[[हस्त्यायुर्वेदः Source: EB]]
[
[TABLE]
ॐतत्सद्ब्रह्मणे नमः।
_______
हस्त्यायुर्वेदप्रस्तावना।
<MISSING_FIG href="../../../books_images/U-IMG-16978639471230.png"/>
गोपालसेवासततानुरक्तश्री1 वर्मणां सौम्यह, हर्षिते ।")माधवाधीशसुदृष्टिहृष्टे॥
लक्ष्मीसमुल्लासितकान्ति2 शर्मणां प्रसन्नतय उचाविजन्यान्यायरूपान्धकारशून्ये ।")चन्द्रामात्यप्रसादेन निरन्धकारे3॥१॥
दुण्ढरदेशे जयपत्तनेऽस्मिन्नधीतिना संस्कृतशास्त्रसार्थे॥
दाधीचधीमच्छिवदत्तनाम्ना प्रयत्यते शोधनभूमिकार्थम्॥२॥
‘धर्मार्थकाममोक्षाख्यपुरुषार्थचतुष्टयसंपत्तिर्हि शरीरस्थित्यधीना’इत्यत्र न केषामपि विप्रतिपत्तिः। शरीरस्थितिश्चाऽऽयुर्वेदज्ञानाधीना। आयुर्वेदश्च मनुष्याणां ब्रह्मसनत्कुमाराश्विनीकुमारादिभिर्बहुभिर्ऋषिभिरिव गजाश्वादीनां तिरश्चामपि पालकाप्यशालिहोत्रादिभिर्महत्याकृपया निर्मितः। तत्र मनुष्यायुर्वेदे चरकसुश्रुतवाग्भटादिग्रन्थानां प्रसिद्धद्बहुत्र मुद्रितत्वाच्च गजायुर्वेदे कस्यापि ग्रन्थस्यामुद्रणेनाप्रसिद्धत्त्वाद्बहुत्र टीकाग्रन्थेषु ‘इति पालकाप्यः’इत्यस्यैव प्रायशो दर्शनेन पालकाप्यविरचितहस्त्यायुर्वेदस्यैव प्रकाश्यत्वं मन्यमानेन ‘आपटे’इत्युपाख्यचिमणाजीतनूजेन महादेवशर्मणाऽऽनन्दाश्रमनिर्मापकेण प्रोत्साहितोऽहमिमं ग्रन्थं चतुर्भिः पुस्तकैः संमेल्य, शोधयित्वाऽऽनन्दाश्रमेमुद्रणाय समर्पितवान्।
एतद्धस्त्यायुर्वेदनिर्माणदेशकालज्ञानस्याप्यावश्यकत्वमिति कृत्वा तद्विषयेऽपि यथाकथंचिद्यथामति प्रयत्यते।
तत्र देशस्तु—
‘अङ्गदेशेष्वभूच्छ्रीमात्रोमपादो महीपतिः’।
‘अङ्गराजो महाप्राज्ञश्चम्पायां पृथिवीपतिः।
महाप्रभावमासीनं पालकाप्यं स्म पृच्छति’।
इत्यादिना तत्र तत्र समुपलभ्यमानेनाङ्गदेशे चम्पानगरीरूपो व्यक्तमत्रैव निर्णीतः।
कालस्तु—
‘इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः।
नाम्ना दशरथो राजा श्रीमान्सत्यप्रतिश्रवः॥
अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति।
कन्या चास्य महाभागा शान्ता नाम भविष्यति॥
पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः।
तं स राजा दशरथो गमिष्यति महायशाः ’॥
इत्यादिना रामायणबालकाण्डकथानकेनाङ्गाधिपरोमपादस्य दशरथस्य च सख्यवर्णनेन समकालवृत्तित्वनिश्चयेन रोमपादमहाराजप्रश्नोत्तरदातृपालकाप्यमुनेरपि दशरथसमकालवर्तित्वमेव निश्चीयते। अत एवाग्निपुराणे भगवता व्यासेनापि षट्सप्तत्यधिकद्विशत(२७६)मितेऽध्याये गजायुर्वेदः पालकाप्योपदेशरूप एव दर्शितः। अग्निपुराणस्य भगवद्वेदव्यासारचितत्वमावेदयन्त आधुनिकास्तु ‘अष्टादशपुराणानां कर्ता सत्यवतीसुतः’ इत्यापामरप्रसिद्धिप्रतिकीलिता एव न श्रद्धालुभिरादरणीयाः। ‘दशरथमहाराजप्रादुर्भावसमयस्तु चतुर्विंशस्त्रेतायुगः’ इति
“चतुर्विंशे युगेरामो वसिष्ठेन पुरोधसा।
सप्तमो रावणस्यार्थेजज्ञे दशरथात्मजः”॥
इति मत्स्यपुराणीयसप्तचत्वारिंशाध्याये ( २४२ ) श्लोकतोऽवगम्यते इत्थम्गतातिप्राचीनत्वस्यास्य ग्रन्थस्य पुस्तकचतुष्टयमस्माभिरासादितम्। तत्र —
(क.) संज्ञकम् — जयपुरमहाराजाश्रितायुर्वेदाध्यापककच्छवंशादिकाव्यकवयितृश्री- कृष्णशर्मणाम्।
(ख.) संज्ञकम् — पुण्यपत्तनीयराजकीयपुस्तकागारस्थम्।
(ग.) संज्ञकम् — कलकत्तानगरीयराजकीयपुस्तकागारस्थम्।
(घ).संज्ञकम्—जयपुरराष्ट्रान्तर्गतशकिरनगराधीशगुरुगोस्वामिश्रीयुतानन्दील शर्मणाम्।
बहुकालभ्रष्टपठनपाठनकेऽस्मिन्ग्रन्थेऽशुद्धित्रुटिबाहुल्येऽप्यभिप्रायस्त्ववगम्यत एव।
इति निवेदयति भूतपूर्वजयपुरराजकीयसंस्कृतपाठशालाध्यापकः संप्रति लाहोरस्थसंकृतपाठशालाप्रथमाध्यापकः काव्यमालासंपादकश्च पण्डितशिवदत्तशर्मा।
अथ हस्त्यायुर्वेदाध्यायविषयानुक्रमः।
_______________
तत्र प्रथमं महारोगस्थानम्।
__________
[TABLE]
[TABLE]
[TABLE]
समाप्तं चैतन्महारोगस्थानं प्रथमम् ।
______________
**अथ क्षुद्ररोगस्थानं द्वितीयम् । **
[TABLE]
[TABLE]
[TABLE]
समाप्तमेतद्वितीयं क्षुद्ररोगस्थानम्।
| **विषयाः ** |
| व्रणानामात्मयोन्यधिष्ठानाकृतिस्रावशल्योपक्रमाणां भेदसंख्याकथनं त्रिविधयोनिलक्षण कथनमष्टविधाधिष्ठानलक्षणकथनं शुद्धाशुद्धद्विविधस्रावस्य वस्तुविशेषेण चतुर्विंशतिभेदलक्षणकथनं त्रिविधात्मनः साध्यासाध्यकथनं द्विविधशल्यस्य लक्षणकथनमुपञ्चकस्य लक्षणकथनं षड्दोषाणां लक्षमलेपधूपरोपणादिप्रकारकथनं च … … … अ. १ |
| सिंहव्याघ्रादिनखजस्याग्निक्षारविषादिजस्य च सद्यःक्षतस्य प्रत्येकं निदानकथनम् … … … अ. २ |
| सद्यःक्षतस्य चिकित्साकथनम्, सामान्यतोऽरिष्टलक्षणकथनं वैद्यं प्रति गच्छतो दूतस्यलक्षणादिकथनं वैद्यगमने शुभाशुभनिमित्ततिथिनक्षत्रादिकथनमामच्छेदाकरणतद्धेतुकथनं जाठराग्निकृतपाचनप्रकारादिकथनंच ….अ. ३ |
| षडत्ययोपचारकथनम् … … … अ. ४ |
| वातपित्तकफजव्रणानां प्रत्येकमुत्पत्तिलक्षणंव्रणानामेकोनविंशत्याकृतिकथनं सान्तर्भेदं वस्तुविशेषत्रयकथनं च |
| पृथिव्यादिपचभूतानां नामगुणक्रियाकथनं प्रत्येकजन्यवस्तुकथनं च |
| कालस्य त्रुटिलवनिमेषादिब्रह्मादिनान्तभागानां नामक्रमकथनमीश्वरेच्छावशाजगदुत्पत्तिक्रमकथनं गर्भोत्पत्तिप्रकारकथनं गर्भस्थस्य प्रतिमासमवयवेन्द्रियोत्पत्तिकथनं स्थानभेदेन देवतास्थितिकथनं मातापितृज धातूनां नामकथनं च……. … अ. ७ |
| ऋतुमतीलक्षणकथनं गर्भिणीलक्षणकथनं विस्तरेण गर्भधारणप्रकारकथनमवयवेन्द्रियोत्पत्तिवृद्धिप्रकारकथनं पुंस्त्रीषण्ढोत्पत्तिकारणकथनमवयवगतश्वेतकृष्णत्वादिहेतुकथनं वातपित्तकफप्रकृतिलक्षणकथनं भद्राद्यनेकजात्युत्पत्तिहेतुलक्षणादिकथनं च … … … अ. ८ |
| शरीरस्थदन्तनखमर्मशिरास्थिसंध्यादीनां स्थानसंख्याकथनं वातपित्तकफरक्तादीनां स्थानकथनं च … … … अ. ९ |
| शस्त्रप्रणिधानप्रकारकथनमभिप्रणिधानप्रकारकथनं च … … … अ. १० |
| स्तम्भयन्त्रणाप्रकारकथनं प्रतिकर्मक्रिया|कथनं यायोग्यायोग्यवृक्षतत्पूजादिकथनंयन्त्रनिर्माणप्रकारकथनं तद्व्रतदेवतोद्देश्यकपूजनहवनप्रकारादिकथनं च … … … अ. ११ |
| एतच्छास्त्रस्य ब्रह्मणः सकाशादुत्पत्तिकथनमग्निमशिष्यपरम्पराकथनं च |
| विद्रधिरोगस्य वातजादिभेदचतुष्टयकथनम् वातजविद्रधिरोगोत्पत्तिनिदानचिकित्साकथनं पित्तजविद्रधिरोगोत्पत्तिनिदानचिकित्साकथनं कफजविद्रधिरोगोत्पत्तिनिदानचिकित्साकथनं संनिपातजविद्रधिरोगोत्पत्तिनिदानचिकित्साकथनं च … अ. १३ |
| व्रणस्य सान्तर्भेदं शारीरागन्तुकभेदद्वयकथनं प्रत्येकं निदानचिकित्सासाध्यासाध्यलक्षणकथनं च … … … अ. १४ |
| नाडीव्रणस्योत्पत्तिनिदानकथनं साध्यासाध्यलक्षणकथनं साध्यव्रणस्य शस्त्राग्निक्षारकर्मादिचिकित्साकथनं च …. … … अ. १५ |
| शरीरस्थसप्तशतशिराणां कण्ठादिस्थानगतत्वेनविभागसंख्याकथनं वातपित्तादित्रितय शोणिता दिसप्तधातुवाहकशिराणा प्रत्येकं संख्याकथन रोगविशेषेण वेध्यशिराकथनं तच्चिकित्सादिकथनं च … … … अ. १६ |
चतुर्थमुत्तरस्थानम्।
| विषयाः |
| दन्तनाडीनिदानचिकित्साकथनम् … अ. १७ |
| दन्तचिकित्साकथनम् … … … अ. १८ |
| शिराच्छेदप्रकारकथनं छेदयोग्यायोग्यशिराकथनं च … … … … अ. १९ |
| सप्तोत्तरशतमर्मकथनं तेषां स्थानप्रमाणकथनं छविषट्ककथनं च |
| शुनः सविषत्वे कारणकथनं शुनो ब्राह्मणादिजातिचतुष्टयतल्लक्षणकथनं च |
| विस्तरेण मर्मस्थानतन्नामचिकित्साकथनं शस्त्रकर्मयोग्यायोग्यत्वादिकथनं च… … अ. २२ |
| पुनश्च प्रकारान्तरेण मर्मस्थानतन्नामचिकित्साकथनम् … … … … अ. २३ |
| पुनश्च बालादिपाकलानामुत्पतिहेतुकथनं प्रसङ्गात्पित्तादीनां स्थानकथनं च …. अ. २४ |
| पुनश्चाग्निदग्धस्य सेकलेपादिचिकित्साकथनम् … … … … |
| एकविंशतिलूतानां नामसंख्याकथ पठनादिपरिहारप्रकारकथनं च … |
| विषकीटोत्पत्तिनिदानचिकित्साकथनम्व्यालदष्टनिदानचिकित्सासाध्यासाध्यलक्ष णकथनं च … … … … |
| शरीरस्य हस्तमुखादिपञ्चदशभागकथन प्रतिभागगतप्रदेशानां नामसंख्याकथनं शरीरगतसर्वप्रदेशानां समष्ट्यङ्ककथनं च … … |
| दशविधशस्त्राणां नामप्रमाणसंस्थानकथनमग्निकर्मशल्योद्धरणसाधनानामेषिणीनां च |
| क्षारयोगप्रकारकथनम्… … … |
| अस्थिभङ्गस्य कारणभेदकथनं संज्ञापूर्वकं तन्निदानचिकित्सासाध्यासाध्यलक्षणकथनं च … … … |
| मृतगर्भाया लक्षणकथनं मृतगर्भस्य बहिर्निष्कासनच्छेदनादिप्रकारकथनं च . |
| हवनपूर्वकदन्तोद्धरणप्रकारकथनं दन्तानां भेदसंभवादिकथनं च |
समाप्तं चेदं तृतीयं शल्यस्थानम्।
__________________
अथ चतुर्थमुत्तरस्थानम् ।
[TABLE]
| विषयाः |
| दिपूर्वकं शालानिर्माणकथनं च … … … ६ |
| नस्यदानविधिकथनं दुर्विरितातिविरिक्ता लक्षणकथनं च … … ७ |
| मासर्तुभेदेन भक्षणयोग्यशुष्कार्द्रयवसकथनम् … … … ….८ |
| मरणसूचकलक्षणकथनं तद्भेदेन मरणावधिकथनं च… … … … ९ |
| दन्तकल्पनाप्रकारकथनं तद्योग्यायोग्यकालावस्थादिकथनमयोग्यकालावस्थयोर्दन्तकल्पनाकरणेऽमात्यव्यसनादिकथनं च |
| रसवीर्यविपाककथनं वातपित्तकफादीनां शामकोद्दीपकरसकथनं च … … … ११ |
| उत्तमादिभेदेनेक्षुदानपरिमाणकथनं तद्गुणादिकथनं च … … … … १२ |
| पुनश्च विस्तरेण नस्यदानविधिकथनम् १३ |
| नेत्ररोगघ्नश्रीविजयाभिधगुटिकानिर्माणप्रकारकथनं रक्तपित्तदाहशामकवर्तिकरणप्रकारकथनं प्रपौण्डरीकादिरसक्रियाकथनं नीलमेघाभिधगुटिकाकरणप्रकारकथनं कल्काञ्जनचुर्णाञ्जनयोर्विधिकथनमनेकविधनेत्ररोगचिकित्साकथनं च … … … १४ |
| कालस्य संवत्सरायनादिविवक्षाभेदेनानेकविधत्वकथनमृतुषट्कभेदेन पिण्डदानकथनमन्नपानादिदानमस्नानसेकादिप्रकारकथनं च … १५ |
| भुक्तमात्राय जलदाननिषेधाद्यनेकविधिहेतुसहेतुकमुत्तरकथनम् … … १६ |
| लवणोदकक्षीरसर्पिरादीनामन्नपाचनमांसक्रियाकथनम् पानविधिकथनम् … …१७ |
| सौवीरकपानविधिकथनम् … … १८ |
| उत्तममध्यमाध्यमभेदेन सुराया गुणदोषकथनं सुरापानानन्तरकरणीयप्रतिपानविधिकमृतुषट्कभेदेन गुडलवणादिमिश्रणकथनं साक्षादिमिश्रितसुराया विशेषगुणावहत्वकथनं च … … … … १९ |
| गुग्गुलुविधानकथनमृतुषट्कभेदेन तैलादिमिश्रितगुग्गुलुदानकथनं च … … २० |
| क्षीरस्य सामान्यगुणकथनं गव्यमाहिषाद्यष्टभेदकथनं प्रत्येकं तद्गुणकथनं च …२१ |
| श्रीगजोत्पत्तिकथनं प्रसङ्गाद्देवदानवयोर्युद्धकंथनं मेघाभिधैरावणसुतं प्रति शिवदत्तवरकथनभाषाढ्यां वैद्यकर्तव्यपूजाप्रकारकथनं गजारोहणादिकथनं च … ..२२ |
| विस्तरेण सर्पिस्तैलाद्यनेकद्रव्यदानस्य प्रत्येकं हेतुगुणकथनम् … … … २३ |
| स्निग्धास्निग्धातिस्निग्धादीनां प्रत्येकं लक्षणकथनं विरिक्तदुर्विरितादीनां प्रत्येकं लक्षणकथनं च … … … … २४ |
| यवसस्य भेदद्वयकथनमाहारस्य भेदत्रयकथनं देशस्य भेदत्रयकथनं प्रत्येकं तल्लक्षणादिकथनं च … … … … २५ |
| वातप्रकृतिकस्य सत्त्वशरीरायुरादिलक्षणकथनं पित्तप्रकृतिकस्य सत्वशरीरायुरादिलक्षणकथनं कफप्रकृतिकस्य सत्त्वशरीरायुरादिलक्षणकथनं च … … … … २६ |
| गव्यमाहिषाद्यष्टविधमूत्रकरीषयोः प्रत्येकं गुणदोषकथनम् … … … … २७ |
| लशुनस्योत्पत्तिकथनं मूलबीजादिभेदेन मधुरतिक्तादितद्रसभेदकथनमनुपानभेदेन तद्रुणदोषादिकथनं च … … … २८ |
| पिप्पलीशृङ्गवेरादिमिश्रितलवणदानप्रकारकथनं तद्गुणादिकथनं च … … …२९ |
| गजानामारण्यकादिभेदचतुष्टयकथनं प्रत्येकं तल्लक्षणकथनं च पशुदानप्रकारकथनं तद्गुणकथनं च . … … … … ३० |
| रसरक्तमांसादिसप्तधातुसमुस्थसप्तमदावस्थाकथनं प्रत्येकं लक्षणकथनं सप्तमावस्थां प्राप्तस्य मरणागमनकथनं तत्कारणादिकथनं च … … … … … ३१ |
| ग्राहस्य नागतन्तुकभेदद्वयकथनं नागप्राहस्योत्पत्तिनिदानासाध्यत्वकथनं तन्तुकग्राहस्योत्पत्तिनिदानचिकित्सादिकथनम् … ३२ |
| जलजहस्तिस्वरूपकथनं तत्स्थानस्थजलपानादिना गजानां मरणागमनकथनमष्टमीचतुर्दश्यमावास्यासु नदीयज्ञविधानेन तदुद्देश्यनादिकथनं च …३३ |
चतुर्थमुत्तरस्थानम्।
| विषयाः |
| जलौकानां द्वादशजातिकथनं सविषनिर्विषभेदद्वयकथनं प्रत्येकमुत्पत्तिस्थानलक्षणादिकथनं च … … … अ. ३४ |
| गजशालायां भूतानां व्याधिरूपेण संचारकथनं तद्धेतुकथनं रौद्रवैष्णवपाकलयोः स्वरूपकथनं तद्दर्शने गजानां भीत्युत्पत्तिकथनं तत्कारणीभूताग्निशापकथनं ज्वरसंचारलक्षणकथनं ज्वरपरिहारार्थे शिवविष्णुपूजाभूतबलिदानादिकथनं च … … … अ. ३५ |
| गजनीराजनाविधिकथनं तत्कालकारणादिकथनं गजशान्तियोग्यशुभतिथिनक्षत्र सावित्रादिमुहूर्तकथनं गजशान्तिविधिकथन विष्णुप्रजापत्यादिदेवतानां पूजाप्रार्थनाप्रकारकथनं हवनकालिकमन्त्रपठनप्रकारकथनं गजरक्षणे विष्णुप्रजापत्यादीनां प्रार्थनाप्रकारकथनं हवनकालिकवह्निधूमस्वरूपभेदेन गजशब्दभेदेन च शुभाशुभसूचकत्वादिकथनं च … … … |
समाप्तमिदमुत्तरस्थानं तुरीयम्।
______________
इति इस्त्यायुर्वेदाध्यायविषयानुक्रमः समाप्तः।
_____________
[TABLE]
ॐ तत्सद्ब्रह्मणे नमः।
पालकाप्यमुनिविरचितो
हस्त्यायुर्वेदः।
___________
तत्र प्रथमं महारोगस्थानम्।
_______________
तत्र प्रथमो वनानुचरिताध्यायः
श्रीगणेशाय नमः॥
प्रत्यूहव्यूहविच्छेदकारणं गणनायकः॥
जपति स्थिरसंपत्तिर्गजभक्त4निदर्शनः॥१॥
आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा॥
अविघ्नो विघ्नहर्ता व हेरम्बो गणनायकः॥२॥
लम्बोदरो गजमुखो धूम्रकेतुर्गजाननः॥
सर्वकार्येषु हेरम्बनामान्येतानि संस्मरेत्॥३॥
वनानुचरितमध्यायं व्याख्यास्यामः —
अङ्गानामधिपः श्रेष्ठः श्रीमानिन्दुसमद्युतिः॥
वेदवेदाङ्गतत्त्वज्ञः5 सर्वशास्त्रविशारदः॥४॥
येनेयं पृथिवी सर्वा सशैलवनकानना॥
चतुःसागरपर्यन्ता भुक्ता ह्यमिततेजसा॥५॥
स रोमपादो नृपतिश्चक्रवर्ती महायशाः॥
मेधावी धर्मवान्धीरो निर्जितारिः प्रतापवान्॥६॥
अङ्गदेशे6 स्तु लिखितः ।")ष्वभूच्छ्रीमान्रोमपादो महीपतिः॥
गजारोहणशक्रेव (?) धृतबुद्धिर्जितश्रमः॥७॥
आसनेत्काञ्चने दिव्ये नानात्नविभूषिते॥
उपविष्टो महीपालः प्रजासुखहिते रतः॥८॥
तपसा भावितात्मा वै राजा राजीवलोचनः॥
** ( ‘अङ्गानाम्’इत्याद्येकान्वयम् )**
गङ्गाया दक्षिणे तीरे ब्रह्मर्षिगणसेविते॥९॥
स्वर्गारोहणसोपानकृततीर्थ7कृतापहे ( ? )॥
मातेव मुक्तिजनने पदन्यासकृताश्रमे8॥१०॥
शालतालतमालै9श्च प्रियालैर्वञ्जुलैश्चिते॥
पुंनागाशोकबकुलैर्भूषिते चारुचम्पकैः॥११॥
सहकारार्जुनाश्वत्थवरामलकजम्बुभिः॥
कदम्बोदुम्बरप्लक्षैर्नानावृक्षैश्च शोभिते॥१२॥
कमलोत्पलकह्लारपुष्पगन्धाधिवासिते॥
शुककोकिलसारीभिः कोककेकारवै रुते॥१३॥
शीतमन्दसुगन्धेन मारुतेनोपसंस्कृते॥
यक्षगन्धर्वनिलये सिद्धचारणसेविते॥१४॥
सर्वलक्षणसंपन्नं सर्वविद्यासुशोभितम्॥
धर्मार्थज्ञानतत्त्वज्ञं तथा शक्रोपमं नृपम्॥१५॥
चन्दनागुरुकर्पूरदिग्धाङ्गाभिः सुकेशिभिः॥
दिव्याभरणभूषाभिर्मानिनीभिश्च मोदितम्॥१६॥
पीनोन्नतस्तनभरक्षामाङ्गीभिर्मृगाक्षिभिः (?)॥
सुकङ्कणरवोपेतैर्वीज्यमानं तु चामरैः॥१७॥
महाबला महाकाया कुञ्जरा वनचारिणः॥
कथं वश्या भव10न्त्येते चिन्तयन्तं मुहुर्मुहुः॥१८॥
इतिहासकथाः काव्यं श्रोष्यमाणं मनोरमम्॥
श्रितं सुरगुरुप्रख्यैः11 पुरोधोभिश्च मन्त्रिभिः॥१९॥
मुखासीनं तु तत्रस्थं पौरजानपदैः सह॥
प्रेरिता भाविविधिना12दयाभरणभूषिताः॥२०॥
जठामुकुटधर्तारोमोक्षद्वारपथानुगाः॥
कन्दमूलफलाहाराः कौपीनवसनावृताः॥२१॥
दण्डकमण्डलूपेता दीप्यमानाः स्वतेजसा॥
**यज्ञोपवीतसहिंता अक्षमालाविभूषिताः॥२२॥ **
नाकवत्सुवर्णधारा महीवच्च सुमेखलाः13॥
पातालवत्तपोनन्तास्त्रिषु लोकेषु मध्यगाः॥२३॥
रविबिम्बसमाकाराः षट्त्रिंशन्नपकोविदाः॥
**अपश्य14न्नागताश्चम्पां मुनयः संशितव्रताः॥२४॥ **
** (‘गङ्गायाः’इत्यादि कुलकम् )**
…. …. …. …. …. …. …. …. …. …. …. …. ….15 दानं कृतमतो ज्ञायते- पुर्वार्धः स्त्रुटितः इति। ।")॥
गौतमं चाग्निवेश्यं च राजपुत्रं च बाष्कलिम्16॥२५॥
काश्यपं मृगशर्माणं भारद्वाजं च सौबलम्॥
काड्कायनं च गार्ग्यं च रैभ्यं चैव बृहस्पतिम्॥२६॥
अरिमेदं च माण्डव्यं कुमुदं तं तथैव च17॥
याज्ञवल्क्यं हिरण्यं च भृगुं चाङ्गिरसं तथा॥२७॥
पराशर18मचूडंच मतङ्गं चोर्मिमालिनम्॥
सारस्वतं सच्यवनं पुलस्त्यं पुलहं क्रतुम्॥२८॥
विश्वामित्रं वशिष्ठं19च जमदग्निं च भार्गवम्॥
अगस्त्यं20 च त्रिशङ्कुं च मरीच्यत्रिसुपर्वणम्॥२९॥
दीर्घं परिकरं काप्यं नारदं सुरवन्दितम्॥
एतानन्यान्महाभागानागतान्सुरशासनात्॥३०॥
दृष्ट्वैव परमप्रीतो राजा विस्मयमागतः॥
प्रत्युत्थाया21ऽऽसनात्तूर्णं स्थित्वा चाभ्यर्च्य तान्नृपः॥३१॥
अर्धेणा22ऽऽसनदानेन पाद्येन च परंतपः॥
स्तूयमानस्तु राजा तैः कुशलं धर्मसंमतम्॥३२॥
विज्ञाय23 तान्रोमपाद उपविष्टो नृपस्तदा॥
पप्रच्छ वदतां श्रेष्ठो सामात्यः सपुरोहितः॥३३॥
**मयकारा24नतिश्रेष्ठानभिवाद्यै25मब्रवीत्॥ **
पुरा मम सुरैः प्रीतैर्वरोदत्तो हि26 तोषितैः॥३४॥
वाहनास्ते भविष्यन्ति वारणा दिग्गजान्वयाः॥
**अहं जिघृक्षुर्द्विरदान्व27न्या28ञ्श्रुतविशारदाः॥३५॥ **
**दर्शनेन29 यथोक्तेन प्रेष्यतां(न्तां)हस्तिचारिणः॥ **
अथ राज्ञो वचः श्रुत्वा विधिना गजचारिणः॥३६॥
प्रेषयामासुर्वैधीरास्ते30 राज्ञो हितङ्काक्षिणः॥
अन्वेषद्भिर्वने नागानथ दृष्टं तु तैः पदम्॥३७॥
अनुगन्तुं तदारब्धा मुदा परमया युताः॥
**वने यस्याऽऽश्रमपदं नानाद्रुमसमाकुलम्॥३८॥ **
मयूरैः कोकिलाभिश्च रुतं मधुकरैरपि॥
**शैलराजाश्रितं पुण्यं +लौहित्यं31 सागरं प्रति॥३९॥ **
देवानां काननैस्तुल्यं क्रीडनं देवयोषिताम्॥
**यक्षगन्धर्वनारीणां तथा32 चोरगय्वोषिताम्॥४०॥ **
आलयं सिद्धपक्षाणां दिव्यानां पक्षिणामपि॥
सिद्धचारणसंजुष्टं33 किंनरोद्गीतिनादितम्॥४१॥
मृगास्तत्र समं व्याघ्रैर्मित्रवत्संवसन्ति च॥
**तदाश्रमं प्रविष्ठं हि तस्य यूथस्य तत्पदम्॥४२॥ **
अपश्यंश्च मुनिं तत्र सामगायनमाश्रमे॥
दिव्यज्ञानसमायुक्तं तपसा जितकिल्विषम्॥
**श्रीमन्तं सौम्यवदनं सर्वभूतहिते रतम्॥४३ \।\। **
पुनस्ततो निनीषद्भिर्दृष्टं यूथमं34दूरतः॥
भद्रमन्द्रमृगै35र्नागैरुपेतं हि मनोरमैः॥४४॥
चार्वङ्गीमिर्व36शाभिश्चपोतैश्चप्रियदर्शनैः॥
मध्येऽपश्यन्मुनिंचैव37तत्रार्कसमतेजसम्॥४५॥
तपसा नियमैर्युक्तंकृशदेहं क्रियान्वितम्॥
धृतिक्षमाभ्यां युक्तं चतथा38दमपरायणम्॥४६॥
*शरण्यं39 सर्वभूतानां जटावल्कलधारिणम्॥
युक्तं परेण हर्षेण क्रीडन्तं सह वारणैः॥४७॥
कलभैर्धेनुकाभिश्च भ्रमरोद्गीतिशालिषु॥
नानापुष्पसमृद्धेषु द्रुमखण्डेषु तैः सह॥४८॥
कमलोत्पलरम्येषु विगाहन्तं सरःसु च॥
उत्पन्नेयं मतिस्तेषामनेनैतद्धि रक्ष्यते॥४९॥
कालं तं मृगयामासुर्यस्मिन्विरहितं भवेत्॥
अनेन मुनिना यूथमन्विष्यामो यथासुखम्॥५०॥
अथ मध्याह्नकाले तु आश्रमं मुनिरागतः॥
ऋषि40स्तस्य प्रयत्नेन कर्तुं शुश्रुषणक्रियाम्॥५१॥
सायाह्नकाले तु मुनिर्यूथमध्यं पुनर्गतः॥
एतत्सर्वं यथावत्तैरङ्गराजाय कीर्तितम्॥५२॥
तस्मै नरो बहिर्भोगास्तथाऽऽगम्य41न्यवेदयन्॥
मूर्ध्नि कृत्वाऽञ्जलिं प्रीता महीमास्थाय जानुभिः॥५३॥
दर्शनीयानि दीर्घाणि42 न द्रवन्ति महान्ति च॥
बहून्यदृष्टपूर्वाणि सत्त्वानि भुवि कानि च॥५४॥
सर्वसस्यविनाशं च राजकुर्वन्ति नित्यशः॥
तेषां देशहितार्थाय प्रतियत्नो विधीयताम्43॥५५॥
ततस्तेषां वचः श्रुत्वा ग्रहार्थं कृतनिश्चयः॥
प्रस्थितो हृदि तंकृत्वां यः कालस्तैर्निवेदितः॥५६॥
गृहीत्वा महतीं सेनांनगर्या निर्ययौतदा॥
अचिरात्समनुप्राप्तस्तं देशं यत्र ते गजाः॥५७॥
स ताञ्शापवशप्राप्ता44न्गजाञ्जग्राह पार्थिवः॥
तस्मिन्काले यथाख्याते यूथं बद्ध्वा नृपेण तत्॥५८॥
चम्पासमीपमानीतं ततः पूज्याभिवाद्य च॥
विधिना शास्त्रदृष्टेने45 नयकर्तॄस्तथाऽब्रवीत्॥५९॥
स्तम्भेषु च यथोक्तेषु स्थान46ग्रासे तथैव च॥
विधिना च47यथोक्तेन यूथमेतद्धि दम्यताम्॥६०॥
प्रत्यब्रुवन्नङ्गराजं सर्वे ते नयकोविदाः॥
स्वकार्यमिदमस्माकं शेषं कार्यं विचिन्त्यताम्॥६१॥
चम्पाप्रवेशः क्रियतां राजन्स्वस्थमना भव॥
ते राजनि प्रविष्टे तु यूथं स्तम्भेष्वबन्धयन्॥६२॥
अथ शुश्रूषणां कृत्वा स निष्क्रम्याऽऽश्रमान्मुनिः॥
तं देशमभिसंप्राप्तस्त्वासीद्यस्मिन्स्थितं तु तत्॥६३॥
तस्मिन्नपश्यंस्तद्यूथं मनसा व्याकुलेन तु॥
आगतोऽन्वेषणं कर्तुं पुरा तिष्ठन्ति येषु च॥६४॥
ते48 देशेष्ववगाहन्ते येषु चैव सरःसुच॥
अपश्यंस्तेषु सर्वेषु चम्पामभ्यागतस्ततः॥६५॥
पदेन मुनिशार्दूलः शोचन्स्नेहेन हस्तिनः॥
अथ पूर्वनियुक्तै49स्तु तस्य चेष्टाचरैर्मुनेः॥६६॥
शुश्रूषणाद्या निखिलाश्चेष्टा राज्ञांऽ(ज्ञेऽ)नुकीर्तिताः॥
तत्राऽऽसीना महात्मानो यूथस्य नयकोविदाः॥६७॥
गौतमप्रमुखाः सर्वे सर्वभूतहिते रताः॥
तपोनियम50संपन्नास्तेन यूथस्य मध्यगाः॥६८॥
ददृश्रुर्योगपद्येन तस्मिंस्तु गजमण्डले॥
श्रीमन्तं ब्राह्मणं कंचिज्जटिलं साधुसंमतम्॥६९॥
उग्रेण तपसा युक्तं वेदवेदाङ्गपारगम्॥
कृष्णाजिनधरं युक्तमृषिमुग्रेण वर्चसा॥७०॥
अपश्यन्मौनसंपन्नंप्रविष्टं हस्तिमण्डले॥
अचिन्तयंस्तु तान्सर्वान्स दृष्ट्वा वारणान्मुनिः॥७१॥
आसीदुद्विग्ननेत्रश्च दीनानुपजगाम च॥
ज्ञातिवच्च51स तान्नागान्व्रणितान्दुःखपीडितान्॥७२॥
उपेत्य तान्सव्यथितान्संस्पृशन्परिनिश्वसन्॥
त्वङ्मूलभङ्गांश्च बहूनाहृत्य व्रणरोपणान्॥७३॥
संक्षुद्य तेषां नामानां52से व्रणान्लिम्पति स्म तान्॥
कुड्मलान्पल्लवांश्चैव त्वचो मूलफलानि च॥७४॥
यवसानि विचित्राणि स तेभ्यः प्रददौ मुनिः॥
एकरात्रोषितं तत्र तन्त्रकारो53 यशस्विनः॥७५॥
तं मुनि कर्म चैवास्य पप्रच्छुर्विस्मितास्तदा॥
अनुकम्पसे गजान्केन कस्मादालिम्पसि व्रणान्॥७६॥
इति तैः पृच्छ्यमानोऽपि न किंचित्प्रत्युवाच सः54॥
अनतिव्याहृतास्तेन तत्र ते विस्मितास्तदा॥७७॥
तं मुनिं कर्म चैवास्य तद्राज्ञे प्रत्यवेदयन्॥
तेषां श्रुत्वा वचो राजा महर्षिमभिगम्य तम्॥७८॥
अर्घेणाऽऽसनदानेन पाद्येन च महामुनिम्॥
प्रणिपातेन चाभ्यर्च्य पृष्ठा55ऽग्रे56 स्तुतिकौशलम्॥७९
सान्त्वयन्परिपप्रच्छ विनयेन कृताञ्जलिः॥
भगवञ्ज्ञातुमिच्छामि जन्म नाम श्रुतं च यत्॥८०॥
दमनप्रतिरूपं च दयां प्रीतिं च हस्तिषु॥
इति तं परिपृच्छन्तं भूमिपालं कृताञ्जलिम्॥८१॥
मौनसंपदमास्थाय न किंचित्प्रत्युवाच सः॥
पृष्टवा57न्पार्थिवश्चैवं ततो ब्राह्मणकाम्यया॥८२॥
अथास्मै धर्मवित्साधुः शशंसाऽऽत्मानमात्मवित्॥
पुरा हि वारणा राजन्कामगाः कामरूपिणः॥८३॥
चरन्ति मानुषे लोके देवलोके च पार्थिव॥
अथोत्तरे हिमवतो महान्न्यग्रोधपादपः॥८४॥
द्वे योजनशते राजन्नुच्छ्रितस्तद्वदायतः॥
ऋषिर्दीर्घतपा नाम तत्राऽऽसीत्सपरिग्रहः॥८५॥
न्यग्रोधं ते कदाचित्तु तमाजग्मुरनेकपाः॥
निपेतुस्तस्य शाखायां सर्वे तेसंहिता गजाः॥८६॥
अतिभारेण तेषां तुसा शाखा शतयोजना॥
विदारयन्ती तंदेशं निपपात महीतले॥८७॥
ते चापि वारणाः सर्वे शाखामन्यां समाश्रिताः॥
ततः क्रोधसमाविष्ठस्तान्गजानुषिरब्रवीत्॥८८॥
मद58दर्पोच्छ्रयाद्यस्मान्मम भग्नः परिग्रहः॥
**विमुक्ताः कामचारेण भविष्यथ न संशयः॥८९॥ **
**नराणां वाहनत्वं च तस्मात्प्राप्स्यथ वारणाः॥
अथान्तरिक्षान्महती59 राजन्वाणी विनिर्गता॥ ९०॥ **
**यैः क्षयं दानवा नीतास्तान्मुक्त्वा ऋषिसत्तम॥
वाणीं60 श्रुत्वा शुभामेनामेवमाह महामुनिः॥९१॥ **
अथ ते वारणाः श्रुत्वा शाप61मात्मापराधजम्॥
**परं दैन्यमुपागम्य ब्रह्माणमुपतस्थिरे॥९२॥ **
अथ तान्पूर्वमेवाऽऽह ब्रह्मा लोकपितामहः॥
मा कार्षुर्वारणाः शोकं न हि शक्यं तदन्यथा॥९३॥
**कर्तुं यत्तेन मुनिना वचनं समुदाहृतम्॥
एतद्वाक्यं ततः श्रुत्वा प्रत्यूचुस्ते दिशां गजाः॥९४॥ **
अस्माकमनुजानां62 तु गजानां ग्रामवासिनाम्॥
रोगाः प्रादुर्भविष्यन्ति विषमाद्यशनादिभिः॥९५॥
**दिग्गजानां वयः श्रुत्वा प्रत्युवाच पितामहः॥
न विषादे मनः कार्यंंव्याधीन्प्रतिमतङ्गजाः॥९६॥ **
उत्पत्स्यत्यचिरेणाथ गजबन्धुर्महामुनिः॥
आयुर्वेदस्य वेत्ता वै मत्कृतस्य भविष्यति॥९७॥
तेषां रोगांन्समुत्पन्नान्हनिष्यत्यौषधीबलात्॥
एवमुक्त्वा दिशो नागान्विससर्ज यथा63दिशम्॥९८॥
ततस्ते प्रययुः स्थानं स्वं स्वभैरावतादयः॥
दिग्वारणान्वयास्ते तु लोकं मानुषमागताः॥९९॥
विचरन्ति महीं कृत्स्नां पद्भिः सागरमेखलाम्॥
शतशो यूथसंख्याभिः प्रवृद्धाश्च सहस्रशः॥१००॥
राजन्हिमवतः पार्श्वे महर्षिः सामगायनः॥
सागरं प्रति लोहित्यंतपस्तीव्रमतप्यत॥१०१॥
तस्याऽऽश्रमपदाभ्यासमाजगाम यदृच्छया॥
सवृद्धबालं सुमहद्गजयूथं संयूथपम्॥१०२॥
तं स्वप्ने घर्षयामास यक्षिणी कामरूपिणी॥
का न्वियंशयनात्तूर्णमुत्थितः स व्यचिन्तयन्॥१०३॥
आश्रमादभिनिष्क्रम्य मुनिर्मूत्रं चकार सः॥
तस्य64 मूत्रेण संसृष्टं65 तत्रैवेन्द्रियमश्र(स्र)वत्॥१०४॥
कृत्वा शौचं यथान्यायं मुनिर्धर्मपरायणः॥
प्रविष्ठमात्रे निलयं तस्मिंस्तमृषिसत्तमे॥१०५॥
दैवकारणसंयुक्तं तत्तु तद्रेतसाऽन्वितम्॥
अपिबद्धस्तिनी मूत्रं ततो गर्भमधत्तसा॥१०६॥
तस्य तद्वचनं श्रुत्वा राजा वचनमब्रवीत्॥
कथं करेणुस्तच्छुक्रंपीत्वा गर्भमधत्त सा॥१०७॥
को हेतु कारणं किं वा भगवन्धक्तुमर्हसि॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत्॥१०८॥
शृणु सर्वं महाराज शुक्रं पीतवती च सा॥
गर्भंदध्रे66 यदर्थं च सा भूदेवं हि हस्तिनी॥१०९॥
ब्रह्मणा विहिता मूर्ती रुचिरा नाम देवता॥
आदिकाले प्रजासर्गे67 विचिन्त्य भगवान्प्रभुः॥११०॥
देवानां मानुषाणां च गन्धर्वाणां व रक्षसाम्॥
गृहीत्वा सोसृजत्तेजः स्वयं स्वायंभुवामिव॥१११॥
तां दृष्ट्वा रुचिरां देवा ऋषयश्च तपोधनाः॥
इत्यूचुरमितं प्राप्य विस्मयं सर्वपारगाः॥११२॥
रूचिरेत्यभिविख्याता लोकेषु रुचिता68 त्रिषु॥
अचिन्तयित्वा सा देवान्प्रजापतिपुरोगमान्॥११३॥
यौवनस्यैवगर्वाद्वा केवलं लीलयाऽपि वा॥
तत्रैव मुनिभिः ख्यातैः69 कीर्त्यमाना ययौतदा॥११४॥
तां रुष्टो भगवान्ब्रह्मा शशाप बसुधाधिप॥
भविष्यसि करेणुस्त्वं कदाचिद्वसुधातले॥११५॥
मम शापवशात्प्राप्तिं ब्रूहि नाथ क्षितौ कदा॥
इत्युक्त्वा70 ब्रह्मणः सा तु पादयोरपतत्तदा॥११६॥
तमुवाचाश्रुपूर्णाक्षीं71 प्रमदां विमदां शुभाम्॥
करेणुभावो मेदिन्यां मतङ्गान्ते भविष्यति॥११७॥
प्रभूय भार्गवाख्याते वसुवंशे72 सुकन्यका॥
भविष्यसि73 तदा भद्रे पुनः शापमवाप्स्यसि॥११८॥
प्राप्तशापा वसुकुले जन्म कामयते यदा॥
उपायं चिन्तय74न्त्यत्र जन्मार्थे पश्चिमां गता॥११९॥
ततः शापाभिभूता सा प्रयाता सहसा भुवि॥
महर्षेर्भार्गवस्याथ मृगव्यालनिषेवितम्॥१२०॥
आश्रमं मुनिभिः श्रेष्ठैः शोभितं ब्रह्मनिःस्वनैः॥
ब्रह्मसमनिभं चित्रं सिद्धगन्धर्वसेवितम्॥१२१॥
शैलराजस्य पार्श्वस्थं मणिराजिविराजितम्॥
अप्सरोभिः समाकीर्ण किंनरोद्गीतिनादितम्॥१२२॥
आकुलं यज्ञधूमै75श्च स्वाध्यायैः76 स्वरसंयुतैः॥
पावकापीडसंकाशैरशोकस्तबकैरपि॥१२३॥
शोभितं वृक्षखण्डैश्च नीलधाराधरोपमैः॥
कमलोत्पलनद्धैश्च सरोभिरुपशोभितम्॥१२४॥
नानारूपैर्मुनिचयैः क्रतूनां शोभितं77 शुभम्न
ददर्श तत्र धीमन्तं पावकोपगतेजसम्॥१२५॥
सुवर्णस्तम्भवर्ष्माणं जटामुकुटधारिणम्78॥
तं मेरुशिखराकारं श्रिया विगतकल्मषम्॥१२६॥
उवाच रदतां श्रेष्ठं79 कृत्वा मूर्धनि साऽञ्जलिम्80॥
ऋषीणां भार्गव श्रेष्ठ क्रोधस्यान्तः कथं भवेत्॥१२७॥
इत्युक्त्वा ब्रह्मणस्तस्यसाऽपतत्पादयोस्तदा॥
सोऽब्रवीच्छोकसंतप्तामश्रुपूर्णायतेक्षणाम्॥१२८॥
मा भैषीः केन च81त्रस्ता कलुषा वा शुभानने॥
तामुवाच महाप्राज्ञो अवस्थां चिन्तयंस्तदा॥१२९॥
ददर्श सर्वं निर्वृक्तं दिव्यचक्षु (:) समन्वितः॥
वसूनामुत्तमे वंशे जननं ते भविष्यति॥१३०॥
तत्र वर्षसहस्रं तु नीत्वा शापमवाप्स्यसि॥
एतत्ते कथितं82 राजन्पुन83श्चैनन्निगद्यते॥१३१॥
गर्भं धत्ते पदर्थं तु साऽभूद्येन च हस्तिनी॥
वसूनां कन्यका राजन्नम्ना गुणवती किल॥१३२॥
देवगन्धर्वकन्याभिः सखीभिः सह शोभना॥
मातापितृमतेनैव विचचार महीतले॥१३३॥
दर्शनीयानि पश्यन्ती वनान्युपवनानि च॥
निर्झरान्सरितः शैलान्पुष्पवन्ति सरांसि व॥१३४॥
अथाऽऽश्रम मतङ्गस्य कदाचित्प्रविवेश सा॥
मनोहरत्वात्क्रीडन्ती विस्मृता84 तत्र85 सा सखी॥१३५॥
युक्ता दैवेन विधिनाविचरन्ती मतं स्रुताम्86 (?)॥
दृष्टा लक्षणसंपन्नां रूपयौवनशालिनीम्॥१३६॥
धर्मविघ्नकरीं मत्वा शक्रेण प्रेषितां स्वयम्॥
ततः शशाप संकुद्धोऽ*नागसां87 वसुकन्यकाम्॥१३७॥
अरण्ये विचरस्यैका यस्मान्मानुषवर्जिता88॥
तस्मादरण्यनिलया89 करेणुस्त्वं भविष्यसि॥१३८॥
मा भूदरण्यवासेऽपि(?) नाऽऽप्स्यसे90
स्वस्यचेतसः91 (?)॥
अथ शापभयत्रस्ता पादयोरपतन्मुनेः॥१३९॥
नापराधोऽस्ति मे ब्रह्मन्किमर्थं शप्तवानसि॥
ब्रह्मणो भवनाकारं सिद्धगन्धर्वसेविसम्॥१४०॥
परं विस्मयमागम्य राजा प्राञ्जलिरब्रवीत्॥
अपूर्वा भगवंश्चर्यामिमां श्रुत्वा तपोनिधे92॥१६९॥
जन्म चाद्यतव श्रुत्वा परं कौतूहलं हि मे॥
कथं भगवता चीर्ण वने सह मृगद्विपैः॥१७०॥
नदीनां पर्वतानां च समेषु विषमेषुच॥
काननेषु व रम्येषु हस्तियूथैः समं विभो॥ १७१॥
कालो वा कोऽप्यतिक्रान्तः प्रभिन्नैर्वरवारणैः॥
वने विचरतः सार्धं तप उग्रं च कुर्वतः॥१७२॥
एतदिच्छाम्यहं ज्ञातुं भगवंस्तद्ब्रवीहि मे॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत्॥१७३॥
शृणु सर्वं महाराज मया चीर्णं यथा वने॥
**हस्तियूथेन महता सार्धं धर्ममवेक्ष्य च॥१७४॥ **
कालश्चरति नो यावच्छीर्ण93पर्णाम्बुभोजिनः॥
श्रमद्भमरसंधेषु बहुपुष्पेषु शाखिषु94॥१७५॥
सहकारैः सतिलकैः पुंनागार्जुनकेसरैः॥
**अशोकैश्चम्पकैश्चापि95 कमलेन्दीवरैस्तथा॥१७६॥ **
शालतालतमालैश्च परिशोभितराजिषु॥
अतिमुक्तकनद्धेषु तरुखण्डेषु नित्यशः॥१७७॥
स्थितिर्मेवारणैः सार्धंसुष्ठुक्लान्ते नवे दिवा॥
प्रसन्नशीततोयेषु क्रीडता96 पद्मगन्धिषु॥१७८॥
सरस्सु कलभैः सार्धं पीतं च सलिलंमया॥
शाड्वलानि वनान्तेषु मणिवर्णानि भूमिप॥१७९॥
पुलिनानि नदीनां च पर्वतानां च सानुषु॥
निवातानिं प्रवातेषु वनानि चरितानि च॥१८०॥
सेविताः पादपाः फुल्ला मद97गन्धाधिवासिताः॥
**अकर्दमा वनोद्देशा वर्षास्वल्पद्रुमास्तथा॥१८१॥ **
सेविता वारणैः सार्धंस्थलप्रायाः सुखं मया॥
दश वर्षसहस्राणि दश वर्षशतानि च॥१८२॥
त्रीणि पञ्च च वर्षाणि मया चीर्णं सह द्विपैः॥
हृष्टेन मनसा राजन्मयाऽऽख्यातं ततो हितम्॥१८३॥
अथ संपूज्य तं राजा प्रसन्नमनसं मुनिम्॥
गजार्थेचोदयामास विनयेन कृताञ्जलिः॥१८४॥
केऽरण्ये98 व्याधयो नागानुंपघ्नन्ति स्पृशन्ति च॥
ग्रामाणां व्याधयोये च तान्ममाऽऽख्याहि पृच्छतः॥१८५॥
इत्युक्तो भूमिपालेन पालकाप्यस्ततो मुनिः॥
हेतुमत्पुष्कलार्थं च वाक्यं राजानमब्रवीत्॥१८६॥
वने निबोध मे हेतुमारोग्ये वनचारिणाम्॥
मधुगन्धिष्वरण्येषु करेणुसहिता गजाः॥१८७॥
चरन्ति विविधं शष्पं स्वच्छन्देन यथासुखम्॥
त्वग्वल्लीफलभङ्गां99श्चपल्लवान्विविधानपि॥१८८॥
कषायं कटुकं चैव तिक्तं लवणमेव च॥
अम्लं च मधुरं चैव रसानेतान्मतङ्गजाः॥१८९॥
यथर्तु चोपसेवन्ते प्रविभागेन पार्थिव॥
वर्जयन्ति ह्यरण्येषु वृक्षभङ्गं घनागमे॥१९०॥
हेमन्ते वापि मातङ्गा निदाघे भक्षयन्ति च॥
शल्लकीकर्णिकारं च कोविदारमुदुम्बरम्॥१९१॥
प्लक्षं न्यग्रोधवृक्षं च यवसं चोदकं तथा॥
वर्षास्वरण्ये सेवन्ते जाङ्गलं स्थलजं च तत्॥१९२॥
हेमन्ते स्थलजं चापि भक्षयन्ति मतङ्गजाः॥
ते स्वैरं तृणपुष्टास्तु स्वच्छन्दातपसेविनः॥१९३॥
मह्यांचैव मनोज्ञायां रमन्ते धेनुकासुताः॥
गच्छन्ति मैथुनं स्वैरं गर्भं चैवाऽऽदधत्यपि॥१९४॥
समे100ऽभिकामं चरतामुदकं पिबतां तथां॥
स्वयूथजातेः सार्धं च विहारमुपसेविनाम्॥१९५॥
**कामं च *सेव्यमानानां101 शय्यास्थानं तथाऽशनम्॥
- निर्वाणं102 पांशुघातं च परिव्यञ्जनमेव च॥१९६॥**
स्वप्नाज्जारणाच्चैव नव्याधिरुपजायते॥
तेऽरण्याद्ग्राममानीता भयशोकसमन्विताः103॥१९७॥
उद्विग्नावधबन्धाभ्यां शोचन्तो104 धेनुभिर्विना॥
तीक्ष्णाभिर्वाग्भिरुग्राभिस्तथैव भृशमर्दिताः॥१९८॥
अकामाशनयानैश्च योज्यमाना मतङ्गजाः॥
दुस्थान105शयनाभ्यां च कर्मभिश्चातिपीडिताः॥१९९॥
स्वयोनिभ्यो निरोधाय भवन्ति भृशमातुराः॥
साध्यैर्याप्यैस्त्वसाध्यैश्च व्याधिभिश्च शरीरजैः॥२००॥
ततोऽहमिह संप्राप्तस्त्वयाऽऽनीतेषु हस्तिषु॥
विज्ञप्तो गौरवैरर्थैस्तथैवा106ऽऽमन्त्रितस्त्वया॥२०१॥
बन्धुस्नेहाच्चनागानां त्वया दृष्टोऽस्मि107 पार्थिव॥
इति ब्रुवाणं तं विप्रंगजशास्त्रविशारदम्॥२०२॥
विज्ञायगोचरैरथैर्न्यमन्त्रयत सान्त्वयन्॥
मम त्वनुग्रहार्थं च108वासेऽस्मिन्क्रियतां मतिः॥२०३॥
ऋषिभिश्च स तैः सर्वैर्याच्यमानो नृपेण च॥
बन्धुस्नेहाच्चनागानां तत्र वासे मनो दधे॥२०४॥
आश्रमं कारयामास चम्पाभ्यासे च पार्थिवः109॥
अप्सरोभिः समाकीर्णं दंम्यमानगजाकुलम्॥२०५॥
वासाय कृतबुद्धिश्च मुनिमध्ये महामुनिः॥
वारणानां हितार्थाय राजा110नमिदमब्रवीत्॥२०६॥
अण्डे किल समुत्पना वारणाः111 पौर्वकालिकाः॥
तच्चाण्डं तैजसं प्रोक्तमतः क्रीडन्ति पांशुभिः॥२०७॥
मार्तण्डकायशकलैस्तदण्डमभवत्किल॥
तस्मादैरावतः श्रीमानुत्पन्नःप्रथमो गजः॥२०८॥
पुण्डरीकादयः पश्चात्कपालशकलेऽभवन्॥
तैजसींतनुमिच्छन्ति नागानां भूतचिन्तकाः॥२०९॥
तच्चाण्डमर्कतनुजैर्जातं तन्मयमेव च112॥
समानजन्मयोनित्वादिह तस्मान्मतङ्गजाः॥२१०॥
पांशुकर्दमतोयैश्च ततः क्रीडन्तिहर्षिताः॥
धातुप्रसादं113 क्षिप्रं तु क्रीडतां जायतेऽधिकम्॥२११॥
धातुप्रसादादारोग्यमारोग्याद्बलमेव च
बलाच्चसर्वरोगाणां निवृत्तिः स्यादतः परम्॥२१२॥
विशेषेण रणे तस्माद्गजस्कन्धहता नराः॥
निर्मलाः स्वर्गमायान्ति येऽपि स्युः पापयोनयः॥२१३॥
जन्मप्रभृति संतप्ता भास्करस्यापि तेजसा॥
अतः सलिलमिच्छन्ति दह्यमाना मुहुर्मुहुः॥२१४॥
हस्तिनामुदकं प्राणास्तद्गतिस्तत्परायणाः॥
तस्मात्सलिलमेतेषां कामतोऽनुप्रसादयेत्114॥२१५॥
आयोजनशतं सार्धंविचरन्तोऽपि कुञ्जराः॥
निर्वहन्ति115 न सीदन्ति सलिलेनैव केवलम्॥२१६॥
यदा न परिषिच्यन्ते कर्दमो116दकशीकरैः॥
भवन्ति कुष्ठिनोऽन्धाश्च हस्तिनस्तेन हेतुना॥२१७॥
सूर्यस्याण्डकपाले द्वे समानीय प्रजापतिः॥
हस्ताभ्यां परिगृह्याऽऽदौ सप्त सामान्यगायत॥२१८॥
गायतो ब्रह्मणस्तस्य समुत्पन्ना मतङ्गजाः॥
तस्माद्धितार्थं देवानां यज्ञानां रक्षणाय च॥२१९॥
ततो निमित्तं नागानां सृष्टिर्धर्मात्मिका स्मृता॥
निबन्ध्या117स्तावदेवैते यावच्छक्यास्तु पोषितुम्118॥२२०॥
वधबन्धपरिक्लेशैर्ये तु ताम्यन्ति नित्यशः॥
न च पुष्यन्ति मातङ्गा दुःखशोकसमन्विताः॥२२१॥
कुलं राज्ञो दहन्त्येते मानिता निर्दहन्त्यरीन्॥
तस्मात्प्रयत्नःकर्तव्योग्रहणे पोषणे सदा॥२२२॥
राज्ञां हि विजयो नित्यं वारणेषु प्रतिष्ठितः119॥
अस्नातपीतभुक्तेषु वारणेषु नराधिपः॥२२३॥
ने स्नानभोजने कुर्याद्यदीच्छेद्गतिमात्मनः॥
नवग्रहे च मातङ्गे क्षीणे वृद्धे तथाऽऽतुरे॥२२४॥
यत्नतो रक्षणं कुर्यात्स्वयमन्वेषणं तथा॥
अन्नपानैश्च विविधैर्विचित्रैर्यवसैरपि॥२२५॥
**स्थानेषु तु विचित्रेषु योज्यमानास्त्वयागजाः॥
निर्वृत्ताश्च120भविष्यन्ति सुखं प्राप्स्यन्ति च क्रियाम्॥२२६॥
भविष्यन्ति च ते नित्यं युद्धेषु विजयावहाः॥
तस्मादिह महीपाल कुरु हस्तिषु मन्मतम्॥२२७॥
विधा121प्रतिविधा122नैश्च यवसैः पल्लवैरपि॥
मच्छास्त्रेवर्तमानस्य बलवन्तो निरामयाः॥२२८॥
दीर्घमायुरवाप्स्यन्ति गजास्तव विशां पते॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेनप्रचोदितः॥२२९॥
इति पुरुषवराय सम्यगाह
मुनिगणमध्यगतः स चाऽऽत्मनः स्वरूपम्॥
वदन्ति मुनयो123 वरं स्वजन्म
नाम श्रुतमखिलं च संगतिम्॥
इति श्रीपालकाप्ये हस्त्यायुर्वेद124महाप्रवचने महारोगस्थानेवनानुचरितो नाम प्रथमोऽध्यायः॥१॥
_______________
अथ द्वितीयोऽध्यायः ।
________________
अङ्गो125 हि राजा चम्पायां पालकाप्यं स्म पृच्छति॥
अरण्येषु126 चिता नागास्तृणौषधिफलाशनाः॥१॥
वल्लीमूलत्वगाहारा127 भक्षयन्ति कडंगरान्॥
स्वच्छन्दतः पांशुघाता128न्निषेवन्तश्च कर्दमान्॥२॥
सेव्यमानाश्चसलिलं प्रकर्षन्तश्च पद्मिनीम्129॥
वृक्ष130भङ्गान्निषेवन्ते सहिताश्च करेणुभिः॥३॥
सुखाहाप्रचारा131स्तान्वनवाससुखोचितान्॥
अरण्याद्धाममानीतान्कथं सम्पगुपाचरेत्॥४॥
भोजनैरसपानैश्च यवसेनोदकेन च॥
कथं न जायते व्याधिरिति भुक्तेन दन्तिनाम्॥५॥
एतन्मे पृच्छतो ब्रूहि गजानां कुशलो ह्यसि॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत्॥६॥
बद्धाः सन्तस्तु मातङ्गा वने स्वैरसुखोचिताः॥
अपि दीर्घायुषो भू132त्वा दुःखैः शरीरमानसैः॥७॥
न सर्व एव राजेन्द्र प्राणान्धारयितुं क्षमाः॥
या वने निर्वृतिस्तेषां सा पुनर्जन्मनामसौ॥८॥
न जातिजं नान्वयजं न प्रचारवनोद्भवम्॥
लक्षणं महदल्पं वा शुद्धं संकीर्णमेत्य च॥९॥
आघातवधबन्धेभ्यः प्राणान्धारयितुं क्षमाः॥
तस्माद्वैद्यैर्महामात्रैर्यथाशास्त्रोपचारतः॥१०॥
बन्धने प्राणसंदेहे परिरक्ष्याः133 प्रयत्नतः॥
राज्ञा चैषां च कर्तव्यो दयापूर्वमनुग्रहः॥११॥
उचितो वनवासे यस्तस्यालाभेन दन्तिनाम्॥
दोषाः कुप्यन्त्यसात्म्यत्वादपूर्वस्येह भोजनात्॥१२॥
पुष्कलां वा विधां लब्ध्वा पुनस्तान्नलभन्ति चेत्॥
लाभालाभेन नागानामयोगाच्चमहीपते॥१३॥
अभोजनादत्यशनाद्दुस्थान105शयनादपि॥
अकामाश134नपानाच्चबन्धेन च वधेन च॥१४॥
लवणस्यातियोगाच्च तथा ह्यलवणेन च॥
एतैस्तु रोगा जायन्ते दोषकोपसमुद्भवाः॥१५॥
वातिकाः पैत्तिकाश्चैव श्लैष्मिकाः135 सांनिपातिकाः॥
तस्मादरण्यादानीतान्नगान्सम्यगुपाचरेत्॥१६॥
खरैरुष्ट्रैर्मनुष्यैश्च वाहयेदुदकं नृपः136॥
द्रोणीभिश्चक्रयुक्ताभिः पाययेच्चमतङ्गजान्॥१७॥
जलयप्रैश्च शीतेन जलेन परिषेचयेत्॥
आकर्णमूलात्सलिलैः137प्रात138रेतान्प्रवेशयेत्॥१८॥
शीतसात्म्यतया नित्यमेते हि वनजं मुखम्॥
न स्मरन्ति महाराज ग्लान्यादिश्चोपशाम्यति॥१९॥
दिवाऽर्धप्रहरे शेषे मृदुभूते दिवाकरे॥
तस्मादुत्तार्य सलिलाद्यत्नैरुत्तारयेद्रजान्॥२०॥
ततः स्तम्भ139निबद्धानां शतधौतेन सर्पिषा॥
सर्वसेकः प्रदातव्यो वारणानां नराधिप॥२१॥
दिनान्ते140 त्वरितं दद्यात्सर्पिषा सह यावकान्॥
वर्जयित्वा शरद्ग्रीष्मौसेकांस्त्रीेन्सार्वकालिकान्॥२२॥
ऊर्ध्वं कृताभिषेकेभ्यो दद्याद्यावदभीप्सितम्॥
गजस्योक्तेन विधिना सेकांस्तैलेन पाक्षिकान्॥२३॥
कालेन141यन्ता नागस्य हरेदम्बु शनैः शनैः॥
निरुद्धां142श्च ततो नागान्स्थापयेद्वसुधातले॥२४॥
नीरुजं तु ततो नागं वैद्यः सम्यगुपाचरेत्॥
यथा दोषा न कुप्यन्ति तथा तेषां विशेषतः॥२५॥
वक्ष्यते143 हि यथा तेषां ग्रहणी दीप्तिमाप्नुयात्॥
कडंगरैर्वेणुभागैः पल्लवैर्यवसैस्तथा॥२६॥
मृणालेक्षुविशेषै144श्च तथाऽन्यैर्मधुरैरपि145॥
ग्रहणीमुचितामेतै146र्निरुणद्धि न मारुतः॥२७॥
यथाऽग्निवर्ष्मवयसां योगवित्समुपाचरेत्॥
शय्यायां तु यदा गच्छेत्सुखंनिद्रां मतङ्गजः॥२८॥
तदा तस्मै प्रदातव्या147 गुडमिश्रास्तु तन्दुलाः॥
पलं पलं वर्धयेत148 यावञ्चकुडवो भवेत्॥२९॥
ततो द्विगुणिता वृद्धिस्तन्दुलानां गुडस्य च॥
अतस्त्रिगुणितं देयं दद्याद्वाऽपि चतुर्गुणम्॥३०॥
अनेन149 क्रमयोगेन वर्धयेदासमाप्तितः॥
तन्दुलान्गुडसंयुक्तानुपनाह्यप्रदापयेत्॥
तेनास्य दीप्यते वह्निर्बलं तेजश्चजायते॥३१॥
तन्दुलाल्ँलवणं चैव उपनाह्यप्रदापयेत्॥
एतेन वर्धते वह्निर्बलं तेजश्च जायते॥३२॥
तन्दुलोन्मूत्र150संसृष्टानुपनाह्य151प्रदापयेत्॥
एतेन वायुर्ग्रहणीमुचितां निरुणद्धि न॥३३॥
कुल्माषमेदकं चैव गुडयुक्तं प्रदापयेत्॥
एतेन दीप्यतेऽस्याग्निर्बलं तेजश्च वर्धते॥३४॥
ग्रहणी152 वर्धते तेन न च वायुः प्रबाधते153॥
ओदनं चापि युक्तिज्ञः क्रमशो दापयेद्भिषक्॥३५॥
चतुर्भागं तथाऽर्धं च पादहीनं तथा समम्॥
क्रमेणानेन नागानां सर्वद्रव्याणि दापयेत्॥३६॥
घृतस्निग्धं गुडयुतं प्रातर्भुञ्जीत वारणः॥
सायं लवणतैलाभ्यां यथाकालमवेक्ष्य च॥३७॥
दद्यात्पोनीय154पीताय विदाहः स्यादतोऽन्यथा॥
गोमूत्रक्षीरमद्यानि155दीपनीयानि यानि च॥३८॥
दधि सौवीरकं चैव मेदकं च महीपते॥
अपीता156याम्बु देयानि श्लेष्मा कुप्येत्ततोऽन्यथा॥३९॥
मध्यंदिने तु सगुढं सक्तु द्रोणेन संमितम्॥
उदमन्थं पिबेद्ग्रीष्मे रात्रिपर्युषिते जले॥४०॥
काले जलावगाहं च यथार्तु157 समुपाचरेत्॥
यदा स्थिराग्निःसंपन्नः सुविशुद्धमुखो गजः॥४१॥
अकाशाशनपानेषु प्रज्ञप्तो विधिवद्भवेत्॥
प्रकृतिं चास्य विज्ञाय यथार्तु स्नेहमाचरेत् ॥ ४२ ॥
विधानं वाऽस्य कार्त्स्त्रेन स्नेहदाने प्रवक्ष्यते158 ॥
परमाणु(:) सुसूक्ष्मानुभावग्राह्यो न चक्षुषा॥
यदभेद्यतमं159 लोके परमाणुः स उच्यते ॥ ४३ ॥
जालान्तरगते भानौ यदणीयो रजो भवेत् ॥
तस्यत्रिंशत्तमो भागः परमाणुः स उच्यते ॥ ४४ ॥
त्रसरेणुः स विज्ञेयः परमाण्वष्टभिर्मतः॥
त्रसरेण्वष्टकं160 चापि रथरेणुरुदाहृतः ॥ ४५ ॥
रथ161रेण्वष्टकं वापि वालाग्रं समुदाहृतम्॥
वालाग्रकोटपश्चाष्टौ लिक्षा162 सा समुदाहृता ॥ ४६ ॥
लिक्षा163भिरष्टभिर्यूका164 यूकास्त्वष्टौ यवो मतः ॥
अङ्गुलं स्याद्यवाश्चाष्टौ पादोऽरत्नेः165 षडङ्गुलैः ॥ ४७ ॥
चतुर्विंशाङ्गुलोऽरत्निर्वितस्तिर्द्वादशाङ्गुलः ॥
द्वौ विर्तस्ती166 भवेत्किष्कुर्द्वौकिष्कू धनुरुच्यते ॥ ४८॥
*धनुः167 कोशः168 सहस्रं तु गव्यूतिर्द्विगुणं स्मृतम्॥
गव्यूतानि तु चत्वारि योजनं कर्म यौगिकम् ॥ ४९ ॥
एतया संख्यया नागान्मापयेद्भिषजां वर(:)॥
हस्त्यागाराणि169 वारीश्च170 गजदन्तांश्च कल्पयेत् ॥ ५० ॥
गजानां विनयार्थं171 चया172 क्रिया समुदाहृता॥
प्रमाणमेतद्विहितं सर्वैस्तु नयकोविदैः ॥ ५१॥
सचूलिकाफलान्यष्टौ सर्षपं स्यात्प्रमाणतः॥
यवः स्यात्सर्षपास्त्वष्टौ चत्वारः काकिनी यवाः ॥ ५२ ॥
माषश्चतस्रः काकिन्यश्चतुर्माषैस्तु शाणकः॥
सुवर्णस्तु चतुःशाणः पलं स्यात्तु चतुर्गुणम् ॥५३॥
चतुष्पलस्तु कुडवः प्रस्थः स्यात्तच्चतुर्गुणः॥
आढकं ते तु चत्वारो द्रोणः173 स्पाच्चतुराढकः॥५४॥
मानिका स्याच्चतुर्द्रोणा खारी स्यात्तच्चतुर्गुणा॥
विशेषेण प्रवक्ष्यामि रसानां शृणु पाथिव॥
पञ्चकौडविकं प्रस्थं रसानामिति निर्दिशेत्॥५५॥
यदन्तरिक्षात्स्त्रवति पर्वताद्वा जलं पुनः॥
अर्धत्रयोदशपलं तोपप्रस्थं विनिर्दिशेत्॥५६॥
स्नेहं भक्तं व नागानां विधिज्ञस्तेन दापयेत्॥
एतत्प्रमाणमाख्यातं कृत्स्त्रमानस्य भूमिप॥५७॥
नवारत्न्युच्छ्रितो नागस्तथैवैकादशायतः॥
*नाह174तो द्वादश तथा सोऽत्यराल इति स्मृतः॥५८॥
अष्टारत्निर्दशायामस्त्वेकादश च नाहतः॥
अराल इति विज्ञेयो न स कर्मसुपूजितः॥५९॥
अत्युच्छ्रितत्वाद्द्वावेतौ ग्रहणे परिवर्जितौ॥
वारणौ नृपशार्दूल नयशिक्षाविशारदैः॥६०॥
सप्तोत्सेधो नवा175यामो दश यः परिणाहतः॥
सप्तद्रोणात्स भोज्यःस्याद्यथाग्न्यपि च युक्तितः॥६१॥
आयामेऽष्टी षडुत्सेधो176 नवारत्निश्च नाहतः॥
षड्द्रोणानि स भोज्यः स्यादग्नियुक्तो मतङ्गजः॥६२॥
पञ्चोच्छ्रितोऽष्टौ नाहेन सप्त चाप्यायतस्तु यः॥
पञ्च द्रोणानि भोज्यः स्याद्यथाग्न्यपि च युक्तितः॥६३॥
चतुरुच्च177पढायामः सप्तारमिश्च नाहतः॥
चतुर्द्रोणं तु तस्यापि भोजने विहितं नृप॥६४॥
एतां मात्रां178 समं जागं यथावद्भोजयेद्विषक्॥
त्र्यरत्निश्चैव योनागो द्यरत्निश्चैव यो भवेत्॥
त्रीणि द्वे युक्तितो नागं द्रोणान्याहारयेद्भिषक्॥६५॥
यावन्तोऽरमयस्तूर्ध्वं कुञ्जरे स्युः प्रमाणतः॥
द्रोणानि भोज्यास्तावन्ति द्रोणाख्यं विद्धचरत्नितः॥६६॥
मधुरंलवणं चाऽऽम्लं कषायं रसमेव च॥
दद्याद्द्विपलिकारत्निनागस्य प्रथमे विधौ ॥ ६७॥
कर्षश्च कटुकस्याथ तिक्तस्यच कर्षद्वयम्॥
भागवृद्ध्या क्रमः कार्यो यावत्सम्यक्प्रतिष्ठिताः ॥ ६८ ॥
स्थिरसात्म्यस्य नागस्य सुविशुद्धमुखस्य च॥
पलानि षष्टिर्मधुरः पिण्डः स्यात्परिमाणतः ॥ ६९ ॥
तिक्त179स्य सततोऽर्धं स्यात्ततोऽर्धंकटुकस्य च ॥
कषायस्य ततः षष्टिस्तथैव लवणाम्लयोः ॥ ७० ॥
यथा180क्रमं पलानि स्युः सप्तारत्निप्रमाणतः॥
मात्रया *हीनता181 द्रव्यं विकारं न निवर्तयेत् ॥ ७१ ॥
मात्रायाश्चातियोगेन व्यापत्संजायते भृशम्॥
बलिने182 भेषजं क्षुण्णं प्रदेयं कवलीकृतम् ॥ ७२ ॥
तथैव रोगक्लिष्टेभ्यःक्वथितं भेषजं भवेत्॥
आर्द्रस्य भेषजस्यैतत्प्रमाणं परिकीर्तितम्॥ ७३
शुष्कस्यद्विगुणा वृद्धिर्यवसस्यापि भूमि183प ॥
हस्तिनीष्वेवमेव स्याद्यथा नाग्नेषु कीर्तितम् ॥ ७४
मध्यमस्य प्रमाणेन चोत्तमा184 हस्तिनी भवेत्॥
अजस्रं हस्तिनो भक्ष्यं भक्षयन्ति यतस्ततः ॥ ७५
उभयोः कालयोस्तस्माद्भैषज्यं दापयेद्भिषक्॥
पेष्याणां185 विंशतिपलद्रव्याणां द्रोणसंख्यया॥ ७६ ॥
क्थाथानां186चतुर्गुणा वृद्धिर्द्रोणं त्वाढकसंमितम् ॥
प्रतिवापश्च पेष्याणां द्रव्याणामष्टभागवान् ॥ ७७ ॥
स्नेहप्रमाणं द्रोणं तु मितमर्ध187ाढकं भवेत्॥
षड्ङ्गं प्रतिपाने च मेदकेष्वेतदेव च॥७८॥
एतदेव प्रमाणं तु नागानामनुवासने॥
एतदेवानुभक्ते स्याद्द्विगुणौदकतैलके ॥ ७९ ॥
निरूहाणां तु संयोगे द्रोणो द्विकुडवो भवेत्॥
चूर्णार्ध188कुडवो द्रोणे संयोगार्धं विधीयते॥८०॥
अनुवासनया189 मात्रा सा देया सर्वसेचने॥
स्थादरत्नेर्दशपलागैरिकस्यानुषेचने॥८१॥
तुला पलशतं भागे विंशतिः सा प्रमाणतः॥
सममेतेन यवसं भारःस्याद्रोणसंख्यया॥८२॥
आर्द्रस्य यवसस्यैतत्प्रमाणं समुदाहृतम्॥
शुष्काणां चलघूनां च वृक्षाणां च महीपते॥८३॥
ततः स्याद्द्विगुणो भागो ये चान्ये लघवो द्रुमाः॥
गर्भितानां पुनर्विद्धि त्रिभागोनं प्रदापयेत्॥८४॥
फलितानां तृणानां तु अर्धभागं प्रदापयेत्॥
गात्रसेके च तैलस्य द्रोणो190 द्विकुडवं भवेत्॥८५॥
तथैवोत्तरपानेषु द्रोणे स्यात्प्रस्थसंस्थितम्॥
भवेत्कौडविकारेत्रिर्नाग191स्योत्तरबस्तिषु॥८६॥
श्रोतसोः कटयोश्चैव कुडवः192कुडवः पृथक्॥
अनुषेके च तैलस्य द्रोणे द्वे कुडवं भवेत्॥८७॥
मेषीचूर्णार्धकुडवं घृतस्य कुडवं तथा॥
शिरसो म्रक्षणे दद्यात्कृतोपशमने हितम्॥८८॥
उत्कृष्टक्षयभागेषु कुडवार्धंविधीयते॥
दीपतैले च कुडवं प्रमाणे विद्धि पार्थिव॥८९॥
अण्डकोशशि193रोभ्यङ्गे कुडवं च प्रमाणतः॥
योगाद्विगुणमेवाऽऽहुः सर्पिः क्षीरं प्रमाणतः॥९०॥
द्रोणे दशपलं ज्ञेयं गुडस्य194 लवणस्य च॥
भुक्तस्नेहप्रमाणेन मूत्रसौधीरके तथा॥९१॥
मूत्रं सौवीरकादर्धं मात्रायोगं प्रदापयेत्॥
दधिमेकदुग्धानां मद्यस्य च नराधिप॥९२॥
द्रोणं प्रमाणतो ज्ञेयं द्व्याढकं तु तथैव च॥
मृगाणां महिषादीनां जाङ्गलोदकपक्षिणाम्॥९३॥
पलान्मासस्यपञ्चाशज्ज्ञेयानिद्रोणसंख्यया॥
स्नेहस्य कुडवश्चात्र दध्नश्चार्धाढकं भवेत्॥९४॥
द्रोण195त्रिकटुकस्यापि रससंस्कारतः पलम्॥
दध्ना पललसंयुक्तंगुडपिण्डसमं घृतम्॥९५॥
पूर्वाह्नेभोजयेन्नागं प्रतिपीतमतन्द्रितः॥
भुक्त्वा तौ नु196 पिबेद्वाऽपि पीत्वा भुञ्जीत वा रसम्॥९६॥
मांसस्नेहरसैर्युक्तं सायाह्ने भोजयेत्ततः॥
निष्पावमात्रो197 नागानां कस्कस्तीक्ष्णाञ्जनस्य च॥९७॥
अध्यर्धं मध्यमस्यापि मृदुनो द्विगुणं भवेत्॥
कल्काञ्जनात्पादहीनं ज्ञेयं चूर्णाञ्जनं नृप॥९८॥
भेषजानां दशपलं द्रोणं चूर्णस्य दापयेत्॥
पलानि विंशतिं चैव चत्वारि च नराधिप॥९९॥
रसप्रस्थस्तु विज्ञेयो भिषजान्नावचारणे॥
माषाणां द्वादश द्रोणीं तुलामारोप्य धारयेत्॥१००॥
सममेतेन यवसो भारः स्याद्द्रोणसंख्यया॥
अतः परं तु गतयः प्रवक्ष्यन्ते198यथाबलम्॥१०१॥
श्रेष्ठमध्यजघन्यानां199गजानामनुपूर्वशः॥
परं तु विद्यादध्वानं श्रेष्ठस्य दशयोजनम्॥१०२॥
मध्यमस्य परं विधादध्वानं सप्तयोजनम्॥
परं जघन्यस्य पुनः पञ्चयोजनमुच्यते॥१०३॥
विनीतानां यथाशास्त्रंगतयश्चैव पार्थिव॥
सप्त पञ्च च चत्वारि विनीता या हि धेनुकाः॥१०४॥
एतद्विधा प्रमाणं स्यान्मानोन्मानं च हस्तिनाम्॥
क्रमयोगात्क्रियायुक्त्या*ऋतुयोगास्तथैवच200॥१०५॥
सत्त्वप्रकृतिसात्म्यानां विशेषो वयसस्तथा॥
परिवारेण कार्त्स्न्येन वक्ष्यते राजसत्तम॥ १०६॥
यः प्रमाणं न जानाति मानोन्मानं च तत्वतः॥
वयःप्रकृतिसात्म्यानां कर्मणां च यथातथम्॥१०७॥
विधाया यवसस्यापि स्नेहादीनां तथैव च॥
अभ्यञ्जनाञ्जनादीनामज्ञःकर्मसु मुह्यति॥१०८॥
मानोन्मानप्रमाणानां विज्ञाता श्रेष्ठ उच्यते॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि॥१०९॥३३८॥
** इति श्रीपालकाप्ये इस्त्यायुर्वेदमहाप्रवचने महारोगस्थानेऽन्नसमाचारो नाम द्वितीयोऽध्यायः॥२॥**
__________________________
** अथ तृतीयोऽध्यायः।**
** __________________**
अङ्गोहि राजा चम्पायां पालकाप्यमुपस्थितम्201॥
कृताञ्जलिरिदं वाक्यमब्रवीद्वदतां वरः॥१॥
भगवन्गुणमाहात्म्यं सर्वं तव तपोमयम्॥
मातुश्च सव दिव्यत्वं पितुश्च विपुला गुणाः॥२॥
कथितं भवतः202 सर्वमेतदेवमशेषतः॥
विस्मिते203नाग्निवेशेन गौतमेन तथर्षिभिः204॥३॥
यथा त्वं पवनाहारः शीर्णपर्णाम्बुभोजनः॥
वने विचेरिवा205न्सार्धं प्रभिन्नैर्वरवारणैः॥४॥
अतस्त्वां विनयाधानादिमं पृच्छामि हस्तिषु॥
त्वं हि तेषां विजानासि सहवासेन चेष्टितम्॥५॥
पृथिव्यां वननागानां किं त्वमेकश्चिकित्सकः॥
अथान्येऽपि चिकित्सन्ति त्वत्समा वारणान्वने॥६॥
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः॥
न स्पृशन्ति वने रोगास्त्रिस्थूणप्रभवा गजान्॥७॥
+व206नात्ते207ऽत्र समानीताः208प्रांजनैरङ्कुशैरपि॥
वधबन्धपरिक्लिष्टाश्चिन्तयन्तो वनानि च॥८॥
रोगास्तानसंश्रन्तीह सागरं सरितो यथा॥
वनेषु चरतां तेषां न भवन्त्यामया नृप॥९॥
केवलंपञ्चदश च वने मरणहेतवः॥
ये मया बहुशो दृष्टाश्चरता सह हस्तिभिः॥१०॥
गजानां विविधैर्द्रव्यैर्ये चाप्यागन्तवो व्रणाः॥
न भवन्ति बने सौख्यात्कामतश्छन्दतः सदा॥१२॥
तत्र शृणु महाराज हेतून्मृत्युषु हस्तिनाम्॥
पर्वतात्पतनं पङ्को विषवल्ली जराऽनलः॥१२॥
कूपः प्रतिगजो ग्राहो विद्युल्लब्धो भुजंगमः॥
अलद्रुमस्तथा व्याडो बाल्ये मातुर्विवर्जनम्॥१३॥
दशभिः पञ्चभिश्चैव हेतुभिर्वारणा बने॥
म्रियन्ते न हि नागानां त्रिस्थूणाज्जायते त्रयम्॥१४॥
अङ्गराजस्ततो भूयः पालकाप्यं तु विस्मितः॥
वचनं प्रत्युवाचेदं शिष्यभावादशङ्कितः॥१५॥
**भगवान्किं वनस्थानां न सन्ति पवनादयः॥
नागानां त्रिविधा दोषा न चैते सप्तधातवः ॥१६ ॥ **
ततः प्रोवाच भगवानुत्तरं विदितोत्तरः॥
पालकाप्यस्ततो दृष्ट्वा सहवासं च हस्तिनाम्॥१७॥
सात्म्यं नाम महाराज यथैवाऽऽत्मा तथा स्मृतम्॥
तत्तेऽहं संप्रवक्ष्यामि सह तैरात्मनो गुणैः॥१८॥
तत्तु जन्मसमाचारैः प्रहृष्टेन्द्रियमानसैः ॥
न दूषयति वातादीन्दोषान्सतत सेवया॥१९॥
**ते चादुष्टा न रोगाय भवन्ति वनहस्तिनाम्॥
आहाराचार209योगो हि सात्मीभूतो गुणावहः॥२०॥
**
तत्राऽऽहारात्मकं सात्म्यं वृक्षभङ्गास्तृणानि च॥
त्वग्मूलं पादपानां च बाल्यै मातुः पयो जलम्॥२१॥
एतदाहारजं सात्म्यं प्रोच्यते वनहस्तिनाम्॥
जलपांशुप्रमाथीनां शयनस्थानकर्मणाम्॥२२॥
विहाराहारचेष्टानां स्ववशेनोपसेविनाम्॥
एतदाचार210जं सात्म्यं प्रोच्यते वनहस्तिनाम्॥२३॥
श्रुत्वा चेदं ततो वाक्यं पुनः प्रोवाच पार्थिवः॥
यद्येते तृणमात्रेण भगवन्सुखिनो गजाः॥२४॥
हन्त तेनैव पुष्यन्तां तद्धि तेषां सुखावहम्॥
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः॥२५॥
अनुनेतुं नरपतिं हेतुभिः स्पष्टलक्षणैः॥
न संशयस्तृणप्राणास्तृणसात्म्यास्तृणप्रियाः॥२६॥
मृगाः सर्वे वनचरा विशेषेण तु हस्तिनः॥
कारणेन च येनैषां केवलं211 न तृणं हितम्॥२७॥
शेषा212श्च वनजा भक्ष्या ग्राम्याणां213 तन्निबोध मे॥
निरवग्रहता राजन्दन्तिनां परमं सुखम्॥२८॥
ये च तस्या214 गुणास्तेषां तन्मे निगदतः शृणु॥
यदीहते215 तत्कुरुते सर्वमन्यन्मतङ्गजः॥२९॥
विहाराहारचेष्टासु स्वतन्त्रो निरवग्रहः॥
तस्याभिप्रायसंवृत्तेः प्रीतिः प्रीतेर्ध्रुवं बलम्॥३०॥
बलिनो दीप्यते216ऽस्याग्निर्दीप्ताप्ताग्नेर्धातवः समाः॥
धातु217सात्म्याच्च रोगाणां सर्वेषामपकर्षणम्॥३१॥
गजानामुदकं राजन्प्राणानाहुर्मनीषिणः॥
विशेषेण तु नागानां प्रायेण जलमौषधम्॥३२॥
अतो वनगजा218 राजन्नष्टरोगास्तृणोदकैः॥
एतत्सर्वं विपर्य219स्तमाहाराचारकर्मसु॥३३॥
ग्राममानीतमात्राणां जायते वनहस्तिनाम्॥
ततः स्वच्छन्दचेष्टानां निवृत्त्या तप्यते220 मनः॥३४॥
वर्धते च मनोदुःखं न बलं नाग्निजं बलम्॥
तेषामग्निप्रहीणानामसात्म्यस्य च भोजनात्॥३५॥
जायन्ते धातुवैषम्याद्विकारा दोषसंभवाः॥
तेषां तु वधबन्धास्यां लाभालाभाञ्च भोजनात्॥३६॥
अशय्यादुःखशय्याभ्यां धेनुकानां च वर्जनात्॥
प्ररोधात्सततं स्थानात्कामाचार221निवारणात्॥३७॥
ग्रामवासेऽप्यनुद्विग्नास्तेऽप्यरोगा मतङ्गजाः॥
अयं तु सुमहान्हेतुर्गजानां वनवासिनाम्॥३८॥
आरोग्ये चाप्रमोदे चतृणैरेव बलार्जने॥
आदिसर्गेहि करिणः स्वयं प्रोक्ताः स्वयंभुवा॥३९॥
देवानां वाहनार्थायः वारणाः प्रतिगच्छत॥
वृक्षभङ्गतृणाहारा बलवन्तो निरामयाः॥४०॥
विचरिष्यथ रम्येषु वनेष्विति महात्मना॥
स वरो ब्रह्मणा दत्तो देवप्रीत्या महीपते॥
वर्तते च न रोगेषु वत्स्यत्यपि च नित्यशः॥४१॥
तत्र श्लोकाः—
अथ तु वनरतानां पोतकापोतिकानां
रतिकरकलभानां धेनुकानां तथैव॥
श्रमगुरुनयनानां कामिनीनां द्विधाऽपि
श्रपति वनचराणां नैव कार्श्यंगजानाम्॥४२॥
बहुलकमलखण्डेष्वाढ्यतोयेषु नागा
विपुलतरुलताभिर्गुढतीरेषु चैव॥
कुमुदकुवलयाद्यैर्भूषितामेषु (?)राज-
न्सुखतरमवगाह्य श्लिष्टमांसा भवन्ति॥४३॥
न रसधृतगुणैर्वा भोजनानां गुणैर्वा
गुडलवणगुणैर्वा पुष्टिमिच्छन्त्यरण्ये॥
अथ वनमृगतीक्ष्णैर्नादिता नागसिंहा
वनगुणफलपुष्पैः पुष्टदेहा222 नरेन्द्र॥४४॥३८२॥
अविपिननिजकुञ्जाकर्षिता रोगयुक्ताः
पुनरपि निरुजस्ते सिद्धसंघोपदेशात्॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने (सात्म्या)सात्म्यविनिश्चयो नाम तृतीयोऽध्यायः॥३॥
** _________________**
अथ चतुर्थोऽध्यायः।
** _______________**
अङ्गाधिपतिरेकाग्रं महर्षिममितौजसम्॥
हस्तिशालासमासीनं पालकाप्यं स्म पृच्छति॥१॥
भगवन्यत्त्वयाप्रोक्तं निखिलं सात्म्यनिश्चयम्॥
जायन्ते दन्तिनां रोगा ह्यसात्म्यादिति निश्चितम्॥२॥
तेषां तत्त्वेन विज्ञातुंपरिमाणं महामुने॥
अहमिच्छामि धर्मज्ञ व्याधीनामखिलेन हि॥३॥
अध्यायानां तथा तेषां परिमाणं च वेदितुम्॥
ये चाप्यागन्तवो रोमास्तथा ये चापि मानसाः॥४॥
तेषां तत्त्वेन विज्ञानं भगवन्वक्तुमर्हसि॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत्॥५॥
संग्रहं शृणु मे राजन्नस्प शास्त्रस्य तत्वतः॥
रोगाणां चैवसर्वेषामध्याया ये च संख्यया॥६॥
स्थानानि च यथा विद्या223द्विभक्तान (न्य)नुपूर्वशः॥
वारणानां चिकित्सार्थं शृणु मे सर्वमेव तत्॥७॥
वनानुचरितोऽध्यायः प्रथमस्तत्र संख्यया॥
द्वितीयोऽन्नसमाचारस्तृतीयः सात्म्यनिश्चयः॥८॥
चतुर्थः संग्रहाध्यायःशास्त्रस्यास्यविनिश्चयः॥
गजरक्षणविन्यासः शिष्योपनयनं ततः॥९॥
तथा रोगविभक्तिः224 स्याज्ज्वरोत्पत्तिरतः परम्॥
*पालका225स्तु ततो ज्ञेया दश तान्नामतः शृणु॥१०॥
शुद्धो बालश्च विज्ञेयस्तृतीयश्चापि पक्कलः॥
मृदुग्रहश्चतुर्थश्च पञ्चमः कुक्कुटः स्मृतः॥११॥
षष्ठं तु तं विजानीयादेकाङ्गग्रह226संज्ञितम्॥
प्रसुप्तः सप्तमो ज्ञेयः227 कूटश्चाप्यष्टमो भवेत्॥१२॥
नवमः पुण्डरीकाख्यों महापालक एव च॥
दशमः परिसंख्यातः पाकलेष्वेकसंख्यया॥१३॥
अतः स्कन्दान्विजानीयात्त्रीनेव तु विनिश्चयांत्॥
अन्तर्बहिश्चाप्यायामो व्याविद्धस्कन्द एव च॥१४॥
पाण्डुरोगास्त्रयो ज्ञेयाः पुराणकृशसंज्ञिताः॥
वातिकाः228पैत्तिकाश्चैव श्लेष्मिकाश्चैव संख्यया॥१५॥
पञ्चा229नाहास्ततो ज्ञेयास्त एव भेदसंख्यया॥
अत्याशितोऽथ प्रथमस्त्वेक एवं विनिश्चितः॥१६॥
त्रिविधं तु विजानीयाद्वातोन्मथितसंज्ञितम्॥
वातोपरुद्ध एवात्र ज्ञेयः संसक्त एव च॥१७॥
असंसक्तश्च विज्ञेयस्त्रपस्त्रिविधलक्षणाः॥
धान्यप्रदुष्टं जानीयाद्विविधं परिसंख्यया॥
प्रदुष्टं चाप्रदुष्टं च जानीयात्तं नराधिप॥१८॥
ततः स्यान्मृत्तिकाजग्धः सांनिपातिक एव च॥
इत्यानाहाः230 समुद्दिष्टाः शृणु मूर्छास्ततः परम्॥१९॥
अत्यर्थभोजनान्मूर्छा विदग्धाच्चैव भोजनात्॥
धान्यमूर्छा ततो ज्ञेया स्नेहमूर्छा ततः परम्॥२०॥
वातात्पित्तात्कफाच्चैवसंनिपातात्तथैव च॥
उदकान्मार्गमूर्छा च मद्यमूर्छा च कीर्तिता॥२१॥
यवसाद्वाऽपि विज्ञेया मूर्छा सा द्वादशी भवेत्॥
इत्येता द्वादश प्रोक्ता मूर्छाः पार्थिवसत्तम॥२२॥
शिरोरोगास्त्वतस्त्वन्ये सप्तैव परिसंख्यया॥
वातिकाः पैत्तिकाश्चैव श्लेष्मिकाः सांनिपातिकाः॥२३॥
शोणिताज्जायते चान्यः कृमिजस्त्वभिघातजः॥
पादरोगास्ततो ज्ञेयास्त्रिंशत्तु परिसंख्यया॥२४॥
उत्कारकी ततः पूर्वं कारकी तदनन्तरम्॥
नाडीजातस्तृतीयः स्यात्ततः संराष्ट्र एव च॥२५॥
नखभेदं ततो विद्या231त्पूयकेशं ततः परम्॥
विप्लांवकस्ततस्त्वन्यः केशग्रन्थिः सविप्लुतः॥२६॥
समन्त केशश्च भवेत्कचकेशश्च कीर्त्यते॥
कदम्बपुष्पो विज्ञेयः सफुल्लोऽथ कुठारकः॥२७॥
फुल्लपादस्ततो ज्ञेयस्तथाभिन्ननखोऽपरः॥
स्फुटितैर्हनुदन्तै232 (?)श्च त्वन्यैर्वाऽपि मखैर्भवेत्॥२८॥
शरन्नध्दो233ऽथ विज्ञेयोदध्रुकेश234स्तथैव च॥
प्रगुल्मकेशो235 गम्भीरस्तथा चर्मतलोऽपरः॥२९॥
क्षतो निर्मूलितश्चैव तथा केशःसलोहितः॥
स्थाण्वाहतः क्षीणतलस्तथा236 चाभ्यन्तरीकृतः॥३०॥
निष्पिष्टो मांसकेशश्च तथा स्थानरतोऽपरः॥
इत्येष पादरोगाणां संग्रहः समुदाहृतः॥३१॥
व्यापदां तु पुनः संख्यां कीर्त्यमानां निबोध मे॥
व्यापदं विद्धि तैलेन सर्पिषा तदनन्तरम्॥३२॥
तृतीयां वसया विद्या237च्चतुर्थी पयसा तथा॥
धान्याच्च238 पञ्चमीं विद्यान्मद्यात्षष्ठीमथापि वा॥३३॥
उदकादुपधान्या239च्च व्यापदोऽष्टाविति स्मृताः240॥
शोफानां संग्रहश्चात्र सप्तानां संप्रचक्ष्यते241॥३४॥
मन्याशोफश्च विज्ञेयः सगदाशोफ एव च॥
द्रोणीकशोफश्चाप्यन्यो व्यवच्छिन्नस्तथैव च॥३५॥
शाल्मलीस्कन्धशोफश्च कदलीस्कन्ध एव च॥
शुद्धशोफच विज्ञेयः सप्तमः परिसंख्यया॥३६॥
संग्रहस्त्वक्षिरोगा242णामत ऊर्ध्वं प्रचक्षते243॥
प्राचारकी तु प्रथमस्त्वौदकी तदनन्तरम्॥३७॥ .
अण्डाक्षस्त्वथ काचाक्षो नायंप्रेक्षी तथैव च॥
प्रतिनुन्नस्ततो ज्ञेयो निष्पेषहत एव च॥३८॥
विद्युन्निष्पातदग्धश्च विद्युद्वारिहतस्तथा॥
ऊष्मापरिगतस्त्वन्यश्चर्मक्लिष्ठ244स्ततः परम्॥३९॥
श्रौतोन्धो245 बुहुदी चैवाक्षिपाकस्तथैवच॥
पाटलाख्यश्च246 विज्ञेयो दण्डाख्यश्च247 ततः परम्॥४०॥
मुञ्जोऽथ मुञ्जजालश्च लोहिताक्षस्त248थैव च॥
पिटकाक्षश्च विज्ञेय इत्येते विंशतिः स्मृताः॥४१॥
इत्येतत्प्रथमं स्थानं महारोगाभिसंज्ञितम्॥
एतच्छतं तु रोगाणामष्टौ चैव नराधिप॥४२॥
कीर्तितं ते मया सम्पग्यथावदनु249पूर्वशः॥
अध्यायाश्चात्र संख्याता अष्टादश महीपते॥४३॥
________
अथातः क्षुद्ररोगाणां स्थानं सम्यक्प्रवर्तते॥
वमथुः प्रथमस्तत्र स चापि द्विविधः स्मृतः॥४४॥
आगन्तुर्दोषजश्चैव दोषजः स चतुर्विधः॥
वातजः पित्तजश्चापि कफजः संनिपातजः॥४५॥
ततः परमतीसारो द्विविधः परिकीर्तितः॥
पक्कांशयसमुत्थस्तु तथैवाऽऽमाशयोद्भवः॥४६॥
स च दोषविभागेन चतुर्धा परिकीर्तितः॥
पुनश्च सप्तधा भिन्नो दुष्टधान्यादिभेदतः॥४७॥
एवमेकादशविधस्त्वतीसारी विभागतः॥
मदनाख्यस्तृणैः शोषी कर्मातिनीत250 एव च॥४८॥
विषाशितस्ततो दूषी251 सर्पार्त252ःस्फोटिकी253 ततः॥
दिग्धविद्धोपवादाख्यः पूर्वांबद्धोऽथ254 एव च255॥४९॥
विसर्पो हृदयस्फाली *वलक्षाणी256 तथैव च॥
षड्विधा मेहनक्षाणी तस्माद्धस्त257ग्रहोऽपरः॥५०॥
हस्तेनोन्मथितं विद्याद्विभागः षड्विधस्ततः॥
प्रथमः सप्तरात्रेण प्राणांस्त्यजति वारणः॥५१॥
अष्टरात्रेण चाप्यन्यो नवरात्रेण चापरः॥
एकश्च दशरात्रेण प्राणानादाय गच्छति॥५२॥
एकश्चैकादशं प्राप्य द्वादशीमपि चापरः॥
इत्येष षड्विधः प्रोक्तो हस्तोन्मथितसंज्ञितः॥५३॥
उत्कर्णको वातगतिर्मन्यास्तम्भो मदक्षयः॥
कृशस्तथा बलक्षीणः श्लेष्माभि258 खिन्न259 एव च॥५४॥
सात्म्यानुलोमिकश्चैव तलकाशी ततःपरम्॥
गलग्रहश्व विज्ञेयोव्याधिः सिद्धार्थकस्तथा॥५५॥
**भूतग्रहस्त्वथो वातकुण्डली भारपीडितः॥
उन्मादापस्मृती लुप्त उदावर्तः260 प्रगुल्मिकः261॥५६॥ **
**पत्रकृमिस्ततो ज्ञेय उरसिक्षत एव च॥
शोणिताण्डी समाख्यातो यवगण्डशिरास्त्वतः॥५७॥ **
चर्मकीलो जठरको वालानां चैव रक्षणम्॥
अवसन्नस्ततो ज्ञेयो रात्रिक्षिप्तस्तथापरः॥५८॥
मूत्रसङ्गास्ततो ज्ञेयाः षडेव परिसंख्यया॥
भिन्नबस्तिश्च विज्ञेयो गाढमूत्री तथैव च॥५९॥
परिमूत्री तथैवान्यः पिष्टमेही च वारणः॥
ततः शोणितमेही च तथाऽन्यो जातशर्करः॥६०॥
इत्येते षट्समुद्दिष्टा मूत्रसङ्गा यथाक्रमम्॥
अथातः सूतिकारोगा सप्तामी रदनामयाः॥६१॥
देवागन्तुजरायोगसमस्तव्यस्तदोषजाः॥
चेतोभ्रंशस्तथा प्रोक्तः शूलद्वितयमेव च॥६२॥
चत्वारः शारदाश्चैव जरगण्डस्ततः परम्॥
शीतस्कन्नश्च विज्ञेयो मक्षिकादष्ट एव च॥६३॥
एकादश च्छवीदोषा मृत्तिकाध्याय एव च॥
कृमिकोष्ठश्च विज्ञेयः क्षयश्चापि सुदुर्लभः262॥६४॥
क्षयो दशविधश्चैव दौर्बल्यं च चतुर्विधम्॥
धातुदोषक्षयात्क्षीणश्चत्वारोऽन्येऽपि दुर्बलाः॥६५॥
प्रकृत्या दुर्बलश्चैव व्याधिना दुर्बलोऽपरः॥
अत्यौषधोपयोगाच्च चतुर्थे263 वयसि स्थितः॥६६॥
संग्रहः संग्रहाश्चान्ये प्रभिन्नानां प्रचक्षते264॥
वातात्पित्तात्कफाद्रक्तात्संनिपातात्तथैव च॥६७॥
कृमयः कर्णवालोत्था कर्णरोगास्ततः265 परम्॥
अभक्तच्छन्दो ग्रासोपरुद्धो द्रोणीकपञ्चकम्॥६८॥
अतिपातस्ततश्चान्यत्तथा स्याद्गुल्मपञ्चकम्॥
वातपित्तकफैर्गुल्माः संभवन्ति त्रयस्त्रिभिः॥६९॥
शोणिताज्जायते चान्यः संनिपातात्तथैव च॥
हृद्रोगाश्च ततो ज्ञेषा वातपित्तकफात्मकाः॥७०॥
अतश्च गात्ररोगाः स्युश्चत्वारः संप्रकीर्तिताः॥
वातात्पित्तात्कफाञ्चैव संनिपातात्तथाऽपरः॥७१॥
आगन्तुगात्ररोगाश्च षडेवैते प्रकीर्तिताः॥
इत्येतत्क्षुद्ररोगाणां स्थानं सम्यक्प्रकीर्तितम्॥७२॥
इह सप्ततिरध्यायाः सचतुःषष्टिरिष्यते॥
सर्वेषामेव रोगाणां रोगज्ञानं प्रचक्षते॥७३॥
साध्यासाध्यत्वयाप्यत्वादुत्पत्तिश्च सलक्षणा॥
तथा ये मानसा रोगास्तथैवाऽऽगन्तवश्च ये॥७४॥
तेषां यः संविभागस्तु यथावत्संप्रवक्ष्यते266॥
प्रथमे च द्वितीये च स्थाने सम्यङ्नराधिप॥७५॥
______________
शल्याख्यस्य तृतीयस्य स्थानस्यातः प्रचक्षते267॥
संग्रहः क्रमयोगेन शृणु तन्मे नराधिप॥ ७६॥
प्रथमं द्वित्रणीयोऽत्र सद्यःक्षतमतः परम्॥
षडत्यत्योपचारोऽत्र व्रणोपक्रमलक्षणः॥७७॥
द्वादशोपक्रमो गर्भामनाध्यायस्ततः परम्॥
गर्भावक्रान्तिरस्मात्स्याच्छरीरनिचयस्तथा॥७८॥
शस्त्राग्नियन्रप्रणधी शल्पोद्धरणविद्रधी॥
व्रणनाडी शिराव्यूहव्याधिर्नाडी च दन्तजाः॥७९॥
अधिदन्तशिराच्छेदमर्मैरण्डा268स्तथाऽर्बुदाः॥
मर्मविद्धो दोषगतिर्दग्धं लूताः सकीटकाः॥८०॥
व्यालाः प्रदेशाः शस्त्राणि269 क्षारो भग्नचिकित्सितम्॥
मूढगर्भापनयनं दन्तोद्धरणमेव च॥८१॥
त्रयस्त्रिंशदिहाध्यायाः शल्यस्थाने प्रकीर्तिताः॥
तृतीयं स्थानमेतच्च योगांश्चात्र निबोध मे॥८२॥
भग्नंधृष्टं270 क्षतं दग्धं विद्युत्क्षारतुषारतः॥
संतापो271ऽर्काग्नितश्चेति षड्विधं षडुपद्रवाः॥८३॥
वातपित्तकफेभ्योऽसृग्भेदः संतापतस्तथा॥
दोषैः समस्तैर्व्यस्तैश्च चतुरो विद्रधीन्विदुः॥८४॥
मूढगर्भश्च शल्यं च तथा यश्चाधिदन्तकः॥
व्यालैरण्डा272र्बुदालूता कीटचूर्णे विचूर्णितः॥८५॥
अष्टाविंशतिरित्येते रोगाः शल्यसमाश्रयाः॥
तृतीयं परिसंख्यातमिति स्थानं नराधिप॥८६॥
_____________
चतुर्थमुत्तरं स्थानमत ऊर्ध्वं प्रचक्षते॥
एतत्रयाणां स्थानानां परिवाराभिसंज्ञितम्॥८७॥
स्नेहपानं प्रथमतस्त्वन्नपानविधिस्तथा॥
अथ स्नेहविकल्पश्च बस्तिसिद्धिरतः273 परम्॥८८॥
स्थानाध्यायस्ततो ज्ञेयो नस्यदानमतः परम्॥
अञ्जनानि च जानीयाद्यवसाध्याय एव च॥८९॥
रसवीर्यविपाकश्च शोभाश्चापि ततः परम्॥
आयुर्ज्ञानं वयोज्ञानं नक्षत्रारिष्टमेव च॥९०॥
अरिष्टं गुग्गुलोः कुल्पपिण्डगुग्गुलुरेव च॥
लाक्षाप्रदानं लाक्षा च सुरायाः संप्रयोजितम्॥९१॥
संपदोऽशितपीतस्य सौवीरकविधिस्ततः॥
लवणानां तथाऽध्यायः क्रमेण परिकीर्तितः॥९२॥
प्रतिपानं मदावस्थाः कवलात्कवले रतः॥
व्यापत्तिः क्षीरदानस्य दूताः श्रीगजसंभवाः॥९३॥
किमर्थं हेतुप्रकृतिः प्रतिकर्मसमाह्वयः॥
दुष्टदोषपरीक्षा274 च करीषाध्याय एव च॥९४॥
सुमनोदुर्मनोज्ञानं मदकृमिनिवर्तनम्॥
कल्पनाश्चाथ दन्तानामिक्षुदानमतः परम्॥९५॥
लशुनारोग्यलवणं पांशुदानानि चाप्यथ॥
कार्याकार्यविधिस्तस्मादृतुचर्या प्रकीर्तिता॥९६॥
चूर्णारिष्टं ततो ग्राहो जलहस्ती275 जलौकसः॥
विचित्रविधिसंभागो लवणाध्याय एव च॥९७॥
गन्धज्ञानं ततो राजन्कटबस्तिस्तथैव च॥
वनाध्यायस्ततो राजन्नस्मिञ्शा276स्त्रेप्रकीर्तितः॥९८॥
उपसर्गविधिश्चान्ते यज्ञसूत्रमिति स्मृतम्॥
ऊनपञ्चाशदध्याया रोगाः पञ्चदश त्वमी॥९९॥
बस्तिव्यापत्तयोऽप्यष्टौ कवलव्यापदेव च॥
लशुनव्यापदेका च तस्य मूर्ध्नि277 विरेचने॥१००॥
दोषद्वयं स्यात्कटुभुग्ग्रहावथ जलद्विपः॥
गात्रातङ्का278च निर्दिष्टा279 इत्येतस्मिन्नराधिप॥१०१॥
परिवार इति ख्यातं स्थानमुत्तरसंज्ञितम्॥
स्याच्छास्त्रेऽध्यायपिण्डोऽस्मिन्नेकसप्ततिकंशतम्280॥१०२॥
शतत्रयं च रोगाणां प्रोक्तं पञ्चदशोत्तरम्॥
दश द्वे च सहस्राणि श्लोकानां च नराधिप॥१०३॥
इत्येष संग्रहः प्रोक्तः शास्त्रस्यास्य समासतः॥
विस्तरेण यथाशास्त्रं तथा सम्यक्प्रचक्षते281॥१०४॥
स्कन्दां चिकित्सते मूलं सिद्धिः कर्माश्रया282 स्मृता॥
प्रमाणं च प्रयोगश्च कालश्च विहितस्त्विह283॥१०५॥
तस्मान्मूलं चिकित्सायाः पठितार284 इहोच्यते॥
प्रोच्यते शास्त्रतत्त्वज्ञैरेतत्साङ्गम285संशयम्॥१०६॥
अधीयते चिकित्सां ये केवलामपरिग्रहम्॥
न ते विकाराञ्जानन्ति ये भवन्त्यबहुश्रुताः॥१०७॥
सांग्राहिकं वा कवलं तथा वातानुलोमिकम्॥
यद्वा पचति भुक्तं च स्यादधोभागिकं च यत्॥१०८॥
अनुवासं निरूहं वा तथैवोत्तरबस्तिकम्॥
स्नैहिकं वा विरेकं वा तथा शीर्षविरेचनम्॥१०९॥
प्रमाणमुपचारं वा येन जानन्त्यबुद्धयः॥
किं करिष्यन्ति ते मूढाः समरेष्विव भीरवः॥११०॥
अनिवृत्ते त्विदं देयमिदं देयं च निर्वृते॥
किंतु प्रतिनये देयं किंचिद्भिन्ननये286ष्विह॥१११॥
इमे वातसमुत्थाना इमे वा रक्तसंभवाः॥
संसृष्टा व्याधयो ये च ये च स्युः सांनिपातिकाः॥११२॥
तानविज्ञाय287 ये कुर्युः कर्म तेषां न288सिध्यति॥
उत्तरं त्वनधीयाना289 न तान्कर्मसु योजयेत्॥११३॥
कर्मज्ञं निखिलज्ञं च सिद्धिषु प्रतियोजयेत्॥
यस्तु रोगमविज्ञाय भिषक्कर्म प्रयोजयेत्॥११४॥
तस्य290मिथ्याप्रयोगेण व्याधिर्वर्धेत दन्तिनाम्॥
शास्त्रज्ञो वाऽप्यकर्मज्ञः कर्मज्ञो291 वाऽप्यशास्त्रवित्॥११५॥
उभौ तौ गर्हितौ292 वैद्यावर्धुवेदधरौ स्मृतौ॥
भैषज्यं योगविहितममृतत्वाय कल्पते॥११६॥
तदेवायोगविहितं तीक्ष्णं संपद्यते विषम्॥
परिवारे तु कुशलश्चिकित्सितविशारदः॥११७॥
कर्माभिज्ञः293कुलीनश्च स भिषक्श्रेष्ठ उच्यते॥
योगभैषज्यकुशलः शस्त्रकर्मविशारदः॥११८॥
दृष्टोपचारः स्मृतिमान्सोऽप्युत्तम इति स्मृतः॥
विशेषान्पर294तन्त्रेभ्यो गृह्णीयादनसूयकः॥११९॥
संशयं परिपृच्छेच्चयथावितथशास्त्रिषु॥
ऊहापोहार्थयुक्तश्च जानीते सर्वमेव यः॥
स तु श्रेष्ठश्च पूज्यश्च देवानामिव वासवः॥१२०॥
तत्र श्लोकौ भवतः —
यद्वक्षितं तद्विधिनैव कुर्व-
ञ्शास्त्रानुगं मार्गमवेक्षमाणः295॥
सिद्धिं भिषग्गच्छति कर्म चास्य
न विक्रियां गच्छति वै कदाचित्॥१२१॥
तस्माद्भिषग्यो गुरुवासखिन्नः
समाप्ततन्त्रश्चविचक्षणश्च॥
स हस्तिनामर्हति कर्म कर्तुं
पूज्यश्च नित्यं स नृपेण धीमान्॥१२२॥५०४॥
** इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे महारोगस्थाने शास्त्रसंग्रहो नाम चतुर्थोऽध्यायः॥४॥**
अथ पञ्चमोऽध्यायः।
अङ्गो हि राजा चम्पायांपालकाप्यं स्म पृच्छति॥
गजाः सर्वबलश्रेष्ठाः पार्थिवानां जयप्रदाः॥१॥
तेषाममितसत्त्वानां कर्तव्यमनुपालनम्॥
बलसारविधिज्ञेन नृपेण विजिगीषुणा॥२॥
यथा तन्मे द्विजश्रेष्ठ वक्तुमर्हसि तत्त्वतः॥३॥
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः॥
प्रत्यक्षदेवता नागा देवजात्या यतस्त्वतः296॥४॥
स्वामिनश्च भवन्त्येते यस्मात्प्रोक्तास्तु भूमिदाः॥
राजारूढो गजो भाति गजस्थः शोभते नृपः॥५॥
उभयोरविशेषत्वाद्राज्ञामात्मसमा गजाः॥
क्षुधितास्तृषिताश्चापि व्यापत्सु महतीषु च॥६॥
न त्यजन्ति नृपं यस्माद्बान्धवास्तेन वारणाः॥
विनय297ग्रहणे शिष्या भृत्याश्छन्दानुवर्तनात्॥७॥
विक्रीताश्च प्रदत्ताश्च यान्ति तूष्णीं तु दासवत्॥
विनये ऋषिभिस्तुल्याः क्रुद्धा नागास्तु राक्षसाः॥८॥
निस्त्रिंशादधिकत्वाच्च शस्त्रंनागा महीपते॥
स्वयं रक्षन्ति युध्यन्ति वहन्ति रणमूर्धनि॥९॥
प्राणांस्त्यजन्ति कृच्छ्रेण श्रेष्ठङ्गास्तेन वारणाः॥
प्राकारगोपुराट्टालकपाठोद्घाटमादिषु॥१०॥
भञ्जने मर्दने चैव नागा298 वक्त्रोपमाः स्मृताः॥
स्वसैन्यं परिरक्षन्ति परसैन्यं द्रवन्ति च॥११॥
घटाभि299रचिता300 नागाः प्राकारा इव दुर्जयाः॥
सहसैवाऽऽगतं सैन्यं घटास्था301 वारणाः पुनः॥१२॥
दर्पिताः302 प्रतिरुन्धन्ति सेतुबन्ध इवार्णवे॥
सहसोत्पतिते कार्ये नागारूढो महीपतिः॥१३॥
एकाङ्गविजयं कुर्यादेकाङ्गविजयः कुतः॥
कल्पितः303 शिक्षितः शूरः शूरारूढः प्रतापवान्॥१४॥
जयत्येकोऽपि मातङ्गः षट्सहस्राणि वाजिनाम्॥
यथा स्वकर्मवच्छीघ्रं304प्राप्य मन्दरपर्वतम्॥१५॥
भग्नवेगा निवर्तन्ते तथाऽश्वाः प्राप्य कुञ्जरम्॥
यां गतिं ब्रह्महागच्छेत्पितृहा मातृहा तथा॥१६॥
तथा कन्यानृतश्चैव स्त्रीहन्ता गुरुतल्पगः॥
क्षत्रियो यां गतिं गच्छेद्युद्धे दृष्टपराङ्मुखः॥१७॥
तांगतिं प्रतिपद्येत यो नागं समरे त्यजेत्॥
एकशक्तिप्रहारेण305 म्रियतेऽश्वो नरोऽपि वा॥१८॥
सहेत शक्तिघातानां शतं युद्धेषु वारणः॥
शरजालाञ्चितमुखः कोऽन्यः शक्तः परं गजात्॥१९॥
हन्तुं प्राकारमुन्मथ्य रथाश्वनरकुञ्जरान्॥
निशायां नष्टचन्द्रायां समन्तादग्निदीपने॥२०॥
मर्दने परसैन्यानां कोऽन्यो नागात्परः सहेत्॥२१॥
मोक्षात्परा गतिर्नास्ति नास्ति वेदात्परा श्रुतिः॥
नास्ति कृष्णात्परं भूतं नास्ति यानं गजात्परम्॥२२॥
पृथिव्या306 भूषणं मेरुः शर्वर्या भूषणं शशी॥
नराणां भूषणं विद्या सैन्यानां भूषणं गजाः॥२३॥
तत्सौख्यं यत्र संतोषस्तद्राष्ट्रं यत्र पार्थिवः॥
तन्मित्रं यत्र विश्वासस्तत्सैन्यं यत्र कुञ्जराः॥२४॥
शीलात्तु शोभते रूपं चारित्राच्छोभते कुलम्॥
पुष्पितं शोभतेऽरण्यं शोभते सगजं307 बलम्॥२५॥
विभूतेर्भूषणं ज्ञातिः कुलानां भूषणं धनम्॥
मदिरा भूषणं स्त्रीणां सैन्यानां भूषणं गजाः॥२६॥
** तत्र श्लोकः —**
नासौ व्ययो यत्र गुणे न लाभो308 नासौबुधो येन तपो न तप्तम्॥
नासौ पुमान्यत्र हिता न भार्या नासौ नृपो यस्य हिता न नागाः॥२७॥
यद्वद्वनमसिंहं तु यद्वद्राष्ट्रमपार्थिवम्॥
यद्वच्छौर्यमशस्त्रं तु तद्वत्सैन्यमकुञ्जरम्॥२८॥
यतः सत्यं ततो धर्मो यतो धर्मस्ततो धनम्॥
यतो रूपं ततः शीलं यतो नागास्ततो जयः॥२९॥
शरतोमरचक्रैस्तु नागस्कन्धाहता नराः॥
क्षणात्स्वर्गं तु गच्छन्ति तस्मात्स्वर्गोपमा गजाः॥३०॥
प्रासादाशनशय्यासुनिषण्णाः शिबिकासु च॥
वहन्ति प्रमदा राजन्नुद्यानेषु वनेषु च॥३१॥
क्रीडासु च नरेद्राणां जले309 पुष्पितपङ्कजे॥
स्नापयन्ति गजा हस्तैर्लग्नपुष्करपुष्करैः॥३२॥
श्रियोऽवतारयन्त्येते मृन्मया इव निश्चलाः॥
नास्ति हस्तिसमो बन्धुर्नास्ति हस्तिसमः सखा॥३३॥
नास्ति हस्तिसमो योधो नास्ति हस्तिसमो रिपुः॥
नास्ति हस्तिसमः कायो नास्ति हस्तिसमो बली॥३४॥
वारणेषु तु सामर्थ्यं विशेषेणेह दृश्यते॥
त्रयाणामपि सैन्यानां विद्यन्ते नैव ते गुणाः॥३५॥
दृश्यन्ते ये सदा राजन्हीनेष्वपि हि दन्तिषु॥
चन्द्रहीना यथा रात्रिः सस्यहीना वसुंधरा॥३६॥
गजहीना तथा सेना विस्तीर्णाऽपि न शोभते॥
एते चान्येऽपि बहवो वारणानां गुणाः स्मृताः॥३७॥
तस्मात्प्रयत्नतो रक्षेत्स्वपुत्रानिव नित्यशः॥
तेषाममितसत्त्वानां कर्तव्यमनुपालनम्॥३८॥
प्रोच्यन्ते310 यादृशा युक्ता गजरक्षाधिकारिणः॥
धार्मिकाः शुचयः सर्वे श्रुतवन्तो विमत्सराः॥३९॥
सत्त्वाभिजनसंपन्नाः सर्वव्यसनवर्जिताः॥४०॥
गजभर्तृहिते युक्ताः समयज्ञाः प्रियंवदाः॥
उत्साहबलसंपन्नाःकृतज्ञा311लोभवर्जिताः॥४१॥
मौला312स्त्व313हार्यदक्षाश्च ज्ञातिपक्षहिते रताः॥
नृपादेशस्य कर्तारस्तत्प्रियान्वेषिणः सदा॥४२॥
मङ्गल्यनामधेयाश्च प्रगल्भा वाग्विशारदाः॥
गजाधिकारिणः कार्या गजकर्मविशारदाः॥४३॥
हस्त्यध्यक्षवशे युक्ता भिषजां च विशेषतः॥
भोजनस्थानशयननिर्वाणगमनेषु च॥४४॥
द्रष्टव्याः314 सह वैद्येन शश्वत्तैरपि वारणाः॥
यस्य यत्करणीयं तु तन्निवेद्य महीपते॥४५॥
गजाध्यक्षेण तु पुनः कार्यं च भिषजा सह॥
भिषग्विनीतो मेधावी ग्रन्थार्थप्रतिपत्तिमान्॥४६॥
नृपतुल्यः प्रियाभाषी महाभोगपरिग्रहः॥
वाग्ग्मी प्रगल्भः क्षान्तात्मा धृतिमान्धार्मिकः शुचिः॥४७॥
मौलोऽनुरक्तो मधुरः कुलीनश्च प्रशस्यते॥
शब्दार्थन्यायकुशलः शुचिर्मौलो निरामयः॥४८॥
गणितव्यवहारज्ञो गजामात्यः प्रशस्यते॥
गजाध्यक्षो315ऽतिमतिमाञ्शरण्यः सुजितेन्द्रियः॥४९॥
विनीतः सत्यसंधश्च वयस्थः प्रतिपत्तिमान्॥
गजाजीवी गजानांतु हितकार्ये रतः सदा॥५०॥
स्वामिभक्तः शुचिर्दक्षो धार्मिकश्च प्रशस्यते॥
रहस्यवित्प्रियः शूरो धृतिमान्सुदृढेन्द्रियः॥५१॥
सुशरीरस्त्वरोगश्च यन्ताऽङ्कुशविभागवित्॥
निमित्तोत्पातकुशलश्चिकित्सितविशारदः॥५२॥
इष्टश्च कुशलोत्साही गजभर्तृहितेरतः॥
ईदृग्विधगुणोपेतो महामात्रः प्रशस्यते॥५३॥
ब्राह्मणः शीलसंपन्नो यज्ञकर्मसु निष्ठितः॥
स एवात्था316भिषेक्षी (?) नामारोढा तु प्रशस्यते॥५४॥
एवंविधगुणोपेतैः परस्परहितैषिभिः॥५५॥
गजाष्ट317*318कुलिकैर्वैद्यैर्महामात्रैर्यशोर्थिभिः॥
अवेक्ष्यमाणा319 वर्धन्ते बलवन्तो निरामयाः॥५६॥
प्रहृष्टमनसो मत्ता कामिनः सुखिनो320 गजाः॥
शुभव्यञ्जनसंपन्ना भवन्ति नृपकामदाः॥५७॥
विधायाऽऽसवपानं तु स्थानशय्यास्वधिष्ठिताः॥
यस्य नागास्तु कुशलैश्चिन्त्यन्ते गजचिन्तकैः॥५८॥
नित्यं क्रुद्धैर्व्यसनिभिर्लुब्धैर्बुद्धिबहिष्कृतैः॥
गजकर्मस्वकुशलैर्ज्ञातिपक्षविरोधिभिः॥५९॥
प्रमाद321कृद्भिः पिशुनैरसंबद्धप्रलापिभिः॥
तस्य राज्ञः क्षयं यान्ति गजाः सपरिवारकाः॥६०॥
असम्यक्पाल्यमानास्तु322 क्षुद्धन्धवधपीडिताः॥६१॥
** तत्र श्लोकाः —**
जगद्धितार्थं जगतः प्रणेत्रा सृष्टा गजेन्द्राः प्रथितप्रतापाः॥
तेषां हितान्वेषणतत्परस्तु यः पार्थिवस्तस्य जयोऽग्रहस्ते॥६२॥
+323सुवाहिता324 न
प्रतिवीर्यसत्त्वं325रथाश्वपत्तिप्रतिबृंहितास्तु॥
तथाऽपि नागैः किल तान्निहत्य देवा जयं प्रापितवन्त एव॥६३॥
गजेन्द्रवीर्यः क्षितिपः326 क्षितीशान्सुंष्ट्वप्युदीर्णान्हयपत्तिसंघैः॥
हन्यात्प्रसह्यैवविकुर्वतस्तान्सिंहो327 यथा क्षुद्रमृगान्वनस्थान्॥६४॥
हयाश्च भूमावपि वर्तमानाः कृतं गजं प्राप्य विनाशमीयुः॥
रथाश्च वाताभिहता328 इवाब्दाः क्षणेननाशं329 समरे प्रयान्ति॥६५॥
स्वाधीनकेनापवता330 गजेन बलोपपन्नेन331 दृढेन्द्रि332येण॥
निःसंशयं पत्तिगणोऽपि राजन्क्षणेन मृत्योर्वशतां स यायात्॥६६॥
तस्माद्गजेन्द्राः परिरक्षणीयाः स जीवितं चातिशयेन राज्ञाम्॥
नान्योऽस्ति हेतुर्जयतः पृथिव्यां मुक्त्वोरुवीर्यातिशयप्रभावान्333॥६७॥५७०॥
** इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने गजरक्षणविन्यासो नाम पञ्चमोध्यायः॥५॥**
———————
अथ षष्ठोऽध्यायः।
———————
अत ऊर्ध्वं प्रवक्ष्यामि शिष्योपनयने विधिम्॥
यैर्गुणैर्यादृशो यश्च शिष्यः स्यादिति पार्थिव (:)॥१॥
तत्र शिष्यस्तु कर्तव्यः कामक्रोधविवर्जितः॥
शास्त्रार्थकर्मतत्त्वज्ञः कुलशीलगुणान्वितः॥२॥
मेधावी स्मृतिमान्दक्षः शूरोदारः प्रियंवदः॥
ऊहवान्कर्मविच्छक्तः शुश्रूषुरशठः शुचिः॥३॥
दृष्ट्वैवमादिभिर्युक्तंशिष्यं शिष्यगुणान्वितम्॥
मुहूर्ते तिथिनक्षत्रप्रशस्ते गुरुरादितः॥४॥
शुक्लवासाः सशिष्यस्तु सोपवासो जितेन्द्रियः॥
प्रागुदीचीं दिशं गत्वा नातिदूरोदके नृप॥५॥
शुचौ देशे लिखेद्वीजैश्चतुर्विंशत्यरत्निकम्॥
मण्डलं पूर्णकुम्भैस्तु दर्भैः पुष्पैः सुशोभितम्॥६॥
तस्य मध्ये समिद्भिस्तु334 ज्वालयेच्च हुताशनम्॥
दिग्देवान्दिग्गजांश्चैव विविधैस्तन्दुलैर्लिखेत्॥७॥
ब्रह्माणं शंकरं विष्णुं चन्द्रसूर्यौ +335ग्रहाञ्चलान्336॥
ऋषींश्च स्कन्दसहितांश्चाप्सरोरग337गुह्यकान्॥८॥
लिखितेषु यथान्यायं धुपमाल्यानुलेपनैः॥
सर्वान्नैःसर्वसत्त्वैश्च बलिं विधिवदाचरेत्॥९॥
कृत्वा सर्वमशेषेण जुहुयाद्धव्यवाहनम्॥
मन्त्रेणानेन नियतं सर्पिषा नियतो गुरुः॥१०॥
ॐ भवाय स्वाहा। भुर्भूवः338 स्वाहा। अग्नयेस्वाहा। सोमाय स्वाहा। रुद्राय स्वाहा। सेनान्यै स्वाहा बलायस्वाहा। बला339ङ्गाय स्वाहा। बलाधिपतये स्वाहा। शक्तिधराय स्वाहा। शिखिकण्ठप्रियाय340 स्वाहा।कुक्कुटघण्टाप्रियाय स्वाहा। मयूरध्वजाय स्वाहा। ब्रह्मणे स्वाहा।नारायणाय स्वाहा। रुद्राय स्वाहा341। विश्वाय स्वाहा।यमाय स्वाहा। वरुणाय स्वाहा। धनदाय स्वाहा। सूर्येभ्यः स्वाहा। वसुभ्यः स्वाहा। शैलेभ्यः स्वाहा। नन्दिभ्यः342 स्वाहा। महाकालायस्वाहा। देवेभ्यः स्वाहा। नदीभ्यः स्वाहा। अनिलाय स्वाहा। धर्मायस्वाहा।समुद्राय स्वाहा। दिग्भ्यः स्वाहा। विदिग्भ्यः स्वाहा। विश्वाय स्वाहा।इति —
हुत्वाऽग्निंविधिवच्छिष्यमाज्येनाभ्यञ्जयेद्गुरुः॥
कृतप्रणामो देवेभ्यस्त्विदं श्राव्यस्ततो नृप॥११॥
न शठेनानृशंसेन न लुब्धेन न सूयिना॥
न निष्ठुरेणानृजुना तथैवानल343सेन च॥१२॥
अपापेना344र्यशीलेन कुटुम्बस्यानुकम्पिना॥
भवितव्यं त्वया वत्स नित्यमाचार्यसेविना॥१३॥
तदेवमनुवृत्तस्य वस्त्राध्ययनभोजनैः॥
यदि शाठ्यंगुरुः कुर्यात्स शिष्यमलभाग्भवेत्॥१४॥
गुरोरपि प्रवृत्तस्य विद्यान्नाह्लादनादिभिः॥
यदि शिष्योऽन्यथा कुर्यात्स गुरोः पापमृच्छति॥१५॥
एवमेव यथाकालं विद्यामादाय कृत्स्नशः॥
आचार्येणाभ्यनुज्ञातस्ततस्त्वं गन्तुमर्हसि॥१६॥
ततो राजानमासाद्य राज्ञा चाभ्यर्थितेन च॥
पुत्रेष्विव सदा स्नेहः कर्तव्यो हस्तिषु त्वया॥१७॥
*अमुष्याणा345 (?)मवचनां346देहीत्यवदतामपि॥
कर्तव्यस्ते सदा स्नेहः कुञ्जराणां विशेषतः॥१८॥
यः सम्यक्पश्यतो राज्ञः स्वामिनां चारुवृत्तिभिः॥
उपेक्षति गजान्वैद्यः स त्वज्ञः पापमश्नुते॥१९॥
एतदेव विपर्यस्ता यदि राजा न पश्यति॥
सम्यक्प्रवृत्तमाचार्यं दानमानपरिग्रहैः॥२०॥
पिण्डस्तु नोपजीव्यस्ते वारणानां कदाचन॥
अवध्यायन्ति तं नागा यः पिण्डमुपजीव्यति॥२१॥
यथैव नागाः क्षीयन्ते नागवत्क्षीयते हि सः॥
गजशापाभिभूतस्य नश्यन्ते संचया गृहे॥ २२॥
तस्मात्सदाऽनुकम्पैव कर्तव्या वारणेष्विह॥
क्षुत्क्षान्तदीन347मीतानां मत्तानां युधि रक्षणम्॥२३॥
विधेयं ब्रह्मणा सृष्टा नागानां हितमिच्छता॥
मङ्गल्या च पवित्रा च धर्मार्थयशसां निधिः॥२४॥
गान्धर्वः सामवेदस्प उपवेदो यथा स्मृतः॥
स्मृतिर्यथा चोपवेद ऋग्वेदस्येह पठ्यते॥२५॥
नाट्यं यथोपवेदश्च यजुर्वेदस्य पार्थिव॥
तथोपवेदोऽथर्वाणश्चिकित्सितमिह स्मृतम्॥२६॥
ब्राह्मणस्त्वथ वर्णादींस्त्रीन348ध्यापयितुमर्हसि349॥
द्वौ क्षत्रियस्तथा वैश्यमे350कमध्यापयेत्सदा॥२७॥
गुणवत्स्वपि शूद्रेषु मा बुधं कर्तुमर्हसि॥
एषा ह्यनुपमा विद्या वेदवेदाङ्गसंमिता॥२८॥
विद्यानामुपसत्त्वाय कथयेन्न ह्यसाधवे॥
अश्रद्दधानो351 ये च स्युर्नास्तिका येऽभ्यसूयकाः॥२९॥
तेषां विद्यां352 न कथयेद्ये च विद्यावमानिनः॥
आचार्यस्त्वेव कथयेद्विज्ञानकुशलेष्वपि॥३०॥
नापुत्राय प्रदातव्या नाशिष्यायाहिताय वा॥
अश्वान्गां रजतं चैव सुवर्णं वाऽपि दक्षिणाम्॥३१॥
न प्रयच्छेत्तुविद्यार्थी न तस्मै कथयेद्भिषक्॥
एवमुक्त्वा तु तं शिष्यमाचार्यस्तर्पयेद्द्विजान्॥३२॥
पुष्पानुलेपनैर्धूपैर्भक्षपानान्नभोजनैः॥
भक्तैर्द्विजवरैस्तत्र देवतैश्चसुपूजितैः॥३३॥
यच्छेषमुपभोक्तव्यमिति शिष्यक्रमः स्मृतः॥३४॥६०४॥
** इति श्रीपालकाप्ये हस्त्यायुर्वेदमहामवचने महारोगस्थाने शिष्योपनयनो नाम षष्ठोऽध्यायः॥६॥**
———————–
अथ सप्तमोऽध्यायः।
———————–
अङ्गश्चम्पाधिपः श्रीमान्बुद्ध्या परमया युतः॥
कृतजाप्यमृषिश्रेष्ठं पालकाप्यं स्म पृच्छति॥१॥
यत्पूर्वंसंग्रहाध्याये त्वया प्रोक्तं महामुने॥
विभक्तिरिति रोगाणां तन्मे व्याचक्ष्व पृच्छतः॥२॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत्।
आध्यात्मिकागन्तुभेदा द्विविधा व्याधयः स्मृताः॥३॥
आध्यात्मिका दोषजाश्च मानसाश्च प्रकीर्तिताः॥
आगन्तवोऽपि विज्ञेया आधिभूताधिदैविकाः॥४॥
यस्माद्विभजते तांस्तु वातपित्तकफात्मिकात्॥
रक्तजान्सांनिपातांश्चद्वित्रिजान्मानसांस्तथा॥५॥
आगन्तुश्चापि353 जानीया354बोधिभौतिकदैविकान्॥
साध्यानसाध्यान्य355स्यांश्च कृच्छ्रसाध्यांश्च भेदतः॥६॥
तस्माद्रोगविभक्तेश्च नाम्ना ख्यातो नराधिप॥
तत्राऽऽदौ वातिकान्वक्ष्ये षट्सप्ततिमितान्गदान्356॥७॥
बालः पाण्ड्वामयी च स्यादानाह्यः357सर्व एव च॥
मूर्छाश्चपञ्चात्यशना358विदग्धाहारधान्यजाः॥८॥
वातिकी मार्गमूर्छा च शिरोरोगाश्च ये स्मृताः॥
पादरोगा दशोत्कार(:) कार (रो) नाडीभवोऽपरः॥९॥
सराष्ट्रो359 नखभेदश्चकदम्बाक्षः सुफुल्लकः॥
फुल्लोभिन्ननखश्चानुद्धतः360 स्थाणुहतानुयत्361॥१०॥
धान्योपधाभ्यां362 व्यापत्ती शोफश्चाक्षिरुगौदकी॥
अण्डाक्षो नायंप्रेक्षी छर्द्यतीसारसंज्ञितौ॥११॥
तृणशोषी विसर्पश्च मेढ्रक्षाणी च निश्चिता॥
हस्तोन्माथाश्च षडुदार्क्त363 उत्कर्णकोऽपि च॥१२॥
ग्रहणीदोषनामा वै आमरोगस्तथैव च॥
तथा वातगतिर्यश्च मन्यास्तम्भो मदक्षयः364॥१३॥
कृशो बलक्षयश्चोरःक्षतो जठरकस्तथा॥
गाढमूत्री च विज्ञेयः365 सूतिकादशनामयौ॥१४॥
प्राकृतः शारदो366 यश्च सप्तधातुक्षयास्तथा॥
प्रकृत्या व्याधिभिश्चापि दुर्बलश्चौषधैरपि॥१५॥
तथा367प्रभिन्नोद्रोणीको गुल्मो हृद्गात्रगामयौ॥
व्रणस्योपद्रवो यश्च विद्रधिश्चाधिदन्तिकः॥१६॥
कटस्त्रोतो निरोधश्च गात्रातङ्कीति वातिकाः॥
वक्ष्यन्ते पैत्तिकाः सप्तविंशतिस्तत्र पण्डुरुक्368॥१७॥
मूर्छा पित्ताम्बुमद्यैर्याशिरोरोगः कुठारक॥
मद्यव्यापत्तथा369 शोफो वमथुः सातिसारकः॥१८॥
विसर्पोऽतः परं मेढ्रक्षाणी सिद्धार्थकश्च यः॥
परिमूत्री रुदनरुग्रोगो यः शारदस्तथा॥१९॥
पित्तप्रभिन्नो द्रोणीको गुल्मो हृद्गात्रजे रुजौ॥
उपद्रवो व्रणस्यापि तथा विद्रधिरेव च॥२०॥
नश्य(स्य) धूमप्रधमनैर्दोषो लशुनजा विपत्॥
कवलव्यापदित्येते पैत्तिकाः संप्रकीर्तिताः॥२१॥
श्लेष्मिका370श्चैव वक्ष्यन्ते द्वात्रिंशत्संख्यया गदाः॥
शुद्धस्तथा पाण्डुरोगो मूर्छा च कफसंभवा॥२२॥
शिरोरोगौ तथा द्वौ च कफकृत्कृमिसंभवौ॥
दर्द्रुमांसात्मकौकेशौ घृतेन बसया तथा॥२३॥
व्यापत्क्षीरेण चाप्यन्या शोफश्चाप्यथ बुड्बुद्दी॥
पटलाक्षस्तथा मुञ्जच्छर्द्यतीसारसंबितौ॥२४॥
विसर्पो मेहनक्षाणी371 श्ले372ष्माभिषन्न373रुक्ततः॥
पिष्टमेही दन्तरोगो यश्चोक्तः स्थूलशारदः॥२५॥
उद्गमः कृमिकोष्ठश्च प्रभिन्नः कर्णवालजः॥
तथा द्रोणीकशोफश्च गुल्मो हृद्गात्रजामयौ॥२६॥
व्रणोपद्रवजश्चान्यो विद्रधिश्चकफात्मकाः॥
अतः परं प्रवक्ष्यामि रक्तात्पञ्चदशामयान्॥२७॥
शिरोरोगः प्रगुल्मी च गम्भीरो लोहितांह्रिजः॥
क्षा(क्ष)रीकृतोऽथ निष्पिष्टः शोफो रक्ताक्ष एव च॥२८॥
मेद्रक्षाणी374 क्षीरमेही तथा लोहितशारदः॥
ततः प्रभिन्नो द्रोणीको गुल्मश्चाग्नेरुपद्रवः ॥२९॥
इत्येते रक्तजाः प्रोक्ता वक्ष्यन्ते सांनिपातिकाः॥
विंशतिर्द्व्यधिकास्तेषामयमादौ मृदुग्रहः॥३०॥
ततो मूर्छा शिरोरोगः कचकेशश्च पार्थिव॥
शोफः प्रावारकी मुञ्जजालो वमथुरेव च॥३१॥
अतिसारो मदनको विसर्पो मेढ्रवैकृतिः॥
तल375काश्यश्मरीकश्च दत्तरोगः किलासिता376॥३२॥
तथा प्रभिनो द्रोणीको गुल्मो गात्रामयस्तथा॥
उपद्रवो377 विद्रधिश्चेत्युक्ता वै सांनिपातिकाः॥३३॥
वातपित्तात्मका रोगा वक्ष्यन्ते ते चतुर्दश॥
पक्वलो बहिरायामः378 स्नेहमूर्छा च पार्थिव॥३४॥
पूयकेश379 (:)समन्तश्च तथा चर्मतिल380श्च यः॥
तैलव्यापत्तथा विद्युन्माली381 क्लिष्टोऽथ वर्त्मनः॥३५॥
पिटिकाक्षश्चशूलश्च382मृत्तिकाऽथ कफक्षयः॥
अतिपात इति प्रोक्ता वातपित्तसमुद्भवाः॥३६॥
वातश्लेष्मसमुत्थाना वक्ष्यन्ते षोडशाऽऽमयाः॥
प्रसुप्तोऽथ महाख्योऽन्यः383स्कन्दोमूर्छा तृणोद्भवा॥३७॥
कारक्युदकजा व्यापत्योक्तो यश्च गलग्रहः॥
जरयादत्तरोगश्च शूलोऽन्यो दन्तशूल्यपि॥३८॥
तृणपुष्पी क्षीणपित्तो दुर्बलो वयसा च यः॥
अभक्तच्छन्दोग्रासोपरोधो मेदउपद्रवः॥३९॥
इति वातकफोत्पन्नाः384 सप्तेमे वातरक्तजाः॥
केशग्रन्थिश्च शाफेश्च वातकुण्डलिकाऽपि च॥४०॥
रक्ताण्डी यवगण्डी च चर्मकीलो विसर्पिणी॥
इत्युक्ता वातरक्तोत्था श्लेष्मशोणितजास्त्रयः॥४१॥
दद्रुकीच महादद्रुरन्या मण्डलिकीति च॥
त्रयोऽग्ये पित्तकफजाः स्रोतोन्धः385 पिटकी386 तथा॥४२॥
वातक्षय इति प्रोक्ता वातासृक्पित्तजावुभौ॥
पाकलः पुण्डरीकाख्यस्तथा विप्लावकोऽपरः387॥४३॥
त्रयः कफासृक्पवनाद्वक्ष्यन्तेऽथाक्षिपाकरुक्388॥
यवगण्डः कर्णरोग इत्येतेऽपि प्रकीर्तिताः॥४४॥
पित्तासृक्कफसंभूता स्यादेकैव विचर्चिका॥
भूतानिलात्मकाः षट् च तत्राऽऽदौ कुक्कुटः स्मृतः॥४५॥
तथैकाङ्गग्रहः कूटश्चान्तरामय389 एव च॥
हस्तग्रहो390ऽथ रात्र्यन्धइत्यमी कीर्तिताः क्रमात्॥४६॥
मानसास्तत्र पञ्चैको भयातीसारसंज्ञितः॥
पूर्वाबद्धोऽथ हृच्छाली तथा श्रंशश्च चेतसः॥४७॥
संतापदग्ध इत्येवमुक्ताश्चाऽऽध्यात्मिका गदाः॥
सर्वे पिण्डेन विख्याता द्वात्रिंशच्च शतद्वयम्॥४८॥
आगन्तवोऽथ वक्ष्यन्ते त्र्यशीतिः सर्व एव ते॥
त्रयः स्युर्दैविकास्तत्र विद्युत्पाताह391तोऽक्षिरुक्॥४९॥
दन्तरोगोऽथ दग्धोऽन्यो विद्युतैवेति देविकाः॥
दश ग्रहात्मका392स्तत्र प्रग्रहोऽप्यववाहुकः॥५०॥
मृगाक्षो रतिकश्चैव393 प्रतारः स्वपितिस्तथा॥
प्रमर्दनोऽथ काम्याक्षो394वाणिजस्थविराविति॥५१॥
नवैते395 पृथगुन्मानो दशमः परिकीर्तितः॥
अवशिष्टांस्तत396श्चोर्ध्वं रोगान्वक्ष्यामि सप्ततिम्397॥५२॥
अभिघातः शिरोरोगः शरनद्धः क्षतश्च यः॥
निर्मूलेन398 स्थाणुहतस्तथा क्षीणतलोऽपि च॥५३॥
शोफः काचः प्रतिनुन्नो निष्पेषहत एव च॥
संतापोऽतीतमुक्तो य ऊष्मापरिगतश्च यः॥
दण्डाक्षश्छर्द्यतीसारो विषार्तो दग्धदूषितः॥५४॥
सर्पार्तिः399 स्फोटकाश्चापवादबद्धो400 विसर्परुक्॥
बलमैहनयोः क्षाण्यौ योऽवसन्नश्च कीर्तितः॥५५॥
भिन्नबस्तिर्दन्तरोगो लुप्तः शीतार्दितस्तथा॥
मक्षिकादष्टमर्माभिनीतौ षोडश चाप्यमी॥५६॥
स्तब्धं निःस्वातं401 निष्पिष्टं विहतं402 व्याहतं तथा ॥
सू(शू)नं403 संकुचितं भग्नं म्लानमावेष्टितं तथा॥५७॥
निर्वे(श्चे)ष्टितं शोषितं च तथैवोन्मथितं च यत्॥
भ्रष्टं छिन्नं च्युतं वा स्यादाबाधा404 गात्रसंश्रयात्॥५८॥
सद्यःक्षतं देहभङ्गो घृष्टं दरधं चतुर्विधम्॥
अग्निक्षारतुषारार्कैर्मूढगर्भंततः परम्॥५९॥
शल्यैर्यश्च405 विनिष्पिष्टो यो व्यालैरण्डकावपि॥
लूता406 कीटावचूर्णश्च व्यापदोऽष्टौ च बस्तिजाः॥६०॥
द्वौ ग्राहौजलहस्ती चेत्यागन्तव407 उदाहृताः॥
शतत्रयं विभज्योक्तमिति पञ्चदशोत्तरम्॥६१॥
तेष्वसाध्याश्च बोद्धव्याः शुद्धः408 कूटश्च पाकलः॥
स्कन्दो द्वावथ संसक्तः संपातानाह एव च॥६२॥
शिरारोगोऽथ संराष्ट्रोविप्लावो ग्रन्थिविप्लुतः॥
समन्तोऽथ कुठाराख्यस्तथा स्थानरतोऽपि च॥६३॥
विद्युन्निपातदग्धः स्यादुष्मापरिगतश्च यः॥
संनिपात409विसर्पश्च विसर्पः410 क्षतजस्तथा॥६४॥
पूर्वापवादबद्धौ च हृदयस्फाल्यतः411 परम्॥
हस्तोन्माथाश्च षडपि योऽवसन्नश्च कीर्तितः॥६५॥
भिन्नबस्तिरतो ज्ञेयो दन्तरोगश्च दैविकः॥
अक्रिया विक्रिया दैवी विविधारिष्टसंयुता॥६६॥
असाध्याः स्युरतोऽन्येऽपि रोगा ये चाऽऽयुषःक्षये॥
इत्यसाध्यास्ततो याप्याः कचकेशः कदम्बकः412॥६७॥
सुफुल्लश्चाप्यफुल्लश्च यवगण्डशिरास्तथा॥·
तलकासी ततश्चोक्तो वयःप्रकृतिदुर्बलौ॥६८॥
गात्रातङ्की413 ततोऽन्येऽपि साध्याः सन्त उपेक्षिताः॥
याप्याः स्युः कृच्छ्रसाध्याश्च रोगा ह्येवं विनिश्चये414॥६९॥
समस्तलिङ्गा ये जाता जाता ये गुरुवेदनाः॥
मर्मस्था दुरधिष्ठानाः स्थानसंविषमाश्च415 ये॥७०॥
अरिष्टलक्षणा ये च ये महारोगरुक्तमाः॥
इत्यसाध्याश्च याप्याश्च416 कृच्छ्रसाध्याश्च कीर्तिताः॥७१॥
सात्म्यानुलोमिकं चैव तथा बालचिकित्सितम्॥
उपसर्गे च जायन्ते, रोगाः सर्वत्र एव ते॥७२॥
दन्तरोगादभिन्नं च दन्तशल्यमितीक्ष्यते॥
मृदाजीर्णमृदानाहादभिन्नं च यतस्ततः417॥७३॥
याप्या418 (अ) मी तु संख्याता विभक्ता रोगसंग्रहे॥
उपक्रमविशेषेण निर्दिष्टाश्च पृथक्पृथक्॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेनप्रचोदितः॥७४॥६७५॥
** इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने रोगविभक्तिर्नाम सप्तमोऽध्यायः॥७॥**
———————-
अथाष्टमोऽध्यायः।
———————-
तपस्यग्रे स्थितं विप्रं वेदविद्याविशारदम्॥
मुनिं परमदुर्धर्षं शिष्यमण्डलमध्यगम्॥१॥
चम्पाधिपो नरपतिस्तदा पृच्छति संशयम्॥
भगवन्किंचिदाख्याहि संशयो मे द्विजोत्तम॥२॥
ज्वरः कथं समुत्पन्नः कस्मिन्वा कारणान्तरे॥
ज्वराभिभूताश्चकथं नश्यन्ति प्राणिनो भुवि॥३॥
वारणा वाजिनश्चापि ये चान्ये मृगपक्षिणः॥
तथैवान्यानि भूतानि तिर्यग्योनिगतानि च॥४॥
प्राणेभ्यो विप्रयुज्यन्ते ज्वरेणाभिद्रुतानि च॥
एतच्च419 परमं दुःखं मानसं संप्रवर्तते॥५॥
मृत्योर्वशे वर्तमानं दृष्ट्वा तु कृपणं जगत्॥
एतन्मे पृच्छतो ब्रूहि ज्वरस्योत्पत्तिलक्षणम्॥६॥
विज्ञानं चाप्यशेषेण पूर्वरूपाणि यानि च॥
एवमुक्तः स शिष्येण पालकाप्यस्ततोऽब्रवीत्॥७॥
देवानां दानवानां च युद्धमासीत्सुदारुणम्॥
तत्र देवा न तिष्ठन्ति दानवानां महाहवे॥८॥
ततो विश्वेश्वरं देवं नीलकण्ठं वृषध्वजम्॥
ईशानं सर्वभूतानां वरदं420 शरणं गताः॥९॥
प्रभवं सर्वभूतानां देवं च पुरुषोत्तमम्॥
तौदेवौ सूर्यसंकाशौ क्रुद्धौपरमदारुणौ॥१०॥
दानवानां विनाशाय रुद्रः स्म सृजति ज्वरम्॥
द्वितीयं सृष्टवान्विष्णुः प्रज्वरं घोरदर्शनम्॥११॥
तौसृष्टावग्निसंकाशौ दैत्यानीके विचेरतुः॥
ज्वरश्च प्रज्वरश्चोभौकालान्तकयमोपमौ॥१२॥
रुद्रनारायणमयौदिव्याग्निरिव दारुणौ॥
अग्न्यशनिसमस्पर्शौब्रह्मलोकेऽप्यनुत्तमौ॥१३॥
न शक्यमसुरैः स्थातुं मुहूर्तमपि संयुगे॥
कृशा विवर्णाः शिथिला मुक्तायुधरथध्वजाः॥१४॥
वेपमाना विमनसो निरुत्साहाः सुदुःखिताः॥
भयार्ता मरणत्रस्ता ब्रह्माणं समुपस्थिताः॥१५॥
प्रसीद भगवन्देव त्रातुमर्हसि सुव्रत॥
रुद्रनारायणावेतौ संहरन्तौ तु दानवान्॥१६॥
क्रुद्धौ परमदुर्धर्षौतेजसा421मूहतो भृशम्॥
भगवन्गतिरस्माकं गतिरन्या न विद्यते॥१७॥
स एवमुक्तो भगवान्सर्वलोकपितामहः॥
दानवानाह सुप्रीतः स्वस्थी भवत विज्वराः॥१८॥
ज्वरमुक्तास्तु ते सर्वे प्रणेमुः शिरसा प्रभुम्॥
तौ सु कालान्तकसमौ ज्वरौ संहरतः प्रजाः॥१९॥
प्रभुस्तौ व्यसृजन्नाशुजङ्गमस्थावरेषु च॥
रुद्रनारायणमयौकोपाग्री त्वतिदारुणौ॥२०॥
आशी422बिषमिवात्युग्रं ज्वलन्तमिव पावकम्॥
कालान्तकसमं क्रुद्धं दैवतैरपि दुस्तरम्॥२१॥
पृथिव्यां यानि भूतानि स्थावराणि चराणि च॥
स्पर्शादेव विनश्यन्ति क्षणं विद्युदिवाम्बरे॥२२॥
ऋते मनुष्याद्राजेन्द्र नान्यो विषहते ज्वरम्॥
तेजोधिका मनुष्यास्तु सहन्ते तेन ते ज्वरम्॥२३॥
एष घोरोमहाव्याधिर्ज्वरः पाकलसंज्ञितः॥
ज्वरस्यपूर्वरूपाणि यानि वक्ष्यामि तच्छृणु॥२४॥
अनवस्थितमात्रश्च बहुशश्च विजृम्भते॥
शरीरगौरवं चैव हृष्टरोमा च जायते॥२५॥
ध्यायते दुर्मनाश्चैव423 यवसं नाभिनन्दति॥
पर्यश्रुः परिमूत्री च शय्यायां कुरुते मनः॥२६॥
एतद्भवति विज्ञानं गृहीते पाकलेन तु॥
नामभिर्बहुभिस्तैस्तैः सर्वप्राणिषु कीर्त्यते॥२७॥
कारणैर्बहुभिः प्रोक्तो दन्तिनां पाकलो भवेत्॥
रुद्रविष्णुमयं तेजो द्वादशादित्यवर्चसम्॥२८॥
प्रलयः सर्वभूतानां तस्मान्नित्यं व्यवस्थितः॥
एषा ज्वरसमुत्पत्तिर्यथावत्संप्रकीर्तिता
पृच्छतस्ते महाराज यथावदनुपूर्वशः॥२९॥७०४॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहापाठे महारोगस्थाने ज्वरोत्पत्तिर्नामाष्टमोऽध्यायः॥८॥
———————
अथ नवमोऽध्यायः।
———————
अङ्गराजो महाप्राज्ञैर्नयकारैर्महात्मभिः॥
सहोपविष्टं शालायां पालकाप्यं स्म पृच्छति॥१॥
पाकला424 येऽन्वये425 ब्रह्मंस्त्वयोक्तास्तान्प्रचक्ष्व मे॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत्॥२॥
पाकलाञ्शृणु424मे राजन्सनिरुक्तान्ससंभवान्॥
रुद्रस्य क्रोधजो ह्येष (नामभिर्बहुभिर्ज्वरः426॥३॥
अन्तकः सर्वभूतानां क्षयं नयति दारुणः॥
अनाविष्टेन तेनेह कश्चित्प्राणैर्विमुच्यते॥४॥
अन्तकाले विशत्येष) जङ्गमाजङ्गमं जगत्॥
ततः —एष एक एव खलु भो ज्वरो नरेषु हयेष्वभितापः, खरेषु खोरकः, गोष्वीश्वरः, उष्ट्रेष्वलसकः427, व्याडेष्वाक्षिकः, प्रलापकोऽजादिषु, सरीसृपेषु कष्णीषः428, हारिद्रको महिषेषु, मृगरोगो मृगेषु, पक्षिष्ववतापः पतङ्गेषु शुनस्त्वेलर्कः429, मस्त्येष्विन्द्रमदः, गुल्मेषु गुच्छकः, ओषधिवनस्पतिषु ज्योतिष्कः, माल्येषु430 पर्वकः, ऋषभको नलिनीषु, धान्येषु चूर्णकः, ललः कोद्रवेषु, मधूकः शाकेषु, भूम्यामूषरः, अप्सुनीलिका, गजेषु पाकलः।
रुजतीति रोगः।पचतीति पाकलः। ज्वरयतीति ज्वरः। कलयति लोकमिति कालः। मृद्रातीति मृत्युः।
एवमेतस्मादीश्वरान्नानाविधरूपसंभवनामकर्मण आशीविषाग्न्यशनिनिपातकल्पात्पाकल-संज्ञकान्नित्यमेव भेतव्यम्। महानेष व्याधिर्यत्नेनोपचर्यः। नैनमन्ये प्राणिनो विषहन्ते, ऋते मनुष्येभ्यः।
गजास्त्वन्तरोष्मस्वेदत्वान्न सहन्ते, ज्वरं, बहलमांसमेदस्त्वाच्च। पुरुषास्तु बहिःशरीरगतत्वादूष्मणो विषहन्ते ज्वरमूष्मलक्षणम्, तनुमांसमेदस्त्वाच्च। अल्पदोषमृदुभूतं वा द्विरदाः। न चैषामन्येषामिव प्राणिनामूष्मा लक्षणम्।
सन्निदानलक्षणो ह्येष नागानां दशधा संज्ञितः। तद्यथा—शुद्धः, बालः, पक्वलः, मृदुग्रहः, कुक्कुटः431, एकाङ्गग्रहः, प्रसुप्तः, कूटः, पुण्डरीकः, महापाकलश्चेति।
तत्राऽऽदित एव तावच्छुद्धपाकलविकारं वक्ष्यामः—
स खलु भो दधिगुडतिलपललमत्स्याहारात्, आनूपतृणमांसरसभोजनात्, अव्यायामात्, तथा शिशिरजलनिषेवणात्, दिवास्वप्नात्, अतिस्निग्धमधुराम्ललवणभोजनात्, विशेषतः कफजननेभ्यः, श्लेष्मा प्रवृद्धः स्थानात्स्थानमतिवर्तमानः शिराधमनीभ्यः सर्वशरीरमभिप्रपद्यमानः शुद्धपाकलमभिनिर्वर्तयति432।
तस्य लक्षणानि—नीलिमा श्यामत्वं जघननिष्कोशपेचकेषु, कफाच्च निद्रा433 जायते, प्रसुप्तत्वमाध्मातत्वं434 हृष्टरोमस्तब्धत्वम्, लाङ्गूलश्रवणहस्तचेष्टासु निरुत्साहत्वम्, प्रध्मानम्435। निमीलनं चाक्ष्णोः, स्थूलोच्छ्वसनम्,गम्भीरमभिस्वननम्, अव्यञ्जनम्, मक्षिकाणामरक्षणम्, अविज्ञानम्, सलिलद्वेषः, गात्रनिःसङ्गः, पांशोरग्रहणम्, दन्तस्य चावधमनम् भिन्नपुरीषता, स्थूलाश्रुप्रस्रवणम्, हस्ततः कफप्रसेकः, मुखाच्च लालास्रावः, मह्यांविनिक्षिप्तकायोऽयं निषीदति च, अक्ष्णोः प्राग्भागे चौष्ण्यमन्यत्र शैत्यम्, न च यवसमभिलषति, मत्तवत्कोशकटप्रस्रावी भवति, प्रस्तब्धहस्तो निरीह इव, सर्वगात्राणां दुर्गन्धिः, स्तब्धाङ्गुलिः, श्यावमुखौष्ठः,श्यामनयननखः, स्तब्धाङ्गः, शुद्धकफोत्पत्तिः, तं शुद्धपाकलमित्याचक्ष्महे।
स गजस्तेनाभिभूतो हृदये श्लेष्मणि प्राप्त एकरात्रं वा त्रिरात्रं वा जीवति। नैव चतुर्थींरात्रिमभिनिवर्तत इति।
तत्र श्लोकः—
शुद्धात्कफात्समुत्पन्नंशुद्धपाकलमादितः॥
प्रत्याचक्षीत मेधावी लिङ्गैरेतैः समन्वितम्॥
(इति) शुद्धपाकलः (लहेतुलक्षणासाध्यत्वानि)॥
अथातो बालपाकलचिकित्सितं व्याख्यास्यामः। इति ह स्माऽऽह भगवान्पालकाप्यः —
स खलु भो रूक्षलघुशिशिरविशदकटुकषायतिक्तविषमविरुद्धभोजनात्436, दुःस्थानशयनात्, रात्रिजागरणात्, अतिगुरुभारहरणात्,व्यायामव्यवायात्, अध्वगमनात्, क्षयात्, मनःसंतापात्, ऋतुविपर्यासात्, लङ्घनात्, अतिबन्धनात्, मूत्रपुरीषधारणात् प्रावृषि च प्रकुप्यति पवनः। स प्रकुपितः करचरणनयनवदनकर्णलाङ्गूलकुक्षिपक्षस्कन्धजघनमेहनशिरसामन्यतममासाद्याङ्गंसर्वाङ्गानि वा गृहीत्वेमान्विका437रानापादयति।
तत्र करगते मारुते—नावमृशति नोन्मृशति, न हस्तं संकोचयति, नप्रसारयति, न निर्धमति। चरणगते—युगपदेकैकशो वा गात्राणि परं स्तम्भयति। (नयनगते438—न संवर्तयति,) नोन्मीलयति, न संमीलयति, नस्वपिति नेत्राभ्याम्। मुखे439 गृहीतो—नात्ति किंचित्। कर्णगते440— स्तब्धकर्णो भवति। लाङ्गूलगते—लाङ्गूलवंशं स्तम्भयति, लाङ्गूलं441 शूनं च कुरुते। कुक्षिपक्षगतश्च—आध्मानाटोपसंकोचनपक्षघातान्निर्वर्तयति, शूलं कुरुते। स्कन्धगते— न निर्णमति442, नोन्नमति, नावनमति, मन्ये स्तम्भयति। जघनगते—मूत्रपुरीषसङ्गानापादयति। मेहनगते— मेहनं स्तम्भयति, मेहनं च शूनं443 कुरुते, रक्तमूत्रं वा प्रवर्तयति। शिरोगते— स्तब्धोन्नतशिरोग्रीवो भवति। पूर्वभागमाश्रितः—तदाश्रयां क्रियां विरोधयति, सृष्टमपि च न तत्र मर्षयति। सर्वाङ्गगतः—सर्वानेवाङ्गप्रदेशानन्तर्बहिश्च प्रस्तभ्य तिष्ठति, ततो गजः प्रध्यायतिनिमीलयति, अश्रूणि प्रवर्तयति, न स्थानस्तम्भरथ्यासु मनो धत्ते कृच्छ्रवातमूत्रपुरीषश्च भवति। भोजनकवलकुवलपल्लवाहारद्वेषी वेदना चास्य सुखदुःखान्वयाद्व्यामिश्री भवति। रूक्षत्वक्करचरणादिषु प्रकुपितो बालचेष्टेव क्रमादभिवर्धते यावत्सर्वाङ्गगतो भवतीति यस्मात्,तस्मात्— तं बालपाकलमित्याचक्ष्महे॥
स खल्वेष लिङ्गबाहुल्यात्क्षीण444दुर्बलबालवृद्धानां कृच्छ्रप्रतीकारो445 भवति।तं सुरक्षितं446 रक्षासु विहितस्थानशयनस्तम्भं447 रक्षोघ्नभोजनगुप्तमाज्याहुतिबलिकर्मप्रायश्चित्तपुरस्कृतं चिकित्सितमुपक्रमेत। ततो वायुनिग्रहणार्थं यं यं वायु448र्गृह्णाति प्रदेशमनेकपस्य, तं तं449 तप्तस्नेहादिभिरुपक्रमेत।तत्रायं विशेषः— मत्स्यांश्च शकुलिनो450 बहून्निःशकलीकृत्य तैलोदकेन विपाच्य बलाकाशिखिरोहितचर्मिणां वा सुसंस्कृतेन युक्तं रसं विपाच्य मांसं सलवणीकृत्य कालकन्दकोलविदारीपिप्पलीमरीचकल्कमिश्रं यूषं कारयेत्,तं पाययेदशेषयन्यथानुकूल्यं तम्।भोजनमपि चास्मै मत्स्यमांसरससुसंस्कृतं दापयेत्। तेनापगतदोषो भवति। स खल्वेष तेनैव कल्पेन बिल्वाग्निमन्थश्रीपर्णीवरुणकपाटलीनां मूलानि समाहृत्य संछिद्य प्रक्षाल्य वाराहमांसेनैकत्वं कृत्वा सलिले विपाचयेत्। भोजनं चोपहारयेत्451। तेनास्य शकृच्छुध्यति वायुश्च गुदं प्रपद्यते यथावत्। अथवा बदराम्लवेतसमांसपेशीकाश्च दध्यम्लयुक्ताः प्रभूतलवणीकृताःसलिलेन452 विपाचयेत्। तस्मिन्नपहृते बिल्वमात्रं पिप्पलीकल्कं समावाप्य453 शीतीकृतं तथैव रसं पाययेत्। द्विपञ्चमूलवरुणकनिष्क्वाथे वराहमांसमुपसाध्य रसं तं त्रिकटुकविदारीचूर्णमिश्रं सतैलंलवणीकृत्य पानभोजनयोर्दद्यात्। तेनास्य करकर्णलाङ्गूलकोष्ठस्कन्धशिरोग्रीवागात्रात्पर454-गतश्चानिलः प्रशान्तिमुपगच्छति। कर्णिकारोरुबूकशाककरवीराणां पत्राणि बृहतीं च समूलपत्रस्कन्धां संक्षुद्य तिलपिष्टयुक्तां महास्थाल्यां वा लौह्यां455 क्वाथयित्वा विधिवत्तैलाभ्यक्तस्य नाडीस्वेदं कुर्यात्। ततोऽस्यमूत्रं प्रवर्तयेत्, गात्राणां च मार्दवमुपजायते, व्याधिश्चनश्यति456, अरुक्शरीरश्च भवति। अथवा बिल्वसुरसैरण्डपत्रैश्च सह तिलचूर्णैर्बदराम्लदधिस्थल(त्थ)शूकरमांसैर्नाडीस्वेदं कुर्यात्। एतैरेवौषधैः सार्धं मांसं संस्कारयेत्। सुसंस्कृतैश्चैनं भोजयेत्। रसं चैनं पाययेत्। शाल्योदनं च भोजयेत्।ततः प्राणोऽस्य वर्धते, व्याधिर्निवर्तते। भवत्यपि च शीघ्रं स्वस्थी। कृतस्वेदस्यास्य च शीतीकरणं विदध्यात्। (उशीरो438त्पलपद्मपत्रैर्दधिमिश्रैःप्रदेहं कुर्यात्। भूयश्च मरिचपिप्पलीभिर्घृतमण्डं विपाच्य तेन सर्वसेकं विदध्यात्) पयस्याटरूषकश्वेत457किणिहीतृवृन्म458रीचानां निर्यूहे पादावशिष्टे तैलं विपाच्य विधिवदनुवासनं विदध्यात्। ततः क्षिप्रतरमेव स्वस्थो भवति। महापञ्चमूलं बिल्वफलपत्राणि तरुणान्याम्रातकस्याऽऽढक्याश्चपत्रभङ्गाञ्शतावर्या विदार्याश्च मूलैर्भद्रमुस्ताशाकफलानि च निष्क्वाथ्य तत्र वराहमहिषयोः प्रभूततैलं रसं कृत्वा स्वर्जिकालवणाभ्यां संस्कृतं पाययेत्। तेनैव चैनं भोजयेत्, सद्यः सुखी भवति। अथ बदरामलकयोर्निष्क्वाथस्य त्रीन्भागान्दध्नश्चाष्टचतुर्थमम्लस्यतैलभागं पञ्चमं चात्र कृत्वा पिप्पलीमरिचयोश्च कल्केन यूषं विपाच्य व्यक्तलवणीकृतं दद्यात्। भोजयेच्च वारणं व्याधिप्रशमनार्थम्।(*अथवा459 यवगोधूमतिलकल्कतर्कार्युरुषूकार्कभङ्गैः शार्ङ्गष्टा(?) कल्कयुक्तैर्जलेनैव नाडीस्वेदं कुर्यात्। पृष्टिपर्ण्यंशुमतीफणिज्जकमेषशृङ्गीमुस्तानां निष्काथै रोहितमत्स्यस्य कृष्णमत्स्यस्य च वा रसं पाययेत्। भोजयेच्चैनं व्याधिप्रशमनार्थं) विधीयते। निवातस्थस्य स्वभ्यक्तं चैनं नाडीस्वेदपिण्डस्वेदैरुपक्रमेत।विषाणिकांचार्कपर्णी त्रिकटुकं चित्रकं प्रियङ्गुंच गुग्गुलुतगरफणिज्जकफलानि च सूक्ष्मचूर्णानि कृत्वा नस्यंप्रधमनं दद्यात्, कर्णिकारोरुबूकाशोकबदरकरवीरखदिरशल्लकीनीपासनमुस्तमधुशिग्रुवेणुकपित्थबिल्वपाटलाधातकीवासन्तीश्रीपर्णीसुमनासुरसानवमालिकास्फोतापञ्चमूलबलानागबलाद्विपुनर्नवाचूर्णकानां बृहत्याश्च पत्रभङ्गान्संक्षुद्य द्विहस्तपरिणाहं चतुर्हस्तावगाढमवटं460 दृढकूलं स्वानयित्वा पत्रभङ्गानेतान्प्रक्षिपेदुत्तरोदके। ततोऽग्निवर्णैरयोगुडैरुष्णीकृत्य तदुदकं हस्तिनं तैलेनाभ्यज्य गोण्या प्रतिच्छाद्य स्वेदयेत्। अथवा हस्तिप्रमाणमवटं461 कारयित्वा पूर्ववदुष्णेनावगाह्य स्वेदयेत्। भूयश्चैनं रोहितमत्स्यमहिषाजह462रिणवराहाणामन्यतमस्य रसेन स्नेहकल्कलवणयुक्तेन भोजयेत्। सर्वाश्च किया निवातस्थस्याभ्यक्तस्य कुर्यात्॥
तत्र श्लोकः —
कष्टो ह्येषभृशं व्याधिर्वारणप्राणनाशकः॥
उपाचरेद्यथाशास्त्रं यत्नतो बालपाकलम्॥
इति बालपाकलहेतुलक्षणचिकित्सितम्।
अथातः पक्वलपाकलचिकित्सितं व्याख्यास्यामः— इति ह स्माऽऽह भगवान्पालकाप्यः —
अथ463 यदा द्विरदः शुक्ताम्ल464क्षारलवणकटुतिक्तकषायरूक्षाहारप्रसक्तोऽयोगव्यायामव्यवायप्रवातोष्णस्थानशयनपरिसरणचेष्टारतः, तस्य वातपित्ते प्रकुपिते हृदयमुपागम्य465 दृढमुद्भ्रान्तं पक्वलं नाम पाकलमभिनिर्वर्तयतः466॥
स तेनाऽऽविष्ट आटोपितकरनयनकर्णवालधिर्मुहुर्मुहुः कर्णौस्फोटयति निश्वसिति विजृम्भते संवीजते। सगदे विक्षिपति संरमते467 गुडगुडायते, अश्रूणि मुञ्चति कवलाभिनन्दी भवति। तं468 पुनर्निरस्यति पुनर्भक्षयितुमिच्छति। तं पुनरुत्सृजति (क्रुध्यति विकूजति) विधुनोति शरीरम्, प्राकारगृहतटवृक्षकपाटकुड्य469वल्मीकस्तम्भादीन्हन्तुमिच्छति,पुरुषपशुहयरथगजयानशकटादीनि च। विशेषतश्च वैद्यमभिक्रुध्यति। यन्तृपरिकर्मभिश्च नियन्तुं शक्यते वाग्दण्डाङ्कुशयन्तृप्रतोदननि470र्भर्त्सनैः। पक्वल इति कोपः। तेनोपसृष्ट इति पक्वल471समेतैर्लिङ्गैरुपलभ्य पक्कलपाकलं चिकित्सितुमुपक्रमेत त्वरमाणः॥
पयः पञ्चमूल472शृतमुपाहृत्य सुखोष्णं बदरमिश्रं सलवणं पाययेत्। अथवा वचाबिल्वजशृङ्गीभ्यांवराहवसया सह शृतं473 पयः सौवर्चलेन कपालभृष्टेन सह संयोज्य पाययेत्। अथवा मूर्वापिचुमन्दगवाक्षीगिरिकर्णिकामूलानि ब्राह्मीहरीतकीकपित्थेन च संक्षुद्य पयसाऽऽलोड्य सह तिलचूर्णेन पाययेत्। अथवा —सप्तकृत्वो भृष्टान्यष्टौ लवणानि सामुद्रबिडसैन्धवसौवर्चलौद्भिदयवक्षारारामकघटीलवणानिसूक्ष्मचूर्णानि कृत्वा प्रसन्नया सह संयोज्य पाययेत्। आध्मातं474 शोणितमेहनमतिजातं कृच्छ्रमूत्रिणं चैतेन योगेन चिकित्सयेत्475। दन्त्यामलकगवाक्षिकाकालातृवृच्छङ्खिनीनीलिकाफलपिप्पलीःसंक्षुद्य गोमूत्रे रात्रिपर्युषितं पाययेत्। ततः पीत्वैव सपुरीषे वातपित्ते निरूहति। विरक्तं चैनं कालाविदारीसुवहागोलोमीक्वाथेन स्वेदयेत्। नीपश्वेताकिणिहीन476लसुरसावंशार्काणां पत्राणि यवकोलकुलत्थनिष्पावाढकीसणमूलकबीजानि दधिनि477 शिशिरे जले निष्क्वाथ्यससौवर्चलेनाऽऽस्थापनं विधिवद्दद्यात्। अथ वा दधि लवणमधुमधूकपयस्यामत्स्यवसाभिः शृताभि478रास्थापयेत्। ततः प्रत्यागतास्थापनमपहृतदोषगुप्तमुष्णेनैव वारिणा पानपरिषेकैरुपचरेत्। ततस्तं घृतेनाभ्यंज्य कुक्कुटान्कदलीकन्दकैः सह प्रसाध्य पृष्ठं मन्ये च स्वेदयेन्नागस्य। मुस्तामरिचदेवदारुविडङ्गाजशृङ्गीभिः479 सह पयः शृतशीतं तृवृच्चित्रककल्कसंयुक्तं पाययेदामाशयविशुद्ध्यर्थम्। अथवा गोपगुन्द्रामेषशृङ्गीनिम्बत्वग्गोमतीतृवृद्विडङ्गचित्रकैः पयः साधयित्वा पायितो नागो विशुद्धकोष्ठो भवति। अथवा सूक्ष्मैलासर्षपफणिज्जकक480ट्फललशुनविडङ्गमरिचवचापटोलक्षुद्रमत्स्यपिप्पलीकुलत्थकुक्कुटाण्डादीनिर्यूहं पादावशिष्टमवतार्य परिस्राव्य पुनर्महिषमांस-वसास्थूलान्त्रैःसह विपाच्य पाययेद्गोजयेच्चवारणम्।भूयश्च शतपत्रविदु480लाम480लकोदुम्बर-शमीजम्बुकपित्थपुत्रश्रेण्यश्मन्तकानि संक्षुद्य त्रिरात्रमासवमासुनुयाद्गोमूत्रे। ततश्चैनं पाययेत्पानानि पञ्च481 पञ्चरात्रम्। लामज्जकोशी482रहरीतकीशतपुष्पप्रियङ्गुरोध्रमधुककट्फलानां चूर्णैरासवं कृत्वा विधिवत्सप्तरात्रादूर्ध्वमष्टौ पानान्यष्टाहं दद्यात्। ततोऽनुलोममारुतोऽपहृत483पित्तः स्वस्थो वारणो भवति। ततश्चास्य शतावरीस्फूर्जकफणिज्जकमेषशृङ्ग्याटरूषककोविदारनिम्बार्कनीपपटलीकुटजकपित्थशक्रयवपुनर्नवासोमवल्कान्कल्पयित्वा तिलचूर्णेन सह निष्क्वाथ्य नाडीस्वेदं विधिवत्कुर्यात्।सपत्रेण चैनं निष्क्वाथेन स्वेदयत्। ततश्चैनं गोधाया रसेन मागधी किराततिक्तकटुक484षाययुक्तेन भोजयेत्। मरिचपिप्पलीचूर्णेन श्लक्ष्णीकृतेन श्वाविच्छल्यकयोर्वारिरसं पाययेत्। भूयश्च तैरेव मांसैर्भोजयेत्।
तत्र श्लोकः—
द्विदोषकोपात्खलु पक्वलोऽयं वाताच्च पिताच्च भवेदुदीर्णात्॥
स्निग्धं च तिक्तंच सदाऽस्य कार्यं पानं च भोज्यं च चिकित्सकेन॥
इतिपक्वलपाकलः(लहेतुलक्षणचिकित्सितानि)॥
अथातो मृदुग्रहपाकलचिकित्सितं व्याख्यास्यामः—इति ह स्माऽऽह भगवान्पालकाप्यः।
यदा तु खलु वारणो व्यायाममुष्णेऽतिमात्रं कारितो भवति485।अतिमुरुभारखिन्नोऽध्वकर्मणि वा योक्त्राऽधिष्ठितोऽतिमात्रं बलहीनो वातलान्याहार्यते। अथवा क्षीणः प्रक्षीयमाणधातुर्वा कथंचित्सात्म्यविरोधीनि वा सेवते। सलिलं चातिमात्रं पिबति कलुषं दुष्टामगन्धं निवातस्थानशय्यासनसुखं न लभते जागर्ति वा। कथंचित्तस्प वायुर्विमार्गमापन्नो व्यापादयति कफपित्ते रसादीन्वाधातूनस्य देहे। स तु तन्निमित्तं व्यापन्नेऽन्यवरस्मिन्धातौ प्रकृतौ चापि विपर्यस्तायां श्लेष्मोपलिप्तवातधातुः। पित्ते च विमार्गगते प्रक्षीयते श्वसिति च्छर्दयत्यभीक्ष्णं वमथुम्, यवसकवलकुवलपल्लवं च नाभिनन्दति, न मृदुग्रहाभिभूतः स्वपिति, ध्यायति गुरुमक्षिकः।गात्राणि च निरस्यति खिन्न इव दुर्मना विकर्षति पूर्वकायम्, कृशश्च हारिद्रवर्ण इव दृश्यते। कथंचित्कवलमेकं द्वौ वा ग्रसते परं त्रीन्, ग्रसित्वा श्लेष्मणा रक्तेन वा सह निरस्यते। शनैः शनैः क्षीयत इति मृदुग्रहः। तं राजयक्ष्मेत्याहुः। केचिद्गृहीतमात्रमेवोपक्रमेत, उपेक्षितो हि न शक्यश्चिकित्सितुमिति॥
काश्मर्यप्रियङ्गुगोमेदकीच संक्षुद्य शीतेन वारिणा संयोज्य परिस्राव्यं द्रोणमात्रं कषायं यावद्वासाधु486 मन्यते, तावत्तन्मधुसंयुक्तं पाययेत्। वमथुप्रशमनार्थं सोभाञ्जनकाजशृङ्गीबिल्वानि संक्षुद्य मधुना संयोज्य भोजयेत्। वमथुप्रशमनार्थं कर्णिकारत्वक्शल्लकीबीजमृणालिका-तालीसपत्रप्रियङ्गुविदारीकन्दहरीतकीबर्बरतृणानि संक्षुद्य मधुना संयोज्य भोजयेत्। वमथुनाशनो भूयश्चैषगणः—कर्णिकारादिरर्कक्षारसंयुक्तः समधुर्वमथुमुपहन्ति।अथवा शार्ङ्गेष्टाबिल्वातिन्दुकीमधुरसानां मूलैः कषायं कृत्वा मधुसंयुक्तं पाययेत्, वमथुप्रशमनार्थम्। तस्य प्रशान्तवमथोरभ्यञ्जनस्नेहनसेचनस्वेदनबृंहणानि योगतः कुर्यात्।काम्बोजीकसेरुकोशीरनालिकाविशमृद्वीकानां निष्क्वाथेन सर्पिर्मण्डं विपाच्य तेन स्नेहेन विधिवदनुवासनं दद्यात्। यवबदरचूर्णानां मधुसंयुक्तं द्रोणमात्रं तु भोजयेत्। निस्तुषांस्तु माषान्दध्युदश्विदम्लसिद्धान्सर्पिषा प्रभूतेन युक्तान्सलवणान्भोजयेत्। वेणुपर्णाशिनमथैनं कुशरां सुस्निग्धसलवणां भोजयेत्। सायं चैनं वाराहेण मांसेन सुस्निग्धेन सुलवणेन भोजयेत्। अथवा स्वस्करभ487तुरगशशकप्लवंगोरश्वशूकराणांमांसैर्दधिमस्तुसुरासौवीरकतमण्डेषु रसं कृत्वा पाययेत्। एतेषामेव यथोपपत्त्या वेसवारैर्भोजयेत्ससर्पिष्कैः। कङ्गुयवगोधूमचूर्णानि तिलमाषयोश्च निस्तुषयोः कृत्वा तेषां नव भागान्दशमं पिप्पलीशृङ्गवेरयोश्चूर्णभागमेतानि विधिवत्पयसि पक्त्वा मधुघुताभ्यां सह भोजयेत्। शृङ्गाटकोशीरशतावरीमूर्वाविश-मृणालविदारीकरोरुकाः पयसि समावाप्य दधि जावरसं कृत्वा सौबीरकघृतमण्डेषु बदरक्षोदमिश्रेषु च्छागमृगमांसं साधयित्वा रसं पाययेत्। मांसेन चैनं भोजयेत्। बिल्वतिन्दुकीघोण्टामलकफलानि प्रियङ्गुककुभाशोकवल्लीनां त्वक्चूर्णैरासुनुयात्488। आसवं तं मांसस्थितं जातप्रमाणमासायंभोजनादष्टभागं दद्यात्। काचमाचीपत्रफणिज्जकाश्मन्तकफलचूर्णैश्च नस्यप्रध्मापने कुर्यात्। श्वशृगालखरनकुलानां मांसोष्मणा स्कन्धे स्वेदं489 कुर्यात्। एकस्यद्वयोः सर्वेषां वा यथोपपत्त्या, अजस्य सर्वश्वेतस्य सर्वलोहितवर्णस्य वा पिङ्गलस्य शुनस्तरक्षोर्वा रोहितकृष्णमत्स्ययोर्वा हृदयेन सघृतेन धूपयेत्। मूषकस्य490 क्षारकायस्य वा491लावककाकयोर्वा मेदसा नेत्रयोरञ्जनं धूपनं च कुर्यात्॥
तत्र श्लोकाः —
दुश्चिकित्स्यतमो ह्येष पाकल492ःप्राणनाशनः।
मृदुग्रहः समाख्यातो राजयक्ष्मा सुदारुणः॥
मृदु पूर्वं गृहीत्वैष क्रमाद्भवति दारुणः।
यस्मात्क्षपयति प्राणांस्तस्मादेष मृदुग्रहः॥
जीवेत्स चतुरो मासान्षडष्टौ वाऽपि जीवति।
जीवेत्संवत्सरं वाऽपि न च रोगात्प्रमुच्यते॥
शान्तिस्वस्त्ययनैर्धूपैरभ्यङ्गैः पानभोजनैः।
नस्यप्रध्मापनैः स्वेदैः सुप्रयुक्तैस्तु साध्यते॥
य एतं493 साधयेद्वैद्यः पाकलं तु मृदुग्रहम्।
स भिषग्दानपूजाभिः पूज्यस्तु सततं नृपैः॥
इति मृदुग्रहः(हपाकलहेतुलक्षणचिकित्सितानि)।
------------
अथातः कुक्कुटपाकलचिकित्सितं व्याख्यास्यामः — इति ह स्माऽऽह भगवान्पालकाप्यः।
स यदावारणः पुरप्र494मर्दनादिभिः कर्मभिरतियोगेन पीडितोऽतिमात्रं वातप्रकोपकरमाहारमलवणमस्नेहमतिक्लान्तो भोज्यते हन्यते बध्यते वा गाढं तस्य व्यायामादतिमात्रमभिरूक्षकटुकषायाहारस्य वातः प्रकुपितोऽत्यर्थमेतानि लिङ्गानि दर्शयति —
प्रवेपतेप्रहृष्यति पतति परिवर्ततेऽश्ववत्, नदति ताडयते ध्यायति495 शिरसा भूमितलमाहन्ति, कूजति निःश्वसिति संरक्तनयनः प्रेक्षते, अष्ठीलिकाभ्यां धरणितलमाहन्ति, ललाटेन496 वा, तिष्ठते497, कुण्डलीकरोत्यात्मानं समन्तात्परिकर्षति, व्याददाति मुहुर्मुहुर्मुखम्, अतिसार्यते498, मत्त इव भवति भूतोपसृष्ट इवच लक्ष्यते ध्यायति कुप्यति, कुक्कुट इव कूजतीति कुक्कुटपाकलः499। तं वैद्य एतैर्लिङ्गैरुपलभ्य कुक्कुटपाकलगृहीतमिति विज्ञाय चिकित्सितुमुपक्रमेत —
यवक्षारसमुद्रलवणबदरबिडङ्गहरिद्रामरिचपिप्पलीः समभागाः संकुट्य दधिमधुघृतसंयुक्तान्षोडश कवलान्भोजयेद्यथाग्निवर्ष्म विभज्य वारणम्। अथार्कोरुबूकवत्सकतर्कारीशोभाञ्जनकाढकीनां मूलंफलपत्राणि संहृत्य मधुरसापाठाचित्रकांशुमतीपृश्निपर्णीनां च मूलानि कुटजनीपनिर्गुण्डीनां फलानि संक्षुद्यसैन्धवसामुद्रबिडयवक्षारकुलत्थाम्लदधिमस्तुसौवीरकैः सह संयोज्य भोजनायोपाहरेत्। (*अथवा500 न्यग्रोधाढक्युरुबूकपाटलीकर्पासीनां मूलफलपत्राणि संहृत्य मधुरसापाठाचित्रकांशुमतीपृश्निपर्णीनां च मूलानि कुटजनीपासनशल्लकीनांफलानि संक्षुद्य सैन्धवसामुद्रबिडयवक्षारैः संयोज्य नाडीस्वेदं कुर्यात्। एतेषांच पत्रभङ्गेन सुखोष्णेन स्वेदयेत्)\। कुक्कुटस्य कृष्णमत्स्यस्य वा रुधिरेणाञ्जन501धूपनम्। पञ्चाङ्गस्य निम्बस्य वा मुखे शिरसि शरीरे च कृत्वा नक्तमालफलश्वेतसर्षपकुलत्थहिङ्ग्वजाजी(व)बर्बरतृणाश्वगन्धापूतिगन्धार्कविषाणिकाकौशिकैःसह वानररुधिरैर्धूपयेत्। भद्रमुस्ताकाश्मर्यकुस्तुम्बुरी(रु)सुरसपत्रबिडङ्गैस्तैलं विपाच्य विधिवदनुवासनं कुर्यात्। सर्पनिर्मोकवानररोमकुक्कुटमेदोभिरजाघृतसंयुक्तैर्धूपयेत्।काकमाचीपत्रफणिज्जककाश्मर्यकट्फलचूर्णैश्च नस्यं502 प्रधमनं कुर्यात्। अञ्जनं यवक्षारं काककुक्कुटयो रुधिरेण शिरीषफलसं503युक्तेन कुर्यात्।अतसीशीतशिवाकृष्णकन्दाहरितालमनःशिलासुवर्णपुष्पीमहाकन्दासर्जरसैःसूर्यसंकर504णीकैरातमूलनलदवोरकसंयुक्तैः पुराणघृतेन संयोज्य धूपयेत्। आमोक्षाच्चैनंव्याधिमुष्णेनाम्बुना कम्बलैः प्रतिच्छाद्य विना शिरसा योगतः स्वेदयेत्। बिल्वफलानि सलवणानि निम्बपत्रपरिवेष्टितं च पिण्याकं भोजनकाले कवलान्दद्यात्। अथवा यवना505लक्षारं सप्तकृत्वः परिस्रुतं506सौवीरकं दधि चेत्येतेषामेकैकस्याऽऽढकमुपकल्प्य संयोज्य पाययेत्। भूयश्च मत्स्यरसं मयूररसं पाययेत्॥
तत्र श्लोकौ —
गजप्राणहरो ह्येष व्याधिः कुक्कुटपाकलः499।
अनेन विधिना राजन्यथोक्तेन प्रशाम्यति॥
य एनं साधयेद्वैद्यः कष्टं कुक्कुटपाकलम्।
पूजयेत्तं सदा राजा ब्रह्माणमिव वासवः॥
इति कुक्कुटपाकलः(लहेतुलक्षणचिकित्सितानि)॥
अथात एकाङ्गग्रहपाकलचिकित्सितं व्याख्यास्यामः, इति हस्माऽऽह भगवान्पालकाप्यः॥
इह खलु भो वरुणग्रहो नाम दैवाद्भवति दोषादित्येके। तस्य दैवादुत्पन्नस्य तावत्कारणं ब्रूमः। अथ यदा नगनदीनदसरस्तडागपल्वलादीनां तीर्थेष्वशिवे507ष्वज्ञातनामकर्ममर्मस्वदृष्टपूर्वेषूदकेषु हस्तिनं वरुणानुचरसेवितेष्वकृतनदीयज्ञेषु नागबन्धनेषु508 पाययन्त्यवगाहयन्ति वा हस्तिजीविनः प्रमादान्मोहादज्ञानाद्वा, तदा वरुणस्तेनाभिभूयते। अथ वा देवतायतनपाखण्ड्यावसथाश्रमभञ्जनावमर्दनाच्छून्यागारचतुष्पथमहानदीसंकटनिर्झरनिकुञ्जेषु सुदारुणेषु (*महापथनगर-संगमपथेषूग्रदारुणेषु509) तिथिनक्षत्रेषुश्मशानपरिवासाद्भवति510। अथवामन्त्रयोगादुग्रसिद्धचारणमातङ्गशाकिनीन्द्रजालिकशबरबर्बरादिभिरेवंविधैरन्यैश्च मायाविभिरुपहारार्थं गृह्णतस्तथा भवति। भवति च भूतपिशाचयक्षराक्षसनिरीषणात्। तस्यैवं दैवादुत्पन्नस्य निदानमुपवक्ष्यामः —
हस्तगात्राणामन्यतममङ्गं न शक्नोति संकोचयितुमुत्क्षेप्तुमासितुं परिक्रु(क्र)ष्टुं वा बद्ध इव भवति, निःश्वसिति (*भ्रमति परिणमति509)संकुचति नदति ध्यायति पर्यश्रुनयनः,तस्यैकाङ्गग्रहणादेकाङ्गग्रहणपाकल इत्याख्यातः।तस्य स्थले जले वा निषण्णस्य निवृत्तं चिकित्सितम्। अथापि यन्तार511मिति विचिन्तयन्धावति स्थलाज्जलाद्वा। यदा चकमलकुमुदकुवलयतामरसकल्हारोत्प(*लानामन्येषां वा ज) लजातानां कुसुमानां समानगन्धः, तदाऽप्यस्य निवृत्ता512 प्रतिक्रिया। प्रकृतिस्थगन्धस्यापि सतो यदि (*भवति) हरितालहिङ्गुलमनःशिलानामन्यतमेन सवर्णता, तदाऽप्यस्य निवृत्तः प्रतीकारः। अविवर्णस्यापि विगन्धस्य प्रभावतः करगात्रापरादीनां513 व्यापाराणां पक्षस्तनस्तब्धस्यापि सतोऽङ्गस्य प्रतीकारं वक्ष्यामः —
स्वस्तिकापूपसंयावपूपोल्लापिकापरमान्नगन्धधूपसंयुक्तानिस्थलजलजानिकुसुमान्याहृत्य सौवर्णान्स्वस्तिकांश्चोपहृत्य कन्याः संतोषयित्वा कृतमङ्गला अहते514 वाससी परिहिता नद्या बलिमुपहरेत्सतूर्यघोषैः। वैद्यश्चाप्युपवासं (स) प्रयतोऽहतवासास्तत्र यथोक्तमुपहृत्याग्निंप्रागुत्तराग्रैर्दर्भैर्हस्तिनीसमीपे स्थण्डिलं परिस्तीर्योदुम्बरशाखाभिः कुसुममालाभिश्च परिवार्य तत्रौदुम्बरीभिः समिद्भिर्वह्निंप्रज्वाल्य सौवर्णस्वस्तिकादिभिरर्चयित्वा गोदधिमधुघृततिलैर्वरुणाय हुत्वा प्रसन्नां मैरेयं सीधुमुपहृत्य बलिं ब्राह्मणान्स्वस्ति वाचयित्वा वैद्यः प्राङ्मुखोरात्रौ मन्त्रेणानेन जुहुयात् — ‘नमोऽस्तु वरुणदेवाय सह नदीभिः स्वाहा। नमोऽस्तु पाशेभ्यो नागेभ्यो ग्रहेभ्यः स्वाहा। स्वस्त्यस्तु ते हस्तिने स्वाहा’हुत्वा ब्राह्मणान्स्वस्ति वाच्य हस्तितीर्थे बलिं वरुणायोपहरेत्। सीधुं मैरेयं प्रसन्नांमुरा515मुद्धृत्य बालिंरात्रौ कृताञ्जलिर्वैद्यः प्रयतो हस्तितीर्थाभिमुखो मन्त्रमिमं ब्रूयात् —
इन्द्रेण दत्तां पृथिवीं राजा पाति स्वकर्मणा।
तमिन्द्रं516 पार्थिवं देवा गोपायन्ति सवाहनम्॥
येनैष धर्षितो हस्ती तं क्रुद्धः पृथिवीपतिः।
शक्तो517 निर्विषयं कर्तुमिन्द्रदत्तो न संशयः॥
मुक्ते ग्रहेण मातङ्गे पूजां राजा करिष्यति।
तस्मान्मुञ्चतु मातङ्गं मा हिंसीष्ट(स्त्वं) नमोऽस्तु ते॥
रक्षोभिस्तु गृहीतानां ददाति पिशितौदनम्।
गन्धर्वकिंनरेभ्यस्तु गीतवादित्रनिःस्वनम्॥
नागेभ्योऽपि नृपो दद्याद्दधिकुल्माषमोदनम्।
इति त्रिरुक्त्वा518भूयश्चिकित्सितुमुपक्रमेत्॥
कालकन्दाविदारीकुम्भीकानि519 तिलपिष्टं च सहोत्क्वाथ्य नाडीस्वेदं कुर्यात्।अथवा नीलोत्पलकुमुदशृङ्गाटककसेरुकशालूकशेवालनलिनकुवलयानिंनिष्क्वाथ्य नाडीस्वेदं कुर्यात्। उदक्या520ह्युत्पलकन्दैश्च घृतेन संसृज्य धूपयेच्छ्रो(त्स्रो)तोभ्यः। अथवा मत्स्यकच्छपकुक्कुटैः सघृतैर्यवहिङ्गुभिर्धूपयेत्। जलचराणां च सत्त्वानां शिशुमारादीनां रसेन भोजयेत्। अथवाऽजगरमकरचर्मिराजीरसेन भोजयेत्। जलचराणां च पक्षिणां यथालाभं रसेन भोजयेत्। अयोगुडैरुष्णमम्भः पाययेत्। आव्याधिप्रमोक्षाच्च वेल्लनलङ्घनप्रसारणचङ्क्रमणानि शनैः शनैः कारयेत्। नदींचैनं न521 गमयेदिति॥
तत्र श्लोकौ —
वरुणं प्रतिपाद्यैवं क्रियाः कुर्वन्यथाविधि।
मोक्षयेत्कुशलो वैद्यो वारणं वरुणग्रहात्॥
संजातबलमांसं तमेकाङ्गार्दितपाकलात्।
राज्ञः संदर्शयेद्वैद्यश्चन्द्रं मुक्तमिव ग्रहात्॥
(इति) एकाङ्गग्रहः (हहेतुलक्षणचिकित्सितानि)॥
अथातः प्रसुप्तपाकलचिकित्सितं व्याख्यास्यामः — इति ह स्माऽऽह भगवान्पालकाप्यः॥
अथ यदा वारणस्य क्षारलवणकटुतिक्तकषायरूक्षाहाराद्वायुः प्रकुपितः कफपित्तौ युगपद्व्यापादयति। ततोऽस्य दीप्ताग्नेरुदराग्निरतीव भक्ष्यभोज्यपेयलेह्याद्यैराहारैर्दत्तैर्न तृप्यति, भृशमश्नाति, स्वयं च भोजनाभिनन्दी भवति, तृणमप्यत्यर्थमत्ति। ततोऽस्य मांसमुपचीयते, श्लेष्मा मेदश्च वर्धते। तत्रतन्द्रानिद्राक्लमालस्यान्यस्य जायन्ते। स च शिथिलबलो विपुलतरमांसमेदस्त्वात्कृच्छ्रेण गच्छति। स्वल्पमपि च शीतं बहु वेत्ति, सुखायते चोष्णमत्यर्थम्। मदलिङ्गानि522 दर्शयति, न च माद्यति। विष्टब्धचक्षुः स्वप्नशीलः शय्याभिकामो गम्भीरवेदी। इत्येतैर्लिङ्गैरुपपन्नं दृष्ट्वा प्रसुप्तपाकलोपसृष्टं वारणं विन्द्या(द्या)त्॥
तस्य साधनमुपदेक्ष्यामः —कार्श्यमस्य विधीयते, न स्थौल्यम्। यवान्नं कोद्रवान्नं चास्मै भोजनं दद्यात्। कुटजपिचुमन्दपिण्डां523स्त्वग्भिः समुद्रान्साधयित्वा खदिरसारनिष्क्वाथेन सह श्वाविन्मांसरसेनभोजनमस्मै दह्यात्। वेणुवेतसपत्राणां पत्रभङ्गांश्च भोजयेत्। तस्मिन्परिणते च माहिषरसमनुपानं दद्यात्। ततो भद्रदारुवचाभयाकृष्णकन्दाशृगालिकानक्तमालत्वग्हरीतकी-मधुरसातिक्तरसो(सा)भिःसंचूर्णिताभिरासवान्कृत्वा मधुसंयुक्तं524 मासस्थितं पाययेद्द्विरदम्। करवीरोरुबूककर्णिकारं बृहत्यौ च तिलपिष्टं च सहोत्क्वाथ्य नाडीस्वेदं कुर्यात्। निम्बकुटजखदिरत्वंचं मधुसंयुक्तं (क्तां) भोजयेत्। सक्तुद्रोणं चैनमुदमन्थंमधुसंयुक्तं पाययेत्। ल525गुडैरहनि स्वभ्यक्तस्याधोङ्गं मर्दयेत्।मृदिताङ्गस्य चाभ्यंङ्गमनु प्रतिशय्यां वातातपसेवां च यथायोगं योजयेत्। पाठाचन्दनहरिद्राद्वयभद्रदारुमहापञ्चमूलैः सह माषान्विपाच्य सप्तपर्णत्वचा सह संक्षुद्य विधिवत्कारयेत्।किण्वोदुम्बरककुभधवनिम्बाम्राजकर्णानां निष्क्वाथे मण्डोदकं स्यात्। वचारोध्रप्रियङ्गुलामज्जकोशीरहरतिकीशुण्ठीभ526ल्लातकमरिचपिप्पलीफणिज्जकशतपुष्पातगरैलानां सूक्ष्मचूर्णानि527 कृत्वा तस्मिन्मण्डोदकेकिण्वेनानेन चूर्णैश्चाऽऽसवं कृत्वा मासस्थितं528 पाययेद्द्विरदम्। एतत्पानं पूर्वोक्तेन प्रमाणेन। एवमेतैरुपक्रमविधिविशेषैर्नश्यति प्रसुप्तपाकलः॥
तत्र श्लोकौ—
कफपित्तसमुत्थस्तु पाकलः पृथिवीपते।
तिक्तैःकषायैः कटुकैश्चिकित्सेन्मतिमान्भिषक्॥
प्रसुप्तपाकलं चैनं विधिनाऽन्येन पार्थिव।
साधयेद्यो भिषक्सम्यक्स पूजामाप्नुयादिति॥
इति प्रसुप्तपाकलः (लहेतुलक्षणचिकित्सितानि।)
अथातः कूटपाकलचिकित्सितं व्याख्यास्यामः, इति ह स्माऽऽह (भगवान्) पालकाप्यः।
तत्र गजस्याभीक्ष्णशो रूक्षान्नयवसकवलकुवलतिक्तकटुकषाय लघुविषमरूक्षबह्वन्नभोजनात्, अथवाऽतिगुरुभारहरणतरणविलङ्घना त्कुंप्यत्यनिलः। तदात्मकश्च कूटः। कूटो नामाऽऽशुघातनम्। आशुघातनाद्द्विरदानाम्। तस्मात्— कूटपाकलमित्याचक्ष्महे।
तत्संप्रयोगाद्द्विरदः स्तब्धकरचरणनयनकर्णलाङ्गूलः पतत्यशनिहत इव, धरणिगतहरिण529शिशुरिव कूटेनाभिहतो म्रियते। क्षिप्रमेव निपतनाच्चास्य न निदानोपलब्धिः।
अथ चैनमेतेषु कालेषु530 भजते। स्तम्भोपाश्रयणं प्रतिपानकाले कल्प531ना531कल्पनगीथी विनयक्रिया, अवगाहस्थानाध्वगमनादिकालेषु।
तत्राल्पबुद्धयो द्विरदमवनिपतितमवेक्ष्य मन्यन्ते लक्षणाभावाद्विषपरिगत इति केचित्। ग्रहेणायं गृहीत इत्यपरे मूढा मिथ्याज्ञानात्। सनिदानौ हि तौ, अयमनिदानश्चाचिकित्स्यश्चेति।
तत्र श्लोकः —
यथा हि हन्यात्कूटेन मृगशावं वनेचरः॥
तथा वातात्मको नागं हन्ति वै कूटपाकलः॥
इति कूटपाकलः (लहेतुलक्षणाचिकित्स्यत्वानि)॥
अथातः पुण्डरीकपाकलचिकित्सितं व्याख्यास्यामः, इति ह स्माऽऽह भगवान्पालकाप्यः॥
इह खलु भो नवमः पुण्डरीको नाम पाकलः संभवति रुक्षकटुकषायक्षारतिक्तलवणतीक्ष्णाोष्णाम्ललघुविषमभोजनात्तस्यमारुतः कुपितो रक्तं पित्तं चशरीरे समन्ताद्विक्षिपति। ततोऽस्यलिङ्गानि दर्शयति —
करचरणजघनोदरोरुपृष्ठपार्श्वाण्डकोशमुखशिरोग्रीवाङ्गुलिलाङ्गूलेषुयत्र वा तत्र देशेष्व532सितहरितनीलपीतरक्तारुणानामन्यतमवर्णानि कृष्णपर्यन्तानि मण्डलानि प्रादुर्भवन्ति भृशवेदनानि सोष्माण्यग्नि533दग्धानीव विसर्पीणि534 पुण्डरीकपत्रप्रतिमानि यतः, तत एष पुण्डरीकपाकलो विसर्पः।
तेनोपसृष्टो वारणः कर्दमेन पांशुभिर्वा विकिरति मण्डलानि बहुश उष्णद्वेषी संमीलितनयनः कूजति निःश्वसिति दह्यमानः।
तस्य पूर्वं535 पवनमेवोपशमयेत्, प्रवर्तकत्वाद्दोषाणाम्। पित्तमप्याशुगतित्वात्तीक्ष्णत्वाच्च। तस्यावगाहावसेकपानानि निवर्तयेत्536। प्राणधारणामात्रं सुखोदकमल्पाल्पं देयम्। सर्पिषेवाभ्यङ्गोघृतमण्डेन वा बहुशः प्रशस्तः। परिषेकश्चास्य सुरया कार्यः। अथवाऽतसीकर्पासीशतपुष्पोरुबूकाटरूषकतर्कारीसुरसाकरवीरभङ्गनिष्क्वाथेनाभ्यज्य परिषेचयेत्। अथवा सुमनामुरस्मतर्कार्यहिंस्त्रासारङ्गेष्टा537दीर्घवृन्तार्कपत्रभङ्गनिष्क्वाथेन स्वभ्यक्तशरीरं परिषेचयेत्। अथवाऽऽढक्याटरूषका538रलुपाटलीकर्पासीकरवीरोरुबूकपुनर्नवास्फूर्जार्क539पत्रभङ्गानिष्क्वाथेनाभ्यज्य परिषेचयेत्। अभ्यङ्गपरिषेकैश्छविं प्रसाद्य ततः कुटकबीजखदिरनिम्बत्वचः क्षोदयित्वा गोमूत्रे त्रिरात्रपर्युषितानुभय540कालं त्रींस्त्रीन्कवलान्पित्तनिर्हरणार्थम्, (*अथवा541ऽश्मन्तकवचारग्वधधन्वनैस्तेनैव विधिना भोजयेत्पित्तनिर्हरणार्थम्, अथवा — अश्मन्तकार्जुनबिल्वत्वचः संक्षुद्य गोमूत्रे त्रिरात्रपर्युषिताः, अथवा — चारुककुभवरुणककदम्बसर्जभल्लातकानां त्वचस्तेनैव विधिना भोजयेत्पित्तनिर्हरणार्थम्। एतेनैव कल्पेन चन्दनलकुचसोमवल्कधवार ग्वधत्वचस्तेनैव विधिना भोजयेत्पित्तनिर्हरणार्थम्।) एवमेवाऽऽरग्वधदन्तीचारुकुम्भीकत्वचः क्षोदयित्वा गोमूत्रे रात्रिपर्युषिता भुक्त्वा वारणः पित्तं निरूहति केतकीसुरसाकुठेरकेन्दीवरपत्रैः सह कृष्णीतलान्पयसा पिष्ट्वाकल्केन मण्डलानि542 म्रक्षयेद्रुजापहरणार्थम्।543 वर्णप्रसादनार्थं च तरुणोदुम्बरतगरकृष्णतिलान्क्षीरेण पिष्ट्वातैर्घृतसंयुक्तैःप्रलेपयेत्। मांसीकाकमाचीपद्मकमञ्जिष्ठाकल्कं सलिलेनाऽऽलोड्य मण्डलानि म्रक्षयेत्। उरुबुकेङ्गुदीकरञ्जद्वयशिरीषाणां बीजैःकल्कपिष्टैस्तैलं विपाच्य प्रसन्नया सह संयोज्य मण्डलानि म्रक्षयेत्। शालीनां षष्टिकानामोदनं मयूरकौञ्चबलाकानांवाऽन्यतमस्य रसेन भोजयेत्॥
तत्र श्लोकः —
अभ्यङ्गैर्नृपवर सेचनैः प्रदेहैः544 पानैश्च प्रशममुपैति पुण्डरीकः॥
वैद्येन प्रथितगुणेन साध्यमानो दीप्ताग्निःसलिलघटैरिवावसिक्तः545॥
इति पुण्डरीकपाकलः (लहेतुलक्षणचिकित्सितानि)॥
अथातो महापाकलचिकित्सितं व्याख्यास्यामः, इति ह स्माऽऽह भगवान्पालकाप्यः॥
अथ यदा वारणो नवान्नस्निग्धमधुरघनगुरुशिशिरगुडदधितिलपललजलचरा546ननूपमांसरसतृणकवलकुवलपल्लवाहारोऽत्यर्थंसुखितत्वादव्यायामशीलः सहसा प्लवजलवितरणानि विनमनस्था547नानि कार्यते। तस्य वायुः प्रकुपितः फफमादायहृदयं संपीड्य तिष्ठन्पार्श्वयोः कृच्छ्रां वेदनां जनयति।
स तयास्वनति जलद इव गम्भीरम्, अतिसार्यते श्लेष्मवत्। असहमानश्च तां रुजं प्रवृद्धपादप इवोन्मूलितः पतति, हठेन पुनश्चोत्तिष्ठति, तटादीन्प्रतिहन्ति, निष्पिनष्टि च करं भूमौ, हृदयपीडितश्च।तं वातकफात्मकं महापाकलं विद्धि। हृदयग्रहणान्महापतनान्महापाकलमित्याहुः।
भैषज्यविधिरस्य शमतिन्दुक्याढकीबिल्वशृङ्गाटकैश्च मत्स्यरसं साधुसिद्धिं भोजनाय पानाय चास्मै दद्यात्, ततो नश्यतः कफपवनौ। पयश्चैकान्तरमेभिरेवौ548षधैः शृतं पापयेत्। अनुलोमो भवति तेनास्य वायुरुद्धतः। सिद्धं चास्मै दध्ना सहरिद्रकमोदनं घृतस्निग्धं सलवणं भोजना549य दद्यात्। तालपत्रीं गोस्तनिकां नागबलां गवेधुकां च क्षुण्णां मधुमिश्रान्कवलान्दद्यात्। मधुलाजाश्च भोजनम्। तरुणाक्षिकावार्ताकीनक्तमालफलानि च क्षुण्णा (*निसक्षौद्राणि550 भोजयेत्। तेनास्य कफपवनौ नश्यतो युगपत्। जम्बूशल्लक्योर्वा किसलयानि च क्षोदयित्वा मधुमिश्राणिभोजनाय दद्यात्। हरिद्राकुशमूललशुनविडङ्गेन्द्रयवकङ्कुष्ठानि क्षोदयित्वा) मधुमिश्राणि भोजयेत्। सपत्रांश्चशाकवल्लीक्षुण्णान्मधुमिश्रान्कवलान्दद्यात्। (अथवाऽश्मन्तकमुष्क550) कोदुम्बरप्लक्षाणां त्वचः कल्पयित्वा गोक्षुरकमधुरसाजीवन्तीबिल्वानि कुरुविन्दं वा क्षोदयित्वा क्वाथयेत्। तेन क्वाथेन तैलं पक्त्वानागमनुवासयेत्। अश्वाश्वतरखरोष्ट्रमहिषाणां मांसरसैः पानभोजनमुपहरेत्। तेनास्य नश्यतः कफपवनौ।
तत्र श्लोकाः —
इत्येते नृपवर पाकला दशोक्ता भैषज्यैः सह सनिदानसंभवास्ते।
तत्र द्वौ परमसुदारुणावसाध्यौ यः शुद्धो भवति हि कूटपाकलश्च॥
अष्टानामिह हि चिकित्सितं मयोक्तं सर्वे ते नृपवर मृत्युदण्डकल्पाः।
यो देश551प्रकृतिवयःप्रमाणसात्म्यान्यायुश्च प्रतिगजमीक्ष्य शास्त्रचक्षुः॥
नागानां ज्वरमुपहन्ति पाकलाख्यं कर्मज्ञः स भवति राजहस्तिवैद्यः।
एतान्यो भिषगिह साधयेत्स पूज्यो वेदज्ञैरिव हवनेषु वज्रहस्तः॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने पाकलाध्यायोऽष्टमः552 (नवमः) समाप्तः॥९॥
अङ्गराजोमहाप्राज्ञः कुबेरसमविक्रमः॥

