वैद्यविनोदसंहिता

[[वैद्यविनोदसंहिता Source: EB]]

[

[TABLE]

विज्ञप्तिः।
<MISSING_FIG href="../../../books_images/U-IMG-1705248946Capture.JPG"/>

सुविदितमेवैतन्निखिलमहानुभावानां, यत्किल धर्मार्थकाममोक्षरूपपुरुषार्थचतुष्टयस्य मुख्यं साधनं शरीरारोग्यमेव, रोगग्रस्तस्य च जप-तपो-नियमादिसाधनाऽसामर्थ्यादकिञ्चित्करत्वं सुप्रथितमिति। अत एव परमकारुणिकेन परमात्मना तत्तद्देव-महर्षिरूपेणाऽऽयुर्वेदस्य प्रकाशो विस्तरश्च कृतः। तत्र चिकित्साविषये शङ्करभट्टविरचितो “वैद्यविनोदसंहिता” नामकोऽयं ग्रन्थःपरमोत्तमः, स च महतापरिश्रमेण सम्प्रातः संशोध्य संस्कृत्य हिन्दी (सरयूपारी)—भाषाटिप्पणीभिः संभूष्य वस्तीमण्डलान्तर्गतवांशीराज्येश-श्रीमन्महाराजाधिराज (शिरोनेति) महेन्द्रसिंहात्मजरामांसहराज्यान्तर्गत (तपाचमराख्य) तिवारीपुग्ग्राम-वास्तव्यश्रीरामात्मजसूर्यमणित्रिपाठ्यग्रजेन मया समस्तमानवोपकाराय क्षेमराज—श्रीकृष्णदासश्रेष्ठिने पुनर्मुद्रणादिसर्वाधिकारसहितः सादरं समर्पितः, तेन च मुम्बय्यां स्वकीये “श्रीवेंकटेश्वर” (स्टीम्) मुद्रण-यन्त्रालयेमुद्रयित्वा प्रकाशितः। तदेतद्ग्रहणपठनपाठनौषधिप्रयोगकरणादिना सफलयन्तु मे परिश्रममनु-ग्राहका ग्राहकाः सद्वैद्या इति भृशमभ्यर्थयत्ते—

गदाधरशर्मा वैद्यः।

इसे अवश्य देखिये।

इस ग्रँथमें (१६) उल्लास अर्थात् अध्याय हैं और ग्रंथसंख्या १७४१ श्लोक हैं और (७१३) कठिन शब्दोंकी टिप्पणी नीचे बनादी हैं और प्रतिअध्यायोंपर कार्य दरशाया गया है।

उल्लासः आशयः

१—ज्वरोंके रूप और चिकित्सा।
२—अतिसार—संग्रहणी—अर्शरोग निदान चिकित्सा।
३—अजीर्ण—कृमि—पाण्डु—रोग निदान चिकित्सा।
४—रक्तपित्त—राजयक्ष्मा—काश—हिक्का—श्वास निदान चिकित्सा।
५—स्वरभेद—अरोचक—छर्दि (वमन) तृष्णा—मूर्च्छा निदान चिकित्सा। .
६—उन्माद—अपस्मार—वातव्याधि—गृध्रसी निदान चिकित्सा।
७—वातरक्त—उरुस्तंभ—आमवात निदान चिकित्सा।
८—परिणामशूल—आनाहरोग—उदावर्त—गुल्म (गोला) हृद्रोग। निदान चिकित्सा।
९—मूत्रकृच्छ्र—मूत्राघात—अश्मरी—प्रमेह निदान चिकित्सा।
१०—उदररोग० ब्रध्म० निदान चि०
११—गण्डमाला—अर्बुद—श्लीपद—विद्रधी० शोथ—व्रण(घाव) आगंतु क० व्रण (नि०) चि०
१२—भग्न—नाडीव्रण—भगंदर—उपदंश (गर्मी) लिंगार्श—शूकदोष सुनतरोग० नि० चि०
१३—कुष्ठ—उदर्द—शीतपित्त—कोठा—अम्लपित्त—विसर्प—विस्फोटक स्नायुक मसूरिका० (चेचक) निदान चि०
१४—क्षुद्ररोग—मुखरोग नि० चि०
१५—कर्णरोग—नासा—प्रतिश्याय—नेत्रवाल—विषरोग नि० चि०
१६—वृष्य—रसायन—जलयोग—वमन—विरेचन—अनुलोमनआदिभेद क्वाथकल्पना—विलेपी—

मंड—घृततैलविधान—वस्तिकर्म—नस्यकर्म—धूमपान—गंडूष—परिभाषा—व्योष—त्रिफला— पंचमूलादिसंज्ञा रसवीर्य—विपाक—उत्क्लेद—लक्षण—युक्तायुक्तविचार इत्यादिनिर्मित किये हैं।

आचार्य्यजीवनचरित्र।

श्लोकः।

श्रीगौडवंशोद्भवशास्त्रवेत्ता ह्यनन्तभट्टो मुखजाऽग्रगण्यः॥
तस्यात्मजेनाथ सुशंकरेण ग्रंथः कृतो वैद्यविनोदनामा॥१॥

तद्वैद्यकं शास्त्रमतीव दिव्यं गदाधराख्येण त्रिपाठिनाऽत्र।
नृभाषया टिप्पणिका व्यधायि विद्वज्जनानामवलोकनाय॥२॥

अथ टिप्पणीबनानेका संवत्।

श्लोकः।

शरे ५पु५ नन्दे९न्दु १ मिते (१९५५) हि वैक्रमे वर्षे शुचौ शुक्लशरे ५ भृगोर्दिने॥ टीका कृतेयं हि गदाधरेण—वाचा नृणां वैद्यविनोदग्रन्थे॥३॥

अथ दोषक्षमा।

श्लोकः।

यात्रच्युतिष्टिप्पणिके विनोदे यद्बालबुद्ध्या च मया व्यधायि॥
महाशयैः श्रेष्ठजनैर्बुधैश्च सा क्षम्यतामर्भकवाग्विनोदात्॥१॥

अथ ग्रंथरक्षा।

श्लोकः।

धर्मस्य रक्षा यशसश्च रक्षा देवस्यरक्षा मुनिभिः प्रदिष्टा॥
सर्वस्य रक्षा नियतेरधीना स्वस्याप्यधीना च सुपुस्तकस्य॥२॥

गदाधरत्रिपाठी वैद्यका स्थान।

शलोकः।

अयोध्यायाः किलैशानेसप्तयोजनमानके॥
अ++गवती नदी यत्र रामसिद्धाश्रमे शुभे॥१॥

राजऽधिराजविख्यातेपुरं वाशीतिनामकम् \।
ततस्तु पूर्वदिग्भागे कोशार्धप्रमिने शुभे॥२॥

सुधास्तं द्विजवर्यवासमहितोग्रामस्त्रिपालीपुरम्॥
विप्रस्तस्यदयालवःसुखकगदेव्याः सदा सेवकाः॥३॥

देव्याः पादरजःप्रभावगदातस्तद्ग्रामभूस्वामिनः॥
तेषांमुख्यतमो गदाधस्सुधीःशुद्धःशिवस्य प्रियः॥१॥

<MISSING_FIG href=”../../../books_images/U-IMG-1707843438image22.jpg"/>

अथ वैद्यविनोदसंहिताविषयानुक्रमणिका॥

<MISSING_FIG href="../../../books_images/U-IMG-1705302599Capture.JPG"/>

उल्लासः१.

[TABLE]

विषयाः विषयाः
त्रयोदशसन्निपातानां नामानि प्रलापके मुस्तादिक्वाथः
सन्निपातदिनमर्यादा अर्कादिक्वाथः….
संधिगसन्निपातज्ञानकथनम् रसोनाद्यञ्जनम्….
संधिगसन्निपातरूपम् मरीचादि नस्यम्
संधिगसन्निपातै रास्नादिक्वाथः पादादिदाहः….
अपरो रास्नादिक्वाथः विषमज्वरलक्षणम्
अन्तकलक्षणम् संततादिज्वरलक्षणम्
रुग्दाहलक्षणम् सन्ततज्वरक्वाथः
रुग्दाहसन्निपाते हरीतक्यादि क्वाथः सन्ततज्वरे पटोलादिक्वाथः
चित्तभ्रमलक्षणम् तृतीयकज्वरे चन्दनादिक्वाथः
चित्तभ्रमे ब्राह्म्यादि क्वाथः चातुर्थिकज्वरे नस्यम्
शीतांगलक्षणम् विषमज्वरोपचारः
शीतांगे भार्ङ्ग्यादिक्वाथः विषमज्वरे व्याघ्र्यादिक्वाथः
कण्ठकुब्जलक्षणम् पटोलादिक्वाथः
कण्ठकुब्जेशृंम्यादिक्वाथः लशुनयोगः
कर्णकलक्षणम् शर्कराजीरकयोगः
कर्णकसन्निपाते रास्नादिक्वाथः षोडशाङ्गचूर्णम्
निशादिलेपः…. निद्रानाशोपचारः
भुग्ननेत्रसन्निपातलक्षणम् जीर्णज्वरलक्षणम्
दार्व्यादिक्वाथः जीर्णज्वरे क्षुद्रादिक्वाथः
रक्तष्ठीविलक्षणम् जीर्णज्वरे धात्र्यादिचूर्णम्
रक्तष्ठीविसन्निपाते जलदादिक्वाथः…. जीर्णज्वरघृतम्
दूर्वादिनस्यम्…. लाक्षादितैलम्….
प्रलापकसन्निपातलक्षणम् शीतादिरसः
विगतज्वरलक्षणम्
मृत्युकारकज्वरलक्षणम्
विषयाः विषयाः
ज्वरदशोपद्रवाः पथ्यादिचूर्णम्….
ज्वरे वर्ज्यम्…. दुग्धयोगः….
उल्लासः२ लायीचूर्णम्….
अतिसारलक्षणम् कनकरसः….
अतिसारसम्प्राप्तिः अरिष्टलक्षणम्….
अतिसारपूर्वलक्षणम् अर्शोलक्षणचिकित्सा
वातातिसारलक्षणम् तत्पूर्वरूपम्….
वातातिसारे कलिङ्गादिक्वाथः वातादिलक्षणम्
पित्तातिसारलक्षणम् तत्रौषधम्
श्लेष्मातिसारः पर्पटीरसः
त्रिदोषातिसारः उल्लासः३
रक्तातिसारः अजीर्णलक्षणचिकित्सा
रक्तातिसारे बत्सकादिक्वाथः अलसकलक्षणम्
पथ्यादिचूर्णम् विलंबिकालक्षणम्
अजीर्णातिसारे वितुन्नक्रादिक्वाथः विषूचिकालक्षणम्
विजयायोगः अजीर्णोपचारः
वत्सकावलेहः चूर्णम्….
अरिष्टः अजीर्णकण्टकरसः
ग्रहणीरोगः लेपः….
ग्रहणीभेदाः अजीर्णलक्षणम्
ग्रहण्युपचारः जीर्णाहारलक्षणम्
शुण्ठ्यादिक्वाथः मस्मकलक्षणम्
रसाञ्जनादिचूर्णम् पायसयोगः….
तिक्तादिक्वाथः कृमिलक्षणचिकित्सा
कृमिनिदानम्….
कृमिनाशनघूपः
विषयाः विषयाः
पाण्डुरोगलक्षणचिकित्सा कुमुदेश्वररसः
मृद्भक्षणे पाण्डुरोगः अरिष्टम्
मृद्भक्षणजन्यपाण्डुरोगघ्नमोदकः वर्ज्यावर्ज्यम्
घृतम् कासश्वासलक्षणम्
कुम्भकामला वातकासपूर्वरूपलक्षणम्
कुम्क्षकामलाहार्यौषधम् पित्तकासलक्षणम्
आयसादिचूर्णम् कफकासलक्षणम्
तत्रारिष्टम् क्षतकासलक्षणम्
पथ्यम् असाध्यक्षयकासः
उल्लासः४ कासोपचारः
रक्तपित्तलक्षणम् शठ्याद्यवलेहः
रक्तपित्तोपचारः पित्तकासोपचारः
हीबेरादिक्वाथः कफकासोपचारः
रक्तपित्ते लेपः हिक्कालक्षणम्
अरिष्टम् श्वासकासलक्षणम्
राजयक्ष्मलक्षणम् तयोः पूर्वरूपम्
पूर्वरूपम् सम्प्राप्तिः
राजरोगः महाश्वासः
उपचारः ऊर्ध्वश्वासः
मांसयोगः छिन्नश्वासः
छागसेवनम् तमकश्वासः
फलत्रिकाद्यवलेहः क्षुद्रश्वासः
विद्धंगादिलोहः श्वासोपचारः
अन्ययोगः उल्लासः ५
सितोपलाचूर्णम् स्वरमेदनिदानचिकित्सा
अरोचकनिदानचिकित्सा
विषयाः विषयाः
तालीसादिचूर्णम् विषोन्मादः
छर्दिनिदानचिकित्सा विषोन्मादे यत्नः
सैन्धवादिघृतम् सारस्वतचूर्णम्
यवागूप्रकारः उन्मादादिविनाशकाऽञ्जनम्
वमनोपद्रवाः पानीयकल्याणघृतम्
तृष्णानिदानचिकित्सा भूतोन्मादधूपः
मूर्छानिदानचिकित्सा अपस्मारसामान्यलक्षणम्
उल्लासः६ असाध्यापस्मारः
मदात्ययनिदानचिकित्सा कल्याणकं चूर्णकम्
वातमदात्ययः अर्दिकरोगचिकित्सा
पित्तमदात्ययः धनुर्वातः
कफमदात्ययः आक्षेपकरोगः
त्रिदोषमदात्ययः सर्वांगवातः
पानाजीर्णम् तत्र यत्नः
परमदः रास्नादितैलम्
पानविभ्रमः रसोनादिचूर्णम्
मद्यपानविकारः वातजविकारे चिकित्सा
मद्यपानघ्नौषधम् सहचारितैलम्
दाहनिदानचिकित्सा तत्र यत्नः
उन्मादनिदानचिकित्सा योगराजगुग्गुलुः
पूर्वोन्मादलक्षणम् तत्रोपचारः
वातोन्मादः तत्र नस्यम्
पित्तोन्मादः रास्नादिघृतम्
कफोन्मादः स्वच्छन्दवैभवरसः
त्रिदोषोन्मादः गृध्रसीनिदानम्
हान्युन्मादः पथ्यागुग्गुलुः
विषयाः विषयाः
उल्लासः७ कफच्छिन्नम्
वातरक्तचिकित्सा पित्तच्छिन्नम्
तत्र पथ्यम् वातच्छिन्नम्
ऊरुस्तम्भनिदानम् असाध्यमधुमेहः
श्रीवेष्टादितैलम् मधुमेहः
आमवातरोगचिकित्सा प्रमेहरोगे पथ्यम्
पुनर्नवादिचूर्णम् चन्द्रसमा
उल्लासः ८ तत्रापथ्यम्
शूलरोगचिकित्सा उल्लासः १०
शूलोपद्रवः मेदोनिदानचिकित्सा
उदावर्तनिदानचिकित्सा मेदोरोगपथ्यम्
उदावर्तहरवर्तिः मेदोवृद्धावुद्वर्तनम्
आनाहरोगचिकित्सा देहदुर्गन्धलेपः
गुल्मनिदानम् उदरनिदानचिकित्सा
हृदोगचिकित्सा पित्तोदरम्
पुष्करादिक्वाथः वातोदरम्
उल्लासः९ श्लेष्मोदरम्
मूत्रकृच्छ्रनिदानचिकित्सा जलोदरम्
पित्तकृच्छ्रे चिकित्सा बद्धोदरम्
कफकृच्छ्रे चिकित्सा वज्रक्षारः
त्रिदोषकृच्छ्रे चिकित्सा पुनर्नवादिक्वाथः
सर्वकृच्छ्रे चिकित्सा बद्धोदरे लेपः
कुंकुमादिपानम् असाध्यबद्धोदरम्
मूत्राघातरोगचिकित्सा दूपीविषशोफः
अश्मरीनिदानचिकित्सा दूषीविषशोफे त्याज्यानि
मोहरोगचिकित्सा अण्डवृद्धिरोगचिकित्सा
विषयाः विषयाः
उल्लासः११ शुक्ररोगनिदानचिकित्सा
गलगंडरोगचिकित्सा हिंगुलादिलेपः
तत्रोपचारः मुन्नताख्यरोगलेपः
हिंस्त्रादितैलम् उल्लासः१३
अर्बुदनिदानचिकित्सा कुष्ठरोगनिदानचिकित्सा
श्लीपदनिदानचिकित्सा संसर्गजरोगाः….
विद्रधिरोगनिदानचिकित्सा बृहन्मरिचादितैलम्
वातविद्रधिः गलितकुष्ठलक्षणम्
पित्तविद्रधिः सूताद्यमोदकः
कफविद्रधिः माणिक्यतिलकरसः
तत्र धूपः उदर्दशीतपित्तनिदानचिकित्सा
व्रणसेचनम् अम्लपित्तरोगचिकित्सा
जात्यादिघ्रतम् नारिकेलखंडः….
जात्यादितैलम् नारिकेलपाकः
सप्तविंशतिको गुग्गुलुः विसर्परोगनिदानचिकित्सा
वह्निदग्धरोगचिकित्सा दशाङ्गलेपः
व्रणेत्याज्यानि विस्फोटकरोग (शीतला) चिकित्सा…
उल्लासः१२, कमलादिघृतम्
भग्नरोगनिदानचिकित्सा कम्पिल्लादितैलम्
नाडीव्रणनिदानचिकित्सा सूर्यसंक्रान्तिविस्फोटः
भगन्दरनिदानचिकित्सा स्नायुरोगचिकित्सा (नहरुआ)
शोधनरोपणलेपः शीतलाभेदचिकित्सा
व्रणशोधनम्….. उल्लासः१४
व्रणे गुटिका….. अजगल्लिकानिदानं तच्चिकित्सा च
उपदंशनिदानचिकित्सा
लिंगार्शोरोगनिदानचिकित्सा
विषयाः विषयाः
कुंकुमादितैलम् षड्विन्दुतैलम्
नखकुष्ठरोगः प्रदररोगनिदानम्
हरिद्रादितैलम् फलघृतम्
भृङ्गराजतैलम् पुत्रोत्पादनविधिः
इन्द्रलुप्तरोगनिदानचिकित्सा पुत्रकामार्थमन्त्रः
ओष्ठस्फोटरोगः तस्य विधिः
कंठरोगोपक्रमः लक्ष्मणाधृतम्
उल्लासः१५ वृद्धदारुघृतम्
कर्णरोगनिदानचिकित्सा गर्मिणीलक्षणम्
कर्णनादः गर्भस्रावे क्वाथः
बधिरत्वम् अपरप्रकारः क्वाथस्य
कर्णस्रावः सूतिकारोगः
कर्णकीटः स्तनशुद्धिः
पन्नगीयंत्रम् कुचकाठिन्यता
पीनसरोगः बालरोगनिदानचिकित्सा
नेत्ररोगाधिकारः नाभिशोफे चिकित्सा
आश्चोतनम् नाभिपाकेचिकित्सा
पिंडी तत्रधूपः
तर्पणम् बालातिसारः
अंजनम् पूतनाभिधानमगदम्
चन्द्रोदयवत्तिः बालकरक्षामन्त्रः
गीलांजनम् विषचिकित्सा
अपरगीलाञ्जनम् वृषादिघृतम्
तृतीयः प्रकारो गीलाञ्जनस्य सर्पविषहरमन्त्रः
शीसफभस्माञ्जनम् लूताविषम्
शिरोरोगः अपरमगदम्
विषयाः विषयाः
मूषकविषम् लेखनम्
श्वानविषम् रसायनम्
अपरप्रकारः सूक्ष्मम्
वृश्चिकविषम् विकासी
तत्र द्वितीयमौषधम् मदकारि
नखदन्तविषम् प्रमाथि
जलौकाविषम् अमिष्यन्दि
सर्वकीटविषम् वाजीकरम्
जलविकारौषधम् शुक्रवर्द्धकम्
जलयोगः क्वाथप्रकारः
वमनम् यवागूः
अयोग्यवमनम् वस्तिविधानम्
विरेचनार्थेऽभयादिमोदकः धूमः
भानुरेचनीगुटिका गण्डूषविधिः
विरेचनम् मानपरिभाषा
औषधिसंज्ञाप्रकरणेऽनुलोमनौषधिः मिश्रौषधिः
स्रंसनम् उत्क्लेदः
भेदनम् उपद्रवः
शोधनम् द्रव्ययोजना
छेदनम् कृष्णरोमकरमगदम्

इति उनुक्रमणिका समाप्त॥

[TABLE]

॥श्रीः॥

अथ वैद्यविनोदसंहिता

प्रारभ्यते।
<MISSING_FIG href="../../../books_images/U-IMG-1705467808Capture.JPG"/>

प्रथमोल्लासः।

अथ मंगलाचरणम्—

सकलसुखनिधानं भुक्तिमुक्तिप्रदं यज्जयति जगति सिद्धैस्सर्वदोपास्यमानम्॥करकलितवराब्जाऽ-भीतिखड्गंप्रसन्नं दिशतु फलमभीष्टं श्यामधामाम्बिकायाः॥१॥

अनन्तनामा हि दिगन्तकीर्तिः श्रीगौडवंशः प्रथितप्रभावः॥तदात्मजः शंकरनामधेयः शास्त्रेषु काव्येषु परं प्रवीणः॥२॥

राजाऽधिराजो जयसिंहवीरः ख्यातः पृथिव्यां महनीयकीर्तिः॥प्रतीपभूपालनिवारणेन प्रतापपुंजो-ज्ज्वलदग्निकल्पः॥३॥

तदात्मजो रामसमानसारो नाम्ना चिरायुर्नृपरामसिंहः॥रूपेण दानेन पराक्रमेण तिरस्कृतानंग-सुरद्रुमेन्द्रः॥४॥

दानं यदीयं परिकल्पितं यदृष्ट्वैवसेन्द्राः सुरपादपाद्याः॥ मानं परित्यज्य विमृश्य बुद्ध्या स्थितिः शुभा नेति दिवं प्रयाताः॥५॥

क्षेमस्य योगस्य च मे विधातुस्तस्याज्ञया ग्रंथकृतादेरण॥ ये ये प्रयोगा बहुशोऽनुभूतास्ते ते मया संल्लिखिता विमृश्य॥६॥

प्रणम्य मान्यान्विनिवेदयामि ग्रंथं मुदा पश्यत सावधानाः॥ दृष्टे यदस्मिन्परमः प्रमोदो भवेत्तथा सिद्धिरपि प्रकृष्टा॥७॥

हारीतपाराशरसुश्रुतानां संगृह्य सारं विधिवत्समासात्॥ सौख्याय रोगार्दितमानवानां विधीयते वैद्य-विनोद एषः॥८॥

यथा विषं यथा वह्निर्यथा शास्त्रं यथा पविः॥ तथौषधमविज्ञातं मूढवैद्यप्रयोजितम्॥९॥

सन्निदानपूर्वरूपरूपोपशयाप्तिभिर्गदं विद्यात्॥ प्रश्नस्पर्शनदर्शैरेतै रुग्णं परीक्षेत॥१०॥

रोगोत्पत्तौ तु हेतुर्यस्तन्निदानं प्रचक्षते॥ अव्यक्तलिंगं प्राग्रूपं रूपं तु व्यक्तलक्षणम्॥११॥

शान्तिर्व्याधेरुपशयोऽन्यथानुपशयः स्मृतः॥ उभाभ्यां संपरोक्षत गूढलिंगमिदं भिषक्॥१२॥

व्याधेरागतिराप्तिः स्याहुष्टदोषेण सर्पता॥ रोगज्ञानाय कर्त्तव्यं नाडीमूत्रपरीक्षणम्॥१३॥

वक्रातीव्रा मदंगा वातपित्तश्लेष्मभ्यः स्यान्नाडिका हि क्रमेण॥ वीणातंत्री सर्वरागप्रकाशा तद्वन्नाडी सर्वरोगप्रकाशा॥१४॥

अथ नाडीपरीक्षा।

शिथिलशिथिलमन्दं व्याकुलं व्याकुलं वा भवति च यदि नाडीयाति सूक्ष्मा प्रणाशम्॥ भवति सकलमेतल्लक्षणं यस्य नाड्यां व्रजति यमनिवासं सोऽचिरात्सन्निपाती॥१५॥

स्त्रीणां वामकरे नाडी पुरुषाणां च दक्षिणे॥ परीक्षेत भिषक् सम्यग्धृत्वा धृत्वा विमुच्यते॥१६॥

नाडी वक्रगतिं याति सर्पवद्वेगवत्तरा॥ मुखं विकसितं यस्य तस्य मृत्युर्न संशयः॥१७॥

क्षीणशुक्रस्य मन्दाग्रेर्नाडी मदतरा भवेत॥ द्विदोषलक्षणैरेतैर्मिश्रा ज्ञेया द्विदोषजा॥१८॥

शरीरं शीतलं यस्य नाडी चोष्णतरा भवेत्॥ ज्वरमन्तर्गतं तस्य जानीयाद्भिषगुत्तमः॥१९॥

नाडी वेगवती चोष्णा ज्वरात्संजायते नृणाम्॥ अतिसूक्ष्मातिवेगाढ्या शीता तु प्राणनाशिनी॥२०॥

चपला स्यात्क्षुधार्तस्य तृप्तस्य वहति स्थिरा॥ सुखिनस्तु स्थिरा ज्ञेया तथा बलवती मता॥२१॥

अथ मूत्रपरीक्षा।

प्रातः शुद्धे काचपात्रेऽथ कांस्ये मूत्रंक्षिप्त्वा तैलबिन्दुञ्च तत्र॥ बिंदुःस्तब्धो जायते कष्टसाध्यो मग्नश्चेद्वा छिद्रितो मृत्युकारी॥२२॥

नीलं सितं पीतमथो समीरादत्युष्णपीतं भवतीहपित्तात्॥ मूत्रं सितं स्निग्धहिमं कफाच्च कृष्णोष्णरक्तं शबलं त्रिदोषात्॥२३॥

पद्मशंखमणिचामराकृतिस्तैलबिन्दुरतिसौख्यसूचकः॥ कूर्मसिंहवृषवृश्चिकाऽहिभः कुक्कुटाकृतिरसौ मृतिप्रदः॥२४॥

मूत्रे विकारा यदि तैलबिन्दोर्भवन्त्यमी तस्यं भवेद्विनाशः॥ शूलं धनुर्वज्रकुठारखङ्गाः दंडाभबाणाः क्षुरिकादिकाद्याः॥२५॥

अथारिष्टलक्षणम्।

निशायां जायते दाहो दिवा शीतं भवेद्यदि॥ कंठश्लेष्मा प्रवृद्धश्चेन्मरणं तस्य निश्चितम्॥२६॥

नासा शीता च हृदयं पाणिपादौ च शीतलौ॥ शिरःशूलं भवेद्यस्य तस्य मृत्युर्न संशयः॥२७॥

कांतिप्रतापलज्जाभिर्हीनो यः क्रोधभाषकः॥ षड्भिर्मासैर्न सन्देहः स याति यमसादनम्॥२८॥

अंगे कंपो गतेर्भंगो वर्णस्य परिवर्तनम्॥ गन्धस्वादौन जानाति यः सोऽपि मरणं व्रजेत्॥२९॥

मूलेवृक्षस्य शाखायां स्फुलिंगा वह्निसम्भवाः॥ दृश्यन्ते येन तस्य स्यान्मरणं मासषट्कतः॥३०॥

उदयः सूर्यमार्गेण चंद्रेणास्तमनं भवेत्॥ शुभं तदा हि ज्ञातव्यं विपरीतं तु विघ्नदम्॥३१॥

कामहीनः स्वेदहीनस्त्रिमासान्नश्यति ध्रुवम्॥ न दृश्यते स्वरो वामो दक्षिणश्च सदा वहेत्॥३२॥

पक्षेण मरणं तस्य यदि वा मासतो भवेत्॥ भरणी च मघाश्लेषा तथाऽऽर्द्रा शततारका॥ नक्षत्रेष्वेषु रोगश्चेन्मरणाय विनिर्दिशेत्॥३३॥

अथादौ ज्वरनिदानं व्याख्यास्यामः।

आदौ रोगं परीक्षेत भिषक्कुर्यात्ततः क्रियाम्॥ सर्वेषामेव रोगाणां दोषाः क्रुद्धा हि कारणम्॥३४॥

‘दोषास्त्रयः पवनपित्तकफाः समासाद्दुष्टास्त एवविविधाऽऽमयदा भवन्ति॥ तेषां प्रकोपकरणे किल रूक्षमुष्णं स्निग्धं क्रमेण विविधाहितसेवनं च॥३५॥

अथ ज्वरलक्षणम्।

अथ वक्ष्ये ज्वरादीनां सलक्षणचिकित्सितम्॥ ज्वरो राजा हि रोगाणामतः प्रथममुच्यते॥३६॥

दक्षापमानपरिकोपितवामदेवश्वासोद्भवो ज्वर इति प्रथितं पुराणे॥ आगंतुकः सकलयुग्म-पृथग्विभेदैर्वातादिभिर्भवति सोऽष्टविधो नराणाम्॥३७॥

मिथ्याऽऽहारविहारतः प्रकुपिता दोषा रसस्यानुगाः कोष्ठाग्निं ज्वरदा निरस्य बहिरित्यामाशये संस्थिताः॥ तापोंऽगग्रहणं क्लमो हि युगपत्संदिश्यते स ज्वरो वैरस्यं नयनप्लवः श्रमरुजः पूर्वं हि तस्योद्गमे॥३८॥

आसप्तरात्रं तरुणो ज्वरः स्यात्क्वाथो न देयो न हि तत्र रेचनः॥ अत्याकुलत्वं प्रगताः कषायैर्दोषा विजेतुं सुतरामशक्याः॥३९॥

वातोद्भवः सप्तरात्राद्दशरात्राच्चपैत्तिकः॥ श्लेष्मिको द्वादशाहेन ज्वरः पाकं प्रयाति हि॥४०॥

आगन्तुकज्वरः।

विषाऽतिकामक्षतशोकभूतभयाऽभिशापादिभिरौषधीनाम्॥ गन्धैर्ज्वरा ये प्रभवन्ति नॄणामागन्तुकास्ते मुनिभिः प्रदिष्टाः॥४१॥

श्यामास्यतावान्तिमदातिमोहास्तृष्णाऽतिसारो विषजे ज्वरे स्युः॥ आलस्यचित्तभ्रममोहतन्द्राऽरुचि-क्लमाः कामभवे भवन्ति॥४२॥

उद्विग्नतारोदनकंपनानि भूतोद्भवे शोकभयाच्च वायुः॥ क्रोधाच्च पित्तं हि मलास्त्रयोपि यथास्वमेतान्परिभावयेन्ना॥४३॥

ज्वरोपचारः।

अहिमं सलिलं सुलंघनं निलयं वातनिवर्तनोचितम्॥ वसनं गुरु सूक्ष्मपेशलं ज्वरितानां प्रथमं प्रशस्यते॥४४॥

अथ सर्वनवज्वरे पाचनौषधम्।

शुण्ठी सकुस्तुंबुरुदेवदारुव्याघ्रीद्वयानां विहितःकषायः॥ पूर्वं प्रदेयो ज्वरिताय नूनं ज्वरापहो दीपनपाचनः स्यात्॥४५॥

अथ वातज्वरलक्षणम्।

जृम्भांगमर्दो विरसाऽस्यता रुग्घृन्मूर्द्धगात्रेषु शकृद्विबन्धः॥ कण्ठौष्ठशोषो विषमो हि वेगो रौक्ष्य-प्रकम्पोऽनिलजे ज्वरे स्यात्॥४६॥

तस्यौषधम्।

भूनिम्बमुस्ताजलकण्टकारीद्वयाऽमृतागोक्षुरनागराणाम्॥ सशालपर्णीद्वयपुष्कराणां क्वाथः पिबेद्वातभवज्वरार्तः॥४७॥

दुरालभादिक्वाथः।

दुरालभानागरतिक्तपाठाशठीवृषैरण्डजटाकषायः॥ पीतः सशूलं शमयेज्ज्वरं च सश्वासकासं पवन-प्रभूतम्॥४८॥

अथ पित्तज्वरलक्षणम्।

नेत्रे विदाहो सुखतिक्तता तृड्भ्रमः प्रलापो भृशमुष्णमंगम्॥ वेगोऽतितीक्ष्णः सरणं वमिश्च पीता च भाः पित्तभवे ज्वरे स्यात्॥४९॥

दुःस्पर्शादिक्वाथः।

दुःस्पर्शवासाकटुकाहरेणुप्रियंगुभूनिम्बकृतः कषायः॥ पीतो हि पित्तप्रभवं सदाहं ज्वरं जयेदच्छसितासमेतः॥ ५०॥

लाजतर्पणम्।

छर्द्दिदोहान्वितं क्षीणं निरन्नं तृष्णयान्वितम्॥ शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम्॥५१॥

द्राक्षादिक्वाथः।

द्राक्षातिक्तराजवृक्षाद्विपथ्यारेणुक्वाथो हंति पित्तज्वरं हि॥ तन्द्रातृष्णादाहमूर्च्छाप्रलापैः शोषैर्युक्तं सभ्रमं सप्रमेहम्॥५२॥

कट्फलाद्यवलेहः।

कट्फलं पौष्करं शृंगी पिप्पली मधुना सह॥ श्वासकासज्वरहरः श्रेष्ठो लेहः कफान्तकृत्॥५८॥

निर्गुण्ड्यादिक्वाथः।

सिंदुवारदलक्वाथं1 कणाढ्यं कफजे ज्वरे॥ जंघयोश्च बलक्षीणे कणो वापि हितं पिबेत्॥५९॥

वातपित्तज्वरलक्षणम्।

तृष्णाभ्रमो दाहशिरोरुजश्च कंठास्यशोषाऽरुचिरोमहर्षाः॥ मूर्छाभ्रमच्छर्दिविजृंभणानि निद्रात्ययो मारुतपित्तजे स्यात्॥६०॥

बलादिक्वाथः।

बलाऽमृतैरण्डजलाऽब्द3पद्मकैर्भाङ्गीकणोशीरयुतैस्सचन्दनैः॥ क्वाथं पिबेत्पित्तसमीरजज्वरप्रणाशनं वह्निविवृद्धिकारणम्॥६१॥

अथ वातकफज्वरलक्षणम्।

स्तैमित्यकासाऽरुचिपर्वभेदशिरोरुजःपीनसमध्यवेगौ॥ सन्तापकंपौ गुरुता शरीरे निद्रा व्यथा वात-कफज्वरे स्यात्॥६२॥

क्षुद्रादिक्वाथः।

क्षुद्रागुडूचीजगदौषधानां सपौष्काराणां विहितः कषायः॥कासाऽरुचिश्वासविबन्धशूले हितो ज्वरे वातकफात्मजे स्यात्॥६३॥

राजद्रुमादिक्वाथः।

राजद्रुमाब्दविजयाक4टुरोहिणीभिः सग्रथिकाभिरपरो विहितःकषायः॥सामे सशूलकफवातभवज्वरे
स्यात् संपाचनो ज्वलनदीप्तिकरःसरश्च॥६४॥

कफपित्तज्वरलक्षणम्।

कासोऽरुचिर्मोहवमिप्रसेकाः सलिप्ततिक्तं वदनं विगंधि॥मुहुर्मुहुर्हर्षणशीतदाहा लिंगज्वरे तत्कफपित्तजे स्यात्॥६५॥

पटोलादिक्वाथः।

पटोलमुस्ताजल3रक्तचन्दनं तिक्ता रजो विश्वमुशीरवासकम्॥संक्वाथ्य तोयं कफजज्वरं च निहंति पानात्परितस्तृषायुतम्॥६६॥

आदिमध्यावसानेषु ज्वरस्य श्रुतिमूलजः॥शोथोऽसाध्यः कृच्छ्रसाध्यः सुसाध्यः स्यात्क्रमेण तु॥६७॥

सन्निपातज्वरलक्षणम्।

क्षणे क्षणे शीतमथो विदाहः श्वासश्च सन्ध्यस्थिशिरस्सु पीडा॥ संस्रावयुक्ते कलुषे विभुग्ने नेत्रे च रक्तं भ्रममोहकासाः॥६८॥

तन्द्रा प्रलापो वमथुर्विनिद्रा कर्णौसशब्दौ सरुजौप्रकंपः॥ कंठस्तु शूकैरिव संवृतो हि स्यात्सन्निपाते कठिना च जिह्वा॥६९॥

ज्वरोपचारः।

गंडूषो बालुकास्वेदो लंघनं ष्टीवनांजिने॥ नस्यावलेहौपूर्वं च सन्निपाते प्रयोजयेत्॥७०॥

केसरं मातुलुंगस्य सैंधवं मरिचान्वितम्॥ मुखे धृतं निहंत्याशु जिह्वाशोषमरोचकम्॥७१॥

कट्फलादिभवचूर्णविमिश्रः क्वाथ एष दशमूलजो ज्वरम्॥ आर्द्रकस्वरसतुल्यविभागो मृत्युकल्पमपि हंति त्रिदोषम्॥ ७२॥

किरातादिक्वाथः।

किराततिक्तेन्द्रयवाह्वदारुशुण्ठीगजाह्वादशमूलन्यैः॥ कृतःकषायःकसनप्रलापश्वासादियुक्तं ज्वरमाशु हन्यात्॥ ७३॥

ग्रन्थ्यादिक्वाथः।

ग्रंथीन्द्रबीजसुरदारुविडंगभार्ङ्गीशृंगीनलात्रिकटुकट्फलपौष्कराणाम्॥ पथ्याकिरातबृहतीद्वयभूतकेशी5रास्नावचाचविक6दीप्यवृकीपुराणाम्7॥ ७४॥

क्वाथोनिहंति सकलानपि सन्निपातान्धीविभ्रमश्वसनशैत्यमहाप्रलापान्॥ आध्मानशूलकफवात-भवान्प्रसूतीरोगाननेकविधविद्रधिगुल्मशोफान्॥७९॥

 वचा मधूकसारश्च मरिचं सैन्धवं कणा। सूक्ष्मं पिष्ट्वांभसाम्नस्यं कुर्यात्संज्ञाप्रबोधनम्॥७६॥

किराताद्युद्धूलनम्।

 किरातकारवी तिक्ता पिप्पली कट्फला वचा। उद्धूलनं संनिपाते स्वेदाऽभिष्यंदिनि ज्वरे॥७७॥

अथ चैतन्यरोटिका।

 रसोनराजिकाचूर्णं तथा सौभांजनोद्भवम्॥ गोमूत्रेण तु संपिष्य कुर्यात्तद्रोटिकां[^8] ततः॥७८॥

अथ पंचवक्ररसः।

शुद्धसूतविषगन्धटंकणं पिप्पलीमरिचचूर्णसंयुतम्॥ मर्दयेत्कनकबीजजैर्द्रवेरेकमेव दिवसं च शोषयेत्॥८२॥

पंचवक्ररस एष योजितो गुंजिकाद्वयमितः समाक्षिकः॥ संनिपातमतिदारुणं हरेद्देयमत्र दधिभक्तकं नृणाम्॥८३॥

अधोन्मत्तरसः।

रसं गन्धं समं कृत्वा धत्तरफलजै रसैः॥ मर्द्दयेद्दिनमेकं तु तत्समं व्यूषणं क्षिपेत्॥८४॥

उन्मत्तोऽयं रसो नाम नस्ये दत्तस्त्रिदोषजित्॥

दंतिबीजाद्यंजनम्।

निस्तुपं दंतिकाबीजं दशटंकं विचूर्णयेत्॥८५॥ मरिचं पिप्पलीमृलं टंक टंकं विमिश्रयेत्॥ भाव्यं जंवीरनीरेण सप्ताहं च प्रयत्नतः॥८६॥

रसोऽयमंजने दत्तः सन्निपातं विनाशयेत्॥

त्रयोदशसन्निपातः।

संधिगश्चान्तकश्चैव रुग्दाहश्चित्तविभ्रमः॥८७॥

सीतांगस्तंद्रिकश्चैव कंठकुब्जश्च कर्णकः॥ विख्यातो भुग्ननेत्रश्च रक्तष्ठीवी प्रलापकः॥८८॥

जिह्वकश्चेत्यभिन्यासः संनिपातास्त्रयोदश॥

सन्निपातमर्यादा।

संधिगे सप्तरात्राणि चान्तके दश वासराः॥८९॥

रुग्दाहे विंशतिर्ज्ञेया त्रयोष्टौ चित्तविभ्रमे॥ शीतांगे पक्षमेकंतु तंद्रिके पंचविशतिः॥९०॥

विज्ञेया वासराश्चात्र कंठकुब्जे त्रयोदश॥ कर्णके च त्रयो मासा भुग्ननेत्रे दिनाष्टकम्॥९१॥

रक्तष्ठीवदेशाहानि प्रलापे च चतुर्दश॥ जिह्वके षोडपाहानि पक्षोभिन्यासके तथा॥९२॥ परमायुरिदं प्रोक्तं म्रियते तत्क्षणादपि॥

सन्धिगः।

विज्ञेयः संधिगः संधिशिरःशूलात्सुदारुणात्॥९३॥

अथ संधिगरूपम्।

शूलं च शोफो जठरे गुरुत्वं स्रस्तांगता संधिषु वेदना च॥ बलक्षयोवातकफप्रकोपो निद्रात्ययः संधिगसन्निपाते॥ १४॥

रास्नादिक्वाथः।

रास्नापथ्यागुडूची सहचर जलदा भिरुशुंठीसु8राह्वैस्तिक्ताकर्चूरवासानिलरिपुसहितैः पंचमूलीद्वयेन9॥ द्रव्यैरेभिः कषायस्त्वरितमपहरेत्संधिगं सन्निपातमन्यास्तंभांऽत्रवृद्धिं ज्वरमरुचिमसौ संधिगां सर्वपीडाम्॥९५॥

अथ पुना रास्नादिक्वाथः।

रास्नासुराह्वासठिवृद्धदारुविश्वागुडूचीत्रिफलावरीभिः॥ क्वाथः कृतो गुग्गुलुसंप्रयुक्तो निहंतिसंधिग्रह-सन्निपातम्॥९६॥

अंतकः।

दाहप्रकंपो भृशमुष्णमंगं मूर्ध्नःप्रकंपः कसनं च हिक्का॥ श्वासप्रमोहौ सततं च यस्मिंस्तमन्त काख्यं
विबुधास्त्यजेयुः॥९७॥

रुग्दाहः।

प्रलपनपरितापं भ्रांतिमोहप्रकंपा भ्रमणदहनमांद्यं कंठमन्याग्रहश्च॥ श्वसनकसनशूलं व्याकुलत्वं तृडर्तिर्भवति मृतिरहो रुग्दाहके सन्निपाते॥९८॥

हरीतक्यादिक्वाथः।

हरीतकीपर्पटतिक्तरोहिणीसुरद्रुमारग्वधगोस्तनीघनैः॥ कृतः कषायस्त्वरितं महाज्वरं निहंति रुग्दाहकसन्निपातम्॥९९॥

चित्तभ्रमः।

भ्रममदपरितापा, मोहवैकल्यभावा विकलनयनहास्यं गीतनृत्यप्रलापाः॥ श्वसितमधिकमेतल्लक्षणं यत्र सर्वं भवति च तमसाध्यं कोपि चित्तभ्रमाख्यम्॥१००॥

ब्राह्म्यादिक्वाथः।

ब्राह्मीवचाभीरु फलत्रिकेण तिक्ताबलाऽरग्वधतिक्तकेन॥ निम्बाऽव्दकोशातकिहारहूराद्विपंच-मूलीभिरसौ कषायः॥१०१॥ पीतो हि चित्तभ्रमसंनिपातं निहंति रुग्दाहमपि प्रभूतम्॥

शीतांगः।

तुषारशीतं सकलं शरीरं प्रकंपहिक्के शिथिलांगता च॥१०२॥ खिन्नःस्वरः कासवमिप्रसेकाः सशीत-गात्रःशरणार्थमुक्तः॥ प्रभूततन्द्राज्वरवेगतृष्णा श्यामा खरस्पर्शवती च जिह्वा॥ १०३॥

भार्ङ्ग्यादिक्वाथः।

श्वासाऽतिसारौ वमथुः प्रदाहः कर्णे रुजस्तंद्रिकसन्निपाते॥ भार्ङ्गीगुडूचीघनकंटकारीहरीतकी-पौष्करनागराणाम्॥१०४॥ कृतः कषायस्त्रिदिनं निपीतो घोरं जयेत्तंद्रिकसन्निपातम्॥

कंठकुब्जः।

शिरोव्यथादाहहनुग्रहाश्च संतापमूर्च्छागलरोधपाकाः॥१०५॥ प्रवेदना वातभवाः प्रलापाः सकष्टसाध्यः किल कंठकुब्जः॥ १०६॥

शृंग्यादिक्वाथः।

शृंगीचित्रकचेतकीवृषसठीभूनिम्बभार्ङ्गीनिशाव्याघ्रीपौष्करमुस्तवत्सकयवैस्तिक्तामरीचान्वितैः॥ क्वाथः कृन्ततिकंठकुब्जामचिराद्दाहप्रमोहारुचिश्वासाऽध्मानगलग्रहाऽग्निसदनाऽभिन्यासकासान्वितम्॥१०७॥

कर्णकः।

कंठग्रहायासशरीरपीडासंतापकासश्वसनप्रसेकाः10॥ शोफश्च शूलं बहु कर्णमूले सकष्टसाध्यः किल कणकाख्यः॥१०८॥

रास्नादिक्वाथः।

रास्नाऽश्वगन्धाघनकंटकारीभार्ङ्गीवचापौष्कररोहिणीनाम्॥ क्वाथःकृतःशृंग्यभयायुतानां पीतो जयेत्कर्णिकसन्निपातम्॥१०९॥

निशादिर्लेपः।

निशेंगुदीसैंधवदारुकुष्ठदार्वीविशाला11रविदुग्धलेपः12
तं कर्णिकग्रंथिमपाहरेद्वाजलौकसांपातनमत्र शस्तम्॥

भुग्ननेत्रः।

स्मृतिशून्यता ज्वरविवृद्धिरति श्वसनं विभुग्नतरले नयने॥ भ्रमकम्पनप्रलपनानि मृतिः कथितो विभुग्न-नयनो मुनिभिः॥१११॥

दार्व्यादिक्वाथः।

दार्वीपटोलीघनकंटकारीतिक्तानिशानिंवफलत्रिकाणाम्॥ क्वाथो नियोज्यो गुरुसन्निपातेविभुग्ननेत्रे प्रतिबोधनाय॥११२॥

रक्तष्ठीवी।

रक्तष्टीवी भवति मनुजो यत्र तृष्णाप्रमोहो श्वासःशूलं भ्रमवमिमदाऽध्मानसंज्ञाप्रणाशः॥ श्यावारक्ता-तनुरतितरा दाहहिक्काऽतिसारा रक्तष्ठीवी सुमुनिभिरुदितः प्राणहा सन्निपातः॥११३॥

जलदादिक्वाथः।

जलदपद्मकपर्पटचंदनैर्मधुकवारिवरीमलयोद्भवैः॥ समधुमालतिपत्रसुभद्रकैःक्वथितमम्बु मुखास्र-निवारणम्॥११४॥

दूर्वादिनस्यम्।

देयं दूर्वारसैर्नस्यं रसैर्दाडिमपुष्पजैः॥ अथवा त्रिफलादूर्वाजलं रक्तहरं परम्॥११५॥

अथ प्रलापकसन्निपातः।

कंपःप्रलापः परितप्तमंगदाहो ज्वरस्याभ्यधिको हि वेगः॥ संज्ञाविनाशो विकलांगता च प्रलापको साध्यतमो मतश्च॥११६॥

अथ मुस्तादिक्वाथः।

मुस्तवारि दशमूलनागरं पर्पटोमलयजं धवत्वचः॥ वासकः कृतसमानविभागः क्वाथएषहरति-प्रलापकम्॥११७॥ पीतो द्वात्रिंशदाख्यः कसनगलगद श्वाससाध्यास्थिशूलम्॥ हिक्काध्मानादि-युक्ताञ्जयति गुरुतरान् सन्निपातान्समस्तान्॥११८॥

अर्कादिक्वाथः।

अर्कव्योषं13 चित्रकं चव्य14 दारु शिग्रुस्तिको मार्कवः शुक्लकंदा15॥ रास्नानन्तासिंदुवारोग्रगंधातर्कारीभिः पीतमात्रः कषायः॥११९॥ सद्यो हन्यात्सन्निपातान्समग्राञ्छैत्यश्वासं सूतिकावातरोगान्॥ जिह्वास्तंभं शुण्डिकाकर्णशोथमंगस्तंभं क्रोष्टुशीर्षं तथैव॥१२०॥

रसोनाद्यंजनम्।

रसोनकृष्णामरिचोग्रगंधास्योनाकबीजं लवणोत्तमं च॥ गोमूत्रपिष्टं नयनांजनं स्यात्समस्तदुष्टग्रह-सन्निपाते॥१२१॥

मरीचादिनस्यम्।

मरिचं मधुकं ससैन्धवं नलदं कट्फलपिप्पलीयुतम्॥ नरिनावनमुष्णवारिणा मृदु कृत्वा हरति त्रिदोषजम्॥१२२॥

पादादिदाहः।

एवंविधेस्मिन्विहिते विधाने न यातिसंज्ञां यदि पश्य जंतुः॥ तं पादमूले भृकुटीललाटे शलाकया लोहजया दहेत्तु॥१२३॥

विषमज्वरलक्षणम्।

शीतोष्णाभ्यामनियतात्कालाद्यश्च प्रवर्त्तते॥ विषमातितीक्ष्णवेगात्तु स ज्वरो विषमः स्मृतः॥१२४॥

संततादिज्वरलक्षणम्।

संततः16 संततोऽन्येद्यु17स्तृतीय18कचतुर्थकौ19॥ विषमाः पंच विज्ञेया ज्वरोत्कृष्टस्य..वा पुनः॥१२५॥ दोषोल्पो हितसंभूतः करोति विषमज्वरान्॥ सप्तरात्रं दशदिनं द्वादशाहमथोत्तरम्॥१२६॥ संतत्या योविसर्गीस्यात्संततःसहि कथ्यते॥ कालद्वयं सततको दिवारात्रौ प्रवर्त्तते॥१२७॥ नक्तंदिनादेक-कालमन्येद्युष्कः प्रवर्त्तते॥ तृतीयकस्तृतीयेह्निचतुर्थेऽह्निचतुर्थकः॥ १२८॥

संततज्वरक्वाथः।

त्रायन्ती16सारिवाँऽ17नन्ता18कटुकाभिः19 शृतं जलम्॥ वातादीनां निवृत्त्यर्थं संतताख्ये ज्वरे हितम्॥१२९॥

अथपटोलादिक्वाथः सततज्वरे।

पटोलपथ्यापिचुमंदशक्रबीजाऽमृतायासकृतःकषायः॥ निपीतमात्रः शमयत्युदीर्णं कासादियुक्तं सततज्वरं हि॥१३०॥ द्राक्षापटोलीपिचुमंदमुस्ताकलिंगबीजत्रिफलाकषायः॥ पीतः प्रभाते ज्वरमुग्र-वेगमेकाहिकं नाशयति प्रसह्य॥१३१॥

तृतीयकज्वरे चंदनादिक्वाथः।

चन्दनमुस्तगुडूचीधान्योशीरनागरैः कृतःक्वाथः॥ मधुशर्करया युक्तो हन्ति तृतीयकज्वरं पुंसाम्॥१३२॥ स्थिराशिवानागरदेवदारुधात्रीरसैः संविहितः कषायः॥ पीतः सितामाक्षिकसंप्रयुक्तो निहन्ति चातुर्थिकमुग्रबेगम्॥१३३॥

चातुर्थिकज्वरे नस्यम्।

रामठपुराणघृतयोर्नस्यं चातुर्थिकं ज्वरं हन्यात्॥ अगस्त्यपत्रस्वरसो तस्मै दत्तोऽथवा जयेत्॥१३४

विषमज्वरोपचारः।

विषमं तु निहंत्यूद्र्ध्वमधो वा शोधनं परम्॥ एकैक मधुना हन्ति त्रिवृत्कृष्णा हरीतकी॥१३५॥ पथ्याशक्रसमं चूर्णं कर्षमात्रं गुडेन तु॥ भक्षितं नाशयत्याशु शीतकं विषमज्वरम्॥१३६॥ चेतोमुषां पीनपयोधराणां कस्तूरिकाकुंकुमचर्चितानाम्॥ शीतःज्वरे शस्तमथांगनानामालिंगनं चारु हिमावधि स्यात्॥१३७॥

व्याघ्रादिक्वाथः।

व्याघ्रीविश्ववितुन्नपु20ष्कररजोभूनिम्ब21वासाऽमृता भार्ङ्गीनिंबपटोलपद्मकघनैस्तिक्ताकलिंगैः कृतः॥ क्वाथो हन्ति सचन्दनः कफमरुत्पित्तं सदाहं तृषाम् कासं पंचविधं तथा कृमिरुजं पाण्डुं वमिं कामलाम्॥१३८॥

अथ पटोलादिक्वाथः।

पटोलपथ्याघनरोहिणीभिर्भूनिम्बयष्टीमधुकाऽमृताभिः॥ कृतः कषायो विषमज्वरेषु सर्वेषु शस्तः कसनारुचिघ्नः॥१३९॥

लशुनयोगः।

तिलतैलेन संमिश्रं रसोनं च सुकल्पितम्॥ भक्षितं नाशयेद्वातं सुघोरं विषमज्वरम्॥१४०॥

शर्कराजीरकयोगः।

सिताजीरकसंयुक्तो द्रोणपुष्पीभवो रसः॥ पलमानो हरेत् पीतो विषमज्वरमुद्धतम्॥१४१॥

षोडशाङ्गचूर्णः।

भूनिम्बपथ्याघनकण्टकारी त्रायन्ति22कानागरयासतिक्ताः॥ वाट्यालकर्चूरकणापटोलक्षुद्राज….र्पटाश्च॥१४२॥ असौ मतः षोडशकांगचूर्णोउपरान्समग्रान् विषमान्निहंति॥१४३॥

निद्रानाशोपचारः।

कर्षाऽर्द्धं पिप्लीमूलं गुडेन विलिहन्निशि॥ चिरादपि च संनष्टां निद्रामाप्नोति मानवः॥१४४॥ देयं दिनान्ते लघुभोजनं च गतज्वरायाप्यगतज्वराय॥ तदा कफस्योपशमोपलब्धिरूष्मा प्रवृद्धः प्रबलो हि वह्निः॥ १४५॥

अथ जीर्णज्वरलक्षणम्।

सप्तत्रयदिनादूर्द्धं तनुतां23 प्राप्य तिष्ठति॥ प्लीहाग्निमांद्यं तनुते स जीर्णज्वर उच्यते॥१४६॥

क्षुद्रादिक्वाथः।

क्षुद्राऽमृतानागराणां क्वाथः कृष्णासमन्वितः॥ जीर्णज्वरकफश्वासकासाऽरोचकनाशनः॥१४७॥ सठीरजोनागरदेवदारुरास्नाऽब्दतिक्ताबृहतीकिरातैः॥ क्वाथः कणामाक्षिकसंप्रयुक्तो जीर्णज्वरघ्नो विषमज्वरघ्नः॥१४८॥

धात्र्यादिचूर्णम्।

धात्री हरीतकी कृष्णा चित्रकः सैन्धवस्तथा॥

एषां चूर्णोऽग्निमांद्यघ्नः सर्वज्वरविनाशनः॥१४९॥

जीर्णज्वरघृतम्।

ज्वराः कषायैर्वमनैर्विरेकैः शाम्यन्ति नो तत्र घृतं प्रदेयम्॥ शुंठीकणाग्रंथिकचव्यवह्निक्षाराः पृथक्त्वेक-पलप्रमाणाः॥१५०॥ प्रस्थं घृतं नागरवारिमस्तुप्रस्थद्वयं तद्विपचेत्कटाहे॥ संसिद्धमाज्यं विषमज्वरेषु जीर्णज्वरे वर्षभवेऽपि शस्तम्॥१५१॥

अथ लाक्षादितैलम्।

लाक्षारसस्याढक मच्छतैलप्रस्थं पचेन्मस्तु चतुर्गुणं च॥ पिष्ट्वा शताह्वारजनी मधूकं रास्नाऽश्वगंधा कटुका समूर्वा॥१५२॥ हरेणुकं चन्दनमुस्तदारुकुष्ठंपृथक्कर्षमितं क्षिपेत्तत्॥ लाक्षादिकं तैलमिदं सुसिद्धं निहन्ति सर्वान्विषमज्वरांस्तु॥१५३॥ पृष्ठत्रिकांगस्फुटनं सशूलं दौर्गन्ध्यकंडूभ्रमवातरोगान्॥ निहंति वातज्वरपित्तमेतत् शीतं शरीरं सकलं करोति॥१५४॥

अथ शीतारिरसः।

मनश्शिला24ताल25कतुत्थ26ताम्ररसे27न्द्र28गंग्धं29 समकर्षभागम्॥ समर्द्दयेत्तत्रिफलारसेन गोलं न्यसेत्संपुटके प्रदद्यात्॥१५५॥ पुटन्तथोद्धृत्य च भानुवज्रीदुग्धेन भाव्यं किल सप्तवारम्॥ क्वाथेन दन्तीत्रिवृतोद्भवेन विभावनाः सप्त पुनः प्रदेयाः॥१५६॥ ततोऽस्य माषं मरिचैश्शतार्धैर्गद्याणमात्रेण गुडेन युक्तम्॥ सम्भक्षयेन्ना तुलसीदलाभ्यां दिनत्रयं पथ्यमिहौदनं च॥१५७॥ शीतारिनामा रस एष हन्ति शीतज्वरं घोरतरं सवातम्॥१५८॥

अथ विगतज्वरलक्षणम्।

गात्रे लघुत्वं शिरसश्च कंडूः पाको मुखे सौष्ठवमिन्द्रियाणाम्॥ स्वेदोन्नकांक्षा क्षवथोः प्रवृत्तिः स्याच्चिह्नमेतद्विगतज्वरस्य॥१५९॥

अथ मृत्युकारकज्वरः।

यो हृष्टरोमा हृदि शूलतापयुक्तः प्रताम्यञ्छ्वसतीह चोर्द्धम्॥ स्वेदो ललाठे न तु याति वक्षः स शीतगात्रो मरणार्थमुक्तः॥१६०॥

अथ ज्वरदशोपद्रवः।

तृष्णामूर्छारुचिः श्वास श्छर्द्यतीसारविड्ग्रहाः॥ कासो हिक्कांगभेदश्च ज्वरस्योपद्रवा दंश॥१६१॥

अथज्वरे वर्ज्यम्।

व्यायामं च व्यवायं च स्नानं चंक्रमणं तथा॥ ज्वरमुक्तो न सेवेत यावन्नो बलवान्भवेत्॥१६२॥

इति श्रीमदनन्तभट्टात्मजशंकरविरचिते वैद्यविनोदे
ज्वरलक्षणचिकित्साकथनं नाम प्रथमोल्लासः॥१॥
<MISSING_FIG href="../../../books_images/U-IMG-1705487586Capture.JPG"/>

अथ उल्लास २।

अथाऽतीसारलक्षणम्।

स्निग्धोष्णशीतगुरुरूक्षविरुद्धमद्यपानाऽतिशीलनविषाऽध्यशनाऽभिघातैः॥ स्नेहातिपानभयसात्म्य-विपर्य्ययैश्च नॄणां भवेत्कृमिगदाप्रबलोऽतिसारः॥१॥.

