॥३२॥३३॥

पथ्याविश्वयवानीभिस्तुल्याभिश्चूर्णितं पिबेत्॥३४॥

तक्रेणोष्णोदकेनापि अथवा काञ्जिकेन तु॥
आमवातं निहन्त्याशु शोथं मन्दाग्नितामपि॥३५॥

पथ्यादिभिः कृतं चूर्णं पिबेत्। चूर्णितमिति भावेक्तः॥३४॥३६॥

अजमोदादिवटकमाह—

अजमोदमरिचपिप्पलिविडङ्गसुरदारूचित्रकशताह्वाः॥
सैन्धवपिप्पलिमूलं भागा नवकस्य पलिकाः स्युः॥३६॥

शुण्ठी दशपलिका स्यात्पलानि तावन्ति वृद्धदारस्य॥
पथ्यापलानि पञ्च च सर्वं चैकत्र कारयेचूर्णम्॥३७॥

समगुडवटकान्कृत्वा चूर्णं417 वाप्युष्ण418वारिणा पिबतः॥
नश्यन्त्यामानिलजाः सर्वे रोगास्तु कोष्ठगताः॥३८॥419

वि419श्वाचीप्रतितूनीतूनीरोगाश्च गृध्रसी चोग्रा॥
कटिबस्तिजानुगुद420जं स्फुटनं चै421वास्थिजङ्ङ्घयोस्तीव्रम्॥३९॥

श्वयथुःसर्वाङ्ग422संधिषु ये चान्ये चाऽऽमवातसंभूताः॥
सर्वे प्रयान्ति नाशं तम इव सूर्यंशुविध्वस्तम्॥४०॥

अजमोदा यवानी।नवकस्येति। उक्ताजमोदादिनवकस्य।पलिका भागाःप्रत्येकम्।पलानि तावन्तीति। दश पलानि। समगुडवटकानिति। समेनैव गुडेन किंचिज्जलं दत्त्वा वह्निबन्धाद्द्रवीकृतेन वटकाः कार्याः। अन्यथा वटकभावोऽस्य दुष्करः।चूर्णं वेति। गुडं विहाय।अजमोदाद्यो वटकः॥३६॥३७॥३८॥॥३९॥४०॥

शुण्ठीघृतमाह—

नागरक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत्॥
चतुर्गुणेन तेनाथ केवलेनोदकेन वा॥४१॥

वातश्लेष्मप्रशमनमग्निसंदीपनं परम्॥
नागरं घृतमित्युक्तं कट्यामशूलनाशनम्॥४२॥

चतुर्गुणेन तेनेति। नागरक्वाथेनेति नागरकल्कं विनोदकेन चेति। शुण्ठीकल्कं दत्त्वा प्रचरत्येतत्। शुण्ठीघृतम्॥४१॥४२॥

अमृतायाः कषायेण कल्केन च महौषधात्॥
मृद्वग्निना घृतं सिद्धं वातरक्तहरं परम्॥४३॥

आमवाताढ्यवातादीन्कृमिकुष्ठव्र423णानि च॥
अर्शांसि गुल्मरोगांश्च नाशयेदाशु योजितम्॥४४॥

सुगमम्। गुडूचीघृतम्॥४३॥४४॥

काञ्जिकषट्पलमाह—

हिङ्गु त्रिकटुकं चव्यं मणिमन्थं तथैव च॥
कल्कान्कृत्वा तु पलिकान्घृतप्रस्थं विपाचयेत्॥४५॥

आरनालाढकं दत्त्वा तत्सर्पिर्जठरापहम्॥

शूलं विबन्धमानाहमामवातं कटीग्रहम्॥
नाशयेद्ग्रहणीदोषं मन्दाग्नेर्दीपनं परम्॥४६॥

त्रिकटु प्रत्येकं पलिकम्।मणिमन्थं सैन्धवम्॥४५॥४६॥

पुष्ट्यर्थं424पयसा साध्यं दघ्ना विण्मूत्रसंग्रहे॥425
दीमनार्थं मतिमता मस्तुना च प्रकीर्तितम्॥४७॥

अयं ग्रन्थो गतषट्पलकेन संबध्यते। वियूत्रसंग्रह इति। विष्मूत्रसंग्रहे कर्तव्यम्। काञ्जिकषट्पलं घृतम्॥४७॥

सपिर्नागरकल्केन सौवीरकचतुर्गुणम्॥
सिद्धमग्निकरं श्रेष्ठमावातहरं परम्॥४८॥

सुगमम्।शुण्ठीघृतम्॥४८॥

सिद्धार्थकखलिप्रस्थं सुधौतं निस्तुषं जले॥४९॥

मण्डप्रस्थं विनिक्षिप्य स्थापयेद्दिवसत्रयम्॥
धान्यराशौ ततो दद्यात्संचूर्ण्य पलिकानि तु॥५०॥

अलम्बुषा गोक्षुरकं शतपुष्पा पुनर्नवा॥
प्रसारणी वरुणत्वक्शुण्ठी मदनमेव च॥५१॥

सम्यक्पाकं च विज्ञाय सिद्धा तण्डुलमिश्रिता॥
भृष्टा सर्षपतैलेन हिङ्गुसैन्धवसंयुता॥५२॥

भक्षिता लवणोपेता जयेदामं महारुजम्॥
एकजं द्वंद्वजं साध्यं सांनिपातिकमेव च॥५३॥

कट्यूरुवातमानाहं जानुगं त्रिक426मारुतम्॥
उदावर्तहरा पेया बलवर्णाग्निकारिणी॥५४॥

सर्षपपिण्याकं चूर्णयित्वा तोयेनाऽऽलोड्य च्छाणयित्वा निस्तुषीकृत्य संशोष्याऽऽतपे प्रस्थो ग्राह्यः। तत इति। धान्यराशावाकृष्य।अलम्बुषा मुण्डितिका।वरुणस्य त्वक्। सम्यक्पाकमिति। अम्लत्वम् । सिद्धात427ण्डुलमिश्रितेति। एषा शण्डाकी पलादिमात्रया गृहीता तण्डुलमिश्रिता सती सिद्धा कार्या पेया साध्येत्यर्थः। तथा च क्वचित्पाठः पेया तण्डुलमिश्रितेति। तण्डुलपिष्टकमिश्रणेन वटकः कार्य इत्यन्ये। सिद्धा च सहिङ्गुसैन्धवसंयुता सर्षपतैलेन परिभृष्टा लवणोपेता भक्षितेति योजना। शण्डाकी॥४९॥५०॥५१॥५२॥५३॥५४॥

रसोनपिण्डमाह—

पलशतं रसोनस्य तिलस्य कुडवं तथा॥
हिङ्गुत्रिकटुकं क्षारौ द्वौ पञ्च लवणानि च॥५५॥

शतपुष्पा तथा कुष्ठंपिप्पली मूत्रचित्रकौ॥
अजमोदा यवानी च धान्यकं चापि बुद्धिमान्॥५६॥

प्रत्येकं च पलं चैषां श्लक्ष्णचू428र्णानि कारयेत्॥
घृतभाण्डे दृढे चैव स्थापयेद्दिनषोडश॥५७॥

प्रक्षिप्य तैलमानीं च प्रस्थार्धंकाञ्जिकस्य च॥
खादेत्कर्षप्रमाणं तु तोयं मद्यं पिबेदनु॥५८॥

आमवाते तथा वा429ते सर्वाङ्गैकाङ्गसंस्थिते॥
अपस्मारेऽनले मन्दे कासे श्वासे गरेषु च॥

सोन्मादे वातभग्ने च शूले जन्तुषु शस्यते॥५९॥

रसोनस्येति। निस्त्वचः पिष्टस्य।तिलस्यापि सुपिष्टस्य कुडवः। तैलमानीं तैलाष्टपलानि।जन्तुष्विति। कृमिषु। रसोनपिण्डः॥५५॥५६॥५७॥५८॥॥५९॥

रसोनस्य शतं क्षुण्णं तदर्धंनिस्तुषात्तिलात्॥
पात्रे गव्यस्य तक्रस्य पिष्टैर्द्रव्यैः समं क्षिपेत्॥६०॥

धान्यं त्रिकटुकं चव्यं चित्रकं गजपिप्पली॥
अजमोदा त्वगेले च ग्रन्थिकं च पलांशकम्॥६१॥

शर्करायाः पलान्यष्टौपलार्धं मरिचस्य च॥
कुष्ठाजाज्योश्च चत्वारि मधुनः कुडवं तथा॥६२॥

आर्द्रकस्य च चत्वारि सर्पिषोऽष्टौ पलानि च॥
तिलतैलस्य तावन्ति शुक्लस्यापि च विंशतिम्॥६३॥

सिद्धार्थकस्य चत्वारि राजिकायास्तथैव च॥
कर्षप्रमाणं दातव्यं हिङ्गु लवणपञ्चकम्॥६४॥

एकीकृत्य दृढे कुम्भे धान्यमध्ये निधापयेत्॥
द्वादशाहात्समुद्धृत्य प्रातः खाद्यथावलम्॥६५॥

सुरा सौवीरकं सीधुं मद्यं चानु पिबेन्नरः॥
जीर्णे यथेप्सितं भोज्यं दधिषिष्टकवर्जितम्॥६६॥

एष मासोपयोगेन सर्वान्व्याधीन्नियच्छति॥
अशीतिं वातजान्रोगांश्चत्वारिंशच्च पैत्तिकान्॥६७॥

विंशतिं श्लैष्मिकांश्चैव प्रमेहांश्चैव विंशतिम्॥
उदराष्टकमशसि गुल्मं पञ्चविधं तथा॥६८॥

अष्टादशविधं कुष्ठं क्षयरोगहरं परम्॥
वेपथुं गुल्मशूलं च स्तम्भं चाऽऽशु व्यपोहति॥६९॥

च्युतसंध्यस्थिभग्नानां संधानकरणं भवेत्॥
दृष्टिवर्णकरं वृष्यमायुष्यं बलवर्धनम्॥७०॥

पात्र इति। आढके।मधुनश्च गुडस्येति पाठो बहुपुस्तके दृश्यते व्यवहारश्चानेनैव। बृहद्रसोनपिण्डः॥६०॥६१॥६२॥६३॥६४॥६५॥६६॥६७॥॥६८॥६९॥७०॥

*“क्षुष्णं430 रसोनपलशतमसिततिलानां पलानि पञ्चाशत्॥
घृतलिप्तभाजनस्थे तक्रेण समेन तत्कुर्यात्॥१॥

विंशतिपलानि चुक्रात्सगुडार्द्रकमातुलुङ्गमेतावत्॥
तिलतैलानि च तावत्तावन्त्येवात्र सर्पिषो दद्यात्॥२॥

शतपुष्पागजपिप्पलिदाडिमवृक्षाम्लधातकीमुस्तम्॥
त्र्यूषणकुष्ठजयानि द्राक्षा सैला सजीरकद्वितया॥३॥

सुरदारु सिन्धु सबिडं सौवर्चलरोमकं च सामुद्रम्॥
पलसंमितानि कृत्वा श्लक्ष्णचूर्णवद्दापयेन्मतिमान्॥४॥

आलोड्य धान्यराशौ सप्ताहांस्त्रीन्न्यसेच्चकृतरक्षः॥
उद्धृत्य तदनु सिद्धं सुतिथिमुहूर्ते तथा सुनक्षत्रे॥५॥

त्वक्पत्रैलाकेसरकर्पूरलवङ्गजातिचूर्णेन॥
सुरभीकृतं च नरः खादेद्द्विपलोन्मितं पिण्डम्॥६॥

अत्यर्थोष्णविवर्जी तृपितश्च पिबेत्सुरां यथेष्टम्॥
अमृतादमृताख्योऽयं रसोनपिण्डःपराशरेणोक्तः॥७॥

हतपतितच्युतभग्नसंधिविमुक्तास्थिभग्नदेहानाम्॥
अस्मात्परं नराणां न ह्यस्ति भेषजं वाऽन्यत्॥८॥

बलवर्णबह्निजननं स्मृतिमेधाबुद्धिवर्धनं धन्यम्॥
शमयति सर्वविकाराञ्शतशोऽन्यैर्भेषजैरजितान्॥९॥”

(क्षेपकोऽमृतरसोनपिण्डः।)

दधिमत्स्यगुडक्षीरपोतकीमापपिष्टकम्॥
वर्जयेदापत्रातार्तोमांसमानृपजं च यत्॥७१॥

अभिष्यन्दकरा ये च ये चान्ये गुरुपिच्छिलाः॥
वर्जनीयाः प्रयत्नेन आमवातार्दितैर्नरैः॥७२॥

** माषपिष्टकमिति।** मापकृतपिष्टकम्॥७१॥७२॥

इति श्रीवृन्दमणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां पञ्चविंश आमबाताधिकारः समाप्तः॥२५॥
_________________

अथ षड्विंशः शूलाधिकारः।
______________

आमवातेन शूलस्य संभवादय शूलम्।

वमनं लङ्घनं स्वेदः पाचनं फलवर्तयः॥
क्षारश्चूर्णानि गुटिकाःशस्यन्ते शुलशान्तये॥१॥

वमनमुलिल्लिष्टेकफे। लङ्घचनमामपाचनार्थम्। स्वेदः पित्तनं विहाय। क्षारःपरिणामले वक्ष्यमाणः।चूर्णमिवाधिकारे वक्तव्यम्॥१॥

आशुकारी हि पवनस्तस्मात्तं त्वरया जयेत्431

आशुकारी शीघ्रमत्ययकारित्वात्। हि यस्मात्। तं वातम्॥

तस्य शूलाभिपन्नस्य स्वेद एव सुखावहः॥२॥

तस्य पुरुषस्य वातिकशूलाकान्तस्य। अन्ये तु तस्य वातस्य यच्छूलं तेनाऽऽक्रान्तस्येत्याहुः॥२॥

वातात्मकं हन्त्यचिरेण शूलं स्नेहेन युक्तस्तु कुलत्थयूषः॥
ससैन्धवव्योषयुतः सलाबः432 सहिङ्गुसौवर्चलदाडिमाढ्यः॥३॥

कुलत्थं लावमांसं च मिलितं यथोचितं वारिणा निष्काथ्य विमृद्य च्छाणयित्वा यूषः कार्यः। स्नेहः परिभर्जनार्थम्। सैन्धवव्योषादिभिश्च यथायोगं संस्कारः॥३॥

शूले निरन्नकोष्ठेऽद्भिरुष्णाभिश्चूर्णिताः पिबेत्॥
हिङ्गुप्रतिविषाव्योषवचासौवर्चलाभयाः॥४॥

** निरन्नकोष्ठ इति।** अजीर्णकोष्ठशून्थः। हिङ्गुप्रतिविषेति। प्रत्निविषाऽतिविषा। अस्य योगस्य परिणामे नोपयोगः॥४॥

बलापुनर्नवैरण्डबृहतीद्वयगोक्षुरैः॥
सहिङ्गुलवणं पीतं सद्यो वातरुजं जयेत्॥५॥

अयं योगः क्वाथः। हिङ्गुलवणे प्रक्षिप्य पेयः॥५॥

तुम्बुरूण्यभयाहिङ्गुपौष्करं लवणत्रयम्॥
पिबेद्यवाम्बु433ना वालशुलगुल्मापतन्त्रकी434॥६॥

यवाम्बुनेति। यवक्वाथेन। स च क्वाथविधिना कार्यः।तुम्बुरुप्रभृति प्रक्षेपः। तुम्बुरु स्वनामप्रसिद्धम्॥६॥

विश्वमेरण्डजं मूलं क्वाथयित्वा जलं पिबेत्॥
हिङ्गुसौवर्चलोपेतं सद्यः शूलनिवारणम्॥७॥

हिङ्गुपुष्करमूलाभ्यां हिङ्गुसौवर्चलेन वा॥
विश्वैरण्डयवक्वाथः पीतः शूलनिवारणः॥८॥

** हिङ्गुपुष्करमूलाभ्यां हिड्गुसौवर्चलेन वेति।** सहयोगे तृतीया॥७॥८॥

तद्वद्रुबुयवक्वाथो हिङ्गुसौवर्चलान्वितः॥

यवानीहिङ्गुसिन्धूत्थक्षारसौवर्चलाभयाः॥
सुरामण्डेन पातव्या वातशूलनिवारणः435॥९॥

क्षारो यवक्षारः।सुरामण्डेनेति। सुराया उपरितनस्वच्छद्रवेण।एवमन्यत्रापि॥९॥

सौवर्चिकाम्लि436काजाजीमरिचैर्द्विगुणोत्तरैः॥
मातुलुङ्गरसैःपिष्टा गुटिकाऽनिलशूलनुत्॥१०॥

गुटिकोष्णोदकानुपाना भक्षणीया। अत्राम्लिका तेत्तलिः॥१०॥

हिङ्ग्वम्लकृष्णामलकं यवानी-
क्षाराभयासैन्धवतुल्यभागम्॥
चूर्णं पिबेद्वारुणिमण्डमिश्रं
शूले प्रवृद्धेऽनिलजे शिवाय437॥११॥

अम्लोऽम्लवेतसः॥११॥

तिलैश्च गुटिकां कृत्वा भ्रामयेज्जठरोपरि॥
गुटिका शमयत्याशु शूलं चैवातिदुःसहम्॥१२॥

तिलैरिति। पिष्ठैः।गुटिकेयं कोष्णाभ्रामयितव्या॥१२॥

नाभिलेपाज्जयेच्छूलं मदनः काञ्जिकान्वितः॥
जीवन्तीमूलकल्को वा सतैलःपार्श्वशूलहा॥१३॥

जीवन्तीमूलकल्कः पेयः॥१३॥

संप्रति पित्तजशूलचिकित्सामाह—

गुडःशालिर्यवाः क्षीरं सर्पिष्पानं विरेचनम्॥
जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम्॥१४॥

गुडःपुराणो ज्ञेयः॥१४॥

पैत्ते438 तु296 गुले वमनं पयोम्बुरसैस्तथेक्षोः सपटोलनिम्बैः॥१५॥

** पैत्ते तु शूले वमनमिति।**पित्तजे वमनमामाशयस्थितपित्तहरणार्थम्। **सपटोलनिस्वैरिति।**पटोलनिम्बकल्कयुतैः। मदनफल्योगमप्यत्रेच्छन्तिः॥१५॥

शीतावगाहाःसुखिनः439 प्रवाता440 भाण्डानि कांस्यानि जलप्लुतानि॥
अन्यानि शस्तानि च शीतलानि सचन्दनाश्चन्द्रक441राः सुशीताः॥१६॥

सुगमम्442॥१६॥

कांस्यराजतताम्राणि भाजनानि च सर्वतः॥
परिपूर्णानि तोयस्य शूलस्योपरि निक्षिपेत्॥१७॥

परिपूर्णानि तोयस्येति। पूरणगुणेत्यादिज्ञापकात्षष्ठी। तोयं शीतं ज्ञेयम्॥१७॥

विरेचनं पित्तहरं च शस्तं रसाश्चशस्ताः शशलावकानाम्॥
संतर्पणं लाजमधूपपन्नं यो443गाःसुशीता मधुसंप्रयुक्ताः॥१८॥

विरेचनं पित्तहरमिति। पित्तहरमधुरगणोपहितम्।संतर्पणं लाजमधूपपन्नं लाजसक्तुमधुभ्यां निर्मितं तर्पणम्॥१८॥

छर्द्यांज्वरे444 पित्तभवे च शूले घोरेऽपि दाहे तृषितेऽति445मात्रम्॥
यवस्यपेयां म446धुना विमिश्रां447 पिबेत्सुशीतां म448नुजः सुखार्थी॥१९॥

यवस्य पेयामिति। यवयवागूम्॥१९॥

धात्र्या रसं विदार्या वा त्रायन्तीगोस्तनाम्बुना॥
पि449बेत्सशर्करं मद्यं450पित्तशूलनिषूदनम्॥२०॥

योगत्रयमिदम्॥२०॥

शतावरीरसं क्षौद्रयुक्तं प्रातः पिबेन्नरः॥
दाहशूलोपशान्त्यर्थं सर्वपित्तामयापहम्॥२१॥

सुगमम्॥२१॥

शतावरीसयष्ट्याह्ववाट्यालकुशगोक्षुरैः॥
शृतशीतं पिबेत्तोयं सगुडक्षौद्रशर्करम्॥

पित्तासृग्दाहशूलघ्नं सद्योदाहज्वरापहम्॥२२॥

शृतशीतमिति। शृतमेव व्यजनादिना शीतम्॥२२॥

त्रिफलानिम्बयष्ट्याह्वकटुकारग्वधैः शृतम्॥
पाययेन्मधुसंमिश्रं दाहशूलोपशान्तये॥२३॥

बृहत्यौ451 गोक्षुरैरण्डकुशकाशेक्षुवालिकाः॥
पीताः पित्तभवं शूलं सद्यो हन्युः सुदारुणम्॥२४॥

योगः क्वाथः। इक्षुवालिका खरजडिका(?)॥२३॥२४॥

प्रलिह्यात्पित्तशूलघ्नं धात्रीचूर्णं समाक्षिकम्॥२५॥

सुगमम्॥२५॥

अथ कफजे चिकित्सितमाह—

श्लेष्मात्मके लङ्घनच्छर्दना452नि शिरोविरेकं मधुसीधुपानम्॥
मधूनि गोधूमयवानरिष्टान्सेवेत रूक्षान्कटुकांश्च सर्वान्॥२६॥

मधुसीधुपानमिति। मधुसीधू मद्यविशेषौ। अरिष्टान्संधानविशेषान्॥२६॥

लवणत्रयसंयुक्तं पञ्चकोलं सरामठम्॥
सुखोष्णेनाम्बुना पातुं कफशूलेप्रदापयेत्॥२७॥

** लवणत्रयसंयुक्तमिति।**लवणत्रयं सौवर्चलसैन्धवबिडानि लवणगणे प्रथमं पठितानि।लवणत्रयादिना चूर्णं कार्यम्॥२७॥

बिल्वमूलमथैरण्डं चित्रकं विश्वभेषजम्॥
हिङ्गुसैन्धवसंयुक्तं सद्यः शूलहरं परम्॥२८॥

बिल्वमूलादिविश्वभेषजान्तं क्वाथः। हिङ्गुसैन्धवे प्रक्षेपः॥२८॥

मातुलुङ्गरसो वाऽपि शिग्रुक्वाथस्ततः परः॥
सक्षारो मधुना पीतः पार्श्वहृद्बस्तिशूलनुत्*453॥२९॥

मातुलुङ्गरसो वेति। मातुलुङ्गमूलक्वाथः। सौभाञ्जनमूलक्वाथः। श्लेष्मशूलहरा पेया पञ्चकोलेन साधिता(?)॥२९॥

त्रिदोषजचिकित्सामाह—

विदारीदाडिमरसः सव्योषलवणान्वितः॥
क्षौद्रयुक्तो जयत्याशु454 शूलं दोषत्रयोद्भवम्॥३०॥

विदारीदाडिमरस इति। विदारीकन्ददाडिमफलयोः क्वाथः स्वरसो वा॥४०॥

एरण्डद्वादशकमाह—

एरण्डफलमूलानि बृहतीद्वयगोक्षुरम्॥
पर्णिन्यः सहदेवा च सिंहपुच्छीक्षुवालिका॥३१॥

तुल्यैरेतैः शृतं तोयं यवक्षारयुतं पिबेत्॥
पृथग्दोषभवं शूलं हन्यात्सर्वभवं तथा॥३२॥

एरण्डस्य फलं मूलं च। बृहतीद्वयं कण्टकारी बृहती च। पर्णिन्यश्चतस्त्र एव। कपिञ्जलाधिकरणन्यायात्पुनः पर्णिनीत्रयग्रहणं नाऽऽद्रियते। स455हदेवा दण्डोत्पलभेदः। सिंहपुच्छी कट्टराशिहुच्छकम्। अथवा सिंहपुच्छी शृगालविन्ना पृश्निपर्णीभेदः। इक्षुवालिका षड्गली। सुश्रुत इक्षुवालिकास्थान इक्षुरकपाठस्तत्र कोकिलाक्षकः।**यवक्षारयुतमिति।**यवक्षारस्तस्य हि सप्तमाषकमानः प्रक्षेपः। एरण्डद्वादशकः॥३१॥३२॥

गोमूत्रशुद्धं मण्डूरं त्रिफलाचूर्णसंयुतम्॥
विलिहन्मधुसर्पिर्भ्यां शूलं हन्ति त्रिदोषजम्॥३३॥

गोमूत्रशुद्धं गोमूत्रे सप्तधा निर्वापणेन शुद्धं मण्डूरं मिलितत्रिफलाचूर्णसमम्। तत्पञ्चमाषकमुषयोज्यम्॥३३॥

शङ्खचूर्णंसलवणं सहिङ्गु व्योषसंयुतम्॥
उष्णोदकेन तत्पीतं शू456लं हन्ति त्रिदोषजम्॥३४॥

शङ्खस्य मनाग्दग्धस्य चूर्णम्। अस्य माषकमेकं समधिकं वा लवणव्योषयोर्मिलित्वा माषकद्वयं हिङ्गुनो रक्तिकाद्वयमधिकं दत्त्वा पिबेत्॥३४॥

संप्रत्यामशूलचिकित्सितमाह—

आमशूले क्रिया कार्या कफशूलविनाशिनी॥
सेव्यमामहरं सर्वं यद्यदग्निविवर्धनम्॥३५॥

आमशूलहरमग्निवृद्धिकरं पञ्चकोलादि सेव्यम्॥३५॥

एरण्डसप्तकमाह—

एरण्डबिल्वबृहतीद्वयमातुलुङ्ग-
पाषाणभित्रिकटमूलकृतः कषायः॥
सक्षारहिङ्गलवणो रुबुतैलमिश्रः
श्रोण्यंसमेढ्रहृदयस्तनरुक्षु पेयः॥३६॥

पाषाणभेदवर्जमेरण्डादीनां सर्वेषां मूलम्। पाषाणभित्पाषाणभेदः स च स्वनामख्यातः। त्रिकटो गोक्षुरकः। लवणं सैन्धवं श्रेष्ठत्वात्। एवं सर्वत्र। अत्र क्षारादीनां प्रायः प्रक्षेपे मानप्रचारो यवक्षारचूर्णमाषाश्चत्वारो हिङ्गु रक्तिकात्रयं सैन्धवचूर्णं माषमेकमेरण्डतैलं माषाश्चत्वारः। एरण्डसप्तकः॥३६॥

सहिङ्गुतुम्बुरुव्योषयवानीचित्रकाभयाः॥
सक्षारलवणं चूर्णं पिबेत्प्रातः सुखाम्बुना॥३७॥

विण्मूत्रानिलशूलघ्नं पाचनं वह्निदीपनम्॥
चित्रकग्रन्थिकैरण्डशुण्ठीधान्यं जले श्रुतम्॥३८॥

शूलानाहविबन्धेषु सहिङ्गुविडसैन्धवम्॥
दीप्यकं सैन्धवं पथ्या नागरं च चतुःसमम्॥

चूर्णं शूलं जयत्याशुसन्नस्या457ग्नेश्च दीपनम्॥३९॥

**दीप्यकं सैन्धवमिति।**दीप्यकं यवानिका।वाग्भटे नागरस्थाने पिप्पली दृश्यते॥३७॥३८॥३९॥

समाक्षिकं बृहत्यादिं पिबेत्पित्तानिलात्मके॥

**समाक्षिकं बृहत्यादिमिति।**बृहत्यादिमिहैव पित्तशूले बृहत्यौ गोक्षुरैरण्डेत्यादिनोक्तं संनिपातज्वरोक्तं वा मधु प्रक्षिप्य तं पिबेत्॥

व्यामिश्रं वा विधिं कुर्याच्छूले मारुतपित्तजे॥४०॥

पटोलत्रिफलारिष्टक्वाथं मधुयुतं पिबेत्॥
पित्तश्लेष्मज्वरच्छर्दिर्दाहशूलोपशान्तये॥४१॥

अयं योगोऽम्लपित्ते प्रचरति॥४०॥४१॥

पित्तजे कफजे वाऽपि क्रिया या कथिता पृथक्॥
एकीकृत्य प्रयुञ्जीत तां शूले कफपित्तजे॥४२॥

वमनं रेचनं चैव वीक्ष्य दोषबलाबलम्॥
कर्तव्यं कफपित्तोक्तं यथायोग्यं भि458षग्जितम्॥४३॥

॥४२॥४३॥
रुचकादिचूर्णमाह—

चूर्णं समं रुचकहिङ्गमहौषधानां
शुण्ठ्यम्बुना कफसमीरणसंभवासु॥

हत्पार्श्वपृष्ठजठरार्तिविषूचिकासु
पेयं तथा यवरसेन तु विड्विबन्धे॥४४॥

क्वाथेन चूर्णपानं यत्तत्र क्वाथप्रधानता॥
प्रवर्तते न तेनात्र चूर्णापेक्षी चतुर्द्रवः॥४५॥

हिङ्गुनः स्वल्पमानोक्तेः समशब्दे सहार्थता॥४६॥

सममिति पदं सहार्थे तेन शुण्ठ्यम्बुना सह रुचकादिचूर्णं पेयमिति योजना कर्तव्या। समशब्दस्य सहार्थत्व उपपत्तिं वृन्द एव दर्शयति। रुचकं सौवर्चलम्। तीक्ष्णत्वेन शुण्ठ्याः कर्षार्धस्याल्पस्य वा क्वाथः। अत्र प्रक्षेपः सौवर्चलचूर्णं माषमेकम्। शुण्ठीचूर्णं माषद्वयम्। हिङ्गु रक्तिकात्रयम्। यवरसेन यवक्वाथेन। प्रवर्तते नतेनात्र चूर्णापेक्षी चतुर्द्रव इति। पातव्यश्च चतुर्द्रव इति परिभाषया चूर्णपानार्थयुक्तश्चतुर्गुणद्रवोऽत्र न प्रवर्तते तेन द्विपले क्वाथेचूर्णकर्ष इत्यर्थः। हिङ्गुनः स्वल्पमानोक्तेः समशब्दे सहार्थतेति। माषिकं हिङ्ग्वित्यादिना प्रक्षेपे हिङ्गुनो माषकमानत्वेन नियतत्वादिह रुचकादिसमत्वमसंगतमतः समशब्दः सहार्थे तेनेह स्वल्पं हिङ्गु देयमिति तात्पर्यार्थः। चक्रेणाप्युक्तम्—

“समं शुण्ठ्यम्बुनेत्येवं योजना क्रियते बुधैः।
तेनाल्पमानमेवेह हिङ्गु संपरिदीयते " इति॥

रुचकादिः॥४४॥४५॥४६॥

विश्वोरुबूकदशमूलयवाम्भसा च
दिक्षारहिङ्गुलवणत्रयपुष्कराणाम्॥
चूर्णंपिबेद्धृदयपार्श्वकटीग्रहाम-
पक्वाशयांसभृशरुम्ज्वरगुल्मशूली॥४७॥

अधमविधानपरिग्रहेण विश्वोरुचूकदशमूलानां मिलित्वा कर्षः। यवस्य च कर्षः। अनयोः क्वाथः। अत्र द्विक्षारादिचूर्णं पूर्ववदभ्युपगम्य प्रक्षेप्तव्यम्॥४७॥

हिङ्गु सौवर्चलं पथ्या बिडसैन्धवतुम्बुरु॥
पौष्करं च पिबेचूर्णं दशमूलयवाम्भसा॥४८॥

पार्श्वहृत्कटपृष्ठांले तन्द्रापतानके॥
शोथे श्लेष्मप्रसेके च गलरोगे च शस्यते॥४९॥

दशमूलयवाम्भसेति। दशमूलकषाययवकषाययोः क्वाथेन॥४८॥४९॥

रसोनं मद्यसंमिश्रं पिबेत्प्रातः प्रकाङ्क्षितः॥
वातश्लेष्मभवं शूलं निहन्तुं वाह्निदीपनम्॥५०॥

हिङ्ग त्रिकटुकं कुष्ठं यवक्षारं ससैन्धवम्॥
मातुलुङ्गरसोपेतं प्लीहशूलापहं रजः॥५१॥

तीक्ष्णायश्चूर्णसंयुक्तं त्रिफलाचूर्णमुत्तमम्॥
प्रयोज्यं मधुसर्पियि सर्वशूलनिवारणम्॥५२॥

तीक्ष्णायो लोहं तच्च मारितशोधितं ग्राह्यम्। त्रिफलाया एकभागसमं लोहचूर्णम्। एतच्चमिलित्वा माषद्वयमुपयोज्यम्। लोहपत्रिकया तु विधाने मिलित्वा द्विचतुर्माषोपयोगः। अयमेव योगो यष्टीमधुयोगाद्योगान्तरं प्राप्तोऽमृताख्यं भवति॥५०॥५१॥५२॥

मूत्रान्तःपाचितां शुष्कां लोहचूर्णसमन्विताम्॥
सगुडामभयामद्यात्सर्वशूलप्रशान्तये॥५३॥

**मूत्रान्तःपाचितामिति॥**गोमूत्रोत्स्विन्नां लोहचूर्णेन सहैव मूत्रे पाचितामित्येके। सगुडां समगुडाम्॥५३॥

वाते निरूहाः सविरेचनाश्च
क्षीरमयोगा मधुराश्च पित्ते॥
तिक्ताः कषायाः कटुकास्तथैव
वाम्यश्च झूले कफसंनिविष्टे॥५४॥

सुगमम्॥५४॥

दाधिकं घृतमाह—

नागरं पिप्पली बिल्वं कारवी459 चव्यचित्रकम्॥
हिङ्गुदाडिमवृक्षाम्लवचाक्षाराम्लवेतसम्॥५५॥

वर्षाभूःकृष्णलवणमजाजी बीजपूरकम्॥
दधि त्रिगुणितं सर्विस्तत्सिद्धं दाधिकं स्मृतम्॥५६॥

गुल्मार्शःप्लीहहृत्पार्श्वशूलयोनिरुजापहम्॥
दोषसंशमनं श्रेष्ठं दाधिकं परमं स्मृतम्॥५७॥

कृष्णलवणः सौवर्चलभेदस्तदभावे सौवर्चलमेव । उक्तं हि—

न काढलवणे गन्धः सौवर्चलगुणो हि स इति। बीजपूरकमिति। बीजपूरस्य मूलम्।दध्ना त्रिगुणेनैव पाकः। स्वरसक्षीरमङ्गल्यैरित्यादिपरिभाषां चतुर्गुणजलदानार्थमुक्तां नाऽऽद्रियन्ते। दाधिकं घृतम्॥५५॥५६॥५७॥

कम्बलावृतगात्रस्य प्राणायामं प्रकुर्वतः॥
कटुतैलाक्तसक्तूनां धूपः शूलापहः460 परः॥५८॥

प्राणायाममिति। उच्छ्वासधारणम्॥५८॥

वेदना च तृषा मूर्छा आनाहो गौरवारुची॥
कासःश्वासश्च हिक्का461च शूलस्योपद्रवाः स्मृताः॥५९॥

सुगमम्॥५९॥

व्यायाम मैथुनं मद्यं लवणं कटुकानि च॥
वेगरोधं शुचं क्रोधं वर्जयेच्छूलि वैदलम्462॥६०॥

शूलि वैदलमिति। शूलं जन्यत्वेनेहास्तीति शूलि। एतच्च वैदलविशेषणं किंवा छन्दोनुरोध्रस्वत्वं तेन शूली नर इत्यर्थः॥६०॥

इति श्रीवृन्दणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्री श्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां पड्विंशः शूलाधिकारः समाप्तः॥२६॥
<MISSING_FIG href="../../../books_images/U-IMG-1709122434241803-removebg-preview.png"/>

अथ सप्तविंशः परिणामशूलाधिकारः।

लङ्घनं वमनं शस्तं विरेकचानुवासनम्॥
निरूहो वाजिगन्धादिर्माधुतैलिकबस्तयः॥१॥

शूलप्रकारत्वात्परिणामलमुच्यते। एतच्च माधवकारेण रुग्विनिश्चये शूलाधिकार एवं दर्शितं वृन्देन तु चिकित्सितविधियोगात्पृथगधिकारेण लिखितम्। ऌङ्घनं वमनं चाऽऽमाशयस्थे दोषैः पच्यमानाशयस्थे विरेको निरूहश्च पक्वाशयस्थेऽनुवासनम्। वाजिगन्धादिनिरूहो माधुतैलिकबस्तिश्च परिमाणशूल चिकित्सैषा यस्य तन्त्रस्य तस्य ज्ञेयौ। परिणामशूलचिकित्सा हि चरकसुश्रुतयोर्नास्ति। तत्रान्तरापरिज्ञानात्तु तौ चरके सुश्रुते वाऽभिहितौ ग्राह्यौ॥१॥

विडङ्गतण्डुलव्योषत्रिवृद्दन्ति सचित्रकम्॥
सर्वाण्येतानि463 चाऽऽहृत्य सूक्ष्मचूर्णानि कारयेत्॥२॥

गुडेन मोदकान्कृत्वा464 भक्षयेत्प्रातरुत्थितः॥

उष्णोदकानुपानं च दद्यादग्निविवर्धनम्॥
जयेत्रिदोषजं शूलं परिणामसमुद्भवम्॥३॥

विडङ्गतण्डुलं विडङ्गस्य निस्तुषः सारभागः। गुडेन मोदकानिति। द्विगुणेन गुडेन॥२॥३॥

नागरतिलगुडकल्कं पयसा संसाध्य यः पुमानद्यात्॥
उग्रं परिणतिशूलं तस्यापैतीह सप्तरात्रेण॥४॥

नागरतिलगुडकल्कमिति। यवागूवद्वा क्षीरेण साधयित्वा भक्षयेत्॥४॥

एरण्डवह्निश465म्बूकवर्षाभूगोक्षुरं समम्॥
अन्तर्दग्ध्वा पिवेद द्भिरुष्णाभिः शूलशान्तये॥५॥

शम्बूकं निर्मासं शम्बूकम्। उष्णाम्बुना गालयित्वा घृताक्तमुखकुहरेण पेयम्। पूर्वो योगोऽयं च कफे॥५॥

शम्बूकर्ज भस्म पीतं जलेनोष्णेन तत्क्षणात्॥
पक्तिजं विनिहन्त्येतच्छ्रलं विष्णुरिवासुरान्॥६॥

शम्बूकं त्र्यूषणं चैव पञ्चैव लवणानि च॥
समांशां गुटिकां कृत्वा कलम्बकरसेन वा॥७॥

प्रातर्भोजनकाले वा भक्षयेत्तु यथाबलम्॥
शूलाद्विमुच्यते जन्तुः सहसा परिणामजात्॥८॥

कलम्बकरसेन वेत्ययं वाशब्दः पूर्वयोगापेक्षया संहितायाम्॥६॥७॥८॥

यः पिबति सप्तरात्रं सक्तूनेकान्कलाययूपेण॥
स जयति परिणामरुजं चिरजामपि किमुत नूतनजाम्॥९॥

सक्तूनेकान्कलाययूषेणेति। यवसक्तूनेकान्कलाययूषेण पिबेत्। कलायो वर्तुलः। एष विधिः पित्तश्लेष्मजे शूले युक्तः॥९॥

लोहचूर्ण वरायु466क्तं बिलीढंमधुसर्पिधा॥
पक्तिशूलं च शमयेत्तन्मलं वा प्रयोजितम्॥१०॥

लोहचूर्णस्यैको भागः। वरा त्रिफला तस्याः प्रत्येकं चूर्णसमभागत्वम्। तन्मलं चेति। लोहमलम् । एतदपि वरायुक्तं467 बोद्धव्यम्। लोहमलस्य तु मिलितत्रिफलातुल्यो भागः॥१०॥

कृष्णाभयालोहचूर्णं लिह्यात्समधुशर्करम्॥
परिणामभवं शूलं सग्रो हन्ति सुदारुणम्॥११॥

मधुशर्करेति स्थाने गुडदानाद्योगान्तरं भवति॥११॥

पथ्यालोहरजः शुण्ठीचूर्णं माक्षिकसर्पिणा॥
परिणामरुजं हन्ति वातपित्तकफात्मिकाम्॥१२॥

सुगमम्॥१२॥

सामुद्राद्यंचूर्णमाह—

सामुद्रं सैन्धवं क्षारो रुचकं रोमकं विडम्॥१३॥

दन्ती लोहरजःकिट्टंत्रिवृत्सूरणकं समम्॥
दधिगोमूत्रपयसा मन्दपावक्रपाचितम्॥१४॥

तद्यथाग्निवलं चूर्णंपिवेदुष्णेन वारिणा॥
जीर्णे जीर्णे च भुञ्जीत माषादिघृतभोजनम्468॥१५॥

नाभिशूलं हरेन्नूनं गु469ल्मप्लीहकृतं च यत्॥
विद्रव्यष्टीलिकं हन्ति कफवातोद्भवं तथा॥१६॥

शूलानामपि सर्वेपामौषधं नास्त्यतः परम्॥
परिणामसमुत्थस्य विशेषेणान्तकृन्मतम्॥१७॥

सामुद्रं कडकचं (मीठ) रुचकं सौवर्चलं रोमकं रुमानदीभवं लवणं तदभावे साम्भरौलवणम्। लोहरजःकिटं लोहकिद्दरजः।लक्षणव्यभिचारचिह्नान पूर्वनिपातः। अनेन प्रचारः। किंच लोहरजो लोहकिटं च दध्यादित्रयं मिलित्वा चतुर्गुणं चूर्णः भागसमं वा दत्त्वा मन्दाग्निना पक्तव्यमाचूर्णभावात्। एतच्च चूर्णं वातकशूले भद्रम्। केचिदन्तर्धूममस्य पावकमाहुः। दध्यादिना च चतुर्गुणेन पाकः प्रचरति।सामुद्राद्यं चूर्णम्॥१३॥१४॥१५॥१६॥१७॥

पिप्पलीकृतमाह—

सपिप्पलीगुडं सर्पिः पचेत्क्षीरे चतुर्गुणे॥
विनिहन्त्यम्लपित्तं च शूलं च परिणामजम्॥१८॥

पिप्पलीघृतम्॥१८॥

क्वाथेन कल्केन च पिप्पलीनां सिद्धं घृतं माक्षिकसंप्रयुक्तम्॥
क्षीरानुपस्यैव निहन्त्यवश्यं शूलं प्रवृद्धं परिणामसंज्ञम्॥१९॥

माक्षिकसंप्रयुक्त मिति। सिद्धशीते घृते पादिकमधुयुक्तम्। **क्षीरानुपस्येति।**क्षीरमनुपिबतः। तत्र यदि घृतमनुपीयते तदा क्षीरमनुपानमथ भक्तेन सह खाद्यते तदा क्षीरेण भोक्तव्यम्। क्षीरोपयोगश्चेह पिप्पल्याः कटुतीक्ष्णत्वादुक्तः। पिप्पलीघृतम्॥१९॥

कोलादि मण्डरमाह—

कोलाग्रन्थिकशृङ्गबेरचपलाक्षारैः समं चूर्णितं
मण्डूरं सुरभीजलेऽष्टगुणिते पक्त्वाऽथ सान्द्रीकृतम्॥
तं खादेदशनादिमध्यविरतौप्रायेण दुग्धान्नभु-
रजेतुं वातकफामयान्परिणतं शूलं च शूलानि च॥२०॥

कोला चवी। चपला पिप्पली।समं चूर्णितं मण्डूरमिति। सर्वचूर्णसमं मण्डूरम्। सुरभोजले गोमूत्रे। अष्टगुणे समुदितचूर्णात्। प्रचारोऽपीत्थं प्रायः। मण्डूरचूर्णात्कवलादष्टगुण इत्येके। आसन्नपाके कोलादिचूर्णप्रक्षेप एवं सर्वत्र मण्डूरे। कोलादिमण्डूरः॥२॥

कोलाग्रन्थिकसहितैर्विश्वौषधमागधीयवसारैः॥
प्रस्थमयोमलरजसः पलांशिकैश्चूर्णितैर्मिश्रैः॥२१॥

अष्टगुणमूत्रयुक्तं क्रमपाकात्पिण्डतां नयेत्सर्वम्॥
कोलप्रमाणगुटिकास्तिस्रो भोज्यादिमध्यविरतौ च॥२२॥

रससपिर्यूषपयोमांसैरश्नन्नरो निवारयति॥
अन्नविव470र्तनशूलं गुल्मप्लीहाप्रिसादांश्च॥२३॥

कोलप्रमाणेत्यष्टमाषमाना अष्टमाषकैरेव तित्रता वटिकाः कार्याः। प्रचारः पुनस्त्रिचतुर्माषकैः। अन्नविवर्तनशूलं परिणामशूलम्। भीमवटकमण्डूरम्॥२१॥२२॥॥२३॥

मण्डरस्य471 पलान्यष्टौ गोमूत्रेऽर्धाढके पचेत्॥
क्षीरप्रस्थं च तत्सिद्धं पक्तिशूलहरं नृणाम्॥२४॥

क्षीरमण्डूरम्॥२४॥

मण्डूरवटिकामाह—

मण्डूरस्य पलान्यष्टौ गोमूत्रेऽष्टगुणे पचेत्॥
चपलाना472गरक्षारपिप्पलीमूलपिप्पलीः॥२५॥

संचूर्णानि क्षिपेत्तस्मिन्पलांशाः सान्द्रतां गते॥
गुटिकाःकल्पयेथेन पक्तिगूलनिवारणीः॥२६॥

चपला चवी हस्तिपिप्पलीत्यन्ये। वटिकामघृडूरम्॥२५॥२६॥

शतावरीमण्डूरमाह—

संशोध्य चूर्णितं कृत्वा मण्डुरस्य पलाष्टकम्॥
शतावरीरसस्याष्टो दध्नस्तु पयसस्तथा॥२७॥

पलान्यादाय चत्वारि तथा गव्यस्य सर्पिषः॥
विपचेत्सर्वमेकत्र यावत्पिण्डत्वमागतम्॥२८॥

सिद्धं तद्भक्षयेन्मध्ये भोजनस्याग्रतोऽपि वा॥
वातात्मकं पित्तभवं शूलं च परिणामजम्॥२९॥

निहन्त्येव हि योगोऽयं मण्डूरस्य न संशयः॥
रसो गन्धः शुभः पाके वर्तिः स्याद्भाढमर्दनात्॥३०॥

मध्ये भोजनस्य वाशब्दः समुच्चये तेन भोजनस्य मध्येऽग्रतश्च भक्षयेदित्यर्थः। शतावरीमण्डूरम्॥२७॥२८॥२९॥३०॥

गुडमण्डूरमाह—

विडङ्गं चित्रकं चव्यं त्रिफला त्र्यूषणानि च॥
नवभागानि चैतानि लोहकिट्टसमानि च॥३१॥

गोमूत्रं द्विगुणं दत्त्वा मूत्रार्धिकगुडान्वितम्॥
शनैर्मृसिना पक्त्वा सुसिद्धं पिण्डतां गतम्॥३२॥

स्निग्धभाण्डे विनिक्षिप्य भक्षयेत्कोलमात्रया॥
प्राङ्मध्यान्तक्रमेणैव भोजनस्य प्रयोजितः॥३३॥

योगोऽयं शमयत्याशु पक्तिशूलं473 सुदारुणम्॥
कामलां पाण्डुरोगं च शोथं मन्दाग्नितामपि॥३४॥

अर्शांसि ग्रहणीदोषं कृमिगुल्मोदराणि च॥
नाशयेदम्लपित्तं च स्थौल्यं चैवापकर्षति॥३५॥

वर्जयेच्छुष्कशाकानि विदाह्यम्लकटूनि च॥

पक्तिशूलान्तको ह्येष गुडो मण्डूरसंज्ञितः॥
शूलार्तानां कृपाहेतोस्तारया परिकीर्तितः ॥३६ ॥

** नवभागानि चैतानीति।** मिलित्वा। लोहकट्टसमानि चेति। लोहकिदृस्यापि नव भागानित्यर्थः। गोमूत्रं द्विगुणमिति। मिलितचूर्णात्। एतच्च पलोल्लेखागतमानत्वाद्द्विगुणं ग्राह्यम्। मूत्रार्धिकगुडान्वितमिति। सर्वचूर्णसमो गुड इत्यर्थः। तारामण्डूरगुडः॥३१॥३२॥३३॥३४॥३५॥३६॥

अक्षामलकशिवानां474 स्वरसैः पक्वंसुलोहजं रेणुम्॥
सगुडं यद्युपयुङ्के मुञ्चतिशुली त्रिदोषजं शूलम्॥३७॥

अक्षामलकशिवानां स्वरसैरिति। मिलित्वा चतुर्गुणैः स्वरसैः प्रत्येकमन्ये। सगुडमिति। लोहरजः समगुडम्। त्रिफलालोहः॥३७॥

धात्रीचूर्णस्याष्टौ पलानि चत्वारि लोहचूर्णस्य॥३८॥

यष्टीमधुकरजश्च द्विपलं दद्यात्पढे घृष्टम्॥
अमृताक्वाथेनैतचूर्णं भाव्यं तु सप्ताहम्॥३९॥

चण्डातपे विशुष्कं भूयः पिष्ट्वा नवे घंटे स्थाप्यम्॥
घृतमधुनासंयुक्तं475 भक्तादौ मध्यतोऽन्ते च॥४०॥

त्रीनपि वारान्खादेत्पथ्यं दोषानुबन्धेन॥
भक्तस्याऽऽदी नाशयति दोषान्पि476त्तानिलोद्भूतान्॥ ४१॥

मध्येन्नंविष्टम्भं जयति नृृणां विदद्यते नान्नम्॥
पानान्नकृतान्दोषान्भक्तान्ते शीलितं जयति॥४२॥

एवं जीर्यति चात्रे शूलं नृणां सुकष्टमपि॥
हरति च सहसा युक्तो योगश्चायं जरत्पित्तम्॥४३॥

चक्षुष्यं पलितघ्नं कफपित्तभवाञ्जयेद्रोगान्॥
प्रसादयति च रक्तं पाण्डुत्वं कामलां जयति॥४४॥

अमृताक्वाथेनैतच्चूर्णं भाव्यमिति । अमृतामिहाऽऽमलकीमाहुः। जरत्पित्तमम्छपित्तम्। धात्रीलोहः॥३८॥३९॥ ४०॥४१॥४२॥४३॥४४॥

खण्डामलकीमाह—

स्विन्नपीडितकूष्माण्डात्तलार्धंभृष्टमाज्यतः॥
प्रस्थार्धे खण्डतुल्पं तु पचेदामलकीरसात्॥४५॥

प्रस्थे सुस्विन्नकूष्माण्डरसमस्थेच घट्टयन्477
दर्व्यापाकं गते तस्मिंश्चूर्णीकृत्य विनिक्षिपेत्॥४६॥

द्वे द्वे पले कणाजाजीगुण्ठीनां मरिचस्य च॥
पलं तालीस478धान्याकं चतुर्जातकमुस्तकम्॥४७॥

कर्षप्रमाणं प्रत्येकं प्रस्थार्धं माक्षिकस्य च॥
पक्तिशूलं निहन्त्येतद्दोषत्रयकृतं च यत्॥४८॥

छर्घम्लपित्तमूर्छाश्चश्वासकासावरोचकम्॥

हृच्छूलं रक्तपित्तं च पृष्ठशूलं च नाशयेत्॥
रसायनमिदं श्रेष्ठं खण्डामलकसंज्ञितम्॥४९॥

खण्डतुल्यमिति। खण्डस्यापि पञ्चाशत्पलानि। पक्तिशूलं परिणामसूलम्। खण्ड मलकी॥४५॥४६॥४७॥४८॥४९॥

कलायचूर्णभागौ द्वौ लोहचूर्णस्य चापरः॥
कारवेल्लपलाशानां रसेनैव विमर्दितम्॥५०॥

कर्षमात्रां ततश्चैकां भक्षयेद्गुटिकां नरः॥
मण्डानुपाना सा हन्ति जरत्पित्तं सुदारुणम्॥५१॥

कलायचूर्णभागाविति। कलायो वर्तुलः कलायः। अपर इत्येकः। कारवेल्लपलाशानामिति। पलाशं पत्रम्। मण्डानुपाना यवमण्डानुपानम्॥५०॥५१॥

लिह्याद्वात्रैफलं चूर्णमयब्धूर्णसमायुतम्॥
यष्टीचूर्णेन वा युक्तं लिह्यात्क्षौद्रे479ण तद्गदे480॥५२॥

त्रिफलायाःप्रत्येकं लोहचूर्णसमोंऽशः। तद्गद इति। जरत्पित्ते॥५२॥

पित्तान्तं वमनं कृत्वा कफान्तं च विरेचनम्481॥५३॥

अन्नद्रवे तु तत्कार्यं जरत्पित्ते यदीरितम्॥
आमपक्वाशये शुद्धे गच्छेदन्नद्रवः शमम्॥५४॥

अन्नद्रव इति। भुक्ते जीर्यति जीर्णे वा यच्छूलमुपजायत इत्यादिनोक्तः शूलविशेषोऽन्नद्रवः॥५३॥५४॥

माषेण्डरी सतुषिका स्विन्ना सर्पिता हिता॥

गोधूममण्डकं तत्र सर्पिषा गुडसंयुतम्॥
ससितं शीतदुग्धेन मृदितं वा हितं मतम्॥५५॥

गोधूममण्डकमिति। गोधूमकृतो भक्ष्यविशेषः। मृदितं वा हितमिति। मृदितं संयावाकृतिलेहः॥५५॥

अन्नद्रवे दुश्चिकित्स्यो दुर्विज्ञेयो महागदः॥
तस्मात्तस्य प्रशमने परं यत्नं समाचरेत्॥५६॥

अन्नद्रवे जरत्पित्ते वह्निर्मन्दो भवेद्यतः॥
तस्मादत्रानपानानि मात्राहीनानि कल्पयेत्॥५७॥

अन्नद्रवे तु यत्प्रोक्तं जरत्पित्तेऽपि त482द्धितम्॥
इति संक्षेपतः प्रोक्तमन्नद्रवचिकित्सितम्॥५८॥

सुगमम्॥५६॥५७॥५८॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां सप्तविंशः परिणामशूलाधिकारः समाप्तः॥२७॥
______________

अथाष्टाविंश उदावर्ताधिकारः।
______________

पवनाविना483भूतयोगित्वसाधर्म्याच्छूलानन्तरमुदावर्तः। उदावर्तेऽपि हि सर्वत्र शूलवदवश्यं484भावी वायुः। यदुक्तम्—

“सर्वेष्येतेषु विधिवदुदावर्तेषु कृत्स्त्रशः॥
वायोः क्रिया विधातव्या स्वमार्गप्रतिपत्तये " इति।

उद्गतेन वेगेनाऽऽवृतस्य वायोर्वृत्तिरत्रेत्युदावर्तो(र्त इति) निरुक्तिरस्य।

त्रिवृत्सुधापत्रतिलादिशाकग्राम्यौदकानूपरसैर्यवान्नम्॥
अन्यैश्च सृष्टानिलमूत्रविड्भिरद्यात्प्रत्मसन्नागुडसीधुपायी॥१॥

तिलादिशाकेत्यत्राऽऽदिशब्दात्सप्तानां पत्रादिपरिग्रहः। अन्यैश्च सृष्टानिलमूत्रविड्भिरिति। अन्यैरपि विष्णूत्राद्यनुलोमनैः क्षीरादिभिरद्यात्। गुडकृतसीधुः॥१॥

आस्थापनं मारुतजे स्निग्धस्विन्नस्य शस्यते॥

** मारुतज इति।** मारुतजत्रेगविघातजे। एवं पुरीषज इत्यादावपि व्याख्येयम्। आस्थापनं निरूहस्तच्चाऽऽनुलोमिकवातहरद्रव्यकृतम्। स्निग्धस्विन्ने विशिष्यत इति केचित्पठन्ति तत्र स्निग्धस्विन्न आतुर इति शेषो विशिष्यते विशिष्टं भवति विशेषेण क्रियत इति तात्पर्यार्थः॥

पुरीषजे तु कर्तव्यो विधिरानाहिकस्तु यः॥
क्षीरवैतरणौ बस्ती युञ्ज्यात्तत्र चिकित्सकः॥२॥

विधिरानाहिक इति। फलवर्त्यादिः। तुशब्दादनुक्तमन्यदपि पुरीषानुलोमनं कर्तव्यम्॥२॥

श्यामा दन्ती द्रवन्ती स्नुङ्महाश्यामा स्नुही त्रिवृत्॥३॥

सप्तला शङ्खिनी श्वेता राजवृक्षः सतिलवकः॥
कम्पिल्लकः करञ्जव हेमक्षीरीत्ययं गणः॥४॥

सर्पिस्तैलरजःक्वाथकल्केष्वन्यतमेन तु॥
उदावर्तोदरानाहविषगुल्मविनाशनः॥५॥

श्यामा श्याममूला त्रिवृत्। द्रवन्ती चोरितपत्रा दन्ती। स्नुगित्यस्य स्थाने त्वगिति पाठान्तरे द्रवन्त्यास्त्वक्। स्नुक्शिग्रुरिति लोके। महाश्यामा वृद्धदारकः। सप्तलाशङ्खिन्यौ नीलश्वेतवुन्हे। सप्तला चर्मकपेत्यन्ये। श्वेताऽपराजिता कटभी वा। तिल्वकः शाबरो लोध्रः। हेमक्षीरी सुवर्णक्षीरी तदभावे कुठम्। एवं सर्वत्र। अन्यतमेन त्वतः परं युक्त इति शेषः॥३॥४॥५॥

त्रिवृत्कृष्णाहरीतक्यो द्विचतुष्पञ्चभागिकाः॥
गुटिका गुडतुल्यास्ता विढ्विबन्धगदापहाः॥६॥

द्विचतुष्पञ्चभागिका इति। यथाक्रमम्। गुडतुल्या इति। समुदिततुल्यो गुडः॥६॥

हरीतकी यवक्षारः485 पीलुनी त्रिवृता तथा॥
घृतैश्चूर्णमिदं पेयमुदावर्तविनाशनम्॥७॥

पोलुनी मूर्वा।पीलु(लू)नीति पाठे पीलूत्तरापथिकं फलं तदेव युक्तमिह स्रंसित्वात्॥७॥

हिङ्गकुष्टुवचास्वर्जिविडं चेति द्विरुत्तरम्॥
पीतं मद्येन तच्चूर्णमुदावर्तहरं परम्॥८॥

स्वर्जिः स्वर्जिकाक्षारः। द्विरुत्तरमिति। यथोत्तरं द्विगुणम्॥८॥

नाराचकचूर्णमाह—

खण्डपलं त्रिवृतासममुपकुल्याकर्षचूर्णितं श्लक्ष्णम्॥
प्राग्भोजने च समधु विडालपदकं लिहेत्प्राज्ञः॥९॥

एतद्गाहपुरीषे पित्ते च कफे च विनियोज्यम्॥
स्वादुर्नृपयोग्योऽयं चूर्णो नाराचको नाम्ना॥१०॥

त्रिवृतासममिति। त्रिवृच्चूर्णस्यापि पलम्। उपकुल्या पिप्पली। प्राग्भोजनमि(ने चे)ति। परिणामे भोजनसंनिधाने। नाराचकचूर्णम्॥९॥१०॥

हिङ्गुमाक्षिकसिन्धूत्यैः पक्त्वा वर्ति सुवर्तिताम्॥
घृताभ्यक्तांगुदे दाद्यादुवर्तविनाशिनीम्॥११॥

**हिङ्गमाक्षिकसिन्धूत्यैः पक्त्वा वर्तिमिति।**हिमापः सैन्धवकर्षः १ मधुपलम् १ एवं व्यवहाराद्गृहीत्वा पक्त्वा च फलवर्ति कुर्यात् । हिङ्गुसैन्धवे समे मधु चतुर्गुणमित्यन्ये॥११॥

मदनं पिप्पली कुष्ठं486 वचा गौराश्व सर्पपाः॥
गुडक्षारसमायुक्ता फलवर्तिः प्रशस्यते॥१२॥

गौराः सर्षपाः। गुडः समुदायसमः। गुडं च मनाग्जलं दत्त्वा पक्त्वा च वर्तिः कर्तव्येति व्याख्यातारः॥१२॥

आगारधूमसिन्धूत्यतैलयुक्ताम्लमूलकम्॥
क्षुण्णनिर्गुण्डिपत्रं वा स्विन्ने487 पायौ क्षिपेद्बुधः॥१३॥

आगारघूमो लंघूरिति। **क्षुण्णनिर्गुण्डिपत्रमित।**निर्गुण्डी सिन्दुवारः। अत्राऽऽगारधूमाद्यनुवर्तते॥१३॥

सौवर्चलाढ्यांमंदिरां पूत्रे त्वभिहते पिवेत्॥

सिन्धूत्थजरणाद्यस्तु शाणका इत्यत्राऽऽद्यपदेन संगृहीतत्वात्सौवर्चलमाषचतुष्टयमिह प्रक्षेपः स्वयुक्त्या प्रचारात्पुनरेकद्विमाषकं तत्प्रक्षेप्तव्यम्। मदिराऽऽहारद्रव्यत्वात्प्रचुरा ग्राह्या॥

एलां वाऽप्यथ मंद्येन488 क्षीरवारि पिबेद्बुधः॥
दुस्पर्शास्वरसं वाऽपि कषायं ककुभस्य च236॥१४॥

क्षीरेण समेन मिश्रितं वारि क्षीरंवारि। दुस्पर्शा दुरालभा॥१४॥

ईर्वारुबीजं489 तोयेन पिबेद्वाऽलवणीकृतम्॥
पञ्चमूलीशतं क्षीरं द्राक्षारसमथापि वा॥१५॥

ईर्वारुग्रष्मकर्कटिका। अलवणीकृतमिति। सैन्धवयोगादल्पलवणीकृतम्। पञ्चमूलीशृतं क्षीरमिति। पञ्चमूली तृणपञ्चमूली। डल्लणस्त्वेवं व्याख्याति। पञ्चमूली लघुपञ्चमूलं समानतन्त्रसंवादात्। तत्रान्तरे चोक्तम्—लघुना पञ्चमूलेन शृतं क्षीरं पिबेन्नर इति॥१५॥

सर्वथैवोपयुञ्जीत मूत्रकृच्छ्राश्मरीविधिम्॥१६॥

** सर्वथैवेति।** कार्येन॥१६॥

जृम्भजोदावर्तचिकित्सितमाह—

स्नेहैःस्वेदैरुदावर्तंजृम्भजं समुपक्रमेत्॥

स्नेहस्वेदैरिति। पदद्वयेऽपि बहुवचनत्वाच्चतुर्भिः स्नेहैश्चतुर्भिः स्वेदेरित्यर्थः। (जृम्भनं) जृम्भावेगविघातजम्। जृम्भा हांछीकेति लोके॥

अश्रुजोदावर्तचिकित्सामाह—

अश्रुमोक्षोऽश्रुजे कार्यःस्निग्धस्विन्नस्य यत्नतः॥१७॥

अश्रुमोक्षोऽश्रुनिःसरणं तच्च तीक्ष्णाञ्जनादिविधिना॥१७॥

क्षबजे क्षवपत्रेण घ्राणस्थेनाऽऽनयेत्क्षवम्॥

क्षवपत्रेणेति। क्षवशिछक्काकारकतरुः। हांछिकेति प्रसिद्धः॥

उद्वारजे क्रमोपेतं स्नैहिकं धूममाचरेत्॥१८॥

क्रमोपेतमिति। स्नैहिकधूमपानोक्तक्रमयुक्तम्॥१८॥

छर्द्यघातं यथादोषं नस्यस्नेहादिभिर्जयेत्॥

छर्द्यघातमिति। छर्द्यवेगघातजं रोगं कुष्ठविसपादिकं कार्ये कारणोपचारात्। एवं क्षुद्विघात इत्यादावपि व्याख्येयम् यथादोषमिति। यत्र दूषको दोषश्छर्दिविघातजरोगे जातस्तं तद्विपरीतैर्नस्यादिभिर्जयेत्। आदिशब्दाद्वमनादयः॥

बस्तिशुद्धिकरावापं चतुर्गुणजलं पयः॥१९॥

आवारिनाशात्क्वथितं पीतवन्तं प्रकामतः॥
रमयेयुः प्रिया नार्यः शुक्रोदावर्तिनं नरम्॥२०॥

** बस्तिशुद्धिकरावापमिति।** बस्तिशुद्धिकराणि कूष्माण्डतृणपञ्चमूलवीरतरादीनि। आवाप इति क्षीरसाधनार्थं कल्कः। कल्ककल्पनव्यवस्था च क्षीरपरिभाषया। पयः क्षीरम्।प्रकामत इति। यथेच्छम्। रमयेयुर्मैथुने योजयेयुः। यदत्र रमणे स्त्रीणां कर्तृत्वेनाभिधानं तच्छुक्रोदावर्तिनो हर्षाधिक्यसंजननार्थम्। प्रिया मनोनुकूलाः॥१९॥॥२०॥

अत्राभ्यङ्गावगाहाश्चमदिराश्चरणायुधाः॥
शालिः पयो निरूहाश्च हितं मैथुनमेव च॥२१॥

अवगाहो वातहरद्रव्यक्वाथे कोष्णे कार्यः।चरणायुधाः कुक्कुटाः।**हितं मैथुनमेवेति।**मैथुनमौपरिष्टं तेन हि वायोः प्रकोपो न स्याच्छुक्रस्य चानुलोमनमित्याहुः॥२१॥

क्षुद्विघाते हितं स्निग्धमुष्णमल्पंच भोजनम्॥

चकाराल्लघ्वपि॥

तृष्णाघाते पिबेन्मन्थं यवागूं चापि शीतलाम्॥२२॥

मन्थः सघृतशीतजलप्लुताः सक्तवः।यवागूरत्र पेया। चकाराच्छीतलजलावगाहपानादिकं ग्राह्यम्॥२२॥

रसेनाद्यात्सुविश्रान्तः श्रमश्वासातुरो नरः॥

रसेन मांसरसेन।विश्रान्त इति विरतक्रियः॥

निद्राघाते पिबेत्क्षीरं स्वप्याच्चेष्टकथां नरः॥२३॥490

क्ष491ीरं गोक्षीरं न माहिषं प्रधानकल्पनाश्रयणात्समानतन्त्रदुर्शनाच्च। तथा च तद्वचः। निद्राघाते पिबेत्क्षीरं गोः स्वप्यादथवा नर इति। इष्टकथा अनुकूलकथाः। शृणुयादिति शेष इति डल्लणः। अन्यस्तु व्याचष्टे। निद्राघाते पिबेत्क्षीरमिति। क्षीरमिह माहिषमिच्छति निद्राकरत्वात्। इष्टकथारत इति पाठान्तरम्॥५३॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामष्टाविंश
उदावर्ताधिकारः समाप्तः॥२८॥

अथैकोनत्रिंश आनाहाधिकारः।
_______________

अतः परमानाहचिकित्सोच्यते—

आनाह्रेऽपि प्रयुञ्जीत उदावर्तहरां क्रियाम्॥

सामे पुनरानाहे लङ्घनपालनमेव कार्यम्। उक्तं हि—उदावर्तक्रियाऽऽनाहे सामे पाचनलङ्घन मिति॥

द्विरुत्तरं हिङ्गु वचा सकुष्ठा सुवर्चिका चैव विडङ्गचुर्णम्492
सुखाम्बुनाऽऽनाहविषूचिकार्तिहृद्रोगगुल्मोर्ध्वसमीरणघ्नम्॥१॥

यथोत्तरं क्रमाद्दिगुणाः।सुवर्चिका सुवर्चिकाक्षारः।सुखाम्बुनेत्यतः परं पतिमिति द्रष्टव्यम्॥१॥

वचाभयाचित्रकयावशूकान्सपिप्पलीकाति493विषान्सकुष्टान्॥
उष्णाम्बुनाऽऽनाहविमूढवातान्पीत्वा जयेदाशु हितौदनाशी॥२॥

त्रिवृद्धरीतकी श्यामाः स्नहीक्षीरेण भावयेत्॥
वटिका पुत्रपतिास्ताः श्रेष्ठाश्वाऽऽनाहमेदिकाः॥३॥

श्यामा श्याममूला त्रिवृत।त्रिवृदादि सर्वं चूर्णांकृत्य स्नहीक्षीरेण भावयित्वा वटिकाः कार्याः।योगोऽयमतिकूरे कोष्ठे॥२॥३॥

राढोधू494मविडव्योषगुडमूत्रैर्विपाचित॥
गुदेऽङ्गुष्ठसमा वर्तिर्निधेयाऽऽनाहशूलनुत्॥४॥

राढो495मदनफलम्।धूमो गृहधूमः।गुडः समुदायात्स(यस )मः। गोमूत्रं चतुर्गुणं किं वा यावता गोमूत्रेण च पाकाद्वर्तिः कर्तुमायाति तावत्तदुभयं देयम्॥४॥

वर्तिस्त्रिकटुकसैन्धवसर्षपगृहधूमकुष्ठमदनफलैः॥
मधुनि गुडे वा496पाय्वीरिताऽङ्गुष्टप्रमाणवर्तिरियम्॥५॥

दृष्टफला शनैः शनैःप्रणिहिता गुदे घृताभ्यक्ता॥
आनाहोदावर्तप्रशमनी जठरगुल्मनि497वारणी॥६॥

त्रिकट्वादीनां मिलित्वा कर्षः।गुडः कर्षः।मधु पलमित्येके।समभागं त्रिकटुकादिद्रव्यं गृहीत्वा वार्तेः कर्तव्येत्यन्ये। गुडे498वेति। वाशब्दः पूर्वयोगापेक्षया विकल्पे समुच्चये वा द्रष्टव्यः।**पाथ्वीरितेति।**गुदक्षिप्ता।दर्वीरितेति पाठान्तरे दर्विकाया घट्टितेत्यर्थः॥५॥६॥

शुष्कमूलाद्यं घृतमाह—

मूलकं शुष्कमाई च वर्षाभूमूलपञ्चकम्॥७॥
आरेवतफलं चाप्सु499 तेन पक्त्वा पचेद्द्धृतम्॥

तत्पीतमात्रं500 शमयेदुदावर्तमशेषतः॥८॥

शुष्कं मूलकविशेषणम्।आर्द्रमार्द्रककन्दम्।आर्द्रकं चेति परेण योज्यम्। शुष्कमिति मूलकार्द्रकयोर्विशेषणमिति डल्लणः। वर्षाभूः पुनर्नवा।मूलपञ्चकं पञ्चमूलं तच्च महत्। आरेवतफलं सुवर्णालुफलम्। पक्त्वेति क्वाथपाकपरिभाषया।तेन क्वाथेन। अकल्कमिदम्। शुष्कमूलकाद्यं घृतम्॥७॥८॥

इति श्रीवृन्दमणीतद्वन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्री श्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामेकोनत्रिंश आनाहाधिकारः समाप्तः॥२९॥
<MISSING_FIG href="../../../books_images/U-IMG-1709129829241801-removebg-preview.png"/>

अथत्रिंशो गुल्माधिकारः।
__________

लध्वन्नंदीपनं स्निग्धमुष्णं वातानुलोमनम्॥
बृंहणं च भवेत्सर्वं तद्धितं सर्वगुल्मिनाम्॥१॥

गुल्मिनामनिलशान्तिरूपायैः सर्वशो विधिवदाचरणीया॥
मारुतेऽत्र विजितेऽन्यपुदीर्णं दोषयल्पमपि कर्म निहन्यात्॥२॥

गुल्मेऽप्युदावर्तो वायुरानाहश्च संभवतीति तदनन्तरं गुल्मः। अस्य च निरुक्तिः सुश्रुतेनैव कृता । तद्यथा—

“कुपितानिलमूलत्वाद्गूढमूलोदयादपि ।
गुल्मवद्वा विशालत्वाद्गुल्म इत्यभिधीयते”।

लघु द्रव्यं लघु सर्वगुल्मेषु वातप्रकोपि(?) दीपनलध्वन्नोपदेशोऽग्निसंधुक्षणार्थम्। वायुं विना सर्वगुल्मानामसंभवाद्वायुविजय एव हि सर्वत्र हित इत्याह—उपायैर्भेषजैः। सर्वश इति। सर्वगुल्मे।विधिवदित्यनेन केवलानिलारब्धेऽनिलमेव केवलं जयेदन्यस्मिन्पित्तादिजआवरकाविरोधेनेति दर्शयति॥१॥२॥

स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्वणम्॥
भित्ता विबन्धं स्निग्धस्य स्वेदो गुल्ममपोहति॥३॥

स्वेदो गुल्ममपोहतीति। स्वेदः पित्तजं विना॥३॥

इदानीं बातगुल्मचिकित्सामाह—

प्रागेव वातिके गुल्मे सुस्निग्धं स्वेदितं नरम्॥

रेचितं स्नेहरेकैश्चनिरूहैः सानुवासनैः॥
उपाचरेद्भिषक्माज्ञो मात्राकालविवेकतः॥४॥

सुस्त्रिग्धमिति। सामान्येनाभिधानाद्यथास्वंचतुर्भिरपि स्नेहस्तैलघृतवसामज्जभिः सुस्निग्धं सर्वेषामेव वातहन्तृत्वात्। अत एव तन्त्रान्तरेऽभिहितम्—

“रुक्षव्यायामजं गुल्मं वातिकं तोत्रवेदनम्।
बद्धविमारुतं स्नेहैरादितः समुपाचरेत् " इति।

अन्यत्राप्युक्तम्—

“सर्वत्र प्रथमे गुल्मे स्नेहस्वेदोपपादिते॥
या क्रिया क्रियते सिद्धिं सा याति न विरूक्षिते " इति॥

** स्नेहविरेकैरिति।** स्नेहविरेचनैन्दुधूतादिभिः। मात्राकालविवेकत इति। निरूहानुवासनविधौ या मात्रोक्ता यश्च कालः पक्षाद्विरेको वान्तस्य ततः पक्षान्त्रिरूहणमित्यादिनोक्तस्तयोर्विवेकेन॥४॥

गुल्मिनां जाङ्गलरसस्य पानमाह—

सुखोष्णा जाङ्गलरसाःसुस्निग्धा व्यक्तसैन्धवाः॥
कडुत्रिकसमायुक्ता हिताः पानेषु गुल्मिनाम्॥५॥

सुखोष्णा ईषदुष्णाः। जाङ्गलानां रसा जम्बालविष्किरमांसानां संस्कृता रसाः। सुस्निग्धाः सम्यक्स्नेहसंस्कृताः। हिता इति। यथादोषमिति शेषः॥५॥

गुल्मेषु यौगिकान्स्वेदानाह—

कुम्भीपिण्डष्टका501स्वेदान्कारयेत्कुशलो भिषक्॥६॥

कुम्भीस्वेदो बातहरक्वाथादिपूर्णकुम्भाभ्यन्तरवाष्पेण स्वेदनम्। कृसरापायसादिभिर्वस्रबद्धैः स्वेदः पिण्डस्वेदः।इष्टक502याऽग्नितप्तया वातहरक्वाथसिक्तया स्वेदः। स्वेदान्कारयेद्वात श्लेष्मातके सशूले कठिने च गुल्मे॥६॥

उपनाहाश्च कर्तव्याः सुखोष्णाः साल्वणादयः॥

साल्वणादय इत्यत्राऽऽदिपदेन वेसवारादिपरिग्रहः। स्वेदाः पच्यमानाभिमुखे गुल्मे कार्याः॥

स्थानावसेको रक्तस्य बाहुमध्ये शिराव्यधः॥
स्वेदोऽनुलोमनं चैव प्रशस्तं सर्वगुल्मिनाम्॥७॥

स्थानावसेको रक्तस्येति। स्थिरगुल्मे गुल्मस्थानावतस्यावसेकः। बाहुमध्ये शिराव्यध इति । तथाच—

“पच्यमाने तथा गुल्मे प्रथमं रक्तमोक्षणम् ।
बाहुभ्यां रक्तशुद्ध्यर्थमेवं संपद्यते सुखम् " इति॥

बाहुमध्ये संधेरधस्तादल्पशिरा वेध्या न तु मध्यशिरा तस्या मर्मत्वात्। शिराव्यधश्च यस्मिन्पार्श्वे गुल्मस्तत्पार्श्वस्थबाहौ। विधिः पुनरेष दोषचिकित्सया गुल्मस्याप्रशमे स्वेदादिविधिना शोणितदुष्टौ सत्याम्॥७॥

मातुलुङ्गरसो हिङ्गुदाडिमं विडसैन्धवम्॥
सुरामण्डेन पातव्यं वातगुल्मरुजापहम्॥८॥

मातुलुङ्गरसादिकं प्रक्षिप्य सुरामण्डः पेयः।सुरामण्डश्च रोगयौगिकतया मनाक्प्रभूतो न तु चूर्णाच्चतुर्गुणः। एवमन्यत्राध्यायेऽन्यत्रापि सुरया भेषजपाने॥८॥

पिबेदेरण्डतैलं वा वारुणीमण्डमिश्रितम्॥
तदेव तैलं पयसा वातगुल्मी पिबेन्नरः॥९॥

तदेव तैलं पयसेति। एरण्डतैलमेव पित्तानुबन्धे वाते पयसा पेयम्॥९॥

स्वर्जिकाकुष्ठसहितः क्षारः केतकिजोऽपि वा॥
तैलेन पीतः शमयेगुल्पं पवनसंभवम्॥१०॥

स्वर्जिकाकुष्ठाभ्यां समः केतकिजः क्षारः। क्षारोपयोगे चो(चौ)जोरक्षार्थं क्षीरघृताम्यां भोज्यम्। योगोऽयं कफानुबन्धे वाते। वाशब्द इह पूर्वयोगापेक्षया। तैलेनेति। तिललैलेन। केचिद्योगद्वयं व्याख्यानयन्ति। क्षारो यवक्षारस्तत्र स्वर्जिकाकुष्ठसहितो यवक्षारस्तैलेनेत्येको योगः।केतकिजोऽपि वेत्यत्र क्षार इति संबध्यते तेन केतकिजोऽपि वा क्षारः पीतस्तैलेनेति द्वितीयो योगः॥१०॥

वातगुल्पमतीकारे प्रकुष्यति यदा कफः॥
शस्तमुल्लेखनं तत्र चूर्णाद्याश्च कफापहाः॥११॥

शस्तमुल्लेखनमिति। उल्लेखनं वमनम्। एतञ्च न वामयेत्तैमिरिकं न गुल्मिनमिति वचनेन गुल्मे निषिद्धमप्यवस्थायामपवादभूतम्।चूर्णाद्या इत्यत्राऽऽद्यशब्देन क्षारारिष्टादिपरिग्रहः॥११॥

यदि कुप्यति वा पित्तं विरेकस्तत्र भेषजम्॥
दोषघ्नैरप्यशान्ते तु गुल्मे शोणितमोक्षणम्॥१२॥

सुगमम्॥१२॥

काकोल्यादिमहातिक्तवासाद्यैः पित्तगुल्मिनम्॥
स्नेहितं संसयेत्पश्चाद्योजयेद्वस्तिकर्मणा॥१३॥

काकोल्यादिघृतं काकोल्यादिगणस्य क्वाथकलकसाधितं महातिक्तकघृतं कुष्ठोक्तं वासाद्यं घृतं रक्तपित्तोक्तम्। वासाद्यैरित्यतः परं घृतैरिति शेषः। स्रंसयेद्विरेचयेन्म धुरैर्योगैरारग्वधादिभिः क्षीरशर्करादिभिश्चेति शेषः। **बस्तिकर्मणेति।**अनुवासननिरूहाभ्याम्॥१३॥

स्निग्धोषणजे503 पित्तगुल्मे कम्पिल्लं मधुना लिहेत्॥
रेचनार्थी रसं वाऽथ द्राक्षायाः सगुडं पिबेत्॥१४॥

दाहशूलादिसंक्षोभस्वप्ननाशारुचिज्वरैः॥
विदह्यमानं जानीयाद्गुल्मं तमुपनाहयेत्॥१५॥

विदह्यमानमिति। पच्यमानम्। **उपनाहयेदिति।**व्रणशोथोक्तपाचनपिण्डैःप्रलेपयेत्॥१४॥१५॥

पक्वस्तु पीडितोन्नामी बहिस्तुङ्गोऽल्पवेदनः॥
श्यावो बस्तिनिभस्तत्र व्यधः शोधनरोपणम्॥१६॥

पीडितोन्नामीति। पीडितः सन्नाऽऽन्तरमुन्नमतीत्यर्थः। बहिस्तुङ्गो बाह्योन्नतः। बस्तिनिभ इति । अम्बुपूर्णदृतिपुटतुल्यः। ननु सुश्रुते गुल्मस्य पाको निषिद्धः।

तद्यथा—

“स यस्मादात्मनि चयं गच्छत्यप्स्विव बुहुदः।
अन्तः सरति यस्माञ्च न पाकमुपयात्यतः” इत्यादि ।

अत्राऽऽत्मनोति स्वावयवैः। उच्यते। यस्त्वकृतवस्तुपरिग्रहो गुल्मो न पच्यत एव दोषमात्राधिष्ठानत्वात्। यस्तु कृतवस्तुपरिग्रहतया रक्तादिविदाहवान्पच्यते स खलु न गुल्म इति सुश्रुते तदा किंतु शीघ्रविदाहनिमित्तकोऽपि विद्रधिरेव। तदुक्तम्। स वै शीघ्रविदाहित्वाद्विद्रधिस्तु निरुच्यत इति। चिकित्साभेदोऽपि नास्ति । ननु गुल्माकान्तत्वेन गुल्मत्वं मा भूत्कासादुत्पन्नस्य यक्ष्मणः कासत्वप्रसङ्ग इति। कार्तिकस्त्वाह—वातिक एवं संगतत्वाद्वातिक एव गुल्मो न पच्यते भेदः पुनरयं तदा विद्रधिगुल्मयोविंद्रधिरचिरपाकश्चिरपाकस्तु गुल्म इति॥१६॥

स्वयमूर्ध्वमधो वाऽपि स चेद्दोषः प्रवर्तते॥
द्वादशाहमुपेक्षेत रक्षन्ननैरुपद्रवान्॥१७॥

यदि स्वयमेका(वा)न्तर्भिन्ने गुल्मे सति दोषः पूयमूर्ध्वमधो वा गच्छति तदा द्वादशाहमुपेक्षेयं(त)तेन(?) रोपणशोधनादिकं कुर्यात्। अन्नैरित्यविदाहिलघुभिः। उपद्रवाज्ज्वरादीन्। चरकेऽप्युक्तम्—

“स्वयं प्रवृत्तं तं दोषमुपेक्षेत हिताशनैः।
दशाहं द्वादशाहं वा रक्षन्नन्यानुपद्रवान्” इति॥१७॥

परं तु शोधनं सर्पिःशुद्धे समधु तिक्तकम्॥१८॥

** परं तु शोधनं सपिरिति।** द्वादशाहात्परं शोधनद्रव्यसाधितं घृतं पेयम्।**शुद्धे समधु तिक्तकमिति।**तिक्तकद्रव्यसाधितं घृतं समधु रोपणं शुद्धे॥१८॥

स्नेहोपनाहनस्वेदतीक्ष्णस्रंसनबस्तिभिः॥
योगैश्च वातगुल्मोक्तः श्लेष्मगुल्ममुपाचरेत्॥१९॥

तीक्ष्णस्रंसनबस्तिभिरिति। तीक्ष्णेन विरेकेण तीक्ष्णैश्च निरूहैरित्यर्थः। तीक्ष्णत्वं च विरेकनिरूह्योस्तीक्ष्णदन्त्यादितीक्ष्णारग्यधादिद्रव्ययोगात्। वमनं पुनरिह गुल्मिन उत्सर्गतो निषिद्धत्वान्नोक्तम्॥१९॥

पञ्चमूलगृतं तोयं पुराणं वारुणीरसम्॥
कफगुल्मी पिवेत्काले जीर्णमाकमेव च॥२०॥

पञ्चमूली महती कफवातहरत्वात्॥२०॥

यवानीचूर्णितं तक्रं विडेन लवणीकृतम्॥

पिवेत्संदीपनं वातमूत्रवर्चोनुलोमनम्॥
व्यामिश्रदोषे व्यामिश्र एष एवं क्रियाक्रमः॥२१॥

**व्यामिश्रदोष इति।**त्रये504 (?) द्वंद्वश्च प्रकृतिसमसमवेतो मन्तव्यः। विकृतिविषमसमवेतस्यानुपदेशात्॥२१॥

संनिपातोत्थिते गुल्मे त्रिदोषघ्नोविधिर्हितः॥२२॥

संनिपातोत्थित इति। संनिपातोऽपि प्रकृतिसमसमवेत एव ज्ञेयः। विकृतिविषमसमवेतः पुनरसाध्यः। त्रिदोषनो विधिः प्रत्येकदोषजगुल्मोक्तो विधिः क्रमेण दोषबलाद्यपेक्षया सर्व एव प्रयोज्यः।त्रिदोषहरद्रव्यसावितैर्वा स्नेहादिभिः कार्यः॥२२॥

वचाऽभया विडं शूण्ठीहिङ्कुष्ठाग्निदीप्यकाः॥
द्वित्रिषट्चतुरेकाष्टसप्तपञ्चांकाः क्रमात्॥२३॥

चूर्णं मद्यादिभिः पीतं गुल्मानाहोदरापहम्॥
शूलार्शः श्वासकासनं ग्रहणीदीपनं परम्॥२४॥

दीप्यको यवानिका।मद्यादिभिरित्यत्राऽऽदिशदेनोष्णोदकादिपरिग्रहः॥२३॥॥२४॥

यवानीहिङ्गुसिन्धूत्यक्षारसौवर्चलाभयाः॥
सुरामण्डेन पातव्या गुल्मशूलनिषूदनः॥२५॥

क्षारो यवक्षारः।योगोऽयमुष्णाम्चुना प्रचरति॥२५॥

हिमवादिनर्णमाह—

** गद्यम्। हिङ्गुत्रिकटुकवचाजमोदाधान्यकाजगन्धादाडिमतित्तिडीकपाठाचित्रकचव्यसैन्धवविडसौवर्चल-यवक्षारस्वर्जिकापिप्पलीमूलाम्लवेनसशठीपुष्करहपुषाजाजीपथ्या विचूर्ण्य माकुलुङ्गाम्बना505बहुशःपरिभाण्याक्षमात्रा गुटिकाः कारयेत्। ततः प्रातरेकैकां वातरोगी भक्षयेत्। एष खलु योगो गुल्मश्वासकासारोचकहृद्रोगाध्मानपार्श्चेरुवस्तिशूलानाहमूत्रकृच्छ्रार्शःप्लीहोदरपाण्डुरोगानपहन्ति। तूनीप्रतितू-न्योश्चात्यर्थमुपयुज्यत इति॥१॥**

** **हितोऽस्ति सरत्वादधोगच्छतीति हिङ्गु।अजमोदा यवानिका।अजगन्धा फोंफानिका बोबइका इति देशान्तरे प्रसिद्धा। तित्तिडी शैलजं तिम्तिडीकम्।अजंस्वाभाविकं मन्दाग्नित्वमजति क्षिपतीत्यजाजी जीरकः। मातुलुङ्गाम्बुनेति। मातुलुङ्गरसेन। बहुशः सप्तवारान्। सप्ताहं भावनाविधेरन्यत्रोक्तत्वात्। मातुलुङ्गरसभावनां विना चूर्णं व्यवहरति। चरकेऽप्युक्तम्—

“भावितं मातुलुङ्गस्य चूर्णमेतद्रसेन वा।
बहुशो गुटिकाः कार्या। कार्मुकाः स्युस्ततोऽधिकम् " इति।

हिङ्वादिगुटिका वातगुल्मिनां कृते द्विगुणक्षारहिङ्वम्लवेतसाः कार्याः।

उक्तं च—

“यच्चूर्णं गुटिका याश्च कर्तव्या वातगुल्मिनाम्।
द्विगुणक्षारहिङ्ग्वम्लवेतसास्ता हिता इति”॥

गुटिका चेयं प्रचारात्षडष्टकमाषकमाना भक्ष्या मद्येनोष्णाम्बुनाऽनुपानम्। हिङ्वादि चूर्णम्। इति गद्यम्॥१॥

पूतीकपत्रगजचिर्भटचव्यवह्नि-
व्योषं च संस्तरचितं लवणोपधानम्॥
दग्ध्वा विचूर्ण्य दधिमस्तुयुतं प्रयोज्यं
गुल्मोदरश्वयथुपाण्डुगुदोद्भवेषु॥२६॥

पूतिको लाकः(?)। गजचिर्भिटं गोरक्षकर्कटी। वह्निश्चित्रकः।संस्तरेण चितमास्तरणरूपतया चितम्। लवणोपधानमिति। लवणगर्भं तच्च पूतिकपत्रादिसमम्। सुश्रुते पत्रलवणविधौ टीकाकृद्धिरेवं व्याख्यातत्वात्। पूतिकपत्रादिसंस्तरे सैन्धवं दत्त्वा तदुपरि पुनः पूतिकपत्रादिकं रचितान्तधूमं दग्धव्यम्।

अत्र तन्त्रान्तरम्

“चिरबिल्वदलव्योषमैन्द्रीचव्याग्निसैन्धवम्।
संस्तरेण चितं दग्धं गुल्मघ्नं मस्तुना पिबेत्" इति॥

अत्र चिरबिल्वोपादानं पूतीकेन सहादूरगुणत्वात्॥२६॥

हिङ्गुपुष्करमूलानि तुम्बुरूणि हरीतकी॥
श्यामा बिडं सैन्धवं च यवक्षारं महौषधम्॥२७॥

यवक्वाथोदकेनैतद्घृतभृष्टं तु पाययेत्॥
तेनास्य भिद्यते गुल्मः सशूलःसपरिग्रहः॥२८॥

तुम्बुरु स्वनामविख्यातम्। श्यामा त्रिवृत्। हिङ्गुप्रभृतीनां च चूर्णं प्रभूतं कृत्वा पातव्यम्। यवक्वाथोदकेनेति। यवक्काथेनोष्णोदकेन वा पिवेत्। इहैव योगे वैद्यसारक उष्णोदकमेरण्डतैलं वाऽ(चा)धिकं पठितम्।

तद्यथा—

“उष्णोदकेन पातव्यमेतत्सरुचुतैलकम्।

एतेन गुल्मनिचयः सशूलः सपरिग्रहः।
शाम्यते योगराजेन पवनेन घनो यथा॥

यवक्षारोदकेनेति पाठान्तरम्। भिद्यत इति। विलीयते । सपरिग्रहः सवास्तुरचलः इत्यर्थः॥२७॥२८॥

वचा हरीतकी हिङ्गु सैन्धवं साम्लवेतसम्॥
यवक्षारं यवानीं च पिबेदुष्णेनवारिणा॥२९॥

एतद्धि गुल्मनिचयं सगूलं सपरिग्रहम्॥
भिनत्ति सप्तरात्रेण वह्निवृद्धिं506 करोति च॥३०॥

सुगमम्॥२९॥३०॥

पिप्पलीपिप्पलीमूलाजाजीचित्रकसैन्धवैः॥
युक्ता पीता सुरा हन्ति गुल्ममाशु सुदुस्तरम्॥३१॥

अयं योगो वातश्लेष्मजे॥३१॥

नादेयीकुटजार्कशिग्रुबृहतीस्नुग्बिल्वभल्लातक-
व्याघ्रीकिंशुकपारिभद्रकजटापामार्गनीपाग्निकान्॥
वासामुष्ककपाटलाःसलवणा दग्ध्वा जले पाचितं
हिङ्ग्वादितिवापमेतदुदितं गुल्मोदराष्ट्रीलिषु॥३२॥

नादेयी भूमिजम्बूः। व्याघ्री कण्टकारिका। पारिभद्रकजटा पारिभद्रकस्य मूलम्। अनिश्चित्रकः। सलवणा इति। लवणं सैन्धवं लवणा ज्योतिष्मतीत्येके।नादेयीप्रभृतीन्दग्ध्वा क्षारः कार्यः। अस्याऽऽदकं पलशतं वा पानीयक्षारपाकविधिना चतुर्गुणेन पड्गुणेन चोदकेन पक्त्वा चतुर्भागशेपे वा कल्कस्तु पानीय एकविंशतिवारान्परित्राव्यस्थापयेत्। अस्य कर्षमर्धपलं वा हिङ्ङ्गादिचूर्णपादिकमावाप्य मांसरसक्षीरवृतानामन्यतमेषु प्रक्षिप्य पिबेन्मांसरसादिभिश्च भोक्तव्यमोजोरक्षणार्थम्। अन्ये पुनराहुः—एकदा विपाच्य स्थापिते क्षाराम्भसि व्यम्लत्वादिदोषशङ्का स्यादतः कृतक्षारादम्शेर्बलाबलाद्यपेक्षया पलादिपरिमितं क्षारं गृहीत्वा प्रत्यहं पूर्वविधिना कथनविधिना क्षाराष्यकार्यमिति।हिङ्ग्वादिप्रतिवापमिति। हिङ्ग्वादेः पादिकस्य प्रतिवापं प्रक्षेपो यत्र तथा। एतदिति। क्षारजलम्।यस्य तन्त्रस्यायं प्रयोगस्तत्तन्त्रोक्तहिङ्ग्वाद्यपरिज्ञानाद्वक्ष्यमाणो हिङ्ग्वादिनन्तरपठितत्वात्संग्रहकारस्याभिमतो लक्ष्यते। गुल्मोदराष्ठीलिष्विति। समुदितान्मत्वर्थीय इति तदन्ताद्विभक्तिः॥३२॥

हिङ्गूग्रगन्धाविडशुण्ट्यजाजीहरीतकीपुष्करमूलकुष्ठम्॥
भागोत्तरं चूर्णितमेतदिष्टं गुल्मोदराजीर्णविषूचिकासु॥३३॥

उग्रगन्धा वचा।पौष्करमूलं तद्विटपशाखाश्चकुष्ठमिति ज्ञेयम्। **भागोत्तरमिति।**उत्तरोत्तरमेकभागवृद्धम्। उष्णाम्बुना पानमस्य।एष योगो वाग्भटेऽधिकत्रिवृद्दन्तीयोगात्पठितस्तद्यथा—

“हिङ्गूग्राविडशुण्ठ्यजाजिविजयावाट्याभिधानाम507यै-
श्चूर्णैः कुम्भनिकुम्भमूलसहितैर्भागोत्सरं वर्धितैः।
पीतं(तः) कोष्णजलेन कोष्ठजरुजागुरुमोदरादीनयं
शार्दूलःप्रसभं प्रमथ्य हरति व्याधीन्मृगौधानिव” इति।

अत्र विजया हरीतकी वाट्याभिधानं पुष्करं कुम्भा त्रिवृत्निकुम्भो दन्ती। इत्थमप्यस्य प्रचारः।हिङ्ग्वादिः॥३३॥

त्रिफलाकाञ्चनक्षीरीसप्तलानीलिनीवचाः॥
त्रायत्तीहपुषातिक्तात्रिवृत्सैन्धवपिप्पलीः॥३४॥

पिबेद्वि508चूर्ण्य मूत्रोष्णवारिमांसरसादिभिः॥
सर्वगुल्मोदरप्लीहकुष्ठार्शः शोषपीडितः॥३५॥

सप्तला चर्मकषा। नीलिनी नीलवुन्हा।विरेचकोऽयं योगः॥३४॥३५॥

शताह्वाचिरबिल्वत्वग्दारुमार्गीकणोद्भवः॥
कल्कः पीतो हरेद्गुल्मं तिलक्वाथेन रक्तजम्॥३६॥

शताह्वादिकणान्तः प्रक्षेपः। चिरबिल्वत्वक्करञ्जत्वक्।तिलक्वाथेन तिलफलक्व्यथेनः। एवमुत्तर योगेऽपि तिलस्यैव क्वाथः। तिलनालक्षारक्वाथेनापि केचित्प्रचरन्ति। रक्तजमार्तवजम्॥३६॥

तिलक्वाथो गुडव्योषहिङ्गुभार्गीयुतो भवेत्॥
पानं रक्तभवे गुल्मे नष्टे पुष्पे च योषिताम्॥३७॥

गुडादयः प्रक्षेप्याः। हिङ्गुस्थाने घृतस्य पाठः क्वचित्। हिङ्गुना तु प्रचारः। नष्टे पुष्प इति। अदृश्यमान आर्तके॥३७॥

पीतो धात्रीरसो युक्त्या किंशुकक्षारसाधितः॥
क्षारत्र्यूषणसंयुक्ता मदिरा चास्रगुल्मनुत्॥३८॥

विशेषमपरं चास्य शृणुरक्तप्रसादनम्॥

पलाशक्षारतोयेन सिद्धं सर्पिः पिबेच्च सा(?)॥
उष्णैर्वा भेदयेद्भिन्नेविधिरासृग्दरो हितः॥३९॥

युक्त्येति। यथार्हमात्रया।किंशुकक्षारसाधित इति। किंशुकक्षारेण पाकात्स्राविता(तो) धात्रीरसेनैव किंशुकक्षारपाकात्परिस्रावणीय इत्यर्थः। भावित इति पाठेऽप्ययमेवार्थः। क्षारत्र्यूषणसंयुक्तेति। क्षारो यवक्षारः। रक्तगुल्मचिकित्सितं दशमे मासि व्यतिक्रान्ते कार्यम्। यदाह चरकः—स रौधिरः स्त्रीभव एव गुल्मो मासे व्यतीते दशमे चिकित्स्य इति। तदा हि रक्तगुल्मस्य निरामत्वात्क्रियायाः साफल्यम्। अत एवोक्तम्।रक्तगुल्मे पुराणत्वं सुखसाध्यस्य लक्षणमिति। अतोऽर्वाक्पुनः सामगुल्मे विधिरामज्वर इव विफली भवति व्याधिवृद्धिं वा जनयति। गदाधरस्तु गर्भाशङ्कानिरासार्थं दशमासप्रतीक्षणमिति न वाच्यं यः स्पन्दते पिण्डित एव नाङ्गैरितिलक्षणेनैव गर्भशङ्का509……………………………॥३८॥३९॥

हपुषाव्योषपृथ्वीकाचव्यचित्रकसैन्धवैः॥
साजाजीपिप्पलीमूलदीप्यकैर्विपचेद्घृतम्॥४०॥

सकोलमूलकरसं सक्षीरदधिदाडिमम्॥
तत्परं बातगुल्मघ्नंशूलानाहविबन्धनुत्॥४१॥

योन्यर्शोग्रहणीदोषश्वासकासारुचिज्वरान्॥
पार्श्वहृद्बस्तिशूलं च घृतमेतद्व्यपोहति॥४२॥

पञ्चप्रभृति यत्र स्युर्द्रवाणि स्नेहसंविधौ॥
तत्र स्नेहसमान्यांहुरर्वाक्तु स्याच्चतुर्गुणम्॥४३॥

……………………………क510शुण्ठकस्य511 क्वाथो न पुनरार्द्रस्य स्वरसस्तस्य गुल्मे निषिद्धत्वात्। दाडिमस्याप्यत्र रसो द्रवसाहचर्यात्।

तथा च विश्वामित्रः

“पृथ्वीकाचित्रकव्योषहपुषाजाजिसैन्धवैः।
सचव्यपिप्पलीमूलैः पिष्टैर्दीप्यकसंयुतैः॥

मूलदाडिमकोलानां रसे पयसि दध्निच।
सिद्धं घृतं जयेद्गुल्मं वातोत्थं वह्निदीपनम्” इति॥

एवं पञ्चभिर्द्रवैःप्रत्येकं स्नेहसमैः पाकः। **स्नेहसमान्याहुरिति।**प्रत्येकम्। अर्वाक्स्याच्च चतुर्गुणमिति। एकेनापि द्वाम्यामपि त्रिभिरपि चातुर्गुण्यमित्यर्थः। अत्र चतुष्प्रभृतीति पाठः परिभाषायामस्यां युक्तः। हपुषाद्यं घृतम्॥४०॥४१॥४२॥४३॥

दन्तीहरीतकीसाह—

जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः॥
दन्त्याः पलानि तावन्ति चित्रकस्य तथैव 512॥४४॥

ततोऽष्टभागशेषेण पचेद्दन्तीसमं गुडम्॥
ताश्चाभयास्त्रिवृच्चूर्णात्तैलाच्चापि चतुष्पलम्॥४५॥

पलमेकं कणाशुण्ठ्योः सिद्धे लेहेऽथ शीतले॥
क्षौद्रार्धकुडवं दद्याच्चातुर्जातपलं तथा॥४६॥

ततो लेहपलं लीढ्वा जग्ध्वा चैकां हरीतकीम्॥
स्निग्धो विरिच्यते दोषः प्रस्थमद्याद्सौदनम्॥४७॥

प्लीहश्वयथुगुल्मार्शोहृत्पाण्डुग्रहणीगदाः॥
शाम्यन्त्युत्क्लेशविषमज्वरकुष्ठान्यरोचकाः॥४८॥

विंशतिः पञ्च चाभया इति। पञ्चविंशतिरभयाः। गुडकानि(दन्त्याः पलानी)ति। एतान्यगस्तिहरीतकीवत्कर्पटे पोटलीं बद्ध्वा क्वथनीयानि।**दन्तीसमं गुडमिति।**पञ्चविंशतिपलम्। तैलमुत्स्विन्नहरीतकीभर्जनार्थम्।त्रिवृच्चूर्णंकेचित्कल्याणगुडवत्तैल एव क्षिपन्ति। सिद्धे लेहेऽपरचूर्णदानसमये युक्तमस्याः प्रदानम्।पलमेकं कणाशुण्ठ्योर्मिलित्वा।**सिद्धे लेहे च शीतले।क्षौद्रार्धकुडवमिति।**मधुनश्चत्वारि पलानि सिद्धे लेहेऽतिशीते देयानि।सुशीते मधुदानं शक्त्युत्कर्षार्थं न तूष्णविरोधिशङ्कयोपयोगो ह्युष्णे न च विरुद्धः(?)।तथा हि चरके—सक्षौद्रां शर्करां पक्त्वा कुर्यान्मृद्भाजने नव इति। अत्र मधुनः पाको दर्शितः। एवमन्यत्रापि बोद्धव्यम्। चातुर्जातपलं मिलित्वा। दोषः प्रस्थमिति। प्रस्थोऽत्रार्धत्रयोदशपलम्।

यदुक्तम्—

“वमने च विरेके च तथा शोणितमोक्षणे।
अर्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः” इति।

दन्तीहरीतकी॥४४॥४५॥४६॥४७॥४८॥

त्र्यूषणाद्यांघृतमाह—

त्र्यूषणत्रिफलाधान्यविडङ्गचव्यचित्रकैः॥
कल्कीकृतैर्घृतं सिद्धं सक्षीरं वातगुल्मनुत्॥४९॥

**सक्षीरमिति।**द्रवान्तराभावात्क्षीरं चतुर्गुणम्।त्र्यूषणाद्यं घृतम्॥४९॥

द्राक्षाद्यं घृतमाह—

द्राक्षामधुकखर्जूरं विदारीं सशतावरीम्॥
परूषकाणि त्रिफलां साधयेत्पलसंमिताम्513॥५०॥

जलाढके पादशेषे रसमामलकस्य च॥
घृतमिक्षुरसंक्षीरमभयाकल्कपादिकम्॥५१॥

साधयेत्तु घृतं सिद्धं शर्कराक्षौद्रपादिकम्॥
*पित्तगुल्महरं514 सर्पिः सर्वपित्तामयापहम्॥५२॥

आमलकरसघृतेक्षुरसक्षीराणि क्वाथशेषसमानि प्रत्येकम्। चक्रेणाप्युक्तम्—‘साहचर्यादि(ह) पृथग्घृतादेः क्वाथतुल्यता’ इति। शर्कराक्षौद्रपादिकं मिलित्वा। द्राक्षाद्यं घृतम्॥५०॥५१॥५२॥

व्योषाद्यं घृतमाह—

सव्योषक्षारलवणं दशमूलशृतं घृतम्॥
कफगुल्मंहरत्या515शु सहिङ्गुबिडदाडिमम्॥५३॥

क्षारो यवक्षारः। व्योषादीनां कल्कः।दशमूलस्य क्वाथः। यदुक्तमन्यत्र—

“दशमूलकषायेण दाडिमक्षारहिङ्गुभिः।
सर्पिः सव्योषलवणैर्विपक्वं कफगुल्मनुत्” इति॥

व्योषाद्यं घृतम्॥५३॥

क्षीरषट्पलकघृतमाह—

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः॥
पलिकैः सवयक्षारैर्घृतप्रस्थं विपाचयेत्॥५४॥

क्षीरप्रस्थेन तत्सर्पिर्हन्ति गुल्मं कफात्मकम्॥
ग्रहणीपाण्डुहृद्रोगप्लीहकासज्वरापहम्॥५५॥

क्षीरप्रस्थेनेति। क्षीरप्रस्थेनैव केवलेन घृतेन पाकमिह ब्रुवते। क्षीरषट्पलकं घृतम्॥५४॥५५॥

धात्रीषट्पलकघृतमाह—

धात्रीफलानां स्वरसे षडङ्गं विपचेद्घृतम्॥
शर्करासैन्धवोपेतं तद्धितं सर्वगुल्मिनाम्॥५६॥

षडङ्गमिति। प्रत्येकं पलिकपञ्चकोलयवक्षारकल्कितम्। षडंशमिति पाठे षडंशा यस्मिन्घृतेतत्षडंशं घृतं षट्पलमिति श्रीब्रह्मदेवः। शर्करासैन्धवोपेतमिति। शर्करासैन्धवयोर्मिलित्वा पादिकयोः प्रक्षेपः। अत्र शर्करा पलद्वयं सैन्धवस्यैको भाग इत्याहुः। सर्वगुल्मिनामिति। प्रत्येकं वातादिगुल्मिनाम् । अत्र योगे तन्त्रान्तरम्

“पञ्चकोलैर्घृतं पक्वंसक्षारैः पालकैः पिबेत्।
क्षीरे धात्रीरसे चापि सितासैन्धवयोजितम्॥

गुल्मार्शः पाण्डुरोगं च प्लीहज्वरमरोचकम्॥
हन्याद्वातकफौ पित्तं षट्पलं नाम दीपनम्” इति॥

धात्रीषट्पलकं घृतम्॥ ५६ ॥

वार्श्चीवारिष्टमाह—

वृश्वीवमुरुबूकं च वर्षाभूबृहतीद्वयम्॥
चित्रकं च जलद्रोणे पचेत्पादावशेषितम्॥५७॥

मागधीचित्रकक्षौद्रलिप्ते कुम्भे निधापयेत्॥
मधुनः प्रस्थमावाप्य पथ्याचूर्णार्धसंयुक्तम्॥५८॥

तुषोषितं दशाहं तं जीर्णभक्तः पिबेन्नरः॥
अरिष्टोऽयं जयेद्गुल्ममविपा516कं सुदुस्तरम्॥५९॥

वृश्वीवः श्वेतपुनर्नवा।उरुबूकः शुक्लैरण्डः। वर्षाभू रक्तपुनर्नवा।बृहतीद्वयमिति। एका चणकफला द्वितीया स्थूलफला। वृश्वीवादीनां चित्रकान्तानामाढकम्। अन्ये त्विति मन्यन्ते वृश्चीवादीनां शतपलं ग्राह्यम्। द्रोगे द्रव्यतुला मतेति वचनात्। पादावशेषितं पादावशिष्टम्।म(मा)गधा(ध्या)दिप्रमाणं यावन्मात्रेण कुम्भस्य सम्यक्प्रलेपनं भवति। मगधा(मागधी) पिप्पली।पथ्याचूर्णार्धसंयुतमिति। हरीतकीचूर्णार्धप्रस्थसंयुक्तम्। तुषोषितं तुषधान्यराशौ स्थितम्। बुसोषितमिति पाठे बुसमध्ये स्थितम्। जीर्णभक्तो लुप्तकोष्ठः। अस्य पलमर्धपलं वा प्रातरुत्थाय योज्यम्।वृश्चीवारिष्टः॥५७॥५८॥५९॥

गुल्मनिषिद्धान्याह—

वल्लूरंमूलकं मत्स्याञ्शुष्कशाकानि वैदलम्॥
न खादेद्वालुकं गुल्मी मधुराणि फलानि च॥६०॥

वल्लूरं शुष्कमांसम्। मूलकमार्द्रंशुष्कस्य वातफहरत्वात्। एतच्च हरितवर्गोपलक्षणं गुल्मे हरितवर्गस्याप्यहितत्वात्। वैदलं मुद्गवनमुद्गादिः। आलुकं पिण्डालुककाष्ठालुकमध्वालुकहस्त्यालुकशालूकशृङ्गाटमृणालबिसादिकम्। मधुराणि फलानि क्षीरिवृक्षफलानि। क्षा(क्षी)रपाणौ न्यग्रोधादिफलवर्ज(न)स्योक्तत्वात्। डल्लणस्तु—मधुराणि फलानि न्यग्रोधादिक्षीरिवृक्षफलानि चोचमोचादीनि चकारादेवंविधान्यन्यान्यपि जाम्बवकपित्थतिन्दुकादीनि वर्ज्यानीति व्याख्याति॥६०॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां त्रिंशो गुल्माधिकारः समाप्तः॥३०॥
_________________

अथैकत्रिंशो हृद्रोगाधिकारः।
_____________

गुल्मस्य त्दृदयमपि स्थानमुक्तमतो हृदयगतत्वसामान्याद्धृद्रोग उच्यते। त्दृद्रोगो हृच्छूलम्। त्दृदि भङ्गव्यथेति **गदाधरः।**वातहृद्रोगचिकित्सामाह—

वातोपसृष्टे हृदये वामयेत्स्निग्धमातुरम्॥
द्विपञ्चमूलीक्वाथेन सस्नेहलवणेन च॥१॥

वातोपसृष्टे त्दृदये वातत्दृद्रोग इत्यर्थः। वातजे वमनोपदेशः कफस्थानत्वाद्धृदयस्य। उक्तं च—“अन्यस्थानगतं दोषं स्थानिवत्समुपाचरेत्” इति। एवं पित्तजेऽपि वमनम्। एवं चरकेऽपि। हृद्रोगिणो यद्यप्यवम्या उक्तास्तथाऽपि कफोत्थ उत्क्लेशे बलीयसिसर्वत्रैव वमनम्। दशमूलक्वाथे वामनीयमदन इत्यादियोगः कार्यः। तथा सति वमनस्य सुकरत्वात्॥१॥

वमनानन्तरं यत्कार्यं तदाह—

पिप्पल्येला वचा हिङ्गु यवक्षारोऽथ सैन्धवम्॥
सौवर्चलमथो शुण्ठी अजमोदावचूर्णितम्॥२॥

फलधान्याम्लकौलत्थदधिमद्यासवादिभिः॥
पाययेच्छुद्धदेहं च स्नेहेनान्यतमेन वा॥३॥

फलं मातुलुङ्गदाडिमादि हृद्यत्वात्तस्य च रसो ग्राह्यो वाते(न्ते) यौगिकत्वात्। धान्याम्लं काञ्जिकम्। कौलस्थः कुलत्थयूषः। स्नेहेनान्यतमेन वेति। घृततैलवसामज्जानामन्यतमेन पानार्थम्। फलधान्याम्लादिबहुद्रवद्रव्योपदर्शनं सात्म्याद्यपेक्ष्यम्। पिप्पल्याद्यं चूर्णम्॥२॥३॥

नागरं वा पिवेदुष्णं कषायं चाग्निवर्धनम्॥
कासश्वासानिलहरं शूलहृद्रोगनाशनम्॥४॥

नागरं वा पिबेदुष्णं कषायमिति। नागरं नागरकृतम्॥४॥

पित्तहृद्रोगे वमनमाह—

श्रीपर्णीमधुकक्षौद्रसितागुडजलैर्वमेत्॥
पित्तोपसृष्टे हृदये सेवेत मधुरैः शृतम्॥
घृतं कषायांश्चोद्दिष्टान्पित्तज्वरविनाशनान्॥५॥

श्रीपर्णीफलं गम्भारीफलम्।मधुकं यष्टीमधु।श्रीपर्णीमधुकयोर्ज्ञेयं (?) योग्यत्वात्। जलमर्धशृतक्वाथः। अत्र क्षौद्रसितागुडान्प्रक्षिप्य पित्तजे वमेत्। किंवा जलस्य श्रीपर्ण्यदिभिः सर्वैः सह संबन्धात्पञ्च योगा अमी।**मधुरैः शृतं घृतमिति।**मधुरगणक्वाथकल्कसाधितं घृतम्। कषायांश्चोद्दिष्टानिति। चन्दनोशीरश्रीपर्णीत्यादिनोक्तान्॥५॥

शीताः प्रदेहाः परिषेचनानि तथा विरेको हृदि पित्तदुष्टे॥
द्राक्षासिताक्षौद्रपरूषकैः स्याच्छुद्धे च पित्तापहमन्नपानम्॥६॥

द्राक्षादिभिर्युक्तमन्नपानं मन्थयूषादि वमनविरेचनशुद्धे कार्यम्॥६॥

पिष्ट्वापिबेच्चापि सितां जलेन यष्ट्याह्वयं तिक्तकरोहिणीं च॥७॥
अर्जुनस्य त्वचा सिद्धं क्षीरं योज्यं हृदामये॥
सितया पञ्चमूल्या वा बलया मधुकेन वा॥८॥

प्रत्येकमर्जुनत्वगादिभिः साधितं क्षीरं सितया सह पेयमिति चत्वारो योगाः। केवलाम्भःसाधितक्षीरे सिताप्रक्षेपात्पञ्चधा।पञ्चमूली त्वल्पा॥७॥८॥

श्लैष्मिंकहृद्रोगाचिकित्सामाह—

घृतेन दुग्धेन गुडाम्भसा वा पिबन्ति चूर्णं ककुभत्वचो ये॥
हृद्रोगजीर्णज्वरपित्तरक्तं हत्वा भवेयुश्चिरजीविनस्ते*517॥९॥

वचानिम्बकषायाभ्यां वान्तं हृदि कफोत्थिते॥
वातहृद्रोगहृच्चूर्णं पिप्पल्यादि च पाययेत्॥१०॥

वचानिम्बकषायाभ्यामिति। अनयोरेककषायेण वामे(न्तं) वमनं किंवा वचाकल्को निम्बस्य कषाय आभ्यां मिलित्वा वमनम्। त्दृदि हृद्रोगे तात्स्थ्यात्तच्छन्दः। वातहृद्रोग हृच्चूर्णं पिप्पल्यादीति। इहैव पिप्पल्येत्यादिना निर्दिष्टं न^(…..)परं च पिप्पल्यादिगणं पिबेदिति शङ्कनीयं यतः सौश्रुतोऽयं ग्रन्थः।तथाऽस्य स्थाने केचिदेवं पठन्ति वातजे चूर्णमुद्दिष्टं पाययेद्भोजयेच्च तमि(दि)ति। अस्यार्थः। श्लेष्मत्दृद्रोगे वचानिम्वकषायाभ्यां वान्तं वातजे त्दृद्रोग उक्तं चूर्णं पिप्पल्येलेत्यादिकं पाययेत्। न केवलं तच्चूर्णं पाययेत्।भोजयेच्च तदिति। वातजत्दृद्रोगोक्तं चूर्णं भोजयेच्च।भक्तेन सह खादयेदित्यर्थः॥९॥१०॥

त्रिदोषजे लङ्घनमादितः स्यादन्नं च सर्वेषु हितं विधेयम्॥
हीनातिमध्यत्वमवेक्ष्य चैव कार्यं त्रयाणामपि कर्म शस्तम्॥११॥

त्रिदोषजे लङ्घनमादित इति। त्रिदोषत्दृद्रोगे त्दृदयस्य कफस्थानत्वादादौ लङ्घनेन कफ एव जेतव्य इति भावः। त्रिदोषज उल्बणदोषप्रतिक्रियासूत्रमाह। हीनत्वमधिकत्वं मध्यत्वं चेति हीनातिमध्यत्वं दोषाणां हीनत्वादिकं प्रतीत्य यत्कर्म शस्तमधिक(कादि)हन्तृतया तत्कार्यमिति तात्पर्यार्थिः॥११॥

चूर्णं पुष्करजं लिह्यान्माक्षिकेण समायुतम्॥
हृच्छूलश्वासकासघ्नंक्षयहिक्कानिवारणम्॥१२॥

तैलाज्यगुडविपक्वंचूर्णं गोधूमपार्थजं वाऽपि॥
पिबति प518योऽनु च स भवेज्जित519सकलहृदामयः पुरुषः॥१३॥

तैलाज्यगुडान्मिलित्वा पादिकान्दत्त्वा गोधूमपार्थचूर्णं गोधूमार्जुनत्वक्चूर्णं समभागं तोयेनोत्कारिकावद्विपाच्य भक्ष्यम्। किंच गोधूमपार्थसमो गुडः। तैलाज्ये संस्कारार्थं स्तोकमात्रया देये। पार्थोऽर्जुनः।वाशब्दो योगान्तरापेक्षया॥१२॥१३॥

गोधूमककुमचूर्णं छागपयोगव्यसर्विषा पक्वम्॥
मधुशर्करासमेतं शमयति हृद्रोगमुद्धतं पुंसाम्॥१४॥

अयं योगोऽपि च्छागक्षीरेण सर्पिर्मधुशर्कराणां पूर्वतन्मात्रां गृहीत्वोत्कारिकावद्विपक्तव्यः। मधु शीते प्रदेयम्॥१४॥

मूलं नागबलायास्तु चूर्णं दुग्धेन पाययेत्॥
हृद्रोगकासश्वासघ्नं ककुभस्य च वल्कलम्॥१५॥

रसायनं परं बल्यं वातजिन्मासयोजितम्॥
संवत्सरप्रयोगेण जीवेद्वर्षशतं ध्रुवम्॥१६॥

**मूलं नागबलायास्तु चूर्णमिति।**चूर्णं चूर्णरूपं तेन नागबलामूलेन समानाधिकरणम्।ककुभस्य च वल्कलमिति। ककुभत्वक्चूर्णमपि दुग्वेन पेयम्।योगद्वयमिदम्॥१५॥१६॥

हिङ्गूग्रगन्धाबिडविश्वकृष्णाकुष्ठाभयाचित्रकयावशूकम्॥
पिवेत्ससौवर्चलपौष्कराढ्यं यवाम्भसा शूलहृदायघ्नम्520॥१७॥

हिङ्वादीनां चूर्णं यवक्वाथे प्रक्षिप्यपिबेत्॥१७॥

दशमूलकषायं तु लवणक्षारयोजितम्॥
श्वासकासं सहृद्रोगं गुल्मशूलं च नाशयेत्॥१८॥

सुगमम्॥१८॥

कृमिहृद्रोगचिकित्सामाह—

कृमिहृद्रोगिणं स्निग्धं भोजयेत्पिशितौदनम्॥
दध्ना च पललोपेतं त्र्यहं पश्चाद्विरेचयेत्॥
सुगन्धिभिः सलवणैर्योगैः साजाजिशर्करैः॥१९॥

** कृमिहद्रोगिणमिति।**पिशितप्रधानमोदनं पिशितौदनं पिशितौदनं तु दध्नापललेन संयुक्तं त्र्यहं भोजयेत्कृमीणामुत्क्लेशनार्थम्। दध्नेति सहार्थे तृतीया। उपेतमित्यस्य समानलिङ्गत्वेन दध्ना सह संबन्धात्। पललं भृष्टतिलचूर्णम्।उत्क्लेशनानन्तरं किं कुर्यादित्याह—पश्चाद्विरेचयेदित्यादि। सुगन्धिभिः सलवणैर्योगैरिति। विरेचनयोगैश्चातुर्जीतसुगन्धिभिः। सौगन्धिकत्वं च वान्तिशङ्कानिरासार्थम्। इत्थमुत्क्लिष्टाः कृमयः कोष्ठमायान्ति तत्रस्थाश्च सुखं ह्रियन्ते।

अथ डल्लणव्याख्या—सुगन्धिभिर्योगैर्विरेचनकल्पोकैः शर्कराक्षौद्रसंयुक्तैरित्यादिभिः। **सलवणैर्योगैरिति।**समास्त्रिवृन्नागरकाभयाः स्युरित्यादिभिः। साजाजिशर्करैरिति सुगन्धियोगसलवणत्योगविशेषणं साजाजिकानां वैरेचनिकानां योगानामनिर्देशात्। तेनाजाजीशर्करासहितैः सुगन्धिभिर्योगैरथवा सलवणैरप्यजाज्यादियुक्तैर्विरेचयेदिति। केचित्सलवणैरित्यत्र सपललैरिति पठित्वा सभृष्टतिलकल्कैः सुगन्धिभिर्योगैर्विरेचयेदिति व्याख्यानयन्ति। कृमिहृद्रोगे वमनं न योज्यं कृमिजर्जरहृदयत्वात्। अत एव सुगन्धियोगैर्विरेचनं युक्तं वमनशङ्काभयादिति॥१९॥

पीतविरेचकस्यानुपानमाह—

विडङ्गागाढं धान्या521म्लं पाययेद्धितमुत्तमम्॥२०॥

विडङ्गगाढं विडङ्गोत्कटं धान्याम्लं काञ्जिकमनुपानम्। विडङ्गगाढैरिति पाठे तु पूर्वेणैव संबन्धः। विडङ्गदानं च कृमीणां विक्षोभकरणार्थं विनाशार्थं वा। वमनं पुनरिह कृमिकारणग्रन्थिरूपशोथविघट्टनशङ्कया तथा वमनेन ह्रियमाणकृमीणां शिरोगतेन्द्रियोपघाताभिधानोपदिष्टम्॥२०॥

कृमिजे च पिबेन्मूत्रं विडङ्गामयसंयुतम्॥
हृदि स्थिताः पतन्त्येवमधस्तात्कृमयो नृणाम्॥२१॥

पिबेन्मूत्रं विडङ्गामयसंयुतमिति। आमयः कुष्ठम्। एवमनन्तरोक्तविधिना विडङ्गकुष्ठचूर्णं प्रक्षिप्य गोमूत्रं च विरेकार्थं पिबेत्॥२१॥

विरेचनानन्तरमग्निसंधुक्षणार्थं परिशिष्टकृमिविनाशार्थमन्नसंसर्गमाह—

यवान्नंवितरेच्चास्मै सविडङ्गमतः परम्॥२२॥

यवान्नं यवपेयादि वितरेद्दद्यात्। **सविडङ्गमिति।**षडङ्गविधिना विडङ्गकषायसाधितम्। अत इति। विरेकात्॥२२॥

वल्लभघृतमाह—

मुख्यं शतार्धं च हरीतकीनां सौवर्चलस्यापि पलद्वयं च ॥
पक्वं522घृतं बल्लभकेति नाम्नाहृच्छ्रासगुल्मोदरमारुतघ्नम्॥२३॥

मुख्यं श्रेष्ठं हरीतकीनां गुडकं हरीतकी सौवर्चलं च कल्कं घृतस्य प्रस्थः पानीयेन चतुर्गुणेन पाकः। वल्लभकं घृतम्॥२३॥

श्वदंष्ट्राद्यं घृतमाह—

श्वदंष्ट्रोशीरमञ्जिष्ठाबलाका523श्मर्यकत्तृण524म्॥
दर्भमूलं पृथक्पर्णी पलाशर्षभकौस्थिरम्॥२४॥

पलिकान्साधयेत्तेषां रसे क्षीरचतुर्गुणे॥
कल्कैः स्वगुप्तर्षभकमेदाजीवन्तिजीवकैः॥२५॥

शतावर्यधि(यृद्धि)मृद्वीकाशर्कराश्राविणीबिसैः॥
प्रस्थःसिद्धो घृताद्वातपित्तहृद्रोगशूलनुत्॥२६॥

मूत्रकृच्छ्रप्रमेहार्शःकासश्वासक्षयापहः॥
धनुः स्त्रीमद्यभाराध्वखिन्नानां बलमांसदः525॥२७॥

कत्तृणं गन्धतृणम्।पलाशा शठी। एतस्मिन्नेकादशपले क्वाथेऽष्टगुणेन जलेनैकादश(श)रावान्दत्त्वा क्वाथः पादशेषः पादोनशरावत्रयं ततश्चतुर्गुणं क्षीरमेकादशशरावरूपमिति किंचिदूनाध्यष्टगुणः पाकः। अन्ये त्वाहुः—एकादशपलक्वाथ्यद्रव्य आढकं जलं शेषः प्रस्थं ततश्चतुर्गुणं क्षीरमाढकमेवं पञ्चगुणः पाकः प्रचरति। श्राविणी मुण्डितिका देशान्तरीयफलं वा। बिसं मृणालम्। श्वदंष्ट्राद्यं घृतम्॥२४॥२५॥ २६॥२७॥

बलाद्यं घृतमाह—

घृतं बलानागबलार्जुनाम्बुसिद्धं सयष्टीमधुकल्कपादम्॥
हृद्रोगशूलक्षयर526क्तपित्तकासानिलासृक्शमयत्युदीर्णम्॥२८॥

अम्बु क्वाथः। बलाद्यं घृतम्॥२८॥

पार्थस्य कल्कस्य र527सेन सिद्धं शस्तं घृतं सर्वहृदामयेषु॥२९॥

सुगमम्।अर्जुनघृतम्॥२९॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामक सिद्धयोगव्याख्यायां श्री श्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामेकत्रिंशो हृद्रोगाधिकारः समाप्तः॥३१॥

अथ द्वात्रिंशो सूत्रकृच्छ्राधिकारः।
_______________

हृद्रोगो त्दृदयगतो त्दृदयं च मर्म तेन मर्मगतत्वसाधर्म्याद्बस्तिगतं मूत्रकृच्छ्रमुच्यते। मूत्रकृच्छ्रं महता कष्टेन मूत्रस्य प्रवृत्तिः॥

अश्मरीशान्तिविधयो य उक्ताः प्रसमीक्ष्य तान्॥
यथादोषं प्रयुञ्जीत स्नेहादिमपि च क्रमम्॥१॥

अश्मरीशान्तिविधय इति। अश्मरीणां चतसृणां यच्चिकित्सितं तदष्टस्वपि मूत्रकृच्छ्रेषु दोषानतिक्रमेण कुर्यादित्यर्थः। स्नेहादिमपीति। स्नेहनिरूहोत्तरबस्त्यादिविधिं चकाराद्वक्ष्यमाणमूत्राघात चिकित्सितमपि॥१॥

अभ्यञ्जनस्नेहनिरूहबस्तिस्वेदोपनाहोत्तरबस्तिसेकान्॥
स्थिरादिभिर्वातहरैश्च सिद्धान्दद्याद्रसांश्चानिलमूत्रकृच्छ्रे॥२॥

स्थिरादिभिरिति। स्वल्पपञ्चमूलेन॥२॥

अमृतानागरं धात्रीवाजिगन्धात्रिकण्टकान्॥
प्रपिबेद्वातरोगार्तःशूलवान्मूत्रकृच्छ्रवान्528॥३॥

क्वाथोऽयम्। वाजिगन्धाऽश्वकन्दः॥३॥

सेकावगाहाःशिशिराः प्रदेहा
ग्रैष्मो विधिर्बस्तिपयोविरेकाः॥
द्राक्षाविदारीक्षुरसैर्घृतैश्च
कृच्छ्रेषु पित्तप्रभवेषु कार्यः॥४॥

ग्रैष्णो विधिरिति।

“शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः।
घृतं पयः सशाल्यन्नं भजन्ग्रीष्मे न सीदति”॥

इत्यादिना चरके तस्य शितीयो (?) विधिः। पुनः शिशिरसेकावगाहाद्युपदर्शनमिह विशेषार्थम्। द्राक्षाविदारीक्षुरसैर्घृतैश्चेति सहयोगे तृतीया॥४॥

कुशः काशः शरो दर्भ इक्षुश्चेति तृणोद्भवम्॥
पित्तकृच्छ्रहरं पञ्चमूलं बस्तिविशोधनम्॥
एतत्सिद्धं पयः पीतं मेढ्रगं हन्ति शोणितम्॥५॥

सुगमम्॥५॥

शतावरीकाशकुशश्वदंष्ट्राविदारिशालीक्षुकसेरुकाणाम्॥
क्वाथंसुशीतं मधुशर्कराक्तं पिबञ्जयेत्पैत्तिकमूत्रकृच्छ्रम्॥६॥

सुगमम्॥६॥

हरीतकीगोक्षुरराजवृक्षपाषाणभिद्धन्वयवासकानाम्॥
क्वाथं पिबेन्माक्षिकसंप्रयुक्तं कृच्छ्रे सदाहे सरुजे विबन्धे॥७॥

राजवृक्षस्य फलम्।धन्वयवासो दुरालभा॥७॥

गुडेनाऽऽमलकं वृष्यं श्रमघ्नंतर्पणं प्रियम्॥
पित्तासृग्दाहशूलघ्नं मूत्रकृच्छ्रनिवारणम्॥८॥

सुगमम्॥८॥

मूत्रेण सुरया वाऽपि कदलीस्वरसेन वा॥
कफकृच्छ्रविनाशाय श्लक्ष्णं पिष्ट्वा त्रुटिं पिबेत्॥९॥

त्रुटिमिति। एलाम्॥९॥

तक्रेण पिष्टं529 शितिमारकस्य530 बीजं पिबेत्कृच्छ्रविनाशनाय॥
पिबेत्तथा तण्डुलधावनेन प्रवालचूर्णं कफमूत्रकृच्छ्रे॥१०॥

शितिमारकस्येति। शितिमारः शालिंचः। प्रवालचूर्णमिति । प्रवालो विद्रुमः॥१०॥

सर्वंत्रिदोषप्रभवे तु वायोः
स्थानानुपूर्व्या प्रसमीक्ष्य कार्यम्॥
त्रिभ्योऽधिके प्राग्वमनं कफे स्या-
त्पित्ते विरेकः पवने तु बस्तिः॥११॥

वातजादिमूत्रकृच्छ्रनिर्दिष्टभेषजं सर्वं समत्रिदोषजे कृच्छ्रे मिलितं कार्यं तच्च वायोः स्थानानुपूर्व्या विधेयं न त्रिदोषज्वर इव कफस्थानानुपूर्व्या। समत्रिदोषजेऽपि कृच्छ्रे वातस्थानजत्वेन वात एव पूर्वं जेतव्यइति भावः। विषमसंनिपातजे चिकित्सामाह—किंचा(त्रिभ्योऽ)धिक इत्यादि। त्रिभ्योऽधिक इति ग्रन्थः कफे पित्ते तथा पवन इत्यत्र संबध्यते॥११॥

बृहतीधावनीपाठायष्टीमधुकलिङ्गकाः॥
पाचनीयो बृहत्यादिः कृच्छ्रे दोषत्रयापहः॥१२॥

धावनी कण्टकारिका॥१२॥

गुडेन मिश्रितं क्षीरं कदुष्णं कामतः पिबेत्॥
मूत्रकृच्छ्रेषु सर्वेषु शर्करावातरोगनुत्॥१३॥

**क्षीरं कदुष्णमिति।**वातकफजे।पित्तजे तु शीतम्॥१३॥

तथाऽभिघात531जे कुर्यात्सद्यो व्रणचित्सितम्॥
मूत्रकृच्छ्रे सदा चास्य कार्या वातहरी क्रिया॥१४॥

वातहरी क्रियेति। आनाहोता॥१४॥

स्वेदचूर्णक्रियाभ्यङ्गबस्तयः स्युः पुरीषजे॥१५॥

चूर्णक्रिया फलवर्तिः। किंच विरेचनद्रव्यचूर्णं दत्त्वा गुदे नलिकया फुङ्कनम्॥१५॥

क्वाथंगोक्षुरबीजस्य यवक्षारयुतं पिबेत्॥
मूत्रकृच्छ्रं शकृज्जं च पीतः शीघ्रं निवारयेत्॥१६॥

**शकृज्जमिति।**पुरीषजम्॥१६॥

शर्कराश्मरिकृच्छ्रे च शर्कराश्मरिनाशनम्॥

शर्कराश्मरिनाशनमिति। शर्कराश्मरीचिकित्सितम्॥

लेह्यं शुक्रविबन्धोत्थे शिलाजतु समाक्षिकम्॥१७॥

सुगमम्॥१७॥

वृष्यैर्बृंहितधातोश्च विधेयाः प्रमदोत्तमाः॥

सुगमम्॥

एलाहिङ्गुयुतं क्षीरं सर्पिर्मिश्रं पिबेन्नरः॥
मूत्रदोषविशुद्ध्यर्थं शुक्रदोषहरं च तत्532॥१८॥

सुगमम्॥१८॥

त्रिकण्टकारग्वधदर्भकाश-
दुरालभापर्वतभेदपथ्याः॥
निघ्नन्ति पीता मधुनाऽश्मरीं च
संप्राप्तमृत्योरपि मूत्रकृच्छ्रम्॥१९॥

त्रिकण्टकेत्यादियोगः क्वाथः। पर्वतभेदः पाषाणभेदः। मधु प्रक्षेपः॥१९॥

एलाश्मभेदकशिलाजतुपिप्पलीनां
चूर्णानि तण्डुलजलैर्लुलि533तानि पीत्वा॥
यद्वा गुडेन सहितान्यवलिह्य चैता-
न्यासन्नमृत्युरपि जीवति मूत्रकृच्छ्री॥२०॥

**यद्वा गुडेन सहितानीति।**समेन गुडेन॥२०॥

अयोरजःसूक्ष्मपि534ष्टं मधुना सह योजितम्॥
मूत्रकृच्छ्रं निहन्त्याशु त्रिभिर्लेहैर्न संशयः॥२१॥

अयोरज इति। जारितपुटितं लोहचूर्णं विशेषतो मूत्रकृच्छ्रहरैः पुटितम्॥२१॥

सितातुल्यो यवक्षारः सर्वकृच्छ्रविनाशनः॥
निदिग्धिकारसो वाऽथ सक्षौद्रःकृच्छ्रनाशनः॥२२॥

सुगमम्॥२२॥

शतावरीकाशकुश्वदंष्ट्रा-
विदारिकेक्ष्वामलकेषु सिद्धम्॥
सर्पिः पयो वा सितया विमिश्रं
कृच्छ्रेषु पित्तप्रभवेषु योज्यम्॥२३॥

घृतसाधनपक्षे शतावर्यादिभिः कल्को द्रवं जलम्। **सितया विमिश्रमिति।**पादिकया सितया विमिश्रम्।शतावरीघृतं दुग्धं वा॥२३॥

त्रिकण्टकाद्यं घृतमाह—

त्रिकण्टकैरण्डकुशाद्यभीरुकर्कारुकेक्षुस्वरसेन सिद्धम्॥
सर्पिर्गुडार्धांशयुतं प्रपेयं कृच्छ्राश्मरीमूत्रविघातदोषे*॥२४॥

कुशादि तृणपञ्चमूलम्। अभीरुः शतावरी। कर्कारुकः कूष्माण्डभेदो जोताल इति लोके। त्रिकण्टकादीनां सर्वेषां स्वरसस्तदभावे कषायः।**गुडार्धांशयुतमिति।**घृतार्धभागगुडयुतम्। गुडं च दत्त्वैव पाकः सिद्धे वा प्रक्षेपः। त्रिकण्टकाद्यं घृतम्॥२४॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां द्वात्रिंशो मूत्रकृच्छ्राधिकारःसमाप्तः॥३२॥
__________________

अथ त्रयस्त्रिंशो मूत्राघाताधिकारः।
______________

मूत्रविकृतिसामान्यान्मूत्राघातारम्भः।मूत्रस्याऽऽघातो विबन्धो मूत्राघातः। मूत्रकृच्छ्रमूत्राघातयोश्चायं भेदो मूत्रकृच्छ्रे मूत्रत्वमधिकं मनाग्विबन्धो मूत्राघाते तु विबन्धो महान्मूत्रत्वमल्पमिति। ननु यथा नामादिभेदेन भिन्ना मूत्राघाता दर्शितास्तथैव चिकित्साऽपि भिन्ना वक्तुमुचिता कुतोऽत्र सामान्येन चिकित्सोक्ता। उच्यते। सर्वेष्वेव मूत्राघातेषु यतो वातः कारणमतः सामान्येन चिकित्सितमुक्तं भवति। एवं यदि तत्र वायुरेव कारणं किं तर्हि तत्र पित्तकफावप्यारम्भकत्वेन निर्दिष्टौ तत्कथमेकैव चिकित्सा सर्वेषूदावर्तेषु। सत्यम्। सर्वेऽपि मूत्राघाताः प्रायशो वातजन्याः पित्तकफौ पुनरावरकौ तस्मात्तेषामेकैव चिकित्सा दोषादिबलविकल्पं रोगतत्त्वं द्रव्यतत्त्वं च विज्ञाय भिषजा प्रयोज्या।

स्नेहस्वेदोपपन्नस्य हितं स्नेहविरेचनम्॥
ततः संशुद्धदेहस्य हिताश्चोत्तरबस्तयः॥१॥

सुगमम्॥१॥

पाटल्या यावशूकाच्चपारिभद्रात्तिलादपि॥
क्षारोदकेन मदिरां त्वगेलोषणसंयुताम्॥
पिबेद्गुडोपदंशान्वा लि535ह्यादेतान्पृथक्पृथक्॥२॥

** तिलादिति।** तिलनालात्। इह वक्ष्यमाणं पृथक्पृथगिति संबध्य पृथक्पृथक्पाटस्यादीनां क्षारस्राविणोदकेन समां मदिरां त्वगेलोषणचूर्णं प्रक्षिप्य पिबेत्। कार्तिकस्तु मदिरामित्यस्य स्थाने मतिमानिति पठित्वा चूर्ण(क?)मिति च व्यात्दृत्य व्याचष्टे पाटल्यादीनां चूर्णं क्षारोदकेन मुष्ककक्षारवारिणा पिबेदिति।

तथा च विश्वामित्रः

“पाटलेः पारिभद्राद्वा तिलाद्वाऽपि यवाग्रजात्॥
कणैलात्वम्युतं चूर्णं मुष्ककक्षारवारिणा॥
पिबेद्गुडेन मिश्रं वा लिह्यान्मूत्रविघातनुत्” इति॥

एतत्संवादादत्रोषणं पिप्पली। गुडोपदंशं वा(शान्वा) लिह्यादेवानिति। एतान्पृथक्पाटल्यादिक्षारान्गुडोपदंशान्गुडमिश्रान्वा लिह्यात्। डल्लुणोक्तपाठे व्याख्यातम्।

तद्यथा—“पाटल्या यावशूकाच्च पारिभद्रात्तिलादपि।
क्षारोदकेन मतिमांस्त्वगेलोषणचूर्णकम्॥
पिबेद्गुडेन मिश्रान्वा लिह्माल्लेहान्पृथक्पृथक्॥

यावशूको यवक्षारः। पारिभद्रः पर्वतनिम्बः। अन्ये पारिभद्रशब्देन कण्टकिवृक्षं रक्तकुसुमं फलभद्रसंज्ञं वदन्ति। उषणं पिप्पली। पाटल्यादीनां क्षारोदकेन सह त्वगेलोषणचूर्णकं पिवेत्। अन्ये त्वगेलोषणचूर्णकमित्यत्र त्वगेलोषणसंयुतादिति पठन्ति तत्र पाटल्यादेस्तिलान्ताद्द्रव्यात्त्वगेलोषणसंयुतात्पृथक्पृथग्यच्चूर्णम्। चूर्णमिति कर्मपदानिर्देशात्तन्त्रयुक्त्या द्रष्टव्यम्। तत्क्षारोदकेन मुष्ककक्षारोदकेन पिबेत्। तत्कृतान्वा पृथक्पृथग्लेहान्गुडमिश्राल्लिँह्यादिति व्याख्यानयन्ति। तथा च विश्वामित्रः—पाटलेः पारिभद्राद्वेत्यादि। मतिमानित्यत्र मदिरामिति केचित्पठन्ति तथा गुडेन मिश्रान्वेत्यत्र गुडोपदंशान्वेति पठन्ति तच्च पाठद्वयमार्षम्॥२॥

त्रिफलाकल्कसंयुक्तं लवणं वाऽपि536 पाययेत्॥

त्रिफलाकल्कसंयुक्तं लवणं पिबेदित्यत्रापि पानार्थं क्षारोदकेनेत्यनुवर्तत इति कार्तिकःअन्ये पुनरुष्णाम्बुनैवाऽऽहुः॥

निदिग्धिकायाः स्वरसं पिबेद्वा तान्तवस्रुतम्॥३॥

** तान्तवस्रुतमिति**। वस्त्रगालितम्॥३॥

जले कुङ्कुमकल्कं वा सक्षौद्रमुषितं निशि॥

** जले कुकुमकल्कं चे(वे)ति।** कुङ्कुमकल्कं शीतकषायविधिना जले पर्युषितं प्रातर्वस्त्रस्रुतंसक्षौद्रं पिबेत्। कुङ्कुमकर्षं चेति पाठान्तरम्॥

सतैलं पाटलाभ537स्म क्षारवद्वापरिस्रुतम् ॥ ४॥

** क्षारवद्वापरिस्रुतमिति।** पानीयमुष्ककक्षारवत्परिस्रुतं किंवा पाटलाभस्म परिस्रुतं क्षारवत्क्षारयुक्तं पिबेत्॥४॥

कल्कमीर्वारुबीजानामक्षमात्रं ससैन्धवम्॥
धान्याम्लयुक्तं पीत्वैव मूत्राघाताद्विमुच्यते॥५॥

ईर्वारुर्ग्रीष्मकर्कटिका।अक्षमात्रं कर्षप्रमाणम्।धान्याम्लं काञ्जिकम्॥५॥

सुरां सौवर्चलवतींमुत्राघाती पिबेन्नरः॥६॥

सुरा पिष्टकृता॥६॥

दाडिमाम्बुयुतं मुख्यमेलाबीजं सनागरम्॥
पीत्वा सुरां सलवणां मूत्राघाताद्विमुच्यते॥७॥

**दाडिमाम्बुयुतमिति।**दाडिमफलरसयुतम्। नागरान्तोऽयमेको योगः।सुरां सलवणामिति द्वितीयः।दाडिमाम्लां युतां मुख्यामेलाजीरकनागरैः। पीत्वा सुरां सलवणामिति तु सुश्रुते पाठादेक एवायं युज्यते। अस्यार्थः। दाडिमाम्लां दाडिमेनाम्लीकृताम्। युतामित्यत्रैलाजीरकनागरैरिति योज्यम्। मुख्यां मुरां पैष्टीमित्यर्थः। सलवणांसैन्धवयुताम्॥७॥

पिवेच्छिलाजतु क्वाथेगणे वीरतरादिके॥

सुगमम्॥

रसं दुरालभाया वा कषायं वासकस्य वा॥८॥
त्रिकण्टकैरण्डशतावरीभिः सिद्धं पयो वा तृणपञ्चमूले॥
गुडप्रगाढं सघृतं पयो वा रोगेषु कृच्छ्रादिपु शस्तमेतत्॥९॥

गुडप्रगाढमिति पूर्वेण संबध्यते। त्रिकण्टकादिसिद्धं वा तृणपञ्चमूलसिद्धं वा पयोगुडप्रगाढं हितम्॥८॥९॥

शृतशीतपयोन्नाशी चन्दनं तण्डुलाम्बुना॥
पिबेत्सशर्करं श्रेष्ठमुष्णवाते सशोणिते॥१०॥

** चन्दनमिति**। श्वेतचन्दनमतिशीतलत्वात्। उष्णवात इति। तातन्द्याम्॥१०॥

स्त्रीणामतिप्रसङ्गेन शोणितं यस्य सिच्यते॥
मैथुनोपरमश्चास्य बृंहणीयो हितो विधिः॥
ताम्रचूडवसातैलं हितं चोत्तरबस्तिषु॥११॥

स्त्रीणामतिप्रसङ्गेनेत्यादिग्रन्थो मेढ्रप्रवृत्तिप्रसङ्गादुक्तः॥११॥

स्वगुप्ताफलमृद्वीकाकृष्णेक्षुरसितारजः॥
समांशमर्धभागानि क्षीरक्षौद्रघृतानि च॥१२॥

सर्वं सम्यग्विमथ्याक्षमात्रं लीढ्वापयः पिबेत्॥
हन्ति शुक्रक्षयोत्थांश्चदोषान्वन्ध्यासुतप्रदम्॥१३॥

स्वगुप्ताफलं शूकशिम्बाफलम्।कृष्णा पिप्पली न कृष्णेति क्षुरकविशेषणं सुश्रुतेपिप्पलीपाठात्।तद्यथा—स्वयंगुप्ता फलं चैव तथैवेक्षुरकस्य च। पिप्पलीचूर्णसंयुक्तमित्यादि। इक्षुरकः कोकिलाक्षस्तस्य च बीजम्। सिता शर्करा।रजश्चूर्णम्। अर्धभागानि क्षीरक्षौद्रघृतानि चेति। समुदितचूर्णात्क्षीरादीनि प्रत्येकमर्धपलानि॥१२॥१३॥

चित्रकाद्यं घृतमाह—

चित्रकं सारिवा चैव बला कालानुसारिवा॥१४॥

द्राक्षाविशालापिप्पल्यस्तथा चित्रफला भवेत्॥
तथैव मधुकं दद्याद्दद्यादामलकानि च॥१५॥

घृताढकं पचेदेतैः कल्कैरक्षसमन्वितैः॥
क्षीरद्रोणे जलद्रोणे तत्सिद्धमवतारयेत्॥१६॥

शीतं परिस्रुतं चैव शर्करामस्थसंयुतम्॥
तुगाक्षीर्याश्चतत्सर्वंमतिमान्प्रतिमिश्रयेत्॥१७॥

ततो मितं पिबेत्काले यथादोषं यथाबलम्॥
वातरेताः पित्तरेताः श्लेष्मरेताश्चयो भवेत्॥१८॥

रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगिताम्॥
जीवनीयं च वृष्यं च सर्पिरेतन्महागुणम्॥१९॥

प्रजाहितं च धन्यं च सर्वरोगहरं शिवम्॥
सर्पिरेतत्प्रयुञ्जीत स्त्री गर्भंलभतेऽचिरात्॥२०॥

असृग्दोषं जयेच्चापि योनिदोषांश्चसंहतान्538
मूत्रदोषेषु सर्वेषु कुर्यादेतच्चिकित्सितम्*539॥२१॥

कालानुसारिवा तगरपादिका।विशाला गोरक्षकर्कदी।विशल्यापाठे तु **काष्ठपाटला।**विशालया प्रचारः।चित्रफला गोडुम्बीगोदुग्धिकेन्द्रवारुणीपर्याया।तुगाक्षीर्याश्चेत्यत्र च प्रस्थसंयुतमित्येतत्समासान्तर्भूतमप्याकृष्य संबन्धनीयम्। मितमित्युचितमानम्।काले जीर्णान्नलक्षणे। यथादोषमित्यत्र यथाशब्दः साकल्ये येन सर्वेषु च रोगेषु शुक्रदूषकेषु व्याधिप्रत्यनीकतया घृतमिदं हितम्।यथाबलमिति। देहाग्निबलरूपम्। धन्यमिति। रोगहरत्वेन नीरोगस्य धनोपार्जनशक्तेः। सर्पिरित्येतत्पदप्र540तिपादनम541तिप्रवृत्तिदर्शनार्थम्।चित्रकाद्यं घृतम्॥१४॥१५॥१६॥१७॥१८॥१९॥२०॥२१॥

** इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्री श्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां त्रयस्त्रिंशो मूत्राघाताधिकारः समाप्तः॥३३॥
<MISSING_FIG href=”../../../books_images/U-IMG-1708675940image1.JPG"/>**

अथ चतुस्त्रिंशोऽश्मर्याधिकारः ।
<MISSING_FIG href="../../../books_images/U-IMG-1708675964image2.JPG"/>

मूत्ररोधित्वसाधर्म्यादथाश्मर्यारम्भः।

वरुणस्य त्वचं श्रेष्ठां शुण्ठीगोक्षुरसंयुताम्॥
यवक्षारगुडं दत्त्वा क्वाथयित्वा पिवेद्धिताम्॥
अश्मरीं वातजां हन्ति चिरकालानुबन्धिनम्॥१॥

यवक्षारगुडं दत्त्वेति। यवक्षारं गुडं प्रक्षिप्य॥१॥

गद्यम्। वीरतरसहचरद्वयदर्भवृक्षादनीगुन्द्रानलकुशकाशाश्मभेदा-
ग्रिमन्थमोरटवशिरव सुकभल्लक542कुरण्ट केन्दीवरकपोतवाङ्काश्वदंष्ट्राश्चेति॥१॥

वीरतरः शरः। अन्ये तु वीरतरुर्वेदत्रं (र्वेल्लं) तरुरिति नाम्ना प्रसिद्धो जाङ्गलदेशे नर्मदातटे चर्मण्वतीनदीसमीपे च।

तल्लक्षणमुच्यते—

“वेल्लंतरो जगति वीरतरुः प्रसिद्धः
श्वेतासितारुणविलोहितपीतपुष्पः।
आदारितुल्यकुसुमः शमिसूक्ष्मपत्रः
स्यात्कण्टकी विजलदेशज एष वृक्षः” इति॥

सहचरद्वयं मौलपीतपुष्पकुरण्टद्वयम्। रक्तपुष्पनीलपुष्पकण्टाशेरीयाद्वयमिति डल्लणः। दर्भः प्रसिद्धः। वृक्षादनी वन्दाको वांदु इति लोके वृक्षकलिम्बुकमपरे। गुन्द्रा घुलुञ्चः पट्टेरकभेदो गादर इति लोके। नलो दूर्वाकाराङ्कुरान्तःसृषिरः स्वनाम्ना ख्यातः। कुशो ह्रस्वदर्भः। काशश्चामरपुष्पः। अश्मभेदः पाषाणभेदः।अग्निमन्थस्तेजोवृक्षः। अरणीतिलोके। मोरटोऽङ्कोल्लपुष्पो हस्तिकर्णपलाश इत्येके।इक्षुमूलमित्यन्ये।वसुको वसुहट्टकः। वसुको बुको बकपुष्प इति लोक इति डल्लणः। वशिरः सूर्यावर्तोऽपामार्ग इत्येके। भल्लकः श्योनाकस्तिन्दुकः इति लोके।कुरण्टिका श्रीहस्तिनी।कृष्णसूक्ष्मफला शिखालिकेति लोके। इन्दीवरश्चूया। डल्लण- स्त्विन्दीवरेऽपि तद्भेदो दीर्घपत्रो बहुलपुष्पः कपोतवङ्का सुवर्चला केवाडवेंदुआ। अन्ये शिरीषसदृशपत्रा स्वल्पविटपेति द्रव्यान्तरमाहुः। श्वदंष्ट्रोगोक्षुरकः। इति गद्यम्॥१॥

वीरतरादिरित्येष गणो वातविकारनुत्॥
अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः॥२॥

अश्मरी बस्तिपाषाणा सैवातिभिन्ना शर्करा।मूत्रकृच्छ्रो दुःखमूत्रता। मूत्राघातो मूत्रावरोधः। रुमाशब्दो रोगवचनः स चाश्मर्यादिषु प्रत्येकं संबध्यते॥२॥

शुण्ठ्यग्निमन्थपाषाणशिग्रुवरुणगोक्षुरैः॥3॥

अभयारग्वधफलैः क्वाथं कुर्याद्विचक्षणः॥
रामठक्षारलवणचूर्णं दत्त्वापिबेन्नरः॥४॥

अश्मरीमूत्रकृच्छ्रघ्नं दीपनं पाचनं परम्॥
हन्यात्कोष्ठाश्रितं वातं कट्यूरुगुदमेढ्र्गम्॥५॥

पाषाणः पाषाणभेदः॥३॥४॥५॥

पाषाणभेदो वसुको वशिरोऽश्मन्तकस्तथा॥
शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका॥६॥

कपोतवङ्कार्तगलकाञ्चनोशीरगुच्छकाः॥
वृक्षादनी भल्लकश्चवरुणः शाकजं फलम्॥७॥

यवाः कुलत्थाः कोलानि कतकस्य फलानि च॥
ऊषकादिप्रतीवापमेषां क्वाथे शृतं घृतम्॥

भिनत्ति वातसंभूतामश्मरीं क्षिप्रमेव च ॥ ८ ॥

वसुको बकपुष्पः। वशिरो मर्कटसंज्ञस्तृणविशेषः सूर्यावर्तभेद इत्यन्ये। अश्मन्तकोऽम्ललोटकः। कोविदारसदृशपत्रो मलुआवा।कपोतवङ्काकटभीसदृशपत्रो विटपो मध्यदेशे प्रसिद्धः।आर्तगलोऽर्ग्रडाकः। डल्लणस्त्वार्तमलः ककुभः सुगन्धिमूलः कवहा इति नाम्ना पूर्वदेशे प्रसिद्धः। अन्ये तु बहिः केसरिकण्टकितफलो विटप इति व्याख्यानयन्ति। काञ्चनो जलजो विटपश्चीरितपत्रः। अन्ये कच्चक इति पठन्ति कच्चको मध्यलेखानिचितश्चुच्चूकसदृशपत्र ईषद्रत्त्कमूलः कचक इति मालवदेशे प्रसिद्धः। गुच्छकोच्चडुंचः(?)।गुन्द्रा इति डल्लणः। वृक्षादनी वन्दाकः।भल्लकः श्योनाकः। शाकजं फलं कर्कशमसृणपृष्ठोदरपत्रो वृक्षस्तस्य फलं न मूलादिः। कतकफलं तोयप्रसादनंशशकशुष्कपुरीषप्रतिमम्। ऊषकादिप्रतीवापमिति। अनन्तरं वक्ष्यमाणोषकादिकल्कः। एषामिति। पाषाणभेदादीनाम्। एषां सामान्यस्नेहकषायपरिभाषयाकषायः। ऊषकादीनां स्नेहपादेन कल्कः॥६॥७॥८॥

ऊषकादिगणमाह—

** गद्यम्। ऊषकसैन्धवशिलाजतुकासीसद्वयहिङ्गूनि तुत्थकं चेति॥१॥**

ऊषकः क्षारः। अथवोषकःक्षारमृत्तिका वाराणसीसमीपे वडहरदेशे बाहुल्येनभवति। ऊस इति लोके। कासीसद्वयं धातुकासीसं तुवरकं भस्मसदृशं किंचिदम्लंलवणरसं द्वितीयं पुष्पकासीसमीषत्पीतं तुवररसं तद्भेद एव। तुत्थं कर्परिकातुत्थंखापरीया इति लोके। अन्ये मयूरग्रीवमाहुः। इति गद्यम् ॥१॥

ऊषकादिःकफंहन्ति गणो भेदोविशोषणः॥
अश्मरीशर्करामूत्रशूलघ्नः कफगुल्मनुत्॥९॥

शेषं सुबोधम्॥९॥

क्षारान्यवागूं पेयां च कपायाणि पयांसि च॥
भोजनानि च कुर्वीत वर्गेऽस्मिन्वातनाशने॥१०॥

क्षाराश्चात्र पातव्यास्ते च पूर्णत्वात्कर्षमात्रया सलिलेन मस्त्वादिबस्तिशोधनद्रव्येणवा पलद्वयचतुष्टयप्रमाणेन। क्षारोदकपक्षे तु कर्पद्वयं त्रयं वा षड्गुणेन वा जलेनबहुशः परिस्राव्य पूतं पेयम्। यवाग्वादयश्चात्र पलद्रव्यक्वाथेन कर्तव्याः। भोजनानिभक्ष्यादयः। चकाराच्चूर्णानामपि समुच्चयः। **वर्गेऽस्मिन्निति।**क्वाथद्रव्यवर्गे वातनाशन इति विशेषणात्प्रतीवापद्रव्यंतु कफहरमिति शक्तिविशेषाधानार्थं संयुज्यमानंक्षारादिष्वपि प्रक्षेपेण देयमित्याहुः। इदमर्थं543 वृन्दोऽपि दर्शविष्यति। तद्यथा—कुर्यात्क्षारादिकं क्वाथ्यैस्तस्मिन्क्षेपमवापकैरिति। क्षेपं प्रक्षेपम्। अवापकैःकल्कद्रव्यैः।अवापकैरिति प्रयोगश्चिन्त्यः। अन्यपूर्वाद्वीया544 रावाशब्दस्य साधितत्वात्। वर्गशब्दोपादानादिह यथालाभं प्रयोगः॥१०॥

पित्ताश्मरीचिकित्सामाह—

काशःकुशः शरो गुच्छ इत्कटो मोरटोऽश्मभित्॥११॥

दर्भोविदारी वाराही शालिमूलं त्रिकण्टकः॥
भल्लूकः पाटली पाठा पत्तरोऽथ कुरण्टिका॥१२॥

पुनर्नवा545 शिरीपश्च क्वथितास्तेन साधितम्॥
घृतं शिलाह्वमधुकबीजैरिन्दीवरस्य च॥१३॥

त्रपुसेर्वारुकादीनां बीजैश्चाऽऽवापितं शुभम्॥
भिनत्ति पित्तसंभूतामश्मरीं क्षिप्रमेव च॥१४॥

क्षारान्यवागू546ःपेयाश्च कषायाणि पयांसि च ॥
भोजनानि च कुर्वीत वर्गेऽस्मिन्पित्तनाशने॥१५॥

कुर्यात्क्षारादिकं क्वाथ्यैस्तस्मिन्क्षेपमवापकैः547
वर्गत्वेन यथालाभं परिभाषा प्रवर्तते॥१६॥

शिलाजतु शिलाह्वंस्यात्पुण्ड्रको गुन्द्रगुच्छकौ548
मधुकः कृतह्रस्वत्वाद्बीजैर्बीजक उच्यते<MISSING_FIG href="../../../books_images/U-IMG-1706261697image13.jpg"/> ॥१७॥

इत्कटो महती खग्गली। मोरट इक्षुमूलम्। अश्मभित्पाषाणभेदस्तदभावे चर्मकारालुकम्। पत्तूरः शालिञ्चः शिरिवालिका इति। कुरण्टिका शिरिवालिकाभेदो लोहितपुष्पः। एषां सर्वेषां क्वाथः। शिलाह्वादिभिः कल्कः। शिलामधुकबीजैरित्यत्र बीजपदमिन्दीवरेण संबन्धनीयं न तु बीजो बीजकः पीतशालो वाग्भटसंवादात्

तद्यथा—

“पिष्टेन त्रपुसादीनां बीजेनेन्दीवरस्य च॥
मधुकेन शिलाजेन पिवेदश्मरिभेदनम्” इति॥

मधुकः कृतह्रस्वत्वाद्बीजैर्बीजक इति तु वचनं वृन्दस्य संमोहात्। अस्यार्थः। ह्रस्वमधुकशब्देन चेद्यष्टीमधुकमुच्यते तस्य बीजेनाव्यवहाराद्बीजो बीजक इति।

“घृतं शिलाजं मधुकं बीजमैन्दीवरं तथा॥
त्रपुसेर्वारुकादीनां बीजैरावाप्य तच्छुभम्”॥

इति पाठः सुश्रुते। तत्र शिलाजं शिलाजतु। इन्दीवरं शिरिवालिकाभेदो दीर्घपत्रोबहुलपुष्पः। जैज्जटस्त्विन्दीवरं नीलोत्पलं तन्नेच्छति गयी ॥११॥१२॥१३॥ ॥१४॥१९॥१६॥१७॥

कफाश्मरीचिकित्सामाह—

गणे वरुणकादौ तु गुग्गुल्वेलाहरेणुभिः॥
कुष्ठमुस्ताह्वमरिचचित्रकैः ससुराह्वयैः॥१८॥

एतैः सिद्धमजासर्पिरूषकादिगणेन च॥
भिनत्ति कफसंभूतामश्मरीं क्षिप्रमेव च॥१९॥

________________________________________________

**<MISSING_FIG href="../../../books_images/U-IMG-1706261697image13.jpg"/>**ख. पुस्तके—तिलापामार्गकदलीपलाशयनसंभवः। क्षारःपेयोऽविमूत्रेण शर्करास्वश्मरीषु च॥१॥ क्रौञ्चोष्ट्र-रासभास्थीनि श्वदंष्ट्रातालपत्रिके। वरामोदः कदम्बस्य मूलं विश्वस्य चौषधम्॥२॥ पित्ताश्मशर्करां भिन्द्युःसुरयोष्णोदकेन वा। क्वाथश्चशिग्रुमूलोत्थः कदुष्णोऽश्मरिपातनः॥३॥ इत्याधिकमत्र।

_________________________________________________

क्षारान्यवागूं पेयां च कषायाणि पयांसि च॥
भोजनानि प्रकुर्वीत वर्गेऽस्मिन्कफनाशने॥२०॥

वरुणादिगणेन क्वाथः शेषेण कल्कः। मुस्ताह्वस्थाने भद्रादिपाठः सुश्रुते। भद्रादिभद्रदारुकुष्ठ-हरिद्रेत्यादि। अजासर्पिः केचिन्न पठन्ति ते प्रकरणात्पूर्वोदितात्सामान्येनैवगव्यमेव घृतं ददति॥१८॥१९ ॥२०॥

वरुणादिगणमाह—

** गद्यम्। वरुणार्तगलशिग्रुमधुशिग्रुतर्कारीमेषशृङ्गीपूतिकनक्तमालमोरटाग्निमन्थसैरेयकद्वय-विम्बीवसुकवशिरचित्रकशतावरीबिल्वाजशृङ्गीदर्भबृहतीद्वयं चेति॥१॥**

वरुणस्तित्तसारः शाकद्रुमः। वरुण इति लोके।आर्तगलोऽर्गाडकोऽर्जुनो वा।आर्तगलः ककुभः सुगन्धमूलः कहा इति नाम्ना पूर्वदेशे प्रसिद्ध इति डल्लणः। शिग्नुःसौभाञ्जनकः। मधुशिग्रू रक्तशिग्रुः। तर्कार्यरणिका। मेषशृङ्गी स्वनामप्रसिद्धा मेढासिंगीति लोके। मेषशृङ्गी कर्कटशृङ्गीति डल्लणः। पूतिकश्चिरबिल्वः। नक्तमालो बृहत्करञ्जः। मोरटोऽङ्कोल्लपुष्पः। मोरडइति लोके। हस्तिकर्णपलाश इत्यन्ये मूर्वा वा।अग्निमन्थो गणिकारिका तेजोवृक्षः। द्वितीयो रणिकः। सैरेयकद्वयं रक्तपुष्प-नीलपुष्पकंटासेतीयाद्वयम्। विम्ब्योष्ठोमफलिका बिम्बीरिति लोके। टिंडुरिकेति प्रसिद्धेति डल्लणः। चित्रकः प्रसिद्धः। शतावरी प्रसिद्धा। वसुको बकः। बकपुष्प इतिलोके। अन्ये तु वसुकोऽर्कः। वशिरो मर्कटपिप्पली तृणजातिरपामार्ग इति प्रसिद्धः।सूर्यावर्तोवा। बिल्वः श्रीफलः। अजशृङ्ग्यावर्तनिका छगलविषाणिका तूत्तमारणी मिंढिआउलि इति लोके। दर्भः कुशः। बृहतीद्वयं कण्टकारिकाद्वयम्। एका स्थूलफलाद्वितीया ह्रस्वफला॥१॥

वरुणादिगणो ह्येषकफमेदोनिवारणः॥
विनिहन्ति शिरःशूलं गुल्माभ्यन्तरविद्रधीन्॥२१॥

॥२१॥

शुक्राश्मर्योतु सामान्यो विधिरश्मरिनाशनः॥

यवक्षारगुडोन्मिश्रं पिवेत्पुष्पफलोद्भवम्॥
रसं मूत्रविबन्धध्नंशर्कराश्मरिनाशनम् ॥२२॥

** पुष्पफलोद्भवम्। रसमिति।** कूष्माण्डफलरसम्॥२२॥

नागरवरुणकगोक्षुरपाषाणभेदकपोतवङ्कजः क्वाथः॥
गुडयावशूकमिश्रः पीतो हन्त्यश्मरीमुग्राम्॥२३॥

** वरुणत्वक्शिलाभेदशुण्ठीगोक्षुरकैः कृतः॥
कषायःक्षारसंयुक्तः शर्करां च भिनत्यपि॥२४॥**

पिवेद्वरुणमूलत्वक्क्वाथं तत्कल्कसंयुतम्॥
क्वाथश्व शिग्रुमूलोत्थः कटुष्णोऽश्मरिपातनः549॥२५॥

पिबेद्वरुणमूलत्वक्कषायं गुडसंयुतम्॥
अश्मरीं पातयत्याशु बस्तिशूलविनाशनम्॥२६॥

एलोपकुल्यामधुकाश्ममेदकौन्तीश्वदंष्ट्रावृषकोरुबूकैः॥
शृतं पिवेदश्मजतु प्रगाढं सशर्करे साश्मरिमूत्रकृच्छ्रे॥२७॥

उपकुल्या पिप्पली। कौन्ती रेणुकम्। अश्माजतु प्रगाढमिति। शोधितशिलाजतुनस्त्रिचतुरमाषकाः प्रक्षेपः॥२३॥२४॥२५॥२६॥२७॥

त्रिकण्टकस्य वीजानां चूर्णे माक्षिकसंयुतम्॥
अविक्षीरेण सप्ताहं पेयमश्मरिभेदकम्550॥२८॥

त्रिकण्टको गोक्षुरकः। अविर्मेषी। अनेन योगेन शर्करा भिद्यते॥२८॥

कुलत्याद्यं घृतमाह—

कुलत्थसिन्धूत्थविडङ्गसारं सशर्करं शीतलियावशूकम्॥
बीजानि कूष्माण्डकगोक्षुराभ्यां घृतं पचेत्तद्वरुणस्य तोये॥२९॥

दुःसाध्यसर्वाश्मरिमूत्रकृच्छ्रे मूत्राभिघातं च समूत्रबन्धम्॥
एतानि सर्वाणि निहन्ति शीघ्रं प्ररूढवृक्षानिव वज्रपातः॥३०॥

शीतली स्वनामख्याता। शर्कराऽप्यत्रकल्कन्यायेन। कुलत्थाद्यं घृतम्॥२९॥३०॥

शरादिपञ्चमूल्या वा कषायेण पचेद्धृतम्॥

प्रस्थं गोक्षुरकल्केन सिद्ध551मद्यात्सशर्करम्॥
अश्मरीमूत्रकृच्छ्रघ्नंरेतोमार्गविशोधनम्॥३१॥

शरादिपञ्चमूल्या इति। तृणपञ्चमूलस्य। सशर्करमिति। सिद्धे घृते पादिकःशर्कराप्रक्षेपः। शराद्यं घृतम्॥३१॥

वरुणाद्यं घृतमाह—

वरुणस्य तुलां क्षुण्णां जलद्रोणे विपाचयेत्॥
पादशेषं परिस्राव्य घृतप्रस्थं विपाचयेत्॥३२॥

वरुणः कदली विल्वं तृणजं पञ्चमूलकम्॥
अमृतां चाश्मजं देयं बीजं च त्रपुषस्य552 च॥३३॥

शतपर्वा तिलक्षारः पलाशक्षारमेव च॥
यूथिकायास्तु मूलानि कार्षिकाणि समावपेत्॥३४॥

अक्षमा553त्रां पिबेज्जन्तुर्देशकालाद्यपेक्षया॥
जीर्णे चास्मिन्पिबेत्पूर्वंगुडं जीर्णं तु मस्तुना॥३५॥

अश्मरीं शर्करां चैव मूत्रकृच्छ्रं विनाशयेत्॥
सैन्धवाद्यं च यत्तैलमृषिभिः परिकीर्तितम्॥२६॥

कदली कदल्याः फलमामं मूलं वा। अश्मजं शिलाजतु। शतपर्वा वंशस्तस्यनीली दूर्वा वा। तिलक्षार-स्तिलनालभस्म। पूर्वमिति। भोजनात्। वरुणाद्यं घृतम्॥३२॥३३॥३४॥३९॥३६॥

तत्तैलं द्विगुणक्षीरं पचेद्वीरतरादिना॥
क्वाथेन पूर्वकल्केन साधितं तु भिषग्वरैः॥३७॥

एतत्तैलवरं श्रेष्ठमश्मरीणां विनाशनम्॥
मूत्राघाते मूत्रकृच्छ्रे पिच्चिते554 मथिते तथा॥३८॥

भग्ने श्रमाभिपन्ने च सर्वथैव प्रशस्यते555
वर्ध्याधिकारनिर्दिष्टं सैन्धवाद्यमिहेष्यते॥३९॥

सैन्धवाद्यं वर्ध्माधिकारोक्तं तत्राश्मरीहरत्वश्रुतेः। पूर्वेण(पूर्व)कल्केनेति। तत्रोक्तसैन्धवादिकल्केन। वीरतराद्यं धृतम्॥३७॥३८॥३९॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-कण्ठदत्तकृतायांव्याख्याकुसुमावल्याख्यायां चतुस्त्रिंशोऽ-
श्मर्याधिकारः समाप्तः॥३४॥

_______________

अथ पञ्चत्रिंशः प्रमेहाधिकारः।
______________

बस्तिविकृत्यधिकारात्प्रमेहः। प्रमेहिणो हितमाहारमाह—

श्यामाकाः कोद्रवोद्दालगोधूमचणकाढकी556
कुलत्थाश्चहिता भोज्ये पुराणा मेहिनां सदा॥१॥

उद्दालो नवकोद्रवः। आढकी तुवरीबीजम्॥१॥

मेहिनां तिक्तशाकानि जाङ्गला हरिणाण्डजाः ॥
यवान्नविकृतिर्मुद्गाःशस्यन्ते शालिषष्टिकाः॥२॥

तिक्तशाकानि प्रफुन्नाटपटोलादीनि। अण्डजाः पक्षिणः। यवान्नविकृतिर्यवान्नं यवविकाराश्चापूपादयः॥२॥

पारिजातजयानिम्बवह्निगायत्रि(त्री)णां पृथक्॥
पाठायाःसागुरोः पीताद्वयस्य शारदस्य च॥३॥

जलेक्षुमद्यसिकताशनैर्लवणपिष्टकाः557
सान्द्रमेहान्क्रमाद्घ्नन्ति अष्टौ क्वाथाः समाक्षिकाः॥४॥

पारिजातः पारिभद्रः। जया जयन्ती, अरणिका। वह्निश्चित्रकः। गायत्री खदिरः।पाठायाः सागुरोरित्येकः क्वाथः। पीताद्वयस्येति। पीता हरिद्राऽयमप्येकः। शारदःसप्तपर्णः॥३॥४॥

दूर्वाकसेरुपूतीककुम्भीकप्लवशैवलम्॥
जलेन क्वथितं पीतं शुक्रमेहहरं परम्॥५॥

पूतीकः करञ्जः। कुम्भीकः पान्ही। सुश्रुते च प्लव(स्थाने कैवर्तमुस्तक ?)पाठात्प्लवः कैवर्तकमुस्तकः ॥९॥

त्रिफलारग्वधद्राक्षाकषायो मधुसंयुतः॥
पीतो निहन्ति फेनाख्यं प्रमेहं नियतं नृणाम्॥६॥

सुगमम्॥६॥

अथ कफप्रमेहेष्वेव सामान्ययोगा उच्यन्ते—

रोध्राभयाकट्फलमुस्तकानां विडङ्गपाठार्जुनधन्वनानाम्॥
कदम्बशालार्जुनदीप्यकानां विडङ्गदार्वीधवशल्यकानाम्॥
चत्वार एते मधुना कषायाः कफप्रमेहेषु निषेवणीयाः॥७॥

धन्वनः स्वनामख्यातः। दीप्यको यवानी। धवः पर्वतोद्भवः। शल्यकं मदनफलम्॥७॥

अथ पित्तप्रमेहेषु सामान्ययोगानाह—

रोध्रार्जुनोशीरकुचन्दनानामरिष्टसेव्यामलकाभयानाम्॥८॥

धात्र्यर्जुनारिष्टकवत्सकानां नीलोत्पलैलातिनिशार्जुनानाम्॥
चत्वार एते विहिताः कषायाः पित्तप्रमेहे मधुसंत्रयुक्ताः॥९॥

कुचन्दनं रक्तचन्दनम्। अरिष्टो निम्बः। सेव्यमुशीरम्। अभया हरीतकी।तिनिशोऽच्छकः॥८॥९॥

अश्वत्थचतुरङ्गुलन्यग्रोधादिफलत्रयम्॥
सरक्तसारमञ्जिष्ठा क्वाथाः पञ्च समाक्षिकाः॥१०॥

नीलहारिद्रशुक्ताख्यक्षारगण्डी558रिकाह्नयान्॥
मेहान्हन्युः क्रमादेते सक्षौद्रो रक्तमेहजित्॥
क्वाथः खर्जूरकाश्मर्यतिन्दुकास्थ्यमृताकृतः॥११॥

चतुरङ्गुलः किरमालकः। सरक्तसारमञ्जिष्ठेत्येकयोगकः क्वाथः। रक्तसारो रक्तचन्दनम्। शुक्ताख्योऽम्लाक्षः। गण्डीरिकाह्णयो मञ्जिष्ठाह्वयः। मेहान्हन्युरिति। हन्युर्यापयेयुः। पित्तमेहानां याप्यत्वात्। किंवा नात्यन्तदुष्टे मेदसि पित्तजा अपिसाध्याः। साध्यास्तु भेदो यदि न प्रदुष्टमिति चरकवचनात्॥१०॥११॥

वातिकमेहचतुष्टये चिकित्सामाह—

छिन्नावह्निकषायेण पाठाकुटजरामठम्॥
तिक्तां कुष्ठं च संचूर्ण्य सर्पिर्मेहे पिबेरन्नः॥१२॥

सर्पिर्मेहादिषु(?)छिन्नादिकषायेषु क्षौद्रावापः कार्यः। तन्त्रान्तरनिदर्शनान्मधुनो मेहहरत्वाच्च॥१२॥

कदरखदिरपूगक्वाथं क्षौद्राह्वये पिबेत्॥

कदरो विट्खदिरः। खदिरस्तदितरः। पूगः पर्कटिः॥

अग्निमन्थकषायं तु वसामेहे प्रयोजयेत्॥१३॥

सुगमम्॥१३॥

पाठाशिरीषदुस्पर्शमूर्वाकिंशुकतिन्दुकम्॥
कपित्थानां भिषक्क्वाथं हस्तिमेहे प्रयोजयेत्॥१४॥

तिन्दुककपित्थयोः फलम्। तिन्दुकः केदुरिति लोके। वातमेहेष्वसाध्येष्वपि चिकित्साभिधानमिदं मेहानां चिरानुबन्धित्वात्किंचिल्लाभे559 तयापानार्थम्॥१४॥

कम्पिल्लसप्तच्छदशालजानि वैभीतरौहीतककौटजानि॥
कपित्थपुष्पाणि च चूर्णितानि क्षौद्रेण लिह्यात्कफपित्तमेही॥१५॥

चूर्णानीति विशेष्यपदं कम्पिल्लादिजानि चूर्णानीत्यर्थः। एवं वैभीतेत्यादावपि व्याख्येयम्। विभीते भवं वैभीतं भवार्थेऽण्। एवं रौहितकादावपि। रोहितको रोहिडः। कफपित्तमेहीति। कफमेही वा पित्तमेही वेत्यर्थः॥१५॥

मेहेषु सामान्ययोगानाह—

स्निग्धं वान्तं विरिक्तं च निरूढं पाययेद्रसम्॥
धात्र्याः सर्वप्रमेहेषु निशाक्षौद्रसमन्वितम्॥१६॥

धात्र्या रसः स्वरस एव व्यवहारात्। निशा हरिद्रा। कल्पनामाह। आमलकरसस्य चत्वारि पलानि हरिद्रा कर्षप्रमाणं तथा मधु च कर्षप्रमाणमेवैवं विमधथ्यपिबेत्॥१६॥

कषायमथ वा दारुत्रिफलामुस्तकैःशृतम्॥

अत्रापि निशाक्षौद्रसमन्वितमित्यनुवर्तयितव्यम्॥

त्रिफलादारुदार्व्यव्दकाथः सौंद्रेण मेहहा॥१७॥

सुगमम्॥१७॥

कुटजासनदारव्यब्दफलत्रयभवोऽथ वा॥

अत्रापि क्षौद्रेणा(त्याद्य)नुवर्तते। असनः पीतशालः। दार्वी दारुनेशा॥

गुडूच्याः स्वरसः पेयो मधुना सर्वमेहनु560त्॥१८॥

सुगमम्॥१८॥

शालमुष्कककम्पिल्लकल्कमक्षसमं पिबेत्॥
धात्रीरसेन सक्षौद्रं सर्वमेहहरं परम्॥१९॥

सुगमम्॥१९॥

फलत्रिकं दारुनिशां विशालां
मुस्तं च निष्क्वाथ्य निशांशकल्कम्॥
पिबेत्कषायं मधुसंप्रयुक्तं
सर्वप्रमेहेषु समुत्थितेषु॥२०॥

त्रिफलादीनां मुस्तान्तानां पलं षोडशगुणं जलं दत्त्वा चतुर्भागावशिष्टं ग्राह्यम्।

तथा चोक्तम्—

द्रव्यमापोथि(थ)तं क्वाथ्यं दत्त्वा षोडशिकं जलम्।
पादशेषं च कर्तव्यमेष क्वाथविधिः स्मृतः॥

निशांशकल्कमिति। निशाभागकल्कम्। तत्सहितमेव त्रिफलादिद्रव्यं निष्क्वाथ्यकषायं पिबेदित्येके। निशाया अंशश्चतुर्थभागः कल्कः प्रक्षेपरूपो यत्र तत्तथेत्यन्ये।पूर्वव्याख्यायाः प्रचारःप्रायेण ॥२०॥

मधुना त्रिफलाचूर्णमथ वाऽश्मजतूद्भवम्॥
लोहजं वाऽभयोत्थं वा लिह्यान्मेहनिवृत्तये॥२१॥

चूर्णमिति पदं समासान्तर्भूतमप्यनुवर्तयितव्यम्। अभयोत्थमिति। हरीतकीभवंन चाभयमुशीरं तद्भवम्। हरमेखलमनुवदता चक्रेणापि लिखितम्—

“त्रिफलालोहशिलाजतुपथ्याचूर्णं वलीढमेकैकम्॥
मधुनाऽमृतास्वरसमिति सर्वान्मेहान्निवारयति" इति॥२१॥

न्यग्रोधादिचूर्णमाह—

न्यग्रोधोदुम्बराश्वत्थश्योनाकारग्वधासनम्॥
आम्रं कपित्थं जम्बूं च प्रियालं ककुभं धवम्॥२२॥

मधूकं मधुकं वरणं561वैरणं पारिभद्रकम्॥
पटोल मेषहीं च दन्तीं चित्रकमाढकीम्॥२३॥

करञ्जंत्रिफलाशक्रभल्लातकफलानि च॥
एतानि समभागानि श्लक्ष्णचूर्णानि कारयेत्॥२४॥

न्यग्रोधाद्यमिदं चूर्णं मधुना सह लेहयेत्॥
फलत्रयरसं चानुपिबेन्मूत्रं विशुध्यति॥२५॥

एतेन विंशतिर्मेहा मूत्रकृच्छ्राणि यानि च॥
प्रशमं यान्ति योगेन562 पिटिका न प्रजायते॥२६॥

असनः पतिशालः। आम्रकपित्थजम्बूनां फलास्थि। ककुभं धवमित्यस्य स्थानेककुभत्वचमिति पाठान्तरम्। मधुकस्य सारः करञ्जस्य फलम्। अयं योगः सामान्यचूर्णयोजनापरिभाषया योज्यः।

“कर्षश्चूर्णस्य कल्कस्य गुटिकानां च सर्वशः ॥
द्रवशुक्त्याऽवलढेव्यः पातव्यश्च चतुर्द्रवः” इति।

न्यग्रोधाद्यं चूर्णम्॥२२॥२३॥२४॥२६॥२६॥

त्रिकण्टकाश्मन्तकसोमवल्कैर्भल्लातकैः सातिविषैः सरोध्रैः॥
बचापटोलार्जुननिम्बमुस्तैर्हरिद्रया पद्मकदीप्यकैश्च॥२७॥

मञ्जिष्ठया चागुरुचन्दनैश्चसर्वैः समस्तैः कफवातजेषु॥
मेहेषु तैलं विपचेद्घृतं तु पित्तेषु मिश्रं त्रिषु लक्षणेषु॥२८॥

अरमन्तको मलुआ। सोमवल्कः कट्फलम्। दीप्यको यवानी। सर्वैरित्युक्तं सर्वैःस्नेहसाधनं स्यादत उक्तम्। समस्तैरिति। सर्वैर्यथोक्तैः समुदितैरेव न यथालाभेन स्नेहंविपचेदित्यर्थः। मिश्रमिति। घृतति(तै)लयमकम्। त्रिषु लक्षणेष्विति। त्रिदोषलक्षणमेलके सति त्रिदोषजं(नत्वं)च कफपित्तज-मेहेष्वेवानुबन्ध्यानुबन्धकृतं मन्तव्यम्। किंचसर्वेषामेव मेहानां त्रिदोषजत्वादुद्भूतत्रिदोषजत्वं कदाऽपि भवतीति ज्ञेयम्। त्रिकण्टकाख्यंघृतं तैलं यमकं च॥२७॥२८॥