भगवन्यत्त्वया प्रोक्तं रोगज्ञानं सलक्षणम्॥
तत्र मे संशयः कश्चित्तं मे शंसितुमर्हसि॥२॥
शुद्धश्लेष्मसमुत्पन्नः शुद्धपाकलमादितः ॥
प्राग्भागोष्णः कथं तेन पश्चाद्भवति शीतलः॥३॥
नचोष्णल553क्षणस्तेषां हस्तिनां जायते ज्वरः॥
कथं साध्यश्च बालोऽत्र कूटश्चैव न सिध्यति॥४॥
समानदोषैर्विप्रेन्द्रतावुभावपि कीर्तितौ॥
पक्वलः पुण्डरीकश्च वातपित्तोद्भवावुभौ॥५॥
विकारेषु विरुध्येते चिकित्सायां तथैव च॥
शनैः क्षीयेत वा केन हेतुनाऽथ मृदुग्रहः॥६॥
कथं च भूतसंसृष्टो दुष्टः कुक्कुटपाकल॥
दैवाच्च केचिदिच्छन्ति दोषतश्चापरे जनाः॥७॥
एकाङ्गग्रहसंज्ञस्तु पाकलो मुनिसत्तम॥
दृश्यते भूतसंहृष्टो554 दोषतश्च न दृश्यते॥८॥
बठरत्वेन555 (?)संयुक्तः कथं तीक्ष्णोदरानलः556॥
सारबन्धोपलक्षश्च प्रसुप्तः पाकलो भवेत्॥९॥
महापाकलसंज्ञश्च श्लेष्मणोपचयाद्भवेत्॥
न चाऽऽदौ क्रियते कस्मात्प्रतीकारः कफस्य वै॥१०॥
महत्त्वं चैव यत्तस्य तन्मे शंसितुमर्हसि॥
एतान्सपरिहारान्मे सनिरुक्तान्ससंभवान्॥११॥
तत्वेन निखिलान्प्रश्नान्गूढार्थान्वक्तुमर्हसि॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत्॥१२॥
शृणु राजन्नवहितो यन्मां पृच्छसि संशयम्॥
नाभेरुपरि पित्तस्य स्थानं हृदयमाश्रितम्॥१३॥
नाभेः पश्चिमभागे तु स्थानं वायोर्निगद्यते॥
प्रोक्तान्यामाशयः पर्वाण्युरः557 कण्ठः शिरस्तथा॥१४॥
स्थानान्येतानि राजेन्द्र श्लेष्मणो विद्धि दन्तिनाम्॥
तेन शुद्धाभिभूतस्य स्थानात्पित्तं तु विच्युतम्॥१५॥
श्लेष्मणा पश्चिमं भागं नीयते सह वायुना॥
ततः श्लेष्मानिलौ तत्र शीतलं कुरुतो गजम्॥१६॥
प्राग्भागे चोष्णताऽप्यस्य सा तु पित्तस्य वीर्यतः558॥
कदाचिदङ्गप्र559त्यङ्गं यदा गच्छति मारुतः॥१७॥
तेन कालेन राजेन्द्र युज्यते तस्य भेषजम्॥
तेन सिध्यति बालोऽयं कूटे हेतुः प्रवक्ष्यते560॥१८॥
कूटे निदानं वातस्तु सर्वदेहाद्विमुच्यते॥
सहसा हृदयं गच्छेद्धृद्गतश्चापि पातयेत्॥१९॥
हृदयग्रहणादाशु कूटस्तेन न सिध्यति॥
व्यानो वायुः प्रकुपितो ह्यपानसहितो नृप॥२०॥
पित्तमाक्षिप्य जनयेत्पक्वलं कोपमाश्रितम्॥
गुरुस्थानोपरोधाच्च रौद्रकर्मा भवेद्गजः॥२१॥
इत्येष पक्वले हेतुः पुण्डरीके प्रवक्ष्यते॥
मारुतः कुपितः पितं कोपयेन्मनुजाधिप॥२२॥
पित्तं च रक्तसहितं त्वग्दूषयति दन्तिनाम्॥
तस्माद्वाताधिकश्चायंत्वचि कोपेन लक्ष्यते॥२३॥
मारुतः कुपितो देहे कारणैः पूर्वकीर्तितैः॥
रक्तं मांसं च मेदोऽस्थि मज्जां शुक्रं च दन्तिनाम्॥२४॥
यस्मात्क्रमात्क्षपयति तेनैष क्षीयते शनैः॥
श्रमाभिभूतो योऽत्यर्थं पेशलं न लभेत चेत्॥२५॥
समानः कुपितस्तस्य प्राणापानौ प्रदूषयेत्॥
व्यानोदानौ च संदूष्य कुर्यात्कुक्कुटपाकलम्॥२६॥
शरीराणां च भूतानां विपर्यासस्ततो भवेत्॥
विपर्यस्तेषु भूतेषु भवेद्भूतोपसृष्टवान्॥२७॥
तस्माद्भूतोपसृष्टोऽयं दुष्टः कुक्कुटपाकलः॥
स्प(स्पृ)ष्टस्य दारुणैः पाशैर्नागस्य मनुजाधिप॥२८॥
पीड्यमानः(नं) शनैः पाशैर्वातपि561त्तं च कुप्यति॥
तेनाऽऽदौ दैविको भूत्वा पश्चाद्दोषेण लिप्यते॥२९॥
आदानं चैवमेवास्य दोषाणां संप्रकीर्तितम्॥
पित्तादानैर्गजे पित्तं वृद्धमग्निंविवर्धयेत्562॥३०॥
तीक्ष्णज्योतिः स भवति563 सरदत्वं च गच्छति॥
ततः शुषिर564मांसत्वाद्वायुर्नागस्य कुप्यति॥३१॥
श्लेष्माणं कोपयेत्पश्चाद्विकारैः श्लेष्मिकैस्ततः॥
वातेन संचितः श्लेष्मा बठरं कुरुते गजम्॥३२॥
स यदा बठरो नागः सहसा कर्म कार्यते॥
समानः कुपितः प्राणः पश्चाद्दूषयते कफम्॥३३॥
क्रियते हेतुनाऽनेन कृशत्वेन प्रतिक्रिया॥
मारुतः कफमादाय हृदयं संसृतो565यतः॥३४॥
करोति महतीं पीडां तेनायं पाकलो महान्॥
वातोऽत्र कारणं यस्मात्तेन वातप्रतिक्रिया॥३५॥
कर्तव्या नृपशार्दूल पालकाप्यमतानुग॥
महारोगो यतश्चायंपतनाच्च महद्भयम्॥३६॥
उभयत्र महत्त्वाच्च महापाकलसंज्ञितः॥
सुरशापाद्गजे566न्द्राणामन्तःस्वेदितुमाहितुम्567 (?)॥३७॥
न चोष्म568लक्षणस्तेषां दन्तिनां जायते ज्वरः॥
तेनोष्मलक्षणस्तेषां ज्वरः समनुकीर्तितः॥३८॥७४६॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने ज्वरहेतुविनिश्चयो नामाध्यायो दशमः569 (नवमः)॥९॥
——————–
अथ दशमाध्यायः।
——————–
अथातः स्कन्दाध्यायं व्याख्यास्यामः॥
अङ्गाधिपतिः पालकाप्यमागतमभिवाद्य प्राञ्जलिरुत्थायोवाच रोमपादः — “स्कन्दा नाम ये व्याधयस्ते किमात्मानः कति कथं वा संभवन्ति कथं वा साध्याः स्युः”इति॥
स एवमुक्त उवाच पालकाप्यः — स्कन्दा नामावस्कन्दनाज्जीवितस्य। शोषणं स्कन्दनमित्यनर्थान्तरम्। तस्मात्स्कन्दा570 इत्युच्यन्ते। शरीरापतनाच्चापतनकाः571। शुद्धात्संजायते वातात्संपित्ताच्च कफाच्च वातैः संहिताश्रयः572 स्कन्दा भवन्ति। तेऽन्तरायाम —बहिरायाम — व्याविद्धस्कन्दाइति त्रयः। तेषामेकः कृच्छ्रसाध्योऽन्तरायामः। बहिरायाम —व्याविद्धस्कन्दौ द्वावसाध्यौ॥
तत्रान्तरायामस्योत्पत्तिं573 निदानं चिकित्सितं च वक्ष्यामः।
स तिक्तकटुकषायरसोपयोगात्, व्यायामव्यवायात्, अत्यध्वगमनाच्च विषमविरुद्धरूक्षाशनात्, अध्यशनादपि च विपर्यासान्मनसश्चोपतापात्, यवसानां च विपन्नगिरिजशुष्काणामुपयोगात्, वधबन्धाभ्याम् मिथ्याभिघातात्प्रतिहस्त्यभिघातान्मदबलक्षयादुपधाभिश्च574योगतः कुपितः पवनःसर्वाङ्गमनुसृतस्तमव575स्कन्दयति॥
ततो विनमति, संकुचति कूजति विजृम्भते (प्रवेपते576) भ्रमति पतति निःश्वसिति परिवर्तते नदति ताडयति ध्यायति495, शिरसा भूमिं गच्छति, निस्तब्धताम्रनयनः परिशुष्कताल्वोंष्ठमुखः कृच्छ्रावस्थो वायुना पीड्यमानहृदयशरीरग्री577वागात्रापरः, ततः पुनश्चाष्ठीवांभ्यां गतो भूमिम्, उरो निर्भुजति, शिरो विधुनोति चैकपक्ष इव हतः, स्पन्दति नयनमेकम्, सृक्वेकपोलमोष्टं वा, घुरुघुरायमाणकण्ठः पुनश्च नष्टसंज्ञः पुनर्मृदुवेगः पुनश्च बलवत्पीड्यते। तस्यैतैर्निदानैरन्तरायामं निष्केवलं वातजमभिसमीक्ष्य चिकित्सितमुपक्रमेत॥
स तु कदाचित्सिध्यतीति कृत्वा तस्य चिकित्सितं वक्ष्यामः।
एलायुग्भतुरुष्ककुष्ठफलिनीमांसीजलध्यामकीः
स्पृक्कावोरकवोचपत्रतगरैः स्थौणेयजातीरसाः।
शुक्तिर्व्याघ्रनखामराह्वमगरुः श्रीवासकं कुङ्कमं
चण्डागुग्गुलुदेवधूपस्वपुराः पुन्नागनागाह्वयः॥
एलादिको वातकफौविषं578 च विनियच्छति।
वर्णप्रसादनः कण्डूपिटिकाकोठनाशनः॥
इत्येलादिगणः।
ततः शौभाञ्जनकमूलैःसर्वगन्धैः सहिङ्गुयवघृतैर्धूपयेत्, करकर्णगुदनाभिमस्तककटनिर्याणानि579 सर्वच्छिद्राणि बहुना, बहुशः सर्वं वाऽपि शरीरम्। ततःपुनर्नवाग्निमन्थयूथिकातर्कारीवरुणकमधुशिग्रुरोहिषहिंस्रातिलचूर्णान्युरुबूकसारिवांशुमतीपृश्निपर्णीबृहतीद्वयवरुणकतिन्दुक580भद्रोदुम्बरीवृक्षादनीः क्वाथयित्वा कम्बलप्रतिच्छन्नशरीरस्य परिषेकं बहुशो विदध्यात्। ततः पञ्चमूलाभ्यां वसुकवसिरपिप्पलीमूलहस्तिपिप्पलीकपित्थदेवदारुयववचाशृ581ङ्गवेरगोक्षुरकसारिवाचित्रकान्समसलिले दुग्धे विपाचयेत्। आवापं582 चात्र दद्यात्। बिल्व (घृतशालिपिष्टान्युपसंहृत्य576 परिस्राव्य विधिवत्पाचयेत्। ततः शणमूलाढकीमधुशिग्रूणां बीजानि) कर्पासास्थीनितिलयवातसीमाषसर्षपदेवदारुपृथ्वीकादधिमस्तुसरासौवीरकयवोदकेषु किण्वतण्डुललवणचूर्णानि प्रक्षिप्य घृततैलवसाभिश्च पाचयित्वा दर्वीप्रलेपेन पिण्डस्वेदेन वस्त्रोपनद्धेन स्वेदयेत्। एतैरेव सुखोष्णैर्गजं लिम्पेत्सशिरस्कं निवातस्थम्। भूयश्च बलातिबलांशुमत्युरुबूककपित्थबृहतीद्वयतिन्दुकभद्रोदुम्बरीगडम्लबु583 (?) चाङ्गेरी द्वे विन्नेशतावर्यहिंस्रापेहिवातातर्कारीवरुणैडगजलकुचमूलानि यवकोलकुलत्थनिष्पावाढकीशणबीजानि श्रीपर्णीपत्रमूलफलाग्निमन्थपाटल्युभौ गुन्द्रौ क्षुरकं च वसुकं वशिरांश्च संहृत्य समसलिले दुग्धे विपाचयेत्। सिद्धावशेषमपहृत्यपुनर्वराहाजम584त्स्यशिशुमारशशकवसाभिः सह काकोलीक्षीरकाकोलीजीवकर्षभकलिङ्गाक्षीमाषपर्णीमधुकतालपर्णीशुकनासाकल्कैस्तैलं घृतं वा पाचयेत्। तत्साधुसिद्धमपहृत्य भक्तषोडशभागप्रमाणं पानीयं पाययेत्। यवसानि च यथोक्तानि वातप्रशमनानि दद्यात्। एतेनोपक्रमेण मुच्यतेऽन्तरायामात्। बलवान्प्रहृष्टमना585 निरामयश्च भवति वारणः॥
इत्यन्तरायामस्कन्दः॥
बहिरीयामो नाम स्कन्दः पित्तसंसृष्टान्मारुताद्भवति। स प्रत्याख्येयोऽसाध्यत्वात्॥
निदानमस्य वक्ष्यामः —
(*स पक्षेणैकेनावसीदति,586 विवृणोति चक्षुः,समुत्थैकगात्रः समुद्धतशिरोग्रीवस्तिर्यगायम्यते रज्जुमवलम्बतेऽवसीदन्नूर्ध्वमुच्छ्वसिति।स बहिरायामस्कन्दो नाम प्राणहरो व्याधिः॥
इति बहिरायामस्कन्दः॥
व्याविद्धस्कन्दो नाम प्राणहरस्तिर्यग्योनिषु दृश्यते। (स)श्लेष्मसंसृष्टान्मारुताद्भवति। स प्रत्याख्येयः॥
निदानमस्य वक्ष्यामः —अवनम्यमानःशिरोधरां पीडपति। हत्वा वक्षः) संभज्यत इव उन्नमन्मध्ये जघनमुत्क्षेप्तुकामः पतति भूमौ,असौ गम्भीरमन्तः स्तनति निःश्वसिति निस्तब्धताम्रनयनः स्थूलं निःश्वसिति विसंज्ञकल्पः॥ सव्याविद्धस्कन्दाभिभूतः प्रजहाति प्राणानिति॥
तत्र श्लोकाः —
असाध्यरूपौ द्वौस्कन्दौ587 तयोर्यत्नो न विद्यते।
अन्तरायाम एकस्तु सोऽपि सिध्यति वा न वा॥
तमप्रपन्नो यत्नेन चिकित्सितुमुपाचरेत्।
यथोक्तेनोपचारेण शास्त्रार्थकुशलो भिषक्॥
अशनिरिव तरून्महेन्द्रमुक्तो दहति तृणानि यथाऽनलः प्रदीप्तः।
द्विरदमपि तथा हिनस्ति रोगो नृपवर मूर्खभिषक्कृतप्रयोगः॥इति॥
इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने महारोगाधिकारे स्कन्दाध्यायःएकादशः588 (दशमः)॥१०॥
अथैकादशाध्यायः।
अथ कदाचित्पालकाप्यमागतमभिवाद्योपविष्टमुवाचाङ्गराजो रोमपादः— ‘पुराणकृश इत्युपदिष्टः संग्रहाध्याये पूर्वं भगवता, स कथम्’ इति॥
ततः प्रोवाच भगवान्पालकाप्यः —पुराणकृशः, पाण्डुरोगः, इत्यनर्थान्तरम्। ते त्रयस्त्रिभिर्दोषैःसंभवन्ति वातपित्तकफैः, तत्र पित्तसंभवमेवाऽऽदौ वक्ष्यामः॥
स गजो जीर्णा589जीर्णविदग्धभोजनादम्ललवणप्रायादाहारादत्युष्णाध्वगमनात्परिश्रान्तनिर्वाणा-त्सहसा पित्तमुदीर्णं वायुः समन्ताच्छरीरे विधुनोति॥
ततः स भवति590 कृशः पाण्डुः, अलसः, नान्नाभिलाषी, ध्यानशीलः। तं पुराणकृश इति ब्रूमः पाण्डुरोगम्॥
तस्य पित्तोद्भूतस्य शान्त्यै हरिद्राबृहत्यौ मरिचपिप्पलीविडङ्गानि समभागानिलव591णयुतानि चार्धभागानि कृत्वा स(र)ङ्कुगोमयेन कवलान्भोजयेद्गजम्। पूतीकरञ्जनक्तमालेन्द्रयवदेवदारुहरीतकीप्रियङ्गुसप्तपर्णनिम्बमुस्ताशृङ्गवेरमिति सूक्ष्मचूर्णानि कृत्वा गोमूत्रेणं त्रिरात्रपर्युषितं स्थितं पायपेत्। ततस्तं पीत्वैव प्रणुदतिपित्तसंभवं पुराणकृशम्। पिप्पलीपिप्पलीमूलहस्तिपिप्पलीत्रिफलाचित्रकैः सह सिद्धं मुद्रयूषं सर्पिषा सुसंस्कृतं पाययेत्। नैव592 चैनं भोजयेत्पाण्डुरोगप्रशान्त्यर्थम्॥
इति पैत्तिकः पाण्डुरोगः॥
अथ कफसंभवं कर्तुसरिं नाम पाण्डुरोगं वक्ष्यामः593।
स यदा वारणस्प स्निग्धमधुराम्ललवणभोजनात्, आनूपमांसयवसभक्षणात्, अजीर्णादत्यशनात्, शीतसलिलावगाहात्, संचितः श्लेष्मा स्थानाच्च्युतं कोष्ठे सादयत्यग्निम्॥
संभवत्यलसो नीलवर्णः सर्वाहारद्वेषी परिहृष्टरोमा वमति गुरुमक्षिकः594,आध्मात595कोष्ठः॥
तस्य शृङ्गवेरमरिचपाठाट596रूषककटुकरोहिणीन्द्रयवहरिद्राद्वयतेजोवत्यतिविषाणि संक्षुद्य सक्षौद्रान्कवलान्भोजयेत्। शिरीषामलक्योस्त्वचामञ्जिष्ठापिप्पलीशृङ्गवेरमधुक597मरिचामलकचूर्णानि मधुमिश्राणि भोजयेत्। मैरेयं च प्रतिपानं दद्यात्। मुद्गयूषेण चैनं संस्कृतेन शाल्योदनं भोजयेत्। वेणुशिरीषयोश्च पत्राणि व्यर्णिपादं कुरुविन्दकं च यवसं कर्तुसरिव्याधिप्रशमनार्थं दद्यात्॥
इति श्लेष्मिकपाण्डुरोगः॥
अथ तपनमरीचिसं598तप्ताङ्गो मातङ्गो यदा पथि प्रपीडितो नापगतस्वेदः सलिलं तथैवोष्णशरीरः सहसा पीतवान्, स पाण्डुरोगमृच्छति। वातजं तं प्लीहोदरमिति केचिदाहुर्मनीषिणः॥
संमूर्छति, अवलीयते, विभ्रमति, समुच्छ्वसिति, सीदति, परिपूर्णोदरो विपन्नग्र599हणीको ध्यानशीलो दुर्मना निरुत्साहो गुरुमक्षिकः कृशो विवर्णो भवति। तमेवमवस्थं दन्तिनमभिसमीक्ष्य क्लिन्नं चिकित्सितुमुपक्रमेत॥
ततो मरिचशृङ्गवेरहरीतकीमांसीमेषशृङ्गीकरवीरमूलैः सह खण्डशः कल्पयित्वा कृष्णसर्पमासुनुयात्। तन्मांसं गोमूत्रेण ततश्चैनं पाययेत्पञ्चरात्रम्। जीर्णे600 च भोजयेद्यथोक्तैर्यवसैराव्याधिषु मोक्षान्नान्यद्देयम्। अथवा त्रिकटुकरोहिणीमाठातिविषासुरसाशतावरीतिन्तिडीकमहापञ्चमूलविडङ्गाटरूषकहिङ्गुसौवर्चलानि क्षोदयित्वा ततश्चतुर्भागावशिष्टमवतार्य क्वाथं मधुमत्स्यण्डिकाशर्करायुक्तं पुनः पाचयेत्।तच्च सान्द्रमवतार्य ततश्चैनं पाययेत्। ततः प्रणष्टव्याधिरुत्साही बलवर्णवान्निरामयश्च भवति वारण इति॥
तत्र श्लोकौ —
भिषगिह तु यथोक्तमेनमेवं विधिमनुसृत्य करोति यश्चिकित्साम्।
स भवति सततं नृपेण पूज्यो नियतमतिः कुशलः परीक्ष्यकारी॥
इति दोषसमुद्भवा गजानां नृपवर कोष्ठगता हि पाण्डुरोगाः॥
समुपेक्षितवैद्यहीनयोगान्निषु मासेषु भवन्ति से ह्यसाध्याः।
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने पाण्डुरोगाध्यायो द्वादशः601 (य एकादशः)॥११॥
——————–
अथ द्वादशाध्यायः।
——————–
अङ्गराजो महाप्राज्ञश्चम्पायां पृथिवीपतिः॥
महाप्रभावमासीनं पालकाप्यं स्म पृच्छति॥१॥
आनाहाः602 कति ते दृष्टा आनाह्यन्ते603 तु यैर्गजाः॥
विज्ञानं तु कथं विद्यात्किं604च तेषां चिकित्सितम्॥२॥
पृष्ट एवं ममा605ऽऽचक्ष्व यथावदनुपूर्वशः॥
भगवन्सर्व एवै606तज्ज्ञातुमिच्छामि तत्त्वत्तः॥३॥
स पृष्टस्तत्र संप्रश्नमङ्गराजेन धीमता॥
एवमेवानुपूर्वेण पालकाप्यस्ततोऽब्रवीत्॥४॥
आनाहास्त्विह चत्वारो दृश्यन्ते शास्त्रनिश्चयाः॥
तांस्तेऽहं संप्रवक्ष्यामि संनिपाताच्च पञ्चमम्॥५॥
अत्याशितः607 स्यादानाहो वातोन्मथित एव च॥
मृत्तिकाधान्यदोषाभ्यां संनिपाताच्च पञ्चमः608॥६॥
अतः परं प्रवक्ष्यामि त्रिविधं भेदमागतम्॥
शुद्धश्च वातोन्मथितो यथावदिति निश्चयः609॥७॥
संसक्तं तं विजानीयादसंसक्तं तथैव च॥
धान्यप्रदुष्टं जानीयाद्द्विविधं भेदसंख्यया॥८॥
प्रदुष्टं चाप्रदुष्टं च स्युरष्टौ भेदसंख्यया॥
विज्ञानमेषां वक्ष्यामि सर्वेषामनुपूर्वशः॥९॥
तत्रात्याशितमेवाऽऽदौकथ्यमानंनिबोध मे॥
यदा ह्यत्याशितो नामस्तृ610णेन विषयाऽपि वा॥१०॥
तृषार्तः स पिबेल्लोभात्पानीयमतिमात्रतः611॥
तत्पीतस्याप्रमाणेन तस्य रूपाणि लक्षयेत्॥११॥
ततश्राऽऽध्मातनिष्कोशः स्थूलं श्वसिति शूलवान्॥
अल्पमूत्रपुरीषश्च मन्दवातस्तथैव च॥१२॥
अत्याशितं नु जानीयादानाहं गाढवेदनम्॥
एतद्वै तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम्॥१३॥
अन्नं च यवसं चास्मै न दद्यादुभयं भिषक्॥
तीक्ष्णांश्चैवास्य कवलान्क्षिप्रमेव प्रदापयेत्॥१४॥
शृङ्गवेरकरञ्जौ च हरिद्रे चित्रकं वचाम्॥
सिद्धार्थकमतिविषां हिङ्गुंचात्र प्रदापयेत्॥१५॥
स्वर्जिकां च यवक्षारं पञ्चैव लवणानि च॥
शौभाञ्जनकमूलानि कुष्ठं चात्र प्रदापयेत्॥१६॥
पिप्पलीं पिप्पलीमूलं विडङ्गं हस्तिपिप्पलीम्॥
उदूखले क्षोदयित्वा शुद्धे निक्षिप्य भाजने॥१७॥
मृदितान्गोमयेनास्मै कवलान्दापयेद्भिषक्॥
तेनोपरुद्धमुभयं शकृन्मूत्रं च वारणः॥१८॥
भक्षितेन यथामार्गं क्षिप्रमेव निरूहति612॥
उष्णोदकं च पानार्थं परिषेकाय दापयेत्॥१९॥
शीतं संतप्तगाढोष्णमम्बु पाने विवर्जितम्॥
पेयमर्धावशेषं स्यात्क्वथितं पादशोषितम्॥२०॥
अत्युष्णं नैव दातव्यं क्वथितं नातिशीतलम्॥
कवोष्णं कफवातघ्नं शीतं पित्तविनाशनम्॥२१॥
एतदेव त्रिदोषघ्नंकेचिदाहुर्मनीषिणः॥
तैलेन सेचयेच्चास्य सर्वगात्राणि दन्तिनः॥२२॥
स्वेदाभ्यङ्गः613प्रदेहः स्यात्तैलेन श्लेष्मवातहा॥
सद्योभ्यङ्गो गुरुतरः कालदोषं614 बलं प्रति॥२३॥
शरीरानुगतः स स्यादनुपानसमो गुणैः॥
विज्ञाय विगतानाहं विशुद्धशकृतं गजम्॥२४॥
अकर्दमे जले चैनमवगाह्यप्रमार्जयेत्॥
प्रत्युद्गतं स्थानगतं निवृत्तं वारणं ततः॥२५॥
प्रसन्नां पाययेज्जातां पञ्चभिर्लवणैः सह॥
वातस्य चाऽऽनुलोम्यार्थं ग्रहणीदीपनाय च॥२६॥
एतां प्रसन्नां लवणैः पीत्वा भवति निर्वृतः॥
अथैनमनुपूर्वेण मुद्गयूषेण भोजयेत्॥२७॥
पूर्वं भुक्तं चतुर्भागमर्धस(भ)क्तं ततः पुनः॥
क्रमशो दापयेद्भक्तं चतुर्भागोनमेव च॥२८॥
समग्रं भोजयेत्पश्चाच्छालीनामोदनं मृदुम्॥
एतेन क्रमयोगेन नागः संपद्यते सुखी॥२९॥
इत्यत्याशितानाहः॥
तथैव वातोन्मथितं विद्यात्रिविधमेव तु॥
शुद्धश्च वातोन्मथितः संसक्तोऽसक्त एव च॥३०॥
अजीर्णाद्व्ययनाद्वायोः सर्वे कोपात्प्रकीर्तिताः॥
तत्र शुद्धं प्रथमतः कीर्त्यमानं निबोध मे॥३१॥
यदा तु भोज्यते नागो विषमं परिचारकैः॥
रूक्षमत्यर्थमशनं यवसं वाऽप्ययोगतः॥३२॥
विषमोदकपानाच्च विषमाग्रिः प्रजायते॥
तेन कोष्ठगतो वायुः सहसैव प्रकुप्यति॥३३॥
तेनाऽऽध्मानं च शूलं च वेदना चोपजायते॥
प्रतिनम्याभिनमति चोन्नम्यावनमत्यपि॥३४॥
तुङ्गी करोति गात्राणि वेल्लते चतुरः स्थितः॥
विष्टभ्य च पुनर्ध्माति गात्रं गात्रेण संस्पृशेत्॥३५॥
एवं शुद्धं विजानीयाद्वातोन्मथितसंज्ञितम्॥
आनद्धं द्वे पदे शेते नयेत्स्थूलोच्चये नतम्॥३६॥
निषक्तस्य च निष्कोशौ पद्भ्यां संमार्जयेत्ततः॥
साधु615 चैनं परिक्षुद्यात्पार्ष्णिभिः प्रपदैस्तथा॥३७॥
वातपित्तकफप्रायः प्रकोपोऽन्योन्यसंश्रयः॥
आमपक्वसमुत्थश्च भिषक्तमुपलक्षयेत्॥३८॥
दोषाणामपि चान्येषां वायुरेव प्रवर्तकः॥
नैकदोषसमुत्था हि प्रायेणोत्पद्यते रुजा॥३९॥
दोषान्समीक्ष्य शुद्धांश्च संस्पृ(सृ)ष्टांश्चेत्युपाचरेत्॥
उष्णोदकं च पानार्थे परिषेके च दापयेत्॥४०॥
समीक्ष्य सर्वसेकश्चतैलेनानन्तरं भवेत्॥
पिचुमन्दस्य पत्राणां मृदूनां मुष्टिमाहरेत्॥४१॥
लशुनस्य च बीजानां नालिका संमिता भवेत्॥
नालिका स्याद्विडङ्गानां हरिद्रायाश्च नालिका॥४२॥
वचाया नालिका देया पिप्पलीनां च नालिका॥
क्षुण्णान्युदूखले दद्यात्पञ्चभिर्लवणैः सह॥४३॥
पिचुमन्दस्यपत्राणि लशुनं बिल्वमेव च॥
विडङ्गं चित्रकं चैव हरिद्रे द्वे च चूर्णयेत्॥४४॥
कवलान्दापयेत्तस्मै पञ्चभिर्लवणैः सह॥
तेन वातमुदावर्तं वातगुल्मं च संहतम्॥४५॥
अनुलोमं जनयति विशुद्धं च प्रमेहति॥
मृदुसंभोगतां गच्छेदानाहाच्चप्रमुच्यते॥४६॥
आरोग्यमथवा देयं वातानाहोपशान्तये॥
कटुतिक्तकषायांस्तु वदन्त्यनिलकोपनात्॥४७॥
दृष्टं तुल्यरसेऽप्येवं द्रव्ये द्रव्यगुणान्तरम्॥
संयोगसिद्धान्येतानि भेषजानि महीपते॥४८॥
न विशेषं परीक्षन्ते616 द्रव्याणां रसवीर्यतः॥
यथोक्तैर्भेषजैरेतैः क्रियां कुर्वीत दन्तिनाम्॥४९॥
प्रतिपानं प्रसन्नां च पञ्चभिर्लवणैः सह॥
तेनासौ वारणः सौख्यं लभते पृथिवीपते॥५०॥
इति शुद्धवातोन्मथित आनाहः॥
संसक्तभक्तो617 यस्तं तु कीर्त्यमानं निबोध मे॥
भुक्तेऽजीर्णे यदा नागो भोज्यते विषमाशनम्॥५१॥
संसक्तभक्तस्तेनाऽऽशुजायतेऽजीर्ण भोजनात्॥
अपानप्राणसहितस्तदा मार्गं रुणद्धि सः॥५२॥
छिन्नपातं चपतति तत्रोत्थाय निषीदति॥
संरम्भ कुरुते चापि सुखं न लभते गजः॥५३॥
न चातिसार्यते नागो618 निरोधाद्वातमूत्रयोः॥
उदानस्य प्रकोपेण स्थूलं श्वसिति वारणः॥५४॥
संसक्तेन विकारेण न स जीवति तादृशः॥
इति संसक्तभक्तांनाहः॥
अत ऊर्ध्वमसंसक्तं कीर्तयिष्यामि तं शृणु॥५५॥
कटुतिक्तकषायं च विषमं रूक्षमेव च॥
लभते चाभियोगेन619 भोजनं यवसं जलम्॥५६॥
क्रमेण भक्ष्यभोज्यैस्तु कोष्ठे व्यापद्यतेऽनिलः॥
स्थूलं श्वसिति निष्कोशौ पीनौ च भवतोऽधिकम्॥५७॥
अल्पमूत्रपुरीषश्च स भवेद्गाढवेदनः॥
अपराभ्यां निषीदेच्च वेदनार्तो मुहुर्मुहुः॥५८॥
पुरीषं कठिनं स्वल्पं वातमिश्रं निरूहति॥
एतद्धि तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम्॥५९॥
स्थूलोच्चयेन वा नद्धं धनुषां द्वे शते नयेत्॥
निषण्णस्य च निष्कोशौ पद्भ्यामेव विमर्दयेत्॥६०॥
साधु चैनं परिक्षुन्द्यात्पा620र्ष्णिभिः प्रपदैस्तथा॥
तीक्ष्णांश्चैवास्य कवलान्क्षिप्रमेव प्रदापयेत्॥६१॥
शृङ्गवेरं विडङ्गानि हरिद्रे चित्रकं तथा॥
तालीसपत्रं कुष्ठं च मरिचं हस्तिपिप्पली॥६२॥
उदूखले क्षोदयित्वा शुद्धे. निक्षिप्य भाजने॥
कवलान्दापयेत्तस्मै पञ्चभिर्लवणैः सह॥६३॥
तेन वातमुदावर्तंसपुरीषं निरूहति॥
क्षोदितं भेषजं दद्यादौषधं क्वथितं पुनः॥६४॥
एभिरेवौषधैः सर्वैः पयश्च परिसाधितम्॥
आनाहस्य प्रशान्त्यर्थं सुखोष्णं प्रतिपाययेत्621॥६५॥
सौवर्चलयुतांवाऽपि प्रसन्नां दधिमस्तुना॥
मूत्रं सौवीरकं वाऽपि लवणैः पञ्चभिः सह॥६६॥
यवनिष्क्वाथमथवा क्रमशः संप्रदापयेत्॥
न चेत्प्रकृतिमाप्नोति द्रव्याणीमानियोजयेत्॥६७॥
मदनस्य बृहत्योश्चफलानि लशुनं तथा॥
पिप्पलीं पिप्पलीमूलंगोपित्तं सैन्धवं वचाम्॥६८॥
सिद्धार्थकांश्च संहृत्य श्लक्ष्णं दृषदि पी(पे)षयेत्॥
(*बिल्वमात्रेण459 कल्केन श्लक्ष्णं वस्त्रंप्रलेपयेत्॥६९॥
हस्तिपेचकमानेन वर्तिंपायौ प्रवेशयेत्॥)
तेन वातमुदावर्तं सुपुरीषं निरूहति॥७०॥
किं वा निरूहयेदेनं निरूहेणानुलोमिना॥
एवं संहृत्य संभारमानद्धं वारणं भिषक्॥७९॥
शृङ्गवेरं वचां कुष्ठं पिप्पलीमरिचानि च॥
सर्षपाञ्शतपुष्पां च सैन्धवं भद्रदारु च॥७२॥
मदनस्य फलैः सार्धं श्लक्ष्णं दृषदि पी(पे)षपेत्॥
पञ्चमूले तथा द्वे च स्थाल्यां प्रक्षिप्य पाचयेत्॥७३॥
ततो रसं परिस्राव्य पयसा सह पाचयेत्॥
यदि622 सिद्धं विजानीयात्तदैनमवतारयेत्॥७४॥
सिद्धं कल्केन संयोज्य सुखोष्णं लवणीकृतम्॥
निरूहं दापयेत्तस्मै यथोक्तं बस्तिकर्मणि॥७५॥
अरत्निपरिमाणेन द्वौ त्रीन्प्रस्थान्प्रमाणतः॥
एतत्प्रमाणं कर्तव्यं निरूहे वारणं प्रति॥७६॥
शुद्धस्यैवं क्रियां चैनां समीक्ष्य प्रतिकारयेत्॥
निरूहस्य विधानेन पिण्डो वर्तिस्तथा दृतिः623॥७७॥
आनाहेषु तु सर्वेषु हितमाहुर्निरूहणम्624॥
तेन वातमुदावर्तं सपुरीषं निरूहति॥७८॥
सृष्टमूत्रोऽभ्यनिर्वाही625 शुद्धः श्लेष्माऽतिसार्यते॥
गुरूचिकायाः क्षारेण बिल्वक्वाथं तु मूर्छितम्॥७९॥
पञ्चभिर्लवणैः सार्धं तमेनमनुपाययेत्626॥
एतेन क्रमयोगेन नागः संपद्यते सुखी॥८०॥
उष्णोदकं च पानार्थे तैलसेकस्त्वथापरम्(:)॥
शुद्धानाहविधिश्चात्र क्रमशः कीर्त्यते बुधैः॥८१॥
प्रतिपानं प्रसन्नांच पञ्चभिर्लवणैः सह॥
एतेन सौख्यं लभते वारणः पृथिवीपते॥८२॥
इत्यसंसक्तान्महः॥
धान्योपेतं तु जानीयाधिविधं परिसंख्यया॥
प्रदुष्टं चाप्रदुष्टं च अप्रदुष्टमिमं शृणु॥८३॥
यत्किंचिदिह पक्वंतु धान्यं भुञ्जीत वारणः॥
यथावत्तदपक्वंतु सद्यः स्नायात्कदाचन॥८४॥
तदैवर्छति627 स व्याधिस्तस्मान्नात्यश628नक्रिया॥
धान्यं यदा सु हरितं सस्नेहं वा विधां पुनः॥८५॥
लभते वाऽतियो629गेन जलं वाऽपि पिबेत्तथा॥
तस्यातिमात्रयोगेन मन्दाग्निरुपजायते॥८६॥
आनाहो वाऽतिसारो वा तस्मान्नात्यश628नं स्मृतम्॥
त्रयश्च ग्रहणीदोषाः कफपित्तानलात्मकाः॥८७॥
तथाऽऽनाहोऽतिसारश्च वर्से त्वन्योन्यहेतवः630॥
तेषाम631ग्निबले हीने वृद्धिर्वृद्धे परिक्षयः॥८८॥
प्राणिनामग्निरेवाऽऽयुः स रक्ष्यो632 जीवितार्थिभिः॥
अपक्वंचापि पक्वान्नं दीप्ताग्निमपि नाशयेत्॥८९॥
एवं हि वारणो भुक्त्वा धान्योपहतमृच्छति॥
धान्येनोपहतो वा633युर्धान्योपहत उच्यते॥९०॥
आटोपयति निष्कोशौ पुरीषं चास्य भिद्यते॥
प्रगृह्य634 हस्तं प्रध्यायेन्नित्यं चैव विजृम्भते॥९१॥
रुद्धस्तत्र635 पुरीषश्च मन्दवातस्तथैव च॥
एतद्धि तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम्॥९२॥
पक्वान्नंयदि वाऽपक्वमुभयं नैव भोजयेत्॥
निरूढभक्तं तं नागं यवसेनोपचारयेत्॥९३॥
उष्णोदकं च पानार्थेशकृद्यावन्नबध्यते636॥
एवमप्यस्य निर्दिष्टं देशकालबलं प्रति॥९४॥
स्वयमप्यत्र भिषजा तर्क्यं बुद्धिमता भुवि॥
स्थूलोच्चयेन वा नद्धं धनुषां द्वे शते637 नयेत्॥९५॥
निष्कोशक्षोदनं चास्मैसम्यक्कुर्याच्चिकित्सकः॥
वचा हरिद्रा लशुनं पिप्पली मरिचानि च॥९६॥
करञ्जबीजं तेजोह्वांशृङ्गवेरं फणिञ्जकम्॥
गण्डीरं पिप्पलीमूलं चित्रकं हस्तिपिप्पली॥९७॥
तालीसपत्रकं कुष्ठं शतपुष्पा यवानिका॥
पञ्चभिर्लवणैः सार्धं कवलं तस्य दापयेत्॥९८॥
तेनोपरुद्धं धान्यं हि सपुरीषं निरूहति॥
विपाच्य लवणं चास्य गजस्याऽऽरोग्यसंज्ञितम्॥९९॥
इमं संभृत्य संभारं सुविभक्तं यथाविधि॥
सैन्धवं काचलवणं लवणं रोमकं तथा॥१००॥
तथैव यावशूकं च सामुद्रलवणं बिडम्॥
तथैव काचलवणं तथैवोत्पलपत्रकम्॥१०१॥
सुवर्चिकाऽपि या मुख्या यवक्षारं तथैव च॥
तथैव देयाः पिप्पल्याः पाठा कटुकरोहिणी॥१०२॥
विभीतकहरीतक्यौ शृङ्गवेरं च हिङ्गु638 च॥
सारिवाऽतिविषा मुस्ता त्रिफलेन्द्रयवास्तथा॥१०३॥
वृक्षाम्लं मरिचं चैव तथाचाऽऽम्राम्ल639वेतसौ640॥
बालबिल्वं च कुष्ठं च विडङ्गं हस्तिपिप्पली॥१०४॥
एतत्संहृत्य संभारं सूक्ष्मचूर्णं तु कारयेत्॥
दधिमण्डेन641 संयोज्य घृतमण्डेऽपि642 पाचयेत्॥१०५॥
अथैनं दधिमण्डेन पुनरालोड्य पाचयेत्॥
प्रसन्ना वाऽपि या मुख्या तयावाऽऽलोड्य पाययेत्॥१०६॥
तेन कोष्ठगतं भक्तमेकरात्रान्निरूहति॥
प्रतिपानं च सेकश्च क्रमात्सात्म्यंच भोजनम्॥१०७॥
एतेन क्रमयोगेन नामः संपद्यतेसुखी॥
विज्ञाय विगतानाहं निवृत्तशकृतंगजम्॥१०८॥
अकर्दमे जले चैनमवगाह्य प्रमार्जयेत्॥
प्रत्युद्गतस्थानगतं निवृत्तं वारणं ततः॥१०९॥
प्रसन्नां पायपेज्जातांपञ्चभिर्लवणैः सह॥
वातानुलोमनार्थं च ग्रहणीदीपनाय च॥११०॥
तथा स लभते सौख्यं तस्मादेनां प्रमाणतः॥
अथास्मै दापयेद्भुक्ते643 वाऽनुपूर्वेण644 हस्तिनः॥१११॥
इत्यप्रदुष्टानाहः।
अथातः संप्रवक्ष्यामि दुश्चिकित्स्यतमस्य तु॥
आनाहस्य645 प्रपञ्चं ते संप्रदुष्टस्य लक्षणम्॥११२॥
धान्यं परिणतं पक्वंशुष्कं वा यदि भक्षयेत्॥
पक्वान्नंवाप्यकुशलैर्भोज्यते विविधै रसैः॥११३॥
अत्यम्बुपानयोगाच्च जायन्ते चाऽऽमयाः क्रमात्॥
प्रवाहिका तथा शूलमाध्मानं कृच्छ्रमूत्रता॥११४॥
पुरीषं ग्रथितं चास्य मन्दवातश्च जायते॥
पीड्यते चातिसारेण वातगुल्मश्च बाधते॥११५॥
स कृशो दुर्बलो नागो हरिद्वर्णप्रदर्शनः॥
अतीसारेण दुःखार्तो ध्यायत्यपि च कुञ्जरः॥११६॥
पादमभ्युद्धरेत्कृच्छ्राद्गात्रैश्च गुरुभिर्भवेत्॥
निक्षिप्य हस्तं विमनाः शूलार्तः संनिषीदति॥११७॥
दुश्चिकित्स्यः स विज्ञेयो महारोगो मृदुग्रहः॥
तस्मै न दापयेत्पक्वमामंचापि कदाचन॥११८॥
निरूहभक्तंतं नागमुपलभ्य भिषग्वरः॥
यवसेनैव शुद्धेन मातङ्गं समुपाचरेत्॥११९॥
उष्णोदकं च पानार्थे शकृद्यावन्नबाध्यते॥
अथैनं कवलांस्तीक्ष्णान्क्षिप्रमेवाभिहारयेत्॥१२०॥
वचां हरिद्रां लशुनं पिप्पलीं मरिचानि च॥
कुष्ठं तेजोवतीं चात्र दद्यादतिविषां तथा॥१२१॥
कटुकां सर्षपान्हिङ्गुंपञ्चभिर्लवणैः सह॥
कृत्वा सूक्ष्माणि चूर्णानि सुरामण्डेन पाययेत्॥१२२॥
तेन प्रदुष्टधान्यं तु सपुरीषं646 निरूहति॥
यश्च कोष्ठगतो वायुस्तस्माच्च परिमुच्यते॥१२३॥
पिप्पलीं मरिचंहिङ्गुं शृङ्गवेरं फणिज्जकम्647॥
गण्डीरं648 पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्॥१२४॥
तगरं चैव कुष्ठं च दाडिमद्वयमेव च॥
कृष्णकांशुमतीं तेजोमूर्वांतिन्तिडिकां तथा॥१२५॥
पथ्याजां स्निग्धकोष्ठं649 च चित्रतन्दुलमेव च॥
सुरसान्तरवक्रं650 च चन्द्रपादी तथैव च॥१२६॥
उदूखले क्षोदयित्वा शुद्धे निक्षिप्य भाजने॥
आलोड्य चूर्णमेतत्तु लवणैरष्टभिस्तथा॥१२७॥
नागाय दापयेद्वैद्यः शूलानाहप्रशान्तये॥
विज्ञाय विगतानाहं विशुद्धशकृतं गजम्॥१२८॥
प्रसन्नां पाययेज्जातांपञ्चभिर्लवणैः सह॥
भोजनं तु क्रमाच्चास्मै शुद्धानाहविधौ यथा651॥१२९॥
अनेन क्रमयोगेन नागः संपद्यते सुखी॥
इति संप्रदुष्ट आनाहः॥
अथातो मृत्तिकाजग्धस्त्वानाहः संप्रवक्ष्यते॥१३०॥
पूर्वमेवाभिवृष्टा652यां गन्धमाघ्राय वारणः॥
पृथिव्या दौहृदी653भूतो भुक्त्वा तामतिमात्रतः॥१३१॥
विकारी जायते नागस्तस्य वक्ष्यामि लक्षणम्॥
पुरीषभेद(:)स्तम्भश्च तथाऽऽध्मानं च दारुणम्॥१३२॥
यवसं नाभिलषति ग्राह्यमाणं पुनः पुनः॥
अन्नंचापि तथा विद्यान्मृत्तिकाद(ज)ग्धसेवितम्॥१३३॥
मृतिका भक्षिता येन भवेत्पक्वाशयं गता॥
तस्यामपरिजीर्णायामन्नमश्नाति वारणः॥१३४॥
ओदनो वा यदा भुक्तो भवेत्पक्वाशयं गतः॥
तस्मिन्परिणते भुक्ते यदि खादति मृत्तिकाम्॥१३५॥
स विकारी भवेत्तेन तथा भुक्तेन वारणः॥
विकारमभिजानीयाद्यथोक्तं कुशलो भिषक्॥१३६॥
मृत्तिका भक्षिता राजन्भवेदामाशयस्थितः (ता)॥
तस्यामपरिजीर्णायामन्नमश्नाति वारणः॥१३७॥
विधा654 वा यदि वा भुक्त्वा ह्यामाशयगता भवेत्॥
अजीर्णायां तु तस्यां च यदि खादति मृत्तिकाम्॥१३८॥
विकारी तेन भवति तथा भुक्तेन वारणः॥
कोष्ठप्रदोषो भवति पुरीषं चास्य भिद्यते॥१३९॥
तेन चाऽऽनह्यते नागस्तथा स्तम्भश्च जायते॥
आमं च तस्य पक्वंच भुक्तमन्नं न पच्यते॥१४०॥
तं नागं दिवसं सर्वं ग्रासेन परिवर्जयेत्॥
पानीयं पाययेत्तप्तमवगाहं न लम्भयेत्॥१४१॥
हस्तेऽस्य655 बन्धयेच्छङ्कुं शय्याभागं च कारयेत्656॥
हस्तिलिण्डेन657 शुष्केण तन्मूत्रेणावसेचयेत्॥१४२॥
अथ तिक्तौषधैर्भूयो मृत्तिकामभिसंसृजेत्॥
ततोऽस्मै खादितुं दद्यान्मृत्तिकाया निरूहणे658॥१४३॥
शाकंवल्लीं गडूचीं च सुमनामाटरूषकम्॥
आस्फोतां लशुनं चापि पटोलं चात्र दापयेत्॥१४४॥
फणिज्जकं च शैरेयं द्वौ करञ्जौतथैव च॥
दद्यात्तथा वल्गुजकां शौभाञ्जनकमेव च॥१४५॥

गोमयेनाथ स्रंसृज्य कवलानस्य दापयेत्॥१४६॥
तेनास्य दौहृदोपैति न च खादति मृत्तिकाम्॥
अथास्मै कवलान्दद्यान्मृत्तिकाया निरुहणे॥१४७॥
हरिद्रे त्रिफलां पाठां तथा मधुरसामपि॥
करञ्जबीजं तेजोह्वां शृङ्गवेरं च हिङ्गुच॥१४८॥
पटोलींच विशेषेण निम्बं कटुकमत्स्यकान्॥
कोला659निशाविडङ्गानि तथैवेन्द्रयवानपि॥१४९॥
पिप्पलीं पिप्पलीमूलं मरिचं चित्रकं तथा॥
उदूखले क्षोदयित्वा हस्तिमूत्रेण संसृजेत्॥१५०॥
प्रसन्नया वा संसृज्य पञ्चभिर्लवणैः सह॥
तथैव प्रतिनीताय कवलान्संप्रदापयेत्॥१५१॥
आध्मायमानं वातेन मृदा धान्येन वा पुनः॥
साधयेत्सर्वमेतेन भवेद्योऽत्याशितो गजः॥१५२॥
क्षीरेण यवनालानां सर्षपान्प्रति पाचयेत्॥
तान्पिप्पलीभिः संसृष्टान्सामुद्रलवणेन च॥१५३॥
शृङ्गवेरकरञ्जानि तत्रैकध्यं समापयेत्॥
खरमूत्रेण संसृष्टमश्वमूत्रेण वा पुनः॥१५४॥
तं मूर्छयित्वा क्षारेण मुख्यया वा प्रसन्नया॥
सौवीरकेण संसृज्य गवां मूत्रेण वा पुनः॥१५५॥
दधिमण्डेन वा युक्तं बस्तिमस्मै प्रदापयेत्॥
यथा द्रोणप्रमाणेन निरूहं दापयेद्भिषक्॥१५६॥
स तेन मृत्तिकाजग्धं660 सपुरीषं निरूहति॥
ये च कोष्ठगता661वातास्तेभ्यश्च परिमुच्यते॥१५७॥
तैलेन सेचयेच्चास्य सर्वगात्राणि हस्तिनः॥
उष्णोदकं च पानार्थं परिषेकाय दापयेत्॥१५८॥
विज्ञाय विगतानाहं विशुद्धशकृतं गजम्॥
अकर्दमे जले चैनमवगाह्य प्रमार्जयेत्॥१५९॥
प्रत्युद्गतं स्थानगतं निवृत्तं वारणं ततः\।\।
प्रसन्नां पाययेज्जातां पञ्चभिर्लवणैः सह॥१६०॥
वातानाम(मा)नुलोमा(म्या)र्थंग्रहणीदीपनाय च॥
अथास्मै दापयेद्भक्तमानु662पूर्वे(र्व्ये)ण हस्तिने॥१६१॥
एतया क्रियया नागस्तथा संपद्यते सुखी॥
इति मृत्तिकाजग्ध663आनाहः॥
आनाहः संनिपाताद्य अत ऊर्ध्वं प्रवक्ष्यते664॥१६२॥
अतिमात्रं तु भुक्तेन भोज्येन यवसेन च॥
स्नेहेन चातिमात्रेण तथा मृतिकयाऽपि वा॥१६३॥
आनाह्यमानः स्तनति मृदङ्ग इव ताडितः॥
न च वातानुलोमित्वं तथा प्राप्नोति वारणः॥१६४॥
भक्षितं चास्य पीतं च न गच्छति जरांतथा॥
वायुस्तस्य विमार्गस्थो हृदयं परिधावति॥१६५॥
एवं निरुद्धहृदयो न स जीवति तादृशः॥
सर्वानाहेषु तैलेन सर्वसेकं665 प्रदापयेत्॥
अजीर्णजं666वर्जयित्वा रूक्षसेकं प्रदापयेत्॥१६६॥
तत्र श्लोकाः667——
ग्रासाप्रकाङ्क्षा गुरुगात्रता व स्तम्भस्तथा मूत्रपुरीषयोश्च॥
द्वेषश्च *कल्पाभिनवावगाह(हे)668 भवन्त्यजीर्णस्य तु लक्षणानि॥१६७॥
(+शुद्धं669 शकृन्मूत्रमनाविलं च ग्रासप्रकाङ्क्षाऽगुरुगात्रता च॥
प्रीतिश्च शय्याभिनयेऽवगाहे भवन्ति जीर्णस्य तु लक्षणानि॥१६८॥)
यत्कृष्णवर्णं त्वथ फेनिलं च दुर्गन्धमम्लं बहुदोषयुक्तम्॥
द्रवं सशूलं च स्वरं पुरीषं विभिन्न670मल्पं च भवेदपक्वम्॥१६९॥
तथा भवेच्छ्लेष्मविवर्जितं यत्स्निग्धं सवर्णं यवसेन चैव॥
सपाण्डुवर्णं घनमद्रवं च तत्पक्वलिङ्गं शकृदुद्दिशन्ति॥१७०॥
अत्र द्वौ न खलु चिकित्सितुं हि शक्या-
वानाहौ नृपवर सक्तसंनिपातौ॥
षण्णां तु प्रतिपदमीरिता चिकित्सा
शास्त्रोक्तं विधिमनुसृत्य671 विस्तरेण॥१७१॥९१७॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थान आनाहाध्यायस्त्रयोदशः (यो द्वादशः) ॥१२॥
<MISSING_FIG href=”../../../books_images/U-IMG-1700060467Screenshot2023-11-08115216.png"/>
अथ त्रयोदशोऽध्यायः।
__________
अथ भगवन्तममिततपसममलद्युतिमाश्रमस्थमिन्दुकान्तिसदृशवपुषंपालकाप्यं पादयोरुपसंगृह्य रोमपादोऽपृच्छत्—‘कथमेषां महाबलजववीर्यसत्त्वानांपरबलप्रमाथिनां हस्तिनां मूर्छाः संभवन्ति’॥
अथोवाच भगवान्पालकाप्यः—इहखलु भो द्वादश मूर्छाः संभवन्ति।
तद्यथा—अ(ति)भोजनात्,(अति) विदग्धभोजनात्, आमधान्योपयोगात्,स्नेहात्, वातात्, पित्तात्, कफात्, संनिपातात्, उदकात्, मार्गगमनात्,मद्यात्, यवसाच्चेति।
तत्र—अतिभोजनात्कृशस्य सहसा हस्तिनो मूर्छा भवति। ततो निस्तब्धाक्षोऽवसीदति स्तम्भमाश्रयति निःश्वसिति कण्ठेन तिनिति (?) नायते नशक्नोति स्थातुं कुतो गन्तुम्। निषीदत्यपराभ्याम्।तस्यैतैर्लिंङ्गैरतिभोजनसमुत्थां मूर्छा विद्यात्\।\।
तं पिप्पलीमरिचचव्याज672मोदपिप्पलीमूलविश्वभेषजविडङ्गतेजीवतीपाठाकुटजचित्रकसूक्ष्मसर्षपपाटलीलशुनवचाहिङ्गुसौवर्चलानां गोमूत्रे क्वथितानां क्वाथंपादावशेषमवतार्य सुखोष्णं पाययेत्। प्रतिपानं च सलवणां सुरां विश्वद्धकोष्ठायदापयेत्। ततः संपद्यते सुखी।
इत्यतिभोजनमूर्छा।
अथ विदग्धभोजनोत्पन्नायां मूर्छायां—निपतति, उत्पतति, परिधावति,परिवर्तते, प्रवेपते, भूमौ चक्रवद्भ्रमति।
तस्मै मरिचशृङ्गवेराटरूषकबिल्वारग्वधदन्तीगण्डीरपिप्पलीभिर्गोमयसंयुक्ताभिः कवलान्दद्यात्। प्रसन्नां च पञ्चलवणसंयुक्तां प्रतिपानं दद्यात्।
इति विदग्धभोजनमूर्छा।
रसं मद्यं वा पीत्वा स यदा धान्यमाममत्यर्थं भक्षयेत्। ततोऽस्यमूर्छाजायते।
स तयाभूमौ चक्रवत्परिवर्तते, निःश्वसिति, आटोपितश्च व्याददाति मुहुर्मुहुर्मुखं स्वं निरीक्षत उत्फुल्लपर्यश्रुनयनः।
तमेवमवस्थं दन्तिनमवेक्ष्य यवभस्मपरिस्रुतामर्धसौवीरकां ससर्पिष्कां सस्वर्जिकांपञ्चलवणसंयुक्तां प्रसन्नां पायपेत्।हिङ्गुकुटजपाठाटरूषककटुरोहिणीद्वे हरिद्रे तेजोवतीवचाविडङ्गसुरसाशिंग्रुतिन्दुकमूलबिल्वमूर्वापूतिकातिविषान्क्षोदयित्वा तस्य सपञ्चलवणान्कवलान्दद्यात्। अथवा पिप्पलीहिलसर्षपकुटजपाठाटरूषककटुरोहिणीविडङ्गेन्द्रयवातिविषाःसंक्षुद्य कवलान्भोजयेत्। ततःसंपद्यते सुखी। प्रसन्नां च लवणसंयुक्तां पायपेत्।
इति धान्यमूर्छा।
अथ स्नेहमूर्छा।यस्तु केवलं यवसेनैव पुष्टः सहसा रूक्षशरीरः स्नेहंपिबतितस्य स्नेहमूर्छा जायते।
स दुर्मनाः, अतिपीड्यमानहृदयो भोक्तुं नेच्छति, गम्भीरवेदी मन्दाग्निरप्रसृष्ट673मूत्रपुरीषो निषीदति शीतेच्छुः, स्वप्नभूयिष्ठः शय्याभिनन्दी ध्याय674त्यानद्धकुक्षिः, प्रवेपते।
ततोऽस्मै वटप्ररोहाणां शाकवल्लीगुडूचीक्षुण्णानां मधुमिश्रान्कवलान्दद्यात्। जम्बुश675ल्लक्यर्जुनानां किश(स)लयानि मधुयुक्तानि भोजयेत्। कषायकृक्षाणां सक्षौद्रान्कवलान्भोजयेत्। यवधामानां676 मधुसंयुक्तान्कवलान्दापयेत्। अथवा दृष्टमूत्रपुरीषेऽवसीदन्प्रायः शीताभि(:) नन्दी वा भवति। तंसक्षीरपि677प्पलीकं मुद्गयूषं पाययेत्।तेनैव चैनं भोजयेन्मृदुशाल्योदनमिति।
इति स्नेहमूर्छा॥
अनशनात्पशनविषमाशनाध्यशनैर्धान्ययवससलिलर्तूनां678 विपर्यासादकस्माद्वाकुप्पति पवनः। सजनयति मूर्छाम्॥679
अथाने679न प्रतिहतगतिस्तिर्यगूर्ध्वं चोत्पतति, हृदयमवपीडयति, शूलमुपजनयति, उदरमाध्मापयति, स वेदनार्तः सर्वेभ्यः सत्त्वेभ्यःकुप्यति, छिन्नपातं चपतति, वृक्षतटभित्तिप्राकारादीन्हन्तुमिच्छति॥
तं प्राचीनब680न्धसंयुक्तं सर्वगन्धैः सहिङ्गुयवघृतैवर्धूपयेत्। व681रुणबिल्वातिविषाहिङ्गुपत्रीलशुनवचाः संक्षुद्यबिल्वपत्राणि च परिक्षिप्य682 कवलान्दापयेत्। भूयश्चहिङ्गुसौवर्चलसर्षपपिप्पलीः क्षोदयित्वा कवलान्दद्यात्। उष्णोदकं च पाययेत्।पञ्चलवणसंयुक्तां च सुरां दद्यात्। मुद्गकुलत्थयोः पञ्चमूलयोर्द्वयोर्यूषं कुक्कुटरससंयुक्तं पाययेत्। ततः स्वस्थो भवति॥
इति वातमूर्छा॥
उष्णाध्वगमनादुष्णसलिलपानादतिमात्रलवणोपयोगाद्विषमविरुद्धविदग्धभोजनात्, अम्लोष्णतीक्ष्णोपयोगात्पित्तं प्रकुपितं मूर्छां जनयति॥
स पाण्डुवर्णः, परिदह्यते संतप्ताङ्गः, पतति श्रमति श्वसिति वेपते भृशमस्वस्थशरीरः॥
तं प्रभूतेन शीतसलिलेन सेचयेत्।छायास्थं तालवृन्तैर्वीजयेत्।यवलाजपरागतर्पणं च प्रभूतशर्करं पायपेत्। इक्षुवालिकेक्षुरकैर्मत्स्यण्डिकायुक्तान्कवलान्दद्यात्। हरिद्रेन्द्रयवनिम्बपत्रामलकानि फाणितसंयुक्ताकवलान्दद्यात्।औदकानि683 च यवसानि मधुरवीर्याणि समृणालानि शर्करासंयुक्तानि भोजयेत्।व्याधिशैथिल्ये च पाययेदासवम्। ऐणतित्तिरिलावकानां च मांसरसं पाययेद्भोजनार्थम्। ततः सुखी भवति पित्तमूर्छार्तश्च नागः॥
इति पित्तमूर्छा॥
यदा च मधुररसवीर्यविपाकभूयिष्ठमाहारयति तदा श्लेष्मा प्रकुपितो हृदयमवपीड्य मूर्छां जनयति॥
स भवति नीलवर्णः प्रहृष्टरोमा शीतद्वेषी, उष्णाभिकाङ्क्षी गुरुगात्रः॥
तं कपित्थाम्रयोर्मूलकल्कं पयसाऽवलोड्य पाययेत्। सर्जादुर्नेन्द्रयवधवनिम्बगण्डीरारग्वधान्संक्षुद्य स684क्षौद्रकान् कवलान्दद्यात्।पापचेलिकावेत्राग्रनिम्बपत्रपटोलैः सह सिद्धान्मुद्रान्भोजयेत्।पाययेन्मैरेयम्। आहारे च दापयेच्चूर्ण पादं685शिरीषपल्लवांश्चेति॥
इति श्लेष्ममूर्छा।
यदा तु कफपवनपित्तानां686 संनिपातान्मूर्च्छति॥
स विभ्रान्तस्ताम्रो राजीवनयनः प्रस्रवत्कर687श्रोताः पीतनीलहरितश्यामवर्णः स्तब्धरोमा स्वरच्छविर्हारिद्रमूत्रो688ऽनन्नाभिलाषी भृशमस्वस्थशरीरः कफपवनपित्तमूर्छानां लिङ्गानि दर्शयति। यन्तारमभिक्रुध्यति॥
तस्येदं निदानमभिसमीक्ष्य त्रिवृ689च्चित्रकविडङ्गचूर्णानि, आमलकरसं च पयसाऽऽलोड्य पाययेत्॥ बिल्वफलसुरसाहरिद्रात्रिफलामहौषधीभिः क्वथनसि690द्धंरक्तशालियवागूं स691र्षपतैलेन धूपितां पाययेत्॥ परिणामे च मृगमहिषरसेनभोजयेत्। ततः स्वस्थो भवति॥
इति संनिपातमूर्छा॥
यदा तु घर्माभितप्तशरीरः, तथैवाभिगतोष्मा सलिलमवगाहते स संनिरुद्धस्वेदोष्मा सहसा मूर्छति॥
स भिन्नविवर्णपुरीषमल्पाल्पं मुञ्चति। प्रहृष्टरोमा बहुशःप्रमेहति परिपूर्णनिष्कोशः, दुर्मनाः स्थातुं न शक्नोति692, स्थूलोच्छ्वासी भवति॥
तस्मै कुमुदकसेरुकोत्पलबिसमृणालपनसानि पक्वानि, यानि चान्यानिशीतलानि मधुररसवीर्यविपाकान्यार्तवानि यवसानि तानि च शर्करोपहितानि दापयेत्। सक्तुमन्थं शर्करागुडघृतबदरसंयुक्तं पाययेत्। सेचयेच्च विमलशिशिरसलिलपूर्णैर्नवघटैरन्तर्मत्स्यण्डिकैश्च कवलैर्भोजयेत्693। पीलुपनसमोचनालिकेरपियालदाडिममृद्वीकाः सलिलैः संक्षुद्य रात्रिपर्युषितं फाणितसंस्कृतमेतत्प्रातः पानं पाययेत्। भव्यपारापतमोचकाशीतकानि संक्षुद्यसलिलेरात्रिपर्युषितमेतत्पानं पाययेत्।रसं च पायपेन्मृगस्य।महिषस्य वा रसेनभुक्त्वा प्रणुदति वारिमूर्छाम्॥
इति वारिमूर्छा॥
सहसाऽतिप्रसक्तस्यातिमात्रयोगादध्वनो मार्गमूर्छा भवति॥
तथा शूनस्तब्धोष्णगुरुगात्रोऽन्नानभिला694षी स्वप्नकामो भृशमस्वस्थशरीरः॥
तस्य सर्पेिषा सर्वसेक इष्यते। ततः मुखोष्णेन सलिलेन परिषिच्य तिलसर्षपयवचूर्णैरुत्कारिकां दध्ना695सुरया वापक्वां696 (क्त्वा) तया मुखोष्णया प्रलिम्पेत्। मधुफाणितयुक्तानि चास्मै बिसमृणालानीक्षुवेणुपत्राणि च दद्यात्। द्विहस्तमात्राश्रयणं मृदुपांशुलं मुखशयनमसंबाधं कृत्वा पक्षात्पक्षं निषादयेत्।ततः फाणितसंस्कृतां प्रसन्नां पाययेत्। जीर्णमत्स्यरसेन कुक्कुटरसेन वा भोजयेत्।पानं697 च दद्यात्॥
इति मार्गमूर्छा॥
मद्यं स्थानदोषान्वितमतिवृत्तमजातं विपन्नं वा पीतवतो मद्यमूर्छा भवति॥
स तया वमति698 निमीलत्युन्मीलयति, अवलीयते विश्रमति परिदह्यति मुह्यतिसंतप्ताङ्गः॥
तमेवमवस्थं दन्तिनमभिसमीक्ष्य विमलशिशिरसलिले निष्कर्दमे सुतीर्थेहृदे शीतच्छायोपगूढे सतीरपादपे विगाहयेत्। इर्वारुबिसमृणालविदारीदाडिमदधित्थकसेरुकमातुलुङ्गमरिचसौवर्चलसंयुक्तान्कवलान्भोजयेत्। अतसीधूमचूर्णैर्दधिमस्तूदकसिद्धां सपञ्चलवणाम्लायवागूं मांसरससुसंस्कृतां पाययेत्।सपञ्चलवणां च प्रसन्नां दद्यात्। दापयेच्च वेत्रगुडसमत्स्यण्डिकोपनाहं कुक्कुटसंयुकेन मुद्गयूषेण भोजयेत्। ततः संपद्यते सुखी।
इति मद्यमूर्छा।
कुयवसमविशुद्धदेश699जं क्रिमिजुष्टं स्थानदोषान्वितं वा यवसं भुक्तवतो700नागस्य यवसमूर्छा भवति।
स तया पीडितः स्तब्धकुक्षिः शूलार्तोऽभिवर्तते, निषीदति, वेपते, मुहुर्मुहुर्मुखं व्याददाति।
ततस्तं त्रिफलासैन्धवविडङ्गेव्योष701गोमयसंयुक्तान्कवलान्भोजयेत्। प्रियङ्गुलोध्रमधुसंयुक्तान्कवलान्दद्यात्।दार्वीकन्दं702दर्भमूलं समङ्गां703मधुरसां पाठां हिङ्गुबृहत्यौ च क्वाथयित्वा परिस्राव्य रात्रिस्थितमासवं मधुसंयुक्तं पाययेदिति। यवसाध्यायप्रोक्तानि यवसानि विचित्राणि दद्यात्। अन्नैरन्नपानप्रोक्तैश्च भक्तैर्विविधैर्बृहयेदिति।
तत्र श्लोकः—
**सहोत्पत्तिनिदानास्ता मूर्छा द्वादश कीर्तिताः। **
**सोपक्रमविधानाश्च तव पार्थिव पृच्छतः॥ **
इति यवसमूर्छा।
इति श्रीपालकाप्येगजायुर्वेदमहाप्रवचने महारोगस्थाने मूर्छाध्यायश्चतुर्दशः ( स्त्रयोदशः )॥१३॥
<MISSING_FIG href="../../../books_images/U-IMG-1700062356Screenshot2023-11-08115216.png"/>
अथ चतुर्दशोऽध्यायः।
________________
आङ्गो704 हि वै रोमपादो हस्तिशालास्थं भगवन्तं पालकाप्यमभिवन्द्योवाच—‘भगवन्गजानां’ शिरोभितापाः कथं संभवन्ति, कति, कथं च साध्यन्ते तन्मे व्याख्यातुमर्हसि’।
इत्युक्त उवाच भगवान्पालकाप्यः—इह खलु भो वारणानां सप्त शिरोरोगाः संभवन्ति। तद्यथा—वात-पित्त-कफ- रुधिर-संनिपातात्, कृमिभ्योऽभिघाताच्चेति।
तत्र रूक्षविषमल705घुकटुकषायतिक्तभोजनैरनिलः प्रकुपितः शिरोऽवपीड्य तिष्ठञ्शिरोभितापं जनयति।
स स्तब्धसगदम706न्मांसपृष्ठशिरोग्रीवानयनः समुन्नद्धोत्तमाङ्गो भवति भ्रमति चास्य दृष्टिराविला, कर्णस्तम्भः शिरोदाहो मुखशोषश्च भवति, छर्दयति, मूर्छा चास्य भवति, तृष्णा चात्यर्थनेत्रप्रस्रावो वक्त्रस्तम्भः शिरो विधुनोति दहति रुजति कूजति वेपते करास्ययोरजस्रं रूक्षविशददुर्गन्धो विवर्णं नीलं हारिद्रवर्णं प्रस्रवति दोषम्।
तस्मै वेसापानं दद्यात्। (*प्रध(ग)मनं707 चास्य मरिचमस्थेन पिप्पल्पर्धप्रस्थेन पृथ्वीकाप्रस्थेन देवदारुशृङ्गवेरसैन्धवैश्च द्विपलिकैरेकैकशःपिष्टैः कुर्यात्सप्ता)हम्।यथायोगं वा प्रक्षालनमपि च करस्य प्रसन्नया चिरस्थितयागुग्गुल्वगुरुमधूच्छिष्टघृतैश्च निवातस्थस्य धूप इष्टः। पुनर्नवातसीशणबीजमुस्ताकाश्मर्यप्रियङ्गूय708न्पयसि साधयित्वा वस्त्रोपनद्धेन पिण्डस्वेदेन स्वेदयेदुत्तमाङ्गम्, सगदां सफलग्रीवां (वा)श्व बहुशः।प्रपौण्डरीकहरिद्रामनः शिलालोध्रैश्चतैलं विपाच्य नस्यं दद्यात्। यवसानि यथोक्तानि वातप्रशमनानि च दद्यात्।पायसं सघृतशर्करं भोजयेत्। एतेनोपक्रमेण नश्यति वातिकः शिरोरोगः।
इति वातिकः शिरोरोगः॥
तीक्ष्णोष्णाम्ललवणक्षारकटुकविषमविरुद्धभोजनादुष्णे व्यायामाध्वगमनस्थानशयनैः पित्तं प्रकुपितं शिरोऽवपीड्य तिष्ठञ्शिरोभितापं जनयति॥
स भवति परिशुष्कताल्वोष्ठमुखः परिहृष्टरोमा पर्यश्रुनयनः। (*शिरस्तापाच्चास्य कटश्रोतोभ्यां प्रभेदः प्रवर्तते। कराच्चास्य हरिद्रवर्णः स्रवति दोषः,पच्यते चास्य मुखम्, स्वप्नकामश्च भवति, उष्णशिराः, निमीलिताक्षः, परिशूनान्तनयनः) शिरो विधुनोति (*क्षितितलमभिगम्य, दन्ताभ्यां भूमिंविलिखति, छविश्वास्य भवत्यत्यर्थमुष्णा।तमेतैर्लिङ्गैः पित्तसमन्वितं शिरोभि)तापं विद्यात्॥
तस्य पूर्वोक्तं विधिं कारयेत्। सर्पिष्पानं स यथायोगं सर्वकालं नागस्यसेकं कुर्यात्।मेदाछिन्नरुहायष्ठीमधुकप्रियङ्गुपिप्पलीः श्लक्ष्णचूर्णीकृत्य नस्पप्रधमने कुर्यात्। करप्रक्षालनमपि च पयसा सृ(शृ)तशीतेन कुर्यात्। चन्दनशृङ्गवेरोशीरपद्मकप्रपौण्डरीकनलदनालिकावालकवञ्जु709लवेतसतृणशून्यगु710न्द्राणांमूलानि दृषदि पी(पे)षयित्वा कल्कंपपस्यालोड्य शिरः प्रलिम्पेत्। पयस्याजम्बूमधुकविदारीछिन्नरुहामेदाकर्कटशृङ्गीतालपत्रीक्षीरेणपि711ष्ट्वाऽन्तरिक्षेणाम्भसा (*पयसा च घृतं विपाच्य नस्यं दद्यात्। क्षीरिणश्च ये वृक्षा मधुरकषायाः, तेषां त्वग्रसेनाऽऽमलकीनां च घृतमण्डं विपाच्य नस्यं दद्यात्। पायस्यं712)च घृतयुक्तं भोजयेत्।यवसानि च मधुररसवीर्याणि दापयेच्छिरोभितापप्रशान्त्यर्थम्॥
इति पैत्तिकः शिरोरोगः॥
यदा तु वारणो मधुरशिशिरस्निग्धदनविषमविरुद्धभोजनोऽव्यायामशीलः,तस्पोत्तमाङ्गगतः कफः शीर्षाभितापं जनयति॥
तस्य च करवदनाभ्यां कफः परिश्र(स्र)वति, स संनिमीलित (*नयनोगुरुदृष्टिः कृच्छ्रेणोन्मीलयति स्वप्नपरः कूजति वेपते नदति निर्याणेनावनम्यभूमिं दन्ताभ्यां विलिखति, शीतद्वेष्नी, उष्णाभिलाषी।त) मेतैर्लिंङ्गैः श्लेष्मविका (* रजं713 शिरोभितापं विद्यात्॥
तस्मै तैलपानमभ्यङ्गं च यथायोगं दद्यात्। सुखोष्णेन तैलेन परिषेचयेदुरःशि)रःस्कन्धकण्ठस्यदाविताननि714र्याणावग्रहगुहाभागयत715स्थानानि बहुशः।गुग्गुलं तगरं पिप्पलीं स्वे(श्वे)तसर्षपं प्रियङ्गुंश्लक्ष्णचूर्णीकृत्य प्रधमनं कुर्यात्।करप्रक्षालनं मुखोष्णेन वारिणा कुर्यात्। अथाश्वगन्धातसीकिण्वपिण्याकमुद्गचूर्णसैन्धवानि गोवा(व)राहाजवसाभिस्तैलघृताभ्यां च पाचयित्वा वस्त्रावमद्धेन पिण्डस्वेदेन स्वेदयेत्।यवपटोलकिराततिक्तकांशुमतीश्यामातेजोवतीविडङ्गपिप्पलीपिप्पलीमूलनिदिग्धिकाक्षवकमूलमूलैः कल्कपिष्टैस्तैलं विपाच्यनस्यंदद्यात्। पृथ्वीकोरुबूकविडबृहतीफलेङ्गदैः सूक्ष्मचूर्णीकृतैः ससर्पिष्कैर्धूपंदद्यात्। एतैरेवौषधैस्तैलं विपाच्य नस्यं दद्यात्। यवसानि च गिरिजशुष्काणि कफप्रशमनानि च दद्यात्॥
इति कफजः शिरोरोगः॥
यदा तु रुधिरं पित्तप्रकोपहेतुभिःप्रकुपितं शीर्षाभितापं जनयति॥
तदा निमीलिताक्षः परिशूनान्तनयनः, सरक्ता च लाला हस्तात्प्रवर्तते।पित्तलिंङ्गं प्रा716यः, ध्यानशीलः॥
तस्य क्षवकभृङ्गराजतगरफणिज्जकेषु सुरामण्डयुक्तेषु तैलं किं पाच्य नस्यंदद्यात्।पिण्डस्वेदेन च स्वेदयेत्। अर्कपत्रभङ्गानि क्वाथेन च स्वेदयेत्।लोध्रमधूकमञ्जिष्ठानीलिकाभिः सूक्ष्मचूर्णीकृताभिः प्रधमनं कुर्यात्। करप्रक्षालनं चास्य सृ(शृ)तशीतेन पयसा मृद्वीकाशंर्कराचूर्णसंसृष्टेन कारयेत्। यवसानियथोक्तानि च दापयेत्॥
इति रक्तजः शिरोरोगः॥
अथ वातपित्तरुधिरकफानां समस्तानि लिङ्गानि दर्शयति, तदा सांनिपातिकंशीर्षाभितापं717 विद्यात्।तस्य प्रत्याख्येयस्यापि सतः पुरुषकारप्राधान्यादवस्यं718 (श्यं) व्याधिप्रमोक्षपरेण भवितव्यमित्येतां बुद्धिं पुरस्कृत्य चिकित्सितुमा719रभतेतस्य पूर्ववत्पवनमेवाऽऽदावुपक्रमे। स हि सर्वत्रानुपहतगतिः कफपित्तासुक्प्रवर्तकः प्राणो विचारी।ततः पित्तं दहति पचति तीक्ष्णतरमग्निरिव यत्नेनोपचर्यम्। रुधिरमप्यभिघातं720 सदुष्टमाहारदूषितं च पित्तवदुपचर्यम्, कदाचिद्विसर्पतिविसर्पवत्, कफस्तु घनगुरुशिशिरो विसर्पिभवान्संधिशिरास्नायूनवपीड्य प्राणोपरोधं कुरुते। तस्माद्वातपित्तकफरक्तश्लेष्मणां चिकित्सां कुर्यात्। उल्बणं वा व्याधिंप्राणहरमभिसमीक्ष्य दोषमसंभ्रान्तः शमयेत्। गौरवं जाड्यतां वाऽऽपादयति। तस्मादन्तेऽसावप्यवश्यं चिकित्स्य इति॥
यस्त्वत्यर्थं दूष्यत्याकुञ्चति वेपते दन्ताभ्यां भूमिं स्पृशति विधुनोति बृंहते।तमेतैर्लिङ्गैः सांनिपातिकं शिरोभितापं विद्यात्॥
तस्मै सर्पिस्तैलवसापानं दद्यात्721। श्वेतसर्षपपिप्पलीपयोघृताभ्यां स्निग्धेनपिण्डस्वेदेन स्वेदं कुर्यात्। द्विपञ्चमूलकुलत्थयवबदरशतावरीश्वदंष्ट्रोशीरबलातिविषावसुकनिष्पावकाश्मर्याग्निमन्थनिष्काथे घृतमण्डं विपाचपेत्। तत्रावापमनन्तागिरिकर्णिकेन्द्रयवशुकनासातालपत्रीबीजानि वा क्षुद्रसहानां कल्केनततो विपाच्यसम्यध्रस्तः722कर्माभ्यञ्जनं च कुर्यात्। सदारुहरिद्रामेदफलवृष723भमोदानीवचाहरिद्राद्वयश्रीपर्णीगोवन्द724दिदूकहिङ्गुहरितालमनःशिलास्नुह्मर्कवंशपत्राणि दन्तीं725 च पिष्ट्वा सर्जरसेन शोनाककाष्ठमुपलिप्य क्षौमवाससा वर्ति(र्ति) छायायां (*शोषयत्वा धूपमेनं पाययेत्।दिव्येऽम्भसि दध्निच सिद्धंमयूराणां लावकानां वा रसं) पाययेत्।भोजयेच्च वारणं यवसानि, विचित्राण्यार्तवानि च भोजयेत्, सांनिपातिकशीर्षाभितापप्रशान्त्यर्थम्॥
इति सांनिपातिकः शिरोभितापः॥
अथ यदा तु मधुराम्ललवणयवसकुवलकवलभोजनादृतुविपर्यासाद्वानिशाजागरणात्,स्थलस्य चातिप्रसक्तरसोपयोगाच्च दुष्टपानीयपानाद्वाकफरुधिरे प्रकुप्यतो हस्तिनः। ते प्रकुपिते ऊर्ध्वमागम्य शिरोऽवष्ट726भ्य कृमीञ्शिरसि जनयतः। ततस्ते नागस्य कृमिजं शिरोभितापं जनयन्ति।
शिरसि तेन दोदूयमा(*नः550 स (श)रप्राकारतटवृक्षगृहकपाटकुड्यवल्मीकस्तम्भादीञ्शिरसा हन्तुमिच्छति, बहुशश्च व्याददाति मुखम्, पुनः पुनर्बृंहतिविधुनोति शिरोऽभीक्ष्णम्, निश्वसतश्चास्य करान्निपतन्ति कृमयः श्लक्ष्णरोमा)णः कफरुधिरसंभवप्रायाः, शिरसि ताडितश्च सुखायते। तं कृमिप्रचपकृतं शीर्षाभितापं विद्यात्॥
तस्मै शृङ्गवेरकुटजकुष्ठमरिचातिविषापिप्पलीभिः सवार्ताकसर्षपाभिःश्लक्ष्णपिष्टाभिर्नस्यं प्रधमनं कुर्यात्। करप्रक्षालनं चास्यप्रसन्नया।भद्रदारुमरिचशृङ्गवेरपिप्पलीसरलसर्षपचित्रकसैन्धवैर्धूपनं कुर्यात्। अथवात्रिकटुककरञ्जनिम्बपत्रामलकचित्रकविभीतकहरिद्राभिर्धूपनं कुर्यात्। बृहतीफलकासीसकुष्ठसुवर्चिकाविडङ्गरसोनगिरिकर्णिकापिचुमन्दमूलहिङ्गुवचैलाफणिज्जकमरिचैर्गोमूत्रपिष्टैस्तैलं पक्त्वा सुखोष्णं नस्यंदद्यात्। अथवा हरिद्रामार्कवतगरकुष्ठवचापुनर्नवैःकल्कपिष्टैस्तैलं पक्त्वा सुखोष्णं नस्यं दद्यात्। जाङ्गलैश्च यवसैस्तिक्तकटुप्रायैः पिचुमन्दपिप्पलीमरिचरशृ727ङ्गवेरयुक्तैःसिद्धैर्मुद्गैर्मधुघृतसंसृष्टैर्भोजनपानयोरुपचर्यमाणः प्रणुदति कृमिजां रुजं शिरोभितापः॥
इति कृमिजः शिरोभितापः॥
अथातोऽभिघातजः शिरोरोगः। स लोष्टाश्ममुशलाङ्कुशप्राजनदण्डवृक्षशास्वाभिः प्रतिहस्त्यभिघाताद्वाशिरोभितापः संभवति॥
ततः प्रस्तब्धकरकर्णचरणो ध्यानपरः शूननयनमुखशिरोग्रीवास्कन्धपूर्वकायसग728दावितानावग्रहकटो नातिकिंचिदपि दुर्मनाः॥
तस्य सर्वसेको घृतमण्डेनेष्टः। विमलशिशिरस729लिलावगाहः,प्रदेहश्च पत्रोशीरमधुकमञ्जिष्ठादेवदारुसुनिषण्णकैलातगरवञ्जुलोत्पलतामरसबिसमृणालकह्लारपयस्याकर्कटशृङ्गीप्रपौण्डरीकवर्धमानकवेतससरलगुन्द्राक्षीर730वृक्षत्वक्शतपुष्पाह्र731वेरचन्दनसारिवालोध्रपद्मकुस्तुम्बुरुशैले732यामलकमांसीव्याघ्रनस्वपरिपेलवाभयाहरेणुकादेवदारुशितकर्णकैः क्षीरपिष्टैर्घृतप्रदिग्धैर्बहुशः प्रलेपयेत्। स्थानं च सुशीतलं गोमयोपलिप्तं कालर्तुसुमनोभिः प्रकीर्णम्। शिरसि मध्ये च वारिपरिपूर्णा दृतयः स्रवेयुः। यवसैश्च मृदुभिरार्तवैर्हरितैर्बृंहयेत्।रसैश्च स्निग्धमधुरैर्जाङ्गलैर्मांसजैर्भोजयेदिति॥
तत्र श्लोकौ भवतः -
शिरोभितापा नागानां प्रायशो वातसंभवाः॥
कफशोणितपित्तानां वायुरेव प्रवर्तकः॥
मूले छिन्ने हताः शा733खा भवन्ति हि तदाश्रयाः॥
तस्माद्वातप्र734तीकारः सदा कार्यश्चिकित्सकैः॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने शिरोरोगाध्यायः पञ्चदशः (यश्चतुर्दशः)॥१४॥
**
<MISSING_FIG href="../../../books_images/U-IMG-1700063608Screenshot2023-11-08115216.png"/>**
अथ पञ्चदशाध्यायः।
______________
रोमपादो महातेजा दृष्ट्वा पादातुरान्गजान्॥
हस्तिशालासमासीनं पालकाप्यं स्म पृच्छति॥१॥
भगवन्केन जायन्ते पादरोगाः पृथग्विधाः॥
संख्यया कति ते प्रोक्ताः किंच तेषां चिकित्सितम्॥२॥
स्वशरीरसमुत्थानाः केन वा वनचारिणाम्॥
पादरोगा न जायन्ते तस्मादाचक्ष्व पृच्छतः॥३॥
स एवमङ्गराजेन पृष्टो मधुरया गिरा॥
वचनं प्रत्युवाचेदं पालकाप्यो महामुनिः॥४॥
प्रमाणं पादरोगाणां सनिदानं चिकित्सितम्॥
केचिदेषां दशेच्छन्ति केचिदिच्छन्ति विंशतिम्॥५॥
इह त्रिंशतमिछन्ति पादरोगांश्चिकित्सकाः॥
नामतस्तान्प्रवक्ष्यामि सलिङ्गान्सचिकित्सकान्735॥६॥
तत्रोत्कारकी प्रथमः कारकी तदनन्तरम्॥
नाडीजातस्तृतीयः स्यात्ततः संराष्ट्रकेशकम्॥७॥
नखभेदं ततो विद्यात्पूयकेशस्ततः परम्॥
विप्लावकस्तत736स्त्वन्यः केशग्रन्थिः सविप्लुकः737॥८॥
समन्तकेशश्च भवेत्कचकेशश्च कीर्त्यते॥
कदम्बपुष्पो विज्ञेयः सफुल्लो738ऽथ कुठारकः॥९॥
फुल्लपादस्तथा ज्ञे739यस्ततो मिन्ननखोऽपरः॥
स्फुटितश्चानुद्धतश्च740 तथाऽन्योऽपि नखो भवेत्॥१०॥
शरनद्धोऽथ विज्ञेयो दर्द्रुके741शश्च दन्तिनः॥
प्रगुल्मिकेशो गम्भीरस्तथा चर्मतलोऽपरः॥११॥
क्षतो निर्मूलितश्चैव तथा केशः सलोहितः॥
स्थाण्वाहतः क्षीणतलस्तथा *चाभ्यन्तरीकृतः742॥१२॥
निष्पिष्टो मांसकेशश्च तथा स्थानरतोऽपरः॥
इति रोगसमुद्देशः कीर्तितः पृथिवीपते॥१३॥
तत्र तावत्प्रवक्ष्यामि गजानां वनवासिनाम्॥
पादरोगा न जायन्ते स्वशरीरोत्थिता यथा॥१४॥
प्रकृतिः परिसर्या हि वनेषु वनचारिणाम्\।\।
न तिष्ठति ततस्तेषां शोणितं तलसंधिषु॥१५॥
पवनः प्रकृतिं याति श्लेष्मा चैषां विशुध्यति॥
पित्तं प्रसन्नतां याति ततो गच्छति भूमिप॥१६॥
पादरोगा न जायन्ते तेनेह वनचारिणाम्॥
ग्राम्याणां पारवश्यत्वादालानेष्वेव तिष्ठताम्॥१७॥
प्रायः पादा विनश्यन्ति सततं स्थानसेवया॥
सप्तमीं तु दशां प्राप्तात्वयोतीतांस्तु वारणान्॥१८॥
पादरोगाः प्रबाधन्ते विशेषेणेह पा743र्थिव॥
व्याप्य सर्वशरीरं हि शिराः सर्वाः समन्ततः॥१९॥
सहिताः स्नायुजालेन चरणेषु प्रतिष्ठिताः॥
गुलिकास्थिसमूहश्च यस्मात्पादेषु दन्तिनाम्॥२०॥
रोगा ये तत्र जायन्ते तस्मात्ते दारुणाः स्मृताः॥
इति त्रिंशदिमे प्रोक्ता द्विविधा रोगसंख्यया॥२१॥
स्वशरीरसमुत्थाश्च भवन्त्यागन्तवस्तथा॥
तेषामपि विभागं तु क्रमयोगात्प्रचक्षते॥२२॥
तत्र निर्मूलितनखः क्षत(:) क्षीणतलस्त744था॥
स्थाणुनाऽभिहतश्चैव शरनद्धश्च यो भवेत्॥२३॥
उत्कारकी स्थानरतो विनिष्पिष्टतलस्तथा॥
अनुद्धतनखश्चैव स्युरेते शास्त्रनिश्चयात्॥२४॥
नवैवाऽऽगन्तवो रोगाः शेषाः स्युर्दोषसंभवाः॥
अत ऊर्ध्वं चिकित्सां च लक्षणं च प्रवक्ष्यते॥२५॥
तत्र चोत्कारकीलिङ्गं वारणस्य प्रवक्ष्यते॥
यथानिमित्तं मातङ्गः पादव्याधिं नियच्छति॥२६॥
तृणमूत्रपुरीषाणां पांशूनां कर्दमस्य च॥
उत्करे तिष्ठति यदा सततं क्वथिते गजः॥२७॥
तेनास्य पलिपादेषु पवनः परिकुप्यति॥
दारुणं लभते तेन पादरोगं मतङ्गजः॥२८॥
नाड्यो वातेन जायन्ते केशा वा भृशदारुणाः॥
दुःखितस्तेन मातङ्गः स्थाने न लभते सुखम्॥२१॥
दन्तिनो नखमूलेषु यदा कुप्यति मारुतः॥
श्लेष्मणा सहितस्तेन कण्डूस्तस्योपजायते॥२०॥
( *745 ततः कण्डूयतेऽत्यर्थं करेण सततं करी॥
तेनावच्छेदनात्केशकारकी नाम जायते॥३१॥)
स्वशरीरसमुत्थानाः काष्ठलोष्टक्षतादपि॥
न साध्यन्ते यदा वैद्यैर्व्रणाःपादेषु दन्तिनाम्॥३२॥
विसर्पन्ति ततस्तेषां गतयस्तलसंधिषु॥
नाडीजात इति प्राहुः पादरोगं गजस्य तम्॥३३॥
कदम्बपुष्पसंस्थानैः कुठारसदृशैस्तथा॥
दर्द्रुभिः746 कचगुल्मैश्च यदा पादाः समन्ततः॥३४॥
द्विरदस्य प्रभिद्यन्ते समन्ताद्गाढवेदनैः॥
संराष्ट्रकेशं पवनाज्जानीयात्तं नरेश्वरः॥३५॥
श्लेष्मशोणितपित्तानां दोषमन्यतमं यदा॥
संगृह्य पवनो747 दुष्टो नखमध्येषु तिष्ठति॥३६॥
तदा भित्त्वानखान्केशा जायन्ते भृशदारुणाः॥
इत्युक्तं नखभेदस्य शास्त्रयोगेन लक्षणम्॥३७॥
यदा प्रदुष्टः पवनः पित्तमादाय तिष्ठति॥३८॥
नखान्तरेषु सर्वेषु विक्का748नखशिखासु च॥
यदा संजायते केशो जायमानश्च पच्यते॥३९॥
अजस्रश्र(स्र) वणाश्चास्य पूयकेशत्वमिष्यते॥
इत्येतल्लक्षणं प्रोक्तं पूयकेशस्य दन्तिनः॥४०॥
नखान्तराणि सर्वाणि तलाः सतलसंधयः॥
पच्यन्ते सहसा यस्य विसर्पन्ति च सर्वशः॥४१॥
पुनश्चैवोपरोहन्ति भिद्यन्ते च पुनः पुनः॥
केशो749 विप्लावकश्चैष पिंत्तासृग्वातसंभवः॥४२॥
विप्लुतायस्य लक्ष्यन्ते केशैश्च तलसंधयः॥
(*750सग्रन्थिभिर्वातरक्तात्केश751ग्रन्थिः सविप्तुतः॥४३॥
कुपितः पित्तमादाय यदा तिष्ठति मारुतः॥
तलसंधिषु नागस्य तेन केशोऽस्य जायते॥४४॥
सरुजः सपरीदाहः क्षिप्रपाकी विसर्पकः॥
पच्यन्ते सहसा तस्य समन्तात्तलसंधयः॥४५॥
समन्तकेशं जानीयान्नागस्य भृशदारुणम्॥
तत्र यस्य विमुच्यन्ते न स शक्यश्चिकित्सितुम्॥४६॥
प्रोहयोः पलिहस्ते च विक्कानखशिखासुच॥
संनिपातोद्भवैः केशैर्मयूरशिखसंस्थितैः॥४७॥
दीर्घैः प्रविरलैः कृष्णैः श्वेताग्रैर्वाऽपि रोमभिः॥
मिश्रैर्दारुणपर्यन्तैः कचकेशः स उच्यते॥४८॥
एतेष्वेव प्रदेशेषु रूक्षः परमदारुणः॥
वातजो लक्ष्यते केशः कदम्बकुसुमाकृतिः॥४९॥
कदम्बकेशं तं विद्यान्नागस्य भृशदारुणम्॥
पलिपादे च कूर्मे च प्रोहयोः पलिहस्तयोः॥५०॥
विक्वयोरपि यस्य स्यात्केशैः फुल्लैः सवेदनैः॥
शतध्न्येव च दृश्यन्ते वृत्ताः पादाः समन्ततः॥५१॥
सफुल्लुमिति तं विद्यात्केशं वातसमुद्भवम्॥
गजस्य कुपितं पित्तं यदा पादेषु तिष्ठति॥५२॥
कुठाराख्यस्तदा रोगः पादजो बाधते द्विपम्॥
नखान्तरेषु सर्वेषु मांसं समुपचीयते॥५३॥
कुठाराकृतिसंस्थानस्तेन केशोऽस्य जायते॥
सरुजः सपरीदाहः क्षिप्रपाकी विसर्पकः॥५४॥
कुठारपादमित्याहुस्तं रोगं पादजं पुनः॥
गात्रापरेषु सुव्यक्तं गजस्य तलसंधयः॥५५॥
स्फुटिता यस्य लक्ष्यन्ते फुल्लपादः स वातिकः॥
दन्तिनो नखमूलेषु यदा कुप्यति मारुतः॥५६॥
तदा नखा विपाच्यन्ते भिद्यन्ते च स मा752रुतः॥
एष भिन्ननखो नाम पादरोगो विनिश्चितः॥५७॥
अप्रतिक्रियया यस्य दन्तिनः स्फुटितो नखः॥
शुष्कत्यनिलसंदुष्टः सोऽनुद्धतनखो भवेत्॥५८॥
यदा निर्भिद्यते पादःशर753शक्तवृष्टितोमरैः॥
शरनद्धं तदा नागः पादव्याधिं नियच्छति॥५९॥
प्रोहसंदानभागेषु दद्रवः श्लेष्मसंभवाः॥
कण्डूमत्यो बृहत्यश्च जायन्ते यस्य दन्तिनः॥६०॥
काष्ठलोष्टादिभिस्ताश्च यदा संपीड्यघर्षति॥
दद्रुकेशः स विज्ञेयस्तेन लिङ्गेन दन्तिनः॥६१॥
प्रगुल्मिकेशा जायन्ते गजे शोणितसंभवाः॥
विक्वयोःप्रोहयोश्चैव तथैव पलिहस्तयोः॥६२॥
विस्तीर्णा रक्तपर्यन्ताः कृष्णान्ता मृदवः स्थिराः॥
प्रगुल्मिकेशाः शीर्यन्ते यदा दोषेण दन्तिनः॥६३॥
तेषु मूलेषु गम्भीरास्तद्धि गम्भीरलक्षणम्॥
यदा प्रकुपितं पित्तं मारुतश्चैव दन्तिनः॥६४॥
तलसंधिषु सुव्यक्तं जनयेत्परिपोटनम्॥
तं चर्मतलमित्याहुः पादरोगं चिकित्सकाः॥६५॥
अत ऊर्ध्वं प्रवक्ष्यामि क्षतकेशस्य लक्षणम्॥
प्राजनैः स्थाणुना लोष्टैरारया वाऽपि विक्षते॥६६॥
केशा यत्रोपलक्ष्यन्ते पादरोगः स हि क्षतः॥
स्खलनादभिघाता754द्वा यदा निष्कृत्यते नखः॥६७॥
तं तु निर्मूलितं विद्यात्पादरोगं चिकित्सकः॥
यदा प्रकुपितो वायू रक्तमादाय तिष्ठति॥६८॥
दन्तिनां प्रोहदेशेषु विक्वानखशिखासु च॥
तेन केशा विवर्धन्ते तत्र शोणितसंभवः॥६९॥
शोणितक्षरणाच्चैषां रक्तकेशत्वमिष्यते॥
वनपर्वतदुर्गेषु चरतां दन्तिनां यथा॥७०॥
स्थाणुना भिद्यते पादः स तु स्थाण्वाहतो भवेत्॥
लोष्टाश्मकण्टकाकीर्णां यदा संचार्यते महीम्॥७१॥
शराधानवतीं वाऽतितप्तं वा बहुशो गजः॥
तस्प तेनोपतापेन दुष्यन्ति तलसंधयः॥७२॥
क्षीयन्ते च तला गाढं स तु क्षीणतलो भवेत्॥
प्रतिघ्नतो यदा यातुस्तिष्ठत्याक्रम्य शर्कराः॥७३॥
मन्दं गच्छति पर्यश्रुः पथि क्षीणतलो गजः॥
तस्य क्षीणतलस्येह तलेभ्यः पूयशोणिते॥७४॥
क्षरतः स तु विज्ञेयः पादरोगः क्षरीकृतः॥
विनिष्पिनष्टि यः क्रुद्धो मुहुः पादतलं गजः॥७५॥
शर्कराशरधानेषु लोष्टाश्मगहनेषु च॥
तस्य पार्ष्णिप्रदेशेषु शोणितं संप्रदुष्यति॥७६॥
प्रदुष्टं जनयेद्व्याधिं गजस्य भृशदारुणम्॥
निष्पिष्टतलमित्याहुः पादरोगं चिकित्सकाः॥७७॥
अत ऊर्ध्वं प्रवक्ष्यामि मांसकेशस्य लक्षणम्॥
नखान्तरेषु सर्वेषु विक्वानखशिखासुच॥७८॥
यदा संजायते केशो मांसं प्राप्तः सुदारुणः॥
गम्भीरमूलकठिनो बहुलो गुरुवेदनः॥७९॥
मांसकेशः स विज्ञेयः पादरोगश्चिकित्सकैः॥
क्रोधाद्भयाद्वा मातङ्गं यदा तु परिचारकाः॥८०॥
न नयन्त्यवगाहं च शय्यायां नापि नाध्व755नि॥
स्थान एवं निबद्धस्य कवलं पल्लवं जलम्॥८१॥
तृणं चैव प्रयच्छन्ति विधां च लवणानि च॥
तस्य कुप्यति पादेषु चिरस्थानेन मारुतः॥८२॥
स्फटन्ति756 सर्वतश्वास्य तलाः सतलसंधयः॥
नखान्तराणि भिद्यन्ते प्रोहौ निर्भुजतस्तथा॥८३॥
**तं स्थानरतमि757त्याहुः सततं स्थानसेवया॥
इति त्रिंशदिमे प्रोक्ताः पादरोगाः सलक्षणाः॥८४॥
<MISSING_FIG href="../../../books_images/U-IMG-1700064603Screenshot2023-11-08131723.png"/>**
**चिकित्सितं यथा येषां758 विस्तरेण प्रवक्ष्यते759॥ **
शस्त्राग्निक्षारचूर्णानि धावनालेपनानि च॥८५॥
स्नेहनं चान्ववेक्षा च760 क्रियाधिष्ठानमष्टधा॥
कुठारपादः स्थानरतः केशग्रन्थिः सविप्लुतः॥८६॥
समन्तकेशः संराष्ट्रकेशो विप्लावकश्च यः॥
असाध्याः पादरोगाः स्युः षडेते शास्त्रनिश्चयात्॥८७॥
अत ऊर्ध्वं तु याप्यांश्च साध्यांश्च शृणु पार्थिव॥
कदम्बपुष्पः सकचः761 प्रफुल्लः फुल्ल एव च॥८८॥
चत्वार एते याप्याः स्युः पादरोगा नरेश्वर॥
नखभेदो भिन्ननखो निर्मूलितनखस्तथा॥८९॥
स्खलितश्चानुद्धतश्च762 कृच्छ्रसाध्यास्तु ते स्मृताः॥
पूयकेशः प्रगुल्मी च रक्तकेशश्च पार्थिव॥९०॥
एतेऽपि दुश्चिकित्स्यास्तु मांसकेशश्च यः स्मृतः॥
स्खलितो नखभेदश्च केशो भिन्ननखश्च यः॥९१॥
उत्कारकी सगम्भीरः साध्याः पञ्चाग्रिकर्मणा॥
कारकी दद्रुकेशश्च मांसकेशश्च पार्थिव॥१२॥
प्रगुल्मी चेति चत्वारः क्षारसाध्याश्चिकित्सकैः॥
क्षतो निर्मूलितश्चैव पूयकेशः सलोहितः॥९३॥
नाडीजातश्च विज्ञेयः शरनद्धश्च यो भवेत्॥
स्थाण्वाहतश्च सप्तैतेसाध्याः स्युः शस्त्रकर्मणा॥९४॥
क्षरीकृतः क्षीणतलस्तथा चर्मतलश्च यः॥
निष्पिष्टतल इत्येते चत्वारः पृथिवीपते॥९५॥
अप्रमत्तेन भिषजा साध्याः स्युर्मूलकर्मणा॥
असाध्याश्चैव याप्याश्च साध्याश्चैव यथा यथा॥९६॥
कीर्तिताः पृथिवीपाल चिकित्सितमतः शृणु॥
द्वावेतौ सहजौ रोगौ सुफुल्लः फुल्लएव च॥९७॥
एतयोः स्वेदनं कार्यमभ्यङ्गश्चैव नित्यशः॥
कदम्बपुष्पकेशश्च कचकेशश्च यो भवेत्॥९८॥
घृतं लवणसंयुक्तं नित्यमभ्यञ्जनं हितम्॥
गोमूत्रं वाऽश्वमूत्रं च खरमूत्रं तथैव च॥९९॥
त्रिफलासोमवल्कानां निष्क्वाथः पादधावनम्॥
भल्लातकानां तैलं च तिलतैलं घृतं वसा॥१००॥
पादरोगेषु नागानां स्नेहनं हितमुत्तमम्॥
प्रियङ्गुतगरं कुष्ठं तेजोह्वा रजनीद्वयम्॥१०१॥
वचासैन्धवसंयुक्तं घृततैलसमन्वितम्॥
सर्वेषां पादरोगाणां केशशातनमुत्तमम्॥१०२॥
(*सर्ष763पश्चित्रको दन्ती श्वेता कटुकरोहिणी।
महावृक्षार्कयोर्मूलं भल्लातकफलानि च॥१०३॥
लवणानि हरिद्रे च कोशातक्याः फलानि च॥
पिचुमन्दपलाशानित्रिवृ764ता श्वेतसर्षपाः॥१०४॥
कल्कपिष्टानि सर्वाणि केशशातनमुत्तमम्॥
गुग्गुलं निम्बपत्रं च त्र्यूषणं च तिलैः सह॥१०५॥
कल्कपिष्टानि सर्वाणि केशशोधनमुत्तमम्॥
विषघ्नाऽतिविषा कुष्ठं सर्षपाः सुरदारु च॥१०६॥
त्रिवृद्दन्त्यार्कभल्लातमूलानि च शणं तिलाः॥
अतसींच पटोलं च प्रत्येकं केश765शोधनम्॥१०७॥
अतसीं766 (*किण्वमेरण्डसुरा क्षारतिलात्वचम्॥
महावृक्षार्कयोर्मूलं पिष्ट्वा भल्लातकानि च॥१०८॥
मधुशिग्रुफलैः सार्धं पादरोगेषु शोधनम्॥
कासीसं ) सैन्धवं कांस्यंतथा नीली रसाञ्जनम्॥१०९॥
सौराष्ट्रा म767धुकं चैव पादरोगेषु रोपणम्॥
घोण्टाफ768लानि त्रिफला निचुलानां फलानि च॥११०॥
तलरोगेषु नागानां स्थिरीकरणमुत्तमम्॥
गोजीत्वचोऽश्वकर्णश्च सोमवल्कधनंजयौ॥१११॥
कल्कपिष्टानि सर्वाणि तलस्तम्भनमुत्तमम्॥
सोमवल्कस्य सर्जस्य ककुभाश्मन्तकस्य च॥११२॥
( *769 भल्लातकोदुम्बरयोस्तथाऽश्वत्थकदम्बयोः॥
आम्रातकाश्वकर्णंच कुम्भीं च क्वाथयेज्जले॥११३॥)
पादावशिष्टं क्वथितं पुनरेवाप्यधिश्रयेत्॥
किरातमूलं कासीसं हरितालं रसाञ्जनम्॥११४॥
तथा सर्जरसं दद्याद्रोहिणीचूर्णमेव च॥
अपहस्य770 च निर्दग्धमपः कुम्भे निधापयेत्॥११५॥
ततस्तेन कषायेण व्रणं नागस्य क्षालयेत्॥
**
<MISSING_FIG href="../../../books_images/U-IMG-1700065188Screenshot2023-11-08131723.png"/>**
अतः परं प्रवक्ष्यामि क्षारकर्मविधिं शुभम्771॥११६॥
पालाशं क्षारमादाय मुष्ककस्य धवस्य च॥
कुटजेङ्गुदराणां772 क्षारमारग्वधस्य च॥११७॥
कालञ्चुकं773 साप्तपर्णं क्षारं सौगन्धिकस्य च॥
रोध्रकं774चिरबिल्वं च शैरीषं कतकं तथा॥११८॥
एतान्क्षारान्समाहृत्य हस्तिमूत्रेण संसृजेत्॥
संसृजेच्चाश्वमूत्रेण गवां मूत्रेण चैकशः॥११९॥
पुनः पुनः समासिञ्चेद्यथा स्यात्सुपरिश्रु(स्रु)तम्॥
परिश्रु(स्रु)तं तु तं क्षारं सुप्रसन्नं ततो भिषक्॥१२०॥
अपः कुम्भे दृढे धीरः शनैर्मन्दाग्निना पचेत्॥
सुप्रसन्नंततो वैद्यः समन्तात्परिघट्टयेत्॥१२१॥
अनामं चाप्यदग्धं च दर्वीलेपमथोद्धरेत्॥
अयोमये सापिधाने कलशैरजतप्रभे॥१२२॥
तस्मिन्क्षारं775 समावाप्य स्वनुगुप्तं निधापयेत्॥
पूर्वोक्तेन कषायेण मुखोष्णेनाथ धावनम्॥१२३॥
तं कपालिकया गाढं तीक्ष्णया परिघट्टयेत्॥
सम्यक्प्रक्षालितं केशं कृत्वा निरुदकं ततः॥१२४॥
क्षारागदेन776 योगहस्तेनैव प्रतिस्मरयेत्॥
(*777पक्वजाम्बवसंकाशमविश्वा(स्रा)वि यदा भवेत्॥१२५॥
सम्यग्दग्धतलं विद्यादन्यथा तु विगर्हितम्॥
कौतकं पञ्चलवणं यवक्षारस्तथैव च॥१२६॥
एतानि दग्ध्वा क्षारं तु पूर्वकल्पेन साधयेत्॥)
तगरं पञ्चलवणं हरितालं मनःशिला॥१२७॥
एतत्समुद्धृतं सर्व हस्तिमूत्रेण संसृजेत्॥
पूर्वोकेन विधानेन क्षारयोगः प्रशस्यते॥१२८॥
शुष्काक्षं778 काञ्चनक्षी779रीं दन्तीं लाङ्गलकींतथा॥
साधयेत्पूर्ववत्क्षारं ततः सम्यग्विचक्षणः॥१२९॥
हरितालं सुधाचूर्णं तथैव कटशर्कराम्॥
व्रणानालेपयेदेभिः पूर्वक्षारेण साधितान्॥१३०॥
रोहत्येवं व्रणो लिप्तो न च रूढः प्रभिद्यते॥
(*कासीसं हरितालं च कांस्यनीलीमुराष्ट्रजम्॥१३१॥
मनःशिलां च संभृत्य समभागानि पेषयेत्॥
तं कल्कं निपुणं पिष्ट्वाव्रणं तेनोपलेपयेत्॥१३२॥
रोहत्येवं व्रणो लिप्तो न च रूढः प्रभिद्यते)॥
तृ(त्रि)वृल्लाङ्गलकी दन्ती मधुकं केसरं तथा॥१३३॥
कृष्णकन्दां तालपत्रीं समभागानि पेषयेत्॥
कल्कपिष्टैः स्त्रुतै780सम्यग्घृतं धीरो विपाचयेत्॥१३४॥
एतेन सर्पिषाऽभ्यक्तः पादः स्थैर्यं नियच्छति॥
अत ऊर्ध्वं तु नागानामग्निकर्म प्रवक्ष्यते॥१३५॥
तच्चाग्निकर्म शास्त्रज्ञैश्चतुर्विधमिहोच्यते॥
स्नेहस्तप्तेष्टिका लोहं चतुर्थी प्रोच्यते शिला॥१३६॥
योजयेत्तु यथायोगं बलाबलमवेक्ष्य च॥
मृद्वग्निसाध्या ये रोगास्तेषु स्नेहः प्रशस्यते॥१३७॥
मध्याग्निसाध्या ये तांस्तु इष्टकाभिः प्रसाधयेत्॥
तीक्ष्णाग्निसाध्या येकेशास्ताल्लोहेन प्रसाधयेत्॥१३८॥
अतितीक्ष्णाग्निसाध्यांस्तु शिलाभिः साधयेद्भिषक्॥
( *781 एतेन कर्मयोगेन यथाव्याधि प्रयोजयेत्॥१३९॥
इष्टकां782 चैव लोहं च तप्तां चैव शिलां भिषक्)॥
प्रयोजयेद्यथायोगं वयो बलमवेक्ष्यच॥१४०॥
मासात्तु कार्तिकादूर्ध्वं निवृत्ते शुष्ककर्दमे॥
हेमन्तस्याऽऽगमे कुर्यात्तलकर्म विचक्षणः॥१४१॥
उद्भूतं चांवधूतं783 च मृत्तिकानुगतं च यत्॥
स्फुटितं दुष्टमांसं च शत्रैस्तीक्ष्णैर्विशोधयेत्॥१४२॥
रक्तस्रावं784 न कुर्वीत न चातिक्षणुयात्तलम्॥
शनैः शनैस्तलः शोध्यो यावत्तु मृदुतां व्रजेत्॥१४३॥
अग्निकर्मविधिः कृत्स्नो यथावदुपदेक्ष्यते॥
तप्तैरयोभिरुत्तानं तलं सम्यक्शनैर्देहेत्॥१४४॥
फालजम्ब्वोष्ट785दर्वीभिर्यथादोषमुपक्रमेत्॥
जम्ब्वोष्टै786रेव गम्भीरान्दाहयेदग्निकर्मवित्॥१४५॥
इष्टका787भिस्ततः स्वेदः कार्यः केशेषु हस्तिनाम्॥
वातिकेषु च रोगेषु श्लेष्मणा कठिनेषु च॥१४६॥
रत्निमात्रां चतुरस्रां788शिलां भूमौ निखात(न)येत्॥
उत्सेधेनाङ्गुलान्य789ष्टावग्निवर्णां च कारयेत्॥१४७॥
मृदा पालीं समन्ताच्च शिलायां कारयेद्भिषक्॥
शिलां तां खादिरैः काष्ठैः सुतप्तां कारयेत्ततः॥१४८॥
अपनीयाऽऽशु तत्राग्निमौषधानि समावपेत्॥
गुडं तैलं वसां790 माषाञ्श्रीवेष्टं च सगुग्गुलम्॥१४९॥
तिष्ठेत्पुरा प्रक्वथितं रोधं मुधुहरीतकीम्॥
शृंगालिकां791 महागुन्द्रां सूक्ष्मचूर्णानि कारयेत्॥१५०॥
एकीभूतेतु संभारे तस्मिन्प्रक्वथिते भिषक्॥
स्थापयेत्पादमेकैकं यथावत्सुप्रतिष्ठितम्॥१५१॥
मात्राप्रमाणं कालंवा हस्वाक्षरमथापि वा॥
एष मात्राविधिः प्रोक्तस्त्वग्निदाहे नृपोत्तम॥१५२॥
अक्लिन्नं वाऽप्यपोढं च ताम्रबिल्वसमप्रभम्॥
सम्यग्दग्धतलं विद्यादन्यथा तु विगर्हितम्॥१५३॥
गोमेदकसवर्णाश्च मधुवर्णाश्च ये तलाः॥
पक्वतालु(ल)सवर्णाश्च समरक्तास्त्ववेदनाः॥१५४॥
अनुन्नतास्त्वकुल्माषा गम्भीराः कठिनाः स्थिराः॥
भवन्ति सुखसंस्पर्शाः सम्यग्दग्धा यदा तलाः॥१५५॥
सुप्ररूढास्तलाः सम्यगुत्तिष्ठन्ति समन्ततः॥
दहत्यपि792 च निःशङ्कं समेषु विषमेषु च॥१५६॥
इति सम्यक्प्रदग्धानां कीर्तितं लक्षणं मया॥
तलानामामदग्धानामुत्तमं शृणु लक्षणम्॥१५७॥
आमदग्धेषु पादेषु विकारो नोपशाम्यति॥
स्रवन्ति793 सततं रक्तं पाण्डुरा794 मृदवस्तलाः॥१५८॥
आमदग्धं विदित्वैवं पुनः कर्म विधीयते॥
अतिदग्धस्य विज्ञानमतः शृणु महीपते॥१५९॥
अतिदग्धास्तु मुच्यन्ते संधिभ्यः सहसा तलाः॥
नखाश्चापि विशीर्यन्ते स्फुटन्ति च समन्ततः॥१६०॥
आश्रा(स्रा)वः पिच्छिलो रक्तस्तलेभ्यस्तस्य गच्छति॥
स्थातुं न शक्नोति गजो रक्तमूत्री च जायते॥१६१॥
वमत्यभीक्ष्णं वमथुं सततं च प्रमेहति॥
प्राणांस्त्यजति वा नागो न स कर्मणिकल्पते॥१६२॥
नातिदग्धं तलं कुर्यान्नाऽऽमदग्धं च कारयेत्॥
निर्वापणं प्रवक्ष्यामि दग्धानां हितमुत्तमम्॥१६३॥
सुरा सौवरिकं तक्रमम्लं दधि पयस्तथा॥
क्षीरवृक्षकषायो वा देयः शीतो घृतान्वितः॥१६४॥
अग्निकर्मसु सर्वेषु शीतीकरणमिष्यते॥
वर्गः कषायमधुरः सर्पिषा शीतलो हितः॥१६५॥
प्रपौण्डरीकं मधुकं मरिचंरक्तचन्दनम्॥
उशीरं पद्मकं लोध्रंमञ्जिष्ठा सुनिषण्णकम्॥१६६॥
मधुकं क्षीरवृक्षाश्च सोमवल्कार्जुनावुभौ॥
नलवञ्जुलमूलानि पयस्या चोत्पलानि च॥१६७॥
पयसा कल्कपिष्टानि घृतेन सह योजयेत्॥
अग्निकर्मक्षतान्पादान्गजस्याऽऽलेपयेद्भिषक्॥१६८॥
नलिकानलमूलानि शालूकानि विशानि च॥
प्रपौण्डरीकं मधुकं लोध्रमुत्पलमेव च॥१६९॥
समभागानि सर्वाणि सलिले परिवासयेत्॥
एतैः शीतकषायैस्तु पादनिर्वापणं भवेत्॥१७०॥795
वारकु795म्भीकवृक्षाणां त्वचमारग्वधस्य च॥
नदीजम्बोश्च मूलानि नलिकाया नलस्य च॥१७१॥
समभागानि सर्वाणि सलिले परिवासयेत्॥
एतेशीतकषायाः स्युर्दाहनिर्वापणाः स्मृताः॥१७२॥
उपरूढेषु796 पादेषु स्थिरता जायते यथा॥
तथा वक्ष्यामि राजेन्द्र तलानां हितमुत्तमम्॥१७३॥
धावने त्रिफला कार्या चूर्णं वाऽस्या महीपते॥
तिलतैलसमायुक्तं स्थिरीकरणमुत्तमम्॥१७४॥
पिण्डीतकस्य बीजानि चूर्णीकृत्य त्वचा सह॥
लेपस्तैलेन संयुक्तस्तेनास्य कठिनास्तलाः॥
शर्करा797 काष्ठदी(ही)नायां वीथ्या798 (थ्यां) नागं विचारयेत्॥१७५॥
तत्र श्लोकौ—
धावनैः स्नेहनैश्चर्णैश्चर्मकोशैश्च तांस्तलान्॥
पादरोगप्रशान्त्यर्थं सदा रक्षेत् बुद्धिमान्॥७६॥
क्रियामष्टविधामेनां सम्यक्शास्त्राणि निश्चितम्॥
प्रयुङ्क्तेयो यथायोगं स भिषक्श्रेष्ठ उच्यते॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः॥७७॥९९४॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने
पादरोगाध्यायः षोडशः (पञ्चदशः)॥१५॥
<MISSING_FIG href="../../../books_images/U-IMG-1700066293Screenshot2023-11-08115216.png"/>
अथातोऽष्टव्यापञ्चिकत्सितं व्या799ख्यास्यामः, इति ह स्माऽऽह भगवान्पालकाप्यः। इह खल्वष्टौ व्यापदोऽस्य भवन्ति। तद्यथा—तैलघृतवसाक्षीरसुराधान्योदकोपधाभ्यः पक्वामाभ्यां च व्यापद्यते ग्रहण्ययोगातियोगवियोगेभ्यः॥
तत्र विरुद्धरसवीर्यविपाकगुणभेषजानां प्रदानमयोगः।अतिमात्रं प्रदानमतियोगः।कफपवनरुधिरपित्तानां प्रकुपितानां वृद्धिकरणं वियोगः। यथा—वयःप्रकृतिवर्ष्मसत्त्वसात्म्यदेशकालर्तुमात्राप्रदानं योगः॥
एवमयोगातियोगवियोगैर्व्यापदामुत्पत्तिं नि800दानं चिकित्सितं वक्ष्यामः॥
तत्र रूक्षोऽत्यर्थमजीर्णे कृशोऽतिव्यायामकर्शितः पित्तप्रकोपि वा तैलंपायितः सहसा तैलव्यापदमृच्छति। तस्य दुर्बलाग्नेरुदरस्थःस्नेहः शरीरमनुसृत्य व्याधिं जनयति॥
कष्टां हृदयपीडां वेपथुं शूलमाध्मानं801 मुखशोषं प्राणहानिमुदावर्तं च जनयति।ततः शूनान्तनयनः, सस्थूलोच्छ्वासो वालमूर्ध्वमुदस्यति कृच्छ्रेण रुधिरमल्पाल्पंच बहुशःपुरीषमुत्सृजति कूजति परिहृष्यति म्लानपेचकश्च भवति॥
तस्यैवं तैलव्यापन्नस्यचिकित्सितमुपदेक्ष्यामः—पयस्तृ(स्त्रि)वृद्विडङ्गचित्रकबिल्वैः सह सृ(शृ)तं सुखोष्णमेनं पाययेत्।अथवा—पलाशभस्म परिश्रा(स्रा)व्य पिप्पलीचित्रकहिङ्गुभिः सूक्ष्मचूर्णीकृतैः पाकादर्धोदकां सुरां पाययेत्।अथवा—अर्कप802लाशानां मूलरसं मस्तुना सुरया वा पाययेत्। त्रिफलाविडङ्गानिवा क्वाथं वा सफाणितं पञ्चलवणं पाययेत्। बृहत्योर्वा फलानि मदनलशुनकुटजमरिचे लवणपिप्पलीभिर्गोमूत्रपित्ताभ्यां सम्यक्कपाले पाच803यित्वा प्रसन्नया सह पाययेत्। मदनबृहतीनां फलानि लवणलशुनानि च पिष्ट्वाक्षौमवस्त्रंप्रलिप्य वर्तिं गुदे प्रणिदध्यात् ततोनिरूहच्युतदोषः सुवि804शुद्धहृदयः सुखकोष्ठो भवति। एषा चतसृष्वपि स्नेहव्यापत्सु निरूहवर्तिरिष्टा पुरीष805संवर्तनार्थम्। अश्वत्थसोमवल्कोदुम्बरप्लक्षाणां त्वचं संक्षुद्य द्रवन्तीपिप्पलीमधुसंयुक्तान्कवलान्दद्यात्। क्रमेणाभ्यङ्गं लघुगमनं च सर्वव्यापत्सु कारयेत्। उष्णोदकं च स्नानपानार्थे दद्यात्। जीर्णावस्थितपुरीषं चावगाहयेत्।*जूर्णपाद806कदम्बशिरीषकरीरजम्बूशल्लक्यरिमेदकसेरुककुरुविन्दानामन्यतमं भोजयेत्।सपञ्चलवणां प्रसन्नां पापयेत्। क्रमशश्च शालीनामोदनं मुद्गयूषेण सहभोजयेत्।
इति श्रीपालकाप्येतैलव्यापत्॥
कफोपचितदेहःसमुपचितमांसमेदाः सर्पिः807 पायितः सर्पिर्व्यापदमृच्छति। सकोष्ठसं808लीनं विष्टभ्य शीनस809र्पिरवसीदति कफंप्रकोपयति॥
ततोऽस्य हृदयं पीड्यते। न शक्नोति स्थातुम्, नाभिलषति यवसकवलकुवलपल्लवभो810जनानि। सउपदिग्धकरनयनपेचकः संसृजति गात्रं गात्रेण, जलयन्त्रवच्चातिसार्यते, स्थूलाश्रुरप्रगल्भश्चभवति॥
तस्मै निम्बपत्रत्वक्पटोलानि मधुककरञ्जमधुशिग्रु811पूतीकाटरुषकान्, क्षोदयित्वा सपञ्चलवणाक्नवलान्दद्यात्। ततः सपुरषिं सर्पिर्निरूहति। अथवा—अरलुशिग्रुकरञ्जकरघाटापाटलानिम्बदन्तीं द्रवन्तींच संक्षुण्णान्सपञ्चलवणान्कवलान्दद्यात्। यवमुद्द्रकुलत्थमाषबदरशणाढकीनां बीजानि निम्बबदरकाश्मर्यकाणि च द्विपञ्चमूलाभ्यां सह क्वाथयित्वा सपञ्चलवणं क्वाथं पापयेत्॥
इति सर्पिर्व्यापत्॥
वसाव्यापदमिदानीं वक्ष्यामः।गात्रस्तम्भव्या812यामव्यवायकृते मदबलक्षयेभग्नविहितानां क्षये वा विच्युतोरस्के वातप्रकोपे वा वसा नागेभ्यो दीयते गोमहिषवराहाजमत्स्यानामन्यतमस्य। चेन्मांसस्नेहविरहितस्यायोगातियोगवियोगैर्दीयते, ततोऽस्य व्यापदं जनयति॥
स भवति निमीलिताक्षः, उपदिग्धपेचककरनयनः, पर्यश्रुः, भिन्नपुरीषः,स्थातुं न शक्नोति, अवसीदति॥
तस्यैवं वसाव्यापन्नस्य पूतिकाककरवीरदन्तीतृ(त्रि)वृच्चित्रकान्क्षोदयित्वानिष्क्वाथं सपञ्चलवणं पाययेत्। अथवा —अर्ककटुरोहिणीविश्वभेषजपिप्पलीमूलदेवदारुहस्तिपिप्पलीविडङ्गदन्तीचित्रकानिष्क्वाथं सपञ्चलवणं पाययेत्। त्रिफलाविडङ्गैःसह संक्षुद्य सक्षौद्रान्फवलान्पुरीषसंवर्तनार्थं दद्यात्। अथवा क्षीरवृक्षाणां मधुकारिमेदयोस्त्वचः संक्षुद्य मधुसंयुक्तान्कवलान्दापयेत्। जीर्णेसंक्षौद्रपि813प्पलीकेन मुद्गयूषेण भोजयेत्।यवसानि यथोक्तानि दद्यात्। ततःस्वस्थो भवति।
इति वसाव्यापत्॥
अथ यदा वातशोणितपित्तानां विकारैः पीड्यमानस्य दन्तिनः क्षीरपानमनुविधेयं भवति तदा, जीर्णे कफप्रकोपे वा पयः पीत्वा क्षीरव्यापदमृच्छति।
ततः कुष्टकिटिभदद्रूकिलासपिटकोद्रमाः प्रादुर्भवन्ति, कण्डूश्च परिहृष्ठरोमान संवीजति814 विरिच्यते मुखमसेकश्चास्य भवति॥
तस्मै वरुणतिन्दुकोदुम्बरान्मधुसंयुक्तान्कवलान्दद्यात्। अथवा द्राक्षायष्टीमधुसंयुक्तान्कवलान्दापयेत्। पद्मकमोचरससमङ्गानां वामधुसंयु815क्तान्कवलान्भोजयेत्। प्रसन्नां प्रतिपाने816 च भोजनं मुद्गयूषोदनं दद्यात्। जीर्णपादं शिरीषपल्लवांश्च यवसं दद्यात्। एतेन प्रतीकारेण क्षीरव्यापदो मुच्यते द्विपः प्रकृतिस्थशरीरस्तेजस्वी बलवांश्च भवति॥
इति क्षीरव्यापत् II
स्वस्थवृत्तेर्विकारोपशमनार्थं वा यदा सुरा वारणाय प्रदीयते, द्राक्षागुडतैललवणसंयुक्तां केवलां वा प्रसन्नाम्, अथवाऽपि सुरामजातां817 तरुणीं स्थानदोषान्वितां विपन्नां वा पीतवतो व्यापदुद्भवति॥
ततः प्रमीलयति818, उन्मीलयति, अवलीयते, अत्यर्थं दह्यते, प्रमेहति, संवीजति814 वेपते वमति कूजति परिहृष्यति, अवसीदति च वारणः॥
गजमवेक्ष्य च्छायास्थंतमेवं
गतंविश819 (?)मृणालोत्पलचन्दननलवेतसमूलैर्जम्बूकिशलयैश्च कर्दमोशीरपद्मस्कशतपुष्पामञ्जिष्ठाभिः श्लक्ष्णपिष्टाभिः प्रलेपयेत्।शरीरं सशिरस्कमानखेभ्यो जलार्द्रैर्वस्त्रैःप्रतिच्छाद्य
व्यजनैर्वीजयेच्छायास्थितम्।ततः स्वस्थो भवति। दाहस्य चास्योपशमो भवति। पारावताम्रदधित्थदाडिमाम्रातकबदरपरूषकभव्यलकुचमृद्वीकामातुलुङ्गानि घटेषु सलिलप्लुतानि वासयेद्रात्रिम्। ततः परिश्रा(स्रा)व्य
सशर्क820रासौवर्चलजीरकं प्रतिपानं पाययेत्।अम्लवेतसवेत्रफलानि तिन्तिडीकफलानि गुडबदररसैरन्यैर्वाऽप्येवंप्रकारैर्वृक्षङ्गवल्लीकडंगरैर्भोजयेत्। अम्लां वा यवागूं821 रसमांससंस्कृतां सपञ्चलवणांपाययेत्। सुरां वा सपञ्चलवणामर्धोदकां वा पाययेत्। पिप्पलीमुरिचलवणान्वितेन ताम्रचूडबर्हिणरसेन भोजयेत्। एतेनोपक्रमेण सुराव्यापदो मुच्यतेद्विरदः॥
इति मद्यव्यापत्॥
धान्यव्यापदमिदानींवक्ष्यामः। पक्वंचाऽऽयं चातिमात्रमजीर्णाध्यस(श)न822समशनेषु भोजितो धान्यव्यापदमृच्छति॥
तस्यातिसारः प्रवर्ततेऽतिमात्रं दुर्गन्धिसमाशयादामः, पक्वाशयाद्विदग्धः॥
तस्यैवमुत्पन्नव्यापदः सर्वधान्यानि प्रतिषेधयेत्।कवलं यवसैरेव वर्तयेत्।
(*823ततोऽस्याऽऽरग्वधत्रिकटुकचित्रकबिल्वगण्डीराटरुषकदन्तीसर्षपांश्च क्षोदयित्वा गोमयसंयुक्तान्प्रयच्छेत्कवलान्सक्तुभिर्वा। ततः संपद्यते सुखी॥
इति धान्यव्यापत्॥
अथ वारिव्यापदं वक्ष्यामः।अश्रान्तः सहसा पिपासितोऽतिमात्रं सदोषंशास्त्रार्थमयोगतः पीतं पानीयं व्यापदमृच्छति।
तस्यातिसारोऽतिमात्रमुदकयन्त्रवत्प्रवर्तते। जठरमाध्मायते वातबस्तिरिवसर्वतः पूर्णम्॥
तस्मै कटुकनिम्बपत्रामलककरञ्जफलत्रयदाडिमाजमोदाविडङ्गप्रियङ्गुहरिद्रातेजोवती) पाठासूक्ष्मसर्षपतगरकुष्ठैलाचव्यांशुमतीदन्तीगण्डीरचित्रकदेवदार्विन्द्रयवाजाजिगजपिप्पलासर्जश्रीवेष्टकहिंङ्गुवचासैन्धवसुवर्चिकायवक्षारविडसौवर्चलरोम824काणि सपिप्पलीमरिचशृङ्गवेरचव्याजमोदानि सूक्ष्मचूर्णीकृतानि प्र825सन्नयापाययेत्।तृणैरेव प्राणं ग्रहणीं च वर्धयेत्। ततः संपद्यते सुखी॥
इति वारिव्यापत्॥
परिचारकैरज्ञानाद्वाऽतिलोभादतिसिद्धमसिद्धं वा पर्युषितं वा भोजितवतःसंवत्सरस्थितं सदोषं स्थानदोषान्वितं वायवसं भक्षितवत उपधाभिर्वा, अविधिप्रयुक्ताभिरयोगतो मद्यमकाले त्वरया पीतवतोऽस्नेहलवणां विधिविहितां वा विधां प्रयोगातियोगवियोगै826रुपयुक्तवतो दुःसंप्रयुक्तैरौषधैरतिप्रसिक्तवन्तै(द्भि)र्वाव्याधिरप्रतिक्रियया वैद्यापराधाद्वा मदप्र827कृत्याऽवस्थाप्रमाणानुचितपानपिण्डमयोगाद्वा शास्त्रप्रयोगस्योपरोधाद्वा भवत्युपधाव्यापत्
तस्यानाहोऽत्यर्थं भवति।तृष्णा चातिमात्रम्, मुखपरिशोषः, पुरीषभेदः828,न चाऽऽहारमभिलषति यादृशमुपयुङ्क्तेतादृशं निरूहति तद्वर्णगन्धपुरीषमुत्सृजतिपरिमूत्री च भवति।लालाश्रा(स्रा)वी भ्रमति कुप्यति मुह्यति, अवसीदति॥
तस्यैवंरूपस्य सर्वमाहारं प्रतिषेधयेत्, ॠते च यवसाद्यथोक्तात्। तं त्रिकटुकसंयुक्तां सपञ्चलवणां प्रसन्नां पाययेत्।त्रिफलाबद829रपाठाचित्रकशणबीजशोभाञ्जनकहरिद्राद्वयहिङ्गुसर्षपत्रिकटुकेन्द्रयवविदारीकरञ्जकटुकमत्स्याम्लिका830पिचुमन्दाटरूषकसैन्धवसौवर्चलकटुकरोहिणीन्द्रयवकुस्तुम्बरीण्युदूखले संक्षुद्यगोमयसंयुक्तान्कवलान्दद्यात्। क्रमशश्चास्य तृणैरेव प्राणं ग्रहणीं च वर्धयेत्।प्रतिषेधयेत्सर्वमन्यत्॥
इत्युपधाव्यापत्॥
तत्र श्लोकाः—
युक्तः सदा परीक्षेत वारणे कुशलो भिषक्।
जीर्णाजीर्णं प्रहर्षं च दौर्मनस्यंबलाबलम्॥
निदानैः शास्त्रविहितैः सम्यग्व्याधिं परीक्ष्य च।
यथोक्तेन विधानेन (*831चिकित्सितुमुपक्रमेत्॥
इत्यष्टौ व्यापदः सम्यग्वारणानां हितैषिणा।
ससंभवा मया प्रोक्ताः सनिदान)चिकित्सिताः॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने (अष्टौ) व्यापदध्यायः सप्तदशः (षोडशः)॥१६॥
<MISSING_FIG href="../../../books_images/U-IMG-1700139490Screenshot2023-11-08115216.png"/>
अथ सप्तदशाध्यायः।
__________
अथ भगवन्तं महर्षिमभिवाद्य रोमपादःप्रपच्छ पालकाप्यम्—‘भगवन्येत्वया व्याधिसंख्यायां सप्त (⁺शोफा832 उद्दिष्टाः, तेषां के साध्याः, केऽसाध्याः,कथं वा संभवन्ति, किं वा चिकित्सितम्’ इति॥
पालकाप्य उवाच—‘इहखलु भो गजानां सप्त) शोफाः संभवन्ति।तत्तथा—मन्याशोफः, सगदाशोफः, द्रोणीकशोफः, अवच्छिन्नशोफः, शाल्मलीस्कन्धशोफः, कदलीस्कन्धशोफः, +गात्रशोफः833, शुद्धशोफश्चेति॥
तत्र—मन्याशोफो मन्ययोर्भवति। सगदाशोफः सगदयोर्भवति। द्रोणीकशोफ उरोद्रोण्या(म् भवति।) अवच्छिन्नशोफोऽण्डकोशे (*834पायौ नाभ्यां स भवति। गात्रशोफो गात्रापरयोर्भवति। शाल्मलीस्कन्धशोफो बाह्वन्तरे भवति। कदलीस्कन्धशोफः स्कन्धे भवति॥
तत्र यौ कदलीशाल्मलीस्कन्धशोफौस्वनामसंस्थानौ भवतः। केचित् ‘कण्ठबाह्वोश्च’ इति ब्रुवते। तावसाध्यौ। शुद्धशोफो ग्रीवायामंसयोर्वंशे च सर्वका)ये वा भवति। द्वावसाध्यौ मन्यावच्छिन्नशोफौ भवतः, द्रोणीकः प्रायशः। एवमेते त्रयो मन्यावच्छिन्नद्रोणीकशोफाः प्रायश एकाकारा भवन्त्युपक्रमतः।अभिषन्न(ण्ण)स्य च्छवीमाध्मापयन्ति कण्डूं च विविधां जनयन्ति॥
स एष मन्याशोफः सलिलमिवाभिवर्धते मृदुश्चलश्च भवति। तद्यथा मनुष्याणामिन्द्रियसंवि(नि)रोधात्, क्षीरेक्षुगुडदधितिलपललमत्स्यानूपमांसरसभोजनादव्यायामशी835लानां कण्ठाश्रया गलगण्डका नाम प्रादुर्भवन्ति, एवमेव खलु नागानां स्नायुमज्जाभिषन्ना(ण्णा)नां छवीमाध्माप836यन्ति। तदेवं स्नायुमज्जाध्माने कण्डूभूते837द्विविधा प्रतिक्रिया चैषां भवति —अन्तःप्रतिक्रिया, बाह्यप्रतिक्रिया चेति॥
तत्र838 श्लोकः—
**महांश्चा(प्य)व्यभिचारी च प्राणांश्चापि रुणद्धि वै। **
तस्माद्यत्नेन कुशलस्तस्य कुर्याच्चिकित्सितम्839॥
यस्तत्र शुद्धशोफः स षड्विधोभवति॥
यः सर्वश्वयथुभूतस्तं निरीक्ष्य यथाविधि।
शुद्धशोफं तु विज्ञाय भिषक्कर्म समाचरेत्॥
तस्य भेदा वातपित्तकफशोणितसंनिपातेभ्य आगन्तवश्चेति। एषामुत्पत्तिनिदानं चिकित्सितं च पृथक्पृथग्विभागेन वक्ष्यामः॥
तत्रातिप्ररोधदौर्बल्याद्दुःस्थानशयनात्कटुकषायरूक्षभोजनादतिकर्मसेववनाच्च प्रकुप्यति पवनः। स कुपितो मृदु चञ्चलं च शोफं जनयति हस्तिनः। स सर्वाङ्गसंचारी840 स्थानात्स्थानविसर्पी शीतस्पर्शे शीते विवर्धते, उष्णे विलीयते, रुक्षाभश्च भवति॥
तेन मुह्यति श्रमति, व्याददाति मुखं गजः, स्तब्धगात्रो गाढमूत्रपुरीषोभोजनकवलकुवलद्वेषी च भवति॥
तस्मै तैलपानमभ्यङ्गं च दद्यात्। (*841ततः शृङ्गवेरश्योनाकसोमवल्कपिप्पलीचित्रककुटजकरवीरार्कखदिरकुष्ठतालीसपत्रैश्चैनं कल्कपिष्टैर्बहलमनुलेपयेत्।) अथवा - तिलपिष्टलवणतन्दुलकिण्वैस्तक्रदध्यम्लसिद्धैरात्रि पर्युषितैः प्रलेपयेत्। अथवा—जलचरसत्वानां मांसमेदःकदम्बवल्लीबदरमण्डैस्तक्रदध्यम्लसिद्धैः मुखोष्णैरानखेभ्यः प्रलेपयेत्। अथवा—स्योनाकतालपत्रीमेषशृङ्गीवंशपत्रिकाकाश्मर्यकुलिङ्गाक्षीपाटलीबिल्वारग्वधशोभाञ्जनकक्षुद्रसर्षपैश्चूर्णीकृतैस्तक्रदध्यम्लोत्क्वाथितैः प्रलेपयेत्। शुकनासाकाकादनीवरुणकसुवहातिलपिष्टाबलातिबलाशोभाञ्जनकबीजक्षुद्रसर्षपैश्चूर्णीकृतै842स्तक्रदध्यम्लसिद्धैः सुखोष्णैः प्रलेपयेत्।सामुद्रलवणबदरशतपुष्पाहरिद्राद्वयपुनर्नवाधत्तूरकपत्रचित्रकगृहधूपगोमांसैःपञ्चमूलक्वाथतक्रदध्यम्लसिद्धैः सुखोष्णैर्बहुलमनुलेपयेत्।सलवणवालुकया वा श्लेष्मान्तकसंसृष्टया प्रलेपयेत्। कृशरां वा युक्तस्नेहलवणांकृत्वा तयैवसुखोष्णया प्रलेपयेत्। पूर्वाह्णेचैनं पिप्पलीमरिचशृङ्गवेरचूर्णव्यामिश्रितां चिरस्थितां सपञ्चलवणां पाययेत्सुराम्।अश्वमूत्रं वा विडङ्गचूर्णसंयुक्तं पाययेत्। कोद्रवौदनं चैनं सर्षपकल्कव्यामिश्रेण सौवीरकेण भोजयेत्।अथवा पिप्पलीमरिचशृङ्गवेरकल्कसंसृष्टेन कुलत्थरसेन भोजयेत्। पार्वतीयंचास्य यवसमुपहरेत्॥
तत्र श्लोकौ—
क्रमेणानेन राजेन्द्र यस्तु कुर्यात्क्रियाविधिम्।
शोफं तस्यापनयति भिषक्कर्मविशारदः॥
प्रदेहैःस्वेदनाभ्यङ्गैःप्रयत्नैः पानभोजनैः।
यस्तु कुर्याद्विपर्यस्तं स हन्याद्द्विरदंनृप॥
इति शुद्धशोफसामान्यप्रतिक्रियापर्यायः॥
अथ शोफे वातिके स्वेदकर्म वक्ष्यामः। घटीमृत्तिकानांडीतापिकाफलपिण्डसलिललवणपाषाणैः स्वेदयेत्। यथायोगं सुरसासुमनानिर्गुण्डीमधुकार्कोरुबूकवंशतर्कारीकुलिङ्गाक्षीपत्रभङ्गैस्तिलपिष्टलवणसंयुक्तैर्महास्थाल्यां क्वाथयित्वा निवाते देशे तैलाभ्यक्तशरीरं नाडीस्वेदेन स्वेदयेत्। एतेनैव च कल्केन मूत्रैःखरकरभतुरगमहिषाश्वतरवराहाणां स्वेदः कार्यः। अथैषामन्यतमस्य मांसैस्तिलपिष्टलवणसंयुक्तैर्नाडीस्वेदं कुर्यात्। एतेषामेवास्थिभिरस्थिस्वेदः, पुरीषैःपुरीषस्वेदः। सर्वश्वयथूनांचोपशमनायास्थिमांसशकृत्स्वेदाः प्रदातव्याः।पित्तशोणितात्मकेन प्रयोज्याः पर्यवसाने वा प्रयोक्तव्याः॥
तत्र श्लोकौ—
इति व्याधिप्रशमनाः सर्वेषां हस्तिनां हिताः।
अस्थिमांसशकृत्स्वेदा मूत्रस्वेदाश्च कीर्तिताः॥
वृषणौ हृदयं नेत्रे स्वेदयेन्मृदु वा न वा।
नित्यसूक्ष्मपरीतानि स्थानान्येतानि तेजसः843॥
भूयः स्विन्नशरीरस्य हरिद्राजमोदकुष्ठवचालशुनसैन्धवपिप्पलीमरिचबिल्वमृद्वीकाशतपुष्पादेवदारुपृथ्वीकाभिर्द844धिमस्तुपिष्टाभिः सततं वातशोफमनुलेपनंकारयेत्। पूर्वाह्णेचैनं बिल्वाग्निमन्थश्रीपर्णीवरुणकपाटलानिर्यूहपक्वंतृ(त्रि)वृत्स्नेहं पाययेत्। जीर्णे स्नेहे चास्य जाङ्गलं मृदु हरितं845 यवसमुपहरेत्। शाल्योदनं चैनं भोजयेत्।भोजनार्थमपि चास्य मत्स्यमांसं सुसंस्कृतं दापयेत्।वाराहं वा रसं युक्ताम्ललवणस्नेहं दद्यात्। रसं वा कौलत्थं पुरुस्नेहलवणंदद्यात्। करीषेणं चास्य शय्याभागं प्रकल्पयेत्॥
तत्र श्लोकः—
एतेन क्रमयोगेन श्वयथुं पवनात्मकम्।
साधयेत्कुशलो वैद्यो दृष्टकर्मा विचक्षणः॥
इति वातशोफः॥
अथाम्ललवणकटुकविदग्धातिभोजनादुष्णोपयोगेभ्यः पित्तं प्रकुपितं शोफमुष्णमहात846मः पादयति॥
स पाण्डुरुष्णगात्रः शूनश्च भवति वारणः सर्वाङ्गाणि चास्य दोषधातुप्रकोपात्प्रभिद्यन्ते, तेन वेदनार्तोमुहुर्मुहुर्मुखं व्याददाति स्तम्भमाश्रयति श्वसितिपरिधमति वमथुं हस्तेन गृहीत्वा श्वयथुमभिषिञ्चति वमति, न स्थानशय्यासुशर्मोपगच्छति। परिदुर्मना यवसकवलकुवलभोजनं च नाभिनन्दति।दह्यतेचात्यर्थम्। स दह्यमानः स्थानान्यन्यानि गच्छति सलिलाभिकाङ्क्षी, कर्णतालाभ्यां मन्दं परिवीजति847 शीतमभिनन्दति, उष्णद्वेषी रात्रौ सुखनिद्रश्च भवति॥
तस्मै त्रिफलायुक्तं सर्पिष्पानं दद्यात्। प्रपौण्डरीकलशुनोरुबूकहंसपाद्यतिविषाः कल्कपिष्टाः शृगालमकरशिशुमारशशकमांसैः स्नेहं पाचयित्वा प्रलेपयेत्। अथवा प्रपौण्डरीकदेवदारुपद्मोत्पलकुमुदकह्लारसुनिषण्णककुवलयतामरसैः क्षीरपिष्टैर्घृतयुक्तैः प्रलेपयेत्। चन्दनोशीरसारिवाकुशमूलधत्तूरैः क्षीरपिष्टैः सर्पिः स्निग्धैः प्रलेपयेत्। अथवा— पद्मकोशीरमधुकशृङ्गाटकेक्षुवालिकानलनलिनकुमुदकदलीमू848लैः कुवलपकरवीरोत्पलकह्लारवर्धमानकवेतसक्षीरवृक्षसुनिषण्णकैःक्षीरपिष्टैर्देधिसंयुक्तैः सततमनुलेपनं कारयेत्। शिरस्थांश्च यथायोगं नवान्कुम्भान्वारिपूर्णान्परिश्रा(स्रा)वयेत्। जलार्द्रेश्च तालवृन्तैर्वीजयेत्। पूर्वाह्णेचैनं मधुशर्करातुगाक्षीरीकाकोल्यादिसिद्धं सर्पिःपाययेत्।गात्राण्यस्याभ्यञ्जयेत्।पिचुमन्दमेलककुशगडूच्यारग्वधपटोलीशतावरीमृद्वीकाश्च संहृत्य जलद्रोणेऽपि विपाच्य चतुर्भागावशिष्टं क्वाथं सशर्करें पापयेत्।शाल्पोदनं लावतित्तिरिक्रकरकुर्कुट849कपिञ्जलानां रसेन घृतयुक्तेन भोजयेत्।पुष्टिपर्ण्यशुमतीफणिज्जकसारिवानिर्यूहपक्वेन वा मुद्गयूषेण घृतस्निग्धेन भोजयेत्। स्थानं चास्य शीताभिरद्भिः सेचयेत्।नानाविधसुरभिकुसुमोपकीर्णांच शालां850 कारयेत्। यवसान्यस्मै हरितमृदूनि मधुरविपाकानि दद्यात्। बहिश्चास्य शालायाः शय्याभागं कारयेत्। न वाचं कटुकां ब्रूयात्। न चैनंप्राजनाङ्कुशदण्डैरभिहन्यात्। मनश्चास्यवंशवीणादिभिर्गीतघोषैश्च प्रसादयेत्।ब्राह्मणानि सामानि पाठयेत्।
तत्र श्लोकः—
तीव्रो ह्येष भृशं व्याधिः श्वयथुः पित्तसंभवः।
तस्माद्यत्नेन वैद्यस्तु रोगमेनं प्रसाधयेत्॥
इति पित्तशोफः॥
अथ शिशिरमधुभोजनादतियोगा851दव्यायामाच्च कफः संप्रवृद्ध आध्मातमिवकठिनघनशीतसूक्ष्मवियुक्तं
श्वयथुमुपजनग्रति॥852
स852 पाण्डुः शीतः स्निग्धो महान्कठिनश्च भवति। ततस्तेन व्याप्तः संभवतिगण्डुभिः स्निग्धसंस्थानैः स्तब्धगात्रोऽप्रहृष्यद्रोमा स्वप्नशीलश्चभवति वारणः।तस्य कण्डूरत्यर्थं भवति। उष्णमभिनन्दति। शीतद्वेषी भोजनं नाभिनन्दतिगम्भीरवेदी च भवति॥
तस्य चिकित्सितं व्याख्यास्यामः। कटुतिक्तकषायतीक्ष्णोष्णानि भोजनानिदद्यात्। शृङ्गवेरहरिद्राद्वपियप्पलीविडङ्गहिङ्गुपुनर्नवाकल्कपिष्टैःसलवणैस्तैलाभ्यक्तं प्रलेपयेत्॥
प्रलेपश्च पिप्पलीशृङ्गवेराजमोदकुष्ठतगरदेवदारुवचातालीसपत्रहरिद्रातिविषाचविका(भिः) हस्तिमूत्रश्लक्ष्णपिष्टा(भिः) शुक्तसंयुक्तान(भिः) कार्याः(र्यः) सपञ्चलवणमरिचपिप्पलीशृङ्गवेराजमोदचित्रकविडङ्गवचागृहधूम(प)हरिद्राभिः प्रलेपयेत्। अथवा—अर्कवरुणकरवीरतीक्ष्णगन्धालवणैस्तैलाभ्यक्तं प्रलेपयेत्।स्वेदैश्च पूर्वोक्तः स्वेदयेत्॥
तत्र श्लोकः—
कवलैः कटुकैस्तीक्ष्णैस्तथा तीक्ष्णैश्च भोजनैः।
प्रच्छन्नैः स्वेदनैश्चैव कफशोफं प्रसाधयेत्॥
इति कफशोफः।
** ** सांनिपातिकशोफश्च सर्वशोफसामान्यलिङ्गान्वितो भवति। तस्य सर्वशो853फसामान्यप्रतिक्रियां कुर्यात्॥
तत्र श्लोकः—
एतैरेवौषधैः सर्वै854ःश्वयथुं सांनिपातिकम्॥
साधयेत्कुशलः सम्यग्यथायोगं चिकित्सकः॥
इति सांनिपातिकशोफः॥
अथ रूक्षोष्णाम्ललवणकटुकतीक्ष्णरसातियो855गादुष्णे चातिमात्राध्वकर्मप्रयोगादतिकर्मसेवनाच्चासृक्प्रकुपितं हस्तिनः सुकुमारं स्निग्धं महान्तं शोफं सोष्माणमुप856जनयति॥
तेन स गजः शू॒नो857 रक्ताभश्च भवति, उष्णद्वेषी सलिलग्रासं नातिप्रसक्तमुपयुङ्क्ते858। पित्तशोफलिङ्गान्वितश्च भवति॥
तस्मै मधुरमृदुशीतस्निग्धानि भोजनानि दद्यात्। प्रलेपैश्च पूर्वोक्तैःशीतैःप्रलेपयेत्। अथवा किंशुकपियालसर्जतिन्दुकीनां त्वग्भिः कल्कपिष्टाभिर्घृतगुडयुक्ताभिः प्रलेपयेत्। (*859एतां त्वचं संस्कृत्य कृतवेधनत्वचा सम्यक्संक्षुद्यद्विगुणेनाम्भसा सहाधिश्रयेत्।अर्धावशिष्टेन चानेन क्वाथेन घृतं पक्त्वा तेनपानमभ्यङ्गं च दद्यात्। पूर्वमेव घृतेनाभ्यज्य शोणितमोक्षणं च कुर्यात्।मोक्षितशोणितस्य च पलाशसर्जार्जुनतिन्दुक्यसनमधूकामलकविभीतकतिनिस(श) पियालानां त्वग्भिः कल्कपिष्टाभिः प्रलेपनं कारयेत्।) हरिद्रागृहधूमलशुनसैन्धवपिप्पलीमरिचशृङ्गवेरतगरसर्षपकुष्ठबृहतीफलैः प्रतिचूर्णनं860 कारयेत्।विश्रा(स्रा)व्यमाणे रक्ते शा861ल्योदनं मुद्द्रयूषेण घृतस्निग्धेन भोजयेत्। क्षीरिणां च वृक्षाणां कडंगराण्यौदकानि च यवसानि मधुररसान्वितानि मृदुहरितान्यनूपजानि दद्यात्॥
तत्र श्लोकः—
एवं रक्तात्मजे कर्म श्वयथौ परिकीर्तितम्।
यच्च पित्तात्मजे862 प्रोक्तं कार्यं तदपि भेषजम्॥
इति रक्तशोफः॥
अथ वक्ष्यामि वै शोफमुत्पन्नं वातशोणितात्॥
विशेषेणोपलक्ष्येत स गात्रेष्वपरेषु च॥१॥
अम्लादिभोजनाद्रौक्ष्यादुष्णादत्यन्तभोजनात्॥
अकस्मात्सततस्थानाद्गात्रविक्षोभणक्रमात्॥२॥
पतनाद्यैश्च नागानां कुप्येते वातशोणिते॥
शोफःसंजायते तेन तस्मात्तु863 गुरुवेदनाः॥३॥
पादस्तम्भश्च नागस्य संधिविश्लेष एव च॥
अत्यर्थं चैव दौर्बल्यं न चाऽऽहाराभिनन्दनम्॥४॥
विद्यात्तस्य तु नागस्य शोफमस्थिसमाश्रयम्॥
रक्तो वा यदि वा श्यामः शोफः समुपजायते॥५॥
तेनातिवेदना वाऽपि स तु मांसाश्रयो864 भवेत्॥
प्रपौण्डरीकं कटुकां सारिवे द्वे तथैव च॥६॥
मञ्जिष्ठांत्रिफलां चैव पयसा सह पी(पे)षयेत्865॥
ततो घृतविमिश्रण शोफं कल्केन लेपयेत्॥७॥
गोधूमचूर्णमथवा संसृष्टं पयसा सह॥
अजाक्षीरेण संयुक्तं तस्य लेपं तु कारयेत्॥८॥
( *866तालीसपत्रं मांसी च दाडिमं कुष्ठमेव च॥
द्वे हरिद्रे पृथक्पर्णी मञ्जिष्ठा पद्मकेसरम्॥९॥
अजमोदा विडङ्गानि दन्ती चापि शतावरी॥
नीलोत्पलानि द्राक्षा च विशल्या देवदारु च॥१०॥
मरिचानि च पिष्टानि घृतेन सह पाचयेत्॥
पानमभ्यञ्जनं चैव सर्पिषा तस्य कारयेत्॥११॥)
पिप्पली सैन्धवं चैव तृ(त्रि)वृद्दग्धा तथैव च॥
पी(पे)येत्कल्कपिष्टानि गोमूत्रेण तु संसृजेत्॥१२॥
सैन्धवेनाथ तं भूयो लवणेनैव चूर्णयेत्॥
विरेचनीयं देयं स्यान्नागं विज्ञाय वर्मतः॥१३॥
विरिक्तमथ विज्ञाय च्युतदोषमनेकधा॥
(*867संस्कृतैर्मत्स्यमांसैश्च यवागूं पाययेत्ततः॥१४॥
मत्स्यमांसरसैश्चैव तं नागमनुपाययेत्॥
नित्यं पाने च सेके च देयमस्मै मुखोदकम्॥१५॥)
+868पिप्पल्यःसारिवा चैव त्रिफला देवदारु च॥
मृद्वीकाश्चापि संहृत्य कल्कपिष्टानि कारयेत्॥१६॥
घृतमण्डे समालोड्य पाचपेन्मृदुवह्निना॥
वातशोणितशान्त्यर्थं कार्यं तेनानुवासनम्॥१७॥
अथवा स्थापनं कार्यं रोगशान्त्यर्थकारणम्॥
याप्यस्यैव क्रिया प्रोक्ता वातशोणितशोफजा॥१८॥
इति गात्रजशोफः॥
अथाऽऽगन्तुशोफः। शरशक्त्यसितोमरपरश्वधपरश्चभिण्डिपालदण्डदन्तप्राजनानामभि869घातादत्यायतचिरनिबन्धनाद्घृष्टदष्टाग्निदग्धाश्मलोष्टाभिघातान्मिथ्याशस्त्रोपचारादेवमादिभिरन्यैश्चाभिघातैर्वारणानां श्वयथुरभिनिर्वर्तते870॥
तस्य पित्तश्वयथुवद्वेदना लिङ्गमिति निर्दिशेत्॥
चिकित्सितं चास्यस्नेहपानभोजनाभ्यङ्गपरिषेकप्रदेहैः कार्यम्। पूर्वोद्दिष्टःक्रियापथश्च।शोणितमोक्षणं च पित्तश्वयथुचिकि871त्सितं कुर्यात्। व्रणं चास्य872द्विव्रणीयोपचारेणोपक्रमेत्॥
भवति चात्र श्लोकः—
पित्तशोफे मया राजन्यदुक्तं लिङ्गभेषजम्॥
तत्सर्वं यजतो विद्यादभिघाते चिकित्सकः॥
इत्यागन्तुशोफः॥
श्वयथुर्विषसंसृष्टो यस्य नागस्य जायते।
( *तस्य मन्त्रौषधैः कार्यः पूर्वोद्दिष्टैःक्रियापथः॥१॥
क्षीणशोणितमांसस्य श्वयथुर्यस्यजायते।)
यथाऽग्निबृंहणं तस्य सम्यग्भवति साधनम्॥२॥
मन्यागतं श्लेष्मशोफं सांनिपातिकमेव च॥
वातावच्छिन्न873शोफंतु स्वेदैः पूर्वं समाचरेत्॥३॥
अनन्तरं प्रच्छ(प्रोञ्छ)यित्वा874 प्रतिसंचूर्णयेत्ततः॥
पानभोजनमप्यस्य लवणाम्लं विवर्जयेत्॥४॥
आहारैस्तिक्तकटुकैः कषायैः समुपक्रमेत्॥
पार्श्वाण्डकोशं नाभिंच येन संछाद्य तिष्ठति॥५॥
कफवातात्मकस्तेन शोफोऽवच्छिन्नसंज्ञितः॥
अतःपरमसाध्यान्वक्ष्यामः॥
तत्र गुदमन्याकण्ठगलकपोलनाभिमेढ्रजघनपेचकाण्डकोशसगदाष्टीव्येषुयस्य शोफ उत्पद्यते न च यवसकवलकुवलभोजनान्यभिनन्दति उत्पन्नारिष्टश्च वारणः, तमसाध्यं विद्यात्। तेषां प्रदेशैकविभा875गजीवोत्सर्गकालप्रमाणं लक्षणज्ञानं च पृथक्पृथग्विभागतः सामान्येन चारिष्टज्ञाने वक्ष्यते876॥
तत्र श्लोकः(काः)—
रिष्टप्राप्तं तु मातङ्गं दृष्ट्वैव परिवर्जयेत्।
साध्यं तु साधयेद्वैद्यः शास्त्रोद्दिष्टेन कर्मणा॥
विश्रा(स्रा)व्यमाणश्वयथोर्जलं यस्मात्प्रवर्तते।
कदलीस्कन्धशोफं तु तमसाध्यं विनिर्दिशेत्॥
विधाकवलयास्थातानामद्वेष्टा हृष्टमानसः।
सम्यग्जानाति संज्ञां च ( *877तादृक्शोफोऽपि सिध्यति॥
+878 …………………….कदलीस्कन्धश्चेति निरायतः।
शोफस्तत्प्रतिरूपेण कदलीस्कन्धनं विदुः॥
यस्य क्षीणस्य नागस्यशोफो भवति पादतः।
विच्छिन्नः कठिनो रूक्षः शुद्धंरक्तं श्र(स्र)वत्यपि॥
न चात्यर्थं विषहते शीतमुष्णं च वारणः।
शाल्मलीस्कन्धशोकं तु तमसाध्यं विनिर्दिशेत्॥
उत्पद्य च विगच्छेद्यो विगत्य पुनरेति च।
कपोलपायुमन्यासु शोफः सोऽपि न जीवति॥
एकाङ्गं सू(शू)यते यस्य न च खादितुमिच्छति।
स्थाने स्तम्भबलश्च स्यान्नस जीवति तादृशः॥
यस्य मन्ये च नाभिश्च जघनं मेढ्रमेव च।
पेचकश्चापि वर्धन्ते न स जीवति तादृशः॥
अण्डकोशः सनाभिस्तु यस्य वर्धेत वेगतः।
उरश्चांसौ879 च सहसा विगत्य प्रतिपद्यते॥
सगदे च यदा प्राप्तः स शोफो यस्य हस्तिनः।
तदा तेन स शोफेन मासादूर्ध्वं न जीवति॥
(*880क्षीणशोणितमांसस्य वर्धमानस्य हस्तिनः।
अष्टीव्यः सहसा सोऽपि मासादूर्ध्वं न जीवति॥)
मन्ययोर्यस्य लक्ष्येत श्वयथुर्जलचञ्चलः।
दौर्मनस्यं च सहसा सोऽष्टरात्रं न जीवति॥
अश्मना सह तुल्यस्तु श्वयथुर्जायते नृप।
वङ्क्षणौबस्तिमाश्रित्य (*दाहरागसमन्वितः॥
वर्धते चापि जलवत्समन्ताद्बहुवेदनः।
नवाहाद्वारणस्तेन शोफेनाऽऽर्तो विपद्यते॥
कर्णसंधिं समाश्रित्य) श्वयथुर्यस्य जायते।
वेदनागाढबहुलो विवृद्धिमुपगच्छति॥
ग्रासं नं सेवतेऽत्यर्थं मुहुरुद्विजते द्विपः।
प्राप्तशोफः स मातङ्गो दशाहं नातिवर्तते॥
भूयिष्ठं यस्य गात्रेषु शोफो नागस्य जायते।
अग्निदग्धनिभैः स्फोटैः समन्तादचिरस्थिरैः881॥
श्वपथुस्तस्य नागस्य विसर्पति समन्ततः।
अथवा नीलरक्ताभैःश्वेतैर्वाऽपि समन्ततः॥
यवोदकप्रकाशश्च साश्रा(स्रा)वैर्बहुवेदनैः।
ततस्तला विशीर्यन्ते विक्कापाणिनखैः सह॥
तमीदृग्लक्षणं नागं भिषग्विद्याद्गतायुषम्।
इष्टिका882प्रतिसंकाशः श्वयथुर्गुरुवेदनः॥
*वङ्क्षणैरसि883रन्ध्रे च सोऽपि कष्टतरः स्मृतः।
इति शोफाःसमाख्याता ये न शक्याश्चिकित्सितुम्॥
न तानुपचरेज्जाताञ्शोफान्दृष्ट्वा चिकित्सकः।
अथ विलापनम्884॥
करवीरतगरकुष्ठकिरातकलाङ्गलीगवेधुकशाल्मलीजाङ्गलकपित्थाङ्कोल्लबिल्वहरिद्राद्वपपुनर्नवामलककालाकाकाद885नावाणटि(ति)न्दूक886भद्रदारुसरलरास्नाप्रियङ्गुशतपुष्पाभिष(:)कल्कपिष्टाभिर्बहलमनुलेपयेत्। एतैरेव मुखोष्णैः क्षारलवणकिण्वसंयुक्तैः पाचनभेदनानि योगवित्कुर्यात्। वर्धमानानां शोफानां यथायोगं चतुर्विधैः शत्रैर्व्रीहिमुखोत्पलपत्रकुठारकवत्सदन्तैश्च रक्तमपनयेत्, जलूकालाबुशृङ्गैर्वा। सार्ङ्गेष्टाविडङ्गलवणचूर्णैश्च प्रतिचूर्णनं कारयेत्।वातकोपसमुत्थे पित्तसमुत्थे पिप्पलीसैन्धवलवणैः समभागसंयुक्तैः प्रतिचूर्णनं कारयेत्।विश्रा(सा)व्यचैनं घृतेन शतधौतेनाभ्यञ्जयेत्। कटुकरोहिणीमरिचलवणचूर्णैः सर्षपमिश्रैः कफात्मकमवचूर्णयेत्। एतैरेवौषधैर्यथोक्तैःसांनिपातिकमुपाचरेत्॥
तत्र श्लोकः—
करोति शिथिलं शोफं दोषं च समुदस्यति।
दाहस्य चाऽऽयतिं हन्ति तस्माद्(द्र)क्तं प्रमोक्षयेत्॥
अनेनोपक्र887मेणैते शोफाः प्रशान्तिमुपगच्छन्ति। इत्येतेषु षट्सुशोफेषुयथासात्म्यप्रकृतिदेशकालबलाबलं वयश्चावेक्ष्य शोणितमोक्षणं कुर्यात्॥
शोणिते वर्धिते चैव बलं तेजश्च वर्धते।
शोणिते क्षीयमाणे तु क्षीयन्ते सप्त धातवः॥
देहिनां शोणितं विद्धि प्राणायतनवर्धनम्।
मात्रया रुधिरं तस्माद्दुष्टमप्यपकर्षयेत्॥
ये चैषां प्रलेपा उद्दिष्टाः, तैश्च यथायोगं यथादोषं वारणमामुखनखेभ्यःप्रलेपयेत्। शस्त्रकर्मोपजातांश्च व्रणान्प्रभेदनसमुत्थांश्च द्विव्रणीयोपचारेणोपक्रमेत।शोफानां च शैथिल्यं दोषाणामपकर्षणं दाहोपशमश्च भवति रक्तमोक्षात्, तस्माच्छोणितमोक्षणं कुर्यात्। द्रोणीकशोफस्य निदानं लक्षणं चिकित्सितंच स्थाने द्वितीये वक्ष्यामः। तत्र श्लोकाः—
शोफस्य द्विविधा सिद्धिरिति मे निश्चिता मतिः।
विलीयते वाऽप्यङ्गे च +व्रणीभूत्वाऽथ888 शाम्यति॥
तस्मादालेपनैः स्वेदैः प्रच्छन्नाभ्यञ्जनैरपि।
अनुगन्तुं शनैः सम्यक्प्रयतेत चि889कित्सितुम्॥
आहारांश्च विहारांश्च यथास्वं च क्रियापथम्।
शोफानां नाशने राजन्यथाशास्त्रं प्रयोजयेत्॥
अधिकारस्तु कर्तव्य आत्मनः सिद्धिमिच्छता।
अ890साध्यं वर्जयेच्चैव साध्यं च समुपाचरेत्॥
अल्पो वृत्तश्च891 कठिनो ग्रन्थिरित्यभिधीयते
पृथुदीर्घश्च शोफः स्याद्विद्रधिर्गजकुम्भवत्॥
इति शोफाः समुद्दिष्टा ये न शक्याश्चिकित्सितम्।
न तानुपक्रमेत्प्राज्ञः शोफान्दृष्ट्वा चिकित्सकः॥
दह्यते पैत्तिकः शोफश्चलो भवति वातिकः।
श्लेष्मणां892 तु स्थिरीभूतः समाध्मातश्च शीतलः॥
संसृष्टःसर्वरूपेण सांनिपातस्य लक्षणम्।
योगवाही परं वायुः संयोगादुभयार्थकृत्॥
दाहकृत्तेजसा युक्तः शीतकृत्सोमसंश्रयात्।
गतिर्वातं विना नास्ति गौरवं न कफादृते॥
न च पित्तादृते पाको विसर्पो वाऽपि विद्यते।
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थानेशोफाध्यायोऽष्टादशः (यः सप्तदशः)॥१७॥
अथाष्टादशोऽध्यायः।
__________________
भूयोऽङ्गराजः प्रोवाच पालकाप्यम्—‘भगवन्ये त्विमे द्विरदपतयो वातश्लेष्मविका893रैः सगदामन्यास्तम्भद्रोणीकावच्छन्नगात्रापरहस्तग्रहोत्कर्णकस्तम्भादिभिः पीड्यन्ते बहुवि894धवेदनागुरुत्वाद्दुश्चिकित्स्या दृश्यन्ते तेषामुपशमनार्थंकतिविधः स्वेदः, कः स्वेदोपचारः, तथा रक्तपित्तविकारे वक्त्रविकारेषु बहुविधोपयोगाच्छीतक्रिया895विधिश्चेह भगवता विकल्पिताः, तेषां कथमसम्पक्स्विन्नातिस्विन्नानां लक्षणं विज्ञेयं भवति। कथं स्वेद्याश्च हस्तिनो विज्ञेयाः। कः स्वेदकालः, के च ते स्वेदगुणाः। एतत्सर्वं भगवन्वक्तुमर्हसि॥
ततः प्रोवाच भगवान्पालकाप्यः—इह खलु भो(ना)गानामनेकविधाः स्वेदाः।तद्यथा—वापीस्वेदः, भङ्गस्वेदः, शं(सं)करस्वेदः, फालस्वेदः, पिण्डस्वेदः, नाडीस्वेदः, स्नेहस्वेदः, पुरीषस्वेदः, कूपस्वेदः, घटीस्वेदः, अस्थिस्वेदः, मांसस्वेदः,मृत्तिकास्वेदश्चेति। तेषामुपचारं वक्ष्यामः॥
तत्र वापीस्वेदः वापीमपि विधायाऽऽयामविस्तारैर्यथाहस्तिप्रमाणां सुखावतारांदृढतरां खानयेत्\॥तामिष्टकाभिर्दृढतटीं कारयेत्। एतामच्छिद्रां बन्धयेत्। सुधोपलिप्तां कृत्वा तत्र तोयं प्रक्षिपेत्।संपूर्णतोयामग्निवर्णैश्च लोहगुडपाषाणैः पानीयंतापयित्वा वारणं श्वयथुपीडितमवगाह्य पत्रभङ्गानेतान्प्रक्षिपेत्। अशोककरवीरवशिरवसुकान्खण्डशः कल्पयित्वा शल्लकीक्षवनिर्गुण्डीमधुकवासन्तीबृहत्यंशुमतीपृष्टिपर्णीगोक्षुरकशोभाञ्जनकमधुशिग्रुसुर896सारोहीतकार्कबिल्वाग्निमन्थवर्षाभूद्वयशतावरीकुवेराक्ष्यपेहिवातारलुककुलिङ्गाक्षीनीपासनधातकीकर्णिकारकपित्थास्फोताश्वकर्णनवमालिकापाटलाश्रीपर्णीखदिरारग्वधाटरूषकाजकर्णतर्कारीशौर्यकाश्मन्तकपलाशटिण्ट(तिन्दु)कानाम्, एवमादयो ये—चान्ये वातघ्ना वृक्षगणाः, तेषां च पत्रभङ्गैस्तिलपिष्टलवणकिण्वसंयुक्तैःसुखोष्णैर्वारणमभ्यज्यवा897प्यां परिषेचयेत्। ततो यथायोगं स्वेदयेत्।लोहगुडपाषाणांश्च भूयो भूयोऽग्निर्णान्कृत्वा स्विद्यमाने मातङ्गे वाप्यांप्रक्षिपेत्। तस्मादेष वापीस्वेदः॥
एतानेव पत्रभङ्गान्कपालभृष्टान्कृत्वा तत्र वालुकाः प्रक्षिपेत्। तत एवमेवच पत्रभङ्गान्कपालभृष्टवालुकागर्भान्सुखोष्णान्कृत्वा पाणिभ्यां पुनः पुनः परिमार्जयेत्स्वेदयेत्। ततोऽभ्यज्य सगदामन्योरःकण्ठगलकपोलगात्रस्तम्भान्यथायोगं वा लिप्त्वा भङ्गस्वेदेन स्वेदयेत्।तस्मादेष भङ्गस्वेदः कार्यः॥
गोवराहाजानां मूत्रपुरीषाणि पयसाऽऽलोड्य पूर्वोक्तांश्च पत्रभ898ङ्गानाहृत्य क्वाथयेत्ततः स्तैस्तिलपिष्टलवणकिण्वसंयुक्तैः स्वेदयेत्। वातश्लेष्मविकारेष्वव(वि)च्छिमस्वेदयोगाः पूर्वोक्तद्रव्यसंयुक्ताः पत्रभङ्गाः स्वेदोपचारवद्भवन्ति।गोजाविखरोष्ट्रमहिषाणां मूत्रपुरीषाणि पयोदधिपत्रभङ्गविमिश्राणि सुखोष्णानिकृत्वा वारणमभ्यज्य बहलमनुलेपयेत्॥ सगदावच्छिन्नमन्यास्तम्भोत्कर्णक899द्रोणीकशोफांश्च पिण्डस्वेदवदुपचरेत्। उपचारम(व)न्तं सं900करस्वेदेन स्वेदयेयुः। तस्मादेष संकरस्वेदः कार्यः॥
त्रपुस(ष)शणमूलकैरण्डबीजानिसिद्धार्थकतिलपिष्टलवणकिण्वमाषाणांचूर्णानि सुरया पयसा वा सार्धं कृत्वा तेन सुखोष्णेन वारणमभ्यज्य बहलमनुलेपयेत्। ततः पदान्तरितं कृत्वैरण्डार्कपत्रैः परिच्छाद्य तममिवर्णैः फालैःसमन्तात्परिवारयंस्ततः कटिचरणगात्रापरस्तब्धाङ्गानि च यथायोगं फाल901स्वेदेन स्वेदयेत्।तस्मादेष फालस्वेदः कार्यः॥ माषातसीतिलपिष्टलवणकिण्वयवकोलकुलत्थगोधूममूलकैरण्डशणकर्पासीबी902जानित्रपुषसर्षपसरलभद्रदासकुष्ठतगरशतपुष्पायष्टीमधुकरास्नाश्चसंभृत्ययानि चान्यानि द्रव्याणि वातघ्नानि, तेषां मूलानि कल्कपिष्टानि कृत्वासर्पिस्तैलवसामज्जाभिः संयोज्य पाचयेत्, ततस्तं वारणमभ्यज्य वातश्लेष्मविकारेषु यथायोगं पिण्डस्वेदेन स्वेदयेत्। तस्मादेष पिण्डस्वेदः कार्यः॥
महास्थालयां लौह्यां वा903 पूर्वोद्दष्टान्पत्रभङ्गांस्तिलपिष्टलवणकिण्वसंयुक्तान्दध्यम्लेन संयोज्य क्वाथयेत्। ततो वारणमभ्यज्य नाडीस्वेदेन स्वेदयेत्। नाडींच वैणवदलैः कृत्वा यथाव्याधिप्रदेशमात्रां वाससा वेष्टयित्वा तद्वदुक्तमाषचूर्णप्रलिप्तां भूयो904 वस्त्रपरिवेष्टितां कृत्वा यथायोगमितस्ततः संचारयत(न्त): प्रोहाष्टीव्योपस्कारान्सफलकत्र्यस्थिजठरलाङ्गुलकरगात्रापरशोफस्तम्भं च नाडीस्वेदेन स्वेदयेयुःतस्मादेष नाडीस्वेदः कार्यः॥
तत्र संस्कृतासंस्कृतैः स्नेहद्रव्यरसैरानुपौदकीनां905 च सत्त्वानांमांसरसवेसवारैः कूपे द्रोण्यां वाप्यां (*906वातहरपत्रव्यामिश्रितैः सुखोष्णैः पाणिभ्यांपरिमार्जयन्तो यथायोगं स्नेहस्वेदेन स्वेदयेयुः॥
खरकरभतुरगमहिषाश्वतरवराहाणां मूत्रपुरीपाणि पत्रभङ्गव्यामिश्राणिकृत्वा किण्वलवणतिलपिष्टसंयुक्तैर्दध्यम्लक्वथितैः मुखोष्णैर्वारणमभ्यज्य यथायोगं पिण्डस्वेदवदुपचारयन्तः पुरीषस्वेचेन स्वेदयेयुः॥
पूर्वोद्दिष्टांश्चपत्रभङ्गान्संहृत्यौदकानां च पत्रभङ्गानां भारचतुष्टयमुदूखलेक्षोदयित्वा दुग्धे पाचयेत्। वस्त्रे बहुले प्रक्षिप्य प्रियङ्गशालिगोधूमव्रीहियवातसीकुलत्थनिष्पावानां चूर्णानि पयसाऽऽलोड्य कुप्यं। ततोऽग्निवर्णं कृत्वापिण्डस्वेदवदुपचारयन्तः कुप्यस्वेदेन स्वेदयेयुः॥
घटीस्वेदेऽप्यग्निवर्णां घटीं कृत्वा स्वभ्यक्तं ततः पूर्वोद्दिष्टैर्द्रव्ययोगैर्बहुलमनुलिप्य नागं पटावच्छन्ना907न्तरितं फालस्वेदविधिवदुपचारयन्यथायोगं घटीस्वेदेनस्वेदयेत्॥
पूर्वोद्दिष्टानां च खरकरभसत्त्वानां तुरगमहिषाश्वतरवराहाणामस्थीनि कल्कपिष्टानि कृत्वा तिलपिष्टलवणकिण्वदध्यम्लार्कसंयुक्तैर्वाऽभ्यज्य बहुलमनुलेपयेत्। ततः पटान्तरितं कृत्वा फालस्वेदविधिमुपचारयन्तो यथायोगमस्थिपिण्डस्वेदेन स्वेदयेयुः॥
पिण्डस्वेदवत्तेषामेव सत्त्वानां मांसानि संहृत्य सुखोष्णैर्मांसपोटलैः पूर्वविधिवदुपचारयन्तो यथायोगं मांसस्वेदेन स्वेदयेयुः॥
पूर्वोक्तैःपत्रभङ्गैर्मृत्तिकां संयोज्य वारणमपभ्यज्य यथायोगं पिण्डस्वेदबदुपचारयन्तो मृत्तिकास्वेदेन स्वेदयेयुः॥
तत्र श्लोकाः—
तत्रानेकविधः स्वेदः सोपचारः प्रकीर्तितः।
यथाशास्त्रं यथाव्याधि प्रयुञ्जानस्य सिध्यति॥
यस्त्वेतान्विप908रीतांस्तु कुर्यात्स्वेदान्नराधिप।
न सिद्धिमाप्नुयाद्वैद्यो व्यापादयति वारणम्॥
तस्मादेतच्छ्रुतवता तथा जीर्णेन भेषजम्।
बन्धुस्नेहोपयुक्तेन कर्तव्या वारणे क्रिया॥
एवं स्वेदविधिज्ञश्च प्रयोगज्ञश्च यो भवेत् ।
वरिष्ठश्चैव वैद्यानां पूजनीयः सदा भवेत् ॥
समासाच्च पञ्च स्वेदास्तेषां भेदास्त्रयोदश॥
** **अतः परं स्वेदगुणान्वक्ष्यामः। शरीरमार्दवकरोमृदुं प्रस्तम्भयति, स्तब्धंविलापयति ग्रन्थिभेदः शोफहरो वातानुलोमनकरः क्रियासु सर्वासूत्तमः पाचनीयेषु पाचनकरः, सर्ववातकफव्याधिहरश्चेति। यथा काष्ठमस्नेहयोगेनस्विद्यमानं विनाशं न गच्छति, तथाहि शरीरं द्रव्यरसैर्युक्तं स्नेहयोगेनस्विद्यमानं विनाशं गच्छति। यथा स्विद्यमानमस्निग्धं काष्ठं विनाशं गच्छति,तथाहि शरीरं स्विद्यमानमस्निग्धं विनाशं गच्छति। तस्माद्भूयो भूयोऽभ्यक्तंनात्युष्णे नातिशीतले काले पूर्वाह्णेवारणं स्वेदयेत्। यथा च दोषाः स्नेहस्वेदैः प्रद्रवीभूताः श्रोतोमुखमापन्नाः शस्त्रैरपिहार्या भवन्ति॥
यदा स्वेदेन स्विन्नगात्रं परिस्यन्दनमनवस्थितं मार्दवं लघुता वेदनारोगनिग्रहश्चेति, तं सम्यक्स्विन्नमिति विद्यात्॥
छविस्फोटनं दाहं शोफं मांसपाकः शोणितमो(मे)हित्वं रोमवालाश्च शीर्यन्तेशय्यानभिनन्दी नाभिनन्दति, तृष्णा मूर्छा चास्य भवति, तमेतैर्लिङ्गैरतिस्विन्नंविद्यात्॥
न विकारप्रशमः, दोषान्प्रच्यवन्ते च्युता909 वा सीदन्ति, तीव्रा च वेदनागात्राणां परं मार्दवं गुरुगात्रगमनं चेति तमस्विन्नंविद्यात्॥
तस्मादस्विने हितं शस्त्रमविचारयेत्। दुःस्विन्ने नव्याधेरुपशमो भवति।अतिस्विन्ने च प्रदेहः। पद्मकिंजल्कोशीरक्षीरवृक्षकषायैः पयोदधिमधुसंयुक्तैःसचन्दनैः शीतैश्चान्यैश्च शतधौतेन सर्पिषाऽभ्यज्य नागं परिषेचयेत्। शीतश्चप्रदेहैःकर्दमोशीरसंयुक्तैः सशिरस्कमा नखंबहलमनुलेपयेत्। शिरस्थांश्चोदकुम्भान्परिस्रावयेत्।यवसकुवलभक्तानि शीतानि दापयेत्। स्थानं च सुशीतंवा प्रवातं कुर्यात्।पित्तमूर्छायां यदुक्तं तत्सर्वं योजयेत्। अस्विन्ने पुनः स्वेदेच यथेच्छं विधिवद्भिषक्कुर्यात्। शोणितमोक्षणं च पैत्तिकोत्तरं वारणं मेदुरिणंस्थूलोच्छ्वासं धातुक्षीणं मण्डलिदष्टं विषजग्धं लालाश्रा(स्रा)विणं कृमिकोष्ठिनमतिनीतं च हस्तिनीं गर्भिणीं षड्वर्षपूर्णांश्च विकारान्नस्वेदयेयुः। तथाऽभिघातसमुत्थः श्वयथुः प्रमादात्स्वेदकारणात्, गात्रस्तम्भो विह्वलगमनं चेति तंनिष्कम्पं विज्ञाय ततः शीतैः प्रदेहरुपक्रमेत ततः शोणितविश्रा(स्रा)वं वापीस्वेदं वा यथायोगं पुनर्दद्यात्910॥
यदा तु कफपवनसमुद्भवेन व्याधिना पीड्यते नागः, तदाऽस्य तीक्ष्णोष्णकटुपत्रभङ्गव्यामित्रेण तोयेन स्वेदः परिषेकश्च कार्यः। तस्माद्याधिप्रशमेस्वेदपरिषेकोपचारादत्यर्थं वारणस्य पित्तमुदीर्यते।तस्य लक्षणं वमथुर्मुहुर्मुहुरतिमात्रं परिक्षिपति परिदह्यते मारुतैर्वीज्यमानः प्रसादमुपगच्छति। एवंस्वेदः परिषेकश्च शीतलश्च कार्यः। ततः संपद्यते सुखी वारणः॥
तत्र श्लोकः—
व्याधिप्रशमनाः सर्वे) सर्वेषां हस्तिनां हिताः।
कालं देशं च विज्ञाय ततः स्वेदं प्रयोजयेत्॥