अतिसारसंप्राप्तिः।

संशम्य वृद्धो जलधातुरग्निं वर्चोविमिश्रो मरुतात्वऽधस्तात्॥ यः पूर्यमाणः सरति प्रकृष्टं षोढाऽतिसारं मुनयो वदन्ति॥२॥

एकैकशः सर्वशश्च दोषैरामेन शोकतः॥ दोषावस्था नैकरूपा भवत्यर्ति प्रतिक्षणम्॥३॥

अथाऽतिसारपूर्वलक्षणम्।

हृत्कुक्षिनाभ्यपाने रुग्गात्रे सादोऽनिलग्रहः॥ अविपाकः शकृत्संग आध्मानं पूर्वलक्षणम्॥४॥ न स्तम्भयेदतीसारमपक्वंवृद्धिमागतम्॥ विनाक्षीणास्य वृद्धस्य गर्भिण्या बालकस्य च॥५॥ यवाग्वा लाजमंडेन तक्राजाजीयुत्तेऽथवा॥ मुद्गयूषरसेनैवमतीसारमुपाचरेत्॥६॥

अथ वाताऽतिसारः।

रूक्षं फेनिलमल्पमल्पमरुणं सामं सशब्दंसरुक्। विट्श्यावं कठिनं विबद्धमसकृद्वाताऽतिसारे भवेत्॥७॥

कलिंगादिक्वाथः।

कलिंगबीजाब्दसलोध्रबिल्वमाम्रास्थिधात्रीकुसुमानि चूर्णम्॥ प्रातःपिबेन्माहिषतक्रमिश्रं वाताऽतिसारं प्रबलं निहन्ति॥८॥

अथ पित्ताऽतिसारः।

पित्तात्पीतमथोष्णनीलमरुणं दुर्गन्धि तीक्ष्णं शकृत॥ खिन्नांगो विसृजेत्सदाहमसकृतृड्दाहपाकान्वितः॥९॥ बिल्ववालुकजीमूतकलिंगा30ऽतिविषाकृतः॥ क्वाथो जयेदतीसारं सामं पित्तसमुद्भवम्॥१०॥

अथ श्लेष्मातिसारः।

सांद्रं सितं श्लेष्मविमिश्रितं स्याच्छलेष्माऽतिसारे भृशगंधि शीतम्॥११॥ च्व्यं कुष्ठं बालबिल्वं कलिंगबीजं शुंठी वत्सकत्वक् प्रपथ्या॥ एषां क्वाथः शुक्लकन्दा31 युतानां श्लेष्मोद्भूतं हन्त्यतीसारमुग्रम्॥१२॥

अथ त्रिदोषाऽतिसारः

वाराहमांसांबुसमं त्रिदोषाद्विद्यादतीसारमनेकरूपम्॥ तन्द्रातृषादाहमदास्यशोषभ्रमान्वितोमोह-समन्वितानाम्॥१३॥ पञ्चमूलममृताजलपाठाबिल्वतिक्तघनविश्वबलाभिः॥ त्वक्फलैःकुटजजैरतिसारं क्वाथ एक हरति त्रिमलोत्थम्॥१४॥

अथ रक्ताऽतिसारः।

शोचतो विविधैर्भावैः पित्तलैरतिसेवितैः॥ बाष्पोष्मा कोष्ठमाविश्य रुधिरं क्षोभयेत्तु तत्॥१५॥ गच्छेदधस्ताद्गुंजाभं रक्ताऽतीसारमुच्यते॥१६॥

वत्सकादिक्वाथः।

वत्सकाऽतिविषाबिल्वैः32 समुस्तैः सजलैः33 कृतः॥ कषायो इन्त्यऽतीसारं शूलशोणितसंयुतम्॥१७॥ रसांजनं सातिविषंसवत्सकं सधातकीनागरशक्रबीजकम्॥ चूर्णं हरेत्तंदुल34 धावनेन रक्ताऽतिसारं मधुयुक्तमाशु १८॥

पथ्यादिचूर्णम्।

पथ्यां वचां चाऽतिविषां विचूर्ण्य सौवर्चलं हिंगुकलिंगबीजम्॥ चूर्णं प्रदेयं रुधिराऽतिसारे सामे संबन्धे गुदशूलयुक्ते॥१९॥

अथाजीर्णाऽतिसारः।

अन्नाऽजीर्णोपद्रुताःक्षोभयन्तो दोषाः कोष्ठे धातुसंघान्मलांश्च॥ नानावर्णं नैकसंसारयंति शूलोपेतं षष्ठ35 मेनं वदंति॥२०॥ अजीर्णोपद्रुता दोषाः कोष्ठंधातून्मलान्सरुक्॥ क्षोभयन्तः सारयंति षष्ठमामं वदं तितम्॥२१॥ .

अथ वितुन्नकादिक्वाथः।

वितुन्नकं36 नागरबालबिल्वं ह्रीवेरमुस्तं च कृतः कषायः॥ आमाऽतिसारं शमयेत्सशूलं ज्वरेहितो दीपन-पाचनश्च॥२२॥ हरीतकी क्षौद्रयुता निहन्यादामाऽतिसारं गुदशूलयुक्तम्॥ अथाऽभयानागरमुस्तचूर्णं गुडेन-युक्तं गुरुमाऽमबंधम्॥२३॥ आमाऽतिसारे वमनं37 लंघनं38 च यथोचितम्॥ मार्कवस्वरसो दध्ना सर्वाऽतीसार-नाशनः॥२४॥ बब्बूलपत्रस्वरसो धत्तूरफलजोपि वा॥ पीतः प्रशमयेत्सर्वानतीसारान्सुदुस्तरान्॥२५॥ कास-मर्दस्य मूलन्तु घृष्ट्वा तंदुलवारिणा॥ बृद्धबालातिसारेषु पेयं परममौषधम्॥२६॥ चिरोत्थितमतीसारं रालो39 हन्यात्सितायुतः॥ गुडेन भक्षयेद्बिल्व रक्ताऽतीसारनाशनम्॥२७॥ छिन्नापाठोसीर-बित्वाब्दवारि शुंठी पद्मंचन्दनं वत्सकं च॥ धान्यं तिक्तं शुक्लकन्दाकषायः शीतः पीतः सज्वरं चाऽति-सारम्॥२८॥ हन्यात्तृष्णाऽरोचकं ग्लानिदाहं हृल्लास्यं वै शूलशोफादियुक्तम्॥२९॥

विजयायोगः।

मधुना विजयाभवं रजो निशि लीढं विधिना सुभर्जितम्॥ अतिसारमनिद्रतां हरेद्ग्रहणीं वा दहनस्य मंदताम्॥३०॥

वत्सकावलेहः।

क्वाथो वत्सकजो नितांतविमलः पादावशेषः स्थितो मुस्ताक्षारविडेन्द्रबीजरुचकं सिन्धूद्भवं धातकी॥ कृष्णा चेति विचूर्णितं सममिदं संपाचयेत्पावके यावत्तघ्ननतां प्रयात्यतितरां शीते मधु प्रक्षिपेत्॥३१॥ सिद्धो वत्सकलेह एष शमयेत्कृच्छ्राऽतिसारान्रुजं दुर्नामग्रहणीभगंदरगदश्वासप्रमेहान्वमिम्॥३२॥ बिल्वं छागीपयः सिद्धं रक्तातीसारनाशनम्॥ गुरुवृष्यान्नपानानि लवणं न प्रयोजयेत्॥३३॥
____________________________________________
२ अतीश। ३ कोरैयाछाल।
__________________________________________________

अरिष्टः।

हिक्काग्निसादारुचिवांतिकासाःसुशीतदेहोन्तरऽतीव दाहः॥ मूत्रग्रहो यस्य भवेद्विचिह्नं नूनं यमस्यैव गृहं स याति॥३४॥ विनोत्सर्गं भवेन्मूत्रं तथा वायुः प्रवर्तते॥ कोष्ठेलघुत्वं दीप्ताऽग्निर्गतस्तस्योदराऽऽमयः॥३५॥

अथ ग्रहणीरोगः।

गतेऽतिसारे गतपावकस्य विरुद्धदुष्टाऽहितभोजनस्य॥ वह्निः प्रदुष्टो ग्रहणी च भूयः संदूषयेत्तां विधिवच्चिकित्सेत्॥३६॥ षष्ठी कला पित्तधरा मता या पक्वाशयामाशयमध्यगां ताम्॥ वदन्ति वैद्या ग्रहणीं प्रदुष्टां मुंचेदपक्वंबहुशो हि भुक्तम्॥३७॥

ग्रहणीभेदाः।

वातादधस्ताद्विसृजेद्धि वर्च्चं चिरेण दुःखं द्रवशुष्कमामम्॥ पीतं भृशोष्णं बहु गंधि पित्तात्स्निग्धं सितं श्लेष्मयुतं कफाच्च॥३८॥

ग्रहण्युपचारः।

दीपनान्यन्नपानानि पंचकोलयुतानि च॥ तक्रं पेयादिलघ्वन्नं ग्रहण्यां सर्वदा हितम्॥३९॥

शुंठ्यादिक्वाथः।

शुंठीगुडूचीघनशुक्लकन्दाक्वाथं पिबेत्संग्रहणीगदे च॥आमानुवन्धे सतताऽमदोषे वातोद्भवे वह्निविवर्द्धनाय॥४०॥

रसांजनादिचूर्णम्।

रसांजनं साऽतिविषं कलिंगबीजस्त्वचो धातकिपुष्पकाणि॥ चूर्णं पिबेत्पित्तभवग्रहण्यां समाक्षिकं तंदुलधावनेन॥४१॥

तिक्तादिक्वाथः।

तिक्तामहौषधरसांजनघातकीभिः पथ्येन्द्रबीजघनकौटजभंगुराभिः॥ क्वाथं हरेद्बहुविधंग्रहणीविकारं पित्तोद्भवं सगुदशूलमतिप्रवृद्धम्॥४२॥

पथ्यादिचूर्णम्।

पथ्याकणानागरवह्निचूर्णं तक्रेण पीतं ग्रहणीगदघ्नम्॥ तक्रेण हन्यात्किल केवलं वा शुंठी कफोत्थांग्रहणीं सशूलाम्॥४३॥

दुग्धयोगः।

बिल्वमोचरसवालुकमुस्ताशक्रबीजकुटजैरितिसिद्धम्॥ दुग्धमाजमपहन्ति चिरोत्थां वातपित्त-कफजांग्रहणीं च॥४४॥

अथ लायीचूर्णम्।

कर्षंबलिं पारदमर्द्धकर्षमुभौ शुभांकज्जलिकां विधाय॥ कर्षत्रयं त्र्यूषणतो हि सार्द्धं कर्षं पृथग्वै लवणानिपंच॥४५॥ दीप्यासु भृष्टं जरणं सहिंगु सटंकणं कर्षयुतं पृथक् च॥ पलद्वयं स्याद्विजया सुभृष्टा प्रत्येकमेतन्मसृणं विचूर्ण्य॥४६॥ शाणं पिबेदस्य हिकांजिकेन तक्रेण जंबीररसेन वापि॥ मन्दाग्निसंदीपनमाशु सर्वं ग्रहण्यतीसारविनाशकारी॥४७॥दुर्नामशूलं कृमिजांश्च रोगान् यक्ष्माणमुग्रं जयतिप्रसह्य॥ रसायनं बुद्धिविकाशकारि चूर्णं प्रदिष्टं सकलाऽमयघ्नम्॥४८॥

अथ कनकरसः।

दरद40मरिचगंध41 पिप्पली टंकणं42 वैगरल43कनक44बीजं मर्दयेत्तज्जयाभिः45॥ प्रहरमिदमशेषं भक्षितो गुञ्जमात्रस्त्विति कनकरसोऽयं हन्ति कोपं ग्रहण्याः॥४९॥

अरिष्टलक्षणम्।

वृद्धस्य शोफंयुक्तस्य गतवह्निबलस्य च॥ ग्रहण्यां तस्य भिषजा क्रियास्त्याज्या यशोर्थिना॥५०॥

अथातोऽर्शसां लक्षणचिकित्सा।

त्वग्मांसमेदांसि विदूष्य दोषा मांसांकुरान्46 यांश्चगुदे प्रकुर्युः॥ तानाहुरर्शांसि पृथक् समस्तैर्दोषैस्तु
रक्तात्सहजानि षोढा॥५१॥

पूर्वरूपम्।

विष्टब्धतान्नस्य शकृ47द्विबन्धो मन्दाग्नितोद्गार48बहुत्वकार्श्यम्॥कुक्षेस्तथा टोपनमंगसादो49 दुर्नामवृद्धौ प्रथमं
भवन्ति॥५२॥

वातादिलक्षणम्।

वाताद्रोधः श्लेष्मणः शोफकंडू पित्तोद्रेकाच्छोणितस्य प्रसेकः॥ सर्वं चिह्नं सन्निपातोद्भवे स्यादर्शोरोगे

जन्मतो वा प्रभूते॥५३॥

तत्रौषधम्।

तरुणान्यर्कपत्राणि पंचैव लवणानि च॥ युक्तानितैलेनाम्लेन दहेत्क्षारश्च युक्तितः॥५४॥ उष्णोदकेनमद्यैर्वा पीतो वातार्शसां हितः॥५५॥ चूर्णं तिलानांसितया समेतं हैयंगवीनं गजकेसरं च॥ लिप्तान्नरो योन हि तस्य दुष्टान्यर्शांसि पित्तप्रभवानि जातु॥५६॥कफजे शृंगबेरस्य क्वाथो नित्योपयोगिकः॥ अर्शोऽतिसारग्रहणीविकारा ये परस्परम्॥५७॥ निदानभूताः प्रायेण तेषामग्निकरं हितम्॥५८॥ चित्रकंसहपुषं50 सरामठं यः पिबेल्लवणतक्रसंयुतम्॥ पंचकोलसलिलं च वा पिबेत्तस्य यांति गुदजानि सत्वरम्॥५९॥ करंजशुठीन्द्रयवारलूनां51सिन्धूत्थवह्निंप्रतिमिश्रितानाम्॥ तक्रेण चूर्णं पिबतोऽस्य नित्यमर्शांसिरक्तेन पतन्ति सार्द्धम्॥६०॥ मनुष्यकेशाऽर्कजमूलसर्पनिर्मोकदंता वृषभस्य चर्म॥ धूपःशमीपत्रसमं नराणामर्शांसि दुष्टान्यपि संनिहन्ति॥६१॥ निशाकोशातकीलेपः सर्वदुर्नामनाशनः॥अर्कपत्रं शिग्रुमूलं लेपनं हितमर्शसाम्॥६२॥निम्बाऽश्वमारपत्राणां लेपो दुर्नामनाशनः॥आरनालेन वा हन्यात्सगुडांकटुतुम्बिकाम्॥६३॥एरण्डमूलं सुरदारुरास्नायष्टीमधूकं ममृणंविचूर्ण्य॥पिष्टं यवानां च चतुर्गुणं स्यात्संसाध्य वह्नौ पयसासमस्तम्॥६४॥ स्वेदोपनाहौ बहु तेन कुर्यादर्शांसि शूलानि लयं प्रयान्ति॥६५॥अर्शांसिनाशयत्याशु गुड़युक्ता हरीतकी॥तिलारुष्कर52 संयोगो दुर्नाम्नामन्तकारकः॥६६॥

अथपर्पटीरसः।

रसेन्द्र5354धंसुदृढं विमर्द्यसर्पिःप्लुतं तद्द्विगुणं च वोलम्॥ तद्वत्पचेल्लोहमयं द्रवं स्यात्क्षिपेच्च रम्भादलयुग्ममध्ये॥६७॥ ततो रसः पर्पटिकाऽभिधानःसमस्तदुर्नामनिकृन्तनः स्यात्॥ संसेवितो वल्लचतुष्कमात्रमर्शोभवं शूलमपाकरोति॥६८॥ शोफाऽतिसारौ वमिरङ्गसाद55स्तृष्णाज्वराऽरोचकवह्नि-मांद्यम्॥गुदस्य पाको हृदयेपि शूलमर्शोविकारी विजहातिजीवम्॥६९॥

इति श्रीमदनन्तभट्टात्मजशंकरभट्टविरचिते वैद्यविनोदेऽतिसारग्रहण्यर्शरोगचिकित्साकथनं नाम
द्वितीयोल्लासः॥२॥
___________

अथाऽजीर्णलक्षणचिकित्सा।

मन्दोऽथ तीक्ष्णो विषमः समश्च चतुर्विधो जाठरवह्नियुक्तः॥ स्याच्छ्लेष्मपित्ताऽनिलवृद्धि-साम्यात्स्वल्पापि मात्रा न पचेद्धि मंदात्॥१॥ पाकाविपाकौविषमाद्भवेतां मात्राऽतिमात्रा विपचेच्च तीक्ष्णात्॥श्रेष्ठःसमस्तेषु समाग्निरेको मंदादजीर्णादिगदा भवंति॥२॥

अलसकलक्षणम्।

तस्मादजीर्णादलसः सुघोरो विलंबिका कष्टतराविषूची॥ अत्यर्थविड्वातनिरोधको यस्तृष्णान्वितः सोऽलसकः प्रदिष्टः॥३॥

विलंबिकालक्षणम्।

ऊर्द्ध्वं त्वधो याति न दुष्टमन्नं विलंबिका सा भृशदुश्चिकित्स्या॥४॥

विषूचिकालक्षणम्।

सूचीभिरङ्गानि च विध्यतीव वायुस्तु यस्यां हिविषूचिका सा॥ अथालसे वांतिरतिप्रशस्ता विषूचिकायां खलु कार्ष्णिदाहः॥५॥

अजीर्णोपचारः।

उपोषणं सैन्धवकुष्ठचुक्रैस्तैलान्वितैर्मर्दनमत्रशस्तम्॥ विषूचिकाद्याहरतैलमेतच्छुकाख्यनामा मुनिभिःकृतोयम्॥६॥ यवं पिष्टं यवक्षारं लेपस्तक्रेण संयुतः॥उष्णीकृतोहरेत्सद्यो जठरार्तिं सुदुर्जयाम्॥७॥ अर्द्धशृतं लवंगांम्बु पिपासायां प्रशस्यते॥८॥

चूर्णम्।

शाणद्वयं चाथ लवंगमेलाजातीफलं कोलसुनागफेनम्॥ प्रत्येकमाषं सकलं विचूर्ण्य शाणं कवोष्णेनज़लेन पीतम्॥९॥ विषूचिकां हन्ति सुदारुणां चशूलाऽतिसारौ वमथुं56प्रसक्ताम्॥१०॥ कटुत्रिकंजीरकहिंगुसिंधूरसोनगन्धं च समं विचूर्ण्य॥ निम्बूद्रवेणाशु निहन्ति चूर्णं विषूचिकां दुष्टविलम्बिकां च॥११॥

अथाऽजीर्णकण्टकरसः।

शुद्धसूतविषगन्धकं समं तुल्यभागमरिचं सुचूर्णितम्॥मर्दयेत्तु बृहतीफलोद्भवैरेकविंशति (२१)विभावितं पुनः॥१२॥ गुंजिकात्रयमिदं सुभक्षितंसद्यएव जठराग्निदीपनम्॥ एष कण्टकरसो विषूचिकां जीर्णमारुतगदान्निहन्ति च॥१३॥

अथ लेपः।

आलिप्यजठरं स्वप्याद्धिंगुत्र्यूषणसैन्धवैः॥दिवसेभोजनादर्वाक् सर्वाजीर्णविनाशनम्॥१४॥ विलम्बिकायामलसे क्रियेयं परिकीर्तिता॥

अजीर्णलक्षणम्।

ग्लानिर्बंधः प्रवृत्तिर्वा सामान्याऽजीर्णलक्षणम्॥१५॥

जीर्णाहारलक्षणम्।

पिपासा क्षुच्च लघुता जीर्णाहारस्य लक्षणम्॥

भस्मकलक्षणम्।

क्षणाद्भुक्तं भवेद्भस्म स रोगो भस्मकः स्मृतः॥१६॥

पायसयोगः।

अपामार्गस्य बीजानि पिष्ट्वाक्षीरेण साधयेत्॥तत्पायसं महाघोरे भस्मके सम्प्रशस्यते॥१७॥ इति
अजीर्णलक्षणचिकित्सितम्।

अथ कृमिलक्षणचिकित्सा।

बाह्याऽभ्यन्तरभेदेन कृमयोद्विविधा मताः॥बाह्या मलोद्भवा ज्ञेया यूकालिक्षाश्च नामतः॥१८॥ अभ्यन्तराः स्मृताः श्लेष्मरक्तविड्जन्मभेदतः॥

कृमिनिदानम्।

अजीर्णान्मधुराम्लानां सेवनात्पिष्टभोजनात्॥अव्यायामाद्दिवास्वापाद्विरुद्धाल्लभते कृमीन्॥१९॥ज्वराऽतिसारभ्रमशूलभक्तद्वेषाः प्रसेको त्दृदयामयश्च॥ वैवर्ण्यमंगे वमिरंगसादो जातं कृमीणामिदमेव चिह्नम्॥२०॥ मुस्ताखुपर्णीत्रिफलासुरद्रुःशिग्रूद्भवः क्वाथवरोनिपीतः॥ जयेत्सकृष्णकृमिशत्रु-चूर्णःकृमीन्समग्रान्कृमिजांश्च रोगान्॥२१॥ विडंगसिन्धूद्भवहिंगुपथ्याकम्पिल्लसौवर्चलपिप्पलीनाम्॥चूर्णं कवोष्णोदकसंगृहीतं कृमीन्निहन्यादरुचिं वमिं च॥२२॥विडंगानां तु चूर्णं च कर्षार्द्धंकर्षमेव च॥ मधुनासहितं लिह्यात्कृमिकोटिनिवृत्तये॥२३॥ पारसीकांयवानीं तु पर्णेन सह भक्षयेत्॥ कृमिजालंनिहन्त्याशु पीतो निंवरसोऽथवा॥२४॥ पारदेनसमायुक्तो रसः कनकपत्रजः॥ ताम्बूलपत्रजो वापिलिप्तो युकाविनाशनः॥२५॥

अथ कृमिनाशनधूपः।

ककुभपुष्पविडंगकलांगलीमदनचन्दनसर्जरसास्तथा॥ नलदकुष्ठमरुष्करमित्ययं जयति धूपवरो मशकान्कृमीन्॥२६॥भुंडिका57धूपमात्रेण मशकान्नाशयेद्धृवम्॥ तथा सिंसप58पत्रेण लेपाद्यूका प्रणश्यति॥२७॥

अथ पांडुरोगलक्षणचिकित्सा।

पृथक्सर्वैर्मृदा दोषैः पांडुरोगस्तु पंचधा॥मृद्वम्लमद्यलवणाद्दिवास्वापाद्व्यवायतः॥२८॥ संदूष्यरुधिरं दोषाः कुर्वते पांडुतां त्वचः॥ त्वङ्मूत्रनयनादीनां पीतता प्रथमं भवेत्॥२९॥ वातात्कंपभ्रमाऽनाहः पित्ताद्दाहभ्रमक्लमाः59॥ कफात्प्रसेकः60 श्वयथु61स्त्रिभिर्दोषैर्हतप्रभः॥३०॥

अथ मृद्भक्षणे पांडुरोगः।

मृद्भक्षणादक्षिशोफबलवर्णाऽग्निसादनम्62॥ सर्वेषुपाण्डुरोगेषु पथ्याचूर्णं घृतप्लुतम्॥३१॥स्निग्धोविधिर्वातभवे प्रशस्तस्तिक्तः सुशीतः किल पित्तजाते॥कफात्मके रूक्षकटूष्णतिक्तः प्रोक्तो विमिश्रस्त्रिमलोद्भवे स्यात्॥३२॥

अथ मोदकः।

अयस्तिलास्त्रिकटुकं कोलं सर्वं विचूर्णयेत्॥ सर्वैस्समं माक्षिकस्य भागं दत्त्वा विमर्दयेत्॥३३॥मोदकोमधुसंयुक्तः सतक्रःपाडुतां जयेत्॥

घृतम्।

क्षणदाक्वाथकल्काभ्यां घृतं सिद्धमिमं जयेत्॥३४॥

अथ कुम्भकामला।

यः पांडुरोगी भृशपित्तलानि संसेवते तस्य विदूष्यपित्तम्॥मांसासृजो संदहते नरस्यं स्यात्कामला
तेन च कुम्भकाह्वा॥३५॥

तत्रौषधम्।

पिबेत्कवोष्णेन जलेन तिक्तां सशर्करां पाणितलप्रमाणाम्॥निहंति दुष्टामतिकामलां सा हरीतकीवा मधुना प्रयुक्ता॥३६॥ दार्वीरसो वा त्रिफलारसोवा छिन्नोद्भवो निंबभवो रसो वा॥ प्रातर्निपीतो मधुसंप्रयुक्तो हन्यात्प्रवृद्धामपि कामलां स्यात्॥३७॥

अथायसादिचूर्णम्।

अयोरजो63दारुनिशाहरिद्राफलत्रिकाढ्याकटुरोहिणीच॥ प्रलिह्यचूर्णं घृतमाक्षिकाभ्यां स कामलार्तस्त्वरितं सुखी स्यात्॥३८॥ निशागैरिकधात्रीणां चूर्णंतूर्णं प्रयोजयेत् ॥ कामलारोगनाशाय द्रोणपुष्पी64रसोञ्जनात्॥३९॥ व्योषं विडंगं त्रिफलादार्वीकृष्णमयोरजः65। लिह्यात्क्षौद्रघृताभ्यक्तं कामलारोगनाशनम्॥४०॥

अरिष्टम्।

पांडुदन्तनखनेत्रमलो यः पाण्डुसंहतिमतीव तुपश्येत्॥ आसु तस्य मुनिभिर्मृतिरुक्ता शूलनाभिगुदशोफसएव॥४१॥

अथ पथ्यः।

शाल्यन्नयवगोधूमा रसा जांगलजा हिताः॥ मुद्गाऽढकीमसूरादि भोजने वा प्रशस्यते॥४२॥

इति श्रीमदनन्तभट्टसुतशंकरभट्टविरचिते वैद्यविनोदेऽजीर्णकृमिपांडुरोगलक्षणयत्नेकथनं नामतृतीयोल्लासः॥३॥

अथ रक्तपित्तलक्षणम्।

व्यायामशोकातपमार्गमैथुनैस्तीक्ष्णोष्णकटम्लसुराऽतिसेवनैः॥ पित्तं विदग्धं स्वगुणैर्दहत्यसृक्तं दुष्टमूर्द्धंव्रजति त्वधो भृशम्॥१॥

रक्तपित्तलक्षणम्।

उर्ध्वं तु नासामुखनेत्रकर्णैरधोगतैः स्याद्गुदयोनिमेढ्रैः॥ तथा समस्तैरपि रोमकूपैस्तद्रक्तपित्तं मुनिभिः प्रदिष्टम्॥२॥ शीताऽभिलाषः सदनं च कण्ठे धूमायनं वांतिरतीव तस्मिन्॥श्यावाऽरुणं फेनिलरूक्षमस्रंवातात्कफात्पिच्छिलपांडुसान्द्रम्॥३॥ पित्तेन पीतंतनु नीलमस्रं सर्वात्मकं सर्वगुणोपपन्नम् ॥४॥

उपचारः।

ऊर्ध्वगे प्रथमतो हि विरेकोऽघोगते तु बलिनां वमिरेव॥पथ्यया त्रिफलया त्रिवृता वाऽरग्वधेन विहितोहिविरेकः॥५॥दाडिमाऽमलकनिम्बुपटोलं तंदुलीयकलला66वसशोणाः67॥ शालिषष्टिकमकुष्ट68मसूरा मुद्गकोद्रवरसा इह शस्ताः॥६॥

अथ ह्रीवेरादिक्वाथः।

ह्रीबेरमुत्पलमुशीरवृपौगुडूची षष्टीमधूकघनचन्दनधान्यकानि॥ क्वाथः सितामधुसुतो जयति ग्रसह्य चोध्वत्वधःप्रकुपितं खलु रक्तपित्तम्॥७॥ प्रियंगुलोध्रांऽजनमृत्तिकानां चूर्णे नियुक्तो वृषजः कपायः॥ पीतः सिताक्षौद्रयुतो रसो वा निहन्ति पित्तास्रमुदीर्णवेगम्॥८॥ घ्राणप्रवृत्तेऽसृजि नस्यमुक्तं दूर्वारसो दाडिमपुष्पजो वा॥अलक्तकस्यापि रसः प्रयोज्यः पथ्यारसः शीतजलेननस्ये॥९॥

अथ लेपः।

मृद्दूर्वामलकं पिष्ट्वाश्लक्ष्णं मूर्ध्नि प्रलेपयेत्॥ नासाप्रवृत्तं रुधिरं तेन शाम्यति तत्क्षणात्॥१०॥नारिकेलपयःपानं दुग्धमाजं सितायुतम्॥ वासकःस्वरसः पीतः रक्तपित्ते प्रशस्यते॥११॥

अरिष्टम्।

यश्छर्दयेदस्रमजस्रवांतिः श्रोणेक्षणः शोणितसर्वदर्शी॥पश्येन्नभः शोणितमेव सर्वं स रक्तपित्ती म्रियतेध्रुवंतु॥१२॥ देवदानवगंधर्वग्रस्ते वै रक्तपित्तकृत्॥ कुलेष्टदेवताग्रस्ते रक्तपित्ते महद्भयम्॥१३॥कुलेष्टदेवताभ्यर्च्या दानवादिबलिस्तथा॥ होममंत्रस्त्रिनेत्रादिबलिभिस्त सुखी नरैः॥१४॥

अथ राजयक्ष्मलक्षणम्।

वेगाऽवरोधाद्विषमाऽशनाच्च क्षयात्तथा साहसकर्मणश्च॥ यक्ष्मा गदोहेतुचतुष्टयात्स्यात्कफप्रधानैः सकलैस्तु दोषैः॥१५॥ मार्गेषु रुद्धेषु रसस्य वीर्येक्षीणेग्निमांद्यादतिमैथुनाच्च॥ यांति क्षयं धातव एवसर्वे दिनेदिने शुष्यति मानवोऽत्र॥१६॥

पूर्वरूपम्।

श्वासकासमदपीनसनिद्रातालुशोषकफसंस्रवसादाः॥ सम्भवन्ति हि भविष्यति शोषे मानवो रतरतिःसितनेत्रः॥१७॥पार्श्वांसतापः करपादयोश्च तापोज्वरः सर्वशरीरगः स्यात्॥ मन्दाग्निता छर्दनमत्रलिंगं तद्रोगराजस्य भिषग्भिरुक्तम्॥१८॥

राजरोगः।

स्वरभेदो ज्वरः श्वासः कासो रुधिरदर्शनम्॥भक्तद्वेषश्च जायेत षडैते राजयक्ष्मणि॥१९॥स्वरभेदोऽनिलाच्छूलं पित्ताद्रुधिरनिर्गमः॥ अतीसारो ज्वरो दाहः कफात्कासोऽतिगौरवम्॥२०॥ उरोव्यथा शोणितवांतिपृष्ठकटिग्रहाःकासगदाः क्षतक्षये॥२१॥

उपचारः।

गोधूममुद्गयवशालिकषष्टिकाद्या मद्यं रसा हरिणजांगलपक्षिमांसम्॥शुंठीकुलत्थयवपिप्पलिदाडिमैश्च
धात्रीघृतैर्विहितमाजरसं पिबेत्तु॥२२॥ धान्यविश्वदशमूलकणाभिः क्वाथ एष किल यक्ष्मगदघ्नः॥ पार्श्वशूलकसनज्वरदाहश्वासपीनसनिवर्तनयोग्यः॥२३॥

मांसयोगः।

श्लक्ष्णचूर्णीकृतं छागमृगमांसं हितं सदा॥ अजाक्षीरेण पीतं स्यात्क्षयरोगनिवारणम्॥२४॥ कपिमांसं तथा पीतं क्षयरोगहरं परम्॥ दशमूलबलारास्नाकषायःक्षयनाशनः॥२५॥ छागमांसं छागसर्पिः सविश्वंछागदुग्धकम्॥छागसेवा सुषुप्तिश्च एवं यक्ष्म हरेद्ध्रुवम्॥२६॥

छागसेवनं पुनः।

छागं मांसं छागसर्पिः सविश्वं छागं दुग्धं छागसेवा सुषुप्तिः॥ एवं नाशो जायते यक्ष्मणस्तु कासश्वासच्छर्दनैः संयुतस्य॥२७॥

फलत्रिकाद्यवलेहः।

फलत्रिकं व्योषयुतं शतावरी पृथक् पलं लोहरजोविचूर्णितम्॥ तत्कर्षमात्रं मधुनाऽवलेहितं वक्षःक्षतं
हंति कुकण्ठवेदनाम्॥२८॥

विडंगादिलोहः।

विडंगलोहाश्मजतुप्रपथ्याचूर्णं घृतक्षौद्रयुतंनिहन्यात्॥ यक्ष्माणमुग्रं कसनादियुक्तं सितामधुभ्यां नवनीतलेहः॥२९॥ संशोषितं सूर्यकरैर्हि मांसं पारावतं यः प्रतिघस्रमस्ति॥सर्पिर्मधुभ्यां विलिहन्नरोवा निहंति यक्ष्माणमतिप्रगल्भम्॥३०॥ छागक्षीरेण संसिद्धं पिप्पलीगुडसंयुतम्॥ एतदग्निकरं सर्पिःक्षयकासेषु शस्यते ॥३१॥

अन्ययोगः।

दौर्बल्यज्वरसन्तापैस्तैलं लाक्षादिकं हितम्॥ सघृतान् राजमाषान्यो नित्यमश्नाति मानवः॥३२॥तस्य क्षयः क्षयं याति सूत्रमेहोपि दारुणम्॥

सितोपलाचूर्णम्।

त्वगेला पिप्पली वासा रोचना च सितोपला॥३३॥यथोत्तरं द्विगुणितं लेहयेन्मधुसर्पिषा॥ एतच्चूर्णं निहन्त्याशु क्षयरोगं सुदारुणम्॥३४॥ मुस्ताऽश्वगंधाऽतिविषापुनर्नवाश्रीपर्णिपाठाबहुपुत्रिकाबलाः॥ सवत्सका69चूर्णमिदं सुसेवितं दुग्धेन हंति श्वसनं क्षतक्षयम्॥३५॥सुस्विन्नवासकव्याघ्रीरसो मधुकणान्वितः॥रोगराजं निहंत्याशु श्वासं कासं च दारुणम्॥३६॥

अथ कुमुदेश्वररसः।

हेमभस्मरसभागसमानं मौक्तिकं किल तयोः समभागम्॥ टंकणं रससमं बलिभागं कांजिकेन सकलं परिमर्द्यम्॥३७॥ गोलं विधायाथ मृदावलिप्य संशोष्यभांडे लवणाऽभिपूर्णे॥दिनं पचेत्तेन भवेद्धि सिद्धो नाम्ना प्रसिद्धः कुमुदेश्वरोऽयम्॥३८॥ प्रयोजयेदस्यघृतोषणाभ्यां वल्लंसकासक्षयरोगशान्त्यै॥ महाशनोमेहयुतोऽतिसारी संक्षीयमाणो भृशशुक्रनेत्रः॥३९॥

अरिष्टः।

यः शुनमुष्फोदरपाणिपादस्तं यक्ष्मिणं श्वासयुतंप्रजह्यात्॥

वर्ज्यावर्ज्यम्।

क्रोधं स्त्रियं शोकमसत्प्रलापं त्यजेदारान्विषयान्भजेच्च॥४०॥ तथा द्विजातीनतिथीन्गुरूंश्च पुण्यां कथांवा शृणुयाद्दिजेभ्यः॥४१॥

अथ कासश्वासलक्षणम्।

धूमाभिघाताद्रजसो व्यायामाद्रूक्षभोजनात्॥ विमार्गगत्वादन्नस्य क्षवथोश्च विधारणात्॥४२॥

निरेति वक्राद्दुष्टःसन् सकासो मुनिभिर्मतः॥ कासाःपंचविधा वातपित्तश्लेष्मक्षतक्षयैः॥४३॥

वातकासपूर्वरूपलक्षणम्।

कंठे कंडूर्भोज्यरोधस्तु पूर्वं वाताच्छुष्कं कासते भिन्नघोषः।

पित्तकासलक्षणम्।

पित्ताद्दाहो वक्रशोषो ज्वरः स्यात्कासेत्पीतं नीलतिक्तं वमेद्वै॥४४॥

कफकासलक्षणम्।

कफेन वक्रंपरिलिप्यमानं कासेद्भृशं सान्द्रकफःशिरोऽर्तिः॥

क्षतकासलक्षणम्।

क्षतोद्भवात्कासति शुष्कमादौ ष्ठीवेत्ततोसृग्ज्वरशूलयुक्तः॥४५॥

अथासाध्यक्षयकासः।

शूलदाहज्वराऽनाहमूर्च्छाः स्युः क्षय70जाततः॥ शुष्कंष्ठीवति रक्तं वा दुश्चिकित्स्यो भृशं नरः॥४६॥

अथ कासोपचारः।

ग्राम्योदकानूपरसैः समांसैःस्नेहैस्तथा बस्तिभिरन्नपानैः॥ उपाचरेन्मारुतकासमादौ गोधूमशाल्यन्नयवा हिताश्च॥४७॥

शठ्याद्यवलेहः।

शठीकणावारिदयासभार्ङ्गीशुण्ठीगुडैःसंविहितोऽवलेहः॥ सतैलयुक्तोऽनिलकासहन्ता वा पंचमूलीशृतमम्बु हन्ति॥४८॥

पित्तकासोपचारः।

वलासवासा बृहतीद्वयं च द्राक्षां च सर्वैर्विहितः कषायः॥सितोपलामाक्षिकसंप्रयुक्तः पित्तोद्भवं कासमपाकरोति॥४९॥

कफकासोपचारः।

(श्वासे)—त्रिसप्त ७३ दिवसाल्लीढं कटुतैलेन संयुतम्॥जीर्णे गुडं हरेच्छ्वासं दुःसाध्यं सुचिरोत्थितम॥५०॥कट्फलाऽमर71सुगंधितृणा33द्वःशृंगिपर्पटकविश्ववचाँश्च॥धान्यकं भृगुभवा72विजया73 च क्वाथ एष कफकासगदघ्नः॥५१॥ सूर्वाञ्जने वह्निकणाहरिद्रापाठासमंगाःसकलं विचूर्ण्य॥ कासे क्षतोत्थे मधुना विलिह्याद्घृतंपिबेच्चेक्षुरसे विपक्वम्॥५२॥ कणालाक्षाबृहतिकाफलं पक्वंच पद्मकम्॥ क्षौद्रसर्पिर्युतो लेहः क्षयकासहरःपरम्॥५३॥ कणाशठीपुष्करमूलपथ्याशुंठीघनाःसूक्ष्मविचूर्णिताश्च॥ गुडेन साकं74 गुटिकाः प्रयुंज्याच्छ्वासेषु कासेषु च दारुणेषु॥५४॥ मनःशिलालेमरिचं च मांसी मुस्तेंगुदे चेति समं विचूर्ण्य॥ धूमं पिबेच्चानुपयः सुखोष्णं गुडेन युक्तं जयतीह कासान्॥५५॥ सकृष्णो बृहतीक्वाथः सर्वकासहरः परम्॥ विभीतककणाचूर्णं मधुना सर्वकासजित्॥५६॥शृंगीव्योषं त्रैफलं पौष्करं च व्याघ्री भार्ङ्गीपंचभागाःपटूनाम्75॥चूर्णं पीतं कोष्णनीरेण हन्ति कासश्वासाऽरोचकान्पीनसांश्च॥५७॥ पंचकोलकसुसाधितंपयः श्वासकासकफतृड्ज्वरापहम्॥सैन्धवेन परिपाचिता कणा पानतः श्वसनकासरोगहृत्॥५८॥ पिप्पलीमरिचदाडिमचूर्णं यावशूकगुडयुक्तमिहेष्टम्॥दारुणे क्षयभवेह्यपि कासे श्वासपीनसवमिज्वरमांद्ये॥५९॥ क्षीणानां क्षयजः कासः शीघ्रं देहविनाशनः॥वृद्धानां च ततः कासः सर्वो याप्यःप्रकीर्तितः॥६०॥

अथ हिक्कालक्षणम्।

रूक्षशीतगुरुभोजनपानस्नानभारगतिवेगविघातैः॥जायते त्वहितचारिणि हिक्का मानवे श्वसनकासगदश्च॥६१॥ उदेति सस्वनो वायुःप्लीहान्त्राणिक्षिपन्निव॥ मुखान्मुहुर्हिनत्त्याशु यत्र हिक्का मता तुसा॥६२॥ प्राणावरोवनविसर्जन-भर्सिकाभिर्विस्मायनैर्बहुलरौद्रकथाप्रयोगैः॥ नाशं व्रजेद्बहुविधैरपि हेतुभिश्च हिक्कागदोऽनिलवलासहरैर्नराणाम्॥६३॥छागं पयो नागरसाधितं पिबेदम्लान्रसान्सैंधवलाजसक्नुकान्॥हिक्कागदे लेह्यमथो मधुप्लुतं शुंठीकणाधातृफलोद्भवं रजः॥६४॥ मक्षिकाशकृतो नस्यं स्तन्यैर्वाऽलक्तकाम्बुना॥ गुडनागरयोर्नस्यं हिक्काऽघ्नंपरमौषधम्॥६५॥ कासमूलजरसो मधुमिश्रो लेहितंजयति दारुणहिक्कांम्॥ बर्हिपक्षभवभस्म हितं वाबीजपूररससैन्धवमिश्रः॥६६॥ कुमारिकापत्ररसःसविश्वः पीतो हरेत्तत्क्षणमेव हिक्काम्॥ सपौष्करक्षारमरीचचूर्णमुष्णाम्बुना पीतमतिप्रवृद्धाम्॥६७॥निर्धूमांगारकं क्षिप्त्वा निशामाषरजोभवः॥ धूमः पीतोनिहंत्याशु हिक्कारोगं सुदारुणम्॥६८॥ पूर्वं श्वासं चहिक्कायां तैलाक्तस्वेद इष्यते॥ श्वासघ्नमौषधं यच्चहिक्कायां तत्प्रशस्यते॥६९॥

अथ स्वासकासलक्षणम्।

**^(१)महो^(२)र्ध्वाच्छि^(३)न्नत^(४)मक^(२)**क्षुद्रभेदेस्तु भिद्यते॥ पंचधाश्वास एकस्तु महारोगोऽतिदारुणः॥७०॥

पूर्वरूपम्।

वैरस्यमास्ये त्दृदि शंखयोःस्यात्पीडा तथाऽध्मानमिदं हि पूर्वम्॥

सम्प्राप्तिः।

स्रोतांसि संरुध्य कफेन युक्तः श्वासान्प्रकुर्य्यादनिलोऽतिरुद्धः॥७१॥

महाश्वासः।

विभ्रान्तनेत्रो विकृताननः स्याच्छ्वासान्निहन्तोमरणंस याति॥

ऊर्ध्वश्वासः।

श्वासो यदोर्ध्वः कुपतिस्तदाऽधः श्वासं निरुध्यप्रतिहन्ति जीवम्॥७२॥

छिन्नश्वासः।

छिन्नश्वासेन शुष्कास्यो विच्छिन्नो विलपन्नरः॥विचेता76।")विप्लुताक्षो77 यः स शीघ्रं विजहात्यसून्॥७३॥

तमकश्वासः।

आसीन उष्णं लभतेऽतिसौख्यं सुप्तस्य पार्श्वे परिगृह्य वायुः॥ आध्मापयेत्तं तमकं वदंति मेघाम्बुशीतैः
स हि याति वृद्धिम्॥७४॥
___________________________________________________
३ वनमांटा।
__________________________________________________________

क्षुद्रश्वासः।

रूक्षाऽन्नपानैरायासैर्वायुःक्षुद्रमुदीरयेत्॥ क्षुद्रश्वासोमतस्तेनन च दुःखकरो हि सः॥७५॥

श्वासोपचारः।

कुलत्थसिंहीवृषनागरोत्थं जलं पिबेत्पौष्करचूर्णमिश्रम्॥श्वासः शमं यात्यचिरेण तेन कासः सहिक्काऽरुचिपीनसश्च॥७६॥ क्वाथोनिहन्याद्दशमूलजोवा श्वासं तथा पौष्करचूर्णयुक्तः॥ कूष्माण्डकस्यापिशिफारजःस्याच्छ्वासघ्नमुष्णेन जलेन पीतम्॥७७॥त्रिसप्ताह ७३ प्रयोगेण गुडसर्षपतैलयोः॥ लेहः श्वासांजयेच्छीघ्रं कासान्प्राणहरानपि॥७८॥ निशोषणे पिप्पलिहारहूरारास्नासठीचूर्णमिदं गुडश्च॥तैलेन सार्द्धंविलिहन्निहन्याच्छ्वासान्प्रवृद्धान्कसनादियुक्तान्॥७९॥ असितकनकबीजान्यत्ति यो मासमेकंश्वसनमतिनिहन्यात्पंचभिर्वर्द्धितानि॥मरिचरजनिचूर्णं शर्कराक्षौद्रयुक्तं जयति सकलकासश्वासमाध्मानमुग्रम्॥८०॥ शृंगवेररसो वापि मधुना सहसेवितः॥ आर्द्रकस्वरसो वापि श्वासकासान्निहंतिच॥८१ रसस्य78 भागो बलिरर्द्ध79भागः कुमारिकापत्ररसेन मर्द्यः॥ तुल्यं तयोस्ताम्रमयं च पत्रं तेनैव कल्केविलिप्य पश्चात्॥८२॥ मृद्भाण्डयन्त्रे दिनमेकमेतत्सम्पाचयेत्पक्वमिदं विचूर्ण्य॥ ससूर्यवर्तोरस एषभुक्तो गुंजाद्वयं श्वासगदं निहंति॥८३॥ द्रुतं शीताम्बुसेकैश्च साहसक्रूरदर्शनैः॥ हर्षणक्रोधसंत्रासैःहिक्कांश्वासं निवारयेत्॥८४॥

इति श्रीगौडवंशाऽवतंसश्रीमदनन्तभट्टात्मजशङ्करविरचिते वैद्यविनोदे रक्तपित्तराजयक्ष्कासहिक्काश्वासनिदानचिकित्साकथनं नाम चतुर्थोल्लासः॥४॥
__________

अथ स्वरभेदनिदानचिकित्सां।

अत्युच्च भाष्याऽध्ययनाऽभिघातविषादिभिः कोपमुपेत्य दोषाः॥ स्वरावहे स्रोतसिसंस्थिताः स्युर्हन्युःस्वरं सोपि च षड्विधः स्यात्॥१॥ पृथग्वातादिभिःसर्वैर्मेदसा च क्षयेण च॥ कृष्णनेत्राननो वाताद्भिन्नशब्दःशनैर्वदेत्॥२॥ पीतनेत्राननः पित्तादब्रूयाद्गलविदाहवान्॥ कफेन रुद्धकंठस्तु वदेत्स्वल्पं शनैःशनैः॥३॥ सर्वात्मके सर्वालिंगःसोऽसाध्यःस्यात्स्वरामयः॥ धूमायति क्षयाद्वाणी यस्य सक्षयमाप्नुयात्॥४॥ ब्रूयाद्दग्धगलोऽव्यक्तं मेदसोंतगतस्वरम्॥ मेदस्विनां च वृद्धानां स्वरभेदो न सिद्ध्यंति॥५॥ (कवल)—वाते सतैललवणः पित्ते ससितमाक्षिकः॥ कफे सक्षारकटुकः क्षौद्रः कवल इष्यते॥६॥वाते कोष्णं जलं पेयं भुक्त्वा सर्प्पिर्गुडौदनम्80॥ पित्तेविरेचनं ग्राह्यं सर्पिश्च मधुरैः स्मृतम्॥७॥ कणोषणग्रंथिकनागराणां चूर्णं पिबेन्मूत्रयुतं कफोत्थे॥ फलत्रिंकंविश्वकणामरीचं चूर्णं निहन्यात्स्वरभेदमाशु॥८॥दीप्यानिशाचित्रकयावशूक81धात्रीफलानां विहितं सुचूर्णम्॥ सर्प्पिर्मधुभ्यां विलिहन्मनुष्यो जयेदुदारं स्वरभंगमाशु॥९॥ अगरु देवदारुश्च दार्वीक्वाथः हतस्वरः॥तैलाक्तं82धारयेद्वक्त्रेखादिरं स्वरसंक्षये्॥१०॥पथ्याशुंठ्यायुता वापि पिप्पली स्वरभंगहृत्॥ मेदोभवेस्वराघाते कफवद्विधिरिष्यते॥११॥ क्षयजःसन्निपातोत्थः स्वरभेदः प्रतिकियः॥ दुग्धमुष्णं पिबेद्गव्यं स्वरभेदे सितायुतम्॥१२॥ कासे श्वासे च हिक्वायां क्षये प्रोक्तानि यानि तु॥ वृतानि तानि योज्यानि भिषग्भिस्स्वरसंक्षये॥१३॥

अथाऽरोचकनिदानचिकित्सा।

दोषैः शोकक्रोधमोहाऽतिलोभत्रासैश्चित्तद्वेषिरूपान्नगंधैः॥ज्ञेयाः पंचाऽरोचका मारुताद्यैः प्रत्येकं चागन्तुकाःसर्वशस्ते॥१४॥ कषायवक्त्रःपरिहृष्टदन्तोवातात्तु पित्ताल्लवणं च वक्त्रम्॥ माधुर्य्यपैच्छिल्ययुतं मुखं स्यात्कफादत्दृद्याशुचिगंधजाद्यैः॥१५॥वैगुण्यमोहाऽतिजड़त्वयुक्तं त्रिदोषजे नैकरसं मुखंस्यात्॥ आरोचके वातभवे तु वस्तिः पित्ते विरेकोवमनं कफोत्थे॥१६॥ मनोहराणि द्रव्याणि हर्षणंच मनोघ्नजे॥ त्वगेलामरिचैर्युक्तमम्लीका गुडयोर्जलम्॥१७॥ आरोचकेषु सर्वेषु प्रशस्तं कवलग्रहः॥शुंठीरसश्च मधुना पीतोऽरोचककासहा॥१८॥ पूर्वं देयं सदा पथ्यं भोजने लवणाऽर्द्रकम्॥ अग्निसंदीपनं त्दृद्यं हिक्काकंठविशोधनम्॥१९॥ पलद्वयं दाडिमबीजचूर्णमष्टौ सिता व्योषपलत्रयंच॥त्रिजात83")कस्यापिपलं प्रयोज्यं चूर्णं प्रकुर्यात्सकलं विमर्द्य॥२०॥आरोचकं हन्ति सपीनसं च हृद्यं तथा वह्निविवर्धनं तु॥२१॥