त्रिकटुत्रिफलाचूर्णतुल्ययुक्तं तु गुग्गुलुम्॥२९॥

गोक्षुरक्वाथसंयुक्तं गुटिकां कारयेद्भिषक्॥
दोषकालबलापेक्षी भक्षयेच्चाऽऽनुलोमिकीम्॥३०॥

न चात्र परिहारोऽस्ति कर्म कुर्याद्यथेप्सितम्॥
ममेहान्वातरोगांश्च मूत्राघातोदरं जयेत्॥३१॥

त्रिकटुत्रिफलाचूर्णतुल्ययुक्तं तु गुग्गुलुमिति। त्रिकटुत्रिफलाचूर्णैस्तुल्यैर्युक्तम्।गोक्षुरक्वाथ-संयुक्तमिति। गोक्षुरक्वाथभावितं सप्ताहभावनया॥२९॥३०॥३१॥

कफमेहहरक्वाथसिद्धं सर्पिः कफे हितम्॥

सर्पिरकल्कमेव॥

पित्तमेहघ्ननिर्यूहसिद्धं पित्तेहितं घृतम्॥३२॥

सुगमम्॥३२॥

धन्वन्तरं घृतमाह—

दशमूलं करञ्जौद्वौदेवदारु हरीतकी॥
वर्षाभूर्वरुणो दन्ती चित्रकं सपुनर्नवम्॥३३॥

सुधानीपकदम्बाश्च बिल्वभल्लातकानि च॥
शठी पुष्करमूलं च पिप्पलीमूलमेव च॥३४॥

पृथग्दशपलानेतान्भागांस्तोयार्मणे पचेत्॥
यवकोलकुलत्थानां प्रस्थं प्रस्थं च दापयेत्॥३५॥

तेन पादावशेषेण घृतप्रस्थं विपाचयेत्॥
निचुलं त्रिफला भार्गी रोहिषं गजपिप्पली॥३६॥

शृङ्गवेरं विडङ्गानि वचा कम्पिल्लकं तथा॥
गर्भेणानेन तत्सिद्धं पाययेच्च यथाबलम्॥३७॥

एतद्ध(द्धा)न्वन्तरं नाम विख्यातं सर्पिरुत्तमम्॥
कुष्ठगुल्मप्रमेहांश्च श्वयथुंवातशोणितम्॥३८॥

प्लीहोदराणि चार्शीसि विद्रधीन्पिटकास्तथा॥
अपस्मारं तथोन्मादं सपिरेतन्नियच्छति॥

पाठान्तरे शृतं तोयं क्वाथ्यादष्टगुणं त्विह॥३९॥

करञ्जौ द्वौ करञ्जपूतिकरञ्जकौ। अनयश्च फलं मेहहरत्वात्। यदुक्तम्—करञ्जहिं563(किं)शुका563रिष्टफलं जन्तुप्रमेहनुदिति। (सुधा)स्नुहीमूलमिह तत्र्रान्तरे मूलपाठात्। नीपकदम्बकयोरल्पमहद्भेदाद्भेदः किंवा कदम्बो भूकदम्बः स चालम्बुध(ष)स्तन्त्रान्तरे भूकदम्बपाठात्। नीपस्थाने कापि निम्बस्य पाठः। अस्यापि फलम्। पृथग्दशपलान्भागानिति। दशमूलमपि प्रत्येकं दशपलिकम्। तत्र प्रतिशतं तोयार्मणदानं शताधिकद्रव्ये पुनरष्टगुणं जलम्। तथा चक्रः —

“पृथक्तोयार्मणं त्वत्र पचेद्द्रव्याच्छतं शतम्।
शतत्रयाधिके तोयमुत्सर्गक्रमतो भवेत्”॥

अत्र मध्यद्रव्यस्योभयगामित्वात्तोयमुत्सर्गतोऽष्टगुणं मतमिति। अन्ये त्वाहुः। दशमूलस्य मिलित्वा दश पलानि। करञ्जादीनां पिप्पलीमूलान्तानां मिलित्वा दश पलानि। यवकोलकुलत्थानां च प्रत्येकं त्रयेणाष्टचत्वारिंशत्पलानि। एवं मिलित्वा क्वाथ्यद्रव्याणामष्टषष्टिपलानि तत्र थोक्ततोयार्मणेनैव काथो युक्तः। अर्मणो द्रोणः। पाठान्तरे शृतं तोयं क्वाथार्थदृष्टगुणं त्विह। अस्यार्थः—घृतमेतदेव क्वाप्यन्यथा पठ्यते तत्र च क्वाथार्थमष्टगुणं तोयं दर्शितं तत्प्रामाण्यादिहाप्यष्टगुणं तोयं देयम्। पाठान्तरे यथा—दशमूलहरीतकीदेवदारुकरञ्जद्वयवर्षाभूदन्ती-भूमिकदम्बभल्लातकपुष्करमूलार्कमूलस्नुहीमूलवरुणपिप्पलीमूलानि प्रत्येकं दशपलोन्मितानि यवकोलकुलत्थप्रस्थत्रयं चाष्टगुणेऽम्भसि पादशेषं कषायमवतारयेदिति। अर्मणशब्दश्व भूरिजलोपलक्षण इति वृन्दाभिप्रायः। इत्थमेव व्यवहारो युक्तः। निचुलो हिज्जलः। रोहिषं गन्धतृणम्। घान्वन्तरं घृतम्॥३३ ॥३४॥३९॥३६॥३७॥३८॥३९॥

शालसारादितोयेन भावितं च शिलाजतु॥
पिबेत्तेनैव संशुद्धकायः पिष्टं यथावलम्॥४०॥
जाङ्गलानां रसैः सार्धं तस्मिञ्जीर्णे च भोजनम्॥
कुर्यादेवं तुलां यावदुपयुञ्जीत मानवः॥११॥
मधुमेहं विहायासौ शर्करामश्मरीं तथा॥
वपुर्वर्णवलोपेतः शतं जीवत्यनामयः॥४२॥

शिलाजतुभावनार्थं क्वाथविधौ परिभाषा—

“तुल्यं गिरिजेन जले चतुर्गुणे भावनौषधंक्वाथ्यम्।
तत्क्वाथे पादांशे पूतोष्णे प्रक्षिपेद्गिरिजम्॥
तत्समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः” इति॥

भावनं च दशाहं ततो द्विगुणं त्रिगुणं वा यदुक्तम्। भावितानिव……। सप्ताहसन्यत्र भावनमुक्तम्—

“प्रक्षिप्योद्धृत्य मा (चाऽऽ)वापं पुस्तप्रक्षिपेद्रसे।
कोष्णे सप्ताहमेतेन विधिना तस्य भावना” इति॥

** तनैवेति।** शालसारादितोयेन। संशुद्धकायः कृतवमनविरेकः। पिष्टं चूर्णितम्। यथाग्निबलं तदधीनत्वात्कायस्य। जाङ्गलमांतरसेन भोजनोपदेशश्चेह शोषकश्च स्वेदकत्वाच्छिलाजतुनो वातकोपशङ्कया। **तुलां यावदुषयुञ्जीतेति।**प्रतिदिनमत्र कर्षामात्रया तावानुपयोगोऽस्य यावत्तुला न पूर्यत इत्यर्थः। मधुमेहं विहायेति। उत्पनमात्रं मधुमेहम्। चिरजस्यासाध्यत्वात्। किंच महाप्रभावत्वाद्योगोऽयमसाध्यमपि मधुमेहं साधयतीति। अस्य डल्लणोक्ता व्याख्या लिख्यते। शालसारादितोयेनेत्यादि। शिलाजतुप्रकाराः सुश्रुतोक्ता लिख्यते।

तद्यथा—

मासे शुक्रे शुचौ चैव शैलाः सूर्यांशुतापिताः।

जतुप्रकाशं स्वरसं शिलाभ्यः प्रस्jवन्ति हि॥
शिलाजत्विति विख्यातं सर्वव्याधिविनाशनम्॥

यद्यप्यन्यस्मिन्काले शिलाजतु दृश्यते तथाऽप्याषाढज्येष्ठपरिगृहीतं खरतरणिकिरणतापिताभ्यः शिलाभ्यो गुणवत्तरं भवति। ननु शिलानां रूक्षकठिनानां कथं स्निग्धद्रवस्वरसः संभवतीत्याह—

“तथादीनां564 तु लोहानां षण्णामन्यतमान्वयम्।
ज्ञेयं तत्खल्वतश्चापि षड्योनि प्रथितं क्षितौ"॥

तथादीनि त्रपुसीसताम्ररूप्यसुवर्णकृष्णलोहानि पट्तेषामन्यतमान्वयं षड्योनि षट्कारणकं तु(तत्तु)—

“अम्लं च सकषायं च कटु पाके शिलाजतु।
नात्युष्णशीतं धातुभ्यश्चतुर्म्यस्तस्य संभवः॥
हेम्नोऽथ रजतात्ताम्राद्वरं कृष्णायसादपि” इति॥

इति शिलाजतुचतुष्टयं तत्र्रान्तरे प्रोक्तं तत्तेषां चतुर्णामपि मुख्यानां गुणख्यापनाय नान्ययोनिशिलाजतुनिवारणाय॥

“लोहाद्भवति तद्यस्माच्छिलाजतु जतुप्रभम्।
तस्य लोहस्य यद्वीर्यं रसं चापि बिभर्ति तत्”॥

अत्र चकारेण वर्णं प्रभावं च बिभर्तीत्यनुक्तं समुच्चीयते तत्र यल्लोहाज्जातं स्यात्तल्लोहस्यैव वीर्यरसौ बिभर्ति तानि च लोहानि सुवर्णादीनि।

तद्यथा—

“सुवर्णे बृंहणं स्निग्धं मधुरं रसपाकयोः।
विषदोषहरं शीतं सकषायं रसायनम्”॥

सुवर्णादिधातूनां गुणानाह—

“रूप्यं स्निग्धं कषायाम्लं विपाके मधुरं सरम्।
वयसः स्थापनं शीतं लेखनं वातपित्तजित्॥

ताम्रं सतितमधुरं कषायं लेखनं लघु।
कटुपाकरसं शीतं रोपणं कफपित्तजित्॥

सतिक्तलवणं भेदि पाण्डुत्वक्कृमिवातनुत्।
लेखनं स्वल्षपित्तं च त्रपु सीसं च तद्गुणम्॥

चक्षुष्यं कृष्णलोहं स्यात्कषायं स्वादुतितकम्।
लेखनं वातलं शीतं कृमिपित्तकफप्रणुत्” इति।

यद्यपि अतुप्रकाशो लाक्षासदृशः शिलास्रावः शिलाजतुशब्देनोक्तस्तथाऽपि सुवर्णादिनिर्यासेऽपि शिलाजत्विति प्रयोगः सर्षपादितैलवदौपचारिको द्रष्टव्यः। अथ सुवर्णादीन्यपि पार्थिवत्वसामान्याच्छिलावदुपचर्यन्ते। तत्र श्रीहरिश्चन्द्राचार्येण सुर्वणं समलाः पञ्चेति चरक-श्लोकव्याख्यानं कुर्वता स्वर्णादिमला एवं शिलाजतून्यभिहितानि। तत्रान्तरीयैस्तु सुवर्णादिधातवः।

“हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः।
जत्वाभं मृ दु मृत्स्नाच्छं तद्वदन्ति शिलाजतु॥
मधुरं च सतिक्तं च जपापुष्पनिभं च यत्।
विपाके कटुकं शीतं तत्सुवर्णस्य निस्रवम्॥
राजतं कटुकं श्वेतं शीतं स्वादु विपच्यते।
ताम्राद्वर्हिणकण्ठाभं तीक्ष्णोष्णं पच्यते कटु॥
यत्तु गुग्गुलुसंकाशं तिक्तं च लवणान्वितम्।
विषाके कटुकं शीतं सर्वश्रेष्ठं तदायसम्॥
गोमूत्रगन्धः सर्वेषां सर्वं योज्यं च कर्मसु।
रसायनप्रयोगेषु पश्चिमं तु विशिष्यते” इति।

सर्वेभ्यः कृष्णायसं विशिष्टम्। अत उक्तम्—“त्रपुसीसायसादीनि प्रधानान्युत्तरोत्तरम्। अस्यार्थः—त्रपुसीसयोर्लोहत्वस्य नातिप्रसिद्धत्वादय इति विशेषणं त्रपुसीसायःसमुद्भवं शिलाजतु त्रपुसीसायसं तदादिभूतं येषां तानि त्रपुसीसायसादीनि त्रपुसीसताम्ररूप्यसुवर्णकृष्णलोहजानीति। त्रपुसीसोद्भवं व्याधिप्रत्यनीकमिहोच्यते।

“सर्वश्रेष्ठं तु सौवर्णं सौवर्णादायसं वरम्।
अपि तद्भावनाहीनं श्रेष्ठं योग्यं रसायने॥
रोगाणां हनने योग्यं यथास्वौषधभावितम्” इति।
“विकल्पानवशिष्टांस्तु क्षीरवीर्यान्समादिशेत्”॥

इति सामान्यलक्षणाभिधानम्।

तत्सर्वं तिक्तकटुकं कषायानुरसं सरम्॥
कटुपाक्युष्णवीर्यं च शोषणं छेदनं तथा।

शोषणं दुष्टरक्तादेः। छेदनं कफग्रन्थ्यादेः।

तेषु प्रधानलक्षणमाह—

“तेषु यत्कृष्णमलघु स्निग्धं निःशर्करं च यत्।
गोमूत्रगन्धि यच्चापि तत्प्रधानं प्रचक्षते" इति॥

शालसारादितोयेनेत्यादि। शालसारादितोयेनेति। तच्च भाव्यद्रव्यसमं क्वथनीयद्रव्यमष्टगुणे जले निष्क्वाथ्याष्टभागावशिष्टेन कषायमानं तन्त्रान्तरप्रामाण्याद्दशाहं विंशतिदिनानि त्रिंशद्दिनानि वा भावयेत्। संशुद्धकायः संशुद्धदेहः। तेनैव सारोदकेनैव।

पिबेत्प्रभात एव तन्त्रान्तरप्रामाण्यात्। यथावलं यथाग्निबलं पाकस्य तदायत्तत्वात्। जाङ्लमांस-रसैर्भोजयेत्। अन्यथा शोषणच्छेदनत्वाद्वातप्रकोपः स्यात्। शिलाजतुनस्तुलां पलशतं युञ्ज्यात्। मधुमेहं *565निहन्त्याश्विति। तथा च सुश्रुतः—

“वपुर्वर्णबलोपेतो मधुमेहविवर्जितः।
जीवेद्वर्षशतं पूर्णमजरोऽमरसंनिभः॥

शतं शतं तुलायां तु सहस्रं दशतौलिके।
भल्लातकविधानेन परिहारविधिः स्मृतः॥

मेहं कुष्ठमपस्मारमुन्मादं श्लीपदं गरम्।
शोषं शोफार्शसी गुल्मं पाण्डुतां विषमज्वरम्॥

अपहन्त्यचिरात्कालाच्छिलाजतु निषेवितम्।
न सोऽस्ति रोगो यं वाऽपि न निहन्याच्छिलाजतु॥

शर्करां चिरसंभूतां भिनत्ति च तथाऽश्मरीम्” इति।

न सोऽस्ति रोगोऽत्र रोगशब्दो दोषेषु वर्तते। अथवा शस्त्रासाध्येष्वश्मर्यादिष्विति॥४०॥४१॥४२॥

शिलाजतुप्रयोगेणैव माक्षिकधातुप्रयोगमतिदिशन्नाह—

माक्षिकं धातुमप्येवं युञ्ज्यादस्याप्ययं गुणः॥४३॥

माक्षिकं धातुमण्येवमिति। धातुमाक्षिकमप्यनेनैव विधिनोपयुञ्जीत माक्षिकं धातुमिति द्विविधमपि सुवर्णमाक्षिकं रजतमाक्षिकं च। तथा च सुश्रुतः—

“एवं वा माक्षिकं धातुं तापीजममृतोपमम्।
मधुरं काञ्चनाभासमम्लं च रजतप्रभम्।
पिबन्हन्ति जराकुष्ठमेहपाण्ड्वामयक्षयान्” इति।

तथा—

“तद्भावितः कुलत्थांश्च कपोतांश्च विवर्जयेदिति।

तद्भावित इति ताभ्यां शिलाजतुमाक्षिकाभ्यां भावितो व्याप्तदेहः। शिलाजतुमाक्षिकव्याप्तदेहस्य द्वयोरपि वीर्योत्कर्षाच्छिलामयत्वेनैव तन्मयं शरीरं स्यात्। कुलत्थास्तु यथा शिलां भेत्स्यन्ति तथा शिलाजतुमाक्षिकवीर्यस्यापहन्तारो भवन्ति तद्वत्कपोतोऽपि खरतरशिलाभोजनः पाषाणमपि जरयत्यतः कुलत्थकपोतौयावज्जीवं वर्जयेदिति॥४३॥

अतः परं प्रमेहपिटिकाचिकित्सितमाह—

शराविकाद्याः पिटकाः साधयेच्छोफवद्भिषक्॥
पक्वाश्चिकित्सेद्व्रणवत्तासां पानेषु शस्यते॥
क्वाथो वनस्पतेर्बास्तं मूत्रं तीक्ष्णं च शोधनम्॥४४॥

शोफवद्व्रणशोफवत्साधयेदपक्वाःपिटिकाः।तासां प्राग्रूप इति शेषः। वनस्पतेरपि(रिति)वटादेः। बास्तं मूत्रं छागलं मूत्रम्। तीक्ष्णं च शोधनं वमनं रेचनं च॥४४॥

एलादिकेन कुर्वीत तैलं च व्रणरोपणम्॥१५॥

आरग्वधादिना कुर्यात्क्वाथमुद्वर्तनानि च॥
शालसारादिना सेकं भोज्यादि च कणादिना॥४६॥

एलातगरकुष्ठेत्यादावेलादिः। रोपणावस्थायां रोपणे कर्तव्य आदौ तैलमेव नान्यत्कषायादिकं सर्वेष्वेव मेहेष्वतिप्रवृत्त्या वातवृद्धेस्तैलस्य वातदोषप्रत्यनीकत्वात्। तथा बद्धमूत्रत्वेन प्रमेहव्याधिप्रत्यनीकत्वाच्च। एलादिकेनेति यत्राधिकरणेनोक्तिरित्यादिपरिभाषाव्यापारादेलादिगणः कल्कः। द्रवं जलम्। गणत्वादिह क्वाथकल्कौ कार्यावित्यन्ये। आरग्वधादिना क्वाथः पानार्थं परिषेकार्थं वा। क्वाथमुत्सादनाय चेति पाठः सुश्रुते। तत्रोत्सादनं निम्नव्रणस्योन्नतिकरणम्। उत्सादनोपक्रमावस्थायामारग्वधादिनैवोत्सादनम्। एवं वक्ष्यमाणेषु परिषेचनादिष्वत्रोक्तवर्गेणैव नियमः। **भोज्यादीति।**अत्यन्नपानम्। कणादिना पिप्पल्यादिना॥४५॥४६॥

सौवीरकसुरामुक्तं तैलं क्षीरं गुडं घृतम्॥
अम्लेक्षुरसपिष्टान्नानूपमांसानि वर्जयेत्॥४७॥

सुरा पिष्टमयी। अनूपा महिषादयः॥४७॥

प्रमेहिणो यदा मूत्रमनाविलमपिच्छिलम्॥
विशदं तिक्तकटुकं तदाऽऽरोग्यं प्रचक्षते॥४८॥

प्रमेहनिवृत्तिलक्षणमाह—

मूत्रमनाविलमिति। अनाविलं स्वच्छमेदोमांसक्लेदादिदूष्ययोगविरहात्। विशदमनुपहतवर्णम्। **डल्लुणस्तु—**अनाविलं प्रसन्नं विशदं रूक्षमिति व्याख्याति। तेजति स्म तिक्तं कटुत आवृणोतीति कटु मूत्रस्य तिक्तकटुत्वं पिपीलिकामक्षिकादीनामपसर्पणेन ज्ञातव्यम्। अन्ये त्वेवं पठन्ति। प्रमेहिणो यदा मूत्रमनाविद्धमपिच्छिलम्। तत्राप्यनाविद्धं प्रसन्नम्। आरोग्यं प्रमेहरोगाभावः॥४८॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्री-
श्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां
पञ्चत्रिंशः प्रमेहाधिकारः समाप्तः॥३५॥

________________

अथ षट्त्रिंशो मेदोवृद्ध्यधिकारः।
________

मेदः प्रमेहदूष्यत्वेनोक्तंमेदःप्रमेहदोषजं च स्थौल्यमिति प्रमेहानन्तरं स्थौल्यम्।

पुराणाः शालयो मुद्गाः कुलत्थोद्दालकोद्रवाः॥
लेखना बस्तयश्चैव सेव्या मेदस्विना सदा॥१॥

उद्दालो वनकोद्रवः। लेखना बस्तय इति

“त्रिफलाक्वाथगोमूत्रक्षौद्रक्षारसमन्विताः॥
ऊषकादिप्रतीवापा बस्तयो लेखनाः स्मृताः"॥१॥

निद्राप्रसङ्गस्य स्थौल्यहेतोः प्रतिषेधोपायमाह—

चिन्ता566 क्रोधस्तथा धूमो व्यायामो रक्तमोक्षणम्॥
उपवासोऽसुखा शय्या सत्त्वौदार्यं तमोजयः॥
निद्रामसङ्गमहितं वारयन्ति समुत्थितम्॥२॥

रक्तमोक्षणं शिराव्यधेन। सत्त्वौदार्यं सत्त्वगुणोद्रेकः। तमोजयस्तमोगुणविजयः स च योगाभ्यासाद्भवति॥२॥

व्यायामनित्यो जीर्णाशी यवगोधूमभोजनः॥
संतर्पणकृतैर्दोषैर्लौल्यं मुक्त्वा567 विमुच्यते॥३॥

संतर्पणकृतैर्दोषैरिति। संतर्पणनिमित्तैर्विकारैः। ते च कण्डूप्रमेहपिटिकाकोठादयः। दोषप्रभेदेन चेह विकाराभिधानं कारणे कार्योपचारात्। लौल्यं मुक्त्वेति। भक्षणलोलुपतां विमुच्य॥३॥

श्रमचिन्ताव्यवायाध्वक्षौद्रजागरणप्रियः॥
हन्त्यवश्यमतिस्थौल्यं यवश्यामाकभाजनम्॥४॥

सुगमम्॥ ४॥

मातर्मधुयुतं वारि सेवितं स्थौल्यनाशनम्॥५॥

मधुयुतं वारीति। अतुल्यमानं क्षारत्वात्। कौपं जलमिति केचित् ॥९॥

विडङ्गादियोगमाह—

विडङ्गनागरक्षारकाललोहरजो मधु॥
यवामलकचूर्णं तु योगोऽतिस्थौल्यनाशनः568

क्षारो यवक्षारः। काललोहरजो लोहचूर्णम् ॥

उष्णमन्नस्य मण्डं वा पिबेत्कृशतनुर्भवेत्॥६॥

सुगमम्॥६॥

सचव्यजीरकव्योषहिङ्गुसौवर्चलानलाः॥
मधुना569 सक्तवः पीता मेदोघ्नावह्निदीपनाः॥७॥

अनलश्चित्रकः। सक्तव इह भाविव्योषाद्ययोगन्यायात्सर्वचूर्णतः षोडशगुणाः॥७॥

व्योषाद्यं योगमाह—

व्योष विडङ्गं शिग्रुणि त्रिफलां कटुरोहिणीम्॥
बृहत्यौ द्वे हरिद्रेच पाठामतिविषां स्थिराम्॥८॥

हिङ्गुकेम्बुकमूलानि यवानीधान्यचित्रकम्॥
सौवर्चलमजाजीं च हपुषां चेति चूर्णयेत्॥९॥

चूर्णतैलघृतक्षौद्रभागाः स्युर्मानतः समाः॥
सक्तूनां षोडशगुणो भागः संतर्पणं पिबेत्॥१०॥

प्रयोगादस्य शाम्यन्ति रोगाः संतर्पणोत्थिताः॥
प्रमेहा मूढवाताश्च कुष्ठान्यर्शासि कामलाः॥११॥

प्लीहपाण्ड्वामयः शौथा मूत्रकृच्छ्रमरोचकः॥
हृद्रोगो राजयक्ष्मा च कासः श्वासो गलग्रहः॥१२॥

कृमयो ग्रहणीदोषाः श्चैत्यं स्थौल्यमतीव च॥
नराणां दीप्यते वह्निः स्मृतिर्बुद्धिश्च वर्धते॥१३॥

केम्बुकमूलानीति। केम्बुकं स्वनामप्रसिद्धम्। तैलमधुघृतानां प्रत्येकं समुदितचूर्णतुल्यमानत्वम्। सक्तूनां च षोडशगुणो भागः समुदितचूर्णापेक्षया। संतर्पणमिति। द्रवपरिप्लुतसक्तुरूपं तेन संतर्पणसंज्ञकस्याप्यपतर्पणत्वंज्ञेयम्। मात्रा स्यादाहारद्रव्यप्रधानत्वाद्धुयसी। श्वैत्यं श्वित्रं श्वेतवर्णता वा कफकृता। व्योषादिर्मन्थप्रयोगः॥८॥९॥१०॥११॥१२॥१३॥

त्रिफलाद्यं तैलमाह—

त्रिफलातिविषामूर्वात्रिवृच्चित्रकवासकैः॥
निम्बारग्वधषड्ग्रन्थासप्तपर्णनिशाद्वयैः॥१४॥
गुडूचीन्द्रराकृष्णाकुष्ठुसर्षपनागरैः॥
तैलमेभिः समैः570 पक्वंसुरसादिरसाप्लुतम्॥१५॥
पानाभ्यञ्जनगण्डूषनस्यबस्तिषुयोजितम्॥
स्थूलतालस्यकण्ड्वादीञ्जयेत्कफकृतान्गादान्॥१६॥

इन्द्रसुरा गोरक्षकर्कटी निर्गुण्डी वा। सुरसादिरसाप्लुतमिति। सुरसादिगणस्य क्वाथः। त्रिफलादयश्च कल्कः॥१४॥१५॥१६॥

भेदःप्रदोषात्संभवतोः स्वेददौर्गन्ध्ययोः प्रतीकारमाह—

शिरीषलामज्जकहेमरोध्रैस्त्वग्दोषसंस्वेदहरः प्रघर्षः571

लामज्जकमुशीरम्। हेम नागकेसरचूर्णम्॥

पत्राम्बुलोहाभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः॥१७॥

पत्रं तमालपत्रमिति बाष्पचन्द्रः। अम्बु वालकम्। अभयमुशीरम्। लोहमगरु। चन्दनं श्वेतचन्दनं रक्तचन्दनमितीशानः॥१७॥

वासादलरसो लेपाच्छङ्खचूर्णेन संयुतः॥
बिल्वपत्ररसो वाऽपि गात्रदौर्गन्ध्यनाशनः॥१८॥

शङ्खचूर्णेन संयुत इति। शङ्खं दग्ध्वा चूर्णं ग्राह्यम्। बिल्वपत्ररसोऽपि शङ्खचूर्णसंयुत इति॥१८॥

हरीतकी लोधमरिष्टपत्रं चतत्वचो दाडिमवल्कलं च॥
एषोऽङ्गरागः कथितोऽङ्गनानां जङ्घाकषायश्च नराधिपानाम्॥ १९॥

अरिष्टपत्रं निम्बपत्रं फेनिलवृक्षपत्रं वा। चूतत्वगाम्रच्छल्लिः। दाडिमवल्कलम्। अङ्गरागो वर्णप्रसादकरः। जङ्घाकषायो जङ्घोद्वर्तनाय कल्कः। प्रायेण हीश्वराणां गजादिवाहनाज्जङ्घा विवर्णा भवति तत्सवर्णकरणार्थं जङ्घाकषायविधिः। पत्रं च दद्यान्मदयन्तिकाया लेपोऽङ्गरागो नरदेवयोग्य इति पाठान्तरम्। मदयन्तिका महेंदीति लोके यस्याः पिष्टैः पत्रैर्नखानां रागमुत्पादयन्ति स्त्रियः॥१९॥

गोमूत्रपिष्टं विनिहन्ति कुष्ठं वर्णोज्ज्वलं गोपयसा च युक्तम्॥
कक्षादिदौर्गन्ध्यहरं पयोभिः शस्तं वशीकृद्रजनीद्वयेन॥२०॥

वर्णोज्ज्वलं हरितालं गन्धको वा लेपोऽयं कुष्ठे। गोमूत्रेण गोपयसा युक्तं दौर्गन्ध्यहरं पयसा रजनीद्वयेन च संयुक्तं तिलकादानेन वशीकरणम्॥२०॥

नवकगुग्गुलुमाह—

व्योषाग्निमुस्तत्रिफलाविडङ्गैर्गुग्गुलुं समम्॥
खादन्सर्वाञ्जयेद्व्याधीन्मेदःश्लेष्मामवातजान्॥२१॥

अग्निश्चित्रकः। समं मिलतं(त) व्योषादिचूर्णसमम्। नवकगुग्गुलुः॥२१॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्री श्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां
पट्त्रिंशो मेदोवृद्ध्यधिकारः समाप्तः॥३६॥

अथ सप्तत्रिंश उदराधिकारः।
___________

उदरोत्सेधसाधर्म्यात्स्थौल्यानन्तरमुदरम्।

रक्तशालिर्यवा मुद्गाजाङ्गलाश्च रसा हिताः॥
विरेकास्थापनं शस्तं सर्वेषु जठरेषु च॥१॥

विरेकास्थापनमिति। उदरे संचितत्वान्मलस्य सर्वदा विरेचनं हितम्।

उक्तं हि—

“दोषातिमात्रोपचयात्स्त्रोतोमार्गनिरोधनात्।
संभवत्युदरं तस्मान्नित्यमेनं विरेचयेत्” इति॥

आस्थापनं निरूहः स पुनरुदावर्ताद्यवस्थायां प्रयोज्यः॥१॥

वातोदरं बलवतः स्नेहस्वेदैरुपाचरेत्॥
स्निग्धाय स्वेदिताङ्गाय दद्यात्स्नेहविरेचनम्॥२॥

स्नेहस्वेदैरुपाचरेदिति। नन्विह “विवर्जयेत्स्नेहपानमजीर्णी चोदरी ज्वरी” इतिवचनात्स्नेहनं निषिद्धम्। किंच नैते स्वेद्या नोदरी नातिसारीत्यनेन च स्वेदस्यापि निषेधःकृतस्तत्कथं स्नेहस्वेदोपदेशः। उच्यते—स्वतन्त्रयोः स्नेहस्वेदयोर्निषेधो बोद्धव्यो न तुशोधनाङ्गभूतयोः। अन्यथा दोषहरणस्य दुष्करत्वात्॥२॥

सुविरक्तो नरो यस्तु पुनराध्माति तं भिषक्॥
सुस्निग्धैरम्ललवणैर्निरूहैः समुपाचरेत्॥३॥

पुनराध्यात्तीति। आध्मात्यापूर्णोदरो भवति। आध्मातीत्याध्माशब्दात्क्विबन्तात्क्विपा साध्यम्॥३॥

सामुद्राद्यंचूर्णमाह—

सामुद्रसौवर्चलसैन्धवानि क्षारं572 यवानामजमोदकं च॥
सपिप्पलीचित्रकशृङ्गवेरं हिङ्गुर्विडंचेति समानि दद्यात्573॥४॥

एतानि चूर्णानि घृतप्लुतानि भुञ्जीत पूर्वंकवलं प्रशस्तम्॥

वातोदरं गुल्ममजीर्णभुक्तं वातप्रकोपं ग्रहणीं च दुष्टाम्॥
अर्शांसि कुष्ठानि च पाण्डुरोगं भगंदरांश्चेति निहन्ति सद्यः॥५॥

सुगमम्॥

सामुद्रं कडकचम्। क्षारं यवानामिति। यवक्षारम्। घृतप्लुतानीति। घृतप्लुतभक्तोपरि चूर्णं मात्रया दत्त्वा प्रथमं द्वित्रान्कवलान्हिङ्गवष्टकवद्भुञ्जीत। कवलमिति जातावेकवचनम्। सामुद्राद्यं चूर्णम्॥४॥५॥

वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम्॥

शर्करामरिचोपेतं स्वादु पित्तोदरी पिबेत्॥६॥

सुगमम्॥६॥

यवानीसैन्धवाजाजीव्योषयुक्तं कफोदरी॥

सुगमम्॥

संनिपातोदरी तक्रं त्रिकटुक्षारसैन्धवैः॥७॥

सुगमम्॥७॥

स्नुहीपयोभावितानां पिप्पलीनां पयोशनः॥
सहस्रमुपयुञ्जीत शक्तितो जठरामयी॥८॥

स्नुहीपयोभावितानां पिप्पलीनामिति। भावनमेकविंशतिवारान्। **यदाहक्षा(क्षी)रपाणिः—**महावृक्षक्षीरेण त्रिःसप्तकृत्वः पिप्पलीर्भावयित्वैकां द्वे वा प्रयच्छेद्विरेकार्थमिति। स्नुही सेहुण्डः स च बहुकण्टकः श्रेष्ठः।

उक्तं च—

“द्विविधः स मतोऽल्पैश्च बहुभिश्चैव कण्टकैः।
सुतीक्ष्णकण्टकै रम्यैः प्रवरो बहुकण्टकः”॥

एतान्पिप्पलीगुडकांस्त्रीश्चतुरः पञ्च वा कोष्ठानुरूपं प्रत्यहमेकान्तरं द्व्यन्तरं वा विरेकार्थं क्षीरेण पिबेत्। विरेचनानन्तरं गुरुणा क्षीरेण भोजनं प्रयोगसात्म्यत्वात्। यथोदावर्तिनि विरिक्तस्य काञ्जिककोद्रवान्न-भोजनोपदेशः। सहस्रमुपयुञ्जीतेति। यथोक्तक्रमेण सहस्रंयावदुपयोगः। उत्सर्गोऽयं तेनातोऽर्वागौषध-विधिर्भवत्येव। शक्तितइति। यावता कालेन शक्नुयाद्भक्षयितुं पिप्पलीसहस्रमेकाद्वित्रिचतुष्टयत्वे(ये)न ॥८॥

शिलाजतूनां सूत्राणां गुग्गुलोस्त्रैफलस्य च401
स्नुहीक्षीरप्रयोगश्च शमयत्युदरामयम्॥९॥

समासान्तर्भूतमपि प्रयोग इति पदं (प्रत्येकं ) संबन्धनीयम्। प्रयोगोऽम्यासः॥९॥

स्नुक्पयसा परिभाविततण्डुलचूर्णैर्विनिर्मितः पूपः॥
उदरमुदारं हिंस्याद्योगोऽयं सप्तरात्रेण॥१०॥

पूपः पिष्टकम्। उदारं प्रवृद्धम्॥१०॥

पिप्पलीवर्धमानं वा कल्पदृष्टं प्रयोजयेत्॥
जठराणां विनाशाय नास्ति तेन समं भुवि॥११॥

कल्पदृष्टमिति। चरकरसायनविधिदृष्टं तं च विधिं प्लीहयकृच्चिकित्सिते दर्शयिष्यामः॥११॥

दशमूलदारुनागरच्छिन्नरुहापुनर्नवाभयाक्वाथः॥
जयति जलोदरशोथश्लीपदगलगण्डवातरोगांश्च॥१२॥

क्वाथ इत्यस्य स्थाने युक्त इति पाठे क्वाथ इति शेषः। काथ इति बहुवृक्षं वनमितिवदभेदविवक्षया समाधेयम्। किंच क्वाथान्तर्भावाद्युक्तो योजितः॥१२॥

पटोलादिचूर्णमाह—

पटोलमूलं रजनीं विडङ्गं त्रिफलात्वचम्॥१३॥

कम्पिल्लकं नीलिनीं च त्रिवृतां चेति चूर्णयेत्॥
षडाद्यान्कार्षिकानन्त्यांस्त्रीं574श्च द्वित्रिचतुर्गुणान्॥१४॥

कृत्वा चूर्णं तु तां मुष्टिं गवां मूत्रेण ना पिबेत्॥
विरिक्तो जाङ्गलरसैर्भुञ्जीत मृदुमोदनम्॥१५॥

मण्डं पेयां च पीत्वा वा सव्योषं षडहं पयः॥
शृतं पिवेत्ततश्चूर्णं पिबेदेवं पुनः पुनः॥१६॥

हन्ति सर्वोदराण्येतच्चूर्णं जातोदकानि च॥
कामलां पाण्डुरोगं च श्वयथुंचापकर्षति॥१७॥

नीलिनी नीलबुध्नामूलम्। षडाद्यान्कार्षिकानिति। पटोलमूलादीनि त्रिफलान्तानि प्रत्येकं कार्षिकाणि। अन्यांस्त्रींश्चद्वित्रिचतुर्गुणानिति। कम्पिल्लादीनि त्रीणि कर्षापेक्षया यथाक्रमं द्वित्रिचतुर्गुणानि। मुष्टिमिति। पलम्। जाङ्गलरसैर्भुञ्जीतमृदुमोदनम्। मण्डं पेयां च पीत्वेति। विरेचनदिन उत्तमाग्निजङ्गलरसमृद्वोदनं भुञ्जीत मन्दाग्निश्च मण्डं पेयां वा पिबेत्। अतः षडहं यावत्सव्योषं जले शृतं पयः पिबेत्। ततः सप्तमे पुनः पटोलादिचूर्णं पेयम्। एवं पुनः पुनरस्योपयोगः। पटोलाद्यं चूर्णम्॥१३॥१४॥१५॥१६॥१७॥

नारायणचूर्णमाह—

यवानी हपुषा धान्यं त्रिफला सोपकुञ्चिका॥
कारवी पिप्पलीमूलमजगन्धा शठी वचा॥१८॥

शताह्वाजीरकं व्योषं स्वर्णक्षीरी सचित्रका॥
द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम्॥१९॥

विडङ्गं च समांशानि दन्त्या भागत्रयं तथा॥
त्रिवृद्विशाले द्विगुणे सातला स्याच्चतुर्गुणा॥२०॥

एष नारायणो नाम चूर्णो रोगगणापहः॥
नैनं प्राप्यातिवर्तन्ते रोगा विष्णुमिवासुराः॥२१॥

तक्रेणोदरिभिः पेयो गुल्मिभिर्बदराम्बुना॥
आनाहवा575ते सुरया वातरोगे प्रसन्नया॥२२॥

दघिमण्डेन विद्ध(द्धा)ङ्गे576 दाडिमाम्बुभिरशसि॥
परिकर्ते सवृक्षाम्लैरुष्णाम्बुभिरजीर्णके॥२३॥

भगंदरे पाण्डुरोगे कासे श्वासे गलग्रहे॥
हृद्रोगे ग्रहणीदोषे कुष्ठे मन्दानले ज्वरे॥२४॥

दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे॥
यथार्हस्निग्धकोष्ठेन पेयमेतद्विरेचनम्॥२५॥

उपकुञ्चिका स्वल्पजीरकम्। कारवी कृष्णजीरकम्। अजगन्धाऽजमोदा फोंफानीचा। जीरकं महत्। दन्त्या भागत्रयमेकभागापेक्षया। एवमुत्तरत्रापि द्वैगुण्यं चातुर्गुण्यं चातुर्गुण्यं च ज्ञेयम्। त्रिवृद्विशाले प्रत्येकं द्विगुणे। तसाला चर्मकषा नीलबुध्नावा। नैनंप्राप्येत्यादिना नारायणसधर्मितया नारायणसंज्ञाऽस्येति दर्शयति। **बदराम्बुनेति।**बदरक्वाथेन। सवृक्षाम्लैरिति दाढिमाम्बुभिरित्यस्य विशेषणं दाडिमवृक्षाम्ल-क्वाथेनेत्यर्थः।उष्णाम्बुभिरित्येतद्भगंदरादिष्वप्यनुवर्तनीयम्। किंच यथार्थ(र्ह)मिति वचनादन्यैरपिदोष-व्याधिविपरीतैर्द्रव्यैर्भगदरादिषु पानम्। सगरे कृत्रिमे विष इति। गरं स्यात्कृत्रिमं विषमित्यनेन गरं कृत्रिमं विषं चैकमेवेत्येके तन्न। यतः कृत्रिमं कृतं संयोगजनितं गरं च दूषीविषतामुपेतं विषमुच्यते। मृत-कीटकादिचूर्णं गर इत्यन्ये। नारायणं चूर्णम्॥१८॥१९॥२०॥२१॥२२॥२३॥२४॥२५॥

दशमूलषट्पलकमाह—

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः॥
सक्षारैरर्धपलिकैर्द्विःप्रस्थं सर्पिषः पचेत्॥२६॥

कल्कैर्द्विपञ्चमूलस्य तुलार्धस्य रसेन तु॥

दधिमण्डाढकं दत्त्वा तत्सर्पिर्जठरापहम्॥
श्वयथुं वातविष्टम्भं गुल्मार्शांसि च नाशयेत्॥२७॥

अर्धपलिकैर्द्विःप्रस्थं सर्पिषः पचेदित्यत्र द्विरित प्रस्थेनार्धपलिकैरित्यनेन च योज्यम्।द्विः प्रस्थं द्विगुणं प्रस्थं पचेत्। द्विरर्धपलिकैः प्रत्येकम्।

तथा च जातूकर्णः—

“दशमूलतुलार्धरसे सक्षारैः पञ्चकोलकैः पलिकैः।
साध्यं घृताढकार्धं द्विर्मस्तुकमुदरगुल्मघ्नम् " इति॥

अन्यस्तु क्रियाव्या(भ्या)वृत्तौ सुपो(चो वि)हितत्वादुक्तसामन्या वारद्वयं पाकमाह। **जातकर्ण-**संवादोऽपि व्यभिचारी यतो घृतमेतदेवोदरे वाग्भटेनान्यथा पठितंयथा—“षट्पलं दशमूलाम्बु-मस्तुद्व्याढकसंयुतम् इति। किंतु मानाधिक्याद्वाग्भटोकस्यप्रयोगान्तरत्वं कल्पयितुं शक्यं जातकर्णसंवादः पुनः सकलद्रव्यतुल्यत्वात्षट्पलनाम-(मान)त्वानुपपत्तेर्व्यवहाराञ्च न त्यक्तुमुचितः। सुच्प्रत्ययोऽपि क्रियाभ्यावृत्तिमन्तरेणदृश्यते यथा—“त्रिःसप्तकृत्वो जगतीपतीनां हन्ता गुरुर्यस्य स जामदग्न्यः” इत्यादौ।अत्र तु षट्पले षडेव पलानि पक्वानि गुणवन्ति योगसंस्कारशक्तेरचिन्त्यत्वात्। बहुनाचेत्प्रयोजनं तदा पुनः पुनः पक्तव्यं यतः षट्संख्यया काचिद्विशिष्टा शक्तिरभिधीयते।

उक्तं च—

“नवत्वात्सुपुराणाञ्च संख्याविभागयोजनैः॥
परिमाणाकृतिभ्यां च विशिष्टा शक्तिरिष्यते" इति ब्रह्मदेवः।

दशमूलषट्पलकं घृतम्॥२६॥२७॥

चित्रकघृतमाह—

चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात्पले।
कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिवेत्॥२८॥

सक्षारमिति। यवक्षारस्यापि पलम्। अन्यत्राप्युक्तम्। अग्निक्षारपलाभ्यां द्विमूत्रचतुर्जलं च घृतप्रस्थमिति। चित्रकघृतम्॥२८॥

नागरं त्रिपलं प्रस्थं घृततैलं तथाऽऽढकम्॥२९॥

मस्तुनः साधयित्वा च पिबेत्सर्वोदरापहम्॥
कफमारुतसंभूते गुल्मे चैतत्प्रशस्यते॥३०॥

सुगमम्। नागराद्यं यमकम्॥२९॥३०॥

बिन्दुघृतमाह—

अर्कक्षीरपले द्वे तु स्नुहीक्षीरपलानि षट्॥
पथ्या कम्पिल्लकं श्यामा शम्याकं गिरिकर्णिका॥३१॥

नीलिनी त्रिवृता दन्ती शङ्खिनी चित्रकं तथा॥
एतेषां पलिकैर्भार्घृतप्रस्थं विपाचयेत्॥३२॥

अवास्य मलिने कोष्ठे विन्दुमात्रां प्रदापयेत्॥
यावतोऽस्य पिबेद्बिन्दूंस्तावद्वेगारिच्यते ॥३३॥

कुष्ठं गुल्ममुदावर्तंश्वयथुं सभगंदरम्॥
शमयत्युदराण्यष्टौ वृक्षमिन्द्राशनिर्यथा॥३४॥

श्यामा श्याममूला त्रिवृत्। गिरिकर्णिकाऽपराजिता। नीलिनी नीलबुध्ना। शङ्खिनी श्वेतबुध्नापाकार्थं चतुर्गुणजलमात्रा। तथाच क्वचिट्टिप्पण्याम्—

“स्नुह्यर्कपयसोरत्र पाकार्थानुपपत्तितः।
चतुर्गुणं जलं देयं पाकार्थं बिन्दुसर्पषि"।इति।

मात्राऽस्य कोष्ठानुरूपं षडष्टौ माषकाः। मलिन इति बहुमले। बिन्दुतम्॥३१॥३२॥३३॥३४॥

एतद्बिन्दुघृतं नाम्ना येनाभ्यक्तो विरिच्यते॥
मूत्राण्यष्टावुदरिणां पाने सेके प्रयोजयेत्॥३५॥

सुगमम्॥३५॥

देवद्रुमं शिग्रुमयूरकं च गोमूत्रपिष्टामथवाऽश्वगन्धाम्॥
पीत्वाऽऽशु हन्यादुदरं प्रवृद्धं कृमीनशेषानुदरं577 च दूष्यम्॥३६॥

मयूरकोऽपामार्गः। गोमूत्रपिष्टामिति। देवद्रुमादीनां गोमूत्रेणैव पेषणम्। पानमप्येषां गोमूत्रेणैव। एक एवायं योगः। अथवाशब्दः पूर्वयोगापेक्षया॥३६॥

स्नुक्क्षीरदन्तीत्रिफलाविडङ्गसिंहीत्रिवृच्चित्रककर्षकल्कैः॥
घृतं विपक्वंकुडवप्रमाणं तोयेन तस्याक्षमपार्धकर्षम्॥३७॥

पीत्वोष्णमम्भोऽनुपिबेद्विरिक्ते पेयां सुखोष्णां वितरेद्विधिज्ञः॥
नाराचमेतज्जठरामयानां युक्त्योपयुक्तं शमनं प्रदिष्टम्॥३८॥

सुगमम्। नाराचघृतम्॥३७॥३८॥

संप्रत्युदराधिकार एव तत्कारणत्वात्प्रवृद्धप्लीहयकृच्चिकित्साभिधानम्—

यवानिकाचित्रकयावशूकषड्ग्रन्थिदन्तीमगधोद्भवानाम्॥
प्लीहानमेतद्विनिहन्ति चूर्णमुष्णाम्बुना मस्तुसुरासवैर्वा॥३९॥

षड्ग्रन्थि पिप्पलीमूलम्। पानार्थमुष्णतोयादि बहुद्रवोपदेशो दोषमाल्याद्यपेक्ष्यः॥३९॥

पलाशक्षारतोयेन पिप्पली भाविता शुभा॥
गुल्मप्लीहार्तिशमनी अग्निदीप्तिकरी स्मृता॥४०॥

पलाशक्षारतोयेन पिप्पली भावितेति। सप्तधा क्षारोदकभावितपिप्पलीगुटिका वर्धमानक्रमेण पयसा पेया। पयोऽनुपानं वा। तत्पिप्पलीकल्कमद्यात्॥४०॥

विडङ्गीर्काग्नि578सिन्धूत्थसक्तून्दग्ध्वा वचान्वितान्॥
पिबेत्क्षीरेण संचूर्ण्य गुल्मप्लीहोदरापहान्॥४१॥

विडङ्गादीनि घृतेन संनीय दग्धव्यानि॥४१॥

क्षारं वा बिडकृष्णाभ्यां पूतिकस्याम्लनिःस्रुतम्॥
प्लीहयकृत्प्रशान्त्यर्थं पिबेत्प्रातर्यथाबलम्॥४२॥

पूतिकस्य क्षारमम्लनिःस्रुतं काञ्जिपरिस्रुतं बिडलवणपिप्पलीचूर्णप्रक्षेपेण पिबेत्।सुश्रुतेऽप्युक्तम्—अम्लस्रुतं पूतिकरञ्जक्षारं विडलवणपिप्पलीप्रगाढं पाययेदिति।अत्राम्लस्रुतमिति स्रावणविधिना काञ्जिकेन परिस्रुतमिति कार्तिककुण्डादिभिष्टीकाकारैर्विवृतमिति। एतेनाम्बुनिःस्रुतमित्यपाठ एव॥४२॥

अर्कपत्रं सलवणमन्तर्धूमं विदाहयेत्॥
मस्तुना वा579पिबेत्क्षारं प्लीहरोगं व्यपोहति॥४३॥

अर्कपत्रं सलवणमिति। सलवणं समसैन्धवम्॥४३॥

पातव्यो युक्तितः क्षारः क्षीरेणोदधिशुक्तिजः॥
पयसा वा प्रयोक्तव्याः पिप्पल्यः प्लीहशान्तये॥४४॥

उदधिशुक्तिज इति। उदधिग्रहणमन्यजलाश्रयस्थितशुक्तिग्रहणनिराकरणार्थंस्वरूपपरं वा। पयसा वा प्रयोक्तव्याः पिप्पल्य इति। वर्धमानक्रमेण।

स हि क्रमो यथा—

“क्रमाद्वृद्ध्या दशाहानि दशपैप्पलिकं दिनम्।
वर्धयेत्पयसा सार्धं तथैवापनयेत्पुनः॥

जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा।
पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनः॥

दशपैम्पलिकः श्रेष्ठो मध्यमः षट्प्रकीर्तितः।
यस्त्रिपिप्पलिपर्यन्तः प्रयोगः सोऽवरः स्मृतः॥

दशभिर्दशभिश्चैव पिप्पलीभिर्विवर्धयेत्।
पञ्चभिः पञ्चभिर्वाऽपि शतादपहरेत्पुनः॥

पिष्टास्ता बलिभिः पेयाः शृता मध्यबलैर्नरैः।
चूर्णीकृता हृतबलैर्देहदोषामयान्प्रति" इति॥४४॥

भल्लातकाभयाजाजीगुडेन सह मोदकः॥
सप्तरात्रान्निहन्त्येष प्लीहानमपि580 दारुणम्॥४५॥

सुगमम्॥४५॥

सौभाञ्जनकनिर्यूहंसैन्धवाग्निकणान्वितम्॥
पलाशक्षारयुक्तं वा यवक्षारं प्रयोजयेत्॥१६॥

पलाशक्षारयुक्तं वेति। पलाशक्षारोदकयुक्तम्॥४६॥

तिलान्सलवणांश्चैव घृतं षट्पलकं तथा॥

तिलान्सलवणानिति। तिलनालक्षारोदकं सैन्धवं योज्यं सलवणमित्याहुः। घृतंषट्पलकं ज्वरोक्तम्॥

प्लीहोद्दिष्टां क्रियां सर्वांयकृतः संप्रकल्पयेत्॥४७॥

सुगमम्॥४७॥

लशुनं पिप्पलीमूलमभयां चैव भक्षयेत्॥
पिबेद्गोमूत्रगण्डूषं प्लीहरोगविमुक्तये॥४८॥

पिबेद्गोमूत्रगण्डूषमित्येतदनुपानम्॥४८॥

शरपुङ्खायाः कल्कस्तक्रेण निषेवतो यथाग्निबलम्॥
यदि न जयेत्प्लीहानं शैलोऽपि तदा जले प्लवते॥४९॥

सुगमम्॥४९॥

शार्ङ्गे(र्ङ्गी)ष्टानिर्यूहःससैन्धवस्तिन्तिडीकसंमिश्रः॥
प्लीहव्युपरमयोगः पक्वाम्ररसोऽथ वा समधुः॥५०॥

शार्ङ्गे(र्ङ्गी)ष्टानिर्यूहइति। शार्ङ्गीष्टा गुञ्जा काकजङ्घा वा। पक्वाम्ररसः समधुर्वातदुष्टे॥५०॥

रोहितकाभयाक्षोदभावितं मूत्रमम्बु वा॥
पीतं सर्वोदरप्लीहमेहार्शःकृमिगुल्मनुत्॥५१॥

क्षोदश्चूर्णं रोहितकहरीतक्योश्चूर्णकर्षेण पलद्वयमानं गोमूत्रमम्बु वा भाव्यं व्यवहारान्मूत्रं विरेचनार्थमम्बु शमनार्थमिति व्यवस्था॥५१॥

दध्ना भुक्तवतो वामबाहुमध्ये शिरां भिषक्॥
विध्येप्लीहविनाशाय यकृन्नाशाय दक्षिणे॥५२॥

दघ्ना भोजनं पूर्वदिने तदहर्वे शोणितोत्क्लेशार्यम्। वामबाहुमध्य इति। कूर्परसंधेरधस्तात्॥१२॥

प्लीहानं मर्दयेद्गाढं दुष्टरक्तप्रवृत्तये॥५३॥

प्लीहानं मर्दयेदिति। शिरायां विद्धायां तेन प्लीह्नोदुष्टं रक्तं निःसरति॥१३॥

निकुम्भकुडवक्वाथप्रस्थे तत्कल्कसंयुतम्॥
सर्पिः प्रस्थं पचेत्प्लीहकामलापाण्डुरोगनुत्॥५४॥

दन्तीघृतम्॥५४॥

चित्रकघृतमाह—

चित्रकस्य तुलाक्वाथे घृतप्रस्थं विपाचयेत्॥

आरनालं तु द्विगुणं दधिमण्डं चतुर्गुणम्॥
पञ्चकोलकतालीसक्षारैर्लवणसंयुतैः॥५५॥

द्विजीरकं निशायुग्मं मरिचंतत्र दापयेत्॥
प्लीहगुल्मोदराध्मानपाण्डुरोगारुचिज्वरान्॥५६॥

बस्तिहृत्पाशर्श्वकट्यूरुशूलोदावर्तपीनसान्॥

हन्यात्पीतं तदर्शोघ्नं शोफघ्नं वह्निदीपनम्॥
बलवर्णकरं चापि भस्मकं च नियच्छति॥५७॥

तुलाक्वाथ इति। तुलायाः क्वाथे। आरनालं तु द्विगुणमिति। घृतापेक्षया काजिकं द्विगुणम्। एवं दधिमण्डस्यापि चातुर्गुण्यम्। दधिमण्डो मस्तु। क्षारो यवक्षारः।

लवणं सैन्धवम्। केचित्पुनरिह योगान्तरदर्शनाद्यवक्षारस्वर्जिकाक्षाराभ्यां लवणपञ्चकेनच व्यवहरन्ति—पञ्चकोलकतालीसं द्वौ क्षारौ लवणानि चेति। भस्मकं च नियच्छतीति। चित्रकघृतम्॥५५॥५६॥५७॥

पिप्पलीकल्कसंयुक्तं घृतं क्षीरचतुर्गुणम्॥
पचेत्प्लीहाग्निसादादियकृद्रोगहरं परम्॥५८॥

सुगमम्। पिप्पलीघृतम्॥५८॥

रोहितकघृतमाह—

रोहितकत्वचः श्रेष्ठाः पलानां पञ्चविंशतिः॥
कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत्॥५९॥

पलिकैः पञ्चकोलैश्च तैः सर्वैश्चापि तुल्यया॥
रोहितकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत्॥६०॥

प्लीहातिवृद्धिं शमयेदेतदाशु प्रयोजितम्॥
तथा गुल्मज्वरश्वासकृमिपाण्डुत्वकामलाः॥६१॥

रोहितकस्य पञ्चविंशत्या पलैःकोलप्रस्थद्वयेन मिलित्वा सप्तपञ्चाशत्पलानि क्वाथ्यानिस्युः। शुष्कबदराभाव आर्द्रवदरप्रस्थद्वयं द्विगुणं ग्राह्यं तेष्वष्टगुणं जलं पादशेषःकषायो द्विपलाधिकचतुर्दश-शरावैः। अन्ये तु जयद्रोण एव शेषमाढकं कषायमाहुः।वैद्यप्रसारके तु षोडशगुणं जलं विवृतम्। तैः सर्वैचापि तुल्ययेति। पञ्चपलया।पिष्टैरिति। पञ्चकोलै रोहितकत्वचा पिष्टयेति ज्ञेयम्। रोहितकं घृतम्॥५९॥६०॥६१॥

महारोहितकघृतमाह—

रोहितकात्पलशतं क्षोदयेदराकम्॥६२॥

साधयित्वा जलद्रोणे चतुर्भागावशेषितम्॥
घृतप्रस्थं समावाप्य च्छागक्षीरं चतुर्गुणम्॥६३॥

तस्मिन्दद्यादिमान्कल्कान्सर्वांस्तानक्षसंमितान्॥
व्योषं फलत्रिकं हिङ्गु यवानीं तुम्वरुं बिडम्॥६४॥

अजाजीं कृष्णलवणं दाडिमं देवदारु च॥
पुनर्नवां विशालां च यवक्षारं सपौष्करम्॥६५॥

विडङ्गं चित्रकं चैव हपुपां चविकां वचाम्॥
एतैर्घृतं विपक्वंतत्स्थापयेद्भाजने शुभे॥६६॥

पाययेत्त्रिपलांमात्र व्याधेर्बलमपेक्ष्य581 च॥
रसकेनाथ यूषेण पयसा वाऽपि भोजयेत्॥६७॥

उपयुक्ते घृते तस्मिन्व्याधीन्हन्यादिमान्बहून्॥
यकृत्प्लीहोदरं चैव प्लीहशुलं यकृत्तथा॥६८॥

कुक्षिशूलं हृदि शूलं पार्श्वशूलमरोचकम्॥
विबन्धशूलं शमयेत्पाण्डुरोगं सकामलम्॥६९॥

छर्द्यतीसारशमनं तन्द्राज्वरविनाशनम्॥
महारोहितकं नाम प्लीहघ्नंश्रेष्ठमौषधम्॥७०॥

जलद्रोण इत्येतदावर्तनीयम्। तेन जलद्रोणद्वयेनेह रोहितकपलशतस्य बदराढकस्यच मिलित्वा क्वाथो युक्तः। कृष्णलवणं सौवर्चलभेदः। महारोहितकं घृतम्॥६२॥ ६३॥६४॥६५॥६६॥६७॥६८॥६९॥७०॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायांश्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां सप्तत्रिंश
उदराधिकारः समाप्तः॥३७॥
____________

अथाष्टात्रिंशः शोथोदराधिकारः।
__________

उदर एवोपद्रवभूतशोथसंबन्धेन चिकित्साविशेषयोगाद्वृन्दः परिकल्प्य शोथोदरं दर्शयति—

हरीतकीनागरदेवदारुपुनर्नवाछिन्नरुहाकषायः॥
सगुग्गुलुर्मूत्रयुतश्च पेयः शोथोदराणां प्रवरः प्रयोगः॥१॥

प्रतिदिनोपयोगे गुग्गुलोर्माषकचतुष्टयं गोमूत्रस्यार्धपलं कर्षो वा प्रक्षेपः। विरेचने तु कर्तव्ये प्रचुरत्वमनयोः॥१॥

एरण्डतैलं दशमूलमिश्रं गोमूत्रयुक्तस्त्रिफलारसो वा॥
निहन्ति वातोदरशोथशूलं क्वाथःसमूत्रो दशमूलजश्च॥२॥

एरण्डतैलं दशमूलमिश्रमिति। दशमूलस्य क्वाथः। एरण्डतैलं प्रक्षेपः। गोमूत्रयुक्तस्त्रिफलारसो वेति। बद्धकोष्ठतायां गोमूत्रेणैव त्रिफलाक्वाथःकार्यः। योगोऽयंपित्तकफोदरे सशोथे युक्तः॥२॥

पुनर्नवानिम्बपटोलशुण्ठीतिक्तामृतादार्व्यभयाकषायः॥
सर्वाङ्गसोफोदरकासशूलश्वासान्वितं पाण्डुगदं निहन्ति॥३॥

सुगमम्॥३॥

पुनर्नवां दार्वभयां गुडूचीं पिबेत्समूत्रां महिषाक्षयुक्ताम्॥
त्वग्दोषशोफोदरपाण्डुरोगस्थौल्यमसेकोर्ध्वकफामयेषु॥४॥

पुनर्नवादीनां चूर्णं गुग्गुलुयुक्तं गोमूत्रेण पेयम्—

“गोमूत्रेणामृतादारुवर्षाभूचेतकीरजः।
पिबेद्गुग्गुलुसंयुक्तं शोथोदरविनाशनम्" इति॥

अत्र चेतकी हरीतकी॥४॥

गोमूत्रयुक्तं महिषीपयो वा क्षीरं गवां वा त्रिफलाविमिश्रम्॥
क्षीरामभुक्केवलमेव गव्यमूत्रं पिबेद्वा श्वयथूरेषु॥५॥

क्षीरं गवां वा त्रिफलाविमिश्रमिति। त्रिफलायाः क्वाथः कल्को वा क्षीरमात्रेणान्नभुक्॥५॥

पुराणं माणकं पिष्ट्वा द्विगुणीकृततण्डुलम्॥
साधितं क्षीरतोयाभ्यामभ्यसेत्पायसं तु तत्॥६॥

हन्ति वातोदरं शोथं ग्रहणं पाण्डुतामपि॥
सिद्धो भिषभिराख्यातः प्रयोगोऽयं निरत्ययः॥७॥

पुराणमाणकमालूकं पलमानं पिष्टतण्डुलपलद्वयं च मनाक्चूर्णितं क्षीरतोयाभ्यां साधयित्वा पायसः कार्यः। अस्योपयोगेऽपरमन्नं व्यञ्जनं च नाश्नीयादित्याहुः। योगोऽयंशोथमात्रेण प्रचरति॥६॥७॥

पुनर्नवादार्व्यमृता582 पाठा विल्वं श्वदंष्ट्रिका॥
बृहत्यौ द्वे रजन्यौ द्वे पिप्पल्यश्चित्रकं वृषम्॥८॥

समभागानि संचूर्ण्य गवां मूत्रेण ना पिबेत्॥

बहुप्रकारं शोथं च सर्वगात्रविसारिणम्॥
हन्ति शोथोदराण्यष्टौ व्रणांश्चैवोद्धतानपि
<MISSING_FIG href="../../../books_images/U-IMG-1706346895image13.jpg"/>॥९॥

सुगमम्॥८॥९॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्याया-
मष्टात्रिंशः शोथोदराधिकारः समाप्तः॥३८॥

______________________________________________________________

<MISSING_FIG href="../../../books_images/U-IMG-1706346895image13.jpg"/> ख. पुस्तके—दोषैः कुक्षौ हि संपूर्णेवह्निर्मन्दत्वमृच्छति। तस्माद्भोज्यानि भोज्यानि दीपनानिलघूनि च॥१॥शालिषष्टिकगोधूमयवनीवारभोजनम्। विरेकास्थापनं श्रेष्ठं सर्वेषु जठरेषु च॥२॥औदकानूपजं मांसं शाकपिष्टकृतं तिलम्। व्यायामाध्वदिवास्वप्रयानयानं च वर्जयेत्॥३॥ तथोष्णलवणाम्लानि विदाहीनि गुरूणि च। नायादत्रानि जठरी तोयपानं च वर्जयेत्॥४॥ इत्यधिकमत्र।
______________________________________________________________

अथैकोनचत्वारिंशः शोथाधिकारः।

______________

उदर उपद्रवरूपतया शोफस्य संभवात्तदनन्तरं शोथः। अयं च शोफः सर्वाङ्गसरणयोग्यो व्रण-शोथाद्भिन्नः॥

शुण्ठीपुनर्नवैरण्डपञ्चमूलशृतं जलम्॥
वातिके श्वयथौ शस्तं पानाहारपरिग्रहे॥१॥

पञ्चमूलं महदुष्णवीर्यतया विशेषेण वातयौगिकत्वात्। पानाहारपरिग्रह इति। अन्नपानसंस्कारे॥१॥

क्षीराशिनः पित्तकृते तु शोथे त्रिवृद्गृडूचीत्रिफलाकषायम्॥
पिबेद्गवां मूत्रविमिश्रितं वा फलत्रिकाच्चूर्णमथाक्षमात्रम्॥२॥

सुगमम्॥२॥

पुनर्नवाविश्वत्रिवृद्गुडुचीशम्याकपथ्यामरदारुकल्कम्॥
शोथे कफोत्थे महिषाक्षसूत्रयुक्तं पिबेद्वा सलिलं तथैषाम्॥३॥

पुनर्नवादीनां कल्कं गुग्गुलमूत्रयुक्तं पिबेत्। पिबेद्वा सलिलं तथैषामिति। एषां पुनर्नवादीनां क्वाथं वा गुग्गुलुगोमूत्रे प्रक्षिप्य पिबेत्॥३॥

कफे तु कृष्णासिकतापुराणपिण्याकशिग्रुत्वगुमाप्रलेपः॥
कुलत्थशुण्ठीजलमूत्रसेकश्चण्डागुरुभ्यामनुलेपनं च॥४॥

सिकता वालुका। पुराणपिण्याकः पुराणसर्षपखलिः। शिग्रोस्त्वक्सौभाञ्जनत्वक्।कुलत्यशुण्ठीजलं कुलत्थशुण्ठ्योर्मिलितयोः क्वाथः। क्वाथमूत्राभ्यां प्रत्येकं मिलित्वा वापरिषेकः। चण्डा चौरपुष्पिका॥४॥

अजाजिपाठाघनपञ्चकोलव्याघ्रीरजन्यः सुखतोयपीताः॥
शोथं प्रवृद्धं चिरजं त्रिदोषं निघ्नन्ति भूनिम्बमहौषधे च॥५॥

पिप्पल्यादिरजोनाम्ना चरके पठ्यते त्वयम्॥
योगोऽत्र चविकास्थाने ग्राह्या मातङ्गपीप्पली॥६॥

सुखतोयमुष्णोदकम्। उष्णोदकविधौ च तन्त्रान्तरम्

“क्वाथ्यमानं च यत्तोयं निष्फेनं निर्मलीकृतम्।
चतुरर्धावशिष्टं तु तदुष्णोदकमिष्यते” इति॥

अजाज्यादीनां चूर्णमुष्णोदकेन पेयम्। भूनिम्बमहौषधे चेति। कल्कोऽयमुष्णोदकेन पेयः। चविकायाः पुनः स्थाने ग्राह्या मातङ्गपिप्पलोति वृन्दः। मातङ्गपिप्पली हस्तिपिप्पली। टिप्पणिका वृन्दस्य नातिहृदयंगमा। यतश्चरके शोथचिकित्सिते पिप्पल्यादिचूर्णे गजपिप्पलीशब्देन चव्येव व्याख्याता **टीकाकृद्भिः।**कींवपञ्चकोलं चवीं विना क्वचिन्नोपलब्धम्। निघण्टावपि हस्तिपिप्पलीति चव्याःपर्यायोऽस्ति। त्रिदोषमिति। वातादिभिः प्रत्येकं मिलतैर्वा कृतं त्रिदोषजशोथस्यापि साध्यत्वेनोकत्वात् ॥९॥६॥

आर्द्रकस्य रसः पीतः पुराणगुडमिश्रितः॥
अजाक्षीराशिनः583 शीघ्रं सर्वशोथहरो भवेत्
<MISSING_FIG href="../../../books_images/U-IMG-1706347570image13.jpg"/>॥७॥

आर्द्रकस्य रसः पीत इति। आर्द्रकस्य रसो यथार्हमात्रया पुराणगुडेन समेनसहोपयोज्यः॥७॥

पुनर्नवादारुशुण्ठीकाथे मूत्रेऽथ केवले॥
दशमूलरसे वाऽपि गुग्गुलु शोथनाशनः॥८॥

मूत्रेऽथ केवल इति। मूत्रं स्त्रीगवीभवं ग्राह्यं लाघवात्तीक्ष्णत्वाच्च।

यदुक्तम्—

“लाघवं जातिसामान्ये स्त्रीणां पुंसां च गौरवम्।
स्त्रीणां मूत्रं गवां तीक्ष्णं न तु पुंसां तथाविधम्॥

चितास्मिकाः584 स्त्रियो यस्मात्सौम्यास्तु पुरुषाः स्मृताः" इति॥८॥

बिल्वपत्ररसं पाण्डु585 सोषणं श्वयथौ त्रिजे॥
विट्सङ्गे चैव दुर्नाम्नि विदध्यात्कामलासु च॥९॥

** सोषणमिति।** समरीचम्॥९॥

गुडपिप्पलिशुण्ठीनां चूर्णं श्वयथुनाशनम्॥
आमाजीर्णप्रशमनं शूलघ्नं बस्तिशोधनम्॥१०॥

सुगमम्॥१०॥

पुरं मूत्रेण संसेव्यं पिप्पली वा पयोन्विता॥
गुडेन वाऽभया तुल्या विश्वं वा शोथरोगिणाम्॥११॥

पिप्पली वा पयोन्वितेति। वर्धमानक्रमेणेतरकल्कबद्धा पिप्पली सेव्या॥११॥

गुडाद्रेकं वा गुडनागरं वा गुडाभयां वा गुडपिप्पलीं वा॥
कर्षाभिवृद्ध्या त्रिपलप्रमाणं खादेन्नरः पक्षमथापि मासम्॥१२॥

शोथप्रतिश्यायगलास्यरोगा-
न्सश्वासकासारुचिपीनसादीन्॥
जीर्णज्वरार्शेग्रहणीविकारा-
न्हन्यात्तथाऽन्यान्कफवातरोगान्॥१३॥

________________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1706347570image13.jpg"/> ख. पुस्तके—तथा च चरकः—कृष्णा सपाटा गजपिप्पली च निदिग्धिका नागरचित्रकं च।सपिप्पलीमूलरजन्य-जाजीमुस्तं च चूर्ण सुखतोयपीतम्॥१॥ पीतं त्रिदोषं चिरजं च शोकं कुष्ठंच चूर्णस्य हि संप्रयोगात्। मांसै रसैर्धन्वमृग-द्विजानां पुराणशाल्योदनमादीत॥२॥ इत्यधिकमत्र।
____________________________________________________________

** कर्षाभिवृद्ध्या त्रिपलप्रमाणमिति।** गुडार्द्रकादयस्तुल्यभागाः सन्तः प्रतिदिनं मेलयित्वा कर्षेण वर्धयितव्याः। एवं द्वादशभिर्दिनैस्त्रिपलं भवति। ततस्त्रिपलमेव पक्षं मासंवा यावत्खादन्। किंवा प्रथमं कर्षं खादन्। ततः कतिचिद्दिनानि कर्षस्यैवाभ्यासः।ततः परमपरकर्षं वर्धयेत्। तस्यापि पुनरभ्यासः। एवं कर्षेण कर्षेण वृद्ध्या यथा पक्षेणमासेन वा त्रिपलं स्यात्तथा विधेया वृद्धिः। अन्ये त्वाहुः—पक्षमथापि मासमित्यत्राथशब्दः कात्स्न्र्ये अपिशब्दः समुच्चये। तेन मासं पक्षं च मासार्धमासं वाण्याइ(द्यादि)त्यर्थः। सार्धमासेन त्रिपलं कर्षोपयोगात्प्रभृति प्रत्यहं माषचतुष्टयविधिनाभवति। अत्र व्याख्याने कर्षादारभ्य माषकचतुष्टयमेव वृद्धिर्नाधिका। व्यवहारोऽपोत्थंप्रायः। कर्षे तु गुडनागरयोरर्धपला वृद्धिरप्युक्ता। तद्यथा—

“पक्षविवृद्धं चाऽऽर्द्रकमद्याद्दशवासराणि गुडेन समम्।
पञ्चपलमेव ततो द्विदशाहात्सरसप्रेश(?)मुद्गाशीति”॥१२॥१३॥

स्थलपद्ममयं कल्कं पयसाऽऽलोड्य पाययेत्॥
प्लीहामहरं चैव सर्वाङ्गैकाङ्गशोथजित्॥१४॥

स्थलपद्ममयं कल्कमिति। स्थलपद्मं माणकम्। अस्य पुराणमालुकं ग्राह्यम्॥१४॥

क्षीरं शोथहरं दारुवर्षाभूनागरैः शृतम्॥
पेयं वा चित्रकव्योषवृद्धदारुप्रसाधितम्॥१५॥

सुगमम्॥१५॥

सिंहास्यामृतभण्टाकीक्वाथं पीत्वा समाक्षिकम्॥
कृच्छ्रं शोथं जयेज्जन्तुः श्वासं कासं ज्वरं वमिम्॥१६॥

सिंहास्यो वासा। भण्टाकी कण्टकारी॥१६॥

भूनिम्बविश्वकल्कं जग्ध्वा पेयः पुननर्वाक्वाथः॥
अपहरति नियतमाशु श्वययुं सर्वाङ्गगं नृृणाम्
<MISSING_FIG href="../../../books_images/U-IMG-1706348331image13.jpg"/>॥१७॥

पेयः पुनर्नवाक्वाथ इति। अनुपानमिदम्। एतच्च पुनर्नवामूलकर्षे निष्क्वाथ्यकार्यम्। अतोऽधिकमात्रयाऽनुकरणे भूरिभेषजत्वादग्निवधादिदोषः स्यात्। एवं सर्वत्रक्वाथेऽनुपाने ज्ञेयम्॥१७॥

त्रिफलायोरजःक्षारैः शोथजित्र्रिफलारसः॥

त्रिफलारस इति। त्रिफलाक्वाथे त्रिफलाचूर्णादीनां प्रक्षेपः।

यष्टीदुग्धतिलैर्लेपो नवनीतेन संयुतः॥
शोथमारुष्करं हन्ति वृन्तैः शालदलस्य वा॥१८॥

____________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1706348331image13.jpg"/>ख. पुस्तके—सेकस्तथाऽर्कवर्षाभूनिम्बक्वाथेन शोथजित्। इत्यधिकमत्र।
____________________________________________

यष्टी यष्टीमधुः। शोथमारुष्करमिति। भल्लातजं शोथम्। वृन्तैः शालदलस्यवेति पृथग्योगः॥१८॥

शोथे विषनिमित्ते तु विषोक्ता शस्यते क्रिया॥१९॥

सुगमम्॥१९॥

पुनर्नवाचित्रकदेवदारुपञ्चोषणक्षारहरीतकीनाम्॥
कल्केन पक्वंदशमूलतोये घृतोत्तमं शोथनिषूदनं च
<MISSING_FIG href="../../../books_images/U-IMG-1706348853image13.jpg"/>॥२०॥

पञ्चोषणं पञ्चकोलम्। पुनर्नवाद्यं घृतम्॥२०॥

रसे विपाचयेत्सार्पेःपञ्चकोलकुलत्थयोः॥
पुनर्नवायाः कल्केन घृतं शोथविनाशनम्॥२१॥

सुगमम्। पञ्चकोला घृतम्॥२१॥

सचित्रका धान्ययवानिपाठाः
सदीप्यकास्त्र्यूषणवेतसाम्लाः॥
बिल्वात्फलं दाडिमयावशूकं
सपिप्पलीमूलमथापि चव्यम्॥२२॥

पिष्ट्वाऽक्षमात्राणि जलाढकेन
पक्त्वा घृतप्रस्थमथोपयोज्यम्॥
अर्शासि गुल्मं श्वयथुंच कृत्स्नं
निहन्ति वह्निं च करोति दीप्तम्॥२३॥

दीप्यकं जीरकम्। वेतसाम्लोऽम्लवेतसः। बिल्वात्पलमस्य पाठे बिल्वं पलमानं शेषद्रव्यं तु कार्षिकम्। चित्रकाद्यं घृतम्॥२२॥२३॥

क्षीरं घटे चित्रककल्कलिप्ते दध्यागतं साधु विमथ्य तेन॥
तज्जं घृतं चित्रकमूलगर्भ तक्रेण सिद्धं श्वयथुघ्नमग्न्यम्॥
अर्शोतिसारानिलगुल्ममेहांस्तद्धन्ति संवर्धयते च वह्निम्॥२४॥

घटे चित्रकमूलकल्कलेपं तिलोत्सेधं मानमुपदिशन्ति। दध्यागतं दधिभावमागतम्।तेनेति तद्दधिमन्थनोत्थेन। एतच्च तक्रेणेत्यनेन सह योज्यम्। तेन तक्रेणेत्यर्थः।चित्रकं घृतम्॥२४॥

माणकघृतमाह—

माणकक्वाथकल्काभ्यां घृतप्रस्थं विषाचयेत्॥
एकजं द्वंद्वजं शोथं त्रिदोषं च व्यपोहति॥२५॥

_______________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1706348853image13.jpg"/>ख. पुस्तके—भल्लातश्वयथुं हन्ति ध्रुवमाश्वत्थधावनात्। महिषीक्षीरपिष्टैर्वा नवनीतसमन्वितैः॥१॥ भल्लातककृतः शोथस्तिलैप्तिः प्रशाम्यति। इत्यधिकमत्र।
_______________________________________________

माणकालुकक्वाथार्थमष्टगुणं जलं न तु मृदुत्वाच्चतुर्गुणं तथा सति यवागूवत्क्वाथःस्यात्। माणकालुकं चाऽऽर्द्रमेव सर्वत्र ग्राह्यम्। माणकघृतम्॥२६॥

शैलेयाचं तैलमाह—

शैलेयकुष्ठागुरुदारुकौन्तीत्वक्पद्मकैलाम्बुपलाशमुस्तैः॥
प्रियंगुथौणेयकहेममांसीतालीसपत्रप्लवधान्यपत्रैः॥२६॥

श्रीवेष्टकध्यामकपिप्पलीभिः स्पृक्कानखैश्चापि यथोपलाभम्॥
वातात्मकेऽभ्यङ्गमुशन्ति तैलं सिद्धं सुपिष्टैरपि च प्रदेहम्॥२७॥

कौन्ती रेणुकम्। त्वग्गुडत्वक्। पलाशः शठी। थौणेयकं ग्रन्थिपर्णम्। एतच्छन्दोनुरोधादिह सकाररहितं ज्ञेयम्। प्लवः कैवर्तमुस्तकः। श्रीवेष्टको नवनीतखोटिः। ध्यामकं गन्धतृणम्। सुपिष्टैः शैलेयादिभिस्तैलं सिद्धमुपदिशन्ति तैरेव सुपिष्टैः प्रदेहमप्युशन्ति। उशन्तीच्छन्ति। शैलेयाद्यं तैलम्॥२६॥२७॥

शुष्क मूलकवर्षाभूदारुरास्त्रामहौषधैः॥
पक्वमभ्यञ्जनात्तेलं समूलं586 शोथनाशनम्॥२८॥

शुष्कमूलकाद्यं तैलम्॥२८॥

कंसहरीतकीमाह—

द्विपञ्चमूलस्य पचेत्कषाये कंसेऽभयानां च शतं गुडाच्च॥
लेहे सुसिद्धे च विनीय चूर्णं व्योषंत्रिसौगन्ध्यमुपस्थिते च॥२९॥

प्रस्थाधर्मात्रं मधुनः सुशीते किंचिच्च चूर्णादपि यावशूकात्॥
एकाभयां प्राश्य ततश्च लेहाच्छुक्तिं निहन्ति श्वयथुंप्रवृद्धम्॥३०॥

श्वासज्वरारोचकमेहगुल्मान्प्लीहत्रिदोषोदरपाण्डुरोगान्॥
कार्श्यामवातावसृगम्लपित्तवैवर्ण्यमूत्रानिलशुक्रदोषान्॥३१॥

सांनिध्यान्मधुनो मानं व्योषादेर्मिलितस्य च॥
किंचिच्च कर्षपर्यायः शुक्तिरर्धपलं मता399॥३२॥

दशमूलीहरीतक्यास्तु(तु)ल्या कंसहरीतकी॥
मानं तेनात्र तत्रत्यं चरके ग्राह जैज्जटः॥३३॥

कषाये कंस इति। पादशेषेणाऽऽढकमानं क्वाथे। एतावन्मानश्च क्वाथो दशमूलेचतुःषष्टिपलमाने क्वाथ्यमाने भवति। अभयागुडकानां शतं गुडाच्च शतम्। व्योषत्रिसुगन्धयोरिति(ह) मानस्यानिर्देशेऽपि लेहान्तरोक्तचूर्णमानानुसारेण मानं ज्ञेयम्। तत्रागस्त्यहरीतक्यां गुडतुलायां पिप्पलीचूर्णकुडव उक्तस्तद्वदिहापि गुडपलशते व्योषस्य कटुद्रव्यस्य मिलित्वा कुडवः। च्यवनप्राशे खण्डपञ्चाशत्पले चातुर्जातस्य पलमुक्तं तद्वदिहापि गुडपलशते द्विपलं मिलित्वा त्रिसुगन्धं यावशूकस्तु किंचिच्छब्दस्याल्पवचनादत्रोक्तव्योषादि-चूर्णार्धमानः किंवा किंचिच्छब्दः कर्षपर्यायः। तेन यवक्षारस्य कर्षोग्राह्यः। वृन्दस्तु ‘सांनिध्यान्मधुनो मानं व्योषादेर्भिलितस्य तु’ इत्यनेन व्योषत्रिसुगन्धयोरष्टपलत्वं ब्रूते। यवक्षारस्तु कर्षमान एवेति तस्याऽऽशयः। **जातूकर्ण्यसंवा-**दात्पुनस्त्र्यूषणयवक्षाराणां प्रत्येकं पलं त्रिसुगन्धि च प्रत्येकं कर्षमानम्।

तथाच जातूकर्णः—

“दशमूलकषायस्य कंसे पथ्याशतं गुडात्।
तुलां पञ्चशतो दद्याद्व्योषक्षारचतुष्पलम्॥
त्रिसुगन्धि सुवर्णाशं प्रस्थार्धं मधुनो हिमे” इत्यादि॥

अत्र चतुष्पलं मिलित्वा सुवर्णांशं प्रत्येकं प्रचारश्चेत्यमेव॥२९॥३०॥३१॥३२॥३३॥

दशमूलकषायस्य कंसे पथ्याशतं पचेत्॥
तुलां गुडाद्धनव्योषयवक्षारचतुष्पलम्॥३४॥

त्रिजातकं सुवर्णांशं प्रस्थार्धंमधुनो हिमे॥३५॥

दशमूलहरीतक्यः शोधान्हन्युःसुदुर्जयान्॥
ज्वरारोचकमेहार्शःकुष्ठपाण्डूदरामयान्॥३६॥

दशमूलहरीतकी॥३४॥३९॥३६॥

पुनर्नवामृतादारुदशमूलजलाढके॥
आर्द्रकस्वरसमस्थे गुडस्य तु तुलां पचेत्॥३७॥

तत्सिद्धं व्योषपत्रैलात्वक्चव्यैः कार्षिकैः पृथक्॥
चूर्णीकृतैः क्षिपेच्छीते मधुनः कुडवं लिहेत्॥३८॥

लेहः पौनर्नवो नाम शोथशूलनिषूदनः॥
कासश्वासारुचिहरी बलवर्णाग्निवर्धनः॥३९॥

सुगमम्। पुनर्नवालेहः॥३७॥३८॥३९॥

पिष्टान्नमम्लं लवणानि मद्यं मृदं दिवा स्वप्नमजाङ्गलं च॥
स्त्रियो घृतं तैलपयोगुरूणि शोफं जिघांसुः परिवर्जयेच्च॥४०॥

ग्राम्याजानूपपिशितलवणं शुष्कशाकं नवान्नं
गौडं पिष्टानं दधि च कुशरं विज्जलं मद्यमम्लम्॥
धानावल्लूरं समशनमथो गुर्वसात्म्यं विदाहि
स्वप्नंचारात्रौ श्वयथुगदवान्वर्जयेन्मैथुनं च॥४१॥
<MISSING_FIG href="../../../books_images/U-IMG-1706349460image13.jpg"/>

___________________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1706349460image13.jpg"/> ख. पुस्तके—अनेकोपद्रवयुतः पादाभ्यां प्रसृतो नरम्। नारींशोको मुखाद्धन्ति कुक्षिगुह्यादुभावपि॥१॥ इत्यधिकमत्र।
___________________________________________________

अजाङ्गलं चेत्यतः परं मांसमिति शेषः। स्त्रियो ढाढुमिति केचित्पठन्ति॥४०॥४१॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-कण्ठदत्तकृतायांव्याख्याकुसुमावल्याख्यायामेकोनच-
त्वारिंशः शोफाधिकारः समाप्तः॥३९॥

_____________

अथ चत्वारिंशत्तमो वृद्ध्यधिकारः।
________

शोथप्रकारत्वादथ वृद्धिः। वृद्धिः कुरण्ड इति लोके।

गुग्गुलुं रुबुतैलं वा गोमूत्रेण पिबेन्नरः॥
वातवृद्धिं निहन्त्याशु चिरकालानुबन्धिनीम्॥१॥

सुगमम्॥१॥

सक्षीरं वा पिबेत्तैलं मासमेरण्डसंभवम्॥

सुगमम्॥

तैलं नारायणं योज्यं पानाभ्यञ्जनबस्तिषु॥२॥

सुगमम्॥२॥

चन्दनं मधुकं पद्ममुशीरं नीलमुत्पलम्॥
क्षीरपिष्टैःप्रदेहःस्यादाहशोथरुजापहः॥३॥

सुगमम्॥३॥

पञ्चवल्कलकल्केन सधृतेन प्रलेपनम्॥

सुगमम्॥

सर्वे पित्तहरं कार्यं रक्तजे रक्तमोक्षणम्॥४॥

रक्तजे रक्तमोक्षणमिति। अपक्वेरक्तजे रक्तस्रवणं जलौकाभिः कार्यम्। तथा चसुश्रुतः—मुहुर्मुहुर्जलौकाभिः शोणितं रक्तञेहरेदिति॥४॥

श्लेष्मवृद्धिं तूष्णवीर्यैर्मूत्रपिष्टैः प्रलेपयेत्॥

** उष्णवीर्यैरिति।** अजगन्धादिभिर्मिश्रकोक्तैः। अन्यैश्वाऽऽरग्वधादिभिः॥

पीतदारुकषायं च पिबेन्मूत्रेण संयुतम्॥५॥

गोमूत्रेणैव पोतदारुक्वाथः कार्य इत्याहुः। मूत्रस्य तु प्रक्षेपो युक्तः। पोतदारु देवदारु। डल्लणस्त्विति व्याचष्टे—गोमूत्रक्वथितस्यैव दारुहरिद्राकषायस्य पलं पीतदारुस्थाने केचिद्देवदारु पठन्ति॥५॥

स्विन्नंमेदःसमुत्थं तु लेपयेत्सुरसादिना॥
शिरोविरेकद्रव्यैर्वा सुखोष्णैर्मूत्रसंयुतैः॥६॥

पत्रपुटबद्धगोमयपिण्डादिना स्विन्नं सुरसादिगणेन गोमूत्रेण पिष्टेन शिरोविरेचनद्रव्यैर्गोमूत्रपिष्टैः सुखोष्णैर्वा लेपयेत्। शिरोविरेचनद्रव्याणि पिप्पलीविडङ्गापामार्गशिग्रुशिरीषसिद्धार्थकादीनि सुश्रुते संशोधनसंशमनीयोक्तानि। मूत्रमिह शिरोविरेचनद्रव्यत्वेन लब्धमपि पुनः पेषणार्थमुक्तम्॥६॥

संस्वेद्यमूत्रप्रभवां वस्त्रपट्टेन वेष्टयेत्॥
सीवन्याः पार्श्वतोऽधस्ताद्विध्येद्व्रीहिमुखेन वै॥७॥

संस्वेदनं कर्तव्यं शस्त्रकर्मवेदनानिवारणार्थं त्वगादिमृदुकरणार्थं च। मूत्रप्रभवां मूत्रसंधारणजाम्। वस्त्रपट्टेन वेष्टनं कर्मसौकर्यार्थम्।व्रीहिमुखेन शस्त्रविशेषेण विध्येत्।व्यधश्चमूत्रस्रावणार्थम्। एतदनन्तरं यदाह सुश्रुतः

“अथात्र द्विमुखीं नाडीं दत्त्वा विस्त्रावयेद्भिषक्॥
मूत्रं नाडीमतोद्धृत्य स्थगिकाबन्धमाचरेत्” इति॥७॥

प्राप्तफलकोषाया अन्त्रवृद्धेरसाध्यत्वादप्राप्तफलकोषायास्तस्याश्चिकित्सामाह—

मुष्ककोशमगच्छन्त्यामन्त्रवृद्धौ विचक्षणः॥
वातवृद्धिक्रमं कुर्याद्दाहं तत्राग्निना हितम्॥८॥

वातवृद्धिक्रमः स्नेहपानादिरनुवासनान्तः। तत्राग्निना दाहं कुर्यात्। अत्रार्थे सुश्रुतः—

“तप्तया वङ्क्षणस्थानं दहेदर्धेन्दुवक्रया॥
सम्यङ्मार्गावरोधार्थं कोशप्राप्तां तु वर्जयेत्" इति॥८॥

शङ्खोपरि च कर्णान्ते त्यक्त्वा सीवनिमादरात्॥
व्यत्यासाद्वा शिरां विध्येदन्त्रवृद्धिनिवृत्तये॥९॥

शङ्खभ्रुवोरन्तोपरि कर्णललाटयोर्मध्ये। त्यक्त्वा सीवनिमादरादिति। केशान्तसोवनीयं मर्मत्वात्परित्यज्य। व्यत्यासाद्वेति। वामकोषे वृद्धौ दक्षिणे दक्षिणकोषे वृद्धौ वामे यदा पुनरुभयतो वृद्धिस्तदोभयभागव्यधः। वाशब्दो वृद्ध्यन्तरापेक्षया।अन्त्रवृद्धिनिवृत्तये वङ्क्षणस्थाया इति वाक्यशेषः॥९॥

अङ्गुष्ठमध्ये त्वक्छित्त्वा दहेङ्गविपर्यये॥१०॥

अङ्गुष्ठमध्ये त्वक्छिश्चेति। हस्ताङ्गुष्ठमध्ये त्वङ्मात्रं छित्वादहेत्। अस्मादेवनिर्देशात्त्वक्शब्दो नपुंसकोऽप्यस्तीत्युन्नीयते। त्वचं छित्त्वाऽङ्गुष्ठमध्य इति पुनः पाठःसाधुः। अङ्गविपर्यय इत्यत्र विपर्ययार्थः पूर्ववत्॥१०॥

रास्रायष्ट्यमृतैरण्डवलागोक्षुरसाधितः॥
काथोऽन्त्रवृद्धि हन्त्याशु रुबुतैलेन मिश्रितः॥११॥

सुगमम्॥११॥

तैलमेरण्डजं पीत्वा बलासिद्धं पयोन्वितम्॥
आध्मानशूलोपचितामन्त्रवृद्धिं जयेन्नरः
<MISSING_FIG href="../../../books_images/U-IMG-1706374342image13.jpg"/>॥१२॥

सुगमम्॥१२॥

हरीतकीं मूत्रसिद्धां सतैलां लवणान्विताम्॥
प्रातः प्रातश्च सेवेत कफवातामयापहाम्॥१३॥

मूत्रसिद्धां गोमूत्रस्विन्नाम्। सतैलां सैरण्डतैलाम्। योगोऽयं विरेचनार्थेगोमूत्रेणेवपेयः। कल्करूपोऽप्ययमुष्णोदकानुपानः सेव्यः॥१३॥

गोमूत्रसिद्धां रुबवतैलभृष्टां हरीतकीं सैन्धवचूर्णयुक्ताम्॥
खादेन्नरः कोष्णजलानुपानान्निहन्ति वृद्धिं चिरजां प्रवृद्धाम्॥१४॥

सुगमम्॥१४॥

त्रिफलाकाथगोमूत्रं पिबेत्प्रातरतन्द्रितः॥
कफवातोत्थितं हन्ति श्वयथुं वृषणोद्भवम्॥१५॥

त्रिफलाक्वाथगोमूत्रमिति। त्रिफलायाः क्वाथे गोमूत्रप्रक्षेपः॥१५॥

सरलागुरुकुष्टानि देवदारु महौषधम्॥
मूत्रारनालसंपिष्टं शोफघ्नं कफवातजित्॥१६॥

सरलं सरलकाष्ठम्। मूत्रारनालसंपिष्टमिति। गोमूत्रकाञ्जिकाभ्यां मिलित्वा पिष्टम्।++++पोऽयम्॥१६॥

भृष्टो रुबूकतैलेन कल्कः पथ्यासमुद्भवः॥
कृष्णासैन्धवसंयुक्तो वृद्धिरोगहरः परः +॥१७॥

सुगमम्॥१७॥

गव्यं घृतं सैन्धवसंप्रयु587क्तं शम्बूकभाण्डे निहितं प्रयत्नात्॥
सप्ताहमादित्यकरैर्विपक्वंनिहन्ति कौरण्डमतिप्रवृद्धम्॥१८॥

शम्बूकभाण्ड इति। शम्बूक एवं भाण्डं तत्र ढक्कणिकां स्फोटयित्वाऽन्तर्जन्तुयुक्ते नेहितम्। लेपोऽयम्॥१८॥

वचासर्षपकल्केन प्रलेपः शोथनाशनः॥१९॥

सुगमम्॥१९॥

संप्रति वर्ध्मनो लक्षणं निर्दिशति—

_______________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1706374342image13.jpg"/>ख. पुस्तके—इन्द्रायुधरविक्षीरमिश्रैश्चणकसक्तुभिः। सिन्दूर सैन्धवोपेतैर्लेपो हन्ति कुरण्डजम्॥१॥ इत्यधिकमत्र।
**+**ख. पुस्तके—त्र्यूषणं पिप्पलीमूलं देवदारु फलत्रिकम्। कषायं पाययेध्यैष सक्षारलवणत्रिकम्॥१॥ त्रिभिर्मासैः प्रशाम्येत वृद्धिर्वातकफात्मिका। इत्यधिकमत्र।
_______________________________________

अत्यभिष्यन्दिगुर्वामसेवनान्निचयं गतः॥
करोति ग्रन्थिवच्छोफंदोषो वङ्क्षणसंधिषु॥
ज्वरशूलाङ्गासादाढ्यं तं वर्ध्यमिति निर्दिशेत्॥२०॥

रुग्विनिश्चयेऽनुक्तत्वाल्लक्षणं लिखितवावृन्दः। वर्ध्मवाढ्ढोसीति लोके॥२०॥

मूलं बिल्वकपित्थयोररलुकस्याग्नेर्बृहत्योर्द्वयोः
श्यामापूतिकरञ्जशिग्रुकतरोर्विश्वौषधारुष्करम्॥
कृष्णाग्रन्थिकचव्यपञ्चलवणक्षाराजमोदान्वितं
पीतं काञ्जिककोष्णतोयमथितैश्चूर्णीकृतं वर्ध्यजित्॥२१॥

बिल्वादीनां शिग्रुकतर्वन्तानां सर्वेषां मूलम्। अरलुकः श्योनाकः। श्यामा वृद्धदारुकः। काञ्जिककोष्णतोयमथितानामन्यतमेन प्रकृत्याद्यपेक्षया पानम्॥२१॥

अविक्षीरेण गोधूमकल्कं कुन्दुरुकस्य च॥
प्रलेपनं सुखोष्णं स्याद्वर्ध्यशूलहरं परम्॥२२॥

अविक्षीरेण पिष्ट्वा गोधूमकुन्दुरुणीलेप एको योगः। वाशब्दो योगान्तरापेक्षया।अत एव क्वचिच्चकारः पठ्यते। कल्कमिति निर्देशात्कल्कशब्दो नपुंसकोऽप्यस्तीतिगम्यते। कुन्दुरु स्वनामख्यातम्॥२२॥

मृतमात्रे तु वै काके विसस्ते तु प्रवेशयेत्॥
वर्ध्मंमुहूर्तं मेधावी तत्क्षणादरुजं भवेत्॥२३॥

मृतमात्र इति। सद्यो मारिते। विशस्ते पाटिते। काकस्य क्रोडं पाटयित्वा तत्रक्रोडे वर्ध्मप्रवेशनीयम्। तत्प्रवन्धः कार्यः॥२३॥

सैन्धवादितैलमाह—

सैन्धवं मदनं कुष्ठं शताह्वानिचुलं वचा॥
ह्रीवेरं मधुकं भार्गी देवदारु सनागरम्॥२४॥

कट्फलं पौष्करं मेदा चविका चित्रकं शठी॥
विडङ्गातिविषे श्यामा रेणुका नीलिनी स्थिरा॥२५॥

बिल्वाजमोदे कृष्णा च दन्ती रास्त्रा च तैः समैः॥
साध्यमेरण्डजं तैलं तैलं वा कफवातनुत्॥२६॥

निचुलो वेतसः श्यामा त्रिवृद्वैद्यप्रसारके व्याख्याता। नीलिनी नीलबुध्ना। तैलं वाकफवातनुदिति। तिलतैलं जलेन पाकः। बृहत्सैन्धवाद्यं तैलम्॥२४॥२५॥२६॥

वर्ध्मोदावर्तगुल्मार्शःप्लीहमेहाममा588रुतान्॥
आनाहमश्मरीं चैव हन्यात्तदनुवासनम्589
घृतं सौरेश्वरं590 योज्यं वर्ध्यवृद्धिनिवृत्तये॥२७॥

सुगमम्। सुश्रुते वृद्धिषु परिहार्यमुक्तम्।

तद्यथा—

“अश्वादियानं व्यायामं मैथुनं वेगनिग्रहम्।
अत्यासनं चंक्रमणमुपवासं गुरूणि च" इति॥

चंक्रमणं गमनम्॥२७॥

इति श्रीवृन्दमणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्री श्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां
चत्वारिंशो वृद्ध्यधिकारः समाप्तः॥४०॥

_____________

अथैकचत्वारिंशो गलगण्डाद्यविकारः।
____________

शोफाधिकाराद्गलगण्डादयः।

यवमुद्गपटोलादि कटुरूक्षं च भोजनम्॥
छर्दि सरक्तमुक्तिं च गलगण्डे प्रयोजयेत्॥१॥

रूक्षभोजनोपदेशः कफवातमेदःकारणत्वाद्गलगण्डस्य। छर्दिमिति वान्तिम्। रक्तमुक्तिर्जलौकादिभिः॥१॥

निचुलं शिग्रुबीजानि दशमूलमथापि वा॥
आलेपनं वातगण्डे सुखोष्णं संप्रशस्यते॥२॥

सुगमम्॥२॥

देवदारुविशाले च कफगण्डे प्रलेपनम्॥
तण्डुलोदकपिष्टेन मूलेन परिलेपितः॥
हस्तिकर्णपलाशस्य गलगण्डः प्रशाम्यति॥३॥

लेपोऽयं वक्ष्यमाणश्च लेपः कोष्णः कार्यः॥३॥

सर्षपञ्शिग्रुबीजानि शणबीजातसीयवान्॥
मूलकस्य च बीजानि तक्रेणाम्लेन पेषयेत्॥४॥

गण्डानि ग्रन्थयश्चैव गण्डमालाः समुत्थिताः॥
प्रलेपात्तेन शाम्यन्ति विलयं यान्ति वाऽचिरात्॥५॥

सुगमम्॥४॥५॥

जीर्णकर्कारुकरसं बिडसैन्धवसंयुतम्॥
नस्येन हन्ति तरुणं गलगण्डं न संशयः॥६॥

कर्कारुस्तिक्ततुम्बी कूष्माण्डभेदो वा। तरुणमिति जातमात्रम्॥६॥

जलकुम्भीकजंभस्म पक्वंगोमूत्रगालितम्॥
पिबेत्कोद्रवतक्राशी गलगण्डोपशान्तये॥७॥

जलकुम्भीकं पान्ही तस्या भस्म पानीयक्षारविधिना गोमूत्रेण विपाच्य परिस्राव्य चपिबेत्॥७॥

महिषीमूत्रविमिश्रंलोहमलं संस्थितं घटे मासम्॥
अन्तर्धूमविदग्धं लिह्यान्मधुनाऽथ गलगण्डे॥८॥

सुगमम्॥८॥

सूर्यावर्तरसोनाभ्यां गलगण्डोपनाहनम्॥
स्फोटास्रावैः शमं याति गलगण्डो न संशयः॥९॥

गलगण्डोपनाहनमिति। उपनाहनं बहलोष्णः प्रलेपः। स्फोटास्त्रावैरित्युपनाहनकृतैः॥९॥

तैलं पिबेच्चामृतवल्लिनिम्बहंसाह्वयावृक्षकपिप्पलीभिः॥
सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे॥१०॥

हंसाह्वया हंसपादी। तैलं पिबेत्सिद्धमिति संबन्धः। दूरस्थानामपि पदानामेकीकरणंयोग इति तन्त्रयुक्तेः। अमृताद्यंतैलम्॥१०॥

जिह्वायाः पार्श्वतोऽधस्ताच्छिरा द्वादश कीर्तिताः॥११॥

तासां स्थूलशिरे कृष्णे छिन्द्यात्ते च शनैः शनैः॥
वडिशेनैव संगृह्यकुशपत्रेण बुद्धिमान्॥१२॥

स्रुते रक्ते व्रणे तस्मिन्दद्यात्सगुडमाद्रकम्॥
भोजनं चानभिष्यन्दि यूषः कौलत्थ इष्यते॥१३॥

दद्यात्सगुडमार्द्रकमिति। गुडार्द्रकं चर्वणेन प्रचरति॥११॥१२॥१३॥

कर्णयुग्मबहिःसंधिमध्याभ्यासे स्थितं च यत्॥
उपर्युपरि तच्छिन्द्याद्गलगण्डे शिरात्रयम्॥१४॥

संधिमध्याभ्यास इति। अभ्यासः संनिधिः॥१४॥

तुम्बीतेलमाह—

विडङ्गक्षारसिन्धूग्रारास्नाग्निव्योषदारुभिः॥
कटुतुम्बीफलरसे कटुतैलं विपाचितम्॥
चिरोत्थमपि नस्येन गलगण्डं विनाशयेत्॥१५॥

क्षारो यवक्षारः। उग्रा वचा। तुम्बीतैलम्॥१५॥

विडङ्गानलसिन्धूत्थरास्नाग्राक्षारदारुभिः॥१६॥
तैलं चतुर्गुणे सिद्धं कटुतुम्बीरसेऽथ तत्॥
गण्डमालाहरं श्रेष्ठं गलगण्डहरं परम्॥१७॥

सुगमम्। तुम्बीतैलम्॥१६॥१७॥

अतः परं गण्डमालाचिकित्सितम्।

माक्षिकाढ्यः सकृत्पीतः क्वाथो वरुणमूलजः॥
गण्डमालां निहन्त्याशु चिरकालानुबन्धिनीम्॥१८॥

सकृदित्येकदा प्रयोगस्तुतिरियम्॥१८॥

पिष्ट्वा ज्येष्ठाम्बुना पेयाः काञ्चनारत्वचः शुभाः॥
विश्वभेषजसंयुक्ता गण्डमालापहाः पराः
<MISSING_FIG href="../../../books_images/U-IMG-1706375455image13.jpg"/>॥१९॥

ज्येष्ठाम्बुनेति। तण्डुलोदकेन। काञ्चनारः काञ्चन इति ख्यातः॥१९॥

अलम्बुषादलोद्भूतात्स्वरसाद्द्वेपले पिबेत्॥
अपच्या गण्डमालायाः कामलायाच नाशने॥२०॥

अलम्बुपादलोद्भूतादिति। अलम्बुषा मुण्डितिकाऽलम्बुपो वा॥२०॥

वनकार्पासिकामूलं तण्डुलैः सह योजितम्॥
पक्त्वा पुपूलिकां591 खादेदपचीनाशनाय च॥२१॥

अपचीनाशनाय चेत्यत्र चकारेण गण्डमालाहरत्वमपि प्रस्तुतं समुच्चीयते॥२१॥

सौभाञ्जनं देवदारु काञ्जिकेन तु पेषितम्॥
कोष्णं मलेपनं हन्यादपचीमतिदुस्तराम्॥२२॥

सुगमम्॥२२॥

आरग्वधशिफां क्षिप्रं सम्यक्तण्डुलवारिणा॥
पिष्ट्वा नस्यप्रलेपाभ्यां गण्डमालां समुद्धरेत्॥२३॥

सुगमम्॥२३॥

गण्डमालामयार्तानां नस्यकर्मणि योजयेत्॥
निर्गुण्ड्यास्तु शिफां सम्यग्वारिणा परिपेषिताम्॥२४॥

सुगमम्॥२४॥

कोशातकीनां स्वरसेन नस्यं तुभ्ब्यास्तथा पिप्पलिसंयुतेन॥
तैलेन वाऽरिष्टभवेनकुर्याद्वचोपकुल्ये सह माक्षिकेण॥२५॥

पिप्पलीसंयुतेन कोशातकीस्वरसेन तथा तुम्बीस्वरसने सह योज्यम्। अरिष्टभवेनेत्यस्य स्थानेऽरिष्ट-भवस्येति पाठान्तरे बीनस्येति शेषः। वचेत्यादि योगान्तरम् ॥२५॥

अतःप्रभृति ग्रन्थिचिकित्सा।

ग्रन्थिष्वामेषु कुर्वीत भिषक्शोथप्रतिक्रियाम्॥
पक्वानापीड्य संशोध्य रोपयेर्द्व्रणभेषजैः॥२६॥

___________________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1706375455image13.jpg"/> ख. पुस्तके—रवौ वारे मानी शुचिरुषसि गत्वाऽग्निदमनीसिफामाहृत्पोटादर्शदिवसे पोष्यममृतम्। रसं तं कौमार्यास्तिलजयुतमासेवितमिदं(गल)ग्रन्थेर्मालामपहरति कालत्रयमिदम्॥१॥ इत्यधिकमत्र।
_______________________________________________________________

शोथप्रतिक्रियामिति। अपतर्पणादिविरेचनान्तानेकादश द्विवणीयोक्तानुपक्रमाकुर्यात्॥२६॥

इदानीं वातादिजनितग्रन्थिविशेषेणाऽऽलेपादीनाह—

हिंस्रासरोहिण्यमृताऽथ भार्गी श्योनाकबिल्वागुरुकृष्णगन्धाः॥
गोपित्तपिष्टाः सह तालपत्र्या ग्रन्थौ विधेयोऽनिलजे मलेपः॥२७॥

हिंस्रा कालीयकडः। रोहिणी कटुरोहिणी। अमृता गुडूची। बिल्वस्थाने क्वचित्कृष्णापाठः। कृष्णगन्धा सौभाञ्जनकः शमीत्यपरे। गोपित्तपिष्टा इत्यत्र गोजी चपिष्टेति पाठान्तरम्। गोजी गोजिह्वा शाखोटक इत्यन्ये। तालपत्री तालमूली॥२७॥

जलौकसः592 पित्तकृते हितास्तु क्षीरोदकाभ्यां परिषेचनं च॥
काकोलिवर्गस्य च शीतलानि पिबेत्कषायाणि सशर्कराणि॥२८॥

सुगमम्॥२८॥

द्राक्षारसेनेक्षुरसेन वाऽपि चूर्णंपिबेद्वाऽपि हरीतकीनाम्॥

** चूर्णं पिवेद्वाऽपीति।** वाशब्दो योगान्तरापेक्षया। हरीतकीनामिति। बहुवचनंसप्तविधाया अपि हरीतक्या ग्रहणार्थम्।

** वचनं हि**—

“विजया रोहिणी चैव जीवन्ती पूतनाऽमृता।
अभया कलिका ज्ञेया इत्येताः सप्त जातयः" इति॥

मधूकजम्ब्वर्जुनवेतसानां त्वग्भिः मलेपानवचारयेद्वा॥२९॥

सुगमम्॥२९॥

हृतेषु दोषेषु यथानुपूर्व्या ग्रन्थौ भिषक्श्लेष्मसमुत्थिते तु॥
स्विन्नस्य विम्लापनमेव कुर्यादष्टपदीसुतस्तु॥३०॥

हृतेषु दोषेष्विति। वमनादिना कफादौ रक्तमोक्षणेन च रक्ते हृते सति। यथानुपूर्व्येति। स्नेहस्वेदादिक्रमं कृत्वेत्यर्थः। छन्दोनुरोधाद्वेणू। दृषदीसृतः शिलापुत्रकः।अङ्गुष्ठलोहोपलवेणुदण्डैरिति तु क्वापि पाठो निर्दोषः। उपलः पाषाणः॥३०॥

विकङ्कतारग्वधकाकणन्तीकाकादनीतापसवृक्षमूलैः॥
आलेपयेदेनमलाबुभार्गीकरञ्जकालामदनैश्च विद्वान्॥३१॥

विकङ्कतो वयंकिलिरिति ख्यातः। आरग्वधः किरमालकः। काकणन्ती गुञ्जा।काकादनी वायसतिन्दुकः। अहिंसा, इत्यन्ये। तापस इङ्गुद इति डल्लणः। कालाकडावकडो मञ्जिष्ठा वा॥३१॥

दन्ती चित्रकमूलत्वक्सौधार्कपयसी गुडः॥
भल्लातकास्थि कासीसं लेपो भिन्द्याच्छिलामपि॥३२॥

सौधार्कपयसी इति। स्नुह्यर्कयोः क्षीरम्॥३२॥

ग्रन्थीनमर्मप्रभवानपक्वानुद्धृत्य चाग्निंविदधीत वैद्यः॥
क्षारेण चैतान्प्रतिसारयेत्तु संलिख्य संलिख्य यथोपदेशम्॥३३॥

नन्वयं ग्रन्थः सुश्रुतेऽपच्यां पठितः। ग्रन्थौ न तु कफजे।

तत्रैतादृशः पठितः—

“अमर्मजातं शममप्रयान्तमपक्वमेवापहरेद्विदार्य॥
दाहे स्थिते चासृजि सिद्धकर्मा ततः क्षतोक्तं च विधिं विदध्यात्” इति॥

तत्कुतो ग्रन्थावस्य पाठः। उच्यते। अपच्या सह तुल्यक्रियत्वाद्ग्रन्थेरर्थस्य<MISSING_FIG href="../../../books_images/U-IMG-1706376311image13.jpg"/>चाद्रावपचीग्रन्थमेव ग्रन्थौ लिखितवान्संग्रहकारकः। अपक्कानामान्। उद्धृत्य विदार्य। आमच्छेदननिषेधस्यापवादोऽयम्। आमच्छेददोषे सुश्रुतः—आमच्छेदे सिरास्नायुव्यापादनं शोणितातिप्रवृत्तिरित्यादि। अग्निं विदधीत। अग्निना दहेदित्यर्थः। क्षारेण वेति। विकल्पो दोषापेक्षोऽवस्थापेक्षो वा। प्रतिसारयेत्प्रतिलेपयेत्। यथोपदेशमिति। क्षारलेपोक्तविधानेन॥३३॥

संप्रत्यर्बुदचिकित्सितमाह—

ग्रन्ध्यर्बुदानां च यतोऽविशेषः प्रदेशहेत्वाकृतिदोषदूष्यैः॥
ततश्चिकित्सेद्भिषगर्बुदानि विधानविद्ग्रन्थिचिकित्सितेन॥३४॥

अविशेष इति। बाहुल्येनाविशेषः। तेन विशेषोऽपि स्तोकोऽनयोरस्ति ग्रन्थिःपाकवानर्बुदमपाक-प्रायमिति ॥ ३४ ॥

वातार्बुदे चाप्युपनाहनानि स्निग्धैश्च मांसैरथ वेसवारैः॥
स्वेदं विदध्यात्कुशलस्तु नाड्या शृङ्गेण रक्तं बहुशो हरेञ्च॥३५॥

नाड्येति। नाडीस्वेदविधिनां॥३९॥

स्वेदोपनाहा मृदवस्तु पथ्याः पित्तार्बुदे कायविरेचनं च।

स्वेदोषनाहा मृदव इति। मृदुः स्वेदो द्रवस्वेदः। उपनाहश्च काकोल्यादिद्रव्यकृतः। क्षीराम्लपिष्टश्च नात्युष्णः। कायविरेचनमित्यत्र कायपदं शिरोविरेचनव्यवच्छेदार्थम्॥

विघृष्य चोदुम्बरशाकगोजीपत्रैर्भृशं क्षौद्रयुतैः प्रलेपः593
श्लक्षणीकृतैः सर्जरसप्रियंगुपत्राङ्गलोध्रार्जुनयष्टिसाह्वैः॥३६॥

भृशं विघृष्य गोज्युदुम्बर्यादिपत्रैः। उदुम्बरः काकोदुम्बरिका कर्कशपत्रत्वात्।शाको महातरुजस्तरुः कर्कशपत्रः। शाको खरमसृणपत्रो महातरुः श्रीपर्ण इति लोके।
____________________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1706376311image13.jpg"/>चिन्त्यमिदम्।
____________________________________________________

इति डल्लणः। गोजी दार्वीपत्रिका शाखोटक इत्यन्ये। पत्राङ्गं रक्तचन्दनम्। अर्जुनस्थानेऽञ्जनपाठेऽञ्जनं स्रोतोञ्जनम्। यष्टिसाह्वोयष्टीमधुः॥३६॥

लेपनं शङ्खचूर्णेन सह मूलकभस्मना॥
कफार्बुदापहं कुर्याद्ग्रन्थ्यादिषु विशेषतः॥३७॥

सुगमम्॥३७॥

निष्पावपिण्याककुलत्थकल्कैर्मासप्रगाढैर्दधिमर्दितैश्च॥३८॥

लेपं विदध्यात्क्रिमयो यथाऽत्र594मुञ्चन्त्यपत्यान्यथ मक्षिका वा॥
अल्पावशिष्टं क्रिमिभिः प्रजग्धं लिखेत्ततोऽग्निं विदधीत पश्चात्॥३९॥

निष्पावः श्वेतशिम्बिः। पिण्याकः खलिः। विदध्यात्कुर्यात्। कृमयो यथाऽत्रेत्यतःपरं भवन्तीति शेषः। मुञ्चन्तीति पाठेऽपत्यान्यथ मक्षिका वेत्यतः परं मुञ्चन्तीति द्रष्टव्यम्। मूर्च्छन्ति मूञ्चन्त्यथ मक्षिका वा, इति पाठे मूर्छन्ति पतन्ति मूञ्चन्त्यथ मक्षिका,इति डल्लणः। ततोऽग्निं विदधीतेति परिशिष्टस्य दाहार्हत्वाच्च ॥३८॥३९॥

यदल्पमूलं त्रपुताम्रसीसैः संवेष्ट्य पत्रैरथ वाऽऽयसैर्वा॥
क्षाराग्निशस्त्राण्यवचारयेञच्चमुहुर्मुहुः प्राणमवेक्षमाणः॥४०॥

त्रप्वादिनिर्मितैः पत्रैः संवेष्टय स्थापयेदिति व्याख्येयम्। त्रप्वादिधट्टनमेवार्बुदोपशमनंनं तु क्षाराद्यवचारणमात्रं त्रप्वादिपत्रसंवेष्टनस्य पूर्वकालभावित्वादित्याहुः। त्रपू रङ्गः।क्षारादयश्चार्बुदे महति न सकृदेवावचारणीया बलभ्रंशभयादित्यत उक्तं क्षाराग्निशस्त्राण्यवचारयेच्चेत्यादि।॥ ४०॥

यदृच्छया चोपगतानि पाकंपाकक्रमेणोपचरेद्यथोक्तम्॥

यदृच्छयेति। कारणानियमेन। अनियतमभिघातादिकं पाककारणं प्राप्येत्यर्थः।यत्तु न पाकमायान्तीत्युक्तं तत्प्रायिकं ज्ञेयम्। पाकक्रमेणेति। पाकोक्तपाटनशोधनादिक्रमेण। यथोक्तमिति। यथाविधिविहितेन॥

सशेषदोषाणि हि योऽर्बुदानि करोति तस्याऽऽशु पुनर्भवन्ति॥
तस्मादशेषाणि समुद्धरेत्तु हन्युः सशेषाणि यथा विषाग्नी॥४१॥

सुगमम्॥४१॥

उपोदकारसाभ्यक्तास्तत्पत्रपरिवेष्टिताः॥
प्रणश्यन्त्यचिरान्नृृणां पिटकार्बुदजातयः॥४२॥

पिटकार्बुदजातय इति। अर्बुदजातयोऽर्बुदप्रकाराः॥४२॥

उपोदका काञ्जिकतक्रपिष्टा तयोपनाहो लवणेन मिश्रः॥
दृष्टोऽर्बुदानां595 प्रशमाय कैश्चिद्दिने दिने रात्रिषु मर्मजानाम्॥४३॥

सुगमम्॥४३॥

स्नुहीगण्डीरिकास्वेदो नाशयेदर्बुदानि च॥
लवणेनाथ वा स्वेदः सीसकेन तथैव च॥४४॥

स्नुहीगण्डीरिकखण्डैस्तप्तैःस्वेदनम्॥४४॥

हरिद्रालोध्रपत्राङ्गगृहधूममनःशिलाः॥
मधुप्रगाढो लेपोऽयं मेदोर्बुदहरः परः॥४५॥

सुगमम्॥४५॥

एतामेव क्रियां कुर्यादशेषां शर्करार्बुदे॥१६॥

सुगमम्॥४६॥

अपचीचिकित्सितमाह—

सर्षपारिष्टपत्राणि दग्ध्वा भल्लातकैः सह॥
छागमूत्रेण संपिष्टमपचीध्नं प्रलेपनम्॥४७॥

अपचीरुग्विनिश्चये…………म॥४७॥

अश्वत्थकाण्डं निचुलं गवां दन्तं च दाहयेत्॥
सप्ताहमलसं596युक्तं भस्म हन्त्यपेचीं597 क्षणात्598
<MISSING_FIG href="../../../books_images/U-IMG-1706447787image13.jpg"/>॥४८॥

सुगमम्॥४८॥

पार्ष्णि प्रति द्वादश चाङ्गुलानि
मित्वेन्द्रबस्ति परिवर्ज्य सम्यक्॥
विदार्य मत्स्याण्डनिभानि वैद्यो
निष्कृष्य जालान्यनलं विदध्यात्॥४९॥

पार्ष्णिगुल्फादधोदेशमिन्द्रबस्तिं परित्यज्य चतुर्विंशत्यङ्गुलशप्कजङ्घामध्ये पश्चाद्भागस्थितमिन्द्र-बस्तिं द्व्यङ्गुलमानं मर्म विहाय विदारयेत्। जालाने मेदोजालानि। एवमपच्या मूलोच्छेदात्प्रणाशः। यदाह भोजः—

“वातपित्तकफा वृद्धा मेदश्चापि समाचितम्॥
जङ्घयोः कण्डरां प्राप्य मत्स्याण्डसदृशान्बहून्।

कुर्वन्ति” इत्यादि।

डल्लणोक्ता व्याख्या लिख्यते—स्थानकर्माभिधाय स्थानान्तरकर्म निर्दिशन्नाह—

पार्ष्णि प्रति द्वे दश चाङ्गुलानि मित्वेन्द्रबस्तिं परिवर्ज्य धीमान्॥
विदार्य मत्स्याण्डनिभानि वैद्यो निष्कृत्य जालान्यनलं विदध्यात्।

_______________________________________________________
<MISSING_FIG href=”../../../books_images/U-IMG-1706447787image13.jpg"/>ख. पुस्तके—अन्तर्धूमं दहेत्काकं कृष्णाहिं वा भिषग्वरः। तेनापची सुकृच्छ्राऽपि तैलाक्ता लघु शाम्यति। इत्यधिकमत्र॥
_______________________________________________________

पार्ष्णिः पश्चाद्धागो गुल्फस्य। द्वादशाङ्गुलानि मित्वोर्ध्वमिन्द्रबस्ति परित्यज्य च्छित्वा मेदोजालानि मत्स्याण्डेन निभान्याकृष्याग्निमवचारयेत्। जङ्घामध्ये द्व्यङ्गुलमिन्द्रवस्तिः। जैज्जटाचार्यस्त्वर्धाङ्गलमाह। अन्ये तु पार्ष्णिप्रतीत्यत्र प्रतिशब्दो विपरीतार्थः। तेनः विपरीतायां पाष्ण्यमित्यर्थः। तेन दक्षिणभाग-गतायामपच्यां वामजङ्घायां वामभागगतायामपच्यां दक्षिणजङ्घायामुभयतोभागगतायामुभयतः कर्म कर्तव्यमिति ज्ञेयम्। भागे च परिप्रती इत्युक्तत्वाद्भागार्थोऽपि प्रतिशब्दो व्याख्यातः। तेन पार्ष्णिणभागे जङ्घायाः पाश्चात्यभागे व्यधःकार्यः। द्वे दश चाङ्गुलानि मित्वेत्यत्र पृथग्विभक्तिनिर्देशात्पार्ष्णितो दशाङ्गुलानि विहायाङ्गुलद्वयमात्रो व्यधः कार्य इति ज्ञेयः(म्)। इन्द्रबस्तिं त्रयोदशेऽङ्गुले स्थितमर्धाङ्गुलप्रमाणं परित्यज्य हित्वा धीमान्बुद्धिमानूहापोहे योग्यो दृष्टकर्मेत्यर्थः। वैद्यो यः सम्यगायुर्वेदविद्यां वेत्ति। जालानि मेदोजालानि। अनलं विदध्यादपुनर्भवायाग्नितप्तया शलाकया दहेदित्यर्थः। एवं हि मूलच्छेदादपच्युपशम इति वदन्ति। अमुमेवार्थं केचिदनेन पाठेन पठन्ति—

‘आ गुल्फकर्णात्ममितस्य जन्तोस्तस्याष्टभागं खुलकाद्विभज्य॥
घोणर्जुवेधः सुरराजबस्तेर्हित्वाऽक्षिमात्रं त्वhरे वदन्ति’॥

आ खुलकाद्गुल्फकर्णात्। गुल्फौकर्णाविव यस्य स तथा। खुलको जङ्घापादयोः संधिः। सुरराजबस्तेरिन्द्रबस्तेः। अष्टभागं जङ्घायाश्चरणहीनाया विंशत्यङ्गुलाया अष्टमो भागः सार्धमङ्गुलद्वयं हित्वा यद्यपि द्व्यड्गुलमिन्द्रवस्तिस्तथाऽपि तदुपघातपरिहारार्थं सार्धमेवाङ्गुलद्वयम्। अन्ये त्वक्षिमात्रमेव द्व्युगुलं नेत्रप्रमाणं हित्वेतिवदन्ति। घोणर्जुवेध इति। गुल्फकर्णस्य खुलकस्य घोणा नासेव घोणा यथोत्तरीयकण्डरा तस्या ऋजुरवक्रोवेधो व्यधः। कुर्यादित्यत्रापि पाठे स एवार्थः। अपच्यासु (चीपु)जङ्घाकण्डरागतमेदोमूलजत्वमुक्तं भोजेन—

“वातपित्तकफा वृद्धा मेदश्चापि समाचितम्॥
जङ्घयोः कण्डरां प्राप्य मत्स्याण्डसदृशान्बहून्" इत्यादि॥

इति गयी। जैज्जटाचार्यस्याप्ययमभिप्रायः। गृढपदभङ्गाटप्पणकेऽन्यथा व्याख्यातम्। आ गुल्फकर्णादिति। गुल्फकर्णावभिव्याप्य। आङत्राभिविधौ न मर्यादायाम्।सुमितस्य सुनिश्चितं मितस्य तस्य प्रमाणस्य षट्सप्ताङ्गुलमित्यस्य। अष्टभागं सार्धनवाङ्गुलमात्रं खुलकात्पार्ष्णिभागात्त्रयङ्गुल-प्रमाणाद्विभज्य पृथक्कृत्य घोणा नासा तस्या ऋजु यथा भवत्य(ति तथाऽ)वक्रो वेधः कर्तव्यः। यच्च विध वेधने (इति) धातो रूपं तथाऽपि वेधशब्दोऽत्र व्यधने वर्तते धातूनामनेकार्थत्वात्। स च खुलकस्याङ्गुलत्रितयमष्टभागस्य च सार्धनवाङ्गुलनत्रकमेकं सार्धद्वादशाङ्गुलपरिमाणेनेन्द्र-बस्तिमर्मापि परिहृतं भवेतदुक्तमिन्द्रबस्तिं हित्वेति।

यथा चोक्तम्—

“त्रयोदशाङ्गुले पार्ष्णिप्रति कालान्तरासुहृत्।
इन्द्रबस्तिरसृक्स्रावी मांसगोऽर्धाङ्गुलो भवेत्"।

अक्षिमात्रमङ्गुलद्वयप्रमाणमपरे भिषज इति वदन्ति। एवं प्रथमश्लोकेनाधस्ताद्द्वितीय-श्लोकेनेन्द्रबस्तेरुपरिष्टाज्जङ्घायाः पाश्चात्यभागगतकण्डराया द्व्यङ्गुलमात्रो व्यधःकार्य इति स्थितम्। एवमनुपशमे वामपार्श्वजायां दक्षिणजङ्घापृष्ठमध्यादिन्द्रबस्तेरधस्तादूर्ध्वं वा शस्त्रेणाक्षिमात्रं व्रणं कृत्वा मत्स्याण्डजालनिभं मेदोपनीयाग्निना दहेत्। अनेनेतरपार्श्वजा व्याख्याता। एवमुभयपार्श्वजायामुभयत इति।

भोजोऽत्राऽऽह—

“वातपित्तकफा वृद्धा मेदश्च पवनान्वितम्।
जङ्घायाः कण्डरां प्राप्य मत्स्याण्डसदृशान्बहून्॥१॥

कुर्वन्ति ग्रन्थीन्यस्तेभ्यः पुनः प्रकुपितोऽनिलः।
दोषैस्तैरूर्ध्वगो वक्षःकक्षामन्यागलाश्रितः॥२॥

नानाप्रकारान्कुरुते ग्रन्थीन्सा त्वपची मता।
व्यामिश्रदोषोत्पन्नां तु कृच्छ्रसाध्यां विनिर्दिशेत्॥३॥

तासां वातोत्तरा कृष्णा वातिकीवेदनायुता।
क्षिप्रपाकसमुत्थाना दाहयुक्ता च पैत्तिकी॥४॥

गूढाविपाका कठिना कफात्स्निग्धारुजाकरी॥
मेदोधिका श्लैष्मिकी च विशेषात्सा समार्दवा॥५॥

तां तु मालाकृतिं मन्याकण्ठहृद्धनुसंधिषु॥
गलमालां विजानीयादपचीतुल्यलक्षणाम्” इति॥६॥

तस्माज्जङ्घायामेव कर्मणा मूलोच्छेदः कर्तव्य इति गूढपदभङ्गात्। वाग्भटेन चोभयत्रापि व्यधो दर्शितः।

यथा—

“इत्यशान्तौ गदस्यान्यपार्श्वजङ्घासमाश्रितम्॥
बस्तेरूर्ध्वमधस्ताद्वा भेदो हित्वाऽग्निना दहेत्" इति॥४९॥

कर्मान्तरमाह—

मणिबन्धोपरिष्ट्वाद्वा कुर्याद्रेषात्रयं भिषक्॥
अङ्गुलान्तरितं सम्यगपचीनां प्रशान्तये॥५०॥

हस्तबाहुबन्धः। कुर्याद्रेषात्रयमग्निना। अस्य डल्लष्णोक्ता व्याख्या लिख्यते—हन्वस्थिसंधिमन्यागल-स्थितापच्यां जङ्घागतकर्माभिधाय कक्षाकूर्परसंधिगतापचीषु बाहुगतमेव कर्म निर्दिशन्नाह—मणिबन्धेत्यादि। अत्रापि पूर्ववत्। एतेनेतरसक्थि बाहू चव्याख्याताविति वचनात्। इन्द्रबस्तेरष्टभागमक्षिमात्रं वा विहायाग्रे599च रेषात्रयम्।

तत्रापि विंशत्यङ्गुलजङ्घाया द्वादशाङ्गुलानि किंचिदधिको भागः। एवं षोडशाङ्गुलकूर्परमणिबन्धमध्ये किंचिदधिकानि नवागुलानि मित्वा रेषात्रयमङ्गुलान्तरमिति॥५०॥

गण्डमालापच्योस्तैलमाह—

गण्डमालापहं तैलं सिद्धं शाखोटकत्वचा॥
बिम्ब्याश्वमारनिर्गुण्डीसाधितं वाऽपि नावनम्॥५१॥

शाखोटकत्वचा क्वाथकल्कीकृतयेत्याह गदाधरः। कल्कमात्ररूपयेत्यन्ये।बिम्ब्यश्वमारनिर्गुण्डीति। बिम्बी डिम्बिका। अश्वमारः करवीरः। एतयोः कल्कंनिर्गुण्ड्याः स्वरसः। नावनं नस्यं नस्येन च विधानं मूर्ध्निगतत्वाद्दोषस्य। शाखोटक बिम्बाद्यं तैलम्॥११॥

निर्गुण्डीस्वरसेनाथ लाङ्गलीमूलकल्कितम्॥
तैलं नस्यान्निहन्त्याशु गण्डमालां सुदुस्तराम्॥५२॥

सुगमम्। निर्गुण्डीतैलम्॥५२॥

छुच्छन्दर्या विपकं तु क्षणात्तैलवरं ध्रुवम्॥
अभ्यङ्गान्नाशयेनृृणां गण्डमालां सुदारुणाम्॥५३॥

छुच्छुन्दर्या कल्करूपया। तैलप्रकरणानुरोधाद्गण्डमालाहितमपि तैलं तच्चिकित्साप्रस्तावं त्यक्त्वा वृन्देनेहैव लिखितम्। छुच्छुन्दरीतैलम्॥१३॥

चन्दनादितैलमाह—

चन्दनं साभया लाक्षा वचा कटुकरोहिणी॥
एतैस्तैलं शृतं पीतं समूलामपचीं जयेत्॥५४॥

साभयेति। अभयासहिता। वाग्भटेऽप्युक्तम्। वचा हरीतकी लाक्षा कटुचन्दनरोहिणीति। चन्दनादिभिः कल्कः। जलं द्रवम्। चन्दनाद्यं तैलम्॥१४॥

व्योषं विडङ्गं मधुकं सैन्धवं देवदारु च॥
तैलपेभिः शृतं नस्यात्कृच्छ्रामप्यपचीं हरेत्॥५५॥

सुगमम्। व्योषाधं तैलम्॥५५॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्री श्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामे-
कचत्वारिंशो गलगण्डाद्यधिकारः समाप्तः॥४१॥

______________

अथ द्विचत्वारिंशः श्रीपदाद्यधिकारः।
___________

अथ श्लीपदमुत्सेधसाधर्म्यादपच्यर्बुदाभ्यां सह कफयोगाव्यभिचारसामान्याच्च।

लङ्घनालेपनस्वेदरेचनै रक्तमोक्षणैः॥
प्रायः श्लेष्महरैरुष्णैः श्लीपदं समुपाचरेत्॥१॥

कफयोगादेवेह लङ्घनस्वेद श्लेष्महृद्द्रव्यैरुपचारः। लङ्घनमुपक्रमो नवे। लेपस्वेदादयो नवे पुराणे च ॥१॥

धत्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रुसर्षपैः॥
प्रलेपः श्लीपदं हन्ति चिरोत्थमपि दारुणम्॥२॥

सुगमम्॥२॥

संपिष्टमारनालेन रूयिकामूलवल्कलम्॥
मलेपाच्छ्लीपदं हन्ति बद्धमूलमपि स्थिरम्600॥३॥

रूयिकामूलवल्कलमिति। रूयिका श्वेतार्कः॥३॥

पिण्डारकतरुसंभववन्दाकशिफा जयति सर्पिषा पीता॥
श्लीपदमुग्रं नियतं बद्धा सूत्रेण जङ्घायाम्॥४॥

पिण्डारकतरुः स्वनामप्रसिद्धः। बद्धा सूत्रेण जङ्घायामिति। सैव वन्दाकशिफा जङ्घायामपि बन्धनीया॥४॥

हितश्चाऽऽलेपने नित्यं चित्रको देवदारु च॥
सिद्धार्थशिग्रुकल्को वा सुखोष्णो मूत्रपेषितः॥५॥

सुगमम्॥५॥

स्नेहस्वेदोपनाहांश्च श्लीपदेऽनिलजे भिषक्॥
कृत्वा गुल्फोपरि शिरां विध्येच्च चतुरङ्गले॥६॥

स्नेहस्वेदाविह सिराव्यधाङ्गभूतौ। अन्यदा तु स्नेहो न हितः। कफप्रधानतया विरूक्षणीयत्वात्सर्व-श्लीपदानाम्। ‘स्नेहस्वेदोपपन्नं तु’ इति केचित्पाठं पठन्ति। गुल्फोपरि सिराव्यधः पश्चाद्भागे रक्तदुष्टौ सत्याम्॥६॥

गुल्फस्याधःशिरां विध्येच्छ्लीपदे पित्तसंभवे॥
पित्तघ्नींच क्रियां कुर्यात्पित्तार्बुदविसर्पवत्॥७॥

पित्तघ्नीं च क्रियामिति। चकारात्कफघ्नीं च क्रियां कुर्यादिति ज्ञेयं श्लीपदानांकफप्रधानत्वात्॥७॥

मञ्जिष्ठां मधुकं रास्नांसहिंस्रां सपुनर्नवाम्॥
पिष्ट्वाऽऽरनालैर्लेपोऽयं पित्तश्लीपदशान्तये॥८॥

सुगमम्॥८॥

शिरां सुविदितां विध्येदङ्गुष्ठे श्लेष्मश्लीपदे॥
मधुयुतानि चाभीक्ष्णं कषायाणि पिबेन्नरः॥९॥

शिरां सुविदितां विध्येदङ्गुष्ठ इति। पादाङ्गुष्ठसंनिधाने क्षिप्रमर्मण ऊर्ध्वं द्व्यङ्गुले सिराव्यधः। अभीक्ष्णं पुनः पुनरित्यर्थः। कषायाणि पिबेदिति। कफहरारग्वधकृतानि कषायाणि॥९॥

पिबेद्वाऽप्यभयाकल्कं मूत्रेणान्यतमेन तु॥

अष्टमूत्रेष्वेकेनापि मूत्रेण हरीतकीं सेवेत॥

पिबेदेवं गुडूचीं वा नागरं देवदारु वा301॥१०॥

सुगमम्॥१०॥

पिबेत्सर्षपतैलेन श्लीपदानां निवृत्तये॥
पूतीकरञ्जच्छदजं रसं वाऽपि यथाबलम्॥११॥

कण्टकिकरञ्जपत्रस्वरसमनलपुरुषादिबलानतिक्रमेण पलमर्धपलं पलद्वयं वा कटुतैलाक्षप्रक्षेपं पिबेत्।पूतीकरञ्जश्विरबिल्वं इत्यन्ये॥११॥

अनेनैव विधानेन पुत्रजीवकरजंरसम्॥
प्रयुञ्जीत भिषेक्प्राज्ञः601 कालसात्म्यविभागवित्॥१२॥

अनेनैव विधानेनेति। सर्षपतैलप्रक्षेपेण। पुत्रजीवकोऽनेनैव नाम्ना प्रसिद्धः॥१२॥

पलाशमूलस्वरसं पिबेद्वा तैलेन तुल्यं सितसर्षपाणाम्॥

सुगमम्॥

मूत्रेण पथ्यासुरदारूविश्वं सगुग्गुलुश्लीपदिभिर्निषेव्यम्॥१३॥

पथ्यादीनि मूत्रेण निष्क्वाथ्य गुग्गुलुं प्रक्षिप्य पिबेत्॥१३॥

काञ्जिकेन पिबेञ्जूर्ण वृद्धदारुकसंभवम्॥

सुगमम्॥

रजनीं गुडसंयुक्तां गोमूत्रेण पिवेन्नरः॥
वर्षोत्थंश्लीपदं हन्ति दद्रुकुष्ठं विशेषतः॥१४॥

सुगमम्॥१४॥

गन्धर्वतैलभृष्टां हरीतकीं गोजलेन यः पिबति॥
श्लीपदबन्धनमुक्तो भवत्यसौ सप्तरात्रेण॥१५॥

गन्धर्वतैलभृष्टामिति। गन्धर्व एरण्डः। गोजलेनेति। गोमूत्रेण॥१५॥

धान्याम्लं तैलसंयुक्तं कफवातविनाशनम्॥
दीपनं चाऽऽमदोषनमेतच्छ्लीपदनाशनम्॥१६॥

धान्याम्लमिति काञ्जिकम्॥१६॥

वृद्धदारुकचूर्णमाह—

त्रिकटुत्रिफला चव्यं दार्वीवरुणगोक्षुरम्॥१७॥

अलम्बुषां गुडूचीं च समभागानि चूर्णयेत्॥
सर्वेषां चूर्णमाहृत्य वृद्धदारु602 च तत्समम्॥१८॥

काञ्जिकेन च तत्पेयमक्षमात्रं प्रमाणतः॥
जीर्णे चापरिहारः स्याद्भोजनं सार्वकामिकम्॥१९॥

नाशयेच्छ्लीपदं स्थौल्यमामवातं च दारुणम्॥
कुष्ठगुल्मारुचिहरं वात श्लेष्मरुजापहम्॥२०॥

अलम्बुषा मुण्डितिकाऽलम्बुषो वा। तत्सममिति। त्रिकट्वादिसर्वचूर्णसमम्। पेयमक्षमात्रमिति। षडष्टमाषकैः प्रचारः। वृद्धदारुसमं चूर्णम्॥१७॥१८॥१९॥२०॥

पिप्पल्याद्यं चूर्णमाह—

पिप्पलीत्रिफलादारुनागरं सपुनर्नवम्॥
भागैर्द्विपलिकैरेषां तत्समं वृद्धदारुंकम्॥२१॥

काञ्चिकेन पिबेच्चूर्णं कर्षमात्रं प्रमाणतः॥
जीर्णे चापरिहारः स्याद्भोजनं सार्वकामिकम्॥२२॥

श्लीपदं वातरोगांश्च हन्यात्प्लीहानमेव च॥
आग्निंच कुरुते घोरं भस्मकं च नियच्छति॥२३॥

अग्निं च कुरुते घोरं भस्मकं च नियच्छतीति। योगप्रभावात्। पिप्पल्याद्यं चूर्णम्॥२१॥२२॥२३॥

कृष्णाचित्रकदन्तीनां कर्षमर्धपलं पलम्॥

विंशतिश्च हरीतक्यो गुडस्य तु पलद्वयम्॥
मधुना मोदकं खादेच्छ्लीपदं हन्ति दुस्तरम्॥२४॥

मधु मोदककरणोचितं देयम्। कृष्णाद्यो मोदकः॥२४॥

सौरेश्वरमाह—

सुरसाग्रन्थिकव्योषविडङ्गोनि603 बचा शठी॥२५॥

पाठैलाहपुषाश्यामाचव्यदारुवरापुरैः॥
सपञ्चलवणक्षारैः कार्षिकैर्विपचेद्धविः॥२६॥

प्रस्थं तदंशैर्धान्याम्लद604शमूलाम्बुमस्तुभिः॥
अक्षं605 पिबेन्नरो मासं श्लीपदं हन्ति दुस्तरम्॥२७॥

वृद्ध्यर्शोग्रहणीरोगगलगण्डार्बुदापचीः॥
घृतं सौरेश्वरं नाम श्लीपदं कृमिरोगनुत्606॥२८॥

सुरसः पर्णासः। तन्त्रान्तरे सुरसपाठात्। श्यामा वृद्धदारुकः। वरा त्रिफला। पुरोगुग्गुलुः। तदंशैरिति। प्रत्येकं प्रस्थमानैः। तन्त्रान्तरेऽप्युक्तम्—

“दशमूलकषायेण धान्ययूषद्रवेण च।
दधिमण्डसमायुक्तं प्रस्थं प्रस्थं पृथक्पृथक्" इति॥

धान्याम्लं काञ्जिकं न तु धान्यकक्वाथः। क्वचिद्धान्याम्लेतिपाठदर्शनात्संप्रदायाद्वेति। तन्त्रान्तरेऽपि धान्ययूषद्रवशब्देन काञ्जिकमेवोच्यते। सौरेश्वरं घृतम्॥२९॥ २६॥ २७॥ २८॥

विडङ्गादितैलमाह—

विडङ्गमरिचार्केषु नागरे चित्रके तथा॥

भद्रदार्वेलुकाख्ये च सर्वेषु लवणेषु च॥
तैलं पक्वंपिबेद्वाऽपि श्लीपदानां निवृत्तये॥२९॥

भद्रदारू देवदारु। एलुकाख्यमेलावालुकं होग्गलो वा। पिडिकेति चक्रः। विडङ्गादिकल्कः। द्रवं जलम्। विडङ्गाद्यं तैलम्॥ २९॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामक सिद्धयोगव्याख्यायां
श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां
द्विचत्वारिंशः श्लीपदाधिकारः समाप्तः॥४२॥

__________________________

अथ त्रिचत्वारिंशो विद्रध्यधिकारः।
_____________________

शोफाधिकारादेव संप्रति विद्रधिकमुच्यते।

जलौकापात607नं शस्तं सर्वस्मिन्नेव विद्रधौ॥
मृदुर्विरेको लघ्वन्नं स्वेदः पित्तोत्तरं विना॥१॥

मृदुर्विरेक इति। अल्पाल्पविधया बहुधा विरेचनं कार्यं गम्भीरधातुगतदोषकृतत्वाद्विद्रधेः॥१॥

वातघ्नमूलकल्कैस्तु वसातैलघृतप्लुतैः॥
सुखोष्णो बहुलो लेपः प्रयोज्यो वातविद्रधौ॥२॥

वातघ्नानि भद्रदार्वादीनि। अन्ये तु वातघ्नः सौभाञ्जनकः। अपरे तु वातघ्नमूलकल्कैरित्यत्र वातघ्नस्थाने मुरुङ्गी, इति पठन्ति। मुरुङ्गी सौभाञ्जनकः॥२॥

स्वेदोपनाहाः कर्तव्याः शिग्रुमूलसमन्विताः॥

सुगमम्॥

यवगोधूममुद्गैश्च सिद्धपिष्टैः प्रलेपयेत्॥
विलीयते क्षणेनैवमपक्वश्चैव विद्रधिः॥३॥

सिद्धपिष्टैरिति। (सुगमम्)॥३॥

पुनर्नवादारुविश्वदशमूलाभयाम्भसा॥
गुग्गुलं रुबुतैलं वा पिबेन्मारुतविद्रधौ॥४॥

अम्भसा क्वाथेन॥४॥

पैत्तिकं शर्करालाजामधुकैः सारिवायुतैः॥
प्रदिह्यात्क्षीरपिष्टैर्वा पयस्योशीरचन्दनैः॥५॥

प्रदिह्याल्लिम्पेत्। पयस्या क्षीरकाकोली। जैज्जटाचार्यस्तु, अर्कपुष्पामाह॥९॥

पिबेद्वा त्रिफलाक्वाथं त्रिवृत्कल्काज्यसंयुतम्॥६॥

सुगमम्॥६॥

पञ्चवल्कलकल्केन घृतमिश्रेण लेपनम्॥

सुगमम्॥

इष्टकासिकतालोहैर्गोशकृत्तुषपांशुभिः॥
मूत्रपिष्टैश्च सततं स्वेदयेच्छ्लेष्मविद्रधिम्॥७॥

लौहं लोहचूर्णम्। गोशकृद्गोमयम्। पांशुर्धूलिः। एभिरेरण्डादिपत्रबद्धैः स्वेदः॥७॥

दशमूलीकषायेण सस्नेहेन608 रसेन वा॥
शोथं व्रणं वा कोष्णेन सशूलं परिषेचयेत्॥८॥

सस्नैहेनेति पूर्वेण परेण च योज्यम्। रसेन मांसरसेन॥८॥

पित्तविद्रधिवत्सर्वां क्रियां निरवशेषतः॥
विद्रध्योः कुशलः कुर्याद्रक्तागन्तुनिमित्तयोः॥९॥

पित्तविद्रधिवत्सर्वां क्रियां निरवशेषत इति। अवच्छेदेऽपि सर्वशब्दस्य दृष्टस्वात्पुनर्निरवशेषत इत्युक्तम्।कृत्स्नानेव लेपादिविधीन्कुर्यादित्यर्थः॥९॥

सौभाञ्जनकनिर्यूहो हिङ्गुसैन्धवसंयुतः॥
अचिराद्विद्रधिं हन्ति प्रातः प्रातर्निषेवितः॥१०॥

हिङ्गुसैन्धवसंयुत इति। प्रचाराद्धिङ्गु रक्तीत्रयम्। सैन्धवचूर्णं माषमानं प्रक्षेपः। मातः प्रातरिति। वीप्साकरणमभ्यासार्थम्॥१०॥

शिग्रुमूलं जले धौतं जैलपिष्टं609 प्रगालयेत्॥
तद्रसंमधुना पीत्वा हन्त्यन्तर्विद्रधिं नरः॥११॥

सुगमम्॥११॥

श्वेतवर्षाभुवो मूलं मूलं वरुणकस्य च॥
जलेन कथितं पीतमपक्वंविद्रधिं जयेत्॥१२॥

सुगमम्॥१२॥

वरुणादिगणक्वाथमपक्वेऽभ्यन्तरोत्थिते॥
ऊषकादिप्रतीवापं पिबेत्संशमनाय वै॥१३॥

वरुणादिगणक्वाथ इ(मि)ति। क्वाथोऽयं भेदःकफजविद्रधौयुक्तः। वरुणादिगणस्य कफमेदो-विशोषणत्वात्॥१३॥

अपक्वेचैतदुद्दिष्टं पक्वेतु व्रणवत्क्रिया॥१४॥

सुगमम्॥१४॥

शमयति पाठामूलं क्षौद्रयुतं तण्डुलाम्भसा पीतम्॥
अन्तर्भूतं विद्रधिमुद्धतमाश्वेव मनुजस्य॥१५॥

सुगमम्॥१५॥

प्रियंगुधातकीलोध्रकट्फलं तिनिशत्वचम्॥
एतैस्तैलं विपक्तव्यं विद्रधौ610व्रणरोपणम्॥१६॥

तिनिशस्य त्वक्तिनिशो बुकः। त्वचमिति निर्देशात्त्वचशब्दो नपुंसकोऽकारान्तोऽस्तीति गम्यते।तिनिसैन्धवमितिपाठान्तरे तिनिस्तिनिश एव। एकदेशेनापि समुदायो गम्यते। यथा सत्या सत्यभामा भीमो भीमसेन इति। प्रियंग्वादिभिः कल्कः। द्रवं जलम्। एतच्च तैलं मज्जभवे विद्रधौ सुश्रुतेन पठितम्। प्रियंत्वाद्यं तैलम्॥१६॥

इति श्रीवृन्दप्रणीतद्वन्दमाधवापरनामक सिद्धयोगव्याख्यायां
श्री श्रीकण्ठदत्तकृतार्या व्याख्याकुसुमावल्याख्यायां
त्रिचत्वारिंशो विद्रध्यधिकारः समाप्तः॥४३॥

__________________________

अथ चतुश्चत्वारिंशो व्रणशोथाधिकारः।
_____________

प्रायेण क्रियातुल्यतया भाविव्रणयोगसमानतया वाऽथ व्रणशोथः॥

आदौ विम्लापनं कुर्याद्द्वितीयमवसेचनम्॥
तृतीयमुपनाहं तु चतुर्थं(र्थीं) पाटनक्रियाम्॥१॥

पञ्चमं शोधनं कुर्यात्षष्ठं रोपणमिष्यते॥
एते क्रमा व्रणस्योक्ताः सप्तमं वैकृता611पहम्॥२॥

विम्लापनमिह केवलमङ्गुष्ठादिमर्दने न परिभाषितं ग्राह्यं किंतु विम्लाप्यतेऽनेनेतिव्युत्पत्त्या बहिर्मार्जनरूपे शमने शोफविलयनकरे प्रलेपनपरिषेकाभ्यङ्कादावपि वर्तते।अवसेचनमपि शोधन-रूपेऽन्तःपरिमार्जने वमनविरेकरक्तमोक्षणादौ। उपनाहोऽपि स्वेदेपाचनपिण्डे च। एवं शेषेऽपि यथासंभवमुपक्रमान्तरमन्तर्भाव्यम्। किंच, अपतर्पणादीनां व्रणोक्तषष्ठ्युपक्रमाणां मध्ये सूत्रणार्थं सुश्रुतेन सूत्रस्थाने प्रधानतया विम्लापनादयः सप्तोपक्रमा उक्ताः। शोफोपक्रमा अपि विम्लापनादयो भाविव्रणविघातप्रयोजनतथा व्रणस्येत्युक्ताः। अन्ये विम्लापनं शोफे न दद्याल्लेपनं घनमिति पाठः॥१॥२॥

प्रथमं विम्लापनं क्रमेण वातादिदोषे शोफप्रत्यनीकं दर्शयन्नाह—

मालुङ्गग्निमन्थौ च सुरदारु महौषधम्॥
अहिंस्राचैव रास्नाच प्रलेपो वातशोथजित्612॥३॥

मातुलुङ्गो बीजपूरकस्तस्य मूलम्। अग्निमन्थोऽरणी। देवदारु भद्रदारु। महौषधं शुण्ठी। अहिंस्राच कलाचकडः। अहिंस्रा बृहदहिंस्रा कन्थारि, इति डल्लुणः।रास्त्रा सुरभी॥३॥

कल्कः काञ्जिकसंपिष्टः स्निग्धः शाखोटकत्वचः॥
सुपर्ण इव नागानां वातशोथविनाशनः॥४॥

स्निग्ध इति। घृतेन योगात्॥४॥

दूर्वा च नलमूलं च मधुकं चन्दनं तथा॥
शीतलाश्च गणाः सर्वे प्रलेपः पित्तशोथहा॥५॥

दूर्वादीनि द्रव्याणि प्रसिद्धानि। शीतलाञ्च गणाः सर्व इति। न्यग्रोधादिकाकोल्यादयः॥५॥

न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः॥
ससर्पिष्कैः प्रलेपः स्याच्छोथनिर्वापणः परः॥६॥

सुगमम्॥६॥

अजगन्धाऽश्वगन्धा च काला सरलया सह॥
एकैषिकाऽजशृङ्गी च प्रलेपः श्लेष्मशोथहा॥७॥

अजगन्धा फोफनी बोथइका इति देशान्तरे प्रसिद्धा। लतौषधीत्येके। अन्ये यवानिकामाहुः। अश्वगन्धाऽस्कन्दः। काला कालावकडः। डल्लुणस्तु कालाऽहिंस्रा कन्थारिभेद इत्याह। सरला सरलकाष्ठम्। एकैषिका त्रिवृत्। सरला त्रिवृत्, एकैषिकापाठेत्यन्ये। डल्लुणस्तु, एवमाह—सरला रक्तमूला त्रिवृत्। एकैषिका शुक्लमूलात्रिवृदिति। अजशृङ्गी। कर्कटशृङ्गी। अन्ये मेषविषाणिकामाहुः॥७॥

पुनर्नवादारुशिग्रुदशमूलमहौषधैः॥
कफवातकृते शोथे लेपः कोष्णो विधीयते॥८॥

सुगमम्॥८॥

न रात्रौ लेपनं दद्याद्दत्तं च पतितं तथा॥
न च पर्युषितं शुष्यमाणं नैवावधारयेत्॥९॥

न रात्रौ लेपनं दद्यादित्यादिना निषेधमुखेन विध्युपदर्शनं रात्रौ प्रलेपस्य सर्वथानिषेधार्थम्। अत्र लेपशब्देन प्रदेहादिविधिरपि सूच्यते। तेन वातश्लेष्मजेऽपाकिशोफेरात्रावपि प्रदेहः। वातपित्तजे च शतधौतघृताभ्यङ्गः क्षीरादिसेकश्च शस्यते।

तथा चोक्तम्—

“सर्वगश्च निशां प्राप्य आलेपं तु निवर्तयेत्।
क्षीरसर्पिः प्रदानं तु मुक्त्वा प्रच्छर्दनं तथा” इति॥

अन्यत्राप्युक्तम्—क्षीराम्लकाञ्जिकमधुकषायपरिषेकाश्च प्रायः शस्यन्ते सर्वशोफेष्विति। रात्रौ लेपदाने पुनरयं दोषः। रात्रौ तमसाऽपिहितेषु स्रोतस्सु व्रणोष्मा लेपरौत्यावरुद्धो बहिरनिर्गच्छन्कुम्भकारपचन-पङ्कलेपेनेवानलः प्रकामं पाकमारभते। *प्रलेपप्रदेहयोस्तु613 भेदःसुश्रुतेन दर्शितः। प्रलेपः शीतलस्तनुर-विशोषो विशोषी च। अविशोषी,आपोडयितव्ये विशोषीच पीडयितव्ये। प्रदेहस्तूष्णः शीतो वा बहलो बहुरविशोषी चेति। आलेपप्रमाणं त्वार्द्रामहिषचर्मवदुत्सेधमुपदिशन्ति। प्रदेह एतदपेक्षया बहलः॥९॥

शुष्यमाणमुपेक्षे614त प्रदेहं पीडनं प्रति॥
न चापि मुखमालिम्पेत्तेन दोषः प्रसिच्यते॥१०॥

शोषलेपश्च रोमाभिमुखो देयः। यदुक्तम्—प्रतिलोममालिप्य न चानुलोमं प्रतिलोमेहि सम्यगौषधमवतिष्ठते प्रविशति च रोमकूपैः स्वेदवाहिभिर्वीर्यमिति। दोषः प्रसिच्यत इति। दोष इह पूयः॥१०॥

पारिभाषिकं विम्लापनमाह—

अभ्यज्य स्वेदयित्वा तु वेणुनाड्या ततः शनैः॥
विम्लापनार्थं मृद्गीयात्तलेनाङ्गुष्ठकेन वा॥११॥

वेणुनाड्या वेणुदण्डेन। तलेन हस्तपादतलेन॥११॥

रक्तावसेचनं कुर्यादादावेव विचक्षणः॥
शोथे महति संरब्धे वेदनावति वा व्रणे॥१२॥

आदावेवेति। आमशोफावस्थायामेव। संरब्ध इति। सशोफे। एतञ्चव्रण इत्यनेन योज्यम्॥१२॥

यो न याति शमं लेपस्वेदसेकापतर्पणैः॥
सोऽपि नाशं व्रजत्याशु शायःशोणितमोक्षणात्॥१३॥

सुगमम्॥१३॥

एकतश्च क्रियाः सर्वा रक्तमोक्षणमेकतः॥
रक्तं हि व्यम्लतां याति तच्चेन्नास्ति न चास्ति रुक्॥१४॥

सुगमम्॥१४॥

न प्रशाम्यति यः शोथःप्रलेपादिविधानतः॥
द्रव्याणि पाचनीयानि दद्यात्तत्रोपनाहने॥१५॥

द्रव्याणि पाचनीयानि शणमूलकशिग्रुबीजादीनि॥१५॥

सतिला सातसीबीजा दध्यम्ला सक्तुपिण्डिका॥
सकिण्वकुष्ठलवणा रास्ता स्यादुपनाहने॥१६॥

सक्तुपिण्डिका संयोगमहिम्ना शोफंपाचयति। किण्वं सुराबीजम्॥१६॥

पाचनानि निर्दिशन्नाह—

शणशिग्रुमूलफलान्यतसीतिलसर्षपाः॥
सक्तवः किण्वमुष्णानि द्रव्याण्येतानि पाचनम्॥१७॥

शणः परिपाके सस्वनफलः। शिग्नुःसौभाञ्जनकः। अतसी, अलसि, इति लोके।किण्वं सुराबीजम्। यहिः प्रक्षिप्यते। अनुक्तपाचनद्रव्यसंग्रहार्थमाह—उष्णानिद्रव्याणीति। उष्णान्युष्णवीर्याणि कुष्ठागुर्वादीनि। पाचनं शोफस्य। शोफं प्रसिद्धम्। एषां व्यस्ततानां समस्तानां च पाचनत्वम्। सक्तूनां शीतवीर्यत्वेऽपि प्रभावविशेषात्पाचनत्वं संयोगविशेषाद्वा।

“शणमूलकारीग्रूणां फलानि तिलसर्षपाः।
सक्तवः किण्वमतसीद्रव्याण्युष्णानि पाचनम्”

इति पाठान्तरम्। अत्र फलशब्दः शणादिभिः सह संबध्यते॥१७॥

तैलेन सर्पिषा वाऽपि ताभ्यां वा सक्तुपिण्डिका॥
सुखोष्णा शोथपाकार्थमुपनाहे प्रशस्यते॥१८॥

ताभ्यां वेति। तैलसर्पिर्भ्यांमिलिताभ्याम्॥१८॥

हस्तिदन्तं615 जले घृष्टं बिन्दुमात्रप्रलेपनात्॥
अत्यर्थकठिने चापि शोथे पाचनभेदनम्॥१९॥

सुगमम्॥१९॥

पीडनं दर्शयन्नाह—

द्रव्याणां पिच्छिलानां तु त्वङ्मूलानि प्रपीडनम्॥
यवगोधूममाषाणां चूर्णानि च समासतः॥२०॥

द्रव्याणां पिच्छिलानामिति। पिच्छिलद्रव्याणि शेलुशाल्मलीवादीने। प्रपीडनंमर्मादिसमीप-सूक्ष्ममुखव्रणप्रपीडनम्। समासतः संक्षेपतः। प्रपीडनमित्थं कर्तव्यं व्रणमुखंबहिष्कृत्य लेपयेत्। लिप्त्वा च शोषयेत्। शुष्कं सत्पीडनं भवति॥२०॥

दारणं निर्दिशन्नाह—

चिरबिल्वाग्निकौ दन्ती चित्रको हयमारकः॥
कपोततङ्तगृध्राणां पुरीषाणि च दारणम्॥२१॥

चिरबिल्वो वृद्धकरञ्जः। चिरिहिलि इति लोके। अग्निको लाङ्गलिकी। अन्ये भल्लातमाहुः। दन्ती दन्तिनी। चित्रकः प्रसिद्धः। हयमारकः करवीरः। पुरीषशब्दःकपोतादिभिः सह प्रत्येकं संबध्यते। कपोतो वनवासी पाण्डुकः। कङ्कः कङ्कमलोवक्रचकञ्चुकृष्णवर्णः प्रसिद्धपदः। कांकणहरीति लोके। न पुनः काकः। तस्यलक्षणमाह—

“कङ्कः स्यात्कङ्कमल्लाख्यो बाणपक्षार्हपिच्छकः।
लौहपृष्ठो दीर्घपादः पक्षाघःपाण्डुवर्णभः" इति॥

गृध्रोमांसाशी पक्षी। ससलिकेति लोके। दारणं विदारणं पक्वशोफस्य। चिरबिल्वादयश्च व्यस्ताः समस्ताः प्रयोज्याः॥२१॥

द्रव्ययोगभेदं दर्शयन्नाह—

क्षारद्रव्याणि वा यानि क्षारो वा दारणं परम्॥

क्षारद्रव्याणि वेति। क्षारसाधनद्रव्याणि मुष्कककुटजपलाशाश्वकर्णपारिभद्रादीनि।क्षारो वेति। द्रव्यकृतः प्रतिसारणीयः। दारणं परमिति। दारणं कृच्छ्रदारणमित्यर्थः। बालवृद्धादिष्विदं योजनीयम्। द्विविधं हि पक्वशोफदारणमुक्तं सुकुमारं दारुणं च। तत्र कपोतादिपुरीषं सुकुमारं क्षारो दारुणम्।

** तदुक्तं चरके—**

“इत्युक्तो भेषजगणः पक्वशोफप्रभेदनः।
सुकुमारश्च कृच्छ्रश्च शस्त्रं च परमुच्यते" इति॥

ततः प्रक्षालनं क्वाथः पटोलीनिम्बपत्रजः॥
अविशुद्धे विशुद्धे तु न्यग्रोधादित्वगुद्भवः॥२२॥

** पटोलीनिम्बपत्रज इति।** पटोलपत्रनिम्बपत्रकृतः। अविशुद्ध इति पूर्वेण संबध्यते। विशुद्धे च न्यग्रोधादिक्वाथः प्रक्षालनार्थम्॥२२॥

पञ्चमूलीद्वयं वाते न्यग्रोधादिश्व पौत्तिके॥
आरग्वधादिको योज्यः कफजे सर्वकर्मसु॥२३॥

सर्वकर्मस्विति। प्रक्षालनप्रक्षेपादिषु॥२३॥

अपेतपूतिमांसानां मांसस्थानामरोहताम्॥
कल्कः संरोपणः कार्यस्विलानां मधुकान्वितः॥२४॥

रोपणः शोधनरोपणः। मधुकान्वितो यष्टीमधुकयुतः। तिलजो मधुसंयुत इति पाठःसुश्रुते बहुपुस्तकेषु दृश्यते। तेन मधुकं मधु। स्वार्थिकश्च कन्निति शक्यं कल्पायितुम्॥२४॥

निम्बपत्रमधुभ्यां तु युक्तः संशोधनः स्मृतः॥२५॥

तिलकल्क एव॥२६॥

पूर्वाभ्यां सर्पिषा वाऽपि616 युक्तश्चाप्युपरोपणः॥२६॥

पूर्वाभ्यां सर्पिषा वाऽपि युक्त इति। तिलकल्क एव निम्बपत्रमधुभ्यांसर्पिषाच युक्तो रोपणः। अप्युपरोपण इति। अपिशब्दाच्छोधनोऽपि स्यात्॥

“अपेतपूतिमांसानां मांसस्थानामरोहताम् ।
कल्कः संरोपणः कार्यस्तिलजो मधुसंयुतः॥

निम्बपत्रमधुभ्यां तु युक्तः संशोधनः स्मृतः।
पूर्वाभ्यां सर्पिषा वाऽपि युक्तश्चाप्युपरोषणः"

इति श्लोकद्वयस्य सुश्रुतोक्तस्य डल्लणोक्ता व्याख्या—अपेतपूतिमांसानां निर्गतशठितमांसानां मांसस्थानां मांसमात्रस्थितानामित्यर्थः। तिलजो मधुसंयुतः। कस्मादविशेषेणोच्यते। सर्वदोष-प्रत्यनीकत्वात्। तत्र गुणोपवर्णनशास्त्रे कफपित्तकरस्तिल आम्नातः।

<MISSING_FIG href="../../../books_images/U-IMG-1706449526image13.jpg"/>तन्न617

“ईषत्कषायो मधुरः सतिक्तः संग्राहकः पित्तकरस्तथोक्तः।
तिलो विपाके कटुको बलिष्ठः स्निग्धो व्रणे सर्वज एव पथ्यः”।

लेप इति वाक्यशेषः कल्कस्याऽऽलेपने तस्य तु प्रस्तुतत्वाल्लेपे च त्रिदोषघ्नः। सर्वज एव पथ्य इत्युक्तं तत्प्रतिपादनाय युक्तिमाह सुश्रुतेऽपेतपूतिमांसानामित्यादिश्लोकस्याग्रे—

“स माधुर्यात्तथौष्ण्याच्च स्नेहाञ्चानिलनाशनः।
कषायभावान्माधुर्यात्तिकत्वाञ्चापि पित्तहृत्॥

रौक्ष्यात्कषायभावाञ्च तिक्तत्वाञ्च कफे हितः।
शोधयेद्रोपयेच्चापि युक्तः शोधनरोपणैः" इति ॥

अस्यार्थः—स इति तिलकल्को माधुर्यादिभिः कषायादिभी रौक्ष्यादिभिश्च लेपाद्व्रणरोपणो वातपित्तकफनाशन इति। अत्र कश्चिदाह—

“वातं तिक्तकषायत्वादौष्ण्यात्पित्तं कथं व्रणे।
न कफंस्निग्धमाधुर्यात्तिकल्कं प्रकोपयेत्” इति ॥

सिद्धान्तमाह—स्वभावादामलकफलवत्प्रकृतिसमसमवेतभूतारब्धं तिलद्रव्यम्। अतो गुण-स्वभावाद्द्रव्यस्वभावाद्वा दोषहरमुक्तम् ॥

“तद्द्रव्यमात्मना किंचित्किंचिद्वीर्येण सेवितम्।
किंचिद्रसविपाकाभ्यां दोषं हन्ति करोति वा”॥

दृष्टा हि कषाया यवाः कार्श्यकारिणः पुरुषाणाम्। त एव सूपयुक्ताः पुष्टिकारिणः। यथा काञ्जिकादयोऽन्तः प्रयुक्ता दाहकारिणःसेकादिषु विनियुक्ता दाहहारिणः। प्रतिनियता हि शक्तयो द्रव्याणामधिष्ठानविशेषात्कर्मविशेषाञ्च। उपयोगात्पित्तकृतआलेपात्तद्धृतस्ते। अस्यैव तिलकलकस्य योगवाहित्वेन विशेषमाह—शोधयेदित्यादि।योगवाहित्वेनेति वदन्ति बहुविदः। तत्र केचिदेवं समागिरन्। यद्द्रव्यं द्रव्यान्तरेणसंयुज्याऽऽत्मनः स्वभावं हित्वा संयुक्तद्रव्यस्वभावमेवानुवर्तते तद्योगवाहीति। नचैतद्युक्तं यतो यद्येवं योगता निश्चीयते तदानीं योगवाहिद्रव्योपयोगो निरर्थकः स्यात्।तथा हि—योगवाहिद्रव्यमन्तरेणापि यत्स्वभावं तद्द्रद्यंप्रागासीत्तत्स्वभावमेव योगवाहिद्रव्ययुक्तमपि। तस्मादसदेतद्योगवाहिलक्षणमिति। केचित्प्रभावं प्रतिजानते यद्द्रव्येद्रव्यान्तरेण युक्तमन्यस्य द्रव्यस्य शक्त्युत्कर्षमुत्पादयति तद्योगवाहीति। तदप्यसम्यक्। यस्मादेवमभ्युपगमान्न बहूनि द्रव्याणि योगवाहीनि स्युः। तथा च मध्वादेरपिद्रव्यस्य किंचिद्द्रव्यं समानगुणं शक्त्युत्कर्षं कुर्वदेव दृष्टं तत्कथं मध्वादावेव योगवाहित्वमुच्यते नापरस्येति। तदेतदपि लक्षणमश्रुतत्वादलक्षणम्। अपरे त्वेवमाहुः—यद्द्रव्यान्तरेणाननुगुणेनापि युक्तं सत्तद्गुणाननुवर्तते स्वं च कार्यं तदविरुद्धंकिंचित्करोति तद्योगवाहि द्रव्यं भृत्यवत्। यथा भृत्यः स्वामिकार्यमत्यजन्स्वकीयमपि शरीरयात्रादिकं स्वाम्यविरुद्धं करोति तथैव मधु मदनफलसंयुक्तं वमनकार्यं करोति न तु वमननिवारणं मधुकार्यम्। एवं मधु हरीतकी-संयोगाद्विरेचनकार्यमेव करोति न मधुकार्यं स्तम्भनरूपमिति। ये त्वत्रैवं प्रतिपन्नामदनफलादेः शक्त्युत्कर्षस्तथाविधोऽस्ति येन मधुसंबन्धिकार्यमवधूय स्वं कार्यं करोतीतिते चैवं चोदयन्तो वचनीयाः। यतः स्तम्भनद्रव्येणान्येन येन केनचित्संयुक्तस्य सुधाक्षारस्यापि शक्तिः किंचिदपहीयमाना दृष्टा मधुनाऽपि स्तम्भनस्वभावेनाप्यस्य नापहीयते मनागपि। अतो मध्वादेरेव योगवाहित्वं नान्यस्य। अपि च। अन्यदपियोगवाहि द्रव्यं त्रिवृतादि मदनफलेन युक्तं सद्विरेचनं वमनं चोभयकार्यं कुर्वदृृष्टं नकेवलं वमनमेव न विरेचनमेव तस्मान्मध्वादेरेव योगवाहित्वमिति स्थितमेतत्। यथामधुनोऽपि योगवाहित्वादूर्ध्वाधोगतीनां द्रव्याणां मध्ये येन येन युज्यते तस्य तस्यकार्यं संपादयत्येवं तिलकल्कोऽप्यशुद्धाञ्शोध-येद्रोपयेच्चेत्ययमर्थश्चकारेण ज्ञेय इति। केनशोधनेन युक्तः शोधयेदित्याह—निम्बपत्रमधुभ्यामित्यादि। मधुसंयुक्त इत्यनेनैवलब्धे पुनरिह मधुग्रहणं केवलस्यैव तिलकल्कस्योक्ता माधुर्यादयोऽवगन्तव्यान मधुयुक्तस्येति ज्ञापयति। केन रोपणेन शोधनेन युक्तः शुध्यतो व्रणाञ्शोधयेद्रोपयेञ्चेत्याह—पूर्वाभ्यामित्यादि। पूर्वाभ्यां निम्बपत्रमधुस्यामित्यर्थः। युक्तश्चाप्युपरोपण इत्यपिशब्दो भिन्नक्रमे। तेन निम्बपत्रमधुवृतयुक्तः शुध्यतो व्रणस्य शोधनोऽपि रोपणोऽपीतितिलकल्कस्य योगवाहित्वादित्यर्थः। अन्ये तु युक्तः संरोपणो भवेदिति पठन्ति। ते तुपूर्वोक्तं शोधयेद्रोपयच्चापत्युिक्तं चकारार्थं न मन्यन्ते। किं च निम्बपत्रमधुघृतयुक्तस्यतिलकरकस्य रोपण(त्व) मेवाङ्गीकुर्वन्ति न शोधनत्वम्। निम्बपत्राणि तिक्तत्वाल्लघुरूक्षत्वाच्च च्छेदनानि मधुरमपि मधुरूक्षत्वाच्छेदनम्। तस्मादेताभ्यां युक्तस्तिलकल्कः संशोधनः कथितः। सर्पिषा शीतस्निग्धमधुरेण युक्तत्वाच्छोधनशक्तितिरस्कारान्मधुनःसंघातृत्वाच्च पूर्वाभ्यां निम्बपत्रमधुभ्यां युक्तस्तिलकरको व्रणरोपणाय संपद्यते॥२६॥

इदानीमन्यमपि कल्कं सर्वावस्थासु सर्वव्रणयोगित्वेन सविशेषमेकीयमतेन निर्दिशन्नाह—

तिलवद्यवकल्कं तु केचिदाहुर्मनीषिणः॥

शमयेदविदग्धं च विदग्धं वाऽपि618 पाचयेत्॥
पक्वंभिनत्ति भिन्नं च शोधयेद्रोपयेत च॥२७॥

तिलवत्तिलसदृशं यवकल्कमपि दोषघ्नं प्राहुः। व्रणेषु पथ्यस्तिलवञ्चनित्यमित्युक्तत्वादित्येके व्याख्यानयन्ति। जैज्जटगयदासौ त्वन्यथा। यथा तिला विद्यन्तेऽस्मिन्नितितिलवान्। तिलवांश्चासौ यवकल्कश्चतिलवद्यवकल्कः। तं तिलबद्यवकल्कं केचिदाहुरिति। एके व्याख्यानयन्ति। सर्वावस्थासु सर्वशरीरव्रणोपयोगमाह—शमयेदविदग्धंवेत्यादि। एतेन तिलयुक्तः कल्कः पञ्चानामुपक्रमाणां विम्लापनपाचनपाटनशोधनरोपणानामर्थं करोतीत्युक्तम्। तिलकल्कस्तु रोपणशोधनकरणेनोप-क्रमद्वयार्थकरः। तदुभयकरणेनोपक्रमत्रयार्थकरः। अत एवानयोः कल्कयोर्भेदः॥२७॥

निम्बपत्रतिलैःकल्को मधुना व्रणशोधनः॥
रोपणः सर्पिषा युक्तो यवकल्केऽप्ययं विधिः॥२८॥

सुगमम्॥२८॥

निम्बपत्रघृतक्षौद्रदार्वीमधुकसंयुता॥
वर्तिस्तिलानां कल्को वा शोधयेद्रोपद्व्रणम्॥२९॥

वर्तिस्तिलानां कल्को वेति। वर्तिः पिष्टनिम्बपत्रादिक्षितकर्पटवर्तिः। वर्तिर्गम्भीरे व्रणे कल्क उत्ताने॥२९॥

निम्बपत्रं तिला दन्ती त्रिवृत्सैन्धवमाक्षिकम्॥
दुष्टव्रणप्रशमनो लेपः शोधनकेसरी॥३०॥

सुगमम्॥३०॥

तिलकल्कः सलवणो द्वे हरिद्रे त्रिवृद्धृतम्॥
मधुकं निम्बपत्राणि लेपः स्याद्व्रणशोधनः॥३१॥

सुगमम्। तिलाष्टकः॥३१॥

त्रिफला खदिरो दार्वी न्यग्रोधादिबलाकुशाः॥
निम्बकोलकपत्राणि कषायः शोधने हितः॥३२॥

न्यग्रोधादीनि न्यग्रोधादयः पञ्च। निम्बकोलकपत्राणीति। निम्ब एव कोलकः।यथा साल एव सार इति जैज्जटः। कोलकः कलिरिति जिनदासः। कोलकपत्राणिकोमलपत्राणीति नरदन्तः। कूलक इति पाठे कूलकं पटोलम्॥३२॥

यष्टी तिलाः सुपिष्टा वा सघृता व्रणरोपणाः॥

सुगमम्॥

एकं वा सारिवामूलं सर्वव्रणविशोधनम्॥३३॥

सुगमम्॥३३॥

सप्तदलदुग्धकल्कः शमयति दुष्टव्रणं प्रलेपेन।

** सप्तदलदुग्धकल्क इति।** सप्तदलः सप्तपर्णः॥

मधुयुक्ता शरपुङ्खा सर्वव्रणरोपणी कथिता॥३४॥

सुगमम्॥३४॥

व्रणान्विशोषयेद्वर्त्या सूक्ष्मास्यान्संधिमर्मगान्619
कृतया त्रिवृतादन्तीलाङ्गलीमधुसैन्धवैः॥३५॥

लाङ्गलीमधुसैन्धवैरिति। मधुसैन्धवमात्रेण वर्तिः प्रचरति। कृतयेत्यस्य स्थानेऽभयेति पाठान्तरम्॥३५॥

सुषवीपत्रधत्तूरकर्णमोटकुठारकाः620
पृथगेते प्रलेपेन गम्भीरतव्रणरोपणाः॥३६॥

सुषवी कारवेल्लकः। कुठारः कुन्हाडकाछिन्नः। कुठेरकपाठे पर्णासः॥३६॥

पञ्चवल्कलचूर्णैर्वा शुक्तिचूर्णसमायुतैः॥
धातकीलोध्रचूर्णैर्वा तथा रोहन्ति ते व्रणाः॥३७॥

** शुक्तिचूर्णसमायुर्तैरिति।** शुक्तिर्विदारी॥३७॥

सदाहा वेदनावन्तो ये व्रणा मारुतोत्तराः॥

तेषां तिलानुमां चैव भृष्टान्पयसि निर्वृतान्॥
तेनैव पयसा पिष्ट्वा कुर्यादालेपनं भिषक्॥३८॥

पयसि निर्वृतानिति। निर्वृतान्निर्वापितान्॥३८॥

पित्तविद्रधिवीसर्पशमनं लेपनादिकम्॥
अग्निदग्धे व्रणे सम्यक्प्रयुञ्जीत चिकित्सकः621॥३९॥

सुगमम्॥३९॥

वाताभिभूतान्सास्रावान्धूपयेदुग्रवेदनान्॥
यवाज्यभू622र्जमदनश्रीवेष्टकसुराह्वयैः॥४०॥

सात्रावानल्पस्रावान्। मदनः सिह्लकः। श्रीवेष्टकः कुन्दुरुः। सुराह्वयो देवदारू॥ ४०॥

श्रीवासगुग्गुल्वगुरुसालनिर्यासधूपिताः॥
कठिनत्वं व्रणा यान्ति नश्यन्त्यास्राववेदनाः॥४१॥

श्रीवासो नवनीतखोटिः। सालनिर्यासो धूर्पणकम्॥४१॥

तिलाःपयः सिता क्षौद्रं तैलं मधुकचन्दनम्॥
लेपेन शोथरुग्दाहरक्तं निर्वापयेद्वाणान्623॥१॥इत्यधिकमत्र॥")॥४२॥

पयः पेषणार्थम्। क्षौद्रतैलाभ्यां च संघाय लेपो देयः॥४२॥॥

करञ्जारिष्टनिर्गुण्डीरसो हन्याद्व्रणक्रिमीन्॥४३॥

सुगमम्॥४२॥

कलाय विदलीपत्रं कोशाम्रास्थि च पुरणात्॥

कलायविदलीपत्रमिति। कलायविदली स्वनामख्याता लता। कोशाम्रः कोशंबइति ख्यातः। तस्य फलास्थि, आभ्यां संपिष्टाभ्यां प्रत्येकं पूरणम्॥

सुरसादिरसैःसेको लेपनं लशुनेन वा624॥४४॥

सुगमम्॥४४॥

निम्बशम्याकजात्यर्कसप्तपर्णाश्चमारकाः॥
कृमिघ्नामूत्रसंयुक्ताः सेकालेपनधावनैः॥४५॥

निम्बादयो यथालाभं मूत्रपिष्टाः सेकादौ प्रयोज्याः॥४५॥

प्रच्छाद्य मांसपेश्या वा कृमीनपहरेद्व्रणात्॥

मांसपेश्येति। मांसखण्डेन॥

लशुनेनाथ वा दद्याल्लेपनं कृमिनाशनम्॥४६॥

लशुनालेपविधानं प्रागपि लिखितत्वात्पुनरुक्तं संग्रहकारस्यश्लोकपूर्णतानुरोधादपुनरुक्तमिति चेत्। नैतत्। श्लोकार्धेनापि व्यवहारा(र)दर्शनात्॥४६॥

अतः परं व्रणभावं गतस्य शोफस्य चिकित्सितम्—

ये क्लेदपाकस्रुतिगन्धयुक्ता625 व्रणा महान्तः सरुजः सशोथाः॥
प्रयान्ति ते गुग्गुलुमिश्रितेनति पीतेन शान्तिं त्रिफलारसेन॥४७॥

गुग्गुलुमिश्रितेनेति। कोष्ठानुरूपं गुग्गुलोः कर्षः समधिको वा प्रक्षेपः। त्रिफलारसेन त्रिफलाक्वाथेन। त्रिफलागुग्गुलुः॥४७॥

त्रिफलाचूर्णसंयुक्तो गुग्गुलुर्वटकीकृतः॥
निर्यन्त्रणो विबन्धघ्नो व्रणशोधनरोपणः॥४८॥

त्रिफलाचूर्णसंयुक्त इति। त्रिफलाचूर्णसमेन युक्तोगुग्गुलुर्घृतमनुरुपं दत्त्वा विमृद्य चूर्णं च प्रक्षिप्य वटकीकार्यः। एवं सर्वत्र वटकविधाने। वटिकागुग्गुलुः॥४८॥

अमृतागुग्गुलुः शस्तो हितं तैलं च वज्रकम्॥४९॥

अमृतागुग्गुलुरिति। वातरक्तोक्तः। वज्रकं तैलं कुष्ठोतक्तम्॥४९॥

विडङ्गत्रिफलाव्योषचूर्णं गुग्गुलुना सह॥

सर्पिषा वटिकां कृत्वा खादेद्वा हितभोजनः॥
दुष्टव्रणापचीमेहकुष्ठनाडीविशोधनः॥५०॥

सुगमम्। वटिकागुग्गुलुः॥५०॥

अमृतापटोलमूलवासत्रिफलात्रिकटुकृमिघ्नानाम्॥
समभागानां चूर्णं सर्वसमो गुग्गुलोर्भागः॥५१॥

प्रतिवासरमेकैकां गुटिकां खादेदथाक्षपरिमाणाम्॥
जेतुं व्रणवातासृग्गुल्मोदरश्वयथुपाण्डुरोगादीन्॥५२॥

सुगमम्। अमृतावटिकागुग्गुलुः॥५१॥५२॥

मनःशिला626 समञ्जिष्ठा सलाक्षा रजनीद्वयम्॥
प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परः॥५३॥

सुगमम्॥५३॥

अयोरजः सकासीसं त्रिफलाकुसुमानि च॥
प्रलेपः कुरुते कार्ष्ण्यंसद्य एव नवत्वचि॥५४॥

कासीसं धातुकासीसम्। त्रिफलाकुसुमानि हरीतक्यादितरुकुसुमानि। कुसुमाभावेफलेन प्रचरितव्यम्। कुसुमं जातीकुसुममित्येके॥१४॥