*911स्वेदाध्यायः॥
भूयोऽङ्गराजः पप्रच्छ पालकाप्यं महामुनिम्॥
भगवन्दन्तिनां ह्येते पाकला दश कीर्तिताः॥१॥
उपसर्गेण जायन्ते सर्वजास्त्विति मे मतिः॥
वज्राशनिसमस्पर्शाःपाकलाश्च महामुने॥२॥
आशुकारितराश्चैव सदाप्राणहराश्चते॥
पाकलेनाभिभूतस्य वारणस्य महामुने॥३॥
रक्षोघ्नैर्भोज912नैर्गुप्तं बलिहोमक्रियादिभिः॥
पुरस्कृत्य ततश्चापि क्रियां कुर्वीत शास्त्रवित्॥४॥
इति प्रोक्तं भगवता पाकले वालसंज्ञके॥
तत्सर्वमखिलेनेह वक्तुमर्हसि तत्त्वतः॥५॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत्॥
इमं विधिं प्रकुर्वीत श्रेयोर्थे भिषजां वरः॥६॥
सामान्ययज्ञं निर्वर्त्य भूयः सुप्रयतो भिषक्॥
रत्नैर्बीजैः फलैः पुष्पैर्देवानभ्यर्च्य यत्नतः॥७॥
ब्राह्मणान्भोजयित्वा तु दक्षिणाभिश्च तर्पयेत्॥
श्वेतां वा कपिलां वाऽपि सवत्सां गामलंकृताम्॥८॥
श्वेतचन्दनदिग्धाङ्गीॆ श्वेतमाल्यविभूषिताम्॥
रौप्यशृङ्गीं स्वर्णखुरीं सवस्त्रांकांस्यदोहिनीम्॥९॥
आरोग्यकरिणीं वैद्यो ब्राह्मणाय प्रदापयेत्॥
देवताभ्यर्चनेनैव ब्राह्मणानां तथाऽऽशिषाः॥१०॥
क्षिप्रं प्रमुच्यते रोगाद्वारणो नात्र संशयः॥
अत ऊर्ध्वं प्रवक्ष्यामि रक्षाकर्मविधिं च ते॥११॥
श्वेतां प्रतिशिरां चैव श्वेतामपि वचां तथा॥
दन्ते निबन्धयेद्वैद्यो मन्त्रेणानेन मन्त्रवित्॥१२॥
धृतिः स्मृतिश्च मेधा व रक्षा शान्ति स्त्वमेव च॥
( *913त्वंसिद्धिस्त्वं जया लक्ष्मीः श्रीस्त्वं दुर्गा सरस्वती॥१३॥
ग्रहणरूपाणि यानीह भूमौ दिवि चराणि च॥
ते914षां तु प्रतिघातार्थं रक्ष त्वं वारणं सदा॥१४॥
अत ऊर्ध्वं प्रवक्ष्यामि बलिकर्मविधिं शुभम्॥
भवेदहतसंवीतो वैद्यः सुप्रयतः शुचिः॥१५॥
सर्वगन्धैश्च माल्यैश्च रत्नैर्बींजैः फलैरपि॥
मस्तकेऽभ्यल्पपिच्छाभि(?)र्मधुना पायसेन च॥१६॥
घृतेन भर्जितैर्दध्ना915शुष्कैर्मांसैस्तथैव च॥
संयावमाल्यमैरेयैः सुरयां तु वलिर्भवे916त्॥१७॥
(*सामान्ययज्ञं निर्वर्त्य भूयस्तु प्रयतो भिषक्।
रत्नैर्बीजैःफलैः पुष्पैः पूर्णान्प्रतिसरान्वितान्॥१८॥
चतुरः कलशांश्चैव वारिपूर्णान्सर्वजोजन (?)।
वारणस्य तु दन्तायां स्वावरोहप्रदक्षिणेत् (?)॥१९॥
भूयो निवेशयेद्वैद्यो मन्त्रेणानेन मन्त्रवित्॥
देवराक्षससर्पाश्चपिशाचा गुह्यकास्तथा॥२०॥
निशाचराटवेयाश्च नित्यं तु रक्षन्तु वारणम्॥
नवग्रहा जलधरा दानवाः पर्वतास्तथा॥२१॥
अन्तरिक्षगता ये च मुनयो वनदेवताः॥
ओषध्यो ग्रहनक्षत्रा गजं रक्षन्तु देवताः॥२२॥
व्याधिप्रशमनं नित्यं कुर्वन्तु द्विरदाय च॥
दीर्घमायुर्बलं वीर्यं प्रदिशन्त्विह पूजिताः॥२३॥)
एवं कृत्वा917 विधिं सर्वं व्याधिप्रशमनं हितम्॥
रक्षोघ्नं भोजनं दद्यान्मन्त्रेणानेन मन्त्रवित्॥२४॥
पुरोडाशं यथा देवा आज्यं वा हुतभुग्यथा॥
तथा पवित्रं रोगघ्नं भोजनं भुङ्क्ष्व वारण॥२५॥
भोजयित्वा यथान्यायं प्रदेशकुशलो भिषक्॥
तत्सर्वं विधिवत्कार्यं यदुक्तं वारणग्रहे॥२६॥
(*906बलिं च कलशांश्चैव सर्वांस्तोये विनिक्षिपेत्॥
कृतेनानेन विधिना पाकलात्तुविमुच्यते॥२७॥
औषधानां च सर्वेषां मत्रं वक्ष्यामि भूपते॥
यत्किचिदौषधं नस्ये पाने स कवले तथा॥२८॥
प्रलेपने च देयं स्यात्तत्सर्वमभिमन्त्रयेत्॥
रसायनमिवर्षीणाममराणामिवामृतम्॥२९॥
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते॥
दद्यादनेन मन्त्रेण सर्वमेवाभिमन्त्रितम्॥३०॥)
अतः परं प्रवक्ष्यामि भूतिकर्मविधिं शुभम्॥
रोगिणेऽरोगिणे वाऽपि भूतिं दद्याद्भिषग्वरः॥३१॥
पवित्रान्सर्वरोगघ्नाञ्शृणुसत्यान्गुणानिमान्॥
न राक्षसा न गन्धर्वा न पिशाचा न चोरगाः॥३२॥
न यक्षा न च भूतानि रुद्रा रौद्रास्तु देवताः॥
हिंसात्मकास्तथा चान्ये क्षराद्या व्याधयस्तथा॥३३॥
क्रुधा धर्षयितुं शक्ता भूत्या नागं विभूषितम्॥
कपोलयोस्तथा कुम्भे निर्याणे दन्तवेष्ट918योः॥३४॥
पक्षयोः प्रतिमाने च कक्षायां वंशयोरपि॥
द्विपस्यैतेषु चाङ्गेषु देयं भस्म सदा बुधैः॥३५॥
व्याधिताव्याधिता वाऽपि भूषिता भस्मना सदा॥
सुखं निद्रां निषेवन्ते निर्विशङ्का मतङ्गजाः॥३६॥
यथा हि शशिनं दृष्ट्वा पद्मं संकोचमृच्छति॥
भूत्या विभूषितान्दृष्ट्वा ग्रहास्तद्वन्महीपते॥३७॥
तदेव पद्मं सूर्यस्य विकसेद्धि यथोदये॥
तथा ग्रहा गदाश्चापि दृष्ट्वानागं विभूषितम्॥३८॥
पूजिता मुनिभिर्नित्यमारोग्यबलवर्धिनी॥
सौमनस्यकरी चैव भूतिर्देया हितार्थिना॥३९॥
अभिमन्त्र्य महाराज मन्त्रेणानेन मन्त्रिणा919॥
भूतिरक्षा शुभा मेध्या स्मृतिर्मेधा धृतिः श्रुतिः॥४०॥
श्रीर्हीःकान्तिः920 क्षमा दुर्गा पार्वती पुष्टिरुत्तमा921॥
स्वाहा शान्तिः सुधा चैव लोकधात्री त्वमेव हि॥४१॥
अम्बिका हसते नित्यं भूतराक्षससेविते॥
श्मशाने भस्मलिप्ताङ्गःक्रीडते वृषभध्वजः॥४२॥
वृतः सर्वैर्महाभूतैः सत्यं भूतैव922 तेजसः॥
अनेन सत्यवाक्येन वारणं रक्ष सर्वतः॥४३॥
वृक्षत्वाच्च ततस्तेन भूषयेद्वारणं सदा॥
पूर्वोक्तेष्वेव भागेषु वैद्यः सततमुत्थितः॥४४॥
स्वस्थं तु रोगिणं चैव तस्मान्नित्यं विभूषयेत्॥
शालाद्वारे तथा स्तम्भे शय्याभागे तथैव च॥४५॥
आरोग्यकरणी नित्यं भूतिर्देया हितार्थिना॥
सततं च प्रकुर्वीत शान्तिं स्वस्त्ययनानि च॥४६॥
गुणा ये कीर्तिता भूत्यास्तांस्तेवचललक्षयेत्(?)॥
पाकलेषु यथोद्दिष्टं भेषजं यत्क्रियाविधौ॥४७॥
तत्सर्वं यत्नतः कुर्यादेवं रोगात्प्रमुच्यते॥
सर्वेष्वेव तु रोगेषु नित्यं शान्तिं प्रयोजयेत्॥४८॥१०४२॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने*शान्तिरक्षाध्यायः923॥
<MISSING_FIG href="../../../books_images/U-IMG-17046456821.jpg"/>
अथ कदाचिद्गजशरणमभिगतमृषिवरमनलसदृशवपुषमभिवाद्यार्घ्यं तस्मै प्रदायाङ्गो रोमपादःपप्रच्छ पालकाप्यम्—भगवन्विपुलबलसत्त्वशरीरवर्ष्यप्रमाणानां गिरिशिखरजलदनिचयवपुषां गजानाम् ‘नयनविनाशात्सर्वविनाशः’ इति कृत्वाऽनुमान्य प्रचोदयामि भगवन्तम्—इच्छामि विज्ञातुं कति कथं वा भवन्ति नेत्ररोगाः साध्या असाध्या याप्याश्चेति॥
अथ ऋषिरुवाच—राजन्विंशतिरिह गजानां नेत्ररोगा भवन्ति। ते द्विधा—दोषसंभवा आगन्तवश्चेति। तेषां संख्यां निदानं संभवं च श्रोतुमर्ह924ति भवान्॥
तत्र स्वप्रातिभाराध्वगमनाद्वधबन्धनैः शिरसि ताडनादतिकर्मतः प्रतिसूर्यस्थानाध्वगमनाद्विद्युन्निपातदर्शनाद्दीप्ताग्निदर्शनादभिघातादनशनादत्यशनाद्विषमविरुद्धरूक्षभोजनाद्वातरुधिरकफपित्तसंनिपात925प्रकोपात्प्रादुर्भवन्ति नयनरोगा गजानाम्। (*तेषां926 नामानि तद्यथा–प्रावारकी, औदकी, अण्डाक्षः, काचाक्षः, नायंप्रेक्षी, प्रतिनुन्नः, निष्पेषहतः, विद्युन्निपातहतः, विद्युद्वारिहतः, ऊष्मापरिगतः, वर्त्मक्लिष्टः, श्री(स्रो)तोन्धः, बुहुदः, अक्षिपाकः, पटलाक्षः, दण्डाक्षः, मुञ्जः, मुञ्जजालः, लोहिताक्षः, पिटकाक्षश्च, इत्येते विंशतिश्चक्षूरोगाः प्रोच्यन्ते गजानाम्॥
ते षडाश्रयाः—वर्त्मभागसंधिभागशुक्लभागकृष्णभागदृष्टिभागसर्व927नयनाश्रिताश्चेति। तत्र—बुहुदी पटलाक्षः प्रावारकी वर्त्मक्लिष्टः928पिटकाख्यो वर्त्माश्रिताः। मुञ्जमुञ्जजालौदकीरक्ताख्याः संध्याश्रिताः। शुक्लभागाश्रितोऽण्डाक्षः।काचाक्षनायंप्रेक्षिणौ कृष्णभागाश्रितौ। विद्युद्वारिहतोष्मापरिगतश्रो(स्रो)तोन्धा इति दृष्ट्याश्रिताः। अक्षिपाकविद्युन्निपातहतदण्डाक्षप्रतिनुन्ननिष्पेषहताः सर्वनयनाश्रिताः॥
अतः परं नेत्रजातिदृष्टिजात्यसाध्यासाध्यनयनव्याधिनिदानसा929धनानि व्याख्यास्यामः॥
तत्र कलविङ्कमणिमार्जारवराहवायसवानरनकुलविश्वदाक्षपरिदग्धविच्छिन्नपिङ्गलाक्षऋक्षहर्यक्षहुताशनार्चिःप्रभृतयो नेत्रजातयः930॥
विस्तीर्णसूक्ष्मविच्छिन्नतिर्यगूर्ध्वाधोगतवृत्तानुवृत्तप्रभृतयो दृष्टिजातयः॥
तत्र—सितमसितं नीलं विगतोष्माश्रुनिर्भग्ननि(:)सृततारकाण्यसाध्यान्यक्षीणि भवन्ति॥
तत्र प्रावारक्या उत्पत्तिं निदानं चिकित्सितं च वक्ष्यामः॥
विषमविरुद्धकषायभोजनात्प्रतिसूर्याध्वगमनाच्छिरसि च मिथ्यादण्डाङ्कुशाभ्यां ताडनान्निःसारतया वा नेत्राणां पवनः स्थानाच्च्युतः कफपित्ते ह्यूर्ध्वमापादयति नयनयोः।तस्य चक्षुः प्रावृणुते तेन प्रावारकी॥
तस्या214 निदानम्—खरकठिनरक्ता कण्डूपिच्छिलपरिश्रा(स्रा)वि च नयनं भवति। अथ च नयनं सलिलवत्पर्यश्रु भवति॥
भैषज्यमस्य—पूर्वापरपरिक्षिप्तस्याविलस्य दन्त(न्ता)लानि तस्य दन्तो931द्दानेऽति932बद्धस्य931बद्धस्यचतुर्भिर्विडिशेर्नेत्रं निर्वृत्य नेत्रमांसचयं शलाकया विद्ध्वा शस्त्रेण च्छित्त्वा दोषापचयमपनयेत्। ततश्चैनं सैन्धवचूर्णेन मधुसर्पिभ्यां पूरयित्वा वस्त्रपट्टेन बध्नीयात्त्र्यहम्। त्र्यहात्परं चास्य मुक्तनेत्रस्योदुम्बरामलक्यश्मन्तकावटप्ररोहार्जुनधात्रीत्वग्भिः सह कदलीफलशालूकानि संक्षुद्य सलिले रात्रिं वासयेत्। ततः परिषेकं कुर्यात् । अथवा प्रियङ्गुमञ्जिष्ठादेवदारुत्रिफलाक्षीरेणाऽऽज्येन संयोज्य वस्त्रपरिश्रु(स्रु)तमाश्चोतनं कारयेत्। अथवा त्रिफलारोध्रमधुकमत्स्यण्डिकैरान्तरिक्षोदकसंयुक्तैरेवाऽऽश्चोतनम्। अथवा—चतुरङ्गुलमूलै933डगजफलैः सह कल्कपिष्टरैजाक्षीरसंयुक्तैर्घृतमण्डं विपाच्य नस्पं तर्पणं चाक्ष्णोः कुर्यात्। (^(+)ततो934दृष्टिशुद्धिः, व्याधेरुपशमश्च भवति। अथवा—दन्तीङ्गुदीवेणुनलशरीषश्यामाश्वेतासमुद्रफेनवैदूर्यशङ्खकाचसर्जरसैः सह पेषयेत्। ततः सर्पिः क्षौद्रसंयुक्तैरञ्जयेत्। मुहूर्ते चातीते निर्वापणार्थमक्ष्णोः परिषेकं पयसा कुर्यात्।) अथवा—प्रियङ्गुतगरहरीतक्यामलकविभीतकहरिद्राशङ्खनीश्वेतानलमूलानि कल्कपिष्टान्याजेन्935 पयसाऽञ्जनम्। एतेनाक्षिणी प्रकृतिस्थे भवतः॥
इति प्रावारकी॥
विषमविरुद्धशिशिरगुरुकटुकषायरूक्षंभोजनात्, व्यायामात्, व्यवायात्, अत्यध्वगमनात्, गुरुभारहरणतरणविहरणात्, अतिभोजनाच्च कुप्यति पवनःकरिणः। (परिकुपितः सः) तस्य शिराभिरूर्ध्वंप्रपन्नोऽस्रं विकारमपादयति936॥
ततो वार्यच्छफेनिलमजस्रं श्र(स्र)वति, अक्षि च रूक्षश्यावाश्रवणं भवति। तम् “औदकी" इत्याचक्ष्महे॥
तस्य प्रशमनार्थं बृहतीमूलोशीरकल्कसंयुक्तं पयो निक्षिप्य दधि कृत्वा तन्मथ्नीयात्। अथोद्धृत्य नवनीतं मञ्जिष्ठारो937हिणीपुनर्नवाहरिद्राभिः सह सम्पक्पाचयेत्।सिद्धं शीतीभूतं तन्नेत्रयोः सततं परिषेचनं नस्यं च सम्पग्दद्यात्। त्रिफलामधुरोध्रशणबीजहरिद्राप्रपौण्डरीकैरन्तरिक्षोदकसंयुक्तैः परिषेकं कुर्यात्। परिषेकेणानेन नीरोगनयनो दृढदृष्टिश्च भवति वारणः। अथवा हस्तिनं यन्त्रयित्वा त्रिभिर्दिवसैर्नयनं विवृत्य मांसोपचयं बडिशेनोत्क्षिप्य शलाकयाविद्ध्वाततोऽस्य दृष्टिभागं वर्जयित्वा सैन्धवचूर्णैश्च सूक्ष्मपिष्टैः पूरयित्वा मधुसर्पिर्भ्यामवस्थापयेत्॥
इत्यौदकी॥
शीतकषायकटुति938क्तरूक्षभोजनात्, रात्रिजागरणादिभिः प्रकुप्यति पवनः।स प्रकुपितो नेत्रयोरापन्नः करनयनमुखेभ्यः श्रा(स्रा)वयति प्रसक्तमुष्णमम्भः॥
तेनाक्षि दर्शनं न कुरुते। कुक्कुडाण्डसंस्थानां च नीलपीतश्यामवर्णानामन्यतमेन युक्तां पिटिकां जनयति। राजिभिश्च हरितश्यामाभिरावृतनेत्रो भवति। तम् ‘अण्डाक्षम्’ इति विकारं विद्यात्॥
चिकित्सितमस्य—तं च पटलमेभिरौषधैरनुलिप्य प्रियङ्गुपद्मकमधुकतालीसपत्रकालानुसारीरोध्रैःकल्कपिष्टैः क्षीरमासिच्य कलसे व्यवस्थाप्य (*****रजन्यां939 प्रातः प्रमथ्य नवनीतमुद्धृत्य चन्दनह्रीवेरमधुककालानुसारीकल्कैः सार्धं पचेत्। साधुसिद्धमपहृत्य शीतीभूतं नेत्रयोस्तर्पणम्। ततोऽस्य माषपिष्टेन समन्तात्साधु परिचार्य वाक्सहस्रं सार्धं वाऽक्षि(क्ष)णि क्षीरपरिषेचनं कुर्यात्। अथास्योदुम्बरशिलाटूनि मधुकरोध्रप्रपौण्डरीकहरिद्राम्रिफलाभिर्जर्जरीकृत्य नवघटे स्थितमान्तरिक्षोदकेन रात्रिपर्युषितेन च नेत्रयोः परिषेचनं कुर्यात्। एतैरुपक्रमविशेषैरण्डाक्षः प्रशममुपगच्छति॥
इत्यण्डाक्षः॥
अथ गुरुभारगमनवधबन्धप्रतिसूर्यस्थानाध्वगमनादश्मलोष्टशराधानवतां पथां मर्दनाद्वा मिथ्या शिरसि दण्डाङ्कुशाभ्यामभिघातादतिप्रवातस्थानाद्रक्तपवनकफपित्तसंनिपातानां प्रकोपात्पर्यश्रुता भवति॥
अथ नयनमनिलदोषात्परिशुष्कवर्त्मरक्तरूक्षपर्यन्तं घृष्यमाणमिव शर्कराभिर्मन्दोष्माश्रु विसृजति। भवति च शिशिरजलनिषेवणादतिगुरुवेदनम्, पित्तोपद्रवात्परिदह्यते नयनमग्निपरिगतवद्भवति। भवति च पीतरक्तारुणानांवर्णानामन्यतमवर्णम्, विसृजति तोयमुष्णमजस्रम्।सूर्योदये बलवती चास्य वेदना भवति। रक्तोपद्रवाद्रक्ताभिष्यन्दि च भवति। कफोपद्रवान्नयनं प्रलम्बत इव शूनपर्यन्तं शिशिरपिर्चछलपरिश्रा(स्त्रा)वि गुरुदृष्टि पाण्डुतारकं पटलविकारि भवति। नागस्य सर्वदोषोपद्रवात्सर्वलिङ्गमनुपक्रमाञ्चास्य दृष्टिरुपहन्यते काचपटलाभ्यां तं ‘काचाख्यम्’ इत्याचक्ष्महे॥
चिकित्सितमस्य—तं निवातमगारं प्रवेश्य शीतकषायशीतपटेन प्रच्छन्ननयनमवस्थापयेत्। अथाजस्रं परिषेचनैर्विगतनपनोष्मणश्चास्य कुर्यादेतेन विधिनाऽञ्जनम्। लशुनसमुद्रफेनसैन्धवबृहतीपिप्पलीः पृथक्पृथक्पेषयित्वा मधुकफणिज्जकरसकान्सनीलामलकगोपित्तैर्मधुसंयुक्तैरर्धमासस्थितमौदुम्बरे पात्रे सूक्ष्मपिष्टां गुलिकामक्षमात्रां कृत्वाऽञ्चनमभीक्ष्णशः कुर्यात्। अथवा— श्रो(स्रो)तोञ्जनसैन्धवविडङ्गहरिद्रामधुसंयुक्तश्रेष्ठमञ्ञ्जनमुपदिशेत्। उच्छन्नदृढप्ररूढस्यकाचपटलस्य शस्त्रेण लेखनं कृत्वा शतधौतेन घृतेन पूरयेत्। अथ विशुद्धनयनयुपरूढव्रणं चैनमनुषेचयेत्। ततः पञ्चमूलयोर्निष्क्वाथेन मधुरगणविपक्वेन सर्पिर्मण्डेन भोजयेत्। अथैनं मृगतित्तिरिलावकानां मांसरसेनाऽऽव्याधिप्रमोक्षाच्छाल्पोदनं भोजयेत्। अथ वैद्यो द्विरदं प्रसन्ननयनमुपरूढव्रणं दर्शयेन्नरेन्द्राय॥
इति काचाक्षः॥
अथ नायंप्रेक्षी।रात्रिजागरणादत्यध्वगमनादतिभारोद्वहनात्सलिलतरणात्क्षयाच्च रतेसः; दौर्बल्यादतिरोधाच्च कटुकषायविषमविरुद्धभोजनाच्च वातः प्रकोपमापन्नो नयनवहा शिरा निरुणद्धि।
ततोऽस्य दृष्टिः प्रच्छाद्यतेऽस्वच्छरूपा च भवति। उच्चैः पादान्विहरति। संज्ञया यातारमनुव्रजति। नायं प्रेक्षत इति नायंप्रेक्षी।
अथास्यभैषज्यम्—तगरमधुकचन्दनैर्घृतमिश्रैर्धूपयेत्। पर्यागतान्यामलकानि पिष्ट्वाक्षीरं च कलसे समावाप्य दधि जातरसं प्रमथ्य नवनीतमुद्धृत्य पचेत्। चन्दनह्लीवेरमधुककालानुसारीहरिद्रामञ्चिष्ठारोहिणीपुनर्नवाकल्कैः साधुसिद्धमपहृत्यानुषेचनं कुर्यात्, नस्यकर्म च।तस्य च मधुघृतसमभागसंयुक्तं त्रिकटुकमधुकपिष्टमञ्जनं भासास्थिकेशकांस्यरजतकुक्कुटाण्डकपालान्यैकध्यं कृत्वा पेषयेत्। ततः शुद्धताम्रकपाले निहितं पिहितमन्तर्धूमां मिषीं कारयेत्। ततस्तया वाजिमूत्रपिष्टया विहितमञ्जनं साधयेन्नायंप्रेक्षी वारण इति।
तत्र श्लोकः—
एतेन विधिना वैद्यः पटुर्लघुपराक्रमः।
साधयेदृष्टकर्मा च नायंप्रेक्ष्याख्य मामयम्॥
इति नायंप्रेक्षी॥
प्राजनाङ्कुशशलाकाकाष्ठाभिघातादतिकण्डूयनाप्रतितोदनाच्च प्रतिनुन्नः प्रादुर्भवति।
तस्य लक्षणम्— कलुषपर्यश्रु रक्ततारकं परिशूनान्तं गुरुप्रेक्ष्यं नयनं भवति। भिन्ने प्रथमे पटले नयनपरितोषः, ततः श्रा(स्त्रा)वः, श्यावता गुरुत्वमुष्णता व भवति। द्वितीयस्य चानुपटलस्य भेदे पिच्छिलफेनोदकवर्णपरिश्रा(स्त्रा)वः। तृतीये सवेदनं पीतारुणत्वं च। चतुर्थे पटलेऽत्यन्तवेदना रुधिरश्रा(स्त्रा)वोनयनविनाशश्च भवति।
तत्र श्लोकाः—
प्रथमे नेत्रपो राजन्सरागं तीक्ष्णवेदनम्।
सम्यक्प्रच्छाद्य दृष्टिं वा भूयश्चास्य प्रवर्तयेत्॥ )
सर्वत्र च परीदाहः श्वयथुः संनिमीलनम्।
वेदना दृष्टिनाशश्च परिभावश्च लक्ष्यते॥
द्वितीये पटले भिन्ने कृच्छ्रसाध्यं विनिर्दिशेत्।
तृतीये पटले भिन्ने याप्यमत्र विनिर्दिशेत्॥
चतुर्थे पटले भिन्ने असाध्यं संप्रचक्षते।
सव्रणं शुक्लमुत्पन्नमसाध्यं तु प्रकीर्तितम्॥
सर्वत्र चिकित्सितम्—अस्य शलाकया विवृत्य नयनं मधुसर्पिभ्यां पूरयेत्, बहुशः क्षीरवृक्षाणां त्वग्भिर्जर्जरीकृताभिर्निशि पर्युषिताभिर्नवंकलसं प्रपूर्यतस्मिन्कलसे क्षीरमासिच्य द्वितीयेऽह्नि मथ्नीयात्। निष्पन्नं नवनीतमुद्धृत्य तच्छतधौतं कृत्वाऽनेन मधुयुक्तेनाभ्यञ्जयेत्। अक्षिपरिषेकश्चास्याजाक्षीर940शर्करोदकैः शीतैः प्रपौण्डरीकमधुकापद्मकरोध्रोशीरमञ्जिष्ठाभिश्चान्तरिक्षोदकपर्युषिताभिः परिषेकयेत्। कुशमूलामलकतिलमञ्जिष्ठोशीरकल्कैर्बहिरालेपयेत्।आजेन941 पयसा भद्रदारुमुस्ताप्रपौण्डरीकमधुकैर्घृतं सिद्धं तर्पणं नस्यंच दद्यात्। तरुणोदुम्बरमधुकदेवदारुमञ्जिष्ठाचन्द्रनकालानुसार्याकल्कैर्मधुसंयुक्तैरञ्जनम्।अथ शुक्लता बिन्दुर्वा स्थात्, यष्टिमधुघृतसैन्धवैर्लेखनं शस्त्रेण वा॥
तत्र श्लोकः—
प्रतिनुन्नमिमं व्याधिमागन्तुं नेत्रसंभवम्।
साधयेत्कुशलो यः स पूजामर्हति पार्थिवात्॥
इति प्रतिनुत्रो नाम नेत्ररोगः॥
करकर्णवितततरुतटविहतमक्षिनिष्पेषहतमित्याचक्षते॥
तस्य निदानम्—उष्णाश्रुश्रा(स्रा)वः, श्ववयथुर्वेदना दाहो गुरुत्वं रक्ततासंनिमीलनं चाक्ष्णोः॥
तस्य सिताजकर्णप्रपौण्डरीकमधुककालानुसार्यारोध्रैःक्षीरेणा942ऽऽजेन संयोज्यावश्चोतनम्। हृतोष्मणश्चास्य मधुसैन्धवसंयुक्तेन नवनीतेनाञ्जनमिति समानं पूर्वेण। पयसश्च परिषेकः। गोजशकृत्काण्डशःकल्पितं पालाशपत्रपरिवेष्टितं वह्निसिद्धमञ्जनं कुर्यात्। वटप्ररोहचन्दनदेवदारुहरिद्राप्रपौण्डरीकसारिवारोहिणीकालानुसार्योशीरपिष्टैर्मधुसंयुक्तैरञ्जपेत्। रसाञ्जनतरुणौदुम्बरमधुकसितकर्णकैः पिष्टैः क्षौद्रघृतसमन्वितैरञ्जयेन्निष्पेषहतम्॥
तत्र श्लोकः—
निष्पेषहतमित्याहुर्वारणं तु चिकित्सकाः।
यथोक्तसाधु943कारी च सिद्धकर्मा सुपूजितः॥
इति निष्पेषहतरोगः॥
अशनेः संनिपातनिरीक्षणाद्द्विपस्य व्यापद्यते दृष्टिः। मांसपेशी च निष्टब्धता च भवति तं प्रत्याख्येयं ‘विद्युन्निपातहतम्’ इत्याचक्ष्महे॥
तत्र श्लोकः—
विद्युन्निपाततश्चक्षुर्हतं यस्य तु हस्तिनः।
असाध्यमिति तं विद्याद्दृष्ट्वा च परिवर्जयेत्॥
इति विद्युन्निपातहतः॥
अथाङ्गपतिरवेक्ष्य द्विरदानश्रुपरिगतलोचनान्पक्वकटकर्णकपोलोष्ठप्रतिमान्भगवन्तमुवाच पालकाप्यम्—‘भगवन्को नामायं व्याधिः, किमात्मकः, कथं वोत्पद्यते, किं वाऽस्य लक्षणं चिकित्सितम्’ इति॥
अथ ऋषिरुवाच—‘राजन्विद्युद्वारिहतो नामैष व्याधिर्वात944पित्तात्मकः शीताभितापप्रभवः परिकर्मापचारात्प्रादुर्भवति। तस्याभितापसंस्थानघर्माध्वगमनभारवहनाग्नितपनमुष्णे चातिकर्मप्रयोगात्, गजसंनिपाताच्च स्नेहावसिक्तस्य धर्मावस्थापनमतिकर्मप्रयोगशारदस्येति॥
तत्रैवमादिभिस्तप्तो गजः क्लाम्यतिं, करवदनाभ्यां वमथुमुत्सृजति, परिवीजते दंशमशकावृत इव व्यक्तश्रवणकरलाङ्गूलैः॥
तथाविधमवेक्ष्य द्विरदं वैद्यस्थानस्थंपक्ष्यापक्ष945 (?)मुभयतो लब्ध्वाऽलानमनुवर्तयेत्। अथैनं विगतवमथुक्लममवेक्ष्योत्थाप्य946 शिशिरपङ्कजवालुकापांशुभिरवकीर्य प्रकामं जलकुवलकर्दमहरणेषूत्सृजेत्, हरितं च तृणमुपाहरेत्। अथैनं विगतश्रममवेक्ष्य सलिलमवगाहयेत्। तत्र चैनमनुवृत्तं तृणकुर्चा947न्दुककाष्ठकवलकुवलानामन्यतमेनोद्घृष्य सुप्रक्षालितशिरसंव्यपग948तोष्माणमानयेत्स्थानम्, प्रतिच्छादयेच्च कवलैरिति। अत्र श्लोकः—
अवेक्षितव्या द्विरदाः सततं परिकर्मिभिः॥
बन्धुस्नेहेन संयुक्तैर्हदयैः क्लमवर्जितैः॥
तत्र केचिदभितप्तमज्ञानत्वराभ्यां द्विरदमवगाहयन्ति सलिलम्। ततोऽस्य स्वेदनिरोधात्सलिलपानादूष्मणश्चाप्रमोक्षाद्धर्मपरिगत देहत्वादनिलः प्रकुप्यति। अथ पवनकोपाच्छेषदोषप्रकोपः। तत्राज्ञेयत्वात्पित्तरक्तमादायानिल ऊर्ध्वमागत्य शिरः संतापयति। तत्संतापादश्रुगमनमवगूहनं च नेत्रयोर्भवति। कटवदनकर्णकरगुहाभागपाकः, तस्य सुकुमारप्रदेशपाकश्च स्यात्। प्रस्तब्धकरकर्णप्रतिमानः पर्यश्रुरत्यर्थं भवति। तस्य यदा नेत्रयोः पटलमुत्थितं बहलमनल्पपरिदोषमनश्रु विगतोष्म च भवति, (*तदसाध्यं949विद्यात्। विपर्यये साध्यम्। अथ प्रदेशानामस्यैकरात्रं द्विरात्रं त्रिरात्रं वा शूनभावः स्तम्भश्च भवति) तृतीयचतुर्थयोरह्नोःस्फोटोद्गमस्त्वरभेदश्च भवति॥
** **अत ऊर्ध्वं तत्र च साध्यमुपाचरेत्, सात्म्यसत्त्वदेशकालवयःप्रकृतिविधिज्ञो वैद्य एभिरुपक्रमैः—तं निवातमगारं प्रवेश्य दधिमस्तुसौ950वीरकमृदितेन सर्पिषाऽभ्यज्य ततः पर्युषितजलपूर्णांश्चन्दनोशीरसारिवाकिंजल्कसंयुक्ताञ्शिरसि घटाश्चोतयेत्। पद्मकरोधमधुकमृद्वीकोशीरशर्करामञ्जिष्ठाचन्दनसारिवाप्रपौण्डरीकह्रीवेरतगरपत्रामलकविभीतकहरीतकीसितकर्णिकानां शीतकषायपरिषिक्तनयनं प्राक्सूर्योदयाज्जलमवगाहयेत्। तत्र चैनमनुवृत्तं यथाकालं सुखमःवस्थाप्य पुनरुत्तार्य बहिरक्ष्णोस्तिलकरवीरामलकचन्दनकशेरुकबिशमृणालोत्पलसारिवामधुकनलवञ्जुलकुमुदकहूलारतामरसमञ्जिष्ठाप्रपौण्डरीकह्रीवेरतगरपत्रैलालोध्रोशीरमांसीक्षीरीणां त्वग्भिः क्षीरपिष्टाभिरालिप्तनयनं पूर्वोक्तेन सर्पिषाऽभ्यज्य प्रच्छन्ननयनमवस्थापयेत्। प्रदापयेच्चास्मै भव्यपारापतमृद्वीकापनसदाडिमामलकलकुचपरूषकपीलुपियालबदरराजादनसंयुक्तं शक्तुमन्थं सशर्करंयानि चान्यानि शीतानि तेषां त्वग्रसैः कसेरुकोत्पलबिसमृणालेक्षुवालिकाः सर्वं च यवसमौदकं मत्स्यण्डिकागर्भमाहारयेत्। तैश्च प्रदेहः। अथवा—वेतसार्जुनकदम्बोशी राजकर्णक्षीरवृक्षतिलकरवीरोत्पलपद्मकलकै सघुतः प्रदेहः। अथ विगतोष्मणः सर्पिषा मधुना चाञ्जनं कार्यम्। अजाक्षीरेण शणबीजमधुसर्पिर्युक्तेन पूर्वोक्तश्चौषधैः सृ(शृ)तशीतैः परिषेकः951 सदा भवेत्। तत्र दृष्टिविगतोष्माणं व्रणीभूतां द्विव्रणीयवदुपाचरेत्। नेत्रयोश्चास्य पटलचिकित्सा कार्या। अथ विशुद्धनयनमुपरूढव्रणं चैनमुपसेचयेत्। नस्यं देयं चास्य पञ्चमूलद्वपनिष्क्वाथेन मधुरगणविपक्वन सर्पिर्मण्डेन। भोजयेश्चैनं मृगवराहकुक्कुटमहिषमांसरससंयुक्तं शाल्योदनमाव्याधिप्रमोक्षात्। अथ वैद्यो द्विरदं प्रसन्नत्व952ग्रोमनयनं समुपरूढव्रणं दर्शयेन्नरेन्द्राय, इति॥
तत्र श्लोकः —
विद्युद्वारिहतं नाम पित्तानिलसमुद्भवम्।
साधयेन्नेत्ररोगं यः पूज्यः स्यात्स भिषग्वरः॥
इति विद्युद्वारिहतः॥
पथि तप्तपांशुवालुकोपलवति बलवदूष्मपरिगतसर्वशरीरस्य वार्यलभमानस्य स्वेदोऽन्तर्गतो नेत्रावरोधी भवति। तमावृतदृष्टिमसाध्यम् ‘ऊष्मापरिगतम्’ इत्याचक्ष्महे॥
तत्र श्लोकः—
ऊष्मापरिगताविष्टमक्षि नागस्य दूषितम्।
तद्दृष्ट्वा वर्जयेद्वैद्योऽसाध्यमित्येव शास्त्रवित्॥
इत्यूष्मापरिगतः॥
तीक्ष्णोष्णाम्ललवणक्षारकषायकटुकविषमविरुद्धभोजनाच्च वातपित्ते प्रकुपिते हस्तिनस्तस्य शिराभिरूर्ध्वमागत्याक्षि क्लेदयतः, तत् ‘वर्त्मक्लिष्टम्॥
तस्य विज्ञानं श्रवणपाको दूषिकोद्गमश्च भवति वर्त्मनः॥
तस्यसाधनमुपदेक्ष्यामः—काश्मयशीररोध्रकशर्कराद्राक्षादारुहरिद्राभिरञ्जनम्। पयसा953वाऽऽश्चोतनम्। त्रिफलां च मधुसंयुक्तामञ्ञ्जनं कुर्यात्। भैषज्यविधिरस्य व्याख्यातः॥
तत्र श्लोकः—
अनया क्रियया युक्तं वर्त्मक्लिष्टं यथाविधि।
साधयंन्सिद्धिमाप्नोति कर्मसूत्रविशारदः॥
इति वर्मक्लिष्टम्॥
मधुराम्ललवणभोजनाच्छ्रो(त्स्त्रो)तसा कफपित्तसंभवेन पवनोत्पीडितेनानिमिषतोऽधिकं छाद्यते दृष्टिः॥
पक्वंचाश्रु(सु)प्रश्न(स्र)वति तं ‘श्रो(स्त्रो)तोन्धम्’ इत्याचक्ष्महे॥
चिकित्साऽप्यस्य—न्यग्रोधोदुम्बराश्वत्थप्लक्षमेषशृङ्गीकुमुदनलिनोत्पलाशकुसुमसारिवामधुकचन्दनैः क्षीरसिद्धं घृतं नेत्रयोस्तर्पणं नस्यं च सम्यग्दद्यात्।अयस्ताम्ररजतकनकमधुकस्फटिकतरुणोदुम्बरकतकामलकमधुसर्पिर्भिरञ्जयेत्। पयसा च परिषेकः। इति ॥
तत्र श्लोकः—
योगमानेन यः कुर्यात्परिषेकाञ्जनादिकम्।
नस्याञ्जनक्रियां वैद्यः स श्रो(स्त्रो)तोन्धं निवर्तयेत्॥
इति श्री(स्रो)तोन्धः॥
स्निग्धमधुरगुरुशिशिरगुडदधितिलपललमत्स्यमांसभोजनादव्यायामाच्च कफः प्रवृद्धिमाप्नोति॥
स नेत्रयोरापन्नः पिटिकाभिरावृणोति वर्त्मनी जलबुद्बुदाकाराभिः, तं ‘बुबुदी’ इत्याचक्ष्महे विकारम्॥
तस्य भैषज्यम्—प्रावारक्युक्तेन विधानेन यन्त्रयित्वा तथैव विडिशेन954नेत्रं विवर्त्य मार्कवरसेन बुद्बुदमाश्चोत्याभीक्ष्णशः शस्त्रेण च्छेदयेत्। ततः प्रपौण्डरीकमधुकचन्दनोशीरशीतशिवागुरुकालानुसार्या955सुनिषष्णकैर्वा956 पक्वंघृतं नस्यंदद्यात्। तर्पणं च नेत्रयोः समुद्रफेनशङ्खनाभिशर्कराभिर्मनःशिलायुक्ताभिरञ्जयेत्।
तत्र श्लोकः—
इत्येष बुद्बुदी नाम य एनं साधयेद्भिषक्।
शास्त्रोद्दिष्टेन विधिना स भवेत्साधुपूजितः॥
इति बुहुदी॥
अथ यदाऽत्यर्थं रूक्षाहारो जाङ्गलयवसोपसेवी, उष्णेऽध्वानमभिप्रपद्यते। तदाऽस्य वायुरूर्ध्वगतः श्लेष्मपित्तशोणितान्यादायाक्ष्णोर्वेदनामत्यर्थं करोति॥
न च यवसमभिलषति, तम् ‘अक्षिपाकम्’ इत्याहुः। तद्यदि शोणितं पूयं वा श्र(स्र)वति, तस्य तदा सिद्धिर्न विद्यते। विपर्यये तु शुद्धजलश्रावी(स्रावि) साध्यम्॥
अथास्य निवातस्थस्य क्रियारम्भः कर्तव्यः। ततोऽस्य मञ्जिष्ठां विश्वभेषजं रोहिणीं च पिष्ट्वा तैलं विपाच्यते। तेन तैलेन नस्यकर्म कुर्यात्। तस्य पिप्पलीसैन्धवश्यामाककुलत्थहरेणुकैलारोध्रागरुचन्दनानि समभागानि पयसा संयोज्य सर्पिः पाचयेत्। तेनास्य तर्पणं नस्यकर्म च कुर्यात्। तस्यपिप्पलीसैन्धवश्यामाककुलत्थादीनि समभागानि पिष्ट्वामधुसर्पिषा युक्तमेतद्दद्यादञ्जनम्॥
तत्र श्लोकौ—
असाध्यः शोणितश्रा(स्त्रा)वः पूयं वा श्र(स्त्र)वते यदि।
न तत्र कुर्याद्भैषज्यं तत्र सिद्धिर्न विद्यते॥ .
विपरीते तु कर्तव्या किया गजहितैषिणा।
यथोक्तौषधकल्पेन सोपचारः प्रयत्नतः॥
इत्यक्षिपाकः॥
स्निग्धमधुरघनगुरुशिशिरलवणाम्लातिभोजनादव्यायामादानूपतृणकवलकुवलभक्षणाच्च प्रवृद्धः श्लेष्मा *मारुतोद्भूत957श्चक्षुरापन्नः श्वेतपटलत्वाय कल्पते। तं ‘पटलाक्षम्’ इति विद्यात्॥
तस्योपक्रमम्—त्रिफलात्रिकटुकलोध्रैलवालुकैः ससैन्धवैर्मधुमिश्रैरञ्जयेत्। इङ्गुदाश्मन्तककतकफलमनःशिलासमुद्रफेनशङ्खनाभिसमुद्रमण्डूकीविद्रुमताम्रकनकरजतमणिभिरञ्जनम्। उत्सन्नदृढप्ररूढपटलस्य चास्य सैन्धवलवणचूर्णैर्लेखनम्। तेनासिद्धौ958 वर्त्मोद्धृत्य बिडिशैर्यथावच्छस्त्रेण पटलमथैनं छेदयेत्।
तत्र श्लोकौ—
विवर्त्य नेत्रे नागस्य पूर्वं सम्यग्वितानपेत्।
एनंसामुद्रयन्त्रैस्तं बिडिशैश्च ततो लिखेत्॥
पूरयेन्मधुसर्पिभ्यमथैनं वस्त्रसंवृतम्।
सप्तरात्रस्थितं959 चाक्षि पूरयेदञ्जयेत्ततः॥
इति पटलाक्षः॥
अथाभिघातादूर्ध्वं तिर्यग्वारार्जिदण्डाकृतिर्नयनमावृत्य तिष्ठति। तमन्ये ‘दण्डाक्षम्’ आहुः। ‘नलिका(क्ष)म्960’ इत्यपरे॥
तस्पपूर्वववद्विवर्त्य न961यने बिडिशेनोत्क्षिप्य शलाकया विद्ध्वाऽस्त्रेणापहरेत्। पञ्चमूलयोर्निष्क्वाथेन मधुरगणविपक्वेन पयसा च घृतं पक्त्वा नस्यकर्म तर्पणं चास्य कुर्यात्। समुद्रफेनशङ्खसैन्धवसर्जनिर्यासैर्मधुसर्पिर्युक्तैरञ्जनं कुर्यात्॥
तत्र श्लोकः—
अञ्जनानि यथोक्तानि तर्पणालेपना962नि च।
अवस्थामथ विज्ञाय तत्र कर्म समाचरेत्॥
इति दण्डाक्षः॥
अथ यदाऽत्यर्थगुरुभोजनात्प्रवृद्धश्लेष्मा मारुतोद्धूत963 ऊर्ध्वं तमादाय नेत्रानुसारगतिभिः शिराभिरनुनीतः श्वेतसूत्राकृतिना सूक्ष्मेण कृमिणा नयनमावृतं करोति। तदा ‘मुञ्जः’ इत्युच्यते कफकृतो व्याधिः॥
तस्य लक्षणम्—वेदना श्वयथू रक्तताम्रश्रा(स्त्रा)वो नेत्रस्याप्रतिक्रियया श्वेतभावः। प्रथमे पटले विचरल्लँक्ष्यते सूत्रमन्तर्मणिगतमिव व्यक्ताव्यक्तोऽनवस्थितः। द्वितीये पटले नातिविचारी स्थूलतरः। तृतीये पटले रक्तासि964तहारिद्राणां वर्णानामन्यतमं भजतेऽसाध्यः। चतुर्थे पटले गते मुञ्जे दह्यते नयनमग्निपरिगतवत्ताम्रराजिभिरावृतं भवति। प्रायशः सर्वेषामेव चतुष्पदानां दृष्टिहरः। न शस्त्रादृतेऽस्य सिद्धिरस्ति॥
तस्य गात्रापरपरिक्षिप्तस्यालानितस्य ⁺दन्तोदान्त्यं965 निगृहीतस्यापयामितस्यनयनं बिडिशैर्विवर्त्य ब्रीहिमुखेन शस्त्रेण सूत्रवेष्टितेन तिलमात्रावशिष्टेनार्धयवविस्तारेण दृष्टिभागं वर्जयित्वाऽपाङ्गभागस्थं सूत्रवच्चलितं कृमिं संचरन्तमभितः प्रथमत एव विध्येत्।पक्ष्माणि966 वा विशति। शस्त्रं वाऽप्यनुवेल्लति, मुखं वाभजति किंचिदुपहृतम्।बडिशेनोद्धरेन्मुञ्जम्।सम्पग्विद्धमेव विद्यात्। (*ततस्तमुष्णो967दकपूर्णे सुवर्णपात्रे प्रक्षिप्य संचरन्तं राज्ञो दर्शयेत्।सप्तरात्रादूर्ध्वं दृष्टिद्रवं पिबति च, तमसाध्यं विद्यात्।) क्षते शस्त्रविधौ बहुशः परिषेचयेन्नयनमासवेन मधुना।यन्त्रयुक्तमाच्छाद्य मुखं वाससा निवातस्थं स्नेहपानैर्धूपनैश्चोपक्रमेत्। सर्जार्जुनकदम्बपुष्पहिङ्गुसर्वगन्धसर्जरसैर्घृतसंयुक्तैर्धूपयेत्। यथाक्रमं मधुपर्णीतैलपर्णीपृथक्पर्णीभिस्तैलं पक्त्वा प्रातः स्नेहं भोजयेत्। एनं च पाययेत्968। शिरश्चास्य शृतेनैव969 स्नेहेनावसिञ्चेत्। गिरिकर्णिकामूलपिप्पलीसैन्धवैः पिष्टैर्मधुसंयुक्तैरञ्जयेत्॥
तत्र श्लोकः—
विधिना नेत्रमुञ्जे तु क्रियाभिः समुपाचरेत्।
क्षिप्रं प्रमुच्यतेरोगात्प्रकृतिस्थश्च जायते॥
इति मुञ्जः॥
अथ यदा970 गजनयनमुपहतमतीव कफपवनपित्तानामन्यतमेन दोषेण सर्वैर्वा विविधवर्णैः शबलैर्वा सितासितनीलपीतरक्तारुणैर्वा कृमिभिश्चितम्, तदा ‘मुञ्जजाल’ इत्युच्यते॥
तत्र वातात्परुषाः श्यावाः, पित्ताद्धरितनीलपीताः, कफाच्छ्वेताः,शोणिताद्रक्तारुणाः, संनिपाताद्बहुविधवर्णाः शबला वा राजिमन्तो भवन्ति॥
तत्र नीलासितपीतारुणहरितरक्तानां चिकित्सा नास्ति। सप्तरात्रस्थि959तैः कृमिभिः श्वेतोपलवदक्षि भवति, तदप्यसाध्यम्। परिशिष्टानामस्ति चिकित्सा॥
मुञ्जजालेऽपि मुञ्जविधिः कार्यः। क्षीरदधिपललसिन्दुवारमूलकबीजामलककालिकानिर्गुण्डीरोहि तकमत्स्यैः क्वथितैः सुखोष्णैर्घृतमण्डाभ्यक्तं शिरः प्रलिम्पेत्। मधुसंसृष्टं तन्दुलोदकं पाययेत्। हरेणुकैलामेषशृङ्गीरोध्रागुरुदेवदारुश्चेतापिप्पलीभिरामलकरससंयुक्ताभिर्घृतर्मण्डं विपाच्य नस्यंतर्पणं च नेत्रपोः कुर्यात्। (*मेषगृङ्गी971श्वेतपाकीतगरहरेणुकाशिग्रुनीलिकागिरिकर्णिकाञ्जलिकारिकाश्वेताश्यामामूलानि सलिलेन पिष्ट्वाऽञ्जनं कुर्यात्।) हरिद्राद्वयनिम्बपत्रमञ्जिष्ठाहरितालमनःशिलामाषपर्णीभिस्तैलं पक्त्वा नस्यं दद्यात्।मधुकमधूच्छिष्टरोध्रमञ्जिष्ठामनःशिलाजतुकुक्कुटमेदोभिः पानार्थं धूपः कार्यः। लशुनाञ्जनपिप्पलीफणिज्जकरसकांस्यनील्यामलकरसगोपित्तैर्यथासंख्यं पृथक्पृथक्पिष्ट्वा कृमिनाशनमञ्जनमिति॥
तत्र श्लोकः—
इमं विधि विधिज्ञस्तु यः कुर्यात्सुसमाहितः॥
यथासाधु समुद्दिष्टं मुञ्जजालात्स मोचयेत्॥
इति मुञ्जजालः॥
उष्णाम्ललवणकटुकगुरुरूक्षान्नभोजनादतिव्यायामाच्च भवति रुधिरं कुपितम्, तदाऽनिलावधू972तमूर्धवहाः सिराः प्रपन्नं निरुणद्धि चक्षुः। तेनास्य नयने राज्यः सपरिश्रा(स्त्रा)वा भवन्ति। शूनवर्त्मनी चाक्षिणी भवतः। तं ‘लोहिताक्षम्’ इत्याचक्षते गजस्य
नयनविकारम्॥
तस्य साधनम्—लोध्रमधुकप्रपौण्डरीककल्कैः समस्तैरेवाऽऽश्चोतनम्। अञ्जनं मधुघृताभ्यां कारयेत्। घृतमण्डेन नस्पं कुर्यात्। स्थानं सुशीतलम्। वारिपूर्णाश्च घटाः शिरसि वंशे च परिश्रा(स्त्रा)व्याः। इति॥
तत्र श्लोकः—
घृतपानैस्तथाऽभ्यङ्गैःस्निग्धैश्च रसभोजनैः।
यवसैर्मधुरैश्चैव लोहिताक्षं प्रसाधयेत्॥
इति लोहिताक्षः॥
वातपित्तप्रकोपादजीर्णाम्लविदग्धरूक्षाहारस्योर्ध्वमेवानुश्रित्य973 पिटका भवन्त्युष्णा नेत्रानुगताः, तस्मिन्नु974न्मीलयितुमशक्तः। अर्धाक्ष्णोर्वा पश्येत्। तं ‘पिटकाक्षम्’ इत्याहुः॥
तस्य चिकित्सितम्—मधुसैन्धवाभ्यां लेखनम्। श्रीपर्णीवरुणानि चोदूखले क्षोदयित्वा तस्मिन्विश्रा(सा)व्य तोयमजाक्षीरयुक्तः परिषेकः। मधुसैन्धवजप्याहुरोधैरञ्जनम्। तस्येदं भैषज्यम्, मधुसर्पिमञ्जनम्, घृतमण्डेनाभ्यङ्गः शिरोनयनस्य। पानभोजनानि नस्य कर्म च कुर्यात्। निवाते स्थाने शय्यां975 वाऽस्य करीषेण सुखामसंबाधाम्—इति॥
इति पिटकाक्षः॥
तत्र श्लोकाः976—
बलं977 हि मूलं978 राज्यस्य चतुरङ्गमिहोच्यते।
तत्रापि च गजाः श्रेष्ठाः विज्ञातव्या नराधिप॥
तेषामिन्द्रियरक्षार्थं यत्नं कुर्याद्विचक्षणः।
इन्द्रियाणां हि सर्वेषां चक्षुरेवोत्तमं स्मृतम्॥
अन्धत्वात्सर्वनाशः स्याद्वारणानां विशेषतः।
तस्मात्सर्वात्मना कार्यमुत्तमेन्द्रिपरक्षणम्॥
इत्यक्षिरोगा विधिवत्सनिदानचिकित्सिताः।
पृच्छते रोमपादाय विंशतिः परिकीर्तिताः॥
महारोगमिति मया यत्ते स्थानं प्रकीर्तितम्।
तत्समाप्तमिहाध्याये प्रथमं शास्त्रनिश्चयात्॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थानेऽक्षिरोगाध्याय*एकोनविंशः (योऽष्टादशः)979॥१८॥
<MISSING_FIG href="../../../books_images/U-IMG-17046982751-removebg-preview(2"/>.png)
समाप्तं चैतन्महारोगस्थानं प्रथमम्॥
अथातः क्षुद्ररोगस्थानं द्वितीयमारभ्यते।
______________
अथ वमथुरोगाध्यायं व्याख्यास्यामः॥
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति॥
वारणानां वमथवः संभवन्ति कथं मुने॥१॥
साध्यासाध्यं चिकित्सां च लक्षणं तद्ब्रवीहि मे॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत्॥२॥
वमथुर्द्विविधो ज्ञेयो दोषैरागन्तुरेव च॥
भवेदामाशयस्थानात्सर्वा छार्दर्नराधिप॥३॥
हृदये पार्श्वयोः कुक्षौ पीडा वातेन जायते॥
फेनिलं छर्दयत्यार्तो नीलं श्यावं980 च भूरि च॥४॥
आदौ विरेचनं कार्यमस्य लङ्घनमेव च॥
अधोभागीकृते दोषे छर्दिराशु निवर्तते॥५॥
मधुना ह्यभयाचूर्णं भाजेयेच्छर्दिनाशनम्॥
सुस्निग्धैर्जाङ्गलरसैः कौलत्थैश्चैव भोजयेत्॥६॥
अनेन विधिना राजंश्छर्दिर्नश्यति वातिकी॥
(*अम्लमुष्णं981 च नीलं च हरितं पीतकं तथा॥७॥)
पित्तात्प्रच्छर्दयत्यार्तो मुहुर्भवति दुर्मनाः॥
दाहोऽस्य हृदये कण्ठे शरीरे चोपजायते॥८॥
चन्दना982मलकानां च रसं क्षौद्रेश पाययेत्॥
पिप्पलीचूर्णमुद्रं च मधुना सह भोजयेत्॥९॥
जम्बूप्रवालमरिचं यष्ट्याह्वं नीलमुत्पलम्॥
क्षोदयित्वा कषायं च शीतलं पाययेद्गजम्॥१०॥
शर्कराधातकीचूर्णं तथा यष्ठ्याह्वमुद्रयोः॥
समालोड्याथ मातङ्गं पायपेत्तन्दुलाम्बुना॥११॥
सहृल्लासं घनं श्वेतं कफाद्वमति पिच्छिलम्॥
हृष्टरोमा सलवणं क्षौद्रेण स983ह भोजयेत्॥१२॥
(⁺984सव्योष984 त्रिफलाचूर्ण क्षौद्रेण सह भोजयेत्।)
दधित्थं पिप्पलीं चैव मरिचं व प्रदापयेत्॥
जम्बूप्रवालमरिचं यष्ट्याह्वनीलमुत्पलम्॥१३॥
पिण्डोऽयं मधुना सार्धं क्षौद्रेणैव दुरालभाम्॥
शिरीषपल्लवान्क्षुण्णान्युक्तांस्त्रिकटुकेन च॥१४॥
मधुना भोजयेन्नागं क्षिप्रं वमथुनाशनम्॥
मदिरां मधुसंसृष्टां पाययेच्च चिरस्थिताम्॥१५॥
कषायं कटुकं तिक्तं कारयेत्पानभोजनम्॥
संनिपातोद्भवः सर्वैस्तुल्यलक्षणसाधनः॥१६॥
कीर्तितो दोषजो ह्येष आगन्तुरथ वक्ष्यते॥
वृश्चिकं कृकलासं वा सर्पं शतपदीमपि॥१७॥
मण्डूकं प्रवलाकं985 वा कीटानथ विषान्वितान्॥
अज्ञानात्कवलैः सार्धं यदि भक्षयति द्विपः॥१८॥
जायते वमथुस्तस्य तेन जीवति वा न वा॥
जहाति सद्यः प्राणांस्तु भक्षयित्वोरगं द्विपः॥१९॥
वारि लोहितसंसृष्टं विशुद्धं वाऽपि लोहितम्॥
यदि प्रच्छर्दयेन्नागो न स जीवति तादृशः॥२०॥
नीलं प्रच्छर्दयेद्वारि यदि तच्च सपिच्छिलम्॥
विषजग्धं वदन्त्येनं तस्य नास्ति चिकित्सितम्॥२१॥
पूतिकां च विवर्णां वा कृष्णां वा पूतिगन्धिकाम्॥
अजस्रं स्रवते धारां तमसाध्यं विनिर्दिशेत्॥२२॥
उष्णां प्रस्रवते लालां यवसं यदि खादति॥
अविवर्णामपूतिंच स तु शक्यश्चिकित्सितुम्॥२३॥
पलानि लवणात्पञ्च विंशतिं च रसाञ्जनात्॥
लामज्जाच्च बृहत्योश्च नागरात्सिन्दुवारितात्॥२४॥
तन्दुलीयकमूलाच्च नागराद्रजनीद्वयात्॥
तेजोवत्याश्च कुष्ठाच्च रोध्राच्चैवेलुवालुकात्॥२५॥
पिप्पल्येलाहरेणुभ्यः प्रियङ्गुभ्यःकुटन्नटात्॥
अर्धादकीयान्भागांस्तु गृहधूमाच्च संहरेत्॥२६॥
सक्षौद्रं चूर्णमेतेषां नवे कुम्भे विनिक्षिपेत्॥
सजिह्वातालु सगदं मुखमेतैः प्रलेपयेत्॥२७॥
एतेनैव च चूर्णेन पिण्डमस्मै प्रदापयेत्॥
वमथौ विषसंसृष्टे श्रेष्ठमेतद्धि भेषजम्॥२८॥
निर्विषं वमथुं चैनं योगैरेभिरुपाचरेत्॥
शालिलाश्वर986रूजानां सूक्ष्मचूर्णानि कारयेत्॥२९॥
सक्षौद्रं भोजयेत्पिण्डं युक्तं त्रिकटुकेन च॥
नागस्य वमथुः क्षिप्रं पिण्डेनानेन शाम्यति॥३०॥
पटोलीं काचमाचीं च मुद्गैःसह विपाचयेत्॥
सतैललवणं यूषं पाययेद्भोजयेद्धि तम्॥३१॥
सारिवां शृङ्गवेरं च द्वे सहे रोध्रमेव तु॥
प्रियङ्गुंचैव सक्षौद्रान्कवलान्भोजयेद्भिषक्॥३२॥
तरुणान्याम्रपत्राणि दधित्थंदाडिमानि च॥
नीपानि मातुलुङ्गं च लकुचं पवसानि च॥३३॥
उदूखले क्षोदयित्वा वारणाय प्रदापयेत्॥
वमथुः कवलैरेभिः क्षिप्रंनागस्प शाम्यति॥३४॥
तिन्दुकानि प्रियालानि मृद्विका विश्वभेषजम्॥
पारावतः श्वेतपाकी सौवीरं बदराणि च॥३५॥
एतत्संक्षुद्यकवलं मधुयुक्तं विचक्षणः॥
छर्दिप्रशमनं हृद्यं द्विरदाय प्रदापयेत्॥३६॥
स्थूलानिक्षून्द्विधा भित्वा विहङ्गस्तान्प्रलेपयेत्॥
संवेष्टय दर्भैश्चाङ्गारैरधूमैस्तान्विपाचयेत्॥३७॥
पक्वांस्तान्विधिवच्छीतान्संवेष्ट्य कवलान्भिषक्॥
दापयेन्मधुसंयुक्तान्हद्यान्वमथुनाशनान्॥३८॥
हरिद्रामश्वकर्णं तु चतुर्णांक्षीरिणां त्वचः॥
सोमवल्ककषायांश्च मधुना सह योजितान्॥३९॥
कवलान्भोजितो नागो वमथुं प्रतिबाधते॥
उशीरं त्रिकटून्मिश्रं पाययेच्च चिरस्थितम्॥४०॥
शिखितित्तिरिभिर्लावैरथवाऽपि कपिञ्जलैः॥
पिप्पलीमरिचैर्युक्तं कटुकं कारयेद्रसम्॥४१॥
अनेन भोजयेन्नागं पुराणं षष्टिकौदनम्॥
यवसानि कषायाणि कवलं पल्लवानि च॥४२॥
भोजितो वमथोर्नागः सहृल्लासात्प्रमुच्यते॥
अरोगःसुमनाश्चैव बलं चास्योपजायते॥
इत्पब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः॥४३॥१०८५॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षु987द्ररोगस्थाने प्रथमो वमथुरोगाध्यायः॥१॥
<MISSING_FIG href="../../../books_images/U-IMG-17046943431-removebg-preview(2"/>.png)
अथ द्वितीयोऽध्यायः।
_____________
अथातोऽतीसारचिकित्सितं व्याख्यास्यामः—
इति ह स्माऽऽह भगवान्पालकाप्यः। इह खलु द्विविधोऽतीसारः—पक्वाशयसमुत्थः, आमाशयसमुत्थश्च। वातपित्तकफानां प्रकुपितानां समस्तानां व्यस्तानां वा धान्यपवसजलानां दुष्टानामुपयोगात्, भयात्, अध्वगमनात्,अतिस्नेहोपयोगात्, मृत्तिकाभक्षणाश्च॥
तत्र दोषसमुद्भवो मृत्तिकोद्भवश्च दारुणतरौ, शेषाः परे लघवः। अथाऽऽमं खरं दुर्गन्धं पिच्छिलं श्लेष्मलं फेनिलं वार्यच्छमतिसार्यते। अतोऽन्यथा988 निरामं लाघवं पवसाकाङ्क्षा वातमूत्रपुरीषाणामुत्सर्गः सुप्रवाहत्वम्।रक्ताद्रक्तमतिसार्यते। दोषान्वयाद्दोषलक्षणान्वितम्। सस्नेहं स्नेहसमुत्थम्। मृद्भक्षणात्समृद्बद्धं परमदुर्गन्धि कृष्णाभमतिसार्यते। वारिजो वारिव्यापदा समानश्रं989सनं(नः) भवेत्। तथैव धान्यतृणाभ्यां धान्यतृणव्यापत्समानः। अध्वगमनादुपरिशूनोष्णगात्रवदनप्रायो द्रवोष्णभूयिष्ठमतिसार्यते। भयात्पर्यश्रुफुल्लनयनः प्रायशस्त्वामान्वयमतिसार्यते। सर्वेषां परिश्रा(स्त्रा)वी, गोशकृत्, नाडीजातश्चेति तिस्रोऽवस्थाः। स तु द्विविधः—शुद्धश्चाशुद्धश्च, सदोषश्चादोषश्च, सकृमिरकृमिश्र, दुर्गन्धश्चादुर्गन्धश्च साध्यश्वासाध्यंश्च॥
तत्र वातात्—फेनिलं सशूलं सशब्दमपिच्छिलमतिसार्यते। पित्तात्—कृष्णं कषायोदकनिभं चोष्णमतिसार्यते (*कृष्णा990 प्रायश्चं भवति। कफात्—श्वेतं सान्द्रं पिच्छिलमतिसार्यते। संनिपातात्सर्वलिङ्गान्वितमतिसार्यते॥
यस्तु दीनो यो विचेतनो दुर्गन्धमतिसार्यते) पश्चर्मोदकगन्धिः कुणपगन्धिर्वा स्तब्धकर्णलाङ्गूलकरनपनः कूजन्विनमति यवसकवलकुवलपल्लवाहारद्वेषी निःस्तनति निरूहं प्रत्य991गृह992वा993लमाकर्षति व्याली गुरुमक्षिको वाताष्मातः प्रवेपते प्रध्यायति निमीलति मदनजग्ध इव भवति स खल्वसाध्यः॥
यस्तु तन्दुलोदकवर्णं हरिद्रोदकवर्णं वा स्निग्धं सविदाहं गोशकद्वर्णं वाऽतिसार्यते, उत्साहवांश्चाऽऽहारेस्यान्न वाऽस्यारिष्टमुपलक्ष्यते तं विदितसमुत्थानं निरुपद्रवं चिकित्सितुमु994पक्रमेत्॥
तस्मै मधुरकषायं सांग्राहिकं दीपनीयगणसंस्कृतमुदकमल्पं देयम्। रौक्ष्यात्प्रवृत्ते युक्त्या स्नेहनम्। स्नेहाद्विरुक्षणम्। भयात्सान्त्वनम्। अध्वगमनादध्वमूर्छाप्रोक्तैः, मृद्भक्षणान्मृदानाहप्रोक्तैः, उपाचरेत्। पक्वस्य सांग्राहिकं पाचनम्, अपक्वस्य सांग्राहिकं शीतसलिलपरिषेकः कर्दमालेपश्च, न तु सलिलमवगाहयेत्। किं कारणम्—सलिलमुपयुञ्जनात्स्यादतीसारमवृद्धिहेतुरिति तस्मै दूर्वामधूलिकां मेषपर्णीं च संकुट्य मधुना संयोज्य कवलान्दद्यात्प्रियङ्गमधूकरोध्रशृङ्गवेरारलुत्वग्गण्डीरबाल995बिल्वानि संकुट्य कवलान्पुरीषसंवर्तनार्धं भोजयेत्। पिप्पलीशृङ्गवेररोध्राम्बष्ठाप्रियङ्गुपद्मकसमाङ्गागोधातकीपुष्पाणि च संकुट्य शर्करामधुसंयुक्तान्कवलान्दद्यात्। भव्यबदरदधित्थदाडिममरूष(रुब)ककाश्मर्यद्राक्षाभिः सह तरुणोदुम्बराणि कवलान्मयोजयेत्। तिन्दुकाटरूषकपलाशधवासनवारसर्जकानां क्वाथैः सिद्धं कोद्रवौदनं धातकीपुष्पचूर्णदधिसंसृष्टं भोजयेत्। अथवा सोमवल्काश्मन्तककदम्बसर्जत्वक्कषायैः सिद्धं षष्टिकौदनं मधुसंसृष्टं संयोज्य दध्ना जातरसेन चैनं गतोष्माणं तु शीतलं भोजयेत्। अथवा—आढक्यौ द्वे कर्पासीकदम्बसर्जार्जुनमेषशृङ्गीबिल्वबालानां त्वचः समभागं पिण्डमग्मिदीपनं संवर्तनं च दद्यात्। स्वादुकषायत्वङ्मूलपत्रभङ्गान्सांग्राहिकान्दीपनीयान्सुसंस्कृतान्पानार्थे यथोक्तमुदकं दद्यात्। शाद्वलानि चास्मै यवसानि मधुरकषायाणि दापयेत्। तत्राऽऽदावसाध्यलक्षणमुपदिष्टं सामान्यं च लक्षणं चिकित्सितं समासतः। सांप्रतमतीसाराणां पृथक्पृथग्राजन्दोषसमुत्थानां लक्षणं चिकित्सितं व्याख्यास्यामः॥
वातात्सशब्दमल्पाल्पं फेनिलं ग्रथितं बहु।
आध्मातमामं पक्वंवा कृच्छ्रं तत्परिवर्तिकम्॥
तस्यातिविषाहिङ्गुयवान्पजाजीवचाशतपुष्पाबदरसौवर्चलसैन्धवैः पिण्डं दद्यात्। सुखोदकं चानुपानं युञ्ज्यात्। पेयं च दध्ना धूस्तूरेणौदनान्वितां वा यवागूं सदाडिमामल्पस्नेहां युक्त्या भोजयेत्॥
पित्तात्पीतारुणं चोष्णं तृष्णादाहार्तिवेदनम् ।
श्यावं तनु च दुर्गन्धं सारक्तं चातिसार्यते॥
तस्य क्रिया बालकमुस्तातृ(त्रि)वृन्माषपर्णीमधूलिकाप्रपौण्डरीकलोध्रबिल्वपथ्यामलकदूर्वाद्रव्याण्येतानि संहरेत्॥
समभागानि संयोज्य जलद्रोणैस्त्रिभिः पचेत्।
पादावशिष्टं शीतं तु शर्करामधुमिश्रितम्॥
पाययेत्कुशलो वैद्यो ज्ञात्वा पित्तातिसारिणम् ।
परिणामे चास्य मृगतित्तिरिकपिञ्जलमयूरमांसरसमच्छं साधयित्वा नातिस्निग्धेन रसेन शाल्योदनं भोजयेत् ॥
यस्तु पित्तातिसारी पित्तलान्युपसेवते, स रक्तातिसारमृच्छति, स पित्तलिङ्गी, अधिको गुदे दाहश्चोपपद्यत इति॥
तत्र च्छागं पयो यथालाभं वा सृ(शृ)तशीतं समधुशर्करं पानं भोजनं हरितं मृदु चास्य यवसं शीतस्थानोपगूढं कर्दमानुलिप्तं पित्तवद्रक्तातिसारिणं साधयेत्॥
अथ—
कफाच्छ्वेतं घनं स्निग्धं पिच्छिलं फेनिलं गुरु।
तन्द्रालस्यकरं शीतं पुरीषमतिसार्यते॥
चिकित्सितमस्य—त्रिकटुपिप्पलीमूलचित्रकवचेन्द्रयवपाठातिविषाबिल्वमूलतृवृद्विडङ्गकरञ्जाभयामलकानि क्वाथयित्वा चतुर्भागावशिष्टं सौवर्चल996लवणान्वितं पाययेत्। परिणामे997 चास्य दधित्थदाडिमसर्जाश्मन्तकधात्रीकषायसिद्धं कोद्रवौदनं युक्त्या भोजयेत्। सुरां चिरस्थितां998 पाययेत्॥
भवन्ति चात्र श्लोकाः—
हेतवः पूर्वमुद्दिष्टा येषां तेषु च ते तथा।
अविरोधेन वर्तेतेभयोद्विग्ने तु सान्त्वनम्॥
यथोक्ताभिरतीसारं क्रियाभिः साधयेद्भिषक्।
संग्राहयेच नागानां साध्यासाध्यविचक्षणः॥
निदानं संभवं मात्रां मत्वा कालोचितानि च999।
प्रयोगं लक्षणं सिद्धिं क्रियामानमथापि वा ।
प्रयुञ्जेद्यो यथायोगं स भिषकश्रेष्ठ उच्यते।

इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने द्वितीयः सर्वातीसाराध्यायः॥२॥
<MISSING_FIG href="../../../books_images/U-IMG-17046992731-removebg-preview(2"/>.png)
अथ तृतीयोऽध्यायः।
____________

कोरदूषैर्मदनकैर्मूर्छा किंरूपमृच्छति ॥१॥
वारणः कैश्च विज्ञेयो लिङ्गैः साध्यस्तथेतरः॥
चोदितस्त्वेवमङ्गेन पालकाप्यस्ततोऽब्रवीत्॥२॥
कोरदूषान्मदनकान्यदि भक्षयति द्विपः॥
हरितान्मक्षयेद्वाऽपि पिबेद्वा मदनोदकम्॥३॥
तदिदं कोपयेच्छीघ्रं रक्तपित्तकफानिलान्॥
स समुत्कृष्टदोषस्तु मूर्छां नागो नियच्छति॥४॥
मूर्च्छितो वा निषण्णो वा वेपते परिदक्षते॥
उत्थातुकामः पतति विह्वलन्निव गच्छति॥५॥
विन्यस्य ध्यायति करं पतन्योक्तुर्नवेति च॥
गात्रापरपरिष्वक्तो वेदनार्तो हि वीक्ष्यते॥६॥
नाभिनन्दति चाऽऽहारं लाला चास्य प्रवर्तते॥
चक्षुरस्याविलं स्तब्धं नच वालेन वीजते॥७॥
सर्वगात्राणि सदिन्ति न च वायुः प्रपद्यते॥
न च मूत्रं पुरीषं वा आनद्धस्य प्रवर्तते॥८॥
पित्तं चास्य प्रवर्तेत श्लेष्मा रुधिरमेव च॥
सारिष्टमपि तं दृष्ट्वा कर्म कुर्यादतन्द्रितः॥९॥
एवं मदनजग्धं तु विदित्वा कुशलो भिषक्॥
ऋतुसात्म्यं वयो देशं ज्ञात्वा कुर्याक्रियाभिमाम्॥१०॥
गोमयेन प्रदेहोऽस्य कर्तव्यः कर्दमेन वा॥
शीतोदकावगाहश्च प्रवाते स्थापनं हितम्॥११॥
एवं क्रियासमाक्रान्तो यद्याना1000होन शाम्यति॥
दधिमण्डमुशीरं चपिष्ट्वा गौरांश्च सर्षपान्॥१२॥
तैर्निरूहस्तु दातव्यो योऽवगाहः प्रवर्तकः॥
शकृच्छुद्धौ निरूहेण शीतो1001बस्तिरनन्तरम्॥१३॥
पयो घृतं समधुकं क्षौद्रेण सह संसृजेत्॥
ततोऽस्मै दापयेद्बस्तिं कोष्ठनिर्वापणं हितम्॥॥१४॥
बदराण्यथ संक्षुद्य शर्कराचूर्णसंयुतम्॥
तमस्मै दापयेत्पिण्डमजाजीमरिचैर्युतम्॥१५॥
निर्वाणमेवं ल1002भते मूर्छा चास्योपशाम्यति॥
तस्मादनन्तरमिमान्कवलान्दापयेद्भिषक्॥१६॥
आम्रातकांस्तिन्तिडीकं कपित्थानां शिलाटुकम्॥
उदूखले क्षोदयित्वा शर्कराचूर्णसंयुतान्॥१७॥
तेनास्य मूर्छा श्वासश्च पिपासा चोपशाम्यति॥
हिङ्गुना सह संक्षुद्य मातुलुङ्गं सदाडिमम्॥१८॥
तस्मै प्रदापयेत्पिण्डं शर्करामधुसंयुतम्॥
तेनाऽऽध्मानं पिपासा1003 च वेपथुश्चोपशाम्यति॥१९॥
पियालार्जुनबीजानि द्राक्षाचूतफलानि च॥
आम्रातकं मातुलुङ्गं लकुचं पनसानि च॥२०॥
उत्तरोदकयुक्तानि संक्षुण्णानि उदूखले॥
शर्कराचूर्णसंसृष्टं पिप्पलीमरिचैर्युतम्॥२१॥
तस्मै प्रदापयेत्पिण्डं तदा स लभते सुखम्॥
यद्येवं स सुखी न स्यादिदमन्यत्समाचरेत्॥२२॥
खर्जूराण्यपनीपानि कुट्यांत्पारापतैः सह॥
तमस्मै दापयेत्पिण्डं शर्कराचूर्णसंयुतम्॥२३॥
सुमना भवति ह्यष आरोग्यं च नियच्छति॥
यदा मनःस्थितः स्वस्थः कर्णवालकरोभवेत्॥२४॥
प्रसन्नचक्षुराहारं यथावदभिनन्दति॥
ततोऽस्मै मदिरा देया तरुणा दोषवर्जिता॥२५॥
शर्कराचूर्णसंसृष्टा विधिवत्प्रतिपानिका॥
पञ्चभिलवणैर्युक्ता प्रतिपानं विपश्चिताम्॥२६॥
यद्येवं स सुखी न स्यादिदमन्यत्समाचरेत्॥
शृङ्गवेरं ह्यतिविषा पिप्पली कटुरोहिणी॥२७॥
समभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत्॥
प्रसन्नयाऽतिसंयोज्य शर्कराचूर्णसंयुतम्॥२८॥
देयमेतत्प्रतीपानं क्षिप्रमेव सुखी भवेत्॥
वातानुलोमनं ह्येतद्रक्तपित्तमसादनम्॥२९॥
श्लेष्मप्रसादनं चैव विशुद्धं तु प्रमेहति॥
कषायं क्षीरवृक्षाणां भोजयेद्वारणं ततः॥३०॥
पिशितेन शशानां च वेसवारं प्रकल्पयेत्॥
हस्तश्रवणवालैश्च यदा व्यजति वारणः॥३१॥
ततोऽस्मै भोजनं दद्याद्धितं प्राणाय बृंहणम्॥
लावतित्तिरिमांसानि साधयेत्तण्डुलोदके॥३२॥
ततो रसमवश्रा(स्रा)व्य धूपयेद्घृतमात्रया॥
पिप्पलीशृङ्गवेरेण प्रसन्नां मरिचैर्युताम्॥३३॥
दाडिमीफलसारेण सौवर्चलसमन्वितम्॥
संयुक्तं लवणं कृत्वा रसमस्मै प्रदापयेत्॥३४॥
शालीनां च पुराणानां षष्टिकानामथौदनम्॥
भोजयेत्तं यथाकालं तथा स लभते सुखम्॥३५॥
अथाऽऽसवादिमद्यं च तद्द्विपं प्रतिपाययेत्1004॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥ ३६ ॥ ११२१ ॥
‘इति श्रीपालकाप्ये गजायुर्वेदे वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने मदनजग्धको नाम तृतीयोध्यायः॥३॥
<MISSING_FIG href="../../../books_images/U-IMG-17046998421-removebg-preview(2"/>.png)
अथ चतुर्थोऽध्यायः।
_____________
** ** अथाङ्गाधिपतिरभिवाद्योवाच भगवन्तं पालकाप्यम्—‘भगवन्यः प्राक्संग्रहे दृष्टस्तृणशोषी नाम व्याधिः, स कथं भवति, कथं स साध्यते॥
ततः प्रोवाच भगवान्पालकाप्यः—इह खलु भो(स्) तृणशोषी नाम संभवति रूक्षस्य मन्दाग्रेर्गर्हितयवसोपयोगात्, वाहितानामतिमात्रोपयोगात्।
तद्यथा—काकादनानीलीक्षिपीलु1005ककालालाङ्गलकीशुकनासानां भक्षणात्, भल्लातकफलानांसविषकवलकुवलपल्लवोपयोगात्, सविषवल्लीतृणगुल्मपत्रलताप्रतान1006भक्षणाद्वा, अथवा सविषोरगकीटसंस्पर्शनात्, तल्लालाश्वासमूत्रपुरीषोपहत(*तृणानां1007 परिचारकाज्ञानेन भोजनाद्वा, नानाविधकीटसंस्पर्शदोषोपहत)संस्थानविधिभिः परिचारकाज्ञानादभोजनाद्वा॥
स विवर्णःप्रक्षीयमाणबलजवशरीरः श्वासी विजृम्भते, आध्मायते, शूल्यते, च विह्वलति स्तब्धशूनपक्वजिह्वोष्ठसृक्वताम्राक्षः परिशूनान्तनयनः श्लेष्मप्रसेकवान्, तस्य प्राक्छार्दिःप्रवर्तनात्प्रजायते शोकश्च। स दुश्चिकित्स्यो भवति। कोऽस्यहेतुः—शोषच्छर्दिषी मृदू1008चिकित्स्ये भवतः। विपरीते अन्यथा॥
अतः संस्निग्धमधुरकषायैः कवलकुवलयवसोपचारैरुपचरेद्भिषक्।अपि च—पिप्पलीशृङ्गवेररोध्राम्बष्ठाप्रियङ्गुपद्मकसमङ्गाधातकीपुष्पाशोकरोहिणीकसेरुकाश्चक्षोदयित्वा मधुना संयोज्य (⁺कवलान्भो1009जयेत्। तन्दुलीयकमूलाधारग्वधशिरीषोरुबूकजीवन्तिकानि च क्षोदयित्वा मधुना संयोज्य) कवलान्दद्यात्। श्लेष्मान्तकारग्वधत्वङ्मूलफलपुष्पपत्राणि तन्दुलीयकमूलारग्वधोदुम्बराणां निष्क्वाथं तन्दुलोदकसंयुक्तं पाययेत्। सल्लकी च मुस्ताञ्जनोशीरचन्दनैर्गोमयसंयुक्तैः प्रलेपः, गोमयेन च। कुटजफलहरिद्रानक्तमालसप्तपर्णीपिप्पलीसर्षपसुगन्धार्धभागयुक्तानि चूर्णं कृत्वा मुखं संमार्जयेत्। प्लक्षन्यग्रोधाश्वत्थकर्णिकारशल्लकीनां पल्लवानि भोजयेत्। अनुक्तानामप्येवंप्रकाराणां वृक्षपत्रभङ्गान्भोजयेत्। तृणशोषिप्रशमनार्थं भोजनं शाल्योदनं मुद्गयूषेण घृतस्निग्धेन रसेन वा दद्यात्॥
तत्र श्लोकः—
उत्पद्यमानमेवाऽऽदौ तृणशोषिणमुद्धरेत्।
सोपद्रवोऽतिवृद्धो हि दुश्चिकित्स्यतमो भवेत्॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने चतुर्थस्तृणशोषी नामाध्यायः॥४॥
<MISSING_FIG href="../../../books_images/U-IMG-17047006991-removebg-preview(2"/>.png)
अथ पञ्चमोऽध्यायः।
___________
अथातः कर्मातिनीतचिकित्सितमध्यायं व्याख्यास्यामः।
इति ह स्माऽऽह भगवान्पालकाप्यः। अथ यदा संयानो1010पस्थानवर्तनवधबन्धहस्तियुद्धनागरायणसां-ग्रामिककर्मयोगान्मूर्खमहामात्रापचाराद्वारणोऽतिमात्रं वाह्यते, सान्त्वनप्रतिलम्भनानि यदा योक्ता त्वरया कर्मलोभात्प्रमादाद्वा न प्रयच्छेत्,तदा वारणः कर्मातिनीतशो1011षेणाभिभूयते॥
स विवर्णच्छविर्विच्छिन्नभिन्नपुरीषमभीक्ष्णं च मूत्रं रक्ताभं समुत्सृजति, उत्साहतेजोबवलर्णोपहत-शरीरो भोजनयवसकवलपल्लवाभिनन्दी च न भवति॥
तस्यैवं कर्मातिनीतव्याधिजुष्टस्याऽऽदौ सर्वकर्मप्रतिषेधं कुर्यात्। यथाकालं चैनं कूलहरणं पांशु-प्रमथनकर्दमहरणादिषूत्सृजेत्। ततश्चैनं प्रफुल्लकुमुदो1012त्पलपद्मवानीरकन्दलीकदलीवालुकोपशोभित-पर्यन्तेषु हंसचक्रवाककुररकारण्डवबककलहंससारसानुनादिततीरेषु सूर्यांशुभिः संतप्तसलिलेषु सरःसु करेणुपरिवृतं यथाकाममवगाहयेत्। ततश्च *वृक्षगुल्मलतावगूढेषुवातसहितभूमिभागवनप्रदेशेषु1013 मदवशाभिर्वारणं यथोत्साहं प्रचारयेत्। मनःप्रसादनार्थं स्नेहदानविधिदृष्टेन चास्य विधिना स्नेहदानं कारयेत्। सुरां च सफाणितां दद्यात्। षष्टिकौदनं च ससर्पिष्कं भोजयेत्। यथाकालं यवसानि च मधुररसवीर्यविपाकान्यार्जवानि मत्स्यण्डिकागर्भाणि भोजयेत्। अभिनयप्रतिनये चास्य यथाकालं कारयेत्॥
तत्र1014 श्लोकः—
पयोनुपानैरसभोजनैश्च साध्यं तदा वृक्षगणप्रदानैः॥
उपक्रमेत क्रमशः प्रयत्नात्कर्मातिनी1015तं विधिवद्गजेन्द्रम्॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने कर्मातिनी1016तो नाम पञ्चमोऽध्यायः॥५॥
<MISSING_FIG href="../../../books_images/U-IMG-17047016191-removebg-preview(2"/>.png)
अथ षष्ठोऽध्यायः।
______________
आश्रमस्थमुपासीनं हस्तिशास्त्रविशारदम्॥
हुताग्निकमृषिश्रेष्ठं पालकाप्यं स्म पृच्छति॥१॥
उदके यवसे चैव प्रतिपाने च भोजने॥
स्नेहे क्षीरे शरीरे च लक्षणं विषदूषिते॥२॥
चिकित्सां चानुपूर्वेण भगवन्वक्तुमर्हसि॥1017
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत्॥३॥
नाज्ञातःप्रविशेच्छालांबालो वृद्धोऽथ भिक्षुकः॥
पाखण्डोन्मत्तबधिरा मत्तच्छन्दाश्च ये नराः॥४॥
व्याधितः क्षुद्रकर्मा वा यश्चान्यः1018 स्यात्तथाविधः॥
सर्वे ते प्रतिषेध्याः1019 स्युर्हस्तिशालाप्रवेशने॥५॥
शत्रुभिः संप्रयुक्तास्ते योजयेयुर्विषं द्विपान्॥
क्रोधाद्भयाच्च लोभाद्वा संप्रदानैश्च योजिताः॥६॥
विषं प्रदद्युस्ते पापा गजानां देहनाशनम्॥
भक्ष्यभोज्यान्नपानेषु धूपने व्यञ्जनेषु च॥७॥
माल्यचूर्णांश्च विविधान्विषदिग्धानुवासिवान्॥
अतः परं प्रवक्ष्यामि नरं पापं विषप्रदम्॥८॥
स्विद्यन्ति यस्य गात्राणि वेपथुश्चोपजायते॥
मुखं संशुष्यते चापि कृच्छ्राद्वाचं प्रपद्यते॥९॥
पृच्छ्यमानस्तृणं काष्ठं नखैर्दन्तैश्छिनत्त्यति॥
भूमिं विलिखते चापि सृक्वणी1020 लेढि चासकृत्॥१०॥
एतैर्लिङ्गैर्विजानीयान्नरं पापं विषप्रदम्॥
तस्माद्भक्ताञ्जितक्रोधानलुब्धांश्चानसूयकान्॥११॥
अनीकस्थान्महामात्रान्वैद्यांश्चापि नियोजयेत्॥
विधाय रसपानान्नस्थानानि च विंशां पते॥१२॥
शयनानि च नागानां तस्माद्गुप्तानि कारयेत्॥
सर्वतो ग्रासमुद्धृत्य बलिकर्म च कारयेत्॥१३॥
परीक्षेत विधां चैव ततः शास्त्रविशारदः॥
मार्जारवायसश्वभ्यः पिण्डं पूर्वं प्रदापयेत्॥१४॥
तत्र पश्येत्स्वरूपाणि यानि कुर्वन्ति दूषिताः॥
भग्नस्कन्धाः परवशा रक्तनेत्रा विचेतसः॥१५॥
लालाफेनाविलमुखास्तान्विद्युर्विषदूषितान्॥
विष्किरैः पिशितैर्दृष्ट्वाते न हृष्यन्ति बर्हिणः॥१६॥
मुखेन नकुलो हन्ति तथैव मृगपक्षिणः॥
काककङ्कबकानां च न रुचिः स्यात्पिके नृप॥१७॥
भोजनं स्याद्विवर्णं च मक्षिकाश्चापि मारयेत्॥
काकः क्षामस्वरं कुर्याच्चकोरोऽक्षि विरञ्जपेत्॥१८॥
दीप्ते हुताशने चापि पिण्डं वैद्यो विनिक्षिपेत्॥
तत्र पश्येत्स्वरूपाणि यानि कुर्यात्तु दूषितः॥१९॥
कृच्छ्रेण प्रज्वलत्यग्निः स्फुटं चिटचिटायते॥
अनिष्टधूमगन्धोऽग्निर्वामावर्तश्च जायते॥२०॥
मञ्जिष्ठाभोऽथ कृष्णो वा धूमपातोऽपि वा भवेत्॥
विषोपसृष्टमित्येवं धीरः समुपलक्षयेत्॥२१॥
उक्तमग्निगतं रूपं विषार्तानां च देहिनाम्॥
अथ तोयगतं रूपं दूषिते संप्रवक्ष्यते1021॥२२॥
काली तु यदि गौरस्य च्छाया श्यामाऽथवा भवेत्॥
गौरी कालस्य वा छाया तज्जलं विषदूषितम्॥२३॥
जन्तवो मत्स्यमण्डूका ये चान्ये जलचारिणः॥
तीरेषूद्वर्तिता यत्र तच्च तोयं प्रदूषितम्॥२४॥
स्नेहेदुग्धे च पाने च विषयुक्ते नराधिप॥
यानि रूपाणि दृश्यन्ते तानि वक्ष्यामि तत्त्वतः॥२५॥
स्नेहः कालस्तु भवति हरिता दृश्यते सुरा॥
श्यावं च जायते1022 दुग्धं विवर्णं च जलं भवेत्॥२६॥
उपनीतं यदा तोयं नीलं पश्येन्नराधिप॥
विषोपसृष्टमित्येवं धीरस्तदुपलक्षयेत्॥२७॥
उक्तंजले च पाने च स्रेहे क्षीरे च दूषिते॥
यवसस्यापि राजेन्द्र रूपाणीमानि लक्षयेत्॥२८॥
श्यावं दग्धनिभं1023 चैव यवसं यत्तु पार्थिव॥
विवर्णमथ दुष्टं वा क्लिन्नं वाऽपि तथा क्रमात्॥२९॥
एवंलक्षणसंयुक्तं यवसंन प्रदापयेत्॥
निश्वा1024सघ्राणनयनैः सर्पाणां दूषिते द्विपे॥३०॥
यानि रूपाणि दृश्यन्ते तानि वक्ष्याम्यतः परम्॥
शक्रगोपकसंस्थानाः काकाण्डकसमप्रभाः॥३१॥
स्फोटा भवन्ति शीर्यन्ते वारणस्य समन्ततः॥
श्यावपिच्छिलदुर्गन्धा नीलस्रावाः सुदारुणाः॥३२॥
छविर्विशीर्यते चैव रोमाणि च नखानि च॥
प्रवेपते च कोपेन1025 दृष्टिश्च परिहीयते॥३३॥
दह्यते च मुहुर्नागो निद्रा चैनं प्रबाधते॥
विकर्णे1026 हस्तप्रोहाभ्यां तथा भूमौ निषीदति॥३४॥
लिङ्गैरेतैर्विजानीयाद्विषार्तंवारणं बुधः॥
ततश्चैनां क्रियां कुर्याद्गजस्यविषनाशनीम्॥३५॥
कपित्थमूलं कुष्ठं च सरलं सारिवा मधु॥
एतदाले1027पनं श्रेष्ठं चूर्णं चविषदूषिते॥३६॥
अथ प्रक्षालनं चास्य व्रणानामपि वक्ष्यते॥
अर्जुनं वेणुपत्राणि शिरीषं ककुभं1028 धवम्॥३७॥
करञ्जंकरवीरं च सैन्धवं सिन्दुवा1029रितम्॥
क्षौद्रेण सह संसृज्य जलमिश्रेण युक्तितः॥३८॥
तेन शीतकषायेण क्षालपेद्दन्तिनो व्रणान्॥
बिल्वमध्यं शलाटुं1030 च कपित्थं शिग्रुपाटलम्॥३९॥
सरलं चैव कुष्ठं च हरितालं पुनर्भवम्॥
शिरीषस्य च पुष्पाणि मालतीतरुणानि च॥४०॥
एष *1031सर्वोत्तमः1032 श्रेष्ठो1031 वारणांस्त्रायते विषात्॥
वत्सनाभं सुनाभं च ईश्वरां गन्धनाकुलीम्॥४१॥
पिप्पलींशृङ्गवेरं च दद्यात्पोटगलं तथा॥
कालाभ्यां सह सर्वाणि समभागानि पेषयेत्॥४२॥
एष श्रेष्ठो भवेद्योगो वारणानां विषापहः॥
अविषं सविषं कुर्यात्सविषं चापि निर्विषम्॥४३॥
मरिचं मधुकं लोध्रं पिप्पल्यःकुष्ठमेव च॥
अजाक्षीरेण संयुक्तं मृदा चैव समन्वितम्॥४४॥
वृद्धानामथ दुष्टानामुपभुक्तविषाश्च ये॥
एषां योगोत्तमं दद्याद्वारिपिष्टं पृथक्पृथक्॥४५॥
एकं नृणामजानां द्वौ त्रीणि दद्यात्खरोष्ट्र्योः॥
अभ्यस्येच्च तथा गोलान्स्थूलामलकसंमितान्॥४६॥
आलानस्तम्भशयने मारुते चोत्तरोदके॥
प्रग्रीवपक्षपरयो रूपं पर्यन्तदूषिते॥४७॥
शोफः स्याद्रोमकूपेषु कण्डूर्गात्रेषु जायते॥
यं यं च भजते दैन्यं1033 छविस्तत्र विशीर्यते॥४८॥
एवं तस्य विषार्तस्य दृष्ट्वा रूपाणि दन्तिनः॥
इमं प्रदापयेद्योगं विषयुक्तस्य पार्थिव॥४९॥
दध्ना घृतसमायुक्तं गोमयं भोजयेदृि्वपम्॥
विषं कोष्ठगतं हन्याच्छीघ्रमेव तु दन्तिनः॥५०॥
ईश्वराङ्कंमरुक्षीरं हरिद्रे द्वे मृदं तथा॥
चन्दनं मेषशृङ्गींच पिचुमन्दं च संहरेत्॥५१॥
ततो जलविमृष्टं तु पापयेद्वारणं तथा॥
इत्येषा प्राणसंरक्षाऽभिहिता हस्तिनां पुरा॥५२॥
पालकाप्येन विधिवद्रोमपादाय पृच्छते॥
भूयोऽङ्गराज(:) पप्रच्छ पालकाप्यं विशेषतः॥५३॥
विषोपयुक्तदेहस्य वारणस्य द्विजोत्तम॥
साध्यासाध्यं चिकित्सां च ब्रूहि लक्षणमेव च॥५४॥
ततः श्रुत्वाऽङ्गनृपतेश्चतुरङ्गाधिपस्य तत्॥
वाक्यं विख्यातयशसः प्रत्युवाच ततो मुनिः॥५५॥
पूर्वोक्तैः कारणैर्नागो यदा युञ्जे(ञ्ज्या)द्विषे नृपः॥
लिङ्गैस्तदा विक्रियते सर्पदष्ट इव द्विपः॥५६॥
अक्षिणी चास्य रज्येते हनु विक्षिपते तथा॥
नेत्रे स्तब्धे भवेतां च तथा मन्ये च हस्तिनः॥५७॥
स्रस्तलाङ्गूलकर्णश्च स्रस्तहस्तश्च लक्ष्यते॥
कुर्वन्नदत्यभीक्ष्णं च मुहुरुद्विजते तथा॥५८॥
श्रो(स्त्रो)तोभ्यश्चास्य सर्वेभ्यो रुधिरं संप्रवर्तते॥
मक्षिकाश्चापि मातङ्गो नावकर्षति दुर्मनाः॥५९॥
यस्मिन्नेतानि रूपाणि सारिष्टानि महीपते॥
लक्ष्यन्ते विषयुक्तस्य न स जीवति तादृशः॥६०॥
यदा स्तम्भश्च जिह्वायाः शून्यत्वक्चोपजायते॥
बहुश्लेष्मप्रसेकश्च सघोषश्च प्रवर्तते॥६१॥
विष्टम्भयति हस्तं च स्यन्देते चाक्षिणी तथा॥
गच्छन्मुहुः प्रस्खलते क्रिया तस्य प्रवर्तते॥६२॥
मेषशृङ्गीशलाटूनि व्याधिघातमुदुम्बरम्॥
तन्दुलीयकमूलं च श्लेष्मान्तकांश्च दापयेत्॥६३॥
क्षुण्णान्येतानि सर्वाणि संसृजेत्तन्दुलोदके॥
(*तं1034 रसं मधुसंयुक्तं दापयेत्मसुखशीतलम्॥६४॥
कुटन्नटं तथोशीरं सरलं सैलवालुकम्॥)
चन्दनं कटभीमूलमञ्जनं सितपर्वकम्॥६५॥
गोमूत्रे गोमये चैनं वासयेदसकृन्नृप॥
तेन प्रलेपं नागस्य विषदग्धस्य कारयेत्॥६६॥
श्यामाकं कन्दली1035मूलं हरिद्रे द्वे च पेषयेत्॥
पाययेद्दधिसंयुक्तमुपयुक्तविषं द्विपम्॥६७॥
तगरं बदरीमूलं प्रियङ्गुंखदिरत्वचम्॥
तालीसपत्रं स्थूलैलां तथा द्वे तन्दुलीयके॥६८॥
बीजं ब्राह्मणिकायाश्च गुडं मच्छवसं हरेत्॥
सर्पिषा चैव दध्ना च क्षुण्णान्येतानि संसृजेत्॥६९॥
सक्तुभिः सह संयोज्य पिण्डं नागाय दापयेत्॥
श्रा(स्रा)वयेत्तिन्दुकक्षीरं निर्गुण्ड्याः क्षीरयोस्तथा॥७०॥
क्षीरं समधुसर्पिष्कं तं द्विपं प्रति पाययेत्॥
पलाशबीजं श्वेतां च गृहधूमं पूनर्नवाम्॥७१॥
अरिष्टकं प्रियङ्गुं च हरिद्रां शतकर्णिकाम्॥
शिरीषस्य च बीजानि तन्दुलीयकमेव च॥७२॥
गोमूत्रपिष्टान्येतानि पाययेत्सह सर्पिषा॥
संयुक्तं सक्तुभिः पिण्डं विषार्तं भोजयेद्द्गजम्॥७३॥
अनेन सर्पिषा चास्य नस्यकर्म विधीयते॥
द्वे हरिद्रे समञ्जिष्ठे तरुणानन्तपल्लवान्॥७४
E- 1
कवलस्तु प्रदातव्यो मधुगोपित्तसंयुतः॥
पृषतैणमयूराणां कुक्कुटानां च संस्कृतैः॥७५॥
रसैस्तं भोजयेन्नागं ससौवर्चलदाडिमैः॥
पित्तैः सशोणितैश्चैषां पिप्पलीमधुसंयुतैः॥७६॥
सविडङ्गैर्भवेत्कार्यमञ्जनं विषशान्तये॥
प्रादुर्भावो1036 विषस्यैष1037 त्रिविधस्य विशां पते॥७७॥
मूलजं दंष्ट्रजं चैव कृत्रिमं चेति पठ्यते॥
संस्कार्यस्य क्रिया(:) सम्यङ्मूलजस्य च कीर्तिताः॥७८॥
दंष्ट्रजस्य प्रवक्ष्यामि चिकित्सां लक्षणं तथा॥
सर्पदष्टे नरश्रेष्ठ यथावत्प्रविभागशः॥७९॥१२००॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने विषपरीक्षाध्यायः षष्ठः॥६॥
<MISSING_FIG href="../../../books_images/U-IMG-17046450191-removebg-preview(2"/>.png)
अथ सप्तमोऽध्यायः।
_________
जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्रिवातातपशोषितं वा॥
स्वभावतो वा गुणविप्रहीणं विषं हि दूषीविषतामुपैति॥१॥
अपकृष्टं गुणं पश्चात्स्वभावाद्धेनु(तु)तोऽपि वा॥
तद्विषं विषतत्त्वज्ञैर्दूषीविषमिति स्मृतम्॥२॥
दूषितं देशकालान्नदिवास्वप्नातिभोजनैः॥
यस्माद्दूषयते धातुं तस्माद्दूषीविषं स्मृतम्॥३॥१२०३॥
दूषीविषार्त इति* ………………………………………….
……………………………………………………………….॥1038
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने सप्तमो दूषीविषनामाध्यायः॥७॥
_______________
अथाष्टमोऽध्यायः
__________
यथा यथा हि देशस्थं विषं भवति दन्तिनः॥
तथा तथा भवत्येष दुश्चिकित्सो विशेषतः॥१॥
न मुखं त्वग्गते वीर्यं विषं भवति दन्तिनः॥
सिरास्नाय्वस्थिमांसेषु संधौचातिबलं भवेत्॥२॥
तस्मानातिप्रविसृते विषे कुर्याच्चिकित्सितम्॥
तेषां विषेण दुष्टानां धातूनां लक्षणं शृणु॥३॥
कठिना भिन्नरोमा च त्वक्प्राप्ते लक्ष्यते छविः॥
काये तु शोफः कठिनो मांसप्राप्ते सवेदनः॥४॥
सिरागते ग्रन्थयः स्युः संस्पर्शेन सुखायते॥
स्नायुप्राप्ते विषे स्तम्भो गात्राणामुपजायते॥५॥
पतत्यस्थी1039नि संप्राप्ते मज्जस्थे तु सुदुर्मनाः॥
विवृताः संधयश्च स्युः सर्वसंधिगते विषे॥६॥
शिरः प्राप्तं गच्छेत्कोष्ठं कोष्ठाद्गात्राणि गच्छति॥
एवं तदनुपूर्वेण सर्वान्धातूनवाप्नुयात्॥७॥
तस्माद्दश1040स्थानगतं विषं मारयति द्विपम्॥
विस्मितस्तु ततो भूयो नृपतिः पृष्टवान्द्विजम्1041॥८॥
यथा विषं मारयति यथा चैव निवर्तते॥
स्थाने स्थाने यथा रूपं भगवान्व्याकरोतु मे॥९॥
पालकाप्यस्ततो भूपमङ्गराजं दयान्वितः॥
उपद्रवास्तु ये तेषां शृणु वेगान्तराणि च॥१०॥
तथैव देहमासाद्य प्राणान्हरति दन्तिनः॥
विषं पीतं तथा लीढं भक्तेस्नेहे तथाऽक्षते॥११॥
तथा सर्वेषु गात्रेषु प्रयुक्तं स्पर्शकर्मणि॥
क्षणेन क्षतमासाद्य देहे विकुरुते विषम्॥१२॥
तन्मारयति भूतानि पश्यतामेव भूमिप॥
*सप्तवेगमहाराज काश्यपेन प्रकीर्तितः1042॥१३॥
वारणेषु1043 तु दृश्यन्ते त्रय एवहि केवलम्॥
अन्तःस्वेदा निसर्गेण तैजसाश्च य1044यतस्ततः॥१४॥
त्रिष्वेव विनिपात्यन्ते चतुर्थं नाऽऽप्नुवन्ति च॥.
तस्मात्तेषां त्रयो वेगाश्चतुर्थो नोपपद्यते॥१५॥
स्वेदक्लिन्नानथो दृष्ट्वासेन्द्रान्देवगणान्पुरा॥
अन्तःस्वेदः कृतश्चापि वारुणेन महात्मना॥१६॥
तेषां विषेण दुष्टानां वेगानां लक्षणं शृणु॥
प्रथमे विषवेगे तुवारणे लक्षणं भवेत्॥१७॥
निद्रा प्रबाधतेऽत्यर्थंमुखेन निपतत्यपि॥
द्वितीयं विषवेगं तु जानीयाल्लक्षणैरतः॥१८॥
निषीदत्यपराभ्यां तु प्रोहाभ्यां प्रपतत्यपि॥
तृतीयस्य प्रवक्ष्यामि वेगस्य नृप लक्षणम्॥१९॥
विह्वलीभूतसर्वाङ्गो वारणः प्रपतेद्भुवि॥
पक्षात्पक्षमजस्रं तु मेघवद्बृंहते द्विपः॥२०॥
एभिर्लिङ्गैर्विजानीयाद्विषदृप्तं मतङ्गजम्॥
एवं खलु महाराज ये ये वेगाः प्रकीर्तिताः॥२१॥
तेषां विषेण दुष्टानां साध्यानां साधनं शृणु॥
स्वद्योतानिन्द्रगोपांश्च गजातारवितारकैः॥२२॥
कपिलायाश्च गोः पित्तं गोविषाणे निपातयेत्॥
तेन भेरीपताकाश्च ध्वजाग्राणि च लेपयेत्॥२३॥
वाद्यान्यन्यान्यपि1045 क्षिप्रं प्रलिप्तान्यथ घातयेत्॥
दष्टाश्च विषपीताश्च विषविद्धाश्च वारणाः॥२४॥
निशम्य वादनं चैषां दृष्ट्वा *तां स्वस्फनिर्विषाः(?)1046॥
शिरःस्नातो भिषग्वाऽपि स्वस्ति वाच्य द्विजोत्तमान्॥२५॥
दर्भाञ्शुष्कान्हरितकान्निःस्वाग्रांश्च चिकित्सकाः॥
तान्दक्षिणेन हस्तेन गृहीत्वा सुसमाहितः॥२६॥
इमं हि सुमनास्तूष्णीं कृत्वा ब्राह्मणवाचनम्॥
प्रोदाहरेन्मन्त्रवरं पूर्वोद्दिष्टं स्वयंभुवा॥२७॥
वासुकिस्तक्षकञ्चैव विषमुग्रं हरन्तु ते॥
अनन्तश्चैव भगवान्विषं हरतु से स्वाहा॥२८॥
जले रुद्रो जले ब्रह्मा जले ब्रह्म सनातनम्1047॥
जले वायुश्च सोमश्च निर्विषो भव कुञ्जर स्वाहा॥२९॥
मन्त्रैर्हृत्वा विषं तस्य वारणस्य चिकित्सकः॥
एतेषां तु यथालाभं पशूनां कारयेद्रसम्॥३०॥
नकुलानां वराहाणां पृषतानां च युक्तितः॥
भक्षयित्वाऽथ मांसानि विषिणो भक्षयन्ति ये॥३१॥
औषधानि भिषक्तेषु शीघ्रमेवातिसंहरेत्॥
पिप्पल्यो मरिचाश्चैव कल्पमैद्य(?)वृतं मधु॥३२॥
गोमयस्य रसेनैव भावयेन्मतिमान्भिषक्॥
सुस्निग्धमेतद्रसकं विषदुष्टं मतङ्गजम्॥३३॥
कदुष्णं पाययेदेनं तेन संपद्यते सुखी1048॥
अनेनैव च1049 मांसेन भोजयेद्वारणं भिषक्॥३४॥
पीत्वा तु1050 रसकं नागस्तेजस्वी बलवान्भवेत्॥
न विषान्मरणं तस्य यदि जुष्टो महाविषैः॥३५॥
सर्वंविषं विषहते पीते तद्रसके गजः॥
विषेण दूषितं नागं तैलं दूराद्विवर्जयेत्॥३६॥
पानेऽभ्यङ्गे तथा नस्ये घृतमेव प्रशस्यते॥
अत ऊर्ध्वं क्रिया यस्यनिखिलेन प्रशस्यते॥३७॥
शीते पद्मह्रदे नागं दष्टं क्षिप्रं विगाहयेत्॥
अयं विषघ्नो दातव्यः पिण्डस्तस्मै चिकित्सकैः॥३८॥
द्वे हरिद्रे वचा चैव पिप्पली मरिचानि च॥
द्वौ करञ्जौ सठी चैव बलामतिबलामपि॥३९॥
एतत्संहृत्यसंभारं गव्यं श्रेष्ठं च यद्घृतम्॥
बस्तमू1051त्रेण तत्सर्वं क्षोदयित्वा विचक्षणः॥४०॥
अजानामथवाऽवीनां रक्तं क्षिप्रमुपार्जयेत्॥
रक्तद्वयेन तं पिण्डं भोजयेद्वारणं भिषक्॥४१॥
पिण्डेन तेन नागस्य विषं क्षिप्रं प्रणश्यति॥
प्रलेपश्चास्य कर्तव्यः पद्मिनीमृत्तिकावृतैः॥४२॥
इति1052 प्रलेपः प्रथमो द्वितीयः संप्रवक्ष्यते1053॥
चन्दनं तगरोशीरं शिरीषस्य तु पल्लवाः॥४३॥
पानं पिण्डमजाक्षीरे विषघ्नं स्यात्प्रलेपनम्॥
शीतलेन जलेनाथ संयुक्तं परिषेचनम्॥४४॥
मधुराः क्षीरिणश्चैव कषाया ये च पादपाः॥
तेषां त्वचः क्वार्थायित्वा श्रेष्ठं स्यात्परिषेचनम्॥४५॥
सिद्धकं राजवृक्षश्च शुष्ककं पारिभद्रकम्॥
पाटलामश्वकर्णं च सोमवल्कं तथा धवम्॥४६॥
वृक्षानेतान्समाहृत्य क(का)ण्डशःसंप्रलेपये1054त्॥
समभागांस्ततः कृत्वा दहेदग्नौविचक्षणः॥४७॥
तद्भस्म ह्युपशान्तेऽग्नौ स्वनुगुप्तं निधापयेत्॥
प्रतीवापश्च1055 कर्तव्यो भस्मन्यस्मिन्नयं गणः॥४८॥
त्रिफलां त्रिकटुं चैव पञ्चैव लवणानि च॥
समभागानि सर्वाणि भस्मन्यस्मिन्समाचरेत्॥४९॥
एष क्षारोऽगदः श्रेष्ठो नारायणमतः शुभः॥
स्थावरं जङ्गमं चैव विषं हन्ति गजस्य तु॥५०॥
यथा हि पद्मिनीपत्रे तोयबिन्दुर्न तिष्ठति॥
एवमत्रागदे दत्ते मधुसर्पिःसमन्विते॥५१॥
न तिष्ठति विषं देहे सर्वथाऽपि च यद्भवेत्॥
त्रिकटुं त्रिफलां चैव पञ्चैव लवणानि च॥५२॥
रसशुक्तसमायुक्तं विषसुप्तप्रबोधनम्॥
त्रिवृता शृङ्गवेरं च शिखिपित्तसमायुतम्॥५३॥
अञ्जनं प्रवरं दिव्यं विषसुप्ते मतङ्गजे॥
कुङ्कुमागुरुसंयुक्तं नागपुष्पं सकेसरम्॥५४॥
उत्पलानि च मुख्यानि दद्यात्कुमुदमेव च॥
आलेपो विषदुष्टानां द्विपानां विषनाशनः॥५५॥
मृद्वीका शर्करा चैव खर्जूराणि तथा मधु॥
तर्पणोदकसंयुक्तं द्विपानां विषनाशनम्॥५६॥
विषIघ्नानि प्रवक्ष्यामि मांसानि मनुजाधिप॥
विषाणां यानि चोक्तानि अविरुद्धानि नित्यशः॥५॥
कोकिलाश्च बलाकाश्च वर्तकाः1056 सकपिञ्जलाः॥
कपोता वर्धमानाश्च ऊर्ध्वगाश्चैव ये खगाः॥५८॥
मयूरतित्तिरिलावाः पञ्चैव मनुजाधिप॥
अर्कानिलहता नित्यं विरुद्धगमनास्तथा॥५९॥
तस्मात्ते भोजने राजोन्विषाणां समुदाहृताः॥
विषस्य प्रथमे काले जाङ्गलानि समाहरेत्॥६०॥
शीतलानि च सेवन्ते ये चोष्णानि तथा मृगाः॥
मध्ये साधारणा राजन्विषाणां समुदाहृताः॥६१॥
विषस्य पश्चिमे काले संप्राप्ते प्राणनाशने॥
विषं तु हृदये येषां रक्तं च कलुषीकृतम्॥६२॥
सदा न जायते रक्तं मारुतेन समाहितम्॥
तेभ्यस्तु मत्स्यमांसानि वाराहाणि च दापयेत्॥६३॥
अदनानि तु वक्ष्यामि विधिवत्तेन भूमिप॥
शालयः षष्टिका ब्रीहियवगोधूममेव च॥६४॥
आहारार्थं विधीयन्ते गजानामिह नित्यशः॥
शारदाश्चैव ये मुग्दाःशालीनां तन्दुलास्तथा॥६५॥
सुखिन्नमेतद्द्वितयं ततः समवतारयेत्॥
तद्भक्तं संसृजेत्सर्वं संयोज्य हविषा ततः॥६६॥
बस्तमू1057त्रमजाक्षीरं शर्करां च रसाञ्जनम्॥
एवं घृतेन संयुक्तं क्वथितं पद्मिनीजलम्॥६७॥
एतद्भक्ते च पाने च दापयेत्सविषे गजे॥
अतः परं प्रवक्ष्यामि तन्मे निगदतः शृणु॥६८॥
चन्दनं तगरं चैव त्वगेलापत्रमेव च॥
प्रियङ्गुनागपुष्पं च मांसी कुष्ठं सपद्मकम्॥६९॥
कुङ्कुमंच मृणालं च मुस्तां स्पृक्कां शताह्वयाम्॥
ससितां सुरसां हिङ्गु हरितालं मनःशिलाम्॥७०॥
अष्टौ सिद्धार्थमुस्ताश्च विंशतिश्च हरेणुकाः॥
रोचना हरिवेरं च कुटंनटमथापि वा॥७१॥
कन्यायाः पुष्पयोगेन पेष्टव्या वारिणा सह॥
क्षणात्सर्वं विषं हन्ति सर्वपापप्रणाशनः॥७२॥
रक्षोघ्नः पुष्टिकामस्य सदा चन्द्रोदयः स्मृतः॥
आर्द्रस्य वेणोस्त्वक्चापि बीजं चाथ करञ्जयोः॥७३॥
मध्यमं च कपित्थस्य कुङ्कुमं चाञ्जनं तथा॥
शिरीषपुष्पं दशमं गोपित्ते निप्रदापयेत्॥७४॥
अश्लेषाज्येष्ठयोः कार्यो ह्यगदः कालको भवेत्॥
कारयेद्गुटिकां प्राज्ञः शृणु चास्य प्रयोजनम्॥७५॥
नस्यकर्मणि नागानां युञ्जीताऽऽलेपने भवेत्॥
सर्पाणां राजिलानां च विषं मण्डलिनां च यत्॥७६॥
गूढगर्भा करेणुर्या तस्या योनिंप्रलेपयेत्॥
आलेप्य वा गुदं वाऽथ गुदे वर्तिं प्रवेशयेत्॥७७॥
ततः प्रसूयते क्षिप्रं हस्तिनी क्रिययाऽनया॥
न हन्यादुपयुक्तस्तु *…………………………॥७८॥1058
…………………………………………………….1058॥
…………श्लक्ष्णीकृतानेता1059न्व्यधस्था1060नेषु योजयेत्॥७९॥१२८२॥
इति श्रीपालकाप्यमुनिविरचिते हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेऽष्टमोऽध्यायः॥८॥
________________
अथ दिग्धविद्धो नाम नवमोऽध्यायः।
_________________
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति।
दन्तिनो दिग्धविद्धस्य किं कार्यमुपलक्ष्यते॥१॥
चिकित्सां चाऽऽनुपूर्व्येण भगवन्वक्तुमर्हसि॥