अथ तालीसादिचूर्णम्।

तालीसचव्योषणविश्वसैन्धवैस्तुल्यैकभागैःसकणाऽग्निजीरकैः॥ त्वक्तिंतिडीग्रन्थिकधान्ययुक्तैः रसैस्त्रिभागैर्बदराऽम्लवेतसैः॥ एलाऽब्ददीप्यासहितैःसुचूर्णितैरंशश्चतुर्थः शुभदाडिमोद्भवः॥२२॥सिताऽर्द्धयुक्तो विहितो हि चूर्णो मंदाग्निकासाऽरुचिशूलगुल्मान्॥ दुर्नामकाष्ठोदर84त्दृद्विकाराञ्जयेदयं खांडवचूर्ण उक्तः॥२३॥

(वमन) अथ छर्दिनिदानचिकित्सा।

अतिद्रवैः स्निग्धतरैरत्दृद्यैरसात्मजातैरपि भोजनैर्वा॥ कृमिश्रमोद्वेगभयादजीर्णादत्यामदोषाच्च वमेत्तृषार्तः॥२४॥ वातेन पित्तेन कफेन सर्वैर्बीभत्स्यदौर्गन्ध्यविलोकनाद्यैः॥ ताश्छर्दयः पंचविधा हि पूर्वं त्दृल्लासरोधो लवणप्रसेकः॥२५॥ हृत्पार्श्वतोदः85 स्वरभेदकासैर्वाताद्द्रुतंछर्दयतीह दुःखम्॥ पित्तात्पिपासाभ्रममोहशोषाः पीतं वमेद्दुष्टतरं सदाहम्॥२६॥ कफात्प्रसेकाऽरुचिगौरवार्तः स्निग्धं घनं86वाल्पतरं वमेन्ना॥श्वासप्रमोहाऽरुचिदाहतृष्णा सांद्रोष्णरक्तं वमनं त्रिदोषात्॥२७॥ छर्द्यांमतं लंघनमेव पूर्वं संशोधनं वाकफपित्तजायाम्॥ धान्याकविश्वादशमूलसिद्धान्यूषान्रसान्वातहरांश्च दद्यात्॥२८॥

अथ सैंधवादिघृतम्।

सैन्धवेन घृतं पीतं वातवान्तिविनाशनम्॥ ससैन्धवघृतो हंति मुद्गाऽमलकयो रसः॥२९॥

अथ यवागू (हलुवा)।

माषमुद्गमसूराणां यवागूर्वायवस्य च॥ मधुयुक्तानिहन्त्याशु बहुपित्तोद्भवां वमिम्॥३०॥ तप्तमृदुगोल-लोष्टोष्णं पिपासायां जलं हितम्॥ धात्रीरसश्चन्दनेन मधुयुक्तो हरेद्वमिम्॥३१॥ क्वाथः पर्पटजो हन्ति मधुयुक्तो वमिज्वरान्॥पथ्याचूर्णं क्षौद्रयुक्तं वमिनां सुखदायकम्॥३२॥ क्वाथःपर्पटजोनिहंति मधुना युक्तो वमिंसज्वरां पथ्याचूर्णमिदंतथा बहुविधाञ्छर्दिप्रशसक्तां जयेत्॥छिन्नानिम्बपटोलकत्रिफलजक्वाथो निहन्यान्मधुप्रक्षिप्तो नितरांवमिं सकलजां पित्तोत्तरां दुर्जयाम्॥३३॥ सिताचन्दनमध्वाढ्यंलीढंवा मक्षिकाशकृत्॥ लाजसक्तून्पिबेद्वापि मधुसर्पिःसितायुतान्॥३४॥ विडंगविश्वत्रिफलानतानां चूर्णं निहन्यान्मधुना कफोत्थे॥ दुरालभाचूर्णमपि प्रशस्तं क्षौद्रेण युक्तं कफवांतिहारि॥३५॥ मसूरशक्तवः पीताः क्षौद्रदाडिमसंयुताः॥ छर्दिंनिवारयत्याशु वातपित्तकफोद्भवाम्॥३६॥ तंदुलोदकसंपीता मूर्वाछर्दिसमंतिका॥ क्वाथो मधुयुतो हंतिगुडूच्याः श्रीफलस्य वा॥३७॥ एलाऽब्दकेशरंलाजाःसारिवा चन्दनं तथा॥ कोलमज्जालवंगानिकणाचूर्णासितो मधु॥३८॥ लीढमेतन्निहन्त्याशुछर्दिन्दोषत्रयोद्भवाम्॥३९॥अश्वत्थवल्कलं दग्ध्वासद्यो निर्वापयेज्जले॥तज्जलं पीतमात्रंतु छर्दिं हन्यात्सुदर्जयाम्॥४०॥ कोलाऽमलकमज्जानौपिप्पली मक्षिकाशकृत्87॥सितामधुयुतो लीढं छर्दिमाशु व्यपोहति॥४१॥ निम्बाऽम्रास्थिविनिर्यूहः88 सितामधुसमन्वितः॥ हंति छर्दिमतीसारं वैश्वानर89 इवाहुतिम्॥४२॥अतिक्षीणस्य संलग्नां पूयशोणितसंयुताम्॥ सोपद्रवां चन्द्रिकाकामसाध्यां तां विनिर्दिशेत्॥४३॥

अथ वमनोपद्रवाः।

तृष्णा श्वासो ज्वरो हिक्का कासो वैस्वर्य्यमेवच॥तमको90 हृद्गदश्चेति ज्ञेया छर्देरुपद्रवाः॥४४॥

अथ तृष्णानिदानचिकित्सा।

बलक्षयश्रमभयैरत्युष्णैरुपसेवितैः॥ कुपितं पित्तमृर्द्धंतु वामकृज्जनयेत्तृषम्॥४५॥ असकृद्यः पिबेत्तोयं तृप्तिं नैवाऽधिगच्छति॥ पुनः पुनः कांक्षति तंतृष्णाऽर्दितमथादिशेत्॥४६॥ नरस्य पाण्यंघ्रियदूषितेषु स्रोतस्सु दोषैर्भवतीह तृष्णा॥ दोषैश्च तिस्रःक्षतजा च तृष्णा क्षयामभक्तप्रभवास्तु सप्त॥४७॥क्षामं मुखं शंखशिरस्सु शूलं वातोद्भवायां शिशिरप्रवृद्धिः॥ प्रलापमूर्छाभ्रमशोषदाहाः पित्तात्मिकायांमुखतिक्तता च॥४८॥ कफावृतेऽग्नौ किलवाष्परोधात्तृष्णाबलासेन भवेद्गुरुत्वम्॥ आलस्यनिद्रेमधुरत्वमास्ये तयार्दितः शुष्यति चातिमात्रम्॥४९॥शोणितस्रावशूलाभ्यां क्षतस्य क्षतजा मताः॥ क्षयजायां पिबेत्तोयं न शान्तिमधिगच्छति॥५०॥ आमोद्भवा सर्वलिंगा हृच्छूलाऽग्निवधप्रदा॥ स्निग्धाऽम्ललवणंभुक्तं सद्यस्तृष्णाकरं मतम् ॥५१॥ तृष्णयोपद्रवाःसप्त श्वासःकासःक्षयो ज्वराः॥ बहिर्निर्गतजिह्वात्वंमोहो बाधिर्यमेव च॥५२॥ सोपद्रवां परिहरेच्चिकित्सेन्निरुपद्रवाम्॥तृष्णाप्रवृद्धौ मतिमान्वामयेत्तुकणांबुना॥५३॥ वातोद्भवायां तृष्णायां पानान्नंवातनुद्धितम्॥ स्वर्णरौप्यैरग्नितप्तैर्लोष्टैःकोष्णंजलं तथा॥५४॥ पित्ततृष्णापहं शीतं मधुरं तिक्तकंद्रवम्॥धान्यकोशीरकाश्मर्यद्राक्षामधुकचंदनम्॥५५॥ शर्करासहितं तोयं पित्ततृष्णापहं पिबेत्॥जीर्णभक्तः पिबेद्वापि मधुना तंदुलोदकम्॥५६॥तिक्तं द्रवं कटूष्णं च कफतृष्णाहरं परम्॥ जीरकार्द्रकशुंठीनां चूर्णं सौवर्चलान्वितम्॥५७॥ जलप्लुतं हरेत्तृष्णां त्दृद्यं मेध्यं सुगंधि च॥ सुशीतं लाजमंडं वा गुडक्षौद्रयुतं पिबेत्॥५८॥ आर्द्रवस्त्रैस्तु शीतैश्च प्राकृतास्तुतृषा जयेत्॥वृक्षाऽम्लस्य91 च गण्डूषधारणं सुखशोषत्दृत्॥५९॥ बीजपूरककपित्थदाडिमं लोध्रकं च बदरंपरिपिष्टम्॥ लेपतः शिरसि तत्क्षणमात्रं दाहशोषसहितं तृषां जयेत्॥६०॥ वटप्ररोहो मधुकं लाजाः कुष्ठंतथोत्पलम्॥संचूर्ण्य गुटिका वक्त्रेधृता तृष्णाविनाशिनी॥६१॥ रसस्य पानादसृजश्व पीड़ानिवारणाद्वा क्षतसंभवान्तु॥ मांसोदकं वा मधुकोदकं वा क्षीरोदकं संजनयेत्क्षयोत्थाम्॥६२॥ वचाबिल्वकषायेण जयेदामोद्भवां तृषाम्॥गुर्वन्नजामुल्लिखनैर्जयेत्सर्वकृतां तथा॥६३॥ रूक्षदुर्बलभीरूणांदुग्धं तृष्णानिवारणम्॥तृष्णाभुक्ते हि स्निग्धान्ने शमयेत्तांगुडाम्बुना॥६४॥ मद्यस्त्रीदाहमूर्छातृट्छर्दिभिःपरिकर्षति॥ पिबेयुः शीतलं तोयं रक्तपित्ते मदात्यये॥६५॥ तृषार्तोलभते मोहं मोहात्प्राणं विमुञ्चति॥ तस्मात्सर्वास्ववस्थासु न क्वचिद्वारिवार्यते॥६६॥

अथ मूर्छानिदानचिकित्सा।

विरुद्धदुष्टाऽशुचिभोजनस्य क्षीणस्य वेगाऽभिहतस्य पुंसः॥बाह्यान्तरेष्विन्द्रियधाम संस्थिता दोषायदा मूर्छति मानवस्तदा॥६७॥ संज्ञावहासु वाताधैर्नाडीषु पिहितास्वति॥ तमोभ्युपैति सहसा नरःपतति काष्ठवत्॥६८॥ मोहो मूर्छेति तांविद्याद्विज्ञेया षड्विधा च सा॥ दोषमद्यविषासृग्भिः पित्तन्तासु प्रभुःस्मृतम्॥६९॥ हृच्छूलं जृम्भणं संज्ञानाशः पूर्वं प्रजायते॥ कम्पोंगमर्दः कार्श्यच मूर्छाये वातसंभवे॥७०॥ तृष्णातापार्दितः पित्ताद्रक्तपीताऽकुलेक्षणः॥गुरुता हृदयोल्लासः प्रसेकः कफसंभवे॥७१॥ सर्वाऽकृतिः सन्निपातादपस्मार इवापरः॥ शीघ्रं सा नाशयेत्प्राणांस्तस्माद्यत्नेन साधयेत्॥७२॥ रक्तात्स्तब्धांगदृष्टिःस्यान्मूढोछ्रासश्च मूर्छितः॥ मद्याद्विलापसंयुक्तो नष्टविभ्रान्तमानसः॥७३॥ विषात्कम्पो भवेत्तृष्णास्रावो निद्रा तमःक्लमः॥ वेदितव्यं तीव्रतरं यथास्वं विषलक्षणैः॥७४॥ अत्यन्तं कुपितादोषाश्चेष्टामाक्षिप्य देहजाम्॥ सन्नश्यति नरं क्षीणं संन्यासः स हि कथ्यते ॥७५॥प्राणैर्वियुज्यतेतेन काष्ठीभूतो मृतोपमः॥ अतः कुर्याद्भिषक्सम्यक्शीघ्रं सद्यःफलां क्रियाम्॥७६॥ शीताःप्रलेपाव्यजना92ऽनिलाश्च हारावगाहा मणयश्च सेकाः॥अन्नानि पानानि च शीतलानिहृद्यानि सूर्छास्वनिवारितानि॥७७॥ मधुरद्र्व्यसंसिद्धं दुग्धं जांगलजा रसाः॥दाडिमं शालयो मुद्गाःपथ्या मूर्छासु सर्वदा॥७८॥जयेदभीक्ष्णं च शिरो विरेककैर्नस्यैत्सुतीक्ष्णैर्वमनैस्तथान्यैः॥ क्षुद्रामृतग्रंथिकनागराणां मूर्च्छांजयेद्वारुणकांकषायः॥७९॥ कोलमज्जोपणोशीरकेसरं शीतवारिणा॥ पीतं मूर्च्छां जयेल्लीढा कृष्णा वा मधुसंयुता॥८०॥ ग्रंथांतरादेकश्लोकः।

पंचमूलकपायं च मधुना सितया पिबेत्॥ ज्वरघ्नाश्चकपायाश्च तान्यथास्वं प्रयोजयेत्॥८१॥ रक्तजायांच मूर्च्छायामयमेव क्रियाविधिः॥ पिबेन्मद्यं मद्यजायांविपघ्नं विपजासु च॥८२॥ धूमांजनप्रधमनान्यवपीड-सूचीनिस्तोददाहकचलोमविलुंचनानि॥ संदंशनानि दशनैःकपिकच्छुघर्षश्चैतद्धितं सकलमोहविनाशनाय॥८३॥ दुरालभाकषायं तु सघृतं भ्रमशान्तये॥धात्रीरसेन सिद्धं वा सर्पिः कल्याणकं पिबेत्॥८४॥

इति श्रीगौडवंशाऽवतंसश्रीमदनन्तभट्टात्मजशंकरभट्टविरचिते वैद्यविनोदे स्वरभेदाऽरोचकच्छर्दितृष्णामूर्छाकथनं नाम पंचमोल्लासः॥५॥
<MISSING_FIG href="../../../books_images/U-IMG-1708496761image1.JPG"/>

अथ मदात्ययनिदानचिकित्सा।

मद्यं तु विषवज्ज्ञेयं युक्तियुक्तं रसायनम्॥ उभयोर्मोहहेतुत्वादयुक्त्या रोगकारकम्॥१॥ स्निग्धैस्तदन्नैर्विविधैश्च भक्ष्यैर्मांसैःप्रहृष्टेन च सेव्यमानम्॥तेजो बलं विक्रमचित्ततुष्टिः प्राकाम्यतायुर्बलमादधाति॥२॥ निरन्नं सेव्यमानं तद्विकारान्कुरुतेबहून्॥ पानाजीर्णं परमदमत्ययं प्राणविभ्रमम्॥३॥

वातमदात्ययः।

पार्श्वशूलशिरःकंपहिक्काश्वासप्रजागरैः॥ विद्याद्बहुप्रलापेन वातप्रायं मदात्ययम्॥४॥

पित्तमदात्ययः।

दाहज्वराऽतिसारैश्च पित्तप्रायं मदात्ययम्॥.

कफमदात्ययः।

तन्द्रागौरवहृल्लासच्छर्दिभिः श्लैष्मिकं तथा॥५॥

त्रिदोषमदात्ययः।

सर्वलिंगैस्त्रिदोषोत्थो विज्ञेयस्तु मदात्ययः॥

पानाजीर्णम्।

आध्मानं वमनं दाहःपानाजीर्णस्य लक्षणम्॥६॥

परममदः।

कंपोंगगुरुता तंद्रा तृष्णा परमदस्य च॥ पित्तप्रकोपजनितं लक्षणं तन्मदात्यये॥७॥

पानविभ्रमः।

द्वेषोन्नमद्ययोर्दाहः छर्दिः स्यात्पानविभ्रमे॥मूर्छा कफस्य संस्रावो हृदि रुग्गात्रवेदना॥८॥

अथ मद्यपानविकारः।

शोकोष्ण93तप्तेन बुभुक्षितेन क्रुद्धेन चित्तेन पिपासितेन॥ व्यायामभाराध्वहतेन मद्यं पीतं विकाराञ्जनयेद्धि घोरान्॥९॥

अथौषधम्।

रुचकव्योषसंयुक्तं मद्यं किंचिज्जलान्वितम्॥जीर्णे मद्ये तु दातव्यं वातपानात्ययापहम्॥१०॥अम्लस्निग्धोष्णलवणा रसा जांगलजाः शुभाः॥पानकानि च मद्यानि हन्युर्वातमदात्ययम्॥११॥पित्तोत्थे तु हितं मद्यं मधुरौषधिसाधितम्॥ उल्लिखे94दथवा मद्यं पिबेत्क्षुरससंयुतम्॥१२॥ मद्यं मृद्वादिकंपेयं पित्ते क्षौद्रसितायुतम्॥ पानात्यये कफोत्थे तु वमनं लंघनं हितम्॥१३॥ यवान्नविकृतिर्मुद्गारसाजांगलजा हिताः॥ सर्वज्ञभिषजा सर्वमेतत्कार्यं चिकित्सितम्॥१४॥ कुर्यात्क्षीरप्रयोगन्तु त्यक्त्वा मद्यंक्रमेण च॥ त्रिफला मधुना योज्या रात्रौ प्रातर्गुडार्द्रकम्॥१५॥ सौवर्चलं जीरकमम्लवेतसं सतिंतिडीकं सममर्द्धभागम्॥ एलोषणं त्वक्च सितासमानंचूर्णं निहन्यान्मदिराविकारान्॥१६॥ पानेऽजीर्णे भजेन्मद्यमत ऊर्ध्वं विमार्गगे॥मंदकोद्रवजं हन्ति कूष्मांडकरसो गुडः॥१७॥ मेषीदुग्धं सितायुक्तं हन्ति धत्तूरजंमदम्॥ पूगीफलमदं हन्यादातृप्तेर्वारि शीतलम्॥१८॥वन्यं करीषाघ्राणाद्वा सितालवणभक्षणात्॥ शर्कराकवलो हन्ति दुःसहां चूर्णजां रुजम्॥१९॥ सशर्करंघृतं हन्ति गन्धमद्योद्भवं नृणाम्॥ मदमूर्छापहं वापिसर्पिः कल्याणकं पिबेत्॥२०॥

अथ दाहनिदानचिकित्सा।

प्राप्य त्वचमपानोष्मा पित्तशोणितमूर्च्छितः॥ घोरंसंजनयेद्दाहं भेषजं तत्र पित्तवत्॥२१॥ लेपयेच्छतधौतेन घृतेन यवसक्तुभिः॥ घात्रीदाडिमयुक्तैर्वा तथा चन्दनसूक्तकैः॥२२॥ आरनालार्द्र-वस्त्रेणच्छादयेच्च कलेवरम्॥ तृष्णादाहोपशान्त्यर्थं पाययेच्छिशिरं, जलम्॥२३॥ सर्वदेहानुगं रक्तमुद्रिक्तं दहतिध्रुवम्॥ ताम्रनेत्रश्च ताम्राभो वह्निनैव च कीर्यते॥२४॥तस्य शाखाश्रयां ज्ञात्वा रोहिणीं95 व्यधयेच्छिराम्॥द्रोणीं96 विगाहयेत्पूर्णां चन्दनोशीरवारिणा॥२५॥निकृष्य वपते जिह्वां शुष्कतालुगलोष्ठकः॥पाययेच्छीतमंभस्तं शर्कराम्बु पयोऽथवा॥२६॥ शय्यापद्ममृणालपत्ररचिता नारी मनोहारिणी वापी शीतजला हिमा व्यजनजा वाता जलस्राविणः॥ हाराश्चन्दनचर्चिताःकलरवा बाला गृहाः शोभनाः क्षीरंमांसरसा हिता बहुविधाश्चान्येपि दाहार्दिते॥२७॥पित्तज्वरसमा कार्या चिकित्सा तु भिषग्वरैः॥ वर्जनीया प्रयत्नेन शीतगात्रस्य देहिनाम्॥२८॥

अथोन्मादनिदानचिकित्सा।

उन्मार्गसंस्थिता दोषाः कुपिता मदयंति यत्॥ज्ञेयोऽयं मानसो व्याधिरुन्माद इति कीर्तितः॥२९॥ दोषैःपृथक्समस्तैश्च दोषेण मानसेन च॥ विषेण षड्विधो ज्ञेयो यथास्वं तत्र भेषजम्॥३०॥ विरुद्धाऽशुचि-दुष्टान्नभोजनाद्धर्षणाद्गुरोः॥ भयान्मनोविघात्ताच्च विषमाचरणादपि॥३१॥ दोषाः प्रदुष्टा हृदयंप्रदूष्य पुरुषस्य च॥ चेतः प्रदूषयंत्याशुस्रोतस्सुसमधिष्ठिताः॥३२॥

अथ पूर्वोन्मादलक्षणम्।

शून्यं चेतो विभ्रमः स्याच्च बुद्धेर्धैर्यत्यागो बद्धवाक्यं प्रलापः।\। नेत्रेऽत्यर्थं व्याकुले संभवेतामेतचिह्नं
पूर्वमुन्मादरोगे॥३३॥

अथ वातोन्मादः।

अस्थाने स्मृतिहास्यभाष्यगणना वांगस्य विक्षेपकः उन्मादे पवनात्मके बहुविधा भावा प्रनृत्यादयः॥

अथ पित्तोन्मादः।

दाहस्तर्जननग्नभावबहुलाऽलापाश्च कायोष्णताकांक्षा शीतजलाशनेप्यतितरां तृट्पित्तता पैत्तिके॥३४॥

अथ कफोन्मादः।

नारीविविक्त97प्रियताऽग्निमान्द्यंनिद्रा वमिः श्लेष्मभवे च लालाः॥

त्रिदोषोन्मादः।

सर्वाणि रूपाणि भवन्ति यत्र तत्सन्निपातप्रभवोतिघोरः॥३५॥

हान्योन्मादः।

चौरैर्नरेन्द्रैररिभिस्तथान्यैर्वित्रासितस्य क्षयतो धनानाम्॥ गाढं क्षते चेतसि रंतुमिच्छोर्जायेत नूनंमनसो विकारः॥३६॥

विषोन्मादः।

ब्रवीति चित्रं च मनोगतं यद्धसत्यतो रोदति चातिमूढः॥ विषोद्भवस्स्याद्बलवाग्विहीनः श्यावाननो रक्ततरेक्षणश्च॥३७॥

अथ यत्नः।

पूर्वं योज्यं वातिके स्नेहपानं पित्तोद्रिते रेचनंक्षीरपानम्॥ वांतिं सम्यक् श्लेष्मके वापि बस्तिः कार्यं तद्वत्खल्वपस्माररोगे॥३८॥ गुडेन कर्षभागं चचांगेरीरसकांजिकम्॥ क्रमेण मथितं पीतमुन्मादग्रहशान्तये॥३९॥ रसं वा ज्वालशाखायाः98 पिबेदुन्मादशान्तये॥नस्याऽभ्यञ्जनयोर्देयं तैलं सर्षपसंभवम्॥४०॥ कटुतैलाक्तमुत्तानं बंधायित्वाऽतपे न्यसेत्॥ दर्शयेदद्भुतं किंचिद्ब्रूयादिष्टविनाशनम्॥४१॥ तप्तैर्लोहैस्तैलजलैः कपिकच्छ्वाऽथवा स्पृशेत्॥ कशाभि99स्ताडयित्वा तु स्थापयेन्निर्जने100 गृहे॥४२॥ शस्त्रहस्तैर्गजैःसिंहैःसर्पैश्च त्रासयेत्तथा॥ सुप्तं समं बहिर्नीत्वा त्रासयेयुर्बुधाश्च तम्॥४३॥ सर्वतो विप्लुतंचेतस्तेनैव परिशाम्यति॥ सर्वदुःखभयेभ्योपि परंप्राणभयं महत्॥४४॥

अथ सारस्वतचूर्णम्।

कुष्ठाऽश्वगंधे लवणाऽजमोदे द्वे जीरके त्रीणिकटूनि पाठा॥मांगल्यपुष्पाणि101 समानि चूर्णं कृत्वातु चूर्णेन वचोद्भवेन॥४५॥ तुल्येन युक्तं बहुशो रसेनतद्भावितं ब्रह्मविनिर्मितायाः॥ सर्पिर्मधुभ्यां च ततोऽक्षमात्रं लिह्यान्नरः सप्तदिनं हिताशी॥४६॥ समस्तमुन्मादगदं निहंति वातोद्भवान्सर्वगदान्प्रमेहान्॥सारस्वतं चूर्णमिदं विधात्रा विनिर्मितं लोकहितायपूर्वम्॥४७॥

अथांजनम्।

कटुत्रिकं हिंगु वचा शिरीषबीजं तथा सैंधवसर्षपाश्च॥ गोमूत्रपिष्टं नयनांजनं स्यादुन्मादचातुर्थिकरोगहारि॥४८॥

अथ पानीयकल्याणघृतम्।

फलत्रिकं रेणुक102।")देवदारु स्थिरा नतं रात्रियुगं विशा-
_____________________________________________________

२ ब्रह्मीबूटीके रसमें।
_____________________________________________________________

लाः॥ गोपीद्वयं चन्दनपद्मकुष्ठंनीलोत्पलैलाबृहतीसमंगाः॥४९॥ तालीसपत्रं त्रिवृता विडंगं रुदन्तिका103केशरयष्टिकं च॥ तत्पृष्ठपर्णीसुमनोद्भवानि पुष्पाणिसर्वं समकर्षभागम्॥५०॥ चतुर्गुणे वारिणि प्रस्थमाज्यं104 विपाचयेत्प्रस्थमिदं गदेषु॥मंदाऽनलोन्मादगदेषु मेदाऽपस्मारपाड्वामयमूत्रकृच्छ्रम्॥५१॥ उन्मादकाले नियतो भूतोत्थं तमुदाहरेत्॥ पानीयकल्याणकघृतं सर्वोन्मादं हरेन्नृणाम्॥५२॥

अथ भूतोन्मादधूपः।

रिक्षजम्बूककेशाश्च लशुनं शल्लकी वचा॥हिंगु मूत्रं च बस्तस्य धूममस्य प्रयोजयेत्॥५३॥शीघ्रमेतन्न शाम्यन्ति बलवन्तो महाग्रहाः॥५४॥

अथाऽपस्मारसामान्यलक्षणम्।

हतस्मृतिर्यः कुपितैश्च दोषैर्ज्ञेयो ह्यपस्मारगदश्चतुर्धा॥ हृत्कम्पशून्यत्वतमःप्रवेशप्रध्मानमूर्छाश्च भवंतिपूर्वम्॥५५॥फेनोद्वामी कंपते वातिके च पित्ते पीतं फेनवक्त्राक्षिरूपम्॥ शुक्लःफेनःश्लेष्मजे शीतमंगंसर्वं चिह्नं जायते सन्निपातात्॥५६॥

अथासाध्यापस्मारः।

स्फुरणं105 बहुशो यस्मिन्क्षीणतश्चलिते भ्रुवौ॥ नयनेविकृते स्यातामसाध्यं तं विनिर्दिशेत्॥५७॥

अथकल्याणकं चूर्णम्।

पंचकोलमरिचं सविडंगं पिप्पलीत्रिफलजीरकधान्यम्॥सैन्धवं बिडयुतं च यवानी चूर्णमुष्णसलिलेननिपीतम्॥५८॥ हन्यादपस्मारकफाऽनिलांश्च श्वासग्रहोन्मादविषाऽग्निमांद्यम्॥ कल्याणकं चूर्णमितिप्रसिद्धमर्शस्सु शस्तं ग्रहणीगदे च॥५९॥ ब्राह्मीरसेकुष्ठकशंखपुष्पी106वचाभिराज्यं104 च सुसिद्धमेतत्॥ जयेदपस्मारमुदग्रवेगं संसेवनाद्वालशुनस्य कंदः॥६०॥गोमूत्रयुक्तसिद्धार्थैः प्रलेपोद्वर्तने हिते॥ धूमस्तीक्ष्णाऽग्निनस्यानि दाहः सूच्या कपोलयोः॥६१॥ पुष्पोद्धृतं शुनःपित्त107मपस्मारघ्नमंजनात्॥ तदेव सर्पिषायुक्तं धूपनं परमं स्मृतम्॥६२॥

अथार्दितरोगचिकित्सा (लकवा)।
वातव्याधिनिदानम्।

रूक्षशीतलघुभिश्च तिक्तकैर्लंघनं प्लवनमार्गचेष्टितैः॥क्रोधशोकभयवेगधारणैश्चिन्तया च कुपितोऽनिलोबली॥६३॥ स्रोतांसि रिक्तानि च पूरयित्वा करोतिदेहे विविधान्विकारान्॥ एकांगजान्सर्वशरीरजांश्चतत्पूर्वरूपं कथितं तु तेषाम्॥६४॥ व्यक्तं हि तद्रूपमपायखांज्य108पगुत्व109कुब्जत्व110शरीरशोषाः111॥ गात्रस्य संस्पन्दनसुप्तते च ग्रीवाक्षिबंधः कुपितेऽनिलेस्युः॥६५॥देहार्द्धभागःशिशिरप्रबाधः पक्षाभिघातेन112 भवेत्प्रसुप्तः॥ वक्रीभव113त्यूर्ध्वमुखं च यस्मिन्स्तमर्दितव्याधिमुंहाहरन्ति॥६६॥

अथ धनुर्वातः।

कंठाऽवरोधो धनुराकृतिः स्याद्धृदि व्यथा दन्तनिबंधनं च॥मुखस्य शोपः शिशिरस्य कांक्षा यस्मिन्धनुर्वायुरुदाहृतः सः॥६७॥

अथाक्षेपकरोगः।

आक्षेपयत्याशु मुहुः शरीरमागत्य नाडीः पवनःप्रदुष्टः॥ज्ञेयस्तदाऽक्षेपकसंज्ञकोऽस्य वेगे गते स्वास्थ्यमुपैति मर्त्यः॥६८॥

अथ सर्वांगवातः।

कोष्ठाऽश्रितेदुष्टचले च निग्रहो विण्मूत्रयोर्व्रघ्नत्दृदि114 व्यथा स्यात्॥ सर्वांगवाते स्फुरणं115 शरीरेपीडा भवेत्स्फोटनमस्थिसन्धौ॥६९॥

अथ यत्नः।

आदौ संशोध्य वातार्तं स्नेहपाने नियोजयेत्॥वर्तिर्नावनमभ्यंगः स्निग्धं वाताऽमयापहम्॥७०॥

अथ रास्नादितैलम्।

रास्नाशताह्वासुरदारुकुष्ठं माषा उमातैलवचाकुलत्थाः॥ एतैः प्रदेहोऽनिलरोगिणां हि स्नेहैश्चतुर्भिर्दशमूलमिश्रैः॥७१॥ उष्णैश्चमत्स्यादिकवेसवारैःस्वेदस्तथा वातविनाशनः स्यात्॥ फणिज्जकोत्थेन116रसेन वातग्रस्तं प्रदेशं परिलेपयेत्तु॥७२॥

अथ रसोनादिचूर्णम्।

पलं रसोनस्य सुकुट्टितस्य सिन्धूत्थसौवर्चलजीरकाणि॥ कटुत्रिकं हिंगु सुचूर्णितं तच्छ्वाणप्रमाणंपरिलोड्यसर्वम्॥७३॥ यथाऽग्नि भक्षेत्खलु मासमेकं प्रातर्मनुष्यो रुबुवारिणा तत्॥ निहंति सर्वांगजमप्यशेषं वातं कटीपृष्ठगदार्दितानि॥७४॥

(पुनः)

पिष्ट्वाऽतिसूक्ष्मं लशुनं घृतेन विलिह्यहन्यात्पवनोत्थरोगान्॥तथेन्द्रवीजाऽग्निसहौषधानां चूर्णं हरेद्वातभवान्विकारान्॥७५॥

अथ सहचरादितैलम्।

सहचरसुरदारुनागराणां क्वथितजलं प्रपिबेद्धि तैलमिश्रम्॥पवनपरिहता गतिर्हि यस्य प्रभवति सप्तदिनैस्स गंतुमीशः॥७६॥प्रातः पिबेदार्द्रकजं रसंहि तैलान्वितं वर्ध्म117विकारशान्त्यै॥ क्वाथा निपीतो दशमूलजातः सपुष्करो हिंगुयुतश्चलघ्नः॥७७॥

यत्नः।

स्निग्धोष्णशीतैरपि रूक्षभोज्यैर्न वातजः शाम्यतियो विकारः॥ ज्ञेयं प्रदुष्टं रुधिरं नरेण कुर्यादमृङ्मोक्षणमत्र शीघ्रम्॥७८॥ श्यामामूलं क्षीरपिष्टं निपीतंवासायुक्तं नाशयेदूर्ध्ववातम्॥ सुप्ते वाते रक्तमोक्षं प्रकुर्याल्लेपं सिंध्वाऽगारधूमैः सतैलैः॥७९॥ प्रातःपिबेदुष्णजलेन यत्नाच्छिन्नामरीचं त्दृदयाऽनिलघ्नम्॥गुडेन वा नागरदारुचूर्णं हृद्वातपीडा परिपीडितस्तु॥८०॥ सर्वांगजं शिरामोक्षैः शृंग्यैरेकांगजं जयेत्॥वमनं हंति नस्यं च वक्षःस्कन्धत्रिकस्थितम्॥८१॥रुणद्धि केवलो बस्तिवातं सर्वांगसंस्थितम्॥ बस्तिकुक्षिगुदस्थे तु तैलमैरण्डजं पिबेत्॥८२॥ धनुर्वायुःशमं याति सर्जतैलस्य118 मर्दनात्॥ दशमूलकषायोवा पाने नस्ये च शस्यते॥८३॥ समुद्धरेत्सर्जतैलंयंत्रे च नलिकाभिधे॥ विमर्दनं तेन तनौ पक्षघातं विनाशयेत्॥ ८४॥ वैशाखे कृष्णसर्पस्य हरेद्वैध्रुवचार्दितम्॥ यथा शिम्बजटा हन्यान्त्रिदोषज्वरमुल्बणम्॥८५॥ पक्षाऽभिघातेकटुतुंबिबीजंतैलं तथा निम्बफलोद्भवं च॥ गोमायु119पारावतकुक्कुटानां120 पित्तैः प्रलेपः प्रशमाय वायोः॥८६॥कट्यूरुजंघाभुजवेदनासु शस्तो नराणामपि गृद्धसीषु॥तुरंगगंधासितखण्डयुक्ता घृतेन भुक्ता कटिकष्टहन्त्री॥८७॥ फलत्रिकं निम्बफलत्वचश्च वासापटोलौ क्वथितं तु सर्वम्॥सकौशिकं121 रात्र्यवसानकाले पीतंभवेदर्दितहारिशीघ्रम्॥८८॥

अथ योगराजगुग्गुलुः।

कृष्णाजटानागरचव्यवह्निपाठाविडंगेन्द्रयवैः समांशैः॥हिंगूग्रगंधा द्विजयष्टिकौती122 मातंगकृष्णाऽतिविषान्वितैश्च॥८९॥ ससर्षपाऽजाजियुगाजमोदान्वितैःसमस्तैस्त्रिफला द्विभागा॥एभिस्समो गुग्गुलुराज्यमिश्रो भुक्तोजयेत्पक्षभवानिलार्तिम्॥९०॥ स्थितोसदेशे पवनः शिराश्च प्रकुंच्यकुर्यादवबाहुकं तु॥ माषाबलासैंधवहिंगुरास्नावचाशताह्वादशमूलशुंठ्यः॥९१॥एभिस्तु तैलं परिपक्वमाशा नस्येन हन्यादपबाहुमुग्रम्॥मूलं बलायाःकपिकच्छुनिंब-रसंपिबेद्वाहुविकारशान्त्यै॥९२॥ बलामूलभवः क्वाथः सैन्धवेन समन्वितः॥बाहुशोषगदं नस्याद्धन्यान्माषरसोऽथवा॥९३॥ धत्तूरतैलस्य च मर्दनेन शमं प्रयात्याश्वपबाहुकाख्यः॥ हन्याद्विमर्द्याऽनिलशत्रु123तैलं सर्जोत्थतैलैरथ तं दिनांते॥९४॥ पिचास्रयुक्तः पवनः प्रकुर्यात्पादेषु दाहंप्रसभं नराणाम्॥ वातास्रजो जानुगतस्तु शोफो ज्ञेयोनरैः कोष्टकशीर्षकस्तु॥९५॥

उपचारः।

पिष्टैर्मसूरद्विदलैःशृतशीतिवारिलेपात्प्रशांतिमुपयाति च पाददाहः॥ पादौ प्रलिप्यमनुजो नवनीतकेनतत्वां प्रयाति दहने परितापशांतिम्॥९६॥ पाददाहे तु कुर्वीत वातरक्तचिकित्सितम्॥ गुडूचीत्रिफलाक्वाथं सपुरं क्रोष्टशीर्षके॥९७॥पिबेदैरंडतैलं वा पयसा वृद्धदारुकम्॥ पिबेत्तित्तिरमांसस्य रसं वा सपुरं पिबेत्॥९८॥ आक्षेपके शिरांविध्य कुर्याद्वातहरां क्रियाम्।

नस्यम्।

तीक्ष्णैः प्रघमनैर्नस्यैस्तथा संज्ञां स विंदति॥९९॥ कपिकच्छुबलैरंडमाषनागरसाधितम्॥ ससैन्धवं पिबेत्क्वाथं नासारंध्रेण मानवः॥१००॥ पक्षाघातंनिहंत्याशु शिरोरोगं हनुग्रहम्॥ अर्दितं संधिवातं च मन्यास्तंभं सुदारुणम्॥१०१॥

अथ रास्नादिघृतम्।

रास्नापौष्करशिग्रुबिल्वदहनं सिन्धूत्थगोक्षूरकम्पिष्ट्वापिप्पलिसंयुतं चलगदे पेयं सदा सर्पिषा॥संपच्याऽथ चतुर्गुणेन पयसा वा वाजिगन्धायुतंसर्पिः पेयमसाध्यवातजगदे शुक्रक्षये दारुणे॥१०२॥

अथ स्वच्छन्दभैरवरसः।

शुद्धसूतमृतलोहगंधकं टंकणं च विषतालकताप्यम्॥त्र्यूषणाऽरणिहरीतकिमुंडीचूर्णमत्र सकलं परिमर्द्य॥१०३॥निर्गुडिकायाः स्वरसे दिनैकं पचेत्तथा मुंडिरसे दिनैकम्॥ जातो रसो वल्लमितो गृहीतो हन्यादशेषान्पवनोत्थरोगान्॥१०४॥ पक्षाघातं निहन्त्याशुनाम्ना स्वच्छंदभैरवः॥ गृध्रसीमबाहुं च क्रोष्टुशीर्षादिवै हरेत्॥१०५॥

अथ गृध्रसीनिदानम्।

पृष्ठोरुजानुजघनं च पदं क्रमेण स्फिक्पूर्वकं कटितटं किल गृध्रसीयम्॥ गृह्णाति वेपथु124गुरुत्वरुजाऽतितोदैःप्रस्यंदते मुहुरिति द्विविधा मता सा॥१०६॥वातोद्भवायां गुरुवक्रमंगं जंघोरुजानुस्फुरणं च संधौ। संस्तब्धता वातबलासजायां तन्द्राऽरुचिर्गौरववह्निमांद्यम्॥१०७॥ दशमूलं गुडूची च बला रास्नामहौषधम्॥ रुवुतैलयुतं पीतं हन्याद्गृध्रसिखंजताम्॥१०८॥ मेषीशृंगीगोक्षुरैरंडबिल्वमूलं वेल्लं चोष्ट्र125कंठं च सिंही॥ क्वाथं पीत्वैरंडतैलेन युक्तं हन्याद्वातं गृध्रसीरोगमुग्रम्॥१०९॥ गोमूत्रैरण्डतैलाभ्यांकृष्णाचूर्णं पिबेन्नरः॥ तेन प्रणाशमायाति चिरोत्थोगृध्रसीगदः॥११०॥ एरण्डबीजानि पचेच्च दुग्धेतत्पायसं गृध्रसिरोगहारि॥ शेफालिका126पर्णभवःकषायः कृष्णायुतो गृध्रसिरोगहंता॥१११॥महानिम्बस्य मूलं हि पीतं हन्याच्च गृध्रसीम्॥यदि नोपशमं याति दहेत्पादकनिष्ठिकाम्॥११२॥द्वौप्रस्थौ त्रिफलायास्तु प्रस्थमेकं तु गुग्गुलोः॥ अपांद्रोणे स्थितं रात्रावर्द्धशेषं पचेत्तुतत्॥११३॥ वस्त्रपूतंविधायाथ लोहभांडे पुनः पचेत्॥ उत्तार्य दद्याद्द्रव्याणि पलार्द्धानि पृथक्पृथक्॥११४॥

अथ पथ्यागुग्गुलुः।

विडंगदन्ती त्रिफला गुडूची त्र्यूषणं त्रिवृत्॥ एकीकृत्य च तत्सर्वं गुटिकामक्षमात्रिकाम्॥११५॥ भक्षयित्वा प्रकुर्वीत यथेष्टं पानभोजनम्॥ सेव्यमाना निहन्त्याशु गृध्रसीमुद्धतामपि॥११६॥ अर्दितं जठरंगुल्मं पांडुरोगमरोचकम्॥ प्लीहानं वातरक्तं चकंडूर्दद्रूश्च खंजताः॥११७॥ सर्वरोगान्निहन्त्याशुपथ्याख्यो नाम गुग्गुलुः॥११८॥ तैलं श्वदंष्ट्रास्वरसेनतुल्यं क्षीराढकं पंचपला च शुंठी॥गुडस्य वै विंशतिकानि तानि सर्वं समीकृत्य पचेद्धि वह्नौ॥११९॥सिद्धं हरेद्गृध्रसिकंपवातं कटिग्रहं पृष्ठगदं च शोफम्॥पाने च नस्येच हितं च बस्तौ वन्ध्यापि पानाल्लभतेसुपुत्रम्॥१२०॥

इति श्रीगौडवंशावतंसश्रीमदनन्तभट्टात्मजशंकरभट्टविरचिते वैद्यविनोदउन्मादाऽपस्मारवातव्याधिगृध्रसीनिदानचिकित्साकथनं नाम षष्ठोल्लासः॥६॥
____________

वातरक्तचिकित्सा।

क्षारोष्णकट्वम्लविदाहितीक्ष्णैर्दध्यारनीलामिषमत्स्यमद्यैः॥ पिण्याक127निष्पाव128कुलित्थमापैहैस्त्यश्वयानैरति-सेवितैश्च॥ दुष्टे वातेरक्तमाशु प्रदुष्येत्तत्प्राबल्यादुच्यते वातरक्तम्॥१॥ मूलं129 धृत्वा पादयोर्हस्तयोर्वा कृत्स्नंदेहं सर्पति क्रुद्धमेतत्॥ कंडूःपीडादर्शनं मंडलानां स्याद्वैवर्ण्यं वातरक्तस्य पूर्वम्॥२॥ वाताऽधिक्ये शूलकंपौशरीरे स्पर्शोद्विग्नौ स्वापयुक्तौ च पादौ॥ पित्ताधिक्येदाहमोहौ भृशोष्णं श्लेष्माधिक्ये कंडुमन्तौ सशोफौ॥३॥ सर्वैर्दोपैः शोणितं चातिदुष्टं स्वंस्वं चिह्नं पादयोर्ज्ञेयमेतत्॥४॥ वातशोणितिनं स्निग्धमादौसम्यग्विरेचयेत्॥ रक्तमोक्षं ततः कुर्याद्यथादोषबलावलम्॥५॥

अथ पथ्यम्।

पुराणगोधूमयवामकुष्टा130 मुद्गा मसूराश्चणकाश्च शालिः॥ उपोदकी131 वास्तुककाकमाची शतावरी तित्तिरि-लावकाश्च॥६॥ एते प्रशस्ताः किल वातरक्ते दुग्धंसिता सर्पिरपिप्रशस्तम्॥ क्वाथो वृषारग्वध कुंडली132नामेरण्डतैलेन समं निपीतः॥७॥ जयेदसृग्वातभवंविकारं सर्वांगजं शोफविदाहयुक्तम्॥ त्रिवृद्विदारीक्षुरजः कषायोऽथवागुडूच्यास्स्वरसो हितश्च॥८॥ तिस्रःपंचाऽथवापथ्याःपिष्ट्वाजग्ध्वा133 गुडेनतु॥ पिबेच्छिन्नरुहाक्वाथं वातरक्तार्दितो नरः॥९॥ माहिषं नवनीतं तु गोमूत्रक्षीरसैन्धवैः॥ खलेनैकत्र संलोड्यवह्निना तापयेच्छनैः॥१०॥ गात्रमुद्वर्त्तयेत्तेन देहस्फुटनशान्तये॥ वातरक्ते हितो लेपो घृतसर्जरसेन वा॥११॥गौरसर्षपकल्केन प्रलेपो वातरक्तनुत्॥ लेपो वरुणशिग्रूत्थः कांजिकेन रुजापहः॥१२॥ मंजिष्ठारिष्टवासात्रिफलदहनकं द्वे हरिद्रे गुडूची भूनिम्बो रक्तसारस्सखदिर-कटुकाबाकुचीव्यांधि134घातैः॥ मूर्वाऽनन्ताविशालाकृमि135रुपसहितैस्त्रायमाणैः136 सपाठैः॥ पीतो हन्यात्समस्तान्सकलतनुगतान्वातरक्तप्रकोपान्॥१३॥ सारिवासर्ज137मंजिष्ठायष्टीसिद्धैः पयोन्वितैः॥तैलं पक्वं प्रयोक्तव्यं पिंडाख्यं वातशोणिते॥१४॥व्यायामं138 बाहाजोरी।") मैथुनं139 कोप140मुष्णाऽम्ललवणं रसम्॥ दिवास्वप्न141मभिष्यदि142 गुर्वन्नं143 च विवर्जयेत्॥१५॥

ऊरुस्तंभनिदानम्।

शीतोष्णसंगुष्कगुरुवान्नैः स्निग्धैस्तथा स्वप्नसुजागरैश्च॥ आयाससंक्षोभभयैरजीर्णैः सश्लेष्ममेदः॥पवनः प्रदुष्टः॥१६॥ यदाभिभूतेतरदोषमाममूरुद्वयंचेत्प्रतिपद्यते हि॥ अस्थीनि मध्ये परिपूर्य सन्धीन्कफेन तेनोरुयुगं सुशीतम्॥१७॥ अचेतनं स्तब्धमतिव्यथं स्यात्सपादकृष्णोद्वहनं प्रसुप्तम्॥ ध्यानांगमर्दज्वर-वांतितन्द्रास्तैमित्यमांद्यारुचिगौरवाणि॥१८॥तमूरुस्तम्भमित्याहुराढ्यवातं तथापरे॥ संस्थानेपीडने गत्यां चलने वाप्यनीश्वरः॥१९॥ रक्तस्रावंरेचनं वस्तिकर्म स्नेहं वान्तिं वर्जयेदाढ्यवाते॥ रूक्षःस्वेदो लंघनं जीर्णशालिश्यामाकाद्याः कोद्रवो144द्दालमुद्ग्रा॥२०॥ शस्तं मांसं जांगलं मूलकं वा वृन्ताकंवा वास्तुकं निम्बपत्रम्॥ नद्या नीरे शीतले तारयैच्चभूयोभूयश्शीततोयं सरश्च॥२१॥ सक्षारमूत्रैः परिषेक उक्तो लेपः करंजोद्भवसर्षपैश्च॥ अर्कस्य मूलैरथवा प्रलेपः सवाजिगंधाऽमरदारुणा वा॥२२॥वल्मीक145मृत्तिकाक्षौद्र-सर्षपैर्निम्बपल्लवैः॥ गाढ़मुत्सादनं कुर्यादूरुस्तम्भे सवेदने॥२३॥ पिप्पली नागरंचव्यं गुग्गुलुं च शिलाजतु॥ ऊरुस्तम्भे पिबेन्मूत्रैर्दशमूलरसेन वा॥२४॥

अथ श्रीवेष्टादितैलम्।

श्रीवेष्टकं केसरकुष्ठदारुजलाऽश्वगंधासरलाऽजगंधाः॥ एभिः पचेत्सार्षपतैलमुरूस्तंभं जयेत्क्षौद्रयुतं निपीतम्॥२५॥ शेफालिका146दलक्वाथं कणायुक्तंपिबेन्नरः॥ कफघ्नं यच्च तत्सर्वमूरुस्तंभे प्रयोजयेत्॥२६॥

अथामवातरोगचिकित्सा।

विरुद्धचेष्टस्य गताऽनलस्य सुस्निग्धमन्नं भजतोनरस्य॥ आमः प्रदुष्टो धमनीः प्रपद्य वातेरितःसंधिषुधावतीति॥२७॥ मन्याकटी147पृष्ठकरांसगुल्फसन्धी148न्विकुंच्याऽथ करोति शोफम्॥ भृशं व्यथांवृश्चिकविद्धतुल्यां स आमवातः कथितो भिषग्भिः॥२८॥ विरेचनस्वेदनलंघनानि कटूनि तिक्तानिच दीपनानि॥ रूक्षान्नपानानि च भोजनानि शस्तानिसर्वाणि किलामवाते॥२९॥ वचाशताह्वावरुणत्वचश्व पुनर्नवादारुशठी149श्वदंष्टाः॥ प्रसारणीनागरकेतुमुंडी150वरीफलं कारिक151सूक्ष्मपिष्टम्॥३०॥ तेनोपनाहं च विधाय लेपं कृच्छ्रामवातं हि जयेदभिज्ञः॥वा पंचकोलस्य कृतः कषायः पीतो जयेद्दुर्जयमामवातम्॥३१॥ रसनाऽमरदारुराजवृक्षत्रिकुटैरण्डपुनर्नवाऽमृतानाम्॥ क्वथितं जलमामवातमेषां शमयेन्नागरकल्क-मिश्रमाशु॥३२॥ वह्निव्योषविडंगसैंधवघनत्वक्पत्रतालीसजं चव्यैलाऽमरदारुकुष्ठरसनोशीरं यवानीद्वयम्॥ रास्नागोक्षुरधान्यजीरकयवक्षाराऽजमोदावरीमूलं कारविकासमं152 च सकलैस्तुल्यो भवेद्गुग्गुलुः॥३३॥ घृतेन संमर्द्यदृढं निधायस्निग्धे सुभाण्डेऽस्य ततोक्षमात्राम्॥ युंज्याद्यथेष्टाचरणो नरस्स्याद्दुष्टाऽमवातं जयति प्रसह्य॥३४॥ख्यातःक्षितौ गुग्गुलुयोगराजः समस्तवाताऽमयनाशनः स्यात्॥ दुर्न्नामगुल्मो153दरमा154मवातं प्लीहाऽग्नि155मांद्यंजयति व्रणं156च॥३५॥

अथ पुनर्नवादिचूर्णम्।

पुनर्नवाछिन्नरुहाशताह्वामुंडीसठीदारुकनागराणाम्॥ चूर्णं निहन्यात्किल कांजिकेन दुष्टाऽमवातंचिरगृध्रसीं च॥३६॥ रसोनस्य पलं हिंगुव्योषसैन्धव-जीरकाः॥ सौवर्चलं विडं काचं157पिष्ट्वातैलेन मिश्रयेत्॥॥३७॥ कर्षैकं भक्षयेत्प्रातरामवातार्दितो नरः॥ एरण्डतैलसंयुक्तां भक्षयेद्वाहरीतकीम्॥३८॥ अभिष्यंदकरा ये च ये चान्ये गुरुपिच्छिलाः॥ वर्जनीयाः प्रयत्नेनह्यामवातार्दितैर्नरैः॥३९॥

इति श्रीगौडवंशावतंसश्रीमदनंतभट्टात्मजशंकरभट्ट-
विरचिते वैद्यविनोदे वातरक्तोरुस्तंभाग-
वातनिदानचिकित्साकथनंनाम
सप्तमोल्लासः॥७॥
————