कालीयकलताम्रास्थिहेमकालारसोत्तमैः॥
लेपः सगोमयरसः सबर्णकरणः परः
<MISSING_FIG href=”../../../books_images/U-IMG-1706450117image13.jpg”/>॥५५॥

लता प्रियंगुः। हेम नागकेसरचूर्णम्। काला मञ्जिष्ठा कालानुसारिवा वा। रसोत्तमः पारदो घृतं चेति चक्रः। सहकाररसो वेति जिनदासः। गोमयरसः पेषणार्थम्॥१५॥

इति श्रीवृन्दमणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां चतुश्चत्वारिंशो
व्रणशोथाधिकारः समाप्तः॥४४॥
_________

अथ पञ्चचत्वारिंश आगन्तुव्रणाधिकारः।
_________

शारीरव्रणमभिधाय संप्रत्यागन्तुव्रण उच्यते व्रणत्वसाधर्म्यात्॥

सद्यःक्षतं व्रणं वैद्यः सशूलं परिषेचयेत्॥
यष्टीमधुकयुक्तेन किंचिदुष्णेन सर्पिषा॥१॥

यष्टीमधुकं कल्कीकृत्य जलेन घृतं साधनीयं यदि त्वरया घृतमिदं यथाविधि नोपयोक्तुं शक्यते तदा किंचिज्जलं दत्त्वा वडवडायितव्यम्॥१॥

बुद्ध्वाऽऽगन्तुव्रणं वैद्यो घृतक्षौद्रसमन्वितम्॥
शीतां क्रियां प्रयुञ्जीत पित्तरक्तोष्मनाशनीम्॥२॥

सुगमम्॥२॥

कान्तक्रामुक627मेकं सुश्लक्ष्णं गव्यसर्पिषा पिष्टम्॥
शमयति नियतं लेपाद्व्रणमागन्तुं न संदेहः॥३॥

क्रान्तक्रामकं कपि……आम॥३॥

__________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1706450117image13.jpg"/> ख. पुस्तके—प्ररुहप्रातुशुक्लानां कृष्णकर्म हितं भवेत्। भल्लातकान्भावयेत्तु क्षीरे प्राङ्मूत्रभावितान्॥१॥ततो द्विधा छेदयित्वा लोहकुम्भे निधापयेत्। कुम्भेऽन्यस्मिन्निखाते तु तं कुम्भमथ योजयेत्॥२॥मुखं मग्वेनभंधाय(?) गोमयैर्दाहयेत्ततः। यः स्नेहः स्रवते तस्माद्ग्राहयेत्तंशनैभिषक्॥३॥ ग्राम्यानूपशफान्दग्ध्वा सूक्ष्मचूर्णानि कारयेत्। तैलेनानेन संयोज्य शुक्लमालेपयेद्व्रणम्॥४॥ इत्यधिकमत्र।
_________________________________________

क्षतोष्मणो निग्रहार्थंतत्कालं विसृतस्य च628
कषायाः शीतमधुराः स्निग्धा लेपादयो हिताः॥४॥

सुगमम्॥४॥

आमाशयस्थे रुधिरे वमनं पथ्यमुच्यते॥

सुगमम्॥

पक्वाशयस्थे देयं च विरेचनमसंशयम्॥५॥

पक्वाशयस्थ इति। पच्यमानाशयस्थे। पक्वशब्देनेह पाकस्याभिमतत्वात्। तत्रैव हि पित्तस्थानत्वेन विरेचनमौपायकत्व(क )म्। विरेचनं त्रिवृदादिद्रव्यैरेव कर्तव्यम्॥१५॥

क्वाथो वंशत्वगेरण्डश्वदंष्ट्राश्मभिदा कृतः॥
सहिङ्गुलवणः629 पीतः कोष्ठस्थं स्रावयेदसृत्॥६॥

अयं योगः प्रभावाद्रक्तं स्रावयति॥६॥

विशुद्धस्य रक्तानुलोमनमन्नं निर्देिशन्नाह—

यवकोलकुलत्थानां निस्नेहेन रसेन च॥
भुञ्जीतान्नं यवागूं वा पिबेत्सैन्धवसंयुताम्॥७॥

अन्नं यवागूं वेति यवस्य॥७॥

अत्यर्थमस्त्रं स्रवति प्रायशो यत्र वै क्षते॥
ततो रक्तक्षयाद्वायौ कुपितेऽतिरुजाकरे॥८॥

स्नेहपानपरीषेकस्निग्धलेपोपनाहनम्॥
स्नेहबस्तिं च कुर्वीत वातघ्नौषधसाधितम्॥९॥

स्निग्धलेपोनाहनमिति। स्निग्धो लेपः। स्निग्धमुपनाहनम्॥८॥९॥

इति साप्ताहिकः प्रोक्तः सग्रोव्रणहितो विधिः॥

सुगमम्॥

सप्ताहात्परतः कार्या शारीरव्रणवत्क्रिया॥१०॥

सुगमम्॥१०॥

गौराद्यं धृतमाह—

गौरा हरिद्रा मञ्जिष्ठा मांसी मधुकमेव च॥
प्रपौण्डरीकं ह्वीवेरं भद्रमुस्तं सचन्दनम्॥११॥

जातीनिम्बपटोलं च करञ्जः कटुरोहिणी॥
मधूच्छिष्टं मधूकं च महामेदा तथैव च॥१२॥

पञ्चवल्कलतोयेन घृतप्रस्थं विपाचयेत्॥
एष गौरो महावीर्यः सर्वव्रणविशोधनः॥१३॥

आगन्तुसहजाश्चैव चिरोत्थाश्चैव ये व्रणाः॥
विषमामपि नाडीं च शोधयेच्छीध्रमेव च॥१४॥

गौरा हरिद्रा प्रियंगुर्वा। हरिद्रया प्रचारः। हरिद्रा दारुहरिद्रा। जातीनिम्बपटोलानां पत्रम्। करञ्जस्य फलम्। मधूकस्य पुष्पम्। मधूकं चेत्यस्य स्थाने मधुकमितिप्राठे मधुकस्य भागद्वयं द्विः पाठात्। गौराद्यं घृतम्॥११॥१२॥१३॥१४॥

करञ्दाद्यं घृतमाह—

नकमालस्य पत्राणि तरुणानि फलानि च॥
सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा॥१५॥

द्वे हरिद्रे मधूच्छिष्टं मधुकं तिक्तरोहिणी॥
मञ्जिष्ठा चन्दनोशीरमुत्पलं सारिवे त्रिवृत्॥१६॥

एतेषां कोषिकेतस्थं विपाचयेत्॥

दुष्टव्रणप्रशमनं तथा नाडीविशोधनम्॥
सद्यश्छिन्नव्रणानां च करञ्जाद्यमिदं घृतम्630॥१७॥

नक्तमालः करञ्जः। तरुणानीति पत्रविशेषणम्। फलानि पुनः परिणतानि ग्राह्याणि। तरुणानि नवानि। सुमना जाती। करञ्जाद्यं घृतम्॥१५॥१६॥१७॥

जात्यादिघृतमाह—

जातीनिम्बपटोलपत्रकटुकादार्वीनिशासारिवा-
मञ्जिष्ठाभयसिक्थतुत्थमधुकैर्नक्ताह्वबीजैः समैः॥
सर्पिःसिद्धमनेन सूक्ष्मवदना मर्माश्रिताः स्राविणो
गम्भीराः सरुजो व्रणाः सगतिकाः शुध्यन्ति रोहन्ति च॥१८॥

पत्र जात्यादीनां त्रयाणाम्। दार्वी दारुहरिद्रा। निशा हरिद्रा। अभयमुशीरंसंप्रदायात्। नक्ताह्वः करञ्जः। सूक्ष्मभुखे वातोत्तरे व्रणे गौराद्यं जातिकाद्यं च तैलमपि साध्यते। चक्रेणाप्युक्तम्—

“गौराद्यं जातिकाद्यं च तैलमेवं प्रसाध्य च।
तैलं सूक्ष्मानने दुष्टव्रणे गम्भीर एव च” इति॥

जात्याद्यं घृतम्॥१८॥

प्रपौण्डरीकमञ्जिष्ठामघुकोशीरपत्रकैः॥
सहरिद्रैः कृतं631 सर्पिः सक्षीरं व्रणरोपणम्॥१९॥

प्रपौण्डरीकं नीलोत्पलम्। प्रपौण्डरीकाद्यं घृतम्॥१९॥

मधूच्छिष्टं समधुकं लोध्रं सर्जरसं तथा॥

मञ्जिष्ठिां चन्दनं भूर्वी पिष्ट्वासर्पिर्विपाचयेत्॥
सर्वेषाम632ग्निदग्धानामेतद्रोपणमिष्यते633॥२०॥

सुगमम्॥ मधूच्छिष्टाद्यं घृतम्॥२०॥

अन्तर्दग्धकुठारको दहनजं लेपान्निहन्ति व्रण-
मश्वत्थस्य विशुष्कवल्कलकृतं चूर्णं तथा गुण्डनात्॥
अभ्यङ्गाद्विनिहन्ति तैलमखिलं गण्डूपदैः साधितं
पिष्ट्वाशाल्मलितूलकैर्जलगता लेपात्तथा वालुकाः॥२१॥

अन्तर्दग्धकुठारक इति। पिठरजठरेऽन्तर्धूमं दग्धव्यः कुठारकः कुन्हाडिच्छिन्नः।गुण्डनादव-चूर्णनात्। गण्डूपदैः किंचुलकैः साधितं जलं विना वडवडायितम्। शाल्मलितूलकैरिति सहयोगे तृतीया॥२१॥

सिद्धं कषायतैलाभ्यां पाटल्याः कटुतैलकम्॥
दग्धव्रणरुजास्रावदाहविस्फोटनाशनम्॥२२॥

सुगमम्। पाटलीतैलम्॥२२॥

चन्दनाद्यं यमकमाह—

चन्दनं वटशुङ्गाश्च मञ्जिष्ठा मधुकं तथा॥
प्रपौण्डरीकं दूर्वा च पत्त(त्रा)ङ्गं धातकी तथा634॥२३॥

एतैस्तैलं विपक्तव्यं सर्पिष्क्षीरसमायुतम्॥
अग्निदग्धव्रणे श्रेष्ठं635 तत्क्षणाद्रोपणं परम्॥२४॥

तैलघृताभ्यां समाभ्यां मिलित्वा प्रस्थः पक्तव्यः। तैलं च तिलजमेव सर्वत्र। सविशेषणे तु तैलपदे विशिष्टस्य परिग्रहः। यथा—सिद्धं कल्ककषायाभ्यां पाटल्याः कटुतैलकमित्यादौ। पाकार्थं क्षीरमेव चतुर्गुणम्। चन्दनाद्यंयमकम्॥२३॥२४॥

कुठारकतैलमाह—

कुठारकात्पलशतं क्वाथयेन्नल्वणेऽम्भसि॥२५॥

ततः पादावशेषेण तैलप्रस्थं विपाचयेत्॥
कल्कःकुठारापामार्गप्रोष्ठिकामक्षिकासु च॥२६॥

एतत्तैलं कुठारस्य व्रणशोधनरोपणम्॥
नाडीषु परमोऽभ्यङ्गो निजास्वागन्तुकीषु च॥२७॥

__________________________________________________

४. क. घ. °ष्ठ म्रक्षणा°।
___________________________________________________

प्रोष्ठिका शफरी पाठीनामाख्यातो वा विटपः। मक्षिका प्रसिद्धा। प्रोष्ठिका मक्षिका वा पञ्चापञ्चाक्षि(?) आमत्स्य इत्यन्ये। प्रचारोऽप्येवं प्रायः। कुठारकं तैलम्॥२५॥२६॥२७॥

दुर्वास्वरससिद्धं वा तैलं कम्पिल्लुकेन वा॥
दार्वीत्वचश्व कल्केन प्रधानं व्रणरोपणम्॥२८॥

दुर्वास्वरससिद्धं वा तैलं कम्पिल्लकेन वेति पाठे दूर्वास्वरसेनाकल्कमेव तैलं साध्यम्। कम्पिल्लकेन दार्वीत्वक्कल्केन वा जलेन द्रवेणापरंतैलद्वयमित्याहुः। दूर्वातैलम्॥२८॥

येनैव विधिना तैलं घृतं तेनैव साधयेत्॥
रक्तपित्तोत्तरं ज्ञात्वा सर्पिरेवावचारयेत्॥२९॥

आरूढे रूढमात्रे वा व्रणे सर्वरसाशिनः॥
आर्द्रे वा बन्धरहिते गात्रे चाभिहतेऽथ वा॥३०॥

घृतं तेनैव साधयेदित्येतदनन्तरोक्तदूर्वातैलविषयः। एतदनन्तरं चरकेऽस्य पाठाद्रक्तपित्तोत्तरे घृतस्य दर्शितत्त्वात्। तैलं वातकफोत्तरे ज्ञेयम्॥२९॥३०॥

वातोऽस्रमस्रुतं दुष्टं संशोष्य ग्रथितं व्रणम्॥
कुर्यात्सदाहं कण्ड्वाढ्यं व्रणग्रन्थिरिति स्मृतः॥

व्रणग्रन्थिरिति स्मृत इति। व्रणग्रन्थिः सिंचेति लोके॥

क्षारसूत्रं प्रयुञ्जीत दुष्टव्रणहरं विधिम्॥३१॥

** दुष्टत्रणहरं विधिमिति।** ऊर्ध्वाधःशोणितमोक्षणादिकम्॥३१॥

इति श्रीवृन्दमणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां पञ्चचत्वारिंश
आगन्तुव्रणाधिकारः समाप्तः॥४५॥
_____________

अथ षट्चत्वारिंशो भग्नाधिकारः।
_____________

आगन्तुत्वसामान्यादथ भग्नम्।

आदौ भग्नं विदित्वा तु सेचयेच्छीतवारिणा॥
पङ्केनाऽऽलेपनं कार्यं बन्धनं च कुशान्वितम्॥१॥

कुशान्वितमिति। कुशा भग्नास्थिबन्धनसाधनं पलाशादित्वक्। तदुक्तं सुश्रुतेन—

“पलाशोदुम्बराश्वत्थमधूकककुभत्वचः।
वंशसर्जवटानां वा कुशार्थमुपसंहरेत्” इति॥

बन्धमोक्षयोरवधिः सुश्रुत एव दर्शितः। तद्यथा—

“सप्ताहादथ सप्ताहात्सौम्येष्वृतुषु बन्धनम्।
साधारणेषु कर्तव्यं पञ्चमे पञ्चमेऽहनि॥
आग्नेयेषु त्र्यहाकुर्याद्भग्ने दोषवशेन वा” इति॥१॥

इदानीं विविधानामपि संधिमुक्तकाण्डभग्नानां प्रतीकारोपायानाह—

अवनामितमुन्नह्येदुन्नतं चावपीडयेव॥
आञ्छेदतिक्षिप्तमधोगतं चोपरि वर्तयेत्॥२॥

अवनामितमिति। अवनतं कर्कटकं वक्रं च। उन्नह्येदुन्नमयेदूर्ध्वं कुर्यादित्यर्थः।उन्नतमश्व-कर्णादिभिरवपीडयेदधोनयेत्। आञ्छेदाकर्षयेद्दीर्घीकुर्यादित्यर्थः। आछि,आयामे, इति धातो रूपम्। अतिक्षिप्तमध ऊर्ध्वं वा निर्गतम्। यदुक्तम्—आञ्छेदूर्ध्वमधश्चैव कटिभन्नं च मानवमिति। अधोगतं अधःक्षिप्तादि। उपरि वर्तयेदुपरिनयेत्॥२॥

भग्नेलेपद्रव्याण्याह—

आलेपनार्थं मञ्जिष्टा मधुकं चाम्लपेपितम्॥

अम्लपेषितमिति। काञ्जिकपिष्टम्॥

शतधौतघृतोन्मिश्रं शालिपिष्टं च लेपनम्॥

शतधौतघृतोन्मिश्रमिति पूर्वेण परेण योज्यम्॥

तस्य पित्तप्रकृतौ काले चोष्ण परिषेकं निर्दिशन्नाह—

न्यग्रोधादिकषायं तु सुशीतं परिषेचने॥३॥

** न्यग्रोधादीति।** संधानार्थं पाकादिपरिहारार्थं च॥३॥

वातोत्तरे सपित्ते सशूले च परिषेकान्तरमाह—

पञ्चमूलीविपक्वंतु क्षीरं दद्यात्सवेदने॥

पञ्चमूलीविपक्वमिति। पञ्चमूल्यल्पा तस्याः शीतवीर्यत्वात्। एतत्पक्वंच क्षीरंवातपित्तोत्तरे भग्ने॥

सुखोष्णमवचार्यं वा चक्रतैलं विजानता॥४॥

अवचार्यं परिषेक इति शेषः। चक्रतैलमिति। चक्रयन्त्रपीडितं तैलं सद्यः पीडितम्। अणुतैलविधानेन गृहीतं वा तैलं चक्रतैलमिति तु गदाधरः। शीतोपचारोचितेभग्ने सुखोष्णस्यास्य विधानमनिले बलीयसि ज्ञेयम्। अत एव विजानतेति कृतम्॥४॥

भग्ने हितमन्नपानमाह—

मांस मांसरसः क्षीरं सर्पियूषः सतीनजः॥
बृंहणं चान्नपानं स्याद्देयं भग्नाय जानता॥५॥

क्षीरमिहाव्रणे भन्ने संघानीयतया हितं नवधान्यादि वर्गे पाठात्। क्षीरस्य निषेधोव्रणविषय एव। क्षीरसर्पिरिति पाठे क्षीरादुद्धृतं सर्पिः क्षीरसर्पिः। सतीनोऽल्पो वर्तुलकलायः। तत्र कृतो यूषः सतीनयूषः। स वातं न जनयति संदधाति च क्षतम्॥५॥

बृंहणद्रव्यलक्षणमाह—

गुरु शीतं मृदु स्निग्धं बहुलं स्थूलपिच्छिलम्॥
प्रायो मन्दं स्थिरं श्लक्ष्णं बृंहणं द्रव्यमुच्यते॥६॥

शीलीर्मासरस इति पाठान्तरम्॥६॥

भग्न आभ्यन्तरमौषधमाह—

गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम्॥
शीतलं लाक्षया युक्तं प्रातर्भग्नः पिबेन्नरः॥७॥

गृष्टिरेकवारप्रसूता गौः। अस्याः क्षीरं मधुरौषधसाधितं सह सर्पिर्लाक्षोच प्रक्षिप्यप्रातः पिबेन्न तु भुक्तः। मधुरौषधानि जीवनीयानि काकोल्यादीनि। कल्पना चेयम्।काकोल्यादीनां मधुराणां कर्षमात्रा द्रव्यादष्टगुणं चतुर्गुणोदकसिद्धं क्षीरशेषं सर्पिर्लाक्षाकर्षमात्रप्रक्षेपान्वितम्। तच्च लघौ कोष्ठे देयम्। इयं दिनं प्रति मात्रा॥७॥

सघतेनास्थिसंहारं लाक्षां गोधूममर्जुनम्॥
संधिमुक्तेऽस्थिभग्ने च पिबेत्क्षीरेण मानवः॥८॥

सघृतेन क्षीरेणास्थिसंहारादीन्पृथक्पृथक्पिबेत्॥८॥

रसोनमधुलाक्षाज्यसिताकल्कं समश्नताम्॥
छिन्नभिन्नच्युतास्थीनां संधानमचिराद्भवेत्॥९॥

सुगमम्॥९॥

क्षीरं सलाक्षामधुकं च सर्पिः स्याज्जीवनीयं च पिबेत्सुखार्थी॥

जीवनीयमिति प्राणधारणम्॥

भग्नः पिबेत्त्वक्पयसाऽर्जुनस्य गोधूमचूर्णं सघृतेन वाऽथ॥१०॥

** पिबेत्त्वक्पयसेति।** अर्जुनस्य त्वचा साधितं पयस्त्वक्पयः। अर्जुनत्वक्पयसा घृतेन गोधूमचूर्णं पिबेदिति योज्यम्॥१०॥

लाक्षास्थिसंहृत्ककुभाश्वगन्धा चूर्णीकृता नागबला पुरुश्च॥
संभग्नमुक्तास्थिरुजं निहन्यादङ्गानि कुर्यात्कुलिशोपमानि॥११॥

अस्थिसंहृदस्थिसंहारः। ककुभोऽर्जुनः। पुरो गुग्गुलुः। स च समुदितलाक्षादिचूर्णसमोऽन्यतोदर्शनात्। लाक्षागुग्गुलुः॥११॥

आभाफलत्रिकव्योषैः सर्वैरेभिः समांशकैः॥
तुल्यो गुग्गुलुरायोज्यो भग्नसंधिप्रसाधकः॥१२॥

सुगमम्॥ आभागुग्गुलुः॥१२॥

सव्रणस्य भग्नस्य चिकित्सितमाह—

सव्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तरैः॥
प्रतिसार्य कषायैश्च शेषं भग्नवदाचरेत्॥१३॥

सव्रणस्येति। स्रुतरक्तस्य। प्रतिसार्य कषायैरिति। न्यग्रोधादिकल्कैः प्रलिप्य। कषायशब्देन कल्कस्याभिधानात्। कार्तिकस्तु मधुरौषधक्वाथैपरिभाव्येति व्याचष्टे।किंविशिष्टैः कषायैः। सर्पिर्मधूत्तरैर्धृतमधुप्रधानैः। शेषमित्याहारविहारादिकं क्षीरवर्जव्रणप्रक्लेदभयात्॥१३॥

वातव्याधिविनिर्दिष्टान्स्नेहानत्रापि योजयेत्॥१४॥

सुगमम्॥१४॥

असेव्यानाह—

लवणं कटुकं क्षारमम्लं मैथुनमातपम्॥
व्यायामं च न सेवेत भग्नो रूक्षान्नमेव च॥१५॥

लवणादयो वर्ज्या आग्नेयत्वात्पाककारित्वाच्च। मैथुनं वातकोपित्वात्॥१५॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां षट्चत्वारिंशो
भन्नाधिकारः समाप्तः॥४६॥
__________
अथ सप्तचत्वारिंशो नाडीव्रणाधिकारः।
_____________

भग्नस्यापि सव्रणस्योपेक्षया नाडीभावप्रादुर्भावान्नाडीव्रणम्॥

नाडीनां गतिमन्विष्य शस्त्रेणाऽऽपाट्य कर्मवित॥
सर्वं व्रणक्रमं कुर्याच्छोधनं रोषणादिकम्॥१॥

सर्वं व्रणक्रमं कुर्यादित्यस्यैव व्याकरणं शोधनं रोपणादिकमिति। आदिशब्देनेहोत्सादनावसादन-सवर्णकरणानि गृह्यन्ते॥१॥

नाडीं वातकृतां साधु पाटितां लेपयेद्भिषक्॥

सुगमम्॥

प्रत्यक्पुष्पीफलयुतैस्तिलैः पिष्टैः प्रलेपयेत्॥२॥

प्रत्यक्पुष्प्यपामार्गः॥२॥

पैत्तिकीं तिलमञ्जिष्ठानागदन्तीनिशाद्वयैः॥

सुगमम्॥

श्लैष्मिकीं तिलयष्ट्याह्वानिकुम्भारिष्टसैन्धवैः॥३॥

निकुम्भो दन्ती॥३॥

शल्यजां तिलमध्वाज्यैर्लेपयेच्छिन्नशोधिताम्॥

सुगमम्॥

आरग्वधनिशाकालाचूर्णाज्यक्षौद्रसंयुता॥
सूत्रवर्तिव्रणे योज्या शोधनी गतिनाशनी॥४॥

कालाऽहिंस्रा॥४॥

घोण्टाफलत्वङ्भदनात्फलानि पूगस्य636 च त्वग्लवणं च मुख्यम्॥
स्नुह्यर्कदुग्धेन सहैष कल्को वर्तीकृतो हन्त्यचिरेण नाडीम्॥५॥

घोण्टा स्वल्पकोलिः। एलावणिकेत्यन्ये। अस्याः फलं त्वक्। घोण्टाफलत्वग्लवणानि लाक्षा, इति पाठे घोण्टा बदरीफलं तस्य त्वक्। लवणानि सैन्धवादीनि। पूगात्फलं चाऽऽलवणं च पत्रमिति। अलवणा ज्योतिष्मती कङ्कुमर्दनिका तस्या इदंपत्रमालवणम्। पूगस्य च त्वग्लवणं च मुख्यमिति पाठे लवणं मुख्यं सैन्धवम्॥५॥

वर्तीकृतं माक्षिकसंप्रयुक्तं नाडीघ्नमुक्तं लवणोत्तमं वा॥

वर्तीकृतमिति पाकात्। अन्यथा बन्धो न स्यात्। एतेन पक्वमधुसैन्धववर्तिरपि नाडीहरा॥

दुष्टव्रणे यद्विहितं च तैलं तत्सेव्यमानं गतिमाशु हन्ति॥६॥

दुष्टव्रणे यद्विहितं च तैलमिति। सुश्रुते सद्योव्रणोक्तद्रवन्त्यादितैलम्। दुष्टव्रणविहितं तैलं राजवृक्षादि-सुरसादिकषाये हृतं तैलमिति श्रीब्रह्मदेवः॥६॥

जात्यर्कशम्याककर637ञ्जदन्तीसिन्धूत्थसौवर्चलयावशूकैः॥
वर्तिः कृता हन्त्यचिरेण नाडीं स्नुक्क्षीरपिष्टा सह चित्रकेण॥७॥

सुगमम्॥७॥

कृशदुर्बलभीरूणां नाडी मर्माश्रिता च या॥
क्षारसूत्रेण तां छिन्द्यान्न शस्त्रेण कदाचन॥८॥

क्षारसूत्रेण यवक्षाराकसूत्रेण। इदं क्षारसूत्रविधानम्। तच्च मुख्यमुक्तम्। दीर्घं गतिंत्रिचतुरङ्गुले बद्धां क्रमेण च्छिन्द्यान्न पुनरेकदैव गतिप्रमाणेन वद्धच्छेदः कार्यः सूत्रच्छेदभयात्पीडातियोगाच्च॥८॥

तत्र सूत्रावचारणप्रकारं निर्दिशन्नाह—

एषिण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम्॥९॥

सूचीं निदध्यायत्नेन638 तथोन्नम्याऽऽशु निर्हरेत्॥
सूत्रस्यान्तं समानीय गाढं बन्धं समाचरेत्॥१०॥

ततः क्षारवलं वीक्ष्य सूत्रमन्यत्प्रवेशयेत्॥

क्षाराक्तं मतिमान्वैद्यो यावन्न च्छिद्यते गतिः॥
भगंदरेऽप्येष विधिः कार्यो वैद्येन जानता॥११॥

सुगमम्॥९॥१०॥११॥

उपोद्धातादर्बुदादिषु बन्धे विशेषमाह—

अर्बुदादिषु चोत्क्षिप्य मूले सूत्रं निधापयेत्॥१२॥

अर्बुदादिषु चलेषूत्क्षिप्यैव मूलेन सूत्रं विधेयम्॥१२॥

सूचीभिर्यववक्त्राभिराचितं वा समन्ततः॥
मूले सूत्रेण बध्नीयाच्छिन्ने चोपचरेद्व्रणम्॥१३॥

विशालम्लेषु तु सूत्रस्थैर्यार्थं मूले समन्ततः सूचीभिराचितं यथा स्यात्तथा बध्नीयात्। सूचीनां यववक्त्रत्वं दार्ढ्यार्थम्। छिन्ने चोपचरेद्व्रणमित्यत्र द्विव्रणीयोक्तत्वेनविधिनेत्युपस्कारः॥१३॥

गुग्गुलुस्त्रिफलाव्योपषैःसमांशैराज्ययोजितः॥
नाडीदुष्टव्रणहरो639 भगंदरविनाशनः॥१४॥

सुगमम्। सप्ताङ्गो गुग्गुलुः॥१४॥

स्वर्जिकासिन्धुदन्त्यग्निरूयिकानलनीलिकाः॥

खरमञ्जरिबीजेषु तैलं गोमूत्रपाचितम्॥
दुष्टव्रणप्रशमनं कफनाडीव्रणापहम्॥१५॥

अग्निश्चित्रकः। रूयिका श्वेतार्कः। नलः स्वनामख्यातः। नीलिका नीलीति प्रसिद्धा। नीलबुघ्नेत्यन्ये। खरमञ्जरी, अपामार्गः। गोमूत्रं पाकार्थं चतुर्गुणम्।

** अत्र सुश्रुतः —**

“सुवर्चिकासैन्धवचित्रकेषु निकुम्भनीलीनलरूयिकासु॥
फलेष्वपामार्गभवेषु चैवं640 कुर्यात्समूत्रेषु हिताय तैलम्"।

स्वर्जिकाद्यं तैलम्॥१५॥

कुम्भीकखर्जूरकपित्थबिल्ववनस्पतीनां च शलाटुवर्गम्॥
कृत्वा कषायं विपचेत्तु तैलमावाप्य मुस्तासरलाप्रियंगूः॥१६॥

सौगन्धिकामोचरसाहिपुष्पचूर्णानि641 दत्त्वा खलु धातकीं च॥
एतेन शल्यप्रभवा हि नाडी रोहेद्व्रणो वै सुखमाशु चैव॥१७॥

कुम्भीकः कुभाण्डुर्दाडिमसमानफलः। वनस्पतयो वटादयः। शलाटुरामफलम्।कुम्भीकानां शलाटूनि कोमलफलानि। सरला त्रिवृत्। सौगन्धिकाऽनन्तमूलमुत्पलसारिवा च। मोचरसः शाल्मलिनिर्यासः। अहिपुष्पचूर्णं नागकेसरचूर्णम्। कुम्भीकाद्यंतैलम्॥१६॥१७॥

भल्लातकतैष्ठमाह—

भल्लातकार्कमरिचैर्लवणोत्तमेन
सिद्धं विडङ्गरजनीद्वयचित्रकैश्च॥
स्यान्मार्कवस्य च रसेन निहन्ति तैलं
नाडीं कफानिलकृतामपचीं व्रणांश्च॥१८॥

मार्कवरसेन भृङ्गराजरसेन। मार्कवस्वरसश्चतुर्गुणः। भल्लातकाद्यं तैलम्॥१८॥

निर्गुण्डीतैलमाह—

समूलपत्रां निर्गुण्डीं पीडयित्वा रसेन तु॥
तेन सिद्धं समं तैलं नाडीदुष्टव्रणापहम्॥१९॥

हितं पामापचीनां च पानाभ्यञ्जननावनैः॥
विविधेषु च स्फोटेषु तथा दुष्टव्रणेषु च॥२०॥

तेन सिद्धं समं तैलमिति। सममिति सहार्थे। तेन निर्गुण्डीस्वरसश्च चतुर्गुणेग्राह्यः। चक्रः समशब्दं तुल्यार्थे वर्णयति। निर्गुण्डीतैलम्॥१९॥२०॥

या द्विव्रणीये विहितास्तु वर्त्यस्ताः सर्वनाडीषु भिषग्विदध्यात्॥२१॥

या द्विव्रणीये विहितास्तु वर्त्य इति। द्विव्रणीये पुनरेवमुक्तम्—

‘अवेदनानां शुद्धानां गम्भीराणां तथैव च।
हिताः संरोपणे वर्त्यो वर्त्त्यङ्गै रोपणैः कृताः’॥

अत्र वर्त्यङ्गै रोपणैरिति मिश्रकोक्तैरिति व्याख्यातम्। मिश्रकेऽप्येवमुक्तम्—

“सोमामृताश्वगन्धासु काकोल्यादौ गणे तथा।
क्षीरिप्ररोहेष्वपि च वर्तयो रोपणाः स्मृताः” इति॥

अत्र सोमं कटूफलमिति गदाधरः। इति सन्तीति(?)जैज्जटः॥२१॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां सप्तचत्वारिंशो
नाडीव्रणाधिकारः समाप्तः॥४७॥
______________

अथाष्टाचत्वारिंशो भगंदराधिकारः।
_______________

नाडीविशेषत्वात्संख्या साम्याद्भगंदरः।

गुदस्य श्वयथुंदृष्ट्वा विशोष्य शोषयेत्ततः॥
रक्तावसेचनं कार्यं यथा पाकं न गच्छति॥१॥

विशोष्येत्युपवासादिना। शोधयेद्विरेचयेत्॥१॥

चटपत्रेष्टिकाशुण्ठीगुडूच्यः सपुनर्नवाः॥
सुपिष्ट्वा642 पिटिकावस्थे लेपः शस्तो भगंदरे॥२॥

वटस्य पक्वंपत्रम्। इष्टिका पानायस्य ग्राह्या संप्रदायत्वात्॥२॥

पिडका643नामपक्वानामपतर्पणपूर्वकम्॥
कर्म कुर्याद्विरेकान्तं भिन्नानां वक्ष्यते क्रिया॥३॥

अपतर्पणपूर्वकम्। कर्म कुर्याद्विरेकान्तमिति। अपतर्पणादयो विरेचनान्ता उपक्रमा द्विव्रणीयोक्ताः कर्तव्या इत्यर्थः। तद्यथा—अपतर्पणमालेपः परिषेकोऽभ्यङ्गःस्वेदो विम्लापनमुपनाहः पाचनं विस्रावणं स्नेहो वमनं विरेचनमिति॥३॥

एपणं पाटनं क्षारवह्निदाहादिकं क्रमम्॥
विधाय व्रणवत्कार्यं यथादोषं यथाक्रमम्॥४॥

लोहादिशलाकया एषणम्॥४॥

त्रिवृत्तिला नागदन्ती मञ्जिष्ठा सह सर्पिषा॥
उत्सादनं भवेदेतत्सैन्धवक्षौद्रसंयुतम्॥५॥

नागदन्ती दन्तीभेदः। उत्सादनमिति शोधनं संयोगविशेषादाधीरप्रभवत्वाद्वा निम्नमांसोन्नति-करमिहोत्सादनव्यपदेशमाह कार्तिकः। योगोऽयं वक्ष्यमाणश्च कल्को वाकफजे भद्रक इत्याहुः। सह सर्पिषेत्यत्र पयसा सहेति क्वचित्पाटः॥५॥

रसाञ्जनं हरिद्रे द्वे मञ्जिष्ठा निम्बपल्लवाः॥
त्रिवृत्तेजोवती दन्ती कल्को नाडीव्रणापहः॥६॥

तेजोवती चवी ज्योतिष्मती वा। शोधनरोपणोऽयं कल्कः॥६॥

न्यग्रोधादिर्गणो यस्तु हितः शोधनरोपणः॥
तैलं घृतं वा तत्पक्वंभगंदरविनाशनम्॥७॥

न्यग्रोधादिर्गणः कल्कः पित्तजे। तैलं घृतं वा तत्पकमिति। तत्पक्वं न्यग्रोधादिगणक्वाथकल्कपक्वम्॥७॥

कुष्ठं त्रिवृत्तिलादन्तीमागध्यः सैन्धवं मधु॥
रजनी त्रिफला तुत्थं हितं व्रणविशोधनम्॥८॥

कुष्ठादियोगो रोपणः॥८॥

स्नुह्यर्कदुग्धदार्वीभिर्वर्ति कृत्वा विचक्षणः॥

भगंदरगतिं ज्ञात्वा पूरयेत्तां प्रयत्नतः॥
एषा सर्वशरीरस्थां नाडीं हन्यान्न संशयः॥९॥

सुगमम्॥९॥

तिलाभयाकुष्ठमरि644ष्टपत्रं निशे वचा लोध्रमगारधूमः॥
भगंदरे नाड्युपदंशयोश्च दुष्टव्रणे शोधनरोपणोऽयम्॥१०॥

सुगमम्॥१०॥

त्रिफलारससंयुक्तं बिडालास्थिप्रलेपनम्॥
भगंदरं निहन्त्याशु दुष्टव्रणहरं परम्॥११॥

सुगमम्॥११॥

त्रिफलापुरकृष्णानां त्रिपञ्चैकांशयोजिता गुटिका॥
कुष्ठभगंदरनाडीदुष्टव्रणशोधिनी कथिता॥१२॥

तेन त्रिफलायास्त्रिकर्षाः। गुग्गुलोः पञ्च कर्षाः। कृष्णाया एकः कर्षः। एवं नवकार्षिकत्वम्। नवकार्षिको गुग्गुलुः॥१२॥

जम्बूकमांस भक्षेत प्रकारैर्व्यञ्जनादिभिः॥
अजीर्णवर्जी मासेन मुच्यते तु भगंदरात्॥१३॥

जम्बूकमांसमिति। जम्बूकः शृगालः॥१३॥

पञ्चतिक्तं घृतं शस्तं तथा गुग्गुलुपूर्वकम्॥१४॥

तथा गुग्गुलुपूर्वकमिति। गुग्गुलुपञ्चतिक्तकम्॥१४॥

विष्यन्दनं तैलमाह—

चित्रकार्कौत्रिवृत्पाटे मलयूहयमारकौ॥
सुधां वचां लाङ्गलकी हरितालं सवर्चिकाम्॥१५॥

ज्योतिष्मतीं च संक्षुण्णां645 तैलं धीरो विपाचयेत्॥

एतद्विष्यन्दनं नाम तैलं दद्याद्भगंदरे॥
शोधनं रोपणं चैव सवर्णकरणं परम्॥१६॥

मलयूः काष्ठो(को)दुम्बरकः (रिका)। अस्य मूलम्। रक्तपित्तादौ फलम्। ज्योतिष्मती कङ्कुमर्दनिका। विशेषेण दोषान्स्यन्दयति स्रावयति शोधयतीति यथार्थनामविस्यन्दनम्। कल्पनामाह—स्नेहचतुर्थांशो भेषजकल्कः स्नेहचतुर्गुणो द्रवः। द्रवमत्रपानीयम्—अनुक्ते द्रवकार्ये तु सर्वत्र सलिलं मतमिति। विष्यन्दनं तैलम्॥ १५॥१६॥

करवीराद्यं तैलमाह—

करवीरनिशादन्तीलाङ्गलीलवणाग्निभिः॥
मातुलुङ्गार्कवत्साह्वैःपचेत्तैलं भगंदरे॥१७॥

मातुलुङ्गस्य मूलम्। वत्साह्वःकुटजः। एतस्य फलम्। करवीराद्यं तैलम्॥१७॥

व्यायामं मैथुनं युद्धं पृष्ठयानं गुरूणि च॥
संवत्सरं परिहरेदुपरूढव्रणो नरः॥१८॥

सुगमम्॥१८॥

** गद्यम्—**

अर्शोभगंदरे पूर्वमर्शश्छिन्द्यात्ततो गत्यनुसारेण भगंदरम्॥१॥

सुगमम्॥१॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्याया-
मष्टाचत्वारिंशो भगंदराधिकारः समाप्तः॥४८॥
____________
अथैकोनपञ्चाशत्तम उपदंशाधिकारः।
_______________

स्थानसामीप्यादुपदंशनिर्देशः।

स्निग्धस्विन्नस्य तेष्वादौ ध्वजमध्ये शिराव्यधः॥
जलौकःपातनं वा स्यादूर्ध्वाधःशोधनं तथा॥

ध्वजमध्य इति। मेहनोपरि मध्यदेशे सिराव्यधो रक्तदुष्टौ महत्यामल्पायां तुजलौकसः। सिराव्यधो बहुदोषेषु जलौकसां पातनं पित्तरक्तजयोर्मृदुत्वाज्जलौकस इत्यन्ये।**जैज्जटस्तु—**अनवगाढे जलौकसः। अवगाढे सिराव्यध इति। ऊर्ध्वाधःशोधनमिति। बलवतो विरेच्यस्य वमनविरेचनाभ्यामूर्ध्वमधो वा शोधनं दोषहरणम्॥

पाको रक्ष्यः प्रयत्नेन शिश्नक्षयकरो हि सः॥१॥

सुगमम्॥१॥

पटोलनिम्बत्रिफलागुडूचीक्वाथं पिबेद्रा खदिरासनाभ्याम्॥
सगुग्गुलुं वा त्रिफलायुतं वा सर्वोपदंशापहरः प्रयोगः॥२॥

** पिबेद्वा खदिरासनाभ्यामिति।** खदिरासनयोः पृथक्पृथक्क्वाथः। असनः पीतशालः। सगुग्गुलुमिति गतक्वाथद्वयेऽपि योज्यम्। त्रिफलायुतं वेति। त्रिफलाक्वाथयुतं गुग्गुलुं स च पिबेत्॥२॥

प्रपौण्डरीक्वंमधुकं रास्ना कुष्ठं पुनर्नवा॥
सरलागुरुभद्राख्यैर्वातजं संप्रलेपयेत्॥३॥

सरला त्रिवृत्। भद्राख्यो देवदारुः॥ ३॥

गैरिकाञ्जनमञ्जिष्टामधुकोशीरपद्मकैः॥
सचन्दनोत्पलैः स्निग्धैः पैत्तिक संप्रलेपयेत्॥४॥

अञ्जनं रसाञ्जनम्॥४॥

निम्बार्जुनाश्वत्थकदम्बशालजम्वूवटोदुम्बरवेतसेषु॥
प्रक्षालनालेपघृतानि कुर्याच्चूर्णं च पित्तास्रभवोपदंशे॥५॥

सुगमम्॥५॥

शालाजकर्णाश्वकर्णधवत्वग्भिः कफोत्थितम्॥
सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत्॥६॥

शालः शङ्कु। अजकर्णः सालभेदः। अजकर्णः पूर्वदेशे प्रसिद्धोऽश्वत्थसदृश इतिडल्लणः। अश्वकर्णो गर्दभाण्डः। गन्धमुण्ड इति डल्लुणः। धवः स्वनामख्यातः॥ ६॥

त्रिफलायाः कषायेण भृङ्गराजरसेन वा॥
व्रणप्रक्षालनं कुर्यादुपदंशप्रशान्तये॥७॥

सुगमम्॥७॥

दहेत्कटाहे त्रिफलां सा मषी मधुसंयुता॥
उपदंशे प्रलेपोऽयं सद्यो रोपयति व्रणम्॥८॥

सुगमम्॥८॥

जपाजात्यश्वमारार्कशम्याकानां दलैः पृथक्॥
कृतं प्रक्षालने क्वाथं मेढ्रपाकेप्रयोजयेत्॥९॥

सुगमम्॥९॥

करञ्जाद्यं घृतमाह—

करञ्जनिम्बार्जुनशाकज646म्बूवटादिभिः कल्ककषायसिद्धम्॥
सार्पिर्निहन्यादुपदंशदोषं सदाहपाकं स्रुतिरागयुक्तम्॥१०॥

करञ्जफलम्। निम्बस्य पत्रम्। अर्जुनादीनां त्वचः। वटादिभिरिति पञ्चभिर्घृतस्यःभक्षणं म्रक्षणं चानेन कार्यम्। करञ्जाद्यं घृतम्॥१०॥

आगारधूमाद्यं तैलमाह—

आगारधूमो रजनी सुराकिट्टं647 तु तैस्त्रिभिः॥११॥

भागोत्तरैः पचेत्तैलं कण्डूशोथरुजापहम्॥
शोधनं रोपणं चैव सवर्णकरणं तथा॥१२॥

भागोत्तरैरिति। तैलप्रस्थे, आगारधूमः पलम् १ कर्षः १ माषाः ५ रतयः ३ हरिद्रापले २ (कर्षो २) माषाः १० रतयः ६ किण्वं पलानि ३ कर्षाः ३ माषाः ११ रतयः ९ एवं स्नेहपादः कल्कः। आगारघूमाद्यं तैलम्॥११॥१२॥

अर्शसां छिन्नदग्धानां क्रिया कार्योपदंशवत्॥१३॥

अर्शसामिति। लिङ्गजानाम्। एतच्च लिङ्गरोगप्रकरणादुक्तम्॥१३॥

इति श्रीवृन्दमणीतवृन्दमाघवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामूनपञ्चाशत्तम
उपदंशाधिकारः समाप्तः॥४९॥
______________

अथ पञ्चाशत्तमः शूकाधिकारः।
____________

उपदंशानन्तरं शूकदोषः समानस्थानत्वात्। शूको जलशूकःसविषजन्तुर्जलमण्डूकस्तत्कृतो दोषः शूकदोषः। दोषशब्द इह रोगे वर्तते कारणे कार्योपचारात्॥

हितं च सर्पिषः पानं पथ्यं चापि विरेचनम्॥
हितः शोणितमोक्षश्चयच्चापि लघुभोजनम्॥१॥

सर्पिषः पानमिति। यथादोषं संस्कृतस्य घृतस्य पानम्॥

सर्षपीं लिखितां सूक्ष्मैः कषायैरवचूर्णयेत्॥
तैरेवाभ्यञ्जनं तैलं साधयेद्व्रणरोपणम्॥२॥

** कषायैरवचूर्णयेदिति।** मिश्रकोक्तकषायरोपणद्रव्यैः।

सुश्रुते—

“संलिख्य सर्षपीं सम्यक्कषायैरवचूर्णयेत्।
कषायेष्वेव कुर्वीत तैलं च व्रणरोपणम्”॥

इत्यत्र टीकाकृद्भिरेवं व्याख्यातत्वात्। तानि च किंशुकादीनि।

यदुक्तम्—

“किंशुकत्रिफलालोध्रंकासीसं श्रवणाह्वया।
धवाश्वकर्णयोस्त्वक्च चूर्णं रोपणमिष्यते" इति॥

श्रवणाह्वया मुण्डितिका। कषायद्रव्याणि वक्ष्यमाणतिन्दुकत्रिफलालोधाणीत्यन्ये। तैरेव रोपणकषायसाधनद्वव्यैःपादिकैर्जलं चतुर्गुणं दत्त्वा रोपणतैलं कुर्यात्॥२॥

क्रियेयमवमन्थेऽपि रक्तं स्राव्यं तथोभयोः॥

सुगमम्॥

अष्टीलायां हृते रक्तेश्लेष्मग्रन्थिवदाचरेत्॥३॥

अष्ठीलायां हृते रक्त इति। अष्ठीला यद्यपि वातजोक्ता तथाऽपीह शूकदूषितरक्तमावरकं निर्हंर्तुजलौकोभिः शोणितमोक्षणोपदेशः। श्लेष्मग्रन्थिविहितं प्रलेपविम्लापनदारणादिविधानमाचरेत्॥३॥

कुम्भिकायां हरेद्रक्तं पक्वायां शोधिते व्रणे॥
तिन्दुकत्रिफलालोध्रैर्लेपस्तैलं च रोपणम्॥४॥

तैलं च रोपणमिति। उक्ततिन्दुकादिकल्क सिद्धम्॥४॥

अलज्यां648 (?) हृतरक्तायामयमेव क्रियाक्रमः॥

सुगमम्॥

स्वेदयेद्ग्रथितं शश्वन्नाडीस्वेदेन बुद्धिमान्॥
सुखोष्णैरुपनाहैश्चसुस्निग्धैरुपनाहयेत्॥५॥

शश्वत्प्रतिदिनम्। सुखोष्णैरुपनाहैरिति। कफहद्रव्यकृतैः।ग्रथितस्य कफजत्वात्। सुस्निग्धैरित्युपनाहविशेषणम्। स्निग्धत्वमिह तैलयोगाज्ज्ञेयम्॥५॥

उत्तमाख्यां तु पिडिकां संछेद्य649 बडिशोद्धृताम्॥
कल्कचूर्णैः कषायाणां क्षौद्रयुक्तैरुपाचरेत्॥६॥

कषायाणामिति। मिश्रकोक्तरोपणकषायद्रव्याणां तिन्दुकादीनां वा। डल्लुणस्त्वेवंव्याख्याति—शोधनकाले शोधनद्रव्याणां कषायाणां रोपणकाले रोपणानां कल्कचूर्णेर्यथायोग्यमुपाचरेत्॥६॥

क्रमः पित्तविसर्पोक्तः पुष्करीमूढयोर्हितः॥७॥

त्वक्पाके स्पर्शहान्यां च सेचये650न्मृदितं पुनः॥
बलातैलेन कोष्णेन मधुरैश्चोपनाहयेत्॥८॥

पुष्करीमूढयोरिति। पुष्करिकासंमूढपिटिकयोः। संमूढपिटिका वातजा यद्यप्युक्तातथाऽप्यत्र शुकदूषितप्रवृद्धरक्तसंबन्धाद्व्याधिप्रत्यनीकाद्वा पित्तविसर्पोक्तक्रमो हितः।त्वक्पाके स्पर्शहान्यां चेति पूर्वेण योज्यम्। तेनैव तयोरपि पित्तवीसर्पोक्त एव क्रमः।बलातैलेनेति। संग्रहे वातव्याध्युक्तेन। मधुरैरिति। काकोल्यादिभिः॥७॥८॥

रसक्रिया विधातव्या लिखिते शतपोतके651
पृथक्पर्ण्यादिसिद्धं च तैलं देयमनन्तरम्॥९॥

रसक्रिया विधातव्येति। रसक्रिया मिश्रकोक्ता द्वित्रणीयोक्ता वा।

मिश्रकोक्ता यथा—

“त्वक्षु न्यग्रोधवर्गस्य त्रिफलायास्तथैव च।
रसक्रियां रोपणार्थे विदधीत यथाक्रमम्" इति॥

द्विव्रणीयोक्ता यथा—

“अबन्ध्यानां चलस्थानां शुद्धानामप्ररोहताम्652
द्विहरिद्रायुतां कुर्याद्रोपणार्थी रसक्रियाम्” इति॥

पृथक्पर्ण्यादि मिश्रकोत्तरोपणघृतसाधनद्रव्यं काकोल्यादिवार्गितम्।

तद्यथा—

“पृथक्पर्ण्यात्मगुप्ता च हरिद्रे मालती सिताः (ता)।
काकोल्यादिश्च योज्यः स्याद्भिषजा रोपणे घृते” इति॥

देयमनन्तरमिति। रसक्रियां कृत्वेत्यर्थः॥९॥

रक्तविद्रधिवच्चापि क्रिया शोणितजेऽर्बुदे॥

शोणितजेऽर्बुदे लिङ्गनेऽर्बुदे॥

कषायकल्कसर्पीषितैलचूर्णरसक्रियाः॥
शोधने रोपणे चैव वीक्ष्य वीक्ष्यावचारयेत्॥१०॥

कषायादीनि शोधने रोपणे द्विव्रणीयोक्तामवस्थां निरूप्य प्रयुञ्जीत॥१०॥

अर्बुदं मांसपाकं च विद्रधिं तिलकालकम्॥
प्रत्याख्याय प्रकुर्वीत भिषक्तेषां प्रतिक्रियाम्॥११॥

अर्बुदमित्यादिनाऽर्बुदादिष्वसाध्यत्वेनोक्तेष्वपि साध्यताऽप्यसंपूर्णलिङ्गत्वाद्यवस्थायांसंभवति तां च निसर्गामवस्थामजानन्नसर्वविदुरो वैद्यः प्रतिक्रियानिवृत्ति मा करोत्विति कारुणिकतया मुनिः प्रत्याख्याय क्रियाकरणमुपदिशति। एवं हि संशयं ब्रुवन्दुर्यशो न लभते। यस्तु मुनिप्रख्यः प्रज्ञावान्सूक्ष्मामपि साध्यासाध्यावस्थां विनिश्चित्यैव प्रवर्तते निवर्तते च न तं प्रति प्रत्याख्याय प्रतिकरणं युक्तं यापनार्थं प्रत्याख्यायक्रियार्थिभिरित्यन्ये। प्रतिक्रियामिति। सामान्योक्तां कषायकल्कादिरूपाम्॥११॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां पञ्चाशत्तमः
शूकदोषाधिकारः समाप्तः॥५०॥
__________________

अथैकपञ्चाशत्तमः कुष्ठाधिकारः।
____________

शूकदोषानन्तरं कुष्ठमष्टादशसंख्यायोगस्य साम्यात्॥

वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु॥
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे॥१॥

वातोत्तरेषु सर्पिरिति। सर्पिरिह शोधनं शमनं च। अग्र इति प्रथमं सर्पिरादिप्रथमं कार्यमित्यर्थः। अग्र्यमिति पाठे श्रेष्ठम्॥१॥

प्रच्छन्नमल्पकुष्ठे653 महति च शस्तं शिराव्यधनम्॥
बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान्॥२॥

बहुश इति। स्तोकस्तोकदोषहरणेन बहुधा।एकदा भूरिदोषहरणे हि बलक्षयोमहात्ययःस्यात्॥२॥

अत एवाऽऽह—

दोषे ह्यतिमात्रहृते वायुर्हन्याच्च बलमाशु॥

सुगमम्॥

आवस्थिकं वमनमाह—

दोषोत्क्लिष्टे हृदये वमनंकुष्ठेषु चोर्ध्वभागेषु॥३॥

पूर्वं वमनं दोषमधिकृत्योक्तमिदं त्वावस्थिकमिति न पौनरुक्त्यम्॥३॥

बचावासापटोलानां निम्बस्य फलिनीत्वचः॥
कषायो मधुना पीतो वान्तिकृन्मदनान्वितः॥

फलिनीत्वच इति। फलिनी प्रियंगुः। वमनार्थं क्वाथविधौ परिभाषा—

“क्वाथ्यद्रव्यस्य कुडवं श्रपयित्वा जलाढके।
चतुर्भागावशिष्टं तु वमनेष्ववचारयेत्” इति॥

पञ्चकषायः॥

विरेचनं प्रयोक्तव्यं त्रिवृद्दन्तीफलत्रिकैः॥४॥

सुगमम्॥४॥

मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः॥

अलं हरितालम्। तैलं सार्षपं कुष्ठहरत्वात्। आर्कं पयोऽर्कक्षीरम्॥

करञ्जवीजैडगजं सकुष्टं गोमूत्रपिष्टं654 च परः प्रदेहः॥५॥

सुगमम्॥५॥

पर्णानि पिष्ट्वा चतुरङ्गुलस्य तक्रेण पर्णान्यथ काकमाच्याः॥
तैलाक्तगात्रस्य नरस्य कुष्ठान्युद्वर्तयेदश्वहनच्छदैश्च॥६॥

चतुरङ्गुलः सुवर्णालुः। अश्वहन करवीरः। चतुरङ्गुलकाकमाच्यश्वहनपत्रैरेक एवमिलित्वा योगः। योगत्रित्वे हि चरके द्वात्रिंशत्प्रदेहसंख्याहानिः स्यात्॥६॥

एडगजकुष्ठसैन्धवसौवीरकसर्षपैः कृमिघ्नैश्च॥
कृमिसिध्मदद्रुमण्डलकुष्ठानां नाशनो लेपः॥७॥

एडगजश्चक्रमर्दः। सौवीरकं सौवीराञ्जनम्। कृमिघ्नं विडङ्गम्। लेपोऽयं गोमूत्रेणपिष्ट्वाकार्यः। लेपाश्च कुष्ठे रक्तमोक्षणसंशोधनानन्तरं प्रयुज्यमानाः सद्यःसिद्धिदायकाभवन्ति। यदुक्तं चरके—

“ये लेपाः कुष्ठानां प्रयुज्यन्ते निर्गतास्रदोषाणाम्।
संशोधितांशयानां सद्यः सिद्धिर्भवति तेषाम्” इति॥७॥

कोठाभिहितं कुष्ठादिलेपमत्रापि कारयेत्॥८॥

कोठाभिहितंकुष्ठादिलेपमिति। शीतपित्ताद्यधिकारोक्तं कुष्ठहरिद्रेत्यादिलेपकारयेत्॥८॥

आरग्वधस्य पत्राणि आरनालेन पेषयेत्॥
दद्रुकिटिभकुष्ठानि हन्ति सिध्मानमेव च॥९॥

सुगमम्॥९॥

स्थौणेयरुङ्निशादूर्वासप्ततालाः प्रलेपतः655
घत्तूररसपिष्टास्तु कण्डूकच्छ्वादिनाशनाः॥१०॥

स्थौणेयं ग्रन्थिपूर्णम्। रुक् कुष्ठम्। सप्तताला तालमूली। सप्ततालास्थाने सप्तवारानिति पाठान्तरम्॥१०॥

कासमर्दकमूलं तु सौवीरेण च पेषितम्॥
दद्रुकिटिभकुष्ठानि जयेदेतत्मलेपनात्॥११॥

सौवीरेणेति। सौवीरं निस्तुषयवकृतं संधानं तदभावे काञ्जिकम्॥११॥

बीजानि वा मूलकसर्षपाणां लाक्षारजन्यौ प्रपुनाटबीजम्॥
श्रीवेष्टकव्योपविडङ्गकुष्ठं पिष्ट्वातु मूत्रेण विलेपनं स्यात्॥

दद्रूणि सिध्मं किटिभं च पामां कपालकुष्ठं विषमं च हन्यात्॥१२॥

सुगमम्॥१२॥

विडङ्गैडगजाकुष्ठनिशासिन्धूत्थसर्षपैः॥
धान्याम्लपिष्टैर्लेपोऽयं दद्रुकुष्टविनाशनः॥१३॥

सुगमम्॥१३॥

दूर्वाभयासैन्धवचक्रमर्दकुठेरकाः काञ्जिकतक्रपिष्टाः॥
त्रिभिः प्रलेपैरपि बद्धमूलां दद्रुंच कण्डूं च विनाशयन्ति॥१४॥

चक्रमर्द एडगजः। कुठेरकः पर्णासः। त्रिभिः प्रलेपैरित्यनेन शीघ्रं प्रशमकारितांदर्शयति न तु नियमोऽयम्॥१४॥

तुल्यो रसः शालतरोस्तुषेण सचक्रमर्दोऽप्यभयाविमिश्रः॥
पानीयभक्तेन तदम्बुपिष्टो लेपः कृतो दद्रुगजेन्द्रसिंहः॥१५॥

रसः शालतरोरिति। धूणकम्। तुषेणेति। धान्यत्वचः। सालतरुरसादीनां पानीयभक्कान्तानां समो भागः। तदम्बुपिष्ट इति। पानीयभक्ताम्बुपिष्टः॥१५॥

यद्वरेन्द्रीसमुद्भूतं तृणाख्यं च महौषधम्656
घर्षणाद्भक्षणात्तस्य कुष्ठं657 क्षिप्रं प्रशाम्यति॥१६॥

सुगमम्॥१६॥

शिखरिरसेन सुपिष्टंमूलकबीजं प्रलेपतः सिध्मम्॥
क्षारेण कदल्या वा रजनीमिश्रेण नाशयति॥१७॥

शिखारिरसनेति। अपामार्गक्षारोदकेन तद्रसेन वा। **क्षारेण कदल्या वेति।**क्षारेण क्षारोदकेन पेषणं प्रति विकल्पेनास्य प्रणयनात्॥१७॥

गन्धपाषाणमिश्रेण यवक्षारेण लेपितम्॥
सिध्म नाशमुपैत्याशु कटुतैलयुतेन तु॥१८॥

गन्धपाषाणमिश्रेणेति। गन्धपाषाणो गन्धकः॥१८॥

कासमर्दकबीजानि मूलकानां तथैव च॥
गन्धपाषाणमिश्राणि सिमानां परमौषधम्॥१९॥

सुगमम्॥१९॥

धात्रीरसः सर्जरसः सपाक्यः सौवीरपिष्टश्च तदासुतश्च॥
भवन्ति सिध्मानि यथा न भूयस्तथेदमुद्वर्तनकं करोति॥२०॥

धात्रीरस इति। आमलकीक्वाथः। रसो रसाञ्जनमित्यन्ये। संप्रदायस्तु नैतादृशः।सर्जरसो धूणकम्। सपाक्य इति। पाक्यो यवक्षारो विडलवणं वा। यवक्षारेण प्रचारः। तदासुत इति। सौवीरेण संधितः। संधानं च दिनत्रयम्। पूतीकृतं दिवसन्नयमेतदितिप्रयोगान्तरदर्शनात्॥२०॥

पत्रकोषणकासीसतैलताप्यमनःशिलाः॥
सप्ताहमुषिताः कांस्ये सिध्मश्वित्रविनाशनाः॥२१॥

साप्यंसुवर्णमाक्षिकं रसाञ्जनं वा॥२१॥

धात्र्यक्षपथ्याक्रिमिशत्रुवह्निभल्लातकावल्गुजलोहभृङ्गैः॥
भागाभिवृद्धैस्तिलतैलमिश्रैः सर्वाणि कुष्ठानि निहन्ति लेहः॥२२॥

लोहं लोहचूर्णम्। भृङ्गं गुडत्वक्। लेह इत्यस्य स्थाने लेप इति पाठो न युक्तोवैद्यमसारके भक्षचूर्णप्रस्तावेऽस्य पाठात्॥२२॥

शशाङ्कलेखा सविडङ्गकुष्टा658सपिप्पलीका सहुताशमूला॥
सायोमला सामलका सप्तैला सर्वाणि कुष्ठानि निहृन्ति लीढा॥२३॥

शशाङ्कलेखेति। अवल्गुनः। सहुताशपूलेति। हुताशचित्रकः॥२३॥

आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे॥
श्न्याह्वःसुराह्वः खदिरो धवश्च निम्बो विडङ्गं करवीरकं च॥२४॥

ग्रन्थिश्चभौर्जो लशुनः शिरीषः सालोमशो गुग्गुलुकृष्णगन्धे॥
फणिज्जको वत्सकसप्तपर्णौपीलूनि कुष्ठं सुमनःप्रवालाः॥२५॥

वचा हरेणुस्त्रिता निकुम्भा भल्लातको गैरिकमञ्जनं च॥
मनःशिलाले गृहधूम एला कासीसलोध्रार्जुनमुस्तसर्जाः॥२६॥

इत्यर्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः॥
सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णप्रदेहा भिषजा प्रयोज्याः॥२७॥

कुष्टानि कृच्छ्राणि नवं किलासं सुरेन्द्रलुप्तं किटिभं सदद्रु॥
भगंदरार्शास्यपचीं सपामां हन्युः प्रयुक्ता न चिरान्नराणाम्॥२८॥

आरग्वधस्य पत्रं कुष्ठे बहिष्परिमार्जनरूपत्वाद्यौगिकम्। श्न्यह्वोनवनीतखोटिः।सुराह्वोदेवदारुः। ग्रन्थिश्च भौर्ज इति। भूर्जपत्रग्रन्थिः। सालोमश इति। आलोमशस्तमालपत्रमिति बाष्पचन्द्रः। धातुकासीसमिति चक्रः। सलोमश इति पाठो नयुक्तः। योगो ह्ययं चरकस्य तत्र टीकाकृता न केनाप्ययं पाठो व्याख्यातः। कृष्णगन्धःसौभाञ्जनः। सुमनःप्रवाला जातीपल्लवाः। अर्धरूपैरिति। अर्धश्लोकैः। गोपित्तपीताइति। पीतगोपित्ताः। आहिताग्न्यादित्वेनपूर्वनिपातानियमः। गोपित्तभाविता इत्यर्थः।किंवा गोपित्तभावनया पीतवर्णा गोपित्तपीताः। सिद्धाः परमिति। अत्यर्थं सिद्धफलाः। सिद्धफलत्वं चैषां दुर्जयबहुकुष्ठादिदोषाणामाशुहरणात्। **चूर्णप्रदेहा इति।**चूर्णानि प्रदेहाश्चेति वृन्दः। किं वा चूर्णरूपाणामेषां प्रदेहाः। प्रदेहार्थं चेह द्रवंकुष्ठहरतैलगोमूत्रादिकं गृह्णीते। सुरेन्द्रलुप्तमिन्द्र-लुप्तकम्। कुष्ठग्रहणेन लब्धानामपिकिटिभदद्रूपामानां पुनरभिधानं विशेषार्थम्॥२४॥२५॥२६॥२७॥२८॥

क्षारे सुदग्धे गजलिण्डजे च गजस्य मूत्रेण बहुस्रुते च॥
द्रोणप्रमाणे दशभागयुक्तं दत्त्वा पचेद्ब्रीजमवल्गुजस्य॥२९॥

एतद्यदा चिक्कणतामुपैति तदा सुसिद्धां गुटिकां प्रकुर्यात्॥
श्वित्रं प्रलिम्पेदथ तेन घृष्टं तदा व्रजेदाशु सवर्णभावम्॥३०॥

गजलिण्डं गजपुरीषम्। जलगण्डजे चेति पाठाज्जलगण्डः समठः। जलगण्डोजलपिप्पलीत्यपरे। जलगण्डीरक इत्यन्ये। क्षारस्य द्रोणमेकम्। तच्च पलस्य(लानि)२५६अस्य पाकार्थं द्रवद्विगुणितं मूत्रद्रोणत्रयम्। तच्च द्विगुणगणनया षड्द्रोणानि स्युः।तैश्च मूत्रशरावाः १८२ तृतीयभागावशिष्टं द्रवद्विगुणद्रोणमेकं ग्राह्यम्। तच्च शरावाः६४ गजस्य मूत्रेणेत्यतः परं पक्वइति शेषः। बहुस्रुत इत्येकविंशतिवारान्। दशभागयुक्तमिति। क्षारतो दशभागेन युक्तंम्। तेनावल्गुजबजिस्य पलानि २५ कर्षौ२रतयः ४ यदा चिक्कणतामुपैति वर्तितं सदिति शेषः॥२९॥३०॥

वायस्येडगजाकुष्ठकृष्णाभिर्गुटिका कृता॥
बस्तमूत्रेण संपिष्टा मलेपाच्छ्वित्रनाशनी॥३१॥

वायसीति काकमाची॥३१॥

पूतीकार्कस्नुङ्नरेन्द्रद्रु659माणां मूत्रैःपिष्टाः पद्धवाः सौमनाश्च॥
लेपाच्छ्वित्रं घ्नन्तिदद्रुव्रणांश्च कुष्ठान्येर्शोदुष्टनाडी660व्रणांश्च॥३२॥

पूतीकश्चिरबिल्वः। नरेन्द्रद्रुमः सुवर्णालुः। राजवृक्षद्रुमोत्थानिति पाठे द्रुमः कुटजः।पाठस्त्वेष सुश्रुते बहुपुस्तकेषु नास्ति। छन्दोभङ्गश्च। पल्लवाः पात्राण्यपेक्षितानि।सुमना जाती तदुद्भवाः सौमनाः। एभिर्व्यस्तसमस्तैर्लेपः॥३२॥

कुडवोऽवलगुजबीजाद्धारितालचतुर्थभागसंमिश्रः॥
मूत्रेण गवां पिष्टः सवर्णकरणः परः श्वित्रे॥३३॥

सुगमम्॥३३॥

धात्रीखदिरयोः क्वाथं पीत्वाऽवल्गुजसंयुतम्॥
शङ्खेन्दुधवलं श्वित्रं तूर्णं हन्ति न संशयः॥३४॥

सुगमम्॥३४॥

चक्रङ्कबी661जं स्नुक्क्षीरभावितं मूत्रसंयुतम्॥
रवितप्तं सकिण्वं च लेपनं किटिभापहम्॥३५॥

चक्राङ्क एडगजः। चक्राङ्कबीजं किण्वं च चूर्णीकृत्य स्नुहीक्षीरे सप्तधा भाव्यं ततोमूत्रलौहित्यमातप्तं प्रलेपनम्॥३९॥

उन्मत्तकस्य बीजेन माणकक्षारवारिणा॥
कटुतैलं विपक्तव्यं शीघ्रं हन्याद्विपादिकाम्॥३६॥

उन्मत्तकस्येति। धत्तूरकस्य॥३६॥

नालिकेरोदरे न्यस्तस्तण्डुलः पूतितां गतः॥
लेपाद्विपादिकां हन्ति चिरकालानुबन्धिनीम्॥३७॥

नालिकेरोदर इति। सतोय एव। विपादिकामिति। पादस्फुटनम्॥२७॥

आवल्गुजं कासमर्दं चक्रमर्दं निशायुतम्॥३८॥

माणिमन्थेन तुल्यांश मधुकाञ्जिकपेषितम्॥
कच्छूंकण्डूंजयत्युग्रां सिद्ध एष प्रयोगराट्॥३९॥

अवल्गुजादीनां त्रयाणां बीजम्॥३८॥३९॥

कोमलसिंहास्यदलं सनिशं सुरभीजलेन संपिष्टम्॥
दिवसत्रयेण नियतं क्षपयति कच्छूंविलेपनतः॥४०॥

कोमलसिंहास्यदलमिति। सिंहास्यो वासा। सुरभीजलेन गोमूत्रेण॥४०॥

हरिद्राकल्कसंयुक्तं गोमूत्रस्य पलद्वयम्॥
पिबेन्नरःकामचारी कच्छूपामाविनाशनम्॥४१॥

हरिद्राकल्कसंयुक्तमिति। गोमूत्रपलद्वये हरिद्राकल्कस्य कर्षप्रक्षेपः शास्त्रयुक्त्या।तदुक्तम्—मात्रा क्षौद्रघृतादीनां स्नेहक्वाथेषु चूर्णवदिति। स्नेहक्वाथग्रहणं चात्रोपलक्षणम्। प्रचारात्तु तस्य त्रिचतुरमाषकमानस्य प्रक्षेपः॥४१॥

शोथपाण्ड्वामयहरी गुल्ममेहकफापहा॥
कच्छूपामाहरी चैव पथ्या गोमूत्रसाधिता॥४२॥

गोमूत्रसाधितेति। गोमूत्रोत्स्विन्ना॥४२॥

पिबति सकटुतैलं गन्धपाषाणचूर्णं
रविकिरणसुतप्तं पामनो यः पलार्धम्॥
त्रिदिनतदनुषिक्तः क्षीरभोजी च शीघ्रं
भवति कनकदीप्त्या662 कामयुक्तो मनुष्यः॥४३॥

पलार्धमिति। उत्तमबलानलं प्रति प्रात्यहिकी मात्रा। किंच पलार्धं दिनत्रयंविभज्योपयोज्यम्। व्यवहारः पुनः प्रत्यहं माषचतुष्टयेन कटुतैलं तस्योचितं देयम्।त्रिदिनं तदनुषिक्तस्त्रिदिनतदनुषिक्तः। तदनुषिक्तः। तेन सतैलगन्धकचूर्णेनाभ्याक्तगात्रः। किंचत्रिदिनं सतैलं गन्धकचूर्णं पिबेत्। छन्दोनुरोधादनुस्वारलोपः। क्षीरासहत्वे त्वन्नमण्डेनभोजनम्। वातातपादिपरिहारेण चास्य विधानम्॥४३॥

निशासुधारग्वधकाकमाची
पत्रैः सदार्वीप्रपुनाटबीजैः॥
सौवीरपिष्टैः663 कटुतैलमिश्रैः
पामादिषूद्वर्तनमेतदिष्टम्॥४४॥

सुधा स्नुहा। स्नुहारग्वधयोरपि पत्रम्। सुधायाः काण्डो वा॥४४॥

मांसीचन्दनशम्याककरञ्जारिष्टसर्षपम्॥
शठीकुटजदार्व्यब्दं हन्ति कण्डूमयं गणः॥४५॥

शम्याकःसुवर्णालः। तस्य पत्रम्। करञ्जस्य कुटजस्य च फलम्। अरिष्टस्थाने कुष्ठमिति पाठान्तरम्। गणोऽयं यथालाभं लेपोद्वर्तने योज्यः॥४५॥

घर्मसेवी कदुष्णेन वारिणा बाकुचीं पिबेत्॥
क्षीरभोजी त्रिसप्ताहात्कुष्ठरोगात्प्रमुच्यते॥४६॥

धर्मसेवीति। आतपसेवी। बाकुचीमवल्गुजबीजम्। अस्य माषकचतुष्टयमुष्णाम्बुना पेयम्॥४६॥

एडगजातिलसर्षपकुष्ठं मागधिकालवणद्वयमस्तुतिकृतम्॥
दिवसत्रयमेतद्धन्ति सदद्रुविचर्चिककुष्टुम्
<MISSING_FIG href=”../../../books_images/U-IMG-1706272937image13.jpg”/>॥४७॥

एडगजादीनां मस्तुना पेषणं संधानं च॥४७॥

भल्लातकद्वीपिसुधार्कमूलगुञ्जाफलत्रयुषणशङ्खचूर्णम्॥
तुत्थं सकुष्ठं लवणानि पञ्च क्षारद्वयं लाङ्गलिकां च पक्त्वा॥४८॥

स्नुह्यर्कदुग्धे धनमायसस्थं शलाकया तद्विदधीत लेपम्॥
कुष्ठे किलासे तिलकालकेषु अशेषदुर्नामसु चर्मकीले॥१९॥

द्वीपी चित्रकः। पक्त्वेति। वडवडायित्वा। स्नुह्यर्कक्षीरमिह पाकानुरूपं चतुर्गुणंवा देयम्। आयसस्थमिति। लोहपात्रस्थम्॥४८॥४९॥

विषवरुणहरिद्राचित्रकागारधूम-
मनलमरिचदूर्वाः क्षीरमर्कहीभ्याम्॥
दहति पतितमात्रात्कुष्ठजातीरशेषाः
कुलिशमिवसरोषाच्छक्रहस्ताद्विमुक्तम्॥५०॥

विषं मारकद्रव्यम्। अनलो भल्लातकं ज्योतिष्मती वा। इदमप्यर्कस्नुहाक्षीरेणलोहपात्रे वडवडायि-तव्यमित्याहुः॥५०॥

त्रिफलापटोलरजनीमञ्जिष्टारोहिणीवचानिम्बैः॥
एष कषायोऽभ्यस्तो निहन्ति कफपित्तजं कुष्टम्॥५१॥

सुगमम्। नवककषायः॥११॥

छिन्नायाः स्वरसं वाऽपि सेवमानो यथाबलम्॥

जीर्णे घृतेन भुञ्जीत स्वल्पयूषोदकेन तु॥
अतिपूतिशरीरोऽपि दिव्यमूर्तिर्भवेन्नरः॥५२॥

सुगमम्॥५२॥

पटोलखदिरारिष्टत्रिफलाकृष्णवेत्रकम्॥
तिक्ताशनः पिबेत्क्वाथं कुष्ठं कुष्ठी व्यपोहति॥५३॥

कृष्णवेत्रकमिति कालवेत इति ख्यातम्। तिक्ताशनस्तिक्तरसभोजी॥१३॥

तिलाज्यत्रिफलाक्षौद्रव्योषल्लातशर्कराः॥
वृष्यः सप्तसमो मेध्यः कुष्ठाहा कामचारिणः॥५४॥

त्रिफला मिलिता तिलाद्येकभागसमा। एवं व्योषमपि। अतः सप्तसमो योगः॥५४॥
___________________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1706272937image13.jpg"/>ख. पुस्तके—विभीतकप्रयोगो वा जात्यारससमाक्षिकः प्रवरः। सप्तदशकुष्ठं वातीमाक्षिकधांतोश्च मूत्रेण॥१॥इत्यधिकमत्र।
____________________________________________________

विडङ्गत्रिफलाकृष्णाचूर्णलीढं समाक्षिकम्॥
हन्ति कुष्ठकृमीन्मेहान्नाडीव्रणभगंदरान्॥५५॥

सुगमम्॥५५॥

इन्द्राशनं समादाय प्रशस्तेऽहनि चोद्धृतम्॥५६॥

तच्चूर्णं मधुसर्पिर्भ्यांलिहेत्क्षीरघृताशनः॥
हत्वा च सर्वकुष्ठानि जीवेद्वर्षशतत्रयम्॥५७॥

इन्द्राशनं स्वनामख्यातं तस्य चूर्णं त्रिचतुर्माषकमानं ग्राह्यम्॥५६॥५७॥

यः खादेदभयारिष्टमरिष्टामलकानि च॥
स जयेत्सर्वकुष्ठानि मासादूर्ध्वं न संशयः॥५८॥

** अभयारिष्टमिति।** हरीतकीनिम्बकल्कम्॥५८॥

दह्यमानाच्च्युतः कुम्भे मूलगे खदिराद्रसः॥
साज्यधात्रीरसक्षौद्रो हन्यात्कुष्ठं रसायनम्॥५९॥

** साज्यधात्रीरसक्षौद्र इति ।** खदिररसेन समो धात्रीरसः। अक्षाज्यक्षौद्रे प्रक्षेपन्यायात्॥५९॥

पञ्चनिम्बचूर्णमाह—

पुष्पकाले तु पुष्पाणि फलकाल फलानि च॥
संगृह्य664 पिचुमन्दस्य त्वङ्भूलानिदलानि च॥६०॥

द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत्॥
त्रिफला त्र्यूषणं ब्राह्मी श्वदंष्ट्ररुष्कराग्निकाः॥६१॥

विडङ्गासारवाराहीलोहचूर्णामृताः समाः॥
निशाद्वयावल्गुजकव्याधिघाताः सशर्कराः॥६२॥

कुष्ठेन्द्रयवपाठाश्च कृत्वा चूर्णं सुसंयुतम्॥
खदिरासननिम्बानां घनक्वाथेन भावयेत्॥६३॥

सप्तधा पञ्चनिम्बं तु मार्कवस्वरसेन तु॥
स्निग्धशुद्धतनुर्धीमान्योजयेच्च शुभे दिने॥६४॥

मधुना तिक्तहविषा खदिरासनवारिणा॥

लेह्यमुष्णाम्बुना वाऽपि कोलवृद्ध्या पलं पिबेत्665
जीर्णे तु भोजनं कार्यं स्निग्धं लघु हितं च यत्॥६५॥

विचर्चिकोदुम्बरपुण्डरीककपालदद्रूकिटिभालसादि॥

शतारुविस्फोटविसर्पमालाः कफप्रकोपं त्रिविधं किलासम्॥
भगंदर श्लीपदवातरक्तं जहाति नाडीव्रणशीर्षरोगान्॥६६॥

सर्वप्रमेहान्मदरांश्च सर्वान्दंष्ट्राविषं मूलविषं निहन्ति॥
स्थूलोदरः सिंहकृशोदरश्च सुश्लिष्टसंधिर्मधुनोपयोगात्॥६७॥

समोपयोगादपि ये दशन्ति सर्पादयो यान्ति विनाशमाशु॥
जीवेच्चिरं व्याधिजराविमुक्तः शुभे रतश्चन्द्रसमानकान्तिः॥६८॥

द्विरंशानि प्रत्येकं द्विभागानि। त्रिफलादीनां प्रत्येकमेकभागता। त्रिफलात्रूषणयोःप्रत्येकं भागः। अग्रिश्चित्रकः। वाराही वाराहीकन्दः। व्याधिघातः सुवर्णालुः। **खदिरासननिम्बानां घनक्वाथेन भावयेदिति।**प्रत्येकं खदिरादीनामष्टभागशिष्टेन क्वाथेनभावना। असनः पीतशालः। स्वनामख्यात इत्यन्ये। पञ्चनिम्वमिति। पञ्चनिम्बोपलक्षितं चूर्णम्। तेन सर्वमेव चूर्णं शर्करां विना भाव्यं पश्चाच्छर्करायोगः। एवंप्रचारः। केचिन्निम्बपञ्चचूर्णस्यैकभवनमाहुः। शुद्धतर्वमनविरेकादिना। तिक्तहविषातिक्तघृतेन। खदिरासनवारिणेति। खदिरवारिणाऽसनवारिणा वा। कोलवृद्ध्येति। कोलः कर्षार्धः समोपयोगात्। पञ्चनिम्बाद्यं चूर्णम्॥६०॥६१॥६२॥६३॥ ६४॥६५॥६६॥६७॥६८॥

चित्रकत्रिफला व्योषमजाजी कारवी वचा॥
सैन्धवातिविषाकुष्ठं चव्यैलायावशूकजम्॥६९॥

विडङ्गान्यजमोदां च मुस्तान्यमरदारू च॥
यावन्त्येतानि सर्वाणि तावन्मात्रं तु गुग्गुलुम्॥७०॥

संक्षुद्य सर्पिषा सार्धं गुटिकां कारयेद्भिषक्॥
प्रातर्भोजनकाले वा भक्षयेत्तु यथावलम्॥७१॥

हन्त्यष्टादश कुष्ठानि कृमीन्दुष्टत्रणानि च॥
ग्रहण्यर्शोविकारांश्च मुखामयगलग्रहान्॥७२॥

गृध्रसीमस्थिभग्नंच गुल्मं चापि नियच्छति॥
व्याधीन्कोष्ठतांश्चान्याञ्जयेद्वष्णुरिवासुरान्॥७३॥

सुगमम्। एकविंशतिको गुग्गुलुः॥६९॥७०॥७१॥७२॥७३॥

प्रलेपोद्वर्तनस्नानपानभोजनकर्मणा॥
शीलितं666 खादिरं वारि सर्वत्वग्दोषनाशनम्॥७४॥

खादिरं वारीति। खदिरं दग्ध्वा गृहीतं वारि क्वाथो वा॥७४॥
____________________________________________________

१ ङ. °र्मणि। शी°
____________________________________________________

संप्रति घृतान्याह—

निम्बं पटोलं दार्वीं दुरालभां तिक्तरोहिणीं त्रिफलाम्॥
कुर्यादर्धपलांशान्पर्पटकं त्रायमाणां च॥७५॥

सलिलाढकसिद्धानां रसेष्टभागस्थिते क्षिपेत्पुते॥
चन्दनकिराततिक्तकमागधिकास्त्रायमाणां च॥७६॥

मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान्भागान्॥
नवसर्पिषश्च षट्पलमेतत्सिद्धं घृतं पेयम्॥७७॥

कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयश्वयथुहन्तृ॥
पामाविसर्पपिटिकाकण्डूमदगण्डनुत्सिद्धम्॥७८॥

नवसर्पिषश्च षट्पलमिति। नूतनघृतस्य षट्पलानि। नवत्वमिह सर्पिश्चाप्यनवंहितमिति वचनस्य योगमहिम्ना बाधकम्। अनेन षट्पलाभिधानेन कुष्ठे ज्येष्ठा षट्पलीस्नेहमात्रैकाहोपयोज्या दर्शितेत्याहुः केचित्। द्वितीयमिह सिद्धमिति पदं सिद्धफलतांब्रूते। तिक्तषट्पलकं घृतम्॥७५॥७६॥७७॥७८॥

पश्चतिक्तकघृतमाह—

निम्बं पटोलं व्याघ्रीं च गुडूचीं वासकं तथा॥
कुर्याद्दशपलान्भागानेकैकस्य सुकुट्टितान्॥७९॥

जलद्रोणे विपक्तव्यं यावत्पादावशेषितम्॥
घृतप्रस्थं पचेत्तेन त्रिफलागर्भसंयुतम्॥८०॥

पञ्चतिक्तमिदं ख्यातं667 सार्पिःकुष्टविनाशनम्॥
अशीतिं वातजान्रोगांश्चत्वारिंशच्च पैत्तिकान्॥८१॥

विंशतिं श्लैष्मिकांश्चैव पानादेवापकर्षति॥
दुष्टतव्रणकृमीनर्शः पञ्च कासांथ नाशयेत्॥८२॥

चत्वारिंशच्च पैत्तिकानिति। चत्वारिंशच्च ये रोगास्ताहन्ति। कांस्तानित्याकाङ्क्षायामुक्तं पैत्तिकानिति। एवं भेदयित्वा योजना कार्या। अन्यथा चत्वारिंशतमिति द्वितीयया प्रयोगः स्याच्चत्वारिंशच्छब्दस्य स्त्रोलिङ्गत्वात्। पञ्चतिक्तकघृतम्॥७९॥८०॥८१॥८२॥

तिक्तकघृतमाह—

त्रिफलाद्विनिशांवत्सया668सपर्पटकुलकान्॥
त्रायन्तीकटुकानिम्बान्प्रत्येकं द्विपलोन्मितान्॥८३॥

क्वाथयित्वा जलद्रोणे पादशेषेण तेन तु॥
घृतप्रस्थं पचेद्व्यक्षैःपिप्पलीघनचन्दनैः॥८४॥

त्रायन्तीशक्रभूनिम्बैस्तत्पीतं तिक्तकं घृतम्॥

हन्ति कुष्ठज्वरार्शोसि श्वयथुंग्रहणीगदम्॥
पाण्डुरोगं विसर्पं च क्लीबानामपि शस्यते॥८५॥

कुलकं पटोलपत्रम्। शक्रः कुटजस्तस्य फलम्। तिक्तकं घृतम्॥८३॥८४॥८५॥

महातितकघृतमाह—

सप्तच्छदं प्रतिविषां शम्याकं तिक्तरोहिणीं पाठाम्॥८६॥

मुस्तमुशीरं त्रिफलां पटोलपिचुमन्दपर्पटकम्॥
धन्वयवासं चन्दनमुपकुल्ये पद्मकं रजन्यौ च॥८७॥

षड्ग्रन्थां सविशालां शतावरीं सारिवे चोभे॥
बत्सकबीजं वासां मूर्वाममृतांकिराततिक्तं च॥८८॥

कल्कान्कुर्यान्मतिमान्यष्ट्याह्वंत्रायमाणां च॥
कल्कस्तु चतुर्भागो जलमष्टगुणं रसोऽमृतफलानाम्॥८९॥

द्विगुणो घृतात्प्रदेयस्तत्सर्पिः पाययेत्सिद्धम्॥
कुष्ठानि रक्तपितं प्रबलान्यर्शांसि रक्तवाहीनि॥९०॥

विसर्पमम्लपित्तं वातासृक्पाण्डुरोगं च॥
विस्फोटकान्सपामानुन्मादं कामलां ज्वरं कण्डूम्॥९१॥

हृद्रोगगुल्मपिटकानसृग्दरं गण्डमालां च॥

हन्यादेतत्सद्यः पीतं काले यथाबलं सर्पिः॥
योगशतैरप्यजितान्महाविकारान्महातिक्तम्॥९२॥

प्रतिविषाऽतिविषा। उपकुल्ये इति। पिप्पली हस्तिपिप्पली। षड्ग्रन्था वचा।रसोऽमृतफलानामिति। अमृतफलमामलकम्। तथाच पाठान्तरे तेजील(जले त्व)ष्टपले सर्पिर्द्विगुणामलकीरस इति। इह तृतीयसर्पिः पदं महातिक्तत्वसंज्ञार्थम्। महातिक्तकं घृतम्॥८६॥८७॥८८॥८९॥९०॥९१॥९२॥

खदिरस्य तुलाः पञ्च शिंशपासनयोस्तुले॥
तुलार्धाःसर्व एवैते करञ्जारिष्टवेतसाः॥९३॥

पर्पटःकुटजश्चैव वृषः कृमिहरस्तथा॥
हरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत्॥१४॥

सप्तपर्णश्च संकुट्य669दशद्रोणेन वारिणा॥
अष्टभागावशेषं तु कषायमवतारयेत्॥९५॥

धात्रीरसं च तुल्यांशं सर्पिषश्चाऽऽढकं पचेत्॥
महातिक्तककल्कैश्च यथोक्तैःपलसंमितैः॥९६॥

निहन्ति सर्वकुष्ठानि पानाभ्यङ्गनिषेवणात्॥
महाखादिरमित्येतत्परं कुष्ठविकारजित्670॥९७॥

शिंशपासनयोस्तुले इति। शिंशपा शिसवीति ख्याता। असनः स्वनामख्यातोन तु पीतशाल इत्याहुः। तुलार्धा इति प्रत्येकम्। तुल्यांशमित्याढकं मानम्। महाखादिरं घृतम्॥९३॥९४॥९५॥९६॥९७॥

गुग्गुलुपञ्चतिक्तकघृतमाह—

निम्बामृतावृषपटोलनिदिग्धिकानां
भागान्पृथग्दशपलान्विपचेद्धटेऽपाम्॥
अष्टांशशेषितरसेन सुनिस्रुतेन
प्रस्थं घृतस्य विपचेत्पिचुभागकल्कैः॥९८॥

पाठाविडङ्गसुरदारुगजोपकुल्या–
द्विक्षारनागरनिशामिशिचव्यकुष्ठैः॥
तेजोवतीपरिचवत्सकदीप्यकाग्नि
रोहिण्यरुष्करवचाकणमूलयुक्तैः॥९९॥

मञ्जिष्ठियाऽतिविषया वरया यवान्या
संशुद्धगुग्गुलुपलैरपि पञ्चसंख्यैः॥
तत्सेवितं विधमति प्रबलं समीरं
संध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक्॥१००॥

नाडीव्रणार्बुदभगंदरगण्डमाला–
जञूर्ध्वसर्वगदगुल्मगुदोत्थमेहान्॥
यक्ष्मारुचिश्वसनपीनसकासशोफ-
हृत्पाण्डुरोगगलविद्रधिवातरक्तम्॥१०१॥

घटेऽपामिति। जलद्रोणे। पिचुभागकल्कैरिति। प्रत्येकम्। पिचुः कर्षः।मिशिः शतपुष्पा न तु मधुरिका संप्रदायात्। तेजोवती ज्योतिष्मती। दीप्यकं जीरकम्। वत्सकं कुटजफलम्। अग्निश्चित्रकः। रोहिणी कटुरोहिणी। कणामूलं पिप्पलीमूलम्। वरा त्रिफला। गुग्गुलुपञ्चतितकं घृतम्॥९८॥९९॥१००॥१०१॥

वज्रकधृतमाह—

वासागुडूचीत्रिफलापटोलकरञ्जनीम्बासनकृष्णवेत्रम्॥
तत्क्वाथकल्केन घृतं विपक्वंतद्वज्रकं कुष्ठहरं प्रदिष्टम्॥१०२॥

विशीर्णकर्णाङ्गुलिहस्तपादः कृम्यर्दितो भिन्नगलोऽपि मर्त्यः॥
पौराणिकीं कान्तिमवाप्य जीवेदव्याहतं वर्षशतं च कुष्ठी॥१०३॥

असनः पीतशालः। कृष्णवेत्रं स्वनामख्यातम्। भिन्नगलोऽपीति। निरुद्धकण्ठोऽपि। वज्रकं घृतम्॥१०२॥१०३॥

मञ्जिष्ठारुग्निशाचक्रमर्दारग्वधपल्लवैः॥
तृणकस्वरसे सिद्धं तैलं कुष्ठहरं कटु॥१०४॥

सुगमम्॥१०४॥

तृणतैलम्—

चतुर्गुणे तृणरसे कटुतैलं विपाचयेत्॥
हरिद्राकुष्ठमञ्जिष्ठाशम्याकसर्षपायुतैः॥१०५॥

कासमर्दारिष्टपत्रैश्चक्रमर्दैःसमैर्भिषक्॥
अष्टादशानां कुष्ठानां तैलमेतद्विनाशनम्॥१०६॥

सुगमम्। महातृणतैलम्॥१०५॥१०६॥

वज्रकतैलमाह—

सप्तपर्णकरञ्जार्कमालतीकरवीरजम्671॥१०७॥

मूलं स्नुहाशिरीषाभ्यां चित्रकास्फोतयोरपि॥
विषलाङ्गलवज्राख्यकासीसालं मनःशिलाम्॥१०८॥

करञ्जवीजं त्रिकटु त्रिफलां रजनीद्वयम्॥
सिद्धार्थकं विडङ्गं च प्रपुन्नाटं च संहरेत्॥१०९॥

मूत्रपिष्टैः पचेत्तैलमेभिः कुष्टविनाशनम्॥
अभ्यङ्गाद्वज्रकं नाम नाडीदुष्टव्रणापहम्॥११०॥

मालती जाती।स्नुहा सेहुण्डः। चित्रकास्फोतयोरिति। अस्फोता अप्युरमल्लिका। सारिवा इति डल्लणः। वैद्यप्रसारके तु श्वेतार्कमूलमिति विवृतम्। विषं प्रसिद्धम्। लाङ्गलशब्देन कलिकारिकोच्यते। वज्राख्यो द्वितीयः स्नुहा सेहुण्डः। अलं हरितालम्। शेषं प्रसिद्धम्। स्नेहचतुर्थांशो भेषजकल्कः। स्नेहाच्चतुर्गुणो द्रवः। अनेन न्यायेन पक्तव्यमिति। मूत्रपिष्टैः पचेत्तैलमिति। पाको मूत्रेण। केचिदिह कुष्ठविनाशनमिति पदंतैलविशेषणं वर्णयित्वा कुष्ठहरकरञ्जसर्षपादितैलमेव पक्तव्यं न तु तिलतैलमित्याहुः।एतस्मान्न्यायादन्यत्रापि कुष्ठहरमेव तैलं विशेषानिर्देशे पक्तव्यमित्याहुः। वृद्धवैद्यैरनाहृतः पन्थाः। ते हि सामान्यश्रुतौ तिलतैलमेव पचन्ति। यत्तु(त्र) विशेषस्तत्र विशिष्टंकटुतैलादिकमिति। वज्रकं तैलम्॥१०७॥१०८॥१०९॥११०॥

मरिचाद्यं तैलमाह—

मरिचालशिलाहार्कपयोश्चारिजटात्रिदृत्॥
शकृद्रसविशालारुङ्निशायुग्दारुचन्दनैः॥१११॥

कटुतैलं पचेत्प्रस्थं द्व्यक्षैर्विषपलान्वितैः॥

सगोमूत्रं तदभ्यङ्गाद्दद्रुश्वित्रविनाशनम्॥
सर्वेष्वपि च कुष्ठेषु तैलमेतत्प्रशस्यते॥११२॥

अलं हरितालम्। शिला मनःशिला। अर्कपयोऽर्कक्षीरम्। अश्वारिजटा करवीरमूलम्। जटामांसीत्यन्ये। मूलेन प्रचारः। शकृद्रसो गोमयरसः। अयमपि कल्कः।विशाला गोरक्षकर्कटो। रुक्कुष्ठम्। सगोमूत्रमिति। पाकार्थंगोमूत्रं चतुर्गुणम्। मरिचाद्यं तैलम्॥१११॥११२॥

बृहन्मरिचाद्यं तैलमाह—

मरिचं त्रिवृता दन्ती क्षीरमार्कं शकुद्रसः॥११३॥

देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम्॥
विशाला करवीरं च हरितालं मनःशिला॥११४॥

चित्रकोलाङ्गलाख्यां च चक्रमर्दकम्॥
शिरीषः कुटजो निम्बः सप्तपर्णः स्नुहाऽमृता॥११५॥

शम्याको नक्तमालाब्दखदिरं पिप्पली वचा॥
ज्योतिष्मती च पलिका विषस्य द्विपलं भवेत्॥११६॥

आढकं कटुतैलस्य गोमूत्रं तु चतुर्गुणम्॥
मृत्पात्रे लोहपात्रे वा शनैर्मृद्वग्निना पचेत्॥११७॥

पक्त्वा तैलवरं ह्येतन्म्रक्षयेत्कौष्ठिकान्व्रणान्॥
पामाविचर्चिकादद्रुकण्डूविस्फोटकानि च॥११८॥

वलयःपलितं छाया नीली व्यङ्गं तथैव च॥
अभ्यङ्गेन प्रणश्यन्ति सौकुमार्यं च जायते॥११९॥

प्रथमे वयसि स्त्रीणां नस्यं यासां तु दीयते॥
परामपि जरां प्राप्य न स्तना यान्ति नम्रताम्॥१२०॥

बलीवर्दस्तुरङ्गो वा गजो वा वायुपीडितः॥
त्रिभिरभ्यञ्जनैर्बाढं भवेन्मारुतविक्रमः॥१२१॥

शकृद्रसो गव्यः। कुटजस्य फलम्। बृहन्मरिचाद्यं तैलम्॥११३॥११४॥११५॥११६॥११७॥११८॥११९॥१२०॥१२१॥

विषतैलमाह—

नक्तमालं हरिद्रे द्वे अर्कस्तगरमेव च॥
करवीरं वचा कुष्ठमास्फोता रक्तचन्दनम्॥१२२॥

मालती सप्तपर्णं च मञ्जिष्ठा सिन्दुवारिका॥
एषामर्धपला भागा विषस्यापि पलं भवेत्॥१२३॥

चतुर्गुणे गवां मूत्रे तैलप्रस्थं विपाचयेत्॥
वित्रविस्फोटकिटिभकीटलूताविचर्चिकाः॥१२४॥

कण्डूकच्छूविकाराश्च ये व्रणा विषदूषिताः॥
विषतैलमिदं नाम सर्वव्रणविशोधनम्॥१२५॥

नक्तमालं करञ्जबीजम्। तगरं तगरपादिका। सिन्दुवारिका सिन्दुवार एत्र। विषतैलम्॥१२२॥१२३॥१२४॥१२५॥

श्वेतकरवीररसो गोमूत्रं चित्रको विडङ्गं च॥
कुष्ठेषु तैलयोगः सिद्धोऽयं संमतो भिषजाम्॥१२६॥

सुगमम्। करवीराद्यं तैलम्॥१२६॥

श्वेतकरवीरादितैलमाह—

श्वेतकरवीरमूलं विषांशं साधितं गवां मूत्रे॥
चर्मदलसिध्मपामास्फोटकृमिकिटिभजित्तैलम्॥१२७॥

श्वेतकरवीरमूलमिति। श्वेतकरवीरस्य मूलं यत्रेति विग्रहात्तैलविशेषणं ज्ञेयम्।एवं विषांशमित्यत्रापि विग्रह इति। विषतैले विषस्य पलाभिधानात्तदपेक्षया केचिदंशकर्षमाहुः। अन्ये पुनरंशो भागस्तेन विषकरवीरमूलयोः समभागयोरेव कल्कत्वम्।श्वेतकरवीराद्यं तैलम्॥१२७॥

सिन्दूरार्धपलं पिष्ट्वाजीरकस्य पलं तथा॥

कटुतैलं पचेदाभ्यां सद्यः पामाहरं परम्॥
वृद्धवैद्योपदेशेनपचेत्तैलं672 पलाष्टकम्॥१२८॥

सुगमम्॥सिन्दूराद्यंतैलम्॥१२८॥

वृहत्सिन्दूराद्यं तैलमाह—

सिन्दूरं चन्दनं मांसी विडङ्गं रजनीद्वयम्॥
प्रियंगुपद्मकं कुष्ठंमञ्जिष्ठाखदिरं वचा॥१२९॥

जात्यर्कत्रिवृतानिम्वकरञ्जंविषमेव च॥
कृष्णवेत्रकलोध्नंच प्रषुन्नाटं च संहरेत्॥१३०॥

श्लक्ष्णपिष्टानि सर्वाणि योजयेत्तैलमात्रया॥
अभ्यङ्गेन प्रयुञ्जीत सर्वकुष्टविनाशनम्॥१३१॥

पामाविचर्चिकाकच्छूविसर्पादिहितं मतम्॥
रक्तपित्तोत्थितान्हन्ति रोगानेवंविधान्बहून्॥१३२॥

जात्याः पत्रम्। करञ्जस्य बीजम्। तैलमात्रया प्रस्थरूपया। बृहत्सिन्दूराद्यंतैलम्॥१२९॥१३०॥१३१॥१३२॥

सिन्दूरगुग्गुलुरसाञ्जनसिक्थतुत्थैः
कल्कीकृतैश्च कटुतैलमिदं विपक्वम्॥
कण्डूं स्रवत्पिटकिकामथ वा विशुष्का-
मभ्यञ्जनेन सदुद्धरति प्रसह्य॥१३३॥

सुगमम्। सिन्दूराद्यं तैलम्॥१३३॥

आदित्यपाकतैलमाह—

मञ्जिष्ठात्रिफलालाक्षानिशागन्धशिलालकैः॥
चूर्णितैस्तैलमादित्यैपक्वं673पामाहरं परम्॥१३४॥

जलं तैलसमं चतुर्गुणं वा देयम्। आदित्यपाकतैलम्॥१३४॥

दुर्वातलमाह—

स्वरसेन हि दुर्वायाः पचेत्तैलं चतुर्गुणम्॥
कच्छूविचर्चिकापामा अभ्यङ्गादेव नाशयेत्॥१३५॥

चतुर्गुणं यथा स्यात्तथा दुर्वास्वरसेन यावत्। तेन दुर्वास्वरसेन चतुर्गुणेन पाकः। दूर्वातैलम्॥१३५॥

अर्कपत्ररसे पक्वंरजनीकल्कसंयुतम्॥
कटुतैलं674 निहन्त्येतत्कच्छूपामाविचर्चिकाः॥१३६॥

सुगमम्। अर्कतैलम्॥१३६॥

गण्डीरिकाद्यं तैलमाह—

गण्डीरिकाचित्रकमार्कवार्ककुष्ठद्रुमत्वग्लवणैः समूत्रैः॥
तैलं पचेन्मण्डलदद्रुकुष्ठदुष्टव्रणारुःकिटिभापहारि॥१३७॥

गण्डीरिका मञ्जिष्ठा समङ्गा वा। द्रुमत्वक्कुटजत्वक्॥१३७॥

संप्रति कुष्ठस्य दीर्घकालानुषङ्गित्वात्तत्र कालावधिपूर्वकं संशोधनविधेरभ्यासमाह—

पक्षात्पक्षाद्वामनान्यभ्युपेयान्मासान्मासात्स्रंसनं चाप्यधस्तात्॥
त्र्यहाश्यहान्नस्ततश्चावपीडान्मासेष्वसृङ्भोक्षयेत्षट्सुषट्सु॥१३८॥

ननुनस्यभेद एव चेदवपीडस्तत्किमुच्यते नस्तत इति। नैवमवपीडशब्दस्य सर्पिषोष्णेनावपीडनेऽपि वृत्तिदर्शनात्। उक्तं हि—मूत्रे प्रतिहते कुर्यात्सर्पिषश्चावपीडनमिति॥१३८॥

शालिषष्टिकगो675धूमयवमुद्गादयो हिताः॥
पुराणाः कुष्ठिने तिक्तशाकजाङ्गलसंयुताः॥१३९॥

सुगमम्॥१३९॥

इदानीं प्रतिषेधविधिमाह—

नीचरोमनखोऽश्रान्तो676 नित्यमौषधतत्परः॥
योषिन्मांससुरावर्जी कुष्ठीकुष्ठमपोहति॥१४०॥

सुगमम्॥१४०॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामेकपञ्चाशत्तमः कुष्ठाधिकारः समाप्तः॥५१॥
____________

अथ द्विपञ्चाशत्तमः शीतपित्ताद्यधिकारः।
____________

त्वग्दुष्टित्रिदोषजत्वसामान्यादथ शीतपित्तोदर्दकोठाधिकारः।

अभ्यज्य कटुतैलेन सेकश्चोष्णाम्बुभिस्ततः॥
तत्राऽऽशु वमनं कार्यं पटोलारिष्टवारिणा॥१॥

________________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1706257831image13.jpg"/> ख. पुस्तके—भूनिम्बनिम्बखदिरासनराजवृक्षयष्टीपटोलकटुरोहिणीकुष्ठपाठाः। वासागुडूचीघनयोजन-वल्यनन्तात्रायन्तिकाद्विरजनीत्रिफलाजगन्धाः॥१॥ कृष्णेन्द्रवृक्षसुखवारुणिसोमराजीवेल्लाग्निभङ्गमलयूसुरदारुविश्वाः॥ पत्त(त्रा)ङ्गापद्मकशतावरिसप्तपर्णैरेभिः कृतो विधिवदेष महाकषायः॥२॥ पीतोजयत्यखिलधातुगतानि कुष्ठान्येतत्प्रशाम्यति सशोणितमामवातम्। पाण्डुप्रमेहृपिटिकाकृमिशोथदुष्टना…….भगंदरव्रणार्बुदगण्डमालाः॥३॥ चिकित्सान्तं सप्त महाकषायाः। इत्यधिकमत्र।
_________________________________________________

सुगोमम्॥१॥

त्रिफलापुरकृष्णाभिर्विरोकश्चात्र शस्यते॥

** त्रिफलापुरकृष्णाभिरिति**। त्रिफलायाः कषायः। गुग्गुलुपिप्पल्यौ प्रक्षेपौ व्यवहारात्। विरेकार्थं गुग्गुलुकर्षः पिप्पलीचूर्णं द्विमाषिकम्॥

त्रिफलां क्षौद्रसहितां पिबेद्वा नवकार्षिकम्॥२॥

** नवकार्षिकमिति**। वातरक्तोक्तम्॥२॥

विसर्पोक्तामृतादिं तु भिषगत्रापि योजयेत्॥

** अमृतादिमिति**। अमृतवृषपटोलं मुस्तकमित्यादिनोक्तम्। अत्र शीतपित्तज्वरं चेतिफलश्रुतिर्न पुनरमृतवृषपटोलं निम्ब कस्कैरित्यादि॥

पिप्पलीवर्धमानं वा लशुनं वा प्रयोजयेत्॥
सितां677 मधुकसंयुक्तां गुडमामलकैः सह॥३॥

** लशुनं वेति**। कल्कीकृतम्। सितां वा मधुसंयुक्तामित्यस्य स्थाने सितां मधुकसंयुकामिति क्वचित्पाठः॥३॥

सगुडं दीप्यकं यस्तु खादेत्पथ्यान्नभुङ्नरः॥
तस्य नश्यति सप्ताहादुदर्दः सर्वदेहजः॥४॥

** दीप्यकमिति**। यवानिकाम्॥४॥

सिद्धार्थरजनीकल्कैः प्रपुन्नाटतिलैः सह॥
कटुतैलेन संमिश्रमेतदुद्वर्तनं हितम्॥५॥

सुगमम्॥५॥

दूर्वानिशायुतो लेपः कच्छूपामाविनाशनः॥
कृमिदद्रूहरश्चैव शीतपित्तहरः स्मृतः॥६॥

सुगमम्॥६॥

कुष्टोक्तं च क्रमं कुर्यादम्लपित्तघ्नमेव च॥

कुष्ठोक्तं च क्रममिति। शोधनं शमनम्॥

उदर्दोक्तां क्रियां वाऽपि कोठरोगे समासतः॥
सर्पिः पीत्वा महातिक्तं कार्यं शोणितमोक्षणम्॥७॥

सुगमम्॥७॥

निम्बस्य पत्राणि सदा घृतेन धात्रीविमिश्राण्यथ वोपयुञ्ज्यात्॥
विस्फोटकोठं क्षतशीतपित्तकण्ड्वस्रपित्तं रकसां च जह्यात्॥८॥

रकसां चेति। रकसा क्षुद्रकुष्ठभेदः॥८॥

क्षारसिन्धूत्थतैलैश्च गात्राभ्यङ्गं प्रयोजयेत्॥९॥

सुगमम्॥९॥

कुष्ठं हरिद्रे सुरसं पटोलं निम्बाश्वगन्धे सुरदारुशिग्रू॥
ससर्षपं तुम्बरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात्॥१०॥

तैस्तक्रयुक्तैःप्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत।
ततोऽस्य कण्डूपिटकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति॥११॥

सुरसपत्रं समूलम्। तुम्बरु स्वनामख्यातम्। वन्यं कैवर्तमुस्तकम्। चण्डा चोरपुप्पिका। चूर्णानीत्यत्र दूर्वा चेति पाठान्तरं न युक्तं चरकेऽस्या अपाठात्। वचित्प्रथममिति तैलाक्तमित्यनेन योज्यम्। तैलमिह सर्षपतैलं तेन प्राक्कैलेनाक्तं शरीरं तैस्तकयुक्तैस्तकालोडितैरुद्वर्तयेत्॥१०॥११॥

तैलोद्वर्तनयोगेन योज्य एलादिको गणः॥१२॥

शुष्कमूलकयूषेण कौलत्थेन रसेन वा॥
भोजनं सर्वदा कार्यं लावतित्तिरिजेन वा॥१३॥

शीतलान्यन्नपानानि बुद्ध्वा दोषगतिं भिषक्॥
उष्णानि वा यथादोषं शीतपित्ते प्रयोजयेत्॥१४॥

** तैलोद्वर्तनयोगेनेति।** तैलयोगेनोद्वर्तनयोगेन च॥१२॥१३॥१४॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां द्विपञ्चाशत्तमः
शीतपित्ताद्यधिकारः समाप्तः॥५२॥

<MISSING_FIG href="../../../books_images/U-IMG-1708184965021001-removebg-preview.png"/>
अथ त्रिपञ्चाशत्तमोऽम्लपित्ताधिकारः।

__________

अम्लपित्तेऽपि कोठसंभवात्कुर्यादम्लपित्तघ्नमेव वेत्यनेन पूर्वाध्यायेऽम्लपित्तसंकीर्तनाछाऽनन्तरमम्लपित्तम्॥

वमनानन्तरं तत्र विरेकं मृदु कारयेत्॥

सम्यग्वान्तविरिक्तस्य सुस्निग्धस्यानुवासनम्॥
आस्थापनं चिरोद्भूते देयं दोषाद्यपेक्षया॥१॥

सुगमम्॥१॥

क्रियाशुद्धस्य शमनी अनुबन्धाद्यपेक्षया॥
दोषसंसर्गजा कार्या भेषजाहारकल्पना॥२॥

सुगमम्॥२॥

ऊर्ध्वगं वमनैर्धीमानधोगं रेचनैर्हरेत्॥
तिक्तभूयिष्ठमाहारं पानं चापि प्रकल्पयेत्॥३॥

ऊर्ध्वगे बहुकफे वमनम्। अधोगे त्वम्लपित्ते सविबन्धे विरेचनम्॥३॥

यवगोधूमविकृतीस्तीक्ष्णसंस्कारवर्जिताः॥

** यवगोधूमविकृतीरिति।** यवगोधूमयोः पेयादिरूपान्विकारान्। यवगोधूमौ हि सरत्वमधुरशी तत्वादिनाऽम्लपित्ते हितौ। तीक्ष्णसंस्कारवर्जिताः कटुम्ललवणादिसंयोगरहिताः॥

यथास्वं लाजसक्तून्वा सितामधुयुतान्पिबेत्॥४॥

** यथास्वमिति।** पिबेदित्यनेन योज्यम्। तेन दोषसंसर्गापेक्षया हितेन द्रवेण पिबेदित्यर्थः॥४॥

निस्तुषयववृपधात्रीक्वाथस्त्रिसुगन्धमधुयुतः पीतः॥
अपनयति चाम्लपित्तं यदि भुङ्क्तेमुद्गुयूषेण॥५॥

** त्रिसुगन्धमधुयुत इति।** त्रिसुगन्धः(न्धं) सुगन्धितामात्रकारकं देयम्। मधु तुप्रक्षेपन्यायेन॥५॥

कफपित्तवमीकण्डूज्वरविस्फोटदाहहा॥
पाचनो दीपनः क्वाथः शृङ्गवेरपटोलयोः॥६॥

सुगमम्॥६॥

पटोलं नागरं धान्यं काथायित्वा जलं पिबेत्॥
कण्डूपामातिशूलघ्नं कफपित्तानिमान्द्यजित्॥७॥

सुगमम्॥७॥

पटोलनि678म्वामृतरोहिणीकृतं जलं पिबेत्पित्तकफोच्छ्रये वा॥
शूलभ्रमारोचकवह्निमान्द्यदाहज्वरच्छर्दिनिवारणं हि तत्॥८॥

सुगमम्॥८॥

यवकृष्णापटोलानां क्वाथंक्षौद्रयुतं पिबेत्॥
नाशयेदम्लपित्तं च अरुचिं च वमिं तथा॥९॥

सुगमम्॥९॥

वासामृतापर्पटकनिम्बभूनिम्बमार्कवैः॥
त्रिफलाकुलकैः क्वाथः सक्षौद्रश्चाम्लपित्तहा॥१०॥

सुगमम्। दशाङ्गः॥१०॥

फलत्रिकं पटोलं च तिक्तकाथः सितायुतः॥
पीतः क्लीतकमध्वक्तो ज्वरच्छर्द्यम्लपित्तंहा679॥११॥

फलत्रिकं पटोलं च तिक्कक्काथ इत्यत्रार्थसंगत्यनुरोधात्तिक्तेत्यतः परमेषामिति द्रष्टव्यम्। तेन फलत्रिकादीनि यान्येतान्येषां क्वाथ इत्यर्थः फलति। क्लीतकमध्वक्त इति। क्लीतकमधुनोरिह प्रक्षेपः॥११॥

वासादिगुग्गुलुमाह—

वासानिम्बपटोलत्रिफलासनयासयोजितो जयति॥
अधिककफमम्लपित्तं प्रयोजितो गुग्गुलुः क्रमशः॥१२॥

असनः पीतशालः। यासो दुरालभा। वासादीनां चूर्णं गुग्गुलुसममन्यतो दर्शनात्। क्रमश इत्यभ्यासात्।वासादिगुग्गुलुः॥१२॥

छिन्नाखदिरयष्ट्याहृदार्व्यम्भो वा मधुद्रवम्॥१३॥

** मधुद्रवमिति।** मधु द्रवरूपं यत्रेति विग्रहादम्भोविशेषणं ज्ञेयम्॥१३॥

सद्राक्षामभयां खादेत्सोक्षौद्रां सगुडां च ताम्॥

द्राक्षादिभिस्त्रिभिः प्रत्येकमभयेति योगत्रयम्॥

कटुकासिताऽवलेह्या पटोलविश्वं च क्षौद्रसंयुक्तम्॥
रक्तस्रुतौ च युक्त्या खण्डं कूष्माण्डकं श्रेष्ठम्॥१४॥

** पटोलविश्वं चेति।** क्वाथीकृतमित्याहुः॥१४॥

पटोलत्रिफलारिष्टशृतं मधुयुतं पिबेत्॥
पित्त श्लेष्मज्वरच्छर्दिदाहे680त्वग्दोषशान्तये॥१५॥

सुगमम्॥१५॥

सिंहास्यामृतभण्टाकीकार्य पीत्वा समाक्षिकम्॥
अम्लपित्तं जयेज्जन्तुः कासं श्वासं ज्वरं वमिम्॥१६॥

सुगमम्॥१९॥

वासाघृतं तिक्तघृतं च युक्त्या मधूत्कटां मागधिकां लिहेद्वा॥
अन्यद्यदेवं गुणवच्च सर्पिस्तदम्लपित्तं शमयत्युदीर्णम्॥१७॥

वासाघृतं रक्तपित्तोक्तम्। तितघृतं कुष्ठोक्तं महातिक्तकम्। अत्राम्लपित्तहरत्व। अन्यद्यदेवं गुणवदिति। रक्तपित्तोक्तशतावरीघृतादि॥१७॥

पञ्च निम्बायचूर्णमाह—

एकोंऽशः पञ्चनिम्बानां द्विगुणो वृद्धदारकः॥
सक्तुर्दशगुणो देयः शर्करामधुरीकृतः॥१८॥

शीतेन वारिणा पीतं शूलं पित्तकफोद्भवम्॥
निहन्ति चूर्णं सक्षौद्रमम्लपित्तं सुंदु681स्तरम्682॥१९॥

** एकोंऽशः पञ्चनिम्बानामिति।** निम्बस्य त्वलदलकुसमफलानां पञ्चानां मिलितानामेको भागः। सक्तुर्दशगुणो निम्बभागापेक्षया। मात्राऽस्य पलार्ध पलं वाऽऽहारद्रव्यसक्तुबाहुल्यात्। पञ्चनिम्बाद्यं चूर्णम्॥१८॥१९॥

पिष्ट्वाऽजाजीं सधान्याकां घृतप्रस्थं विपाचयेत्॥
कफपित्तारुचिहरं मन्दानलवमिं जयेत्॥२०॥

सुगमम्। जीरकाद्य घृतम्॥२०॥

पटोलशुण्ठीकल्काभ्यां केवलं कुलकेन वा॥
घृतप्रस्थं विपक्तव्यं कफपित्तहरं परम्॥२१॥

सुगमम्। पटोलशुण्ठीपटोलघृते॥२१॥

पिप्पलीघृतमाह—

पिप्पलीक्वाथकल्केन घृतं सिद्धं मधुप्लुतम्॥
पिबेन्ना प्रातरुत्थाय अम्लपित्तनिवृत्तये॥२२॥

** मधुप्लुतमिति।** सिद्धे घृते पादिकमधुयुक्तम्। पिप्पलीघृतम्॥२२॥

द्राक्षाद्यं घृतमाह—

द्राक्षामृताशक्रपटोलपत्रैः सोशीरधात्रीघनचन्दनैश्च॥२३॥

त्रायन्तिकापद्मकिरातधान्यैः कल्कैः पचेत्सर्पिरुपेतमेभिः॥
युञ्जीत मात्रां सह भोजनेन सर्वर्तुपाने तु भिषग्वदध्यात्॥२४॥

वोतस्थपित्तं683 ग्रहणीं प्रवृद्धां कासाग्निसादं ज्वरमम्लपित्तम्॥
सर्वंनिहन्याद्घृतमेतदाशु सम्यक्प्रयुक्तं ह्यमृतोपमं च॥२५॥

शक्रः कुटजस्तस्य फलम्। पद्मं पद्मकेसरं पद्मकाष्ठमित्यन्ये। द्राक्षाद्यं घृतम्॥२३॥२४॥२५॥

शतावरीघृतमाह—

शतावरीमूलकल्कं घृतमस्थं पयः समम्॥
पनि सम्यक्षीरं दत्त्वा चतुर्गुणम्॥२६॥

नाशयेदम्लपित्तं च वातपित्तोद्भवान्गदान्॥
रक्तपित्तं तृषां मूर्छां श्वासं संतापमेव च॥२७॥

** पयः सममिति।** पयःशब्देन पयःसाधर्म्याच्छतावर्या एवं रसो ग्राह्यो न तु क्षीरं तस्य पृथगुपात्तत्वात्। समं तुल्यम्।शतावरीघृतम्॥२६॥२७॥

अम्लपित्ते प्रयोक्तव्यः कफपित्तहरो विधिः॥
गुडकूष्माण्डकं चैव तथा खण्डामलक्यपि॥२८॥

सुगमम्॥२८॥

गुडक्षीरकणासिद्धं सर्पिरत्रापि योजयेत्॥

गुडक्षीरकणासिद्धं सपिरित्यनेन परिणामशूलोक्तपिप्पलीघृतमिति दर्शयति।

गुडपिप्पलीपथ्याभिस्तुल्याभिर्मेदिकः कृतः॥
पित्तश्लेष्मापहः प्रोक्तो मन्दमग्निं च दीपयेत्॥२९॥

नच तुल्याभिरिति विरुद्धं चूर्णे चूर्णसमो देय इति परिभाषाविरोधात्। तुल्यशब्दः सहार्थेन तु तुल्यार्थे। यथा देवदत्तेन सह गन्तव्यम्। गुडायो मोदकः॥२९॥

ज्वलन्तमिव चाऽऽत्मानं मन्यते योऽम्लपित्तवान्।
तस्य संशोधनं पथ्यं न शान्तिः शोधनं विना॥३०॥

सुगमम्॥३०॥

अचिरोत्थे चिरोत्थे च वमनं तत्र कारयेत्॥३१॥

सुगमम्॥३१॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां त्रिपञ्चाशत्तमोऽम्लपित्ताधिकारः समाप्तः॥५३॥
<MISSING_FIG href="../../../books_images/U-IMG-1708188163021001-removebg-preview.png"/>

अथ चतुष्पञ्चाशत्तमो विसर्पाधिकारः।

______

अम्लपित्ते684 संभवच्छदेवेंगावधाताद्रक्तदुष्टौ सत्यां विसर्पविस्फोटयोरुत्पादात्प्रायः समाननिदानत्वादतः परंविसर्पविस्फोटाधिकारः। छर्देर्वेगविघातस्य च रक्तदूषकत्वे वचनम्–

“छर्देर्वेगप्रतीघातात्काले वाऽनवसेचनात्।
शरत्कालस्वभावाच्च शोणितं संप्रदुष्यति" इति॥

रुग्विनिश्चये पृथगधिकारेणोक्तयोरपि विसर्पविस्फोटयोः प्रायश्चिकित्सासामान्यादेकस्वेनाभिधानम्।

विरेकवमनालेपसेचनासृग्विमोक्षणैः॥
उपाचरेद्यथादोषं विसर्पानविदाहिभिः॥१॥

** अविदाहिभिरिति।** अन्नपानैरिति शेषः॥१॥

पटोलपिचुमन्दाभ्यां पिप्पल्या मदनेन च॥
विसर्पे चमनं शस्तं तथैवेन्द्रवैः सह॥२॥

पटोलनिम्बयोः क्वाथः। पिप्पल्यादित्रयं प्रक्षेपः॥२॥

त्रिफलारससंयुक्तं सर्पिस्त्रिवृतया सह॥
प्रयोक्तव्यं विरेकार्थंविसर्पज्वरशान्तये॥

त्रिफलाक्वाथे सर्पिस्त्रिवृत्प्रक्षेपः॥

रसमामलकानां वो685 घृतमिश्रं मदापयेत्॥३॥

सुगमम्॥३॥

तृणवर्ज्य प्रयोक्तव्ये पञ्चमूलचतुष्टयम्॥
प्रदेहसेकसपिभिर्विसर्फे वातसंभवे॥४॥

तृणवर्ज्यं प्रयोक्तव्यं पञ्चमूलचतुष्टयमिति। तस्य च वर्जनमिह पित्तहरत्वेन वातेऽयौगिकत्वात्। यद्यप्याद्ये परं वातहरे उक्ते तथाऽपि वलिकण्टक पञ्चमूलद्वयमपि बातजे विस व्याधिप्रत्यनीकतया हितमिति कार्तिकः॥४॥

कुष्ठं शताहा सुरदारू मुस्ता वाराहिकुस्तुम्बुरुकृष्णगन्धाः॥
चाते ऽर्कवंशार्वगलाश्च योज्याः सेकेषु लेवेषु तथा घृतेषु॥५॥

वाराही वाराहीकन्दः। कृष्णगन्धा सौभाञ्जनकः शमीत्यपरे।वंशो वंशनली। आर्तगलोऽर्जुन आगाडको वा। आर्तगल उष्ट्रकण्टकः।अथवा नीलः सहचर इति डल्लणः॥५॥

प्रपौण्डरीकमञ्जिष्टाकोशीरचन्दनैः॥
सयष्टीन्दीवरैः पित्ते क्षीरपिः मलेपनम्॥६॥

** सयष्टीन्दीवरैरिति।** इन्दीवरं नीलोत्पलम्॥६॥

कशेरुङ्गाटकपद्मगुन्द्राः सशैवलाः सोत्पलकर्दयाथ॥
वस्त्रान्तराः पित्तकृते विसर्पे लेपा विधेयाः सघृताः सुशीताः॥७॥

शृङ्गाटको जलमध्ये त्रिकण्टकः। गुन्द्रा पदेरकभेदो घुलुञ्चः। सशैवलाः सहशेवाला इत्यर्थः। सोत्पलकर्दमा इति। कर्दमः पङ्कः। अथ वोत्पलकर्दमश्चोत्पलस्थानस्य कर्दमस्तदन्विताः। वस्त्रान्तरा वस्त्रान्तरायाः। एवं सति मियोः विसर्पेऽतिमृदौ त्वगाद्युपघातो न स्यात्। लेपस्फोटनं च सुकरम्। लेपा इति बहुवचननिर्देशाब्यस्ता अध्येते योज्या इत्याहुः॥७॥

प्रदेहाः परिषेकाश्च शस्यन्ते पञ्चवल्कलैः॥
पद्मकोशीरमधुकचन्दनैर्वा प्रशस्यते॥८॥

सुगमम्॥८॥

पैत्ते तु पद्मिनीपङ्कपिष्टं वा शङ्खशैवलम्॥
गुन्द्रामूलं तु शुक्तिर्वा गैरिकं वा घृतान्वितम्॥९॥

शुक्तिर्मुक्तास्फोटः। घृतान्वितमिति पूर्वयोगेष्वपि योज्यम्॥९॥

न्यग्रोधपादा गुन्द्रा च कदलीगर्भ एव च॥
बिसग्रन्थिश्च लेपः स्याच्छौतघृतप्लुतः॥१०॥

न्यग्रोधपादा इति। वटारोहाः। कदलीगर्भ इति। कदल्या गर्भस्थानमञ्जरी॥१०॥

हरेणवो मसूराश्च मुद्गाश्चैव सशालयः॥
पृथक्पृथक्मदेहाः स्युः सर्वे वा सर्पिषा सह॥११॥

सुगमम्॥११॥

द्राक्षारग्वधकाश्मर्यत्रिफलामण्डपीलुभिः॥
त्रिवृद्धरीतकी686भिश्व विसर्पेशोधनं हितम्॥१२॥

आरग्वधस्य फलम्। आमण्ड एरण्डस्य बीजम्। व्यस्तसमस्ताना मेषां कल्केन क्वाथेन वा विरेचनम्। त्रिफला पुनारेह मिलितैव ग्राह्या हरीतक्याः पुनः पाठात्॥१२॥

गायत्रीसप्तपर्णाब्दवासारग्वधदारुभिः॥
कुटन्नटैर्भवेल्लेपो विसर्पेश्लेष्मसंभवे॥१३॥

सुगमम्॥१३॥

अजाऽश्वगन्धा सरलाऽथ काला सैकेषिका चाप्यथ वाऽजशृङ्गी॥
गोमूत्रपिष्टो विहिमः प्रदेहो हन्याद्विसर्पं कफजं सुशीघ्रम्॥१४॥

अजाजगन्धा फोफावती बोबइकेति लोके। अश्वगन्धाऽश्वकन्दः। सरला त्रिवृत्। काला वडहिंस्रा। एकेषिका पाठा। अन्य एकेषिकाऽम्बष्ठकी। सा कुरण्ड इति लोके। अन्ये त्रिवृद्भेदमाहुः। अजशृङ्गी मेषशृङ्गी वा। विहिमः कोष्णः॥१४॥

मदनं मधुकं निम्बं वत्सकस्य फलानि च॥
वमनं च विधातव्यं विसर्पे कफसंभवे॥१५॥

सुगमम्॥१५॥

त्रिफलापद्मकोशीरसभङ्गाकरवीरजम्687
नलमूलमनन्ता च लेपः श्लेष्मविसर्पहा॥१६॥

करवीरकमित्यस्य स्थाने करवीरजमिति पाठे मूलं द्रष्टव्यम्॥१६॥

आरग्वधस्य पत्राणि त्वचः श्लेष्मातकोद्भवाः॥
शिरीषपुष्पं कामाची हिता लेपावचूर्णितैः॥१७॥

त्वचः श्लेष्मातकोद्भवा इति। श्लेष्मातको बहुवारः। कामाची काकमाची॥१७॥

मुस्तारिष्टपटोलानां क्वाथः सर्वविसर्पनुत्॥
धात्रीपटोलमुद्गानामथवा घृतसंयुतः॥१८॥

सर्वविसर्पनुदिति। प्रत्येकदोषजवी सर्पनुत्संनिपात विसर्पस्यासाध्यत्वात्॥१८॥

अमृतवृषपटोलं निम्बकल्कैरुपेतं त्रिफलखदिरसारं व्यापिघातं च तुल्यम्॥
क्वथितमिदमशेषं गुग्गुलोर्भागयुक्तं जयति विषविसर्पं कुष्ठमष्टादशाख्यम्॥१९॥

त्रिफलं त्रिफला॥व्याधिघातः सुवर्णालुः। गुग्गुलोर्भागयुक्तमिति। प्रत्यहोपयोगे गुग्गुलोर्माषचतुष्टयप्रक्षेपणं विरेचनार्थं तु कर्प इति प्रचारः॥१९॥

अमृतवृषपटोल मुस्तकं सप्तपर्णं खदिरमसितवेत्रं निम्बपत्रं हरिद्रे॥
विविधविषविसर्पान्कुष्ठावेस्फोटकण्डूरपनयति मसूरीं शीतपित्तं ज्वरं च॥२०॥

सुगमम्॥२०॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां
चतुष्पञ्चाशत्तमो विसर्पाधिकारः समाप्तः॥५४॥
________

अथ पञ्चपञ्चाशत्तमो विस्फोटाधिकारः।
_______

पटोलामृतभूनिम्बवासकारिष्टपर्पटैः॥
खदिराब्दयुतैः क्वाथो विस्फोटार्तिज्वरा688पहः॥१॥

सुगमम्॥१॥

पटोलत्रिफलारिष्टगुडूचीमुस्तचन्दनैः॥
समूर्वारोहिणी पाठा रजनी सदुरालभा॥२॥

कषायं पाययेदेतच्छ्लेष्मपित्तज्वरापहम्॥
कण्डूत्वग्दोषविस्फोटविषवीसर्पनाशनम्॥३॥

सदुरालभेत्यतः परमेभिरिति द्रष्टव्यः। तेनैभिः कषायं कृतं पाययेदिति संगतोऽर्थो भवति॥२॥३॥

भूनिम्बवासाकटुकापटोलफलत्रिकाचन्दननिम्बासद्धः॥
विसर्पदाहज्वरवक्त्रशोषविस्फोटतृष्णावमिनुत्कषायः॥४॥

सुगमम्॥४॥

सकफे पित्तयुक्ते तु त्रिफलां योजयेत्पुरैः॥

त्रिफलां योजयेत्पुरैरिति। त्रिफलायाः क्वाथः। गुग्गुलुप्रक्षेपः॥

दुरालभां पर्पटकं पटोलं कटुकां तथा।
सोष्णं गुग्गुलुसंमिश्रं पिबेद्वा खदिराष्टकम्॥५॥

अत्रापि दुरालभादिभिः क्वाथः। गुग्गुलुप्रक्षेपः। सोष्णं किंचिदुष्णम्। सशब्द् ईषदर्थो।खदिराष्टकं मसूर्यां वक्ष्यमाणम्। इदमपि गुग्गुलुयुतमेव पिबेत्॥५॥

कुण्डलीपिचुमन्दाम्बु खदिरेन्द्रवाम्बु वा॥
विस्फोटान्नाशयत्याशु वायुर्जलधरानेव॥६॥

कुण्डलीपिचुमन्दाम्ब्विति। कुण्डली गुडूची॥६॥

चन्दनं नागपुष्पं च तण्डुलीयकसारिवा॥
शिरीषवल्कलं जाती लेपः स्याद्दाहनाशनः॥७॥

सुगमम्॥७॥

शुकतरुनतमांसीरजनीपद्मं च तुल्यानि॥
पिष्टानि शीततोयेन स्याल्लेपः सर्वविस्फोटे॥८॥

शुक्रतरुः शिरषिः। नतं तगरपादिका। पद्मावस्फोटी॥८॥

शिरीषमूलमञ्जिष्ठाचव्यामलकयष्टिकाः॥
सजातीपल्लवक्षौद्रा विस्फोटे कवलग्रहाः॥९॥

अत्र योगोक्तद्रव्यं प्रत्येकमपि कवले योज्यं बहुवचननिर्देशादित्याहुः। जातीपत्रक्षौद्रयोगश्च सर्वत्र देयः। यष्टिका यष्टीमधु॥९॥

शिरीषोदुम्बरी जम्बूः सेकालेपनयोर्हिताः॥

सुगमम्॥

श्लेष्मातकत्वचो वाऽपि प्रलेपाश्चोतने हिताः॥१०॥

सुगमम्॥१०॥

शिरीषयष्टीनतचन्दनैलामांसीहरिद्राद्वयकुष्ठवालैः॥
लेपो दशाङ्गः सघृतः प्रदिष्टो विसर्प689कुष्ठग्रहशोषहारी690॥११॥

शिरीषः शिरीषवल्कलम्॥११॥

चतुःसममाह—

शिरीषोशीरनागाङ्कहिंस्राभिर्लेपनाद्द्रुतम्॥
विसर्पविषविस्फोटाः प्रशाम्यन्ति न संशयः॥१२॥

नागाङ्कं नागकेसरचर्णम्।हिंसा कलावकटुः॥१२॥

वृषाद्यं घृतमाह—

वृषखदिरपटोलपत्रनिम्वत्वगमृतामलकीकषाय कल्कैः॥
घृतमभिनवमेतदाशु पक्वंजयति विसर्पमदास्रकुष्ठगुल्मान्॥१३॥

निम्बत्वगमृतामलकीकषायकल्कैरित्यस्य स्थाने छन्दःपूरणार्थं निम्बत्वगमृतधात्रीकषायकल्कयुक्तमिति पाठो युक्तः। वृषाद्यं घृतम्॥१३॥

पञ्चतिक्तकघृतमाह—

पटोलसप्तच्छद निम्बव/ साफल त्रिकच्छिन्नरु हाविषकम्॥
तत्पञ्चतिक्तं घृतमा इन्ति त्रिदोषविस्फोटविसर्पकण्डुः॥१४॥

त्रिफलायाः कल्कः। शेषाणां कषायः॥१४॥

संप्रति स्नायुकरोगस्य तन्तुनामाख्यातस्य प्रायः पाश्चात्यपुरुषविषयस्योत्पत्तिपूर्वकं चिकित्सितमाह—

शाखासु कुपितो दोषः शोथं कृत्वा विसर्पवत॥
भित्त्वैव तं क्षते तत्र सोष्मा मांस विशोष्य च॥१५॥

कुर्यात्तन्तुनिभं सूत्रं तत्पिण्डैस्तक्रसक्तुजैः॥
शनैः शनैः क्षताद्याति च्छेदात्कोपं समावहेत्॥१६॥

तत्पाताच्छोफशान्तिः स्यात्पुनः स्थानान्तरे भवेत्॥
स स्नायुक इति ख्यातः क्रियोक्ता तु विसर्पवत्॥१७॥

शाखासु जड्वादिषु। सोष्माऽप्रचुरोष्मा। तत्सूत्रं पिण्डैस्तक्रसक्तुजैर्लिप्तं क्षताद्याति निःसरति॥१५॥१६॥१७॥

गव्यं सर्पिस्त्र्यहं पीत्वा निर्गुण्डीस्वरसं त्र्यहम्॥
पीत्वा स्नायुकमत्युग्रं हन्त्यवश्यं न संशयः॥१८॥

सुगमम्॥१८॥

सौभाञ्जनमूलदलैःकाञ्जिकपिष्टैर्लवणयुतैर्लेपः॥
इन्ति स्नायुकरोगं यद्वामोचत्वचो लेपः॥१९॥

यद्वामोचत्वचो लेप इति। मोचं कोढं कदलकं वा। क्रान्तक्रामकमे(मित्ये) के॥१९॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां पञ्चपञ्चाशत्तमो
विस्फोटाधिकारः समाप्तः॥५५॥

<MISSING_FIG href="../../../books_images/U-IMG-1708277670021001-removebg-preview.png"/>

अथषट्पञ्चाशत्तमो मसूरिकाधिकारः।

______

विस्फोटप्रकारवायतुल्यानेदानत्वाच्चाथ मसूरिकाः।

सर्वासां वमनं पूर्व691ं पटोलारिष्टवासकैः॥
कषायैश्च वचावत्सयष्ट्याह्वफलकल्कितैः॥१॥

पटोलारिष्टवासकैः कषायैरिति समानाधिकरणेन निर्देश कार्यकारणयोरभेदोपचारान्। चकारादत्र पटोलादीनां कलेकेनाप्युष्णोदकाप्पुतेन वचावियुतेन वमनं कार्यमित्याहुः। वचावत्सयष्ट्याह्वफलकल्कितैरिति। वत्सः कुटजस्तस्य फलमिह वमने यौगिकत्वात्। फलं मदनफलम्॥१॥

सक्षौद्रंपाययेद्ब्राह्म्यारसं वा हैलमोचिकम्॥

सक्षौद्र मिति हिलमोचकरतेऽपि योज्यम्। हिलमोचा हिलमोची ख्याता तद्भवं हैलमोचिकं रसम्। अयं चोभयतोभागहारः॥

वान्तस्य रेचनं देयं शमनं चाबले नरे॥२॥

सुगमम्॥२॥

सुषवीपत्रानर्यासं हरिद्राचूर्णसंयुतम्॥
रोमान्ती ज्वरविस्फोटमसूरी शान्तये पिबेत्॥३॥

** सुषवीपत्रनिर्यासमिति।** सुषवी कारवपत्रकम्। अस्यापि रस उभयतो भागहारः। अत्र हरिद्वाचूर्ण त्रिचतुरभाषकमानं प्रक्षेपः॥३॥

उभाभ्यां हृतदोषस्य विशुध्यन्ति मसूरिकाः॥
निर्विकाराश्चल्पपूयाः पच्यन्ते चाल्पवेदनाः॥४॥

सुगमम्॥४॥

कण्टाकुस्वादुमूलं कथनविधिकृतं हिङ्गुमाषैकयुक्तं
पीतं बीजं जयायाः सघृतमुषितवाः पीतमङ्घ्रिः शकट्याः॥
म(प)थ्यामूलं शिफा वा दमनकुसुमजा सोषणा वाऽथ पूति-
र्योगा वाशाम्बुनैते मथममघगदे दृश्यमाने प्रयोज्याः692॥५॥

कण्टाकुर्वाद्रु(?) स्वनामख्याता लता। उषितवाः पीतं पर्युषितवारि पतिम्। अङ्घ्रि्मूलम्। शकटी स्वनामख्याता। म[प]थ्याऽपि तथा। सोषणा समरीचा। पूतिरपि सोषणं एव। पूतिः पूतीकः स च लाटकस्तस्य मूलं फलं वा। अधगदे पापरोगे॥५॥

उग्राज्यवंशनीलीयवविष693कार्पासिकीकसब्राह्मी—
सुरसमयूरकलाक्षाधूपो रोमान्तिकादिहरः॥६॥

आदावेन प्रयुक्तस्य प्रशाम्यन्ति मसूरिकाः॥
694गृह्णन्ति विषं केचिद्यथालाभश्रुतेरिह॥७॥

उग्रा वचा। कार्पासिकीकसं कर्षासास्थि। सुरसः पन्नासः। मयूरकोऽपामार्गः। आदावेव प्रयुक्तस्य प्रशाम्यन्ति मसूरिका इत्यत्र प्रयुक्तस्येति कर्तरि क्तत्। तेनाऽऽदौ धूमं प्रयुक्तवत इत्यर्थः न गृह्णन्ति विषे केचिद्यथालाभञ्जतेरिति। अस्यार्थः—तत्रान्तरे यथालाभमित्युक्तेरह विषस्य त्वग्दोषादिकरत्वशङ्कया त्यागः कार्य इति। वृषेण तु प्रचारो दृश्यते॥६॥७॥

चैत्रासितभूतदिने रक्तपताकान्त्रिता स्नुहीभवने॥
धवलितकलशन्यस्ता पापरुजं दूरतो धत्ते॥८॥

** चैत्रासितभुतदिन इति।** चैत्रमासीयकृष्ण चतुर्दश्यान्॥८॥

तर्पणं वातजाया695ंप्राग्लाजचूर्णैः सशर्करैः॥
भोजनं तिक्तयुषैस्तु प्रतुदानां रसेन व696॥९॥

लाजचूर्णैस्तर्पणं तोय प्लुतैर्ज्ञेयम्। प्रतुदानां रसेनेति। प्रतुदाः कपोतपारावतप्रभूतयः॥९॥

द्विपञ्चमूलं रास्नाच दार्व्युशीरं दुरालभा॥
सामृतं धान्यकं मुस्तं जयेद्वातसमुत्थिताम्697॥१०॥

अस्य योगस्य क्वाथः कार्यः॥१०॥

द्राक्षाकाश्मर्यखर्जूरपटोलारिष्टवासकैः॥
लाजामलकदुस्पर्शैःसितायुक्तस्तु पैत्तिके॥११॥

सितायुक्तस्त्वित्यतः परं कषाय इति शेषः॥११॥

शिरीषोदुम्बराश्वत्थशेलुन्यग्रोधवत्सकैः698
प्रलेपः सघृतः शीघ्रं व्रणवीसर्पदाहहा॥१२॥

सुगमम्॥१२॥

दुरालभां पर्पटकं भूनिम्बं कटुरोहिणीम्॥
श्लैष्मिक्यां पित्तजायां वा पाने निष्क्वाथ्य दापयेत्699॥१३॥

सुगमम्॥१३॥

निम्बं पर्पटकं पाठां पटोलं कटुरोहिणीम्॥
वासां दुरालभां धात्रीमुशीरं चन्दनद्वयम्॥१४॥

एप निम्बादिकः क्वाथः पीतः शर्करयाऽन्वितः॥

त्रिदोषां मसूरीं हन्ति ज्वरवीसर्पसंभवाम्॥
उत्थिता प्रविशेद्या तु पुनस्तां बाह्यतो नयेत्॥१५॥

अस्य योगस्य क्वाथः। चन्दनद्वयं श्वेतचन्दनं रक्तचन्दनं च। निम्बादिः॥१४॥॥१५॥

पटोलकुण्डलीमुस्तवृषधन्वयवासकैः॥
भूनिम्बनिम्बकटुकापर्पटैश्च तंशृतं जलम्॥१६॥

मसूरी शमयेदामां पक्वांचैव विशोधयेत्॥
नातः परतरं किंचिद्विस्फोटज्वरशान्तये॥१७॥

सुगमम्॥१६॥१७॥

पटोलमूलारुणतण्डुलीयकं पिबेद्धरिद्रामलकल्कसंयुतम्॥
मसूरिविस्फोटविदाहशान्तये तथैव रोमान्तिवमिज्वरापहम्॥१८॥

पटोलेत्यादिकः क्वाथो हरिद्रामलकचूर्णं प्रक्षिप्याऽऽनुलोम्यार्थं पेयः॥१८॥

पटोलमूलारुणतण्डुलीयकं तथैव धात्रीखदिरेण संयुतम्॥
पिबेज्जलं सुक्वथितं सुशीतलं मसूरिकारोगविनाशनं परम्॥१९॥

घात्रोखदिरावपि पटोलमूलारुणतण्डुलीयकाभ्यां सह क्वथनीयौ॥१९॥

खदिरत्रिफलारिष्टपटोलामृतवासकैः॥२०॥

काथोऽष्टकांख्यो700 जयति रोमान्तिकमसूरिकाः॥
कुष्ठवी सर्पविस्फोटकण्ड्वादीनपि पानतः॥२१॥

अष्टकाख्य इत्यष्टाङ्गः। अयं च काथो भग्नायां मसूरिकायां प्रायः प्रयुज्यते। अत्र शोधनेऽपेक्षिते गुग्गुलुमपि प्रक्षिपन्ति। इति खदिराष्टकः॥२०॥२१॥

अमृतादिकपायस्तु जयेत्पित्तकफात्मिकम्॥२२॥

** अमृतादिकपायस्त्विति**। विसको दशद्रव्यस्तत्र मसूरीहरत्वश्रुतेः॥२२॥

सौवीरेण तु संपिष्टं मातुलुङ्गस्य केसरम्॥
प्रलेपात्याचयत्याशुदाहं चापि नियच्छति॥२३॥

सुगमम्॥२३॥

पाददाहं च कुरुते पिटिका पादसंभवा॥
तत्र सेकं प्रशंसन्ति बहुशस्तण्डुलाम्बुना॥२४॥

सुगमम्॥२४॥

पाककाले तु सर्वास्ता विशोषयति मारुतः॥
तस्मात्संबृंहणं कार्यं न तु पथ्यं विशोषणम्॥२५॥

सुगमम्॥२५॥

गुडूची मधुकं द्राक्षा मोरटं दाडिमैः सह॥

पाककाले प्रदातव्यं भैषज्यं गुडसंयुतम्॥
तेन पाकंवजन्त्याशु न तु वायुः प्रकुप्यति॥२६॥

गृहीत्यादियोगस्य काथः। अत्र गुडः प्रक्षेपः॥२६॥

लिह्याद्वाबादरं चूर्णं पाचनार्थं गुडेन वा॥
अनेनाऽऽशु विपच्यन्ते वातपित्तकफात्मिकाः॥२७॥

सुगमम्॥२७॥

शुलाध्मानपरीतस्य कम्पमानस्य वायुना॥
धन्वमांसरसाः शस्ता ईषत्सैन्धवसंयुताः॥२८॥

** धन्वमांसरसा** इति। जाङ्गलमृगपक्षिमांसरसाः॥२८॥

दाडिमाम्लरसैर्युक्ता यूषाः स्युररुचौ हिताः॥

विसर्पन्ती सविस्फोटा क्लिन्ना स्राववती तथा॥
दशाङ्गलेपचूर्णेन चूर्णिता शममेति च॥२९॥

** **सुगमम्॥२९॥

पिबेदम्भस्तप्तशीतं भावितं खदिरासनैः॥

तप्तशीनमित्यर्धशतशीतम्। भावितं खदिरासनैरिति। खदिरासनसाधित अमनः पीतशालः॥

शौचे वारि प्रयुञ्जीत गायत्रीबहुवारजम्॥३०॥

सुगमम्॥३०॥

जातीपत्रं समञ्जिष्ठंदावीं पूगफलं शमी॥३१॥

धात्रीफलं समधुकं क्वथितं मधुसंयुतम्॥
मुखरोगे कण्ठरोगे गण्डूषार्थं प्रशस्यते॥३२॥

सुगमम्॥३१॥३२॥

अक्ष्णोः सेकं प्रशंसन्ति गवेधुमधुकाम्बुना॥

** गवेधुमधुकाम्बुनेति**। गवेधुर्धुडुवः। अनयोः कल्कं कर्पटे बद्ध्वाऽक्ष्णि सेकः

मधुकं त्रिफला मूर्वा दार्वीत्वङ्नीलमुत्पलम्॥३३॥

उशीरलोध्रमञ्जिष्ठाः प्रलेपाश्चोतने हिताः॥
नश्यन्त्यनेन दृग्जाता मसूर्यो न भवन्ति च॥३४॥

प्रलेपाने हिता इति बहुवचन निर्देशा व्यस्त समस्तैर्मधुकादिभिः प्रलेपः। अर्धकृतैराश्चोतनमित्याहुः। आश्चोतनं परिषेकः॥३३॥३४॥

पञ्चवल्कलचूर्णेन क्लेदिनीमवचूर्णयेत्॥
भस्मना केचिदिच्छन्ति केचिद्गोमयरेणुना॥३५॥

** भस्मनेति।** शुष्कगोमयभस्मना॥३५॥

कृमिपातभयाच्चापि धूपयेत्सरलादिभिः॥

सरलादिभिरिति। सरलागुरुगुगुलुप्रभृतिभिः॥

वेदनादाहशान्त्यर्थं स्नुतानां च विशुद्धये॥
सगुग्गुलं वराक्वाथं युञ्ज्याद्वाखदिराष्टकम्॥३६॥

खदिराष्टकोऽपि सगुग्गुलुः॥३६॥

कृष्णाभयारजो लिह्यान्मधुना कण्ठशुद्धये॥
तथाऽष्टाङ्गावलेहो वा कवलश्चाऽऽर्द्रकादिभिः॥३७॥

अष्टाङ्गावलेहार्द्रकादिकवलश्च ज्वराधिकारोक्तः॥३७॥

पञ्चतिक्तं प्रयुञ्जीत पानाभ्यञ्जनभोजनैः॥

सुगमम्॥

कुर्याद्रणविधानं च तैलादीन्वर्जयेचिरम्701॥३८॥

सुगमम्।

‘बिम्बातिमुक्तकाशोकप्लक्षवेतसपलवैः॥
निशापर्युषितः काथो मसूरीभयनाशनः’॥१॥

इत्यधिकः क्वचिद्योगः पठ्यते। अत्र बिम्बी डिम्बिरिति ख्याता। निशापर्युषितः शृतशीतः। योगोऽयमनागतमसूरि निवारणार्थं चैत्रे मासि पेयः॥३८॥

निम्बातिमुक्तकास्फोतबिम्बीवेतसवल्कलम्॥
शृतशीतं प्रयोक्तव्यं स्रावप्रक्षालने सदा॥३९॥

आस्फोताऽस्फुरमल्लिका। शृतशीतमर्धकृतशीतं शीतकषायो वा। स्रावः प्रक्षालन इत्युपलक्षणम्। तेन पानमध्यस्य कार्यमित्याङ्गः॥३९॥

निशाद्वयोशीरशिरीषमुस्तकैः सलोभद्रश्रियनागकेसरैः॥
संस्वेदविस्फोटविसर्पकुष्ठदौर्गन्ध्यरोमान्तिहरः प्रदेहः॥४०॥

पानं च दातव्यम्॥४०॥

इति श्रीवृन्दमणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां षट्पञ्चाशत्तमो
मसूरिकाधिकारः समाप्तः॥५६॥

<MISSING_FIG href="../../../books_images/U-IMG-1708435050021001-removebg-preview.png"/>

अथ सप्तपञ्चाशत्तमः क्षुद्ररोगाधिकारः।

अथाक्षुद्रलक्षणहेतु चिकित्सितानां कुष्ठादीनामभिधानेन त्वादीनां रोगाणां पारिशेप्यात्सुरोगाधिकारः। इह रोहिणीवल्मीकादीनां भूरिहेत्वादियोगेऽपि क्षुद्रत्वन्यपदेशो बाहुल्यात्।

तथाऽ702जगल्लिकामामां जलौकोभिरूपाचरेत्॥

** अजगल्लिकामामामिति।** अजगल्लिकाऽचिल्लिति लोके॥

शुक्तिसौराष्ट्रिकिाक्षरकल्कैश्चाऽऽलेपयेन्मुहुः॥१॥

शुक्तिर्मुक्तास्फोटः। सौराष्ट्रिका सौराष्ट्रीमृत्। सुश्रुते सौराष्ट्रिकास्थाने श्रौध्निकपाठादत्र स्वर्जिकाक्षारो व्याख्यातः। तद्यथा—यवक्षारशुक्तिका श्रौनिक कल्कैश्चाऽऽलेपयेदिति। क्षारो यवक्षारः। डल्लुणस्तु शुक्तिश्रुघ्नीयवक्षारकल्कै रेति पाठं पठित्वा व्याख्याति। शुक्तिर्जलशुक्तिः। श्रुघ्नी स्वर्जिका। यवाः प्रसिद्धाः। क्षारशब्दः प्रत्येकं संबध्यते। **गयी तू–**अजगल्लिकामपक्कां यवक्षारशुक्तिसौराष्ट्रिकल्केनाऽऽलेपयेत्। ततो जलौकोभिरपक्वा ग्रहयेत्। आलेप आद्य उपक्रमः सर्वशोफानामित्युक्त इति॥१॥

श्लेष्मविद्रधिकल्पेन जयेवानुशयां भिषक्॥

सुगमम्॥

विवृतामिन्द्रवृद्धां च गर्दभां जालगर्दभाम्॥
इरिवेल्लांगन्धनामां जयेत्पित्तविसर्पवत्॥२॥

विवृतादीनां पृथग्दोषजनितानां कथमेकचिकित्सितमिति चेत्। एका शान्तिरनेकस्य बहूनां बच एव चेत्युक्तत्वात्। यथा गुडूचीक्काथेनैकेनाप्यनेकज्वरच्छर्दिवातरक्तादिव्यावीनुपरन्ति तद्वदेतानपि व्याधीन्पित्तविसर्पविधानेनोपचरेत्। तत्र पित्तस्य विसस्य च विधानेनोपचरेदिति ज्ञेयं चिकित्सितत्रैविध्यात्। त्रिविधं हि चिकित्सितं दोषप्रत्यनीकं व्याधिप्रत्यनीकमुभयप्रत्यनीकमिति। यत्रदोषा व्याधिमुत्पाद्यदीप इव स्वयमेवावतिष्ठन्ते तत्र दोषप्रत्यनीकम्। यत्र मारुत इव मेघवर्षणे सति मस्तका(व्याधी)नुत्पाद्य दोषः स्वयमुपशाम्यति तत्र व्याधिप्रत्यनीकम्। यत्र पुनस्तन्तुपटन्यायेन व्याधि रूपेणैक दोषः स्वयमुपतिष्ठतेतत्रोभयप्रत्यनीकम् तदत्र विवृतादिरोगेषु यथायथमनुभूय। प्रयोज्यमिति॥२॥

मधुरौषधसिद्धेन सर्पिषाशमयेद्व्रणम्॥३॥

मधुरौषधानि काकोल्यादीनि॥३॥

रक्तावसेकैर्बहुभिः स्वेदनैरपतर्पणैः॥
जयद्विदारिकां लेपैः शिग्रुदेवद्रुमोद्भवैः॥४॥

विदारिकायाः सर्वजत्वेऽपि वातकफप्राबल्याद्वातक फहरस्वेदादिविधानं रक्तावसेकश्चशे। फसमुत्थितत्यादस्यामुचितः। सुश्रुतेन पकाया विदार्या विशेषचिकित्सोक्ता—

“पक्वां विदार्य शस्त्रेण पटोलपिचुमन्दयोः।
कल्केन तिलयुक्तेन सर्पिमिश्रण लेपयेत्॥

बध्वा च क्षीरवृक्षस्य कषायैः खदिरस्य च।
व्रणं प्रक्षालयेच्छुद्धां ततस्तां रोपयेत्पुनः" इति॥

क्षीरवृता वटोदुम्बरप्लक्षपिप्पलगर्दभाण्डाः॥४॥

पनसिकां कच्छपिकामनेन विधिना भिषक्703
साधयेत्कठिनानन्याञ्शोफान्दोषसमुद्भवान्॥५॥

** शोफान्दोषसमुद्भवानिति**। योग्यतया कफवातजाञ्शोथान्॥१॥

अन्ध्रालजी कच्छपिकां तथा पाषाणगर्दभम्॥
सुरदारुशिलाकुप्रैः स्वेदयित्वा मलेपयेत्॥६॥

** पाषाणगर्दभमिति।** गलदुजेति ख्यातम्। एषां सुश्रुतेऽधिक चिकित्सोक्ता। तथाच—परिपाकगतान्मित्त्वा व्रणवत्समुपाचरेदिति॥६॥

कफमारुतशोथनो लेपः पाषाणगर्दभे॥
लेपनं पाण्डुरङ्गेण शोणितस्य च मोक्षणम्॥७॥

सुगमम्॥७॥

शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्रिभ्यां प्रसाधयेत्॥

ततः शोधनेनेति शेषः॥

मनः शिलालभल्लातसूक्ष्मैलागुरुचन्दनैः॥८॥

जातीपल्लववक्रैश्च निम्बतैलं विपाचयेत्॥
वल्मीकं नाशयेत्तद्धि बहुच्छिद्रं बहुवम्॥९॥

सुगमम्। सुश्रुते वल्मीकचिकित्सायां विशेष उक्तः।

तद्यथा—

“वल्मीकं तु भवेद्यस्य नातिवृद्धं न मर्मजम्॥
तत्र संशोधनं कृत्वा शोणितं मोक्षयेद्भिषक्॥१॥

कुलत्थिकाया मूलैश्च गुडूच्या लवणेन च॥
आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च॥२॥

श्यामामूलैः सपललैः सक्तुमित्रैः प्रलेपयेत्॥
सुस्निग्धैश्च सुखोष्णैश्च भिषक्तमुपनाहयेत्॥३॥

पक्कं वा तद्धि विज्ञाय गतीः सर्वा यथाक्रमम्॥
अभिज्ञाय ततरिछत्त्वा प्रदहेन्मतिमाभिषक्॥४॥

संशोध्य दुष्टमांसानि क्षारेण प्रतिसारयेत्॥
व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान्भिषक्॥५॥

पाणिपादोपरिष्टात्त च्छिद्रैर्बहुभिरावृतम्॥
वल्मीकं यत्सशोकं स्याद्वयं॑ तत्तु विमानता”॥६॥इति।

** वृन्देन** यवप्रख्याकक्षानिरुद्धप्रकशाग्निरोहिणीसंनिरुद्धगुदानां चिकित्सा नोका सा सुश्रुतात्संदर्यते—

“अन्ध्रालजीं यवप्रख्यां पनसीं कच्छपीं तथा॥
पाषाणगर्दभी चैवपूर्वं स्वेदेन योजयेत्॥१॥

मनः शिलाता लकुष्ठदा रुकल्कै प्रलेपयेत्।
परिपाकगतान्मित्त्वा व्रणवत्समुपाचरेत्”॥

इत्यनेन यवप्रख्याचिकित्सोक्ता।

तथा –

“विवृतामिन्द्रवृद्धां च गर्दभां जालगर्दभाम्।
इरिवेल्लां गन्धनामां कक्षां विस्फोटकां तथा॥

पित्तजस्य विसर्पस्य क्रियया साधयेद्भिषक्।
रोपयेत्सर्पिषा पक्कान्सिद्धेन मधुरौषधैः “॥

इत्यनेन च कक्षाचिकित्सोक्ता।

तथा –

“निरुद्धप्रकशे नाडीं लौहीमुभवतोमुखीम्।
दारवीं वा जतुकृतां घृताभ्यां प्रवेशयेत्।

दारवीं काष्ठमयीम्। जतुमयी(कृता) लाक्षाविरचिता॥

“परिषेके वसा मज्जा शिशुभारवरायोः।
चक्रतैलं तथा योज्यं वातघ्नद्रव्यसंस्कृतम्॥

व्यहा यहात्स्थूलतरां सम्यङ्नाडीं प्रवेशयेत्।
स्रोतो विवर्धयेदेवं स्निग्धमन्नं च भोजयेत्॥

भित्त्वा वा सेवनीं मुक्त्वा सद्यः क्षतवदाचरेत्।

अस्यार्थः–सेवनीं त्यक्त्वा शस्त्रेण वा मूत्रस्रोतःसंकोचकारणं चर्म विदारयेत्। तस्यापि द्वारस्याविपाटे मणिद्वारमध्येवं दारयेदिति।

तथा –

“संनिरुद्धगुदं रोगं वल्मीकं वह्निरोहिणीम्।
प्रत्याख्याय यथायोगं चिकित्सितमथाऽऽचरेत्” इति॥

 असाध्येष्वपि वल्मीकान्निरोहिणीप्रभृतिषु चिकित्सितं कार्यमेव—

“यावदुच्छुसिति प्राणी तावत्कुर्यात्प्रतिक्रियाम्।
कदाचिद्दैवयोगेन दृष्टारिष्टोऽपि जीवति”॥

इत्युक्तत्वादिति।

 तथा—

“विसर्पोक्तेन विधिना साधयेदग्निरोहिणीम्”।

तथा–

“संनिरुद्धगुदे योज्या निरुद्धप्रकशे क्रिया” इति॥८॥९॥

पाददारीपु तु शिरां व्यधयेत्तलशोधनीम्॥

** तलशोधनीमिति।** पादोपरितलगामिनीं शिरां विध्येत्। अत्र शिराव्यधाङ्गभूतस्नेहस्वेदौ कृत्वेति मन्तव्यमेतावन्तरेण शिराव्यधस्याप्रवृत्तेः॥

स्नेहस्वेदोपपन्नौ तु पादौ चाऽऽलेपयेन्मुहुः॥
मधूच्छिष्टवसामज्जघृतक्षीरैर्विमिश्रितैः॥१०॥

स्नेहस्वेदोपपन्नावित्यादिना पाश्चात्यातिदेशो दोषशेषक्षयार्थं रक्ताकृष्टिजनितवातजयार्थं वा॥१९॥

सर्जाह्वसिन्धूद्भवयोश्चूर्णं मधुघृतान्वितम्704
निर्मथ्य कटुतैलाक्तं हितं पादप्रमार्जनम्॥११॥

सुगमम्॥११॥

उपोदकासर्षपनिम्बमोचाकर्कारुकैर्वारुकभस्मतोये॥
तैलं विपक्वंलवणांशयुक्तं तत्पाददारीं विनिहन्ति लेपात्॥१२॥

उपोदकाया नालम्। सर्षपस्य काण्डकम्। मोचा कदल्याः काण्डत्वक्।कर्कारुः कूष्माण्डभेदः। लवणांशयुक्तमिति। पादिकसैन्धवयुक्तम्॥१२॥

अलसेऽम्लैश्चिरं सिक्तौ चरणौ परिलेपयेत॥
पटोलारिष्टकासीसत्रिफलाभिर्मुहुर्मुहुः॥१३॥

अलस इति। पकायीति ख्याते। अम्लैः काञ्जिकैः॥१३॥

करञ्जबीजं रजनी कासीसं मधुकं मधु॥
रोचना हरितालं च लेपोऽयमलसे हितः॥१४॥

सुगमम्॥ १४॥

लाक्षाभयारसालेपः कार्यंवा रक्तमोक्षणम्॥१५॥

रसो गन्धरसो स तु क्वाथो लेपं प्रत्यनौपयोगिकत्वात्॥१५॥

बृहतीरससिद्धेन तैलेनाभ्यज्य बुद्धिमान्॥
शिलारोचनकासीसचूर्णैर्वा प्रतिसारयेत्॥१६॥

बृहतीरससिद्धेन तैलेनेति। बृहती कण्टकारिका। तैलं च कटुतैलम्।यदाह सुश्रुतः—निदिग्धिकास्वरससिद्धेन सर्षपतैलेनाभ्यञ्ज्यात्। शिला मनःशिला। प्रतिसारयेवर्षयेत्॥१६॥

दहेत्कदरमुद्धृत्य तैलेन दहनेन वा॥

कदरं कोलदीति ख्यातम्। तैलेनेति। सूक्ष्ममार्गानुसारित्वात्तैलस्य।दहनेनेत्यस्य स्थाने मदनेनेति पाठे मदनः सित्थकः। तेनापि तथैव दाहः॥

चिप्यमुष्णाम्बुना स्विन्नमुद्धृत्याभ्यञ्जनं705 व्रणे॥
दत्त्वा सार्जरसं चूर्णंबद्ध्वा व्रणवदाचरेत् ॥ १७॥

चिप्यमिति। चिप्यं कुनखमभिप्रेतं न त्वङ्गुलिवेष्टक उक्तचिकित्सायास्तत्रानर्हत्वात्। उद्धृत्योत्कृत्य दुष्टमांस पक्वम् \। उष्णाम्बुना स्वेदनमिह मार्दवजननार्थम्।व्रणवदाचरेदिति। आहाराचारादिना।

“चिप्यं शोणितसेकेन शोधनैश्चाप्युपाचरेत्।
गतोष्माणं तथा चैनमुष्णाम्बुपरिषेचितम्॥

शस्त्रेण च यथायोगमुत्कृत्याऽऽस्रावयेद्व्रणम्।
शिल्पा तेजोवती चैव रोचना च रसाञ्जनम्॥

कल्कैरेतैरम्लपिष्टैः शोधयित्वा व्रणं ततः।
हरिद्रागुरुकालेयकल्कैश्च सरसाञ्जनैः॥

सिद्धेन तिलतैलेन तत्र कुर्वीत रोपणम्॥

इति क्वचित्पाठः । सुश्रुतेन कुनखे चिप्यातिदेश उक्तः—कुनखे विधिरप्येष कार्यो वै भिषजा भवेदिति॥१७॥

स्वरसेन हरिद्रायाः पात्रे कृष्णायसेऽभ्याम्॥
घृष्ट्वा तज्जेन कल्केन लिम्पेच्चिप्यं पुनः पुनः॥१८॥

सुगमम्॥१८॥

निम्बोदकेन वमनं पद्मिनीकण्टके हितम्॥१९॥

निम्बोदकेन वमनमिति। अत्र वामनीयमदनफलादियोगमिच्छन्ति॥१९॥

निम्बोदककृतं सर्पिः सक्षौद्रं पानमिष्यते॥

सुगमम्॥१८॥

निम्बारग्वधकल्कैर्वा मुहुरुद्वर्तनं हितम्॥२०॥

सुगमम्॥२०॥

अहिपूतनके धात्र्याःपूर्वं स्तन्यं विशोधयेत्॥

अहिपूतनक इति। बालानां गुदपाके।**स्तन्यं विशोधयेदिति।**स्तनरोगोक्तविधिना॥

त्रिफलाखदिरक्वाथैर्व्रणानां धावनं हितम्॥२१॥

सुगमम्॥२१॥

करञ्जत्रिफलातिक्तैः सर्पिः सिद्धं शिशोर्हितम्॥

तिक्तं पटोलपत्रम्।करञ्जादिभिः कल्कः।द्रवं जलम्॥

रसाञ्जनं विशेषेण पानालेपनयोर्हितम्॥२२॥

सुगमम्॥२२॥

गुदभ्रंशे गुदं स्नेहैरभ्यज्याऽऽशु प्रवेशयेत्॥
प्रविष्टं स्वेदयेच्चापि बद्धं गोःफणया भृशम्॥२३॥

** गोःफणयेति**। गोःफणा बन्धविशेषः। उक्तं हि—

उञ्चारनिर्गमार्थ सच्छिद्रेण चर्मणा चास्य गोःफणाबन्धःकार्य इति॥२३॥

कोमलं पद्मिनीपत्रं यः स्वादेच्छर्करायुतम्॥
एतन्निश्चित्य निर्दिष्टं न तस्य गुदनिर्गमः॥२४॥

सुगमम्॥२४॥

वृक्षाम्लानलचाङ्गेरीविश्वपाठायवाग्रजम्॥
तक्रेण शीलयेत्पायुभ्रंशार्तोऽनलदीपनम्॥२५॥

वृक्षाम्लेत्यादियोगः।वृक्षालं महाकम्। अनलश्चिकः॥२५॥

गुदंच गव्यवसया706 म्रक्षयेदविशङ्कितः॥
दुष्प्रवेशो गुदभ्रंशो विशत्याशु न संशयः॥२६॥

सुगमम्॥२६॥

मूषिकाणां वसाभिर्वा गुदे सम्यक्प्रलेपनम्॥

सुगमम्॥

सुस्विन्नमूषिकामांसेनाथवा स्वेदयेद्गुदम्॥२७॥

सुस्विन्नमूषिकामांसेनेति। काञ्जिकेन मूषिकामांसोत्स्वेदनं ज्ञेयम्॥२७॥

चाङ्गेरीघृतमाह—

चाङ्गेरीकोलदध्यम्लनागरक्षारसंयुतम्॥
घृतमुत्क्वथितं पेयं गुदभ्रंशरुजापहम्॥२८॥

चाङ्गेर्याःस्वरसः।कोलस्य क्वाथः।अम्लं दधि दध्यम्लम्। एभिस्त्रिभिर्द्रवैर्भिलित्वा चातुर्गुण्यम्। किंच चाङ्गेरीस्वरसः स्नेहसमः।स्वरसे क्षीरवद्विधिरिति पाठात्। दधिकोलरसौमिलित्वा त्रिगुणैः।प्रथमव्याख्यानेन प्रचारः। क्षारनागराभ्यां कल्कः। तथा च चक्रः—शुण्ठीक्षारावत्र कल्कौ शेषं707 तद्द्रवभिष्यत इति। चाङ्गेरीघृतम्॥२८॥

मूषिकाद्यं तैलमाह—

क्षीरे महत्पञ्चमूलं मूषिकामन्त्रवर्जिताम्॥

पक्त्वा तस्मिन्पचेत्तैलं वातघ्नौषधसंयुतम्॥
गुदभ्रंशमिदं तैलं पानाभ्यङ्गात्प्रसाधयेत्॥२९॥

मूषिकागुडकमेकं ग्राह्यमन्त्रवर्जितामिति विशेषणाच्छशकाद्ये शशकवत्। बृहत्पञ्चमूलस्यमिलित्वा प्रस्थः। क्षीरस्यापि प्रस्थः।तोयस्य प्रस्थत्रयम्। निक्वायशेषः क्षीरप्रस्थः स्थाप्यः। अनेन तैलकुडवः साध्यः। तेन क्वाथपरिभाषयैव पाक इति गदाधरः। मूषिकामांसस्य पलद्वयम्। पञ्चमूलस्य पलद्वयम्। क्षीरप्रस्थः। तोयप्रस्थचतुष्टयम्। क्षीरशेषः पाकः। एवं क्षीरपरिभाषान्यायात्क्षीरं साधयित्वा तैलकुडवो विपाच्य इति कार्तिकः। चक्रस्त्वाह—अन्त्रवर्जितामिति ग्रहणयोग्यतोपदर्शनार्थम्। तेन मूषिकामांसस्य पलान्यष्टौ। मिलितपञ्चमूलस्य पलान्यष्टौ। क्षीरप्रस्थः। तोयप्रस्थत्रयम्। शेषः क्षीरप्रस्थः। तेन तैलकुडवः साध्य इति। एवं क्षीरेण पक्वेन स्नेहसाधने व्याख्या प्रथमैवोपचारायोचिता चरकेऽपीशानादिप्रामाणिकैर्दर्शितत्वात्। वातघ्नो भद्रदार्वादिगणः। एष कल्कः। मूषिकातैलम्॥२९॥

स्वेदोषनाहौ परिवर्तिकायां कृत्वा समभ्यज्य घृतेन पश्चात्॥
प्रवेशयेच्चर्म शनैः प्रविष्टे मांसैः सुखोष्णैरुपनाहयेच्च॥३०॥

स्वेदोषनाहाविति। वातहरमांसादिना स्वेदो ज्ञेयो वातप्रधानत्वात्परिवर्तिकायाः।प्रवेशयेच्चर्मेति। परिवर्तितचर्म यथोक्तस्वेदादिना मृदूकृत्य सम्यगाकर्षेत्॥३०॥

स्नेहस्वेदैस्तथैवैनां चिकित्सेदवपाटिकाम्॥३१॥

अवपाटिकायां तथैवेत्यनेनोपनाहनं चर्माकर्षणं चातिदिशति॥३१॥

चर्मकीलाञ्जतुमणीन्मशकांस्तिलकालकान्॥
उत्कृत्य शस्त्रेण दहेत्क्षाराग्निभ्यामशेषतः॥३२॥

क्षाराग्निभ्यामिति। क्षारेणाग्निना वा। अनवगाढेक्षारः।अवगाढेऽग्निः॥३२॥

यौवनपिटकान्यच्छनीलिकाव्यङ्गशर्कराः॥
शिरावेधैः प्रलेपैश्च जपेदभ्यञ्जनैस्तथा॥३३॥

शिरावेधैरिति। यथान्यायं यथाभ्यासं लालाट्यादिशिराव्यधः।अभ्यञ्जनैरित्यभ्यङ्गैः॥३३॥

लोध्रघान्यवचालेपस्तारुण्यपिटिकापहः॥
तद्वद्गोरोचनायुक्तं मरिचं मुखलेपनात्॥३४॥

सुगमम्॥३४॥

सिद्धार्थकवचालोध्रसैन्धवैश्च प्रलेपनम्॥
वमनं च निहन्त्याशुपिटकान्यौवनोद्भवान्708॥३५॥

सुगमम्॥३१॥

व्यङ्गेषु चार्जुनत्वग्वा मञ्जिष्ठा वा समाक्षिका॥
लेपः सनवनीतो वा श्वेताश्वखुरजा मषी॥३६॥

श्वेताश्वखुरजा मषीति। श्वेताऽपराजिता। अश्वस्य खुरस्तस्य मषी धवलघोटकखुरस्य मषीत्यन्ये॥३६॥

रक्तचन्दनमञ्जिष्ठाकुष्ठलोध्रप्रियंगवः॥
वटाङ्कुरा मसूराश्च व्यङ्गघ्ना मुखकान्तिदाः॥३७॥

वटाङ्कुरा वटस्याभिनवाः पत्रमुकुलाः॥३७॥

व्यङ्गानां लेपनं शस्तं रुधिरेण शशस्य वा॥

सुगमम्॥

केवलान्पयसा पिष्ट्वा तीक्ष्णाञ्शाल्मलिकण्टकान्॥
आलितं त्र्यहमेतेन भवेत्पद्मोपमं मुखम्॥३८॥

पयसेत्यस्य स्थाने सर्पिषेति पाठान्तरम्। तीक्ष्णानभिनवान्॥३८॥

मसूरैः सर्पिषा पिष्टैर्लिप्तमास्यं पयोन्वितैः॥
सप्तरात्रेण भवति पुण्डरीकदलप्रभम्॥३९॥

सुगमम्॥३९॥

मातुलुङ्गजटा सर्पिः शिला गोशकृतो रसः॥
मुखकान्तिकरो लेपः पिटिकातिलकालजित्॥४०॥

सुगमम्॥४०॥

कालीयकोत्पलामयदधिस709रबदरास्थिमध्यफलिनीभिः॥
लिप्तंभवति हि वदनं शशिप्रभंसप्तरात्रेण॥११॥

दधिसरस्थाने दधिरसेति पाठान्तरम्।दधिरसः कपित्थरस इत्याहुः॥४१॥

रक्षोघ्नशर्वरीद्वयमञ्जिष्ठागैरिकाज्यवस्तपयः॥
सिद्धेन लिप्तमाननमुद्यच्छरदिन्दुबिम्बवद्भाति॥४२॥

रक्षोघ्नः श्वेतसर्षपः। आज्यं घृतम्।बस्तपयश्छागक्षीरम्।सिद्धेन सिद्धफलेन। अत्रानेनेति शेषः॥४२॥

परिणतदधिशरपुङ्खैःकुवलयदलकुष्ठचन्दनोशीरैः॥
मुखकमलकान्तिकरैर्भृकुटी710तिलकालकाञ्जयति॥४३॥

परिणतदधीत्यादियोगस्य लेपः। भृकुटी ललाटे वलिरूपा॥४३॥

हरिद्राद्वययष्ट्याह्वकालीयककुचन्दनैः॥
प्रपौण्डरीकमञ्जिष्टापद्मपद्मककुङ्कुमैः॥४४॥

कपित्थतिन्दुकप्लक्षवटपत्रैः पयोन्वितैः॥
लेपयेत्कल्कितैरेभिस्तैलं वाऽभ्यञ्जनं पचेत्॥४५॥

पिप्लवं नीलिकां व्यङ्गं तिलकान्मुखदूषकान्॥
नित्यसेवी जयेत्क्षिप्रंमुखं कुर्यान्मनोहरम्॥१६॥

कपित्थादीनां सर्वेषां पत्रम्।कल्कितैरेभिस्तैलमिति।हरिद्रादिभिः कल्कः। पयसा द्रवकार्यम्। पिप्लवं जटुलम्॥४४॥४५॥४६॥

कनकतैलमाह—

मधुकस्य कषायेण तैलस्य कुडवं पचेत्॥
कल्कैः प्रियंगुमञ्जिष्ठाचन्दनोत्पलकेसरैः॥४७॥

कनकं नामतस्तै मुखकान्तिकरं परम्॥
अभीलुनीलिकाव्यङ्गशोधनं परमार्चितम्॥४८॥

केसरं नागकेसरम् । अभीलुर्जटुलः।कनकतैलम्॥४७॥४८॥

मञ्जिष्टा मधुकं लाक्षा मातुलुङ्गं सयष्टिकम्॥
कर्षप्रमाणैरेतैस्तु तैलस्य कुडवं तथा॥४९॥

आजं पयस्तु द्विगुणं शनैर्मृद्वग्निना पचेत्॥
नीलिकापिटिकाव्यङ्गानभ्यङ्गादेव नाशयेत्॥५०॥

मुखं प्रसन्नोपचितं नीलीकर्कशवर्जितम्॥
सप्तरात्रप्रयोगेण भवेत्कनकसंनिभम्॥५१॥

मातुलुङ्गस्य फलं मूलं वा। सयष्टिकं यष्टीमधुयुक्तम्।नीलीकर्कशवर्जितमिति। नीलिकाकृतकर्कशत्वरहितं मुखम्। मञ्जिष्ठादितैलम्॥४९॥५०॥११॥

कुङ्कुमाद्यं तैलमाह—

कुङ्कुमं चन्दनं लाक्षामञ्जिष्टा मधुयष्टिका॥
कालीयकमुशीरं चपद्मकं नीलमुत्पलम्॥५२॥

न्यग्रोधपादाः प्लक्षस्य शुङ्गाः पद्मस्य केसरम्॥
द्विपञ्चमूलसहितैः कषायैः पालिकैः पृथक्॥५३॥

जलाढकं विपक्तव्यं पादशेषमथोद्धरेत्॥
मञ्जिष्ठा मधुकं लाक्षा पत्त(त्रा)ङ्गं मधुयष्टिका॥५४॥

कर्षप्रमाणैरेतैस्तु तैलस्प कुडवं पचेत्॥
अजाक्षीरं तद्द्विगुणं शनैर्मृद्वग्निना पचेत्॥५५॥

सम्यक्पक्वंपरं ह्येतन्मुखवर्णप्रसादनम्711
नीलिकापिटिकाव्यङ्गानभ्यङ्गादेव नाशयेत्॥५६॥

सप्तरात्रेण वदनं भवेत्कमलसंनिभम्॥
कुङ्कुमाद्यामिदं तैलं श्रेष्ठं वैदेहनिर्मितम्712॥५७॥

कषायैरिति। कषायसाधनैरुक्तकुङ्कुमादिभिः।मञ्जिष्ठादिभिः पत्रकल्कैरित्यर्थःकुड्कुमाद्यं तैलम्॥५२॥५३॥ ५४॥५५॥५६॥५७॥

अरूंषिकायां रुधिरेऽवसिक्ते शिराव्यधेनाथ जलौकसा वा॥
निम्बाम्बुसिक्ते शिरसि प्रलेपो देयोऽश्ववर्चोरससैन्धवाभ्याम्॥५८॥

निम्बाम्बुसिक्त इति । निम्बाम्बु अर्धशृतम्। अरूंषिकांतु पुनर्जलौकोभिः शिराव्यधेन वा रक्तमवसिच्य निम्बोदकेन परितः सिक्त्त्वाऽश्वविष्ठारसेन प्रक्षिप्तबहुसैन्धवचूर्णेन लेपयेत्॥५८॥

पुराणमथ पिण्याकं पुरीषं कुक्कुटस्य च॥
मूत्रपिष्टः प्रलेपोऽयं शीघ्रं हन्यादरूंषिकाम्॥५९॥

पिण्याकस्तिलखलिः॥५९॥

हरिद्राद्वयभूनिम्बत्रिफलारिष्टचन्दनैः॥
एतत्तैलमरूंषीणां सिद्धमभ्यञ्जने हितम्॥६०॥

सुगमम्। हरिद्राद्यं तैलम्॥६०॥

दारुणे तु शिरां विध्येत्स्निग्धस्विन्नांललाटजाम्॥
अवपीडशिरोबस्तीनभ्याङ्गांश्चावचारयेत्॥६१॥

दारुणेति दारुणपुष्पका713 (?)। अवपीडशिरोवस्तीनिति। अवपीड्य नस्ये दीयत इत्यवपीडोऽवपीडकः। शिरोबस्तिश्चात्र हरिद्राद्यतैलेन देयः॥६१॥

कोद्रवाणां714तृणक्षारपानीयं परिधावने॥६२॥

सुगमम्॥६२॥

प्रियालबीजमधुककुष्ठमिश्रैःससैन्धवैः॥
कार्यो दारुणके मूर्ध्नि प्रलेपो मधुसंयुतः॥६३॥

** प्रियालबीजमधुककुष्ठमिश्रैः ससैन्धवैरिति।** प्रियालबीजादीनि च तानि मिश्राणि चेति विग्रहं कृत्वा समाधेयं विशेष्यपदस्याभावात्। मिश्रैरित्यस्य स्थाने माषैरिति पाठान्तरम्॥६३॥

मालतीकरवीराग्निनक्तमालैर्विपाचितम्॥

तैलमभ्यञ्जने शस्तमिन्द्रलुप्ताषहंपरम् ॥
इदं हि त्वरितं हन्ति दारुणं नियतं नृणाम्॥६४॥

अग्निश्चित्रकः। मालत्यादिभिः कल्कः। द्रवमिह गोमूत्रं संप्रदायात्। स्नेहपाककल्कपरिभाषया जात्यादिसिद्धेन कटुतैलेन गोमूत्रचतुर्गुणेन शिरोऽभ्यज्यात्। इदं तैलं वातानुबन्धे देयमित्याहुः॥६४॥

स्नुह्याद्यं तैलमाह—

स्नुहीपयः पयोऽर्कस्य मार्कवो लाङ्गलीविषम्॥
मूत्रमाजं सगोमूत्रं रक्तिका सेन्द्रवारुणी॥६५॥

सिद्धार्थतीक्ष्ण715तैलं च गर्भंदत्त्वा विपाचयेत्716
वह्निना मृदुना पक्वंतैलं खलित्यनाशनम्॥६६॥

कर्मपृष्ठसमानाऽपि रूहा717 या रोमतस्करी॥
दिग्धा साऽनेन जायेत ऋक्षशावीवलोमशा॥६७॥

मार्कवो भृङ्गराजः। लाङ्गलाख्यं विषं किं वा लाङ्गली च विषं चेति द्रव्यद्वयम्। रक्तिका गुञ्जा।तीक्ष्णगन्धा ज्योतिष्मतीफलं मूलं च। सिद्धार्थतीक्ष्णतैलमिति पाठे सिद्धार्थस्य भर्जितस्य तीक्ष्णतैलम्।मूत्रमाजं गव्यं मिलित्वा द्रवः शेषः कल्कः। रूहा, इन्द्रलुप्तम्।रोमतस्करी रोमहरणे तस्करीव तस्करी।दारुणचिकित्साप्रस्तावेऽपाठादनुक्तमपि दारुणहरत्वमस्येति वृन्दाभिप्रायः॥६१॥६६॥६७॥