दन्तिनो दिग्धविद्धस्य चिराच्छ्र(त्स्र)वति शोणितम्॥
विद्धोविवर्णोभवति शोणितं च विवर्धते॥३॥
लाला प्रवर्तते चास्य चक्षुषा च न पश्यति॥
शोफोऽस्य मृदुनिम्नेषु1061 प्रदेशेषु विवर्धते॥४॥
गजस्य दिग्धविद्धस्य द्वयमेतत्प्रकीर्तितम्॥
तस्य कर्म प्रवक्ष्यामि यथा संपद्यते सुखी॥५॥
गात्रापरपरिक्षिप्तं नागं कृत्वा सुयन्त्रितम्॥
शल्यमुद्धृत्य नागस्य शोधनं तस्य कारयेत्॥६॥
सेचयेद्वारिणा वेधं प्रदेहैश्च प्रदेहयेत्॥
त्वचमामलकीनां च खदिरस्य धवस्य च॥७॥
समभागं ततः कुर्यात्समाहृत्य पृथक्पृथक्॥
खण्डशः कल्पयित्वा वै क्वाथयेद्दिव्यवारिणा॥८॥
एतत्क्वाथं परिश्रा(स्रा)व्य भेषजानि समावपेत्॥
सोमवल्कं वचां श्वेतामोदकीपाटलां तथा॥९॥
आस्फोतां वारुणीमूलं पयस्यां मधुकं यवान्॥
तथैवोत्पलकन्दाश्च भागाः स्युः कर्षसंमिताः॥१०॥
यथा जातः प्रदेहः स्यात्तदैनमवतारयेत्॥
एवं सुशीतलं कृत्वा विधं तस्यानुलेपयेत्॥११॥
विषं हन्ति महीपाल क्षिप्रं च सुखमाप्नुयात्॥
अथातः संप्रवक्ष्यामि विषप्रशमनं हितम्॥१२॥
चतुर्द्रोणे तु पयसि भेषजानि समावपेत्॥
पयस्या क्षीरकाकोली अमृता द्वे च सारिवे॥१३॥
श्वेता च मुद्गपर्णी च माषपर्णी मृणालिका॥
कसेरुका ह्यनन्ता च जीवकर्षभकावु1062भौ॥१४॥
कपिकच्छूस्तथा देया पिप्पली च महीपते॥
उदुम्बरसमं कल्कं कारयित्वा पृथक्पृथक्॥१५॥
तोयं दशाढकं दत्त्वा सर्पिषश्चाऽऽढकं तथा॥
आढकं शर्करायाश्च ततो मन्दाग्निना पचेत्॥१६॥
यदोपयुक्ततोयं स्यात्तदैनमवतारयेत्॥
सुशीतलमिदं कृत्वा पानं दद्याद्विषापहम्॥१७॥
त्वचावुभे समानीय विदुलस्यार्जुनस्य च॥
क्षीरिणां पादपानां च कोविदारकदम्बयोः॥१८॥
एतत्प्रकीर्तितं1063 सर्वंततो निशि निवासयेत्॥
ततः प्रक्षालयेद्वैद्यो व्रणं शस्त्रेण शोधितम्॥१९॥
उभे हरिद्रे मञ्जिष्ठां मधूकं तगरं तथा॥
हरीतकीं प्रियङ्गुं च नाकुलीं कदरीं1064 तथा॥२०॥
गोपित्तं च समांशानि सूक्ष्मचूर्णानि कारयेत्॥
एष चूर्णागदः श्रेष्ठो गजानां व्रणरोपणः॥२१॥
एतैरेव पुनः स्वाङ्गैर्यथोक्तैः साधयेद्घृतम्॥
एतदभ्यञ्जनं दद्याद्गजानां व्रणरोपणम्॥२२॥
अथ दिग्धेन विद्धस्य व्रणः पुष्यति दन्तिनः॥
गतिर्गृह्णा1065ति दूरं च जायन्ते ग्रन्थयोऽधिकाः॥२३॥
मांसानि च प्रहृष्यन्ति दन्तिनो विषवेगतः॥
तत्र कर्म प्रवक्ष्यामि येन संपद्यते सुखी॥२४॥
आमं विदाह्यमानं वा विषादि पक्वमेव वा॥
रोहन्तं निर्विकारं वा लिङ्गैरेतैर्विनिर्दिशेत्॥२५॥
सवर्णं कठिनं कोष्णं भारिकं मन्दवेदनम्॥
आध्मानं सुस्थिरं स्निग्धमाममित्यभिलक्षयेत्॥२६॥
विवर्णं नातिकठिनं सोष्म वेदनयाऽन्वितम्॥
विदह्यमानं जानीयाल्लिङ्गैरेतैर्विचक्षणः॥२७॥
आमे विदह्यमाने च प्रच्छन्नं कारयेद्बुधः॥
जलौकालाबुशृङ्गैर्वा शोणितं मोक्षयेत्ततः॥२८॥
आध्मानममृदु स्निग्धं गुरु चोष्णं सवेदनम्॥
अपक्वंतु भिषग्विद्यात्तत्र शस्त्रं न पातयेत्॥२९॥
शीतलं शीर्णरोमाणं मृदुं पाण्डुमवेदनम्॥
सुपक्वमभिविज्ञाय तत्र शस्त्रं निपातयेत्॥३०॥
शास्त्रकर्म यथोक्तंतु यथाशास्त्रं समाचरेत्॥
छेद्यं भेद्यं च वेध्यं च विश्रा(सा)व्यं लेख्यमेव च1066॥३१॥
एतत्सर्वं भिषक्कुर्याद्विषार्तानां तु संनिधौ॥
तद्वैद्यश्चेन्न विद्येरन्यथाशास्त्रं1067 समाचरेत्॥३२॥
एषण्या तु समन्वेष्य गतिर्यत्राऽऽश्रिता यथा॥
पदं कुर्याद्यथोद्दिष्टं यथा दोषो न तिष्ठति॥३३॥
व्रणे तु पूतिमांसानि मण्डलाग्रेण शोधयेत्॥
शुद्धं व्रणमदुर्गन्धमविवर्णमवेदनम्॥३४॥
उत्तानं स्थिरमन्तेषु प्रस्तब्धं च नराधिप॥
शून्यं श्वयथुदाहाम्यां निर्विकारं विनिर्दिशेत्॥३५॥
दिग्धेनाभिह1068ते नागे तथोष्ट्रखरवाजिनाम्॥
व्रणं बुध्येत मेधावी गोषु चाश्वतरेषु च॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः॥३६॥१३१८॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने1069 दिग्धविद्धो नाम नवमोऽध्यायः॥९॥
<MISSING_FIG href="../../../books_images/U-IMG-17046091171-removebg-preview(2"/>.png)
अथ दशमोऽध्यायः।
_____________
अङ्गो हि राजा चम्पायां सुमनस्कं महामुनिम्॥
विनयेनोपसंगम्य पालकाप्यं स्म पृच्छति॥१॥
दुष्टाश्च विषपीताश्च दूषिताश्च मतङ्गजाः॥
संग्रामे दिग्धविद्धाश्च विषवेगप्रपीडिताः॥२॥
एवंविधाश्च ये केचित्प्रोच्यन्ते हस्तिनो द्विज॥
सर्वेषां सविषाणां तु चिकित्सां वक्तुमर्हसि॥३॥
तस्यतद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत्॥
पञ्चभिः कारणैः सर्पा दशन्ति पृथिवीपते॥४॥
वक्ष्याम्युद्देशमात्रेण तद्ग्राह्यमनुमानतः॥
दशन्ति कुपिताः केचित्केचिदाहारकाङ्क्षया॥५॥
भीताः केचिद्दशन्त्याशु केचिदन्ये यदृच्छया॥
मृत्युभूता दशन्त्यन्ये विधानविहितान्गजान्॥६॥
त्रिविधं दष्टरूपं तु भुजङ्गेषु प्रकीर्तितम्॥
दष्टं दष्टनिपीतं च1049दष्टोद्वृत्तं तथैव च॥७॥
दष्ट्वा1070 तु कश्चिद्भुजगो व्यपक्रामति वेगतः॥
संक्रामेद्विषभागस्तु दष्टं तत्तु विनिर्दिशेत्॥८॥
दष्ट्वा1070 तु सर्पो यस्तत्र पिबेदङ्गनि1071पीडितम्॥
दष्टं तत्त्वनुबो1072द्धव्यं विषभागस्तु संचरेत्॥९॥
दष्ट्वायदि विलम्बी स्यान्निपीतमिति तत्स्मृतम्॥
विषस्य भागौद्वावत्र अर्धभागश्च संचरेत्॥१०॥
दष्ट्वाभृशं तु यः सर्पः क्षिप्रमेव प्रवर्तते॥
दंष्ट्रापातनिषेकेण कुरुते यत्र मोक्षणम्॥११॥
दष्टमुद्वर्तितं विद्यात्तत्र भागत्रयं व्रजेत्॥
मात्राणां शतमात्रं तु तिष्ठन्त्यादंशमाश्रितम्॥१२॥
ततः शरीरे क्रमते विषं वायुरिवाम्बरे॥
न ह्यत्र विहितं किंचित्सुखं दुःखं शरीरिणाम्॥१३॥
तेषां तु खलु सर्वेषामुपसर्गः पृथग्विधः॥
वक्ष्याम्युद्देशमात्रेण तद्ग्राह्यमनुमानतः॥१४॥
चतुर्विधास्तु निर्दिष्टाः पन्नगा1073 मुनिना पुरा॥
दर्वीकरा मण्डलिनो राजिलास्तु पताकिनः॥१५॥
तेषां रूपाणि वक्ष्यामि वीर्यं चैव पृथक्पृथक्॥
दर्वीकरा महाभोगा दीप्ताग्निसमतेजसः॥१६॥
शीघ्राःफणक1074राश्चण्डाः कृष्णसर्पादयः स्मृताः॥
क्षिप्रमेषां विषं काये कक्षाग्निरिव वर्धते॥१७॥
वातिकं तु विजानीयाद्विषं दंष्ट्राश्रितं भिषक्॥
प्रशाम्यति तु तत्क्षिप्रं मन्त्रैरन्यैस्तथौषधैः॥१८॥
तद्धि सत्यं विषं प्राहुः समर्यादं मनीषिणः॥
अफणा मण्डलैश्चित्रैर्ये तु केचिद्भुजंगमाः॥१९॥
एणीपदादयः सर्वे ते तु मण्डलिनः स्मृताः॥
तेषां मन्दं विषं भूत्वा ततो भवति दारुणम्॥२०॥
तत्र मन्त्रौषधैर्यत्नात्पैत्तिकं बाध्यते विषम्॥
अफणा दर्शनीयाश्च दीर्घराजिभिरावृताः॥२१॥
श्वेतगन्धादयः सर्वे राजिलाःकीर्तिता नृप॥
विषं न वर्धते तेषां विषमं चोपलभ्यते॥२२॥
राजिलानां भुजङ्गानां विषं श्लेष्ममयं भवेत्॥
अफणास्त्वेकवर्णाश्च पन्नगा ये पताकिनः॥२३॥
राजिमद्भिः समं तेषां विषं समवतारयेत्॥
एषामन्योन्यसंसर्गात्प्रविभागाद्विशेषतः॥२४॥
जायन्ते पन्नगाः सर्वे ते च कृच्छ्रतमाः स्मृताः॥
आदंशेनैव जानीयात्सर्पदष्टं मतङ्गजम्॥२५॥
निमीलयति नेत्रे च व्रजन्गात्राणि कर्षति॥
अक्षिकूटे च वर्धेते वर्त्मनी चापि दन्तिनः॥२६॥
चिरं क्षतानि चाप्यस्य स्फटन्ति सहसा नृप॥
निषीदत्यपराभ्यां च प्रोहाभ्यां प्रपतत्यपि॥२७॥
स्तम्भे बद्धस्तु मातङ्ग आलानेन दृढेन च॥
उद्बध्नाति च दुःखार्तोदंशदेशं स्पृशत्यपि॥२८॥
मन्दं भोजनमश्नाति यवसं मन्दमेव च॥
अधोगता भवत्यस्य दृष्टिर्नागस्य पार्थिव॥२९॥
दर्वीकरापदष्टानामेतद्भवति लक्षणम्॥
अथ मण्डलिदष्ट1075स्य शृणु रूपं नराधिप॥३०॥
परिशुष्येद्यदा दंशो धूप्यते परिदह्यते॥
निद्रा बलवती यस्य कम्पते च पुनः पुनः॥३१॥
पूतिमूत्रपुरीषश्च श्वयथुश्चाप्युदीर्यते॥
व्रणाश्चापि विदीर्यन्ते तृष्णा चैनं प्रबाधते॥३२॥
तृष्णार्तस्य च नागस्यलक्षणं यत्प्रवर्तते॥
निर्वाणं नीयते यत्र तं देशं प्रतिजिघ्रति॥३३॥
आर्द्रं वा परिशुष्कं वा तृणंमिक्षुमथापि वा॥
पिपासया समाक्रान्त आहारं नाभिनन्दति॥३४॥
अनेन विषवीर्येण क्षिप्रमेव विदीर्यते॥
एवं मण्डलिदष्टस्प लक्षणं च प्रकीर्तितम्॥३५॥
राजीमतां विषं घोरं यदा देहे प्रवर्तते॥
श्वयथुर्हस्तकर्णेऽस्य लाला प्रस्यन्दते तदा॥३६॥
आटोपो लक्ष्यते चास्यविह्वलं चापि गच्छति॥
श्वेतमूत्रपुरीषश्च यथा ह्यन्धस्तथा स्खलन्॥३७॥
राजीमद्दष्टनागानामेतद्भवति लक्षणम्॥
इति जङ्गममुद्दिष्टं विषं स्थावरमुच्यते॥३८॥
उष्णं रूक्षं तथा चाऽऽम्लं लघु तीक्ष्णं व्यवायिच॥
विदाहि वाऽऽशु विशदमेवं नवगुणं विषम्॥३९॥
पित्तं प्रकोपयत्यौष्ण्याद्रौक्ष्याच्चपवनं1076 कफम्॥
सौक्ष्म्यादतिविदाहित्वात्सर्वधातुप्रदूषणम्॥४०॥
(*गच्छत्यूर्ध्वं लघुत्वाच्च तीक्ष्णत्वान्मर्मभेद्यपि॥
आशु व्याप्नोति शीघ्रत्वाद्वैशद्याच्च विसर्पति1077॥४१॥)
श्रो(स्त्रो)तोरोधि व्यवायित्वान्नवधोक्तं प्रभावतः॥
इति स्थावरमेतस्य शृणु साध्यस्य लक्षणम्॥४२॥
पुष्करं मधुसंकाशं शूनं वाऽप्युपलक्षयेत्॥
दन्ताः श्यावा विवर्णाश्च नखाश्च नयने तथा॥४३॥
शीर्यन्ते चास्य रोमाणि दह्यते1078 च मतङ्गजः1079॥
पक्ष्माणि चास्यशीर्यन्ते छविश्चपरिपाद्यते॥४४॥
केशा वालाश्च शीर्यन्ते शिरोरोगश्च जायते॥
जिह्वा च लक्ष्यते कृष्णा कुत्सिता पृथिवीपते॥४५॥
रुपैरेतैर्विजानीयाद्विषपीतं मतङ्गजम्॥
छर्द्यतीसारसंमोहाः कम्पोऽतीव विजृम्भणम्॥४६॥
रक्तविश्रु(स्रु)ति साश्नुत्वं दृशोर्मन्दाङ्गचेष्टितम्॥
रक्तमूत्रपुरीषत्वं मेढ्रपेचकशूनता॥४७॥
इत्येतदन्यरूपाणामभावे विषलक्षणम्॥
स्थावरस्य विषस्यैतद्रूपं भवति पार्थिव॥४८॥
धूपस्य विषयुक्तस्य शृणु रूपं नराधिप॥
धूपश्चाग्निगतो ज्ञेयो न(नी)लो रक्तोऽथ पीतकः॥४९॥
जिघ्रन्गजस्तु तं धूपमतीसारेण पीड्यते॥
गात्रोद्वेष्टनमाप्नोति वेपते व्यथतेऽपि च॥५०॥
बृंहितुं च न शक्नोति शब्दांश्चापि न वेत्ति सः॥
इति धूपेन दुष्टस्य लक्षणं समुदाहृतम्॥५१॥
भूम्यां ग्रासे चवक्ष्यामि दूषिते शृणु लक्षणम्॥
स्वेदेनैव तु जग्धस्य सर्वगात्रेषु हस्तिनः॥५२॥
स्फोटाश्चास्योपजायन्ते गात्रकण्डूस्तथैव च॥
अङ्गानि चाऽस्य सदिन्ति भूमिश्च विषदूषणात्॥५३॥
विवर्णो भवति ग्रासे लालाश्रा(स्रा)वी च वारणः॥
दुर्गन्धं वमथुं कुर्यान्न वेच्छति तृणाशनम्॥५४॥
अनवस्थितचित्तश्च कम्पते च मुहुर्मुहुः॥
विह्वलीकृतसर्वाङ्गो नागो न लभते सुखम्॥५५॥
विषोपसृष्टयवसै रूक्षै रूपमिदं भवेत्॥
आघ्रातविषवातस्य शृणु रूपं नराधिप॥५६॥
विधुनोति शिरोऽत्यर्थं वमथुं च मुहुः सृजेत्॥
स्यन्दन्ते चास्य वाऽश्रूणि भवेदत्यर्थवेदनः॥५७॥
विह्वलाक्षो भवेदाशु लभते शर्म न क्वचित्॥
तदा संजातवातस्य निद्रा विशति पार्थिव॥५८॥
संरक्तनेत्रोलालावान्करवक्रोऽतिविह्वलः॥
वातेन संप्रदुष्टस्य रूपमेतत्प्रकीर्तितम्॥५९॥
तोयस्य विषयुक्तस्य शृणु रूपं नराधिप॥
मत्स्यकच्छपमण्डूका यावन्तो जलचारिणः॥६०॥
सर्वे म्रियन्ते राजेन्द्र निर्दग्धा विषतेजसा॥
प्रज्वरं तैजसं चाऽऽशु यस्तु नागः पिबेज्जलम्॥६१॥
पीतमात्रेण तोयेन क्षिप्रं प्राणैर्वियुज्यते॥
पानीये विषसंसृष्टे रूपमेतत्प्रकीर्तितम्॥६२॥
दिग्धविद्धस्य नागस्य शृणु रूपाणि पार्थिव॥
वर्णव्यापत्तिमाप्नोति प्रक्लेदश्चास्य जायते॥६३॥
केशा वालाश्च शीर्यन्ते त्वक्चैवास्यविधूम्यते॥
आरोहकमवज्ञा1080य जलं क्षिप्रं तु वाञ्छति॥६४॥
पीतोदके सुशीतस्य लाला प्रस्यन्दतेऽपि च॥
कृच्छ्राच्च मूत्रं कुरुते वेदना च मुहुर्मुहुः॥६५॥
शय्यां मृगयते गन्तुं स्तम्भमालम्ब्य तिष्ठति॥
दिग्धविद्धस्य नागस्यलक्षणं समुदाहृतम्॥६६॥
अभ्यञ्जने प्रदेहे च दूषिते लक्षणं स्विदम्॥
तीव्रा कण्डूःसपिटका क्षिप्रमस्योपजायते॥६७॥
मांसानि चास्य शीर्षन्ते छविः सुपरिपच्यते॥
शूनो गात्रेण भवति दुर्गन्धश्चोपजायते॥६८॥
अभ्यञ्जने प्रदेहे च लक्षणं समुदाहृतम्॥
भूयोऽङ्गराजः प्रपच्छ विनयादृषिसत्तमम्॥६९॥
सर्पदष्टस्य नागस्य किं रूपमुपलक्ष्यते॥
एतदिच्छामि विज्ञातुं ब्रूहि चात्र चिकित्सितम्॥७०॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत्॥
श्रूयतामानुपूर्व्येण यन्मां त्वं परिपृच्छसि॥७१॥
दंशो विवर्णो भवति शोणितं च विदह्यते॥
देहेऽस्य शून्यभावस्तु दाहस्तु परिवर्धते॥७२॥
समन्ताच्च प्रतिस्तब्धः समाध्मातश्च लक्ष्यते॥
उष्णश्च स्पर्शो भवति मृदुभावं च गच्छति॥७३॥
विश्रान्तचित्तस्तु गजः शिरः कम्पयते ध्रुवम्॥
क्रुद्धश्च हस्तमुत्क्षिप्य वारणं प्रपिनष्टि च॥७४॥
एतत्तु दर्शनं श्रेष्ठं दंशेषु विषनाशनम्॥
यदा शुद्धो भवेद्दंशः शोणितं च ध्रुवं भवेत्॥७५॥
इन्द्रगोपकवर्णाभं मुक्तदोषमपिच्छिलम्॥
अथास्यौषधसंभारममुमस्य प्रकल्पयेत्॥७६॥
द्वे शते द्वे बृहत्यौ च शल्लकं श्लक्ष्णमेव च॥
सहाश्वगन्धारोध्रं च पिप्पली मधुकं तिलान्॥७७॥
आम्रपत्राणि पद्मानि सूक्ष्मचूर्णानि कारयेत्॥
द्वौ भागौ च घृतस्याथ तथैको मधुनो भवेत्॥७८॥
हरिद्राचूर्णसंयुक्तं दद्याद्व्रणमुखे भिषक्॥
ततः प्रदेहो देहे स्यादर्जुनं वञ्जुलं नलम्॥७९॥
उभे पाठे तथा श्वेता शुकनासा प्रियङ्गुच॥
सारिवामश्वकर्णं तु सोमवल्कं च दापयेत्॥८०॥
शीर्षकं चैव शालूकं श्यामं काश्मर्यमेव च॥
चतुरः क्षीरिणो वृक्षान्मधुकं चैव पाटलाम्॥८१॥
गवेधुकां च कालां च तथा चोभे पुनर्नवे॥
जम्बूं बिल्वं समाङ्गांच समभागानि कारयेत्॥८२॥
एतत्कल्कं सुपिष्टं वै घृतेन सह योजयेत्॥
कर्दमेन समालोड्य दंशशोफं प्रकल्पयेत्॥८३॥
लभते तेन निर्वाणं विषं चास्योपशाम्यति॥
लिप्तस्यानेन लेपेन पानमस्याचऽऽरेदिदम्॥८४॥
घृतद्रोणं तु पयसो निर्दोषस्याऽऽढकं भवेत्॥
यष्टीमधुकचूर्णस्य भवेत्तु कुडवद्वयम्॥८५॥
पिप्पलीनां च भागः स्यान्मरिचानां तथैव च॥
श्वेतायाः कुडवः कार्यो मुद्गपर्ण्यास्तथैव च॥८६॥
मृणालं च पयस्यां च जीवकर्षभकावुभौ॥
एलां चैव विडङ्गं च स्वर्जिकां परिपेलवम्॥८७॥
सर्वाणि समभागानि सूक्ष्मचूर्णानि कारयेत्॥
अर्धप्रस्थो विडङ्गस्य सैन्धवस्य तथैव च॥८८॥
यवक्षारस्य भागः स्यात्सर्वमेतद्द्रवीकृतम्॥
पीत्वा सुखमवाप्नोति विषाच्च परिमुच्यते॥८९॥
वातिकानां विधिः प्रोक्तः पैत्तिके च प्रवक्ष्यते1081॥
अनन्तां च पयस्यां च मुद्गपर्णीं तथैव च॥९०॥
मृणालीं हंसपादींच जीवकर्षभकावुभौ॥
काकोलीं क्षीरकाकोलीं मेदां छिन्नरुहां तथा॥९१॥
क्षीरशुक्लां विदारीं च श्यामामतिविषां तथा॥
दर्भेक्षुवालीपुण्ड्रेक्षु मृद्वीकां च परूषकम्॥९२॥
ततः पटोलकं चैव माषपर्णीच दापयेत्॥
दुरालभां मधुरसां सारिवां श्वेतया सह॥९३॥
तथा कर्कटशृङ्गी च समभागानि कारयेत्॥
मधुकं मरिचं चैव क्षवकं चैलयासह॥९४॥
तथा कर्कटशृङ्गीं चनागरं चैलवालुकम्॥
पीलुं करञ्चं मञ्जिष्ठामेतद्द्विगुणभागिकाम्॥९५॥
गवां मूत्रेण संयोज्य तथा गुप्तं निधापयेत्॥
एतत्सर्वं समालोड्य घृतद्रोणे समावपेत्॥९६॥
माक्षिकस्याऽऽढकं दत्त्वा वारणं पाययेद्भिषक्॥
एष श्रेष्ठोऽगदः कार्यः पैत्तिके पाययेद्विषे॥९७॥
प्रियङ्गुकांस्तथाऽनन्तांसमाङ्गां धातकींतथा॥
सुवर्णपुष्पींदद्यात्तु दाडिमद्वयमेव च॥९८॥
द्राक्षारोध्रंचशालं च चन्दनं चात्र दापयेत्॥
एतत्संभृत्य संभारं समांशं तुलया धृतम्॥९९॥
अजामूत्रेण संसृष्टं गवां मूत्रेण पेषयेत्॥
अभयामलकाक्वाथं क्वाथयेत्ताम्रभाजने॥१००॥
ततो यूषं परिश्रा(स्रा)व्यतान्कल्कांस्तत्र दापयेत्॥
ततः क्षौद्रेण संसृज्य पाययेद्दन्तिनं भिषक्॥१०१॥
पीतोऽयमगदश्रेष्ठो हन्ति राजीमतो विषम्॥
अथान्यानगवान्कुर्यात्संनिपाते ततो भिषक्॥१०२॥
संसृष्टं पाययेच्चैनं वातपित्तकफापहम्॥
तं पीतवन्तमनु च वारिणा सेचयेद्गजम्॥१०३॥
स्थानं सुशीतलं कुर्याच्छीतैश्च परिषेचनम्॥
अञ्जनं च ततः कुर्याद्येन चक्षुर्विशुध्यति॥१०४॥
गिरिकर्णिकां श्वेतां च हरिद्रां सैन्धवं तथा॥
शिरीषबीजं लशुनं समभागानि कारयेत्॥१०५॥
कर्चूरं चजले पिष्ट्वागुटिकां संप्रदापयेत्॥
दर्वीकरेण दष्टस्यचक्षुषो हितमञ्जनम्॥१०६॥
कालानुसारी मृद्वीका काश्मर्याऽथ शिरीषकम्॥
गुडूचीरससंयुक्तमञ्जनं गुटिकीकृतम्॥१०७॥
एतन्मण्डलिदष्टानां चक्षुषां हितमञ्जनम्॥
स्थानं शीतं गृहं कुर्याद्गोमयेन प्रलेपयेत्॥१०८॥
अथ चेत्कुञ्जरो वेगं तृतीयमतिवर्तते॥
इमं तत्र विधिं कुर्यात्क्षिप्रमेव विचक्षणः॥१०९॥
तृ(त्रि)वृद्दन्ती च श्मामा च नागदन्ती प्रियङ्गवः॥
उदुम्बरसमान्कल्कान्सर्वाण्येव पृथक्पृथक्॥११०॥
एतत्संभृत्य संभारं कुञ्जरं पाययेद्भिषक्॥
लवणाम्बुसमायुक्तं मृत्पात्रे विमले स्थितम्॥१११॥
विरेचनं1082 भिषग्दद्याद्दर्वीकरविषापहम्॥
कषायप्रतिसंयुक्तं राजीमत्सु विधीयते॥११२॥
ततो विर(रि)क्तदोषं तु सेववेद्वारणंभिषक्॥
अगदं पाययेच्चैनं पूर्वमुक्तं गजं ततः॥११३॥
शिरश्च पीड्यते चास्य कराच्छ्लेष्मा प्रवर्तते॥
मुखाच्च लाला श्र(स्र)वति वमथुश्च मुहुर्मुहुः॥११४॥
इमं तत्र विधिं कुर्यात्क्षिप्रमेव विचक्षणः॥
*श्वेतां1083 ज्योतिष्मतीं पाठां सुवहामथ वारुणीम्॥११५॥
सुनन्दां लावनन्दां च विडङ्गं चाष्टमं भवेत्॥
एतानि समभागानि कल्कपिष्टानि कारयेत्॥११६॥
(⁺आन्तरिक्षेण1077 पयसा वाससा च परिश्रु(स्रु)ते॥
द्व्याढकं त्र्याटकं वाऽपि तं रसं पाययेद्भिषक्॥११७॥)
शिरो विरिच्यते तेन विषं चास्योपशाम्यति॥
द्व्याढकं घृतमण्डस्य विर(रि)क्तशिरसस्तथा॥११८॥
अनुषेकं पुनः कुर्यात्ततः स ल1084भते सुखम्॥
अञ्जनं च ततो दद्याद्येन संपद्यते सुखी॥११९॥
मनःशिलां त्रिकटुकं हरितालं रसाञ्जनम्॥
कतकं सैन्धवं चैव मधुकं च समं घृतम्॥१२०॥
क्षौद्रेण सह संयोज्य श्लक्ष्णं दृषदि पेषयेत्1085॥
राजीमता तु दष्टस्य गजस्य हितमञ्जनम्1086॥१२१॥
अश्वकर्णकषायस्य कर्णिकारार्जुनस्य च॥
तृतीयं बृहतीबीजमेते भागास्त्रयः समाः॥१२२॥
अर्धभागस्तु रालायाः सुनन्दायास्तथैव च॥
क्षौद्रेण सह संयोज्य अञ्जनं सांनिपातिके॥१२३॥
अथवाऽञ्जितमात्रस्य सेचयेद्वारिणा शिरः॥
कुर्याच्छिरस्यावाश्चोतं प्रदेहैश्च प्रदेहयेत्॥१२४॥
इत्येतत्सर्पदष्टस्य लक्षणं सचिकित्सितम्॥
अङ्गराजस्ततो भूयः पालकाप्यं स्म पृच्छति॥१२५॥
आञ्जते विषपीते च धूपगन्धानुवासिते॥
सविषे1087 कुञ्जरे रूपं भगवन्वक्तुमर्हसि॥१२६॥
एवमुक्तस्तु भगवान्पालकाप्यस्ततोऽब्रवीत्॥
विषाञ्जितस्य1088 नागस्य इदं भवति लक्षणम्॥१२७ ॥
वेदना चविषार्तस्प पटलश्चोपजायते॥
अक्षिणी घर्षये1089च्चापि हस्तेन कवलेन वा॥१२८॥
दोषप्रच्छन्ननेत्रश्च विषवेगप्रपीडितः॥
नेत्राभ्यामथ हृन्ना(न्नो)भ्यां नागो न लभते सुखम्॥१२९॥
हस्तं प्रग्रह्यदुःखार्तो क्रोधमारभते मुहुः॥
वर्त्मानि चास्य शीर्यन्ते वर्त्मशो1090फश्च जायते॥१३०॥
स्थानेनावस्थितस्यापि बन्धलो भवति द्विपः॥
प्रवेपते प्रव्यथते लाला चास्यप्रवर्तते॥१३१॥
तस्य कर्म प्रवक्ष्यामि यथा संपद्यते सुखी1091॥
अञ्जनानि विषघ्नानि यानि स्युस्तैरथाञ्जनम्॥१३२॥
सिञ्चन्घृतेन चैवैनं शीतलेन यथासुखम्॥
यथोक्तमगदं चैनं सर्पिःक्षीरसमन्वितम्॥१३३॥
पाययेन्मधुसंयुक्तमनुषेकं च दापयेत्॥
कुर्याच्छिरस्यवाश्चोतं ततः संपद्यते सुखी॥१३४॥
अयमेतेन संपद्येद्यो1092गेन मनुजाधिप॥
योगमन्यं प्रवक्ष्यामि येन संपद्यते सुखी॥१३५॥
गृहीत्वा कृष्णसर्पस्य दुष्टाहेर्वा शिरस्तथा॥
क्षिप्त्वा श्रो(स्रो)तोञ्जनं वाऽस्य ततो मृद्वग्निना पचेत्॥१३६॥
तावत्तदञ्जनं यावत्तस्य भागोऽष्टमो भवेत्॥
*पिप्पली तन्दुला श्वेतां1093 पुराणामथ वारुणीम्॥१३७॥
सुनन्दां पालनन्दांच विडङ्गं चाष्टमं तथा॥
बृहत्या रसनिर्यासे कपित्थस्य रसेऽपि वा॥१३८॥
पिष्ट्वा तु गुटिकां कृत्वा छायायां परिशोषयेत्॥
सुबद्धमञ्जयेन्नागं शनैर्न व्यथते यथा॥१३९॥
मुहूर्तं स्थापयित्वा च घृतमण्डेन तर्पयेत्॥
चक्षुर्भ्यां स यदा पश्येत्पटलं विगतं भिषक्॥१४०॥
शर्करां मधुकं चैव घृतेन सह संसृजेत्॥
अञ्जनं तेन कार्यं स्यात्ततः संपद्यते सुखी॥१४१॥
आजस्यपयसः प्रस्थं कर्षश्च मधुकस्यच॥
कर्षं किंशुकपुष्पाणां यवपुष्पं तथैव च॥१४२॥
शर्करायाः पलं दद्याद्यवानां प्रसूतिं तथा॥
प्रस्थेन चान्तरिक्षस्यसंसृष्टं पाचयेच्छनैः॥१४३॥
यदा तु परिपक्वंस्यादथैनमवतारयेत्॥
एतेन शीतलेनास्यचक्षुषोः परिषेचनम्॥१४४॥
अनेन परिषेकेण नागः संपद्यते सुखी॥
विषाच्च मुच्यते क्षिप्रं चक्षुश्चास्य विशुध्यति॥१४५॥
अत ऊर्ध्वं प्रवक्ष्यामि विषपीतस्य लक्षणम्॥
गण्डौ हस्तस्तथा तालु मुखं च परिशुष्यति॥१४६॥
प्रतिगृह्णाति वातं च दह्यमानो मुहुर्मुहुः॥
न शृणोति च कर्णाभ्यां चक्षुषा च न पश्यति॥१४७॥
मुखतः पुष्कराच्चास्य श्लेष्मा गच्छति पिच्छिलः॥
न च वेदयते गन्धं विषवेगप्रपीडितः॥१४८॥
प्रस्थितश्चापि निर्वाणं गजः सत्त्वरजोधिकम्॥
जलं प्रवाह्यते क्षिप्रं गन्तारमविदन्नयम्॥१४९॥
उदकस्पर्शनाच्चैव नागः संपद्यते सुखी॥
तस्यपीतेन शीतेन लाला च स्यन्दते शनैः॥१५०॥
अञ्जनं च प्रदेहश्च तथा चाप्यनुषेचनम्॥
आदालीनां प्रवालानि तथा कटुकमत्स्यकम्॥१५१॥
सहदेवीं च तन्मात्रां दद्यात्सहचरं तथा॥
यवां क्षुद्रसहां चैव समांसा तुलया घृतम्1094॥१५२॥
धूपः स्यात्खदिराङ्गारैर्गुडेन च घृतेन च॥
घृतेन1095 धूपयेन्नागं विषं तेनोपशाम्यति॥१५३॥
लोहं विषेण संसृष्टं वारणो यदि जिघ्रति॥
विषघ्राणकृतं विद्यात्तस्य लिङ्गानि मे शृणु॥१५४॥
शिरस्तालु च गृह्णाति दन्ते नेत्रेऽवतिष्ठति॥
गण्डश्चास्याग्रहस्तश्च प्रतिपा(मा)नं तथैव च॥१५५॥
विवर्णं विषसंसृष्टं शूनं चैवोपजायते॥
शोषयत्यपि देहं च नाभिनन्दति भोजनम्॥१५६॥
करं धुनोति दुःखार्तो लाला चास्यप्रवर्तते॥
तस्य कर्म प्रवक्ष्यामि येन संपद्यते सुखी॥१५७॥
कपित्थफलमज्जानां वार्ताकानां फलानि च॥
संसर्गाश्चापि(?) यत्पञ्च पृष्टिपर्णीं हरीतकीम्॥१५८॥
सिन्दुवारितमूलं1096 च शैलुं चैव सपाटलाम्॥
विभीतकं सखदिरं वटं सोदुम्बरं तथा॥१५९॥
लोध्रंततः परं दद्यात्ततो देयोऽथ1097 सारिवा॥
मधुकं च समं कृत्वा सूक्ष्मचूर्णानि कारयेत्॥१६०॥
चूर्णंप्रस्थमिदं1098 कुर्याद्वारिकुम्भे समावपेत्॥
एतत्तु पाययेन्नागं विषं तेनोपशाम्यति॥१६१॥
अञ्जनानि विषघ्नानि पाययेच्चानुषेचनम्॥
मेहने पेचके चास्य श्वयथुर्दारुणो भृशम्॥१६२॥
अपानाच्छोणितं चास्य दृष्ट्वा तं वारिणोह्यते॥
मुहुर्मुहुः संकुचति कृच्छ्रान्मूत्रं1099 च जायते॥१६३॥
शय्याभागे च कुड्ये च कटिं स परिघर्षति॥
भवन्त्येतानि रूपाणि विषयुक्तेषु दन्तिषु॥१६४॥
त्रिफलां च समां कृत्वा उशीरं चोत्पलानि च॥
मञ्जिष्ठां चैव रोध्रंच प्रियङ्गुं पद्मकं तथा॥१६५॥
सिन्दुवारितमूलं च सकरञ्चं रसाञ्जनम्॥
कुङ्कुमं1100 चेन्द्रगोपांश्च सूक्ष्मचूर्णानि कारयेत्॥१६६॥
चूर्णान्येतानि संहृत्य घृतद्रोणे समावपेत्॥
एतेन बस्तयो देयास्ततः संपद्यते सुखम्॥१६७॥
बस्तिदानं पुरस्ताच्च वक्ष्यते राजसत्तम॥
प्रदेहैर्घृतसंयुक्तैर्गुदं शूनं प्रलेपयेत्॥१६८॥
अगदं पापयेच्चैनं सर्पिःक्षौद्रसमन्वितम्॥
अनया क्रियया नागः क्षिप्रं संपद्यते सुखी॥१६९॥
यवसानि विषघ्नानि रसं दुग्धं तथैव च॥
भोजनं च विषघ्नं स्याद्यथोक्तंतस्यदापयेत्॥१७०॥
विमुक्तं विषदोषाभ्यां बललब्धं च वारणम्॥
स्नापयेन्मन्त्रपूर्वेण औषधैश्च विषापहैः॥१७१॥
उत्तरस्या दिशो भागे धनदो यत्र देवता॥
मण्डलं पूर्वमालिख्य चतुर्हस्तं समन्ततः॥१७२॥
नागपुष्पमतं नागं नागराजान्समालिखेत्॥
अग्निंप्रज्वाल्य विधिना इमान्मन्त्रमु(न्त्रानु)पाहरेत्1101॥१७३॥
भारद्वाजीये स्वाहा स्वाहा स्वाहेति।
निवेदयेद्बलिं चापि यथालाभेन बुद्धिमान्॥
मन्त्रयुक्ताश्च औषध्यो नवकुम्भे विनिक्षिपेत्॥१७४॥
सिद्धार्थकास्त्वचं1102 कुष्ठं विदारी शतपत्रिका॥
कटंकटा मित्रहस्ता सरलं देवदारु च॥१७५॥
प्रियङ्गुंच समङ्गां च पतङ्गं रोचनावचाम्॥
मर्कटीं चापि वाराहीं1103 सारिवां समनःशिलाम्॥१७६॥
एतत्संभृत्य संभारं पञ्चगव्यसमन्वितम्॥
कुम्भैर्नवैर्न1104 कृष्णाङ्गैःसर्वबीजैरलंकृतैः॥१७७॥
लाजान्नानि विशुद्धानि सुवर्णं रजतं तथा॥
स्नापयेत्सर्वसंभारैर्वैद्यो गत्वा जलाशयम्॥१७८॥
कुम्भैरुत्क्षिप्यमाणैश्च इमान्मन्त्रानुदाहरेत्॥
ब्रह्मप्रोक्तानृषिप्रोक्तानाग्नेयांनथ वार(रु)णान्॥१७९॥
नमो ब्रह्मणे, नमो रुद्राय, नमो विष्णवे, नमः स्कन्दाय, नम आदित्येभ्यः,नमोऽग्नये, नमो वरुणाय, नम इन्द्राय, नमो देववारणऋषिभ्यः, नमो देवेभ्यः,नमस्तेजःपतिभ्यः, नमो नागराजेभ्यः, नमः स्कन्देभ्यः, नमो नागमातृभ्यः॥
एतेभ्यो हि नमस्कृत्वा1105 इमां विद्यां प्रयोजयेत्॥
तां ब्रह्मानुमन्यताम्। आगच्छेश्वररूप सहस्रबाहो सहस्रशीर्षो ब्रह्माअक्षर पुर पुर दह दह इमं विषं हन हन लिहि मिलि मिदं द्रूपदेयं कम्पं करेउद्धरे हर हर चल चल वल वल चुलु चुलु स्वाहा। सिध्यन्तु मे मन्त्राः। यदा—
स्नातं हुताग्निर्नागेन्द्रं कृतमण्डल(मुत्तमम्1077।
अगदैस्तं प्रलिम्पेत्तु प्रशस्तैर्विषनाशनैः॥१८०॥
नवैर्वस्त्रैःसुसंवीतं) स्रग्दाप्तभिरलंकृतम्॥
पूजितं स्रग्विणं नागं ब्राह्मणान्स्वस्ति वाचयेत्॥१८१॥१४९९॥
इति श्रीपालकाप्ये हस्त्यायुर्वेद(महाप्रवचने महापाठे1077 द्वितीये
क्षुद्ररोगस्थाने सर्पदष्टो नाम दशमोऽध्यायः॥१०॥
______________________
अथैकादशोऽध्यायः।
______________
अतः परं प्रवक्ष्यामि) स्फोटिकासंभवोद्भवः॥
आगन्तुदोषसंपातादिदं1106 यत्तत्प्रकीर्तितम्॥१॥
विसर्पाः स्फोटिकाकाराः शरावाकृतयस्तथा॥
शिरास्त्वङ्मांसरक्तानि दूषयित्वा यदैव हि॥२॥
पिटकाः श्वयथुः कुष्ठः सविसर्पविसर्पणः॥
विसर्पवत्ससंसर्पत्सर्वेष्वङ्गेषु वर्तते॥३॥
हस्तिनस्तद्विसर्पोऽयमुच्यतेऽग्निविषोपमः॥
कृष्णरक्तारुणा धूम्राः कठिनाः पिच्छिला व्रणाः॥४॥
अग्निदग्धनिभाः स्फोटा जायन्ते रूक्षदारुणाः॥
बीजपूरकसंस्थानाःशरावाकृतयस्तथा॥५॥
वल्मीकाकृतयश्चैव नानासंस्थानचारिणः॥
मण्डलैर्मन्दगैः कृष्णैर्दर्व्याकारैः सुसंस्थिताः1107॥६॥
गम्भीरमध्यश्रा(स्रा)विण्यो दाहकर्त्र्यो रुजात्मिकाः॥
जिह्वाक्षिनाभिपृष्ठान्तःकण्ठकोष्ठशिराः स्तृताः॥७॥
मर्मश्रो(स्त्रो)तस्सु धमनीबस्तिसंधिषु चैव हि॥
असाध्यान्निर्दिशेत्तांस्तु सर्वाङ्गेषु विचक्षणः॥८॥
अन्यवर्णास्तु मर्मस्था व्रणवत्तांस्तु साधयेत्॥
पिटिका सविषा जाता कृच्छ्रेणैव प्रशाम्यति॥९॥
तथा तिथिषु गुर्वीषु जाता कृच्छ्रेण सिध्यति॥
उत्थिता सा तु सप्ताहात्रिसप्ताहान्तरेण वा॥१०॥
विमथ्य1108 सर्वगात्राणि गजं प्राणैर्विमोचयेत्॥
लूताश्चानेन संस्थाना विसर्पस्फोटिकास्तथा॥११॥
काश्यपस्य मतं बुद्ध्वा मम चैव मतं तथा॥
मतिमान्कुशलो वैद्यो यथाशास्त्रमुपाचरेत्॥१२॥
सर्पदष्टविकारोऽस्मात्प्रायेण न विशिष्यते॥
सर्पदष्टक्रियां सर्वां तस्मात्तत्रापि कारयेत्॥१३॥
भृशं विक्रियते नागो विकारैर्विषदष्टवत्॥
हर्षहीनश्च भवति समुद्विग्रश्च वारणः॥१४॥
तथाऽक्षिभ्यां विचित्तश्च विषार्त इव गच्छति॥
दुर्मना ध्यानभूयिष्ठः परिमूत्री भवत्यपि॥१५॥
क्षिपत्यङ्गानि च मुहुः कदाचिद्गुरुमक्षिकः॥
स्रस्तलाङ्गूलहस्तश्च नखवैवर्ण्यमृच्छति॥१६॥
ग्रासद्वेषी च भवति स्तिमितो गुरुविक्रमः॥
रसादयो धातवो हि दोषाश्च पवनादयः॥१७॥
पञ्चभूतात्मके देहे सर्वत्र रसपोषणाः1109॥
एवं विद्याद्भिषक्तस्माद्धातुदोषाश्रयं विषम्॥१८॥
दोषधातुषु दुष्टेषु गजः प्राणैर्वियुज्यते॥
विषोपयुक्तो दष्टश्च दिग्धविद्धोऽन्नपानतः॥१९॥
शारीरागन्तुकोपान्ता हेतवः संप्रकीर्तिताः॥
धूपाञ्जनैस्तथा केचिद्व्यालसंस्पर्शदर्शनैः॥२०॥
दशधा बहुधा केचिद्बुद्धिभेदैः पृथग्विधैः॥
त्रिविधं शत्रुमिच्छामि तस्योत्पाताश्चतुर्विधाः॥२१॥
तस्यसामान्यतो दृष्टाः क्रियाः शास्त्रविशारदैः॥
विषस्य कारयेत्प्राज्ञः सम्यक्शस्त्रैस्तथौषधैः1110॥२२॥
वशिष्ठेनाभयं दत्तं पशूनां च विषात्किल॥
स्फोटिकासंभवात्प्रायश्चतुश्चरणगामिनाम्॥२३॥
तस्मात्कदाचिद्दृश्यन्ते स्फोटिका द्विरदेष्वपि॥
विषघ्नैस्ताः प्रशमयेत्तस्माद्योगैर्भिषग्वरः॥२४॥
लूताविषं1111 कदाचिद्धि वारणस्योपजायते॥
तस्य काश्यपनिर्दिष्टांचिकित्सामथकारयेत्॥२५॥
उर्व्यामादौ प्रभिन्नायां श्रुतिरच्छाप्रवर्तते॥
द्वितीयायां प्रभिन्नायां श्रोतोरक्तं प्रवर्तते॥२६॥
पिटिका च भवेद्व्यक्तामध्ये कृष्णं च मण्डलम्॥
विषं च प्रबलं भूत्वा तृतीयां गच्छति त्वचम्॥२७॥
तत्र तन्दूरिवाऽऽभाति संतापश्चोपजायते॥
मा गाम्भीर्यं(?)भवेन्मध्ये दुष्टे नास्त्यत्र संशयः॥२८॥
चतुर्थी तु त्वचं प्राप्य जायते तत्र कर्णिका॥
तत्र रक्तं च मांसं च समन्ताद्व्यङ्गुलान्तरम्॥२९॥
उष्णं शूनमनुप्राप्तं विदूषयति वा त्वचम्॥
पञ्चमींतु त्वचं प्राप्य अस्थिसंस्थं विषं नृप॥ ३०॥
कर्णिकां कठिनां कृत्वा मेदस्तु भजते विषम्॥
षष्ठींत्वचमनुप्राप्य कायं संदूषयेद्विषम्॥३१॥
सप्तमीं तु त्वचं प्राप्य लूतानामुत्तमं विषम्॥
कायं प्रविशति क्षिप्रं वायुना समुदीरितम्॥३२॥
व्यथाग्निर्वायुसंयुक्तः फेनो वाऽपि यथा भवेत्॥
दर्शयत्याशु वेगेन गात्रेषु श्वयथुं यदा॥३३॥
दृश्यते श्वयथुर्यस्य काकटिट्टिभसंनिभः॥
श्रा(सा)वश्च जायते तीव्रो न स सिध्यति तादृशः॥३४॥
भिन्नाञ्जनाभः प्रस्रावः1112 प्रियङ्गुसदृशोऽपि वा॥
वायसाङ्गारवर्णो वा सर्पिस्तैलनिभोऽपि वा॥३५॥
निस्रवेद्यस्य गात्रेभ्यो नं स शक्यश्चिकित्सितुम्॥
काकाण्डा1113 जलजा चैव लाजा1114 कर्णी सरोहिणी॥३६॥
सलाङ्गूला तीक्ष्णविषा कुमुदिनी परं तथा॥
वैदेही1115 चेति व्याख्याताः सर्वा ह्येता महाविषाः॥३७॥
सर्वेषु संभवन्त्येताः प्रदेशेषु नराधिप॥
विशेषान्मस्तकेष्टीकास्तनगण्डकटाक्षिषु॥३८॥
स्तनान्तरेऽण्डकोशेषु तलेषु1116थुं प्र°। “) च प्रतिक्रिया॥
मर्मसंधींश्च संत्यज्य दंशं छिन्द्यादसंशयः॥३९॥
न तु दंशं भिषग्यस्तु नोद्धरेन्न च तं दहेत्॥
अज्ञानात्स भिषग्राजन्दन्तिनो1117 विनिपातयेत्॥४०॥
एता महाविषा लूतास्तूर्णं प्राणान्हरन्त्यपि॥
कामं मन्दविषाश्चापि तंस्माच्छीघ्रमुपाचरेत्॥४१॥
यस्तु मांसमतिक्रान्तदंशो1118 नोत्कृत्यते प्रभो॥
विशेषमाश्रिते चापि सा निहन्तीह हस्तिनः॥४२॥ १५४१॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररो-
गस्थान एकादशः स्फोटिकाध्यायः॥११॥
___________________________
अथ द्वादशोऽध्यायः।
______________________
अथातोऽपवादबद्धमध्यायं व्याख्यास्यामः—
इति ह स्माऽऽह भगवान्पालकाप्यः॥
अथ खलु भो दारुणेषु तिथिमुहूर्तेषु1119 नक्षत्रेषु वा बद्धः ‘अपवादबद्धः’ इत्युच्यते॥
स भवति नीलवर्णः संरब्धो गुरुगात्रापरोदुर्मनाः किंचिद्भक्ष्यमादत्ते।तमसाध्यं विद्यात्॥
तस्मात्—उग्रदारुणेषु तिथिमुहूर्तनक्षत्रेषु न ग्राह्याः। प्रशस्तेष्वपि गृहोपसृष्टेषु पक्षच्छिद्रेषु सर्वकालं च संध्यासु हस्तिनो न ग्राह्याः। किं कारणम्—लक्षणव्यञ्जनोपपन्ना अपि प्राणवन्तो व्यापद्यन्त इति॥
तत्र श्लोकौ—
स्तिमितो गुरुहस्तश्च संरब्धो वर्णतो भवेत्।
नीलः श्यावो ह्यबलवानेष नागो विपद्यते॥
मुहूर्ते तिथिनक्षत्रे प्रशस्ते ग्राहिता गजाः।
भवन्ति कर्मणां योग्या बलवन्तो निरामयाः॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेऽ-
पवादबद्धो नाम द्वादशोऽध्यायः॥१२॥
अथ त्रयोदशोऽध्यायः।
_______________
अथाङ्गपतिरमरपतिसदृशंकनकेन्द्रनीलवज्रवैदूर्य विविधविमलमणिरुचिरविचित्रप्रभाभिरुद्योतितरुचिरगात्रोऽभिगम्यानिल-बलाभिधूतरुचिरकुसुमनिकररुचितोपहारे बहुविधमृगविहगगणनिषेविते सर्वसत्त्वाभिगमनीये सुखोपविष्टमाश्रमेऽतिरमणीयेऽसित- मृगाजिनवसनं तडिदंनलदिनकरकिरणसदृशवपुषं भगवन्तमभिवाद्य पालकाप्यं विनयेनकृताञ्जलिरिदं पप्रच्छ रोमपादः–‘कथमयं पूर्वाबद्धोनाम व्याधिरुत्पद्यते, किं लक्षणम्, किं चास्य चिकित्सितम्’ इति॥
ततः — प्रोवाच भगवान्पालकाप्यः—‘श्रूयतां महाराज यथा पूर्वाबद्धः,यच्चास्य चिकित्सितम्॥
पूर्वाबद्धो नाम ‘अबद्धः पूर्वे वयसि’ इति ‘पूर्वाबद्धः’ इत्युच्यते। अयं तुमानसो1120 व्याधिरूपः प्राणहरो गजस्य, ऋते मोक्षात्, अरण्यगमनाद्वाऽसाध्यः॥
स तु मनस्वी प्राप्तैश्वर्यः प्रमाथी यदृच्छाचारी वनमुखानां रसज्ञः॥
अथ वसन्ते—परमनिचितविविधसुरभिरुचिरकुसुमेषु सहकारबकुलतिलकविदुलशालवञ्जुलतमालतालतालीसप्रियालाङ्कोल्ल-शिरीषकर्णिकारपाटलाकुरुबककरवीरकिंशुकाशोकनवमालिकाकुन्देन्दीवरकिंकिराततिन्दुकपुंनागनागचम्पकातिमुक्तशोभाञ्जन-पारिजातकाम्रातकाश्मन्तकप्रियङ्गुवरुणककदम्बविविधतरुकुसुमनिकरसुगन्धाधिवासितेषुमत्तभ्रमन्मधुकरशुकसारिकापरिवृतबर्हिणविविधविहगगणनिनादितेषु करिवरकरचरणदशनविधृतबहुविधतरुकुममफलेषुविकचपुष्पमन्दमारुतो1121पगीतनृत्यमानलता-मण्डितवनविवरभवनेषु बहुविधकुसुमगन्धाधिवासितेन दक्षिणपवनेनोदीर्यमाणमदना द्विरदवरा अलिकुलपटलानुनादितकपोलाः करेणुसहिताः स्वच्छन्दतःस्थानशय्यासनसहिता रसितप्रक्ष्वेलितविहृतललितालिङ्गितचुम्बितेङ्गितकुपितप्रसारितानेकरसा1122विविधतरु- पत्रपुष्पफलभङ्गक1123वलकुवलयपल्लव कन्दमूलयवसफलोपभोगा नानाविधानां नदीसरस्तडागानां च विमलविपुलरुचिरसलिल-प्रतिपूर्णानां सूर्यांशुबोधितसारसानां हंसकुररकारण्डवचक्रवाकसारसबकलावकामद्गुमल्लिकाख्यानुनादैरुपशोभितानां कमलकुमुदकुव1124लयालंकृतानां क्वचिद्वनानां वसन्ते सुखमनुभवन्ति। स तेषामनुस्मरेत्1125॥
तत्र श्लोकाः—
वृक्षवल्लीलतागुल्मान्वारणैः परिघट्टितान्।
मन्दगन्धप्रलोभेन नैवं मुञ्चन्ति षट्पदाः॥
तच्च नागवनं नागाद्वनान्नागवनं च तत्।
पुष्पैश्च मदगन्धैश्च वासयन्तीतरेतरम्॥
काचित्करेण1126 संवेष्ट्य दन्तं नागस्य दन्तिनी।
आत्मनो मन्मथावस्थां शंसतीव सुविह्वलाम्॥
आदाय करिणी काचित्करेण करिणः करम्।
हस्तिनः क्ष्वेडितैर्भावान्कुरुते मदनातुरा॥
कामाग्निपरितप्तानि तान्यङ्गानि च वारणः।
प्रियासंगमतोयेन निवारयितुमिच्छति॥
काचिन्नागस्य मातङ्गी पुरः स्थित्वा समन्मथा।
करोति करनिक्षेपं करिणः कामदीपनम्॥
चिरकालप्रनष्टस्य कोकिलस्य नवं रुतम्।
श्रुत्वा करेणुभिः सार्धंस्मरन्नागो न जीवति॥
वसन्ते चित्रपुष्पाणां सुगन्धानां नराधिप॥
वनानां संस्मरन्नागः प्राणांस्त्यजति दुःखितः॥
भ्रमद्भ्रमरसंघेषु कोकिलाकुलशालिषु।
लतागृहेषु रम्येषु वनानां विवरेषु च॥
रतं यत्प्रियया सार्धं विहितं च पृथग्विधम्।
एतेषां संस्मरन्नागः प्राणांस्त्यजति दुःखितः॥
** **अथ (ग्रीष्मे—) क्वचिद्दिनकरकिरणाभिसंतप्तमेदिन्यां निष्पीतरसास्वौषधिषु गुरुशयदहनपरिगतमृगतृष्णिकाप्रतिनद्धेष्वरण्येषु, अनेकभृङ्गारावोन्नादित1127मूलेष्वनेक1128कोटरार्धनिःसृत1129भुजङ्गलेलिह्यमानशाखेषु1130 तरुषु, धूपायमानास्विवातिरौद्ररूपं बिभ्रतीषु दिक्षु, पिपासापहारहेतोर्गिरिगुहाकृतावस्थितिषु(तरुषु1131)कुरङ्गशावकेषु, वृक्षशालावलीनेषु1132 नैकशो घर्माभितापसंश्रमसंतप्तश्वापदेषु तरु-बर्हिणपरभृतशुकसारिकाविविधविहगगण1133संघेषुशाखामृगखड्गवराह1134महिषरुरुहरिणचमरवृषभशरभगवयेषु, अङ्गारचूर्णनिकरो-पमैर्दिनकरकिरणैर्दह्यमानशरीरेषूदकमभिलषत्सु, सिंहव्याघ्रद्वीपितरक्षुऋक्षानेकश्वापदनिनादितासु सपटहास्विव गिरिवरदरीषु, परिशुष्यमाणोदरासु गिरिनदीषु, प्रियविप्रयोगदुःखक्षीणास्विव कामिनीषु, तदाऽतिरौद्रे काले हस्तिनो महानदीनां हिमस्पर्शविमलसुरभिसलिलनिचयपरिपूर्णेषु महाह्रदेषु सरःस्वपि च विविधकुसुमबिसमृणालपुष्करबीजसंवर्तकोपभोगाः स्वच्छन्दतः करेणुकलभविष्कपोतकैरनेकधा परिचर्यमाणा आकर्षणविक्षोभणोन्मज्जनपरिप्लवनतरणसलिलपङ्कहरि(र)णवप्राभिघातक्रीडनविमर्दनरमणीयं विविधसुखमनु-भवन्ति सलिलेषु, सूर्यरश्मिप्रबोधितेषु(?)मीनजालसंघट्टितेषु मारुतेन कल्पितेषु षट्पदोपगुञ्जितेषु रुचिरकनकचूर्णसदृशरजो-विकीर्णेषु हरितमणिवर्णकर्कशनालेषु बालसूर्यवर्णपर्णेषु पद्मषण्डेषु1135करेणुकलभपोतिकाभिः सह विहरणक्रीडनपांशुहरणाहार-शयनानां(?) चन्द्रमभदीपिकासु च शर्वरीषु सुरभिकुसुमगन्धवहैर्मृदुशिशिरपवनैरनुवीज्यमानाः प्रत्यूषप्रदोषार्धरात्रिषु विचरन्ति। स तेषामनुस्मरन्॥
तत्र श्लोकाः—
क्षोभयन्ति नदीमन्ये वप्रान्भिन्दन्ति चापरे।
प्रियाभिः सहिताश्चान्ये चरन्ति कलभैः सह॥
पङ्कचन्दनदिग्धाङ्गाः शाखाव्यजनवीजिताः।
सरःसु शीततोयेषु चरन्ति सह धेनुभिः॥
धौतमुक्त1136फलोद्गारैः करैः शीकरवारिभिः।
धेनुभिस्तेऽभिषिच्यन्ते कामार्तास्तु मतङ्गजाः॥
सूर्यरश्मिप्रतीकारं तेषां कुर्वन्ति धेनुकाः।
उद्दण्डैः सहसोद्धृतविशालोत्फुल्लपङ्कजैः॥
एवं निदाघकालेषु क्रीडितानामनुस्मरन्।
ग्रामे बद्धो महाराज न जीवति मतङ्गजः॥
प्रावृषि च परमसुरभिसलिललुलितपृषतधरणितलगन्धानां कदम्बकेतकसर्जार्जुननीपबकुलशिलंध्राजकर्णाभीरुकन्दलाधि-वासितानां कुटजकुसुमप्रहसितप्रदीपितवनषण्डानाम्, असितघनपटलसंछन्ने1137 गगनतले चातकदर्दुरपरभृतशिखिगणानुनादिते, हरितशिष्ये(?)न्द्रगोप1138कालंकृतायां वसुमत्यां कन्यायामिव शुकपत्रसदृशवसनायाम्, उद्योतिततपनीय1139भूषणायां, खद्योतप्रदीपितासु रात्रिषु तेषां करेणुमिः सह रताननुस्मरन्1140। अपि च वर्षासु च वर्षतिदेवराजेऽहोरात्रं नदीषु कलुषफेनमुद्वमन्तीषु बहुयष्टिप्रमा-भिर्वर्तिताभिर्वारिधाराभिर्द्रवीभूते जीवलोकेबहलजलतुमुलपवनविविधविसृतघननिचयपटुपटहभीषणनिनादिते गते दिवानिशं प्रनष्ट-दिनकररजनीकरनक्षत्रग्रहतारागणे गगनतलेभिन्नाञ्जनशिलाश्यामघनपटलपटावगुण्ठितासु निशासु, अनेकविद्युज्ज्वालावभासि-तासु, अनेकविनिर्घाताशनिनिपातावभग्नसंचूर्णितविध्वस्ततरुशास्खासु दिक्षु विमलरजतमण्डलसदृशीभिर्वारिधाराभिरभिषिच्यमाने- ऽस्मिञ्जीवलोके, तदाहस्तिनो मृदुपवनेरितपतितकेतकरजोनुरञ्जितासुशिखिकुलकलापावशिष्टशिलातलासु1141विविधकुसुमगन्धा- वासितासु व्यपगतदंशमशकमक्षिकाश्वापदसरीसृपासु, अनुवर्षासु प्रवरगिरिगुहासु यत्सुखमनुभूतम्, तदनुस्मरन्। एवमेतेषामनु-सुखानां करेणुभिः सह रतानामनुस्मरन्। मध्यमवर्षासुस्तिमितजलधरशब्दे प्रश्रु(सु)तवारिविद्युत्स्फोटितगर्जितशब्दैः प्रतिगज- शङ्कयाप्रहृष्टकरकर्णलाङ्गूलःप्रतिगर्जति मेघान्प्रहृष्टो महानदीनां फेनजलप्रवाहिणीनां परिप्लुतकक्षेषु परिबाहुप्रलम्बतृणाग्रेषु गर्जमानाकर्षणोन्मज्जनावकर्षणविक्षोभणावतरणान्सलिलेषुसह कान्ताभिरनुस्मरन्॥
तत्र श्लोकाः—
विकीर्णवदनाः केचित्स्फुरन्तः क्रोधमूर्छिताः।
वप्रेषु करिणः शक्तास्तुलयन्तीव मेदिनीम्॥
घनौघजालव्यसनरजोध्वस्तदिवाकरे।
प्रनष्टग्रहनक्षत्रे तदागम(ग)नमण्डले॥
दूर्वाङ्गुरप्रतिच्छन्नां1142 शक्रगोपकमण्डिताम्।
विविधैर्यवसैः कीर्णां सेवन्ते वारणाः स्थलीम्॥
बर्हिणोद्घुष्टकुञ्जेषु नागानां विवरेषु च।
वृक्षभङ्गान्सकुवलान्खादन्ति विचरन्ति च॥
न तथा विविधैर्भक्ष्यैरन्नपानैर्न भोजनैः।
यथा तुष्टिर्भवत्येषां वने तु तृणभोजनैः॥
पीडितोऽत्यर्थ1143निस्त्रिंशैस्तोत्रहस्तैर्नरैर्भृशम्।
स्मृत्वा वनसुखान्याशु प्राणांस्त्यजति कुञ्जरः॥
मेघोदकैः पूरितकन्दरस्य शैलस्य गम्भीरवनान्तरस्य।
गुहामुखेष्वग्निशिखाप्रकाशाःसुवर्णपुष्पा इव भान्ति दीपाः1144॥
वनेषु वर्षासु मनोहरेषु क्रीडन्ति नागाः सह धेनुकाभिः।
बद्धानतस्तान्स्मरतो वनानां मुखानि खिन्नं समुपैति नाशम्1145॥
शरदि च निर्मलगगनतलतारागणपरिवृतशिशिरशशिकिरणप्रकाशितासुनिशासुमुनिजलविमलहृदयसदृशीषु दिवसकरकिरण-विगतघनपटलकपाटोद्धाटितासु दिक्षु, वनराजिषु प्रफुल्लबाणासनसप्तपर्णकोविदारभण्डीरकुब्जकबन्धुजीवकरुचिराधिवासितासु
पर्वतवरकन्दरोदरदरीषु तमालमालामालितासु नानाविधवृक्षचन्दनलतोपगूढवल्लीकरपलवैर्निरन्तरीकृतनिचुलपुष्पोपहार(……)
श1146रदि1147परस्परगहनानां प्रमुदितहरिणशार्दूलकुञ्जरवराहमहिषपृषतगवयखड्गचमरसिंहशरभजम्बुकनिषेवितानांशरत्कालेवनानां प्रबुद्धवननलिनीकुमुदसौगन्धिकोत्पलकह्लारविभूषितेषु प्रवरवैदूर्यमणिसदृशेषु जलाशयेषु मुनिसदृशेषु कलुषवर्जितेषु, तस्मिंश्चाति-मनोज्ञे काले हस्तिनो दिनकरकिरणप्रबोधितकमलमधुकरविमर्दाविधूतपतितकिंजल्ककेसररजोनुरञ्जितसलिलेषुमधुमदमुदित- मधुकरकुटुम्बिनीझांकारितमनोहरेषु मधुमदोपयुक्तामरकामिनीकपोलच्छदेन मण्डितेषु नवनलिनीदलसंवीज्यमानजलचरपक्षि- गणेषु क्रौञ्चचक्रवाककलहंसमृणालग्रीवकधार्तराष्ट्रमहाहंसब्रह्मपुत्रजीवंजीवचकोरकोयष्टिमहाक्रौञ्चपरिप्लुतदात्यूहसारसकुरर-कारण्डवकादम्बमद्ग्वाडिकुक्कुरमल्लिकाक्षि(ख्य)नीलग्रीवकरोहिणीककुटभेदकप्रवालपादकबकबलाकानिषेवितेषु निरन्तर-कुसुमसुरभिनिकरावपातरजोधिवासितषु सूर्यरश्मिप्रबोधितेषु कमलवनेषु मीनजालघट्टिततोयान्तेषु मारुतेनतरङ्गितेषु दिव्यगन्धा-धिवासितेषु पक्षिसंघसेवितेषु षट्पदोपचित्रितेषु विविधसुखमनुभवन्ति निवृत्ति(त्त)जलकलहासु च विविधविहगनखमुखावलिखित-पुलिनतलासु निर्दयोपभुक्तास्विव कामिनीषुं काशकुसुमाट्टहासासु महानदीषु मदजलविहारसंसिच्यमानकपोला(ल)वप्राभिघात-पांशुपङ्कहरणजलविक्षोभणसुखान्या1148सेवन्ते। स तेषामनुस्मरन्॥
तत्र श्लोकाः—
तेषां कपोलजी1149मूतप्रनष्टमदकारिभिः।
विविधद्रुमपुष्पाढ्या वास्यन्ते वनभूमयः॥
कमलामलकिंजल्कपाण्डुरा वारणा नृप।
सरःस्वमलतोयेषु क्रीडन्ति सह धेनुभिः॥
कुमुदोत्पलसंछन्नां चक्रवाकनिकू1150जिताम्।
दिवाकरकरामर्षसंबुद्धामलपङ्कजाम्॥
शुभतीर्थांशुभजलां हंसांसपरिवीजिताम्।
भजन्ते दीर्घिकां नागास्तत्कालसेवनक्षमाम्॥
निशाकरकरोद्योतभूषितासु समन्ततः।
उत्फुल्लको(क)मलोद्गन्धिगन्धवाहसुखासु च॥
शर्वरीष्वतिरम्यासु रमयन्ति वने प्रियाम्।
पांशुना ह्यपदिग्धाङ्गाःकेचिद्वनगजा नृप॥
एतेषां वनसौख्यानामन्येषां चानुचिन्तयन्।
ग्रामबद्धो महाराज न जीवति मतङ्गजः॥
हेमन्ते वा तुषारनिपीडिताक्रान्तविटपपादपनिवासितानां गिरिदरीणांलोध्रलवलीप्रियङ्गुकुसुमसिन्दु1151वाराधिवासितानांप्रांशुप्रथ1152 (?)वृक्षनदीतटहरणानांचहर्षादेवमादीनामुपवसि(?)जातपूर्णं ब1153लसत्त्ववर्णमटजच(?)हर्षामर्षागर्जितशुद्धशरी1154ावदन्निन1155 (?)विधावितपरकीर्णानां प्रभिन्नोद्धतप्रगालितकपोलदानौघपतितधाराभिलाषिमधुकरीषट्पदकर्णसुष्टो1156पगीतानां हेमन्तकाले वनानां स्मरन्॥
तत्र श्लोकाः—
अस्मिनृतौ सापि(?) तुषारवर्षे(र्षेः) तृणाग्रलग्नैरुप(शोभितानि1157)॥
वनानि देवोपवनोपमानि काशैर्दुकुलैरिव संभृतानि॥१॥
विभान्ति राजन्विविधैः सरांसि सिध्यैस्तुषारैरिव विप्रकीर्णैः॥
क्वचिच्च बाष्पाकुलसंभृतानि मित्राणि पद्मैःपरिकीर्णयन्ते॥२॥
तृणानि हृद्यानि मनोरमाणि चरन्ति नागाः सहिताः प्रियाभिः॥
क्वचित्सरःक्रीडविहङ्गसंघैः क्रीडन्ति नागा ह्यपनीयमानाः॥
करेणुकाभिः सह पोतकैश्च वने द्विरेफाकुलनादितेव॥३॥
निवाततरुसंस्थाने रमणीयेऽतिपांशुले॥
रमन्ते जघनद्वारसक्तहस्ता करेणुषु॥
हिमसंस्पर्शपक्वानां कीडनाहरणानि च।
हस्तिनीभिश्च सहिता1158 रम्येषु गिरिसानुषु॥
नागा गिरौ क्वचिच्चापि निर्जिताः परयूथपैः।
भ्रमन्ति देशान्देशेभ्यो यूथाद्यूथंवने गजाः॥
मदार्द्रगण्डाः कोपेन केचिद्राजन्मतङ्गजाः।
अभिप्रहारैर्विविधैरन्योन्यबलदर्पिताः॥
पांशुना1159ह्युपदिग्धाङ्गाः केचिद्वनगजा नृप।
करेणुभिः परिवृताः क्रीडन्ति वनसानुषु॥
एतद्वने1160 सुखं राजन्प्राप्तैश्चर्यो वनद्विपः।
स्मरंश्च बद्धः सहसा क्षिप्रं त्यजति जीवितम्॥
अथ शिशिरे1161 हिमवृषितं सुखस्पर्शविमलसलिलकरेणुकलभविक्वपोतजववनु1162कल्याणपोत(?)परिसरणसेवितेषुसरःसुलोध्राति- मुक्तकलहाप्रियङ्गुमालतीकुमुदवारि1163 (सितानि)1164तानि बकबलाकापारिप्लवमल्लिकाक्षो(ख्य)कु1165ररहंसचक्रवाकोपेतानिजलान्य-वगाहमानाः करेणुभिः परिवृताः स्वच्छन्दतस्तृणकवलकुवलपल्लवोपयोगानां ह्रदेषु चाधिकशिशिरसलिले प्राकर्षणविक्षोभणोन्म-ज्जनपरिप्लवनतरणानां स्मरन्॥
तत्र श्लोकाः—
मदेन च जलं तेषां शीतलेन सुगन्धिना।
भान्ति मार्गाः सुकुसुमा द्विरेफैरनुनादिताः॥
केचिल्लतां कुसुमितां कूजद्भ्रमरसंकुलाम्।
करेणुभ्यः प्रयच्छन्ति कामार्तास्तु मतङ्गजाः॥
यूथात्प्रवासिताः केचिन्नागान्ना(ना)गान्तरैर्वने।
यूथान्ते धेनुकाः प्राप्य प्लवन्ति तु यदृच्छया॥
मदार्द्रर्गण्डाः करिणः किंचित्कोपेन मूर्छिताः।
प्रतिद्विपानप श्यन्तो घ्नन्ति वृक्षान्सुदुस्तरान्॥
केचिन्नागानां1166 स्यकेचित्(?) मदार्द्रगण्डाःकरिणो वनेषु।
विषाणगात्रापरहस्तवालैर्निशङ्किताः संप्रति हन्ति वृक्षान्॥
फुल्लान(णु)शाखाकृतकर्णपूराः केचिद्वनान्तेषु मनोरमेषु।
हृष्टद्विरेफाकुलनादितेषु क्रीडन्ति नागाः सह धेनुकाभिः॥
प्रतिगजविमर्दविजयप्राप्तैश्वर्या वने वनसुखानां विविधानां च विविधगजगार्जितताडनविकृतमुखानां स्मरणान्ननिर्वाणमिह विन्दते। स जयति। स ग्रामानीतोवधबन्धनतर्जनानि हठात्प्राप्नुवन्। अनु च कण्ठेनोन्नत1167मानो ध्यायति संमीलितनयनः करेण भूमितलमाहन्ति निषिद्धकरलाङ्गूलश्रवणमदः परिवीजयतिविमना न व्यतिचिकित्साय(?)भक्ष्यं1168 ग्राम्यं वाऽऽरणं(ण्यं) वा नात्ति क्षुधितः,पिपासितोऽपि न पिबति सलिलम्, मनस्वितयाऽऽत्तस्य तत्प्राप्त्यर्थं न विद्यतेप्रतीकारः। सामादयोऽप्युपायास्तस्मिन्न क्रमन्ते। पूर्वाबद्धो नामैष व्याधिः।न हि स व्यत्तस्य(?)मनः प्रसादयितुमारण्यकस्य1169 नागस्य वाचमत्र प्राप्तस्य।तस्मात्प्राप्तैश्वर्यं न ग्राहयेत्। द्विरदपतिमतिक्रान्तचत्वारिंशद्वर्षमस्वार्थिव्ययाश्च(?) न भवन्तीति। तस्मिन्विद्यमाने मातङ्गे पक्षप्रपतनाद्दोष1170भयाच्चेति।पक्षप्रपतनं शुभमप्यशुभमेव भवति। किं पुनः शुभं विद्यमाने मातङ्गे पूर्वबद्धे च।किं पुनः पक्षप्रपतनम्॥
दृष्टमप्यशुभं तस्मात्पक्षप्रपतनं मया।
दृष्टं1171फलेन त्रिगुणं पक्षप्रपतनं पुनः॥
तस्माद्द्वयोरपि तयोरशुभाशुभयोर्मया।
विसर्जनं किं तदिति मयेहो1172 यदि तच्छृणु॥
सुभगाभिः सुरूपाभिर्हस्तिनीभिः समन्ततः।
पूर्वाबद्धं परिवृतं वारणेन्द्रं विवर्जयेत्॥
अरण्ये शुभदं यावद्भिषक्कालेषु त्रिष्वपि।
मोक्षाद्वन्यस्य नागस्य पूर्वाबद्धस्य किं पुनः॥
हस्तिनीभिर्वनान्ते च कर्तव्यमिति मे मतिः।
तत्र लोकाः—
तृतीयायां चतुर्थ्यांं चेद्दशायांग्राहयेद्द्वि1173पम्1174।
बाल्याद्वियुक्तान्का1175र्मण्यामप्राप्तं1173 पञ्चमीं दशाम्॥
ते कर्म व प्रयोगांश्च परिक्लेशं च वारणाः।
सहन्ते न च दुष्यन्ति न स्मरन्ति वनानि च॥
प्राप्तैश्वर्यो हि पञ्चम्यांदशायां परिगृह्यते।
मनस्विभावात्स क्षिप्रं प्राणांस्त्यजति वारणः॥
यथा राज्यात्समुदितादृष्टः सीदति पार्थिवः।
वनैश्वर्यात्तथा भ्रष्टः सोऽपि नागो विपद्यते॥
हिमसंस्पर्शशीतानां पक्वानां हरणानि च।
हस्तिनीभिश्च सहितो रम्येषु गिरिसानुषु॥
क्रीडनं यच्चसलिलाद्वर्तते च वनेषु च।
नदीनां च निकुञ्जेषु रतानि समनुस्मरन्॥
मृणालं वा बिशं वाऽपि तृणं कुवलपल्लवम्।
मूलं वा पिप्पलं वाऽपि कान्तकाक्षुण्णकात्तथा(?)॥
स्वमुखाश्चो(स्वा)दितं प्रीत्या स्वादुच्चारं च भक्षितम्।
करे गृहीत्वा यद्दत्तं मुखे1176 च तदनुस्मरन्॥
सविलासैःकरैर्यच्च रंहैःसंन्याहितं शनैः1177।
न विश्रान्तस्य नागस्य वशाभिर्गिरिसानुषु॥
तनुपल्लवनालेन पुष्पोद्गारसुगन्धिना।
वनान्ते वाजितामात्रं शाखाभङ्गप्रवायुना1178॥
पीतैः सुरभिनिःश्वासैः शीतशीकरवारिभिः1179।
(क्रीडितं करिणीभिर्वा1009 ) करैर्यच्च वनान्तरे॥
मत्तद्विपोजगीतेषु1180 पद्मोत्पलसुगन्धिषु।
बहुदोषैस्तु भवने तेषु वा1181शीतलेषु च॥
आसध्यमानं कान्ताभिर्दे(वीभिर्दे1009)वभक्तिभिः।
नानाधातुविचित्राभिरनुलिप्तं करेणुभिः॥
पद्मकेसरकिंजल्कैःपुष्पाद्यैर्बहुभिः शुभैः।
सत्यचूर्णैरवाङ्गे यत्योद्गभिजपिञ्जरकृतम्1182 (?)॥
आसेव्यमानास्तस्याङ्गसेवार्थमनुकर्षितम्।
करिण्योत्त1183पुनः क्रीडां नरेन्द्रस्येव कुर्वते॥
सर्वत्र सुखरम्येषु यच्च पर्वतसानुषु।
निषेवितं च यन्नावं बनकुक्षिषु ताण्डवम्॥
सुस्नातो वनयूथानां करोत्क्षेपहतैर्जलैः।
मनोरमैः शब्दवद्भिः समन्तामलपुष्करैः॥
यच्च बर्हिण(नृ)त्येन ……………………1184।
…………………. स्तैर्मुखाडम्बरगर्जितम्॥
स्मृत्वा वनद्विपो बद्धः पूर्वाबद्वोन जीवति।
अनुकूलाच्च या सेवा गजयूथैःकृता वने॥
अनुयुक्तैर्वारणस्य भृत्यैरिव वशानुगैः।
कलभैर्धेनुकाभिश्च पोतैश्च प्रियदर्शनैः॥
संकीर्णमृगदं1185 (?) मन्दैर्नरं नरपतिर्यथा।
यच्च युद्धेष्वनेकेषु निर्जित्य प्रतिवारणान्॥
गजयूथाधिपत्यं च स्पर्शस्त्वास्वादितो महान्।
करेण1186 सुकुमारेण स्पर्शातिशयभाजिना॥
कामाग्नेर्वित्तमयैर्विक्षोभ्य जघनार्णवम्॥
वस्त्राणां भटमृतरसस्पर्शांकृत्वा1187र्द्रमहारसम्(?)॥
कान्तवे(ये)प्सितसर्वात्मा हृदि मन्मथताडितः।
कामैकहानिहृदयो ध्यानहर्षपरापणः॥
मन्दमन्मथलीलाभिर्गतिभिः क्रमते1188 सदा।
कर्कशोद्दाममदनः किंचित्कार्कश्यमागतः॥
यूथमध्यात्परित्यज्य नागकन्यां सुकेशिनीम्।
मनोरमवनोद्देशमागत्य मदनातुराम्॥
अनङ्गतप्तान्यङ्गानि प्रिया द्वेषु कुतोभयम्(?)।
निर्वाप्यं यद्यनुकुरुते तच्च सर्वमफुल्लकं कयम् (?)॥
(?)संछन्नंसरःसु विमलं जलं करेणुकरदत्तं हि।
(?)पीतं यत्सुरभितोत्तरे विस्मरञ्जलमादत्ते॥
काममोहाभिसंतप्तःकृतान्तविधिनोचितम्।
स्वयूथमिव मातङ्गोदृष्ट्वाग्राम्या नु धेनुकाः॥
सहसा ग्राममानीतो वारणः पदवासिकैः।(?)
प्रतिबद्धस्तु पाशेन नष्टचित्तोपलक्ष्यते॥
एवं वनेषु बहुधा क्रीडितानामनुस्मरन्।
रोमपाद महाराज न जीवति मतङ्गजः॥
क्षुधितोऽप्यधिकं दृष्टः पूर्वाबद्धो मतङ्गजः।
न चात्ति किंचिदाहारं मनः सीदन्स्मरन्वनम्।
शोचते1189 मनसस्तापान्कोष्ठे व्यापद्यतेऽनिलः॥
ततो व्यापन्नमदनः पूर्वाबद्धो न जीवति।
ऋते मोक्षान्न तस्यास्ति मनसः संप्रसादनम्॥
प्रत्याख्येयो गजस्तस्मात्पूर्वाबद्धश्चिकित्सकैः।
अधर्मश्चातिहानिं1190च वृथा चापि परिश्रमः॥
प्राप्तैश्वर्यस्य नागस्य ग्रहणं न प्रशस्यते।
प्रक्कृप्तपतने चापि तस्य दोषो महान्भवेत्॥
प्राजापत्येषु सर्वेषु ब्राह्मणैः पठ्यते गजः।
(प्राणा1191)बाधं गजानां तु रक्षेत्सर्वात्मना नृपः॥
इह चान्यत्र च श्रेयो गजानां परिपालनात्।
तथा सात्म्यं1192 गजो बद्धो यत्नेन परिपालयेत्॥
(?)कर्माह्या1193यो न लक्षण्योप्रेतान्नग्राह्यान्नपरिवर्जयेत्॥
तत्र श्लोकौ भवतः—
पूर्वाबद्धो मानसो व्याधिरेष प्रत्याख्येपः साधनं तस्यनास्ति।
आगन्तुर्वा दोषजो वाऽपि रोगः साध्वीरोयः1194 सह्यते सोपहर्ता॥
वाग्भिाश्चित्राभिर्गीत1195वादित्रशब्दैः(?) सह्यते तु मानं स मानुषाणाम्।1196
आरण्यानां शङ्किनां वारणानां संतप्तानां नास्ति चित्तप्रसादः॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
पूर्वाबद्धो नाम त्रयोदशोऽध्यायः॥१३॥
_____________________
अथ चतुर्दशोऽध्यापः।
______________
अङ्गो हि राजा चम्पायां विनीतात्मा1197 महायशाः।
उपागम्याऽऽश्रमं रम्यंपालकाप्यं स्म पृच्छति॥
ये त्वया संग्रहाध्याये विसर्पाः पञ्च कीर्तिताः।
तेषां हृतं1198 यतो भूतं भगवन्वक्तुमर्हसि॥
एवं पृष्टोऽङ्गराजेन मालकाप्यस्ततोऽब्रवीत्।
प्रोवाच भगवान्प्रीतो हस्तिचारी महायशाः॥
तस्मै शुश्रूषमाणाय रोमपादाय धीमते।
श्वयथुः1199सर्पनियतः प्रस्थितो येन सर्वशः॥
स्फोटितोर्युतत्वाच्च…………………..1200।
विसर्पमेतैर्जानीयाद्गजं तं परमातुरम्1201।
मारुताद्याः प्रकुपिता विशन्ति धमनीं1202ततः॥
मांसशोणितमागम्य शोकं कुर्वन्ति भैरवम्।
स चाङ्गानि यथा गच्छेच्चलशोथो1203ऽनवस्थितः॥
तदा भवेद्विसर्पश्च तस्यस्थानानि मे शृणु।
संदानभा(गे कूर्मे1204 च पायो विष्के गले तथा॥
अष्टाङ्गं वक्रसंस्थश्च तत्पलेजनये तथा।
भागेष्वेतेषु नागानां श्वयथुः सर्वतोऽपि वा॥
आशीविषस्येव गतिर्लक्ष्यते पावकस्य च।
तद्वच्च समुदीर्णस्य विसर्पस्य समन्ततः॥
‘संसव्यं1205 प्रतिसहंर्तु मन्दिरोत्थो यथाऽनलः।
(?)सौक्ष्याइवत्यक्षतस्तद्वा द्विसर्पेइति क्रमः।
आदानं च निदानं च तस्यार्थान्विनिबोध मे॥
(?)रूक्षछाया कटुकान्नंपानवायो निषेवते।
प्रकृतिर्वातिकी यस्य तस्य वायुः प्रकुप्यति॥
शिराभिः कुपितश्चापि शरीरं विप्रधावति।
गात्रमन्यतमं प्राप्य विसर्पं कुरुते ततः॥
मृदुश्लक्ष्णःशिरानद्वो………………..1206।
प्रकुर्वन्वृद्धिमाप्नोति पिटकाभिः समन्वितः॥
श्रा(स्रा)वमत्यर्थमल्पं च स्फोटाः स्फटिकसंनिभाः।
तेऽकस्मात्पुरुषभावि स्वरन्तो भेदमागताः।
उष्णानि सविदाहानि साम्लानि च निषेवते।
प्रकृतिः पैत्तिकी यस्य तस्यपित्तं प्रकुप्यति॥
शिराभिः कुपितं चापि शरीरे विप्रधावति।
गात्रमन्यतमं प्राप्य विसर्पायोपकल्पते॥
अग्निदग्धोपमः स्फोटैः श्वयथुःश्रीयते ततः॥
सदाहैः……………….1207 समहातीव्रवेदनैः।
मञ्जिष्ठापद्मसंकाशःशिखिकण्ठनिभोऽपि च।
भिन्नाञ्जननिभः सा च प्रियङ्गुसदृशोऽपि वा॥
निःस्रवेद्यस्य गात्रेषु न स शक्यश्चिकित्सितुम्।
अग्नेःसमानकर्मत्वात्पित्तदोषसमन्वितम्।
केचिदग्निविसर्पं तु पृथगाचक्षते जनाः॥
यः स्निग्धमधुरं भोज्यं शीतभिक्षुं च सेवते।
प्रकृतिः कफजा यस्य श्लेष्मा यस्य प्रकुप्यति॥
शिराभिः कुपितं चापि शरीरं विप्रधावति।
गात्रमन्यतमं प्राप्य शोफं कुर्वन्त दन्तिनः॥
मन्दस्वेदप्रस्रवणः कण्डूमानथ शीतलम्।)
स्वल्परोगो घनस्पर्शः शीतकाले विवर्धते॥
चिरात्प्रच्यवते चापि चिराच्चैव प्रसिच्यते।
महास्फोटसमायुक्तो विसर्पः श्लैष्मिकः स्मृतः॥
स्वैः स्वैस्तु1208 कारणैर्दोषा युगपत्कुपिता नृप।
दर्शयन्ति स्वलिङ्गानि तस्य शेषाणि लक्षयेत्॥
विसर्पो मर्मजः सर्वो ह्यसाध्यः कीर्तितो बुधैः।
संनिपातहृतो भूतसाध्याचसततौ(?)स्मृ1209तौ॥
तत्र श्लोकः—
संसर्गलिङ्गानि कफस्प वायोः पित्तस्य रक्तस्य चसंनिपातम्।
दोषोत्थितं चापि तथा विदित्वा क्रियां यथावद्विहितां हि कुर्यात्॥

चतुर्दशो विसर्पाध्यायः॥१४॥
_______________
अथ पञ्चदशोऽध्यायः।

कीदृशो हृदयस्फा(ली1210 भगवन्वक्तुमर्हसि॥१॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत्।
अल्पसत्त्वस्य नागस्य भयादुद्विग्नचेतसः॥२॥
हृदयस्फाल)नो व्याधिर्हृदयस्थान उच्यते॥
अपूर्वाणां च रूपाणां गत्वा न त्वमदीयते(?)॥३॥
द्विविधानां च घोषाणां भयात्सद्यः प्रणश्यति॥
अरण्याद्ग्राममानीतो दृष्ट्वा रूपाणि वारणः॥४॥
सहसा वधबन्धाभ्यामकामाशनभोजनात्॥
भीतो भवति मातङ्गो विदीर्णहृदयस्ततः॥५॥
सान्त्वमानोऽपि1211 बहुधा संवीजत्येव राजिता॥
उद्विग्नचित्तो विमना हन्ति हस्तेन मेदिनीम्॥६॥
अधि धावति संतापः सर्वाङ्गे चास्य जायते1212॥
नखेभ्यश्चैव सर्वेभ्यो भयाद्रक्तं प्रवर्तते॥७॥
(?)ग्रहन्मन(?) इवाकारं1213 प्रव्या(ख्या)ति गुरुमक्षिकः॥
न वेत्ति द्विरदः संज्ञां दीनदृष्टिरवाङ्मुखः॥८॥
यवसं1214 नाभिलषति न तोयं नष्टचेतनः॥
पतमाना नग…..1215प्रत्याख्यायाऽऽचरेत्क्रियाम्॥९॥१५५०॥

हृदयस्फाली नाम पञ्चदशोऽध्यायः॥१५॥
_____________________
अथ षोडशोऽध्यायः।

वालक्षाणींसभैषज्यंसनिदानं प्रचक्ष्व1216 मे॥१॥
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत्॥
वालक्षाणी यदाऽऽगन्तुर्दोषजो वाऽपि जायते॥२॥
स वालक्षपणाद्व्याधिर्वालक्षाणी निरुच्यते॥
गुलिकास्थिसमूहश्च बहुशः सर्वतश्चलन्॥३॥
यतस्त्रिणतो1217बालधिस्तस्मात्संधिर्विधीयते॥
छिन्नं वा कटुयुक्तंवा (भक्षितं वा1218)पि दन्तिना॥४॥
तैलपात्रे सुतप्ते तं सद्य एव निमज्जयेत्॥
संपिष्टं मथितं वाऽपि बलसंघृष्टमेव1219 वा॥५॥
यष्टिमधुकं चूर्णाक्तंभ्रक्षयेन्मधुसर्पिषा॥
गाढबन्धाद्व्रणो यस्तु दण्डाघातेन वा भवेत्॥६॥
अश्मलोष्टप्रहारेण तस्य शीता क्रिया हिता॥
क्षतो वाऽप्यवलम्बी वा यदि च्छेदनमर्हति॥७॥
तं छित्त्वा तु भृशोष्णे तु तैलपात्रे तु मज्जयेत्॥
कृमयो यदि वाले स्युर्जाता भल्लातकैःसह॥८॥
विपाच्य सार्षपं तैलं सृणाष्टं क्षपयेद्व्रणे॥
पारापतमयूराणां कुक्कुटानां सकृद्रसम्॥९॥
समभागं सलवणं साधनीयं प्रलेपनम्॥
विडङ्गं चित्रकं किण्वं गोमूत्रं रजनीद्वयम्॥१०॥
लवणं शृङ्गवेरं च शोधनीयं प्रलेपनम्॥
(सुरसाङ्कील्लजातीनां926 पत्राण्यारग्वधस्य च॥११॥
(?)पां कां सलिलेन पिष्ट्वाश मूर्धा वै वेत्रवारुणी॥)
एतल्लवणसंयुक्तं शोधनीयं प्रलेपनम्॥१२॥
इदमन्यत्प्रवक्ष्यामि पिप्पली कटुरोहिणी॥
दन्ती कृष्णा विडङ्गानि श्वेतार्कक्षीरयोषिताम्॥१३॥
कृमिघ्नं साधनीयं च कुर्याद्वाले प्रलेपनम्॥
(?)साक्षामाशगृङ्गी चहरिवेरं सचन्दनम्॥१४॥
प्रलेपनमिदं कुर्याद्वालोपचयकारकम्॥
अतस्तृणौदनं सर्पीराजन्कुर्यात्सभेषजम्॥१५॥
प्रपुन्नाङ्गं विडङ्गं च कासीसं समनःशिलम्॥
ततस्तैलमिदं कार्यं व्रणाभ्यञ्जनमुत्तमम्॥१६॥
पुनर्नवां पयस्यां च सहदेवीं शतावरीम्॥
जीवन्तिकां वाजमाणां जीवकं चवकुं(कं) समा॥१७॥
सवहूं च विशल्यांच सहदेवीं तथैव च॥
सहां चैव हिणामूत्रे समभागानि कारयेत्॥१८॥
सद्यो व्रणे यथोक्ताभिः क्रियाभिः समुपाचरेत्॥
कुर्यात्संवरणं चास्य मृदितेनातिचर्मणा॥१९॥१५६९॥
** **तत्र श्लोकौ—
उद्दिष्टाश्चोपदिष्टाश्च क्रियाः सम्यक्प्रकीर्तिताः।
ऊहापोही च मेधावी वालक्षाणींप्रसाधयेत्1220॥
कालातीतः क्रियाभिर्वाऽतिक्रियाभिरतोऽपि वा।
अत्यन्तमक्रियाभिर्वा याति साध्योऽप्यसाध्यताम्॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्र-
रोगस्थाने वालक्षाणी नाम षोडशोऽध्यायः॥१६॥
__________________________
अथ सप्तदशोऽध्यायः।
________________
पालकाप्यमुवाचेदं कृतजप्यं कृताञ्जलिः॥
व्याचक्ष्व भगवन्व्याधिं मेढ्रक्षाणीं सभेषजम्॥१॥
स कथं मेढ्रक्षाणीति संज्ञया व्याधिरुच्यते॥
तेन ससंभवं ब्रह्मन्सनिरुक्तं प्रचक्ष्व मे॥२॥

मेढ्रक्षाणीं शृणु मया प्रोच्यमानं नृपोत्तम॥३॥
आगन्तुर्दोषजो वाऽपि मेढ्रक्षाणी प्रजायते।
मेढ्रक्षाणीति तत्राऽऽहुः क्षपणात्क्षरणात्कृतम्॥४॥
एष प्राणहरो व्याधिर्भवत्येवमुपेक्षणात्॥
तस्माद्यत्नेन संजातं चिकित्सितुमुपक्रमेत्॥५॥
प्रहृष्टमेढ्रो हर्षेण धेनुकासमभिप्लुतः॥
(?)अमुक्ते वा(मवापी तु1221) वार्यते यदि रेतसि॥६॥
अथवा मेढ्रमुद्यम्यधेनुकामभिधावतः॥
स्थाण्वश्मलोष्टवल्लीषु निर्वातोद1222परासुच1223॥७॥
समानपति1224…….. वालुकाजलपांशुभिः॥
राजदण्डेन वा मेढ्रं तृणैर्वाऽप्यपचारकात्॥८॥
मत्तस्यवा प्रस्रवतः क्लिन्नमूत्रेण पच्यते॥
रक्तपित्तकफैर्वाऽपि दुष्टैर्वाऽपि समन्वितः॥९॥
अभिघाताद्व्रणे1225वाऽस्य नीलं वा रक्तमेव वा॥
शूनं सवेदनं सोष्णं संहर्तुं न च शक्यते॥१०॥
सर्वं वाऽप्येकदेशं वा शून्यं भवति नाहितम्॥
(स्फुटिता)1226 स्फुटितं वाऽपि व्रणे वा तत्र दृश्यते॥११॥
रेतसो निग्रहान्मेढ्रेऽपिटकाग्रन्थयोरपि॥
वाह्यते पीड्यते वाऽपि मूत्रं वा न प्रवर्तते॥१२॥
मुक्तं वा प्रस्रवेन्नित्यं श्याववर्णं च दृश्यते॥
दोषधातुप्रकोपेन निदानं ब्रुवतः शृणु॥१३॥
विवर्णमुष्णनीलं च पीतं पित्तेन जायते॥
(ताम्रं सवेदनं सोष्णं कोपाद्रक्तस्य जायते॥१४॥1227)
शूनं वाऽप्यरुणं वाऽपि कफेन कठिनं भवेत्॥
शीतस्निग्धं च शूनं च विस्रं1228वाऽत्यर्थवेदनम्॥१५॥
म्लानं वातेन परुषं श्यावं चात्यर्थवेदनम्॥
संनिपातात्तु दोषाणां सर्वलिङ्गानि लक्षयेत्॥१६॥
व्यक्तानि सर्वलिङ्गानि मेढ्रस्थानगतानि च॥
निष्क्रष्टुं तत्प्रवेष्टुं वा वेदनार्तोमतङ्गजः॥१७॥
……. ……. ……. ……… …….. …… …..1229।
न शक्नोति प्रवेष्टुं वा निष्क्रष्टुं शूनमेहनम्॥
अथ कोशस्थमेढ्रो वा मूत्रं कृच्छ्रेण मेहति।
निष्कृष्टमिव शूनं हि प्रलम्बं चास्य दृश्यते॥
वेदनार्तश्च मातङ्गो वालुकापांशुकर्दमैः।
जलेन चाप्यवकिरेत्सततं बहुशो गजः1230॥
क्रिमयो वाऽस्य जायन्ते शीर्यन्ते वारि सर्वशः।
काला—वर्तनान्मे1231ढ्रसंवादव्याधिना नृप॥
एतैर्निदानैर्जानीयान्मेढ्रक्षाणींगजस्य च।
चिकित्सितमतस्त्वं च शृणु कीतर्यतो मम॥
उत्पन्नमात्र संबन्धे नुतकां(?) प्लावयेद्गजम्।
अमुक्तेष्वनुमु1232क्तेषुलिङ्गं शूनं भवेद्यदि॥
विमुक्तशुक्रोमातङ्गः सद्यः संपद्यते सुखी।
अत्यङ्गं यदि शूनं स्पाच्छतधौतेन सर्पिषा॥
सर्पिर्मण्डेन वा मेढ्रं बहुशः परिषेचयेत्।
प्रकृतेः सह्यते नास्य सर्वमेको विधीयते॥
क्षारवृक्षत्वचोभिर्वा सिद्धं मधुरकैर्घृतम्।
शतावर्या च निष्क्वाथे बलाभ्यां मधुकेन च॥
सम्यक्सिद्धं सदुग्धं च तदभ्यञ्जनमिष्यते।
उदुम्बरत्वक्कल्केन घृतमिश्रेण लेपनम्॥
त्वग्भिर्वा क्षीरवृक्षाणां सघृताभिः प्रलेपयेत्।
सर्जार्जुनेन्द्रवृक्षाणां सल्लकीसोमवल्कयोः॥
धवाश्वकर्णतिनिशत्वग्भिर्वा क्वाथयेज्जलम्।
पादावशिष्टं संश्रा(स्रा)व्य मेढ्रक्षाणी विलीयते+1233॥
(?)चणणिमूलं1234 तृणपञ्चकं ससल्लीकीबद्धं च बिल्वमूलम्।
आदित्यमल्लीमशिरोहिणीं च1235चूर्णं तिलानां च स प्रणुद्य॥
लौह्यांदृढायामथवाऽप्युखायांतस्याक्षिणी संप्रतिवार्यसर्वतः।
स्वेदं च दद्याद्विरदस्यहस्ते स्वेदे हृते तस्य ततश्च नेत्रे॥
सिञ्चेदजायाः पयसा च वैद्यः प्रत्यञ्जनं चेक्षुरकस्य मूलम्।
घृतस्य मण्डेन मधुप्रयुक्तं तर्कारिवंशा …….पत्रभङ्गम्॥
दुःखं सशौभाञ्जनपत्रभङ्गं पिष्टं तिलानां च विपाच्य कार्यम्।
स्वेदा यथापूर्वमुदाहृतास्ते गोधूमसिद्धार्थंककोरदूषाः॥
व्रीहिस्तिलाः स्युर्बदरीफलानि……………………………1200।
अक्षस्य भङ्गं च विपाच्य दुःखे स्वेदोऽस्य नाड्या प्रविचार्य नेत्रे।
धवस्तिलाः पाटलिपत्रभङ्गैस्तेनैव कल्पेन तथैव कार्यः॥
स्वेदो गजस्यप्रविचार्य1236नेत्रमेरण्डबिल्वार्कमथाग्निरब्दैः।
माषास्वदृग्वस्तिलपिष्टमिष्टं स्वेदस्तथैवाक्षिनिमीलितस्य॥
कार्यो यथा……………………………….1215विहितः…………।
अभ्यक्तदेहस्य तु सर्वतोऽपि स्वेदो यथावत्प्रतिवार्य नेत्रे।
स्वेदेषु सर्वेषु तथैव कार्यं नेत्राञ्जनं स्यात्परिषेचनं च।
(कटुत्रयं स्यात्कटुरोहिणी चसव्याघ्रिकासैन्धवमित्यनेन।
चूर्णीकृतेनाऽऽशु गजस्य कुर्यात्प्रध्मापनं सम्यगतीव पथ्यम्॥1009
सर्वौषधीभिः1009) कटुकैश्च सर्वैर्हृद्यैश्च गन्धैरथ सर्विषा च।
पुनः पुनस्तस्य करं गजस्यसंधूपयेत्संप्रतिवी(वा)र्यनेत्रे॥
घृतं पुराणं कवखैश्च(?) सैन्धवं नस्यंप्रदद्याद्द्विरदस्य1237वैद्यः।
तथा सुरां वाऽपि चिरस्थितां तु चिरस्थितं तु वामेववाच(?)॥
मृदूनि चित्राणि तृणानि कस्मै मुद्गौदनं चापि घृतप्रगाढम्।
दद्यान्न कर्माणि च कारयेत स्थानं च शय्या च यथासुखं भवेत्॥१६१०॥
तत्र श्लोकः—
एवं क्रियाभिर्विधिवत्कृताभिर्हस्ति(स्त)ग्रहः क्षिप्रमुपैति शान्तिम्।
तेजो वपुष्येव च वीर्यपुष्टौ रोगप्रणाशात्क्रमशो भवन्ति॥
इति श्रीपालकाप्येहस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
सप्तदशो हस्तग्रहणाध्यायः॥१७॥
________________________
अथाष्टादशोऽध्यायः।
____________
पालकाप्य उवाच—
संचितैर्बहुभिर्दोषैःकोष्ठे1238वायुः समीरितः।
उन्मत्तानि कष्टयनि(?) हस्तोन्मथितसंज्ञकः॥
स ह्यसाध्यो महाराज प्रयाणं चेद्रुणद्धि वै।
निदानानि षडेव स्युर्यैर्न जीवति वारणः॥
आध्मायत्येष1239 मन्यास्थश्लेष्मा हस्तात्प्रसिच्यते।
सरक्तो1240मधुरस्तीव्रो मुखाद्गच्छति हस्तिनः॥
प्रतप्तरूपो विमनाः करेणाऽऽहन्ति मेदिनीम्।
विलङ्घनं च बहुशः करोति च विघर्षणम्॥
एवमेतैर्विजानीयात्सप्तरात्राद्यथा गजः।
(?)सज्योस्वोव्यथयत्यर्थंनमन्ते शङ्कुविद्धवत्॥
(?)हस्तवालविस्तस्य …………..1215कूजति तिष्ठति।
अष्टरात्रात्परं तस्य जीवितं नास्ति हस्तिनः।
श्यावस्तब्धकरो रक्तं मिश्रं वमथुना स्रवेत्॥
प्रमेहति च यः शुक्रं नवाहात्स विनश्यति।
श्लेष्मा घुरुघुरान्कुर्वन्करात्स्रवति दन्तिनः।
ऊर्ध्वं समुत्क्षिपेद्धस्तं मेहतीन्द्रियमेव च॥
दशरात्रात्तु प्राणांस्तु चतुर्थस्त्यजति द्विपः।
मञ्जिष्ठाभो1241 गजो यस्तु तथौष्ठः पिटकाञ्चितः॥
स्थानर1242क्ताभनयो व्यथते च कुतश्च यः।
एकादशे च दिवसे पञ्चमो म्रियते गजः॥
नीलः श्यावः सितो रक्तस्तथा हस्तः सवेदनः।
एकेन पश्यतक्षणः(?) स षष्ठो द्वादशाहिकः ॥
तत्र श्लोकः—
षडेते सनिदानाः स्युरसाध्याः कीर्तिता गजाः।
हस्तोन्मथितसंज्ञस्यविकारस्य समासतः॥

गस्थाने हस्तोन्मथितो नामाष्टादशोऽध्यायः॥१८॥
______________________
अथैकोनविंशोऽध्यायः।
______________
अङ्गो हि राजा चम्पायांपालकाप्यं स्म पृच्छति॥
त्वया यः संग्रहाध्याय उदावर्तः प्रकीर्तितः॥
तस्य लक्षणमुत्पत्तिं चिकित्सां च प्रचक्ष्व मे।

रौक्ष्याच्च विविधायासाद्विषमाच्चैव भोजनात्।
अभोजनान्मनस्तापादुत्थानाच्छयनादपि॥
वायुः प्रकुपितः स्थानाद्धृदयं संप्रहापयेत्।
(?)हृदयस्थल : क्रयात्तमत्रगे………..1243तथा॥
(?)गात्राद्यां लघूनवैव……..1244नेत्रेविष्टेनमदम्।
कृच्छ्रं मूत्रं पुरीषं तु वैषम्यं जठरस्य च॥
स संकुचितपक्षेण उरो विजयते1245 स्फुटम्।
कदाचित्स्वस्थदेहः स्यादस्वस्थश्च भवेत्पुनः॥
तस्याभ्यङ्गे तथा पाने तैलं …..1246स्वरूकस्य वा।
एरण्डनक्तमालस्य तैलं तच्छान्तये हितम्॥
विष्किरैर्जाङ्गलैर्मासै ………………………1247।
बस्तयो विहितास्तस्य सनिरूहानुवासनाम्॥
पञ्चमूलं शृतं कोष्ठमाविकं वा पयः पिबेत्।
ग्रहणीदीपनीयानि बृंहणीयानि यानि च॥
तानिकार्याणि सर्वाणि रोगशान्तौ क्रमादिति।
इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने वृद्धोपदेशे द्वितीये क्षुद्र-
रोगस्थान उदावर्तो1248नामैकोनविंशोऽध्यायः॥१९॥
__________________
अथ विंशोऽध्यायः।
______________
अथ भगवन्तं पालकाप्यं रोमपादोऽङ्गाधिपतिरपृच्छत्—‘भगवन् य एषउत्कर्णको1249 नाम व्याधिः कथं भवति, किं चास्य विज्ञानं चिकित्सितं चभवेत्’ इति॥
अथ स उवाच पालकाप्यःपृष्टोऽङ्गराजेन—इह खलुभो वारणानां वातपित्तकफैः सर्वव्याधयः संभवन्ति। अत एव शरीरं धारयन्ति स्वेषु स्थिताःस्थानेषु कुपिताः1250, समधातुप्रविभक्ताः, कुपिताः स्वेषु स्थानेषु धाता(तून्)न्यूनातिरिक्तान्व्याधीञ्जनयन्ति॥
तत्र रूक्षतालघुकटुकविषमतिक्तकषायभोजनादभिवातान्मध्याप्रयोगाहृतच्चत्वरि1251 (?)क्लेशादव्याधिविभागज्ञैःकृतैश्चोपकारै1252-र्मनसश्चोपतापाहुःस्थानशयनाद्रात्रिजागरणात्कुप्यति पवनः। स कुपितः कष्टं वर्तलाङ्गुलमन्याः1253 स्तम्भयति।तं कोष्ठमयानि च स्वास्यनिश्चेष्टाङ्गान्यभिसमीक्ष्य द्रया(?)दुत्कर्णकं नामव्याधिं वातजं विकारं प्राणहरं नागस्य॥
तस्य घृतवसातैलैः सुखोष्णैः सर्वसेकः। वातहरगणसंयुक्तं स्वेदं कारयेदभ्यङ्गपरिमर्दनं च। तीक्ष्णोष्णाम्ललवणस्निग्धं हितं मितं भोजनं व्यायामस्यमपय्य(?)सुखशय्यास्थानानि मनोनुकूलानि यवसानि च विदध्यात्। अथास्यश्योनाकाग्निमन्थचिरबिल्वपाटलाश्रीपर्णीवर्षाभूपत्रभङ्गान्समानीय पयसा क्वाथयित्वा घृतमण्डेन कृताभ्यङ्गस्य नाडीस्वेदं विदध्यात्। खड्गमहिषक्रौञ्चमयूराणामन्यतमस्य मांसेन दधिमस्तुसंयुक्तामुष्णां यवागूं सुस्निग्धां सुव्यक्तलवणां प्रातः पाययेत्। व्याधिरुत्कर्णकः पीतेन तेन विनश्यति। स्तूपस्वा(?)हिंस्रागुडूचीचिरबिल्वेषु तैलं विपाच्याभ्यङ्गं कारयेत्। नक्त1254क्रौञ्चकुक्कुट-प्लवमुद्गम1255यूराणामन्यतमस्यद्वयोः सर्वेषां वा यथोपपत्त्या यवागूदधिपिप्पलीमरिचसुरभीकतान्स्नेहसस्वाता(?)पाययेद्वारणम्। ततश्चैनं वाराहं वा1256रसं भूतैर्लेपयेत्। मात्रया जीर्णविशुद्धकोष्ठं भोजयेत्। अथास्य प्रवृत्तमूत्रस्य पुरीषपोर्हनुस्तम्भीच भवति। प्रत्याख्येयः स्यादुत्पन्नारिष्टश्च वारणः। तस्मादग्निमिव वेश्मन्युत्थितं सर्वयत्नैश्च शमयेत व्याधिमुत्कर्णकम्॥
तत्र श्लोकाः—
मेदःस्थाने स्थितः प्राणोऽपानो ……. स्थिसंस्थितः1257।
समानो मांसमध्यस्थो ठयानो रेतसि संस्थितः॥
उदानश्च भगवतु(?)मञ्जस्थाने व्यवस्थितः।
प्राणविप्रतिपत्तौ तु दुःखोच्छ्वासो भवेद्द्विपः॥
चित्तविभ्रममूर्छा च शीतोच्छ्वासस्तथैव च।
लाला प्रवर्ततेऽत्यर्थं क्षयश्चैव तथा भवेत्॥
वेदनार्तश्च ……..जरे तथा श्वसिति वारणः।
अवगण्डाश्च जायन्ते मूत्रसङ्गस्तथा परे॥
शर्कराश्चैव जायन्ते तथा शुक्रनिरो1258धनम्।
अप्रसृष्टस्य त्वस…..स्य तथा मूत्रपुरीषयोः॥
समानस्यातिकोपेन भोजनं नाभिनन्दति।
अग्निदुर्बलपांश्वैव वेदनार्तश्च वारणः॥
आनाहाश्चापि जायन्ते हृद्रोगाश्च महीपते।
गुल्माश्चैव तु विज्ञेया देहवार्पि(?) तथाऽपरः॥
कुराश्चैव तु विज्ञेया घोरा प्राणविनाशनः।
व्यानविप्रतिपत्तौ तु धातुवैषम्यसंभवः।
तस्याधिक1259 —राश्चैव संभवन्ति क्षये तथा॥
छवीदोषाश्च जायन्ते शोफा अपि तथा परे।
एकाङ्गभङ्गस्तम्भश्च संकोचो भङ्ग एव वा॥
समकं नयनं भेदः स्वेदो वमथुरेव च।
अक्षिरोगाश्च जायन्ते ते तथोक्ता1260 य एव च॥
अपानश्चापि………………ससंभवस्तथा घनः।
शूलं च गलगण्डं च ………………………॥
इन्द्रियाणां निरोधात्स्यादुदावर्तश्च दारुणः।
शर्कराबस्तिशूलं च सद्गोमूत्रपुरीषयोः।
इत्येष व्याधिनिर्देशो भेदाश्च बहवः स्मृताः॥
अथ श्लेष्मप्रकोपेण गौरवं स्तम्भ एव च।
श्वेताभासो भवेन्नागः कण्ठश्ले1261ष्मस्य जायते1262॥
हृदयं पीड्यते वाऽस्य यवसं नाभिनन्दति।
भोजनस्य विपाकश्च क्षयश्चैव तथा भवेत्॥
अथ पित्तप्रकोपेण पीतगात्रो भवेद्द्विपः।
मृदुशीताभिलाषश्च मूर्छा शोकश्च जायते॥
शोणितस्य प्रकोपेण पाण्डुरोगश्च जायते॥
ददृवःकृमिकोष्ठश्च वपुर्वैवर्ण्यमेव च।
एतान्येव तु सर्वाणि वातपित्तकफासृजाम्।
दोषाणां संनिपातेन प्राणादींश्चात्र लक्षयेत्॥
एवमेतदधिष्ठानं चेतनाधातुसंज्ञितम्।
अव्यक्ताश्चैव राजेन्द्र देवब्रह्मगुणार्जनम्1263॥
अधिष्ठानस्य गोप्ता तु विज्ञतां1264 चेन्द्रियेण तु।
जीव एष1265 महाराज स्वगुणासंज्ञितो भवेत्॥
एते दात्वग्गणसंयुक्तौ(?)देहिने विप्रभोजने।
प्राणापानौ च पञ्चा वा(?)भूत्वा वायुः शरीरिणाम्॥
…. …… …. …. ….. ….. बिभर्ति भगवान्प्रभुः।
सर्ववातात्मकं विद्याज्जगत्स्थावरजङ्गमम्॥
मनोवाक्कायचेष्टासु विश्वरूपो हि मारुतः॥
तस्मात्सदाविहारैः_____स्नेहनैर्बृंहणैर्हितैः।
प्राणानां रक्षणार्थं च वीते यत्नं समाचरेत्॥
इतिश्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
माहपाठ उत्कर्णको नाम विंशोऽध्यायः॥२०॥
————————
अथैकविंशोऽध्यायः।
___________
अयमन्यो महाराज व्याधिर्वातगतिस्तु यः॥
प्रोच्यते वारणेन्द्राणां कष्टः संज्ञाप्रणाशयः1266॥
रूक्षैः कषायरूक्षैर्वा वातलैरुपसेवितैः1267॥
रसैर्वातगतिर्विद्यान्न्यायमेन1268 क्षणेन च॥
(?)मस्तुवाच्यकस्माद्वानं1269 घनेनोपवनेन वा॥
तत्र खलु भो वातगतिव्याध्युपसृष्टस्य निदानानीमानि भवन्ति। तद्यथा—भ्रमति पतति विह्वलति गुह्यति1270स्तनति न विजानाति संज्ञाम्, प्रत्यर्थं वेदयति प्रहीत्युक्तेनापि1271 सर्पति निषीदत्युत्तिष्ठति क्षम्यमाणः क्रुध्यति स्तम्भं पर्येतिस्थूलोच्छ्वासश्वान क्षमेन(?)ते सर्वमिच्छति हन्तुमुन्मत्त इव भवति॥
तस्यैवं वातगतिव्याध्युपसृष्टस्य प्रातरनाशितस्य सुरा1272 प्रसन्ना वात्यहिवातया(?)मनुद्गरीसनयुक्तां दद्यात्। अथैनं यवसा1273 नकुलस्प माषसरिषपखड्गकटुकमत्स्यैः सघृतैर्धूपयेत्। भूयश्चसर्जरसमरिचहिङ्गुमनःशिलाभिः सघृताभिर्धूपयेत्। ततश्च कर्कटककटु-कालाबूनदीमत्स्यशकलैः सघृतैर्धूपयेत्।अथवाह्रीवेरोशीरबिल्वस्योनाकमांसीमञ्जिष्ठाकुष्ठहिङ्गुलाक्षातगरतरुणबिल्वैः सघृतैर्धूपयेत्। मरिचमनःशिलासूक्ष्मैलाभिः पयसा श्लक्ष्णं पिष्ट्वाऽञ्जनं कुर्यात्।हिङ्गुमरिचशिखिपित्तैरञ्जितस्य प्रत्यञ्जनं कुर्यात्। तक्षाया(?)ग्निमन्थनक्तमालपाटलीपत्रभङ्गाञ्जले क्वाथयेत्। दद्याद्वा त्रिरण्डतर्कारीमांसीमूलानि। ततश्चच तुषं भवता(?)परिसाध्य तेन निक्वाथेन विधिवद्घृतंविपाच्य कुलत्थरसेनसह पाययेन्नागम्। उभयोः पञ्चमूलयोर्निक्वाथेन मुद्गयूषं सुखोष्णं सघृतं पाययेत्। भोजयेच्च। ततश्चैनं यवसानि यथोक्तानि वातप्रशमनानि दद्यात्॥
तत्र श्लोकः—
विविधैरुपक्रमैः शेषैर्वातगतिं समीक्ष्य मेधावी।
प्रयत्नेनाणु चिकित्सितुमुपेक्षिहेति(?)मानहमिति॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोग-
स्थाने वातगतिर्नामैकविंशोऽध्यायः॥२१॥
अथ द्वाविंशोऽध्यायः।
______________
अङ्गाधिपतिरव्यग्रं पालकाप्यं द्विजर्षभम्।
विनयेनोपसंगम्य पप्रच्छ स कृताञ्जलिः॥
यथा मन्याग्रहो व्याधिःप्रादुर्भवति हस्तिनाम्।
साध्यः स च यथा वैद्यैस्तन्मे व्याचक्ष्व पृच्छतः॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत्।
शृणु सर्वं विशेषेण व्याधिंमन्याग्रहं नृप॥
सादानं च निदानं च तथैव सचिकित्सितम्।
सहसा वा प्रसक्तं वा वर्णादानेन वाह्यते॥
धावतः प्लवतो वाऽपि सहसाऽङ्कुशनिग्रहात्।
वने प्रतिगजस्तम्भकलादिभिरथापि वा॥
असम्यक्कार्यतो वाऽपि वारणस्य च वा वधम्॥
प्रतिहस्त्यभिघाताद्वा प्रकोपादनिलस्य च।
एवमादिभिरन्यैश्च सेचितैर्मन्ययोर्गतः॥
संतापाःश्वयथुस्तस्य वेदना चोपजायते।
मन्ययोः करिणः स्कन्धे ग्रीवायां चैव दन्तिनः।
तदाश्रयेण चेष्टन्तां निवृत्तिश्चास्य जायते॥
परिम्लानाक्षिवदनोऽपरगुह्यं च लक्ष्यते।
कृच्छ्राल्लालामहा___रनुयुङ्क्तेशनैः शनैः॥
तं सुखोष्णैस्त्रिभिः स्नेहैःप्रक्वाथ्य परिषेचयेत्।
कर्तव्यं मर्दनं चापि मन्यादिष्वञ्जनादिभिः॥
कदुष्णैश्चापि1274 निक्वाथैः कार्यं तस्याभिषेचनम्।
तथा धूपोदकैर्वा___वसाभिः1275 कारयेद्भिषक्॥
कार्योमत्स्यादिभिः स्वेदो यथा दोषमुपक्रमे।
व्रीहीन्कङ्गून्यवान्माषान्गोधूमान्विपुलांस्तिलान्।
अतस्येरण्डयोर्बीजान्याढकीशणयोरपि।
मन्यास्तम्भे तु संगृह्य पञ्चमूलं च पेषयेत्॥
तं कल्कं तिलसंयुक्तं पी(पे)षयेत्कां च मारयेत्॥
पूर्वकाये ततस्तस्यतेन कल्केन लेपयेत्।
वेदना श्वयथुः स्तम्भस्तेन शाम्यति मन्ययोः॥
शाल्योदनं ससर्पिष्कं भोजयेद्वसुसंयुतम्।
मृदूनि हरितान्यस्मै यवसानि प्रदापयेत्॥
तैलं नस्ये घृतं पाने व्याधिमुक्ताय दन्तिने।
दद्यादथो क्रमात्तस्मै बलं मांसं विवर्धयेत्॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहामवचने वृद्धोपदेशे महापाठे द्वितीये
क्षुद्ररोगस्थाने मन्याग्रहो नाम द्वाविंशोऽध्यायः॥२२॥
_______________________
अथ त्रयोविंशोऽध्यायः।
_______________
अङ्गो हि राजा चम्पायांपालकाप्यं स्म पृच्छति।
मदक्षीणं हि मातङ्गं मह्यमाचक्ष्व पृच्छते॥
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत्।
मदान्मनुजशार्दूल मातङ्गोनाभियोज्यते॥
प्रहर्षादतिमात्रं च व्यायामं कुरुते गजम्।
नदीतटनगानां च विहारात्परिधावनात्1276॥
श्रमादनशनाच्चापि क्षीयन्ते सर्वधातवः।
करात्कटाभ्यां मेढ्राच्च नेत्राभ्यां च परिश्रु(स्रु)तेः॥
मनसो विभ्रमाद्धर्षादत्यन्तं कुरुते क्षयम्।
स क्षीणधातुर्विमनाः शोषमृच्छति वारणः॥
मदेन क्षीणधातुत्वान्मदक्षीणः स उच्यते।
तस्य दुग्धं शृतं गव्यं सघृतं पानमिष्यते॥
जीवकर्षभकाभ्यां च शृतं शर्करया सह।
द्वाभ्यां वा पञ्चमूलाभ्यां शृतं सघृतशर्करम्॥
पयो वा मधुकद्राक्षाबिल्वैश्च सह साधितम्।
सफाणितं पिबेद्वाऽपि धारोष्णं वाऽपि संस्कृतम्॥
कृशरां सुशृतां भोज्यो दध्नाशाल्यन्नमेव च।
रसेन कृष्णमत्स्यस्य रोहितस्यापि वा गजः॥
पठ्यर्तुसुखसह्यं1277च सुखस्थानं च वारणः।
भवेत्सुखावलानश्च यथासुखपरिक्रमः॥
पेशलैर्मधुरैः स्निग्धैर्बृंहणीयैरुपाचरेत्।
मदक्षीणं गजं सम्यग्यवसैः पानभोजनैः॥
वक्ष्यते समदोषश्च मदोत्पत्तिविनिश्चयम्॥
मनीषिभिर्मदो दृष्टः स्वस्थवृत्ते तु हस्तिनाम्॥
सोपद्रवचिकित्सा च प्रभिन्नेषु प्रपद्यते।
मदे व्यय1278 (प)गते क्षीणं तं सम्यग्बृंहयेद्गजम्॥
इक्षुभिः शालिपादेन दूर्वया हरितैस्तृणैः।
पल्लवैः कुवलैश्चैनं तर्पयेद्विधिवद्भिषक्॥
एवं यस्तर्पयेत्सम्यग्बृंहणीयैरुपक्रमैः।
समुद्रवसनां कृत्वा स राजा वसुधां1279जयेत्॥
आरोग्या बलवन्तश्च वारणास्तस्य भूमिप।
भवन्ति संधेयमदाः संग्रामे च जयावहाः॥
योगेनैतेन राजेन्द्र यस्तु प्रक्रमते द्विपान्।
कालाः कालेषु माद्यन्ति वयोतीता अपि द्विपाः॥
ये च नष्टर्तुका नागा ये चर्तुसु1280नियोजिताः।
सुपुष्टाश्चापि ते राजन्मदं गृह्णन्ति वारणाः॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः।
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने महा-
पाठे मदक्षीणो नाम त्रयोविंशोऽध्यायः॥२३॥
________________________
अथ चतुर्विशोऽध्यायः।
_______________
बभूव राजा1281 प्रथितः पृथिव्यां महाधिपः शक्रसमप्रभावः।
हुताग्निहोत्रं परमं मुनीनां सत्सत्यवेदव्रतधर्मयुक्तम्॥
राजा द्विपानां हितकाममूचे तं पालकाप्यं शिरसा प्रणम्य।
यःपोष्यमाणो1282 विविधैः प्रयोगैर्नाऽऽप्यायते क्षीयत एव नागः॥
तस्य क्रमाप्यायनकारणं तु यथागमं मे भगवान्ब्रवीतु।
स एवमुक्तस्तु नराधिपेन भृशं सुनिश्चित्य मुनिर्बभाषे॥
महाभयाद्वायुशिराःकोपयति वृद्धा ………………….।
तस्य प्रकोपाद्यवसान्नपानैर्नाऽऽध्यायते क्षीयत एव नागः॥
यत्क्षीयते तेन कृशः स नागस्तस्यापि कार्यं कुशलेन शीघ्रम्।
वक्ष्याम्यहं तेन तु राजसिंह कृष्णं बलं क्षीणविधिर्यथावत्*1283॥
विरेचनं तस्य तु सर्पिषेव शुद्धे च कोष्ठे त्वथ बृंहणं स्यात्।
मनःप्रसादं जनयेत्तदाऽस्य प्रीतिर्बलं चैव विवर्धतेऽस्य॥
मेहांश्च दद्यात्कवलानथास्मै …………………………….1284।
काकोलितर्कार्यमृतात्मगुप्ताविदार्यपामार्गयुताश्वगन्धा॥
एरण्डमूलं त्वथ मुद्गपर्णी प्रतिस्वभावं नयति स्वमांसम्॥
समाषपर्णी सहिरण्य ……………………………………1284।
……………………..कारा सपारिभद्रा त्वथ शाल्मली च॥
आवर्तसीन्वा1285 (?) सहितोऽग्निमन्थस्तथांऽऽटरूषं सह कच्छुराभिः।
एवंप्रकाराणि च बृंहणानि सांकर1286्ययुक्तानि यथाक्रमेण॥
दद्याददाहीनि समीक्ष्य काले यथाग्निमात्रं कवलांस्तु मुख्यान्।
सधन्वनं शेलुशिरीषकाभ्यां समोरटां क्षीरविदारिकां च॥
प्राग्भोजने चोत्तरभोजने वा त्रीन्द्वौ तथैकं कवलं तु मुख्ये।
पलानि विंशत्यल(?)संख्ययाऽस्मै तथोत्तमे मध्यजघन्ययोश्च॥
नो क्षीरपानं सघृतं च देयं प्रागुत्थितस्थानगतायदद्यात्।
शाल्योदनं चैव घृतौदनं च तृतीयभागेऽहनि सत्त्वभोज्यम्॥
भूयस्तथा सात्म्यविशुद्धिहेतु परीक्ष्य नागं च दृशैव काले।
मृदुः सुसिद्धं विशदं च भोज्यं शाल्योदनं सस्फुरितं च घासम्॥
कुलेचराणां जलचारिणां च सर्वाणि मांसानि हितानि राजन्।
स्थाल्यां सुसिद्धानि घृतोत्तराणि भोज्यस्तथा दाडिमसाधितानि॥
कल्पे तु दत्ते द्विरदो …………………………………………।1287
…………………………….दभोज्यः तदन्नशेषं च रसानुपानम्॥
आनूपसत्वोदकजाङ्गलानां मज्जावसाभिः खलु तस्य देया॥
ज्ञात्वा त्ववस्थासदृशं1288 च काले कुशं विदित्वा भ्रमपीडितं च।
सदाहमूर्छाभ्रमयुक्तमेनं पादेषु गाढं परिगाढयेत।
शेषं विधानं तु कृशेषु यत्स्यात्क्षयेषु तद्वक्ष्यति विस्तरेण॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने
चतुर्विंशः कृशाध्यायः॥२४॥
______________________
अथ पञ्चविंशोऽध्यायः।
__________________
अथ बलक्षीणमध्यायं व्याख्यास्यामः॥
इति ह स्माऽऽह भगवान्पालकाप्यः। विराट्पृच्छति मयेज्ञयेन्नित्यम्1289 (?)
न चापि तैलं न घृतं न दुग्धं न चापि मांसं न रसं त्यमन्य(?)
मद्येन शुध्येत्सकणैस्तृणैश्च…………………………………….।
अबद्वमांसो वठरोऽतिमात्रं न च स्थिरः कर्मसु सं1290प्रमत्तम्।
स हीयते यो द्विरदो बलेन तस्माद्बलक्षीण इति प्रदिष्टः॥
उत्साहतेजोबलविप्रयोगाद्व्याधिः स्पृशत्येवमतीव कष्टः।
तैलं घृतं वा स तु सप्तरात्रं शुद्धं पिबेत्स्नेहविधौ यथोक्तम्॥
मायूरवाराहरसैर्यथावदैणैश्च लावैरथ कौक्कुटैश्च।
स्निग्धै रसैर्जाङ्गलजैश्च भोज्यः शाल्योदनं तांश्च रसान्पिबेत्सः॥
सफाणितां वाऽपि पिबेत्प्रसन्नां चिरस्थितां चापि तथाऽऽसवं तु।
शृङ्गाटकीनीक्षुविशानि दूर्वा सफाणितं स्याद्यवसं विधेयम्॥
स्निग्धैश्च पथ्यैश्च रसैर्यथावत्संवर्धयेत्तस्य बलं द्विपस्य।
संजातवीर्यं बलसंप्रयुक्तं क्रमेण कर्माण्यपि कारयेत॥

बलक्षीणो नाम पञ्चविंशोऽध्यायः॥२५॥
_____________________
अथ षड्विंशोऽध्यायः।
________________
अथातः श्लेष्माभिषन्ननामाध्यायं व्याख्यास्यामः॥
(इति ह स्माऽऽह भगवान्पालकाप्यः।) श्लेष्माभिवर्णः संभवति स्निग्धमधुरगुरुघनशिशिरपेशलाहारस्य दधितिलपललगुड-विविधजलचरानूपमांसरसनक्रमकरशिशुमारकुक्कुटकोर1291भ्रमहिषवराहमांसरसभोजनान्नित्यंसुविहितान्वययवसकवलकुवलपल्लवोपयोगादव्यायामादभ्यपरि-सरणीं क्षीरवसामेदःसर्पिषामतिसेवनाद्वा श्लेष्मा प्रवृद्धः सर्वशरीरमभिव्याप्य जनयति कुष्ठकिटिम(?)दद्रुपटलकण्डूकिलासानि। तस्योष्णक्षीरकटुकलवणतिक्तकषायाणि भक्ष्यभोज्यपेयलेह्यानि दद्यात्। अस्नेहलवणान्यवान्कोद्रवान्मुद्रकुलत्थयारेन्यतमस्य यूषेणाभोज्ययवसानि चोष्णवीर्याणि यवसाध्यायोक्तानि दापयेत्। वद्ध्वासवकषायपानानि यथायोगं दद्यात्। त्वग्दोषाणां प्रवृद्धानां प्रच्छन्नच्छेदनलेखनदहनाहरणानि यथायोगं कुर्यात्। द्विव्रणीयोक्तेन विधिना यथाशास्त्रमुपाचरेत्। (सर्षपहरिता-लकीसीस1292राष्ट्रिकारसाञ्जनमनःशिलाभिर्लवणगोमूत्रयुक्ताभिस्तिलतैलं पक्वंसर्वाभ्यङ्गं कारयेत्।) व्रणविधिनाऽथोपक्रमेद्विधिवदिति॥
तत्र श्लोकः—
व्यायामैः परिसरणैः क्रमेण धीमांस्तीक्ष्णोष्णैः कटुकषायतिक्तरुक्षैः।
श्लेष्मघ्नैर्नृप रसभोजनैश्च हन्यादुद्वृत्तं कथनमेव वायुरन्तः परीक्ष्येत्(?)॥

स्थाने श्लेष्माभिषन्नो नाम षड्विंशोऽध्यायः॥२६॥
__________________
अथ सप्तविंशोऽध्यायः।
________________
अथ भगवन्तं पालकाप्यं रोमपादः पप्रच्छ—भगवन्वारणानां मुखद्वारविशुद्धानां चिकित्सितं व्याख्यातम्। नवग्रहाणां (मुख1293)-द्वारणामनःसंताप1294दानामरण्याद्ग्राममानीतानां चिकित्सा नोक्ता। तेषां कथं चिकित्सा भगवन्मनो मेमुह्यति यथा नु तेषां सात्म्यानुलोमं भवति। तथा मे वक्तुमर्हसि॥
ततः प्रोवाच—भगवान्पालकाप्यः—इह खलु भो नवग्रहाणां नागानांग्रामेषु भोजनस्थानशयनेषु च विविधदुःखप्रपन्नानां भूयिष्ठं व्याधयः संभवन्ति।मूत्रसङ्गो मूर्छा गात्रस्तम्भयवगण्डगलग्रहवातगुल्माश्चान्ये च बहवः॥
तेषां चिकित्सितम्—कन्दलीकन्दना1035लिकेरशृङ्गाटककसेरुबिशमृणालशालूकानि वनसात्म्यानुलोमिकं भक्ष्यंदद्यात्। शल्लकी-चारमयूकानां मूलान्यभिघातसमुत्पन्नप्रसङ्गप्रशमनार्थंवनसात्म्यानुलोमिकं च भक्ष्यं दद्यात्। मोदक1295न्दभीरुं च पनसफलशतावरीशृङ्गाटककसेरुकपद्मबीजानि वनसात्म्यानुलोमिकंभक्ष्यं दद्यात्। यवसान्यौदकानि विचित्राणि मृदूनि हरितानि वनसात्म्यानुलोमिकं भक्ष्यं दद्यात्। भल्लातकमधुक्षीरकोमलकल्कं सकपोतनाद्युतं काञ्चनवग्रहणां1296 मनःसंतापदं वा वनसात्म्यामुलौमिकं भक्ष्यं दद्यात्। कदलीभल्लातकपारामधूकारिवदनामूलानि नवग्रहाणांवातगुल्मप्रशमनार्थं वनसात्म्यानुलोमिकं भक्ष्यं दद्यात्। अश्मन्तकप्लक्षपनसशल्लकीचन्दनशिरीषिकाभल्लातकमधूकप्रियालानांमूलानियवगण्डासारगलग्रहवमथुवात-श्लेष्मविकारप्रशमनार्थंवनसात्म्यानुलोमिकं भक्ष्यं दद्यात्॥
तत्र श्लोकः—
उत्सृज्य सर्वकर्माणि मुखद्वाराणि शोधयेत्।
अन्त्रायत्तं हि नागानामारोग्यं जीवितं बलम्॥
मुखद्वारविशुद्धस्य वारणस्य महीपते।
रोगाः सम्यक्प्रशाम्यन्ति बलं मांसं च वर्धते॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहामवचने द्वितीये क्षुद्ररोगस्थाने
वनसात्म्पानुलोमिकनामा1297 सप्तविंशोऽध्यायः॥२७॥
_________________
अथाष्टाविंशोऽध्यायः।

तलकाशीं सभैषज्यं सनिदानं प्रचक्ष्व मे॥
तस्मै प्रोवाच भगवानङ्गाय परिपृच्छते।
तलकाशीं सभैषज्यं सनिरुक्तं ससंभवम्॥
रक्तपित्तकफाः कोष्ठे सवाताः कुपिता यदा।
तले यतः प्रकाशन्ते तलकाशी ततस्तु सः॥
स दुर्बलस्ततो नागः शरधानाश्मलोष्टसु॥
स्थाणुनाऽभिहि(ह)तो वाऽपि घृष्टो वा परिधावनात्।
मूर्खप्रयुक्तो मुक्तो वा तथाऽतिगमनादपि॥
नदीतटगिरीणां वा विषमाणां परिक्रमात्।
शर्करादग्धभूमीनामूषराणां च सेवनात्॥
क्षतो वाऽप्यतिघृष्ठोवा पच्यते च ततस्तलः।
स्फुटिताश्चोद्धता वाऽपि विशीर्यन्तेऽपि वा नखाः॥
…1298…न्ते1299 वाऽथ भक्ष्यन्ते विपद्यन्तेऽपि वा नखाः।
स विपन्नतलस्त्वेवं व्रणैरागन्तुदोषजैः॥
न शक्नोति द्विपो गन्तुं वेदनार्तो महीपते।
स कर्कटकवत्कृच्छ्राद्व्रजेच्च तलरक्षणात्॥
गात्राणामुरसश्चापि विक्षोभो जायते व्यथा।
श्वयथुर्वेपथुश्चास्य व्यायामात्तलरक्षणात्॥
एवंस तलकाशीति तलरोगो निरुच्यते।
स्थाने तिष्ठेत्सुविदितो स्नेहाभ्यक्ततलो गजः॥
(अदूरपरिसर्पश्च926 गच्छत्यच्छन्दतो गजः।)
सर्पिषा सर्वसेकश्च प्रभूतेन प्रशस्यते॥
चतुर्थीं तु दशां प्राप्ते तलकर्म विधीयते।
यौवनस्थस्य बलिनः सत्त्वयुक्तस्य दन्तिनः॥
क्षीणदुर्बलबालानां कृशानां पादरोगिणाम्।
ऊर्ध्वसप्ततिकानां च तलकर्म न कारयेत्॥
प्रशस्ते तिथिनक्षत्रे तलकर्म समाचरेत्।
स च सर्वो विधिः कार्यः केशेषु विहितो यथा॥
शस्त्रेण शोधयेद्वैद्यो यदि च्छेद्यतलो भवेत्।
मांसं चाप्युद्धतं धूतं स्फुटितं पूति विज्जलम्॥
न तलं क्षणुयात्तस्य न च रक्तं प्रवर्तयेत्।
शस्त्रेण शोध्यं बलिनस्कृत्तं स्फुटितमेव च॥
सशोणितं सपूयं च क्षणुयात्तस्प तत्तलम्।
शस्त्रकर्म क्षते कुर्यात्तलानां दहनं हितम्॥
मधूच्छिष्टं गुडं तैलं मज्ज मेदश्च पाचयेत्।
योगेनैतेन तप्तेन दाहयेत्कुशलो भिषक्॥
अर्जुनस्याश्वकर्णस्य निम्बस्य खदिरस्य च।
अङ्गारैरसनस्यापि तापयेत्कुशलः शिलाम्॥
अपनीय ततोऽङ्गारानग्निवर्णान्यथा शिलाम्।
तस्यां शिलायां मेदांसि पालिं कृत्वा प्रदापयेत्॥
वराहमहिषाजानामेकैकं स्थापयेत्तलम्।
क्रव्यान्मेदांसि संगृह्य पादं नागस्य लेपयेत्॥
श्वाविच्छल्यकगोधानां शूकरस्य च मेदसा।
सफाणितं घृतं पक्वंतलनिर्वापणं हितम्॥
कूर्मकर्कटमत्स्यानां मेदो नक्रस्य वा हितम्।
तले निर्वापणं कार्यं पक्वमग्नौ कृते घृतम्॥
गुडेन सह कासीसं कांस्यिनीलं विपाचयेत्।
प्रलिप्तं तलमेतेन चर्मणा छादयेत्ततः॥
समङ्गां धातकीपुष्पामश्वकर्णप्रियङ्गवः॥
तलानां शमनं कार्यं कल्कं पिष्ट्वा प्रलेपनम्।
रोचना रोहिणीलोध्रकुष्ठं सर्जरसं तथा॥
त्रिफलां चैव नागानां तलानां स्तम्भनं भवेत्।
कुटजस्पोदुम्बराणां किणिह्याः प्रियकस्य च॥
ककुभां सोमवल्कस्य त्वचं संक्वाथयेज्जले।
एतत्प्रक्षालनं कार्यं श्वयथुक्रिमिनाशनम्॥
स्फटितं नखरोमं च कण्डूशोणितनाशनम्।
केशानां______प्रशान्त्यर्थमेतदेव प्रशस्यते॥
(दत्वैवं गजस्य1009) ततो घृतस्निग्धं प्रदापयेत्।
प्रसन्नांप्रतिपानार्थे पिबेत्फाणितसंयुताम्॥
विचित्रैर्यवसैर्नित्यं तस्य प्राणं च विद्यते।
एवमेतैः क्रियायोगैर्यत्नेन-तलकाशिनाम्॥
साधयेन्मतिमान्वैद्यः पादप्राणा हि वारणाः।
लक्ष्यन्ते नखमध्ये तु कृमीणां संभवस्ततः॥
प्रायेणानूपनिरता ये तेषां स्युर्नखेषु च।
ग्राम्याणां स्थानदोषाच्चशकृन्मूत्रादिकर्दमैः॥
न तेषां तत्र वै स्थानं कर्तव्यं तलकाशिनाम्।
कृमयो यदि जायन्ते ततस्वान्बिडिशैर्हरेत्॥
पुनः कषायकल्कैश्च सर्पिर्मधुसमायुतैः।
लेपयेच्चात्र कृमयो रक्तमांसेषु ये श्रिताः1300॥
तत्समीक्ष्याऽऽहरेद्वैद्यः शनैर्बिडिसूचिभिः।
कृमयस्ते च लक्ष्यन्ते स्थूला ह्रस्वाश्च पार्थिव॥
कृष्णाश्च श्वेतशिरसो विपरीतास्तथाऽपरे।
उद्धृतेषु च कर्तव्यो विधिर्व्रणविधानजैः॥
असाध्यमपि चावेक्ष्य कुर्यात्क्षारादिभिः क्रमात्।
न बद्धा1301 नयकर्माणि कारयेत मतङ्गजम्॥
स्थाने पानाशनं दद्यात्सिद्धेव्रणचिकित्सिते।
शनैस्त्वाक्रामयेन्नागमहन्यहनि पार्थिव।
यावन्नबलवान्नागस्तावच्चव्रणरोपणम्॥

तलकाशी नामाष्टाविंशोऽध्यायः॥२८॥
____________________
अथैकोनत्रिंशोऽध्यायः।
________________
अथाङ्गपतिरपृच्छद्भगवन्तं पालकाप्यम्–भगवं(श्चलनादिगुणविशेषा1302हस्तिनश्चरणतलाश्रयाः, अतस्तलकाशिनं ससंभवचिकित्सितं व्याख्यातुमर्हति॥
अथोवाच भगवा)न्पालकाप्यः— इह खलु भो रक्तपित्तकफमारुता नखरतलाश्रितास्तलकाशिनमापादयन्ति॥ अथवा—कष्टकरशर्करोपलवतां1303 यथा मर्दनाद्वनग्रहणप्रचारपर्वतनदीतटविषदग्ध1304भूम्यूषरप्रदेशानांसहसा सेवनैरसद्गलायाक्षः(?)प्रयोगात्, अथ प्रहर्षेण स्कन्नपङ्कमार्गसेवनैर्घृष्टवाराहत(?)स्थाणुनाऽभिहता वा हस्तिनस्तला विपद्यन्ते। ततस्तलतोऽप्रबलदूष्यर्थगा स्फटानामभिभवन्ति। विक्षोभयोस्तव्यपन(?)स्तमाहुस्तलकाशीति॥
चिकित्सितमतोऽस्य—चतुर्थीं दशामनुप्राप्तांस्तलकर्मणोपचरेत्। वयोतीतबलक्षीणांश्च तलकर्मणा नोपचरेत्। तेजोजवबलसंपन्नमपि क्षततलमध्वनि नयोजयेत्। तलानां रक्षणार्थं हस्तिनं स्थानान्तरे1305 रक्षयेत्। तस्य च गात्राभ्यङ्गं भोजनं च स्नेहसंयुक्तं दद्यात्। पूर्वोक्तेषु तिथिनक्षत्रेषु तलकर्म कारयेत्। उद्धूतावधूतप्रतिमांसं च तलकाशिनं शस्त्रेणापहरेत्। गुडमधूच्छिष्टाजमेदःसंयुक्तेन तैलेन सम्यग्विपक्वेन मुहुस्तलतापनं कुर्यात्। खदिरककुभनिम्बाश्वकर्णारग्वधवासनानामङ्गारैः शिलां तापयित्वा महिषवराहाजमेदोभिरवसेचयेत्।ततो वारणानामेकैकेन तलेन तत्र क्रमान्कारयेत्। वाराहगोधाश्वाविच्छल्यकमेषमेदःफाणितविपक्वेन घृतेन निर्वापणं कुर्यात्। अथवा—नक्रकुलीरकच्छपमेदोभिः सह घृतं पक्वमग्निकर्मण्युपरते निर्वापणं स्यात्। कासीसंकांस्यनीलंच गुडेन सह निपाच्यते। तेन प्रलिप्यास्योपानहतल(र)क्षणार्थं कुर्यात्। अवसेचयेद्धस्तिनं मूलत्वात्(?)। तत्र धातकीपुष्पसमङ्गाश्वकर्णत्वक्प्रियङ्गुभिः कल्कपिष्टाभिस्तलानां स्तम्भनार्थं प्रलेपं दद्यात्। रोहिणीलोध्रसर्जरसत्रिफलासोमवल्कैः कल्कपिष्टैस्तलस्तम्भनार्थं प्रलेपं दद्यात्।त्वक्कषायेण सर्जार्जुनेन्द्रवृक्षप्लक्षप्रियङ्गु-धवाश्वकर्णसोमवल्कशालचतुरङ्गुलोदुम्बरकिणिहीनां शृतेन तलकान्प्रक्षालयेत्। अनेन स्फटितनखकण्डूश्वयथुपूयशोणितश्रा(स्त्रा)वा कृमयस्तेनशाम्यन्ति हस्तिनां प्रायेणानूपदेशचराणां स्थानदोषान्नखमध्येषु कृमयः संभवन्ति। तैर्भक्ष्यमाणा दुर्बलगतयो वारणाः पार्ष्णिभिर्गच्छन्ति। न च नखैर्गन्तुमुत्सहन्ते। नखांश्च कृमिभिर्भक्ष्यमाणान्मुहुर्मुहुर्विघर्षति। ततस्तेषां नखशोधनमेवाऽऽदितः कुर्यात्। अथ पूयरुधिरसंश्रिताः तेषां सूचीबिडिशेनोद्धरणंकुर्यात्। व्रणान्व्रणविहितेन1306 मधुघृतेन पूरयेत्। क्रिमयश्चात्र कृष्णाः श्वेतशिरसः, श्वेता वा रक्तशिरसः, ह्रस्वाः स्थूलाश्च संस्थानतः संभवन्ति। (बिडिशेन1307सूच्या चोद्धरणमशक्यम्)। तत्र येषां हि श्वेतत्वं व्यावत्रश्चात्र द्वरणमसह्यम्(?)तान्क्षारेणोपचरेत्। गुहाश्वकर्णसोमवल्कसर्जार्जुनेन्द्रयवकुटजत्वक्तामलकीमुष्ककमधुकसप्तपर्णमेषशङ्गीबिल्वक-जम्बुकशल्लकीवटाश्वत्थप्लक्षोदुम्बरारुष्करखदिरामलकीगोपीहरीतकीनां त्वचः संगृह्योदूखले क्षुणुयात्। पञ्चद्रोणप्रमाणां विंशतिद्रोणेऽम्भसि1308 तस्मिन्महति कटाहे चाधिश्रयेच्चतुर्भागावशिष्टं नखविद्धस्थापितं संवर्तत(?)शरीरं कृत्वा निष्क्वाथमवतारयेत्। ततस्तं च परिस्रुतंपुनरधिश्रयित्वा1309मन्देन वह्निना विपाचयेत्। यावत्फाणितभावमापन्न इति। तत्राऽऽवापः–त्रिफलानिशाघोण्टाफल-लोध्रार्जुनमधुककासीससौराष्ट्रिकाचूर्णानि सकांस्यनीलानि। ततस्तं खजेन प्रथितमेकीभावमुपागतं सुपक्वमवतार्य सुन्यस्तं कारयेत्। तत्सर्वं पादरोगेषु प्रशस्तं रोपणं स्थिरीकरणं स्तम्भनंचेति। ततः सुरामस्मै फाणितसंयुक्तां प्रतिपानं दद्यात्। भोजनं च सघृतंमुद्गमिश्रंदापयेत्। तेषु तुप्रकृतिमापन्नेषु प्राणसंजननार्थं केशप्रोक्तेन विधिनोपचरेत्॥
तत्र श्लोकाः—
ततः कुर्युः क्रियाः सर्वाः पादरोगे प्रकीर्तिताः।
यदिदं सेवते नैव तैलं कुर्यान्नराधिप॥
न स्रवन्ति न पच्यन्ते न क्षीयन्ते स्फुटन्ति न।
स्पृष्टास्तैलकषायेण प्रयोगेण स्थिरास्तलाः॥
सुखमाक्रमते भूमिं समेषु विषमेषु च।
अध्वनो गमने नित्यं जवश्चास्य न पीडयेत्॥
अनेन विधिना राजन्यो वैद्यस्तलकाशिनम्।
साधयेच्च महाराज स पूज्यः सततं नृपैः॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने तल-
काशीचिकित्सितनामाऽध्याय एकोनत्रिंशत्तमः॥२९॥
_____________________
अथ त्रिंशत्तमोऽध्यायः।
________________
अथाङ्गपतिरमरपतिसदृशवपुरुडुपतिसदृशवदनः कमलसदृशनयनः, परिपूर्णगोवृषस्कन्धः पृथुविपुलरुचिरवक्षा आजानुदीर्घ-बाहुरुग्रवाञ्छितचारुगामीजनकान्तं भगवन्तं पालकाप्यं हृतभाजमिव1310 तपसो दास्यमानमृषिवरमभिवाद्यकृताञ्जलिरुवाच रोमपादः— ‘कथं भगवन्पा(लकाप्य1311 वारणानां गलग्रहःसंभवति, कथं वा साध्यासाध्यः, तन्मे व्याख्यातुमर्हति। शुश्रूषुरस्मि’—इति॥
स एवमुक्तः प्रोवाच भगवान्पा)लकाप्यः—इह खलु भो महाराज प्रायेणहि नवगृहीतानां नागानां यूथवियोगाद्धेनु-कास्मरणात्पवनोभितापमापादयन्कण्ठगलकपोलप्रदेशान्विष्टम्य गलग्रहं जनयति ग्राम्याणामपि। यदा तु वारणःस्निग्धमधुरशि-शिरानूपजलजयवसकमलशैवलगुरुरूक्षभोजनः कफपवनजननभूमिष्टाहारचेष्टशीतकलुषगुरुसलिलपानप्रायो रूक्षाभिष्यन्दिसेवी तस्य सहसापवनसंसृष्टः प्राणापानसमानोदानव्यानाक्षिप्तः कण्ठमासाद्य तिष्ठति कफः। सजनयति गलग्रहम्। ततः स तेनाभ्यवहर्तुमाहारं यवसकवलकुवलपल्लवानामन्यतमं न शक्नोति। प्रस्यन्दमानतलवहली तलक्षितक इव भवति। यस्तु स्वनयनगलहनुकपोलसृक्कौष्ठमन्यासगदो गुरुकरगुरुमक्षिकाश्च नीलं श्यावं लोहितंविवर्णं वमथुं पूतिमुद्गिरति, कम्पते पूर्वकायमुदस्यति, लाला चास्य जिह्वामूलात्स्रवति सरुधिरा वा केवला वा। स चोर्ध्वशिरोधरो जलदइव बृंहते च।प्रमेहति च बहुशः परिहृष्यति घुरुघुरायमाण(कर)कण्ठः करकण्ठोपरोधात्तु सदुर्मनाः सूक्ष्ममपि न चाऽऽदत्ते किंचिदाहारजातम्। तामवस्थामसाध्यां विद्यात्। साध्यस्तु लालाश्रा-(स्त्रा)वःप्रकृतिस्थगलकपोलमन्यानयनसगदः सुसूक्ष्ममप्याहारमादत्ते। तं चिकित्सितुमुपक्रमेत्। तस्य पूर्वापरपरिक्षिप्तस्या-लानितस्यकुमुदानी(?)गृहीतस्यप्राजनहस्तैः1312 परिचारकैः परिवृतस्प विश्वामित्रस्यविकाशं मुखप्रमाणं कारयेत्। वृक्षस्य बलवतः सारं दृढमशुषिरं निरुपद्रवंग्राहयित्वा यवसंस्थानं1313 तस्य मध्ये हस्तप्रवेशमात्रं छिद्रं कारयित्वा वारणस्यमुखं तिरश्चीनं प्रसार्य सृक्वप्रदेशनिबद्धास्यभ्यधिकांसग्रीवाद्वावद्धा(?) बलवद्दृढीकृत्य सत्रिकटुकमधुसर्पिषाऽभ्यज्य कुसुमवर्तितनखं1314 वैद्यस्तस्मिन्विकाशे हस्तंप्रवेशयित्वा तालुगलहनुकपोलजिह्वापरिमिथ्यासंभ्रान्तं शनैरूर्ध्वं जतृणः कुवलकवलपल्लवानां यत्किंचित्तत्र स्थितं तत्सर्वं शोधयेत्। अथ कण्ठे यदिष्टवमथु स्यात्। तदा त्रिकटुकयुक्तेन हस्तेन श्लेष्माणं निर्गत्य विलापयेत्। अकठिनभावा न विद्येत(रन्) लीनीकृतलती(?) श्लेष्माणं कण्ठं वा स्वेदयेत्।विगतलाश्रा(स्त्रा)वं स्वगलं मुखमापादयेत्। संस्कृतं कृतमेनं पाययेत्। (ततश्चोभयोः1315 पञ्चमूलयोः कुलत्थकाकमाच्योश्च निक्वाथं कारयित्वा पिप्पलीमरिचसंस्कृतं घृततैलाभ्यां स्नेहितमिभं पाययेत्। अर्कोरुबूकतर्कारीश्रीपर्णीशोभाञ्जनकीटानां पत्रभङ्गान्पयसि पाचयित्वा नाडीस्वेदं विदध्यात्॥
तत्रास्विन्नस्विन्नानां विज्ञानं भवति॥
तत्रास्विन्ने—छव्या गौरवं वंशाप्रस्तब्धमाशीतलत्वं काठिन्यं हृष्टरोमत्वनयनपरिश्र(स्र)वश्च भवति। भूयस्तु स्वेदं विषहते।अतिस्विन्नस्यं मृदुत्वग्भवति, वातश्च प्रशममुपगच्छति। श्लेष्मा च ततः स्थानात्प्रच्यवते।अतिस्विन्नस्यविदाहाद्विक्रियामुपगच्छन्ति च कफपित्तरुधिरमेदांसि। ततः1316स्नायुशिरतासा(?) चात्र लीयान्, छर्दिमूर्छा प्रवर्तते स्फोटाश्च जायन्ते। ततोविधिवत्स्विन्नमिति विज्ञाय शीतलेनाम्बुना लोचने परिषिच्य कर्णमन्ये पुनर्विशोधयेत्। ततः शोभाञ्जनबूक(?)कर्कारीणां बीजानि तिलसर्षपातसीश्चसंक्षुद्य कपाले दग्धामिषं1317 कृत्वा किण्वतन्दुललवणतिलचूर्णितं सर्पिषा चसंयोज्य कण्ठानुसरणमस्य कुर्यात्। तैलघृतवसाभिरभ्यज्य पायसेन पिण्डस्वेदंकारयेत्। मधुकसरलभद्रदारुश्रेयसीचूर्णयुक्तेन तैलेन वक्षः सेचयित्वा तेनास्यकण्ठश्वयथोरुपशमोभवति। तालीसपत्रं तगरं मांसी हिङ्गुदेवदारुविडङ्गानांस्वा(श्वाविद्)गोधानराजलोमभिश्चेतं(?) गोमयाग्नौसर्षपतैलेनेमं धूपं दद्यात्।चक्षुषी चास्य क्षुरकमूलं1318 श्लक्ष्णपिष्टंघृतमण्डेन नेत्रयोर्मधुना चाञ्जनं कुर्यात्।तेनास्य धूमस्वेदेन यश्च दोषः1319, कफपवनविकासश्च प्रशममुपगच्छन्ति। यवसान्यार्तवानि विविधहरितमृदुकषायाणि यवसाध्यायोक्तानि यत्रानुकूलानिभोजयेत्, घृततैलोपपन्नानि विधिना। प्रणुदति गलग्रहरोगनिरुपद्रवो मुदितमनाःसुप्रसन्नः प्रसन्नवक्त्रः प्रकृतिस्थःस्तनति वारणः॥
तत्र श्लोकः—
कफपवनसमुद्भवं गजानां शमयति वस्तुगलग्रहं विकारम्।
स भवति परियस्वि(?)पूजनीयो नियतमुनिः कुशलश्च परीक्ष्यकारी॥

गलग्रहनामा त्रिंशत्तमोऽध्यायः॥३०॥
__________________
अथैकत्रिंशत्तमोऽध्यायः।
_______________
अङ्गस्तु राजा चम्पायां पालकाप्यं स्म पृच्छति॥
कथं तृष्णार्दितं1320 नागं परीक्षेत महामुने॥१॥
तृष्णार्दितस्यभगवन्किं वा लक्षणमिष्यते॥
के वा–वारिणः प्रोक्ताः सम्यग्ग्रस्तस्य दन्तिनः॥२॥
एवं पृष्टस्तु भगवन्सर्वमाख्याहि तत्त्वतः॥
अङ्गराजवचः श्रुत्वा पालकाप्यस्ततोऽब्रवीत्॥३॥
जलच्छेदानु(त्तु)मातङ्गः क्षिप्रं प्राणैर्वियुज्यते॥
त्वङ्मूलपांशुहरणैर्जलैश्चापि सुखोचितैः॥४॥
वारणैश्च समाश्वस्तः शीतसाम्यो विशेषतः॥
तस्मात्तृष्णार्दितं नागं……………………… ।
……………………..यस्य पितुर्मूर्छा भवेत्ततः॥
अन्ये च बहवो रोगास्तस्मात्प्रादुर्भवन्ति हि।
एवं सर्वास्ववस्थासु तस्मात्तोयं न वारयेत्॥
तोयमूलमिदं सर्वंजगत्स्थावरजङ्गमम्।
असंख्येया गुणाः प्रोक्तास्तोयदाने नराधिप।
सद्यः प्राणकरं तोयं मूर्छितेभ्यः प्रदापयेत्॥
व्यतिक्रान्तायां तृष्णायां नागः प्राणैर्विमुच्यते।
तस्मात्तृष्णार्दिते नागे तोयं क्षिप्रं प्रदापयेत्॥
बलाद्रोगांश्च जयति वारणो नात्र संशयः।
यदा रोगार्दितो ना(गस्तृष्णाया981 व्यथते भृशम्॥
परिगृह्यतदा तोयं विषजारोग्यकाङ्क्षिणा।
योगतस्तु प्रदातव्यं प्राणभ्रंशोऽन्यथा भवेत्॥
लक्षणं तस्य वक्ष्यामि कार्त्स्न्येन मनुजाधिप।
तृष्णया चाभिभूतस्य प्रभेदः संप्रवर्तते॥
धातूनां च क्षयाच्चैव मूढस्तु भवति द्विपः।
आलानं छेदयेन्ना)गः स्थाने न लभते सुखम्॥
शालां भिनत्ति चात्यर्थं तथैव कपिशीर्षकम्॥
शय्यायामुपनीतस्तु निद्रां न लभते गजः॥
दह्यते मुख ……………………………….॥
………………….तेनैव वारणस्तोयवर्जितः॥
वाचनं वातिगृह्णाति निर्वाणं यत्र नीयते॥
योक्त्रे क्रुध्यति सोऽत्यर्थं तथैव परिकर्मणा॥
सर्वतोऽभिद्रवेगन्नास्तृष्णया परिपीडितः॥
मर्मस्थानानि पीड्यन्ते तालुमध्यं च दीर्यते॥
गलकण्ठकपोलाश्च संयुक्ताः कण्टकैस्तथा॥
श्वेतसर्षपसंकाशैर्जिह्वा बिन्दुभिराचिता1321॥
व्याधिः सिद्धार्थको नाम वारणप्राणनाशनः॥
भोजनं यवसं चैव तृष्णार्तो नाभिनन्दति॥
प्राजनाङ्कुशदण्डानां पातस्य च महीपते॥
संज्ञां न प्रतिपद्येत तृष्णया मोहितो गजः॥
श्वसिति कम्पते चैव भूयसा विह्वलत्यपि॥
लिङ्गान्येतानि कुरुते तृष्णार्तो वारणो नृपः॥
तस्माद्भिषग्यो मतिमान्बलाबलविभागवित्॥
दापयेद्धस्तिने वारि तेन कालवमिन्द्रयेत्(?)1322॥
पीततोये ततो राजन्कैर्माधर्मविधातवः1323॥
एवमेतेन योगेन लब्धप्राणो यदा1324 भवेत्॥
तदा तस्य पुनः कार्या चिकित्सा प्राणवर्धनी॥
मृद्वीका दाडिमं चैव शर्करा दधिमस्तुना॥
पूर्वोद्दिष्टप्रमाणेन पानं कृत्वा सुसंस्कृतम्॥
यवतर्पणसंसृष्टं क्षीरं पिबति……………..॥
………………दद्यात्………………तृष्णापहा॥
सर्वश्रो(स्रो)तसि नागस्य स्नेहाभ्यङ्गः प्रशस्यते॥
तं च स्नेहं प्रवक्ष्यामि येन संपद्यते सुखम्॥
यवकोलकुलत्थानां पञ्चमूलद्वयस्य च।
चतुर्भागावशिष्टं तु निक्वाथं कारयेद्बुधः॥
क्वाथ(थ्य)मानं पुनर्दद्यात्प्रतिपानं यथाविधि।
माषपर्णी पयस्या च हरिद्रे द्वे कसेरुकम्।
जीवकर्षभकौ चैव यष्टीमधुकमेव च।
कल्कपिष्टं तु तं कृत्वा क्षीरेण सह पाचयेत्।
अर्धावशिष्टं विज्ञाय ततस्तमवतारयेत्।
(परिश्रु(स्रु)तं1007 तु तं कृत्वा घृततैलवसादिभिः।
एकं संपाचयेद्यस्तु पुनः स्नेहं यथाक्रमम्।
यदा सिद्धं तु विज्ञाय ततस्तमवतारयेत्)।
पानं भोजनमभ्यङ्गमनुवासनमेव च॥
स्नेहमेतत्प्रशंसन्ति तृष्णाप्रशमनं हि तत्।
गलकण्ठकपोलाश्च जिह्वा तालु च सर्वतः।
अभ्यक्ता मार्दवं यान्ति योगेनानेन दन्तिनः।
मुखरोगेषु सर्वेषु स्नेह एव प्रशस्यते।
लावतित्तिरिमांसैश्च रसं नागस्य कारयेत्।
शालीनामोदनं चैव रसयुक्तं प्रदापयेत्।
यवसानि प्रदेयानि मृदूनि हरितानि च।
अनेन क्रमयोगेन मुखरोगात्प्रमुच्यते।
तत्र श्लोकः—
एवं सिद्धार्थकं व्याधिं यस्तु हन्याच्चिकित्सकः।
तं वैद्यं पूजयेद्राजा दानमानपरिग्रहैः॥

सिद्धार्थकनामैकत्रिंशत्तमोऽध्यायः॥३१॥
____________
अथ द्वात्रिंशत्तमोऽध्यायः।
___________________
अथाऽऽश्रमे महर्षिरथर्युगण्डा(?)तपःस्वाध्यायसेविते स्वर्गसोपाने प्रफुल्लकाननोद्देशे विविधकुसुमरसास्वादमत्तरक्तभ्रमर-गणोपगीतिसेविते गजमृगमहिषवराहमयूरशुकवानरसिद्धगन्धर्वव्यालसेविते वंसनसुरपि(?)तत्राऽऽश्रमे हुताग्निहोत्रं कृताह्निकबलि-वैश्वदेवं कृष्णाजिनवर्था(?)वनद्धमासीनमासनस्थं वायुभूतं मास्थिभूतं(?)भगवन्तं पालकाप्यं(?)तत्र कदाचिदङ्गाधिपो रोमपाद-स्त्वागम्य विनयादवनतशिरा महर्षिपादानभिवाद्य(………………..)गजा भूतग्रहोपसृष्टा दृश्यन्ते कथं च ग्रहैर्ब्रह्मविद्भिः परमदारुणै-र्घोरैःपीड्यन्ते, कथं च ग्रहाःप्रविशन्ति, किं वा तेषां ग्रहोपसृष्टानां लक्षणम्, के च तत्र ग्रहाः साध्याःकेऽसाध्याः, कति च ग्रहा निर्दिष्टाः, कानि च नामानि, किं वा रक्षाकर्मबलिविधानमग्निकार्यचिकित्सितप्रचारुच्छविमर्दनश्चेति॥
…………………………………………………………….1325इत्येते बस्तग्रहा निर्दिष्टाः। ते तु यथा गृह्णन्ति तद्वक्ष्यामः॥
यदा वारणं शरशक्तियष्टितोमरपरशुभिण्डिपालैरन्यैश्च शस्त्रैर्जर्जरीकृतसर्वदेहं शोणितश्रा(स्रा)विणं संग्रामादागतं वधबन्धतश्च परिखिन्नदेहमिति कृत्वा तंहस्तिजीविनश्चैत्यश्मशानदेवागारसमीपेषु नागानां वातसलिलाग्निसमीपे वालानयन्ति तं निद्रावशमुपगतं ग्रहा गृह्णन्ति॥
अथ यदा वारणस्योपस्थितमदस्य मत्तस्य वा भूतपूजां पूर्वप्रवृत्तां बलिमुपहारं विनोपहरन्ति1326। यदाऽस्मै क्षितिमाक्षिपि(?)भूत1327रक्षार्थं नागानां न प्रयच्छन्ति हस्तिजीविनः,तदाऽस्य1328 मनतीक्षये(?)नागस्य यथेष्टं ग्रहाः प्रविशन्ति॥
तत्र भावबाहुकगृहीतस्य लक्षणं वक्ष्यामः, स्वं बाहुमेकं परिगृह्य परिमर्दयति करेण1329 मुष्टिं कुर्यात्, स्तब्धनयनः शब्दस्पर्शो न विन्दति तं भावबाहुकगृहीतं वारणं विद्यात्॥
मृगवत्प्रेक्षते मृगग्रहमोहितश्च भूमौ निपततिभृशमत्यर्थं वेगेन कृशो भवतितं मृगग्रहपीडितं वारणं विद्यात्॥
अरतिकेन गृहीतः स्खलति पततिनाभिनन्दति किंचिद्विहारा1330हारजातमिति तमरतिग्रहपीडितं वारणं विद्यात्॥
जलमवगाह्य प्रतरति यः, प्रतारग्रहपीडितं वारणं विद्यात्।
यः स्वपिति काम्यति च, तं स्वपितिग्रहपीडितं वारणं विद्यात्॥
यः स्वानि सर्वगात्राणि भ्रमन्गृह्णाति तथा चैनं प्रमर्दनाग्रह(नक्षत्र)पीडितंवारणं विद्यात्॥
तत्र कामाक्ष(ख्य)ग्रहगृहीतस्य लक्षणम्—यः कामीव मदनातुरः सर्वैरिन्द्रियार्थैःप्रहृष्टो हस्तिनीं हस्तिनं वा समपृष्टमधिकं सर्वमेव वा दृष्ट्वाऽभिप्लवते।कामपरावस्थाप्राप्ततया च निवृत्तविहाराहारव्यापारोव्यायच्छन्नेवावतिष्ठतेवारणः, तं कामाक्ष(ख्य)ग्रहगृहीतं वारणं विद्यात्॥
वाणिज्जकस्यापि लिङ्गानि—तत्र यो हस्ती, आत्मद्रव्योपकरणतृणकवलकुवलकडंगराहारजातमद्धा प्राञ्जनाङ्कुशरज्ज्वाद्यन्य-हस्तिस्थानेषु निक्षिप्यान्यदीयानि यानि, तान्यात्मसात्कृत्वा तथा पुनस्तान्यपि निवर्तेतेत्येवंनिवृत्त्याऽऽत्मव्यापारसंज्ञोऽवतिष्ठते, तं वाणिज्जकगृहीतं वारणं विद्यात्॥
विन्य1331 (स्तव्यथ)विर(ग्र)हगृहीतस्यापि लक्षणम्—भ्रष्टग्रीवः स्रस्तहस्तश्रवणकर्णलाङ्गूलगात्रापरो मन्दचेष्टो निश्चेष्टो वा कदाचित्क्वचिन्मूढचित्त इव विपरीतसंज्ञो निःसंज्ञो वा कदाचिदन्यदेव कर्तुमारब्धोऽन्यत्तु कर्तुमुत्सहतेऽनवस्थितचित्तो वृद्धविषाच्च स्वभावतो योऽस्वस्थो हस्ती स विन्यस्तव्यथविरग्रहगृहीत इति॥
तत्र कामाख्योऽरतिको वाणिज्जश्चेति साध्याः। असाध्याः (………॥) लालास्रावहनुस्तम्भजिह्वाक्षेपणानि विचित्राणि लक्षणानि भवन्त्येतानि। भूय(सम)स्तव्यस्तानि सामान्यानि यानि चेमानि वक्ष्यामः॥
तत्र कश्चिद्गजः सहसा पादप इव च्छिन्नमूलतः पतति। रौद्रनिष्टब्ध1332नयनो नष्टचित्तः सविभ्रमः……नोदशनाकुठकटा(?)पतति जिह्वां स्तम्भयति वक्रग्रीवोऽप्यनिरीक्षणं कुरुते।कफव्यामिश्रलालां रक्तसंसृष्टां सफेनां छर्दयति, सिंहव्याघ्रभीतवच्छ्वसिति पच्छिलार्दित इव क्रुध्यति बिभेति सर्वस्मात्सर्वेषामपि कुप्यति,एकपक्षेण पतति भ्रमति मुह्यति वेपते कूजति नात्यर्थं यवसकवलकुवलपल्लवभोजनान्यभिनन्दति। न स्थानशय्यां वेदयते न यन्तारमभिगणयति। तमेनंग्र1333हपीडितं वारणमसाध्यं विद्यात्। वर्षस्थितमुन्मादमपस्मारं सात्मीभूतं दूरतःपरिवर्जयेत्। तौ वर्षपर्युषितौ न सिध्येते। ये चान्ये वर्षग्रहागतास्ते याप्याभवन्त्यसाध्या वा स्थिरमूलतया पर्युषिता ग्रहाः।अस्थिमज्जानुगताः शरीरस्था जलमध्ये तैलबिन्दुरिव विस्तीर्यन्ते। तत्राऽऽदौ दुःखसाध्या ग्रहा भवन्ति। तस्माद्ग्रहेण गृहीतमात्र एव यः स तुकदाचित्सिध्यतीति कृत्वा चिकित्सितंव्याख्यास्यामः।तस्य बलिकर्मविधानमग्निकार्यं ततः सामान्ययज्ञेन वा शान्तिं कुर्यात्। तत्र शालां पुष्पोपकीर्णांकृतोपलेपनां बलिहोमधूपगन्धप्रायश्चित्तैर्निकल्मषीकृतां1334 सुरभिमनोज्ञसुसंनृतोपरां(?)द्रव्यौषधिसंयुक्तां ब्राह्मणस्वस्तिवाचनं कृत्वा वैद्यः शालां वारणं प्रवेशयेत्। ततो नागं ग्रहाविष्टंभिषग्यथोक्तैःशास्त्रमेभिर्गुणैःसंपन्नैर्वत्सलैर्जितक्रोधैः शुचिभिः प्रनतै(णते)ष्टैरुपेतं विज्ञायभोक्तैः स्वगजपरिचारकैः परिगृह्य शालामानीय दक्षिणपक्षेणाऽऽलानयेत्। सुयन्त्रितं कृत्वा बलिहोमप्रायश्चितैः कर्मप्रवचनं कुर्यात्। ब्राह्मणं तर्पयेत्। गजंपुरस्ताद्रक्षोभिघ्नानि च सामानि गापयेत्। ततस्तं भोजनस्नातस्नेहदेशा(हा)भ्यङ्गविरेचनं येषां यूषरसाद्यैर्बृंहयेत्। ततस्तस्य प्रध्यायना(?)ञ्जनस्य कर्म धूपयेत्,गोघृततैलवसाभिः संयोज्य नागाय ग्रहविनाशनं दद्यात्।तिलसिद्धार्थपिचु(मन्द)नक्तमाल-पूतीकरञ्जैरण्डविभावकानां फलं तैलेषु संयोज्याभ्यञ्जनं दद्यात्।एतेषां बीजैः वल्कपिष्टैर्वारणं सशिरस्थमानखेभ्यो बह(ल)मत्रानुलेपयेत्।तं त्रिकटुकदेवदारुवचाकटुकरोहिणीहैमवतीचव्यपाठाहस्तिपिप्पलीचित्रकतुलसीपत्राणि यवलशुनफणिज्जकापामार्गफलैर्दन्तीसैन्धव- भागात्वचं विडङ्गं बृहतीफलानि समभागानि श्लक्ष्णचूर्णानि कृत्वा नस्यं प्रधमनं दद्यात्। एतान्यौषधानि कल्कपिष्टानि कृत्वा नक्तमालमयूरोल्लूकनकुलगोजाविमहिषीणांपित्तं संयोज्य नस्याभ्यञ्जनालेपनादि ग्रहविनाशनार्थं कुर्यात्। सर्वबीजानि सुपिष्टानि कृत्वा यानि चान्यानि पेष्याणि तानि वैद्यः स्वेदावर्तनार्थं नागस्यग्रहविनाशनार्थं दद्यात्। पिचुमन्दमार्धतर्कारीशोभाञ्जनकोत्तक्षककरञ्जश्लेष्मा-न्तकानां पल्लवैर्ग्रहविनाशनार्थं स्वेदयेत्। द्विपञ्चमूलपलाशशतानि चत्वार्युदूखलेक्षोदयित्वा पानीये चतुर्गुणे क्वाथयेत्। ततः क्वाथं चतुर्भागावशेषमवतार्यपरिश्रा(स्रा)व्य तेन क्वाथेन घृताढकं शतवार्षिकं पाचयेत्। तस्यालाभे द्वादशवार्षिकं पाचपेत्। तत्सर्वग्रहनिवारणार्थं पञ्चगव्यसंयुक्तं वारणं पाययेत्। अथ तीव्ररसविपक्वंवचासिद्धं लशुनसिद्धं सिद्धार्थकसर्षपसिद्धं घृतमेनं पाययेत्॥
अतः परं बलिविधानं वक्ष्यामः— चन्दनोशीरपद्मकोत्पलमनःशिलासुवर्णमणिमुक्ताफलानि सीधुमैरेपभूतान्नकुल्माषपक्वाममांससुरामण्डमत्स्यकृशराजाजिसर्वगन्धाहरिद्राकृष्णमृत्तिकाश्चेति तत्सर्वमाहृत्यस्नातः शुचिर्भूत्वा ब्राह्मणान्स्वस्ति वाच्य तीर्थमातॄणामापतानमुबलिनिवेदनं कुर्यात्। अथ सव्यमुक्तशिखो वैद्यः सर्जरसेन सघृतेन धूपनं कुर्यात्। यच्च रात्रिक्षिप्ते विधानं बलिहोमकर्मादिप्रयुक्तं सर्वमिहापि कुर्यात्। शालीनामोदनं मांसरसेन भोजयेत्। रसमन्नपानं दद्यात्। बस्तयश्च बृंहणीयाः। यथोक्तेन बस्तिसिद्धिविधानेन च1335स्नानं दद्यात्। यवसानि च मृदुमधुरविपाकानि मत्स्यण्डिकामर्माणि भोजयेत्॥
तत्र श्लोकाः—
कुलीनः शास्त्रतत्त्वज्ञो दृष्टि(ष्ट)कर्मा विचक्षणः।
ब्राह्मणो वृत्तसंपन्नः साधुस्तद्वैद्यपूजितः॥
ब्रह्मचर्ये स्थितश्चैव तथा देवपरायणः।
अमत्सरी तथा नित्यं तथा द्रव्यविशारदः॥
ईदृग्लक्षणयुक्तश्च तथा गजहितश्च यः।
स्वामिभक्तश्च नित्यं स वैद्यो ग्रहचिकित्सकः॥

भूतग्रहो नाम द्वात्रिंशोऽध्यायः॥३२॥
<MISSING_FIG href=”../../../books_images/U-IMG-1697872999Capture.JPG"/>
अथ त्रयस्त्रिंशोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1697873036Capture.JPG"/>
अङ्गो हि राजा चम्पायां पालकाप्यं द्विजर्षभम्।
विनयेनोपसंगम्य रोमपादः स्म पृच्छति॥
पच्चोन्मदनकं प्राहुः कुञ्जराणां ब्रवीहि मे।

तन्मे शृणु महाराज^(…. …. …….. …. ….)।
अविक्षेत(?)तेजसाऽयं लिहितं (?) सर्वं व्याख्यास्यामः॥
मुहुर्दुःखग्रहश्च स्यान्मुहुश्चापि मुखग्रहः।
मुहुः कुप्यति संज्ञां च न वेत्ति चमुहुर्मुहुः।
आरोहकं तर्जयति वेपते चमुहुर्मुहुः॥
भूमिं स्पृशति दन्ताभ्यां तावत्त्यच्छिन्नप्रस्तुते1336 (?)।
पशून्मनुष्पानश्वांश्च हस्तिनः शकटांस्तथा॥
सजीव…. निर्जीवं सर्वं प्रार्थयते द्विपः।
तथा शब्दान्प्रार्थयते अग्निं दृष्ट्वा प्रधावति॥
प्राजनान्यङ्कुशान्दण्डान्दुःखेनोत्क्षेप्तुमिच्छति।
परिघं वा कपाटं वा हन्तुं वृक्षांश्च काङ्क्षते॥
कोपं कृत्वा चिरं कालमेकस्माच्च प्रसीदति॥
एतद्धि तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम्।
ऋक्षपित्तं काकपित्तं मुद्गावै सर्षपास्तथा।
एतेन चाञ्जितो नागस्तून्मादा1337त्परिमुच्यते॥
तण्डूलीयकमूलं च हिङ्गुंच लशुनं तथा।
एतेन चाञ्जितो नागस्तून्मादात्परिमुच्यते।
मूलानि करवीरस्य त्वक्फलानि करञ्जयोः।
उक्षपित्तं च हिङ्गुंच लशुनं मूत्रपेषितम्।
अविमूत्रमजामूत्रं गोमूत्रं माहिषं तथा।

अश्वसूकरयोरस्थि शुनश्चापि समाहरेत्।
कुक्कुटस्योत्तमाङ्गस्य उलूकनकुलादपि।
क्रौञ्चस्य कुररस्याथ उत्तमाङ्गं च संहरेत्॥
लशुनानि वचा चैव तथा कटुकरोहिणी।
एष धूपो ग्रहान्सर्वान्साधयेत्संप्रयोजितः।
अस्थि चर्म च मांसं च रोमाण्युष्ट्रस्य वा तथा।
पुराणघृतसंयुक्तो ह्येष धूपो विधीयते।
(मनःशिलां च हिङ्गुंच वचांकालानुसारिवाम्॥926
मरिचानि च श्वेतानि अञ्जनार्थे प्रदापयेत्।
काकपित्तं मत्स्यपित्तं मरिचानि मनःशिला।926)
एतानि समभागानि अञ्जनार्थं प्रदापयेत्।
गोलिण्डमश्चलिण्डं च हस्तिलिण्डं तथैव च।
पुराणघृतसंयुक्तो श्लेष धूपः प्रशस्पते॥
तिलान्कृष्णान्समाहृत्य श्वेतानि मरिचानि च।
ते शुद्धनिस्तुषे कृत्वा सकृदुष्णोदके पचेत्।
यत्तत्र निश्रयेत्तैलं भेषजैस्तं विपाचयेत्।
(हिङ्गुंचातिविषां चैव वचां च कटुरोहिणीम्॥
बस्तमूत्रं मेषमूत्रं गोमूत्रं चापि संहरेत्।1338)
तान्यौषधानि संयोज्य तैलं धीरो विपाचपेत्॥
तेनास्मै दापयेन्नस्यमुन्मादात्परिमुच्यते।
प्रकृतिं लभते क्षिप्रं प्राणश्चाप्युपचीयते॥
एतद्वै सर्वमाख्यातमुन्मादस्य चिकित्सितम्॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थान उन्मादो नाम त्रयस्त्रिंशोऽध्यायः॥३३॥
<MISSING_FIG href="../../../books_images/U-IMG-1697874956Capture.JPG"/>
अथ चतुस्त्रिंशोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1697875009Capture.JPG"/>
वक्ष्यतेऽतः परं यत्नादपस्मारग्रहस्ततः।
अपस्मारग्रहाक्रान्तो वेपमानो विचेतनः॥
पक्षेण क्षितिमागम्य तिष्ठत्याविललोचनः।
क्षणेन लभते संज्ञां भवेत्स्वस्थ इव द्विपः॥
एतान्येव च लिङ्गानि कालवेलान्तरेष्वपि।
करोति तस्याऽऽगमने हीयमानो बलादिभिः॥
नवग्रहविधानेन वर्षस्यान्तः प्रसाधयेत्।
उन्मादग्रहवच्चापि परतो निष्प्रतिक्रियः॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेऽपस्मारो नाम चतुस्त्रिंशोऽध्यायः॥३४॥

अथ पञ्चत्रिंशोऽध्यायः।

वातकुण्डलिकाख्यस्प कथं रोगस्य संभवः॥
कथं विज्ञायते ब्रह्मणकथंवा साध्यते हि सः।

शृणु राजन्यथा व्याधिर्जायते वातकुण्डली।
अभिघातात्प्रवेगाद्वा रात्रौ जागरणेन च॥
मनोभितापाद्रौक्ष्याच्च तथा चानुचितासनात्।
वारणस्य नृपश्रेष्ठ सहसा कुप्पतेऽनिलः॥
ततः प्रकोपात्कुप्येत रक्तं पिताश्रितं तु यत्।
ततोऽल्पाल्पं गजो सूत्रमसृक्पीतमथापि वा॥
प्रवाह्यमाणः1339 कुरुते बालमूर्ध्यमुदस्यति॥
लिण्डं च पीडितः1340 कृच्छ्रादेकैकं कुरुते गजः।
(सलोहितं कदाचिच्च कदाचिच्छ्लेष्मसंयुतम्॥926
वेदनार्तस्तु मातङ्गः संकुच्याङ्गानि वेपते।
स्थूलं श्वसिति हस्तेन वक्त्रेण स भृशं गजः।926)
एमिस्तु1341 लक्षणैर्विद्याद्वातकुण्डलिकां भिषक्॥
तमसाध्यं वदन्त्यन्ये पाय्यमन्ये विनिश्चयः॥
अतः परं प्रवक्ष्यामि साधनं तस्य हस्तिनः।
वातकुण्डलिकोपेतं तथाऽन्यच्च प्रदापयेत्॥
स्थानं निवातमभ्यङ्गः सुखं च शयनं तथा।
शाल्यन्नंसर्पिषा तस्य प्रशंसन्ति चिकित्सकाः॥
क्वाथाश्चास्य प्रदातव्या गुल्मोक्तास्त्वनुपूर्वशः।
प्रसन्नां पिप्पलीयुक्तां पञ्चभिर्लवणैः सह॥
यथाप्रमाणविहितां प्रतिपानं1342 प्रदापयेत्।
प्रतिपानविशुद्धस्य मुखतः स्नेहनं हितम्॥
मुखतः स्नेहितस्याथ बस्तिकर्म प्रशस्यते।
बस्तिकर्मणि संयुक्तं^(……………………)॥
^(……………………)क्षीरं मधुरकैः शृतम्।
प्रागुत्थितस्य सघृतं प्रशस्तं पानमुत्तमम्॥
यद्येवं विविधैर्योगैर्न सुखं स्यान्मत्तङ्गजः।
ततोऽस्मै दापयेद्वैद्यः क्षारतैलं यथाविधि॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीयेक्षुद्ररोगस्थाने वातकुण्डली नाम पञ्चत्रिंशोऽध्यायः॥३५॥
<MISSING_FIG href="../../../books_images/U-IMG-1697897370Capture.JPG"/>
अथ षट्त्रिंशोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1697897418Capture2.JPG"/>
अधिकं तु यदा भारं गजस्याऽऽरोपयन्ति हि।
गच्छन्वै दक्षते क्षिप्रं सोऽतिमात्रं प्रयोजितम्॥
नागं वा पथि संतप्तं निर्देशैश्च भिषग्वरः।
कृशपादस्तथा स्कन्धो भिन्नरोमत्वचा वृतः॥
नदीं गत्वा जलेनाङ्गान्यमीक्ष्णं परिषिञ्चति।
वमथुं हरतेऽभीक्ष्णं बद्गुशश्चापि वीजति॥
स्थाने न लभते सौख्यं यवसंनाभिकाङ्क्षति।
मूत्रसङ्गश्च भवति श्रा(स्रा)वश्चास्य प्रवर्तते।
प्रकीर्यते यथाऽङ्गारः स खिन्दन्योऽवनम्यते1343॥
विशीर्यन्ते तथा यस्य मांसानि द्विरदस्य च।
कर्मारकुण्डवत्तस्य शब्दःकापे निशाम्पति॥
भूतोपसृष्टवश्चास्य विदित्वा कुशलो भिषक्।
निदानमात्रं विज्ञाय कुर्यात्तस्य चिकित्सितम्॥
गव्यं तु क्षीरमाहुत्य माषचूर्णेन योजयेत्।
ततस्तं पापयेद्योगं प्रातस्तु मतिमान्भिषक्॥
तेन मूत्रग्रहोच्छ्वासौ दाहस्त्वस्य प्रशाम्पति।
कुल्माषान्क्षीरसंसृष्टान्दापयेद्भिषजां वरः॥
पिप्पली शृङ्गवेरं च सूक्ष्मचूर्णानि कारयेत्।
चूर्णान्येतानि संसृज्य मधुना सर्पिषा तथा॥
ततस्तं भोजयेन्नागमतिभारेण पीडितम्।
पिप्पली मधुकं रोध्रंतथा कालानुसारिवाम्॥
उत्पलानि तथोशीरं यवांश्चात्र प्रदापयेत्।
एतैर्विपाचयेत्क्षीरं मांसैश्च श्लक्ष्णपीषितैः1344॥
वस्त्रेण परिसंश्रा(स्रा)व्य क्षीरं स्यात्सुखशीतलम्।
ततो द्राक्षारसं दद्यान्माषचूर्णेन योजयेत्॥
प्रत्यूषे पाययेन्नागं ततः संपद्यते सुखी।
तेन मूत्रोपरोधस्तु श्वासो दाहश्च1345 शाम्पति॥
शृगालविन्नाचूर्णं1346 स्यात्पिम्पलीद्वयमेव च।
श्वेतं च लशुनं दद्याद्यथायोगं विचक्षणः॥
एतत्संभृत्य संभारं स्थाल्यांप्रक्षिप्य साधयेत्।
चतुर्भागावशिष्टं च क्वाथं वस्त्रपरिस्रुतम्॥
तैलद्रोणे समावाप्य मर्दयेन्मौद्गमोदनम्।
भोजनं पवसं पानं शीतलं संप्रदापयेत्॥
एवं श्रेष्ठो भवेन्नागो भारोन्मथितपीडितः।
प्रवातस्थाने1347 शयनं वारणस्थ प्रशस्यते॥
सेचयेद्वहुशः स्थानं सुखशीतेन वारिणा।
भोजने दापयेत्क्षीरमन्नयुक्तं नराधिप॥
सर्पिर्दद्यात्समायुक्तं योगेनानेन शास्त्रवित्।
प्राणो भवति तेनास्यवीर्यं तेजश्च वर्धते॥
स्थाननिर्वाणशयने प्रमाथे पांशुघातने।
सदा सुखोचितं कुर्याच्छय्या वाऽपि यथासुखम्॥
न योजयेच्च तं नागं हस्तियुद्धे महीपते।
तथा कर्मपथे वाऽपि निषावे(?)वर्तनेऽपि च॥
एतैरुन्मथितो नागः पुनर्व्यापदमृच्छति।
तस्मान्न योजयेद्राजा भारणोन्मथितं1348 गजम्॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने भारोन्मथितो नाम षट्त्रिंशोऽध्यायः॥३६॥
<MISSING_FIG href="../../../books_images/U-IMG-1697898909Capture.JPG"/>
अथ सप्तत्रिंशोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1697898933Capture2.JPG"/>

लुप्तः कथं संभवति कथं वा साध्यते हि सः॥
एतन्मे पृच्छतो ब्रूहि निर्मलेनान्तरात्मना।

औष्ण्याद्वेगाभिघाताद्वा क्षाराम्ललवणाशनात्।
श्रमाद्भयाद्वा तापाद्वा यथा वा रुक्षभोजनात्॥
वायुः प्रकुपितोऽत्यर्थं बलासं(?)पित्तमेव च।
प्रेरयन्कोपयेस्वा1349क्तंकृततन्तुः(?)समन्ततः॥
पच्यन्ते तेन मांसानि तेन लुप्त इति स्मृतम्।
वाद्यते ताड्यमानोऽसौ मृदङ्ग इव ताडितः॥
लुप्ताभिभूतं मातङ्गं विज्ञायाऽऽशु प्रसाधयेत्।
चतुर्णां क्षीरिणां क्वाथं मधुयुक्तं निषेवितम्॥
पोत(थ)येद्वा पचेद्वाऽस्य सक्षीरं लाजतर्पणम्।
पथ्यं स्निग्धं च तत्सर्वं तमस्मै संप्रदापयेत्॥
मयूरमृगमत्स्यानां वेसवारेण भोजयेत्।
हरितं यवसंपन्नं सल्लकींचसयारेपि(?)॥
मनः प्रसादयेत्तस्य तोमं1350 (?)सुखं न पायपेत्।
(न चास्य मनसः किंचिद्व्याघातमुपकल्पयेत्॥1351
शाल्योदनं ससर्पिष्कं भोजयेद्रससंयुतम्।
मत्स्यण्डिकाभिसंयुक्तं क्षीरं चास्मै प्रदापयेत्॥)1351
लुप्तादेवं विमुक्तस्य बलं तेजश्च वर्धयेत्॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने लुप्तचिकित्सितं नाम सप्तत्रिंशोऽध्यायः॥३७॥
<MISSING_FIG href="../../../books_images/U-IMG-1697905901Capture.JPG"/>
अथाष्टात्रिंशोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1697905924Capture2.JPG"/>

भगवन्संग्रहे पूर्वं पत्रकृमिरुदाहृतः॥१॥
तस्योत्पत्तिं निदानं च भेषजं च ब्रवीहि मे॥
एवं पृष्ठोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत्॥२॥
प्रावृट्काले महाराज1352जरत्पत्राकुले वने॥
सदंशंमशकाकीर्णे शाद्वलोदकभूमिषु॥३॥
चरन्ति करिणो हृष्टा यथाकालं यथासुखम्॥
पत्रच्छन्नासु शाखासु कदाचित्पत्रजो नृप॥४॥
रोमशस्ताम्रवर्णाभिः पत्रम्नाश्रित्य लीयते॥
पत्रालयः पत्रभक्षी स पत्रकृमिसंस्थि(ज्ञि)तः॥५॥
गजं स्पृशत्यसौ जन्तुर्गजो वा स्पृशते तु तम्1353॥
अत्यन्तगुरुदेहस्तु गजो भित्त्वा1354 च1355 मेदिनीम्॥६॥
हस्तेन जृम्भमाणस्तु शिरो धुन्वन्मुदुःस्वितः॥
वेपते परिमूत्री च यूथाद्वा प्रपलायते॥७॥
एतद्वै तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम्॥
सर्पिषा सर्वशेषं तु शतधौतेन कारयेत्1356॥८॥
कर्णाधानसमे तोये निर्वपेत्तमनेकपम्॥
उर्त्ताय सलिलात्पश्चादिमं लेपं प्रदापयेत्॥९॥
दूर्वाबिशकुशोशीरं सारिवोत्पलचन्दनम्॥
नलवञ्जुलमूलानि सूक्ष्मचूर्णानि कारयेत्॥१०॥
सर्पिषा सह संयोज्य लेपयेद्वारणं भिषक्॥
यद्येतेन प्रयोगेण नोपशाम्यति वेदना॥११॥
आरभेत क्रियामन्यां शास्त्रयोगेन योगवित्॥
उभे हरिद्रे मञ्जिष्ठा नलदं मुस्तसारिवा॥१२॥
सर्पिषा सह संयुक्तं काले लेपनमुत्तमम्॥
मुद्गौदनं प्रभूतेन सर्पिषा भोजयेद्गजम्॥१३॥
विचित्रैर्यवसैश्चैव यवसाध्वायकीर्तितैः॥
दापयेन्मतिमान्वैद्यस्ततः संपद्यते सुखम्॥१४॥

इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने पत्रकृमिनामाऽष्टात्रिंशोऽध्यायः॥३८॥
अथैकोनचत्वारिंशोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1697907428Capture2.JPG"/>

उरःक्षतः कथं नागो जायते1357 शास्त्रकोविद॥

अतिभाराध्वगमनाल्लङ्घनात्प्लवते(ने) न वा॥
नियोगाद्वाऽपि सहसा वृक्षाणां चापि मञ्जनात्।
कपालाट्टतटादीनां प्राकाराणां च भञ्जनात्॥
प्रतिहस्त्यभिघाताद्वा जलक्रीडात्ययेन वा।
उरःस्तम्भोऽस्य भवति स निषीदति वेपते॥
गजः स्तनति वोत्तिष्ठन्गात्राभ्यां न च तिष्ठति।
एतद्रोगसमुत्थानं चिकित्सितमतः शृणु॥
सम्यक्स्थानोपपन्नस्य भेषजानि समाचरेत्।
फालस्वेदं च विधिवन्नाडीस्वेदं समाचरेत्॥
सुस्विन्नमेव मातङ्गं गोमयेन प्रलेपयेत्।
तर्कारी बिल्वमेरण्डं वेणुपत्रं यवास्तिलान्॥
आटरुषकपत्राणि अर्कं मेषविषाणिनाम्1358।
अजशृङ्गाग्निमन्थे चजले प्रक्षिप्य पाचयेत्॥
ततस्तं सपगासेन1359 (?) स्वभ्यक्तं परिषेचयेत्।
नाडीस्वेदं विदध्याच्च त्रिवृतां चैव पाययेत्॥
पवकोलकुलत्थैश्च काश्मर्योदुम्बरैस्तथा।
द्वाभ्यां वा पञ्चमूलाभ्यां तैलं धीरो विपाचयेत्॥
तेनास्याभ्यञ्जनं कुर्यान्नस्यकर्मानुवासनम्।
स1360मवस्थापयेत्स्थाने सुखशय्यां व कारयेत्॥
स तेन लभते सौख्यमारोग्यं च नियच्छति।

इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानउरःक्षतो नामैकोनचत्वारिंशोऽध्यायः॥३९॥
अथ चत्वारिंशोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1705416475Capture1.JPG"/>
अङ्गो हि राजा चम्पायां रोमपादो महायशाः।
विनयेनोपसंगम्य पालकाप्यं स्म पृच्छति॥
शोणिताण्डस्य भगवल्लँक्षणं वक्तुमर्हसि।

अभिघातेन नागस्य यदा मूत्रं विमुच्यते।
कोशो विवर्णो भवति परिमूत्री चजायते॥
ततः कोशगतो वायुरभिघातेन कोपितः।
ततः कोपयते रक्तं मूत्रं1361 बस्तौगतोऽनिलः॥
उद्गमो जायते तेन वक्ष्यमाणः परो नृप।
मृदू भवेतां वृषणौ स्तनौपाण्डुत्वचूचुकौ॥
पिण्डिकाभिः परिवृतौ भवेतां^(…. …….. ….)।
^(…. …. …. …. …. …. …. …. …. ….)डि न शूपते॥
वर्धते पेचक^(…. …. …. ….)ण्डकोशौ च दन्तिनः।
शुक्रमूत्रनिरोधाच्च विधुनोति स वालधिम्॥
एतद्वै तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम्।
अण्डकोशौ च यत्नेन शस्त्रेणास्योपवेधयेत्॥
शोणितं मोक्षयित्वा तु सर्पिषाऽभ्यञ्जयेत्तु तम्।
प्रतिपानं त्र्यहं दद्यात्सुरामधुसमन्वितम्॥
उभे हरिद्रे मञ्जिष्ठा मधुकोशीरदारू च।
आसवेनाभिसंयोज्य प्रतिपानं प्रदापयेत्॥
उशीरं पद्मकं चैव हरितालं मनःशिलाम्।
तण्डुलीयकमप्यत्र समायोज्य प्रदापयेत्॥
कदुष्णं मधु कृत्वा तु वृषणौ तस्य लेपयेत्।
सुखी भवेन्न चेत्तेन ततः स्वेदं समाचरेत्॥
अग्निकर्म ततः कार्यमुभयोरण्डकोशयोः।
जम्ब्वोष्ठे1362नाग्निवर्णेन समन्तात्परिदाहयेत्॥
पिप्पलीशृङ्गवेरेण गुडतैलेन चैव हि।
सुरां नागाय संयुक्तां प्रतिपानं प्रदापयेत्॥
लवणं तिलफल्कं च शोधनार्थंप्रदापयेत्।
गैरिकं घृतसंयुक्तं दापयेद्रणरोपणम्॥
तिलकल्कसमायुक्तं प्रलेपं तस्य कारयेत्।

इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेशोणिताण्डी नाम चत्वारिंशोऽध्यायः॥४०॥
<MISSING_FIG href="../../../books_images/U-IMG-1697950668Capture.JPG"/>
अथैकचत्वारिंशोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1697950688Capture2.JPG"/>

पादरोगास्त्वया सम्यक्त्रिंशत्तु समुदाहृताः।
यस्त्वया क्षुद्ररोगेषु पुनरन्यः1363 प्रकीर्तितः॥
यवगण्डशिरो1364 नामा पादरोगः मुदारुणः।
तस्य लक्षणमुत्पत्तिं चिकित्सां चब्रवीहि मे॥
एवं पृष्ठोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत्।
पदाऽत्यर्थंगजस्तां1365 तु(?)सा…सान्ववगाह्यते॥
भुक्तो वा निशि जागर्ति व्यानो वायुर्यदा भवेत्।
कषायतिक्तकटुकैराहारैर्वाऽप्यभिद्रुतः1366॥
तदाऽनिलः प्रकुपितो वारणस्य महीपते।
शूनान्पादान्करोत्यस्य नखवृद्धिं च हस्तिनः॥
तेषामाकृतयो बह्यचस्तिर्यगूर्ध्वमधस्तथा।
जायन्ते वर्धमानास्ते नैकवर्णाः कदाचन॥
कचा1367 वला विवर्णा^(…) दलिताः स्फुटितास्तथा।
वक्राः शोणितपूर्णांश्च भवन्ति चरणा नृप॥
ज(य)वगण्डशिराख्येन पादरोगेण पीडिताः।
सर्वेभ्यः पादरोगेभ्यःकष्टोऽयमिति कीर्तितः॥
तमाहुर्नृपशार्दूल नृवैद्या वातशोणितम्।
उत्पन्नमात्रः साध्योऽयमसाध्यः कालपर्ययात्॥
साधनं विधिवच्चास्य कीर्त्यमानं निबोध मे।
पूर्वंविश्रा(स्रा)वणं कार्यं ततोऽस्य नखशोधनम्॥
प्रलेपो बहुशश्चास्य वातघ्नैः संप्रलेपंयेत्।
एवं पूर्वंक्रमं कृत्वा महास्नेहेन स्नेहयेत्।
बस्त्यभ्यङ्गाच्छयानाति(?) त्रिवृतेन भिषग्वरः॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने यवगण्डशिरो नामैकचत्वारिंशोऽध्यायः॥४१॥
<MISSING_FIG href="../../../books_images/U-IMG-1697951731Capture.JPG"/>
अथ द्वाचत्वारिंशोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1697951763Capture2.JPG"/>
ज्वलनादित्यसंकाशं मुनिमुग्रतपोधनम्।
पृच्छति स्म रोमपादः सहस्राक्षसमद्युतिः॥
चर्मकीलाः संभवन्ति साध्यन्ते वा कथं पुनः।

यदा प्रकुपितं पित्तं त्वचमाश्रित्य तिष्ठति।
तच्छोष्यमाणं वातेन कदम्बमुकुलीकृतान्॥
चर्मकीलान्संजनयेत्तेषां वक्ष्यामि साधनम्।
क्षारशस्त्राग्निकर्माणि यथायोगं तु कारयेत्॥
कषायतिक्तलवणैर्धावनालेपनानि च।
तैरेव पक्वस्नेहस्तु भक्षणे सततं हितः॥
लशुनानि हरिद्रे द्वे पिप्पल्यौ मरिचानि च।
सर्षपान्ग्र(न्गृ)हधूमं च1368गवां मूत्रेण पी(पे)षयेत्॥
एतदालेपनं श्रेष्ठं चर्मकीलविनाशनम्।
द्विव्रणीयोपचारेण व्रणाञ्जातांश्च साधयेत्॥

इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने चर्मकीलो नाम द्वाचत्वारिंशोऽध्यायः॥४२॥
<MISSING_FIG href="../../../books_images/U-IMG-1697952057Capture.JPG"/>
अथ त्रयश्चत्वारिंशोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1697952078Capture2.JPG"/>
अतः परं प्रवक्ष्यामि वृद्धस्य परिरक्षणम्।
वयोमध्यं व्यतिक्रान्ते वायुः श्लेष्मा प्रकुप्यति॥
शोणितं चास्य पित्तं च तस्मादल्पतरे1369 भवेत्।
शोणितस्याल्पभावाच्च विवर्णपरुषच्छविः॥
सर्वाङ्गशिथिलो भूयउत्साहश्चास्य हीयते।
^(…. …. ….) हीनभावस्य चिरेणास्य विपच्यते॥
वातश्लेष्मविवृद्धौ तु न शक्तो भोजितुं द्विपम्।
दारुणं लभते व्याधिं जरामाहुर्मनीषिणः॥
तस्योपयोगान्कुर्वन्ति स्थानं यवसभोजनम्।
शय्याभागे मृदुं1370 कुर्याहृहत्तु सुसमाहितम्॥
तत्र संस्थापयेद्योक्ता यथाकालविभागशः।
निर्वाणगमनाच्चैतं कारयेत समं तथा॥
(पांशुप्रमध्वरणं(?)सममेव निषेधयेत्।
शिरोभ्यङ्गं च नागस्प गात्राभ्यङ्गं च कारयेत्॥1371
मृदुगात्रापरो राजञ्शिरोदाहात्प्रमुच्यते।)1371
दापयेत्प्रतिपानं तु द्राक्षाद्रोणेन संयुतम्॥
यथायोगप्रमाणेन दीप्यते ह्यनलस्तथा।
यवसानि विचित्राणि रसं दुग्धं तथैव च।
भोजनं च भिषग्दद्याद्यथोक्तं समुपाचरेत्॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने वृद्धचिकित्सा नाम त्रयश्चत्वारिंशोऽध्यायः॥४३॥
<MISSING_FIG href="../../../books_images/U-IMG-1697953799Capture.JPG"/>
अथ चतुश्चत्वारिंशोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1697953833Capture2.JPG"/>
** **अथाङ्गराजो रोमपादो भगवन्तं पालकाप्यमनलमिव दीप्यमानं पप्रच्छभगवन्कथं मतङ्गजोऽवसन्नो भवति॥
पालकाप्यो महाराजं^(…. …….. …….. ….)।
हेतुभिर्विविधैर्यस्मादवसीदति जीवितम्॥
अवसन्नस्ततः साध्यो क्षणा(?) वाच्या व्यतिक्रमात्॥
इह खलु भो ग्रामेऽरण्ये वा संनिहिताच्च(च)लविविधविध्वंसनहिमपतनशिशिरपवनपरिजीवनाद्वा म्रियते। अत्यर्थकर्मणाऽतिव्यायामात्, अध्वगमनात्,प्रतिहस्त्यभिघातात्, ग्रामेऽत्यर्थबन्धनात्, विषमविरुद्धातिमात्राल्पभोजनात्, अनशनात्, अत्यशनात्, अत्यर्थस्नेहात्, रौक्ष्यात्, अभिघातात्, उपेक्षणाच्च व्याधीनाम्, मूर्खवैद्यक्रियाभिश्चावसीदति, ग्राहेण वा स म्रियते। कफपवनरुधिरपित्तसंनिपातसंभवैर्व्याधिभिः, संग्रामे वा शरशक्तितोमरपरश्वधभिन्दिपालकणयकभ्यणखर्परखड्गमुशलमुखण्डिपरिघदीर्घासिशूलशस्त्राभिघाताद्वाऽवसीदति, जरया च, इति॥
अवसन्नानां चनागानां चिकित्सां संप्रयोजयेत्।
सहसा व्याध्यभिहतः स्वयं वा परिणामितः॥
अज्ञानान्निपतेन्नागो रूपे सुविषमेऽपि वा।
अवसन्नमेतं विज्ञाय समन्तात्परिषेचयेत्॥
द्वारशालां तृणं काष्ठं तुलां चैवास्यकारयेत्।
उत्थापयेत्तु तं नागं सर्वयत्नेन बुद्धिमान्॥
जलाशये यदि पतेत्पायेयु(?)रुदकं ततः।
कूपे यदा पतेन्नागस्तत्र क्षिप्रं प्रपूरयेत्॥
ततः शालां च पांशुं च तृणानि च समाक्षिपेत्।
सर्पिः क्षीरं च पानार्थे सर्पिषा वाऽपि सेचनम्॥
यवसानि विचित्राणि हरितानि मृदूनि च।
फाणितेनातिसंयोज्य के(क)वलांस्तु प्रदापयेत्॥
असंविभागादेतानि अवसन्नः पतेद्गजः।
भारोन्मथितकायो वा निमग्नो वाऽपि सर्वशः॥
अवसीदेद्गजो राजन्नृपाणामनवेक्षयेत्1372॥
** तत्र श्लोकौ भवतः1373—**
नागान्गृहीत्वा स्वयमेव सजा पश्येत्सदा पुत्रवदप्रमत्तः॥
वैद्यं पुरस्कृत्य च कारयेत यद्यस्ति कार्यं प्रतिकारयुक्तम्॥१॥
एते बलानां प्रबलाश्चतुर्णां महाबलाद्ब्रह्म1374करात्प्रसूताः॥
इहैव चामुत्र च पूज्यमाना नागाः प्रयच्छन्ति नृपायतुष्टिम्॥

इति श्रीपालकाप्ये गजायुर्वेदेमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थानेऽवसन्नो नाम चतुश्चत्वारिंशोऽध्यायः॥४४॥
अथ पञ्चचत्वारिंशोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1697955814Capture2.JPG"/>
अङ्गराजो महाप्राज्ञः पालकाप्यं स्म पृच्छति।
व्याधिर्जठरको नाम जायते साध्यते कथम्॥
लक्षणैर्लक्ष्यते वाऽपि कीदृशैर्द्विजसत्तम।

व्यायामादतिरौक्ष्याच्च मारुतो जठराश्रितः।
तस्माज्जठरको नाम व्याधिर्भवति हस्तिनः॥
तमष्टीलमिति प्राहुर्नरवैद्या नराधिप।
विकारानृच्छति बहून्विष्करूपो हि मारुतः॥
कदाचिन्मूत्रबस्तिस्थः कदाचित्पायुसंस्थितः।
पक्वाशयस्थः कुक्षिस्थो दोषस्थानगतः क्वचित्॥
क्षोभणं ग्रासविद्वेषी जठरस्य च गर्जनम्।
तथा संकोचनं शूलमाध्मानं संनिषादनम्॥
जठरस्थोऽनिलः कुर्याद्दौर्मनस्यंच दारुणम्।
प्रवरोम्बजनस्थस्तु कुर्यान्मूत्रपुरीषयोः॥
आमाशयस्थो रोधं च कुर्याद्वह्नेश्च मन्दनम्।
दोषा ह्यजघने कुर्यात्पीडां च महतीं तदा॥
तस्मै स्निग्धाम्ललवणमधुरं चापि भेषजम्।
हितं युक्तं यवान्नं च सर्पिषा1375पिशितैरपि॥
स्वस्तिकं वा ससर्पिष्कं गजशास्त्रविदो जनाः।
देयाः कार्यवशाच्चापि बस्तयो देहशोधनाः॥

इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने जठरको नाम पञ्चचत्वारिंशोऽध्यायः॥४५॥
<MISSING_FIG href="../../../books_images/U-IMG-1697956734Capture.JPG"/>
अथ षट्चत्वारिंशोऽध्यायः॥
<MISSING_FIG href="../../../books_images/U-IMG-1697956754Capture2.JPG"/>
अथ भगवन्तं पालकाप्यंरोमपादोऽङ्गाधिपतिरपृच्छत्—‘भगवन्ये त्विमेद्विरदपतयो बाला ग्रहणमुपगच्छन्ति। तेषां किं विधानम्, कथं च संरक्षणकार्या, भगवन्मनोमोहोऽत्र समागच्छत्येव1376 बालेषु॥
एवं पृष्टः पालकाप्यस्ततोऽब्रवीत्—‘इह खलु भोः स्वयूथवनवाससुखसंवृद्ध(द्धा) गिरिशिखरविवरकन्दरकाननेषु बहुविधकुसुमवनेषु तृणकवलकुवलपल्लवन्भक्षयन्ति पितृमातृसंबद्धाः। तथा—चक्रवाकसारसानुगीतेषु सुरभिसलिलर्शतलेषु सुखसंवृद्धाः, त इह चोद्याने1377 वनेषु वस्त्राभरणसुवर्णरत्नविविधकुसुमवि..षणार्थं कदाचिद्ग्रहणमुपगच्छन्ति। तेषां पितृमातृवियुक्तानां बालानां पोषणमाभरणसुवर्णमनुग्रहार्थं भोजनयवसकवलकुवलविधानं वक्ष्यामः॥
तेषां व्याधिनिग्रहार्थं बलिहोमप्रायश्चित्तकर्माणि बहुविधपौष्टिकरक्षोघ्राणिसामान्यवस्तूक्तानि नित्यं बालानां कारयेत्। सर्पिःक्षीरमधुफाणितसंसृष्टपा दद्यात्। औदकानि यवसानि हरितानि मृदुविचित्राणि समृणालोत्पलशृङ्गटककसेरुकमलोदकानि मत्स्यण्डिकागर्भाणि भोजयेत्। गव्यं च घृतं क्षीरं नवनीतं मत्स्यण्डिकाशर्करापिप्पलीचूर्णसंसृष्टं सर्पिःस्निग्धं भोजयेत्। रसलवणमुरातैलानि वर्जयेत्1378। ततस्तेषामादशा(शमा)द्वर्षात्प्रभृति प्रभृतमनूकपिष्पा(?)षीकाविदुविताननिपानावग्रहकरगात्रापरनाभि मेढ्रोत्कृष्टपादकण्ठगलकपंलानामभ्यङ्गं सर्पिषा कारयेत्। दन्तवेष्टौ1379 च तैलेनाभ्यञ्जयेत्। चतुराह्निकं सर्पिःसंघसेकं कारयेत्। तेषां भारादानाध्वगमनवधबन्धनानि न कारयेत् करतलसंस्पर्शनं च तेषां सुकुमारेण कर्मणा गमनविधि बलमासां(?)प्रकारयेत् शय्याभागं च बालानां करिष्येवा1380 (?)मिश्रेण पांशुविरचितेन सुखशयनं कारयेत्। एवं संरक्षितशरीरा बालाः सर्ववातातपसहाः फलदा भवन्ति। तृतीयायां चतुर्थ्यां वा दशायां गमनविधिं विशेषेण कारयेत्। तत्र श्लोकाः—
एवं बालेषु कर्तव्यो दयापूर्वमनुग्रहः।
आयुर्वर्णबलोपेता नीरोगाश्च भवन्ति हि॥
अतोऽन्यथा न वर्धन्ते बालास्तु मनुजाधिप।
तेषामपि न वर्धन्ते कुलेषु कुलवर्धनाः॥
बालास्तु रक्षपेद्यस्तु स्वपुत्रानिव नित्यशः।
स राजा विजयी नित्यं मृतः स्वर्गे प्रमोदते॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने बालचिकित्सा नाम षट्चत्वारिंशोऽध्यायः॥४६॥
अथ सप्तचत्वारिंशोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1697958167Capture2.JPG"/>
हस्तिशालां1381 समासीनं गजशास्त्रार्थकोविदम्।
दिव्यप्रभावं तपसा ब्रह्मचर्याग्नितेजसम्॥
हुताग्निहोत्रमासीनं कृतपूर्वाह्णकक्रियम्।
पालकाप्यं मुनिवरमङ्गराजः स्म पृच्छति॥
रात्रौ संप्रतिपन्नो हि रूपं कुर्यादनेकपः।
त्रसन्तो विप्रधावन्ति हस्तेनाऽऽघ्राय सर्वशः॥
वृक्षप्राकारभित्तीश्च1382 दन्ताभ्यां घ्नन्ति सर्वशः।
उद्धूतनेत्रा मातङ्गा वेपमानाः सहस्तकाः।
वियुज्यन्ते तथाकल्पाः प्राणैर्विमनसो गजाः॥
न दोषलिङ्गं भगवन्पश्याम्यन्तं पराभवम्।
अत्र मुह्यति मे बुद्धिः कथमेतत्प्रचक्ष्यते1383 (क्ष्व मे)॥
एवमुक्तस्ततोऽङ्गेन पालकाप्यस्ततोऽब्रवीत्।
व्याधिर्घोरो हि नागानां रात्रिक्षिप्त इति स्मृतः॥
तस्य दोषं च सिद्धिं च रूपं चापि शृणुष्व मे।
भाराध्वगमनश्रान्तं क्षुधार्तं व्याधिपीडितम्॥
समापयन्त्येवमेते ग्रहाः संमूढचेतसम्।
श्मशाने च वने ग्रामे पाखण्डावसथा1384श्रमे॥
रोगाभिभूतः संक्लिष्टो……………… ।
यदा च भगवान्देवालये स्थाने चतुष्पथे॥
अमनोज्ञाश्च ये देशास्तत्राऽऽश्रपणमेव च।
अशास्त्रोक्तेन विधिना स्थानं वा यत्र निर्मितम्॥
सूत्रासरोह1385 (?)वादित्रघोषाश्च विहिता मया।
अलंकाराश्च विविधाः स्नानमाल्पानुलेपनम्॥
तथा वैशेषिका शान्तिर्यत्र पर्वसु पर्वसु।
यत्प्रोक्तान्न समस्ताश्च1386 परिहीणा यथा क्रिया॥
एभिर्बहुभिरन्यैर्वा व्यभिचारपरिक्रमैः।
छिद्रान्वेषीणि रक्षांसि संस्पृशन्त्यप्यवग्रहाः॥
जन्मनक्षत्रपीडायां स्वामिनो वा विशेषतः।
आविशन्ति ग्रहा रात्रौ यदा राजन्मतङ्गजान्॥
यैरेषां क्षीयते मृत्युः सहसाऽग्रिविषोपमैः।
स्वस्थानां दृष्टरूपाणामकस्मादपि दन्तिनाम्॥
रूपं यद्दृश्यते व्याधेर्यस्प तत्सदृशं भवेत्।
चिन्त्यमानोऽपि यत्नेन विकारो नोपलभ्यते॥
एवं रक्षोगृहीतानां प्रायो भवति लक्षणम्।
पर्वते वा वने वाऽपि पशुर्वा यत्र वध्यते॥
अमनोज्ञे स्थितं देशे स्थानेष्वायतनेषु च।
करेण्वा वेष्टितं वाऽपि तथा भीतं क्षतं भृशम्॥
(सं)ग्रामाद्वाऽप्यपावृत्तं तथैव रुधिरोक्षितम्।
अधूपितमनाचान्तमप्रदीपे स्थितं गजम्॥
रसभोजनसंयुक्तमस्नातं चाप्यनग्निकम्।
चैत्यायतनमूलेषु स्थापयत्यालयं विना॥
समुद्विग्नं परित्रस्तमूढात्मानं हृतौजसम्।
अप्रमत्तं प्रमत्तं वा तं रक्षांसि पतन्ति नु॥
जाग्रतं वाऽथ सुप्तं वा ग्रहो नागं1387 समृच्छति1388।
यथाऽप्सु सुप्रसन्नाट विमले वाऽपि दर्पणे॥
प्रविष्टा दृश्यते छाया न च भित्त्वा विशेच्च सा।
एवं ग्रहा हस्तिकाये देहेन्द्रियविबाधकाः॥
प्रत्यभिसत्त्यासंप्राप्ताः शरीरं ते शरीरिणाम्।
छायाग्रस्तस्य भीतस्य रूपं वित्रासितस्य वा॥
अङ्कुशैस्ताडितस्याथ वेणुवित्रासितस्य वा।
उल्कापटहसंख्यानां शब्देनोद्वेजितस्य वा॥
प्रतिहस्त्यभिघाताद्वा उत्कृष्टेन हतेन वा।
संज्ञाप्रणाशो भवति चेतसाऽप्यवमुह्यति॥
रात्रौ मुह्यति मातङ्गो दिवा स्वस्थश्च जायते।
मूत्रश्रो(स्रो)तांसि मर्माणि धमन्यो योगवाहिताः1389॥
रात्रिक्षिप्तस्य वातेन हृदयं च न मुह्यति।
स भूतग्रहसंरब्धो भीतः संज्ञाविमोहितः॥
रात्रिक्षिप्तो भवेदेवं तस्येदंलक्षणं शृणु।
सर्वाहारनिवृत्तश्च बलाद्गच्छति वेगतः॥
रात्रौ मूढः संवसति1390 दिवा स्वपिति वारणः।
लाला मुखात्प्रस्रवति हस्तं च परिखादति॥
तर्जयेत्सर्वभूतानि संरब्धो रक्तलोचनः।
गृहं वृक्षं मनुष्यं वा अश्वमश्वतरं तथा॥
वित्रासपति वेगेन घटयत्यङ्कुशग्रहम्।
उद्विग्ननेत्रः सततं वेपते चातिमात्रतः॥
असृग्वल्लिवसागन्धिश्चर्मगन्धिश्च लभ्यते।
मूर्छति व्यथते रात्रौ निमीलति निषीदति॥
सत्यसाहक्षयोति (?) स्यात्स्त्यानगात्रश्च जायते।
एवं स दारुणो व्याधी रात्रिक्षिप्तस्तु1391 कीर्त्यते॥
क्रियां तस्य प्रवक्ष्यामि तन्मे निगदतः शृणु।
सर्पिषा स्नेहनं तस्य केवलेन समाचरेत्॥
समालभनधूपं च भौतिकं तस्य कारयेत्।
वारुणं गुग्गुलुं कुष्ठं हरितालं मनःशिलाम्॥
जटिलां भूतकेशीं च सर्पिषा साधयेत्समम्।
तदस्य पानेऽभ्यङ्गे च हितमक्ष्णोस्तु तर्पणम्॥
त्रायमाणां जयां नीलां लाङ्गलींनागबलां बलाम्।
कपित्थं च वयस्थां च वोरकं1392 सरलं कुशम्॥
शूकरींजटिलां छत्रामतिच्छत्रां सकर्कटीम्।
चारटीं भूतकेशीं चस्थिरां कटुकरोहिणीम्॥
सद्योपुरुषदन्तां च वृश्चिकालीं कदश्चिकाम्।
एतत्सर्वं समाहृत्य प्रदेहं तस्य कारयेत्॥
कुष्ठं वचां तथा हिङ्गुं जटिलां चव्यचित्रकम्।
अलक्तं वासकोशीरमुपयुक्तं ससर्षपम्॥
गोलोमभिश्च सघृतैः संध्याकालेषु धूपयेत्।
करञ्जबीजं पिप्पलीं सहिङ्गुरोचको वचा॥
बस्तमूत्रेण पिष्ट्वैतन्नस्ये तस्य तु सेचयेत्।
छत्रां वराहदन्त^(…………………………..)॥
^(…. ….) हस्तिदन्तेन्द्रगोपकं मरिचानि च।
संकल्कानि^(…. …. ….)घृतपिष्टं तदञ्जनम्॥
गुडो द्राक्षा च मरिचं दूर्वा श्वेताश्च सर्षपाः।
^(…. ….) वचाजगन्धाभिः^(…. ….) ^(…. ….) ^(…. ….) ॥
^(…. ….) ^(…. ….) ^(….) स्तैलं सिद्धमभ्यञ्जनं हितम्।
यतस्प1393 बृहती हिङ्गु भार्गी कटुकरोहिणी॥
कम्पिल्लकं निर्दयनीलपास(?)कण्टकारिकाम्।
ज्योतिष्मतीमतिविषां तुम्बरूणि पुनर्नवा॥
नालिकेरं वचा कुष्ठं श्रीवेष्टकपलंकषम्।
उभे च लशुने दद्यात्तथा पोटगलामपि॥
विकङ्कतां बस्तगस्त्वं1394 (?)गोलोमीं कर्कटीं शुभाम्।
मर्कटीं सुस्कृलोमं(?)च रक्षोघ्नं च प्रदापयेत्॥
पिष्टैर्मूत्रैरजादीनां सर्पिरेतैर्विपाचयेत्।
तदस्य पानेऽभ्यङ्गे च हितमक्ष्णोश्च तर्पणम्॥
भूतग्रहमपस्मारमुन्मादं चापकर्षयेत्।
अथ सर्षपतैलेन प्रलिप्याऽऽतपसंस्थितम्॥
अथ मातङ्गमूत्रेण परिषिच्याथ मर्दयेत्।
अथवा बस्तमूत्रेण स्वरमूत्रेण वा पुनः॥
गोधामूत्रेण वा गाढं यथालाभं प्रमर्दयेत्।
रात्रिलिप्तस्य नागस्य समन्ताच्च परिश्रयेत्॥
पुष्पैस्तन्दुलस्त्वैस्व(?)उशीरैः पललौदनैः।
मत्ताय1395 कुर्वीत बलिं ततः स लभते मुखम्॥
(?)मनःप्रसादं यथा स्याद्भवद्विंसां(?)समाचरेत्।
वचां हिङ्गुंवयस्थां चचण्डाली सपलंकषम्॥
बस्तरोमाणि सर्पिश्च त्रिफलां च महौषधम्।
सह सर्जरसैरेतैर्बहुशो धूपयेद्गजम्॥
हस्तिरोमाणि सर्पिश्च रोमाणि कपिबस्तयोः।
गोश्च रोमसमायुक्तो रक्षोघ्नो धूप इष्यते॥
गन्धमाल्यौदनैर्विप्रानम्पर्च्यस्वस्ति वाच्यच।
पुण्याहं वाचयेद्वैद्यः शालायां तस्य हस्तिनः॥
हुत्वाऽग्रिमाज्यशेषेण वारणं समुपस्पृशेत्।
सर्पिषा भोजयेन्नागं तैलेन च रसेन वा॥
** तत्र श्लोकः—**
रात्रिक्षिप्तं गजं सम्यग्यश्चिकित्सेत्स शास्त्रवित्।
स वैद्यो मानसान्कोशाद्भोगांश्चार्हति पार्थिवात्॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने रात्रिक्षिप्तो नाम सप्तचत्वारिंशोऽध्यायः॥४७॥
<MISSING_FIG href="../../../books_images/U-IMG-1697965535Capture.JPG"/>
अथाष्टाचत्वारिंशोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1697965566Capture2.JPG"/>
भगवन्तं महात्मानं पञ्चेन्द्रियसमाहितम्।
हस्तिशास्त्रविशेषज्ञमृषीणां संज्ञितं1396 मुनिम्॥
कृत्वाऽग्निहोत्रं प्रवरं पालकाप्यं कृताञ्जलिः।
पप्रच्छ सुखमासीनं रोमपादो महामतिः॥
भगवन्केन जायन्ते मूत्रसङ्गाः सुदारुणाः॥
निदानं च कथं तेषां भैषज्यं च महामुने।
एवं पृष्टस्तु भगवान्पालकाप्यस्ततोऽब्रवीत्॥
मूत्रसङ्गान्विशेषेण शृणु राजन्पृथक्पृथक्॥
मूत्रसङ्गा मया प्रोक्ताः संग्रहे तु समासतः॥
समासेन यथाशास्त्रं नाम चैषां प्रकीर्तितम्॥
तेषां निदानमुत्पत्तिं चिकित्सां च महीपते॥
साध्यासाध्यं च नागानां यथावत्संप्रचक्ष्यते1397॥
यदा तु वारणोऽत्यर्थं द्रुतमध्वनि युज्यते॥
त्वरयाऽतिप्रवृत्तस्य न मूत्रमतिवर्तते॥
तस्य बस्तिर्विपद्येत मूत्रवर्णस्तथैव च॥
इमानि चापि लिङ्गानि भिन्नबस्तेर्भवन्ति तु॥
अभीक्ष्णं कुरुते मूत्रमप्रसृष्टं मतङ्गजः॥
आध्मातकुक्षिर्विमना ध्यानप्रस्रुतलोचनः॥
नाऽऽदत्ते विविधान्भोगान्यवसं नाभिनन्दति॥
भिन्नंपुरीषं बहुशो बहुवर्णं च मेहति॥
भिन्नबस्तिमसाध्यं तु प्रवदन्ति चिकित्सकाः॥
इति भित्रबस्तिः।
चिकित्सां लक्षणं चैव साध्यानां संप्रवक्ष्यते॥
गिरिजैर्यवसैर्यस्तु प्रतिच्छन्नो यदि द्विपः॥
अत्यर्यं भोजयेद्रूक्षमयोगाद्वातकोपनम्॥
प्र(अ)शक्तं वा प्रयुज्येत भृशं वा त्रस्यते यदा।
मनसश्चोपतापेन वायुः कुप्यति दन्तिनः॥
स बस्तिदेशमाश्रित्य जनयेद्गाढमूत्रताम्।
शिरा मूत्रवहा याश्च बस्तिस्रोतःसमाश्रिताः॥
ता वायुरभिसंरुध्य स्रोतस्तिष्ठति पीडयन्।
स तेनाऽर्तो हि मातङ्गो वेपते संनिषीदति॥
संकुच्य सर्वगात्राणि कृच्छ्रान्मेहति वारणः।
मूत्रसङ्गार्दितो नागस्तस्य वक्ष्यामि लक्षणम्॥
तं स्पष्टलवणां1398 नागं प्रसन्नां प्रति पाययेत्।
सर्पिषा वाऽपि सुस्निग्धां कृशरां भोजयेद्गजम्॥
द्विपञ्चमूलकाश्मर्यमधुकं बदराणि च।
यवान्मुद्रान्कुलत्थांश्च सलिलेन विपाचयेत्॥
स्निग्धं तु कारयेद्यूषं पिप्पलीमरिचैर्युतम्।
भोजनं दन्तिने स्नेहि प्रतिपानं च कारयेत्॥
जाङ्गलानां रसैश्चैनं शालीनामोदनं मृदु।
माषान्नसैन्धवोन्मिश्रं वारणं प्रतिभोजयेत्॥
यवसानि च देयानि मधुराणि मृदूनि च।
निवाते शयनं चास्य स्थानं चैव प्रशस्यते॥
उष्णाम्ललवणप्रायैः स्निग्धैश्चाऽऽहारभोजनैः।
वातजो मूत्रसङ्गस्तु1399 प्रशान्तिं तेन गच्छति॥
(इति) गाढमूत्री॥
स क्षारलवणाम्लानां कटुकानां च सेवनात्॥
उष्णानामतिमात्रं वा भोजनानां निषेवणात्॥
यदा पित्तं प्रकुपितं बस्तिमासाद्य तिष्ठति॥
स दह्यमानः पित्तेन मत्तवत्क्षरति द्विपः॥
प्रवाह(ह्य)माणो विसृजेन्मूत्रमल्पं मुहुर्मुहुः॥
विष्टभ्य गात्राण्यत्यर्थं प्रमेहत्यथ कूजति॥
परिमूत्री स विज्ञेयो व्याधिर्नागस्य पैत्तिकः॥
माषपर्णी विदारीं च मुद्रपर्णीं शतावरीम्॥
काकोलीं क्षीरकाकोलीं जीवकर्षभकावपि॥
पञ्चमूलं च तृणजं साम्बष्ठां चापि पापपेत्1400।
क्वाथं च पापयेन्नागं शीतलं शर्करायुतम्॥
अग्रिमन्थं श्वदंष्ट्रां च बलामतिबलामपि।
वृक्षादनीं चांशुमतीं रम्पकं च विपाचयेत्॥
चतुर्भागावशेषं तु शीतलं च परिस्रुतम्।
शर्कराचूर्णसंयुक्तं वारणं प्रतिपाययेत्॥
(?) मधुराण्यन्नपानानि घृतेन युतं1401 निपाययेत्।
(?) स्त्रावयेच्चास्य सिक्कस्थाञ्चत्वारि1402 कुम्भान्समन्ततः॥
रसांश्च पाययेन्नागं सततं चैव भोजने।
पाययेद्गुडसंयुक्तां प्रसन्नां सीधुमेव च॥
इति परिमूत्री^(…. ….)।
अव्यायामाद्दिवास्वप्नात्क्षीरेक्षुगुडसेवनात्॥
शीतसंसेवनाच्चापि श्लेष्मा कुप्यति दन्तिनः।
तत्प्रकोपाच्च मातङ्गः पिष्टमेहत्वमृच्छति॥
स प्रमेहति चात्यर्थं यवपिष्टोदकप्रभम्।
(?)सशुक्रंवा प्रमेहं तु तनुंविवरान्तरस्थितः॥
प्रमेहं चास्य लक्ष्येत वेदनाबहलान्वितम्।
सपञ्चलवणं चास्मै शार्करं मधुमेव च॥
प्रतिपानं प्रसन्नां वा तैलयुक्तां प्रदापयेत्।
सिद्धां यवागूं शालीनां त्रिफलाचूर्णसंयुताम्॥
मुखोष्णां भोजयेन्नागं सर्षपस्नेहधूपनम्।
सैन्धवं नलदं कुष्ठं पिप्पलीं विश्वभेषजम्॥
समभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत्।
क्रौञ्चास्थिचूर्णंतत्रैव भद्रदारू व दापयेत्॥
संयोज्योष्णोदकेनाथ वारणं प्रतिपाययेत्।
पत्रैर्निम्बपटोलाभ्यां मुद्गयूषं विपाचयेत्॥
सुखोष्णं1403 योजयेच्चापि पिप्पलीचूर्णसंयुतम्।
यवक्षारसमायुक्तं तैलं चैव प्रदापयेत्॥
माषांश्च भोजयेत्स्विन्नन्व्याधि^(…………) ।
^(…………)तस्मात्तु बलं तेजश्चवर्धते॥
इति पिष्टमेही।
^(…………) ^(…………) ^(…………) ^(…………) ^(….)।
अर्थानेतत्प्रयोगेण^(…………) ^(…………) ^(….)वा॥1404
कट्वम्ललवणादीनां रसानां चातिसेवनात्।
उष्णानामतिमात्रं तु भोजनानां निषेवणात्॥
शोणितं कुपितं स्थानान्मूत्रबस्तिं प्रबोधयेत्।
वारणा रुधिरप्रख्यं तत्प्रकोपात्प्रमेहति॥
तथा स हन्यते शीघ्रं न तस्यास्ति चिकित्सितम्।
रक्ताभासमदुर्गन्धमगन्धसमवेदनम्॥
मूत्रसङ्गे प्रमेहन्ति तस्य वक्ष्यामि भेषजम्।
शुण्ठीचूर्णं सबदरं सक्तवः फाणितं तथा॥
रात्रिपर्युषितं शीतं यवोदकसमायुतम्।
श्लक्ष्णं1405 वस्त्रस्रुतं सम्यक्प्रातस्तं पाययेद्द्विपम्॥
प्रमेहस्तेन नागस्य वेदना च प्रशाम्यति।
बीजं कदल्याः पद्मिन्या मृद्वीका पनसानि च॥
श्रीपर्णी च मधूकानि विशालामलकानि च।
समभागानि सलिले मुद्रांश्चापि विपाचयेत्॥
पिप्पलीशुण्ठिसंयुक्तां तं यूषं पाययेद्द्विपम्।
शालीनामोदनं स्विन्नंयूषेणातिविवर्धितम्॥
मध्याह्ने भोजयेन्नागं शीतं शर्करया युतम्।
निम्बतण्डुलचूर्णस्य^(…………) ^(……..)पाचयेत्॥
यवागूं सह दुग्धेन पायपेत्सर्पिषा युताम्।
निस्तुषांश्च पवान्स्विन्नान्प्रदिग्धान्फाणितेन च॥
मृदुभिर्यवसैर्युक्तान्वारणाय प्रदापयेत्।
यवसान्यौदकान्यस्मै कुमुदानि बिसानि च॥
शर्करोपहतान्यस्मै वारणाय प्रदापयेत्।
^(…. …. …. …. …. …. ….) सह सर्पेिषा।
एतेन क्रमयोगेन ततः संपद्यते सुखी॥
इति शोणितमेही।
इन्द्रियाणां प्रतीघाताद्धेनुकाक्रमणात्तथा।
वातमूत्रपुरीषाणां नित्यं संचारणादपि॥
गुरु^(….) ^(….) ^(….) ^(….) ^(….)गमनात्सहसाऽध्वनि।
अत्यध्वसेवनाच्चापि सातत्यगमनात्तथा।
कर्मणा च प्रपोगाच्च लोभादपि च कर्मसु॥
प्रतिदस्त्यभिघाताच्च कुप्यन्ति धातवस्तथा1406।
स्वस्थानात्कुपितास्त्वस्य दोषा वातसमीरिताः॥
समन्ताद्वस्तिमाश्रित्य जनयन्त्यश्मशर्करम्।
सुवर्णरजताद्यानि यथा लौहानि पार्थिव॥
(?)विनिक्षिप्ताः1407 प्रतिमुखो जात्वस्यमानानि वाऽग्निना।
योगतो धम्यमानानि संयुक्तानि विभागतः॥
एकत्वमुपगच्छन्ति स्थिरीभावं भजन्ति च।
तथा वायुश्च पित्तं च श्लेष्मा शोणितमेव च॥
विपद्यमाना वातेन अश्मानं जनयन्ति ते।
अश्मना संनिरुद्धे तु स्रोतोमार्गे मतङ्गजः॥
प्रमेहति ततः कृच्छ्राद्विष्टभ्य चरणौ महीम्।
त्रुट्यते स भृशं हस्ती सूचीभिरिव सर्वशः॥
स्वस्थः कदाचिद्भवति कदाचिद्दुर्मनाः पुनः।
नाभिनन्दति शय्यां तु ग्रासद्वेषी च जायते॥
सर्वे मूत्रविकाराश्च दृश्यन्ते तस्य हस्तिनः।
दुश्चिकित्सितमप्येनं मूत्रसङ्गं सशर्करम्॥
संनिपातसमुत्थानं वदन्त्यन्ये मनीषिणः।
वक्ष्यते साधनं तस्य यथायोगं महीपते॥
पाषाणभेदकं पाठां कुलत्थान्नागरं तथा।
पञ्चमूलं च तृणजं पाटली बिल्वमेव च॥
वसुकं गोक्षुरं1408 चैव विडं स्फूर्जकमेव च।
सर्वाण्येतानि संहृत्य सलिलेन विपाचयेत्॥
निष्क्वाथेन सहानेन भोजपेदथ वारणम्।
अष्टाभिर्लवणैः पिष्टैः सुरां चात्र प्रदापयेत्॥
यदि चानेन योगेन सुखी न भवति द्विपः।
तस्य प्रशमनार्थं च प्रदेयो बस्तिरुत्तरः॥
बस्तिसिद्धौ यथोक्तेन विधानेन तु शास्त्रवित्।
वाहिन्यो याश्च मूत्रस्य शिराः स्रोतोवहाश्च याः॥
मार्दवं संनिगच्छन्ति दत्तेनोत्तरबस्तिना।
शतावरी भद्रमुस्ता तथा पाषाणभेदकम्1409॥
एरण्डो द्वे बृहत्यौ च पृष्टिपर्णी तथैव च।
यवकोलकुलत्थाश्च काश्मर्यामलकानि च॥
एतत्संभृत्य संभारं जलेनाऽऽप्लुत्य पाचयेत्।
पादावशिष्टं च पुनर्घृतेन सह पाचयेत्॥
ततः स्नेहावशेषेण1410 दद्याच्चोत्तरबस्तिकम्।
(वाहिन्यो याश्च मूत्रस्य शिरागलिवतां(?) सुखम्926॥
मृदुतां संनिगच्छन्ति दत्तेनोत्तरबस्तिना।
शीतमारुतसंस्पर्शाद्भाराक्रान्तस्य हस्तिनः॥
बस्तिस्थः कुपितो वायुर्वात्तकुण्डलमावहेत्।
मूत्रसङ्गस्ततस्तस्य भवति स्मावृतो ध्रुवम्1411॥
प्रमेहति ततो (मूत्रं तण्डुलोदकसप्रभम्।
य^(….)श्मना प्रतिहते लिङ्गान्येतानि संवदेत्॥926
श्वदंष्ट्रा मधुकं चैव किण्वं देवशुकं तथा।
द्वे बृहत्यौ पयस्याऽथ926) एरण्डं सपुनर्नवा॥
माडकी चात्र सर्वाणि क्वाथयेद्वारिणा सह।
तं क्वाथं तैलसंयुक्तं सुव्यक्तलवणं पिबेत्॥
द्विपस्यापानमैरेयं मांसं मायूरमेव च।
यवकोलकुलत्थैश्च पूर्ववत्कारयेद्रसम्॥
क्रौञ्चस्प चशिरोमांसं सुस्निग्धं कारयेत्ततः।
क्षीरेण माषजेनापि कारयेत्तेन भोजनम्॥
भोजनं चापि सुस्निग्धं निरूहाश्चैव बस्तयः।
हिताः प्रतिहते मूत्रे स्नेहपानं च योगतः॥
यदा प्रकुपितो वायुः पित्तमादाय वर्तते।
तदा जठरके व्याधौ बस्तिः शीर्षं प्रधावति॥
प्रमेहति ततो नागः कपोद(?) कुसुमप्रभम्।
कृच्छ्रेण स्तब्धनयनो वेपमानः सुदुर्मनाः॥
स्योनाकं पाटलींबिल्वं तथा पाषाणभेदिकाम्।
श्रीपर्णी शृङ्गवेरं च क्रोष्ट्री वा(?) शारदा यवाः॥
गव्यक्षीरं पचेद्वैद्यस्तत्क्षीरं सुपरिस्रुतम्।
मूत्रसङ्गप्रशान्त्यर्थं पाययेत्सह सर्पिषा॥
घृतपानमथाभ्यङ्गं तेन चैवावपीडकम्।
मूत्रसङ्गे जठरके बस्तिकर्म प्रशस्यते॥
इत्येते मूत्रसङ्गाश्च सनिदानचिकित्सिताः।
रोमपादाय विधिवत्पालकाप्येन कीर्तिताः॥
** तत्र श्लोकः-**
यथा हि लोकप्रवरा मनुष्यास्तथैव सेनासु गजा विशिष्टाः।
तेषां तु शास्त्रार्थमिहानुगत्य आरोग्यमेवं प्रयतेत कर्तुः(र्तुम्)॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने मूत्रसङ्गो नामाष्टचत्वारिंशोऽध्यायः॥४८॥
<MISSING_FIG href="../../../books_images/U-IMG-1697972597Capture.JPG"/>
अथैकोनपञ्चाशत्तमोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1697972615Capture2.JPG"/>
पालकाप्यमुवाचाङ्गो गर्भिण्या गर्भनिग्रहः।
सूतिकावातसङ्गस्य1412 व्याधेः कुर्यात्प्रतिक्रियाम्॥
चोदितस्त्वेवमङ्गेन पालकाप्यस्ततोऽब्रवीत्।
शृणु त्वं मूढिकावाते चिकित्सां ब्रुवतो मम॥
इह खलु भो हस्तिनी ग्राममानीता प्रसूयते यदा स्यात्, तदा भवति गर्भव्यापत्। अप्राप्तकाले दौर्बल्पे वा विषमपतनपरिसरणसततगमनसलिलतरणजवगमनविषयलङ्घनभाराणामन्यतमेन वा भवति शब्दस्पर्शरसरूपगन्धेभ्यस्त्रासनात्, वधबन्धपरिक्लेशात्, विषमविरुद्धातिमात्राल्पभोजनाद्वा मनसोऽभितापादभिघाताद्वा हस्तिना हस्तिन्या वाऽभिहतायां व्यापद्यते। न वर्धते वा गर्भः, तस्याः कारणैरेवमादिभिः कृच्छ्रेण प्रसूतायाःपवनः कुप्यति। स कुपितः स्रोतांसि निरुणद्धि। निरुद्धेषु1413 स्रोतःसु मत्तमातङ्गस्त्वगन्धं मूत्रं सृजत्यल्पाल्पं विच्छिन्नं चावष्टभ्य तिष्ठति परिवर्तते चास्या(:) योनिरनिष्टगन्धा(द्वा) परिक्लिद्यमाना परिम्लानमुखी परिम्लानशरीरा दुःखेन परिक्रामति संवीजति। न शीतं द्वेष्टि, न चाऽऽहाराभिनन्दिनी भवति। अथवा हीनगर्भपरिविवृद्धयोर्यदा यन्मासे प्रतिदानम्, तदा1414 नाम(?)दर्शनं भवति। वर्षाणि वातगर्भा(?)स एव गर्भसंप्रसूतिप्रतिक्रियाविप्रयोगे वा वातविकाराद्गर्भव्यापदं समीक्ष्य चिकित्सितुमुपक्रमेत्। तदाप्रभृत्याहाराचारैःप्रतिक्रियां निश्चित्य प्रतिविबोधयेत्। विपन्नगर्भायास्तस्याः सुखोष्णेनतैलेन सर्पिषा वा सर्वसेको बहुशः कार्यः। सुखोष्णोदकोपचारश्च। सर्वकालं च निवातशयनम्। वंशाग्निमन्थोरुबूकविश्वातर्कारीणां पाटलीकार्पासीनां च पत्रभङ्गेन च कार्यःस्वेदः। सुरातैलघृतानि संप्रक्वथितानि समभागानि सुखोष्णानि परितापयेत्। नप्नुक(?)यवकोलकुलत्थश्रीपर्णीपत्रपञ्चमूलभङ्गं क्वथितमुदकं विधिवत्पादावशिष्टमवतार्य सर्पिषा सह सुखोष्णं पाययेत्। ततोऽस्या मूत्रसृष्टिर्योनिः समाधिमुपगच्छति। तरुणोदुम्बराणां प्रश्रोथितानां धवधन्वनलोध्रप्रियङ्गूनां चूर्णानि क्षौमवस्त्रेण1415 प्रतिबद्धानि योनौ विदध्यात्। एतेन च प्रतिविधानेन शाम्पत्यस्या योनिदोषः। कुशमूलमलतिलचूर्णयवसर्भिर्भिर्योन्या धूपः कार्यः। पञ्चमूलद्वयश्रीपर्णीभिर्जलं क्वाथयित्वा पादावशिष्टमवतार्य परिस्राव्य दुग्धं समांशं समानीय वसातैलघुतैः सह विधिवद्विपाच्य तेन स्नेहेन हस्तिन्या अभ्यङ्गानुवासनान्नपानानि कुर्यात्। त्रिकटुकसंयुक्तं तैलं चिरस्थितं च सीधुं1416 पाययेत्। कृशरां च सैन्धवलवणान्वितां तैलस्निग्धं मत्स्यरसोन्मिश्रितं भोजयेत्। या च भक्ष्यभोज्यविद्वेषिणी विमना विकीर्णहस्ता निक्षिप्तप्रकारा परिमूत्रणी व्यापादयति(निमीलयति संतप्तशरीरोष्णद्वेषिणी शीताभिनन्दिनी सलिलावगाहच्छायाविकाङ्क्षणी, तस्या भैषज्यम्—शिशिरलघुस्निग्ध1417)शर्करामधुरगणमृद्वीकाभिः शृतं पयः प्रतिपाययेत्1418। यवसाध्यायविहितैर्यवसैर्मृदुभिस्तर्पयेत्, जाङ्गलरसैश्च भोजयेत्। इति^(…. ….)॥
(तत्र श्लोकाः),—
अथ प्रजातां यत्नेन हस्तिनीं सूतिकां भिषक्॥
क्रियाभिः शास्त्रेषूक्ताभिश्चिकित्सितुमुपक्रमेत्॥
असम्पक्क्रियया प्राणान्सद्यस्त्यजति सूतिकाम्॥
गजं न मिथ्याप्रयोगे(?) स गर्भेण वि(धि)योजिताः॥
एवं यः साधयेद्वैद्यः सूतिकां वातसंज्ञिताम्॥
वैद्यो मानांश्च भागांश्च सोऽत्यर्थं मानमर्हति॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने सूतिका नामैकोनपञ्चाशत्तमोऽध्यायः॥४९॥
<MISSING_FIG href="../../../books_images/U-IMG-1697976349Capture.JPG"/>
अथ पञ्चाशत्तमोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1697976370Capture2.JPG"/>
देवराजप्रतीकाशं सूर्याग्निसमवर्चसम्॥
रोमपादो महाप्राज्ञः पालकाप्यं स्म पृच्छति॥
दन्तरोगाः कतिविधा नागानां संप्रकीर्तिताः॥
समुत्थानं च किं तेषां विज्ञायन्ते कथं च ते॥
कीदृशस्तु भवेत्साध्यस्त्वसाध्यश्चापि कीदृशः॥
एतन्मे ब्रूहि पृष्टस्तु पालकाप्यस्ततोऽब्रवीत्॥
प्राप्नुयाद्रदयोर्दोषांश्चतुर्भिःकारणैर्नृप।
दोषतो जरयोत्पातादागन्तुश्चेति कीर्त्यते॥
एवं चतुर्विधो दोषो दन्तानां परिकीर्तितः।
तत्र तावत्प्रवक्ष्यामि सर्वसामान्यलक्षणम्॥
श्यावत्वं शूनता चैव लक्ष्यते दन्तवेष्टयोः।
दन्तयोश्चैव वैवर्ण्यमत्यर्थमुपलक्षयेत्॥
बहुशो यो बिधमति दन्तवेष्टौ मतङ्गजः।
मक्षिकाभिः परिवृतो मध्वक्तमिव भाजनम्॥
परिवर्षति चात्यर्थं पांशुना विकिरत्यपि।
अङ्गुल्या घट्टयेच्चापि तं विद्याद्दन्तरोगिणम्॥
यदा कषायतिक्तानि भोजनानि निषेवते।
शुष्कं वा यवसं भुङ्क्ते रूक्षं वा भोजनं तथा॥
एभिर्निमित्तैर्नागस्य वायुः कोष्ठे प्रकुष्यति।
न ताः1419 प्रकुपितो वायुर्धमनीः प्रतिपद्यते॥
धमनीप्रतिपन्नस्तु दन्तमूले निषेवते।
तस्यतेन प्रकोपेण दन्तरोगः प्रजायते॥
संप्रदुष्टः खरं वेष्टे श्वयथुं जनयेत्ततः।
बस्तमूत्रप्रसङ्गश्च1420 कृष्णस्रावः सफेनिलः॥.
इत्येतद्वातदुष्टस्य लक्षणं समुदाहृतम्।
<MISSING_FIG href="../../../books_images/U-IMG-1697977190Capture3.JPG"/>
अथ पित्तेन दुष्टस्य लक्षणं संप्रवक्ष्यते1421॥
योऽत्यर्थंकटुकाम्लानि लवणानि निषेवते।
तैलप्रायाणि सततमुष्णानि च महीपते॥
यवसाशनया(पा)नानां1422 विरुद्धानां च सेवनात्।
एभिर्निमित्तैर्नागस्य प्रायः पित्तं प्रकुप्यति॥
तच्च प्रकुपितं पित्तं धमनीः प्रतिपद्यते।
धमनीमतिपन्नं च दन्तमूले निषेवते॥
तस्य तेन प्रकोपेण दन्तरोगः प्रजायते।
(वेष्टौ1423 च परिदह्येते श्वयथुश्चात्र जायते॥
अथ कुणपगन्धं च स्त्रावमाशु विमुञ्चति।
हरितः पीतो रक्तो वा वर्णतश्चोपलस नृप
न सेवन्ति च तं क्लेदमत्यर्थं मयैव" नृप॥
इति पित्तप्रदुष्टस्य लक्षणं समुदाहृतम्॥
अत ऊर्ध्वं प्रवक्ष्यामिकफदुष्टस्य लक्षणम्।
यदा मधुरभूयिष्ठ ….महारमुपसेवते॥
शीतलं च विशेषेण तथा व लवणंनृप।
तस्य श्लेष्मा प्रकुपितो धमनीः प्रतिपद्यते॥
धमनीः प्रतिपन्नस्तु दन्तमूले निषेवते।
तस्य तेनप्रकोपेण दन्तरोगः प्रजायते॥
दन्तवेष्टौ च लक्ष्येते) (श्लेष्मणो लक्षणान्तरम्।1424)
श्लेष्मणश्च प्रदुष्टस्य दन्तरोगस्य लक्षणम्॥
सर्वैरेव प्रकुपितैर्दोषैः सामान्यलक्षणैः।
श्वयथुस्रावगन्धादि1425 संनिपातस्य लक्षणम्॥
यदा रोगान्वितं रक्तं दन्तमूलेन(?) विद्यते।
विदह्यमानं1426 तद्रक्तं ततो दोषाय कल्पते॥
दन्तरोगाःप्रजायन्ते नानादोषसमुद्भवाः।
दन्तिनां दन्तमूलेषु बहुव्याकुललक्षणाः॥
इत्येते दोषजाः प्रोक्ता दन्तरोगाः पृथग्विधाः।
<MISSING_FIG href="../../../books_images/U-IMG-1697982943Capture3.JPG"/>
जरया दन्तरोगस्तु वयोज्ञाने प्रवक्ष्यते1081॥
न दोषान्नाभिघाताद्वा यदा दन्तो विनिःसृतः।
निःसृते लक्ष्यते सद्यः पूपं शोणितमेव वा॥
कुणपं विस्रगन्धं च दुर्गन्धं वा यदा तदा।
तमौत्पातिकमित्याहुराचार्याः शास्त्रकोविदाः॥
दक्षिणे त्वथ दन्ते च प्रथमं दृश्यते यदा।
तदा व्याधिकरो राज्ञः स्रावो योक्तुर्भयावहः॥
सवणं पतनंचापि दन्तस्य सहसा यदि।
दैवोत्पूतकृतं त्वेतदसाध्यमिति कीर्त्यते॥
स नागः… यामिच्छद्भिः स्वदेशस्य नृपस्य च।
स्वराष्ट्रात्परपात प्रस्थाप्यः स्याद्विचक्षणैः॥
इत्युत्पातकृतस्योक्तं दन्तरोगस्प लक्षणम्।

अतऊर्ध्वं प्रवक्ष्यामि आगन्तोरपि लक्षणम्॥
पतनाच्चलनाद्वाऽपि समरे प्रहतस्य च॥
_________________________________________________________________
- शिव इति भवेत्।
वृक्षवेश्माभिघाताद्वा वसुधांनिघ्नतस्तथा।
नियुध्यमानस्य1427 करैबन्धैर्वा1428 विविधैस्तथा1429॥
नागस्य1430 कारणैरेभिर्विषाणमुपहन्यते।
जर्जरत्वमवाप्नोति भज्यते वा पतत्यपि॥
कल्पान्ते मथ्यते वाऽपि दाल्यते पाठ्यतेऽपि वा।
नास्त्युत्पातकृतो दोषो यद्दन्तपतनं भवेत्॥
इत्यागन्तोः समाख्यातं दन्तरोगस्य लक्षणम्।
<MISSING_FIG href="../../../books_images/U-IMG-1697983980Capture3.JPG"/>
अत ऊर्ध्वं प्रवक्ष्यामि साध्यासाध्यस्य लक्षणम्॥
भग्नशेषस्थितं याप्यं दन्तवेष्टव्यपाश्रयम्।
वेष्टोपरिष्टाद्यद्भग्नमसाध्यमपि निर्दिशेत्॥
करिण्या1431 सह निस्तीर्णे व्रणकर्मविधिः स्मृतः।
संवत्सरोषितो व्याधिः स याप्यो यो न सिध्यति॥
स यदा वर्धते दन्तो विवर्णस्य च दृश्यते।
एवं साध्यमिति ब्रूयादसाध्यः संप्रवक्ष्यते1432॥
यस्यां तु कृमयो वेष्टौ भक्षयन्ति तदुद्भवाः।
वेष्टःसंम्लायते चैव विवर्णश्चोपलक्ष्यते॥
करीर्याश्चो1433पघातेन स्रावः पूतिः प्रवर्तते।
न च सिद्धिमवाप्नोति तदसाध्यस्य लक्षणम्॥
याप्यं च यापयेद्दन्तमसाध्यं च विवर्जयेत्।
साध्यं च साधयेद्वैद्यः शास्त्रोद्दिष्टेन कर्मणा॥
दशाङ्गुला गतिर्या तु भैषज्यं तत्र कारयेत्।
ऊर्ध्वं दशभ्योऽङ्गुलेभ्यो भैषज्यं न प्रशस्यते॥
सर्पिःप्रक्षालनं कार्यं दन्ते सद्यःक्षते नृपः।
दन्तरोगस्य शान्त्यर्थमारोग्यायैव दन्तिनाम्॥
कटुकानि कषायाणि तिक्तानि च समाहरेत्।
त्वक्पत्रफलमूलानि क्षोदयित्वा विपाचयेत्॥
तेन प्रक्षालपेद्वेष्टौक्षारैर्वा विविधैस्तथा।
प्रसन्नया वा प्रक्षाल्यौ हस्तिमूत्रेण वा पुनः॥
तिलसर्षपकल्केन वातकेऽभ्यञ्जनं हितम्।
नस्त(स्य)कर्म च कर्तव्यं त्रिवृतेन भिषग्जिता।
पटोलं चन्दनं मूर्वा गोलोमी कटुरोहिणी॥
पाठया सह तुल्यानि गवां मूत्रेण पेषयेत्1434।
एतैस्तैलं विपक्वंतु नस्पाभ्यञ्जनयोर्हितम्॥
पैत्तिके दन्तरोगे तु^(…. …. …….. ……..)।
^(…….. …. …….. ………… …. ……..)॥
कफकृतदन्तरोग चिकित्सा(?)
श्वेता कुष्ठं हरिद्रा च बिभीतकफलानि च॥
तथा दारुहरिद्रां च हरीतक्याः फलानि च।
साम्बष्ठा च मही धात्री भल्लातकफलानि च॥
रोहिण्यतिविषा चैव वचा हैमवती तथा।
अजामूत्रेण पिष्टैस्तु तैलमेभिर्विपाचपेत्॥
नस्याभ्यञ्जनयोगेन प्रशस्तं सुकृतं भवेत्॥
नक्तमाल्यास्तु तैलं तु हितं वै सांनिपातिके।
अथवा कुष्ठसंयुक्तं तगरेण हरिद्रया॥
मुवहाकटुरोहिण्या तेजोवत्यास्तथैव च।
मुस्तया हिङ्गुना चैव तैलं सम्यग्विपाचयेत्॥
दन्तरोगेषु सर्वेषु तैलमेतत्प्रशस्पते।
वेष्टयोर्म्रक्षणे1435 नित्यं नागस्य मनुजाधिप।
पिप्पलीशृङ्गवेरेण मरिचैर्मुस्तकेन च॥
आढकीबीजसंयुक्तं वृश्चिकाल्यास्तथैव च।
तथा कटुकरोहिण्या तेजोवत्यां1436 तथैव च॥
तैलं सहातिविषया भिषक्सम्पग्विपाचयेत्।
एतदभ्यञ्जने नस्पे प्रशस्तं दन्तरोगिणाम्॥
पारापतं च भव्यं च वोरं च सपरुषकम्।
तथा पटोलं सक्षौद्रं तैलेन सह पाचयेत्॥
ज्ञात्वा दग्धमनामं च ततस्तदवतारयेत्।
तैलेन तेन श्रवणस्रोतसोरनुषेव(च)नम्॥
तेनास्य स्रोतसोः शुद्धिः संधानं दन्तयोस्तथा।
रोचना त्रिफला रोध्रंतथा सर्जरसो नृप॥
समङ्गां गैरिकं पद्मं धातकीपुष्पमेव च।
सूक्ष्मचूर्णीकृतैरेतैर्भवेद्वेष्टानुसारणम्॥
सर्वेषां दन्तरोगाणामिदं शोधनरोपणम्।
प्रपौण्डरीकमञ्जिष्ठाप्रियङ्गुमधुकं तथा॥
क्षौद्रं सलोध्रंसर्पिश्च हितं वेष्टप्रलेपनम्।
वचासर्षपलोध्रं च लशुनं च फणिज्जकम्।
विडङ्गं निम्बपत्राणि हरिद्राद्वयमेव च॥
करञ्जबीजेन्द्रयवाः पिप्पली मरिचानि च।
गोविषाणी वले षञ्च(?)^(…………….)॥
^(…………)स्क^(……..)शेनि(?)समानि तु।
हिङ्गुना सह युक्तानि धूपोऽयं दन्तरोगिणाम्॥
समस्तैरसमस्तैर्वा द्रव्यैरेतैर्हितो भवेत्।
व्रणावस्था विशेषेण व्रणनेत्राणि कारयेत्॥
सूक्ष्माणि ताम्रलौहेन तथैषणीं च पार्थिव।
जरद्गवकृतो बस्तिः प्रशस्तो व्रणशोधने॥
वप्राञ्चपरिरक्षेत्तं करिणां ये तथाऽध्वनि।
दन्तानां रक्षणार्थाय प्रतिमोकांश्च कारयेत्॥
बद्ध्वा वायसपक्षैर्वा स्फटिताञ्जर्जरांस्तथा।
शिरोविरेचनैर्धूपैर्नस्यकर्मभिरेव च॥
प्रक्षालनैश्च सततं दन्तरोगं प्रशाम्यति।
अतः परं प्रवक्ष्यामि दन्तपातविधिं नृप॥
पातयोग्यं विदित्वा तु गजदन्तं प्रपातयेत्।
कृष्णलोहेन शुद्धेन शलाकां कारयेत्ततः॥
अपूर्वा खदिरादीनां शलाका च विधीयते।
तां शलाकां ततस्तस्य निक्षिपेदनुकूलपेत्॥
सहसा पात्यमाने तु दोषाः स्युर्बहवो नृप।
तावद्विनिक्षिपेद्धीमान्यावच्छ्रलथत्वमागतः॥
सर्वश्च क्षुभिते दन्ते ततो लग्नांविचक्षणः।
दन्तमये च विद्यात्तु शलाकां सुदृढां ततः॥
गुर्वी समांसलां^(……..) समालव्यं(?) गमपेद्रुतम्॥
यदि वा तेन योगेन न पतेद्वै सदा नृप।
प्रतिवेष्टमवाकृष्य नलेनमवगाहयेत्(?)।
द्विव्रणीयक्रियाभिस्तु ततो व्रणमुपाचरेत्॥
इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने दन्तरोगो नाम पञ्चाशत्तमोऽध्यायः॥५०॥
<MISSING_FIG href="../../../books_images/U-IMG-1698042824Capture.JPG"/>
अथैकपञ्चाशत्तमोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1698042848Capture2.JPG"/>
पालकाप्योऽङ्गराजेन पृष्टः प्रोवाच हस्तिनाम्।
चेतोभ्रंशसमुत्थानं लिङ्गभैषज्यसंयुतम्॥१॥
मत्तमातङ्गगन्धान्तु स्वप्ने वा रौद्रदर्शनात्1437॥
मन्त्रश्रोत्राहिभयतः सर्वस्मादेव शङ्कते॥२॥
महाध्वगमनात्स्नेहपानात्संक्लेशतस्तथा॥
आहारतिक्तकटुकैस्तदा कुप्यति मारुतः॥३॥
दोषश्चेद्धूपवायुश्च सहसा त्रासयेद्गजम्॥
पतेच्च च्छिन्नशाखा च कम्पते च मुहुर्मुहुः॥४॥
पुरीषं बहुभीतस्तु मुञ्चते संनिषीदति॥
लाला प्रस्यन्दते चास्य बस्तगन्धश्च जायते॥५॥
गुरुगात्रस्तथा स्तब्धः स्रस्तकर्णशिरोधरः॥
कुरुते संतवच्चापि मूत्रमस्तसविज्जलम्(?)॥६॥
समस्तलिङ्गो यो नागो. दशाहान्न निवर्तते॥
न्यूनलिङ्गास्तु ये नागास्तेषां कार्यं चिकित्सितम्॥७॥
चेतसो भ्रंशनाच्चापि चेतोभ्रंशं ततः परम्॥
सर्वसेकोऽन्नकर्तव्यः पुराणेनैव सर्पिषा॥८॥
अञ्जनस्वेदधूपाश्च रात्रिक्षिप्तवदाचरेत्॥
वामदेवं(व्यं) ततः साम स्वहस्तपरिवर्तिनम्॥९॥
कारयेत यथान्यायं ततः संपद्यते सुखी॥
मनोरमं प्रदातव्यं भोजनं सार्वकामिकम्॥१०॥
नृत्यवादित्रगीतानि कारयेच्च गजाग्रतः॥
सनसस्त्वविरोधेन यथेष्टं यवसोदकम्॥११॥
शाल्योदनं ससर्पिष्कं मधुना सह संयुतम्॥
दद्यात्कुकुटबार्हिभ्यां संस्तुतं पानभोजनम्॥
एवं स सुखी भवति निराबाधश्च जायते॥१२॥१६३६॥

चेतोभ्रंशो नामैकपञ्चाशत्तमोऽध्यायः॥५१॥
<MISSING_FIG href="../../../books_images/U-IMG-1698043536Capture.JPG"/>
अथ द्विपञ्चाशत्तमोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1698043557Capture2.JPG"/>
पालकाप्यं मुनिश्रेष्ठमङ्गराजोऽब्रवीदिदम्।
संग्रहे यस्त्वया लुप्तो भगवन्संप्रकीर्तितः॥
एवमुक्तोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत्।
भाराक्रान्ताध्वगमनादत्यर्थमुरसाऽपि च॥
प्राकारस्तम्भपरिघप्रतिनागादिमर्दनात्।
अधिकस्तम्भहार्यैश्च महापङ्काश्रयेण च1438॥
लुप्यते सर्वगात्रेषु तेन लुप्तः प्रकीर्तितः।
लुप्तः सर्वेषु चाङ्गेषु स्तम्भः सोऽप्यस्य जायते॥
सप्तत्वक्शूनसर्वाङ्गोऽक्षिरुषि(?)नातिजीवति।
शोणितं च तथा स्वेभ्यः प्रस्रवेच्चास्य भैषजम्॥
अभ्यज्य सर्पिषा कल्कैः क्षारिणां संप्रलेपयेत्।
सर्पिः क्षीरप्रपानं च सर्पिषैव च भोजनम्॥
कुवल्लं पल्लवं हृद्यमिक्षुर्यवसमोदनम्।
शस्तमेतेन विधिना तेष्वेव च पचेत्ततः॥
त्रैवृतेन मुसिद्धेन तस्याभ्यङ्गं च वातहृत्।
अच्छपानं च तेनैव बस्तिकर्म च कारयेत्॥
ततः स्नेहावसाने तु यथोक्तं बृंहणं तथा।
तत्र श्लोकः—
लुप्तो राजन्यथा पक्षी तथा नागः1439प्रणश्यति॥
^(………………..) द्यात्पित्तस्त्यजेदसून्।
^(……………………………………..)॥
^(……………………)वारणानां महामुने।1440
एवं पृष्टोऽङ्गराजेनपालकाप्यस्ततोऽब्रवीत्॥
अनङ्गनाशाय हरस्त्रिशूलं मुमोच कोपान्मकरध्वजस्य।
तगापतन्तं सहसा निरीक्ष्य भयार्दितो विष्णुतनुं प्रविष्टः॥
स विष्णुहुंकारविमोहितात्मा पपात भूमौ प्रथितः स शूलः1441।
स पञ्चभूतानुगतं शरीरं प्रदूषयेद्दोषरसादिधातून्॥
विण्मूत्रशुक्रानिलनिग्रहेण अत्यम्बुपानाशनसेवनाच्च।
श्रमाभिघातादुपतापनाच्च वायुः प्रकुप्याऽऽशु करोति शूलम्॥
हृत्पार्श्वपृष्ठोदरकट्युपस्थे करोति पीडां विविधां सुगुर्वीम्।
यदा सपित्तः कुपितो वायुः स प्रतिपद्यते।
तदा मूर्छा भ्रमस्तृष्णा ग्रासद्वेषो विवर्णता॥
दाहकम्पौ प्रपतनं क्रोधस्तस्पाधिको भवेत्।
सकफः कुपितो वायुः करोत्युन्मार्गगस्तथा॥
आमाशयस्थः कुरुतेऽतः शूलं गाढवेदनः।
मुहुर्निषादनं स्तम्भमक्ष्णोः साश्रु विचेष्टितम्॥
क्रोधं यवसविद्वेषमिति लिङ्गान्यतः क्रियाः।
घृताभ्यङ्गःसपित्ते स्पाद्याश्च पित्तानिलक्रियाः॥
सकफेऽपि निवातस्थं कोष्णतैलनिषेचनम्1442।
स्वेदयेत्स्नानपाने च युञ्ज्यादुष्णोदकं तथा॥
अविरुद्धां च कुर्वीत सर्वां वातकफक्रियाम्।
धूपयेत्सर्वगन्धाद्यैराज्य1443गोशकृताऽपि वा॥
इङ्गुदैर्घृतसंयुक्तैर्वातकैर्वा घृतप्लुतैः।
शूलद्वये च सामान्यो वक्ष्यतेऽतः परं विधिः॥
हरिद्रे हिङ्गुबृहती विडङ्गं पारिभद्रकम्।
देवदार्वश्वगन्धां च सरलेन्द्रयवानपि॥
_______________________________________________________________
- ‘स्वेदने’ इति स्यात्।
क्षुन्नः(ण्णः) प्रातः1444 प्रदातव्यः पिण्डशूलद्वये हितः।
पिण्डोऽन्यो गुडशुण्ठीभ्यां शुण्ठीकल्कस्तथाऽञ्जनम्॥
तत्र श्लोकः—
एवं हि प्रवरभिषक्प्रयुक्तयोगैर्निःशेषं व्यपनय मृत्युकल्पशूलम्।
आनाहेषु^(… …)विहितप्रतिपान^(… … ….)पानादिक्रमप्रविहितश्च भक्तयोगः॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने शूलद्वयं नाम द्विपञ्चाशत्तमोऽध्यायः॥५२॥
<MISSING_FIG href="../../../books_images/U-IMG-1698058707Capture.JPG"/>
अथ त्रिपञ्चाशत्तमोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1698058730Capture2.JPG"/>
अथाङ्गाधिपतिः श्रीमान्पालकाप्यं स्म पृच्छति।
संग्रहे ये त्वयोद्दिष्टाश्चत्वारः शारदा विभो॥
तेषां तत्त्वेन निर्देशं भगवन्वक्तुमर्हसि।
ततोऽङ्गचोदितः प्राह पालकाप्यो महातपाः॥
अव्यामे पानमार्गादिष्वसामर्थ्यंक्रियासु यत्।
बले सत्यप्यसति1445 वा तद्योगाच्छारदाः स्मृताः॥
चत्वारस्ते च तत्राऽऽदौ वक्ष्यते स्थूलशारदः।
विहाराहारसंपत्त्या पुष्टो वर्षं स्थितः सुखी॥
अव्यायामोऽलसोऽत्यर्थमक्षमः सर्वकर्मणाम्।
महानिद्रः समुच्छ्वासी हृद्यजठरप्रूत्रता(?)॥
मेदुरः समिरुजघात्तामा(?) रोगास्पदं भवेत्।
^(… … ….)श्लेष्मा^(… ….)द्विट्किंचिदुष्णप्रियोऽपि च॥
ग्रासेष(ष्व)रोचकः प्रायस्तस्येयं वक्ष्यते क्रिया।
प्रातर्वीथ्यां विषाह्योऽसौ पूर्वनीचैर्गतेन तु॥
दिने दिने क्रमं लब्ध्वा ततो युञ्ज्याद्गतान्तरे।
जवनैः पञ्चभिरथो सप्त चाहानि पाययेत्॥
सुरां सपञ्चलवणां षडङ्गां तदनन्तरम्।
सिद्धं वृषाग्निकैरण्डैःसर्पिषा षष्टिकोदनम्॥
मुद्गयूषेण संभोज्यस्तमेवानुपिबेत्ततः।
कषायतिक्तकटुकान्दद्याच्च कवलानपि॥
तेजोवतीॆ त्रिकटुकंहरिद्रे सड़ने वचा।
क्षुण्णाः सक्षौद्रकवला देया स्थैर्याग्निवर्धनाः।
तैलपानप्रयोगाद्वा गजः प्रकृतिमाप्नुयात्॥
इति स्थूलशारदः।
अतः परं प्रवक्ष्यामि पैत्तिकं कृशशारदम्।
यस्य संवत्सरोत्सृष्टकर्मणः पित्तवर्धनैः॥
बलक्षयकृताहारैर्विषमे रूक्षसेवितैः।
शालीभूतस्य चाभाव्यदाहार(?) वातवस्तुषु॥
एभिः प्रकुपितं पित्तं जनयेत्कृशशारदम्।
ततः कृशोऽलसश्छायाकाङ्क्षी प्रद्वेष्टि चाऽऽतपम्।
इच्छेद्यः स्निग्धमधुरमनुपानं तृणाशनम्॥
पूर्ववत्कर्म चास्यापि कार्यं व्यायामिकं शनैः।
भोजनं चैव शालीनां प्रातः सघृतशर्करम्॥
तस्यानुपाने(नं) मृद्वीकाशर्करामधुकैः स्मृतम्।
सर्पिः क्षीरं प्रयुञ्जीत पानं चाप्यथ1446 शक्तितः॥
पित्तघ्ना बृंहणीयास्तु क्रियाः सर्वाश्च कारयेत्।
इति कृशशारदः॥
वक्ष्यते1447 वातिकस्त्वेकः प्राकृतो नाम शारदः।
अव्यायामस्य षण्मासान्विधास्नेहविवर्जितम्॥
तृणमेवाश्नतः शुद्धं विरोधाच्चापि सात्म्यतः।
कुर्याद्विप्रतिपन्नः सन्वायुः प्राकृतशारदम्॥
ततस्तु कृच्छ्रविण्मूत्रो मन्दग्रासोऽलसो गजः।
अवसीदन्ति वीर्येण क्रिया तस्यापि पूर्ववत्॥
भोजनं स्निग्धमधुरमम्लं सलवणं हितम्।
सुरांसपञ्चलवणां षडङ्गं चापि पाययेत्1448॥
तैलमांससमायुक्तैर्लशुनैर्बृहयेच्च तम्।
यद्येवं सुस्थिरो न स्याद्बस्तिकर्मं च संस्मृतम्॥
(इति) प्राकृतशारदः।
चतुर्थोऽतः परं राजञ्ज्ञेयो लोहितशारदः।
आहाराचारसुखिनः षण्मासोत्सृष्टकर्मणः॥
कटुकाम्ललवणभोजनाद्रक्तशारदः।
मन्दग्रासोऽलसोत्सृष्टभ्रमत्रासातुरोभवेत्॥
शतधौतधृताभ्यक्ते पैत्तिकस्य विधिः स्मृतः।
खर्जूरबदरद्राक्षाशर्करालाजसक्तुकैः॥
स्वज्राव1449तोपे मथितैः सृष्ठ्याघ्नं पानमुत्तमम्।
(इति) लोहितशारदः॥
शारदान्तवयसे विशारदः कुञ्जरान(?)चतुरश्चतुरोऽपि।
कर्मसु क्रमविवर्धितयोगात्स भिषग्वर1450एव^(…. …. ….)॥
इति श्रीपालकाप्ये इस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने शारदो नाम त्रिपञ्चाशत्तमोऽध्यायः॥ ५३॥
<MISSING_FIG href="../../../books_images/U-IMG-1698068252Capture.JPG"/>
अथ चतुष्पञ्चाशत्तमोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1698068271Capture2.JPG"/>
भगवान्त्रोमपादेन राज्ञा संचोदितः पुनः।
नागा नाश्नन्ति ग्रासि(?) ज्वरश्चास्योपजायते॥1451
एवं दष्टस्य विज्ञानं चिकित्सितमतः परम्।
ह्रदे निर्वाप्य मातङ्गं सर्पिषा परिषेचयेत्॥
क्षीरवृक्षत्वचश्चैव पयसा सह पेषयेत्।
सशर्करां समृद्वीकां1452 क्षीरपानं प्रशस्यते॥
हरिद्रे वेणुपत्राणि कुष्ठं नलदसारिवे।
कल्कपिष्टानि सर्वाणि सर्पिषा सह संसृजेत्॥
ततः स्तम्भगतं नागं समन्तादनुलेपयेत्।
तेन सौख्यमवाप्नोति वेदना चोपशाम्यति॥
आहारं मधुरप्रायं सर्वमस्मै प्रदापयेत्।
तेनासौ सुखमाप्नोतिं वेदना चोपशाम्यति।
तथा मत्स्यण्डिकायुक्तं यवसं च प्रदीयते1453॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने मधुमक्षिकादष्टोनाम चतुष्पञ्चाशत्तमोऽध्यायः॥५४॥
अथ पञ्चपञ्चाशत्तमोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1698069537Capture2.JPG"/>
अथ खलु रोमपादोऽङ्गाधिपतिरपृच्छत्—‘भगवन्पालकाप्य, कथमिदानीमपि नागानां छवीदोषा नानाविधसंस्थाना भवन्ति। तत्र साध्याः के, किं च तेषां चिकित्सितं निदानं वा भवति, एतत्सर्वं विस्तरेण1454 ममाऽऽख्यातुमर्हसि’ इति॥
एवं पृष्टः पालकाप्य उवाच—इह खलु भो हस्तिनामेकादश च्छवीदोषा भवन्ति। तद्यथा—विसर्पिकी, मण्डली, दद्रुकी, महादद्रुकी, जातसूका1455, पिटका, फुल्लिका, उद्गण्डिका, विचर्चिका, तृणपुष्पी, किलासी च; इत्येवमेकादश च्छवीदोषा एकादशनामानो नानाविधलिङ्गसंस्थाना भवन्ति। अतः परमुत्पत्तिमनुव्याख्यास्यामः। तद्यथा—अनिलपित्तकफशोणितान्येकैकशो युगपद्वा कोपादुदीर्णानि च्छवीमनुसृत्य रोगाननेकलिङ्गानुत्पादपन्ति॥
तत्राऽऽदौ विसर्पिकी नाम वातशोणितात्मको व्याधिर्यस्माद्विसर्पति तस्माद्विसर्पिकी। अस्योपक्रमः पुण्डरीकपाकले व्याख्यातोऽस्माभिः॥
अथ द्वितीयश्छवीदोषा(षो) मण्डली पृथक्पृथङमण्डलानि श्वेतानि रक्ताभासानि कपिलानि भस्माभासानि लक्ष्यन्ते। एतानि कफशोणितसंसर्गतश्छविमाश्रित्य1456 जातानि साध्यानि भवन्ति। तस्योपक्रमः– –क्षारलेपनाभ्यञ्जनैर्द्विव्रणीयोपचारश्चेति॥
पिटकाभिर्वृतायां छवौ प्रस्तब्धाः1457 (सर्वतः पिटिकाश्छवीमाश्रित्य भवन्ति।1458) एष श्लेष्मपित्तसंसर्गाद्विकारः। तस्योपक्रमः—द्विव्रणींयोक्त एवानुष्ठेयोभवति॥
अतः परं फुल्लिका नाम। तेन सर्वतश्छविःपुष्पिता.^(…) पाण्डुरा पु(प)रुषा भवन्ति। स वातपैत्तिकश्छवीदोषः श्लेष्मशोणितक्षयाद्भवति। तस्योपक्रमः—स्निग्धैर्बृहणीयैर्भक्ष्यभोज्यस्नेहपानादिभिरनुष्ठेय इति॥
अयोद्गण्डिकाख्यः स्याच्छवीदोषो यत्र सर्वतश्छवी दद्रुभिर्व्याप्ता भवति। स कफकोपाद्विकारः संभवति। तस्योपक्रमः—तैलेनैवाभ्यङ्गस्वेदसूक्ष्मद्रव्यक्वाथैस्तूपदिश्यते इति॥
विचर्चिकाछवीदोषेऽप्यथ शूनाल्पवेदना विवर्णा प्रस्तब्धा च च्छविर्भवति। कफपित्तरुधिराद्विकारोऽयं भवति। तस्योपक्रमः—पथाव्याधि समानेरम्परौ-षधैः शीतैः सौम्यैश्च लेपनैरनुष्ठेयो भवति। तथाविधं च पानं भोजनं परिकरुपयेत्॥
तृणपुष्पी नाश यथा—तृणमस्ति श्वेतशिरा नाम। तस्याग्रे श्वेतमुपलभ्यते पुष्पम्। तत्पुष्पाकृतिसमस्थानैर्मण्डलैः सर्वतश्छविः पुष्पिता भवति। स ‘तृणपुष्पी’ इत्यभिधीयते। स वातकफरुधिर^(…………………………..)।तस्योपक्रमः—तिक्तौषधैस्तैलमनुपक्वम1459भ्यङ्गपानान्यप्र(न्युप) हरेत्॥
किलासी नाम पित्तकफसमानि कैलासानि श्वेतानि कपिलानि कृष्णावभासानि वा लक्ष्यन्ते। तानि संनिपातेन पृथक्पृथङ्मण्डलानि संभवन्त्यसाध्यानि। पुनः कस्यचिद्गर्भदोषैर्गर्भस्थस्यैवोपजायन्ते। एष च विवर्जनीयः।
तत्र श्लोकौ—
कुशलो प्रतिमान्वैद्यो दृष्टकर्मा विशारदः॥
ऊहापोहविधिज्ञस्तु शस्त्रकर्मविचक्षणः॥
यथोक्तान्येवमेतानि कुष्ठानि विविधान्यपि॥
यः साधयति पूजां स पार्थिवात्प्राप्तुमर्हति॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने छवीदोषो नाम पञ्चपञ्चाशत्तमोऽध्यायः॥५५॥
<MISSING_FIG href="../../../books_images/U-IMG-1698071931Capture.JPG"/>
अथ षट्पञ्चाशत्तमोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1698071953Capture2.JPG"/>
ज्वलनादित्यसंकाशं मुनिमुग्रतपोधनम्।
पालकाप्यं तु नृपतिः पप्रच्छासौ महायशाः॥१॥
मृत्यवः पञ्चदश च गजानां चरतां वने॥
न ते भगवता प्रोक्ता ग्राम्याणां बहुरोगता॥२॥
अत्र मे संशयस्तीव्रो भगवन्समुपस्थितः॥
तदशेषेण भगवन्व्याख्यातुं मे त्वमर्हसि॥३॥
किमर्थं भक्षयित्वा तु मृत्तिकास्तु बहूरपि॥
वारणा वह्निसंपन्ना राजन्वनविचारिणः॥४॥
भवन्ति बलसंपन्नास्तेजोबलसमन्विताः॥
दृढसर्वेन्द्रिया हृष्टाः कामवन्तो मनस्विनः॥५॥
न च रोगा1460 नियच्छन्ति विधा लवणवर्जिताः॥
त एव ग्राममानीता भक्षयन्ति यदा मृदम्॥६॥
तदा रोमाश्चियच्छन्ति किमर्थमिह दारुणान्॥
ग्रासद्वेषं तथा गुल्मं वेपथुं सगलग्रहम्॥७॥
आनाहमथ हृद्रोगं चरणस्तम्भमेव च॥
तथाऽतीसारमध्यन्मे(?) लभन्ते पूतिगन्धिताम्॥८॥
मूर्छादींश्चापरान्रोगाल्लँभन्ते विविधात्मकाम्॥
भक्तं च यवसं चैव तेन चैषां विकारवत्॥९॥
एतदिच्छामि निखिलं वेदितुं भिषजां वर॥
सनिदानं समुत्थानं तथैव सचिकित्सितम्॥१०॥
ततोऽब्रवीत्तत्त्वदृष्टिः पालकाप्यो महायशाः॥
प्रश्नविज्ञानसंपन्नो रोमपादाय पृच्छते॥११॥
कषायकटुतिक्ताम्ला1461 मधुरो लवणस्तथा॥
यथा देशविभागेन यद्रसानुगता मही॥१२॥
कृष्णा वाऽप्यथवा श्वेता पाण्डुराऽप्यथवोषरा॥
क्षितेरत्राभिनि1462र्दिष्टाः शास्त्रतो वर्णजातयः॥१३॥
कृष्णा कषायमधुरा सा वे स्निग्धा च मेदिनी॥
पाण्डुः कषायकटुका रूक्षानिलविवर्धिनी॥१४॥
श्लेष्मला चसतिक्ता च किंचिच्चैव विदह्यते॥
तथोषरा सलवणा न गजानां च सा हिता॥१५॥
इत्येता वर्णतश्चैव रसतश्चैव भूमिप॥
कीर्तिता वक्ष्यते तत्र त्वन्ययोगेन लक्षणम्॥१६॥
गुर्वी भिन्नपुरीषा च दुर्जरान्नविपादि1463नी॥
पत्तिका वारणगता पच्यतेऽनिल1464वर्धिनी1465॥ १७॥
…नं स्तम्भस्त्वतीसारो दौर्बल्यं परिकर्तिका1466 (?)॥
मन्दग्रयस्तथाऽऽलस्यं मृत्तिकाजीर्णलक्षणम्॥१८॥
अत ऊ.. तु वक्ष्यामि हेतुं तु मनुजाधिप॥
वन्या येन क्षितिं भुक्त्वा न भवन्ति विकारिणः॥१९॥
रूक्षैः कषायैः कटुकैस्तृणद्रुमसमुद्भवैः॥
रसैर्नानाविधैर्नागाः पुष्यन्ति सततं वने॥२०॥
तेषां तेनोपयोगेन ग्रहणी दारुणा भवेत्॥
जरयन्ति1467 महीं भुक्त्वा वारणा भृशदारुणम्॥२१॥
इत्येष हेतुः प्रथमो वारणानां प्रकीर्तितः॥
इत्यन्येऽपि तु दृश्यन्ते हेतवो मनुजाधिप॥२२॥
वन्या येन क्षितिं भुक्त्वा न भवन्ति विकारिणः॥
बलं नास्ति1468सर्वगात्रः प्रहृष्टेन्द्रियमानसः॥२३॥
यदा संयुज्यते नागो मुदितो जातकामया॥
संप्रयोगगतं तत्र गर्भं गृह्णाति धेनुका॥२४॥
तस्यां संजातगर्भायां दौर्हृदं नाम जायते॥
स द्वितीये तृतीये वा मासे संजायते भृशम्॥२५॥
तेन चाऽऽर्ता गजवशा मृत्तिकामुपसेवते॥
तस्या हृदयसंबद्धा नाभ्यांनाडी प्रतिष्ठिता॥२६॥
सिरा रसवहा राजन्स गर्भः पुष्यते यया॥
प्रसूते धेनुका काले हस्तिनीं यदि वा गजम्॥२७॥
मातुर्दौर्हृदजातं तु मृदंशमनुवर्तते॥
स पयोमृत्तिकाहारो मृदुपल्लवभोजनम्॥२८॥
वने चरति संहृष्टः समाः पञ्च मतङ्गजः॥
स गजः पञ्चमे वर्षे क्षीरादेव निवर्तते॥२९॥
मुव्यक्तदन्तः स भवे(?) भवत्यतिविचेष्टितः॥
ततः क्षीरादपावृत्तो वृक्षभङ्गं निषेवते॥३०॥
विविधं पल्लवं चैव चित्राणि यवसानि च॥
ते पुनः पांशुवातेन तथा वप्रादिमर्दनैः॥३१॥
क्षुधिता वारणा राजन्भक्षयन्ति मृदं सदा॥
पक्वसस्ये तथा काले गर्भात्प्रभृति मृत्तिका॥३२॥
वियोगाच्चान्नपानस्य विकाराय प्रकल्पते॥
इत्येते हेतवः प्रोक्ता बहवो वनचारिणाम्॥३३॥
क्षितिमाहारयन्तोऽपि ये भवन्ति निरामयाः॥
ग्राम्याणामिह वक्ष्यामि हेतून्यैस्तु महीपते॥३४॥
लभते यान्गजो राजन्विकारान्मृत्तिकाशनात्॥
दावाग्निदग्धां पृथिवीं वारणा जलदागमे॥३५॥
अभिवृष्टां जलधरैः सुगन्धां भक्षयन्ति वै॥
पथ्यापथ्यैश्च बहुभिराहारैः संचितैर्नृप॥ ३६॥
मधुराभ्यवहारैश्च तथाऽन्यैरपि भोजनैः॥
(कृमयो जठरोत्थास्तु हृल्लासं जनयन्ति ते॥३७॥
^(…. …. …. ….)राजन्मृदु ह्यस्यबहुद्गजाः(?)॥)
ग्राम्याः स्नेहामयैर्धान्यैस्तथैव रसभोजनैः॥३८॥
पुष्यन्ति लवणैस्त्वेव ततस्तेषां महीपते॥
ग्रहणी मार्दवं याति मृदुभिः स्निग्धपेशलैः॥३९॥
ततस्तेषां विकाराय कल्पते भक्षिता मही॥
मधुरैश्च तथाऽऽहारैः स्नेहपानैश्च नित्यशः॥४०॥
स्विन्नास्तु हेतुना तेन कुर्वन्त्यवनिभक्षणम्॥
बलं च वर्धयत्येवमुपयुक्ता वसुंधरा॥४१॥
आमाशयगता राजन्मृत्तिका बाधते गजम्॥
उन्मादयन्ति रामास्वविधातुः1469 (?) प्राणनाशनात्॥४२॥
एतस्मात्कारणाद्राजन्रक्षितव्या मतङ्गजाः॥
सततं मृत्तिकादानादारक्षैः पुरुषैर्नृप॥४३॥
ग्राम्याणां मृदुकोष्ठानां दुर्जरा भवति क्षितिः॥
आहारपरिणामे तौ (?) नागं1470 खादति मृत्तिकाम्॥४४॥
मृत्तिकापरिणामे वा यदाऽऽहारं निषेवते॥
दोषं न लभते तेन मृत्तिकाभक्षणेन वै॥४५॥
इत्येतत्कारणं प्रोक्तं ग्रामारण्यनिवासिनाम्॥
(गजानां मृत्तिकादाने हेतुर्दृष्टः पृथग्विधः॥४६॥1471
अथ चिह्नानि वक्ष्यन्ते1471) गजानां मनुजाधिप।
मृत्तिकाभक्षणोत्थानि विधिवच्छास्त्रनिश्चयात्॥४७॥
स्तब्धाध्मातोऽतिवे1472गेन सघोषश्च सशीकरः॥
कृष्णोपयोगान्माताङ्गोमन्दग्रासोऽतिसार्यते॥४८॥
शूलार्तो विमनाश्चापि परिशुष्कमुखो भृशम्॥
श्वेतोपयोगान्मातङ्गो मन्दग्रासोऽनिसार्यते॥४९॥
दह्यमान इवावस्थो म्लानगात्रोऽतिसार्यते॥
जनयन्त्यूषराःश्वेतं पुरीषमिह दन्तिनः॥५०॥
विवर्णविवरावक्वर्णपङ्गो करीषवत् (?)॥
नातिस्तम्बो न वा बद्धो न चैव विमना भृशम्॥५१॥
भवेदूषरया नागो मन्दग्रासो मृदाऽर्दितः॥
पाण्डूपयोगान्मातङ्गः कृमिदुष्टं निरूहति॥५२॥
द्रवत्यत्यर्थदुर्गन्धं पुरीषं जलयन्त्रवत्॥
विनमत्यथ कायेन1473 प्रस्तब्धकरणो गजः॥५३॥
शूलार्तश्च भवेन्नागः परिशुष्कमुखो भृशम्॥
मन्दग्रासस्तु विमनाः परिमूत्री च वारणः॥५४॥
भवेत्पाण्डूपयोगेन विवर्णपरुषच्छविः॥
नागोत्थं विह्वलो^(….)नाभिपुत्रेन्द्रिय^(….)सः॥५५॥
न चात्याध्मानकुक्षिर्यः स गजः साध्यलक्षणः॥
कर्णलाङ्गूलविष्टब्धस्तथाऽऽध्मातो मुहुर्मुहुः॥५६॥
लक्ष्यते यत्र(श्च) मातङ्गो न स जीवति दुर्मनाः॥
साध्यरूपं गजं दृष्ट्वा लक्षणैः संप्रकीर्तितैः॥५७॥
ततस्तं मतिमान्वैद्य आरभेत चिकित्सितुम्॥
आनद्धकुक्षिं विज्ञाय चोदयेत्स्थूलविक्रमैः॥५८॥
ततस्तमालितं स्तम्भे1474 सर्वतैलेन सेचयेत्॥
अथैनं कथिते देशे पक्वपक्षं निषादयेत्॥५९॥
वर्तितस्य च निष्कोशौ पणिभ्यां1475 मर्दयेद्धृशम्॥
उत्थितोपरिषन्नस्य1476स्य इति भवेत्।; उच्छ्रितो।") व्यायामः परिवर्तते॥६०॥
तेन कोष्ठगतो वायुः क्षिप्रमेव प्रशाम्यति॥
चतुरस्रं खनेत्कूपं यावच्छ्रोणीप्रमाणतः॥ ६१॥
ततस्तं वारिणा कूपं सुखोष्णेनावपूरयेत्॥
तस्मिन्कूपे ततः सम्यङ्नागं तमवगाहमेत्॥६२॥
निवातायां व शालायां धूपयेदोषधैस्ततः॥
दिङ्गुसर्जरसोशीरैः सर्वगन्धैश्च तेन च॥६३॥
धूपेनानेन नागस्य वायुः शाम्यति कोष्ठजः॥
अथास्मै कवलान्दद्यान्मृत्तिकाया निरुहणे॥६४॥
पिप्पलीपिप्पलीमूले चित्रकं हस्तिपिप्पलीम्॥
वचामतिविषां यासं तथा कटुकरोहिणीम्॥६५॥
हरिद्रे द्वे विडङ्गानि मरिचानि महौषधः(म्)॥
एलां मधुरसां चैव तथा तेजस्विनीमपि॥६६॥
देवदारुं तथा हिङ्गुंत्रिवृतां गौरसर्षपम्॥
त्रिफलां चाजमोदां च तथैवेन्द्रयवानपि॥६७॥
लवणैः पञ्चभिर्युक्तं क्षोदयित्वा ह्युदूखले॥
गोमयेन च मृद्वीतां पिण्डं नागाय दापयेत्॥६८॥
एतेन मृत्तिकां सन्नां सपुरीषां निरूहति॥
(यद्येतेन प्रयोगेण विशेषो नोपलभ्यते926॥६९॥
अथान्यदस्मै दातव्यं मृत्तिकाया निरूहणम्॥
दन्ती कटुकतुम्बी चपान^(…)क्षजीरकम्॥७०॥
शिरीषपत्रं लशुनं सर्षपमक्षीपीहकम् (?)॥
गोमयेनाथ मृदितं पिण्डमस्मै प्रदापयेत्॥७१॥
एतेन मृत्तिकां सन्नां सपुरीषां निरूहति।)
वार्ताकानि विडङ्गानि फलमारग्वधस्य च॥७२॥
स्नुह्याःपत्रं च मूलं व हरीतक्याः फलानि च॥
श्यामां च शृ़ङ्गवेरं च गण्डीरं1477 चाऽऽटरुषकम्॥७३॥
उदूखले क्षोदयित्वा पञ्चभिर्लवणैः सह॥
पिण्डं प्रदापयेद्वैद्यो गोमयेनैव मर्दितम्॥७४॥
यद्येतेन प्रयोगेण विशेषो नोपलभ्यते॥
अथास्मै कवलान्दद्यान्मृत्तिकाया निरूहणे॥७५॥
विडङ्गानि त्रिकटुकां पञ्चैव लवणानि च॥
मर्दितं गोमयेनाथ पिण्डमस्मै प्रदापयेत्॥७६॥
एतेन मृत्तिकां सन्नांसपुरीषां निरुहति॥
यद्येतेन प्रयोगेण विशेषो नोपलभ्यते॥७७॥
अथान्यदस्मै दातव्यं मृत्तिकाया निरुहणे॥
पाठामतिविषां हिङ्गुंवचां तेजस्विनीमपि॥७८॥
रोहिणीं कटुकां मुस्तां फणिज्जकफलानि च॥
इन्द्रदारू पयस्यां च द्वे हरिद्रे तथैव च॥७९॥
पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम्॥
शङ्खिनींतृवृतां चैव विडङ्गान्मरिचानि च॥८०॥
पञ्चभिर्लवणैः सार्धे क्षोदयित्वा ह्युदूखले॥
गोमयेनाथ संमृद्य पिण्डमस्मै प्रदापयेत्॥८१॥
एतेन मृत्तिकां सन्नां सपुरीषां निरूहति॥
आनाहे च यथाप्रोक्तं बस्तिमस्मै प्रदापयेत्॥८२॥
आनद्धं बद्धचिह्नं च कृमिकोष्ठं तथैव च॥
उपक्रमे निरूहैस्तानवसन्नमृदुस्तये(?)॥८३॥
बलिसिद्धौ यथाप्रोक्तं निरूहं दापयेद्भिषक॥
उपक्रमे तथा नागं शास्त्रमाश्रित्य बुद्धिमान्॥८४॥
शुद्धकोष्ठं विदित्वाऽथ बद्धलिण्डं च वारणम्॥
ग्रहणीदीपनार्थाय वातप्रशमनाय च॥८५॥
पञ्चभिर्लवणैः सार्धं पिप्पलींमरिचानि च॥
मैरेयं वा प्रसन्नां वा प्रतिपानं प्रदापयेत्॥८६॥
भक्तार्धमेवानुगजं मुद्गयूषेण भोजयेत्॥
ततः कुलत्थयूषेण, भागोनं तु प्रदापयेत्॥८७॥
समस्तभक्तं च ततो भोजयेद्रसभोजनम्॥
इत्येवं मृत्तिकाध्यायः पृच्छतेऽङ्गाय कीर्तितम्(:)॥
पालकाप्येन ऋषिणा वारणानां हितैषिणा॥८८॥
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोमस्थाने मृत्तिका नाम षट्पञ्चाशत्तमोऽध्यायः॥५६॥
<MISSING_FIG href="../../../books_images/U-IMG-1698080785Capture.JPG"/>
अथ सप्तपञ्चाशत्तमोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1698080999Capture2.JPG"/>

ग्रहणीदोषनामानि तत्समाचक्ष्व पृच्छतः॥१॥

व्यापत्सु प्रथमे स्थाने सूचिता ग्रहणीगदाः॥२॥
तुभ्यमहं नरश्रेष्ठ तेषां वक्ष्यामि विस्तरम्॥
दोषैः पृथक्समस्तैर्वा ते भवन्त्यनिलादिभिः॥३॥
अत्याहारादनाहारात्तथैव विषमाशनात्॥
कुपिते मारुते कोष्ठे व्यापादयति पावकम्॥४॥
तत्र भिनं पन्नं वाऽपि शकृद्यस्य प्रवर्तते॥
सबिम्बं च सशूलं च साध्मानं फेनिलं बहु॥५॥
इत्येतैर्लक्षणैर्विद्याद्वातजं ग्रहणीगदम्॥
हस्तिनस्तु विशेषेण1478करोति महतीं व्यथाम्॥६॥
(पञ्चमूलद्वयं1479 क्वाथं बालबिल्वं1480 वचा पुनः॥
समुस्ताऽतिविषा हिङ्गु लवणं च प्रदापयेत्॥७॥
शकृदाद्यं1481 सलवणं सहिङ्ग्वतिविषा वचा॥
तन्मूत्रेण युतं पिण्डं दद्यादस्मै यथाबलम्॥८॥
क्वाथान्वा वातगुल्मोक्तान्दापयेदनुपूर्वशः॥
निरामं व शकृज्ज्ञात्वा स्नेहयेद्वाऽपि युक्तितः॥९॥
दीपनीयगुणक्वाथैस्तत्कल्कैश्च प्रसाधितैः॥
स्नेहैरुपचरेत्सम्पग्भोजनादिषु योजितैः॥१०॥
पिबेदैरण्डतैलं वा दशमूलगणे सु(शृ)तः॥
विरिक्तगत्वविट्का (?) व क्रमेणैवानुवासयेत्॥११॥
सुस्निग्धं मनुजाघासैस्ततो1482 नागं निरूहयेत्॥
वातिकेन विधानेन स निरूह्यः क्रमात्ततः॥१२॥
भूयोऽनुवासयेदेनं स्नेहैरनिलनाशनैः॥
दीपनीयेन यावत्स्यात्स्निग्धं1483 लिङ्गत्वदर्शनम्॥१३॥
प्रतिपानादिषु अन्यो विधिः शास्त्रे तदा न तंत्॥
इत्येषा वातिकी प्रोक्ता चिकित्सा ग्रहणीगदे॥१४॥
(इति ) वातिकः॥
अत ऊर्ध्वं प्रवक्ष्यामि पैत्तिकस्यापि लक्षणम्॥
पित्तं प्रकुपितं कोष्ठे कटुकोष्णादिभोजनैः॥१५॥
दूषयित्वाऽनलं कुर्याच्छकृद्वर्णैः स्वकैर्युतम्॥
सदाहवेदनं भिन्नमल्प+[]^1467^(…. …. …. …. ….)1484॥१६॥
^(…. …. ….)कथितं शृणु पैत्तिकसाधनम्॥
मुस्तामलककाश्मर्यपृष्टिपर्णीमधूलिकाः॥१७॥
मूर्वां च बालबिल्वानि मधुकं माषपर्ण्यपि॥
लोध्रंप्रपौण्डरीकं च पक्त्वा पादावशेषितम्॥१८॥
शर्करामधुसंयुक्तं पानं पित्तात्मके स्मृतम्॥
विमुक्तमस्ति(?) ^(…. …. ….)सर्पिरेवं प्रयोजयेत्॥१९॥
पाने वा1485भोजने वाऽपि विधिं तस्य प्रवर्तयेत्॥
किराततिक्तं भूनिम्बं पटोलं बृहतीद्वयम्॥२०॥
अमृतां वत्सकं मुस्तं पाठां तेजोवतीमपि॥
तथा पर्पटकोशीरवासाक1486टुकरोहिणी॥२१॥
पक्त्वाऽप्यतिविषां चैव तस्मिन्क्वाथे घृतं पचेत्॥
तद्द्रव्यं कल्प(ल्क)संयुक्तं पैत्तिके ग्रहणीदे॥२२॥
तद्दोषप्रत्यनीकं च (सर्वशान्तिक1487) पैत्तिकम्॥
(इति पैत्तिकः॥)
कफे प्रकुपिते कोष्ठे ससमानरसादिभिः॥२३॥
अजीर्णाद्व्यशनाद्वाऽपि लिङ्गा1488द्दोषा1489 विनिर्दिशेत्॥
समूलकफपित्तं च शकृदामं विमुञ्चति॥२४॥
प्रवह्यमाननिखिले…………………………1490॥
…………………….नालेपयेद्बहिः॥२५॥
जम्बूदुम्बरवेत्राणां कुष्ठस्य चधवस्य च॥
कषायैः क्षालयेद्भाण्डं लेपयेन्मधुना1491 सह॥२६॥
एलालवङ्गकर्पूरपद्मकागुरुचन्दनैः॥
सूक्ष्मचूर्णीकृतैरेव पिप्पलीमरिचानि च॥२७॥
मासादूर्ध्वंततः पानं पाययेदुत्तमासवम्॥
सर्ववातविकारेषु ग्रहणीं दा(दी)पयेद्भिषक्॥२८॥
तद्दोषहरणैश्चान्यैरेवमेव…..भिषक्॥
…………ज्ञेयो विस्तारिको विधिः॥२९॥
लवणं स्यादूर्धनेत(?)…….क्षमते विधिः॥
आरोग्यं कामयेद्यस्तु गजानां रोगसिद्धये॥३०॥
पञ्चमूलद्वयं पाठामपामार्गं सगोक्षुरम्॥
पाषाणभेदकं लोध्रंद्वे हरिद्रे विभीतकम्॥३१॥
अभया सल्लकी मुस्ता स्नुही चातिविषा चवी॥
एलां तेजोवतीं व्योषं तथा कटुकरोहिणीम्॥३२॥
वचां कुष्ठं वरीं श्वेतां विडङ्गं मूर्वया1492 सह॥
तथा कटुकतुम्बी च तथा निम्बकरञ्जकौ॥३३॥
अहिंस्रांकाकमाचीं चचित्रकं जीरकद्वयम्॥
अजमोदां च कालां चपिप्पलीमूलमेव च॥३४॥
द्वौकरञ्जौतथाऽर्कं च शिग्रुकं सारिवामपि॥
दाडिमं तिन्तिडीकं च मातुलिङ्गाम्लवेतसम्॥३५॥
लवणानि च सर्वाणि सूक्ष्मचूर्णानि कारयेत्॥
श्लक्ष्णचूर्णीकृतैरेतैः समं तत्र प्रसाध्यते॥३६॥
सैन्धवं च समायुक्तं रोमको वा चिकित्सितम्॥
अतोऽर्धस्वापमानीय वीक्ष्य दोषबलाबलम्॥३७॥
चतुःषष्टिः पञ्च चैषां हिङ्गुभागं समावपेत्॥
सीधुं काञ्जिकयुक्तेन गोमूत्रेण द्रवीकृतम्॥३८॥
दध्नाचमधुना सार्धं सममेतद्विपाचयेत्॥
पुष्य1493योगे द्विजातीयान्स्वस्ति वाच्य…दक्षिणान्॥३९॥
सर्वमेतद्विजानीयात्पिण्डीभूतं विचक्षणः॥
तद्योगं सम(प्त)रात्रं तु वैद्यशास्त्रविशारदैः॥४०॥
दातव्यं कृमिकोष्ठेन क्षीणाय वारणाय च॥
मदक्षीणाय तथा भिन्नवर्चाय ताम ….॥४१॥
येभ्यश्च मूलजं दन्तविषं येभ्यश्च कृत्रिमम्॥
अजीर्णमांस1494मद्भुक्तं मातङ्गं न हि नाशयेत्॥४२॥
गजानामथवाऽश्वानां महिषीणां गवामपि॥
प्राणिनामपि सर्वेषां (सर्वेषा1495)मति सर्वदा॥४३॥
अल्पमल्पं प्रदातव्यमेवमेतैः कृमिगैः क्रमात्(?)॥
दाग्निप(?)स्ततो ग्रीष्मे गतजने वस्तु1496 प्रदापयेत्॥४४॥
व्द्यहं त्र्यहं वा विश्रम्यपुरुषेणाऽऽग्नेये…..1497……॥
…………………..पिण्डकल्कं समाहृतम्॥४५॥
…………………परयुतं………………॥
दापयेत्सर्पिषा सार्धं…………………॥४६॥
पस्थाकेतचिकित्सेषु(?)……………….॥
नानाविधं पयः प्रोक्तो1498 (?) यद्यपि(?) श्चैव सूरिभिः॥४७॥
गव्येषु तेषु तिस्तेषु1499 (?) प्रधानेन तदुच्यते॥
तेष्वमूत्रपुरीषत्वाद्योऽति श्रे1500ष्ठतया तथा॥४८॥

स्थाने ग्रहणीदोषचिकित्सा नाम सप्तपञ्चाशत्तमोऽध्यायः॥ ५७॥
_________________
अथाष्टपञ्चाशत्तमोऽध्यायः।
________________
अनूपयवसाहाराद्गुरुस्निग्धानि भोजयेत्।
अल्पप्राणस्य मन्दाग्नेः सदा जागरणान्निशि॥
तदा न पच्यतेभक्तमग्निसादश्चजायते।
अग्निसादादनु1501स्निग्धः कृष्णः शुक्लोऽरुणो भृशः॥
रक्तः पीतोऽथ हरितः सर्ववर्णयुतस्तथा।
चरकेणेति1502 धातुः स आम इत्यभिसंज्ञितः॥
उदकुम्भे यथापूर्वं पाचयित्वा चजायते।
क्षीरं क्षीरस्य पात्रे वा एवमामाशयस्थिता॥
आमो लक्षणसंयुक्तः स आम इति कीर्तितः।
सुशीतं पिच्छिलं चैव दुर्गन्धं कृमिभिर्युतम्॥
स योनिः सर्वरोगाणां प्रोच्यते नृपसत्तम।
अपोक्षतो1503यदा वैद्यै रक्षणात्परिकर्मभिः॥
कृच्छ्रसाध्यो भवत्येष विनाशयति वा गजम्।
लक्षणं च चिकित्सां च तस्य वक्ष्याम्यहं शृणु॥
यस्तु लालापरिस्रावी परितप्तमना भृशम्।1504
शूनपर्यन्तनयनस्ततासुध्यानलोचनम्॥
मन्दग्रासोऽल्पचेष्टश्च मन्दं च परिवीजति।
पीताभासं सशूलं च मूत्रं प्रकुरुते मुहुः॥
पुरीषं फेनिलं यस्य मदाध्मातः प्रमुञ्चति।
रसस्थानगते चाऽऽमे लिङ्गान्येतानि निर्दिशेत्॥
परिघर्षति योऽत्यर्थं तटे वृक्षे मतङ्गजः।
देहे कण्डूयमानस्तु कोशमूलं सवेदनम्॥
रक्तराजीवनेत्रस्तु शोणितश्वेत1505 (?) संशयः।
यो1506ऽतिसंकुचिताङ्गस्तु शूलार्तः संनिषीदति॥
रूक्षः कृशो भिन्नवर्चा मांसस्थानगते भवेत्।
हरितैः पिच्छिलैः स्निग्धैर्भक्तैः संवेष्टितं1507 गजः॥
लिण्डं प्रमुच्यते यस्मात्सूनान्ते मेढ्रसंस्थिते।
गुरुहस्तो निमील्यैकं चक्षुर्यो विध1508मत्यपि॥
अतसीकुसुमाभं चमूत्रं यो बहु मुञ्चति।
अस्थिधातुगते राजॅल्लिङ्गान्येतानि निर्दिशेत्॥
रक्तं शकृच्छब्दवदल्पनित्यदुर्गन्धियुक्तं विसृजेच्चनागः।
सर्वैश्च गात्रैर्गुरुभिर्युतद्वे(?)…मपानस्य…भेषजस्य॥
मज्जागते जीवति वा यदि स्याच्छुक्रस्थितेऽतः1509कथयामि चिह्नम्।
पूर्वोदितैर्योबहुभिस्तु चिह्नै रूपैरनिष्टैः सह जाति1510 जीवम्॥
दोषाश्रितोऽयं प्रकरोति चेष्टां वाग्दारितः प्रागुदितो नरेन्द्रः(न्द्र)।
प्रस्तम्भनं साकुलकं मनीत्वं(?) संमीलनं प्राक्पचनं नृयातः(?)॥
कण्डूप्रदोऽयं हृदयप्रदाहशीताभिलाषं च स पित्तसंस्थः।
स्तम्भं महच्छेषमतीवनिद्रां लालास्रुतिंवा कफदोषसंस्थः॥
दोषाश्रितोऽयं खलु सिद्धिमेति धातुश्रितःपञ्च तु कृच्छ्रसाध्यः(ध्याः)।
धातुद्वयेनैव नरेन्द्र साध्यं चिकित्सितं ते कथयामि राजन्॥
निरूप्य सम्यक्खलु कालदेशौ व्याधीन्वयः सत्त्वशरीरसात्म्यम्।
ततः प्रयुञ्जीत भिषग्गजे क्रियां यथा हि नागः स सुखी भवेच्च।
स्वेदैर्यथोक्तैः खलु स्वेदयेत्तं प्रवेशयेद्वाऽपि निवातदेशे॥
उष्णोदकं नागरदर्भमूलं प्रयोजयन्त्यामविशुद्धिहेतोः।
सिद्धां गुडूचीं त्रिफलां सकृष्णां द्वे जीरके निम्बपटोलपत्रम्॥
द्वौ वा करञ्जौसह निम्बमूलं तेजोवती वा लवणैश्च युक्तम्।
पिण्डं गजस्यसंदद्यात्ततः संपद्यते सुखी।
चूर्णारिष्टप्रयोगैश्च मृतिकागात्रभाषितैः॥
साधयेत्तं यथायोगं सुसमीक्ष्य भिषग्वरः।
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थानेऽ-
ष्टपञ्चाशत्तम आमाध्यायः॥५८॥
___________
अथैकोनषष्टितमोऽध्यायः।
__________
श्रीमानङ्गाधिपो राजा रोमपादो महाद्युतिः॥
अग्निकल्पमृषिश्रेष्ठं पालकाप्यं स्म पृच्छति॥१॥
कथं द्विपानां कृमयः कोष्ठे गच्छन्ति संचयम्॥
निदानं च कथं तेषां किंच तेषां चिकित्सितम्॥२॥
स एवमुक्तो भगवान्प्रोवाच मुनिसत्तमः॥
कृमिकोष्ठं यथान्यायं सनिदानं सभेषजम्॥३॥
आनूपैर्यवसैर्नित्यमिक्षुभिः सेक्षुवालुकैः॥
भक्ष्यैर्भोज्यैश्च मधुरैः पेशलैः श्लेष्मवर्धनैः॥४॥
गोरसैश्च वसाभिश्च मत्स्यगुडघृतैस्तथा॥
आमपक्वविपर्यासादजीर्णाच्चैव1511 भोजनात्॥५॥
अव्यायामाच्चसौख्याच्च कफंतस्य प्रवर्धते॥
स प्रवृद्धः कफः कोष्ठे संचितः1512 पिण्डितो घनः॥६॥
कृमयस्तत्र जायन्ते विविधाः श्लेष्मसंभवाः॥
ते तु खलु महाराज कृमयस्ताम्रपीतकाः कपिलारुणहरितनीलाः सितकुमुदपत्रनलिनदलसवर्णाभा नीलमुखाः संकुचितत्वचो विपुलमुखाः सूचीमुखा वाऽरोमशा1513 रोमशा वा स्निग्धा रुक्षाः स्थूलाः कृशा दीर्घा ह्रस्वा भवन्ति। वातरुधिरकफपित्तसंसृष्टा राजीव-(म)न्तो भवन्ति। पाण्डुरारुणाश्च कफवातसंसर्गात्। श्लेष्मणा शुद्धवर्णाः। ते तस्याऽऽमाशयात्पक्वाशयमनुप्रपन्नाहृदयप्लीहयकृद्वक्षः—स्थलान्त्रानाभिवङ्क्षणशकृत्स्थानमूत्रबस्त्यण्डकोशगुदप्रदेशान्भक्षयन्ति॥
तस्य कृमिभिरुपसंसृष्टदेहस्य1514भोज्येष्वभ्यवहारेष्वश्रद्धाऽरोचकश्चास्य भवति। न चास्य श्रद्धापरिसरणविहरण लङ्घन-प्रमाध1515पानात्सुतटवल्मीकवृक्षहरणावगाहसलिलक्रीडास्थानशयनेषु च प्रजागरादरोचको वाऽस्य भवति। स खल्वाध्मातोदरो विमना विकीर्णहस्तः परिहीयमानो(णो)त्साहशरीरबलःकृमिभिरुपसंसृष्टः शकृद्भिन्नमपि शीर्यते। कृच्छ्रमूत्री च भवति। न चास्य मूत्रं प्रवर्तते॥
तस्यैवं निदानं समीक्ष्य क्रमिभिरुपसंसृष्टकोष्ठत्वात्कृमिकोष्ठीति विज्ञाय तं चिकित्सितुमुपक्रमेत—कुटजफलपत्रकभल्लातकं द्वे हरिद्रे करञ्जौ चेति। एतानि सर्वाणि समभागानि यथालाभंनिष्क्वाथ्य तं क्षारेण सह योजयित्वा पाययेत्। भल्लातक-कुटजकचोद्गं1516हरिद्रास्फूर्जकाश्चेति संक्षुद्य लवणसंयुक्ताभिस्ताभिः काले कवलं दद्यात्। काकादनाकाकजङ्घाकुटजाङ्कोल्लसुमनसं संक्षुद्य सुवर्चिकालवणाकृतं हस्तिमूत्रे रात्रिं वासयित्वा कवलान्दद्यात्। मण्डूकपर्ण्युन्दुरुकर्णीबृहतीकण्टकारिकागृहधूम-पिप्पलीबर्बराढक्यर्जकफणिज्जकांश्च गोमूत्रे साधयित्वा कवलान्दद्यात्। भयकालात्………….। अथवा सप्तपर्णत्वक्कटुरोहिणीवचापिप्पलीकुटजहरेणुकालशुनानि द्वे हरिद्रे तेजोवतींसंक्षुद्ययथा1517लवणगोमूत्रसंयुक्तान्कवलान्दद्यात्। अथवाऽटरूषकपत्राणि श्यामातृवृत्पूतीकरञ्जामलकबिल्वमूलदन्तीं चगोमूत्रे विपाच्य तेन क्वाथेन तैलसंयुक्तेन निरूहं दद्यात्। यथाबस्तिसिद्धिप्रोक्तेन विधिना।अथवा कटुकालाबुबीजानि त्रिकटुकरसानि विडङ्गचित्रकैः श्लक्ष्णपिष्टैस्तैलं1518 विपाच्य विधिवदनुवासनं दद्यात्। भूयश्च त्रिकटुकपटोलपादलापिचुमन्दार्शोघ्नकांञ्जिमुद्ग1519…..साधयित्वा लवणान्वितं सतैलमेवं पाययेत्। वचासनिम्बकाटरूषककपालस्यन्दनानां त्वक्पत्रभङ्गनिर्यूहदधिमस्तुना च साधयित्वौदनं व्रीहीणां मधुना संयोज्यभ़ोजयेत्। माघस्विन्नाविद्यात्(?)। त्रिकटुकचूर्णयुक्तान्प्रभूततैलान्भोजयेत्। यवसाध्यायविहितै1520र्मञ्जुभिर्यवसैरुपचरेदिति॥
तत्र श्लोकाः—
कषायैः कवलैः पानैर्भोजनैर्बस्तिकर्मभिः॥
कृमिघ्नैः कटुकैस्तीक्ष्णैश्चिकित्सेत्कृमिकोष्ठितम्॥७॥
उपेक्षिताः प्राणहरा गजानां भवन्ति कोष्ठे कृमयः प्रवृद्धाः॥
तान्भेषजैः शास्त्रविधिप्रदिष्टैः प्रणाशयेदद्भिरिवाग्निरेषाम्॥८॥
(एवंविधाः1521 सकृमयस्तत1522)स्ते प्रोक्ता मया पार्थिवसिंह सम्यक्॥
एवं तु यः साधयतीह सम्यक्पूज्यो यथाऽहं भवता तथा सः॥९॥

कृमिकोष्ठी नामैकोनषष्टितमोऽध्यायः॥५९॥
______________
अथ षष्टितमोऽध्यायः।
__________
विद्याविनयसंपन्नंतपसा नष्टकल्मषम्॥
पालकाप्यमृषिश्रेष्ठं रोमपादो नृपोत्तमः॥१॥
प्रब्रूयाद्द्विपदां श्रेष्ठः पुनः प्रश्नमनुत्तमम्॥
भगवन्पोष्यमाणा हि केचित्कैश्चिन्मतङ्गजाः॥२॥
न पुष्टिमुपगच्छन्ति बलतो मांसतस्तथा॥
कथं केन च क्षीयन्ते क्षयाः कतिविधाश्च ते॥३॥
कश्चतेषां प्रतीकारः कर्तव्यो भगवन्मया॥
ततः प्रोवाच भगवान्प्रश्नमाङ्गनिवेदितम्॥४॥
पालकाप्यो महाबुद्धिः पृच्छन्तं च नृपोत्तमम्॥
रसशोणितमांसानां मेदोमज्जास्थिरेतसाम्॥५॥
गुणान्सम्यक्प्रवृत्तानां दोषाणां चैव पार्थिव॥
पुष्टिः सम्यक्प्रवृत्तेषु बलतो मांसतोऽपि च॥६॥
एतेषां च वि1523………………………………..॥
तेषां शृणु पृथक्त्वेन लक्षणं ब्रुवतो मम॥७॥
तत्र क्षीणश्च विज्ञेयो दुर्बलश्चापि वारणः॥
चतुष्प्रकारं दौर्बल्यं क्षयश्च दशधा नृप॥८॥
दुर्बलः(क्षीणधातुत्वा1524)द्दोषधातुक्षयात्क्षयी॥
तत्र तावत्प्रवक्ष्यामि दौर्बल्यस्याऽऽगमं नृप॥९॥
वयःक्षयाव्द्याधिना वा प्रकृत्या चौषधैस्तथा॥
पृथक्त्वेनैव वक्ष्यामि एतेषां वाऽपि लक्षणम्॥१०॥
वयसो विक्रमान्नागो धातुदोषगुणक्षयः॥
वातश्लेष्मोपसर्गेण दुर्बलः संप्रकीर्तितः॥११॥
(व्याधिना1525 वक्ष्यते त्वन्यद्दौर्बल्यं वारणे नृप॥
दीर्घकालं भवेत्कष्टो व्याधिना यो मतङ्गजः॥१२॥
असम्यक्प्रधनाद्वाऽपि दुर्बलो वारणो नृप॥
वक्ष्यते तूपधानेन दौर्बल्यं वारणो नृप)॥१३॥
उपधानेऽतिमात्रेण पिण्डेन कवलेन च॥
व्यत्यासेनापि दत्तेन क्लिष्टो यदि मतङ्गजः॥१४॥
सोऽपि दौर्बल्यमाप्नोति वारणः पृथिवीपते॥
यः प्रकृत्या भवेद्राजन्दुर्बलश्चापि वक्ष्यते॥१५॥
दुर्बलायास्तु1526 संजातो दुर्बलादेव धारणात्॥
स क्लिष्टो देवशयने भवेत्प्रकृतिदुर्बलः॥१६॥
इति (प्रकृति1527)दौर्बल्यं हेतुभिः सह कीर्तितम्॥
अतः परं प्रवक्ष्यामि धातूनांहेतु…….॥१७॥
…करेण्वनियोगाद्वा वधबन्धाच्च दारुणात्॥
अध्वनोऽतिप्रयोगाद्वा गमनाच्छोणितस्य वा॥१८॥
रौक्ष्यादुष्णाभिघाताद्वा विरोधाद्भोजनस्य1528वा॥
मनस्तापैस्तु विविधैरनेकैरपि वारणैः॥१९॥
कलुषोदकपानाद्वा अनिष्टेन तृणेन वा॥
भवन्ति धातवः क्षीणाः क्रमस्यातिक्रमेण वा॥२०॥
इमानि चापि लिङ्गानि दृश्यन्ते क्षीणधातुषु॥
तृष्णालुर्विरसास्यश्च स1529हि शून्यः सवेदनः॥२१॥
मन्दाग्निदुर्बलश्चैव वारणो रससंक्षयात्॥
हृदयं यस्य….सदोम्ल…….व यो भवेत्॥२२॥
शीताभिलाषी पुरुषस्तृष्णालुश्चैव यो भवेत्॥
अत्यर्थं पीतवर्णश्च प्रस्तब्धः परुषच्छविः॥२३॥
रक्तक्षीणश्च विज्ञेयो लिङ्गैरेतैर्मतङ्गजः॥
कम्पते च शरीरेण विवृतश्चासिसंधिषु॥२४॥
अपराभ्यां व्रजेच्चापि कर्षन्निव महीतलम्॥
व1530………..क्वासनाङ्गेषु च्छिद्रस्रस्ताङ्ग एव च॥२५॥
…………………………शनैर्गच्छति धावति॥
………………………प्रस्तब्धनयनो द्विपः॥२६॥
स क्षीणमांसो विज्ञेयः प्रव्यक्तकटपार्श्वकः॥
जघनं म्लायते यस्य दुर्बलश्चैव यो भवेत्॥२७॥
न च वेदयते स्पर्शं स्रस्तगात्रस्तथैव च॥
अनवस्थितचित्तश्च1531 तथा स्निग्धप्रियस्तु यः1532॥२८॥
वितविल(?) भिन्नतनुर्निर्योणैर्विवृतोऽपि च॥
स क्षीणमेदो विज्ञेयो गजशास्त्रविशारदैः॥२९॥
दन्तरोमनस्वास्थीनि वृद्धिर्देहेन जायते॥
दन्ताश्च परिहार्यन्ते सगदा यस्य दन्तिनः॥३०॥
निषीदति न शक्नोति तथोत्थातुं च वारणः॥
चोद्यमानः शनैर्गच्छेन्मन्दं च परिवीजति1533॥३१॥
मन्दं भोजनमश्नाति तथैवास्य न जीवति॥
भ्रष्ठग्रीवस्त्वनि……ध्यानशीलश्च वारणः॥३२॥
अस्थिक्षीणस्य नागस्य लिङ्गमेतत्प्रकीर्तितम्॥
मज्जाया1534 अपि नागानां वक्ष्यते लक्षणं क्षये॥३३॥
आध्मातकुक्षिर्योऽत्यर्थं व्रजन्गात्राणि कर्षति॥
शूयन्ते यस्य गात्राणि नेत्राणि च विशेषतः॥३४॥
आलानवाही1535 विमनाः शय्याकामो जलप्रियः॥
शुषिराणि विवर्णानि यस्य चास्थीनि दन्तिनः॥३५॥
अभीक्ष्णं वातरोगो यस्तस्य मज्जक्षयो भवेत्॥
शुक्रहीनस्यनागस्य लक्षणं संप्रवक्ष्यते1421॥३६॥
पीड्यते वृषणं म्लानं शूयते चाऽऽशु मेहनम्॥
न च व्यवायं प्राप्नोति चिरोत्सेकस्य जायते॥३७॥
गात्राणि चास्य सीदन्ति मुखशोषी भवेद्भृशम्॥
अप्रहर्षश्च मेण्ढ्रस्य रेतसः संक्षयो भवेत्॥३८॥
धातूनामिति निर्दिष्टं लक्षणं संक्षये मया॥
दोषाणां संक्षये तस्य लक्षणं संप्रवक्ष्यते॥३९॥
कफ1536संक्षणिपितस्य1537लिङ्गमेतत्प्रकीर्तितम्॥
मारुतः पित्तसहितः कफहीनस्य दन्तिनः॥४०॥
करोत्यङ्गविमर्दं च बाढमुद्वेष्टनं भ्रमम्॥
वेपनं परिवेषं च नोदनं1538 स्फोठनं तथा॥४१॥
दूयनं शीतसेवित्वं पुनश्चोष्णाभिनन्दनम्॥
शिरःप्रकम्पनं चापि संधयः शिथिला वृता॥४२॥
हृदि पीडाच भवति श्लेष्मक्षीणस्य दन्तिनः॥
कफपित्ते बहुपित्ते क्षीणे नागस्य मारुते॥४३॥
शीताभिलाषो भवति पुनरुष्णाभिनन्दनम्॥
सादनं मुखशोषश्च शिरसो गौरवं तथा॥४४॥
सशब्दा मरुतश्चास्य कुक्षौ विपरिवर्तनम्॥
छर्दिश्चाङ्गे व च वे(?)………हनं मोहनं तथा॥४५॥
अल्पहर्षोऽल्पचेष्टश्च वातक्षीणो भवेद्गजः॥
दोषाणामपि निर्दिष्टं क्षयलिङ्गं नराधिप॥४६॥
संज्ञा प्रणश्यते राजन्कस्माद्धेतोश्च दन्तिनः॥
धातुक्षये महीपाल यदा वायुः प्रकुप्यति॥४७॥
वैकल्यंप्रणयेन्नागं प्राणैर्वाऽपि वियोजयेत्॥
राज्ञश्चन्द्रमसो यस्मादभूदेष किलाऽऽमयः॥४८॥
तस्मात्तं राजयक्ष्मेति प्राहुर्वेदविदो जनाः॥
शोषणात्तु रसादीनां शोष इत्यभिधीयते॥४९॥
क्रियाक्षयकरत्वाच्च क्षय इत्युच्यते यतः॥
यस्माद्दक्षस्य वचनादुत्पन्नो दारुणः क्षयः॥५०॥
तस्मात्क्षीणगजा राजन्रक्षितव्या विशेषतः॥
राजेति सोमो भगवान्व्यधायि व्यर्थवादिभिः॥५१॥
स दक्षेण पुरा शंभौ दुराचारो निरास्तिकः॥
भार्यांसम्यक्प्रवृत्तस्तु रोहिणीं तद्वशे स्थितः॥५२॥
सेवमानस्ततः शप्तो राजा दक्षेण धीमता॥
अहन्यहनि ते1539……………………………..॥ ५३ ॥
………………………………………………॥
स्थानं यथर्तु कर्तव्यं मृदुशय्यां च नित्यशः॥
व्याघातं मनसश्चास्य कदाचिन्नैव कारयेत्॥५४॥
अवग्राहप्रचारेषु कूलाघातेषु चैव हि॥
शब्दयेत्सततं नागं कर्दमस्य च सेवने॥५५ ॥
शय्याभागे ततः स्थाने वीथीनां गमनेषु च॥
विसर्गं कारयेत्तस्य न च हन्यादकारणम्॥५६॥
न वाचं कटुकां ब्रूयात्सान्त्वयेच्च पुनः पुनः॥
निर्याणे शयने चैव भोजने च न दूषयेत्॥५७॥
भोजयेत सदा नागं चित्रैश्च मधुरैः फलैः॥
श्रीपर्णी चमधूकानि यष्टीमधुकमेव च॥५८॥
शृङ्गवेरं पयस्यां च बिल्वं द्वे कण्टकारिके॥
पृष्टिपर्ण्यंशुमत्यौ च तथा गन्धर्वहस्तकम्॥५९॥
क्वाथयेत्सलिले सर्वं निष्क्वाथं कारयेत्ततः॥
निष्क्वाथसमभागं च क्षीरं तत्र प्रदापयेत्॥६०॥
एकस्थं कारयित्वा तु शीतलं पाययेद्द्विपम्॥
प्रातस्तथाऽपराह्णेषु शालीनामोदनं मृदुम्॥६१॥
रसैस्तैस्तैस्तु पूर्वोक्तैर्दाडिमाम्लैश्च भोजयेत्॥
इक्षून्वृक्षसमूलानि शृङ्गाटककसेरुकान्॥६२॥
खर्जूरं1540 मुस्तकं चैव दापये(त्पायसै1541)र्युतम्॥
उदकानि विचित्राणि यवसानि मृदूनि च॥६३॥
फाणितेनैव संयोज्य वारणाय प्रदापयेत्॥
संजातप्राणमांसस्तु यदा भवति वारणः॥६४॥
क्षीरं1542 मधुरकैः पक्वंससर्पिष्कं प्रदापयेत्॥
चक्रवाकैर्बकैर्हंसैराटिभिः प्लवमद्गुभिः॥६५॥
कदम्बैर्बर्हिणैश्चापि तित्तिरैस्तु कपिञ्जलैः॥
श्वाविच्छल्यकगोधाभिः शूकरैर्महिषैस्तथा॥६६॥
अजाविकुक्कुटैश्चैव तथैवैणादिभिर्मृगैः॥
भोजनार्थं रसं चास्य वेसवारं च कारयेत्॥६७॥
ततः शाल्योदनं तेन भोजयेत्सततं गजम्॥
सहां1543 च माषपर्णी चपयसा सह पाययेत्॥६९॥
एतत्सुरया युक्तं च घृतेन सह पाचितम्॥
प्रातरुत्थाय दातव्यं प्राणस्तेनास्य वर्धते॥६९॥
शकृत्फाणितसंयुक्तं क्षीरेण सह पाचितम्॥
दापयेद्भोजनं तेन बलशुक्रविवर्धनम्॥७०॥
करीरं शलिपादं च तथैव च विभञ्जिकम्॥
श्यामार्ककुरुविन्दं च हस्तिश्यामाकमेव च॥७१॥
महाहस्तितृणं चैव प्रमोदो वेणुपत्रिका1544॥
गवेधुकं मृणालानि लवलीकं बिशानि च॥७२॥
दापयेत्सततं नागे यवसानि विचक्षणः॥
मधुफाणितसंयुक्तं तीक्ष्णगण्डानि दापयेत्॥७३॥
धेनुकानिःसृतं1545नागं गात्ररोगेण चाऽऽतुरम्॥
वयःक्षीणकृशं चैव मदवेगाच्च निःसृतम्॥७४॥
धातुक्षीणश्च यो नागो व्रणदोषेण वाऽन्वितः॥
प्रभग्नस्त्वध्वगमने1546 यश्च क्षीणबलो गजः॥७५॥
येषां चाऽऽगन्तुजा1547 राजन्रोगाः समुद्भवन्ति हि॥
तेषामाहारयोगेण सर्वानेतान्प्रसाधयेत्॥७६॥
सास्रयाश्रित्य मतिमान्यथाऽग्निः सततोत्थितः॥
माषाणां कूलनिद्रोणं तण्डुलद्रोणमेव च॥७७॥
प्रतिपानं च देयं स्यात्सपञ्चलवणां सुराम्॥
विडङ्गैश्चसमायुक्तां तथा त्रिकटुकेन च॥७८॥
मोदकास्त्वपि ये देयाः शृणु तेषां विधिं सताम्॥
दद्यात्सैवाक्षकं द्रोणमाढकं बिल्वमेव च॥७९॥
उदूखले क्षोदयित्वा पञ्चाहं सुरया स्थितम्॥
देयस्तैलेन संयुक्तः श्लेष्मकृमिविनाशनम्॥८०॥
अष्टकं1548 तन्दुलानां च माषद्रोणयुतं स्थितम्॥
किण्वस्य वाऽऽढके स्थाप्यं सर्वमेतत्सुसंयुतम्॥८१॥
चतुर्थेऽहनि दातव्यो मोदकः किण्वसंज्ञितः॥
ग्रहणीदीपको ह्येष स्थूलानां कर्षणो1549 हितः॥८२॥
देयस्तैलेन संयुक्तो मोदकोक्षिकसंयुतः॥
प्रदेयः सारदानां च सूक्ष्मवातार्दितास्तु1550 ये॥८३॥
करीषाणां प्रयोगं तु शृणु कीर्तयतो मम॥
गवां कटुक(मूखीक1551)मुष्णवीर्यमजाशकृत्॥८४॥
ग्रहणीं दीपयत्याशु श्लेष्मकृमिविनाशनम्॥
लवणेन समायुक्तं वातप्रशमनं हितम्॥८५॥
ये च क्षीणबला नागा ये चैव दुर्बलाग्नयः॥
त्वग्दोषैर1552भिभूताश्च पाण्डुरोगार्दिताश्च ये॥८६॥
विषोपयुक्तदेहाश्चहृद्रोगा गुल्मिनश्च ये॥
एवंप्रकारा ये चान्ये तेषां पथ्यवरं1553 स्मृतम्॥८७॥
अजाकरीषस्यैवैते गुणाः सम्यक्प्रकीर्तिताः॥
वाजिनामपि वक्ष्यामि करीषस्य गुणानिमान्॥८८॥
कटुकं चोष्णवीर्यं च रूक्षमुष्णाम्लपाचिकम्॥
वातानुलोमनं चैव तथा पित्तप्रकोपनम्॥८९॥
क्षारतुल्यतरं ज्ञेयं लवणोदकशोधनम्॥
गुणान्कीर्तयतश्चापि मूत्राणामपि मे शृणु॥९०॥
एतेषामेव मूत्राणि सर्वाण्येव च बुद्धिमान्॥
उष्णवीर्याणि जानीयात्कटुकानि विशेषतः॥९१॥
निरूहेषु प्रशंसन्ति कृमिकोष्ठे च दन्तिनाम्॥
त्वग्दोषेषु प्रशस्यापि पानोष्वेतेषु(?) भूपते॥९२॥
आस्फोता वैजयन्ती च स्फूर्जको निम्ब एव च॥
अङ्कोल्लसहिता ह्येते भङ्गा वै साटरूषकाः॥९३॥
आसवेषु प्रशस्यन्ते शृणु चान्येऽपि ये हिताः॥
कुटजो मधुशिग्रुश्च पूतिका दीर्घवृन्तका॥९४॥
सप्तपर्णश्च निम्बश्च षडेते प्रतिकीर्तिताः॥
यथालाभं यथासात्म्यं यथाकालं च बुद्धिमान्॥९५॥
एषामन्यतमं योगमासवेष्वथ दापयेत्॥
त्वग्दोषशमना ह्येते कृमिकोष्ठप्रणाशनाः॥९६॥
अत्रैव हि प्रशंसन्ति येच—स्युर्बलाग्नयः॥
सरक्तानां तु दातव्याः स्निग्धानां चैव दन्तिनाम्॥९७॥
रूक्षाणां न प्रदातव्या ये च पित्तविकारिणः॥
त्रिंशत्पलस्तु1554 (प्रथमो1555 मध्यमः पञ्चविंशकः॥९८॥
जघन्यो विंशकश्चैव कवलस्तु सदा हितः॥
ग्रहणीदीपना ह्येते बलवर्णप्रसादनाः॥९९॥
सिद्धानौषधयोगांश्च प्रवक्ष्याम्यत उत्तरम्॥१००॥
स्वयंगुप्ता गुडूची च मुद्गपर्णी हरेणुकम्॥
विदारी माषपर्णी च काकोलीद्वयमेव च॥१०१॥
शाल्मली पारिभद्रं च वैजयन्ती करञ्जिका॥
अश्वगन्धासमायुक्तान्कवलान्संप्रदापयेत्॥१०२॥
ग्रहणीदीपनाञ्श्रेष्ठांश्छवीवर्णप्रसादनान्॥
एतान्संभृत्य संभारान्दीपयेत्क्षीणधातुषु॥१०३॥
एरण्डा वैजयन्ती च आढकीमूलमेव च॥
श्रीपर्णी दधिपर्णी च त्वचमेषामुपाहरेत्॥१०४॥
अश्वगन्धासमायुक्तान्कवलान्संप्रदाप1556येत्॥
ग्रहणी दीप्यते चास्य यवसं चाभिनन्दति॥१०५॥
श्रीपर्णीदधिपर्णीनां त्वचो मूलं नलस्य च॥
आढक्यास्त्वेव मूलानि दद्याच्चैव करञ्जकम्॥१०६॥
एतेन वर्धते मांसं सौमनस्योप(स्यं च) जायते॥
द्वे कण्टकारिके दद्यान्मूलं मधु च शिग्रुजम्॥१०७॥
दीप्यते ग्रहणी यस्य यवसं चाभिनन्दति॥
गण्डीरं कन्दकं चैव शिग्रुरपवनाजिका॥१०८॥
पिप्पलीश्रृङ्गवेराभ्यां नलिकानालिका पृथक्॥
घटी विडाख्यलवणं नलिकानालिका भवेत्॥१०९॥
एतान्संभृत्य) संभारान्क्षोदयित्वा ह्युदूखले॥
मर्दितान्गोमयेनास्य कवलान्दापयेद्बुधः॥११०॥
कृमिकोष्ठी विशुध्येत्तु मृत्तिकां च न खादति॥
द्वे कण्टकारिके दद्यात्किणिह्या मूलमेव च॥१११॥
आवर्ता मधुशिग्रोश्च कवलो मांसवर्धनः॥
योवन्ती1557 मधुमाण्डूकी हरिपिण्डीतकानि च॥११२॥
बिल्वं करीरगण्डीर1558कवलो मांसवर्धनः॥
दाडिमं चमनीं भङ्गामुत्तमां गिरिकर्णिकाम्॥११३॥
वेतसामृतवल्ल्यौ च दीपयेत्क्षीणधातुषु॥
शिरीष—त्वचपलं च मोरटं सिन्दुवारितम्॥११४॥
सदाभद्रामपामार्गं कवलांस्तु प्रदापयेत्॥
कच्छुरा यूथिकामूलमुत्पलं नवमलिकाम्1559॥११५॥
करञ्जश्चाग्निमन्थश्चकवलो ह्यग्निवर्धनः॥
(शल्लकी981 दाडिमं गुञ्जां बलां पाषाणभेदकम्॥११६॥
शशबिन्दु शेलुं(?)…………दीर्घवृन्तकम्॥११७॥
…………………..कं चैव कवलो मांसवर्धनः॥)
अरलुत्वचमाहृत्य पूतिकं, बृहतीं तथा॥११८॥
अमृतां च पयस्यां च मदक्षीणाय दापयेत्॥
पूतीकत्वगरलुत्वक्कृमीन्निघ्नन्ति दन्तिनः॥११९॥
पयस्या च गुडूची च प्रदेया क्षीणधातुके॥
कदम्बमेषशृङ्गीणां पुंनागं त्वचमेव च॥१२०॥
भागानेतान्समान्कृत्वा निशि मूत्रेण वासयेत्॥
पुरीषं गोश्च नागस्य कवलान्संप्रदापयेत्॥१२१॥
इत्येते कीर्तिता राजन्कवलाःक्षीणधातुषु॥
चूर्णारिष्टं प्रवक्ष्यामि यथावदनुपूर्वशः॥१२२॥
शृङ्गवेरं विडं बिल्वं पिप्पली मधुशिग्रुच॥
एतेषामेव चूर्णानां प्रस्थः प्रस्थःसमो भवेत्॥१२३॥
समुद्रलवणप्रस्थो गोमयप्रस्थयोजितः॥
……………1560…………………………..॥ १२४ ॥
१………………..1561………..सद्यो नागो निरूहति॥
दधित्थनक्तमालानां…….द्योरिष्टकश्च कान्(?)॥१२५॥
भिल्लोट…..मेषीणां…विलाडोदरकस्य1562 च॥
अर्जुनस्य(च) निचुलस्य(च)………वञ्जुलस्य(च)॥
त्वचो मूलं च पत्रं च शिग्नोश्चोदुम्बरस्य च॥१२६॥
जपासर्जाम्रकर्पासीतुवरी च(श्च) समाहरेत्॥
एष संवर्तनो वर्गोह्यतीसारातिवर्तकः॥१२७॥
विरूक्षणीयान्कवलानतिस्निग्धाय दापयेत्॥
मूलं शिग्रोस्त्वचं ज…….. पाटल्या स्तथा1563॥१२८॥
बिल्वाम्रमेषश्रृङ्गीणां त्वचस्तथाऽर्जुनस्य च॥
विरुक्षयेद्गजं क्षिप्रं न च दोषमवाप्नुयात्॥१२९॥
पालाशनक्तमालानां त्वचमिङ्गुदवृक्षयोः॥
(त्वच1564)मर्जुनजम्ब्वोश्च1565विदुलारिष्टमेव च॥१३०॥
कुटजत्वग्विडङ्गानि क्षोदयित्वा ह्युदूखले॥
कवलो दीपनीयः स्यात्प्रसादयति तं छविम्॥१३१॥
महौषधं वातशूले त्वञ्जनं दन्तिनां हितम्॥
पूयः प्रदेयः श्रोत्रेषु…………………॥१३२॥
वाताध्मातस्य नागस्य बन्धाय कवलो हितः1566॥
अङ्कामु(?)…….कं च तर्कारी क्षीरिणी तथा॥१३३॥
दद्याद्वातहरं त्वेतच्छोभाञ्जनकमेव च॥
वाताध्माते1567 कुलिङ्गाक्षीं वारणस्य महीपते॥१३४॥
उरुबूकोऽथ तर्कारी काकोली क्षीरमेव च॥
भिल्लोटश्च प्रदातव्यो वाताध्मातस्य दन्तिनः॥१३५॥
अथ क्षारं1568 प्रवक्ष्यामि पानकायाग्निदीपनम्॥
कुम्भीकस्याऽऽढकं दद्यात्पलानां तु स्नुही(हीं) तथा॥१३६॥
बिल्वार्कनक्तमालानां त्वचं पत्राणि पेषयेत्॥
अर्कस्य दाहयेन्नालं कौपे1569 तोयेविनिस्रुतम्॥१३७॥
द्रोणं द्रोणे प्रदातव्यं त्रिपक्षस्य नराधिपम्॥
चूतवृक्षाम्रकुम्भानां त्वचः संयोजिताः समाः॥१३८॥
फणिज्जकस्य मूलानि तथैवार्ककरञ्जयोः॥
श्रवेद्यरेतैश्च1570 (?)………….क्षारे कूपोदके कृतः॥१३९॥
पूर्वमुक्तेन विधिनाक्षार1571मेवं प्रदापयेत्॥
कुम्भीकपानसंस्कारःसुमनाभङ्ग एव च॥२४०॥
इत्येते पानयोगाः स्युर्व्याख्याता द्विपदां वर॥
चूर्णारिष्टानि वक्ष्यामि गजानामग्निदीपनात्1572॥१४१॥
द्वे बृहत्यौ करञ्जौच पारिभद्रकमेव च॥
हरिद्रे द्वे विडङ्गानि दद्यादिन्द्रयवानपि॥१४२॥
शतावरींच शोणं च त्वचो निचुलबिल्वयोः॥
गोमूत्रे वासयेद्रात्रौ दिवा सूर्ये च शोषयेत्॥१४३॥
त्रिरात्रमेवं कृत्वा तु सुसूक्ष्मं क्षोदयेत्तत्तः॥
त्रिफलां हिङ्गुसंयुक्तां पञ्चभिर्लवणैर्युताम्॥१४४॥
लवणस्य च योगेन चूर्णारिष्टस्य षट्पलम्॥
द्वे बृहत्यौ करञ्जौद्वौ अश्वगन्धा सुवर्चला॥१४५॥
उभे हरिद्रे पाठी च करीषे गजवाजिनोः1573॥
एतत्सर्वं समाहृत्य समं कृत्वा ह्युदूखले॥१४६॥
नित्यं लवणयोगेन षट्पलं वाऽस्य दापयेत्॥
द्वौ कालौ दन्तिनां दद्याच्चूर्णयोगमतन्द्रितः॥१४७॥
मनःप्रसादं जनयेद्वर्णं च नृपदन्तिनाम्॥
निम्बस्याथ करञ्जस्य त्वचो वरुणकस्य च॥१४८॥
मेषशृङ्ग्याश्च पाटल्या विदुलस्य च संहरेत्॥
क्रिया उग्रास्ततः सर्वाः समभागाः प्रकल्पयेत्॥१४९॥
उत्तमं त्वै(त्वे)व ताः क्षुण्णा गोमूत्रे वासयेत्त्र्यहम्॥
मन्दाग्निशमनार्थं च द्विपस्य तु प्रदापयेत्॥१५०॥
एरण्डपूतिकारिष्टैः समांशैः कवलं भिषक्॥
निवृत्तस्य च पूर्वाह्णेदापयेद्रोगनाशनम्॥१५१॥
सुवर्चलां गुडूचीं च अपामार्ग….1574…………कम्॥
वैजयन्तीं च भूनिम्बं तथा वै साटरूषकम्॥१५२॥
एतान्भुक्त्वा गजः कल्पो रोगात्क्षिप्रंं प्रमुच्यते॥
बलं मांसं च वृद्धिं च प्राप्नोति सुमनाः सदा॥१५३॥
इत्येवं तु महीपाल विधानं क्षीणधातुषु॥
य एवं योजयेद्वैद्यः स शोभां जनयिष्यति*1575॥१५४॥
(पालकाप्योऽब्रवी1576)दित्थं1577 राज्ञाऽङ्गेन प्रचोदितः॥
श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने
षष्टितमः क्षयाध्यायः॥६०॥
अथैकषष्टितमोऽध्यायः।
___________
अङ्गो हि राजा चम्पायामृषिं धर्मविदां वरम्॥
विनयेनोपसंगम्य पालकाप्यं स्म पृच्छति॥१॥
कथं मदः संभवति हेतवोऽस्य कति स्मृताः॥
कथं च सुरभि दानं कंकटाहं संपरिवर्तते(?)॥२॥
एवमुक्तोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत्॥
वातात्प्रपद्यते कश्चित्कश्चित्पित्तात्प्रपद्यते॥३॥
श्लेष्मणा भिद्यते चान्यः शोणितादपि चापरः॥
संनिपातात्तथा चान्यो मदः क्षरति वारणे॥४॥
एवं पञ्चप्रकारश्च1578 मदो वै संप्रकीर्तितः।
शौर्यात्प्रभिद्यते कश्चित्तथैवाभिजनेन च॥
हर्षादन्यः प्रभिद्येत परिणामात्तथाऽपरः।
नैसर्गिकस्तथा चान्यः संपातादपि चापरः॥
पुष्ट्या प्रभिद्यते चापि व्याधिदोषकृतोऽपरः।
उपधानात्तथा चान्यः प्रभिद्येत मतङ्गजः॥
चतुर्दशैते नागानां कीर्तिता मदहेतवः।
समासान्नरशार्दूल शृणु विस्तरतो हि मे॥
तत्र तावत्प्रवक्ष्यामि लक्षणं वातिके मदे।
परिधावति चात्यर्थं जायते चानवस्थितः॥
न चाभिलषति ग्रासं शय्याद्वेषश्च जायते।
(जृम्भते1210 बहुशश्चापि वेपते स्तनयत्यपि॥
प्रतिनम्याभिनमति विनमत्युन्नमत्यपि।
प्रभिद्यते त्रिधा चैवंतथाऽङ्गस्यापि जायते॥)
यवोदकनिकाशं च कषायं कुरुते मदम्।
चन्दनोशीरपद्मानां सुगन्ध(करसानि1009 च)।
कटुकानि कषायाणि तिक्तानि च निषेवते॥
प्रावृट्कालेच नितरां मदस्तस्य प्रवर्तते।
इति वातात्मकं प्रोक्तं गजानां मदलक्षणम्॥
पैत्तिकस्यापि नृपते विज्ञानमुपदेक्ष्यते।
तेजस्वी कोपनश्चैव संतापी व भवेद्द्विपः॥
प्रायेण शीतलां छायां सलिलं चाभिकाङ्क्षति।
विजृम्भते नमति च तथा प्रतिनमत्यपि॥
कपोलौ चाण्डकोशश्च पच्यन्ते च नराधिप।
पीताभमथ रक्तं वा कटाद्दानं प्रसिच्यते॥
सुगन्धं चूतपुष्पाणामेलामुस्तसुगन्धिकाम्।
शारदे1579 पैत्तिकः काले मंदः क्षरति वारणे॥
कटुकाम्लान्सलवणान्रसानति1580 निषेवते।
इत्येतल्लक्षणं प्रोक्तं पित्तात्प्रकुपिते मदे॥
प्रकृत्या श्लैष्मिकं राजन्मदं वक्ष्यामि तत्त्वतः।
बलवाञ्शीलसंपन्नस्ते1581जस्वी धेनुकामतः॥
स्वप्नशीलश्च भवति मन्दक्रमविचेष्टितः।
प्रसेनं कुरुते कामं गम्भीरं वेदयत्यपि॥
पिष्टोदकप्रतीकाशं(शः) पाण्डुरः क्षरते मदः।
सगन्धमालापुष्पाणां सिन्दुवारतरोरपि॥
तथा मुक्तकपुंनागबकुलानां च गन्धतः।
शीतलं सुरभिं हृद्यं हेमन्ते संश्रयेन्मदम्॥
मधुराम्लानि सर्वाणि लवणानि च सेवयेत्।
त्वग्दोषाश्चापि जायन्ते मेहत्यपि व सौद्रयम्(?)॥
इत्येवं श्लैष्मिकं राजल्लॅक्षणं समुदाहृतम्।
शोणितात्संप्रवृद्धे तु मदे वक्ष्यामि लक्षणम्॥
मध्याह्ने संश्र(?)मासृत्य(?)रक्तनि….लोचनम्।
न चैवोद्विजते हस्ती हस्तिन्यै नापि कुप्यति॥
विमुक्तैरिति1582 सर्वाङ्गैर्गजः संधिषु कृच्छ्रगः।
शीतलानि च सर्वाणि च्छायां चैवाभिनन्दति॥
शय्यायां सुखमाप्नोति (न1009 चैव कवलं भजेत्)।
पाण्डुता सर्वगात्राणां स्निग्धमाहारमिच्छति॥
पुरीषं वमथुर्धानं रक्तमेवोपजायते।
कटाभ्यां भिद्यते पूर्वं निदाघे चापि माद्यति॥
पैत्तिकस्य तु लिङ्गानि सर्वाणि कुरुते गजः।
इत्येतल्लक्षणं प्रोक्तं मदे वै शोणितात्मके॥
अत ऊर्ध्वं प्रवक्ष्यामि संन्निपातात्मकं नृप।
पूर्वोक्तानां मदानां तु लक्षणं सांनिपातिकम्॥
क्षुत्पिपासोष्ण1583शीतानां सहिष्णुर्भवति द्विपः।
दुःस्थानमथ दुःशय्यां सततं सहते गजः॥
प्रतिनम्याभिनमति विनमत्युन्नमत्यपि।
नाभिनन्दति चाऽऽहार(मिष्टं च1226) स्वादुमेव च॥
व्यामिश्रमेतं जानीयान्मिश्रगन्धं मदं नृप।
इत्येतत्संनिपातेन प्रभिन्नस्य तु लक्षणम्॥
मत्तेन जनितायां तु यस्तु मत्तेन जायते।
पौर्णमास्यां प्रपद्येत मन्दमन्दगुणैर्युतः॥
जानीयात्तं तु राजेन्द्र मदं ह्यभिजनाभिधम्॥
बहुपुष्पसमृद्धानि कोकिलाभिरुतानि च।
मत्तबर्हिणपुष्टा1584नि वनानि समवेक्ष्य च॥
हंससारसगीतानि चक्रवाकरुतानि च।
सतामरसकहूलारसुगन्धिपवनानि च॥
मनोहराणि रम्याणि पल्लवानि सरांसि च।
पद्मोत्पलविचित्राणि भ्रमरैः कूजितानि च॥
क्षोभयित्वा च पीत्वा च करेणुगणमध्यगः।
एष नागो महाराज हर्षादेव प्रभिद्यते॥
क्षीणधातुशरीरश्च वयोतीतो मतङ्गजः।
हीनवीर्यो विमांसोऽपि सर्वाशाशिथिलीकृतः॥
एतैस्तु लक्षणैर्विद्यान्मदं तं पारिणामिकम्।
दुःस्थानमथ दुःशय्यां लब्ध्वा लब्ध्वा च मोहनम्॥
निर्भर्त्सितं वधं बन्धं…….. नितंजनवम्।
यदा मदं स्रवति तु तं…..विद्यान्निसर्गजम्॥
उष्णेत्पथो(?)च्चगमनाद्गुरुभारेण वा पुनः।
कर्मणामतिप्रयोगाद्वा हरतो वा बृहद्द्रुमान्॥
एतैर्निदानैर्नागस्य शरीरमुपतप्यते।
ततः प्रसिच्यते दानं दुर्गन्धिवममुं(थुं) नृप॥
तं तु संतापजं विद्यान्मदं वारणविक्रमम्।
विविधैस्तु शिरोरोगैर्मूत्ररोगेण वा यदि॥
शुद्धपाकलहेतुत्वाद्व्याधिना वारणे मदः।
विविधाभिर्विधाभिर्यः पुष्टो माद्यति वारणः॥
स मदः पैत्तिको राजन्निर्दिष्टः परिपाटितः।
प्राणिता विधया नागा न वश्या बलशालिनः॥
मदस्य जनने सम्यग्भेषजैः संप्रयोजितैः।
उपधानात्प्रभिद्यन्ते वारणाः पृथिवीपते॥
शौर्यजोऽपि…………………………….।
रूपं प्रार्थयमानस्य युध्यमानस्य वा युधि॥
पश्यन्तस्तस्य सैन्यस्य विजयं दिव्यचक्षुषः।
मदं गृह्णाति मातङ्गः स हेतुर्विजये क्षणम्॥
इत्येते बहुधा प्रोक्ता गजानां मदहेतवः।
कार्त्स्न्येन तु महाराज यथोक्तं ब्रह्मवादिभिः॥
अतः परं प्रवक्ष्यामि चतुर्णामपि भेषजम्।
वातप्रभिन्नं विज्ञाय चिकित्सां संप्रयोजयेत्॥
पञ्चभिर्लवणैः सार्धं पाययेत्तंसुखोदकम्।
तीक्ष्णांश्च कवलान्दद्याद्वारणाय महीपते॥
वातिकात्स मदाद्राजन्मुंच्यते वै न संशयः।
दध्यम्लमथ वातानैः(?) क्रमाच्चूर्णं च पाययेत्॥
एतेनापि च योगेन मुच्यते वातिकान्मदात्।
शुद्धकोष्ठाय दातव्यं जलपानं महीपते॥
यवसानि विचित्राणि मृदूनि हरितानि च।
फाणितेनोपदिग्धानि(?) कवलान्संप्रदापयेत्॥
इति वातप्रभिन्नस्य चिकित्सा संप्रकीर्तिता।
अथ पित्तप्रभिन्नस्यचिकित्सा संप्रवक्ष्यते1585॥
प्रत्यूषकाले मातङ्गं ह्रदे निर्वापयेद्भिषक्।
शालायां1586 मण्डलिप्तायां शीतस्थानासितस्य तु॥
स्रावयेद्वारिपूर्णांश्च तस्योपरि नवान्घटान्।
बिशं मृणालाञ्शालूकमुत्पलं नलिनान्यपि॥
इक्षुंचेक्षुरसं चैव शृङ्गाटकृकसेरुकम्।
दापयेत्कवलांस्तस्मै शर्कराचूर्णसंयुतान्॥
परूषकाणि मृद्वीका शर्कराफाणितं मधु।
सारिवा मधुकं चैव समांशं चोत्तरोदकम्॥
ततः1587……..ये प्रति ये(?) शीतं कल्पश्रुत्यापयेत्(?)।
प्रभेदे पैत्तिके तस्य यवसानि प्रदापयेत्॥
नृणाख्यं पर्पटान्दद्या1588च्छर्कराघृतसंयुतम्।
षष्टिकानां पुराणानां शालीनामोदनं मृदु॥
सर्पिषा भोजयेन्नागमेवं भेदाद्विमुच्यते।
अम्लमुष्णं च तीक्ष्णं च लवणं च न दापयेत्॥
पानानि सर्पिषा श्रेष्ठान्यभ्यङ्गं चैव सर्पिषा।
नश्यत्यनेन योगेन प्रभेदः पैत्तिको नृप॥
इति पित्तात्प्रभिन्नस्य चिकित्सा संप्रकीर्तिता।
(अथ1077 श्लेष्मप्रभिन्नस्य चिकित्सां संप्रयोजयेत्॥)
कटुकेन तु तैलेन सर्वसेको विधीयते।
तीक्ष्णान्कटुकषायान्कवलानस्य दापयेत्।
अजामूत्रेण संयोज्य श्लैष्मिकस्तेन शाम्यति॥
द्राक्षाहरिद्रामञ्जिष्ठाः सूक्ष्मचूर्णाश्च कारयेत्।
अजामूत्रेण संयोज्य पिण्डमस्मै प्रदापयेत्॥
अनेन क्रमयोगेन(ण) प्रभेदात्परिमुच्यते।
आरग्वधं सोमवल्कं पटोलं काकतिन्दुकम्॥
पयोऽपि मधुसंयुक्तं पिण्डः श्लेष्महरः स्मृतः।
यवौदनं च तैलेन मात्रया भोजयेद्गजम्॥
पाययेन्मुद्गयूषं च योपालः(?)सह संस्कृताम्।
काशं कुशं पोटगलं यवसार्थे प्रदापयेत्॥
इति श्लेष्मप्रभिन्नस्य चिकित्सा संप्रकीर्तिता।
प्रभेदे रक्तजे राजन्प्रतीकारः प्रवक्ष्यते॥
यदुक्तं पैत्तिके स्रावे1589 तत्सर्वं संप्रयोजयेत्।
श्लैष्मिकस्य तु योगं हि कल्ये नागस्य कारयेत्॥
पैत्तिकस्य तु यत्कर्म मध्याह्ने तत्समाहरेत्।
वातिकस्य तु यत्प्रोक्तं सायाह्ने तत्प्रयोजयेत्॥
लवणानि च सर्वाणि पिप्पल्यो मरिचानि च।
शृङ्गवेरं च संहृत्य सूक्ष्मचूर्णानि कारयेत्॥
संनिपातसमुत्थाने श्रेष्ठमेतच्चिकित्सितम्।
इत्यब्रवीत्पालकाप्योराज्ञाऽङ्गेन प्रचोदितः॥

प्रभिन्नोनामैकषष्टितमोऽध्यायः॥६१॥
_____________________
अथ द्विषष्टितमोऽध्यायः।
___________________
‘अथातः कर्णवालजानां कृमीणां निदानं चिकित्सितं च व्याख्यास्यामः’ इति ह स्माऽऽह भगवान्पालकाप्यः—
इह खलु भो हस्तिनां केशाग्रसूक्ष्माः कण्टकमुखा1590 …….ष्णन्पूर्वाः(?) त्वङ्मांसशोणितं भक्षयन्ति। श्यामा रुक्षाः श्वेता रक्ता राजीव-(म)न्तश्चित्राः शबलाः कर्णजा वालजाश्च कृमयः संभवन्ति।
तेषां कृमिभिरुपसृष्टानां लक्षणम्—परिशीर्यन्ते कर्णाग्राणि।तैः1591 परिमूलाग्रेषु चला1592 भक्षयन्ति1593। परिशीर्यन्ते वालाः। तत्र साध्या ये परिस्रवन्ति1594। शेषास्त्वसाध्याः॥
अथैषां चिकित्सितमुपदेक्ष्यामः—अङ्गराजोत्तम……..कर्णी1595विडङ्गकिण्ववचा1596भार्गीमाद्गंकुष्ठनिम्बसुरसकाकादनीकाकतिन्दु-कीकाकमाचीकरवीरसर्षपवर्णाजिकासैन्धवलवणयवक्षारतिन्तिडीकशिरीषकर्णिकारबर्बरफणिज्जकशङ्खिनीदारुहरिद्राश्चैकतः कृत्वा समभागैरुपक्रमेत। एतेषां कषायैः प्रक्षाल्यकल्कैः प्रलेपनं कुर्यात्। चूर्णैस्तु प्रतिसारयेत्। एतेषामेव विकेशिकावर्ती च यथायोगं विदध्यात्। ततश्चाभ्यन्तरं रुधिरं विसर्पवत्परिस्रावयेत्। (ग्रन्थि926ं चेत्कुरुते कृमिःपशूनामिव कुकुटकं सस्त्रे(शस्त्रे)णविद्ध्वा निष्कृष्य कृमिघ्नैश्च कषायैः प्रक्षाल्यप्रलेपयेत्।) कृमिकोष्ठप्रयुक्तं1597 सकवलान्दद्यात्॥
तत्र श्लोकाः—
कषायैः कटुकैस्तिक्तैर्लवणैः पानभोजनैः।
कर्णजान्वालजांश्चैव चिकित्सेत्तु कृमीन्भिषक्॥
प्रायेण श्लेष्मप्रभवा गजानां ज्ञेयास्तु रोम1598क्रिमयः1599 शरीरे।
कार्यः प्रयत्नः प्रशमार्थमेषामुपेक्षिताः प्राणहरा भवन्ति॥

कर्णवालकृमिर्नाम द्विषष्टितमोऽध्यायः॥६२॥
_________________
अथ त्रिषष्टितमोऽध्यायः।
___________
अङ्गेन पृष्टो भगवान्कर्णरोगमुवाच ह।
अस्य रोगस्य विज्ञानं चिकित्सां च यथाक्रमात्।
न1600सूतः सहसाऽऽदत्ते तथा शीर्षविरेचने॥
कर्णैवा1601 मृद्यतेऽत्यर्थं श्रोतसोः कीटवेशनात्॥
जलं वा(त्र) प्रविशति हन्यते चातिमात्रतः॥
अभिघातेन1602 शिरसः कर्णरोगःप्रवर्तते॥
ऊर्ध्वं प्रकुपितो वायुः श्रोतसि प्रतिपद्यते॥
श्लेष्मशोणितमादाय कर्णौ नागस्य पीडयेत्॥
शरैरागन्तुजैर्दोषैर्यदा कर्णोऽस्य दुष्यति॥
तेनास्य तुमुलो व्याधिः कर्णजः संप्रवर्तते॥
तस्येमानि तु रूपाणि वारणस्य निबोध मे॥
संजिघ्रति प्रवमति कर्णस्रोतः स्वभीक्ष्णशः॥
अङ्गुल्या वाऽल्पकाष्ठेन कवलेन च घर्षति॥
पूयंस्रवति कर्णाभ्यां दुर्गन्धिः फेनिलं भृशम्॥
श्लेष्ममारुतसंसर्गात्कृमयः संभवन्ति हि॥
रुधिरं कृमिसंसृष्टं दृश्यते यस्य हस्तिनः॥
कर्णरोगः स विज्ञेयः कफशोणितवातजः॥
इत्येवं कर्णयोर्व्याधीन्दृष्ट्वा1603 भैषज्यमाचरेत्॥
शृङ्गवेरं च भार्गीं च विडङ्गानि च पेषयेत्1434॥
देवदारु च कुष्ठं1604 च सूक्ष्मं पिष्ट्वाविचक्षणः॥
रसेनानेन नागस्य कर्णयोश्च निषेचयेत्॥
ततोऽस्य वेदनाशान्तिरेतन्न स्पान्महीपते॥
काली मधुकनिर्गुण्डी हरिद्रे देवदारु च॥
सर्वमेतद्विडङ्गैस्तुकुष्ठेन च समं भवेत्॥
एतत्संभारमग्नौच सूक्ष्मकल्कं प्रदापयेत्॥
ततो रसं परिस्राव्य क्षौद्रेण सह संयुतम्॥
ततोऽस्य कर्णयोर्दद्यात्कर्णरोगात्प्रमुच्यते॥
मधुशिग्रुंच बिल्वं च सरलं देवदारु च॥
अङ्कोठफलसारं च मांसी कुष्ठमवल्गुजम्1605॥
मयूरपित्तं मज्जां च बिल्वानि वर्तुलानि च॥
विडङ्गतुम्बीबीजं च तथा निम्बफलानि च॥
देवदारु तथोशीरं पिष्ट्वातानि समानि च॥
**सर्वमेतत्समालोड्य तैलं धीरो विपाचयेत्॥
ततोऽस्य सेचयेत्कर्णावेतेन लभते सुखम्॥1606 **
गण्डीरमूलं समधुयष्टिकं च सकुङ्कुमम्॥
क्षौद्रेण सह संयोज्य कर्णयोः पूरणं हितम्॥
प्रपौण्डरीकं मञ्जिष्ठां कुष्ठं मधुकमेव च॥
उशीरं पद्मकं चैव देवदारु च पेषयेत्1434॥
कल्केनैतेन संयुक्तं तैलं धीरो विपाचयेत्॥
ततोऽस्यकर्णयोर्दद्यान्नस्यकर्म च कारयेत्॥
शैलेयं सर्जकरसं देवदारुं तथाऽगुरुम्॥
घृतमण्डेन संयुक्तं धूपयेत1607 ततः पिबेत्॥
भार्गीमूलं च मधुकं षष्टिकान्नंकुटन्नटम्॥
शुद्धाभ्रामलकैः सिद्धान्मधुसर्पिःसमन्वितम्॥
पिप्पलीश्रृङ्गवेराभ्यां भुक्त्वा संपद्यते सुखी॥
अङ्केल्लचिरबिल्वाभ्यां रसो वैशेषिको भवेत्॥
अवगाहविषेकं1608 च वर्जयेच्च विशेषतः॥
इत्येतत्कर्णरोगस्य सनिदानं चिकित्सितम्॥
(पृच्छते926 रोमपादाय पालकाप्येन कीर्तितम्॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
कर्णरोगो नाम त्रिषष्टितमोऽध्यायः॥६३॥
——————————
अथ चतुःषष्टितमोऽध्यायः।
———————
अभक्तच्छन्दिनो राजन्सनिदानं चिकित्सितम्)॥
नागस्य संप्रवक्ष्यामि तन्मे निगदतः शृणु॥
वातेन सहितः श्लेष्मा हृदये संप्रधावति॥
आमाशयं च1609 मन्यन्ते पूरयित्वाऽवतिष्ठते॥
कफेन बद्धहृदयः कुवलं पल्लवं तृणम्॥
अरोचमानं कृच्छ्रेण किंचिदश्नाति वारणः॥
तस्य तेनाभिभूतस्य चिकित्सा संप्रवक्ष्यते1610॥
तस्याऽऽसवं प्रसन्नां वा मैरेयं चापि पाययेत्॥
हिङ्गुना पञ्चलवणैर्युक्तं त्रिकटुकेन वा॥
वचां हरिद्रे लशुनं पिप्पल्यौ मरिचानि च॥
सपञ्चलवणांस्तस्मै कवलान्संप्रदापयेत्॥
तेजोवतीं त्रिकटुकं तथैव कटुरोहिणीम्॥
मधुना सह संयोज्य कवलान्प्रतिभोजयेत्॥
चित्रकं सर्षपं हिङ्गु त्रिफला बदराणि च॥
हरिद्रे शिग्रुबीजं च करञ्जबीजमेव च॥
पञ्चभिर्लवणैः सार्धं क्षोदयित्वा ह्युदूखले॥
सक्तुभिः सह संयोज्य कवलान्प्रति भोजयेत्॥
कटुका रोहिणी पाठा सयवा1611 (?)क्षारसैन्धवाः॥
पिप्पल्यः कटुका मत्स्या मरिचान्याटरूषकम्॥
सर्वाणि समभागानि क्षोदयित्वा उदूखले॥
गोमयेन समायुक्तान्कवलांस्तस्य दापयेत्॥
मुद्रयूषौदनं चास्मै दद्यात्रिकटुना युतम्॥
यथा हि मथना1612दग्निःस्वल्पोऽरणिसमन्वितः॥
पूर्वं गोमयचूर्णेन1613 ततस्तृणेन वै नृप॥
क्रमशस्तनुभिः काष्ठैः स्थूलैश्च तदनन्तरम्॥
विवृद्धः स दहेद्दीप्तः काष्ठभारशतान्यपि॥
एवं गजानां विधिवच्छनैरग्निरुदीरितः॥
भुक्तं सर्वमशेषेण दहत्यग्निरिवेन्धनम्॥
भक्तच्छन्दो भवत्येवमग्निदीप्तश्च जायते॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्था-
नेऽभक्तच्छन्दी नाम चतुःषष्टितमोऽध्यायः॥६४॥
————————
अथ पञ्चषष्टितमोऽध्यायः।
———————
अङ्गोहि राजा चम्पायां पालकाप्यं स्म पृच्छति।
भक्तग्रासोपरुद्धस्यलक्षणं ब्रूहि तत्त्वतः॥
रसं च शोणितं चैव मेदो मांसमथापि वा।
सह घोनसनै(?)कस्मात्सर्वाण्येतानि खादयेत्॥
विशेषयति दोषी चकथं मात्राणि खादति।
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत्॥
अनादिमध्यनिधनः कायाग्निपरिमध्यते(?)।
प्रसूलक्षणसंयुक्तो बीजसहितनातेन(?)॥
नाभिमध्ये शरीरस्य विज्ञेयं सोममण्डलम्।
सोममण्डलमध्यस्थं विद्यात्सूर्यस्यमण्डलम्॥
प्रदीपयेत्तु1614 नागस्यतस्य मध्ये हुताशनः।
इन्दुराकाशमास्थाय यथा दीपस्तथाऽम्भसः॥
तिष्ठतिष्ठमितो(?)दीप्तांस्तथा बलिनमम्भसि।
गजानां नाभिमध्ये तु यवमात्रोऽवतिष्ठते॥
ह्रस्वकायेषु चान्येषु तिष्ठेत्त्रुटिप्रमाणतः।
कृमिकीटपतङ्गेषु वल्लमात्रोऽवतिष्ठते॥
सूर्यो दिवि यथा तिष्ठंस्तेजोयुक्तैर्गभस्तिभिः।
विशोषयति सर्वाणि पल्वलानि सरांसि च॥
तद्वद्गजानां संभुक्तं1615 जठरो नाभिमाश्रितः।
मेषुश्चै(?)क्षिप्रमादत्ते सूर्यकान्तो मणिर्यथा॥
दन्तिनां भोजनं दत्तं नानाद्रव्यसमायुतम्।
क्षिप्रंसम्यक्प्रदहति तेजोधातुसमायुतः॥
जाठरोजलसंभूतस्तद्गतिस्तत्परायणः।
दीप्तेश्च करणा(त्)कोष्ठे सलिलेन च पूरयेत्॥
अग्निसोमात्मकं सर्वं जगत्स्थावरजङ्गमम्।
अग्निसोमात्मको राजन्दन्तिनां च चतुर्विधः॥
सूर्यात्मकानि यात्रीणि(?)यस्मात्सोमात्मकानि च।
(?)संहत्यान्सनै तस्मात्साण्डाणि न खादति॥
चिकित्सेद्यस्तु सीदन्तं विषमंचापि दन्तिनाम्।
आयुर्वेदाभियोगेन स वै राज्ञां चिकित्सकः॥
उक्तग्रासोपरुद्धस्य लक्षणं संप्रवक्ष्यते।
वारणानां पुरा राजन्यथावदनुपूर्वशः॥
मधुराभोजना नित्यमव्यायामास्तथैव च।
मृत्तिकाभक्षणाद्वाऽपि जलदोषेण वा पुनः॥
विदग्धभोजनाद्वाऽपि रात्रौ जागरणेन वा।
जीर्णांजीर्णाशनाद्वाऽपि1616 सततं पृथिवीपते॥
हृदये श्लेष्मणा दिग्धे नाभिनन्दति भोजनम्।
पित्तं च तनुतां याति ग्रहणी चास्यहीयते॥
उष्णालुर्वातशीलश्च1617 दुर्मना गुरुमस्तकः।
भक्तद्वेषं च तं रोगं विद्याच्छ्लेष्मोपसर्जनात्॥
विज्ञानमेतद्व्याख्यातं चिकित्सितमतः शृणु।
द्वे पञ्चमूले संहृत्य पिप्पलीमूलमेव च॥
हस्तिपिप्पली1618 (लीं) च चिरबिल्वैः सह विपाचयेत्।
विपक्वमनुपूर्वेण सुखोष्णमनुपाययेत्1619॥
एतत्पीत्वा तु राजेन्द्र ततः संपद्यते सुखी।
पिप्पलीं शृङ्गवेरं च सूक्ष्मचूर्णानि कारयेत्॥
हस्तिमूत्रेण संयोज्य तैलेन च नराधिप।
सपञ्चलवणां शुण्ठीं पिप्पलीमूलसंयुताम्॥
ग्रहणीदीपनं देयमेतत्पानमनेकपे।
नागपिप्पलिमाहृत्य हस्तिमूत्रेण पेषयेत्1620॥
एवं प्रतिनये दद्यात्केवलं युक्तितो भिषक्।
दीप्यते ग्रहणी तेन यवसं वाऽभिनन्दति॥
हृष्टपुष्टमनाश्चैव न भवत्येव वारणः।
यवसान्युष्णवीर्याणि कफघ्नानि च दापयेत्॥
अग्नेर्विवर्धमानस्य पानं भोजनमिष्यते।
यथा हि1621मथनादग्निः स्वल्पोऽरणिसमुत्थितः॥
पूर्वं गोमयचूर्णेन ततस्तृणेन वै नृप।