अथ शूलरोगचिकित्सा।

शूलोऽष्टधाद्वंद्वपृथक्समस्तैरामेन दोषैरिह वायुरुग्रः॥ व्यायामरुक्षाऽध्यशनाऽभिघातैर्वायुः प्रकुप्याशुकरोति शूलम्॥१॥ हृत्पार्श्वपृष्ठोदरबस्तिकुक्षौ मुहुर्मुहुः शांतिमुपैति कोपम्॥ कट्वऽम्लतीक्ष्णोष्ण-सुरादिभिश्च पित्तं प्रदुष्टं जनयेद्धि शूलम्॥२॥ मध्यंदिनेकुप्यति चार्द्धरात्रे संस्वेदमूर्च्छावमिदाहयुक्तम्॥ किला158टमांसेक्षुपयोविकारैर्माषैस्तिलैः शूलकरः कफः स्यात्॥३॥ हृल्लासकासा159ऽरुचिसंप्रसेका160 भुक्तेऽतिमात्रं हिरुजो भवति॥४॥ सर्वदोषोत्थितः शूलः सर्वलक्षणसंयुतः॥ द्विदोषलक्षणोपेतो विज्ञेयस्तु द्विदोषजः॥५॥स्तंभनाऽटोपहृल्लासैस्तैमित्यच्छर्दिगौरवैः॥ कफस्यलिंगेन समं शूलमामोद्भवं स्मृतम्॥६॥ संपाचन-स्वेदनलंघनानि सक्षारचूर्णाः फलवर्त्तयश्च॥ वांतिर्विरेको गुटिकास्तथैव सर्वेषु शूलेष्वनिवारितं हि॥७॥स्वेदैःस्नेहैः पायसैश्च वातशूलमुपाचरेत्॥ तस्यशूलाऽभिपन्नस्य स्वेद एव सुखावहः॥८॥ तिलानां पिष्य गुटिकां विधाय जठरोपरि॥ भ्राम्यमाणा तु सा हंति शूलंपरमदारुणम्॥९॥ नाभिलेपाज्जयेच्छूलं मदनं काञ्जिकान्वितम्॥ स्नेहेन युक्तः कौलत्थो हंति शूलं समीरजम्॥१०॥ तथा लिंबरसो हिंगुव्योषसैन्धवसंयुतः॥ सौवर्चलं दाडिमरसैर्युक्तं शूलनिवारणम्॥११॥ विश्वैरंडयवक्वाथो हिंगुसौवर्चलेन च॥ हिंगुपुष्करमूलाभ्यां युक्तःशूलनिवारणम्॥१२॥ पित्ते प्रशस्ताः सलिलाऽवगाहाभांडानि कांस्यानि जलप्लुतानि॥ निधाय शूलोपरिशीतलानि प्रशामयेच्छूलमनेन विज्ञः॥१३॥ पटोलेक्षुरसाद्यैश्च वामयेत्पित्तशूलिनम्॥ पश्चाद्विरेचयेत्सम्यक्तितया त्रिवृतासह॥१४॥ कफे प्रवाम्य शूलार्तामवश्यमुपवासयेत्॥ लवणत्रितयं हिंगु पंचकोल-युतंपिबेत्॥१५॥ शंखस्य चूर्णं लवणं सहिंगु व्योषं सुखोष्णेन जलेन पीतम्॥ शूलं त्रिदोषप्रभवं निहंति व्योषान्वितं दाडिमसैन्धवं वा॥१६॥ त्रिफलाचूर्णसंयुक्तंमण्डूरं161 विलिहन्नरः॥ मधुसर्प्पियुतं शीघ्रं शूलं इतित्रिदोषजम्॥१७॥ आमशूलेच कर्त्तव्यं कफशूलविनाशनम्॥ चित्रकग्रंथिकैरण्डशुंठीधान्यजलं हितम्॥१८॥ एरण्डसिंहीद्वय162मातुलुंगपाषाणभेदत्रिकबिल्व163मूलैः॥ कृतः कषायो रुबुतैलहिंगुक्षारैर्युतः शूल-गदेषुपेयः॥१९॥ हृदिस्थः कुरुते शूलं मारुतो रसमूर्च्छितःस हृच्छूल इति ख्यातः परमुच्छ्वासरोधकः॥२०॥वस्तिवंक्षणयोः शूलं संरोधात्कुपितोऽनिलः॥ वस्तिशूल इति ज्ञेयो वातविण्मूत्ररोधकः॥२१॥ दक्षिणं कुक्षिमादाय वामं का यत्प्रबाध्यते॥ सर्वत्र भ्रमतिक्षिप्रं न शान्तिमधिगच्छति॥२२॥ पिपासावर्द्धते तीव्रा भ्रमो मूर्च्छा च वेदना। विट्शूलमेतद्विज्ञेयं भिषजा दारुणं परम्॥२३॥ मद्येननित्यं तु रसोनकल्कं प्रातः पिबेद्वातकफोत्थशूली॥क्षीरोदकं पिप्पलिसैन्धवाक्तं पीतं जयेद्दुर्जयमुग्रशूलम्॥२४॥ चूर्णं समं रुचक-हिंगुमहौषधानामुष्णाम्बुना कफसमीरणसंभवासु॥ हृत्पार्श्वपृष्ठजठरार्तिविषूचिकासु पेयं तथा यवरसेन च विड्विबन्धे॥२५॥गोमूत्रपाचितं तैलं हिंगुसैन्धवसंयुतम्॥ नाभिस्थानेप्रदातव्यं हंति शूलं सुदुर्जयम्॥२६॥ सक्षारः शिग्रुजः क्वाथो मातुलुंगरसोऽथवा॥ पीतो मधुयुतः पार्श्वकुक्षिहृद्वस्तिशूलनुत्॥२७॥ वाते निरूहो वस्तिश्चपित्ते क्षीरं विरंचनम्॥ कटुतिक्तकषायाश्च शूले वांतिकफोद्भवे॥२८॥ यस्य नैव प्रशांतिः स्याच्छृंगैलात्र्यूषणं हितम्॥ नारायणेन तैलेन वस्तिकर्म हितं तथा॥२९॥ भुक्ते जीर्यति यच्छूलं तदेव परिणामजम्॥आकंठं पाययेन्मद्यं क्षीरमिक्षुरसं रसम्॥३०॥मदना164ऽरिष्टजं क्वाथं सम्यक्पश्चाच्च वामयेत्॥ एरण्डजेन तैलेन रेचनं पक्ति-शुलनुत्॥३१॥ शम्बूकजं165भस्म कवोष्णकेन पीतं क्षणाद्धंति हि पक्तिशूलम्॥कृष्णाऽभया लोहभवं च चूर्णं लीढं निहन्यान्मधुसर्पिषाऽथ वा॥३२॥ सजलं नालिकेरं तु सैन्धवेनप्रपूरितम्॥ विपक्वंवह्निना सम्यक् पक्तिशूलनिवारणम्॥३३॥ क्षौद्रं166 कपर्दं विषसैन्धवं च व्योषान्वितंपर्णरसैर्विमद्ये॥ गुञ्जैकमात्रोऽनिलजे विकारे पक्त्त्यामशूले गजकेसरी स्यात्॥३४॥ वचाविश्वाजीरोषणगरलबाह्लीक167दहनत्वचां कार्या वट्य168श्चणकतुलितामार्कवरसैः॥ यथा भानोर्भासस्तिमिरनिकरं कामिनि तथा॥हरंत्येताः शूलान्यखिलमनिलानामसहितान्॥३५॥

अथ शूलोपद्रवः।

वेदना च तृषा मूर्च्छा आनाहो169 गौरवाऽरुचिः॥ कासश्वासौ च हिक्का च शुलस्योपद्रवाः स्मृताः॥३६॥

अथोदावर्तनिदानचिकित्सा।

रूक्षैः कपायैः कटुतिक्तशीतैर्विण्मूत्रवातादिकधारणैश्च॥कोष्ठानुगो वायुरतिप्रवृद्धो मूत्राऽस्रभेदःकफ-विङ्गदानि॥३७॥ स्रोतांस्यु170दावर्तयतिप्रसह्य तस्मादुदावर्तमिदं वदंति॥ हृद्वस्तिशूलैरतिपीडितस्तु विड्वातमूत्राणि भवंति कृच्छ्रात्॥॥३८॥ उदावर्ते प्रयोक्तव्यमभ्यंगस्नेहरेचनम्॥क्षारचित्रकहिंग्वऽम्ल-वेतसैर्भेदनं मतम्॥३९॥करंजत्वक्फलं मूलं वल्मीकस्य च मृत्तिका॥ मूत्रेणपिष्ट्वा सिद्धार्थमुदावर्ते प्रलेपनम्॥४०॥ पथ्या मूर्वायवक्षारं त्रिवृच्चूर्णं घृतेन च॥ पीतं जयेदुदावर्तगुल्माऽनाहैरुपद्रुतम्॥४१॥

उदावर्तहरवर्तिः।

वर्तिं सुवर्तितां कृत्वा हिंगुमाक्षिकसैन्धवैः॥ घृताभ्यक्तां गुदे दद्यादुदावर्तहरां पराम्॥४२॥ हरीतकी-त्रिवृत्क्षारपीलुनीचूर्ण171मेकशः॥ घृतेन पीतं हन्त्याशुगदोदावर्तवर्ध्मकम्॥४३॥ सिता पलैकं त्रिवृताकणाकर्षः सुचूर्णितम्॥ विलिहन्मधुना कर्षमुदावर्तात्प्रमुच्यते॥४४॥

अथानाहरोगचिकित्सा।

आमं पुरीषं निचितं विवृद्धं दुष्टवायुना॥ वर्द्धमानंयथास्वं च तमानाहमुदाहरेत्172॥४५॥ आमाशयेशूलमथो हृदयस्तंभगौरवम्॥ भवेत्तु पक्वाशयजेश्वासो मूर्च्छा शकृद्वमिः॥४६॥ उदावर्तेतथानाहेविड्वमिं परिवर्जयेत्॥ दीपनं पाचनं शस्तमानाहे वस्तिकर्म च॥४७॥ त्रिवृत्कृष्णा हरीतक्यो द्विचतुःपंचभागिकाः॥ गुटिका गुडतुल्यास्ता विड्विबंधगदापहाः॥४८॥ हिंगूग्रगंधा विडशुंठ्यजाजी हरीतकी पुष्करमूलकुष्ठम्॥ भागोत्तरं चूर्णितमेतदिष्टं गुल्मोदरानाहविषूचिकासु॥४९॥

गुल्मनिदानम्।

दुष्टैर्दोषैरेकशः सर्वशश्च गुल्मस्स्त्रीणां पंचमो रक्तजःस्यात्॥ तस्य स्थानंपार्श्व173हृन्नाभिवस्तिग्रंथिर्वृत्तोजायते गुल्मसंज्ञः॥५०॥ कृच्छ्रेण विण्मूत्रचल-प्रवृत्तिराध्मानमन्नाऽरुचिरूर्ध्ववातः॥ अपक्तितृष्णांऽत्रविकूजनानि सर्वेषु गुल्मेषु च चिह्नमुक्तम्॥५१॥ जीर्णेऽन्नेजायते कोपो भूक्ते शांतिश्चलाऽत्मके॥ पित्तगुल्मेज्वरस्तृष्णा शूलं जीर्यति भोजने॥५२॥ कफ-गुल्मेगात्रसाद174हृल्लास175च्छर्दिगौरवम्॥ त्रिदोषजे महच्छूलंदाहस्तृष्णा बलक्षयः॥५३॥ वाताऽनुलोमनं स्निग्धमुष्णं बृंहणदीपनम्॥ लंघनं रक्तमोक्षश्च स्वेदः शस्तो हि गुल्मिनाम्॥५४॥ केतकीसंभवः क्षारः स्वर्जिकाकुष्ठसंयुतः॥ तैलेन पीतःशमयेद्गुल्मं पवनसंभवम्॥५५॥ त्रिफलाम्वुना त्रिवृच्चूर्णं पित्तगुल्मे पिबेन्नरः॥ कफजे जीर्णमद्येन पंचमूलीजलं पिबेत्॥५६॥ हिंग्वऽम्लवेतसवचाविजयायवानीक्षारैस्ससैन्धव-विडैर्विहितं हि चूर्णम्॥ पीतं जयेत्सपदिकोष्णजलेन सर्वान्गुल्मान्प्रभूतवमनाऽरुचिमांद्यशूलान्॥५७॥ वर्चोवातनिरोधे तु सामुद्रार्द्रकसर्षपैः॥विधाय पाने दातव्या वर्तिर्वा मरिचोत्तरा॥५८॥हिंगुव्योष-वचाऽम्लवेत176सशठीधान्याऽजगंधाजया177॥ पाठा तिंतिडिका178ऽजमोददहनक्षारद्वयं दाडिमम्॥ चव्यग्रंथिकपौष्कराणि हपुषा सौवर्चलं सैन्धवं पिष्ट्वालुंग-रसेन जीरकविडं तद्भावयेत्सप्तधा॥५९॥ प्रातःकर्षमितं विगृह्य गुटिकां गुल्मानशेषाञ्जयेच्छूलानाह-गरोदराऽरुचिवमिप्लीहाऽग्निमांद्यानि च॥ सर्ज्जिक्षारपलं गुडो द्विपलिकस्तत्राऽजगंधापलं चूर्णं पीतमिदं जलेन सकलान्गुल्मान्सशूलाञ्जयेत्॥६०॥नवप्रसूता या नारी गर्भंवा विसृजेदृतौ॥ करोति गुल्मंसरुजं वायुः संगृह्य शोणितम्॥६१॥ यः स्पंदतेपिंडितश्च गर्भलक्षणसंयुतः॥ चिकित्स्यो दशमे मासिगुल्मो ज्ञेयः स रौधिरः॥६२॥ शताह्वाचिरबिल्वत्वग्दा179रुभार्ङ्गीकणोद्भवम्॥ चूर्णं षीतं जयेद्गुल्मं तिलक्वाथेन संयुतम्॥६३॥ क्वाथस्तिलानां त्रिदिनं निपीतोभारंगिविश्वामगधामरीचैः॥ तारुण्यभावेऽपि गतेऽपिनार्य्याः पुष्पं प्रनष्टं प्रगटीकरोति॥६४॥

अथ हृद्रोगचिकित्सा।

दुषयित्वा रसं दोषा विगुणा हृदयं180 गताः॥ हृदिबाधां प्रकुर्वन्ति हृद्रोगं तं प्रचक्षते॥६५॥ चिन्तावेग181-विनिग्रह182श्रमभयाद्यातः प्रसंगादिभिः॥ हृद्रोगः कफवातपित्तकृमिभिः सर्वैः पृथक्पंचधा॥ संस्रावारुचिगौरवाऽग्निसदनं श्लेष्मोद्भवे हृद्गदे॥ वातोत्थे हृदयंप्रतुद्युतितरां183 निर्मथ्यते पीड्यते॥६६॥ तृष्णादाहमदभ्रमक्लम184 रुजः स्वेदश्च185 पित्तोद्भवे॥ पांडुत्वंगुरुगौरवं च हृदये दोषत्रयोत्थे भवेत्॥ उत्क्लेदः186 कृमिजेऽरुचिभ्रममदौ निष्ठीवनं187मांद्यता॥ हृल्लासो175वमनंज्वरः कृमिगदस्तीव्राऽर्त्तिशोषान्वितः॥६७॥

पुष्कारादिक्वाथः।

सपुष्करैः शुंठिवचायवानीपलाश188पूतीकशठीसुराह्वैः॥ क्वाथस्त्वऽजाजी लवणप्रयुक्तो हृद्रोगमाशु प्रतिहंति पीतः॥६८॥ कफोद्भवे छर्दनलंघनानि कुलत्थधान्यानि रसो यवान्नम्॥ सग्रंथिकैलाहपुषाप्रलीढा हृद्रोग-गुल्मौ त्वरितं निहंति॥६९॥ पित्तोद्भवे क्षौद्रसितासमेता द्राक्षा च पित्तापहमन्नपानम्॥ हरीतकींवा सितया जलेन पिबेच्च तिक्तां मधुयष्टिकां वा॥७०॥त्रिदोषजे लंघनमन्नपानं हितं च सर्वेषु तदेव देयम्॥पूर्वं विधेयं कृमिजे हि रोगे संपाचनं लंघनमुष्णपानम्॥७१॥ हिंगूग्रग्रंधाविडशुण्ठ्यजाजीकुष्ठाऽभयाचित्रकयावशूकम्॥ पिबेत्ससौवर्चलपुष्कराढ्यंयवांभसा शूलहृदाऽमयघ्नम्॥७२॥ गोधूमककुभचूर्णं छागीपयोगव्यसर्पिषा पक्वम्॥ मधुशर्करासमेतं जयति चहृद्रोगमुद्धतं पुंसाम्॥ ७३॥

इति श्रीमदनन्तभट्टात्मजशंकरभट्टविरचिते वैद्यविनोदे शूल-
परिणामशूलाऽनाहोदावर्तगुल्महृद्रोगनिदानचिकि-
त्सायामष्टमोल्लासः॥८॥

__________

अथ मूत्रकृच्छ्रनिदानचिकित्सा।

व्यायाममत्स्याध्यशनादजीर्णप्रसंगतीक्ष्णौषधिमद्यपानात्॥ स्युर्मूत्रकृच्छ्राणि नृणां तथाऽष्टौ दोषैः पृथग्द्वंद्रसमस्तवातैः॥१॥ दोषा यदा कोपमुपेत्य वस्तौमूत्रस्य मार्गं परिपीडयंति॥ तदा नरो मूत्रयतीह कृछ्रात्तन्मूत्रकृच्छ्रं प्रवदन्ति वैद्याः॥२॥ तीव्रा रुजो वंक्षणवस्तिमेढ्रेकृच्छ्रेण मूत्रं भवतीह वातात्॥ पितात्सरक्तं.सरुजं सदाहं कफात्सपिच्छं गुरुता च लिंगे॥३॥ सर्वाणिरुपाणि च सन्निपातादाघाततो मूत्रनिरोधशूलम्॥त्तदाश्मरीरोगसमानलिंगं मूत्रं सृजेद्रक्तमथापि शुक्रम्॥४॥संस्वेदनाऽभ्यंजन-वस्तिसेकस्नेहोपनाहास्तु189 रसाश्च शस्ताः॥ क्वाथोऽमृतानागरवाजिगंधात्रिकंटकानां चलमूत्रकृच्छ्रे॥५॥ पयोविरेकाश्शिशिराः प्रदेहाः सेकावगाहाः किल पित्तकृच्छ्रे। दार्वीनिशैर्वारुकबीजयष्टी-चूर्णं पिबेत्तन्दुलधावनेन॥६॥

पित्तकृच्छ्रे।

दार्वीधात्रीरसो हन्ति मधुना पित्तकृच्छ्रकम्॥शरकाशकुशादर्भा इक्षुश्चेति तृणोद्भवम्॥७॥ एतत्सिद्धं पयः पेयं क्वाथो वा हन्ति शोणितम्॥

कफकृच्छ्रे।

कफकृच्छ्रे यवान्नं च वमनं स्वेदनं मधु॥८॥गोमूत्रेण सुराभिर्वा कदलीस्वरसेन वा॥ सूक्ष्मं पिष्यत्रुटिं पीत्वा कफकृच्छ्रं विनाशयेत्॥९॥

त्रिदोषकृच्छ्रे।

मूत्रकृच्छ्रे त्रिदोषोत्थे यवक्षारगुडो हितः॥ मूत्रकृच्छ्रेऽभिघातोत्थे190 क्रिया वातहरी मता॥१०॥ मंथंपिबेद्वा ससितं शृतं गव्यं घृतं तथा॥

सर्वकृच्छ।

धात्रीरसं चेक्षुरसं मधुयुक्सर्वकृच्छ्रकं॥११॥

अथ कुंकुमादिपानकम्।

कुंकुमं केशरं क्षारं कर्षं गुडपलं तथा॥ अम्बुना लोडितं पीतं सर्वकृच्छ्रहरं परम्॥१२॥ हरीतकी-गोक्षुर-राजवृक्षपाषाणभृद्धन्वयवासकानाम्॥ क्वाथं पिबेन्माक्षिकसंप्रयुक्तं कृछ्रे सदाहे सरुजे विबन्धे॥१३॥एलाऽश्मभेदकशिलाजतुपिप्पलीनामु191र्वारुबीजलवणोत्तमकुंकुमानाम्॥ चूर्णानि तंदुलजलैर्लुलितानि192पीत्वा प्रत्यऽग्रमृत्युरपि जीवति मूत्रकृछ्री॥१४॥अयोरजः श्लक्ष्णचूर्णं मधुना सह योजितम्॥ मूत्रकृछ्रंनिहन्त्याशु त्रिभिर्लेहैर्न संशयः॥१५॥

अथ मूत्राघातरोगचिकित्सा।

रौक्ष्याद्वेगविघाताद्वा प्रायो मूत्रस्य धारणात्॥ जायतेकुपितैर्दोषैर्मूत्राघातास्तु दारुणाः॥१६॥ संस्वेदनंस्नेहनं च हितं स्नेहविरेचनम्॥ दद्यादुत्तरवस्तिं वामूत्राघाते सवेदने॥१७॥ गोधाविनी193मूलकृतः कषायःसर्पिःपयोगोरससम्प्रयुक्तः॥ भिनत्त्यवश्यं194 बहुकालजातंमूत्रस्य संघातमतीव रुद्धम्॥१८॥

अथाश्मरीनिदानचिकित्सा।

वायुर्वस्तिगतं शुक्रं कफंपित्तं च शोषयेत्॥ अश्मर्याः195क्रमशो वृद्धिः गोपित्तेष्विव रोचना॥१९॥ पूर्वं नाभौसेवनी वस्तिशीर्षे पीडाऽधिक्यं मूत्रकृच्छ्रंज्वरः स्यात्॥मार्गेरुद्धे तत्तया शीर्णधारं मूत्रं गच्छेदल्पमल्पं मुहुश्च॥२०॥ तिलतैलेन संयुक्तं धात्रीपल्लवजं रसम्॥प्रातः पिबेत्पुमान्यस्तु सोऽश्मरीं दारुणां जयेत्॥२१॥गुडेन युक्ता रजनी सुचूर्णिता तुषाम्बुना हन्ति महाश्म-रोगम्॥ यद्वा यवक्षारगुडप्रयुक्तः कूष्मांडमज्जोत्थरसोनिहंति॥२२॥ सहिंगु तैलं सघृतं च गव्यं पीतं जयेच्छुक्रजमूत्रदोषम्॥ द्राक्षासिताक्षौद्रयुतानि हन्याद्दुग्धं च कृच्छ्रं गुडयुक्तमुष्णम्॥२३॥ क्षौद्रेण हन्याद् बृहतीरसो वा पीतोश्मरीं दारुणमूत्रकृछ्रम्॥ गुडेन युक्तोवरुणत्वचा वा क्वाथो जयेदश्मरिवस्तिशूलम्॥२४॥पुराणसर्पिषा पीतं कुंकुमं हंति शकर्राम्196॥ गुडंद्विगुणितक्षारो हन्यादश्मरिकृच्छ्रकम्॥२५॥ गोक्षुरैरण्डपत्राणि शिला197भिरुणत्वचः॥ नागरं च कृतःक्वीथः सक्षौद्रोऽश्मरिनाशनः॥२६॥

अथ मेहरोगचिकित्सा।

आस्यासुखं स्वप्नसुखं नवान्नं गुडवैकृतम्॥ दधिदुग्धं च कफकृत्सर्वं मेहस्य198 कारणम्॥२७॥ मेदोमांसं च क्लेदं च कफो वस्तिगतो यदा॥प्रदुष्य कुरुतेमेहानुष्णैः पित्तं तथैव च॥२८॥ तथा धातून्संप्रदुष्यन्प्रमेहान्कुरुतेऽनिलः॥ देहे चिक्कणता पूर्वं दाहःस्यात्पाणिपादयोः॥२९॥

कफच्छिन्नम्।

कासा विपाकाऽरुचिवांतिनिद्राः सपीनसाः स्युःकफजे प्रमेहे॥

पित्तच्छिन्नम्।

दाहव्यथा मेहनवस्तिमध्ये तृष्णाज्वरः पित्तभवेप्रमेहे॥३०॥

वातच्छिन्नम्।

हृद्रोधकंपाऽरुचिकासमूर्च्छाशूलानि वातप्रभवेप्रमेहे॥

असाध्यमधुमेहः।

कालेन याता मधुमेहतां ते भवन्त्यसाध्या हि तदाप्रमेहाः॥३१॥

मधुमेहः।

मधुमेहं च तं विद्यात्प्रायो मध्विव मेहति॥ आरोग्यंहि तदा ज्ञेयं यदा मूत्रमनाविलम्199॥३२॥

अथ प्रमेहरोगे पथ्यम्।

कुलत्थयवगोधूमचणकाढककोद्रवाः॥ जांगलं

_____________________________________
२ छिन्नरोगे इ० पा.।
_____________________________________

तिक्तशाकानि हिता मुद्गाश्च शालयः॥३३॥ आदौप्रमेहेष्वखिलेषु शस्तं प्रच्छर्दनं200 वस्तिविरेचने च॥ फलत्रिकं दारुनिशां समुस्तां निःक्वाथ्य पेयं मधुनाकफोत्थे॥३४॥ पटोलनिंबाऽमलकाऽमृतानां क्वाथोहितः पित्तभवे प्रमेहे॥ श्लेष्मान्तक201क्वाथनिषेवणेनरक्तप्रमेहः समुपैति शांतिम्॥३५॥ क्षौद्रेण पीतःस्वरसो गुडूच्या धात्रीरसो वा रजनीविमिश्रः॥ फलत्रिकं वाऽश्मजतुप्रधानं क्षौद्रेण लीढं विनिहंतिमेहान्॥३६॥

अथ चन्द्रप्रभा।

विडंगवह्नित्रिफला कटुत्रिकं भूनिंबरास्त्नासुरदारुमुस्तकम्॥ सठीकणाग्रंथिकधातुमाक्षिकं क्षारो202गजाह्वा द्विनिशं203 पटुत्रिकम्204॥३७॥ धान्यं संहा205चातिविषा च सर्वं पृथक् पृथक्कर्षमितं विचूर्ण्य॥ पलानिशुद्धस्य पुरस्य206चाष्टौ शिलाजतु स्याच्चपलत्रिकंहि॥३८॥ पलद्वयं लोहरजः207 पलैकं वंश्याः सितायास्तु चतुःपलानि॥ त्रिवृन्निकुंम्भत्रि208सुगंधिकानांपृथक्पलं सर्वमिदं विमर्द्य॥३९॥ कर्षप्रमाणागुटिका विधेया चंद्रप्रमेयं विनिहंति मेहान्॥प्राप्तानसाध्यत्वमथो कुपथ्यैररोचकच्छर्दनशूलयुक्तान्॥४०॥ ग्रंथिमेहनजं कुष्ठं वृद्धिमंत्राण्डजांतथा॥ कामलापांडुकुष्ठानि प्लीहोदरभगन्दरान्॥४१॥ श्वासं कासं नेत्ररोगाऽग्निमांद्ये मूत्राघातंदारुणं मूत्रकृच्छ्रम्॥ शूलाऽध्मानं वाश्मरीरोगमुग्रंहन्यादुग्राञ्छुक्ररोगांस्तथैव॥४२॥ वंध्यानां पुत्रजननी रजोदोषनिबर्हिणी॥ इयं रसायनवरा गुटिकासंप्रकीर्तिता॥४३॥ महानिम्बस्य209 बीजानां षट्चनिष्काः210सुपेषिताः॥ पलं तंदुलतोयस्य घृतं निष्कद्वयं211तथा॥४४॥ एकीकृत्य पिबेत्सर्वं हंति मेहं पुरातनम्॥मृताऽभ्रं सूतकं तुल्यं धात्रीफलनिजद्रवैः॥४५॥सप्ताहं भावयेत्स्वल्पै रसोयं हरिशंकरः॥ माषमात्रांवटीं खादेत्सर्वमेहप्रशान्तये॥४६॥ रसगंधकयोः78 पिष्टं तत्समं धूर्तबीजकम्212॥ मर्दितं धूर्ततैलेन कामिनीमदधूनकः॥४७॥ वल्लोऽस्यसितया युक्तः सर्वान्मेहान्निकृंतति॥ द्रावणो मैथुनेस्त्रीणां सेवनाद्वीर्यदार्ढ्यकृत्॥४८॥ प्रातः पिबेत्पुष्करमूलचूर्णं पथ्यां च रात्रौ प्रतिघस्रमत्ति॥ तस्यप्रमेहाः प्रलयं प्रयांति पापानि शंभोःस्मरणाद्यथार्थात॥४९॥ वितुन्नकं जीरकयुग्ममिश्रं भुक्तं हरेत्पित्त-विकारमेहान्॥ पलं तिलानामशितं प्रभाते निहति मेहंबहुमूत्रतां च॥५०॥ लिह्याद्भस्मापि213 वंगस्य मधुमेह-विनाशनम्॥ अथवा बीजकाष्टस्य214 क्वाथं बोलयुतं215पिबेत्॥५१॥

अथाऽपथ्यम्।

सौवीरकं216 सुरा तक्रंदधि क्षीरं घृतं गुडम्॥ अम्लेक्षुरसपिष्टान्नाऽतपमांसानि वर्जयेत्॥५२॥

इति श्रीगौडवंशाऽवंतसश्रीमदनन्तमहात्मजशंकरभट्टविरचिते
वैद्यविनोदे मूत्रकृच्छ्रमूत्राघाताऽश्मरीप्रमेहनिदानचि-
कित्साकथनं नाम नवमोल्लासः॥९॥

_________

अथ मेदोनिदानचिकित्सा।

मधुरान्नदिवास्वप्नश्लेष्मलाऽहार सेविनः॥ अव्यायामदधिस्नेहैःप्रायो मेदोऽभिवर्धते॥१॥ मेदस्तुसर्व-भूतानामुदरेष्वस्थिषु स्थितः॥ अत एवोदरे वृद्धिःप्रायो मेदस्विनी भवेत्॥२॥ मेदसावृतमार्गत्वात्पुष्यत्यन्नेन धातवः॥ मेदस्तु चीयते तस्मादशक्तःसर्वकर्मसु॥३॥

अथ मेदोरोगपथ्यम्।

कुलत्थमुद्गायवशालयश्च व्यायाम217चिन्ताश्रममैथुनानि॥ क्षौद्रं तथा जागरणानि वस्तिर्मेदस्विनो सेव्यमिदं सदा वै॥४॥ विडंगधात्रीफलनागराणि क्षारो यवालोहरजो मधूकम्218॥ चूर्णानि हन्यान्मधुनाव-लीढंमेदोऽतिवृद्धिं कृमिजांश्च रोगान्॥५॥ क्षारमेरंडपत्रस्य भक्तमण्डेन219 यः पिबेत्॥ हिंगुयुक्तं निहंत्याशु मेदोवृद्धिं नरस्तु सः॥६॥ शीताम्बुना क्षौद्रमतिप्रभाते संसेवितं स्थौल्यनिवारणं स्यात्॥ यवान्नमंडो घृतमुष्णपेयाः पीता हि मेदोगदनाशनाः स्युः॥ ७॥

अथ मेदोवृद्धावुद्वर्तनम्।

श्रीवीसशैले220यकदारु221कौन्ती222स्पृक्काब्दकुष्ठाऽगरुकेसराणि॥ त्वक्पत्रपुष्पणि तथा लवंगं धत्तूरपत्रस्यरसेन मर्द्यम्॥८॥ उद्वर्तनं223 गाढमतिप्रयुक्तं स्थौल्यादि224रोगं विनिहन्त्यवश्यम्॥९॥

अथ देहदुर्गंधलेपः।

वासकस्वरसोलेपाच्छंखचूर्णसमन्वितम्॥ बिल्वपत्ररसो वापि गात्रदौर्गन्ध्यनाशनः॥१०॥ अलंबुषायाश्चूर्णंवा निपीतं कांजिकैः सह॥ दौर्गध्यं नाशयत्याशु दुष्टमेदोभवंनृणाम्॥११॥ शिरीषलोध्रकोशीर-पत्रैलामज्ज225केसरैः॥ उद्वर्तनं हरेत्स्थौल्यं226 स्वेददौर्गंन्ध्य227नाशनम्॥१२॥ हस्तपादोत्थिते स्वेदे गुग्गुलुः पंचतिक्तकः॥ योज्यो हि भिषजा नित्यं मेदोवृद्धिहरःपरम्॥१३॥

अथोदरनिदानचिकित्सा।

मंदेऽनलेऽजीर्णसमुद्भवःस्यात्तस्मादजीर्णान्मलसंचयश्च॥ तेन प्रकोपं समुपेत्य दोषा निहत्य228 वह्निंजठराणि कुर्युः॥१४॥

पित्तोदरम्।

पित्तोदरे दाहमदातिसारभ्रमज्वरास्तृट्कटुता मुखेस्युः॥ दोषैःपृथक्संमिलितैश्च बद्धक्षतोदकप्लीहभिरष्ट तानि॥ आध्मान229मालस्यमसक्तिसादा विड्रोधितृट्दाहगदा हि पूर्वम्॥१५॥

वातोदरम्।

वातोदरे पादकरेषु नाभ्यां शोफोंगमर्दाऽरुचिगौरवाणि॥

श्लेष्मोदरम्।

श्लेष्मोदरे गौरवमंगसादः230 श्वासोऽरुचिः231 पीनस232कासशोफाः॥१६॥

जलोदरम्।

दुष्टांबुदूषीविषसेवनाद्वा विण्मूत्ररोधादिगरप्रदानात्॥ दोषाः प्रदुष्टा जठरंप्रकुर्युर्दूष्योदरं सर्वभवंवदंति॥१७॥ निरेति कृच्छ्रेण गुदाद्विडल्पं हृन्नाभिमध्यैजठरस्य वृद्धिः॥

बद्धोदरम्।

बंद्धोदरं बद्धगुदं तदेतत्क्षतोदरं शल्यशराऽभिघातैः॥१८॥ तस्मात्क्षतांत्रात्स्त्रवणं गुदे स्यान्नाभेरधस्तादुदरस्य वृद्धिः॥ वांतो विरक्तोप्यनुवासितो वा यः स्नेहपीतः सलिलं सुशीतम्॥१९॥ पिबेत्ततस्तस्य जलावहेषु स्रोतःसु दुष्टेषु जलोदरं स्यात्॥ भृशोन्नतंस्निग्धविवृत्तनाभिप्रपूर्णमम्भोभिरिवायतं तत्॥२०॥यथा दृतिः233 क्षुभ्यति कंपते च जलोदंर शब्दयुतं तथास्यात्॥ विदाह्यभिष्यंदिभिरन्नपानैर्नरस्य दुष्टं रुधिरंकफश्च॥२१॥ प्लीहाभिवृद्धिं कुरुते यतस्तत्प्लीहोदरं वृद्धिमुपैति वामे॥२२॥ स्नेहःस्वेदो रेचनं वस्तिकर्म पूर्वं योज्यं वातपित्तोदरेषु॥ भोज्यं देयं दीपनं वा लघु स्याद्गोधूमा वैशालयः षष्टिकाश्च॥२३॥ एरण्डतैलं दशमूलंमिश्रंनिहंति वातोदरशोफ234शूलम्॥ गोमूत्रयुक्तस्त्रिफलारसोवा क्वाथो निहन्याद्दशमूलजो वा॥२४॥ तत्रौष्ट्रकं235 दुग्धमतः प्रशस्तमाजं236 पयो वा जठराणि हन्यात॥२५॥पित्तोदरविनाशाय पंचमूलीतं पयः॥ पित्तोदरे घृतंपेयं मधुरद्रव्यसाधितम्॥२६॥ एरण्डतैलं सक्षारंपीतं हंति कफोदरम्॥ व्योषयुक्तं कुलत्थाम्बु पयो वाभोजने हितम्॥२७॥ रोहीतक237-हरीतक्योः कल्कं मूत्रेणभावितम्॥ पीतं सर्वोदराण्याशु प्रमेहार्शःकृमीञ्जयेत्॥२८॥ विरेकास्थापने स्वेदः सर्वेषु जठरेषु च॥ माषं238शाकं तिलान्पिष्टं विदाहीनि गुरूणि च॥२९॥व्यायामाध्वदिवास्वापात्तोयपानं विवर्जयेत्॥ जठराणां मलाढ्यत्वाद्बहुशः शोधनं हितम्॥३०॥ एरण्डतैलं पयसा जलेन मूत्रेण पीतं जठरं निहन्ति॥ज्योतिष्म239तीतैलमिदं तथैव सर्वोदराणां प्रशमार्थमुक्तम्॥३१॥ कंकुष्ठचूर्णं240 संसेव्य जलेनोष्णेन मानवः॥अष्टभ्यो जठरेभ्यश्च शीघ्रं कुर्याद्विमोक्षणम्॥३२॥वाते सिंधुकणायुतं समरिचं पित्ते सिताढ्यं कफे व्योषाजाजियवानिकाऽग्निहपुषा युक्तं च तक्रंपिबेत्॥ क्षारव्योषकसैंधवान्वितमिदं तत्सन्निपातोदरे दीप्याः सैंधवजीरकाऽग्निहपुषा युक्तं च बद्धोदरे॥३३॥ क्षतोदरे माक्षिकपिप्पलीभ्यां तक्रंपिबेद्रोगनिवारणाय॥ जलोदरेचापि पिबेच्चतक्रं सक्षारकं त्र्यूषणसैंधवं च॥३४॥सैंधवं चार्कपत्राणि पयः स्नुह्या विपाचितम्॥ मस्तुना241परिपीतं वै प्लीहानं242 हंति दारुणम्॥३५॥ शाल्मलीकुसुमं स्विन्नं निशि पर्युषितं तथा॥ तिक्ताचूर्णेन संयुक्तमद्यात्प्लीहप्रशांतये॥३६॥ चव्यचित्रकसंयुक्तं प्रातरुत्थाय यः पिबेत्॥ तस्य नश्यन्तिसर्वाणि जठराणि न संशयः॥३७॥

अथ वज्रक्षारः।

स्नुह्यर्कदुग्धैलवणानि पंच विभावयेत्सप्तदिनं ततस्तैः॥ प्रपूर्य वज्रीशकलानि वह्नौ पचेद्धि यामं पुटपाकरीत्या॥३८॥ सुशीतमाकृष्य विचूर्णितं तत्कर्ष243प्रमाणंपरिभक्षणीयम्॥ अष्टोदरे पंचविधे च गुल्मे शूलेविषूच्यां श्वयथौ प्रतून्याम्॥३९॥ यवक्षारः प्लीहहरः244 पलाशक्षारसंयुतः॥ कणारसो निशाचूर्णयुक्तःप्लीहाऽपचीहरः॥४०॥ प्लीहहाशरपुंखायाःकल्को मूत्रेण सेवितः॥ पक्वाऽम्रस्य रसो हंति प्लीहानं245मधुसंयुत्नः॥४१॥ पलद्वयं भानुपयः पलानिस्नुहीपयः षट्त्रिवृता च पथ्या॥ कंपिल्लदन्ती गिरिकर्णिका246ऽग्निश्यामास्तथा शंखिनि247 नीलिनी248 च॥४२॥प्रत्येकमेषां तु पलप्रमाणं विपाचयेत्प्रस्थमिदं घृतं च॥चतुर्गुणं वारि च संप्रयुक्तं पक्त्वाशनैर्बिदु249मिति प्रदेयम्॥॥४३॥ कोष्ठेतिदुष्टे जठरे सशोफे भगंदरे गुल्मगदे चदुष्टे॥ बिंदून्पिबेद्यावत एव तावद्वारान्विरेकाश्च भवंतिपुंसः॥४४॥ एतद्बिंदुघृतं नाम येनाऽभ्यक्तो विरच्यतेप्लीहनाशकरी सर्वा क्रिया यकृति चेष्यते॥४५॥

अथ पुनर्नवादिक्वाथः।

पुनर्नवानिंबपटोलशुंठीतिक्ताऽमृतादार्व्यभयाकषायः॥ सर्वांगशोफोदरकासशूलश्वासान्वितं पांडुगदं निहन्ति॥४६॥

लेपः।

देवदारुपलाशाऽर्कराजपिप्पलि250शिग्रुभिः॥ साऽश्वगंधैः सगोमूत्रैर्लेपः स्यादुदरापहः॥४७॥

अथाऽसाध्यः।

पक्षादूर्ध्वं बद्धगुदं सर्वजातोदकं तथा॥ जन्मनैवोदरं सर्वं प्रायःकृच्छ्रतमं मतम्॥४८॥

अथ दूषीविषशोफः।

क्षाराऽम्लतीक्ष्णोष्णविरुद्धदुष्टगरोपसृष्टान्न251निषेवणेन॥ वायुः प्रदुष्टः कफपित्तरक्तान्यानीय दुष्टानिबहिः शिरासु॥४९॥ ऊर्ध्वं व्रजंस्त्वपिशिताश्रयं च शोफं प्रकुर्याद्धनमुन्नतं हि॥ दोषैः पृथकद्वंद्वसमस्तघातैस्तथा विषैःशोफगदा भवंति॥॥५०॥ पूर्वं भवेद्गौरवमंगसादने252 सोत्सेधमूष्मा चशिरातनुत्वम्॥ प्रसुप्तिहर्षाऽर्ति-युतो हि वातात्पित्ताच्च शोफो भृशदाहपाकः॥५१॥ कफात्स्थिरःपांडुररोचकान्वितो द्वाभ्यां समस्तैश्च विमिश्रलिंगः॥५२॥ शस्त्रादिच्छेदभेदेन क्षतेनाघातजः स्मृतः॥सविषप्राणिदंष्ट्रादिभल्लाताद्यैर्विषोद्भवः253॥५३॥ वातोद्भवे पिबेत्पूर्वं मासाऽर्द्धं त्रिवृतां तथा॥ तैलमेरण्डजं वापि स्वेदाभ्यंगांश्च योजयेत्॥५४॥ त्रिवृद्गुडूचीत्रिफलाकषायं पिबेत्तथा पित्तकृते च शोफे॥ गव्येनमूत्रेण फलत्रिकं तु पीतं कफोत्थं श्वयथुं254 निहन्यात्॥५५॥ मिश्रेमिश्रकमं कुर्यात्सर्वजे सर्वमेव च॥ शिग्रुजे त्वक्कणासिद्धा पिण्यांको255 वा प्रलेपनम्॥५६॥कणा गजाह्वा रजनी सपाठा निदिग्धिका256 नागरमूलमुस्तम्॥ कटुत्रिकं जीरकवह्नितिक्तं चूर्णं निहन्याच्छ्वयथुं त्रिदोषम्॥५७॥ कुर्यादागंतुजे शोफे सेकलेपादिशीतलम्॥ भल्लातकभवं शोफं सतिला हन्ति मृत्तिका॥५८॥ यष्टीदुग्धतिलैर्लेपो नवनीतयुतो हरेत्भल्लातकभवं शोफं चूर्णं शालिदलस्य257 च॥५९॥पथ्याऽमृतावह्निमहौषधानां दार्वीनिशादारुपुनर्नवानाम्॥ क्वाथं पिबेत्पादकरोदरस्थे वक्राश्रितेसर्वभवेच शोफे258॥६०॥ निशाद्वयं259 चन्दनयुग्मलोध्रं260पुनर्नवोशीररसांजनानि॥ मूर्वाशिवागैरिकपद्मकानिलेपो हितः सर्वभवे हि शोफे॥६१॥ सेकस्वथा निम्बपुनर्नवाऽर्कक्वाथेन सर्वानपि हंति शोफान्॥ सुखोष्णगोमूत्रकृतो हि सेको रसो हितो मूलकपत्रजो वा॥६२॥गोमूत्रसिद्धं मंडूरं लिह्यात्क्षौद्रेण शोफवान्॥ पुराणयवशाल्यन्नभोजनं शोफिनां हितम्॥६३॥

अथ त्याज्यानि।

पिष्टान्नं लवणं मद्यं दिवास्वप्नमजांगलम्॥ पयोदधि गुडं तैलं शोफवान्वर्जयेद्गुरून्॥६४॥ गुडाऽर्द्रकं हरेच्छोफं गुडश्यामा गुडाऽभया॥ गुडशुंठीपृथक्कर्षवृद्ध्या खादेत्पलत्रयम्॥६५॥ पक्षं वामासमेकं वा शोफान्हंति सुदारुणान्॥ जीर्णज्वराऽर्शोग्रहणीश्वासाऽरोचकपीनसान्261॥६६॥

अथांडवृद्धि262रोगचिकित्सा।

वायुश्चाधोगतः क्रुद्धः शोफशूलकरश्चरन्॥ प्राप्यवंक्षणतो मुष्कौ धमनीं फलकोशगाम्॥६७॥ प्रपीड्यकुरुते वृद्धिंमहतीं फलकोशयोः॥ अंडवृद्धिस्तु साज्ञेया भाराध्वांगविवर्तनैः॥६८॥ वातलैरन्न-पानाद्यैःक्षोभितः पवनो यदा॥ अथान्त्रं द्विगुणीकृत्य स्वनिवेशादधो नयेत्॥६९॥ कुर्याद्वंक्षणसंधिस्थमंत्रं ग्रंथिनिभंतदा॥ प्रपीडितोंतःस्वनवान्वायुर्याति पुनश्चसः॥७०॥मुष्कौ प्रध्मापयन्नेति सांत्रवृद्धिरुदीरिता॥ रूक्षकृष्णाऽरुणशिरातंतुजालगवाक्षितम्॥॥७१॥ एरण्डतैलं तत्रादौ मासैकं पयसा पिबेत्॥मंडादिक्रम-दीप्ताऽग्निवस्तिभिस्समुपाचरेत्॥७२॥गुग्गुलुं रुबुतैलं263 च गोमूत्रेण पिबेन्नरः॥ अण्डवृद्धिं निहंत्याशु सशूलां चिरकालजाम्॥७३॥ चन्दनंकमलोशीरं मधुकं पद्मकं तथा॥ क्षीरपिष्टः प्रलेपस्स्याद्दाहशोफरुजांहरः॥७४॥ पंचवरल्कल264चूर्णेन सघृतेन विलेपनम्॥ तेषां क्वाथेन शीतेन कर्तव्यं परिषेचनम्265॥७५॥ पुनर्नवैरण्डफलं तिलांश्च पिष्ट्वाऽरनालेन266 जवस्य चूर्णम्॥ लेपोसुखोष्णो विनिहंतिवृद्धिं तथा वचासर्षपकल्कलेपः॥७६॥ रास्नाऽमृतैरण्ड-बलायष्टीगोक्षुरसाधितः॥ क्वाथो हन्यादन्त्रवृद्धिंरुबुतैलसमन्वितः॥७७॥ तैलं नारायणं योज्यंपानाऽभ्यञ्जन-वस्तिषु॥ आर्द्रकं कटूफलं वापि त्वन्त्रवृद्धिनिवृत्तये॥७८॥ गुर्वन्नसेवनात्क्रुद्धो दोषो वंक्षणसंधिगः॥ करोति ग्रंथिवच्छोफंतं वर्ध्मेति विनिर्दिशेत्॥७९॥ रुबूकतैलेन संभ्रष्टः पथ्याकल्कःकणान्वितः॥ सैन्धवेन समायुक्तो वर्ध्मरोगहरःपरः॥८०॥

इति श्रीगौडवंशाऽवतंसश्रीमदनन्तभट्टात्मजशंकरभट्टविर-
चिते वैद्यविनोदे उदरशोफवर्ध्मनिदानचिकित्सा-
कथनं नाम दशमोल्लासः॥१०॥

अथ गलगंडरोगचिकित्सा।

कफवातौ गले दुष्टौ मेदःशोणितमास्थितौ॥कुर्वाते ग्रंथिवच्छोफं सुष्कवल्लंवते तु यः॥१॥ महान्वायदि वा ह्रस्वो गलगंडं तमादिशेत्॥ चिरवृद्धिः प्रपाकःस्यात्तथा पारुष्य267संयुतः॥२॥

उपचारः।

मूलकस्य च बीजानि शणबीजा268ऽतसीयवान्॥सिद्धार्थशिग्रुबीजानि तक्रेणाऽम्लेन पेषयेत्॥३॥गंडमाला269 ग्रंथिगंडा270 विलयं यांति लेपनात्॥४॥

अथ हिंस्रादितैलम्।

हिंस्त्रावचा271ऽग्नित्रिफलाऽमृतापिप्पलिदारुकैः272॥ मार्कवस्वरसैः सिद्धं तैलं मधुयुतं तथा॥ लेपतो नस्यतोवापि गलगंडं निवारयेत्॥५॥ कोलाऽमलककर्कंधूमानैर्मन्यागले तथा॥ कक्षांस273वंक्षणे मेदः-कफाभ्यांमंदपाकतः॥६॥ स्याद्गण्डमाला बहुभिर्गण्डैस्ते ग्रन्थयश्चिरात्॥ अवाप्तपाकास्ते केचित्स्रवंति प्रभवंति च॥७॥ सैवाऽपचीति कथिता चिरकालानुबंधतः॥सर्षपान्निम्बपत्राणि दग्ध्वा भल्लातकानि च॥८॥छागमूत्रेण संपिष्टमपचीघ्नं प्रलेपनम्॥ अलम्बुषादलौद्धूत-स्वरसाऽर्द्धपलं पिबेत्॥९॥ अपच्यां274 गण्डमालायां कामलायां च गण्डके॥चन्दनं च वचा पथ्यालाक्षा कटुकरोहिणी॥१०॥ तैलमेभिः शृतं पीतंसमूलामपचीं हरेत्॥ मधुना सघृतः पीतः क्वाथो वरुणमूलजः॥११॥ चिरोत्थितां गण्डमालामपचीं नाशयेद्ध्रुवम्॥ कांचनारत्वचं पिष्ट्वा पिबेत्तंदुलवारिणा॥१२॥ पलार्द्धंवा पलं वापि मुच्यते गण्डमालया॥मानुदुग्धं जपापुष्पं275 तैलं क्षाररसं समम्॥१३॥एभिस्सप्तदिनैर्लिप्ता गंडमाला शमं व्रजेत्॥ छुच्छुंदर्यास्तु तैलेन लिप्ता नाशं व्रजेदियम्॥१४॥

अथार्बुदनिदानचिकित्सा।

मेदोऽस्रमांसानि शिराः प्रदूष्य वातादयो विग्रथितंच शोफम्॥ कुर्वन्ति वृत्तोन्नतमेनमाहुर्ग्रंथिं बुधा मन्दविशाकमेव॥१५॥ गात्रदेशेक्वचिद्दोषा मूर्च्छिता मांसशोणितम्॥ संदूष्य कुर्वते वृत्तं मांसोछ्रायं तदर्बुदम्॥१६॥महामूलं276 मंदरुजं ग्रंथितुल्यं घनोन्नतम्॥ मुष्टिकाष्ठैःमहाराद्यैर्मांसं दुष्टमवेदनम्॥१७॥ शोफं संजनयेच्छीघ्रंतदुक्तं मांसजाऽर्बुदम्॥१८॥ मूलकक्षारसंयुक्ता स्वर्जिका शंखचूर्णकम्॥ एषां हि विहितो लेपो निर्हतिग्रंथिमर्बुदम्॥१९॥ दन्त्यऽग्निभल्लातक-भानुवतज्रीदुग्धंगुडः कासिसमं च सर्वम्॥ पिष्ट्वाप्रलेपो विहितोनराणां विद्रावयेद्ग्रंथिमतिप्रवृद्धम्॥२०॥ उपाचरेद्विद्रधिवत्प्रच्छानादि277भिरर्वुदम्॥ क्षाराऽग्निभ्यांदहेद्वापि स्वेदै278र्नानाविधैर्जयेत्॥२१॥ नाड्या279स्वेदं विधायाऽस्त्रं शृंगेण280बहुशो हरेत्॥२२॥सर्जरसः प्रियंगुश्च गुग्गुलुर्यष्टिकाह्वयम्॥ सूक्ष्मीकृतंप्रलेपेन हंति सर्वाऽर्बुदानि तु॥२३॥ हरिद्रालोहपत्तंगगृहधूममनश्शिलाः॥ मधुप्रगाढो लेपोयं मंदोर्बुदहरः परः॥२४॥ स्नुहीगंडीरका281स्वेदो नाशयेदर्बुदानिच॥ लवणेनाऽथवा स्वेदः सीसकेन तथैव च॥२५॥हरिद्रामूलकक्षारः शंणचूर्णसमन्वितः॥ सप्तरात्रप्रयोगेणलेपः सिध्मा282ऽर्बुदापहः॥२६॥ उपोदकाकांजिकतक्रपिष्टां तयोपनाहं लवणेन सार्द्धम्॥ दुष्टाऽर्बुदानांप्रशमाय कुर्याद्दिनेदिने रात्रिषु मर्मजानाम्॥२७॥शिग्रुमूलकयोर्बीजं रक्षोघ्नं283 सुरसं यवम्॥ अश्वमारं चसंपिष्य तक्रैर्लेपोऽर्बुदादिजित्॥२८॥

अथ श्लीपदनिदानचिकित्सा।

मेदोमांसाश्रयं शोफं पादयोः श्लीपद284ं वदेत्।पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः॥२९॥ये देशास्तेषु जायंते श्लीपदानि विशेषतः॥च महत्त्वं च श्लीपदेषु कफाद्भवेत्॥३०॥ संस्वेदनाऽभ्यंजनलंघनैश्च विरेचनै रक्तविमोक्षणैश्च॥रुष्टैस्तथा चोष्णहरैः प्रलेपैरुपाचरेच्छ्लीपदमेवमादौ॥॥३१॥ गोमूत्रेण पिबेन्मासं तैलमेरण्डसंभवम्॥यद्वा गुल्फोपरि शिरां व्यधयेच्चतुरंगुलाम्॥३२॥कासमर्दशिफाकल्कं285 गव्येनाज्येन यः पिबेत्॥ श्लीपदंसत्वरं तस्य नाशमायाति चाद्भुतम्॥ पथ्याकल्कंपिबेद्वापि गोमूत्रेण गुडूचिकाम्॥३३॥ विश्वौषधंसर्षपदेवदारुशिग्रूंश्च मूत्रेण विपिष्य लेपः॥ दुष्टं जयेच्छ्लीपदमाशु यद्वा पुनर्नवासर्षपशुण्ठिलेपः॥३४॥पिबेत्सर्षपतैलं तु श्लीपदानां निवृत्तये॥ सप्तताम्बूलपत्राणां कल्कं तप्तेन वारिणा॥३५॥ हरिद्रां गुड-संयुक्तांगोमूत्रेण पिबेन्नरः॥ वर्षोत्थं श्लीपदं हन्ति दद्रुम्कुष्ठंविशेषतः॥३६॥ वृद्धदारुकचूर्णं वा मूत्रं सौवीरकादिभिः॥ यवान्नं कटुतैलेन कूर्ममांसं चतंजयेत्॥३७॥ श्लीपदानां प्रशान्त्यर्थमशान्तोदाहमग्रिना॥३८॥

अथ विद्रधिरोगनिदानचिकित्सा।

त्वग्र286क्त287मेदः288पिशितानि289 दुष्टाः दोषाः प्रदुष्यास्थिसमाश्रिता हि॥ शोफं शनैः संजनयंति घोरं वृत्तं रुजावंतमथायतं वा॥३९॥ स विद्रधिः षड्विधमेव दोषैः पृथक्समस्तैः क्षतशोणिताभ्याम्॥