त्रिफलायोरजोमांसीमार्कवोत्पलसारिवैः॥
ससैन्धवैः पचेत्तैलमभ्यङ्गोऽरूंषिकां जयेत्॥६८॥

उत्पलसारिवाऽनन्तमूलं छन्दोनुरोधाद्ध्रस्वत्वम्।त्रिफलाद्यं तैलम्॥६८॥

चित्रकं दन्तिमूलं च कोशातकिसमन्वितम्॥
कल्कं पिष्ट्वापचेत्तैलं केशशत्रुविनाशनम्॥६९॥

**केशशत्रु विनाशनमिति।**केशशत्रु उष्किका718 (?)। चित्रकाद्यं तैलम्॥६९॥

गुञ्जाफलैः शृतं तैलं भृङ्गराजरसेन तु॥
कण्डूदारुणहृत्कष्टकपालव्याधिनाशनम्॥७०॥

भृङ्गवद्राजते शोभते भृङ्गवद्रजति कृष्णी करोति वा भृङ्गराजस्तद्रसेन।भृङ्गराजतैलम्॥७०॥

भृङ्गरजस्त्रिफलोत्पलसारिलोहपुरीषसमन्वितकारि॥
तैलमिदं पच दारुणहारि कुञ्चितकेशघनस्थिरकारि॥७१॥

भृङ्गरजाः स्वनामख्यातः। अस्य रसश्चतुर्गुणः पाकार्थम्। उत्पलसारि, उत्पलकोटीसारिवाऽनन्तमूलम्। समन्वितकारः सहकारः समन्वितशब्दस्य सहार्थत्वात्। तस्य च फलमध्यं ग्राह्यं केश्यत्वात्कृष्णीकरणत्वाच्च। भृङ्गराजादिसमन्वितकारान्तं द्रव्यमस्मिन्नस्तीति मत्वर्थीय इति तैलविशेषणमिदमिति नरदन्तव्याख्यासंप्रदायः। प्रचारोऽपीत्थम्। अन्यस्त्वाह—भृङ्गरजआदि द्रव्यं सर्वकल्कः। द्रवं जलम्। उत्पलसारि,अनन्तमूलम्। भृङ्गरजःप्रभृतिभिः सह समन्वितं समन्वयं कर्तुं शीलमस्येति तैलविशेषणमिति। भृङ्गरजःशब्दः सकारान्तोऽयं सविसर्गपाठात्। तथाऽन्यत्रापि दृश्यते—ये मासमेकं स्वरसं पिबन्ति दिने दिने भृङ्गरजः समुत्थमिति। कुञ्चितं कुटिलम्। भृङ्गराजतैलम्॥७१॥

प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः॥
कार्षिकैस्तैलकुडवैस्तद्द्विरा719मलकीरसः॥७२॥

साध्यः स प्रतिमर्शः स्यात्सर्वशीर्षगदापहः॥७३॥

द्वि(तद्द्वि)रामलकीरस इति। तैलकुडवापेक्षया द्विगुणामलकीरसः। अनेन द्विगुणेनैव पाकः। प्रतिमर्शो नस्यभेदः। प्रपौण्डरीकाद्यं तैलम्॥७२॥७३॥

इन्द्रलुप्ते शिरां विद्ध्वाशिलाकासीसतुत्थकैः॥

लेपयेत्परितः कल्कैस्तैलं चाभ्यञ्जने हितम्॥
कुटन्नटशिखीजातीकरञ्जकरवीरकैः॥७४॥

शिरां विद्ध्वा मूर्ध्नीति शेषः। तैलं चाभ्यञ्जने हितमिति। कुटन्नाटादिभिः। कुटन्नटस्तगरः।शिखी, अपामार्गश्चित्रको वा॥७४ ॥

अवगाढपदं वाऽपि प्रस्थयित्वा720 पुनः पुनः॥
गुञ्जामूलैश्चिरं लिम्पेत्केशभूमिं समन्ततः॥७५॥

सुगमम्॥७५॥

इन्द्रलुप्तापहो लेषोमधुना बृहतीरसः॥७६॥

बृहतीरस इति। पक्वबृहतीफलरसः॥७६॥

बृहतीफलरसपिष्टं गुञ्जाफलमूलमिन्द्रलुप्तस्य॥
कनकविघृष्टस्य सतो दातव्यं प्रस्थितस्य सदा॥७७॥

** गुञ्जाफलमूलमिति**। गुञ्जायाः फलं मूलं वा। कनकविघृष्टस्येति। कनकं सुवर्ण धत्तूरफलं वा॥७७॥

मधुकेन्दीवरमूर्वातिलाज्यगोक्षीरभृङ्गलेपेन॥
अचिराद्भवन्ति केशा घनदृढमूलायता ऋजवः॥७८॥

इन्दीवरं नीलोत्पलम्। भृङ्गो भृङ्गराजः॥७८॥

वटावरोहकेशिन्योश्चूर्णेनाऽऽदित्यपाचितम्॥
गुडूचीस्वरसे तैलमभ्यङ्गात्केशरोहणम्<MISSING_FIG href=”../../../books_images/U-IMG-1706328984240129.png”/>॥७९॥

वटावरोहकेशिन्योरिति। केशिनी भूतकेशो वा। गुडूचीस्वरसस्तैलसम इत्याहुः॥७९॥

चन्दनाद्यं तैलमाह—

चन्दनं मधुकं मूर्वा त्रिफला नीलमुत्पलम्॥
कान्ता वटावरोहश्च गुडूची विसमेव च॥८०॥

लोहचूर्णंतथा केशी सारिवे द्वे तथैव च॥
मार्कवस्वरसेनैव तैलं मृद्वग्निना पचेत्॥८१॥

शिरस्युत्पतिताः केशा जायन्ते घनकुञ्चिताः॥

दृढमूलाच स्निग्धाश्च तथा भ्रमरसंनिभाः॥
नस्येनाकालपलितं निहन्यात्तैलमुत्तमम्॥८२॥

कान्ता प्रियंगुः। बिसं मृणालं शीतलत्वेन पलितहरत्वान्न तु विषं मारकद्रव्यम्। मार्कवस्वरसश्चतुर्गुणः पाकार्थम्॥८०॥८१॥८२॥

तैलं सयष्टीमधुकैः क्षीरे धात्रीफलैः शृतम्॥
नस्ये दत्तं जनयति केशाञ्श्मश्रूणि वाऽप्यथ॥८३॥

क्षीरे धात्रीफलैः शृतमिति। क्षीरमेव चतुर्गुणं द्रवान्तराभावात्॥८३॥

हस्तिदन्तमषीं कृत्वा मुख्यं चैव रसाञ्जनम्॥
रोमाण्यनेन जायन्ते लेपात्पाणितलेष्वपि+॥८४॥

मुख्यमिति श्रेष्ठम्। हस्तिदन्तमषीरसाञ्जनाभ्यां लेपः। तैलेन वाग्भटे। छागक्षी-
______________________________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1706329397240129.png"/>ख. पुस्तके—आदाय तिलपुष्पाणि सर्पिरश्वखुरंतथा मधुना सह संयुक्तं शिरोलेपं तु कारयेत्॥१॥ तैलेनानेन जायन्ते केशा हस्ततलेष्वपि। आनूपदेशजं पुष्पं गृहीत्वा मार्कवं शुभम्॥२॥ सुधौतं जर्जरीकृत्य रसं तस्य समाहरेत्। चतुर्गुणेन तैलेन तैलप्रस्थं विपाचयेत्॥३॥ क्षीरपिष्टैरिमैर्द्रव्यैः संयोज्य मतिमान्भिषक्। मञ्जिष्ठा पद्मकं रोध्रंचन्दनं गैरिकं बला॥४॥ रजन्या केसरं चैव प्रियंगुमधुयष्टिकैः।प्रपौण्डरीकं मांसी च पालिकान्यत्र दापयेत्॥५॥ सम्यक्पक्वंततो ज्ञात्वाशुभे भाण्डे निधापयेत्। केशशाते शिरोदुःखे मन्यास्तम्भे हनुग्रहे॥६॥ दन्तकर्णाक्षिरोगेषु नस्यमेतत्प्रयोजयेन्। सुकुबिताग्रान्सुस्निग्धान्केशाकुर्याद्बहूंस्तथा॥७॥ लिप्तं चेन्द्रलुप्तं च तैलमेतद्यथाऽमृतम् (?)॥ इन्द्रलुप्तम्।

**+**ख. पुस्तके—" द्विपदशनः पुटदग्धः साजक्षीरो रसाञ्जनोपेतः। दिनसप्तकमलेपात्स्वानिवतेष्वपि केशसंचयं कुरुते॥१॥ चतुष्पदानां त्वग्रोमखुरशृङ्गास्थिजा मषी । तैलाक्ता चूर्णिता भूमिर्भवेद्रोमवतीपुनः॥२॥ कासीसं नक्तमालस्य पल्लवांश्चैव संहरेत्। कपित्थरसपिष्टश्च रोमसंजनने परम्”॥ ३॥ इत्यधिकमंत्र।
______________________________________________________________

रेण सह हरमेखले दर्शितः।पुटपाकेन च हस्तिदन्तमषीकार्या। तथाच वाग्भटः—

“दग्धो वारणदन्तोऽन्तर्धूमस्तैलं रसाञ्जनम्।
रोमसंजननो लेपो हस्तपादतलेष्वपि"।

चक्रसंग्रहे हरमेखलसमानः श्लोकः पठितः।

तथाहि—

“छागक्षीररसाञ्जनपुटदग्धगजेन्द्रदन्तमपीलिताः।
जायन्ते सप्तरात्रात्खल्लाश्चाऽऽकुश्चिताश्चिकुराः”॥८४॥

त्रिफला नीलिनीपत्रं लोहभृङ्गरजः समम्॥
अविमूत्रेण संयुक्तं कृष्णीकरणमुत्तमम्721॥८५॥

नीलिनीपत्रमिति। नीलिनी लता नेलीतिख्यातातदभावे शरपुङ्खसदृशविटपा ग्राह्या। शिरोलेपोऽयं प्रहरौद्वौ त्रीनवधार्यः। एवमन्यत्रापि शिरोलेपे धारणम्॥८५॥

त्रिफलाचूर्णसंयुक्तं लोहचूर्ण विनिक्षिपेत्॥८६॥

ईषत्पक्वेनालिकेरे भृङ्गराजरसान्विते॥
मासमेकं विनिक्षिप्य सम्यग्गर्भात्तदुद्धरेत्॥८७॥

ततः शिरो मुण्डयित्वा लेपं दत्त्वा भिषग्वरः॥
संवेष्ट्यकदली पत्रैर्मोचयेन्सप्तमे दिने॥८८॥

क्षालयेत्रिफलाकायैः क्षीरमांसरसाशिनः॥
कपालरञ्जनं चैतत्कृष्णीकरणमुत्तमम्<MISSING_FIG href="../../../books_images/U-IMG-1706330620240129.png"/>॥८९॥

** गर्भादिति**।नालेकेगेदरात्॥८६॥८७॥८८॥८९॥

उत्पलं पयसा सार्धं मासं भूमौ निधापयेत्॥
केशानां कृष्णकरणं स्नेहनं च विधीयते॥९०॥

सुगमम्॥९०॥

लोहमलामलकल्कैः सजपाष्पैर्नरः सदास्नायी॥
पलितानीह न पश्यति गङ्गास्नायीव नरकाणि॥९१॥

** सजपापुष्पैरिति**। जपापुष्पं दृहल्लइति॥९१॥

निम्बस्य बीजानि विभावितानि भृङ्गस्य तोयेन तथाऽसनस्य॥
तैलं तु तेषां विनिद्दन्ति नस्यं दुग्धान्नभोक्तुःपलितं समूलम्॥९२॥

तथाऽसनस्येति। असनः पीतशालः॥९२॥

___________________________________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1706361179240129.png"/>ख. पुस्तके ग्रन्थान्तरान्—‘इक्षुरसो गिरिकर्णिकमूलं भृङ्गसामलपयिनिकन्दम्। आयसभाजनमामनिषिक्तं रङ्गनि केशकपालसदन्ती’॥१॥ इत्याधिकमत्र।
___________________________________________________________________

निम्बस्य तैलं प्रकृतिस्थमेव नस्यं विधेयं विधिना यथावत्॥
मासेन722तु क्षीरभुजो नरस्य जराग्रदूतं पलितं निहन्ति॥९३॥

** निम्बस्येति**। निम्बबीजस्य।प्रकृतिस्थमेवेति। भृङ्गराजरसादिभावनारहितम्। विधिनेति। नस्योक्तविधिना॥९३॥

क्षीरत्समार्कवरसाद्द्वेप्रस्थे मधुकात्पले॥
तैलस्य कुडवं पक्वंतन्नस्यं पलितापहम्॥९४॥

**द्वे प्रस्थे इति।**मिलित्वा॥९४॥

कासीसरोचनातुत्थहरितालरसाञ्जनैः॥
अम्लपिष्ठैः प्रलेपोऽयं मुष्ककच्छ्वहिपूतयोः॥९५॥

** मुष्ककच्छ्वहिपतयोरिति।** मुष्ककच्छूर्वृषणकच्छूः। अहिपूतोऽहिपूतनम्॥९५॥

पटोलपत्रत्रिफलारसाञ्जनविपाचितम्॥
पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनाम्॥९६॥

सुगमम्॥९६॥

रजनीमार्कवमूलं पिष्टं शीतेन वारिणा तुल्यम्॥
हन्ति विसर्पंलेपाद्वराहदशनाह्वयं घोरम्॥९७॥

सुगमम् ॥ ९७ ॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां सप्तपञ्चाशत्तमः
क्षुद्ररोगाधिकारः समाप्तः॥५७॥
<MISSING_FIG href="../../../books_images/U-IMG-1706361997241803-removebg-preview.png"/>

अथाष्टपञ्चाशत्तमो मुखरोगाधिकारः।
___________

रोगगणनत्वसाधर्म्यादथ मुखरोगाधिकारः। मुखरोगाः पञ्चषष्टिः क्षुद्ररोगाश्चतुश्चत्वारिंशदिति रोगगणनत्वसाधर्म्यम्। यद्यपि ललाटाक्षिश्रवणगण्डौष्ठचिबुकसमुदायो बाह्यम्। ओष्ठदन्तमूलदन्तजिह्वातालुकण्ठसमुदायश्चाभ्यन्तरमिति द्विविधं मुखम्। बाह्याभ्यन्तरभेदेन ततो वक्त्रं द्विधा भवेदित्युक्त्तत्वात्। तथाऽप्यत्र बाह्यमुखावयवानां नयनश्रवणादीनां पृथक्चिकित्सितोक्तेरभ्यन्तरमेव मुखं विवक्षितमिति ज्ञेयम्। तत्रौष्ठादिमुखावयवरोगचिकित्सितेऽप्यवयवावयविनोरभे-दान्मुखरोगचिकित्सितमित्युक्तम्॥

ओष्ठप्रकोपे वातोत्थे साल्वणेनोपनाहनम्॥१॥

उष्येते तीक्ष्णद्रव्यैरित्योष्ठौ तयोः प्रकोपे। ओष्ठप्रकोपो दोषाणां कर्मेति प्रकोपशब्दादोष्ठ723ते स्वरूपावस्थितेर्दोषाणां यथा निर्दिष्टप्रकोपेष्वेव चिकित्सितं कार्यं न तु मांसादिगतानां तेषामसाध्यत्वात्॥१॥

मस्तिष्के चैव नस्ये च तैलं वातहरैः शृतम्॥
स्वेदोऽभ्यङ्गः स्नेहपानं रसपानमपीष्यते॥२॥

मस्तिष्क इति। शिरोबस्तौ स्नेहाक्तपिचुधारणे वा। स्वेद इति। नाडीस्वेदः। अभ्यङ्ग इति। चतुर्विधेन चतुष्प्रकारेण स्नेहेन दोषाद्यपेक्षया समस्तव्यस्तेन स्नेहपाकपरिभाषया वातहरकषायमधूच्छिष्टकल्कशृतेनाभ्यङ्गः। रसपानमित्यस्य स्थाने रसायनमिति तु पाठे च्यवनप्राशादि॥२॥

श्रीवेष्टकं सर्जरसं गुग्गुलुं सुरदारु च॥
यष्टीमधुकचूर्णं च विदध्यात्प्रतिसारणे॥३॥

श्रीवेष्टकः सरलनिर्यासः। प्रतिसारण इति। अवचूर्णे॥३॥

वेधं शिराणां वमनं विरेकं तिक्तस्य पानं रसभोजनं च।
शीतान्प्रलेपान्परिषेचनं च पित्तोपसृष्टेष्वधरेषु कुर्यात्॥४॥

वेधं शिराणामिति। ओष्ठे जिह्वायां वा शिराव्यधः। तिक्तस्येत्यतः परं घृतस्येति शेषः॥४॥

पित्तरक्ताभिघातोत्थं जलौकोभिरूपाचरेत्॥
पित्तविद्रधिवच्चापि क्रियां कुर्यादशेषतः॥५॥

**पित्तरक्ताभिघातोत्थमिति।**पित्तोत्थं रक्तोत्थमभिघातोत्थं च। ओष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजा इत्यनेन रक्तजोष्ठप्रकोपो यद्यप्यसाध्य उक्तस्तथाऽप्यनति वृद्धे तत्र चिकित्सेयं ज्ञेयेत्याहुः। क्रियामशेषत इति संशोधनसंशमनरूपां बाह्यामाभ्यन्तरीं च॥५॥

शिरोविरेचनं धूमः स्वेदः कवलधारणम्॥
हृतेरक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके॥६॥

धूमो वैरेचनिकः कके यौगिकत्वात्। कवलधारणं कटुरसद्रव्यकृतम्॥६॥

त्रिकटु स्वर्जिकाक्षारः क्षारश्च यवशूकजः॥
क्षौद्रयुक्तं विधातव्यमेतच्च प्रतिसारणम्॥७॥

सुगमम्॥७॥

भेदोजे स्वेदिते भिन्ने शोधिते ज्वलनो हितः॥

शोधित इति। मेदोहरणेन च। ज्वलनोऽग्निः। इदमुक्तं भवति मेदोजे पुनरस्नेहपूर्वं स्वेदिते भित्त्वा मेदसोऽपकर्षणम्। शोधिते चाग्नेरवचारणं पथ्यम्॥

प्रियंत्रिफलालोध्रंसक्षौद्रंप्रतिसारणम्॥
हितं च त्रिफलाचूर्णं मधुयुक्तं प्रलेपनम्॥८॥

सुगमम्॥८॥

अथदन्तमूलगतानां चिकित्सा—

शीतादे हृतरक्ते तु तोये नागरसर्षपान्॥

निष्क्वाथ्य त्रिफलां चापि कुर्याद्गण्डूषधारणम्॥
प्रियंगवश्च मुस्तं च त्रिफला च प्रलेपनम्॥९॥

निष्काथ्य त्रिफलां मुस्तं गण्डूषः सरसाञ्जन इति पाठान्तरम्॥९॥

कुष्ठं दार्वीलोध्रमब्दं समङ्गा पाठा तिक्ता तेजिनी पीतिका च॥
चूर्णं शस्तं घर्षणेन द्विजानां रक्तास्रावं हन्ति कण्डूरुजं च॥१०॥

तेजिनी चविका मूर्वा वा। पीतिका हरिद्रा॥१०॥

चलद्दन्तस्थितिकरं724कार्यं बकुलचर्वणम्॥११॥

बकुलचर्वणमिति। बकुलफलास्थिचर्वणम्॥११॥

दन्तपुप्पुटके कार्यंतरुणे रक्तमोक्षणम्॥
सपञ्चलवणक्षारः सक्षौद्रः प्रतिसारणम्॥१२॥

तरुण इति। उत्पन्नमात्रे।क्षारो यवक्षारः॥१२॥

दन्तानां तोदहर्षौच जायेते वाततस्तयोः॥
उष्णतैलाज्यवातघ्ननिर्यूहाः कवलग्रहाः॥१३॥

तयोरिति। शीताददन्तपुप्पुटयोरेतयोश्च रक्तहरणादिजातवातानुबन्धेन तोदहर्षोद्भवे कोष्णतैलादिभिः कवलग्रहा हिताः॥१३॥

माक्षिकं पिप्पलीसर्पिर्मिश्रितं धारयेन्मुखे॥
दन्तशूलहरं मोक्तं प्रधानमिदमौषधम्॥१४॥

सुगमम्॥१४॥

विस्राविते दन्तवेष्टे व्रणं तु प्रतिसारयेत्॥
लोध्रपत्त(त्रा)ङ्गमधुकलाक्षाचूर्णैर्मधूत्तरैः॥१५॥

** विस्त्रावित इति**। जलौकः प्रच्छन्नादिना हृतरक्ते। व्रणं जलौकः प्रच्छन्नादिजम्। पत्त(त्रा)ङ्गं रक्तचन्दनम्।मधूत्तरैर्मधुप्रधानैः॥१५॥

गण्डूषे क्षीरिणो योज्याः सक्षौद्रघृतशर्कराः॥

गण्डूषे क्षीरिण इति। क्षीरिणो वटादयः। ते च क्वथिता ज्ञेयाः॥

सौषिरे हृतरक्ते तु लोध्रमुस्तरसाञ्जनैः॥
सक्षौद्रैःशस्यते लेपो गण्डूषे क्षीरिणो हिताः॥१६॥

सुगमम्॥१६॥

क्रियां परिदरे कुर्याच्छीतादोक्तां विचक्षणः॥१७॥

शीतादोक्तामित्यनेन परिदरे पित्तासृक्कफजे कफरक्तजशीतादक्रियातिदेशः पित्तस्यापि रक्तप्रशमक्रियोपशयात्॥१७॥

संशोध्योभयतः कायं शिरश्चोपकुशे ततः॥

कोको725दुम्बरिकागोजीपत्रैर्विस्रावयेद्भिषक्॥
क्षौद्रयुक्तैश्च लवणैः सव्योषैः प्रतिसारयेत्॥१८॥

संशोध्योभयतः कायं शिरश्चेति ग्रन्थः परिदर उपकुशे च योजयन्ति। तत्र परिदरे कफहितं वमनं विरेचनं च रक्तपित्तहितं शिरोविरेचनं च तत्स्थानस्थकफजयार्थम्। एवमुपकुशेऽपि। उपकुशः पित्तासृजो यद्यप्युक्तस्तथाऽपि कफोऽत्र तन्त्रान्तरप्रत्ययादवगन्तव्यः

तथा च—

“वेष्टे हि दाहपाकौ चलनं दन्तेषु नासिकापतनम्।
कुर्यात्पित्तं रक्तं कफश्च कुपितस्तथोपकुशे” इति॥

शिरश्च संशोध्येति संबन्धः।कायमित्यस्य स्थाने कार्यमिति पाठान्तरे कार्यं शीतादोक्तं कर्म परिदरे।उपकुशे तु रक्तविस्रावणं वक्ष्यमाणं कार्यमिति प्रत्येतव्यम्। काष्ठो(को)दुम्बरिका गोष्ठोदुम्बरिका।गोजी गोजिह्वा॥१८॥

पिप्पल्यः सर्षपाः श्वेता नागरं नैचुलं फलम्॥
सुखोदकेन संसृज्य कवलं तस्य योजयेत्॥१९॥

नैचुलं फलमिति। निचुलो हिज्जलो जलवेतसस्तस्य फलं नैचुलम्॥१९॥

शस्त्रेण दन्तवैदर्भे दन्तमूलानि शोधयेत्॥
ततः क्षारं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः॥२०॥

अभिघातजेऽपि दन्तवैदर्भे शस्त्रेण दन्तमूलमांसच्छेदनमप्यभिघातजदुष्टशोणितकृतपाकशीर्णमांसापनयनार्थम्। क्षारप्रयोगोऽपीह शोधितशेषपूतिमांसापनोदार्थं ततः शीतक्रिया पित्तनिर्वापणार्थम्॥२०॥

उद्धृत्याधिकदन्तं तु ततोऽग्निमवचारयेत्॥
कृमिदन्तकवच्चात्र विधिः कार्यो विजानता॥२१॥

उद्धृत्याग्निदाहो रक्तादिस्रुतिनिर्वापणार्थम्। कृमिदन्तकविधिरत्रोद्धार्यकृमिदन्तविधिर्ज्ञेयः। अचलत्वादनुद्धार्यकृमि-दन्तकविधिस्त्वसमानत्वान्नोचितः। कृमिदन्तके चल उद्धरणदाहावुक्तौ। अधिदन्ते पुनरचलेऽपि तद्विधानार्थं कृमिदन्तकविधेरतिदेशलब्धयोरप्युद्धरणदाहयोरभिधानम्॥२१॥

छित्त्वाऽधिमांसं सक्षौद्रैरेतैश्चूर्णैरुपाचरेत्॥
पाठावचातेजवतीस्वर्जिकायावशूकजैः॥२२॥

तेजवती चविका मूर्वा वा। यावशूको यवक्षारः॥२२॥

क्षौद्रद्वितीयाः पिप्पल्यः कवलश्चात्र कीर्तितः॥

सक्षौद्रः सपिप्पलीकश्च सुखोदके कवलग्रहः॥

पटोलनिम्बत्रिफलाकषायश्चात्र धावने॥२३॥

सुगमम्॥२३॥

शिरोविरेकश्च हितो धूमो वैरेचनश्च यः॥

सुगमम्॥

नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत्॥२४॥

यदेव वातादिनाडीनां कर्मोक्तं तदेव दन्तनाडीनां कार्यम्॥२४॥

यं दन्तमभि जायेत नाडी दन्तं तमुद्धरेत्॥
छित्त्वामांसं तु शस्त्रेण यदि नोपरिजो भवेत्॥२५॥

यं दन्तमभि नाडी स्याद्यस्य दन्तस्य समीपे नाडी स्यात्तं दन्तं चलमचलं वा शस्त्रेण दन्तधारणमांसं छित्त्वोत्पाटयेत्। यदि नोपरिजो भवेदिति। ऊर्ध्वगतदन्तपङ्क्तिगतश्चेन्न भवति। उद्धरणस्यापवादः॥२५॥

शोधयित्वा दहेच्चापि क्षारेण ज्वलनेन वा॥२६॥

ततः क्षाराग्निदाहो रक्तातियोगनिवारणाय॥२६॥

अधोगदन्ते गत्युपेक्षायां दोषमाह—

गतिर्हिनस्ति हन्वस्थि दशने समुपेक्षिते॥
तस्मात्समूलं दशनमुद्धरेद्भग्नमस्थि च॥२७॥

हिनस्ति मारयति। दशने समुपेक्षितेऽनृद्धरणेन। समूलं दशनमुद्धरेदिति। स्थिरदन्तमूलमपि समुद्धरेत्। भग्नमस्थि चेति। दन्तोद्धरणे भग्नशेषमस्थि किं च गतिविशोषितं हन्वस्थि भग्नमस्थीत्युच्यते। आगन्तुजनाड्या यद्भग्नमस्थिभवेत्तदुद्धरेदित्युच्यते विधिरिति कार्तिकः। ‘भिनत्त्युपेक्षिते दन्ते हनुकास्थि गतिर्ध्रुवम्’इति सुश्रुते पाठः॥२७॥

उपरिजदन्तानुद्धारे हेतुमाह—

उद्धृते तूत्तरे दन्ते शोणितं संप्रसिच्यते॥

रक्तातियोगात्पूर्वोक्ता घोरा रोगा भवन्ति च॥
चलमप्युत्तरं दन्तमतो नापहरेद्भिषक्॥२८॥

उत्तर उपरिजे। उत्तम इति पाठे राजदन्तद्वये।शोणितं संप्रसिच्यत इत्यत्र केचित्संमूलेऽस्थिरबन्धन इति पठन्ति तत्रास्थिरबन्धनेऽदृढतरदन्तवेष्ट इति। पूर्वोक्ता रोगा इति शोणितवर्णनीयोक्ता रक्तातियोगनिमित्ताः शिरोभितापाक्षेपकादयः। चकारात्काणार्दितौ सुश्रुतोक्तौ लभ्येते॥२८॥

कषाये जातिमदनकटुकस्वादुकण्टकैः॥२९॥

लोध्रखदिरमञ्जिष्ठायष्ट्याह्वैश्चापि यत्कृतम्॥
तैलं संशोधनं तद्धि हन्ति दन्तगतां गतिम्॥३०॥

कषायं परतः कृत्वा दृष्ट्वा लोध्रादि कल्कितम्॥
कण्टकी मदनो योज्यः स्वादुकण्टा विकङ्कतः॥३१॥

जात्यादिभिः स्वादुकण्टकान्तैः कषायं मुखधावनं कार्यम्। लोध्रादिभिस्तु यष्ट्याह्वान्तैः कल्करूपैस्तैलं विपाच्यम्। किं वा कषायमित्यस्मात्परतः कृत्वेति पदं द्रष्टव्यम्। तेन जात्यादिभिः कषायं कृत्वा लोध्रादिकल्केन तैलं विपक्तव्यम्। इमां च व्याख्यां वृन्द एव व्याकरिष्यति। अनयैव व्याख्यया प्रचारः। केचित्कषायशब्दं समासेन निर्विभक्तिकं पठन्ति तेषां मते कषायमामं पूगफलम्।मिश्रकोक्तशङ्खिन्यादिशोधनकषायद्रव्यजात्यादिलोध्रादीनां कल्केन तैलपाकः। कषायद्रव्याणां तद्गतत्वेऽपि जात्याः पृथगभिधानं यथालाभप्रयोगनिषेधार्थं भागद्वयग्रहणार्थं वेति कार्तिकव्याख्या। जैज्जटस्तु सुश्रुते धावनं जातिमदनस्वादुकण्टकस्वादिरमित्यधिकं पठित्वा कषायमिति पदं धावनमित्यनेन सह योजयति। तेन जात्यादिकषायेण मुखधावनं परेण तु जातिमदनादिना कल्केन तैलसाधनमिति फलति। कटुकं त्रिकटुकं रोहिणी वा। एषैवोचिता सुश्रुते क्वापि कटुकापाठात्। स्वादुकण्टको गोक्षुरक इति डल्लणः। कषायं परतः कृत्वा दृष्ट्वेति। कषायमित्यस्मात्परतः कृत्वेति पदं वाक्यशेषतन्त्रयुक्त्या दृष्ट्वेत्यर्थः। शङ्खिन्यङ्कोटेत्यादिग्रन्थः क्वापि पठ्यते स तु कषायशब्दसमासनिर्देशपक्षे कार्तिकव्याख्यातमिश्रकोक्तशोधनकषायद्रव्याकारः॥२९॥३०॥३१॥

इति दन्तमूलरोगाधिकारः॥
_______

संप्रति दन्तरोगचिकित्सितम्। दन्तरोगचिकित्सायां च दालनमादिपठितमसाध्यत्वात्परित्यज्य निदानसंग्रहोक्तक्रमेण दन्तचिकित्सायां वक्तव्यायां प्रथमं दन्तहर्षचिकित्साभिधानं शर्कराकपालिकयोरपि दन्तहर्षक्रियासाध्यत्वेन प्राधान्यादिति चक्रपाणिः। दालनं वातिके प्रत्याख्याय दन्तहर्षक्रियाभिधानार्थमिति कार्तिककुण्डः।

सुखोष्णाः स्नेहकवलाः सर्पिषस्त्रैर्वृतस्यवा॥

निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः॥
स्नैहिकश्च हितो धूमो नस्यं स्नैहिकमेव च॥३२॥

स्नेहकवला इति। स्नेहाः सर्पिस्तैलवसामज्जानस्तेषां व्यस्तसमस्तानां कवलाः।सर्पिषस्त्रैवृतस्य वेति। त्रैवृतं सर्पिः सुश्रुतेऽपतानकचिकित्सितोक्तम्निर्यूहाः क्वाथाः। स्नेहकवलवातहरनिर्यूहधूमनस्यानि यथायोग्यावस्थायामूह्यानि॥३२॥

अहिंसन्दन्तमूलानि शर्करामुद्धरेद्भिषक्॥
लाक्षाचूर्णैर्मघुयुतैस्ततस्तं प्रतिसारयेत्॥३३॥

दन्तमूलहिंसयाऽभिघातदन्तनाडी दन्तपातो वा स्यात्। अतस्तत्परिहारार्थमुक्तमहिंसन्दन्तमूलानीति। प्रतिसारये-द्वर्षयेत्॥३३॥

दन्तहर्षक्रियां चापि कुर्यान्निरवशेषतः॥

सुगमम्॥

कपालिका कृच्छ्रसाध्या तत्राप्येषा क्रिया हिता॥३४॥

कपालिका कृच्छ्रसाध्येत्यनेनाऽऽदावेव कपालिका प्रतिकर्तव्येति शिक्षयति। एषा क्रियेति। दन्तहर्षोक्ता।कपालिकाया वातजत्वाच्छर्करोक्तेत्यन्ये॥३४॥

जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम्॥३५॥

तथाऽवपीडैर्वातघ्नैःस्नेहगण्दूषधारणैः॥
भद्रदार्वादिवर्षाभूलेपैः स्निग्धैश्चभोजनैः॥३६॥

विस्रावणैरिति। कृमिदूषितशोणितनिर्हरणैः। अवपीडैर्वातघ्नैरिति। वातहरद्रव्यकृतत्वाद्वातघ्नोऽवपीडः।भद्रदार्वादिर्वातहरो गणः॥३५॥३६॥

हिङ्गु सोष्णं तु मतिमान्कृमिदन्ते प्रदापयेत्॥३७॥

सोष्णं किंचिदुष्णम्॥३७॥

बृहती भूमिकदम्बकपञ्चाङ्गुलकण्टकारिकाक्वाथः॥
गण्डूषस्तैलयुतः कृमिदन्तकवेदनोपशमः॥३८॥

भूकदम्बोऽलम्बुषः। पञ्चाङ्गुल एरण्डः॥३८॥

चलमुद्धृत्य वा स्थानं दहेत्तु सुषिरस्य वा॥३९॥

चलमुद्धृत्य वेति। वाशब्दोऽवधारणे। चलमुद्धृत्यैवेत्यन्ये। स्थानमिति। उद्धृतदन्तस्य समग्रं स्थानम्। दहेच्छुध्द्यर्थं शोणितस्रावनिषेधार्थम्। सुषिरस्य वेति। कृतच्छिद्रस्य यावन्मात्रं स्थानं तावदेव वा दहेत्। अत्र स्थानशब्द आवर्तनीयः। भूरिदेशदुष्टौ सत्यां समग्रस्थानदाह एकदेशस्थानदुष्टौ तु सुषिरस्थानमात्रदाह इति व्यवस्था॥३९॥

ततो विदारीयष्ट्याह्वशृङ्गाटककसेरुभिः॥
तैलं दशगुणक्षीरं सिद्धं नस्ये तु पूजितम्॥४०॥

सुगमम्॥४०॥

हनुमोक्षे समुद्दिष्टां कुर्यादर्दितवत्क्रियाम्॥

अर्दितवत्समुद्दिष्टामित्यात इव समुद्दिष्टां क्रियां कुर्यात्। समुद्दिष्टग्रहणेनैतज्ज्ञापयत्यर्दितोक्तामातिदेशिकीं वातव्याधिविधानेनोपचरेदित्येवंरूपां वैशेषिकीं वातार्दितोक्तां मस्तिष्कशिरोवस्तिनस्यधूमोपनाहादिकां विविधामपि क्रियां कुर्यादिति। हनुमोक्षो दन्तसामीप्याद्दन्तरोगमध्ये पठितः॥

फलान्यम्लानि शीताम्बु रूक्षान्नंदन्तभावनम्॥
तथाऽतिकठिनान्भक्ष्यान्दन्तरोगी विवर्जयेत्॥४१॥

सुगमम्।साध्यानां दन्तरोगाणां चिकित्सितमुक्तं श्यावदालनभञ्जनानामसाध्यत्वान्नोदाहृतम्॥४१॥

इति दन्तरोगाधिकारः।
_________

अथ जिह्वागतरोगचिकित्सितम्—

ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक्चिकित्सितम्॥
कण्टकेष्वनिलोत्थेषु तत्कार्यं भिषजा खलु॥४२॥

कण्टकेष्विति। कण्टको जाडीति लोके॥४२॥

पित्तजेषु निघृष्टेषु निःस्रुते दुष्टशोणिते॥
प्रतिसारणगण्डुपनस्यं च मधुरं हितम्॥४३॥

**निघृष्टेष्विति।**कर्कशशाखोटकादिपत्रेण।मधुरगणकृतत्वान्मधुरं प्रतिसारणादित्रयम्। डल्लणस्तु प्रतिसारणं मधुरैर्दव्यैः काकोल्यादिभिः। गण्डूपोऽपि तैरेव क्वथितैः। नस्यमपि दशगुणक्षीरं तत्कल्कसाधितमिति व्याख्याति॥४३॥

कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये॥
पिप्पल्यादिर्मधुयुतः कार्यं तु प्रतिसारणम्॥४४॥

लिखितेष्विति।मण्डलाग्रादिना।असृजः क्षयेऽवसाने विराम इत्यर्थः। पिप्पल्यादिर्गणः॥४४॥

गृह्णीयात्कवलं वाऽपि726 गौरसर्षपसैन्धवैः॥

गौरसर्षपसैन्धवैरिति। गौरसर्षपः श्वेतसर्षपः।कवलोऽयमुष्णाम्बुयोगात्॥

पटोलनिम्बवार्ताकक्षारयूषैश्चभोजयेत्॥४५॥

** **पटोलादिभिः क्षारयूषेण वा भोजयेत्। क्षारप्रधानो यूषः क्षारयूषः। क्षारो यवक्षारः।वैकारणेऽप्युक्तम्—

“शुष्कमूलकुलत्थादियूषाः क्षारोत्तरा हिताः।
कुलकं निम्बपत्रं च वार्ताकं चाशने हितम्" इति॥४५॥

उपजिह्वांतु संलिख्य क्षारेण प्रतिसारयेत्॥
शिरोविरेकगण्डूषधूमैश्चैनामुपाचरेत्॥४६॥

क्षारेणेति। प्रतिसारणीयेन। गण्डूष इह कफद्रव्यहरकृतो ज्ञेयः। डल्लणस्तु गण्डूषः कफव्रणहरद्रव्येण कफकण्टकहरणद्रव्येण वेति व्याख्याति। धूमैश्च वैरेचनिक धूमैः॥४६॥

व्योषक्षाराभयावह्निचूर्णमेतत्प्रघर्षणम्॥

सुगमम्॥

उपजिह्वोपशान्त्यर्थमेभिस्तैलं विपाचयेत्॥४७॥

सुगमम्।अलासः पुनरत्र कफरक्तकृत आशुकारित्वात्प्रत्याख्यायैव विरेचनशोणितमोक्षणकवलशिरोविरेचन धूमवमनादिभिरूपचर्यः। जिह्वागतानां साध्यानां चिकित्सा॥४७॥

अथ तालव्यानां चिकित्सा—

तालुमले कफा सृग्भ्यां जायते गलशुण्डिका॥
छित्त्वा तां व्योषसिन्धूत्थोग्राक्षौद्रैःप्रतिसारयेत्॥४८॥

गलशुण्डिकाछेदो यथा सुश्रुते दर्शितस्तथा कार्यः।

तद्यथा—

“अङ्गुष्ठाङ्गुलिसंदंशेनाऽऽकृष्यगलशुण्डिकाम्।
छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम्॥

नोत्कृष्टां नैव हीनां च त्रिभागं छेदयेद्भिषक्।
अत्यादानात्स्नेवेद्रक्तं तन्निमित्तं जहात्यसून्॥

हीनच्छेदाद्भवेच्छोफो लालास्रावो भ्रमस्तमः॥

तस्माद्वैद्यः प्रयत्नेन दृष्टकर्मा विशारदः।
गलशुण्डीं तु संछिद्य कुर्यात्प्राप्तमिमं क्रमम्” इति॥४८॥

गलशुण्डी क्षयं याति वज्रीक्षीरेण लेपनात्॥

वज्रीक्षीरेणेति। वज्री स्नुहीभेदो वाजरा इति लोके॥

कुष्ठारुणावचासिन्धुकृष्णापाठाप्लवैरपि।
सक्षौद्रौर्भिषजा कार्यं गलशुण्ड्यां प्रघर्षणम्॥४९॥

अरुणाऽतिविषा। प्लवं कैवर्तकमुस्तकम्॥४९॥

वचामतिविषां पाठां रास्नांकटुकरोहिणीम्॥
निष्क्वाथ्य पिचुमन्दं च केवलं तत्र योजयेत्॥५०॥

सुगमम्॥५०॥

क्षारसिद्धेषु मुद्गेषु यूषश्चाप्यशने हितः॥

क्षारसिद्धेष्विति। क्षाराम्बुसिद्धेषु। क्षारश्च कफहरद्रव्यकृतो ज्ञेयः। क्षारसिद्धेषु मुद्गेषु यूपश्चाप्यशने हित इति। मुद्गेन कृतो यूषो यवक्षारेण लवणीकृतो भोजने पथ्य इति डल्लणः

तुण्डिकेर्यत्ध्रुषे(?) कूर्मे संघाते तालुपुप्पुटे॥
एष एव विधिः कार्यो विशेषः शस्त्रकर्मणि॥५१॥

कूर्मे कच्छपरोगे। संघाते मांससंहते। विशेषः शस्त्रकर्मणीति। तुण्डिकेरीतालुपुप्पुटौ भेद्यावपरे छेद्या इति शस्त्रकर्मणि विशेषः॥५१॥

तालुपाके तु कर्तव्यं विधानं पित्तनाशनम्॥

**पित्तनाशनमिति।**पित्तव्रणनाशनम्॥

स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः॥५२॥

तालुशोषस्य निदानसंग्रहे तालुपाकादग्रे पठितस्यापि तालुपाकानन्तरमिह चिकित्सोक्तिः पित्तनाशनविध्यर्थं पित्तेनापि तालुशोषजननत्वात्।तालुजानां चिकित्सोक्ता। अत्र रक्तार्बुदस्यासाध्यत्वात्कर्म नोदाहृतम्॥५२॥

अथ कण्ठ्यानां चिकित्सा।

साध्यानां रोहिणींनां तु हितं शोणितमोक्षणम्॥
छर्दनं धूमपानं च गण्डूषा नस्यकर्म च॥५३॥

साध्यानां रोहिणीनामिति। वातपित्तकफरक्तजानां चतसृणाम्। त्रिदोषजा पुनरसाध्या तस्याश्चिकित्सितमिह न वक्तव्यम्। शोणितमोक्षणादिकर्मपञ्चकमत्र व्याधिप्रत्यनीकतया सर्वरोहिणीसाधारणम्।यथादोषं दोषप्रत्यनीकमेवेत्यन्ये॥५३॥

वातिकीं तु गते रक्ते लवणैः प्रतिसारयेत्॥५४॥

गते रक्त इति। लेखनेन रोहिण्या लेख्यत्वेनोक्तत्वात्। गते रक्त इति पदं पित्तजादिरोहिणीत्रयेऽप्यनुवर्तनीयम्। लवणैरिति बहुवचननिर्देशाद्यथालाभं सर्वलवणैः। लावणैरिति पाठे चूर्णैरिति शेषः॥५४॥

सुखोष्णांस्तैलकवलान्धारयेच्चाप्यभीक्ष्णशः॥

अभीक्ष्णशः पुनः पुनः॥

पत्त(त्रा)ङ्गशर्कराक्षौद्रैःपैत्तिकीं प्रतिसारयेत्॥५५॥

पैत्तिकीं पत्त(त्रा)ङ्गादिभिः प्रतिसारयेत्।पत्त(त्रा)ङ्गं रक्तचन्दनम्॥५५॥

द्राक्षापरूषकक्वाथोहितश्च कवलग्रहः।

** द्राक्षापरूषकक्वाथ इति**। परूषकस्य मधुरं फलम्। अनयोः पृथगपि क्वाथः कवले हितः॥

आगारधूमकटुकैः कफजां प्रतिसारयेत्॥५६॥

आगारधूमकटुकैरिति। कटुकं त्रिकटु॥५६॥

श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम्॥
नस्यकर्मणि दातव्यं कवलश्च कफोच्छ्रये॥५७॥

** श्वेतेति**। कटभाऽपराजिता वा। कवलश्चेति। श्वेतादिसिद्ध तैलमेव कवलः॥५७॥

पित्तवत्साधयेद्वैद्यो रोहिणीं रक्तसंभवाम्॥

**पित्तवदिति।**पित्तजरोहिणीवत्॥

विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत्॥५८॥

विस्राव्य कण्ठशालूकमिति।विस्रावणमिह दुष्टशोणितापगमार्थम्।तुण्डिकेरिवदिति। अनेन तुण्डिकेर्यामपि गलशुण्डिकविध्यतिदेशाद्गलशुण्डिवदित्यभिधानम्। तुण्डिकेरीविध्यतिदेशो निःशेषोच्छेदनार्थं न तु गलशुण्डिकावत्त्रिभागश्छेदः कार्य इति दर्शयति॥५८॥

एककालं यवान्नं च भुञ्जीत स्निग्धमल्पशः॥
उपजिह्वकवच्चापि साधयेदधिजिह्विकाम्॥५९॥

सुगमम्॥५९॥

उन्नम्य जिह्वामाकृष्य बडिशेनाधिजिह्विकाम्॥
छेदयेन्मण्डलाग्रेण तीक्ष्णोष्णैर्घर्षणादिभिः॥

तीक्ष्णोष्णैर्घर्षणादिभिरित्यतः परमुपचरेदिति शेषः। आदिशब्दादिह कवलादिपरिग्रहः॥

एकवृन्दं तु विस्राव्य विधिशोधनमाचरेत्॥६०॥

एकवृन्दं तु विस्राव्येति। विस्राव्यंजलौकादिभिः। विधिशोधनमिति। प्रतिसारणशिरोविरेचनकवलग्रहादीनाम-न्यतमं दोषशोधनमाचरेत्। अन्ये तु सामान्येन शोधनाद्वमनविरेचने अपीच्छन्ति। तदुभयं हि शरीरशोधनद्वारा गलादिगतदोषमपहरति। डल्लणस्त्वेवं व्याख्याति—शिरोविरेचनधूमलेपक्षारादिभिः शोधनम्। एकवृन्दस्य व्याधिमाहिम्ना शिरोविरेचनघूमकवलप्रतिसारणादिभिः कफहरणैः शोधनविधिर्न तु वमनविरेचनादिक इति ज्ञेयम्॥६०॥

गिलायुश्चापि यो व्याधिस्तं च शस्त्रेण साधयेत् ॥

तं च शस्त्रेण साधयेदिति। कठिनमल्पवेदनमपक्कं गिलायुं छेदयेत्। अतिपक्वंतु पूयनिर्गमार्थं भेदयेदिति। ततो द्विव्रणीयोक्तो विधिः शोधनादिरत्रार्थतो लभ्यते॥

अमर्मस्थं सुपक्वंच भेदयेद्गलविद्रधिम्॥६१॥

अमर्मस्थं साध्यमपि गलविद्रधिं प्रत्याख्याय भेदयेत्। गलविद्रधिस्त्रिदोषजविद्रधितुल्यतया कथितोऽपि चिकित्सोपदेशात्तद्वन्नावश्यमसाध्यः। अयं च सर्वं गलं व्याप्य समुत्थित इत्यभिधानेन मर्मव्यापकोऽपि गलगतमर्मणि मूलास्पदविरहादमर्मज इत्युच्यते। किं वाऽमर्मस्थमिति क्रियाविशेषणं ज्ञेयम्॥६१॥

कण्ठरोगेष्वसृङ्भोक्षस्तीक्ष्णं727 नस्यादिकर्म च॥
क्वाथपानं तु दार्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजम्॥६२॥

तार्क्ष्यकलिङ्गजमिति।तार्क्ष्यं रसाञ्जनम्।कलिङ्ग इन्द्रयवः॥६२॥

हरीतकीकषायो वा पेयो माक्षिकसंयुतः॥६३॥

सुगमम्॥६३॥

कटुकातिविषापाठादारुमुस्तकलिङ्गकाः॥
गोमूत्रकथिताः पेयाः कण्ठरोगविनाशनाः॥६४॥

सुगमम्॥६४॥

कालकचूर्णमाह—

गृहधूमो यवक्षारः पाठा व्योषं रसाञ्जनम्॥
तेजाह्वात्रिफला लोहं चित्रकश्चेति चूर्णितम्॥६५॥

सक्षौद्रं धारयेदेतद्गलरोगविनाशनम्॥
कालकं नाम चूर्णं तु दन्तास्यगलरोगनुत्728॥६६॥

तेजोह्वावचा729। लोहं कृष्णलोहचूर्णम्। जातूकर्णे शस्त्रपाठात्।

“पाठारसाञ्जन व्योषतेजोहात्रिफलाग्निकम्।
गृहधूमयवक्षारशस्त्रं शस्तं च कालकम्” इति।

** वाग्भटे**ऽप्ययः शब्दः पठितः।

तथा हि —

“गृहधूमतार्क्ष्यपाठ।व्योषक्षाराग्न्ययोवरातेजोहैः।
उपदन्तगलविकारे सक्षौद्रैःकालको धार्य : " इति ॥

चक्रव्याख्या—एतेनैव लोध्रपाठो व्युदस्तः। वैद्यप्रसारकेऽपि लोहमगुरु विवृतम्। युक्तं चैतच्छस्त्रशब्दस्याप्यगुरुविवृतदर्शनात्। तथा च धूमवर्तिप्रयोगे गन्धशास्त्रम्—

“राज्ञा शस्त्रेण दर्पण दलितार्जुनकेतुना।
चतुर्भुजगदालेन शरैर्भित्त्वानिवर्त्यते” इति।

अत्र राजा कर्पूरम्। शस्त्रमगुरु। दर्पः कस्तूरी। अर्जुनकेतुः सिह्लकमिति। अयःशब्देनाप्यगुरु वक्तुं शक्येत लोहपर्यायस्याप्यगुरुपर्यायत्वात्। प्रचारोऽपि प्रायेणागुरुणा। चूर्णमिदं सर्वत्र मुखरोगे क्रियते। वैद्यानां हस्तदण्डकोऽयम्॥ ६५॥६६॥

मनःशिला यवक्षारो हरितालं ससैन्धवम्॥
दार्वीत्वक्वेति तच्चूर्णं माक्षिकेण समायुतम्॥६७॥

मूर्छितं घृतमण्डेन कण्ठरोगेषु धारयेत्॥
मुखरोगेषु च श्रेष्टं पीतिकं730 नाम कीर्तितम्॥६८॥

सुगमम्। पीतिकं चूर्णम्॥६७॥६८॥

यवाग्रजं तेजवतीं सपाठां रसाञ्जनं दारुनिशां सकुष्ठाम्731
क्षौद्रेण कुर्याङ्गुटिकां मुखेन तां धारयेत्सर्वगलामयेषु॥६९॥

तेजवतीमिति। चवी॥६९॥

दशमूलं पिबेदुष्णं यूषंमुद्गकुलत्थयोः732

सुगमम्॥

सर्वेष्वेव मुखरोगेष्वत्र दोषादिविभागेन कवलान्निर्दिशन्नाह—

क्षीरे733क्षुरसगोमूत्रदधिमस्त्वम्लकाञ्जिकैः॥
विदध्यात्कवलान्वीक्ष्य दोषं734 तैलघृतैरपि॥७०॥

क्षीरा735दिभिः प्रत्येकं यथादोषं कवलः। वीक्ष्य दोषं दोषकार्यमपि रोगम्॥७०॥

पञ्चकोलकतालीसपत्रैलामरिचत्वचः॥७९॥

पलाशमुष्ककक्षारयवक्षाराश्चचूर्णिताः॥
गुडे पुराणे क्वथिते द्विगुणे गुटिकाः कृताः॥७२॥

कर्कन्धुमात्राः सप्ताहं स्थिता मुष्ककभस्मनि॥
कण्ठरोगेषु सर्वेषु धार्याः स्युरमृतोपमाः॥७३॥

त्वग्गुडत्वक्।सर्वचूर्णाद्द्विगुणो गुडः। कर्कन्धुमात्राः कर्षमानाः॥७१॥७२॥७३॥

मुखावयवगतान्निर्दिश्य सकलवदनगतान्निर्देिशन्नाह—

वातात्सर्वसरं चूर्णैर्लावणैः प्रतिसारयेत् ॥

सर्वसरो मुखपाकः। लवणा ज्योतिष्मती लवणं वा तद्भवं लावणं तेन लावणै चूर्णैः पञ्चलवणकृतैः॥

तैलं वातहरैः सिद्धं हितं कवलनस्ययोः॥७४॥

वातहरैः सिद्धमिति। वातहरो भद्रदार्वादिगणः। मद्रदार्वादिकल्ककषायसिद्धं तैलं कवले नस्ये च हितमित्यर्थः॥७४॥

पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः॥
सर्वः पित्तहरः कार्यो विधिर्मधुरशीतलः॥७५॥

शुद्धकायस्येति। वमनेन विरेचनेन वा। कफस्थानगतस्यापि पित्तस्य वमनहार्यत्वात्। सर्वः पित्तहर इति। गण्डूषादिविधिः। पित्तहरग्रहणलब्धस्य मधुरशीतलस्य विशेषार्थमभिधानम्॥७५॥

प्रतिसारणगण्डूषान्धूमंसंशोधनानि च॥
कफात्मके सर्वसरे क्रियां कुर्यात्कफापहाम्॥७६॥

प्रतिसारणेत्यादिविधानं कफात्मके ज्ञेयं धूमस्य पित्तानर्हत्वात्संशोधनस्य पुनरुक्तत्वाच्च। क्रियां कुर्यात्कफापहामित्यस्याशेषकफहरविध्युपसंग्रहार्थं कथनम्। संशोधनमिह वमनं शिरोविरेचनं च॥७६॥

अतः परं मुखपाके सामान्यचिकित्सितम्—

मुखपाके शिरावेधः शिरःकायविरेचनम्॥
कार्यं च बहुधा नित्यं जातीपत्रस्य चर्वणम्॥७७॥

शिरावेध इति। शिराव्यधस्तालुन्यधोजिह्वायां वा॥७७॥

जातीपत्रामृताद्राक्षावासादा736र्वीफलत्रिकैः॥
क्वाथः क्षौद्रयुतः पीतो गण्डूषो मुखपाकनुत्॥७८॥

सुगमम्॥७८॥

पटोलनिम्बजम्ब्वाभ्रमालतीनवपल्लवाः॥
पञ्चपल्लवकः737 श्रेष्ठः कषायो मुखधावने॥७९॥

सुगमम्॥७९॥

पञ्चवल्ककषायो वा त्रिफलाक्वाथ एव वा॥
मुखपाकेषु सक्षौद्रः प्रयोज्यो मुखधावने॥८०॥

सुगमम्॥८०॥

स्वरसः क्वथितो दार्व्याघनीभूतो रसक्रिया॥
सक्षौद्रा मुखरोगासृग्दोषनाडीव्रणापहा॥८१॥

रसक्रिया लेहो लेपो वा॥८१॥

सप्तच्छदोशीरपटोलमुस्तहरीतकीतिक्तकरोहिणीभिः॥
यष्ट्याह्वराजद्रुमचन्दनैश्च क्वाथं पिबेत्पाकहरं मुखस्य॥८२॥

सुगमम्॥८२॥

पटोलशुण्ठीत्रिफलाविशाला-
त्रायन्तितिक्ताद्विनिशामृतानाम्॥
पीतः कषायो मधुना निहन्ति
मुखे738 स्थितश्चाऽऽस्यगदानशेषान्॥८३॥

सुगमम्॥८३॥

क्वथितास्त्रिफलापाठामृद्वीकाजातिपल्लवाः॥
निषेव्या भक्षणीया वा त्रिफला मुखपाकहा॥८४॥

निषेव्या इति पूर्वेण योज्यम्। निषेवणं पानगण्डूषाभ्याम्॥८४॥

तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च॥
सक्षौद्रो दग्धवक्त्रस्य गण्डूषो दाहपाकनुत्॥८५॥

दग्धवक्त्रस्येति। चूर्णादिना॥८५॥

सहचराद्यं तैलमाह—

तुलां धृतां नीलसहाचरस्य द्रोणेऽम्भसः संश्रयेद्यथावत्॥
पूत्वा चतुर्भागरसे तु तैलंपचेच्छनैरर्धपलप्रयुक्तैः॥८६॥

कल्कैरनन्ताखदिरेरिमेदजम्ब्वायष्टीमधुकोत्पलानाम्॥
तत्तैलमाश्वेव धृतं मुखेन स्थैर्यं द्विजानां विदधाति सद्यः॥८७॥

** नीलसहचरस्येति।** नीलझिण्ट्याः। संश्रयेद्विपाचयेत्। खदिरेरिमेदेति। इरिमेदो विट्खदिरः। तदभावे खदिर एव द्विगुणो ग्राह्यः॥८६॥८७॥

इरिमेदाद्यं तैलमाह—

इरिमेदत्वक्पलशतमभिनवमापोथ्य खण्डशः कृत्वा॥
तोयाढकैश्चतुर्भिनिष्क्वाथ्य चतुर्थशेषेण॥८८॥

क्वाथेन तेन मतिमांस्तैलस्यार्धाढकं शनैर्विपचेत्॥
कल्कैरक्षसमांशैर्मञ्जिष्ठालोध्रमधुकानाम्॥८९॥

इरिमेदखदिरकट्फललाक्षान्यग्रोधमुस्तसूक्ष्मैला—
कर्पूरागरुपद्मकलवङ्गकङ्कोलजातीनाम्॥९०॥

फलपत्त(त्रा)ङ्गगैरिकवराङ्गगजकुसुमधातकीनां च॥
सिद्धं भिषग्विदध्यादिदं मुखोत्थेषु रोगेषु॥९१॥

परिशीर्णदन्तविद्रधिसौषिरशीताददन्तहर्षेषु॥

कृमिदन्तदरणचलितप्रकृष्टमांसावशीर्णेषु॥
मुखदौर्गन्ध्ये कार्यं प्रागुक्तेष्वामयेषु तैलमिदम्॥९२॥

जाती जातीकोषः। फलं जातीफलम्। गजकुसुमं नागकेसरचूर्णम्। प्रकृष्टमांसाचशीर्णेष्विति। प्रकृष्टदन्तमांसेऽवशीर्णे मांसे च।इरिमेदाद्यं तैलम्॥८८॥८९॥॥९०॥९१॥९२॥

तैलं लाक्षारसं क्षीरं पृथक्प्रस्थसमंपचेत्॥९३॥

चतुर्गुणेरिमक्वाथेद्रव्यैश्च पलसंमितैः॥
लोध्रकट्फलमञ्जिष्ठापद्मकेसरपद्मकैः॥९४॥

चन्दनोत्पलयष्ट्याह्वैस्तैलं गण्डूषधारणम्॥
दालनं दन्तचालं च दन्तमोक्षं कपालिकाम्॥९५॥

शीतादं पूतिवक्त्रं च अरुचिं विरसास्यताम्॥
हन्यादास्यमतानेतान्कुर्याद्दन्तानपि स्थिरान्॥९६॥

सुगमम्। लाक्षातैलम्॥९३॥९४॥९५॥९६॥

बकुलाद्यं तैलमाह—

बकुलस्य फलं लोध्रंवज्रिवल्लीकुरण्टकम्॥
चतुरङ्गुलबब्बूलवाजिकर्णेरिमासनम्॥९७॥

एषां कल्ककषायाभ्यां तैलं पक्वंमुखे धृतम्॥
स्थैर्यं करोति चलतां दन्तानां नावनेन तु॥९८॥

वज्रिवल्ली, अस्थिसंहारः। कुरण्टको नीलाझिण्टी। वाजिकर्णः सालभेदो गर्दभाण्डो या। असनः पीतशालः। बकुलाद्यं तैलम्॥९७॥९८॥

स्वल्पखदिरवटिकामाह—

खदिरस्य तुलां सम्यग्जलद्रोणे विपाचयेत्॥
शेषाष्टभागे तत्रैव प्रतिवापंप्रदापयेत्॥९९॥

जातीकर्पूरपूगानि कङ्कोलस्य फलानि च॥

इत्येषा गुटिका कार्या मुखसौभाग्यवर्धिनी॥
दन्तोष्ठमुखरोगेषु जिह्वाताल्वामयेषु च॥१००॥

जाती जातीकोषः। पूगं गूवाकफलम्। फलं जातीफलम्। एषां चूर्णस्य प्रत्येकं पलम्। खदिरवटिकान्तरेऽपि हि जातीफलकङ्कोलजातीकोशानां पृथक्पलमानतोक्ता। यथा—लवङ्गजातीकङ्कोलजातीकोषान्पलोन्मितानिति। किंच। भाविखदिरवटिकायां तुलात्रयक्वाथे यावच्चूर्णं तावतो मिलितस्य तृतीयभागेन मिलितानामेषां चूर्णम्। क्वाथाचतुर्थांशेनेत्यन्ये। स्वल्पखदिरगुटिका॥९९॥१००॥

बृहत्खदिरवटिकामाह—

गायत्रीसारतुलया(ये) रिमवल्कलानां
सार्धं तुलायुगुलमम्बु घटैश्चतुर्भिः॥
निष्क्वाथ्य पादमवशेष्य सुवस्त्रपूतं
भूयः पचेदथ शनैर्मृदुपावकेन॥१०१॥

तस्मिन्घनत्वमुपगच्छति चूर्णमेषां
श्लक्ष्णं क्षिपेच्च कवलग्रहभागिकानाम्॥१०२॥

एलामृणालसितचन्दनचन्दनाम्बु
श्यामातमालविकसाघनलोहयष्टी—
लज्जाफलत्रयरसाञ्जनधातकीभ-
श्रीपुष्पगैरिककटंकटिकट्फलानाम्॥१०३॥

पद्माकलोध्रवटरोहयवासकानां
मांसीनिशासुरभिवल्कलसंयुतानाम्॥
कङ्कोलजातिफलकोशलवङ्गकानि
चूर्णीकृतानि विदधीत पलांशकानि॥१०४॥

शीतेऽवतार्य घनसारचतुष्पलं तु
क्षिप्त्वा कलायसदृशीर्गुटिकाः प्रकुर्यात्॥
शुष्का मुखे विनिहिता विनिवारयन्ति
रोगान्गलोष्ठरसनाद्विजतालुजातान्॥१०५॥

कुर्युर्मुखे सुरभितां पटुतां रुचिंच
स्थैर्यंपरं दशनगं रसनालघुत्वम्॥१६॥

गायत्री खदिरः। घटैर्द्रोणैः। कवलग्रहभागिकानामिति। प्रत्येकं कर्षमानानाम्। अत्र मृणालमुशीरम्सितचन्दनं श्वेतचन्दनं रक्तपीतसारम्। चन्दनं पत्त(त्रा)ङ्गः। अम्बु वालकम्। श्यामा प्रियंगुः। तमालं तमालपत्रम्। विकसा मञ्जिष्ठा। लोहमगुरु। लज्जा वराहक्रान्ता समङ्गा वा। इभो नागकेसरचूर्णम्। श्रीपुष्पः पुण्डरीकं नवनीतखोटिर्वा। कटंकटिरुहरिद्रा। पद्माकं पद्मकाष्ठम्। सुरभिः शल्लकीवेष्टकं मुरेति ख्यातं रास्ना वा। वल्कलं गुडत्वक्। जातिफलकोशेति। जातीफलं जातीकोशश्च। धनसारः कर्पूरः। बृहत्खदिरवटिका॥१०१॥१०२॥१०३॥१०४॥ १०५॥ १०६॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामक सिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामष्टपञ्चाशत्तमो मुखरोगाधिकारः समाप्तः॥५८॥
<MISSING_FIG href=”../../../books_images/U-IMG-1706428671241803-removebg-preview.png"/>

अथैकोनषष्टितमः कर्णरोगाधिकारः।
__________

कर्णशूलचिकित्सामाह—

कपित्थमातुलुङ्गाम्लशृङ्गवेररसैः शुभैः॥
सुखोष्णैः पूरयेत्कर्णं कर्णशूलोपशान्तये॥१

कपित्थस्य मूलम्। मातुलुङ्गाम्लं मातुलुङ्गकेसरम्। कपित्थादीनां प्रत्येकं रसैः कर्णपूरणम्॥१॥

शुङ्गवेररसः क्षौद्रं सैन्धवं तैलमेव च॥
कदुष्णं कर्णयोर्देयमेतद्वा वेदनापहम्॥२॥

सुगमम्॥२॥

लशुनार्द्रकशिग्रूणां मुरङ्ग्या मूलकस्य च॥
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे॥

एषां षण्णां लशुनादीनामपि स्वरसैः प्रत्येकमथ वा समस्तैः कर्णपूरणम्। शिग्रुर्मधुशिग्रुः। मुरङ्गी रक्तसौभाञ्जनकः। कदुष्ण ईषदुष्णः॥

समुद्रफेनचूर्णेन युक्त्या वाऽप्यवचूर्णयेत्॥३॥

** समुद्रफेनचूर्णेन युक्त्या वेति।** युक्त्या तैलेन कर्णं म्रक्षयित्वा॥३॥

आर्द्रकसूर्यावर्तकसौभाञ्जनमूलमूलकस्वरसाः॥
मधुसैन्धवतैलयुताः पृथगुष्णाः739 कर्णशूलहराः॥४॥

सुगमम्॥४॥

सौभाञ्जनस्य निर्यासस्तिलतैलेन संयुतः॥
व्यक्तोष्णः पूरणः कर्णे कर्णशूलोपशान्तये॥५॥

सुगमम्॥५॥

अष्टानामपि मूत्राणां मूत्रेणान्यतमेन वा॥
कोष्णेन पूरयेत्कर्णं कर्णशूलोपशान्तये॥६॥

गवादीनामष्टानां मूत्राणाम्।

उक्तं च —

“गोमहिष्यव्यजाश्वानां रासभोष्ट्रमतङ्गजात्।
मूत्राष्टकमिति ख्यातं भिषग्भिः शास्त्रचिन्तकैः” इति।

अन्यतमेनैकतमे॥६॥

अश्वत्थपत्रखल्लंवा विधाय बहुपत्रकम्॥
तैलाक्तमङ्गारचितं740 निदध्याच्छ्रवणोपरि॥७॥

यत्तैलं च्यवते तस्मात्खल्लादङ्गारतापितात्॥
तत्प्राप्तं श्रवणस्रोतः सद्यो गृह्णाति वेदनाम्॥८॥

अश्वत्थपत्रखल्लमिति। अश्वत्थपत्रैर्बहुभिस्तैलाक्तैर्द्विकर्णिकाकारा खल्ली कार्या। विदेहे त्वत्र घृताक्तत्वमपि दर्शितम्। तद्यथा—विधायाश्वत्थपत्रैर्वा खल्लमभ्यज्य सर्पेिषेति। श्रवणस्रोत इति। कर्णविवरम्॥७॥८॥

दीपिकातेलमाह—

महतः पञ्चमूलस्य काण्डान्यष्टाङ्गुलानि च॥
क्षौमेणाऽऽवेष्ट्यसंसिच्य तैलेनाऽऽदीपयेत्ततः॥९॥

यत्तैलं च्यवते तेभ्यः सुखोष्णं तत्प्रयोजयेत्॥
ज्ञेयं तद्दीपिकातैलं कर्णशूलनिवारणम्741॥१०॥

काण्डानि खण्डानि। क्षौमेणातसीवस्त्रेण।आवेष्ट्य त्रिभागमिति शेषः। तेभ्योऽधोमुखमिति शेषः। दीपिकातैलम्॥९॥१०॥

अर्कस्य पत्रं परिणामपीतमाज्येन लिप्तं शिखिनाऽभितप्तम्॥
आपीड्य तोयं श्रवणे निषिक्तं निहन्ति शूलं बहुवेदनां च॥११॥

** अर्कस्य पत्रं परिणामपीतमिति।** परिणामपीतं पाकात्पीतवर्णम्॥११॥

तीव्रशूलातुरे कर्णे सशब्दे क्लेदवाहिनि॥
बस्तमूत्रं क्षिपेत्कोष्णं सैन्धवेन समन्वितम्॥१२॥

सुगमम्॥१२॥

वंशावलेखसंयुक्तं मूत्रे वाऽऽजाविके भिषक्॥
तैलं पचेत्तेन कर्णं पूरयेत्कर्णशूलिनः॥१३॥

धारयेत्पूरणं कर्णे कर्णमूलं विमर्दयन्॥
रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने॥१४॥

वंशावलेखो वंशनीली वंशावलेखः कल्कः। आजेन वाऽऽविकेन वा मूत्रेण पाकः। करालेऽप्युक्तम्—

“वंशावलेखकल्केन मूत्र आजेऽथ वाऽऽविके॥
पचेत्तैलं रुजः शान्त्यै कर्णयोः पूरणं भिषक्” इति।

विदेहे तु योगेऽस्मिन्पठितं घृतम्।गदाधरस्तु विदेहदर्शनायाचष्टे—आजमूत्रविपक्वेन तैलेन वा पूरयित्वा कर्णमाविकमूत्रविपक्वेन पूरयेदेवमसकृदिति।

तथा च विदेहः

“अजाविमूत्रे पक्त्वा तु आर्द्रवंशावलेखने।
व्यत्यासात्सर्पिषा कार्यं कर्णशूले तु पूरणम्" इति॥१३॥१४॥

हिङ्गुतुम्बुरुशुण्ठीभिः साध्यं तैलं तु सार्षपम्॥
कर्णशूले प्रणादे तु पूरणं हितमुच्यते॥१५॥

सुगमम्॥१५॥

क्षारतैलमाह—

वालमूलकशुण्ठीनां क्षारो हिङ्गु सनागरम्॥
शतपुष्पा वचा कुष्ठं दारुशिग्रुरसाञ्जनम्॥१६॥

सौवर्चलं यवक्षारः स्वर्जिकोद्भिदसैन्धवम्॥
भूर्जग्रन्थिर्विडं मुस्तं मधुशुक्तं चतुर्गुणम्॥१७॥

मातुलुङ्गरसश्चैवकदल्या रस एव च॥
तैलमेभिर्विपक्तव्यं कर्णशूलहरं परम्॥१८॥

बाधिर्यंकर्णनादश्चपूयास्रावश्च दारुणः॥
पूरणादस्य तैलस्य कृमयः कर्णसंश्रिताः॥१९॥

क्षिप्रं742विनाशमायान्ति कृष्णात्रेयस्य शासनात्॥
क्षारतैलमिदं श्रेष्ठं मुख743पाकामयापहम्॥२०॥

छेदं मध्विति कृत्वैव शुक्तकादि चतुर्गुणम्॥
तैलात्प्रत्येकमन्ये तु मधुशुक्तं लिखन्ति च॥२१॥

यवाम्भोमधुसंयुक्तं शृङ्गवेरगुडान्वितम्॥
धान्यराशौ त्रिरात्रस्थं मधुशुक्तमुदाहृतम्॥२२॥

उद्भिदं शाकंभरीलवणम्। मध्वन्तं द्रव्यं कल्कःशुक्तादिद्रव्यं प्रत्येकं चतुर्गुणम्। प्रचारोऽपीत्थम्। मातृलुङ्गकदलीरसौ तु जातूकर्णदर्शनात्तैलसमौ युक्तौ। मधुप्रधानं शुक्तं मधुशुक्तमित्यन्ये। तच्च जम्बीरस्य फलरसमित्यादिना दर्शयितव्यम्। जातूकर्णेऽपि मधु न द्रवे नापि कल्के पठितम् !

तद्यथा—

“मूलकभस्मशताङ्काद्विक्षारवचाचतुर्हवणकुष्ठैः।
दारुरसाञ्जननागरसौभाञ्जनहिङ्गुघनभूर्जैः॥

पक्वफलं पूर्णकदलीरसैः समांशैश्चतुर्गुणशुक्ते(?)।
तैलं विपक्वमश्रुतिनादश्रवणशूलजन्तुघ्नम्" इति।

मधुशुक्तमाह—

“जम्बीरस्य फलरसं पिप्पलीमूलसंयुतम्।

मधुभाण्डे विनिक्षिप्य धान्यराशौ निधापयेत्।
मासमेतज्जातरसं मधुशुक्तमुदाहृतम्”॥

जम्बीरफलरसपलं पिप्पलीमूलपलं मधुपलमिति संप्रदायान्मानक्रमः।क्षारतैलम्॥१६॥१७॥१८॥१९॥२०॥२१॥२२॥

कर्णनादे कर्णक्ष्वेडे कटुतैलेन पूरणम्॥
नादबाधिर्ययोः कुर्याद्वातशूलोक्तमौषधम्॥२३॥

सुगमम्॥२३॥

मार्गक्षारजलेन तत्कृतकल्केन साधितं तिलजम्॥
अपहरति कर्णनादं बाधिर्यं चापि पूरणतः॥२४॥

मार्गक्षारजलेनेति। मार्गोऽपामार्गः। तत्कृतकल्केनेति। अपामार्गक्षारकृतकल्केन। क्षारस्य तैलोपक्षयभयादम्भसा मोदयित्वा कल्कः कार्यः। अत्र च तैलं दत्त्वा पाकज्ञानार्थमण्टनकं ग्राह्यम्। कल्कोऽयं न गालनीय इत्यन्ये। अन्ये तु क्षारकलकत्वे तैलं दुर्वहं मन्यमानाः समासान्तर्गतमप्यपामार्गशब्दमाकृष्यापामार्गमूलं कल्कमाहुः। प्रथमव्याख्यया प्रचरितव्यम्। अपामार्गतैलम्॥२४॥

दशमूलीकषायेण तैलप्रस्थं विपाचयेत्॥
एतत्कर्णे744 प्रदातव्यं बाधिर्ये परमौषधम्॥२५॥

दशमूलीतैलम्॥२५॥

बिल्वतैलमाह—

फलं बिल्वस्य मूत्रेण पिष्ट्वातैलं विपाचयेत्॥
सक्षीरं तत्र वितरेद्वाधिर्ये कर्णपूरणम्745॥२६॥

तन्त्रान्तरदर्शनात्पाकार्थं गोमूत्रमपि देयं क्षीरं चाऽऽजं ग्राह्यम्।

तद्यथा—

“बिल्वगर्भे पचेत्तैलं गोमूत्राजापयोन्वितम्।
बाधिर्ये पूरयेत्तेन कर्णौ सकफवातजे” इति॥

सक्षीरं तत्र वितरेदित्यत्र सजलं च सदुग्धं चेति पाठं पठति डल्लणः। पञ्जिकाकारस्तु पादिकं जलदुग्धाभ्यामिति पठति। बिल्वतैलम्॥२६॥

एवमेव746 विधिः कार्यः प्रणादे नस्यपूर्वकः॥
गुडनागरतोयेन नस्यं स्यादुभयोरपि॥२७॥

उभयोरिति। बाधिर्यप्रणादयोः॥२७॥

चूर्णं पञ्चकषायाणां कपित्थरससंयुतम् ॥
कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह॥२८॥

पञ्चकषायाणामिति। पञ्चकषायाणि सुश्रुते कर्णास्रावचिकित्सितोक्तानि तिन्दुकादीनि।

तद्यथा—

“तिन्दुकान्यभया लोध्रंसमङ्गाऽऽमलकं तथा।
पूरणं चात्र पथ्यं स्यात्कपित्थरसयोजितम्” इति ॥

अन्ये तु, आरग्वधशिरीषजम्बूसर्जाश्वकर्णान्पञ्चकषायशब्देनाऽऽहुः॥२८॥

तिन्दुकान्यभया लोध्रंसमङ्गा चाऽऽमलक्यपि॥
पञ्चकषायशब्देन ग्राह्यमेतद्भवेदिह॥२९॥

समङ्गाऽञ्जलिकारिका वराहक्रान्तेत्यपरे। इदं पञ्चकषायचूर्णम्॥२९॥

सर्जत्वक्चूर्णसंयुक्तः कर्पासीफलजो रसः॥
मधुना संयुतः साधुः कर्णस्रावे प्रशस्यते॥३०॥

सर्जत्वक्सर्जः शालः। कर्पासी वनकर्षासी। ग्रामजकर्पासस्यापि फलरसो ग्राह्यः। तथा च विदेहः—

“कर्पासीतुण्डिकेरीणां स्वरसो मधुसंयुतः।
युक्तः सर्जकषायेण कर्णस्रावस्य भेषजम्” इति॥

अत्र कर्षासीफलरसस्यार्धंमधु मधुनोऽर्धं सर्जत्वक्चूर्णं वृद्धवैद्यसंप्रदायादिति कार्तिककुण्डः॥३०॥

जम्ब्वाम्रपत्रं तरुणं समांशं कपित्थकार्पासफलं च साद्रम्॥३१॥

क्षुत्त्वा रसं तं मधुना विमिश्रं स्रावापहं तं प्रवदन्ति तज्ज्ञाः॥
“एभिः शृतं निम्बकरञ्जतैलं ससार्षपं स्रावहरं प्रदिष्टम्॥३२॥

*************र्थमार्द्रम्। एभिरिति। जम्ब्वादिभिः कल्कः।पाकोत्तरकालं *************तैलं मिलित्वा पक्तव्यम्। जम्व्वाद्यं तैलम्॥३१॥३२॥

*********कविधिस्विन्नहस्तिविड्जातकौटजः॥
*********सतैलसिन्धूत्थः कर्णस्रावहरः परः॥३३॥

*************जरसः कोष्णः कार्यः॥३३॥

*********कस्य तु मांसेन कटुतैलं विपाचर्यट।
******तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति॥३४॥

** ***********॥३४॥

चूर्णेन गन्धकशिलारजनीभवेन
मुष्ट्यंशकेन कटुतैलपलाष्टकं यत्॥
धत्तूरपत्ररसतुल्यमिदं विपक्वं
नाडीं जयेच्चिरभवामपि कर्णजाताम्॥३५॥

***ष्ट्यंशकेनेति। मिलितानां पलेन त्विति। गन्धकशिलारजनीभवेनेतिगन्धक- ***गन्धको न तु शिला मनःशिला तन्त्रान्तरप्रत्ययात्। तथा च तन्त्रान्तरम्

“शिलागन्धपलं पक्वंकटुतैलपलाष्टकम्।
धत्तूरपत्रजरसे कर्ण747नाडीजिदुत्तमम्” इति॥

अतो मिलितानां पलेन त्विति वृन्दटिप्पणिकायां बहुवचनमसंगतमेव प्रतिभाति। ****ष्ट्यंशकेनेति। मिलित्वा पलेन॥३५॥

कर्णप्रतीनाहविधिमाह—

अथ कर्णप्रतीनाहे स्नेहस्वेदौ प्रयोजयेत्॥
ततो विरिक्तशिरसः क्रियां प्राप्तां समाचरेत्॥३६॥

** क्रियां प्राप्तां समाचरेदिति।**स्नेहस्वेदादिविधिं कृत्वा दोषोचितां क्रियां कुर्यादित्यर्थः॥३६॥

कर्णपाके चिकित्सामाह—

कर्णपाकस्य भैषज्यं कुर्यात्क्षतविसर्पवत्॥

शीतालेपपरीषेकार्दीस्तचिकित्सितोक्तान्कुर्यात्॥

कर्णकण्डूचिकित्सामाह—

नाडीस्वेदोऽथ वमनं धूमो मूर्धविरेचनम्॥
विधिश्चकफहृत्सर्वः कर्णकण्डूमपोहति॥३७॥

स्नेहस्वेदोऽथेति पाठं पठति डल्लणः। वमनं सस्वेदवमनम्।धूमोऽत्र वैरेचनिकः॥३७॥

कर्णगूथचिकित्सामाह—

क्लेदयित्वा तु तैलेन स्वेदेन प्रविलाय्य च॥
शोधयेत्कर्णगूथं तु भिषक्सम्यक्शलाकया॥३८॥

सुगमम्॥३८॥

पूतिकर्णचिकित्सामाह—

निर्गुण्डीस्वरसस्तैलं सिन्धुघूमरजो गुडः॥
पूरणात्पूतिकर्णस्य शमनो मधुसंयुतः॥३९॥

निर्गुण्डी स्वरसस्तैलमिति। निर्गुण्डी स्वरसस्तैलसमः। घूमरजोऽगारघूमचूर्णम्॥१९॥

जातीपत्ररसे तैलं विपक्वंपूतिकर्णजित्॥४०॥

सुगमम्॥४०॥

वरुणार्ककपित्थाम्रजम्बूपल्लवसाधितम्॥
पूतिकर्णापहं तैलं जातीपत्ररसोऽथ वा॥४१॥

सुगमम्॥४१॥

कृमिकर्णचिकित्सामाह—

सूर्यावर्तकस्वरसं सिन्दुवाररसं तथा॥

लाङ्गलीमूलकरसं त्र्यूषणेनावचूर्णितम्॥
पूरयेत्कृमिकर्णं तु जन्तूनां नाशनं परम्॥४२॥

सूर्यावर्तकादीनां प्रत्येकं स्वरसो व्योषयोगात्कार्यः॥४२॥

कृमिकर्णविनाशार्थंकृमिघ्नं योजयेद्विधिम्॥४३॥

कृमिघ्नो विधिः कृमिचिकित्सितोक्तः॥४३॥

अपरामपि विशेषचिकित्सामाह—

वार्ताकधूपश्च748 हितः सार्षपस्नेह एव च॥४४॥

वार्ताकधूप इति। वार्ताकफलचूर्णं साङ्गारशरावसंपुटेदत्त्वा नलिकया कर्णधूपो ग्राह्यः। डल्लणस्तु वार्ताकधूमश्चेति पाठं पठित्वा परिणतशुष्कवार्ताकधूमस्य पानं कर्णधूपनं चेति व्याख्याति। सार्षपस्नेहेन कर्णपूरणं तन्त्रान्तरोक्तत्वात्॥१४॥

कृमिकृतदौर्गन्ध्यचिकित्सामाह—

पूरणं हरितालेन गवां मूत्रयुतेन च॥

धूपनं कर्णदौर्गन्ध्ये गुग्गुलुः श्रेष्ठ उच्यते॥
कृमिघ्नं हरितालेन गवां मूत्रयुतेन च॥४५॥

गुग्गुलोः कर्णदौर्गन्ध्ये धूपनं श्रेष्ठमुच्यत इति पाठं पठित्वा डल्लुणो व्याख्याति कृमिघ्नंविडसारचूर्णंतच्चहरितालचूर्णेन संयुतं गोमूत्रेण पूरणं गुग्गुलुना धूपनम्॥४५॥

कर्णस्राववपूतिकर्णपूरणं कृमिकर्णकानां समानंकर्माऽऽह—

राजवृक्षादितोयेन सुरसादिजलेन वा॥
कर्णप्रक्षालनं कुर्याच्चूर्णैरेतैस्तु पूरणम्॥

राजवृक्षादिरारग्वधमदनगोपघोटेत्यादिकः। सुरसा श्वेतमुरसा फणिज्जकेत्यादिः सुरसादिः॥

विद्रधौ चापि कुर्वीत विद्रध्युक्तं च भेषजम्॥४६॥

** भेषजमिति**। अन्तर्विद्रध्युक्तं भेषजम्। डल्लणस्त्वेवं व्याख्याति। विद्रधौ चापीति। चकारात्सुश्रुतोक्तं कर्णक्ष्वेडे यत्सार्षपं तैलं पूरण उक्तं तद्विद्रधावपि कुर्वीत न केवलं तदेव कुर्वीत विद्रध्युक्तं भेषजमपि कुर्वीतेत्यर्थः। वातज आमे सवेदने विदधौ तिलतैलेनाऽऽसेकः कफजे पुनः सर्षपतैलेनेति॥४६॥

पूतिकर्णस्य विशेषचिकित्सामाह—

घृष्टं रसाञ्जनं नार्याः क्षीरेण क्षौद्रसंयुतम्॥
प्रशस्यते चिरोत्थेऽपि सास्रावे पूतिकर्णके॥४७॥

सुगमम्॥१७॥

कुष्ठहिङ्गुवचादारुशताह्वाविश्वसैन्धवैः॥
पूतिकर्णापहं तैलं बस्तमूत्रेण साधितम्॥४८॥

सुगमम्।कुष्ठाद्यं तैलम्॥४८॥

शतावरीवाजिगन्धापयस्यैरण्डबीजकैः॥
तैलं विपक्वंसक्षीरं पालीनां पुष्टिकृत्परम्749॥४९॥

पयस्यैरण्डबीजकैरिति। पयस्या क्षीरकाकोली। एरण्डबीजकमेरण्डबीजं न तु बीजकं पीतशालः॥४९॥

कल्केन जीवनीयेन तैलं पयास पाचितम्॥
आनूपमांसक्वाथेन पालिपोषणवर्धनम्॥५०॥

सुगमम्॥५०॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामेकोनषष्टितमः कर्णरोगाधिकारः समाप्तः॥५९॥
<MISSING_FIG href=”../../../books_images/U-IMG-1706458279241803-removebg-preview.png"/>

अथ षष्टितमो नासारोगाधिकारः।
___________

अथेन्द्रियाधिष्ठानगतविकारान्नासारोगारम्भः—

पञ्चमूलीशृतं क्षीरं स्याच्चित्रकंहरीतकी॥
सर्पिर्गुडः षडङ्गश्च यूषः पीनसशान्तये॥१॥

पञ्चमूलीशृतक्षीरादयः पक्वपीनसे। पञ्चमूली महती स्वल्पा वा। चित्रकहरीतक्यत्रैवाधिकारे वक्तव्या। सर्पिर्गुडः षडङ्गश्च यूषो यक्ष्माधिकारोक्तः॥१॥

व्योषचित्रकतालीसतिन्तिडीकाम्लवेतसम्॥
सचव्याजाजितुल्यांशमेला त्वक्पत्रपादिकम्॥२॥

व्योषादिकमिदं चूर्णं पुराणगुडसंयुतम्॥
पीनसश्वासकासघ्नं रुचिस्वरकरं परम्॥३॥

एलात्वक्पत्रपादिकमिति। एलादिकं समुदितभागापेक्षया मिलित्वा पादिकम्। गुन्डः सर्वचूर्णसमः। व्योपाद्यं चूर्णम्॥२॥३॥

पाठाद्विरजनीमूर्वापिप्पलीजातिपल्लवैः॥
दन्त्या च तैलं संसिद्धं नस्यं750 पीनसशान्तये॥४॥

सुगमम्।पाठाद्यं तैलम्॥४॥

व्याघ्रीदन्तीवाशिग्रुसुरसव्योषसैन्धवैः॥
पाचितं नावनं तैलं पूतिनासागदं हरेत्॥५॥

सुरसः सिन्दुवारः। एवं वक्ष्यमाणेऽपि योगे।व्यानीतैलम्॥५॥

त्रिकटुकविडङ्गसैन्धवबृहतीफलशिग्रुसुरसदन्तीभिः॥
तैलं गोजलसिद्धं नस्यंस्यात्पूतिनासस्य॥६॥

सुगमम्।त्रिकटुतैलम्॥६॥

कलिङ्गहिङ्गुमरिचं लाक्षासुरसकट्फलम्॥
कुष्ठोग्राशिग्रुजन्तुघ्नमवपीडः प्रशस्यते॥७॥

सुगमम्॥७॥

तैरेव मूत्रसंयुक्तैः कटुतैलं विपाचयेत्॥
अपीनसे पूतिनासे शमनं कीर्तितं परम्॥८॥

सुगमम्॥८॥

नासापाके भेषजमाह—

नासापाके पित्तहृत्संविधानं कार्यं सर्वंबाह्यमाभ्यन्तरं च॥
हृत्वा751 रक्तं क्षीरवृक्षत्वचश्व साज्याः752 सेके753 योजनीयाश्च लेपे॥९॥

बाह्यमाभ्यन्तरं चेति। बाह्यं लेपाभ्यङ्गपरिषेकादि। आभ्यन्तरं पुनरिहोर्ध्वस्नेहपानविरेचनादि। क्षीरवृक्षत्वचश्चेत्यस्य पित्तहरविधानमित्यनेनैव लब्धस्य पुनरभिधानं विशेषेण हितत्वप्रतिपादनार्थम्।साज्य(ज्याः) सघृतः(ताः)॥९॥

पूयास्ररक्तपित्तघ्नाः कषाया नावनानि च॥

सुगमम्॥

शुण्ठीकुष्ठकणाबिल्वद्राक्षाकल्ककषायवत्॥
साधितं तैलमाज्यं वा नस्यं क्षवथुरोगनुत्॥१०॥

बिल्वस्य मूलम्। शुण्ठीतैलम्॥१०॥

दीप्तरोगस्य चिकित्सामाह—

दीप्ते रोगे पैत्तिकं संविधानं कुर्यात्सर्वं स्वादु यच्छीतलं च॥

संविधानं कर्मेत्यर्थः। सर्व बाह्यमाभ्यन्तरं च॥

नासानाह चिकित्सामाह—

नासानाहे स्नेहपानं प्रधानं स्निग्धा धूमा मूर्धवस्तिश्च नित्यम्॥११॥

स्नेहपानमन्तरभक्तकम्। मूर्धबस्तिश्चेति। चकारात्साल्वणोपनाहादयो गृह्यन्ते॥११॥

वातिकप्रतिश्यायस्य चिकित्सामाह—

वातिके तु प्रतिश्याये पिबेत्सपिर्यथाक्रमम्॥१२॥

पञ्चभिर्लवणैः सिद्धं प्रथमेन गणेन वा॥
नस्यादिषु विधिं कृत्स्नमवेक्षेतार्दितेरितम्॥१३॥

पिबेत्सर्पिर्यथाक्रममिति। यथाक्रमं पाचनशिरोविरेचने कृत्वेत्यर्थः। किंवा स्वेदोपयोगिकाध्यायोक्तक्रमेण। प्रथमेन गणेन वेति। नस्यादिष्वित्यनेन योज्यम्। तेनायमर्थः। प्रथमेन गणेन विदारिगन्धादिना सिद्धं सर्पिर्नस्यादिषु प्रयोक्तव्यमिति। न चैवं कल्पनीयं यत्प्रथमेन गणेन कल्करूपेण पञ्चलवणेन च कल्केन सिद्धं सर्पिःपिबेन्नस्यादिष्वर्दितेरितं विधिं कुर्यादिति। कराले केवलपञ्चलवणेनैव घृतसाधनस्योक्तत्वात्।

तद्यथा—

“सर्पिर्वाताप हैः सिद्धं लवणैर्वाऽपि पञ्चभिः॥
प्रतिश्याये प्रशंसन्ति संपाद्य (द्यं) मारुतोद्भवे" इति ॥

किंवाऽदिंते सामान्येन नस्यादिकमुक्तं न तु विशिष्टैर्द्रव्यैर्नस्यादिविधिः। तेन नस्यादिष्वित्यस्य परेण योजनोचिता॥१२॥१३॥

पित्तरक्तकृतयोः प्रतिश्याययोश्चिकित्सामाह—

पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम्॥

मधुरकैरिति। काकोल्यादिभिः। केचित्पित्तरक्तोत्थयोस्तिक्तैः कषायमधुरैर्घृतमिति पठन्ति व्याख्यानयन्ति च तिक्तैः कषायमधुरैर्घृतं सिद्धमिति शेषः। तत्र तिक्तानि पटोलादिगणपठितानि। कषायाण्युत्पलादिगणोक्तानि। मधुराणि काकोल्यादीनि॥

परिषेकान्प्रदेहांश्च कुर्यादपि च शीतलान्॥१४॥

प्रदेहाः प्रलेपाः। परिषेकादीनि शीतलानीति शीतलानि न्यग्रोधाद्युत्पलादिशीतलगणकृतानि॥१४॥

कफजप्रतिश्यायचिकित्सामाह—

कफजे सर्पिषा स्निग्धं तिलमाषविपक्वया॥
यवाग्वा वामयित्वा754 वा755श्लेष्मघ्नं क्रममाचरेत्॥१५॥

तिलमाषविपक्वया यवाग्वा कृशरया वामयेत्।तिलमाषसिद्धविपक्वयेति वामनीयद्रव्ययुक्तयेति ज्ञेयम्। तथा सति वमनस्य सुकरत्वात्। वान्तश्च कफघ्नं क्रममिति, अत्र संसर्गमाचरेत्॥१९॥

दार्वीङ्गुनिकुम्भैश्च किणिह्या सुरसेन च॥
वर्तयोऽथ पृथग्योज्या धूम्रपाने यथाविधि॥१६॥

निकुम्भो दन्ती। किणिही कटभी।सुरसा निर्गुण्डी पन्नाशो वा। सुरसेनेत्यस्य स्थाने सरलेनेति पाठान्तरम्। यथाविधि धूमपानोक्तविधिना॥१६॥

घृततैलेन संयुक्तं सक्तुधूमं पिबेन्नरः॥
प्रतिश्यायहरं प्रोक्तं कासहिक्वानिवारणम्॥१७॥

सुगमम्॥१७॥

अथवा सघृतान्सक्तून्कृत्वा मल्लकसंपुटे॥
नवप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत्॥१८॥

सुगमम्॥१८॥

पुटपक्वंजयापत्रं सिन्धुतैलसमन्वितम्॥
प्रतिश्यायेषु सर्वेषु शीलितं परमौषधम्॥१९॥

सुगमम्॥१९॥

शिरसोऽभ्यञ्जनस्वेदनस्यकट्वम्लभोजनैः॥
वमनैर्घृतपानैश्च तान्यथास्वमुपाचरेत्॥२०॥

तानिति। प्रतिश्यायान्। यथास्वमिति। यथायोग्यम्। तेन शिरोभ्यङ्ग नस्यघृतपानानि पक्वेपरिशिष्टविधानमपक्वे॥२०॥

ऊषणं गुडसंयुक्तं स्निग्धदध्यम्लभोजनम्॥
नवप्रतिश्यायहरं विशेषात्कफपाचनम्॥२१॥

ऊषणमित्यादियोगो मिलितः॥२१॥

ततः पक्वंकफंज्ञात्वा हरेच्छीर्षविरेचनैः॥

** **सुगमम् ॥

पिप्पल्यः शिशुबीजानि विडङ्गमरिचानि च॥
अवपीडः प्रशस्तोऽयं मतिश्यायनिवारणः॥२२॥

पिष्ट्वाऽवपीड्य दीयत इत्यवपीडः॥२२॥

समूत्रपिष्टाश्चोद्दिष्टाः क्रियाः कृमिषु योजयेत्॥
धावनानि कृमिघ्नानि भेषजानि च बुद्धिमान्॥२३॥

समूत्रपिष्टा इति। समूत्राः पिष्टाः। प्रतिश्याये कृमिसंभवेऽवपीडादीन्गोमूत्रपिष्टान्प्रयुञ्ज्यात्।

“समूत्रपित्ताश्चोद्दिष्टाः क्रियाः कृमिषु योजयेत् ।
यापनार्थं कृमिघ्नानि भेषजानि च बुद्धिमान् “।

इति पाठान्तरं सुश्रुत ईदृशं व्याख्यानयन्ति। समूत्रपित्ता इति। सह गोमूत्रेण गोपित्तेन चेति। समूत्रपित्ताः क्रिया गोशब्दस्य लुप्तत्वात्तन्त्रान्तरदर्शनाद्वा।कृमिघ्ना याः क्रिया उद्दिष्टास्ता गोमूत्रपित्तयुक्ता यापनार्थं कर्तव्याः। तथा कृमिजशिरोरोगपठितानि कृमिघ्नानि भेषजानि सुरसादीनि कर्तव्यानि। बुद्धिमान्भिषगूहापोहवित्। ये तु सर्वेषामेव प्रतिश्यायानां कृमिसंभवं मन्यन्ते तेऽमुं श्लोकमीदृशं व्याख्यानयन्ति प्रत्येकं वातादिप्रतिश्यायेषु याः क्रिया उद्दिष्टास्ता एव गोमूत्रपित्तयुक्ता यथास्वं कृमिषु योजयेदिति॥२३॥

शेषाणां तु विकाराणां स्वं स्वं कार्यं चिकित्सितम्॥२४॥

शेषाणां तु विकाराणामिति। नासागतानामर्बुदशोफार्शोरक्तपित्तानां स्वं स्वमिति॥२४॥

करवीराद्यं तैलमाह—

रक्तकरवीरपुष्पं जात्याऽसनमल्लिकायाश्च॥
एतैः समं तु तैलं नासार्शोनाशनं श्रेष्ठम्756॥२५॥

जात्यादिपुष्पम्। जात्याऽसनेति संहितया निर्देशोऽसिद्धविधेरनित्यत्वात्। असनं मल्लिकाऽप्फरमल्लिका। सममिति सहार्थे सह पक्वमित्यर्थः। करवीराद्यं तैलम्॥२५॥

चित्रकहरीतकीमाह—

चित्रकस्याऽऽमलक्याश्च गुडूच्या दशमूलजम्॥
शतं शतं रसं दत्त्वा पथ्याचूर्णाढकं गुडात्॥२६॥

शतं पचेद्धनीभूते पलद्वादशकं क्षिपेत्॥
व्योषत्रिजातयोः क्षारात्पलार्धमपरेऽहनि॥२७॥

प्रस्थार्धंमधुनो दत्त्वा यथाग्नि757 प्राशयेदथ॥

वृद्धयेऽग्नेः क्षयं का पीनसं दुस्तरं कृमीन्॥
गुल्मोदावर्तदुर्नामश्वासान्हन्ति रसायनम्॥२८॥

चित्रकमूलस्य पलानि पञ्चाशत्। तोयं तस्माच्चतुर्गुणम्। चत्वारि पलशतानि साध्यानि। शेषः सपादद्वयद्वादश शरावाः। एवं चित्रकरसस्य पलशतं भवति। आमलक्याः स्वरसः। तस्याभावे चित्रकवद्विधिः। एवं गुडूच्या अपि। दशमूलस्य च मिलितस्य क्वाथः। पलद्वादशकं व्योषत्रिजातयोमिलित्वा। चित्रकहरीतकी॥२६॥२७॥२८॥

शिखरितैलमाह—

गृहधूमकणादारुक्षारनक्ताहृसैन्धवैः॥
सिद्धं शिखरिबीजैश्च तैलं नासार्शसां हितम्॥२९॥

नक्ताह्वयस्य बीजम्। शिखरिबीजमपामार्गस्य बीजम्। शिखरितैलम्॥२९॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां षष्टितमो नासारोगाधिकारः समाप्तः॥ ६०॥
<MISSING_FIG href=”../../../books_images/U-IMG-1706501913241803-removebg-preview.png”/>

अथैकषष्टितमो नेत्ररोगाधिकारः।
_________

इन्द्रियाधिष्ठानगतरोगपारिशेष्याच्चक्षूरोगः। ‘प्रायेण सर्वे नयनामयास्तु भवन्त्यभिप्यन्दनिमित्तमूलाः’इति वचनात्प्रथममभिष्यन्दस्य प्रतीकारमाह—

लङ्घनालेपनस्वेदशिराव्यधविरेचनैः॥
उपाचरेदभिष्यन्दानञ्जनाश्चोतनादिभिः॥१॥

लङ्घनमुपवासो लघ्वन्नं वा। यदाह विदेहः—

“प्रागेवाक्ष्यामये भक्तं त्रिरात्रमगुरु स्मृतम्।
उपवासस्त्र्यहं वा स्यात्तिक्तंवाऽप्यशनं हितम्” इति॥

स्वेदः पित्तजं विहाय स च नयनोपान्ते मृदु। **यदुक्तम्—**हृदयं वृषणौ दृष्टी स्वेदयेन्मृदुवा न वेति। शिराव्यधो रक्तोत्क्लेशे सति। शिराव्यधेति। अत्र शिरोपनासिका ललाट्याऽपाङ्गया वा। जीर्णेऽमिष्यन्दे विरेचनम्। जीर्णेऽञ्जनाश्चोतनादिकं च। आश्चोतनमक्षिपूरणम्॥१॥

अक्षिकुक्षिभवा रोगाः प्रतिश्यायव्रणज्वराः॥
पञ्चैते पञ्चरात्रेण रोगा नश्यन्ति लङ्घनात्॥२॥

<MISSING_FIG href="../../../books_images/U-IMG-1706502326240129.png"/>स्वेदः प्रलेपस्तिक्तान्नं सेको दिनचतुष्टयम्॥
लङ्घनं चाक्षिरोगाणामामानां पाचनानि षट्॥३॥

कुक्षिभवा रोगा अतीसारादयः। नन्वत्र पञ्चरात्रेण(णेति) विरुद्धं यतो विदेहे, उपवासस्त्र्यहं वा स्यादित्यनेन त्र्यहं लङ्घनमुपदिष्टम्। तथा तत्रान्तरे चतुरहम्।

तद्यथा—

स्वेदः प्रलेपस्तिक्तान्नं सेको दिनचतुष्टयम्।
लङ्घनं चाक्षिरोगाणामामानां पाचनानि षट्" इति ॥

उच्यते। यथाक्रमं वातपित्तकफापेक्षया त्रिचतुष्पञ्चाव्यवस्थितेर्न दोष इति। त्र्यहादिलङ्घनविधानं चेह सामतासद्भावात्॥२॥३॥

श्रीवासातिविषालोध्रैश्चूर्णितैरल्पसैन्धवैः॥
अव्यक्तेऽक्षिगदे कार्यंप्लोतस्थैर्गुण्डनं बहिः॥४॥

__________________________________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1706502412240129.png"/> अयं श्लोको बहुषु पुस्तकेषूपलभ्यते क. घ. पुस्तकयोर्नास्ति।__________________________________________________________________

प्लोतस्थैरिति। कर्पटवद्धैः। गुण्डनमवचूर्णनं तच्च मुकुलितनेत्रे न तु विस्तृते॥१॥

वर्ज्यमाह—

अञ्जनं पूरणं क्वाथपानमामे न शस्यते॥

तथा च तत्रान्तरम्—

“अञ्जनं सर्पिषः पानं कषायं गुरुभोजनम्।
नेत्ररोगेषु सामेषु स्नानं च परिवर्जयेत्”॥

यद्यक्षिरोगं मन्येत सरुजं व्यक्तलक्षणम्॥
वेदनानिग्रहार्थं तु कुर्यादाश्चोतनं सदा758॥५॥

व्यक्तलक्षणमिति। सामतालिङ्गव्यपगमात्केवलदोषलक्षणं निराममिति यावत्। साम-तानिरामतालक्षणे च तत्रान्तरम्—

“उदीर्णवेदनं नेत्रं रागदोषसमन्वितम्।
घर्षनिस्तोदशूलाश्रुयुक्तमामान्वितं विदुः॥

मन्दवेदनता कण्डूः संरम्भानुप्रशान्तता।
प्रसन्नवर्त्मता चाक्ष्णोः संपक्वंदोषमादिशेत्" इति॥

आश्चोतनमक्षिसेकः। एतच्च निरामे।आश्चोतनविधानं वातजे पित्तजे च ज्ञेयम्। कफजे पुनरादावेवाऽऽश्चोतनम्।विदेहविहितं यथा—

“अभिष्यन्देऽधिमन्ये च नेत्रयोः कफसंभवे॥

उत्पत्तावेव कर्तव्यं नेत्रयोः कफनाशनम्॥
तीक्ष्णश्चाक्ष्णोः परीषेकस्तीक्ष्णं चाऽऽश्चोतनादिकम्” इति॥५॥

आश्चोतनं मारुतजे क्वाथो बिल्वादिभिर्हितः।
कोष्णः सैरण्डबृहतीतर्करीमधुशिग्रुभिः॥६॥

बिल्वादिभिरिति। बिल्वादि महत्पञ्चमूलम्।सैरण्डेत्यादि बिल्वादिभिरित्यस्य विशेषणं तेनैक एवायं योगः। तथा च **जातूकर्णः—**महापञ्चमूलोरुबूकशिग्रुतर्कारीसिंहीक्वाथइति। बृहती कण्टकारी॥६॥

एरण्ड पल्लवे मूले त्वचि चाऽऽजं पयः शृतम्॥
कण्टकार्याश्च मूलेषु सुखोष्णं सेचनं हितम्॥७॥

एरण्डेत्यादियोगे क्षीरसाधनं क्वाथ्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणमित्यादिक्षीरपरिभाषयैव।गदाधरः सुश्रुते, एतद्योगान्तरोक्ते—

“सैन्धवोदीच्ययष्ट्याह्वपिप्पलीभिः शृतं पयः॥
हितमर्धोदकं सेके तथाऽऽश्चोतन एव च “॥

इत्यन्तयोगेऽर्धोदकमित्येतत्सर्वाश्चोतनक्षीरसाधनार्थं परिभाषास्थानीयमित्याचक्षाणोऽत्र्याप्यर्धोदकक्षीरसाधनमाह।युक्तं तु विशेषनिर्देशाभावादत्रक्षीरपरिभाषयैव साधनम्। एरण्डपल्लवादिकण्टकारीमूलान्त एको योगः।

तथा च विदेहः—

“कण्टकारीशिफैरण्डमूलत्वक्पत्रसाधितम्।
क्षीरमाजं हितं सेके रुक्षु स्यन्दाधिमन्ययोः” इति॥

सेक इत्यत्र चकारो लुप्तो द्रष्टव्यः। तेन न केवलं सेक आश्चोतने चेत्यर्थः। तत्र सेके सुखोष्णमाश्चोतने च शीतमेव॥७॥

इदानीमञ्जनस्याऽऽवस्थिकं कालमुद्दिशन्नाह—

ततः संपक्वदोषस्य प्राप्तमञ्जनमाचरेत्॥८॥

प्राप्तमञ्जनं युक्तमञ्जनं लेखनादिभेदेन त्रिप्रकारम्। तथा च सुश्रुतः—‘लेखनं रोपणं चापि प्रसादनमथापि वा’ इति। अत्र सूक्ष्ममूला भिष्यन्दनयनामयहरत्वात्प्रागेव लेखनाञ्जननिर्देशः। तल्लेखनाञ्जनं मधुररसवर्जिताम्लादिरसपञ्चकेनैव पञ्चप्रकारम्।

तथा च सुश्रुतः

“तत्र पञ्चरसान्व्यस्तानाद्यैकरसवर्जितान्।
पञ्चधा लेखनं युञ्ज्याद्यथादोषमतन्द्रितः”॥

अस्यार्थः। पञ्चरसान्पञ्चरसवद्रव्याणीत्यर्थः। आद्यैकरसवर्जितान्मधुररसवर्जितान्। पञ्चधेति। वातपित्तकफरक्तसंनिपात भेदेन। यथादोषं दोषानतिक्रमेण। तत्र वातेऽम्ललवणौ। पित्ते तिक्तकषायौ। कफे कटुतिक्तकषायाः।रक्ते पित्तवत्। संनिपाते रसद्वयं त्रयं वा। संनिपातेनैव संसर्गोऽवरुद्धः। अतः पृथग्नोक्तः। तत्र मधुररसमपि क्षौद्रं लेखनं स्यात्कषायरसत्वाद्रौक्ष्यात्प्रभावाद्वेति। लेखनं दोषस्रावणान्नयनस्य रिक्तीकरणम्।लेखनस्य दोषस्रावणे प्रकारः सुश्रुत उक्तः।

तथा च—

“नेत्रवर्त्मशिराकोशस्त्रोतःशृङ्गाटकाश्रितम्।
मुखनासाक्षिभिर्दोषमोजता स्रावयेत्तु तत्"॥

अस्यार्थः। नेत्रवर्त्मनो याः शिरा यश्च कोशो यानि च स्रोतांसि तत्र स्थितं दोषं तथा शृङ्गाटकमर्माश्रितं सदोषं तल्लेखनाञ्जनं मुखादिभिरोजसा शक्त्या स्रावयेदिति पिण्डार्थः। रोपणाञ्जनं कषायतिक्तरसम्।

तथा च सुश्रुतः—

“कषायं तित्तकं चापि सस्नेहं रोपणं मतम् ।
तन्त्रेहशैत्याद्वृष्यं स्यादृष्टेश्च बलवर्धनम्” इति॥

प्रसादनाञ्जनं मधुररसम्। तथा च सुश्रुतः—

“मधुरं स्नेहसंपन्नमञ्जनं तु प्रसादनम्॥
दृष्टिदोषप्रसादार्थं स्नेहनार्थं च तद्धितम्" इति।

तत्र पूर्वाह्णेदृष्ट्याश्रयाणां कफात्मकानां रोगाणां प्रतीकाराय लेखनाञ्जनप्रयोगः। सायाह्ने वातात्मकानां रात्रौ पित्तात्मकानाम्। अथ वा शोधनस्याञ्जनस्याऽऽदौ ततो रोपणस्यान्ते प्रसादनस्येति।

तथा च सुश्रुतः—

“यथादोषं प्रयोज्यानि तानि रोगविशारदैः।
अञ्जनानि यथोक्तानि प्राहसायाह्नरात्रिषु"॥८॥

ऋतुभेदात्पूर्वाह्णादिष्वञ्जनोपयोगमाह—

हेमन्ते शिशिरे चैव मध्याह्नेऽञ्जनमिष्यते॥

पूर्वाह्णेवाऽपराह्णेच ग्रीष्मे शरदि चेष्यते॥
वर्षास्वनभ्रे नात्युष्णे वसन्ते च सदैव हि॥९॥

आह च सात्यकिः—

“वसन्ते नातिशीतोष्णे प्रातर्ग्रीष्मेघनात्यये।
वर्षास्वनभ्रे मध्याह्ने हेमन्ते शिशिरे तथा॥

पित्तोपचयशान्त्यर्थं पूर्वरात्रे च शस्यते” इति।

** माधवोऽ**त्राऽऽह—

“आदित्येऽनुदिते नृृणामञ्जनं न हितं मतम्॥

तिमिरारूंषिकारोगकृच्छ्रोन्मीलनवेदनाः।
निस्तोदतोदशोफाद्यं तेषां कुर्यात्तदञ्जनम्” इति॥

लेखनाद्येवैकमञ्जनं गुटिकारसक्रियाचूर्णभेदेन त्रिप्रकारं तत्र महाबलानां रोगाणां गुटिकाञ्जनम्।मध्यानां रसक्रियाञ्जनम्। हीनानां चूर्णाञ्जनम्।

तथा च सुश्रुतः—

“गुटिकारसचूर्णानि त्रिविधान्यञ्जनानि तु।
यथापूर्वंबलं तेषां श्रेष्ठनाहुर्मनीषिणः”॥९॥

तेषां प्रमाणमाह—

हरेणुमात्रां कुर्वीत वर्ति तीक्ष्णाञ्जने भिषक्॥
प्रमाणं मध्यमेऽध्यर्घं द्विगुणं च मृदौ भवेत्॥१०॥

हरेणुमात्रा वर्तिरेकवारोपणयोज्या759।हरेणुस्त्रिपुटः कलायः। तीक्ष्णाञ्जने लेखनाञ्जने।मध्यमे रसाञ्जने प्रसादनेऽध्यर्धप्रमाणं सार्धकलायप्रमाणम्।मृदौ रोपणाञ्जने द्विगुणं प्रमाणं द्विकलायं प्रमाणमित्यर्थः॥१०॥

गुटिकाञ्जनप्रमाणमभिधाय रसक्रियाञ्जनप्रमाणमाह—

विडङ्गमात्रं त्ववरं मध्यं द्वावुत्तमं त्रयम्॥
रसक्रियायां वर्तीनां प्रमाणं परिकीर्तितम्॥११॥

परमतेन रसक्रियाप्रमाणमाह—रसक्रियायां वर्तीनामित्यादि।

“गृहीत्वा क्वाथकल्पेन क्वाथं पूतं पुनः पुनः।
क्वाथयेत्फाणिताकारमेषा प्रोक्ता रसक्रिया॥

वर्तीनां प्रमाणं वर्तिमितं रसक्रियायां प्रकीर्तितम्। यथास्ववर्तिप्रमाणमात्रेत्यर्थः। तत्र लेखनरसक्रियाञ्जनस्य लेखनवर्तिप्रमाणं रोपणस्य रोपणवर्तिवत्प्रसादनस्य प्रसादनवर्तिवत्॥११॥

चूर्णाञ्जनप्रमाणमाह—

वैरेचनिकचूर्णं तु द्विशलाकं विधीयते॥
मृदौ तु त्रिशलाकं स्याच्चतस्रः स्नैहिकेऽञ्जने॥१२॥

वैरेचनिकचूर्णं लेखनचूर्णं शलाकाद्वयम्।मृदौ रोपणे चूर्णे त्रिशलाकं शलाकात्रयं प्रमाणम्। स्नैहिकेऽञ्जने प्रसादने चतस्रः शलाकाः॥१२॥

इदानीं तान्यञ्जनानि किंमयशलाकानीत्याह—

सुवर्णरूप्यताम्रायःकांस्याश्मास्थिमयाः कृताः॥१३॥

शलाका अञ्जने शस्ता अष्टाङ्गुलमिताः शुभाः॥
वक्त्रयोर्मुकुलाकाराः कलायपरिमण्डलाः॥१४॥

सुवर्णादिमयाः शलाका अञ्जने शस्ताः। अयो लोहम्।अश्म वैडूर्यादि तन्मयाः। अस्थिमया दान्ता शार्ङ्गीच। तत्र मधुरे कटुके वैडूर्याद्यश्ममयी।लवणेऽस्थिमयी शलाका शस्ता। एवं सुवर्णादिमयानि भाजनान्येषां कार्याणि। मधुरेऽञ्जने हैमं भाजनं हितम्।अम्ले राजतमित्यादि।

तथा च सुश्रुतः—

“तेषां तुल्यगुणान्येव विदध्याद्भाजनान्यपि।
सौवर्णं राजतं शार्ङ्गं ताम्रं वैडूर्यकांस्यजम्॥

आयसानि तु योज्यानि शलाकाश्च यथाक्रमम्”॥

सुवर्णादिमयानां शलाकानां मध्ये ताम्रजाऽश्मजा शारीरी च हिता। तथा च **सुश्रुतः—**औदुम्बर्यश्मजा वाऽपि शारीरी वा हिता भवेत् । औदुम्बरी ताम्रमयीअश्मजा वैडूर्यादिपाषाणजा।अपिशब्दात्सुवर्णजाऽपि हितेत्यर्थः।

तथा च निमिः—

“आयसी रोपणे ताम्री लेख्ये हैमी प्रसादने।
शेषा अपि यथादोषं प्रयोज्या रसकोविदः”॥

**शारीरी शृङ्गास्थिजा।**केचिच्छारीरीशब्देनाङ्गुलिमाचक्षते। तन्नेच्छति गयी

तासां शलाकानामाकारमुद्दिशन्नाह—अष्टाङ्गुलामिता इत्यादि। शुभाः कर्कशादिदोषरहिताः। मुकुलाकारा मल्लिकादिमुकुलस्येव निर्गच्छतो यद्वन्मुखं तदाकाराः। कलायपरिमण्डलत्वेन तीक्ष्णाग्रत्वनिषेधः॥१३॥१४॥

वामे करतले कृत्वा सजलं निकषोपलम्॥
दक्षिणेनाञ्जनं गृह्य करेण निकषेच्छनैः॥१५॥

तेन कल्केन मतिमाञ्शलाकाग्रं प्रलिप्य च॥
उत्थाप्य चोत्तरं वर्त्म वामेनाङ्गुष्ठपर्वणा॥१६॥

वर्त्मशुक्लान्तरे चाल्प(ल्पां) शलाकां सुप्रवर्तयेत्॥

प्रथमं सव्यमञ्ज्यात्तु पश्चादञ्ज्यात्तु दक्षिणम्॥
शलाकाङ्गुष्ठदेशिन्या न चान्तर्नयनं स्पृशेत्॥१७॥

सुगमम्॥१५॥१६॥१७॥

बृहत्येरण्डमूलत्वक्शिग्रुमूलं ससैन्धवम्॥
अजाक्षीरेण पिष्टं स्याद्वर्तिर्वाताक्षिरोगनुत्॥१८॥

सुगमम्॥१८॥

हरिद्रे मधुकं द्राक्षा देवदारु च पेषयेत्॥
आजेन पयसा श्रेष्ठमभिष्यन्दे तदञ्जनम् ॥१९॥

** **सुगमम्॥१९॥

प्रपौण्डरीकयष्ट्याह्वनिशामलकपद्मकैः॥
शीतैर्मघुमायुक्तैःसकः पित्ताक्षिरोगनुत्॥२०॥

प्रपौण्डरीकादीनां क्वाथेन सेकः॥२०॥

द्राक्षामधुकमञ्जिष्ठाजीवनीयैः शृतं पयः॥
प्रातराश्चोतनं पथ्यं शोथशूलाक्षिरोगिणाम्॥२१॥

सुगमम्॥२१॥

कफजे लङ्घनं स्वेदो नस्यं तिक्तादिभोजनम्॥
तीक्ष्णैः प्रधमनं कुर्यात्तीक्ष्णैश्चैवोपनाहनम्॥२२॥

सुगमम्॥२२॥

कफाभिप्यन्दे स्वेदद्रव्याण्याह—

फणिज्जकास्फोतकपित्थबिल्वपत्तूरपीलूसुरसार्जभङ्गैः॥
स्वेदं विदध्यादथवाऽनुलेपं बर्हिष्ठशुण्ठीसुरदारुकुष्ठैः760॥२३॥

फणिज्जकः पर्णासभेदः। डल्लणस्तु फणिज्जकस्तीक्ष्णगन्धः स्वनाम्नैव प्रसिद्ध इत्याह। अन्ये निर्गुण्डीमाहुः। आस्फोता, अफरमलिका।पत्तूरः शिखालिका।पीलुरौत्तरापथिकस्तरुः। छन्दोनुरोधादिह पीलूपाठो युक्तः। सुरसोऽपि पर्णासभेदः। अर्जोऽर्जकः। स च पर्णासभेदः।अर्जस्थानेऽर्कपाठो युक्तः। तत्रान्तरे रूयिकापाठात्।

तद्यथा—

“कपित्थसुरसास्फोतापीलुपत्तूररूयिकाः।
फणिज्जबिल्वच्छदनैः स्वेदः स्यन्दाधिमन्थयोः॥

कफोत्थयोः प्रलेपस्तु दारुरुग्विश्ववालकैः” इति।

भङ्गाः पल्लवाः। अन्ये भङ्गशब्देन पत्रभङ्गानाहुः। अनुलेपद्रव्याण्याह**—अथ वाऽनुलेपं बर्हिष्ठशुण्ठीसुरकाष्ठ(दारु) कुष्ठैरिति।** बर्हिष्ठं वालकम्॥२॥

शुण्ठीनिम्बदलैःपिण्डः सुखोष्णैः स्वल्पसैन्धवैः॥
धार्यश्चक्षुषि संक्षेपाच्छोफकण्डूव्यथा761पहः॥२४॥

शुण्ठीनिम्बदलैरिति। शुण्ठी निम्बदलापेक्षया स्वरूपा॥२४॥

वल्कलं पारिजातस्य तैलकाञ्जिकसैन्धवैः॥
कफजाताक्षिशूलघ्नं तरुघ्नं कुलिशं यथा॥२५॥

वल्कलं पारिजातस्येत्यादिनाऽञ्जनं ताम्रपात्रे घृष्ट्वा कार्यम्। एवं प्रचरति। लेपोऽयमित्येके॥२५॥

ससैन्धवं लोध्रमथाऽऽज्यभृष्टं सौवीरपिष्टं सितवस्त्रबद्धम्॥
आश्रोतनं तन्नयनस्य कुर्याद्दाहं च कण्डूं च रुजं च हन्यात्॥२६॥

आश्चोतनसेकयो रोगहरणे विशेषं सुश्रुतो वक्ति।

तथा च—

“यथादोषोपयुक्तं तु नातिप्रबलमोजसा।
रोगमाश्चोतनं हन्ति सेकस्तु बलवत्तरम्”॥

अस्यार्थः। यथादोषोपयुक्तमिति। वातादिजे नेत्ररोगे वातादिहरद्रव्यसिद्धमाश्चोतनमित्यर्थः। नातिप्रबलं नात्युत्कटं रोगम्।ओजसा शक्त्या रोगं हन्तीति संबन्धः। सेकस्तु बलवत्तरमिति। यथादोषोपयुक्तः परिषेकः पुनर्बलवत्तरमतिप्रबलं रोगं हन्ति। तौ चाऽऽश्चोतनसेकौ चतुर्थेऽहनि गते वेगेऽक्ष्णिप्रयोक्तव्यौ।

तथा च विदेहः—

“प्राणवाक्ष्यामये762 कार्यं त्रिरात्रं लुप्तभोजनम्।
उपवासस्त्र्यहं वा स्यान्नक्तं वाऽप्यशनं त्र्यहम्॥

ततश्चतुर्थे दिवसे व्याधिं संजातलक्षणम्।
समीक्ष्याऽऽश्चोतनैः सेकैर्यथास्वमुपपादयेत्"॥

आश्चोतनसेकावपि स्नेहलेखनरोपणभेदेन त्रिप्रकारौ। तौ तु यथासंख्यं चत्वारि द्वे पञ्च षड्वाक्शतान्यवचार्यौ॥२६॥

लोध्रंसर्पिषि संपक्वंखदिराजाजिसर्षपैः॥
नागरारिष्टसिन्धूत्थैर्युक्तं दृषदि चूर्णितम्॥२७॥

सिते वाससि तद्बद्धं न्यसेत्स्वच्छाम्लकाञ्जिकैः॥
तेनाक्ष्णोः पूरणं कार्यं कण्डूरोरोगाश्रुघर्षजित्॥२८॥

सुगमम्॥२७॥२८॥

निम्बस्य पत्रैः परिलिप्य लोध्रंस्वेदाग्निना चूर्णमथापि कल्कम्॥
आश्चोतनं मानुषदुग्धयुक्तं पित्तास्रवातापहमग्न्यमुक्तम्॥२९॥

सुगमम्॥२९॥

स्निग्धोष्णैर्वातजः पित्तरक्तजो मृदुशीतलैः॥
तीक्ष्णरूक्षोष्णविशदैःप्रणश्यति कफात्मकः॥३०॥

सुगमम्॥३०॥

तीक्ष्णोष्णमृदुशीतानां व्यत्यासात्सांनिपातिकः॥
तस्य कालो दिवा सर्वो यामश्चप्रथमो निशि॥३१॥

सुगमम्। आश्चोतनप्रमाणं क्वापि पठ्यते—

“प्रकुञ्चः श्लैष्मिके व्याधौ पाणिशुक्तिश्च घातजे॥
आश्चोतने प्रमाणं स्याद्द्वे शुक्ती चास्त्रपैत्तिके"।

प्रक्रुञ्चो भुग्नाङ्गुलिचतुष्टयपरिमितः। द्वे शुक्ती पाणिशुक्तिः। शुक्तिश्चत्वारिंशद्बिन्दवः॥३१॥

अथ वाऽऽश्चोतनं यावद्दीयमानं सहेन्नरः॥
अहोरात्रे तच्च सकृद्द्विस्त्रिर्वादेयमुच्यते॥३२॥

सुगमम्॥३२॥

लेखनादीनामाश्चोतनानां बिन्दुसंख्यामाह—

लेखने सप्त चाष्टौ वा बिन्दवः स्नैहिके दश॥
आश्चोतने प्रयोक्तव्या द्वादशैव तु रोपणे॥३३॥

लेखने लेखनाश्चोतने सप्ताष्टौ वा बिन्दवः॥३३॥

सम्यगाश्चोतने युक्ते वैमल्यं नेत्रयोर्भवेत्॥
वेदनोपशमो व्याधिनिवृत्तिर्नेत्रलाघवम्॥३४॥

सुगमम्॥३४॥

मिथ्याकृते व्याधिवृद्धिर्गौरवाविलनेत्रता॥
अतीवाऽऽश्चोतिते नेत्रे रागदोषपरिस्रवाः763॥३५॥

सुगमम्॥३१॥

तिरीटत्रिफलायष्टीशर्कराभद्रमुस्तकैः॥
पिष्टैः शीताम्बुना सेको रक्ताभिष्यन्दनाशनः॥३६॥

सुगमम्॥३६॥

कसेरुमधुकाभ्यां च चूर्णमम्बरसंवृतम्॥
न्यस्तमप्स्वान्तरिक्षासु हितमाश्चोतनं भवेत्॥३७॥

अम्बरसंवृतमिति। वस्त्रबद्धम्। न्यस्तं क्षिप्तम्। अप्स्वान्तरिक्षास्विति। अन्तरिक्षजलाभावे दिवार्ककिरणैर्जुष्टमित्यादिना कथितं तद्भुणं जलं ग्राह्यम्। डल्लणस्त्वेवं व्याख्याति—आन्तरिक्षोदकालाभ आकाशगुणभूयिष्ठं भूमिस्थमुदकं गृह्यते ।

आह च चरकाचार्यः—

“किंचित्तुवरानुरसं तनु लघुशीतं सुगन्धि सुरसं च।
अनभिष्यन्दि च यत्तत्क्षितिस्थमप्यैन्द्रवज्ज्ञेयम्" इति॥

केचित्परिषेकमप्यनेनैवेच्छन्ति॥३७॥

रक्ताभिष्यन्दे सर्पिष्पानादि क्रियाकलापमाह—

तिक्तस्य सर्पिषः पानंबहुशश्च विरेचनम्॥३८॥

अक्ष्णोरपि समन्ताच्च पातनं च जलौकसाम्।
पित्ताभिष्यन्दशमनो विधिश्चाप्युपपादितः॥३९॥

वातावृताद्रक्ताज्जातायां रुजायां सर्पिष्पानं महत्या मात्रया।पित्तदुष्टरक्तजायां विरेकः। बहुशोणितजायां रुजायां जलौकः पातनम्। अल्पशोणितजायां पित्ताभिष्यन्दशमनो विधिः॥३८॥३९॥

शिग्रुपत्ररसैः सेकः सर्वनेत्ररुजापहः॥

शिग्रुपल्लवनिर्यासः सुघृष्टस्ताम्रसंपुटे॥
घृतेन धूपितो हन्ति शोथघर्षाश्रुवेदनाः॥४०॥

सुगमम्॥४०॥

पथ्यागै764रिकसिन्धुत्थदार्वीताक्ष्यैः समांशकैः॥
जलपिष्टैर्वहिर्लेपः सर्वनेत्रामयापहः॥४१॥

सुगमम्॥४१॥

पिष्टैर्निम्बस्य पत्रैरतिविमलतरैर्जातिसिन्धूत्थमिश्रै-
रन्तर्गर्भंदधाना पटुतरगुटिका पिष्टलोध्रेण भृष्टा॥
तूलैः सौबीरसान्द्रैरतिशयमृदुभिर्वेष्टिता सा समन्ता-
च्चक्षुष्कोपोपशान्तिं चिरमुपरिदृशो भ्राम्यमाणा करोति॥४२॥

जातिसिन्धूत्थमिश्रैरिति। जातिसिन्धूत्थं सारसैन्धवम्। जातिर्जातिकालिका वा।**अन्तर्गर्भे दधानेति।**निम्बपत्रकल्कमध्ये लोध्रकल्कं दत्त्वा गुडकां कृत्वेत्यर्थः। भृष्टा घृते॥४२॥

यथास्वमौषधं चूर्णं मात्रां वदरसंमिताम्॥४३॥

विशुद्धे मृदुनि क्षोमे वद्ध्वा चाक्षि स्पृशेत्पुनः॥
तेन दाहाश्रुपाकाश्च रागः शोफश्चशाम्यति॥४४॥

सुगमम्॥४३॥४४॥

बिल्वाञ्जनमाह—

बिल्वपत्ररसः पूतः765 साज्यसिन्धुकणान्वितः॥
शुल्बे वराटिकाघृष्टो धूपितो गोमयाग्निना॥४५॥

पयसाऽऽलोडितश्चाक्ष्णोः पूरणाच्छोफशूलनुत्॥
अभिष्यन्देऽधिमन्थे च स्रावे रक्ते च शस्यते॥४६॥

शुल्वे ताम्रे।पयसास्त्रीस्तन्येन॥४५॥४६॥

सलवणकटुतैलं काञ्जिकं कांस्यपात्रे
घनमुपलसुघृष्टं धूपितं गोमयाग्नौ॥
सपवनकफकोपं छागदुग्धावसिक्तं
जयति नयनशूलं स्रावशोफं सरागम्॥४७॥

उपलमुघृष्टमिति। उपलः प्रस्तरः।वराटिकाप्रघर्षणं प्रचरति॥४७॥

अयमेव विधिः सर्वो मन्थादिष्वपि शस्यते॥

अयमेव विधिरिति। वाताद्यभिप्यन्दोक्तः॥

अशान्तौसर्वथा मन्थे भ्रुवोरुपरि दाहयेत्॥४८॥

सुगमम्॥४८॥

जलौकः पातन संधौ635 नेत्रपाके विरेचनम्॥
शिराव्यधं वा कुर्वीत सेकालेपांश्च शुक्रवत्॥४९॥

सुगमम्॥४९॥

विभीतकशिवाधात्रीपटोलारिष्टवासकैः॥
क्वाथो गुग्गुलुना पेयः शोफशूलाक्षिपाकहा॥५०॥

पिल्लं च सत्रणं शुक्रं रागादींश्चापि नाशयेत्॥
एतैरपि घृतं पक्वंरोगांस्ता766न्नाशयेद्बहून्॥५१॥

एतैरपि घृतं पक्वमिति। गुग्गुलुः कल्कः। विभीतकादिक्वाथोद्रवम्। षडङ्गो गुग्गुलुः॥५०॥५९॥

आटरूषाभयानिम्बधात्रीमुस्ताक्षकूलकैः॥
रक्तस्रावं कफंहन्ति चक्षुष्यं वासकादिकम्॥५२॥

आटरूपेत्यादिना योगः क्वाथः। अक्षमिह बेहडकम्॥५२॥

पथ्यास्तिस्रो विभीतक्यः षड्धात्र्यो द्वादशेति च॥
प्रस्थार्धसलिले क्वाथमष्टभागावशेषितम्॥५३॥

पीत्वाऽभिष्यन्दमास्रावं रागं च तिमिरं जयेत्॥
संरम्भरागशूलाश्रुनाशनं दृक्प्रसादनम्॥५४॥

पीत्वेति सायमित्याहुः॥१३॥५४॥

नेत्राभिघातो मूर्तेन दण्डादिनाऽमूर्तेन स्वेदाग्न्यादिना भवति तत्र मूर्तदण्डादिजाभिघातजाथां रुजायां चिकित्सामाह—

** नेत्रे त्वभिहते कुर्याच्छीतमाश्चोतनादिकम्॥
दृष्टिप्रसादजननं विधिमाशु कुर्या-
त्स्निग्धैर्हिमैश्च मधुरैश्च तथा प्रयोगैः॥५५॥**

** आश्चोतनादिकमिति**। आदिशब्दान्नस्यास्यलेपपरिषेचनतर्पणानि गृह्यन्ते॥

** दृष्टिप्रसादजननमिति**। नयनावरकदोषनाशनं विधिमाशु कुर्यादिति पिण्डार्थः।कैर्दृष्टिप्रसादनमित्यत उक्तम्। स्निग्धैरित्यादि॥५५॥

नेत्रे त्वभिहत इत्यादिना मूर्तानां दण्डादीनामभिघाते यच्चिकित्सितमुक्तं तदेव चिकित्सितममूर्तानामपि स्वेदादीनामभिघातेऽतिदिशन्नाह—

स्वेदाग्निधूमभयशोकरुजोपतापै-
रभ्याहतामपि तथैव भिषक्विकित्सेत्॥५६॥

स्वेदादिकृता रुजा एवोपतापा रोगा रोगकारकत्वादुच्यन्ते। अभ्याहतामित्यतः परं दृष्टिमिति द्रष्टव्यम्। तथैवेत्यनन्तरोक्तविधिना॥५६॥

आगन्तुदोषं असमीक्ष्य कार्यं वक्त्रोष्मणा स्वेदितमा767दितस्तु॥
आश्चोतनं स्त्रीपयसा च सद्यो यच्चापि पित्तक्षतजापहं स्यात्॥५७॥

आगन्तुदोषमिति। धूमापप्लवम्। वक्त्रोष्मणा वस्त्रपुटगृहीतेन। यच्चापि पित्तक्षतजापहमिति।पित्तजे रक्तजे चाभिष्यन्द्रे यदुक्तं भेषजं तदपि हितमित्यर्थः॥१७॥

सूर्योपरागानलविद्युतादिविलोकनेनोपहतेक्षणस्य॥
संतर्पणं स्निग्धहिमादि कार्यं सायं निषेव्यास्त्रिफलाप्रयोगाः॥५८॥

सुगमम्॥१८॥

निशाब्दत्रिफलादार्वीसितामधुकसंयुतम्॥
अभिघाताक्षिशूलघ्नं नारीक्षीरेण पूरणम्॥

सुगमम्॥

इत्कटाङ्कुरजस्तद्वत्स्वरसो नेत्रपूरणम्॥५९॥

सुगमम्॥५९॥

आजं घृतं क्षीरपात्रं मधुकं चोत्पलानि च॥

जीवकर्षभकौ चैव पिष्ट्वासर्पिर्विपाचयेत्॥
सर्वनेत्राभिघातेषु सर्पिरेतत्प्रशस्यते॥६०॥

आजं घृतं प्रस्थमानं पाकार्थं क्षीरपात्र श्रुतेः। द्विरुच्चारणमिह घृतस्य नस्ये तर्पणे च हितत्वप्रतिपादनार्थम्। क्षीरं गव्यमविशेषणत्वात्। जैज्जटस्त्वाजं घृतं कल्कमेवाऽऽह॥६०॥

इदानीं पटलावगाहनविशेषेणाभिघातस्य साध्ययाप्यासाघ्याविशेषमाह—

प्रथमे पटले दोषः साध्यः स्यादभिघातजः॥
द्वितीये पटले याप्यस्तृतीये च न सिध्यति॥६१॥

सुगमम्॥६१॥

सैन्धवं दारु शुण्ठी च मातुलुङ्गरसो घृतम्॥
स्तन्योदकार्घं कर्तव्यं शुष्कपाके तदञ्जनम्॥६२॥

स्तन्योदकार्धमिति। स्त्रीक्षीरजल्योर्मिलितयोः समुदायतोऽर्धमानम्। सैन्धवादीनां घृतान्तानां समो भागः।सैन्धवदारुनागराणां कल्कं मातृलुङ्गरसादिद्रव्यचतुष्टयेनाऽऽप्लाव्याञ्जनं कार्यं रसक्रिया वा। स्तन्योदकाम्यामिति पाठान्तरं सुगमम्॥६२॥

वाताभिप्यन्दक्रियामन्यस्मिन्नपि वातजेऽक्षिरोगेऽतिदिशन्नाह—

वाताभिष्यन्दवच्चान्यवाते मारुतपर्यये॥

सुगमम् ॥

अन्यतोवातमारुतपर्यययोः सामान्यां चिकित्सामभिधाय विशेष चिकित्सामाह—

पूर्वभक्तहितं सर्पिः क्षीरं वाऽप्यथ भोजने॥६३॥

पूर्वभक्तमिति। भक्तापूर्वम्। अन्यतोवाते वातपर्यये वा क्षीरं भोजने पित्तरक्तत्वयादुक्तम्॥६३॥

वृक्षादन्यामित्यादिना तदेव घृतमाह—

वृक्षादन्यां कपित्थे च पञ्चमूले महत्यपि॥
सक्षीरं कर्कटरसे सिद्धं चात्र घृतं पिबेत्॥६४॥

वृक्षादनी वन्दाकः।वृक्षकलम्बुकेत्यन्ये। वृक्षादन्यादिभिः कल्कः। क्षीरं स्नेहसमम्। कर्कटरसस्त्रिगुणः। एवं घृतं साध्यम्। अन्ये त्वेवं व्याख्यानयन्ति।वृक्षादन्यादीनां सप्तद्र्व्याणामत्र कषायः।अमर्तघृतमिदम्॥६४॥

अम्लाध्युषितशान्त्यर्थं कुर्याल्लेपांश्च शीतलान्॥६५॥

सुगमम्॥६९॥

तैल्वकं त्रैफलं सर्पिजीर्णं वा केवलं पिबेत्॥
शिराव्यधं768विना कार्यः पित्तस्यन्दहरो विधिः॥६६॥

तैल्वकघृतं वातव्याधिचिकित्सितोक्तम्।त्रैफलं त्रिफलाक्वाथकल्कसाधितम्। केवलमसंस्कृतम्।शिराव्यधं विनेति। शिराव्यधवर्जनं च व्याधिस्वाभाव्यात्॥६६॥

शिरोत्पात चिकित्सामाह—

सर्पिः क्षौद्रं चाञ्जनं स्याच्छिरोत्पातस्य भेषजम्॥

सर्पिर्गव्यं घृतम्। अञ्जनं सौवीराञ्जननम्। रसाञ्जनमित्यन्ये। भेषजमञ्जनरूपम्॥

तद्वत्सैन्धवकासीसं स्तन्यघृष्टं च पूजितम् ॥६७॥

तद्वदिति। शिरोत्पाते भेषजम्। कासीसं धातुकासीसम्॥६७॥

शिराहर्षेऽञ्जनं कुर्यात्फाणितं मधुसंयुतम्॥

मधुना तार्क्ष्यशैलं वा कासीसं वा समाक्षिकम्769
वेतसाम्लं स्तन्ययुक्तं फाणितं तु ससैन्धवम्॥६८॥

फाणितं द्र्वगुडः।तार्क्ष्यशैलं रसाञ्जनम्।ससैन्धवमित्यस्य स्थाने समाक्षिकमिति पाठान्तरम्। ससैन्धवमिति पाठेऽपि मधुनैवाञ्जनम्। वेतसाम्लं स्तन्ययुक्तमित्यस्य स्थानेवेत्राम्लं स्तन्यसंयुक्तमिति पाठान्तरम्।वेत्राम्लमम्लवेतसम्। अन्ये वेत्रं वेत्रकरीरम्। अम्लमम्लवेतसं धान्याम्लं वा। अम्लीका वेति व्याख्यानयन्ति। तत्तु जैजटाचार्येण दूषितम्।फाणितं मधुयुक्तमेकमञ्जनं मधुयुक्तं तार्क्ष्यशैलं द्वितीयमञ्जनं कासीसं ससैन्धवं मधुयुक्तं तृतीयमञ्जनं वेतसाम्लं स्तन्ययुक्तं ससैन्धवं फाणितं चतुर्थमञ्जनम्॥६८॥

गव्यक्षीरोत्थितं सर्पिस्तर्पणार्थ विधीयते॥
दृष्टिप्रसादनं श्रेष्ठं तिभिरस्यापकर्षणम्॥६९॥

अभिष्यन्दाधिमन्थाभ्यां कर्षतेऽक्ष्णिबलावहम्॥
दोषानुत्सादयत्याशु तथैवाश्रु नियच्छति॥७०॥

सुश्रुतेन तर्पणविध घृतमण्ड उक्तः। घृतस्योपर्यच्छो भागो घृतमण्डस्तं च घृतमण्डं स्वभावतो विलीनमपि श्लक्ष्णवृतशर्करापगमार्थं विलीनं पाकातिक्रमस्य परिहारार्थमुष्णोदकेन कृत्वा नाग्नौ। तथा यथा स्वदोषौषधसंस्कृतमसंस्कृतं वा दोषावस्थापेक्षया शीतमुष्णं वा प्रयोजयेदित्याचार्यः॥६९॥७०॥

तर्पणं कथं कार्यमित्याह—

उत्तानशायिनः कार्यंनिश्चलस्य यथासुखम्॥७१॥

प्रतिसूर्याग्निरहिते नीरजोधूममारुते॥
गृहे सुखे निरावाधे वीतक्रोधभयस्य च॥७२॥

माषपिष्टमयाधारं दृढीकृत्यापरिस्रवम्॥
अर्धाङ्गुलोर्ध्वविस्तारं मूले द्व्यङ्गुलमेव च॥७३॥

प्रमाणेनाक्षिकोशस्य यथा स्यान्नाक्षिरोधकृत्॥
पक्ष्माणि यावन्मज्जन्ति रोमान्तादाभ्रुवस्तथा॥७४॥

ततो वस्त्रेण पीतेन नीलेन हरितेन वा॥
पत्रैर्वाऽऽच्छाद्य नयने ततः पश्येद्यथासुखम्॥७५॥

माषपिष्टमयाधारं माषपिष्टमयपालिम्।अपरिस्रवंछिद्रराहितम्। प्रमाणेनाक्षिको शस्येति। अनेन तिर्यक्पूरणे स्नेहस्य मात्रोक्ता।पक्ष्माणि यावदित्यादिनोर्ध्वपूरणस्नेहस्य मात्रोक्ता भवति॥७१॥७२॥७३॥७४॥७५॥

तर्पण कियत्काल स्थाप्यमिति दर्शयन्नाह—

वाचां सहस्रमात्रं वा धारयेन्मारुतामये॥

पित्तजेरक्तजे चाष्टौकफजे षट्शतानि च॥
संनिपातात्मके सप्त पञ्च स्वस्थविधौ तथा॥७६॥

वाक्शव्देनात्र मात्रा प्रोच्यते। एतच्चोत्तमं प्रमाणम्।दोषचलापेक्षया ह्रासोऽपिकर्तव्यः।केचित्संध्या- दिरोगस्थानविशेषेण कालविशेषमाहुः। तद्यथा—त्रीणि वाक्शतानि संधिरोगेषु। एकं शतं वर्त्मरोगेषु। पञ्च शतानि शुक्लरोगेषु। सप्त शतानि कृष्णजेषु। दश शतानि सर्वजेषु। दृष्टावपि दशाष्टौ वेति॥७६॥

ततश्चापाङ्गतः स्नेहं स्रावयित्वाऽक्षि शोधयेत्॥
प्रायोगिकेण धूमेन कफमस्य विशोधयेत्॥७७॥

अपाङ्गतोऽपाङ्गाभृपुच्छान्तप्रदेशादित्यर्थः। स्नेहं स्रावयित्वा शलाकाकृतद्वारेण॥७७॥

कति दिनानि तर्पणप्रयोगस्तमाह—

स्वस्थवृत्ते विधातव्यं द्व्यन्तरं तर्पणं भवेत्॥
अहन्याने वातोत्थे पित्तरक्ते दिनान्तरम्॥७८॥

तर्पणं संनिपातोत्थे द्व्यन्तरं त्र्यन्तरं कफे॥
कदुष्णं कफवाय्वोस्तु शीतलं पित्तशोणिते॥७९॥

सुगमम्॥७८॥७९॥

सुखस्वभावबोधत्वं वैशद्यं वर्णपाटवम्॥८०॥

निर्वृतिर्व्याधिसंशान्तिः क्रियालाघवमेव च॥
तर्पणे तृप्तिलिङ्गानि सम्यगेतानि लक्षयेत्॥८१॥

वैशाद्यंमलाभावः। वर्णपाटवं श्वेतपीतादेर्वर्णस्य यथार्थग्रहणम्। अन्ये तु नेत्रगतस्यैव शुक्लकृष्णादेर्वर्णस्य नैर्मल्यमाहुः। निर्वृतिः सुखम्। व्याधिशान्तिर्व्याधेरभावः। क्रियालाघवमिति। क्रियाणां निमेषोन्मेषादीनां लाघवं शीघ्रता। अन्ये तु क्रिया निमेषोन्मेषणादिकाः। लाघवं नेत्रयोरेव लघुतेति। निर्वृतिस्तात्कालिकं सुखमात्रम्। व्याधिशान्तिस्तात्कालिकोदत्वाचे770 (?)। इति सर्वजेषु ॥८०॥८१॥

व्रणशुक्रमशान्त्यर्थं षडङ्गं गुग्गुलुं पिबेत्॥

सुगमम्॥

इदानीं रक्तविस्रावणविरेचनशिरोविरेचनप्रदेहपरिषेचननस्यधूमाश्चोतनाम्यञ्जनतर्पणपुटपाकैर्यथास्वं संपादितस्य पुंसः शुक्रघ्नान्यञ्जनान्याह—

कतकस्य फलं शङ्खं तिन्दुकं रूप्यमेव च॥
कांस्ये निघृष्टं स्तन्येन क्षतशुक्रर्तिरोग771जित्॥८२॥

तिन्दुकं तिन्दुकस्य फलम्।रूप्यं रूप्यचूर्णम्। स्तन्यं यद्यपि सर्वक्षीरवाचकं तथाऽपि स्तन्यमत्र नेत्ररोगहितं नार्या एव ग्राह्यम्॥८२॥

चन्दनं गैरिकं लाक्षा मालतीकलिकान्विता॥
व्रणशुक्रहरा वर्तिः शोणितस्य प्रसादनी॥८३॥

इयं वर्तिर्गगनाम्बुना शीताम्बुना वा पिष्ट्वाकार्या। एवमन्यत्रापि द्रवविशेषानुक्तौ। छायाविशोषणं च सर्ववर्तियोगे॥८३॥

शिरया वा हरेद्रक्तं जलौकाभिश्च लोचनात्॥८४॥

सुगमम्॥८४॥

एकं वा पुण्डरीकं च च्छागक्षीरेण सेवितम्॥
रागानुवेदना हन्यात्क्षतपाकात्ययाजकाः॥८५॥

सुगमम्॥८५॥

धात्रीफलं निम्बकपित्थपत्रं यष्ट्याह्वलोध्रं खदिरस्तिलाश्च॥
क्वाथः सुशीतो नयने निषिक्तः सर्वप्रकारं विनिहन्ति शुक्रम्॥८६॥

** सर्वप्रकारमिति**। सव्रणमव्रणं च॥८६॥

तुत्थकं वारिणा युक्तं शुक्रं हन्त्यक्षिपूरणात्॥

सुगमम्॥

समुद्रफेनदक्षाण्डत्वक्सिन्धूत्थैः समाक्षिकैः॥
शिवजयुतैर्वर्तिः शुक्री शिग्रुवारिणा॥८७॥

दक्षाण्डत्वगिति। दक्षाण्डः कुक्कुटः। समाक्षिकैरिति। माक्षिकं धातुमाक्षिकम्। शिग्रुवारिणा शिग्रुस्वरसेन। दक्षाण्डत्वगित्यादियोगचूर्णं मध्वक्तशलाकया च गृहीत्वाऽञ्जनंकार्यम्। एवं सर्वत्र चूर्णाञ्जने॥८७॥

दक्षाण्डत्वक्शिलाशङ्ककाचचन्दनगैरिकैः॥
तुल्यैरञ्जनयोगोऽयं पुष्पार्मादिविलेखनः॥८८॥

सुगमम्॥८८॥

अव्रणे तथैकपटलगते द्वित्रादिपटलगते वा कर्कशे वा सव्रणे शुक्रेघर्षणमाह—

शिरीषवीजमरिचपिप्पलीसैन्धवैरपि॥
शुक्रस्य घर्षणं कार्यमथवा सैन्धवेन च॥८९॥

सैन्धवेनेति। श्लक्ष्णखण्डेन॥८९॥

गृहीत्वा नक्तमालस्य फलचूर्णं सुभावितम्॥९०॥

रसेन हि पलाशस्य कुसुमोत्थेन धीमता॥
वर्तिनेत्राञ्जने योज्या अशेषकुसुमापहा॥९१॥

सुगमम्॥९०॥९१॥

सैन्धवत्रिफलाकृष्णाकटुकाशङ्खनाभयः॥
सताम्ररजसो वर्तिः पिष्टा शुक्रविनाशनी॥९२॥

सुगमम्॥९२॥

क्षुण्णपुंनागपत्रेण परिभावितवारिणा॥
श्यामाक्वाथाम्बुना वाऽथ सेचनं कुसुमापहम्॥९३॥

श्यामाक्वाथाम्बुनेति। श्यामाक्वाथ एवाम्बु तेन। श्यामा श्यामलता। अत्र मध्वपि प्रक्षेपम्।कुसुमापहमिति। कुसुमं शन्दुकुन्दकुसुमसमवर्णशुक्लं तन्नाशनम्॥९३॥

शङ्खस्य भागाश्चत्वारस्ततोऽर्धेन मनःशिला॥
मनःशिलार्धं मरिचं मरिचार्धेन सैन्धवम्॥९४॥

एतच्चूर्णाञ्जनं श्रेष्ठं शुक्रलेखनमुत्तमम्॥
पिच्चटे मधुना योज्यमर्बुदे मस्तुना तथा॥९५॥

शङ्खस्येति। शङ्खनाभिः(भेः)। एवं सर्वत्र ग्राह्या एकोत्तरमात्रया द्विगुणमात्रया वा न्यूनाधिकमात्रया वा। योगानां काचिद्विशिष्टा शक्तिः संपद्यते। ऋषय एव जानन्ति पुरुषोत्प्रेक्षाणामगम्यत्वात्॥९४॥९५॥

ताप्यं मधुकसारो वा बीजं चाक्षस्य सैन्धवम्॥
मधुनाऽञ्जनयोगाः स्युश्चत्वारः शुक्रशान्तये॥९६॥

ताप्यं स्वर्णमाक्षिकम्। बीजं चाक्षस्येति। विभीतकस्य फलमध्यम्॥९६॥

वटक्षीरेण संयुक्त श्लक्ष्णं कर्पूरजं रजः॥
क्षिप्रमञ्जनतो हन्ति शुक्रं चापि घनोन्नतम्॥९७॥

सुगमम्॥९७॥

तालस्य नारिकेलस्य तथैवारुष्करस्य च॥
करीरस्य च वंशानां कृत्वा क्षारं परिस्नुतम्॥९८॥

करभास्थिकृतं चूर्णं क्षारेण परिभावितम्॥
सप्तकृत्वोऽष्टकृत्वो वा सूक्ष्मचूर्णं तु कारयेत्॥९९॥

एतच्छुक्रेष्वसाध्येषु कृष्णीकरणमुत्तमम्॥
यानि शुक्राणि साध्यानि तेषां परममञ्जनम्॥१००॥

तालवृक्षस्य च्छटा। नारिकेलस्य फलास्थि। अरुष्करफलम्।वंशकरीरस्य प्राक्स्युण्डकम्। एतत्सर्वं दग्ध्वा भस्म ग्राह्यम्। तच्च भाव्यद्रव्यसमं गृहीत्वा चतुर्गुणेन षड्गुणेन वाऽम्बुना निष्काथ्यार्धशेषे पुनरेकविंशतिवारान्परित्राव्य स्वच्छेन तेनाम्बुनासप्ताष्टौ वा वारान्करभास्थिचूर्णं भाव्यम्। एतच्चूर्णं मध्वक्तशलाकया संगृह्य शुक्रदेशं घर्षयेत्। ततस्त्रिफलाक्वाथेनाक्षिप्रक्षालनामिति कर्ममार्गः। क्षारेणेति। क्षाराम्बुना। शुक्रेष्वसाध्येषुकृष्णीकरणमित्यनेनासाध्य-शुक्रस्य विवर्णनाशनं परमेतन पुनः शुक्रनाशनमिति दर्शयति। अत्र शुक्राणि साध्यानीति पाठ एव युक्तो न तु शुक्राण्यसाध्यानीति तेषां परममञ्जनमित्यभिधानात्। अञ्जनस्य हि परमत्वं साध्यशुक्रस्य साधनेन संगतम्।॥९८॥९९॥१००॥

पटोलाद्यं घृतमाह—

पटोलं कटुकां दार्वीं निम्बं वासां फलत्रिकम्॥
दुरालभां पर्पटकं त्रायन्तीं च पलोन्मिताम्॥१०१॥

प्रस्थमामलकानां च क्वाथयेन्नल्वणेऽम्भसि॥
पादशेषे रसे तस्मिन्घृतप्रस्थंविपाचयेत्॥१०२॥

कल्कैर्भूनिम्बकुटजमुस्तयष्ट्याचन्दनैः॥
सपिप्पलीकैस्तत्सिद्धं चक्षुष्यं शुक्रयोर्हितम्॥१०३॥

घ्राणकर्णाक्षिवर्त्मत्व772ङ्मुखरोगव्रणापहम्॥
कामलाज्वरवीसर्पगण्डमालाहरं परम्॥१०४॥

कुटजस्य फलम्। शुक्रय़ोरिति। सव्रणाव्रणयोः॥१०१॥१०२॥१०३॥१०४॥

कृष्णाविडङ्गमधुयष्टिकसिन्धुजन्म-
विश्वौषधैःपयसि सिद्धमिदं छगल्याः॥
तैलं नृणां तिमिरशुक्रशिरोक्षिशूल-
पाकात्ययाञ्जयति नस्यविधौ प्रयुक्तम्॥१०५॥

सुगमम्। कृष्णाद्यंतैलम्॥१०५॥

सैन्धवं वाजिपादं च गोरोचनसमन्वितम्॥
सेलुत्वग्रससंयुक्तं पूरणं चाजकापहम्॥१०६॥

वाजिपादमपराजिताऽश्वखुरो वा। अनेन प्रचारः।सेलुर्बहुवारः॥१०६॥

शशकस्य शिरःकल्के शेषाङ्गक्वथिते जले॥
घृतस्य कुडवं पक्वंपूरणं चाजकापहम्॥१०७॥

शेषाङ्गक्वथिते जल इति। शेषाङ्गपाकार्थं पानीयशरावाः षोडश। शेषशरावाश्चत्वारः।शशकाद्यं घृतम्॥१०७॥

शशकस्य कषायेण773 सर्पिषः कुडवं पचेत्॥
यष्टीग्रपौण्डरीकस्य कल्केन पयसा समम्॥१०८॥

छागल्याः पूरणाच्छुक्रक्षतषाकात्ययाजकाः॥
हन्ति भ्रूशङ्खशूलं च दाहरागौ विशेषतः॥१०९॥

शशकस्य कषायेणेति। आकृतिमानाच्छशकस्य गुडकमेकम्। अत्र क्वाथार्थं जलस्य शरावा द्वादश शेषशरावास्त्रयःकिंंवा शरावाः षोडश शेषाश्चत्वारः। अनेन प्रचारः॥१०८॥१०९॥

न विना शोणितं शुक्रक्षतपाकात्ययाजकाः॥
भवन्ति रुधिरं तेषु जलौकोभिरतो हरेत्॥११०॥

सुगमम्। कृष्णजेषु॥११०॥

अतः परं दृष्टिजानां रोगाणां चिकित्सितम्—

मूलं दृष्टिविनाशस्य तिमिरं समुदाहृतम्॥
ऋषिभिस्त्वरितं तस्मात्तस्य कुर्याच्चिकित्सितम्॥१११॥

सुगमम्॥१११॥

एकदेशे तु यो दोषो दृष्ट्यां तिष्ठति पिण्डितः॥

यत्संस्थानः स भवति तादृशं तेन पश्यति॥
तृतीये पटले काचश्चतुर्थे नीलिकाह्वयम्॥११२॥

सुगमम्॥११२॥

इदानीं मन्दधियां सुखस्मरणाय साध्यादिभेदमाह—

साध्य774मप्राप्तरागं स्यात्तिमिरं च क्रियावतः॥
याप्यं संप्राप्तरागं स्याद्वर्ज्यंपटलतां गतम्॥११३॥

आद्यं पटलमाश्रितं तिमिरमरागि साध्यं द्वितीये रागिकृतं तृतीये संप्राप्तरागं याप्यम्॥११३॥

त्रिफलाघृतं मधु यवाः पादाभ्यङ्गः शतावरीमुद्गाः॥
चक्षुष्यः संक्षेपाद्वर्गः कथितो भिषग्भिरयम्॥११४॥

त्रिफलाघृतमिति त्रिफलाचूर्णक्वाथादिना घृतं पक्वम्। अथवा त्रिफला चक्षुष्या तथा घृतं चक्षुष्यं तच्च पुराणं ग्राह्यमिति भिन्ना पदद्वयी।

तथा च सुश्रुतः—

“घृतं पुराणं त्रिफलां शतावरीं पटोलमुद्गामलकान्यवानपि।
निषेवमाणस्य नरस्य यत्नतो भयं सुघोरात्तिमिरान्न विद्यते” इति॥११४॥

आहारोपयोगिचक्षुष्यशाकान्याह—

जीवन्तिशाकं सुनिषण्णकं च सतण्डुलीयं वरवास्तुकं च॥
चिल्ली तथा मूलकपोतिका च दृष्टेर्हितं शाकुनजाङ्गलं च॥११५॥

जीवन्तिशाकं कर्णाटदेशे प्रसिद्धं डोडीका, इति लोके। सुनिषण्णकं चतुष्पत्राः। अन्ये शिखिलिकामाहुः। वरवास्तुकं ट(प)क्ववास्तुकम्। चिल्लीचिल्लाशाकम्। चिल्ली गौडवास्तुकम्। मूलकपोतिका चेति। चातिका। शाकुनिकं च जाङ्गलं शकुनिमांसम्।श(शा)कुनजाङ्गलमिति पाठान्तरे मांसमिति शेषः। शाकुनं लावादिकम्। जाङ्गला एणहरिणादयः। तद्भवं जाङ्गलम्॥११५॥

पटोलकर्कोटककारवेल्लुवार्ताकतर्कारिकरीरजानि॥
शाकानि शिग्र्वार्तगलानि चैव हितानि दृष्टेघृतसाधितानि॥११६॥

तर्कारी, अरणिका। करीरो गूढपत्रो मरुजस्तरुः। शिशुः सौभाञ्जनकः।आर्तगलो नीलसहचरः॥११६॥

तिमिरं रागतां याति रागात्काचत्वमेति च॥
काचात्संजायते नीली तदाऽन्धो जायते नरः॥११७॥

सुगमम्॥११७॥

संशमनमाह—

लिह्यात्सदा वा त्रिफलां सुचूर्णितां
घृतप्रगाढां तिमिरेऽथ पित्तजे॥
समीरजे तैलयुतां कफात्मके
मधुप्रगाढां विदधीत युक्तितः॥११८॥

सदेति नित्यग आवस्थिके च काल इत्यर्थ। घृतप्रगाढामिति। लेहोक्तमानाधिकं घृतं युक्तम्।पित्तज इत्यत्रानुक्तमपि रक्तजतिमिरे बोद्धव्यम्। तत्रापि घृतेन त्रिफलाप्रयोगः।

** केचित्—**

“सदाऽवलिह्यात्रिफलां सुचूर्णितां घृतप्रगाढां तिमिरा775र्दितोनरः।
कफाभिभूतः खलु तैलसंयुतां मधुप्रगाढामपि वा प्रयोजयेत्”॥

इतीदृशं पाठं पठन्ति। स च जैज्जटाचार्येण दूषितः। तस्मात्पूर्वपाठ एव न्याय्यः। युक्तित इति। मात्रया मात्रया त्रिफला चूर्णंगृहीत्वा लिह्यादित्यर्थः॥११८॥

कल्कः क्वाथोऽथ वा चूर्णस्त्रिफलाया निषेवितः॥
मधुना हविषा वाऽपि समस्ततिमिरान्तकृत्॥११९॥

सुगमम्॥११९॥

यस्त्रैफलं चूर्णमपथ्यवर्जी सायं समश्नाति हविर्मधुभ्याम्॥
स मुच्यते नेत्रगतैर्विकारैर्भूत्यैर्यथा क्षीणधनो मनुष्यः॥१२०॥

सुगमम्॥१२०॥

सघृतं वा वराक्वाथं शीलयेत्तिमिरामयी॥१२१॥

सुगमम्॥१२१॥

त्रिफलायाः कषायेण प्रातर्नयनधावनात्॥
जाता रोगा विनश्यन्ति न भवन्ति कदाचन॥१२२॥

सुगमम्॥१२२॥

जलगण्डषैः प्रातर्बहुशोऽम्भोभिः प्रपूर्यमुखरन्ध्रम्॥
निर्दयमुक्षन्नक्षि क्षपयति तिमिराणि ना सद्यः॥१२३॥

सुगमम्॥१२३॥

भुक्त्वा पाणितलं घृष्ट्वाचक्षुषोर्यदि दीयते॥
अचिरेणैव तद्वारि तिमिराणि व्यपोहति॥१२४॥

सुगमम्॥१२४॥

रविरिव भूगततिमिरं विनिहन्ति नावना776त्सर्पिः॥
शतव777र्षस्थितकठिनं सप्ताहादञ्जनान्नियतम्॥१२५॥

सुगमम्॥१२५॥

सुखावतीवर्तिमाह—

कतकस्य फलं शङ्खं सैधवं त्र्यूषणं सिता॥
फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला॥१२६॥

सर्वमेतत्समं कृत्वा छागक्षीरेण पेषयेत्॥

तिमिरं पटलं काचमर्म शुक्रं व्यपोहति॥
कण्डुक्लेदार्बुदं हन्ति मलं चाऽऽशु सुखावती॥१२७॥

इयं वर्तिः सपित्तान्वये तिमिरे भद्रा। क्षौद्रमत्राञ्जनार्थम्। सर्वमेतत्सममित्यादिश्लोकस्य स्थाने कुक्कुटाण्डकपालानि वर्तिरेषा व्यपोहतीति पाठान्तरम्॥१२६॥१२७॥

चन्द्रोदयां वर्तिमाह—

हरीतकी वचा कुष्ठं पिप्पली मरिचानि च॥१२८॥

विभीतकस्य मज्जा च शङ्खनाभिर्मनःशिला॥
सर्वमेतत्समं कृत्वा छागक्षीरेण पेषयेत्॥१२९॥

नाशयेत्तिमिरं कण्डूपटलान्यर्बुदानि च॥
अधिकानि च मांसानि यश्च रात्रौ न पश्यति॥१३०॥

अपि त्रिवार्षिकं पुष्पं मासेनैकेन नाशयेत्॥
चन्द्रोदया नाम वर्तिर्नृणां दृष्टि778विशोधनी॥१३१॥

इयं वर्तिः कफवातजतिमिरे भद्रा। अत्राञ्जनं जलेन। चन्द्रोदया नाम वर्तिः॥॥१२८॥१२९॥१३०॥१३१॥

दिवा न तु प्रयोक्तव्यं नेत्रयोस्तीव्रमञ्जनम्॥
विरेकदुर्बलं चक्षुरादित्यं प्राप्य सीदति॥१३२॥

तस्मात्स्राव्यं निशायां तु ध्रुवमञ्जनमिष्यते॥
रात्रिः स्वप्नगुणाच्चक्षुः पुण्यत्यञ्जनकर्षितम्॥१३३॥

सुगमम्॥१३२॥१३३॥

यथा हि कनकादीनां मणीनां विविधात्मनाम्॥
धौतानां विविधा779 शुद्धिस्तैलचेलकरादिभिः॥१३४॥

एवं नेत्रेषु मर्त्यानामञ्जनाश्चोतनादिभिः॥
दृष्टिर्निराकुला भाति निर्मले नभसीन्दुवत्॥१३५॥

सुगमम्॥१३४॥१३५॥

हरीतक्यादिवर्तिमाह—

हरीतकी हरिद्रा च पिप्पल्यो लवणानि च॥
कण्डूतिमिरजिद्वर्तिर्न क्वचित्प्रतिहन्यते॥१३६॥

इयं वर्तिः कफजे तिमिरे हिता। लवणानि चेति। तत्र चक्षुप्यत्वात्सैन्धवम्। जातौ(व्यक्ती) बहुवचनम्। अत्र क्वचिन्न प्रतिहन्यत इत्यनेन पित्तादप्यनिवार्यतामस्य दर्शयति॥१३६॥

त्रिफला कुक्कुटाण्डत्वक्सकासीसमयोरजः॥
नीलोत्पलं विडङ्गानि फेनं च सरितां पतः॥१३७॥

आजेन पयमा पिष्ट्वा भावयेत्ताम्रभाजने॥

सप्तरात्रस्थितं भूयः पिष्ट्वा क्षीरेण वर्तयेत्॥
एषा दृष्टिप्रदा वर्तिरन्धस्याभिन्नचक्षुषः॥१३८॥

भावयेदिति। स्थापयेत्। क्षीरेणेति। आजनैव॥१३७॥१३८॥

कुसूमिकावर्तिमाह—

अशीनिस्तिलपुष्पाणि पष्टिः पिप्पलितण्डुलाः॥१३९॥

जातीपुष्पाणि पञ्चाशन्मरिचानि च षोडश॥
एषा कुसुमिकावर्तिर्गतं चक्षुर्निवर्तयेत्॥१४०॥

कुसूमिकावर्तिः प्रचरति॥१३२॥१४०॥

चन्दनत्रिफलापूगपलाशतरुशोणितैः॥
जलपिष्टैरियं वर्तिरशेषतिमिरापहा॥१४१॥

पलाशतरुशोणितं पलाशपुष्पस्वरसः॥१४१॥

व्योषोत्पलाभयाकुतार्क्ष्यैर्वतिः कृता हरेत्॥
अर्बुदं पटलं काचं तिमिरार्माश्रुनिस्रुतिम्॥१४२॥

सुगमम्॥१४२॥

त्र्यूषणं त्रिफलावक्रसैन्धवालमनःशिलाः॥
क्लेदोपदेहकण्डून्घ्रीवर्तिः शस्ता कफापहा॥१४३॥

वक्रं तगरपादिका॥१४३॥

एकगुणा मागधिका द्विगुणा च हरीतकी सलिलपिष्टा॥
वर्तिरियं नयनसुखा तिमिरामपटलकाचाश्रुहरी॥१४४॥

सुगमम्॥१४४॥

चन्द्रप्रभामाह—

अञ्जनं श्वेतमरिचं पिप्पली मधुयष्टिका॥
विभीतकस्य मज्जा780 तु शङ्खनाभिर्मनःशिला॥१४५॥

एतानि समभागानि अजाक्षीरेण पेषयेत्॥
छायाशुष्कां कृतां वर्ति नेत्रेषु च प्रयोजयेत्॥१४६॥

अर्बुदं पटलं काचं तिमिरं रक्तराजिकाम्॥

अधिमांसं मलं चैव यश्च रात्रौ न पश्यति॥
वर्तिश्चन्द्रप्रभा नाम जात्यन्धमपि शोधयेत्781॥१४७॥

अञ्जनं रसाञ्जनम्। श्वेतमरिचं सौभाञ्जनबीजम्। एवं सर्वत्र॥१४५॥१४६॥१४७॥

नागार्जुनपादानामञ्जनमाह—

त्रिफलाव्योषसिन्धूत्थयष्टीतुत्थरसाञ्जनम्॥
प्रपौण्डरीकं जन्तुघ्नं लोध्रंताम्रं चतुर्दशम्॥१४८॥

द्रव्याण्येतानि संचूर्ण्य वर्तिः कार्या नभोम्बुना॥
नागार्जुनेन लिखिता स्तम्भे पाटलिपुत्रके॥१४९॥

नाशनी तिमिराणां च पटलानां तथैव च॥
सद्यः प्रकोपं स्तन्येन स्त्रिया विजयते ध्रुवम्॥१५०॥

किंशुकस्वरसेनाथ पैल्ल्यं पुष्पकरक्तताः॥
अञ्जनाल्लोध्रतोयेन आसन्नतिमिरं जयेत्॥१५१॥

चिरं संछादिते नेत्रे बस्तमूत्रेण संयुता॥
उन्मीलयत्यकृच्छ्रेण प्रसादं चाधिगच्छति॥१५२॥

जन्तुघ्नं विडङ्गम्। स्तन्यादिविशिष्टद्रवोपादान मञ्जनार्थम्। वर्तिस्तु सर्वत्रैव नभोस्वुना कार्या।किंशुकस्वरसेन किंशुकपुष्पस्वरसेन। नागार्जुनवर्तिः॥१४८॥१४९॥॥१५०॥ १५१॥१५२॥

पिप्पलीं सतगरोत्पलपत्रां वर्तयेत्समधुकां सहरिद्राम्॥
एतया सततमञ्जयितव्यं यः सुपर्णसममिच्छति चक्षुः॥१५३॥

तगरं तगरपादिका। उत्पलपत्रमुत्पलपुष्पपत्रम्। सुपर्णसममिति। सुपर्णो गरुडः सुपर्णसमत्वं नयनस्य दूरदर्शनत्वेनोक्तम्॥१५३॥

व्योषायश्चूर्णसिन्धूत्यत्रिफलाञ्जनसंस्कृता॥
गुटिका जलपिष्टेयं कोकिला तिमिरापहा॥१५४॥

सुगमम्॥१५४॥

हरिद्रामलकीकृष्णकेतकश्वेतसर्षपैः॥
व्योमवारियुता वर्तिः सर्वनेत्रामयापहा॥१५५॥

सुगमम्॥१५५॥

व्याघ्रीमुस्ताम्बुयष्ट्याह्वैःपिप्पलीसैन्धवान्वितैः॥
अजाक्षीरोषितैस्ताम्रेवर्तिः सर्वाक्षिरोगनुत् ॥१५६॥

सुगमम्॥१९६॥

हरिद्रा निम्बपत्राणि पिप्पल्यो मरिचानि च॥१५७॥

विडङ्गं भद्रमस्तं च सप्तमं विश्वभेषजम्॥
सर्वाणि समभागानि गवां मूत्रेण पेषयेत्॥१५८॥

कोलास्थिमात्रां गुटिकां छायाशुष्कां प्रकारयेत्॥
वारिणा तिमिरं हन्ति मधुना पटलं तथा॥१५९॥

सिन्ध्वम्भसा च कण्डूंच स्त्रीस्तन्येन तु वेदनाम्॥
सद्यः कोपं तु क्षीरेण किंशुकेन च पैच्चटम्॥१६०॥

सुगमम्॥१५७॥१५८॥ १५९॥१६०॥

त्रीणि कटूनि करञ्जफलानि द्वे रजनी सह सैन्धवकेन॥
विल्वतरोर्वरुणस्य च मूलं वारिधरं782 दशमं प्रवदन्ति॥१६१॥

हन्ति तमस्तिमिरं पटलं च पिच्चटशुक्रमथार्जुनकं च॥
अञ्जनकं जनरञ्जनकं च दृक्वन नश्यति वर्षशतं च॥१६२॥

द्वे रजनी इति प्रयोगो रजनीशब्दस्य ह्रस्वेकारान्तस्य सद्भावात्साधुः। वारिधरपाठे पुस्तकम्। **तमस्तिमिरमिति।**अन्ध्यकरत्वेन तमसः सधर्मकं तिमिरम्॥१६१॥१६२॥

नीलोत्पलं विडङ्गानि पिप्पली रक्तचन्दनम्॥
अञ्जनं सैन्धवं चैव सद्यस्तिमिरनाशनम्॥१६३॥

सुगमम्॥१६३॥

पत्रगैरिककर्पूरयष्टीनीलोत्पलाञ्जनम्॥

नागकेसरसंयुक्तमशेषतिमिरापहम्॥
त्रिवाचनसंयोगो गुटिकारसचूर्णतः॥१६४॥

सुगमम्॥१६४॥

संगृह्योपरतानलक्तकरसेनाऽऽमृज्य गण्डूपदा-
ल्लाँक्षारञ्जिततूलवर्तिनिहितान्यष्टीमधून्मिश्रितान्॥
प्रज्वाल्योत्तमसर्पिषाऽनलशिखासंतानजं कज्जलं
दूरासन्नदिवानिशान्धतिमिरप्रध्वंसकृच्चोदितम्॥१६५॥

उपरतान्मृतान्। आमृज्य संनीय।गण्डूपदांश्चूर्णितान्। लाक्षारञ्जिततूलमलक्तकम्। उत्तमसर्पिषा गव्यघृतेन॥१६९॥

भूमौ निघृष्टयाऽङ्गुल्या चाञ्जनं शमनं तयोः॥
तिमिरकाचार्महरं धूमिकायाश्च नाशनम्॥१६६॥

एतत्कज्जलेन कोष्णेनाञ्जनम्। तयोरिति। दिवान्ध्यरात्र्यान्ध्ययोः॥१६६॥

त्रिफलाभृङ्गमहौषधमध्वाज्यच्छागपयसि गोमूत्रे॥
नागं सप्तनिषिक्तं करोति गरुडोपमं चक्षुः॥१६७॥

अत्र त्रिफलायाः क्वाथः। भृङ्गराजस्य स्वरसः। महौषधस्य क्वाथः कल्को वा। नागं सीसकम्। त्रिफलाक्वाथा-दावेकस्मिन्सप्तधा भावयित्वा सीसकशलाकां कुर्यात्। तया तिमिरहराञ्जनलिप्तया केवलया वा घृष्टयाऽञ्जनं भाविप्रयोगानुकारात्॥१६७॥

त्रिफलसलिलतोये भृङ्गराजद्रवे च
हविषि च विषकल्के क्षीर आजे मधूग्रे॥
प्रतिदिनमथ तप्तंसप्तधा सीसमेकं
प्रणिहितमथपश्चात्कारयेत्तच्छलाकाम्॥१६८॥

सवितुरुदयकाले साञ्जना व्यञ्जना वा
करिकरिकसमेतानर्मपैच्छिल्यरोगान्॥
असितसितसमुत्थान्संधिवर्त्माभिजाता-
न्हरति नयनरोगान्सेव्यमाना शलाका॥१६९॥

** विषकल्क** इति। विषं मारकद्रव्यम्। मधूग्र इति। प्रवरे मधुनि व्यवहारात्। साजना तिमिरहराञ्जनसहिता।व्यञ्जना तद्रहिता॥१६८॥१६९॥

दद्यादुशीरनिर्यूहे चूर्णितं कणसैन्धवम्॥१७०॥

तत्स्रुतं सघृतं भूयो यावत्क्षौद्रं क्षिपेद्धने॥
शीते चास्मिन्हितमिदं सर्वजे तिमिराञ्जनम्॥१७१

उशीरपलस्य क्वाथः। स च कणासैन्धववृतानि मिलित्वा पादिकान्यष्टमांशे वा दत्त्वा पुनः पाकाद्धनः कार्यः। शीते तत्र पादिकमधुप्रक्षेपः। वैद्यप्रसारके तु लिखितम्—उशीरपलद्वयम्।जलशरावाः ४ शेषशरावः १ पूते प्रक्षेपः कणासैन्धवयोः प्रत्येकं प्रत्येकं माषाः ८घृतकर्षः १ पुनः पक्वेघने मधुकर्षः १ रसक्रियाञ्जनमिति॥१७०॥१७१॥

धात्रीरसाञ्जनक्षौद्रसर्पिर्भिस्तु रसक्रिया॥
पित्तानिलाक्षिरोगघ्नीतैमिर्यपटलापहा॥१७२॥

धात्रीक्वाथे रसाञ्जनचूर्ण घृतं च पुनः पाकाद्रसक्रिया साध्या शीते मधुप्रक्षेपः मानं पूर्वयोगवत्॥१७२॥

शुङ्गवेरं भृङ्गराजं यष्टीतैलेन मिश्रितम्॥
नस्यमेतेन दातव्यं महापटलनाशनम्॥१७३॥

यष्टीमधुसाधिततैले मिश्रितं शृद्धवेरभृङ्गराजचूर्णं नस्यं किंवा भृङ्गराजस्य स्वरससमेन तैलेन मिश्रितेन शृङ्गवेरघट्यो चूर्ण प्रक्षिप्य नस्यम्॥१७३॥

श्लैष्मिके लिङ्गनाशे शस्त्रकर्म निर्दिशनाह—

लिङ्गनाशे कफोद्भूतेयथावद्बुद्धिपूर्वकम्॥
विद्ध्वा दैवकृते छिद्रे नेत्रं स्तन्येन सेचयेत्॥१७४॥

लिङ्ग्यते ज्ञायतेऽनयेति व्युत्पत्त्या लिङ्गशब्देन दृष्टिरुच्यते। तस्या नाशो लिङ्गनाशस्तस्मिन्। कफोद्भूत इत्यनेन च तेजः पित्तनश्च विद्धो न सिध्यतीति।

** सुश्रुतेऽप्युक्तम्—**

“श्लैष्मिकेलिङ्गनाशे तु कर्म वक्ष्यामि सिद्धये।
न चेदर्भेन्दुधर्माम्बुबिन्दुमुक्ताकृतिः स्थिरः॥

विषमो वा तनुर्मध्ये राजिमान्वा बहुप्रभः।
दृष्टिस्थोलक्ष्यते दोषः सरुजो वा सलोहितः” इति॥

** दैवकृते छिद्र इति।** अपाङ्गवर्तिनः शुक्लभागस्य मध्ये यत्तदैवकृतं छिद्रं तस्मिन्। यदुक्तं सुश्रुते—

“मतिमाञ्शुक्लभागौ द्वौ कृष्णान्मुक्त्वा ह्यपाङ्गतः।
उन्मील्य नयने सम्यक्शिराजालविवर्जिते॥

नाधो नर्ध्व न पार्श्वभ्यां छिद्रे दैवकृते ततः।
शलाकयाताम्रमय्या783 व्यधयेद्यववक्त्रया” इति॥

अस्यार्थः । कृष्णात्कृष्णमण्डलात्प्रभृति द्वौ शुक्लभागौ त्यक्त्वाऽपाङ्गपक्षे, एकं शुक्लभागं त्यक्त्वा मध्ये दैवकृतं यच्छिद्रमस्ति। छिद्रमिव च्छिद्रं कर्णच्छिद्रवन्न परमार्थनश्छिद्रमस्ति तस्मिन्विध्येदिति। व्यधश्च तथा कर्तव्यो यथैकैव परं विछिद्यते त्वक्। साम्यस्विद्धलिङ्गं च सुश्रुत एवोक्तम्। तद्यथा—वारिविन्द्वागमः सम्यक्शब्दस्य784 व्यधने भवेदिति। असम्यग्विद्धे तु शोणितागमादि॥१७४॥

ततो दृष्टेषु रूपेषु शलाकामाहरेच्छनैः॥

सुगमम्॥

शलाकामाहृत्य कि कुर्यादित्याह—

नयनं सर्पिषाऽभ्यज्य वस्त्रपट्टेन वेष्टयेत्॥

वस्त्रपट्टेन वेष्टयेदिति। सद्यः क्षतरोपणं लोध्ररक्तचन्दनत्रिफलापिण्डं दत्त्वा वस्त्रेण वेष्टनम्।महाराष्ट्रकास्तु धत्तूरमूलपिण्डं दत्त्वा वस्त्रेण वेष्टयन्ति॥

ततो गृहे निराबाधे शयीतोत्तान एव च॥१७५॥

निराबाधे धूमवातातपरहिते। उत्तानशयनं दृष्टेर्ऋजुकरणार्थम्॥१७९॥

उद्गारकासक्षवथुष्ठीवनोत्कम्पनानि च॥
तत्कालं नाऽऽचरेदूर्ध्वं यन्त्रणा स्नेहपीतवत्॥१७६॥

क्षवयुः क्षत्। तत्कालमिति।यावच्छलाका नेत्रे तिष्ठति। तत ऊर्ध्वं यन्त्रणा पीतस्नेहस्येवाऽऽहाराचार नियमः स्नेहपानोक्तः कार्य इत्यर्थः॥१७६॥

त्र्यात्त्र्यहाच्चधावेत कषायैरनिलापहैः॥

धावेत प्रक्षालयेत्। अनेलापहैरेरण्डमूलादिवातापहचक्षुष्यद्रव्यैः क्षीरानुसाधितैः॥

प्रक्षालनानन्तरं किं कर्तव्यमित्याह—

वायोर्भयात्त्र्यहादूर्ध्वंस्वेदयेदक्षि पूर्ववत्॥१७७॥

पूर्ववदिति। अस्वेद्यामपि दृष्टिं वस्त्रेणाऽऽच्छाद्य बाह्यतो मृदु स्वेदयेद्वातश्लेष्मजयायेत्यर्थः॥१७७॥

दशाहमेवं संयम्य हितं दृष्टिप्रसादनम्॥
पश्चात्कर्म तु सेवेत लघ्वन्नं चापि मात्रया॥१७८॥

एवमुक्तानशयनादिना दशाहं नियम्य तदनन्तरं दृष्टिप्रसादनमञ्जनादि हितम् । पश्चात्कर्म तु सेवेतेति। दशाहात्परतो व्यथासद्भावे वातहरक्वाथधावनस्वेदनादि सेवेत किंवा यदृष्टिप्रसादनं दृष्टिनैर्मल्यजननं पश्चात्कर्म नावनसेकाश्चोतनतर्पणपुटपाकशिरोबस्त्यम्यञ्जनप्रभृति तत्सेवेतेति योज्यम्। लध्वन्नं चापीत्यत्र चकारो दशाहाभ्यन्तरेऽपि लघ्वन्नविधिसमुच्चयार्थः॥ १७८॥

इदानीं दुष्टव्यवाहाराचारजारोगानाह—

रागः शोफोऽर्बुदं चोषो बुद्बुदं केकराक्षिता॥

अधिमन्यादयश्चान्ये रोगाः स्युर्दुष्टवेधजाः॥
अहिताचारतो वाऽपि

अर्बुदमदाकारः शोफः।चोष आचूष्यत इव वेदनाविशेषः। बुद्बुदं बुद्बुदाकारः शोफः। केकराक्षिता वक्रदृष्टिता।सूकराक्षितेति पाठान्तरे सूकरस्येवाघोदृष्टिता॥