विवृद्धः स दहेद्दीप्तः काष्ठभारशतान्यपि।
एवं गजानां विधिवच्छनैरग्निरुदीरितः॥
भुक्तं सर्वमशेषेण दहत्यग्निरिवेन्धनम्।
इति श्रीपालकाप्येहस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
भक्तग्रासोपरुद्धो नाम पञ्चषष्टितमोऽध्यायः॥६५॥
————————
अथ षट्षष्टितमोऽध्यायः।
——————
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति।
द्रोणीक इति यः पूर्वं संग्रहे समुदाहृतः॥
तस्य व्याधेश्चिकि1622त्सां च लक्षणं संप्रचक्ष्व मे।
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः॥
वातात्पित्तात्कफाद्रक्तात्संनिपातात्तथैव च।
द्रोणीकशोफो विज्ञेयो जठरे पञ्चधा नृप॥
निदानानि पृथक्तस्य चिकित्सां च प्रचक्ष्यते।
तत्राऽऽदौ वातिकस्तावच्छ्वयथुः संप्रवर्तते॥
व्यायामाच्च व्यवायाच्च रूक्षादपि च भोजनात्।
तथा बन्धाच्च विविधादतिशीतेन वा तथा॥
शकृन्मूत्रोपरोधाच्च दुःस्थानाद्वा तथा पुनः।
उदरे मारुतः शोफं जनयेत्तस्य हस्तिनः॥
शोफाभिभूतश्च भृशं भ्रममाप्नोति वारणः।
चञ्चलो मृदुभूतश्च चिरात्पाकं न गच्छति॥
विविधं स्वभावाद्वातात्…………………।
श्वयथुःस्यात्स विषमस्त्वग्रतो ह्यनवस्थितः॥
मालतीं सुरसां वंश(पाटलां1623) काटरूषकम्।
अर्कं मधूकं तर्कारीं तिलपिष्टं च पाययेत्॥
नाडीस्वेदो घृताक्तस्य1624…………………..।
………….(वसाया1293) नाडीस्वेदो विधीयते॥
तण्डुलानतसीं किण्वं दध्यम्लेन विपाचयेत्।
रात्रिपर्युषितं शीतं प्रदेहं तस्य कारयेत्॥
साकपर्णीं…..स्वरां1625…..वसां तैलं घृतं दधि।
जलजानां च सत्त्वानां मेदो मांसं च पाययेत्॥
स्वभ्यक्तं सर्पिषा शोफं सुखोष्णं तं प्रलेपयेत्।
स्योनाकं पाटलीं बिल्वं काश्मर्यं वेणुपत्रिकाम्॥
आरग्वधं कुवेराक्षीं मेषशृङ्गीं ससैन्धवीम्।
सुवहां तालपत्रीं च सूक्ष्मपिष्टानि कारयेत्॥
(सुखोष्णं1626 सघृतं चैव प्रदेहस्तस्प युज्यते।
स्नेहपानं च नागस्य गात्राम्यङ्गं च दापयेत्।
औदकानां च सत्त्वानां रसैस्तं प्रति भोजयेत्॥)
अशान्तौ सर्वथा शोफे क्षिप्रं रक्तं प्रमोक्षयेत्।
निर्दोषं शोणितंदृष्ट्वा शोफं तं प्रतिचूर्णयेत्॥
गृहधूमहरिद्राभ्यां साङ्कुष्ठांसैन्धवेन च।
इत्येष वातिकः प्रोक्तो वक्ष्यते पित्तसंभवः॥
अम्लोष्णभोजनान्नित्यं कटुकात्यशनादपि।
लवणस्यातियोगाच्च पित्तवातं प्रकुप्यति॥
उरोद्रोणीं समाश्रित्य श्वयथुस्तस्य जायते।
श्वयथुस्तस्यपीताभो रक्ताभश्चापि लक्ष्यते॥
पित्ताद्दाहस्तु नागस्य क्षिप्रं पाकंचगच्छति।
हस्तिकर्णपलाशानि श्लक्ष्णचूर्णानि कारयेत्॥
सर्पिषा सह संयोज्य प्रदेहं तस्य कारयेत्।
श्यामामंशुमतीं चैव एरण्डं लशुनानि च॥
दद्यात्प्रपौण्डरीकं च विषामतिविषां तथा।
मकरस्य च मांसानि गोमांसं चैव पाचयेत्1627॥
दार्वीप्रलेपं विज्ञाय ततस्तमवतारयेत्।
तेन प्रदेहं नागस्य बहलं तस्य दापयेत्॥
समूलमिह संहृत्य धत्तूरं सारिवां तथा।
पयसा सह पिष्टानि प्रदेहः सघृतो भवेत्॥
अतिप्रवृद्धे श्वयथौ प्रच्छन्नंतस्य कारयेत्।
निर्दोषं शोणितं दृष्ट्वा कषायैःप्रति चूर्णयेत्॥
अश्वत्थस्य कषायेण सर्जस्य ककुभस्य च।
हरिद्रागृहधूमाभ्यां लशुनैःसैन्धवेन च॥
इत्येष पित्तजः प्रोक्तोवक्ष्यते कफसंभवः।
नागस्याल्पप्रचाराच्च वसन्ते संचितः कफः॥
उदरे श्वयथुस्तस्य जायते श्लेष्मसंभवः।
दारुणः कठिनश्चैव शीतो वै मन्दवेदनः॥
एतद्वै तस्य विज्ञानं व्याख्यास्यामश्चिकित्सितम्।
गोमयं वेणुपत्राणि स्वेदार्थेपाचयेद्भिषक्॥
घृतेन पूर्वमभ्यक्ते1628 दद्यात्संस्वेदनं गजे।
(द्रोणीं1009 विषा)मतिविषां सुवहां तालपत्रिकाम्॥
कोशातकींलाङ्गलकीं1629 चित्रकं हस्तिकर्णिकम्।
शृङ्गवेरं हरिद्रां च कल्कपिष्टानि कारयेत्॥
हस्तिमूत्रेण संसृष्टं सुखोष्णं स्यात्प्रलेपनम्।
कुष्ठं चातिविषां चैव तगरं देवदारु च॥
स्वर्जितांशुमतीं चैव हरिद्रां चित्रकं तथा।
………………बीजां सैन्धवं तु समाहरेत्॥
हस्तिमूत्रेण पिष्टानि प्रदेहं तस्य कारयेत्।
पुनर्नवे त्रिकटुकं विडङ्गान्यथ सैन्धवम्॥
तीक्ष्णगन्धां हरिद्रे द्वे करवीरं सचित्रकम्।
पीषयेद्वस्तमूत्रेण1630 मूलं वरुणकस्य च॥
सुखोष्णं घृतसंयुक्तं प्रदेहं तस्य कारयेत्।
पत्रैर्निम्बपटोलाभ्यां मुद्गयूषं विपाचयेत्॥
ततः शाल्योदनं तेन भोजयेद्वारणं भिषक्।
विवृद्धिश्च यदा तस्य कार्यं शोणितमोक्षणम्॥
निर्दोषं शोणितं दृष्ट्वा शोफं तं प्रति चूर्णयेत्।
कटुरोहिणीपिप्पल्या कुशसैन्धवसर्षपैः॥
स एव भूयो मांसेन मेदसा वा यदा भवेत्।
यदाऽतिकठिनो राजन्कुच्छ्रसाध्यश्च जायते॥
ततस्तं स्वेदनाभ्यङ्गैस्तैलपानैः1631प्रमर्दनैः।
पानलेपनयोगैश्च यथोक्तैः समुपाचरेत्॥
तीक्ष्णैः कषायैः कटुकैस्तैलस्य च निषेवणैः।
व्यायामैर्दोषहरणैः शोफमेवं जयेत्कफात्॥
द्रोणीकायां1632 तु भिन्नायां शोधनानि प्रदापयेत्।
द्विव्रणीये1633 यथोक्तानि तैलानि च विपाचयेत्॥
इत्येष कफजः प्रोक्तो वक्ष्यते शोणितात्मकः।
क्षारतीक्ष्णा1634म्ललवणैराहारैर्भोज्यते यदा॥
उष्णेऽतिकर्मव्यायामाच्छ्रमाद्रक्तं प्रकुप्यति।
उरोद्रोण्याश्रितं शोकं जनयेद्रक्तसंभवम्॥
ततोऽतिरक्तः सभवेद्विदहेत्पैत्तिको1635 यथा।
स महाव्योष्णरुदनैः पाकमाशु नियच्छति॥
तस्यास्निग्धं मृदु लघु शीतं मधुरमेव च।
भोजनं पूज्यते नित्यं न चोष्णाम्लनिषेवणम्॥
तिन्दुकैर्वारुसर्जानां पलाशोदुम्बरस्य च।
त्वचः क्षीरेण पिष्टाश्च(?) नाभिस्तस्य प्रलेपनम्॥
एषामेव त्वचः सम्यक्क्षणं तोये विपाचयेत्।
द्वात्रिंशद्गुणमादाय क्वथितार्धं च संहरेत्॥
निक्वाथेन ततस्तेन घृतं धीरो विपाचयेत्।
ततः स्नेहावशेषं तु पानं म्रक्षणमेव च॥
श्वयथोर्वर्धमानस्य कार्यं शोणितमोक्षणम्।
निर्दोषं शोणितं दृष्ट्वा पूर्वोक्तं प्रतिचूर्णना॥
पूर्वोक्तैश्च गुणैश्चास्य1636 प्रच्छितस्यातिलेपनम्।
अधिष्ठानं भवेद्रक्तं श्वयथूनां नराधिप॥
रक्तस्योपद्रवा ज्ञेया वातपित्तकफास्त्रयः।
तस्मात्सर्वेषु शोथेषु शस्तं शोणितमोक्षणम्॥
एष वै रक्तजः प्रोक्तो वारणानां नराधिप।
इत्येष राजेन्द्र चतुर्विधस्ते द्रोणीकसंज्ञः श्वयथुर्मयोक्तः॥
अतः परं संशृणुसंनिपातप्रकोपजं1637 कष्टतरं यथावत्॥
वातः कफः पित्तमथापि रक्तं दोषाः क्रमेणोपचिता गजस्य॥
वातेन कोष्ठादुरसि प्रपन्ना द्रोणीकसंज्ञं जनयन्ति शोफम्॥
त्वचंसमाश्रित्यविवर्धमानः करोति पीडां1638महतीं गजस्य॥
सोऽश्माभकण्डूपिटकाचितश्च पाकंकदाचित्समुपैति मोहात्॥
उत्पन्नमात्रं किल तं चिकित्सेदुपेक्षितः प्राणहरः स कालात्॥
शोफेषु सर्वेषु च या मयोक्ता क्रिया तया साधयितुं यतेत॥
कफानिलाभ्यामुरसि स्तने वा………………………………॥
…………………यदि जायते वै द्रोणीकसंज्ञः श्वयथुर्गजस्य॥
तस्यास्थिभिः स्वेदमिमं विदध्यान्मूत्रैश्च वक्ष्यामि निबोध तन्मे॥
वराहमेषाविस्वराश्चगोजान्यस्थीनि युक्तानि तु माहिषेण॥
चूर्णं तिलानामपि चात्र दद्यात्स्वेदं यथावद्विदधीत वैद्यः॥
स पञ्चमूलैरपि संविदध्यात्स्वेदं तु नाड्या विधिवद्यथोक्तम्॥
तं प्रच्छयेद्वा यदि शस्त्रसाध्यं संप्रच्छ्य चापि प्रतिचूर्णयेच्च॥
गृहस्य धूमो लवणानि पञ्च तथा हरिद्रे कटुरोहिणी च॥
…………नागस्य च चूर्णनं हि भूयः प्रलिप्ते शृणु भेषजानि।
पत्राणि चार्कस्य सुवर्चिका च तिला वचाः स्युः कटुरोहिणी च॥
कुष्ठं घृतं चित्रकसैन्धवं च यवाश्च1639 लेपो गजमूत्रमिश्रः।
शिग्रोश्च मूलं लशुनानि कुष्ठं…………………………….॥
…………………… क्षारा गर्मन्तिकाक्षारमथापि माषान्।
विपाच्य मूत्रे करिणः प्रलिम्पेद्घृतेन पूर्वं श्वयथुं प्रलिप्तम्॥
काकादनां चातिविषां हरिद्रे शतावरीं नागबलां सकुष्ठाम्।
करञ्जबीजानि सवर्चिकां च भद्राच्च(?) दारु प्रपुनाडबीजम्॥
किरातकन्दंगजकर्णपर्णमूलानि1640 मूत्रेण गजस्यपिष्ट्वा।
घृतेन पूर्वं श्वयथुं प्रलिप्य ततः प्रलेपः कफनाशनोऽयम्॥
निम्बं सकुष्ठं लशुनं वचां च गण्डीरमूलं गजकर्णमूलम्।
बीजानि शिग्रोःसुवहां हरिद्रे पूतीकमूलं कटुरोहिणीं च॥
तेजोवतीतां(?) लवणानि पञ्च मूत्रेण सर्वं विधिवच्चतत्पचेत्।
आवापमन्नंदधिमस्तु दद्यान्मुस्तां वचां लाङ्गलिकीं विशालाम्॥
किलासिमू1641लान्यथ मोरटं च पिप्पल्य ……………पलां च।
क्षीरं च किण्वं च वसांघृतं च मत्स्यांश्च तैलं च समं विपाच्य॥
दर्वीप्रलेपं विधिवद्विपाच्य प्रलिप्य वस्त्रैरुपनाहयेच्च।
अर्कस्य पत्रैः करिकर्णपर्णैः संग्राहयेच्चाऽऽविकचर्मणा च॥
द्रोणीक एतेन कृतप्रदेहः क्षिप्रंप्रणाशं द्विरदस्य याति।
अन्योऽपि यः स्याच्छ्वयथुः शरीरे नागस्य शीघ्रं विजयं प्रयाति॥
ज्योतिष्मती चातिविषा विडङ्गपाठाश्वगन्धा मधुकं वचा च।
मुस्तं वयःस्थामथ देवदारु लोमुं(?) सतेजोवति चित्रकं च।
गवेधुकां चापि तथा विदध्यात्कुष्ठं हरिद्रां सरलं शुकास्यम्॥
रोहिण्यशोकौ च जलेन कृत्वा क्वाथं यथावत्परिमूत्रणं तत्1642।
क्षौद्रेण युक्तं द्विरदाय पानमानाहगुल्मापहरं प्रदिष्टम्॥
द्रोणीकशोफं कृमिकोष्ठकासमसंशयं हन्ति च वारणानाम्।
पटोलपत्रैः सह निम्बपत्रैः शुद्धेषु शुद्धं प्रपिबेच्च यूषम्॥
शाल्योदनं चापि मृदुः(दुं) सुसिद्धं दद्याद्यथोक्तं यवसं विचित्रम्।
** तत्र श्लोकः—**
द्रोणीको यदि भवति द्विपस्य भिन्नः स क्षिप्रं प्रणुदति जीवितं विवृद्धः।
एतं यः शमयति वारणस्य वैद्यः स प्राप्यो भवति परां नृपेण पूजाम्॥

द्रोणीकशोफो नाम षट्षष्टितमोऽध्यायः॥६६॥
————————
अथ सप्तषष्टितमोऽध्यायः।
————————
आतयातो गजो राजन्यथा भवति तच्छृणु।
अयोगेनानभिज्ञेन यो1643 गजो वाहितो भृशः॥
(‘स्नेहैर्विधाभिर्यवसैस्तथैव1338 सरसार्जुनैः।
पोष्यते यस्तु मातङ्गो योज्यते न च कर्मणा॥
लभते चाग्निदौर्बल्यमानाहे चैव वारणः॥)
तृष्णामथ च वैवर्ण्यं शारदत्वं तथैव च।
स यदाऽल्पस्रुतो1644 नागो युक्तः कर्मविशारदैः॥
अकर्मगे(?) प्रयुज्येत गजः संयानकर्मणि।
वातास्तथाऽपि च…………………………॥
हस्तियुद्धेऽपि चात्यर्थमथ सांग्रामिकेऽपि वा।
त्वरया कर्मलोभाद्वा प्रयोगस्यातिमात्रया॥
बलाबलमविज्ञाय योक्ता नागं1645 प्रपीडयेत्।
अत्यर्थं कर्मयोगेन तदा गात्राणि मारुतः।
पित्तेन संहितस्तस्य व्यापादयति हस्तिनः॥
प्रत्यङ्गं सौप्रतीकाशौ(?) प्रोहापस्कारमेव च।
……………………सकुटिके………………..॥
जघनभ्रंशनं चापि भ्रंशनं च तथोरसः
भञ्जनं गात्र……….रोगं चापि बलक्षयम्॥
अत्यर्थं कर्मयोगेन शोषं वा घोरमृच्छति।
क्लाम्यमानस्तु दौर्बल्यं कर्मातिनयनोद्भवात्॥
आहारैः पेशलैश्चापि न वृद्धिमुपगच्छति।
कर्मातिनीतोमातङ्गस्त्वतियातो1646 निरुच्यते॥
दारुणेभ्यो लघुभ्यश्च कर्मभ्यस्तं निवर्तयेत्।
करेणुसहितं चैनं यथाकालं विचारयेत्॥
रम्येषु वनखण्डेषु पुष्पाढ्येषु सुगन्धिषु।
फुल्लपुष्करषण्डेषु1647 जलेषु च विगाहयेत्॥
वृक्षेभ्यश्च लताः फुल्लाः सुगन्धाः षट्पदाकुलाः।
व्यपकृष्यसुमार्गेण भक्षयन्तं विचारयेत्॥
चन्दनस्पर्शशीतं वा कर्दमं हारयेद्गजम्।
पांशूंश्चाऽऽहारयेदेनं कूलेष्वपि सृजेदपि॥
यवसानि विचित्राणि हरितानि मृदूनि च।
विशालानि मृणालानि पल्लवानि मृदूनि च॥
इक्षूनपि च शालींश्च कवलानि प्रदापयेत्।
मनःप्रसादश्च तथा बलं चैवोपजायते॥
ततः संजातमांसाय वारणाय महीपते।
प्रसन्नां प्रतिपानार्थे गुडयुक्तां प्रदापयेत्॥
भृष्टैरष्टाभिरथवा प्रसन्नांलवणैर्युताम्1648।
ततोऽस्मै षष्टिकानां च शालीनां1649 चाऽऽशुसंस्कृतम्॥
ओदनं दापयेद्वैद्यः शर्कराघृतसंयुतम्।
बृंहणीयानि वृक्षाणि मांसान्यस्मै ततः परम्॥
वेसवारं रसं वाऽपि कारयित्वा प्रदापयेत्।
मांसैः क्षीरैस्तथा स्नेहैर्विचित्रैर्यवसैरपि॥
बस्तिभिर्बृहणीयैश्च शीतेन विविधैरपि।
अतियातस्य नागस्य बलं शीघ्रं प्रवर्तते॥
व्याधिश्च प्रशमं याति योगैरेभिर्नरेश्वर।
इत्येवमतियातस्तु योक्तुर्दोषेण जायते॥
तस्मात्सुग्राय(?) मातङ्गो तदेव (न देयः) पृथिवीपते॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेऽति-
यातो नाम सप्तषष्टितमोऽध्यायः॥६७॥
———————
अथाष्टषष्टितमोऽध्यायः।
———————
रोमपादो महातेजाः प्रणम्य शिरसा शुचिः।
पालकाप्यं मुनिवरं विनयात्परिपृच्छति॥
गुल्माः पञ्च मुनिश्रेष्ठ ध्यारयो(?)………..।
पूर्वं प्रोक्ता भगवता नामतो रोगसंग्रहे॥
समुत्थानं च रूपं च तेषां विस्तरतो मम।
चिकित्सां चानुपूर्वेण भगवन्वक्तुमर्हसि1650॥
एवं पृष्टः स भगवान्पालकाप्यस्ततोऽब्रवीत्।
शृणुष्वैवं महाराज प्रसन्नेनान्तरात्मना॥
गुल्माः पञ्च महाराज ये प्रोक्ताः संग्रहे मया।
तेषां निदानमुत्पत्तिं चिकित्सां च प्रचक्षते1651॥
वातात्कफात्पित्ताश्चैव शोणितादपि केवलात्।
जायन्ते दन्तिनां गुल्माः संनिपाताच्चपञ्चमः॥
स्निग्धभक्तैश्च मांसैर्वा1652 यदा नागो निराकृतः।
बस्तिभागाच्छयान्नाभे रसन्नानि(?) लभेत्पुनः1653॥
कटुतिक्तकषायाणां रसानां चातिसेवनात्।
शुष्काणि च यदा नागो यवसानि च भोजयेत्॥
विद्यात्तदा तदुत्पत्तिं…………………………..।
अल्पतेजोन्नदानार्द्रा(द्वा) सहसा कुप्यतेऽनिलः।
स तस्यजनयेद्गुल्मंसमन्ताद्धृदयाश्रितः1654॥
पुरीषमुत्सृजेञ्चैनं सा1655पश्चादपि लक्ष्यते।
तस्याऽऽनाहं सृजेत्……कोष्ठ1656वायुर्भ्रमत्यति1657॥
गर्जत्यपि मन्दमन्दं वृष्टिकाले यथा घनः।
प्रमेहति प्रसक्तं च विमनाः संकुचत्यपि॥
स्तम्भमाश्रित्य विष्टब्धः स्थूलं च श्वसिति द्विपः।
प्रमेहे चापि विच्छिन्नं गलमूर्ध्वमुदस्यति॥
इत्येतैर्लक्षणैर्जुष्टो वातगुल्मातुरो द्विपः।
पूतीकं चित्रकं दन्तीं1658 गण्डीरं सुवहां वचाम्॥
पिप्पलीं सैधवं पाठां तृवृत्कुष्ठं महौषधम्।
कुलत्थांश्च यवांश्चैव समभागान्प्रपेषयेत्॥
तैलं न1485 (लेन) सुरया वाऽपि सक्तायां पाययेद्द्विपम्।
गण्डीरं चविकं श्यामां द्रवन्तीं सुरसां वचाम्॥
पिप्पलीं मरिचं चैव सलिलेन विपाचयेत्।
वस्त्रपूतं तु तं क्वाथं सकुष्ठं लवणान्वितम्॥
तत्प्रातः पाययेन्नागं मैरेयेणाभिमूर्च्छितम्।
रोहिषं पञ्चमूले द्वे वर्षाभूर्वृश्चिकालिका॥
वसुको वशिरश्चैव क्षमुन(?) क्वाथयेज्जले।
सकृष्णलवणं क्वाथं तथावस्त्रपरिस्रुतम्1659॥
सुरया मूर्छितं नागं यातरुण्या1660 (?)प्रपाययेत्।
मधुशिग्रुच गण्डीरं चित्रकं बदराणि च॥
यवान्नवान्कुलत्थांश्च पञ्चमूलानि पाचयेत्।
क्वाथेन सहितं तस्य अवगाहं च कारयेत्॥
दशोत्तरं सलवणं (स्निग्धं) वारणं प्रतिपाययेत्।
मृदुशाल्योदनं चैव रसेन सह भोजयेत्॥
क्रियाः सर्वाश्च नागस्य स्निग्धाभ्यक्तस्य कारयेत्।
विधिनाऽनेन नागस्य वातगुल्मःप्रशाम्यति॥
सक्रियः सनिदानश्च पित्तगुल्मःप्रवक्ष्यते1661।
अम्लोष्णकटुतीक्ष्णानि क्षाराणि च यदा द्विपः॥
भोजनानि निषेवेत रूक्षाण्यजलजानि च।
सततं सेवमानस्य द्विपस्यानियतात्मनः॥
अतिमात्रं यदा वाऽपि सेवितास्ते1662 तनुं नृपः।
घर्माध्वनः1663 प्रयोगाच्च गुल्मो भवति पित्तजः॥
स पाण्डुर्विमना दत्ते शिरोरू(?) भोजनं द्विपः।
भृशं संतप्तदेहश्च शीतमेवाभिनन्दति॥
तृष्णातिमात्रं मूर्छा च विदाहश्चास्यजायते।
भुक्तस्य1664 परिणामे च वेदना बाधते गजम्॥
विमुक्तं भोजयेद्वेगैः शीतमस्य सुखायते।
पित्तगुल्मान्तरं विद्याल्लिङ्गैरेतैर्मतङ्गजम्॥
उदारं वक्ष्यते कर्म पित्तगुल्मनिबर्हणम्।
उशीरं पद्मकं लोध्रंमञ्जिष्ठां रोहिणीं तथा॥
हरीतकींहरिद्रे द्वे सहदेवां ससारिवाम्।
समान्येतानि सर्वाणि जर्जरीकृत्य पाचयेत्॥
मत्स्यण्डिकासमायुक्तं वारणं प्रति पाययेत्।
प्रियालानिमधूकानि सारिवां कदलीफलम्॥
पाटलींपृष्णिपर्णीं च भूनिम्बं च हरीतकीम्।
त्रिवृन्मूलं मधूकं च तिन्दूकानि शतावरीम्॥
खर्जूरं जीरकं लोध्रंतथैवाऽऽमलकानि च।
सर्वाण्येतानि सलिले समभागानि पाचयेत्॥
सुप्रसन्नंततः क्वाथं पाययेच्छर्करान्वितम्।
पयोगर्भं मधुरकैः सर्वैः सर्पिर्विपाचयेत्॥
पित्तगुल्मप्रशान्त्यर्थं वारणं प्रति पाययेत्।
कपिञ्चलैर्मयूरैश्च लावैश्चापि सतित्तिरैः॥
सुसंस्कृतं रसं कृत्वा भोजयेद्वारणं ततः॥
सामाकमम्लिपादं1665 च मृणालेक्षुबिसानि च।
आर्तवानि तु सर्वाणि यवसानि प्रदापयेत् ॥
एषां शर्करया युक्तस्तस्य ग्रासः प्रशस्यते।
द्विपानां विधिरेष स्यात्पित्तगुल्मप्रणाशनः॥
सक्रियः सनिदानश्च श्लेष्मगुल्मः प्रवक्ष्यते।
यदा तु स्निग्धमधुरा वारणा भोज्यते विधा॥
पललं दधि मत्स्याश्च क्षारमिक्षु गुडं वसा।
औदकानां चसत्त्वानां मांसानामतिसेवनात्॥
अव्यायामाच्च नागस्य गुल्मो भवति श्लेष्मजः।
स विवर्णच्छविर्नागः सर्पिःशीतं न चेच्छति॥
दुर्मना गुरुदृष्टिश्च रोमहर्षश्च1666 जायते।
शय्याभिनन्दी प्रध्याता भुक्तं1667 चास्य न1049पच्यते॥
निरूहत्यल्पमल्पं च पुरीषं श्लेष्मणा वृतम्।
हरिद्रां सुरसां निम्बं पाठां तेजोवतीं वचाम्॥
राजवृष्यं च सरसमेरण्डं च शतावरीम्।
तर्कारीपत्रभङ्गांश्च समभागानि कारयेत्॥
(कटूष्णतैलसंयुक्तं1668 तं क्वाथंप्रतिपाययेत्।
व्याघ्री च नक्तमालं च मम्लकं बदराणि च॥
शिग्रुबीजं कुलत्थं च चित्रकं हस्तिपिप्पलीम्।
यवानी पञ्चमूले द्वे स्थाल्यामादाय पाचयेत्॥)
स्निग्धक्षारसमायुक्तं तं क्वाथं1669 पाययेद्द्विपम्।
पत्रैर्वा चिरबिल्वस्य तैलं धीरो विपाचयेत्॥
तत्तैलं गुल्मशान्त्यर्थं वारणं प्रतिपाययेत्।
रसं तस्मै सैन्धवेन पिप्पलीमरिचानि च॥
भोजनार्थेन पानेन वारणाय प्रदापयेत्।
वेणुपत्रं कुशं क्षारं तथा पाठां गलं तृणम्॥
कुलीरपादं यवसं करीरं च विपाचयेत्।
उष्णाम्ललवणान्नित्यं कटुतीक्ष्णातिभोजनात्॥
एतैस्तु लक्षणैर्विद्याद्रक्तगुल्मं चिकित्सकः।
(सर्जं प्रियालमश्वत्थं मधुकं चन्दनं तथा॥
तृवृतं च सुकर्णं च सहामौदुम्बरं तथा।
तिन्दुकीमजश्रृङ्गींच शतावरीं हरीतकीम्॥)
समभागानि पयसापाचयेदतियुक्तितः1670।
परिस्राव्य1671 च तत्क्वाथं शर्कराचूर्णसंयुतम्॥
पाययेद्वारणं राजन्संयुक्तं मधुकेन च।
श्रीपर्णीमूलमधुकं तथा गन्धर्वहस्तकम्॥
आरग्वधं मधूकानि काश्मर्यं च शतावरीम्।
पयस्यां पृष्णिपर्णीं1672चमूलमिक्षुरकस्य च॥
गर्भातिक(र्मुतं च) समञ्जिष्ठं भव्यं पारावतानि च।
काण्डशः कल्पयित्वा तु समान्येतानि पाचयेत्॥
सुशीतं योजयेत्क्वाथं शर्कराचूर्णसंयुतम्।
चतुर्णामथ गुल्मानां पूर्वोक्तानां महीपते॥
व्यामिश्रलक्षणो ज्ञेयो गुल्मःस्यात्सांनिपातिकः।
उत्कटत्वं तु दोषाणां यत्र यस्य प्रदृश्यते॥
स्वकं चिकित्सितं तस्य यथायोगं विधीयते।
रोगाणामथ तुल्यत्वात्कर्म कार्यं तु1673 भेषजे॥
संनिपातसमुत्थेऽपि शिरोरोगस्तथैव च।
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने गुलमो
नामाष्टषष्टितमोऽध्यायः॥६८॥
————————
अथैकोनसप्ततितमोऽध्यायः।
————————
‘अथातो हृद्रोगचिकित्सितं व्याख्यास्यामः’ इति ह स्माऽऽह भगवान्पालकाप्यः॥
इहखलु भो हृद्रोगास्त्रिभिर्देषैःसंभवन्ति वातपित्तकफैः। तत्राऽऽदौ वातिकं हृद्रोगं वक्ष्यामः—तत्र व्यायामाव्द्यवायरूक्षकटुक-षायभोजनादत्यशनाच्च वातः प्रकुपितः प्राप्य हृदयमनुपीड्यतिष्ठति हृद्रोगं जनयति॥
ततो विजृम्भति भूमौ परिवर्तते परिषीदति भूमिस्थश्च। दत्तो(?) भोजनाहारमभिलषति॥
तस्यैवं निदानं दृष्ट्वा वातोपसृष्टहृदयस्यचिकित्सितुमुपक्रमेत—सामुद्रविडसुवर्चिकायवक्षारोद्भिजरोमकसैन्धवघटीलवण-सौवर्चलानि च प्रसन्नया सह संयोज्यपाययेत्। अथवा—त्रिकटुरसोनवचासर्षपक्षुद्रमत्स्यांश्च संक्षुद्य प्रसन्नया सह संयोज्य पाययेत्। पायितो विमुक्तहृदयो भवति। अथवा1674—त्रिकटुरसोनरजनीतिलचूर्णदधिमस्तुसंयुक्तमाजं पयः पाययेत्। कर्कटकरसं वा पाययेत्। सुखी भवति॥
इति वातिकहृद्रोगः॥
अथ पैत्तिकः—कटुतीक्ष्णोष्णाम्ललवणक्षारभाजनैः पित्तमुदीर्णं हृद्रोगं जनयति॥
स भवति भक्ष्यभोज्यद्वेषी विमना विकीर्णहस्तः परिमूत्री, विनमति ध्यायति।संतप्तशरीरः शीताभिलाषी सलिलावगाहच्छाया-भिकाङ्क्षी॥
तस्य भैषज्यम्—शिशिरमधुरस्निग्धक्रिया।शर्करया घृतमण्डेन वा गात्रयोः परिषेकं कुर्यात्।………………..1675………………………………………………………………………………………………………………………………………………………॥ अहिंस्रामधुशिग्रुकरवीरकरीरतर्कारीभद्रदारुलवणकिण्वातसीसर्षपांस्तिलांश्चसमभागान्सूक्ष्मचूर्णीकृत्य क्षीरेण पाचयेत्। घृततैलवसाभिः सिद्धमह्य(माहृ)त्य सुखोष्णेन गात्राणि प्रलेपयेत्। द्विपञ्चमूलानि माषान्संकुट्य यमकस्नेहे साधयित्वा सीधुं दधि च, तेनापि सुखोष्णेन गात्राणि प्रलेपयेत्। आढकीमधुशिग्रुशणमूलकैरण्डानां बीजानि विश्वभेषजपृथ्वीकाबलातसी-तिलसर्षपयवतण्डुलकुलत्थबदरबिल्वचूर्णानि समभागानिपाचयित्वा घृततैलवसाभिर्दध्ना सौवीरसुरामण्डैः सह संयोज्य तत्राऽऽवापं रोहितपाठीनादीन्मत्स्यांश्छित्वा संकुट्य स्थापयेत्। पञ्चरात्रमामुतं महास्थाल्यां ततस्तमासवं पाचयित्वाऽवतार्य तस्योष्णेन गात्राणि प्रलेपयेत्। रालारास्नागोक्षुरकवासाकण्टकाकर्चूरोरुबूकाग्निमन्थपृष्टपर्ण्यंशुमती पाषाणभेदिकाबिल्वपाटलीयवातसीमधुकक्कोल-कुलत्थान्पाचयित्वा ततस्तं निष्क्वाथं द्विगुणेन तैलेन पाचयित्वा यष्टीमधुकगर्भं पाययेद्वारणम्।सर्पिस्तैलदधीनि सुखोष्णानि पृथक्समस्तानि वा पाययेत्। द्विपञ्चमूलं गृहीतं चैनं स्निग्धेन मातुलुङ्गरसयुक्तेन रसेन भोजयेत्। स्नेहदानोक्तेनान्यतमेन वातप्रशमनेन स्नेहोपक्रमेणोपचरेत्। शशतिकेन(?) चास्य विधिना बस्तिकर्म कुर्यात्। यथोक्तबस्तिसिद्धिविधानेन वा बस्तिं दद्यात्। अथोदकपरिषेकोभ्यक्तप्रदित्य(?)लेपनसंकरभागपिण्डोत्करिकोपनाहफालपाषाणकारीषाग्निमांसस्वेदादिभिर्विधिवन्मर्दनोपेतस्य स्नेहपानभोजनबस्तिनस्यकर्मप्रयोगरस-भोजनलशुनगुग्गुलुविधानोपयोमादिभिश्च न शान्तिरस्ति। श्वयथुर्वेदनालिङ्गविशेषाणां प्रोतसंभजान्बहुवैकल्यमस्करांसगदेशादीनां च सततमुपलभ्यते। ततश्चास्य कर्म विधेयं भवति। तस्य सुयन्त्रितस्य(स्तर)रक्षारक्षितस्य संनिहितस्थानशयनपानाशनोपपन्नस्य यथाविधि गजस्य रणजयतोपेतस्य1676सर्वसंभृतसंस्कारस्य कुलपरिकरपरिवारितस्य सदृशपत्रविधानेन विज्ञातशरीरविधयेन(धानेन) दृष्ट्वाऽग्निप्रणिधानेनासंमूढहस्त्यायुर्वेदविदा ज्ञातेन1677 विपश्चिता भिषजाऽग्निप्रणिधानं क्रियमाणं यथातुरकालमप्रदोषं भवति। अग्निर्हि दुष्प्रयुक्तो महता तापेन प्राणभिदा हस्तिनमाप्रसादं प्रतियुनक्ति। स चैवं प्रज्ञावता तेन परीक्ष्यकारिणा प्रणिहितवता प्रयुक्तान्तरावगाहपङ्कपटलादापूरयति। शोकस्तम्भकम्पपरिसर्वासुरणस्नायुक्षेपणसंकोचननमसोषणसूयेन स्थिरकठिनत्वादीनि वा1678परिद्यति। तत्राग्निदाहोपकरणान्येवंविधानि भवन्ति— अर्धचन्द्राकृतीनि जन्ताभिमण्डलानि(?) वृत्तानि सूक्ष्माङ्गुष्ठपरिणाहानि। हस्तिनः समीपे कर्णारावेसनं1679 कुर्यात्। अस्य पूजां कृत्वा निरग्रिं व साग्निप्रणिधानं कुर्यात्। सर्पिषाऽभ्यज्य गात्रं श्वेतवर्णैरभिलाञ्छितैः
सम्यग्दहति। भवन्ति चात्र श्लोकाः—
पत्निपादे(?) पत्निहस्ते(?) नन्द्यावर्ताकृतिं दहेत्।
वर्धमानं च संदाने स्वस्तिकं वा निवेशयेत्॥
प्रोहेपत्राकृतिं कुर्याद्रसं(?)रोधजमालिग्येत (दिशेत्)।
प्रतीकासांसफलकबाहुदेशेषु शक्तयः॥
उत्कृष्टाष्टीव्यापस्कारभागे चक्राकृतिर्भवेत्।
अग्निमार्गे भिषक्कुर्यात्परासु………गात्रवत्॥
पञ्चाङ्गुलप्रमाणात्तु कार्यमेवातिसंभवात्॥
अथैवै…..मुरोरोधरेषादूर्ध्वव्यवस्थितम्(?)।
करणीयानि रायाजानुगो पञ्चाङ्गुलान्तरा।
निःसंशया निराबाधा1680 भवन्ति निरुपद्रवाः।
शिरास्नाय्वस्थिधमनीसंधीनां नयने अपि।
सम्यग्दहेन्न1681 पिशितात्परतोऽग्निं न कारयेत्॥
कालमत्वरवैदेहवर्णप्रकृतिकारणम्।
वेदनादोषाद्भूतस्नाय्वाख्यचतुराणि च॥
विपश्चिदृृष्ट्वाङ्कं क…………………….।
……………………………………………॥
…………………………………………….।
…………………………………………….॥
…………ग्निकर्म ज्ञात्वाऽग्निं प्रतिचारयेत्।
सम्यगामाति1682दग्धानामपलिङ्गान्यतः परम्॥
ततः प्रायोरव1683तुश्चैत्र(?)कपोतागरुडप्रमम्।
समं रूक्षं संकुचितं निष्परिस्राववेदनम्॥
विलीनश्वयथुप्रायं सम्यग्दग्धं विनिर्दिशेत्।
स्फोटोद्गमपरिस्रावं1684 तथा प्रक्लेदमार्दवम्॥
तथैव वेदना शोफमामदग्धस्य लक्षणम्।
स्रस्तगात्रापरकरकर्णमेहनवालधिः॥
दुर्मना ध्यायति परा……..नाभिनन्दति।
वृज…….मूर्छा वातरक्तमूत्री भवत्यपि॥
भ्रमीनिदानं लभते शीकरी जातप्रतिप्रणाम्(?)।
मुखे शोषो ज्वरो ग्लानिः सीदनं जृम्भणान्वितम्॥
छायाभिलाषी सततमत्यर्थमुदकप्रियः।
स्थाने न लभते शर्म सर्वतः प्रतिदुःखितः॥
अतिरिष्टेव कुतभू(?) व्रणपाकश्च दारुणः।
उपद्रवाश्च बहवो भवन्तीति यतस्ततः॥
निवर्ता(वृत्ता) ये वा सुशीतैः प्रदेहैरवगाहनैः।
सशर्करैः पयःपानैर्दधिमस्तुसुरासवैः॥
शतधौतघृतालेपैर्दाहवेगस्याऽऽर्तिं हरेत्।
अथ शीतप्रवातावस्थितं चैनं कुशकाशरक्तोत्पलकह्लारनलनलिनबिशमृणालकुमुदकुन्दपद्मकोशीरनलमूलमञ्जिष्ठासारिवारक्त-चन्दनप्रपौण्डरीकमधुकमधुरक्षीरत्वग्रजनीसुनिषण्णकवञ्जुलादिभिः प्रकाममालिम्पेत्। इक्षुक्षीवनीलिकापोटगलदूर्वामृणालेन्दी-वराम्बष्ठकादेर्यवसामोदकं मत्स्यण्डिकागर्भमुपाहरेत्। मन्ददग्धं पुनर्दहेत्।सम्पग्दग्धं पयसा परिषेचयेत्। सुरया वा शालितन्दुलपिष्टेन दुग्धालोडितेन पुनः पुनः प्रदेहयेत्। निवृत्तदेह1685वेदनाश्वयथुं त्र्यहं पञ्चाहं वा सिद्धार्थकासीसविकंहन्त(?) नागरमधुयष्टिकालोभचूर्णेन व्रणानवचूर्णयेत्। ऊर्ध्वं वा सप्तरात्रं तु सततं तैलेन सर्पिषा वा परिषेचयेत्। त्रिसप्तरात्रादूर्ध्वं द्विव्रणीयोक्तेन विधानेनोपचरेत्। तैलसेकश्चात्राव्रणारोहणात्सर्वमग्निदग्ध…………षिच्यमानं स्नेहेन प्रवे(दे)शो कोऽप्यप्रलेपविमाननात्। अङ्गोद्वेष्टनप्रसुप्तिः स्फुरणतोदार्तिभेदादीन्विशेषाञ्जनयतीत्यनशन1686शूलत्रयरूढव्रणमपि परिषेचयेत्।सूपचण्डव्रणव(त्)वातघ्नोत्कारिकायाक्षाहाज्य(?) च पूर्वं पाणिना मर्दयेत्। ततो लगुष्ठानविधानैर्यथायोगं परिमर्दनं मृदूकरणार्थे क्रमशः कुर्यात्। स्नायुशिरासन्निजीलकत्वरामांसमेदसा प्रसुप्तगुरुकाठिन्यां जानुसंकोचनचक्रस्फुरणोद्वेष्टनोत्कम्पतोदभेदनसुप्तत्वं कृपतोपनाहस्वेदस्य विविधैर्मर्दनैर्जयेत्॥
तत्र श्लोकौ भवतः—
यः स्वेदैः क्रमविहितै…………….रभ्यङ्गैरनिलहरैश्च पानभोज्यैः।
कुर्यात्स प्रणुदति गात्ररोगमुग्रं नागानामनिलसमुत्थितं क्रमेण॥
एतांश्च क्रमविहितान……….शास्त्रोक्तं विधिमनुसृत्य यस्तु कुर्यात्।
सत्कार्यः स भवति पार्थिवैर्महात्मा…….वेदहरिहवनेषु वज्रहस्तः॥
(इति) वातिकगात्ररोगः॥
उष्णकर्मणोऽत्यर्थयोगादत्यशनास्व(शु)गमनात्कटुकोष्णाम्ललवणसेवनादत्यर्थयोगात्पित्तं प्रकुपितं भवति। तस्यातिमात्रं गात्राणि दह्यन्ते। तेनातीव वेदनार्तश्च जिघ्रति वेपथुश्चास्योष्णत्वमतिमात्रं गात्राणां लक्षणम्।रक्तपित्तयोः1687 स्ववर्णयोरन्यतमवर्णं शरीरं भजति प्रभेदश्चास्य क्षिप्रमुपलभ्यते गात्राणाम्।
तस्य सुरासंप्रयुक्तेन घृतेनाभ्यङ्गं कुर्यात्। तैलेन च सर्जरसयुक्तेन कवलेन वा सर्पिषा दूर्वामृणालमुस्तमधुकमञ्जिष्ठापद्मकभद्र-दारुक्रमात्(?) न तप्तैर्वधिमे(?) कुघृतैः संयोज्य लेपयेद्गात्राणि। अथवा—पद्मोत्पलकुमुदशृङ्गाटकशैवलबिशानि वेतसेक्षुमानीनां मूलानि सकहूलारसुनिषण्णकानि पेषयेत्। तैरपि कल्कैर्दधिसर्पिः संयुक्तैःप्रलेपयेत्। अथवा—पद्मकोशीरयवचन्दनमञ्जिष्ठाहरि-वेराणि समभागानि दधियुक्तघृतैः संयोज्य लेपयेत्।दात्रा……वा मधुकचन्दनसहाद्राक्षाक्षौद्रोशीरकुमुदोत्पलपृथ्वीकासारिवा-पिष्टहरिवेरतृणशूल्यकालाशीतशिवातिल विषमृणालयवकुमतांश्च1688 सर्वाणि समभागानि दुग्धे पेषयित्वा तेन सघृतेन कल्केन प्रदिग्धगात्ररोगः पैत्तिकः प्रशान्तिमुपगच्छति। जीवकर्षभशर्कराशुकनासामधुकविदारीतुषसा1689रिवाभिःपयसा च घृतं मध्यमपाकं कारयित्वा पाययेत्। सर्पिषा सस्निग्धं मुद्गौदनं भोजनमुपहरेदिति॥
तत्र श्लोकः—
प्रदेहैः शीतलैः स्निग्धैर्मधुरैः पानभोजनैः।
पैत्तिको गात्ररोगस्तु प्रशान्तिमुपगच्छति॥
(इति) पैत्तिकगात्ररोगः॥
असाम्येत्वन्ते मिथ्योपचारान्मधुरस्निग्धभोजनाव्द्यायामाध्वनोरप्रयोगाच्छ्लेष्मा प्रकोपमुपगच्छति। स वारणस्योपसृत्य गात्राणि विष्टभ्य तिष्ठति। ततोऽतत्व(?) गात्राणां कारयेत्॥
अतसीतिलसर्षपमाषविडङ्गानां चूर्णानि सक्तुभिः संयोज्य तैलदधिसुरालवणघृतसौवीरकयुक्तेन सुखोष्णेन गणेन प्रलिप्य गात्राणि, अजगोमहिषाश्वाश्वतरकरिकरभाणां मूत्रपुरीषाणि प्रभूतलवणेन सुस्निग्धानि पाचयेत्।तेनास्य सुखोष्णेन संकरेण बहलेन गात्राणि प्रलेपयेत्। श्लेष्मोपसाध्यय(?) जाङ्गलं पौष्णवीर्यं च संप्रदापयेत्।यवान्नंचैव पिप्पलीश्रृङ्गवेरं सतैलं चूर्णं पाचयेत्। समरिचं भोजयेव्द्याधिप्रशमनं च सपञ्चलवणां मधुमिश्रां पाययेत्॥
तत्र श्लोकः—
तिक्तं च कटुकं चास्मै भक्ष्यं लघु तथैव च।
भोजनं दापयेद्वैद्यः श्लेष्मरोगं(गः) प्रशाम्यति॥
(इति) श्लेष्मजो गात्ररोगः॥
अथ विषमापरगात्रनासामाकर्षणात्सहसातिस्नेहातिरौक्ष्याति…………….. सर्वधातुप्रकोपो1690 भवति। प्रकृत्या चास्य धातवो दोषाश्चान्योन्यमभिवर्धयन्ति। (त)तः सांनिपातिकश्च जायते गात्ररोगः। ततः श्वयथुरत्यर्थं ग्रथितेषु स्थानेषु प्रभिद्यते। असृक्स्रवति प्रभिन्नश्च पुनराध्मायते। पुनश्च सहसैव प्रभिद्यते1691। सर्वधातुलिङ्गानां चात्र संप्लवो दृश्यते। तेनाभिभूतो वारणो दैन्यमत्यर्थं प्राणमांसक्षयं च लभते ततः सांनिपातिकेनाभिभूतस्य चिकित्सितुमुपदेक्ष्यामः। यावदसृक्प्रस्रवति तावत्पित्तशोफोक्तैःप्रदेहैरुपक्रमेत।उपक्रमो नेकृतय(?) योगवसातैलघृतैः सदा गात्रसेकः प्रशस्यते। खदिरकदम्बाश्वकर्णश्लेष्मातककन्द(द)रमलवंशवञ्जुलशिशुविल्लपित्त-गर्दभल्लातकानां पत्रभङ्गान्समानीय महास्थाल्यामावाप्य सलिले पाचयेत्। सहासविषातर्कारीगमूतिकापत्रभङ्गान्गोमूत्रेण निष्क्वाथ्य ततोऽस्य गात्राणां नाडीस्वेदं कुर्यात्। तेनास्य श्वे(स्वे)दसेको गात्राणां कुर्यात् पाठातिविषाहिंस्रावचामधुकलाङ्गलीमूलानि लोध्रलशुनप्रपौण्डरीकशुकनासामञ्जिष्ठाहरीतकीद्विहरिद्रा-प्रियङ्गुतण्डुललवणकिण्वातसी…………………….1692……….त्यर्थं क्षीरं चास्य सर्पिस्तैलाभ्यां संयुक्तं नित्यमेव पानम्। प्रणश्यतोऽनेनास्य गात्रस्तम्भवेपथू(नश्यति1693) भोजनं चास्मै रक्तशालीनां जाङ्गल रसविदधां दापयेदिति॥
तत्र श्लोकौ भवतः—
इति दोषसमुत्थानां कीर्तिता भेषजक्रिया।
चतुर्णां गात्ररोगाणामुत्पत्तिश्च सलक्षणा॥
स (य) एतान्साधयेद्वेद्यौगात्ररोगान्यथाविधि।
स पूज्यः सततं राज्ञा दानमानपरिग्रहैः॥
इति सांनिपातिकः॥
इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने
गात्ररोगो नाम सप्ततितमोऽध्यायः॥७०॥
——————
अथैकसप्ततिमोऽध्यायः।
———————
अथाङ्गपतिरवहितमनाः समासीनमग्निकल्पमुवाच पालकाप्यम्—“भगवन्, वनेष्वधिकबलसत्त्वगुणयुक्ता दन्तिनः” इत्येव-मवन(ग)तोऽस्मि। तत्र तेषां विहसान्रणगमनै रोगमुपलक्षयेद्गात्राणाम्। स कथमुत्पद्यते व्याधिः। कतिविधाबाधः, कति सङ्गाः, कतिविधं चिकित्सितम्, कथं च भग्नव्या(?)वेवति1694 विच्युतिविश्लिष्टपरिस्रस्तानि जानीयात्। इति। कश्चित्सद्युत उत्पद्यते, कश्चित्तलेन, कश्चित्प्रोहे, कश्चिदपस्कारेण, कश्चिदुरसा, कश्चिदंसे, कश्चित्सर्वदुःखिता,(?) इति। तेषां तत्त्वतो ज्ञानं साध्ययाप्यप्रत्याख्येयोष्णशीतोपक्रमोपक्रमणीयांश्च व्याधीन्यदि1695सतपत्तिठो1696 (?)हिमकरचरणनयनाविष्ठाता(?)इत्युक्तं भगवता(?)।
अथ विनयादवनतशिरसमङ्गराजमवेक्ष्य पालकाप्योऽब्रवीत्—दन्तिनां खलु महाराज द्विविधो गात्ररोगो भवति—आगन्तुर्देहज-श्चेति*1697। षडाबाधोद्विप्रतिक्रियश्च। कफपवनपित्तसंनिपातात्मको देहजः पूर्वमेवोक्तः1698। तत्राऽऽगन्तोर्लक्षणमुपदेक्ष्यामः। स द्वादशविधोत्प(त्तिरिति1699 य)दुक्तम्, तद्वक्ष्यामः। पतन1700भ्रंशनस्खलनविनिखातवधबन्धनाभिघातप्ररोषप्लवनलङ्घनगुरुहरणभारोद्वहनदुःस्थानशयनानीति। तत्र गिरिकूलोच्च-पातोविषमगमनात्प1701तनम्। पिच्छिलशिथिलपातनाद्भ्रंशनम्। स्थाण्वश्मल्पेष्टाविषयान्धकपानास्त्वेवम्(?)। विनिखातनं विभ्रान्तगमनात्।गुर्वतिमात्रचिरप्राप्तवस्वनाद्वधबन्धनापत्तिः। प्रतिगजविषाणास्यध्वनमखलम्(?)मधुध्वा शरशक्त्यृष्टितोमरप्राजनादभिघातापत्तिः। प्ररोषो द्विविधः—कर्माध्वगमनं चेति। तत्राभि(गमनप्रति1702)गमनादपकर्षणयोगान्नाम साधूपक्रमाङ्गो मूत्रमण्डलानुकारवीथीनां चातिमात्रगमना-दखिलचरणदेशेष्ववसी(सा)दनाच्च कर्मप्ररोधापत्तिर्भवति। ……शतिमात्रादध्वगमनापत्तिः। दानाध्वप्ररोषापत्तिः। गात्राणां युगपदुत्पतनं प्लवनम्। ममिल(?)विज्ञेयमेकैकशो लङ्घनम्। वारिपरिखासंक्रमणादिभिर्वृक्षप्राकारकपाटस्तम्भाभिघातादेवादाम्लरिनागमर्दनाद्भित्ति-प्रभृतीनां मर्दनम्।गुरुहरणानाम्1703………अतिप्रमाण(भारवतेव संविहता1699) भारोद्वहनम्।विषमेऽश्मस्थाणुसंबाधाद्दुःस्थानशयनम्। आपत्तिर्हेतुरुत्पत्तिरित्यनर्थान्तरम्॥
षडाबाध इति यदुक्तं, तदनुव्याख्यास्यामः—आधावनमेतद्भव्याविधविच्युतपरिम्लानविशेषसङ्गाः1704 (?)॥
गात्रसङ्गो द्विविधोऽभिविज्ञेयः संधावसंधौ वा। तत्र संधिगो1705द्विधा—निर्भुग्नः सवृत्तश्चेति। एवमन्यत्रापि। तत्र निर्भुग्ने मत्तियेर्वसश्चासपर्वतेसद्भे1706 (?)संहरणगमननिर्वन्ति1707र्मरणं च। मपि(?)रक्तपवनसंध्यावेधो द्विविधो वाभ्यङ्गोत्तरश्च1708। व्यवपि(?)रक्तपर्वसंभवं द्विविधमभिज्ञेयम्। तत्र रक्तमन्त्रस्खलनात्मकं भवति।पतन1709प्रभ्रंशनप्लवनविहरणानामेकम्।तस्य खलु लक्षणानि श्वयथुवेदनादाहपरि-शोषदौर्मनस्यानि। रक्तजेस्तम्भगतिवेदनावैकल्यानि1710।यव्योपरिम्लानं नाम प्रवृद्धे वा शस्त्रकर्मणि वा सिरा यदाविच्छिन्नास्यादोपतं मा(?)शोणितमावहति गात्रेषु, तदा शोणितक्षयाद्वायुर्गात्राणि शोषयतीति तं गात्रम्लानं विद्यात्। विश्लेषणं नाम विशिष्टं नामास्यामसंवरणसंधावोत्पद्यते॥सङ्गाइति यदुक्तम्, तद्वक्ष्यामः—संभवति सर्वगात्रेण चेति। पाषाणशर्करोपमर्दनवप्राक्रमणवशादि1711स्फोटनशैथिल्यशूलसङ्गो1712 भवति। तत्रोद्घृष्टदग्ध1713स्फुटितशिथिलतलविप्रकीर्णप्रविरलगतिरलसः कर्कट वद्गतिं भजते। प्राप्य चाश्मलोष्टशरधानवतींमहीं मन्दगतिरगतिर्वा भवति। शर्करोन्मथिततनविन1714तसंधिपार्ष्णि1715पुरोनखान्तर्नखतलपर्यन्तगतिर्भवतीति तलसङ्गः। प्रस्तब्धप्रोहहरणं कृच्छ्रादवनमनं वा1716तस्य प्रोहस्येति प्रोहसङ्गः। अपस्कारकक्षविक्षोभस्तम्भः कृच्छादुपवेशनमनुपवेशनं वा निहरणगमनमित्यपस्कार-सङ्गः। उरोन्तर्मणिविक्षोभावशेषोत्सङ्गगुहाभागप्रत्यङ्गानामंसदेशानामुद्धरणं गमनप्रवेशनं च स्यादित्युरःसङ्गलक्षणम्। प्रत्यङ्ग-सांकर्यमुखशिरःशिरोधराणां कृच्छ्रादुद्वहनमित्यंससङ्गः। सर्वलिङ्गं दर्शयन्तो(तः) सर्वसङ्ग इति। सर्वसङ्गे सर्वश्वयथुर्वदनस्तम्भगति-वैकल्यानि नियतानि भवन्ति। स च त्रिविधः—साध्यो याप्यः प्रत्याख्येयश्चेति। तत्र निर्भुग्नजः सर्व.….सर्वापर्वभङ्ग-स्वमध्यव्याधेर्बद्धन1717परिग्ला……..संवत्सरोपलक्षणाद्याप्यानि1718 भवन्ति। शेषाश्च भिषक्सात्म्यौषधकालसंपदा सिध्यन्ति।सीष्टाव(?)-द्विविधा प्रतिक्रिया तस्य च॥
** **तत्र श्लोकः—
इत्युद्दिष्टः समुद्देशः षडाबाधे यथाक्रमः।
चिकित्सितमप(त)स्तस्य विस्तरेण प्रवक्ष्यते॥
अथाऽऽसनस्थं महर्षिमभिवाद्याङ्गउवाच रोमपादो भगवान्—‘यदुक्तं भगवता आगन्तोर्गात्ररोगस्य महाबाधस्य लक्षणम्, तच्छ्रुत्वा महन्मे विकल्पं मनसः। संवृत्तस्य चिकित्सितमुपदेष्टुमर्हसि भगवन्’ इति॥
अथोवाच पालकाप्यः—उक्तं मया स्वादेहसमु(त्थ)स्योत्पत्तिर्लक्षणं चिकित्सितं च प्राणवर्तोर्लक्षणं च। आगन्तोरिदानीं चिकित्सितं वक्ष्यामः।तस्याङ्गानि बहुशः पानीयेन शीतेन सेचयेत्।कुट्यां1719 च रक्तमृत्तिकयालिप्यते। ततःसुरसार्जुने कदम्बकेसरकेतकसप्तच्छदबाणासननीपकुटजपुंनागतिलकाम्रातकपाटलकुवर(रुव)काङ्कोल्लधवधन्व1720नरक्तोत्पलकहूलारसौगन्धिककुमुदैर्विप्रकीर्णभूमिभागारथैश्च1721 (?) पुष्पजातिभिरार्तवैर्यथोपपथ्याशोभितसाध्या गावः(?)कृत्वा परिषेकमस्य शीतलेन वारिणा(द्वि)पस्यावकारयेत्। ततो गुन्द्रामूलकोमरुक्षीरेण पेषयेत्1434।……त्वाघृतैरवैश्च1722 पुष्पन्मथ्य(?)कारयेत्। प्रलेपं प्लक्षन्यग्रोधाश्वत्थोदुम्बरमधूकरजोहनार्जुनकदम्बत्वग्भिः1723 क्षीरपिष्टाभिः प्रलेपयेद्गात्राणि।नलव1724ञ्जुलवेतसेक्षुमालिनां1725 मूलानि यवतिलकसेरुककल्कमिश्राणि सर्पिःक्षीरेण संयोज्य गात्राणां लेपनं कुर्यात्। कुमुदोत्पलपद्मबिशमृणालशृङ्गाटककसेरुकाकल्कपिष्टाः क्षीरघृतसंयुक्ताः प्रलेपः। यवतिलचूर्णानि पद्मककसेरुककल्कमिश्राणि घृतेन पयसा वाऽऽलोड्य गात्रलेपं कुर्यात्। यवगोधूमतिलचूर्णानि पद्मककसेरुकमिश्राणि श्लक्ष्णपिष्टानि घृतसंयुक्तप्रलेपः। पोटगलगुन्द्राणां मूलानि, इक्षुवालिकानां (?)बस्तमूत्रयुतानि पिष्ट्वाक्षीरेण घृतेन च लेपं गात्राणां कुर्यात्। ततश्च प्रदेहान्यथाक्रमं युञ्जीत। अनेन प्रयोगेणाऽऽगन्तुर्गात्ररोगः प्रशान्तिमुपगच्छति। अथ बलातिबलयोःपलशतं तोयविंशतिप्रस्थे जर्जरीकृत्य प्रक्षालितं तच्चपादावशिष्टमवस्थापितं1726 समवर्तितनिष्क्वाथं कृत्वाऽवतारयेत्।पयसश्चत्वारः प्रस्था यष्टिमधुकदेवदारूणां द्विपलं पेष्यमधिश्रयेत्। तत्र तैः पञ्चतैलप्रस्थान्समालोड्य साधयेत्। सिद्धमप्रतिस्राव्यावतार्याभ्यङ्गपाननस्तकर्मसु प्रयोजयेत्। तथैनं यवबदरसंयुक्तं सशर्करं शीतलं सपानं पाययेत्। ततश्चैनं शतधौतेन घृतेनाभ्यज्य चन्दनोशीरसारिवाहरिवेरपद्मकमधूकप्रपौण्डरीकफलैः सघृतैरेभिःप्रलेपयेद्गात्राणि। अजावराहमहिषगोमेदांसि कुक्कुटीशिशुमाराद्यैः1727सह विपाचयेत्।गात्राणि चास्याभ्यञ्जयेत्। एतद्भग्नविच्युतचलितं विशिष्टानां चलिसंधानं भवति। काकोलीक्षीरकाकोलीजीवकर्षभर्धिमुद्गपर्णीसारिवानन्तामेदामहामेदायष्टीमधुकससादनत्वग्भिः क्षीरं विपाच्य शीतीभूतं शर्करायुक्तं पाययेत्। सर्पिषा वाऽस्याभ्यञ्जयेद्गात्राणि। अहिंस्राजम्बूत्वचं चूर्णीकृत्य यवकुल्माषनि(मि)श्रेण येनेमे……साऽप्यपाचयित्वा शीतलेन गात्राणि लेपयेत्। बिसमृणालशृङ्गाटककसेरुकाभिः कल्कपिष्टाभिर्घृतसंयुक्ताभिर्गात्राणि1728 प्रलेपयेत्। शाकोदुम्बराणां त्वचं मतवेतस(?)मूले पयसा च सिद्धामवतारयेत्। एतदभ्यङ्गपानबस्तिनस्यकर्मसूपयोजयेत्। तथाऽऽसांगोमहिषाजावीनां1729 मूत्रपुरीषाणि दधिघृतदुग्धैः संयोज्य क्वाथयेत्। तत्र वापे वाल्ली(हूली)कमानीय1730 पत्राणि यवतिलपिष्टलवणानि पाचयित्वा (तेनास्य1731 सुखोष्णेन संकरेण गात्राणि प्रस्वेदयेत्। ततोऽस्य गात्राणां मार्दवमुपजायते।व्याधिश्च नश्यति। प्लवका दशवारेण घृतेन भोजयित्वा) रसमधुपानं दद्यात्।एतदेव तु दानस्रुतवयःक्षीणनिर्यातव्रणशोषिणां गात्ररोगाविसृतानां मोदय(?)मेतेनैव सर्वे शाम्यन्ति।बलवीर्याणि……वतिप्रमुच्यते॥
तत्र श्लोकः —
इत्यागन्तोः क्रियाः प्रोक्ता मया पार्थिवसत्तम।
गात्ररोगस्य नागानां यथावदनुपूर्वशः॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने,
आगन्तुगात्ररोगो नामैकसप्ततितमोऽध्यायः॥७१॥
<MISSING_FIG href="../../../books_images/U-IMG-1707543969021001-removebg-preview.png"/>
अथ द्वासप्ततितमोऽध्यायः।
________
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति।
गात्ररोगाः कतिविधा दन्तिनां संप्रकीर्तिताः॥
विज्ञानं च कथं तेषां किंचतेषां चिकित्सितम्।
तन्मे त्वं पृच्छतो ब्रूहि गात्ररोगान्पृथग्विधान्।
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत्॥
**रूपतः षोडशविधा गात्ररोगा हि दन्तिनाम्।
स्तब्धं निपातं1732निष्पिष्टं1733 **‡विहित1734माहतं तथा॥
शूनं सङ्कुचितं भग्नं ग्लान1735मावे1736क्षितं1737 च यत्।
निर्वेष्टितं च विज्ञेयं मोटितं मथितं तथा॥
एकाङ्गशोफ1738मपृष्टछिन्नं1739विच्युत1740मेव च।
इति षोडश संस्थाना दन्तिनां गात्रसंश्रयाः॥
व्याधयस्ते समुद्दिष्टाः शृणु विस्तरलक्षणम्।
तत्राऽऽदौ स्तब्धगात्रस्य लक्षणं संप्रवक्ष्यते॥
________________________________________________________________
‡.‘विनतम्’ इति युक्तम् ‘विनतस्य चिकित्सितम्’ इत्यग्रिमग्रन्थानुरोधात्।

यतो निमित्तंमातङ्गश्चरणस्तम्भमृच्छति।
विषमस्थानशयनादजीव्य1741व्यसनादपि॥
गुरुबन्धप्रयोगाद्वा लङ्घनप्लवनादपि।
स्तब्धो भवति गात्रेषु ततस्तिष्ठति वारणः॥
गात्रेणापरया वाऽपि तेनातीव च दुर्मनाः।
तिष्ठत्यालानमाश्रित्य न च पादेन तिष्ठति॥
इति स्तब्धं समुद्दिष्टं चिकित्सा तस्य वक्ष्यते।
सेचनं सर्वगात्राणां तस्य तैलेन कारयेत्॥
ततः कुर्यादिमं सम्यग्विधिं शास्त्रविनिश्चितम्।
तस्यायोगुडतप्तेनजलेन परिषेचनम्॥
कम्बलावृतगात्रस्य कारयेत्सततं भिषक्।
अथवा शिग्रुवेणूनामुरुबूकार्कयोरपि॥
वासन्त्याः शीतकल्पस्य तर्कार्याः सुरसस्य च।
भङ्गानादाय विधिवत्स्थाल्पामाधाय पाचयेत्॥
अथास्याः कारयेन्नाडीं यथा संप्रति सिद्धये।
मध्ये वितस्तिविस्तीर्णा मूले चारत्रिनिर्मिता॥
मुखे षडङ्गुला कार्या नाडी तस्या महीपते।
………नाहतसंस्थानवृत्ता गोपुच्छसंस्थिता॥
तथा स्वम्यक्तगात्रस्य निवातस्थस्य दन्तिनः।
हस्तैश्चापि भवेत्कार्यं सर्वतः परिमर्दनम्।
कुटजस्याग्रिमन्थस्य मेषशृङ्गीकपित्थयोः॥
वरुणभूधककस्यपत्राण्यारग्वधस्य च।
आनु(ढ)कीं सप्तपर्णं च तथा सैरेयकावुभौ॥
स्थाल्यामाधाय कर्तव्यो नाडीश्वे(स्वे)दः पुनः पुनः।
श्वि(स्वि)न्नस्यच भवेत्कार्यं मर्दनं लगुडाध्वनैः(?)॥
अयमन्यो विधिः कार्यो राजन्मार्दवकारणम्।
महिषस्य वराहस्य मार्जाराणां गवामपि॥
स्वरोष्ट्राणां च मांसानि ग्राह्वाण्यस्थीनि चाप्यथ।
छेदयित्वा ततस्तानि नाडीस्वेदं प्रकल्पयेत्॥
यथोक्तेनैव विधिना मर्दनं तस्य कारयेत्।
कुलत्थानाढकीबीजं बदराणि यवांस्तिलान्॥
पयसा पञ्चमूलं1742 च स्थाल्यामाधाय पाचयेत्।
ततोऽस्य कारयेत्स्वेदं नाड्यैव सततं भिषक्॥
स्विन्नस्य च पुनः कार्यं मर्दनं पूर्वकीर्तितम्।
न चेदनेन विधिना गात्रं गच्छति मार्दवम्॥
ततोऽस्य विधिवत्कार्यः फालस्वेदो ह्यनन्तरः।
समीपे तस्य नागस्य कर्म(र्मा)रावेस(श)नं भवेत्॥
(ततो1743ऽस्य पातयेत्फालानग्निवर्णान्भिषक्तथा।
पटावनद्धगात्रस्य तथा स्निग्धस्य दन्तिनः॥
तिलसर्षपचूर्णैश्च यवैश्चाऽऽलेपनं भवेत्)।
ततः संचारयेत्फालं यथायोगं विचक्षणः॥
स्विन्नेच विधिवत्कार्यं मर्दनं तस्य हस्तिनः।
भवेन्न चेत्प्रकृतिमान्पुनस्तस्य समाचरेत्॥
विधिव्यस्तस्य गात्राणां स्तनानां च निवर्तनम्।
स(श)णवीर्या(जा)र्कयोर्मूलमतसीसर्षपानपि॥
तिलानि बीजनिचये यवान्कृष्णा च मृत्तिका।
सम्यक्क्षीरेण सिद्धेन सुखोष्णेनाथ सर्वशः।
कल्केनैतेन नागस्य पिण्डस्वेदं प्रकल्पयेत्॥
स्विन्नस्य च पुनः कार्यं मुहूर्तमवगाहनम्।
सलिलेनैव नागानां पुनश्चोत्तार्य कारयेत्॥
एष एवं विधिः कार्यः पिण्डस्वेदे यथाक्रमम्।
मर्दनं चास्य पूर्वोक्तं नाडीस्वेदं च कारयेत्॥
अपमन्यो विधिः कार्यः स्तब्धगात्रेषु हस्तिनः।
प्रसुप्ते येन गात्राणां सर्वतो1744ऽप्युपशाम्यति॥
देवदारु हरिद्रां च सह दारुहरिद्रया।
कुष्ठं रास्नांच कालां च सरलं च पुनर्नवा॥
एवं संभृत्य संभारं पिण्डस्वेदं प्रकल्पयेत्।
पूर्वोक्तेनविधानेन मर्दनं च विचक्षणः1745॥
निवातस्थस्य चाभ्यङ्गं मर्दनं1746 तत्र कारयेत्।
सर्वस्वेदेन नागस्य स्विन्नस्यैव विगाहनम्॥
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा।
स्नेहाभ्यङ्गःप्रयोक्तव्यः पृथक्स्विन्नेषु दन्तिनाम्॥
अथवैतेन कल्पेन विशेषो नोपलभ्यते।
अथैनं स्नेहयेत्सम्यगेतेन विधिना भिषक्॥
यवकोलकुलत्थानां निक्वाथं साधु कारयेत्।
प्रक्षिपेदुच्चकैस्तेन निक्वाथे पञ्चमूलयोः॥
तत्र तैलं समाश्रित्य ततो मृद्वग्निना पचेत्।
पच्यमाने ततस्तस्मिन्निमंगर्भं प्रदापयेत्॥
अनन्ताचन्दनोशीरमशोकं सारिवा घृतम्।
तथा च क्षीरकाकोली जीवकर्षभकावुभौ॥
काकोली मधुकं रास्रांसरलं देवदारु च।
हरेणुकं छिन्नरुहां बलां चात्र प्रदापयेत्॥
तं स्नेहं पाययेन्नागं भक्तं वा स्नेहसंमितम्।
एतेन स्निग्धकोष्ठस्य भवेन्मार्दवलाघवम्॥
गात्राणामुरसञ्चास्य प्रमा(सा)दश्चोपलभ्यते।
_______
विश्रान्तगमनं गात्रं हस्तिनः संनिहन्यते॥
वेदना शूनभावश्च1747 तस्य संधिषु लभ्यते।
न च तिष्ठति गात्राणां न च वेल्लयति द्विपः।
एवं तस्य तु लिङ्गानि अत ऊर्ध्वं चिकित्सितम्॥
सेचनं घृतमिश्रेण पानमस्य महीपते।
________
अथो1748निपिष्टगात्रस्य लक्षणं संप्रचक्षते।
यतो निमित्तं गात्रेषु गजः स्तम्भमवाप्नुयात्॥
सहसाऽतिप्रसक्तं च योऽध्वानं नीयते गजः।
रूपाण्यभिद्रवति वा योऽतिक्रुद्धो मतङ्गजः॥
संनिपिनष्टि1749 सहसा भूमौ गात्राणि वारणः॥
तस्य निषेवणाद्गात्रेरुधिरं संप्रदुष्यति।
श्वयथुस्तस्य गात्रेषु वेदना चोपजायते॥
मोहयोः पादपार्श्वेषुपश्चात्पादतलेषु च।
प्राहुस्तंविनिपिष्टं तु गात्ररोगं चिकित्सकाः॥
सेचनं पूर्वगात्राणां सर्पिषातस्य कारयेत्।
(गम्भीर1743सलीले चैनं नागं तमवगाहयेत्।
उत्तीर्य च ततस्तस्य घृतमिश्रैश्चसक्तुभिः।
प्रलेपं सर्वगात्राणां तलानां चैव कारयेत्)॥
एवं मृत्तिका (क)पा चास्य कार्यं शीतलपा नृप।
कुक्कुटीशिश्शुमाराणामण्डान्याहृत्य शास्त्रवित्॥
सुरां चिरस्थितां चास्मै दद्यात्फाणितसंयुताम्।
अपरेद्युःपर्युषितां वारुणीं च महीपते॥
अतः प्रलेपः शीतोऽयं गात्राणां पूजितो भवेत्।
कुक्कुटीशिशु1750माराणामण्डान्याहृत्य शास्त्रवित्॥
मञ्जिष्ठां चैव मृद्वीकां पेषयेत्सह सर्पिषा।
तेनास्य लेपं गात्राणां बहलेन समाचरेत्॥
पानं चैव यथायोगं पाययेत विचक्षणः।
विनिपिष्टस्य विज्ञानं चिकित्सा च प्रकीर्तिता॥
________
अथ त (य)स्यभवेद्गात्रंचिन्तितं1751 वारणस्य च।
तस्योत्पत्ति निदानं च चिकित्सा च प्रवक्ष्यते1752॥
स्खलनैर्भ्रंशनैर्वध्यैः (र्वेेधैः)पत नैर्लङ्घनैरपि।
प्रास्तं प्रत्यस्तमत्यस्तं सहसा निघ्नतोऽपि च॥
क्रौञ्चर्यञ्चापि (१) सहसा परिणीतस्य दन्तिनः।
व्यस्तं वा सहसा वध्यं गात्रेणाभिन्नतस्तथा॥
तरणाद्वाऽपि सलिले शिरास्त्राय्वभिघाततः।
प्रस्तम्भितंततो गात्रं सरुजं दन्तिनो भवेत्॥
_______________________________________________________________________________
†‘विनतां’ इति युक्तम् ‘विनतस्य’ इत्यग्रिमग्रन्थानुरोधात्। ‘विहितं’ इति तु प्रागुपलभ्यते।

प्रस्तब्धं श्वयथुश्चास्य वारणस्याऽऽशु जायते।
कुल्माष1753तिलकिण्वानि क्षीरेण सह पेषयेत्1434॥
कृतस्वेदे च कर्तव्यः प्रलेपो घृतसंयुतः।
पाचयेद्घृतसंसृष्टं चक्रतैलं मतङ्गजः॥
हस्तेन तस्य गात्राणां मर्द्वनं चापि कारयेत्।
क्रमव्यायामवृद्धिं च विनतस्यचिकित्सितम्॥
________
आहतस्यापि वक्ष्यामि चिकित्सां लक्षणानि च।
यथानिमित्तं मातङ्गश्चरणस्तम्भमृच्छति॥
मिथ्या च सहसा चैव यो गजः परिणीयते।
ततस्तस्य भवेद्गात्रं श्रमणात्सरुजं भृशम्॥
स गच्छति समुत्प्लुत्य गात्रमुद्गाम्यवा नृप।
सहसा जायते चास्य श्वयथुर्गात्रसंधिषु॥
सेचनं सर्वगात्राणां तस्य तैलेन कारयेत्।
मुखोष्णेन भवेच्चास्य निवृत्तिस्तस्य कर्मणाम्॥
तर्कार्यां उरुबूकाणां शिग्रो रक्तस्य कारयेत्।
कण्टकारिकयोश्चैव कपित्थस्य तथैव च॥
पत्रभङ्गान्समादाय निक्वाथ्य पञ्चमूलयोः।
नाडीस्वेदं यथाप्रोक्तं सस्नेहं चैव मर्दनम्॥
यवचूर्णं च किण्वं च तथा कृष्णां च मृत्तिकाम्।
अजाकरीषं क्षीरेण सर्पिषा च प्रयोजयेत्॥
तेन स्विन्नानि गात्राणि बहलेन प्रलेपयेत्।
तैलयुक्तमजाक्षीरं पानार्थं च प्रदापयेत्॥
मूत्रं वेणिकया चास्यगात्रयोर्वेष्ट्य बन्धयेत्।
विसृष्टे च ततः कार्यं सेचनं मर्दनानि च॥
_______
(गात्रं1754 यस्य भवेच्छूनमपरा वाऽपि दन्तिनः॥
तस्य लिङ्गानि वक्ष्यामि चिकित्सां च यथाक्रमम्॥
बलाबलमविज्ञाय सहसा यः प्रमुह्यति॥)
प्ररोधात्तस्य गात्रेषु कफो वा तस्य कुप्यति॥
तत्र कोपाच्चशुष्यन्ति सिरा गात्रसमाश्रिताः॥
ततः प्रस्तब्धचरणस्तेन गात्रोऽवतिष्ठते॥
न च स्थाने न शय्यायां वारणो लभते सुखम्॥
सुखोष्णेनाथ तैलेन सेचनं तस्य कारयेत्॥
नाडीस्वेदं यथाप्रोक्तं सुस्विन्नस्यापि मर्दनम्॥
जलयुक्तमथो तैलं पानार्थं तस्य युज्यते॥
शिग्रुंवंशपलाशं च निम्बस्य कुटजस्य च॥
हस्तिकर्णपलाशानि किणिहीं1755 चैव पाययेत्॥
नाडीस्वेदो यथा प्रोक्तः स्विन्नस्य च विमर्दनम्॥
त्वग्भिश्चापि तथा970 कार्यः1756 प्रलेपो घृतसंयुतः॥
प्रक्षीणबलमांसो वा मदक्षीणो मतङ्गजः॥
जायते स यदा भूयः स गजो नैव कार्यते॥
तूर्णमध्वप्रयोगं वा लङ्घनप्लवनानि च॥
आयुर्वध्1757यामत्तकासी1758 गोमूत्रं1759 मण्डलानि च॥
वंशोत्थापनकल्पं च तोयाद्याहरणानि च॥
_________
त(प)स्य कुप्यति भूयिष्ठं पवनो गात्रसंधिषु॥
संकुच्यते तथा गात्रं वातेनाभ्युक्ष्यतेऽपि वा॥
प्रोहापस्कारदेहेषु पुनरष्ठीव्ययोरपि॥
कुचित्य(त)मुग्रमाहुस्तं गात्ररोगं तु दन्तिनाम्॥
सेचयेत्तस्य गात्राणि तैलेन वसयातथा॥
कारयेतसुखोष्णेन सप्तरात्रमतन्द्रितः॥
आरग्वधं सप्तपर्णमाढकीदीर्घवृन्तकौ॥
कर्णिकारोत्तरू1760………………॥
_____
……………सं स्थाल्यामाधाय पाचयेत्॥
नाडीस्वेदं ततः कुर्याद्यथावच्च विमर्दनम्॥
तिलसर्षपचूर्णेन लेपनं तस्य कारयेत्॥
अजावराहवसयासह तैलेन घृतेन च॥
वेसवारकृतं मांसं दद्यात्सद्यः1761सुदाहृतम्1762॥
न संहरति गात्राणि न चवेल्लयति द्विपः॥
प्रलेपं तस्य गात्राणां बहलेन समाचरेत्॥
अथैनं पाययेत्पानं यथायोगं भिषग्वरः॥
ततो विरिक्तं विज्ञाय बृंहणीयैरुपाचरेत्॥
संजातमांसं मातङ्गं क्रमात्कर्माणि कारयेत्॥
सन्नेगात्रेऽपरायां वा कुर्याद्भग्नचिकित्सितम्॥
________
अथ त(य)स्य भवेन्म्लानं गात्रं वा यदिवापरम्।
तस्योत्पत्तिंप्रवक्ष्यामि सनिदानं चिकित्सितम्॥
संग्रामे वा प्रहारैस्तु शस्त्रकर्मणि वा तथा॥
शिरा रक्तवहा भिन्नाबहु मुञ्चति शोणितम्॥
ततः कुप्यति गात्रेषु पवनः शोणितक्षयात्॥
स शोषयति गात्राणि सङ्गं चास्प निपच्छति॥
तस्य कुर्यादिदं कल्पं निखिलं गात्रशोषिणाम्1763॥
सेचयेत्तस्य गात्राणि सर्पिषोष्णेन दन्तिनः॥
निचुलं फलकल्कं च जलजम्बूस्तथैव च॥
सघृतं पयसा मिश्रं मलेपं तस्य कारयेत्॥
विधिना च यथोक्तेन स्वेदनं तस्य हस्तिनः॥
अस्थिस्वेदं च निखिलं फालस्वेदं च कारयेत्॥
मांसनियूर्हपक्वंच तैलं चास्मै प्रदापयेत्॥
सर्पिः क्षीरं वसां चैव विधिना संप्रदापयेत्॥
म्लानं संवत्सरोत्सृष्टं व्यावेधश्च न सिध्यति॥
इत्यब्रवीत्पालकाप्यो म्लानं1764 गात्रं चिकित्सितम्॥
यस्तु निर्वेष्टितं1765 कुर्यादावेष्टितमंथापि वा॥
________
गात्रं तस्य समुत्पत्तिर्निदानं च प्रवक्ष्यते।
कर्दमं वालुकां चापि सेवते यदि वारणः॥
गात्रान्तरश्च सहसा पदा तु परिणीयते।
भौमकर्मणि वा राजन्गुरुवंछादिसंयुतम्॥
पदाऽपनीतः सहसा वारणः परिणीयते।
अतिमात्रं निबद्धं वा यातारः कर्मणे यदि॥
नियोजयन्ति सहसा मिथ्यायोगादयं1766 (?) हितम्।
तस्य कुप्यति गात्रेषु मारुतः संनिरोधनात्॥
आवेष्ट्यते ततो गात्रं ततो निर्वेष्ट्यतेऽपि वा।
सेचनं घृततैलाभ्यां सततं तस्य कारयेत्॥
(नाडी1767स्वेदश्च कर्तव्यः कल्पेनैतेन दन्तिनः।
तुलसीं मुरसां बिल्वमर्कमारग्वधं तथा॥
श्योनाकं चाग्निमन्थं च स्थाल्यामाधाय पाचयेत्।)
नाडीस्वेदं ततः कुर्यात्तैलाभ्पक्तस्य दन्तिनः॥
निर्भुग्नस्य च कर्तव्यं(:)प्रलेपं(:)तस्य हस्तिनः।
निर्वेष्टितस्य कर्तव्यं सम्यगावेष्टनं भवेत्॥
निर्वेष्टयेत्तथाऽप्येनमनेन विधिना भिषक्।
अभ्यक्तं1768 स्वेदयेत्स्विन्ने सम्यगालेपयेद्भिषक्॥
प्रलिप्तं वेष्टये… यदु(द्वे)ष्टितवेष्टितम्।
……………………लान्नयेत्1769॥
न चेत्प्रकृतिमाप्रोति तथोत्तरमथाऽऽचरेत्।
इमं1770 कृत्स्नं विधिं कुर्याद्येन लाघवमाप्नुयात्॥
यथा च स्विन्नगात्रस्य स्नेहपतिस्य दन्तिनः।
पत्नेऽवस्थाप्य कुर्याच्चतस्य गात्रोपवेष्टनम्॥
ततस्तं पलिहस्तस्प मध्ये यत्नेन वेष्टयेत्।
यथायोगं ततः कुर्यात्तेन यन्त्रेण वारणम्॥
सर्पिस्तैलं वसां चैव तं द्विपं प्रति पाययेत्।
स्निग्धं विर(रि)क्तंविज्ञाय बृंहणीयैरुपाचरेत्॥
_________
सहसा वाऽपि पतनाद्व्यथनात्प्रतिहस्तिनाम्।
यदा संभिद्यते गात्रं भिद्यते ममवतिपि1771 (?)।
वामाङ्कु(?)र्मोटना1772………व्याधिर्नराधिप॥
वेदना श्वयथुः स्तम्भो गात्रे तीव्रा च वेदना।
तस्यवक्ष्याम्यशेषेण निखिलं भैषजं विधिम्॥
भग्नमात्रस्य यत्प्रोक्तं साधनं भक्तसंविधौ।
तत्कार्यं मोटनस्यापि व्रणवच्च तमाचरेत्॥
_________
अथ वोन्मथितं गात्रमपरा वाऽपि लक्ष्यते।
तस्योत्पत्तिर्निदानं च चिकित्सा च प्रवक्ष्यते॥
सहसा वा प्रसक्तौ1773वा यदा वाह्येत1774 वारणः।
गात्रापरं श्रामयति सहसा विषमस्थितः॥
कर्दमे वालुकायांवा संरब्धो वा न सीदति।
तरतो वा प्रसङ्गेन सलिलेऽत्यर्थयोगतः॥
अथवा गुरुसंरब्धः सहसा परिधावति।
वृक्षप्राकारपरिघान्स1775हसा वा प्रमर्दतः॥
ततोऽस्य कुपितो वायू रक्तमादाय तिष्ठति।
करोति गतिवैकल्यंचरणस्तम्भमेव च॥
श्वयथुं तस्य गात्रेषु मनस्तापं च दन्तिनः।
इत्येतद्द्विविधं प्रोक्तं लिङ्गमुन्मथितस्य च॥
सर्पिषा सेचनं तस्य सततं कारयेद्भिषक्।
प्रलेपं शीतलं तस्य क्षीरवृक्षैः समाचरेत्॥
वेतसस्य च मूलानि वटस्याथ नलस्यच।
कसेरुकं समञ्जिष्ठं नलदं तर्पणं तथा॥
श्लक्ष्णपिष्टैः समैरेभिः प्रलेपं तस्य कारयेत्।
त्रिरात्रं पञ्चरात्रं वा ततः संपद्यते सुखी॥
________
अजाक्षीरं वसांमज्जां घृतेन सह संसृजेत्।
ततोऽस्य सेचयेद्गात्रमनेन विधिना भिषक्॥
मूलान्युत्पलजम्बूनां करवीरोत्पलानि च।
सघृतं मृत्तिकामिश्रं प्रलेपं तस्य कारयेत्॥
शीतेनानेन कल्केन विहितं चानुलेपनम्।
यावदूष्मप्रशमनं श्वयथोश्च निवर्तनम्।
स्वेदनं मर्दनं चैव प्रथमं यत्तु कीर्तितम्॥
स्तब्धगात्रे हि तदपि निरूष्मण्युपपादयेत्।
विविक्तं सततं स्थानं व्यायामं च विसर्जयेत्॥
सर्पिः क्षीरं च पानार्थे यथोक्तं च प्रलेपने1776।
__________
सहसा दन्तिनोऽङ्गेषु यदा कुप्यति मारुतः॥
ततः पित्तादयो दोषा दुष्यन्ति पवनाहताः।
स्वस्थस्यास्यतु गात्रेषु श्वयथुंजनयन्ति ते॥
समागच्छति चैतेन विषमं वाऽपि वर्धते।
न सुखं लभते स्थाने न शय्यामभिनन्दति॥
तमाहुर्वारणं वैद्याः शूनमेकाङ्गशोषिणम्1777।
ग्रासद्वेषो दौर्मनस्यं सस्त(?)श्रवणबालयोः॥
दन्तिनो मक्षिकाश्चैव पूर्वलिङ्गानि भृत्यवे।
विपर्यये तु लिङ्गानां भवेत्साध्यस्प लक्षणम्1778॥
श्लीपदान्यपि जायन्ते घोररूपाणि दन्तिनाम्।
तस्य दोषविशेषं तु परीक्ष्य मतिमान्भिषक्॥
यथोक्तमेव कुर्वीत पूर्वोक्तमुपक्रमम्।
__________
भ्रष्ट1779गात्रस्य विज्ञानं चिकित्सा व प्रवक्ष्यते॥
यदा क्षितो1780पविद्धो वा पाशबद्धोऽपि वा गजः।
शुषिरे ह्युपपन्नेवा सहसा च प्रधावति॥
हस्तिना वाऽप्यभिहतस्तोत्रवित्रासितोऽपि वा।
आक्षेपाज्जायते तस्प श्वयथुर्वातरक्तजः॥
वेदना गतिवैकल्यं दौर्बल्यं परिमूत्रता।
गात्रविक्षोभणाद्वाऽपि स्तम्भस्तस्योपजायते॥
तस्य सर्वाणि गात्राणि सर्पिषा परिषेचयेत्।
स्निग्धगात्रस्य च भवे1781त्सुखं सर्वार्थदेहजम्॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने गात्ररोगो नाम द्विसप्ततितमोऽध्यायः॥७२॥
इति द्वितीयं क्षुद्ररोगस्थानं समाप्तम्॥
<MISSING_FIG href="../../../books_images/U-IMG-1707755423241803-removebg-preview.png"/>
अथातस्तृतीयं1782 शल्यस्थानमारभ्यते।
__________
** ‘अथातो द्विव्रणीयमध्यायं व्याख्यास्यामः’इति ह स्माऽऽह भगवान्पालकाप्यः॥**
तपोभिर्विपुलैः1783 पूतमृषिं वारणबान्धवम्॥
बान्धवो विदुषामङ्ग इमं प्रश्नमचोदयत्1784॥१॥
योनिर्वस्तून्यधिष्ठानं मर्म शल्पसमुद्भवम्॥
श्रा(स्ना)वास्त्वाकृतयश्चैव व्रणानां कतिलक्षणाः॥२॥
व्रणानां सिद्धिजननाः1785कति चैषामुपक्रमाः॥
शास्त्रतः कति बोध्यन्ते व्रणोपक्रमयोनयः॥३॥
विसर्पन्ति च केनैषां प्रायसो(शो) दन्तिनां व्रणाः॥
बद्धकोशाश्च जायन्ते स्वल्पमप्यनि(न)धिष्ठिताः॥४॥
ये चैषां दुरधिष्ठाना व्रणास्ते केन हेतुना॥
अचिराच्चोपरोहन्ति दुष्यन्ति च पुनः पुनः॥५॥
केन चैषां न जायन्ते वने दोषोद्भवा व्रणाः॥
रोहन्ति1786 च विना वैद्यैः केन वै हेतुना द्विज॥६॥
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः॥
अङ्गराजाय निखिलं विधिं व्रणविधानजम्॥७॥
व्रणस्य त्रिविधा योनिरात्मा च त्रिविधः स्मृतः॥
वस्तून्यष्टावधिष्ठानं द्विविधं1787 शास्त्रनिश्चयात्॥८॥
द्विविधा चाऽऽकृतिर्योनिः श्रा(स्ना)वश्च द्विविधः स्मृतः॥
शल्यं च द्विविधं ज्ञेयं त्रिविधश्चाप्युपक्रमः॥९॥
तस्य च त्रिविधा ज्ञेया योनिः शास्त्रविनिश्चयात्॥
पञ्चैव पठिता राजन्व्रणोपक्रमयोनयः॥१०॥
दुःखाधिष्ठान्तरा राजन्संख्यया न (व1788 हस्तिनः॥
इत्युद्दिष्टः समुद्देशस्तत्प्रविस्तरलक्षणम्॥११॥
व्रणस्य त्रिविधा योनिर्यस्यां वै जायते व्रणः॥
उद्गमो वैकृतं1789 दाहस्तस्यापि त्रिविधः स्मृतः॥१२॥
तत्रास्य उद्गमो ज्ञेयो द्विविधः शास्त्रनिश्चयात्॥
देहे दोषसमुत्थश्च यश्च यादृच्छिको भवेत्॥१३॥
तत्र वातात्कफात्पित्तान्मेदसः शोणितादपि॥
उद्गमः संनिपाताच्चजायते दोषसंभवः॥१४॥
यादृच्छिकोऽपि विज्ञेयः स्व(श्व)यथुर्विविधात्मकः॥
विषाणां चापि संसर्गाद्रव्यैश्चैवाभिघाततः॥१५॥
श्वयथोर्वेदना वातात्पित्तात्पाकः कफाद्गतिः॥
यस्तत्र बलवान्दोषस्तेन तस्य तदात्मता॥१६॥
अल्पो वृत्तस्तु कठिनो ग्रन्थिरित्यभिधीयते॥
पृथुर्यो दीर्घः शोफः स्याद्विद्रधिर्गजकुम्भवत्॥१७॥
विकृतानामि1790यं योनिस्तद्विधानं प्रच(व)क्ष्यते॥
घृष्टं दृष्टं क्षतं चैव तस्या भवति लक्षणम्॥१८॥
तत्र रज्ज्वादिभिर्घृष्टं दृष्टं चाऽऽशीविषादिभिः॥
गजव्रणकरैर्भावस्तीक्ष्णैर्वेक्षतमुच्यते॥१९॥
छेदनं व्यधनं चैव द्रव्यैर्नानाविधात्मकैः॥
अवकृत्तावसृष्टे च पृथगेतच्चतुर्विधम्॥२०॥
ततस्तस्य भवेच्छिन्नं विभागात्पञ्चलक्षणम्॥
छिन्नं विच्छिन्नमुत्सृष्टमवकुष्टं स (च) दारितम्॥२१॥
तत्र च्छिन्नमिति ज्ञेयं सर्वशोऽङ्गापवर्तनम्॥
प्रहारसंनिपातस्तु विच्छिन्नमिति कीर्त्यते॥२२॥
कर्णलाङ्गूलहस्तानां द्विधाभावस्तु दारितम्॥
अवकृष्टं तु विज्ञेयमधः स्थात्व1791स्थिमांसगम्॥२३॥
एतदेव विपर्यस्तमुत्कृष्टमिति कीर्त्यते॥
इति पञ्चविधं छिन्नं विभागात्संप्रकीर्तितम्॥२४॥
विद्धस्यापि तु विज्ञेयः प्रविभागश्चतुर्विधः॥
निविद्धमनिविद्धं च विद्धमुत्रुण्डितं च यत्॥२५॥
तत्र मांसार्पितशरं विद्धमित्युपदिश्यते॥
छिन्द्यात्तुपरतो देशे शरेणोमुण्डितं भवेत्॥२६॥
सर्वतो निःसृतशरं निविद्धमिति कीर्यते॥
अनिविद्धं तु विज्ञेयं किंचिभिः सुतसायकम्॥२७॥
अविकृत्तं1792 तु विज्ञेयं त्रिविधं शास्त्रनिश्चयात्॥
विरक्तमविरुढं च तथा स्यादवपाटितम्॥२८॥
तत्र त्वचि विरक्तं स्यात्समांसमवपाटितम्॥
अवगाढं तु विज्ञेयं भृशमस्थि पदाश्रितम्॥२९॥
किष्टाश्रमवच्छिन्नाश्रमवसृष्टं द्विधा भवेत्॥
तस्य वक्ष्यामि राजेन्द्र शास्त्रज्ञानेन लक्षणम्॥३०॥
दौर्मनस्योदराटोपौ सशोणितपुरीषता॥
मन्दग्रासाभिलाषश्च शोणितस्य च मेहनम्॥३१॥
एतद्भवति विज्ञानं छिन्नान्नस्येह दन्तिनः॥
तदेवंलक्षणं नागं प्रत्याचक्षीत शास्त्रवित्॥३२॥
अपाटि त ( तात्र) मेव स्पाच्छ्रमश्चैव सवेपथुः॥
छिन्नावपाटिताभ्यां तु पत्तद्भित्रे………॥३३॥
भवेज्ज्वरखि (स्तृ)षा मूर्छा हिक्का श्वासश्च दारुणः॥
नाभ्याटोपो दौर्मनस्पं सशोणितपुरीषता॥३४॥
नातिवातानुलोम्पं च क्लिष्टान्त्रस्येह1793लक्षणम्॥
कृच्छ्रसाध्यो भवत्येष बलवान्ग्रासवांश्च यः॥३५॥
अश्रघातो भवत्येष साध्या साध्यश्चतुर्विधः॥
इति विक्षतजा पोनिर्व्रणानां संप्रकीर्तिता॥३६॥
इयं दाहात्मिका योनिस्तृतीया संप्रच (व) क्ष्यते॥
तत्राग्न्यादित्यकुविषैरौषधैर्विद्युताऽपि1794 वा॥३७॥
उत्पत्तिय व्रणस्य स्यात्सा योनिर्दाहसंभवा॥
अज्वाल(लो) ज्वालसंयुकस्तत्राग्नि(ग्ने)द्विविधो व्रणः॥३८॥
विद्युद्वारिहतश्वोक्तः सूर्यदाह कृतो लणः॥
शेषैर्यथास्वं जायन्ते दाहैव्रणकरैर्व्रणाः॥३९॥
इति दाहात्मिका योनिरशेषेण प्रकीर्तिता॥
इति व्रणानां निर्दिष्टा योनिविविधलक्षणा॥४०॥
<MISSING_FIG href="../../../books_images/U-IMG-1707800363021301-removebg-preview.png"/>
अत ऊर्ध्वमधिष्ठानं प्रवक्ष्याम्यष्टलक्षणम्॥
त्वड्यांसस्त्रायुधमनीशिरामृज्जास्थिसंधयः॥४१॥
अधिष्ठानानि जानीयाद्वणानां शास्त्रनिश्चयात्॥
एतेषां व्रणवस्तूनामष्टानामपि लक्षणम्॥४२॥
यैः श्रा(स्त्रा) वैर्व्यज्यते ज्ञानं तान्वक्ष्याम्यनुपूर्वशः॥
स्रावस्तु द्विविधो ज्ञेयः शुद्धो दुष्टश्च भूमिप॥४३॥
तत्र दोषान्वितो दुष्टः शुद्धो दोषविवर्जितः॥
स तु1795 वस्तुविशेषेण चतुर्विंशतिलक्षणः॥४४॥
पठ्यते1796 तस्य वक्ष्यामि विज्ञानं शास्त्रनिश्चपात्॥
शुकः कृष्णोऽथ हारिद्रः श्यामो माञ्जिष्ठ एव च॥४५॥
कषायस्तैलसंकाशो घृताभः फेनसंनिभः॥
पूपविण्मूत्रमस्तिष्कक्षार1797शुक्रवसाजलैः॥४६॥
मांसधावनमूषामो यवनिष्काथसंनिभः॥
तिलकल्कसुरामज्जमे1798दोवर्णोऽथ पिच्छिलः॥४७॥
चतुर्विंशतिरित्युक्ताः स्रावा विविधलक्षणाः॥
पिच्छिलो विशदो वाऽपि स्रावः स्वच्छः प्रवर्तते॥४८॥
व्रणाद्यस्मात्स1799विज्ञेयो दन्तिनां त्वग्गतो व्रणः॥
मांसधावनयूषाभः स्रावो मांसगतो भवेत्॥४९॥
मञ्जिष्ठाकषायाणां स्रावस्तुल्यः सिराश्रयात्॥
पवनिष्काथसदृशः स्रावः स्नाय्वा1800विताणात्॥५०॥
श्वक्काभः पिच्छिलोऽल्पश्च भवेत्संधिगताहणात्॥
धमनीभ्यः प्रस्रवति जलफेनसमप्रभः॥५१॥
तुषारहारिद्रनिभः1801स्रावः स्यादस्थिजाहणात्॥
तिलकल्क अस्तैलाभो वा सचन्द्रकः॥५२॥
मज्जामिश्रः स्रवेच्चापि व्रणान्मज्जसमाश्रयात्॥
मर्मणो यस्य यत्स्थानं स्त्रावस्तत्र तदात्मकः॥५३॥
स्यात्तु वेदनया युक्तो विशेषान्मर्मजो व्रणः॥
स्त्रोतांसि1802 यानि यान्भावान्मत्रवन्तीह दन्तिनाम्॥५४॥
तेषु व्रणविभिन्भेषु स एव स्रवति स्रवः॥
द्विविधं स्यादधिष्ठानं व्रणानां पविभागतः॥५५॥
विज्ञेयं दुरधिष्ठानं स्वा (स्व)धिष्ठानं तथैव च॥
तत्र तावत्प्रवक्ष्यामि दुःखाधिष्ठानमादितः॥५६॥
हस्ते1803 मर्मसु कोष्ठे1804 च धमनीष्वथ संधिषु॥
सिरास्नायवस्थिषु तथा दुरधिष्ठानजा व्रणाः॥५७॥
स्वधिष्ठानास्तु शेषेषु विज्ञेया वस्तुषु व्रणाः॥
दुःखाधिष्ठानहेतूंश्च प्रवक्ष्याम्यत उत्तरम्॥५८॥
तत्रोपद्रव बाहुल्पाद्दुःखो मर्माश्रितो व्रणः॥
सतताभ्यवहारेण दुःखः स्याद्धमनीव्रणः॥५९॥
अक्स्स्रुतेः शिराजस्तु चलनात्संधिदेशजः॥
स्वकर्मविक्रियाभावाद्दुःखः स्याद्धस्तजो व्रणः॥६०॥
स्नायुजालाकुलभयाहुःखः स्नाय्वायो वैणः॥
कोष्ठजो दुश्चिकित्स्यः स्यात्समानानिलदूषणात्॥६१॥
अस्थिजः1805 स्नेहमांसाभ्यां रहितो नोपरोहति॥
मज्जातिस्रवणाद्दुःखो भवेन्मज्जाश्रयो व्रणः1081॥६२॥
व्रणस्य त्रिविधस्त्वात्मा शास्त्रतः संप्रवक्ष्यते1806॥
सृचिकित्स्योऽचिकित्स्यश्च दुश्चिकित्स्यश्च लक्षणैः॥६३॥
तत्र पद्मपलाशाभः स्वाकृति लजिगन्धिकः॥
मुचिकित्स्यः स्वधिष्ठानो व्रणोपद्रववर्जितः॥६४॥
यस्तु वातादिभिर्दोषैर्दूषितः कठिनो महान्1807॥
स शल्पविषकोशामिसंस्थानः स्थानदोषवान्॥६५॥
अतिस्थूलं कृशं वाऽपि यो गजं समुपाश्रितः॥
परुषः कठिनः कृष्णो दुश्चिकित्स्यः स उच्यते॥६६॥
दुश्चिकित्सितरूपस्य यो लिङ्गैरन्वितो व्रणः॥
अनिष्टैश्यामशस्तैश्च गन्धैर्यश्च समन्वितः॥६७॥
बालार्केन्द्रधनुर्वर्णः शिखिकण्ठनिभिऽपि वा॥
व्रणो यः सोऽचिकित्स्यः स्यात्क्षमेद्यत्र1808न च क्रिया॥६८॥
व्रणे शल्यं तु विज्ञेयं द्विविधं शास्त्रनिश्चयात्॥
शारीरं चैव बाह्यं च तस्य वक्ष्यामि लक्षणम्॥६९॥
तृणकाष्ठायसादीनि बाह्य शल्यं व्रणाश्रयम्॥
शारीरं त्वस्थिपूयासृङ्यांसस्नायुशिराश्रयम्॥७०॥
दोषो याता1809 भिषक्कैव यदृच्छा च मतङ्गजः॥
पञ्चैव पठिता राजन्त्रणोपद्रवयोनयः॥७१॥
तत्र तावत्प्रवक्ष्यामि प्रथमं क्रमयुक्तितः॥
गन्धवर्ण स्त्रवाकारैर्वातादिमिरुपता॥७२॥
तत्र विण्मूत्रबस्तीनां सगन्धः परुषः कृशः॥
प्रभूतकृष्ण श्र(स्रा)वश्च स्याव्रणः पवनातुरः॥७३॥
शुकहारिद्रकाचाभः शिखिकण्ठप्रयोऽपि वा॥
व्रणस्वद्वर्णनिस्रावः सदोष्णश्चैव यो भवेत्॥७४॥
कषायो गैरिकनिभः प्रस्त्रावो यः सवेदनः॥
तिक्ताम्लकुणपैर्गन्धैर्युक्तः पित्तातुरो भवेत्॥७५॥
सू(शु)नः स्तब्धो गुरुः शीतः सुप्तोऽन्तः पिटकाञ्चितः॥
यश्चाम्बुपिच्छिलस्रावी पूयं वा यः परिस्रवेत्॥७६॥
दूयते बहलोष्णश्च कण्डूमान्सपरिग्रहः॥
कपोत पाण्डुवर्णाभो यश्च स्यात्तुल्यगन्धिकः॥७७॥
विपन्नमत्स्यमांसानां स कफेनाऽऽतुरो व्रणः॥
कुलत्थवर्णं रक्तं वा यः स्रवेद्ध हुवेदनः॥७८॥
दूयते दह्यते चैव प्रस्रवेद्रैरिकोपमम्1810॥
रक्ताभं संत्र वेद्विसं स्पावणः शोणितातुरः॥७९॥
दोषाणां दोषयोर्वाऽपि यथास्वं दोषलक्षणैः॥
विज्ञेयः संनिपातेन दन्तिनां दूषितो व्रणः॥८०॥
शुकः शीतो1811 मृदुश्चैव वसामज्जापरिस्रवः॥
पक्षिनीडसुगन्धिश्च स्पावणो मेदसाऽऽतुरः॥८१॥
इति वातादिभिर्दुष्टः षड्विधंकीर्तितो प्रणः॥
व्रणदोषान्प्रवक्ष्यामि यातृदोषकृतान्नृप॥८२॥
यदा युनक्ति मातङ्गं याता कर्मण्यमात्रया॥
तस्य पातुरविज्ञानायायामाद्दर्यते व्रणः॥८३॥
व्रणदोषास्तु वक्ष्यन्ते हस्तिवैद्यापराधजाः॥
अयथाव1812त्प्रयुक्तैश्च शस्त्राभिक्षार भैषजैः॥८४॥
अज्ञानाद्वा प्रमादाद्वा व्रणे वैद्योऽपराध्यति॥
कामक्रोधमयाद्वाऽपि वारणोऽप्यपराध्यति॥८५॥
ततः प्रकुरुते दोषान्त्रणेष्वात्मापराधजान्॥
अथ दोषान्प्रवक्ष्यामि यातृदोषकृतांस्तथा॥८६॥
यदा तुहिम(न)या नागं1813 पाता कर्मण्यमात्रया॥
यस्य यातुरविज्ञानाद्व्यायामाहीर्यते व्रणम्1814॥८७॥
दोषवैद्य महामात्रैरातुरेण च वर्जितः॥
यदृच्छयोपपन्नैस्तु दोषैर्यादृच्छिको व्रणः॥८८॥
वृत्ता च चतुरस्रा च द्विविधा योनिराकृतेः॥
व्रणानां शास्त्रनिर्दिष्टा विज्ञेया स्यात्समासतः॥८९॥
सा च गात्रप्रदेशानां शस्त्राणां च विभक्तितः॥
प्रहर्तॄणां च वैशेष्याद्विशेषाभते बहून्॥१०॥
यथा रोगा न जायन्ते वनेषु वनचारिणाम्॥
वनानुचरिताध्याये तदस्माभिः प्रकीर्तितम्॥११॥
निसर्गा1815त्सात्म्यतः पीते जले पांश्रुप्रमाथतः1816॥
विना वैद्यैः प्ररोहन्ति द्विरदानां वने व्रणाः॥९२॥
ऋषिरं मृदु चैतेषां मांस मेदःसमन्वितम्॥
तेनैषामीष दुमृष्टा व्रणाः सर्पन्ति सर्वतः1817॥१३॥
कोशवन्तश्च जायन्ते प्रायसो(शो)दन्तिनां व्रणाः॥
स पुनर्वक्ष्यते हेतुर्दन्तनाडीचिकित्सिते॥९४॥
<MISSING_FIG href="../../../books_images/U-IMG-1707801244021301-removebg-preview.png"/>
शुद्धश्चैवाऽप्यशुद्धश्च संरूढश्चैव सर्वतः॥
त्रिविधस्तु व्रणो ज्ञेयो विकृतोद्गमदाहजः॥९५॥
तत्र जिह्वातलसमः पन्नाभो लाजगन्धिकः॥
व्रणः शुद्धोऽभिविज्ञेयो व्रणोपद्रववर्जितः॥९६॥
व्रणस्त्वशुद्धो विज्ञेयो यः शुद्धस्य गुणोदयैः॥
गन्धवर्ण श्र (स्त्र) वाकारैर्विपरीतैः समन्वितः॥९७॥
व्यायामं चातिमांसं च यः सर्वं सहते व्रणः॥
रोहमाणं भिषग्विद्यानीरुजं निरुपद्रवम्॥९८॥
ईषत्सं1818जातरोमाञ्चत्वक्सवर्णश्च यो भवेत्॥
एवच्छास्त्रविनिर्दिष्टं संरूढस्प हि लक्षणम्॥९९॥
<MISSING_FIG href="../../../books_images/U-IMG-1707802114021301-removebg-preview.png"/>
व्रणस्योपक्रमो ज्ञेयस्त्रिविधस्विविधात्मनः॥
शोधनं रोपणं चैव सवर्णकरणं तथा॥१००॥
तत्राशुद्धो भवेत्साध्यः1819शुद्धे रोपणमिष्यते॥
संरूढस्याथ कर्तव्या सवर्णकरणक्रिया॥१॥
<MISSING_FIG href="../../../books_images/U-IMG-1707802139021301-removebg-preview.png"/>
उपक्रमस्यापि भवेद्योनिविविधलक्षणा॥
आयसी चौषधी चैव या च निर्वापणाश्रया॥२॥
आपसी विह या योनिः प्रथमा संप्रकीर्त्यते॥
शस्त्रयषणीच्यस्तस्या भेदश्चतुर्विधः॥३॥
तत्र च्छेद्यं च मेधं च लेख्यं विस्राव्यमेव च।
दालनं चैव विज्ञेयं कर्म शस्त्रस्य पञ्चधा॥४॥
एषण्याइन्वेषणं कर्म व्रणावस्थाविकल्पितम्॥
याः सूचयत्रिविधाः प्रोक्ताः शस्त्राध्याये तु संस्थिताः॥१०५॥
नागदन्ताकृतिर्वृत्ता त्रिकोणा चेति निश्चयात्॥
अस्थयाश्रितं नागदन्त्या मांसजं च त्रिकोणया॥६॥
त्वक्स्नायुधमनीस्थ1820च शिराजं चैव वृत्तपा॥
आहार्यं सर्वयन्त्राणां सूच्या सीवनमिष्यते॥७॥
सूत्रस्नायुशणद्रव्यैरेभिः संसीवनं भवेत्॥
वृद्धिपत्रेण नागानां कुर्याच्छेदनभेदने॥८॥
लेखनं मण्डलाग्रेण कर्तव्यं दन्विनां भवेत्॥
श्र(स्त्र)वणं पाटनं चैव कुर्याद्री हिमुखेन तु॥९॥
स्थिरा मृद्वी च कर्तव्या व्रणानामेषुणी भवेत्॥
वृत्ता गण्डूपदमुखी प्रमाणे त्रिंशदङ्गुली॥११०॥
सुवर्णरूप्यताम्राणामायसी शृङ्गजाऽपि वा॥
दन्तास्थिवेणुदारूणामेषणी दारुणा भवेत्1821॥११॥
एते त्वष्टाविह ज्ञेया व्रणस्योपक्रमाः पृथक्॥
आयसी संसृ(श्रि)ता योनिंशृणु चैषामुपक्रमम्॥१२॥
यो न गच्छेत्प्रशमनं स्व(श्व)यथुः प्रविलायनैः॥
तस्य विश्रा(स्त्रा)वणंकार्यं भवेत्पकस्य भेदनम्॥१३॥
दालनं विषमे पाके बहुलौष्टस्य लेखनम्॥
उद्गमस्य कटस्थस्य सर्वत्राऽऽच्छेदनं1822 हितम्॥१४॥
यथायोगं तु कर्तव्यं गतेरन्वेषणं व्रणे॥
द्विविधस्य तु शल्पस्य पहरणं भवेत्॥११५॥
सूच्या संसीवनं कार्य तत्र भागेषु दन्तिनाम्॥
दारितानां व्रणकरैः सद्यः सरुधिरे व्रणे॥१६॥
शवं सुतिर्यगूध्वं वा भिषगस्थिगतं तथा॥
सिरामर्माभिघाताद्वा प्रमादाब निपातयेत्॥१७॥
यस्तु यन्त्रशरैर्वाऽपि दन्तैर्वा प्रतिहस्तिनाम्॥
स्याद्व्रण1823च्छिद्रपिशितो मर्म वा किंचिदाश्रितः॥१८॥
तस्मात्प्रच्छन्नपिशिते कार्य कार्यवशाद्भवेत्॥
उन्मार्गच्छेदनं वैद्यैर्मर्मसंरक्षणाव्रणे॥१९॥
**इत्येते शास्त्रनिर्दिष्टा व्रणसिद्धावुपक्रमाः॥ **
<MISSING_FIG href="../../../books_images/U-IMG-1707840703021301-removebg-preview.png"/>
आयसीप्रभवा राजन्कार्या नानाविधात्मकाः॥१२०॥
शस्त्रकर्मणि निर्युक्ते1824 बलिहोममयी क्रिया॥
व्रणशान्तिर्भवेत्कार्या यथोक्ता यज्ञकर्मणि॥२१॥
औषधीसंश्रिता योनिः पृथक्शोधनरोपणे॥
इमे विशेषा विज्ञेयास्त्वष्टौ शास्त्रविनिश्चयात्॥२२॥
वर्तिः कषायः1825 कल्कश्च घृतं तैलं रसक्रिया1826॥
चूर्णं धूपनमित्याहुर्विभागादष्टमं पदम्॥२३॥
**उपक्रमविधिस्त्वन्यः शास्त्रयोगात्प्रवक्ष्यते1585॥ **
<MISSING_FIG href="../../../books_images/U-IMG-1707841739021301-removebg-preview.png"/>
ओषधीसंश्रिता योनिस्रयोविंशतिलक्षणा॥२४॥
विलायनं पाचनं च भेदनं पीडनं तथा॥
सादनोत्सादने चैव कृमिनमथ चापरम्॥१२५॥
लेपः स्वेदोऽगदः क्षारो मृदुदारणयोः क्रिया॥
बृंहणं चापकर्षश्च संधानं शिशिरक्रिया॥२६॥
शोणितस्थापनं चैव कण्डूनं धावनं तथा॥
प्रसादनं1827 च वर्णश्च सवर्णकरणं तथा॥२७॥
बन्धकल्पश्च विज्ञेपखयोविंशतिमं पदम्॥
व्रणावस्थान्तराञ्चैषां प्रयोगः संप्रवक्ष्यते॥२८॥
श्वपथोरविदग्धस्य कार्य स्थात्मविलायनम्॥
विद्यमाने कर्तव्यं श्वयथोः पाचनं भवेत्॥२९॥
पक्कस्य तु भवेद्भेदस्तथा शोधनरोपणम्॥
छवीसवर्णकठिनं परुषं वाऽपि वर्णतः॥१३०॥
मन्दोष्माणं तथा स्तब्धमाममित्यभिलक्षयेत्1828॥
विवर्णं नातिकठिनं सोष्माणं वेदनार्दितम्॥३१॥
विदह्यमानं जानीयाच्छ्यथुं कुशलो भिषक्॥
सर्वतो मार्दवं शैत्यं पाण्डुता शीर्णरोमता॥३२॥
वेदनोपशमश्चैव श्वयथोः पक्कलक्षणम्॥
दुष्टकृशातिमीरूणां व्रणा संवृतदेशजान्॥३३॥
सूक्ष्मांश्चानतिपक्कांच भेदनीयैरूपाचरेत्॥
वेदनाबहुले दृष्टे शिरामर्मसमाश्रिते॥३४॥
संघिजे वाऽपि कर्तव्यं दन्तिनां वीडनं व्रणे॥
केवलं यस्तु संधानंमल्पदोषो न गच्छति॥१३५॥
संधानं वस्य कर्तव्यं संघानीयैरुपक्रमैः॥
अस्थिस्नायुगतं दुष्टं तनु स्वल्पमुखं1829 व्रणम्॥३६॥
गतिमन्तमजिह्यं च शोधयेद्वर्तिशोधनैः॥
पिच्छिलं विस्तृतं किक्षं दुर्गन्धं1830 पूतिवद्वणम्॥३७॥
प्रचलं पूतिमांस व कषापैः शोधयेद्धिषक॥
आवृतं पूतिभिमसैः स्रायुजालसमाकुलम्॥३८॥
सप्लोतमवदीर्णं च शोधयेत्कलकशोधनैः॥
एवमेवातिसंरब्धं गम्भीरमतिवेदनम्1831॥३९॥
संवृतं रुधिराश्रा(स्त्रा)वं शोधयेद्धृतशोधनैः॥
सहसा न प्ररोहन्तं तनुदोषमवेदनम्॥१४०॥
व्रणं मार्दवसंपन्नं शोधयेत्तैलशोधनैः॥
स्नायुर्वा यत्र मांस वा प्राग्दुष्टं1832नापनीयते॥४१॥
कषापशोधनैस्तत्र कर्तव्यं चूर्णशोधनम्॥
सपूतिमांसः1833 सास्रावो यो व्रणो नोपरोहति॥४२॥
उत्ताना1834 तत्र कर्तव्या शोधनार्थं रसक्रिया॥
बहुदुष्टपरिश्रा(स्त्रा)वे कुर्यात्प्रक्षालनक्रियाम्॥४३॥
कण्डूमत्यपि कर्तव्यः कण्डूनः स्यादुपक्रमः॥
गतिमत्कठिनौष्ठं च कण्डूमन्तं प्रभेदिनम्॥४४॥
दुष्टमांसाङ्कुरयुतं क्षारेणोपचरेद्रणम्॥
अतिप्रवृत्ते रुधिरे शोणितस्थापनं भवेत्॥१४५॥
कृमिभिर्भक्ष्यमाणस्य कृमिघ्नः स्यादुपक्रमः॥
उत्सन्नस्य भवेत्सादः सन्नस्योत्सादनक्रिया॥४६॥
स्थिरत्वं मृदुनः कार्यं मार्दवं कठिनस्प च॥
उष्णदो1835षातुरे1836 शैत्यं स्वेदः शीतानिलातुरे॥४७॥
नाभिरोहति वातार्ते व्रणे धूपनमिष्यते॥
मेदसा युतमांसानां पवनः परिकुष्यति॥४८॥
स्थूलानां व्रणमांसेषु तंतस्तानपकर्षयेत्॥
क्षीणानां न परोहन्ति व्रणा मांसविवर्जिताः॥४९॥
तस्माप्तेषां भवेत्कार्यं बृंदणं कमयुक्तितः॥
बातादीनां तु1837ये लिखा दोषैः षड्रिर्विवर्जिताः॥१५०॥
जिह्वावलसमः शुद्धस्तं व्रणं रोपये द्भिषक्॥
तत्राल्पदोषप्रस्त्रावं गतिमन्तमवेदनम्॥५१॥
वर्त्या संरोप1838येद्वैद्योहस्तिनां व्रणमुत्थितम्॥
ईषत्तु विषमं निम्नं मृदुमांसमवेदनम्॥५२॥
अशीघ्ररोहिणं चैव कषायेणोपरोहयेत्॥
व्रणं पाकात्प्रसर्पन्तमतिस्नेहादरोहणम्॥५३॥
मांसे वा त्वचि वा जातं. रोपयेत्कल्करोपणैः॥
निम्नमीषद्विश्र(स्र)वेण किञ्चित्पित्तसमन्वितम्॥५४॥
स्थैर्यादनुपरोहन्तं रोपयेत्सर्पिषा व्रणम्॥
ईषद्वातातुरं सिद्धं भिषग्त्रणमवेदनम्॥५५॥
रोपणीयेन तैलेन शास्त्रदृष्टेन साधयेत्॥
प्रशान्तोपद्रवं स्निग्धमतिस्नेहाद्विसर्पिणम्॥५६॥
रोपयेत्रिस्थरमांसं च व्रणं चूर्णेन दन्तिनाम्॥
मृदुमांसस्त्वतिस्नेहाद्यो व्रणो नोपरोहति॥५७॥
स रसक्रियया साध्यो मृदुमांसश्च संधिजः॥
चातश्लेष्मोच्चयात्किनं रोपयेद्रूप योगतः॥५८॥
शुद्धाशुद्धे भवेद्देयो दन्तिनामगेदो1839 व्रणे॥
यथा स्वमष्टवर्गेण सम्यग्वर्त्यादिना भवेत्॥५९॥
सिरा स्नायवस्थिकोष्ठेषु तथा संधिषु च व्रणोः1840॥
गम्भीरा विषमस्थूलास्त्ववगाढा गुरुक्रमाः1841॥१६०॥
साध्या बन्धादिना1842 त्वेते बन्धस्तु व्रणशोधनः॥
समो गाढोऽथ शिथिलो व्रणबन्धः प्रकीर्तितः॥६१॥
कण्ठे मेण्ढे तथा नाभ्यां पाणिग्रीवासु पार्श्वयोः॥
बस्तिशीर्षे च राजेन्द्र समो बन्धस्तथोदरे॥६२॥
गाढः शिरसि कर्तव्यः स्फिक्कक्षे च सपिण्डके1843॥
इन्वोः पृष्ठे गुदे कुण्ठे बाह्वोः स्कन्धे तथा त्रिके॥६३॥
व्रणबन्धस्तु कर्तव्यः शिथिलः सर्वसंधिषु॥
सोष्माणो रक्तपित्ताभ्यां संरब्धाः सविषाश्च ये॥६४॥
व्रणा विसर्पिणो ये च बन्धस्तेषां न शस्यते॥
यो बन्धमवबन्धं च विद्यात्सम्यग्विचक्षणः॥१६५॥
स बध्नीयान्न शिथिलो बन्धः स्तब्धो न वामतः॥
अपीडया सुखं रोहेन्नापि पित्तहतो भवेत्॥६६॥
निवसेदौषधं बन्धाद्वायुः श्लेष्मा व शाम्पति॥
नाबन्धनाय बन्धं च वातिबन्धं व सारिकम्॥६७॥
बद्धाबद्धं न1485शिथिलं श्वधी(?) जानाति मापतिम्(?)॥
न रोपये पीडेत1844 वस्त्रेण बाध्यते च तत्॥६८॥
सायाह्ने चौषधेनैन1845 सम्यक्शुद्धस्य वै गुणाः॥
अशुद्धं साधयेच्चास्य शुद्धं तु रोपयत्यपि॥६९॥
संगृह्णात्यौषधं वाऽपि सम्यग्बद्धस्य लक्षणम्॥
हेमन्ते शिशिरे चैव वसन्ते च विमोक्षयेत्॥१७०॥
यहाउपहाच्छरद्वीष्मे वर्षास्वपि च बुद्धिमान्॥
प्लोतैः कार्पासकैः क्षौमैः कौशेयैश्च विचक्षणः॥७१॥
पत्रैर्वकैश्च ताम्रैश्च तथा स्याल्लोहपहकैः॥
व्रणा बन्ध्या यथालाभमुपनाहैश्च तत्त्वतः॥७२॥
येन येन च बन्धेन यो व्रणः मुखबन्धनः॥
स तेन तेन बन्धेन बन्धितव्यो विजानता॥७३॥
इत्येवं बन्धकल्पस्तु व्याख्यातस्ते यथाक्रमम्॥
____
व्रणाः शिशिरसात्म्यानां नागानां बन्धनोष्मणा॥७४॥
प्रायः1846 शुषिरमांसत्वाद्विसर्पन्ति समन्ततः॥
तस्माद्ये स्वेदेनैः1847 साध्यास्तान्त्रणान्बन्धयेद्भिषक्॥१७५॥
बन्धयोगवहां बुद्धि कृत्वेषां प्रविचक्षणः॥
उपरूढस्तु वैवर्ण्य यदि वातादिभिर्भवेत्॥७६॥
व्रणस्तस्य भवेत्कार्यं वैद्येर्वर्णप्रसादनम्॥
सवर्णकरणं कार्यमुपरूढे व्रणे भवेत्॥७७॥
इत्येते शास्त्रतः प्रोक्ता व्रणसिद्धावुपक्रमाः॥
<MISSING_FIG href="../../../books_images/U-IMG-1707843078021302-removebg-preview.png"/>
उपक्रमाणामेषां तु यथोक्तानां विभागशः॥७८॥
योगान्वक्ष्यामि यो येन सुप्रयुक्तेन सिध्यति॥
काकादनी शुकनासा तथाऽपामार्गतण्डुलाः॥७९॥
रोहिषाहिंस्रवरणं बिल्वं कुष्ठं पुनर्नवा॥
शार्ङ्गष्ठारग्वधः1848कालाबृहत्यौ देवदारु च॥१८०॥
कपित्थबाणटिण्डूक1849तगराश्मन्तकाक्षिका॥
मेदा च कृष्णगन्धा च हरिद्रा तालपत्रिका॥८१॥
त्रिफला नीलपुष्पी च शतपुष्पा त्रिकण्टकम्॥
कदरः सोमवल्कश्च कुबेराक्ष्यस्थिरोहिणी॥८२॥
तालपत्री च कुष्ठं च फलानि निचुलस्य च॥
एभिः कार्य यथालाभं श्वपथोः प्रविलायनम्॥८३॥
<MISSING_FIG href="../../../books_images/U-IMG-1707843797021301-removebg-preview.png"/>
सुपिष्टैश्च मुखोष्णैश्च निरूषैर्वाऽपि कारयेत्॥
कुलत्थयवगोधूममाषकिण्वातसीतिलाः॥८४॥
बीजान्येरण्डशणयोः कर्पास्या मूलकस्य च॥
सर्षपाश्चेति पिष्टानि प्रलेपः पाचनो भवेत्॥१८५॥
श्वयथोरुष्णलवणस्निग्धश्चाग्लश्च दन्तिनाम्॥
किणिही चित्रकश्चैव निकुम्भः सुरदारु च॥८६॥
तगरं मातुलुङ्गं1850 च त्रिवृता च समांशतः1851॥
गोमूत्रपिष्टैर्पोगोऽयं स्व(श्व)यथूनां प्रपाचनः1852॥८७॥
करवीरोच्चटामूलं मूलं धत्तूरकस्य च॥
लागली हरितालं च थ्रुक्कगोमूत्रपेषितम्॥८८॥
श्वयथोर्विषयुक्तस्य भवेत्पाचनमुत्तमम्॥
<MISSING_FIG href="../../../books_images/U-IMG-1707844151021301-removebg-preview.png"/>
चित्रकश्चिर बिल्वं न कोशातक्याः फलानि च॥८९॥
मुष्ककः शृङ्गवेरं च लाङ्गल1853क्यक्षपीलुकौ॥
सुवर्णक्षीरिणी चैव स्रुह्नर्कक्षीरमेव च॥१९०॥
सुधा मुवकिा चैव तुरी कटशर्करा1854॥
कपोतोन्दुर1855गृध्राणां विष्ठा पारापतस्य च॥११॥
**अग्निको गृहधूमश्च भवेद्भेदनमेकशः॥
काकनासाक्षिविट्क्षारैर्भेरयेच्छस्त्रवर्जितम्॥१२॥ **
<MISSING_FIG href="../../../books_images/U-IMG-1707844517021301-removebg-preview.png"/>
शाल्मली शल्लकी गोजी कर्णिकारोषधन्वनः॥९३॥
मधूकोश्मन्तकाकोलरोहिषं धातकी तथा॥
मधुकं मधुपर्णी च जीवकर्षभकावुभौ॥९४॥
बला विदारी मञ्जिष्ठा पथालाभं प्रपीडनम्॥
______
सूच्या चैवौषधैश्चैव संधानं द्विविधं स्मृतम्॥१९५॥
तत्र वक्ष्यामि संधानमौषधैर्यत्प्रकीर्तितम्॥
प्रपौण्डरीकं मधुकं मञ्जिष्ठा रोधमञ्जनम्॥९६॥
प्रियङ्गवोषपत्तङ्गं व्रणसंधान मिष्यते॥
______
दन्ती श्यामा यवक्षारः स्वर्जिका चित्रकः सुधा॥१७॥
क्षवकः शाङ्खिका1856 किण्वं महावृक्षार्कयोः पयः॥
लाङ्गलिक्याक्षिकौ चैव पिप्पलीमूलमेव च॥९८॥
एतन्मधुसमायुक्तं व्रणशोधनमुत्तमम्॥
कृष्णमुष्ककपत्राणि महावृक्षत्वमेव च॥९९॥
दन्त्यर्कमूले लवणं मकच्छमूत्रपेषितम्॥
हरितस्मर्कयैर्युक्तं व्रणशोधनमुत्तमम्॥२००॥
शोभाञ्जनकमूलं1857 च तिलक्षारं तथैव च॥
भल्लातकं यवक्षारं क्षारमिक्षुरकस्य च॥१॥
कुष्ठं चातिविषां चैव दप्ती कटुकरोहिणी॥
तेजोवती हरिद्रे द्वे श्लक्ष्णकल्कं मदापयेत्॥२॥
सैन्धवेन समायुक्तो नाड्याञ्च(?) व्रणशोधनम्॥
विदारी करवीरश्च नक्तमालेऽथ मार्कवः॥३॥
सुरसाखदिरौ निम्बौ भाण्डी1858 जाती वटस्तथा॥
तर्कार्यङ्गोलशङ्गिन्यः सप्तपर्णो हरीतकी॥४॥
हरिद्रा चाश्वगन्धा च कषायः शोधनं भवेत्॥
चित्रकरित्रवृता दन्ती श्यामा लाङ्गलकी तथा॥२०५॥
पटोली कांकजङ्घी1859 व द्रवन्ती कृतवेधना॥
हरिद्रा निम्बपत्राणि तथा कटुकरोहिणी॥६॥
अजशृङ्गय1860श्वपत्राणि घृताक्तं कल्कशोधनम्॥
तृ (त्रि) वृता शृद्धवेरं च स्रुझर्कक्षीरमेव च॥७॥
तेजोवती लाडुलकी कुष्ठं हिंसा व चित्रकः॥
रजनी सैन्धवं चैव तथा कटुकरोहिणी॥८॥
पिप्पलीमूलनिः शुद्धं सर्पिर्विशोधनम्॥
बृहती कटुका रोघं कोशातक्याः फलानि च॥९॥
मदनं त्रपुसी काला सर्षपा रजनी तथा॥
पिप्पल्पश्चाश्वगन्धा च मूर्वा पोता1861ऽथ चित्रकः॥२१०॥
दुष्टानामरुजामेतत्तैलं शोधनमिष्यते॥
त्रिफलातगरोशीरं हरिद्रा वालपत्रिका॥११॥
मुस्ता दारुहरिद्रा च (कर्पासी1862पत्रमेव च )॥
तथैव दन्त्याः पत्राणि सुमनःकरवीरयोः॥१२॥
एतत्कालायसे पात्रे सम्पकुक्काथमधिश्र1863येत्॥
कासीसं1864 मधु गोमूत्रं मरिचं चात्र दापयेत्॥१३॥
मुसिद्धा तु भवेत्कार्या शोधनीया रसक्रिया॥
एरण्डपत्रं लवणं तिलास्तृ ( स्त्रि) वृतया सह॥१४॥
(शोधनं1862 वातदुष्टेषु व्रणेष्वेतद्विधीयते॥
हरिद्रा मधुकं चैव तिलातृ ( ख) वृतया सह)॥२१५
शो1न्धवं च हरिद्रे द्वे तिलास्तृ ( स्त्रि) वृतथा सह॥१६॥
मधुकं निम्बपत्राणि श्लेष्मदुष्टेषु शोधनम्॥
हरितालं च किण्वं च1865स्वर्जिकाऽथ मनःशिला॥१७॥
रसाञ्जनं च दन्ती च निकुम्भाऽतिविषा तथा॥
तथैरावणिकामूलं लाङ्गलिक्याश्च चूर्णपेत्॥१८॥
एतद्रवणानां विज्ञेयं समसं (शं) सूर्णशोधनम्॥
______
सैन्धवक्षौमशस्त्रा1866णि लेखनं त्रिविधं स्मृतम्॥१९॥
तत्र वक्ष्यामि यो येन व्रणो लेखनमर्हति॥
उत्सनं कठिनौष्ठं च व्रणं शत्रेण लेखपेत्॥२२०॥
श्यावं नीलावभासं च सैन्धवेनाव लेखपेत्॥
व्रणं क्षौमेण मृदुना सरुजं लेखये1867न्मृदु॥२१॥
इत्येतदभिनिर्दिष्टं त्रिविधं व्रणलेखनम्1868॥
_____
सर्षपा लशुनं चैव वार्ताकी सौरसो रसः॥२२॥
नागरं गृहधूमश्च फणिज्जकरसस्तथा॥
एतद्द्रोमूत्रसंयुक्तं मुव्यक्तलवणीकृतम्॥२३॥
कण्डूविलयनं श्रेष्ठं दन्तिनामरुजां भवेत्॥
मरिचान्यजगृङ्गी च सर्षपाः सफणिज्जकाः॥२४॥
**सैन्धवं लश्चनं चैव कृमिघ्नः स्यादुपक्रमः॥ **
<MISSING_FIG href="../../../books_images/U-IMG-1707845598021301-removebg-preview.png"/>
कषायै1869र्विधिना लेपैश्चर्णयोगैश्च कारयेत्॥२२५॥
व्रणानां मृदुमांसानां निपुणां दारणक्रियाम्॥
कषायवृक्षचूर्णेन भस्मना गोमयस्य1870 च॥२६॥
<MISSING_FIG href="../../../books_images/U-IMG-1707845666021301-removebg-preview.png"/>
भस्मना तु नवानां वा शोणितस्थापनं भवेत्॥
तत्रासिद्धौ भवेत्कार्यमसुक्स्थापनममिना॥२७॥
<MISSING_FIG href="../../../books_images/U-IMG-1707845696021301-removebg-preview.png"/>
तापिका1871फालजाम्ब्वोष्टैस्तप्ततैलेन वा पुनः॥
तालपत्री विडङ्गानि मञ्जिष्ठा मधुकस्तथा॥२८॥
रजनी मधुपर्णी च तथाऽपामार्ग तण्डुलाः॥
उत्सादनं भवेदेतद्व्रणानां घृतसंयुतम्॥२९॥
इमामन्यां प्रवक्ष्यामि पुनरुत्सादनक्रियाम्॥
काकादनी शुकनासा सुवहा तालपत्रिका॥३३०॥
काकोली क्षीरकाकोली जीवकर्षभकावुभौ॥
माषप1872र्ण्यश्वगन्धा च मुद्रपर्णी तथैव च॥३१॥
**एतदप्य1873भिजानीयाघृतमिश्रं प्रलेपनम्॥
**
<MISSING_FIG href="../../../books_images/U-IMG-1707845834021301-removebg-preview.png"/>
सर्पिमांसरसः सर्वे(?)क्षीरं वाऽपि तथौदनः॥३२॥
मुखोष्णं कालयोगेन मृदूंकरणमिष्यते॥
<MISSING_FIG href="../../../books_images/U-IMG-1707845847021301-removebg-preview.png"/>
एष एव भवेदुष्णः स्वेदः शीतातुरे1874 व्रणे॥३३॥
अजाक्षीरेण वा सिद्धः पायसः स्वेदनो भवेत्॥
<MISSING_FIG href="../../../books_images/U-IMG-1707845860021301-removebg-preview.png"/>
वचा विषना कुष्ठं च तिलकल्कः ससैन्धवः॥३४॥
व्रणे तच्छोधनं ज्ञेयं दन्तिनां विषदूषिते॥
नलवेतसमूलानि चन्दनोशीरसारिवा(:)॥२३५॥
मृणालोत्पलपत्रं च पद्मिन्याश्चैव कर्दमः॥
**यानि धान्यानि शीतानि तैर्घृताः प्रलेपयेत्॥३६॥ **
<MISSING_FIG href="../../../books_images/U-IMG-1707845876021301-removebg-preview.png"/>
गतोष्मणामत ऊर्ध्वं क्षारयोगः प्रवक्ष्यते॥
पाटला चारिमेदश्च स्फूर्जको1875 धवमुष्ककौ॥३७॥
करवीरं कदम्बश्च मधूकः सर्ज एव च॥
एतेषां भस्मना क्षारः कर्तव्यस्तत्र चाऽऽवपेत्1876॥३८॥
**सैन्धवं च विडं चैव क्षारोऽयं व्रणशोधनः॥ **
<MISSING_FIG href="../../../books_images/U-IMG-1707845888021301-removebg-preview.png"/>
खदिरः शिंशपासारो निर्मूलाऽथ प्रियङ्गवः॥३९॥
भद्रमुस्ता विडङ्गानि तगरं चन्दनागुरु॥
अलक्तकं नागपुष्पं तथा चाशोकरोहिणी॥२४०॥
शतपुष्पा शिलापुष्पं पटोलं निम्बमेव च॥
श्रीवेष्टक सर्जरसः स्थौणेयं नलदं तथा॥४१॥
एष कार्यो यथायोगं धूपः स्याद्व्रणरोपणः॥
(विदार1877मूलचूर्णानि क्षौमं च घृतसंयुतः॥४२॥ **एषोऽपि विहितो धूपो गजानां व्रणरोपणः)॥ **
<MISSING_FIG href="../../../books_images/U-IMG-1707846400021301-removebg-preview.png"/>
बला चातिबला चैव कुशमूलं तथोषटा॥४३॥
मधुगन्धाऽश्वगन्धा च वर्तिः स्याद्दुष्टिरो1878हिणी॥
जीवन्ती चाश्वकर्णश्च1879 कुम्भी काक्षीव एव च॥४४॥
विदारी चारिमेदश्च पलाशः किणिही धवः॥
आरग्वधोऽथ टिण्ट्रको मञ्जिष्ठा मधुकं तथा॥४५॥
**अश्वगन्धा च गोजी च क्षीरवृक्षत्वचस्तथा॥
एष कल्को भवेद्देयो रोपणो घृतसंयुतः॥४६॥ **
<MISSING_FIG href="../../../books_images/U-IMG-1707846416021301-removebg-preview.png"/>
स(श)ल्लकी क्षीरवृक्षश्च मधूकाइमन्तकासनाः॥
जीवन्ती चारिमेदश्च1880 कुम्मी काक्षीव एव च॥४७॥
**आदारीचाश्वकर्णश्च1881 पलाशः कुटजस्तथा॥
व्रणानां रोपणं चैव1882 कषायं क्वथितं भवेत्॥४८॥
**
<MISSING_FIG href="../../../books_images/U-IMG-1707846429021301-removebg-preview.png"/>
भार्गी सर्षपगन्धा च मञ्जिष्ठा रजनीद्वयम्॥
स्वयंगुप्ता च पाठा च घृतं रोपणमिष्यते॥४९॥
एतैस्तु कार्षिकैर्भागतमस्थं विपाचयेत्॥
जलाढके समावाप्य शनैर्मन्दामिना पचेत्॥२५०॥
छिन्नभिनेषु विद्वेषु नाडीदुष्टव्रणेषु च॥
दिग्ध1883विद्वेषु वाऽप्येतद्घृतं शोधनरोपणम्॥५१॥
चन्दना गुरुमञ्ञ्जिष्ठाशतपुष्पा प्रियङ्गवः॥
बला कालानुसारी च शतपुष्पाः हरेणवः1884॥५२॥
तालीपत्रं1885 च तगरं रोधं व्याघ्रनखं (तथा1862॥
भद्रदारु) तथैला1886 च द्वे हरिद्रे पुनर्नवा॥५३॥
कुष्ठं प्रपौण्डरीकं च अञ्जनं मधुकं मधु॥
मधूच्छिष्टेन संयुक्तं तैलं रोपण मिष्यते॥५४॥
निम्बार्करजनीपत्रैर्मृगाक्ष्या मूलसंयुतैः॥
पचेत्तैलं भिषग्धीरो व्रणरोपणमुत्तमम्॥२५५॥
एतैरेवौषधैः सर्वैः शिशपासारमिश्रितैः॥
दुष्टत्रणेषु राजेन्द्र तैलं रोपणमुत्तमम्॥५६॥
<MISSING_FIG href="../../../books_images/U-IMG-1707846692021301-removebg-preview.png"/>
प्रियङ्गका सर्जरसः पुष्पकासीसमञ्जनम्॥
रोचना मधुकं रोधं चूर्णं रोपण मिष्यते॥५७॥
<MISSING_FIG href="../../../books_images/U-IMG-1707846706021301-removebg-preview.png"/>
तिनिसार्जुनसर्जानां शिशपासोमवल्कयोः॥
खदिरस्य च निष्काथो निम्बस्य च समावपेत्॥५८॥
रसाञ्जनं रोहिणों च मातुलुङ्ग1887रसस्तथा॥
कासीसं हरितालं च रोपणी स्याद्रसक्रिया॥५९॥
व्रण1888दोषाविरोधेन यथासात्म्यं यथावयः॥
यथामि चेति कर्तव्या क्षीणानां बृंहणक्रिया॥२६०॥
गौरी हरिद्रे मधुकं मञ्जिष्ठा नीलमुत्पलम्॥
पटोलारिष्टपत्राणि मालतीनक्तमालयोः॥६१॥
घोण्टाफलत्वङ्मञ्जिष्ठा फलिनी रोधमेव च॥
एतेनैव विधानेन क्रमयुक्तेन दन्तिनाम्॥६२॥
स्थूलानां हासनं कार्य व्रणिनां भिषजा भवेत्॥
सोमवल्कप्रवालानि मदयन्ती मनःशिला॥
मधुकं चेति जानीघाद्रणवर्णप्रसादनम्॥६३॥
मधुकं मधु मञ्जिष्ठा क्षुप्रैला गोशकृतम्॥
सवर्णकरणं ज्ञेयं दूर्वा सकटशर्करा॥६४॥
इतीदं पालकाप्येन द्वित्रणीयस्य लक्षणम्॥
कृत्स्नं भगवता प्रोक्तमङ्गराजाय धीमते॥
इत्यब्रवीत्पालकाप्यो राज्ञान प्रचोदितः॥२६५॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने श्रीपाठे वृद्धोपदेशे तृतीयेशल्पस्थाने द्विव्रणीयो नाम प्रथमोऽध्यायः॥१॥
<MISSING_FIG href="../../../books_images/U-IMG-1707846731241803-removebg-preview.png"/>
अथ द्वितीयोऽध्यायः।
________
प्रतपन्निवभास्वन्तं मयूरकवचं दिवि॥
ऋषि ब्रह्मविदां श्रेष्ठमादित्यसमतेजसम्॥
अङ्गराजो महाबुद्धिः पालकाप्यं स्म पृच्छति॥
द्विविधस्य व्रणस्पेह निदानं सचिकित्सितम्॥
गजानां ब्रूहि तत्वेन तत्त्वार्थकुशलो ह्यसि।
इत्येवमुक्तः शिष्येण ब्रह्मर्षिरखिलं1889 ततः॥
व्याजहारोत्तरं श्रीमान्वाक्यं वाक्यविदां वरः॥
अथातः सद्यःक्षतं नामाध्यायं व्यारूपास्यामः। इति ह स्माऽऽह भगवान्पालकाप्यः।
इह खलु भो(:) सद्यःक्षतमखिलमादावेव शृणु भद्रमुखशरशक्तपृष्टितोमरपरश्वधविषाणाद्यभिहतशरीरा रुधिर1890मुद्वमन्त इह गजा दृश्यन्ते व्रणेभ्यः, व्याघसिंह नस्वदंष्ट्रा वलुप्ताश्च। तेषां व्रणाभिघातलक्षणमशेषेण स्थानगतिसंस्थानप्रमाणविशेषांश्च वक्ष्यामः।
तत्र द्विविधो झात्मा व्रणानाम्–आगन्तुः शरीरसमुत्थश्च। तत्राऽऽगन्तुरेकः।स तु नानाशस्त्राभिघातविशेषाद ने का कृतिविशेषान्पुष्णाति। तत्राऽऽकृष्टशरासनविप्रमुक्तस्येषोश्चतुर्विधो गतिविकारः प्रादुर्भवति—विद्धस्तुण्डितो1891ऽतिविद्धो निर्विद्ध इति। तत्र पञ्चविध संस्थान गतिविचारमाचष्टे तं कर्णिकार्नालिका1892नाराचार्धचन्द्रवत्सदन्तैर्गम्भीरगति विषय मेकतो गतिभेदमुपगतं विद्धं विद्यात्। (तुल्य1893वेगमतिसंस्थानप्रचारमीषत्पतनत्वचो विशेषगतिनिर्भिन्नान्तरत्वचमुत्तुण्डितं विद्यात्। उभयतो निर्मेिन्नसायकं त्वङ्यांसशिरास्नायूद्धमभिविद्धंविद्यात्। एवमेव विद्धोत्तुण्डिताभिविद्भगतिमतीत्य शरीरमपास्य यत्सायको व्रजति तं निर्विद्धम्।
प्रायस(श)स्तु महाकायत्वाद्वारणानाम्, अल्पप्राणत्वाधकानामुत्तुण्डिताभिविद्धनिर्विद्धानि मन्दमुपलभ्यन्ते॥उद्धान्तविठुतातिविद्धनितां गतिमुपगच्छतां व्रणानां छिन्नविच्छिन्नदारितावनष्टोत्रष्टानामित्यत्र पञ्चविधो व्रणविच्छेद विशेषोऽभिवर्तते। तत्र यदङ्गपरशुपट्टिशकरपत्रैरशेषं निवर्त्य ते तच्छिन्नमिति विद्यात्। तत्र तत्रैवानेकशोऽङ्गे तिर्यगुपगतः प्रहारसंनिपातो यत्र दृश्यते तद्विच्छिन्नमिति विद्यात्। अङ्गुल्पग्राभ्यन्तरे हस्ते लाङ्गूले नखे शिरसि कर्णयोर्वा यत्र द्विधा भेदमभिवर्तते तं दारितं विद्यात्। यदनुलोमं यावदस्थि कृत्यते मांसमेदः शिरास्नायूपगतं तदवनष्टं विद्यात्। अवनष्टादविशेषेण केवलं प्रतिलोममुन्नष्टं विद्यात्।) तत्र तदवच्छिनं विच्छिनं दारितमवनष्टमुन्नष्टमति विद्धावकृत्तसंभवानि (?)।
अवमृष्टं द्विविधम्—गम्भीरान्तरगतत्वाद्विपुलमुखत्वाच।व्रणस्थावकृन्तनात्सहसाऽब्राण्यवसरन्ति तदा छिन्नान्नं किष्टानं वा विद्यात्।छिन्भाब्रस्य रुधिरं मेहनात्प्रवर्तते, सर्वशस्खादमीक्ष्णमुद्विजति, अस्रं चोष्णमुद्रमति, उन्नद्वकुक्षिः क्षितितलमभिगम्य पतति भूमाविति, मुहुर्मुहुर्हस्तं गृह्णाति। अस्प विपर्यये किष्टान्त्रे1894।किष्टाने तु क्रियां प्रयुञ्जीत।
तत्र तावदवकृत्तमाचार्यास्त्रिविधमुपदिशन्ति—विरक्तावपाटितावगाढम्। तत्रान्तर्लोहितमुपगतमांस-श्वेत1895मीषत्संचयोपगतं विरक्तं विद्यात्। अण्डकोशबस्त्युदरगुदेषु पार्श्वयोर्मूर्ध्नि गात्रापरे हस्ते वा यावदामांसमवगतमवपाटितं विद्यात्। परश्वपट्टिशकरपत्रादिघारङ्गप्रत्यङ्गेषु यावदस्थन्युपगतमवगाढं विद्यात्।
गात्रापर1896ग्रैवेयरज्जुभिर्गाढबन्धननिमित्तैः…………रास्या1897भागोपगतैश्चातिकर्कशैर्निघृष्टं भवति।
तत्राशनिपतनजतुमधूच्छिष्टगुडामेध्यपाचकार्काशीर्वि(वि)षाङ्गारैर्दग्धमुत्पद्यते। तत्र ज्वालाङ्गारपरंपराबाष्पसंतापा-त्मकं पञ्चविधं दग्धं ब्रुवन्त्याचार्याः। तत्र पञ्चविधस्यामि(पि)दग्धस्य पिपासा त्वक्शोषो वेपथुः श्वयथुरिति सामान्यवेदनात्मकान लिङ्गानि भवन्ति।
अथ त्वग्गतोष्मण्यभ्यन्तरगवेऽमौ नात्यर्थदाह स्फोटाः संभवन्ति त्वग्गताः। मांसगते त्वनले प्रकुथितमांसंताऽसृगतिगमनं च भवति।यदा त्वङ्मांसमभिभूय शिरास्नायूपगतो भवत्पनलः, तदा मूर्छति, अत्यर्थं1898 कालपर्यपाश्च व्रणेषु संरोहत्सु1899 सिरास्नायूनां संकुचनं भवति॥
त्वङ्मांसशिरास्नायुमार्गमतीत्य यदा हुतभुगभिभवत्य नेकपम्, तदा दाहमूर्छाश्रमकम्पममोहा यथोक्तानि च त्वङ्मांसशिरास्नायुलिङ्गानि भवन्ति।मर्मगले यथोक्तानां मर्मणा लिङ्गानि भवन्ति। प्राणवियोगश्चात्पर्यंदग्धस्य वारणस्य॥
यदा तु गोपुराट्टालकाद्यभिभवतो वारणस्योल्का ज्वालावलीढं भवति शरीरम्, तदा रोमत्वग्ज्वलनं1900 भवति। अङ्गारामेघ्पगुडमधूच्छिष्टस्प जतुभिरवलीढगात्रस्प भूयो भूयः श्यावता भवति। तत्र द्विविधमेव परंपरादाहमिच्छन्ति—द्रवेण वा स्थिरेण वा। तयोस्तु लिङ्गसामान्य भिहतदेहानांविद्युद्विस्फोटनाद्भैरवं स्वरमभिगृण्वतां हृदयमवदीर्यते द्विरदानां केषांचित्।घोरघोषत्वात्केचिद्वाधिर्यमेवा1901ऽऽप्नुवन्ति। केचित्त्वमिहतदेहा गतासवो भवन्ति। अत्यर्थाध्वगमनादिवसकरकराभिहतदेहस्य संतापालेभ्यो रुधिरागमः, पिपासात्वक्संकोचोरुस्तम्भाः, श्र(स्त्र)स्तकरचरणकर्णवालमेहनत्वं च भवति। सदिवसकरकरदग्धतनुर्यदा ग्रहणमुपगतो भवति द्विरदपतिः, ततोऽस्य मनस्तापः, यवसकवलकुवलानामुपयुक्तानां स विवाहमुपजनयति। स विदग्धोधातुत्वङ्मांसधमनीसिरास्नायूनां भूयो भूयो विदाइमभिनिवर्तयति। तस्यसंतापदग्धोत्पन्नास्तीक्ष्णवेदनाः शरीरे कृष्णपर्यन्ताः सिताः स्फोटाः1902शोषरुग्दा इमाया भवन्ति। इत्येतत्संतापदग्धस्य लक्षणम्॥
अभ्या1903सादाशीविं(वि)षाणां निःश्वासघ्राणनयनैः संमूर्छित कोपानां संनिपाताहिरदपतिगात्रेषु रक्तमण्डलानि प्रादुर्भवन्ति। प्रियतण्डुलवर्णैः स्फोटैरुपचयोऽप्रतिकारादस्य1904 मांससादः पिपासा वेपथुर्वमथुरभीक्ष्णं संभवति। इत्येतदाशीवि(वि)षदग्धलक्षणं भवति। इति सद्यःक्षतदग्धमशेषेणोक्तमस्माभिः॥
व्रणस्तु सर्व एव किंचित्कालमागन्तुर्भूत्वा दोषाणामन्यतम संसर्गमुपगम्यसदोषो भवति। तस्याऽऽकृतिविशेषाद्व्रण करणविशेषाणामन्यतमेनाऽऽहतस्पतांच्चकित्सित1905मुपदेक्ष्यामः—
अथ सद्यःक्षतं मधुघृताभ्यक्तं कृत्वा विमलशिशिरसलिलं द्विरदमवगाहयेघिरात्रम्। एवं क्रमेणानुबनीयात्। ततः किन्नोत्थितन्त्रणमपि विज्ञेयपूतिमांसावनद्ध मुत्सङ्गयुक्तं गत्या वा ततः शस्त्रेण1906प्रतिमांसं विशोध्यैषण्याऽन्वेषणमसंमूढःकृत्वा, यत्रैषण्या गतिर्नाविरुध्यते ततो व्रणं निरुत्सङ्गं सलिलानवस्थायिनंकुर्यात्। सलिलं हि रक्तमूर्छितं वायुनोच्छ्रितत्वं पूयत्वं च व्रजति। पूयःस दोषमूर्छितो गतिमापादयति। तं घृतेनावसच्य गजशकृतेन किण्वलवण —संयुक्तेन पूरयेत्। उपचरति मासार्धवया(?) येष्वपि पूरणं दद्यात्। तृतीयेचाहनियथोक्तेन प्रक्षालनेन प्रक्षाल्य व्रणुं घृतेन परिषेचयेत्। अनेनैवविधिना व्रणमुपाचरेदाक्लेदात्। ततः शोधनादिक1907ल्कैरुपक्रमेत् घृतपानं चदद्यात्। घृतसंयुक्तं शाल्पोदनं मुद्द्रयूषेण संसृष्टं दद्यात्॥
अथ सिंहव्याघनस्वदंष्ट्रावलुप्तमभिविज्ञाय शतधौतेन घृतेनाभ्यज्य पञ्चकषायेण विमलशिशिरसलिलेन परिषेचयेत्। शीतैस्तु प्रदेदैर्घृत संयुक्तेश्च प्रदेहयेत्।व्रणांश्च व्रणोपक्रमैरुपक्रमेत्॥
अग्निदग्धं तु शतधौतेन घृतेनाभ्यज्य निर्वापयेत्पयः सुराभ्योऽन्यतरेण वाशीतैश्च प्रदेहैः, मञ्जिष्ठायष्टीमधुक चन्दनोशीरपद्मकनलवञ्जुलशालिमूलसारिवार्जुनोदुम्बरप्लक्षैः वटनालिकाजलज बिशमृणालोत्पलपद्मिनीकर्दमभद्रमु-स्तातृणशूल्यैश्च सुरादधिघृतयुक्तैः प्रदेहं कुर्यात्। कषायोदकपिष्टैः परिषेकांश्च कुर्यात्व्यपगताग्रिमभिज्ञाय विमलशिशिरसलिलेऽवगाहयत्।निवृत्तमवगाहाद्घृतेन1908रिषेचयेत्। व्रणं च पूर्वोकैरुपक्रभैरुपक्रमेत्।गुडजतुमधुच्छिष्टामेध्यदग्ध1909 (एनल1910दग्धसमानक्रियं तस्योपक्रमं कुर्यात्।) घृतेनाभ्यज्य शीतैः प्ररुपक्रमेत्॥
अर्कविद्युत्संतापदग्धस्य…………समानमुपक्रमं कुर्यात्। संतापदग्धंतु विशेषेणाऽऽहारैः सात्म्यकालाविरुद्वैरुपाचरेत्। घृतयुक्तं च शालीनामोदनंमुद्द्रयूषरसयुक्तं दद्यात्॥
क्षारदग्धं च द्विव्रणीयेन क्षारकर्मण्युपदिष्टेनोपक्रमेत।घृष्टमधुघृतेनाभ्यज्यशीतैः प्रदेहरुपक्रमेत॥
विषदग्धं च शस्त्रकर्मादिभिरुपक्रमेत्। दग्धं चाऽऽशीविपनिःश्वासैः शतधौतेन घृतेनाभ्यज्य विषजग्धोद्दिष्टैः प्रदेहैरुपक्रमेत्। घृतपानं च दद्यात्, शीतपरिषेकं च कुर्यात्। भोजनं विषजग्धोद्दिष्टं दद्यात्॥
तत्र श्लोकः—
क्षतं वग्धं च यो नागे(गं) विधिना समुपाचरेत्।
पूज्यः स नियतं राज्ञा दानमानपरिग्रहैः॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्परोगस्थानेसद्यःक्षतलव(क्ष)णं नाम द्वितीयोऽध्यायः॥२॥
अथ तृतीयोऽध्यायः।
_________
नन्दनोपवने पुण्ये नानाद्विजसमाकुले॥
आश्रमे स्वर्गसोपाने महर्षिगणसेविते॥१॥
हुताग्निहोत्रमासीनं ज्वलन्तमिव पावकम्॥
पालकाप्यं महातेजा अङ्गराजो महायशाः॥२॥
प्रणम्य शिरसा तस्मै संशयं परिपृष्टवान्॥
सद्यःक्षतविधानं तु भगवन्वक्तुमर्हसि॥३॥
छिन्नविच्छिन्ननिर्विद्धं सावनष्ठाविदारिते॥
उत्तुण्डितेऽतिविद्धे च तथा विद्धावमृष्टयोः॥४॥
दग्धे दूषीविषे चैव क्षतेषु विविधेषु च॥
विध्यं(धि) सद्यःक्षते नागे कृपया वक्तुमर्हसि॥५॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत्॥
शृणु भद्रमुख स्वस्थो यत्त्वं पृच्छसि संशयम्॥६॥
अतिदीर्णव्रणानां तु विधिरन्यः प्रवक्ष्यते॥
पतङ्गं मधुसर्पिभ्यां संयुक्तं मनुजाधिप॥७॥
सद्यःक्षतेषु नागानां संधानं हितमुत्तमम्॥
गम्भीराणां तु सर्वेषामेषण्या निर्दहेदसृक्॥८॥
श्वेताभासो व्रणो यस्तु तस्मित्रक्तं न निःस्रवेत्॥
वृक्षोत्तङ्गी1911व्रणो यस्तु तस्मिक्तमति()तम्॥९॥
दूषयेत्तु प्रदुष्टं1912 तत्स्व (छ) थुं च नियच्छति॥
संतापयति तिष्ठन्तं पार्क चाऽऽशु नियच्छति॥ १०॥
तस्माद्रणं शोधयित्वा घृतेन परिषेचयेत्॥
संसृष्टां1913 मधुसर्पिभ्यां वर्ति चात्र प्रवेशयेत्॥११॥
अथ निष्कृष्य तां वर्तिमिमं विधिमुपाचरेत्॥
कुमुदोत्पलपत्राणि हीवेरं च कुटंनटम् ॥१२॥
करवीरस्य पत्राणि क्षीरवृक्षत्वचस्तिलान्॥
कृष्णमृत्तिकया सार्धं हर्षाद प्रतिपेषयेत्॥१३॥
घृतेन शतधौतेन संयोज्याथ प्रलेपनम्॥
शीतक्रियामिमां वाऽन्यां यथावत्समुपाचरेत्॥१४॥
कन्दैर्बिशमृणालानां क्षीरवृक्षत्वचाऽन्वितैः।
छायायां परिषेकं हि कारयेद्विधिवद्भिषक्॥१५॥
अभ्यङ्गैः परिषेकैश्च शीतैः पानैर्घृतस्य च॥
सुखमस्य भवेत्तेन न च दोषः प्रबाधते॥१६॥
अभिघाताद्विषाद्वाऽपि द्विपस्प श्वयथुर्यदा॥
उत्पद्यते भिषग्वीरस्तदेनं कारयेद्विधिम्॥१७॥
चन्दनं पद्मकं पत्रं शैवलं1914 सुनिषण्णकम्॥
क्षीरपिष्टानि सर्वाणि घृतेनैतत्प्रलेपनम्॥१८॥
सर्पिषाऽभ्यञ्जनं कार्य प्रदेहो वा न संशयः॥
अथवैतेन कल्पेन विशेषो नोपलभ्यते॥१९॥
कुठाराकृतिशस्त्रेण ततस्तं1915 प्रच्छयेद्भिषक्॥
नातिगाढं न च लघुं न घनं विरलं न च॥२०॥
पदे पदं न दद्याच्च शिरासंधींश्च वर्जयेत्॥
जम्बूशीरपलाशैश्च पद्मिन्याश्चैव कर्दमैः॥२१॥
लेपयेद्द्वृत्तसंयुक्तैस्ततः संपद्यते मुखी॥
ईषत्कषायमधुराः कषायास्तु रसास्तिलाः॥२२॥
रक्तपित्तानिलहरास्तेषां कल्कः प्रशस्यते॥
कषायात्त रसाच्छ्रेष्मा माधुर्यात्पित्तमेव च॥२३॥
स्नेहाच्च शमयेद्वातं तस्मात्कल्कोऽयमिष्यते॥
घृष्ट1916दष्टविदग्धानां क्षीरवृक्षत्वचाऽन्वितः॥२४॥
हितो गजानामत्यर्थं लेपः सद्यःक्षतेषु च॥
उद्गमो द्विविधो राजन्यदि मर्माश्रितो भवेत्॥ २५॥
सुपकं छेदयेदाशु नापकं तु कदाचन॥
मर्मसंरक्षणार्थं च यत्नं कृत्वा तु दन्तिनाम्॥२६॥
दोषमन्तरतः कृत्वां ततः शस्त्रं निपातयेत्॥
मर्मण्यभिहतो यस्माद्विपो मरणमृच्छति॥२७॥
मर्मेति मारणादुक्तं नैरुक्तेनैव हेतुना॥
निमित्तैर्विविधैर्देहं गजानां विवृणोति यत्॥२८॥
तस्माद्धि वारणेन्द्राणां व्रण इत्यभिधीयते॥
रूढेऽपि हि व्रणे यस्माद्व्रणवस्तु न नश्यति॥२९॥
आ देहधारणादेव व्रण इत्यभिशब्दितः॥
अर्बुदा गलगण्डाश्चयेचसंधिगता व्रणाः॥३०॥
एतान्क्षारैरुपक्रामेन्नेताञ्शस्त्तैरुपाचरेत्॥
संनिपातैस्तु दन्तानां (दारितानां1917) द्विपादिभिः॥३१॥
भिण्डिमालैः1918 सकणयैरसिशक्त्यृष्टितोमरैः॥
भिन्नमर्मशिरा गाढं वहन्ति यदि शोणितम्॥३२॥
अतिप्रवृत्ते रुधिरे लभेयुरपतानकाम्॥
मूर्छा वा दारुणां नागाः क्षयं मरणमेव वा॥३३॥
तेष्वसृक्स्थापनं कार्यमेभिः सर्वैरुपक्रमैः॥
कषायवृक्षचूर्णैर्वा भस्मना गोमयस्य च॥३४॥
भस्मना तान्तवानां वा शोणितस्थापनं भवेत्॥
(शीतैः1919 पानैश्च सेकैश्च शोणितस्थापनं भवेत्)॥३५॥
अथवैतेन1920 कल्पेन शोणितं नैव तिष्ठति॥
अग्रिकर्म ततः कुर्यात्क्षारं चात्र प्रदापयेत्॥३६॥
न चातिक्रामयेद्वेलां समुद्रः समये स्थितः॥
न चातिक्रमितुं शक्कममिक्षारादसम्बलात्॥३७॥
अत्यम्ललवणादुष्णादत्याशात्यम्बुसेवनात्॥
असृस्थितं चिरमपि वारणस्य प्रवर्तते॥३८॥
नात्यम्लं नातिलवणं नात्पुष्णं नातिभोजनम्॥
नात्यर्थमम्बुपानं च तस्मान्त्रागाय दापयेत्॥३९॥
अभिघातात्मकुप्येत वायुः पित्तं च दन्तिनः॥
तस्मात्सद्यःक्षते नागे घृतमेव हितं भवेत्॥४०॥
पञ्चाहं सप्तरात्रं वा व्रणं स्नेहेन सेचयेत्॥
दोपातिरिक्त विज्ञाय व्रणं प्रकृतिसात्म्यतः॥४१॥
क्रियापथं प्रयुञ्जीत पयश्चास्मै1921 प्रदापयेत्॥
ततोऽङ्गराजः पप्रच्छ विनयात्पुनरुत्थितः॥४२॥
किमर्थं दीयते क्षीरं व्रणितेभ्यो महामुने॥
इत्येवमुक्तः शिष्येण1922 पालकाप्यस्ततोऽब्रवीत्॥४३॥
शृणुष्व मे महाराज पदर्थं दीयते पयः॥
(इमे1923 च सर्वे ऋषयः) सहितास्तु त्वयाऽनघ॥४४॥
अस्त्यर्थंशोणितं यस्य1924 निःसृतं वारणस्य वै॥
तस्मै क्षीरं प्रदेयं स्पायुक्तं महीपते॥४५॥
जातिसात्म्यात्तु नागानां श्रेष्ठं कायाग्निदीपनम्॥
क्षीरं सर्वत्र मधुरं बल्यं रक्तप्रसादनम्॥४६॥
जीवनं वातरोगघ्नं बलवृद्धिकरं च तत्1925॥
रसायनं च पथ्यं च हृद्यं वृष्यं गदापहम्॥४७॥
अतिप्रवृत्ते रुधिरे धातूनां जायते क्षयः॥
तन्मूला1926 धातवः सर्वे क्षयाच मरणं ध्रुवम्॥४८॥
तस्मात्क्षीरं भवेद्देयं सर्वैर्मधुरकैः स(शृ)तम्॥
एतदर्थ महाराज क्षीरपानं विधीयते॥४९॥
<MISSING_FIG href="../../../books_images/U-IMG-1707884583021301-removebg-preview.png"/>
अतः परं प्रवक्ष्यन्ते व्रणोपक्रमहेतवः॥
महारविगतोष्माणं स्थितं च रुधिरं यदा॥५०॥
द्विवणीयोपचारेण साधयेच्छोधनादिना॥
यवसैः प्रतिपानैश्च स्नेहयुक्तैश्च भोजनैः॥५१॥
संजातप्राण मांसस्य प्रतिपूर्णेषु धातुषु॥
स्नेहपानोपचारेण स्नेहमच्छं प्रयोजयेत्॥५२॥
स्नेहेन च विर(रि)क्तस्य बस्तिकर्म मशस्यते॥
विरिक्तं च विज्ञाय स्नेहपानं प्रवर्तयेत्1927॥५३॥
अविरिक्तस्य तैलेन शृणु दोषं नराधिप।
आक्षेपं वा विलभते अतीसारमरोचकम्॥५४॥
अथवा पाकलं घोरं मरणं वा नियच्छति॥
एते चान्ये च बहवो दोषाः स्युर्दुर्विरिक्ततः॥५५॥
मुविरिक्तस्य वै राजन् बलं तेजश्च वर्धते॥
स्नेहपान विधिश्चैव बस्तिदानविधिस्तथा॥५६॥
तस्मिंस्तस्मिन्प्रकरणे1928 पुरस्तादेव कीर्त्यते॥
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि पार्थिव॥५७॥
भूयः किमन्यदिच्छेत्त्वं(स्त्वं ) वरदोऽस्मि तवानघ॥
<MISSING_FIG href="../../../books_images/U-IMG-1707884855021301-removebg-preview.png"/>
ततोऽङ्गपतिरक्षुद्रो विनयात्पुनरुत्थितः॥५८॥
अकल्पानां च नागानां कल्पानां च तपोधन॥
अरिष्टं ज्ञातुमिच्छामि दूतानां चैव लक्षणम्॥५९॥

शृणु मे संर्वमेवैतदविक्षिप्तेन चेतसा॥६०॥
अत्यर्थं दुर्मना यस्तु स्तब्धकर्णशिरोधरः॥
न च वेदयते संज्ञा यथा प्रेतस्तथैव सः॥६१॥
अत्यर्थं तु यदा नागो मक्षिकाभिरुपास्यते॥
अकस्मादेव राजेन्द्र नायमस्तीति निर्दिशेत्॥६२॥
(छायायां1929 गच्छतो यस्य शिरो यस्य न दृश्यते॥
वारणस्य नरव्याघ्र तं प्रेतमभिनिर्देिशेत्॥)६३॥
किया सम्यक्प्रयुक्ताऽपि पदा नागस्य हीयते॥
रोगेषु साध्यमानेषु तदरिष्टस्य लक्षणम्॥६४॥
<MISSING_FIG href="../../../books_images/U-IMG-1707884974021301-removebg-preview.png"/>
अतः परं प्रवक्ष्यामि दूतानामपि लक्षणम्॥
चित्रमाल्याम्बरधरान्स्पृशतश्च नखांस्तथा॥६५॥
मुक्तकेशैकवस्त्रांश्च दीनां व्याहरतो गिरम्॥
पृच्छकांस्तादृशो दृष्ट्वा न गन्तव्यं भिषग्वरैः॥६६॥
आमं मांसं सवत्सां गो ब्राह्मणाञ्शुक्लवाससः॥
उद्धृतां च महीं दृष्ट्वा वाराहं चक्रमुत्थितम्॥६७॥
श्वेतं छत्रं पताकां च श्वेतं च वृषभं तथा॥
दधि प्रमित्रं च गजं पूर्ण च कलशं तथा॥६८॥
एतानि च निमित्तानि शुभानि च शिवानि तु॥
प्रस्थितैर्यदि दृश्यन्ते सद्यः सिद्धिर्भुवा भवेत्॥६९॥
शुभशब्दे च गन्धे व सानुलोमे च मारुते॥
प्रस्थिते सर्वकार्याणां सद्यः सिद्धिर्भुवा भवेत्॥
क्रिया सम्यक्प्रयुक्ताऽपि भिषग्भः कालसंभूतैः॥७०॥
या न सिष्यति विप्रेन्द्र तन्मे शंसितुमर्हसि॥
इत्यङ्गपतिना पृष्टः पालकाप्यस्ततोऽब्रवीत्॥७१॥
तिथिष्वशस्तपूर्वेषु पक्षच्छिद्रेषु हस्तिनाम्॥
आर्द्रासु त्रिषु पूर्वास भरणीषु मघासु च॥७२॥
रोगस्या1930ऽऽगमनेऽन्यां वा क्रियां सर्वां विवर्जयेत्॥
कृत्तिकाश्लेषयोश्चैव मूले वरुणदैवते॥७३॥
वारणास्त्वभिभूपेरन्हृतास्त्वेतेषु राक्षसैः॥
तस्मात्सर्वप्रयत्नेन तिथीनेतान्विवर्जयेत्॥७४॥
**क्रिया सम्यक्प्रयुक्ताऽपि गजानां शास्त्रकोविदैः॥
न सिध्यति महाराज तस्मादेतान्विवर्जयेत्॥७५॥ **
<MISSING_FIG href="../../../books_images/U-IMG-1707885306021301-removebg-preview.png"/>
आमच्छेदे तु ये दोषास्ता सर्वाञ्णु पार्थिव॥
आमच्छेदे तु रुधिरं दावाग्रिरिव कुप्यति॥७६॥
कुपितं कोपयेत्पित्तं त्वङ्मांसं चापि दूषयेत्॥
वायुना सह संगम्य वयथुं जनयेदृशम्॥७७॥
ततोऽस्य वेदना घोरा दाहश्चैव मवर्तते॥
अतिप्रवृत्ते1931 दाहे च विसर्पस्तस्प जायते॥७८॥
नीलपीवारुणनिभैः स्फोटैः समुपवीयते॥
न तिष्ठत्पथवा रक्तं स्नायुच्छेदोऽपि वा भवेत्॥७९॥
स्नायुच्छेदेन खञ्जत्वं गद्रदत्वं च जायते॥
स्कन्दरोगं च लभते शोणितस्य प्रवर्तनात्॥८०॥
एतदर्थं न कुर्वीत आमच्छेदं सु कुञ्जरे॥
तस्मात्सुपक्वंश्वयथुं छेदयेत्क्रमशो भिषक्॥८१॥
चतुर्दष्ट्राहिदष्टस्ययथा नास्ति चिकित्सितम्॥
एवं तु कुपिते रक्ते नेर्त्तेग्ने(?)रस्ति भेषजम्॥८२॥
<MISSING_FIG href="../../../books_images/U-IMG-1707885326021301-removebg-preview.png"/>
अत ऊर्ध्वं प्रवक्ष्यामि वह्निर्यत्रावतिष्ठति॥
जाठरः पृथिवीपाल नाभावग्निः प्रतिष्ठितः॥८३॥
सम्यक्पचति तत्रस्थमाहारं तु चतुर्विधम्॥
यथाऽग्रिर्विपचेद्वाह्योजलं स्थालीमदूषयन्॥८४॥
दीप्तः सम्यक्परिक्लिन्ना1932ंस्तण्डुलानेवमेव तु॥
आमाशयविभागार्थं1933 नाभ्यामग्निःप्रतिष्ठितः॥८५॥
कायेऽन्नं1934प्रपचेत्सर्वं सम्यग्वातसमीरितः॥
यथा संप्रतिपूर्णस्य शुद्धकोष्ठस्प हस्तिनः॥८६॥
सम्पग्विपच्येताऽऽहारोबलवर्णकरस्तथा॥
दोषधातुसमत्वं च करोतीति विनिश्चयः॥८७॥
असम्यक्पच्यमानश्च1935व्यापन्नस्तु यदा भवेत्॥
एतदेव विपर्यस्तं करोतीति विनिश्चयः॥८८॥
यवसं परिपूर्णाय पीतायाम्बु सचेतसे॥
या विधा दीयते राजन्सा विधाऽर्थाय कल्पते॥८९॥
यवसानि विचित्राणि कुवलं पल्लवानि च॥
यवसार्थे प्रदेयानि निग्रहाच निवारयेत्॥९०॥
व्याप्य तिष्ठति यावत्तु शरीरं शुक्रमेव तु॥
आप्पो धातुर्द्रवो रक्ततेजसा स तु रज्यते॥९१॥
मूर्तिमच्चैव भूस्तत्र स्वधातुर्विवरं स्मृतम्॥
स्पर्शनं चैव वायव्यमेवं पञ्च गुणाः स्मृताः॥९२॥
ईषत्क्षारस्य यः क्षारः स क्षारः क्षार एव तु॥
सनिर्दहति भूतानि स्थावराणि चराणि च॥९३॥
शीतलस्तीक्ष्ण1936वीर्यश्च तेजो दहति द्विपान्॥
ये व्रणाः संधिदेशस्था येषां चासृन तिष्ठति॥९४॥
उष्णताकृतभीरूणां दाहो येषु प्रयुज्यते॥
ये व्रणा दूषिता नित्यं येषां चासृन तिष्ठति॥९५॥
तेषां प्रयोजयेत्क्षारं ये च दाहेऽतिशङ्किताः॥
अत एव विनिश्चित्य ऋषिभिः ससुरैर्नृप॥९६॥
तुषारक्षारयोगोऽयं1937 निर्मितो ब्रह्मणा स्वयम्॥९७॥
क्षारोऽग्निकर्म कुरुते न च त्रासयते द्विपम्॥
मृगा1938 ह्येते प्रकृत्या च वनवासाध्वभीरवः॥९८॥
इस्पर्थ कल्प्यते क्षारो गजानां मनुजाधिप।
शीतलोऽग्रिर्भगवता कृतो लोकहितेप्सया॥९९॥
भस्म कृत्वा रसान्षट्च क्षरणात्क्षारसंज्ञितः॥
संयोगात्तु रसस्त्वेष रसः प्रकृतिसंभवः॥१००॥
तुषाराग्निर्यथा नागानिर्दहे च्छिरसः पुनः॥
विद्युन्मालिविनिर्दिष्टा तथा तस्य प्रतिक्रिया॥१॥
वर्जयित्वाऽवगाहं च परिषेकं च शीतलम्॥
पलाशशय्या नागस्य निर्वाते पूजिता भवेत्॥२॥
आमये पूर्वमुत्पन्ने पश्च मिथ्योपचारतः॥
उपद्रवति यत्पश्चात्तेन स स्यादुपद्रवः॥३॥
कायसंरक्षणार्थं च वर्णज्ञानार्थमेव च॥
एकामेव च्छविं विद्याद्यत्र रोम प्रतिष्ठितम्॥१०४॥
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि पार्थिव॥
सद्यःक्षतविधानं तु कृत्स्स्नकल्पमरिंदम॥१०५॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
सद्यःक्षतचिकित्सितं नाम तृतीयोऽध्यायः॥३॥
<MISSING_FIG href="../../../books_images/U-IMG-1707885968241803-removebg-preview.png"/>
अथ चतुर्थोऽध्यायः।
_______
अथाङ्गराजो मतिमानभिवाद्य मुनिंस्थितम्॥
पालकाप्यमृषिश्रेष्ठं पुनरेवेदमब्रवीत्॥१॥
शिरास्नाय्वस्थिसंध्यानां छेदे तिर्यक्तथैव च।
(पक्वस्या1939पाटने चैव) तन्मे ब्रूहि षडत्ययान्1940॥२॥