अथ वातविद्रधिः।

कृष्णाऽरुणो वा भृशवेदनः स्याद्वातोद्भवो विद्रधिरुत्थिता॥४०॥

पित्तविद्रधिः।

श्यावो दाहज्वरयुतो विद्रधिः पित्तसंभवः॥

कफविद्रधिः।

शराव290सदृशः स्निग्धो विद्रधिः कफसंभवः॥४१॥घाटालो291 विषमःपाको विद्रधिः सान्निपातिकः॥ ज्वरस्तृष्णा च दाहश्च क्षतोत्थे विद्रधौ भवेत्॥४२॥ व्यथादाहज्वरकरो रक्तविद्रधिरुच्यते॥४३॥ पृथक्संभूयवा दोषा उच्छ्रिता गुल्मरूपिणम्॥ वल्मीक292वत्समुन्नद्धमन्तः कुर्वन्ति विद्रधिम्॥४४॥ गुदे वस्तिमुखेनाभ्यां कुक्षौ वंक्षणयोस्तथा॥ बुक्कयोः प्लीह्नी293यकृति294हृदये295 क्लोम्296नि वा तथा॥४५॥ तेषामुक्तानि लिंगानिबाह्य-विद्रधिलक्षणैः॥ नाभेरुपरिजाः पक्वायांन्त्यूर्ध्वमितरे त्वधः॥४६॥ अधःस्रुतेषु जीवेत्तु स्रुतेरूर्ध्वंनजीवति॥ हृन्नाभिवस्तिवर्ज्या ये तेषु भिन्नेषु बाह्यतः॥४७॥ जीवेत्कदाचित्पुरुषो नेतरेषु कथंचन॥जलौकःपातनं रक्तं सर्वस्मिन्नेव विद्रधौ॥४८॥ मृदुर्विरेको लघ्वन्नं स्वेदः पित्तोत्तरं विना॥ अपक्वेविद्रधौ युंज्याद्व्रण-शोफवदौषधम्॥४९॥ स्वेदोपनाहा297यवशिग्रुमूलगोधूममुद्गैश्च घृतेन युक्तैः॥ लेपा विधेयास्त्वथवीक्षणेन विलीयते विद्रधिरोग एषः॥५०॥ पुनर्नवानागरदारुपथ्याद्विपंचमूलैश्च कृतः कषायः॥ सगुग्गुलुर्वैरुबुतैलमिश्रः पीतो जयेन्मारुतविद्रधिं च॥५१॥प्रलेपः क्षीरसंपिष्टैर्मधुकोशीरचन्दनैः॥ पैत्तिके विद्रधौकार्यः शतधौतघृतेन च॥५२॥ पिबेद्वात्रिफलाक्वाथंत्रिवृत्कल्काक्षसंयुतम्॥ गोशकृन्मूत्रसिकता298लोहैः संस्वेदनं हितम्॥५३॥ दशमूलीकषायो वाप्रशस्तः श्लेष्मविद्रधौ॥ हिगुसैंधवकाशीसशिलाजतुसमन्वितः॥ वरुणस्य त्वचा क्वाथः जयेदन्तरविद्रधिम्॥५४॥ हरीतकीसैन्धवधातकीनां रजोघृतक्षौद्रयुतं निहंति॥ अन्तर्भवं विद्रधिमुग्रशोफंसमाक्षिकं हंति च शिग्रुमूलम्॥५५॥ विद्रध्योःकुशलः कुर्याद्रक्ताऽगंतुनिमित्तयोः॥ पित्तविद्रधिवत्सर्वां क्रियां निरवशेषतः॥५६॥ दन्तीचित्रकगोदन्तचिरविल्वा299ऽश्वमारकान्॥ अम्लपिष्टाल्लिहेद्विद्वान्सशोफंपक्वमानतम्॥५७॥ द्विपंचमूलीत्रिफलाकुलत्थत्रिवृद्यवैर्भुर्ज्जकशिग्रुयुक्तैः॥ तैलं तिलैरण्डजमेतदेभिः सिद्धं हितं विद्रधिगुल्म-शूले॥५८॥शरीराऽगंतुभेदेन विज्ञेयो द्विविधो व्रणः॥ दोषैराद्यस्तयोरन्यः शस्त्रादिक्षतसंभवः॥५९॥ वातात्तोदः श्यावता स्फोटनं स्यात्पित्तात्तृष्णामोहदाहज्वराःस्युः॥ स्निग्धः पाण्डुः श्लेष्मणोऽथ व्रणः स्याद्रक्ताद्रक्तं स्रावयुक्तोऽतिदाहः॥६०॥ दुष्टव्रणे शोणितपूतिपूयस्रावश्च शोथो भृशगंधता स्यात्॥ शुद्धे व्रणे पूर्वविपर्ययः स्याद्दंतास्तथा क्लेदविवर्जिताः स्युः॥६१॥व्रणो बंधेन मृदुतां याति शुध्यति रोहति॥तस्माद्यत्नेन मतिमान्पट्ट300बंधं च कारयेत्॥६२॥कुर्याद्विलेपनं पूर्वं द्वितीयमवसेचनम्॥ तृतीयमुपनाहं च चतुर्थीं पाटनक्रियाम्॥६३॥ पंचमं शोधनंषष्ठं रोपणं क्रम इष्यते॥व्रणो वातभवे कार्योलेपश्शाखोटकत्वचः॥६४॥ लेपो हितः पित्तकृते च दूर्वानालीक301यष्टीमधुचन्दनैश्च॥ लेपः कफोत्थे सरलाजगंधा302 कालाऽजशृंगीहय-गंधिकाभिः॥६५॥ औदुंबराऽश्वत्थवटीवटानां303 संवेतसंवल्कलमम्बुपिष्टम्॥ लेपः प्रयोज्यःसघृतो व्रणे च ह्यागंतुके रक्तभवे च शोफे॥६६॥ विधिर्विषघ्नो विषजे पित्तघ्नो वा हितो विधिः॥ स्निग्धाऽम्ललवणैर्वाते पित्ते शीतः पयोयुतः॥६७॥ क्षार मूत्रयुतःकोष्णः कफे स्निग्धत्वशान्तये॥ कठिनानां च शोफानांदारुणानां रुजावताम्॥६८॥ स्वेदं विधाये पाकाऽर्थंकुर्याच्छोणितमोक्षणम्॥ अन्तः पूयेषु रोगेषु भेदनं304 शस्तमुच्यते॥६९॥ कपोत305कंक306गृध्राणां307 विड्वाक्षारो विदारणम्॥अत्यर्थकठिने शोफे हस्तीदन्तप्रलेपनम्॥७५॥ यवगोधूममाषाणां चूर्णलेपः प्रशस्यते॥ न चापि मुखमालिंपेत्तेन दोषः प्रसिच्यते॥७३॥ ततः प्रक्षालयेत्क्वाथैः पटोलीनिम्बपत्रजैः॥ त्रिफला खदिरो दार्वीन्यग्रोधादि308र्हितः सदा॥७२॥ एकं वा सारिवामूलं मधुना व्रणशोधनम्॥७३॥ निशायुगं सैंधवनिंबपत्रमधूकयष्टीत्रिवृता-तिलाश्च॥ एभिः प्रपिष्टैर्घृतयुक्तलेपः सर्वव्रणेशोधन309रोपण310श्च॥७४॥ सूक्ष्ममुखान्व्रणान्वर्त्या311 शोधयेत्संधिम312र्मजान313॥ निम्बपत्रघृतक्षौद्रदावमधुकसंयुता॥७५॥ वर्तिस्तिलानां कल्को वा शोधयेद्व्रण-रोपणः॥निर्वापणं घृतक्षौद्रैश्छिन्नदग्धव्रणोष्मणाम्॥७६॥एष लेपवरो ज्ञेयो शीतलीकृत्य यं विधिः॥ रसेनबहुपुत्र्यायाः314 सेकं कुर्यान्मुहुर्मुहुः॥७७॥ तिलाःपयः सिताक्षौद्रं तैलं मधुकचन्दनम्॥ लेपितं शोफ-रुग्दाहयुक्तान्निर्वापयेद्व्रणान्॥७८॥ करंजाऽरिष्टनिर्गुंडीरसो हन्यात्कृमीन्व्रणे॥ सुरसादिरसैर्लेपो लेपनं लशुनेन च॥७९॥

धूपः।

निंबपत्रवचाहिंगुसर्पिर्लवणसर्षपैः॥ धूपनं कृमिरक्षोऽघ्नं व्रणकंडुरुजापहम्॥८०॥ कपोतकानांच शुनश्च315 शीर्षं ससैंधवं चित्रकमूलमिश्रम्॥ तदश्वलिंगस्य316 रसेन पिष्टं व्रणप्रलेपाज्जननं हि रोम्णाम्॥८१॥मनश्शिला च मंजिष्ठा सलाक्षा रजनीद्वयम्॥ प्रलेपःसघृतः क्षौद्रः तद्विशुद्धिकरं परम्॥८२॥ अयोरजःसकासीसं त्रिफला कुसुमानि317 च॥ प्रलेपः कुरुते कार्ष्ण्यंसद्य एव नवत्वचि॥८३॥ पूतिगन्धान्विवर्णाश्चमहास्रावान्महारुजः॥ व्रणाञ्छुद्धान्नविज्ञाय शोधनैः समुपाचरेत्॥८४॥ जीर्णशाल्योदनं स्निग्धमम्लमुस्तं द्रवोत्तरम्॥ भुंजानो जांगलैर्मासैः शीघ्रं व्रणमपोहति॥८५॥ तण्डुलीय318कजीवंती319सुनिषेण्णक320वस्तुकैः321॥बालमूलक322वार्त्ता323कपटोलैः324कारवेल्लकैः325॥८६॥ सदाडिमैः सामलकैर्घृतभ्रष्टैः ससैन्धवैः॥ अन्यैरेवंविधैर्वापि मुद्गादीनां रसेन वा॥८७॥ व्रणे श्वयथु234रायासात्सच रागश्च जागगत्॥ तौ च रुक्च दिवास्वापात्ते चमृत्युश्च मैथुनात्॥८८॥ सद्यःक्षतव्रणं वैद्यः सशूलं परिषेचयेत्॥९९॥ यष्टीमधुकमिश्रेण नाऽतिशीतेन वारिणाकषाया मधुराःशीताःक्रियाःसर्वाः प्रयोजयेत्॥ क्रुद्धेसद्योव्रणे युंज्यादूर्ध्वं चाधश्च शोधनम्॥९०॥ लंघनंच बलं ज्ञात्वा भोजनं चास्रमोक्षणम्॥ अतिनिःसृतरक्तस्तु कदुष्णं शोणितं पिबेत्326॥ ९१॥ रक्तक्षयात्तत्र रुजःकरोति पवनो भृशम्॥ स्नेहपानं परीषेकं लेपस्वेदोपनाहकम्॥९२॥ कुर्वीत स्नेहवस्तिं च मारुतघ्नौषघैर्भिषक॥ सद्योत्रणानां सप्ताहं पश्चात्पूर्वोतमाचरेत्॥९३॥

व्रणसेचनम्।

सद्योव्रणे घृतक्षौद्रसेचनं327 कोष्णमिष्यते॥ आमाशयस्थे328 रुधिरे वमनं पथ्यमुच्यते॥९४॥ पक्वाशयस्थे329देयं च विरेचनमसंशयम्॥ क्वाथो वंशत्वगैरण्डश्वदंष्ट्राऽष्मभिदा कृतः॥९५॥ हिंगुसैन्धवसंयुक्तंकोष्टस्थं330 श्रावयेदसृक्॥ यवकोलकुलत्थानां निर्मलेनरसेन च॥ ९६॥ भुंजीतान्नं यवागूं च पिबेत्सैन्धवसंयुताम्॥ ९७॥

अथ जात्यादिघृतम्।

जातीनिम्बपटोलपत्रकटुकादार्वीनिशासारि331वामञ्जिष्टाऽभयसिक्थ332तुत्थमधुकैर्नक्ताह्वबीजैः समैः॥ सर्पिः सिद्धमनेकसूक्ष्मवदना मर्माश्रिताःस्राविणो गम्भीराःसरुजो व्रणाः सगतिकाः शुद्धयंति रोहंति च॥९८॥

अथ जात्यादितैलम्।

जातीपटोलपिनुमन्दकरंजपत्रैस्तिक्तानिशाद्वयमघुककरंजबीजैः॥ पथ्याकणाकमललोध्रकपद्मकैश्चफोता333ऽजबी334जगद335सिक्थकतुत्थके336श्च॥९९॥ एभिःसमैस्तु तिलतैलमिदं विपक्वं शस्तं व्रणेषु सकलेषु चकुष्ठरोगे॥ दद्रूविसर्पविषकीटकसर्पदष्टे सद्यःक्षतेषुनखदन्त-भवक्षतेषु॥१००॥ मर्दनार्थमिद तेलंहितं शोधनरोपणम्॥ शस्त्रप्रहारविद्धेषु दुष्टमांसेप्रशस्यते॥१०१॥

अथ सप्तविंशति (२७) को गुग्गुलुः।

फलत्रिकं व्योषविडंगमुस्ताऽमृतापटोलीहपुषाविशालाः337॥ निशाद्वयं पौष्करचव्यवह्निक्षारो विडं सैंधव-तुम्बरूणि338॥१०२॥ सौवर्चलं ग्रंथिकदेवदारुमातंगकृष्णा339श्चसमं विचूर्ण्य॥ तस्माच्च चूर्णाद्दिगुणः पुरः स्यात् कोलप्रमाणा गुटिका विधेया॥१०३॥ सा भक्षिता क्षौद्रयुतानिहन्याद्दुष्टव्रणान्कासभगंगदरांश्च॥ आनाहमुन्मादकमंत्रवृद्धिमष्टोदराण्यश्मरि मूत्रकृच्छ्रम्॥१०४॥सप्तविंशतिको नाम गुग्गुलुर्व्रणनाशनः॥ अथवा त्रिफलायुक्तो गुग्गुलुर्वणनाशनः॥ १०५॥

अथ वह्निदग्धरोगचिकित्सा।

व्रणः प्लुष्टादिभेदेन वह्निदग्धश्चतुर्विधः॥ प्लुष्टेवह्नि340प्रतपनं कार्यमुष्णं तदौषधम्॥१०६॥ दुर्दग्धे तु क्रियांकुर्याच्छीतमुष्णां ततः पुनः॥ घृतलेपनसेकांस्तु शीतान्येवास्य कारयेत्॥१०७॥ अतिदग्धेविशीर्णानि341 मांसान्युभृत्य शीतलाम्॥ क्रियां कुर्य्याद्भिषक्पश्चात्शालितंदुलकंदलैः॥१०८॥ तिंदुक्या342स्त्वक्कषायैर्वा घृतमिश्रैःप्रलेपयेत् ॥१०९॥ सम्यग्दग्धे तु गोक्षीरीप्लक्षचन्दनगैरिकैः॥ सामृतैःसर्पिषा युक्तैरालेपं कारयेद्विषक्॥११०॥ अन्तर्द्धूम343कुबेरको344 दहनजं लेपान्निर्हति व्रणमश्वत्थस्य विशुष्कवल्कलकृतं चूर्णं तथा गुंठनात्॥अभ्यंगान्विनिहंति तैलमखिलं गंडूपदैः साधितं पिष्ट्वाशाल्मलिमूलकं जलगता लेपात्तथा वालुका345॥१११॥यवभस्म यवक्षारौतैलाक्तौ संप्रलेपनात्॥ हरतःशिखिदाहोत्थं346 व्रणं दाहं च तत्क्षणात्॥११२॥ आर्द्रंतु सीपिकाचूर्णं मालतीतैलमिश्रितम्॥ आलोड्य लेपितःपूर्णं वह्निदग्धं तु तांजयेत्॥११३॥सुधा347 पुरातनी दग्धा वारिणा परिपेषिता॥ लेपनैस्तैलदग्धस्य विस्फोटव्याधिनाशिनी॥११४॥स्नुह्यऽर्कक्षीरसिक्तेन गव्यं सर्पिनिषेचयेत्॥ शैलूषा348त्रिफलादार्वीक्वाथो रोचनयायुतः॥११५॥ अक्षिजेषु च कर्तव्यमनेनाश्चोतनं दितम्॥ मधूच्छिष्टं समधुकं लोध्रंसर्जरस तथा॥११६॥ मंजिष्ठा चन्दनंमूर्वा पिष्ट्वासर्पिर्विपाचयेत्॥ सर्वेषामतिदग्धानांव्रणरोपणमुत्तमम्॥११७॥ सिद्धं कषायकल्काभ्यांपटोल्याः कटुतैलकम्॥दग्धव्रणरुजास्रावदाहविस्फोटनाशनम्॥११८॥ कंपिल्लकं विडंगानि त्वचोदार्व्यास्तथैव च॥ पिष्ट्वातैलं च पंक्तव्यं व्रणग्रंथिहरं परम्॥११९॥

व्रणे त्याज्यानि।

अत्यम्लं दधि शाकं च मांसमानूपवारिजम्॥क्षीरं गुरूणि चान्नानि व्रणितः परिवर्जयेत्॥१२०॥

इति श्रीगौडवंशावतंसश्रीमदनंतभट्टात्मजशंकरविरचिते
वैद्यविनोदे गंडमालाऽर्बुदश्लीपदविद्रधिशोफव्रणाऽ-
गंतुकनिदानचिकित्साकथनंनामैका-
दशोल्लासः॥११॥

__________

अथ भग्नरोग349निदानचिकित्सा।

भग्नं समासद्विविधं काण्डे सन्धौ तथैव च॥सर्वास्ववस्थास्वसुखं भग्नकांडेन जायते॥१॥ पीड्यमाने भवेच्छब्दःशूलं स्पर्शासहिष्णुता॥ संधिभग्नेभवेच्चिह्नं श्वयथुर्वेदनाऽनिशम्॥२॥ भग्नं विदित्वास्थि निपचयच्च जलेन शीतेन नरस्य पूर्वम्॥ पंकेन वा लेपतमेव कार्यं विबंधनं तस्य कुशान्वितं स्यात्॥३॥ उदुम्वराऽश्वत्थपलाशवंशकदम्बसर्जाऽर्जुन-वेतसानाम्॥त्वग्भिः कुशैर्वा सुदृढं प्रशस्तं निबन्धनं पट्टमुपर्थ्यदाहृतम्॥४॥ सप्तसप्तदिनाच्छीते धर्मे मुच्येत्त्र्यहात्त्र्यहाद॥ सामान्ये पञ्चपञ्चाहाद्भग्नं दोषवशेन च॥५॥ मंजिष्ठा मधुकं यष्टी लेपनं चाम्वुपेपितम्॥शतर्धोतघृतैर्मिश्रशालिपिष्टमलेपनात्॥६॥ अभिघातभवा रोगाः शोफा यांति शमं क्षणात्॥ न्यूग्रोधादिकषायं तु सुशीतं परिपेचयेत्॥७॥ पंचमूलीकाषायंक्षीरं दद्यात्सवेदने॥ भांग मांसरसः क्षीरंसर्पिर्युपः सतीनजः350॥८॥ बृंहणं चान्नपानं च देयंभग्नाय जानता॥ लघृतं गव्यदुग्धं तु मधुरौषधिसाधितम्॥९॥ द्राक्षया शीतलं युक्तं प्रातर्भग्ने पिबेन्नरः॥१०॥ रसोनमधुलाक्षाऽज्यसिताकल्कसमन्वितम्॥ भवेत्संधानमचिराच्छिन्नभग्न-च्युताऽस्थिषु॥॥ ११॥ चूर्णं पुरेण संयोज्य घृतेनार्जुनलाक्षयोः॥भग्नं संधानमायाति लीढं क्षीरघृताशिना॥१२॥आभाचूर्णंमधुयुतमस्थिभंगे त्र्यहं पिबेत्॥ आभाफलत्रिकव्योषैःसर्वैरेतैः समशकैः॥ तुल्यं गुग्गुलुनायोज्यं भग्नं संधिप्रसादनम्॥१३॥ लवणं कटुकक्षारमुष्णमत्यल्पमैथुनम्॥ व्यायामं नैव सेवेत भग्नोरूक्षान्नमेव च॥ १४॥

अथ नाडीव्रणनिदानचिकित्सा।

पक्वत्रणमुपेक्षेत बहुपूयसमन्वितम्॥ अभ्यन्तरंप्रविशति स्थानं पूयो विदार्य तत्॥१५॥ गतिस्तस्यातिगमनान्नाडीवद्वहते सदा॥ तेन नाडीमता सा तु व्रणो नाडीव्रणः351 स्मृतः॥१६॥सैन्धवज्वलन-भानुमरीचं मार्कवेभरजनीद्वयमेभिः॥सिद्धतेलमिदमाशु निहन्याद् दूरगामपि कफानिलनाडीम्॥१७॥ क्षौद्रसैंधवयोर्वर्ती नाडीव्रणहरास्मृता॥ दुष्टव्रणे यद्विहितं सेव्यमानं गतिं हरेत्॥॥१८॥ कर्चूरकस्य स्वरसे कटुतैलं विपाचयेत्॥सिन्दूरकल्कितं नाडीदुष्टव्रणविसर्पनुत्352॥१९॥कृशदुर्बलभीरूणां नाडीं मर्माश्रितामपि353॥ क्षारसूत्रेण354 तां छिंद्यान्न शस्त्रेण कदाचन॥२०॥

अथभगंदरनिदानचिकित्सा।

गुदस्य द्व्यंगुले क्षेत्रे पार्श्वतः पिडिकार्तिकृत्॥ भिन्नोभगंदरो ज्ञेयः स च पंचविधो मतः॥२१॥ रुक्षैः कषायैरधिकोपितोऽनिलो गुदप्रदेशे पिडिकां करोति याम्॥उपेक्षणात्पाकमुपैति दारुणं रुजा-विभिन्नाऽरुणफेनवाहिनी॥२२॥ तत्राऽगमो मूत्रपुरीषरेतसां व्रणैरनेकैः शतपोनकं वदेत्॥ पित्तप्रदुष्टां पिटिकां गुदस्थां करोति रक्तां भृशकोपनैश्च॥२३॥ सा शीघ्रपाकाहिमपूतिवाहं भगंदरं चोष्ट्रशिरोधरं तम्॥ श्वेताव भासःकठिनोऽतिकंडूर्भगंदरः स्रावयुतः कफात्स्यात्॥२४॥पिडिका गोस्तनाऽकारा बहुस्रावा रुजान्विता॥ शम्बूकावर्तवन्नाडी शम्वूकावर्तको मतः॥२५॥ छत्राकृति355र्वायुगता356वर्द्धते ह्यनपेक्षणात्॥ कृमयस्तत्र जायंते विदार्य च प्रकुर्वते॥२६॥ व्रणैर्बहुमुखैर्मार्गं357 तमुन्मार्गभगंदरम्॥ सर्वे भगंदरा दुःखाघोरा साधयतां मताः॥२७॥ उपाचरेत्तांपिडिकां यथापाकं न गच्छति॥ सुखोष्णधूमसेकाद्यैर्लेपैश्च विविधैस्तथा॥२८॥ पिडिकानामपक्वानां शुंठी छिन्ना पुनर्नवा॥ वटपत्रेष्टिकां358पिष्ट्वालेपः शस्तो भगंदरे॥२९॥ पक्वानांपाटनं क्षारंवह्निदाहादिकं क्रमम्॥ विधाय व्रणवत्कार्यं यथादोषं यथाबलम्॥३०॥

अथ शोधनरोपणलेपः।

तिलावचालोध्रमगारधूमा359न्यरिष्टपत्राणि निशाद्वयंच॥ पथ्यासमंसर्वमिदं सुपिष्टंभगंदरे शोधन-रोपणंस्यात्॥३१॥ त्रिफलाया रसेनैव बिडालास्थि360प्रलेपनम्॥ भगंदरं निहंत्याशु दुष्टव्रणहरं परम्॥३२॥वज्रीदुग्धं361 भानुदुग्धं362 च दार्वींवर्तिं कृत्वा योजयेत्तस्यगर्ते॥ एषा वर्तिर्नाशयेद्दुष्टनाडीं पूयस्रावां शोफ-युक्तांसशूलाम्॥३३॥

अथ व्रणशोधनम्।

कुष्ठं तिलाः पिप्पलि सैंधवं च दन्ती त्रिवृत्तुत्थफलत्रिकाणि॥ निशा समांशं विहितं च चूर्णं मधुप्रयुक्तं व्रण-शोधनं स्यात्॥३४॥

गुटिका।

त्रिफलायास्त्रायो भागाः पंचभागास्तु गुग्गुलोः॥पिप्पल्या एकभागः स्याद्गुटिकाः संप्रकल्पयेत्॥३५॥वेदनाशोफगुल्माऽर्शोभगंदरवतो हिताः॥३६॥निशाऽर्कक्षीरसिन्धूत्यपुराश्व363हनवत्संकैः364॥ सिद्धमभ्यंजने तैलं भगंदरहरं परम्॥३७॥ व्यायामंमैथुनं युद्धं पृष्ठभारं365 गुरूणि च॥ संवत्सरं परिहरेदुपरूढव्रणो नरः॥३८॥

अथोपदंश366निदानचिकित्सा।

हस्ताऽभिघातनखदन्तनिपातनाद्यैर्मोनिप्रदोषबहु’मैथुनसेवनाभ्याम्॥ शिश्ने भवंति हि गदा ह्युप-दंशसंज्ञास्ते पंचधाबहुविधैरपचारकैः स्युः॥॥३९॥ सतोदभेदस्फुटनं कृष्णैः स्फोटैर्युतोऽनिंलात्॥ रक्तस्फोटैर्युतः पित्तात्कण्डूरैः शोफसंयुतैः॥४०॥घनसावयुतेःशुः स्फोटैर्युक्तो भवेत्कफात्॥ नानात्रावरुजायुक्तस्त्वसाध्यः स्यात्रिदोषजः॥४१॥ प्रशीर्ण367मांस संजग्धं368 कृमिभिस्तंविवर्जयेत्॥ उपदंशे जातमात्रे कियां कुर्यान मूढधीः॥४२॥ दाहपाकक्रिमियुतो म्रियते शीर्ण369शिश्नकः370॥ उपदंशेषु सर्वेषु खिन्न-स्निग्धस्य देहिनः॥४३॥ जलौकापातनं श्रेष्ठं मेद्रमध्ये व्यवेच्छिराम्॥ अत्यर्थमुत्कटे दोषे नरं सम्यग्विरेचयेत्॥४४॥ पाको रक्ष्यः प्रयत्नेन शिश्नक्षयकरी हि सः॥४५॥ मधूकयष्टी- सरलाऽगरूणां सदारुरास्त्रागदपद्म371कानाम्॥ एषां पलेपः परिषेचनं वा वातोपदंशेषु भिषग्भिरुक्तम्॥४६॥ मधूकोशीरमंजिष्ठागैरिकांजनपद्मकैः॥ सचंदनोत्पलैः शीतैः पैत्तिकं संप्रलेपयेत्॥४७॥ त्रिफलायाः कषायेण मधुयुक्तेन सेचयेत्॥ अथवा सघतक्षीरगोक्षुरेक्षुमधूदकैः॥४८॥ आरग्वधादिक्वाथेन परिषेकः372 कफेहितः॥४९॥ वटमरोहाऽर्जुनलोधपथ्याजंबू हरिद्राविहितः प्रलेपः॥ सर्वोपदंशेष्वधरोहणार्थं शस्तस्तथा वा परिषेचनं च॥५०॥ सेकः सर्वोपदंशेष भृंगराज रसेन च॥मधूकपत्रचूर्णेन दाडिमत्वग्रजः कृतम्॥५१॥ गुण्ठनं373तद्गदे शस्तं लेपः पूगफलस्य वा॥ दग्धगुंजाकृतं भस्म हरितालमनश्शिले॥५२॥ तच्चूर्णमुपदंशानामाशु शांतिकरं परम्॥५३॥ कटाहदग्धत्रिफलामषीमाक्षिकसंयुता॥ उपदंशे प्रले- पस्स्यात्सद्यो रोपयति व्रणम्॥५४॥ रसांजनं वा पथ्या वा शिरीषेण समन्वितम्॥ सक्षौद्र लेपनं योज्यं सर्वाऽनंग374गदापहम्॥५५॥ हय—मारस्य375 मूलेनः परिपिटेन वारिणा॥ असाध्याऽपिव्रजत्यस्तं लेपालिंगस्य वेदना॥५६॥ जलधौतःप्रयत्नेन लिंगोत्यम-वचूर्णयेत्॥ रोगं कासीसचूर्णेनपुरुषः सुखवाञ्छया॥५७॥ करंजसालाऽर्जुननिम्बबूवटादि-भूकल्क376कषायसिद्धम्॥ घृतं निहन्यादुपदंशरोग सदाहपाकं श्रुतिरागयुक्तम्॥५८॥ उक्तानि यानि सर्पीषिकुष्ठेनाडिव्रणेतथा॥ उपदंशे प्रयोज्यानि सेकाऽभ्यंजनभोजनैः॥५९॥ सगंध29कैलामरिचं लवंगं शुद्धं रसेन्द्रं सकलं विचूर्ण्य॥ तांबूलतोयेनघृतेन युक्तं संमद्ये लेप पुरुषः प्रकुर्यात्॥६०॥ दुग्धोदनाशी सकलोपदंशैर्विमुच्यते स्फोटरुजान्वितैश्च॥पर्णेन भुक्तं घृतवर्जितं तत्सर्वोपदंशान्विनिहन्तिचूर्णम्॥६१॥

अथ लिंगार्शोरोगनिदानचिकित्सा।

लिंगस्योपरि संघातरंकुरैरिव संहतैः॥ क्रमेण जायतेवर्तिस्ताम्रचूडशिखोपमा॥६२॥ कोश377स्याऽभ्यन्तरे संधौ पिच्छिला च सवेदना।लिंग378वर्तिरितिख्याता लिंगार्श इति केचन॥६३॥ रसांजनं सर्जिकाच तुत्थं शैलेयमंजनम्॥ तालं मनश्शिलासर्वं चूर्णं मांसांकुरापहम्॥६४॥ व्रणवच्चाचरेत्सम्यक्क्षारेणैव विघर्षयेत्॥ लिंगवर्तिः शमं याति लेपात्कासीप्त-चूर्णतः॥६९॥

अथ शुकरोगनिदानचिकित्सा।

मूढधीःशेफसो वृद्धिः प्रकमाद्योऽभिवांछति॥ पिटिकास्तस्य जायंते तास्सर्वाः शूकजाः स्मृताः॥६६॥सर्वेषु शूलदोषेषु विषघ्रींकारयेत्क्रियाम्॥ जलौकाभिर्हरेद्रक्तं मेढ्रेवा व्यधयेच्छिराम्॥६७॥ विरेचनं प्रयुंजीत गुग्गुलुं त्रिफलान्विम्॥क्षीरेण लेपनं सेकाञ्छीतानेव च कारयेत्॥६८॥ गृहधूमनिशायुग्म- दार्वीसुरसयष्टिकैः॥ तैलमभ्यंजनात्पक्षान्मेढ्ररोगं निवारयेत्॥६९॥ कल्कः कषायः सर्पिश्च तैलं चूर्णं रसक्रिया। शोधनं रोपणं चैतद्वीक्ष्यवीक्ष्य च कारयेत्॥७०॥ रसांजनं लेपमात्रात्सर्वाऽनंगगदापहम्॥७१॥पूगीफलार्धमादाय गोघृतेन तु घर्षयेत्॥ रीतिभांडेद्विघटिकालेपनाद्दाहशांतिदम्॥७२॥ शीशकं गोघृते घृष्ट्वाप्रस्थरोपारि यामकम्॥लेपनाद्दाहशांत्यर्थं चोपदंशे महत्क्रियाम्॥७३॥ आढकीबीजभस्म च सूक्ष्मचूर्णकृतं महत्॥ तस्योद्धूलनयोगेनउपदंशस्रवं हरेत्॥७४॥

अथ हिंगुलादिलेपः।

हिंगुलं पारदं नागं कणा वा त्रुटि नागजम्॥ रसकर्पूरकं शुद्धं तथा सुर्दाशृंगाख्यकम्॥७५॥ भस्म पूगी-फलं ग्राह्यं भस्म च खदिरसारजम्॥ ससिक्थं गोघृतं सर्वं समं चायसभाजने॥७६॥लोहदंडेन चाग्नौच पक्वंघृष्टावतारयेत्॥ यदा गाढत्वमायाति लेपनाद्व्याधिशांतिदम्॥७७॥चोपदंशेषु सर्वेषु शीर्णं मांसं प्रपूरयेत्॥ अतिशीतलतां याति क्षतं पूरयतिध्रुवम्॥७८॥

अथ मुन्नताख्यरोगलेपः।

योनिदोषान्मलाढ्यत्वं यदा मेढ्रेप्रजायते॥ काठिन्यं मेढ्रचर्मणि बहुक्लेशकरं नृणाम्॥७९॥ तस्मान्मेढ्रेतु शोफं वैमुन्नताख्यमितीरितम्॥ तञ्चर्म ह्यन्यमार्गेणच्छुरेण कुशलो भिषक्॥८०॥सीपिकाचूर्णमार्द्रंतु कटुतैलेन मिश्रितम्॥ घृष्टयेगीतिभांडस्थं यदाकज्जलतां नयेत्॥८१॥ उच्छ्रितं लिंगचर्म स्यादेतल्लेपनकृन्नरैः॥ मुन्नताख्यं हरेद्रोगं दिनद्वादशलेपनात्॥८२॥

इति श्रीगौडवंशावतंसश्रीमदनन्तभट्टात्मजशंकरभट्टविरचिते वैद्यविनोदे भग्ननाडीव्रणभगंदरोपदंशलिंगार्शःशूकदो-
षमुन्नतरोगनिदानचिकित्साक्रथनं नाम
द्वादशोल्लासः॥१२॥

——————

अथ कुष्ठरोगनिदानचिकित्सा।

विरुद्धदुष्टाशुचिभोजनानि नवान्नपानं दधिमत्स्यमाषाः॥ तिला गुडक्षीरदिवाऽतिनिद्रा व्यवाय379मम्लं गुरुघर्षणानि॥१॥ एतैश्च दुष्कर्मभिराशु दुष्टावातादयस्त्वग्रुधिरं च मांसम्॥ संदूष्य कुर्वति गदंनराणां स कुष्ठरोगः कथितो भिषग्भिः॥२॥ उदुम्बरमृक्षकजिह्वसंज्ञं कपालकं सिध्मकपुंडरीके॥ वैपादिकं काकण-मंडले च किलासदद्रूकिटिभं चचर्म॥३॥ कंडूस्तथा चर्मदलं च पामा विचर्चिकास्फ़ोटशतारुकाणि॥कुष्ठानि चाऽष्टौ दश संमतानि तेषां तु पूर्वं व्रणदाहपामाः॥४॥

(१) उदुम्बरफलाभासः कुष्ठमौदुम्बरं स्मृतम्॥
(२) कर्कशमृक्षजिह्वाभमृक्षजिह्वं तदुच्यते॥५॥
(३) कृष्णाऽरुणं च परुषं कपालाभं कपालकम्॥
(४) प्रायश्चोरसि तत्सिध्ममलावुकुसुमोपमम्॥६॥
(५) सश्वेतं रक्तपर्यन्तं पुंडरीकं च तत्समम्॥
(६) वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम्॥७॥
(७) काकणं नैव सिध्येच्च गुंजाऽभं तीव्रवेदनम्॥
(८)श्वेतरक्तं स्थिरं स्निग्धमुत्सन्नमण्डलं स्मृतम्॥८॥
(९) कण्डमद्भिः सरागैच गंडैरेतत्किलासकम्॥
(१०) सकण्डुरागपिटिका दद्रुमंडल-मुद्रता॥९॥
(११) श्यावं बहुखरस्पर्श किटिभं नाम तत्स्मृतम्॥
(१२) श्यावं कुष्ठं च चर्माख्यं बहलं हस्तिचर्मवत् ॥१०॥
(१३)स्फोटैः पाण्योः स्फजो380 युक्ता कण्डूरुक्तामनीषिभिः
(१४) रक्तं सशूलं सस्फोटं तच्चर्मदलसंज्ञितम्॥११॥
(१५) सूक्ष्मा बह्वयः कण्डूमत्यःपामेतिपिटिकाः स्मृताः॥
(१६) सकुण्डूः पिटिकाःश्यावा बहुखावा विचर्चिकाः॥१२॥
(१७) स्फोटाः श्यावाऽरुणाभासा विस्फोटास्ते तनुत्वचः
(१८) रक्तंश्यावं सदाहार्ति शतारु स्याद्वहुव्रणम्॥१३॥
श्यावारुणं रूक्षतरं सतोदं तद्वातकुष्ठं प्रवदन्ति वैद्याः॥ पित्ताच्च दाहस्रुतिरागयुक्तं कफाद्धनं क्लेदि सकंडुकुष्ठम्॥१४॥

अथ संसर्गजरोगाः।

प्रसंगाद्गात्रसंस्पर्शादेकत्रासनभोजनात्॥ नेत्रस्पंदो ज्वरः कुष्ठं संक्रामन्ति नरान्नरम् ॥१५॥ वाते सर्पिवतिरुक्ता कफोत्थे पित्ते योज्यो रक्तमोक्षो विरेकः॥एला रात्रिर्जंतुशत्रुः शताह्वा381कुष्ठंहन्ति तार्क्ष्यशैलं बला च॥१६॥ एभिर्ल्लेपोवह्नि382युक्तैर्निहन्यादपामाश्वेतकुष्टं विचर्चिम्॥रात्रिः पथ्या वल्गुजं रक्तबीजं वेल्लं सिन्धूःसर्षपाश्चेति लेपः॥१७॥ नक्ताऽह्वबीजेडगजं383 सकुष्ठंगोमूत्रपिष्टैश्च वरः प्रलेपः॥ धात्रीस्नुहीसर्जक384-चक्रमर्दतुषोदकैर्दद्रुहरः प्रलेपः॥१८॥ अंजीरकत्वचो ग्राह्यं बाकुचीबीजतत्समम्॥गोदुग्धेनशिला-पिष्टाल्लेपनाच्श्छ्वेतकुष्ठहृत्॥१९॥ आरग्वधस्यपत्राणि पिष्ट्वातक्रेण मर्दयेत्॥ पर्णानि काकमाच्यावा हयमारस्य वा च्छदैः॥२०॥ तक्रपिष्टः प्रलेपश्चकण्डूदद्रुहरः परः॥२१॥ कुष्ठैडगज385सिन्धूत्थंकृमिजित्स386र्षपैः कृतः॥ सौवीर387पिष्टो लेपोऽयं दद्रू388मंडल389सिध्मजित्390॥२२॥ कास391मर्दकमूलानि सौवीरेण प्रपेपयेत्॥ लेपेन दद्रुकुष्ठानि जयेदेतन्न संशयः॥२३॥ दुर्वैण्डगजसिन्धूत्थं पथ्यावल्गुकुठेरकाः392॥तक्रकांजिकसंपिष्ट्वात्रिलेपाद्दद्रुनाशनः॥२४॥कदलीक्षाररजनीलेपो सिध्मानि नाशयेत्॥ गंधकः393सयवक्षारः कटुतैलेन सिष्मा॥२५॥ स्नानभोजनपानेषु प्रलेपोद्वर्तनेषु च॥ शीतलं खादिरं वारि सर्वत्वग्दोषनाशनम्॥२६॥ गैरिकं टंकणं चैव नौसादरकैःसमम्॥लिप्ता शीतलतोयेन दद्रुसर्षपिकां जयेत्॥२७॥फल-विकच्छिन्नरुहापटोलीसनिम्यवासाखदिरैः कषायः॥ पीतः प्रभाते विनिहंति कंडूविसर्पपामाफिटिभानि कुष्ठम्॥२८॥ सोमराजीबीजकर्षं पिबेदुष्णेन वारिणा॥ भोजनं क्षीरसर्पिभ्यां सर्वकुष्ठैःप्रमुच्यते॥२९॥ छिन्नायाः स्वरसो वापि सेव्यमानस्तु कुष्ठहा॥ राजिकागुड-सिन्धूत्थं पिष्ट्वासम्यक्प्रलेपितम्॥३०॥ बिडालचर्मणा बद्धं नाशं चर्मदलं व्रजेत्॥३३॥ मधुसिक्थक332सिन्धूत्थं गुडगुग्गुलगैरिकम्॥ घृतं करेणु394दुग्धं च रालं पिता प्रलेपयेत्॥३२॥ पादयोःस्फुटनं395 नाशं प्रयाति चिरका-जलम्॥पिष्टं जातीफलं लेपाद्विनिहंति विपादिकाम्396॥३३॥तद्वत्सर्जरसस्तैलमधुयुक्तः प्रलेपनात्॥पलद्वयं तुगोमूत्रं हरिद्राकल्कसंयुतम्॥३४॥ पिवेन्नरः काफमाची कंडूं पामां विनाशयेत्॥ गंधकः कटुतैलेनकण्डु-पामाविनाशनः॥३५॥ सिंदूरगुग्गुलरसजिनसिक्थ397तुत्थतुल्यांशकैः कटुकतैलमिदं विपक्कम्॥ कंडूस्रवत्पिटिकिकामथवाऽपि शुष्कामभ्यंजने सकृदुद्धरतिप्रसा॥३६॥ सिंधुगोमयसंयुक्तां हरिद्रां माक्षिकेणच॥ पिष्ट्वा प्रलेपनं योज्यं पामाकंडूविनाशनम्॥३७॥जीरकस्य पलं पिष्ट्वासिंदूराऽर्द्धपलं तथा॥ कटुतैलंपचेदाभ्यां सद्यः पामाहरं परम्॥३८॥

अथ बृहन्मरिचादितैलम्।

मरिचपिप्पलिचन्दनकुष्टकं रविपयः398सुरदारुकगोमयम्॥ द्विरजनीहरितालमनश्शिलानलद-कर्णिक399वारुणिका400विषम्401॥३९॥ पृथगिदं समम-र्द्धपलंपचेत्कटुकतैल चतुर्गुणगोजलम्॥ कटुकतैलमिदं परिसाधितं हरति कुष्ठगदं च विचर्चिकाम्॥४०॥किटिभं कंडुपामाश्च विस्फोट मंडलानि च॥ रक्तोद्भवास्तुये रोगा ये च शाखाश्रयाः402 स्थिताः॥४१॥ ते सर्वे विलयं यांति तैलस्याऽस्य प्रभावतः॥ कल्काच्चतुर्गुणस्नेहः स्नेहात्क्वाथ चतुर्गुणः॥४२॥ रजनीकल्कसंयुक्तामर्कपत्ररसे पचेत्॥ कटुतैलं हरेत्तच्चपामांकंडूविचर्चिकाः॥४३॥ वासापटोलीत्रिफलागुडूची-निदिग्धिका256निंबकरंजतोयैः॥ वासादिकल्केन तुसिद्धमेतदघृतं महावज्रकमाविशंति॥४४॥ निषेवितं तद्विनिहंति कुष्ठं विशीर्णकर्णांगुलिनासिकं च॥४५॥हरितालस्यैकभागः सोमराजी403 चतुर्गुणा॥ संपेष्यच गवां मूत्रे लेपः श्वित्रं404 विनाशयेत्॥४६॥सबीजसारः खदिरस्य सारः सलोहचूर्णः सविडंगसारः॥सर्निबसार त्रिफलाऽमृताहुकुष्ठापहः श्वित्रगदापहश्च॥४७॥ दुर्वानिशायुग्मलेपः कंडूपामाविनाशनः॥दुर्वादिलेपो विख्यातः सर्ववैद्येषु पूजितः॥४८॥ स्वर्ण405क्षीरीं चक्रमर्दं विडगं406 सिन्दूरं स्यात्पारदं गंधकं च॥कुष्ठंसर्वं मर्दयेद्धर्तनिंबतांबूलानां पत्रजन्यैः रसैश्च॥४९॥अस्मात्लेपान्नाशमायांति शीघ्रं पामाः कंडूचर्चिकाः कंडुयुक्ताः ॥५०॥महिषीनवनीतेन सिदूरं मरिचं तथा॥ संपिष्टं बहुधा लेपात्पामां नाशयति ध्रुवम्॥५१॥गंधको407 निबुतोयेन लेपासिध्मविनाशनः॥ जंबीरस्यरसो वापि नवसारयुतस्तथा॥५२॥

अथ गलितकुष्ठलक्षणम्।

नासिकाग्रिमविभागविभंगो हस्तपाददवथुः श्वयंथुश्च॥ अंगुलीविगलनं स्वरहा निस्तद्रद निगदितं किलकुष्ठम्॥५३॥ भवति वातरक्तेन सर्वे कुष्ठगदा नृणाम्॥तस्मात्सर्वेषु कुष्ठेषु रक्तस्रावो विधीयते॥५४॥

सूताद्यमोदकः।

सूताअगंधाऽयसशुल्ब408धारा164करंजबीजानि शिलाजतुश्च॥ फलत्रिकं गुगुलुचित्रके च सतिन्दुके409 सर्वमिदंसमांशम्॥५५॥ क्षौद्रेण साज्येन विमद्ये भांडे त्रिग्धेनिघायाथ दिनानि सत्॥ कोलप्रमाणं परिभक्षणीयंप्रातर्गलत्कुष्टविनाशनाय॥५६॥ पथ्ये पयः शर्करयासमेतं शक्तं पयः साधितमेव कुर्यात्॥ वृन्ताकमाषांद्यहितं च वर्ज्य स्त्रीसेवनं कुष्ठविकारिणां च॥५७॥

अथ माणिक्यतिलकरसः।

रसगंधकताप्यायः कांततीक्ष्णाश्रमस्मकम्॥हिंगुलं मधुकं कुष्ठं सर्वं समविभागकम्॥५८॥ शतमूलीनिजद्रावैर्मंजिष्ठादिकषायतः॥ त्रिदिनं त्रिदिनं समयक्परिमर्द्य विशोष्य च॥५९॥ ततस्तु पक्कमूषायनिरुध्यातिप्रयत्नतः॥ प्रक्षिपेद्वालुकायंत्रे प्रपुटेद्दिवसत्रयम्॥६०॥ माणिक्यतिलको नाम रसो नासत्यकीर्तितः॥ एष कुष्ठं हरत्याशु सन्मित्रमिवहृद्व्यथाम्॥६१॥ कंस्तुंबरी410रक्तकलाय411मूलं सूतो बलीरामठसोम-राज्यौ। निम्बस्तिला वह्निभुजंग412काख्यौ सर्वंसमंगोलकमिष्टमेतत्॥६२॥ छायाविशुष्कं मधुनाऽक्षमात्रं दुग्धेन पीतं सितकुष्ठहारी॥ क्षिप्रापि कुष्ठस्यसदैव पथ्या सक्षारमम्लं परिवर्जनीयम्॥६३॥ अरण्योपल413-भृत्यांगमर्दनं414 बधिरं415 जयेत्॥ गुह्य416पाणितलोष्ठेषु जातमप्यचिरंतनम्॥६४॥ वर्जनीयं विशेषेणकिलासं सिद्धमिच्छता॥ योषिन्मांससुरावर्जी कुष्टीकुष्ठमपोहति॥६५॥

अथोदर्दशीतपित्तनिदानचिकित्सा।

शीताऽनिलस्पर्शगुणेन दुष्टौकफाऽनिलो पित्तमवाप्य देहे॥ विसर्पतोतर्बहिराशुपूर्वं शोफं सकण्डं कुरुतःसदाहम् ॥६॥ वरटीदंष्ट्रसंस्थानःशोफः स्याज्ज्वरवांतिमान्॥ रदर्दः स तु विज्ञेयः शीतपित्तमथाऽपरे ॥६७॥ असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहः॥ मंडलानि सकण्डूनि यत्र स्युः कोठसंज्ञितः॥६८॥ वाताऽधिकं शीतपित्तमुदर्दश्व कफाऽधिकः॥ कंडूमण्डलरागेश्च युक्तोसौ कोठसंज्ञितः॥६९॥ अत्राशुकार्यंवमनं पटोलीवासाौसुभद्रेै417श्त्रिवृताविरेकः॥ अभ्यंग इष्टः कटुतैलकेन सेकस्तथा चोष्णजलेन शस्तः॥७०॥ क्षौद्रेण युक्तां त्रिफलां चिलियात्सिता मधूकं गुडसाऽक वा॥ कटुत्रिकं क्षारयुतां यवानों खादेत्तथा चाऽमलकं गुडेन॥७१॥ कुलत्थं स्वरसेनैव रसैस्तित्तिरलावजैः॥ भोजनं च सदा पथ्यं शीतोष्णं दोषकालतः॥७२॥ निम्बस्य पत्राणि घृतेन धात्री मिश्राणियुंज्यात्तदुदर्द कोठे॥सिद्धार्थदद्रुघ्ननिशा-तिलानामुद्रर्तनं स्वास्कटुतैल मिश्रम्॥७३॥ भिषक्संशुद्धदेहस्यकुष्ठनीं कारयत्क्रियाम्॥ कोठोदर्दे शीतपित्ते ह्यम्लपित्ते क्रियां तथा॥७४॥

अथाऽम्लपित्तरोगचिकित्सा।

विदाहिकट्वम्लविरुद्धपित्तप्रकोपिपानान्नरतस्यजंतोः॥ पित्तं विदग्धं भ्रंशसंचितं प्राक्तदम्ल418पित्तंसुनिभिः प्रदिष्टम्॥७५॥ तिकाऽम्लोद्गारदृत्कंठदाहापत्त्यरुचिक्लमैः419॥ उक्वेश420गौरवैरतेडी म्लपित्तंविदुर्बुधाः॥७६॥ तृष्णामूर्छात्रवह्निसादअममोहकरंहि तत्॥ तिक्ताऽम्लवमनं421 कुर्यादमुक्तो मुक्त एववा॥७७॥ हस्तपादे च दाहोष्णं महतीमरुचिं ज्वरम्॥मंडलं पिटिकाकंडूकोठान्संजनयेच तत् ॥७८॥सानिलं सानिलकफं सकफं तच्च लक्षयेत्॥ दाते कंपो वमिःशूलं कफे टीवनगौरवम्॥७९॥ उसपोर्जायते चिह्ने कफमारुतसंभवे॥ रोगोयमम्ल-पित्ताख्योबलात्साध्यो नवोत्थितः॥८०॥ मधुचात्रीफलरसैःसम्यग्वान्तं विरेचयेत्॥ त्रिवृता क्षौद्रकृया सुस्रिग्धंचानुवासयेत्॥८१॥ आहारंतिकभूमिष्टं पानं चापिप्रयोजयेत्॥ यत्रगोधूमविकृतीलाजवन्सितायुतान् ॥८२॥ अन्ने विदेग्धे422 कर्तव्यं वमन कोष्णवारिणा॥ ऊर्ध्वगं वमनैर्वियोग रेचरेत्॥८३॥सम्यक्संदेहस्य यदि दोपो न शाम्यति॥ कृतशीतविधिस्तत्र कुर्याहक विमोक्षणम्॥८४॥ द्राक्षाऽभयापिप्पलिवन्याससिताश्च संचूर्ण्य समं विलियात्॥क्षौद्रेण सार्क कफकंठदाहतृष्णाऽम्लपित्तज्वरवान्मनुष्यः॥८५॥ छिनोद्भवानिम्ब-पटोलपत्रं काथं पिबेरौद्युतं तथैत्र॥ निर्हति पित्तासमनेकरूपं सुदारुणंदाहयुताम्लपितम्॥८६॥ पटोल-यवकृष्णानां काथंमधुयुतं पिबेत्॥ नाशयेदम्लपित्तं च छर्दितृष्णाऽरुचिज्वरान्॥८७॥ पटोलतितात्रिफला-कपायः सितायुतो हंति सदाऽम्लपित्तम्॥ छिन्नोद्भवा निवपटोलपत्रक्वाथंपिबेत्क्षौद्रयुतं तथैव॥८८॥ ज्वलंतमिवचात्मानं मन्यते योऽम्लपित्तवान् ॥ तस्य संशोधनं’पथ्यं न शान्तिः शोधनं विना॥९९॥ फलत्रिकंत्रिकटुकं विडंगं चित्रको घनः॥ प्रत्येकं तु पलं चैषांपलाऽर्द्ध गंधकस्य च॥९०॥ कर्षमेकं रसेन्द्रस्यसूक्ष्मं च यदि पेषितम्॥ बिडालपदमात्रं तल्लिह्यात्रमधुसर्पिषा॥९१॥ शीतोदकं पिबेच्चानुक्रमाद्रव्यं423 पयस्तथा॥ वह्निमांद्यमम्लपित्तं शुलं चपरिणामजम्॥९२॥ कामलां पांडुरोग च हन्यादेतद्रसायनम्॥१३॥

अथ नारिकेलखंडः।

नारिकेरकुडवं सुपेषितं तत्समाक्षिकसिताचतुर्गणम्॥ नालिकेरकजले विलोडितं सर्वमेव मृदु-वह्निनापचेत्॥९४॥ मुस्तधान्यककणा त्रिसुगंधं चूर्णितंपृथगिदं समशाणम्॥ निःक्षिपेत्तदनु शीतलभूते नालिकेरजनितः खलु खंडः॥९६॥ श्वासका सपरिणामजशूलमम्लपित्तमतिदारुणं जयेत्॥ पुंस्त्वशुक्रबल-वर्द्धनः परं रक्तपित्तगलदाहनाशनः॥९६॥

अथ नारिकेलपाकः।

भर्जनं नालिकेरस्य कुर्यादघृतपलेन च॥ यदा मधुनिभां दृष्ट्वा मन्दीभूतेऽग्नितां नयेत्॥१७॥ जीरकंधान्यकं पिष्ट्वा घृतप्रस्थं विपाचयेत्॥ पलाऽर्द्धं नाशयेच्छीघ्रमम्लपित्तं सुदारुणम्॥९८॥

अथ विसर्परोगनिदानचिकित्सा।

कट्वऽतीक्ष्णोष्णनिषेवणेन दोषाः प्रदुष्टा रुधिरंच मांसम्॥ त्वचोऽलसीकाः प्रविदुष्य धातून्विसर्परोगं जनयंति घोरम्॥९९॥ विसर्पः424 स तु विज्ञेयः सर्वतः परिसर्पणात्॥ पृथग्द्वंद्वसमस्तैश्च दोषैः सप्तविधोमतः॥१००॥ वातज्वरसमो वातात्पित्ताच्छोफस्तुशीघ्रगः॥ कफात्कंडूयुतः स्निग्धस्त्रिदोषात्सर्वरूपधृक्॥१०१॥ आग्नेयो वातपित्ताभ्यां ग्रन्थाख्यः कफवातजः॥ यस्तु कर्दमको घोरः स पित्तकफसंभवः॥१०२॥ यंयं देशं विसर्पश्च विसर्पति भवेत्स सः॥ अग्निदग्ध इव स्फोटैश्वीयते दाहरोगवान्॥१०३॥ अंगं चित्तमिवांगारैर्यत्र सोऽग्निविसर्पकः॥ कुरुतेग्रंथिमालां यः स स्याद्वन्थिविसर्पकः॥१०४॥ पंकवच्छीर्णमांसो यः कर्दमाख्यमुशंति तम्॥ विसर्पेषु च सर्वेषुलंघनं रक्तमोक्षणम्॥१०५॥ विरेकवमनालेपसेचनानि प्रयोजयेत्॥ वांतिर्निंब-पटोलाभ्यां पिप्पलीमदनेन वा॥१०६॥ विरेचनं त्रिफलया शस्तं तिवृतया सह॥ एषः श्रेष्ठतरो चूर्णं वीक्ष्य मात्राऽर्द्धकर्षकम्॥१०७॥ रास्नोत्पले दारुकचंदने च वचामधूकं घृतयुक्तमस्य।लेपो विसर्पे पवनोद्भवे वा शकत्पयो मूत्रसुखोष्णलेपः॥१०८॥ मंजिष्टापद्मकोशीरन्यग्रोध425प्लक्ष426चन्दनैः॥ यष्टीनीलोत्पलैः पित्ते क्षीरपिष्टैःप्रलेपनम्॥१०९॥