तत्र चिकित्सामाह—

यथास्वं तानुपाचरेत्॥१७९॥

यथास्वं यथात्मीयं यथादोषमित्यर्थः॥१७९॥

इदानींकर्कशशलाकाजनिते झूले तथा दुष्टव्यघजेच रोगे785 चिकित्सामुद्दिशन्नाह—

रुजायामक्षिरोगे वा भूयो योगान्निबोध मे॥१८०॥

निबोध जानीहि। बुधिर्बोधन इति भौवादिकस्यायं प्रयोगः। न तु दैवादिकस्य बुध अवगमन इत्यस्य॥ १८०॥

कल्किता सघृता दूर्वा यवगैरिकसारिवाः॥
मुखलेपे प्रयोक्तव्या रुजारागोपशान्तये॥१८१॥

सारिवोत्पलसारिवा। मुखलेप इति। नेत्रसमीपे॥१८१॥

पयस्यासारिवापत्रमञ्जिष्ठामधुकैरपि।
अजाक्षीरान्वितैर्लेपः सुखोष्णः पथ्य उच्यते॥१८२॥

पयस्याऽर्कपुष्पी क्षीरकाकोलीत्यन्ये। पत्रं पत्रकम्॥१८२॥

वातघ्नसिद्धे पयसि सिद्धं सर्पिश्चतुर्गुणे॥
काकोल्यादिप्रतीवापं तद्युञ्जयात्सर्वकर्मसु॥१८३॥

वातघ्नानि भद्रदार्वादीनि। सर्वकर्मस्विति। नस्यलेपपानादिषु॥१८३॥

रुजारा गयोर्द्वयोर्यद्यपि प्रतीकारः प्रस्तुतस्तथाऽपि प्रत्याबाधकरत्वेन केवलशूलस्यैव प्रतीकारं ब्रूते—

शाम्यत्येवं न चेच्छूलं स्निग्धस्विन्नस्य मोक्षयेत्॥
ततः शिरां दहेच्चापि मतिमान्कीर्तितं यथा॥१८४॥

** शिरामिति।**लालाटीम्। दहेच्चापि मतिमान्कीर्तितं यथेति।शिरामेव दहेद्वोरुपरिौद्रादिना।उक्तं च **सुश्रुते—**क्षौद्रगुडस्नेहास्तु शिरास्त्रायुसंध्यस्थिगतानामेति॥१८४॥

दृष्टेरतः प्रसादार्थमञ्जने शृणु मे शुभे॥१८५॥

** अञ्जने इति।** अञ्जनद्वयम्॥१८५॥

मेषशृङ्गस्य पुष्पाणि शिरीषधवयोरपि॥
मालत्याश्चैव तुल्यानि मुक्तावैडूर्यमेव च॥१८६॥

अजाक्षीरेण संपिष्य ताम्रे सप्ताहमावपेत्॥
प्रविधाय च तद्वर्तिंयोजयेदञ्जने भिषक्॥१८७॥

मेषशृङ्गस्य पुष्पाणीति।मेषशृङ्गी786 मेदासिङ्गी। मालती जाती। आवोत्स्थापयेत्॥१८६॥१८७॥

स्रोतोजं विद्रुमं फेनं सागरस्य मनःशिला॥
मरिचानि च तद्वर्ती787ः कारयेद्वाऽपि पूर्ववत्॥१८८॥

स्रोतासियत्समुत्थितं सिन्धुस्रोतसि वर्णासास्रोतसि वा यत्समुत्थितं तत्स्रोतोतोञ्जनम्। तल्लक्षणं विदेहेनोक्तम्—

“वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति।
स्रोतोञ्जनं प्रशंसन्ति चक्षुर्वेदार्थचिन्तकाः" इति॥

तद्गुणानाह—

“अञ्जनं मधुरं स्निग्धं कषायं लेखनं हिमम्।
पित्तरक्तविषच्छर्दिहिक्कां हन्ति सुदृष्टिदम्॥

तत्र स्रोतोञ्जनं श्रेष्ठं तस्मात्सौवीरकाञ्जनम्" इति॥

स्रोतोञ्जनं सौवीराञ्जनमित्यन्ये। **विद्रुममिति।**प्रवालम्। पूर्ववदिति। अजाक्षीरेण पिष्ट्वा ताम्रपात्रेण सप्ताहं स्थापयित्वा वर्तीः कुर्यादित्यर्थः। मेषशृङ्गस्येत्याद्येकं स्रोतोजमिति द्वितीयम्॥१८८॥

इदानी दिवान्धे चूर्णाञ्जनमाह—

रसाञ्जनंरक्षौद्रतालीसस्वर्णगैरिकैः॥
गोशकृद्रससंयुक्तं पित्तोपहतदृष्टये॥१८९॥

** रसेति**। जातीपत्ररस इत्यर्थः। आमलकीपत्ररस इत्यन्ये।स्वर्णगैरिकं दक्षिणापथभवमुत्तमलोहितं रवकश्मटगैरिकं वा। अत्र द्रवद्रव्यैः कठिनद्रव्यभावनां विधाय चूर्णाञ्जनं कर्तव्यम्। पित्तोपहतदृष्टये पित्तविदग्धद्दष्टये। अन्ये गुटिकाञ्जनमिदं वर्णयन्ति॥१८९॥

इदानीं दिनरात्र्यन्धयोर्गुटिकाञ्जनमाह—

नलिनोत्पलकिञ्जल्कं गोशकृद्रससंयुतम्॥
गुटिकाञ्जनमेतत्स्याद्दिनरात्र्यन्धयोर्हितम्॥१९०॥

नलिनादिभिर्गोशकृद्रसपिष्टैर्गुटिकाञ्जनं दिनरात्र्यन्धयोः पित्तकफविदग्धदृष्ट्यपरपर्याययोः प्रभावाद्धितम्। किंच पित्तविदग्धायां रात्रावञ्जनं श्लेष्मविदग्धायां दिवेति कालभेदः। नलिनमीषद्रतं पद्मम्। उत्पलं नीलोत्पलम्। किञ्जल्कः केसरः। स च नलिनोत्पलयोरेव। गोशकृद्रसो गोमयरसः। केचिद्गोशकृद्रसस्थाने गोयकृद्रसेति पठन्ति। गोशब्दस्य पशुवाचित्वादजादयो गृह्यन्ते।यकृद्रसः कालखण्डरस इति व्याख्यानयन्ति॥१९०॥

इदानीं राज्यन्धे श्लेष्मविदग्धदृष्ट्यपरपर्याये दिवान्ध्ये(न्धे) पित्तविदग्धदृष्ट्यपरपर्याये चाञ्जनमाह—

नदी जशम्बित्रिकटून्यथाञ्जनं मनःशिला द्वे च निशेऽगवां788 यकृत्789
सचन्दनेयं गुटिकाऽथ वाऽञ्जनं प्रशस्यते रात्रिदिनेष्वपश्यताम्॥१९१॥

नदीजं सैन्धवं लवणम्। शम्बिशब्देनात्र हरिता मुद्गाग्राह्याश्चक्षुष्यत्वात्। अन्येशम्बिस्थाने शिम्बेति पाठं पठन्ति तत्रापि स एवार्थः। अञ्जनं रसाञ्जनं सौवीराञ्जनमित्यन्ये। अगवां छागादीनाम्।यकृदित्यस्य स्थाने शकृदिति पाठान्तरम्।चन्दनं रक्तचन्दनम्। गुटिकेति। वटीकृत्य। अथवाऽञ्जनमिति।चूर्णाञ्जनमथ वेत्यर्थः॥१९१॥

कणा छागयकृन्मध्ये पक्वातद्रसपेषिता॥
अचिराद्धन्ति नक्तान्ध्यं तद्वत्सक्षौद्रमूषणम्॥१९२॥

पक्वोत्खिन्ना। तद्रसपेषिता तत्स्वेदाम्बुना पिष्टा। तद्वदिति। छागयकृन्मध्य उत्खिनं तद्रसपिष्टं च।ऊषणं मरिचम्॥१९२॥

इदानीं नक्तान्ध्ये कफविदग्धदृष्टयपरपर्याये प्रयोगमाह—

पचेत्तु गौधं हि यकृत्प्रकल्पितं सुपूरितं मागधिकाभिरग्निना॥
निषेवितं तद्यकृदञ्जनेन वा निहन्तिनक्तान्ध्यमसंशयं खलु॥१९३॥

पचेषुत्स्वेदयेत्। प्रकल्पितं पाटितम्।अग्नित्यस्य स्थानेऽम्बुनेति पाठान्तरम्। अत्र गौधं हि यकृत्प्रकल्पितमित्यत्र गोधायकृदर्भपातमिति वा पाठश्छन्दःपूरणाय युक्तः। निषेवितं तद्यकृदिति। तथाभूतं यकृत्वादितमञ्जने तु सा पिप्पली नक्तान्ध्यं हन्तीति गदाधरः। तथाभृतं यद्भक्षितमञ्जनेन वा विहितं नक्तान्ध्यं शमयतीति कार्तिकः। प्रचारस्तु यकृत्कणाभ्यां मिलित्वाऽञ्जनमात्रेण।शदिति पाठान्तरम्। खलुशब्द एवकारार्थ।असंशयमेवेत्यर्थः॥१९३॥

अतः परं घृतानि कथ्यन्ते—

त्रिफलाक्वाथकल्काभ्यां सपयस्कं शृतं घृतम्॥
तिमिराण्यचिराद्धन्यात्पीतमेतन्निशामुखे॥१९४॥

त्रिफलाक्वाथकल्काभ्यामिति। त्रिफलाक्वाथस्त्रिगुणश्चतुर्गुणो वा। चतुर्गुणस्तु प्रचरति।त्रिफलाद्यं घृतम्॥१९४॥

महात्रैफलाद्यं घृतमाह—

त्रिफलाया रसप्रस्थं प्रस्थं भृङ्गरसस्य च॥
वृषस्य च रसप्रस्थं शतावर्याश्च तत्समम्॥१९५॥

अजाक्षीरं गुडूच्याश्च आमलक्या रसं तथा॥
प्रस्थं प्रस्थं समाहृत्य सर्वैरेभिर्घृतं पचेत्॥१९६॥

कल्कः कणा सिता द्राक्षा त्रिफला नीलमुत्पलम्॥
मधुकं क्षीरकाकोली मधुपर्णी निदिग्धिका॥१९७॥

तत्साधुसिद्धं विज्ञाय शुभे भाण्डे निधापयेत्॥
ऊर्ध्वपानमधःपानं मध्येपानं च शस्यते॥१९८॥

यावन्तो नेत्ररोगास्तान्पानादेवापकर्षति॥
सरक्ते रक्तदुष्टे च रक्ते चातिस्नुतेऽपि च॥१९९॥

नक्तान्ध्ये तिमिरे काचे नीलिकापटलार्बुदे॥
अभिष्यन्देऽधिमन्थे च पक्ष्मकोपे च दारुणे॥२००॥

नेत्ररोगेषु सर्वेषु वातपित्तकफेषु च॥
अदृष्टिं मन्ददृष्टिं च कफवातप्रदूषिताम्॥२०१॥

स्रवतो वातपित्ताभ्यां सकण्ड्वासन्नदूरदृक्॥

गृध्रदृष्टिकरं सद्योबलवर्णाग्निवर्धनम्॥
सर्वनेत्रामयान्हन्यात्त्रिफलाद्यं महाघृतम्॥२०२॥

मधुपर्णी गुडूची। ऊर्ध्वपानादिविधिर्भोजनापेक्षया। नेत्ररोगेषु सर्वेषु वातपित्तकफेषु चेति। वातादिकृतेषु नेत्ररोगेष्वित्यर्थः ॥१९५॥१९६॥१९७॥१९८॥१९९॥२००॥२०१॥२०२॥

त्रिफला त्र्यूषणं द्राक्षा मधुकं कटुरोहिणी॥२०३॥

प्रपौण्डरीकं सूक्ष्मैला विडङ्गं नागकेसरम्॥
नीलोत्पलं सारिवे द्वे चन्दनं रजनीद्वयम्॥२०४॥

कार्षिकैः पयसा तुल्यं त्रिगुणं त्रिफलारसम्॥
घृतप्रस्थं पचेदेतत्सर्वनेत्ररुजापहम्॥२०५॥

तिमिरं दोषमास्रावं कामलां काचमर्बुदम्॥
बीसर्पंप्रदरं कण्डूं रक्तं श्वयथुमेव च॥२०६॥

खालित्य पलितं चैव केशानां पतनं तथा॥
विषमज्वरमर्माणि शुक्रं चाऽऽशु व्यपोहति॥२०७॥

अन्ये च बहवो रोगा नेत्रजा ये च मर्मजाः॥
तान्सर्वान्नाशयत्याशु भास्करस्तिमिरं यथा॥२०८॥

न चैवास्मात्परं किंचिदृषिभिः काश्यपादिभिः॥
दृष्टिप्रसादनं दृष्टं यथा स्यात्त्रैफलं घृतम्॥२०९॥

सुगमम्।त्रिफलाघृतम्॥२०३॥२०४॥२०९॥२०६॥२०७॥॥२०८॥२०९॥

फलत्रिकाभीरुकषायसिद्धं कल्केन यष्टीमधुकांशयुक्तम्॥
सर्पिः समं क्षौद्रचतुर्थभागं न्यात्त्रिदोषं तिमिरं भवन्तम्॥२१०॥

अभीरुः शतावरी। **सममिति।**सहार्थे। यथोक्तकषायादिना सह सिद्धमित्यर्थः। तिमिरं भवन्तमितिनिर्देशात्तिमिरशब्दः पुंलिङ्गोऽप्यस्तीति गम्यते। दुरन्तमिति पाठः साधुः। त्रिफलाघृतम्॥२१०॥

भृङ्गराजरसप्रस्थे यष्टीमधुपलेन च॥

तैलस्य कुंडवं पक्वंसद्यो दृष्टिं प्रसादयेत्॥
नस्याद्बलीपलितघ्नं मासेनैतन्नसंशयः॥२११॥

सुगमम्। भृङ्गराजतैलम्॥२११॥

गवां शकृत्क्वाथविपक्वमुत्तमं हितं च तैलं तिमिरेषु नस्यतः॥
घृतं हितं केवलमेव पैत्तिके तथाऽणुतैलं पवनासृगुत्थयोः॥२१२॥

गवां शकृत्क्वाथविपक्वमिति। गोशकृत्क्वाथोऽष्टगुणाम्बुना सह कार्यः। मृदोश्चतुर्गुणं देयमित्यादिपरिभाषा-व्यवहारसाधितम्। **घृतं हितं केवलमिति।**केवलमसंस्कृतम्। अत्रापि नस्यत इति योज्यम्। अणुतैलं सुश्रुते वातव्याधिचिकित्सितोक्तम्॥२१२॥

राजवल्लभं तैलं घृतं चाऽऽह—

जीवकर्षभकमेदा द्राक्षांऽशुमती निदिग्धिका बृहती॥
मधुकं बला विडङ्गं मञ्जिष्ठा शर्करा रास्ना॥२१३॥

नीलोत्पलं श्वदंष्ट्रा प्रपौण्डरीकं पुनर्नवा लवणम्॥
पिप्पल्यः सर्वेषां भागैरक्षांशकैःपिष्टैः॥२१४॥

तैलं वा यदि वा सर्पिर्दत्त्वाक्षीरं चतुर्गुणं पक्वम्॥
आत्रेयनिर्मितमिदं तैलं नृपवल्लभं सिद्धम्॥२१५॥

तिमिरं पटलं काचं नक्तान्ध्यं चार्बुदं तथाऽन्यांश्च॥
श्वेतं च लिङ्गनाशं नाशयति नीलिकाव्यङ्गम्॥२१६॥

मुखनासादोर्गन्ध्यं पलितं चाकालजं हनुस्तम्भम्॥
श्वासं कासं शोषं हिक्कांस्तम्भं तथाऽत्ययं नेत्रे॥२१७॥

मुख790जाड्यमर्धभेदं रोगं बाहुग्रहं शिरस्तम्भम्॥
रोगानथोर्ध्वजत्रोः सर्वानचिरेण नाशयति॥२१८॥

अंशुमती शालिपणीं। अक्षांशकैरिति। कर्षचतुर्थभागकैः। तेन द्रव्याणां द्वादशमाषकाधिकं पलं भवति। अनेनैव तैलकुडवः साध्यः। नस्यार्थं तैलकुडवः पच्यत इति संप्रदायात्। न च कल्कश्च स्नेहपादिक इत्यनेन विरोधः कल्कपलेनापि तैलकुडवपाकदर्शनात्। तथाऽत्रैवोक्तं भृङ्गराजतैले। यष्टीमधुपलेन कल्क उक्तः। अजितनाम्नि तैलेऽपि तन्त्रान्तरीये कल्कस्य पलमेवोक्तम्।

यथा—

“तैलस्य पचेत्कुडवं मधुकस्य पलेन कल्कपिष्टेन।
आमलकरसप्रस्थं क्षीरप्रस्थेन संयुतं कृत्वा॥

अजितं नाम्ना तैलम्" इत्यादि।

कुडवश्च द्रवद्रव्याणामष्टपल एवेति बहुसंमतः पन्थाः। किंवा, अक्षांशकैरिति। कर्षभागिकैः। अस्मिन्पक्षे तैलप्रस्थ एव साध्यः। पूर्वव्याख्यया प्रचारः। यदि वा सर्पिरिति। पैत्तिके तिमिरे सर्पिः पक्तव्यम्। नृपवल्लभे तैलघृते।इति दृष्टिजेषु॥२१३॥॥२१४॥२१५॥२१६॥२१७॥२१८॥

अतः परं शुक्लजानां रोगाणां चिकित्सामाह—

पिप्पली त्रिफला लाक्षा लोहचूर्णं ससैन्धवम्॥
भृङ्गराजरसे घृष्टं गुटिकाञ्जनमिष्यते॥२१९॥

अर्म791ंसतिमिरं काचं कण्डूं शुक्रं तथाऽर्जुनम्॥
अजकानेत्ररोगांश्च हन्यान्निरवशेषतः॥२२०॥

सुगमम्॥२१९॥२२०॥

चन्दनं792 सैन्धवं पथ्या पलाशतरुशोणितम्॥
क्रमवृद्धमिदं चूर्णं शुक्रार्मादिविलेखनम्॥२२१॥

सुगमम्॥२२१॥

पुष्पाख्यतार्क्ष्यजसितोदधिफेनशङ्ख-
सिन्धूत्थगैरिकशिलामरिचैः समांशैः॥
पिष्टैस्तु माक्षिकरसेन रसक्रियेयं
हन्त्यर्मकाचतिमिरार्जुनवर्त्मरोगान्॥२२२॥

पुष्पाख्यं पुष्पकासीसं रीतीमलं वा। अमुना प्रचारः। तार्क्ष्यजं रसाञ्जनम्। सिताशर्करा।गैरिकशिला गैरिकमेव। माक्षिकरसेन माक्षिकरूपेण रसेन रसक्रियेयं न पारिभाषिकीत्याहुः॥२२२॥

पिष्टं क्षौद्रेण चाऽऽलोड्य स्थापितं वेणुगह्वरे॥
रसेन मधुना यस्मात्क्रियते तु रसक्रिया॥२२३॥

सुगमम्॥२२३॥

शुक्तिकाचिकित्सामाह—

कोष्णस्य सर्पिषःपानैर्विरेकालेपसेचनैः॥
स्वादुशीतैः प्रशमयेच्छुक्तिकामञ्जनैस्ततः॥२२४॥

कोष्णसर्पिपानं विरेचनाङ्गत्वेन विहितं नान्येव793॥२२४॥

स्वादुशीतद्रव्याण्याह—

प्रवालमुक्तावैडूर्यशङ्खस्फटिकचन्दनम्॥
सुवर्णं रजतं क्षौद्रमञ्जनं शुक्तिकापहम्॥२२५॥

सुगमम्॥२२५॥

अर्जुने शर्करामस्तुक्षौद्रैश्चाऽऽश्च्योतनं हितम्॥२२६॥

सुगमम्॥२२६॥

शङ्खः क्षौद्रेण संयुक्तः कतकः सैन्धवेन वा॥
सितयाऽर्णवफेनो वा पृथगञ्जनमर्जुने॥२२७॥

कतकं शशपुरीषानुकारि, अम्बुप्रसादनं फलम्॥२२७॥

सितामधुककट्वङ्गमस्तुक्षौद्राम्लसैन्धवैः॥
पूरणं हन्ति लौहित्यं रक्तराजीमथार्जुनम्॥

सुगमम्॥

पैत्तं विधिमशेषेण कुर्यादर्जुनशान्तये॥२२८॥

पैत्तं विधिमिति। पित्तजाभिष्यन्दोक्तं विधिम्। अन्यत्राप्युक्तम्—पित्ताभिष्यन्दशमनो विधिरर्जुनशान्तिकृदिति॥२२८॥

वैदेहीसितमरिचं नागरं सैन्धवं समम्॥
मातुलुङ्गरसैः पिष्टमञ्जनं पिष्टका794कापहम्॥२२९॥

वैदेही पिप्पली। सितमरिचं सौभाञ्जनबीजम्। इति शुक्लजेषु॥२२९॥

उपनाहचिकित्सामाह—

भित्तोपनाहं कफजं पिप्पलीमधुसैन्धवैः॥

उपनाहस्य केवलकफजत्वादिह कफजमिति स्वरूपपरम्। पिप्पलीमधुसैन्धवैरित्यतः परं प्रतिसारयेदिति द्रष्टव्यम्। भेदनप्रतिसारणाम्यामप्रशमेऽस्य लेखनं प्रच्छन्नं(स्थनं) च। डल्लणस्त्वेवं व्याख्याति—किंचित्पक्वःश्लेष्मोपनाहो भेद्यः। महान्नीरुजश्च लेख्यः। रक्तानुबन्धश्च प्रस्थनीयः। श्लेष्मोपनाहे भिन्ने लिखिते प्रस्थितेऽपि च पिप्पल्यादिभिरेकमेव प्रतिसारणमिति॥

विलिखेन्मण्डलाग्रेण प्रस्थायित्वा समन्ततः॥२३०॥

सुगमम्॥२३०॥

पथ्याक्षधात्रीफलमध्यबीजैस्त्रिद्व्येकभागैर्विदधीत वर्तिम्॥
तयाऽञ्जयेदश्रुमतिप्रवृद्धमक्ष्णोर्हरेत्कष्टमपि प्रकोपम्॥२३१॥

त्रिद्व्येकभागैरिति। यथाक्रमेण॥२३१॥

स्रावेषु त्रिफलाक्वाथं यथादोषं प्रयोजयेत्॥
क्षौद्रेणाऽऽज्येन पिप्पल्या मिश्रं विध्येच्छिरां तथा॥२३२॥

स्रावेषु त्रिफलाक्वाथः पेयो न तु सेकैः। क्षौद्रेण पित्ते, आज्येन वाते पिप्पल्या कफे॥२३२॥

कृमिग्रन्थिचिकित्सामाह—

त्रिफलामूत्रकासीससैन्धवैः सरसाञ्जनैः॥
रसक्रिया क्रिमिग्रन्थौ भिन्ने स्यात्प्रतिसारणम्॥२३३॥

लोचनोचितस्वेदस्विन्नेऽनन्तरं भेदने सति। प्रतिसारणमिति। अनुक्तमप्यञ्जननामिकोद्दिष्टं वक्ष्यमाणं रसाञ्जनमधुभ्यां प्रतिसारणम्। तदनन्तरं त्रिफलाक्वाथगोमूत्रयोः कासीसादिप्रक्षेपेण रसक्रिया। सुश्रुते कृमिग्रन्थिचिकित्सायां विशेषः पाठः—

“सम्यक्खिन्ने कृमिग्रन्थौ भिन्ने स्यात्प्रतिसारणम्।
त्रिफलातुत्थकासीससैन्धवैश्च रसक्रिया”॥

तत्र त्रिफलाक्वाथेन तुत्थकासीससैन्धवावापेन रसक्रियेति। इति संधिजेषु॥२३३॥

स्वयं भिन्नाया अञ्जननामिकायाश्चिकित्सामाह—

स्विन्नांभित्त्वा विनिष्पीड्य भिन्नामञ्जननामिकाम्॥
शिलैलानतसिन्धूत्थैःसक्षौद्रैःप्रतिसारयेत्॥२३४॥

भिन्नां स्वयम्। स्विन्नां भित्त्वा विनिष्पीड्येति। स्नेहस्वेदपूर्वकं निष्पीडनं कृत्वा। शिला मनःशिला। एला सूक्ष्मैला। नतं तगरम्। सिन्धूत्थं सैन्धवम्। प्रतिसारयेत्, घर्षयेत्॥२३४॥

अभिन्नाञ्जननामिकाचिकित्सामाह—

रसाञ्जनमधुभ्यां तु भिन्नां(त्त्वा) वा शस्त्रकर्मवित्॥
प्रतिसार्याञ्जनैर्युञ्ज्यादुष्णैर्दीपशिखोद्भवैः॥२३५॥

स्वयमभिन्नामञ्जननामिकां पूर्ववत्स्विन्नां शस्त्रकर्मविद्धित्वा रसाञ्जनमधुभ्यां प्रतिसार्य तदुत्तरकालं दीपशिखोद्भवैः कज्जलाख्यैररञ्जनैर्योजयेदिति पिण्डार्थः। बहुवचनमत्र पौनः पुन्येनाञ्जनकरणाय॥२३९॥

स्वेदयेद्घृष्टयाऽङ्गुल्या हरेद्रक्तं जलौकसा॥
रोचनाक्षारतुत्थानि पिप्पल्यः क्षौद्रमेव च॥२३६॥

सुगमम्॥२३६॥

लगणस्य चिकित्सामाह—

प्रतिसारणमेकैकं भिन्ने लगण इष्यते॥

रोचना गोरोचना। क्षारो यवक्षारः। एतानि प्रतिसारणान्यल्पे लगणभिन्ने सति योज्यानीति ज्ञेयम्। महालगणस्य भिन्ना चिकित्सा सुश्रुतेनोक्ता।

तद्यथा—

“महत्यपि च युञ्जीत क्षाराग्नी विधिकोविदः।
प्रतिसारणमेकैकम्” इति ।

एकवचनेन गोरोचनादिभिरेकैकशः प्रतिसारणं विधेयमित्यर्थः। रोचनादिषु क्षौद्रयोगः प्रत्येकम्। प्रतिसारणामिह व्रणमुखे दानं न तु घर्षणम्॥

निमिषे नासया पेयं सर्पिस्तेन च पूरणम्॥२३७॥

सुगमम्॥२३७॥

स्वेदयित्वा बिसग्रन्थिं छिद्राण्यस्य निराश्रयम्॥
पक्वंभित्त्वा तु शस्त्रेण सैन्धवेनावचूर्णयेत्॥२३८॥

बिसग्रन्थिंपक्वंस्वेदयित्वाऽनन्तरमस्य पक्वस्य बिसग्रन्थेः स्विन्नस्य च्छिद्राणि निराश्रयं भित्त्वा सैन्धवेनावचूर्णयेत्। निराश्रयमिति क्रियाविशेषणं निराश्रयं निरुत्सङ्गं यथा भवति तथा भित्त्वेत्यर्थः। आश्रयेऽल्पेऽपि सति व्याधेरस्य पुनः संभवात्।

उक्तं हि—

“बिसग्रन्थिं तथा भिन्द्याद्यथा स्यान्नाऽऽश्रयः क्वचित्।
पुनः प्रवर्तते यस्मादल्पोऽप्याश्रयसंस्थितः” इति ॥

निराशयमिति पाठेऽयमेवार्थः। सैन्धवेनावचूर्णयेदित्यस्याग्रेऽधिको ग्रन्थः सुश्रुतेपठितः—

“कासीसमागधीपुष्पनेपाल्येलायुतेन तु।
ततः क्षौद्रघृतं दत्त्वा सम्यग्बन्धमथाऽऽचरेत्॥

अत्र पाठे कासीसादियुक्तेन सैन्धवेनावचूर्णयेत्। ततः प्रतिसारणादनन्तरं संधानार्थं क्षौद्रघृतं दत्त्वा वन्धं सम्यगाचरेत्। सम्यकशब्देन शिथिलता बन्धस्य व्याख्याता।पुष्पं पुष्पाञ्जनम्।नेपाली मनःशिला॥२३८॥

वर्त्मावलेखं बहुशस्तद्वच्छोणितमोक्षणम्॥
पुनः पुनर्विरेकं च पिल्लरोगातुरो भजेत्॥२३९॥

वर्त्मावलेखमिति। कर्कशशाखोटकादिपत्रैः प्रलेखनम्॥२३९॥

पिल्ली स्निग्धो वमेत्पूर्वं शिराव्यधस्नुतेऽसृजि॥
शिलारसाञ्जनव्योषगोपित्तैश्चक्षुरञ्जयेत्॥२४०॥

स्निग्धो वमेदित्यत्र स्वेद्रस्याप्यर्थवशादाक्षेपः। नेत्रबुद्बुदगतरोगेषु वमनं नेष्टं वर्त्मरोगेषु बुद्बुदानामबाधकरत्वेन हितमेव। रसाञ्जनव्योषगोपित्तैरित्यत्र गोपित्ताभावे गोरोचना ग्राह्या। एवमन्यत्रापि। अञ्जयेदिति। प्रतिसारयेत्॥२४०॥

हरितालवचादारुसुरसारसपेषितम्॥
अभयारसपिष्टं वा तगरं पिल्लनाशनम्॥२४१॥

सुरसारसपेषितमिति। सुरसा पर्णासभेदः। सुरमल्लीति लोके। प्रतिसारणमिदम्। तगरं तगरपादिका स्वनामख्यातो वा तरुः॥२४१॥

भावितं बस्तमूत्रेण सस्नेहं देवदारु च॥२४२॥

सस्नेहं देवदारु चेति। स्नेहोऽत्र घृतं चक्षुष्यत्वात्। एतदपि प्रतिसारणम् ॥२४२॥

काकमाचीफलेकेन घृतयुक्तेन बुद्धिमान्॥
धूपयेत्पिल्लरोगार्तं पतन्ति कृमयोऽचिरात्॥२४३॥

काकमाचीफलैकेनेति। काकमाच्याः फलेन केवलेन भावनारहितेनेत्यर्थः। चक्षुषी आच्छाद्य धूपनं कार्यम्॥२४३॥

रसाञ्जनं सर्जरसो जातीपुष्पं मनःशिला॥
समुद्रफेनो लवणं गैरिकं मरिचानि च॥२४४॥

एतत्समांशं मधुना पिष्टं प्रक्लिन्नवर्त्मनि॥
अञ्जनं क्लेदकण्डूघ्नं पक्ष्मणां च प्ररोहणम्॥२४५॥

सुगमम्॥२४४॥२४५॥

ताम्रपात्रे गुहामूलं सिन्धूत्थमरिचान्वितम्॥
आरनालेन संघृष्टमञ्जनं पिल्लनाशनम्॥२४६॥

गुहामूलमिति। पृश्निपर्णीमूलं स्नुहा वा। पृश्निपर्ण्या व्यवहारः॥२४६॥

हरिद्रे त्रिफला लोध्रं मधुकं रक्तचन्दनम्॥
भृङ्गराजरसे पिष्ट्वा घर्षयेल्लोहभाजने॥२४७॥

तथा ताम्रे च सप्ताहं कृत्वा वर्तिं रजोऽथ वा॥

पिच्चटी धूमदर्शी च तिमिरोपहतेक्षणः॥
प्रातर्निश्यञ्जयेन्नित्यं सर्वनेत्रामयापहम्॥२४८॥

घर्षयेल्लोहभाजने ताम्रे वा घर्षयेत्॥२४७॥२४८॥

मञ्जिष्ठामधुकोत्पलोदधिकफत्वक्सेव्यगोरोचना-
मांसीचन्दनशङ्खपत्रगिरिमृत्तालीसपुष्पाञ्जनैः॥
सर्वैरेव समांशमञ्जनमिदं शस्तं सदा चक्षुषः
कण्डूक्लेदमलाश्रुशोणितरुजापिल्लार्मशुक्रापहम्॥२४९॥

चूर्णाञ्जनम्। उदधिकफः समुद्रफेनः। गिरिमृद्गैरिकम्। पुष्पाञ्जनं स्वनामख्यातं किंवा पुष्पकासीसम्। अञ्जनं रसाञ्जनम्। वर्तिरेषा चूर्णाञ्जनं वा॥२४९॥

तुत्थकस्य पलं श्वेतमरिचानि च विंशतिः॥
त्रिंशता काञ्जिकलैः पिष्ट्वा ताम्रे निधापयेत्॥२५०॥

पिल्लानपिलान्कुरुते बहुवर्षोत्थितानपि॥
तत्सेकेनोपदेहाश्रु795कण्डूशोथांश्चनाशयेत्॥२५१॥

सुगमम्॥२५०॥२५१॥

करञ्जबीजं सुरसं सुमनःकोरकाणि च॥२५२॥

संक्षद्य साधयेत्क्वाथंपूते तत्र रसक्रिया॥
अञ्जनं पिल्लभैषज्यं पक्ष्मणां च प्ररोहणम्॥२५३॥

सुगमम्॥२५२॥२५३॥

पुष्पकासीसचूर्णं वा सुरसारसभावितम्॥
ताम्रे दशाहं तत्पिल्लपक्ष्मरोगजिदञ्जनात्॥२५४॥

सुगमम्॥२५४॥

याप्यः पक्ष्मोपरोधस्तु रोमोद्धरणलक्षणैः॥

रोमोद्धरणलक्षणैरित्यतः परं कर्मभिरिति शेषः॥

वर्त्मन्युपचितं लेख्यं स्राव्यमुत्क्लिष्टशोणितम्॥२५५॥

सुगमम्॥२५५॥

प्रवृद्धान्तर्मुखं रोग सहिष्णोरुद्धरेच्छनैः॥

सुगमम्॥

संदंशेनोद्धरेद्दृष्ट्यालक्ष्यरोमाणि बुद्धिमान्॥
सूच्यग्रेणाग्निवर्णेन रोमकूपं विनिर्दहेत्॥२५६॥

दृष्ट्यालक्ष्यरोमाणीति। दृष्ट्यभिमुखगतरोमाणि॥२५६॥

प्रदेहाः शीतला नस्यं क्रिया पक्ष्मापरोधहृत्॥२५७॥

सुगमम्॥२१७॥

रक्षन्नक्षि दहेत्पक्ष्म तप्तहेमशलाकया॥
पक्ष्मकोपेपुनर्नैवं कदाचिद्रोमसंभवः॥२५८॥

सुगमम्। इति वर्त्मजेषु॥२५८॥

त्रिफलाव्योषसिन्धूत्थैर्घृतं सिद्धं पिबेन्नरः॥
चक्षुष्यं भेदनं हृद्यं दीपनं कफनाशनम्॥२५९॥

त्रिफलायाः क्वाथः। व्योषसिन्धूत्यैः कस्कः किंवा त्रिफलादिभिः सर्वैः कस्कः। जलं द्रवम्॥२९९॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामेकषष्टितमो
नेत्ररोगाधिकारः समाप्तः॥६१॥
<MISSING_FIG href=”../../../books_images/U-IMG-1706551946241803-removebg-preview.png"/>
अथ द्विषष्टितमः शिरोरोगाधिकारः।
________

आश्रितकर्ण नासानयनगतान्रोगानभिधाय संप्रत्याश्रयभूतशिरोरोगाणामभिधानम्।

वातिके शिरसो रोगे स्नेहस्वेदान्सनावनान्॥
पानान्नमुपनाहांश्च कुर्याद्वातामयापहान्॥१॥

सुगमम्॥१॥

कुष्ठमेरण्डमूलं च लेपात्काञ्जिकपोषितम्॥
शिरोर्तिं नाशयत्याशुपुष्पं वा मुचुकुन्दजम्॥२॥

कुष्ठमित्यादिको लेपः कोष्णः प्रयोज्यः।मुचुकुन्दजमिति। मुचुकुन्दो मुचुलिन्द इति॥२॥

पञ्चमूलीशृतंक्षीरं नस्यं दद्याच्छिरोगदे॥३॥

** पञ्चमूलीशृतंक्षीरमिति।** पञ्चमूली त्वल्पा महती वा॥३॥

शिरोबस्तिमाह—

आशिरो व्यायतं चर्म षोडशाङ्गुल796मुच्छ्रितम्॥

तेनाऽऽवेष्ट्य शिरोऽधस्तान्माषकल्केन लेपयेत्॥
निश्चलस्योपविष्टस्य तैलैरुष्णैः प्रपूरयेत्॥४॥

धारयेदारुजः शान्त्यै यामं यामार्धमेव च॥
शिरोवस्तिर्जयत्येष शिरोरोगं मरुद्भवम्॥५॥

हनुमन्याक्षिकर्णार्तिमर्दितं मूर्धकम्पनम्॥
तैलेनाऽऽपूर्यमूर्धानं पञ्च मात्राशतानि च॥६॥

** तैलैरिति।** यथाव्याधिसाथितैः पूरयेदङ्गुलोच्छ्रायेण। यावदङ्गुलं धारयेच्च तमिति तन्त्रान्तरदर्शनात्। पञ्चषडङ्गुलोच्छ्रायेण पूरणं प्रचरति। आरुजः शान्तौ धारयेद्वाते यामं पित्ते यामार्धं कफे। पञ्च मात्राशतानीत्यभिधानं परतन्त्रानुवादादविरुद्धं बोद्धव्यम्। मात्रा तु निमेषोन्मेषणादिः कालविशेषः।

तथा हि—

“निमेषोन्मेषणं पुंसां स्फोटनं वा तथाऽङ्गुलेः।
अक्षरस्य लघोर्वाऽपि मात्रा तूच्चारणं भवेत्” इति॥

छोटिकामात्रा(त्रया) तु प्रचारः। कफजे तु शिरोबस्तिर्नस्यादिभिरवशेषिते कफे वातानुबन्धे ज्ञेयः। केवलकफे तस्य यौगिकत्वात्॥४॥५॥६॥

तिष्ठेच्छ्लेष्मणि पित्तेऽष्टौदश वाते शिरोगदी॥
एष एवं विधिः कार्यस्तथाकर्णाक्षिपूरणे॥ ७॥

सुगमम्॥ ७॥

पित्तात्मके शिरोरोगे स्निग्धं सम्यग्विरेचयेत्॥
मृद्वीकात्रिफलेक्षणां रसैः क्षीरैघृतैरपि॥ ८॥

मृद्वीकादिभिः प्रत्येकं त्रिवृदादिद्रव्ययोगाद्विरेचनम्॥ ८॥

शर्कराक्षीरसलिलैः शिरश्च प्रतिषेचयेत्॥

सुगमम्॥

सर्पिषः शतधौतस्य शिरसा धारणं हितम्॥
निमज्जनं च शिरसः शीतले शस्यतेऽम्भसि॥ ९॥

सुगमम्॥ ९॥

कुमदोत्पलपद्मानां शीतानां चन्दनाम्बुभिः॥
स्पर्शाःसुखाश्चपवनाःसेव्या दाहार्तिशान्तये॥ १०॥
चन्दनोशीरयष्ट्याह्वबलाव्याघ्रनस्वोत्पलैः॥
क्षीरपिष्टै प्रदेहः स्याच्छृतैर्वा परिषेचनम्॥ ११॥

व्याघ्रनखं नवभेदः॥१०॥११॥

मृणालविसशालूकचन्दनोत्पलकेसरैः॥
स्त्रिग्धशीतैः शिरो दिह्यात्तद्वदामलकोत्पलैः॥ १२॥

** स्त्रिग्धशीतैरिति।** स्निग्धत्वं घृतयोगात्॥१२॥

यष्ट्याह्वचन्दनानन्ताक्षीरसिद्धं हितं घृतम्॥
नावनं शर्कराद्राक्षामधुकैर्वाऽपि पित्तजे॥ १३ ॥

रक्तजे पित्तवत्सर्वंभोजनालेपसेचनम्॥
शीतोष्णयोश्चव्यत्यासो विशेषो रक्तमोक्षणम्॥ १४॥

** शीतोष्णयोश्च व्यत्यास इति।** शीतां क्रियां कृत्वा, उष्णा क्रिया, उष्णां च कृत्वा शीतेत्यर्थः। अयं च विधिर्व्याधिप्रत्यनीकतया बोद्धव्यः॥१३॥१४॥

इदानीं कफनशिरोरोगचिकित्सामाह—

कफजे लङ्घनं स्वेदो रूक्षोष्णैः पाचनात्मकैः॥
तीक्ष्णावपीडा धूमाश्च तीक्ष्णाश्च कवला हिताः॥ १५॥
अच्छंच पाययेत्सर्पिः पुराणं स्वेदयेत्ततः॥
मधूकसारेण शिरः स्विन्नं चास्य विरेचयेत्॥ १६॥

अच्छं केवलम्। पुराणं सर्पिरत्र संवत्सरस्थितं दशवर्षास्थितं वा। केचिञ्चिरकालस्थितं पुराणमाहुः। तथा च भद्रशौनकः—

“अल्पाभिव्यन्दि मधुरं बल्यं संवत्सरोषितम्।
अल्पक्लेदं च दोषाणां पुराणं सर्पिरुच्यते॥
दशवर्षस्थितं प्रायः कटुकानुरसं स्मृतम्।
स्थितं वर्षशतं श्रेष्ठं कुम्भसर्पिरुदात्दृतम्”॥

पाययेत्सर्पिः पुराणमित्यनेन कफजे पुराणघृतपानस्योपदेशः कालप्रकर्षसंस्कारेण कफप्रत्यनीकत्वात्। किंच कफजे जीर्णे वातानुबन्धे विधानमिदम्। **स्वेदयेदिति।**तापोष्मस्वेदादिभिः श्लेष्मघ्नैः …. …. ….॥१५॥१६॥

*पथ्याह्वशुण्ठीमधुकशताह्वोत्पलपाकलैः॥
जलपिष्टैः शिरोलेपः सद्यः शूलनिवारणः॥१७॥

देवदारुनतं कुष्टं नलदं विश्वभेषजम्॥
लेपः काञ्जिकसंपिष्टस्तैलयुक्तः शिरोर्तिनुत्॥१८॥

संनिपातभवे कार्या दोषत्रयहरी क्रिया॥
सर्पिष्पानं विशेषेण पुराणं वा दिशन्ति हि॥१९॥

*त्रिकटुकपुष्करबीजकरञ्जरास्त्रातुरङ्गगन्धानाम्॥
क्वाथःशिरोर्तिजालं नासापीतो निवारयति॥२०॥

नागरकल्कविमिश्रं क्षीरं नस्येन योजितं पुंसाम्॥
नानादोषोद्भूतां शिरोरुजं हन्ति तीव्रतराम्॥२१॥

॥१७॥१८॥१९॥२०॥२१॥

शताह्वैरण्डमूलोग्रावक्रव्याघ्रीफलैः शृतम्॥
तैलं नस्यं मरुच्छ्लेष्मतिमिरोर्ध्वगदापहम्॥२२॥

जीवकर्षभकौद्राक्षासितायष्टीद्वयोत्पलैः797
तैलं नस्यं पयःपक्वंवातपित्तशिरोगदे॥ २३॥

॥ २२॥ …. …. …. ….जीवकाद्यं तैलम्॥ २३॥

जीवकर्षभकौ द्राक्षा मधूकं मधुकं बला॥
नीलोत्पलं चन्दनं च विदारी शर्करा तथा॥२४॥

तैलप्रस्थं पचेदेभिः शनैः पयसि षड्गुणे॥
जाङ्गलस्य तु मांसस्य तुलार्धस्य रसेन तु॥ २५॥

सिद्धमेतद्भवेन्नस्यं तैलमर्धावभेदके॥
बाधिर्यं कर्णशूलं च तिमिरं गलशुण्डिकाम्॥ २६॥

वातिकं पैत्तिकं चैव शिरोरोगं नियच्छति॥
दन्तशूलं शिरः शूलमर्दितं चापकर्षति॥ २७॥

जीवकाद्यं तैलम्॥२४॥२५॥२६॥२७॥

एरण्डमूलं तगरं शताह्वाजीवन्तिरास्ना लवणोत्तमं च॥
भृङ्गं विडङ्गं मधुयष्टिका च विश्वौषधं कृष्णतिलस्य तैलम्॥ २८॥

आजं पयस्तैलविमिश्रितं च चतुर्गुणे भृङ्गरसे विपक्वम्॥
षड्विन्दवो नासिकया च शीघ्रं सर्वान्निहन्युः798 शिरसो विकारान्॥ २९॥

च्युतांश्च केशांश्चलितांश्च दन्तान्दुर्बद्धमूलांश्च दृढी करोति॥
सुपर्णदृष्टिप्रतिमं च चक्षुर्वाह्वोर्वलं चाभ्यधिकं ददाति॥ ३०॥

षड्बिन्दुतैलम्॥ २८॥ २९॥ ३०॥

क्षयजे क्षयमासाद्य799 कर्तव्यो बृंहणो विधिः॥
पाने नस्ये च सर्पिः स्याद्वातघ्नमधुरैः शृतम्॥ ३१॥

…. …. ….॥ ३१॥

कृमिजे व्योषनक्ताह्व(ङ्क)शिग्रुबीजैश्चनावनम्॥ ३२॥
…. …. नक्ताङ्कशिग्रुवीजैरिति। नक्ताङ्कस्यापि बीजम्॥ ३२॥

अजामूत्रयुतं नस्यं कृमिजे कृमिजित्परम्

कृमिज्ञे यन्नस्यमुक्तं तदजामूत्रयुतमत्यर्थं कृमिजित्स्यात्॥ तदुक्तम्समूत्रपिष्टाश्चोद्दिष्टाः क्रियाः कृमिषु योजयेदिति॥ अन्यस्त्वाह—कृमिजिद्विडङ्गमजामूत्रयुतं नस्यमिति॥

नावनं सगुडं विश्वं पिप्पली वा ससैन्धवा॥
भुजस्तम्भादिरोगेषु सर्वेषूर्ध्वदेषु च॥३३॥

सगुडं विश्वं वातानुबन्धे नस्यं ससैन्धवा पिप्पली कफानुगे॥३३॥

सूर्यावर्तकचिकित्सामाह—

सूर्यावर्ते विधातव्यं नस्यकर्मादिभेषजम्॥
पाययेत्सगुडं सर्पिर्घृतपूरांश्च भक्षयेत्॥३४॥

** नस्यकर्मादिभेषजमिति।**कारणभूतदोषप्रत्यनीकं नस्यपरिषेकलेपकबलग्रहशिरोबस्त्यादिभेषजमित्यर्थः।अन्ये तु नस्यकर्म, आदौ यस्य तन्नस्यकर्मादि।तच्च वमनं विहाय विरेकादिकर्मचतुष्टयम्। ये तु सूर्यावर्तकविपर्ययं पठन्ति तत्रापीदमेव चिकित्सितम्॥३४॥

सूर्यावर्ते शिरावेधो नावनं क्षीरसर्पिषा॥३५॥
हितः क्षीरघृताभ्यासस्ताभ्यां चैव विरेचनम्॥
क्षीरपिष्टैस्तिलैः स्वेदो जीवनीयैश्च शस्यते॥३६॥

यथोक्तकर्मणां पुनरप्रशमे शिराव्यधः।**क्षीरसर्पिषेति।**क्षीरोत्थेन सर्पिषा।**ताभ्यामिति।**क्षीरघृताभ्यां विरेकद्रव्ययुक्ताभ्यां विरेचनम्॥ ३५॥ ३६॥

सशर्करं कुङ्कुममाज्यभृष्टं नस्यं विधेयं पवनामृगुत्थे।
भ्रूशङ्खकर्णाक्षिशिरोर्धशूले दिनाभिवृद्धिप्रभवे च रोगे॥ ३७॥

सशर्करं कुङ्कुमं घृते भृष्ट्वा घृतेनैवाऽऽलोड्य नस्यम्॥ ३७॥

शिरीषमूलकफलैरवपीडं च योजयेत्॥

** शिरीषमूलकफलैरिति।** शिरीषमूलकयोबींजम्॥ अयं च तोक्ष्णेऽवपीडः॥ अवपीड्य दीयत इत्यवपीडो नस्यभेदः॥

अवपीडो हितो वा स्याद्वचापिप्पलिभिः कृतः॥ ३८॥

तथा वचापिप्पलीभिः कृतश्च सूर्यावर्ते वातपित्तोत्तरे विकारप्रत्यनोकतया वा हितः॥ ३८॥

जाङ्गलानि च मांसानि कारयेदुपनाहनम्॥
तेनास्य शाम्यते व्याधिः सूर्यावर्तः सुदारुणः॥३९॥
महौषधं सस्वरसं वचापिप्पलिभिः कृतम्॥
अवपीडं प्रदातव्यं सूर्यावर्तनिषूदनम्॥
एष एवं विधिः कृत्स्नः कार्यश्वार्धावभेदके॥४०॥

॥ ३९ ॥ ४० ॥

इदानीं शिरोलेपमाह—

सारिवोत्पलकुष्ठानि मधुकं चाम्लपेषितम्॥
सर्पिस्तैलयुतो लेपः सूर्यावर्तार्धभेदयोः॥४१॥

सारिवा प्रसिद्धा। उत्पलं नीलोत्पलम्। अम्लपेषितमिति। काञ्जिकपिष्टम्। अयमपि शिरोलेपो वातपित्तोत्तरावस्थायां प्रयोक्तव्यः॥४१॥

एष एवप्रयोक्तव्यः शिरोरोगे कफात्मके॥४२॥

** **यद्यपि कफजशिरोरोगस्य चिकित्सोक्ता तथाऽप्यवसरप्राप्तत्वात्पुनरुक्ता। अन्येशेरोरोगे कफात्मक इत्यत्र क्षयात्मक इति पठन्ति। तन्नेच्छति जैज्जटाचार्यः। अपरेतु—एभिरेव प्रयोक्तव्यः शिरोरोगेऽनिलात्मके, इति पठन्ति। एभिरेवेति। अनन्तरोक्तं गरिवोत्पलकुष्ठादिभिः ॥४२॥

पिबेत्सशर्करं क्षीरं नीरं वा नालिकेरजम्॥
सुशीतं वाऽपि पानीयं सर्पिर्वा नस्ततस्त(नासया त) योः ॥४३॥

** तयोरिति।** सूर्यावर्तार्थावभेदकयोः ॥ ४३ ॥

अनन्तवाते कर्तव्यः सूर्यावर्तहितो विधिः॥
शिरावेधश्च कर्तव्योऽनन्तवातप्रशान्तये॥४४॥

** शिरावेध इति।** विध व्यध(विधा)ने, इत्यस्य धातोरयं न पुनर्व्यधेः॥४४॥

आहारश्च विधातव्यो वातपित्तविनाशनः॥
मधुमस्तकसंयावहविप्पूरैश्च यः क्रमः॥४५॥

पाकघनीकृतमधुगर्भो गोधूमपिष्टकवेष्टितः पक्वःस चतुर्जातकादिभक्षविशेषो मधुमस्तकः। अन्ये तु गोधूमशमितां घृतयुक्तां तोयैर्मर्दयित्वा वृत्तमपूपं कृत्वा घृतेन पकत्वा सेतायुक्तं कुर्यादित्येष मधुमस्तकः। स च लोकेषु मण्डकापरनामा। संयावो भक्ष्यविषः। तद्यथा—गोधूमशमितां जलदुग्वेन मर्दयित्वा घृतोत्तरे खण्डे पक्त्वा मरिचैलांखडकर्पूर्युक्तां कुर्यादित्येष संयावः। एषां भेदा बहवः सूदशास्त्राद्विज्ञेयाः। गोधूमपट्शुद्धिकां क्षीरेण संमद्ये सपिंषा विस्तार्य पक्त्वा सितायुक्तां कुर्यादित्येष हविष्पूरः, घैवर इति लोके। क्रम आहारक्रमः॥४५॥

सूर्यावर्ते हितं यच्च शङ्खके स्वेदवर्जितम्॥
क्षीरसर्पिः प्रशंसन्ति नस्ये पाने च शङ्खके॥४६॥

सुगमम्॥४६॥

शिरोलेपमाह—

शतावरीं कृष्णतिलान्मधुकं नीलमुत्पलम्॥
दूर्वोपुनर्नवां चापि लेपं साध्ववचारयेत्॥ ४७॥

शतावर्यादिभिः क्षीरपिष्टैः शिरोलेपः॥४७॥

शीततोयावसेकांश्चक्षीरसेकांश्च शीतलान्॥

सुगमम्॥

कल्कैश्चक्षीरिवृक्षाणां शङ्खकस्य प्रलेपनम्॥ ४८॥
क्रौञ्चकादम्ब हंसानां शरार्याः कच्छपस्य च॥
रसैः संबृंहितस्याथ तस्य शङ्खस्य संधिजाः॥
ऊर्ध्वं तिस्रः शिराः प्राज्ञो भिन्द्यादेव न ताडयेत्॥ ४९॥

** भिन्द्यादिति।** सूच्या। ताडयेन्न कुठारिकया संधिभेदभयात्॥४८॥ ४९॥

यष्टीमधुबलारास्नादशमूलाम्बुसाधितम्॥
मधुरैश्चघृतं सिद्धमूर्ध्वजत्रुगदापहम्॥ ५०॥

यक्षाद्यं धृतम्॥ ५०॥

मयूराद्यं घृतमाह—

दशमूलबलारास्त्रामधुकैस्त्रिफलैः सह॥
मयूरं पक्षपित्तात्रशकृत्पादास्यवर्जितम्॥ ५१॥

जले पक्त्वा घृतप्रस्थं तस्मिन्क्षीरसमं पचेत्॥
मधुरैः कार्षिकैः कलकैः शिरोरोगार्दितापहम्॥ ५२॥

कर्णनासाक्षिजिह्वास्यगलरोगविनाशनम्॥
मयूराद्यमिदं ख्यातमूर्ध्वजत्रुगदापहम्॥ ५३॥

दशमूलांदीनां प्रत्येकं पलत्रयम्। पक्षपित्तान्त्रादिवर्जितं मयूरगुडकम्। जलद्रोणः पाकार्थम्। पादशेषः कषायः। चक्रस्त्वाह—

“दशमूलादिमांसेन सममत्रप्रदीयते।
घृतमानानुसारेण मांसमानानुकल्पना॥
अन्ये त्वाकृतिमाने तु मयूरग्रहणं विदुः”॥

दशमूलादिभिस्तुल्यमायूरमांसं मिलित्वा तु यावत्क्वाथ्यं भवति तत्र ‘क्वाथ्याच्चतुर्गुणं वारि’ इत्यादिपरिभाषया जलादिव्यवस्थेति पूर्वव्याख्यया व्यवहारः। **मधुरैरिति।**जीवनीयदशकेन। अन्यान्यपि यथालाभं मधुरद्रव्याणीति तु **वैद्यप्रसारके॥**५॥५२॥५३॥

प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः॥५४॥
सिद्धं धात्रीरसे तैलं नस्येनाभ्यञ्जनेन वा॥
सर्वानूर्ध्वगदान्हन्ति पलितानि च शीलितम्॥५५॥

प्रपौण्डरीका तैलम्॥५४॥५५॥

इति श्रीवृन्दमाधवापरनायकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां द्विषष्टितमः
शिरोरोगाधिकारः समासः॥ ६२॥

<MISSING_FIG href="../../../books_images/U-IMG-1700044090image1.JPG"/>
अथ त्रिषष्टितमः मदराधिकारः।
<MISSING_FIG href="../../../books_images/U-IMG-1700044124image2.JPG"/>

पुंस्त्रीसाधारणरोगानभिधाय पुंप्र(स्प्र)तिनियतस्योपदं शादेरुक्तत्वात्संप्रति स्त्रीप्रतिनियतरारम्भः।

दध्ना सौवर्चलाजाजीमधुकं नीलमुत्पलम्॥
पिबेत्क्षौद्रयुतं नारी वातासृग्दरपीडिता॥ १॥

पिबेदैणेयकं रक्तं शर्करामधुसंयुतम्॥
वासकस्वरसं पैत्ते गुडूच्या रसमेव च॥ २॥

** पिबेदैणेयकं रक्तमिति।** एण्या इदमैणेयं स्वार्थे कः। रक्तपानं चाऽऽर्तवातिस्तौ। एतच्च कुशमूलेना….पेयं तेन स्त्यानता न स्यादित्याहुः। शर्करामधुसंयुतमिति। वासकस्वरसेन गुडूचीरसेन च योज्यम्॥१॥२॥

रोहीतकान्मूलकल्कं पाण्डुरेऽसृग्दरे पिबेत्॥
जलेनाऽऽमलकाद्बीजकल्कं वा ससितामधु॥३॥

** पाण्डुर इति। कफजे॥३॥**

धातक्याश्चाक्षमात्रं वा आमलक्यां मधुद्रम्॥

धातक्याः कल्कमक्षमात्रम्। मधुद्रवमामलक्या वा कल्कं तथा मधुद्रवं पिबेत्। मधु द्रवं यत्रेति विग्रहादन्यपदार्थता॥

काकजान्धकमूलं वा मूलं कार्पासमेव वा॥
पाण्डुप्रदरशान्त्यर्थं पिबेत्तण्डुलवारिणा॥४॥

काकजान्धकः काकजङ्घा॥४॥

अशोकवल्कलक्वाथशृतं दुग्धं सुशीतलम्॥
यथाबलं पिबेत्प्रातस्तीव्रासृग्दरनाशनम्॥५॥

** अशोकवल्कलकाथशृतं दुग्धमिति।** षडङ्गकल्पनयाऽर्धशृतक्वाथं कृत्वा क्षीरं साध्यमित्येके। पेयक्वाथपरिभाषयाऽर्धपलादिद्रव्यक्वाथेन यथार्हं क्षीरं साध्यमित्यन्ये।क्षीरपरिभाषयाद्रव्यदुग्धतोयानां मानं व्यवस्थाप्य द्रव्यतोयाभ्यां कल्पितक्वाथेनेत्यपरे।व्यवहारस्तु प्रायेण क्वाथमकृत्वैव क्षीरपरिभाषया षडङ्गकल्पनया पुनः प्रचारो युज्यते॥ ५॥

दार्वीरसाञ्जनकिरातवृषाब्दतिक्ता-
800ल्लातकारविकृतो मधुना कषायः॥
पीतो जयत्यतिबलं प्रदरं सशूलं
पीतासितारुणविलोहितनीलशुक्लम्॥ ६॥

भल्लातकारविकृत इति। कारवी कृष्णजीरकम्। कैरवपाठे तु कुमुदम्। इदं च युक्तं शैत्यात्। अनेन प्रचारः॥ ६॥

रसाञ्जनं तण्डुलकस्य मूलं क्षौद्रान्वितं तण्डुलतोयपीतम्॥
असृग्दरं सर्वभवं निहन्ति श्वासं च भार्गी सह नागरेण॥ ७॥

** तण्डुलकस्येति।** लोहितस्य। सर्वभवमिति। वाताद्येकदोषजं सर्वं न तु त्रिदोषजं तस्यासाध्यत्वात्। वचनं हि—

“सक्षौद्रसर्पिर्हरितालवर्णं मज्जप्रकाशं कुणपं त्रिदोषम्।
तं चाप्यसाध्यं प्रवदन्ति तज्ज्ञा न तत्र कुर्वीत भिषचिकित्साम्” इति॥

श्वासं च भार्गी सह नागरेणेत्यतः श्लोकपूरणानुरोधाल्लिखितम्। सनागरभार्गीकल्कश्चोप्णाम्बुना पेयः। श्वासी हिक्की पिबेद्भार्गीं सविश्वामुष्णवारिणेति तस्त्रदर्शनात्॥७॥

कुशमूलं समाहृत्य801 पेषयेत्तण्डुलाम्बुना॥
एतत्पीत्वा त्र्यहं नारी802प्रदरात्परिमुच्यते॥८॥

सुगमम्॥८॥

क्षौद्रयुक्तं फलरसं काष्ठोदुम्बरजं पिबेत्॥
असृग्दरविनाशाय सशर्करपयोन्नथुक्॥९॥

सुगमम्॥९॥

प्रदरं हन्ति बलाया मूलं दुग्धेन मधुयुतं पीतम्॥
कुशवाट्यालकमूलं तण्डुलसलिलेन रक्ताख्यम्॥१०॥

** रक्ताख्यमिति।** वातकृतं प्रदरम्॥१०॥

शमयति मदिरापानं तदुभयमपि रक्तसंज्ञशुक्लाख्यौ॥ ११॥

मदिरया पीयत इति मदिरापानम्। तदुभयमिति। कुशवाट्यालकमूलम्॥११॥

गुडेन बदरीचूर्णं मोचमाजं तथा पयः॥
पीता लाक्षा च सघृता पृथक्शोणितनाशिनी॥१२॥

सुगमम्॥१२॥

यस्या यद्रूपं यादृशेन प्रकारेणोपचरणीयं तदाह—

तरुण्या हितसेविन्यास्तदल्पोपद्रवं भिषक्॥
रक्तपित्तविधानेन यथावत्समुपाचरेत्॥१३॥

तरुण्याः षोडशवर्षप्रमाणायाः। हितसेविन्याः पथ्यसेविन्याः। **रक्तपित्तविधानेनेति।**अधोगतरक्तपित्तविधानेन॥१३॥

पुष्यानुगं चूर्णमाह—

पाठाजम्ब्वाम्रयोर्मध्यंशिलाभेदं रसाञ्जनम्॥
अम्बष्ठकीमोचरसं समङ्गा पद्मकेसरम्॥१४॥

बाह्लीकातिविषे मुस्तं बिल्वं लोध्रं सगैरिकम्॥
कट्फलं मरिचं शुण्ठीमृद्धीकारक्तचन्दनम्॥१५॥

कट्वङ्गवत्सकानन्ताधातकीमधुकार्जुनम्॥
पुष्येणोद्धृत्य तुल्यानि सूक्ष्मचूर्णानि कारयेत्॥१६॥

तानि क्षौद्रेण संयोज्य पाययेत्तण्डुलाम्बुना॥
अर्शस्सु चातिसारेषु रक्तं यच्चोपवेश्यते॥१७॥

दोषागन्तुकृता ये च बालानां तांश्च नाशयेत्॥
योनिदोषं रजोदोषं श्वेतं नीलं च पीतकम्॥१८॥

स्त्रीणां श्यावारुणं यच्च तत्प्रसह्य निवर्तयेत्॥
चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्॥१९॥

अम्बष्ठा दक्षिणे ख्याता गृह्णन्त्यन्ये च लक्ष्मणाम्। शिलाभेदः पाषाणभेदः। अम्बष्ठकीदक्षिणापथे ख्याता। तदभावे पाठैव द्विगुणा। बाह्लीकं कुङ्कुमम्। मुद्वीकास्थाने माचीक इति पाठान्तरे। माचीकं देवदारु। पुष्येणेति। पुष्यनक्षत्रेण। पुष्यानुगं चूर्णम्॥१४॥ १५॥१६॥१७॥१८॥१९॥

मुद्गाद्यं घृतमाह—

मुद्गमाषस्य निर्यूहे रास्राचित्रकनागरैः॥
सिद्धं सपिप्पलीविश्वैः सर्पिः श्रेष्ठमसृग्दरे॥२०॥

सुगमम्। मुद्गाद्यं घृतम्॥२०॥

शतावरीरसप्रस्थं क्षोदयित्वाऽवपीडयेत्॥
घृतप्रस्थसमायुक्तं क्षीरद्विगुणितं भिषक्॥२१॥

अतः कल्कानिमान्दद्यात्स्थूलोदुम्बरसंमितान्॥
जीवनीयानि यान्यष्टौ यष्टीचन्दनपद्मकैः॥२२॥

श्वदंष्ट्रा चाऽऽत्मगुप्ता च बला नागबला तथा॥
शालिपर्णी पृष्ठपर्णी विदारी सारिवाद्वयम्॥२३॥

शर्करा च समा देया काश्मर्याश्च फलानि च॥
सम्यक्सिद्धं च विज्ञाय तद्भृतं चावचारयेत्॥२४॥

रक्तपित्तविकारेषु वातपित्तकृतेषु च॥
वातरक्तं क्षयं श्वासं हिक्कां कासं च दुस्तरम्॥२५॥

अङ्गदाहंशिरोदाहं रक्तपित्तसमुद्भवम्॥
असृग्दरं सर्वभवं मूत्रकृच्छ्रं च दारुणम्॥
एतान्रोगाञ्शमयति भास्करस्तिमिरं यथा॥२६॥

** स्थूलोदुम्बरसंमितानिति।** प्रत्येकं कर्षसंमितान्॥२१॥२२॥२३॥२४॥२५॥२६॥

शीतकल्याणकं घृतमाह—

कुमुदं पद्मकोशीरं गोधूमा रक्तशालयः॥२७॥

मुद्गपर्णी पयस्या च काश्मरी मधुयष्टिका॥
बलातिबलयोर्मूलमुत्पलं तालमस्तकम्॥२८॥

विदारी शतपु(प)त्री च शालिपर्णी सजीवका॥
फलं त्रपुसबीजानि प्रत्यग्रं कदलीफलम्॥२९॥

एषामर्धपलान्भागान्गव्यक्षीरं चतुर्गुणम्॥
पानीयं द्विगुणं दत्त्वाघृतप्रस्थं विपाचयेत्॥३०॥

प्रदरे रक्तगुल्मे च रक्तपित्ते हलीमके॥
बहुरूपं च यत्पित्तं कामलायां सशोणिते॥३१॥

अरोचके ज्वरे जीर्णे पाण्डुरोगे मदे भ्रमे॥
तरुणी चाल्पपुष्पा च या च गर्भं न विन्दति॥ ३२॥

अहन्यहनि च स्त्रीणां भवति प्रीतिवर्धनम्॥
शीतकल्याणकं नाम परमुक्तं रसायनम्॥३३॥

रक्तशालीनां मूलं फलं वा। पयस्या क्षीरकाकोली, अर्कपुप्पी वा। फलं त्रिफला। प्रत्यग्रं परिणतम्। शीतकल्याणकं घृतम्॥२७॥२८॥२९॥३०॥३१॥३२॥३३॥

हितश्चात्र विशेषेण लेहो यः कुटजाष्टकः॥३४॥

सुगमम्॥३४॥

इति श्रीवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठ-
दत्तकृतायां व्याख्याकुसुमावल्याख्यायां त्रिषष्टितमः
प्रदराधिकारः समाप्तः॥६३॥

<MISSING_FIG href="../../../books_images/U-IMG-1700104039image1.JPG"/>

अथ चतुःषष्टितमो योनिरोगाधिकारः।

<MISSING_FIG href="../../../books_images/U-IMG-1700104066image2.JPG"/>

प्रदरस्य योनिः प्रवृत्तिमार्ग ईरितोऽतो योनिव्यापदुच्यते॥

योनिव्यापत्सु भूयिष्ठंशस्यते कर्म वातजित्॥
बस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम्॥१॥

सुगमम्॥ १॥

वचोपकुञ्चिकाजाजीकृप्णावृपकसैन्धवम्॥
अजमोदायवक्षारचित्रकं शर्करान्वितम्॥२॥

पिष्ट्वाप्रसन्नयाऽऽलोड्य खादेत्तद्धृतभर्जितम्॥
योनिपार्श्वार्तिहद्रोगगुल्मार्शोविनिवृत्तये॥३॥

सुगमम्॥२॥३॥

रास्त्राश्वदंष्ट्रावृपकैःशृ803तं शूलहरं पयः॥

शृतं पयः परिषेकार्थं पानार्थंवा॥

गुडूचीत्रिफलादन्तीक्वायैश्च परिषेचनम्॥ ४॥

सुगमम्॥ ४॥

नतवार्ताकिनीकुष्ठसैन्धवामरदारूभिः॥
तैलात्प्रसाधिताद्धार्यः पिचुर्योनौ रुजापहः॥ ५॥

नतवार्ताकिनीति। कण्टकारी बृहती॥५ ॥

पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः॥
शीतपित्तहराः कार्याः स्नेहनार्थं घृतानि च॥६॥

सुगमम्॥६॥

योन्यां बलासदुष्टायां सर्वंरूक्षोष्णमौषधम्॥७॥

सुगमम्॥७॥

पिप्पल्या मरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः॥
वर्तिस्तुल्या प्रदेशिन्या धार्या योनिविशोधनी॥८॥

** तुल्या प्रदेशिन्येति।** परिणाहेन दैर्घ्येण च प्रदेशिन्यङ्गुलिसमा॥८॥

लक्ष्मणालक्षणं तद्विधानं चोच्यते—

पुष्योद्धृतं लक्ष्मणाया मूलं पिष्टं च कन्यया॥
ऋत्वन्ते घृतदुग्धाभ्यां पीत्वाऽऽप्नोत्यबला सुतम्॥९॥

“पुत्रकाकाररक्ताल्पबिन्दुभिर्लाञ्छितच्छदा॥
लक्ष्मणा पुत्रजननी बस्तगन्धाकृतिर्भवेत्”।

तां च शरत्काले पुष्पफलोपेतां दृष्ट्वा शनिदिने संध्यायां तस्याश्चतुर्षुभागेषु खदिरकीलकान्निखाय परेद्युर्हस्तमूलपुष्यैर्योगं गते दिवाकरे मन्त्रवद्गृहीत्वा समानवर्णवत्सगोक्षीरेण यथाविधि नस्यं दद्यादिति तन्त्रान्तरे॥९॥

क्वाथेन हयगन्धायाः साधितं सघृतं पयः॥
ऋतुस्नाताऽबला पीत्वा गर्भंधत्ते न संशयः॥१०॥

सुगमम्॥१०॥

फलघृतमाह—

मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला॥
मेदा पयस्या काकोली मूलं चैवाश्वगन्धजम्॥११॥

अजमोदा हरिद्रे द्वे हिङ्गुकं कटुरोहिणी॥
उत्पलं कुमुदं द्राक्षाकाकोल्यौ चन्दनद्वयम्॥१२॥

एतेषां कार्षिकैर्भागैर्धृतप्रस्थं विपाचयेत्॥
शतावरीरसं क्षीरं घृताद्देयं चतुर्गुणम्॥१३॥

सर्पिरेतन्नरः पीत्वा स्त्रीषु नित्यं वृषायते॥
पुत्राञ्जनयते नारी मेधाढ्यान्प्रियदर्शनान्॥१४॥

या च वाऽस्थिरगर्भा स्याद्या वा जनयते मृतम्॥
अल्पायुषं च जनयेद्या च कन्यां प्रसूयते॥१५॥

योनिदोषे रजोदोपे गर्भस्रावे च शस्यते॥
प्रजावर्धनमायुष्यं सर्वग्रहनिवारणम्॥१६॥
नाम्ना फलघृतं चैतदश्विभ्यां परिकीर्तितम्॥
अनुक्तं लक्ष्मणामूलं क्षिपन्त्यत्र चिकित्सकाः॥१७॥

** पयस्या** क्षीरविदारी। द्राक्षाकाकोल्याविति। काकोल्यत्र क्षीरकाकोली काकोल्या उपात्तत्वात्। शतावरीरसक्षीरयोः प्रत्येकं चातुर्गुण्यम्। अनुक्तं लक्ष्मणामूलं क्षिपन्त्यत्र चिकित्सका इतिवृन्दटिप्पण्याम्। चक्रःपुनराह—

“जीवद्वत्सैकवर्णाया घृतमत्र तु गृह्यते।
अरण्यगोमयेनेह चाग्निज्वालां प्रदीपयेत्” इति।

फलघृतम्॥११॥१२॥१३॥१४॥१५॥१६॥१७॥

कुष्ठं मुस्तं हरिद्रे द्वे पिप्पली कटुरोहिणी॥
काकोली क्षीरकाकोली विशाला त्रिफलोत्पलम्॥
मेदारास्नाविडङ्गानि देवदारु सहिङ्गुकम्॥१८॥

द्वे सारिवे शताह्वाच वचा यष्टी प्रियंगुका॥
अजमोदा महामेदा चन्दनं रक्तचन्दनम्॥१९॥

जातीपुष्पं तुगाक्षीरी कट्फलं सितशर्करा॥
एतैरक्षसमैः कल्कैर्घृतप्रस्थं भिषक्तमः॥२०॥

चतुर्गुणेन पयसा विपचेद्गोमयाग्निना॥
शुभेऽह्निपुष्यसंयुक्ते भाण्डे ताम्रमये दृढे॥२१॥

कलशे हेमकल्याणे कृतकौतुकमङ्गले॥
सर्पिरेतन्नरः पीत्वा स्त्रीषु नित्यं वृषायते॥२२॥

या च वन्ध्या भवेन्नारी या च कन्याप्रजायिनी(न्यां प्रसूयते)॥
या च वाऽस्थिरगर्भा स्याद्या च सूत्वा पुनः स्थिता॥२३॥

अल्पायुषं च जनयेद्या वा जनयते मृतम्॥
तादृशं जनयेत्पुत्रं वेदवेदाङ्गपारगम्॥२४॥

रूपलावण्यसंपन्नं शतायुं विगतज्वरम्॥
नाम्ना फलघृतं ह्येतद्भारद्वाजेन निर्मितम्॥२५॥

बृहत्फलघृतम्। सुगमम्॥१८॥१९॥२०॥२१॥२२॥२३॥२४॥२५॥

सिद्धार्थकं वचां ब्राह्मीं शङ्खपुष्पीं विषाणिकाम्॥
पयस्यां मधुकं कुष्ठं तथा कटुकरोहिणीम्॥२६॥

सारित्रां त्रिफलां चैव चोरकं सुमनोलताम्॥
वृषपुष्पं समञ्जिष्टं देवदारु महौषधम्॥२७॥

पिप्पल्यौ भृङ्गराजं च निशां श्यामां सुवर्चलाम्॥
दशपूलमपामार्गमश्वगन्धां शतावरीम्॥२८॥

जलद्रोणे पचेदेतान्भागर्द्विपकै पृथक्॥
तत्कषायं परिस्राव्य घृतस्यार्थाटकं पचेत्॥२९॥

युक्त्या प्रदापयेदेतद्गायत्र्या चाभिमन्त्रितम्॥
द्विमासगर्भिणी नारी अष्टमासान्प्रयोजयेत्॥३०॥

सर्वज्ञं जनयेत्पुत्रं सर्वामयविवर्जितम्॥
अस्य प्रयोगात्कुक्षिस्थः स्फुटवाग्व्याहरत्यपि॥३१॥

योनिदुष्टाश्च या नार्यः शुक्रदुष्टाश्च ये नराः॥
वन्ध्या च लभते पुत्रं शूरं पण्डितमानिनम्॥३२॥

जगद्गदमूकं च पानादेव प्रशाम्यति॥
सप्तरात्रप्रयोगेण सुस्वरं कुरुते नरम्॥३३॥

मासत्रयोपयोगेन कुर्याच्छ्रतिधरं नरम्॥
नाग्निर्दहति तद्वेश्म न वज्रपुषहन्ति च॥
न तत्र म्रियते वालो यत्राऽऽस्ते सोमसज्ञितम्॥३४॥

सोमघृतम्॥२६॥२७॥२८॥२९॥३०॥३१॥३२॥३३॥३४॥

नीलोत्पलाद्यं वृतमाह—

नीलोत्पलोशीरमधूकष्टीद्राक्षाविदारीकुशपञ्चमूलैः॥
स्याज्जीवनीयैव घृतं विपक्वंशतावरीकारसदुग्धमिश्रम्॥३५॥
तच्छर्करापादयुतं प्रशस्तमसृग्दरे मारूतरक्तपित्तजे॥
क्षीणे बले रेतसि च प्रनष्टे कृच्छ्रे च पित्तप्रभवे च गुल्मे॥३६॥

मधूकस्य फलम्। कुशपञ्चमूलं तृणपञ्चमूलम्। शतावरीरसस्य प्रस्थाश्चत्वारः। क्षीरस्यैक प्रस्थः। द्विगुणं वा प्रत्येकम्। नीलोत्पलाद्यं घृतम्॥३९॥२६॥

आखोर्मासं सपदि बहुधा खण्डखण्डीकृतं य-
त्तैलं पाच्यं द्रवति नियतं यावदेतन्न सम्यक्॥
तत्तैलाक्तं वसनमनिशं योनिभागे दधाना
इन्ति व्रीडाकरभगफलं नात्र संदेहबुद्धिः॥३७॥

** आखोर्मासमिति।** मूषकगुडकस्यैकस्य मांसं दत्त्वा तैलं कुडवमात्रमेव मन्दं पचेत्॥३७॥

इति श्रीवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां चतुःषष्टितमो
योनिव्यापदधिकारः समाप्तः॥६४॥

<MISSING_FIG href="../../../books_images/U-IMG-1700111620image1.JPG"/>

अथ पञ्चषष्टितमः स्त्रीरोगाधिकारः।

<MISSING_FIG href="../../../books_images/U-IMG-1700111645image2.JPG"/>

संप्रति स्त्रीरोगस्तदधिकारात्॥

मधुकं शाकबीजं च पयस्या सुरदारुच॥
अश्मन्तकः कृष्णतिलास्तावल्ली शतावरी॥१॥

वृक्षादनी पयस्या च तथैवोत्पलसारिवा॥
अनन्ता सारिवा रास्नापद्मा मधुकमेव च॥२॥

बृहतीद्वयकाश्मर्यक्षीरिशुङ्गास्त्वचो घृतम्॥
पृथक्पर्णी बलाशिग्रुश्वदंष्ट्रामधुयष्टिकम्॥३॥

शुङ्गाटकं विसं द्राक्षा कसेरु मधुकं सिता॥
मासेषु सप्त योगाः स्युरर्घ श्लोकास्तु सप्तसु॥
804थाक्रमं प्रयोक्तव्या गर्भस्रावे पयोयुताः॥ ४॥

शाको महावृक्षः कर्कशमहापत्रः प्रसिद्धः। तस्य बीजम्। पयस्या, अर्कपुष्पी क्षीरविदारी वा क्षीरकाकोली वा। अश्मन्तकः कोविदारसदृशोऽम्लपत्रोऽम्ललोहितः। मालु आवा, इति लोके। ताम्रवल्ली रामतरुणी मञ्जिष्ठा वा। वृक्षादनी वन्दाकः। वृक्षफलंषुकेत्यपरे। तथैवेत्यस्य स्थाने सुश्रुते लता वेति पाठान्तरम्। लता दूर्वा मञ्जिष्ठा वा। प्रियंगुरिति ब्रह्मदेवः। उत्पलसारिवा श्यामलता। अनन्ता यवासकः। सारिवा, उत्पलसारिवा। पद्मा पद्मचारिणी। भार्गीत्यपरे पद्मा वा। बृहतीद्वयस्थाने क्वापि फलपाठो न युक्तः। सुश्रुते बृहत्यौ काश्मरी चापीति पाठात्स्थूलफला चणकबृहती च। क्षोरिशुङ्गाः क्षीरिवृक्षाणां वटादीनामविकसिताः प्रवालाः। त्वचः क्षीरिणामेव। एते योगाः कल्करूपाः। यथाक्रमं प्रथममासादारभ्य सप्तमासान्यावदनुक्रमेणेत्यर्थः। पयोयुता इति। चूर्णादिप्रयोग एते योगाः पयसा युताः प्रयोज्या इत्यर्थः॥१॥२॥३॥४॥

कपित्यबिल्वबृहतीपटोलीक्षुनिदिग्धिकाः॥
मूलानि क्षीरसिद्धानि दापयेद्भिषगष्टमे॥५॥

कपित्यादीनां सर्वेषां मूलानि क्षीरसिद्धान्यष्टमे मासि॥५॥

नवमे मधुकानन्तापयस्यासारिवाः पिबेत्॥

अयं योगः क्वाथः। किंवा मधुकादीनां कल्कं क्षीरेण पिबेत्। पयस्या क्षीरविदारी॥

पयस्तु दशमे गुण्ठ्याः मृतशीतं मशस्यते॥६॥

** पयस्तु दशम इति।** क्षीरं शुण्ठीपयस्याभ्यां सिद्धं स्याद्दशमे हितमिति सुश्रुतपाठे दशमे मासिशुण्टीपयस्याभ्यां क्षीरपाककल्पनया सिद्धं क्षीरं हितं भवति। अथवा सक्षीराः शुण्ठ्यादयः प्रशस्यन्ते। वाग्भटेऽप्येतैः सिद्धं क्षीरं प्रतिपादितम्॥

तथा च—

“कपित्थबिल्बृहतीपटोलेक्षुनिदिग्विकाः।
मूलैर्वृतं प्रयुञ्जीत क्षीरं मासे तथाऽष्टमे॥
नवमे सारिवानन्तापयस्यामधुयष्टिभिः।
योजयेद्दशमे मासि सिद्धं क्षीरं पयस्यया॥
अथवायष्टिमधुकनागरामरदारूभिः” इति॥६॥

सक्षीरा वा हिता शुण्ठी मधुकं देवदारु च॥
एवमाप्यायते गर्भस्तीव्रारुक्चोपशाम्यति॥ ७॥

सक्षीरेत्यादियोगेऽपि दशममासक इति। नवमदशममासकयोस्तु गर्भपुष्ट्यर्थमौषधं विधीयते॥७॥

समधुच्छागदुग्धेनकुलालकरकर्दमः॥
अवश्यं स्थापयेद्गर्भं चलितं पानयोगतः॥८॥

सुगमम्॥८॥

कुशकाशोरुवूकाणां मूलैर्गोक्षुरकस्य च॥
शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलनुत्परम्॥९॥

सुगमम्॥९॥

कमेरुशृङ्गाटकजीवनीयैः पद्मोत्पलैरण्डशतावरीभिः॥
सिद्धं पयः शर्करया विमिश्रं संस्थापयेद्गर्भमुदीर्णशूलम्॥१०॥

सुगमम्॥१०॥

कसेरुशृङ्गाटकपद्मकोत्पलं समुद्गयष्टीमधुकं सशर्करम्॥
सशलगर्भस्रुतिपीडिताङ्गना पयोविमिश्रं पयसाऽन्नभुक्पिबेत्॥११॥

** समुद्गयष्टीमधुकमिति।** मुद्गो मुद्गपर्णी। समुद्रपर्णीमधुकमिति तु पाठः सुगम एव.

पाठासुरससिंहास्यमयूरकुटजैः पृथक्॥
नाभिबस्तिभगालेपात्सुखं नारी प्रसूयते॥१२॥

सुरसा निर्गुण्डी। मयूरोऽपामार्गः। कुटजः स्वनामख्यातस्तरुः। मयूरकजटैरिति पाठे जटीमूलम्॥१२॥

परूषकशिफालेपः स्थिरामूलकृतोऽथवा॥
नाभिबस्तिभगाद्येषुमूढगर्भापकर्षणः॥१३॥

सुगमम्॥१३॥

मातुलुङ्गस्य मूलानि मधुकं मधुसंयुतम्॥
घृतेन सह पातव्यं सुखं नारी प्रसूयते⁺805पर्णी अपामार्गस्य वा पृथक्। नाभियोनिप्रलेपात्सा क्षिप्रमेव प्रसूयते ॥ २॥ इत्यधिकमत्र।")॥१४॥

सुगमम्॥१४॥

इन्द्रोऽमृ806तं च सोमश्च चित्रभानुश्चभामिनि॥
उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते॥१५॥

इदममृतमपां समुद्धृतं वै तब लघु गर्भमिमं विमुञ्चतु स्त्रि॥
तदनलपवनार्कवासवास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिम्॥ १६॥

मुक्ताः पाशा विपाशाश्चमुक्ताः सूर्येण रश्मयः॥
मुक्तः सर्वभयाद्गर्भ एह्येहि मा चिरं स्वाहा॥१७॥

केचिदाचार्या मन्त्रव्याख्यानं न कुर्वन्ति केचित्कुर्वन्ति तदाह—अमृतं समुद्रमथनोद्भूतम्। चित्रभानुरादित्यः। भामिनि हे वरस्त्रि। उच्चैःश्रवा अमृतमथनोत्पन्नस्तुरगः शक्रवाहनः। लघु शीघ्रम्। दिशन्तु प्रयच्छन्तु॥१५॥१६॥१७॥

जलं च्या807वनमन्त्रेण सप्तवाराभिमन्त्रितम्॥
पीत्वा प्रसूयते नारी दृष्ट्वा चोभयत्रिंशकम्॥१८॥

** जलं च्यावनमन्त्रेण सप्तवाराभिमन्त्रितम्।** पीत्वेति। प्रचारोऽयं वृन्दैनलिखितः। सुश्रुते तु च्यावनमन्त्रानुपशृणुयादित्युक्तम्॥ १८॥

*नाड्युतुवसुभिः पक्षदिगष्टादशभिरेव च॥
अर्कभुवनाब्धिसहितैरुभयत्रिंशकमाञ्चर्यम्॥१९॥

** **नाड्यः षोडश। ऋतवः षट्। वसवोऽष्टौ। पक्षौ द्वौ। दिशो दश स्वरूपतः अर्का द्वादश। भुवनानि चतुर्दश। अब्धयश्चत्वारः। एतेऽङ्का गणकस्यै(केनै)व नव कोष्ठकान्कृत्वा तदभ्यन्तरे लेख्याः। उभयञ्चदशकमपि चक्रेण दर्शितम्—

“वसुगुणाब्ध्येकबाणनवषट्सप्तयुगैः क्रमात्।
सर्वः पञ्चदश द्विस्तु त्रिंशकं नवकोष्ठके” इति।

एतद्वयं फलकादौ लिखित्वा दर्शयितव्यम्॥१९॥

कटुतुम्ब्यहिनिर्मोककृतवेधनसर्षपैः॥
कटुतैलान्वितैर्योनिधूपः पतत्यतेऽपराम्॥२०॥

कचवेष्टितयाऽङ्गुल्या घृष्टे कण्ठे सुखं पतत्यपरा॥
मूलेन लाङ्गलिक्याः संलिप्ते पाणिपादे वा॥२१॥

उपकुञ्चिकां पिप्पलीं च मदिरां लाभतः पिबेत्॥
सौवर्चलेन संयुक्तां योनिशूलनिवारिणीम्॥२२॥

सूताया हृच्छिरोबस्तिशूलं मक्कल्लसंज्ञितम्॥
यवक्षारं पिबेत्तत्र सर्पिषोष्णोदकेन वा॥२३॥

पिप्पल्यादिगणक्वाथं पिबेद्वा लवणान्वितम्॥२४॥
पारावतशकृत्पीतं शालितण्डुलवारिणा॥
गर्भपातानन्तरोत्थरक्तस्रावनिवारणम्॥२५॥

सुगमाः॥२०॥२१॥२२॥२३॥२४॥२५॥

अमृतानागरसहचरभद्रेत्कटपञ्चमूलजलदजलम्॥
शुतशीतं मधुयुक्तं निवारयति सूतिकातङ्कम्॥२६॥

भद्रेत्कटो भद्रवेकड इति ख्यातस्तरुः। किंवा भद्रं मुस्तकम्। इत्कटा, इत्कटाङ्कुरः। सूतिकातङ्कं गजाडिकामाहुः॥२६॥


* ख. पुस्तके—नाडयु१६तु६ वसुभिः ८पक्ष २ दिग १० ष्टादश १८ भिरेव च।अर्क १२ भुवना १४ ब्धि४ सहितैरुभयत्रिंशकेनाऽऽश्चर्यम्॥१॥

<MISSING_FIG href="../../../books_images/U-IMG-1700125584image3.JPG"/><MISSING_FIG href="../../../books_images/U-IMG-1700125625image4.JPG"/>

नाग ८ रामा ३ ब्धि ४ भिर्यन्त्रं तथा चन्द्र १ शर ५ ग्रहैः ९। रसा६ श्व ७ पक्षैः २ सूते स्त्री दृष्ट्वा पश्चदशोभयम्॥ २॥ इति पाठः॥


सहचरपुष्करवेतसमूलं वैकङ्कतदारुकुलत्थसमम्॥
जलन्त्रससैन्धवहिङ्ग्युतं सद्यो ज्वरसूतिकाशूलहरम्॥२७॥

वैकङ्कतं विकङ्कतमूलम्। विकङ्कतो वैकङ्कडिरिति लोके। जलं क्वाथः॥२७॥

दशमूलीरसः पूतः सद्यः सूतीरुजापहः॥
पञ्चमूलस्य वा क्वाथंतप्तलोहेन संयुतम्॥
सूतिकारोगनाशाय पिबेद्वा तद्धितां सुराम्॥२८॥

** तत्पलोहेन संयुतमिति।** तप्तलोहसंयोगात्क्वाथीकृतम्। तद्धितामिति। तेन प्रकारेण हिताम्। तेनेहापि तप्तलोहयोगः कार्य इति॥२८॥

वज्रकाञ्जिकमाह—

पिप्पली पिप्पलीमूलं चव्यं शुण्ठी यवानिका॥
जीरके द्वे हरिद्रे द्वे बिडं सौवर्चलं तथा॥२९॥

एतैरेवौषधैः पिष्टैरारनालं विपाचयेत्॥
आमवातहरं वृष्यं कफघ्नंवह्निदीपनम्॥३०॥

काञ्जिकं वज्रकं नाम स्त्रीणां बलविवर्धनम्॥
मक्कल्लशूलशमनं परं क्षीराभिवर्धनम्॥ ३१॥

पिप्पल्यादिद्रव्यस्य कर्षत्रयम्। काञ्जिकस्य शराव एकः। पानीयमप्यलमेवं प्रचारः। **चक्रस्त्वाह—**क्षीरपाकविधानेन काञ्जिकस्यापि साधनमिति॥२९॥३०॥३१॥

वनकर्पासिकेक्षूणां मूलं सौवीरकेण वा॥३२॥
विदारिकन्दं सुरया पिवेद्वा स्तन्यवर्धनम्॥
हरिद्रादिं वचादिं वा पिबेत्स्तन्यविशुद्धये॥३३॥

सुगमम्॥३२॥३३॥

तत्र वातात्मके स्तन्ये दशमूलीजलं पिबेत्॥
पित्तदुष्टेऽमृताभीरुपटोलीनिम्बचन्दनम्॥
धात्री कुमारश्च पिबेत्क्वाथयित्वा ससारिवम्॥ ३४॥

ससारिवमित्यत्र स्थाने सशर्करमिति पाठान्तरम्। कफदुष्टस्तन्ये तु कफहरो विधिरुच्यते॥ ३४॥

शोफं स्तनोत्थितमवेक्ष्य भिषग्विदध्या-
द्यद्विद्रधावभिहितं बहुधा विधानम्॥

सुगमम्॥

आमे विदह्यति तथैव गते च पाकं
तस्याः स्तनौ सततमेव हि निर्दुहीत॥ ३५॥

** **आमे विदग्धतापरिहाराय विदह्यति विदाहिनि पाकपरिहाराय पक्वेनाडीव्रणपरिहाराय स्तनौ निर्दुहीत॥३५॥

विशालामूललेपस्तु हन्ति पीडां स्तनोत्थिताम्॥३६॥

सुगमम्॥३६॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां पञ्चषष्टितमः
स्त्रीरोगाधिकारः समाप्तः॥६५॥

<MISSING_FIG href="../../../books_images/U-IMG-1700129989image1.JPG"/>

अथ षट्षष्टितमो बालरोगाधिकारः।

<MISSING_FIG href="../../../books_images/U-IMG-1700130016image2.JPG"/>

दुष्टस्तन्यपानाद्वालानां रोगसंभवादनन्तरं बालरोगाधिकारः। तत्र प्राशस्त्यादादौस्वस्थ एव बाले विधिमाह—

कुष्ठं वचाऽभया ब्राह्मी कनकं क्षौद्रसर्पिषा॥
वर्णायुष्कान्तिजननं लेहं बालस्य दापयेत्॥

कनकं स्वर्णचूर्णम्। लेहोऽयं जातदिने तदुपरि च प्रचरति। हिरण्याख्यवर्णादिकरलेहान्तरस्य संवत्सरं यावदुपयोग उक्तः।

यथा—

“ब्राह्म्यन्तो(न्तं) हेमचूर्णं च समं कृत्वा निधापयेत्।
घृतेन पाययेन्मात्रां तस्य संवत्सरं शिशुम्” इति॥

** बालस्य भैषज्यमात्रां विश्वामित्रः** प्राह—

“विडङ्गफलमात्रं तु जातमात्रस्य भेषजम्।
एतेनैव प्रमाणेन मासि मासि प्रवर्धते॥
कोलास्थिमात्रं क्षीरादे दद्याद्भैषज्यकोविदः।
क्षीरान्नादे कोलमात्रं कुमारे भेषजं हितम्॥
अन्नादे मधुसर्पिर्भ्यां ह्रस्वोदुम्बरसंमितम्” इति॥

स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिबेत्॥१॥

** तद्गुणमिति।** संस्कारेण लघुतमम्॥१॥

मृत्पिण्डेनाग्नितप्तेन क्षीरसिक्तेन सोष्मणा॥
स्वेदयेदुच्छ्रितां नाभिं शोफस्तेनोपशाम्यति॥२॥

नाभिपाके808 []808 निशालो808ध्रप्रियङ्गुमधुकैः शृतम्॥
तैलमभ्यञ्जने शस्तमेभिर्वाऽप्यवचूर्णितम्॥३॥

॥ २॥ ३॥

हरिद्राद्वययष्ट्याह्व809सिंहीशक्रयवैः कृतः॥
शिशोर्ज्वरातिसारघ्नः कषायः स्तन्यदोषजित्॥४॥

** **सिंही पृश्निपर्णी। हरिद्रादिगणो ह्येष श्लोकेन निम्बस्तत्र कलशीति पठिता (?)। यस्तु क्षीरपः कषायं पातुमक्षमस्तस्य धात्रीं पाययेत। कषायोक्तद्रव्यस्य कल्केन लिप्तस्तनपानमपि दर्शितं सुश्रुतेन।

तद्यथा—

“येषां गदानां ये योगाः प्रवक्ष्यन्तेऽगदंकराः।
तेषु तत्कल्कसंलिप्तौ कुमारं पाययेस्तनौ” इति॥४॥
घनकृष्णारुणाशृङ्गीचूर्णं क्षौद्रेण संयुतम्॥
शिशोर्ज्वरातिसारघ्नंकासश्वासवमीहरम्॥५॥

अरुणाऽतिविषा॥५॥

धातकीबिल्वधान्याकलोध्रेन्द्रयववालकैः॥
लेहः क्षौद्रेण बालानां ज्वरातीसारवान्तिनुत्॥६॥

लोध्रंलतावल्कं तनुत्वक्त(न तु त)रुवल्कं तस्य विरेचकत्वात्॥६॥

रजनीदारुसरलश्रेयसीबृहतीद्वयम्॥
पृश्निपर्णी शताह्वाच लीढं माक्षिकसर्पिषा॥७॥
ग्रहणीदीपनं हन्ति मारुतार्ति सकामलाम्॥
ज्वरातीसारपाण्डुत्वं बालानां सर्वरोगजित्॥८॥

श्रेयसी हस्तिपिप्पली॥७॥८॥

मिशिकृष्णाञ्जनैर्लाजशृङ्गीमरिचमाक्षिकैः॥
लेहः शिशोर्विधातव्यश्छर्दिकासज्वरापहः॥९॥

** मिशिकृष्णाञ्जनैरिति।** मिशिर्मधुरिका॥९॥

शङ्गी समुस्तातिविषां विचूर्ण्य लेहं विदध्यान्मधुना शिशूनाम्॥
कासज्वरच्छर्दिभिरर्दितानां समाक्षिकां वाऽतिविषामथैकाम्॥१०॥

सुगमम्॥ १०॥

आम्रास्थिलाजसिन्धूत्थैर्लेहः क्षौद्रेण च्छर्दिनुत्॥११॥
पीतं पीतं वमेद्यस्तु स्तन्यं तं मधुसर्पिषा॥
द्विवार्ताकीफलरसं पञ्चकोलं च लेहयेत्॥१२॥

द्विवार्ताकीफलरसं पञ्चकोलं चेत्येको योगः। द्विवार्ताकी बृहतीद्वयम्॥११॥१२॥ज्वरे विशेषमाह—

एकद्वित्राणि घस्राणि वातपित्तकफज्वरे॥
क्षीरपस्याहि810तं सर्पिरन्ययोर्मध्यदेवत्॥१३॥

स्तन्यपायाहि811तं सर्पिरितराभ्यां यथार्थत इति डल्लणपाठः। स्तन्यपायाहि811तं सर्पिर्धात्र्यादत्तमिति वाक्यशेषः। इतराभ्यां क्षीरादान्नादाभ्यां यथार्थतो यथाप्रयोजनतो हितं सर्पिरित्यर्थः॥ १३॥

बिल्वं च पुष्पाणि च धातकीनां जलं सलोध्रंगजपिप्पली च॥
क्वाथावलेहौमधुना विमिश्रौबालेयोज्यावतिसारितेषु॥ १४॥

** जलं सलोध्रमिति।** जलं वालकम्॥१४॥

समङ्गाधातकीलोध्रसारिवाभिः शृतं जलम्॥
दुर्धरेऽपि शिशोर्देयमतिसारे समाक्षिकम्॥१५॥

नागरातिविषामुस्ताबालकेन्द्रयवैः श्रुतम्॥
कुमारं पाययेत्प्रातः सर्वातीसारनाशनम्॥१६॥

मोचरसः समङ्गा च धातकी पद्मकेसरम्॥
पिष्टैरेतैर्यवागूः स्याद्रक्तातीसारनाशिनी॥१७॥

कल्कः प्रियङ्गुकोलास्थिमध्यमुस्तरसाञ्जनैः॥
क्षौद्रलीढःकुमारस्य च्छर्दिस्तृष्णातिसारनुत्॥ १८॥

लेहस्तैलसिताक्षौद्रतिलयष्ट्याह्वकल्कितः॥
बालस्य रुन्ध्यान्नियतं रक्तास्रावं प्रवाहिकाम्॥१९॥

** रक्तास्रावं प्रवाहिकामिति।** प्रवाहिकायामेव यत्र रक्तस्रुतिस्तत्रायं योगो न तु केवलरक्तस्त्रावे तैलतिलयोस्तीक्ष्णयोस्तथा(द)नर्हत्वात्॥१५॥१६॥१७॥१८॥१९॥

लाजा सयष्टिमधुकं शर्करा क्षौद्रमेव च॥
तण्डुलोदकसंयुक्तं क्षिप्रं हन्ति प्रवाहिकाम्॥२०॥

गुदपाके तु बालानां पित्तघ्नींकारयेत्क्रियाम्॥
रसाञ्जनं विशेषेण पानाभ्यञ्जन812योर्हितम्॥२१॥

कणोषणसिताक्षौद्रसूक्ष्मैलासैन्धवैः कृतः॥
मूत्रग्रहे प्रयोक्तव्यः शिशूनां लेह उत्तमः॥२२॥

घृतेन सिन्धुविश्वैलाहिङ्गुभार्गीरजो लिहन्॥
आनाहं वातिकं शूलं जयेत्तोयेन वा शिशुः॥२३॥

सुगमम्॥२०॥२१॥२२॥२३॥

हरीतकीवचाकुष्ठकल्कं माक्षिकसंयुतम्॥
पीत्वा कुमारः स्तन्येन मुच्यते तालुपातनात्॥२४॥

सुगमम्॥२४॥

गृहधूमनिशाकुष्ठराजिकेन्द्रयवैः शिशोः॥
लेपस्तक्रेण हन्त्याशु सिध्मपामाविचर्चिकाः॥२५॥

सुगमम्॥२५॥

पञ्चमूलीकषायेण सघृतेन पयः शृतम्॥
सशृङ्गवेरं सगुडंशीतं हिक्कार्दितः पिबेत्॥२६॥

पञ्चमूली महत्यत्र। कफवातहरत्वात्। घृतमिह पानकाले प्रयोक्तव्यम्813॥ २६॥

द्राक्षायासाभयाकृष्णाचूर्णं सक्षौद्रसर्पिषा॥
लीढं श्वासं निहन्त्याशु कासं च तमकं तथा॥२७॥

सुगमम्॥२७॥

पुष्करातिविषाशृङ्गीमागधीधन्वयासकैः॥
चूर्णं तु मधुना लीढंबालानांपञ्चकासजित्॥२८॥

सुगमम्॥२८॥

भैषज्यं पूर्वमुद्दिष्टं महतां यज्ज्वरादिषु॥
कार्यं गदेषु बालानां तेषु दाहादिकं विना॥२९॥

** दाहादिकं विनेति।** अग्निक्षारवमनविरेचनशिराव्यधनादिकं विनेत्यर्थः। अतियातिनि रोगे तु दाहादिकमपि कर्तव्यम्। यदाह सुश्रुतः—“न दद्याद्वस्तिवमनविरेकांश्चात्ययादृते” इति॥२९॥

त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च ते॥
अतस्तदेव भैषज्यं मात्रा त्वस्य कनीयसी॥३०॥

सुगमम्॥३०॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्ध योगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां षट्षष्टितमो
बालरोगाधिकारः समाप्तः॥६६॥

अथ सप्तषष्टितमो बालग्रहाधिकारः।

<MISSING_FIG href="../../../books_images/U-IMG-1700722085image2.JPG"/>

अतः परं ग्रहोपसर्गचिकित्सामाह—

सहामुण्डितिकोदीच्यक्वाथस्नानं ग्रहापहम्॥

** सहामुण्डितिकेति।** सहा माषपर्णी। ग्रहप्रभावेण ग्रहाविष्टे बाले वाय्वादिदोषाः कुप्यन्तीति तत्प्रतिषेधार्थं सहादिक्वाथस्नानं कार्यम्। अथवा सहादिक्वाथः स्वभावेन ग्रहावेशमपि निवर्तयति। अचिन्त्यशक्तित्वात्। यतोऽचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव इति। सर्वग्रहाणां सामान्यविधिः सुश्रुतोक्तो यथा—

“ग्रहे पुराणे हविषाऽभ्यज्य बालं शुचौ शुचिः।
सर्षपान्प्रकिरेत्तेषां तैले दीपं च कारयेत्”॥

शुचौ पवित्रे देशे। शुचिर्भिषगिति शेषः। तेषां तैले सर्षपाणां तैले दीपं प्रज्वालयेदित्यर्थः॥

सप्तच्छदामयनिशाचन्दनैश्चानुलेपनम्॥१॥

सुगमम्॥१॥

सर्पत्वग्लशुनं मूर्वा सर्षपारिष्टपल्लवाः॥
बिडालविडजालोम मेषशृङ्गी वचा मधु॥
धूपः शिशोर्ज्वरघ्नोऽयमशेषग्रहनाशनः॥२॥

मेषशृङ्ग्यजशृङ्गी छगलविषाणिका। उत्तरवारुणीति लोके॥२॥

बलिशान्तीष्टिक814र्माणि कार्याणि ग्रहशान्तये॥३॥

** बलिशान्तीष्टिकर्माणीति।** बलिकर्म शुचिना वैद्येन कृतस्नानेन शस्त्रहस्तेन रात्रौं कर्तव्यम्। तदुक्तम्—‘सोपवासः शुचिर्नक्तं सशस्त्रो निर्हरेटूलिम्’ इति॥३॥

मन्त्रश्चायं प्रयोक्तव्यस्तत्राऽऽदौ सार्वकार्मि(मि)कः॥

ॐ नमो भगवते गरुडाय त्र्यम्बकाय ॐ सत्यं सत्यवते स्वाहा ॐ
कं टं यं शं वैनतेयाय नमः। ॐ ह्रांह्रीं क्षः॥४॥

** सार्वकार्मि(मि)क इति।** मन्त्राणामचिन्त्यशक्तित्वात्। तत्राऽऽदावित्यस्य स्थाने सूत्रादाविति पाठान्तरे बालस्य हस्ते कट्यां च सूत्रबन्धादावित्यर्थः॥४॥

बालदेहप्रमाणेन पुष्पमालां तु सर्वतः॥
प्रगृह्य मुष्टिकाभक्तं बलिर्देयस्तु शान्तिकः॥
ओंकारी स्वर्ण815पक्षी बालकं रक्ष रक्ष स्वाहा॥५॥

अपरोऽप्ययं भक्तशरावदानमन्त्रः सद्भिः स्मृत इत्यधिकः क्वापि पाठः॥५॥

वचाकुष्ठं तथा ब्राह्मी सिद्धार्थकमथापि वा
सारिवा सैन्धवं चैव पिप्पली घृतमष्टमम्॥६॥

मेध्यं घृतमिदं सिद्धं पातव्यं च दिने दिने॥
दृढस्मृतिः क्षिप्रमेधाः कुमारोबुद्धिमान्भवेत्॥७॥

न पिशाचा न रक्षांसि न भूता न च मातरः॥
प्रबाधन्ते816 कुमाराणां पिबतामष्टमङ्गलम्॥८॥

सुगमम्। अष्टमङ्गलं घृतम्॥६॥७॥८॥

पादकल्केऽश्वगन्धायाः क्षीरे दशगुणे पचेत्॥
घृतं पेयं कुमाराणां पुष्टिकृब्दलवर्धनम्॥९॥

सुगमम्। अश्वगन्धाद्यं घृतम्॥९॥

लाक्षारससमं सिद्धं तैलं मस्तुचतुर्गुणम्॥
रास्नाचन्दनकुष्ठाब्दवाजिगन्धानिशायुगैः॥१०॥

शताह्वादारुयष्ट्याह्वमूर्वातिक्ताहरेणुभिः॥
बालानां ज्वररक्षोघ्नमभ्यङ्गाब्दलवर्णकृत्॥११॥

सुगमम्। लाक्षाद्यं तैलम्॥१०॥११॥

पिष्ट्वा कर्कटकं तैलं सक्षीरं साधितं तु तत्॥
पादाभ्यङ्गेन बालस्य दन्तध्वनिनिवारणम्॥१२॥

सुगमम्॥१२॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां सप्तषष्टितमो
बालग्रहाधिकारः समाप्तः॥६७॥

<MISSING_FIG href="../../../books_images/U-IMG-1700724286image1.JPG"/>

अथाष्टषष्टितमो विषाधिकारः।

<MISSING_FIG href="../../../books_images/U-IMG-1700724314image2.JPG"/>

बालस्याज्ञानाद्विषोपघातस्यापि संभवाद्विषचिकित्सितम्—

मूलं तण्डुलवारिणा पिबति यः प्रत्यङ्गिरासंभवं
निष्पिष्टं शुचिभद्रयोगदिवसे तस्याहिभीतिः कुतः॥
दर्पादेव फणी यदा दशति तं मोहान्वितो मूलपं817
स्थाने तत्र तदैव818 याति नियतं वक्त्रं819 यमस्याचिरात्॥ १॥

** प्रत्यङ्गिरासंभवमिति।** प्रत्यङ्गिरा कण्टकशिरीषः। स्वल्पहिंस्रेत्यन्ये। पूर्वेण प्रचारः। शुचिभद्रयोगदिवस इति। शुचेराषाढस्य शुभयोगनक्षत्रादिके दिने॥१॥

मयूरं निम्बपत्राभ्यां खादेन्मेषगते रवौ॥
अब्दमेकं न भीतिः स्याद्विषार्तस्य न संशयः॥२॥

मयूरं निम्बपत्राभ्यामिति। मयूरगुडकमेकं निम्बस्य द्वे पत्रे संख्याविशेषस्यापि प्रयोजकत्वात्। तृतीया च सहयोगे। मेषगते रवौ वैशाखे मासि॥२॥

दंशस्योपरि बन्धीयात्तत्क्षणाच्चतुरङ्गुले॥
क्षौमादिभिर्वेणिकया सिद्धैर्मन्त्रैश्च मन्त्रवित्॥३॥

सुगमम्॥३॥

अम्बुवत्सेतुबन्धेन बन्धेन स्तभ्यते विषम्॥
न वहन्ति शिराश्वास्य मर्मसंधिगता अपि॥
न जायते विषोद्वेगो बीजनाशादिवाङ्कुरः॥४॥

सुगमम्॥४॥

सत्त्वमालम्ब्य दष्टव्यस्तत्क्षणादुरगो रिपुः॥
*कोमलं वा यदन्यच्च पेयं शीतं घृतं गवाम्॥५॥

दष्टेन पुरुषेण सत्त्वमालम्ब्य हस्ताभ्यामुपसंगृह्य पुच्छे वक्त्रे च सर्पः सम्यग्दष्टव्यस्तद्भक्षणं तु तत्रैव संक्रमणहेतुरित्यर्थः। तथा चाऽऽलम्बायनः—

“संगृह्य सर्पं हस्ताभ्यां पुच्छे वक्त्रे च सात्त्विकः।
स दष्टव्यस्ततः सर्पो द्वित्रिश्चतुरथापि च॥
तत्र संक्रामति विषं दष्टो नैव विषायते।
व्यवसायद्वितीयानां नास्त्यसाध्यं कृतात्मनाम्” इति॥

** कोमलं यदन्यदपीति।** कूष्माण्डफलादि। पेयं शीतं गवां घृतम्॥५॥

वाच्यो वा नीलकण्ठोऽहं ध्येया वा गारुडी तनुः॥

सुगमम्॥

शून्यताध्यानमात्रेण शून्यतां याति तद्विषम्॥६॥

सुगमम्॥६॥

श्लेष्मणः कर्णगूथस्य वामानामिकया कृतः॥
लेपो हन्याद्विषं घोरं नृमूत्रासेचनं तथा॥७॥

श्लेष्मणः कर्णगूथकस्य पृथग्लेपः॥७॥

कुलिकमूलनस्येन कालदष्टोऽपि जीवति॥८॥

** कुलिकमूलनस्येनेति।** कुलिकः स्वल्पहिंस्रा॥८॥

पिण्डीतगरकमूलं पुष्येणोत्पाट्ययोजितं दंशे॥
मृतमपि दष्टकपुरुषं चालयतीत्यत्र नो चित्रम्॥९॥

सुगमम्॥९॥

शिरीषपत्रस्व820रसे सप्ताहं परिचं सितम्॥
भावितं सर्पदष्टानां पाने नस्याञ्जने हितम्॥१०॥

नक्तमालफलव्योषबिल्वमूलनिशाद्वयम्॥
सौरसं पुष्पमार्जंच मूत्रं बोधनमञ्जनम्॥११॥

** सौरसं पुष्पमार्ज च मूत्रमिति।** सुरसः सिन्दुवारः। आर्जः श्वेतपर्णासः। अस्यापि पुष्पम्। मूत्रं तु मानुषम्। मानुषं तु विषापहमिति वचनात्॥१०॥११॥

वन्ध्याकर्कोटकीपूलं छागमू821त्रेण भावितम्॥
नस्यं काञ्जिकसंपिष्टं विषोपहतचेतसः॥ १२॥

सुगमम्॥ १२॥

इदानीमगदकोशमाह—

त्रिवृद्विशल्या मधुकं हरिद्रे माञ्जिष्ठवर्गो लवणं च सर्वम्॥
कटुत्रिकं चैव विचूर्णितानि शृङ्गे निदध्यान्मधुसंयुतानि॥ १३॥

एषोऽगदो हन्त्युपयुज्यमानः पानाञ्जनाभ्यञ्जननस्ययोगैः॥
अवार्यवीर्यो विषवेगहन्ता महागदो नाम महाप्रभावः॥ १४॥

** त्रिवृन्त्रिभण्डी।** विशल्या दन्ती काष्ठपटेला वा। विशालेति पाठान्तरं सुबोधम्। मञ्जिष्ठासहितो वर्गो माञ्जिष्ठवर्गः। अत्रोक्तत्रिवृतादिरेव वर्गः। रक्ता नरेन्द्रो लवणश्च वर्ग इति तु पाठः सुश्रुते। तत्र रक्ता मञ्जिष्ठा नरेन्द्रः कृतमालकः। **शृङ्ग इति।**गोशृङ्गे प्रधानकल्पनया शृङ्गेऽवस्थापनं च पक्षम्। अतः परस्मिन्योगे पक्षमुपेक्षिते वेति वचनात्। अवार्यवीर्योऽप्रतिहतशक्तिः। महाप्रभावग्रहणेनैतज्ज्ञापयति न कदाचिदस्य प्रतिहन्यते शक्तिः॥ १३॥ १४॥

कटभ्यर्जुनसैरेय822शेलुक्षीरिद्रुमत्वचः॥
कषायकल्कचूर्णाः स्युः कीटलूताव्रणापहाः॥१५॥

सुगमम्॥१५॥

आगारधूममञ्जिष्ठारजनीलवणोत्तमैः॥
लेपो जयत्याखुविषं कर्णिकायाश्च पातनम्॥१६॥

** कर्णिकायाश्च पातनमिति।** कर्णिकाऽऽखुविषकृता मांसकन्दी वरट्यादिकीटवक्त्रशुङ्गो वा॥१६॥

यः कासमर्दमूलं वदनेप्रक्षिप्य कर्णफूत्कारम्॥
मनुजो ददाति शीघ्रं जयति विषं वृश्चिकानां सः॥१७॥

सुगमम्॥१७॥

रजनीसैन्धवक्षौद्रसंयुक्तं घृतमुत्तमम्॥
पानं मूलविषार्तस्य दिग्धविद्धस्य चेष्यते॥१८॥

** दिग्धविद्धस्येति।** दिग्धो विषाक्तो बाणः॥१८॥

चतुष्पाद्भिर्द्विपाद्भिर्वा नखदन्तक्षतं तु यत्॥
शूयते पच्यते चापि स्रवति ज्वरयत्यपि॥१९॥

** द्विपाद्भिरित** (वचनं)। मानुषवानरादिभिः॥१९॥

सोमवल्कोऽश्वकर्णश्चगोजिह्वाहंसपाद्यपि॥
रजन्यौ गैरिकं लेपो नखदन्तविषापहः॥२०॥

** सोमवल्कोऽश्वकर्णश्चेति।** सोमवल्कः कट्फलः। अश्वकर्णः शालभेदो गर्दभाण्डो वा। गोजिह्वा दार्वीपत्रिका। हंसपादी स्वनामख्याता॥२०॥

दशाङ्गमगदमाह—

वचाहिङ्गुविडङ्गानि सैन्धवं गजपिप्पली॥
पाठा प्रतिविषा व्योषं काश्यपेन विनिर्मितम्॥
दशाङ्गमगदं पीत्वा सर्वकीटविषं जयेत्॥२१॥

अयमगदः कल्कश्चूर्णो वा॥२१॥

कीटदष्टक्रियाः सर्वाः समानाः स्युर्जलौकसाम्॥२२॥

** जलौकसामिति।** सविषाणामिन्द्रायुधादीनां षण्णाम्॥२२॥

छत्री झर्झरपाणिश्च823 चरेद्रात्रौ तथा दिवा॥
तच्छायाशब्दसंत्र824स्ताः प्रणश्यन्तीह पन्नगाः॥२३॥

वृत्यादि….चरेदिति ब्रुवते सज्वारः….इति ख्यातः। **तच्छायाशब्दसंत्रस्ता इति।**छत्रस्य च्छाया झर्झरस्य शब्दस्ताभ्यां संत्रस्ताः प्रणश्यन्त्यपयान्ति॥२३॥

सोत्कम्पः पुलकावृतः प्रति मुहुर्वक्त्रं समालोकते
दन्तेनाधरपल्लवं दशति चेत्सीत्कान्वितं कृज825ति॥
यस्तापं जडतां च याति नितरां दष्टः स उत्कण्ठतें
र(ग)न्तुं त्वस्थिशलामलाम्बरवतीं रौद्रां श्मशानस्थलीम्॥२४॥

** सीत्कान्वितं कूजतीति।** सीत्कारान्वितं यथा स्यात्तथा कूजतीत्यर्थः॥२४॥

विरुद्धाध्यशनक्रोधक्षुद्भयोष्णं च मै826थुनम्॥
वर्जयेद्विषमुक्तोऽपि दिवास्वप्नंविशेषतः॥ २५॥

विषदूषितस्य वर्ज्यानि सुश्रुतेनोक्तानि।

तद्यथा—

“दिवास्वप्नं व्यवायं च व्यायामं क्रोधमातपम्।
सुरातिलकुलत्यांश्च वर्जयेद्विषषितः॥
फाणितं शिग्रुसौवीरमजीर्णाध्यशनं तथा।
वर्जयेच्च समासेन नवधान्यादिकं गणम्”॥

कुलत्थांश्चेत्यत्र चकारेण पिण्याकमूलकलशुनकलायकुसुम्भातसीशिशुमारकूर्मनिष्पावजब्वाम्रातकचूतादिकानि च वर्जयेत्॥२५॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामष्टषष्टितमो
विषरोगाधिकारः समाप्तः॥६८॥

<MISSING_FIG href="../../../books_images/U-IMG-1700754768image1.JPG"/>

अथैकोनसप्ततितमो रसायनाधिकारः।

<MISSING_FIG href="../../../books_images/U-IMG-1700754795image2.JPG"/>

इदानीं रसायनाधिकारः प्रारभ्यते। द्विविधमौषधं व्याधितस्य व्याधिहरं स्वस्थस्योर्जस्करं च। स्वस्थस्योर्जस्करमपि द्विविधं रसायनं वाजीकरणं च।

यदाह चरकः

“स्वस्थस्योर्जस्करं किंचित्किंचिदार्तस्य रोगजित्।
स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम्” इति।

व्याधितव्याधिहरस्योक्तत्वात्संप्रति स्वस्थस्योर्जस्करविधिः। तत्राप्यायुरादिप्रकर्षकरत्वेन प्राधान्यादग्रेरसायनमाह—

यज्जराव्याधिविध्वंसि भेषजं तद्रसायनम्॥

जराव्याधिविध्वंसिजराव्याध्युत्पत्तिप्रतिबन्धकम्। आयुर्मेधाप्रकर्षकराणां रसादीनामयनमुपायो रसायनम्। तदुक्तं चरके—“लाभोपायो हि धातूनां रसादीनां रसायनम्” इति।

** अत्र श्रीब्रह्मदेवव्याख्यानम्—**श्रेष्ठानां रसादीनां शुक्रान्तानां धातूनामयनमाप्यायनम्। अथवा भेषजाश्रितानां रसवीर्यविपाकप्रभावाणामायुर्वर्णवीर्यदार्ढ्यवयःस्थैर्यकराणामयनं लाभोपायो रसायनं वर्धकं स्थापकमप्राप्तप्रापकं चेति। द्विविधं रसायनं कुटीप्रावेशिकं वातातपिकं च। पुनश्च त्रिविधं काम्यं नैमित्तिकमाजस्त्रिकं च। मेधाकामः श्रीकाम इत्यादि काम्यम्। नैमित्तिकं व्याधेर्निमित्तं शिलाजतुमल्लातकतुवरकादि। आजस्त्रिकं क्षीरघृताभ्यासादिकमिति॥

पूर्वे वयसि मध्ये वा शुद्धकायः समाचरेत्॥१॥

** पूर्व इति।** यौवनप्रवेश एव मध्ये यौवनशेषे। बालो हि भेषजवेगासहत्वेन रसायनस्याविषयः। वृद्धस्य(श्च) जरापक्वशरीरस्य व्यर्थमेव रसायनमिति वचनादविषयः। पूर्वं वयो मध्यं च मुख्यो विषयस्तेन क्वापि वृद्धोऽपि विषयः। यदुक्तम्—‘अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत्पुनर्युवा’ इति। शुद्धकायः कृतवमनविरेचनः॥१॥

अविशुद्धशरीरस्य युक्तो रासायनो विधिः॥
न भाति वाससि क्लिष्टे रङ्गयोग इवार्पितः॥२॥

न भाति न दीप्यते यथा मलिने वस्त्रे रङ्गः। मलिनं हि वस्त्रं न रज्यते॥२॥

सिन्धुत्थशर्कराशुण्ठीकणामधुगुडैःऋमात्827
वर्षादिष्वभयासेव्या र828सायनगुणैषिणा॥३॥

सुगमम्॥३॥

त्रैफलेनाऽऽयसीं पात्रींकल्केनाऽऽलेपयेन्नवाम्॥
तमाहोरात्रिकं लेपं पिबेत्क्षौद्रोदकाप्लुतम्॥४॥
प्रभूतस्त्रेहमशनं जीर्णे तस्मिन्प्रयोजयेत्॥
अजरोऽरुक्समाभ्यासाज्जीवेच्चापि समाः शतम्॥५॥

** आयसीं पात्रमिति।** कान्तलोहमयीं पात्रीम्। नवां विमलाम्॥४॥५॥

मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्॥
रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः॥६॥
आयुष्प्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि॥
मेध्यानि चैतानि रसायनानि मध्या विशेषेण तु शङ्खपुष्पी॥७॥

मण्डूकपर्ण्या इत्यादि योगचतुष्टयम्। मण्डूकपर्णीस्वरसः प्रयोज्यः। दुग्धेन मधुयष्टीचूर्णेप्रयोज्यम्। समूलपुष्प्या इति विशेषणं गुडूच्याः शङ्खपुष्प्या वा। अरुणदत्तस्त्वेवं व्याचष्टे। गुडूच्या रसं प्रयुञ्जीत। तथा सह मूलपुष्पाभ्यां वर्तते समूलपुष्पा तस्याः शङ्खपुष्प्याश्च कल्कं प्रयुञ्जीत। एतानि रसायनान्यायुष्प्रदानि रोगघ्नानि बलादिवर्धनानि मेधायै हितानि च। अतिशयेन शङ्खपुष्पी मेध्या। उपजातिवृत्ते॥६॥७॥

ये मासमेकं स्वरसं पिबन्ति दिने दिने भृङ्गरजः समुत्थम्॥
क्षीराशिनस्ते बलवर्णयुक्ताः समाः शतं जीवितमाप्नुवन्ति॥८॥

ये मार्कवस्वरसमनुदिनं मासं यावत्पिबन्ति दुग्धभोजनाः सन्तस्ते बलवर्णयुक्ता वर्षशतं जीवितमश्नुवते। भृङ्गरजःसमुत्थमिति निर्देशो भृङ्गरजःशब्दस्य सकारान्तत्वात्साधुः॥८॥

असिततिलविमिश्रान्पल्लवान्भक्षयेद्यः
सततमिह प829योशी भृङ्गराजस्य मासम्॥
भवति स चिरजीवी व्याधिभिर्विभयुक्तो
भ्रमरसदृशकेशः कामचारी मनुष्यः॥९॥

सुगमम्॥९॥

पीताऽश्वगन्धा पयसाऽर्धमासं घृतेन तैलेन सुखाम्बुना वा॥
कृशस्य पुष्टिं वपुषो बिभर्ति बालस्य सस्यस्य यथाऽम्बुदृष्टिः॥१०॥

सुगमम्॥१०॥

धात्रीतिलान्भृङ्गरजोविमिश्रान्ये भक्षयेयुर्मनुजाः क्रमेण॥
ते कृष्णकेशा विमलेन्द्रियाश्च निर्व्याधयोऽप्यामरणाद्भवेयुः॥११॥

** मनुजाः क्रमेणेति।** क्रमेण रसायनविधिक्रमेण॥११॥

मासंवचामप्युपसेवमानाः क्षीरेण तैलेन घृतेन वाऽपि॥
भवन्ति रक्षोभिरधुष्यरूपा मेधाविनो निर्मलमृष्टवाचः॥१२॥

वचां च मासं क्षीराद्यन्यतमेनोपयुञ्जाना राक्षसैरनुपद्रुतरूपा मेधावन्तो निर्मलमृष्टवाचश्च स्युः॥१२॥

वृद्धदारुकमूलानि सूक्ष्मचूर्णानि कारयेत्॥
शतावर्या रसेनैव सप्तवारांश्च भावयेत्॥१३॥

अक्षमात्रं तु तच्चूर्णं सर्पिषा सह योजयेत्॥
मासमात्रोपयोगेन मतिमाञ्जायते नरः॥
मेधावी स्मृतिमांश्चैव वलीपलितवर्जितः॥१४॥

सुगमम्॥१३॥१४॥

हस्तिकर्णरजः खादेत्प्रातरुत्थाय सर्पिषा॥
यथेष्टाहारचारोऽपि सहस्रायुर्भवेन्नरः॥१५॥

मेधावी बलवान्कामी स्त्रीशतानि व्रजत्यसौ॥
मधुना त्वश्ववेगः स्याब्दलिष्ठः स्त्रीसहस्रगः॥१६॥

** हस्तिकर्णरजः खादेदिति।** हस्तिकर्ण[रजः] पलाशमूलचूर्णम्॥१९॥१६॥

अयं मन्त्रः प्रयोक्तव्यो भिषजा चाभिमन्त्रणे॥

ॐ नमो वि830नायकाय अमृतं रक्ष रक्ष मम फलसिद्धिं
देहि देहि रुद्रवचनेन स्वाहा॥१७॥

ॐ नम इत्यादिमन्त्रो हस्तिकर्णेत्यादियोगविषय एव॥१७॥

पुनर्नवस्यार्धपलं नवस्य पिष्टं पिबेद्यः पयसाऽर्धमासम्॥
मासद्वयं तन्त्रिगुणं समां वा जीर्णोऽपि भूयः स पुनर्नवः स्यात्॥१८॥

पुनर्नवायाश्छन्दोनुरोधाद्ध्रस्वत्वम्। मासद्वयं तन्त्रिगुणमिति। तन्त्रिगुणं षण्मासानू॥१८॥

धात्रीचूर्णस्य कंसं स्वरसपरिगतं क्षौद्रसर्पिः समांशं
कृष्णामानीसिताष्टप्रसृतियुतमिदं स्थापितं भस्मराशौ॥
वर्षान्ते तत्समश्नन्भवति विपलितो रूपवर्णप्रभावै-
र्निर्व्याधिर्बुद्धिमेधास्मृतिवचनबलस्यैर्यसत्चैरुपेतः॥ १९॥

कंसं चतुःषष्टिपलानि। स्वरसपरिगतमामलकस्य रसभावितं भावना चैकविंशतिवारान्। क्षौद्रसर्पिः समांशं मधुघृतयोः प्रत्येकं कंसमित्यर्थः। स्थापितं भस्मराशौ प्रावृडारम्भे वर्षान्तेशरदि। अत्र योगे चरकः— “आमलकचूर्णाढकमेकविंशतिरात्रमामलकसहस्रस्वरसपरिपीतं मधुवृता[ढका]भ्यामेकीकृत्याष्टभागपिप्पलीशर्कराचूर्णचतुर्भागसंयुतं घृतभाजनस्थं प्रावृषि भस्मराशौ निदध्यात्तद्वर्षान्ते प्रयोजयेदिति॥१९॥

गुडूच्यपामार्गविडङ्गशङ्खिनीवचाभयाशुण्ठिशतावरीसमम्॥
घृतेन लीढ़ं प्रकरोति मानवं त्रिभिर्दिनैः श्लोकसहस्रधारिणम्॥२०॥

** विडङ्गशङ्खिनीति।** शङ्खिनी शङ्खपुष्पी॥२०॥

ब्राह्मी वचाअश्वगन्धापिप्पल्यो मधुसंयुताः॥
आसां प्र831योगात्सप्ताहात्किंनरैः सह गीयते*832॥२१॥

सुगमम्॥ २१॥

तीव्रेण कुष्ठेन परीतदेहो यः सोमराजीं नियमेन खादेत्॥
संवत्सरं कृष्णतिलद्वितीयां स सोमराजीं वपुषाऽतिशेते॥२२॥

** यः सोमराजीमिति।** सोमराज्यवल्गुजस्तस्य बीजं ग्राह्यम्। सोमराजीं चन्द्रपङ्किमतिशेते कान्त्याऽ[भि]भवति॥२२॥

पञ्च भल्लातकांश्छित्वा साधयेद्विधिवज्जले॥२३॥

कषायंतु पिबेच्छीतं घृतेनाक्तोष्ठतालुकः॥
पञ्चवृद्ध्या पिबेद्यावत्सप्ततिं ह्रासयेत्ततः॥ २४॥

जीर्णेऽद्यादोदनं शीतं घृतक्षीरोपसंहितम्॥
एतद्रसायनं मेध्यं वलीपलितनाशनम्॥२५॥

कुष्ठार्शःकृमिदोषघ्नं दुष्टशुक्रविशोधनम्॥
भल्लातकक्वाथपाने मन्त्रोऽयं पठ्यते कचित्॥२६॥

वरुण त्वं हि देवानाममृतं परिकल्पसे॥
आयुरारोग्यसिद्धार्थमस्माकं वरदो भव॥२७॥

पञ्चभल्लातकांश्छित्त्वा साधयेद्विधिवज्जल इति। एकभल्लातके सुश्रुते कक्षायशुक्तिमानमुक्तम्। तद्यथा—एकं भल्लातकमादाय द्विधा त्रिधा चतुर्था वा छेदयित्वा कषायकल्पेन विपाच्य कषायशुक्तिमनुष्णां घृताभ्यक्ततालुजिह्वोष्ठः प्रातः प्रातरुपसेवेतेति। कषायशुक्तिश्च जलपलद्वयक्वथितपादशेषे भवति। शुक्तिरर्धपलम्। पञ्चभल्लातकेष्वपि तदनुसारेण दशजलपलानि दत्त्वा कषायः पादशेषः कार्यः। कषायस्य तु वृद्धिर्णापुररक्षितेन चतुष्पलं यावदुक्ता।

तद्यथा—

“बीजं भल्लातकस्यैकं पूते निक्षिप्य वारिणि।
क्वाथयेत्षोडशगुणे शुक्तिशेषं हिमं पिबेत्॥
एकैकं वर्धयेद्बीजमा पञ्चभ्यो विचक्षणः।
आ सप्ततेः पञ्चवृद्ध्या वर्धयेन्मतिमांस्ततः।
शुक्तिवृद्ध्या कषायं च वर्षयेदा चतुष्पलात्” इत्यादि॥

अत्रोत्तरो(र) भल्लातकवृद्धिक्रमेऽपि कषायस्य चतुष्पलत्वं तरतमभावेन सान्द्रकरणात्प्रत्येतव्यम्। अत्र योगे मन्त्रोऽपि क्वचिद्दृश्यते। यथा वरुण त्वं हि देवानामित्यादि॥२३॥२४॥२५॥२६॥२७॥

तैलं भल्लातकानां तु पिबेन्मासं यथाबलम्॥
सर्वोपद्रवनि833र्मुक्तो जीवेद्वर्षशतं दृढः॥२८॥

** तैलं भल्लातकानामिति।** भल्लातकतैलस्य कर्षः पेयः॥२८॥

**कासश्वासातिसारज्वरपिटककटीकोठकुष्टप्रमेहा-

न्मूत्राघातोदरार्शःश्वययुगलशिरःकर्णशङ्काक्षि834रोगान्॥**
ये चान्ये वातपित्तक्षतज835कफकृता व्याधयः सन्ति जन्तो-
स्वांस्तानभ्यासयोगादपनयति पयः पीतमन्ते निशायाः॥ २९॥

** पिटककटी[कोठ] कुष्ठेति।** पिटकः पिडिका। कटीशब्देन कटीगता गृध्रस्यादय उच्यन्ते। पयः पीतमिति। पयः पानीयं क्षीरं वा। सुश्रुते प्रातः क्षीरेण नस्यस्यापि दर्शितत्वात्।

यथा—

“शीतोदकं पयः क्षौद्रं सर्पिरित्येकशो द्विशः।
त्रिशः समस्तमथ वा प्राक्पीतं स्थापयेद्वयः” इति।

अस्यार्थः। प्रकृतिभेदेन चतुर्विधं वयःस्थापनमाह—शीतोदकमित्यादि। शीतोदकपयः क्षौद्रसर्पिषामेकशश्चत्वारः प्रयोगा द्विशः षट्त्रिशश्चत्वारश्चतुर्भिरेकः। एवं पञ्चदश प्रयोगाः। उदकं पयः क्षौद्रं सर्पिरित्येकशश्चत्वारः। उदकपयसी उदकक्षौद्रे उदकसर्पिषी पयःक्षौद्रे पयः सर्पिषी क्षौद्रसर्पिषी एवं द्विशः षट्। उदकपयः क्षौद्राण्युदकपयः सर्पीष्युदकक्षौद्रसर्पौषि पयः क्षौद्रसर्पौष्येवं त्रिशश्चत्वारः प्रयोगाः। उदकपयः क्षौद्रसर्पीषीत्येक एवप्रयोगः। मानविरुद्धानामेषां विषमाणामुपयोगः कार्य इति ज्ञेयम्। शीतोदकं समपित्तकफवातप्रकृतौ। पयः पुनरधिकपित्तप्रकृतावेव। क्षौद्रं कफप्रकृतौ। सर्पिः पुनरधिकवातप्रकृतौ। अत्रैवैकद्वित्रिचतुर्द्रव्यसंयोगा हिताहितविभागमवेक्ष्य वातादिदोषभेदप्रकृतिषु स्वबुद्ध्या विभजनीयाः। प्रागिति प्रातः। आजस्रिकाश्चैते प्रयोगाः॥२९॥

विगतघननिशीथे प्रातरुत्थाय नित्यं
पिबति खलु नरो यो घ्राणरन्ध्रेण वारि॥
स भवति मतिपूर्णश्चक्षुषा तार्क्ष्यतुल्यो
वलिपलितविहीनः सर्वरोगैर्विमुक्तः॥ ३०॥

** विगतघननिशीथ इति।** अपगतघनान्धकारे। एतच्च प्रातरित्यस्य स्वरूपसंकीर्तनम्॥३०॥

अम्भसः प्रसृतान्यष्टौ रवावनुदिते पिबन्॥
वातपित्तगदान्हन्ति जीवेद्वशतं नरः॥३१॥

अम्भसः प्रसृतान्यष्टाविति। अभ्यासक्रमेणाष्टप्रसृतादधिकं तु न पेयम्। आकृतिमानमिदम्॥३१॥

व्यङ्गवलीपलितघ्नंपीनसवैस्वर्यकासशोषघ्नम्॥
रजनीक्षयेऽम्बुनस्यं रसायनं दृष्टिजननं च॥३२॥

तद्वन्त्रिफलाम्बु निशिस्थं वलिपलितहरं दृष्टिदं श्रेष्ठम्॥
प्रसृतिद्वयं836 तु पातव्यं नासया नाधिकं मतम्॥३३॥

सुगमम्॥३२॥३३॥

न केवलं दीर्घमिहाऽऽयुरशृते रसायनं यो विधिवन्निषेवते॥
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथैव चाक्षरम्॥३४॥

न केवलमित्यादिश्लोकश्चरकेणाभयामलकीये रसायनपादे पठितः। वृन्दस्तु सकलरसायनसाधारणोऽर्थ इति मन्यमानः सामान्यरसायनशेषे पठितवान्। **प्रपद्यते ब्रह्मेति।**ब्रह्म मोक्षः। अक्षरमविनाशि। मोक्षावाप्तिश्च रसायनेन विशुद्धसत्त्वजननात्॥३४॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामेकोनसप्ततितमो
रसायनाधिकारः समाप्तः॥६९॥

<MISSING_FIG href="../../../books_images/U-IMG-1700807140image1.JPG"/>

अथ सप्ततितमो वाजीकरणाधिकारः।

<MISSING_FIG href="../../../books_images/U-IMG-1700807184image2.JPG"/>

तैस्तैर्भावैरहृद्यैस्तु रिरंसोर्मनसि क्षते॥
ध्वजः पतत्यथो नॄ837णां क्लैब्यंसमुपजायते॥१॥

पूर्वोक्तादेव संबन्धादनन्तरं वाजीकरणमुच्यते वाजीवात्यर्थमैथुनसामर्थ्याद्वाजी। किं वा वाजः शुक्रं तदस्यास्तीति वाजी वाजी क्रियते येन पुरुषस्तद्वाजीकरणम्।

यदुक्तं चरके

“येन नारीषु सामर्थ्यं वाजिवल्लभते नरः।
येन चाभ्यधिकं बीजं वाजीकरणमेव तत्” इति।

तच्च त्रिविधं प्रवर्तकं जनकं जनकप्रवर्तकं च।

उक्तं हि—

“ शुक्रच्युतिकरं किंचित्किंचिच्छुक्रविवर्धनम्।
च्युतिवृद्धिकरं किंचिन्त्रिविधं वृष्यमुच्यते” इति।

तत्र शीते युवतीस्पर्शादि च्युतिकरं क्षीरादि वृद्धिकरं माषो जनकः प्रवर्तकश्च। माषोऽत्र भाषगुणे ‘वृष्यः शीघ्रं पुंस्त्वं दधाति’ [इति] पदद्वयकरणादुभयकृदुच्यते।

** ब्रह्मदेवस्त्वेवं** वक्ति-वाजीकरणं त्रिविधं जनकं प्रवर्तकं जनकप्रवर्तकं चेति। तत्र जनकं मांसघृतादिकं यद्रसादिधातुक्रमेण परिणतं प्रधानधातुपुष्टिं करोति। प्रवर्तकमुच्चटाचूर्णादिकं शुक्रविरेचनकम्। न च तस्य वैरेचनिकोक्त्या शुक्रक्षयकारित्वं स्याद्यतो विरेचनं शुक्रस्य पातनायाभिमुखीभावमात्रकरणम्। जनकप्रवर्तकं तु गव्यघृतगोधूममाषकाकाण्डफलादिकम्।

डल्लुणस्त्वेवं व्याचष्टे—केवलदेहबलकरं जनकं गोधूमादि। केवलमनोबलकरं संकल्पादि तु प्रवर्तकम्। घृतक्षीरादितु देहमनोबलकरं सदुभयकरमिति। वृष्यादिद्रव्याणां सद्यः शुक्रादिकरणे प्रभावोऽयम्।

** तथा च वाग्भटः—**

**“**के चिदाहुरहोरात्रात्षडहादपरे परे।
मासेन याति शुक्रत्वमन्नंपाकक्रमादिभिः॥
वृष्यादीनि प्रभावेण सद्यः शुक्रादि कुर्वते।
प्रायः करोत्यहोरात्रात्कर्मान्यदपि भेषजम्॥

क्लीबानां वाजीकरणं हितमित्यतः क्लीबमाह—

** तैस्तैर्भावैरहृद्यैरिति।** भया विश्रम्भसंत्रासस्त्रीदोषदर्शनादिभिः। एषां च षाण्ढ्यकराणां भावानामसंख्येयत्वाचैस्तैरिति सर्वनाम्ना निर्देशः कृतः। रिरंसोरिति। रन्तुमिच्छोः। मनोभिघातजं क्लैब्यमिदम्॥१॥

आहारजं क्लैब्यमाह—

अनैरम्लोष्णलवणैरतिमात्रोपसेवितैः॥
सौम्यधातुक्षयो दृष्टः क्लैब्यंतदपरं स्मृतम्॥ २॥

कटुकाम्लोष्णलवणैरिति पाठान्तरम्। सौम्यधातुः शुक्रम्। तदपरमिति। अन्नकृतशुक्रक्षयजम्॥२॥

विशिष्टविहारजं क्लैब्यमाह—

अतिव्यवायशीलो वा न च वाजीक्रियारतः॥
ध्वजभङ्गमवाप्नोति स शुक्रक्षयहेतुकम्॥३ ॥

** ध्वजभङ्गमिति।** ध्वजभङ्गलक्षणीयं क्लैब्यम्। ध्वजभङ्गो मेढ्रानुत्थानम्। शुक्रक्षयहेतुकमिति। विहारविशेषकृतशुक्रक्षयजम्॥३॥

असाध्यं सहजं क्लैब्यंमर्मच्छेदात्तु यद्भवेत्॥
साध्यानामवशिष्टानां कार्यों वाजीकरो विधिः॥४॥

** असाध्यं सहजं क्लैब्यमिति।** तथा च—“जन्मप्रभृति यः क्लीबःक्लैब्यं तत्सहजं स्मृतम्” इति। **सुश्रुते—**शारीरोक्तमासेचकादिकं पञ्चविधम्।

तद्यथा—

“पित्रोरत्यल्पबीजत्वादासेक्यः पुरुषो भवेत्।
स शुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम्”।

पित्रोर्मातापित्रोः। आसेक्यः पुरुषो भवेदासेक्यनामा पुरुषो जायते। स शुक्रं प्राश्येति। स पुरुषोऽन्यपुरुषान्निजमुखेन व्यवायं कारयित्वातत्र सिक्तं शुक्रं प्राश्याऽऽस्वाद्य। ध्वजोच्छ्रायं लिङ्गोत्थानम्। आसेक्यनामाऽयं षण्ढो मुखयोन्यपरपर्यायः।

“यः पूतियोनौ जायेत स सौगन्धिकसंज्ञितः।
स योनिशेफसोर्गन्धमाघ्राय लभते बलम्”।

अस्यार्थः। योनिशेफसोर्गन्धमाघ्राय शिड्घित्वा। अयं सौगन्धिकनामा षण्ढो नासायोन्यपरपर्यायः।

‘स्वगुदेऽब्रह्मचर्याद्यः स्त्रीषु पुंवत्प्रवर्तते।
कुम्भीकः स तु विज्ञेयः’।

यः पुरुषः स्वेगुदे स्वकीये पायावब्रह्मचर्यादन्यपुरुषपार्श्वाद्व्यवायं कारयित्वा पश्चात्स्त्रीषु विषये पुमानिव प्रवर्तते पुरुषवद्व्यवायं करोति स कुम्भीकनामा षण्ढो ज्ञेयः। अन्ये तुप्रथमं स्त्रीषु विषये तासामेव स्वकीयगुदविवरे पशुवत्पृष्ठभागे शिथिलेनैव मेहनेन प्रवर्तते किंनिमित्तमेतदित्याह। ब्रह्मचर्यात्। क्लैब्यवशसंजाताप्रवृत्तित्वात्। ततश्चानया विप्रकृत्या ध्वजोच्छ्राये संजाते स एव स्त्रीषु पुरुषवत्प्रवर्तते स कुम्भीकनामा नपुंसकमेदः। गुदयोनिरयम्। अस्योत्पत्तिहेतुः सूत्रान्तरे वर्णितो यथा—‘माता व्यवायं प्रति चेच्चवक्रास्याब्दीजदौर्बल्यतयापितुश्च”। गयी तु कुम्भीकोत्पत्तिहेतौकाश्यपोक्तंश्लोकमाह।

यथा—

“अरजस्कां यदा नारीं श्लेष्मरेता व्रजेदृतौ।
अन्यसक्ता भवेत्प्रीतिर्जायते कुम्भिलस्तदा” इति।

ईर्ष्यकं शृणु वा परम्।

दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते।
ईर्ष्यकः स तु विज्ञेयः’।

दृग्योनिरयमीर्प्यकापरपर्यायः। अत्रापि तत्रान्तरे पठितो हेतुर्यथा— ‘ईर्ष्याभिभूतादपि मन्दहर्षावीर्प्याह्वयस्यापि वदन्ति हेतुम्” इति। षण्ढकं शृणु पञ्चमम्।

“यो भार्यायामृतौ मोहादङ्गनेव प्रवर्तते।
ततः स्त्रीचेष्टिताकारो जायते षण्ढसंज्ञितः”।

यः पुमान्मोहवशादृतौ भार्यायां विषयेऽङ्गनावदुत्तानो भूत्वा व्यवहरति तत्र स्त्रीचेष्टिनाकारः षण्ढो जायते स पुमान्स्त्र्याकृतिः स्त्रीचेष्टितश्चस्त्रीवदधोभूतः स्वमेढ्रस्योर्ध्वप्रदेशेऽपरपुरुषाद्वीर्यच्युतिं कारयति। मर्मच्छेदादिति। विटपमर्मच्छेदात्। तेन हि शुक्रवहनाड्युपघातो वङ्क्षणवृषणयोरन्तरे विटपे॥४॥

पिप्पलीलवणोपेतौबस्ताण्डौ क्षीरसर्पिषा॥
साधितौ भक्षयेद्यस्तु स गच्छेत्प्रमदाशतम्॥५॥

पिप्पलीलवणे संस्कारके। बस्ताण्डौ छागाण्डकोशौ। क्षीरसर्पिषाक्षीरोत्थितसर्पिषा न तु क्षीरेण सर्पिषा चेत्ययमत्रार्थ एकवद्भावेन कल्प्यः। क्षीरपक्षे लवणस्य संयोगविरुद्धत्वात्। प्रमदाशतमिति बहुवनितोपलक्षणम्॥५॥

बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान्॥
यः खादेत्स नरो गच्छेत्स्रीणां शतमपूर्ववत्॥ ६॥

** वस्ताण्डसिद्धे पयसीति।** बस्तश्छागस्तस्याण्डो मुष्कः। क्षीरपरिभाषया बस्ताण्डेन क्षीरं साध्यं तस्मिन्पयसि सप्ताहं भावितांस्तिलान्खादेत्। तत्रानुपानं क्षीरमेव। परिभाषामाह—

“द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम्।
क्षोरावशेषः कर्तव्यः क्षीरपाके त्वयं विधिः” इति।

स नर इत्यस्य स्थाने ससितानिति पाठो वाग्भटे। तत्र ससितान्सशर्करान्। अजाविकमांसेत्यादिना यद्यपि क्षीरेण बस्तमांसस्य विरोधो दर्शितस्तथाऽपि विशिष्टबस्तस्याविरोधो वचनादेष्टव्यः। असकृदिति। सप्तधा। अपूर्ववत्प्रथमसुरतवत्॥६॥

चूर्णं विदार्याः सुकृतं स्वरसेनैव भावितम्॥
सर्पिः क्षौद्रयुतं लीढ्वा दश गच्छेन्नरोऽङ्गनाः॥७॥

सुकृतमित्यस्य स्थाने बहुशः पाठः। स्वरसेनेति। विदार्या एव। लीढ्वाऽनन्तरमनुपानं शीतलं जलम्॥७॥

एवमामलकं चूर्णं स्वरसेनैव भावितम्॥८॥
शर्करामधुसर्पिर्भिर्युक्तं लीढ्वा पयः पिबेत्॥
एतेनाशीतिवर्षोऽपि युवेव परिहृष्यति॥९॥

** एवमामलकं चूर्णं स्वरसेनैव भावितमिति।** अत्र स्वरसभावनस्याप्युक्तत्वादेवमित्यतिदेशस्य वैयर्थ्याद्विदारिचूर्णवत्क्षौद्रघृताभ्यामप्यामलकचूर्णस्य स्वरसभावितस्य प्रयोगमाह—**कार्तिकः।**तेनाऽऽमलकचूर्णस्य द्विधा प्रयोगः। क्षौद्रघृताभ्यां शर्कराक्षौद्रघृतपयोनुपानैश्चेति। सुहितत्वविधानार्थमेवमित्यतिदेश इत्यन्ये॥८॥९॥

विदारिकन्दचूर्णं तु838 शृतेन पयसा नरः॥
उदुम्बरसमं खादन्वृद्धोऽपि तरुणायते॥१०॥

** शृतेनेति।** केवलजलशृतेन। उदुम्बरसममिति। उदुम्बरफलसमम्॥१०॥

स्वयंगुप्तेक्षुरकयोर्बीजचूर्णं सशर्करम्॥
धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत्॥११॥

स्वयंगुप्ता कपिकच्छूः। इक्षुरकः कोकिलाक्षो नरवारक इति लोके। न क्षयं व्रजेदित्यत्र शुक्रस्येति शेषः॥११॥

उच्चटाचूर्णमप्येवं क्षीरेणोत्तममुच्यते॥

उच्चटा शणघण्टाकारः स्वल्पविटपः प्रायशो हिमवति शरयूपकण्ठे। ओंच्चट इति लोके। एवमिति सशर्करधारोष्णक्षीरेण॥

शतावर्युच्चटाचूर्णं पेयमेवं सुखाम्बुना॥१२॥

सुगमम्॥१२॥

कर्षं मधुकचूर्णस्य घृतक्षौद्रसमन्वितम्॥
पयोनुपानं यो लिह्यान्नि839त्यवेगः स ना भवेत्॥१३॥

मधुयष्टिकाचूर्णस्य कर्षं घृतक्षौद्रयुतं क्षीरानुपानं यो लेढि सोऽप्रनष्टवेगःपुरुषो भवेत्॥१३॥

गोक्षुरकः क्षुरकः शतमूली वानरी(रि) नागबलाऽतिबला च॥
चूर्णमिदं पयसा निशि पेयं यस्य गृहे प्रमदाशतमस्ति॥१४॥

क्षुरकः कोकिलाक्षः। वानरी शुकशिम्बा। उभयोर्बीजमिह। गोक्षुरकः क्षुरकः शतमूली वानरी(रि) नागबलाऽतिबला चेति पाठश्छन्दःपूरणार्थं साधुः। न तु समासं कृत्व। षष्ठीबहुवचनान्तः पाठः॥१४॥

नरसिंहचूर्णमाह—

त्रिकण्टविदारीनिस्तुषतिलबहुपुत्रीरजश्चतुष्प्रस्थम्॥
भल्लातकप्रस्थयुगं तत्सप्तोनं गुडूच्याश्च॥१५॥

पञ्चत्रिंशन्मधुनो व्योषस्याष्टौ पलानि दश वह्नेः॥
तद्द्विगुणा वाराही सप्तगुणा शर्करा दहनात्॥१६॥

मध्वर्धंघृतमेतत्परिमृज्य स्निग्धभाजने निहितम्॥
अद्याद्यथाग्नि हन्तुं रोगानीकं क्षयं कासम्॥१७॥

अश्मर्युदरभगंदरकुष्ठवलीपलितपीनसं षाण्ढ्यम्॥
नृसिंहसदृशविक्रममपत्यमभिवाञ्छितं लभते॥१८॥

बलवर्णस्वरकान्तिबुद्ध्युत्साहसत्त्वसंयुक्तम्॥
उपयुज्य चूर्णमब्दं शुद्धतनुर्नारसिंहाख्यम्॥१९॥

वराहमूर्धवत्कन्दो वाराहीकन्दसंज्ञितः॥
भिषजां तदलाभेन चर्मकारालुको मतः॥२०॥

त्रिकण्टो गोक्षुरकः। चतुष्प्रस्थमिति। मिलित्वा। तेन त्रिकण्टादीनां प्रत्येकं प्रस्थः। तत्सप्तोनमिति। तत्प्रस्थयुगं सप्तपलोनं पञ्चविंशतिपलानीत्यर्थः। इति नृसिंहचूर्णम्॥१५॥१६॥१७॥१८॥१९॥२०॥

शतावरीघृतमाह—

घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत्॥
शर्करापिप्पलीक्षौद्रयुक्तं तद्वृष्यमुच्यते॥२१॥

अत्र शर्करापिप्पलौक्षौद्रयुक्तत्वं सिद्धे घृते॥२१॥

गोधूमाद्यं घृतमाह—

गोधूमात्तु पलशतं निष्क्वाथ्य सलिलाढके॥
पादावशेषे पूते च द्रव्याणीमानि दापयेत्॥२२॥

गोधूममुञ्जातफलं माषा द्राक्षा परूषकम्॥
काकोली क्षीरकाकोली जीवन्ती सशतावरी॥२३॥

अश्वगन्धा सखर्जूरा मधुकं त्र्यूषणं सिता॥
भल्लातकं स्वयंगुप्ता समभागानि कारयेत्॥२४॥

घृतप्रस्थं पचेदेवं क्षीरं दत्त्वा चतुर्गुणम्॥
मुद्वग्निनाऽथ सिद्धे च द्रव्याण्येतानि निक्षिपेत्॥२५॥

त्वगेले पिप्पली धान्यं कर्पूरं नागकेसरम्॥
यथालाभं विनिक्षिप्य सिताक्षौद्रपलाष्टकम्॥२६॥

दत्त्वेक्षुदण्डेनाऽऽलोड्य विधिवद्विनियोजयेत्॥
शाल्योदनेन भुञ्जीत पिबेन्मांसरसेन वा॥२७॥

केवलस्य पिबेदस्य पलमात्रं प्रमाणतः॥
न तस्य लिङ्गशैथिल्यं न च शुक्रक्षयो भवेत्॥२८॥

बल्यं परं वातहरं शुक्रसंजननं परम्॥
मूत्रकृच्छ्रप्रशमनं वृद्धानामपि शस्यते॥२९॥

पलद्वयं तदश्नीयाद्दशरात्रमतन्द्रितः॥
स्त्रीणां शतं च भजते पीत्वा चानुपिबेत्पयः॥
अश्विभ्यां निर्मितं चैतद्गोधूमाज्यं रसायनम्॥३०॥

** निष्क्वाथ्य सलिलाढके। पादावशेष इति।** गोधूमस्य पलशते क्वाथार्थं जलद्रोणः पादशेष आढकं प्रचरति चेत्थम्। अन्येपुनर्निर्देशानुरोधाज्जलाढकेनैव क्वाथः पादशेषः प्रस्थ इत्याहुः। मुञ्जातफलमौत्तरापथिकं तदभावे तालमस्तकम्। मधुकस्य फलम्। त्वगेलादीनां कल्कद्रव्यसमानं मानम्। अत्रार्थे चक्रस्य टिप्पणी—

“जलद्रोणेऽत्र गोधूमक्वाथस्तच्छेष आढकम्।
मुञ्जातकफलस्थाने तद्गुणं तालमस्तकम्।
कल्कद्रव्यसमं मानं त्वगादेः साहचर्यतः” इति॥

इक्षुकाण्डेनेसुखण्डेन। पलमात्रमिति। प्रथमतः। पलद्वयं तदश्नीयादित्यधिकमात्रानिरासार्थमुक्तम्॥२२॥२३॥२४॥२५॥२६॥२७॥२८॥२९॥३०॥

महासुगन्धितैलमाह—

कर्पूरागुरुचोचबोलनलिकालाक्षाशठीधातकी-
पुष्पैः सप्तदलैलवालुसरलाशैलेयमांसीपुरैः॥एलाकुङ्कुमरोचनादमनकश्रीवासजातीफलैः
कङ्कोलक्रमुकोजटामदमुराकान्तालवङ्गामयैः॥३१॥

तैलोशीरहरेणुकामलयजस्थौणेयचण्डानखै-
र्जातीकोशकुलीरपद्मकनतैः स्पृक्कान्वितैः पालिकैः॥

लाक्षायोजनवल्लिलोध्रसलिले तैलं विपाच्याऽऽढकं
तेनाभ्यज्य तनुं जरन्नपि भवेत्स्त्रीणां परं वल्लभः॥३२॥

शुक्राढ्योद्युतिमाननल्पतनयः षण्ढोऽपि रत्युत्सुको
बन्ध्या गर्भवती भवेदपि तथा वृद्धाऽपि सूते सुतम्॥कण्डूस्वेदविचर्चिकामयहरं दौर्गन्ध्यकुष्ठापह-
मश्विभ्यां परिकीर्तितं बहुगुणं तैलं सुगन्धं महत्॥३३॥

चोचं गुडत्वक्। बोलो गन्धरसः। सप्तदलः सरघवीति नाम्नाऽऽख्यातं गन्धद्रव्यम्। उजटासूक्ष्मैला। मदः कस्तूरिका। कान्ता प्रियंगुः। तैलं सिद्धकम्।स्थौणेयं ग्रन्थिपर्णम्। नतं तगरपादिका। योजनवल्ली मञ्जिष्ठा ! ……..महासुगन्धितैलम्॥३१॥३२॥३३॥

गुडकूष्माण्डकमाह—

कृष्माण्डकात्पलशतं सुखिन्नं निष्कुलीकृतम्॥
प्रस्थं च घृततैलस्य तस्मिंस्तप्ते दापयेत्॥३४॥

त्वक्पत्रधान्यकव्योषजीरकैलाद्वयानलम्॥
ग्रन्थिकं चव्यमातङ्गपिप्पल्यः शृङ्गवेरकम्॥३५॥

शृङ्गाटकं कसेरुं च प्रलम्बं तालमस्तकम्॥
चूर्णीकृतं पलांशं तु गुडस्य तुलया पचेत्॥३६॥

शीतीभूते पलान्यष्टौ मधुनः संप्रदापयेत्॥
कफपित्तानिलहरं मन्दाग्नीनां च दीपनम्॥३७॥

कृशानां बृंहणं श्रेष्ठं वाजीकरणमुत्तमम्॥
प्रमदासु प्रसक्तानां ये च स्युः क्षीणरेतसः॥३८॥

क्षयेण च गृहीतानां परमेतद्भिषग्जितम्॥
कासं श्वासं ज्वरं हिक्कां हन्ति च्छर्दिमरोचकम्॥३९॥

गुडकूष्माण्डकं ख्यातमश्विभ्यां समुदाहृतम्॥
खण्डकूष्माण्डवत्पात्रं खिन्नकूष्माण्डकद्रवः॥४०॥

जीरकद्वयमेलाद्वयं च। प्रलम्बं तालाङ्कुरः। अत्र खण्डकूष्माण्डकवत्खिन्नकूष्माण्डद्रवपात्रं च ज्ञेयम्। खण्डकूष्माण्डवत्पात्रं गुडकूष्माण्डकद्रव इत्यत्र द्रवः खिन्नकूष्माण्डकस्य ज्ञेयः। गुडकूष्माण्डकम्॥३४॥३५॥३६॥३७॥३८॥३९॥४०॥

यत्किंचिन्मधुरं स्निग्धं बृंहणं जीवनं गुरु॥
हर्षणं मनसश्चैवतत्सर्वं वृष्यमुच्यते॥४१ ॥

यत्किंचिद्वस्तु मधुरादिगुणं चित्तहर्षजननं च तत्सर्वमपि वृष्यं कथ्यते॥४१॥

सुरूपायौवनस्था या भूषणैश्च विभूषिता॥
या वश्या शिक्षिता या च सा स्त्री वृष्यतमा मता॥४२॥

शिक्षितेति। कामशास्त्रोक्तचतुःषष्टिपञ्चा(कला) कुशला॥४२॥

नान्तर्वैषोडशाद्वर्षात्सप्ततेः परतो न च॥
आयुष्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति॥४३॥

** नान्तर्वै षोडशाद्वर्षादिति।** असंपूर्णधातुत्वात्। **सप्ततेः परतो न चेति।**क्षीयमाणधातुत्वात्॥४३॥

प्रवर्तनादिकारणान्युद्दिशन्नाह—

भोजनानि विचित्राणि पानानि विविधानि च॥
वाचः श्रोत्रानुगामिन्यस्त्वक्सुखस्पर्शनानि च॥४४॥

गन्धा मनोज्ञा रूपाणि विचित्रोपवनानि च॥
मनसश्चाप्रतीघातो वाजीकुर्वन्ति मानवम्॥४५॥

** श्रोत्रानुगामिन्य इति।** श्रोत्रसुखाः। अप्रतिघात इति। अप्रातिकूल्यम्॥४४॥४५॥

जरया चिन्तया शुक्रं व्याधिभिः कर्मकर्शनात्॥
क्षयं गच्छत्यनशनात्स्त्रीणां चातिनिषेवणात्॥ ४६॥

क्षयाद्भङ्गा(या)दविस्रम्भाच्छोकात्स्त्रीदोषदर्शनात्॥
नारीणामरसज्ञत्वादभिघातादसेवनात्॥४७॥

** अविस्रम्भादिति।** अविश्वासात्॥४६॥४७॥

भल्लातकास्थिजलशूकमयाक्ष(ड्न)पत्र-
मन्तर्विदह्य मतिमान्सह सैन्धवेन॥

एतद्विरूढबृहतीफलतोयपिष्ट-
मालेपनं महिषविड्विमलीकृताङ्गे॥४८॥

स्थूलं महद्वरतुरंगमतुल्यमाशु
शेफः करोत्यभिमतं न हि संशयोऽस्ति॥४९॥

जलशूको जलनीलिका जलान्तर्वर्ती रोमयुक्तः सविषः प्राणी वा। जलशूको जलसंस्थस्तृणसक्तोजन्तुविरचितः शूकसंघातवान्निवासान्दुक इत्यन्ये। जलचारी कृष्णकीट इति लक्ष्मणटिप्पणेनोक्तम्॥४८॥४९॥

कासीसतुरगगन्धासावरगजपिप्पलीविपक्वेन॥
तैलेन यान्ति वृद्धिं नियतं स्तनकर्णवराङ्गलिङ्गानि*840॥५०॥

सुगमम्॥ ५०॥

इति श्रीवृन्दमणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां सप्ततितमो
वाजीकरणाधिकारः समाप्तः॥७०॥

अथैकसप्ततितमः स्नेहाधिकारः।

<MISSING_FIG href="../../../books_images/U-IMG-1701231921image2.JPG"/>

रसायनमित्यत्र शुद्धकाय इत्युक्तं कायशुद्धिश्च पञ्चकर्मभिः पञ्चकर्माणि तानि वमनविरेचनानुवासननिरूहनस्यानि तानि च स्नेहस्वेदपूर्वाणि कार्याण्यतः संशोधनानि प्रतिपादयितुकामः स्नेहस्वेदौ निर्दिशति स्नेहस्वेदयोरपि स्नेहश्चाग्रे कियत इति स्नेहाध्यायः—

यथादोषं यथाव्याधि यथाकालं यथाबलम्॥
स्नेहं पक्वमपक्वंवा पातुं युञ्ज्याच्चिकित्सकः॥१॥

** स्नेहमिति। उक्तं च—**

“द्वियोनिवीर्योऽभिहितश्चतुःसंज्ञो विकल्पनात्।
षट्प्रयोगाश्रितः स्नेहश्चतुःषष्टिविचारकृत्"॥

तत्र द्वियोनिः स्थावरो जङ्गमश्च। द्विवीर्य उष्णः शीतश्च। विकल्पनाच्चतुःसंज्ञः सर्पिस्तैलवसामज्जानश्चत्वारो विकल्पा अस्य। तत्र तैलं स्थावरयोनि घृतवसामज्जानस्तु जङ्गमयोनयः। तत्र तैलं तिलादिफलोद्भवत्वात्फलस्थं देवदारुशिंशपागुरुसारोत्थं च। घृतमपि द्विधा क्षीरोत्थं दध्युत्थं च। शुद्धमांसाश्रया वसाऽस्थ्याश्रया मज्जा। तत्र जङ्गमेभ्यो गव्यं घृतं प्रधानं स्थावरेभ्यस्तिलतैलमिति। षट्प्रयोगाश्रित इति। पानभोजनबस्तिनस्याभ्यङ्गमूर्धतैलभेदेन षट्प्रयोगाः। चतुःषष्टिविचारकृदिति।

तथा च—

“दोषाणामल्पभूयस्त्वं संसर्गं समवेक्ष्य च।
युञ्ज्यान्त्रिषष्टिधाभिन्नैः समासाव्द्यासतो रसैः”॥

** अन्यत्रापि—**

“रसैश्चोपहितः स्नेहः समासव्यासयोगिभिः।
इत्थं त्रिषष्टिधायुक्तिं प्राप्नोत्येकश्च केवलः”॥

इति….पक्वस्नेहवत्स्नेहो गुणवन्त….॥१॥

केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम्॥
देयं बहुकफे चापि व्योषक्षारसमायुतम्॥२॥

केवलमसहायमन्यद्रव्यैरसंयुक्तमित्यर्थः। तच्च संस्कृतमसंस्कृतं वा सत्यप्यन्यद्रव्यासंयोगे संस्कृतत्वं लभ्यत एव संयोगसंस्कारयोर्भिन्नाभिधानत्वात्। एतेन संस्कृतमसंस्कृतं वा केवलं क्वाथचूर्णादिप्रक्षेपरहितं सर्पिः पातव्यमिति ज्ञेयम्। गयी तु पित्तहरद्रव्यसाधितमेव केवलमित्याह। वातिके लवणान्वितमिति। वातस्य समानगुणमपि सर्पिर्लवणेनोष्णवीर्येण च युक्तं श्रेष्ठं स्यात्॥२॥

अच्छपानविषयमुपदिशन्नाह—

स्नेहसात्म्यः क्लेशसहो दृढः काले च शीतले॥
अच्छमेव पिबेत्स्रेहमच्छपानं शोभनम्॥३॥

क्लेशसह इति शक्तिलक्षणं बलमुक्तम्। काले च शीतल इति। चकारो वातकफयोः शैत्याद्दोषे चशीतल इति गमयति। दृढः काले च शीतल इत्यस्य स्थाने काले नात्युष्णशीतल इति पाठान्तरम्। चरकेऽप्युक्तम्—नात्युष्णशीते स्नेहं पिबेन्नर इति।अच्छमिति। केवलं भक्षाद्यसंसृष्टम्। शोभनमिति। अचिरस्नेहनेन।

“उत्तमस्य पलं मात्रा त्रिभिश्चाक्षैश्च मध्यमा।
जघन्यस्य पलार्धेन स्नेहक्वाथौषधेषु च”॥

इति परिभाषा प्रचरति।

“अहोरात्रमहः कृत्स्नं दिनार्धंच प्रतीक्षते।
उत्तमा मध्यमा ह्रस्वा स्नेहमात्रा जरां प्रति”॥

इति चरकपरिभाषा तु न व्यवहरति। कालविशेषे दोषविशेषे च स्नेहपानक्रमःसुश्रुते दर्शितः॥

तद्यथा—

“शीतकाले दिवा स्नेहमुष्णकाले पिबेन्निशि॥
वातपित्ताधिको रात्रौ वातश्लेष्माधिको दिवा"॥

अत्र वातपित्ताधिक इत्यनेन वाताधिकः पित्ताधिकश्च गृह्यते। एवं वातश्लेष्माधिक इत्यत्रापि व्याख्येयम्। पित्ताधिकस्तु नात्युष्णशीत एवकाले पिबेदिति द्रष्टव्यम्। रात्राविति सायम्। अस्य श्लोकस्य डल्लणोक्ता व्याख्या लिख्यते। **निशीति।**संशमनमेव। उष्णकाले च सह भक्तेन पाययेदिति वक्ष्यमाणवचनात्। वातपित्ताधिक इति। वातपित्ते अधिके यस्य स वातपित्ताधिकः। वातपित्तयोर्व्यस्तसमस्तयोर्ग्रहणाद्वाताधिकः पित्ताधिको वातपित्ताधिकश्च रात्रौ संशमनं स्नेहं पिबेत्। तत्रापि वातपित्ताख्यसंसर्गस्यापरसंसर्गोपलक्षणत्वात्पित्तश्लेष्माधिकोऽपि रात्रौ पिबेदिति गम्यते। वातश्लेष्माधिक इति। वातः श्लेष्मा च वातश्लेष्माणौ समासान्त्यपादलोपात्। तावधिकौ यस्य स वात श्लेष्माधिकः। एतेन वातकफाधिकः कफाधिकश्च दिवास्नेहं पिबेदिति गम्यते। अत्रार्थेच वृद्धवाग्भटः—

“सर्वंसर्वस्य च स्नेहं युञ्ज्याभ्दास्वति निर्मले॥
ऋतौ साधारणे दोषसाम्येऽनिलकफे कफे।
दिवानिश्यनिले पित्ते संसर्गे पित्तवत्यपि”॥

यदा च ग्रीष्मे वातकफोत्थो रोगः स्नेहसाध्यस्तदा कालमाश्रित्य तदर्तृ(दृतु) विहितः स्नेहो निशि प्रयोज्यो दोषादीन्वीक्ष्य वा॥

** तथा च वृद्धवाग्भटः—**

“त्वरमाणस्तु शीतेऽपि दिवा तैलं प्रयोजयेत्॥
उष्णेऽपि रात्रौ सर्पिस्तु दोषादीन्वीक्ष्य वाऽन्यथा” इति॥३॥

उष्णोदकानुपानं तु स्नेहानामथ शस्यते॥
ऋते भल्लातकस्त्रेहात्तत्र तोयं सुशीतलम्॥४॥

सुगमम्॥४॥

तत्र तृष्णाप्रतीकारमुद्दिशन्नाह—

स्नेहपीतस्तु तृष्णायां पिबेदुष्णोदकं नरः॥
एवं चानुपशाम्यन्त्यां स्नेहमुष्णाम्बुनोद्धरेत्॥५॥

** उद्धरेदिति।** वमेत्॥५॥

मिथ्याचाराद्वहुत्वाद्वा यस्य स्नेहो न जीर्यति॥
विष्टभ्य चापि जीर्येत वारिणोष्णेन वामयेत्॥६॥

** मिथ्याचारादिति।** अत्यम्बुसेवनादेः। समुचितस्नेहाचारस्तु चरकेणोक्तस्तद्यथा—

“उष्णोदकोपचारी स्याद्ब्रह्मचारी क्षपाशयः।
शकृन्मूत्रानिलोद्गारानुदीर्णांश्च न धारयेत्”॥६॥

मिथ्याचारादिजस्य स्नेहाजीर्णस्य प्रतीकारे कृते स्नेहसाध्ये व्याधौ पुनरप्यस्य स्नेहो देय इत्याह—

ततः स्नेहं पुनर्दद्याल्लघुकोष्टाय देहिने।

** ततः स्नेहं पुनर्दद्यादिति।** दिनान्तरे बले जाते॥

जीर्णाजीर्णविशङ्कायां पिबेदुष्णोदकं नरः॥
तेनोद्गारो भवेच्छुद्धो रुचिश्चान्नं भवेत्प्रति॥७॥

** जीर्णाजीर्णविशङ्कायामिति।** अल्पस्नेहशेषे। तेन जीर्णेन स्नेहेन॥७॥

पच्यमानस्नेहस्य लक्षणमाह—

स्युः पच्यमाने तृड्दाहभ्रमसादारुचिक्लमाः॥ ८॥

स्युर्भवेयुः॥८॥

अतः परं जीर्णस्नेहस्याऽऽहारोपचारः—

परिषिच्याद्भिरुष्णाभिर्जी841र्णस्नेहं ततो नरम्॥
यवागूं पाययेदुष्णां क्लिन्नामत्यल्पतण्डुलाम्॥९॥

** यवागूमिति।** पेयाम्। क्लिन्नां सुसिद्धाम्। अयं च पेयाविधिरतिमन्देऽग्नौ स्तोकमन्दे तु विलेपी तथा मध्ये सात्म्याद्यपेक्षया पेया रसो वा बोद्धव्यः। तथा च सुश्रुते यवागूं पाययेदुष्णामित्याद्यनन्तरं पठ्यते॥

“देयौ यूषरसौ वाऽपि सुगन्धी स्नेहवर्जितौ।
कृतौ वाऽप्यल्पसर्पिष्कौ विलेपी वा विधीयते” इति।

अस्यार्थः। स्नेहवर्जितावित्यनेनाकृताविति गम्यते। कृतौ स्नेहादिसंस्कृतौ यूषरसौ। यूषरसाविति। अत्र यूषः कफे तैलपाने च देयो रसो वाते घृतपाने च विलेपी पुनर्विलेपीसात्म्याय मध्यमाग्नये देया। क्लिन्नामत्यल्पतण्डुलामित्यत्र कामं क्लिन्नाल्पतण्डुलामिति पाठः। काममतिशयेन क्लिन्नाऽल्पतण्डुला स्विन्नाल्पतण्डुला। गयी तु कामं यथेष्टमाचष्टे॥९॥

तस्य स्नेहपानस्य कोष्ठापेक्षया कालनियमं दर्शयन्नाह—

पिबेन्त्र्यहं चतुरहं पञ्चाहंषडहंतथा॥
सप्तरात्रात्परं स्नेहः सात्म्यीभावाय कल्पते॥१०॥

त्र्यहं मृदुकोष्ठः स्निह्यतिचतुरहं पडहं वाऽपि मध्यकोष्ठः सप्ताहं क्रूरकोष्ठः।

** चरके**ऽप्युक्तम्—

“मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसेवया।
स्त्रिह्यति क्रूरकोष्ठस्तु सप्तरात्रेण मानवः” इति॥

अत्र कोष्ठत्रित्वस्य तारतम्यमपि व्याचष्टे जैज्जटः। मृदुतरकोष्ठो व्द्यहं पिबेदेकाहं मृदुतमः पञ्चाहं मध्यतरः षडहं मध्यतमः क्रूरतरोऽष्टाहं नवाहं क्रूरतमः। अत एवं तत्रान्तरे नवरात्रपर्यन्तं स्नेहपानमुपन्यस्तम्।

तद्यथा—

“तन्त्रिषण्नवरात्राणि स्नेहपानं विधीयते।
मृदुमध्यादिकोष्ठत्वान्मृदुमध्यादिदेहतः” इति॥

सात्म्यीभावं…. …. ….मपि परेणेच्छन्ति। त्र्यहादिकालभेदोऽयं भोजे तु दोषभेदेनोक्तः।

तथा हि—

“त्र्यहेण श्लैष्मिकः स्निह्यात्पञ्चरात्रेण पैत्तिकः।
वातिकः सप्तरात्रेण सात्म्यतां यात्यतः परम्” इति॥

सात्म्यीभावाय कल्पत इत्यत्र सात्म्यी भवति सेवित इति पाठो डल्लणे। तत्र सात्म्यीभवतीत्यात्मना सह वर्तत इति सात्मं तस्य भावः सात्म्यमसात्म्यं यत्र सात्म्यं भवति सात्म्यी भवतीति। आत्मशब्दोऽत्र देहपर्यायः। अयमर्थः। आत्मनि काये यद्वर्तते यदुपशेते न विकाराय भवति सुखं करोतीत्यर्थस्तत्सात्म्यी भवतीत्युच्यते। एतेन स्नेहकार्यमुत्क्लेशनादिकं न करोत्याहारवत्सात्म्यी भवति। अत एव हि सेवित इत्युक्तम्। विषमपि स्वल्पं प्रतिदिनमुपयुज्यमानं न मारणात्मकं भवति तच्च सात्म्यीभवनं वातप्रकृतावर्ध्वाङ्गमारुते बोद्धव्यं वातकफप्रकृतौ पुनरुत्लेश एव॥१०॥

शुद्ध्यर्थं पुनराहारे नैशे जीर्णे प्रयोजयेत्॥
पिबेत्संशमनीयं वा अन्नकाले प्रकाङ्क्षितः॥११॥

शुद्ध्यर्थं स्नेहं बिन्दुघृतादि नैशे दिवान्तभक्षित आहारे जीर्णे दोषोत्क्लेशार्थं प्रातरेव पिबेत्। अन्नकाले द्विप्रहरादिलक्षणे बुभुक्षा नावश्यं भवतीति विशेषणं कृतं प्रकाङ्क्षित इति। प्रकाङ्क्षितो बुभुक्षितः। एतच्च कालकथनमुत्सर्गतः। तेन पित्ताधिको रात्रावित्युक्तः कालविरोधो नोद्भावनीयः। संशमनस्य विचारणास्नेहस्य विषयोपदर्शनम् ११

इदानीं विचारणामावस्थिके नित्यगे च काले निर्दिशन्नाह—

स्नेहद्विषः कृशान्वृद्धासुकुमाराञ्शिशूनपि॥
तृष्णालुंचोष्णकाले च सह भक्तेन पाययेत्॥१२॥

** स्नेहेत्यादि।** इति डलृणात्सह भक्तेनेति। भक्तमिश्रम्। भक्तशब्दश्चोपलक्षणम्। तेन चरकोक्ता ओदनश्च विलेपी च यूषः काम्बालिकः खड इत्याद्याश्चतुर्विंशतिः स्नेहविचारणा ग्राह्याः॥१२॥

सद्यः स्नेहनयोगानाह—

भृष्टा मांसरसे स्निग्धा यवागूः स्वल्पतण्डुला॥
सक्षौद्रा सेव्यमाना तु सद्यः स्नेहनमुच्यते॥१३॥

स्निग्धा घृतयोगात्। सद्यस्तदहरेव। सुकुमारादौ त्वरया च यत्र कर्म तत्रायं विधिः। चक्रस्त्वाह। सद्यः स्नेहनमपि त्र्यहेणैव स्नेहयति स्तुत्यर्थं तु सद्यः शब्दप्रयोगः। सूपकल्पिता। प्रक्षुद्रा पीयमाना तु, इति पाठो डल्लणे। प्रक्षुद्रा क्षुद्रावगाढा। क्षुद्रं फाणितं काकब, इति लोके॥ १३॥

सर्पिष्मतीं बहुतिलां यवागूं स्वल्पतण्डुलाम्॥
पिबेत्सुखोष्णां मनुजः सद्यो रौक्ष्यात्प्रमुच्यते॥१४॥
शर्कराघृतसंसृष्टे दुह्याद्गांकलशे तथा॥
पाययेदक्षमेतद्धि सद्यः स्नेहनपुच्यते॥१५॥

॥ १४ ॥ १५ ॥

पिप्पल्यो लवणं स्नेहाश्चत्वारो दधिमस्तकम्॥
पीतामैकध्यमेतद्धि सद्यः स्नेहनमुच्यते॥१६॥

लवणमत्र प्रधानकल्पनया सैन्धवम्। स्नेहाश्चत्वारः सर्पिस्तैलवसामज्जानः। दधिमस्तको(कं) दधिसरः। पिप्पलीलवणयोर्यावत्या मात्रया नातिकटुत्वं नातिलवणत्वं च तावती मात्रा॥१६॥

विवर्जयेत्स्नेहपानमजीर्णी तरुणज्वरी॥
दुर्बलोऽरोचकी स्थूलो मूर्छार्तोमदपीडितः॥ १७॥

छर्द्यर्दितस्तु तृषितः श्रान्तः पानक्लमान्वितः॥
दत्तबस्तिर्विरिक्तश्च वान्तो यश्चापि मानवः॥
अकाले च प्रसूता स्त्री स्नेहपानं विवर्जयेत्॥१८॥

अजीर्णेऽजीर्णमेव पचन्नग्निरास्ते कः स्नेहं पक्ष्यति तरुणज्वरेऽप्येवमतिस्रोतोरोधश्च। दुर्बले ग्लान्यादयः। अरोचकेऽरोचकाभिवृद्धिः। स्थूलस्यातिस्थौल्यं स्रोतोरोधश्च। मूर्छाद्यार्तानां मूर्छातिवृद्धिः। दत्तबस्तेर्विरिक्तवान्तयोश्च सद्यः शुद्धत्वेनाग्निमान्द्यं तृष्णाक्लमाद्यतियोगश्च। अकालप्रसूताया गर्भाशयेऽवशेषा रक्तक्लेदमलाः स्नेहकोपिता असाध्यं रोगं कुर्युः। अन्ये तरुणज्वरीत्यत्र जठरज्वरीति पठित्वा व्याख्यान्ति। उदरिणः स्नेहपानं प्रागवस्थायामुदरचिकित्सिते प्रोक्तं छिद्रोदकोदरिणोः पुनरत्र निषेधः। ज्वरिणस्तरुणावस्थायां प्रतिषेधः। जीर्णज्वरस्य स्नेहपानं प्रयुज्यत एवेति॥१७॥१८॥

यथाक्रममस्निग्धसम्यक्स्निग्धातिस्निग्धानां लक्षणमाह—

रूक्षं पुरीषं ग्रथितं कृच्छ्रादन्नं विपच्यते॥१९॥
उरो विदह्यते वायुः कोष्ठादुपरि धावति॥
दुर्वर्णो दुर्बलश्चैव रूक्षो भवति मानवः॥२०॥

उपरि धावति, ऊर्ध्वं गच्छतीत्यर्थः। इदं कृतपाचनस्य रूक्षस्य लक्षणमुक्तमितिवृद्धवैद्याः॥१९॥ २०॥

ग्लानिः सदनमङ्गानामधस्तात्स्नेहदर्शनम्॥
सम्यक्स्निग्धस्य लिङ्गानि स्नेहद्वेषस्तथैव च॥२१॥

स्नेहद्वेष इति। स्नेहारुचिरुदकादितृप्तस्येवोदकाद्यरुचिः॥२१॥

भक्तद्वेषोऽसुखास्रावो गुदे दाहः प्रवाहिका॥
पुरीषातिप्रवृत्तिश्चभृशं स्निग्धस्य लक्षणम्॥२२॥

प्रवाहिकाऽतिसारभेदः। केचिदस्निग्धसम्यक्स्निग्धलक्षणयोर्मध्ये जीर्णाजीर्णस्नेहलक्षणमधीयते—

“ग्लानिः सदनमङ्गानामधस्तात्स्नेहदर्शनम्।
स्नेहे जीर्यति लिङ्गानि जीर्णस्तैः शान्तिमागतैः” इति॥

तैर्ग्लान्यादिभिः। शान्तिमागतैरुपशमं गतैः स्नेहो जीर्ण इति ज्ञायते॥२२॥

तत्रास्निग्धातिस्निग्धयोः प्रतीकारं दर्शयन्नाह—

रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम्॥
श्यामाककोरदूषान्नतक्रपिण्याकसक्तुभिः॥

सुगमम्॥

स्नेहात्प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः पिबेत्॥ २३॥

स्नेहादुपरतस्त्रिरात्राज्जन्तुः प्रस्कन्दनं विरेचनं पिबेत्। किमर्थं पुनस्त्रिरात्रोपरतः स्रंसनमुपयुङ्क्ते न स्नेहविसर्गसमकालम्। ब्रूमः। स्निग्धस्य कफोत्क्लेशशमाय त्रिरात्रोपेक्षणम्। वचनं हि—विरिच्यते मन्दकफस्तु सम्यगिति। अथ किं तत्र कर्तव्यम्।

उच्यते—

“स्नेहवद्द्रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम्।
एकाहोपरतस्तदुद्रुक्त्वाप्रच्छर्दनं पिबेत्”॥