हीनं तत्रातिरिक्तं च द्विविधं शास्त्रनिश्चयात्॥३॥
वैद्योपचारानागानां शस्त्रकर्म विगर्हितम्॥
गम्भीरानुगतं दोषं शस्त्रेणाप्राप्य वारणे॥४॥
अदृष्टकर्मा तु भिषक्पाटयित्वाऽवसीदति॥
रुजाः शस्त्रकृतास्तस्य यथा पूयसमुद्भवाः॥५॥
दन्तिनो दाहबहुलाः हीने स्याच्छ(स्युः श)स्त्रकर्मणि॥
व्रणे त्वल्पाश्रये शस्त्रमवगाढं यदा बलात्॥६॥
पातयेत्सहसा वैद्यस्तदा हिंस्पादनेकपम्॥
वेपथुं वयथुं चैव शोषं सहृदयामयम्॥७॥
एषामन्यतमं ज्ञाथ व्याधिमाप्रोत्यनेकपः॥
स्रायुच्छेदेन खञ्जत्वं गद्गदत्वं च जायते॥८॥
मृणालमुखसंस्थानी व्रणश्चास्योपजायते॥
चिरकालश्रु(स्रु)तश्चापि संधानं नैव गच्छति॥९॥
तिर्यक्प्रणिहिते शस्त्रे शृणु दोषानतः परम्॥
दाहदोषा1941न्वितः स्तब्धः सरागः सपरिश्र(स्र)वः॥१०॥
न रोहति व्रणश्चास्य क्रियमाणेऽपि भेषजे॥
आमच्छेदे तु रुधिरं दावाग्रिरिव कुप्यति॥११॥
कुपितं कोपयेत्पित्तं त्वङ्मासं चापि दूषयेत्॥
वायुना सह संगम्यश्वपथुं जनयेद्भृशम्॥१२॥
ततोऽस्य वेदना घोरा वायुश्चैव प्रवर्तते॥
अतिप्रवृते दाहे तु विसर्पस्तस्य जायते॥१३॥
पीतनीलारुर्णानमैः स्फोटैः समुपचीपते॥
न तिष्ठत्यथवा रक्तं स्नायुच्छेदो यथा भवेत्॥१४॥
संधिच्छेदे त्वसंख्येया दोषा1942दृष्टा नराधिप॥
निर्हरेत्संधिदेशे1943 तु जलौकोभिस्तु शोणितम्॥१५॥
दुष्टं न मुक्तं रुधिरं घनी भवति वायुना॥
तेजसा पित्तवातौ1944व पाकं चैव नियच्छतः1945॥१६॥
एते दोषाः मदुष्टस्य रुधिरस्पा प्रवर्तनात्॥
अमदुष्टस्य निश्रा(स्रा)वे दोषान्वक्ष्याम्यतः परम्॥१७॥
केवलं दृष्टकर्माणो ह्यशास्त्रज्ञाश्चिकित्सकाः॥
भागाभागमजानन्तः शिरा हिंसन्त्यबुद्धयः॥१८॥
ततः श्र(स्र)ववि नागस्य शोणितं जलयन्त्रवत्॥
न च तिष्ठति दाहेन पहुर्वर्णमथो ह्यतः॥१९॥
गजानां मांसशोषैर्यद्भूयिष्ठं संप्रवर्त1946ते॥
ततो रक्तक्षयान्नागेवायुर्मर्माणि कृन्तति॥२०॥
वाताभिभूता नीरक्ताः स्फुटन्त्यस्य शिरास्ततः॥
हृदयं पीड्यते चास्य तृष्णा चैवोपजायते॥२१॥
स पाण्डुवर्णो विमना म्रियते शोणितक्षयात्॥
तस्माच्छिराव्यथो नित्यं वारणानां निगर्हितः॥२२॥
अपाटने च पक्वस्य1947प्रवृद्धो दोषसंचयः॥
दहत्यग्निरिवोदीर्णः सदोषो1948ऽन्तर्गतो गजम्॥२३॥
तस्य मांसानि मेदश्च सिरा स्नाय(यू)नवाप्यथ॥
शता1949यत्य1950तिवृद्धस्तु चिरकालमुपेक्षितः1951॥२४॥
इत्येते प्राप्तकालस्य दोषा दृष्टास्त्वपाटनम्॥
इत्येष पालकाप्येन शस्त्रकर्मणि हस्तिनाम्॥२५॥
षडत्ययोपचारस्तु यथावत्समुदाहृतः॥
न तिर्थक्पातयेच्छवं सर्वेष्वङ्गेषु पार्थिव॥२६॥
शिरास्थिमर्मसंधीनामन्तरेषु निपातयेत्॥
यथा1952 शिरास्तथा यन्त्रंसर्वगात्रेषु वा1953हरेत्॥२७॥
एषण्याऽन्वेष्य विधिवदनुलोमं प्रपाटयेत्॥
आसनेऽथ कलाभाने क्षये वंशे कटे तथा॥२८॥
भागेष्वेतेषु नागानां वृत्तच्छेद्यानि कारयेत्॥
शेषेष्वेतेषु भागेषु1954 वृत्तच्छेद्यं न कारयेत्॥२९॥
न काकपदकं कुर्यान्नचातिबहुपादकम्॥
तत्र शस्त्रपदं कुर्यार्द्द्यङ्गुलत्र्यङ्गुलान्तरे॥३०॥
पञ्चाङ्गुलान्तरे वा स्यादथवा चतुरङ्गुलम्॥
नवाङ्गुलं वा नागस्य शस्त्रकर्म विधीयते॥३१॥
यहच्छया सिद्धिरपि पण्डितानामसंगता॥
नयेन क्रियमाणेन विपत्तिरपि शोभना॥३२॥
नैवातिशीतो नात्युष्णः शीर्णरोमाऽथ पिण्डितः॥
पक्वोदुम्बरसंकाशः श्वयथुः पाकमागतः॥३३॥
शस्त्रेण वृद्धिपत्रेण वाऽसि(शि)तेन सि(शि)तेन वा॥
शस्त्रकर्मणि निष्णातः सुपक्वंपाटयेद्भिषक्॥३४॥
स्नेहपानं च सेकं च सर्पिः स्निग्धं च भोजनम्॥
नित्यमेव हितं तस्य कारयेत्स मुखी भवेत्॥३५॥

षडत्ययोपचारो नाम चतुर्थोऽध्यायः ॥४॥
<MISSING_FIG href="../../../books_images/U-IMG-1707887099241803-removebg-preview.png"/>
अथ पञ्चमोऽध्यायः।
_________
अथ भगवन्तं पालकाप्यं रोमपादः पुनरेवापृच्छत्—‘भगवभिरवशेषाणामामन्तुकानां लक्षणम भिहितम्, ये त्विमे व्रणा आसन्नप्रत्ययाः, तेषां प्रयोगसामर्थ्य योनिदोषं पृथक्त्वेनाऽऽकृति विशेषानुपक्रमविशेषांश्च(?) कति च व्रणोपक्रमा, कि साध्यासाध्यलक्षणम्, अन्वयप्रकृतिसात्म्यम्, इत्येतद्यथोपदिश्यमानमिच्छामि वेदितुम्’इति॥
एवं महर्षिभिरभिहितः, शुश्रूषा च(?) रोमपादाय1955संस्कृतपद विचित्रं हेतूपनयन निगमयुक्तमुवाच वाक्यम्—‘वत्स, एतेषु चतुर्षु कर्मस्कन्धेषु द्विरदपतयोव्याख्याताः। तेषां यथास्थानोपगतानां व्रणानां लक्षणविशेषमनुव्याख्यास्यामः। तद्यथा—अल्पवयसः कवलकुवलभोजना महान्तमध्वानं च यदावाह्यन्ते (दिवसकर1956कराभिसंतप्तशरीरा बह्वपगूढैरिव च पवनवलप्रवेगैरभिहन्यमानाः क्षितितलमभिपतन्ति पांशुममाथाभिषेवमाणाश्च न सलिलमवगाहन्ते।) शुष्कौष्ठकण्ठवदनाः केचित् केचित्सुदूराध्वानमुपगताः पांशुकर्दमशेवालपर्णकृमिम1957जुष्टं सलिलमुपसेवन्ते। तेषां वायुरतिबलः स्वरपरुषः शीतोध्मानात्मकः संघातवियोगकारी प्रकोपमुपगच्छति द्विरदपतीनां देहेषु। तेषांत्वक्चरणहस्तकुक्षिवदननखकर्णेष्वेवमादिषु चाङ्गप्रदेशेषु व्रणाः संभवन्ति स्वराःस्फोटवन्तः पुरुषाः फेनानुविद्धाः पिच्छिलाः स्राविणः प्रायशश्च गम्भीरानुगतभावा भवन्ति, अस्थिविवरभागाश्रयाश्च मांसमभि विगायन्ते, तद्वातव्रणलक्षणं भवति ॥
अथ सलिलधरविसर्गकाले वीरुद्वनस्पतिवानस्पत्यानामौषधीना1958मुपर्यागतवीर्यत्वादम्लरसभूयिष्ठत्वम1959 (मु)पगतानां सेवनात्पित्तसंजननं भवति।
भूयश्च शरदि दिवसकरकराराभिहतदेहानां सुजात1960यवसकवलकुवलानां वीर्यवतां भक्षणादतिमचुरसलिलपानादिभिः पित्तसंजननैराहारप्रचारैः पित्तं प्रकोपमुपगच्छति तेनैषां देहेष्वरूंषि प्रादुर्भवन्ति क्षिप्रपाकदीन्यतीव कुणपगन्धिबहुपरिश्रा(स्रा)वीणि हारिद्रवत्कपोसवर्णानि प्रकोपमुपगतानि त्वड्यांसशिरास्नायूनां शान्तेनातिमात्रं प्रवर्तन्ते। दाहदोषाश्च व्रणानां परिव्यापनं(णं) कुर्वन्तिपित्तसमुत्थेष्विति॥
अथ शिशिरकालमुपगतानामसात्म्यरस सेवनात्प्रचुरपानभक्षणादल्पपादसंचारणादतिव्यायामानुपसेवनाद्विशेषतो दिवानिद्रोपसेवनाच श्लेष्मा1961 संचयमुपगच्छति।
नित्यमेकरसोपसेवनाद्वसन्तकालेऽपि शीतः पिच्छिलो घनः स्वयोनित्वान्माधुर्यभूयिष्ठत्वाच्च कफः प्रकोपमुपगच्छति करचरण गुल्फसंधिपर्वस्वतिमात्रम्।
अथ श्लेष्मणा महामूलपर्यन्तानि कण्डूभूयिष्ठमध्यभागानि निरुजस्कतपाग्रगात्राणामरूंष्यभिनिवर्तयन्ति॥
ततः क्षितिरुहोपलक्षिततलेषु कण्डूयनाद्रतिमुपगच्छन्ति। यावाशोणितपरिश्रा(स्रा)वः, तन्निमित्तं च भूयः कण्डूयते। एष श्लैष्मिको व्रणः॥
इत्येवमेतैरेव त्रिभिर्दोषैः समन्वितं त्रिदोषसमुत्थं व्रणं विद्यात्॥
एषां दोषान्वयानामाकृति विशेषान्वक्ष्यामः। तद्यथा—ऋजूर्ध्वमधस्त्रिपुटश्चतुरस्रः कुटिलो मण्डलो दीर्घोऽर्धचन्द्ररूप त्रस्तिरश्चीनगतिरेस्वागतो1962बाणाकतिर्वल्मीकशरावाकृतिर्निम्न उन्नतमण्डलः पिपीलिका गृहसंस्थानः पणवमध्योभगसंस्थान आडम्बरमुखश्चेत्येता एकोनविंशतिव्रणाकृतयो भवन्ति। तासांव्रणाकृतीनां व्रणवस्तुविशेषास्त्रपो भवन्ति—त्वक्, संधिः, मर्म चेति।
त्वगाश्रयो द्विविधः—तनुः, स्थूलश्च॥
मर्मभागा1963श्रितस्त्रिविधः—मर्मजः, मर्मसंधिजः, मर्मातिगश्चेति। तत्र मर्मभागाश्रितौ द्वौ व्रणौ॥
मर्मनिर्देशभागान्व्याख्यास्यामः—अथाऽऽहाराचारव्यवायव्यायामसंभवानामपक्कपच्यमानपक्कानां त्रैकाल्योपगतानां च प्रत्येकशो लक्षणमुपदेक्ष्यामः॥
एवमेतेषां वातपित्तश्लेष्मणां युगपत्संनिपति1964तानां दोषसमुच्छ्रायो ग्रन्थिःपाकमुपगच्छति। श्लेष्मशोणितयोर्यत्तु(?) स्वैराहारप्रचारैः संघातो भवति। करचरणसंधिवक्षण बालगात्रपृष्ठवंशाक्षिकुटकुम्भासनकर्णाण्डकोश मेण्ट्रबस्तिगुदरन्ध्रकोष्ठानामन्यतमे प्रदेशे शुषिरमार्गप्रचारो वायुरतिबलत्वाद्ग्रन्थिभागमाध्मापयति। स परिणाहविवृद्धेर्भवत्युपल इव घनच्छविः, सवर्णः परुषोऽल्पवेदनः।इत्येवमपक्कस्य ग्रन्थेर्लक्षणम्॥
तस्यैव विदयमानस्य तोददाहमेदाङ्गताडनादयो वेदनाविशेषाः प्रादुर्भवन्ति।स तैर्वेदनाविशेषैरभिद्रुतः सन्विशेषेण करं पिनष्टि। सदङ्गं प्रत्यङ्गं वाऽवमृश्योद्विजते पर्यश्रुः परिम्लानमुखः, तथाऽमीक्ष्णं क्रौञ्चवदति, तुदति। इत्येतद्विदह्यमानस्य (ग्रन्थे1965र्लक्षणं भवति॥
श्वयथुवद्धन्थेः पक्वलिङ्गानि ल)क्षयेत्। अथ लक्षणम्—विदयमानस्य पूर्वोतैर्वेदनादिभिः, तथैवानुबद्धः श्यावत रक्तता वा पुष्णाति। स कतिपयाहाद्वैवर्षेन महताऽभिभूयते, स विवर्णतनुः स्पर्शमात्रं न सहते, तथा वा लेप देहैरनुव्यधमानः परिशुष्यति, घृतेनाम्पक्तस्य शीतोष्णाभिभूतत्वातं विस्यन्दते। न च यवसकवलकुवलानुपसेवते। तथा व्याददाति विष्टम्भते विनमतिपिपासुरतिमात्रं भवति, परिवमति वमथुना, हस्तिजीविभिः स्पृष्टं नेच्छति,स्पन्दनं घट्टनं वा। तस्मिन्नस्पृश्यमाने स्तम्भं पर्येति, नदत्यूर्ध्वशिरा1966 भूत्वा,न स्तम्भस्थानशय्यासनेषु शर्म लभते। इत्येतत्पच्यमानस्य वयथोलक्षणंभवति॥
पक्वेतु श्वयथौ1967वेदनोपशमः, परिपद्यते चास्य च्छविः, मन्दमन्दं चास्यश्वपथुरुपशाम्पति। शीर्यन्ते चास्य रोमाणि, गतोष्या नाति शैल्पमुपगच्छति,श्वेतः पाण्डुश्च पू (यसंचारा1968द्भवति, पीड्यमानश्च विनमति। इत्येतत्पकस्य श्चयथोर्लक्षणं भवति॥
त्वङ्मांसमेदोमर्मशिरास्नाय्वस्थिसंधय इति व्रणवस्तूनि भवन्ति।) निर्देशमेतेषां पुरस्ताद्वक्ष्यामः॥
अथ विलापनावसाधनरक्तापकर्षणपाचनभेदनसंधानपीडनसीवनशोषणैषणरक्षणक्षाराग्नि1969कर्मकृमिहरणोत्सादन-शीतीकरणासुवस्थापनक्षीरपानमृदुकरणच्छेदनधूपनरोपणवेधनापकर्षणक्रियाबृंहणस्थिरीकरणस्वेदनलेखनकण्डूष्मा-स्थापनबन्धविधिवर्तितैलचूर्णकषापलेपनस्नेहपानानुवासनरसक्रियासवर्णकरणवर्णप्रसादनयन्त्रविधिरित्येतेचतुश्चत्वारिं-शद्व्रणोपक्रमा भवन्ति॥
तत्र श्लोकौ—
वारणानां यथाशास्त्रं क्रियां कुर्यादतन्द्रित।
विज्ञाय तु पथावतां यथाकालं प्रयोजयेत्॥
प्रयोगकुशलो यस्मादसंमूढो जितेन्द्रियः।
स कर्मसु परां सिद्धि प्राप्नोति भिषगुत्तमः॥
इति श्रीपालकाप्ये हस्त्पायुर्वेदेमहाप्रवचने तृतीये शल्पस्थाने
व्रणोपक्रमलक्षणोपक्रमो नाम पञ्चमोऽध्यायः॥५॥
<MISSING_FIG href="../../../books_images/U-IMG-1707888340241803-removebg-preview.png"/>
अथ षष्ठोऽध्यायः।
________
अथ खलु रोमपादोऽङ्गपतिरपृच्छद्भगवन्तं पालकाप्यम्—‘भगवन्, किंज्ञात्वा वैद्यो भवति। एतन्मे व्याख्यातुमर्हसि’॥
ततः प्रोवाच भगवान्पालकाप्यः—‘इह खलु भोः पञ्च, सप्त, त्रीन्, द्वौ,चतुरो, नव, चतुर्दश, चतुरश्च ज्ञात्वा भवेद्भिषक्’ इति॥
तत्र ‘पञ्च’ इति पदवोचत्, तदनुव्याख्यास्यामः॥तत्र ‘पृथिव्या1970पस्तेजोवायुराकाशम्’इति॥
तत्र पञ्चगुणा पृथिवी।चतुर्गुणा आपः।त्रिगुणं तेजः। द्विगुणो वायुः।एकगुणमाकाशम्॥
शब्दस्पर्शरसरूपगन्धवती पृथिवी। शब्दस्पर्शरसरूपवत्य आपः। शब्दस्पर्शरूपवत्तेजः। शब्दस्पर्शवान्वायुः1971। शब्दवदाकाशम्॥
तत्र पृथिवी धारणे। आपः क्वेदने।तेजः पाचने।वायुर्व्यूहने। आकाशमवकाशदाने॥
तस्मात्पञ्चवर्गोऽयं प्रधानः, ततोऽभिप्रणीतं1972 सर्वं दन्तिनाम्॥
तत्र स्वमित्याकाशः। आकाशाच्छब्दः शौषिर्यं च।अनिलात्स्पर्शः प्राणादयश्च।दृष्टिः पाकः प्रकाश ऊष्मा पित्तं च तेजसः। स्नेहः क्लेदः शैत्यं रसोरसनं चोदकात्। घ्राणवान्गन्धः संघातश्च भूमेरिति॥
<MISSING_FIG href="../../../books_images/U-IMG-1707888727021301-removebg-preview.png"/>
सप्तैते शरीरे धातवः—रसो रुधिरं मांस मेदोऽस्थि मज्जा शुक्रम्।इति॥
त्रीनिति वातपित्तश्लेष्माणः। तैर्हि शरीरं धार्यते। समैः साम्यम्1973 साम्यम्, वैषम्यंविपरीतैः। तत्र बलतृप्त्युपचयकरः श्लेष्मा।पित्तमाहारं पचति। वायुश्चेष्टाप्रवर्तकः पञ्चधा प्रविभक्तः॥
—:():—
द्वावित्याहारोपचारौ। ताभ्यामिष्टदेशकालोपपन्नाभ्यां वातादयः समीभवन्ति॥
चतुर इति चतुर्विधो1974 भूतग्रामः स्वेदजाण्डजोद्भिजजरायुजाख्याः।सदधीना चिकित्सा। तत्रापि द्विविधा योनिः—चरा स्थावरा च। तत्र कृमिकीटपतङ्गपिपीलिकादंशमशकनागचतुष्पदाश्चराः।ओषधिर्वनस्पतिर्वानस्पत्यो वीरुधः स्थाबराः। तत्र स्तम्भवत्यः फलपाकान्ता ओषध्यः। पुष्पफलवत्यो वानस्पत्यः। अपुष्पाः फलवत्यो वनस्पतयः। गुल्मलतावल्लीप्रतानवत्यो वीरुधः। इत्येष चतुर्विधो भूतग्रामोऽन्योन्यानुग्रहे प्रवर्तते। ततो रसाः प्रजायन्ते, इति॥
—:():—
नव इति। प्राणापानव्यानोदानसमाना मानसचेतना (धातु1975) बुद्धयः। तत्रोर्ध्वः प्राणः। स ऊर्ध्वगोऽभिन्यस्तनिःश्वासक्षवथुकर्मा शरीरं श्रेयसे1976 निर्युनक्ति।अपानोऽधस्तात्पक्वंपक्वंमूत्र-परीषमुत्सृजति।समानः पुनर्मध्ये चाभ्यवहृतं पचति धारयति। व्यानोऽभिवहति शरीरं धातुष्वाहारमनु-पक्वम्। उदानस्त्वाहारमनुपक्वमुपनयत्यामाशयादूर्ध्वम्। एवमेते योगवाहाः प्रविभक्ताःपञ्च धातुषु प्रतिपद्यन्ते॥
विप्रतिपन्नास्ते मध्येऽधस्तिर्पगूर्ध्वबहिरन्तरवस्थिता भ्रमन्तो वा विविधान्रोगानुत्पादयन्ति।तत्र प्राणविप्रतिपत्तौ दुःखोच्छ्वासमहोच्छ्वासानुच्छ्वासवित्तविभ्रमक्षवधुवमथुच्छ्वासाः प्रादुर्भवन्ति। अपानविप्रति-पत्तौगृध्रसीश्वासजघनशूलकण्डूवर्त्तेन्द्रि1977योपरोधाश्मरीबस्तिमुष्कगुददेशोपसृष्टमूत्रपुरीषविकाराः प्रादुर्भवन्ति। समानविप्रतिपत्तौ चाग्निदौर्बल्यारोचकहृदयोत्क्लेदापसरणानाहोपद्रवदा1978हज्वरजठरशूल-गुल्महृद्रोगदर्द्रूः(द्रूर्व)संभवन्ति। व्यानविप्रतिपत्तौ धातुवैषम्यव्यतिकरश्च, तेषां वैषम्पव्यतिकरेभ्यो गदास्त्वग्दोषश्चयथुरेकाङ्गगलरोगनिर्भोगमन्थनतोदनभेदनवेपथुश्वासरोमहर्षग्रन्थिहृदयप्रसेकोन्मथनो-दावर्ताःसंभवन्ति। उदनाविप्रतिपत्तावन्तःप्रतीघातृष्णाश्लेष्माभिषण्णशिरोरोगमन्याग्रहकण्ठेस्वर-श्रोतो1979क्षिविकारा घुरघुरावसेकोत्कर्णकाः संभवन्ति। इत्येष प्राणादिपञ्चवायुप्रकोपतो रोगसमुद्देशः॥
भेदोस्त्वेत1980 एव निवृत्ताः—श्लेष्मप्रकोपाद्गुरुश्वेतस्तनकचहृदयोत्क्लेदप्रसेकाभक्तच्छन्दाभिषण्णा-विपाकारोचककृमिकोष्ठकण्डूवैवर्ण्यानि क्षपश्चेति। पित्तप्रकोपात्पित्तरोगमृदुशीताभिलाषाभितापदाह-मदमूर्छोच्छ्वासा भवन्ति। एव एव शोणितप्रकोपेऽपि भवेयू रोगाः। वातादुदावर्तानाहशूलदन्तग्रहपार्श्व-पृष्ठोदरकटीग्रीवाशिरोग्रह1981शिराध्मानस्नायुपीडनानि चेति। संनिपातेऽप्येतान्येव सर्वाणि वातपित्तश्लेष्मसु विप्रतिपन्नेषु प्राणादिषु च लक्ष्यन्ते। इत्येतदधिष्ठानं चेति॥
पञ्चभूतात्मको रसः।प्रायो रसाः पुनः षट्—मधुराम्ललवणकटुतिक्तकषायाः।मूलं चैतदधि1982ष्ठानस्य भवति। रसा ह्यस्य सात्मीभूता गुणवत्त्वेऽपि भवन्ति। अगुणवत्त्वेऽपि विपरीताः। आहारोऽप्यस्य चतुर्विधः। द्विधा विपाकः षडास्वादो भवति। तत्राज्ञेयाः कट्टम्ललवणाः, ते लघु पच्यन्ते कटुविपाका इति। (मधुरतिक्तकषायाः1983 सौम्पाः, ते गुरु पच्यन्ते मधुरविपाका इति॥)
तत्र श्लेष्मा सोमात्मकः स्निग्धः शीतो मृदुर्मधुरो गुरुर्लवणानुबन्धी श्वेतः पिच्छिलश्चेति।
पित्तं पुनराग्नेयमुष्णं तीक्ष्णं रूक्षं लघु कट्वम्ललवणानुबन्धि विशदं पीतं रक्तं विदाहि कृष्णं चेति॥
वायोः पुनरयं स्वभावः शीतो रूक्षः सूक्ष्मो व्यवाय्याशुकरी, अदृश्यो बली वेगवान्स्पर्शवांश्च लघुरनास्वाद्यः, तस्य नोपलभ्यते रसः, इति प्रतीत्पनीकेभ्योऽस्यानुमेयो रसः॥
एवंस्वभावा वातपित्तश्लेष्माणः, तेषां वैकृत्यमन्योन्यसंसर्गात्॥
शोणितमपि पित्तसमानमपि ग्रहणं चेति।
रसः पुनर्मधुरः स्निग्धः शीतलो मृदुर्गुरुर्दीर्घविपाक्यविदाही पिच्छिलश्चेति॥
कषायस्तु रसो रूक्षः शीतलो लघुर्विष्टम्भ्यविदाही चेति ॥
तिक्तस्तु रसः कषायरसस्वभावात्कषायसमगुणः, तीक्ष्णो विशेषेणेति॥
कटुस्तु रसस्तीक्ष्णोष्णलघुरूक्षः क्षिप्रकारी विदाही चेति॥
अम्लस्तूष्णोऽभ्यन्तरे विदाही बहिः शीतः श्लेष्मस्थाने च तीक्ष्णः सद्यःप्रसेकी क्षिप्रपाकी स्निग्धश्चेति॥
लवणः पुनस्तीक्ष्णोष्णः स्निग्धो लघुर्विदाही चेति॥
तत्र दोषरसविशेषा व्याख्याताः॥
इदानीं येन यथा दोषो हीयते वर्धते वा तद्वक्ष्यामः॥
मधुरो रसः समानरसत्वाच्छ्लेष्माणं वर्धयति, शैत्याच्छैत्यम्, गौरवाद्गौरवम्, एकयोनित्वात् (योनिरिति)।अम्लः पुनः प्रसेकित्वात्प्रसिञ्चति। तत्प्रत्यक्षमुपलभामहे। यथा दाडिमाम्रातकर्मातुलिङ्ग-दर्शनाज्जन्तोरास्यात्कफः प्रसिच्यते। तेन हि सिद्धं श्लेष्मलवणत्वं च।तेन चास्योनिबन्ध इति। लवणः पुनः संधिमर्मप्रसक्तमेकान्तमाश्रितं विस्यन्दयति श्लेष्माणम्, फेनाकुलां गङ्गामिव महामेघः। स वातपित्ते अभिभूय सर्वं शरीरमवाप्नोति, विकुरुते च विकारम्, स्नेहाच्चैनमभिवर्धयते, बलेनेवानुबलम्, स्पर्शाच्च विधीयमानः कोपाय कल्पते। इति मधुराम्ललवणास्त्रयः श्लेष्माणं वर्धयन्ति॥
तिक्तस्तं विरोधित्वात्प्रशमयति। माधुर्यं चास्प बलाद्विनिहन्ति, लाघवेन गौरवमभिभूय शमपति।कषायोऽपि रुक्षादेनमुपशोषयति। स हि रूक्षाभिभूतोऽपि शोषमापद्यते, इति। कटुकस्त्वौष्ण्याच्छ्लेष्मणो विलपनमानपति। शोषं चोपजनयति।लाघवेन गौरवमभिभूय शमयति । इति तिक्तकटुकषापा रसास्त्रयः श्लेष्माणं शमयन्ति॥
कटुको रसः समानरसत्वात्पित्तं वर्धयेत्1984।तैक्ष्ण्यात्तैक्ष्ण्यम्, औष्ण्पादौष्ण्यम्, रौक्ष्पाद्रौक्ष्यम्, लाघवाल्लाघवमेकयोनिरिति। अम्लः पुनः समानगुणत्वात्पित्तं वर्धयति। विदाहित्वाद्विदाहं व1985र्धयेत्।तैक्ष्ण्यात्तैक्ष्ण्यं कोपयति। बलेनास्य बलमनुविधीयमानं प्रकोपाय कल्पत इति।लवणस्तैक्ष्ण्यादौष्ण्याञ्चाभिवर्धयते पित्तम्, विस्यन्दित्वाद्द्रवी करोति। इति कटुकाम्ललवणास्त्रयः पित्तमभिवर्धयन्ति॥
तिक्तः पुनः पित्तं प्रशमयति, शीतवीर्यत्वादौष्ण्यम्, मार्दवेन चास्य तैक्ष्ण्यमभिभवति। कषायस्तैक्ष्ण्यं मृदूकरोति, शैत्यादौष्ण्यम्, मधुरानुबन्धित्वाद्बलमुपहन्ति इति। मधुरः पुनर्माधुर्यात्कटुत्वमभिभवति, शैत्पादौष्ण्यम्, स्नेहाद्रौक्ष्यम्, अविदाहित्वं गौरवेणाप्यभिभवति। इति तिक्तकषायमधुरास्त्रयः पित्तं शमयन्ति॥
कषायः पुनर्वातं वर्धयति, रौक्ष्यात्परिशोषित्वान्माधुर्याच्छैत्यादभिस्यन्दित्वाच्च कोपयति। तिक्तस्तु रसः कषायरसस्वभावत्वात्कषायसमानगुणः समुद्दिष्टः, इति वातं वर्धयेत्।कटुकोऽप्येनमुदीरयति। रौक्ष्याल्लाघवाच्चैनम्।कषायतिक्तकटुकास्त्रयोवातं वर्धयन्ते, इति।
अम्लो रसो वातमनुलोमयति। क्षिप्रपाकित्वात्तैक्ष्ण्यात्प्रक्लेदित्वात्स्नेहादौष्ण्याच्च शोषित्वशैत्थरौक्ष्य-मार्दवान्यभिभवतीति॥ लवणोऽप्येनमौष्ण्यात्प्रशमयति। तैक्ष्ण्यात्प्रणुदति। स्नेहाज्जयति परिशोषभावं चास्य विस्यन्दित्वाद्द्रवी करोति। लवणो हि रसो वातप्रत्यनीकत्वाद्रसानामतिवीर्यत्वाद्वातमतिबलमपि दोषाणां बहुगुणत्वादतिरसबाहुल्याद्वा हन्ति॥मधुरोऽप्यस्य रसः स्नेहाद्रौक्ष्यमभिभवति। गौरवेण लाघवम्, अतिवीर्यत्वाद्विदाहित्वाद्बलेन चैनमभिभूय जयति, इति। अम्ललवणमधुरा रसास्त्रयो वातं शमयन्ति।
इत्येतै रसैः प्राणादिषु विप्रतिपन्नेषूक्तो यो रोमसमुद्देशः, स शाम्यति॥
वर्धते च यथारोगं—तदशान्तौ मनसो (विप्रतिपत्तिः। मनसो) विप्रतिपत्तौ मानसौ द्वौ रोगौ—पूर्वाबद्धहृदयस्फालिनौ॥ तदशान्तौ व्यापद्यते चेतना बुद्धिः। ततो नागानामभावः॥ एवमेते प्राणादयः पञ्च, द्वौ च मानसौ चेतना बुद्धिश्चेति नव॥
तत्र श्लोकाः—
गजानां देहजा नित्यं वातपित्तकफास्त्रयः।
व्याधयस्तु गुणाश्चैव तेषां रसनिमित्तजाः॥
त्रिषु दोषेषु ये दृष्टा गुणा गुर्वादयो दश।
रसेष्वपि त एव स्युर्विज्ञातव्या विचक्षणैः॥
शीतोष्णौ स्निग्धरूक्षौ च तथा विशदपिच्छिलौ।
मृदुतीक्ष्णौ गुरुलघू विज्ञेयास्तु गुणा दश॥
बुद्ध्वा सम्यग्गुणानेतात्रसदोषेषु बुद्धिमान्।
प्रतिहन्यादुदीर्णत्वैः प्रत्पनीकैर्गुणैर्गुणान्॥
एतेषां प्रतीकाराभ्युत्थितेन भिषजा चतुर्दशेमानि ज्ञातव्यानि भवन्ति—निमित्तम्, आयुः, बलम् सत्वम्, सात्म्यम्, प्रकृतिः, व्याधिः, शरीरम्, कालः, वयः, देशः, ग्रहणी, अभिचारः, आशास्तकम्, इत्येतानि सम्यगुपलक्षयितव्यानि।यस्मादेतेषु चिकित्साऽऽयत्ता॥
अथैषां निर्देशमनुव्याख्यास्यामः। तत्र निमित्तं दूतागम आतुरस्य पूर्वाख्याने प्रस्थाने प्रवेशे च परिप्रश्नेपरिग्रहौषधसंस्कारारम्भेषु च भिषजा परीक्ष्यम्॥
तत्र श्लोकः—
प्रस्थाने च प्रवेशे च निमित्तान्युपधारयेत्।
ततः क्रियां प्रयुञ्जीत यदीच्छेद्भूतिमात्मनः॥
आयुरपि क्रियापथेषु परीक्ष्यम्। तत्राऽऽयुर्नामासन्नसंधिबन्धनो रोमशाय1986तच्छविर्दीर्घरोमशाष्टो1987 महा-विदुः परिपूर्णाण्डकोशो महाकुम्भो महाश्रवणो मृदुदीर्घकुञ्चितस्त्रिग्धकेशो युग्मजैकरोमा पृथ्वायतमुखो महाग्रीवो धनुष्परिणतवंशः सुनिष्क्रान्तविषाणो दीर्घाङ्गलिकरो व्यूढोरस्को मृदुदीर्घवालोऽबरुद्ध-जघनापर ऋजुवृत्तगात्रः मुविभक्तशिराः सूक्ष्मबिन्दुभिर्विभक्तावग्रहो व्यूहविद्वन्तरमस्तको महाश्रोताः सुगन्धिः सुचारुनेत्रः सस्वनो महामेण्ढ्रःसूपचितांसो1988 नित्यमास्फोटनादिकर्णः स्निग्धस्फटिकार्धचन्द्र-परिपूर्णविंशतिनखः सुगतिः पुरस्तादुदग्रइत्येतान्यायुष्मतो लक्षणानि व्याख्यातानि॥
तत्र श्लोकाः—
सहस्रेष्वपि नागानां कश्चिदेतैः समन्वितः।
समस्तलिङ्गो न गजो भवतीति विनिश्चयः॥
त्रीणि षट् सप्त पञ्चाष्टौ लिङ्गान्येतानि यस्य तु।
आयुःस लभते दीर्घमिति मे निश्चिता मतिः॥
त्रीणि यस्य तु लिङ्गानि दृश्यन्ते मनुजाधिप।
तृतीयां वा चतुर्थीं वा दशांसंप्राप्य नश्यति॥
पञ्च यस्य तु लिङ्गानि दृश्यन्ते नयकोविद।
स दशां पञ्चमीं प्राप्य षष्ठीं वाऽपि विनश्यति॥
षडेव यस्य लिङ्गानि दृश्यन्ते नृपसत्तम।
सप्तमीं तु दशांप्राप्य सोऽष्टमींवा विनश्यति॥
सप्त यस्य तु लिङ्गानि दृश्यन्ते मनुजाधिप।
नवमीं दशमींवाऽपि दशां प्राप्य विनश्यति॥
अष्टौ यस्य तु लिङ्गानि दृश्यन्ते शास्त्रनिश्चयात्।
एकादशींदशां प्राप्य द्वादशींवाऽपि नश्यति॥
बलमपि नागानां क्रियापथेषु विज्ञेयम्। (क्रियया1989 प्रविचारेषु नागानां द्विविधं बलं) धीरास्त्वाचक्षते प्रायोगिकम्, वैरपरामर्शिकं च। तत्र प्रायोगिकं नाम दशयोजनाद्यध्वगमने च तत्परीक्ष्यते।वैरपरामर्शिकमपि चतुर्हस्तनिखाताष्टहस्तोच्चचतुष्परिघप1990रिणाहादिस्तम्भप्रमर्देन लक्ष्पम्। तत्र सुशरीराल्पशरीरयोर्बलपरीक्षा पिपीलिकाभारहरणेन व्याख्याता।पिपीलिका ह्यल्पशरीराऽपिसत्यात्मशरीराद्दशगुणं भारमुद्वहति। तत्पुनर्द्विविधम्—सहजम्, आहारजं च। तत्र सहजं सर्वभूताति-शयवद्धस्तिजन्मनान्तरीयकम्।तत्पुनः सत्त्वशरीरप्रमाणवीर्यमदप्रभावैरुपचयिते। आहार(ज) बलमपि चतुर्विधेनाऽऽहारेण विवर्धते शरीरोपचपमा(ना)न्तरीयकम्। शरीरोपचयोऽपि सप्तविध(:)-शोफाध्यायादवगन्तव्यः। सामर्थ्यबलमपि पुनरेकैकं त्रिविधम्—ज्येष्ठं मध्यममधमं चेति। तत्रोत्तमबलःशीतोष्णक्षुत्तृष्णातपदुर्दिन शस्त्रघातभारप्रमर्दनजलतरणवधबन्धेषु शस्त्राग्निक्षारकर्मादिषु च प्रयुज्यमानेषु नोद्विजते, स्नेहपानादींश्च विषहते।यथाऽयमं, तथा मध्यमाधमबलौ1991, इति। एवं बलमभिसमीक्ष्य क्रियाप1992थं प्रयुञ्जीत।दोषोऽन्यथा भ1993वति। तत्र यदा दुर्बलोऽयमिति मत्वा बलवत एव गजस्याल्पमौषधं दीयते, तद्धीनमात्रमसमर्थमानकं क्षपणाय भवति। यथाऽल्पोऽग्निरिन्धनावष्टब्धः पवनोदीरितोऽपि न वृद्धिमुपगच्छति, एवमल्पौषधमसम्यक्प्रयुज्यमानम्। प्रत्युत व्याधिनि1994मित्तमेव भवति। तथा च क्रियाप्रविचारनिमित्तभूताश्चत्वारो दुर्बलाः–प्रकृतिदुर्बलः, व्याधिदुर्बलः, वयोदुर्बलः, औषधदुर्बलश्च। ततो भैषज्यं तीक्ष्णं मृदु मध्यं च यथाबलं विभज्य प्रमाणतो दद्यादिति॥
तत्र श्लोकः—
बलं विज्ञाय नागानां मात्रामात्रेति तत्त्वतः।
यथास्वमौषधं दद्यादिति शास्त्रविनिश्चयः॥
सत्त्वमपि नागानां क्रियापथेषु विज्ञेयम्। तच्च त्रिविधमेव—तामसं राजसं सात्त्विकमिति। तत्र तामससत्त्वानित्योद्विग्नशीलत्वाच्छेदनलेखनदहनसीवनविस्रावणोद्धारणानि न विषहन्ते वारणाः, तेषां विलायनपाचनभेदनशोधनावसादन1995कृमिहरणान्यौषधैरेव प्रयोज्यानि, शस्त्रकर्माग्निक्षारकर्माणि च॥ राजसास्तु द्विरदपतयो वाक्पादिभिरुदकपांशुकवलैः समाश्वासिताश्छेदनभेदनानि विषहन्ते,सुमहत्यपि चाग्निकर्मणि क्रियमाणे।सात्त्विकास्तु प्रधानकर्मस्व1996वक्रियमाणेषु सत्वबलसमुच्छ्रयात्र विक्रियामुपगच्छन्ति। इत्येवं त्रिविधं सत्त्वमनुव्याख्यातं भवति॥
तत्र श्लोकौ—
इति सत्त्वसमुद्देशस्त्रिविधः परिकीर्तितः।
पारंपर्येण तेषां तु विहितः समुपक्रमः॥
पूर्वं कर्मतु कर्तव्यं तामसेषु विशेषतः।
राजसेषु प्रलोभार्थं सात्त्विके नित्यमुत्तमे।इति॥
सात्म्यमपि वारणानांक्रियापथेषु परीक्ष्यम्। तच्चत्रिविधम्—ज्ञातिसात्म्यम्, प्रकृतिसात्म्यम्, रस-सात्म्यम्, इति। तत्र जातिसात्म्पं नाम जन्मनः प्रभृति हस्ती क्षीरमुपसेवते क्षीरपानाच्च धातुविवृद्धिर्भवति। एवमेव जातिसात्म्यं विद्यात्। प्रकृतिसात्म्यं नाम त्वङ्मूलपवसकवलकुवल-पल्लवानि सततमुपसेवमानाः पांशुप्रमार्थ सलिलावगाहं स्वैराहारं च सेवमानाः शीतसात्म्या भवन्ति। इत्येतत्प्रकृतिसात्म्यं विद्यात्। रससात्म्यं नाम मधुराम्ललवणकटुतिक्तकषायाणां रसानामन्यतमो ह्युपयुक्तोरसो धातुविवृद्धिमुपजनपति। एवमेतद्रससात्म्यं विद्यात्॥
तत्र श्लोकः—
यथासात्म्पं प्रयुक्षीत क्रियाविधिमशेषतः।
(न1997व्यापदं समासाद्य विषादी स्याच्चिकित्सकः॥
प्रकृतिमप्यशेषेण नागानां परीक्ष्यक्रियां प्रयुञ्जीत) तत्र त्रिविधा प्रकृतिरिह वातपित्तश्लेष्मसंभवा। तां प्रकृत्पध्याये वक्ष्यामः॥
तत्र श्लोकः–
तिस्रः प्रकृतपो ज्ञेया वातपित्तकफात्मिकाः।
विज्ञाय तु यथावत्तां क्रियां सम्पक्प्रयोजयेत्॥
व्याधिरपि वारणानां क्रियापथेषु परीक्ष्यो भवति। तत्र चतुर्विधो व्याधिः—साध्यः कृच्छ्रसाध्यः, याप्यः, प्रत्याख्येयः, इति। तत्र साध्यः मुखसाध्य इत्यर्थः। सुखसाध्यो नाम प्रत्येकदोषान्वितो विकारो दीप्ताग्नेर1998चिरसमुत्थितो दोषोऽक्षीणमांसरुधिराद्यपरिणतवयसाश्रित परिवारकोपकरणः स्वेदस्नेह-विरेचनस्थापनकल्ककषायचूर्णारिष्टाद्यशेष1999संभारोपपन्नःसाध्यः।कृच्छ्रसाध्यो नाम यो दोषसम-वायोत्थितो मन्दामिश्विरसमुत्थितदोषः स्थिरगूढजातमूलः प्रक्षीणमांसशोणितः सुचिरा2000तिबलाश्रयो बहुतीक्ष्णोऽनुषक्तोपद्रवस्तु परिवारकोपकरणोऽश्रद्दधानः श्वासी स कृच्छ्रसाध्यः।याप्यो नाम यस्तु दोषो वैषम्याद्दीप्तामिर्बलवान्क्षणिमांस मेदा दीर्घायुर्लक्षणो व्याधिमवाप्नोति, न स तेन रोगेण मुच्यते, न म्रियते क्रियया धार्यमाणः, स रोगो याप्यः। प्रत्याख्येयो नाम—यःसर्वदोष लिङ्गान्वितो विकारः क्षोभितधात्विन्द्रियबलोऽपि विविधान्धातूनुपद्रवानुत्पादयति—अपस्मारोत्कर्णकश्वासारोचकश्वयथूनतिपिपासिनं शूनगात्रोदर-मेढमतिकृशं शोणितच्छार्दिनमल्पमूत्रपुरीषमल्पानुपानं सर्वावस्थान्तरगतं विपन्नबलेन्द्रियमुपगतसंज्ञं वा म्रियते, इति।
तत्र श्लोकः—
चतुर्विधं तु यो व्याधिंतत्त्वतोलक्षयंद्भिषक्।
स शक्नोति क्रियां कर्तुं नागानां भिषगुत्तमः॥
शरीरमपि नागानां क्रियापथेषु परीक्ष्यम्।
तत्रोत्सेधायामपरिणाहसंस्थानंतः2001 स्थूलकृशावनतप्रदेशा ऋजुवक्रश्लक्ष्णबहुलकर्कशादयो गजानां बाह्याभ्यन्तराः शरीरमविभागा भवन्ति॥
तत्राऽऽभ्यन्तराः—सप्त त्वचः। सप्त पेशीशतानि।सप्तैव शिराशतानि। पञ्च स्नायुसहस्राणि।पञ्चैव शतान्यशीतिः स्नायुकूर्चाः। पञ्चविंशतिर्धमन्यः। षण्णवति(ती) रोमकूपस2002हस्राणि, असंख्येपानीत्यपरे। विंशोत्तराणि त्रीण्यस्थिशतानि तेषामस्थामाकृतिविशेषाः षडुद्दिष्टाः कपालखजकप्रतनलकवलय-फलकाख्याः। शुषिरमृदु स्थिरमृजूनि शुषिरात्मविशेषाः।
अथ शरीरावयवानां सविंशशतान।संर्धानांत्रीणि षट्षष्ट्यानि। तेषामष्टौ संध्याकृतयो भवन्ति । तद्यथा—प्रतरकोशम2003ण्डलसामुद्गोलूखल2004वापसतुण्डशङ्खावर्ततूणसीवनवदिति। एवे संघयो येषु शरीरावयवेषु भवन्ति, तान्यनुव्याख्यास्यामः। तत्र कूर्मपलिपाद संदानभागप्रोहापस्करेषु कोशसंघयः। अंसफलकबाहुसकुदिकाग्रन्थ्यष्टीव्यमण्डूकशङ्खचक्रसक्थ्यवकृष्ट इत्येवमादिषु सामुद्गसंधयः।पृष्ठवंशकृकाटिकास्तन2005कूर्मपर्यन्तशिरोमस्तावग्रहनिर्याणकर्णविद्रावितानश्रवणेषीकाकुम्भान्तरकुम्भकटगण्डेषु (तृणसीवनवत्।2006 शङ्खहनुकपोलसगदामृक्षण्योष्ठ इत्येतेषूभयतो वायसतुण्डसंधयः।) कटाक्षिकूटप्रस्तावापाङ्गवर्त्मनेत्रक्लोमहृदयनाभिषु मण्डलसंधयः। वाहित्थप्रतिमानशम्बूकदन्तवेष्ट-स्थानेषु शङ्खावर्तसंधपः। श्रोतःशृङ्गाटके2007ष्वित्येते संधयो व्याख्याताः॥
अथ मर्मणां सप्तोत्तरं शतम्।पञ्चदश श्री(स्रो)तांसि।षट्चत्वारिंशदधिकानि चत्वारि प्रदेशशतानि।संध्यस्थिभागाश्रिताः षोडश कण्डुराः। इत्युद्देशः॥
तत्र श्लोकः—
शरीरमेवं विज्ञाय प्रदेशैर्बहुभिर्वृतम्।
शस्त्रकर्म प्रयुञ्जानो नाऽऽबाधांप्राप्नुयाद्भिषक्॥
काल इति ख्यातः2008। यस्मात्स्नेहनस्वेदनानुवासननस्तकर्मपीडनप्रधमनधूपनाभ्यङ्गपरिषेकावगाह-तर्पणाग्निशस्त्रक्षारकर्मभक्ष्यभोज्यपेयलेह्याद्याः क्रियाः प्रयुज्यन्ते।वातादीनामुपद्रवाणां प्रशमनार्थम्। तेषु प्रकृतिस्थेषु धातुवद्वर्णां भवन्ति, अप्रकृतिस्थेषु विषमाः।तस्मात्कालं परीक्ष्य क्रियां प्रयुञ्जीतेति। तदेतच्छरीरं पुनद्विधाऽवतिष्ठते कल्पम्, अकल्पं च। तत्र कल्पशरीरं समदोषधातुः। प्रशमनैरिन्द्रियैरिन्द्रियार्थान्य(न)वबुध्यते। समाग्रिरुत्थानोपवेशनप्रचारादिषुन दीनचेष्ठः,मुखोच्छ्वास-निमेषणोन्मेषानिलमूत्रपुरीषोत्सर्गादिप्रचारेषु प्रकृतिस्थः कल्पशरीरो भवति। विपरीतमकल्पशरीरं विद्यात्। काल इति व्याध्यातुरयोरप्यवस्था यस्मात्स्नेहनस्वेदनोत्थापनानुवासननस्यपीडनधूपन-प्रधमनाभ्यङ्गपरिषेकावगाहतर्पणाग्निश स्त्रक्षारकर्मभक्ष्यभोज्यपेयलेह्याद्याः क्रियाः प्रयुज्यन्ते वातादीनामुपद्रवाणां प्रशमनार्थम्।तेषु प्रकृतिस्थेषु समाः। तस्मात्कालं परीक्ष्य क्रियापथं प्रयुञ्जीत॥
स च हेमन्तशिशिरवसन्तग्रीष्मप्रावृट्शरदाख्याः षडृतवः कालः। स एव पुनस्त्रिधा विभज्यते शीतोष्णसाधारणलक्षणः॥
तत्र हेमन्ते शिशिरे च समत्वागतवीर्या भवन्त्यो2009षधयः। प्रायसो(शो) मधुरा मधुरविपाकाः समत्वागतवीर्यत्वात्। तेन तदा पित्तस्य वायोस्तनुत्वमभिनिर्वर्तते। श्लेष्मणः प्रबलता भवति।
दिवास्वप्नाजीर्णादिभिश्च वसन्ते श्लेष्मा प्रकोपमापद्यते संनिरुद्धमार्गप्रचारः॥
ग्रीष्मे त्वौषध्यो दिवसकरकरामिहतशरीरा निःसृतवीर्या भवन्ति। तदा वायुः प्रबली2010भवति। श्लेष्मणः क्षयः॥
प्रावृषि शीतवातोष्माभिहतशरीराणां मातरिश्वा भूयो भूयः प्रकोपमुपगच्छति। वर्षास्वौषध्यो भवन्त्यसमत्वागतवीर्याः, न ग्रीष्मगुणयुक्ताः, न शिशिरगुणोपगताः।ततोऽस्मिव्रतौ विशेषेण पित्तमुपचीयते, श्लेष्मणश्च क्षयो भवति॥
भूयश्च शरदि दिवसकरकराभिहतानां पित्तम्बलता भवत्यजीर्णादिभिरुपार्जनैः। असमागतवीर्यत्वाद्भवत्य2011म्लभूयिष्ठत्वमोषधीनाम्।ततः पित्तबाहुल्पाद्वातश्लेष्मणोः क्षयो भवति॥
तत्र श्लोकः—
विज्ञाय दोषोपचपं यथावदृतावृत्तौ कालविभक्तरूपम्।
रोगोपशान्तिं प्रयतेत कर्तुं दोषः प्रवृद्धो हि निहन्ति नागान्॥
वयस्त्रिविधम्—बालं मध्यं वृद्धमिति। तदशेषतः परीक्ष्य पश्चात्क्रियापथं प्रयुक्षीत।
तत्रे ताम्रन2012खनयनतनुरोमा ताम्रोष्ठतालुजिह्वो मन्दगतिरव्यक्त कृष्णोष्ठोऽव्यक्तपलिह2013स्तः श्लक्ष्णपादतनुशिख^(+..2014.. …. ….)बालः।
तेजोबलजवसंपन्नो ग्रहणधारणोपपत्रः समोपचितस्थिरमांसः प्रोहसंदानाष्टीव्यापास्रावापस्करपक्ष-क्षयभागायामकाण्डकटीबलानां के2015 (?) चाविलबहलता भवति मध्यमे वयसि, नागानाम्, विवर्णपरुषत्वं च॥
तनुकायवलीचितदेहमजवं स्तब्धपालीकमल्पपित्तत्वान्मन्दज्योतिः संभ्रश्यमानग्रीवं प्रबलवात-श्लेष्माणमविदग्धपुरीषं लङ्घनापसरणगमनतरणादिष्वसमर्थं निरुत्साहतयाऽल्पवीर्यत्वाच्च नागमकामवन्तं वृद्धं विद्यात्, इति॥
अत्र श्लोकः—
वयस्त्रिविधमालोक्य ततः कुर्यात्क्रियापथम्।
बालमध्यमवृद्धानामिति मे निश्चिता मतिः॥
देशोऽपि नागानां क्रियापथेष्ववश्यं परीक्ष्यः॥
कस्मिंश्च स्वल्वयं देशे जातः, कतरद्वा वनमधिश्रयति, कस्मिन्वा कीदृशे देशे वारणाः संभवन्ति॥ अत्रोच्यते त्रिविधो देशः—जाङ्गलो ह्यनूपः साधारणश्चेति॥
तत्र जाङ्गलो देशः पर्यवकाशभूयिष्ठस्तरूपचितः खदिराश्वकर्णतिलकतिनिशधवशल्लकीसालसोम-वल्कब2016दरीकिंशुकाश्वत्थवटामलकीवनगहनो ह्यनेकशमीशिशपासनश्रीपर्णीककुभपीलुकरीरधन्वप्रा2017यः, स्थिरदग्धशुष्कत रुर्बलवत्पवनविधूयमानतरुविटपोऽल्पसलिलो मृगतृष्णिकोपगुढोऽग्निदग्ध इव स्वरपरुषशर्करासिक2018ताबहुलञ्चकोरशतपत्रवञ्ञ्जलारिष्टभासचाष2019गोमायुजीवंजीवकोलूकलावकतित्तिर्यनुगीतचरितभूमिभागः पृषततरक्षुलोहितस्वरकरभशार्दूलगवयजम्बुद्वीपिशशरुरुचमरीचितः।
तस्मिन्वातपित्तशोणितात्मका विकाराः प्रादुर्भवन्ति। स्थिरकठिनतनुदीर्घविक्रमशरीराः क्षुत्पिपासासहा बलवन्तः क्रोधनाश्च द्विरदपतयो भवन्ति पत्र तं देशं जाङ्गलमिति विद्यात्॥
अथानूपः —2020ता2020लतालीनालिकेरार्जुनखर्जूरीचूताम्रातकनिम्बजम्बुकोशांम्रपिया2021ललंबुस-कदम्बोदुम्बरशोकतिलकवञ्जुलशालकदलीब2022कुलसप्तपर्णकर्णिकारप्रभृतितरुगणस्व(ष)ण्डमण्डितो देशः। कुररहंससारसक्रौञ्चचक्रवाकशुकसारिकाकदम्बपरपुष्टक(का)रण्डवप्रभृति(भिः)स्वगरावैरुप-र्गातभः(गतः),बहुकुसुमवद्भिश्च पादपैरुपशोभिततटाभिः2023 सिंहव्याघ्रमहिषवराहगजगवयवानर-विक्षोभितसलिलाभिर्गिरिवरविवरकंदरोदरविनिःसृताभिर्विमलशीतलश्शुचिसुरभिसलिलाभिः स्त्रवन्तीभिरुपशोभितः, सरिद्भिः समुद्रपर्यन्तोपचितभूमिभागः, कोकनदकुमुदकुवलपकमलोत्पल-तामरसकहूलारादिभिर्जलरुहैः कुसुमैरुपशोभितसलिलाशयः, पद्मवननलिनविविधशकुनिगण-विक्षोभितोपशोभितसलिलोपचितः संभ्रान्तसमन्तात्सुखशीतलसुगन्धेन मारुतेन नृत्यमानतरुवरगण शिखरः।
तस्मिन्विपुलबलशरीरा वर्णवन्त2024 आचार्याः पृथ्वायतकरचरणपृष्ठाण्डकोशोदरशिरसः सुकुमाराश्च द्विरदपतयो भवन्ति यत्र, तं देशं व्याधिमायं श्लेष्मलमा(मनूपं विद्यात्॥
एतयोरेव च देशयोर्वीरुद्रनस्पतिगुल्मवातस्पौ(?)षधिमृगशकुनिगणयुतं, क्वचित्तडागोदक-पानपल्वलसरः शोभितं च, सहजपङ्कप्रवालबहुलावनतशोभिततीराभिः सरिद्भिरुपशोभितभूमिभागम्, स्थिरसुकुमारैर्हस्तिभिरुपेतं साधारणमिति तं देशं विद्यात्।
तस्मिन्व्यामिश्रविकारा व्याधयः प्रकोपं समुपगच्छन्ति॥
तत्र श्लोकः—
एवमालोक्यदेशं तु ततः कुर्यात्क्रियापथम्।
गजानामौषधैः सार्धं यथादेशं विभाग वित्॥
ग्रहण्यपि क्रियापथेषु परीक्ष्या विशेषतो नागानाम् ।
कस्मात्, यतस्तामविज्ञाय न क्रियापथः सम्यगनुविधातुं शक्यः।सा खलु चतुर्विधा—तीक्ष्णा मन्दा समा विषमा चेति। तत्र—तीक्ष्णा पित्तात्, मन्दा श्लेष्मणः, समा त्रिभ्यो वातपित्तकफेभ्यः समेभ्यः, विषमा वायोश्च भवति। इत्येता ग्रहण्यश्चतस्रः॥
ततस्तीक्ष्णज्योतिः—यवसकवलकुवललवणतण्डुलरसभोजनप्रायमाहारयतःसप्तभारातीतमपि तृणमुपयुञ्जानस्य विक्रियां नाऽऽपद्यतेऽग्निः, सुसंहित2025स्थिरलिण्डश्च भवति, स तीक्ष्णज्योतिर्वारणो विज्ञेयः॥
मन्दज्योतिः—यथोक्तस्पाऽऽहारस्यार्धमपि नोपयुङ्के श्लेष्मभूयिष्ठत्वाद्भिन्नविवर्णदुर्गन्धिपुरीषश्च भवति स मन्दज्योतिर्वारणो विज्ञेयः॥
यस्तु यथोक्ततैललवणशृततण्डुलरसभोजनयवसकवलकुवलादीन्युपपुङ्क्ते सुमनाः स्निग्धघनलिण्डश्च भवति स समज्योतिस्त्रयाणां साम्याद्भवति॥
विषमज्योतिः—पथोक्तानि यवसरसभोजनादीनि कदाचिदतिप्रमाणेन ग्रहणं कार्यमाणो वा यत्नेनाधिष्ठितमुपयुङ्क्तेस्वरनिर्भिन्नदुर्गन्धपुरीषश्च भवति स विषमज्योतिर्वातसं2026सर्जना (द्भवति2027॥
तत्र तीक्ष्णज्योतिरपरिमितगुरुस्निग्धाहारमतिभुञ्जानो न तृप्यति। बहुभ्यवहरणा) द्विपुलमांसो भवति। तस्यात्याहारोपचितमांसस्य विवृतमुचिरत्वान्मांसपेशीमार्गगतो वायुः प्रायसः(शः) प्रकोपमुपगच्छति॥
मन्दज्योतिस्तु यदा हस्तिजीविभिर्ग्रहणीबलमविज्ञाय मन्दबुद्धिभिरकामं भोज्यते स मन्दज्योति-रलसोऽस्थिरमांसमेदा न मुखमवाप्नोति हस्ती॥
समज्योतिः समुदितबलजवसंपन्न उत्साहवांश्च वारणो भवति॥
विषमज्योतिर्विषमत्वादनिलस्य नित्यं विषमं भजमानः। स कदाचित्स्वस्थः कदाचिदस्वस्थः कुञ्जरो भवति॥
अग्निरपि चतुर्विधः—समो मन्दस्तीक्ष्णो विषमश्चेति। तत्र समपाकी समः।
मन्दपाकी मन्दः। विषमपाकी विषमः। सर्वभुक्तपाकी तीक्ष्णः॥
तत्र तीक्ष्णविषमावपरिमित विषमपाकित्वादशस्तौ। तेषां सममन्दौ प्रशस्तौ। तत्र मन्दं दीपयेत्।समं रक्षयेत। इति॥
तत्र श्लोकः—
चतुर्विधं तु विज्ञाय ग्रहणीनां बलाबलम्।
ततः प्रयुञ्जीत गजे यथायोगं क्रियापथम्॥
अभिचारोऽपि नागानां क्रियापथे परीक्ष्यः ॥
अभिचारसमुत्थं2028 दोषसमुत्थं च द्विविधं व्याधिमुपलक्षयेद्वैद्यः॥
तत्र दोषसमुत्थो व्याधिः, यो यथोक्तक्रियोपशमो वातपित्तश्लेष्मणामसंकीर्णलिङ्गः। न चास्य नानाव्याधिलिङ्गता॥
अभिचारसमुत्थश्चानेकव्याधिलिङ्गः।क्रियास सम्पक्रियमाणास्वपि नोपशममुपैति॥
एवं दोषसमुत्थम्, अभिचारसमुत्थं च व्याधि समुपलक्ष्य प्रतिकुर्वीत। तस्माज्जपहोममङ्गल-प्रायश्चित्तशान्तिनियतात्मना भिषजा भवितव्यमिति॥
तत्र श्लोकः—
दोषाभिचारजान्व्याधीन्सम्पग्विज्ञाय तत्त्वतः॥
यथायोगं क्रियां कुर्यान्मत्राणां नास्ति दुस्तरम्॥
आंशास्तकोऽपि नागानां (क्रियापथे2029 परीक्ष्यः।
यदा हस्तिजीविनो व्याध्यभिभूतं द्विरदमभिविज्ञाय कदाचिदाशंसन्ति देवताः।) ताश्चाऽऽशस्ताः प्रसादमभिनिव(र्व)र्तयन्ति, न च प्रागप्पशेस्तकं2030 बल्पं तमुपहरन्ति हस्तिजीविनः, ततो देवानां(वाता) यथोक्तां पूजामलभमाना भूयो व्याधिमुपजनयन्ति। तस्मादाशस्तकं मिषजा परीक्ष्यम्॥
तत्र श्लोकः—
इज्यां यथोक्तां कुर्वीत देवतानामतन्द्रितः।
अन्यथा देवतानां हि क्रोधो भवति दारुणः॥
चतुर इति चर्तुष्पादा2031 चिकित्सा - आतुरः, परिकर्मी, भिषक, भेषजम्, इति ॥
तत्राऽऽतुरः—सत्त्वसंपन्नः सम्यक्शस्त्रभेषजामिक्षारकर्मणां सहिष्णुः, उपदिष्टकारी2032, दीर्घायुर्लक्षणश्चेति॥
परिचारकः—प्रतिपत्तिमान्, अलोलुपः, यथाज्ञप्तकारी, उपकरणसंगोपनपरः, शौचाचारयुक्तः, अभिनयप्रतिनयस्थानेऽभियुक्तः, निपुणः स्वपरिकर्मणि, इति॥
भिषक्—अवस्थितः शास्त्रार्थव्यवसायप्रयोगविज्ञानबुद्धिसंपन्नः’ इति॥
भैषज्यम्—यदनुपहतमनुपदिग्धमनुपतप्तमपुराणम्। इति विज्ञेयं प्रशस्तमित्येषां चतुर्णांपादानां समुदायात्सिद्धिर्भवति॥
तत्र श्लोकाः—
एवं पञ्चादिकं सम्यग्यो विद्यान्मतिमान्भिषक्॥
अवसानचतुष्कं वै सोऽधिकस्तु चिकित्सकः।
आमूढः सर्वरोगेषु योजयेद्यो भिषकिक्रपाम्॥
प्रजासु च सदा मानं महत्त्वं च निपच्छति।
पञ्च सप्त तथा त्रींश्च द्वावेव चतुरस्तथा॥
नव चतुर्दश द्वौ च द्विको2033 ज्ञात्वा भवद्भिषक, इति॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्पस्थाने
द्वादशो2034पक्रमो नाम षष्ठोऽध्यायः॥६॥
____________
अथ सप्तमोऽध्यायः।
____________
अथाङ्गराजोऽभिवाद्य पप्रच्छ पालकाप्यम्—‘भगवन्कथमुत्पन्नानि पृथिव्यादीनि, के चैषां गुणाश्चोपगुणाश्च।किं च शरीरम्।कंश्चाङ्गमभिव2035र्तते। कश्च गर्भः। कथं चाभिवर्धते। कथं च त्रिविधा शरीराकृतिः समा विषमा समं विषमंचाभिनि2036वर्तते, भद्रमन्द मृगसंकीर्णाश्च कथं निवर्तन्ते। कथं च कुब्जवामनहीनाधिकविकृताद्यान्यन्यानि च निवर्तन्ते, कथं वा कृष्णश्वेतरक्तरूक्षा निष्पद्यन्ते, मिश्रवर्णा वा हस्तिनः। कथं वा विषमविषाणा मोटादयः समुत्पद्यन्ते, नयनघ्राणत्वकश्रोत्रजिह्वेन्द्रियाणां किमध्यात्मम्, किमधिदैवि(व)कम्, किमधिभूतम्।स्त्रीपुंनपुंसकविशेषाश्च केन जीवविशेषेणोत्पद्यन्ते। कथं च गर्भस्थो नोत्सृजति मूत्रपुरीषम्, न चापि बृंहति। किं मातृजम्, पितृजम्, आत्मजम्।रजस्तमःसत्त्वजानिका2037नि। गर्भस्य वाङ्मनोबुद्धिरहंकारः सत्त्वरजस्तमसामात्मा कथमुत्पद्यते, तन्मयानि शब्द स्पर्शरसरूपगन्धाश्चेति । गर्भस्य किं वा पूर्व संभवति।करचरणनयनमुखशिरोग्रीवागात्रापरसंधि-वङ्क्षणनाभिदेशगुदमेण्ढ्राणि कथं विभज्यन्ते’ इति॥
ततः प्रोवाच भगवान्पालकाप्यः—‘इह खलु भोः परं सूक्ष्मभावार्थमप्यव्यप्तमोष्ठस्पन्दनमात्रं त्रुटिः। सर्षपमात्रमोष्ठभेदो लवः। द्वे त्रुटी लध्वक्षरः। द्वे लध्वक्षरे अक्षिनिपातसंनिभंनि2038मेषः। निमेषास्तु दश पञ्च च काष्ठा। ता दश विंशतिः(च) कला।त्रिंशत्कलो2039 मुहूर्तः। ते त्रिंशदहःक्षपे लोके सूर्यो विभजते। तत्र कर्मणां चेष्टार्थं दिवसः, शर्वरी स्वापार्य।त्रिं2040शदहोरात्राणि मासः। द्वादशोऽध्या।शमासो वर्षम्। लौकिके मासेन रात्रा2041हं मै(पै)त्रमानम्। तेषु कृ2042ष्णपक्षः शर्वरी, शुक्को दिवां। अपने द्वे य2043द्युक्तं दैवमानम्। तत्रोत्तरायनं(णं) दिवा, दक्षिणायनं निशा।तेन पक्षः, मासः, संवत्सरश्च।
तेन चत्वारि वर्षसहस्राणि कृतयुगम्, तस्य चतुःशती संध्या, तावदेव संध्यांशः ततश्चतुर्भागहीनस्त्रेता। द्वापरमर्धम्।चतुर्थोऽशः कलिः। इत्येतेषां युगानां कालेन शतानि सहस्राणि चासंख्येयानि वर्तन्ते। तानि चत्वारि युगानि परिनिवृत्तानि पुनश्चतुर्युगमित्युच्यते। द्वादशवर्षसहस्रं चतुर्युगमित्युच्यते। तान्येकसप्ततिरिन्द्रपर्यायः। चतुर्दशेन्द्रपर्याया ब्रह्मदिनम्, तावत्येव रात्रिः।
तदादौ कृत्स्नमिदमीश्वरः संक्षिप्य कृत्वाऽध्यात्मं सुप्तो विबुध्यते। प्रतिबुद्धोऽथ2044 ब्रह्मा व्यक्तिमचिन्त्यमध्यायमहर्मुस्वेबुद्धिमव्यक्तमसृजत्। बुद्धेर्मनः। मनसोऽहंकारः। अहंकारात्कालः।कालाद्दिशः।दिग्भ्य आकाशम्। आकाशाद्वायुः। वायोस्तेजः। तेजस आपः।अद्भयः पृथिवी॥
ताभ्यः(?) शब्दवदाकाशम्।शब्दस्पर्शगुणो वायुः। वायो रूपगुणं तेजः। तेजसो रसगुणा आपः।अभ्यो गन्धगुणा पृथिवी। पूर्वानुपूर्व्यात्ते गुणानुत्तरानपि प्राप्नुवन्ति यावदिह गुणाः, यावन्तश्चोपगुणाः। सर्वे ते भूतगुणाः पृथिव्यां लक्ष्यन्ते। तत्समुत्थानिभूतानि स्थावरजङ्गमानि च। एतत्पञ्चगतिवत्सामान्येनान्योन्योपजीवीनि सपरिणामानि भूतान्युत्पद्यन्ते॥
तत्रोद्भिजानि वृक्षगुल्मवल्लीतृणानि चतुर्विधानि स्थावराणि। अत्र भो2045गार्थे चतुर्दशौषधयः। तद्यथा—श्यामाकवेणुनीवारतिलमर्कटगवेधुकावरकाश्चेति सप्त वन्याः।प्रियङ्गुगोधूमयवमाषशालिषष्टिक-कुलत्थाः सप्त ग्राम्याः॥
सरीसृपादिकादिक्चरैश्वराः2046 (?) श्वापदपक्षिहस्तिवानराः सप्ताऽऽरण्याः।पुरुषाजाविगोश्वागर्दभोष्ट्राः सप्त ग्राम्याः।तेषामेव भूतानां पुरुषः श्रेष्ठः, पशूनां गजः2047। तयोरायुरुत्कर्षः शरीरबलाधान-दोषोत्क(र्षापक)र्षेषु प्रयत्नः कर्तव्य इति। तत्र सात्म्यवयोबलप्रकृतिदेशकालाहारोपसेविनो मनुष्याः, परवशानुवर्तिनस्तु नित्यानुबन्धकर्मव्यायामबह्वनियताहारसेविनो वारणाः।तस्माद्विपानां शरीर-बलाधानदोषापकर्षणेषु प्रयत्नः कर्तव्यः। तत्र वक्ष्यते॥शरीरं खलु नामाहंकारात्। पृथिव्यापस्तेजो वायुराकाशमिति कर्णत्वग्जिह्वानयनघ्राणैः पञ्चभिरिन्द्रियैः शब्दस्पर्शरसरूपगन्धैश्च पञ्चभिरिन्द्रियार्थैः स्वभावेन चेतनया मनसा प्राणापानादिभिर्जीवितेन चेति पञ्चविंशतिभिर्गुणैर्युक्तं त्विदमव्यक्तं व्यज्यमानं शोणितरेतस्युत्पन्नं मातुर्योनिनाड्यां गत्वा विशद्देवगुणा भूतगुणा आत्मगुणाश्चेत्येतदनुपतन्ति। निवेश्यमानमनुनिवसन्ति। तद्यथा—भ्रमरमधुकरसंघाः पुष्पजं रजः प्रद्रवत्पद्रवन्ति निवसमान(?)मनुनिवसन्ते। एवं खल्विदमेतत्परमाङ्गलिङ्गमात्मानमव्यक्तं वक्ष्यमाणं शोणितरेतस्युपपन्नंमातुर्याति कटिसंधौ विसन्न(शन्तमे)व2048 स्वगुणाः स्वात्मगुणाश्चात्यन्तं तमनुपतन्ति। तैस्तस्य षट्कोशस्था2049नानि भवन्ति। तत्रामगर्भदोषा वेदना व्याप्तिर्भवति॥
पितृजमपि खल्वस्य शुक्रं मातृशोणितेन सह संप्रयुज्यमानं मारुतेन पूरितमीश्वरभावसंयुक्तं मूर्तिमापद्यते। दक्षिणं कुक्षिभागं पुमान्समाश्रयति, वामं स्त्री, मध्यमितरत्। संवृतात्पिण्डायामात्पुमान्संभवति, स्त्री पेश्याः, अर्बुदानपुंसकम्॥
परिपच्य2050मानस्तु खलु मासेन स्थिरी भवति गर्भः। द्वितीये मास्यर्बुदं पेशी वा, तयोर्युगपदिन्द्रियाण्यभिनिव(र्व)र्तन्ते।शिरोक्षिकूटबाहुष्पृष्ठपार्श्वोदररोमकूपाश्च तृतीये मासि। चतुर्थे व्यक्तीभवति ग2051र्भः। पञ्चमे मासि चेतनाऽस्योपजायते। षष्ठे मनः। सप्तमे बुद्धिः। अष्टमे मासि स्थैर्यम्।नवमदशमैकादशेषु सर्वाङ्गसंपूर्णः सप्तभिः शिराशतैः सर्वैः सान्वयसमन्वितः स्थिरीभूतो नाभिनिबद्धया नाड्या मातुराहारजं रसं भुञ्जानः संवत्सराद्वावै जा2052यते। सहदेवगुणैर्भूतगुणैरात्मगुणैश्च॥
तस्येमे देवगुणा भवन्ति—विक्रान्तौ विष्णुः।गले2053 शक्रः। कोष्ठेऽग्निः। उपस्थे प्रजापतिः। प्राणापानयोर्वायुः। कर्णयोर्दिशः। खेष्वाकाशम्। जिह्वायां सरस्वती।पदेषु मित्रावरुणौ। चक्षुष्यादित्यः। कर्मणि विश्वकर्मा।भूमिरस्य देहे।शब्दे रुद्रः।त्वचि विद्यात्(?) वाच्यग्निः। क्षान्तौब्रह्मा। पर्जन्यो हृदये।भुजयोरश्विनौ। त्रिके मरुतः। इति देवगुणाः॥
अथ भूतगुणाः—कर्णवदनगुदमेण्ढ्र2054श्रोतः शब्द इत्याकाशयोनीनि (रसो2055रसना…….।सर्वाणि च द्रव्याण्याकाशयोनिरिति। चक्षुरूष्मा कायाग्निरिति तेजोयोनीनि) घ्राणं घ्रेयं संघात इति पृथिवीयोनीनि।स्पर्शःस्प्रष्टव्यं प्राणापानसमानव्यानोदाना वायुयोनयः॥
अथाऽऽत्मगुणाः—सर्वेन्द्रियबुद्धिपरिद्रष्टा क्षेत्रज्ञः, संशयोत्पादनमभिप्रार्थनात्मकं मनः। आत्मेन्द्रिय-मनोर्थसंनिकर्षोत्पन्नव्यवसायात्मिका बुद्धिः, इति॥
मनो बुद्धिरन्तरात्मा इत्यव्यक्तानि।कर्णत्वग्जिह्वाघ्राणनयनश्रोत्राणीन्द्रियाणि।शब्दस्पर्शरसरूपगन्धा इन्द्रियार्थाः॥
समुत्पन्नै(रिन्द्रियार्थे2056 (?)) रिन्द्रियार्थान्गृह्णाति जितेन्द्रियेणोपकृष्टा2057न् । सर्वसत्त्वानामिष्टानिष्टानामल्पमनल्पं श2058ब्दं श्रवणेन्द्रियेण गृह्णाति।शीतोष्णश्लक्षणस्वर मृदुकठिनघनविकीर्णस्निग्धविशदपिच्छिलरूक्षतीक्ष्णानां च स्पर्शविशेषाणामुपलब्धिः स्पर्शेन्द्रियेण।मधुराम्ललवणकटुतिक्तकषायाणां रसानामुपलंब्धिः2059 (ब्धी) रसनेन्द्रियेण गृह्णाति।त्र्यस्रचतुरस्त्रनिम्नोन्नत-पृथुवृत्तसमविषमाकाराणि श्वेतताम्रपीतविमिश्रात्मकानि जङ्गमाजङ्गमानि द्रव्याण्यक्षीन्द्रियेण गृह्णाति। इष्टानिष्टानां व्यस्तपिण्डितनिरिणां गन्धानामुपलब्धिर्घाणेन्द्रिपेण, इति॥
तत्र ये चाऽऽत्मशरीरायत्ता वातपित्तश्लेष्माणः तेषां त्रीणि स्थानानि— पक्वाशयामाशयमलाशयाः॥
अथ सात्त्विका भावाः—प्रहर्षः प्रीतिः सुखमानन्दकर्मासंतापश्चेति। तैक्ष्ण्यमधैर्यं धाष्ट्यं भयं संतापो रोषः सङ्गः क्षुत्पिपासेति राजसाः।अज्ञानं लोभो मोहः कामः क्रोधः स्वप्नो दैन्यमिति तामसाः॥
अथ वायवः—प्राणापानसमानोदानव्यानाः।तेषां2060कर्माणि। तत्र प्राणो घ्राणनयनवदनगुदमेण्ट्र-श्रोतसामानन्दकर्मात्मकः, प्रवर्तको निवर्तकश्चेष्टानाम्, नेता मनः सर्वेन्द्रियार्थस्य, विज्ञानकरः प्रकृतिस्पर्शयोः, मूलं योनिर्हृदयस्पोत्साहस्य (⁺योनिर्हस्योत्साहस्य) स हि भगवान्प्रभवश्चाव्ययश्च, भूतानां भावाभावकरः मुखामुखस्य विधाता, मृत्युमो नियन्ता प्रजापतिरिति। विश्वकर्मा विश्वरूपः सर्वाङ्गेषु सर्वस्य विधाता भावनो मत्तविभुर्विष्णुः क्रान्ता लोकस्य, वायुरेष भगवान्पञ्चधाऽऽत्मानं योजयित्वा शरीरं धारयति। तेषां विसर्गात्मकोऽपानः। तत्क्षेपणाकुञ्चनप्रसारण गमनकर्मात्मको व्यानः।भक्ष्यभोज्यपेयलेह्यानामशितपीतलीढस्वादितानामभिवोढा समानः।प्राणापानसमानव्यानानामन्तकालेऽभ्युद्धर्ता चोदानः॥
अथ तेजः स्था2061नानि—प्रदर्शनं चक्षुरूष्मा कायाग्निर्हदयं त्वक्पर्यन्वमिति। तत्र चक्षुर्गतं रूपाणि गृह्णाति।कायाग्निरामाशयपक्वाशययोरन्तरस्थो धातूनां चान्तरेषु प्रयोगान्पाचयति।हृदि संश्रयाक्रोधपति।त्वक्पर्यन्तगतश्चाभ्यङ्गपरिषेकादीन्पाचपति॥
तत्र श्लेष्मा संधीन्संश्लेषयति, मृदुकरश्च॥
सप्त चास्य धातवोरसरुधिरमांसमेदोस्थिमज्जाशुक्रमिति॥
दश चास्य प्राणायतनानि भवन्ति शिरोहृदयनाभिगुदवस्तिवातपित्तश्लेष्ममूत्रपुरीषाणीति॥
प्राणयात्रार्थं चास्य षडूसाच मधुराम्ललवणकटुतिक्तकषायाः। तैरुपपन्नो गर्भस्तिष्ठति॥
तत्र त्रयाणां समवायाद्गर्भाधानं भवति मातुः पितुः, जीवस्य चेति॥
मैथुनसंयोगात्पतिं पदाऽभिकाङ्क्षति धेनुका, तां समुत्पन्नर्तुकां (तस्माहतुस्नातां2062हस्तिनीं विद्यात्। आर्तवस्य द्वादशरात्रं भवति। तस्माद्दिवा रात्रौ वा हस्तिनो हस्तिन्याश्चसंयोगे प्रादुर्भावो भवति। यदा हस्तिन्यामृतुमत्यां मतङ्गजः संयोगेषु शुक्रमुत्सृजति तद्वायुः कोष्ठे प्रविभजते। मातुराहोरात्संव2063र्धते। तस्मात्कवलरसपल्लवाहारासविना(?) क्षोभव्यायामतीक्ष्णोष्णाहाराविवर्जनात्स्यात्करेर्णेः। तत्र2064 बहुशुक्रे पुमान्संभवति, स्त्री शोणितबाहुल्यात्, समे नपुंसकम्, शुक्रे तु वायुना द्विधाकृते यमलावुत्पद्येते। यद्रूपा(द्)गर्भं विभर्ति धेनुका तदाकारं भवति। तत्र ग्राम्यधर्मे निवृत्ते यदा योनिमुखगतं शुक्रं भवति। तेच2065रुधिरसंसर्गात्कललं भवति। ततो जीवः संक्रामति गर्भम्। पृथिव्यापस्तेजोवायुराकाशं ज्ञानमिति षट्शरीरकारणानि भवन्ति। तत्समवायात्ततो योन्यांकललसंज्ञो भवति परिणामात्कललः खरत्वं भवति। स्वतेजसा विदाहे तत्स्वरी भवति परिणामात्। स्वरस्यार्बुदस्य पेशी भवति॥
तत्र मज्जा च शुक्रं च नागानां गर्भस्थानां भवति। स्नाय्वस्थीनि पितृजानि शुक्रान्तानि।जरायुमांसमेदोत्रगुदं ध2066र्मभ्यश्चेति मातृजम्। अन्नपातोत्पन्नः संवक्ष्यमाणः॥
मातृपित्रोरशनविशेषात्कफपित्तानलप्रभृतीनामन्यत(म)माशुक्रनिषे(क) प्राणिनमाश्रयति, स प्रकृतिमापद्यते॥
वर्णाः कृष्णश्वेतरक्तरूक्षा वातपित्तकफशोणितात्मकाः, वर्णभेदाश्च तेषामन्योन्यसंयोगात्मकाः॥
कुब्जवामनहीनाधिकवैकृत्ययमलभावाश्च वातात्मकाः॥
विषाणानां वैषम्पं वातात्मकं भवति। संजायमानयोर्दन्तयोर्यदा समुपहरति वायुः, तदा दोषा उत्पद्यन्ते॥
तत्र श्लोकौ—
यदा शिशुर्विचरति जीवमात्रो गर्भाशयाद्गर्भनिरोधमुक्तः2067।
तदाऽङ्गचेष्टां विविधां शरीरे प्रवर्तते वायुबलेन कर्तुम्॥
प्रवर्तते मूत्रपुरीषमस्य निमेषणोन्मेषणरोदनं च॥
तदाऽभिलाषाङ्गविचारणं च वातादि सर्वां विविधाः क्रियाश्च॥

गर्भसंभवो नाम सप्तमोऽध्यायः॥७॥
___________
अथाष्टमोऽध्यायः।
___________
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति॥
अजातंगृङ्गं वि2068धिवनिर्गतं हस्तिनं भगात्॥१॥
प्रवृत्तेऽस्मिन्यथाकाले यूथानि समवेक्ष्य च॥
यथावदनुपूर्वेण कृताञ्जलिपुटस्तथा॥२॥
इति प्रश्नं महाराजो व्याजहार यथातथम्॥
महान्मे संशयो विद्वन्दृष्ट्वा वै कुञ्जरान्वने॥३॥
गर्भः कथं संभवति संभूतः केन जीवति॥
अस्थिस्नायु च मांसं व कत्तमे मासि जायते॥४॥
छविश्व कतमे मासि त्वग्वंशः प्रविभज्यते॥
वृ2069क्वौनखानि रोमाणि यकृदन्त्राणि पुप्फसम्2070॥५॥
हृदयं कतमे मासि गर्भेजायेत दन्तिनः॥
पोतः कथं संभवति पोतकी जायते कथम्॥६॥
पोती पोतोऽथ यमकं मिथुनं जायते कथम्॥
उभौ वा पोतकौ केन उभे वा पोतिके कथम्॥७॥
कथं वन्ध्या चशण्टश्च कोशमेही च जायते॥
कथं मृगः संभवति मन्दो वा केन जायते॥८॥
भद्रश्चापि कथं नागः संकीर्णश्च कथं भवेत्॥
मन्दो मृगमनाः केन मृगो मन्दमनाः कथम्॥९॥
भवेत्तु जवनः केन जायतेऽल्पबलः कथम्॥
कथं भीरुः प्रकृत्या च प्रकृत्या शूर एव च॥१०॥
कथं भवति दुर्मेधा मेधावी च कथं भवेत्॥
मन्दमेघश्च मातङ्गश्चैतदिच्छामि वेदितुम्॥११॥
कालः कथं च भवति श्यामो वा केन जायते॥
हरिद्वर्णो भवेत्केन रूक्षाभः केन वारणः॥१२॥
स्निग्धच्छविर्वा मातङ्गः कथं स्याल्लोहितच्छविः॥
स लोहितच्छविः केन वर्णेषु भवति त्रिषु॥१३॥
गजश्वोलूकवर्णाभिः कथं भवति जातितः ॥
केन वर्णेषु भवति त्रिषु चोलूकवर्णभाक् ॥१४॥
बहुवर्णश्च मातङ्गः कथं भवति जातितः॥
मुद्रवर्णश्च मातङ्गोऽप्युपदिग्धश्च तत्र यः॥१५॥
श्वेताभो जायते केन एतदिच्छामि वेदितुम्॥
नखानि केन कालानि राजिमन्त्यपि वा कथम्॥१६॥
कथं श्यामानि जायन्ते श्वेतान्यपि च हस्तिनः॥
केनास्य तालुकं कृष्णं केन कल्माषतालुकम्॥१७॥
केन पद्मपलाशाभं तालु नागस्य जायते॥
कालजिह्वः कथं नागस्ताम्रजिह्वोऽथवा कथम्॥१८॥
कथं कल्माषजिह्मोवा गजो भवति जातितः॥
पिङ्गलः केन भवति मध्वक्षः केन जायते॥१९॥
हर्यक्षः केन नागः स्यात्काकाक्षः केन जायते॥
अक्षिणी केन शुक्लेतु कालतारे पुनः कथम्॥२०॥
गजः पारापताक्षो वा कथं भवति जातितः॥
विकृताक्षो विरूपाक्षो जातान्धो वाऽपि वारणः॥२१॥
केन जायते वै नागः कालः पिङ्गललोचनः॥
केन मुखा2071च्च2071हस्ताच्च स्वेदो भवति2072 दन्तिनः॥२२॥
कस्मिन्देशे च वृषणावदृश्यौ केन वा पुनः॥
म्लानशीर्षो म्लानमुखो विकटो बधिरस्तथा॥२३॥
ह्रस्ववालश्च मातङ्गो दीर्घवालः कथं भवेत्॥
विषमाभ्यां च कर्णाभ्यां पुटकर्णश्च वारणः॥२४॥
नष्टकर्णश्च मातङ्गः कथं भवति जातितः॥२५॥
कुष्ठी किलासी विततः काणो हीनोऽथवा पुनः॥
कुब्जः किलासमेढ्रश्च कथं भवति वारणः॥२६॥
अतिश्वेताश्च ये दन्ता ये च दन्ताः सुलोहिताः॥
यथा भवन्ति तद्ब्रूहि मधुवर्णाश्च दन्तिनः॥२७॥
म्लानवक्त्रः कथं नागो ग्रन्थिदन्तस्तथैव च॥
मुक्ता विषाणेषु कथं नागानां संभवन्ति च॥२८॥
ग्लानगात्रो भवेत्केन स्तब्धगात्रस्तथैव च॥
मृदुगात्रश्च मातङ्गःकथं भवति जातितः॥२९॥
सममूर्धा भवेत्केन तथा प्राप्तविदुर्गजः॥
उदङ्मूर्धा स च कथं गजो भवति जातितः॥३०॥
मदं गृह्णाति मातङ्गः केन प्रथमयौवने॥
अमदो वा भवेत्केन यावदायुर्मतङ्गजः॥३१॥
मूंढः2073 कथं संभवति समदन्तश्च वारणः॥
मत्कुणश्चैकदन्तश्च कथं स्पातां मतङ्गजौ॥३२॥
करेणुः केन भवति त्रिविषाणः कथं भवेत्॥
गजश्चतुर्विषाणो वा कथं भवति जातितः॥३३॥
वामोन्नतः कथं वा स्यात्कथंवा दक्षिणोन्नतः2074॥
मूढैक2074दन्तो मातङ्गोजापते केन हेतुना॥३४॥
उत्तमा हस्तिनो येच प्रादक्षिण्या द्विजोत्तम॥
तथैव नागा माल्पार्हाः2075श्वेतच्छत्रस्य च द्विपाः॥३५॥
गजाश्च मधुपर्कार्हा मानार्हाश्चैव2076 हस्तिनः॥
संभवन्ति यथा विप्र तथा मे वक्तुमर्हसि॥३६॥

अदृश्यमार्तवं विद्धि2077 हस्तिन्या हर्षकारि तत्॥३७॥
यानाचरत्यसौ भावांस्तान्मे कीर्तयतः शृणु॥
प्रहृष्टकर्णलाङ्गूला ध्यानशीला विवर्तिका॥३८॥
योनिश्च विवृता शुष्का मन्दं मन्दं च गच्छति॥
यूथस्यान्ते विचरति पांशुपङ्कजलप्रिया॥३९॥
पतितं हस्तिनीनां स्यादन्तरेणाऽऽर्तवं रजः॥
एतैराकारसंस्थानैर्ज्ञेया ऋतुमती भवेत्॥४०॥
—:():—
अतः परं प्रवक्ष्यामि ऋतुमत्याश्च लक्षणम्॥
प्रसन्नमुखवर्णा च योन्याश्च विवृतं मुखम्॥४१॥
पुनः पुनः प्रस्रवति प्रहृष्यति पुनः पुनः॥
समीपस्था न सहते हस्तिनश्चान्यहस्तिनीम्॥४२॥
किञ्चिदुत्पुच्छकर्णी च योन्या पक्लिन्नपीनया॥
समुत्थितकरग्रीवा विनता विकटस्थिता॥४३॥
यतो गजश्च व्रजति ततोऽस्याग्रेऽवतिष्ठते॥
हस्तिना च कृतं मूत्रं पुरीषं चापि हस्तिनी॥४४॥
पुनः पुनः समाघ्राय हस्तमास्यं नयत्यसौ॥
संप्रहृष्टाग्रवालेन मुहुराहन्ति तं द्विपम्॥४५॥
रागान्मुहुः परिक्रम्यप्लवते वारणं वशा॥
गुह्यदेशं समाघ्राय हस्तमास्यं नपत्यसौ॥४६॥
इमांश्च कुरुते भूयो भावान्हर्षकरान्गजे॥
यदा देशे मनोज्ञे तु पुरस्तिष्ठति वारणः॥४७॥
तदा प्रहृष्टा नागस्य दन्तमालिङ्ग्यतिष्ठति॥
करवक्त्रौष्ठमेण्ढ्राणि परिजिघ्रति सर्वतः॥
संघ्राय चास्य गात्राणि गुह्यानि च विशेषतः॥४८॥
वृक्षादाकृ2078ष्य शाखां व फुल्लबीजानि वारणम्॥
कुमुदोत्पलपत्रैश्च सरःसुसलिलेन च॥४९॥
कर्दमेन च शीतेन स्थले सिञ्चति पांशुना॥
पक्षेण पक्षं चाऽऽहत्य मुखं जिघ्रति दन्तिनः॥५०॥
न चातिमात्रमादत्ते भक्ष्यं कुञ्जरसंनिधौ॥
नैवाऽऽसीनं शयानं वा साऽपीष्टं निशि चाहनि॥५१॥
हस्तिन्यृतुमती नागं न मुञ्चति कदाचन॥
तत्तदेव करोत्यस्य येन येन2079प्रहृष्यति॥५२॥
फलमादाय रुचिरं मृणालं चापि शैवलम्॥
गजस्य वक्त्रेऽर्पयति हस्तिनी मदनातुरा॥५३॥
पदा देशे मनोज्ञे2080 तु पुनस्तिष्ठति वारणः॥
तदा विषाणमालिङ्ग्यदृष्टा नागस्य तिष्ठति॥५४॥
एभिर्विद्यादृतुमतीं लिङ्गैगजवशां बुधः॥
भूवनस्पतितोयेषु स्त्रीषु च श्रुतिरीदृशी॥५५॥
ब्रह्महत्या महेन्द्रेण कृत्वा संक्रामिता पुरा॥
स्त्रियस्त्रिरात्र्य(?) गम्पाहुस्त्रिलोकेशं शतक्रतुम्॥५६॥
तस्माद्वारयितुं शक्ता ब्रह्महत्या शचीपतिः॥
प्रायश्चित्तं ततस्तासामादिदेश <MISSING_FIG href="../../../books_images/U-IMG-1704116673image13.jpg"/>कुशास्तरे2081॥५७॥
वासोभिर्मलिनैर्भूमौ ब्रह्मचर्यसमन्विता॥
स्थाने व शयने चैव रजः प्रस्रवतु त्र्यहम्॥५८॥
मासि मासि करिष्यन्ति प्रायश्चित्तमिमं स्त्रियः॥
ब्रह्महत्याविमुक्तास्ता गमिष्यन्ति शुभां गतिम्॥५९॥
प्रायश्चितोपदेशाद्धि मानुषीणां रजः श्र(स्र)वेत्॥
पुष्पं यत्र स्थितं शुद्धं हस्तिनीनां निसर्गतः॥६०॥
__________________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1704116673image13.jpg"/>‘कुशोत्तरे’ इति स्यात्।

रजो न स्रवते यासांतिर्यग्योनिस्वभावतः॥
अदृश्यमार्तवं विद्धि हस्तिन्या हर्षसंभवम्॥६१॥
उत्पन्नपुष्पा विज्ञेया कामलीलाविचेष्टितैः॥
समुत्पन्नार्तवा राजन्नृतुस्नातेति तां2082 विदुः॥६२॥
अहानि द्वादश भवेदृतुस्तस्या नराधिप॥
तत्र रात्रौ दिवा वाऽपि स्वभावाच्च प्रजापते॥६३॥
ऋतुकाले तु संप्राप्ते धेनुकां प्लवते गजः॥
कल्पः कल्पां महीपाल मुदितो मुदितामपि॥६४॥
ततः पुरुषकारे तु निवृत्ते तस्य दन्तिनः॥
तच्छुक्रं भजते योनिप्रच्युतं तस्य मेहनात्॥६५॥
योन्या मुखं प्रविष्टं तु गर्भाशयमवाप्य च॥
ततः संयुज्यते2083 तत्र रक्तेन सह पार्थिव॥६६॥
योनिं रुधिरसंसृष्टां यदा शुक्रं प्रपद्यते॥
शुक्रशोणितसंयोगात्कललं संभवेत्ततः॥६७॥
जीवः संक्रामति ततो गर्भमित्येष निश्चयः2084॥
लब्धबीजा ततो मुक्ता प्र2085हर्षेण श्रमेण च॥६८॥
हस्तिनी दन्तिनं दृष्ट्वा शनैर्विष्टभ्यगच्छति॥
विनमत्याकम्पयति यथोक्ते कर्णचूलिके॥६९॥
कण्डूयते तथा देहं तरुमाश्रित्य सर्वतः2086॥
अवगाहं च पङ्कंच शीतांछायां च सेवते॥७०॥
गच्छन्तमुपसर्पन्तं द्वेष्टि चैव मतङ्गजम्॥
लिङ्गैरेतैर्विजानीयाज्जातगर्भां तु हस्तिनीम्॥७१॥
—:():—
अतः परं प्रवक्ष्यामि गर्भिण्या लक्षणं नृप॥
कषायमधुराहारा द्विरदं द्वेष्टि भावतः॥७२॥
संजातगर्भा प्रथमे मासे भवति हस्तिनी॥
मृदुत्वग्जृम्भणपरा द्वितीये कललोद्वहात्॥७३॥
योन्या प्रभूतोदकया तृतीये मासि वारणी॥
करेणुरलसा च स्या2087न्मृदुशीताभिनन्दिनी॥७४॥
चतुर्थे मन्दगमना मन्दमन्दोपसेविनी॥
पञ्चमे पूर्णजठरा पांशुपङ्कजलप्रिया॥७५॥
यूथप्रान्तं मृदुसमं देशं षष्ठे निषेवते॥
अत्यर्थं जृम्भणपरा मन्दवेगा च सप्तमे॥७६॥
द्विजान्दशति गम्भीरतोयप्लवनतत्परा॥
अष्टमे नवमे मासि जलं विष्टभ्य तिष्ठति॥७७॥
श्लानानना शीर्णकेशी दशमे क्लान्तलोचना॥
निम्नमेकादशे द्वेष्टि संवेशोत्थानविक्लवा॥७८॥
उन्नद्धनाभिरलसागुरुगर्भतयाच सा॥
करिणी द्वादशे मासीत्युक्तं गर्भस्य लक्षणम्॥७९॥
—:():—
अतः शृणु महाराज गर्भाधानं विशेषतः॥
मुनयो नयकारा ये शृण्वन्तु सुविचक्षणाः॥८०॥
ग्रन्थान्महार्थान्वक्ष्यामि यथावदनुपूर्वशः॥
रसो रक्तमथोमांसं मेदोऽस्थीनि च धातवः॥८१॥
मज्जा शुक्रं तु सप्तैते शरीरेषु शरीरिणाम्॥
मधुरः कटुकश्चैव तथाऽम्लश्च रसा नृप॥८२॥
तिक्तःकषायो लवणस्तेषामुपरसास्त्रयः॥
एतेषां वीर्यनिर्वृत्तौ रसधातुर्नराधिप॥८३॥
अव्यक्तः प्राणिनां प्राणान्प्रीणयत्यतिसौख्यतः॥
स पूर्वं शोणितं प्राप्य मांसं भवति पार्थिव॥८४॥
पारंपर्येण तेषां तु धातून्प्रीणाति दन्तिनाम्॥
ततो हर्षो भवेज्जन्तोः प्रीणितेष्वथ धातुषु॥८५॥
ततो हर्षात्प्रयत्नेन शुक्रं तस्य प्रजायते॥
यथा ह्यरण्यां ज्वलनः सूक्ष्मो यत्नेन दृश्यते॥८६॥
एवं मैथुनयत्नेन जन्तोः शुक्रं हि दृश्यते॥
यस्मिन्समे हि प्रकृतिः पुंसंज्ञा क्रियते नृप॥८७॥
प्रादुर्भावश्च तत्रैव परिणामश्च लक्ष्यते॥
त्रयाणां समवाये तु गर्भाधानं भवेदिति॥८८॥
मातापित्रोर्नृ2088 (र्नर)पते जीवस्य च न संशयः॥
पृथिव्यापश्च तेजश्च वायुराकाशमेव च॥८९॥
भूतान्येतानि कथ्यन्ते पञ्चैव खलु देहिनाम्॥
समवायः पुनस्तेषां योन्यां कललसंज्ञितः॥९०॥
कललस्य परीणामात्स्वरत्वमुपजायते॥
खरीभवति तद्राजन्विदाहेन स्वतेजसा॥९१॥
स्वरस्य च परीणामादर्बुदं नाम जापते॥
अर्बुदस्प परीणामात्पेशी स्यादिति निश्चयः॥९२॥
ततोऽस्य शाखा जायन्ते तथा विद्धि नराधिप॥
गर्भस्येहानुपूर्वेण सर्वभूतेषु पार्थिव॥९३॥
यथा मधूच्छिष्टकृतं रूपमन्वेति विग्रहः॥
स्त्रीपुंनपुंसकं तद्वज्जीवः समधिगच्छति॥९४॥
<MISSING_FIG href="../../../books_images/U-IMG-1704126812image13.jpg"/>पर्वभिस्तु यथा सर्वैर्वेणुरुत्पद्यते नृप॥
सर्वैरङ्गैस्तथा सूक्ष्मैर्जातैर्गर्भो विवर्धते॥९५॥
शुक्रं रजो मलश्चैव गर्भस्थस्प न जायते॥
चतुर्थे मासि जायन्ते स्नाय्वस्थीनि सिरास्तथा॥९६॥
जायते तस्य निर्वृत्तिरङ्गानां तुमहीपते॥
निर्वृत्तिरनुपूर्वेण यथावच्छ्रोतुमर्हसि॥१७॥
शिरो ग्रीवा च पृष्ठं च कर्णौ चाऽऽस्यं करस्तथा॥
गात्रापरमथो बालस्तथा निष्कोश एव च॥१८॥
उरस्तथाऽऽयामकाण्डमानुपूर्व्यान्नराधिप॥
छवी च पञ्चमे मासि यथावत्प्रविभज्य च॥९९॥
चक्षुः श्रोत्रमथो जिह्वा प्राणोऽपानस्तथैव च॥
वृष्कौ नखानि रोमाणि यकृदन्त्राणि पुप्फसम्॥१००॥
व्यज्यते हृदयं चैव षष्ठे मासि नराधिप॥
संभवन्ति महीपाल गर्भस्थस्येह दन्तिनः॥१०१॥
________________________________________________
**<MISSING_FIG href="../../../books_images/U-IMG-1704126812image13.jpg"/>**गर्भस्य हि संभवतः पूर्वंशिरं संभवतीत्याह शौनकः शिरोमूलत्वाद्देहेन्द्रियाणाम्। हृदयमिति कृतवीर्यो बुर्द्धमेनसश्च स्थानत्वात्। नाभिरिति पाराशर्यः, ततो हि वर्धते देहो देहिनः। पाणिपादमिति मार्कण्डेयस्तन्मूलत्वाचेष्टाया गर्भस्य। मध्यशरीरमिति सुभूतिर्गौतमस्तन्निबन्धनत्वात्सर्वगात्रसंभवस्य। तत्तु न सम्यक्। सर्वाङ्गप्रत्यङ्गानि संभवन्तीत्याह धन्वन्तरिः। गर्भस्य सूक्ष्मत्वान्नोपलभ्यन्ते वंशाङ्कुरवच्चूतफलवञ्च। तद्यथा— चूतफले परिपक्वे केशरमांसास्थि-मज्जानः पृथग्दृश्यन्ते। कालप्रकर्षात्तान्येव तरुणे नोपलम्यन्ते सूक्ष्मत्वात्। तेषां सूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति । एतेनैव वंशाङ्कुरोऽपि व्याख्यातः’ इति सुश्रुते धन्वन्तरेरप्यत्रैव संवादो दर्शितः॥
_________________________________________________
जीवोपजीवमाश्रित्य गर्भोभवति कालतः॥
रसेन प्रीणितो जीवो गर्भस्थः किं न रोदिति॥२॥
जरायुणा मुखे च्छन्ने कण्ठे च कफवेष्टिते॥
वायोर्गतिनिरोधाञ्चगर्भस्थो न प्ररोदिति॥३॥
मलाल्पत्वादयोगाञ्चवायोः पक्वाशयस्य च॥
वातमूत्रपुरीषाणि गर्भस्थो न करोति हि॥४॥
सूक्ष्मत्वाद्विशदत्वाच्चनात्र किट्टं प्रशस्यते॥
नाभ्यां प्रतिष्ठिता नाडी अन्तरे हृदयस्य च॥१०५॥
मात्रोपयुक्तान्देहस्थो गर्भो वहति वै रसान्॥
चतुर्भागेन चांशे2089न गर्भं प्रीणाति हस्तिनी॥६॥
नाड़ी2090 रसवहा ज्ञेया तयागर्भः स जीवति॥
ततः समानसंज्ञानं व्यक्तं भवति पार्थिव॥७॥
ज्ञानं च र2091सवीर्याभ्यां संभूयाऽऽशु विव2092र्धते॥
बुद्धिः संजायते चास्य सप्तमे मासि पार्थिव॥८॥
अष्टमे स्थिरसर्वाङ्गः संधिस्नायुसमन्वितः॥
त्वगस्थिमांसमेदोभिः संयुक्तः संविवर्धते॥९॥
नवमे दशमे चैव भवेदेकादशेऽपि वा॥
द्वादशे वा गजो राजञ्जायते नात्र संशयः॥११०॥
नृप या द्वादशे मासि गर्भिणी न प्रसूयते॥
इदं तु कारणं तस्या विज्ञेयं नरसत्तम2093॥११॥
क्षीणशोणितमांसाया रूक्षशुष्काशनाद्भवेत्॥
अध्वनो गमनाद्गाराद्वन्धनाच्चश्रमाद्भयात्॥१२॥
गर्भो मुह्यति हस्तिन्या वायुना परिशोषितः॥
न स्पन्दते न स्फुरते चातुर्यं च न गच्छति॥१३॥
न गच्छति विनाशं च न च काले प्रसूयते॥
अल्पमाणा निरुत्साहा गर्भशय्यां न मुञ्चति॥१४॥
सा लीनगर्भा करिणी प्रसूतेऽतिचिरादपि॥
धेनुर्बन्धकिनी चैव तथा नागोलिकाऽपि च॥११५॥
एकद्वित्रिसमा गर्भं धारयन्ति यथाक्रमम्॥१६॥
हस्तिनी गर्भिणी या तु बह्वश्नात्यहितं यदा॥
आहारं तरुणे गर्भेतेन दोषः प्रवर्तते॥१७॥
ततो दोषपरिस्पन्दो गर्भनाडीं प्रपद्यते॥
स गर्भेजनयत्याशुव्याधीन्बहुविधान्बहून्॥१८॥
यदा त्वाहारगुणतो गर्भो भवति तर्पितः॥
मातुर्गुणबलोत्साहसत्त्वतेजःसमन्वितः॥
गर्भशय्यां परित्यज्य2094 विमथ्य परिवर्तते॥१९॥
योनिद्वारं समासाद्य तदा क्षिप्रं विजायते॥
इत्येतदभिनि2095र्दिष्टं गर्भस्योत्पत्तिलक्षणम्॥१२०॥
—:():—
अथ देवगुणानां तु विस्तरः संप्रवक्ष्यते॥
ब्रह्मा मूर्ध्नि गले शक्रः स्कन्धे विष्णुरवस्थितः॥२१॥
नाभ्यामग्री रविर्दृष्ट्योर्मित्रः पा2096देषु दन्तिनाम्॥
धाता विधाता कुक्ष्योस्तु मेण्ढ्रेवाऽपि प्रजापतिः॥२२॥
अन्त्रेषु2097 नागास्तिष्ठन्ति सर्वलोकधुरंधराः॥
वारणेषु प्रधानात्मा तिष्ठति ह्यजरोऽक्षयः॥२३॥
गात्रयोरश्विनौ श्रोत्रे दिशो मनसि चन्द्रमाः॥
पर्जन्यो हृदि नागानामिति देवगुणाः स्मृताः॥२४॥
—:():—
आकाशाच्छ्रोत्रनिर्वृत्तिः शब्दः स्वानि च दन्तिनाम्॥२५॥
गर्भस्तस्याथ विज्ञानं सर्वाश्चेष्टाश्च मारुतात्॥
दृष्टिरूष्मा च2098 पित्तं च रूपज्ञानं च तैजसम्॥२६॥
सलिलात्तु रसज्ञानं स्नेहः क्लेदः कफस्तथा॥
गन्धज्ञानं च गन्धश्च संघातश्च महीगुणाः॥२७॥
इति भूतगुणाः प्रोक्ता वक्ष्यन्ते पितृजा गुणाः॥
भवन्ति पितृजा2099 दन्ताः शुक्रमस्थि च दन्तिनाम्॥२८॥
केशा रोमाणि मज्जा च स्नायूनि च नखानि च॥
सत्त्वं चक्षुर्बलं बुद्धिः स्मृतिर्मेधाश्रुतिर्जवः॥२९॥
पितृजं सर्वमेवैतन्मातृजं संप्रवक्ष्यते॥
त्वक्पेशी शोणितं चैव मेदोऽन्त्राणि गुदस्तथा॥१३०॥
धमन्यश्चेति नागानां विज्ञेया मातृजा गुणाः॥
आत्मजाभिनिर्वृतिश्च स्वकर्मफललक्षणाः॥३१॥
शरीरं बलवृद्धिस्तु गर्भस्प रसजाः स्मृताः॥
रसस्य प्राणनं2100कर्म जीवनंशोणितस्य च॥३२॥
प्रलेपनं च मांसस्य क्लेदो वर्ष्मच मेदसः॥
देहधारणमस्थां चमज्ज्ञश्चैवास्थिपूरणम्॥३३॥
संभूतमथ गर्भस्थं वायुर्जीवयति द्विपम्॥
शरीरे चान्तरिक्षे च दिव्यो राजन् महाबलः॥३४॥
भगवाञ्जीव इत्येष सर्वमाणभृदीश्वरः॥
शरीरस्थोऽप्यदृश्यश्च वायुरित्युच्यते बुधैः॥१३५॥
**( **<MISSING_FIG href="../../../books_images/U-IMG-1704129106image13.jpg"/>यदा []2101 शिश्वर्विचरति जातमात्रो गर्भाशयाद्गर्भनिरोधमुक्तः॥
तदाऽङ्गचेष्टां विविधां शरीरे प्रवर्तते वायुबलेन कर्तुम्॥३६॥

तदाऽभिलाषाङ्गविचारणं च वातो हि सर्वस्य भवेद्धि कर्ता)॥३७॥
पूर्वं सु यदिमातङ्गः शुक्रमाक्रम्य तिष्ठति॥
जनयेत्तत्र मातङ्गमत्र मे नास्ति संशयः॥३८॥
संगमे तु यदा राजभक्तं मुञ्चति धेनुका2102॥
जनयेद्धस्तिनींतत्र क्षिप्रमेव महीपते॥३९॥
ऋतौ नित्यं यदा राजन्धेनुकां प्लवते गजः॥
ततः शुक्रं प्रथमतो वारणस्य प्रसिच्यते॥४०॥
तश्चेत्प्रणिहितं शुक्रं करोति पवनो द्विधा॥
जायेते यमकौपोतौ2103तत्र मे नास्ति संशयः॥४१॥
ऋतौ यदि समुत्पन्ने धेनुकां प्लवते गजः॥
धेनुकायाः प्रथमतस्तत्र रक्तं प्रसिच्यते॥४२॥
**द्विधा करोति तद्वायुर्मुञ्चेत्मणिहितं यदि॥
भवतः पोतिके तत्र अत्र2104 नास्ति विचारणा॥४३॥ **
_____________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1704129106image13.jpg"/> धनुराकारमध्यस्थौ श्लोकौ पूर्वाध्यायस्य गर्भसंभवाख्यस्य चरमलिखितौ केवलं खपुस्तके पुनरुक्तौ। कपुस्तके तु प्रकृताध्यायप्रारम्भे कृतप्रश्नानामेतदुत्तरकानुयोगाभावेन व्यर्थत्वावगमेन न लिखितौ ॥

यदा तु प्लवते नागो वशामृतुमतीं नृप॥
ततस्तु युगपच्छुक्रंप्रसिच्येत यदृच्छया॥४४॥
करोति मारुतस्तच्चेच्छुक्रं प्रणिहितं द्विधा॥
यमके मिथुनं तत्र जायते नात्र संशयः॥१४५॥
रसं तीक्ष्णं यदाऽभीक्ष्णं निषेवेत मतंङ्गजः॥
कटुकं च कषायं च रूक्षं चैव महीपते॥४६॥
मृदा2105 समुपदिग्धं2106 च प्रवृट्कालेच वारणः॥
असंजातरसं स्वादेदगर्भं यवसं य2107दा॥४७॥
यथेष्टं हस्तिनी वाऽपि रसानेता2108भिषेवते॥
यदा भवति संयोगस्तस्मिन्काले यदृच्छया॥४८॥
नागे संजायमाने तु हस्तिनी व्यतिरिच्यते॥
शुक्ररक्तसमायोगाद्योन्यां कुप्यति मारुतः॥४९॥
दौर्बल्याञ्चापि शुक्रस्य रसहीनतयाऽथवा॥
यदि प्रादुर्भवेद्गर्भस्तस्मिन्काले यदृच्छया॥१५०॥
षण्ढःसंजायते तेन वातोपहतपौरुषः॥
षण्ढा वाऽपि महीपाल हस्तिनी नात्र संशयेः2109॥५१॥
—:():—
दलीसंतानभक्षाणां पित्तधातुर्विवर्धते॥
कट्वम्ललवणप्राये काले कफेविघातने॥५२॥2110
रक्तमांसक्षयकरैर्मनोदेहाभिपातनैः॥
वृष्टेरुपरमाद्वाऽपि2111 शुक्लोदकब2112लाहके॥५३॥
शरत्काले निदाघे वा तत्समानगुणे ऋतौ॥
मध्याह्ने मध्यरात्रे वा ऋतौ तुल्ये तयोर्द्वयोः॥५४॥
वशोपनीतप्रकृतिः पित्तेनाधिककर्मणा॥
शुद्धः संजायते जात्या मृगनामा मतङ्गजः॥१५५॥
तस्यैव संप्रवक्ष्यामि सत्त्वाकारमसंशयम्॥
वनचर्याक्रियाणां च लक्षणं प्रविभज्यते॥५६॥
तनुत्वक्कर्णपादो यस्तन्वास्यस्तनुमेहनः॥
तनुवंशोदरश्चैव तनुव्यक्ततनूरुहः॥५७॥
तनुगात्रापरनखस्वमुग्रीवस्तथैव च॥
दीर्घजिह्वाविषाणश्च दीर्घगात्रस्तथा च यः॥५८॥
स हस्वहनुहस्तास्यवालवालधिपुष्करः॥
ह्रस्वारूपमस्तकश्चैव ह्रस्वरोमाऽणुमेहनः॥५९॥
निसृष्टसृक्कनिर्याणकक्षांससगदान्तरः2113॥
प्रस्तब्धरोमकर्णत्वक्पुरस्ताञ्चापि संनतः2114॥१६१॥
करालो वृतकर्णश्च जलौकावर्णसप्रभः॥
स्थूलोत्कृष्टशवकृ2115ष्टैश्च संयुतः सर्वसंधिभिः॥६१॥
उन्नद्धनाभिरन्ध्रश्च निर्मासाष्ठीव्यपिण्डकः॥
स्थूलो निर्मीलि2116ताक्षश्च कुब्जवंशश्च वारणः॥६२॥
उच्चश्वाप्यल्पपा2117र्श्वश्च तथा चाप्यल्पपेचकः॥
ग्रीवया चाप्यपेतोऽसावुश्चैर्वद्धापञ्चद्धपः॥६३॥
एतद्वनगजस्यास्य शारीरं लक्षणं भवेत्॥
वनस्थस्यैव वक्ष्यामि तस्य सत्त्वाश्रयं पुनः॥६४॥
निपाने गोचरस्थाने शय्यायां वाप्यनिर्वृतः॥
रूपादिमयशङ्की च नित्यमेवानवस्थितः॥१६५॥
इत्युक्तं वनवासस्य2118 चर्यामपि तु वक्ष्यते॥
सत्त्वस्य लक्षणं तस्य2119 निश्चयेन विनिश्चितम्॥६६॥
चर्यां वनमनुचरन्निपिनष्टि करं भुवि॥
हस्तश्रवणलाङ्गलो दीर्घं विश्रमते2120 क्रमैः॥६७॥
भिन्नमूत्रपुरीषः समुद्विमः संप्रधावति॥
पुनः पुनश्च विनदन्स्थाने हस्तं विनिक्षिपेत्॥६८॥
समुन्नम्य शिरो याति यूथान्तं चोपदेशते॥
चर्यां निर्गन्तुकामस्य द्वारमशप्य ति2121ष्ठति॥६९॥
कर्मण्युत्तानवेदी तु चण्डो दुर्विनपश्च2122 यः॥
शोकालुश्चाप्यसोदुश्च दुर्मना गुरुमक्षिकः॥१७०॥
बह्वाशी बहुलापश्चेद्विशीलो विषमाशनः॥
रभसो2123 दुर्भगश्चैव दन्तपातेषु चाक्षमः॥७१॥
पुरोधिसंपराये च विपरामर्शदुर्बलः॥
जवे2124 प्रकृष्टवेगश्च भारं प्राप्यावसीदति॥७२॥
रजोवृत्तिविधेयश्च दुर्मेधश्च मृगो गजः॥
प्रकृत्या पैत्तिको ह्येष जात्या वाऽपि मृगोमतः2125॥७३॥
कृच्छ्राच्चाऽऽप्यायते नागः क्षिप्रं च परिहीयते॥
विधाः स्नेहाच्च तद्योगास्तृणानि विविधानि च॥७४॥
लवणं प्रतिपानं च कवलान्कुवलानि च॥
नित्यमस्मै विचित्राणि दातव्यानि बलार्थिना॥१७५॥
विशिष्टबलयोगो हि तस्य तज्ज्ञैः प्रशस्यते॥
तिक्तैः कषायमधुरैः स्निग्धैश्चाऽऽप्यायते हि सः॥७६॥
कट्वम्ललवणैश्चैव रूक्षैश्चाऽऽतुरतां व्रजेत्॥
तस्माद्योगविभागज्ञो भिषक्शास्त्र विशारदः॥७७॥
प्रकृतेरविरोधेन बल्यमाहारमादिशेत्॥
बलं ज्ञात्वा च तद्योग्यं भिषक्वर्म समादिशेत्॥७८॥
नित्यं च सान्त्वयेदेनं न चैनमभितापयेत्॥
सोढुं स हि न शक्नोति तीक्ष्णदण्डावचारणम्॥७९॥
तस्मात्कर्मान्तरं तस्य सदा तीक्ष्णं विवर्जितम्॥
पिण्डोदकप्रदानं तु सान्त्वपूर्वं प्रशस्यते॥१८०॥
तृणकूर्चोपचारेण ततश्चैनमुपाचरेत्॥
कर्णमध्ये तु संरक्षा मृदा संपरिलेपयेत्॥८१॥
अङ्कुशप्राजनैश्चैनं विशुद्धमवमार्जयेत्॥
असंतापक्षमं चैनं वाचं न कटुकां वदेत्॥८२॥
एवं हि सान्त्वतः2126 कर्म सुखेन प्रतिपद्यते॥
कर्मार्थश्चायमारम्भः कर्म चैवं प्रसिध्यते॥८३॥
अथ मन्दस्तु हेमन्ते मासयोः पौषमाघयोः॥
नागानां शीतसात्म्यानां मांसं मेदश्च वर्धते॥८४॥
तुषारवातपरुषे प्रभूतयवसादेके॥
स्वाद्वम्ललवणानां च रसानामुद्भवात्मके॥१८५॥
इन्द्रियोद्रेकजनने मे2127दो मांसं विवर्धते॥
अम्ला मधुरवीर्याश्च भवन्त्योषधयस्तदा॥८६॥
ततस्तासां विपाकेनश्लेष्मा समुपचीयते॥
भवन्ति च विचित्राणि धान्यानि वसुधातले॥८७॥
वर्ष्मपुष्णन्ति परमं शुक्रं चैषां विवर्धते॥
संजातमांसा हेमन्ते भवन्ति बलिनो गजाः॥८८॥
तदा हर्षेण संपन्नाः समर्था मैथुने नृप॥
रात्रौ निवाते गच्छन्ति सायं ते वाऽऽतपं दिवा॥८९॥
न च दूरं विधावन्ति ग्रासनिर्वाणकारणात्॥
तस्मिन्काले यदा राजन्धेनुकां प्लवते गजः॥१९०॥
सा चाथ2128 लभते गर्भं हस्तिनं प्राप्य हस्तिनी॥
संजायते महाराज यादृशं तादृशं शृणु॥१९१॥
महामुखो महाग्रीवो महाश्रोता महोदरः॥
महोरःकुम्भसगदाप्रतिमानासनैर्युतः॥९२॥
महापस्कारनिष्कोशो व2129लिमान्स्थूलपेचकः॥
निःसृष्टकूटभागश्च दीर्घस्थूलतनूरुहः॥९३॥
चीनानुवंशः सान्द्रत्वक्सुविभक्तमहाशिराः॥
उत्पार्श्वः सूक्ष्मनाभिश्च दीर्घवालधिमेहनः॥१४॥
पुरस्तादुच्छ्रितश्चापि पश्चादवनतोऽपि च॥
अच्छिद्रदेहबन्धश्च तथा च परिमण्डलः॥१९५॥
ह्रस्वास्यः पृथुजिह्वश्च ज्ञेयो ह्रस्वशिरोधरः॥
मृदुसंभोगभागश्च दृढ2130पर्वा तथैव च॥१६॥
महाण्डकोशः2131 पक्षाभ्यां2132 स्तनोभ्यांचोपल2133क्षितः॥
बहलैर्मृदुभिश्चैव युक्तः स्निग्धैस्तनूरुहैः॥९७॥
स्थिरैः स्थिराकृतितलैः पादैश्च पृथुभिः समैः॥
अल्पोत्सेधश्च विज्ञेयो गूढोत्कृष्टः समाहितः॥१८॥
दीर्घेण दीर्घाङ्गुलिना दीर्घपुष्करशोभिना॥
युक्तो हस्तेन हर्यक्षः प्रभूतमृदुना च यः॥९९॥
स्थिरे स्निग्धे विशाले च पीने चापि प्रकीर्त्यते॥
विषाणे तस्य विद्वद्भिरोष्ठो दीर्घश्च रोमशः2134॥२००॥
स्वयंवृत्तो मृदुस्निग्धो महाकर्णस्वनश्च2135 यः॥
पश्चादधश्च बद्धौ च कर्णौ जात्युपलक्षणौ॥१॥
संदानभागौ प्रोहौ च पलिहस्तौ तथैव च॥
पलिपादश्च पादश्च ज्ञेयस्तस्य कचाविलाः॥२॥
रन्धौ2136 कक्षौ च कुक्षी च विशेषज्ञैर्विनिश्चिते॥
प्रलम्बौ चोपदिग्धौ च श्रवणौ तस्य तद्धि च॥३॥
शिथिलैर्बहुलैश्चैव मांसैः संलिप्तविग्रहः॥
गूढो नीचैः प्रबद्धश्च बलवांश्चापि वारणः॥४॥
कूर्मसंस्थानगमनो मन्दो मन्दगतिक्रमः॥
चिह्नैरेतैः शरीरस्थैर्विज्ञेयो वनसंस्थितः॥२०५॥
वनस्थ एव च सदा विहरन्विविधाशनः॥
अनवेक्ष्य चरत्येव शब्दादिभयकारणम्॥२०६॥
यूथमार्गानुसारी च स्थले वाऽप्यथवा जले॥
संमील्य लोचने नित्यं निद्रान्ध इव गच्छति॥२०७॥
हस्तिन्यां हस्तमासज्ज्य प्रा2137येण मदनातुरः॥
पृष्ठे च जघने वाऽपि वीर्यामथ स तिष्ठति॥२०८॥
पार्थिवाज्ञाप्रयुक्तेषु मोहशङ्कादिहेतुषु॥
वादित्रोद्भटशब्देषु न मुह्यति न शङ्कते॥२०९॥
पाद2138पाशिकविक्षिप्तैस्तथैवापरया पुनः॥
पाशैरुद्वेजनैर्बद्धोऽप्युद्वेगं2139 नाधिगच्छति॥२१०॥
इत्युक्तं लक्षणं तस्य वनचर्या तु सात्त्विकम्॥
अतः परमिदं कृत्स्नं सत्त्वकर्मणि कीर्त्यते॥२११॥
अल्पश्रमः क्लेशसहोमृदुकोपोऽथ निर्जवः॥
दंशस्प2140र्शक्षमश्चापि गम्भीरस्य च वेदिता॥२१२॥
मन्दाशनोऽथ मन्दाग्निरल्पाशी बलवांश्च सः॥
महाधृतिरसंवायी स्ति2141मितः सुभरोऽपि वा॥२१३॥
आकूजनश्च प्रायेण मेधया चापि मध्यमः॥
पित्तोत्स2142न्नं2142पुरीषं च मूत्रं च विसृजत्यसौ॥२१४॥
त्रासितो बधबन्धैश्चनातित्रासं स गच्छति॥
प्रकृत्या श्लेष्मलस्त्वेष2143 मन्दस्तामस एव च॥२१५॥
पूर्वोक्त एवास्याऽऽहारो विशेषोऽयं ततो भवेत्॥
स्निग्धैः कषायकटुकैस्तिक्तैश्चाऽऽप्यायते हि सः॥२१६॥
त्रासदंशवदातीक्ष्णैस्तस्येदंप्रा2144जनाङ्कुशैः॥
दृष्टप्रवद्धकर्मा स्याद्गुरुगम्भीरवेदिता॥२१७॥
मृगस्पाधैर्यमाधेयं मन्दस्यापि च लाघवम्॥
श्लेष्मप्रकृतिरेवं चमन्दो ला2145घवमाप्नुयात्॥२१८॥
——:():——
समशीतोष्णसुभगे प्रकामयवसोदके॥
ऋतौ वसन्तस्य मुखे मन्मथादेशनक्षमे॥२१९॥
तत्समानमुखे वाऽपि पूर्वाह्णेपूर्वजन्मनः॥
ये चाप्याहारजा दोषा मातापित्रोः कफादयः॥२२०॥
सात्म्यत्वादेहबीजत्वान्नते2146 दोषकराः स्मृताः॥
विषजन्मा यथा जन्तुर्विषदोषैर्न हन्यते॥२२१॥
त्रिदोषवशगो नागो न दोषप्रकृतिर्भवेत्॥
रसाधिक्योपयोगेण (न) दोषाः स्युः स्वगुणाधिकाः॥२२२॥
शुक्रार्तवसमायोगस्तैश्चाऽऽदावनुभाव्यते॥
पित्तादीनां त्रयाणां च कार्यं यत्र हि च द्विपे॥२२३॥
दृश्यते तद्विशेषाग्नेःस तद्योनिरिति स्मृतः॥
दोषसात्म्यावसौ भद्रः समधातुः प्रकीर्तितः॥२२४॥
सर्वजात्याधिकस्वेदस्त2147स्य लक्षणसंपदः॥
भद्रश्चराज्ञोभूत्यर्थमिति तज्ज्ञाः प्रचक्षते॥२२५॥
प्रतिमाने सुविपुलश्चारुपृष्ठायताननः॥
मुखे सुरभिनिश्वासस्ताम्रजिह्वौष्ठतालुकः॥२२६॥
पीनाण्डकोशः सुश्रोताः सुदीर्घाङ्गुलिपुष्करः॥
स्वायतेनानुवृत्तेन करेण च करी पुनः॥२२७॥
सुप्रभूतान्तरमणिर्व्यस्तपीनस्तनान्तरः॥
तथा व्यूढमहोरस्को महांसो विपुलासनः2148॥२२८॥
शिराभिर्वलिभिर्मुक्तैर्युक्तो गात्रैःसमाहितैः॥
इषीके चाक्षिकूटे च कुम्भश्चावग्रहेऽपि च॥२२९॥
कटौ व सगदौ वाऽपि दन्तवेष्टौ तथैव च॥
अनुत्सन्ना ह्यनिम्नाश्च प्रदेशास्तस्य कीर्तिताः॥२३०॥
तथैषां तुल्यसंस्थानौ दन्तौ चापि विशेषतः॥
मधुपिङ्गलनेत्रश्च मधुदन्तश्च दन्तिनः॥२३१॥
स्रिग्धौ च परिनिम्नौच समौ चापि प्रमाणतः॥
कर्णौसूक्ष्माण्डरोमाणौ ज्ञेयौ तस्य विपश्चिता॥२३२॥
समानवर्णैर्मृदुभिः सूक्ष्मैः स्निग्धैस्तमूरुहैः॥
एकजाञ्चितरोमा च स्वायतव्यायतच्छविः॥२३३॥
मांसैःस्थिरैः समग्रैश्च यथाभागैः प्रतिष्ठितैः॥
तनुभिर्बहुभिश्चैव सर्वतः स विभूषितः॥२३४॥
प्रोहौ च पलिहस्तौ च पलिपादौ च यस्य तु॥
श्लक्ष्णाश्चानुपदिग्वाश्च तथा चैककचाविलाः॥२३५॥
महाशिरोधरांसश्च संलक्ष्येत च यस्य तु॥
अपस्कारप्रदेशौ2149 च नाहायामसमन्वितौ॥३६॥
ताम्रपल्लवसंकाशमेहनः स्थिरविक्षपात्॥
दीर्घवालधिबालश्च समपार्श्वस्तथा च यः॥३७॥
मूढोत्कृष्टोऽल्पनिष्कोशः पुरस्तादुत्सु(च्छ्रि)तस्तथा॥
धनुर्विनतवंशश्च समसद्धन्धनोऽपि च॥३८॥
अविक्षिप्तान्तरैः स्निग्धैः स्थिरैरपि खरैरपि॥
समुद्धृतार्धचन्द्रैश्च वर्णसंस्थानयोगिभिः॥३९॥
विंशत्या च नखैर्युक्तो योऽष्टादशभिरेव वा॥
यो नोपदिग्धो न तनुस्तनुरन्धस्तनूदरः॥२४०॥
समसंस्थानबन्धश्च सप्तधातुष्वव स्थितः॥
तं नागं वनसंस्थं हि नाम्ना जात्युपलक्षितम्॥४१॥
भद्रमित्येव जानीयाच्चिह्नैरेतैः शरीरजैः॥
स शीतातपवातानां सोढा संवेगकारिणाम्॥४२॥
द्रुमाद्रिशिखराणां च कुलानां पततामपि॥
अशनेर्वातवृष्टीनां स्तनयित्नोश्च चिन्तनम्॥४३॥
आवेगमदनाविग्नःश्रुत्वा हर्षं स गच्छति॥
वृद्धान्हरति कामार्तः संजिघ्रति समन्ततः॥४४॥
शब्दानप्यतिवृद्धश्च2150 हृष्टः संपरिजीवति॥
अथ दीप्ता दिशो घोराः प्रसृताश्चदवाग्न2151यः॥२४५॥
ज्वलिताश्चाग्निसंघाताः क्षिप्रश्रान्ताश्च विद्युतः॥
तथैवान्यानि रूपाणि दृष्टानि सुबहून्यपि॥४६॥
भीषयन्तीह नैवैतं भीमान्युद्वेजनानि च॥
वनस्थ एव स गजः स्वयूथमनुपालपेत्॥४७॥
अनेन खलु विज्ञेयो वने सत्त्वेन सात्त्विकः॥
चर्यायां चाग्रतः स्थित्वा यूथमेकोऽभिरक्षति॥४८॥
ईरितः कोपमादत्ते क्षिप्रं चैवोपशाम्पति॥
आरक्ष(क्ष्य)माणः पुरुषैर्भक्ष्यं स्वादेदनाकुलः॥४९॥
इति चर्यासमुद्दिष्टं तस्येदं सत्त्वलक्षणम्॥
जातियूथावसा2152हार्य(?) पुनः कर्मणि कीर्त्यते॥२५०॥
अन्वर्थवेदी शूरश्च क्षमावान्नच कर्कशः॥
कल्याणमेधा ते(स्ते)जस्वी सदासंतापवर्जितः॥५१॥
समज्योतिः समाहारः सात्त्विकः शीलवांश्च यः॥
तथा मशकदंशस्य संतापानां च स क्षमः॥५२॥
तोत्राङ्कुशनिमित्तानामन्येषां च पृथक् पृथक्॥
सोढा स तीक्ष्णस्पर्शानामिति ज्ञेयः क्रियागतः॥५३॥
एवं वने व2153चर्यायां क्रियायां चापि कीर्तितम्॥
यथागमं मया सम्यक्संपूर्णं भद्रलक्षणम्॥५४॥
समधातुशरीरस्य तस्यायमशनाश्रयः॥
प्राप्तसामान्यभोज्यस्य विशेषोऽत्र विवक्षितः॥२५५॥
कफपित्तानिलानां हि समृद्ध्यावर्धते द्विपः॥
एषामेव समेतानां हान्यां च परिहीयते ॥५६॥
तस्माद्रससमायोगो यस्त्रिदोषाभिवृद्धये॥
तत्तस्मै कुशलो युक्त्यानित्यमेव प्रदापयेत्॥५७॥
प्रवृद्धबलसत्त्वं च ततस्तं कर्मणि क्षिपेत्॥
लघुना साधयेच्चैनं न कर्म गुरु कारयेत् ॥५८॥
सहसैवाहितं तस्य तीक्ष्णदण्डावधारणम्॥
क्रमेण चानुबध्नीयात्तस्माद्यस्त्रैःपृ2154थग्विधैः॥५९॥
अङ्कुशैः प्राजनैश्चापि यथार्थं प्रहरन्बुधः॥
क्रिया साफल्यमाप्नोति पोक्ता विदितवेदिता2155॥२६०॥
ऋजुरेव तथा शीघ्रो मुक्तोऽथ लघुरेव च॥
भद्रः प्रसिद्धिमाप्रोति क्रियया नान्यथा नृप॥६१॥
ऋजुः समाहितमनाः शीघ्रो दक्षस्तु वर्ण्यते॥
मुक्तो विशदचेष्टस्तु लघुपूर्वानुगः स्मृतः॥६२॥
———:():———
यस्मिंस्तेषां2156 त्रयाणां व सत्त्वलक्षणसंकरम्॥
पश्येत्संकीर्णं इति तं विद्वान्वारणमादिशेत्॥६३॥
मारुतव्यपदेशिन्याः प्रकृत्या व्यपदेशतः॥
प्रसिद्धलक्षणश्चैवं भूयो लक्षणमुच्यते॥६४॥
स्तब्धरोमच्छविः सत्त्वे शरीरे वाऽनवस्थितः॥
पुरुषस्य चनागस्य सरूक्षंदशनेक्षणः॥२६५॥
बहुवर्णो विरूपाक्षः स्थूलपादनखस्तथा॥
चपलस्तीत्रकामश्च धेनुकासु विशेषतः॥६६॥
अशुच्याचारयुक्तश्च तूर्णगः सततोत्थितः॥
अल्परोमनस्वसर्वैः स्थूलैश्चापि प्रभेदिभिः॥६७॥
विद्धाङ्गःकोपनो भीरुर्विवृतैः संधिभिर्युतः॥
स्नायुभिश्च शिराभिश्च तनुगात्रापरान्वितः॥६८॥
नित्यमुत्थापितश्रोता विशेषाग्निर्महाशनः॥
शकृन्मूत्रं2157 ततो भिन्नमरूपाल्पं परिमुञ्चति॥६९॥
विषमः कर्मसु सदा स्थाने वाऽप्यनवस्थितः॥
नमुखश्चलवित्तश्च भाराध्वगमने क्षमः॥२७०॥
लघुचेष्टोऽलमेघश्च बले चापि विगर्हितः॥
चिरग्राही क्रियायां तु विस्मर्ता चापि वारणः॥७१॥
**मृगपादसमाः पादा मुखं भद्रमुखाकृति॥
तथा पृष्ठोदरं चास्यमन्दपृष्ठोदरोपमम्॥७२॥ **
चतुर्भिरेव लिङ्गैस्तु लिङ्गैस्तु2158जातितो गजम्॥
तं संकरज्ञः संकीर्णं याज्ञवल्क्योऽभि2159मन्यते॥७३॥
स एवाभ्यवहारोऽस्य त्रिषु शुद्धेषु पः स्मृतः॥
संकीर्णलक्षणापेक्षो विशेषस्तत्र कीर्त्यते॥७४॥
(स्वाद्व2160म्ललवणैः स्निग्धैः क्षिप्रमाप्यायते रसैः॥
कटुतीक्ष्णकषायैस्तु रोगमाशु प्रपद्यते॥२७५॥
तस्मादेवं विभागज्ञो बलमाधाय योगवित्॥)
सर्वव्यञ्जनसंकीर्णं भिषक्कर्म समादिशेत्॥७६॥
वेदनार्तमसंमूढो विविधैः प्राजनाङ्कुशैः॥
यथाजाति प्रदेशांस्तान्कर्ता कर्मसु संस्पृशेत्॥७७॥
येन योऽभ्यधिकः स्यात्तु तस्मिल्लँक्षणसंकरे॥
तन्मना इति तेनासौ चिह्वेन व्यपदिश्यते॥७८॥
एवंवादिषु चैकेषु पूर्वाचार्येषु बुद्धिमान्॥
अष्टादशैव संकीर्णा जातीर्जानाति काश्यपः2161॥७९॥
एकद्विरूपास्तस्याग्रे नवान्यमनसो द्विपाः॥
द्वित्रिरूपाः सुमनसो नवैवेति विनिश्चयः॥२८०॥
भद्रो2162 मन्दमनास्तत्र भद्रो मृगमनाश्चयः॥
भद्रो भद्रमना नागो मृगो मन्दमनास्तथा॥८१॥
इत्येकरू2163पयोगेन षडन्यमनसो गजाः॥
द्विरूपसमवायेन वक्ष्यन्तेऽत्र त्रयः2164 पुनः॥८२॥
भद्रमन्दशरीरेण ज्ञेयो मृगमना गजः॥
तथा भद्रमृगश्चापि मन्द2165त्वमनसा गजः2166॥८३॥
चेतसाऽभिप्रपन्नश्च मृगमन्दोऽपि भद्रताम्॥
भद्रो मन्दमनास्तत्र भद्रो मन्दगतिस्तथा॥८४॥
____________________________________________________
** ४.° 1°। ८. क. १ क. °।**

मृगस्वरूपसंपन्नो मन्दश्चे(चे)ष्टश्च वारणः॥
इत्येकरूपयोगेन त्रयोऽन्यमनसो गजाः॥२८५॥
तथा मन्दमृगश्चापि मृगत्वं मनसा गतः॥
मृगमन्दश्च भद्रश्च मनसाऽपि गतः सद!॥८६॥
सर्वभद्रस्तथा चैव भवेद्भद्रमना गजः॥
एवं त्रयश्च षट् द्वौ च नवान्यमनसो गजाः॥८७॥
वक्ष्यन्ते द्वित्रिरूपाश्च तथा स्वमनसो नव॥
द्विरूपसंकरे यच्चनाम पूर्वं निपात्यते॥८८॥
तस्मिन्करोति तत्सत्त्वमिति सर्वेषु निश्चयः॥
भद्रमन्दोऽपि यस्तत्र स भद्रो मनसा भवेत्॥८९॥
तथा भद्रमृगो यश्च सोऽपि भद्रमना गजः॥
मन्दभद्रश्च मन्दत्वं चेतसाऽपि प्रभिद्यते॥२९०॥
मृगता मृगभद्रस्य व्यतिक्रमणचेतसः2167॥
मृगमन्दो मृगत्वं च मनसा संप्रकाशयेत्॥९१॥
तथा2168 मन्दमृगो यश्च मन्दत्वं मनसा गतः॥
मृगतां मृगभद्रश्च संप्राप्तश्चेतसा गजः॥९२॥
मृगमन्दो मृगस्यैव2169 मनसा संप्रकाश्यते॥
इति द्विरूपयोगेन षडेते परिकीर्तिताः॥९३॥
त्रिरूपाश्च त्रयोऽन्ये तु स्वमनोभिः समन्विताः॥
त्रिरूपसंकरे चास्मिन्समनस्त्वः स्थितिर्भ2170वेत्॥९४॥
इत्येष बुद्धिप्रसरश्चिन्ताविद्येन पठ्यते॥
एवं नव नवैवोक्ताः पुरस्तात्परिसंख्यया॥२९५॥
अष्टादशैव संकीर्णाःकाश्यपेनोपपादिताः॥
मृगो भद्रश्च मन्दश्च मन्दो मृगमनास्तथा॥९६॥
मृगो मन्दमनाश्चान्ये व्यतिकीर्णश्च वारणः॥९७॥
इति जाताः2171 षडेवात्र जातितन्त्रोपदेशवित्2172॥
निश्चित्य बुद्धो भगवान्गजानामाह गौतमः॥९८॥
मृगो भद्रश्च मन्दश्च मन्दो मृगमनास्तथा॥
चतस्रो जातयस्त्वेवं राजपुत्रमते स्मृताः॥९९॥
मृगः शुद्धोऽथमन्दश्च मृगमन्दस्तथाऽपरः॥
भद्रभावे मृगस्येह2173 तन्मयत्वं कथं भवेत्॥३००॥
अधिकत्वेऽपि तस्यैवमरिमेदिर्न2174 मृष्यते॥
एवं च ब्रुवतस्तस्य चतस्रो जातयो मताः॥१॥
मृगो भद्रश्चमन्दश्च संकीर्णश्चेति तन्मनाः॥
एवं विप्रतिपन्नेषु पूर्वाचार्येषु बुद्धिमान्॥२॥
हस्तिचारी तु भगवाञ्जातीः षोडश मन्यते॥\।
सर्वव्यञ्जनपूर्णास्तु शुद्धा भद्रादयत्रपः॥३॥2175
भद्रो मन्दमनश्चान्यो भ2176द्रो मृगमनास्तथा॥
संकीर्णो मनसा भद्र इत्येताः सप्त जातयः॥४॥
मन्दो भद्रमना ज्ञोयो मन्दोमृगमनाः पुनः॥
मन्दः संकीर्णचेताश्च देश संख्या2177ःसमर्थिताः॥३०५॥
मृगो भद्रमना दृष्टोमन्दश्च मनसा मृगः॥
मृगःसंकीर्णचेताश्च संख्या एतास्त्रयोदश॥६॥
भद्रमन्दशरीरेण मृगस्प मनसा युतः॥
तथा भद्रमृगश्चापि मन्दचेता मतङ्गजः॥७॥
यश्च मन्दमृगो योन्या दृ2178ष्टो भद्रमतिर्गजः॥
तेन सार्धमिमास्तस्यजाताः षोडश जातयः॥८॥
संकीर्णाः सुलभाः शुद्धा दुर्लभास्तु मृगादयः॥
हेतुभिर्बह्वधिष्ठानैर्यैरेता गजजातयः॥९॥
प्राप्नुवन्ति बह्वन्दोषान्दक्ष्यन्ते ते मयाऽधुना ॥
प्रकृत्या हीयते कश्चित्कश्चिद्वा विनयाद्रजः॥३१०॥
अप्रभावात्तथाऽन्यश्च मिथ्याविनयतोऽपरः॥
अनानुपूर्व्या संतापात्तीक्ष्णदण्डैश्च घातनात्॥११॥
स मिथ्याविनयाहोरादृच्छेद्गात्रे व्यथान्तरः2179॥
एवं विवर्णो विमनाः कृशःपर्यश्रुलोचनः॥१३॥
मोहादण्डविचारेण मूढो भवति वारणः॥
गुरुणाऽतिप्रवृद्धेन बन्धेनात्यायतेन वा ॥१३॥
मोहाद्वन्धप्रमादाद्वा बन्धादुद्विजते द्विपः॥
दन्तिनां तु विशेषेण तत्प्रमाणाधिको हि यः॥१४॥
संबन्धो बन्धकुशलैर्गुरुरित्यभिशब्दितः॥
उच्छ्वासमुपरुन्ध्याद्योगात्रसंचारमेव वा॥३१५॥
संबन्धसंज्ञया तज्ज्ञैरत्यायत इति स्मृतः॥
भूयश्चोपरिविक्षेपादेलकाङ्क्षा(?) च यो2180गतः॥१६॥
सोऽतिप्रबन्धो विज्ञेयो बन्धो यो दुष्प्रमादतः॥
एवं दोषं व्यवस्यन्ति तस्मादभ्यधिको हि यः॥१७॥
परिक्षेपाति बाहुल्याद्दन्तिनां हस्तिनां परे॥
एवं बन्धोद्भवैर्दोषैः प्राप्नुवन्त्यत्र कुञ्जराः॥१८॥
रोगाश्च दोषैर्गात्राणां हानि2181ंच बलतेजसाम्॥
कर्मणाऽतिप्रवृद्धेन योक्तुरज्ञानजेन वा॥१९॥
तथा च क्रियमाणेन नित्यं दुष्यन्ति वारणाः2182॥३२०॥
यो हि जातिविभागं तु सत्त्वानूकं च तत्त्वतः॥
अबुद्ध्वा योजयेत्कर्म स भद्रानपि दूषयेत् ॥२१॥
यस्तु लक्षणनिर्देशं विदित्वा कर्म योजयेत्॥
असंशयं स मतिमान्संकीर्णानपि साधयेत्॥२२॥
अन्योन्यकर्मव्यत्यासात्तेषु सिद्धिर्न विद्यते॥
यथोपदेशयोगाद्धि सर्वाः सिध्यन्ति जातयः॥२३॥
<MISSING_FIG href="../../../books_images/U-IMG-1704180630image10.jpg"/>
पित्तं गर्भेशयानस्य त्वचं चेत्प्रतिपद्यते॥
कालो भवति मातङ्गोह्यरूक्षस्निग्धदर्शनः॥२४॥
श्लेष्मा मारुतसंसृष्ट2183स्त्वचं यद्यनुगच्छति॥
(श्यामो2184 भवति मातङ्गो झरूक्षः स्निग्धदर्शनः॥३२५॥
श्लेष्मा गर्भेशयानस्य त्वचं चेत्प्रतिपद्यते॥
हरिर्भवति मातङ्गो ह्यरूक्षः स्निग्धदर्शनः॥२६॥
**पित्तंमारुतसंसृष्टं त्वचं यद्यनुगच्छति॥)
कालः परुषवर्णाभो निःस्नेहस्तेन जायते॥२७॥ **
(पित्तं2185 श्लेष्मा चवातश्च प्रपद्यन्ते यदि त्वचम्॥
श्यामः परुषवर्णाभो निःस्नेहस्तेन जायते॥२८॥
कफस्त्वनिलसंसृष्ठस्त्वचंयद्यनुगच्छति॥
हरितारुणवर्णाभो निःस्नेहस्तेन जायते॥२९॥)
अनुग्गर्भे शयानस्य (त्वचं2186चेदनुधावति॥
हरिः श्यामोऽथ रक्तो वा स तु रक्तच्छविर्भवेत्॥३०॥
वायुः पित्तं च रक्तं च त्वचं ह्मनुविधावति॥
ततोलूकसवर्णाभा छविर्नामस्य जायते॥३१॥
पित्तं गर्भेशयानस्य नखेषु यदि लीयते॥
संभवेयुर्नखाःकाला वारणस्य महीपते॥३२॥
श्लेष्मा पित्तेन संसृष्टो नखेषु यदि लीयते॥
श्यामान्येव नखानि स्युरत्र मे नास्ति संशयः॥३३॥
श्लेष्मा गर्भे शयानस्य) नखेष्वालीयते यदि॥
श्वेतान्येवं नखानि स्युरत्र मे नास्ति संशयः॥३४॥
<MISSING_FIG href="../../../books_images/U-IMG-1704181113image11.jpg"/>
पित्तं गर्भे शयानस्य तालुके यदि जायते॥
तेनास्य तालुकं कृष्णं जायते नात्र संशयः॥३३५॥
कफः पित्तं च वातश्च तालुके लीयते यदि॥
कल्माषतालुर्मातङ्गः संभवेन्नात्र संशयः॥३६॥
असृग्गर्भे शयानस्य तालुके यदि लीयते॥
तेन पद्मपलाशाभं तालु नागस्य जायते॥३७॥
तालुके चैव व्याख्यातं जिह्वौष्ठं दन्तिनां शृणु॥
रक्तंनीलं तु कल्माषं वातपित्तकफादिभिः॥३८॥
—:():—
पित्तं रुधिरसंसृष्टं चक्षुष्याधीयते यदि॥
पिङ्गाक्षस्तेन मातङ्गो जायते2187 नात्र संशयः॥३९॥
कफोऽनिलेन संसृष्टश्चक्षुश्चेत्प्रतिपद्यते॥
हर्यक्षस्तेन मातङ्गो जायते नात्र संशयः॥३४०॥
वातः पित्तं च श्लेष्मा च चक्षुष्याधीयते यदि॥
सत्पक्षासनमातङ्गो जायते नात्र संशयः॥४१॥
पित्तं रुधिरसंसृष्टं चक्षुषी तु व्रजेद्यदि॥
काकाक्षस्तेन मातङ्गो जायते नात्र संशयः॥४२॥
संश्लिष्टं श्लेष्मणा पित्तं चक्षुषी यदि गच्छति॥
श्वेताक्षस्तेन मातङ्गः कालवारक एव च॥४३॥
असृग्गर्भेशयानस्य यदि चक्षुषि लीयते॥
पारापताक्षः स गजो जायते नात्र संशयः॥४४॥
रक्तं श्लेष्मा च पित्तं चयदि चक्षुषि ली2188यते॥
मध्वक्षस्तेन मातङ्गो जायते नात्र संशयः॥३४५॥
विषमाक्षश्च वातेन विरूपाक्षश्च जायते॥
नानानिमेषो मातङ्गः पित्तश्लेष्मगतिर्हि सः2189॥४६॥
विषमेष्वतिभारेण हस्तिनी यदि पीडिता॥
मिथ्याकर्मणि आयासादूष्मा संजायते भृशम्॥४७॥
सा चेद्यद्यूष्मसहिता तोयं समवगाहते॥
नेत्रे तेनोपहन्येते गर्भस्थस्योष्मणा नृप॥४८॥
ऊष्मणा पच्यमानस्य चक्षुर्हन्येत हस्तिनः॥
जात्यन्धस्तेन मातङ्गो जायते नात्र संशयः॥४९॥
<MISSING_FIG href="../../../books_images/U-IMG-1704181648image7.jpg"/>
गर्भे यदा शयानस्य जानुनी प्रतिपद्यते॥
उभयोर्गात्रयोरन्तर्मारुतः संचरेन्नृप॥३५०॥
निर्भुज्यते स गात्रेषु विक2190टस्तेन जायते॥
वारणः पृथिवीपाल नास्ति तत्र विचारणा॥५१॥
<MISSING_FIG href="../../../books_images/U-IMG-1704181778image10.jpg"/>
पृथुत्वाच्चानु नागानां रोमकूपैर्न गच्छति॥
प्रस्वेदः पृथिवीपाल शीतसात्म्या ह्यतः स्मृता॥५२॥
**स्नायुबद्धा छविश्चैषां गाढरोमा च जायते॥
अन्तःस्वेदा बलाधिक्यात्तस्मान्नागानृपो2191त्तम॥५३॥ **
निबद्धा मा2192तृका यस्माद्धस्ते चैव मुखे तथा॥
तस्मान्मुखाच्चहस्ताच्चस्वेदो गच्छति दन्तिनाम्॥५४॥
<MISSING_FIG href="../../../books_images/U-IMG-1704213416image1.jpg"/>
इमे महान्तो बलिनो जातकामा मनस्विनः॥
प्रशस्तव्यञ्जना नागा वृषणैश्चाप्रलम्बिभिः॥३५५॥
वाहनं2193 तु भविष्यन्ति मनुष्याणामनेकपाः॥
तस्मात्करीषप्रस्तावे वृषणौ संप्रवेष्टितौ॥५६॥
<MISSING_FIG href="../../../books_images/U-IMG-1704182006image2.jpg"/>
म्लानशिरा म्लानमुखो विषमो2194 बधिरश्चयः॥
पुटकर्णो वक्रवा2195लः पक्षहीनस्त2196थैव च॥५७॥
कुष्ठी किलासी विनतः कोणः षण्ढोऽथ वामनः॥
कुब्जः किलासिमेण्ढ्रश्च हीनाङ्गो यश्च वारणः॥५८॥
पश्चाङ्गैर्विषमैर्नागो दृश्यते मनुजाधिप॥
वातपित्तोपघातेन जायते नात्र संशयः॥५९॥
<MISSING_FIG href="../../../books_images/U-IMG-1704182153image8.jpg"/>
बाह्यान्तरवि2197षाणाभ्यामन्तरे दन्तवेष्टयोः॥
वायुःकुप्यति नागस्य विशालस्तेन जायते॥३६०॥
दन्तयोरुपरिष्टाश्चेदधस्तादपि वेष्टयोः॥
वायुःकुप्यति नागस्य तदा वा कालसंभवः॥३६१॥
दन्तवेष्टान्तपोश्चैव दन्ताभ्यां बाह्यतस्तथा॥
वायुःकुप्यति नागस्य सदन्तस्तेन जायते॥६२॥
विषाणादन्तरे यच्चअन्तरे दन्तवेष्टयोः॥
एकश्च2198 वायुश्चरति साधुस्तेनोपजायते ॥६३॥
अन्तरे च विषाणस्प दन्तवेष्टस्य चान्तरे॥
वायुःकुप्यति नागस्य जायतेऽतस्त्वपाहलः॥६४॥
श्लेष्मा मारुतसंश्लिष्टो दन्तवेष्टौ निषेवते॥
विषाणे तेन जायेते अस्थिश्वेते2199 तु दन्तिनाम्॥३६५॥

५. क० काणाऽथ।

असुग्गर्भे शयानस्य यस्य वेष्टौ निषेवते॥
विषाणे तस्प जायेते वारणस्य मधुप्रभे॥६६॥
मन्दीभूतो यदा वायुर्दन्तवेष्टौ निषेवते॥
म्लाने विषाणे तेनास्य जायेते2200 ग्रन्थयोऽपि वा॥६७॥
दन्तयोर्मारुतो यस्य मूलयोर्नावतिष्ठति (ते)॥
समदन्तस्ततो नागो जायते नात्र संशयः॥६८॥
संजातदन्तवेष्टस्प मुखे कुप्यति मारुतः॥
विषाणावुपहन्येते मूढस्येनोपजायते॥६९॥
नवमे दशमे वाऽपि हस्तिनी यदि पीडिता॥
निःस्नेहायां2201 खरीभूतो भृशं कोपमुपागतः॥३७०॥
यद्युष्मस2202हितो बायुर्दन्तमूले निषेवते॥
विषाणावुपहन्येते मत्कुणस्तेन जायते॥७१॥
वायुर्गर्भे शयानस्य दन्तमूले निषेवते॥
न तत्र दन्तौ जायेते यत्र कुप्यति मारुतः॥७२॥
यस्यैकदन्तवेष्टं तु मारुतः संनिषेवते॥
एकदन्तः स मातङ्गो जायते नात्र संशयः॥७३॥
यस्य पोतस्य जातस्य मूर्तौकुप्यति मारुतः॥
संजातदन्तवेष्टस्य एकमात्रोपहन्यते॥७४
(एकभावस्तु2203 संपूर्ण यत्र वातो न कुप्यति॥
वामोन्नतो वा भवति त्वथवा दक्षिणोन्नतः॥३७५॥
एकःसंजायते तत्र एकश्चैवोपहन्यते॥)
—:():—
वायुर्गर्भेशयानस्य कुप्यत्येकाङ्गसंधिषु॥७६॥
म्लानगात्रः स मातङ्गो जायते नात्र संशयः॥
असुग्गर्भेशयानस्य वारणस्योपहन्यते॥७७॥
मारुतेन यदा राजन्स्तब्धस्तेन नियच्छति॥
ह2204स्तिन्यां तु प्रहृष्टायां प्रभिन्नेनाथ जायते॥७८॥
सम्यग्गर्भेऽपरिक्लिष्टो ह्यक्लिष्टयामदुर्लभः॥
एष नागो महाराज पावदायुर्मदोत्कटः॥७९॥
न च दोषाः प्रधावन्ति2205शब्दाद्यास्तमनेकपम्॥
मदक्षीणेन यो जातः क्षीणायां चैव मातरि॥३८०॥
जनितश्चाप्यहृष्टाभ्यां यः क्लिष्टश्चोद2206रे भृशम्॥
एष मत्तो न भवति यावदायुर्मतङ्गजः॥८१॥
स च नित्यं महाराज भवेत्प्रकृतिदुर्बलः॥
आहाराचारवै2207गुण्यादभिधाताच्छ्रमाद्भयात्॥८२॥
गर्भिण्याः कुपिता दोषा गर्भा(र्भ)जीवितनाशनाः॥
ऋतुमैथुनशुक्राणां वैगुण्याच्छोणितस्य च॥८३॥
इष्टासा2208त्म्योपभोगाच्ट दौहृदस्य विमाननात्॥
अश्वमात्कर्मणोऽल्पायुर्दीर्घायुश्च शुभाद्भवे2209त्॥८४॥
मुहूर्ततिथिनक्षत्रैः करणैः शोभनैर्गजः॥
सुलक्षणः सुरूपेण यथावत्प्रतिपादितः॥३८५॥
देवब्राह्मणगन्धर्वगुणैरन्यतमैर्वृतः॥
पथ्यैः शुचिभिराहारै रसैश्च परिबृंहितः॥८६॥
स च वीर्यविपाकेन तथा गर्भबलेन च॥
धन्य एव भवेन्नागो विपरीतस्ततोऽन्यथा॥८७॥
भूतानां व्यतिरेकाच्च मातृजैः पितृजात्मजैः॥
एभिर्भावैस्तु निष्पत्तिर्यथा भूतेषु षड्रसान्॥८८॥
तेजस्वी तेज उद्रेकात्सत्त्वाच्चैव भवेद्गजः॥
तेजःसत्त्वक्षितीनां स्यादुद्रेकाद्बलवान्गजः॥८९॥
अग्निर्वायुप्रचुर2210त्वाद्गर्भे पुष्टो भवेद्वलात्॥
शुद्धात्मा भा2211वैः स्यात्सर्वैरुद्रिक्तैःसात्त्विको गजः॥३९०॥
तेजोधरित्रीपितृजैरुद्रिक्तैरूपवान्भवेत्॥
तेजोनभोनिलोद्रेकाच्छुद्धश्चाऽऽहारजाद्रसात्॥९१॥
आरोग्यमेव भवति शुद्धसत्त्वानलानिलैः॥
पञ्चभूतसमत्वे तु समुद्रेकादभीरुता॥९२॥
सत्त्ववायुबलोद्रेकाद्भवेयुर्जवसंपदः॥
मनसस्तद्रुणानां च पित्तप्रकृतिसत्त्वयोः॥९३॥
समुद्रेकाद्भवेन्मेधा त्वष्टाङ्गा बुद्धिरेव च॥
अन्वर्थोत्तानगम्भीरप्रत्यर्थात्यर्थवेदिता॥९४॥
भद्रमन्दमृगत्वं च तथा च प्रकृतित्रपम्॥
सर्वं जातिविभागेन प्र2212कृतौ च प्रवक्ष्यते॥३९५॥
भक्ष्यं भोज्यं च पेयं च वथा लेखंच हस्तिनी॥
अभीक्ष्णं यत्समादत्ते2213 सेवते चापि गर्भिणी॥९६॥
दौहृदं तं विजानीयात्तश्चैवास्यै प्रदापयेत्॥
अनुकूले भवेद्गर्भो मातुस्तत्रोदरे रसान् ॥१७॥
एवमेके व्यवस्यन्ति मुनयो गर्भसंभवम्॥
इति गर्भसमुत्पत्तिर्बुद्धि2214भेदः प्रवक्ष्यते॥१८॥
कुद्धो भीतः प्रहृष्टो वा दुर्बलो बलवानपि॥
शब्दैश्च जलदादीनां वने वित्रासितो भृशम्॥९९॥
यादृशं भावमाश्रित्य गजो गर्भं निषिञ्चति॥
याहशो धेनुकां याति जनयेत्तादृशं सुतम्॥४००॥
प्रकृतिः प्रकृतिज्ञाने वक्ष्यते ते त्रिाधत्मिका2215॥
तमः सत्त्वरजोयुक्ता या च दोषसमाश्रया॥१॥
शुक्रशोणितयोगग2216र्भनाशविचेष्टितम्॥
दन्तिनां मानुषैस्तुल्यो दोषो दू2217ष्येन्द्रियाणि च॥२॥
व्याधयश्च भवन्त्येषां प्रायशस्तुल्यलक्षणाः॥
मातुर्या सात्म्यतश्चैव विशेषः2218 प्रकृतेस्तथा॥३॥
चेतना च मनो बुद्धिराकृतिश्च स्वभावतः॥
आरोग्यं दौहृदं चापि साम्यजान्ययुरेव च॥४॥
विज्ञानमिन्द्रियस्थानं सुखदुःखे प्रियाप्रिये॥
समो रजश्व सत्त्वं च गर्भस्याऽऽत्मजमिष्यते॥४०५॥
**क्षुत्पिपासासहिष्णुत्वं तृप्तिश्चैव तु सत्त्वजाः2219॥
श्रोत्रं शब्दाश्च मूर्तिश्च विवेकश्चैव खानि च॥६॥ **
अन्तरिक्षात्मकानि स्युर्गर्भस्पेह महीपते॥
स्पर्शो ज्ञानं तथा हर्षो रौक्ष्यं चेष्टा व लाघवम्॥७॥
प्राणापानौ समानश्च व्यानोदानौच वायवः॥
रूपं दृष्टिः पिपासा च पित्तमूष्मा च केवलम्॥८॥
रोगः पक्तिः प्रकाशश्च2220 तैजसानीति निश्चयः॥
रसज्ञानं रसाश्चैव स्नेहः क्लेदः कफस्तथा॥९॥
अब्जान्येतानि2221 गर्भस्य वेदितव्यानि तत्त्वतः॥
(घ्राणो2222 गन्धश्च मूर्तिश्च स्थैर्यंगौरवमेव च॥४१०॥
पार्थिवानाह गर्भस्य बदन्ति नयकोविदाः॥
तस्माद्गर्भस्तु पितृजो मातृजस्तत्स्वभावतः)॥११॥
रससात्म्यात्मकश्चै2223व पञ्चभूतात्मकस्त2224था॥
जिह्वा नासाऽक्षिणी कर्णौ शिरोऽध हृदयं गलः॥१२॥
नाभिर्वस्तिर्गुदश्चैव जीवस्याऽऽपतनानि वै॥
परोक्षत्वादनिष्टं हि मन्यन्ते भूतसंभवम्॥१३॥
विचिन्त्य बहुशो बुद्ध्या विप्रो गौतमवाड्वली॥
कुमुदस्य समुत्पन्ना वामनस्याञ्जनस्य च॥१४॥
पुण्डरीकस्प च कुले सर्वव्यञ्जनपूजिताः॥
ते(ये)षां मुक्ता विषाणेषु पुरीषेषु च रोचना2225॥४१५॥
यस्य स्युस्ते च नृपतेः स राजा स्यादनिर्जितः॥
वायुर्गर्भेशयानस्य यस्य सक्थि निषेवते॥१६॥
स नीचजघनः स्यात्तु पुरस्ताच्च समुच्छ्रितः॥
वायुर्गर्भे शयानस्य मन्यासंधिषु कुप्यति॥१७॥
सोऽस्य नामयत्निग्रीवां तेन प्राप्तविदुर्गजः॥
शरत्काले तु संप्राप्ते प्रभूतयवसोदके॥१८॥
निर्दशमशकेऽरण्ये मृगनेत्रामु रात्रिषु॥
दिशो गजाश्च यूथानि समवेक्षन्ति पा2226र्थिव॥१९॥
लीलया क्रीडमाना वै वनेषूपवनेषु च॥
जनयन्ति च ते तत्र त्रिविषाणाननेकपान्॥४२०॥
चतुर्विषाणांश्च गजान्द्विविषाणांस्तथैव च॥
हस्तिनीनां प्रभावेण जायन्ते ते दिशां गजैः॥२१॥
प्रदक्षिणाश्च जायन्ते वारणाः पृथिवीपते॥
द्विविषाणास्तु ये तत्र ग्रहणं यान्ति ने नृप॥२२॥
ते भवन्त्युत्तमा2227 नागाः पूजिताः पृथिवीपते॥
योगार्हास्ते महाराज च्छत्रार्हाश्चैव वारणाः॥२३॥
वारणा मधुपर्कार्हा मानार्हास्ते भवन्ति च॥
ईदृशा यस्य2228 मातङ्गाः सेवन्ते विषयान्नृप॥२४॥
पूजिता लक्षणैरेभिः स राजा त्वभिनन्दति॥४२५॥
समुद्रवसनां कृत्स्नांसशैलवनकाननाम्॥
चिरं च वसुधां या (पा)ति शत्रूंश्चाप्यधिगच्छति॥२६॥
बीजान्युप्तानि रोहन्ति सुभिक्षं चैव जायते॥
अनावृष्टिर्न भवति मनोहानिर्न चैव हि॥२७॥
नोपद्रवाः प्रधावन्ति व्याधपश्च महीयते॥
यस्य राज्ञः पुरे देशे वाहनेष्वात्मजेषु च॥२८॥
आप्नुयाद्विपुलां लक्ष्मीं स राजा यत्र वारणः॥
सर्वकामसमृद्धिश्च जायते नात्र संशयः॥४२९॥
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने महापाठे तृतीये शल्पस्थाने
गर्भावक्रा2229न्तिर्नामाष्टमोऽध्यायः॥८॥
______________
अथ नवमोऽध्यायः।
___________
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति॥
गर्भः कथं संभवति संभूतः केन जीवति॥१॥
किं च प्रथमतस्त्वङ्गं गर्भस्थस्योपजायते॥
कि मातृजं2230 शरीरे क्वपितृजं वारणस्य किम्॥२॥
कति दन्ताः कति नखाः कति मर्माणि हस्तिनाम्॥
कियन्मात्रं च रुधिरं पित्तं श्लेष्मा च मारुतः॥३॥
वायुः कस्मिन्स्थितो देशे कस्मिन्पेशी च तिष्ठति॥
क्व स्थितं रुधिरं चास्य पित्तं श्लेष्मा च दन्तिनः॥४॥
अन्नप्रमाणं किं वास्प किंमात्रश्चान्दुको गजे॥
किंमात्रं क्लोम हृदये किंमात्रंफुप्फुसं मुने॥५॥
अस्त्रंकिमात्मकं विद्यारत्क्वस्थित च्चोदको गजे॥
क्वस्थितं क्कोम हृदयंप्लीहा वृक्कौयकृत्तथा॥६॥
क्वनु बस्तिप्रबद्धश्च परिमाणं च किं भवेत्॥
भुङ्क्ते गर्भोदरस्थो वा न वा भुङ्क्तेऽथ भोजनम्॥७॥
संधयः कति चास्थीनि केन माद्यति हेतुना॥
केन पश्यति रूपाणि परिक्रामति तिष्ठति ॥८॥
केन स्तनति वै नागो लिण्डं सृजति मेहति॥
उत्तिष्ठति निषीदेच्च निषण्णश्चानुवर्तते॥९॥
विपद्यते तथा केन मैथुनं केन गच्छति॥
के बालाः कानि रोमाणि केशाः पक्ष्म व किं भवेत्॥१०॥
कियन्मात्राणि श्रो(स्त्रो)तांसि च्छव्यः कति व दन्तिनाम्॥
केन जीर्येत भुक्तं च जीर्णे केन निरुहति॥११॥
केन निद्रामुपादत्ते केन निद्रा न जायते॥
ग्रहणी केन दीप्ता स्पादविपाकः कथं भवेत्॥१२॥
वातपित्तवहाः काश्च शुक्रवाहाश्च काः स्मृताः॥
मेदोवहा रसवहाः शिरा रक्तवहाश्च काः॥१३॥
मांसास्थिमेदोमज्जानां वाहिन्यश्च शिराः कति॥
प्रसारणाकुञ्चनाद्याश्चेष्टाः काभिश्च चेष्टते॥१४॥
केन वा स्याद्विपत्रेन बस्तौमूत्रं प्रवर्तते॥
अजस्रं मत्तनागानां मदो वाऽपि किमात्मकः॥१५॥
गजानां रोमकूपेभ्यः कस्मात्स्वेदो न वर्तते॥
मुखतः केवलं स्वेदः क्लान्तानां संप्रवर्तते॥१६॥
एवं मे पृच्छतो ब्रूहि सर्वमेव महामुने॥
वारणानां चनामानि यस्तावद्वक्तुमर्हसि॥१७॥
एवं पृष्टोद्धराजेन पालकाप्यस्ततोऽब्रवीत्॥
सौम्पाऽऽग्रेयमिदं सर्व जगत्स्थावरजङ्गमम्॥१८॥
सोमजं शीतमाद्रं च शुष्कमुष्णं व वैजसम्॥
प्रमाणां स्थावराणां च संभवश्व चतुर्विधः॥१९॥
पुरुषो गौरजोऽश्वोऽग्यो गर्दभोऽश्वतरोऽपि च॥
सप्तैते जङ्गमा ग्राम्या वन्यान्सप्त निबोध मे॥२०॥
कपिर्गजो वराहश्च शार्दूलो महिषो मृगः॥
खड़श्चेति समाख्याताः सप्त वन्याश्च जङ्गमाः॥२१॥
वृक्षो वनस्पतिर्गुल्मो लतोषधितृणानि च॥
प्रतानो वीरुधो गुच्छः स्थावरा नव कीर्तिताः॥२२॥ .
स्थावराणां च निर्देशो रसवीर्यविपाकतः॥
कीर्तितो यवसाध्याये विस्तरेण महीपते॥२३॥
समागतो हस्तिनीं तु नागो मैथुनमाचरेत्॥
योन्यां करेण्वाः संघर्षात्सौम्यं शुक्रं विमुञ्चति॥२४॥
निषिच्यमाने शुक्रे तु महात्मा प्रतिपद्यते॥
जीवः सूक्ष्मपरो धातुरचिन्त्यः प्रभुरीश्वरः॥२५॥
संसृष्टं रजसा शुक्रं विष्ठद्योन्यां विवर्धते॥
सप्तरात्रोषितं तत्र कललं जायते ततः॥२६॥
दशाहादर्बुदं तत्र जायते राजसत्तम॥
मासाच्च पेशी भवति हृदयं तदनन्तरम्॥२७॥
कैचित्संभव मिच्छन्ति पूर्वं संजायते शिरः॥
पूर्वं हृदयमित्येके युगपत्त्परेऽब्रुवन्॥२८॥
हृदयं मनसः स्थानं मनश्चाऽऽहुः प्रजापतिः॥
तस्माद्गर्भेण जातस्य हृदयं जायतेऽग्रतः॥२९॥
ततः संजायते क्लोम यकृढ्वृक्कौत्रयं तथा॥
ततः शिराः संभवन्ति तिर्यगूर्ध्वमधस्तथा॥३०॥
ततः शिराभिः सहितं स्थूलान्त्रमुपजायते॥
पृष्ठवंशोऽथ जघनं वक्षो गात्रापरोदरम्॥३१॥
क्रमेण सर्वाण्यङ्गानि केशरोमनखानि च॥
भवन्त्यत्र शिराभागे मातुर्गर्भोदरे वसन्॥३२॥
ततः स दशमे मासे द्वादशे वाऽपि जायते॥
एवं हि जायते हस्ती जातश्चापि पिबेत्पयः॥३३॥
द्विमासजावश्चपलो लिण्डवापि(?)मतङ्गजः॥
तृतीये च चतुर्थे च पानीयं मासि सेवते॥३४॥
ऊर्ध्वं चतुर्णां मासानां तृणं मृदु च पल्लवम्॥
शल्लकीमरिमेदं च कर्णिकारं च खादति॥३५॥
भुञ्जानस्य प्रवर्धन्ते दोषाः प्रायेण दन्तिनः॥
वातपित्तकफाश्चैव तेषां कर्म पृथक् पृथक्॥३६॥
रक्तमांसास्थिमज्जानो वर्धन्ते धातवो रसैः॥
मेदः शुक्रं बलं तेजो जवो वर्ण्य च पार्थिव॥३७॥
रसेन पित्तं चाम्लेन मधुरेण कफः सदा॥
कषायकटुकाभ्यां तु वर्धते दन्तिनोऽनिलः॥३८॥
कण्ठे श्लेष्मा विहरति भुञ्जतो विविधात्रसान्॥
पित्तेन पच्यते भुक्तं कफान्निद्राऽस्य जायते॥३९॥
वातात्प्राणस्य चेष्टा च जीर्णस्य च निरूहन(ण)म्॥
समधातुस्त्वरोगः स्याद्विषमैर्व्याधितो भवेत्॥४०॥
जरायुरक्तं मांसं तु मातृजान्विद्धि हस्तिनः॥
शुक्रं मज्जास्थिमेदांसि शिरारोमनखाः पितुः॥४१॥
यथाविभक्तान्यस्थीनि संघयो ये च कीर्तिताः॥
दन्ता नागस्य पावन्तो मर्माणि च निबोध मे॥४२॥
शिरस्पस्थिद्वयं राजन्कपाले च तथाऽपरे॥
अष्टावस्थीनि ग्रीवायां नव चैवात्र संघयः॥४३॥
एकमेवास्थि सगदे द्वौ संधी सव्यदक्षिणौ॥
द्वे च सृक्कास्थिनी ज्ञेये चत्वारश्चात्र संधयः॥४४॥
अधस्तादुपरिष्टाच्च दन्ताः षोडश सागदाः॥
प्रहारिणौ च द्वौ दन्तौ करिणोऽष्टादश स्मृताः॥४५॥
अष्टादशानां दन्तानां संधयोऽष्टादशैव च॥
अधस्ताच्चोपरिष्टाच्च विद्याभागस्य पार्थिव॥४६॥
गलनाड्यां चतुःषष्टिस्तरुणास्थीनि दन्तिनः॥
वलयाकृतिकल्पानि सप्तषष्टिश्च संधयः॥४७॥
प्रतरास्थि तलप्रोहे विद्यादेकं विचक्षणः॥
तलकर्षे चविज्ञेयंप्रतरास्थ्येकमेव तु॥४८॥
अष्टावेव हि पादेषु प्रतरास्थीनि निर्देिशेत्॥
चतुर्थे व महीपाल संधयश्चात्र षोडश॥४९॥
पलिपादेषु कर्णेषु मोहयोः प्रोहसंधिषु॥
एतेष्वङ्गप्रदेशेषु गुलिकास्थीनि विंशतिः॥५०॥
अशीतिरेव पादेषु चतुर्ष्वपि च पार्थिव॥
विंशतिश्च नखानि स्युः संधीनां व्द्यधिकं शतम्॥५१॥
विशेषास्थ्येकबाह्वस्थि वंशास्थीनि च गात्रपोः॥
पूर्वयोस्तु षडस्थीनि ह्येवं षट्चैव संधयः॥५२॥
अस्थीनि संधयश्च स्युः षडेवापरयोरपि॥
कपालास्थ्येकमेवाऽऽहुः सर्वतोजघनाश्रितम्॥५३॥
चतुर्दशाऽऽहुरस्थीनि नागस्योरसि संख्यया॥
संधयस्त्वपि चास्न्थांतु दश पञ्च च निश्चिताः॥५४॥
अस्थीनि विंशतिः पृष्टौ(ष्ठे) संघपश्चैकविंशतिः॥
पक्षयोरुभयोर्विद्याच्चत्वारिंशच्च पार्श्वकाः॥५५॥
द्विचत्वारिंशदेवाऽऽसां पार्श्वकानां तु संधयः॥
ऊर्ध्वास्थीन्येकविंशत्स्युः संधयश्चैकविंशतिः॥५६॥
लाङ्गूलवंशलाङ्गूले गुलिकास्थीनि विंशतिः॥
त्रिंशत्तु संधयश्चात्र संख्यया विद्धि पार्थिव॥५७॥
त्रीण्यस्न्थांतु शतान्येवं विंशतिश्चैव संख्यया॥
शतानि त्रीणि संधीनां षट्षष्टिंचापि निर्देिशेत्॥५८॥
______________
हस्ते च तालुनि द्वे द्वे मुखे नेत्रे कटिद्वये॥
द्वे कर्णयोश्च प्रत्येकमेवमेकादशैव तु॥५९॥
स्तनयोश्चैव मेण्ढ्रेच नागस्य तु गुदे तथा॥
विद्यात्पञ्चदशैतानि श्री(स्रो)तांसि वदतां वर॥६०॥
______________
नेत्रयोश्चापि पक्ष्माणि केशाञ्शिरसि निर्दिशेत्॥
देहे रोमाण्यसंख्यानि वालाः पुच्छे व दन्तिनाम्॥६१॥
<MISSING_FIG href="../../../books_images/U-IMG-1704301100image2.jpg"/>
सिराः शतानि सप्तैव सर्वपिण्डेनदन्तिनाम्॥
पञ्च स्नायुंसहस्राणि पञ्च स्नायुशतानि च॥६२॥
एतेषां विस्तरो राजन्सिराव्यूहे प्रवक्ष्यते॥
मर्माण्यपि प्रवक्ष्यामि भेदतो मर्मसंग्रहे॥६३॥
गुदोऽण्डकोशो हृदयं मेण्ढ्र्ंनाभ्युदरं करः॥
प्रत्यङ्गं सौप्रतीकाशौ प्रतिमानं गुदे स्तनौ॥६४॥
प्रोहसंदानभागौ च ग्रन्थिः सकुटिकेतलाः॥
पलिहस्तौ च विष्के च रन्ध्रौ द्वे चापरान्तरे॥६५॥
कुक्षिःकटी च प्रस्तावश्रो(स्रो)तांसि दश पञ्च च॥
कक्षाभागौ सनिष्कासौ मन्ये च मनुजाधिप॥६६॥
अन्तर्बाहू पणवको बिम्बकः कुम्भ एव च॥
अपस्कारौ तथाऽष्ठीव्यौ मृदुकुक्षिस्तथैव च॥६७॥
गलपृष्ठं यवस्थाने ग्रीवामन्ये च तालुकम्॥
वाहित्थं शम्बुकौ जिह्वा बलाङ्गे वक्षणौ तथा॥६८॥
विक्षोभौ चूचुकौ मुष्कौ कूर्मांसतलसंधयः॥
अस्थिक्षयौ कुलाभागावुरःसंधिरुरस्तथा॥६९॥
उभावंसौ च विज्ञेयाविति सप्तोत्तरं शतम्॥
मर्मणामिति व्याख्यातं वारणानां नराधिप॥७०॥
<MISSING_FIG href="../../../books_images/U-IMG-1704301256image2.jpg"/>
अतश्च कथ्यमानानि दोषस्थानानि मे शृणु॥
पर्वाण्यामाशयश्चैव उरः कण्ठं शिरस्तथा॥७९॥
स्थानान्येतानि सर्वाणि श्लेष्मणो विद्धि दन्तिनाम्॥
ऊर्ध्वं नाभेरधः पित्तं हृदयं समुपाश्रितम्॥७२॥
पक्कामाशयगो वायुर्जघने सगदे तथा॥
स सर्वदेहव्यापी तु सर्वतः कर्म चेष्टते॥७३॥
रक्तस्थाने स्थितो वायुर्व्यानो नाम्ना तु वीर्यवान्॥
मेदःस्थाने स्थितः प्राणो वसास्थान उदीरणः॥७४॥
समानो मांसमध्यस्थो ह्यपानश्चास्थिसंस्थितः॥
व्यानोदानौ समानश्च प्राणापानौ च पञ्चधा॥७५॥
भूयो वायुः शरीराणि बिभर्ति भगवान्प्रभुः॥
व्यानाद्भवति चेष्टा च निमीलोन्मीलने नृप॥७६॥
उदानेन बलोन्मादौ समानाद्भागमादिशेत्॥
वागुच्छ्वासानुपानानां प्रवृत्तिः प्राणजा स्मृता॥७७॥
वातमूत्रपुरीषाणि ह्यपाने विद्धि पार्थिव॥
हस्तस्थं तिष्ठति सदा चक्षुर्मध्ये च दन्तिनाम्॥७८॥
सौरं तेजश्च नेत्रे तु प्रविभक्तं शरीरिणाम्॥
तथा प्राप्तोऽथ हर्षादींस्तेन रूपं च पश्यति॥७९॥
श्लेष्मस्थाने स्थितं सत्त्वं रजो बाय्वनुसंस्थितम्॥
तमः पित्तानुगं चैव तिष्ठत्येव मतङ्गजः॥८०॥
प्रहर्षानन्दभावाभ्यां सौम्पं शुक्रं प्रमुञ्चति॥
क्रमेण रसवीर्याणां सौम्यं शुक्रं प्रवर्तते॥८१॥
अदृश्यमार्तवं विद्धि हस्तिन्या हर्षसंभवम्॥
गृह्णीते साऽद्भुतं गर्भं गर्भिणी द्वेष्टि चाद्भुतम्॥८२॥
सप्त पेशीशतान्याहुः सर्वेष्वङ्गेषु हस्तिनाम्॥
अस्थयाश्रिताच ताः सर्वाः स्नायुबद्धास्त्वचा वृताः॥८३॥
अल्पं वा बहु वा ह्रस्वं दीर्घं वाऽप्यथवा पृथक्॥
एकसंस्थं हितं मांसं यत्स्यात्पेशीति तद्विदुः॥८४॥
तृष्णा मर्मसु सर्वेषु निद्रा कफमुपाश्रिता॥
व्यवसायश्च नागानां स्कन्धदेशमुपाश्रितः॥८५॥
वपुः श्रीः कीर्तिराशा च त्वचमाश्रित्य तिष्ठति॥
अस्थीमि पर्वतो मेरुस्तेजो देहे व्यवस्थितम्॥८६॥
बुद्धिर्मेधा च नागानां स्नायुबन्धेष्ववस्थिता॥
वसामाश्रित्य बलवान्दर्पस्तिष्ठति नित्यशः॥८७॥
मदश्चैव महातेजाः शुक्रस्थानं समाश्रितः॥
शिरासंधीन्समाश्रित्य लोमस्तिष्ठति वै सदा॥८८॥
अन्त्रेषु कर्म नागानामालस्यंयकृति स्थितम्॥
कालेयं मदो(?) क्रमते विषादो नृपसत्तम॥८९॥
गजस्य पुप्फुसे चैव भयं तिष्ठति नित्यशः॥
वक्षसेत्रच्छु(?) हृदयं सव्यं स्तनमुपाश्रितम्॥९०॥
यकृद्धृदयपार्श्वं च क्लोम वक्षःस्थितं विदुः॥
यकृत्प्लीहे च संबद्धे(स्थूलान्त्रंहृदयादधः)॥९१॥
आमाशयं विभजते तिष्ठेत्पक्काशयं च तत्॥
आमाशयस्य मध्यस्था व्याधयः सर्व एव तु॥९२॥
व्याधयो ये च संख्यातास्तेषां पक्काशयो गतिः॥
ईषत्तु शुषिरा वृत्ता दीर्घा बलवती सिरा॥९३॥
स्नायुर्वल्कावनद्धा च घना पृथ्वी च कण्डुरा॥
वातपित्तकफानां च तथैव रसशुक्रयोः॥९४॥
मेदोसृङ्भज्जमांसानां तथा मूत्रपुरीषयोः॥
हासवृद्धी यतो ह्येषां प्रमाणेनोच्यतेत्वतः॥१५॥
मूत्रं बस्तिश्च मुष्कौ च वङ्क्षणोद्देशमाश्रितौ॥
मांसमस्थ्याश्रितं विद्यादसृङ्भांसमुपाश्रितम्॥९६॥
मज्जाभ्यन्तरतोऽस्थां तु शुक्रं मज्जाश्रितं विदुः॥
मेदो मांसाश्रयं प्राहुः शिरा मांससमाश्रिताः॥९७॥
रोमाणि त्वचि जावानि मांसस्यापि त्वगावृतिः॥
छव्यः षडेता व्याख्याता द्विपानां द्विपदांवर॥५८॥
छवीनां विस्तरश्चापि मर्माध्याये प्रवक्ष्यते॥
शिरास्नाथ्वात्मकं विद्यान्नखानां संभवं नृप॥९९॥
तलानां किणभावं च निसर्गादीश्वरं विदुः॥
<MISSING_FIG href="../../../books_images/U-IMG-1704301602image2.jpg"/>
इमा महामकृतपस्तिसः कीर्तपतः शृणु॥१००॥
रजस्तमश्च सत्त्वंच प्राहुरध्यात्मकोविदाः॥
मेधावी चपलश्चण्डस्तेजस्वी लघुविक्रमः॥१॥
कौतूहलप्रकामी च क्रीडनो हर्षणश्च यः॥
शीघ्रं कृतं नाशयति शीघ्रं कर्माभिपद्यते॥२॥
दुर्भगश्च तथा नागः सततं धेनुकाप्रियः॥
अशिता दुर्भरः शूरो निःशङ्कोत्तानवेदिता॥३॥
एवंविधस्तु यो नागः स राजभाजसः स्मृतः॥
कृच्छ्रेण किंचिज्जानीते कर्म चास्यप्रणश्यति॥४॥
निद्रालुर्गूढसंज्ञश्च तामसो नाग उच्यते॥
अन्वर्थवेदी सुभगः स्मृतिमाञ्शुभयोगजः॥१०५॥
कर्म शीघ्रं विजानाति न च तत्तस्य नश्यति॥
आयुष्मान्बलवाञ्शूरोनीरोगः सुप्रजो लघुः॥६॥
धन्यो यशस्वी दीप्तामिःसुसत्त्वः प्रियदर्शनः॥
स्निग्धगम्भीरघोषश्च सात्त्विको नाग उच्यते॥७॥
इति तिस्रः समाख्याता महामकृतियोनयः॥
<MISSING_FIG href="../../../books_images/U-IMG-1704301863image2.jpg"/>
एवं शरीरं व्याख्यातं प्रविभागेन(ण) मे शृणु॥८॥
प्रसारणं च गात्राणां तथा संकुचनं च यत्॥
चत्वारिंशत्सिरास्तस्य विनियुक्ता हि धारणे॥९॥
उत्तिष्ठति शिराभिश्च चत्वारिंशद्भिरेव हि॥
उपवेशं च कुरुते चत्वारिंशद्भिरीश्वरः॥११०॥
षट्शतेन विजानीयाद्गमनं परिवर्तते॥
हस्तशीलेन कुरुते षट्शतेन तु वारणः॥११॥
जृम्भणं कुरुते नागः स चत्वारिंशता तथा॥
दशभिर्हन्ति हस्तेन ग्रासं दशभिरेव च॥१२॥
दशभिश्चालयेत्सृक्वौदशभिश्चैव खादति॥
भक्षयित्वा निगिरति शिराभिर्दशभिस्तथा॥१३॥
दशभिर्दशभिश्चैव पच्यमाने च वारणः॥
शिरसो धारणे दृष्टाः सिरा ह्यूर्ध्वं तु विंशतिः॥१४॥
ग्रीवायां पार्श्वयोर्दृष्टास्तिस्रस्तिस्रः पुनः शिराः॥
शिरसचालने दृष्टा दश स्कन्धगताः शिराः॥११५॥
आददाति शिराभिश्च पानीयं दशभिर्द्विपः॥
<MISSING_FIG href="../../../books_images/U-IMG-1704302174image13.jpg"/>दशभिर्निर्वमेच्चैव शिराभिः सलिलं गजः॥१६॥
दशभिर्निमिषेन्नाग उन्मिषेद्दशभिः पुनः॥
दशभिर्गन्धमाप्रोति शृणोति दशभिस्तथा॥१७॥
षट्त्रिंशत्तु शिरा दृष्टा दृष्टिसंचारणेऽपि च॥
कटयोर्दश विज्ञेया शिरा मदवहा नृप॥१८॥
दशभिर्दशभिश्चैव कर्णौ चालयति द्विपः॥
निश्चासंकुरुते याभिस्ताः शिरास्त्रिंशदेव तु॥१९॥
दशभिबृंहति गजो व्याहरेद्दशभिः पुनः॥
पुच्छं चालयति श्रीमान्सिराभिर्दशभिर्गजः॥१२०॥
निर्हरेद्दशभिर्मेण्ढ्रेदशभिश्चैव सं(मे)हति॥
मैथुनं पाति दशभि(भी)रेतो दशभिरावपेत्॥२१॥
अभितप्तस्तु मातङ्गो वमथुं याभिरुत्सृजेत्॥
षट्त्रिंशत्तु शतं विद्यात्सिराः स्वेदवहास्तु ताः॥२२॥
शिरा गुदनिबद्धास्तु हृदयं चापि संश्रिताः॥
धारणे तु पुरीषस्य तथैवोत्सर्जने पुनः॥२३॥
तासां दशशतं दृष्टं मूत्रस्योत्सर्जने दश॥
ततो वातवहा दृष्टा ग्रहणीदीपनाः शिराः॥२४॥
पक्काशयनिबद्धास्तु ज्ञेयास्तास्तुचतुर्दश॥
शिरा दश समाख्याता यास्तु पित्तवहाः स्मृताः॥१२५॥
दशैव तु शिरा दृष्टाः श्लेष्माणं या वहन्ति वै॥
शिरा यास्तु शरीरेऽस्मिन्सर्वसंधिसमाश्रिताः॥२६॥
नदीं तरति सर्वाभिस्ताभिश्चैव तु लङ्घयेत्॥
ताश्च गात्रैश्चतुर्भिश्च पृथक्त्वे विंशतिः स्मृताः॥२७॥
सिरा रसवहा दृष्टा जिह्वायां हृदयाश्रिताः॥
दशैव ताः सुसूक्ष्मास्तु याभिर्वेदयते रसान्॥२८॥
______________________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1704302174image13.jpg"/>अयमर्धश्लोकः ‘शिरसश्चालने’—इत्यतः प्राक्कपुस्तके॥