अथ दशांगलेपः।

शिरीषमांसीजलकुष्टयष्टीनिशाइयैलानतचंदनानि॥लेपो दशांगः सधृतो निहति विसर्पशोफज्वर-कुष्ठदाहान्॥११०॥ समंगा त्रिफला सेव्यमुशीरं कारवीरकम्॥ नलमूलमनंता च लेपः श्लेष्म विसर्पहा॥१११॥ अमृतवृषपटोलीनिंग करु कैरुपेतं त्रिफलखदिरसारं व्याधिघातश्च तुल्यम्॥ कथितमिदमशेषगुग्गुलोः पादयुक्तं हरति विपविसर्प कुष्ठमष्टादशाहात्॥११२॥ भूनिम्बवासाकटुका पटोलीफल त्रिकारिष्टकचंदनानाम्॥ विसर्पदाहज्वरशोथ कंडूविस्फोटतृष्णावमिनुत्कषायः॥११३॥ त्रिदोषजां क्रियां कुर्याद्रिसर्पत्रिकसंभवे॥ वातपित्तप्रशमनमग्रिसंज्ञे विसर्पके॥११४॥ कफपित्तप्रशमनं प्रायः कर्दमसंज्ञके॥ कफ़वातहरं कर्म ग्रंथिसंज्ञे विसर्षके॥११५॥ एरंडतुंबिनीनिंबा वाकुची चक्रमर्दकम्॥ तिक्तकोशातकी-बीजमकोल्लं427चंचुवीजकम्428॥१६॥ गोमूत्रदधिदुग्धैस्तुभावयेत्तिलजेन च॥ मूत्रेणाजाप्रसूतेन तैलं पाताल-यंत्रजम् ॥११७॥विसर्पं नाशयत्याशु श्वेतकुष्ठंचतत्क्षणाव॥११८॥

अथ विस्फोटकरोग (शीतला) चिकित्सा।

कट्वम्लोष्णादिभिर्दोषाः कुपिता मांसशोणितम्॥संदृष्यकुरुते घोरान्विस्फोटाञ्ज्वरसंयुतान्॥११९॥अग्निदग्धनिभाः स्फोटा गात्रे सर्वत्र वा क्वचित्॥ जायन्ते विविधाऽकारा विस्फोटक429 इति स्मृतः॥१२०॥विसर्पवत्क्रिया कार्या शस्तं वमनरेचनम्॥ मुद्गाऽढकीमसूराणां यवशालियुजां रसैः॥१२१॥ सुनिष430ण्णक-कर्कोटकावेल्लकपर्पटैः॥ तिक्तद्रव्यसमायुक्तंभोजनं संप्रयोजयेत्॥१२२॥ अमृतखदिरमुस्तं सप्तपर्णं431 पटोलं वृषकमसितवेत्रं द्वेहरिद्रे कषायः॥ विविधबहुविसर्पान्कुष्ठविस्फोटकं डूरपनयतिमसूरीं शीतपित्त-ज्वरांश्च॥१२३॥पटोलनिंबत्रिफलागुडूची मूर्वा हरिद्राकटुरोहिणीभिः॥ दुरालभा432चन्दनयासमुस्तानिंबैःकषायो विनिहंति शीघ्रम्॥१२४॥त्वग्दोषविस्फोटविसर्पकंडूदाहज्वरच्छर्दि433-गदानशेषान्॥उशीरलोध्रोत्पलचन्दनानां स सारिवानां च निहंति लेपः॥१२५॥

अथ कमलादिघृतम्।

कमलमधुकलोध्रं नागपुष्पं434 विडंगं द्विनिशनतगदैलापत्रकं तुत्थरालम्॥सकलमथ जलेन प्रस्थमाज्यं विलोड्य विपचितमिदमग्नौ हंति विस्फोटसर्पान्॥१२६॥

अथ कंपिल्लादितैलम्।

कम्पिल्लवेल्लपिचुमंदघनं प्रियंगुलोध्रंफलत्रिकबलाकुटजानि रालः॥एलाऽगरूखदिरधातुकि-चन्दनानिपिष्ट्वापचेच्च तिलतैलमिदं सुपक्वम्॥१२७॥ विस्फोटकुष्ठगलगंडविसर्पनाडीसर्पाऽखुकीट-विषदंशगदान्निहंति॥१२८॥

अथ सूर्यसंक्रांतिविस्फोटः।

सूर्य्यसंक्रातियोगाद्यदरिष्टत्वं च भूमिगः॥ देशेदेशे मनुष्याणां विस्फोटत्वगदं नरैः॥१२९॥ पशवोवा शृगालो वा वृक्षो वा पक्षिभिस्तदा॥ विस्फोटंकुरुते सूर्यो वायुः कुप्यति देहिनः॥१३०॥ संक्रांतिदानयोगेन शीतलामंत्रपाठतः॥ दुग्धोदनंसमिष्टानिखादेत्पथ्यं सुखी नरः॥१३१॥ मधुशीतलतोयेन वस्त्रपूतं तु भक्षितम्॥ विस्फोटके च दातव्योऽथवाकुंडलिनीजलैः॥१३२॥

अथ स्नायुरोगचिकित्सा (नहरुआ)।

दोषप्रकोपमुपगम्य करोति शोफं शाखासु435 तत्क्षतभवं पिशितं विशोष्य॥कुर्याच्च तंतुसदृशं प्रविभिद्यशोफं सस्नायुको436 बहिरुपैति शनैः शनैर्यत्॥१३३॥अपक्कादुःखबाहुल्यं छेदात्पक्कं समाहरेत्॥ तत्पाताच्छोफशांतिः स्यात्पुनः स्थानांतरे भवेत्॥१३४॥बालः स एव विज्ञेयः क्रिया कार्या विसर्पवत्॥ स्नेहस्वेदप्रलेपादि कर्म कुर्याद्यथायथम्॥१३५॥ बब्बूल437बीजं परिहंति लेपाद्भेकस्तथा कांजिकसाधितश्च॥ गव्यंघृतं स्नायुकमाशु पीतं निर्गुडिकायाः स्वरसस्त्रयहाद्वा॥१३६॥ मुस्ताविषापिप्पलिविश्वभाङ्गी-विभीतकानांविहितं सुचूर्णम्॥ कदुष्णतोयेन निपीतमाशु प्रणाशयेस्नायुकरोगमुग्रम्॥१३७॥ धत्तूरपत्रस्य विबन्धनेनव्रणाद्वहिःस्नायुक एति शीघ्रम्॥ ऽमृताश्वदंष्टासलिलेन पिष्ट्वा हरेद्विलेपाद्बहुबालकार्तिम्॥१३८॥धत्तरपत्रं धृतलिप्तमीषदुष्णं विधायोपरि बंधनीयम्॥ बलादलानां विहिता सुपिंडी बालं निहन्यात्परिबंधिता वा॥१३९॥

अथ शीतलाभेदचिकित्सा।

ओषश्चतुर्द्धा438 कथितो नराणां व्याधिस्वभावोयमहेतुजश्च॥ तक्रौ439रिकाऽकस्मिकशीतलानां भेदादमीषांज्वरमेव पूर्वम्॥१४०॥ कासःप्रलापोऽरुचिदाहतृष्णाभ्रमांगसादा रतयो भवति॥१४१॥ तक्रवर्णास्तुतक्राख्या रुजोत्पत्तिलयान्विताः॥ प्रवालचूर्णवर्णाभास्तीव्रज्वरपुरस्सराः॥१४२॥ ओरिका440 चेति विख्याता नवमेऽहनि शाम्यति॥ स्फोटा वपुषि दृश्यन्तेदाहज्वररुजान्विताः॥१४३॥ आकस्मिकोत्पत्ति-लयास्तेनैवाऽकस्मिका मताः॥१४४॥ पक्वपीलु सदृशा ज्वरवंतः स्फोटकाश्चिमचिमान्वितगात्राः॥ यत्र


३. श्लोकः—रक्तमज्जवसामांन्ये॑स्थिमेदांसिपार्वति॥१॥ इति दुर्गाकीलके॥
टी०- डोडू १, मज्जा २, चर्वी३, मांस ४, हड्डी १, मेदा इनोंको फोडकर रोग (चेंचक) का पैदा होता है॥१॥

कंडुवमयो बहुधा स्युः शीतला च कथिता मुनिभिःसा॥१४५॥ महरिकाकियां कुर्यात्सर्वेष्वोषगदेषु च॥अस्मिन्दाहहरी सर्वा क्रिया कार्या भिषग्वरैः॥१४६॥कथितं तुंबरिजलं पिबेच्चणका वा विधिभर्ज्जिताहिताः॥ तदौषधगदो बहिमवेंद्विलयं यांति मदज्वरादयः॥१४७॥ प्रतिक्रियात्र कर्तव्या यत्नात्पूज्यो घटोत्कचः॥ रजस्वलानां स्त्रीणां तु संसर्गं परिवर्जयेत्॥१४८॥गोमयस्य रजो मूर्ध्नि विकिरेत्सप्तमेऽहनि॥ निशातंदुलचूर्णस्य लेपः कुर्यात्ततः परम्॥१४९॥ पादे कपर्दिकाबंधः441 पूजयित्वा घटोत्कचम्॥ अनेन विधिना रोगीमांगल्यं स्वास्थ्यमश्नुते॥१५०॥ ओषे शाते442 दाहतापज्वराणां शांतिर्न स्याञ्चेत्तदा भेषजानि॥ योज्यान्याशलेष्मपित्ते हितानि छिन्ना धान्यं पद्मकं वारि निंबः॥१५१॥ पटोल-मुस्तावृषधन्वयासभूनिंबतिक्ताऽमृतपर्प॥निंबेन युक्तैर्विहितः कषायो जयेदपक्कां च मसूरिकांतु॥१५२॥कफात्तक्रः परिज्ञेयः ओरिका443पित्तरक्तजा॥आकस्मिको भवेद्वाताच्छीतला सर्वदोषजा॥१५३॥ओषो444 मसूरिका प्रोक्ता स्तस्माद्यत्नेन साधयेत्॥ पिबेन्मसूरिकाऽरंभे नैम्बं वा केवलं रसम्॥१५४॥ विसर्पति सविस्फोटा क्लिन्ना स्राववती तथा॥दशांगलेपचूर्णेन चूर्णिता शांतिमेति च॥१५५॥कुर्याद्भणविधानं च तैलादीन्वर्जयेच्चिरम्॥ जपहोमोपहारैश्च दानस्वस्त्ययनादिभिः॥१५६॥ घटोत्कचं445 द्विजान्गाश्चशिवं गौरीं च पूजयेत्॥ व्रणशोथहरैयोगैर्वातरोगहरैर्जयेत॥१५७॥ दुष्टवणेषु तेष्वेव जलौकाभिर्हरेदमकं॥यदा पूययुतं स्रावं तदा निम्बस्य तैलकम्॥१५८॥

इतिश्रीगौडवंशावतंसश्रीमदनन्तभट्टात्मजशंकरभट्टविरचिते
वैद्यविनोदेकुष्ठोदर्दशीतपित्तकोठाऽम्लपित्तविसर्पविस्फोट-
स्नायुकमसूरिका (चेंचक) निदानचिकित्सा-
कथनं नाम त्रयोदशोडासः॥१३॥


अथाऽजगल्लिकानिदानचिकित्सा।

ग्रंथितानि रुजाः स्निग्धाः पिटिका मुद्रसन्निभाः॥वातश्लेष्मोद्भवा ज्ञेया बालानामज़गल्लिका॥१॥जलौकाभिर्हरेद्रकं पक्वं व्रणवदाचरेत्॥ सौराष्ट्रीशुक्तिकाक्षारकल्केलिंपेन्मुहुर्मुहुः॥२॥ बाहुपार्श्वांसकक्षासु कृष्णस्फोटा सवेदना॥ पित्तकोपेनसंभूता सा कक्षेत्यभिधीयत॥३॥ कर्णस्याभ्यअन्तरे जातां पिटिकामुग्रवेदनाम्॥ स्थिरां पनसिकांतां तु विद्यादंतःप्रपाकिनीम्॥४॥ मनश्शिलादेवदारु-कुष्ठकल्कैःप्रलेपयेत्॥ परिपाकगतां भित्त्वव्रणवत्समुपाचरेत्॥५॥ विदारीकन्दवद्वत्ता कक्षावंक्षणसंधिषु॥ विदारिका446 भवेद्रक्ता सर्वजा सर्वलक्षणा॥६॥ रक्तप्रसेकैर्बहुभिः स्वेदनैरपतर्पणैः॥जयेद्विदारिकां लेपैः शिशुदेवदुभोद्भवैः॥७॥पक्कां विदार्य शस्त्रेण447पटोलपिचुमंदयोः॥ कल्केनतिलयुक्तेन सर्पिमिश्रेण योजयेत्॥८॥ अवेदनंस्थिरं चैव यस्मिगात्रे प्रदृश्यतेमाषवत्कृष्णमुत्सन्नं मलिनं माषमादिशेत्॥९॥ कृष्णानितिलमात्राणि निरुजानि समानि च॥ वातपित्तकफोद्रेकाद्विद्यात्तांस्तिलकालकान्॥१०॥ उत्कृष्य448 शस्त्रेणदहेत्क्षाराग्निभ्यामशेषतः॥ शाल्मलीकंटकप्रख्याकंफमारुतपित्तजाः॥११॥ जायंते पिटिका यूनांज्ञेयास्तामुखदूषिकाः449॥ महद्वायदि वा स्वल्पं श्यावंवा यदि वासितम्॥१२॥ निरुजं मंडलं गात्रेन्यच्छमित्यभिधीयते॥ क्रोधायासप्रकुपितो वायुपित्तेन संयुतः॥१३॥ मुखमागत्य सहसा मंडलं विसृजत्यतः॥निरुजं तनुकं श्यावं मुखे व्यंगं450 तमादिशेत्॥१४॥कृष्णमन्यत्र वा गात्रे मुखे वा नीलिकां विदुः॥ शिरावैधैः प्रलेपैस्ताञ्जयेदभ्यंजनैस्तथा॥१५॥ लोघ्रधान्यवचा-लेपस्तारुण्य451पिटिकापहः॥ तद्वद्गोरोचनयुक्तं मरिचं मुखलेपनात्॥१६॥ सिद्धार्थकवचालोघ्रसैन्धवैश्च प्रलेपनम्॥ वमनं च निहन्त्याशु पिटिकायौवनोद्भवाम्॥१७॥ अंगुलस्य चतुर्थांशो मुखलेपोविधीयते॥ स्थितिकालेन शुष्कत्वं शुष्को दूषयति त्वचम्॥१८॥ व्यंगानां लेपनं शस्तं रुधिरेण शशस्य च॥व्यंगे मंजिष्ठया कुर्याल्लेपनं मधुसंयुतम्॥१९॥ अर्जुनस्य त्वचं वापि श्वेताश्वखुरजामषीम्452॥अर्कक्षीरहरिद्राभ्यां मर्दयित्वा विलेपनात्॥२०॥मुखकार्ष्ण्यं शमं याति चिरकालोद्भवं ध्रुवम॥ तैलस्यप्रतिमर्शात्तुत्रिसप्ताहं कृता ध्रुवम॥२१॥ नश्यंतिगंडपिटिकाः पापौघा इव धर्मतः॥

अथ कुंकुमादितैलम्।

कुंकुमं चंदनं पत्रमुशीरं कमलोत्पलम्॥२२॥गोरोचनाहरिद्रेद्वे मंजिष्ठामधुयष्टिका॥पारिवा लोघ्रपत्तंगकुष्ठंगैरिककेसरम्॥२३॥स्वर्णक्षीरी453 प्रियंगुश्चकालेयं454 रक्तचन्दनम्॥ एतैरक्ष455समैर्भागैस्तैलप्रस्थं456 विपाचयेत्॥२४॥ अभ्यंगाद्राजपत्नीनां नराणां धनिनांतथा॥ नीलिकां पिटिकां व्यंगां नीलिकां मुखदूषिकाम्॥२५॥ कृष्णतां च शरीरस्य दुश्छविं च विवर्णताम्॥ नाशयित्वाऽशु जनयेद्रूपं चाऽतिमनोहरम्॥२६॥पद्मकेशरवर्णाऽभं मुखं भवति कांतिमत्॥२७॥राजिका सुप्त457बीजं च नागरं समभागिकम्॥ पिष्ट्वाशीतलतोयेन लेपाच्छायां हरेत्तनोः॥२८॥ परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः॥ पादयोः कुरुते दारिं458सरुजां तलसंस्थिताम्॥२९॥ पाददारीति459 च शिरांव्यधयेत्तत्र शोधिनीम्॥ स्नेहस्वेदोपपन्नौ तु पादौवा लेपयेन्मुहुः॥३०॥ मधूच्छिष्ट397वसामज्जाघृत460क्षीरविमिश्रितः॥ सर्जा461ह्वसिन्धूद्भवयोश्च चूर्ण मधुघृतप्लुतम्॥३१॥ निर्मथ्य कटुतैलाक्तं हितं पादप्रलेपनम्॥३२॥

अथनखकुष्ठरोगः।

नखमांसमधिष्ठाय वातपित्तं च देहिनाम्॥कुरुतेदाहपाकौच तं व्याधिं विषमादिशेत्462॥३३॥चिप्पं463 शोणितमोक्षेण शोधनेःससुपाचरेत्॥ शस्त्रेणतु यथायोगमुत्कृत्य खावयेद्रणम्॥३४॥ दाडिमकुसुमयवासैरभयासुश्लक्ष्णचूर्णिताले पात्॥नखकोटिप्रति-भावं शमयति शूलं च तत्क्षणतः॥३५॥ स्वरसेन हरिद्रायाः पात्रे कृष्णाऽयसेऽभया॥ पिष्टां तक्रेणकल्केन लिंपेच्चिप्पं464 पुनः पुनः॥३६॥ अन्त465र्धूमविदग्धस्य हरितालान्वितस्य च॥ तंडुलीयकमूलस्य चूर्णंपूतिनखा466प-हम्॥३७॥ अरूंषि467 बहुवकाणि बहुक्केदीनिमूर्द्धनि।कफासृक्क्कुमिकोपेन नृणां विद्यादरूषिकाम्॥३८॥ अरूषिकां जलौका भिर्याइयेद्वहशी भिषक्॥प्रक्षालयेन्मुहुस्तक्रसैंधवक्वाथवारिभिः॥३९॥ मुहुमेहुस्ततो लिंपेत्पटोलाऽरिष्टवासकैः।कपालं468भृष्टकुष्ठस्य चूर्णं वा तैलसंयुतम्॥४०॥ लेपादरूंषिकाकंडूक्लेद-दाहार्तिनाशनम्॥४१॥

अथ हरिद्रादितैलम्।

हरिद्राद्वयभूनिम्बत्रिफलारिष्टचन्दनैः॥ एतत्तैलमरूंषीणां सिद्धमभ्यंजने हितत्॥४२॥ दारुणां469कण्डुरा रूक्षा केशभूमिः प्रपद्यते ॥ कफमारुतकोपेनविद्यादारुणकं तु तत्॥४३॥दारुणे च शिरां विन्ध्येस्निग्धस्विन्नां ललाटजाम्॥अवपीडशिरोरेकानभ्यंगांश्चावचारयेत्॥४४॥ कोद्रवाणांतृणक्षारपानीयंपरि-धावने॥ कुर्यादारुणके मूर्ध्नि प्रेलेपो मधुसंयुतः॥४५॥ प्रियालबीजमधुककुष्ठमाषैस्ससैन्धवैः॥ गुंजाफल-शृतंतैलं भृंगराजरसेन च॥४६॥ कण्डू470दारुण471हत्कुष्ठकपाल472व्याधिनाशनम्॥४७॥

अथ भृङ्गराजतैलम्।

भृंगराजत्रिफलोत्पलसारिलोह473पुरीषसमान्वितकारि॥ तैलमिदं पचदारुण474हारि लुंचितकेशघनस्थिर-कारि॥४८॥

अथेन्द्रलुप्तरोगनिदानचिकित्सा।

रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम् ॥ प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः॥४९॥रुणद्धि रोमकूपांश्च ततोऽन्येषामसंभवम्॥ तदिंद्रलु475प्तंखालित्यं476 रुजेति च विभाव्यते॥५०॥ इन्द्रलुप्ते शिरां मूर्ध्नि स्निग्धस्विन्नस्यमोक्षयेत्॥ कल्केस्समरिचर्लिप्याच्छिलाकाशीसतुत्थकैः॥५१॥ तिक्तापटोलीपत्रस्वरसैर्वृष्टा शमं याति॥ चिरकालजापिरुज्या नियतं दिवसत्रयादेव॥५२॥ इंद्र477लुप्तापहो लेपो मधुना बृहतीरसः॥ हस्तिदन्तमर्षीं कृत्वा छागदुग्धं रसांजनम्॥५३॥ लोमान्यनेनजायंते नृणां पादतलेष्वपि ॥५४॥ मालतीकरवीराऽग्निनक्तमाला478विपाचितम्॥ तैलमभ्यंजने शस्तमिन्द्रलुप्तहरं परम्॥५५॥ अवगाढं प्रच्छयित्वाकेशभूमिंपुनः पुनः॥ गुंजाफलेश्चिरं लिम्पेदिन्द्रलुप्तप्रशांतये॥५६॥ धात्रीफलद्वयं पथ्ये द्वे तथैकं विभीतकम्॥लोहचूर्णस्य कर्षं तु दशाऽर्द्धं चुतमज्जनः॥५७॥ पिष्ट्वालोहमये भांडे स्थापयेदुषितं निशाम्॥ लेपोऽयंहंति न चिरादकालपलितं महत्॥५८॥ कक्षाभागेषु ये स्फोटा जायंते मांसदारुणाः॥अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः॥५९॥ तमग्निरोहिणीं विद्यादसाध्यां सन्निपातजाम्॥सप्ताहाद्वादशाहाद्वा पक्षाड़ाहंति मानवम्॥६०॥ रोहिण्यां लंघनं479 कुर्याद्रक्तमोक्षविरुक्षणम्॥ पित्तवीसर्प-विधिना साधयेदनिरोहिणीम्॥६१॥ प्रवाहाणाऽतिसाराभ्यां निर्गच्छति गुंदोबहिः॥ रूक्षदुर्बलदेदस्य गुदभ्रंशं तमादिशेत्॥६२॥गुदभ्रंशगुदं स्विन्नं स्नेहेनाक्तंप्रवेशयत्॥ कमलं पद्मिनीपत्रंखादेद्वा शर्करान्वितम्॥६३॥ स्नानोद्वासन480-हीनस्यमलो वृषणसंश्रितः॥ प्रक्किद्यते यदा स्वेदात्स कंडूंजनयेत्तदा॥६४॥ कंडूयनात्ततः क्षिप्रं स्फोटः स्रावधजायते॥प्रादुर्वृषणकच्छूं481तां श्लेश्मरक्तप्रकोपजाम्॥६५॥ सर्जाह्नकुष्ठसैंधवसित सिद्धार्थः प्रकल्पितोयोगः॥ उद्वर्तनेन नियतं शमयति कण्डू482मनायासम्॥६६॥ प्रायेण क्षुद्ररोगेषु शस्त्रक्षाराऽनिल-क्रिया॥ लेपनं शोणिता कृष्ठिरिति सामान्यसंग्रहः॥६७॥

अथोष्ठस्फोटरोगः।

अनूपमांसंयवमाषदुग्धदध्यादिनां सेवनतः प्रकोपम्॥ उपेत्य दोषा वदनेषु कुर्युः कफोत्तराध्रोगचयाननेकान्॥६८॥ दाल्येते परिपाट्येते ओष्ठौमारुतकोपतः॥ चीयते सरुजौ पित्तात्पिटिकाभिः समंततः॥६९॥ कफादोष्ठौ चभवतःपिच्छिलौशीतलौ गुरु॥ अनेकपिटिकाव्याप्तौ सन्निपातादुजान्वितौ॥७०॥ रक्ताद्रक्तोपसृष्टौ च शोणितं स्रवतो भृशम्॥७१॥ दन्तमूलमुखकंठजा गदाःप्रायशोऽस्त्रकफकोपजा मताः॥ तेषु दुष्टरुधिरं मुहुर्मुहुर्स्रावयेदवहितो भिषग्वरः॥७२॥ श्रीवेष्टक483ं सर्ज484रसं.पुरं485 च देवद्रुमं486 यष्टिमधूक487सारम्॥संचूर्ण्य सर्वं प्रयतोविदध्यात्संघर्षणं मानव ओष्ठरोगे॥७३॥ पित्तोद्भवेशीतलवारिसेको वांतिर्विरेको हि घृतस्य पानम्॥ कफात्मके मूर्ध्नि विरेचनं स्यान्नस्याऽतिधूमः कवलग्रहाश्च॥७४॥ क्षारो व्योषं क्षौद्रयुक्तं निहन्याद्दोषेजाते घर्षणेनाशु रोगम्॥ धान्यं रालो461 गैरिकं सिक्थ397मेतैः सिद्धं तैलं सर्पिरोष्ठव्रणं वा॥७५॥ प्रियंगु त्रिफलालोध्नंसक्षौद्रं प्रतिसारणम्488॥ हितं वा शतधौतेन घृतेनपरिलेपनम्॥७६॥ ज्योतिष्मतीलोध्रककुष्ठदार्वीपाठासमंगाकटुकाघृतानाम्॥ तेजाह्वया ग्रंथिक-संयुतानांचूर्णेन दंतेषु विघर्षणानि489॥७७॥ कुर्यात्ततो नाशमुपैति रक्तस्रावो व्यथा मांस-विशीर्णता490चशिरोविरेको रुधिरस्य मोक्षो नस्यं हितं स्निग्धसुभोजनंच॥७८॥ सपंचलवणक्षारः सक्षौद्रः प्रतिसारणम491॥ विस्त्राविते दंतवेष्टे पूयस्त्रावि व्रणे हितम्॥७९॥तिलकल्कोदकैः शस्तो गंडूषो492 दन्तचालने493॥ मुखरोगेदन्तहर्षे494 तिलकल्कः सदा हितः॥८०॥ बकुलोद्भवपत्रचर्वणंचलदन्तस्थिरताकरं परम्॥ धृतपिप्पलिमाक्षिकंमुखे विधृतं दंतचलत्वशूलजित्॥८१॥ दन्तक्रिमिहरं कोष्णंहिंगु दंतांतरेस्थितम्॥ उष्णतैलाज्यवातघ्नैर्हिताश्चकवलग्रहाः॥८२॥ वृहतीभूमिक-दंबकपंचांगु495लकंटकारिकाक्वाथः॥गंडूषस्तु सतैलः कृमिजां दंतव्यथां हंति॥८३॥दन्तीसुवर्णदुग्धाकाशी-सविडंगवत्सकबीजानाम्॥ चूर्णंस्नुगऽर्कदुग्धैर्दतच्छिद्रेषुपूरणं शस्तम्॥८४॥ दंतधावन496रूक्षा497न्नमम्लं498शीतांवु वर्जयेत्॥ लेखनात्स्फुटिताजिह्वा प्रसुप्ता नीलवर्णका॥८५॥ पित्तात्सदाहादीर्घेैश्च सरक्तैःकंटकैर्वृता॥ कफेन गुर्वी बहला मांसोछ्रायैः सकंटकैः॥८६॥जिह्वागतविकाराणां शस्त्रंशोणितमोक्षणम्॥८७॥ गुडूचीपिप्पलीनिम्बक्काथस्यकेवलग्रहः॥ पटोलकटुकाव्योषपठासैंधवभार्गिभिः॥८८॥ चूर्णो मधुयुतो लेपः कवलो मधुतैलिकः॥विडंगपिप्पलीभ्यां तु धावनं सुरसांजनम्॥८९॥ गृह्णीयात्कवलं वापि गौरसर्षपसैंधवैः॥ उपजिह्वं तु संलिप्यक्षारेण प्रतिसारयेत्॥९०॥ शिरोविरेकगडूषलेपैश्चैनामुपाचरेत्॥ व्योपक्षाराऽभया-वह्निर्चूर्णमेतत्प्रघर्षणम् ॥९१॥ उपजिह्वोपशान्त्यर्थमेभिस्तैलंविपाचयेत्॥९२॥ वासाक्वाथो माक्षिकगृह499धूममालती500युक्तः। उपजिह्वामधिजिह्वां कठिनामपिक्षिणोति घर्षणतः॥९३॥

अथ कंठरोगोपक्रमः।

दीर्घः शोफस्तालुमूले प्रवृद्धः श्लेष्माऽसृभ्यां मातवस्तिप्रकाशः॥ तृष्णाकासश्वासकृत्तं वदति व्याधिं वैद्याः कंठशुण्डीति नाम्ना॥९४॥ क्षिप्त्वा तां व्योषसिंधूत्थवचाक्षौद्रैश्चघर्षयेत्॥ गलशुंडी क्षयं याति वज्रीक्षीरेण लेपिता॥९५॥ निहंतिगलशुंडी501 च शेफाली502मूलचर्वणम्॥ पिचुमंदकषायेण केवलं तत्र धारयेत् ॥९६॥ हरीतकीकषायोवा हितो माक्षिकसंयुतः॥ कटुकाऽतिविपादारुपाठामुस्तकलिंगकाः॥९७॥ गोमूत्र-क्वथिताः पीताः कंठरोगविनाशकाः॥ तालुपाके विधातव्यं विधानं पित्तनाशनम्॥९८॥ साध्ये चरोहिणीरोगे हितं शोणितमोक्षणम्॥९९॥ घर्षणं धूमपानं च गंडूषानस्यकं हितम्॥ सुखोष्णान्नेहकवलापंच-मूलाम्बुनस्तथा॥१००॥ तेजोवती503 दारुनिशा सपाठा रसांजनं क्षारकणे विचूर्ण्य॥ क्षौद्रेण कुर्याद्वटिकां मुखेन तां धारयेःसर्वगला मयेषु॥१०१॥ मुखपाके शिरावेधः शिरःकायविरेचनम्॥ काय च बहुधा नित्यं जातीपत्रस्यचर्वणम्504 ॥१०२॥ जातीपत्रफलत्रिकाऽमृतलतादार्वीनिशायासको द्राक्षाभिः कथितं जलं मधुयुतं गंडूषसंधारणात्॥ हंत्येतान्मुखजान्गदान्बहुविधाञ्जम्व्वाग्रजातीजपाघात्रीनिम्बपटोलपत्रविहितः काथोहि धार्यो मुखे॥१०३॥ जातीफलं जातिपत्रीफणिज्जं505बाह्निकं506 गुडम्॥ गुटिकास्ये धृता चैषांप्रतिगंधहरा भवेत्॥१०४॥ कुष्ठैलावालुकं507 मुस्ताधान्यैलामधुयष्टिका॥ रसोनमहिला508गंधं नाशयेत्कवेलग्रहः॥१०५॥

इति श्रीगौडवंशोद्भवश्रीमंदनन्तभट्टात्मजशंकरभट्टविरचिते
वैद्यविनोदे क्षुद्ररोगमुखरोगनिदानचिकित्साकथनं
नाम चतुर्दशोल्लासः॥१४॥
__________

अथ कर्णरोगनिदानचिकित्सा।

यदा श्रोत्रगतो वायुः समतात्परिसंचरन्॥ कर्णयोः कुरुते शूलं कर्णशूलः स उच्यते॥१॥

कर्णनादः।

कर्णस्रोतःस्थिते वाते श्रूयंते विविधाः स्वराः॥ भेरीमृदंगशंखानां कर्णनादः स उच्यते॥२॥

बधिरत्वम्।

वायुः शब्दवहं श्रोत्रमावृत्य परितिष्ठति॥ शुद्धश्लेष्मान्वितो वापि बाधिर्य तेन जायते॥३॥

कर्णस्रावः।

शिरोऽभिघातादुदके मज्जनाद्वा प्रपाकतः॥ कर्णोऽनिलात्त्रवेत्पूयंस कर्णस्राव उच्यते॥४॥

कर्णकीटः।

पतंगाः509शतपद्य510श्च कर्णमार्गे प्रविश्य हि॥ व्याकुलत्वमसंतोषंभृशं कुर्वति वेदनाम्॥५॥ कर्णोनिस्तुद्यते तेन तथा फरफरायते॥ कीटे चरतिरुक्पीडा निष्यन्दे511 मंदवेदना॥६॥ कर्णशूलेषु सर्वेषुस्त्रिग्धं स्विन्नं512विरेचयेत्॥भुक्तोपरि हितं सर्पिः कोष्णंदुग्धं च पाचयेत्॥७॥ शृंगबेरमधुसैंधवतैलं कर्णगंसपदि शूलविनाशी॥ आर्द्रकस्य लशुनस्य रसो वासैंधवेन सह कर्णगदघ्नः॥८॥ कदल्याः स्वरसःश्रेष्ठः कदुष्णः कर्णपूरणे॥ कर्णे कोष्णेन सूक्तेन पूरणंवेदनापहम्॥९॥ कर्णशूलं हरत्याशु कवोष्णं मूत्रपूरणम्॥ससैंधवं छागमूत्रं कोष्णं कर्णव्यथापहम्॥१०॥ पक्वाऽर्कपत्रमाज्येन लिप्तं वह्निप्रतापितम्॥आपीड्य तोयं संसिक्तं कर्णशूलं भृशं जयेत्॥११॥राजिका पिप्पली हिंगु शताह्वा पुष्करमूलकम्513॥ चतुर्गुणं सूक्त514मेभिस्तैलं सम्यग्विपाचयेत्॥१२॥ बाधिर्यनादशूलानि कर्णौ क्षिप्तं निहंति तत्॥ गुडनागरतोयेन नस्यं बाधिर्यनादहृत्॥१३॥ रसांजनं तुस्तन्येन घृतक्षौद्रेण संयुतम्॥प्रशस्यते चिरोत्थे तुसंस्रावे पूतिकर्णके॥१४॥ कृमिकर्णगदे शस्तंसर्षपस्नेहपूरणम्॥वार्ताकस्य515 हितो धूपो गुग्गुलोः श्रेष्ठ उच्यते॥१५॥ पूरणं हरितालेन गवां मूत्रयुतेन च॥ त्र्यूषणं चूर्णितं क्षिप्तंकर्णक्रिमिविनाशनम्॥१६॥ लामज्जकघृतं516 वापि कर्णस्रावहरं परम्॥ कृमिघ्नः पूरितःकर्णे सिंदुवार517रसोऽथवा॥१७॥ कदाचिदन्नं श्रवणेरंध्रे वै पूरितं भवेत्॥ अथवा नासिकारंध्रे बहुदुःखंप्रजायते॥१८॥ रजतं लोहतारं वा पन्नगीफणिवत्कृतम्॥ तद्यंत्रेण समाकृष्य चतुरो वैद्यराट् शनैः॥१९॥सद्यःक्लेशहरो नृणां एष यत्नवरोमतः॥ नान्योपायचिकित्सायां शस्त्रकर्माऽभिजानता॥२०॥

पन्नगीयंत्रम्।

<MISSING_FIG href="../../../books_images/U-IMG-1703559051187.png"/>
अथ पीनसरोगः।

अरुचिः शिरसो जाड्यं नासास्रवस्तनुस्वरः॥क्षामष्ठीवे ततोऽभीक्ष्णमामपीनसंलक्षणम्॥२१॥ स्वशुद्धिर्घनश्लेष्मा परिपक्वस्य लक्षणम्॥ पीनसेषुच. सर्वेषु निवातागारगो भवेत्॥२२॥ सर्वस्मिन्पीनसे रोगे जातमात्रे तु मानवः॥ दध्नागुडेन मरिचं भुंजानोलभते सुखम्॥२३॥ चव्याऽम्लवेतसकटु-त्रिकतिंतिडीकंतालीशवह्निगंजकुंकुमपत्रकैलम्॥चूर्णीकृतं संजरणं गुडसंयुतं स्यात्कासाऽमपीनस-हरंरुचिवह्निकारि॥२४॥ व्याघ्रीवचाशिग्रुदन्तीसुरसाव्योषसैंधवैः॥ संसिद्धं पाचनं तेैलं पूतिनासागदापहम् ॥२५॥ नासापाके च कर्तव्यं विधानं पित्तनाशनम्॥ हरेद्रक्तं जलौकाभिः सेका लेपाश्च शीतलाः॥२६॥ सर्जा484ऽर्जुनोदुंबरवत्सकानां त्वचां कषायैः परिधावनीयः॥ कषायकल्पैरपि सिद्धमेषामुक्तघृतं प्राणविपाकनाशे॥२७॥ घृतगुग्गुलुसिक्थानां397 धूमः क्षवथु518नाशनः॥ सिद्धियोग वरो नृणांभिषग्भिः परिजानता ॥२८॥ नासाशोषेक्षीरसर्पिः प्रधानं सिद्धं तेैलं चानुकल्पेन नस्यम्॥सर्पिः पानं भोजनं जांगलैश्च स्नेहस्वेदौ स्नैहिकश्चापि धूमः॥२९॥ वेगसंघरणजीर्णशोफमैथुनजागरैः॥स्वयं मूर्ध्निगता दोषाः प्रतिश्यायकरा519 मताः॥३०॥ शिरसः परिपूर्णत्वमंगमर्दः क्षवस्तथा॥उपद्रवाश्चाप्यपरे प्रतिश्याये पुरस्सराः॥३१॥ शंख520योरनिलात्तादो गलताल्वोष्ठशुष्कता॥ पित्तात्कृशोऽतिपांडुःस्यात्संतप्तो मानवो भृशम्॥३२॥ कफात्मके स्रवेद्घाणाच्छ्श्वेतःपाण्डुःकफो मुदुः॥ संपक्कोप्यविपक्कोवा भूत्वा नश्यति चासकृत्॥३३॥ गलताल्वोष्ठशिरसां कंडुः सर्वभवः स्मृतः॥ रक्तजे तु प्रतिश्यायेंरक्तस्रावः प्रवर्तते॥३४॥ आनद्धा पिहिता क्लिन्ना521शुष्का नासा पुनः पुनः॥ पूतिगंधश्चनिश्वासो गंधानजानाति नो नरः॥३५॥ इत्थं दुष्टप्रतिश्यायं कृच्छ्र—साध्यं बुधा विदुः॥ सर्व एव प्रतिश्यायाः कालेनाप्रतिकारिणः॥३६॥ प्रतिश्यायं वचा युक्तं सक्तुधूमं पिबेन्नरः॥प्रतिश्यायं वचायाश्च चूर्णमाघ्राय नाशयेत्॥३७॥ चातुर्जातकचूर्णं वा घ्रेयं च कृष्णजीरकम्॥बालमूलकयोर्यूषः कुलत्थोत्थश्चपूजितः॥३८॥कवोष्णं दशमूलांबु जीर्णां वा मदिरां पिबेत्॥ गुडार्द्रकं भक्ष्यमाणं प्रतिश्यायहरं परम्॥३९॥ पिप्पल्यः शिग्रुबीजानि विडंगमरिचानि च॥ अवपीडः प्रशस्तोयं प्रतिश्यायनिवारणः॥४०॥ घृतानि कटुसिद्धानि तीक्ष्णधूमाः कटूनि च॥ भेषजान्युपयुक्तानि हन्युः सर्वप्रकोपजम्॥४१॥ अश्वत्थस्य त्वचा क्षारंपिप्पलीगुडसंयुतम्॥ खादेत्कर्षप्रमाणेन जीर्णश्लेष्महरं परम्॥४२॥

अथ नेत्ररोगाऽधिकारः।

‘बाष्पाऽवरोधबहुमैथुनशोकतापक्लेशप्रसक्तवमनप्रतिरोधनेन॥ विण्मूत्रवातकृमि-निग्रह-धूम-योगादत्युष्णतो हि नयने प्रभवंति रोगाः॥४३॥ शिराऽनुसारिभिर्दोषैर्विगुणैरूर्द्धमागतैः॥ जायंते नेत्रभागेषुरोगाः परमदारुणाः॥४४॥ वातात्पित्तात्कफाद्रक्तादभिष्यंदश्चतुर्विधः॥ प्रायेण जायते घोरः सर्वनेत्रामयाकरः॥४५॥ कष्टान्निमेष उन्मेषः सशल्यमिव लोचनम्॥सरागशोफमनिलान्मन्याशाखादिषु व्यथा ॥४६॥ दुष्टवाताभिधानोयमभिष्यन्दोनिगद्यते॥ वाताऽभिष्यंदके522 स्तम्भो निस्तोदः शिशिराश्रुता॥४७॥ पित्ताऽभिष्यंदके दाहप्रपाकौ पीतनेत्रता॥ कफाऽभिष्यंदो गुरुता नेत्रे शोफश्चशैत्यता॥४८॥ रक्ताभिष्यंदे ताम्राश्रु व्यथा लोहितनेत्रता ॥वृद्धिर्गतैरभिष्यंदैर्नराणामक्रियावताम्॥४९॥ अधिमंथास्तु तावंतो नयने तीव्र वेदनाः॥ अत्यर्थमुत्पादितेचैव नेत्रं निर्मथ्यतेऽनया॥५०॥ शिरसोऽर्द्धं च तंविद्यादधिमंथं स्वलक्षणैः॥नेत्रं रोगव्यथाशोफयुक्तमामान्वितं विदुः॥५१॥ मंदवेदनता कंडूःपक्कं दोषं तमादिशेत्॥ अंजनं पूरणं क्वाथपानमामे नशस्यते॥५२॥ ज्वरव्रणप्रतिश्याय523चक्षुःकुक्षिगतागदाः॥ पंचैते पंचरात्रेण प्रशमं यांति तत्क्षणात्॥५३॥विरेचनं शिरावेधः स्वेदालेपनलंघनैः॥ उपाचरेदभिष्यंदानंजनाश्चोतनादिभिः॥५४॥ सेक आश्चोतनं पिंडीलेपस्तर्पणमंजनम्॥ कल्कैरेभिर्भिषक्सम्यङ्नेत्रं नित्यमुपाचरेत्॥५५॥सेकस्तु524 सूक्ष्म-धाराभिः सर्वस्मिन्नयने हितः॥ मीलिंताक्षस्य मर्त्यस्य प्रदेयश्चतुरंगुलात्॥१६॥सेको हि स्नेहनो वाते रक्तपित्ते च रोपणः॥ लेखनश्चकफे चक्षुस्तेजोवृद्धिकरः परः॥५७॥ एरण्डपत्रमूलत्वक्शतृमाजं पयो हितम्॥ सुखोष्णं सेचनं नेत्रेवाताऽभिष्यंद-नाशनम्॥५८॥ स्यावारं525 मधुकं तुल्यंघृतभृष्टं सुचूर्णितम्॥ छागक्षीरे शृतं सेकात्पित्तरक्ताभिघातजित्॥५९॥ त्रिफलालोध्रयष्टीभिः शर्कराभद्रमुस्तकैः॥ पिष्टेः शीताम्बुना सेको रक्ताऽभिष्यंदनाशनः॥६०॥ श्वेतलोध्रं घृतभृष्टं चूर्णितं पटनिस्सृतम्॥ उष्णांबुना त्रिमृदितं शेकाच्छूलनमुत्तमम्॥६१॥

अथाश्चोतनम्।

आश्चोतनं नैव कार्यं निशायां सिद्धिमिच्छता॥उन्मीलिते हि नयने बिन्दुभिचंगुलो घृतैः॥६२॥बिन्दवोष्टौ लेखने व स्नेहने दशबिन्दवः॥ रोपणे द्वादशप्रोक्ताः शीते कोष्णाः सदा हिताः॥६३॥ उष्णे चशीतरूपाः स्युः सर्वत्रेष विनिश्चयः॥ वाते तिक्तं तथास्निग्धं पित्ते मधुरशीतलम्॥६४॥ तिक्तोष्णरूसंचकफे क़मादाचोतनं दितम्॥ निमेषोन्मेषणं पुंसामंगुल्याश्छोटिका526 तथा॥६५॥गुर्वक्षरो527च्चारणं वामात्रैषाऽश्चोतने मता॥ बिल्वादिपंचमूलेन बृहत्येरण्ड-शिग्रुभिः॥६६॥ क्वाथमाश्चोतने कोष्णो वाताऽभि ष्यंदनाशनः॥ त्रिफलाश्चोतनं नेत्रे सर्वाऽभिष्यंद-नाशनम्॥६७॥ स्त्रीस्तन्याश्चोतनं नेत्रे रक्तपित्ताऽनिलाऽर्तिजित्॥६८॥

अथ पिंडी।

पिण्डी कवलिका प्रोक्तासूक्ष्मवस्त्रस्य पट्टकैः॥नेत्राऽभिष्यदयोग्या सा व्रणेष्वपि निगद्यते॥६९॥ अभिष्यंदेषु सर्वेषु बघ्नीयात्पिंडिकां बुधः॥ एरण्डपंचमूलत्वङ्र्निर्मितावातनाशिनी॥७०॥ निम्बपत्र-कृतापिण्डी श्लेष्मपित्तहरा मता॥ अथवा त्रिफलापिण्डी श्लेष्मपित्तविनाशिनी॥७१॥ पिष्ट्वा कांजिकतोयेनघृतभृष्टा च पिंडिका॥ लोध्रस्य हरति क्षिप्रमभिष्यंदमसृग्भवम्॥७२॥ शुंठीनिम्बदलैः पिंडी सुखोष्णा स्वरूपसेंधवा॥ पिधाय चक्षुःसंयोगाच्छोफकंडूव्यःथापहा॥७३॥ सिन्धूत्थदावमधु-यष्टिताक्षैः सगैरिकैः श्लक्ष्णजलेन पिष्टेः॥ बहिःप्रलेपं नयनेषु कुर्यातकंडूं च हन्यान्नयने रुजं च॥७४॥ रसांजनस्य वालेपः पथ्याविश्वदलैर्युतः॥ वचाहरिद्राविश्वैर्वा तथानागरगौरिकैः॥७५॥ दग्ध्वाग्नौ सैन्धवं लोध्रं मधूच्छिष्टपुते घृते॥ पिष्टमंजनलेपाभ्यां सद्यो नेत्ररुजापहम्॥७६॥ लोहस्य पात्रे संघृष्टो रसो निंबुफलोद्भवः॥ किंचिद्धनो बहिर्लेपान्नेत्रबाधां व्यपोहति॥७७॥संचूर्ण्य मरिचंकेशराजस्य528 रसमर्दनात्॥लेपनान्मर्दनान्नाशं करोत्येषः प्रयोगराट्॥७८॥

अथ तर्पणम्।

यद्रूक्षं परिशुष्कं तु नेत्रं कुटिलमाविलम्॥तिमिराऽर्जुनशुक्राद्यैरभिष्यंदाऽधिमंथनैः॥७९॥ युक्तं तत्तर्पणे योज्यं नेत्ररोगविशारदः॥ अत्युष्णशीतवर्षासुचिन्तायां संभ्रमेषु च॥८०॥ अशान्तोपद्रवे चाक्ष्णितर्पणं न प्रयोजयेत्॥ सर्पिषा शतधौतेन सुखोष्णेन जलेन वा॥८१॥ निमग्नान्यक्षिपक्ष्माणियावत्स्युस्तावदेव वा॥ पूरयेन्मिलिते नेत्रे तत उन्मीलये529च्छनैः॥८२॥ यावद्भोगप्रशांतिः स्यात्तावदेव तुधारयेत्॥ मात्राणां नियमो नास्ति शतं वाथसहस्रकम्॥८३॥

अथांजनम्।

अंजन पक्कदोषेषु कर्तव्यं भिषजा सदा॥ हेमन्तेशिशिरे मध्ये दिनस्यांजनमिष्यते॥८४॥ग्रीष्मे शरदि पूवा530ह्णेऽपराह्णे531वापि चेष्यते॥ वर्षास्वनभ्रेनात्युष्णे वसंते च सदा हितम्॥८५॥अंजनं त्रिविधंज्ञेयं स्निग्धं रोपणदीपनम्॥ स्निग्धं तु मधुरं स्नेहंकषायं तिक्तरोपणम्॥८६॥लेखनं क्षारतीक्ष्णाऽम्लं सायं प्रांतश्च शस्यते॥८७॥

अथ चंद्रोदयवत्तिः।

शंखनाभिमरिचं मनश्शिला पिप्पली मधुककुष्ठकंवचा॥ चेतना मधुविभीतकमज्जा छागिदुग्धविहिता खलु वर्तिः॥८८॥ घर्षितांभसि हरेणुकमात्रा नाशयेन्नयनरोगमंजनात्॥ मांसवृद्धितिमिराऽर्बुदपुष्पं532 वार्षिकं पटल-काचनिशांध्यम्533॥८९॥करंजबीजवर्तिस्तु बहुशः परिभाविता॥पलाश534पुष्पस्वरसैः चुक्रादीनां विनाशिनी॥९०॥ मालतीनिम्बपत्राणि द्वे हरिद्रे निशाञ्जनम्॥ गोशकृद्रससंयुक्ता वर्तिर्नक्तान्धनाशिन535॥९१॥ तुत्थमाक्षिकसितामनश्शिलाशंखसैन्धवसमुद्रफेनकम्॥ गैरिकं समरिचं विचूर्णयेदञ्जनंमधुयुतं तिमिरघ्नम् ॥९२॥ क्षौद्राश्व536लालासंघृष्टंमरिचं चक्षुषोंऽजनम्॥ नाशयेदतिनिद्रां तु यथा सूर्योदयस्तमः॥९३॥ पुनर्नवा तु दुग्धेन कंठस्रावं च सर्पिषा॥पुष्पं तैलेन तिमिरं निशान्ध्यं कांजिकेन च॥९४॥नाशयेत्तत्क्षणादेव भास्करस्तिमिरं यथा॥ बब्बूलदलजः क्वाथो घनीभूतो537 मधुप्लुतः॥९५॥ नेत्रस्त्रावं538 जयेत्युग्रमंजनान्नात्र संशयः॥९६॥ आमलकीफलरसो वस्त्रपूतः सुपूरणात्॥नेत्रयोः कोपमत्यर्थं प्रवहंति न संशयः॥९७॥ शिग्रुपत्ररसः शेकान्मधुसैंधवसंयुतः॥ नेत्रकोपं नवं हंति तथा सर्पिः पुरातनम्॥९८॥ दार्वी रसांजनं स्तन्य539युक्तं नेत्रे प्रपूरितम्॥ निहंतिवेदनादाहान्स्पंदकंडूसमायुतान्॥९९॥ स्फटिका540चन्दनं शुण्ठीगिरि541मृच्च वचा तथा॥ एषां बहिः प्रलेपोहि नेत्ररोगान्निवारयेत्॥१००॥ भूम्यामलकसिन्धूत्थं ताम्रघृष्टं घनं417तथा॥ आमलक्या रसः सर्वनेत्ररोगनिवारणः॥१०१॥ अक्षमज्जांऽजनं सार्थ शुक्रंस्तन्येन नाशयेत्॥ अभिघाताऽक्षिरोगघ्नं केवलं स्तन्यपूरणम्॥१०२॥ घृतेन मधुना वापि त्रिफलायानिषेवितः॥ चूर्णकल्कोऽथवा क्वाथःसकलं तिमिरंजयेत्॥१०३॥ त्रिफला व्योषसिन्धूत्थैर्घृतंसिद्धंपिबेन्नरः॥ चक्षुष्यं भेदनं हृद्यं दीपनं कफनाशनम्॥१०४॥ भ्रुवोरुपरि दाहश्चमंथे साध्ये शिराव्यधः542॥जलौका543पातनं वापि नेत्रपाके विरेचनम्544॥१०५॥दिवास्वापं च ताम्बूलं मैथुनं परिवर्जयेत्॥१०६॥

अथ गीलांजनम्।

द्विशिवामरीचिवसुभिलवंगं वेदसम्मितम्॥ सांचिकाछदनीरेण छागीक्षीरेण पेपयेत्॥१०७॥ तांगोघृते द्विमासाभ्यां मधुतावन्मिते प्लुते॥ ताम्रमुद्रा545")दिभिः कांस्यभाजनोपरि घर्षयेत्॥१०८॥हस्ते गद्दो546रिकायास्तु चाममात्रेण घर्षणात्॥नेत्रांजिते हृतं दोषं तिमिरं धुंधबिंदुकम् ॥१०९॥ पटलं चांधकारं वारात्र्यंधं च दिनांधताम्॥वातपित्तोद्भवा रोगा ये चान्ये547नेत्रसंभवाः॥११०॥ ते सर्वे विलयं यांति सदाऽद्रांजनयोगतः॥१११॥

पुनः।

पूगीफलार्द्धमादाय गोघृतेन विघर्षणात्॥ कांस्यपात्रे द्विघटिका यदा कज्जलसंनिभम्॥११२॥तदा नेत्रांजनाच्छीघ्रंनेत्ररोगं हरेद् ध्रुवम्॥ तदा शीतलतां याति रक्तनेत्रं न संशयः॥११३॥

पुनः।

लौहांगुलीयकं548 चादौ चंद्रशूरासमश्शिवा॥कबाबाच लवंगानि कटुतैलेन संयुतम्॥११४॥ घर्षयेद्रीतिभांडस्थे549 यदा कज्जलसन्निभम्॥ तदा सीपिकया550धृत्वा नेत्रांजनमहच्छुभम्॥११५॥ वातरक्तं हरेद्रोगं पित्तवातं तथैव च॥ पटलं धुंधुकारं च अतिशीतलताकृतम्॥११६॥

अथ शीसकभस्मांजनम्।

शीसकं लोहपात्रस्थं धृत्वाऽग्निं ज्वालयेद्बुधः॥बलिचूर्णं41 ततः क्षिप्त्वा भस्मैवं भवति ध्रुवम्॥११७॥तद्भस्म खल्वके क्षिप्त्वा सूक्ष्मचूर्णं तु कारयेत्॥नेत्रांजनं हरेद्व्याधिं धुंधमाणकपुष्पकम्॥११८॥