शास्त्रं हि—“रसैस्तथा जाङ्गलजैर्मनोज्ञैः सिग्धैः कफावृद्धिकरैर्विरेच्यः”॥

एकाहमुपरतो निवृत्तः स्नेहो यस्य सः। तद्वद्रुक्त्वा तेन स्रंसनेन तुल्यं स्नेहद्रवोप्णत्वं तत्र तुल्यता कफवर्धनं च तदिष्यते श्लेष्मोत्तरश्छर्दयति ह्यदुःखमित्यार्षात्। **पुनश्चोक्तम्—**नरः श्वोवमनं पाता भुञ्जीत कफवर्धनमिति॥२३॥

संशमनस्नेहस्य शोलितस्य गुणमाह—

दीप्तान्तराग्निःपरिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः॥
दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपसेवी पुरुषो भवेद्धि॥२४॥

अन्तराग्निर्जठराग्निः। परिशुद्धकोष्ठो निर्दोषोदरः। प्रत्यग्रा नवाः। दृढानि स्वकार्यकरणक्षमाणीन्द्रियाणि यस्य सः। स्नेहोपसेवीति। यो नर आभीक्ष्ण्येन स्नेहं सेवते।अन्ये तु, अनेन श्लोकेन च स्वस्थविषये स्नेहकर्मफलं दर्शयन्ति॥ २४॥

स्नेहमेव परं विद्याद्दुर्बलानलदीपनम्॥
नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि॥२५॥

सुगमम्॥२५॥

इति श्रीवृन्दमणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामेकसप्ततितमः
स्नेहाधिकारः समाप्तः॥७१॥

<MISSING_FIG href="../../../books_images/U-IMG-1701332747image1.JPG"/>

अथ द्विसप्ततितमः स्वेदाधिकारः।

<MISSING_FIG href="../../../books_images/U-IMG-1701332767image2.JPG"/>

स्निग्वस्य स्वेद्यत्वादथस्वेदाध्यायः। उक्तं हि चरके—

“स्नेहमग्रेप्रयुञ्जीत ततः स्वेदमनन्तरम्।
स्नेहस्वेदोपपन्नस्य संशोधनमनन्तरम्” इति॥

स्वेदाश्चत्वारस्तापोपनाहद्रवबाष्पभेदात्तान्क्रमादाह। एतेष्वेव चतुर्षु यथासंभवंचरकोक्तशंकरस्वेदाद्यवरोधः। शंकरादिस्वेदास्त्रयोदश।

तद्यथा—

“शंकरः प्रस्तरो नाडी परीषेकोऽवगाहनम्।
जेन्ताकोऽश्मघनः कर्षूः कुटी भूः कुम्भिरेव च।
रूपो होलाक इत्येते स्वेदयन्ति त्रयोदश” इति॥

तप्तैः सैकतपाण्कांस्यवसनैःस्वेदोऽथ वाऽङ्गारकै-
र्लेपाद्वातहरैः सहाम्ललवणस्नेहैः सुखोष्णैस्तथा॥
एवं तप्तपयोऽम्बुवातशमनक्वाथादिसेकादिभि-
स्तप्तैस्तोयनिषेचनोद्भवबृहद्बाष्यैः शिलाद्यैः क्रमात्॥ १॥
तापोपनाहद्रवबाष्पपूर्वाः स्वेदास्ततोऽन्त्यप्रथमौ कफे स्तः॥
वायौ द्वितीयः पवने कफे च पित्तोपसृष्टे विहितस्तृतीयः॥ २॥

सैकतं वालुका। वातहरै रास्नैरण्डमूलादिभिः। अम्लंकाञ्जिकम्। उपनाहशब्दस्त्विहणह बन्धन इत्यस्यार्थः (स्मात्सिद्धः)। तेनोपनह्यते बध्यतेऽनेनेत्युपनाहः।पवने कफे च पित्तोषसृष्ट इति। एतेन पवनकफौ सर्वथा स्वेदविषयौ। तदुक्तं चरके— ‘वातश्लेश्मणिवाते वा कफे वा स्वेद इप्यते’ इति। पित्तं तु, आग्नेयत्वान्नस्वेदविषयम्। तेन वातकफयोरेव प्रबलयोरल्पपित्तसंसर्गे द्रवः स्वेदः। स चोष्णत्वात्प्रबलौ वातकफौ हन्ति। हीनं तु पित्तं प्रति द्रवत्वेन सौम्यत्वादितरस्वेदवन्न तथा विरुध्यते। न च वाच्यं यत्सौम्यत्वाद्वातकफावष्णत्वात्पित्तं कुतो न वर्धयत्येवेति। पथ्यानां शमनैकस्वभावत्वात्। दशमूलं हि कषायतिक्तमधुरोष्णं दोषत्रयशमनमुक्तम्। न च तत्कषायत्वादिभिर्वातादीजनयतीति। तृतीय इति। द्रवस्वेदः॥१॥ २॥

आदावन्ते तथोभयथा प्रधानकर्माङ्गत्वेनावचारणात्स्वेदस्य त्रैविध्यमाह—

येषां नस्यं विधातव्यं बस्तिश्चापि हि देहिनाम्॥
शोधनीयाश्चये केचित्पूर्वं स्वेद्याश्च ते मताः॥३॥

शोधनीया इति। वमनविरेचनार्हाः। विरेचने कर्तव्ये त्र्यहं स्नेहादु842परमः। वमने पुनरेकाहम्। उपरमदिने स्वेदः।

यदाह सुदान्तसेनः

“स्निग्धद्रवोष्णधन्वोत्थरसभुक्स्वेदमाचरेत्।
स्निग्धरूयहं स्थितः कुर्याद्रेचनं वमनं पुनः॥
एकाहं दिनमन्यच्च कफमुत्क्लेश्य तत्करैः” इति॥३॥

पश्चात्स्वेद्या हृते शल्ये मूढगर्भाऽनुपद्रवा॥
सम्यक्प्रसूता काले च पश्चात्स्वेद्यैव जानता॥४॥

** अनुपद्रवेति।** रक्तस्त्रावाद्युपद्रवरहिता॥४॥

स्वेद्यः पूर्वं च पश्चाच्च भगंदर्यर्शसस्तथा॥
अश्मर्या चाऽऽतुरो जन्तुः शेषाञ्शस्त्रेषु वक्ष्यते॥५॥

** अर्शसस्तथेति।** पूर्वं पश्चात्। स्वेदः पुनरर्शसि दाहानन्तरमुष्णाम्बुपूर्णकटाहोपवेशनरूपो ज्ञेयः॥९॥

स्नेहस्वेदपूर्वकमेव शोधनं धात्वादिलीनान्दोषान्निहन्तुं क्षममित्याह—

स्नेहक्लिन्ना धातुसंस्थाश्च दोषाः
स्वस्थावस्था ये च मार्गेषु लीनाः॥
सम्यवस्वेदैर्योजितास्त्रे द्रवत्वं
प्राप्ताः कोष्ठं शोधनैर्यान्त्यशेषाः॥६॥

मार्गेषु स्रोतस्सु स्वेदैर्द्रवत्वं प्राप्ता द्रवत्वाच्च कोष्ठं प्राप्ताः शोधनैर्निःशेषं यान्ति वहिर्निःसरन्तीत्यर्थः॥६॥

इदानों स्वेदगुणानाह—

अग्नेर्दीप्तिं मार्दवं त्वक्प्रसादं भक्तश्रद्धां स्रोतसां निर्मलत्वम्॥
कुर्यात्स्वेदस्तन्द्रिनिद्रे च हन्यात्संधींस्तब्धांश्चेष्टयेदाशु युक्तः॥७॥

स्तब्धान्स्विरान्। केचिदाचार्या एवं वदन्ति द्विविधः स्वेदः संशमनीयः संशोधनाङ्गभूतश्च। तत्र संशमनीयः सामेषु व्याधिषु रूक्ष एवप्रयोज्यः। तद्गुणाः पुनरग्नेर्दीप्तिमित्यादिश्लोके ज्ञातव्याः। संशोधनाङ्गभूतस्तु स्नेहपूर्वो योज्यः। तस्य गुणास्तु स्नेहक्लिन्ना इत्यादिश्लोकेन प्रोक्ता इति ज्ञेयम्॥७॥

सर्वान्स्वेदान्निवाते तु जीर्णेऽन्ने चावचारयेत्॥
स्नेहाभ्यक्तशरीरस्य शीतैराच्छाय चक्षुषी॥

अन्ने जीर्ण इतिप्रायेण। तेन विष्टब्धाजीर्णेऽपि स्वेदः। उक्तं हि—विष्टब्धे स्वेदनं कार्यमिति। शीतैराच्छाद्य चक्षुषी इत्येतत्सर्वाङ्गेषु स्वेदेषु क्रियमाणेषु चक्षूरक्षणार्थमुक्तम्। **शीतैरिति।**पद्मपत्रादिभिः। अत्र चक्षुषी इत्युपलक्षणम्। तेन त्दृदयादिरक्षाऽप्येवं कार्या॥

हृदयं वृषणौ दृष्टी स्वेदयेन्मृदु वा न वा॥८॥

** मृदु वा न वेति।**त्दृदयादिगते व्याधौ स्वेदैकसाध्ये मृदुः। *843उत्पादानन्तरसंभवे तु न वेति व्यवस्था। वाष्पचन्द्रस्तु, एवं व्याचष्टे। वाशब्दो व्यवस्थितविकल्पः। वृषणौ मृदु स्वेदयेद्वृध्यादिषुहृदयदृष्टी नैव स्वेदयेत्।

“पद्मोत्पलपलाशैर्वाः स्वेद्यः संवृत्य चक्षुषी॥
मुक्तावलीभिः शुद्धाभिः शीतलैर्भाजनैरपि।
जलार्द्रैर्जलजैर्हस्तैः स्विद्यतो हृदयं स्पृशेत्॥

इत्यनेन त्दृदयहष्ट्योरक्षणोपदेशात्। यत्तूत्तरतन्त्रेऽक्षिशूलादिपु स्वेदो विहितस्तत्तु संमीलिताक्ष्णोर्बाह्येक्रियते न दृष्टौ॥८॥

अथ किवन्तं कालं यावत्स्वेदयेदित्याह—

शीतशूलेषूपरमे स्तम्भगौरवनिग्रहे।
संजाते मार्दवे स्वेदे स्वेदनाद्विरतिर्मता॥९॥

स्तम्भः शरीरस्तब्धता। स्वेद इति। धर्मे। स्वेदनाद्विरतिर्मता स्वेदनाद्विरमेदित्यर्थः॥९॥

तस्य सम्यग्युक्तस्यायोगातियोगयुक्तस्य च लक्षणं चिकित्सितं च दर्शयन्नाह—

स्वेदास्रावो व्याधिहानिर्लघुत्वं शीतार्थित्वंमार्दवं चाऽऽतुरस्य॥
सम्यबिस्वन्नेलक्षणं प्राहुरेतन्मिथ्यास्विन्नेव्यत्ययेनैतदेव॥१०॥

स्वेदास्रावः स्वेदस्य जलरूपत्वात्समन्ततः स्रावः। व्याधिहानिर्व्याधेर्ज्जररूपस्य हानिः। लघुत्वं शरीरस्य। मिथ्यास्विन्न इति। अयोगस्विन्ने। व्यत्ययेन विपर्ययेण॥१०॥

स्फोटोत्पत्ती रक्तपित्तप्रकोपो
मदो मूर्छा भ्रान्तिदाहौ क्लृमश्च॥
स्विन्नेऽत्यर्थंसंधिपीडा तृषा च
क्रियाः शीतास्तत्र कुर्याद्विधिज्ञः॥११॥

सुगमम्॥११॥

अतिस्विन्नमथाऽऽश्वास्य शीताम्बुत्रासनं हितम्॥१२॥

** आश्वास्येति।** तैलादिना संतर्प्य। मिथ्यास्विन्ने तु स्वेद एव ज्ञेयः। **यदाह निमिः—**अस्विन्नं स्वेदयेद्धीरं पुनरास्विन्नलक्षणादिति॥१२॥

स्नातमुष्णाम्बुना चापि निवातं च लयं नयेत्॥

स्नातमुष्णाम्बुनेत्यादि विधानं सम्यक्स्विन्नस्य बोद्धव्यम्। यदुक्तं सुश्रुते—

“सम्यक्स्विन्नं विमृदितं स्नातमुष्णाम्बुभिः शनैः।
भोजयेच्चानभिष्यन्दि सर्वं चाऽऽचारमादिशेत्” इतिः॥

उष्णाम्बुना स्नानं शीताम्बुना स्रोतोरोधकत्वात्। स्वेदेन विलीनं शोणितं शीताम्बुस्नातस्य देहिनः स्त्यानत्वमापन्नं न सुखयति। अत उक्तम्—स्नातमुष्णाम्बुनेति।सुश्रुतसूत्रस्थानेऽप्युक्तम्—

“शरीरे स्विन्नभूयिष्ठे स्विन्नं भवति शोणितम्।
प्रकृत्या ह्युदकं शीतं स्कन्दयत्यपि शोणितम्।
तस्मात्सुखयति ह्युष्णं न तु शीतं कथंचन” इति॥

भोजयेच्चानभिष्यन्दि सर्वमाचारमादिशेत्॥१३॥

अनभिष्यन्दि भोजनमग्निरक्षार्थम्। सद्यो व्याधिकरणीयामवस्थां स्यन्दयत्यापादयति यद्द्रव्यं तदभिष्यान्दे स्रोतसामुपलेपकारि वा तद्विपरीतमनभिष्यन्दि। **आचारमिति।**आहाराचारनियमनम्॥१३॥

इदानीं स्वेदस्य पूर्वकर्म नियमयन्नाह—

नानभ्यक्ते नापि चास्निग्धदेहे स्वेदो योज्यः स्वेदविद्भिः कथंचित्॥ १४ ॥

अभ्यङ्गेन बाह्यस्नेहक्रियापूर्वकत्वं नापि चास्निग्धदेह इत्यन्तरस्नेहपूर्वकत्वं स्वेदस्य॥१४॥

अस्निग्धे स्वेददोषमुपमानेन दर्शयितुमाह—

दृष्टं लोके काष्ठमस्निग्धमाशु यायाद्भङ्गंस्वेदयोगौर्गृहम्॥१५॥

सुगमम्॥ १९॥

पाण्डर्मेही रक्तपित्ती तृषार्तः क्षतक्षीणो दुर्बलोऽजीर्णभुक्तः॥
दकोदरी गर्भिणी पानपश्च नैते स्वेद्यायश्च मर्त्योऽतिसारी॥१६॥

** पानप इति।** मद्यपः॥१६॥

स्वेदादेषां याति देहो विनाशं नो साध्यत्वं यान्ति चैषांविकाराः॥१७॥

सुगमम्॥ १७॥

इति श्रीवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां द्विसप्ततितमः स्वेदाधिकारः समाप्तः॥७२॥

<MISSING_FIG href="../../../books_images/U-IMG-1701661824image1.JPG"/>

अथ त्रिसप्ततितमो वमनाधिकारः।

<MISSING_FIG href="../../../books_images/U-IMG-1701661847image2.JPG"/>

स्निग्धस्विन्नस्य वमनविरेकावुचितौ तयोरेव वमनमेव पूर्वभावीत्यनन्तरं वमनाध्यायः। अत एवाऽऽह **सुश्रुतः—**विरेचनमपि स्निग्धस्विन्नाय वान्ताय वा देयम्। अवान्तस्य हि सम्यग्विरिक्तस्याप्यधः स्रस्तः श्लेष्मा ग्रहणीमाच्छादयति गौरवमापादयति प्रवाहिकां वा जनयतीति।

वमनं रेचनं नस्यं निरूहं सानुवासनम्॥
ज्ञेयं पञ्चविधं कर्म विधानं तस्य कथ्यते॥१॥

सुगमम्॥ १॥

संशोधनस्य संशमनप्रकाराल्लङ्घनपाचनात्प्रकर्षमाह—

दोषाः कदाचित्कुप्यन्ति जिता लङ्नपाचनैः॥
जिताः संशोधनैर्ये तु न तेषां *844पुनरुद्भवः॥२॥

** कदाचिदिति।** स्वल्पहेतुलाभेन जिता इव जिता दोषमूलानुच्छेदान्मूलभूतापगतदोषसद्भावान्न सम्यगवजिताः स्वल्पमपि हेतुं प्राप्य पुनः शीघ्रं कुप्यन्तीति भावः। न तेषां पुनरुद्भव इति। संशोधनेन समूलदोषावजयादल्पहेतुना न कदाऽपि तेषां पुनः प्रकोषो बलवद्धेतुना भवत्येव।

अथ चन्द्रनन्दनभाष्यकारव्याख्यानम्—अत्यर्थसंचितानां प्रधानोपक्रमः शोधनाख्यो यतः शीघ्रमेव तेनोपशमो जायते चिरेण पुनर्लङ्घनपाचनाभ्यां संचितप्रायाणां लङ्घनपाचने प्रधानोपक्रम ईषत्संचितानां लङ्घनमेव प्रधानोपक्रमः। एवं क्वचित्संशोधनं प्रधानं क्वचिल्लङ्घनपाचने क्वचिच्च लङ्घनमेव प्रधानोपक्रमः। यत एवं ततोऽयं ग्रन्थ आरब्धं न्याय्यो दोषाः कदाचिदित्यादिः। दोषा वातादयो लङ्घनपाचनौर्जिताः सन्तः कदाचित्कुत्रचित्कुप्यन्ति कोपं यान्ति। ये पुनर्दोषाः संशोधनैर्वमनादिभिः शुद्धास्तेषां दोषाणां प्रधानशुद्धा शुद्धानां न पुनरुद्भवो न पुनर्जन्म भवेच्छिन्नमूलत्वात्पुनस्ते न प्ररोहन्ति। तस्माल्लङ्घनपाचनयोः कृतयोरपि संशोधनमुपक्रमः किमुताकृतयोः। एवं तावल्लङ्घनपाचनविषये संशोधनमप्युपक्रमः संशोधनविषयेऽपि देशकालशरीरादीनपेक्ष्य लङ्घनपाचने निप्प्रत्ययायोपात्ततृयोपक्रमः कार्य इति॥२॥

कफजे वमनं शस्तं रेचनं पित्तजे गदे॥
वस्तिर्वातगदे कार्यमामजे पाचनादिकम्॥३॥

सुगमम्॥३॥

स्निग्धस्विन्नं नरं सम्यग्जानुमात्रासनस्थितम्॥
कण्ठमेरण्डनालेन स्पृशन्तं वामयेद्भिषक्॥४॥

स्नेहपानादेकाहमुपरतमुपरमदिन एव स्विन्नं स्निग्धद्रवोष्णरसौदनं भुक्तवन्तं च वामयेत्।

** उक्तं हि—**

“स्नेहात्प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः पिबेत्।
स्नेहवद्द्रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम्।
एकाहोपरतस्तद्वद्भुक्त्वा प्रच्छर्दनं पिबेत्" इति।

अत्र प्रस्कन्दनं विरेचनम्। तद्वद्भुक्त्वेति। स्नेहद्रवोष्णरसौदनं मुक्त्वा। भालुकिना तु स्नेहपानान्त्र्यहेण वमनं दर्शितम्।

तद्यथा—

“स्निग्धस्विन्नशरीरस्य दद्यात्प्रच्छर्दनं त्र्यहात्।
दशरात्रे गते दद्याद्वान्ते भूयो विरेचनम्” इति॥४॥

कृष्णेन्द्रयवसिन्धूत्थराढक845ल्कयुतं पिबेत्॥
यष्टीकषायं सक्षौद्रं तेन साधु वमत्यलम्॥५॥

राढो846 मदनफलम्। कृष्णादीनां मिलित्वा कर्षः। मदनफलस्यापि कर्षःयष्टीकषायंयष्टीमधुकषायम्। कषायश्च—

“क्वाथ्यद्रव्यस्य कुडवं श्रपयित्वा जलाढके।
चतुर्भागावशिष्टं तु वमनेष्ववचारयेत्”॥

इति परिभाषया कर्तव्यः। अत्र चतुर्भागेत्यस्य स्थानेऽर्धभागेति पाठान्तरम्। क्वाथबहुत्वे तु सत्ययं गुणो यद्ययोगः स्यात्तदा स एव पुनः पेयः। चरकेऽन्तर्नखं मुष्टिं जर्जरीकृत्येति कल्कमानं दर्शितं कषायेऽपि चूर्णं शरावं पाययेदित्युक्तं तथेहापि कल्कः कषायश्चात्र सर्वः कोष्णः कार्यः। सुखोष्णं सर्वत्र ज्ञेयम्॥

तदुक्तम्—

“यथा विकारविहितां मधुसैन्धवसंयुताम्।
कोष्ठं विभज्य भैषज्यमात्रां मन्त्राभिमन्त्रिताम्”॥

अत्र कोष्णेन सह मधुसंबन्धो न विरोधी। वमनस्यापक्वस्यैवोर्ध्वगमनात्। जठरजातवेदसा हि पाके विरोधसंभवः॥

तदुक्तम्—

“यात्यधो दोषमादाय पच्यमानं विरेचनम्।
गुणोत्कर्षाद्व्रजत्यूर्ध्वमपक्वंवमनं पुनः”॥ इति।

विद्यात्स्वयोगे पाकसंभवं मद्यपानां मध्वेव॥

** मन्त्रश्चात्र—**

“ब्रह्मदक्षाश्चिरुद्रेन्द्रभूचन्द्रार्कानिलानलाः।
ऋषयः सौषधिग्रामा भूतसंघाश्च पान्तु ते॥
रसायनमिवर्षीणाममराणामिवामृतम्।
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते”॥

इति बोद्धव्यः॥५॥

कृशरां राढसं847सिद्धां तद्वजैर्वा शृतं पयः॥
पीत्वा राढक848षायं वा सिन्धुकृष्णान्वितं वमेत्॥६॥

सुगमम्॥६॥

तण्डुलसलिलनिपिष्टं यः पीत्वा वमति नरः पूर्वाह्णे॥
फलिनीवल्कलमुष्णं हरति गरं सकफपित्तरुजम्॥७॥

** पीत्वेति।** तण्डुलजलेनैव। फलिनीवल्कलमिति। कर्षमानम्॥७॥

आटरूषं वचां निम्बं पटोलं फलिनीत्वचम्॥
क्वाथयित्वा पिबेत्तोयं वान्तिकृन्मदनान्वितम्॥८॥

आटरूषकादिद्रव्यं कुडवं जलाढकं पादशेषः कषायः। मदनफलकल्कस्य कर्षः। पञ्चकषायः॥८॥

क्वाथ्यद्रव्यस्य कुडवं श्रपयित्वा जलाढके॥
चतुर्भागावशिष्टं849 तु वमनेष्ववचारयेत्॥९॥

सुगमम्॥९॥

जीमूतकस्तथेक्ष्वाकुः कुटजः कृतवेधनः॥
धामार्गवश्च संयोज्या वमने राढवत्पृथक्॥१०॥

जीमूतको देवदाली। इक्ष्वाकुः कटुकालाबूः। कुटजः प्रसिद्धः। कृतवेधनो घोषिका कोशातकी। धामार्गवः पीतघोषो राजकोशातकी। एषां क्वाथकल्कादीन्कृत्वा राढवन्मदनफलवद्देशकालादीन्वीक्ष्य प्रयोक्तव्याः। मदनफलविधानं सुश्रुतोक्तम्—निर्वृत्तानां नातिहरितपाण्डूनां कुशमूटाव850बद्धमृद्गोमयप्रलिप्तानां महति यवतुषमुद्गमाषशाल्यादिधान्यराशावष्टरात्रोषितक्लिन्नभिन्नानां फलानां फलपिप्पलीरुद्धृत्याऽऽतपे शोषयेत्। तासां दधिमधुपललविमृदितपरेिशुष्काणां सुभाजनस्थानामन्तर्नखमुष्टिमुष्णे यष्टीमधुककषाये कोविदारादीनामन्यतमे वा कषाये विमृद्य रात्रिपर्युषितं मधुसैन्धवसंयुक्तमाशीर्भिरभिमन्त्रितमुदङ्मुखः प्राङ्मुखमातुरं पाययेतानेनमन्त्रेणाभिमन्त्र्य—

“ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः।
ऋषयः सौषधिग्रामा भूतसंघाश्च पान्तु ते॥
रसायनभिवर्षीणां देवानाममृतं यथा।
सुधेवोत्तमनागानां भैषज्यामिदमस्तु ते”॥

अस्यार्थः। निर्वृत्तानां परित्यक्तशि(श)लाटुभावानां किंचित्पक्वानामित्यर्थः। कुशमूटः कुशपुटः। फलपिप्पल्यो मदनफलमज्जानः। अन्तर्नखमुष्टिनखानां मध्ये मुष्टिर्न तु पारिभाषिकी पलाभिधा। यष्टीमधुकषाये कोविदारादीनां संशोधनसंशमनीयोक्तानामेकादशानामन्यतमकषाये वा विमृद्य फलपिप्पलीनामन्तर्नखमुष्टिं रात्रिपर्युषितं मधुसैन्धवसंयुक्तमाशीर्भिरभिमन्त्रिमुदङ्मुखोवैद्यः प्राङ्मुखमातुरं पाययेदिति संबन्धः। आशीर्भिरभिमन्त्रितमिति। इष्टाशानिष्पादनमन्त्रोऽप्याशीस्ताभिर्वेदोक्ताभिरभिमन्त्रितम्। अभिमन्त्रणमन्त्रमाह—ब्रह्मदक्षेत्यादि। मन्त्रार्थस्त्वसंदर्शनीय आवृत्त्यैव केवलया मन्त्राणां फलदत्वात्। एवं राढव851ज्जीमूतकादीनांप्रयोगः॥१०॥

निम्बकषायोपेतं फलिनीगदमदनमधुकसिन्धुत्थैः॥
मधुयुतमेतद्वमनं कफपरिपूर्णाशये शस्तम्॥११॥

गदः कुष्ठम्। फलिनीमधुककुष्ठानां मिलित्वा कर्षः। मदनफलस्य च कर्षः। *852मदनफलमज्जा मदनफलमध्यस्य स्निग्धो भागस्तत्सिद्धं क्षीरं दधितां दधिभावमुपगतं तत्सरं दध्युत्तरं वा कफप्रसेकादिषु वमनाय प्रयुञ्जीत॥११॥

श्लेष्मलैर्विविधैरन्नैर्दोपानुत्क्लेश्य यत्नतः॥
स्निग्धस्विन्नाय वमनं दत्तं सम्यक्प्रवर्तते॥१२॥

** श्लेष्मलैर्विविधैरन्नैरिति।**स्निग्धद्रवोष्णरसौदनादिभिः। पेशलैर्विविधैरिति डल्लणपाठे पेशलैः कोमलैरकठिनैरभिप्यदिभिरिति यावत्। तथा च—श्लेष्मोत्तरश्छर्दयते ह्यदुःखं विरिच्यते मन्दकफस्तु सम्यगिति॥१२॥

तत्रायोगातियोगयोरेव व्यापत्संभवेन प्रलिङ्गंदर्शयन्नाह—

कफप्रसेकं हृदयाविशुद्धिं शीतज्वराध्मानमथाविपाकम्॥
शिरोगुरुत्वं मधुरास्यतां च कण्डं च दुर्वामितलिङ्गमाहुः॥१३॥

सुगमम्॥१३॥

शून्यं शिरस्तीव्रमतीवकम्पं पार्श्वोसोर्धृपनमेवचापि॥
पित्तातियोगं च विसंज्ञतां च हन्कण्ठपीडामपि चातिवान्ते॥१४॥

पित्तातियोगं पित्तातिप्रवृत्तिम्॥१४॥

पित्ते कफस्यानु सुखं प्रवृत्ते शुद्धेषु हृत्कण्ठशिरःसु चापि॥
लघौ च देहे कफसंस्रवे च स्थिते सुवान्तं पुरुषं व्यवस्येत्॥ १५॥

सुवान्तलक्षणमाह—पित्ते कफस्यानु सुखमित्यादि। इति डल्लणोक्ता शङ्का। अथ श्रीकण्ठपण्डितस्त्वे वमाशङ्कांविधाय व्याचष्टे। अत्र कैश्चितुर्विधा शुद्धिरुक्ता लैङ्गिकीमानिकी वैगिक्यान्तिकी चेति। तामां मध्ये लैङ्गिकीमेव शुद्धिमाह— पित्ते कफस्यानु सुखमित्यादि।कफस्यानु पश्चाच्छद्गेष्वगौरवादिलक्षणयुक्तेषु व्यवस्येज्जानीयात्। सम्यस्वान्तलक्षणं कार्यत्वेन दुर्वान्नातिवान्तलक्षणं परिहार्यत्वेन व्यापत्परिहारार्थमुक्तम्। ननु वमने सुश्रुतेनकतो लैङ्गिकीपरमियंशुद्धिरुच्यते नापरास्तिस्रः। चतुर्विधा हि शुद्धिश्चरके वमने विरेनने पोक्वा। यथा— वैगिकी मानिक्यान्तिकी लैङ्गिकी॥

जवन्यमध्यप्रवरेतु वेगाश्चन्वार इष्टा नमने षडष्टौ।
दशैवते द्वित्रिगुणा विरेके प्रस्थस्था द्वित्रिचतुर्गुणश्च॥
पित्तान्तमिष्टं वमनं विरेकादधे कफान्तं न विरेकमाहुः।
द्वित्रिन्तरधिकानपनीय वेगान्मेथंविरके वमने तु पीतम्॥
कमानक..नमथानिन्दश्चयस्यैनि सम्यग्वमितः सइष्टः।
द्वत्पार्श्वमूर्ध्वोन्द्रियमार्गशुद्धौ वनोर्लुवृत्वेपि च लक्ष्यमाणे॥
दुश्छर्दितेस्फोटककोठकदृत्ण्ठग्वाविशुद्धिं गुरुगत्रतां न।
तुष्माहमुर्छानियकोपनिद्राबद्धानिहानि वमितेऽतिविद्यात्॥

स्रोतोविशुद्धीन्द्रियसंप्रसादौ लघुत्वमूर्जाग्निरनामयत्वम्।
प्राप्तिश्च विट्पित्तकफानिलानां सम्यग्विरिक्तस्य भवेत्क्रमेण” इति।

विरेकेऽपि सुश्रुतेन चतुर्विधैव शुद्धिर्दर्शिता। तथा हि—गतेषु दोषेषु कफान्तिकेप्वित्यनेनाऽऽन्तिकी। नाभ्यां लघुत्वे मनसश्च तुष्टावित्यादिना लैङ्गिकी। वैगिकी च कुष्ठे सूचिता।

यथा—

“प्रातः प्रातश्च सेवेत योगान्वैरेचनाञ्शुभान्।
यैरुत्थानानि जायन्ते षडष्टौ पञ्च सप्त वा” इति॥

मानिक्यातुरोपद्रवे दर्शिता।

“त्रीणि चात्र प्रमाणानि प्रस्थोऽर्धाढकमाढकम्॥
तत्रावरं प्रस्थमात्रं शेषे द्वे मध्यमोत्तमे” इति।

उच्यते—तिसृणां शुद्धीनामनैकान्तिकत्वप्रतिपादनार्थं वमने न विधानम्। अत्र वैगिकी तावद्व्यभिचरति हीनयोगे यथोक्तैरपि वेगैः शुद्धेरदर्शनात्। वमनमित्यन्यस्य कस्यचित्तैरन्यैरपि शुद्धेश्च। मानिक्यपि व्यभिचरति यतो दोषवृद्धेरुत्कर्षापकर्षतारतम्यादधिकन्यूनेनापि मानेन शुद्धिः संभवत्येव। न हि निदानानुरूपकोपभाजां दोषाणां प्रतिनियतं प्रमाणमस्ति। अत एव सुश्रुतेन विरेके धारप्रस्थो मध्ये प्रस्थद्वयं दर्शितम्। चरके त्वधारप्रस्थद्वयं मध्येप्रस्थत्रयमुक्तम्। आन्तिक्यपि नैकान्तिकी कफाशयगते पित्ते कदाचिद्वित्रवेगैरेव वमने पित्तान्तत्वे जातेऽपि न शुद्धेरुदयः। लैङ्गिकी तु न सर्वथा व्यभिचरति तेन सैव सुश्रुते वमने दर्शिता। यद्येवमपरास्तिस्रःशुद्धयः सुश्रुतेन विरेके चरकेण तु वमने कुतोऽभिहिताः। उच्यते। वैगिकीमानिक्योर्जघन्यादिभेदस्य पेयादिक्रमभेदस्य प्रतिपादनार्थमित्यभिधानम्। आन्तिकी च प्रायोभावित्वेनोक्तेति समाधेयम्। सुश्रुते निबन्धकारडल्लणाचार्य एवं व्याख्याति। तत्र कैश्चिन्त्रिधा शुद्धिरभिहिता यथा लैङ्गिकी वैगिकी मानिकी चेति। तत्र लिङ्गैर्वान्तविरिक्तसम्यक्चिह्नैर्ज्ञायत इति लैङ्गिकी। हीनमध्योत्तमैर्वमनवेगैश्चतुः षडष्टभिर्दशविंशतित्रिंशद्धिर्विरेचनैर्ज्ञायत इति वैगिकी। मानेन श्लेष्मपित्तयोः प्रस्थार्धाढकाढकप्रमाणेन हीनमध्यमोत्तमेन ज्ञायत इति मानिकी। तत्र न तावन्मानिकी शुद्धिः। दोर्घह्रस्वस्थूलकृशदेहसंहतिप्रकृतिसारादिभिर्विविधलक्षणशरीराणां प्राणिनां दोषधातुमलानां परिमाणाभावात्। नापि वैगिकी यतो बहुभिर्वेगैःकदाचित्कस्यचिच्छुद्धिः प्रकृतिवयोबलशरीरदोषव्यपेक्षया कस्यचित्कतिपयैरपि वेगैः शुद्धिरिति। अतस्तृतीयां कफप्रसेकमित्यादिभिर्लिङ्गैर्लैङ्गिकींशुद्धिमत्रोक्तवान्सुश्रुताचार्य इति॥१५॥

आहारं सेव्यमाचाराभिहितं प्रतिपादयन्नाह—

ततोऽपराह्णेसुविशुद्धदेहमुष्णाभिरद्भिः परिषिक्तगात्रम्॥
कुलत्थमुद्गाढकिजाङ्गलानां यूषै रसैर्वाऽप्युपभोजयेत्तम्॥१६॥

कुलत्यादीनां यूषैजीङ्गलानां मांसरसैवीलघुभक्तमेव भोजयेत्। यूषमांसरसविकल्पश्चायं दोषकालसात्म्याद्यपेक्षः। ननु वान्तस्य सहसामन्दोऽग्निः स्यात्।

तदुक्तम्—

“स्नेहपीतस्य वान्तस्य विरिक्तस्य स्रुतासृजः।
निरूढस्य च कामाग्निर्मन्दो भवति देहिनः” इति।

मन्दे चाग्नौपेयादिकमो न्याय्यस्तत्कथमिह तथा नोक्तम्। उच्यते। वान्तस्य नावश्यं विरिक्तस्येवात्यन्तमग्नेरुपघातः। किंच। प्रवृद्धकफापगमाय वमनं तस्यां चावस्थायां पेयादिक्रमोऽनुचितः पेयायाः कफवर्धकत्वात्।

यदुक्तम्—

“पांशुधाने यथा वृष्टिः क्लेदयत्यतिकर्दमम्।
तथा श्लेष्मणि संवृद्धेयवागूः श्लेष्मवर्धिनी” इति।

मनाङ्मन्देऽग्रावनतिक्षीणे न कफेयुपादिना भोजनविधिः। यदा तु भृशं मन्दोऽग्निरतिक्षीणश्च कफस्तदा पेयादिक्रमो विहितः। अत एवाऽऽह दृढबलः

“पेयां विलेपीमकृतं कृतं च यूपं रसंद्वित्रिरथैकशश्च।
क्रमेण सेवेत विशुद्धकायःप्रधानमध्यावरशुद्धिशुद्धः” इति।

अथ डल्लणाचार्यस्य व्याख्या—वान्तस्य हि मन्दाग्निःपेयादिकमयोग्यम्य कथं यूषमांसरसोपदेशः। अत्रोच्यते। अपिशब्दात्येयादिक्रमोऽत्राप्युक्त एव। तत्रात्यन्तक्षीणकफानां पेयादिस्तेषामपि वानभूयिष्ठानां दीप्ताग्नीनां सात्म्यापेक्षया मांसरसोपयोगः। दोषर्तुप्रकृत्यपेक्षया किंचित्कफयुक्तानां यूपोपयोगः। न तु विलेपीयवागृनाम्।

उक्तं च—

“पांशुधाने यथा वृष्टिः क्लेदयत्यतिकर्दमम्।
तथा श्लेष्मणिसंदृष्टंयवागूः श्लेष्मवर्धिनी” इति॥१६॥

अतः परं वमनकलाभिधानम्—

कफप्रसेकम्वरभेदनिद्रातन्द्रास्यदौर्गन्ध्यविपोपसर्गाः।
गुरुत्वकण्ट्टग्रहणीप्रदोषान सन्ति जन्तोर्वमनात्कदाचित्॥१७॥

** केचित्—‘‘कासोपलेपस्वरभेदतन्द्रा निद्रास्यदौर्गन्ध्यकफोपसर्गाः। कफप्रसेकग्रहणीप्रदोषान सन्ति जन्तोर्वमतस्तधाऽन्ये”** इतिपठन्ति। उपलेपः स्तोत्रःसु मलवृद्धिः। उपसर्गाः शीतलिकादयः॥१०॥

अस्यैवार्थस्य द्रढनार्थ दृष्टान्तमाह—

छिन्ने तरौपुष्पफलप्ररोहा यथा विनाशं सहसा व्रजन्ति॥
तथा हृते श्लेष्मणि च्छर्दनेन तज्जा विकाग विलयं व्रजन्ति॥१८॥

अतः परमवन्यानाह—

न वामयेत्तैमिरिकं न गुल्मिनं
न चापि पाण्डूदररोगपीडितम्॥
स्थूलक्षतक्षीणकृशातिवृद्धा-
नर्शोर्दिताक्षेपकपीडितांश्च॥१९॥

रूक्षे प्रमेहे तरुणे च गर्भेगच्छत्यथोर्ध्वं रुधिरे च तीव्रे॥
दुष्टे च कोष्ठे कृमिभिर्मनुष्यं न वामयेद्वर्चसि वाऽतिवृद्धे॥२०॥

** पाण्डूदररोगपीडितमिति।** रोगशब्दः पाण्डूदराभ्यां सह संबध्यते। केचित्—

“न वामयेत्तैमिरिकोर्ध्ववातगुल्मोदरप्लीहवमिश्रमार्तान्। स्थूलक्षतक्षीणकृशातिवृद्धान्मूत्रातुरान्केवलवातरोगान्।स्वरोपघाताध्ययनप्रसक्तदुश्छर्ददुष्कोष्टतृडर्तिबालान्। ऊर्ध्वास्रपित्तक्षुधितातिरूक्षगर्भिण्युदावर्तनिरूहितांश्च”। इति पठन्ति।

ऊर्ध्वं वातं के केचिच्छ्वासं मन्यन्ते तन्न श्वासिनो मृदुमनार्हत्वात्। ऊर्ध्ववातस्तन्त्रान्तरे प्रोक्त एव—

“अधः प्रतिहतो वायुः श्लेष्मणा मारुतेन वा।
करोत्यनिशमुद्गारमूर्ध्ववातः स उच्यते” इति॥

अन्यत्राप्युक्तम्—

“भुक्ते भुक्ते तथा सुप्ते यस्योद्गारः प्रवर्तते।
ऊर्ध्ववातं तु तं विद्यादुदानव्यानसंभवम्” इति॥१९॥२०॥

एतेऽप्यजीर्णव्यथिता वाम्या ये च विषातुराः॥
अतीव चोल्बणकफास्ते च स्युर्मधुकाम्बुना॥२१॥

एषामजीर्णपीडायां स्थावरजङ्गमे कृत्रिमविषबाधायां चात्यर्थोद्धृतकफाश्चैते वाम्या वमनार्हाः। तत्रैषां वमने चिराद्बाधाऽजीर्णेन विषैश्च सद्य एव। उल्वणकफानां च गलामयादिषु सद्य एवविनाशः। अत्रापि द्रव्यविशेषमुपदिशन्नाह—**मधुकाम्बुनेति।**यष्टीमधुकषायेण वमनाङ्गप्रधानेन वामयेत्। जैज्जटः पुनराह—मध्वेव मधुकं स्वार्थे कः, तेन मधुकाम्बुना क्षौद्राम्बुना। एष प्रतिप्रसवो ह्यवाम्यानामप्युक्तः॥२१॥

अवमनार्हाणां वमने व्याधिपरिवृद्धिमसाध्यतां च दर्शयन्नाह—

अवाम्यवमनाद्रोगाः कृच्छ्रतां यान्ति देहिनः॥
असाध्यतां वा गच्छन्ति नैते वाम्यास्त्वतः स्मृताः॥२२॥

अत्रावाम्यानामनिर्देशो यथास्वं तल्प्रल्यनीकव्याधिषु वमननिर्देशादिति॥२२॥

अतिवान्तं घृताभ्यक्तमवगाह्य हिमे जले॥
उपाचरेत्सिताक्षौद्रमिश्रैर्लेहैश्चिकित्सकः॥२३॥

** लेहैरिति।** लाजसक्तुलेहैः शर्करामधुमिश्रैरुपाचरेत्। क्वचिल्लाजसक्तुभिः प्रकल्पितैः क्वचिच्छर्कशमिश्रैः क्वचिन्मधुमिश्रैरित्यर्थः॥२३॥

वमनेऽतिप्रवृत्ते च हृद्यं कार्यंविरेचनम्॥
विरेकेऽतिप्रवृत्ते तु वमनं योजयेद्भिषक्॥२४॥

सुगमम्॥२४॥

इति श्रीवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां त्रिसप्ततितमो
वमनाधिकारः समाप्तः॥७३॥

<MISSING_FIG href=”../../../books_images/U-IMG-1701688178image2.JPG"/>

अथ चतुःसप्ततितमो विरेचनाधिकारः।

<MISSING_FIG href="../../../books_images/U-IMG-1701688178image2.JPG"/>

वमनपूर्वकत्वाद्विरेचनस्याथ विरेकाध्यायः। विरेचनविधानमाह—

स्निग्धस्विन्नाय वान्ताय प्रदातव्यं विरेचनम्॥
अन्यथा योजितं ह्येतद्ग्रहणीरोगकृन्मतम्॥१॥

** स्निग्धस्विन्नायेति।** वमनानन्तरमपि स्निग्धस्विन्नाय देयम्।

यदुक्तम्—

“कर्मणां वमनादीनामन्तरे त्वन्तरे पुनः।
स्नेहस्वेदौ प्रयुञ्जीत संशोधनमनन्तरम्”॥ इति।

तच्च पक्षादूर्ध्वंपक्षाद्विरेको वान्तस्येत्युक्तत्वात्। तत्रान्नसंसर्गेणापि दिनानि षट्स्नेहेनापि ततः स्विन्नं त्र्यहमेव लघूष्णभोजिनं रेचयेत्।

“वान्तं षडहसंसृष्टं पुनः संस्नेहितं क्रमात्।
उष्णं लघु त्र्यहं भुक्तं षोडशेऽह्निविरेचयेत्” इति॥

तत्र वमने स्नेहादेकाहमेवोपरमो विरेके त्र्यहम्। तथा हि चरकः—

“एकाहोपरतः स्नेहाद्रुक्त्वा प्रच्छर्दनं पिबेत्।
त्रिरात्रोपरतस्तद्वत्स्नेहात्प्रस्कन्दनं पिबेत्” इति॥

अवान्ते हि विरेकदाने को दोष इत्याह—अन्यथेति। तथा च **सुश्रुतः—**अवान्तस्य हि सम्यग्विरिक्तस्यापि सतोऽधःस्रस्तः श्लेष्माग्रहणी छादयति गौरवमापादयति प्रवाहिकां वा जनयति। तस्मास्निग्धस्विन्नाय वान्ताय च देयमिति॥१॥

मृदुकूरमध्यभेदेन त्रिविधं कोष्ठमाह—

पित्तेन स्यान्मृदुः कोष्टः क्रूरो वातकफाश्रयात्॥
मध्यमः समदोषत्वान्मात्रा योज्याऽनुरूपतः॥२॥

पित्तेन पित्ताधिक्येन मृदुः। स दुग्धेक्षुरसाम्लतक्रमस्तुगुडकृशरासर्पिर्नवमद्योष्णोवकपीलुद्राक्षापूगफलादिभिरपि विरिच्यते। वातकफाश्रयाद्वात श्लेष्माधिक्यात्क्रूरः। स त्रिवृन्त्रिफलातिल्वकनीलिनीफलादिभिरपि दुःखेन विरिच्यते। **मात्रा योज्याऽनुरूपतइति।**मृदौ मृद्धी मृदुगुणोपेता वैरेचनिकद्रव्यगुणानां तीक्ष्णत्वादीनामपकर्षेण। क्रूरे तीक्ष्णगुणोपेता वैरेचिकगुणानां तीक्ष्णत्वादीनां प्रकर्षेण। मध्ये मध्या मात्रा कर्तव्येत्यर्थः॥२॥

शर्कराक्षौद्रसंयुक्तं त्रिवृच्चूर्णावचूर्णितम्॥
रेचनं सुकुमाराणां त्वक्पत्रमरिचांशकम्॥३॥

शर्कराक्षौद्रं च लेहार्थम्। त्रिवृच्चूर्णं कोष्ठाद्यपेक्षया। अष्टादशमाषकमानं त्रिवृच्चूर्णं तदवचूर्णितं वेति। त्रिवृचूर्णावचूर्णितं त्वक्पत्रादिभिः। त्वक्पत्रमरिचांशकमिति। त्वक्पत्रमरिचानामंशश्चतुर्थो भागः। त्रिवृच्चूर्णापेक्षया त्वक्पत्रादिमिलितं पादिकमित्यर्थः। त्वक्पत्रसुरभीकृतमिति पाठे तु त्वक्पत्रचूर्णेन यावता सौरभ्यं स्यात्तावद्देयमिति॥३॥

भित्त्वाद्विधेक्षुंपरिलिप्य कल्कैस्त्रिभण्डिजातैः परिवेष्ट्यरज्ज्वा॥
पक्वंतु सम्यक्पुटपाकयुक्त्या खादेत्तु तं पित्तगदी सुशीतम्॥४॥

मित्त्वा विदार्य। त्रिभण्डी शुक्ला त्रिवृत्। पुटपाकयुक्त्या पुटपाकक्रमेण काश्मर्यादिपत्राच्छादनकुशपरिवेष्टनमृदावलेपननिर्धूमाङ्गारान्तरुपस्वेदनादिरूपया।

** अन्ये** त्वेवं पठन्ति—

“इक्षुंद्विधापाटयित्वाऽवलिप्य त्रिवृत्कल्कैः प्रतिसंधाय चापि।
पक्वं सम्यक्पुटपाकक्रमेण खादेच्छीतं पित्तरोगाभिभूतः॥

व्याख्यानयन्ति च। त्रिवृत्कल्कैरिति बहुवचनान्त्रिवृदादिकल्कैरिति, आदिशब्दो लुप्तो द्रष्टव्यः। तेनान्येषां वैरेचनिकानामयमेव पुटपाकविधिरिति द्योतयति। प्रतिसंधाय कुशादिभिर्वेष्टयित्वेति॥४॥

वैरेचनमाह—

पिप्पलीनागरक्षारश्यामास्त्रितया सह॥
लेहयेन्मधुना सार्धंकफव्याधौ विरेचनम्॥५॥

श्यामा श्याममूला त्रिवृत्। त्रिवृदरुणमूला। पिप्पलीनागरयोः प्रत्येकं माषकद्धयम्। यवक्षारस्य माषकाश्चत्वारः। श्यामात्रिवृतयोः प्रत्येकं तथा। एवं मिलित्वा कर्षोलेह्यः। एवमन्यत्रापि मानमूह्यम्॥५॥

हरीतकी विडङ्गानि सैन्धवं नागरं त्रित्॥
मरिचानि च तत्सर्वंगोमूत्रेण विरेचनम्॥६॥

** तत्सर्वमिति।** मात्राप्रमाणं मध्येषु कोष्ठवयोबलेषु चूर्णकर्षः। उत्तमाधमयोर्बुद्ध्या विकल्पनीयः। हरीतक्यादियोगः कफव्याधावेव॥६॥

त्रिवृच्छाणत्रयसमा त्रिफला तत्समानि च॥
क्षारकृष्णाविडङ्गानि तच्चूर्णं मधुसर्पिषा॥७॥
लिह्याद्गुडेन गुटिकां कृत्वा वाऽप्युपकल्पयेत्॥
कफवातकृतान्गुल्मान्प्लीहोदरभगंदरान्॥
हन्त्यन्यानपि चाप्येतन्निरपायं विरेचनम्॥८॥

** त्रिवृच्छाणत्रयसमा त्रिफलेति।** त्रिवृच्छाणत्रयं त्रिफलाया आप मिलित्वा शाणत्रयम्। क्षारकृष्णाविडङ्गानामपि मिलित्वा तावदेव मानं शाणत्रयमित्यर्थः।

** तत्र तन्त्रान्तरम्—**

**“**त्रिवृतः शाणमात्रा हि तिस्रश्च त्रिफलात्वचः।
विडङ्गपिप्पलीक्षारशाणास्तिस्रश्च चूर्णिताः॥
लिह्यात्सर्पिर्मधुभ्यां तु मोदकान्वा गुडेन च" इति॥

निरपायं व्यापद्रहितम्॥७॥८॥

अभयाद्यमोदकमाह—

अभया पिप्पलीमूलं मरिचं विश्वभेषजम्॥
त्वक्पत्रपिप्पलीमुस्तविडङ्गामलकानि च॥९॥

एतानि समभागानि दन्ती च त्रिगुणा भवेत्॥
त्रिवृदष्टगुणा देया षड्गुणा चात्र शर्करा॥१०॥

मधुना मोदकान्वद्ध्वा चाक्षमात्रं प्रमाणतः॥
एकैकं भक्षयेत्प्रातः शीतं चानु पिबेज्जलम्॥११॥

तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते॥
पानाहारविहारेषु भवेच्चापि नियन्त्रणः॥१२॥

पाण्डुत्वकासविषमज्वरवह्निसादा-
ञ्जड्घोरुपृष्ठजघनोदरपार्श्वशूलान्॥
दुर्नामकुण्डलभगंदरशोफगुल्मा-
न्यक्ष्मोदरभ्रमविदाहकत्रकृच्छ्रान्॥१३॥

प्लीहाक्षिरोगपवनाश्मरिकुष्ठमेहा-
न्हन्याद्रसायनमिदं भिषजा प्रयुक्तम्॥
अल्पव्ययं बहुफलं सततं प्रयोज्य-
मायुष्करं पलितनाशनमश्विदृष्टम्॥१४॥

त्वग्गुडत्वक्। दन्ती त्रिगुणैकभागापेक्षया। एवमष्टगुणत्वं पड्गुणत्वं च। **मधुनेति।**मोदककरणोचितमानेन। शीतं चानु पिबेज्जलमिति। योगप्रभावोऽयमन्यत्र शीताम्बुना स्तम्भ एवं स्यात्। रसायनमिदमिति। रसायनसाधर्म्याद्रसायनं रसायनं यथा प्रशस्तरसाद्युत्पादात्पुष्टिवर्णादिकृत्तथेदमपीत्यर्थः। किंवा रसायनाङ्गमिदं विरेचनमिति रसायनम्। अभयाद्यो मोदकः॥९॥१०॥११॥१२॥१३॥१४॥

पथ्यासैन्धवकृष्णानां कल्कमुष्णाम्बुना पिबेत्॥
विरेकः सर्वदोषघ्नःश्रेष्ठो नाराचसंज्ञितः॥१५॥

नाराचयोगस्तन्त्रान्तरस्य॥१५॥

विडङ्गसारामलकाभयानां पलं पलं स्यान्त्रिवृतात्रयं च॥
गुडस्य षड्द्वादशभागयुक्ता मासेन त्रिंशद्गुटिका विधेयाः॥१६\।\।
निवारणे यक्षवरेण सृष्टः स माणिभद्रः किल शाक्यभिक्षवे॥
अयं हि कासक्षयकुष्टनाशनो भगंदरप्लीहजलोदरार्शसाम्॥१७॥

पलं पलं प्रत्यकें पलमित्यर्थः। त्रिवृतात्रयमिति। त्रिवृताया अपि पलत्रयम्। गुडस्य षट्पलानि। द्वादशभागयुक्तेति। अतो मिलित्वा द्वादशपलरूपभागविभागेन युक्ता कृता। मासेनेति। मासेनोपयुक्तम्। अयमर्थः। द्वादश पलानि विभज्य मासोपयोगार्थं त्रिंशद्गुटिकाः कुर्यात्। एकगुटिकाया मानं षड्क्तिकाधिकनवमाषकोपेतः कर्ष इत्यर्थः। षट्किंचिदधिकरक्तीत्रयोपेतनवमाषकाधिककर्षमानैका गुटिकेत्यर्थः। प्रत्यन्तरे रक्तिकाभिर्माषमानमाहुः। काश्मीरास्तु गुडस्य च द्वादश पलानि पठन्ति। अत एव चन्द्रटोऽपि ‘गुडस्य च द्वादश एष योगः’ इति पठति। इति माणिभद्रो मोदकः॥१६॥१७॥

एरण्डतैलं त्रिफलाक्वाथेन त्रिगुणेन च॥
युक्तं पीतं पयोभिर्वा न चिरेण विरिच्यते॥१८॥

** पयोभिर्वेति।** वाशब्दश्चार्थे। तेन त्रिफलाक्वाथदुग्धाम्यामेरण्डतैलं पेयमिति गदाधरः।पयसैव केवलेन द्विगुणेनेत्यन्ये। प्रचारोऽप्येवमेव। युक्तं पीतं तथा क्षीररसाभ्यां तु विरेचयेत्, इति पाठः। तत्र त्रिगुणेन त्रिफलाक्वाथेन युक्तं तथा क्षीररसाम्यां युक्तमेरण्डतैलं विरेचयेत्। रसो मांसरसः॥१८॥

विरेचनस्यैव लिङ्कज्ञानेनायोगातियोगौ निर्देिशन्नाह—

हृत्कुक्ष्यशुद्धिः परिदाहकण्डूविण्मूत्रसङ्गाश्च न सद्विरिक्ते॥

कफपित्तकोपो दाहोऽरुचिर्गौरवमग्निसाद इत्येके पठन्ति॥

मूर्छागुदभ्रंशकफातियोगाः शूलोद्गमश्चातिविरिक्तलिङ्गम्॥१९॥

सुगमम्॥१९॥

गतेषु दोषेषु कफान्तिकेषु *853नाभ्यां लघुत्वे मनसश्च तुष्टौ॥
गतेऽनिले चाप्यनुलोमभावं सम्यग्विरिक्तं मनुजं व्यवस्येत्॥२०॥

दोषोऽत्र पित्तस्थानगतं दोषोपलक्षितं पुरीपं कफः पित्तं च। **कफान्तिकेष्विति।**कफान्तिकेषु (?)। गतेऽनिलं चाप्यनुलोमभावमिति। अन्ते वायावानुलोम्यात्प्रवृत्ते सतीत्यर्थः। तथा च दृढबलः—प्राप्तिश्व विट्पित्तकफानिलानां सम्यग्विरिक्तस्य भवेत्क्रमेणेति। न चैवं कफान्तत्वव्याघातः। कफान्तत्वस्यैव वायुनाऽपि सूचनात्। वायुर्हि निःशेषत्दृते कफे, आशयशून्यतया केवलः सरति। एवं वमनस्य पित्तान्तत्वेऽपि समाधिः॥२०॥

अत्रैव पश्चात्कर्मण्यवस्थाविशेषेण विशेषमुद्दिशन्नाह—

मन्दाग्निमक्षीणमसद्विरिक्तं न पाययेत्तद्दिवसे यवागूम्॥
क्षीणं तृषार्तं सुविरेचितं च तन्वीं सुखोष्णां लघु पाययेत्तु॥२१॥

** तन्वीमिति।** यवागूविशेषणम्। तन्वी च यवागूः पेया। लध्विति क्रियाविशेषणम्। मात्रालघु तेन विलेप्यादिविधिरिति ज्ञेयः॥२१॥

इदानी विरेचनफलमाह—

बुद्धेः प्रसादं बलमिन्द्रियाणां
धातुस्थिरत्वं ⁺854ज्वलनस्य दी855प्तिम्॥
चिराच्च पाकंवयसः करोति
विरेचनं सम्यगुपास्यमानम्॥२२॥

बुद्धिप्रसादश्व कायमनसोरन्योन्यानुविधानेन कायशुद्ध्या मनसोऽपि शुद्धिः प्रसादो बुद्धेरिन्द्रियाणां च बलं तात्कालिकं विशिष्टमौत्तरकालिकम्। एतदेव डल्लणेन स्पष्टीकृत्योक्तम् कायमनसोरन्योन्यानुविधानात्कायमपि मनोऽनुविधत्ते मनश्च काय इति। शरीरशुद्धिकारणं हि विरेचनं तच्छुद्धौमनसो विशुद्धिः। मनःशुद्धौ बुद्धिप्रसादउपपन्न एवेत्यतो बुद्धेः प्रसादं करोतीत्युक्तम्। धातुस्थिरत्वमुपचयलक्षणबलेन। बलशब्देनोत्साहलक्षणं बलम्। केचिद्बुद्धिप्रसादादयस्तात्कालिका विरेचनस्य गुणाः। अग्निदीप्तिप्रभृतयस्तु केचित्संसर्जनक्रमानन्तरभाविन इति। उपस्तम्भादिकारिणो मलस्य क्षयकार्यपि विरेकः स्त्रोतःशुद्ध्याबलमादधाति तक्रपानवत्।

** उक्तं च**—

“स्त्रोतस्सु तक्रशुद्धेषु रसो धातृनुपैति यः।
तेन पुष्टिर्बलं वर्णः प्रहर्षश्चोपजायते”॥२२॥

दृष्टान्तमाह—

यथौदकानां भुवि जङ्गमानां सेतौ विदीर्णे ध्रुव एव नाशः॥
पित्ते हते त्वेवमुपद्रवाणां पित्तात्मकानां नियतो विनाशः॥२३॥

** यथौदकानां भुवि जङ्गमानां सेतो विदीर्ण इति।** औदकानां जङ्गमानां जलजन्तूनां सेतौ विदीर्णे भुवि स्थले यथा ध्रुवो विनाशस्तथेत्यर्थः। किंवा औदकानां पद्मादीनां भुवि जङ्गमानां च मत्स्यादीनां सेतौ विदीर्ण इति व्याख्येयम्। यथौदकानामुदकेऽपवीते *चरस्थिराणां भवति प्रणाश इति वा पाठः। औदकानां स्थावरजङ्गमानां पद्मादीनां मत्स्यादीनां चेति। उपद्रवाणां व्याधीनां पित्तात्मकानां पित्तकारणकानाम्॥२३॥

अविरेच्यानाह—

क्षीणक्षतोरूक्षितबालवृद्धा दीनोऽथ शोषी भयशोकतप्तः॥
श्रान्तस्तृषार्तोऽपरिजीर्णभक्तो गर्भिण्यधो गच्छति यस्य वाऽसृक्॥२४॥
नवप्रतिश्यायपरीतदेहो नवज्वरी या च नवप्रसूता॥
कषायनित्या न विरेचनीयाः स्नेहादिभिर्ये त्वनुपस्कृताश्च॥२५॥

** शोषीति।** धातुशोषी। कषायनित्या इति। कषायरसाभ्यासपराः॥२४॥२५॥

मन्दाग्न्यतिस्त्रेहितबालवृद्धस्थूलक्षतक्षीणभयोपतप्ता॥
श्रान्तस्तृषार्तोऽपरिजीर्णभक्तो गर्भिण्यधो गच्छति यस्य चासृक्॥२६॥
नवप्रतिश्यायमदात्ययी च नवज्वरी या च नवप्रसूता॥
शल्यार्दिताश्चाप्यविरेचनीयाः स्नेहादिभिर्ये त्वनुपस्कृताश्च॥
अत्यर्थपित्ताभिपरीतदेहान्विरेचयेत्तानपि मन्दमन्दम्॥२७॥

मन्दमन्दमित्यत्र केचिन्मन्दवीर्यैरिति पठन्ति तत्र द्रव्यैरिति शेषः॥२६॥२७॥

अविरेच्यस्याविरेकज्ञैःकृतं दोषं दर्शयन्नाह—

विरेचनैर्यान्ति नरा विनाशमज्ञप्रयुक्तैरविरेचनीयाः॥२८॥

॥२८॥

विरेचनस्य स्निग्धरूक्षस्य पुरुषविशेषेणावधार856णमुद्दिशन्नाह—

न चातिस्निग्धकायस्य दद्यात्स्नेहविरेचनम्॥
दोषाः प्रच्याविता भूयो लीयन्ते तेन वर्त्मसु॥२९॥

अतिस्निग्धस्य स्नेहविरेचनं स्नेहनप्रकर्षादतिवेगं गच्छतः प्रचलितानपि दोषान्निहन्तुं न शक्नोति। ते च दोषास्तेन स्नेहविरेचनेन स्वस्थानात्प्रच्याविता भूयः पुनर्वर्त्मसु स्त्रोतस्सु लीयन्ते। एवं च तस्मादतिस्निग्धान्स्नेहविरेचनेन न शोधयेत्। न चातिस्नेहपीतस्तु पिबेत्स्नेहविरेचनमिति केचित्पठन्ति॥२९॥

स्वभावतः स्निग्धता न शोधनहेतुरित्याह—

विरूक्षस्नेहसात्म्यं तु भूयः संस्नेह्यरेचयेत्॥
तेन दोषा हतास्तस्य भवन्ति स्नेहबन्धनाः॥३०॥

स्नेहसात्म्यमिति तु विरूक्ष्य पुनः संस्नेह्य विरेचयेत्। तेन तथाकृतेन विरेचनेन। स्नेहबन्धनाः स्नेहोपलिप्तस्रोतोबन्धना इत्यर्थः। पूर्वं ये दोषास्ते तथा हता भवन्ति। बलवर्धना इति केचित्पठन्ति॥३०॥

रूक्षस्याकृतस्नेहस्वेदस्य शोधने वमने विरेचने च दोषान्दर्शयन्नाह—

स्नेहस्वेदावकृत्वैव यस्तु संशोधनं पिबेत्॥
दारु शुष्कमिवाऽऽनाभेर्देहस्तस्य विदीर्यते॥३१॥

॥३१॥

शाखागतस्यापि दोषस्य कोष्ठानयनहेतुः स्नेहः स्वेदः कोष्ठगतस्य मुखेन प्रवृत्तिकरश्चेति दर्शयन्नाह—

स्नेहस्वेदप्रचलिता रसैः स्निग्धैरुदीरिताः॥
दोषाः कोष्ठगता जन्तोः सुखं हर्तुं विरेचनैः॥३२॥

** रसैः स्निग्धैरिति।** मधुराम्ललवणैस्ते हि स्निग्धरसा इति कार्तिकः। मांसरसैः स्निग्धैरित्यन्ये। मुखं हर्तुंविशोध(रेच)नैरिति। शक्यन्त इत्यध्याहारः॥३२॥

आस्थाप्य स्नेहितं तीक्ष्णै रेचयेद्धीनरेचितम्॥३३॥

वातवै857गुण्येन हीनरेचितमास्थापनपूर्वकं तीक्ष्णैर्दन्त्यादिभिर्विरेचयेत्। मात्राल्पत्वादिना तु हीनरेचिते यथोचितो मात्रादिविधिः। वमनानन्तरं च विरेचनं पक्षात्परतः कर्तव्यम्।

यदाह सुश्रुतः

“पक्षाद्विरेको वान्तस्य ततश्चापि निरूहणम्॥
सद्यो निरूढश्चान्वास्यः सप्तरात्राद्विरेचितः” इति॥

अस्यार्थः। वमनानन्तरं पक्षाद्विरेचनं विरेचनानन्तरं च सप्तरात्रादूर्ध्वमुदावर्तप्रशमनार्थं निरूहः। सप्तरात्रोर्ध्वकालत्वं च निरूहस्योत्तरकालव्याख्यायां वक्तव्यम्। निरूढश्च सद्यस्तदहरेवानुवास्यः। किं वा सद्यःशब्दः सप्ताहे। तेन निरूढः सप्ताहादूर्ध्वमनुवास्यः। तथा च तन्त्रान्तरम्—

“आस्थापितं विरिक्तं वा सप्ताहमुपबृंहितम्।
यवाग्वादिभिराहारैर्योजयेत्स्नेहबस्तिना” इति॥

अत्र पक्षे तदहः स्नेहबस्तिर्निरूहाङ्गतया लभ्यते। निरूढोऽपि सप्तरात्राद्विरेच्यो विरिक्तोऽपि सप्तरात्रान्निरूह्यो नार्वाक्। अत्रार्थे चरकाचार्यः—

“नरो विरिक्तस्तु निरूहदानाद्विवर्जयेत्सप्त दिनान्यवश्यम्।
शुद्धो *858निरूढोऽपि विरेचनं च तद्ध्यस्य शून्यं विकसेच्छरीरम्” इति॥

** जैज्जट**व्याख्येयम्। गदाधरस्तु व्याचष्टे। ततश्चापि निरूहणमिति। निरूहोऽपि पक्षादेव विरोचितस्तु सप्तरात्रात्परतोऽनुवास्यः। अतएवोक्तम्—विरेचनात्सप्सरात्रे गत इति। आदिपक्षस्य चेत्थं पूरणम्, उत्तमशुद्ध्यपेक्षया पेयादिक्रमः षडहम्। तत्परं मध्यकोष्ठापेक्षया स्नेहपानमपि षडहम्। ततः स्वेदख्यहमिति। यत्तु **भालुकिना—**दशरात्रे गते दद्याद्वान्ते भूयो विरेचनमित्यनेन दशरात्राद्विरेचनं वान्तस्योक्तं तन्मृदुकोष्ठापेक्षया त्र्यहं स्नेहपानं मध्यदोषे चतुरहं पेयादिक्रमेण त्र्यहं स्वेदेन च ज्ञेयम्।

अथ डल्लुणोक्ता व्याख्या—पञ्चानां कर्मणां क्रमेण क्रियमाणानां यतो यतो यद्यद्यावता कालेन करणीयं तत्तदुपदर्शयन्नाह—

“पक्षाद्विरेको वान्तस्य ततः पक्षान्निरूहणम्।
सद्यो निरूढोऽनुवास्यः स्यात्सप्तरात्राद्विरेचितः” इति।

अस्यार्थः। सम्यग्योगेन वान्तस्य पुरुषस्य विरेचनं पक्षान्नार्वाग्नापि परतः। तत्रार्वाक्क्रियमाणं पुरुषानलबलयोरबलत्वाद्व्यापदमावहति। अतिपरतः पुनः स्नेहस्वेदादिगुणोऽन्तरितः स्यात्। तस्मात्पक्षादेव वान्तो विरेचनीयः। तत्र प्रधानशुद्धिमपेक्ष्यान्नसंसर्गेण दिनानि षडतिक्रम्य मधुरादिरससंसर्गमाचरेत्। स्नेहपानेनापि दिनानि षडतिक्रामेत्। ततः स्वेदमाचरेल्लघूष्णं भुज्यमानस्त्र्यहं स्थितश्चतुर्थेऽह्नि विरेकं कुर्यात्। ततस्तस्माद्विरेकादन्नसंसर्गेण दिनानि षडतिक्रम्यानन्तरं मधुरादिरससंसर्गमाचरन्सप्तरात्राद्विरेचित इति वाक्यादष्टमादिदिवसेष्वनुवासनानि यथादोषं विदध्यात्। ततः षोडशेऽह्नि स्नेहाभ्यक्तः स्वेदितश्चाऽऽस्थापनं सेवेत। गयदासस्तु चरकाचार्याभिप्रायेण विरेचनादूर्ध्वं षडहं कृतान्नसंसर्गस्यावस्थाविशेषेण स्नेहपानमनुवासनं च द्वयमपि मन्यते।तथा च चरकाचार्यवचनम्—संसृष्टभक्तंनवमेऽह्नि सर्पिस्तं पाययेताप्यनुवासयेद्वेति। तत्र विरेचनादूर्ध्वमन्नसंसर्गेण दिनानि षट्ततो मधुरादिरससंसर्गमाचरेत्। स्नेहपानेनापि दिनानि षडतिक्रामेत्। ततो दिनत्रयं लघूष्णं भुञ्जानश्चतुर्थेऽह्नि स्नेहाभ्यक्तः स्वेदितश्चाऽऽस्थापनं सेवेत। स्नेहपानपूर्वकस्यानुवासनपूर्वकस्य चाऽऽस्थापनस्यावस्था गयदासेन दर्शिता—यथा हीनविरिक्तस्यावशिष्टपरिपक्वामसंचयावृते वायौ स्नेहपानपूर्वकमास्थापनं क्वचिद्व्याध्यवस्थावशात्प्राक्स्नेहनविरेचितमस्याऽऽस्थापनमिति। निरूढः पुरुषः सद्य एव तद्दिवस एवानुवास्यः। एतेन दत्तनिरूहो यथोक्तं भोजयित्वाऽऽर्द्रपाणिरेवानुवास्यः। विरोचितस्तु सप्तरात्रात्पुरतोऽनुवास्यो नार्वाक्।

** उक्तं हि—**

“विरेचनात्सप्तरात्रे गते जातबलाय वै।
कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः” इति।

केचिदन्यादृशं व्याख्यानं कुर्वन्ति। तच्च गयदासाचार्येण बहुधा दूषितत्वादस्माभिरप्युपेक्षितमिति॥३३॥

पद्मकोशीरनागाह्वचन्दनानि प्रयोजयेत्॥
अतियोगे विरेकस्य पानालेपनसेचनैः॥३४॥

सुगमम्॥३४॥

सौवीरपिष्टः सहकारकल्को नाभिप्रलेपादतिसारहन्ता॥३५॥

सुगमम्॥ ३९॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां चतुःसप्ततितमो
विरेचनाधिकारः समाप्तः॥७४॥

<MISSING_FIG href="../../../books_images/U-IMG-1701930431image1.JPG"/>

अथ पञ्चसप्ततितमो बस्तिविध्यधिकारः।

<MISSING_FIG href="../../../books_images/U-IMG-1701930452image2.JPG"/>

वान्तविरिक्तस्य निरूहयितव्यस्य स्नेहनेष्वनुवासनमुचितमित्यनन्तरमनुवासनविधिः। अनुवासने निरुक्तिश्च सुश्रुतेन कृता। अनुवसन्नपि न दुष्यत्यनुदिनं वा दीयत इत्यनुवासनम्। अस्यार्थः। अनु, अनुगुणं वासनमपि यस्यासावनुवासनः। अथ वासरं दिवसमनु दीयत इति रेफस्य निरुक्तविधिना नकारेणानुवासन इति रूपम्।

उक्तं च—

“अहोरात्रादनुस्नेहः प्रत्यागच्छन्न दुष्यति।
कुर्याद्बस्तिगुणांश्चापि जीर्णस्याल्पगुणो भवेत्” इति॥

स्नेहबस्तेः प्राधान्यमाह—

बस्तिर्वाते च पित्ते च कफे रक्ते च शस्यते॥
संसर्गे संनिपाते च बस्तिरेव सदा हितः॥१॥

संसर्गो दोषद्वयप्रकोपः। प्रकृतिसमसमवेतज्वराद्यारम्भको दोषत्रयप्रकोपः संनिपातोऽत्राभिहितः। ननु वात एव बस्तिर्युक्तो यदुक्तमास्थापनानुवासनं तु खलु सर्वोपक्रमेभ्यो वाते प्रधानतमं मन्यन्त इति। पित्तकफौतु विरेकवमनविषयौ। विरेकः पित्तहराणां वमनं श्लेष्महराणामित्यागमात्। रक्तेऽपि पित्तसधर्मिणि विरेचनमेवोचितं तत्कथं पित्तकफरक्तेभ्यो हितो बस्तिः। उच्यते। त्रीनपि दोषान्पक्वाशयगतान्बस्तिर्जयतीति। आमाशयगतं कफंवमनं पच्यमानाशयगतं पित्तं विरेक इति सिद्धान्तः।

तदुक्तम्—

“पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत्।
स्रंसनं त्रीन्मलान्बस्तिर्जयेत्पक्वाशयस्थितान्” इति॥

रक्तमपि दुष्टं प्रसादनद्रव्यैर्दत्तो बस्तिः प्रसादयति दोषहरणद्वारेण चानुलोमयतीति॥१॥

अनुवास्यः सप्तरात्राद्विरेचित इति यदुक्तं तद्बल्लाभ एव नान्यथेति दर्शयन्नाह—

विरेचनात्सप्तरात्रे गते जातबलाय वै॥
कृताहाराय सायाह्नेबस्तिर्देयोऽनुवासनः॥२॥

** विरेचनात्सप्तरात्रे गत इति।** पेयादिक्रमः षड्रात्रं प्रकृतिभक्तमेकाहमेवं सप्तरात्रातिक्रमः। ननु संसृष्टभक्तं नवमेऽह्निसर्पिस्तं पाययेताप्यनुवासयेद्वेत्यनेन चरके विरेकान्नवमादिदिनेऽनुवासनं निर्दिष्टम्।

** भद्रशौनकेना**पि—

“संसृष्टभक्तः सुमनाः स्नेहपीतो दृढानलः।
संशुद्धः परतो मासादनुवास्यस्ततो नरः”॥

इति वदता मासात्परं स्नेहबस्तिर्देर्शितस्तत्कथमिह सप्तरात्रे गत एवानुवासनविधिः। उच्यते। जातबलायेति वचनात्सप्तरात्रे गते जातबलत्वे सति स्नेहबस्तिर्नान्यथा। बलं च पुरुषापेक्षया तेनाग्निबलतारतम्यात्कस्यचित्सप्ताहे गते बलोपचयः कस्यचिन्नवाहतोऽष्टमे नवमेऽपि दिनेऽनुवासनं विहितं न विरुद्धम्। क्षीणाग्नेस्तु क्रमेणाग्निवृद्ध्या बललाभे मासात्परेणापि स्नेहबस्तिरिति न कश्चिद्विरोधः। अन्ये त्वाहुः। विरेचनात्परतः सप्तरात्रे गते नवममेवाहः स्यात्। भद्रशौनकवाक्येऽपि संशुद्ध इत्यनेनोर्ध्वाधः। उच्यते। आभ्यां च शुद्धिभ्यां मास एव भवति। कथं वा तस्य पक्षाद्विरेकः। वमनस्य च प्राक्कर्म सप्ताहं स्नेहनं तत एकाहमुपरतः। विरेचनादूर्ध्वं सप्तरात्रानुक्रमः। एवं नास्त्यर्थभेद इति। कृतान्नायेति भुक्ताय कृतसंसर्जनक्रमाय च। उक्तं च—आस्थापितं विरिक्तं चेत्यादि। कृताहाराय सततमिति केचित्पठन्ति। तत्र न कदाचिदप्यकृताहारायेति सतनग्रहणार्थः।देयोऽनुवासन इति। निरूहाङ्गत्वेन॥२॥

क्षारं न चेद्वैतरणं प्रदाय व्द्यहे त्र्यहे वाऽप्यनुवासनीयः॥३॥

** क्षारं न चेद्वैतरणं प्रदायेति।** यस्य विरेचनं नोचितं संचितं च मलमस्ति तस्य तन्मलापगमार्थं क्षारं वैतरणं वा बस्तिं दत्त्वाऽनुवासनं देयं विशुद्धस्य स्नेहबस्त्युपदेशात्। तदुक्तम्—स्नेहबस्तिर्विधेयस्तु नाविशुद्धस्य देहिन इति। न चेदिति विकल्पार्थे। व्द्यहे इति प्रत्यहम्। त्र्यहे इत्येकान्तरम्॥३॥

प्रसूप्तं वामपार्श्वेन कृतान्नमनुवासयेत्॥४॥

कृतान्नमिति भुक्तवन्तम्॥४॥

पूर्वकर्म बस्तेरुपदिशन्नाह—

उत्सृष्टानिलविण्मूत्रे नरे वस्तिं निधापयेत्॥
अन्यथा विहितो वस्तिर्नैवान्तः प्रतिपद्यते॥५॥

** उत्सृष्टानिलविण्मूत्रे नरे बस्तिं निधापयेदिति।** अन्यथाऽन्येन प्रकारेणानुत्सृष्टानिलविण्मूत्रइत्यर्थः। अन्यथा विहित इत्यत्र एतैर्हि विहित इति केचित्पठन्ति। तत्र हि यस्माद्यत एतैरनुत्सृष्टैरनिलविण्मूत्रनेत्रद्वारावरकैर्विहितोऽवरुद्धः स्नेहो नैवान्तः प्रतिपद्यते नैवान्तः प्रविशतीत्यर्थः॥५॥

बस्तिपीडनविधिमाह—

बस्तिं सव्ये करे कृत्वा दक्षिणेनावपीडयेत्॥
एकेनैवावपीडेन न द्रुतं न विलम्बितम्॥६॥

सुगमम्॥६॥

प्रसारितैकजङ्घायां कार्याऽन्योपरि कुञ्चिता॥
प्रदद्यात्पुटकं तस्मिन्पायौ दोषविंशोधनम्॥७॥

** प्रसारितैकजङ्घायां कार्याऽन्योपरि कुञ्चितेति।** वामजङ्घायां प्रसारितायां तदुपरि दक्षिणजङ्घा संकुचिता कार्या॥७॥

प्रणिहितस्नेहस्य पश्चात्कर्म निर्देिशन्नाह—

ततः प्रणिहिते स्नेह उत्तानो वाक्शतं भवेत्॥
प्रसारितैः सर्वगात्रैस्तथा वीर्यं विसर्पति॥८॥

** वाक्शतमिति।** छोटिकाशतम्॥८॥

आतुरस्य करणीयमभिधाय वैद्यस्य करणीयं दर्शयन्नाह—

आकुञ्चयेच्छनैस्त्रिस्त्रिः सक्थिबाहू ततः परम्॥
ताडयेत्तलयोरेनं त्रींस्त्रीन्वाराञ्शनैः शनैः॥
स्फिजोश्चैवंततः श्रोणी शय्यांत्रिरुत्क्षिपेत्ततः॥९॥

** आकुञ्चयेच्छनैस्त्रिस्त्रिःसक्थिबाहू इति।** जङ्घाबाहुतलयोर्गृहीत्वा त्रिरुत्क्षिप्य संकोचयेत्। सक्थिबाह्वाकुञ्चनं स्नेहवीर्यविसर्पणार्थम्। एवं हि शिरामुखानां स्फुटत्वं भवति। तलयोरिति हस्तपादतलयोः। स्फिजोस्ताडनं बस्तिशीघ्रागमनवारणार्थम्। यदुक्तम्—दत्त्वा स्फिजौ पाणितलेन हन्यात्स्नेहस्य शीघ्रागमरक्षणार्थमिति। शय्यां त्रिरुत्क्षिपेदित्यर्थः। ‘स्किजोश्चैनं ततः शय्यां त्रीन्वारानुत्क्षिपेत्पुनः’ इति डल्लणभाष्ये पाठः। तत्र ताडयेदित्यादि तलयोर्हस्तपादतलयोः शनैः शनैस्त्रीस्त्रीन्वारान्हन्यात्स्नेहशीघ्रागमननिषेधार्थं स्फिजोश्चैनमिति ताडयेदिति संबन्धः। स्फिजोश्चेति। चकारो भिन्नक्रमे। तेन ताडयेच्चेत्यत्र द्रष्टव्यम्। अतस्तलयोर्गृहीतत्वात्कूर्परे जानुनी चोत्क्षिपेदित्यनुक्तोवृद्धवैद्यव्यवहारः शुद्धो भवति। शय्यामुत्क्षिपेदिति। काष्ठफलकादिकृतां सहाऽऽतुरेणोर्ध्वं नयेदित्यर्थः। शय्यास्थमातुरं स्फिग्देश इत्यन्ये॥९॥

एवं प्रणिहिते बस्ती मन्दायासोऽप्यमन्दवाक्॥
स्वास्तीर्णे शयने काममासीताऽऽचारिके रतः॥१०॥

कामं यथेच्छम्। अनेनैव चरकोक्तगात्रमर्दनादिकमपि यथेच्छस्थितिहेतुः संगच्छतेयदुक्तम्—

“स्नेहेन पार्ष्ण्यङ्गुलिपिण्डिकाश्च ये चास्य गात्रावयवा रुजार्ताः।
तांश्चाप्य(पि) मृद्यात्स सुखं ततश्च निद्रामुपासीत कृतोपधानः” इति॥

** आचारिके रत इति।** क्रोधादिवर्जनेऽवहितः॥१०॥

उत्तममध्यमाधमानलाद्यपेक्षया त्रिविधामनुवासनमात्रामाह—

षट्पली तु भवेज्ज्येष्ठा मध्यमा त्रिषली भवेत्॥
कनीयस्यर्धपलिका त्रिधा मात्राऽनुवासने॥११॥

अस्यार्थसंगतिमनन्तरवक्ष्यमाणश्लोकव्याख्ययैव दर्शयामः॥११॥

प्राग्दानमाद्ये द्विपलं पलार्धवृद्धिर्द्वितीये पलमक्षवृद्धिः॥
कर्षद्वयं स्याद्वसुमाषवृद्धिर्बस्तौ तृतीये क्रम एषउक्तः॥१२॥

यस्योत्तमा षट्पली मात्राऽर्हति तस्य प्रथमं द्विपलं ततः पलार्धेन वृद्धिः। एवं क्रमेण नवभिर्दिनैः षट्पली मात्रा संपूर्णा भवति। तथा यस्य मध्यमा त्रिपली मात्राऽर्हति तस्य प्रथमं पलं देयं ततः कर्षेण वृद्धिः। एवं नवभिर्दिनैःक्रमेण त्रिपली मात्रा स्यात्। यस्य कनीयसी सार्धैकपली मात्रोचिता तस्य प्रथममर्धपलं ततोऽष्टमाषकैर्वृद्धिः। एवं नवभिर्दिनैः सार्धं पलं स्यात्। नवभिर्देिनैरित्युत्सर्गः। तेनातोऽर्वागपि स्नेहलक्षणोदयेऽनुवासननिमित्ते कार्या। आद्य इति। बलानलादिभिरुत्तमे पुरुषे। द्वितीये मध्यमे। तृतीयेऽधमे। वसुमाषवृद्धिष्टमाषकवृद्धिः। कनीयसी(स्या)मात्रा(त्रया)प्रचारः॥१२॥

सर्वस्नेहबस्तिद्रव्यपूर्वकर्म निर्दिशन्नाह—

स तु सैन्धवचूर्णेन शताह्वेन च संयुतः॥
भवेत्सुखोष्णश्च तथा निरेति सहसा सुखम्॥१३॥

स स्नेहस्तु पुनः पक्वोऽपि सैन्धवशतपुष्पासमन्वितो देयः। सहसेति। उक्ताधिककालनिरासार्थम्। सुखमिति। उषादिकं विना॥१३॥

मध्यवयस्कमाश्रित्य चूर्णस्य मात्रामाह—

चूर्णमाषःपले स्नेहे सिन्धुजन्मशताह्वयोः॥
*859मापमेकं पले स्नेहे सिन्धुजन्मशताह्वयोः॥ १४॥

प्रत्येकमङ्गुलित्रयमग्रेसंदंशं ग्राह्यं चूर्णेन॥१४॥

स्नेहस्य शीघ्रागमनहेतुं कर्तव्यं च प्राह—

यस्यानुवासनो दत्तः सकृदन्वसक्षमाव्रजेत्॥
अत्युष्णो वाऽतितीक्ष्णो वा वायुना वा प्रपीडितः॥१५॥
सवातोऽधिकमात्रो वा गुरुत्वाद्वाऽतिभेषजः॥
तस्यान्योऽल्पतरो देयो न हि स्निह्यत्यतिष्ठति॥१६॥

सकृत्कदाचित्। अक्षस्य यन्त्रस्यानु पश्चादन्वक्षं तत्क्षणम्। वायुनेति। कोष्ठस्थेन। सवात इति। अनुच्छ्वास्यविहितबन्धादिना बस्तिवटकस्थितवातसहितः। अतिभेषज इति। बहुमात्रसैन्धवशताह्वः। अल्पतर इति। पूर्वदत्तस्नेहलेपस्यापि विद्यमानत्वात्। अल्पग्रहणं चेह सर्वात्युष्णादिविपर्ययसूचकम्। तेनात्युप्णत्वाच्छीघ्रागमेऽत्युष्णो बस्तिरित्यादिं सिध्यति। न हि स्त्रिह्यत्यतिष्टतीति। अतिष्ठति स्नेहे न स्निह्यतीत्यर्थः।

अथ डल्लणव्याख्यानम्—तस्यानुवासनस्नेहस्य प्रणिधानमात्रप्रत्यावृत्त्याऽस्य निदानपरिहारार्थ हेतुं पुनःकरणीयत्वं च दर्शयन्नाह। यस्येति। सकृदेकवारम्। अक्षस्य यन्त्रस्यानु पश्चादन्वक्षम्। आव्रजेदागच्छेत्। कुतः, अत्यौष्ण्यादुष्णगुणातिरेकात्। अतितैक्ष्ण्यादतितीक्ष्णैः संस्कारकद्रव्यैराहितात्। अनुच्छ्वास्यबन्धनात्सवातो बस्तिर्वायुना प्रपीडितः सन्। अतिमात्रोऽतिभेषजश्व गुरुत्वात्। तस्यान्योऽल्पतर इति। अन्योऽत्यौष्ण्यादिगुणविपरीतः। अल्पतरः प्राचीनमात्रातः। प्रथमस्नेहेनैव किंचित्स्निग्धत्वात्। कुतः पुनरपि देय इत्याह। न हि स्निह्यत्यतिष्टतीति। अतिष्ठति स्नेहे यतो नस्निह्यतिनर इति॥१५॥१६॥

त्रीन्यस्य यामाननुवर्तते च स्नेहो नरः स्यात्स विशुद्धदेहः॥१७॥

सुगमम्॥१७॥

एकान्तरोपयोगेन धान्यशुण्ठीजलं पिबेत्॥
तेनास्य दीप्यते वह्निर्भक्तकाङ्क्षा च जायते॥१८॥

** एकान्तरोपयोगेनेति।** उत्सर्गतः पानादेकान्तरेणानुवासनम्। तद्यत्र दिने न दीयते तत्र दिने धान्यशुण्ठीक्वाथः प्रातः पेयः॥१८॥

क्वाथार्धमात्रया प्रातर्धान्यशुण्ठीजलं पिबेत्॥

** क्वाथार्धमात्रयेति।** यस्याग्न्याद्यपेक्षया न सम्यक्क्वाथोऽर्हति तस्य ततोऽर्धमात्रया कर्षेण प्रचारः॥

पित्तोत्तरे कदुष्णाम्भस्तावन्मात्रं पिबेदथ॥१९॥

सुगमम्॥१९॥

स्नेहाजीर्णं शमयति श्लेष्माणं च भिनत्ति तत्॥
मारुतस्यानुकूलत्वं कुर्यादुष्णोदकं नृणाम्॥२०॥

सुगमम्॥२०॥

विण्मूत्रनिर्हरणसादृश्येन कृतशुद्धेरेव स्नेहबस्तिर्विधीयत इति दर्शयन्नाह—

स्नेहबस्तिर्विधेयस्तु नाविशुद्धस्य देहिनः॥
स्नेहवीर्यं तथा दत्ते देहं नानु विसर्पति॥२१॥

** तथा दत्त इति।** अतिशुद्धस्य दत्ते। स्नेहवीर्यं तथा दत्ते देहं चानु विसर्पतीतिडल्लणः पठति। तथा तेन प्रकारेण शुद्धे शरीरे स्नेहबस्तिः स्नेहवीर्यं दत्ते ददातीत्यर्थः। देहे दोषैरपिहितः स्रोतस्यन्तर्न सर्पतीति केचिदर्धं पठन्ति।अपिहित आच्छादित इत्यर्थः॥२१॥

पूर्वं विशुद्धदेहस्यैव स्नेहबस्तिं विदर्श्यक्वचिदशुद्धेऽपि तस्य सूत्रमाह—

अशुद्धमपि वातेन केवलेनापि पीडितम्॥
अहोरात्रस्य कालेषु सर्वेष्वेवानुवासयेत्॥२२॥

केवलेन धातुक्षयहेतुना। रिक्तेहि शरीरे प्रायेण विवृत्तस्रोतोमुखमेव शरीरम्। तत्र शुद्ध्या पुनरतिधातुक्षयेणातितरामेव वातरोगः स्यात्। तेनाशुद्धेऽपि तत्र स्नेहबस्तिरिति। अहोरात्रस्य कालेषु पूर्वाह्णादिषु जीर्णान्नं भोजयित्वाऽनुवासयेदिति वक्ष्यमाणेन पूरणीयम्॥२२॥

विशिष्टावस्थायामस्यापोद्वार(नुवासन)माह—

तीव्रायां रुजि जीर्णान्नं भोजयित्वाऽनुवासयेत्॥२३॥

तीव्रायां रुजि नाधिकं जीर्णान्नं भोजयित्वा सर्वेषु कालेष्वनुवासयेदिति। कृत्रिमगुणोपधानं कृत्वेति वाक्यशेषः। प्रागशुद्धस्य केवलवातपीडितस्य सर्वस्य सर्वेष्वहोरात्रावयवेष्वनुवासनमभिहितमिह तु शुद्धस्येति न पौनरुक्त्यम्॥२३॥

रूक्षस्य वाताधिकस्य वातवेगविधारणाय प्रागेव स्नेहबस्तिं दत्त्वा पश्चाच्छोधनो बस्तिर्देय इति दर्शयन्नाह—

रूक्षस्य बहुवातस्य द्वौ त्रीवाऽप्यनुवासनान्॥
दत्त्वा स्निग्धतनुं ज्ञात्वा ततः पश्चान्निरूहयेत्॥२४॥

रूक्षस्य बहुवातस्य यदा मृदुकोष्ठत्वं तदा द्वौ त्रयो वा स्नेहवस्तयः। अन्यथा त्वपिशव्दादधिका अपि स्नेहबस्तयः। अत एव बस्तिभिः स्निग्धतनुं ज्ञात्वेति कृतवान्। न हि स्निग्धतनुता द्वित्रि(त्र)स्नेहबस्तिभिरवश्यंभाविनी। नन्वत्र यद्द्वावित्यनेन युग्मबस्तिदानमुक्तं तदसंगतमयुग्मबस्तिदानस्य चरके विहितत्वात्।

तद्यथा—

“एकं तथा त्रीन्कफजे विकारे पित्तात्मके पञ्च च सप्त वाऽपि।
वाते नवैकादश वा पुनर्वा बस्तीनयुग्मान्कुशलो विदध्यात्” इति।

उच्यते। अयुग्मदानं पुनरवासनविषयं न तु निरुहाङ्कानुवासनविषयम्। निरूहाङ्कानुवासने युग्मदानं चरकेणापि दर्शितम्। तद्यथा—त्रीन्पञ्च राज्ञश्चतुरोऽथ पड्वा वाताधिकानामनुवासनीयान्। स्नेहान्प्रदद्यादित्यर्थः। विषमसंख्योपादानं द्विचतुरादिबस्तेरपि मध्यविधया परिग्रहार्थमिति॥२४॥

किंचित्स्निग्धतायामप्यास्थापनविशेषेणैवाऽऽस्थापनीय इति दर्शयन्नाह—

अस्निग्धमपि वातेन केवलेनातिपीडितम्॥
स्नेहमगाढैर्मतिमानिरूहैःसमुपाचरेत्॥२५॥

अस्निग्धमपीषत्स्निग्धमपि। नञ् ईपदर्थे। अनुदरा कन्येति यथा। स्नेहप्रगाढैः स्नेहबहुलैः। एतेन प्राक्स्नेहनविधिविरहितैरिति गम्यते। अस्निग्धमित्यादिविधिर्बलीयास। रूक्षस्येत्यादि विधानं तु क्षीण इति विषयभेदादविरोधः॥२५॥

द्वयोरेकस्यातिशीलननिषेधाय दोषंदर्शयन्नाह—

स्नेहबस्तिं निरूहंवा नैकमेवाभ्यसेच्चिरम्॥
स्नेहात्पित्तकफोत्क्लेशौ निरूहात्पवनाद्भयम्॥२६॥

अन्ये त्वेवं पठन्ति—

“स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्।
स्यातामग्निवधोत्क्लेशावत्यभ्यस्तेऽनुवासने।
निरूहसेवनाच्चापि भवेयुर्वातजागदाः।

तस्मान्निरूढोऽनुवास्यो निरूह्यश्चानुवासितः।
नैवं पित्तकफोत्क्लेशौ स्यातां न पवनाद्भयम्”॥२६॥

यथोचितात्पादहीनं भोजयित्वाऽनुवासयेत्॥२७॥

यथोचितात्पादहीनं भोजयित्वेति विधानमुत्तमाग्न्यपेक्षया मन्दे त्वग्नावर्धभोजनमपीष्टम्। यदाह निमिः—अर्धहीनं त्रिभागं वा भोजयित्वाऽनुवासयेदिति। पादहीनभोजनोपदेशोऽजीर्णपरिहारार्थम्। सौहित्यभोजने ह्यजीर्णं स्यात्। तथा च काश्यपः—तृप्तस्यान्वासनं दत्तं न सम्यक्परिपच्यत इति। डल्लणस्तु एवं व्याख्याति— यथोचितात्पादहीनमिति।प्राक्संशुद्धस्य कृतसंसर्जनस्योचिताद्भक्तात्पादहीनमुत्तममध्यममन्दाग्निविशेषेण पादेन पादाभ्यां पादैर्विहीनमिति ज्ञेयम्। अर्धहीनं त्रिभागं वा भोजयित्वाऽनुवासयेदितिमुनिना प्रोक्तत्वादिति॥२७॥

अभुक्तवतः प्रतिषेधमाह—

न चाभुक्तवतः स्नेहः प्रणिधेयः कथंचन॥
शुद्धत्वाच्छून्यकोष्टस्य क्षिप्रस्तूर्ध्वमथोत्पतेत्॥२८॥

स्नेह ऊर्ध्वं समुत्पतेदिति पाठे सम्यमूर्ध्वं गच्छेदिति। ततश्चातिपीडितवव्द्यापत्स्यात्। शुद्धत्वादित्यत्र सूक्ष्मत्वादिति पठित्वा गयदासः सूक्ष्ममार्गानुसरणं शीलत्वात्तस्येति व्याख्याति॥ २८॥

एकं तथा त्रीन्कफजे विकारे पित्तात्मके पञ्च तु सप्त वाऽपि॥
वाते नवैकादश वा पुनर्वा बस्तीनयुग्मान्कुशलो विदध्यात्॥२९॥

सुगमम्॥२९॥

विष्टब्धानिलविण्सूत्रः स्नेहहीनेऽनुवासने॥

भवतीत्यध्याहार्यम्। हीनेऽनुवासन इति। हीनगुणमाने॥

दाहक्लमप्रवाहार्तिकरश्चात्यनुवासने॥३०॥

दाहक्लमप्रवाहार्तिकरश्चेति चकाराद्धिनानुवासितविष्टब्धानिलविण्मूत्रलिङ्गविपरीतातिसृष्टानिलविण्मूत्रार्तिकरश्चेति समुच्चिनोति। प्रवाहस्थाने पिपासेति केचित्पठन्ति॥३०॥

यादृक्स्नेहः सम्यगनुवासितस्तमाह—

सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य वै॥
ऊषाचोषौ विना शीघ्रं स सम्यगनुवासितः॥३१॥

सपुरीषश्चेति चकारेण समूत्रश्चेत्यनुक्तं समुच्चीयते। प्रत्येतीति। निःसरति। ऊषाचोषौ विनेति। ऊषा दाहः। चोषः पिपासा। **डल्लुणस्तु—ऊषचोषाविति।**ऊषईषद्दाहः। चोष आकृष्यमाणस्येव दाहप्रकारः। शीघ्रमिति। यामत्रयादूर्ध्वम्॥३१॥

अपरेद्यराहारं नियमयन्नाह—

जीर्णान्नमथ सायाह्नेस्नेहे प्रत्यागते पुनः॥
लघ्वन्नं भोजयेत्कामं दीप्ताग्निःस नरो यदि॥३२॥

स्नेहे प्रत्यागते जीर्णान्नो दीप्ताग्निर्यदि स्यात्तदा पुनः कामं येथेष्टं भोजयेत्। अन्यथा तु लध्वन्नं भोजयेदित्यर्थः। सायाह्न इति प्रातर्भोजननिरासार्थम्। अन्ये तु व्याचक्षते सायाह्नेदत्ते स्नेहे समधिकरात्रिप्रहरेण प्रत्यागते यो दीप्ताग्निर्जीर्णान्नो बुभुक्षितः स्यात्तं तदैव लध्वन्नं भोजयेत्।लध्बन्नमिति। मात्रालघुद्रव्यं चेत्यर्थः॥३२॥

अनिवृत्तिर्व्यापदुक्ता तत्कियतः कालादित्याह—

अहोरात्रादपि स्नेहः प्रत्यागच्छन्न दुष्यति॥
कुर्याद्बस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत्॥३३॥

** अहोरात्रादिति।** प्रणिधानत्रयरात्र्यभिप्रायेण। तेन यामत्रयात्परतोऽपि याममेकमागच्छन्नपि न दुप्यतीति कार्तिकः। अपिशब्दान्त्रिचतुरादियामनिवृत्तिस्तावन्न दुप्यत्येवाहोरात्रादपीत्यपिशब्दार्थ इति डल्लणः। न दुप्यतीत्यापदुक्तविकारं न करोति।बस्तिगुणानिति। स्नेहनबृंहणादीन्। जीर्ण इति। परिणतः। **अल्पगुण इति।**वाय्वग्निभ्यां भूयः पाकं नीतत्वान्न सम्यक्त्नेहनादिकं करोति वीर्येण देहं भावयित्वा प्रत्यागच्छन्निव स्नेहो न यथोक्तसम्यग्गुणं करोतीति भावः। पाकोऽपि पक्वाशयेऽग्निप्रत्यासत्या संगत एव॥३३॥

सर्वथानिवृत्तोऽप्यवयवेन वा निरुपद्रवो न व्यापद्यत इत्यपि बोधयन्नाह—

यस्य नोपद्रवं कुर्यात्स्नेहबस्तिरनिःसृतः॥
सर्वोऽल्पो वाऽऽवृतो रौक्ष्यादुपेक्ष्यः स विजानता॥३४॥

** नोपद्रवमिति।** उपद्रवोऽत्र रोगः। स च मुखकषायत्वादि।

यदुक्तं सुश्रुते

“तत्र वाताभिभूते तु स्नेहे मुखकपायता।
जृम्भा वातरुजस्तास्ता वेपथुर्विषमज्वराद्याः860” इति॥

** आवृतो रौक्ष्यादिति।** शरीररौक्ष्यादवष्टब्धः। यतो रूक्षशरीरं भावयन्नुपक्षीणः स खलु स्नेहस्ततो नोपद्रवं करोति। अत एवोपेक्ष्य इत्युक्तम्। उपेक्ष्य इति। तन्निःसरणाय प्रतिक्रियां न कुर्यादित्यर्थः। डल्लणस्तु एवं व्याख्याति। आवृतो रौक्ष्यादिति। आभ्यां वाशब्दः प्रत्येकं संबन्धनीयः। तेनाऽऽवृतो वा रौक्ष्याद्वा स्नेहबस्तिरनिःमृत इति संबन्धनीयम्। तत्राऽऽवृतो दोषत्रयेणात्यशनेन मलसंचयेन वेत्यर्थः। रौक्ष्येण वायुरेव विधारयतीति। उपेक्ष्य उपेक्षणीयस्तदाकृष्ट्यांयत्नं न कुर्यादिति॥३४॥

अनायान्तमहोरात्रात्स्नेहं सोपद्रवं हरेत्॥
स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते॥३५॥

सोपद्रवं तु स्नेहमहोरात्रादनागच्छन्तं हरेन्निर्हरेत्। सोपद्रवमिति। उपद्रव इह पूर्वोक्त एव ज्ञेयः। हरेदिति। शोधनैरेव बस्तिभिः। सुश्रुते क्वापि शोधनैर्हरेदिति पाठात्। स्नेहबस्तावनायाते नान्यः स्नेहो विधीयत इति। अनायाते सोपद्रवस्त्रेहे स्नेहबस्तिर्न दीयते स्नेहातियोगभयात्। शोधनार्थोनिरूहबस्तिस्तु देय एव नेतरः॥३५॥

अशुद्धस्य मलोन्मित्रः स्नेहो नैति यदा पुनः॥
तदाऽङ्गसदनाध्मानशूलाः श्वासश्च जायते॥२६॥
पक्वाशयगुरुत्वं च तत्र दद्यान्निरूहणम्॥
तीक्ष्णं तीक्ष्णौषधैरेव सिद्धं वाऽप्यनुवासनम्॥३७॥

** अशुद्धस्येति।** निरूहेण विरेकेण वा। तीक्ष्णमिति। निरूहणमित्यस्य विशेषणम्॥३६॥३७॥

शुद्धस्य दूरानुगते स्नेहे स्नेहस्य दर्शनम्॥
*861मुखे तु सर्वेन्द्रियाणामुपलेपोऽवसादनम्॥
स्नेहगन्धमुखं वाऽपि कासश्वासावरोचकः॥३८॥

उपलेपो मलवृद्धिः। अवसादनं ग्लानिः॥३८॥

गले निष्पीड्य तत्राऽऽशु कम्पयेत्तं प्रयत्नतः॥
कार्यं तस्य सुतीक्ष्णं च तीक्ष्णं चापि विरेचनम्॥३९॥

सुगमम्॥३९॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां पञ्चसप्ततितमो
बस्तिविध्यधिकारः समाप्तः॥७५॥

<MISSING_FIG href="../../../books_images/U-IMG-1702320708image1.JPG"/>

अथ षट्सप्ततितमो निरूहाधिकारः।

<MISSING_FIG href="../../../books_images/U-IMG-1702320731image2.JPG"/>

अनुवासनस्निग्धस्य निरूहार्हत्वादथ निरूहविधिः। निरूहनिरूक्तिः सुश्रुत उक्ता। तद्यथा—दोषनिर्हरणाच्छरीरनीरोहणाद्वा निरूह इति। अत्र **श्रीब्रह्मदेवव्याख्या—**दोषान्निर्हरतीति निरूहः। निष्पूर्वस्य हृञ्धातोर्हृप्र(रच्प्र)त्ययेऽन्त्यस्वरादेर्लोपे नैरुक्तविधिना निर ऊवर्णागमे रूपम्। अथवा शरीरे निःशेषेण रोहतीति निरूहः। निपूर्वस्य रुहधातोः कप्रत्यये नैरुक्तविधिना धातोर्दीर्घत्वे (*862निरुपसर्गः स्यान्निरूह)रूपम्। निर्गत ऊहो वितर्कोयस्मिन्निति वा निरूहः। आसमन्तादायुर्वयो वा स्थापयतीत्यास्थापनम्॥

नात्युच्छ्रितं नाप्यतिनीचपादं सपादपीठंशयनं प्रशस्तम्॥
प्रधानमूर्धास्तरणोपपन्नंप्राक्शीर्षकं शुक्लपटोत्तरीयम्॥१॥

सुगमम्॥१॥

अनुवासितमभ्यक्तं स्विन्नदेहं निरूहयेत्॥
अभुक्तं पीडयेद्बस्तिमतूर्णमविलम्बितम्॥२॥

अनुवासितं दत्तानुवासनं स्निग्धस्रोतोमार्गतया सुखमेव दोषनिर्हरणार्थं निरूहयेदास्थापयेत्। अनुवासनस्निग्धकोष्ठस्य च तृतीये दिने निरुहः।

यद्रुक्तम्—

“अनुवासनस्निग्धतनुं तृतीयेऽह्नि निरूहयेत्॥
मध्याह्नेकिंचिदावृत्ते प्रयुक्ते बलिमङ्गले” इति॥

निरूहस्य स्नेहबस्त्यनभ्यासे कर्तव्येऽन्तरमाहुः शुद्ध्यर्थं तथा निरूहसाध्ये व्याधौ च॥२॥

त्रिंशन्मात्रास्थिते बस्तौततश्चैवोत्कटो भवेत्॥

** त्रिंशन्मात्रास्थित इति।** मात्रार्थोऽग्निवेशपरिभाषितः।

तद्यथा—

“यावत्पर्येति हस्ताग्रं दक्षिणं जानुमण्डलम्।
निमेषोन्मेषकालेन सा मात्रा परिकीर्तिता” इति॥

त्रिंशन्मात्रास्थापनं च मृदकोष्ठेवेगिते। वक्ष्यमाणच्छटाशब्दशतस्थापनं तु क्रूरकोष्ठे वेगरहिते ज्ञेयं तेन न विरोधः॥

जानुमण्डलमावेष्टप दत्तं दक्षिणपाणिना॥
^(+863)कृष्टनेच्छटाशब्दशतं तिष्ठेदवेगवान्864॥३॥

सुगमम्॥ ३॥

द्वितीयं वा तृतीयं वा चतुर्थंवा यथार्थतः॥
सम्यनिरूढलिङ्गेतु प्राप्ते बस्तिं निवारयेत्॥ ४॥

** द्वितीयं वेति।**बस्तिपुटकम्। चतुर्थं वा यथार्थत इति। अर्थस्य प्रयोजनतोऽनतिक्रमतो यथार्थतः। एतदुक्तंभवति यदा सुनिरुदलिङ्गप्राप्तो भवति तदा तत्र निर्हरणीयाभावान्निरूंहणमप्रयोजनं देयम्। असम्यग्दानेन क्रूरकोष्ठतया प्रभूतदेयत्वेन वा सुनिरूढमप्राप्तस्य निर्हरणीयो दोषोऽस्तीति। चतुर्थं वा यथार्हत इति पाठे निरूहसाध्यप्रयोजनानुरोधाच्चतुर्थमपि पुटकं निरूढलिङ्गार्थं दद्यात्। अमुमेवार्थं प्रकटीकुर्वन्नाह—सम्यङ्निरूढलिङ्ग इत्यादि। केचित्तु रक्तमप्यत्र चतुर्थं शमनीयमस्तीति चतुर्थं बस्तिदानमाहुः। अपरे तु पश्चाद्दाहनिर्वापणार्थं मधुरशीतैश्चतुर्थो बस्तिर्देय इति वदन्ति। नतु(नु) तृतीयाधिकपुटदानं निषिद्धं दृढबलेन।

तद्यथा—

“स्निग्धोपण एकः पवने समांसो द्वौ स्वादुशीतौ पयसा च पित्ते।
त्रयः समूत्राः कटुकोष्णतीक्ष्णाः कफे निरूहा न परं विधेयाः” इति॥

नैवम्। निषेधो हि बहुदोषपुरुषविषयतया प्रायिकः। चतुर्थपुटदानं तु कस्मिन्नपि क्रूरकोष्ठे बलीयसि बहुदोषे च पुरुषे ततः कुतो विरोधः। स मध्ये वयसि ज्येष्ठमात्रापरिग्रहेण द्वादशप्रसृतमानो निरूहः स च पञ्चाङ्गः॥४॥

मध्वादेरङ्गपञ्चकस्य प्रतिदोषं मानमाह—

मधुस्नेहनकल्काख्यकषायावापतः क्रमात्॥
त्रीणि षड् द्वे दश त्रीणि पलान्यनिलरोगिणाम्॥५॥
पित्ते चत्वारि चत्वारि द्वे द्विपञ्चचतुष्टयम्॥
षट्त्रीणि द्वे दश त्रीणि कफे वाऽपि निरूहणम्॥६॥

आवाप इत्यावाप्ये निरूहे मधुस्नेहकल्कक्वाथव्यतिरिक्तं क्षीरमूत्रकाञ्जिकादिद्रवमुच्यते। घृतादौ पुनरावापः प्रक्षेपः कल्को वा भण्यते। द्विपञ्चेति। दश। प्रचारस्तु प्रायो द्वादश द्वादश पलानि कृत्वा पुटकद्वयेन। बस्तियौगिकानि द्रव्याणिसुश्रुतेनोक्तानि।

तद्यथा—

“क्षीराण्यम्लानि मूत्राणि स्नेहाः क्वाथा रसास्तथा।
लवणानि फलं क्षौद्रं शताह्वासर्षपा वचा।
एला त्रिकटुकं रास्त्रा सरलं देवदारु च।
रजनी मधुकं हिङ्गु कुष्ठं संशोधनानि च।
कटुका शर्करा मुस्तमुशीरं चन्दनं शठी।
मञ्जिष्ठा मदनं चण्डा त्रायमाणा रसाञ्जनम्।
बिल्वमध्यं यवानी च फलिनी शक्रजा यवाः।
काकोली क्षीरकाकोली जीवकर्षभकावुभौ।
तथा मेदा महामेदा ऋद्धिर्वृद्धिर्मधूलिका।
निरूहेषु यथालाभमेव वर्गो विधीयते”॥५॥६॥

सस्नेह एकः पवने समांसो द्वौ स्वादुशीतौ पयसा तु पित्ते॥
त्रयः समूत्राः कटुकोष्णरूक्षाः कफे निरूहा न परं विधेयाः॥७॥

** समांस इति।** मांसरसावापयुक्तः॥७॥

एकोऽपकर्षत्यनिलं स्वमार्गात्पित्तंद्वितीयस्तु कफंतृतीयः॥८॥

अनिलस्य पक्वाशयः स्थानं तस्य च प्रत्यासन्नत्वादेक एव पुटो युक्तः। पित्ताशयस्यानतिव्यवहितत्वाद्वितीयः। आमाशयस्यातिव्यवहितत्वात्तृतीयः॥८॥

होननिरूहितलक्षणमाह—

अल्पाल्पवेगो विड्वातहीनो हीननिरूहणः॥

अल्पाल्पवेगः स्तोकवेगः। विड्वातहीन इति। स्तोकविड्वातप्रवृत्तिः॥

अतिनिरूढलिङ्गमाह—

मूर्छाशूलकफप्रायो महावेगोऽतिशब्दितः॥९॥

** अतिशब्दित इति।** अतिनिरूढः॥९॥

सम्यङ्निरूढलिङ्गमाह—

यस्य मूत्रं पुरीपं च कफो वायुश्चगच्छति॥
क्रमेण लघुता चैवसुनिरूढः स मानवः॥१०॥

सुगमम्॥१०॥

सुनिरूदस्य पश्चात्कर्म निर्दिशन्नाह—

सुनिरूढं ततो जन्तुं स्नातं भुक्तरसौदनम्॥
यथोक्तेन विधानेन योजयेत्स्नेहवस्तिना॥११॥

सुनिरूढं जन्तुं स्नेहबस्तिनायोजयेन्न तु दुर्निरूढंतत्र यथादोषं निरूहणमेव कार्यं न चातिरूढं तत्रातिरिक्तभेषजं शीतपरिपेकपिच्छाबस्त्यादिकं न तु स्नेहबस्तिः।

तथा च विदेहः—

“अतितीक्ष्णैर्निरूढस्य हतदोषस्यसर्वतः।
कंचिदेवानभिप्रेतं मार्ग स्नेहोऽनुगच्छति” इति।

** गयदासस्तु** परिभाषितं षट्पलप्रमाणं स्नेहबस्तिमत्र देयं न मन्यते। किंचानुवासनाख्यं पलत्रयप्रमाणं स्नेहबस्तिं देयमत्र मन्यते। यत्र तु स्नेहबस्तिः स्वतन्त्रस्तत्रैव षट्पप्रमाणः। स्नातमिति। उष्णाम्बुभिः। यथोक्तेन विधानेनेति। अनुवामनोक्तविधिना॥११॥

अथ कृतनिरूढस्य मन्दाग्नित्वात्तदहरेव कृतो मांसरसः स्नेहबस्तिश्चोपदिश्यत इत्यत आह—

तदहस्तस्य पवनाद्भयं बलवदिष्यते॥
रसौदनस्तेन शस्तस्तदहश्चानुवासनम्॥१२॥

निरूहणाद्विड्वातादिप्रवृत्तिलक्षणेन धातुक्षयेण कुपितानिलस्य बलवदेव भयमतस्तदहरेव रसौदनभोजनं तच्च निरूहणमन्दीकृतानलवधभयान्मात्रावत्। तथा पवनभयात्तदहरेव द्वादशप्रसृतनिरूहचतुर्थांशेन स्नेहेनानुवासनम्। गयदासस्तु सुनिरूढस्य तदहः पलत्रयमेवानुवासनं तथा तदहश्चेति चकारो भिन्नक्रमे तेनानुवासनं चेत्यत्र संबन्धादनुक्तोऽपि मात्राबस्तिश्चात्र समुच्चीयत इति मन्यते न षट्पलप्रमाणं स्नेहबस्तिं भोजदर्शनात्॥१३॥

सम्यङ्निरूढंतैलाक्तं जलेनोष्णेन सेचितम्॥
अल्पस्नेहं जाङ्गल865स्य रसेनोर्ध्वें तु भो866जितम्॥
योजयेदल्पमात्रेण तत्क्षणं स्नेहबस्तिना॥१३॥

** अल्पमात्रेणेति।** सार्धकर्षेण प्रचारः। तत्क्षणमिति। तद्दिनोपलक्षणं तेन सायमेव देयः स्नेहबस्तिः॥१३॥

प्रथमा मध्यमा ह्रस्वा मात्रा या यैस्तु सेविता॥
मन्दाग्नित्वान्निरूढानां तदर्धेनानुवासनम्॥१४॥

सुगमम्॥१४॥

निरूढस्य पुनरनुवासनविधिमाह—

पश्चादग्निबलं मत्वा पवनस्य च चेष्टितम्॥
अन्नोपस्तम्भिते कोष्ठे स्नेहबस्तिर्विधीयते॥१५॥

पश्चात्सान्वा(नुवासनान्निरूहणात्। अग्निबलं दीप्तं बलं वयःशक्तिरूपमुपलभ्य।पवनस्य च चेष्टितं मत्वेति। संचलनशब्दकरणस्फुरणादिकमवधार्यान्नपानेनावष्टब्धे कोष्ठे स्नेहबस्तिरुत्तममात्रारूपः षट्पलः क्रियते। अथवाऽग्नेर्बलमग्निबलं ज्ञात्वा पवनस्य चेष्टितमित्यनेनाग्नौ बलवति पवने चातिप्रवृत्ते व्द्यहेऽथवा त्र्यहे पञ्चमे वा दिने स्नेहबस्तिर्देय इति दर्शयति। तथा च दृढबलः—

“व्द्यहे त्र्यहे वाऽप्यथ पञ्चमे वा दद्यान्निरूहादनुवासनं तु” इति॥

भुक्त एवानुवासनोपदेशात्पुनरन्नोपस्तम्भिते कोष्ठ इत्यभिधानेन सर्वदिनभोजनेनाप्युपस्तम्भं दर्शयति॥१५॥

निरूहस्नेहबस्त्योर्मिलितयोः सम्यग्योगलिङ्गं निर्दिशनाह—

विविक्तता मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः॥
आस्थापिते स्नेहबस्तौ सम्यग्दत्ते तु ल867क्षणम्॥१६॥

एतद्यथासंभवं ज्ञेयम्। विविक्तता गौरवशून्यत्वमिति कार्तिकः। सम्यग्विषयविवेकइत्यन्यः। अयं च लक्षणान्तरोपदेशः सत्येतस्मिल्लँक्षणे पूर्वोक्तासमस्तलिङ्गेऽपि सम्यग्योगप्रतिपादनार्थम्॥१६॥

यथोक्तकालादनिर्गच्छति निरूहे विधानमाह—

अनायान्तं मुहूर्तान्ते निरूहं शोधनैर्हरेत्॥
निरूहैरेव मतिमान्क्षारमूत्राम्लसंयुतैः॥१७॥

मुहूर्तो नाडिका। निरूहैर्मतिमान्हरेदिति संबन्धः। कथंभूतैर्निरूहैरित्याह। शोधनैस्तीक्ष्णैः। क्षारमूत्राम्लसंयुतैः। क्षारो यवक्षारः। मूत्रं गोमूत्रम्। अम्लं काञ्जिकम्॥१७॥

विगुणानिलविष्टब्धंचिरं868 तिष्ठन्निरूहणम्॥
शू869लारतिज्वराटोपान्मरणं वा प्रयच्छति॥१८॥

विगुणो विपरीतः। अरतिर्न कुत्रचिदवस्थितिश्चेतसः॥१८॥

भुक्तवतो निरूहनिषेचमाह—

न तु भुक्तवते देयमास्थापनमिति स्थितिः॥१९॥
आमं तदुद्धरेद्भुक्तं छर्दि वा जनयेद्भशम्॥
कोपयेत्सर्वदोषान्वा तस्माद्देयमना870शिते॥२०॥

** आमं तदुद्धरेद्भुक्तमिति।** भुक्तमाहरेद्यस्मात्। आमं तदुद्धरेद्भुक्तं छर्दि वा जनयेद्भृशमित्यत्र विषूचिकां वा जनयेच्छर्दिवाऽपि सुदारुणामिति पाठान्तरं डल्लणात्। न तु भुक्तवत इत्यादिना य आस्थापननिषेधोऽभिहितस्तस्य दृढीकरणार्थं मुक्तवतो विपचिकादिदोषोद्भावनयाऽभोजिते दानमाह। अभोजिते दानगुणं सुश्रुत आह—

“जीर्णान्नस्याऽऽशये दोषाः पुंसः प्रव्यक्तिमागताः।
निःशेषाः सुखमायान्ति भोजनेनाप्रपीडिताः॥
न चाऽऽस्थापनविक्षिप्तमन्नमग्निं प्रबाधते।
तस्मादास्थापनं देयं निराहाराय जानता” इति॥१९॥२०॥

तीव्रशूलाध्मानादिरोगावस्थस्योपक्रमेणापि नोर्ध्वं शुध्यतः फलवर्त्यादिप्रधानपूर्वकं भुक्तवतोऽपि निरूहदानं कर्तव्यं स्यादत आह—

आवस्थिकं क्रमं चापि मत्वा कार्यं निरूहणम्॥

** आवस्थिकं क्रममिति।** अवस्थात आगत आवस्थिकः क्रमस्तं बुद्ध्वा निषिद्धो निरूहो देयः। तथा हि। भुक्तवतस्तावन्निषिद्धो निरूहस्तस्यापि यदि बहुलशूलवेदनासंभवस्तदा वैतरणरूपो निरूहो देयः॥

अथ कथं निरूहनिषेधेऽपि तत्र निरूह एवं देयो नान्याः क्रिया इत्याह—

मलेऽपकृष्टे दोषाणां बलवत्वं न विद्यते॥२१॥

अस्यार्थः। पक्वाशये मलावृतानां दोषाणां मलापहार एव सति बलापहारो बलापहारे च तत्र निरूह एवप्रधानं न क्रियान्तरमिति॥२१॥

अतिमपीडितो बस्तिः प्रक्रम्याऽऽमाशयं ततः॥
वातेरितो नासिकाभ्यां मुखतो वा प्रवर्तते871
छर्दित्दृल्लासमूर्छादीन्प्रकुर्याद्दाहमेव च॥२२॥

सुगमम्॥२२॥

तत्र तूर्णं गलापीडं कुर्याच्चाप्यवधूननम्॥
शिरःकायविरेकौ च तीक्ष्णौ सेकांश्च शीतलान्॥२३॥

अतिपीडिते निरूहे गलावपीडनमधूननं चोर्ध्वप्रवृत्तस्य वायोरधोगमनार्थम्। तीक्ष्णः शिरोविरेको मूर्छाद्यपगमनार्थः। तीक्ष्णश्च कायविरेको बस्तेरनुलोमनाय शीतलसेकश्च दाहशमनाय॥२३॥

निरूहद्रव्याणां मानक्र872ममाह—

दत्त्वाऽऽदौ सैन्धवस्याक्षं मधुनः प्रसृतद्वयम्॥
विनिर्मथ्य ततो दद्यात्स्नेहस्य प्रसृतद्वयम्॥२४॥

एकीभूते ततः स्नेहे कल्कस्य प्रसृतं क्षिपेत्॥
संमूर्च्छिते कषायं च पञ्चप्रसृतसंमितम्॥२५॥

वितरेच्च तथाऽऽवापमन्ते द्विप्रसृतोन्मितम्॥
एवं प्रकल्पितो बस्तिर्द्वादशप्रसृतो भवेत्॥२६॥

न धावत्यौषधं पाणिं न तिष्ठत्यवलिप्य च॥
न करोति च सीमन्तं स निरूहः सुयोजितः॥२७॥

** अक्षं कर्षमित्यर्थः।** मधुनः प्रसृतद्वयं चत्वारि पलानि। हस्ततलेन विनिर्मथ्य ततः स्नेहस्य प्रसृतद्वयं दद्यात्। संमूर्च्छिते संमोलिते। वितरेद्दद्यात्। आवापः पश्चान्निक्षेप्यं क्षीरकाञ्जिकादिद्रव्यम्। द्विप्रसृतोन्मितं चतुष्पलप्रमाणम्। अत्र सैन्धवाक्षमधिकमपि स्वल्पत्वादविगणय्योक्तं द्वादशप्रसृतो भवेदिति। अयं च निरूहमानक्रमः पित्तोक्तनिरूहमानसंवादात्पित्ते ज्ञेयः। स्नेहस्य प्रसृतद्वयमित्यत्र स्नेहस्य प्रसृतित्रयमितिसुश्रुते पाठः। तथा पञ्चप्रसृतसंमितमित्यत्र चतुष्प्रसृतसंमितमिति सुश्रुते पाठः।तन्त्रान्तरेऽपि निरूहयोजना प्रोक्ता—

“माक्षिकं लवणं स्नेहं कल्कं क्वाथमिति क्रमात्।
*873अवाप्योवाप्यपात्रे तन्मथ्नीयादन्तराऽन्तरा।
सम्यक्पाणितलेनैष निरूहे योजनाविधिः” इति।

अथ श्रीब्रह्मदेवव्याख्यानम्—दत्त्वाऽऽदौ सैन्धवस्याक्षं मधुनः प्रसृतद्वयमित्यादिके द्वादशप्रसृते बस्तौ सामान्येन भेषजमभिधाय तन्त्रान्तरार्थतो व्याख्याकारो विशेषमाह। तत्र वाते मधुनः प्रसृतद्वयं स्नेहस्य त्रयः प्रसृताः कषायो मांसरसप्रधानः शेषं यथोक्तमेव। पित्ते तु मधुतैले समे प्रत्येकं सार्धप्रमृतद्वयसंमिते कषायः क्षीरप्रधानः। कफे मधुनस्त्रयः प्रसृताः स्नेहस्य सार्धप्रसृतः कषायो गोमूत्रप्रधानः शेषं पूर्ववत्। उक्तं च—स्निग्धोष्ण एकः पवने समांसो द्वावित्यादि। **न धावत्यौषधं पाणिमित्यादि।**तनुतया प्रक्षालितप्रायं हस्तं न करोतीत्यर्थः। सीमन्तमिति। रेखाम्॥२४॥२५॥२६॥२७॥

इति निरूहकल्पनम्।

<MISSING_FIG href="../../../books_images/U-IMG-1702579139image2.JPG"/>

अथ पिच्छाबस्तिविधिः।

बदर्यैरावतीशेलुशाल्मलीधन्वनाङ्कुराः॥
क्षीरमिद्धाः सुशीताः स्युः सास्राः पिच्छिलसंज्ञिताः॥१॥
वाराहमाहिषौरभ्रबैडालैणेयकौक्कुटम्॥
सद्यस्कमसृगाजं वा देयं पिच्छिलबस्तिषु॥२॥

एलावत्येलावणिर्नागबलेति जैज्जटः। शेलुः श्लेष्मातकः। धन्वनो धनुर्वृक्षो यश्च धामण इति लोके ख्यातः। अङ्कुरो नवपल्लवः। सास्राः सहास्रेण। अस्रंरुधिरम्। बदर्यादिपल्लवानां षोडश पलानि। क्षीरप्रस्थः। तोयप्रस्थत्रयम्। शेषः क्षीरप्रस्थ एव।अनेन दश पलानि कृत्वा पुटत्रयशेषं पलद्वयं सुखग्रहणार्थं त्रिपुट एव निरूहः प्रायेण। एतच्च क्षीरं क्वाथस्थाने क्वाथश्च प्रतिपुटं दशपल एव। रुधिरमावापः। अत्र कल्कमधुस्नेहा अनुक्ता अपि देयाः। कल्कश्च शाल्मलीनिर्यासादिभिः कार्यः। यदाह पिच्छाबस्तौ च चरकः

“कल्कः शाल्मलिनिर्याससमङ्गोत्पलचन्दनम्।
वासकस्य च बीजानि प्रियङ्गुपद्मकेसरम्” इति॥

पिच्छाबस्तिर्निरूहप्रकारत्वेन द्वादशप्रसृत एव। पञ्चाङ्गश्च। मानविभागश्चेह पित्तनिरूहोक्तकषायादिवट्टीकाकृद्भिर्व्याख्यातः सुश्रुते। वैद्यास्तु— “पिच्छाबस्तिर्भवेत्प्रस्थः पादोनः कीर्तितोऽपरः” इति परिभाषया प्रस्थं द्वादशपलं वा पिच्छाबस्तिं व्याहरन्ति व्यवहरन्ति ते प्रस्थेन पुटद्वयं कृत्वा विषयश्चास्य पित्ताधिकग्रहणीरोगनिरूहातियोगादिः। सुश्रुते डल्लण एवं व्याख्यानयति— बदर्याद्यङ्कुरान्समुदायेन पलत्रयप्रमितांश्चतुर्विंशतिपलप्रमितं दुग्धं दत्त्वा चतुर्गुणं जलं च निक्षिप्य क्वाथयेत्। ततः क्षीरशेषं चतुर्विंशतिपलानि ग्राह्याणि। तत्र सामान्यपरिभाषोक्तत्वान्मधुनश्चत्वारि पलान्यावापद्रव्यत्वादुधिरस्य चत्वारि पलानीत्येवं पिच्छाबस्तेर्द्वात्रिंशत्पलानि भवन्ति।

तथा चोक्तम्—

“पिछाबस्तेर्भवेत्प्रस्थः पादोनः कीर्तितोऽपरः।
चतुर्विंशतिमुष्टिश्च निरूहः समुदात्दृतः”॥

एवमपरेष्वपि पुटकेषु पिच्छाबस्तिमानं कल्पनीयम्। सास्राइति यदुक्तं तत्किमीयमस्रमित्यत आह। वाराहेत्यादि। उरभ्रो मेषः। एणस्येदमैणेयमेणः कृष्णसार इति जैज्जटाचार्यः। ब्रह्मदेवाचार्यस्तु एण्या इदमैणेयं न पुनरेणस्येदं तत्रैणेयमिति प्रयोगो न स्यात्। सद्यस्कं तत्कालीनं तच्च जीववतां ग्राह्यं जीवानुसंधानार्थम्॥१॥२॥

इति पिच्छाबस्तिः।

<MISSING_FIG href="../../../books_images/U-IMG-1702584310image1.JPG"/>

अथार्धमात्रिकबस्तिः।

<MISSING_FIG href="../../../books_images/U-IMG-1702584363image2.JPG"/>

अर्धमात्रिकं बस्तिमाह—

दशमूलीकषायेण शताह्वाक्षं प्रपेषयेत्॥
तत्समं सैन्धवं दद्यान्मधुतैलं चतुष्पलम्॥
मदनस्य फलं चैकं यथायोगेन दापयेत् ॥१॥

आस्थापनप्रयोगेण भुक्त्वा बस्तिंविचक्षणः874
न चाभ्यङ्गो न च236स्वेदः परिहारविधिर्न च॥२॥

आत्रेयानुमतो ह्येष सर्वरोगनिबर्हणः॥
यक्ष्मघ्नश्च कृमिघ्नश्च शूलघ्नश्च विशेषतः॥३॥

शुक्रसंजननो ह्येष वातशोणितनाशनः॥
बलवर्णकरो वृष्यश्चार्धमात्रिकसंज्ञितः॥४॥

शतशः सन्ति निरूहा यद्यपि सुश्रुतचरकप्रणिगदिताः॥
भिषजां पुनरमुनैव व्यवहारश्चार्धमात्रिकेण॥५॥

स्नेहं गुडं मांसरसं पयश्च अम्लानि मूत्रं मधु सैन्धवं च॥
एतान्यनुक्तान्यपि दापयेत निरूहयोगे मदनात्फलं च॥६॥

लवणं कार्षिकं दद्यात्फलमेकं तु मादनम्॥
वाते गुडं सितां पित्ते कफे सिद्धार्थकादयः॥७॥

मधुतैलं चतुष्पलं मिलित्वा। यथायोगेनेत्यनेन वातादिषु निरूहे यावदुक्तं तावतोऽर्धेन दशमूलकषायादिमानं दर्शयति। शताह्वादीनां यथोक्तमेव मानम्। अर्धमात्रया द्रवाय पलद्वयं दुग्धगोमूत्रमांसरसादीनां कल्कश्चाम्बुना गुडादिना *875क्षरणीया। भुक्त्वाबस्तिमिति। अभुक्त एव प्रचरति। अपरोऽप्येतावन्मानः पुटो दीयते व्यवहारात्। निरूढयौगिकानि द्रव्याण्याह। स्नेहमित्यादि। अम्लानि काञ्जिकादीनि। कफे सिद्धार्थकादय इत्यत्राऽऽदिशब्दाद्वचात्रिकटुकादयः। अत्र स्थानेऽर्धमात्रिकबस्तेः कल्पनयाऽऽवापादिद्रव्यं मानविभागं च दर्शयितुं क्वचिदधिकः पाठः।

“कर्षं सिन्धुरजसो द्विपलं पलद्वयं मधुतैलाभ्याम्।
करतलमथितं पात्रे गूढस्नेहं भवेद्यावत्॥
दशमूलस्य कषायं दत्त्वा पलपञ्चकं मदननामकम्।
गुडशताम्लिकानां कर्षं कर्षं तथा कर्षम्॥
माषकपञ्चसमेतं जम्बीरपूरकमांसरसपयसाम्॥
तुषजलगोजलयोरपि प्रत्येकं पुटकैमात्रा” इति॥१॥२॥३॥४॥५॥६॥७॥

इत्यर्धमात्रिकबस्तिः।

<MISSING_FIG href="../../../books_images/U-IMG-1702609053image1.JPG"/>

अथ क्षारबस्तिः।

<MISSING_FIG href="../../../books_images/U-IMG-1702623255image2.JPG"/>

क्षारबस्तिमाह—

सैन्धवाक्षं समा876दाय शताह्वाक्षसमन्वितम्॥
गोमूत्रस्य पलान्यष्टावम्लिकायाः पलद्वयम्॥१॥
गुडस्य तु पले द्वे तु सर्वमालोड्ययत्नतः॥
वस्त्रपूतं सुखोष्णं च बस्तिं दद्याद्विचक्षणः॥२॥
शूलं विट्सङ्गमानाहंमूत्रकृच्छ्रं च दारुणम्॥
कृम्युदावर्तगुल्मादीन्सद्यो हन्यान्निषेवितः॥३॥

** अम्लिकाया इति।** सास्थितिन्तिडीकफलस्य। अत्रापि मदनफलगुडकमेकं वैद्या वदन्ति। एवं वैतरणेऽपि। अस्याप्येतावन्मान एव पुरः पुटो देयः॥१॥२॥३॥

इति क्षारवस्तिः।

<MISSING_FIG href="../../../books_images/U-IMG-1702623529image1.JPG"/>

अथ वैतरणबस्तिः।

<MISSING_FIG href="../../../books_images/U-IMG-1702623255image2.JPG"/>

वैतरणबस्तिमाह—

पलशुक्तिकर्षकुडवैरम्लीकागुडसिन्धुजन्मगोमूत्रैः॥
ईषत्तैलयुतोऽयं बस्तिः शूलानाहामवातहरः॥१॥
भोजयित्वा तु सायाह्ने सर्वस्यायं प्रशस्यते॥
अथ चेद्बलवाञ्जन्तुरभुक्त्वाऽपि तदा क्वचित्॥ २॥

अम्लीका तिन्तिडीफलम्। गोमूत्रस्य कुडवोऽष्टौ पलानि द्रवद्वैगुण्यात्। निरूहेषु रसादीनां प्रमाणं तु यथाश्रुतीति परिभाषां पुनर्द्रवद्वैगुण्यनिषेधिकां नाऽऽद्रियन्ते। प्रायेण हि निरूहेषु सुश्रुतेननाषू[नमु]पदिष्टं प्रसृ[कृ]ते च द्वैगुण्यमप्रशस्तं प्रतिषेद्धव्यम्। द्वैगुण्यं हि कुडवादावन्यदुत्पादितम् (?)। तत्रापि क्वचित्—

“स्थिरादिवर्गस्य बलापटोलत्रायन्तिकैरण्डयवैर्युतस्य।
[प्रस्थो न सच्छागरसार्धयुक्तः साध्यः पुनः प्रस्थसमतयाऽऽदौ[?]]877गरसार्धयुक्तः सतैलसर्पि र्मधुसैन्धयश्चेति चरकपाठः।")

प्रस्थः श्रूयते तत्रापि टीकाकारैर्द्विगुणे चतुःशरावरूपप्रस्थशेषे व्यवहितः [?]॥१॥२॥

इति वैतरणबस्तिः।

अयोगजातियोगजव्यापदोर्मध्येऽतियोगजा व्यापन्महात्ययकारिणीति ततो बिभ्यदाह—

अपि हीनं क्रमं कुर्यान्न तु कुर्यादतिक्रमम्॥
विशेषात्सुकुमाराणां हीन एवक्रमो हितः॥१॥

सुगमम्॥१॥

भयोन्मादतृषाशोषाजीर्णारुचिप्रमेहिणः॥
मूर्छाकुष्ठोदरस्थौल्यकासश्वासक्षयातुराः॥२॥
शोफभ्रममदच्छर्दियुता बस्त्यसहाबलाः॥
नाऽऽस्थाप्या नानुवास्याश्च वातरोगादृते नराः॥३॥

मूर्छा चेतनाच्युतिः। भ्रमश्चक्रारूढस्येव भ्रमणम्। मदः पूगफलेनेव मत्तता। वातरोगादृते क्षीणा नरा नानुवास्याः। उन्मादादिषु सामान्येन बस्तिनिषेधोऽत्राभिहितः। केचितुकेषांचित्प्रतिप्रसवमपवादरूपेणाऽऽहुः। तत्रोन्मादापस्मारभ्रममदमूर्छासुसंज्ञानाशापगमे शुद्धस्याऽऽतुरस्यानुबन्धोपचरणाय बस्तिर्देयः। कुष्ठिनामर्शसानां च मूडवातानां प्रयोग्यः। वाताद्युदरिषु त्रिषु निषिद्धोऽप्युदया(रा)दिषु पञ्चमु बस्तिः प्रयोक्तव्यः। शोफिक्षतोरस्कयोरनुवासननिषेधो न निरूहस्य वर्षादर्वाग्बालस्य नवत्यूर्ध्वं वृद्धस्य मृदूरपि बस्तिर्निषिद्धोऽतोऽन्यथा तीक्ष्ण एव। एतेनावस्थावशान्निषिद्धमपि कार्यं स्यात्।

“उत्पद्यते हि साऽवस्था देशकालबलं प्रति।
यस्यां कार्यमकार्यं स्यात्कर्म कार्यं च गर्हितम्”॥२॥३॥

क्वचिदेवाऽऽस्थापनस्यावस्थायां प्रतिप्रसवमुद्दिशन्नाह—

उदरी च प्रमेही च कुष्ठी स्थूलश्चमानवः॥
अवश्या878स्थापनीयास्ते नानुवास्याः कथंचन॥४॥

सा व्यावस्था तन्त्रान्तरादनुसर्तव्या। तत्रोदरे चाग्भटः—

“सुविरिक्तस्य यस्य स्यादाध्मानं पुनरेव तम्।
सुस्निग्धैरम्ललवणैर्निरूहैःसमुपाचरेत्” इति॥

एवं प्रमेहादिषु चिकित्सितमवलोक्याऽऽस्थापनावस्था ज्ञातव्याः॥४॥

सकल्प्रवयवगतदोषहरणं बस्तेरेकस्थानस्थितस्य घोपमानेन दर्शयन्नाह—

वीर्येण बस्तिरादत्ते दोषानापादमस्तकात्॥
पक्वाशयस्थः स्वस्थोऽर्कस्त्वपो यद्वन्महीतलात्॥५॥

** अन्ये** त्वत्रामुश्लोकं पठन्ति—

“स कटीपृष्ठकोष्ठस्थान्वीर्येणाऽऽलोड्य संचयान्॥
उत्खातमूलान्हरति दोषाणां साधुयोजितः” इति॥

** सुश्रुते** तु स्पष्टं कृत्वोक्तम्—

“पक्वाशये तथा श्रोण्यां नाम्यधस्ताच्चसर्वतः॥
सम्यक्प्रणिहितो बस्तिः स्थानेष्वेतेषु तिष्ठति॥
पक्वाशयाद्बस्तिवीर्यं स्वैर्देहमनुसर्पति॥
वृक्षमूले निषिक्तानामपां वीर्यमिव क्रमम्॥
स चापि बस्तिः सहसा केवलः सकफोऽपि वा॥
प्रत्येति वीर्यं त्वनिलैरपानाद्यैर्विनीयते”॥५॥
सर्वाङ्गतमेकाङ्गस्थितं वाऽपि समीरणम्॥
रुणद्धि केवलो बस्तिर्वायोगमिवाचलः॥६॥

सुगमम्॥६॥

वायोर्विषहते वेगं नान्या बस्तेर्ऋते क्रिया॥
पवनाविद्धतोयस्य वेला वेगमिवोदधेः॥७॥

यथोदधेः समुद्रस्य पवनाविद्धतोयस्यानिलाभुग्नसलिलस्य वेला कूलमर्यादा वेगं विषहते विशेषेण सहते॥७॥

मूलसेकायथा वृक्षाः879 स्निग्धशालड्वलपल्लवाः॥
880था बस्तिप्रदानात्स्यान्नरः कान्तिबलादिमान्॥८॥

सुगमम्।

“दत्तस्तु प्रथमो बस्तिः स्नेहयेद्बस्तिवङ्क्षणौ।
सम्यग्दत्तो द्वितीयस्तु मूर्धस्थमनिलं जयेत्॥
जनयेद्बलवर्णौच तृतीयस्तु प्रयोजितः।
रसं चतुर्थो रक्तं च पञ्चमः स्नेहयेत्तथा॥
षष्ठस्तु स्नेहयेन्मांसं मेदः सप्तम एव च।
अष्टमो नवमश्चस्थि मज्जानं च यथाक्रमम्॥
एवं शुक्रगतान्दोषान्द्रिगुणः साधु साधयेत्”।

इति सुश्रुते स्नेहबस्तेः प्रथमादिदानेन कार्यमभिहितम्॥८॥

इदानीमेतैरष्टादशभिः स्नेहबस्तिभिः सप्तधातुगतदोषहरणमभिधाय पुनः पुनरम्यस्तैरेतैरेव विशिष्टं रसायनफलं दर्शयन्नाह—

अष्टादशाष्टादशकान्बस्तीनां यो निषेवते॥
यथोक्तेन विधानेन परिहारक्रमेण च॥९॥
स कुञ्जरबलोऽश्वस्य जवतुल्योऽमरप्रभः॥
वीतपाप्मा श्रुतधरः सहस्रायुर्भवेन्नरः॥१०॥

** अष्टादशाष्टादशकानिति।** चतुर्विंशं शतत्रयम्। यथोक्तेनेति। इहैषानन्तरातिक्रान्तेन।परिहारक्रमेणेति। सुश्रुत आतुरोपद्रवीय उक्तेनेति। तत्र स्नेहपीतं वा विरिक्तसृतासृग्विरूढेषु परिहार्याणामपरिहारेण किं भवतीत्याशङ्क्यसुश्रुत आह—

“क्रुध्यतः कुपितं पित्तं कुर्यात्तांस्तानुपद्रवान्।
तांस्तानुपद्रवान्दाहपिपासाप्रभृतीनिति॥
आयास्यतः शोचतो वा चित्तं विभ्रममिच्छति”।

विभ्रमं विविधं भ्रमं संमोहमदापस्मारोन्मादादिकं मानसं विकारमिति।

“मैथुनोपगमाद्घोरान्व्याधीनाप्नोति दुर्मतिः।
आक्षेपकं पक्षघातमङ्गप्रग्रहमेव च॥
गुह्यप्रदोष881श्वयथुं कासश्वासौ च दारुणौ॥
रुधिरं शुक्रवच्चापि सरजस्कं प्रवर्तते” इति॥
“लभते च दिवास्वापात्तांस्तान्व्याधीन्कफात्मकान्॥
प्लीहोदरं प्रतिश्यायं पाण्डुतां श्वयथुं ज्वरम्॥
मोहं सदनमङ्गानामविपाकंतथाऽरुचिम्” इति॥
“तमसा चाभिभूतस्तु स्वप्नमेवाभिनन्दति" इति॥
“उच्चैः संभाषणाद्वायुः शिरस्यापादयेद्रुजम्॥
आन्ध्यं बाधिर्यमघ्रत्वं जडतां मूकतां तथा॥
हनुमोक्षमधीमन्थमर्दितं च सुदारुणम्॥
नेत्रस्तम्भं निमेषं वा तृष्णां कासं प्रजागरम्॥
लभते दन्तचालं च तांस्तांश्चान्यानुपद्रवान्” इति॥
“जायते यानयानेन च्छर्दिर्मूर्छा भ्रमः क्लमः॥
तथैवाङ्गग्रहो घोर इन्द्रियाणां च विभ्रमः”॥

यानयानेनाश्वादिगमनेनेति।

“चिरासनात्तथा स्थानाच्छ्रोण्यां भवतिं वेदना”॥

स्थानमूर्ध्वीभवनमिति।

“अतिचङ्क्रमणाद्वायुर्जङ्घोर्वोः कुरुते रुजः॥
सक्थिप्रशोषं शोफंवा पादहर्षमयापि का”॥

चङ्क्रमणं चक्रक्रियापरिभ्रमणम्। शोफंचेत्यत्र स्वापं चेति पाठान्तरमिति।

“शीतसंभोगतोयानां सेवा मारुतवृद्धये॥
ततोऽङ्गमर्दविष्टम्भशूलाध्मानप्रवेपकाः”॥

संभोगोऽसृक्वन्दनादीनामुपयोगः। **गयी तु—**शीतसंभोगतोयानामित्यत्र शीतभोजनतोयानामिति पठतीति।

“वातातपाभ्यां वैवर्ण्यं ज्वरं चापि समाप्नुयात्”॥

यथाक्रमं वाताद्वैवर्ण्यमातपप्रकुपितात्पित्ताज्ज्वर इति।

“विरुद्धाध्यशनान्मृत्युं व्याधिं वा घोरमृच्छति”॥

पयोमत्स्यादिभोजनं विरुद्धाशनम्। अजीर्णभोजनमध्यशनम्। ताभ्यां मरणं भयाबहो रोगो वेति॥

“असात्म्यभोजनं हन्याद्बलवर्णावसंशयम्”॥

असात्म्यभोजनं देशर्तुजातिप्रकृत्यादिवैपरीत्येन भोजनमिति।

“अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः॥
रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि” इति।

** स कुञ्जरबल इति।** उपचयशक्तिलक्षणं बलम्। **अश्वस्य जवतुल्य इति।**गज इवोपचितधातुरपि क्रियाविशेषप्रभावात्तुरंगवत्तरस्वी। अमरवत्प्रकर्षेण भातीत्यमरप्रभोऽत्यद्भुतवर्णाद्युपेत इत्यर्थः। वीतपाष्माक्रियाविशेषप्रभावादेव गतप्राक्तनजन्मकृतसकलकल्मषः। श्रुतधर इति। चित्तस्य शक्त्युत्कर्षयुक्तः। सहस्रायुरिति।शरीरेन्द्रियसत्त्वात्मसंयोगोत्कर्षः। यद्यप्यत्र स्नेहबस्तीनामष्टादशकः, अन्तरा तु निरूहणमिति पूर्ववाक्यादनियतनिरूहान्वितोऽभिहितस्तथाऽपितन्त्रान्तरदर्शनान्नियतद्वादशयापनाख्यनिरूहोपेतो ज्ञेयः। तादृशस्य च तन्त्रान्तरे कर्मेति संज्ञा।

तथा हि—

“त्रिंशन्मताः कर्म नु बस्तयो हि कालस्ततोऽर्धेन ततश्च योगः॥
सान्वासना द्वादश वै निरूहाः प्राक्स्नेह एकः परतस्तु पञ्च” इति॥

ततश्च “अष्टादशाष्टादशकान्बस्तीनां यो निषेवते” इत्यनेन कर्मबस्तीनष्टादशवारान्यो निषेवत इत्यर्थो गम्यते। तथा श्रीवाग्भटेनापि कर्मकालयोगबस्तयोऽभिहिताः।

तथा च—

“प्राक्स्नेह एकः पञ्चान्ते द्वादशाऽऽस्थापनानि च।
सान्वासनानि कर्मैवं बस्तयस्त्रिंशदीरिताः॥
कालः पञ्चदशैकोऽत्र प्राक्स्नेहोऽन्ते त्रयस्तथा॥

षट्पञ्चबस्त्यन्तरिता योगोऽष्टौ बस्तयोऽत्र तु॥
त्रयो निरूहाः स्नेहाश्च स्नेहावाद्यन्तयोरुभौ”॥

यापनबस्तिविषयोऽयं ग्रन्थः। निरूहा एव यापना बस्तयः। अत एवैकान्तरिताः स्नेहाः। यापना बस्तयो हि नातिस्निग्धा नातिरूक्षा नपुंसकबस्तय उच्यन्ते। कर्मकाल्योगसंज्ञया यथासंख्यं वातपित्तकफहरो बस्तिप्रयोगो ज्ञेयः। गयदासस्तु बलवद्विग्रहादिजनितोपचयपूर्वकवातादिदोषप्रकोपे बलीयसि त्रिंशद्बस्तयः। स्वस्थे पुनः कालैकप्रभावजनितवातादिप्रकोपे मध्यबले पञ्चदश। कालेनाप्यकृतदोषकोपस्य स्वस्थस्यापूर्ववृष्यत्वादिलाभार्थमष्टौ॥९॥१०॥

स्नेहपीतस्येत्याद्येकवाक्योक्तानां पञ्चानां स्नेहपीतादीनां मध्याद्द्वयोः कृतशिराव्यधविरिक्तयोः परिहारकालं गौरवान्निर्दिशन्नाह—

कृतः शिराव्यधो यस्य कृतं यस्य विशोधनम्॥
स ना परिहरेन्मासं यावद्वा बलवान्भवेत्॥११॥

यस्य शिराव्यधः कृतो यस्य च शोधनं विरेचनाख्यं कृतं तस्योभयस्यापि शोधनानन्तरं सप्तरात्रं कृतसंसर्गस्य सप्ताहादूर्ध्व परिपूर्णाहारत्वेन मधुरादिरसानां क्रमविपर्ययाभ्यामुपसेवया रसस्य शनैः शनैर्धान्वन्तरानुक्रमतो मासेन शुक्रस्य शनैर्बलावाप्तिरुत्पद्यते। अत उक्तम्—स ना परिहरेन्मासमिति। ना पुरुषः। क्रुध्यतः कुपितं पित्तं कुर्यादित्यादिश्लोकैरनन्तरोक्तं सुश्रुतोक्तक्रोधादिकं परिहरेत्। तत्र कस्यचिदत्यन्तक्षीणाग्नेर्जलसंतानवद्रसप्रसरणेन मासानन्तरमपि बललाभः कस्यचिद्दीप्ताग्नेः शब्दसंतानवद्रसप्रसरणेन मासादर्वागपि बललाभः स्यादत उक्तम्—यावद्वा बलवान्भवेदिति। चतुर्षु स्नेहपीतादिषु पूर्वोक्तोऽन्नसंसर्गकालनियमः। बस्तौ तु तादृशो नास्ति। कथं दोषव्याधिबलापेक्षया बस्तिः पुनः पुनः शीलनात्। तदुक्तम्— अष्टादशाष्टादशकानित्यादि॥११॥

अत एकैकं बस्तिमुद्दिश्य विशिष्टं नियमं दर्शयन्नाह—

त्र्यहं त्र्यहं परिहरेदेकैकं बस्तिमातुरः॥
तृतीये तु परीहारे यथायोगं समाचरेत्॥१२॥

एकैकं बस्तिं सेवित्वेति वाक्यशेषं कृत्वा त्र्यहं त्र्यहं क्रुध्यतः कुपितं पित्तं कुर्यादित्यादिश्लोकैःसुश्रुतोक्तं परिहार्यं परिहरेत्। तृतीये तु परीहार इत्यादिना विशेषेण परीहारे कृते सति, अनन्तरं चतुर्थपञ्चमदिवसादौ यथायोगं योगानतिक्रमेण सम्यङ्निरूढानुवासितयोगलक्षणानतिक्रमेण समाचरेद्यथासात्म्यमुपसेवेतेत्यर्थः। अन्ये तु व्याख्यानयन्ति—एकैकं बस्तिमनुवासनं दत्त्वा त्रीण्यहांनि परिहरेत्। तृतीये तु बस्तौ गतेतृतीयादनुवासनादूर्ध्वं यथायोगं यथावस्थमग्न्यादीनवेक्ष्य चतुष्पञ्चदिवसानन्तरा कृत्वाऽनुवासनं योजनीयम्॥१२॥

स्नेहपीतस्य वान्तस्य विरिक्तस्य स्रुतासृजः॥
निरूढस्य च कायाग्रिर्मन्दो भवति देहिनः॥१३॥

** निरूढस्य चेति।** चकारेणानुवासितमनुक्तं समुच्चिनोति। ननु स्नेहपीतस्याग्निर्मन्दो भवतीति कथमुच्यते—

“दीप्तान्तराग्निःपरिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः।
दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपसेवी पुरुषो भवेत्तु”॥

इत्युक्त्तत्वात्॥

“यथा हि सारदार्वग्निः स्थिरः संतिष्ठते चिरम्।
स्नेहोऽत्र विविधस्तद्वदन्तरग्निर्भवेत्स्थिरः” इति॥

नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपीति चरकाचार्योक्तत्वात्। वान्तस्यापि कथमग्निर्मन्दः स्यात्। मन्दे हि कटुतिक्तकषायैर्वमनैश्चेत्यग्निमान्द्येवमनोपदेशादिति। विरेचनमपि वह्निदीप्तिकरमुक्तम्॥

“बुद्धेः प्रसादं बलमिन्द्रियाणां धातुस्थिरत्वं बलमग्निदीप्तिम्।
चिराच्च पाकं वयसः करोति विरेचनं सम्यगुपास्यमानम्” इति॥

अनेन विरिक्तस्यापि नाम्निमान्द्यसंभवः। निरूहो ह्यग्न्यधिष्ठानमस्पृश्यैव पक्वाशयादेव प्रत्येति। मांसरसाशनस्याऽऽम्नातत्वान्निरूढस्यापि नाग्निमान्द्यमुपपद्यते। सिद्धान्तमाह। स्नेहो हि द्विविधः संशोधनाङ्गः प्रायोगिकश्च। आद्यः शोधनीयःपीतोऽग्निमान्द्यहेतुरुक्तः। कुतः। अनन्तरं वमनाद्युपदेशात्। इतरः प्रायोगिको विचारणास्नेहश्च दोपनः। ततश्च भिन्नविषयत्वान्मिथो भेदः। तथा च तन्त्रान्तरम्—

“ये तु वृद्धाश्च बालाश्च सुकुमाराः सुखोदिताः।
रिक्तकोष्ठत्वमहितं येषां मन्दाग्नयश्च ये॥
ज्वरातीसारकासाश्च येषां चिरसमुत्थिताः।
स्नेहमात्रां पिबेयुस्ते ह्रस्वां ये चावरा बले” इति॥

तस्माद्यत्किंचिदेतत्। स्नेहद्वैविध्याच्च। स्नेहो हि द्विविधः स्थावरो जङ्गमश्च। तद्योनि च तैलमाग्नेयं तद्धि दीपनमेव। तथा च—दीपनमग्निगुणभूयिष्ठं जङ्गमस्नेहो हि घृतवसामज्जानः। तेषु घृतमसंस्कृतं मधुरस्त्रिग्धशीतत्वाच्छ्लेष्मणः समानगुणत्वादेव न दीपनं वसामज्जानौ हि गुरुत्वेनाधिकौ तावुपयुज्यमानावसंस्कृतावत्यर्थमग्निमान्द्यहेतू। तथा **चोक्तम्—**धातवो रक्तादयः शुक्रान्ता उत्तरोत्तरं गुरव इति। सर्पिषस्तु यच्चापिदीपनत्वं त्रिदोषघ्नत्वं च तत्संस्कारसव्यपेक्षम्। तथा च तन्त्रान्तरम्—‘तेभ्यश्चैवोत्तमं सर्पिः संस्कारस्यानुवर्तनात्’ इति। सद्योवान्तस्य वमनाहृतावशिष्टकफावरुद्धस्रोतोमुखस्य तात्कालिकमग्निमान्द्यं स्यात्। अनन्तरं स्रोतःशुद्धौ सत्यां कृतसंसर्जनक्रमस्य क्षीणकफस्य वान्तस्याग्निदीप्तिः। विरिक्तस्य तु हृतपित्तत्वान्मरुदग्निविक्षेपणाच्च तात्कालिकमग्निमान्द्यम्। अनन्तरं वान्तस्येवाग्निदीप्तिः। स्रुतशोणितस्यापि समानयोनिहीनो*882पित्तमपनीयते तस्माद्युक्तमग्निमान्द्यम्। निरूहस्याप्यशेषदोषमलनिर्हरणाद्युक्तमेवाऽऽपेक्षिकं मान्द्यम्। मान्द्यं ह्यल्पत्वमभिप्रेतं न पुनः श्लेष्मोपहतस्येव मान्द्यमिति। इति श्रीब्रह्मदेवः। कुसुमावलिकारस्त्वेवं पूर्वपक्षयति। ननु स्नेहपानादयोऽनलप्रबोधहेतव इत्युक्त्तत्वात्कथं तैर्मन्दोऽग्निर्भवति। उच्यते। एते हि तत्कालं धातुक्षयात्कोष्ठसंक्षोभाच्चाग्नेर्मान्द्यमावहन्त्येव तस्मादग्निमान्द्यं युक्तं क्रमेण तु दीप्तोऽग्निर्भवतीति न दोषप्रसङ्ग इति॥१३॥

स चाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्धते॥
काष्ठैरणुभिरल्पैश्च संधुक्षित इवानलः॥ १४॥

संसर्जनक्रमः परिशिष्टकारेण सर्वाः शुद्धीरभिसंधायोपकल्पनीयाध्याय उक्तः। तद्यथा। हीनशुद्धिशुद्धस्य पुरुषस्य तावत्प्रथमेऽन्नकाल उचितभक्तकृताष्ठभागां पेयां दद्यात्। तस्मिन्नेव दिने द्वितीयेऽन्नकाले प्रकृतिस्थाज्जरणकालोचिताद्भक्ताच्चतुर्थाशेन कृतामविपक्वतण्डुलावयवांमण्डरहितां विलेपीं दद्यात्। द्वितीयेऽह्नि तृतीयेऽन्नकालेऽस्निग्धालवणस्वच्छेनाकृतमुद्गयूषेणोचितादर्धभागतण्डुलकृतं सुस्विन्नमोदनं दद्यात्। तस्मिन्नेव दिने चतुर्थेऽन्नकाले हृद्येनेन्द्रियबोधिना कृतसंज्ञकेन यूषेणोचिततण्डुलांशत्रयकृतमोदनं भोक्तुं दद्यात्। ततस्तृतीयेऽह्नि पञ्चमेऽन्नकाले लावैणहरिणादीनां सुसंस्कृतै रसैरंशचतुष्टयप्रमाणं भक्तं भोक्तुं दद्यात्। तृतीयेऽह्नि षष्ठेऽन्नकाले प्रकृतिभोजनमागच्छेत्। मध्यशुद्धिशुद्धस्य च तावदादौ द्वयोरन्नकालयोः पेयां दद्यात्। द्वितीयेऽह्नि द्वयोरप्यत्र कालयोर्विलेपिकां तृतीयेऽह्नि कालद्वयेऽप्यकृतं यूषंचतुर्थेऽह्नि कालद्वयेऽपि कृतं यूषं पञ्चमेऽह्निकालद्वयेऽपि मांसरसमित्यतः षष्ठेऽह्नि प्रकृतिभोजनमागच्छेत्। उत्तमशुद्धिशुद्धस्य च तावत्प्रथमेऽह्नि द्वयोरप्यन्नकालयोः पेयां दद्यात्। द्वितीयेऽह्नि प्रथमेऽन्नकाले पेयां द्वितीये विलेपिकां तृतीयेऽह्नि द्वयोरप्यत्र काल्योर्विलेपिकां चतुर्थेऽह्नि द्वयोरप्यन्नकालयोरकृतयूषं पञ्चमेऽह्नि प्रथमेऽन्नकालेऽकृतं यूषं द्वितीयेऽन्नकाले कृतं यूषं षष्ठेऽह्नि द्वयोरप्यन्नकालयोः कृतं यूषं सप्तमेऽह्नि द्वयोरप्यन्नकालयोर्मासरसमष्टमेऽह्नि प्रथमेऽन्नकाल उचिततण्डुलाष्टभागकृता पेया द्वितीयेऽन्नकाले तूचिततण्डुलचतुर्थभागकृता विलेपी तृतीयेऽन्नकाले तूचिततण्डुलार्धभागकृतेन भक्तेन सह दकलावणिकोयूषो रसो वा यथादोषं चतुर्थेऽन्नकाले तूचिततण्डुलमागत्रयकृतेन भक्तेन सह कृतसंज्ञको यूषः पिप्पलीशृङ्गवेरसिद्धोऽकृतो रसो वा यथादोषं तथा यथोचितं परिपूर्णभक्तं सुसंस्कृतेन यूषेण रसेन वा देयमिति। तृतीये दिने प्रकृतिभोजनम्। एवं मध्यमोत्तमशुद्धौ पेयादीनां द्वित्रिकालदानेन यथाक्रमं पञ्चमे सप्तमे च दिने प्रकृतिभोजनम्। उक्तं च तन्त्रान्तरे

“पेयां विलेपीमकृतं कृतं च यूषं रसं त्रिद्विरथैकशश्च।
क्रमेण सेवेत विशुद्धकायः प्रधानमध्यावरशुद्धिशुद्धः” इति॥

अयं पेयादिक्रमः सुश्रुते विरेचन एवोक्तः।

तद्यथा—

“हीनमध्योत्तमेष्वेषु विरेकेषु प्रकीर्तितः।
एकद्वित्रिगुणः सम्यगाहारस्य क्रमस्त्वयम्॥

अस्यार्थः। प्रस्थे परिस्रुते हीनो विरेकस्तस्मिन्पेयादिरेकैकमन्नकालं देयः। अर्धाढके परिस्रुते मध्यो विरेकस्तस्मिन्पेयादिः प्रत्येकं द्वौ द्वावन्नकालौ देयः। आढके परिस्रुत उत्तमो विरेकस्तस्मिन्पेयादिः प्रत्येकं त्रीस्त्रीनन्नकालान्देयः। एवमुक्तेष्वपि होनादिविरेकेषु हृतदोषमानापेक्षयैकद्वित्रिगुणोऽयमाहारक्रमः सम्यक्प्रकीर्तितः। न तु मिथ्याहीनातियोगेनासम्यगित्यर्थः। एतदुक्तं भवति। होने विरेके चतुर्भिरन्नकालैः सायंप्रातिकभोजनाभ्यां व्द्यहं मध्ये तद्द्विगुणेन चतुरहमुत्तमे तन्त्रिगुणेन षडहमिति। अयं संशोधनोक्तसंसर्जनक्रमोऽशुद्धेऽपि क्वचिदग्निमान्द्यहेतावुक्तः—

“वेदनालाभनियमशोकवैचित्यहेतुभिः।
नरानुपोषितांश्चापि विरिक्तवदुपाचरेत्” इति।

वेदनाया लाभोऽलाभ इष्टस्येति केचित्। लाभोऽनिष्टस्येत्यन्ये। नियम उपवासादिः। वैचित्यमुन्मादाद्विना। एतैर्हेतुभिस्तूपोषितान्नरान्विरिक्तवदुपाचरेत्। तत्रापि लङ्घनमानेन हीनमध्यमोत्तमाभिहितेन व्द्यहं चतुरहं षडहमेवान्नसंसर्जनम्। तथा तत्रैवसुश्रुते प्रस्थादिसंख्यया विरेकैकविषयत्वं कारणमुखेन निराकृतम्।

तद्यथा—

“आढकार्घाढकप्रस्थं संख्या ह्येषा विरेचने।
श्लेष्मान्तत्वाद्विरेकस्य न तामिच्छन्ति तद्विदः।
एको विरेकः श्लेष्मान्तो न द्वितीयोऽस्ति कश्चन”॥

अग्न्यधिष्ठानसंप्लवादत्यर्थमग्निमान्द्यहेतौ विरेचन एवाऽऽढकादिसंख्या वमनास्थापनयोस्त्वग्न्यधिष्ठानानभिभवेन तादृशाग्निमान्द्याभावान्माननियमो नास्ति। अत एव तदहरेव वमने कुलत्थमुद्गयूषभोजनम्। आस्थापने मांसरसभोजनमनुवासनं च। एतन्मतं निरस्यन्नाह—श्लेष्मान्तत्वादित्यादि। अयमभिप्रायः। विरेचनं निःशेषपित्तनिबर्हणाय प्रयुज्यते। निःशेषपित्तनिबर्हणं च तदैवानुमीयते यदा पित्तप्रवर्तनानन्तरं तत्प्रदेशस्थआमरूपः कफः प्रवर्तते। तस्मात्कफान्तिकत्वाद्विरेकस्य तां प्रस्थादिकां संख्यां विरेचनविदो नेच्छन्ति। एतेन वैगिकोऽपि निराकृतः। लैङ्गिकः पुनरान्तिकेनाविरुद्ध एव यतो लैङ्गिकेऽपि कफान्तिकत्वमस्ति। तथाच—वमने प्रसेकौषधकफपित्तानिलाः क्रमेण गच्छन्ति। एवमेव विरेचने पुरीषपित्तौषधकफा इति। अतो वैगिकमानिकौ विरेकौ गौणतया प्रतिपादितौ क्वचिद्बालवृद्धादाववस्थावशात्प्रयुक्तौ कर्तव्यौ मुख्यः पुनरेकः कफान्तिक एवेत्याह—एको विरेक इत्यादि। न द्वितीयोऽस्तीति। तृतीयस्य पुनः का कथा। एवं वमनमप्येकमेव। तथा च भोजः

“तस्मान्मतिमता नित्यमात्मानं परिरक्षता।
पित्तान्तं वमनं स्थाप्यं कफान्तं च विरेचनम्” इति॥

प्रकारान्तरेणैवान्नसंसर्जनत्रित्वं तदाश्रयमुक्तवान्सुश्रुतः

“बलं यन्त्रिविधं प्रोक्तमतस्तत्र क्रमस्त्रिधा॥
तत्रानुक्रममेतं तु बलस्थः सकृदाचरेत्।
द्विराचरेन्मध्यबलस्त्रीन्वारान्दुर्बलस्तथा”॥

बलमत्रोपचयलक्षणमेव। केचिदेवं क्रमं प्राहुः “मन्दमध्योत्तमाग्निपु” इति। क्रमेण कृतसंसर्गस्य रसावचारणक्रममाह सुश्रुतः

“संसर्गेण विवृद्धेऽग्नौ दोषकोपभयाद्भजेत्।
प्राक्स्वादुतिक्तौ स्निग्वाम्ललवणान्कटुकं ततः॥
स्वाद्वम्ललवणान्भूयः स्वादुतिक्तावतः परम्।
स्निग्धान्रूक्षासांश्चैवं व्यत्यासात्स्वस्थवृत्ततः” इति॥

अस्यार्थः। अन्नसंसर्जनक्रमविवृद्धेऽग्नौ दोषकोपभयास्त्निग्धान्मधुराम्ललवणान्रूक्षान्कटुतिककषायान्रसान्व्यत्यासाद्विपर्ययादेवमत्रोक्तपरिपाट्या भजेत्। तत्र प्रवृद्धाग्निहेतुवातपित्तस्यावजयार्थमग्नेः समीकरणार्थं च पूर्वं स्वादुतिक्तकौ ततो वातकफावजयार्थमग्नेःसंधुक्षणार्थं च। व्यत्यासादिति। यदा प्रागुक्तरसप्रत्यनीकान्स्निग्धाम्ललवणकटुकांस्ततश्चाम्ललवणकटुजनितपित्तवातावजयार्थं स्वादुतिक्तौ। वृद्धवाग्भटस्त्वाह—

“दद्यान्मधुरत्दृद्यानि ततोऽम्ललवणौ रसौ।
स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः॥
अन्योन्यग्रत्यनीकानां रसानां स्निग्धरूक्षयोः।
व्यत्यासादुपयोगेन क्रमात्तं प्रकृतिं नयेत्” इति॥

अयमन्नसंसर्जनक्रमो डल्लणादुद्धृतः॥१४॥

युक्तेऽग्नौजीवति चिरं रोगी स्याद्विकृतिं गते॥
शान्ते पञ्चत्वमायाति देही तस्माद्वरोऽनलः॥१५॥

सुगमम्॥१५॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां षट्सप्ततितमो
निरूहाधिकारः समाप्तः॥७६॥

<MISSING_FIG href="../../../books_images/U-IMG-1702323366image1.JPG"/>

अथ समसप्ततितमो धूमविध्यधिकारः।

<MISSING_FIG href="../../../books_images/U-IMG-1702323385image2.JPG"/>

पञ्चकर्मपारिशेष्यान्नस्ये वक्तव्ये निरूहवन्नेत्रप्रयोज्यतया प्रथमं धूम उच्यते। धूमश्चपञ्चकर्मप्रस्तावे शुद्धिकरत्वेन वमनस्यान्ते चोपयोगादभिधातुमुचित एव।

प्रायोगिकः कासहरश्च धूमो वैरेचनः स्नैहिकवामनीयौ॥

धूमो धुनोति कम्पयति दोषसंघातमिति धूमः। स पञ्चविधो भवति। प्रायोगिकः प्रयोगः स्वस्थस्य सततोपयोगस्तत्र साधुः प्रायोगिकः। स च प्रायोगिकः श्लेष्माणमुत्क्लेशयति, उत्क्लिष्टं चापकर्षति शमयति वातं स्नेहनविरेचनाभ्यां तुल्यत्वात्। कासहरत्वात्कासघ्नः। स पुनरुरःकण्ठदोषारब्धरोगहरोऽप्यावस्थिक एव। अभिष्यन्नशिरसिशिरोविरेचयतीति विरेचनः। विरेचन एव वैरेचनः स्वार्थिकोऽण्। वैरेचनिकः श्लेष्माणमुत्क्लेश्यापकर्षयति रौक्ष्यात्तैक्ष्ण्यादौष्ण्याद्वैशद्याच्च। रूक्षस्य स्नेहाय प्रभवतीति स्नैहिकः। स च स्नैहिको वातं शमयति स्नेहनादुपलेपनाच्च। वामयतीति वामनीयः। स पुनरुत्कृष्टकफाभिपन्नकण्ठोरसः॥

एलादिना कुष्ठनतोज्झितेन क्षौमं प्रलिप्याङ्गुलकाष्ठमाना॥
प्रायोगिके वर्तिरिदं तु नेत्रमष्टाङ्गुलं षड्गुणितं प्रशस्तम्॥१॥

** कुष्ठुनवोज्झितेनेति।** कुष्ठनतपरित्यागो मस्तिष्कस्रावभयात्। यदुक्तं कृष्णात्रेयेण—

“नतकुष्ठे स्त्रावयतो धूमवर्तिप्रयोजिते।
मस्तुलुङ्गं प्रभावेन तस्मात्ते न प्रयोजयेत्” इति।

तथा च निमिः

“धूमो हि वक्रकुष्ठाभ्यां विलालयति शक्तितः।
मस्तिष्कं तद्धि विष्यन्नं नाशाय प्रतिपद्यते” इति।

** क्षौमं प्रलिप्येति।** कर्पटावयवं पिष्टैर्भषजैः प्रलिप्य तेनैव द्वादशाङ्गुलं शरकाण्डं कनिष्ठाङ्गुलीसमस्थूलमन्तयोर्द्व्यङ्गुलं विहाय वर्तितः शरकाण्डस्य सुखापकर्षणार्थं क्षौमेणाष्टाङ्गुलमानेन वेष्टयित्वा ततः परिशोष्यवर्तिः कार्या। एवमेव चरकसुश्रुतादौ दर्शितत्वात्। एवं स्नैहिकादिष्वपि वर्तिकरणम्। वर्तिं च स्नेहेनाभ्यज्याग्निना दग्ध्वा नेत्रे निवेश्य धूमः पेयः। अङ्गुलकाष्ठमानेनाष्टाङ्गुलायता।

चरकेऽप्युक्तम्—

“पिष्ट्वालिम्पेच्छरेषीकां तां वर्तिं यवसंनिभाम्।
अङ्गुष्ठसंमितां कुर्यादष्टागुलसमां भिषक्॥

अष्टाङ्गुलं षड्गुणितमिति। अष्टचत्वारिंशदङ्गुलम्।सुश्रुतेऽप्युक्तम्। “अङ्गुलान्यष्ट-चत्वारिंशत्प्रायोगिक” इति। ननु जातूकर्णे षट्त्रिंशदङ्गुलं प्रायोगिकनेत्रमानमुक्तम्। यथा—“सार्धत्र्यंशयुतः पूर्णो हस्तः प्रायोगिकादिषु” इति॥

चरकेऽपि—“चतुर्विंशतिकं नेत्रमङ्गुलैः स्वैर्विरेचने।
द्वात्रिंशदङ्गुलं स्नेहप्रयोगेऽध्यर्धमिष्यते” इति॥

अत्रार्धमिति हरिश्चन्द्रेण वैरेचनिकनेत्रमानापेक्षया व्याख्याय षट्त्रिंशदङ्गुलं प्रायोगिकनेत्रमानं व्युत्पादितम्। यदि तु संनिहितत्वात्रिंशदङ्गुलापेक्षयाऽध्यर्धमिति व्याख्यायते तदा चरकेऽष्ट-चत्वारिंशदष्टाङ्गुलमेव प्रायोगिकनेत्रं भवति। किं तु समानतन्त्रजातूकर्णानुरोधःस्यात्। तदेवं विरोधे का समर्थना।ब्रूमः। मतभेद एवायं कार्यविरोधश्च न कश्चिदिह। तेन मतद्वयमप्यविरुद्धम्। अन्यस्त्वाह—श्लेष्मप्रवृत्तौ बहुदोषे च कीले883 षट्त्रिंशदङ्गुलम्। अतोऽन्यत्र त्वष्टचत्वारिंदङ्गुलमिति न विरोध इति॥१॥

बृहत्यौ त्र्यूषणं शृङ्गी चेङ्गुन्दीत्वङ्मनःशिला॥
एषा कासहरा वर्तिर्नेत्रं षोडशकाङ्गुलम्॥२॥

** इङ्गुदीत्वगिति।** इङ्गुदीफलत्वक्॥२॥

शिरोविरेचनैर्वर्तिर्नेत्रं हस्तमितं मतम्॥३॥

** शिरोविरेचनैरिति।** विडङ्गमधुशिग्रुसूर्यवल्लीपीलुपिप्पलीसिद्धार्थकसुरसार्जकापामार्गबीजादिभिः। **हस्तमितमिति।**चतुर्विंशत्यङ्गुलम्॥३॥

स्त्रिग्धमज्जमधूच्छिष्टस्नेहगुग्गुलुसर्जकैः॥
स्नैहिकैर्वर्तिरेभिस्तु नेत्रं द्वात्रिंशदङ्गुलम्॥४॥

** स्निग्धमज्जेति।** एरण्डादिफलमध्यम्।स्नेहो घृतादिः। स च तावान्देयो याचता वर्तेरनवसादः॥४॥

वामनीये तु वल्लूरस्नाय्वस्थिखुरचर्मभिः॥
वर्तिर्दशाङ्गुलं नेत्रं धूमः पञ्चविंधो मतः॥५॥

** दशाङ्गुलं नेत्रमिति। सुश्रुते** पुनः षोडशाङ्गुलं कासघ्नेवामनीये चेत्युक्तम्॥१॥

यादृशी वर्तिः कार्या यथा च कासहरादिषु मानं तदाह—

अङ्गुल्याःपरिणाहेन मध्ये स्थूलाऽन्तयोस्तनुः॥
पड्भागो धूमनेत्रस्य वर्त्या मानं प्रशस्यते॥६॥

मध्ये स्थूलाऽन्तयोस्तनुरित्यतो नेत्रेऽर्पणयोग्यत्वमुक्तम्। सर्वधूमनेत्रेभ्यः षड्भागप्रमाणा वर्तिः कार्या॥६॥

धूमोपयोगफलमाह—

धूमोपयोगात्पुरुषः प्रसन्नेन्द्रियवाङ्मनाः॥
दृढकेशद्विजश्मश्रुः सुगन्धिविशदाननः॥७॥

सुश्रुतेऽस्य श्लोकस्याग्रेऽधिकं पठ्यते। तथा श्वासकासारोचकास्योपलेपस्वरभेदमुखास्रावक्षवथु-वमथुक्रथनतन्द्रानिद्राहनुमन्यास्तम्भाः पीनसशिरोरोगकर्णाक्षिशूला वातकफनिमित्ताश्चास्य मुखरोगा न भवन्ति। अत्र कथोऽकस्माच्छ्वासावरोध॥७॥

प्रगाढं पानमिच्छन्ति धूमस्याऽऽस्येन तद्विदः॥
उरःकण्ठाश्रये दोषे884 मुखेनैव पिबेन्नरः॥८॥
शिरःकर्णाक्षिनासोत्थे नस्ततः(नासया) शमनं पिवेत्॥
निर्वमेत्तु मुखेनैव नासया न कथंचन।
विलोमगो ह्याशु धूमः कुर्याद्दर्शनविभ्रमम्॥९॥

** शमनमिति।** प्रायोगिकंस्नैहिकं च। निर्वमेत्तु मुखेनैवेति। नासपीतमपि मुखेनैव वमेत्। तदुक्तं मुखेन प्रायो वमेदिति। सुश्रुताद्धूमनेत्रविधिः—धूमनेत्रं सुवर्णरूप्यत्रपुसीसताम्रकांस्यादिमयं कनिष्ठासमस्थूलमग्रे मुखनासिकाप्रणयनस्थाने कलायमात्रस्रोतस्कं मूले वर्तिसंचरणस्थानेऽङ्गुष्ठ-समस्थूलं धूमवर्तिप्रवेशस्रोत ऋजुत्रिकोशाकलितं पर्वत्रयविरचितं विधाय प्रायोगिकेदैर्ध्येणाष्ट-चत्वारिंशदङ्गुलानि द्वात्रिंशत्स्नेहने चतुर्विंशतिर्विरेचने षोडशाङ्गुलं कासघ्ने वामनीये च कुर्यात्। एते अपि कासघ्नवामनीये कोलास्थिमात्रच्छिद्रे भवतः। आह च महाविदेहः —

“चत्वारिंशत्तथाऽष्टौ च प्रमाणेनाङ्गुलानि हि॥
नेत्रं प्रायोगिकं कार्यं द्वात्रिंशत्स्नैहिकं भवेत्॥
चतुर्विंशत्यङ्गुलकं वैरेचनिकमिप्यते॥
कासघ्ने छर्दनीये च कर्तव्यं षोडशाङ्गुलम्”इति॥

तेषां प्रायोगिकं धूमनेत्रं दीर्घम्। प्रायोगिको हि धूमः सततं ह्रस्वनेत्रेणपीयमान इन्द्रियं वाधते। दूराद्विनिर्गतः पर्वच्छिन्नो नाडीतनूकृतो नेन्द्रियं बाधते धूम इति चरकाचार्योक्तत्वात्। सुश्रुताद्धूमनेत्रमभिधाय धूमपानविधानमाह—अथ सुखोपविष्टः सुमना ऋज्वधोदृष्टिरतन्द्रितः प्रायोगिकस्नैहिकवैरेचनिकेषु [<MISSING_FIG href="../../../books_images/U-IMG-1708187972image13.jpg"/>वार्तिव्यपेच्छरकाण्डानि वातातपशुष्कां] स्नेहाक्तां दीप्ताग्रांनेत्रमूलस्रोतसिप्रणिधाय धूमं पिबेत्।इतरयोः कासघ्नवामनीययोर्व्यपेतधूमाङ्गारे स्थिरे समाहिते शरावे प्रक्षिप्य वर्ति मूलच्छिद्रेणान्येन शरावेण पिधाय तस्मिंश्छिद्रे नेत्रमूलं संयोज्य धूममासेवेत। शान्ते धूमे वर्त्यवबोधं घृतं वर्तिचूर्णं वा प्रक्षिप्य पुनरपि धूमं पाययेदादोषविशुद्धये। एष धूमपानोपायविधिः। विशेषतस्तु प्रायोगिकं घाणेनाऽऽददीत स्नैहिकं मुखनासाभ्यां नासिकया वैरेचनिकं मुखेनैवेतरौ। अस्यार्थः। विशेषतस्त्वित्यादि। शिरोरोगसंभवानां लक्षणविशेषमाश्रित्य प्रायोगिकं घ्राणेनाऽऽददीत। सामान्यतः पुनरुरःशिरोरोगसंभवानामुभयमार्गेणापि तन्त्रान्तरदर्शनात्। तथा च विदेहः—प्रयो- गपाने पूर्वंवा नस्ततो(नासया) धूममाचरेदिति। पूर्वं वा नस्ततो(नासया) धूममाचरेदित्यनेन क्वचिन्मुखेनापि प्राक्पेय इत्यवगन्तव्यम्। स्नैहिकं मुखनासाभ्यामिति। कण्ठोरः-समाश्रिते वाते मुखेन शिरःसमाश्रिते वाते नासयोभयमार्गे पानार्हो मुखेन पूर्वं पिबेत्पश्चान्नासिकयेति। तथा च निमिः—“स्नेहधूमप्रयोगे तु मुखेन वमनीयं न कथमपि नासया”॥

तथा च सुश्रुतः—

“मुखपीतं मुखेनैव वमेत्पीतं च नासया॥
मुखेन धूममादाय नासिकाभ्यां न निर्हरेत्”इति।

** वैरेचनिकमिति।** उत्क्लिष्टकफाभिव्याप्तकण्ठोरसो नासया, अनुत्क्लिष्टकफेपुनर्वैरेचनिकमपि प्राग्वक्त्रेण। तथा च वाग्भटः

“प्राक्पिबेन्नासयोत्क्लिष्टे दोषे प्राणशिरोगते।
उत्क्लेशनार्थं वक्त्रेण विपरीतं तु कण्ठगे”॥

** मुखेनैवेति।** इतरौ कासघ्नवामनीयौ मुखेनैव पिबेत्। कासस्य वामनीयस्य रोगस्य चोरःकण्ठ-गतत्वात्। प्रायोगिकादीनां पानमर्यादां सुश्रुतादाह–प्रायोगिकं तु त्रीस्त्रीनुच्छ्वासानाददीत मुखनासाम्यांपर्यायांस्त्रीश्चतुरो वेति स्नैहिकं यावदश्रुप्रवृत्तिर्वैरेचनिकमादोषदर्शनात्तिलतण्डुलयवागू-पीतेन पातव्यो वामनीयो ग्रासान्तरेषु कासघ्नइति। अस्यार्थः। मुखनासाभ्यामिति। दोष-स्थानमवेक्ष्योचितमार्गेणाऽऽददीत।त्रीस्त्रीनुच्छासान्कतिसंख्याकानाददीतेत्याह—पर्यायांस्त्रींश्चतुरो वेति। पर्यायःपरिपाटी।उच्छ्वा-

__________________________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1708187972image13.jpg"/> धनुश्चिद्ग्रन्तर्गतो ग्रन्थः सुश्रुते नोपलभ्यते ।
_______________________________________________