अथ शिरोरोगाः।

दोषैः पृथक्समस्तैश्च क्षयेणकृमिशोणितैः॥ सूर्यावर्त्ताऽनंतवातार्धावभेदकशंखकाः॥११९॥ एकादशशिरोरोगा जायंते दुष्टभोजनात्॥ मन्याग्रहोंगगुरुतापूर्वं तेषां प्रजायते॥१२०॥ रुजोनिमित्तं शिरसश्च तोदा भवंति रात्रावधिकास्तु वातात्॥ भृशोष्णमंगारचितं शिरो हि नासा तथा धूमवती च पित्तात्॥१२१॥ शिरो गुरु स्तब्धहिमं कफात्स्यात्सर्वाणिलिंगानि च सन्निपातात्॥ रक्तात्मके पित्तसमानलिंगेस्पर्शासहत्वं शिरसो भवेच्च॥१२२॥ क्षयोत्थो हिशिरो रोगो भवेदुग्रप्रवेदनः॥ स्वेदच्छर्दनघूमाऽस्रमोक्षोनस्यैर्विवर्द्धते॥१२३॥ भृशं यथा स्रवेदत्राणात्सलिलं कृमिजे गदे ॥सूर्योदये मंदमंदमक्षिषु व्यथाभवेत्॥१२४॥ सूर्यापवृत्तौ स्वल्पा स्यात्सूर्यावर्तइति स्मृतः॥ गृहीत्वाऽर्द्धं च शिरसः सकफो वायुरुद्धतः॥१२५॥मन्या551भ्रू552शंख कर्णाऽक्षिललाटाऽर्द्धेषुवेदनाम्॥ शस्त्राऽरणिसमां तीनां कुर्यात्सोर्द्ध विभेदकः553॥१२६॥ तीव्ररुक्शंखक स्त्याज्यरूयहाद्वेषजया चरेत्॥ वांतिके दशमूलादिसिद्ध-क्षीरेण सेचनम्॥१२७॥मुद्गमाषकुलत्थांश्च खादेद्वा निशि केवलान्॥ कटुकोष्णान्स सर्पिष्कानुष्णं वापि पयः पिबेत्॥१२८॥ कुष्ठमेरण्डमूलं च लेपात्कांजिकपेषितम्॥ शिरोरोगं जयेदाशु पुष्पं वा मुचकुंदजम्॥१२९॥ चर्मणा चशिरोबस्तिं प्रकल्प्य परिपूरयेत्॥ तैलैरुष्णैर्निश्चलस्य विविधा हि रुजः शमम्॥१३०॥ यामार्द्धंयाममेकं वा तनोः स्वास्थ्यं भवेद्ध्रुवम्॥ पित्तात्मकेशिरोरोगे स्निग्धं सम्यग्विरेचयेत्॥१३१॥ निमज्जनं554 च शिरसो मुहुः शीतलवारिणि॥ चंदनोत्पल-किंजल्कैर्बिसशालूक555पद्मकैः॥१३२॥ दुग्धपिष्टैःप्रलेपः स्यात्सृतैर्वा परिषेचनम्॥ रक्तजे पित्तवत्सर्वंलेप-भोजन556सेचनम्॥१३३॥ शीतोष्णयोश्च व्यत्यासोविशेषाद्रक्तमोक्षणम्॥ कफजे लंघनं रूक्षस्वेदस्तीक्ष्णोष्ण-पाचनम्॥१३४॥ हरेणुनतशैलेयमुस्तैलागरुदारुभिः॥ रास्नास्थौर्ण557यनलदैरूक्षोष्णैर्लेपयेच्छिरः॥१३५॥ यषष्टिकशाल्यन्नव्योषक्षारसमायुतम्॥संनिपात558क्रिया कार्या ज्ञात्वा दोषबलाऽबलम्॥१३६॥कटुत्रिकं पुष्करदारुरास्नानिशाऽश्वगंधाविहितः कषायः॥ निवारयत्याशु शिरोर्तिजालं नासानिपीतोबहुदोषजालम्॥१३७॥बिल्वनागरजकल्कविमिश्रंक्षीरमाशु खलु नस्यतो जयेत्॥ नागरं गुडयुतं नसियोज्यं सैंधवेन च कणा हि शिरोर्तिम्॥१३८॥

षड्बिन्दुतैलम्।

एरण्डमूलं मधुयष्टि रास्ना भृंगं विडंगं तगरंशताह्वा॥ जीवंतिकासैन्धवनागराणि पिष्ट्वा क्षिपेत्कृष्णतिलस्य तैलम्॥१३९॥ आजं पयस्तैलविमिश्रितंच चतुर्गृणे भृंगरसे विपक्वम्॥ तद्बिन्दुषट्कं नसि संप्रयोज्यं शीघ्रं निहन्याच्छिरसो विकारान्॥१४०॥ क्षयजे तु शिरोमूले कर्तव्यो बृंहणो विधिः॥ कृमिजे व्योषबीजाह्वशिग्रुबीजै559श्च नाव560नम्॥१४१॥ अजामूत्रयुतं नस्यं कर्तव्यं कृमिजित्परम्॥ विडंगस्वर्जिकादन्तीहिंगुगोमूत्रसंयुतम्॥१४२॥ विपक्वसार्षपं तैलं कृमिघ्नं नस्यमुत्तमम्॥ सूर्यावर्ते शिरावेधो नाव561नं क्षीरसर्पिषाम् ॥१४३॥ हितः क्षीरघृताभ्यासस्ताभ्यां चैव विरेचनम्॥ मार्कवस्य रसश्छागक्षीरतुल्योऽर्कतापितः॥१४४॥ सूर्यावर्तं निहन्त्याशु नस्येनैष प्रयोगराट्॥१४५॥ अर्द्धाव-भेदके पूर्वं स्नेहः स्वेदो विरेचनम्॥नाव560नं शर्करायुक्तो बीजं राजादनस्य562 च॥१४६॥ ईषत्सलवणं तैलं कोष्णं वा नावने हितम्॥ विडंगतिललेपेन नाशयत्यर्द्धभेदकम्563॥१४७॥ शिरसि ते यदि शूलमतीव चेदुषसि564 दुग्धमतः पिब नासया565॥ परमचिंतितशक्तिकमादरादतितरामनुभूतमिदं मया॥१४८॥ सशर्करपयःपाने नालिकेरोदकं तथा॥ घृतपूरादि566सेचा वा सूर्यावर्ताऽर्द्धभेदयोः॥१४९॥ कुंकुमं च घृतं भृष्टं छागक्षीरे विपाचितम्॥ ससितं नासया पीतंसूर्यावर्ताऽर्द्धभेदजित्॥१५०॥ सघृतं क्षीरपानं च नासयापि मुखेन च॥ विधिरेष शिरोरोगे शंखके567 शर्करान्वितः॥१५१॥ अनन्तवाते कर्तव्यः सूर्यावर्तहरो विधिः॥ क्रुद्धो रूक्षादिभिर्वायुः शिरःकंपमुदीरयेत्॥१५२॥ स्नेहस्वेदादिवातघ्नं नस्यं शस्तं च भोजनम्॥शिरोवेधश्च568कर्तव्योऽनन्तवातप्रशान्तये॥१५३॥

अथ प्रदररोगनिदानम्।

मद्याऽतिपानमतिमैथुनगर्भपाताज्जीर्णाध्वशोकगरयोगदिवाऽतिनिद्राः॥ स्त्रीणामसृग्दरगदो भवतीति तस्य प्रत्युद्गतौ भ्रमरुजो दवथुप्रतापौ॥१५४॥ दौर्बल्यमोहमदपांडुगदाश्च तंद्रा तृष्णा तथाऽनिलरुजो बहुधा भवंति॥ तं वातपित्तकफजं त्रिविधं चतुर्थं दोषोद्भवं प्रदररोगमिमं वदंति॥१५५॥ वाताद्रूक्षं फेनिलं शोणमल्पंपित्तात्पीतं नीलकृष्णाऽरुणं स्यात्॥ श्वेतं रक्तं पिच्छिलं श्लेष्मकोपाद्दुर्गंध्युष्णं क्षौद्रवर्णं त्रिदोषात्॥१५६॥ शशास्त्रवर्णप्रतिभासमानं लाक्षारसेनापि समं तथा स्यात्॥ तदार्तवो शुद्धमतो वदन्ति न रंजयेद्वस्त्रमिदं569 यदेतत्॥१५७॥ असृग्दरःप्राणहरः प्रदिष्टः स्त्रीणामतस्तं विनिवारयेच्च॥ सर्वेषु पूर्व वमनं प्रदिष्टं रसेक्षुगंगोदकतर्पणैश्च॥१५८॥ मुद्गपर्णीविपक्वेन तैलेन पिचुधारणम्570॥ कर्तव्यं रक्तनासाय मर्दनाय सुखाय च॥१५९॥ निम्बतैलं पिबेद्वापि गोक्षीरेण समायुतम्॥ मधुकं पद्मकं बीजं त्रपुषस्य571 शतावरी॥१६०॥ विदारीमिक्षुमूलं च पिष्ट्वा धौतघृत-प्लुतम्572॥ योऽन्यां शिरसि गात्रे च प्रदेहोऽमृग्दरापहः573॥१६१॥ मंजिष्ठा धातकीपुष्पं लोध्रं नीलोत्पलानि च॥ एतत्क्षीरेण पातव्यं स्त्रीणां प्रदरनाशनम्॥१६२॥ अशोकवल्कलक्वाथशृतं दुग्धं सुशीतलम्॥ यथाबलं पिबेत्प्रातस्तीव्राऽसृग्दरनाशनम्॥१६३॥रोहितकमूलकल्कं574 च पांडुरेऽसृग्दरे पिबेत्॥ कल्कः क्षौद्रेण दार्व्या575वा श्वेतप्रदर576नाशनः॥१६४॥ नागकेसरमापेष्य त्र्यहात्तक्रेण संपिबेत्॥ तक्राऽशन रता सम्यक्श्वेत-प्रदरशांतये॥१६५॥ रसांजनं क्षौद्रयुतं मूलं च तंदुलीयकम्॥ तंदुलाम्बुयुतं पानं सर्वप्रदरनाशनम्॥१६६॥ कुशमूलं समाहृत्य पाययेत्तंदुलाम्बुना॥ एतत्पीत्वा त्र्याहान्नारी प्रदरात्परिमुच्यते॥१६७॥ रसांजनं च लाक्षा च छागेनपयसा पिबेत्॥ दग्धां मूषकविष्ठां577 च लोहिते प्रदरे पिबेत्॥१६८॥ मिथ्याचाराद्बीजदोषादतिमैथुनसेवनात्॥ स्त्रीणां तु योनिरोगाः स्युः प्रदुष्टेनार्तवेन च॥१६९॥ परिप्लुता विप्लुताच वंध्योदावर्तका तथा॥ चतुर्द्धा तु भवेद्योनिस्तस्या लक्षणमुच्यते॥१७०॥ (१) परिप्लुतायां जायंते ग्राम्यधर्मे रुजो भृशम्॥ (२) विप्लुतायां सदा पीडा (३) वंध्या नष्टाऽर्तवा मता॥१७१॥ (४)सफेनिलमुंदावर्ताद्रुजः कृछ्रेण मंचति॥सदाहं क्षीयते रक्तं यस्यामालोहितक्षया॥१७२॥ सर्वेषु योनिरोगेषु वातघ्नः क्रम इष्यते॥ स्नेहनः स्वेदनो वस्तिर्वातजायां विशेषतः॥१७३॥ वासाऽश्वगंधारास्नाभिः साधितं शूलहृत्पयः॥ दन्तीगुडूचीत्रिफलाक्वाथैश्च परिषेचनम्॥१७४॥ नतब्या578घ्रीदेवदारुकुष्ठसैंधवसाधितः॥ तैलाश्मरीपिचुः579 पूतियोन्यामधिरक्तयोनि वै॥१७५॥ योन्यां बलासदुष्टायां सर्वरूक्षोष्णमौषधम्॥ तैलं स्वादु यवान्नं च पथ्यादिष्टं प्रयोजयेत्॥१७६॥ पलाशघातकी-जंबूसमंगा मोचसर्जकम्॥ हितं चूर्णं च दुर्गंधे पिच्छले स्तंभ कंदले॥१७७॥ गुडूची त्रिफला रास्ना निशायुग्मं शतावरी॥

अथ फलघृतम्।

सहचरद्वे श्योनाके मेदाह्वा च पुनर्नवा॥१७८॥ कल्कीकृत्य घृतं प्रस्थं पचेत्क्षीरं चतुर्गुणम्॥ तत्सिद्धं पाययेन्नारीं योनिशूलनिपीडिताम्॥१७९॥ पीडिता चलिता योनिर्निःस्सृता विवृता च या॥ पित्तयोनिश्च विभ्रांता षंढयोनिश्च या स्मृता॥१८०॥ प्रपद्यते ततः स्थानं गर्भं गृह्णाति चासकृत्॥ एतत्फलं घृतं नाम योनिदोषहरं परम्॥१८१॥

अथ पुत्रोत्पादनविधिः।

चतुर्थे दिवसेगच्छेदृतौ पुष्टो नरोऽङ्गनाम्॥ पुत्रः स्याच्छुक्रबाहुल्याद्दुहिता चार्तवाऽधिके॥१८२॥ सा तदास च मुदा हि सव्यमुच्चार्य मंत्रकम्॥१८३॥

अथ पुत्रकामार्थमंत्रः।

ॐआहिरसि580 आयुरसि581 सर्वतः प्रतिष्ठासि582 धाता निदधातु ब्रह्मवर्चसा भव दितिर्ब्रह्मा प्रजापतिर्विष्णुः सोमः सूर्यस्तथाश्विनौ भगोऽथ मित्रावरुणौ वीरं ददतु मे सुतम्॥१॥—॥१८४॥

अथ विधिः।

तच्चित्तोत्तानदेहा स्त्री तिष्ठेद्यावच्छ्रमं त्यजेत्॥ एवं सा सुतमाप्नोति रूपायुर्बलशालिनम्॥१८५॥पिप्पली शृंगवेरं च मरिचं केंसरं तथा॥ घृतेन सह पातव्यं वंध्यागर्भप्रदं परम्॥१८६॥ नागकेसरपूगास्थि-चूर्णंवा गर्भदं परम्॥ पत्रमेकं पलाशस्य गर्भिणी पयासान्वितम्॥१८७॥ पीत्वा च लभते पुत्रं वीर्यवंतं न संशयः॥१८८॥ पुत्रजीवकमूलं583क्षीरेणपिबेत्समूलं वा॥ दारुकं584क्षीरसहितं जनयति दीर्घायुषं पुरुषम्॥१८९॥ मुस्तं हरिद्रे कटुकाविशाला585 कुष्ठं कणा दारुकमुत्पलाह्वम्॥ काकोलियुग्मं586त्रिफलं विडंगंमेदाद्वयं587 चंदनयुग्मरास्ने588॥१९०॥ प्रियंगुदंतीमधुकाऽजमोदावचाशताह्वाःकुसुमानि589 जात्याः॥ द्वे सारिवे590 कट्फलकं तुगाह्वा सितापृथक्कर्ष591मिदं सहिंगु592॥१९१॥ संचूर्ण्य प्रस्थप्रमितं593 प्रस्थ।") घृतं स्याच्चतुर्गुणे गोपयसि प्रलोड्य॥ ततः पचेद्गोमयवह्विना तत्सिद्धं भवेदस्य पलप्रमाणम्॥१९२॥ पिबेन्नरः स्त्रीषु वृषायते च वंध्यापि नारी लभते सुतांश्च॥१९३॥ स्थिरगर्भा च या नारी या च कन्याःप्रसूयते॥ मृतवत्सा काकवंध्या या सुतेऽनायुषं मृतम्॥१९४॥ अचिराज्जनयेत्पुत्रान्रूपदीर्घायुसंयुतान्॥ नाम्ना फलघृतं ह्येतद्भारद्वाजेन निर्मितम्॥१९५॥

लक्ष्मणाघृतम्।

जीवद्वत्सैकवर्णाया घृतमत्र प्रशस्यते॥ अनुक्तं लक्ष्मणामूलं क्षिपेत्तत्र चिकित्सकः॥१९६॥ अरण्य-गोमयेनात्र वह्निज्वालाविधिस्स्मृतः॥१९७॥

वृद्धदारुघृतम्।

वृद्धदारुकमूलेन घृतं पक्वंपयोन्वितम्॥ एतद्वृष्यतमं सर्पिः पुत्रकामः पिबेन्नरः॥१९८॥

अथ गर्भिणीलक्षणम्।

छर्दिरुद्विग्नता गंधादशुभात्संप्रजायते॥ प्रसेको वषुषः सादो गर्भिण्या लक्षणं स्मृतम्॥१९९॥ ह्रीबेरारलुरक्तचन्दनवचाधान्याकवत्सादनीमुस्तोशीरयवासपर्पटविषाक्वाथं पिबेद्गर्भिणी॥ नानावर्णरुजाति-सारकगदे रक्तस्रुतौ वा ज्वरे योगोऽयं मुनिभिः पुरा निगदितः सूत्यामयेषूत्तमः॥२००॥

गर्भस्रावे क्वाथः।

अनंता594 सारिवा पद्मा रास्ना मर्कटमुत्पलम्॥ गव्येन पयसा पीतं गर्भस्रावहरं परम्॥२०१॥

पुनः।

शृंगाटकबिसं द्राक्षा कसेरु मधुकं सिता॥ गोदुग्धेन समंपेष्य पीतं गर्भच्युतिं जयेत्॥२०२॥

बालनिष्कासनम्।

शालिपर्ण्यास्तु मूलं हि सुपिष्टं तंदुलांबुना॥ नाभिवस्तिभगालेपात्सुखं नारी प्रसूयते॥२०३॥ मातुलुंगस्य मूलानि मधुकं मधुसंयुतम्॥ घृतेन सह पातव्यं सुखं नारी प्रसूयते॥२०४॥ तुंबीपत्रं सलोध्रंच समभागं च कारयेत्॥ दद्याल्लेपं भगस्येमं प्रसृताप्यक्षता भवेत्॥२०५॥ वेतसस्य तु मूलानि क्वाथयेन्मृदुवह्निना॥ भगः प्रक्षालितस्तेन गाढत्वमुपगच्छति॥२०६॥ पलाशोदुम्बरफलं तिलतैलसमन्वितम्॥ मधुना योनिमालिप्य गाढीकरणमुत्तमम्॥२०७॥ वायुःप्रकुपितः कुर्यात्संरुध्य रुधिरच्युतम्॥ सूताया हृच्छिरोवस्तौ शूलं मक्कल्लसंज्ञितम्॥२०८॥ पृथिव्यां पातिते बाले योनिपीडनमिष्यते॥ लंघनाऽभ्यंजनस्वेदाः कर्तव्याश्च ततः क्रियाः॥२०९॥ यवागूं कटुतिक्तोष्णां पाययेन्मधुनान्विताम्॥ त्रिरात्रं च निषेवेत595पश्चात्कार्यंविशोधनम्596॥२१०॥ यवक्षारं पिबेत्तत्र घृतेनोष्णोदकेन वा॥ त्रिकटु त्रिजातधान्याकं प्राचीनं गुडमिश्रितम्॥२११॥ सूतिकारोगशूलं च रोगं मक्कल्लसंज्ञिकम्॥ हरेत्कुव्याधिं नारीणां हर्षदं पुष्टिवर्द्धनम्597॥२१२॥ त्र्यूषणं पिप्पलीमूलं दारुचव्यं सचित्रकम्॥ रजन्यौहपुषाजाज़ी598 सक्षारलवणत्रयम्599॥२१३॥ कल्कं मुस्ताम्बुना पीत्वा सुखेनाशु विरिच्यते॥ मक्कल्लशूलरोगांश्च हरेन्नारी न संशयः॥२१४॥

अथ सूतिकारोगः।

कंपः प्रलापो600 गुरुता शरीरे ज्वराऽतिसारौ सदनं पिपासा॥ एतानि चिह्नानि भवंति यस्मिस्तं सूतिका-रोगसुदाहरंति॥२१५॥ सूतिका-रोगशान्त्यर्थं कुर्याद्वातहरीं क्रियाम्॥ स्वेदोपनाहनाऽभ्यंगाः शस्यंतेसाऽव-गूहनाः॥२१६॥ दशमूलभवं क्वाथं कोष्णं सर्पिर्युतं पिबेत्॥ सूतिकारोगनाशाय पिबेद्वा वारुणीं सुराम्॥२१७॥ सुतप्तं लोहमाकृष्य वारुण्यां तु निधापयेत्॥ सूतिकोपद्रवान्सर्वान्हंति पीता न संशयः॥२१८॥ अमृतानागरसहचरभद्रो601त्कटपंच602मूलजलदनलम्॥ शीतं पीतं मधुना सह शमयति सूतिकातकम्॥२१९॥

अथ स्तनशुद्धिः।

पटोलनिंबाऽसनदारुपाठा भूर्वा गुडूची कटुरोहिणी च॥ सनागरास्नाक्वथिताः समस्ता धात्री603 पिबेत्स्तन्य-विशुद्धिहेतोः॥२२०॥

अथ कुचकाठिन्यता।

श्रीपर्णिकल्कस्वरसेन सिद्धतैलं ततस्तूलपिचुप्लुतं604सत्॥ स्तनोपरिष्टाद्धृतमासमेकं कुचौ प्रकुर्यात्कठिनौभृशोच्चौ॥२२१॥

अथ बालरोगनिदानचिकित्सा।

त्रिविधः कथितो बालो क्षीरान्नोभयवर्द्धनः॥ तदेव भेषजं कार्यं महतां यज्जरादिषु॥२२२॥ वातदुष्टं पिबेत्स्तन्यं बद्धविण्मूत्रमारुतः॥ पित्ताद्भिन्नमलो बालः कामलापित्तरोगवान्॥२२३॥ कफदुष्टं पिबन्क्षीरं लालालुः श्लेष्मरोगवान्॥ शिरस्तीव्रां रुजं सम्यग्रोदनाल्लक्षये-द्भिषक्॥२२४॥ भेषजं जातमात्रस्य विडंग-फलमात्रकम्॥ मासेमासे प्रयोक्तव्यं विडंगानां विवर्द्धनम्॥२२५॥ वर्षादूर्ध्वंकुमारस्य दद्यात्कौलाऽस्थि-मात्रकम्॥ क्षीरादस्यौषधं धात्र्याः क्षीरान्नादस्य चोभयोः॥२२६॥ आत्मन्यन्नाशिनोदेयमौषधं तैलजं संदा॥ यथारोनं कुचौ लिप्तं भेषजं पाययेच्छिशुम्॥२२७॥ सर्वं निर्वार्यते बाले स्तन्यं न प्रतिवार्यते॥ स्तन्याऽभावे पयश्छागं गंव्यं वा तद्गुणं पिबेत्॥२२८॥

अथनाभिशोफे।

मृत्पिंडेनाग्निवर्णेन क्षीरयुक्तेन सोष्मणा॥ स्वेदयेदुत्थितां नाभिं शोफस्तेनोपशाम्यति॥२२९॥

अथ नाभिपाके।

नाभिपाके निशालोध्रप्रियंगुमधुकैः समैः॥ तैलमभ्यंजने शस्तमेभिर्वाभ्यवचूर्णितम्॥२३०॥ स्तन्यं गृह्णाति नो बालो जिह्वां तस्य प्रघर्षयेत्॥ पथ्याघातृमधुघृतसैंधवैः श्लक्ष्णपेषितैः॥२३१॥ मुस्ताऽभयावचाब्राह्मीकल्कं समधु सर्पिषा॥ वर्णायुःकीर्तिजननं लेहं बालाय दापयेत्॥२३२॥ प्रियंगुं सर्जिकां सिंधुं लेहयेन्मधुना सह॥ क्षीरामयं निहंत्याशु विडंगेन युतं कृमीन्॥२३३॥ पीतंपीतं वमति यः स्तन्यं तं मधुसर्पिषा॥ द्विवार्ताकीफलरसं लेहयेत्पंचकोलकम्॥२३४॥ तिक्तासिता क्षौद्रयुता लीढा इति ज्वरं शिशोः॥ तत्कल्केन पुनर्बालं मुहुर्लिंपेच्चबुद्धिमान्॥२३५॥ भद्रमुस्ताऽभयानिम्बपटोलमधुकैः कृतः॥ क्वाथः कोष्णस्तु बालानामशेषज्वरनाशनः॥२३६॥

धूपः।

पलंकषा605 वचा कुष्ठं गजचर्मा606ऽविचर्म607 च॥ निम्बपत्राणि माक्षीकं सर्पिर्युक्तं च धूपनम्॥ २३७॥ ज्वरवेगं निहंत्याशु बालानां च विशेषतः॥२३८॥

अथ बालाऽतिसारः।

बिल्वं च पुष्पाणि च धातुकीनां जलं च लोध्रं गजपिप्पली च॥ क्वाथाऽवलेहौ मधुना विमिश्रौ बालेषु योज्यावतिसारितेषु॥२३९॥ नागरातिविषामुस्तवालुकेन्द्रजवैः कृतम्॥ कुमारं पाययेत्क्वाथं सर्वाऽतीसार-नाशनम्॥२४०॥ समंगाधातुकीलोध्रसारिबभिः शृतं जलम्॥ दुर्द्धर्षेऽपि शिशोर्देयमतिसारे समाक्षिकम्॥२४१॥ घनकृष्णाऽरुणाशृंगी31चूर्णं क्षौद्रेण योजितम्॥ शिशोर्ज्वराऽतिसारघ्नं कासश्वासवमीहरम्॥२४२॥ फलिन्य608जन609मुस्तानां चूर्णं पीतं समाक्षिकम्॥ तृष्णा छर्दिमतीसारं बालानामुद्धतं हरेत्॥२४३॥ दाडिमस्य तु बीजानि जीरकं नागकेसरम्॥ चूर्णं सशर्कराक्षौद्रं देयं तृष्णाविनाशनम्॥२४४॥ शृंगीसमुस्ताऽतिविषां विचूर्ण्य लेहं विदध्यान्मधुना शिशूनाम्॥ कासज्वरच्छार्दिभिरर्दितानां610 समाक्षिकां चाऽति-विषामथैषाम्॥२४५॥ व्याघ्रीकुसुमसंजातकेसरैरवलेहिका॥ यांश्चापि चिरसंजाताञ्छिशोः कासान्व्यपोहति ॥२४६॥गुडोदकं वा क्वथितं व्योषसैंधवसंयुतम्॥ सुखोष्णं पाययेद्बालं कासरोगोपशांतये॥२४७॥ हिंगु-कर्कटकेशृंगी गैरिकं मधुयष्टिका॥ शुंठी क्षौद्रं नागरं च हिक्काश्वासविनाशनम्॥२४८॥सुर्वर्णगैरिकस्यापि611 चूर्णानि मधुना सह॥ लीढ्वा सुखमवाप्नोति क्षिप्रं कासार्दितं शिशुः॥२४९॥ विसर्पस्तु शिशोःप्राणनाशनो वस्तिशीर्षजः॥ सारिवोत्पलकल्हारभद्रकोशीरचन्दनैः॥२५०॥ प्रपौंडरीकमंजिष्ठायष्टीमधुकसर्षपैः॥ कुमाराणांप्रशस्तोयं लेपो वीसर्पनाशनः॥२५१॥ मुखपाके तु बालानामाम्रसारमयोरजः॥ गैरिकं क्षौद्र-संयुक्तं भेषजं सरसांजनम्॥२५२॥ शंखयष्ट्यांजनेर्लेपः शिशूनां गुद्पाकनुत्॥२५३॥

अथ पूतनाभिधानम्।

गृहेष्वधिपतिःस्कंदः सर्वरोगेषु रेवती॥ पूजनीयौ सदा तस्माद्बालानां च हितेच्छया॥२५४॥ स्वस्ति तेषण्मुखः स्कन्दो महाभागा च रेवती॥ दिशःसूर्योऽन्तरिक्षं च स्वस्ति कुर्वंतु सर्वदा॥२५५॥

अथ बालकरक्षामंत्रः।

तेजसा ब्रह्मणश्चाथ विष्णोरिंद्रस्य तेजसा॥ सिद्धानां तेजसा चैव रक्षितोसि सुखी भव॥२५६॥ मंत्रैरेतैर्भिषक्पश्चाद्रक्षां कुर्वीत बालके॥ भवति निग्रहा बालाः सुखिनो रोगवर्जिताः॥२५७॥

अथ विषचिकित्सा॥

स्थावरं जंगमं चेति द्विविधं विषमुच्यते॥ स्थावरं कन्दमूलादि सर्पलूतादि जंगमम्॥२५८॥ आद्ये ज्वरश्वासवमिप्रदाहा मूर्छाऽरुचिः कंठनिरोधहिक्के॥ स्युर्जंगमे दाहसलोमहर्षप्रसेक612रोमोद्गमशोफतंद्राः॥२५९॥ विषदंश्यविशुष्काऽस्यो विलक्षो वीक्षते दिशः॥ स्वेदवेपथु124मांस्त्रस्तो भीतः613 स्खलति जृंभति॥२६०॥ विषभुक्तवते दद्यादूर्ध्वं चाधश्च शोधनम्॥ काले सूक्ष्मं ताम्ररजो मधुना हृदि शोधनम्॥२६१॥ शुद्धे हृदि हेमदलशाणं614 समधु दापयेत्॥ न सज्जते हेमपात्रे पद्मपत्रेंबुवद्विषम्॥२६२॥ जायते विपुलं चायुर्गरेप्येवं615 विधिः स्मृतः॥ उष्णवर्ज्योविधिः कार्यो विषार्तानांविजानता॥२६३॥ मुक्त्वाकीटविषं तद्धि शीतेनाऽति प्रवर्तते॥ दिवास्वप्नं व्यवायं च व्यायामं क्रोधमागतम्॥२६४॥ सुरातिलकुलत्थाँश्च वर्जयेद्विषवान्नरः॥ शालयः षष्टिकाश्चैव कोरदूषाः प्रियंगवः॥२६५॥ भोजनार्थे प्रशस्यंते लवणं चैव सैन्धवम्॥ तंदुलीयक318जीवन्ती616वार्ताकं323 सुनिषण्णकम्617॥२६६॥ शस्यते सर्वदा शांकमम्लार्थे धात्रिदाडिमम्॥ शिरीषपत्रस्वरसे सप्ताहं भावयेत्सितम्॥२६७॥ मरिचं सर्पदष्टानां नस्यं वा चांजने हितम्॥ गृहधूमं हरिद्रे द्वे समूलं तंदुलीयकम्॥२६८॥ अपि वासुकिना दष्टः पिबेद्दधि घृतप्लुतम्॥ वटशृगाणि मंजिष्ठा जीवकर्षमकौबला॥ काश्मर्यं मधुकं चेति पानं सर्पविषे हितम्॥२६९॥

अथ वृषादिघृतम्।

वृष निम्बपटोलानां क्वाथेन विपचेद्घृतम्॥ अभयागर्भितं श्रेष्ठंतद्गरस्य618 निबर्हणम्॥२७०॥

अथ सर्पविषहरमंत्रः।

नर्मदायै नमः प्रातर्नर्मदायै नमो निशि॥ नमस्ते नर्मदे तुभ्यं रक्ष मां विषसर्पतः॥२७१॥ इति विष्णुपुराणोक्तम्॥
______________________________________________
१ अगियाक्रीडा।
______________________________________________

लूताविषम्।

निशाद्वयं समंगा च पतंगं619 नागकेसरम्॥ शीताम्बुपेष्यमालेपात्सद्यो लूतां विनाशयेत्॥२७२॥

पुनः।

चन्दनं पद्मकं कुष्ठमनंतोशीरपाटलाः॥ निर्गुंडी सारिवा शेलुर्लूताविषहरो620 गुणः॥२७३॥

मूषकविषम्।

शिरीषकस्य मूलं वा वत्समूत्रेण पेषितम्॥ पानलेपनयोरुक्तं सर्वाऽखुविषनाशनम्॥२७४॥ विशालां337कोलमूलं621 च तिलमूलं सिता मधु॥ घृतेनाखुविषं हंति पीतमात्रं च दुस्तरम्॥२७५॥

श्वानविषम्।

अंकोल्लककषायस्य द्विपलं सर्पिषः पलम्॥ पीतमात्रं निहंत्येतच्छ्वानस्य गरलं हरेत्॥२७६॥

पुनः।

जलवेतसपत्रं च मूलं पिष्ट्वा पचेद् ध्रुवम्॥ स क्वाथःशीतलः पेयः परं श्वविषनाशनः॥२७७॥

वृश्चिकविषम्।

सद्यो वृश्चिकजं दंशं तक्रतैलेन सेचयेत्॥ लवणोत्तमयुक्तेन सर्पिषा वा पुनःपुनः॥२७८॥ सिंचेत्कोष्णारनालेन216 सक्षारलवणेन वा॥ सघृतं सैंधवं पीतं हंति वृश्चिकजं विषम्॥२७९॥

पुनः।

जीरकस्य कृतः कल्को घृतसैंधवसंयुतः॥ सुखोष्णो वृश्चिकार्तानां प्रलेपो मधुना हितः॥२८०॥

नखदंतविषम्।

** **रजन्यौ गैरिकं लेपो नखदन्तविषापहः॥ तथा दन्तमुखे सद्यो नरमूत्रेण सेचनम्॥२८१॥ कीटदंश क्रियाः सर्वाः समानाः स्युर्जलौकसाम्॥

जलौकाविषम्।

शिरीषकटभी622पार्थ623शेलु624क्षीरीमत्वचः॥२८२॥ विषं जलौकसां इति प्रयुक्ताः पानलेपयोः॥२८३॥

सर्वकीटविषम्।

वचाहिंगुविडंगानि सैंधवं गजपिप्पली॥ पाठा प्रतिविषा व्योषं दशांगं पानलेपतः॥२८४॥ सर्वकीटविषं हंति काश्यपेन विनिर्मितः॥२८५॥ विरुद्धाऽध्यशनक्रोधक्षुत्तृष्णायासमैथुनम्॥ वर्जयेद्विषमुक्तो हि दिवास्वप्नं विशेषतः॥२८६॥ तुषांबुना मेघरवस्य मूलं पिष्ट्वा पिबेच्छर्करयासमेतम्॥ तच्छंखपुष्पीप्रभवं625 जलं तु धत्तूरबीजोत्थमदे सदैव॥२८७॥

इति श्रीगौडवंशावतंसश्रीमदनन्तभट्टात्मजशंकरभट्ट-
विरचिते वैद्यविनोदे कर्णनासाप्रतिश्यायनेत्रबाल-
विषरोगनिदानचिकित्साकथनं नाम
पंचदशोल्लासः॥१५॥

अथ जलविकारौषधम्।

भोजनादौ तु संभुक्तं शुंठ्याजाज्यभयोत्थितम्॥ चूर्णं निहंति रोगांश्च नानादेशजलोद्भवान्॥१॥ महौषध-यवक्षारो पीत्वा चैवोष्ण-वारिणा॥ नानादेशोद्भवजललग्नं दोषं निवारयेत्॥२॥ यो लेढि626शयनसमये मधुमिश्रं बीजपूरदलचूर्णम्॥ स पीडाकरवातप्रसरनिरोधा- त्सुखं स्वपिति॥३॥ वृष्यादियोगमारभ्य योग्याऽयोग्य-ग्रहावधि॥ ग्रंथान्तरेभ्यःसंगृह्य लिख्यते बहुधा मया॥४॥ युवा वाप्यथवा वृद्धो विषयासक्तमानसः॥ हीनकामो निषेवेत वाजी-करणमन्वहम्॥५॥ यथा वाजी मदोन्मत्तो धावते वडवाशतम्॥ तथा नारीं नरस्तेन वाजीकरणमुत्तमम्॥६॥ धात्रीफलं च स्वरसैर्भावितं सप्तवारतः॥ लिहन्नाऽमलकं चूर्णं धात्रीमधुसितायुतम्॥७॥ मासेनैकेन वृद्धोपि युवा स्याद्दुग्धपानतः॥विदारीकन्दचूर्णं वा पूर्ववद्गुणवर्द्धनम्॥८॥ वाजिगन्धां प्रभाते यः सितामधुघृत-प्लुताम्॥ पलप्रमाणां संगृह्य मासात्स्यात्स्थविरो627 युवा॥९॥ विडंगाऽसनधात्रीणां चूर्णं लोहरजो मधु॥ एतत्संप्राश्य626वृद्धोपि तारुण्यमधिगच्छति॥१०॥ वृद्धदारुकचूर्णं तु यो लिहेन्मधुसर्पिषा॥ सप्ताहात्क्षीर-यूषाशी किन्नरैः628सह गीयते॥११॥ हस्तिकर्णरजः629 खादेत्प्रातरुत्थाय सरिपा॥ यथेष्टाऽहारगो वापि सहस्रायुर्नरो भवेत्॥१२॥ मेधावी बलवान्कामी स्त्रीशतानि व्रजत्यसौ॥ अश्वगंधा वृद्धदारु समभागं विचूर्णयेत्॥१३॥ स्थापयित्वा घटे स्निग्धे वर्षमेकं तु भक्षयेत्॥ दुग्धेन प्रातरुत्थाय भवेद्दोपविवर्जितः॥१४॥चतुर्मासोपयोगेन वलीपलित630वर्जितः॥१५॥ ग्रीष्मेतुल्यगुडां सुसैंधवयुतां मेघावधावंबरे सार्द्धं शर्कया शरद्यमलया शुंठ्या तुषारागमे॥ पिप्पल्या शिशिरे वसंतसमये क्षौद्रेण संयोजिता राजन्प्राप्य हरीतकीमिव गदा नश्यंति ते शत्रवः॥१६॥

अथ जलयोगः।

अंभसश्चु631लकानष्टौ प्रातरुत्थाय यः पिबेत्॥ वातपित्तकफान्हंति जीवेद्वर्षशतं सुखी॥१७॥ निशाक्षये पिबेत्तोय नासारंध्रेण यः पुंमान्॥ वलीपलितवैस्वर्य्यचक्षुरोगांश्च नाशयेत्॥ १८॥ दोषाः कदाचित्कुप्यंति जिता लंघनपाचनैः॥ ये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः॥१९॥ कफे विदध्याद्वमनं संयोगे वा कफोल्वणे॥ पित्ते विरेचनं देयं वाते वस्तिविधिर्हितः॥२०॥ पूर्वाह्णे वमनं देयं मध्याह्ने तु विरेचनम्॥ मध्याह्नेकिंचिदावृत्ते वस्तिं दद्याद्विचक्षणः॥२१॥

वमनम्।

आटरूषवचानिंबपटोलफलिनीत्वचः॥ क्वाथयित्वा पिबेत्तोयं वांतिकृन्मधुनाऽन्वितम्॥२२॥ आकण्ठं पायितम्मद्यं क्षीरमिक्षुरसं रसः॥ ततो वचा कट्फलं च चूर्णं मुस्तेन वारिणा॥२३॥ पाययेज्जातहृल्लास-प्रसेकच्छर्दयेत्ततः॥ अंगुलिभ्यामनायासं632 नालेन633मधुनाऽथवा॥२४॥ पित्तस्य दर्शनं यावच्छेदो वा श्लेष्मणो भवेत्॥ प्रदेयं वमनं तावद्भिषजा सिद्धिमिच्छता॥२५॥

अथायोग्यवमनम्।

तैमिरं गुल्मिनं पांडुं कृशं स्थूलं न वामयेत्॥ वमने मदनं634 श्रेष्ठं त्रिवृच्चूर्णं विरेचने॥२६॥ मृदुकोष्ठःपयो द्राक्षा तुंबीतैलैर्विरच्यते॥ मध्यकोष्ठस्त्रिवृत्तिकाराजवृक्षैर्विरच्यते॥२७॥ क्रूरस्नुहीपयो635हेमक्षीरी636दंती-फलादिभिः637॥२८॥

अथ विरेचनार्थे अभयादिमोदकः।

पथ्या विडंगामलकत्रिजातं638 कटुत्रिकं पिप्पलिमूलमुस्ते॥ एतत्समं स्यात्त्रिगुणा च दंती त्रिवृद्धवेदष्टगुणा सिताषट्॥२९॥ संचूर्ण्य सर्वं गुटिकां प्रकुर्यात्कर्षप्रमाणा मधुना च साकम्॥ एका प्रभाते मनुजाय दद्याज्जलेन शीतेन विरेचनार्थम्॥३०॥ तावद्विरच्यते जंतुर्यावदुष्णं न सेवते॥ विषमज्वरमंदाग्निपांडुकास-भगंदरान्॥३१॥ दुर्नामकुष्ठगुल्मांश्च नाशयेदभयाह्वया॥ गुटिका चेति विख्याता रसायनवरास्मृता॥३२॥ पथ्यापिप्पलिकाचूर्णं सूक्ष्ममुष्णांबुना पिबेत्॥ विरेकोऽयं सदा श्रेष्ठः सर्वदोषनिबर्हणः॥३३॥ हरीतकी त्रिवृत्कर्षद्वयं शीतेन वारिणा॥ पिष्ट्वा घृतेन संभर्ज्य कर्षैकां च सितां क्षिपेत्॥३४॥ पीत्वा विरच्यते शीतजलैः संसिच्य चक्षुषी॥सुगंधि639किंचिदाघ्रायतांबूलं640 शीलयेन्नरः॥३५॥ सम्यग्विरच्यते जंतुः कोष्णनीरं पिबेदनु॥ वृद्धदारुकचूर्णस्य कर्षं शुंठ्यार्द्धकर्षकम्॥३६॥ गुडेन गुटिकां कृत्वा विरेकार्थं प्रयोजयेत्॥ मेषशृंग्याश्च641 कर्षैकं किंचित्सैंधवसंयुतम्॥३७॥ उष्णांबुना पिबेद्रात्रौ प्रातः सुखविरेचनम्॥३८॥

अथ भानुरेचनीगुटिका।

रसं विषं गन्धतालं टंकणं दंतिबीजकम्॥ त्रिकटु त्रिफला वह्निः समांशं भृजद्रवैः॥३९॥ कुर्वीत मरिचाकारां गुटिकां भानुरेचनीम्॥४०॥

विरेचनम्।

अष्टौ निस्तुषिदंतिबीजसकलाञ्छुंठ्यास्त्रयो गन्धकाद् द्वौ भागौ मरिचाच्च टंकणरसादेकैकभागं पुनः॥ गुंजामात्रमिदं विरेचनकरंदेयं च शीतांबुना गुल्माष्ठीलमहोदरापहरणं वातापहं दीपनम्॥४१॥प्रभातसेवां शीतांबुस्नेहाभ्यंगमजीर्णताम्॥ व्यायामं मैथुनं निद्रां न सेवेत विरोचितः॥४२॥ जघन्य642मध्य643-प्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ। दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा स्याद्द्विचतुर्गुणाश्च॥४३॥

अथौषधिसंज्ञाः।644

अथाऽनुलोमनौषधिः।

(१) कृत्वा पाकं मलानां यद्भीत्या बन्धवधो नयेत्॥ तच्चाऽनुलोमनं ज्ञेयं यथा प्रोक्ता हरीतकी॥४४॥

स्रंसनम्।

(२) श्लिष्टकोष्ठे मलमधो नयति स्रंसनं तु तत्॥

भेदनम्।

(३) बद्धाऽबद्धमलान्भित्त्वा पाययेद्भेदनं च तत्॥४५॥

शोधनम्।

(४) पक्वाऽपक्वमलं चाधो द्रवता तद्विरेचनम्॥ स्थानादूर्ध्वमधोबाह्यं नयेद्वामलसंचयम्॥४६॥ शोधनं तद्धि विज्ञेयं देवदालीफलं यथा॥

छेदनम्।

(५) मलानुन्मूलयेच्छ्लिष्टान्बलात्तच्छदनं स्मृतम्॥४७॥

लेखनम्।

(६) विशोष्योल्लेखयेद्धातून्मलान्वातद्धि लेखनम्॥४८॥

रसायनम्।

(७) ग्राहि स्मृतं दीपनं यत्पाचनं द्रव्यशोषकम्॥ यज्जराव्याधिविध्वंसि भेषजं तद्रसायनम्॥४९॥

सूक्ष्मम्।

(८) देहस्य सूक्ष्मच्छिद्रेषु विशेद्यत्सूक्ष्ममुच्यते।

विकासि।

(९) पाकंयात्यखिलं देहं व्याप्य यत्तद्य्व्द्यवायि च॥५०॥ संधिबंधांस्तु शिथिलान्यत्करोति विकासि तत्॥

मदकारि।

(१०) बुद्धिंलुंपति645 यद्द्रव्यं मदकारि तदुच्यते॥५१॥

प्रमाथि।

(११) निरस्यतिबहिर्दोषान्स्ववीर्येण प्रमाथितत्॥

अभिष्यंदि।

(१२) पैच्छिल्याद्गौरवाद्द्रव्यं रुद्ध्वा रसवहाः शिराः॥ धत्ते यद्गौरवं देहे तदभिष्यंदि कथ्यते॥५२॥

वाजीकरम्।

(१३) स्त्रीषु हर्षोभवेद्यस्माद्रव्याद्वाजीकरं च तत्॥५३॥

शुक्रवर्द्धकम्।

(१४) सूक्ष्मं छिद्रं विशेद्द्रव्यं शुक्रलं शुक्रवर्द्धनम्॥५४॥

अथ क्वाथप्रकारः।

स्वरसः646 क्वाथकल्कौ च तथा च हिमफांटकौ। कषायाः पंच विज्ञेया लघवः स्युर्यथोत्तरम्॥५५॥ आर्द्रद्रव्यसमुत्पन्नो रसो यः स्वरसो मतः॥ आदाय शुष्कद्रव्यं वा स्वरसानामसंभवे॥५६॥ जलेऽष्टगुणिते साध्यं पादशेषं तु गृह्यते॥ स्वरसस्य गुरुत्वाच्च पलमर्द्धं प्रयोजयेत्॥५७॥ निःशेषितं चाग्निसिद्धपलमात्रं प्रयोजयेत्॥ सितामधुगुडक्षाराञ्जीरकलवणं तथा॥५८॥ घृतं तैलं च चूर्णादीन्कोलमात्रं रसे क्षिपेत्॥ द्रव्यमार्द्रं शिलापिष्टं शुष्कं वा सजलं भवेत्॥५९॥ कल्कः स एव विज्ञेयस्तन्मानं कर्षसम्मितम्॥ कल्के मधुघृतं तैलं देयं द्विगुणमात्रया॥६०॥ सिता गुडं समं दद्याद्द्रवो देयश्चतुर्गुणः॥ पानीयं षोडशगुणंक्षुण्णं647 द्रव्यं पलं क्षिपेत्॥६१॥ मृत्पात्रे क्वाथयेद्ग्राह्यमष्टमांशावशेषितम्॥ तज्जलं पाययेद्धीमान्क्वाथो मृद्वग्नि-साधितः॥६२॥ शृतः क्वाथः कषायश्च निर्यूहः स निगद्यते॥ वृद्धवैद्योपदेशेन पिबेत्क्वाथं पलं द्वयम्॥६३॥ जीरकं गुग्गुलुं क्षारं लवणं च शिलाजतु॥ हिंगु त्रिकटुकं चैव क्वाथे शाणोन्मितं क्षिपेत्॥६४॥ क्षीरं घृतं गुडं तैलं मूत्रं चान्यद्द्रवं तथा॥ कल्कं चूर्णादिकं क्वाथे निक्षिपेत्कर्षसंमितम्॥६५॥ क्षिपेन्मधु- सितामंशैश्चतुर्थाष्टमषोडशैः॥ क्षुण्णद्रव्यपलं सम्यक्षड्भिर्नीरपरिप्लुतम्॥ निःशोषितं हिमं तत्स्यात्तन्मानं च पलद्वयम्॥६६॥ क्षुण्णे द्रव्यपले सम्यग्जलमुष्णं विनिक्षिपेत्॥६७॥ मृत्पात्रे कुडवोन्मानं ततस्तु स्रावयेत्पटात्॥ तस्याश्चूर्णद्रवः फांटस्तन्मानं द्विपलोन्मितम् ॥६८॥ सितामधुगुडादींस्तु क्वाथवत्तत्र निःक्षिपेत्॥ पुटपाकस्य कल्कस्य स्वरसो द्विपलः स्मृतः॥६९॥ सम्यक्पिष्टस्य कल्कस्य चतुःपलमितस्य च॥ विधाय गोलं संवेऽष्ट्य वटजम्ब्वादिपत्रकैः॥७०॥ मृदा लेपं भिषक्पश्चात्कुर्याच्चांगुष्ठमात्रकम्॥ आतपे शुष्कमादाय दहेत्तं गोमयाऽग्निना॥७१॥ अंगारवर्णकं दृष्ट्वा ततो वह्नेः समुद्धरेत्॥ वस्त्रनिष्पीडितस्तस्माद्रसो ग्राह्यो मनीषिभिः॥७२॥ कल्कचूर्णद्रवाद्यास्तु देयाः स्वरसवद्बुधैः॥ पुटपाकस्य पाकोऽयं बहिरारक्तवर्णता॥७३॥

अथ यवागूः।

यवागूष्षड्गुणजले सिद्धा स्यात्कृशरा648 घना॥ तंदुलैर्मुद्गमाषैश्च तिलैर्वा साधिता हिता॥७४॥ विलेपी घनसिक्था649स्यात्सिद्धा नीरे चतुर्गुणे॥ चतुर्दशगुणे नीरे सिद्धा पेया द्रवाऽधिका॥७५॥ यूषः किंचिद्धनोज्ञेयो द्रवो मंडस्त्वसिक्थकः650॥ धान्यत्रिकटुसीधूत्थयुक्तो मुद्गेन संयुतः॥७६॥भृष्टश्च हिंगुतैलाभ्यां स मंडोऽष्टगुणः स्मृतः॥ जले चतुर्दशगुणे तंदुलानां चतुःपलम्॥७७॥ विपाचयेन्मंडभक्तो651 मधुरो लघुसंस्मृतः॥७८॥ शुष्कं द्रव्यं सुपिष्टं यच्चूर्णं स्याद्वस्त्रगालितम्॥ चूर्णे गुडः समो देयः शर्करा652द्विगुणा भवेत्॥७९॥ पिबेच्चतुर्गुणैरेव चूर्णमालोडितं द्रवैः॥ यथा तैलं जले प्राप्तं क्षणेनैव प्रसर्पति॥८०॥ अनुपानबलादंगे तथा सर्पति भेषजम्॥ क्वाथादेर्यत्पुनः पाकाद्धनत्वं सा रसक्रिया॥८१॥ सोऽवलेहश्चलेहश्च तन्मात्रा स्यात्पलोन्मिता॥ सिता चतुर्गुणा कार्या चूर्णाच्च द्विगुणो गुडः॥८२॥ द्रवं चतुर्गुणं दद्यादिति सर्वत्र निश्चयः॥ लोहस्य तंतुमत्राशु मज्जनं सरणं न च॥८३॥ घृतस्य फेनोपशमस्तैलस्य च तदुद्भवः॥ नाग्नौ क्षिप्तं सशब्दं स्यात्कल्को वर्तिवमाप्नुयात्॥८४॥ एवं सम्य-ग्भिषग्विद्यात्पात्कं तु घृततैलयोः॥ स्नेह-पाकस्त्रिधा प्रोक्तो मृदु653मध्य654खर655स्तथा॥८५॥नस्यार्थं स्यान्मृदुः पाको मध्यमस्सर्वकर्मसु॥ अभ्यंगार्थं खरःप्रोक्तो युंज्यादेव यथोचितम्॥८६॥ घृततैलगुडादींस्तु साधयेन्नैव वासरे॥ दग्धः पाको दाहकृत्स्यादामपाकेऽग्निमांद्यकृत् ॥८७॥ कल्काच्चतुर्गुणः स्नेहः स्नेहात्क्वाथश्चतुर्गुणः॥ दुग्धे दधिरसे तक्रे कल्को देयोऽष्टमांशकः॥८८॥ कल्कहीनश्च यः स्नेहस्स साध्यः केवले द्रवे॥८९॥

अथ वस्तिविधानम्।

द्विधा वस्तिः परिज्ञेयो निरूहश्चानुवासनः॥ तैलक्षीरकषायैर्योनिरूहः सो हि कथ्यते॥९॥ स्नेहैर्यो दीयते यस्मादनुवासनसंज्ञितः॥ बस्तिभिर्दीयते यस्मात्तस्माद्वस्तिरिति656 स्मृतः॥९१॥ पूर्व-वस्तिर्निरूहाख्यस्ततः स्यादुत्तराभिधः॥ अनुवासनभेदैश्च मात्रावस्तिरुदीरितः॥९२॥ मात्रा पलद्वयं तस्य तस्मादर्द्धापि वा भवेत्॥ आस्थाप्या नानुवास्याः स्युरजीर्णोन्मादतृङ्युताः॥९३॥ घृताभ्यक्ते गुदे क्षेप्याः श्लक्ष्णाः सांगुष्ठसन्निभाः॥ मलप्रवृतिर्विफलं फलवर्तिश्च सा मृता॥९४॥ नासायामौषधं दत्तंनस्यं657 तत्कथ्यते बुधैः॥ द्विविधं प्रोच्यते नस्यं रेचनं658स्नेहनं659तथा॥९५॥ रेचनं कर्परं ज्ञेयं स्नेहनं बृंहणं मतम्॥ कफ-पित्तानिलोद्रेके पूर्वमध्यापराह्णिके॥९६॥ रेचनं तीक्ष्णभैषज्यसिद्धैःस्नेहस्तथा रसैः॥ नासिकारंध्रयोरष्टौ षट्चत्वारि द्विबिंदवः॥९७॥ प्रत्येकं रेचनेयोज्या मुख्यमध्या तु मात्रया॥ अवपीड्य प्रधमनं द्वौ भेदौ च परौ स्मृतौ॥९८॥ निष्पीडितस्तीक्ष्णद्रव्याद्रसो यः सोवपीडकः॥ तीक्ष्णचूर्णं धमेद्वक्रवातैःप्रधमनं660हि तत्॥९९॥ अत्यंतोत्कटदोषेषु विसंज्ञेषु च दीयते॥ क्रुद्धजत्रुगते रोगे रेचनं स्वरसं क्षये॥१००॥नस्यं स्याद्गुडशुंठीभ्यां पिप्पल्या सैंधवेन च॥ ++++शममायांति कर्णनासाशिरोगदाः॥१०१॥ अर्शःप्रतिमर्शश्च द्वौ भेदौ स्नेहनौ मतौ॥ मर्सस्यर्पर्ण+++ मात्रा मुष्याशाणै661 माषका होताहैं।")स्स्मृताष्टभिः॥१०२॥ मध्यमा चतुःशाणैर्हीना शाणद्वयोन्मिता॥++++++मात्रेयं देया नासापुटे बुधैः॥१०३॥ प्रतिम++++मात्रा तु बिंदुद्वयसमायुता॥ स्नेहे पर्वद्वयं662 सम्यक्त++++र्जन्या चोद्धृतं ततः॥१०४॥ स वै ++++++ सा ज्ञेया मात्रेयं बिंदुसंमिता॥ एवं बिन्दुभिरष्टाभिः शाणो निगदितो बुधैः॥१०५॥ एको +++++नस्यमर्शे प्रतिमर्शेद्विबिंदुकः॥ प्रभाते दंत+++++सायं वा नस्यमाचरेत्॥१०६॥++++++वस्त्राच्छादितास्यं सुनिश्चलम्॥ समुन्नमितनासाग्रवे नस्येन योजयेत्॥१०७॥ पंच सप्त दशैव स्युर्मान वा नस्यधारणेः॥ वामदक्षिणपार्श्वभ्यां निष्ठीवेत्सम्मुखं नहि॥१०८॥ नस्यांते वाग्यतस्तिष्ठेत्प्रोत्ता नस्त्यक्तनिद्रकः॥१०९॥

धूमः।

जत्रूदूर्ध्वकफवातोत्थविकाराणामजन्मने॥दाय च जातानां पिबेद्धूमं663 सदात्मवान्॥११०॥ स्निग्धोमध्यः सतीक्ष्णश्च वाते वातकफे कफे॥ न योज्यो मेहतिमिरे रक्तपित्तोदरेषु च॥१११॥ धूमोकालेऽतिपीतो वा तत्र शीतो विधिर्हितः॥ सुखेनैवोद्धमेद्धूमं नासायां तद्विघातकृत्॥११२॥ स्निग्धे धूमे प्रयोज्यानि द्रव्याण्य-गुरुगुग्गुलुः॥ मुस्तास्थौणेय664शैलेयनलदो-शीरवालुकम्665॥११३॥ वरी सकौंती मधुकं बिल्वमज्जैलवालुकम्॥ श्रीवेष्टकं सर्जरसोध्यामकं666मदनप्लवम्॥११४॥ शल्लकी667 कुंकुमं माषा यवाः कुदरुकं668 तिलाः॥ स्नेहं फलानां साराणांमेदो669 मज्जा670वसा घृतम्॥ ११५॥ शमने शल्लकी लाक्षा पृथ्वीका कमलोत्पलम्॥ न्यग्रोधोदुम्बराऽश्वत्थप्लक्षरोध्रत्वचः सिता॥११६॥ तीक्ष्णो ज्योतिष्मतीकुष्ठगन्धाऽश्मतगरं निशा॥ गन्धद्रव्याणि तीक्ष्णानि गणो मूर्धविरेचनः॥११७॥ सराव-संपुटच्छिद्रे नाडीं तस्य दशांगुलाम्॥ अष्टांगुलां वा वक्रेण कासवान्धूममापिबेत्॥११८॥ कासः श्वासः पीनसो विस्वरत्वंपूतिर्गन्धः पांडुता केशदोषाः॥ कर्णास्याक्षिस्रावजिह्वाऽर्तिकंडूनिद्रातंद्रा धूमपो न स्पृशन्ति॥११९॥

अथ गंडूषविधिः।

चतुःप्रकारोगडूषः671स्निग्धः शमनशोधनः॥ रोपणश्च त्रयस्तत्र त्रिषु योज्याश्चलादिषु॥१२०॥ अन्यो व्रणघ्नः स्निग्धोऽत्र स्वाद्वम्लपटु-साधितैः॥ स्नेहैः संशमनस्तिक्तकषायमधुरौषधैः॥१२१॥ शोधनं तिक्तकट्वम्लैः कट्वम्लैःरोपणं पुनः॥ कषायतिक्तकैस्तत्र स्नेहः क्षीरमधूदकम्॥१२२॥ सूक्तं मद्यं रसो मूत्रं धान्याऽम्लं च प्रयोजयेत्॥ दंतहर्षे दंतचाले मुखरोगे च वांतिके॥१२३॥ सुखोष्णमथवा शीतं तिल-कल्कोदकं हितम्॥ गंडूषधारणे नित्यं तैलं मांसरसोऽथवा॥१२४॥ मुखे क्षाराग्निदग्धे च हितं सर्पिः पयोऽथवा॥ धान्याम्लमास्यवैरस्यमलदौर्गन्ध्यनाशनम्॥॥१२५॥ तदेव लवणं शीतंमुखशोथहरं परम्॥ गंडूषमुन्नतः किंचिदुन्नतास्यो विधारयेत्॥ १२६॥ कफपूर्णास्यता यावत्स्रवद्घ्राणाक्षिता तथा॥ असंचार्यो मुखे पूर्णे गंडूषकवलोन्यथा॥१२७॥ मन्याशिरः672कर्णमुखाक्षिरोगाः प्रसेककंठाऽमयवक्रशोषाः॥हल्लास175तंद्रारुचिपीनसाश्च साध्या विशेषात्कवलग्रहेण॥ १२८॥

अथ मानपरिभाषा।

यवो द्वादशभिर्गौरसर्षपैः प्रोच्यते बुधैः॥ यवद्वयेन गुंजा स्यात्त्रिगुंजो वल्लउच्यते॥१२९॥ माषो गुंजाभिरष्टाभिः सप्तभिर्वा भवेत्क्वचित्॥ स्याच्चतुर्माषकैश्शाणः स निष्कं टंक एव च॥१३०॥ गद्याणो माषकैः षड्भिः कर्षस्तु दशमाषकः॥ अक्षः पिचुः पाणितलं बिडालपदकं तथा॥१३१॥ सुवर्णहंसपदकं पर्यायैः कर्ष उच्यते॥ कर्षाभ्यां शुक्तिरादिष्टा शुक्तिभ्यां पलमीरितम्॥१३२॥ पलाभ्यां प्रसृतिर्ज्ञेयो प्रसृतिभ्यां तथांजलिः॥ अंजलिभ्यां शरावः स्यात्कुडवोऽर्द्धशरावकः॥१३३॥ शरावाभ्यां भवेत्प्रस्थचतुः-प्रस्थैस्तथाढम्॥ भाजनं कासपात्रं च चतुःषष्टिपलश्च सः॥१३४॥चतुर्भिराढकैर्द्रोणः कलशो नल्वणोर्मणः॥ घंटो राशिश्च पर्याया इत्येते द्रोणवाचकाः॥१३५॥ द्रोणाभ्यां सूर्य्यकुंभौ च सूर्याभ्यां द्रोणिका मता॥ द्रोणीचतुष्टयं खारी कथिता कोविदोत्तमैः॥१३६॥ पलाभ्यां द्विसंहस्रं तु सर्वत्रैष विनिश्चयः॥ माषटंकाक्षबिल्वानि कुडवः प्रस्थमाढकम्॥१३७॥ राशिद्रोणीखारिकेति यथोत्तर-चतुर्गुणाः॥

अथ मिश्रौषधिः।

त्रिफला कथिता धात्रीपथ्याक्षैः सर्वरोगहृत्॥१३८॥ रसायनवरा स्नेहविषमज्वरनाशिनी॥ मधुसर्पिर्युता रात्रौ लीढा नेत्रे विकारनुत्॥१३९॥ शुंठीकणामरीचैश्च त्रिकटुव्योषमुच्यते॥ पिप्पलीपिप्पलीमूलं चव्यचित्रकनागरैः॥१४०॥ पंचकोलमिदं प्रोक्तं मरिचेन षडूषणम्॥ पंचकोलं रुचिकरं दीपनं पाचनं स्मृतम्॥१४१॥ स्वर्जिका यावशूकश्च क्षारयुग्ममुदाहृतम्॥ पलासमार्कवतिलक्षारैः स्यात्क्षारपंचकम्॥१४२॥ सशिग्रुमुस्तकक्षारैज्ञातव्यं क्षारसप्तकम्॥ टंकणक्षार युक्तैस्तैः क्षाराष्टकमुदाहृतम्॥१४३॥ सिंधुसौवर्चल-बिडं सामुद्रं काचजं तथा॥ एक द्वित्रिचतुःपंचलवणानि विदुः क्रमात्॥१४४॥ एलावरांगपत्रैश्चत्रिसुगन्धिस्त्रिजातकम्॥ नागकेसरसंयुक्तं चातुर्जातमिदं स्मृतम्॥१४५॥ पंचागं वा तरोः पुष्प-फलत्वङ्मूलपत्रकेः॥ दशांगं सारनिर्यासशाखावृंतांघ्रिवारिभिः॥१४६॥ आम्रजंबूबीजपूरकपित्थं बिल्वजानि च॥ गंधकर्माणि सर्वत्र पत्राणि पंचपल्लवम्॥१४७॥पंचनिम्बंनिंबपत्रफलत्वङ्मूलपुष्पकैः॥ त्रिकार्षिकं विषा शुंठी मुस्ताश्च परिकीर्तितम्॥१४८॥ गुडूच्या सहितं चैव चातुर्भद्रमुदाहृतम्॥ मधुसर्पिर्गुडैर्युक्तं प्रोक्तं त्रिमधुकं बुधैः॥ १४९॥ पंचगव्यं गवां मूत्रदधिविक्षीरसकृद्घृतेः॥ पंचलोहं रूप्यताम्रलोहत्रपुसशीसकैः॥१५॥ सुवर्णरीतिकांस्यैस्तु युक्तं लोहाष्टकं स्मृतम्॥मनश्शिलासुरामांसीसठीचंदनकुष्ठकैः॥१५१॥वरांग673नख674-शैलेयैः सर्वौषधिकमुच्यते॥ काकोली क्षीरकाकोली द्वे मेदे जीवकर्षभो॥१५२॥ ऋद्धिवृद्धियुतश्चापि ज्ञेयश्चाष्टकवर्गकः॥ जीवंतिकासमायुक्तो जीवनीयो गणःस्मृतः॥१५३॥ चिंचादाडिमवृक्षाम्लक-पित्थैश्चतुरम्लकैः॥ बीजपूरकसंयुक्तं पंचाम्लं परिकीर्तितम्॥१५४॥ अश्वत्थोदुंबरप्लक्षन्यग्रोधाश्च संवतसाः॥ पंचैते क्षीरिणो वृक्षा त्वगेषां पंचपल्लवम्॥ १५५॥ सक्तवः सर्पिषाऽभ्यक्ताःशीतवारिपरिप्लुताः॥ नातिद्रवा नातिसांद्रा मंथ इत्यभिधीयते॥१५६॥ बिल्वकाश्मर्यतर्कारी पाटलाटिंटुकी-महत्॥ ह्रस्वं बृहत्यंशुमतीद्वय-गोक्षुरकैः स्मृतम्॥॥ १५७॥ उभाभ्यां पंचमूलाभ्यां दशमूलमुदाहृतम्॥ कासेश्वासे च तन्द्रायां सन्निपाते प्रशस्यते॥१५८॥ चतुर्गुणं मृदौ द्रव्ये कठिनेऽष्टगुणं जलम्॥ कठिनात्कठिने देयं बुधैः षोडशिकं जलम्॥१५९॥ सारश्च खदिरादीनांनिम्बादीनां त्वचं तथा॥ फलं तु दाडिमादीनां पटोलादेर्दलानि च॥१६०॥ चूर्णे तु चूर्णद्विगुणा सिता चूर्णसमो गुडः॥ मोदकेच द्विगुणितो गुडः श्वेता चतुर्गुणा॥१६१॥ रसा स्वाद्वम्ललवणतिक्तोषणकषायकाः॥ षड्द्रव्यमाश्रितास्तेतु यथा पूर्वं बलावहाः॥१६२॥ तत्राद्या मारुतं घ्नंति त्रयस्तिक्तादयः कफम्॥ कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते॥१६३॥ त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः॥ स्वादुः कटुश्च मधुरःकट्वम्लः पच्यते रसः॥१६४॥ तिक्तोषण-कषायाणां विपाकः प्रायशः कटुः॥ उष्णशीतगुणोत्कर्षात्तत्रवीर्यं द्विधा स्मृतम्॥१६५॥ गुरुमंदहिमस्निग्ध-श्लक्ष्णसांद्रमृदुस्थिराः॥ गुणाः ससूक्ष्मविशदाः विंशतिः सविपर्ययाः॥१६६॥

उत्क्लेदः।

** **अन्नं यस्य न निर्गच्छेत्प्रसेकष्ठीवनं तथा॥ हृदयं पीड्यते चापि तमुत्क्लेदं विनिर्दिशेत्॥१६७॥

उपद्रवः।

व्याधेरुपरि यो व्याधिर्भवत्युत्तरकालजः॥ उपक्रमविघाती च स ह्युपद्रव उच्यते॥ १६८॥ भुक्ताऽभुक्ते तथा स्वप्ने यस्योद्गारोऽनिशं भवेत्॥ तमूर्ध्ववातं जानीयादुदानव्यापदुत्थितम्॥१६९॥ प्राणोदानौ समौ स्यातां मूर्ध्नि श्रोतः पथिस्थितौ॥नस्तः प्रवर्तते शब्दःक्षवथुं675 तां विनिर्दिशेत्॥१७०॥ इन्द्रियार्थेष्वप्राप्तिर्गौरवं जृम्भणं क्रमः॥ निद्रा तस्यैव यस्यैते नस्यं तन्द्रा विनिर्दिशेत्॥१७१॥ पीत्वैकमनिलोछ्वास-मुद्वेष्टय विवृताननः॥ यो मुंचति स नेत्राश्रुः स जृंभ इति संज्ञितः॥१७२॥ येनायासः श्रमे देहे प्रवृद्धश्वासवर्जितः॥ क्लमः स इति विज्ञेय इन्द्रियार्थप्रबाधकः॥१७३॥ सुखस्पर्शप्रसज्ञित्वं दुःखद्वेषणलोलता॥ शक्तस्य चाप्यनुत्साहः कर्मस्वालस्यमुच्यते॥१७४॥ वक्त्रेमधुरता तन्द्रा हृदयोद्वेष्टनं भ्रमः॥ नैवान्नमभिकांक्षेत ग्लानिं तस्य विनिर्दिशेत्॥१७५॥ आर्द्रचर्मावनद्धं च यो गात्रं मन्यते नरः॥ तथा गुरुशिरोऽत्यर्थं गौरवं तस्य निर्दिशेत्॥१७६॥ मूर्च्छा पित्ततमःप्राया रजःपित्तानिलाद्भ्रमः॥ तमोवातकफात्तन्द्रानिद्रा श्लेष्मतमोद्भवा॥१७७॥

इति संज्ञाप्रकरणम्॥

अथ द्रव्ययोजना।

नवान्येव हि द्रव्याणि योज्यान्यखिलकर्मसु॥ विना विडंगकृष्णाभ्यां गुडधान्याऽज्यमाक्षिकैः॥॥१७८॥ गुडूची कुटजो वासा कूष्मांडश्च शतावरी॥ अश्वगंधा सहचरी शतपुष्पा प्रसारणी॥१७९॥ प्रयोक्तव्या सदैवार्द्रा द्विगुणा नैव कारयेत्॥ शुष्कं नवीनं यद्द्रव्यं योज्यं सकलकर्मसु॥१८०॥ आर्द्रं च द्विगुणं युंज्यादेष सर्वत्र निश्चयः॥ काले नोक्ते प्रभातं स्यादंगे नोक्ते जटा भवेत्॥१८१॥ भागे नोक्ते च साम्यं स्यात्पात्रे नोक्ते च मृण्मयम्॥ द्रव्ये नोक्ते जलं ग्राह्यं तैले नोक्ते तिलोद्भवम्॥ १८२॥ पुनरुक्तं तु यद्द्रव्यं योगेन द्विगुणं भवेत्॥ गुणहीनं भवेद्वर्षादूर्ध्वं तद्रूपमौषधम्॥१८३॥ मासाद्वयात्तथा चूर्णं हीन-वीर्यत्वमाप्नुयात्॥ हीनत्वं गुटिकालेहौलभेते वत्सरात्परम्॥१८४॥ पुराणाः स्युर्गुणैर्युक्ता आसवा धातवो रसाः॥ व्याधेरयुक्तं यद्द्रव्यं गणोक्तमपि तं त्यजेत्॥॥१८५॥ अनुक्तमपि युक्तं यद्योजयेत्तत्र तद्बुधः॥माजूफलं225 दंशफलं676 तदर्द्धं ह्रस्वचेतना॥१८६॥ तिलतैले पचेत्तावद्यावत्स्याद्यामरक्तता॥ उद्धृत्य पीडयेद्गाढंरौक्षं स्याच्चात्रपर्पटे॥१८७॥

अथ कृष्णरोमकरम्।

पलाऽर्द्धंनवसारस्य677 देयं कांज्या216तथैव च॥ पलमानं ताम्रचूर्णं सर्वमेकत्र मर्दयेत्॥१८८॥ धात्रीक्वाथेन तत्सूक्ष्मं कृत्वापिंडान्प्रकल्पयेत् ॥ पिंडांशं लोहपात्रे तु धात्रीक्वाथेन मर्दयेत्॥१८९॥ याममात्रं तु संस्थाप्य पश्चात्केशान्विलेपयेत्॥ दद्यादेरण्डपत्राणि बद्ध्वा यामंस्थित-स्ततः॥१९०॥ जलैः प्रक्षाल्य तैलेन मर्दयेच्च शनैः शनैः॥ केशाश्चानेन जायंते षट्पदोदरसन्निभाः॥१९१॥ भट्टाऽनंतात्मजस्येयं शंकरस्य कृतिः सताम्॥ आनंदयतु चित्तानि चिकित्सा सिद्धिदायिनी॥१९२॥ श्रीमद्भूपतिरामसिंहवचनाद्ग्रंथो मया निर्मितो यस्मिन्रोगविनिश्चयः प्रकथितो प्रोक्ता चिकित्सा क्रमात्॥ योगो वृष्यतमो रसायनवरो संशोधनादिर्विधिर्वस्तिर्नावनधूमपानकवला व्योषादिसंज्ञास्तथा॥१९३॥ शशि १ वेदाऽ ४ द्रि ७ भू १ संख्यैर्युक्तेयं (१७४१ ) संहिता शुभा॥श्लोकैर्वैद्य-विनोदाख्या षोडशोल्लासनिर्मिता॥१९४॥

इति श्रीमदनन्तभट्टात्मजशंकरभट्टविरचिते वैद्यविनोदे निदान-
चिकित्सावृष्यरसायनजलयोगवमनविरेचनानुलोमनादिभे-
दक्वाथकल्पनादिलक्षणविलेपीमंडादिघृततैलविधानव-
स्तिनस्यधूमपानगंडूषविधिपरिभाषाव्योषत्रिफला-
पंचमुलादिसंज्ञारसविपाकवीर्यगुणोत्क्लेशादि-
लक्षणयुक्तायुक्तविचारकथनंनाम षोड-
शोल्लासः॥१६॥

समाप्तश्चायं ग्रंथः।
_____________

<MISSING_FIG href="../../../books_images/U-IMG-1708173072image23.jpg"/>

]


  1. “मेउडी।” ↩︎

  2. “शिंगियाजहर।”

    तावत्तां स्थाययेन्मूर्ध्नि यावच्चैतन्यवान्भवेत्॥ अचेतोवांस्तु नो जीवेत्कालपाशावृतः पुमान्॥८०॥

    दंशनं वृश्चिकैस्सर्पैः सन्निपाते सुदारुणे॥ तदव्याकुलतां यांति क्रियाः कार्या भिषग्वरैः॥८१॥ ↩︎

  3. “सुगन्धवाला।” ↩︎ ↩︎

  4. “गनियार।” ↩︎

  5. “धूपक्वाष्ठ” ↩︎

  6. “जडामासी।” ↩︎

  7. “चाभ गजपीपरिकी जड।” ↩︎

  8. “सतावरि।” ↩︎

  9. “दशमूल।” ↩︎

  10. “प्रसेक।” ↩︎

  11. “इन्द्रवारणी।” ↩︎

  12. “मंदारकादूध।” ↩︎

  13. “त्रिकुटा।” ↩︎

  14. “करवतकैजड।” ↩︎

  15. “मैसाकंद टिहुका वा अतीश।” ↩︎

  16. “घनप्सा।” ↩︎ ↩︎

  17. “दुधबवरिया।” ↩︎ ↩︎

  18. “उस्या।” ↩︎ ↩︎

  19. “कुटकी।” ↩︎ ↩︎

  20. “कुररु।” ↩︎

  21. “रज रेनुका।” ↩︎

  22. “वनप्सा।” ↩︎

  23. “दुर्बलता।” ↩︎

  24. “मैनशिल।” ↩︎

  25. “हरताल।” ↩︎

  26. “तूतियां।” ↩︎

  27. “ताम्ररसे” ↩︎

  28. “पारा शुद्ध” ↩︎

  29. “औरासारगंधक।” ↩︎ ↩︎

  30. “नागरमोथा।” ↩︎

  31. “अतीश।” ↩︎ ↩︎

  32. “कोरैयाछाल।” ↩︎

  33. “सुगंधवाला।” ↩︎ ↩︎

  34. “चातरका धोवन।” ↩︎

  35. “षष्टमाम—पितधराकला।” ↩︎

  36. “वनिया।” ↩︎

  37. “उवांत” ↩︎

  38. “उपवास।” ↩︎

  39. “करायल।” ↩︎

  40. “सिंगरिफ।” ↩︎

  41. “औंरासारगंधक।” ↩︎ ↩︎

  42. “सोहागाका लावा।” ↩︎

  43. “शुद्धसिंगियाजहर।” ↩︎

  44. “धतूरका बीज।” ↩︎

  45. “जयंतिका रस।” ↩︎

  46. “चर्मकील।” ↩︎

  47. “मल।” ↩︎

  48. “डेंकार।” ↩︎

  49. “देहके कोठोंमें।” ↩︎

  50. “हाऊबेर।” ↩︎

  51. “सोनापाठान” ↩︎

  52. “अरुष्कर-भेलोकपुर।” ↩︎

  53. “पारा " ↩︎

  54. “गंधक” ↩︎

  55. “कोठेमीतर” ↩︎

  56. “वमथु। जी. मचलाना।मतली।” ↩︎

  57. “भुंडीवृटी।” ↩︎

  58. “सरीफा।” ↩︎

  59. “क्लम - अर्थात् पित्तश्वास-पित्तके उमाडतेश्वास होजाय।” ↩︎

  60. “अतिगर्मी " ↩︎

  61. “श्वयथु -सूजन।” ↩︎

  62. “सादन–गृह।” ↩︎

  63. “कांतिसारलोहेका भस्म।” ↩︎

  64. “गूमा।” ↩︎

  65. “लोहभस्म।” ↩︎

  66. “गोरा पक्षी” ↩︎

  67. “शोगा-लाल पक्षी।” ↩︎

  68. “मोथी वा मोठ” ↩︎

  69. “इन्द्रजौकी छाल–खोरया।” ↩︎

  70. “छींक।” ↩︎

  71. “देवदारु।” ↩︎

  72. “भारंगी।” ↩︎

  73. “भांगभूजिके।” ↩︎

  74. “जल।” ↩︎

  75. “अ.पटा ।” ↩︎

  76. “तारेसैभ्रमण करते हैं (नेत्र ↩︎

  77. “नेत्र डूबते और तैरतेहैं।” ↩︎

  78. “पारा।” ↩︎ ↩︎

  79. “गन्धक आमलासार।” ↩︎

  80. “रसिआष–मीठाभात।” ↩︎

  81. “जवाखार।” ↩︎

  82. “तैलमें मिलाया।” ↩︎

  83. “( इलायची।दालचीनी। तेजपात। ↩︎

  84. “कठोदर।” ↩︎

  85. “पीडा।” ↩︎

  86. “गाढा।” ↩︎

  87. “माक्षीकातैला।” ↩︎

  88. “फाढा।” ↩︎

  89. “आग।” ↩︎

  90. “श्वास।” ↩︎

  91. “अमिलवेंत।” ↩︎

  92. “वेना, पंखा।” ↩︎

  93. “गर्मी।” ↩︎

  94. “उल्लिखेत् - विन्यासकरे।” ↩︎

  95. “नस्तर।” ↩︎

  96. “कठौतेमें–गहरे पात्रमें।” ↩︎

  97. “एकान्तमें।” ↩︎

  98. “ज्वालशाखा-चितौषध।” ↩︎

  99. “कोडा–जारबंद।” ↩︎

  100. “शून्यगृह–कोठरीमें।” ↩︎

  101. “माङ्गल्यपुष्प।वनप्साका फूल–त्रायमाणा।” ↩︎

  102. “रेणुकामरिचसदृश दाने गुलावीरंग के होती है इसी नामसे मिलती है–(गुटाबीमर्चि ↩︎

  103. “रुद्रवंती बूटी न मिले तो सेमकी जड देना।” ↩︎

  104. " गायका घी।” ↩︎ ↩︎

  105. “फुनकताहै।” ↩︎

  106. “शंखाहुली सुसुनकपत्री।” ↩︎

  107. “कुत्तेकापित्ता।” ↩︎

  108. “खड़, लँगडा।” ↩︎

  109. “पंगुला।” ↩︎

  110. “कूबडा।” ↩︎

  111. “देहसुखानाना।” ↩︎

  112. “पक्षाघात। हाथोंका लटकजाना।” ↩︎

  113. “आधेमुखका टेढा होना।” ↩︎

  114. “व्रघ्न, मूल, जड।” ↩︎

  115. “स्फुरण–फरकना, चमकना।” ↩︎

  116. “पान।ताम्बूल।” ↩︎

  117. “रोगभेद।” ↩︎

  118. “सर्जतेल–चोवाका तेल–करायलका तेल।” ↩︎

  119. “सियार–गीदड।” ↩︎

  120. “मुर्गापक्षी।” ↩︎

  121. “गूगुर।” ↩︎

  122. “रेनुका,गुलाबी मरचि।” ↩︎

  123. “रेणु।” ↩︎

  124. “कांपना।” ↩︎ ↩︎

  125. “उटकटेरी।” ↩︎

  126. “मेंउडी” ↩︎

  127. “तिलखरी।वातिल।” ↩︎

  128. “मोथीवा भटवाँस वा वोडा।” ↩︎

  129. “मूलंरक्ताशयमें।” ↩︎

  130. “मोह। वनमूँगी।” ↩︎

  131. “पोईशाग।” ↩︎

  132. “गुर्चि।” ↩︎

  133. “जग्ध्वा। खाना। पीना।” ↩︎

  134. “अमिलतासकीगुद्दी।” ↩︎

  135. “माहरी।” ↩︎

  136. “बनप्सा।” ↩︎

  137. “दुधषषारयालता।” ↩︎

  138. “दंडकसरत। (सरो ↩︎

  139. “स्त्रीसंग।” ↩︎

  140. “क्रोध।” ↩︎

  141. “दिनमें सोना ।” ↩︎

  142. “दहीकाखाना ।” ↩︎

  143. “मारीपदार्थकासेवन।” ↩︎

  144. “घनकोदो।” ↩︎

  145. “व्यमौटकी माटी।” ↩︎

  146. “मेउद्धी।” ↩︎

  147. “गलेकी पिछली नस।” ↩︎

  148. “पांवकी गांठि।” ↩︎

  149. “उसरितृण। डाभ। " ↩︎

  150. “केतुकं। केतुकी।” ↩︎

  151. “कारिकफल। कांजिक इ०पा०। वृक्षभेद। " ↩︎

  152. “सौफवद्धि। " ↩︎

  153. “गोले।” ↩︎

  154. " जलोदर।” ↩︎

  155. “पिलहीविरवट।” ↩︎

  156. “घाव।” ↩︎

  157. “विडंगां च इ० पा०।” ↩︎

  158. " किलाट। नष्टदुग्ध। इंडरी।” ↩︎

  159. “हिचकी उबकाई।” ↩︎

  160. " प्रसेकफ। अतिगर्मी।” ↩︎

  161. “मंडूर। लोहकिट्ट।” ↩︎

  162. “घनभाँटा।” ↩︎

  163. “गोखरू।” ↩︎

  164. “मैनी।” ↩︎ ↩︎

  165. “र्थोथा।” ↩︎

  166. “क्षौद्रकपर्द।पीलीकौडीकाभस्म। क्षारम् इ० पा०” ↩︎

  167. “मत्स्याक्षी। मछेछीबुटी।” ↩︎

  168. “वैद्यैः इ० पा०।” ↩︎

  169. “मूत्रपुरोषरीधकं।” ↩︎

  170. “कानकेशब्दको ग्रहण करनेवाली नाडीको स्रोतकहते है।” ↩︎

  171. “पीलुनी-चूरनहार मुर्बा।” ↩︎

  172. “चरेद्भृशम् इ० पा०।” ↩︎

  173. “बगलमें।” ↩︎

  174. “देहके भीतर कोठेमें।” ↩︎

  175. “हिचकी।” ↩︎ ↩︎ ↩︎

  176. “खट्टीलता।” ↩︎

  177. “गनियारवृक्ष।” ↩︎

  178. “अमली।” ↩︎

  179. “कडजा वृक्ष।” ↩︎

  180. " हृदय-मन।” ↩︎

  181. “चलना।” ↩︎

  182. “नमानना।” ↩︎

  183. “प्ररुंध्य इ० पा०।” ↩︎

  184. “क्लम। ग्लानि।” ↩︎

  185. “स्वेदस्य इ० पा०।” ↩︎

  186. “जी मश्चलाना, उमधना।” ↩︎

  187. “थूकना। थूथू।” ↩︎

  188. “पारासवांदा परासबीज।” ↩︎

  189. “पट्टी बांधना।” ↩︎

  190. “चोट लगना।” ↩︎

  191. “गोक्षुराणाम् इ० पा०।” ↩︎

  192. “घोरना, मथन।” ↩︎

  193. “मूशली सफेद वालजारूवडी।” ↩︎

  194. “निहन्त्यवश्यम् इ० पा०।” ↩︎

  195. “अश्मरी, पथरी।” ↩︎

  196. “पथरी।” ↩︎

  197. “पाषाणमेद।” ↩︎

  198. “छिन्ना, प्रमेह।” ↩︎

  199. “छिद्र, छेद।” ↩︎

  200. “वमन, उवांत।” ↩︎

  201. “लिसोडा, लहटोरा, सिपिस्तां।” ↩︎

  202. “दोनोखार।” ↩︎

  203. “दोनोहग्दी।” ↩︎

  204. “तीनोलोन।” ↩︎

  205. “वरिणग्कीजड।” ↩︎

  206. “गुग्गुर।” ↩︎

  207. “लोहाभस्म।” ↩︎

  208. “गुग्गुर, निसोत, त्रिवृता, इन तीनोको लेना।” ↩︎

  209. “नया नीमका बीज।” ↩︎

  210. “३६ मासा ३ तोला भर।” ↩︎

  211. “निष्क,चारमासेभरकाहोताहै।” ↩︎

  212. “धतूरकाबीज।” ↩︎

  213. “गोखरू छोटा।” ↩︎

  214. “अष्टवीज।” ↩︎

  215. “वियावोलदवा।” ↩︎

  216. “कांजी।” ↩︎ ↩︎ ↩︎

  217. “दंडकसरत।” ↩︎

  218. “मधूक महुआ।” ↩︎

  219. “मातका माड।” ↩︎

  220. “सरलवृक्षरसं,टारपिन, सरलवृक्षका गोंद।” ↩︎

  221. “शिलाजीत वा छरीला, मैनशिल।” ↩︎

  222. “कौंती, रेणुका, गुलावीमिरचि।” ↩︎

  223. “उपटन लेप।” ↩︎

  224. “मोटापन।” ↩︎

  225. “माजूफर।” ↩︎ ↩︎

  226. “भवेत् इ० पा०।” ↩︎

  227. “दुर्गन्ध इ० पा०।” ↩︎

  228. “निहन्ति।” ↩︎

  229. “पेटवा फूलना।” ↩︎

  230. “बडी गर्मी। " ↩︎

  231. “भूख न लगना।” ↩︎

  232. “नाकसे लोहूगिरना।” ↩︎

  233. “चामकी थैली” ↩︎

  234. “शोथ।” ↩︎ ↩︎

  235. “ऊटनीका दूध।” ↩︎

  236. “छेडीदूध।” ↩︎

  237. “लालेकूलका करंज रोहेका वृक्ष।” ↩︎

  238. “मांसम्—इ० पा०।” ↩︎

  239. “मालकांगणिका तेल।” ↩︎

  240. “मुरदाशंग।” ↩︎

  241. “सजावदही, साढीवालीदही।” ↩︎

  242. “पिल्ही, वरवट।” ↩︎

  243. “कर्ष, एक लोला।” ↩︎

  244. “रोहुआवृक्ष, सोनियाघास।” ↩︎

  245. “प्लीहा फीहा, फीयारोग, कछुईरोग।” ↩︎

  246. “रूपमंजरीलता।” ↩︎

  247. “संखाहुली।” ↩︎

  248. “लीलवृक्ष।” ↩︎

  249. “एकबूंद।” ↩︎

  250. “सिंहलीपीपरि।” ↩︎

  251. “गरकाटनेवाला। जैसे जिमीकन्द आदि।” ↩︎

  252. “देहमें, देहठहर, देहकाभारीहोना।” ↩︎

  253. “भेलाआदिवृक्षके दूध लगनेसे विष होताहै।” ↩︎

  254. “सोथ।” ↩︎

  255. “पिण्यांक। दोहा—हींग उष्ण औषध खरी, तिलकालाकोजान। केसरसहितमिलायकैयहपिण्याकबखान॥१॥” ↩︎

  256. “छोटीकटेरी।” ↩︎ ↩︎

  257. “शालदल, शाखूवृक्षका पत्ता।” ↩︎

  258. “शोफ, शोध, सूजन, फूलना।” ↩︎

  259. “दारुहरदी वा हरदी।” ↩︎

  260. “लाल वा सफेदचंदन ।” ↩︎

  261. “नाकसे लोहुटपकना।” ↩︎

  262. “अहुवेकी बढावबैजाका, फूलना।” ↩︎

  263. “रेंणीका तेल।” ↩︎

  264. “पंचवल्कल, पाकरि १, पीपर २, गुलर ३, बरगद ४, वेतंस५, ये है।” ↩︎

  265. “धोषना।” ↩︎

  266. “कांजीसे।” ↩︎

  267. " कठोर।” ↩︎

  268. “पटशण, पेटुआ।” ↩︎

  269. “गंडमाला, कंठमालाफोडा।” ↩︎

  270. “ग्रंथिगंड, गलेकी कठोरगांठ।” ↩︎

  271. “जटामासी।” ↩︎

  272. “चीढ, मिट्टी तेलकीसन्दूक जो बनके आती है वह लकडी।” ↩︎

  273. “कँखरवार, कखलाई।” ↩︎

  274. “अपची। " ↩︎

  275. “अडहुल।” ↩︎

  276. “गलितकोढ” ↩︎

  277. “काटनेवाली।” ↩︎

  278. “सेज।” ↩︎

  279. “नलीवासकी. र्चोघी।” ↩︎

  280. “शींगीसे लोहु खिचाना” ↩︎

  281. “गंडीरक, वासुडीकान बनसूरन।” ↩︎

  282. “सेहुंआ।” ↩︎

  283. “हींग।” ↩︎

  284. “पीलपाव।” ↩︎

  285. “जटा, जड।” ↩︎

  286. “चमडा” ↩︎

  287. “लोहू।” ↩︎

  288. “चर्बी।” ↩︎

  289. “मांस।” ↩︎

  290. “सराब, कोशा वादीया।” ↩︎

  291. “घाँटीके रूप।” ↩︎

  292. “व्यमौटि।” ↩︎

  293. “पलैया, प्लीहा, तोपतिल्ली।” ↩︎

  294. “कोषके दहिने तरफ मांसखंड कलेजके सामने हृदयके दाहिनी ओर।” ↩︎

  295. “छातीके भीतर १ स्थानहैजहाँ बुद्धि वा जीवका मिलाव होता है।” ↩︎

  296. “फुफुस, फेंफड़ा।” ↩︎

  297. “उपनाह। पट्टीबांधनां।” ↩︎

  298. “रेत, बालू।” ↩︎

  299. “करंजवृक्ष।” ↩︎

  300. “केपडेकी पट्टी।” ↩︎

  301. “करेमुआशाग।” ↩︎

  302. “धूपकाठ।” ↩︎

  303. “वर्रोह।” ↩︎

  304. “काटनेवालीक्रिया।” ↩︎

  305. “कबूतरपक्षी।” ↩︎

  306. “कागपक्षी।” ↩︎

  307. “गिद्धपक्षी।” ↩︎

  308. “वटादिगणका०” ↩︎

  309. “साफकर्ताहै।” ↩︎

  310. “रुहाताहै।” ↩︎

  311. “वर्ती, वाती।” ↩︎

  312. “बोडमेभेद, नलछिद्र।” ↩︎

  313. “मर्म हड्डियोंकाजोड़।” ↩︎

  314. “सतावरि ।” ↩︎

  315. " कुत्तेफाशिर।” ↩︎

  316. “घोडेका मूत।” ↩︎

  317. “वेर्रेका फूल।” ↩︎

  318. “चौराईशाग।” ↩︎ ↩︎

  319. “कुल्फा वापोईशाग।” ↩︎

  320. “सुसुनाशांग।” ↩︎

  321. “बथुआशाग।” ↩︎

  322. “छोटीमूली। " ↩︎

  323. “भांटा।” ↩︎ ↩︎

  324. " परवर।” ↩︎

  325. “करेला। " ↩︎

  326. “नयेत् इ० पा।” ↩︎

  327. “तरारादेना। " ↩︎

  328. “आमके जगहका लोहू।” ↩︎

  329. “पक्त्राशय, जहां अन्न पकता है।” ↩︎

  330. “भीतर कोठेमें कोहूहो।” ↩︎

  331. “दुधववरिया।” ↩︎

  332. “मोम।” ↩︎ ↩︎

  333. “सपेदसेभि।” ↩︎

  334. “ममरखी।” ↩︎

  335. “कुट्ट।” ↩︎

  336. “मोम सपेद।” ↩︎

  337. “माहरि।” ↩︎ ↩︎

  338. “तींगुर।” ↩︎

  339. “गजपीपरि।” ↩︎

  340. “जरेदग्धे।” ↩︎

  341. “बिथार गयाहों।” ↩︎

  342. “तेंदुआवृक्ष।” ↩︎

  343. “रहूँ, गृहधूम।” ↩︎

  344. “नन्दीवृक्ष, तुनि।” ↩︎

  345. “एलुवा, मुसब्बरा।” ↩︎

  346. “आगकी दाह।” ↩︎

  347. “सालवमिश्रीवडी।” ↩︎

  348. “बेलवृक्ष।” ↩︎

  349. “टूटना।” ↩︎

  350. “केरावहरी।” ↩︎

  351. “नहसूरसेग नशोंका घाव।” ↩︎

  352. “चटनीरोग।” ↩︎

  353. “नाडी मर्माश्रिता तु थाइ० पो०।” ↩︎

  354. “काटनेवाली दबाको मोटे सूतमें लगाकर काटना।” ↩︎

  355. “भूछत्तेके आकार।क्षताद्गतिः इ० पा०।” ↩︎

  356. “पायुगता इ० पा०l” ↩︎

  357. “चूतड।” ↩︎

  358. “इष्टिका। पुरानी ईंट।” ↩︎

  359. “रहू, घरका धुआं।” ↩︎

  360. “बिल्ली की हड्डी।” ↩︎

  361. “सेहुडका दूध।” ↩︎

  362. “मंदारका दूध।” ↩︎

  363. “कनैरकीछाल।” ↩︎

  364. “कसीस।” ↩︎

  365. “पीठका बोझा।” ↩︎

  366. “उपदंश, गर्मीआतशक।” ↩︎

  367. “विथुरा हुआ।” ↩︎

  368. “खाया हुआ मांस, सडगया हो।” ↩︎

  369. “ब्रिथुरा-हुभा।” ↩︎

  370. “मेद्र, लिंग।” ↩︎

  371. " कुंट्ट।” ↩︎

  372. “सींब्बना धोवना।” ↩︎

  373. “लेपनं गुंडनलेपः।” ↩︎

  374. “कामकाप्रवाह। वीर्यपात। छिता।” ↩︎

  375. “कनेरकीजड।” ↩︎

  376. “भू, भूतकेशी।” ↩︎

  377. “अंडकोश,वेना।” ↩︎

  378. “लिंगवर्ति, लिंगार्श।” ↩︎

  379. “मैथुन।” ↩︎

  380. “कुटा, चक्का, जांघका चक्त्रा।” ↩︎

  381. “सौंफ” ↩︎

  382. “चिस।” ↩︎

  383. “चक्रौड।” ↩︎

  384. “राल धुना, करायल।” ↩︎

  385. “कपूर।” ↩︎

  386. “वायबिडंग।” ↩︎

  387. “कांजी” ↩︎

  388. “दादु दीनाई” ↩︎

  389. “मंडलकोढ चकत्ते।” ↩︎

  390. “सिद्ध आरोगः।” ↩︎

  391. “कसौंदी” ↩︎

  392. “वनतुलसी।” ↩︎

  393. “नैनु आगंधक।” ↩︎

  394. “हाथीका दूध।” ↩︎

  395. “पादहर्ष पादस्फुनट रोग, पैरफुटन” ↩︎

  396. “व्यधाय।” ↩︎

  397. “मोम” ↩︎ ↩︎ ↩︎ ↩︎

  398. “मंदारका दूर्व।” ↩︎

  399. “कनेर” ↩︎

  400. “वरानावृक्ष।” ↩︎

  401. “सिंगिषामादुर।” ↩︎

  402. “हांथपांत्र।” ↩︎

  403. “मकुची” ↩︎

  404. “सफेदकोढ।” ↩︎

  405. “भंडमांड।” ↩︎

  406. “धतूरा।” ↩︎

  407. “लैसु आगंधक। वोअवरासार।” ↩︎

  408. “तामा।” ↩︎

  409. “तेंदू।” ↩︎

  410. “निर्विषी” ↩︎

  411. “रक्तगुंजा” ↩︎

  412. “अफीम” ↩︎

  413. “बिनुआकंडा” ↩︎

  414. “कंडेकाभस्म” ↩︎

  415. “शून्यबहरी” ↩︎

  416. “चूतड” ↩︎

  417. “नागरमोथा” ↩︎ ↩︎

  418. “अमिलझुकीरोग” ↩︎

  419. “ग्लानि” ↩︎

  420. “जी मचलाना” ↩︎

  421. “अमिलचुक्की सुख खट्टाहोजाता है” ↩︎

  422. “धुआंइनडेकारमें ।” ↩︎

  423. " कल्याण।” ↩︎

  424. “घटनोरोग फैलनेवाली । सर्वत्र फैलनेसे बिसर्परोग नाम पड़ा है।” ↩︎

  425. “वर्गद” ↩︎

  426. “प्राकार” ↩︎

  427. “अकोल्ह " ↩︎

  428. “चेंचूबीज” ↩︎

  429. “विस्फोटक चेचक शीतला” ↩︎

  430. “सुसुनाशाग” ↩︎

  431. “छितिउनका वृक्ष” ↩︎

  432. “यवासा” ↩︎

  433. “उबांत” ↩︎

  434. “नागकेसरी।” ↩︎

  435. “हाथ-पैर० शाखाएँ” ↩︎

  436. “स्नायुक, तंतुरोग” ↩︎

  437. “बबुरका फल” ↩︎

  438. “दाहशीतला” ↩︎

  439. “स्नायुभेद” ↩︎

  440. “अरहरदाल” ↩︎

  441. “कौडीडोरेमें गुथिबांधना।” ↩︎

  442. “दाहशीतला, फोडा” ↩︎

  443. “ओरिकानामशीतला,फोडा” ↩︎

  444. “ओषो, मसूरिका; वोदरी, शीतला, चेंचक, ये नाम हैं।” ↩︎

  445. “कच्चाघडा, इसपर शिवपार्वती, शीतलादेवीकी पूजा करना ।” ↩︎

  446. “विरहथिया” ↩︎

  447. “हथियार” ↩︎

  448. “तीषीधारकेक्षुरी से” ↩︎

  449. “मुहरसा, मूशा” ↩︎

  450. “कहिया व्यंग, झाइरोग” ↩︎

  451. “तरुणिका फोडा” ↩︎

  452. “शपेदघोडेका श्वेतनख” ↩︎

  453. “मडमांडचोख” ↩︎

  454. “कालाअगर” ↩︎

  455. “एककर्ष तोलामर” ↩︎

  456. “ऽ१॥सेर” ↩︎

  457. “सोषावीज” ↩︎

  458. “व्यवायरोग” ↩︎

  459. “विवायरोग " ↩︎

  460. “चर्बीबकरीकी” ↩︎

  461. “करायल” ↩︎ ↩︎

  462. “नख कुष्ठकम् इ.पा.” ↩︎

  463. “चीफ नखकुष्ठ, चेफ” ↩︎

  464. “चीफ चिप्प,चेफ” ↩︎

  465. “रहूँगृहार्णवरज” ↩︎

  466. “पूतिनख चेफ” ↩︎

  467. “रूशीरोग” ↩︎

  468. “हांडी कपार, खपढोई, आदमीकी खपडोईका चूर्ण भस्म।” ↩︎

  469. “दारुण कशी वा बादखोरा।” ↩︎

  470. “खजुरी” ↩︎

  471. “वादखोरा” ↩︎

  472. “शिरफुंशी” ↩︎

  473. “लोहमल, लोहकीटी” ↩︎

  474. “बादखोरा” ↩︎

  475. “वारका झरजाना, चांईचंई, गंज” ↩︎

  476. “चटनी, गंज” ↩︎

  477. “षादखोरा” ↩︎

  478. “कडजवृक्ष” ↩︎

  479. “लंघन; उपवास” ↩︎

  480. “जिसका मलाशय, हीन हो गया हो” ↩︎

  481. “अंडकोशकी कजरी” ↩︎

  482. “कंच्छदद्रुः” ↩︎

  483. “श्लीवेष्ट धूप” ↩︎

  484. “राल” ↩︎ ↩︎

  485. “गुग्गुल” ↩︎

  486. “देवदारु चीड” ↩︎

  487. “मुलहठी” ↩︎

  488. “गिराना” ↩︎

  489. “रगडना” ↩︎

  490. “मांसका बिथराना” ↩︎

  491. “मुखमंजन, मिस्सी” ↩︎

  492. “कुल्ला” ↩︎

  493. “हिलनेपर” ↩︎

  494. “दंतहर्ष, दांतगोठिल” ↩︎

  495. “रेंड” ↩︎

  496. “दतुइन” ↩︎

  497. “भूंजा” ↩︎

  498. “खटाई” ↩︎

  499. “धूमरज।रहूँ।” ↩︎

  500. “सोहागाकालावा।” ↩︎

  501. “गलेकी शुद्धी।” ↩︎

  502. “शेफाली मेउडी” ↩︎

  503. “तेजबल लकड़ी तेजीका पेड।” ↩︎

  504. “चबना” ↩︎

  505. “फर्णिज, मरुभारफूल, नादवोय।” ↩︎

  506. “केसरि” ↩︎

  507. “बालुकं,रेनुका, गुलाबीमच” ↩︎

  508. “महिला, गंधप्रियंगुवारेनुका” ↩︎

  509. “फर्तीगन फतिंगा” ↩︎

  510. “गोजर” ↩︎

  511. “फैलना” ↩︎

  512. “ठंढा” ↩︎

  513. “कुट्टकी डंडी।” ↩︎

  514. " कांजी” ↩︎

  515. “कटेरी” ↩︎

  516. " खस” ↩︎

  517. “हींग” ↩︎

  518. “छींक” ↩︎

  519. “प्रतिश्याय रेंटा, पोंटा, नेंटा,नाशामल” ↩︎

  520. “शंख, " ↩︎

  521. “गीला” ↩︎

  522. “अभिष्यंद आंखका बाहर लटकआना।” ↩︎

  523. “लोहूँटपकना।” ↩︎

  524. “पोटरी” ↩︎

  525. “श्यवार” ↩︎

  526. “कानी अंगुरी” ↩︎

  527. “दीर्घअक्षरके उच्चारण १ दफ़े करनेसे १ मात्रा हो ।जैसे का यह १ मात्रा भयाहै ।” ↩︎

  528. “भंगरैयाबूटी " ↩︎

  529. “पलक” ↩︎

  530. “सवेरेसे पहरदिनतक” ↩︎

  531. “सबेरेसे दुपहरतक” ↩︎

  532. “फूली” ↩︎

  533. " रतौंधी” ↩︎

  534. “टैसूफूल” ↩︎

  535. “पंटलरोग” ↩︎

  536. “तेंदूका बासा” ↩︎

  537. “गाढा” ↩︎

  538. “ढलकारोग” ↩︎

  539. “नारीकादूध” ↩︎

  540. “खटिका, गावखरी” ↩︎

  541. “पहाडीश्वेतमिट्टी, वा लालमिट्टी” ↩︎

  542. " नशमें नश्तरदेना” ↩︎

  543. “जोंक” ↩︎

  544. “जुलाव” ↩︎

  545. “तांबेका पेसा कच्चा(डब्बल ↩︎

  546. “हथेली, गदोरी” ↩︎

  547. “सूर्यके तेजसेवा धुआं लगनेसे वाजागरणस्ते।” ↩︎

  548. “लोहकी अंगूठी” ↩︎

  549. “रीतिमांड, पीतरकी थारीपर।” ↩︎

  550. “सीपी, सुतुही, सीप” ↩︎

  551. “भन्या, गलेकी पिछलीनस” ↩︎

  552. “भौंह, शंख” ↩︎

  553. “आवासीशी, अधकपारी।” ↩︎

  554. “स्नान” ↩︎

  555. “मसीड” ↩︎

  556. “लेपन” ↩︎

  557. “कुकुरवंदा” ↩︎

  558. “पोइशाग, वाकुल्फा” ↩︎

  559. “बिजौरानींबू ।” ↩︎

  560. “नास।” ↩︎ ↩︎

  561. “नश्य नास।” ↩︎

  562. “चिरौजीनास।” ↩︎

  563. “आधाशीशी । अधकपारी ।” ↩︎

  564. " सवेरे, सूर्योदये।” ↩︎

  565. “नाकके राह।” ↩︎

  566. “घृतपूरा, केवल गायके घीका नास ।” ↩︎

  567. “मौंह।” ↩︎

  568. “नश्तरसे फस्त।” ↩︎

  569. “श्लोकः—स्त्रीरजोवस्त्रंगृह्णीयात्परीक्षार्थंभिषग्वरैः॥ निरीक्ष्य साध्याऽसाध्यं” ↩︎

  570. “पिचुकारी जैसे सुजाखमें मर्द लेता है।” ↩︎

  571. “खीरबीज।” ↩︎

  572. “घोरदेना।” ↩︎

  573. “प्रदर, पेर, रज़।” ↩︎

  574. “रोहुआंघास, सोन्हिया।” ↩︎

  575. “दारुहरदी।” ↩︎

  576. “सपेदरंगंका पैर, पानी।” ↩︎

  577. “मूशाकी लेंडी।” ↩︎

  578. “तगर।” ↩︎

  579. “पिंचकारी देना।” ↩︎

  580. “शेषजी।” ↩︎

  581. “आयुद्वार।” ↩︎

  582. " प्रतिष्ठा।” ↩︎

  583. “पतजुगवृक्ष।” ↩︎

  584. “देवदारु, चीढ।” ↩︎

  585. “मोहरि।” ↩︎

  586. “काकोली १, क्षीरकाकोली २।” ↩︎

  587. “मेद १, महामेदवृक्ष २।” ↩︎

  588. “सपेदचंदन १, लालचंदन २” ↩︎

  589. “चमेलीका फूल।” ↩︎

  590. “सेतवोस्याह रंगकीदुधवरिया लता।” ↩︎

  591. “—१ तोलाभर।” ↩︎

  592. “हींगभूजिके।” ↩︎

  593. “—४ कुडवका(१ ↩︎

  594. “श्यामालता, दुधक्वरिया लता, गौरीसर।” ↩︎

  595. “सेवनसे।” ↩︎

  596. “शोधनकर्म।” ↩︎

  597. “पोढाई।” ↩︎

  598. “हाऊवेरं।” ↩︎

  599. “तीर्नोलोन।” ↩︎

  600. “बकवाद बोलना।” ↩︎

  601. “रुद्राक्ष।” ↩︎

  602. “लंकापीपारं।” ↩︎

  603. “नारी, स्त्री। " ↩︎

  604. “चोपडना।” ↩︎

  605. “तिनपत्तिया।” ↩︎

  606. “हाथीका चाम।” ↩︎

  607. “भेडीका चाम।” ↩︎

  608. “मालकांगनि। " ↩︎

  609. “सुर्मा।” ↩︎

  610. “लकवा।” ↩︎

  611. “सोनेयेसा चमकीला गेरू।” ↩︎

  612. “पसेव।” ↩︎

  613. " डरपा।” ↩︎

  614. “हैमदल, वर्क।” ↩︎

  615. “गर विष।” ↩︎

  616. " पोई वा कुल्फा।” ↩︎

  617. “सुसुनाशोग।” ↩︎

  618. “साँपका विष।” ↩︎

  619. “वक्कमकाठ।” ↩︎

  620. “लहटोरा, शिपिस्ता।” ↩︎

  621. “झर्वैरा।” ↩︎

  622. “कटभी, रूपमंजरी, विष्णुक्रांता।” ↩︎

  623. “अर्जुनवृक्ष।” ↩︎

  624. “लिसोडा।” ↩︎

  625. " शंखपुष्पी, सुसुनाशागकी भांति एक जलसमीलप बूटीहै जिस्का फर फूल चित्र येसा होताहैं वो वृक्ष सुसुनाशागकी भांति जानना।” ↩︎

  626. “खावे।” ↩︎ ↩︎

  627. “अघबूढा।” ↩︎

  628. " किन्नर, कुबेरका दूत।” ↩︎

  629. “मानकन्द, मानपातावृक्ष।” ↩︎

  630. “बुढापेसे शरीर गुलझट और शिरसपेदी।” ↩︎

  631. “चिरुआ।” ↩︎

  632. “अनामिकाअंगुरी।” ↩︎

  633. “रेंडका पौंपी वा कमलकी ढंडी।” ↩︎

  634. “मैनीफर।” ↩︎

  635. “सेहुडकादूधं।” ↩︎

  636. “चोख, भडभांडकीजंड।” ↩︎

  637. “जमालगोटा बीज।” ↩︎

  638. “तज। लायची, तेजपात, त्रिसुगंध है।” ↩︎

  639. “अत्तर।” ↩︎

  640. “पानबीडे।” ↩︎

  641. “मेढाशींगी, काकराशींगी।” ↩︎

  642. “अन्त पीछे।” ↩︎

  643. “बीच।” ↩︎

  644. “औषधीके गुणकी संज्ञा कहते हैं।” ↩︎

  645. " लुतकरनेवाली, बुद्धि हरनेवाली।” ↩︎

  646. " एकतोलाभर।” ↩︎

  647. “मेहीदवा, कपडछान।” ↩︎

  648. “खिचडी।” ↩︎

  649. “माढ, पसावन।” ↩︎

  650. “माड, पीच।” ↩︎

  651. “भात, अन्न” ↩︎

  652. “चीनी।” ↩︎

  653. “मोलायम, कोमल।” ↩︎

  654. “कठोर, कडा, बिचलीरास।” ↩︎

  655. “अतिकडा, खर, तेज।” ↩︎

  656. “चूतडमें पिचकारीदेना।” ↩︎

  657. “नश्य, नाश।” ↩︎

  658. “मलझरानेवाली।” ↩︎

  659. “तेल डालनेवाली।” ↩︎

  660. “मुखसे वायुभरके फूंकदेना।” ↩︎

  661. “शाण ( ४ ↩︎

  662. " गाँठ।” ↩︎

  663. “हुक्का।” ↩︎

  664. " गठिवनवृक्ष।" ↩︎

  665. “वालुकं, एलुवा, मुसब्वर। " ↩︎

  666. “ध्यामक, रोहिस, सोंधियावृक्ष, जलसमीपी वृक्षहै।” ↩︎

  667. “शलईवृक्ष, कटाय, शल्लकी।” ↩︎

  668. “कुनुरुगोंद, रुमीमतागी।” ↩︎

  669. “मेद, वसा, चिकनीचर्वी।” ↩︎

  670. " मज्जा, आडके भीतरका मांस।” ↩︎

  671. “गंडूष, कुल्ला, गरारा।” ↩︎

  672. “गलेकी पिछिली नश।” ↩︎

  673. “तज, तेजपात, दालचीनी।” ↩︎

  674. “नाखुनादवा। नखी।” ↩︎

  675. “छीक वाखांसी।” ↩︎

  676. “अंशफर, केरा, छिमी।” ↩︎

  677. “नशादर।” ↩︎