सत्रयेणैकःपर्यायः।तान्पर्यायांस्त्रींश्चतुरो वा दोषपुरुषबलमवेक्ष्य। एतदुक्तं भवति। त्रिभिरादान-विसर्गैस्त्रीन्वारांश्चतुरो वा धूमः पातव्यः। वाशब्दोऽत्र व्यवस्थायां तेन तन्त्रान्तरव्यवस्थितोऽर्थोऽत्र ज्ञातव्यः। तथा च धूमपानमात्राविधाने निमिः

“धूमपाने तु विज्ञेय उच्छ्वासस्त्रिगुणःकलाः।
तिस्रःकलाश्चात्र मात्राप्रमाणं स्यात्त्रिमात्रिकम्॥
पिबेत्स्वस्थविधौ मात्रां दुर्बलस्तु कलां पिबेत्।
अभिष्यन्ने प्रमाणं स्यात्प्रमाणं च पिबेद्रुजि”इति॥

** स्नैहिकमित्यादि।** यावदश्रुप्रवृत्तिरिति बलवति पुरुषे दुर्बले च प्रायोगिकवत्। तथा च भोजः

“प्रमाणं स्नैहिके धूमे कृशो मात्रां पिबेन्नरः।
बलवांस्तु पिबेत्तावद्यावदश्रु न गच्छति”॥

** वैरेचनिकमादोषदर्शनादिति।** दोषस्य कफाख्यस्य विकृतस्य दर्शनं यावत्। अत एव तन्त्रान्तरे शोधनस्यैकस्मिन्दिने त्रिश्चतुर्वा पानं प्रतिपादितम्।
तथा च तन्त्रान्तरम्—

“सकृत्पिवेत्स्त्रेहनीयं प्रयोगे सकृदेव च॥
द्विर्वा विरेचनीयं तु त्रिश्चतुर्वा पिबेन्नरः।

विशिष्टधूमपाने पूर्वं करणीयमाह—तिलेत्यादि। वमनकाल एवाऽऽकण्ठं तिलादियवागूपीतेन वामनीयो धूमः पातव्यो यावात्पित्ते कफस्यानुसुखं प्रवृत्त इत्यादिवाक्योक्तं सम्यग्वान्तलक्षणमिति। ग्रासान्तरेष्विति। कवलयोः कवलानामन्तरे। अन्तरं मध्यमित्यर्थः। ग्रासान्त इत्यन्ये पठन्ति। तथा भोजनस्योत्तर इत्यन्ये पठन्ति। कासघ्नश्च वैरेचनिकवत्त्रिश्चतुर्वा यावद्विकृतफहरणम्। तथा च **चरकः—**मुखेन वैरेचनवत्कासवान्धूममापिबेदिति। अत्र व्रणनेत्रव्रणधूपनविधानं **सुश्रुतादाह—**व्रणनेत्रमष्टाङ्गुलं व्रणधूपनार्थं कलायपरिमण्डलं कुलत्थवाहि स्रोत इति। कलायपरिमण्डलं गुलिकामुखमित्यर्थः। व्रणधूमं शरावसंपुटोपनीतं नेत्रे व्रणमानयेत्। धूपनाद्वेदनोपशमो व्रणवैशद्य- मास्नावोपशमश्च भवतीति। धूमानर्हाणां शोकादियुक्तानां धूमपानाद्व्यापदो महाविदेहः प्राह—

“भीतःक्रुद्धः शोकवांश्च दृष्टिहानिंभ्रमं क्लमम्।
वह्न्यर्ककर्मक्लान्तस्तु तथा दौर्बल्यमाप्नुयुः॥
तृष्णास्यशोषमोहांस्तु क्षीणधातुः पुनः क्षयम्।
रुजः पित्तानिलकृतान्व्याधीन्दौर्बल्यमेव च॥

रक्तोल्बणःपैत्तिकश्च विवृद्धो रक्तपित्तयोः।
पिपासार्तस्तालुशोषी मूर्छार्तश्चलचेतनः॥
तेषां वृद्धिर्विशेषेण वाग्वातं मौनमेव च।
ज्वरी मदात्ययी मद्यं पीत्वा च लभते नरः॥
मोहं तृष्णां वक्त्रशोषं दृष्टिहानिं शिरोरुजम्।
प्रजागरी शिरोरोगं तिमिरी दृष्टिवैक्लवम्॥
विरिक्तो त्दृतदोषश्च शोषं तृष्णां शिरोरुजम्।
दत्तवस्तिर्दृष्टिहानिं क्षतो भूयः क्षतामयान्॥
धूमो गर्भस्य गर्भिण्याः शोषतापेन्द्रियव्यथाः।
क्षौद्रसेवी घ्राणरोधं त्वग्दोषं वा समाप्नुयात्॥
दधिस्नेहं पयोमत्स्यान्भुक्त्वा वा धूममाचरेत्।
दृग्दोषमूर्छात्दृल्लासच्छर्दीःप्राप्नोति मानवः”॥८॥९॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायां सप्तसप्ततितमो
धूमविध्यधिकारः॥७७॥

——————————

अथाष्टसप्ततितमो नस्याधिकारः ।
__________

अवसरप्राप्तं पञ्चकर्मशेषं नस्यमाह—

प्रतिमर्शोऽवपीडश्च नस्यं प्रधमनं तथा॥
शिरोविरेचनं पञ्च नस्यभेदाः प्रकीर्तिताः॥१॥

प्रतिमर्शस्त्विहैवाग्रे वक्ष्यते। शृतशीतक्काथादि885 पिचुतत्कल्पानामवपीडनादवपीडः। यद्यपि नस्यं निखिलमेव प्रतिमर्शादि तथाऽपि हि नस्यमित्येतद्विशिष्टे स्नेहनार्थं नासादीयमानस्नेहे वर्तते। एतच्च स्वयमेव तत्र यः स्नेहनार्थमित्यादिना दर्शयिष्यति। चूर्णस्य मुखेन नाड्या वा प्रध्यापनात्प्रधमनम्। शिरोविरेचनद्रव्यैर्यो दीयत इति शिरोविरेचनः॥१॥

गद्यम्—औषधमौषधपक्वोवा स्नेहो नासिकाभ्यां886 दीयत इति नस्यम्।औषधमौषधपक्वोवा स्नेह इति। औषधमिह द्विविधं शिरोविरेचनस्तम्भनभेदात्। तद्द्वितयं कल्कादिरूपमवपीड्य दीयमानमवपीडःस्यात्। अवपीडो हि द्विविधः शोधनः स्तम्भनश्च। तथा च दृढबलः—“शोधनः स्तम्भनश्च स्यादवपीडो द्विधा मतः” इति। प्रधमनं तच्छिरोविरेचनद्रव्यमेव विचूर्णितम्। स्नेहश्चतुष्प्रकारः। न च नस्यशिरोविरेचनप्रतिमर्शानामवरोधः। एवमुक्तपञ्चविधनस्य औषधस्नेहाभ्यामवरोधो ज्ञेयः। नासिकाभ्यामिति द्विवचनं पुटद्वयापेक्षया। नासाशब्देन नासासमीपवर्तिनः श्रवणदशननयनादिप्रदेशाः प्रोच्यन्ते। नासायै हितं नस्यम्॥१॥

संप्रति नस्यशिरोविरेचनयोः शेषाणामवरोधात्प्राधान्यमाह—

नस्यविकल्पः प्रतिमर्श शिरोविरेचनविकल्पोऽवपीडःप्रधमनं च।

“प्रतिमर्शो भवेत्स्नेहो निर्दोष उभयार्थकृत्” इति दृढवलवचनात्प्रतिमर्शः शोधनोऽपि स्यात्तथाऽपि स्नेहनमेवास्य प्रधानकर्म तेनोक्तं नस्यविकल्पः प्रतिमर्श इति। एवं स्तम्भनस्यावपीडस्य शिरोविरेचनेनाव्याप्तौ समाधेयम्। डल्लणस्त्वेवं व्याख्याति चकारः पुनरत्र शिरोविरेचनस्यापि विकल्पः प्रतिमर्श इत्युक्तं समुच्चिनोति। तथाच दृढबलः — “प्रतिमर्शो भवेत्स्नेहो निर्दोष उभयार्थकृत्” इति॥२॥

तत्र यः शून्यशिरसां स्नेहनार्थं ग्रीवास्कन्धोरसां च बलजननार्थं
दृष्टिप्रसादजननार्थं वा स्नेहो नासया दीयते तस्मिन्वैशेषिको887
नस्यशब्दः।

तत्र नस्यविधौ स्नेहः सर्पिस्तैलवसामज्जाख्यः स च यथास्वगुणैर्वातपित्तकफहरः।तत्र तैलं नस्ये वातकफहरं रक्तपित्तहरं तु क्षीरसपिरिति ज्ञेयम्॥३॥

अथ नस्यविषयप्रदर्शनम्—

** तत्तु देयं वाताभिपन्ने शिरसि तथा दन्तकेशश्मश्रुप्रशाते दारुणके कर्णशूले कर्णक्ष्वेडे तिमिरे स्वरोपघाते नासारोगे मुखशोषेऽवबाहुकाकालवलीपलितप्रादुर्भावदारुणप्रबोधेषु वातपैत्तिकेषु888 मुखरोगेष्वन्येषु च वातपित्तहरद्रव्यसिद्धेन स्नेहेन, इति।**

तत्स्नैहिकं नस्यं वातपित्तहरैर्द्रव्यैः सिद्धेन स्नेहेन देयम्। प्रशाते प्रपाते दारुणक इत्युप्फिकायाम्। तस्य चैकाहान्तरेण सप्ताहं कर्तव्यम्। तदुक्तं चरके

“त्र्यहात्त्र्यहाच्चसप्ताहमेतत्कर्म समाचरेत्”॥

तस्य कालावधिर्भोजेनाप्युक्तस्तद्यथा—

“एकान्तरं द्व्यन्तरं वा नस्यं दद्याद्विचक्षणः॥
सप्ताहं तु परं देयं विश्रान्तस्य पुनः पुनः॥

पक्षं विंशतिरात्रं वा यावद्वा साधु मन्यते” इति॥

अपरस्त्वाह—

“त्र्यहं पञ्चाहमथवा सप्ताहं वा सुयन्त्रितः।
परं नवाहमूर्ध्वं तु नवाहात्सात्म्यतां व्रजेत्॥
तन्नस्यं न गुणं कुर्यात्सात्म्यत्वाद्दोषकृन्न च।
तस्मान्नस्यप्रयोगस्तु स्नैहिको न हितः सदा” इति॥४॥

शिरोविरेचनविषयावसरः—

** शिरोविरेचनं तु श्लेष्माभिव्याप्ततालुगलशिरसां तथाऽरोचकशिरोगौरवशूलपीनसार्धाव-भेदककृमिप्रतिश्यायापस्मारघ्राणाज्ञानेष्वन्येषु चोर्ध्वजत्रुगतेषु कफजेषु विकारेषु शिरोविरेचन-द्रव्यैस्तत्सिद्धेन स्नेहेन, इति।**

विरेचनानि पिप्पलीविडङ्गशिग्रुसिद्धार्थकापामार्गक्षवकफणिज्जकप्रभृतीनि तत्र शिरोविरेचनद्रव्यैः कृतं नस्यमवपीडाभिधं तत्सिद्धस्नेहेन कृतं शिरोविरेकः। गयी तु शिरोविरेचनद्रव्यसिद्धेन स्नेहेनैव पठति॥९॥

एतद्विविधमप्युक्तम्।

सुगमम्॥६॥

** तत्रोच्चारितमूत्रपुरीषायाभुक्तवते व्यभ्रे काले पाणितापोपस्वेदितगलकपोलललाट-प्रदेशायोत्तानशायिने किंचित्प्रलम्बितशिरसे वास्त्राच्छादितनेत्राय वामहस्तप्रदेशिन्यग्रोन्नामित-नासाग्राय विशुद्धस्रोतसे दक्षिणहस्तेन धारया सिञ्चेदिति यथा नेत्रे न प्राप्नोति तथा प्रयतेत।**

एतद्द्विविधमप्युक्तमित्यारम्य यथा नेत्रे न प्राप्नोति तथा प्रयतेतेत्यन्तं सुश्रुते पाठान्तरम्। तद्यथा तत्रैतद्द्विविधमप्यभुक्तवतोऽन्नकाले पूर्वाह्णेश्लेष्मरोगिणां मध्याह्ने पित्तरोगिणामपराह्ने वातरोगिणाम्। अस्यार्थः—तयोर्द्वयोः स्नैहिकवैरेचनिकयोरवधारणमुद्दिशन्नाह। तद्द्विविधमपि नस्यं पूर्वाह्ण-मध्याह्नापराह्णेषु कफपित्तवातरोगिणां देयमिति स्वास्थ्यवृत्तिकनस्यकालावधारणं तन्त्रान्तराज्ज्ञेयम्। तथा च वृद्धवाग्भट एव—स्वस्थवृत्ते तु शीते मध्याह्ने शरद्वसन्तयोः पूर्वाह्णे ग्रीष्म इत्यपराह्णे वर्षास्वादित्यदर्शने पुण्यकर्माण्यारभतो बस्तिकर्मान्तरकालमेवेति। अथानन्तरं तद्दानविधानम्। अथ पुरुषाय शिरोविरेचनीयायोच्चारितमूत्रपुरीषायामुक्तवते व्यभ्रकाले दन्तकाष्ठधूमपानाभ्यां विशुद्धवक्त्र-स्रोतसे पाणिना परिस्विन्नगलकपोलललाटप्रदेशाय वातातपरजोहीने वेश्मन्युत्तानशायिनेप्रसारितकरचरणाय किंचित्प्रलम्बितशिरसे वस्त्राच्छादितनेत्राय वामहस्तप्रदेशिन्यग्रोन्नामितनासाग्राय विशुद्धे स्रोतसि दक्षिणहस्तेन स्नेहमुष्णांशुप्रतप्तं रजतसुवर्णताम्रमणिमृत्पात्रशुक्तीनामन्यतमस्थं प्रनाड्या पिचुना वा सुखोष्णं स्नेहमद्भुतमासिञ्चेदव्यवच्छिन्नधारं यथा नेत्रे न प्राप्नोति।

“स्नेहेऽवसिच्यमाने तु शिरो नैव प्रकम्पयेत्।
न कुप्येन्न प्रभाषेत न क्षुयान्न हसेत्तथा॥
एतैर्हि विहितः स्नेहो न सम्यक्प्रतिपद्यते।
ततः कासप्रतिश्यायशिरोक्षिगदसंभवः”॥

अस्यार्थः। स्नेहमिति। स्नेहस्योपलक्षणत्वात्कल्कक्काथादिकमप्यनेनैव प्रकारेण देयम्। दत्तमात्रे च यत्कृत्यं तत्तन्त्रान्तराज्ज्ञेयम्। तथा च वृद्धवाग्भटः—दत्तमात्रे नस्ये कर्णललाटकेशभूमि-गण्डमन्यास्कन्धपाणिपादतलान्यनुसुखं मर्दयेच्छनैः शनैश्चोच्छिन्द्यादिति॥७॥

स्नेहस्य चाल्पमध्यमोत्तमं प्रमाणमाह—

नस्यस्य स्नैहिकस्याथ देयास्त्वष्टौ तु विन्दवः॥
प्रत्येकशो नस्त(नासि)कयोर्नृणामिति च निश्रयः॥२॥

प्रत्येकं नासापुटयोरष्टौ बिन्दव एवं षोडश बिन्दव इति हीना मात्रा।बिन्दुरिह प्रदेशिनीपर्वद्वय-परिप्लवनपतितो ग्राह्यः। तथा च सुश्रुतः—नस्यप्रमाणमष्टौ बिन्दवः प्रदेशिनीपर्वद्वयनिःसृता इति॥२॥

शुक्तिश्च पाणिशुक्तिश्चमात्रास्तिस्रः प्रकीर्तिताः॥

शुक्तिश्च पाणिशुक्तिश्च द्वयोर्नासापुटयोर्मिलित्वा। शुक्तिर्द्वात्रिंशद्बिन्दवो मध्यमा मात्रा।पाणिशुक्तिश्चतुःषष्टिविन्दव उत्तमा मात्रा। मात्रास्तिस्र इति। यथाक्रमं हीनमध्यमोत्तमाः॥

द्वात्रिंशद्बिन्दवश्चापि शुक्तिरित्यभिधीयते॥
द्वे शुक्ती पाणिशुक्तिश्च ज्ञेयाऽत्र कुशलैर्नरैः॥३॥

द्वे शुक्ती इति। चतुःषष्टिविन्दवः।शालाक्यविदोऽत्राऽऽहुः—

“प्रदेशिन्या निमग्ने द्वे पर्वणी च मतोऽखिलः।
नस्यकर्मणि तैलादि विज्ञेयो बिन्दुसंज्ञितः"॥

गयी तु भोजदर्शनात्स्वस्थस्यैव प्रायोगिके नस्ये प्रत्येकं नासापुटयोरष्टौ बिन्दवः स्नेहनार्थेतद्द्विगुणाः शुक्तिप्रमाणा इति प्रतिपादयति। तथा च भोजः—

“प्रायोगिकंस्नैहिकं च द्विविधं नस्यमुच्यते।
प्रायोगिके चिन्दवोऽष्टौ स्नैहिके शुक्तिरिष्यते॥
दोषोच्छ्रायं समासाद्य दद्याद्द्वित्रिचतुर्गुणम्”इति।

शिरोविरेचननस्यमानं तु सुश्रुतेनोक्तं तद्यथा—

“चत्वारो बिन्दवः षड्वातथाऽष्टौ वा यथाबलम्।
शिरोविरेचके स्नेहे नस्यमानं विनिर्दिशेत्”इति॥

प्रत्येकमेव नासापुटयोर्हीनमध्यमोत्तमेष्वेषु दोषपुरुषानलबलेषु चतुःषडष्टबिन्दवः स्नैहिकशिरोविरेचनस्य। तथा च विदेहः—

“चतुरश्चतुरो बिन्दुनैकैकस्मिन्समाचरेत्॥
एषा लघ्वीमता मात्रा तथा शीर्षं विरेचयेत्॥
अध्यर्धां द्विगुणां वाऽपि त्रिगुणां वा चतुर्गुणाम्।
यथाव्याधि विदित्वा तु मात्रां समवचारयेत्” इति॥३॥

शृङ्गाटकमभिव्याप्य889 स्थापयेन्न गिलेद्द्रवम्॥
स्वेदयेच्च केपोलादि890 ततः ष्ठीवेत्पुनः पुनः॥४॥

शृङ्गाटकं नासाकर्णस्त्रोतोक्षिजिह्वातर्पणीनां शिराणां मध्ये शिरःसंगमं न गिलेन्न पिबेत्। तथा च विदेहः—

“निष्ठीवेन्न पिवेन्नस्यं व्यापदः पिबतस्त्विमाः।
भवन्ति कासश्छर्दिश्च कुत्साऽन्ने वमथुस्तथा”॥

क्वचिन्नस्यपानमप्युक्तं विदेहेनैव—

“क्षीणं मांस बलं यस्य वातार्तिश्चोर्ध्वजत्रुजा॥
सुदीप्ताग्निः स्नेहसात्म्यः स नस्यं नस्ततः(नासया) पिबेत्।
धातूंश्च तर्पयेद्देहे पीतं नस्यं तु नस्ततः(नासया)”इति।

** ततः ष्टीवेदिति।** वदनप्राप्तं मुञ्चेत्। वामदक्षिणयोरिति वाक्यशेषः। तथा च **वृद्धवाग्भटः—**अनभ्यवहरन्वामदक्षिणपार्श्वयोर्निष्ठीवेत्। एकपार्श्वनिष्ठीवने न शिरो भेषजेन सम्यग्व्याप्यत इति॥४॥

पश्चात्कर्माऽऽह—

भोजयेदनभिष्यन्दि जलमुष्णं च शीलयेत्॥
रजोधूममनस्तापस्नानक्रोधादि वर्जयेत्॥५॥

अभिष्यन्द्युपलेकारि।सुश्रुते नस्ये दत्ते पश्चात्कर्म धूमपानमुक्तम्। तथा च—

“दत्ते च पुनरपि संस्वेद्य गलकपोलादीन्धूममासेवेत्”। तथा च भोजः—वाक्शतादूर्ध्वमुत्थाय धूमं प्रायोगिकं पिबेत्”इति॥५॥

स्नेहिकनस्यस्य सम्यग्योगलक्षणमाह—

लाघवं शिरसो योगे सुखस्वप्नावबोधनम्॥
विकारोपशमःशुद्धिरिन्द्रियाणां मनःसुखम्॥६॥

अतियोगायोगलिङ्गं त्वस्य सुश्रुते दर्शितं तद्यथा—

“कफप्रसेकः शिरसो गुरुतेन्द्रियविभ्रमः।
लक्षणं मूर्ध्न्यतिस्निग्धे रूक्षं तत्रावचारयेत्॥
अयोगे वातवैगुण्यमिन्द्रियाणां च रूक्षता।
रोगाशान्तिस्तु तत्रेष्टं भूयो नस्यप्रयोजनम्” इति॥६॥

शिरोविरेचनस्य योगायोगातियोगलिङ्गानि क्रमेणाऽऽह—

लाघवं शिरसः शुद्धिः स्रोतसां व्याधिनिर्जयः॥
चित्तेन्द्रियप्रसादश्च शिरसः शुद्धिलक्षणम्॥७॥

सुगमम्॥७॥

कण्डूपदेहौ गुरुता स्रोतसां कफसंस्रवः॥
हीनं विशुद्धे शिरसि लक्षणं परिकीर्तितम्॥८॥

सुगमम्॥८॥

मस्तुलुङ्गागमो वातदुष्टिरिन्द्रियविभ्रमः॥
शून्यता शिरसश्चापि मूर्ध्नि गाढं विरेचिते॥९॥

मस्तुलुङ्गः शिरसोऽन्तर्घृताकारः॥९॥

हीनातिशुद्धे शिरसि कफवातघ्नमाचरेत्॥

हीनशुद्धे मूर्ध्नि कफघ्नमतिशुद्धे तु वातघ्नं कर्म कुर्यात्॥

सम्यग्विशुद्धे शिरसि सर्पिर्नस्ये891 तु योजयेत्॥१०॥

** सम्यग्विशुद्धे शिरसि सपिर्नस्य इति।** विरेचनजनितवातजयार्थं सपिर्नस्यंपित्तप्रकृतौ वातप्रकृतौ तु पक्वंतैलमेव। “सम्यग्विरेचिते चापि सर्पिर्नस्ये तु योजयेत्” इति वा पाठः॥१०॥

नस्यानर्हानाह—

** नस्येन परिहर्तव्या भुक्तवानपतर्पितोऽत्यर्थतरुणप्र892तिश्यायी गर्भिणी मद्यद्रवपीतोऽजीर्णी दत्तबस्तिः क्रुद्धो गरार्तस्तृषाभिभूतो बालो वृद्धः श्रान्तो वेगावरोधरतः शिरःस्त्रातः स्नातुकामश्च, इति।**

अनार्तवे चाभ्रे नस्यधूमौ परिहरेदित्यधिकः पाठो डल्लणभाष्ये। तत्र चकारादार्तवेव्यभ्र इति। नस्येन परिहर्तव्या इत्यादिनिषेधोऽयं प्रतिमर्शं विहाय स हि श्रान्तभुक्तवदादिष्वपि सदा पीयत इति मद्यद्रवपीत(तै)श्च शिरःस्नात इत्यत्र शिर इति विशेषणं स्नातेः शौचमात्रवृत्तेः॥१॥

** प्रतिमर्शश्चतुर्दशसु कालेषूपादेयः। तद्यथा।कल्योत्थितेन प्रक्षालितमुखेन893 गृहान्निर्गच्छता व्यायामव्यवायपथिश्रान्तेन मूत्रोच्चारकवलाञ्जनान्ते भुक्तवता छर्दितवता दिवास्वप्नोत्थितेन सायं चेति।**

** कल्योत्थितेनेति।** प्रातरुत्थितेन।कल्योत्थितत्वादिचतुर्दशकालाभिधानं प्राधान्यात्।विदेहे पुनः सर्वदिनमेवास्य कालो दर्शितः।

तद्यथा—“सूर्यस्य उदयात्पूर्वमायामात्प्रथमान्निशः।
कालोऽस्य दाने सर्वः स्यात्सायं प्रातर्विशेषतः”इति॥

प्रतिकालं च गुणः सुश्रुते वर्णितः। तत्र कल्योत्थितेन सेवितः प्रतिमर्शो रात्रावुपचितं नासास्त्रोतोगतं मलमुपहान्ते मनःप्रसादं च करोति। प्रक्षालितदन्तेनाऽऽसेवितोदन्तानां दृढतां वदनसौगन्ध्यं चाऽऽपादयति। गृहान्निर्गच्छता सेवितो नासा स्रोतसःक्लिन्नतया रजो धूमो वा न बाधते। व्यायाम-मैथुनाध्वपरिश्रान्तेनाऽऽसेवितः श्रममुपहन्ति।मूत्रोच्चारान्ते सेवितो दृष्टेर्गुरुत्वमपनयति। कवलाञ्जनान्ते सेवितो दृष्टिं प्रसादयति। भुक्तवता सेवितः स्रोतसां विशुद्धिं लघुतां चाऽऽपादयति। वान्तेनाऽऽसेवितः स्रोतोविलग्नं श्लेष्माणमपोह्य भक्ताकाङ्क्षामापादयति। दिवास्वप्नोत्थितेनाऽऽसेवितो निद्राशेषं गुरुत्वं मलं चापोह्य चित्तैकाग्र्यं जनयति सायं चाऽऽसेवितः सुखनिद्राप्रबोधत्वमिति॥२॥

प्रतिमर्शस्य प्रमाणमाह—

ईषदुच्छिङ्घनात्स्नेहो याबद्वक्त्रं प्रपद्यते॥
नस्तो निषिक्तस्तं विद्यात्मतिमर्शं894 प्रमाणतः॥११॥

** वृद्धवाग्भटे** चान्यथा प्रतिमर्शप्रमाणम्।

तथा च —“प्रमाणं प्रतिमर्शस्य बिन्दुद्वितयमिप्यते।
बिन्दुर्वा येन चोत्क्लेशो नानुत्क्लिष्टस्य जायते।
निहितो यत्र वा स्नेहो न साक्षादुपलभ्यते”इति॥११॥

शिरोविरेचनस्नेहवत्प्रतिमर्शस्नेहोऽपि नाम्यवहरणीय इति दर्शयितुमाह—

उच्छिङ्घन्न पिबेच्चैनं निष्ठीवेन्मुखमागतम्॥१२॥

उच्छिङ्घन्स्नेहं मुखमागतं निष्ठीवेन्न पिबेत्। निष्ठीवेन्मुखमागतमित्यस्याग्रेविदेहोक्तं ग्रन्थमधिकं श्रीब्रह्मदेवः पठति—

“इत्येवं स्नेहनस्याख्यः प्रतिमर्शः प्रकीर्तितः॥
स्नेहेनासंस्कृतेनैष कर्तव्यः संस्कृतेन वा॥
नस्यं तु संस्कृतेनैव दातव्यं भिषजां वरैः”इति॥१२॥

इदानीं सामान्येन नस्यफलमाह—

नस्येन रोगाः शाम्यन्ति नराणामूर्ध्वजत्रुजाः॥
इन्द्रियाणां च वैमल्यं कुर्यादास्यं सुगन्धि च॥१३॥
हनुदन्तशिरोग्रीवात्रिकबाहूरसां बलम्॥
वलीपलितखालित्यव्यङ्गानां चाप्यसंभवम्॥१४॥

सुगमम्॥१३॥१४॥

नस्ये दोषभेदेन स्नेहविभागमाह—

तैलं कफे सवाते च केवले पवने वसाम्॥
दद्यात्सर्पिः सदा पित्ते मज्जानं च समारुते॥
चतुर्विधस्य स्नेहस्य विधिरेष प्रकीर्तितः॥१५॥

मारुतोत्तरे पुरुषे सदा रूक्षित इति केचित्। दद्यात्सर्पिः सदा पित्ते मज्जानं च समारुत इत्यस्य स्थाने दद्यान्नस्तः सदा पित्ते सर्पिर्मज्जां समारुत इति पाठान्तरे मज्जामिति निर्देशो मज्जाशब्दस्यापि सद्भावात्साधुः॥१५॥

श्लेष्मस्थानाविरोधित्वात्तेषु तैलं विशिष्यते॥१६॥

यथादोषव्याधिप्रत्यनीकसिद्धमित्यध्याहार्यम्। शिरसः श्लेष्मस्थानत्वेन सर्वत्र संसर्गाच्छेप्मणः श्लेष्मणिच प्रत्यनीकत्वादविरोधि तैलम्। घृतादयस्तु कफतुल्यगुणत्वाद्विरोधिनस्तेन तैलं श्रेष्ठम्। अयं भावः। वाते श्लेष्माणि च यौगिकमेव तैलं पित्ते पित्तहरद्रव्यसंयुतं तैलमेव समधिक-कफानुरोधात्कर्तव्यमिति॥१६॥

शिरोविरेचनावपीडस्य विषयमाह—

विषाभिभूतसंन्यासमूर्छामोहापतत्र्तके।
मदापस्मारशोकार्तिचिन्ताक्रोधभयादिषु॥१७॥
मानसेषु च रोगेषु मूढव्याकुलचेतसाम्॥
संज्ञाप्रबोधहेत्वर्थमवपीडं प्रदापयेत्॥१८॥

संपिष्टभेषजमवपीड्य दीयत इत्यवपीडः। संन्यासो मूर्छाविशेषः। मानसो रोग उन्मादादिः। **मूढ-व्याकुलचेतसामिति।**उक्तरोगेषु मूढव्याकुलमनस्कत्वे संज्ञार्थमवपीडः। मूढं विसंज्ञं व्याकुलं विक्षिप्तम्। पिप्पलीविडङ्गादिशिरोविरेचनद्रव्याणामेकतमं पिष्ट्वा कल्कमथवैषां क्वाथेनाक्तं पिचुनक्तकमवपीड्य शिरोविरेचनवद्यथाक्रमं चतुःषडष्टबिन्दुप्रमाणं हीनादिमात्रावपीडं दद्यात्। तस्य च विषार्तादीनां संज्ञाप्रबोधनत्वेन रक्तपित्तादीनां स्तम्भनत्वेन द्वैविध्यं प्रधमनप्रयोगविषयावधारणम्॥१७॥१८॥

नस्ततो(नासया) विधमेच्चूर्णं त्रिमुच्चूटिमितं कटु॥
षडङ्गुलद्विमुखया नाड्या विषादिमूर्छिते॥१९॥

चूर्णं विधमेत्।**विषादिमूर्छित इति।**विषचेतोविकारकृमिविसंज्ञे।

अत्राऽऽह विदेहः —

“नाडी षडङ्गुलायामा द्विमुखी च तया धमेत्।
त्रिश्चूर्णं मुच्चुटीमात्रमेष प्रधमने विधिः॥
शुक्तिमात्रं तु जिघ्रेद्वा बद्धं सूक्ष्मेण वाससा”इति।

** त्रिमुच्चूटिमितमिति।** अङ्गुलीत्रयाग्रपर्वमितम्। एकवारस्य मात्रेयं यावच्च न प्रबुध्यते तावद्दद्यात्। तर्जन्यङ्गुष्ठाग्रमात्रं ग्राह्यं चूर्णं मुच्चूटीमात्रमिति ब्रह्मदेवः॥१९॥

स्तम्भनावपीडनविधिमाह—

शर्करेक्षुरक्षीरघृतमांसरसान्पृथक्॥
क्षीणानां नस्ततो(नासया) दद्याद्रक्तपित्तगदेषु च॥२०॥

सुगमम्॥२०॥

इति श्रीवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्रीकण्ठद-
त्तकृतायां व्याख्याकुसुमावल्याख्यायामष्टसप्ततितमो
नस्याधिकारः समाप्तः॥७८॥
————————

अथोनाशीतितमः कवलाधिकारः।
————————

नस्यवच्छोधनः स्नैहिकश्च कवलो भवत्यतः कवलविधिः। स्नैहिकप्रसादिशोधिरोपणभेदेन चतुर्धा कवलानाह—

स्निग्धोष्णैः स्नैहिको वाते स्वादुशीतैः प्रसादनः॥
पित्ते कटुम्ललवणैरुप्णैःसंशोधनः कफे॥
कषायतिक्तमधुरैःकटूष्णै रोपणो व्रणे॥१॥

________________________________
१ क. °स्ततः प्रध°।
________________________________

ननु च तत्त्रान्तरीयैः षड्विधः कवलः पठितः। तथा च कृष्णात्रेयः। तत्र कवलग्रहः स्नैहिको रोपणीयो वैरेचनः स्तम्भनः शोधनो निर्वापणश्च। तत्र सर्पिर्वसामज्जा-तैलसंयुक्तः स्नैहिकस्तिक्तकषाय-द्रव्यै रोपणः कट्वम्ललवणो रेचनो मधुकपायशीतैः स्तम्भनः कटुतिकाम्दैः शोधनीयो मधुर-शीतैर्निर्वापणीय इति। अत्रोच्यते। शास्त्रस्यकर्तुरयमभिप्रायो वैरेचनस्य शोधनेऽन्तर्भावः स्तम्भनस्य प्रसादन इति नातिरेकः॥१॥

सुखं संचार्यते या तु मात्रा सा कवले मता895

सुगमम्॥

कवलग्रहाद्गण्डूषस्याल्पं भेदमाह—

असंचार्या तु या मात्रा गण्डूषे सा प्रकीर्तिता॥२॥

सुगमम्॥२॥

कियन्तं कालं धारणीयस्तमाह—

** तावच्च धारयितव्योऽनन्यमनसोन्नतदेहेन संचारयितव्यश्च। यावद्दोषपरिपूर्णगलकपोलत्वं नासास्रोतोनयनपरिप्लवश्च भवति तदा विमोक्तव्यः।अन्यश्चान्यो ग्रहीतव्य इति॥**

दोषोऽत्र कफः। नासास्त्रोतो नासारन्ध्रम्।अन्यश्चान्यो ग्रहीतव्य इति। आ शुद्धिलिङ्गात्। अत्र सुश्रुतेन मुखस्य कफस्थानत्वात्कफहरः शोधन एव कवलस्त्रिकटुकादिभिर्द्रवैर्दर्शितः। तद्यथा।तत्र त्रिकटुकवचासर्षपहरीतकीकल्कमालोड्य तैलशुक्तसुरामूत्रक्षारमधूनामन्यतमेन सलवणमभि-प्रतप्तमुपस्विन्नमृदितगलकपोलललाटप्रदेशो धारयेदिति॥१॥

इदानीं शोधनकवलस्य विधानं स्नेहादिष्वपि निर्दिशन्नाह—

एवं स्नेहपयःक्षौद्ररसमूत्राम्लसंभृताः॥
कषायोष्णोदकाभ्यां च कवला दोषतो हिताः॥३॥

संभृताः सम्यक्कृताः। कवला इति। त्रीन्पञ्च सप्त कवलान्धारयेदिति तत्त्रान्तरीयाःदोषत इति। दोषानुरूपा योज्याः। तेन स्नेहो वाते क्षीरं पित्ते क्षौद्रं कफ इति। एवं मांसरसादयोऽपि यथादोषं ज्ञेयाः। डल्लणस्त्वेवं व्याख्याति—दोषत इति। दोषव्याधिप्रत्यनीकभावेन। दोषग्रहणेन व्याधिः परिगृह्यते कार्ये कारणोपचारात्। शालाकिभिस्तु प्रतिदोषं पठितानि द्रव्याणि। तथा च कृष्णात्रेयः—अथ द्रव्यप्रविभाग एष वातघ्नैर्भेषजैः सिद्धः स्नेहः क्षीरं बलेमु(ऽनु)ष्णं क्षीरं चाम्ललवणौ वाते पटोलमधुशर्करानीलोत्पल-क्षीरेक्षुरसशर्करोदकघृतादीनि पैत्तिके त्रिकटुसर्षपसैन्धवैलाशुक्तं किराततिक्तकतेजोवतीहरिद्रागोमूत्रलवणोष्णोदकानि श्लैष्मिके। एतान्येवोत्कर्षापकर्षतः संसर्गे संनिपाते वा कवलग्रह इति। तस्य दोषबलावलाभ्यां पञ्च(रं) धारणमिति॥३॥

इदानीं योगादिलक्षणमुद्दिशन्नाह—

व्याधेरपचय स्तुष्टिर्वैशद्यं वक्त्रलाघवम्॥४॥
इन्द्रियाणां प्रसादश्च कवले शुद्धिलक्षणम्॥
हीने जाड्यकफोत्क्लेशान्न896 रसज्ञानमेव च॥५॥

सुगमम्॥४॥५॥

अतियोगान्मुखे पाकः शोषतृष्णारुचिक्लमाः॥
शोधनीयौर्विशेषेण भवत्येतत्तु लक्षणम्॥६॥

अत्र स्थानत्वेन शोधनीयमेव प्रधानं तेन व्याधेरपचय इत्यादि शुद्धिलक्षणं विशेषेण शोधनीयस्य सामान्येन पुनः स्नैहिकादीनामपि मुखपाकादिषुशोधनीयस्यैव शेषाणां तुद्रव्यगुणादूह्यम्॥६॥

आगन्तुकस्य क्षारादिदाहस्य कवलमुद्दिशन्नाह—

तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च॥
सक्षौद्रो दग्धवत्क्रस्य गण्डूषोदाहनाशनः॥७॥

योगोऽयं व्यस्तः समस्तश्च योज्यः। यदाह विदेहः —

“गण्डूषःशर्करा क्षौद्रघृतोत्पलपयस्तिलैः॥
व्यस्तैः समस्तैर्योज्यस्तु मुखेक्षारादितापितः”इति॥

** दग्धवक्त्रस्येति।** क्षारादिना॥७॥

कवलस्य विधिर्ह्येषसमासेन प्रकीर्तितः॥८॥

समासेन संक्षपेणेत्यर्थः। विस्तरस्तु विदेहादिष्ववगन्तव्य इति॥८॥

कवलवद्योगाद्योगसंभवात्प्रतिसारणमाह—

विभज्य भेषजं बुद्ध्या कुर्वीत प्रतिसारणम्॥
कल्को रसक्रिया क्षौद्रं चूर्णं चेति चतुर्विधम्॥९॥

प्रतिसार्यते घृप्यतेऽनेनेति प्रतिसारणम्। रसक्रिया फाणिताकृतिः। भेषजं रसवीर्यगुण-विपाकैर्वातादिदोषांस्तदारव्धरोगांश्च प्रविभज्य कल्कादिभेदेन चतुर्विधं प्रतिसारणम्॥९॥

अङ्गुल्या घर्षणं यत्तत्प्रतिसारणमुच्यते॥
अङ्गुल्यय्रप्रणीतं तु यथास्वंमुखरोगिणाम्॥१०॥

अङ्गुष्यग्रप्रणीतमङ्गुल्यग्रोपकतम्।यथास्वं यद्यत्र प्रतिसारणं विहितं तत्तत्रैवमुखरोगिणां कुर्वीत। अङ्गुल्या प्रणीतत्वेन कोलास्थिमात्रत्वं प्रतिसारणस्य सूचयति। तथा च **शालाक्ये—**कोलास्थिमात्रेण पिण्डेन यथादोषं यथाव्याधि पञ्चसप्तनववारान्हीनमध्यमोत्तमेषु व्याधिषु च प्रतिसारणं कुर्वीत न चैनमतिघर्षयेदतिघर्षणादुषाचोपदाहक्लेदश्वयथुतृष्णाभक्तच्छन्दवाक्सङ्गा। भवन्त्यसम्यक्प्रतिसारणात्पैच्छिल्यगुरुत्वा- नन्नाभिलाषप्रमोहविकारानुपशमाः। सम्यक्प्रतिसारणाद्वैशद्यं लाघवं क्षवथुरप्रसेकोऽन्नाभिलाषश्चेति॥१०॥

तस्मिन्योगमयोगं897 च कवलोक्तं विभावयेत्॥
भोजयेच्चानभिष्यन्दि दोषघ्नमशनं परम्॥११॥

योगादन्योऽयोगः स पुनर्हीनयोगोऽतियोगश्च। अयोगं चेति चकारेणायोगातियोगचिकित्सितमनुक्तं समुच्चीयते॥११॥

तानेव शमयेद्व्याधीन्कवलो यानपोहति॥१२॥

येन दोषेण वातादिना मुखरोग आरब्धः।कवलग्रहादिषु च विशेषः कृष्णात्रेयेणदर्शितस्तद्यथा—

“सप्तवर्षमुपादाय नस्त(स्य)कर्म चतुर्विधम्॥
प्रतिमर्शोऽथ वमनं जन्मप्रभृति शस्यते॥
धूमो द्वादशवर्षस्य कवलःपञ्चमे ततः॥
दोषव्याधिबलावस्थां वीक्ष्य चैतान्प्रयोजयेत्” इति॥१२॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामेकोनाशीतितमः
कवलाधिकारः समाप्तः॥७९॥

————————

अथाशीतितमोऽरिष्टाधिकारः।

————————

यदेतत्प्राक्प्रतिपादितं चिकित्सितं तदसाध्यपरिहारेण विहितं परं सिध्यति। असाध्यताज्ञानं च प्रायेणारिष्टात्। अतोऽरिष्टाधिकारः॥

फलाग्निजलवृष्टीनां पुष्पधूमाम्बुदा यथा॥
ख्यापयन्ति भविष्यत्वं रिष्टानि मरणं तथा॥१॥

पुप्पादयोऽत्राव्यभिचारिविशेषाद्विवक्षिताः। भविष्यत्वमिति पुष्पाम्बुदापेक्षम्। धूमस्तुवर्तमानमेवाग्निं बोधयति। अथ सोमटिप्पणव्याख्यानम्—नियतानियतभेदेन द्विविधमरिष्टमाह—फलाग्नीत्यादि। पञ्चतामिति पाठे मृत्युं भाविनमिति शेषः। नन्वत्र किमर्थं पुष्पधूमाम्बुदा इति बहवो दृष्टान्ता उक्ता एकेनैवार्थसिद्धेः। उच्यते। पुष्पाम्वुदौ हेतू ज्ञापकावनियतौ न ह्यत्रावश्यं कारणेन कार्यं कर्तव्यमेव कुतोऽपि व्यभिचारदर्शनादित्यनेनानियतदृष्टान्तेन दूतादिनिमित्तजमरिष्टमनियतमुक्तम्। धूमात्कार्यादग्नेः कारणस्ययज्ज्ञानं तन्नियतं नियतप्राक्काल-भाविभ्यः कारणेभ्यो नियतोत्तरकालभावित्वात्कार्याणाम्। अत एव यत्र धूमस्तत्र वह्निरित्यावश्यकी व्याप्तिरित्यनेन नियतदृष्टान्तेन दोषजमरिष्टंनियतमुक्तम्। श्रीजैज्जटस्त्वाहनन्वरिष्टमागामिनो मरणस्य लिङ्गं तत्किं क्वापि व्यभिचरदृष्टमुत न। अत्रोच्यते। व्यभिचारानुपपत्तिर्ध्रुवं त्वरिष्टे मरणमिति वचनात्। भट्टारकहरिश्चन्द्रप्रभृतिभिस्तु नियतानियतभेदेन द्विविधं ह्यरिष्टमभिहितम्। तथा हि चरकेमृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुरित्यत्र नियतमरिष्टमुक्तम्। संयशप्राप्तमात्रेयो जीवितं तस्य मन्यत इत्यनियतम्। तन्न—

“न त्वरिष्टस्य जातस्य नाशोऽस्ति मरणादृते।
मरणं चापि तन्नास्ति यन्नारिष्टपुरःसरम्”इति॥

यत्र व्यभिचारस्तत्र प्रज्ञापराध एव न सम्यग्ज्ञानम्॥

** तदुक्तम्**—“मिथ्यादृष्टमरिष्टाभमनरिष्टमजानता।
अरिष्टं नापि संवुद्धमेतत्प्रज्ञापराधजम्”इति॥

यत्पुनमृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुस्तथा संशयप्राप्तमात्रेयो जीवितं तस्य मन्यत इति कृतवान्। अयमुक्तिविशेषो न पुनरर्थकृतस्तत्र भेदोऽस्ति। अत्रायमभिसंधिः। असावेवमरिष्टोपलक्षितः प्रत्यासन्नमृत्युः। यदपि किंचित्कालमायुषः शेषत्वाज्जीवति तदपि तस्य संशयितं परमार्थतस्तु मृत एवासाविति। आधितानां विनाशाय क्लेशाय महतेऽपि वेत्यदः कथमिति चेत्।तन्न।न खल्वस्यायमर्थो यथा सर्वस्यैववायवी छाया विनाशाय भवति किं तु यस्य पूर्वं प्राकृती छाया सीतां चोल्लङ्घ्य यद्यकस्माद्वायवी जायते तदाऽसौ मारयति। यद्यत्र पुनराप्रसुतेः प्राक्तनकर्मापेक्षजाता विशिष्टभूत-परिणामेन कृता सैबप्राकृती तस्य क्लेशान्महतोऽपि नित्यमेवाऽऽपादयति गर्हितलक्षणत्वात्। वक्ष्यति हि —वायवी गर्हिता तासां चतस्त्रः स्युः सुखोदया इति। अयं च च्छायालक्षणनिर्देशः पूर्वकृत एव प्राकृतोऽनन्तरं तु वैकृतः प्रकृतिनान्तरीयकत्वाद्विकृत्यवगतेः। स्वस्थस्तु लभते व्याधिं व्याधितो मृत्युमाप्नुयात्। इदं तु कथमिति चेत्। अत्रोच्यते। नेदमरिष्टं व्याधिजनकमात्रमेव चिह्नयति। अपि तु यो हि व्याधितस्तस्य मरणं स्वस्थस्य तु व्याध्युत्पादपूर्वकमरणम्। न ह्यननुपायं जात्वपि मरणं संभवति। गृह्यन्ते नोद्गतान्यज्ञैर्मुमूर्षोर्नत्वसंभवात्। ध्रुवं त्वरिष्टे मरणमिति।यच्चतैरेव नियतायुर्विषयाण्यरिष्टानीति व्याख्यायि। नैतदेव।अनियतायुर्विषयाण्येव ह्यरिष्टानिमन्यामहे। नियतायुःपरिणतिप्रकाशकानि पुनरन्यान्येव लिङ्गानि सन्ति। तथा हि—यानसमायुक्तोऽक्षः प्रकृत्यैवाक्षगुणैरुपेतः सर्वगुणोपपन्नो वाह्यमानो यथाकालं स्वप्रमाणक्षयादेवावसानमुपैति तस्यैवं-विधस्यापि तु दीर्घकालप्रवहणादवघृष्यमाणस्य रजःशकलाद्युत्पत्तेः श्लक्ष्णत्वापत्यादीनि लिङ्गान्यवसानगमकानि संभवन्ति। तथाऽऽयुषोऽप्यानिषेकाद्यथावदुपचर्यमाणस्य स्वप्रमाण-क्षयादेवावसानमुपेयुषः क्षीयमाणधात्विन्द्रियबलवीर्यत्वादीनि नियतमृत्योः पुरःसराणि लिङ्गानि प्रादुर्भवन्ति। तत्त्वतस्तु निरूप्यमाणान्यनियतायुषा एवारिष्टान्युपलक्ष्यन्ते। यथा तस्यैवाक्षस्याति-भाराधिष्ठितत्वादिभिः पर्यवसानहेतुभिर्वा हन्यमानस्य कटकटायनरथाङ्गस्खलनसंघट्टनादीनि लिङ्गान्यासन्नभङ्गगमकानि लक्ष्यन्ते तद्वदयथाबलमारम्भादिभिरप्यङ्गभङ्गादीनि लिङ्गानि लक्ष्यन्त एव। सति चैवम्—

“एकोत्तरं मृत्युशतमथर्वाणः प्रचक्षते।
तत्रैकः कालसंयुक्तः शेषास्त्वागन्तवः स्मृताः”॥

इत्यपि साधु स्यात्। किं च नियतायुर्विषयाण्यरिष्टानि चेति माता मे वन्ध्येत्यादिवाक्यवद्व्याहतं वचनम्।

अपि च —“अप्येव तु भवेत्पुष्पं फलेनाननुबन्धि यत्।
फलं चापि भवेत्किंचिद्यस्य पुष्पं न पूर्वजम्॥
न त्वरिष्टस्य जातस्य नाशोऽस्ति मरणादृते।
मरणं चापि तन्नास्तियन्नारिष्टपुरःसरम्”इति॥

तस्मान्नियतानियतान्युभयविषयाण्यरिष्टानीति स्थितम्। जलग्रहणं पांश्वादिवृष्टिविच्छेदनाय॥१॥

यत्र क्वचिदरिष्टानि नोपलभ्यन्ते मरणं च दृश्यते तत्राप्यरिष्टसद्भावं दर्शयन्नाह—

तानि सौक्ष्म्यात्ममादाद्वा तथैवाऽऽशु व्यतिक्रमात्॥
अज्ञानाच्च न गृह्यन्ते मुमूर्षोर्न त्वसंभवात्॥२॥

प्रमादादनवधानात्। आशु व्यतिक्रमाच्छीघ्रमपगमात्। अज्ञानादरिष्टत्वेनानवबोधात्। गृह्यन्ते नोद्गतान्यज्ञैरिति पाठे डल्लणो व्याख्याति। अवश्यमरिष्टपुरस्सरमेवमरणमाह—तानीति। मुमूर्षोर्मर्तुमिच्छोः प्राणिन उद्गतान्यपि प्रकटितान्यप्यरिष्टान्यज्ञैर्मनुष्यैर्न गृह्यन्ते न ज्ञायन्ते। कुतो हेतोरित्याह—सौक्ष्म्यादिति। परमाणुवत्। प्रमादादनवधानतो मदिरामदमत्तस्य वस्तुन्यमर्ष इव। **आशु व्यतिक्रमादिति।**तदैवारिष्टमुत्पन्नं तदैव मरणादिति, उत्पलशतपत्रद्युतिभेदवत्। अन्ये त्वाशु व्यतिक्रमं तदैवारिष्टमुत्पन्नं तदैव निवर्तत इति मन्यन्ते। न त्वसंभवादिति। अत्रायमभिप्रायः। संभवन्त्येवारिष्टानि पूर्वोक्तकारणेभ्यः पुनरज्ञैर्न ज्ञायन्ते॥२॥

अरिष्टे मरणदोषव्यभिचारमाह—

न त्वरिष्टस्य जातस्य नाशोऽस्ति मरणादृते॥
मरणं चापि तन्नास्ति यन्नारिष्टपुरस्सरम्॥३॥

जातस्य नियतिसंपूर्णस्य। क्वचिदुदिते ह्यसंपूर्णेऽरिष्टे नावश्यं मृत्युरिति चक्रः।जातस्य नियतस्येति केचित्। रिष्टं हि मरणे नियतमनियतं च भवति। नियतं यथा—मृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुरिति। अनियतं यथा—संशयप्राप्तमात्रेयो जीवितं तस्य मन्यत इति। नियतं रिष्टमभिप्रेत्य सुश्रुतेनोक्तम्—ध्रुवं त्वरिष्टे मरणमित्यादि। अन्ये रिष्टं मरणे नियतमेवाऽऽहुः—ध्रुवं त्वरिष्ठे मरणमिति वचनात्। रसायनादिभिस्तन्निवारणेन रिष्टस्य मरणव्यभिचारो न वाच्यः। रसायनादयो हि प्रभावप्रकर्ष-शालित्वादसीमकर्माणः किमशक्यं तेषाम्। तथा हि—सोमरसायनं दशवर्षसहस्राणि जीवयति। यदाह भगवान् सुश्रुताचार्यः—

“ओषधीनां पतिं सोममुपयुज्यैवमतः।
दशवर्षसहस्राणि नवां धारयते तनुम्”इति॥

तपसा भगवानगस्त्यः समुद्रं गण्डूषपुटपेयमकरोत्। मन्त्रप्रभावश्च प्रसिद्ध एव। अतोऽव्यभिचारेण व्यवस्था शास्त्रे। रसायनादिव्यतिरिक्तचिकित्सया चासाध्यमेवारिष्टम्।संशयप्राप्तमित्यादिरिष्टमपि नियतमरणमेव। यतः प्राप्तरिष्टस्य यदपि जीवितं तदपि संशयितं मृतप्रायः प्राप्तारिष्ट इति वर्णनीयः। भट्टारकहरिश्चन्द्र आह—अजातमरिष्टं न मरणख्यापकमित्यतो लब्धमपि जातस्येति पदं यत्कृतं तद्बोधयति—कालमृत्यौ परं रिष्टं नाकालमृत्यौ त्वरिष्टं भवतीति। यद्यकालमृत्यौ रिष्टं स्यात्तदा सत्यपि रिष्टे शुभक्रियया मृत्युप्रतिबन्धे ध्रुवो भावी रिष्टे मृत्युर्न स्यात्। अकालमृत्युर्द्युचितानाचरणात्परं भवतीति। अत्राऽऽहुरेके—अकालमृत्यावप्यरिष्टं भवत्येव, अविशेषेण मरण-मात्रे रिष्टनियमाभिधानात्।यत्तू कमकालमृत्यौ सत्यपि रिष्टे य(त)दा शुभक्रिययामृत्युप्रतिबन्धः स्यादिति। तन्न युक्तम्। न ह्यकालमृत्युः सर्वदैव शुभक्रियया बाध्यः। किं तूचिते कालेऽकालमृत्यौ च तदैवारिष्टं यदा क्रियापथातिक्रान्तदोषता स्यात्। अत एवोक्तम्—क्षणेन हि रिष्टानि प्रादुर्भवन्तीति॥२॥

ध्रुवं त्वरिष्टे मरणं ब्राह्मणैस्तत्किलामलैः॥
रसायनतपोजप्यतत्परैर्वा निवार्यते॥४॥

अमलैर्दोषरहितैः। रसायनमिह स्वाभाविकव्याधिवारणमपेक्षितम्। अथ डल्लणव्याख्यानम्—दोषजमरिष्टमधिकृत्य रिष्टे मरणस्य नियतत्वं दर्शयन्नाह—ध्रुवमित्यादि। रिष्टेऽपि मरण-निवृत्तिमुपायविशेपैराह—ब्राह्मणैरिति। किलशब्दोऽत्राऽऽगमार्थं सूचयति। एवं किलाऽऽगम-प्रतिपादितमित्यर्थः। अमलैरिति। रागादिदोषरहितैः।ब्राह्मणेभ्योऽपरानपि दर्शयन्नाह—रसायनेति। रसायनपरा इति स्वभावव्याधिनिवारणविशिष्टौषध-चिन्तकास्ते रसवीर्यौषधप्रभावेन मरणं निवारयन्ति। तथा परं तपःपरा इति तपस्विनः। त इह विशिष्टतपःप्रभावेन मरणं निवारयन्ति। तथा जप्यपराः सिद्धमन्त्रचिन्तकास्तेऽपि मन्त्रशक्तियुक्ताः पञ्चत्वं निषेधयन्ति। एतच्च नियतानियतरिष्टविषयंज्ञेयम्। अस्यैव श्लोकस्य सोमटिप्पणोक्ता व्याख्या लिख्यते—रिष्टोत्पत्तौ मृत्योर्नियममाह—ध्रुवं तु मरणं रिष्ट इति। कदाचिद्दूतस्वप्नादौ निवृत्तिमाह—**ब्राह्मणैरित्यादि।**प्रकारान्तरमाह—रसायनेत्यादि। रसायनपराः स्वभावव्याधिप्रतिषेधकविशिष्टौषध-चिन्तकाः।तपःपरास्तपस्विनः।जप्यपराः सिद्धमन्त्रचिन्तकाः। एते हि महौषधितपःसिद्धमन्त्र-प्रभावैर्मरणं निवारयन्ति॥४॥

रिष्टाज्ञाने दोषमाह—

असिद्धिं प्राप्नुयाल्लोके प्रतिकुर्वन्गतायुषम्॥
तस्माद्यत्नेन रिष्टानि लक्षयेत्कुशलो भिषक्॥५॥

** असिद्धिमिति।** धर्मार्थकामानां हानिम्॥५॥

अथाप्रशस्तदूतानाह—

नपुंसकं स्त्री बहवो नैककार्या असूयकाः॥
पाशदण्डायुधधराः पाण्डुरेतरवाससः॥६॥
आर्द्रजीर्णापसव्यैकमलिनोद्वस्तवाससः॥
न्यूनाधिकाङ्गा उद्विग्ना विकला रौद्ररूपिणः॥७॥
रूक्षनिष्ठुरवक्तारस्त्वमङ्गल्याभिधायिनः॥
छिन्दन्तस्तृणकाष्ठानि स्पृशन्तो नासिकां स्तनम्॥८॥
वस्त्रान्तानामिकाकेशनखरोमदशास्पृशः॥
कपालोपलभस्मास्थितुषाङ्गारकराश्च ये॥९॥
विलिखन्तो महीं किंचिन्मुञ्चन्तो लोष्टभेदिनः॥
तैलकर्दमदिग्धाङ्गा रक्तस्रगनुलेपनाः॥१०॥
फलं पक्कमसारं वा गृहीत्वाऽन्यच्च तद्विधम्॥
नखैर्नखान्तरं वाऽपि करेण चरणौ तथा॥११॥
उपानच्चर्महस्ता वा विकृता व्याधिपीडिताः॥
वामाचारा रुदन्तो वा श्वासिनो विकृतेक्षणाः॥१२॥
याम्यां दिशि प्राञ्जलयो विषमैकपदे स्थिताः॥
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः॥१३॥

एवंभूताश्च दूता व्याधेरवगाढतां सूचयन्ति। न त्वेतेन तत्त्वतो रिष्टं निमित्तानुरूपायाः शीलशरीरविकृतेः। यदाह भगवा**न्सुश्रुताचार्यः—**अरिष्टत्वान्निमित्तानुरूपेति। निमित्तार्थकारिणी, अलक्ष्यमाणविशिष्टनिमित्तार्थं करोतीति यावत्। यां तामनिमित्तांनिमित्तमायुषो गतस्य ज्ञानार्थमिच्छन्ति भिषज इति। नपुंसकमिति। न पुमान्न स्त्री। स्त्रीति। योषिदित्यर्थः। बहव इति। प्रभूता इत्यर्थः। नैककार्या इत्यन्यकार्या नैकस्मिन्कार्ये ये दूताः समागता इत्यर्थः।असूयकाः परस्परं कलहकारिणः। वेषमधिकृत्याऽऽह—पाशेत्यादि। पाशो दीर्घः पशूनां बन्धनरज्जुः। दण्डो लोहादिवलयैर्निबद्धो निष्ठुरकाष्ठयष्टिः। आयुधानि खङ्गशक्त्यादीनि। पाण्डुरेतरवासस इति। कृष्णपीतरक्तवस्त्राः। आर्द्रजीर्णापसव्यैकमलिनोद्वस्तवासस इति। आर्द्रंस्तिमितम्। जीर्णं पुरातनम्। अपसव्यं दक्षिणाश्रितमुत्तरीयं वासः। एकमेकवस्त्रधारिणम्898।मलिनमधौतम्।उद्वस्तं पाटितम्। अन्ये—उद्ध्वस्तवासस इति। ऊर्ध्वक्षिप्तवस्त्राः। उद्धृतवासस इति पाठान्तरेऽप्ययमेवार्थः। न्यूनाङ्गा इति हस्ताद्यवयवैहींनाः। अधिकाङ्गा इति, एकविंशत्यङ्गुल्यादियुताः। उद्विग्नाउद्भीताः। विकलाः शोकातिदुःखिताः। रौद्ररूपिण इति। भैरवोद्धतकर्कशाः। दूतसंभाषणमधिकुर्वन्नाह—रूक्षनिष्टुरवक्तार इत्यादि। रूक्षं मैत्रीरहितं वचः। निष्ठुरं कठोरवचनम्।**अमङ्गल्याभिधायिन इति।**गतमृतनष्टरुदितेत्यादिवचनममङ्गलम्। चेष्टित मधिकृत्याऽऽह—छिन्दन्तस्तृणकाष्ठानीत्यादि। वस्त्रान्तो दशाहीनस्य वस्त्रस्यान्तम्। अनामिका पवित्राङ्गुलिः।केशा मस्तकवालाः। रोमाणि शरीरोद्भवा वालाः। दशाः सदशस्य वस्त्रस्य प्रान्ताः। नखरोमदशास्पृश इत्यस्य ग्रन्थस्याग्रे—‘स्रोतोवरोत्दृद्गण्डमूर्धोरःकुक्षिपाणयः’ इति सुश्रुतेऽधिकः पाठः। तत्र स्त्रोतोवरोधादिषु निक्षिप्त-पाणयः। स्रोतः कर्णादिच्छिद्रम्।अवरोधः स्कन्धदेशः। त्दृत्कमलमुकुलाकारमधोमुखम्।गण्डो गल्लः। मूर्धा मस्तकम्।उरः कण्ठत्दृदयान्तरालः।कुक्षिर्विङ्क्षणपार्श्वान्तराल इति। कपालोपलेत्यादि। करशब्दः कपालादिभिः प्रत्येकं संबध्यते। तेन कपालादिकरा इति बोद्धव्यम्। कपालो बृहद्भाण्डखण्डः। उपलः पाषाणः। भस्मेति दग्धकाष्ठादिक्षारः। अस्थि हड्डम्। तुषो धान्यादित्वचः। अङ्गारो भस्मसात्कृतो दग्ध मांसखण्डः। विलिस्वन्तो महीमिति। नखादिना विदारयन्तः पृथिवीमित्यर्थः। किंचिन्मुञ्चन्त इति। किंचिद्वस्तु हस्तेन गृहीतं मुञ्चन्तः। लोष्टभेदिन इति। मृत्पिण्डस्फोटनशीला इत्यर्थः। दिग्धाङ्गा इति। लिप्ताङ्गा इत्यर्थः। रक्तस्रगनुलेपना रक्तमालाधारिणो रक्तविलेपनाश्चेत्यर्थः। फलमित्यादि। असारमित्यभ्यन्तरसारवर्जितम्। **अन्यच्च तद्विधमिति।**अन्यदपि वस्तु पक्कमसारं च। असारं निष्प्रयोजनम्।नखैर्नखान्तरं वाऽपि करेण चरणौ तथा, इत्यत्र गृहीत्वेति संबन्धः। उपानदित्यादि।उपानत्पादत्राणं चर्म वर्ध्रमयसट्टादि। उपानच्चर्मणी हस्ते येषां ते तथा। विकृता विकृतवेषाः। अथवाऽपि विकृताः पङ्गुकुब्जवामनादयः। विकृतव्याधिपीडिता इतिसुश्रुते पाठः। तत्र गलत्कुष्ठादिविकृत-व्याधिपीडिताः। वामाचारा इति। विपरीतव्यवहाराः। श्वासिन इति। अध्वजनितश्वासयुक्ताः। विकृतेक्षणा इति। पुष्पितनेत्रादयः। याम्यामित्यादि। याम्यां दिशि दक्षिणस्यां दिशि।प्राञ्जलयः प्रसारिताञ्जलयः। विषमैकपदे स्थिता इति। विषम एकस्मिन्स्थान ऊर्ध्वीभूताः। उपसर्पन्ति समीपं गच्छन्ति। गमनाय प्रश्नाय वाऽऽगताः पुरुषा दूताः॥६॥७॥८॥ ॥९॥१०॥११॥१२॥१३॥

मांसोदकुम्भातपत्रविप्रवारणगोवृषाः॥
शुक्लवर्णाश्च पूज्यन्ते प्रस्थाने दर्शनं गताः॥१४॥

मांसमत्राऽऽमम्।उदकुम्भ उदकपूर्णकुम्भः।तुच्छकुम्भमपि जलार्थं नीयमानं मङ्गल्यमाहुः।

तदुक्तम्—“चिकित्सकस्य चौरस्य तथैवाध्ययनार्थिनः।
प्रशस्तो यदि दृश्येत जलार्थं रिक्तको घटः”इति॥

अत्रार्थे डल्लणव्याख्या।उदकुम्भ इति। अत्रोदकुम्भशब्देन पूर्णो रिक्तश्च घटो गृह्यते। तत्राऽऽतुरगृहे प्रविशन्पूर्ण आतुरगृहान्निःसरन्रिक्त इति गृह्यते। अथ सोमटिप्पणव्याख्या—उदकुम्भेति। आतुरगृहे प्रविशतः पूर्ण आतुरगृहान्निःसरतो रिक्तःशस्तः। अथवोदकार्थं नीयमानो रिक्त एव दृष्ट उदकुम्भः शस्तः। तथा च—चिकित्सकस्येत्यादि। आतपत्रं छत्रम्।वृषो वृषभः।शुक्लवर्णाः पदार्थाः कर्पासास्थितक्रमस्मक्षारादिव्यतिरिक्ताः सुमनोदध्यक्षतमौक्तिकादयः। पूज्यन्ते श्लाघ्यन्ते ।गताः प्राप्ता दूतस्य वैद्यस्य च॥१४॥

स्त्री पुत्रिणी सवत्सा गौर्वर्धमानाः स्वलंकृताः॥
कन्या मत्स्याः फलं वामं स्वस्तिका मोदका दधि॥१५॥
हिरण्याक्षतपात्रं वा रत्नानि सुमनो नृपः॥
अप्रशान्तोऽनलो वाजी हंसश्चापः शिखी तथा॥१६॥
ब्रह्मदुन्दुभिनिर्घोषः शङ्खवेणुरथस्वनाः॥
सिंहमेघनिनादाश्च हेषितं गजबृंहितम्॥
शस्तं हंसरुतं नृणां वाचश्च हृदयप्रियाः॥१७॥

वर्धमानाः शरावाः।स्वलंकृता आलेपनादिचित्रिताः। वर्धमानमलंकृता इति पाठे वर्धमानं शरावः। चषकमित्यन्ये।अलंकृता भूषणवतीति कन्याविशेषणमिति केचिद्ब्रुवते। स्वस्तिकं मुक्तादिकृतं दूर्वामण्डितमक्षतादिकृतं वा। मोदका लड्डुकाः। हिरण्यं स्वर्णम्।

अन्ये—हिरण्यं कपर्दकानाहुः।अक्षता लाजाः। तद्युक्तं पात्रमक्षतपात्रम्।डल्लणस्त्वेवं व्याचष्टे।अक्षतं लाजाः। अन्येऽक्षतानि यवधान्यान्याहुः। पात्रं तण्डुलभृतशरावादिकम्। अन्ये तु, अक्षतपात्रमिति, एकमेव तण्डुलभृतशरावमिच्छन्ति। रत्नानिमाणिक्यादीनि। सुमन इति। शोभनं मानसमित्यर्थः। वैद्यस्येति शेषः। नृपः पृथ्वीपतिः। अन्ये तु शोभनचित्तो राजेत्याहुः। अप्रशान्तोऽनलः प्रज्वालितो वैश्वानरः। वाजी घोटकः।चाषः स्वर्णचूड इति ख्यातः पक्षी।शिखी मयूरः।ब्रह्मदुन्दुभिनिर्घोष इति। ब्रह्मनिर्घोषो दुन्दुभिनिर्घोषश्च। ब्रह्मनिर्घोषो वेदध्वनिः। दुन्दुभिनिर्घोषो निस्वानध्वनिः। सिंहेत्यादि। हेपितं वाजिध्वनिः।गजबृंहितं हस्तिस्वनः। रुतंशब्दः ॥१५॥१६॥१७॥

शकुनान्निर्देिशन्नाह—

पत्रपुष्पफलोपेतान्सक्षीरान्नीरुजो द्रुमान्॥
आश्रिता वा नभोवेश्मध्वजतोरणवेदिकाः॥१८॥
दिक्षु शान्तासु वक्तारो मधुरं पृष्ठतोऽनुगाः॥
वामा वा दक्षिणा वाऽपि शकुनाः कर्मसिद्धये॥१९॥

** नीरुज इति।** कृमिदावाग्न्याद्यनुपहतान्। आश्रितशब्दो नभःप्रभृतिभिः सह प्रत्येकं संबध्यते। नम आकाशम्। वेश्म गृहम्।ध्वजः पताका देवादीनाम्।तोरणमार्द्रवंशादिरचितं प्रतोल्याकारम्। वेदिकेति विवाहादिनिमित्तमामेष्टकादिरचितश्चतुरकः(स्रः)।आश्रिताः शकुना इति संबन्धः। शकुनाः पक्षिणः। दिक्षुशान्तास्विति। पूर्वासूत्तरासु चेत्यर्थः। अन्ये तु, आलिङ्गिता(त)वधूमि(प्वि)व दीप्ति-वर्जितास्वित्याचक्षते।

तथा च—“अङ्गारिण्यर्कनिर्मुक्ता दीप्ता यस्यां च भास्करः।
प्रधूमितैप्यत्सूर्या वैशान्ताः पञ्चेतरा दिशः”इति॥

वक्तार इति। शब्दायमानाः।पृष्ठतोऽनुगा इति। पृष्ठदेशेऽनुगता इत्यर्थः ॥१८॥१९॥

दक्षिणाद्वामगमनं प्रशस्तं श्वशृगालयोः॥२०॥
भासकौशिकयोर्नैव नोभयं शशसर्पयोः॥
दर्शनं वा रुतं वाऽपि न गोधाकृकलासयोः॥२१॥

दक्षिणपार्श्वाद्वामगमनं श्वाशृङ्गालयोः प्रशस्तम्। तथैव वामाद्दक्षिणगमनमप्रशस्तमित्युक्तम्।भासो गोष्ठकुक्कुटः। भासकौशिकयोर्दक्षिणाद्वामगमनमप्रशस्तम्।नोभयमिति। उभयमपि वामदक्षिणमपि गमनं न प्रशस्तमित्यर्थः। **दर्शनं वा रुतमित्यादि।**कृकलासः कण्टिकाया, इति लोके। पूर्वदेशीयास्तु गिरिगिटमित्याचक्षते। गोधाककलासयोर्दर्शनं वा रुतं वामतो दक्षिणतः पुरतः पृष्ठतो वा न प्रशस्तमिति ॥२०॥२१॥

हस्तं वाऽऽकृष्य वैद्यस्य न्यसेच्छिरसि चोरसि॥
न स सिध्यति वैद्यो वा गृहे यस्य न पूज्यते॥२२॥

न्यसेन्निक्षिपेत्॥२२॥

संप्रति प्रशस्तं स्वप्नमाह—

देवाद्विजान्गोवृषभाञ्जीवतः सुहृदो नृपान्॥
समिद्धमग्निं साधूंश्च निर्मलानि जलानि च॥
पश्येत्कल्याणलाभाय व्याधेरपगमाय च॥२३॥

सुहृदो मित्राणि। **समिद्धमग्निमिति।**समिद्धं दीप्तं वह्निम्।**कल्याणलाभायेति।**शुभवस्तुप्राप्तय इत्यर्थः। अपगमायेति। अपगमो निवृत्तिः॥२३॥

मांसं मत्स्यान्स्रजः श्वेता वासांसि विमलानि च॥
लभते शुभलाभाय व्याधेरपगमाय च॥२४॥
नदीनदसमुद्रांश्च क्षुभितान्कलुषोदकान्॥
तरेत्कल्याणलाभाय व्याधेरपगमाय च॥२५॥

नद्यो गङ्गाद्याः।नदाः शोणाद्याः प्रसिद्धाः। क्षुभितान्प्रचलितान्वृद्धिं गतानित्यर्थः। कलुषोदकान्यत एव क्षुभितानत एवाप्रशस्तोदकानित्यर्थः ॥२४॥२५॥

महाप्रासादसफलवृक्षवारणपर्वतान्॥
आरोहेद्द्रव्यलाभाय व्याधेरपगमाय च॥२६॥
शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत्॥
तत्त्वरिष्टं समासेन व्यासतस्तु निबोध मे899॥२७॥

शरीरं चेष्टेन्द्रियाश्रयः। शीलं बाल्यात्प्रभृत्यपरित्याज्या मानसी चेष्टा। तथा प्रकृतेः स्वभावस्य या विकृतिरन्यथाभावस्तदरिष्टं संक्षेपेण। शीलविकृत्या मनोविकृतिर्लक्ष्यते। अथ **डल्लणात्सोमटिप्पण-**व्याख्या—पूर्वं दूतादिज्ञेयं बाह्यारिष्टं प्रतिपाद्येदानीमाभ्यन्तरमरिष्टमाश्रयभेदेन त्रिविधं संक्षेपेण दर्शयन्नाह—शरीरशीलयोरित्यादि। शरीरं पाञ्चभौतिकं प्राणिकायः। शीलं मानसो भावः। अन्ये तुशीलं समाधानयुक्तं मन आचक्षते। तच्च शीलं सात्त्विकं ब्रह्मसत्त्वेत्यादिसप्तविधम्। राजसमासुरादि-षड्विधम्। तामसं पाशवादित्रिविधम्। प्रकृतिः स्वाभाविकः प्राणिनां निजधर्मः। एतेषां शरीरशील-प्रकृतीनां त्रयाणां भावानां विकृतिर्वैपरीत्यं यद्भवेत्तदरिष्टं मरणलक्षणं भवति। समासेन संक्षेपेण। अन्ये तु शरीरशीलयोर्द्वयोर्या प्रकृतिस्तस्या या विकृतिस्तदरिष्टं मरणलक्षणं भवतीत्याचक्षते। सा चैवंविधा प्रकृतिः शारीरी वा शलिगता वाऽस्तु। प्रकृतेः प्रस्तावात्किंचिद्विचारः क्रियते।सा हि प्रकृतिर्जात्यादीनुपाधीन्षडपेक्षते। तदुक्तं **चरके—**प्रकृतिर्हि जातिप्रसक्ता च कुलप्रसक्ता च देशानुपातिनी च कालानुपातिनी च वयोनुपातिनी च प्रत्यात्मनियता चेति। सर्वभेदेषु चकारकरणमन्योन्यसमावेशार्थम्। तत्र जातिप्रसक्ता नाम। तद्यथा तासु तासु मनुष्यादिजातिषु ते ते करचरणादयः स्वभावविशेषाः।वचनेषु च नानाविधा एव व्यक्त्यादयो धर्माः। मनसि च धर्माधर्ममैथुनाहारप्रभृतयोऽपि भावाः। कुलप्रसक्ता नाम द्विजकुले तपःप्रियतादयः क्षत्रियकुले समरप्रियतादयो धर्मविशेषा भवन्ति। देशानुपातिनी नाम। तद्यथा—लाटकर्णाटादीनां काये वाचि मनसिच ते ते स्वभावविशेषा भवन्ति। कालानुपातिनी नाम देहादिषु दौर्बल्यादि, आदानाद्यपेक्षा।गदेषु च दोषामताद्यपेक्षिणी।वयोनुपातिनी नाम बाल्याद्यवस्थासु सौकुमार्यादयो धर्माः। एतेषु त्रिष्वनु-पातिशब्दप्रयोगात्संचारित्वं स्वभावगुणानामिष्टम्। प्रत्यात्मनियतेति। आत्मन्यात्मनि नियता प्रतिपुरुषं नियतेत्यर्थः। ते पुनः काये वाचि मनसि च स्वभावविशेषाः प्रतिपुरुषं भेदभिन्ना दृश्यन्ते। एवं तावत्षोढाप्रकृतिर्भवत्येव।

** अन्ये** तु—“सप्तम्यपि भवेत्प्रायो देहलक्षणहेतुका।
उत्तमाधममध्यायुर्लिङ्गानां कारणं हि सा”

इति मन्यन्ते। अन्ये तु प्रकृतिं सत्त्वरजस्तमोमयीं वातपित्तश्लेष्ममयीं च मन्यन्ते। तस्या विकृतिर्वैपरीत्यम्। यथा—प्रथमं सत्त्वप्रकृतिरनन्तरं रजस्तमःप्रकृतिरित्यादि। तथा—आदौ वात-प्रकृतिस्ततः पित्तश्लेष्मप्रकृतिरित्यादि। आसां प्रकृतीनां विकृतिरन्यथात्वं मुमूर्पूणामुत्पद्यते।

तथा च—“प्रकोपो वाऽन्यभावो वा क्षयो वा नोपजायते।
प्रकृतीनां स्वभावेन जायते तु गतायुषाम्” इति॥

विकृतिःपुनर्लक्षणनिमित्ता निमित्तानुरूपा च। तत्र लक्षणनिमित्ता यस्याः शरीरे लक्षणान्येव हेतुभतानि दैवाच्छरीरोपनिबद्धानि यानि तस्मिन्काले तां तां विकृतिमुत्पादयन्ति। निमित्तानुरूपा तु तस्मिन्निमित्तार्थकारिणी या तामनिमित्तां निमित्तमायुषः प्रमाणज्ञानस्येच्छन्ति भिषज इति ॥२६॥२७॥

यस्तूष्णमित्र गृह्णाति शीतमुष्णं च शीतवत्॥
संजातशीतपिटको यश्च दाहेन पीड्यते॥२८॥
स्नातानुलिप्तं यं वाऽपि भजन्ते नीलमक्षिकाः॥
सुगन्धिर्वाऽति वाकस्मात्तं ब्रुवन्ति गतायुषम्॥२९॥

** संजातशीतापटक इति।** कफपिटिकायां दाहातिरेको रिष्टम्। स्नातानुलिप्तमित्यादौ बहिर्मल-संबन्धेऽत्र मक्षिकापातनिरासार्थं स्नातानुलिप्तमित्युक्तम्। मक्षिका हि विरसपूतिप्रियास्तासामुपसर्पणेन कालपक्वस्य देहस्य वैरस्यं गम्यते। सुरभिर्वाऽति वाऽकस्मादिति। अकस्मादति सुरभिर्वायुरूपो900 भवतीत्यर्थः। अथ डल्लणव्याख्या—आतुरगतग्राह्याविरुद्धस्पर्शप्रतिपत्तिंदर्शयन्नाह—**यस्तूष्णमित्यादि।**अत्र शीतपिटिका हि कफकृतास्तासां जाड्यादयो वेदनाविशेषाः प्राकृता दाहस्तु वैकृत इति। आतुरगतामेव विरुद्धरसप्रतिपत्तिं दर्शयन्नाह—स्नातानुलिप्तमित्यादि। पूर्वं स्नातः पश्चादनुलिप्तः। इत्थंभूतमपि सुगन्धिकायंबहिर्मलवर्जितं यदा नीलमक्षिकाः श्रयन्ते तदाऽसौ काल-पक्वत्वादतिमधुरीभूतशरीररसो येन निर्मलशरीरोऽपि मक्षिकाभिः काम्यत इति। स्नातानु-लिप्तमित्येतदरिष्टं वर्षावधि। आतुरगतग्राह्यगन्धविरुद्धप्रतिपत्तिं दर्शयन्नाह—सुगन्धिर्वेति। सुगन्धिर्वाऽकस्मात्सुगन्धिप्रयोगं विना भवतीति शेषः। इदमपि वार्षिकमरिष्टम्। आतुरगतग्राह्यविरुद्ध-शब्दप्रतिपत्तिरातुरगतग्राह्यविरुद्धरूपप्रतिपत्तिश्च सुश्रुताज्ज्ञेया—

“शृणोति विविधाञ्शब्दान्यो दिव्यानामभावतः।
समुद्रपुरमेघानामसंपत्तौ च निःस्वनान्।
तान्स्वनान्नावगृह्णाति मन्यते चान्यशब्दवत्।
ग्राम्यारण्यस्वनांश्चापि विपरीताञ्शृणोति च॥
द्विषच्छन्देषु रमते सुहृच्छब्देषु कुप्यति।
न शृणोति च योऽकस्मात्तं ब्रुवन्ति गतायुषम्॥
पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते।
वर्णान्यता वा राज्यो वा यस्य मात्रे भवन्ति च”इति॥२८॥२९॥

रूपग्रहणस्य विप्रतिपत्तिं दर्शयन्नाह—

नेक्षते मुनिपार्श्वस्थां यश्च देवीमरुन्धतीम्॥
ध्रुवमाकाशगङ्गां वा तं ब्रुवन्ति गतायुषम्॥३०॥

अरुन्धतींवसिष्ठभार्याम्।ध्रुवं तारकविशेषम्। आकाशगङ्गाशब्देन श्लक्ष्णघनतारक-संततिर्नद्याकारोच्यते। एतदरिष्टफलं सुश्रुतादाह—आतुरस्य भवेन्मृत्युः स्वस्थो व्याधिमवाप्नुयादिति॥३०॥

ह्रीप्रभृतीनां विप्रतिपत्तिमाह—

हीश्रियौनश्यतोयस्य तेजओजःस्मृतिप्रभाः॥
यं वा त्यजन्ति पुरुषं स परासुरसंशयम्॥३१॥

ह्रीर्लज्जा।श्रीर्धनम्।तेज उत्साहः। ओजो बलम्।तेजोऽत्र चेष्टालक्षणं बलमभिधीयते। ओजस्तु शुक्लं हृदयस्थं[स्थो] धातुमि[रि] ति डल्लणः। स्मृतिः पूर्वानुभूतस्मरणम्। प्रभा दीप्तिः। प्रभाविकृतिं विहायापराः शीलविकृतयो ज्ञेयाः। केचित्पठन्ति—ह्रीरपक्रामते यस्य प्रभास्मृतिधृतिश्रियः।शेषं समम्।धृतिर्नियमात्मिका तुष्टिः संतोष इत्यर्थः। श्रीः कमनीयता। शोभाधनतेजसां वैपरीत्यं वार्षिकमरिष्टम्। स्मृतिबलादिविपर्ययः पा(प)ण्मासिकमरिष्टम्॥३१॥

ओष्ठादीनामवयवानां विकृतिं दर्शयन्नाह—

यस्याधरौष्ठः पतितः क्षिप्तश्चोर्ध्वं तथोत्तरः॥
उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम्॥३२॥

अधर ओष्ठोऽधस्थित ओष्ठः पतितो लम्बायमानः।उत्तर उपरितन ओष्ठ ऊर्ध्वं व(घ)टित इत्यर्थः। जाम्बवाभासौ जम्बूफलसदृशौ। ओष्ठारिष्टेन सांनिपातिककालप्रमाणेन म्रियते॥३२॥

नाऽऽहरत्यन्नमास्यस्थं न धारयति यः शिरः॥
न स्वाङ्गुलित्रयं याति दन्ताः शुष्यन्ति यस्य वा॥३३॥
बलवान्दुर्बलो वाऽपि संमोहं योऽधिगच्छति॥
उत्थाप्यमानो बहुशस्तं गतायुषमादिशेत्॥३४॥

नाऽऽहरति न गिलति।आस्यस्थं मुखस्थम्। **न स्वाङ्गुलित्रयं यातीति।**अत्राऽऽस्य इति शेषः। ऊर्ध्वीकृतविततसंलग्नं स्वाङ्गुलित्रयं न मुखे संभाति। सद्योरिष्टमिदम्। संमोहं मूर्छाम्।बहुशो वारंवारम्। एतदरिष्टं सप्तरात्रं जीवितावाधे॥३३॥३४॥

निवर्तते महाव्याधिः सहसा यस्य देहिनः॥
न चाऽऽहारफलं यस्य दृश्यते स विनश्यति॥३५॥

** महाव्याधिरिति।** वातव्याधिप्रमेहादिरष्टविधः। अथवा शोपादिः कायचिकित्सापठितः। सहसा वेगेनेत्यर्थः। आहारफलं बलम्॥३५॥

नासा भङ्गं गता यस्य सप्तरात्रं स जीवति॥३६॥

सुगमम्॥३६॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामशीतितमोऽ-
रिष्टाधिकारः समाप्तः॥८०॥
————————

अथैकाशीतितमः स्वस्थाधिकारः।

पूर्वनिर्दिष्टचिकित्साकलागे(पे)न रिष्टं प्रकृत्य प्रयुक्तेन यल्लब्धं स्वास्थ्यं तस्यानुपालनार्थमथ स्वस्थरक्षाविधिः। स्वास्थ्यरक्षणस्योपादेयतामाह—

धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम्॥
रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च॥१॥

आरोग्यं धातुसाम्यम्। मूलमुत्तममिति। प्रधानं कारणम्। आरोग्ये सति धर्माद्यनुष्ठानसाधर्म्यात्। तस्येति। आरोग्यस्य।आरोग्यापहारश्च रोगाणामुत्पाद एव। उत्पन्ना रोगा अपगता आरोग्यम्। श्रेयसो जीवितस्य चेति। श्रेयो यज्जीवितं सुखहेतुतया हितत्वेन तस्य जीवितस्यापहर्तारः। अश्रेयो यज्जीवितं पुनर्दुःखहेतुतयाऽहितत्वेन चानुपादेयमतस्तदपहारो नोक्तः। किंवा श्रेयसोऽभ्युदयस्य जीवितस्य वाऽपहन्तार इति व्याख्येयम्॥१॥

तस्मादात्मवता नित्यमाहाराचारभेषजम्॥
धीमता तदनुष्ठेयं स्वास्थ्यं येनानुवर्तते॥२॥

सुगमम्॥२॥

स्वस्थ एव कथं ज्ञेय इत्याह—

समदोषः समाग्निश्च समधातुमलक्रियः॥
प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते॥३॥

समा अक्षीणवृद्धा दोषा यस्य स समदोषः। समदोषत्वं यद्यपि तत्त्वहोरात्राहारावस्थाकृतं तद्दोषवैषम्यस्य नित्यानुगतत्वान्न संभवति तथाऽप्यल्पत्वेनाव्यपदेशादिह व्यपदेश्यदोषवैषम्यविरहेण समदोषत्वं ग्राह्यम्। अत एव स्वस्थ इत्यभिधीयत इत्युक्तम्। इत्थंभूतो व्यपदेशश्च दोषवैषम्यवान्स्वस्थो गृह्यत इत्यर्थः।किंवा, ऋत्वादिजं दोषवैषम्यमनागताबाधप्रतिषेधः। स्वस्थवृत्तं च यथा वा प्रयुञ्जानस्य न भवत्येव। अन्यथा तस्य वैयर्थ्यं स्यात्। स्व आत्मनि प्रकृतौ स्वभावे च तिष्ठतीति स्वस्थः। समदोषत्वमेव कुतो ज्ञायत इत्याह—समाग्निश्र समधातुमलक्रिय इति। धातुशब्देन चेहोपधातूनामपि ग्रहणम्।क्रियाग्रहणमिह समक्रिययैव धातुमलानां परोक्षाणां प्रायः साम्यं गम्यत इति सूचनार्थम्। अग्न्यादिसमतयैव दोषाः समा लक्ष्यन्ते। समाग्नित्वाद्यप्यन्तर्हितार्थत्वेन दुर्विज्ञानं कथं ज्ञेयमित्याह—प्रसन्नात्मेन्द्रियमना इति। अत्राऽऽत्मा संसारी ग्राह्य इति परमात्मनो निर्विकारत्वात्समुदायोऽन्य-पदार्थः। आत्मादि-प्रसन्नता च दुःखरूपाग्न्यादिवैषम्यविरहे सति भवति। आत्मादिप्रसन्नता स्वात्मनिव्यक्तैव परात्मनि पश्चादवगन्तव्या।आत्मादित्रितयाभिधानं च त्रिभिरेव मिलितैर्नदुःखताज्ञानरूपं प्रसादयते। यदुक्तम्—आत्मज्ञः करणैर्योगी ज्ञानं तस्य प्रवर्तत इति। अत्र करणैरिति ज्ञातृमनःसहितैरिन्द्रियार्थैः। अनेन च व्याख्याक्रमेण यदुच्यते समदोषत्वेनैव लब्धमग्न्यादिसाम्यं तत्किं पुनरुच्यत इति वाक्यं तन्नावतरति। एतेन प्रसन्नात्मेन्द्रियमनस्त्वमेव स्वस्थलक्षणं समदोषत्वादि वैद्यकसिद्धान्ते यदुक्तत्वेन तत्परिकरतयाऽभिहितमिति प्रयुज्यते। अन्ये त्वाहुः—समदोषत्वमेव स्वस्थलक्षणं समदोषत्वेनैव समाग्नित्वादिविशेषणानां लब्धानां यत्पुनरभिधानं तदग्निधातुमलात्ममन-इन्द्रियाणां प्रतिपत्त्यपेक्षाचकित्साविशेषसूचनार्थम्। तेनाग्न्यपेक्षया मात्रावल्लघ्वन्नोपयोगो गुर्वतिमात्र-परित्यागश्च सूचितः। तथा रसादिदुष्ट्यपेक्षया द्रव्यप्रभावनियतरसादिबुद्धिविधिरात्महितपुष्पाभिधानं मनस्करक्षीरघृतादिप्रयोगस्तथेन्द्रियहितचक्षुष्यादिविधिश्च सूचितो भवतीति। एतत्तु नातिमनोहरं लक्षणावसरानुपयुक्तत्वात्। शास्त्रे च बहुधा प्रतिपादितत्वादिति। अथ सोमटिप्पणव्याख्या—दोषादिसाम्यकार्यभूतं स्वास्थ्यमाह—समदोष इत्यादि। ननु द्विविधेऽपि काले नित्यदोषचयाद्यनु-बन्धात्कथं समदोषत्वंनित्यमेवाऽऽह्निके प्रातः कफ प्रकुप्यति मध्याह्ने पित्तमित्यादि। आर्तवेऽपि हेमन्ते कफश्चीयते वसन्ते च कुप्यतीत्यादि। आवस्थिके च काले बाल्ये विवर्धते श्लेष्मेत्याद्युक्तत्वात्। सत्यम्। दोषचयादेरल्पत्वादतद्व्यपदेश एकतण्डुलाभ्यवहारेऽनशनव्यपदेशवत्। दोषसाम्यैनैवाग्न्यादिसाम्यं लब्धं तत्किं पृथगभिधानेनेति चेत्। अत्रोच्यते। न दोषैरेव समाग्न्यादयो भवन्ति पृथक्चिकित्सितत्वात्। तथा हि सर्पिरजापयश्च पित्तहरमप्यग्निं वर्धयते। श्रीमान्माधवः प्राह—

“लब्धाश्वे901 समदोषत्वे समाग्नित्वादयस्तदा॥
पृथगुक्ताः किमर्थं ते तत्किमेतन्निरर्थकम्”॥

समाधत्ते च—

“दोषेभ्यस्ते यतो भिन्नाः पृथगुक्ता अतस्तु ते”॥

अनेन प्रत्यक्षेण लिङ्गेन दोषादिसाम्यमनुमीयते। समधातुमलक्रिय इति। समा धातूनां मलानां क्रिया च यस्य।क्रिया वायोः प्रस्पन्दनादिकर्म।पित्तस्य पक्त्यादि। कफस्य संश्लेषणादि। रसादीनां प्रीणनादि। पुरीषादीनामुपस्तम्भादि। यावदोजसः स्थिरोपचयादि। अथवा समा धातवः समा मलाः समाः क्रियाश्च। तत्र क्रिया कायवाङ्मानसी चेष्टा। प्रसन्नान्यात्मेन्द्रियमनांसि यस्य स तथा। आत्मशब्देन देहोऽभिप्रेतः केवलस्याऽऽत्मनो निर्विकारत्वात्। कर्मेन्द्रियाणां बुद्धीन्द्रियाणां च संप्रति स्वविषय-ग्रहणम्। मनस्त्विन्द्रियानुग्राहकम्।ननु समदोषवचनेनैव समाग्नित्वं लभ्यते दोषदुष्टिनान्तरीयकत्वात्। अग्निदुष्टेन समधातुमलक्रियावचनमप्यर्थम्। धातूनां दोषा एव दुष्टा दूषयितारः। मलानामपि सङ्गोत्सर्गौ यथाकालं दोषसाम्यवचनेनैव। एवमात्मादिप्रसन्नवचनेनाप्यलम्।आत्माऽत्रापि मते देहः। अन्ये कर्मात्मा बद्धः पुरुष इत्याहुः।तस्य निर्विकारस्यापि शरीरगुणदोषाभ्यां पटुत्वापटुत्वमाचार्यैर्बहुधोक्तम्। स च दोषधातुमलसंघातः। न च तद्व्यतिरेकेणान्यानीन्द्रियाणि। अथ व्यतिरिक्तानि। तथाऽप्याश्रयदुष्टिनान्तरीयकत्वात्तद्विकारस्य कुड्यविकारे तदाश्रितचित्रविकारवत्। मनोग्रहणमपि न कर्तव्यं तस्यापीन्द्रियत्वात्। अथवा मनःप्रसत्त्यैवेन्द्रियप्रसादो विपर्यये तत्प्रसादाभावात्। तस्मादसांप्रतमेव तल्लक्षणं समदोषवचनमेवास्तु। अथवा तदपि न वक्तव्यं वैषम्यहेतुसंतानस्याऽऽहोरात्रिकस्याऽऽर्तवस्य च नित्यानुषक्तत्वात्। अत्र समाधीयते। यथा हि वैषम्यहेतुसंतानस्य सदाऽनुषक्तिस्तथा साम्यहेतुं यत्तू(तुविध्यु)पन्यासोऽपि। आहोरात्रिकस्याऽऽर्तवस्य चानागताबाधप्रतिषेधनीय ऋतुचर्याध्याये च साम्यहेतुविधेरुक्तत्वात्। य(त)च्चोक्तं समदोषवचनेनैव समाग्नित्वं लभ्यते तन्न पित्तस्य व्यतिरिक्त एवाग्निः, तीक्ष्णः पित्तेनेति वचनात्। एतच्च व्रणप्रश्ने व्याख्यास्यामः।लब्धेऽपि हि दोषसाम्यवचनेन समाग्नित्वेपुनर्वचनमुभयोरग्निदोषयोरन्योन्यानुविधान-ख्यात्यर्थम्। तथाच—शमप्रकोपौ दोषाणां सर्वेषामग्निसंश्रितौ। अपि च।विषमो वातेन तीक्ष्णः पित्तेन मन्दः श्लेष्मणा॥

“विषमो वातजान्रोगांस्तीक्ष्णः पित्तसमुद्भवान्ष
मन्दस्तु कुरुते वह्निर्विकारान्कफसंभवान्”॥

एवमग्निदोषयोरन्योन्यानुविधायित्वम्। न चात्रेतरेतराश्रयो दोषः, तयोर्हि परस्परोपकारकोप-कार्यत्वात्। यच्चोक्तं समधातुमलक्रियावचनमप्यनर्थकं तदप्यसमीक्ष्योक्तम्। यतोऽत्रापि पूर्व एव परीहारः। यथा दोषाग्न्योः परस्परानुविधायित्वं तथा दोषाणां धातुमलानां च परस्परानुविधायित्वमेव।अपि च। न केवलं दोषदुष्ट्यैव धातुमलानांक्षयवृद्धी, अपि तु क्रियातो द्रव्यतोऽपि भवत इति हेत्वन्तरमाहारविहारौ। यदप्युक्तमात्मादिप्रसादवचनेनाप्यलम्।मैवं वादीः। आत्मेन्द्रिय-मनसामप्रसत्तिर्वातादिवैकृतमन्तरेणापि भवति। करणानामप्रसत्तिनिमित्तं हि शारीरा मानसाश्च दोषाः। तथा स्वविषयाणां शब्दादीनामयोगातियोगमिथ्यायोगाश्च।

तदुक्तम्—“कालबुद्धीन्द्रियार्थानां योगो मिथ्या न वाऽति च।
द्वयाश्रयाणां व्याधीनां त्रिविधो हेतुसंग्रहः”॥

अपि च—“कालार्थकर्मणां योगा हीनमिथ्यातिमात्रकाः।
सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणम्”॥

तथा मनसोऽपीन्द्रियाणां च पृथग्युगपच्च विकाराश्रयत्वम्।

 तदुक्तम्—“धीधैर्यात्मादिविज्ञानं मनोदोषौषधं परम्”।

चरकेऽपि च—देहेन्द्रियमनस्तापीति। एतदुक्तं भवति दोषवैषम्यमप्यग्न्यादीनां वैषम्यहेतुरात्मेन्द्रिय-मनसां वाऽप्रसत्तिहेतुः। तथा परेभ्योऽपि कारणेभ्यो भवति। यथा हि कुड्यविकारेऽपि चित्रविकारः। तथा कुड्यविकाराभावेऽपि वृष्टितुषारधूमादिकारणेभ्योऽपि तद्विकारोत्पत्तिरिति सर्वं सूक्तं समदोष इत्यादिकम्। अथवा क्रमप्रतिपादकमिदं वाक्यम्। तत्रायमर्थः। नामी दोषादयो युगपत्साम्येऽव-स्थापयितुमुल्लङ्घ्य क्रमं शक्यन्ते। तत्रायं क्रमः।प्राग्दोषाः शमनेन शोधनेन वा समाः कार्याः। समैश्च तैरग्निरपि समः शक्यो विधातुम्।समेऽग्नौ च रसादीनां मलानां क्रियाणां च समत्वं सुखसाध्यमेवेति साम्ये सर्वेषां दोषादीनामापादिते प्रसन्नात्मेन्द्रियमनस्त्वं फलं स्वास्थ्यं च संपद्यत इति॥३॥

आरोग्यव्याधी कावुच्येते इत्याह—

दोषाणां साम्यमारोग्यं वैषम्यं व्याधिरुच्यते॥

दोषाणां वातादीनां साम्यं स्वरूपादप्रच्युतिः समभाव आरोग्यं स्वास्थ्यमिति यावत्। दोषाणां स्वप्रमाणादेकस्य द्वयोस्त्रयाणां वा वृद्धिः क्षयो वा व्याधिरुच्यते। वैषम्यं विषमता।वैषम्यं व्याधिरिति। दोषाणां वैषम्येण हेतुना जातत्वाद्वैषम्यं व्याधिरुच्यते। वैषम्यमेव वा व्याधिः। अजनितव्याधेरपि वैषम्यस्य बाधितत्वात्। वैषम्यजातेष्वपि रसादिषु वैषम्यरूपताऽस्त्येव। तथा स्वमानक्षीणश्च दोषो न विकारं जनयति। क्षीणलक्षणं तु वैषम्यमेव जनयतीति॥

कैश्चिद्वृद्धिः समानैरित्यादिशमनं च यथाक्रममित्यन्तो ग्रन्थः कैश्चिद्ग्रन्थमध्ये पठ्यते तस्मान्मयाऽपि व्याख्यायते—

वृद्धिःसमानैः सर्वेषां प्रशमस्तु विपर्ययैः॥४॥

सर्वेषां दोषधातुमलानां समानैस्तुल्यसद्भावैर्वृद्धिः स्वप्रमाणाधिक्यं विपर्ययैः प्रशमः।

तथा चाऽऽहुः—“सर्वेषां सर्वदा वृद्धिस्तुल्यद्रव्यगुणक्रियैः।
भावैर्भवति भावानां विपरीतैर्विपर्ययः”॥

द्रव्यतो यथोक्तम्।रक्तमाप्याय्यते रक्तेन मांसं मांसेन मेदो मेदसा, अस्थि, अस्थ्नामज्जा मज्ज्ञा शुक्रं शुक्रेण तथा गर्भ आमगर्भेण। तत्र रक्तेन रक्तमित्युभयमप्यौदकमांसं मांसेनेति पार्थिवम्। तथा सलिलात्मकं पयस्तदात्मकमेव श्लेष्माणमभिवर्धयति तद्वत्क्षीराज्जातं घृतं शुक्रम्।तथा जीवन्तिका-कोल्यादयः सोमात्मानो द्रव्यविशेषाः सौम्यधात्वेककारणानि स्रेहबलपुंस्त्वौजांसिमरिचकोल-भल्लातकादयो बुद्धिमेधाग्न्यादीन्संवर्धयन्ति। गुणतश्चोचमोचखर्जूराणि पार्थिवानि द्रव्यतो निर्दिष्टान्यपि श्लेष्माणमुद्रकात्मकमभिवर्धयन्ति स्निग्धगुरुशीतादिगुणसामान्यात्। कर्मापि त्रिविधं कायवाङ्मनो-व्यापारात्मकम्। तत्र कायिकं धावनलङ्घनप्लवनादीनि चलत्वसामान्याद्वायोर्वृद्धये।वाचिकानि भाष्याध्ययनगेयादि। मानसं मनोव्यापारश्चिन्ताकामशोकमयानि। तान्यपि मनसः क्षोभणहेतुत्वाद्वायोर्वृद्धिकराणि। तथा संतापकत्वसामान्यात्क्रोधेर्ष्यादि पित्तस्य। स्वप्नालस्यशय्या-सुखादीनि स्थैर्यसामान्यात्कफस्येति। विशेषस्तु क्षयाय।**यथाऽऽह–**द्रव्यतो गवेधपकाः कर्शनीयानाम्। तत्र वाय्वात्मिकया गवेधुकया पार्थिवानां मांसादीनां क्रशिमा क्रियते। तथा तैजसेन क्षारेण श्लेष्मणः। गुणतो यथा।आरनालमौदकं श्लेष्माणं तद्विपरीतैर्लघुरूक्षोष्णतीक्ष्णविशदगुणैः पयति। कर्मतो निद्रालस्यसौमनस्यानि सपरिस्पन्दं वातमपरिस्पन्दस्वभावतयाऽपचिन्वन्ति। तथा परिस्पन्दरूपाश्चिन्ता-व्यवायव्यायामा मन्दपरिस्पन्देवैपरीत्यात्कफमिति ॥४॥

संप्रति साममललिङ्गमाह—

स्रोतोरोधबलभ्रंशगौरवानिलमूढताः॥
आलस्यापक्तिनिष्ठेवमलसङ्गारुचिक्लमाः॥
लिङ्गं मलानां सामानां निरामाणां विपर्ययः॥५॥

स्रोतसो रोधः। बलस्य भ्रंशो हानिर्बलभ्रंशः।गौरवं गुरुत्वम्। वायोर्मूढता सम्यगसंचारः। आलस्यं तन्द्रा। अपक्तिराहारस्यापाकः। निष्ठेवो मुखस्रावः। मलस्य पुरीषादेः सङ्गः।अरुचिरन्नानभिलाषः। क्लमो ग्लानिः। इत्येतत्सामानां मलानां लिङ्गं लक्षणम्। निरामाणां विपर्ययोऽस्माद्वैपरीत्यं स्त्रोतः-शुद्ध्यादिरूपम्॥५॥

आमलक्षणमाह—

ऊष्मणोऽल्पबलत्वेन धातुमान्द्यमपाचितम्॥
दुष्टमामाशयगतं रसमामं प्रचक्षते॥६॥

उष्मणो रसाग्नेः। अल्पबलत्वेन दौर्बल्येन।धातुं न दोषं मलं वा। आद्यं न रक्तादिकम्।रसं न रसत्वात्प्रच्युतं रक्तत्वमप्राप्तमपाचितमामं प्रचक्षते वदन्त्याचार्याः। किंभूतं रसम्, आमाशयगतं तथा दुष्टं वाताद्यनुदूषितम्॥६॥

सामत्वं व्याचष्टे—

आमेन तेन संपृक्ता दोषा दूष्याश्च दूषिताः॥
सामा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः॥७॥

तेन पूर्वोत्तलक्षणेनाऽऽमेन संपृक्ताःसंयुक्ता दोषा दूष्याश्च रसादयः। कीदृशा दूषितास्तैर्वातादिभिः।सह, आमेन सामा इत्युपदिश्यन्ते तत्र तत्र प्रदेशे भण्यन्ते। ये च रोगा ज्वरादयः सामैर्दोषैर्धातुभिश्च मलैश्च जनिताःसामा उच्यन्ते। यथा सामे तीव्ररुजि ज्वरे, इत्यादि॥७॥

वायुःसामो विबन्धाग्निसादस्तम्भान्त्रकूजनैः॥
वेदनाशोथनिस्तोदैः902क्रमशोऽङ्गानि पीडयन्॥८॥

विचरेद्युगपच्चापि गृह्णाति कुपितो भृशम्॥
स्नेहाद्यैर्वृद्धिमायाति सूर्यमेघोदये निशि॥९॥

सुगमम्॥८॥९॥

निरामो विशदो रूक्षो निर्विबन्धोऽल्पवेदनः॥
विपरीतगुणैःशान्ति स्निग्धैर्याति विशेषतः॥१०॥

सुगमम्॥१०॥

दुर्गन्धि हरितं श्यावं पित्तमम्लं स्थिरं गुरु॥
अम्लिकाकण्ठहृद्दाहकरं सामं विनिर्दिशेत्॥११॥
आताम्रपीतमत्युष्णं रसे कटुकमस्थिरम्॥
पक्वंविगन्धि विज्ञेयं रुचिपक्तिबलप्रदम्॥१२॥
आविलस्तन्तुलः स्त्यानः कण्ठदेशेऽवतिष्ठते॥
सामो वलासो दुर्गन्धः क्षुदुद्गारविघातकृत्॥१३॥
फेनवान्पिण्डितः पाण्डुर्निःसारोऽगन्ध एव च॥
पक्वःस एव विज्ञेयश्छेदवान्वक्त्रशुद्धिकृत्॥१४॥
पटुतिक्तककट्वम्लस्वादुतिक्तकमृष्टकाः॥
कषायश्च कषायश्च क्रमात्तेषां त्रयस्त्रयः॥१५॥
आमेषु पच्यमानेषु पक्केष्वप्यनिलादिषु॥
पाचनं पाकसमकृच्छमनं च यथाक्रमम्॥१६॥

सुगमम् ॥११॥१२॥१३॥१४॥१५॥१६॥

वातादीनां साम्यमारोग्यं वैषम्यं च रोगं प्रतिपाद्य तेषां लक्षणं च संक्षेपादाह—

रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः॥
विपरीतगुणैर्द्रव्यैर्मारुतः संप्रशाम्यति॥१७॥

वायोरग्रेऽभिधानं प्राधान्यात्। प्राधान्यं चाऽऽशु भूरिदारुणविकारकारित्वात्। ननु पित्तं प्रधानं देहमूल-भूताग्निहेतुत्वात्। वैशेषिकेऽनुष्णाशीतो903 वायुरक्तः।वैद्यकेशीतेन वृद्धेरुष्णेन प्रशमाच्च शीतोऽङ्गीकृतः।सूक्ष्मः सूक्ष्ममार्गानुसारी। विशदोऽछलः। विपरीतगुणैरिति। गुणशब्दोऽत्र धर्मवाची तेन रसवीर्य-विपाकप्रभावा विपरीता गृह्यन्ते। एवं पित्ते श्लेष्मणि च व्याख्येयम्। संप्रशाम्यति सम्यघ्रंशाम्यति। अथेशानदेवव्याख्या—इदानीं वातादीनां पृथक्त्वज्ञापकं लक्षणमु—रूक्षः शीतो लघुरित्यादि। रूक्षादीनामुसमासकरणादनुक्ता अपि वातदारुणादयो लभ्यन्ते। दारुणादीनां च साक्षादपाठाद्रूक्षादीनां प्राधान्यं दर्शयति।स एवंगुणो वायुः प्रकुपितो विपरीतगुणैर्द्रव्यैः प्रशाम्यति। विपरीता गुणा येषां तानि विपरीतगुणानि स्निग्धोष्णगुरुस्थूलस्थिरपिच्छिलमृदूनि तैर्विपरीतगुणैः। कैर्द्रव्यैः सम्यक्शीघ्रं च शाम्यति संप्रशाम्यति। अनेन च संप्रशब्दप्रयोगेण विपरीतगुणभूयिष्ठैरपि द्रव्यैः शाम्यति न तु तथेति ज्ञापयति। अत्र चोदयन्ति। वायोः शीतो गुणो नोप-पद्यते योगवाहित्वात्।

वक्ष्यति—“योगवाहः परं वायुः संयोगादुभयार्थकृत्॥
दाहकृत्तेजसा युक्तः शीतकृत्सोमसंश्रयात्”॥

यस्य च कफसंयोगाच्छैत्यं पित्तसंयोगाच्चौष्ण्यं जायते स त्वयमनुष्णाशीत उक्तो भवति। यो हि शीतः स स्वत एवं शीतं करोति न संयोगमपेक्षते कफवत्। पित्तसंयोगाच्च न दाहं करोति कफवदेव। उत मन्यसे स्वभावेन शीतो वायुः। तस्य कफसंस्पर्शादधिकं शैत्यमुदकस्येव हिमसंपर्कात्। ततश्चाधिकशीतं करोतीत्यर्थप्रदर्शनार्थं शीतकृ-त्सोमसंश्रयादित्युक्तम्। एवं सति कफस्यापि योगवाहत्वं प्राप्नोति तस्मात्तस्यापि वायुसंसर्गादधिकं शैत्यं भवति शैत्याद्याधिकं(?) शीतं करोति। अथैवं मन्यते यः स्वं स्वभावं त्यक्त्वा येन युज्यते तत्स्वभावं भजते स योगवाह उच्यते यथा पिप्पलीमध्वादि। एवं सति यत्र पिप्पल्यादीनां प्रयोग उक्तः स निष्प्रयोजनः। यस्मात्पिप्पल्याद्यन्तरेणैव तदौषधं द्व्यकार्यकरणे904 शक्तं पिप्पल्यादीनि तत्र किमधिकं करिष्यन्ति। अत्रोच्यते। स्वभावेनैव शीतो वायुः केवलस्यापि कुपितस्य शीतकरणाच्छ्लेष्मवत् । यत्पुनः शीतकृत्सोमसंश्रयादित्यत्र शीतत्वं वायावाम्नातं तदेवमर्थं वातश्लेष्मभ्यां शीते शीतवेपथुव्याधौ कथं नाम श्लेष्मण एव चिकित्सितं स्यान्न वायोरिति। अथवा श्लेष्मसंयोगाद्वायुः स्वकं शैत्यं मुक्त्वा श्लेष्मणो यच्छेत्यं तद्भजते योगवाहित्वात्पित्तसंयोगात्स्वशीतत्यागाद्दाहकरणवत्। तस्माच्च श्लैष्मिकमेव चिकित्सितमुत वाऽनुष्णाशीत एव वायुः।तस्य तु शीतो गुणः कार्यार्थमुक्तः। कथं नामोष्णेनास्योपशमःस्यात्। यद्येवं तत्केवलो वायुः कुपितः कथं शीतं जनयति। ब्रूमः, प्रभावात्सलिलवदिति॥१७॥

पित्तलक्षणमाह—

सस्नेहमुष्णं तीक्ष्णं च द्रवमम्लं सरं कटु॥
विपरीतगुणैःपित्तं द्रव्यैराशु प्रशाम्यति॥१८॥

सस्नेहमितीषत्स्नेहम्। सस्नेहमम्लरसत्वं च पित्तस्य तेजोम्बुबाहुल्यादुचितमेव। सुश्रुतस्तु अविदग्धस्य कटुरसत्वमेव सामतया विदग्धस्य त्वम्लत्वमेवेच्छति। सस्नेहत्वं द्रवत्वेन सुश्रुतेऽपि लभ्यते। तथा च सुश्रुतः—

“पित्तं तीक्ष्णं द्रवं पूति नीलं पीतं तथैव च॥
उष्णं कटु सरं चैव विदग्धं चाम्लमेव च” इति॥

अस्यार्थः। तीक्ष्णं राजिकामरिचादिवत्। पूति विस्रगन्धि।नीलं सामावस्थायां पीतं निरामावस्थायाम्।कटुरसं प्रकृतिस्थम्। विदग्धं चाम्लविरुद्धपाकोपपन्नं पुनरम्लरसं स्यात्। विदग्धाजीर्णसंसृष्टमम्लरसं भवतीत्यन्ये। विदग्धं पित्तमम्लपित्तं रोगविशेष इति केचित्। द्रवस्थाने सरमिति पाठान्तरम्।नन्वाग्नेयत्वात्पित्तस्यामूर्तत्वाच्च वायोः पाकजननत्वाभावात्का विदह्यमानता।सत्यम्, परमार्थतो न वातादीनां पाकःपाकव्यपदेश- श्चैषामामापगमात्तदन्वितत्वादामा इति तदपगमात्पक्का इत्युच्यन्ते। यद्वा विदग्धाजीर्णसंश्लेषात्पित्तमिदमम्लं संपद्यते। इति सोमटिप्पणात्। अथेशानदेवव्याख्या—सस्नेहमुष्णमित्यादि। तत्र सस्नेहमीषत्स्नेहमित्यर्थः। यथा—सतिक्ता यासशर्करेति। सरमित्यधः प्रवर्तते न स्थिरमास्ते। यद्येवं तत्कथं सरणेन पित्तस्योपशमो भवति। सरविपरीतेन स्थिरेण तु पित्तोपशमो युक्तः। विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यतीति वचनात्। ब्रूमः।न विरेचनं पित्तमभ्यन्तर एव पाचनवत्क्षपयित्वा जयति किंतु बहिरेव निष्कासयत्येवमर्थय(इ)ति। अथवा सरेण विरेचनेन सामान्यात्पित्तमतिसरः (रं) क्रियते ततः प्रबले सरत्वे स्वयं देहान्निर्गच्छति। यदा पुनरतीसारादिष्वति-सरत्वं पित्तस्य जायते यदा वा स्वस्थानमस्थितं शमनीयावस्थि(?) पित्तं भवति तदाऽस्य सरविपरीतेन स्थिरेणैवोपशमो भवतीत्याह। यथा कट्वम्लं पित्तं विपरीतगुणत्वान्मधुरतिक्तकषायैः शाम्यति, एवं लवणेनापि कस्मान्न शाम्यति। तदप्यस्य विपरीतं पित्तलवणस्याभावात्।ब्रूमः।न, औष्ण्यात्तत्तुल्यत्वात्। पित्तमुष्णं लवणमप्युष्णम्। अतः सत्यपि रसविपरीतत्वे तुल्येनोष्णगुणेन लवणं पित्तमभिवर्धयति। तद्यथा। प्रसहादयः सत्यपि माधुर्ये पित्तं वर्धयन्त्युप्णवीर्यत्वात्। यत्तु लवणत्वेऽपि नोष्णं भवति तच्छमयति। यथा सैन्धवम्। तद्धि त्रिदोषघ्नं पठ्यत इति। एवं श्लेष्माऽप्यम्ललवणाभ्यां कटुतिक्त-कषायवद्विपरीताभ्यां स्निग्धतुल्यत्वान्न शाम्यति। यत्त्वम्लत्वेऽपि न स्निग्धं तच्छमयत्येव श्लेप्माणं यथाऽऽमलकमिति॥१८॥

गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः॥
श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः॥१९॥

विपरीतगुणैः श्रेष्मा प्रशाम्यतीति वक्तव्ये यतः श्लेष्मणो गुणानां¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨प्रतिपादनार्थम्। अथेशानव्याख्या—गुरुशीतेत्यादि। आह श्लेष्मणो गुणा विपरीतगुणैः प्रशमं यान्तीति कस्मादधीतं न तु पूर्ववद्विपरीतगुणैर्दव्यैः श्लेष्मा शाम्यतीति। उच्यते। विशेषोपलव्ध्यर्थं गुणवृद्ध्या गुणिनो वृद्धिर्गुणोपशमाच्च शम इति॥१९॥

क्षुत्संभवति जीर्णेषु रसदोषमलेषु च905
उचितोऽनुचितो वाऽपि906 सोऽन्नकालः प्रशस्यते॥२०॥

** उचितोऽनुचितो वेति।** यावति काले प्रत्यहं मुझे स उचितः॥२०॥

अर्धरात्रेऽपि भुञ्जानः परमार्थ बुभुक्षितः॥
क्षुधी वैद्यपरित्यागी व्याधिभिर्नाभिभूयते॥२१॥

सुगमम्॥२१॥

अहिताशनसंपर्कात्सर्वरोगोद्भवो यतः॥
अतस्तदहितं त्याज्यं न्याय्यं पथ्यनिषेवणम्॥२२॥

सुगमम्॥२२॥

कलमाः शालयो रक्ता नीवारः षष्टिकाङ्गुकाः॥२३॥
श्यामाककोद्रवोद्दालसतीनयवमुद्गकाः॥
मसूराढकिगोधूमा हरिणकुरङ्गकाः॥२४॥
तित्तिरिःक्रकरा लावाः श्रेष्ठा वर्तीरवर्तिकाः॥
सुनिषण्णकवास्तूकचिल्लीमण्डूकपर्णिकाः॥२५॥
तण्डुलीयकजीवन्त्यो दाडिमामलकं मधु॥
सैन्धवं गव्यमाज्यं च पथ्यवर्गोऽयमुत्तमः॥२६॥

कलमः कलिचिरिति लोके प्रसिद्धः। रक्तः स्वनाम्ना ख्यातः।नीवारः प्रसातिका धान्यमध्ये रक्तशूको भवति तुलजीधान्यमिति लोके प्रसिद्धः। षष्टिको गौरषष्टिकः। काङ्गुको गौरकृष्णषष्टिकः।उद्दालोऽरण्यकोद्रवः।सतीनो वर्तुलकः।आढकी तुवरी। हरिणस्ताम्रो मृगः।एणः कृष्णः।कुरङ्गः कृष्णताम्रः।

तदुक्तम्—“एणः कृष्णोऽथ हरिणस्ताम्रवर्णोऽभिधीयते।
यो न कृष्णो न ताम्रः स्यात्स कुरङ्ग उदाहृतः”।

तित्तिरिः कृष्णतित्तिरिः। वर्तिरो घर्घर इति लोके। वर्तिकस्तद्भेदः। सुनिषण्णकः सिरिवालिका चतुष्पर्णीत्यपरे। चिल्ली क्षेत्रवास्तुकः।मण्डूकपर्णी ब्राह्मी। जीवन्ती दोडिका। एते कलमादयः शूकधान्येषु। श्यामाकादयः कुधान्येषु। सतीनमुद्गादयो वैदलसूपेषु।हरिणादयो जाङ्गलमृगेषु। तित्तिर्यादयो जाङ्गलाः पक्षिषु। सुनिषण्णकादीनि शाकेषु।दाडिमामलके फलेषु।सैन्धवं लवणेषु।गव्यमाज्यं वृतेषु।नीवारकोद्रवोद्दालकादीनामल्पवात- करत्वाददोषकरव्यपदेशः॥२३॥२४॥२५॥२६॥

व्यायामश्च निशास्वापो निवातोष्णजलं तथा॥
आयुष्यं भोजनं जीर्णे वेगानामविधारणम्॥
ब्रह्मचर्यमहिंसा च साहसानां च वर्जनम्॥२७॥

सुगमम्॥२७॥

अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः॥२८॥
पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम्॥
घृतादष्टगुणं तैलं मर्दने न तु भोजने॥२९॥

॥२८॥२९॥

संयोगविरुद्धानि दर्शयन्नाह—

वल्लीफलैरम्लकुलत्थशाकैर्मत्स्यैः सुरामांसतिलैः करीरैः॥
पिण्याकजम्वूलवणैश्च दध्ना व्यस्तैः समस्तैश्च पयो विरोधि॥३०॥

वल्लीफलं कूष्माण्डादिवल्लीजम्। अन्ये शिम्ब्यादिमाहुः। करीरं वंशाङ्कुरम्। अम्लमाम्रातकादि। जम्बूर्जम्बूफलम्। एतानि वल्लीफलादीनि व्यस्तसमस्तान्यपि पयसा सह नाश्नीयादिति॥३०॥

कर्मविरुद्धान्याह—

कपिञ्जलो लावकतित्तिरी तु गोधामयूरौरुबुतैलकाष्ठैः॥
सिद्धा विरुद्धाश्च तथा कपोतास्तैलेषु भृष्टा907अपि सर्षपाक्ताः॥३१॥

सुगमम्॥३१॥

उष्णेन दिव्यसलिलेन वराहगोधा-
मांसेन याति विकृतिं मधु मूलकेन॥
तक्रेण चोष्णमपि तुल्यघृतं धृतं च
कांस्ये दशाहमुषितं च तथा घृतं च॥३२॥

उष्णेन उष्णस्पर्शद्रव्येण। उष्णस्पर्शत्वं चाग्न्यादिजनिदं ज्ञेयम्। दशाहमुषितं दशनिशावासितम्908॥३२॥

घृतं धानाश्च तक्रेण दध्ना मद्यं च कुक्कुटैः॥
बलाका न हिता मद्यैः सुराकृशरपायसैः॥३३॥

कुक्कुटस्ताम्रचूडः।बलाका बकभेदः। सुरा मद्यभेदः। कृशरा तिलतण्डुलमाषैः कृता यवागूः।पायसं क्षीरसिद्धास्तण्डुलाः। एतानि द्विशस्त्रिशो वा विरुद्धानि। सुराकृश+++++-पायसान्नैकध्यमश्नीयात्, इति सुश्रुतः॥३३॥

मत्स्या उपोदको909 चैव विकारैरैक्षवैस्तथा॥
सौवीरैस्तिलशष्कुल्यः काकमाची गुडेन च॥

सौवीरं काञ्जिकविशेषः। शेषं सुगमम्॥

अतिस्निग्धातिरुक्षादीन्वर्जयेदात्मवान्नरः॥३४॥

सुगमम्॥३४॥

विरुद्धं यत्करोति तदाह—

व्याधिमिन्द्रियदौर्बल्यं मरणं चाधिगच्छति॥
विरुद्धरसवीर्याणि भुञ्जानोऽनात्मवान्नरः॥३५॥
यत्किंचिद्दोषमुत्क्लेश्य भुक्तं कायान्न निर्हरेत्॥
रसादिषु यथार्थं वा तद्विकाराय कल्पते॥३६॥

व्याधिमिति । शोफविसर्पदकोदरविस्फोटकादिकमधिगच्छति प्राप्नोति। विरुद्धरसवीर्याणि भुञ्जान इति। रसग्रहणं द्रव्यवीर्यपरिहारार्थम्। तेनोष्णस्यापि दुग्धस्य प्रयोगो भवति। क्षीरद्रव्यस्य ह्युष्णत्वं तद्गतमधुररसशैत्येन विरोधिनाऽपि न दुष्यति। एवमुष्णपानीयस्यापीति। अनात्मवानबुद्धिमान्। अन्ये रसवीर्यादीनिति पठन्ति तेषां मानपाकयोरपि गुरुलघुसंज्ञयोर्विरोधो वर्जनीय इति॥३५॥३६॥

विरुद्धाशनादुत्पन्नानां रोगाणां चिकित्सासूत्रमुद्दिशन्नाह—

विरुद्धाशनजान्रोगान्प्रतिहन्ति विरेचनम्॥
वमनं शमनं चापि पूर्वं वा हितभोजनम्॥३७॥

प्रतिहन्ति विरेचनमिति। विरुद्धाशनजव्याधिप्रत्यनीकं विरेचनं प्रतिशब्देनोच्यते। तेन कुष्ठव्याधि-प्रत्यनीकं विरेचनं विरुद्धाशनजं कुष्ठं हन्ति॥३७॥

विरुद्धाशनं कुर्वतोऽपि कस्यचिद्विरुद्धाशनजा दोषा न भवन्तीत्याह—

सात्म्यतोऽल्पतया वाऽपि दीप्ताग्नेस्तरुणस्य च॥
स्निग्धव्यायामवलिनां विरुद्धं वितथं भवेत्॥३८॥

सात्म्यादिभिर्विरुद्धं वितथं निष्फलं भवतीत्यर्थः। पिण्डः। स्निग्धव्यायामबलिनामपि (मिति) स्निग्ध-व्यायामाभ्यां बलिनामिति संबध्यते। तेनायमर्थः। स्निग्धद्रव्याभ्यवहारबलिनां बलवदग्नित्वाद्विरुद्धं निष्फलं भवति। केचिद्वलिनामिति पदं भिन्नं मन्यन्ते। तेनायमर्थः—स्निग्धानां व्यायामिनां बलिनां च विरुद्धं वितथं भवेदिति॥३८॥

शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि॥
प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट्॥३९॥

सुगमम्॥३९॥

सद्योमांसं नवं चान्नं बाला स्त्री क्षीरभोजनम्॥
घृतमुष्णोदकं चैव सद्यः प्राणकराणि षट्॥४०॥

सुगमम्॥४०॥

हेमन्तस्याग्रे तत्सात्म्यमाह—

शीते शीतानिलस्पर्शसंरुद्धो बलिनां बली॥
पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः॥४१॥

शीत इति हेमन्तविशेषणम्। शीत इत्यस्मिन्ननु¨¨¨¨¨¨¨¨¨¨¨¨¨¨तत्पुनरुच्यते। सत्येव शीतप्रकर्षे बली भवति वह्निः। आरम्भमात्रप्रतिपादनार्थम्। शीतानिलस्पर्शसंरुद्ध इति। हिमसंबन्धे¨¨¨¨¨¨¨¨¨¨¨षम्। शीतोऽनिलः शीतानिलस्तस्य स्पर्शः संबन्धस्तेन संरुद्धः प्रतीपीकृतोष्मा।बलिनामुपचयवतां प्राणिनां हेमन्तस्वभावात्। अतः प्राणिबलादप्यग्नेर्वलं भवति। मात्राद्रव्यगुरुक्षम इति। मात्रागुरु, अतिमात्रं द्रव्यस्वभावतश्च यद्गुरु नवधान्यादि तत्सेव्यम्।

अथ बाष्पचन्द्रव्याख्या—ऋतवो यथा दोषाञ्जनयन्ति तद्वशाच्च यस्मिन्नृतौ सेव्यं परिहार्यं वा तद्व्याकुर्वन्नाह—शीते शीतानिलस्पर्शेत्यादि। आह। किमर्थमपास्य प्रावृषं हेमन्तमयमग्रेऽभिधातुं प्रवृत्तः। तथा चान्यत्र वर्षादिनवोचितात्910, चयप्रकोपशमा इत्यादिना। अथवा विसर्गस्याऽऽद्विवर्षाः प्रागभिधीयतामिति। उच्यते। न। प्राणिनामग्व्यबलाधानात्त्यक्तबलसंप्रदानाच्च हेमन्तः श्रेष्ठः। तस्मात्तस्यैव प्रागभिधानम्। चयप्रकोपशमा इत्यादिनाऽत्र पित्तादिक्रमो दर्शितः। इह च श्लेष्मादिके तेनैवोत्तरत्र क्रमेण वक्ष्यति हैमन्तिकं दोषचयं वसन्त इत्यादि। ननु हेमन्तस्य शीतत्वं लोकशास्त्रयोः प्रसिद्धमेव। तत्र लोके तावद्धेमन्तः शीत इत्यविगानेन संमतः। शास्त्रेऽपि शीतोष्णवर्षलक्षणाः पुनर्हेमन्तग्रीष्मवर्षाः संवत्सरः स काल इति। अतो लोकशास्त्रप्रसिद्धत्वाच्छीत इति किमर्थं विशेषणमनुच्यमानेऽपि लप्स्यत एव शीतगुणो हेमन्त इति। ब्रूमः।सम्यग्यदनुचिह्नं भवति तदा बली पक्ता संपद्यते नान्यदेत्येतस्या- र्थस्योपलब्धौ शीतग्रहणमुपधेति कथमुपधेयमन्यथा हेमन्ते, ऋतुव्यापत्तावपि प्राप्नुयात्। ननु शीतानिलस्पर्श इत्युक्तं स्वभावशीतत्वाद्योगवाहत्वाच्च पवनस्य।यथोक्तम्—रूक्षः शीतो लघुः सूक्ष्म इति। तथा लघुरूक्षशीतदारुणखर- विशदाः षडिमे वातगुणा इति। अतः स्वभावशीतत्वाद्वायोः शीतविशेषणमनर्थकम्। शीतसंपर्कात्कोष्ठगतं प्रापयतीति चेसदसम्यक्, योगवाहित्वादस्य। तथा चोक्तम्—योगवाहः परं वायुरिति। उपलभ्यते वा द्रव्यसंनिकर्षादुष्णः।तुषारादिसंपर्काच्च शीतः। तस्माद्योगवाहवचनेन लब्धे शीतत्वे शीतनिर्देशो नातिक्षमः। उच्यते। हेमन्तविशेषणं शीतं व्यापन्निवारणार्थमिदं त्वनिलविशेषणं संपूर्णलिङ्गोपलब्ध्यर्थं सम्यग्योगयुक्तेऽपि हेमन्ते प्रवृत्तमात्रेऽल्पेन हेमन्तसंवन्धकृतेन शीतानिल-स्पर्शेन संनिरोद्धुं नैव सम्यक्शक्यत इति। निर्गच्छत्येव हि बहिः शरीरलोमकूपायनैरूष्मेत्यतो न बली पक्ता भवति। यदा तु प्रतिदिनं विवर्धमानशीतविशेषो मध्यावस्थायां संपूर्णलिङ्गो हेमन्तो भवति तदा तत्संबन्धेन शीतानिलस्पर्शेनसंनिरुद्धोऽग्निर्वली भवति। अथवा शीतशीतानिलस्पर्श इति पाठोऽयमपि पुरातन एव।आचार्यभीमदत्तेनाप्यलेखि—शीतशीतानिलस्पर्शपाठोऽन्यः सुप्तसुप्तवत्। अस्यायमर्थः। यथा स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानीति सुप्तसुप्तशब्देन भृशं सुप्तत्वं कुष्ठानामुच्यते तथेहापि शीतशीतत्वेन प्रधानार्थप्रतिपादनादत्यर्थशीतत्वमुच्यते। अस्मिंश्च पाठे कालातियोगोऽनिष्टः प्रसज्यते। स व्याधेर्हेतुत्वेन गृहीतत्वान्न गृह्यत इति चेत्।तन्निवारकाभावे तस्याप्यग्निबलहेतुत्वं प्रतीयते, अहितस्यापि कालवशेन पथ्यत्वाद्धेमन्ते मत्स्योपयोगवत्। आह। शीतानिलसंरुद्ध इत्यस्तु किं स्पर्शग्रहणेन। उच्यते। नायं समासः शीतश्वासावलिश्चेति। किं तर्हि, अनिलश्च स्पर्शश्चानिलस्पर्शौ शीतौ च तावनिलस्पर्शौच। शीतानिलेन शीतस्पर्शेन च संरुद्ध इति गम्यते। शीत-शब्देन हिमद्रव्यमुच्यते। ननु संरोधानुपपत्तिर्विक्षेपणक्रियत्वाद्वायोः। तन्न, यतः सर्वतो निर्गच्छन्नूष्मा वायुना संनिरुध्यमानेषु स्रोतस्सु पुनरन्तरेव प्रक्षिप्यते। अतो विक्षेपणान्न भिद्यते। उदाहरणं हि—बाह्यैश्च शीतैः सेकाद्यैरुष्माऽन्तर्याति पीडितः। स चान्तः प्रविष्टोऽनिर्गच्छन्नूष्माख्य आग्नेयो धातुरुपचीयमानः पक्तुर्बलमादधाति।तस्मात्पवनसंरोधेन हेमन्ते जाठराग्निर्बलीयाञ्जायते। आह। शीतानिलस्पर्शेनाग्नेर्वृद्धिरयुक्ता, असमान-गुणत्वात्। समानगुणो हि धातूनां वृद्धिकारणमिष्यते। उच्यते। यथा कर्मकरोऽग्निमन्तः संरोद्धुमिच्छतीतिसलिलपरिषेकमङ्गाराणामाधत्ते सोऽग्निर्वहिः शीतेन स्पर्शेन प्रतिबध्यमानोऽन्तः-संचितस्तीक्ष्णो भवति तद्वदत्रांपीति। शीतानिलस्पर्शनिमित्तं वर्ण्यते। आह। बलिनामित्यसत्, हेमन्ताभि-धानेन प्राप्तत्वात्। बलं त्वन्ते श्रेष्ठमग्नेश्च निर्दिशेदित्यनेन चोक्तम्। हेमन्ते बलिनः प्राणिनो भवन्तीति। अत्र ब्रूमः।बलशब्देनात्रोपचयलक्षणं बलमभिप्रेतम्। बलिनामुपचितानां न कृशानां मन्दाग्नीनामित्यर्थः। यतो यदुपचितानां पथ्यं न तत्कृशानाम्। अन्यथा हैमन्तिकं बलं स्थूलमध्यकृशानां समानमित्युप-चितानामिति न लभ्यते। ततश्च निमित्तान्तरदुर्बलानामपि बली प्राप्नुयादतो बलिनामित्याह। आह। उक्तं वायुः शीतःशीते प्रकुप्यति। वायुना चाग्निवैषम्यमभिहितं वाताभिभूतेऽग्न्यधिष्ठाने विषमा भवन्त्यग्नय इति। तस्मात्कथं बली पक्ता भवतीति। उच्यते। अधिकेनापि वायुनाऽऽभ्यन्तरेणानतितीव्रबलेन यदाऽग्नेः संधुक्षणमात्रं क्रियते तदा वृद्धिं यायात्।

उक्तं च—“मेदसाऽऽवृतमार्गंत्वाद्वायुः कोष्ठे विशेषतः।
चरन्संधुक्षयत्यग्निम्” इति।

यत्पुनरुदितं वाताभिभूतेऽग्न्यधिष्ठान इति। तत्राभिभूतमित्युक्तं न वायुवृद्ध्येति। वातलानां प्रकोपे कोष्ठमुपेत्य वायुराशयादनलं शरीरे परिक्षिप्य तदाशयमधिष्ठायाग्निमान्द्यमावहति न प्रकोपमात्रेण। हेमन्तग्रहणं च शीतवचनात्प्राप्तं न कर्तव्यमिति केचित्।तन्न।अन्यत्रापि शीतोपदेशात्। वातवर्षाकुलेऽहनि विशेषशीते।तथा वसन्तादिष्वपि वर्षावायुनिमित्तं शीतमुपलभ्यते। अतस्तन्निवारणार्थं हेमन्तग्रहणम्। ननु मात्राद्रव्यगुरुक्षम एव बली भण्यते। अतस्तद्वचनेनैव लब्धत्वात्किंमात्राद्रव्यगुरुक्षमाभिधानेन। उच्यते। अन्यस्मिन्नपि काले बलिनां बली पक्ता भवति यो मात्राद्रव्यगुरुक्षम इति युक्तम्। अन्ये त्वग्निप्रतिषेधार्थं मन्यन्ते।मात्रा च द्रव्यं च मात्राद्रव्ये ताभ्यां गुरु मात्राद्रव्यगुरु। तृतीया तत्कृतार्थेनेति समासः। तं क्षमत इति मात्राद्रव्यगुरुक्षमः। शालिषष्टिकादेराहारस्य मात्रातिरेककृतं गुरुत्वम्।पिष्टकगुडविकृतिपायसमाषमाहिषशूकर-पिशितादीनां द्रव्यकृतं गौरवम्। एवं मात्रातिरेकद्रव्याभ्यामुभयमपि गौरवम्। तदेतत्त्रिप्रकारमाहारं क्षमते। अतो मात्राद्रव्यगुरुक्षमः। एष पिण्डार्थः—सम्यक्शीतलक्षणहेमन्ते बलीयसां शीतवातस्पर्श-संरुद्धोऽग्निर्बली मात्राद्रव्यगुरुक्षमो भवतीति॥४१॥

स यदा नेन्धनं युक्तं लभते देहजं तदा॥
रसं हिनस्त्यतो वायुः शीतःशीते अकुप्यति॥४२॥

देहार्थं देहजम्। अतो रसधातुक्षयात्। शीतः शीत इति। शीतगुणो वायुःशैत्यादपि कालजातात्कुप्यति। अत्र चानतिवृद्धत्वेन वायुर्वेदस्विन इवाग्निवृद्धि करोतिन तु वैषम्यमिति ज्ञेयम्।

अथ बाष्पचन्द्रव्याख्या—स यदि यथाप्राप्तमिन्धनं न प्राप्नोति तदाधातुक्षयमावहतीत्याह—स यदा नेन्धनमित्यादि। कीदृक्पुनरिन्धनमस्यब्रूमः स्निग्धाललवणात्रता नित्येवमादिकम्। इन्धन शब्देनात्रा शितपीतादिराहारोड-भिप्रेतः। सोऽन्तरनिर्बली यदाऽऽहारं प्राप्तं स्वस्याः पचनशक्केरनुरूपं न लभते तदा देहजं रसं हिनस्ति देहसंभवं रसधातुमिन्धनीकृत्य क्षपयतीत्यर्थः। ननु देहजग्रहणं कस्मात्। अदेहजरसनिवृत्त्यर्थं चेत्। तदयुक्तं बाह्याहाररसस्य जाठराग्निना दूषणासंभवात्। तस्मादन्तरेणापि देहजग्रहणं देहान्तर्गतस्यैव रसस्य ग्रहणं विज्ञास्यते। नैतदेवम्। यथा देहान्तर्बाह्यवद्विविधो रस आहाररसो धातुरसश्च। तत्राऽऽहाररसो यश्चतुर्विधाहारात्सम्यक्परिणतादुपजायते। असत्याहारे लङ्वनेक्रियमाणे न संभवति। द्वितीयश्च सप्तानां धातूनामाद्यो त्दृदयस्थायी सह देहजेन जात आहास्प्रसादाद्रसात्पुनरन्येन पाकेन पच्यमानात्पुण्यति। तस्य हिंसार्थं देहजग्रहणम्। एतच्च रसग्रहणं सोपपत्तिकं स्वप्रस्तावे प्रतिपादयिष्यामः। यद्यप्याहारप्रसादरसक्षयपूर्वको धातुरसक्षयस्तथाऽपि नाऽऽहारजरसक्षयाद्वायुप्रकोपः। किं तर्हि धातुरसक्षयादिति सुस्थं देहजग्रहणम्। आहाररसं हिनस्त्यतो वायुः कुप्यतीत्यस्तु। शीतः शीत इति किम्।वायोर्धातुक्षयात्कोपः प्रतिपादयितुमारब्धः। स च विनाऽपि शीतशीत इत्यनेन गम्यत एव। तस्मात्, शीतः शीत इति विश्राम्यतु। क्रियमाणे चायं दोषः। यस्माच्छशस्य विषाणे न स्तस्तस्मात्प्रावृषि बलाहका धीरतरं नदन्ति। तदुपमेयमेतत्। यस्मात्तीक्ष्णाग्निर्हिनस्ति रसम्। अतः शीतः शीते प्रकुप्यति। अत्रोच्यते। चशब्दोऽत्र लुप्तो वर्णोपजननहेतुः समुच्चयार्थो व्याख्यातव्यः।शीत इति। निमित्तसप्तमीयम्।ततश्चायमर्थः। रसं हिनस्ति, अतो वायुः प्रकुप्यति शीतःशीते च कुप्यति। यस्माच्छीतो वायुः। अतः शीतेन च निमित्तेन कुप्यतीत्यर्थः। तथा च सुश्रुताचार्यः—

“हेमन्तः शीतलो रूक्षो मन्दादित्यो निलाकुलः।
ततः स्वयोनिमासाद्य वायुस्तत्र प्रकुप्यति” इति॥

अतश्चैतदेवं प्रकोपकारणद्वयसंनिधानान्महान्वायुप्रकोपः। येन तुषारसमये चीयमानबलासवर्धनानि स्निग्धाम्ललवणौदकानूपमांसादीनि भोक्तुं शास्ति। भट्टारकहरिश्चन्द्रस्त्वाह—विशेषात्तु पक्त्यर्थं शीतग्रहणं क्रियते। यद्यन्यस्मिन्नप्यृतौ शीतेऽग्निर्युक्तमन्नपानं न लभते समीरणस्तस्मिन्नपि प्रकोपमेति। कस्मात्।यस्मात्सोऽपि शीतो मातरिश्वा॥४२॥

बाह्यविधिमभ्यवहार्यविधिं चाऽऽह—

अभ्यङ्गोत्सादनं स्वेदः स्निग्धोष्णगुरुभोजनम्॥४३॥
शीते सुसंवृतं सेव्यं यानं शयनमासनम्॥
आलिङ्ग्यागुरुदिग्धाङ्गी स्वप्याद्यौवनशालिनीम्॥१४॥

अभ्यङ्गशब्दो गात्राभ्यङ्गवचनः। उत्सादयति व्याधीनुत्सादनम्। पादाभ्यामुद्वर्तनम्। तथा च तत्त्रान्तरीयाः पठन्ति—

“व्यायामक्षुण्णगात्रस्य पभ्द्यामुद्वर्तितस्य च।
ब्याधयो नाभिसर्पन्ति वैनतेयमिवोरगाः”।

** शीते सुसंवृतमित्यादि।** सुसंवृतं सम्यगावृतम्। आह।सुसंवृतं सेव्यमित्येतावदभिधीयतां शीतशब्दोपदेशो न न्याय्यो हेमन्ताधिकारात्।ब्रूमहे। अन्यस्मिन्नप्यृतावहनि शीते सुसंवृतं सेव्यमित्याञ्जनार्थमदोषः। सुसंवृतमविस्तीर्णम्। अथवा सुप्रावृतमित्यर्थः। किं तत्।यानं शयनमासनम्। गम्यतेऽनेनेति यानं यान(प्य)यानादि। शयनं खट्वादि। आसनं लोहासनादि। आलिङ्ग्यागुरुदिग्धाङ्गीम्। आलिङ्गनमुपगूहनम्। हेमन्तानन्तरं शिशिरः॥४३॥४४॥

हेमन्तविधिं शिशिरेऽतिदिशन्नाह—

शिशिरे सर्वमप्येवं निवातोष्णगृहं श्रयेत्॥४५॥

** ॥४५॥**

वसन्ते निचितः श्लेष्मा दिनकृद्भाभिरीरितः॥
कायाग्निं बाधते रोगांस्ततः प्रकुरुते बहून्॥
तस्माद्वसन्ते कर्माणि वमनादीनि कारयेत्॥४६॥

निचितः संचितो हेमन्ते दिनकरभाभिरीरितो विलायितो वसन्ते कायाग्निं बाधते। कायाग्निं जठराग्निम्। **वमनादीनीति।**वमनप्रधानानि।तेनाऽऽदानमध्यत्वेन वातपित्तयोरनुबलत्वाद्विरेचनाद्यपि कार्यम्। शिरोविरेकश्च कफजयार्थं क्रियत एव। एतच्च वमनादि कर्म चैत्रे कार्यम्। यदाह कपिबलः—

“मधौ सहसि नभसि मासि दोषान्प्रवाहयेत्।
वमनैश्च विरेकैश्च निरूहैः सानुवासनैः” इति॥

अथ **बाष्पचन्द्रव्याख्या—**क्रमप्राप्ते वसन्ते दोषानपेक्षया सेव्यासेव्यविधानायाऽऽह—वसन्ते निचितः श्लेष्मेत्यादि। वसन्ते श्लेष्मप्रचयस्याऽऽर्तवस्यासंभवाच्छ्लेष्मावसन्ते निचित इति नैवमभि-संबध्यते। तस्मादेवं व्याख्यायते निचितः श्लेष्मा क्व हेमन्ते कायाग्निंबाधत इति। तत्र हेमन्तेऽपि श्लेष्म-संचयो न संगच्छते। यतस्तत्र स्निग्धाम्ललवणाद्युपयोगो वातापजयाय मद्यमैथुनसेवनं च कफक्षयाय विहितमिति। अथ तत्र युक्तः स्निग्धाम्ललवणादिकृत एव संचयो न कालकृत इति दृढबलाचार्येणदर्शितमिति चेत्। तन्न। अर्थापरिज्ञानात्। मद्यमैथुनसेवाराहितस्य स्निग्धाग्लाद्युपयोगतः कफसंचयस्तत्राभिमतः। अन्यथा यदि कफप्रत्यनीकेऽपि सेव्यमाने चीयते तदा सर्वकालं चीयेत। इदं च वचनं विरुध्येत। “अद्भिश्चौषधिभिश्चैव मधुराभिश्चितः कफः। हेमन्ते” इत्येतश्च सप्रपञ्चं तत्रैव प्रतिपादयिष्यामः।तस्मात्कथं हेमन्ते बलाससंचयः। किं च।व्यायामसेवनाच्च। हेमन्ते व्यायामसेवनं विहितमेव।ग्रीष्मवर्षयोर्निषेधाच्छरीरचेष्टायाः। चेष्टा स्थैर्येत्यादिना सामान्येन विहितस्य ग्रीष्मवर्षायां च निषेधं कुर्वता व्यायामस्यान्येष्वनुज्ञां ज्ञापयति। तथा च तत्त्रान्तरीयं वचः—

“अर्धशक्त्या निषेव्यस्तु बलिभिः स्निग्धभोजिभिः।
स च शीते वसन्ते च मन्दमेव ततोऽन्यदा”॥

अतो व्यायामस्य कफक्षयकरत्वम्। दोषक्षयोऽग्निवृद्धिश्च व्यायामादिति वचनात्। कफसंचयो हेमन्ते न सिध्यति। अतश्चैककालीनयोः क्रियानिष्ठयोर्विरोधात्। प्रत्यहोरात्रंबलासः प्रत्युषसि चीयते पूर्वाह्णे कुप्यति मध्याह्ने शाम्यति। तथा च **तत्त्रान्तरम्—**पूर्वाह्णेवमन्तलिङ्गं मध्याह्नेग्रीष्मस्य, अपराह्णेप्रावृपः प्रदोषे वार्षिकं शारदमर्धरात्रे प्रत्युषसिहैमन्तमुपलक्षयेत्। एवमहोरात्रमपि वर्षमिव शीतोष्णवर्षदोषोपचयप्रकोपोपशमैर्जानीयात्। अतः कथं संचीयते। अथैवमुच्यते। आर्तवश्चयोऽनुवर्तत एव। आहोरात्रिकस्तुचयः कुप्यति शाम्यति च। एतच्चायुक्तम्। अहोरात्रव्यतिरेकेण कोऽन्यर्तुर्नाम। तथा च। षष्ट्याऽहोरात्रैर्ऋतुरुच्यते। भवतु वा भेदः। तथाऽप्येकस्यैव श्लेष्मण एककालीने जन्ममरणे कथं स्याताम्। यदैव चीयते तदैव चीयमान एवशाम्यतीति विरुद्धमेतत्। तस्मात्समुच्छुष्कवालुकामुष्टिरिव हेमन्ते कफानिचयो विशीर्ण इति। अत्र वृद्धैर्व्याख्यातं प्रत्यवस्थानमुच्यते। स्वे स्व ऋतौ यथास्वहेतुभिर्दोषाश्रीयन्ते। यथोक्तम्—अद्भिश्चैवौषधीभिश्च मधुरामिश्चितः कफः। हेमन्त इति। तथा—वर्षास्वम्लविपाकाभिरद्भिरौषधिभिस्तथा। संचितं पित्तमिति। अस्य चायमर्थः। कालपरिणामाद्धेमन्त आप ओषधयश्च मधुरं विपच्यमानाः कफसंचयमावहन्ति। कालपरिणामादेव वर्षास्वम्लं विपच्यमानाः पित्तसंचयमातन्वन्ति। रूक्षं ग्रीष्मे च रूक्षाः कटु विपच्यमाना वायुप्रचयमा- पादयन्ति। ते च विहितव्यत्ययाचाराणामाचीयन्ते न स्वस्थवृत्त-परायणानां यतः प्रतीकारार्थत्वात्स्वस्थवृत्तानुष्ठानस्य।

तथा च वक्ष्यति—“विषमस्वस्थवृत्तानामेते रोगास्तथा परे।
जायन्ते नाऽऽतुरस्तस्मात्स्वस्थवृत्तपरो भवेत्”॥

यश्च वसन्ते स्निग्धाम्ललवणादीनेवोपयुङ्क्ते न मद्यमैथुनव्यायामानाचरति स विषमस्वस्थवृत्त एव भवति। तथा च। तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तत इत्यत्राऽऽहाराचारौस्वास्थ्य-वृत्तकौस्वास्थ्यानुवर्तनाय व्याख्यातौ। संशोधनस्य जातानां विकाराणामनुत्पत्तिकरं चेत्यनेन संगृहीतत्वात्। तस्माद्विहितव्यत्ययाचाराणां कफसंचयो हेमन्ते सिद्धः। यच्चानुक्रान्तमेकस्य श्लेष्मण एकस्मिन्नेव काले निष्ठा प्रशमरूपा न युज्यते विरोधादित्यत्राप्यनुनयः श्रूयते युज्यते सर्पिर्वत्।यथा हेमन्ते चीयमानस्य महतः सर्पिष्पिण्डस्याल्पोष्णसंपर्कादेकदेशविलयनेन सर्वविलयनमुष्णापगमे च तत्स्त्यानमेव स्यात्तथा बलासस्याप्यार्तवेन महता चयेन चीयमानस्य या काचिद्विक्रिया पूर्वाह्णमध्याह्नयोः कालप्रभावात्साऽपराह्णे शाम्यत्येवातः प्रदक्षिणमृतुवशाच्चीयत एव। न च परमार्थतोऽहोरात्रावयवेषु दोषाणां चयप्रकोपप्रशमाः संभवन्ति। किं तर्हि गूढलिङ्गव्याध्यवगमार्थं क्रियाकालावधारणार्थं च दोषाणां बलवत्त्वाबलत्वे व्याख्याते।यच्चोपदिष्टमहोरात्रव्यतिरेकेण कोऽन्य ऋतुरिति। अत्र ब्रूमः।अन्योऽहोरात्रादृतुः संज्ञालक्षणकार्यभेदात्। नक्तंदिनस्याहोरात्र इति संज्ञा। द्विमासनिर्वर्त्यस्य हेमन्तादेर्ऋतुरिति चेत्911। अयं संज्ञाभेदः।लक्षणमेदश्च —आदित्यप्रकाशस्थितिव्यवच्छिन्नः कालो दिवस उच्यते। सूर्यप्रकाशाभावे ज्योत्स्नान्धकारस्थितिपरिच्छिन्नो रात्रिरभिधीयते।ताभ्यामहोरात्रः। ऋतुस्तु शीतोष्णवर्षस्थितिक्रियावच्छिन्नो द्विमासिकः कालभाग उच्यते। अयं च लक्षणभदः। कार्यभेदश्च—

“ऋत्वहोरात्रदोषाणां मनसश्च बलाबलात्।
कालमर्थवशाच्चैव ज्वरस्तं तं प्रपद्यते”॥

इत्यनेन कथितः। वसन्तादावुत्पन्नः श्लैष्मिकः सततकस्तस्मिन्नेवाहोरात्राणि बलीयांसि प्राप्य संततो जायते वसन्तर्तुविशेषेऽपि। तथा वसन्तमध्याहोरात्रोत्पन्नः संततोऽन्त्याहोरात्रेषु सततकस्तृतीयको वा जायते दुर्बलत्वादन्त्याहोरात्राणि ऋतुबलावलात्। शिशिर उत्पन्नः श्लैष्मिकश्चतुर्थको वसन्तं प्राप्य संततो जायते। तथा च संततः प्राकृतस्ततो ग्रीष्मं प्राप्य सततकतृतीयकचतुर्थानामन्यतमो जायते। यदि पुनर्ऋत्वहोरात्रयोरभेदः स्यादेष विशेषो न भवेत्।ये चैवं मन्यन्ते—आर्तवोऽन्यः श्लेष्मणश्चयोऽन्यश्राऽऽहोरात्रिक इति। तदसम्यक्, एकस्थानेष्वार्तवश्चयस्तेष्वेवाहोरात्रावयवजोऽपि। यतः स्वेष्वेव स्थानेषु दोषाश्चीयन्ते। यदि पुनः परस्थानेष्वपि चीयेयुः स्रोतोभिर्विसृता दोषा इत्यादिनाऽस्थानात्तु मरणं न कथयेद्यत्रैव विकारास्तत्रैव चितः कुपितश्चेति कृत्वा। तस्मात्स्वस्थाने संचयः। तथा च **तत्त्रान्तरम्—**एतानि दोषस्थानान्येषु संचीयन्ते दोषा इति। तस्मादेकसंचयस्थानत्वान्न पृथगहोरात्रावयवजः संचय इति। तथा च वातेनोद्धूयमानाः सक्तवो जलेनैकेन स्थिरीकृता इव हैमन्तिकः श्लेष्मणश्चयो न विशीर्यत इति। अयमेवाऽऽक्षेपः सोत्तरो ग्रीष्मवर्षाजयोर्वातपित्तसंचय-प्रकोपयोरुदाहार्यः। इदानींग्रन्थो व्याख्यायते। निचितः श्लेष्मा दिनकृद्भाभिरीरितो विलापितः कायाग्निं बाधते मन्दी करोति बाह्योऽग्निरुदकेनेव।कदा वसन्ते। स विषण्णः श्लेष्माऽग्निमान्द्यमापाद्य स्रोतोभिः शरीरमनुसरंस्ततो विकारान्बहून्करोति सामान्यजाञ्ज्वरादीन्नानात्वजांश्च तृप्त्यादीन्। ननु यस्मिन्नेव स्थाने चितस्तस्मिन्नेव स्थाने विलीनस्तत्कथं देशान्तरस्थितस्य वह्नेर्मान्द्यमावहति। उच्यते। कायाग्निं बाधत इत्यनेनैव स्थानान्तरसंचरणमाचष्टे। ईर प्रेरण इत्ययं धातुर्विलायनं स्वाशयात्परिक्षेपं च प्रतिपादयति। तेन प्रसरोऽप्युपदिष्टो भवति। तथा च तत्त्रान्तरमेभिरातङ्कविशेषैः प्रकुपितानां किण्वोदकपिष्टसमवाय इवोद्रिक्तानां प्रसरो भवतीति। आतङ्कविशेषैर्हेतुविशेषैरित्यर्थः। दिनकृद्भाभिस्तेजोभिः। ननु शीतलस्य श्लेष्मणो नोपपन्नः प्रकोपो विपर्ययाद्ध्रास इति शास्त्रप्रवृत्तेः। उच्यते। अतिमहानसौ दीर्घकालसंभृतो दोषः संहतो नैव शक्यते वैपरीत्ये सत्यपि भास्कर-दीधितिभिरप्रचण्डत्वाद्घ्रासयितुं हिमवद्घृतवच्च।यथा हिमान्या रविमरीचयो विलयनं कर्तुं शक्ता न परिक्षयम्। सा च विलीना समविषमाण्याप्लाव्य विस्यन्दमाना च स्थावराणां क्लेदादीनि करोति। तद्वदर्कगभस्तिभिः संतापितंशरीराणि विलयमापन्नः श्लेष्मास्थालीस्थस्योदकस्य वह्निनोर्ध्वसमीरण-क्रियेव स्वाशयात्समुत्सृज्यमानः स्त्रोतांसि व्याप्नुवन्कुरुते गदान्। अयमेव संचयप्रकोपयोर्भेदः। संहतिस्वरूपा वृद्धिश्चयो विलयनलक्षणा वृद्धिः प्रकोपः। तेन यद्यपि रविमयूखैर्न वर्धते तथाऽपि वृद्धः प्रसन्नविलीन इति प्रकुपित उच्यते। तथा च वक्ष्यति—

“अद्भिश्चैवौषधीभिश्च मधुराभिश्चितः कफः।
हेमन्ते सूर्यसंतप्तो वसन्ते च प्रकुप्यति”।

आह।कायाग्निमिति कायग्रहणं न कार्यं बाह्यस्याग्नेःश्लेष्मणाऽऽबाधासंभवात्। धात्वग्निव्युदासार्थ कायग्रहणं धातुगता अपि सप्ताग्नयो विद्यन्ते। वचनं हि—यथा स्वेनोष्मणा पाकं शारीरा यान्ति धातव इति। अस्यैवोदर्यस्य वह्नेरेतन्निमित्तः प्रबाधः। यद्यपि तेषामप्याबाधः कायाग्निबाधाद्वारेण। तथा चोक्तम्—तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मका इति। तथाऽपि कायाग्निं बाधत इत्यदोषः। यस्माद्वसन्ते कुपितः श्लेष्मा विकारान्कुरुते तस्मात्प्रागेव रोगोत्पत्तेर्वसन्ते कर्माणि वमनादीनि कारयेत्। वमनं शमनाद्यवस्थापेक्षया। अथवा महतः श्लेष्मसंघातस्य भेत्तुं नान्तरेण वमनमन्यत्प्रधानतममार्षं हि। बहुदोषाणां पुनर्दोषावसेचनमेव कार्यम्। न ह्यभिन्ने केदारसेतौ पल्वलप्रसेकोऽस्तीति न्याय्यं वमनम्। आदानमध्ये तस्यापि वातपित्तं भवेदन्विति विरेचनस्योपपत्तिः। कृतवमनस्य वेष्यते शिरोविरेचनम्। वमनाद्यपचितशरीराणामादानरौक्ष्याच्चाप्रतिवार्या मातरिश्वनो दुष्टिस्तदपेक्षयाऽऽस्थापनानुवासने अपि युक्ते आरब्धुम्। ननु पूर्व एवाधिकारोऽनुवर्त्यते वसन्ते निचित इति पुनर्वसन्तग्रहणं कस्मात्तस्माद्वसन्ते कर्माणीति। उच्यते। यतः श्लेष्मा स्वयं कुपितोऽनुबलत्वेन च वातपित्ते तदेव सर्वदोषसांनिध्याद्वसन्ते यत्नमास्थायाल्पमपि दोषं न परिहापयेदन्यतमोऽपि ह्येषामनुपचर्यमाणो जनयेदेवाऽऽमयमित्येतद्वसन्त-ग्रहणेन द्योतयति ॥४६॥

गुर्वम्लस्निग्धमधुरं दिवास्वप्नं च वर्जयेत्॥४७॥

श्लेष्मपित्तहेतुत्वात्। ननु गुर्वम्लादयः किं विहितव्यत्ययाचारेण चितप्रकुपित श्लेष्मवर्ज्या आहोस्विद्विहितस्वस्थाचारेणाप्रचितदोषेणापि। तथा य एते वक्ष्यमाणा व्यायामोद्वर्तनादयो यवगोधूम-भोजनादयश्च ते किं प्रकुपितदोषैरकुपितदोषैर्वा सेव्याः912। किंच त उभयथाऽपि न घटते चितप्रकुपित-दोषाणां तावद्वमनादिविधानात्कृतवमनादिसर्वोपक्रमाणां स्निग्धादिभिरेव प्रकृतिगमनोकेः—स्निग्ध-प्रस्वादुत्दृद्यानि913 ततोऽम्ललवणौ रसौ। स्वादुतिक्तौ ततो भूय इत्यादि यावत्प्रकृतिं गमयेत्पुनरिति। प्रकृतिं गतस्य च मात्राशितीयेऽभिहितं भोजनमिति नार्थो यवमुद्गादिभोजनोपदेशेन। अप्रचितदोषोऽपि-स्वस्थोऽपि यथेष्टचेष्टाहारो मात्राशितीयोक्तमाहारः(रं) सर्वरसं चोपभुङ्क्ते। सर्वरसाभ्यवहारो बलकराणामिति वचनात्। तस्माद्गुर्वम्लादिवच(र्ज)नं व्यायामोद्वर्तनादिर्यवगोधूममोजनोपदेशश्च न न्याय्य इति। संचक्ष्महे।उभयोरपि युज्यते गुर्वम्लादयोऽपथ्यद्रव्याश्रिता न दाडिमामलकाश्रिताः(?) स्वस्थातुरयोर्हितत्वात्। तच्च( ते च) न कुपितदोषेण सेव्याअभिवृद्धिहेतुत्वात्। नापि तव [कृत]संशोधनेन भूयो दोषाभिवृद्धिहेतुत्वात्। व्यायामादीनां च सेवनं यवगोधूमादिभोजनं च वमनादिभिर्निर्त्दृतदोष- शेषशमनार्थमप्रचितदोषेणापि गुर्वम्लादयो वर्ज्या दोषकोपभयात्। नन्वप्रचितस्य कथं दोष इति चेदस्त्येवेति ब्रूमः।विलयनलक्षणा वृद्धिः प्रकोपः। सा च गुर्वम्लादिभिः श्लेष्मणोऽधीयत एव। अप्रचितस्यैव कालस्वाभाव्यात्प्रकुपितश्लेष्मणः प्रतिकारार्थम्—

“व्यायामोद्वर्तने धूमः कवलग्रहमञ्जनम्”।

यवगोधूमादिभोजनं च।तथाऽऽचार्यभगदत्तेनाप्यते स्वि(प्युच्यते)—

“त्यागः शरद्विधेः स्थानं कथं कोपो हि कामतः।
नोचितस्याचितस्यापि द्वेधा सिद्धो हि प्रकोपः”॥

अस्यायमर्थः। प्रवृत्तिहेतुं विना पित्तसंचयो नास्ति। तदभावे यस्मान्न प्रकोपोऽतः शरद्विधेस्त्यागः। कथं तर्हि स्थातव्यमुच्यते स्थानं कामत इच्छयेत्यर्थः। सिद्धं त(द्धस्त) हिं प्रचितस्यापि प्रकोपः।प्रकोपकाणां दध्यादीनां दिवास्वप्नादीनां च सेवनात्। अत एव संशोधनसंशमनलक्षण आर्तवो द्विविधो द्विप्रकारः प्रकोपप्रतिकाराय विधिरुद्दिष्टः। तत्र संशोधनलक्षणः—

“तिक्तस्य सर्पिषः पानं विरेको रक्तमोक्षणम्”।

संशमनलक्षणश्च—

“तत्रान्नपानं मधुरं लघु शीतं सतिक्तकम्”इति।

एतमेवार्थं द्रढयंस्तत्त्रान्तरमुदाहरति—

“त्रिधा दोषचयः पथ्यापथ्यागन्तुनिमित्तजः।
तत्रापथ्यनिमित्तो यः स संशोधनमर्हति।
पथ्यजः शमनीयस्तु प्राय आगन्तुजश्च यः”॥

अस्यायमर्थः। दोषनिचयो दोषप्रकोपः। स विषमस्वस्थवृत्तानामपथ्यजः। विहितस्वस्थाचाराणां पथ्यनिमित्तो यतः पथ्य उपयुज्यमाने कालप्रभावाद्भवत्युदारणं हि। शरत्काले स्वभावाच्चेत्यतो लक्षणया पथ्यजइति। तस्मादसंचयपूर्वकोऽपि प्रकोपोऽस्ति। तान्त्रिकः। सर्वशरीरचरास्तु खलु वातपित्त-श्लेष्माणः सर्वस्मिन्हि शरीरे कुपिताकुपिताः शुभाशुभानि कुर्वन्ति। सर्वस्मिन्हि शरीरे कुपिता इति वचनात्प्रकोपो जायते परस्थाने संचयानुपपत्तेः। संचयेन हि बलीयान्दोषो भवति। स यदि परस्थाने स्यात्तदा बलीयस्त्वं मन्यते दौर्बल्योपदेशात्स्वस्थाने हि बली पच्य(ठ्य)ते। अथैवमुच्यते। संचितः परस्थानेऽपि बली, असंचितस्य दौर्वल्यं न तु प्रकृतिस्थस्य बलीयस्त्वनिरूपणेन। अथयदाऽप्रचितः कुप्यति तदा परस्थाने दुर्बलः। एतच्च न युज्यते सर्वत्रसंचयाभ्युपगमात्। तस्येदं प्रयोजनमचितस्य कोपो मा भूत्। स चेदभ्युपगतः सिद्धः स्वाशये संचयः। दृढबलाचार्येणापि द्विविधः प्रकोषोऽभिहितः—

“काठिन्यादूनभावाद्वा दोषोऽन्तः कुपितो महान्।
पथ्यैर्मृद्वल्पतां नीतो मृदुदोषकरो भवेत्”॥

काठिन्यान्निचयादित्यर्थः। ऊनभावादसंचित इत्यभिसंधिः। तस्मादचयः प्रकोपः सिद्धः। तत्परि-जिहीर्षया गुर्वादिवर्जनं व्यायामोद्वर्तनादिसेवनं चेति। स्थितमेतत्। ननु यदा संचितप्रकुपितदोषेणाप्यार्तव आहारः सेव्यस्तदा मात्राशितीयोक्तस्वस्थवृत्त्यर्थाहारोपदेशस्य वैयर्थ्यमधिकारिणोऽभावात्। यतो यः कश्चित्स्वस्थः स संचितदोषो वा स्यादसंचितो दोषो वा। अत्र ब्रूमः।स्वस्थोऽप्रचितदोषोऽधिकारी।तस्य च कालद्वयमाहारोऽभिहित उत्तरतत्त्रे—

“समधातोस्तथाऽऽहारो द्वौ कालावपि शस्यते”।

ग्रहणीदोषिके च पठ्यते—

“प्रातराशे त्वजीर्णेऽपि सायमाशो न दुष्यति”।

तस्मात्समधातूनां प्रातः सायं च विहितं भोजनम्। स चाऽऽहारो द्विविधः पठितः—

“वृत्त्यर्थ पुनराहारः स्वस्थायाभिमतो हितः।
यथर्तुविहितो नित्यमाहारो दोषनाशनः”॥

तत्र वृद्धा हेमन्तशिशिरयो रात्रौ बलवताऽग्निना शीताभिवृद्ध्या च खिन्नशरीराय संभाव्यमान-वातप्रकोपाय प्रातर्दोषप्रशमनमाहारं ददति। तस्मिंस्तु जीर्णे वृत्त्यर्थं रात्रौ ग्रीष्मवर्षयोस्तु प्रातर्वृत्त्यर्थं भुक्तवते चिरकालमुष्णाभिसंतापवर्षखिन्नशरीरायापराह्णे दोषप्रशमन आहारो देयः। शरद्वसन्तयोः साधारणत्वात्पूर्वं पश्चाद्वा दोषप्रशमनोपयोग इष्ट इति। तथां चाऽऽह सुश्रुताचार्यः—

“अतीवाऽऽयतयामास्तु क्षपा येष्वृतुषु स्मृताः।
तेषु तत्प्रत्यनीकाढ्यं भुञ्जीत प्रातरेव तु।
येषु चापि भवेयुश्च दिवसा भृशमायताः॥
तेषु तत्कालविहितमपराह्णेप्रशस्यते।
रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः॥
कृत्वा सममहोरात्रं तेषु भुञ्जीत भोजनम्”।

अन्ये तु पर्यायेणेच्छन्ति। तथा चोक्तं प्राजापत्ये। तत्र लघुतिक्तकच्छेदनीयं शिशिरपूर्वाह्णे भोजनं प्रसिद्धम्। मधुराम्लरससंसृष्टं सुसंस्कृतं वाऽपराह्णेदिवसाल्पत्वाच्छेदनीयं रात्रेर्महत्वाद्ग्रहणीयं नानाविधं प्रभूतं सुरसं ग्रीष्मे पौर्वाह्णिकं मात्राहीनं लघुप्रायं द्रव्यं चापराह्णे नातिपेलवं सुस्निग्धं वर्षास्वनवरतं कायाग्नेः समत्वात्। तत्र हेमन्ते बलवानग्निर्ग्रीष्मे दिवावर्षास्वहोरात्र इति। एतच्च नोपपन्नम्। यतो न शिशिरे वृत्त्यर्थमाहारः कटुतिक्तच्छेदनीयो मात्राशितीयेऽनभिधानात्। न च वर्षास्वग्नेः समत्वम्। वर्षास्वग्निबले हीन इति वचनात्। तेन यद्यपि साक्षात्प्रतिषेधो नास्ति तथाऽपिस्वसिद्धान्तं निरुणद्धीति नाऽऽश्रीयते प्राजापत्यवचनं वृद्धैः। तस्मात्पूर्वैव कल्पना श्रेयसीति॥४७॥

व्यायामोद्वर्तनं धूमं कवलग्रहमञ्जनम्॥
सुखाम्बुना शौचविधिं शीलयेत्कुसुमागमे॥
चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजनः॥४८॥

** चन्दनागुरुदिग्धाङ्ग इति।** चन्दनेन शीतेनागुरुणा चोष्णेन मिलित्वा प्रदेहोऽनति-शीतोष्णत्वाद्वसन्तस्य। यवगोधूमभोजन इति। ननु गोधूमो गुरुमधुरस्निग्धशीतो द्रव्यगुणेन। गुर्वम्लस्निग्धमधुरं दिवास्वप्नं च वर्जयेदित्यनेन गुरुमधुरस्निग्धोपयोगो निषिद्धः। तत्कथं गोधूमस्य भोजनविधिरिति। उच्यते। गोधूमः पुराणोऽत्रापेक्षितः पुराणश्च न श्लेष्मकरः। सर्वं मधुरं श्लेष्मलमन्यत्र पुराणयवगोधूमादिति। किं च। यवगोधूमसंयुक्त एवोपयोगः।

अथ बाष्पचन्द्रव्याख्या—आह। कुसुमागम इति किं यतो वसन्ताधिकारान्वयः प्राक्कीर्तितः। उच्यते। इह कुसुमागमग्रहणेन वसन्तस्याव्यापन्नत्वं दर्शयति। तथा च सुश्रुतेऽव्यापन्नलक्षणमेवेदं पठितम्—

“दिशो वसन्ते विमलाः काननरुपशोभिताः।
किंशुकाम्भोजबकुलचूताशोकैः प्रपुष्पितैः”॥

ईदृशे च निजस्वभावस्थिते वसन्ते व्यायामोद्वर्तनादयः कार्याः। अन्ये तु वर्णयन्ति। न वसन्तावतार एव कुसुमानि भवन्ति। अतो यदा वसन्ते कुसुमानि प्रादुर्भवन्ति तदा व्यायामोद्वर्तनादयः कर्तव्याः। एतच्च न। यतो हेमन्तशिशिरयोरपि व्यायामोद्वर्तनादयः क्रियन्ते तस्मात्पूर्वेव व्याख्या।येन समयोग-लक्षण ऋतौ व्यायामोद्वर्तनादि सेव्यते व्यापन्नेतु जनपदोद्ध्वंसनीयविहितमिति।व्यायामः शरीरचेष्टा-लक्षणः। अञ्जनमत्र तीक्ष्णाञ्जनं कफचयशान्त्यर्थं सुखाम्बुना शौचविधिं शीलयेत्। ईषदुष्णमम्बु सुखाम्बु। चन्दनागुरुदिग्धाङ्ग इति साधारणा(ण्या)दुष्णशीतयोरत्र काले चन्दनागुरुयोर्द्वयोरपि प्रयोगमाह।यवगोधूमयोरुपसेवनं च॥४८॥

दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले॥
व्यजनैः पाणिसंस्पर्शौश्चन्दनोर्दकशीतलैः॥४९॥

काननानि च शीतानि जलानि कुसुमानि च॥
ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः॥५०॥

दिवा शीतगृहे निद्रां निषेवेत।निशि चन्द्राशुशीतले गृहे हर्म्यगृहमस्तके। तत्त्रान्तरदृष्टत्वात्। गृहग्रहणमुपलक्षणं प्राङ्गणेऽपि चन्द्रांशुशीतल इति। व्यजनैरिति। वीज्यते येन तद्व्यजनं तज्जन्यो वायुरपि व्यजनम्। कार्यकारणोपचारात्।तस्य चन्दनोदकशीतलत्वमाश्रयशैत्यात्। उत वा, एतदेव व्यजनानां सेवनं यत्तैर्वीजनमिति। काननानीत्यादि। ग्रीष्मकाले निषेवेतेति ग्रीष्मवचनमिदं द्योतयति ग्रीष्मे शिशिराणि जलकुसुमकाननान्यविच्छेदेन सेव्यानि।शरद्वसन्तयोरप्येषां सेवनमनुमतम्। नन्वविच्छेदेन, निदर्शनं च प्रदोषे चेन्दुरश्मयः स्यान्निमित्तं न सातत्येनेन्दुरश्मयः सेव्यन्ते। उच्यते। तस्य चानुबलः कफ इत्यध्येप्यते। तस्य चावश्याय914* क्ताता भूयान्प्रकोपःस्यात्। अपरे तु मन्यन्ते मैथुनाद्विरतो नर इत्यनेन ग्रीष्मकालोऽभिसंबध्यते। सकलग्रीष्मप्रतिपादनार्थं कृत्स्ने ग्रीष्मे मैथुनाद्विरमेदिति यावत्॥४९॥५०॥

आदानदुर्बले देहे पक्ता भवति दुर्बलः॥
स वर्षास्वनिलादीनां दूषणैर्बाध्यते पुनः॥५१॥

देहस्य दौर्बल्यात्पक्ताऽपि दुर्बलः। देहबलानुविधायित्वादग्नेः। पक्ताऽग्निः। स इति दुर्बलो वह्निः।**अनिलादीनामिति।**अनिलप्रधानानाम्।

अथ बाष्पचन्द्रव्याख्या—आदानदुर्बल इत्यादि। किं पुनरत्र कारणम्। ब्रूमः। आदानेन धातुपरिक्षयात्। ऊष्मणोऽपि धातुत्वात्परिक्षयः। तथाहि। उपचीयमानधातूनां यूनां तीक्ष्णता वह्नेर्दृश्यते। अपचीयमानवातूनां च वृद्धानां मन्दता स्थूलानां दीप्ताग्निः पठ्यते। यद्यपि स्थूत्रस्य दौर्बल्यमुक्तम्—दौर्बल्यं दौर्गन्ध्यं स्वेदबोधः क्षुदतिमात्रमिति।सति च तस्मिंस्तीक्ष्णाग्निता तथाऽप्यदोषः। यतः शरीरोपचयमात्रमत्र वलमभिप्रेतम्। तच्च स्थूलेऽपि विद्यत एव। स वर्षा- स्विति। दुष्टदूषणमादान-दुर्बलस्य पक्तुर्भूयो वर्षासु वातादिदुष्टिनिदानं मान्द्यंजायते॥११॥

वर्षावनिलादयः कुतः कुप्यन्तीत्याह—

भूबाष्पान्मेघनिष्यन्दात्पाकादम्लाज्जलस्य च॥
वर्षास्वग्निबले हीने कुप्यन्ति पवनादयः॥
तस्मात्साधारणः सर्वो विधिर्वर्षासु चेष्यते॥५२॥

भूवाष्पोजलस्याम्लपाकता च पित्तश्लेष्माणौ कोपयतः। मेघनिष्यन्दो वात श्लेष्मकारकः। जलस्य चेति। चकार आहारस्याम्लपाकतासमुदायार्थः। दुर्बलत्वादग्नेराहारस्यापि विदाहसंभवात्। उक्तं हि—दुर्बलो विदहत्यन्नमिति।अग्निबले होने, इत्यनेनाग्नमान्द्यादपि दोषकोपं दर्शयति। **साधारण इति।**त्रिदोषघ्नोऽग्निदीपकश्च।

अथ बाष्पचन्द्रव्याख्या—वातादीनां पुनर्वर्षासु किं दुष्टिनिमित्तमित्यत आह—भूवाष्पादित्यादि। अन्ये तु व्याचक्षते दूष्यन्ते यैस्तानि दूषणानि। तानि च भूबाष्पदीन्येव। वचनं हि—भूबाष्पान्मेघनिस्प(ष्य)न्दादित्यादि। तत्र भूबाष्पात्पित्तप्रकोपः। मेघनिष्यन्दाद्वातश्लेष्मप्रकोपः पाकादम्लात्पित्तश्लेष्मणोः प्रकोप इति। आह। भूबाष्पादिभिर्वातप्रकोपो नोपपद्यते वैधर्म्यात्। भूबाष्पास्तावद्वातकफाम्यां विधर्मा मेघाभिस्प(ष्य)न्दः पित्तस्य। अपां चाम्लो विपाको वायो रत एषां भूबाष्पादिभिरुपशमः प्राप्तः कथं प्रकोपः। ब्रूमः। न प्रभाववशेनान्यत्र दृष्टत्वात्। दृष्टमेतदेवं प्रभावेन वशान्मन्दकफाणितमूलकादिषु। यतस्तद्वर्तिनः स्निग्धोष्णादयो गुणाः समानानां प्रकोपाय न तु विपरीतानां हान्यै। न चाचिन्त्यत्वात्प्रभावस्य शक्योऽत्र हेतुरुन्नेतुम्। अन्यथा सर्वेषामेव द्रव्याणां यथोक्तकर्माभावः प्रसज्येत। कस्मादेवम्। न मधुराभ्यां रसपाकाभ्यां श्लेष्माणं रूक्षशीताम्यां वायुं कोपयन्तीत्यादि सर्वमुदाहार्यम्। तस्मान्मन्दकादिवद्भूबाष्पादयो दोषकोपना न शमना इति स्थितम्। द्वितीये तु व्याख्याने दूष्यन्त एभिरिति दूषणानीत्यस्मिन्नयं परिहारः। भूवाष्पादिभिरग्नेरुपघातः साक्षाद्भवति न वातादिप्रकोपः। अग्नादुपहते वातादिप्रकोपो भवति। तथा च। भूबाष्पान्मेनिस्प(प्य)न्दाज्जलपा काच्चाम्लादग्निबले हीने पवनादयः कुप्यन्तीत्युक्तं न तु भूबाष्पादिभिः कुप्यन्तीत्युक्तम्। शमप्रकोपौ दोषाणां सर्वेषामग्निसंश्रयौ। ननु कथं तर्हि, अनिलादीनां दूषणानि। पारंपर्येणेति ब्रूमः। ननु गुरुशीतादीन्यग्निमान्द्यक्रमेणापि दूषणानि स्सुस्तत्र कालनिमित्ताधिकारात्। अत एव मन्दकादीनामनिलादिदूषणत्वेनोपादानात्। आद्ये पक्षे भूबाष्पादयोऽग्निमान्द्यं कस्मात्कुर्वन्तीति चैन्न। अपर्यनुयोज्यो हि वस्तुस्वभावोऽग्निमान्द्यदर्शनात्प्रतिपत्तव्यः। यश्च व्यभिचारः केषां चिद्वर्षासु नाऽऽदानदुर्बलदेहत्वम्। न चाग्निमान्द्यं दृश्यते। तत्रापूर्वनिमित्तं बोद्धव्यम्। तस्मादग्निमान्द्यनिमित्ता पवनादीनां दुष्टिरिति चोद्यानवकाश एव।नन्वग्निमान्द्येमारुतकोपोऽनुपपन्नस्तीक्ष्णाग्नेः शासनात्। वचनं हि—बली पक्ता भवति हेमन्ते यावदतो वायुः प्रकुप्यति। तस्मात्स्थूलस्याग्नितैक्ष्ण्यात्पवनवृद्धिरिति शास्त्रम्।उच्यते। न मन्दाग्नित्वं समीरणं कोपयति किं तर्हि भूबाष्पादयः। द्वितीये तु व्याख्यानेऽग्निमान्द्यादाहारस्यासम्यक्पक्त्या प्रायः किट्टाभिनिवृत्तिर्न तथा रसस्य। किट्टाश्चवातादिजन्म।किट्टाद्वातमूत्रपुरीपपित्तश्लेष्माण इति वचनात्। रसाच्च सर्वेषां शरीरिणां शरीरस्य च स्थितिस्तदल्पत्वात्परिहीणे ज्यायसि वातो बह्वग्नेः कुप्यति मातरिश्वा पूर्वसंचित इति सांप्रतम्। ननु कोपे संशयः, त्रयव्यवस्थापनात्। क्षयः स्थानं च वृद्धिश्च दोषाणां त्रिविधा गतिरिति। न चात्र कोप उदाहृतः। तत्किंचतुर्विधा दोषगतिः। यदि चतुर्थी तर्हि तत्रैवोपसंहर्तव्या। उच्यते। नावस्थाविशेषादिह व्यवस्था वृद्धेः। यदाऽभिव्यञ्जकं कारणं नोपलभ्यते तदा वा दोषश्चित इत्याख्यायते।यदा त्वीरकं हेतुमासाद्य व्याधिजननाभिमुखः पूर्वरूपाणि दर्शयति तदा कुपित इत्येतामाख्यां विन्दति। आह। वृद्धो दोषश्चयावस्थायां रोगान्न जनयति कुतो हेतोः। उच्यते। सामर्थ्यादविसर्पतो दोषस्य चात्र हेतुमुत्तरकालम्(?)।

“तत्रस्थाश्च विलम्बन्ते कदाचिन्नासमीरिताः।
नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिणः॥

आह। कुप्यन्ति पवनादय इत्ययुक्तम्। यस्मात्—

“चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्।
भवन्त्येकैकशः षट्सु कालेष्वभ्रागमादिषु”॥

इते वायोरेव केवलस्य वर्षासु कोप उक्तो न सर्वेषां वातादीनाम्।ब्रूमो वातायेत्येतस्मादभि-धानादिदमावेदयति। वायुरेव स्वतन्त्रः प्रकर्षेण कुप्यति तत्प्रेरितौ पित्तश्लेष्माणौ।दृष्टं चैतद्बलवान्स्वतन्त्रो दोषो दुर्बलमस्वतन्त्रं दोषमादाय व्याधिं जनयतीति

“प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षयः”एवमादि।

तथा—“वायुरेव स्वतन्त्रत्वाद्द्वयोस्तत्राप्युदीरकः।
कुपितस्तौ समुद्धूय तत्र तत्र क्षिपन्गदान्”॥
करोत्यावृतमार्गत्वात्”इत्यादि।

एवं वसन्ते बलासः स्वतन्त्रः कुप्यति शरदि च पित्तम्। वक्ष्यति चेतरयोरनुबलत्वम्।

यथा—“आदानमध्ये तस्यापि वातपित्तं भवेदनु”।

तस्य चानुबलः कफ इति। कियन्तः915 शिरसीये च पठ्यते(?)—

“प्रकृतिस्थं कफः पित्तं यदा वातपरिक्षये।
संनिरुध्यात्तदा कुर्यात्सतन्द्रागौरवं ज्वरम्॥

तथा—“प्रकृतिस्थं यदा वातं पित्तं कफपरिक्षये।
संरुणद्धि तदा दाहः शूलं चास्योपजायते”॥

तस्माच्चयप्रकोपप्रशमा इत्यत्राप्राधान्यात्पित्तादीनां ग्रहणमतोऽविरोधः। आह। पाकादम्लाज्जलस्येत्यनुपपन्नमपां मधुरपाकित्वात्। न केवलमेतदन्यच्च वक्ष्यते—

“वर्षास्वम्लावपाकाभिरद्भिरोषधिभिस्तथा।
संचितं पित्तम्”इति।

तथा—“अद्भिरोषधिभिश्चैव मधुरामिश्चितः कफः।

हेमन्ते”इत्येतच्च न युज्यते। प्रतिनियताकत्वादोषधीनाम्। तथा च वक्ष्यति—

“कटुतिक्तकषायाणां विपाकः प्रायशः कटुः।
अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा”॥

आह। मधुरादिरस आहार उपयुक्तः प्रावृषि कालखाभाव्यादम्लं विपच्यते। हेमन्ते चाम्ललषणादिर्मधुरं प्राप्तस्तर्हि कालायत्तो रसानां पाक इत्येवं सत्यनवस्थितस्वभावानि द्रव्याणि स्युः।कश्चैवं सति दोष इति। ‘शीता रसे विपाके च मधुराः स्वल्पमारुताः’। तथा।मधुरा मधुराः पाके त्रिदोष-शमना इत्यन्नपाननिर्देशःप्लवेत। अत्रकेचिदाचक्षते। अग्नेर्बलावलाधीनो विपाकः। तथा दुर्बलिनाऽग्निना सम्यक्पक्तुमसमर्थेन विदह्यत आहारः। ततो द्रव्याणां स्वाभाविकः पाको न भवति।

यथोक्तम्—“दुर्वलो विदहत्यन्नं तद्यात्यूर्ध्वमधोऽपि वा।
अधस्तु पक्वमामं वा प्रवृत्तं ग्रहणीगदः॥
उच्यते सर्वमेवान्नं प्रायो ह्यस्य विदह्यते”॥

पुनश्चोक्तम्—“तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता”।

तदैवं सर्वस्यैवाऽऽहारस्य कटुकविपाकस्य मधुरविपाकस्य च दुर्बलोऽग्निः स्वाभाविकं पाकं बाधित्वाऽम्लविपाकं करोतीति तन्त्रे निरूपितं स्पष्टम्। वर्षासु दुर्बलोऽग्निर्भवति। तत्कृतश्चाम्लः पाकः पानौषधीनां च। हेमन्ते त्वतिबलत्वा दग्नेर्द्रव्यस्वभावविपरीतो मधुरः पाको भवति सर्वेषामेव द्रव्याणां यतस्तत्रौषध्या(ध्यो) मधुराः परिणतवीर्या भवन्ति। तत्र वर्षास्वोषधयस्तरुण्योऽल्पवीर्या आपश्चाप्रशान्ताः क्षितिमलप्राया उपयुज्यमाना नमसि मेघावतते जलप्रक्लिन्नायां भूमौ क्लिन्नदेहानां शीतवातवर्ष-विष्टब्धाग्नीनां विदह्यन्ते विदाहात्पित्तसंचयमापादयन्ति। ता एवौषधयः कालपरिणामात्परिणतवीर्या बलवत्यो हेमन्ते भवन्त्यापश्च प्रशान्ताः स्निग्धा अत्यर्थं गुर्व्यस्ता उपयुज्यमाना मन्दकिरणत्वाद्धानोः सतुषारोपस्तब्धदेहानामविदग्धाः स्नेहागौरवादुपलेपित्वाञ्च कफसंचयमापादयन्तीति। भट्टारक-हरिश्चन्द्रस्त्ववादीत्। तत्कालं खल्वोषधीनामुत्पद्यमानानां मधुरलवणकट्वादीनामनुरसः काल-स्वभावादम्ल उपजायते। तथा विपाकस्य मधुरस्याभिनिवर्तमानस्यानुरसोऽम्लोऽमिनिवर्तयति। ततः स्वकारणादत्र पित्तसंचयः प्रावृषिको भवति। तं चानु श्लेष्मणः। वक्ष्यति च—तस्य चानुबलः कफः। न चाचितस्य प्रकोपो न्याय्यः। किं चाम्लविपाकानामोषधीनामुपजनकस्तत्कालं भूयिष्ठं नेष्टयवक्रमो मधुरविपाकस्य व्याकरणीयः। अथवाऽऽदावस्मिन्कालद्वयेऽन्यथा द्रव्यमन्यत्र यथैव विहिता व्यवस्था तथैवेति। वयं तु मन्यामहे, अयमेवोत्तरपरिहारः। किं त्वस्मिन्कालद्वयेऽप्यन्यथा द्रष्टव्यं किंचिदेव द्रव्यं न सर्वम्। तथा हि। रक्तशाल्यादीनां स्वास्थ्यानुवर्तनाय विहितानां न कालबाघ उत्कृष्टवीर्यत्वात्। स्याच्चेन्नस्वास्थ्यमनुवर्तेत। न तु वर्तयन्ति च। तस्मादितरेषां सम्यग्लक्षणेन कालेन बाधः। अत एवोक्तम्—विहितान्यथाचारिणां धातुवैषम्यम्।विषमस्वस्थवृत्तानामेते रोगास्तथा परे। आह। सकृन्नियोक्तव्ये वर्षासंशब्दने किमर्थं बहूनि वर्षासंशब्दनानि क्रियन्ते। उच्यते। प्रथमं तावद्वर्षासंशब्दनमृत्वधिकारार्थं तदन्तरेण ग्रीष्माधिकारस्य प्रवृत्तत्वात्। ग्रैष्मिक एवायं विधिरापतेत्। वर्षास्वग्निबले हीने, इत्येतच्च निमित्ततां दर्शयति। वर्षानिमित्तैवाग्नेर्मन्दता वातादिकोपश्च। यदि हि वर्षातापस्तद्भूबाष्पादीनामसंभवान्न स्यात्त्रिदोषकोपोऽग्निमान्द्यंच।तृतीयं तु वर्षाग्रहणं तस्मात्साधारणः सर्वो विधिर्वर्षासु वक्ष्यत इत्येतदवधारणार्थम्। अपि त्रयाणां दोषाणां कोषे पावकमन्दत्वे च साधारणः सर्वो वर्षास्वेव वक्ष्यते नान्यत्र। तेन वसन्ते त्रयाणां दोषाणां वर्षास्विव कोपसंभवेऽपि न साधारणो विधिः क्रियते।भिषगीश्वरसेनस्तु व्याचष्टे—वर्षास्वेवःसाधारणो विधिर्यस्मादत्र त्रयाणामपि प्रकोपोऽस्तीति। अन्येष्वृतुषु सत्यप्यन्यदोषप्रकोपे न साधारण उपक्रमः। यतः शरदि तावत्सत्यपि कफप्रकोपे तस्य चानुबलः कफ इति वचनादुपशान्ते पित्तप्रकोपेऽनुचलःकफो भवति, अनु बलं यस्य स भवत्यनुबलः क्षीणपित्ते यदाऽऽत्मलाभं लभतेऽतस्तदा कफस्यैव क्रिया न वातपित्तयोरिति नास्ति साधारणत्वम्। तथा वसन्ते क्षीणे श्लेष्मणि पश्चांदादानमध्ये तस्यापि वातपित्तं भवेदनु, अतस्तयोरेव तदा विधिर्भवति न कफस्येति साधारणो न भवति॥५२॥

तमेव साधारणं विधिं निर्दिदिक्षुराह—

अग्निं संरक्षता सेव्या यवगोधूमशालयः॥
पुराणा जाङ्गलैर्मांसैर्भोज्या यूषैश्च संस्कृतैः॥५३॥

ननु च यथा शरद्वसन्तयोः संशोधनमभिहितमेवं किमिति वातप्रकोपकाले वर्षासु संशोधनं नाभि-हितम्।यथा तत्त्रान्तरे—

“वसन्ते वमनं कार्यं शरद्यपि विरेचनम्।
वर्षासु बस्तिरुभयं स्वस्थवृत्तमवेक्ष्य च”॥

अत्र ब्रूमः।भूबाष्पादिभिरग्निदोषाद्वा प्रचयपूर्वकं प्रकोपमनिलादीनामास्थाय साधारणो विधिरुपदिष्टः। यस्तु विहितव्यत्ययाचारकृतो निचयपूर्वकःप्रकोपस्तत्र विधास्यति—

“हैमन्तिकं दोषचयं वसन्ते प्रवाहयेद्ग्रीष्मजमभ्रकाले” इति॥

उत वा यस्मात्साधारणः सर्वो विधिरित्यनेनोभौ संशोधनसंशमनलक्षणौ विधी उभयोर्दोष-प्रकोपयोश्चयाचयपूर्वयोः शास्तीति न दोषः। बस्तेश्च साधारणत्वम्—

“बस्तिर्वाते च पित्ते च कफे रक्ते च पूज्यते।
संसर्गे संनिपाते च”इति तन्त्रान्तरात्।

** स्वतन्त्रे**ऽपि—

“विट्श्लेष्मपित्तानिलमूत्रकर्षी दार्ढ्यावहः शुक्रबलप्रदश्च”इति॥५३॥

भूबाष्पपरिहारार्थं शयीत च विहायसि॥५४॥

** विहायसीति।**खट्वादौ॥५४॥

किमत्र वर्ज्यमित्याह—

उदमन्थं दिवास्वनमवश्यायं नदीजलम्॥
व्यायाममातपं चैव व्यवायं चात्र वर्जयेत्॥५५॥

** उदमन्यमिति।** उदकाप्लुतान्सक्तून्। स च तक्राम्लादिभिरपि संभवति तद्व्युदासायोदमन्थमित्याह।उदकेन मन्थ उदमन्थः। ननु पित्तसंचयकाले पित्तश्लेष्महरस्य मन्थस्य कस्माद्वर्जनम्। सक्तुनां वातलत्वाद्वातकोपापेक्षया प्रतिषेध इति चेन्न सर्पिःसंस्कारेण तदपगमात्।

“सक्तवः सर्पिषाऽभ्यक्ताः शीतवारिपरिप्लुताः।
नात्यच्छा नातिसान्द्राः स्युर्मन्थ इत्यभिधीयते”॥

उच्यते। कालवशात्तादृश्यस्य शक्तिरुदेति यया तदा विहितं स्यात्। स्तैमित्यकरणाद्वा—“ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नात्मकुप्यतः। श्लेष्मपित्ते”अतोऽस्य निषेधः। अवश्यायस्य तु पुरोवातादीञ्जह्यादिति त्यागं वक्ष्यत इत्याह। पुनर्विशेषार्थवचनम्। नदीजलस्य तु वर्जनम्—वर्षाजलवहा नद्यः सर्वदोषसमीरणाः। इति कृत्वा व्यायामातपव्यवायानां च वातकोपकत्वात्॥५५॥

इदानीं शरदृतुमभिप्रेत्य हेतुमत्सेव्यासेव्यं निर्दिदिक्षुराह—

वर्षासु संचितं पित्तं प्रायः शरदिकुप्यति॥

प्राय इत्यनेन वर्षासु पित्तचयप्रत्यनीकं विधिं सम्यगाचरतो न भवत्यपि चयः।

अथ बाष्पचन्द्रव्याख्या—प्रायःशब्दो विशेषार्थो विशेषेण शरदि कुप्यति पूर्वर्तौसंचितत्वात्। न चाचितो न कुप्यति। किं च विशेषेण प्रचितत्वात्। अथवा प्रायो बाहुल्येन शरदि कुप्यति। अन्यदाऽपि प्रकोपात्। शरद्धहणमिहाऽऽधिकारिकम्। इतः प्रभृति यद्वक्ष्यते विधानं तत्सर्वं शरदि वेदितव्यम्। आह। चितं पित्तमित्ययुक्तं चयहेत्वभावात्।

“तस्मात्साधारणः सर्वो विधिर्वर्षासु शस्यते” इति।

यदा शेषदोषप्रशमनो विधिरुपदिष्टस्तदा चायकहेत्वसंभवादाचितं पित्तमित्ययुक्तम्। अत्र संचक्ष्महे। सर्वमेवैतन्निर्णीतं विहितान्यथाचारिणाम्—

“वर्षास्वम्लविपाकाभिरद्भिरोषधिभिस्तथा।
संचितं पित्तम्”इति॥

तत्र यथोक्तविधिचारिणां कालस्वभावादचितकुपितपित्तसंशमनमाह—

तत्रान्नपानं मधुरं लघु शीतं च तिक्तकम्॥
पित्तप्रशमनं सेव्यं रेचनं रक्तमोक्षणम्॥५६॥

आचितं पित्तं शरदि कुप्यति यत्तन्निर्हरणार्थ माह—**रेचनं रक्तमोक्षणमिति।**पित्तरोगेषु प्रधान उपक्रमो विरेकः। आचार्यकं(?) हि विरेचनं तु खलु सर्वोपक्रमेभ्यः पित्ते प्रधानतमं मन्यते विरेचनं पित्तहरणानामिति। ततः प्रागुक्ताद्रक्तमोक्षात्। असृजस्तु यदा सर्पिष्पानविरेकादिभिरतिमात्रप्रदुष्टत्वान्न पार्यते शान्तिः(न्तिं) कर्तुं तदाऽन्योपक्रमासाध्यत्वादन्ते रक्तमोक्षणं कार्यम्। अतश्चान्ते तच्छ्रावणं वक्ति। अन्यथा रक्तं शुक्रौजसी गुदमिति तस्य प्राणायतनत्वाज्जीवरक्तं तदादानाज्जीवादानं स्यात्। प्रधानधातुक्षये च महादोषः॥५६॥

इक्षवः शालयो मुद्गाःसरोम्भः क्वथितं पयः॥
शरद्येतानि पथ्यानि प्रदोषे चेन्दुरश्मयः॥५७॥

निशाप्रदोष एवं परं चन्द्रांशुसेवा नोपरि। वसां तैलमवश्यायमिति निषेधात्॥५७॥

सेव्यमभिधायासेव्यमाह—

वसां तैलमवश्यायमौदकानूपमामिषम्॥
क्षारं दधि दिवास्वप्नं प्राग्वातं चात्र वर्जयेत्॥५८॥

वसायाः पित्तश्लेष्मजननाद्वर्जनं तैलस्य च पित्तलत्वात्। वसा तु प्राणिनामुष्णवीर्याणां न तु पृषतादीनाम्। तैलं च प्रधानकल्पनया तैलमतिलं च तैलमेव कृत्वा निषिध्यते। तेन सर्षपतैलादीनां निषेधः। प्राग्वातस्याभिष्यन्दित्वाद्विशेषेण वर्जनार्थं वचनम्। पुरोवातातपावश्यायातिप्रवाताञ्जह्यादिति वर्जनस्य सिद्धत्वात्। औदकानूपाभिषस्य कफपित्तकर्तृत्वात्। क्षारदध्नोश्च। अवश्यायो दिवास्वप्नश्च व्याख्यातौ वर्षाख्याने॥५८॥

पृथक्पानं पुनर्दानं सामिषं पयसा निशि॥
दन्तच्छेदनमौष्ण्यं च सप्त सक्तुषुवर्जयेत्॥५९॥

** पृथक्पानमिति।**सक्तुमेव जलेनाऽऽप्लाव्य पिबेदिति। पृथक्केवलजलपानमित्यर्थः। पुनर्दानमुत्सृष्टस्य दानम्। निशि, अलक्ष्मीभयात्। दन्तच्छेदं दन्तच्छेदकठिनमिति ऋतुसात्म्यमुक्तम्। तथा च चरकः—

“तस्याशितीयाद्याहाराद्बलं वर्णश्च वर्धते।
यस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम्” इति॥

** चरके,** ऋतुसात्म्यप्रसङ्गेनैकः सात्म्यदेशसात्म्यव्याधिसात्म्यान्युक्तानि तान्यत्र प्रदर्श्यन्ते। ननु किमृतुसात्म्यमेवैकमुतान्यदप्यस्तीत्यत आह—

“उपशेते यदौचित्यादोकःसात्म्यं तदुच्यते”॥

उपशेते यत्सुखमादधातीत्यर्थः। उपरायः सुखानुबन्ध उक्तः।तत्तु पथ्यमपथ्यंवा। किं पुनरत्र कारणं यदपथ्यमप्याबाधां न जनयतीत्युच्यतेऽचिन्त्यात्सात्म्याभावादित्यर्थः। उत वाऽचिन्त्यात्सातत्यप्रयोगात्। नित्यानुगतं तच्छरीरस्य सहजमिव विषमाशीविषस्य नोत्पादयति पीडां तदेव लक्षणं सात्म्यमोकःसात्म्यमुच्यते। सात्म्यं नाम तद्यदात्मन उपशेते सात्म्यार्थो ह्युपशयार्थः। अथ देशव्याधिसात्म्ये कथयितुमाह—

“देशानामामयानां च विपरीतगुणं गुणैः।
सात्म्यमिच्छन्ति सात्म्यज्ञाश्चेष्टितं चाऽऽद्यमेव च”इति॥

तत्र देशो मरुरनूपश्च। ननु साधारणोऽप्यस्ति देशः।

तथा च तन्त्रान्तरीयं वचः—

“अल्पोदकद्रुमो यस्तु प्रवातः प्रचुरातपः।
ज्ञेयः स जाङ्गलो देश आरोग्यबहुलस्तु सः॥
प्रचुरोदकवृक्षो यो निवातो दुर्बलातपः।
अनूपो बहुरोगोऽसौ समः साधारणो मतः”इति॥

अत्र भट्टारकहरिश्चन्द्रेणोच्यते—मरुभूमिरारोग्यदेशानामिति। जाङ्गलस्याऽऽरोग्यं कार्यम्। अनूपोऽहितदेशानामिति। तस्याप्यनारोग्यं कार्यम्। साधारणस्य तु न किंचित्कार्यमतोऽनुमिनुयामो नोक्तोऽपि साक्षाद्विद्यत इति। अपरे त्वेवं मन्यन्ते। देशानां विपरीतगुणं सात्म्यमिष्टम्। न च साधारणस्यास्ति विपर्यय इति सतोऽपि तस्येहावचनम्। साधारणस्य तु जाङ्गलानूपविपर्यये पठितत्वात्। तदेव द्विविधस्य देशस्य विपरीतगुणं प्रतिलोमम्। कैर्गुणैः। तत्र मरोर्देशस्य गुणा रूक्षलघूष्णादयः। तद्विपरीतगुणं स्निग्धशीतादिगुणम्। किं तत्सात्म्यम्। तथाऽनूपस्य गुणाः स्निग्धगुरुशीतादयस्तेषां विपरीतगुणम्। किं तत्सात्म्यमामयो व्याधिस्तद्विपरीतगुणं संतर्पणोत्थेऽपतर्पणमपतर्पणोत्थे च संतर्पणं शीतसमुत्थे चोष्णमुष्णसमुत्थे शीतम्। आह। हेतुविपरीतमेतद्धेतुव्यतिरिक्ताच्च व्यतिरिक्तं व्याधि-विपरीतं निर्दिष्टम्। उपशयः पुनर्हेतुव्याधिविपरीतानां विपरीतार्थकारिणां चौषधाहारविहाराणां सुखानुबन्ध इति। उच्यते। सत्यमस्त्येतयोर्भेदो न ह्यत्र हेतुविपरीतं तदर्थकारि वा भेषजं प्रस्तुतं किं तर्हि सात्म्यभेदोऽत्र व्याख्यायते। तच्च हेतुविपरीतं वा भवतु व्याधिविपरीतं वा सर्वमेवेदं व्याधिसात्म्यान्न भिद्यत इत्यर्थः। व्याधिविपरीता ज्वरे यवागूः सर्पिश्च।

तथा—“प्रतिमार्गं च हरणं रक्तपित्तेऽभिधीयते”।

तथा गुल्मे—

“विमार्गाजपदादर्शैर्यथालाभं प्रपीडयेत्”॥

ननु विपरीतार्थकार्यविभेषजं व्याधिसात्म्यामिच्छति। यतो हेतुव्याधिविपरीतयोरौषधयोरर्थं व्याधिशमनलक्षणं तदपि करोति। यथा छर्द्यां वमनमतिसारे विरेचनं मदात्यये मद्यपानमतो विपरीतगुणं गुणैरित्ययुक्तं लक्षणम्। तस्यानवरोधान्नेदं व्याधिगुणैर्विपरीतगुणमर्थं तु विपरीतगुणं संपादयति। ब्रूमः। न सर्वस्मिन्रोगे तदर्थकारि सात्म्यमुपपादितं तस्माद्बाहुल्यं परिगृह्योक्तम्। ननु किं तद्विपरीतगुणं देशानामामयानां च यत्सात्म्यम्। उच्चते। चेष्टितं चाऽऽद्यमेव च। तत्र सात्म्यमुपशयः सात्म्यार्थो ह्युपशयार्थ इति वचनात्। चेष्टितं धावनलङ्घनस्वप्नास्याहर्षजागरादि। आद्यमदनीयमाहार उष्णस्निग्ध-मात्रावदादियुक्तः। एवमेतदृतुसात्म्यमोकःसात्म्यं देशसात्म्यं व्याधिसात्म्यं चेति चतुष्प्रकारं सात्म्यमुक्तम्। नन्वन्यान्यपि सात्म्यानि सन्ति। यथा षष्टिकादीनां प्रकृत्यैव हिततमानां सर्वकाल-सात्म्यम्। तथा सात्म्यार्थो ह्युपशयार्थस्य सुखानुबन्धः। षष्टिकादिभिश्च सर्वदा सुखानुबन्धो नित्यप्रयोग-वचनात्। तथा दोषविपरीतमपि दोषसात्म्यमुक्तम्—

“समपित्तानिलकफाः केचिद्गर्भादिमानवाः।
दृश्यन्ते वातलाः केचित्पित्तलाः श्लेष्मलास्तथा॥
विपरीतगुणस्त्वेषां स्वस्थवृत्तविधिर्हितः।
समसर्वरसं सात्म्यं समधातोः प्रशस्यते”॥

तथा तत्र सर्वरसं समधातुप्रवरावरमध्यस्थम्। तत्रावरमध्यमाभ्यां साम्याभ्यां क्रमेण प्रवर-मुपपादयेत्सात्म्यमिति। तदेतानि सर्वसात्म्यदोषसात्म्यरससात्म्यानि कस्मादत्र नोदाहृतानि। किं चैषां बहूनां सात्म्यानां युगपदुपनिपतितानां किं प्रयोक्तव्यमिति संदेहः। तद्यथा। हेमन्ते गोरसेक्षुवसातैलादीनि केषांचित्पुरुषाणां जन्मप्रभृत्येव तान्यनुचितानि। अन्येषां श्लेष्मप्रकृतित्वादोकःसात्म्यं न भवति। कटुतिक्तकषायास्तु रसा ऋत्वोकःसात्म्यं तथा यदि हेमन्तश्च कालो भवति। अनूपदेशश्च सिन्धुदेशो वा। तत्र तावत्किंदेशसात्म्यं क्रियतामुत हेमन्तर्तुसात्म्यम्। एवं व्याधिसात्म्येनापि भाव्यमिति। अत्रब्रूमः। यत्तावदुक्तमन्यान्यपि सात्म्यानि सन्तीति। तत्र(न्न) चतुर्ष्वेवान्तर्भावात्। तत्र व्याधिविपरीतेनैव दोष-प्रकृतिविपरीतसंग्रहाद्दोषसात्म्यम्। प्रकृतिसात्म्यंव्याधिसात्म्येनैवोक्तं प्रतिपत्तव्यम्। रससात्म्योपदेशोऽपि ऋत्वोकःसात्म्योपदेश एवान्तर्गतो ज्ञेयः। सर्वकालसात्म्यमृतुसात्म्येऽन्तर्भवतीति यतस्ततः षट्स्वप्यृतुषूपदिश्यत इति। यच्चोक्तम्।बहूनां युगपन्निपतितानां किं प्रयोक्तव्यमिति। अत्राप्युच्यते। किंचिदेव कस्यांचिदवस्थायां बलवत्त्वात्प्रधानम्। तस्यैव प्रयोगो नेतरस्य तत्रर्तुसात्म्या द्देशसात्म्यं बलवद्यदृतुसात्म्यं सर्वदेशसामान्यं देशलात्म्यं चैकदेशत्वाद्विशेषः। देशसात्म्यमपि तत्र देशे सर्वपुरुषसात्म्यकस्तु प्रात्यात्मिकत्वाद्विशेषः। ऋत्वोकःसात्म्यादपि व्याधिसात्म्यं बलवद्व्याधेः पीडाकरत्वात्कादाचित्कत्वाच्च। सात्म्याविशेष-भावाच्चोत्सर्गस्यापवादेन बाधो भवति। वचनादपि बलवत्त्वं गम्यते।

यथोक्तम्—“ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नात्प्रकुप्यतः।
श्लेष्मपित्ते दिवास्वप्नस्तस्मादन्येषु नेष्यते”॥

एवमृतुसात्म्यमुक्त्वा पुनरवोचत्—

“गीताध्ययनमद्यस्त्रीकर्मभाराध्वकर्षिताः।
अजीर्णिनः क्षताः क्षीणा बाला वृद्धास्तथा बलाः॥
सर्व एते दिवास्वप्नं सेवेरन्सार्वकालिकम्”इति।

अतो विज्ञायते, ऋतुसात्म्याद्व्याधिसात्म्यं बलवत्। तथा ग्रीष्मे स्वप्नमृतुसात्म्यमुक्त्वा पुनरवदत्—

“मेदस्विनः स्नेहनित्याः श्लेष्मला श्लेष्मरोगिणः।
दूषीविषार्तश्च दिवा न शयीरन्कदाचन”इति॥

ग्रीष्मकालेऽप्येषां प्रतिषेधादृतुसात्म्याद्व्याधिसात्म्यस्य बलवत्त्वमुक्तम्। नवज्वरे दिवास्वप्नप्रति-षेधाद्ग्रीष्मे च विधानादृतुसात्म्यायाधिसात्म्यं बलवद्यथा देशसात्म्यौकःसात्म्याच्चोभयस्मादपि व्याधिसात्म्यं बलवत्। यथोक्तम्।येऽप्यतिलवणसात्म्याः पुरुषास्तेषां खलतीन्द्रलुप्तपालित्यानि वलयश्चाकाले भवन्तीत्यनागतव्याध्यवे(पे)क्षया देशशरीरसात्म्ययोः प्रतिषेधमाह।

तथा—“आगन्तुनामनुत्पत्तावेष मार्गो निदर्शितः”इति॥

** पाखण्डिका** अप्याहुः—

“तत्रौकःसात्म्यं सामान्यं सर्वदेशेषु संभवात्।
ऋतोर्देशविशेषो हि सामान्याद्बलवान्यतः॥
देशौकःसात्म्ययोरोकःसात्म्यं तु बलवन्मतम्”।

ऋत्वोकःसात्म्यादपि व्याधिसात्म्यं बलवदुच्यते—

“तद्यथा कण्ठरोगे तु प्रश्वासगलरोधिनि।
ग्रीष्मर्तौ सिन्धुदेशे च पुंसि क्षीराज्यशालिनि॥

मुक्त्वा सात्म्यत्रयं व्याधिसात्म्यमेव प्रयोजयेत्।
कटुतिक्तकषायादि रूक्षं यच्चापतर्पणम्॥

न ह्यस्यां व्याध्यवस्थायां ग्रैष्मिके विधिरिष्यते।
न सैन्धवो विधिस्तत्र मत्स्यानूपामिषादिकः॥

नापि तत्र च शाल्यन्नक्षीराज्यादिहितं तदा।
अनया तु दिशा सर्वमूह्यं सात्म्यबलाबलम्॥

मिथःसात्म्याविरोधी स्यादनुरोधे तु योजयेत्।
सर्वाण्येव हि सात्म्यानि तद्यथा पैत्तिके गदे॥

शरदृतौ मरौ देशे नरे मधुरशालिनि।
तत्रर्तुदोषपुरुषरोगसात्म्यं प्रयोजयेत्॥

अयमेव विधिर्ज्यायान्यत्सात्म्यानां चतुष्टयम्।
प्रयुज्यते विरोधेन विरोधे ज्ञापितो विधिः॥

सात्म्यस्य नियमो ह्येष आत्मना सह यस्थितम्।
आत्मा ह्यनुमतो देहो यदा द्रव्योपयोगतः॥

विकारं नैव भजते तस्मात्सात्म्यं निरुच्यते”।

ययोस्तु विरोधः शक्यते कर्तुम्।यथा—

“क्षीरसात्म्यास्तथा प्राच्या मत्स्यसात्म्याश्च सैन्धवाः”॥

क्षीरमत्स्ययोर्देशसात्म्यमृतुसात्म्यं चेत्यविरुद्ध एवप्रयोगस्तयोस्तस्मात्सर्वं युक्तम्॥५९॥

धातूनाह—

रसासृङ्मांसमेदोस्थिमज्जशुक्राणि धातवः॥

दोषानाह—

वातपित्तकफा दोषा विण्मूत्राद्या मला मताः॥६०॥

वायुश्चात्र प्रधानत्वादग्रे निर्दिष्टः। प्रधानो हि दोषेभ्यो वायुः शीघ्रकारित्वाच्छुभाशुभार्थकरणं प्रति समर्थतरत्वाद्राजवदुपचाराद्बहुतरविकृतविकारकर्तृत्वाच्च। तं चानु पित्तं मध्यकारित्वान्मित्रवदुप-चारात्ततोऽल्पतरविकारकर्तृत्वाच्च।तदनु च श्लेष्मा चिरकारित्वाद्भृत्यवदुपचारादल्पतमरोग-कर्तृत्वाच्चेति। इदं तत्र विचार्यं कस्माद्वातादय एव दोषा उच्यन्ते न तु धातवः। यावता धातूनामपि रसादीनां वातादिभिः समानः सर्वः पृथङ्निदानादिनिर्देशः कृतः। तत्र निदानं तावद्यथा वातादीनां पृथगुक्तं तथा रसादीनामपि—

“गुरुशीतमतिस्निग्धमतिमात्रनिषेविणाम्”इत्यादि॥

तथा प्रदुष्टबहुतीक्ष्णोष्णैर्मद्यैरित्येवमादि। स्थानमपि रसवहानां स्रोतसां हृदयं मूलम्। दशविधमन्यः। शोणितवहानां स्त्रोतसां यकृन्मूलं प्लीहा चेत्येवमादिकम्। विकारा अप्यश्रद्धा चारुचिश्चास्य वैरस्यमित्याद्याः।उपक्रमोऽपि—

‘रसजानां विकाराणां सर्वं लङ्घनमौषधम्’॥

इत्येवमादि। दोषसंज्ञा पित्तता यस्मात्पित्तं शोणितमेव वा। यदि कुप्यतीत्युक्त्वा यथोल्वणस्य दोषस्येत्युक्तम्। तथा दौर्गन्ध्यं मेदोदोषादिति स्यान्न च पृथङ्निदानादिनिर्देशाद्दोषा इति ब्रूमः किं तर्हि दुष्यन्ति यस्मात्। यद्येवं तत्सिद्धं धातूनामपि दोषत्वं यस्मात्तेऽपि दुष्यन्ति। आगमो हि। तेषां प्रकोपात्स्थानस्थाश्च विमार्गगाश्च शरीरधातवः प्रकोपमापद्यन्ते।

तथा—“शरत्कालप्रभावाच्च शोणितं संप्रदुष्यति”।

नैतदेवं धातवो हि दोषैर्दूष्यन्ते न स्वयं दुष्यन्ति। यथोक्तं तेषां सर्वेषामेव वातपित्तश्लेष्माणो दुष्टा दूषयितारो भवन्ति दोषास्तु स्वतन्त्रा एव दुष्यन्ति न दोषान्तरेण दूष्यन्ते। तस्माद्वातादय एव दोषा न धातवः। एवमादि न युज्यते। यस्माद्वातादयोऽपि निदानैर्दूष्यन्ते स्वतन्त्रा दुष्यन्ति च। तथा दोषेणापि दोषो दूष्यते। यथा प्रकृतिस्थं पित्तं वायुना कुपितेन तद्धि दूषितं दाहादीञ्जनयति।

उक्तं च—“प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षयः”इत्यादि।

न चैतावता वातादीनामदोषत्वं तद्वद्धातूनामपि भविष्यति तथा धातवोऽपि दूष्यन्ते स्वतन्त्रा दुष्यन्ति च येन धातुजा व्याधयः सहजार्शोरक्तस्त्रावादयो दोषकोपः पश्चादुक्तः। जन्मप्रभृत्येव हि गुदे(द)जैरावृतो मार्ग इत्यादिना ग्रन्थेन। रक्तस्रावश्च विरेचनव्यापत्तिनिमित्तो दोषानन्तरेण जायते—

“दोषान्हत्वा विनिर्मथ्य जीवं हरति शोणितम्”॥

इत्यादिवचनादिति। तर्हेि दूषणाद्दोषा इति ब्रूमः।दूष्याणां रसादीनां धातूनां वातादयो यस्माद्दूषयन्ति तस्माद्दोषा इति। एवमपि सिध्यति धातुनां दोषत्वं यस्माद्धातवोऽपि धातून्दूषयन्त्यतो धातुष्वपि दोषत्वं प्राप्नोति। उक्तं च। धातवश्च धातून्प्रदूषयन्ति प्रदुष्टाः। धातूनां दूष्यत्वान्न दोषप्राप्तिर्भविष्यतीति चेदेवं सति वातादिष्वपि न दोषत्वप्राप्तिर्भविष्यति। यस्मात्तेऽपि संनिकृष्टनि-दानैर्दूष्यन्ते। एवं तर्हि दूषणस्वभावद्दोषा इति व्याख्यानं करिष्यामः। दोषाः स्वभावाद्धि वातादयः। यथोक्तं वातपित्तश्लेष्माणो दुष्टा दूषयितारो भवन्ति दोषस्वभावात्। दोषो दुष्टत्वं स स्वभावो येषां ते दोषस्वभावाः। तस्माद्दोषस्वभावात्तद्दोषा इति। एवमपि न युज्यते यस्मादेवमिष्यमाणे समावस्थानामदोषत्वं प्राप्नोत्यदोषवचनंच दुष्टत्वाभावात्। न हि समावस्थानां वातादीनां दुष्टस्वभावत्वमुपपद्यते। दोषवचनं शरीरयोगक्षेम-कर्तृत्वात्। तदुक्तं ते प्रकृतिभूताः शरीरयोगक्षेमकराः।उत मन्यसे ते दुष्टस्वभावाः शरीर-दूषणात्मकास्तदा ते दोषा न समावस्था इति। एवं सति दोषस्वभावानुपपत्तिरव्यवस्थितत्वात्। यदि दोषाणां दोषत्वं कदाचिद्भवति कदाचिन्न भवत्येवं सति स्वभावो न भवति यस्माद्व्यवस्थितः स्वभावो नाव्यवस्थित इति। तस्माद्धातूनामपि दोषत्वं सिद्धमिति। अत्र ब्रूमः। यद्यपि धातूनां वातादिभिः सर्वं समानं निर्दिष्टं पृथङ्निदानलक्षणस्थानरोगचिकित्सितदोषसंज्ञादूषणत्वादि तथाऽप्ययमत्र विशेषो येन वातादयो दोषा न धातवः। तथा हि। वातादयो धातून्दूषयन्ति नैव कदाचिद्धातुभिर्वातादयो दुष्यन्ते। परस्परं वा न दूषयन्त्यतो वातादय एव दोषा न धातवः। तर्हि दूष्याणां दूषयितव्यत्वात्। अतश्च यो रसरक्तादीनां धातूनां गुरुशीततीक्ष्णोष्णादेर्निदानात्प्रकोपः। स दोषप्रकोपणद्वारेणैवोत्पद्यते। दोषा एव हि तैस्तैर्निदानैर्दुष्टा रक्तादीन्यधिष्ठाय दूषयन्ति न तु वातादिदोषप्रकोपनिरपेक्षा धातवः कुप्यन्तीति। वाद्वयं(?)येऽपि रसरक्तजा व्याधय इत्युक्तास्ते तत्रस्थैर्दाषैर्दूषितेषु रसादिषु जन्यन्ते।उपचारमात्रेण तु रसजा रक्तजा इति व्यपदिश्यन्ते घृतदग्धवत्। यथा घृताधिष्ठानेनाग्निना दग्धो घृतेन दग्ध इति तद्वद्रसरक्ताधिष्ठानैर्वातादिभिर्दोषैर्जनितेषु व्याधिषु रसजा व्याधयो रक्तजा व्याधय इति व्यपदिश्यन्ते। तथा चास्यैवार्धस्य साक्षिभूतमिदमाचार्य उक्तवान्। तत्र रसादिषु स्थानेषु युगपत्कुपितानां दोषाणां यस्मिन्स्थाने ये ये व्याधयः संभवन्ति तांस्तान्यथावदनुव्याख्यास्याम इति। तथा तदुपक्रमनिर्देशोऽप्युप-चारमात्रम्। रसरक्तमांसस्थितानां दोषाणां स्थानापेक्षया दोषोपक्रमे क्रियमाण उपचार-मात्रमेतद्रसस्योपक्रमो रक्तस्योपक्रम इति। योऽप्युपक्रमविशेषो रक्तजानां शोणितस्रावो मांसमेदोजानां ग्रन्थ्यर्बुदादीनां शस्त्रभेदादिर्न दोषोपक्रमविलोपनः। सोऽपि वातादिदूषितानां रक्तमांसादीनामुपेक्षणाद्यदाऽतिमहती वृद्धिर्भवति तदा तत्रस्थो दोषः शीतादिभिर्देषोपक्रमैः प्रशमयितुमशक्योऽतिवृद्धत्वात्। रक्तमांसादिजानामनेनोपायेन तत्रोपशमो भवति। उक्तं च। बहुदोषाणां पुनर्दोषावसेचनमेव कार्यम्। न ह्यभिन्ने सेतौ पल्वलप्रसेकोऽस्तीति। तस्मादुत्पत्य निपत्य वा त्रय एववातादयो दोषा न धातवो दोषा इति। एतेन तन्त्रान्तरीयाभीष्टस्य चतुर्थस्य रक्तस्य दोषस्य दोषत्वनिषेधः कृतो बोद्धव्यः। यदुक्तं **सुश्रुतेन—**यथा हि महानुदकसंचयो विरुद्धत्वात्सेतुमवदीर्यापरैरौदकैर्भावैर्व्यामिश्रः सर्वतः प्रधावत्येवं दोषाः कदाचिदेकैकशो द्वंद्वशः समस्ताः शोणितचतुर्था वा प्रसरन्ति। तत्र वातः पित्तं श्लेष्मा शोणितमित्येवमादि॥६०॥

कफपित्तानिलाः पूर्वमध्यान्तेषु व्यवस्थिताः॥
भुक्ताहोरात्रवयसां संधिष्वपि कफानिलौ॥६१॥

सुगमम्॥६१॥

कृशो रूक्षोऽल्पकेशश्च चलचित्तोऽनवस्थितः॥
बहुवाग्व्योमगः स्वप्ने वातप्रकृतिको नरः॥६२॥

सुगमम्॥६२॥

अकालपलितो गौरःप्रस्वेदी कोपनो बुधः॥
स्वप्नेषु दीप्तिमत्प्रेक्षी पित्तप्रकृतिको नरः॥६३॥

सुगमम्॥६३॥

स्थिरचित्तः सुबद्धाङ्गः सुप्रजः स्निग्धसूर्धजः॥
स्वप्ने जलाशयालोकी916 श्लेष्मप्रकृतिको नरः॥
संमिश्रैर्लक्षणैर्ज्ञेया द्वित्रि(त्र) दोषान्वया नराः॥६४॥

सुगमम्॥६४॥

बहूदकनगोऽनुपः कफमारुतरोगवान्॥
जाङ्गलोऽल्पाम्बुशाखी च वातपित्तगदोत्तरः॥६५॥

सुगमम्॥६५॥

संसृष्टलक्षणोपेतो देशःसाधारणः स्मृतः॥६६॥

ननु साधारणस्योभयलक्षणत्वमयुक्तं परस्परपरिहारस्थितिधर्मकत्वात्। न ह्यानृपजाङ्गलयोर्लक्षणानि मिथोत्यन्त विलक्षणानि शीतोष्णवदेकत्र संभवन्ति। अवयववृत्तित्वात्सिद्धिर्भविष्यति। साधारणो हि क्वचिदनूपलक्षणः क्वचिज्जाङ्गललक्षणश्चित्रपटवदिति चेत्। नैवम्। यो हि साधारणस्यावयवोऽनूपलक्षणः सोऽनूप एव यो जाङ्गललक्षणः स जाङ्गल एवातल्लक्षणत्वात्तत्कार्यत्वाच्च। तस्मादेतदेवं प्रतिपत्तव्यं य एतेऽनूपजाङ्गलयोर्बहुनिम्नोन्नतादयो व्यञ्जनविशेषास्तैरेवानतिशयसहितैः साम्यावस्थितैः साधारणो मन्तव्य इति॥६६॥

अमुमेवाभिप्रायमाह—

समाःसाधारणे यस्माच्छीतवर्षोष्णमारुताः॥
समता चैव दोषाणां तस्मात्साधारणो वरः॥६७॥

तस्मादनूपजाङ्गलवेदनानामपि साम्यमेव वेदितव्यम्॥६७॥

क्षीरितिक्तकषायाणां द्वादशाङ्गुलमायतम्॥
दन्तकाष्ठं निषेवेत मुखरोगप्रणाशनम्917॥६८॥

तिक्तकषायादि दन्तकाष्ठं प्रत्युषसि कफप्रकोपनिवारणाय।दन्तधावनस्य द्वादशाङ्गुलत्वं सुख-ग्रहणसंचारणार्थम्॥६८॥

नवज्वरास्यशोषादौ न सेव्यं दन्तरोगिणा॥
प्रतिपद्दर्शषष्ठीषु नवम्यां चैव भारत॥६९॥

सुगमम्॥६९॥

दन्तानां काष्ठसंयोगो दहत्यासप्तमं कुलम्॥७०॥

सुगमम्॥७०॥

पत्रैः स्याद्बकुलादीनां तत्र दन्तप्रघर्षणम्॥

सुगमम्॥

जिह्वानिर्लेखनाद्रोगास्तद्गता न भवन्ति हि॥७१॥

सुगमम्॥७९॥

बहिर्मुखप्रक्षालनमाह—

पित्तरक्तकृता रोगा न स्युर्व्यङ्गादयो मुखे॥
भिल्लोटककषायेण धात्रीक्वाथेन धावनात्॥७२॥

आदिशब्दान्नीलिकामुखशोषपिटिका गृह्यन्ते। भिल्लोटकेति। भिल्लोटको हिमवद्वनान्ते केदार-भूमौ प्रसिद्धः। गयी तु भिल्लौटककषायम्॥७२॥

अन्तर्मुखप्रक्षालनमाह—

आमलकस्य कषायेण नेत्रे प्रक्षालयेत्। उभयं शीतोदकेन वा॥७३॥

दृष्टिपरिमार्जनार्थं मुखस्य कान्त्यै त्रिदोषशमनाय॥
सौवीराञ्जनमुक्तं लोचनयो रञ्जनं मुनिना॥७४॥

सुगमम्॥७३॥७४॥

सामान्याञ्जनगुणमाह—

शोभार्थमञ्जनं कृष्णं शलाकाभिर्यथेप्सितम्॥
पक्ष्मलं विशदं कान्तममलोज्ज्वलमण्डलम्॥
नेत्रमञ्जनसंयोगाद्भवेच्चामलतारकम्॥७५॥

पक्ष्मलं घनरोमान्वितम्।कान्तं कमनीयम्।अञ्जनसंयोगादिति। अञ्जनं सौवीराञ्जनादि॥७५॥

श्रान्ते प्ररुदिते चैव मद्यपीते नवज्वरे॥
उष्णवेश्मनि दाहे च अञ्जनं नैव शस्यते॥७६॥

सुगमम्॥७६॥

निर्गदं निर्मलं चक्षुर्भवत्यञ्जनयोगतः॥
प्रतिमर्शस्ततो देय ऊर्ध्वजत्रुगदापहः॥७७॥

सुगमम्॥७७॥

मुखशुद्धिश्च पूगादिकर्पूरसुमनःफलैः॥७८॥

श्लेष्महननाय कल्पत इति कर्पूरः॥७८॥

अभ्यङ्गोत्सादनस्नानगन्धमाल्यादिभूषितः॥
पादत्रच्छत्रदण्डैश्च विचरेच्च यथासुखम्॥७९॥

अभ्यङ्गस्तु विशेषेण कार्यो विपरीतगुणैर्वातं जित्वा वीर्यादिकरत्वात्।

** उक्तं च—**“स्नेहेन रौक्ष्यत्वमपास्य वायोर्यद्गौरवाल्लाघवमाशु तस्य।
उष्णेन शैत्यं विदधाति तैलं वीर्यं सुवर्णं सुबलं सुपुष्टिम्” इति॥

स्नेहस्य शिरामुखादिभिः शरीरस्य संतर्पणकालं केचिदत्र पठन्ति—

“रोमान्तेष्वनुदेहस्य स्थित्वा मात्राशतत्रयम्।
ततः प्रविशति स्नेहश्चतुर्भिर्गच्छति त्वचम्॥
रक्तं व्रजति मात्राणां शतैः पञ्चभिरेव च।
षड्भिर्मांसं प्रपद्येत मेदः सप्तभिरेव च॥
शतैरष्टाभिरस्थीनि मज्जानं नवभिर्व्रजेत्।
तत्रस्थाञ्शमयेद्रोगान्वातपित्तकफात्मकान्”॥

उत्सादनं सस्नेहकल्केनोद्धर्षणंम्।

“स्नानालेपनमाल्यानि मनोहर्षं वितन्वते॥
हर्षणान्मनसो वृष्यं प्रभावादुपजायते”।

** पादत्रच्छत्रदण्डैरिति।** पादत्रगुणाः सुश्रुत उक्ताः—

“पादरोगहरं वृष्यमायुष्यं चक्षुषे हितम्।
सुखप्रचारमोजस्यं सदा पादत्रधारणम्”इति॥

वृप्यत्वे कारणमाचार्यः प्राह—

“रेतोवहाः पादतलेषु नाड्यः स्थिता उपानद्रहितस्य तासु।
पित्तानिलाभ्यामभिधातकृद्भ्यामुत्तप्यते वीर्यमवृष्यताऽतः॥
पादत्रयुक्तस्य तु कारणैः स्वैर्वृद्धं न नाडीषु विशोषमेति।
हृतेऽपि काम्यादिह वृष्यताकृदिष्टः प्रयोगो मुनिभिः प्रदिष्टः” इति॥७९॥

श्रोत्रघ्राणशिरःपादतैलनित्योऽथ धूमपः॥८०॥

कर्णपूरणकालस्य संख्यां वाग्भटः प्राह—

“धारयेत्पूरणं कर्णे कर्णमूलं विमर्दयेत्।
रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने” इति॥

पादाभ्यङ्गगुणाःसुश्रुत उक्ताः —

“निद्राकरो देहसुखश्चक्षुष्यः पवनापहः।
पादत्वङ्मृदुकारी च पादाभ्यङ्गः सदा हितः” इति॥

पादचक्षुषोर्व्यवहितावपि पादाभ्यङ्गश्चक्षुष्यः। उक्तं च—

“चक्षुषी प्रतिबद्धे द्वे शिरे पादसमाश्रिते।
तस्माच्चक्षुष्प्रसादार्थं पादाभ्यङ्गं समाचरेत्” इति॥

वाग्भटेऽपि—

“द्वे पादमूले पृथुसंनिवेशे शिरे गते ते बहुधा च नेत्रे।
ता म्रक्षणोद्वर्तनलेपनादीन्पादप्रयुक्तान्नयनं नयन्ति”॥८०॥

पृष्ठतोऽर्कं निषेवेत जठरेण हुताशनम्॥
स्वामिनं सर्वभावेन परलोकममायया॥८१॥

सुगमम्॥८१॥

राजन्हरीतकीं भक्ष तक्रं सलवणं पिब॥
भुङ्क्ष्व वास्तुकशाकेन नश्यन्तु तव तेन ते॥८२॥

तेन त इति। ते गुदजाः॥८२॥

न वेगान्धारयेन्निद्रावातविण्मूत्ररेतसाम्॥
जृम्भाबाष्पक्षवोद्गारश्वासतृष्णावमिक्षुधाम्॥८३॥

सुगमम्॥८३॥

धारितेषु प्रजायन्ते तन्मार्गस्थानजा गदाः॥८४॥

तन्मार्गस्थानजा गदा इति। तेषां मार्गस्त्रोतसि स्थाने वाऽऽश्रये गदा जायन्त इत्यर्थः॥८४॥

धार्या वेगास्त्वशस्तानां मनोवाक्कायकर्मणाम्॥

सुगमम्॥

न पीडयेदिन्द्रियाणि न चैतान्यतिलालयेत्॥८५॥

इन्द्रियाणि रसनादीनि कदन्नाशनादिना न पीडयेन्न निगृह्णीयात्। न चैतानीन्द्रियाण्यतिलालयेदति-शयेन विलासयेत्॥८५॥

अनुयायात्प्रतिपदं सर्वधर्मेषु मध्यमाम्॥
सेवेत विषयान्काले त्यक्त्वा तत्परतां वशी॥८६॥
नातिजागरणं निद्रां सर्वभूतहितैषिताम्॥
देवगोब्राह्मणाचार्यगुरुवृद्धान्सदाऽर्चयेत्॥८७॥

सर्वधर्मेषु मध्यमां प्रतिपदं प्रतिपत्तिमनुयायात्। सर्वेष्वाचारेषु मध्यमं मार्गमनुवर्तेत नैकत्राऽऽसक्तिंकुर्यादित्यर्थः॥८६॥८७॥

चतुष्पथे नमस्कर्ता दाता यश्च918 भियंवदः॥
क्रुद्धानामनुनेता च दीनानामनसूयकः॥८८॥
आश्वासकश्च भीतानां बन्धुवत्सर्वदेहिनाम्॥
रागद्वेषनिदानानां हन्ता धर्मपरायणः॥८९॥

** दीनानामनसूयक इति।** अनसूयकोऽभ्युद्धारकः। बन्धुवदिति। करुणार्द्रमनस्कत्वेन बन्धुरिव। रागद्वेषनिदानानां हन्ता। अहंकारममकारमिथ्याबुद्धयो रागद्वेषहेतवः। रागद्वेषमूलशुभाशुभकर्मप्रसरः प्राणिनाम्। ततो विग्रहसंसारनिगडवन्धः। तं छेदयेत्परं प्रयत्नमाधाय॥८८॥८९॥

नित्यं हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः॥
दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः॥
शिरश्च पादौ च सदाऽर्चयेद्यः स्त्रियं श्रियं नाभिलषेत्परस्य॥९०॥

नित्यं सदैव हिताहारविहारौ सेवेत। तच्छीलो यः स एवंभूतो नरः। तथा दाता त्यागी त्यागवान्। तथा समः सर्वेषु भूतेषु समचित्तः। तथा सत्यपरोऽवितथवाक्। तथा क्षमावान्यः शक्तोऽपि कृतापराध-दण्डेनानुरूपेण न योजयति। तथाऽऽप्तानुपसेवते तच्छीलो यः स आप्तोपसेवी चारोगो भवति। न केवलं प्राक्तनविध्यनुष्ठानेनारोगःसंपद्यते। यावदाप्तोपसेवी चेति चशब्दार्थः।

“येषां त्रिकालमचलं ज्ञानमव्याहतं सदा।
आप्ताः शिष्टा विबुद्धास्ते तेषां वाक्यमसंशयम्”॥

इत्याप्तलक्षणमिति॥९०॥

न कुर्याच्चञ्चलं चेतो न कालमतिपातयेत्॥९१॥
प्रणयेनापि नो वाच्यं वचनं परतापि च॥
अहिंसा सततं कार्या धार्या चित्तस्य नित्यता॥९२॥

॥९१॥९२॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां श्रीश्री-
कण्ठदत्तकृतायां व्याख्याकुसुमावल्याख्यायामेकाशीतितमः
स्वस्थाधिकारः समाप्तः॥८१॥

————————

अथ द्व्यशीतितमो मिश्रकाधिकारः।

चिकित्साङ्गभूतप्रशस्तवैद्यादिनिर्देशः पारिशेष्यात्। अतो वैद्यादिपादचतुष्टयं चिकित्सासाधनं निर्दिशन्नाह—

वैद्यो व्याध्युपसृष्टश्च भेषजं परिचारकः॥
एते पादाश्चिकित्सायाः कर्मसाधनहेतवः॥१॥

व्याध्युपसृष्टो रोगी।परिचारक शुश्रूषकः पुरुषः। कर्मसाधनहेतव इति। आरोग्यहेतव इत्यर्थः। वैद्योऽभिहित आदौ प्राधान्यात्। ततश्च रोगी भेषजस्याधिकरणत्वात्। ततो भेषजं रोगनिवृत्तौ प्रधान-कारणत्वात्। शेषात्परिचारकोऽन्ते। पादा इति। चत्वारोंऽशाः।पादसंकीर्तनेन च वैद्यादीनामन्यतम-वैकल्येऽपि चिकित्सायाः सिद्धिं दर्शयति॥१॥

वैद्यादीनां गुणानाह—

तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयंकृती॥
लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः॥२॥
प्रत्युत्पन्नमतिर्धीमान्व्यवसायी विशारदः॥
सत्यधर्मपरो यश्च स भिषक्पाद उच्यते॥३॥

** तत्त्वाधिगतशास्त्रार्थ इति।** यथावदधिगतशास्त्रो यथावज्ज्ञाततदर्थश्चेत्यर्थ इति डल्लणः। सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति। असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति। तत्त्वेन यथावस्थितोऽधिगतः शास्त्रार्थो येनेति सोमःदृष्टकर्मेति। छेद्यादौ स्नेहादौ च कुशल इत्यर्थः। स्वयंकृती स्वप्रज्ञया चिकित्सायां प्रवृत्तः। लघुहस्त इति। छेद्यादिक्रियासु वेपनादिदोषरहितः। शुचिरिति। बाह्याभ्यन्तरशौचयुक्तः। शुरः, अविषादी।सज्जो पस्करभेषज इति। सज्जानि प्रगुणान्युप-स्कराणि यन्त्रशस्त्रादीनि भेषजानि च यस्य स तथा। प्रत्युत्पन्नमतिरिति। यथाकालोचितकार्याभिज्ञः। धीमान्, उक्तदुरुक्तोहापोहक्षमः। व्यवसायी, उद्यमपरो गहनेऽपि कर्म कर्तुं व्यवस्थतीत्यर्थः। विशारदःपण्डितः कृच्छ्रपदमात्रेषु न मुह्यति। सत्यधर्मपर इति। सत्यं मिथ्याभाषणनिवृत्तिः। धर्मः, अनेकसाधन-साध्यः॥२॥३॥

आयुष्मान्सत्त्ववान्साध्यो द्रव्यवानात्मवानपि॥
उच्यते व्याधितः पादो वैद्यवाक्यकृदास्तिकः॥४॥

आयुष्मानिति। प्रधानगुणदोषचिकित्सायाः प्रवृत्तेः। डल्लणस्तु—आयुष्मान्दीर्घायुः।तच्च शारीर-लक्षणैरिष्टाभावेन चाभ्यूहह्यामिति। सत्त्ववान्क्लेशसहिष्णुः। साध्यः साध्यव्याधियुक्त इत्यर्थः। आत्मवानलोलुपः। वैद्यवाक्यकृत्, वैद्यवचनकरः। आस्तिक इति। दत्तमस्ति हुतमस्ति परलोकोऽस्ति, एवं मतिर्यस्य स आस्तिकः॥४॥

प्रशस्तदेशसंभूतं प्रशस्तेऽहनि चोद्धृतम्॥
अल्पमात्रं महावीर्यं गन्धवर्णरसान्वितम्॥५॥
दोषघ्नमग्लानिकरमविकारि विपर्यये॥
समीक्ष्य काले दत्तं च भेषजं पाद उच्यते॥६॥

अल्पमात्रामित्यत्र युक्तमात्रं मनस्कान्तमिति पाठः। युक्तमात्रं युक्तप्रमाणं मनस्कान्तं मनःप्रियम्। दोषघ्नमिति। दोषशब्देन वातादय उच्यन्ते तद्दूषिता धातुमलाश्च।अथवा दोषघ्नं दुष्टिं हन्ति, अदुष्टिं च कोपयति। अग्लानिकरं हर्षक्षयं न करोतीत्यर्थः। अविकारि विपर्यय इति। विपर्ययेऽयोगादावप्यनति-विकारि। समीक्ष्येति। दोषप्रदेशबलकालविकारसत्त्वसात्म्यौषधानलवयःप्रकृत्यादिकान्परीक्ष्य दत्तमुप-युक्तं काल आवस्थिके वा॥५॥६॥

स्निग्धोऽजुगुप्सुर्बलवान्युक्तो व्याधितरक्षणे॥
वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः॥७॥

स्निग्धः प्रीतियुक्तः। अजुगुप्सुरातुरव्याधेरगोपको विकारेऽनिन्दकश्च।कष्टबीभत्सव्याधिमत्स्वपि नगर्हां बिभर्ति।**बलवानिति।**बलवत्त्वात्सर्वक्लेशसहः। युक्तो व्याधितरक्षण इति। युक्त उद्युक्तः। युक्तो निपुण इति डल्लणः। एतेन व्याधितस्य रक्षणे तत्पर इत्यर्थः। वैद्यवाक्यकृत् वैद्यवाक्य अविकल्पं करोतीत्यर्थः। **अश्रान्त इति।**खेदरहितः॥७॥

स्वदेशे निचिता दोषा अन्यस्मिन्कोपमागताः॥
बलवन्तस्तथा न स्युर्जलजा वा स्थलाहृताः॥८॥
उचिते वर्तमानस्य नास्ति देशकृतं भयम्॥
आहारस्वप्नचेष्टादौ तद्देशस्य गुणे सति॥९॥

स्वदेशे समानगुणदेशे।यथाऽनूपे निचितः कफो जाङ्गलदेशे कुपितो न तथा बलवान्भवति जाङ्गल-देशगुणेनानूपावरोधात्। जलजा वा स्थलाहृता इति। जलजाजन्तव इव स्थलं नीयमाना अबलवन्तः। वाशब्दोऽत्रेवार्थे। एतच्च वृन्दलिखितक्रमानुरोधाद्व्याख्यातम्। सुश्रुते तु—न तथा बलवन्तः स्युरित्यादिः श्लोकस्याऽऽदौ पाठः। अत्र क्रमे टीकाकाराणां व्याख्या।जलजा अनूपजा रोगाः श्लीपदादयो जाङ्गलदेशं नीता न बलवन्तः। वाशब्दाज्जाङ्गलजा अपि रोगा अनूपंनीता न बलवन्तः। स्वदेशे निचिता इत्यादिनाऽनुचिते वर्तमानस्येत्यादि¨¨¨¨¨¨¨¨¨¨हेतोश्चितकुपित-दोषस्य विसदृशगुणे देश उचिते न्याय्ये वर्तमानस्या¨¨¨¨जाङ्गलदेशे यदि¨¨¨¨¨¨स्वप्नादौ वर्तते तद्देशे भवत्येव भयम्। एवमनूपेऽपि व्याख्येयमिति डल्लणः। सुश्रुतपाठक्रमं पठित्वा, एवं व्याख्याति—

“न तथा बलवन्तः स्युर्जलजा वा स्थलात्दृताः।
स्वदेशे निचिता दोषा अन्यस्मिन्कोपमागताः॥
उचिते वर्तमानस्य नास्ति देशकृतं भयम्।
आहारस्वप्नचेष्टादौ तद्देशस्य गुणे सति”इति॥

तुल्यगुणजातस्य रोगस्य विपरीतगुणदोषचिकित्सितं दर्शयन्नाह—न तथेति।जलजा अनूप-देशजाःश्लीपदादयः। स्थलाहृता इति। जाङ्गलदेशं नीता इत्यर्थः। उक्तव्याधिकारणं दोषचयादि विसदृशदेशाश्रयं प्रथमं दर्शयन्नाह—स्वदेश इति।यथाऽनूपदेशे संचितः कफो जाङ्गलदेशे कुपितः। उचित इति। न्याय्य इत्यर्थः। यदि पुनराहारादावनुचिते वर्तते न वा भवत्येव भयं यथाऽनूपदेशे संचित कफे जाङ्गलदेशेऽपि दिवास्वप्नादि कुर्वतः पुरुषस्य भयं भवत्येव। आहारस्वप्नेत्यादि। तद्देशस्य गुणे सति जाङ्गलदेशस्य रौक्ष्यौष्ण्यादौ गुणे सत्यप्युचिते वर्तते। एतदुक्तं भवति। यद्यप्याहारस्वप्न-चेष्टादयस्तद्देशगुणा अपि सन्ति तथाऽप्युचिते वर्तते कफविपरीतगुणे वर्तत इत्यर्थः। सुश्रुतपाठक्रमे सोम एवं व्याख्याति। अन्यदेशजातस्य व्याधेर्देशान्तरगमनं प्रशमे हेतुमाह—स्वदेशे निचिता इत्यादि। स्वदेशे यथाऽनूपे संचितः कफो जाङ्गलदेशप्रकुपित उचिते न्याय्ये यदि पुनराहारादावनुचिते वर्तते तदा भवत्येव भयम्।आहारस्वप्नचेष्टादौ तद्देशस्य जाङ्गलदेशस्य रूक्षोष्णादौ गुणे सत्यप्युचित एव वर्तते। उचिते व्याध्यारम्भकदोषप्रत्यनीक एवं वर्तते॥८॥९॥

विकारेऽल्पे महत्कर्म किया लघ्वी महागदे॥
द्वयमेतदकौशल्यं कौशल्यं युक्तकर्मता॥१०॥

सुगमम्॥१०॥

क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत्॥
पूर्वस्यां शान्तवेगायां न क्रियासंकरो मतः919॥११॥

दोषावस्थाया दुर्लक्षत्वात्¨¨¨¨¨¨¨¨¨¨¨¨¨प्रमाणक्रियायोग¨¨¨¨¨¨¨¨¨¨तदानीं विश्राम्य तद्विपरीतगुणाऽन्या क्रियाकार्या। विश्रामो हि पूर्वक्रियाया अशान्त¨¨¨¨उभ्योरपि निष्फलत्वं स्यात्। अग्निमान्द्यविरोधमौषध-परिमाणेन तथाऽऽहारेणापि पच्यमानेन।

अथ डल्लणव्याख्या—क्रियाफलं यदा न दृश्यते तदाऽन्या क्रिया कर्तव्या। साऽपि विश्रमय्य कालान्तरिता सती कर्तव्येति दर्शयन्नाह**—क्रियायास्त्विति।** पञ्चरात्रान्तरिता षड्रात्रान्तरिता वाऽन्या किया प्रयोक्तव्या।संकरो युगपद्वयोः प्रयोगः॥११॥

ब¨¨¨¨¨¨¨¨¨¨¨¨¨ममाह—

गुणालाभेऽपि कर्तव्या विश्रामान्तरितक्रिया॥
सैव सैवान्यथा तस्याः पूर्ववत्संकराद्भयम्॥१२॥

सैव सैवेति वोप्साया दृष्टफलत्वात्। तस्या एवाभ्यासवृत्तिं दर्शयति विश्रामः।

“गुणालाभेऽपि सपदि सैव सैव क्रिया हिता।
कर्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि”॥

इति सुश्रुतपाठक्रमः। तत्र यस्याअपि फलं न दृश्यते साऽपि सप्तरात्राद्विश्रमय्य कर्तव्येत्याह—गुणालाभ इति। सपदि शीघ्रम्।यदा पुनः कृच्छ्रसाध्यो व्याधिस्तदा गुणस्य क्रियाफलस्यालाभेऽपि हिता या क्रिया सैव प्रयोक्तव्या। इति डल्लणव्याख्या॥१२॥

षड्भिः केचिदहोरात्रैः केचित्सप्तभिरेव च॥
इच्छन्ति मुनयः प्रायो रसस्य परिवर्तनम्॥१३॥

सुगमम्॥१३॥

परिवृत्या रसस्यैव शान्तवेगा क्रिया मता920॥१४॥

सुगमम्॥१४॥

चण्डःसाहसिको भीरुः कृतघ्नो व्यग्र एव च॥
सद्वैद्यनृपतिद्वेष्टा तद्द्विष्टः शोकपीडितः॥
यादृच्छिको मुमूर्षुश्च विहीनः करणैश्च यः॥१५॥
वैरी वैद्यविदग्धश्चश्रद्धाहीनः सुशङ्कितः॥
भिषजामविधेयश्च नोपक्रम्या भिषग्वरैः॥१६॥

सुगमम्॥१५॥१६॥

एतानुपाचरेद्वैद्यो वहून्दोषानवाप्नुयात्॥
एभ्योऽन्ये समुपक्रम्या नराः सर्वैरुपक्रमैः॥१७॥

सुगमम्॥१७॥

चिकित्सितं शरीरं यो न निष्क्रीणाति दुर्मतिः॥
स यत्करोति सुकृतं तत्सर्वं921भिषगश्नुते॥१८॥

सुगमम्॥१८॥

नैव कुर्वीत लोभेन चिकित्सापण्यविक्रयम्॥
ईश्वराणां वसुमतां लिप्सेतार्थं तु वृत्तये॥१९॥

सुगमम्॥१९॥

अधुना मानसंख्याया यथासंज्ञासंज्ञिविधानार्थमाह—

गुञ्जाभिः सप्तभिर्माषः शाणो माषचतुष्टयम्॥
द्वौ शाणौ वटकः कोलस्तौ द्वौ कर्ष उदुम्बरः॥२०॥
अक्षं पाणितलं ज्ञेयं सुवर्णं कवलग्रहः॥
पिचुर्बिडालपदकं शुक्तिः पाणितलद्वयम्॥२१॥
तद्द्वयेन पलं मुष्टिः प्रकुञ्चो बिल्वमुच्यते॥
द्वे पले प्रसृतं विद्यात्तद्द्वयं कुडवोऽञ्जलिः॥२२॥
मानिकाऽष्टपलं ते द्वे प्रस्थस्तस्माच्चतुर्गुणम्॥
आढकं कंसपात्रे च चतुर्भिद्रोण उच्यते॥२३॥
तत्पर्याया घटोन्माननल्वणार्मणसूर्पकाः॥
तुला पलशतं ताभिर्विंशत्या भार उच्यते॥२४॥

** द्वौ शाणाविति।** द्वौ शाणौ वटकःकोल इति संज्ञाद्वयम्। बदरं द्रङ्क्षणश्चेति संज्ञाद्वयं वाग्भटाज्ज्ञेयम्। अत्र शब्दान्यत्वं न तु तत्त्वत्तो भेदः। तौ द्वौ कोलो कर्प उदुम्बरोऽक्षं पाणितलं सुवर्णं कवलग्रहः पिचुर्बिडालपदकमिति कोलद्वयस्य कर्षादयोऽष्टौ।तथा तिन्दुको वाग्भटाज्ज्ञेयः।पाणितलद्वयं कर्षौशुक्तिः। तथा पिचू अष्टमिका च वाग्भटाज्ज्ञेया। तद्द्वयेन शुक्तिद्वयेन पलं मुष्टिः प्रकुञ्चो बिल्वमिति संज्ञाचतुष्टयम्।आम्रं चतुर्थिकेति संज्ञाद्वयं वाग्भटात्। द्वे पले प्रसृतिः। तद्द्वयं कुडवोऽञ्जलिश्च। अष्टपलं कुडवद्वयं मानिका। ते द्वे मानिके प्रस्थः। तस्मात्प्रस्थाच्चतुर्गुणमाढकं कंसः पात्रं संज्ञात्रयम्। चतुर्भिराढकैर्द्रोण उच्यते। तस्य पर्याया घट उन्मानं नल्वणोऽर्मणः सूर्पकश्च।इति संज्ञाः षड्द्रोणादीनां शब्दानां स्वरूपतो भिन्नानां नार्थतो भेदः।पलशतं तुला गद्यते। तानि पलशतानि विंशतिर्भार उच्यते॥२०॥२१॥॥२२॥२३॥२४॥

द्रवार्द्रयोर्विशेषमाह—

शुष्कद्रव्येष्विदं मानं द्विगुणं तु द्रवार्द्रयोः॥
ज्ञातव्यं कुडवादूर्ध्वं प्रस्थादिश्रुतमानतः॥२५॥

** वाग्भटेन** तु, एवमुक्तम्—

“द्विगुणं योजयेदार्द्रंकुडवादि तथा द्रवम्”॥

अस्य व्याख्याऽरुणदत्तहेमाद्रिभ्यां सुस्पष्टं कृत्वोक्ता। आर्द्रं त्वौषधं द्विगुणं योजयेत्। पलमित्युक्ते पलद्वयम्।यथा शुष्कार्द्रयोरेकस्मिन्योगे तुल्यपरिमाणेन निर्दिष्टयोःशुष्कद्रव्यादार्द्रं द्रव्यं द्विगुणं दत्त्वा योजयेत्। शुष्कार्द्रयोर्वा द्रव्ययोस्तुल्यपरिमाणनिर्दिष्टयोः शुष्कद्रव्याभावे सति आर्द्रद्रव्यं द्विगुणं कृत्वा योजयेत्। कुडवादि तथा द्रवमिति। कुडवादि द्रवं च कुडव इत्युक्ते कुडवद्वयम्। यथा शुष्क-द्रव्ययोरेकस्मिन्योगे तुल्यपरिमाणेन निर्दिष्टयोः शुष्कद्रव्याद्द्रवद्रव्यं कुडवादिपरिमाणसंज्ञया निर्दिष्टं द्विगुणं कृत्वा योजयेदिति। अनुक्तज्ञानार्थं परिभाषासूत्रं

वाग्भटोक्तंयथा—

“पेषणालोडने वारि स्नेहपाके तु निर्द्रवे।
कल्पयेत्सदृशान्भागान्प्रमाणं यत्र नोदितम्॥
कल्की कुर्याच्च भैषज्यमनिरूपितकल्पनम्” इति॥

अस्यार्थः। पेषणालोडने वारि स्नेहपाकेष्वनुक्तद्रवेषु वारि योज्यम्। प्रमाणानुक्कौ समभागत्वम्।कल्पनानुक्तौ कल्कः। अङ्गानुक्तौ मूलम्। प्रसिद्धेषु तदेव। यथा हरीतकीत्युक्ते फलम्। अनिर्दिष्टाप्रसिद्धेषु मूलं ग्राह्यंत्वगादिष्विति संग्रहवचनात्॥२५॥

द्वैगुण्यं न तुलामान इति मानविदो विदुः॥२६॥

सुगमम्॥२६॥

मानभेदानाह—

गोणी द्रोणाढकप्रस्थाः कुडवश्च पलं पिचुः॥
शाणको माषकश्चैव यथापूर्वंचतुर्गुणाः॥२७॥

तथा च वाग्भटः—

“शाणं पाणितलं मुष्टिं कुडवं प्रस्थमाढकम्।
द्रोणं वहं च क्रमशो विजानीयाच्चतुर्गुणम्” इति॥

शाणमानं च संग्रहोक्तम्। षड्वंश्यो मरिचिः।ताः षट्सर्षपः। तेऽष्टौ तण्डुलः।तौ धान्यमाषः। तौ यवः। अतः परं चतुर्गुणवृद्ध्याण्डिकामाषकशाणा इति। वंशीवंशरन्ध्रे प्रविष्टरश्मिस्थं रजः।संग्रहे धरणं तु पलस्य दशमो भागः।माषकस्य पर्यायो हेमधानकश्च।कर्षस्य षोडशिका पलद्वयस्याष्टमानं द्रोणद्वयस्य सूर्प इति। वाग्भटात्कल्पनामाह—

“कषाययोनयः पञ्च रसा लवणवर्जिताः।
रसः कल्कः शृतः शीतः फाण्टश्चेति प्रकल्पनाः।
पञ्च चैव कषायाणां पूर्वं पूर्वं बलाधिकाः”इति॥

अस्यार्थः। द्रव्यादुद्धृतः सारभागः कषायः। लवणस्य तदभावादयोनित्वमिति हेमाद्रिः।

** अथेशानस्य** व्याख्या—कषायस्य योनय आकरा लवणवर्जिता मधुरादयः पञ्च रसाः। तेभ्यो ये कषायाः स्वरसादयः पञ्च संभवन्ति। आह। कस्माल्लवणस्य कषायत्वं नेष्यते। यावताऽसावपि स्वविषयेषु व्याधिषु च युज्यते। यथा तत्र साध्यमामं प्रदुष्टमलसीभूतमुल्लेखयेत्पाययित्वा लवणमुष्णं वारि तथा क्षौद्राम्बुना रसेनेक्षोरथवा लवणाम्बुनेति। उच्यते। कल्पनासंभवात्प्रयोगासहिष्णुत्वाच्च। या हीमाः कल्पनाः स्वरसाद्यास्तासामन्यतमाऽपि लवणे न संभवति। लवणस्य तु स्वरसकल्पनाया योगो न संभवति। सदैव शुष्करूपत्वात्। कल्ककल्पनाऽपि न संभवति। यतो यद्द्रव्यं द्रवेण सिक्तं पिण्डी भवति न तु विलीयते तत्कल्कसंज्ञामासादयति। न चैवं लवणे संभवति। तथा क्वाथकल्पनाऽपि न संभवति। यस्माद्यद्रव्यं क्वाथयित्वा जलादुद्ध्रियते। द्रव्यावयवास्तु केचिदभिषवशिथिला वह्निना प्रच्याव्यमाना जलमनु प्रविशन्ति। केचिद्द्रव्यसक्ता भवन्ति तत्र शतकल्पनाया भवति। न चैवं लवणे संभवति। उदकप्रविष्टस्य सर्वात्मना विलयनात्, इति शृतकल्पनाया अप्यसंभवः।शीतकल्पनाऽपि न संभवति। शीतकषायस्य शीतवीर्यैरौषधैः पित्तशमार्थे प्रयोगाल्लवणस्य चोष्णवीर्यत्वात्। फाण्ट-कल्पनाऽपि न संभवति। यस्मात्सद्योऽभिषुतपूतं यत्तत्फाण्टमभिधीयते। तत्र च कतिपये द्रव्यावयवा जलमनु प्रविशन्ति।भूमानस्तु द्रव्यभाजो भवन्ति। लवणं तु सर्वमेव विलीयते, इत्येवं कल्पना-संभवाल्लवणस्य कषायत्वं नेष्यते। तथा प्रयोगासहिष्णुत्वाच्च। न च लवणस्य केवलस्य प्रयोगःसातत्येन मधुरादीनामिवाऽऽतुरैः शक्येत सोढुम्। अतोऽप्यस्य नैवेष्यते कषायत्वमिति। इत्युक्तं लवणवर्जा रसाः कषाययोनय इति। मुनिनाऽप्युक्तम्—कल्पनावशतः पञ्चानां रसानां कषायसंज्ञा व्यवहरति। न लवणस्य कल्पनायोगाभावात्। मधुरकषायोऽम्लकषायस्तिक्तकषायः कटुकषायः कषायकषायश्चेति तन्त्रसंज्ञेति। पुनः पुनः कषायग्रहणं चात्र मधुरादिषु द्वित्रिचतुष्पञ्चभेदयुक्तेष्वपि कषायसंज्ञा-संनिवेशार्थम्। वक्ष्यति—स्वादुरम्लादिभिर्योगमित्यादि। मधुराम्लो मधुरलवण इत्येवंप्रकाराः सर्वे कषायसंज्ञाः। अन्यथा पञ्चेति व्यवस्थाकरणात्केवलेष्वेव मधुरादिषु कषायसंज्ञा स्यात्संयुक्तेषु न स्यादिति। रसानां स्वरसादिकल्पनया योगो न संभवति। युक्तं चैतत्। तस्माद्गुणगुणिनोरभेदोपचारादिह रसग्रहणेन तदाश्रयाणां द्रव्याणां ग्रहणं मन्तव्यम्। ननु च मधुरामलकटुतिक्तकषायाणामपि क्षीरशुक्तमूत्रगुग्गुलुमधूनां स्वरसादिकल्पना न संभवति। मृद्गैरिकाञ्जनादीनां च मधुरादिगुणयुक्तानामपि कषायाभावप्रसङ्गो न केवलं लवणस्येति। नैतदेवम्।मधुरादीनां हि पञ्चानामेकदेशकल्पनासंभवः प्रयोगासहिष्णुत्वं च येषां चासंभवस्ते न ग्रहीष्यन्ते। लवणानां तु सर्वेषामेव कल्पना न संभवति। न च प्रयोगः सोढुं शक्यते। न चैकदेशकल्पनासंभवे कृत्स्नस्य मधुरादेः कषायगणपर्यन्तस्य प्रतिषेधो नोच्यत इति। रसः कल्कः शृतः शीतः फाण्टश्चेति प्रकल्पनाः। पञ्चधैव कषायाणां स्वरसादीनाम्।

तथा च चरकः—

“यन्त्रप्रपीडनाद्द्रव्याद्रसः स्वरस उच्यते।
यः पिण्डः सार्द्रपिष्टानां स कल्कः परिकीर्तितः॥
वह्नौतु क्वथितं द्रव्यं शृतमाहुश्चिकित्सकाः।
आपोथितं निशाध्युष्टं तोयस्थं शीतमुच्यते॥
चूर्णमुष्णेन संयुक्तं तत्फाण्टमभिधीयते” इति।

तत्र स्वो रसः स्वरसः। य आर्द्रद्रव्यस्य क्षुण्णनिष्पीडितस्य निर्यासः स स्वरसः। कलयतीति कल्को द्रव्यमन्ते नयतीत्यर्थः। कल गताविति पाठात्। क्रियत इति वा कल्कः। श्रपणाच्छृतः। श्रपणं पाक-गुणाधानम्। शृतं पाके, इति लक्षणात्। सलिलाभिषवणैः शीतस्पर्शत्वाच्च शीतः। अनायास-निष्पन्नत्वात्फाण्टः। कषायग्रहणं चात्र स्वरसादिकल्पनानामपि कषायत्वोपचारार्थम्। रसेष्वेव मधुरादिषु लवणवर्ज्येषु कषायशब्दो नियमेनावस्थितः। स्वरसाद्यास्वपि कल्पनासु कषायशब्द उपचर्यते मधुरादिस्वभावानतिक्रमात्। यथा चरक उक्तम्। अन्येषां च शीतवीर्याणां यथालाभमोषधीनां कषायं कारयेत्। अत्र शृताख्या कल्पना कषायशब्देनोपचर्यते। एवं द्रव्येष्वपि जीवकादिषु पुनर्नवान्तेषु कषायोपचारो मधुरादिसमावेशादिति। “निशि स्थिता वा परिमर्दिता वा कल्कीकृताश्चूर्णमथ शृता वा”इति चूर्णोपदेशाच्चूर्णकल्पनानुक्तिः कस्मादवेति चेन्न। चूर्णस्य कल्केऽन्तर्भावात्पृथगभणनम्। ननु चूर्णादनन्तरं कल्कः क्रियते न तु कल्कादनन्तरं चूर्णं तस्मात्पञ्चानां कल्पनानां मध्ये चूर्णकल्पनैव निर्देष्टुं युक्ता न तु कल्ककल्पना। युक्तमाह भवान्। किंतु लवणस्य कषायसंज्ञायां समावेशो मा भूदिति कल्पनानां मध्ये कल्क इति निर्देशःकृतो न चूर्ण इति। तस्माल्लवणे न भवति कषायसंज्ञावेश इति। पूर्वं बलावहा इति कल्पनासामान्यात्स्वरसादीनां तुल्यबलत्वे प्राप्त इदमारभ्यते। सा च कल्पना पूर्वं पूर्वं यथापूर्वं बलावहा बलाधिका।एवं फाण्टाख्या कल्पना सबला। ततोऽप्यधिकशक्तिः शीताख्या। ततोऽप्यधिकवीर्या शृताख्या। ततोऽप्यधिकशक्तिः कल्काख्या। कल्काख्यायाश्च कल्पनायाः स्वरसाख्याऽधिकशक्तिः। तत्र स्वरसस्य तावत्सर्वेभ्यो बलीयस्त्वमौषधसारत्वाद्द्राक्षेक्षुर-सवच्छेषस्य किट्टस्यार्केचित्करत्वात्। कल्कस्य तु कालपरिणामेनाऽऽतपानिलादिभिश्चोपहतरस-वीर्यतया स्वरसतो न्यूनबलवत्त्वम्। शृतस्य त्वसकलौषधोपयोगादग्न्यभिभवात्कालपरिणामातपादिभ्यश्च कल्काद्बलावरत्वम्। शीतस्य तु शिशिरजलस्पर्शस्तब्धावयवतया स्वल्पौषधाद्याकृष्टेः शृतादल्प-बलवत्त्वम्। फाण्टस्य पुनरल्पकालावस्थायित्वाद्र्व्यस्य शीतादूनबलत्त्वमेवेतीशानात्। स्वरसादीनां लक्षणं वाग्भटादाह—

“सद्यःसमुद्धृतक्षुण्णाद्यः स्रवेत्पटपीडितात्।
स्वरसः स समुद्दिष्टः कल्कः पिष्टो द्रवाप्लुतः॥
चूर्णोऽप्लुतः शृतः क्वाथः शीतो रात्रौ द्रवे स्थितः।
सद्योभिषुतपूतस्तु फाण्टस्तन्मानकल्पने॥
युञ्ज्याद्व्याध्यादिबलतस्तथा च वचनं मुनेः।
मात्राया न व्यवस्थाऽस्ति व्याधिं कोष्ठं बलं वयः॥
आलोच्य देशकालौ च योज्या तद्वच्च कल्पना।
मध्यं तु मानं निर्दिष्टं स्वरसस्य चतुष्पलम्॥
पेप्यस्य कर्षमालोड्यं तद्द्रवस्य पलत्रये।
क्वाथ्यं द्रव्यपले कुर्यात्प्रस्थार्धं पादशेषितम्॥
शीतं पले पलैः षड्भिश्चतुर्भिश्च ततोऽपरम्”।

अस्यार्थः। स्वरसलक्षणमाह —–सद्य इत्यादि। यस्मिन्दिने समुद्धृतं तस्मिन्नेव प्रक्षाल्य क्षुण्णं पटपीडितं च यद्द्रव्यं तस्य रसः।कल्कलक्षणमाह—कल्क इत्यादि। शुष्कं द्रवेणाऽऽप्लुत्य पिष्टं कल्कः।अनाप्लुतंचूर्णः।**संग्रहे तु—**उपलदशनादिपिष्टस्तु कल्कः। सूक्ष्मतान्तवच्युतश्चूर्णः।तस्य समस्तद्रव्यापरित्यागादाप्लुतोपयोगाच्च कल्कादभेदः। दशनपेषणालोडनेनैव द्रवः। कल्कस्य पेषणे पाने चाऽऽप्लुतत्वं चूर्णस्य पान एव समस्तग्रहणेऽप्यशक्यपेषणस्य त्यागान्न कषायलक्षणाभावः। शृतलक्षणमाह—शृत इत्यादि। क्वथनोद्धृतः शुष्कद्रव्यरसः शृतः। संग्रहे तु—स तु भेद्यान्यौषधान्यणुशो भेदयित्वा छेद्यानि च च्छेदयित्वा प्रक्षाल्योदकेन शुचौ रुक्षायामधःप्रतिलिप्तायां ताम्रायोमन्मयान्यतमस्थाल्यां समावाप्य बह्वल्पपानीयग्राहितामौषधानामाकलय्य यावता मुक्तरसता स्यात्तावदुदकमासेचयेच्छोषयेच्च। अथ वह्नावधिशृत्य महत्यासने सुखोपविष्टः सर्वतः सततमवलोकयन्दर्व्या च विघयन्मृदुना परितः समुपगच्छताऽनलेन साधयेत्। अवतार्य च सुपरिस्रुतं यथार्हस्पर्शं च प्रयुञ्जीत। क्षीरादिसहितं च द्रव्यं न सम्यङ्मुक्तरसं भवतीति वारिक्वाथपूर्वकं क्षीराद्यैस्तदुपदेशेऽनुपदग्धं क्वाथयेदिति। तदुपदेशे क्षीरादिक्वाथोपदेशे वारिक्वाथं कृत्वा तं क्वाथं क्षीराद्यैः सह समं क्षीरावशेषं क्वाथयेत्। एवं ह्यनुपदग्धं द्रव्यम्। केवलक्षीरादिपाके तूपदग्धं स्यात्। शीतलक्षणमाह—शीत इत्यादि। क्वथनं विना क्वाथवत्सकलरात्रिस्थापनोद्धृतः शीतः। फाण्टलक्षणमाह—सद्य इत्यादि। आलोडनसमनन्तरमेव पूतः फाण्टः। अभिषुत आलोडितः। आलोडनं चोष्णोदकेन। उक्तं हि संग्रहे—उष्णाम्भसि क्षुण्णाभिषुतं पूतं फाण्ट इति। उक्तानां कल्पनानां वक्ष्यमाणानां च मानानां विषयभेदमाह—तन्मानेत्यादि। व्याधिबलानुसारेण या कल्पना यया मात्रया यस्योचिता तां तया तस्य युञ्ज्यात्। आदिशब्दादातुर-बलानुसारेण या कल्पना यत्रोचिता भवति सा तत्र देया।तेन महति व्याधौ बलवति चाऽऽतुरे स्वरसप्रयोगः।मध्ये कल्कशृतयोः। अल्पे फाण्टशीतयोः। तथा सर्वाणि स्वरसादीनि सर्वस्मिन्व्याधावातुरे च नैव योगीनि।यथा ज्वराणां स्वरसो न युज्यते गुरुतमत्वाज्ज्वरस्याऽऽमाशयसमुत्थत्वाच्च। ग्रहणी-रोगिणि शीतफाण्टकषायौ न युज्येते आग्निमान्द्यभयात्। न च सर्वस्मिन्पुरुषे सर्वेषां स्वरसादीनां यौगिकत्वं कस्यचित्क्वचिन्मनःप्रतीघातात्। किंच न चापि सर्वस्य द्रव्यस्य सर्वाः कल्पनाः संभवन्ति विडङ्गमधुकादीनां स्वरसस्यासंभवात्। किंच, एकस्मिन्द्रव्ये सर्वकल्पनासंभवेऽपि केनचिदपि कल्पना-विशेषेण संस्कृतं द्रव्यमीप्सितार्थसंपादनसमर्थं जायते।

यथा—“मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्।
रसो गुडूच्यास्तु समूलपुष्प्या एषोऽनुकल्पः खलु शङ्खपुष्प्याः”॥

अत एव कानि च द्रव्याणि विशिष्टकल्पनापरिग्रहेणोक्तानि तथा तेषां कर्मणि सामर्थ्यात्। अन्यथा तत्र द्रव्यमात्रमेव कल्पनाविरहितमवक्ष्यदिति। मन्दबुद्ध्यर्थं तु मध्यमं मानमुपदिश्यते। तत्र रसस्याऽऽह—मध्यामित्यादि। पेष्यस्याऽऽह—पेष्यस्येत्यादि। कल्कचूर्णयोः कर्षं तदालोडनद्रवस्य पलत्रयम्। शृतस्याऽऽह—क्वाथमित्यादि। शृते क्वाथ्यस्य पलं द्रवस्य षोडश पलानि चत्वार्यवशेष्याणि। शीतस्याऽऽह—शीतमित्यादि। शीते द्रव्यस्य पलं द्रवस्य षट्पलानि। फाण्टस्याऽऽह—चतुर्भिरित्यादि। फाण्टे द्रव्यस्य पलं द्रवस्य चत्वारि पलानि। अनयोरनवशेष्यत्वं क्वथनाभावात्। यावत्पूतं तावत्पेयमिति।

“पादशेषः स्नेहविधौ क्वाथस्तोये चतुर्गुणः” इति।

“स्नेहपाके त्वमानोक्तौ चतुर्गुणविवर्धितम्।
कल्कस्नेहद्रवं योज्यमधीते शौनकः पुनः॥

स्नेहे सिध्यति शुद्धाम्बुनिष्क्वाथस्वरसैः क्रमात्।
कल्कस्य योजयेदंशं चतुर्थं षष्ठमष्टमम्॥
पृथक्स्नेहसमं दद्यात्पञ्चप्रभृति तु द्रवम्।
नाङ्गुलिग्राहिता कल्के न स्नेहेऽग्नौ सशब्दता॥
वर्णादिसंपच्च यदा तदैनं शीघ्रमाहरेत्।
घृतस्य फेनोपशमस्तैलस्य तु तदुद्भवः॥
लेहस्य तन्तुमत्ताऽप्सु मज्जनं शरणं न च।
पाकस्तु त्रिविधो मन्दश्चिक्कणः खरचिक्कणः॥
मन्दः कल्कसमे किट्टे चिक्कणो मदनोपमे।
किंचित्सीदति कृष्णे च वर्त्यमाने च पश्चिमः॥
दग्धोऽत ऊर्ध्वं निष्कार्यःस्यादामस्त्वग्निसादकृत्।
मृदुर्नस्ये खरोऽभ्यङ्गे पाने बस्तौ च चिकक्णः”॥

अस्यार्थः। स्नेहपाके मानमाह—स्नेहपाक इत्यादि। कल्काच्चतुर्गुणः स्नेहः स्नेहाच्चतुर्गुणं द्रवम्। शौनकमानमाह—अधीत इत्यादि। निष्क्काथेद्रवे कल्कात्षद्डगुणः स्नेहः स्वरसेऽष्टगुणः। अत्र चतुर्गुणः क्षीरादिषु शुद्धाम्बुप्रक्षेपस्यवकाशत्वात्922। रसक्काथयोः परस्परमन्यैर्वा संकरे सामान्यपरिभाषा-विषयत्वात्संकीर्णं हि द्रवोत्तरम्।

“शणस्य कोविदारस्य वृषस्य ककुभस्य च।
कल्काढ्यत्वात्प्रशंसन्ति पुष्पकल्कं चतुर्थकम्”॥

विशेषान्तरमाह—पृथगित्यादि। यत्र चतुर्भ्योऽधिकानि द्रवाणि तत्र पृथक्स्नेहसमानि न तु परस्पर-साम्येन मिलितानि स्नेहाच्चतुर्गुणानि।संग्रहेऽप्युक्तम्—समुदितद्रवस्य पादेन स्नेहो योज्य इति। सर्वद्रवाणां युगपत्प्रक्षेपः। तथैकध्यंप्रति संसृज्याधिशृत्य च निर्यूहवत्साधयेदिति संग्रहवचनात्। अनिरूपितकल्पनं च भेषजं कल्की कुर्यात्। कल्कानुक्तौ निरूपितकल्पनमपि। यतः क्वाथस्ततः कल्क इति परिभाषितवचनात्। पक्वस्नेहलक्षणमाह—नाङ्गुलीत्यादि। घृततैलयोःफेनोपशमोद्भवौ विशेषौ। पक्वलेहलक्षणमाह—स्नेहस्येत्यादि। तन्तुमत्त्वमुदकमज्जनमविशीर्णत्वं च। स्नेहलेहौ क्वाथभेदौ। तयोर्मानमुत्तमस्य पलं मात्रेत्यादिनोक्तं क्वाथ्यौषधशब्देन लेहस्यापि ग्रहणात्। स्नेहपाक-भेदानाह—पाकस्त्वित्यादि। तत्र कल्कसमे किट्टे मन्दः। पाकेन स्नेहात्पृथग्भूतकल्कःकिट्टः।वैवर्ण्याद्यभावात्कल्कसमत्वम्। मदनोपमे चिक्कणः। मदनं मधूच्छिष्टम्।पश्चिमः खरचिक्कणः। सीदति म्लायति।अत ऊर्ध्वं पश्चिमादूर्ध्वं दग्धः स च निष्फलः। मन्दादर्वागामः। स चाग्निमान्द्यकृत्। त्रयाणां विषय-भेदानाह—मृदुरित्यादि॥२७॥

सम्यक्प्रयोगं सर्वेषां सिद्धिराख्याति कर्मणाम्॥
सिद्धिराख्याति सर्वैश्चगुणैर्युक्तं भिषक्तमम्॥२८॥

कः पुनर्हेतुर्येनावश्यं ज्ञायतेऽनेन भेषजेनेदं कृतमिति। ब्रूमः। सर्वेषां कर्मणां यः सभ्यक्प्रयोगस्तं सिद्धिराख्याति प्रथयति। दृश्यन्ते च लोके वक्तारो नूनमनेनेदं सम्यगनुष्ठितं यदमुनाऽस्य सिद्धिर्जातेति। न च केवलं सिद्धिः कर्मणां सम्यक्प्रयोगमाख्याति किं तर्हि सर्वैर्गुणैर्युक्तं भिषक्तममपि सिद्धिरेवाऽऽख्याति॥२८॥

इति विविधमुनीनां वाक्यमालोक्य यत्ना-
त्स्वमतिपरिमितैर्विख्यातिमद्भिः प्रयोगैः॥
ग्रथित इह मयाऽयं संग्रहो वृन्दनाम्ना
सपदि स हि लिखिखा सिद्धयोगः समाप्तः॥२९॥

सुगमम्॥२९॥

इति श्रीवृन्दप्रणीतवृन्दमाधवापरनामकसिद्धयोगव्याख्यायां
श्रीश्रीकण्ठदत्तविरचितायां व्याख्याकुसुमावल्या-
ख्यायां द्व्यशीतितमो मिश्रका-
धिकारः॥८२॥

श्रीकण्ठदत्तभिषजा ग्रन्थविस्तरभीरुणा॥
टीकायां कुसुमावल्यां व्याख्या मुक्ता क्वचित्क्वचित्॥१॥
रत्नं नागरवंशस्य भिषग्भाभल्लनन्दनः॥
नारायणो द्विजवरो भिषजां हितकाम्यया॥२॥
भाष्याणि उल्लणादीनि बहुशो वीक्ष्य यत्नतः॥
टीकापूर्ति व्यधात्सम्यक्तेन नन्दन्तु साधवः॥३॥

समाप्तोऽयं वृन्दमाधवापरनामा सिद्धयोगः।

—————————

]


  1. " क. °लप्रमाणज्ञ°।" ↩︎

  2. " क. °स्माच्चिकित्सकः। अ°" ↩︎

  3. “ङ. च. °त्कदाच°।” ↩︎

  4. “एतच्चिह्नगतमष्टमनवमश्लोकव्याख्यानमरुणदत्तकृतमितिप्रतिभाति ।” ↩︎

  5. “खपुस्तकेऽत्र— सुखसाध्यः सुखोपायः कालेनाल्पेन सिध्यति॥ साध्यते कृच्छ्रसाध्यस्तु यत्लेन महता चिरात्॥१॥ याति नाशेषतां व्याधिरसाध्यो याप्यसंज्ञितः इत्यधिकः सार्वलोकः।” ↩︎

  6. “ड . परम् ।” ↩︎

  7. “घ. ङ. °र्ये च व°।” ↩︎

  8. “च. क्लमः ।” ↩︎

  9. “ङ. °स्मात्कुर्वीत लङ्घनम्॥२५॥” ↩︎

  10. ॑# “स्याल्लङ्घनं दीपनपाचनं च त्रिदोषहद्वस्तिविशोधनं च॥ अजीर्णजित्सामगदातिसारशूलज्वरश्लेष्मगदघ्नमेतत्॥१॥ एत्तत्समस्तज्वरपीडितानां महौषधं लङ्घनमादिशान्ति॥ सश्वासकासारुचिपीडितानां न तप्ततोयादपि किंचिदस्ति॥२॥ इति श्लोकद्वयं खपुस्तकेऽधिकं दृश्यते परं च व्याख्यापुस्तके व्याख्यानमेतयोर्न दृश्यतेऽतोऽत्राधिकमिति भाति।” ↩︎

  11. “च. °कासक्ष°।”

     ↩︎
  12. “च °आमो° ।” ↩︎

  13. “ख. पुस्तके यूषः श्रितो वैदलानामष्टादशगुणेऽम्भसि॥ ज्वरहरसलिलाढ्यं रक्तपित्तप्रणाशं वदति मुनिगणोऽयं मुद्गयूषं कफघ्नम्॥ पिबतमपि निहन्ति स्नेहसंस्कारयुक्तो व्यपगतमलदोषं यत्क्षुणात्राणगात्रम्॥ अधिकरतितृषातो यश्च धर्मप्रतप्तो बलनभुविपदं तां चातिसाराभिभूयः। इत्यधिकमत्र।” ↩︎

  14. “अत्र टीकानुरोधेन वातपित्तकफज्वरे इति पाठः स्यात् ।” ↩︎

  15. “इदमर्ध च. पुस्तके नास्ति ।” ↩︎

  16. " घ. ङ. °स्कारे निर्दो°।" ↩︎

  17. “खपुस्तके - दोषधातुमलाम्भोऽन्नवाहिस्रोतोमुखानि यत्। भुक्तं लिम्पति पैच्छित्यादभिष्यन्दि तदुच्यते इत्यधिकमत्र।” ↩︎

  18. “च. °स्तथा॥ ५९॥”

     ↩︎
  19. “च. वृद्धाः।” ↩︎

  20. “च. °म्भितास्तरु°।” ↩︎

  21. “च. क्षुभ्यन्ते।” ↩︎

  22. “क. ख. ग. °घ. वज्वरितानां ज्वरापहम् ।” ↩︎

  23. ““तथा गुरु शिरोऽयत्यर्थेगौरवं तद्विनिदिशेत्। योऽनान्यासःश्रमो देहे प्रवृद्धः श्वासवर्जितः॥१॥ क्रमः स इति विज्ञेय इन्द्रियार्थप्रवाधकः” इत्यधिकमत्र स्वपुस्तके।” ↩︎

  24. " घ. °रायते° ।" ↩︎

  25. “घ. °रविनाशनः। किं।” ↩︎

  26. " घ.°ज्वरापहः।अ°।" ↩︎

  27. " घ. शीतपि°।" ↩︎

  28. “ङ °भवेऽयुक्त°।” ↩︎

  29. “क. बहुलं।” ↩︎

  30. “ख. पुस्तके “स्तनाट्या रूपसंपन्नाः कुशला नवयौवनः। भजेयुः समदाः कान्ताः शीतदैन्यहरा मताः॥१॥ शरच्छशाङ्कत्रदना नीलोत्पलनिभेक्षणाः चलितभ्रूलतापाङ्गललाटफलकोज्ज्वलाः”॥२॥ इत्यधिकमत्र।” ↩︎

  31. “ङ. °यवा मू°।” ↩︎

  32. “ख पुस्तके “यत्किचिन्मधुरं स्निग्धं बृंहणं बलवर्धनम्। मनसो हर्षणं यश्च तत्सर्वे वृष्यमुच्यते” इत्यधिकमत्र।” ↩︎

  33. " क. सर्वतः ।" ↩︎

  34. " क. च. ॰ष्णारुचिच्छ°।" ↩︎

  35. “च °कं पद्मकं चन्दनान्वितम् । ए°।” ↩︎

  36. “क. कुस्तुम्बुरु चन्दनानि पद्मकं चेति ।” ↩︎

  37. “च. °दिश्च पाचनः।” ↩︎

  38. " क. °श्वज जलम्।" ↩︎

  39. " क.°द्यस्तृष्णा चै°।" ↩︎

  40. “स सौक्ष्म्यादिति बहुपुस्तकेषु पाठः।” ↩︎

  41. “क. घ. हृदयाच्छ्रलेष्मा।” ↩︎

  42. “क. घ. °द्रा श्वास°।” ↩︎

  43. “क. घ. °लावघैः ॥ १५४ ॥” ↩︎

  44. “घ. °स्तं तु ल°।” ↩︎

  45. " घ. °रकृतेऽथवा। स°।" ↩︎

  46. “ख पुस्तके " ↩︎

  47. “ख पुस्तके— "

     ↩︎
  48. “घ. °नं कफवा°।” ↩︎

  49. " घ. °कट्वर°।”

    सुगमम्॥१७७॥१७८॥ ↩︎

  50. " खपुस्तके " ↩︎

  51. “ङ. यावतन्नव°।” ↩︎

  52. “ख. पुस्तके “संनिपातज्वरस्यान्ते कर्णमूले सुदारुणः। शोथः संजायते तेन कश्चिदेव विमुच्यते” इत्यधिकम्।” ↩︎

  53. " घ. संनिपाते।” ↩︎

  54. “ख पुस्तके “कट्फलाव्दवचापाठापुष्कराजाजिपर्षटैः। देवदार्वभयाशृङ्गीकणाभूनिम्वनागरैः॥ १॥भार्गीकलिङ्गकटुकाशठीकट्तृणधान्यकैः। समांशैः साधितः क्वाथो हिङ्ग्‍वार्द्रकरसैर्युतः॥२॥ सर्वान्गलामयान्हन्ति स्वरभेदं कफात्मकम्। कर्णमूलोद्भवं शोथं हन्ति मन्यागलोद्भवम्॥३॥ कफवातज्वरं कासं तथा हन्ति गलामयान्” ↩︎

  55. “ड . °नवाडनैः ।” ↩︎

  56. " क. °कबलाव्या°।" ↩︎

  57. “ख. पुस्तके " ↩︎

  58. “ख. पुस्तके “नखेनोत्पाटिताः सहदेवीमूलाकर्णबन्धनात्। ज्वरं चातुर्थिकं हन्ति भानुवारे न संशयः” ॥१॥ इत्यधिकमत्र!” ↩︎

  59. “ख पुस्तके —उपकुल्यां पिवेत्पिष्टां क्षीरेण सुसमाहितः पिप्पलीवर्धमानं वा विषमज्वरपीडितः॥१॥ मधु सर्पिः सिता कृष्णा शृतक्षारविलोडिता। विषमज्वरहृद्रोगक्षतकासज्वरापहा॥२॥ इत्याधिकमत्र।” ↩︎

  60. “क. घ. °अत्वैका°।”

     ↩︎
  61. " ख. पुस्तके —वानरस्य मुखं दिव्यमादित्योदयसंनिभम्। ज्वरमेकान्तरं घोरं दर्शनादेव नश्यति॥१॥ अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च। वाराणस्यां च यद्दत्तं तन्न स्मर शिवं चरम्॥२॥ लिखित्वाश्वत्थपत्रेषु धारयेद्दक्षिणे करे। इत्यधिकमत्र।” ↩︎

  62. “ख. पुस्तके—षोद्दशाष्टचतुर्भागं वातपित्तकफार्तिषु। क्षौद्रं कषाये दातव्यं विपरीता तु शर्करा॥१॥इवधिकमंत्र।” ↩︎

  63. “क. घ. °मवीर्यम्।” ↩︎

  64. “स्व पुस्तके—कृष्णामलकीरामठदार्वीवचाराजसर्पपरानैः। छागलसूत्रनिषिष्ठैर्नस्यं स्वैकाहिकाज्वरम्॥१॥ इत्यधिकमत्र।” ↩︎

  65. " घ. °दिकयु°।" ↩︎

  66. " घ. °र्दवासं° ।" ↩︎

  67. " ख. पुस्तके—स्नेहावशेषं कर्तव्यं स्नेहपाके त्वयं विधिः । इत्यधिकमत्र।" ↩︎

  68. “ख.पुस्तके—मृदौ चतुर्गुणं दद्यात्कटिनेऽष्टगुणं तथा ॥ कठिनात्कठिनं यञ्च देयं षोडशकं जलम् ॥ १॥ मृद्वादिक्वाथ्यसंघाते मानानुक्तौ चिकित्सकाः ॥ मध्यस्योभयगामित्वादिच्छन्त्यष्टगुणं जलम् ॥ २॥ इत्यधिकमत्र ।” ↩︎

  69. “क. ब. °तरोगे प्र।” ↩︎

  70. “क. घ. °हान्नावतारये° ।” ↩︎

  71. “क. घ. पक्वं ।” ↩︎

  72. “ख पुस्तके—दग्ध्वेन्धनं यथा वह्निर्धातून्हत्वा यथा विषम्॥ कृतकृत्यो व्रजेच्छान्ति देहं हत्वा तथा ज्वरः॥१॥ इत्यधिकमत्र।” ↩︎

  73. “क. घ. °ताविश्वच°।” ↩︎

  74. “क.घ. शोफाती° ।” ↩︎

  75. " क. घ. °यं वाऽपि पि° ।" ↩︎

  76. " क. °भद्रकम्।" ↩︎

  77. “क. घ. °तमिष्यते ।” ↩︎

  78. “घ. भजेत् ।” ↩︎

  79. “ङ. च ।” ↩︎

  80. “ख पुस्तके—अजमोदा मोचरसं सशृङ्गवेरं सधातकीकुसुमम् । गोमथिततक्रवुतं गङ्गामपिवे गिनीं स्तम्भयति । इत्यधिक्रमत्र ।” ↩︎

  81. “क. घ. हितं।” ↩︎

  82. " क. घ. हिज्जलस्य।" ↩︎

  83. “धनुश्चिह्रान्तर्गतमधिकम् ।” ↩︎

  84. “धनुश्चिह्नान्तर्गतमधिकम्।” ↩︎

  85. “घ. ल्लेहं पूं।” ↩︎

  86. " घ रक्तपिं।" ↩︎

  87. “क घ °णेऽद्ब्रव्य°।” ↩︎

  88. “ख. पुस्तके —धातकीबदरीपत्रकपित्थरसमाक्षिकम् । सरोध्रमेकतो दध्ना पिबेन्निर्वाहिकार्दितः ॥ १ ॥ इत्यधिकमत्र ।” ↩︎

  89. " क. घ. सारिवोद्भवः ।" ↩︎

  90. “क. घ. °कालानुबन्धिनीम् ॥ ६७ ॥” ↩︎

  91. “अत्र मूलानुरोधेन रूक्षत्वादितीत्यपेक्षितम् ।” ↩︎

  92. “ख पुस्तके —अभयापिप्पलीमूलवचाकटुकरोहिणी । पाठाश्वदंष्ट्राबीजानि चित्रकं विश्वभेषजम् ॥१॥ पिबेन्निष्काथ्य चूर्णानि कृत्वा चोष्णेन वारिणा। इत्यधिकमत्र ।” ↩︎

  93. “एतच्चिह्नगतमनपेक्षितमिति प्रतिभाति ।” ↩︎

  94. " घ. °मपि दु°।" ↩︎

  95. “ख. पुस्तके – यवानीपिप्पलीमूलचातुर्जातकनागरैः। मरीचाग्निजलाजाजीधान्यसौवर्चलः समैः॥१॥ वृक्षाम्लधातकीकृष्णाबिल्वदाडिमदीप्यकैः। त्रिगुणैः षड्गुणसितैः कपित्थाष्टगुणैः कृतैः॥२॥चूर्णोऽतिसारग्रहणीक्षयगुल्मगलामयान्। कासश्वासाग्निसादार्शः पीनसारोचकाञ्जयेत्॥३॥कापत्थाष्टकम्। इत्यधिकमत्र” ↩︎

  96. “ख. पुस्तके —कर्षोन्मिता तुगाक्षीरीचातुर्जातं द्विकार्षिकम्। यवानी धान्यकाजाजीग्रन्थिव्योषं पलांशकम्॥१॥ प्लानि दाडिमादष्टौ सितायाश्चैकतः कृतः। गुणैः कपित्थाष्टकद्वर्गोऽयं दाडिमाष्टकम्॥२॥ दाडिमाष्टकम्।इत्यधिकमत्र।” ↩︎

  97. " ङ. न्तरयो।" ↩︎

  98. “ङ. श्चपिचुप्र ।” ↩︎

  99. “घ. यनाशनः स्यात् " ↩︎

  100. “क. प्रदिष्टः” ↩︎

  101. “ख, पुस्तके— भल्लातकपलशतं जलद्रोणे विपाचयेत्। चतुर्गुणावशेषं तु कषायमवतारयेत्॥१॥ त्र्यूषणं पिप्पलीमूलं चित्रको हस्तिपिप्पली। हिङ्गुचव्याजमोदं च पञ्चैव लवणानि च॥२॥ द्वौ क्षारौ हपुषां चात्र दद्यादर्धपलोन्मितान्। मस्तुकाञ्जिकशुक्तानां प्रस्थं प्रस्थं प्रदापयेत्॥३॥ आर्द्रकस्य रसं प्रस्थं तत्सर्वं साधु साधयेत्। एतदग्निघृतं नाम मन्दाग्नीनां च शस्यते॥४॥ अर्शोसि वातरोगं च प्लीहोदरदरामयान्। ग्रन्थ्यर्बुदापचीकासकफमेदोनिलानि च॥५॥ नाशयेद्वहणीदोषं श्वयथुं सभगंदरम्।ये च बस्तिगता रोगा ये च कुक्षिसमाश्रिताः॥६॥ सर्वास्तान्नाशयत्याशु सूर्यस्तम इवोदितः।अग्निमुखघृतम्। इत्यधिकमत्र।” ↩︎

  102. “घ. सगोलिं।” ↩︎

  103. “ख. पुस्तके– पीलून्यार्द्राणि सेवेत पक्षं पक्षार्धमेव च।नवान्नं शीलयेकिंचित्तेभ्यः सौख्यमवाप्नुयात्॥१॥ एतदर्शोसि शमयेच्छ्रेष्ठं पीलुरसायनम्।ग्रहणीकृमिदोषाणां गुल्मानाममृतोपमम्॥२॥ पीलुरसायनम्। इत्यधिकमत्र।” ↩︎

  104. “घ. ºषज्वº” ↩︎

  105. “घ. ºत्वा गुडमाº” ↩︎

  106. “ङ. तुरैः” ↩︎

  107. “घ. च” ↩︎

  108. “क. घ. ततोऽर्धभागेन।” ↩︎

  109. “ख. पुस्तके—दयं चतुर्गुणजलं पिप्पल्याद्यं घृतं शुभम्। पिप्पल्याद्यंतैलम्। इत्यधिकमत्र।” ↩︎

  110. “घ. °र्षोशं चूर्णितं दद्या°” ↩︎

  111. “ख. पुस्तके—यामामृतागुडूच्यामलनागरचित्रकाणां भागापृथक्तांशतसंमितस्य। सर्वा पृथक्संपरिकल्प्य युक्त्या द्रोणद्वयेऽपां तु विपाच्य पात्रे॥१॥ लोहे दृढे मन्दहुताशने तु पादावशिष्टं विधिवद्विधिज्ञः। भूयस्य यन्त्रं तुलया गुडस्य शुद्धस्य वस्त्रेण विशोधितस्य॥२॥ चूर्णीकृतैर्जीरकयुग्मदन्तीपाठात्रिवृत्त्र्यूषणप्रन्थिकाह्वयैः। धान्याजमोदेभकणायवानीभल्लातकाख्यैश्च पलप्रमाणैः॥३॥प्रस्थत्रयेणाप्यहरीतकीनामेकध्यमालोड्यशनैश्च द्रव्यम्। ज्ञात्वा सुपक्वैरसगन्धवर्णैः कुम्भे निधाय वसुगन्धियुक्तम्॥४॥ प्रस्थार्धमाने मधुनि सुशीते भल्लातकास्थिप्रभवाच्च तैलात्। दत्त्वा पलार्धं यवशूकजश्व अष्टौपलान्येव सितोपलायाः॥५॥ पलं लिहेदक्षफलप्रमाणामर्शोविकारी प्रसमीक्ष्य वाह्निम्। कुष्ठानि सर्वाणि निहन्ति हिक्कां सश्वासकासारुचिपाण्डुरोगान्॥६॥ मालत्वे प्रहणीविकारान्गुल्मं सशोधमुदरामयांश्च। शूलानि यक्ष्माणमसृक्प्रवृत्तिं पथ्यावलेहोऽयमिति प्रदिष्टः॥७॥ पथ्यावलेहः इत्यधिकमत्र।” ↩︎

  112. “घ. ङ. तीक्ष्णलो।” ↩︎

  113. “क. घ. °त्पलं गुडस्यात्र चू°” ↩︎

  114. “घ. कविनाशाय” ↩︎

  115. “घ.ङ.°लवर्णा°” ↩︎

  116. “क.घ. °ताम्रक° " ↩︎

  117. “ग.लवर्णारमि " ↩︎

  118. “क. घ. " ↩︎

  119. “क.घ.र्शसः य” ↩︎

  120. “ङ. लभोजी स” ↩︎

  121. “क. घ. तज्जनयति जठराग्निंवा” ↩︎

  122.  ↩︎
  123. “क. घ. अन्नम” ↩︎

  124. “क. सचक्र” ↩︎

  125. “क.घ. वा” ↩︎

  126. “ङ. पथ्यां तृ” ↩︎

  127. “घ.वा” ↩︎

  128. “घ .येत्क्षुधां च” ↩︎

  129. “ख. पुस्तके—आलिप्य जठरं प्राज्ञो हिङ्गुत्र्यूषणसैन्धवैः। दिवास्वप्नं प्रकुर्वीतसर्वाजीर्णप्रशान्तये॥१॥इत्याधिकम्।” ↩︎

  130. “घ. नरो” ↩︎

  131. “घ.°दिक्षयेऽपि” ↩︎

  132. “घ. तेजसः” ↩︎

  133. “ङ. °शयेदचि°” ↩︎

  134. “घ. °थो रोगान्प्ली°” ↩︎

  135. “ङ. °शयेदश°” ↩︎

  136. “ङ. °लानि च” ↩︎

  137. “घ. °शीःकुष्ठानि” ↩︎

  138. “ङ. संमित°” ↩︎

  139. “क. घ. °ष्टैःप्रले°” ↩︎

  140. “ख. पुस्तके—लिह्यात्क्षौद्रेण विडङ्गंयच्चूर्णं कृमिनाशनम्।इत्याधिकम्।” ↩︎

  141. “क. घ. °ङ्गतण्डुलव्योषशि°” ↩︎

  142. " घ. पूपिका” ↩︎

  143. “अत्र किंचित्त्रुटितम्” ↩︎

  144. “ख. पुस्तके— सर्पिर्गुडाभ्यां सह पाचयित्वा यः कन्दमश्नाति पृथुं कदल्याः। पतन्ति तस्य कृमयः समस्ता येऽप्यूर्ध्वजाश्चोदरकुक्षिकोणे॥१॥ इत्यधिकमत्र।” ↩︎

  145. “अयं श्लोको घपुस्तके नास्ति।” ↩︎

  146. “इदं घपुस्तके नास्ति।” ↩︎

  147. “ङ. °र्णमयैः प्र°” ↩︎

  148. “ख. पुस्तके— सदार्वीत्रिफलाव्योषविडङ्गमयसो रजः। मधुसर्पिर्युतं लिह्यात्कामलापाण्डुरोगवान्।॥१॥ लोहचूर्णे निशायुग्मं त्रिफला कटुरोहिणी। प्रलिह्य मधुसर्पिर्भ्योकामलार्तः सुखी भवेत्॥२॥ तुल्यां वाऽयोरजःपथ्यां हरिद्रां क्षौद्रसर्पिषा। चूर्णितं कामली लिह्याद्गुडक्षौद्रेण चाभयाम्॥३॥ इत्यधिकमत्र।” ↩︎

  149. “ङ. °ण तक्रभु°” ↩︎

  150. “घ. °वृत्तादो°” ↩︎

  151. “घ. °वृद्धादो°” ↩︎

  152. “क. घ. °तोर्ध्वर°” ↩︎

  153. “घ. गव्यं” ↩︎

  154. “अ. हितं” ↩︎

  155. “ख. पुस्तके— वृषस्य स्वरसं कृत्वा द्रव्यैरेभिः प्रयोजयेत्॥ प्रियंगुमृत्तिकालोध्रमञ्जनं चेति चूर्णयेत्॥१॥ एतच्चूर्णं पाययेत्तद्रसैः क्षौद्रसमन्वितैः॥ नासिकामुखपायुभ्यो योनिमेढ्राच्च निर्गतम्॥२॥ रक्तपित्तं स्रवद्धन्ति सिद्ध एष प्रयोगराट्॥ यच्च शस्त्रक्षतेनैव रक्तं गच्छति वेगितम्॥३॥ तदप्यनेन चूर्णेन तिष्ठत्येवावचूर्णितम्॥ इत्यधिकमत्र।” ↩︎

  156. “घ. अपि द्वि।” ↩︎

  157. “घ.°गुणेन।” ↩︎

  158. “ङ. तु।” ↩︎

  159. “क. घ. °यं घृते वासादिके पुनः।” ↩︎

  160. “ङ.°पाकः स्मृ°।” ↩︎

  161. “क.घ.°त्तप्ते घृ°” ↩︎

  162. “क. घ.°येत्पुनः। तत्पक्वंस्थापयेद्भाण्डे द°।” ↩︎

  163. “घ.°रवर्धन°” ↩︎

  164. “ख पुस्तके—वृद्धं पुरातनं वाऽपि कूष्माण्डं कठिनं दृढम्। त्वक्सिराभ्यां विनिर्मुक्तं मेदोबीजैर्विवर्जितम्॥१॥ इत्यधिकमत्र।” ↩︎

  165. “ङ.कंसः।” ↩︎

  166. “घ. क्षतक्षयी।” ↩︎

  167. “क. घ. विशेषतः।” ↩︎

  168. “घ. °द्यमा°।” ↩︎

  169. “क. घ. °हं रक्तसं°” ↩︎

  170. “घ. कुरङ्गाः” ↩︎

  171. “घ. °क्वान्नंख°।” ↩︎

  172. “ख. पुस्तके—पत्रत्वगेलानतचन्दनानां श्यामासशुण्ठीमधुकोपलानाम्॥ सधात्रिवांशीद्विगुणोत्तराणां चूर्णे सिताक्षौद्रसमन्वितानाम्॥१॥ खादेज्ज्वरे लोहितपित्तसर्वे कासक्षये शोणितमूत्रकृच्छ्रे॥ रक्तेपितीनिष्ठीवति (? ↩︎

  173. “र्वताम्” ↩︎

  174. “क. घ. दाडिमामलकोपेतं” ↩︎

  175. “घ.°लीसृता°” ↩︎

  176. “घ. मुस्तं !” ↩︎

  177. “अकर्तरि च कारके संज्ञायामिति घनिति वक्तव्यमिति मम भाति।” ↩︎

  178. “घ. चैकं।” ↩︎

  179. “घ. तच्चाभ।” ↩︎

  180. “ग. पुस्तके—विहिता तिलतैलेन घृतेन विपचेदनु।पचेदालोहितेसंख्या फलानां शतशोऽपला।इति पाठान्तरम्।” ↩︎

  181. “क. घ. मधुकं।” ↩︎

  182. “ङ. सर्पिरग्र्यं।” ↩︎

  183. “इदं घपुस्तके न।” ↩︎

  184. “इदमर्धं घपुस्तके न।” ↩︎

  185. “एतद्धपुस्तके न” ↩︎

  186. “क. नीत्वा।” ↩︎

  187. “घ. °क्सिद्धे ह्यवतार्य शी°।” ↩︎

  188. “घ. °न मां°” ↩︎

  189. “घ. चैवापरं” ↩︎

  190. “घ. पयश्च” ↩︎

  191. “क. °श्वदंष्ट्रा श्री°।” ↩︎

  192. “क. °काविसग्रन्थिप°। घ.क. °काविषग्रन्थिप°।” ↩︎

  193. “क. घ. पिबेत्क्षती।” ↩︎

  194. “घ.°त्तकासानि°।” ↩︎

  195. “क. मलायत्तं।” ↩︎

  196. “क. शुक्रायत्तं।” ↩︎

  197. “घ. °यतां च।” ↩︎

  198. “ङ.°नीं दैव°।” ↩︎

  199. “ख. पुस्तके—जह्यात्तं छर्दितं जन्तुं बलमांसपरिक्षयम्। इत्यधिकम्।” ↩︎

  200. “क. घ. °मलक°” ↩︎

  201. “घ. °गे मुखे शूले श्वा°।” ↩︎

  202. “घ. चिहरं तच्चूर्णं दीपनं परम्।हृत्पाण्डुग्रहणीरोगेप्लीहशोषज्वरापहम्। छर्यतीसारशूलघ्नं” ↩︎

  203. “घ. चैतच्चूर्णं” ↩︎

  204. “घ. क्षयका°” ↩︎

  205. “घ. °प्रसार°” ↩︎

  206. “ख. पुस्तके—विभीतकं घृताभ्यक्तं गोशकृत्परिवेष्टितम्। स्विन्नमग्नौ हरेत्कासं ध्रुवमास्यविधारितम्॥१॥ इत्यधिकमत्र।” ↩︎

  207. “अत्र टीकानुरोधेन पथ्यमिति स्यात्।” ↩︎

  208. “क. घ. °तं सिद्धं क°।” ↩︎

  209. “क.घ. °धिनिषूदनम्।” ↩︎

  210. “घ.°स्त्रीञ्जलस्थान्बदन्यवान्।तु°।” ↩︎

  211. “घ. समीक्ष्य।” ↩︎

  212. “ख. पुस्तके—शर्करा शृङ्गवेरं च गैरिकं मूत्रमाविकम्॥ गुडार्द्रकं च दातव्यं हिक्काघ्नंनावमत्रयम्॥१॥ इत्यधिकमत्र।” ↩︎

  213. “क. घ. प्रखेदितः।” ↩︎

  214. “क. घ. मन्थं वा।” ↩︎

  215. “क.घ. °क्तं हिक्काश्वास°।” ↩︎

  216. “घ. कर्षमात्रैः।” ↩︎

  217. “क.घ. °ने च क°।” ↩︎

  218. “क. घ. संगृह्य।” ↩︎

  219. “घ. ह्येष।” ↩︎

  220. “ङ. वाते वचासुवमनं कृतवापिबे°।” ↩︎

  221. “ङ. °म्बुच्छर्दितवेतक°।” ↩︎

  222. “व पुस्तके—सूक्ष्मैला केसरं त्वक्च पत्रतालीसकं तुगा। पृथ्वीका दाडिमं धान्यं जीरकं चार्धकार्षिकम्॥१॥ पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम्।मरिचं दीप्यकं चैव वृक्षाम्लं चाम्लवेतसम्॥२॥ अजमोदाऽजगन्धा च दधित्थं चेति कार्षिकम्। प्रदेयमिह शुद्धायाः शर्करायाश्चतुष्पलम्॥३॥ चूर्णमग्निप्रसादं स्यात्परमं रुधिवर्धनम्। प्लीहकासमथार्शालिश्वासशूलं ज्वरं वमिम्॥४॥ निहन्ति दीपयत्यग्निंबलवर्णप्रदं परम्।वातानुलोमनं हृद्यं कण्ठजिह्वाविशोधनम्॥५॥सूक्ष्मैलाद्यं चूर्णम्। इत्यधिकमत्र।” ↩︎

  223. “ख. पुस्तके— पथ्याक्षधात्रीमगधोषणानां चूर्णं सलाजाञ्जनकोलमध्यम्। छर्दि निहन्त्याशु समाक्षिकं तु सत्र्यूषणं वाऽपि कपित्थमध्यम्॥१॥ इत्यधिकमत्र।” ↩︎

  224. “क. घ. °क्षौद्रयुक्तं निहन्त्याशु च्छर्दि पिताम्लसंभवाम्।” ↩︎

  225. “टीकायां तु सर्षपस्थाने सैन्धवेति वर्तते।” ↩︎

  226. “क. घ. °क्तैश्छर्द्योकफामाशयशो°” ↩︎

  227. “क.घ.जयेत् ।” ↩︎

  228. “घ. ण्ठीनामथवा श्ले°।” ↩︎

  229. “ङ. °सृणां विश्वभे°।” ↩︎

  230. “घ. °पिभवेत्प°” ↩︎

  231. “क. घ. मूर्छायां” ↩︎

  232. “क.घ. जातरि°” ↩︎

  233. “क. लाक्षाक°” ↩︎

  234. “क °विधिर्घृता°।” ↩︎

  235. “घ. चिरोत्थां।” ↩︎

  236. “क. वा।” ↩︎ ↩︎ ↩︎ ↩︎

  237. “ङ.पीतं।” ↩︎

  238. “क. °च्छर्दनमे°।” ↩︎

  239. “ख. पुस्तके—लाजाब्जबीजाञ्जनमुत्पलानि न्यग्रोधरोहः सबितः सकुष्टः। क्षौद्रेणयुक्तो वटकीकृतश्च तृष्णाभिभूतेन मूखेन धार्यः इत्यधिकमत्र।” ↩︎

  240. “क. शीतं” ↩︎

  241. “क. विमादन” ↩︎

  242. “क. म्लाम्रैश्च” ↩︎

  243. " स्येसदधाति मुखे प्रणात्। दा” ↩︎

  244. " घ. °द्यभृशक°।” ↩︎

  245. “क. त्म्यानुपा ।” ↩︎

  246. “क. बुद्ध्वा दोषं” ↩︎

  247. “क. °णा। पीतं मू°” ↩︎

  248. “ख. पुस्तके—सुशीतं त्रिफलाक्वाथं सिताक्षौद्रसमन्वितम्। वोढामपि निहन्त्याशु मूर्छां पीतो यथाबलम्। इत्यधिकमत्र।” ↩︎

  249. “ख. पुस्तके—सन्यासलव्धसंज्ञश्च लशुनस्य रसं पिबेत्। खादेत्सव्योपलवणं बीजपूरककेसरम्।इत्यधिकमत्र।” ↩︎

  250. “क. °र्णमद्याय दा°” ↩︎

  251. “ङ. याभिः।” ↩︎

  252. “ङ. °रामधुयो°।” ↩︎

  253. “°म्। हितं लव°।” ↩︎ ↩︎

  254. “ङ. जी” ↩︎

  255. “क. घ. °तोऽम्भोजक°” ↩︎

  256. “घ.क. °गाहेषु व्यजनानां च सेवने।शस्यते शि°” ↩︎

  257. “ख, पुस्तके— दाहवेगेत्वभिक्रान्ते तस्मादुद्धृत्यमानवम्। परिषिच्याम्बुभिः शीतैःप्रलिम्पेचन्दनादिभिः॥१॥ ग्लानं वा दीनवदनं समालिङ्गेद्वराङ्गना। एलमक्षौमसंवीता चन्दनार्द्राप्रियोदरा॥२॥ विश्रत्योऽब्जस्रजश्चित्रा मणिहारविभूषिताः। भजेयुस्तं स्तनैःशीतैश्छायामम्बुरुहैर्मुखैः॥३॥इत्यधिकमत्र।” ↩︎

  258. “क. शस्यते” ↩︎

  259. “अत्र टीकानुरोधेन क्षीरिकषायैरिति युक्तम्।” ↩︎

  260. “ङ. °न्दनाम्बुद°” ↩︎

  261. “क. °पदिश्यते” ↩︎

  262. “ख.पुस्तके—तालीसत्रिफलैलवालुफलिनीसोग्रापृथक्पर्णिनीदन्तीदाडिमदारुचन्दननिशादार्वीविशालोत्पलैः। जातीपुष्पहरेणुपद्मकयुतैर्जन्तुघ्नमञ्जिष्टिकारुषिशटीत्रुटिसारिवाद्वययुतैर्नागेन्द्रपुष्पान्वितैः॥१॥ अष्टाविंशतिभिश्चतुर्गुणजले कल्याणमेभिः शृतं हन्त्येतत्त्रिचतुर्थकज्वरमुरःकम्पं सबन्ध्यामयम्। सापस्मारगरोदराः सपवनोन्मादाः सजीर्णज्वरा जायन्ते न पुनः कृतेन हविषा कल्याणकेनामुना॥२॥ तीसटात्कल्याणकं घृतम्॥” ↩︎

  263. “घ. क्यैर्वाक्यैर्धर्मार्थसंहितैः।” ↩︎

  264. “क. °श्च तस्करैः शत्रुभिस्त°।” ↩︎

  265. “क. भूतदोषजे।” ↩︎

  266. “क. थाविधि शुचिर्भि ।” ↩︎

  267. “क. वाऽपि।” ↩︎

  268. “ङ. चारटी।” ↩︎

  269. “ङ. रोचना।” ↩︎

  270. “घ. °ण्डबृहद्ब°” ↩︎

  271. “* ख. पुस्तके—“कदली सिन्दुवारश्च निर्गुण्डी गिरिकणिका। यवक्षारं च पद्मा च वाराही मांसरोहिणी॥१॥चन्द्रभादित्यकान्ता च नाकुल्यो वृद्धदारुकः। पिष्टैस्तद्वस्तमूत्रेण योजयेदापदीश्वरम्। नस्यधूमप्रदेहेषु सर्वभूतग्रहापहम्॥२॥ उन्मादमोहज्वरकृत्यवाताञ्ज्वराग्निचौरोरगवृश्चिकादीन् । उपद्रवान्हन्ति विषाणि चैव सकृत्रिमस्थावरजङ्गमानि॥३॥इत्यधिकमत्र।” ↩︎

  272. “ङ. सर्पदंष्ट्रे” ↩︎

  273. “ङ. ग्रहोन्मा।” ↩︎

  274. " क तन्नादम°।” ↩︎

  275. “क. समैघृत°।” ↩︎

  276. “ख.पुस्तके—” ↩︎

  277. “क भयापहम्।” ↩︎

  278. “* ख.पुस्तके—शतपुष्पादेवदारुनागरैरण्डसैन्धवैः। अम्लपिष्टैः समैः कोष्णैर्लेपो वातार्तिनाशनः॥१॥ इत्यधिकमत्र।” ↩︎

  279. “ङ. °नूपौदकमांसस्तु स°।” ↩︎

  280. “ङ. कुर्वन्ति।” ↩︎

  281. “क. ह्योनाष्टवर्गकसज्ञितः।” ↩︎

  282. “ङ. षट्चर°।” ↩︎

  283. “घ. ङ. °काद्वययु°।” ↩︎

  284. “घ. ङ. °स्तस्या मा।” ↩︎

  285. “ङ. प्रासाश्च।” ↩︎

  286. “घ. सुप्तिसुम°।” ↩︎

  287. “घ. °रण्डवाट्यालकशृतं पि°।” ↩︎

  288. “°रुबुक्वाथानुपा°” ↩︎

  289. “क. °टिपृष्ठाम°।” ↩︎

  290. “ङ. भुक्त्वा। " ↩︎

  291. “क.°लीरसं पि°।” ↩︎

  292. “ङ.°ङ्गशिरो°।” ↩︎

  293. “घ. °रो नित्यं ब°।” ↩︎

  294. “घ. °स्यप°।” ↩︎

  295. “क. क्रुद्धो।” ↩︎

  296. " ङ. च।” ↩︎ ↩︎

  297. “*एवं स्रुहीकाण्डवार्ताकुशिग्रुलवणानि संक्षुद्य घटं पूरयित्वा सर्पिस्तैलवसामजभिः प्रक्षिप्यावलिप्य गोशकृद्भिर्दाहयेदेतत्स्नेहलवणमुपदिशन्ति वातरोगेष्विति सौश्रुतः पाठः।” ↩︎

  298. “घ. ने फाणितं पेयं लघनं फ°।” ↩︎

  299. “क. कुष्ठशताह्वहिङ्गुसैन्धवैः। अ°।” ↩︎

  300. “ङ. °पिटेश्च सततमाध्मानमुदरं हरेत्।” ↩︎

  301. “ङ च।” ↩︎ ↩︎

  302. “घ. °लिकाया गुल्मा°।” ↩︎

  303. “ङ. निर्विच्य।” ↩︎

  304. " ङ. °ह्वामूले क्रि°” ↩︎

  305. " क. °नः॥ जडग°।" ↩︎

  306. “घ. °तैलं त्रि°।” ↩︎

  307. “ङ. °त्वा गृध्रसीं हन्त्यसंशयम्। शु°।” ↩︎ ↩︎

  308. “घ. शुद्धः।” ↩︎

  309. “ङ. °र्णिता।द°।” ↩︎

  310. “ङ. भाव्या।” ↩︎

  311. “ङ. °न्विता। द°।” ↩︎

  312. “°वारं स गु°।” ↩︎

  313. “ख. सरास्ना।” ↩︎

  314. " घ. चूर्णम्।" ↩︎

  315. “घ. अक्षार्धभागं च।” ↩︎

  316. “घ. पलान्वितैः।” ↩︎

  317. “घ. पयोन्मितम्।” ↩︎

  318. " ङ. °मेतच्छैले°।" ↩︎

  319. " क. °रिवां वचाम्।" ↩︎

  320. " क. °पयोजयेत्। ए°।" ↩︎

  321. “ङ.°मान्याश्च।” ↩︎

  322. “घ.बिल्वाग्निमन्थौस्यो°।” ↩︎

  323. “ङ. °लान्कृत्वा चतु°।” ↩︎

  324. “ङ. बला।” ↩︎

  325. “घ. मन्दमेधस।” ↩︎

  326. “क. शठी।” ↩︎

  327. “घ. बृहत्योः।” ↩︎

  328. “क. घ. गर्भं चैनं स°।” ↩︎

  329. “क.ध.प्रदापये°” ↩︎

  330. “गण्डमालां।” ↩︎

  331. “घ. हनुग्रहम्।” ↩︎

  332. “घ. °गं च अश्मरीं चाऽऽशु ना°। " ↩︎

  333. “ङ. °न्याद्वयोब°” ↩︎

  334. “क. घ. भ्यङ्गे मा°।” ↩︎

  335. “घ. °भक्तक°।” ↩︎

  336. " घ. कल्कान्दत्त्वाऽ।” ↩︎

  337. “घ. °मितान्। जी°।” ↩︎

  338. “क. घ. °ण्टटिण्टु°।” ↩︎

  339. “ङ. °या वा ऐर°।” ↩︎

  340. “घ.°हुहरं च तै°।” ↩︎

  341. “क. °सभवे पृ°।” ↩︎

  342. " क. घ. °समैर्भिषक्।" ↩︎

  343. “क. घ. त्वा च विपचेत्तैलप्रस्थं प°।” ↩︎

  344. “ङ. °र्ङ्गीविदारी सपु°।” ↩︎

  345. " क. घ. दारुणे।" ↩︎

  346. “ङ. सारिणी°।” ↩︎

  347. “घ. °न्थिरुक्षा°।” ↩︎

  348. “क.घ.°स्थिगम्।” ↩︎

  349. “घ. °यत्रिंश°।” ↩︎

  350. " घ. यार्गणे" ↩︎

  351. “घ. मूलानि मां°।” ↩︎

  352. “ङ.°र्सी च तथाऽदि°” ↩︎

  353. “घ. °म्भं वाऽपि नि°।” ↩︎

  354. “ङ. °पलांशिका।” ↩︎

  355. “क °तिहिमं न।” ↩︎

  356. “घ. °तजुष्टा°।” ↩︎

  357. “घ. °मद्यक्षी°।” ↩︎

  358. “क. घ. नस्ये।” ↩︎

  359. “घ. प्रयुक्तं।” ↩︎

  360. “ङ. °कर्चूर°।” ↩︎

  361. " ङ.°सारिणी।" ↩︎

  362. “ङ. ध्यामकं।” ↩︎

  363. “ङ. °लस्यैरण्डसंभवात्। गृ°।” ↩︎

  364. “क. घ. °हार्शोर्तिस°।” ↩︎

  365. “* ख. पुस्तके—वासागुडुचीचतुरङ्गुलानामेरण्डतैलेन पिबेत्कषायम्।क्रमेण सर्वाङ्गजमप्यशेषं जयेदसृग्वातभवं विकारम्। इत्यधिकमत्र।” ↩︎

  366. “*ख. पुस्तके—अगस्तिपुष्पचूर्णेन साधितं महिषीपयः। तदुत्थनवनीताक्त्तं वातासृक्प्रबलं जयेत्॥१॥अयं श्लोकः क्वचित्पठ्यते।” ↩︎

  367. “क. कफवातघ्नी।” ↩︎

  368. “+ ख. पुस्तके—युक्पश्चमूलपयसा लघुपञ्चमूल्या क्वाथेन वाऽमृतलताक्वथनेन वाऽपि॥ वाट्यालकस्य सलिलेन युतं श्रुतेन पीतं शिलाजतु समीरणशोणिघ्नम्॥१॥ इत्यधिकमत्र।” ↩︎

  369. “घ. ङ. द्वदिति।” ↩︎

  370. “क. °द्रवद्रव्यैः कुर्यात्स्नेहाच्च°।” ↩︎

  371. “क. °द्याच्चतुर्भिश्च च°।” ↩︎

  372. " क.°र्भं रसेन स्याच्च°।" ↩︎

  373. “क. घ. °न्वितम्। सा°।” ↩︎

  374. “क. घ. °ण्डजं तैलं वात°।” ↩︎

  375. “क. घ. °समारिचम्।” ↩︎

  376. “क. घ. °तैलं तदभ्यङ्गाद्वात°।” ↩︎

  377. “क. घ. °थक्पचेत्पञ्च°।” ↩︎

  378. " क. घ. °गं वपुष्प्रकर्षं बलवर्णतैलम् ।" ↩︎

  379. “ङ. वनम°।” ↩︎

  380. " ङ. संक्षिप्य।" ↩︎

  381. “U. °मिजि़च्चूर्णा°।” ↩︎

  382. “क. घ. कार्यं।” ↩︎

  383. “ङ. °पिडिकांश्च।” ↩︎

  384. " ङ. संकुड्य।" ↩︎

  385. “घ. °द्य साधये°।” ↩︎

  386. “घ. °कारयेत्।” ↩︎

  387. “ङ. °ताख्यश्च गु°।” ↩︎

  388. “ङ. संकुड्य।” ↩︎

  389. " ङ. °पलोन्मित°।" ↩︎

  390. " क. घ. °तू।ततः सिद्धे क्षि°।" ↩︎

  391. “क. घ. °तात्मा हि गु°।” ↩︎

  392. “ङ. दारुक°” ↩︎

  393. “घ. °कार्श्येपित्तास्रसंभव°।” ↩︎

  394. “ङ. °फोत्थं च रो°।” ↩︎

  395. “क. घ.°प्नाग्निसं°।” ↩︎

  396. “घ. न्दि दोषवातुमलस्रो।” ↩︎

  397. “* ख. पुस्तके—सर्वो रूक्षक्रमः कार्यस्तत्राऽऽदौ कफनाशनः। पश्चाद्वातविनाशाय कृत्स्नः कार्यः क्रियाक्रमः॥१॥ इत्यधिकमत्र।” ↩︎

  398. “ङ. भोज्यं।” ↩︎

  399. “क. घ. तथा।” ↩︎ ↩︎

  400. “ङ. °स्तम्भेनमु°।” ↩︎

  401. “क. घ. वा।” ↩︎ ↩︎

  402. “* ख. पुस्तके—सस्नेहदधिसंभूतं तक्रं कट्वरमुच्यते। इत्यधिकमत्र।” ↩︎

  403. “+ अष्टकट्वरतैलेऽत्र तैलं सार्षपमिष्यत इति चक्रः।” ↩︎

  404. “*ख. पुस्तके—रास्नैरण्डशतावरीसहचरादुस्पर्शवासावृतादेवाह्वाति विषाभयाघनशठीशुण्ठीकषायः कृतः। पीतः सोरुबुतैल एष विहितः सामे सशूलेऽनिले जङ्घोरुत्रिकपार्श्वपृष्ठजठरे कोडेषु वातार्तिजित्॥१॥इत्याधिकमत्र।” ↩︎

  405. “ङ. °चनम्। द°।” ↩︎ ↩︎

  406. “ङ. °रुपृष्ठे कटिपार्श्वशूले॥७॥” ↩︎

  407. “क. घ. °त्। भक्षयेद्वाऽ°।” ↩︎

  408. “घ. °ह—मणि” ↩︎

  409. “घ. °ह—माणि” ↩︎

  410. “क. घ. °दीनानाहमुदराणि वा। वि°।” ↩︎ ↩︎

  411. “ङ. दारुक°।” ↩︎

  412. “घ. °व श्लक्ष्णचू°।” ↩︎

  413. “घ. च श्लक्ष्णचू°।” ↩︎

  414. " क. चूर्णानि।" ↩︎

  415. “क. घ. °थेष्टाहा°।” ↩︎

  416. “क. घ. °रुपृष्ठस्थं।” ↩︎

  417. “क. °कानदश्चूर्णं।” ↩︎

  418. “क. घ. वाऽत्युष्ण°।” ↩︎

  419. “क रोगाः सुदारुणाः शीघ्रम्। वि°।” ↩︎ ↩︎

  420. “घ. °स्तिगुदस्फु°। " ↩︎

  421. “घ. °नं स्फुटनं चै°।” ↩︎

  422. “क. घ. °थुः स्तब्धाङ्ग° ।” ↩︎

  423. “क. घ. °मिदुष्टव्र°।” ↩︎

  424. “ङ.गोघृतं।” ↩︎

  425. “ङ. °त्रसैन्धवम्। दी°।” ↩︎

  426. “क. घ. °नुग्रन्थिक°।” ↩︎

  427. “घ ङ °द्धार्थत°।” ↩︎

  428. “क. घ. °षां सूक्ष्मचू°।” ↩︎

  429. “ङ. °ते आढ्यवा°।” ↩︎

  430. “* एतदादि भेषजैरजितानित्यन्तो ग्रन्थो घ. पुस्तके नास्ति।” ↩︎

  431. “* स्व. पुस्तके—वातस्यानु अति पितस्यापि क्षये कफन्। त्रयाणां वा जयेत्पूर्वं ग्रोभोदूलवत्तरः॥१॥ इत्यधिकमत्र।” ↩︎

  432. " ङ. कषायः।” ↩︎

  433. “ङ. °बेरकोष्णाम्बु°।” ↩︎

  434. “ख. पुस्तके—पथ्या सौवर्चलं क्षारं हिङ्गुसैन्धवंदीप्यकम्।चूर्णं मद्यादिभिः पीतं वातशूलनिवारणम्॥१॥ इत्यधिकमंत्र।” ↩︎

  435. “क. °निषूदमाः°। क्षा°।” ↩︎

  436. “घ. °वर्चलाम्लि°।” ↩︎

  437. “ङ. शिवायाः।” ↩︎

  438. " ङ. पित्ते।" ↩︎

  439. “क. घ. पुलिनाः” ↩︎

  440. “क.घ. सवाता।” ↩︎

  441. “ङ. °नार्द्राश्च क°।” ↩︎

  442. " क. °म्। मणिरा°" ↩︎

  443. " ङ. °धूकपानं यो°।" ↩︎

  444. “ङ. छर्दिर्ज्वरे।” ↩︎

  445. “ङ. °षितोऽति°।” ↩︎

  446. “ङ. °स्य तोयं म°।” ↩︎

  447. “ङ. विमिश्रं।” ↩︎

  448. “ङ. °शीतं म°” ↩︎

  449. “क. घ. °म्बु वा। पि।” ↩︎

  450. “क. घ. सद्यः।” ↩︎

  451. " घ. बृहत्यो।" ↩︎

  452. “क. घ. °नपाचना°।” ↩︎

  453. “* ख. पुस्तके—श्लेष्मशूलहरा पेया पञ्चकोलेन साधिता। इत्यधिकमत्र ।” ↩︎

  454. “क. घ. °क्तोनिहन्त्याशु।” ↩︎

  455. “ङ. °यन्ते स°।” ↩︎

  456. “क. घ. तत्पेयं शू°” ↩︎

  457. “घ. °शु मन्दस्या°।” ↩︎

  458. “क. °योगं भि°।” ↩︎

  459. “क. घ. °वी त्वथ चि°।” ↩︎

  460. “घ. शूलहरः स्मृतः। प्रा°।” ↩︎

  461. “घ. हिध्मा।” ↩︎

  462. " ङ. धं शूली जह्याच्च केवल°।" ↩︎

  463. “ङ. °नि संहृ°।” ↩︎

  464. “ङ. °दकं कृत्वा।” ↩︎

  465. " क. घ. °ण्डतैलश°।" ↩︎

  466. “ङ. बचायु°।” ↩︎

  467. “घ. ङ. °युक्तमपि बो°।” ↩︎

  468. " क. घ. मांसादिधृतसाधितम्।" ↩︎

  469. “घ. °लं च हृच्छुलं गु°।” ↩︎

  470. “ङ.°न्ननिव°।” ↩︎

  471. “क. घ. लोहकिट्टप°।” ↩︎

  472. “ङ. चव्याग्मिना°।” ↩︎

  473. “ड.°शूलनिवारणः। का°।” ↩︎

  474. “ङ. °क पथ्यानां।” ↩︎

  475. “ङ. °ना सह भुक्तं।” ↩︎

  476. “ग. °ति व्याधीपि°।” ↩︎

  477. “ङ. °स्थे विपाचयेत्। द°।” ↩︎

  478. “क. °लं जातीस°।” ↩︎

  479. “क. घ. °क्तं तिलान्क्षौद्रे°।” ↩︎

  480. " ङ. तज्जयेत्।" ↩︎

  481. “ङ. °म्। दुष्टान्नव्यत्ययात्कार्य जत्पित्ते यथोचिते । आ°।” ↩︎

  482. “ड. °रिपत्ते तु त°।” ↩︎

  483. “ङ. °नाद्विना°।” ↩︎

  484. “ङ. शूलादाववश्यं°।” ↩︎

  485. “ङ. °क्षारपीलूनि त्रि°।” ↩︎

  486. " घ. कुम्भं।" ↩︎

  487. “क. सिग्धे।” ↩︎

  488. “क. गन्धेन।” ↩︎

  489. “ङ. एर्वारुबीजं।” ↩︎

  490. “ङ. °धारतः। क्षी°।” ↩︎

  491. “ङ. °थारतः। क्षी°।” ↩︎

  492. " ङ. ° म्। उष्णाम्वु°।" ↩︎

  493. “घ. °लीसाति°।” ↩︎

  494. “घ. राठधू°।” ↩︎

  495. “ध. राठो " ↩︎

  496. " ङ.वा दर्वीरि°।” ↩︎

  497. “घ. °रशूलानि°।” ↩︎

  498. “घ.ङ. गुडेन।” ↩︎

  499. “क. घ. चापि ते°।” ↩︎

  500. “घ. °त्पीयमानं श°।” ↩︎

  501. “क. घ. °डेष्टिका°।” ↩︎

  502. “घ ङ. इष्टक°।” ↩︎

  503. “ङ. °ग्धोस्रजे।” ↩︎

  504. “घ. त्रद्ये द्वं°।” ↩︎

  505. “इ. °ङ्गाम्लेन ब°।” ↩︎

  506. “घ. वह्नेर्वृद्धिं।” ↩︎

  507. “घ. °धान्याम°।” ↩︎

  508. “घ. °लीः।पचेद्वि°।” ↩︎

  509. “अत्रत्या टीका त्रुटिता सा डल्लणात्संग्रहीतव्येति मम भाति।” ↩︎

  510. “अत्रत्याऽप्याद्या टीका त्रुटिता साऽपिडल्लणादेव संग्रहीतव्येति भाति।” ↩︎

  511. “मूलकस्येति मम भाति मूलवचने शुण्ठकपदस्यापाठात्। न पुनरार्द्रस्येति निषेधस्याऽममूलकस्यैव युक्तत्वाच्च।” ↩︎

  512. “क. घ. च। तेनांष्ट°।” ↩︎

  513. “ङ. °तान्। ज°।” ↩︎

  514. “* घ. पुस्तके—“प्रयोजयेत्पित्तगुल्मे सर्वपित्तविकारनुत्“ इति पाठः।” ↩︎

  515. " क. ध. °ल्मं जयत्या°।" ↩︎

  516. “ङ.°मपि पा°।” ↩︎

  517. “* ख. पुस्तके—“दाडिमं कृष्णलवणं शुण्ठी हिङ्ग्वम्लवेतसम्।अपतन्त्रकहृद्रोगश्वासघ्नं चूर्णमुत्तमम्॥१॥इत्यधिकमत्र।” ↩︎

  518. “ङ. °ति च प°।” ↩︎

  519. " ङ. ° नु भवति जित°।" ↩︎

  520. " क. घ. °मयेषु।हि°।" ↩︎

  521. “इ. °गाढैर्धान्या°।” ↩︎

  522. “छ. सिद्धं।” ↩︎

  523. " ङ. बलका°" ↩︎

  524. “घ. °कट्तृण°।” ↩︎

  525. “क. घ. सदम्।” ↩︎

  526. “घ. °क्षतर°।” ↩︎

  527. " घ.°ल्कस्वर°।" ↩︎

  528. “ङ. °च्छ्रनुत्। क्वा°।” ↩︎

  529. “घ. युक्तं।” ↩︎

  530. “इ. मितिवारकस्य " ↩︎

  531. “ध. °भिवात°।” ↩︎

  532. " ङ. यत्।” ↩︎

  533. “घ. °लैर्मिलि°।” ↩︎

  534. “ध. °जः श्लक्ष्णपि°।” ↩︎

  535. “ङ. °देश वा लि°।” ↩︎

  536. “घ. °णं चापि।” ↩︎

  537. “ङ. °टलीभ°” ↩︎

  538. “°दोषान्सनातनान्।” ↩︎

  539. “* ख. पुस्तके—गङ्गावत्या मूलं कथितं घृततैलसैन्धवैर्मिश्रम्।मूत्रमतिरुद्धं वेगात्प्रपीतमात्रं प्रवर्तयति॥१॥ चित्रफला गोदुरधी।इत्यधिकमत्र।” ↩︎

  540. “घ. °त्पदं प्र°।” ↩︎

  541. “घ. °दम°” ↩︎

  542. “घ. °भल्लुक°।” ↩︎

  543. “अमुमर्थमिति भाति।” ↩︎

  544. “आङ्पूर्वाड्डुवब्बीजसंतान इत्यस्येति मम भाति।” ↩︎

  545. “घ. पुनर्नवे।” ↩︎

  546. “ङ. वागूं पे°।” ↩︎

  547. “ङ. °स्मिन्प्रक्षेपपादकैः।” ↩︎

  548. “क. घ. °न्द्रग्रन्थिकौ।” ↩︎

  549. “घ. °नः। वरुणत्वकषायं तु पीतं च गु°।” ↩︎

  550. “घ-°दनम्।” ↩︎

  551. “घ. सिद्धं लिह्यात्स°।” ↩︎

  552. “ङ. त्रपुसस्य।” ↩︎

  553. “के. घ. अस्य मा°।” ↩︎

  554. “ङ. पिबेत्तन्मथितेन वा। म°।” ↩︎

  555. “घ. प्रयोजयेत्।” ↩︎

  556. “ङ. °ढकम्। कु°।” ↩︎

  557. “ङ. °ष्टकान्। सा°।” ↩︎

  558. “ङः°रमाञ्जिष्ठका°।” ↩︎

  559. “किंचिल्लाभे यापनार्थमिति मम भाति।” ↩︎

  560. “घ. °हृहा। सु°।” ↩︎

  561. “घ. वरुणं।” ↩︎

  562. “क. घ. वेगेन।” ↩︎

  563. “ङ. °हिसुका°।” ↩︎ ↩︎

  564. “त्रप्वादीनामिति सुश्रुते पाठः।” ↩︎

  565. “मधुमेहं विहायासाविति मम भाति।” ↩︎

  566. “क. °न्ता स्वेदः कथा।” ↩︎

  567. “ङ. त्यक्त्वा।” ↩︎

  568. “ङ. °ल्याजद्भवेत्। क्षा°।” ↩︎

  569. “ङ. मस्तुना।” ↩︎

  570. " क. घ. समं।" ↩︎

  571. “ङ. प्रहर्षः।” ↩︎

  572. “ङ. क्षारो।” ↩︎

  573. “घ. कुर्यात्।” ↩︎

  574. “क. घ.°नन्यांस्त्रीं°।” ↩︎

  575. “क. घ. आनद्धावा°।” ↩︎

  576. “ङ. विट्सङ्गे।” ↩︎

  577. “क. घ. °मीन्प्रवृद्धानु°।” ↩︎

  578. “क. घ. °ङ्गाज्याग्नि°।” ↩︎

  579. “क. घ. तं।” ↩︎

  580. “क. घ. °मतिदा°।” ↩︎

  581. “क. घ. °मवेक्ष्य।” ↩︎

  582. “क. ख. °वाऽमृता पाठा दारु विश्वं श्व°।” ↩︎

  583. “घ. °शिना शी°” ↩︎

  584. “तन्त्रान्तराच्छोधनीयम्। पित्तात्मिका इति भाति।” ↩︎

  585. “क. पूतं।” ↩︎

  586. “क. घ. सशूलं।” ↩︎

  587. “क. °वचूर्णयु°।” ↩︎

  588. “घ. °हाढ्यमा°।” ↩︎

  589. “क. घ. °सनात्।” ↩︎

  590. “क. सर्वेश्वर नाम।” ↩︎

  591. “के. घ. पूपलिकां।” ↩︎

  592. “क. ध जलायुकाः।” ↩︎

  593. “क. घ. प्रलिम्पेत्।” ↩︎

  594. “क. घ. °त्र मूर्छन्त्य°।” ↩︎

  595. “ङ. दुष्टार्बुदानां।” ↩︎

  596. “क. घ. °मल्लसं°। " ↩︎

  597. “क. घ. °पचीव्रणान्।” ↩︎

  598. “ख. पुस्तके—अन्तर्धूमं दहेत्काकं कृष्णाहिं वा भिषग्वरः। तेनापची सुकृच्छ्राऽपि तैलाक्तालघु शाम्यति। इत्यधिकमत्र ॥” ↩︎

  599. “घ. ग्रेरे°।” ↩︎

  600. “क. घ. दृढम्।” ↩︎

  601. “क. °षक्पूज्यः का°।” ↩︎

  602. “क. °दारस्य त°।” ↩︎

  603. “क. घ. °ङ्गाग्निव°।” ↩︎

  604. “क. घ. °न्याम्बुद°।” ↩︎

  605. “क. घ. त्र्यक्षं।” ↩︎

  606. “क. घ. °मिकोपनु°।” ↩︎

  607. “क. घ. °लौकःपा°।” ↩︎

  608. “ङ.°स्नेहलवणेन वा।” ↩︎

  609. “क. घ. दरपिष्टं।” ↩︎

  610. “घ. °धौ रोपणं परम्।” ↩︎

  611. “घ. वै क्षता°।” ↩︎

  612. “क. घ. °थहा॥३॥” ↩︎

  613. “घ. पुस्तके—लिप उपदेहे। दिह उपचय इति। यातिगच्छतिवदभिन्नवाच्यावेवैतौ प्रलेपप्रदेहौ।अत एव प्रदेहलक्षणं कैश्चित्प्रलेपस्योक्तम्। प्रलेपलक्षणं कैश्चित्प्रदेहस्येति परे। व्यावहारिकोऽभेदोऽभ्युपेतव्यः।प्रलेपप्रदेहयोस्तनुत्वस्थूलत्वाभ्यां शैत्यौष्ण्याभ्यां च भेद इत्यर्थः। इति सोमटिप्पणात्॥” ↩︎

  614. " घ. °णमपे°।” ↩︎

  615. “क. घ. गवां दन्तं।” ↩︎

  616. “घ. चापि।” ↩︎

  617. “तन्नेतिपदमसंगतम्।” ↩︎

  618. “ङ चापि।” ↩︎

  619. “क. घ. °र्मजान्।” ↩︎

  620. “ङ, °कुठेर°।” ↩︎

  621. " ख. पुस्तके—अतिदग्धे विशीर्णनि मांसान्युद्धृत्य शीतलाम्। क्रियां कुंर्याद्भिषग्यश्च शालितण्डुलकण्डनैः॥१॥टिण्टुकीत्वक्कषायैर्वा घृतमिश्रैः प्रलेपयेत्। व्रणं गुडूचीपर्णे वा छादयेदथवोदकैः॥२॥क्रियां कुर्याञ्च निखिलां भीषत्ति… पचेत्। इत्यधिकमत्र।" ↩︎

  622. “घ. °वाद्यभू°।” ↩︎

  623. " ख. पुस्तके—प्राग्जीरकेण सहितं परिपाच्य सर्पिस्तत्राऽऽवपेन्मदनसर्जरसं ततोऽनु। अभ्यञ्जनंवपुषि न हुतार्कदग्धाः कुर्वेश्रजर्तिमाचरेण जपत्यपतात्(? ↩︎

  624. “ङ. च।” ↩︎

  625. “क. घ. °न्धवन्तो व्र°।” ↩︎

  626. “क. घ. °लाले म°।” ↩︎

  627. “क. घ. कान्तक्रामक°।” ↩︎

  628. “घ वा।” ↩︎

  629. “घ.°ङ्गसैन्धवः पी°।” ↩︎

  630. “क. घ. शुभम्।” ↩︎

  631. “क. शृतं।” ↩︎

  632. “क. घ. सक्षीरम°। " ↩︎

  633. “घ.°णमुत्तमम्। सु°।” ↩︎

  634. " चत्वारः प्रयोगा इति प्रतिभाति।” ↩︎

  635. “क. घ. शस्तं।” ↩︎ ↩︎

  636. “क. घ. पूगात्फलं चाऽऽलवणं च पत्रम्।” ↩︎

  637. " घ. °म्यार्ककर°।" ↩︎

  638. " क. घ. ध्याद्गत्यन्तेचोन्नम्याऽऽशु च नि°।" ↩︎

  639. “घ. °व्रणाशूलभ°।” ↩︎

  640. " घ. चैव।" ↩︎

  641. “घ. °ष्पलोध्राणि द°।” ↩︎

  642. “क. घ. सुपिष्टाः।” ↩︎

  643. “क पिटिका°। घ. पिडिका°।” ↩︎

  644. “क. घ. °यालोध्रम°।” ↩︎

  645. “क. घ. संहृत्य।” ↩︎

  646. “क. घ. °शालज°।” ↩︎

  647. “क. घ. °किण्वं तु।” ↩︎

  648. “घ. °लय्यांहृ°।” ↩︎

  649. “क. घ. संछाद्य।” ↩︎

  650. “घ. सेवये°।” ↩︎

  651. “ङ. °पोनके।” ↩︎

  652. “शुद्धानां च प्रदुध्यतामिति सौश्रुतः पाठः।” ↩︎

  653. “घ. °मल्पेकु”।” ↩︎

  654. “ङ. °पिष्टश्च प°।” ↩︎

  655. “ङ. °प्तवारान्प्रले°।” ↩︎

  656. “क. घ. °ख्यं महदौष°।” ↩︎

  657. “क. घ. दद्रुः।” ↩︎

  658. " क. घ. °ङ्गसारा स°।" ↩︎

  659. “ङ. °स्नुग्राजवृक्षद्रु°।” ↩︎

  660. “क. घ. न्यर्शोस्युग्रना°।” ↩︎

  661. “ङ. °क्राह्वबी°।” ↩︎

  662. “क. घ.°ककान्ति का°।” ↩︎

  663. “क ध. तक्रेण पिष्टैः।” ↩︎

  664. “घ. संचूर्ण्य।” ↩︎

  665. “ख. घ. भवेत् ।” ↩︎

  666. “ङ. शीतलं।” ↩︎

  667. “क. घ. °मिति ख्या°।” ↩︎

  668. “क. घ. °शावासाया°।” ↩︎

  669. “क. घ. संक्षुण्णाद्दश°।” ↩︎

  670. “क. घ. °विनाशनम्। शि°।” ↩︎

  671. “ङ. °रकम्।” ↩︎

  672. “क. घ. °न पाच्यं तैलप°।” ↩︎

  673. “क. घ. °त्यपाकं पा°।” ↩︎

  674. “क. °लं हरेत्तूर्ण कच्छू°।” ↩︎

  675. " क. घ. °लिकोद्रवगो°।" ↩︎

  676. “क. घ. °खो नित्यं नि°।” ↩︎

  677. “क. य. °तां वा मधुसं°।” ↩︎

  678. “क. घ. °लविश्वामृ°।” ↩︎

  679. “क घ. °तनुत्। फ°।” ↩︎

  680. “क. घ. °हशूलोपशा°।” ↩︎

  681. “क. घ. सुदारुणम्।” ↩︎

  682. “ख. पुस्तके सवाते सविबन्धेऽस्मिन्हिता कंसहरीतकी इत्यधिकमत्र।” ↩︎

  683. " क. घ. बलासपित्तं।" ↩︎

  684. “घ. °पित्तसं°।” ↩︎

  685. " क. घ. च।" ↩︎

  686. “क. घ. °कीदिश्वौर्वेस°।” ↩︎

  687. “क. घ. °रकम्।” ↩︎

  688. “क. घ. °स्फोटज्वरशान्तये। मु°।” ↩︎

  689. “क. ख. °र्पकण्डूज्वरशो°।” ↩︎

  690. “क. घ. °शोफद्दा°।” ↩︎

  691. “क. घ. पथ्यं।” ↩︎

  692. “ख. पुस्तके—उद्धृत्य मुष्टिनाऽऽच्छाद्यभेषजं यत्प्रदीयते। तन्मुष्टियोगमित्याहुरुपदेशपरायणाः॥१॥ इत्यधिकमत्र।” ↩︎

  693. “ङ.°ववुष°।” ↩︎

  694. “ङ.पाराशरे यथालाभमित्याक्षेपो विषस्य तु।” ↩︎

  695. “क. घ. °यां तु लाज°।” ↩︎

  696. “घ. च।” ↩︎

  697. " क. घ. °मुद्भवाम्°।" ↩︎

  698. “क. घ. °वल्कलैः। प्र°।” ↩︎

  699. “ख. पुस्तके—रोमकूपेषु ये श्लक्ष्णाः स्फोटाः सर्षपसंनिभाः। कण्डूदाहज्वरोपेता ज्ञेयारोमान्तिकास्तु ते॥१॥बहूपद्रवपापिष्ठमसारं च प्रयत्नतः। जयेत्सङ्गादिभिर्भज्यः सोऽस्मिन्योग सुदुर्भयम्॥२॥ इत्यधिकमत्र।” ↩︎

  700. “ङ. काङ्गो ज°।” ↩︎

  701. “ख. पुस्तके—विषघ्रैर्वमनैश्चापि प्रष्टिंच पुनः पुनः। तथा शोणितसंसृष्टाः काश्रिच्छोणितमोक्षणैः॥१॥काचिद्विनाऽपि क्रियया सिध्यन्त्याशु मसूरिकाः कश्चापि न सिध्यन्ति मसूरिकाः॥२॥सूक्ष्माः कृष्णतराः काश्विनाः सिध्यन्ति वा न था। काचित्रेतु सिध्यन्ति साध्यमानाः प्रयत्नतः॥३॥ इत्यधिकमत्र।” ↩︎

  702. “क.घ. तत्राज°।” ↩︎

  703. “ङ. जयेत्।” ↩︎

  704. “१ क. घ. °ताप्लुत°” ↩︎

  705. “२ क. घ. °भ्यज्य तद्दृणम्।द°।” ↩︎

  706. “१.ङ. ॰व्यपयसा म्र॰” ↩︎

  707. “* शिष्टं तु द्रवमिष्यत इति पाठश्चक्रस्य ।” ↩︎

  708. “* ख. पुस्तके—लाक्षाकरञ्चपल्लववचक्रमर्दफललेपः शिरसि कृतो बहुदृष्टो दारुणकशान्तिकरः परमः॥१॥ फलवल्कललेपेन नस्याभ्यासेन नरात्। तस्य दारुणकस्यामानियतमाश्वेव नुदश्यते॥२॥ तत्त्वसारात्। भूतकेशीवटारोहौ मूलं चैवातिमुक्तकात्। मासमात्रं स्थितास्तैले केशवृद्धिकराः पराः ॥३॥बिन्दुसारात् इत्यधिकमत्र।” ↩︎

  709. “१ ङ. धिरसब ।” ↩︎

  710. “क.घ. °न्तिकारी भृकु°।” ↩︎

  711. “१. क. घ. साधकम् ।” ↩︎

  712. “* ख. पुस्तके —कुङ्कुमं चन्दनं लाक्षा मञ्जिष्ठा मधुयत्रिका । कर्षप्रमाणैरेतैस्तु तैलस्य कुडवं पचेत्॥१॥ अजाक्षीरं तद्विगुणं शनैर्मृमिना पचेत्। सम्यक्पकं परं ह्येतन्मुखवर्णप्रसादनम्॥२॥ नीलिकापिडिकाव्यज्ञान भ्यङ्गादेव नाशयेत्। सप्तरात्र प्रयोगेण भवेत्कनकसंनिभम्॥३॥ कुकुमाद्यमिदं तैलमश्विभ्यां निर्मितं पुरा। द्वितीयं कुङ्कुमाद्यं तैलम्॥ इत्याधमत्र।” ↩︎

  713. “घ. णउष्पका।” ↩︎

  714. “ङ. णां तिलक्षा।” ↩︎

  715. “क. घ. क्ष्णगन्धा च ।” ↩︎

  716. “क. घ. विपश्चिता ।” ↩︎

  717. “ङ. रूक्षा।” ↩︎

  718. “घ. उष्फिका ।” ↩︎

  719. " घ. डवस्तैर्द्विरा ।" ↩︎

  720. “क. ध प्रच्छयि।” ↩︎

  721. “ख. पुस्तके ग्रन्यान्तरात्इक्षरसो गिरिकर्णिकमूलं भृङ्गरसामलपतिनिकन्दम्।. आयसभाजनमासनिषिक्तंरजनि केशकपालमदन्ती॥१॥ इत्यधिकमत्र।” ↩︎

  722. “क. घ. न गोक्षी ।” ↩︎

  723. “°ष्ठस्वरूपा° इति भाते।” ↩︎

  724. “क.घ. °स्थिरक°।” ↩︎

  725. “क. घ. काष्ठोदु°।” ↩︎

  726. “ङ. चापि ।” ↩︎

  727. “ख. °स्तीक्ष्णैर्नस्यां°।” ↩︎

  728. “* दन्तजिह्वास्यरोगनुदिति चक्रपाठः।” ↩︎

  729. “घ. चवा।”

    यथा— ↩︎

  730. “ङ. पीतकं।” ↩︎

  731. “क. ध सकृष्णाम् ।” ↩︎

  732. “* ख. पुस्तके— पटोलदार्वीमधुकं प्रियंग्वतिविषाधनम् ॥ सनागपुष्पं त्रायन्ती भूनिम्बस्तिक्तरोहिणी॥१॥ विभीतकं दाडिमत्वग्धरितालं मनः शिला। समांशामि त्रिभागं च सशैलेयरसाञ्जनम्॥२॥ पीतकं चूर्णमेतद्धि मध्वक्तं प्रतिसारणम्। दन्तमूलगलाघृष्टजिह्वातालुविकारिणाम्॥३॥ चक्षुक्ष्येणाद्गलरोगे पीतकं चूर्णम्। इत्यधिकमत्र।” ↩︎

  733. “घ. क्षारे ।” ↩︎

  734. “क. घ. षं तिल ।” ↩︎

  735. “घ. क्षारा” ↩︎

  736. “क. घ. क्षापाठादा ।” ↩︎

  737. “क. पञ्चवल्कलकः।” ↩︎

  738. “क. मुखस्थितांश्चास्य।” ↩︎

  739. “क. घ. °गुक्ताः क°।” ↩︎

  740. “ङ. °रपूर्णं नि°।” ↩︎

  741. “ख. पुस्तके—एवं कुर्याद्भद्रकाष्ठे कुष्ठे काष्ठे च सारले। मतिमान्दीपिकातैलं कर्णशूलनिवारणम्॥१॥ इत्यधिकमत्र।” ↩︎

  742. “ङ. °प्र नाशं तु गच्छन्ति।” ↩︎

  743. “क. घ. °खदन्ताम°।” ↩︎

  744. “क. घ. °त्कल्कं प्र°।” ↩︎

  745. “ख. पुस्तके—क्षीरमाजं बिल्वतैलं मन्दपावकपाचितम्। इत्यधिकमत्र।” ↩︎

  746. “क. घ. एष एव।” ↩︎

  747. “घ. °र्णशूलजि°।” ↩︎

  748. “ङ. धूमश्च ।” ↩︎

  749. “ङ. °ष्टिद पर°।” ↩︎

  750. “घ. °स्यं संपक्वपीनसे।सु°।” ↩︎

  751. “ङ. हरेद्रक्तं।” ↩︎

  752. “ङ. योज्याः।” ↩︎

  753. “ड. °के सघृताश्च प्रदेहाः। वा°।” ↩︎

  754. “क. घ. °मयेद्वान्ते श्ले°।” ↩︎

  755. “क. घ. वा कफघ्रं।” ↩︎

  756. “क. घ. दृष्टम्। " ↩︎

  757. “क. घ. °थाग्न्यद्यायन्त्रणः। वृ°।” ↩︎

  758. “क. घ. तदा।” ↩︎

  759. " वर्तिरेकैव रोपणे इति भाति।” ↩︎

  760. “क. घ. °रुपिष्टैः। फ°।” ↩︎

  761. “क. °ण्डूविषाप°।” ↩︎

  762. “प्रायेणाक्ष्यामय इति भाति।” ↩︎

  763. “ख. पुस्तके—कोष्णमाश्चोतनं मिश्रैर्भेषजं सांनिपातिके।इत्याधिकमत्र।” ↩︎

  764. “क. घ. पाठगै।” ↩︎

  765. “क. घ. °तः सैन्धवाज्यलवान्वितः°।” ↩︎

  766. “क. घ. गांस्तांस्तान्हरेद्भृशम्।” ↩︎

  767. “क. घ. स्वेदनमा°।” ↩︎

  768. “ङ. °रावेधं।” ↩︎

  769. “क. घ. ससैन्धवम्।” ↩︎

  770. “घ. °दक्वचित्। इ°।” ↩︎

  771. “ङ. °र्तिराग°।” ↩︎

  772. “घ. °वर्णत्व°।” ↩︎

  773. “क. घ. °षाये तु स°।” ↩︎

  774. “क. घ. साध्यं किंचित्सरा°।” ↩︎

  775. “घ. रातुरोन°।” ↩︎

  776. “क. घ. °वनं सर्पिः।” ↩︎

  777. “घ. शरव°।” ↩︎

  778. “क. घ. °ष्टिप्रसादिनी।” ↩︎

  779. “क. घ. निर्मला।” ↩︎

  780. “क. घ. मध्यं।” ↩︎

  781. “क. नाशयेत्।” ↩︎

  782. “क. घ. °रिचरं।” ↩︎

  783. “* प्रयत्नेन विश्वस्तमिति सुश्रुतपाठः।” ↩︎

  784. “भवेच्छब्दस्तथा व्यधे, इति सुश्रुतपाठः।” ↩︎

  785. “घ. रागे।” ↩︎

  786. “घ. मेदशृङ्गी। " ↩︎

  787. “घ. च. ता वर्तीः।” ↩︎

  788. “अग्र संधिः प्रामादिकः।” ↩︎

  789. “घ.सकृत्।” ↩︎

  790. “क. °खजिह्व्यम°। घ. °खजैष्ण्यम°।” ↩︎

  791. “क. घ. अर्म स°।” ↩︎

  792. “क. गैरिकं।” ↩︎

  793. “नान्येनेति भाति।” ↩︎

  794. “घ. पिडका ।” ↩︎

  795. “घ. हान्नक°।” ↩︎

  796. “क. घ. °लविस्तृत°।” ↩︎

  797. “क. द्राक्षामितायलोत्पलैगितिचक्रपाठः।” ↩︎

  798. " क. नासिकया विधेयाः शीघ्रं निन्युः।” ↩︎

  799. “ग. ०यसामान्यः क०।” ↩︎

  800. “क. घ. ०नशब्दकिरात बिल्वभ०।” ↩︎

  801. “घ समुद्धृल्य।” ↩︎

  802. “घ. त्र्यहान्नारी।” ↩︎

  803. “ड. षमैः शृ०।” ↩︎

  804. “ख. ०रर्धश्लोकसनापनाः। य०।” ↩︎

  805. “+ ख. पुस्तके—तुषाम्बुपरिपिष्टेन मूलेन परिलेपयेत्। लाङ्गल्याश्चरणौ सूते क्षिप्रमापन्नगभिणी ॥ १॥ सुदर्शना पृष्टि(श्रि ↩︎

  806. “ङ. इहामृ०।” ↩︎

  807. “ङ. ०लं च्यव०।” ↩︎

  808. “ङ. °के शिलालो°।” ↩︎ ↩︎ ↩︎

  809. “ङ. °द्रायवपथ्याह्व°।” ↩︎

  810. “ङ. ०पस्य हि०।” ↩︎

  811. “०पायहि०।” ↩︎ ↩︎

  812. “क. ०नालेपन०।” ↩︎

  813. “घ. प्रक्षेप्तव्यम्।” ↩︎

  814. “ङ. ०न्तीष्टक०।” ↩︎

  815. “ख. ०काशा मुवर्ण०।” ↩︎

  816. “ङ. प्रभवन्ति।” ↩︎

  817. “ङ. मूलघं।” ↩︎

  818. “क. घ. ने यत्र स एव।” ↩︎

  819. “ङ.चक्रं।” ↩︎

  820. “क. घ. °षपुष्पस्व°।” ↩︎

  821. “क. घ. वन्ध्यकर्कोटजं मू°।” ↩︎

  822. “ङ. °नशैलेय°।” ↩︎

  823. “क. अर्जरपाणिश्च। घ. सज्वारपाणिश्च।” ↩︎

  824. “ङ. ०ब्दवित्र०।” ↩︎

  825. “ङ.०त्कारमुत्कूज०।” ↩︎

  826. “घ.०द्भयायासमै०।” ↩︎

  827. “ङ. समाम्।” ↩︎

  828. “ङ.०याभ्यासो र०।” ↩︎

  829. “क.०तघनप०।” ↩︎

  830. “क. ०मो महावि०।” ↩︎

  831. “क. चाभयाधात्रीपिप्पल्यो मधुसैन्धवम्। अस्य प्र०।” ↩︎

  832. “* एतदग्रेख. पुस्तके—हन्त्यम्लपित्तवमनारुचिदाहमोहखालित्यमेहतिमिरव्रणशुक्रदोषान्। भुक्त्वा नरः सतत मामलकीरसेन वृद्धोऽप्यनेन च भवेत्तरुणीरिरंसुः॥ १॥ इत्यधिकम्।” ↩︎

  833. “घ. ०पतापनि०।” ↩︎

  834. “ख. ०रःकुक्षिशूलाक्षि०।” ↩︎

  835. “क. ०क्षयज०।” ↩︎

  836. “क. ०तित्रयं।” ↩︎

  837. “क. ०त्यतो नॄ०।” ↩︎

  838. “ख ०न्दकल्कं तु।” ↩︎

  839. “ङ. ०नं यः कुर्यानि०।” ↩︎

  840. “* एतदप्रेस . पुस्तके—“दौर्बल्यं मुखशोषश्च पाण्डुत्वमदसंभ्रमाः। क्लैब्यंशुक्रविसर्गश्च क्षीणशुक्रस्य लक्षणम्। इत्याधिकम्।” ↩︎

  841. “ङ. ०च्याम्बुभिः शीतैर्जी ०।” ↩︎

  842. “१ ङ. ०हं स्वेदादु ०।” ↩︎

  843. “+ उपायान्तरसाध्ये तु, इति मम भाति।” ↩︎

  844. “* क्वचित्पुरतके पुनरुद्गम इति पाठः।” ↩︎

  845. “घ.० राठक ०।” ↩︎

  846. “घ. राठो।” ↩︎

  847. “घ. राठसं ०” ↩︎

  848. “घ. राठक०” ↩︎

  849. “ष.अर्धभागावशिष्टं।” ↩︎

  850. “ड. ०मूलाव ०।” ↩︎

  851. “घ. राठव ०।” ↩︎

  852. “* मदनफलमज्जसिद्धस्थ वा पयसो दधिभावमुपगतस्य दध्युत्तरं दधि वा कफप्रसेकच्छदिंमूर्छातमकेष्विति सुश्रुतस्येयं व्याख्योतिमम भाति।” ↩︎

  853. “* ग्लान्यां लघुन्वे,एवं पाठो बहुषु पुस्तकेंषु।” ↩︎

  854. “+ बलमभिदीप्तिमिति घ. पुस्तके वहिलिखितपाठः।” ↩︎

  855. “प. ज्वलनातिदी ०।” ↩︎

  856. “घ. ०वचार०।” ↩︎

  857. “२ घ वान्तवै०।” ↩︎

  858. “* निरूहेण, इति चरकपाठः।” ↩︎

  859. “* इदमर्धमधिकम्।” ↩︎

  860. “+ “ज्वराः” इति भवेत्।” ↩︎

  861. “*गात्रेषु सर्वेन्द्रियाणामिति सुश्रुते पाठः।” ↩︎

  862. “*इदमधिकम्।” ↩︎

  863. “+वेष्टनेग्र इति डल्लणः।” ↩︎

  864. “क. वोगैनः। सु ।” ↩︎

  865. “ङ. जागल°। " ↩︎

  866. “क. ° सेनार्धेचभो°।” ↩︎

  867. “ड.० ग्दतस्थ ल ०।” ↩︎

  868. “ड.० ष्टब्धविरं।” ↩︎

  869. “ड.० हणः। शू०” ↩︎

  870. “घ० स्माद्द्यादना०।” ↩︎

  871. “क. प्रपद्यते।” ↩︎

  872. “ङ. ०हकालानां क्र ०।” ↩︎

  873. “*आवायो वाऽथेति भाति।” ↩︎

  874. “घ. विचक्षणैः।” ↩︎

  875. “* करणीय इति भाति।” ↩︎

  876. “क. ०न्धवस्याक्षमा०।” ↩︎

  877. “प्रस्थो रसछा(रछा ↩︎

  878. “क. वश्यंस्था।” ↩︎

  879. “क. वृक्षः।” ↩︎

  880. “क. ल्लवः। त०।” ↩︎

  881. “० प्रदेशे, इति सुश्रुते।” ↩︎

  882. “*अत्र किचित्युटितम्।” ↩︎

  883. “काले, इति भाति।” ↩︎

  884. “क. रोगे।” ↩︎

  885. “क्वाथादिपिचुनक्तकानामिति पाठो बहुपुस्तकेषु।” ↩︎

  886. “ङ. °सिकपुटाभ्यां।” ↩︎

  887. “क. °षिके न°।” ↩︎

  888. “ङ. °तश्लैष्मिके°।” ↩︎

  889. “क. °भिप्लाव्य स्था°।” ↩︎

  890. “क. कपालादि।” ↩︎

  891. “क. °र्नस्यं निषेचये°।” ↩︎

  892. “घ.°रुणः प्र°।” ↩︎

  893. “दन्तेनेति सुश्रुतपाठः।” ↩︎

  894. “ङ °मर्शप्र°।” ↩︎

  895. “घ. स्मृता।” ↩︎

  896. “घ.°शान्नार°।” ↩︎

  897. “घ. तस्य योगा°।” ↩︎

  898. “एकमद्वितीय मिल्यपेक्षितम्।” ↩︎

  899. “ख. पुस्तके—अकस्माच्छीलविकृतिरकस्माद्वपुरुत्तमम्। अकस्मादिन्द्रियोत्पत्तिः संनिपाताग्रलक्षणम्। इत्यधिकमत्र।” ↩︎

  900. “एतट्टीकानुसारी सुरभिरिति पाठो मूले ज्ञेयः” ↩︎

  901. “लब्धे च, इति भाति।” ↩︎

  902. “घ. °शोफनि°।” ↩︎

  903. “घ.°नुष्णशी°।” ↩︎

  904. “द्विकार्येति भाति।” ↩︎

  905. “घ. या।” ↩︎

  906. “क. °पि अत्रकालस्तु स स्मृतः। उ°।” ↩︎

  907. “क. °ष्टा मिशिस°।” ↩︎

  908. “क.म्। भृष्टधा°।” ↩︎

  909. “क. °काख्येन वि°।” ↩︎

  910. “वर्षादीनवोचदिति भाति।” ↩︎

  911. “चेत्पदं विरुद्धम्।” ↩︎

  912. “केषुचित्पुस्तकेषु व्याः। °न कि°। इति पाठः।” ↩︎

  913. “ङ. स्निग्धाम्लस्वा।” ↩︎

  914. “°यतो भुयान् इति भाति।” ↩︎

  915. “घं. °वन्तमवसी°।” ↩︎

  916. “क. घ. जलसितालों°।” ↩︎

  917. “क. घ. °प्रशान्तये। ति°।” ↩︎

  918. “क. यष्टा।” ↩︎

  919. “क. घ. हितः।” ↩︎

  920. “क. घ. भवेत् ।” ↩︎

  921. “क. घ. तत्फलं।” ↩︎

  922. “स्याऽऽवश्यकत्वादिति पाठः।” ↩︎