अपानेन यदा वायुं वारणःप्रविमुञ्चति॥
पक्काशपनिबद्धास्तु ज्ञेयास्तास्तुचतुर्दश॥२९॥
एकादश शतान्येवं सप्ततिश्च पुनः सिराः॥
(<MISSING_FIG href="../../../books_images/U-IMG-1704302580image13.jpg"/>वारणस्य प्रदेशेऽस्मिन्व्याख्यातास्ताःप्रदेशगाः॥१३०॥
शतानि त्रीणि शेषाणि त्रिंशदन्याः पुनः शिराः॥)
एता रक्तवहा दृष्टाः शरीरं सर्वमेव हि॥३१॥
सिराभिः संवृतं याभिर्वल्लीभिरिव पादपः॥
अत्र प्रतिविशेषं तु हस्तिन्यामुपलक्षयेत्॥३२॥
एकैकस्मिन्स्तने दृष्टाः सिराः क्षीरवहा दश॥
हृदयंगमाः सुसूक्ष्माश्चेति प्रोक्तः सिराविधिः॥३३॥
शतानि पञ्च (*नागस्य सहस्रं च) विशेषतः॥
रेतोत्सर्गकरा यास्तु वारणानां सिरा दश॥३४॥
मैथुनार्थं च या दृष्टास्ता एव विंशतिः स्मृताः॥
नव संधिशतान्येवं वारणेष्ववधारयेत्॥१३५॥
<MISSING_FIG href="../../../books_images/U-IMG-1704302628image2.jpg"/>
अतः परं प्रवक्ष्यन्ते संधयो वारणस्य तु॥
द्वाविंशतिः संधयस्तु पादे पादे विनिश्चिताः॥३६॥
प्रोहसंधानभागे च पलिहस्ते च दन्तिनः॥
एतेष्वङ्गप्रदेशेषु संधयश्च चतुर्दश॥३७॥
एवं भागे त्वपस्कारे पादे विक्षोभयोरपि॥
प्रतिमाने व विज्ञेयाः संधयस्तु चतुर्दश॥३८॥
गुच्छे सगुटिकायां च स्युस्तथाऽन्तरसक्थनि॥
संधयोऽत्र महाराज विज्ञेयास्तु चतुर्दश॥३९॥
मण्डूक्यन्तरसंधौ तु अष्ठीव्ये तु विशेषतः॥
संघयस्तत्र विज्ञेया वारणस्य तु विंशतिः॥१४०॥
आयासकाण्डे रन्ध्रे च स्तनानुसारएव च॥
मेण्ढ्रेचैवाण्डकोशे च नवतिः संधयः स्मृताः॥४१॥
अंसे च प्रत्यगंशे च तथांऽसफलकेऽपि च॥
संधयस्तत्र विज्ञेया वारणस्य तु विंशतिः॥४२॥
__________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1704302580image13.jpg"/>‘धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके।
___________________________________________
आयासकाण्डे रन्ध्रेच स्तनानुसारएव च॥
मेण्डे चैवाण्डकोशे च भवतिः संघयः स्मृताः॥४३॥
अंसे च प्रत्यगंशे च तथांऽसफलकेऽपि च॥
संधयस्तत्र विज्ञेया वारणस्य तु विंशतिः॥४४॥
ग्रीवाबिन्दुषितानेषु पिण्डिकावग्रहे तथा॥
आसने शयने स्थाने विद्यात्संधिशतानि षट्॥१४५॥
पुरस्कारावग्रहे च निर्याणे श्रवणे तथा॥
ईषिकान्तरयोश्चैव वातकुम्भे च दन्तिनः॥४६॥
द्वे च संधिशते प्राहुः संधींश्चापि चतुर्दश॥
स्व(क)टे च खलु नेत्रान्ते एकैके संधयःस्मृताः॥४७॥
विषाणयोर्द्वयोश्चापि हस्ते द्वात्रिंशदीरिताः॥
उरसि द्वादश ज्ञेया मुखे त्रिंशति(?)रेव च॥४८॥
दशनासगदाये तु संधयस्तत्र षोडश॥
जिह्वायां तु त्रयः प्रोक्ताः कण्ठे ज्ञेयास्त्रयोदश॥४९॥
आसने वंशदेशे च तत्पिले पश्चिमासने॥
तथा त्वपरवंशे च द्वात्रिंशत्संधयः स्मृताः॥१५०॥
अस्थिभागे च जघन उत्कृष्टकलपोरपि॥
भागेष्वेतेषु नागस्यद्वात्रिंशत्संधयः स्मृताः॥५१॥
(<MISSING_FIG href="../../../books_images/U-IMG-1704303033image13.jpg"/>लाङ्गूलवंशे लाङ्गूले द्वात्रिंशत्संधयः स्मृताः॥)
करीषभागे प्रस्त्रावे गुदभागे च दन्तिनः॥५२॥
संधयो विशतिर्ज्ञेया भागेष्वेतेषु निश्चिताः॥
पलिहस्ते ततः कर्मप्रोहसंदानयोरपि॥५३॥
अपस्कारे चनागस्य क्रोशसंधि विनिर्दिशेत्॥
बाह्वोरथांसफलके पाद्याभागे तथैव च॥५४॥
ग्रन्थिष्वपि तथाऽष्ठीव्ये ज्ञेयासुकटिकासु च॥
उत्कृष्टेऽप्यथ मण्डूक्यां भागेष्वेतेषु दन्तिनः॥१५५॥
समुद्गसंघिः सर्वेषु यथावदिति निश्चयः॥
लाङ्गूलवंशे लाङ्गूले जघनभ्यस्थिदेशयोः॥५६॥

<MISSING_FIG href="../../../books_images/U-IMG-1704303033image13.jpg"/> धनुश्चिह्नद्वयान्तःस्थः पाठो नास्ति कपुस्तके।

उलूखलाख्यःसंधिस्तु कलाभागे च दन्तिनः॥
विताने श्रवणे चैव बिम्बोः कुम्भान्तरेतथा॥५७॥
निर्याणे कटिसंधौ च शिरोमस्तकपिण्डयोः॥
इषीकाग्रे च कुम्भे च वारणस्य महीपते॥५८॥
तूणसीवनवत्संधिर्विज्ञेयस्तु कपालतः॥
हनुसक्वकपालेषु सगदेष्वेव दन्तिनः॥५९॥
संधिर्वापसतुण्डः स्याद्भागेष्वेतेषु दन्तिनः॥
नेत्रे वर्त्मन्यपाङ्गे च करीषाश्रा(स्रा)व एव च॥१६०॥
हृदये चाक्षिकूटे च कण्ठे क्लोम्नि गुदे तथा॥
ज्ञेयो मण्डलसंधिस्तु भागेष्वेतेषु दन्तिनः॥६१॥
शम्बुके प्रतिमाने च वाहित्रे दन्तवेष्टयोः॥
शङ्खावर्ते भवेत्संधिः शृङ्गाटः श्रो(स्रो)तसि स्थितः॥६२॥
इत्येव संधयः प्रोक्ताः स्नायून्यपि निबोध मे॥
अष्टौ वक्षःप्रदेशे च चतस्रो वालपुष्करे॥६३॥
एकैकस्मिस्तु पादे वै स्नायूनां विंशतिः स्मृता॥
मुष्के मेण्ढ्रोदरगुदे त्वष्टौ विंशतिरेव च॥६४॥
महास्नायूनि वै पञ्च दश चापि द्विपस्य वै॥
ऊर्ध्वभागानि सप्तैव षडधोभागकानि च॥१६५॥
द्वे तिर्यग्भागिके दृष्टे एवं पञ्चदशैव हि॥
एभिर्वै सर्वतो देहः प्राणलीभिरिवाऽऽवृतः॥६६॥
कफपित्तानिलैर्दुष्टैर्यदा कायोऽभिपूर्यते॥
तदा व्याधिमवाप्नोति वारणो नात्र संशयः॥ ६७ ॥
सप्तोत्तरं मर्मशतं वारणस्यावधारयेत्॥
प्रदेशसंग्रहे तानि कीर्तितानि यथागमम्॥६८॥
चतुर्विधानि ज्ञेयानि यथावेदभिनिश्चयः॥
येषु दष्टाश्च विद्धाश्च ताडिता वा मतङ्गजाः॥६९॥
विनाशं प्राप्नुवन्तीह क्षिप्रं वा यदि वा चिरात्॥
कालान्तरविनाशीनि सद्यःप्राणहराणि च॥१७०॥
वैगुण्यकरणानि स्युः सशल्यानि तथैव च॥
अस्थिस्नायुसिरासंधिधमनीप्रविभागशः॥७१॥
विनाशः संनिपाताद्यस्तन्मर्म परिकीर्तितम्॥
बायव्याग्रेयसौम्यत्वात्प्रविभागश्चतुर्विधः॥७२॥
मर्मणां तुल्ययोनित्वं भूतानां चापि लक्षयेत्॥
आशुकारी भवेदग्रिरस्य यन्त्राभिसंप्लुवः॥७३॥
विशेषात्तत्र विद्धस्तु क्षिप्रमेव विनश्यति॥
सौम्याग्रेयगुणत्वात्तु कालान्तरहरं स्मृतम्॥७४॥
सशल्यप्राणघातित्वं स्मृतं वाय्वात्मकं बुधैः॥
निरुद्धगतिमार्गत्वाद्वायोर्जीवति कुञ्जरः॥१७५॥
भिन्ने चैवोद्धृते शल्येविगते मर्मसंश्रये॥
अनिले म्रियते नागः स शल्यो ध्रियते तथा॥७६॥
सौम्याग्रेयं तु कालेन क्षीणं सौम्पगुणैर्यदा॥
एकीभावगतः शल्यंनश्येकालान्तराद्गजः॥७७॥
तस्मात्सौम्याग्रिवायूनां वैशेष्यं पत्र लक्ष्यते॥
तद्धूतगुणयोनित्वान्मर्म तत्तादृशं स्मृतम्॥७८॥
कुम्भकर्मतले पेश्यः प्रोहे चैतस्य पञ्च तु॥
बाह्वन्तरमपस्कारमंशांशाफलकान्तरम्॥७९॥
छादयन्त्यपरां पेश्यस्तिस्रः षट्चैकसंख्यया॥
शतानि त्रीणि पेशीनां चतुःषष्ट्यधिकानि च॥१८०॥
गात्रापरेषु नागस्य यथावदुपधारयेत्॥
एकपृष्ठे भवेत्पेशी सीवनीमाश्रिताः पराः॥८१॥
अण्डकोशीश्रितास्तिस्त्रस्रिषष्टिजेङ्घमाश्रिताः॥
पञ्चाशत्पार्श्वयोः पेश्यः स्युर्विंशत्युरसि स्मृताः॥८२॥
एका नाभिसमापन्ना पञ्च लाङ्गूलमाश्रिताः॥
हन्वोरष्टौ विजानीयाद्वीवास्कन्धंगता दश॥८३॥
त्रिंशत्कक्षे च वंशे च पृष्ठे चैकां विनिर्दिशेत्॥
कर्णयोरुभयोर्द्वेच गण्डयोरुभयोर्दश॥८४॥
शिरा मस्तकनिर्याणवितानविदुसंश्रिताः॥
⁺यत्तावद्वहयोश्चापिचतुःषष्टिं विनिर्दिशेत्॥१८५ ॥
विद्याज्जिह्वाश्रितामेकां द्वे च तालुनि निर्दिशेत्॥
तथा पाकलके चापि पेशीमेकां विनिर्दिशेत्॥ ८६ ॥
करेण्वामधिकास्त्रिंशत्तासां वक्ष्यामि लक्षणम्॥
स्तनयोर्दश विज्ञेया दश विद्याद्भगाश्रिताः॥ ८७ ॥
द्वे वृत्ते मुखमाश्रित्य प्रसृतेऽथ भगोत्तरे॥
गर्भच्छिद्रान्तरे तिस्रस्तिस्रो गर्भोपजन्मनि॥ ८८ ॥
तासां द्वे त्वचले विद्याद्गच्छत्येका च बाह्यतः॥
चतुरस्रा च वृत्ता च त्र्यस्यावपि हि दृश्यते॥ ८९ ॥
त्रिविधा मांसपेश्यस्तु परस्परमुपाश्रिताः॥
बहिरभ्यन्तरे काये परिमाणमिदं पुनः॥ १९० ॥।
जिह्वायां गोरनालेन गलेनैव च वारणः॥
सर्वमेतत्तथाऽऽहारं गोरनालेन चाऽऽहरेत्॥ ९१ ॥
आमाशयातु नागस्य पक्काशयगताः पुनः॥
स्थूलान्त्रमभिसंपूर्य पुरीषमवतिष्ठति(ते)॥ १२ ॥
अन्त्रमात्रपरीणामं विद्याद्व्यामानि विंशति(म्)॥
स्थूलान्त्राण्युदकं चैव धमन्योऽन्योन्यमाश्रिताः॥ ९३ ॥
कोलेयं तु प्लिहा चैव यकृदन्तं सफुप्फुसम्॥
सर्वं निबद्धं हृदये वृक्कौ चैव नराधिप॥ ९४ ॥
मेढ्र्ंहस्तश्च नागस्य सर्वं स्नायुसमुद्भवम्॥
कर्णयोः कटयोर्द्वे द्वे श्री(स्त्रो)तसी द्वे च तालुनि॥ १९५ ॥
हस्ते द्वे नेत्रयोर्द्वे च द्वे चैव स्तनचूचुके॥
मेढ्रेमुखे गुदे चैव च्छिद्राणि दश पञ्च च॥ १९६ ॥
<MISSING_FIG href="../../../books_images/U-IMG-1705491716image2.jpg"/>
आद्या छविर्यत्र रोम द्वितीया चर्म एव च॥
तृतीया शोणितं ज्ञेया चतुर्थी मांसमुच्यते॥ १७ ॥

- ‘जत्ववग्रहयोः’ इति भवेत्।
______________________________________________
मेदस्तु पञ्चमी ज्ञेया अस्थि षठी विधीयते॥
मज्जा च सप्तमी ज्ञेया एवं सप्तविधा छविः॥१८॥
<MISSING_FIG href="../../../books_images/U-IMG-1704303664image2.jpg"/>
असंख्येयानि रोमाणि केचिच्छास्त्रविदो विदुः॥
आयुर्वेदविधानज्ञाः (^(<MISSING_FIG href="../../../books_images/U-IMG-1704303832image13.jpg"/>)केचित्संख्यां विदुर्बुधाः)॥१९॥
संपूर्णेसर्वगात्रस्य प्रमाणं परिकीर्तितम्॥
अम्बुतेजोमयी दृष्टिः सा सप्तपटला भवेत्॥ २०० ॥
सप्तधातुसमुत्थं तु शरीरमिह पठ्यते॥
चतुर्विधाहारमयस्त्वोषधीनां तु यो रसः॥१॥
पक्काशयमनुप्राप्तः पूर्वमामाशये स्थितः॥
प(पा)चितस्तेजसा कोष्ठे वायुना समुदीरितः॥२॥
अदृष्टः स रसः पृथ्वीः सिराः समनुपद्यते॥
या वै रसवहाःकायेवारणानां विशेषतः॥३॥
स रसः शोणितीभूतो मांसत्वमुपगच्छति॥
मांसंमेदस्त्वमागच्छेन्मेदोऽस्थित्वं च दन्तिनाम्॥४॥
अस्थिभ्यो जायते मज्जा शुक्रं मज्जा च पुष्यति॥२०५॥
स्थानानि षडनुप्राप्तो वीर्यं समनुलभ्यते॥
औषधीरसवीर्यं तु शरीरे सर्वगं स्मृतम्॥६॥
यस्तत्र किट्टनिःसारः शकृत्स उपपद्यते॥
सूत्रं चास्प त्वधोभागे वारणस्य शरीरजः॥७॥
कट्यां मूत्रधरो बस्तिरेकद्वारो ह्यधोमुखः॥
अपां श्रो(स्त्रो)त्रैः सुसूक्ष्मैः स निर्झरैरिव पूर्यते॥८॥
प्रतिपूर्णस्ततो बस्तिरपानं प्रतिपद्यते॥
अपाने शिथिलीभूते वेदना तु ततो भवेत्॥९॥
एवं विसृजते मूत्रं समानेन समीरितम्॥
इति शारीरमुद्दिष्टं वारणानां यथाक्रमम्॥२१०॥
मृत्काष्ठवल्कैर्हियथा कुशलैः क्रियते गृहम्॥
एवं शरीरबन्धस्तु मांसस्नाथ्वस्थिभिः कृतः॥११॥

^(<MISSING_FIG href="../../../books_images/U-IMG-1704303832image13.jpg"/>) धनुर्मध्यस्थः कपुस्तके त्रुटितः।

शौर्यादमिजनाद्धर्षात्परिणामाभिसर्गतः॥
संतापात्पुष्ठितो व्याधिरुपधानाच्चमाद्यति॥१२॥
कफंपित्तमसृड्यांसं मेदश्चान्योन्यमूर्छितम्॥
सुगन्धे दीपनं स्याच्च कटिच्छिद्रमुपस्थितम्॥१३॥
तस्य तद्धर्षजं वीर्यं सौम्याग्रेयमुदीरितम्॥
वायुना कण्ठमेढ्रेभ्यः खेभ्यश्चास्य प्रसिच्यते॥१४॥
अतः शिलाभ्यःसंभूतं यथा शैलाच्छ्र(त्स्र)वेज्जलम्॥
एवं गजमुखं प्राप्य स्वेदः श्र(स्र)वति पार्थिव॥२१५॥ .
समागता गजमुखे सर्वाः स्वेदवहाः सिराः॥
भुक्तान्त(न्न)स्य हि प्रस्वेदात्ताः श्र(स्त्र)वन्ति निसर्गतः॥१६॥
अन्येषां रोमकूपेभ्यः प्रविष्टमपराःसिराः॥
वहन्ति कायजान्धातून्निर्दिशेत्सर्वदेहिनाम्॥२७॥
हस्ती दन्ती गजो नागो मतङ्गः कुञ्जरः करी॥
इभो मतङ्गजश्चैव वारणो द्विरदो द्विपः॥१८॥
मृगोऽथ सामजश्चैव तथा चानेकपः स्मृतः॥
इति पञ्चदशैतानि नामान्युक्तानि पण्डितैः॥१९॥
यथा गोमहिषाश्वानामुष्ट्राणां वा समा तनुः॥
एवमभ्यन्तरस्वेदा हस्तिनस्तु निसर्गतः॥२२०॥
एकपादा द्विपादाश्च बहुपादाश्च देहिनः॥
नानाकृतिजवज्ञानानसमानान्निसर्गतः॥२१॥
एवं मतङ्गजा ज्ञेया न समानाः परैर्मृमैः॥
अन्तःस्वेदा मूढमुष्का मुखशृङ्गप्रहारिणः॥२२॥
ऐश्वर्येण निसर्गेण न समाना मृगैर्गजाः॥
ब्रह्मा तद्वेद भूतानां निसर्गे कारणं विभुः॥२३॥
(^(<MISSING_FIG href="../../../books_images/U-IMG-1704303832image13.jpg"/>)अनन्तानां च लोकानां भूतानां च महीपते॥
न शक्यं कारणं ज्ञातुं देवं गुह्यं प्रजापते॥२४॥
उत्पत्तिकर्म विज्ञानं शरीरं विचयो बलम्॥
आयुरारोग्यता वर्ष्म वयो ज्ञानं च तत्त्वतः॥२२५॥

^(<MISSING_FIG href="../../../books_images/U-IMG-1704303832image13.jpg"/>)धनुश्चिह्गान्तरगतस्त्रिचतुराध्यायात्मकपाठः कपुस्तके नास्ति॥______________________________________________
अधिकारं सदा ब्रूयादचिन्त्यं परिवर्जयेत्॥
मतिमान्कुशलो वैद्यः शास्त्रमाश्रित्य युक्तितः॥२२६॥
इतीह पृष्टो भगवानङ्गराजेन धीमता॥
प्राह शास्त्रविदं प्राज्ञः पालकाप्यो यथातथम्॥२२७॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे तृतीये शल्पस्थाने
शरीरविचयो नाम नवमोऽध्यायः॥९॥
_____
अथ दशमोऽध्यायः।
_____
शस्त्राग्रिप्रणिधानं तु पालकाप्यो महामुनिः॥
गजानां वदतां श्रेष्ठः प्रोवाचाङ्गेन चोदितः॥१॥
प्रत्यासन्नोदके देशे समे सुखपरिक्रमे॥
विश्वासयन्हढे स्तम्भे यन्त्रयित्वाऽथ वारणम्॥२॥
विन्यस्पोदककुम्भं च समिध्याग्निंचिकित्सकः॥
वांशीकुठारपरशुं विमोक्षार्थमुपार्जयेत्॥३॥
आधारांस्तापिकां दर्वींशस्त्राणि विविधानि च॥
शोणितस्थापनार्थं च यथोक्तान्यौषधान्यपि॥४॥
समङ्का(ङ्गा)गदरोम्बष्ठाक्षीरिणां च त्वचः समाः॥
आमलक्यश्वकर्णस्य मधूकस्य धवस्य च॥५॥
त्वचः प्रियङ्गवो रोधं पतङ्गं गैरिकं तथा॥
शुष्कचूर्णानि सूक्ष्माणि भूतिर्वरुणकस्य च॥६॥
गवां च शकृतश्चूर्णं पांशूनञ्जनमेव च॥
श्रीवेष्टकं सर्जरसं पृथ्वीकाशोकमुष्ककान्॥७॥
अरिमेदपलाशानां निर्यासं गुग्गुलुं तथा॥
चूर्णानि यवमुद्गानां मृदं दग्धा(ग्ध्वा) कपालिनाम्॥८॥
जीवाङ्गारान्सह क्षौमांस्तथा निर्वापणानि च॥
शस्त्राणि वासयित्वाऽग्निंहुत्वा वाच्य द्विजानपि॥९॥
प्रोक्ष्याद्भिराज्यशेषेण समालभ्य गजं ततः॥
सम्पङ्निधापयेच्छस्त्रंदेशेषु मतिमान्भिषक्॥१०॥
स्व(श्व)यथुस्त्वग्गतो ज्ञेयो गम्भीरो मर्मजश्व यः॥
दोषलिङ्गैश्चविज्ञेयाः संसृष्टागन्तवश्च ये॥११॥
तनुप्रदेशे बहुलो बहुले च तनूद्गतः॥
तिर्यगायतगम्भीरो विसर्पोत्सङ्गवानपि॥१२॥
सर्वानेतान्विदित्वाऽथ प्रदेशा ये च मर्मजाः॥
अविचक्षुरसंभ्रान्तः मुस्थानः सुस्थितो लघुः॥१३॥
स्रायुसंघिसिरामर्म रक्षञ्शस्त्रमथो नयेत्॥
अङ्गुलं वा वसाधं वा शिरा भिन्ना न दुष्यति॥१४॥
अभिन्नश्वयथोरेतद्राजन्व्यञ्जनमिष्यते॥
अशेषतो न विश्रा(स्रा)व्येत्तिर्यगूर्ध्वमथापि वा॥१५॥
वहेच्च दोषः संस्थायी निरुत्सङ्गं ततश्च तम्॥
सुकरालं व्रणं छिन्द्यादनुलोमं समं गतौ॥१६॥
नासूक्पादप्रकारं च त्रिपादं छेदयेह्रणम्॥
पादप्रमाणं कुर्यात्तु व्रणस्य चतुरङ्गुलम्॥१७॥
कुर्याद्यथोद्गमं चापि सुभिषग्गुणदोषतः॥
भैषज्योत्तरपूर्वाणि कारयेत्तु ऋजूनि च॥१८॥
आयते चतुरस्त्रे वा वृत्तेऽथापि परिग्रहे॥
दोषनिर्हरणार्थाय सर्वान्कुर्यादधोमुखान्॥१९॥
यथौषधानि च वहेत्तं दोषं परिशोधयेत्॥
अंगतिर्यत्र चाङ्गुल्यास्तनुगम्भीरमर्मसु॥२०॥
एषण्या श्वयथोर्यत्र तत्र शस्त्रं न पातयेत्॥
पित्तदुष्टं तु यत्कालं हरितं पीतकं तथा॥२१॥
उष्णं चाश्रु श्र(स्त्र)वति यत्स्कन्दयत्यपि तेजसा॥
बहुलं पिच्छिलं पाण्डु चिराच्छ्र(त्स्र)वति स्कन्दति॥२२॥
श्लेष्मदोषान्वितं रक्तं विद्यादेतद्विचक्षणः॥
तनुकं फेनिलं श्यावं रक्तं वातान्वितं भवेत्॥२३॥
संनिपातान्वितं रक्तं सर्वदोषैः समन्वितम्॥
पाटने लेखने वेध्ये प्रच्छन्ने वाऽपि सीवने॥२४॥
सदोषरुधिरं यावत्तावन्न प्रतिषेधयेत्॥
इंद्रगोपकवर्णं यत्तद्वै प्रकृतिशोणितम्॥२५॥
अदोषलिङ्गं शुद्धं यद्वहेत्तत्प्रतिषेधयेत्॥
दुष्टं यदा कायगतं न विश्रा(स्रा)व्येत शोणितम्॥२६॥
संदूषयति तद्वायून्बहून्दोषानुदीरयेत्॥
अतिप्रवृत्तं श्र(स्र)वति निर्दोषे शोणितेऽधिकम्॥२७॥
पूर्वोक्तैश्चूर्णयोगैस्तु स्थापनं प्रतिचूर्णनैः॥
स्थाने प्रधाने निर्दोषे शीतले स्थापयेद्गजम्॥२८॥
न चास्मै लवणं देयं नात्युष्णं नाम्लमेव च॥
मक्ष्यं भोज्यं तथा पेयं सर्वं च परिवर्जयेत्॥२९॥
यावद्रक्तं तु तिष्ठेत्तु स्थिते स्यादपरो विधिः॥
आहारस्य च सौहित्यात्स्पर्शाच्छब्दाद्रसादपि॥३०॥
यस्मात्प्रसिच्यते रक्तं तस्मात्तेभ्यो निवर्तयेत्॥
भयाक्रोधाच्च रुधिरं स्थितं यस्मात्मवर्तते॥३१॥
सस्मान्न कोपयेदेनं न चास्य भयमादिशेत्॥
परिषेकैः प्रदेहैश्च शीतलैः समुपाचरेत्॥३२॥
नलवञ्जुलमूलैश्च मृणालैः सबिसोत्पलैः॥
पद्मकोशीरमञ्जिष्ठासारिवाचन्दनैरपि॥३३॥
प्रदिह्य बहुशश्चूर्ण शीतलेभ्यश्च वारणम्॥
आर्द्रैर्वस्त्रैःपरिच्छाद्य वीजयेव्द्यजनैः शुभैः॥३४॥
क्रियाभिरेवं सूक्ष्माभिर्यदि रक्तं न तिष्ठति॥
अग्निकर्म ततः कुर्याद्यथायोगं समाहितः॥३५॥
ततोऽग्रिकर्मणि कृते घृततैलवसादिभिः॥
मधूच्छिष्टसमायुक्तैरभ्यङ्गो रक्तनिग्रहः॥३६॥
न तु सर्वस्य कर्तव्यमग्रिकर्म विजानता॥
रोगाभिभूते क्षीणे च इतमर्मणि च द्विपे॥३७॥
अनिर्वापितशल्येच तृष्णार्ते मूछितेऽपि च॥
बहुव्रणे च मातङ्गे संतप्ते ज्वरितेऽपि च॥३८॥
अग्निकर्म न कर्तव्यं नागानां हितमिच्छता॥
पडत्यया भवन्त्येते शस्त्रे मिथ्या प्रचारिते॥३९॥
संक्षोभः पाण्डुता चैव शोणितस्यातिसेचनम्॥
प्रवेपनं च स्तम्भं च जीवस्यापि च मोक्षणम्॥४०॥
इत्येते षट्समुद्दिष्टाः क्रमशो ह्यत्यया नृप॥
हीनं वाऽप्यतिरिक्तं वा वक्तुं वा कर्म कस्पचित्॥४१॥
मर्मसंघिसिराछेदो गजं प्राणैर्वियोजयेत्॥
मूलं स्कन्धश्च शाखाश्च यथावृक्षस्यपार्थिव॥४२॥
सिरास्नायवस्थिमांसानि त्वक्चैव दन्तिनां भवेत्॥
शरीरे मूर्तिस्तु भवेद्गृहमेतच्छरीरिणाम्॥४३॥
तत्र प्राणावृतो ह्यात्मा देहं धारपतीश्वरः॥
प्राणान्मर्माश्रितान्विद्धि योगवाहसमायुतान्॥४४॥
तस्मान्मर्माणि संरक्षेच्छस्रकर्मणि शास्त्रवित॥
इति शस्त्रविधौ सम्यक्प्रणिधानं प्रकीर्तितम्॥४५॥
—:0:—
अत ऊर्ध्वं प्रवक्ष्यामि व्रणेऽग्रिप्रणिधौ विधिम्॥
व्रणाः संघिगता ये स्पुस्तथा मेण्द्रगुदाश्रिताः॥४६॥
स्थि(शि)रास्थिमर्मधमनीकोष्ठकण्ठश्रिताश्च ये॥
एतेष्वङ्गप्रदेशेषु नाग्निर्देयः कथंचन॥४७॥
मोहावृत्तस्तु वैकल्यं प्राणैर्वा विप्रयोजयेत्॥
दुष्यन्ति बहुशो येतु व्रणा दुःखप्ररोहिणः॥४८॥
नाडीजाताः सपिटकाः कृमिदुष्टाश्च ये व्रणाः॥
उत्सन्नमांसगम्भीराः साश्र(स्र)वाः शर्कराविताः॥४९॥
नीलावच्छिन्नमांसाश्च वल्मीकाकृतयश्च ये॥
व्रणो यो मांसशोषी च बहलौष्ठश्च यो व्रणः॥५०॥
एतेषु च यथायोगमग्रिकर्म विधीयते॥
शूनं विलापयत्यग्निःशुष्कमुत्सादयत्यपि॥५१॥
व्रणसंशोधनस्त्वग्नीरोपणः परिकीर्तितः॥
शोफापहाराचमतो वातानां चानुलोमतः॥५२॥
न जायतेऽग्निना नाडीव्रणश्च न विसर्पति॥
मृदुं करोति प्रस्तब्धं प्रस्तब्धं मृदुतां नयेत्॥५३॥
उत्सन्नं सादयत्यग्निः सन्नमुत्सादयत्यपि॥
एतेऽग्निकर्मणि गुणा यस्मात्तस्माद्विजानता॥५४॥
कायोऽग्निप्रणिधिः सम्यङ्नागानां हितमिच्छता॥
कपोतवर्ण रूक्षं तु तथा संकुचितं समम्॥५५॥
सम्यग्दग्धं विजानीयान्निराश्र(स्र)वमवेदनम्॥
व्रणानां परिपोटाश्च स्फोटाः संभ(स्र)वणं तथा॥५६॥
दुर्दग्धमेतज्जानीयाद्दहेत्सम्यक्ततः पुनः॥
ज्वरोऽत्यर्थ नमो मूर्छा तृष्णा स्यान्मुखशोषणम्॥५७॥
अतिदग्धे भवन्त्येतह्रणे नागस्य पार्थिव॥
शीर्णमांसाः सुगम्भीरा व्रणा दुःखप्ररोहिणः॥५८॥
अतिरिक्ते भवन्त्यग्नौव्रणे दोषश्च दारुणः॥
परिषेकैः प्रदेहैश्च शीतलैस्तमुपाचरेत्॥५९॥
द्विव्रणीये यथा प्रोक्तं तथा व्रणमुपाचरेत्॥
इति सम्यक्सप्राख्यातः शस्त्राग्निप्रणिधौ विधिः॥६०॥

शस्त्राग्निप्रणिधिर्नाम दशमोऽध्यायः॥१०॥
_____________
अथैकादशोऽध्यायः।
_____________
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति॥
कृतजप्यमृषिश्रेष्ठं विनयेन कृताञ्जलिः॥१॥
शस्त्राग्निप्रणिधाने यत्परिकर्मसु हस्तिनाम्॥
सर्व भगवता प्रोक्तं दृढे स्तम्भे निबन्धनम्॥२॥
तत्कथं वारणेन्द्राणां कर्तव्यमृषिसत्तम॥
स्तम्भ एवनिबद्धानामनल्पबलतेजसाम्॥३॥
कथं न हस्तवालाभ्यां हिंस्युर्गात्रापरेण वा॥
प्रतिकर्मक्रियाकाले बन्धेनैकेन संयताः॥४॥
यथा येन निराबाधं निराबाधं च हस्तिनाम्॥
भवेत्तु विधिवत्सर्वं तथा मे वक्तुमर्हसि॥५॥

शृणु राजन्यथा कार्यः प्रतिकर्मक्रियाविधिः॥६॥
आलाने चैव बद्धानां कार्यस्तु पृथिवीपते॥
शस्त्राग्निक्षारसंयुक्तः प्रतिकर्म क्रियाविधिः॥७॥
अयन्त्रितमबद्धं वा यो नागमुपसर्पति॥
प्रतिकर्मक्रियां कर्तुं बालिशस्त्वरयाऽपि वा॥८॥
जीविते संशयस्तस्य वैकल्यं वा ध्रुवं भवेत्॥
न च सम्यक्क्रियां कर्तुं स शक्नोति नराधिप॥९॥
स्नाय्वस्थीनि सिरां वापि कर्म चाप्युपहन्त्यपि॥
तिर्यग्वा पातयेच्छस्त्रंवेपमानो ह्यशिक्षितः॥१०॥
तस्मात्सुयन्त्रितं कृत्वा पूर्वमेव तु वारणम्॥
स्तम्भालितं तु यत्नेन नित्यकालमुपाचरेत्॥११॥
पूर्वापरपरिक्षेपस्त्वालानमुपयामकम्॥
उपरिग्रहबन्धश्च हस्ते वासनमेव च॥१२॥
दन्ते सकटिके चैव अपस्कारे तथैव च॥
दन्तोद्दानीं शिरोद्दानीं कायोद्दानीं तथैव च॥१३॥
वालं वासनमेवात्र इति बन्धास्त्रयोदश॥
प्रतिकर्मक्रियाकाले प्रयोक्तव्यास्तु दन्तिनाम्॥१४॥
एतैः समस्तैर्बद्धस्य बन्धैर्नागस्य पार्थिव॥
प्रतिकर्मविधि कुर्याद्गुप्तस्याऽऽरक्षरक्षिभिः॥१५॥
—:0:—
रोमपादस्ततो राजा विनयात्पुनरुत्थितः॥
पप्रच्छ पालकाप्यं तु पुनः प्रश्नमनन्तरम्॥१६॥
भगवञ्शिष्यभावेन किंचित्पृच्छामि संशयम्॥
तदशेषेण विधिवत्सर्वमाख्यातुमर्हसि॥१७॥
आलिते बहवो दोषा बद्धगात्रापरस्य च॥
रज्ज्वाद्येन सुगुप्तस्य वारणस्य महीपते॥१८॥
उद्विग्नोभयसंत्रस्तः प्रतिकर्मक्रियासु वै॥
पतेद्वा निष्पतेद्वाऽपि ततो बाध्येत वा गजः॥१९॥
बन्धादींश्छेदयेत्सर्वानालानं वाऽपि वारणः॥
तस्य प्रतिक्रियां काले कथं वैद्यो ह्युपाचरेत्॥२०॥

शृणु सर्व महाराज यथा कार्यं भिषग्जिता॥२१॥
भूमिःपाषाणबहुला विषमा शर्करान्विता॥
कर्दमतृणयुक्तावा प्रतिवर्मणि वर्जिता॥२२॥
या तु नात्यर्थसिकता पांशुला नष्टशर्करा॥
निष्कर्दमा समा चैव सा भूमिः कर्मणो हिंसा॥२३॥
पूर्वापरपरिक्षिप्तं तत्र नागंनिषादयेत्॥
रज्जुंच निर्णयेत्पक्षे पक्षबन्धं च कारयेत्॥२४॥
पक्षबन्धविधानं च कर्तव्यं विधिना भवेत्॥
अपस्कारे दृढं बद्ध्वा अष्ठीव्ये च नराधिप॥२५॥
बन्धयित्वा तु तं रज्जुं यूपे कायो(ये)ऽवलम्बयेत्॥
तयोः प्रदेशयोर्मन्यायुक्त्या स्तम्भौ निखानयेत्॥२६॥
अच्छिद्रौ सुदृढौ ह्रस्वौ बन्धनार्थं विचक्षणः॥
बालं वासनमप्यस्य निक्षिपेदपरान्तरे॥२७॥
अनुवृत्तस्यंनिर्दिष्टः प्रतिकर्मक्रियाविधिः॥
वारणस्य यथान्यायमेष ते पृथिवीपते॥२८॥
—:0:—
भूयोऽङ्गराजः पप्रच्छ पालकाप्यं महामुनिम्॥
तत्रापि बहवो दोषा दृश्यन्ते मुनिसत्तम॥२९॥
दृश्यते क्षयभागेषु अंश (स)योः कटयोरपि॥
विक्षिपत्यपि गात्राणि कर्म चापि न विन्दति॥३०॥
यथा वै यस्य च भवेन्निराबाधं च दन्तिनः॥
भवेत्तु विधिवत्सवं तथा मे वक्तुमर्हसि॥३१॥

शृणु यन्त्रविधानं मे वारणानां नराधिप॥३२॥
प्रत्यासन्नोदके देशे समे मुखपरिक्रमे॥
शिवे रम्येऽथ वृक्षे वा देवायतनवर्जिते॥३३॥
अना……श्मशानस्य नगरस्यापि दूरतः॥
कार्यः प्रागुत्तरे देशे यत्र सिद्धिरभीप्सिता॥३४॥
आवासाः पक्षिणां ये च ये वा स्युर्गर्हितद्रुमाः॥
ये चापि दग्धास्तु भृशमशन्यभिहतास्तु ये॥३५॥
अर्धशुष्कास्तु ये वृक्षास्तथैव देवताश्रिताः॥
देवतायतने चैव उद्याने चाऽऽश्रमेषु च॥३६॥
चैत्यश्मशानजा ये च न योज्या यन्त्रकर्मणि॥
इत्यप्रशस्ता व्याख्याताः प्रशस्ताञ्शुणु मे नृप॥३७॥
भञ्जनः खदिरः सालः कदरो वा समाहितः॥
मधूकः सोमवल्को वा शा (ऽशो) को वा सर्ज एव च॥३८॥
अष्टानां वृक्षजातीनां ये द्रुमा ह्युपपत्तितः॥
अवल्मीके शुभे देशे सारवन्तः समाहिताः॥३९॥
ज्ञाता न चाग्निना स्पृष्टा वल्लीभिः पिण्डिताश्च ये॥
अकोटरास्तु जाताश्च योग्यास्ते यन्त्रकर्मणि॥४०॥
प्रशस्ते तिथिनक्षत्रे मुहूर्ते चापि पूजिते॥
देवान्यष्ट्वायथान्यायं स्वस्ति वाच्य द्विजांस्तथा॥४१॥
वृक्षाणां ग्रहणार्थाय कुर्याच्चेमान्बलीनपि॥
शुचिः स्नातस्ततो वैद्यो वृक्षं समुपवासयेत्॥४२॥
तस्योपवासना कार्या सुराभिः सुमनोक्षतैः॥
रक्तमाल्यं प्रियङ्गुं च खदिरस्योपवासने॥४३॥
सुपौदनेन मांसेन चित्रैर्माल्यैस्तथैव च॥
अञ्जनस्य बलिः कार्यः सुरयाऽपि विधीयते॥४४॥
गुडौदनेन पयसा पूपसोल्लासिकासवैः॥
कदरस्य बलिः कार्यः कर्मसिद्धिमभीप्सता॥४५॥
एतैश्च विधिवत्कृत्वा बलिं समुपवास्य च॥
वृक्षमूले स्थितो वैद्यस्त्रीन्वारान्वाचयेदिह॥४६॥
स्थावरे यानि भूतानि निवसन्ति चि(च)राणि वै॥
नमस्करोम्यहं तेभ्यः क्रियतां वा सपर्यषः॥४७॥
वर्धापयेत्ततस्त्वेनं प्रातरुत्थाय संपतः॥
वर्धकी वर्धयेद्वृक्षं प्राचीमभिमुखं दिशम्॥४८॥
उत्तरां वा समाश्रित्य दिशमेनं निपातयेत्॥
विस्वरं यदि कूजेत अन्यतो वा पतेद्यदि॥४९॥
यन्त्रैस्तैर्निष्फलो वृक्षस्तत्र यन्त्रे नियोजयेत्॥
सम्यङ्निपतितं दृष्ट्वा वृक्षमग्रन्थिकोटरम्॥५०॥
यन्त्रे निवेशयेद्वैद्यः समे देशे बहूदके॥
समाहितं दृढं तत्र स्तम्भं मध्ये निवेशयेत्॥५१॥
ततोऽष्टौ यनु(?)पादाश्च कर्तव्याः सुसमाहिताः॥
तेषां छिद्राणि सूप्य(च्य)थं द्वे द्वे ह्येकस्य कारयेत्॥५२॥
बलवत्यस्तथा सूच्यस्तत्राष्टौ कारयेद्भिषक्॥
बहिश्व यन्त्रपादानामन्यदीर्घं पृथक्पृथक्॥५३॥
ते वै निपाताः कर्तव्याश्चत्वारस्तु समाहिताः॥
तेषु तिर्यङ्नते कार्ये द्वे तुले भारधारणे॥५४॥
तयोरुपरि कर्तव्या स्यादेकाऽत्यायता तुला॥
इस्ते चान्यं तुलायन्त्रंनिबद्धफलकं दृढम्॥१५ ॥
आयतं चतुरो हस्तान्हस्ताद्वा द्वादशाङ्गुलात्॥
कोट्यः षढङ्गुलं चैव मधूकं शाकमेव च॥५६॥
त्र्यङ्गुलं त्ववगाढं च चतुरस्रं समन्ततः॥
चतुरङ्गुलविस्तीर्णाः कोट्यस्तत्र च कारयेत्॥५७॥
असंश्रान्तमतिर्वैद्यः सत्त्वमार्गं समाश्रितः॥
ये त्रयोदश बन्धा वै मया पूर्वं प्रकीर्तिताः॥१८॥
यन्त्रे प्रवेश्य वै नागो बन्धितव्यो नराधिप॥
ततोऽस्य फलके हस्तं वासयेत विचक्षणः॥५९॥
नस्यकर्मणि नागानामन्येषु च न वासयेत्॥
सूचीभिरुपधेयश्च ततः स पृथिवीपते॥६०॥
उरस्येका ततो देया एकैकाऽष्ठीव्ययोः पुनः॥
अपस्कारे तथा ह्येका एका च जघने भवेत्॥६१॥
एका मस्तकपिण्डे तु सूची देयानराधिप॥
एकैवाथाऽऽसने देया तथैका पश्चिमासने॥६२॥
लाङ्गूलवंशे दातव्या चैका सूची महीपते॥
एवमष्टौ विधातव्याः पञ्च सूच्यः समाहिताः॥६३॥
ताभिः परिगृहीतस्य बन्धाः कार्यास्त्विमे पुनः॥
उत्सङ्गी परिदामी च तथा चैवोरसी पुनः॥६४॥
पाददानी च कर्तव्या मुदृढायन्त्रकर्मणि॥
उदानाश्चापि कर्तव्याश्चत्वारः साधुपूजिताः॥६५॥
एवं यन्त्रेनिबद्धस्य बन्धैः सर्वैश्चहस्तिनः॥
प्रतिकर्म ततः कार्यं भिषजा सिद्धिमिच्छता॥६६॥
ज्येष्ठयन्त्रविधानं तु सम्यगेतदुदाहृतम्॥
यथाप्रमाणविहितं वारणानां महीपते॥६७॥
यन्त्रं तु मध्यमं कार्यं प्रमाणेन समाहितम्॥
त्रिभागपरिहीणं स्यादुत्तमात्पृथिवीपते॥६८॥
कन्यसं मध्यमात्किचिदूनं यन्त्रमिहोच्यते॥
अथवा विभजेद्यन्त्रंयथाहस्तिप्रमाणतः॥६९॥
आयामार्धेन नागस्य विस्तारः समुदाहृतः॥
त्रयाणामपि नागानां यथावदनुपूर्वशः॥७०॥
वारणानां यथान्यायमारोग्याय भिषग्वरः॥
कर्म कुर्यादसंभ्रान्तस्तिथ्यादौ पूजिते यदा॥७१॥
शुचिःसुप्रयतो भूत्वा कृत्वा ब्राह्मणवाचनम्॥
स्रापयेच्च ततः पादान्यन्त्रस्याथ तुलास्तथा॥७२॥
अलंकृत्य कृतास्रश्च प्रादक्षिण्येन रोपयेत्॥
सुबद्धीं सग्रहां कृत्वा ततस्तमवतारयेत्॥७३॥
आकोटयित्वा विधिवन्निष्पकम्पश्च कारयेत्॥
फलकैराश्रितैर्भूमिं निश्चलैः सुसमे दृढे॥७४॥
स्रापयित्वा ततो यन्त्रं सर्वाङ्गं विरलं कृतम्॥
गन्धपङ्काकुलं कृत्वा पताकावस्त्रसंकुलम्॥७५॥
ततः पूर्वं तथाऽऽहृत्य संभारांस्तत्र कारयेत्॥
यन्त्रस्य पश्चिमे देशे जुहुयाद्धन्यवाहनम्॥७६॥
हुत्वाऽग्निं च यथान्यायमाज्यशेषेण म्रक्षयेत्॥
यन्त्रं यन्त्रतुलाश्चापि शोणितेन समालभेत्॥७७॥
पक्त्वाऽऽमकेन मांसेन तथा सीधुमुरासवैः॥
भूतो(तौ)दनेन कुल्माषैर्मत्स्यैमांसैः फलैस्तथा॥७८॥
अष्टापदं जपेत्तत्र…. …. …. ….देवताः॥
सनत्कुमारं सेनान्यं देवं चाप्यपराजितम्॥७९॥
उंग्रानन्यान्परिषदान्देवान्सेनापतिं तथा॥
नमस्कृत्य ततोवैद्यः शुक्लाम्बरधरः शुचिः॥८०॥
कृत्वा भूतोपहारं च स्वस्ति वाच्य द्विजांस्तथा॥
यन्त्रं प्रदक्षिणीकृत्य तास्ता हि स्वाङ्गदेवताः॥
ततः प्रवर्तयेत्कर्म वारणानां भिषग्वरः॥८१॥
इति यन्त्रविधानं च बन्धाश्च परिकर्मणि॥
हस्तिनां पालकाप्येन रोमपादाय कीर्तिताः॥८२॥
इति श्रीपालकाप्ये हस्स्यायुर्वेदेमहाप्रवचने महापाठे तृतीये शल्यस्थाने
यन्त्रविधिर्नामैकादशोऽध्यायः॥११॥
____________
अथ द्वादशोऽध्यायः।
____________
कृतजप्यमृषिश्रेष्ठं विनयेन कृताञ्जलिः॥
रोमपादो महाप्राज्ञः पालकाप्यं स्म पृच्छति॥१॥
प्रनष्टशल्याहरणं यथावद्वक्तुमर्हसि॥
यष्टितोमरशक्त्यृष्टिकिणयः सपरश्वधैः॥२॥
शरैश्च विविधैर्घोरैः परप्राणापहारिभिः॥
नाराचैरर्धनाराचैरर्धचन्द्रनिभैस्तथा॥३॥
भल्लैर्वराहकर्णैश्चक्षुरप्रैरिक्षुपत्रकैः॥
पीलुशङ्खप्रमथनैः शिखराग्रैःसकण्टकैः॥४॥
सावरैरर्धकर्णैश्च शृङ्गशीर्षैस्तु कण्टकैः॥
मालीकैरर्धनालीकैस्तथा वेतसपत्रकैः॥५॥
मुकुलाग्रैर्विकीर्णैश्च मुद्गरैः कूटमुद्गरैः॥
एतैश्चान्यैश्च विद्धानां विप्रनष्ठैर्महामुने॥६॥
दृश्यन्ते वारणेन्द्राणां गूढशल्याःसुदारुणाः॥
व्रणा हि बहुविश्रा(स्त्रा)वा दुर्गन्धाः कठिनास्तथा॥७॥
गम्भीरा वेदनाप्रायाः सशोणितपरिश्र(स्त्र)वाः॥
न शोधनैः कषायैर्वा विशुध्यन्ति कदाचन॥८॥
तेषां यथा चिकित्सा च शोधनं तु सुखं भवेत्॥
कर्तुं यथा च विज्ञेया यत्समुत्थाश्च ये व्रणाः॥९॥
असंशयं मे भगवंस्तत्सर्वं वक्तुमर्हसि॥
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः॥१५॥
ब्रह्मा शास्त्रमिदं प्राह पूर्वमेव प्रजापतेः॥
प्रजापतिरथेन्द्राय सोऽश्विभ्यां पाकशासनः॥११॥
अश्विनौ चापि तौ देवावृषिभ्यः प्रत्यभाषताम्॥
प्रनष्टशल्याहरणं पालकाप्यो महायशाः॥१२॥
सद्यःक्षतविधाने च द्विव्रणीये च तन्मया॥
व्रणानां लक्षणं कृत्स्नं विस्तरेण प्रकीर्तितम्॥१३॥
शल्यस्य विप्रनुष्टस्य लक्षणं शृणु पार्थिव॥
स्थानान्येतानि जानीयाद्येषु शल्यं प्रणश्यति॥१४॥
तानि सर्वाणि वक्ष्यामि पृथक्त्वेन निबोध मे॥
छविर्मांं तथा मेदः संधिः स्नायुस्तथाऽस्थि च॥१५॥
कोष्ठश्रो(स्रो)तांसि चैवैषां स्थानान्येतानि विद्धि वै॥
तृणं काष्ठं च विज्ञेयं तथा लोहमयं च यत्॥१६॥
बाह्यमेतद्भवेच्छल्यंप्रकारैर्बहुभिर्युतम्॥
शोणितं त्वस्थि मांसं चशिरा स्नायूनि वाऽप्यथ॥१७॥
यूपं(पूयं) चापि भवेच्छल्यमेतत्सर्वं शरीरजम्॥
तत्र बाह्यानिसर्वत्र सर्वमेव नराधिप॥१८॥
शरीरजेषु चास्थीनि दारुणानि विनिर्देिशेत्॥
शोणितादीनि शेषाणिं यानि शल्यानि पार्थिव॥१९॥
निर्वहन्त्यौषधीस्तानि मुखे वा विकृते कृते॥
यानि दारुणशल्यानि तानि सर्वाणि भूपते॥२०॥
गूढतां याति कालेन शरीरस्थानि दन्तिनाम्॥
अत ऊर्ध्वं प्रवक्ष्यामि सशल्ये लक्षणं नृप॥२१॥
वेदनाऽथ परिश्रा(स्रा)वः शोफः स्तम्भः परिग्रहः॥
व्रणं शल्यमुखस्तेषां कठिनौष्ठश्च लक्ष्यते॥२२॥
दुर्गन्धः पिच्छिलश्चापि स्रावस्तत्र प्रवर्तते॥
स लोहितश्च विच्छिन्नः कदाचिच्चापि संहतः॥२३॥
अष्ठानां व्रणवस्तूनां यश्च वस्तु समाश्रितम्॥
सादृश्यं तस्य च पुनः कदाचिच्छ्र(त्स्त्र)वति श्र(स्र)वम्॥२४॥
एतैर्लिङ्गैस्तु विज्ञेया व्रणाः सम्यग्भिषग्वरैः॥
ईषंदुन्नत उत्सन्नं त्वचंलक्षेत दन्तिनः॥२५॥
मांसस्था कूर्मसंस्थाने मेदःस्थे तु विसर्पति॥
शिरास्नायुगते कुब्जस्तब्धाङ्गो वा भवेद्विपः॥२६॥
चेष्टानिरोधः संधौ तु महांश्च श्वयथुर्भवेत्॥
अस्थिभेदस्त्वस्थिगते तेन न श्र(स्त्र)वति व्रणः॥२७॥
गुणोपरोधः श्रो(स्रो)तः स्याद्यस्मिंस्तिष्ठति श्रोतसि॥
कोष्ठस्थे रक्तसंसृष्टं विस्रं(स्र)वति च व्रणः॥२८॥
गुदः श्र(स्र)वति चात्यर्थं द्विपस्त्वानह्यते च सः॥
संध्यस्थिधमनीस्नायौसद्यःप्राणहरेषु च॥२९॥
वेदनालिङ्गबाहुल्यादसाध्यं तं विनिर्दिशेत्॥
मर्मज्ञानं यथोक्तेन विधिना तु विशारदः॥३०॥
अत ऊर्ध्वं प्रवक्ष्यामि सशल्येलक्षणं व्रणे॥
अनिर्हतानि तिष्ठन्ति वर्षाणि सुबहून्यपि॥३१॥
शल्यानि नैवं दृश्यन्ते भिद्यन्ते नैव दन्तिनाम्॥
निर्व्रणाश्चापि जायन्ते कदाविच्चापि सव्रणाः॥३२॥
न कदाचित्प्रदृश्यन्ते सुनिक्षिप्ततया नृप॥
भूयस्तु संप्रवक्ष्यामि सशल्यव्रणलक्षणम्॥३३॥
व्रणे प्रभिन्ने तस्याथ श्रा(स्रा)वगन्धं च लक्षयेत्॥
सगदापानसंस्थानः स्वराणां वाजिनां तथा॥३४॥
नॄणांच गुदसंस्थानो नाभीभूतश्च जायते॥
दुर्गन्धः पिच्छिलश्चापि श्रा(स्रा)वस्तत्र प्रवर्तते॥३५॥
स लोहितश्च विच्छिन्नः काञ्जिकौदनगन्धवान्॥
कण्डूयते दह्यते च शुष्यंश्च परिपोद्यते॥३६॥
वालुकाकर्दमैश्चैनं पांशुभिश्च करेण च॥
वीजते जिघ्रति तथा सशल्यं व्रणमादिशेत्॥२७॥
व्रणोपचारैस्तस्येह वारणस्य महीपते॥
यदि शल्यं न दृश्येत तस्य वक्ष्याम्युपक्रमम्॥३८॥
स्वभ्यक्तं तिलतैलेन ससि(शि)रस्कं घृतेन वा॥
मेदसा वा प्रलिम्पेत्तु वसया त्रिवृतेन वा॥३९॥
निवाते स्वेदयेद्वैद्यो यथोक्तैः स्वेदनैस्तु तम्॥
विमर्दनं विमार्गं च सर्वेष्वङ्गेषु कारयेत्॥४०॥
परिमर्देन नागस्प शल्यं तदुपलभ्यते॥
अपूर्वो वाऽपि संयोगः शिराणां चैव दृश्यते॥४१॥
यत्र वा सज्जते स्पर्शस्तत्र शल्यंविनिर्दिशेत्॥
यथै(द्ये)वं नोपलभ्येत मृदा तमुपलेपयेत्॥४२॥
निवाते तु समावेश्य यत्र पूर्वं विशुष्यति॥
तनौ तमथ नागस्य तत्र शल्यं विनिर्दिशेत्॥४३॥
तत्र शल्यं विदित्वा तु क्षिप्रं तदुपनाहयेत्॥
मृदुं विवर्णं शिथिलं पक्कं शस्त्रेण पाटयेत्॥४४॥
एषिण्या गतिमासाद्य गजानां राजसत्तम॥
विष्कम्भेन विमाश्यै(मर्श्यै)नं पश्चाच्चैवोर्पानग्रहात्॥४५॥
सकर्णवाऽप्यकर्ण वा प्रच्छन्नं तत्र दृश्यते॥
उपस्थितं तु यच्छल्यं यन्त्रेण ग्राहये दृढम्॥४६॥
वामेन तु मुखाभ्यास उत्तानेनैव पाणिना॥
दक्षिणेन तु हस्तेन दृढं यन्त्रं निपीडयेत्॥४७॥
आहरेत्तु ततः शल्यंक्रियायोगेन दन्तिनाम्॥
त्वग्गतं शल्यमेवं स्यादाहर्तव्यं विजानता॥४८॥
मांसोपचितदेहस्य मांसभागमुपासृ(श्रि)तम्॥
यदा न दृश्यते शल्यंतस्य वक्ष्याम्युपक्रमम्॥४९॥
स्वभ्यक्तं स्वेदयित्वा तु पूर्ववच्छल्यमुद्धरेत्॥
शिराजालगतं शल्यं यदा नागे न दृश्यते॥५०॥
तस्योपायं प्रवक्ष्यामि यथा शल्यं मदृश्यते॥
गोमूत्रं मण्डलं चैव लङ्घनं मर्दनं तथा॥५१॥
व्यायामं कारयेत्तस्य तथैव विषमेऽध्वनि॥
भृशं संकुच्यमानस्य व्यायामोद्भावितं बलात्॥५२॥
शीघ्रं प्रच्यवते स्थानात्तस्मादेनं विचारयेत्॥
वेदनां कुरुते तीव्रां यत्र तेनोपनाहयेत्॥५३॥
एषिण्या गतिमासाद्य पूर्ववच्छल्यमुद्धरेत्॥
स्नायुजालगतं शल्यं वनजस्य न दृश्यते॥५४॥
सिराजालमते शल्ये या क्रिया तांसमाचरेत्॥
यदि संधिगतं शल्यंवारणस्य न दृश्यते॥५५॥
चर्मणा त्वथ रज्ज्वा वा वेष्टयित्वा पटेन वा॥
बद्ध्वा चङ्क्रमयेच्छीघ्रं लङ्घयेत्प्लावयदेपि॥५६॥
संधौ व्यायच्छमानस्य रुजा शोफश्च जायते॥
ततस्तं पूर्ववद्धद्ध्वा यन्त्रैःशल्यंसमुद्धरेत्॥५७॥
यदा न दृश्यते शल्यमस्थिकायप्रतिष्ठितम्॥
बहुमांसशरीरत्वाद्गजानां तु नराधिप॥५८॥
स्वभ्यक्तं स्वेदयित्वा तु पूर्वेण विधिना भिषक्॥
यथोक्तां मांसदेशस्थे क्रियांतद्वत्समाचरेत्॥५९॥
अथ शल्यं न कम्पेत दृढं लग्नं यथा स्थितम्॥
वा(?)रङ्गमूले तद्धद्ध्वा दृढरज्ज्वा समाहरेत्॥६०॥
स्रोतःसु च यदा शल्यं सिराणां संगमेषु च॥
घटयन्नेव तत्प्राज्ञोममंदेशे चयद्भवेत्॥६१॥
एतेष्वेव प्रदेशेषु शस्त्रकर्म न कारयेत्॥
न चापक्वेन चाक्लिन्ने न च तिर्यङ्निपातयेत्॥६२॥
न मुक्ताशिथिले मांसे मृदुभूते न हस्तिनः॥
विदग्धे वाऽप्यपक्के वा निर्दोषं हरणं भवेत्॥६२॥
एवं स्रोतोगंतं शल्यमाहर्तव्यं विजानता॥
कुम्भस्रोतोगतं शल्यंयदा नागे न दृश्यते॥६४॥
पूर्वं शिरोमितापेषु जत्रुप्रधमनं स्मृतम्॥
स्निग्धस्विन्नस्य नागस्य करस्रोतसि दापयेत्॥६५॥
ततस्तं बृंहमाणस्य वनथोविन(?)मूर्छितम्॥
क्लेदितं दोषसंसृष्टं मुखं श्रो(स्रो)तः प्रपद्यते॥६६॥
ततस्तत्प्रच्युतं स्थानाद्भूमौ पतति हस्तिनः॥
कोष्ठप्राप्ते तु कवलं दद्यात्तस्य विरेचनम्॥६७॥
पुरीषदोषसंसृष्टं तस्मादेतन्निस्यते॥
अथवा मर्दनात्तस्य पार्ष्णिघाताद्विलीयते॥६८॥
सहसा प्रतिपद्येत मार्गवेगसमीरितम्॥
एवं कोष्ठगतंशल्यमाहर्तव्यं विज्ञानता॥६९॥
इति स्थानेषु सर्वेषु ज्ञात्वा शल्यंसमुद्धरेत्॥
ततोऽपहृतशल्यस्यघृतेन परिषेचनम्॥७०॥
कर्तव्यं हस्तिनस्तस्य सलिले चावगाहनम्॥
अशुद्धे शोधनं चापि शुद्धे संरोपणं भवेत्॥७९॥
सवर्णकरणं चापि द्विव्रणीये प्रकीर्तितम्॥
एवं मनष्टे विज्ञानं शल्ये नागस्यकीर्तितम्॥७२॥
शल्येनोपहृतं सम्यगेभिर्योगैरुपाचरेत्॥
…. …. …. ….र्श्वं यन्त्रंसिंहमुखं तथा॥७३॥
यष्टियन्त्रंकर्कटकं दात्यूहं सर्वकायिकम्॥
गोधामुखं मकरकं दन्तैरुभुय…. …. ….॥७४॥
…. शकुमेकदन्तं च मुष्टिशार्दूलमुष्टिकम्॥
साकृतिर्यन्त्रयोनिश्च यथावदनुकीर्तिता॥७५॥
तस्माद्युक्तं च वचनात्साराप्यादागमादपि॥
दर्शनाच्चान्ययन्त्राणां कारयेसंद्यन्त्रसंग्रहम्॥७६॥
अतः परं प्रवक्ष्यामि मर्माणि मनुजाधिप॥
मूर्ध्नि चस्वारि मर्माणि सर्वाणि च समन्ततः॥७७॥
येषु विद्धो महाराज मुहूर्तं न स जीवति॥
अण्डकोशे बस्तिशीर्षे शिश्ने चवृषणे तथा॥७८॥
विद्धः शरेण हि गजो न जीवेद्येन केनचित्॥
सद्यः प्राणहरेष्वेव सद्यः प्राणैर्वियुज्यते॥७९॥
कालान्तरविनाशेषु विद्धः कालाद्विपद्यते॥
शोणिते च्याविते स्थानाभागः प्राणैर्विमुच्यते॥८०॥
यानि कर्माणि राजेन्द्र मयोद्दिष्टानि दन्तिनाम्॥
मर्माश्रितेषु सर्वेषु योभवेत्ताडितो गजः॥८१॥
तेषु तेष्वेव शल्येषु विप्रनष्ठेषु दन्तिनाम्॥
वेषामाहरणे यन्त्राण्यशेषेण निबोध मे॥८२॥
त्र्यस्रंतथैकदंष्ट्रं चमुष्टिं शार्दूलमुष्टिकम्॥
नन्दीमुखं शङ्कुपार्श्वं यन्त्रं सिंहमुखंतथा॥८३॥
यन्त्रजातिभिरेताभिः शल्यंविनिहरेहुधः॥
अङ्गुल्यैवाप्यथैषण्या परिमृश्य नखेन च॥८४॥
सम्यक्शल्यंतु विज्ञाय प्रतिकर्म समाचरेत्॥
वृद्धिपत्रेण शस्त्रेण निकृन्तेह्रणमादितः॥८५॥
नन्दीमुखेन यन्त्रेण तेन तच्छल्पमानयेत्॥
शोणितंपीडयेच्चैव व्रणं वांश्या चशोधयेत्॥८६॥
विडङ्गचूर्णसंसृष्टघृतं स्याह्रणसेचनम्॥
आयसेनाग्निवर्णेन समन्ताद्दाहयेह्रणम्॥८७॥
घृतपानं च दातव्यं वारणस्य महीपते॥
कङ्कादिकृतयन्त्रेण सर्वेषामनुपूर्वशः॥८८॥
कार्यमुद्धरणं तेषां शल्यानां पृथिवीपते॥
विकीर्ण साबरेत्कर्ण शङ्खशीर्ष त्रिकण्टकम्॥८९॥
भल्लेन प्रतिषिद्धस्यशल्यस्याऽऽनयने हितम्॥
पूर्वोक्तेनविधानेन सेचनं स्याद्विधीयते॥९०॥
विद्धो वराहकर्णेन क्षुरप्रेण क्षुरेण वा॥
मुष्ठियन्त्रेण सर्वास्ताः भिप्रमेव समानयेत्॥९१॥
पीलुशङ्खप्रमथनैः शिखराग्रैस्त्रिकण्टकैः॥
शल्यैरेभिस्तु विद्धस्य वारणस्य महीपते॥९२॥
गोधामखेन यन्त्रेण सर्वेषामनुपूर्वशः॥
कार्यमुद्धरणं तेषां शल्यानां पृथिवीपते॥९३॥
इति कर्णसाचारकं शृङ्गशीर्ष त्रिकण्टकम्॥
तालीकमर्धतालीकं तथा वेतसपत्रकम्॥९४॥
शल्यजातिभिरेताभिः प्रतिविद्धस्य हस्तिनः॥
अन्यैस्तु कीर्तितैःशल्यैः कृत्वा चान्वेषणं तथा॥९५॥
कर्णभङ्गेन भङ्क्त्वाऽथ कर्णतस्य(?)प्रवर्तयेत्॥
अकरालं व्रणं कृत्वा विष्कम्भित्वा च तं व्रणम्॥९६॥
यन्त्रयित्वा च तं सम्यक्सिद्धार्थः कुशलो भिषक्॥
यन्त्रं सिंहमुखं नाम तेन तानुद्धरेच्छनैः॥९७॥
पूर्वोक्तश्च क्रियायोगः पानम्रक्षणकर्मणि॥
नाराचं चार्धनाराचं सिंहदंष्ट्रेण निर्हरेत्॥९८॥
मुकुलाग्नंच कर्तव्यं मण्डुवक्त्रेण पार्थिव॥
यन्त्राणां च विभागं च शल्यानां च महीपते॥९९॥
कीर्तितास्ते मया सम्यगत ऊर्ध्वं निबोध मे॥
मर्मकर्माणि चत्वारि पूर्वोक्तानि मयाऽमघ॥१००॥
तेषु विद्धस्यनागस्यशल्यं सद्विप्रणश्यति॥
अनिर्गतेषु तंप्राप्य निर्गते न स जीवति॥१॥
युक्तिभिर्यापनीयाभिस्तस्मात्तमनुवर्तयेत्॥
अभ्यङ्गालेपनाद्याभिः सिद्धाभिर्व्रणशोधनम्॥२॥
मस्तकेऽथ शरेणैव विद्धस्यान्येन केनचित्॥
अनिर्गते निर्गते वा न स जीवति वारणः॥३॥
आसने जघने वाऽपि श्लक्ष्णेनाथ खरेण वा॥
अनिर्गतेषु तद्याप्यं निर्गते न स जीवति॥४॥
उपर्यायामभिन्नस्य कोष्ठभिन्नश्च यो भवेत्॥
शोणितानुगतो भूत्वा स्याद्वातव्याधिरन्तकः॥१०५॥
कंधरासंधिषु तथा शिरास्नायुषु पार्श्वयोः॥
विद्धस्यापनयेच्छल्यंमर्माणि परिरक्षयेत्॥६॥
अप्राप्तसंधिशल्ये च शल्यनिर्हरणं भवेत्॥
विशल्यंच व्रणं कृत्वा प्रतिकर्म समायरेत्॥७॥
लम्बितं व्यथितं छिन्नमवकृत्तं च यद्भवेत्॥
दुर्जातं च व्रणं दृष्ट्वा प्रतिकर्मास्य कारयेत्॥८॥
क्षौमसूत्रेण मेधावी सीवनं चास्य कारयेत्॥
पूर्वोक्ता च क्रिया तस्य कारयेह्रणशान्तये॥९॥
विद्धः शरेण काकोला…. ….छिन्नरोहयोः॥
…. …. …. …. ….श्चूर्णेश्च प्रतिचूर्णयेत्॥११०॥
अथास्य शोफो भवति तेनैव प्रतिलेपयेत्॥
क्षीरवृक्षकषायेण सर्पिषा चैव धारयेत्॥११॥
शुध्यते च व्रणं तस्य क्षिप्रं चैव मरोहति॥
अथ दिग्धेन विद्धस्यवक्ष्यते भेषजक्रमः॥१२॥
स्व(श्व)यथोर्दिग्धविद्धस्य पूतिमांससमुद्भवः॥
श्रा(स्त्रा)वो भवत्यशुद्धश्च भिन्नवर्णश्च जायते॥१३॥
स तप्तदेहश्च भवेच्छोफशेषश्च जायते॥
एतानि पूर्वरूपाणि दिग्धविद्धस्य हस्तिनः॥१४॥
व्रणं तच्छोधयित्वाऽथ संस्कृतेनाथ सर्पिषा॥
नस्यंतस्य ततो दद्याद गदं चानुपाचयेत्॥११५॥
शीतप्रदेहं कुर्याच्च तथा सिध्यति पार्थिव॥
स्तब्धो विवर्णो विःसुप्तो(?)व्रणो यस्य तु हस्तिनः॥१६॥
स्थापयित्वा युतं स्थाने यन्त्रयित्वा यथाक्रमम्॥
तन्तुसूत्रपटैर्वाऽपि क्षौमसूत्रेण वा भिषक्॥१७॥
सुसीवनं व्रणं कृत्वा नागस्यैवं समाचरेत्॥
मधुव्रणविधानेन प्रतिकुर्याद्भिषग्वरः॥१८॥
इतीह पृष्टो भगवानङ्गराजेन धीमता॥
पालकाप्यः क्रियामाह शल्यस्योद्धरणं प्रति॥११९॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे तृतीये शल्यस्थाने
शल्योद्धरणो नाम द्वादशोऽध्यायः॥१२॥
____________
अथ त्रयोदशोऽध्यायः।
_________________
‘अथातो विद्रधिचिकित्सितं व्याख्यास्यामः’ इति ह स्माऽऽह भगवान्पालकाप्यः॥
इह भो वातपित्तकफसंनिपातैर्विद्रधयःसंभवन्ति। तत्र कटुकषायऋक्षभोजनैर्वातलैः प्रकुप्यत्यनिलः। प्रदुष्टो मांसशोणितमभिगृह्यशृक्वणवङ्क्षणप्लीहायकृद्धृदयक्लोमबस्ति मुखमेहनानामन्यतममघिष्ठाय घनीभवति गम्भीरो ग्रन्थिः, तं वात विद्रधिमाचक्ष्महे। तत्र वातविद्रधिरनिमित्तं पच्यते। लिङ्गमपक्व-सुश्रा(स्रा)वं विच्छिन्नंफेनिलमरुणवर्ण रूक्षं स्रवति॥
यदा तु कटुकाम्लानि पित्तप्रकोपनीयानि भोज्यते नागः, तस्य पित्तं प्रकुपितं विद्रधिमापादयति। तत्र पित्तविद्रधिराशु प्रपच्यते। पक्वस्तीव्रोदुर्गन्धिः कुलत्थरससदृशः श्रावो दाहप्रायश्च भवति॥
यदा तु मधुरं दिवास्वप्नं चोपसेवते, तस्य श्लेष्मा प्रकुपितो विद्रधिमापादयति। स चिरात्पच्यते बहुश्वेतो बहुलसान्द्रपिच्छिलो मेदोमज्जासहशस्रावो भववि स कफविद्रधिः॥
संनिपातजे विद्रधौ सर्वरूपदर्शनम्। विशेषतश्च प्लीहश्वासारोचकाश्च भवन्ति। तस्मादचिरोत्थितस्य चिकित्सितं कुर्यात्। स्नेहकल्पोक्तैश्चैनं स्रिहैश्चैवोप(क्र)मेत॥
तत्र श्लोकौ—
पञ्चाहं सप्तरात्रं वा व्रणं स्नेहैस्तु सेचयेत्॥
संजातघ्रा(प्रा)णमांसस्य प्रतिपूर्णेषु धानुषु॥१॥
स्नेहपानोपचारेण स्नेहं चास्मै प्रदापयेत्॥
शोधनं रोपणं चोक्तं प्रतिव्रणचिकित्सितम्॥२॥
यथावत्कुशलैर्योज्यंश्रा(स्रा)वणंभेदनं तथा॥
—:0:—
अथ विद्रधयः प्राह वातपित्तकफात्मकाः॥३॥
संनिपाताश्च राजेन्द्र वक्ष्यन्ते तु यथाक्रमम्॥
रसांस्तु तिक्तकटुकान्कषायान्विषमान्यदा॥४॥
शीताभिःस्नेहलवणानाहारानपि सेवतः॥
बृंहितेनाथ विषमं स्वपतः कठिनेन वा॥५॥
गजस्य कुपितो वायुर्धमनीः संसृ(श्रि)तो यदा॥
तदाऽस्यान्यतमे देशे प्रपाचयति शोणितम्॥६॥
अथास्य रक्तसंसृष्टो जनयत्याशुविद्रधिम्॥
मन्यादेशे च कक्षायां तथा गात्रापरेषु च॥७॥
जघनाभ्यन्तरे कोशे स्तनास्थाने च भूपते॥
नाभौ *चलेषु2231 देशेषु तथाऽन्येष्वपि दन्तिनः॥८॥
प्रदेशेषु नरश्रेष्ठ सर्वव्यापी प्रभञ्जनः॥
जायते स्व(श्व)यथुस्तेन सविदाहः सवेदनः॥९॥
<MISSING_FIG href="../../../books_images/U-IMG-1704360641image2.jpg"/>
किंचिद्विवर्णो गम्भीरः संप्रलुप्तश्च भक्ष्यते॥
अतः परं सम्यगस्य वारणस्य महीपते॥१०॥ख. वलेषु।
प्रदुष्टश्चैव लक्ष्येत अप्रदुष्टश्च लक्ष्यते॥
मन्दकोपस्तथाऽऽयामकठिनो नद्ध एव च॥११॥
मन्दं विक्षिपते देहं याति कण्डूयतः शमम्॥
भवेत्तस्य गतिः सूक्ष्मा सदाहा सपरिस्रवा॥ १२॥
उष्णे शान्तिं स लभते शीतेन च विवर्धते॥
इति वातसमुत्थाया लक्षणं संप्रकीर्तितम्॥ १३॥
<MISSING_FIG href="../../../books_images/U-IMG-1705492004image2.jpg"/>
उष्णादत्यर्थलवणात्तथाऽम्लरससेवनात्॥
संरम्भाद्धर्मसंतापादध्वनो गमनेन वा॥ १४॥
एवं प्रकुपितं पित्तं धमनीः प्रतिपद्यते॥
आक्षिप्तं वायुमाक्षिप्तं देहे समुपलीयते॥ १५॥
लीनं स्थानाच्चयुतं चास्य श्वयथुं जनयेद्भृशम्॥
तेन ज्वरश्च तापश्च तीव्रा तृष्णा च जायते॥ १६॥
दह्यते चाग्निनेवास्यस देशस्तुद्यतेऽपि च॥
हारिद्रो हरितो वाऽथ स देशः संप्रकाशते॥ १७॥
पाकं चान्वेति सहसा तदेवान्तकरं तथा॥
सुवर्णसदृशश्चास्य ततः श्रा(स्त्रा) वः प्रवर्तते॥ १८॥
_________________________________
* ‘च तेषु’ इति पाठो भवेत्।
_________________________________
जानीपाक्षणैरेभिर्विद्रधि पित्तसंभवाम्॥
—:0:—
चतुर्विधमथाऽऽहारं भोज्यते मधुरं यदा॥१९॥
अप्रदानप्रदानेन शीतलं वा निषेवते॥
अव्यायामाद्दिवास्वप्राद्विज्वलादशनादिह॥२०॥
तस्यैवं वर्तमानस्य श्लेष्मा चाऽऽशुप्रकुप्यति॥
तमादाय तदा वायुरस्थीन्याविश्य दन्तिनः॥२१॥
शोफं संजनयत्याशु तस्य रूपाणि मे शृणु॥
पृथुलः श्याववर्णाभो नीलो वा स्वल्पवेदनः॥२२॥
विकसंश्चस विज्ञेयो बहुश्लेष्माऽल्पमारुतः॥
व्याधिमेवंविधैर्लिङ्गैर्जानीयाच्छ्रलेष्मविद्रधिम्॥२३॥
—:0:—
थ त्रयाणां दोषाणां यो विरोधीनि सेवते॥
कुक्षी(क्षौ) तस्योपजायन्ते दोषा वातादयस्त्रयः॥२४॥
यदा विरस्यमानस्तु वापुर्वातवहाःशिराः॥
दूषयेच्चापि श्लेष्माणं पित्तं रक्तं तथैव च॥२५॥
एकीभूतास्ततो राजन्विद्रधिं जनयन्ति ते॥
अथास्य जायते दाहः स्रवत्यर्थसवेदनः॥२६॥
स तस्य दोषबाहुल्याद्देहो दग्ध इवाग्निना॥
दिवा स दृश्यते रक्तो रात्रौ रसमवाप्नुयात्॥२७॥
मञ्जिष्ठासदृशाः स्फोटाः पच्यन्ते मांसपाकतः॥
दाहवन्तो विदीर्णास्ते जनयन्ति समन्ततः॥२८॥
दृष्ट्वा(ष्टाः) प्राणहरा राजन्नानावर्णोष्मणा युताः॥
ततो नाभिलषेदन्नंतृष्णाज्वरसमन्वितः॥२९॥
अतीसारस्तथा कासः श्वासश्चैवोपजायते॥
एवंविधाः संनिपाताद्विद्रधिः(धीः) समवाप्नुयात्॥३०॥
तासां तु प्रथमं कुर्यादनुरूपं क्रियापथम्॥
स्नेहपानमथाभ्यङ्गं निरूहमनुवासनम्॥३१॥
विश्रा(स्त्रा)वणं वेधनं च शीतलं परिषेचनम्॥
विलायनं शोधनं च दद्याद्रोपणमेव च॥३२॥
स चेयदि विदह्येत कुर्यादभ्य(भि) मुखं भिषक्॥
अथानुपूर्वशास्त्रोक्तं कुर्याह्रणचिकित्सितम्॥३३॥
इति श्रीपालकाप्ये इस्त्यायुर्वेद महाप्रवचने तृतीये शल्यस्थाने
विद्रधिरोगो नाम त्रयोदशोऽध्यायः॥१३॥
<MISSING_FIG href="../../../books_images/U-IMG-1699411520image1.JPG"/>
अथ चतुर्दशोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1699411606image2.JPG"/>
अथ खलु भगवन्तं भार्गवर्ष्याश्रमपदं जपनियम शुश्रूषान्वितं शिष्यगणपरिवृतं पालकाप्यमभि-वाद्याभिगम्य संमान्याब्रवीद्राजा रोमपादोऽङ्गाधिपतिः—
‘भगवन्य इमे व्रणा ह्यशनिप्रत्यया नानास्रावलिङ्गवेदनाबहुला गतिमन्तो, नाडीव्रणाः संभवन्ति। तेषां साध्यासाध्यलक्षणं साधनं च निरवशेषेण व्याख्यानुमर्हसि’॥
स एव भगवानङ्गेन प्रश्नमुक्तः प्रोवाच पालकाप्यः—‘वत्स रोमपाद, वारणानां द्वौ व्रणौ भवतः—शारीर आगन्तुश्च। तयोः शारीरं वातपिचकफशोणितसंनिपातात्मकं विद्यात्। आगन्तुं काष्ठपतनाश्म-प्राजनवधबन्धपीडनाग्निविषनिमित्तम्
तत्राऽऽगन्तोर्व्रणस्य तत्क्षणमेवीष्मणः प्रशान्त्यर्थं सद्यःकृतविहिताः शीतप्रायाः क्रिया विहिताः, व्रणस्य रोपणार्थं च यथा मधु घृतं पयइति॥
अतः परं दोषविशेषाः शारीरा भवन्ति। तत्राऽऽहाररसवैषम्यात्सात्म्यदुर्विपर्ययात्काल-प्रकर्षात्त्वागन्तुर्व्रणो वातपित्तकफानामन्यतमेनाभिभूयते। तस्य लिङ्गप्रदर्शनं पृथक्त्वेनोपदेक्ष्यामः।
तत्र श्लोकाः—
रुक्षः परुषवर्णाभः शिराभिः संहतः खरः।
गम्भीरानुगतश्चैव विज्ञेयो जातिको व्रणः॥
पैत्तिको दाहबहुलो व्रणः कुणपगन्धिकः।
हरिर्हारिद्रवर्णाभस्त्वङ्मांसस्नायुशातनः॥
सान्द्रः श्वेतो मृदुश्चैव श्लैष्मिको मन्दवेदनः।
महापर्यन्तमूलश्च फण्डूमांश्चैव यो भवेत्॥
समस्तैर्लक्षणैरेभिर्वातपित्तकफात्मकैः।
संनिपातात्मकं विद्याद्व्रणं व्रणविभागवित॥
अतः परं व्रणावस्थान्तरहेतून्वक्ष्यामः—क्रियाविपर्ययादुत्तानशयमवधबन्धप्रतिहस्त्यभिघात- पतनाध्वगमनाद्वैद्योपरोधाच्च ये द्वियोनयो व्रणाः संभवन्ति। इह खलु भो नागानां यो व्रणो मयूरग्रीवाभश्चन्द्रकी समन्ततोऽभिकठिनः, तमसाध्यं विद्यात्। मत्स्यगन्धिः पिच्छिलः, तमसाध्यं विद्यात्।
अथवा यस्य नागस्य कृष्णः परिशुष्को विगन्धो व्रणः, तमसाध्यं विद्यात्। कोष्ठान्तर्गतः परिश्रा(स्रा)वी प्रवृद्धश्चापि दुर्गन्धः, तमसाध्यं विद्यात्। आ(औ)दुम्बरमुखः शोणितपरिश्रा(स्रा)वी व्रणः कठिनः, तमसाध्यं विद्यात्। वल्मीकसंस्थानः कृमियुक्तो बहुच्छिद्रः शोणितप्रस्रावः, तमसाध्यंविद्यात्। बिम्बोष्ठ उन्नतमध्यः कृष्णपर्यन्तः कठिनो व्रणो दुर्गन्धश्चेति तमसाध्यं विद्यात्। मर्माभिघातशोणितपरिश्रा(स्रा)वी जलयन्त्रवत्, तमसाध्यं विद्यात्। पूयशोणितपरिस्रावी व्रणः पिच्छिलो दुर्गन्धश्चेति तमसाध्यं विद्यात्। मांसावगाढोऽस्थिभागाश्रित आड(औदु)म्बरमुखः, तमसाध्यं विद्यात्। सिरानुगतः परिस्रावी पिच्छिल आध्मातो व्रणः, तमसाध्यं विद्यात्। अथ कठिनोष्ठः सवेदनः सशोफः, तमसाध्यं विद्यात्॥
तत्र श्लोकः—
निर्गन्धोह्यपरिस्रावी पद्मपत्रप्रभोव्रणः।
निर्वेदनस्तथोत्तानो निर्दोष इति तं विदुः॥

व्रणचिकित्सितं नाम चतुर्दशोऽध्यायः ॥१४॥
<MISSING_FIG href="../../../books_images/U-IMG-1699416009image1.JPG"/>
अथ पञ्चदशोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1699416043image2.JPG"/>
अत ऊर्ध्वं नाडीव्रणसमुत्थानचिकित्सितं व्याख्यास्यामः—इति ह स्माऽऽह भगवान्पालकाप्यः—अथ भोः खलु वारणानां वातपित्तकफसंनिपाताभिघातेः पञ्चविधा नाड्यो भवन्ति॥
यदा तु शल्यं प्रविशत्यन्तर्देहे वारणानां वातपित्तकफादिभिर्दोषैर्दुष्टैमांसशोणितं भूयः स्वभागानुगतं कालप्राप्तौ न निवार्यते शस्त्रैरन्तर्देहे ततः पूयबहुत्वात्समुदीर्यते। ततः संनिरुद्धे मार्ग उन्मार्गेण गच्छति। ततो धातूनभ्यन्तराश्रितान्दूषयित्वा तद्वर्त्मगमनाद्गतिरुच्यत इति। अजस्रं यतः स्रवति पूयं पिच्छिलं विवर्णं नाडींवत्। तस्मान्नाडीमभिनिर्दिशेदिति॥
गन्धाः स्रावाश्च वर्णाश्च व्रणानां ये प्रकीर्तिताः।
वातादिदोषप्राप्तानां नाडीष्वपि हि तान्विदुः॥
इति नाडी पञ्चविधाऽऽख्याता॥
तत्र श्लोकः—
नाव्रणा जायते नाडी व्रणादेवोपजायते।
प्रमादाद्वाऽपि वृद्धा सा कृच्छ्रसाध्या ध्रुवं भवेत्॥
अत ऊर्ध्वं येषु भागेषु व्रणा नाड्यो वा साध्याः, तान्व्याख्यास्यामः। तत्र दन्तवेष्टा2232स्थिसंधि कक्षानुगता नखनयनमर्मतलप्रोहविष्कापस्कराष्ठीव्यपलि(त)हस्तनखान्तरप्रत्यङ्गप्रतीकाशकुक्ष्यङ्गुलिमण्डूकी क्त्रसक्थिसकुटिकान्तरापरिक्षोभजवभागोत्कृ2233ष्टावग्रहे वंशरन्ध्राण्डकोशगात्र संदानक्षयभागस्रोतोन्तर- तालुनाभिमेढ्रकर्णवलसंघितलवातकुम्भत्र्यस्थिजघनगुह(द)भागेषु चेति॥
तत्र श्लोकः—
भागेष्वेतेषु या नाड्यो गम्भीरानुगताश्च याः।
तासु सम्यक्प्रयुक्ताऽपि क्रिया दुःखेन सिध्यति॥
अथ यानाडी (?) तिर्यग्गता परंपरागता मण्डलावर्ता कुटिला अनुगता (<MISSING_FIG href="../../../books_images/U-IMG-1705492388image13.jpg"/> बहुप्रदेशानुगता दन्तवेशे(ष्टे)ऽनुगता अस्थिसंधिगता नेत्रानुगताश्च भवन्त्येता या नाड्यः, तासुसिद्धिर्न भवति। त्वचमनुगता) अधोमुखा या नाड्यः साध्या भवन्ति ताः॥
तत्र श्लोकौ—
अनुनीय भिषक् सम्यक् परिमृश्य च2234 भागशः।
छिन्द्यात्तु नाडीं शस्त्रेण अनुलोमं प्रयत्नतः॥
शस्त्रमेव तु भैषज्यं ये शस्त्रकुशला नराः।
उत्तानो हि व्रणो राजन्क्षिप्रमेव मरोहति॥
अथाङ्गराजः पुनरेव पप्रच्छ पालकाप्यम्—‘भगवन्यत्र शस्त्रपथो नास्ति नास्ति क्षारपथोऽपि वा तत्र वारणानां माडीव्रणचिकित्सितं कथं कर्तव्यम्॥
ततः प्रोवाच भगवान्पालकाप्यः—इह खलु यदा वैद्यः शस्त्राग्निक्षारकर्मक्रियास विशेषं नोपलभते, तदा त्रिकटुकहरिद्रालाङ्गलकीदन्ती (**+**समभागानि पिष्ट्वा नाडीव्रणपूरणं दद्यात्। शृङ्गीकटुकरोहिणी-गवेधुकार्कमूलविडङ्गसर्षपा-
_______________________________________________
<MISSING_FIG href="../../../books_images/U-IMG-1705492388image13.jpg"/>धनुराकारमध्यस्थः पाठो नास्ति खपुस्तके।
**+**धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके।
_______________________________________________________
न्गोमूत्रपिष्टानातपशुष्कां गुलिकांनाडीव्रणदोषप्रशमनी कुर्यात्। निम्बार्कपूतीकरञ्जकरवीरपत्रतिल- क्षारलवणैःसमभागैः पिष्ठां गुलिकां नाडीव्रणविशुद्धयर्थमप्रमत्तो भिषग्दद्यात्। कुष्ठतगरहरिद्राचित्र- कसैन्धवतिलकुतिलक्षारान्समभागान्पिष्ट्वाऽश्वमूत्रेण गुलिकाः कार्याः। आतपशुष्का नाडीव्रणलेपनमुत्तमं
दद्यात्। सैन्धवलवण किण्वदन्त्यतिविषाचित्रकमूल्येत्तमकरणास्तिलक्षाराः समभागाः पिष्ट्वा, आतपशुष्का नाडीव्रणानां सपूयानां शोधनं दद्यात्। स्वर्णक्षीरातगरविडङ्महौषधशुकनासादन्ती) देवदारुसैन्धवलवणं समभागं पिष्ट्वागुटिकामातपशुष्कां नाडीव्रणशोधनं दद्यात्। ग्रन्थिर्यस्य भवति पक्वःसपूयः पिच्छिलः, तच्छोधनमिदम्। हस्तिलिण्डरसं किण्वलवणं चाऽऽलेपनमप्यग्रंप्रदद्यात्। सर्षपचित्रकदन्तीसैन्धवमिति। स्नुहीक्षीरपिष्टं कृत्वा दुष्टव्रणशोधनं दद्यात्। चित्रकनागदन्तीयवक्षारपिष्टं दुष्टव्रणचिकित्सितमिति। पाठामधुरसादन्तीमधूकानि सैन्धवलवणसंयुक्तं दुष्टव्रणशोधनं दद्यात्। दन्तीशुकनासार्कमूलं सैन्धवलवणसंयुक्तं दुष्टव्रणशोधनं दद्यात्। चित्रकसर्षपतेजोवतीदन्तीश्चे- तालवणसंयुक्तं प्रदुष्टव्रणलेपनं दद्यात्। हरिद्रादारुहरिद्राशुकनासादन्तीकटुरोहिणीबिल्वसैन्धवलवण- संयुक्तं समभागपिष्टं व्रणशोधनं दद्यात्। पाठादन्त्यतिविषाविषघ्नादवेदारुयवक्षारसयुंक्तं व्रणशोधनं दद्यात्। पिसुमन्दनक्तमालपत्राणि पिष्ट्वा कांस्यनीलयुक्तं व्रणरोपणं दद्यात्। मुष्ककाक्षीवतिलकुतिल2235क्षारसर्षपयुक्तं क्षिप्ररोपणं घृतसंयुक्तं दुष्टव्रणलेपनमुत्तमं दद्यात्॥
तत्र साध्यानां शस्त्रकर्मोपक्रमविशेषाननुव्याख्यास्यामः॥
अथ भिषग्यन्त्रध्यायोक्तेन विधिना सुयन्त्रितं वारणमभिविश्वास्याऽऽशृ(श्रि)त्यस्तम्भानुगतं गतिमन्तं स्वल्पमुखं च नाडीव्रणमेषण्या च विदित्वा वृद्धिपत्रेण शस्त्रेणानुलोमं पूयप्रतिहरणार्थं छेद्यं कुर्यात्। ततश्चात्र किण्वसैन्धवक्षौद्रसर्पिर्यवक्षारैः श्लक्ष्णपिष्टैः क्षौमं वस्त्रं प्रलिप्य वर्तिप्रणिदध्यात्। अथार्कक्षीरपलाशलाङ्गलीश्यामातृ(त्रि)वृदन्तीचित्रकयवक्षारनिम्बपत्राणि स्नुहीक्षीरस्वर्जिकाहरिताल- पिप्पलीमूलक्षवकशङ्खिन्यर्कक्षीरयुक्तं कल्कं शोधनं दद्यात्। तर्कार्यारग्वधपटोल-शङ्खिन्यश्वगन्धानक्तमालमधुकजीवकाङ्कोल्लखदिरवनकर्पासीहरिद्रासुरसासप्तर्णीनिम्बकरवीर-कुटजास्फोटारोहिणीक्षीरिण्यामलकीः काथयित्वा तेन नाडीरोपयेत्। शङ्खिनी चित्रकतेजोवतीतृ(त्रि)वृद्ध्रीवेरदन्तीकुष्ठकटुकरोहिणीस्मुहीसुवर्णक्षीर्यकक्षीर्यर्कक्षीरे सिद्धं सर्पिः पुराणमुपदिश्यते शोधनार्थम्। बृहत्यश्वगन्धाजशृहरिद्रासर्पपपाठाचित्रकपिप्पलीमूलमूर्वाकोशातकीकटुकालादूकालात्रपुसीसमदनफलानि च गवां मूत्रेण पी(पे)पयित्वा गवां मूत्रेण तैलं पचेत्। ततः पारपक्रेन नाडीः शोधयेत्। अथ जीवन्त्यारग्वध-गोजीमुष्ककटुतुम्बकमञ्जिष्ठाक्षीरवृक्षप्रवालैःश्लक्ष्णपिष्टैर्वर्तिरोहणमुपदध्यात्।शल्लक्यश्वकर्णमुष्क-काश्मन्तककरवीरारग्वधादिवृक्षाणां स्वक्क्वाथयित्वा रोपणार्थं कषायमेतैरेवोषधैर्जीवन्त्यारग्वधादिभिः सर्पिस्तैले कषायगर्भे रोपणार्थं विपाचयेत्॥
अथातोऽग्रिकर्म व्याख्यास्यामः।
नाडीषु श्रीवेष्टकमधूच्छिष्टगुग्गुलुमेदोभिर्वर्तिवदनुवृत्तां गुलिकां कुर्यात्। यावद्दाहस्य सोष्मणः प्रवेगोपशमः स्यादिति। अतो द्विव्रणीयोपचारः॥
(<MISSING_FIG href="../../../books_images/U-IMG-1705492903image13.jpg"/> इति शस्त्रकर्माग्नि +… …….. ….।
…. ….कथयिष्यामः। मर्मोपचारान्व्याख्यास्यामः॥)
अथ चेच्छस्त्राग्निकर्मणार्त्तमार्गः(?)स्यात्तत्र नाडीदोषनिर्हरणार्थं भेषजविधिमनुव्याख्यास्यामः। यवतगरपिचुमन्दपूतीकरञ्जकुष्ठैलामलककरवीरार्कपत्राणि तिलकुतिलक्षारसंयुक्तान्यश्वमूत्रेण पिष्ट्वा गुलिकाः कृत्वाऽर्कक्षीर2236संतप्तनाड्यां निदध्यान्नाडीदोषनिर्हरणार्थम्। अथवाऽञ्जनतगरकुष्ठहरितालमनः शिलाकटुरोहिण्यश्वगन्धालाङ्गलीसौराष्ट्रीरोचनासुरसावराचित्रकबिल्वसर्षपखदिरसारगवाक्षीदन्तीविडङ्गा न्यर्कशोमाञ्जनकमूलानि च तिलक्षारेण पिष्ट्वागुलिकाः कारयेत्। ता नाड्या(ड्यां) निदध्यादर्कसंतप्तनाडीदोषनिर्हरणार्थं चेति॥
अंत ऊर्ध्वं क्षारकर्मम (म) व्याख्यास्यामः॥
मुष्ककपलाशतिनिशसर्जारग्वधकरञ्जचिरिबिल्वशिग्रुककुतिलस्फूर्जकपाटलारिमेदपारिभद्रककर- वीरापामार्गाश्वगन्धावरारार्जुनेङ्गुदीकुटजतिलकतिलसौगन्धिकावल्गुजकटुकतुम्बीकूष्माण्डीकाकजङ्घाकोशातकीवेतसबिल्वप्राचाचलसप्तपर्णकृतमालहरिद्रानीपयवनानि चेत्येवं संभृत्य संभारं काण्डशः कल्पयित्वाऽऽदित्यशोषितमीषच्छुष्कं दाहयेद्विविक्तदेशे त्वतृणभूमिभागे। ततो भस्म समादाय महाभाजनस्थं पुनः श्रा(स्रा)वयेदजाविगामेहिष्यश्वाश्वतरखरोष्ट्राणां मूत्रैः। ततः सुपरिश्रु(स्रु)तं तैलमायसे कुम्भे शनैर्मृद्वग्निना पचेत्। तत्राऽऽवपेल्लाङ्गलिकीदन्तीचित्रकपिप्पलीमूलतीक्ष्णगन्धाश्वगन्धापलमरिचशृ- ङ्गवेरस्वर्जिकायवक्षारबिडसैन्धवस्त्रह्मर्कक्षीराणि शनैर्दर्व्या घट्टयेद्यावभिःशर्करस्निग्धसान्द्रश्लक्ष्णमथ पाको निवर्तते। ततो वैश्वानरपूजां कृत्वा कृष्णायसे निर्मले भाजने स्थापयेत्सपि-

<MISSING_FIG href="../../../books_images/U-IMG-1705492903image13.jpg"/>धनुश्चिह्नान्तरगतः पाठस्तुल्यो द्विपुस्तके।
+ पुस्तकद्वयेऽपि त्रुटिचिह्नं न वर्तते॥

धाने त्र्यहं सप्ताहं वा। ततश्च प्रत्यहनि(?) शिरःस्नातोवैद्योऽहतवासा ब्राह्मणान्स्वस्ति वाच्य ततः शस्त्रेण संशोध्य नाडीमुखं तीक्ष्णेन रुधिरपूयपरिस्रावान्वासोभिरपनीय ततः सूक्ष्मासु गतिमतीषु शलाकां क्षारेण प्रलिप्यक्षारवलं चावेक्ष्य निपातयेत्॥
अथवाऽऽद्रां वर्तिंगुलिकां वा कृत्वा निपातयेत्। पक्वजाम्बवसंकाशां गतिमवेक्ष्य क्षारमथ निवर्तयेत्। अथ मोहात्प्रमादाद्वाऽतिदग्धं वेपथुश्वसन जृम्भणप्रमोहशोषदाहज्वरशो(?)णितातीवाति-प्रवृत्ति(?)तमेवमवस्थमभिसमीक्ष्य धान्याम्लदधिग्रस्तुसु(शु)क्तसौवीरकाणामन्यतमेन सेचयेत्॥
अथवा दध्यम्लबदरोत्क्लेदमातुलुङ्गरसानामन्यतमेन सेचयेत्। दाडिमतिन्तिडीकाम्रपेशीश्च कृष्णतिलसंयुक्तं कल्कं शुक्ले(क्ते)न पी(पे)षयित्वा घृताक्तमालेपनं दद्यात्। क्षीरदधिसपिर्मेदोवसाभिश्च सततमनुलिम्पेत्। शस्त्राग्निप्रणिधानोक्तविधिरनुष्ठेयः॥
अथारिमेदार्जुनकदम्बरोध्रारग्वधक्षीरिकासोमवल्कस्यन्दनमेषशृङ्गीधवशिरीषशालाजकर्णबदर्यङ्कोट-पलाशवञ्जुलधातक्यरिमेदान्संहृत्यष्टगुणे ह्यम्भसि क्वाथयित्वा पादावशिष्टमवतार्य श्रा(स्रा)वयित्वा तेन रसेन तैलद्रोणं पाचयेत्। पच्यमाने चात्र गिरिकर्णिकाश्वगन्धापाठातिल्ककमालत्यलाबुशिंशपा-नागदन्तीमूर्वाशुकनासातेजस्विनीनां मूलानि दृषदि पेषयित्वा प्रत्येकतश्चैनं बिल्वप्रमाणं समावपेत्। सिद्धमपहृत्य भूयो गुडपलशतं पिप्पलीचूर्णप्रस्थेन पुनरप्यधिश्रयेत्। तत्सिद्धमवतार्यसुसंस्कृतं स्नेहविधिप्रोक्तेन विधिना पाययेत्। न्यग्रोधोदुम्बराश्वत्थमधूककदम्बधवकदरमहाजम्बूपलाशप्लक्ष श्रीपर्णीमेषशृङ्गीपूतीकप्रियङ्ग्वजकर्णककुभानां त्वचः समाहृत्य वृक्षादन्यश्चगन्धावर्षाभूमोरटा-हरिद्राद्वयशृगालविन्नाभद्रोदुम्बरीसुवहानां मूलैः सह निष्क्वाथयेत्। क्वाथावशेषेणानेन तैलं विपाचयेत्। तत्र च दारुहरिद्राहरेणुकैलाप्रियङ्गुमञ्जिष्ठा चेति। तत्सिद्धमपहृत्य स्नेहपानोक्तेन विधिना पाययेत्। ततोऽस्यनाडी समाधिमुपगच्छति।
न्यग्रोधोदुम्बराश्वत्थप्लक्षमधृकजम्बुपलाशाशनवेतसचिरबिल्वकदम्ब श्रीपर्ण्यजकर्णयवा मेषशृङ्गी शिरीष इत्येषामष्टादशानां त्वक् च मूलानि समाहृत्य चतुर्षु तोपकुम्भेषु क्वाथयेत्। अर्धावशिष्टमवतारयेत्। ततः प्रातरुत्थितमप्रसेतवन्तं (?) वारणं पाययेदर्धप्रस्थं कुडवं वा। यावद्वा सुपि2237बति नागस्तावहद्यान्नाडीव्रणविशुद्ध्यर्थम्। लाङ्गलीचित्रककुटजकरवीरमातुलुङ्गपत्रैःसपञ्चलवणहरिद्रायष्टीमधुकं चेति, आन्तरिक्षोदकसंयुक्तैस्तैलं पाचयेत्। ततोऽस्य बस्तिनेत्रेण पिचुनाऽपि व्रण-नाड्यां तैलमिदं दद्यान्नाडीव्रणविशुद्ध्यर्थम्। यदि हृदयगता नाडी, अन्यंवा गूढप्रदेशमुपगता ततोऽस्यतैलपानाभ्यङ्गेन च नाडी प्रशान्तिमुपगच्छति॥
मुद्गो(द्गौ)दनं घृतसंयुक्तं दद्यात्। यवसानि च हरितमृढूनि क्रमशो मत्स्यण्डिकागर्भाणि दद्यात्॥
तत्र श्लोकः—
यथोक्तेनोपचारेण यस्तु प्रक्रमते व्रणान्।
आगन्तुर्दोषजो वाऽपि तस्यसिद्धिर्नियच्छति॥
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने महापाठे तृतीये शल्यस्थाने
नाडीव्रणचिकित्सितं नाम पञ्चदशोऽध्यायः॥ १५॥
<MISSING_FIG href="../../../books_images/U-IMG-1699600625image1.JPG"/>
अथ षोडशोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1699600658image2.JPG"/>

कुतः शिराः संभवन्ति केषु देशेष्ववस्थिताः॥१॥
कति वातवहा विद्वन्कति पित्तवहाः शिराः॥
श्लेष्माणं कति धर्मज्ञ रुधिरं कति वा सिराः॥२॥
श्वे(स्वे)दं मदं वा शुक्रं वा का वहन्ति द्विजोत्तम॥
का मांसमस्थि मेदो वा मज्जानं वा वहन्ति काः॥३॥
काभिरास्वादनं कुर्यात्काभिर्वा संप्रहृष्यति॥
सिराणां विचयं कृत्स्नं यथावद्वक्तुमर्हसि॥४॥
एवं पृष्टोऽङ्गराजेन पालकाप्यो महामुनिः॥
विस्तरेण यथातत्वं सिराविचयमब्रवीत्॥५॥
गर्भस्य हृदयं पूर्वं सह प्राणेन वर्धते॥
ततः सिराः संभवन्ति सूर्यादिव गभस्तयः॥६॥
सर्वाः शरीरसंसृष्टास्तिर्यगूर्ध्वमधस्तथा2238॥
सर्वाश्चेष्टाः प्रकुर्वन्तिसिरा वै यन्त्रवर्धिते॥७॥
तस्मात्तु मातृके द्वेत्र्ये(?) हृदयात्कण्ठमाश्रिते॥
जिह्वामूले निबद्धे द्वे ये रसास्वादकारणम्॥८॥
ततः कण्ठे च मध्ये च धमन्योऽष्ठौसमाश्रिताः॥
कर्णयोस्तु तथा विद्याद्याभिस्तु परिवीजति॥९ ॥
ततः शिरा बस्तिकोशमुरो वालं गुदस्तथा॥
मातृकाः प्राप्नुवन्त्येतास्तलगात्रापरं तथा॥१०॥
एवमङ्गेषु सर्वेषु मातृका द्गेहगोचराः॥
काये शिराः सप्तशतं विभागाः शृणु पार्थिव॥११॥
गुदं मेढ्रमथो नाभिं तत्र बस्तिंसमाश्रिताः॥
ताभिः संमूर्छितो वायुर्धमनीः प्रतिपद्यते॥१२॥
शतार्धमेव ता विद्याच्छिरा वै देहगोचराः॥
या रसान्प्रविभागेन(ण) वायुमेव वहन्ति ताः॥१३॥
नाभेस्तु हृदयं यावदपरा परतस्तु या॥
ताभिः संमूर्छितं पित्तं धमनीः प्रतिपद्यते॥१४॥
शतार्धमेवं तु शिराः पित्तमेव वहन्ति याः॥
उरःसंधिशिरोग्रीवं मर्माणि च समन्ततः॥१५॥
ततः संमूर्च्छितः श्लेष्मा धमनीः प्रतिपद्यते॥
विद्धि पञ्चाशदेवैताः शिराः श्लेष्मवहा गजे॥१६॥
तावन्त्या(त्यः) फुप्फुसयकृद्धृदयानां च मध्यतः॥
यारसानुविभागेन शोणितं संवहन्ति तु॥१७॥
त्वङ्मांसमध्ये विज्ञेयाःशिरा रसवहाः पृथक्॥
यथास्थानविभागेन धातूनाप्याययन्ति याः॥१८॥
मांसमेदोस्थिमज्जानां शुक्रस्य च नराधिप॥
एकैकस्याःशतार्धं तु शिरा ज्ञेयाः पृथक्पृथक्॥१९॥
दोषधातुप्रकर्षेण हर्षेण च बलेन च॥
मदः संजायते राजन्स्वभावाश्चैव दन्तिनाम्॥२०॥
शतार्धमेव तु शिराः पृथङ्मदवहाः स्मृताः॥
या रसानुविभागेन कटौमेढ्रेच संस्थिताः॥२१॥
समासात्कण्डरा ह्यष्ठौ विद्धि गात्रापरे तथा॥
पश्चात्पुरस्ताश्चैकैकं पादं प्रत्येकमाश्रिताः॥२२॥
सूक्ष्मो विचारी पुरुषः कटुः शीतश्च मारुतः॥
उष्णमम्लं द्रवं पित्तं विवर्णं दारुणं भृशम्॥२३॥
मधुरः शीतवीर्यश्च घनः श्वेतः कफो गुरुः॥
बलवाल्लँवणाम्लश्च स्निग्धः प्राणविबर्धनः॥२४॥
आत्मैव योनिर्वातस्य पित्तमाग्नेयमुच्यते॥
कफं सोमात्मकं विद्यादेतांस्त्रीन्देहसंसृ(श्रि)तान्॥२५॥
आत्रेयस्तु रसः प्रोक्तोवाशिष्ठं शोणितं भवेत्॥
काश्यपं तु भवेन्मांसं मेदश्चाप्यथ गौतमम्॥२६॥
भारद्वाजानि चास्थीनि मज्जा चाप्यथ कौशिकी॥
जामदग्न्यं भवेच्छुक्रमित्येते सप्त धातवः॥२७॥
ज्ञेयाः शरीरे तु शिराः स्वेदमेववहन्ति याः॥
व्यायामे च निदाघे चमुखतः श्रा(स्रा)वयन्ति तम्॥२८॥
यथा प्रस्यन्दते शैलाद्वर्षान्ते तेजसा रविः॥
एवमेव मुखात्स्वेदं प्रश्न (स्त्र)वन्ति मतङ्गजाः॥२९॥
शिराः शतानि सप्तैवं व्याख्यातानि यथातथम्॥
सहस्राण्यर्धषष्ठानि2239 स्नायूनासंश्च(?) ताः शिराः॥३०॥
सर्वा वातादिभिर्दोषैः शिरा रक्तेन वाऽन्विताः॥
वहन्ति कायजान्धातून्निर्दिशेत्सर्वदेहिनाम्॥३१॥
आश्रयाच्छोणितादस्य यकृत्तस्य विवर्धते॥
रक्तदोषात्मिका चैव प्लीही(हा)वृक्कौ च दन्तिनः॥३२॥
शोणितस्यतु या धेनुः फुप्फुसं तस्य जायते॥
असृक्पित्तकफानां तु यत्तेजो मारुतान्वितम्॥३३॥
तेनास्य संभवन्त्यत्र यश्चैव गुदबन्धनम्॥
शोणितेवर्धमाने तु बलं तेजश्च वर्धते॥३४॥
शोणिते क्षीयमाणे तु क्षीयन्ते सर्वधातवः॥
देहिनां शोणितं विद्धि प्राणायतनमुत्तमम्॥३५॥
मात्रया रुधिरं तस्माद्दुष्टमप्यपकर्षयेत्॥
षण्णां रसानां यत्तेजः कायंपुष्णाति हस्तिनाम्॥३६॥
पित्तस्थाने रसस्थानं हस्तिनां संप्रकीर्तितम्॥
रसः कपोतवर्णाभःपच्यमानो व्द्यहाद्भवेत्॥३७ ॥
तृतीये वा चतुर्थे वा पद्मवर्णः स उच्यते॥
पञ्चमेऽहनि षष्ठे वा किंशुकाभइति स्मृतः॥३८॥
एवं शुक्रं तु नागानां सप्ताहात्परिपच्यते॥
दोषाणां प्रकृतिं ज्ञात्वा शिराव्यूहविशारदः॥३९॥
शस्त्रकर्मणि निष्णातो यश्चैषां श्रेष्ठ उच्यते॥
सर्वासां सरितां यद्वत्प्रतिष्ठा वरुणालयः॥४०॥
तद्वस्तिराणां2240 सर्वासां प्रतिष्ठा हृदयं स्मृतम्॥
तस्माद्गर्भेशयानस्य व्यक्तं भवति हस्तिनः॥४१॥
हृदयं च शिरश्चैव तस्मात्कायो विवर्धते॥
शरीरविचये पूर्वं मया सम्यक्प्रकीर्त्यते॥४२॥
मनोबुद्ध्यन्तरास्थानां त्रिविधः सोऽनुकीर्त्यते॥
अन्तरात्मा शरीरस्य मुह्यति त्वसृजः क्षयात्॥४३॥

तत्र मात्राप्रमाणं तु द्विविधं संप्रवक्ष्यते॥४४॥
शरीरमभिविज्ञेयं पथादोषं यथाबलम्॥
वातजानां तथा प्रोक्तं लिङ्गं तस्माद्विवर्जितम्॥४५॥
न विश्रा(स्रा)व्यं महीपाल प्राणवत्स्वपि हस्तिषु॥
कदाचिद्दोषबाहुल्यात्स्कन्नंनैव प्रवर्तते॥४६॥
तत्र मात्राप्रमाणं तु यथावदुपदेक्ष्यते॥
तस्मान्मात्राप्रमाणाञ्च विशेषं संप्रचक्षते॥४७॥
तत्र मात्राप्रमाणं तु यथावदुपदेक्ष्यते॥
सप्तमं भागमाहारात्तस्माद्रकं तु मोक्षयेत्॥४८॥
सप्तारत्नेर्महीपाल भागेनानेन संमितम्॥
शेषाणां वारणानां तु श्रा(स्रा)वयेन्मतिमान्भिषक्॥४९॥
एवं प्रमाणमुद्दिष्टमतः शृणु महीपते॥
य्षाेगजानां वै श्रा(स्रा)व्यमविश्रा(स्रा)व्याश्च ये गजाः॥५०॥
वातरोगेषु नागानामविश्राव्य भिषग्भवेत्॥
कृशे हीनेन्द्रिये चैव हृद्रोगे गुल्म एव च॥५१॥
तथाऽतिबाले वृद्धे च प्रकृत्या दुर्बले गजे॥
शेषे च वातप्रकृतावतिवातग्रहान्विते॥५२॥
धातुक्षये पाण्डुरोगे त्वविश्राव्यमसुग्भवेत्॥
वातव्याधिषु यत्प्रोक्तं तत्कार्यमवसेचनम्॥५३॥
हेतुं तु संप्रवक्ष्यामि यस्मात्तत्र विधीयते॥
वातात्प्राणश्च चेष्टा च सिरा रक्तवहाश्च याः॥५४॥
तासां चैव विशेषेण वायुरेव प्रवर्तकः॥
पञ्चधा धारयत्येष शरीरं नृपसत्तम॥५५॥।
यस्मात्तस्माद्विशेषेण शरीरमभिवर्धयेत्॥
अतः परं प्रवक्ष्यामि येषां विश्रा(स्रा)वणं हितम्॥५६॥
पादरोगाक्षिरोगेषु मन्यास्तम्भे गलग्रहे॥
शोफेषु गात्ररोगेषु शीर्षव्याधिषु चोच्यते॥५७॥
तथैव दिग्धविद्धेच बालदष्टे महीपते॥
सर्पदष्टे च नागानां विश्रा(स्रा)वणमिहेष्यते॥५८॥
स्थिरा ये दोषवन्तश्च ग्रन्थयः संधिमाश्रिताः॥
अभ्यङ्गैरुपनाहैश्च स्वेदैरुन्मर्दनैश्च ये॥५९॥
प्रदेहैः पीडनैश्चैव न प्रशाम्यन्ति दन्तिनाम्॥
तेषां विश्रावणं कार्यं श्वयथूनां यथाऽधिप॥६०॥
शरीरमभिविज्ञाय प्रकृतिं सात्म्यमेव च॥
अपीतवन्तं पूर्वाह्णेज्ञात्वा सुमनसं गजम्॥६१॥
दोषसंचालनार्थाय क्रामयेद्द्वेधनुःशते॥
ऊष्मणा चाल्यते यस्मात्तस्मादुष्णेन सेचयेत्॥६२॥
सुयन्त्रितमवस्थाप्य वारणं कुशलो भिषक्॥
यन्त्रोपकरणान्यत्र यथोक्तान्युपकल्पयेत्॥६३॥
प्रतिकर्मविधिप्रोक्तं (<MISSING_FIG href="../../../books_images/U-IMG-1704034183image13.jpg"/>शस्त्राग्निप्रणिधौ च यत्॥
ततः पुण्याहघोषेण स्तम्भे वारणमालितम्॥६४॥
हैवनं च यथा प्रोक्तं) कर्मसिद्धिमपीप्यते (?)॥
कर्तव्यं वारणानां तु यथावदभिनिश्चितम्॥६५॥
ततः समालभ्य गजं……………………॥
…. ……..चोदकेन…. …. …. …. …. ….॥६६॥

**<MISSING_FIG href="../../../books_images/U-IMG-1704034183image13.jpg"/>**धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके।

वासयित्वा च शस्त्राणि यथापूर्वमुदाहृतम्॥
शरीरविषये चैव शिराव्यूहे च हस्तिनाम्॥६७॥
अस्थीनिसंघयश्चैव मर्माणि च महीपते॥
विदित्वा विषयं कुर्याच्छिराणामवसेचनम्॥६८॥
तत्र शरीरस्थानि सप्त शिराशतानि संभवन्ति च। तासां दश मातृका नाम यास्तिर्यगूर्ध्वमधश्च सम्यक्प्रतिपन्नाः शरीरं धारयन्ति, रसादींश्च, धातून्, वातपित्तश्लेष्मासु विप्रतिपन्नेष्वन्तःशरीरेषु साम्यद्धमन्यः, ताःसमनुव्याख्यास्यामः। तत्र शरीरप्राग्भागमासृ(श्रि)त्य द्वे तथाऽधस्तिर्यक्प्रतिपन्ने। पश्चात्काये द्वे। एकैकशश्चैव तासां प्रविभागो भवति। शिरः कण्ठनयनहस्तगात्रापरवंशपृष्ठवक्त्रमति-मानबस्त्यण्डकोशत्वगत्येवांश्च भागानाश्रित्यावस्थिताः। तासां प्रविभागमनुव्यारूपास्यामः। प्रसारणाकुञ्चनगमनोद्यतानां विभागेन वर्तन्ते चेष्टावत्यः सर्वं शरीरमभिव्याप्यावस्थिता मर्मभागेषु चानुबद्धाः, ता वर्जयेत्॥
तासां मदवहाः प्रोक्ताःपञ्चाशत्तु नराधिप॥
कटौ मेढ्रेचसंबद्धाः स्ववेध्याः पृथिवीपते॥६९॥
इन्द्रियार्थं प्रवृत्ता यास्ताः पञ्चाशत्प्रकीर्तिताः॥
गन्धरूपरसस्पर्शान्याः प्रपश्यन्ति देहिनाम्॥७०॥
एताः पार्थिव नागानां विनाशाय भवन्तितु॥
तासां विश्रा(स्त्रा)वणं नित्यं छेदनं चैव गर्हितम्॥७१॥
चेष्टावत्यश्च या नागे शिरा रसवहाश्चयाः॥
मेदोषहाः शुक्रवहास्ताः सर्वाः परिवर्जयेत्॥७२॥
वायुः(?)पित्तं तथा श्लेष्मा(?) रक्तंचैव वहन्ति याः॥
तासां विभागं वक्ष्यामि येषु भागेषु चाऽऽसृ(श्रि)ताः॥७३॥
तासां विश्रा(स्रा)व्रणं कार्यं यथादोषं महीपते॥
समीपस्था तु या यस्य सा दोषं तस्य निर्हरेत्॥७४॥
दोषोपचितदेहस्य क्रिया नैव प्रवर्तते॥
यदि नाऽऽसृ(श्र)त्य रक्तस्य क्रियते किंचिदौषधम्॥७५॥
सुविशुद्धशरीरत्वात्तत्तदर्थायकल्पते॥
यथा ह्युष्णाभिसंतप्तः प्राप्य शीतोदकं नरः॥७६॥
सद्यस्त्यजति तं दोषं त्यक्त्वा च सुखमिच्छति॥
तस्माद्विश्रा(स्त्रा)वणंकार्यं विधिनाऽनेन2241 हस्तिनाम्॥७७॥
यथाविकारं कुर्वीत भोजयेत्तत्तथा द्विपम्॥
सप्ताहं पञ्चरात्रं वा त्रिरात्रमपि वा पुनः॥७८॥
स्निग्धस्वेदोपपन्नस्य समीक्ष्य गुरुलाघवम्॥
विमृश्य पूर्वं श्वयथुं दोषलिङ्गसमन्वितम्॥७९॥
बन्धैर्यथोक्तैः कर्तव्यं यथावदवपीडनम्॥
तस्य तस्य प्रदेशस्य चेष्टानां संनिवारणम्॥८०॥
यन्त्रं विधिज्ञंकुर्वीत बन्धेनानेन संयतम्॥
प्रोहसंदानभागेषु तथाऽपस्कारयोरपि(?)॥८१॥
अष्ठीव्ययोस्तु भागानां पूर्वसंस्थानमिष्यते॥
श्लक्ष्णं समाहितं चैव नाभितः षोडशाङ्गुलम्॥८२॥
तथा वृश्चिकसंस्थानं शिरस्या(स्य)यं विधीयते॥
वंशे चोत्तरप्रदे(रदे)शे चसमं कर्कटकान्वितम्॥८३॥
मन्याभागांसदेशेषु कूर्मसंस्थानमिष्यते॥
एवं यन्त्रविधिः प्रोक्तो विस्तरेण महीपते॥८४॥
एवं बन्धनबद्धस्यविश्रा(स्त्रा)वणमतः परम्॥
अनेन क्रमयोगेन(ण) स्थानादुन्नाम्यते(?) शिराः॥८५॥
तासां परीक्षा कर्तव्या वैद्यैः सम्यक्प्रपीडने॥
पाणिना पादयोस्तत्र अङ्गुष्ठेन प्रपीडयेत्॥८६॥
विज्ञाय नागं भागज्ञो विध्येत्तु ताः समाहिताः॥
तत्राऽऽविद्धाः शिराः सम्यक्पार्श्वदेशेऽथवा भवेत्॥८७॥
न प्रवर्तते सा सम्यक्तस्यादोषो न शाम्यति॥
स्तम्भः शोफश्च दाहश्चक्षिप्रमेवोपजायते॥८८॥
तस्माद्यथोक्तं कर्तव्यं पुनस्तस्य चिकित्सितम्॥
अतिविद्धा तु याकष्टदोषमत्यर्थमीरयेत्॥८९॥
तस्माद्यन्त्रविधिस्तत्र क्षिप्रमेव चमोक्षयेत्॥
मुक्तबन्धनमाश्चेवं सलिले त्ववगाहयेत्॥९०॥
प्रदेहैःशीतलैश्चैवं प्रदिह्वात्तु पुनः पुनः॥
सर्पिः क्षीरं च नागाय विधिवत्संप्रदापयेत्॥९१॥
शीतांश्च मधुरांश्चैवं भावांस्तस्मै प्रदापयेत्॥
यद्येवं नोपपद्येत क्षिप्रं प्राणैर्विमुच्यते॥९२॥
सम्यग्वेधे तु दोषाणां समो वृद्धिर्विपर्ययात्॥
छव्यस्त्वपि महाराज षट्पूर्व संप्रकीर्तिताः॥९३॥
तासामेकैकशो राजन्प्रमाणं संप्रवक्ष्यते॥
एका तत्र प्रमाणेन अध्यर्धं (र्ध) यवसंमिताः(ता)॥९४॥
प्रथमा तु महीपाल द्वितीया द्वियवा स्मृता।
शेषाणामेतदेवाऽऽहुः प्रमाणं मनुजाधिप॥९५॥
अध्यर्धाङ्गुलमेवं तु प्रमाणमभिधीयते॥
श्वय2242थु2243स्वपि विज्ञेपो दोषलिङ्गैःपृथग्विधैः॥९६॥
व्रीहिवक्त्रेण शस्त्रेण विध्येदत्वरया भिषक्॥
अथ चोत्पलपत्रेण कुशपत्रेण वा पुनः॥९७॥
त्र्यङ्गुलं2244 निर्गमं कुर्याद्भागं विज्ञाय तत्त्वतः॥
बहुलं च चतुश्चैव प्रदेशमभिलक्षयेत्॥९८॥
यथोक्तेनोपचारेण विध्येदत्वरया नृप॥
दोषलिङ्गेन निर्मुक्तं विशुद्धं दोषवर्जितम्॥९९॥
प्रमुच्य यन्त्रं विधिना निर्वाणे चावगाहयेत्॥
निवृत्तं पीतपानीयं भोजयेद्रसभोजनम्॥१००॥
एष सर्वो2245 विधिः कार्यो भिषजा सिद्धिमिच्छता॥
<MISSING_FIG href="../../../books_images/U-IMG-1698046629Screenshot(71"/>.png)
अत ऊर्ध्वं शिराणां तु विचयः संप्रवक्ष्यते2246॥१॥
येषु देशेषु यंदोषं यथावद्विनि2247वर्तयेत्॥
संप्रवक्ष्यामि नागानां तन्मे निगदतः शृणु॥२॥
अवग्रहस्यचाधस्तात्कुम्भस्योपरि संश्रिताः॥
विद्ववग्रहयोश्चापि(?) विज्ञेया मध्यमाश्रिताः॥३॥
विद्वक्षिकूटयोर्मध्ये ईषिकाग्रे प्रतिष्ठिताः॥
तथा घाटाप्रदेशे च बिन्दुमध्यं तथैव च॥४॥
निर्याणोपरि चाप्यन्याः शङ्खदेशे समाश्रिताः॥
शिरोरोगेषु नागानामेता वेध्या महीपते॥१०५॥
तेनैव विधिना बद्ध्वा यथा पूर्वं प्रकीर्तिताः॥
अक्षिकूटकटश्रो(स्रो)तोमध्ये सम्पग्व्यवस्थिताः॥६॥
तथैव तालुकृष्णान्ते मध्ये विध्येदतन्द्रितः॥
वितानास्यप्रदेशानां मध्ये जिह्वान्तरे तथा॥७॥
अपाङ्गदेशस्याधस्ताद्या कनीनिकयोरपि॥
नेत्ररोगेषु नागानामेता वेध्याः पृथक्शिराः॥८॥
एतेनैवोपचारेण समं विज्ञाय तत्त्वतः॥
यतः स्थानस्य चाधस्ताद्गुह्यभागस्य चोपरि॥९॥
विध्येदसंश्रमाद्वैद्यः शिरामेनां गलग्रहे॥
तथा सग2248दयोश्चापि मन्याभागान्तरे तथा॥१०॥
विध्येदत्वरया वैद्यः कण्ठव्याधिषु हस्तिनः॥
स्तनान्तरस्य चाधस्तादष्टाङ्गुलसमा स्थिताः॥११॥
विध्येत्प्रमाणतो वैद्यस्तथा द्रोणिकसंस्थिताः॥
नाभिप्रदेशे विज्ञेया ऊर्ध्वादष्टादशाङ्गुला॥१२॥
शोफे द्रोणीकसंस्थाने सम्यग्ज्ञात्वाऽथ वेधयेत्॥
नाभिप्रदेशे पार्श्वे च चतुरङ्गुल संमिताम्॥१३॥
मध्ये त्वनुसृतां विध्येत्तथैवान्तरसूनयोः॥
शुक्रप्रदेशस्याधस्तादण्डकोशादधस्तथा॥१४॥
विज्ञाय दोषोपचयं यथावदवसेचयेत्॥
तेनैव क्रमयोगेन(ण) द्रोणीकवदुपाचरेत्॥१५॥
तथैव मन्ययोश्चापि बहिरन्त2249श्च सं2250स्थितौ॥
शिरे(रो) यन्त्रविधानेन त्व2251चा2252 पीड्यावसेचयेत्॥१६॥
अतः संदानभागस्य मध्ये बद्ध्वाऽवसेचयेत्॥
तेनैव क्रमयोगेन(ण) यथापूर्वमुदाहृतम्॥१७॥
अतः पिण्डकयोश्चापि संदानोपरि संसृ(श्रि)तम्॥
विदित्वा विधिवत्प्रज्ञोदोषं विद्ध्वाऽवसेचयेत्॥१८॥
अस्थिलाङ्गूलवंशस्यकलाभागान्तरे तथा॥
समं विज्ञाय भागज्ञोमेध्ये विध्येच्छिरांनृप॥१९॥
वंशपक्षांसमांसेषु तथैवोत्कृष्टयोरपि॥
वंशानभागमासु(श्रि)त्य पर्शुकासंधिसंश्रिताः॥१२०॥
शिरास्तत्रापि विज्ञेया दोषनिर्हरणे नृप॥
रन्ध्रकक्षाविभागे च यन्त्रं बद्ध्वाऽवसेचयेत्॥२१॥
आसनान्तादधोभागे ग्रीवामध्यसमाश्रिता॥
(मन्य2253योर्जवभागस्थां सम्पङ्मध्येऽवसेचयेत्॥२२॥
अथापस्करभागस्य पादस्यान्तःसमाश्रिताम्॥)
गात्ररोगेषु नागानां विध्येत्समवपीड्य ताम्॥२३॥
अपस्करस्य चाधस्तादष्टाङ्गुलसमाश्रिताम्॥
दशाङ्गुले चापस्कराद्वद्ध्वाऽपि च विनिर्दिशेत्॥२४॥
दाहेन सहितं शोफं विज्ञाय कुशलो भिषक्॥
पूर्वोक्तेनैव विधिना सम्पङ्मत्वाऽवसेचपेत्॥१२५॥
अन्तर्बहिः पुरस्ताच्च गात्रे मध्यं समाश्रितम्॥
भागं2254 विज्ञाय विधिवन्मत्वा रोगं यथाक्रमम्॥२६॥
व्यधयेद्यन्त्रविधिना सम्पक्कृत्वा च पीडनम्॥
प्रोहसंदान2255भागेषु बहिरन्तः समाश्रिताम्॥२७॥
वामपूर्वेण भागेन संमितां विद्धि पार्थिव॥
तेनैव विधिना तासां सम्यक्श्रा (क्स्रा) वणमिष्यते॥२८॥
विंशतिः कर्मभागानामुपरिष्टान्महीपते॥
त्र्यङ्गुलं द्व्यङ्गुलं वाऽपि ताः प्रमुच्यावसेचयेत्॥२९॥
पादरोगेषु नागानामेता वेध्या महीपते॥
चिक्कयोःपार्श्वदेहस्था बहिरन्तः समाश्रिताः॥१३०॥
व्यधयेदेवमेवैताश्चिक्काभागं विवर्जयेत्॥
कर्मोपरि तु याः प्रोक्ताः शिर(रा)गात्रबहिः स्थिताः॥३१॥
दोषाणामतिवृद्धानां प्रकोपं घ्नन्ति ताः शिराः॥
एवमेतेषु सर्वेषु श(शि)राःप्रोक्ता महीपते॥३२॥
दोषधातुप्रयोगैस्तु2256 तासां विश्रा(स्रा)वणं हितम्॥
संख्या समासतो ज्ञेया षष्टिस्तु चतुरुत्तरा॥३३॥
एवमेतच्छिराजातं पथावदनुपूर्वशः॥
शिराव्यूहे च यद्राजन्वातादीनां तु लक्षणम्॥३४॥
श्वयथुं दोषवन्तं तं नानालिङ्गसमन्वितम्॥
दृष्ट्वा नागस्य तं विद्याद्विद्रधिं कुशलो भिषक्॥१३५॥
स्थिरत्वाद्वन्थिबन्धाच्च ग्रन्थिरित्यभिधीयते॥
तेषामेतेन कल्पेन कार्यं संशमनं भवेत्॥३६॥
अथवा दोषशमनादाधिक्यं यस्य लक्ष्यते॥
तथैव तस्य कर्तव्यं यथाप्रोक्तं चिकित्सितम्॥३७॥
शिराणामपबन्धार्थाःस्नायुकूर्चाः प्रकीर्तिताः॥
अशीतिरेव विज्ञेया विभागस्तासु वक्ष्यते॥३८॥
यदेहं (ये देहे) संधयः प्रोक्तास्तेषां तत्र चबन्धनम्॥
यत्र तत्र च संबद्धाः संधिदेशं समाश्रिताः॥३९॥
सर्वेष्वङ्गप्रदेशेषु तस्मात्ताः परिवर्जयेत्॥
संधिसंधानमप्येत2257त्षड्विधं संप्रकीर्तितम्॥१४०॥
तन्नास्थामपि संधानं कीर्तितं यच्चतुर्विधम्॥
शरीरविचये पूर्वं मया सम्यङ्ननराधिप॥४१॥
मनो मे मुह्यति स्मृत्वा रक्तक्षीणस्य का(क)ष्टताम्॥
तस्मान्मात्राप्रमाणेन नित्यमेवाभिषेच2258येत्॥४२॥
यत्र मांसावगाढत्वाच्छिरा नैवोपलभ्यते॥
स्थिरत्वाच्छ्वयथोश्चैव प्रच्छन्नं तत्र कारयेत्॥४३॥
अनन्तरं प्रस्थयित्वा दोषलिङ्गान्वितं नृप॥
लवणेन सतैलेन कुर्यात्तस्यावसेचनम्॥४४॥
प्रच्छन्ने व्यधने चैव तेनासृक् श्र(स्र)वते भृशम्॥
तत्र प्रक्षालनं कुर्याच्छीतेनैव च वारिणा॥१४५॥
इक्षुस्तिलोत्पलतिलैः प्रदेहं तस्य कारयेत्॥
समङ्गाधातकीपुष्पैश्चन्दनोशीरपद्मकैः॥१४६॥
अनेन क्रमयोगेन(ण) सम्यक्संपद्यते सुखी॥१४७॥
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने महापाठे तृतीये शल्यस्थाने शिराव्यूहव्यधो नाम षोडशोऽध्यायः॥१६॥
<MISSING_FIG href="../../../books_images/U-IMG-17051492621.png"/>
अथ सप्तदशोऽध्यायः।
——————
अङ्गाधिपतिरव्यग्रं पालकाप्यं कृताञ्जलिः॥
आपृच्छद(द्द)न्तचे(वे)ष्टानां शुष्यतानां(?) चिकित्सितम्॥१॥
किंमूलो दन्तविश्रा(स्रा)वो ज्ञेयं चौत्पातिकं कथम्॥
स्यादनौत्पातिकः कस्माद्दन्तस्य श्र(स्र)वणं कथम्॥२॥
इति पृष्टोऽब्रवीत्प्रश्नं मुनिरङ्गेश्वरं तथा॥
श्रूयतां पृथिवीपाल यथायोगं यथाक्रमम्॥३॥
अत्यर्दितः श्र(स्र)वेद्दन्तः पूतिकं पूयशोणितम्॥
सद्यः कृमीन्वा नागस्य तस्य दैवकृतो विधिः॥४॥
तस्य त्यागो हि दन्तस्य पतनात्प्राग्विनिश्चितः॥
तस्यात्यागे ह्यवाप्नोति मित्रार्थे2259 (र्थ) बलभूक्षयम्॥५॥
व्यायामात्पतनं यस्य दन्तस्येह द्विपस्य तु॥
भवेत्करीरीमूलाभ्यां गदन्तं गजमुत्सृजेत्॥६॥
[……………………..सह तूर्णं समुत्सृजेत्॥2260]
भग्नेशेषं स्थितं याप्यं समूलं सकरीरिकम्॥७॥
विनिष्कीर्णं यद्धि स्यात्तद्व्रणवत्साधु साधयेत्॥
चे(वे)ष्टस्योपरि दन्तस्योद्भङ्गे स्याद्यदि श्रु(स्रु)तिः2261॥८॥
तस्य प्राक्पतनादिष्टं गजस्योत्सर्जनं न हि॥
दन्तनाडी तु यस्य स्याद्वातादीनां प्रकोपजा॥९॥
न तत्रौत्पातिकं किं2262चिन्न चास्य पतने भयम्॥
अन्तःस्वेदा गजा यस्मान्मांसे शुषिरता तथा॥१०॥
तैजसी प्रकृतिश्चापि कोपे भूयिष्ठता ततः॥
यस्य श्रु(स्तु)ति2263स्तु दुर्गन्धा विषाणस्योपलक्ष्यते॥११॥
कर्मजेऽपि समुत्पाते तत्रास्य व्यवनं2264 स्मृतम्॥
पुष्पनेत्रं तु वृत्तास्यमनुपूर्वं समं दृढम्॥१२॥
बस्तिर्जरङ्गवः श्रेष्ठं तस्मिन्व्रणे विधीयते॥
दृढां बलवतीं श्लक्ष्णामेषणीं ताम्रनिर्मिताम्॥१३॥
गण्डूपदास्यां सूक्ष्मां च कारयेद्भिषगुत्तमः॥
स्पूर्जार्कनिम्बजातानां हरिद्रानक्तमालयोः॥१४॥
पुत्रंजीवक2265भङ्गस्य निष्क्वाथं कुटजस्य च॥
मुखोष्णःकरवीरस्य सप्तपर्णस्य चोभयोः॥१५॥
क्षालनं बस्तिना कार्यक्षौ2266मपट्टैस्तु शोधनम्॥
पूतिगन्धं च कण्डूं च क्वाथ एष प्रणाशयेत्॥१६॥
मार्दवं शोधनं चैव व्रणस्याऽऽशु करोति च॥
वर्षाभूश्चैव बिल्वं च निक्वाथो वा वचान्वितः॥१७॥
सोभाञ्जनकतर्कारीयूथिकाभङ्गसंयुतः॥
अलर्ककाकदन्तीनां पूतीकैरण्डयोरपि॥१८॥
सुरसाकुटजत्वग्भ्यां संयुक्तो व्रणधावनः॥
मधुशिग्रुर्धवश्चैव निष्क्वाथःकुटजस्य च॥१९॥
पूतीकस्याग्निमन्थस्य पुत्रंजीवकनिम्बयोः॥
सप्तपर्णत्वचश्चास्य नक्तमालस्य चोभयोः॥२०॥
तेन वा बस्तियुक्तेन क्षालनं दन्तिनो व्रणे॥
जात्यर्ककाकदन्तीनां पूतीकैरण्ठयोरपि॥२१॥
विडङ्गं त्रिवृता दन्ती चित्रकः पिप्पलीद्वयम्॥
श्यामा सलवणा कार्या पिष्टः स्याद्व्रणपूरणम्॥
स्यात्त्वालेपो वचा शुण्ठी पाठा कटुकरोहिणी॥२२॥
अक्षिपीलकगण्डी2267रे सुवहाऽतिविषा तथा॥
तेजोवत्यथवा पिष्ट्वा(ष्टा) सुवर्णा क्षीरिणी तथा॥२३॥
शुण्ठी सुवर्चिका चैव कषायं लशुनानि च॥
लाङ्गलिकासमायुक्तः क्षौद्रेण सह संप्लुतः॥२४॥
लेपोऽयं दन्तनाडीषु वारणानां सुखावहः॥
नक्तमालहरिद्राभ्यां करवीराङ्कुरस्य च॥२५॥
पूतीकस्प च जात्याश्च कल्केन कुटजस्यच॥
दन्तनाडीषु तैलं स्याद्वृश्चिकालीहरेणवा(?)॥२६॥
कुस्तुम्बुरुस्तथैलां च शोधनी साक्षिपीलकाः॥
श्रीवेष्टकसमायुक्ताः कुटजस्तालपत्रिकाः॥२७॥
जात्याः सक्तरवीराया भङ्गः पूतीकपल्लवाः॥
अभीरुपत्री सुवहा गुग्गुलुः मुकुटन्नटः॥२८॥
करञ्जपल्लवा मुस्ताहंसपादीहरेणवः॥
एतानि पाके तैलस्प समपिष्टानि योजयेत्॥२९॥
तेन तैलेन वा शोध्या दन्तनाड्यस्तु दन्तिनाम्॥
अपूतिकमविश्रा(स्रा)वं कण्ठदोषविवर्जितम्॥३०॥
विज्ञाय तु व्रणं शुद्धं क्रियां कुर्यादिमां भिषक्॥
बिल्वाश्वत्थमधूकानां त्वग्भिर्न्यग्रोधशालयोः॥३१॥
सबीजकोदुम्बरायाः सोमवल्कशिरीषयोः॥
निष्क्वाथःक्षालनं(ने) कार्यःसुखोष्णः सरलस्य च॥३२॥
तेनोपद्रवहीनस्तु व्रणो रोहति दन्तिनः॥
शमीक्षुरकमूलानि पाटलामूलमेव च॥३३॥
वितानकं सहोशीरं कुटजः शालितण्डुलाः॥
इक्वटा मधुकं रोध्रंमन्मितस्तालमस्तकः॥३४॥
विदार्यर्षभकश्चैव सुवहाजीवकावपि॥
कुलिङ्गाक्षी पयस्या च तथैव तालपत्रिका॥३५॥
किरात्या2268 सह पक्वंतु तैलं स्पाद्व्रणरोपणम्॥
गतिः स्पाद्यदि संरूढा प्रकोपमुपगच्छति॥३६॥
पूतिस्रावी भिषग्वा स्पाच्छृणु तत्रापि यो विधिः॥
पटोलं हस्तिपिप्पल्यः कुटजस्य फलानि च॥३७॥
वृश्चिकाली विडङ्गानि पृथ्वीकाःश्वेतसर्षपाः॥
कुस्तुम्बुरुसमायुक्तं गोमूत्रे क्वाथयेश्चिरम्॥३८॥
क्वाथेनाथ सुखोष्णेन तेन तां शोधयेद्गतिम्॥
सर्पगन्धा मधूच्छिष्टं सर्वबीजानि गुग्गुलुः॥३९॥
सर्षपैः सह धूपः स्यान्नाडीनां दन्तयोर्हितः॥
पूतिगन्धमविष्यन्दं दन्तनाड्याशिरोरुजम्॥४०॥
आक्षेपयति धूपोऽयं दन्तनेत्रसुखावहः॥
पृष्टपण्यंशुमत्यौ च छिन्नरुत्तालपत्रिकः॥४१॥
समङ्गा च करञ्जश्चसुवहाऽतिबला बला॥
महासहा च विना च निक्वाथस्तैलपाचनः॥४२॥
सुवहागिरिकर्ण्यौ च कपिकच्छूःसमूलिका॥
महौषधं रसं क्वाथं तैलेन सह पाचयेत्॥४३॥
द्विगुणक्षारसंयुक्तं कल्कश्चैव भिषग्वरः॥
मञ्जिष्ठायाः प्रियङ्ग्वाश्च मधूकस्य हरिद्रयोः॥४४॥
मांस्याः कालानुसार्याश्च ध्यामजीवकयोरपि॥
ऋषभस्य सरोध्रस्य वचाश्रीवेष्टकस्य च॥४५॥
प्रपौण्डरीकस्य तथा श्लक्ष्णं पिष्ट्वाप्रदापयेत्॥
त्र्यहं शिरोविरेकः स्यात्तैलपीतस्य च त्र्यहम्॥४६॥
पश्चान्नस्यावसेकस्य दन्ताप(वे)ष्टश्रु(स्रु)तस्य च॥
काकोली मधुपर्णी च सालपर्णी सरोहिणी॥४७॥
पयस्या च लुलिङ्गाक्षी छिन्नरुण्मुद्गपर्ण्यपि॥
अम्बष्ठा चैव तैलं स्यात्तेन तैलं विपाचितम्॥४८॥
द्विगुणक्षीरसंयुक्तं तैलमात्रावशेषितम्॥
तेन चाभ्यञ्जनं पानं नस्यकर्म च पूज्यते॥४९॥
शंशतित्तिरिलावानां मयूरवृषभस्य च॥
युक्तं मरिचचूर्णेन पिप्पलीशुण्ठिसैन्धवैः॥५०॥
स्निग्धं सलवणं चैव तं रसं2269 पाययेद्गजम्॥
देयं शाल्योदनं चैव रसैस्तैरेव संस्कृतैः॥५१॥
यदा चास्य स्थिरीभावः समाधिश्चैव दन्तयोः॥
पञ्चाहान्तरितं तस्मादथवाऽपि त्र्यहं तथा॥
प्रतिपानं प्रसन्नां च तैलयुक्तां प्रदापयेत्॥५२॥
इतीदं दन्तनाडीनां सनिदानं चिकित्सितम्॥
पृच्छते रोमपादाय पालंकाप्येन कीर्तितम्॥५३॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने दन्तनाडीचिकित्सितं नाम सप्तदशोऽध्यायः॥१७॥
<MISSING_FIG href="../../../books_images/U-IMG-17051517251.png"/>
——————
अथाष्टादशोऽध्यायः।
——————
षोडश2270 दशनाः प्रोक्ता नागानां सगदा नृप।
द्वावन्यावधिकौ दन्तावुपर्यूर्ध्वौ च विज्ञेषौ॥
हन्वस्थिसं2271धिरुद्धो वायुर्मज्जास्थिबृंहणं कुरुते।
हन्वस्थिदन्तदोषादधिदन्तस्यानतस्यनश्चर2272तः॥
स्ववेदना स्यात्सुदारुणा तेन दन्तमूलेषु।
परुषच्छविर्विवर्णा कृशश्च मन्दामिलाषश्च॥
तस्य गलग्रहनिर्मितयन्त्रेण सुयन्त्रितस्य नागस्य।
स्तम्भालितस्य राजन्विकासमुविदारितास्यस्य2273॥
द्वात्रिंशदङ्गुलायतदशनपरिणाहेन लोहदण्डेन।
एणीपदेन कुर्यादुद्धरणं तयोः सम्यक्॥
व्रीहिमुखेन च परिशोध्यसर्वतस्तस्य दन्तमूलेषु2274।
उष्णोदकधौतेषु मधुसर्पिः पूरणं दद्यात्॥
तेन मुखी भवति गजो बलवान्सुखविक्रमश्चैव॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थानेऽधिकदन्त चिकित्सितं नामाष्टादशोऽध्यायः॥१८॥
<MISSING_FIG href="../../../books_images/U-IMG-17051521531.png"/>
अथैकोनविंशोऽध्यायः।
——————
देवराजप्रतीकाशश्चम्पायां पृथिवीपतिः॥
अभिगम्याऽऽश्रमं पुण्यं पालकाप्यमथाब्रवीत्॥१॥
यथा शिरा2275 भवेच्छिन्ना भिन्ना वायुविघट्टिता2276॥
अतिप्रवृत्ते रुधिरे स्थापनं च कथं भवेत्॥२॥

शृणु सर्वं महाराज अविक्षिप्तेन चेतसा॥३॥
केवलं शास्त्रकर्माणि ह्यशास्त्रज्ञाश्चिकित्सकाः॥
मर्मभागमजानन्तो हिंस्युः स्नायुशिरास्तथा॥४॥
दुर्गृहीतं भवेच्छस्रंतिर्यग्वा विनिपातयेत्॥
तेन स्नायुः शिरा वाऽपि विशेषेणोपहन्यते॥५॥
तस्मिन्प्रवर्तते राजञ्शोणितं जलयन्त्रवत्॥
तस्य सिद्धिं प्रवक्ष्यामि साध्यासाध्यं च सर्वशः॥६॥
अस्थिमर्मगताश्चैव संधिजातास्तथैव च॥
शिरा नागस्य वक्ष्यामि ता मे विस्तरतः शृणु॥७॥
नाभ्यामेव तु संभूता धमन्यो दश पञ्च च॥
नानाश्रो(स्रो)तोवहाश्चैव नानाधातुवहाश्च ताः॥८॥
धमनीप्रभवानां तु शतानि दश पञ्च च॥
हस्ते गात्रापरे चैव शिरा काये च दन्तिनाम्॥९॥
त्र्यस्थितांसेऽथ बाले च जघन्यापरयोरपि॥
अण्डकोशे च नागस्य विद्धि सप्त शतानि वै॥१०॥
तासामुपशिराश्चैव स्नायवश्च सहस्रशः॥
एवं स्नायुकृता संख्या रोमकूपसमा नृप॥११॥
एकस्कन्धोयथा वृक्षः शाखाभिर्बहुभिर्वृतः॥
एवं नाभिप्रवृत्तास्तु शिराः स्नायुश्च कुञ्जरे॥१२॥
तासां वक्ष्यामि विस्तारं येषु भागेषु हस्तिनाम्॥
सद्यः प्राणहरःस्यात्तु शिराच्छेदो महीपते॥१३॥
पुरो नखे च प्रोहे च चिक्कायां पलिहस्तयोः॥
संदानजवभागे च विक्षोभे च महीपते॥१४॥
भागेष्वेतेषु2277 नागस्य शिराच्छेदो विनाशयेत्॥
एता दश शिरा2275 राजन्सद्यः प्राणहराः स्मृताः॥१५॥
उरोग्रीवागुहा(दा)भागे स्कन्धे मूर्ध्नि च हस्तिनः॥
शिरा दश विजानीयाद्धस्ते पञ्च विनिर्दिशेत्॥१६॥
विभागे द्वे धमन्ये द्वे धमन्ये द्वे कृकाटिके॥
तथा द्वे रसवाहिन्यौ शिरां दश तु कीर्तिताः॥१७॥
नानाश्रो(स्त्रो)तोवहाश्चैव भागेष्वेतेषु दन्तिनाम्॥
सद्यः प्राणहरा राजन्नासां छेदं विवर्जयेत्॥१८॥
वातकुम्भस्य चान्ते द्वे ईषीके द्वे समाश्रिते॥
ईषीकाकुम्भयोर्मध्ये हस्तश्रो(स्रो)तोवहा नृप॥१९॥
हस्ते पञ्च शिराः श्वेता वारणस्य प्रकीर्तिताः॥
सद्यः प्राणहरा राजंस्तासां छेदो विवर्जितः॥२०॥
निर्याणमध्ये पञ्जूषे विलागे दन्तचेष्टयोः॥
कटिश्रो(स्रो)तसि मध्ये च तासां छेदो विनाशयेत्॥२१॥
वसस्यातु(?)च मध्ये च तत्पले च समाश्रिते॥
दलिरे पृथिवीपाल तासां छेदो विनाशयेत्॥२२॥
पेचकस्य च मध्ये स्यात्करीषस्य व मध्यतः॥
प्रस्रावस्य च मध्यस्थः शिराच्छेदो विनाशयेत्॥२३॥
तथैवाऽऽन्तरसक्थ्नोश्च अण्डकोशस्य पार्श्वतः॥
अष्टास्वेव महीपाल शिराच्छेदो विनाशयेत्॥२४॥2278
संदान2278भागे मण्डूक्यो ग्रन्थी सकुटिकाद्वये॥
भागेष्वेते2279षु नागस्यशिराच्छेदो विनाशयेत्॥२५॥
तनुभागे च रन्ध्रेच अण्डकोशे च दन्तिनः॥
स्तनान्तरे च नाभ्यां च शिराच्छेदो विनाशयेत्॥२६॥
अक्ष्णोर्वै कर्णसंधौ च शिरा2280 नागमनुसृताः॥
भागेष्वेतेषु नागस्य शिराच्छेदो विनाशयेत्॥२७॥
अतिप्रवृत्ते रुधिरे वारणस्य महीपते॥
शोणितस्यक्षयाच्चैव वायुर्मर्माणि बाधते॥२८॥
हृदयं पीड्यते चास्य शोफश्चास्योपजायते॥
मूर्छा च भजते नागस्तृष्णाऽप्यस्यविवर्धते॥२९॥
दुर्मना वर्णतः पाण्डुर्यवसं नाभिनन्दति॥
एवंलिङ्गं महाराज प्रत्याचक्षीत वारणम्॥३०॥
उत्तानायाः प्रसन्नाश्च छवीरोमसमाश्रिताः॥
शिरास्नायु(?)महाराज छेदमाहुर्मनीषिणः॥३१॥
यदा शिरा भवेच्छिन्ना भिन्ना वाऽपि विघट्टिता॥
अतिप्रवृत्ते रुधिरे स्थापनानि निबोध मे॥३२॥
श्रीपर्णीमथ तां बद्ध्वा धातुकामद2281नावुभौ॥
सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत्॥३३॥
यदि वाऽनेन योगेन शोणितं न प्रतिष्ठते॥
क्षौमस्य तु मषी चूर्णं तथासर्जरसस्यच॥३४॥
धातकीमदनौचोभौ काश्मर्याःप्रस्थयोर्जवौ॥
सूक्ष्मचूर्णानिकृत्वातुतंव्रणंप्रतिसारयेत्॥३५॥
ततःशोणितवेगंतच्चूर्णेनानेनतिष्ठति॥
यदिवाऽनेनयोगेनशोणितंनप्रतिष्ठते॥३६॥
मधुकंचन्दनंरोध्रंसर्जंपद्मकमेववा॥
सूक्ष्मचूर्णानिकृत्वातुतंव्रणंप्रतिसारयेत्॥३७॥
गोधूमश्चैवरोध्रंच कदम्बश्चैव गैरिकम्॥
सूक्ष्मचूर्णीकृतैरेतैस्तं व्रणं प्रतिसारयेत्॥३८॥
अर्जुनश्च धवश्चैव यष्टी मधुकमेव च॥
सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत्॥३९॥
समुद्रफेनं तेजोह्वां गोमयस्य रसेन च॥
शङ्खमध्यं मधुक्षीरमरिमेदस्य ग्रन्थयः॥४०॥
तथा पलाशनिर्यासो निर्यासस्तिनिशस्य च॥
भूमीकदम्बकश्चैव गैरिकः सह लाक्षया॥
सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत्॥४१॥
एभिर्योगैर्यथाप्रोक्तैर्यदि रक्तं न तिष्ठति॥
अवगाहं महाराज वारणं तु प्रवेशयेत्॥४२॥
गम्भीरे शीतले देशे प्रण(न)ष्ट2282तृणशर्करे॥
यदि चैभिः क्रियायोगैः शोणितं न प्रतिष्ठते॥।४३॥
अश्वत्थोदुम्बरं चैव न्यग्रोधं काकजम्बुकम्॥
क्षोदयित्वा महाराज महास्थालीषु पाचयेत्॥४४॥
क्वाथेनानेन शीतेन तं व्रणं प्रतिषेचपेत्॥
अथाग्रिश्च प्रयोक्तव्यो विधिना तेन दन्तिनाम्॥४५॥
सर्पिषा म्रक्षयित्वाऽथ अग्निकर्म प्रयोजयेत्॥
नातिदग्धं व्रणं कुर्यादामदग्धं चिकित्सितम्॥४६॥
गन्धनिर्वापणार्थाय सर्पिषा परिषेचयेत्॥
शस्त्राग्निप्रणिधानोक्तैस्तैश्च निर्वापयेद्गजम्॥४७॥
पानं च सर्पिषा मिश्रं क्षीरमस्य विधीयते॥
यथावकाशे महति शस्त्रकर्म विधीयते॥४८॥
स्वस्तिवाच्य2283द्विजान्वैद्यःशुचिर्भूत्वासमाहितः॥
वासितैश्चभवेच्छस्त्रैर्बन्धैर्बद्ध्वामतङ्गजम्॥४९॥
यथाशिरास्तथाशस्त्रंसर्वगात्रेषुचारयेत्2284॥
मनश्चक्षुःसमाधायहस्तेनपरिमृश्यच॥५०॥
शस्त्रंनिपातयेत्तत्रशिराश्चपरिवर्जयेत्॥
विश्रा(स्रा)व्याग्रन्थयोयेचतान्मेनिगदतः शृणु॥५१॥
स्थिरायेमेदसाचैवयेचसंधिसमाश्रिताः॥
येचमर्मगतानित्यंयेऽन्येचैवंविधाःस्मृताः॥५२॥
अभ्यङ्गैरुपनाहैश्चस्नेहरुद्वर्तनैरपि॥
प्रदेहैःपीडनीयैश्चविश्रा(स्रा)व्याग्रन्थयस्तुते॥५३॥
यथादोषोपसृष्टानिशोणितानिपरीक्ष्यवा॥
तथाविश्रा(स्रा)व्यमाणेचतत्रैवउपसर्पयेत्॥५४॥
वारणंमन्दलवणांपाययेत्तादृशींसुराम्॥
तयाशोणितवृद्धिश्चजायतेदन्तिनस्तथा॥५५॥
नहिकेवलशास्त्रेणनतथाकर्मदर्शिना॥
वैद्येनशक्यंभवितुंचिकित्सांवाऽपिवेदितुम्॥५६॥
सूत्रंविभजतेबुद्ध्यात्रीणिपश्यन्तिचक्षुषा॥
साध्यासाध्यंचयाप्यंचनास्तितत्रविचारणा॥५७॥
अदृष्टकर्मकायेचशास्त्रहीनाश्चिकित्सकाः॥
प्राप्यकर्मावसीदन्तिबहवोधरिमानिनः॥५८॥
शास्त्रज्ञःकर्मणाहीनःकर्मज्ञःशास्त्रवर्जितः॥
तावुभौन प्रशस्येते पालकाप्यवचो यथा॥५९॥
यः कर्मणि च शास्त्रे च उभयत्र विशारदः॥
स पूज्यः सततं राज्ञा दानमानप्रतिग्रहैः॥६०॥2285

शिराच्छेदो नामैकोनविंशोऽध्यायः॥१९॥
<MISSING_FIG href="../../../books_images/U-IMG-17052407481.png"/>
अथ विंशोऽध्यायः।
———————
अथाङ्गराजो विनयादभिगम्य भगवन्तं पालकाप्यं पप्रच्छ—‘भगवन्वारणानां नानाविधं विषमदुर्गमसंबाधगमनगिरिशिखरकंदरारोहणावतरणसमर्थानां संग्रामे शक्त्यृष्टितोमरपरशुभिण्डिमालाभिघातादभि्हतदेहानां कथं कर्माणि विज्ञेयानि।तेषां भगवन्कति कर्मा(र्म)णि, किं च मर्मप्रमाणम्, कथं वा चिकित्सेत, केन वा शास्त्रानुसारेण मर्मप्रदेशा विज्ञेयाः, न शक्यं मर्माण्यजाता(ज्ञात्रा)शस्त्राद(दि)चारणं कर्तुम्। यथा वारणानां न चाऽऽबाधकरं भवति, तथा मे वक्तुमर्हसि। भगवञ्शुश्रूषुरस्मि इति॥
ततः पालकाप्यः प्रोवाच—इह खलु भो वारणानां सप्तोत्तरमर्मशतम्। पूर्वमेव तु शरीरविचये मर्मसंग्रहे समासतो व्याख्यातम्। मर्मप्रमाणमिदानीं यथा विज्ञायते नागस्य शरीरे तद्वक्ष्यामः—तत्रावग्रहहृदयाण्डकोशवातकुम्भबिम्बकपणवनाभिनिष्कोस(श)मुष्ककमृदुकुक्षिः॥
तत्र गुदाण्डकोशे हृदयमेढ्रमध्योदरकरप्रत्यङ्गं सप्रतीकाशप्रतीमानगुहस्तनप्रोहसंदानभागग्रन्थिसकुटिकातलपलिहस्तवि(चि)क्कारन्ध्रान्तरापरकुक्षी(?)करीषमस्रावकटनयनकर्णहस्तवदनतालुस्रोतःकक्षाभागनिष्कोशमन्यान्तर्बाहुपणवकबिम्बकवातकुम्भा अपस्कराष्ठीव्यमृदुकुक्षिगलपृष्ठयतस्थानग्रीवामन्याभागतालुवाहित्थशम्बुकजिह्वाविलावङ्क्षणविक्षोभचूचुकमुष्ककूर्मासतलसंधित्र्यस्थिक्षयकलाभागांसेषु नरसंध्युरसि चेति। स्तनचिक्वालमध्यभाग2286तालुमेहनरन्ध्रगलकण्ठकक्षावङ्क्षणजिह्वासकुटिकातलसंधिकूर्मप्रोहसंधियतस्थानविक्षोभप्रतिमानपलिहस्तत्र्यस्विवाहित्थशम्बुकवक्षःसंधिकुक्षमध्यसुरसंदानभागकटकर्णमुखतालुनेत्रचूचुकपायुमेहनहस्तश्रो(स्रो)तांस्यष्टीव्यगुहभोगप्रत्यङ्गसगुहान्तरबाहुग्रीवाविभागा2287पस्करे करीषस्रावशंबुककरमध्यप्रतीकाशांसक्षयभागकलाभागान्तरापरोदरपृष्ठमध्याख्यानां सद्यःप्राणहरकालान्तरप्राणहरसशल्यप्राणहरवैगुण्यकराणां मर्मणां सप्तोत्तरशतं विज्ञेषम्॥
** **इदानीमेषां विभाग प्रमाणं व्याख्यास्यामः।
तत्र गुदमध्ये मर्म षडङ्गुलप्रमाणम्। हृदयमध्ये मर्माष्टाङ्गुलप्रमाणम्। अण्डकोशमध्ये मर्म षडङ्गुलप्रमाणम्। बिम्बकमध्ये मर्म षडङ्गुलप्रमाणम्। पणवकमध्ये मर्म षडङ्गुलप्रमाणम्। नाभिमध्ये मर्म षडङ्गुलप्रमाणम्। निष्कोशमध्ये मर्म षडङ्गुलप्रमाणम्। मुष्ककमध्ये मर्म षडङ्गुलप्रमाणम्। मृदुकुक्षिमध्ये मर्म चतुरङ्गुलप्रमाणम्। स्तनमध्ये मर्म षडङ्गुलप्रमाणम्। चिक्कामध्ये मर्म षडङ्गुलप्रमाणम्। तलमध्ये मर्माष्टाङ्गुलप्रमाणम्।मन्याभागे मर्म चतुरङ्गुलप्रमाणम्। तालुमध्ये मर्म चतुरङ्गुलप्रमाणम्। मेहनमध्ये मर्म चतुरङ्गुलप्रमाणम्। रन्ध्रमध्ये मर्म सप्ताङ्गुलप्रमाणम्। गलमध्ये मर्म सप्ताङ्गुलप्रमाणम्।कक्षाभागे2288 मर्म नवाङ्गुलप्रमाणम्। वङ्क्षणमध्ये मर्म दशाङ्गुलप्रमाणम्। जिह्वामूले मर्म त्र्यङ्गुलप्रमाणमिति। एषामन्यतमे मर्मणि गाढविद्धः सद्यः प्राणैर्वियुज्यते॥
इत्येतानि चतुस्त्रिंशति2289 सद्यः प्राणहराणि॥
अत ऊर्ध्वं छवीनां भिन्नानां लक्षणं व्याख्यास्यामः। इह खलु भोः षट् छव्यो भवन्ति हस्तिनः। तत्र यदा प्रथमा छविर्भिद्यते, तदा पुरीषोदकनिभः स्रावो भवति। द्वितीयायामुदकश्रा(स्रा)वः। तृतीयायां शोणितश्रा(स्रा)वः। चतुर्थ्यां मेदःश्रा(स्रा)वः। पञ्चम्यां मज्जाश्रा(स्रा)वः। षष्ठ्यां मर्माभिघातो ज्ञेयः॥
—:():—
अत ऊर्ध्वं दन्तिनां मर्माणि कालान्तरप्राणहराणि वक्ष्यामः। तत्र सकुटिकामध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धो मासत्रयान्म्रियते। तलसंधिमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र विद्धो मासत्रयान्म्रियते। कूर्ममध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धः षण्मासाभ्यन्तरे विनश्यति। प्रोहसंधिमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धो मासद्वयेन म्रियते। यतस्थाने मर्मसप्ताङ्गुलप्रमाणम्, तत्र गाढविद्धो मासद्वयान्म्रियते। विक्षोभमध्ये मर्म सप्ताङ्गुलप्रमाणम्, तत्र गाढं विद्धः षण्मासाभ्यन्तरे म्रियते। प्रतिमानमध्ये मर्म सप्ताङ्गुलप्रमाणम्, तत्र गाढं विद्धो मासत्रयान्म्रियते। पलिह2290स्तमध्ये मर्म सप्ताङ्गुलप्रमाणं, तत्र गाढं विद्धो मासत्रयान्म्रियते। त्र्यस्थि2291मध्ये मर्म सप्ताङ्गुलप्रमाणम्, तत्र गाढं विद्धो मासत्रयाद्व्यापद्यते। वाहित्थमध्ये मर्म सप्ताङ्गुलप्रमाणम्, तत्र गाढं विद्धः षण्मासाभ्यन्तरे विनश्यति। शम्बुकमध्ये मर्माष्टाङ्गुलप्रमाणम्, तत्र गाढं विद्धो मासत्रपाद्व्यापद्यते। वक्षःसंधिमध्ये मर्माष्टाङ्गुलप्रमाणम्, तत्र गाढं विद्धो मासद्वयान्म्रियते। कुक्षिमध्ये मर्माष्टाङ्गुलप्रमाणम्, तत्र गाढंविद्धो मासद्वयान्म्रियते। संदानभागमध्ये मर्माष्टाङ्गुलप्रमाणम्, तत्र गाढं विद्धः षण्मासाभ्यन्तरे विनश्यति। इत्येतानि पञ्चविंशतिमर्माणि कालान्तरप्राणहराणि।
—:():—
अत ऊर्ध्वं वैगुण्यकराणां लक्षणं वक्ष्यामः। कटर्कणमुखतालुनेत्रचूचुकपायुमेहनहस्तश्रो2292 (स्रो)तः स पञ्चदशसु प्रत्येकं चतुरङ्गुलप्रमाणम्, तत्र गाढं विद्धोवैकल्यात्कृच्छ्रजीवी भवति। अष्ठीव्ययोमर्म चतुरङ्गुलप्रमाणम्, तत्र गाढं विद्धोऽपकर्षति। गुहाभागमध्ये कर्णाश्रितं मर्म चतुरङ्गुलप्रमाणम्, तत्र गाढं विद्धः स्तब्धगात्रो भवति। प्रत्यंसमध्ये मर्म पञ्चाङ्गुलप्रमाणम्, तत्र गाढं विद्धः स्तब्धकर्णो भवति। अन्तर्बाहुमध्ये मर्म पञ्चाङ्गुलप्रमाणम्, तत्र गाढं विद्धो हृद्रोगी भवति। ग्रीवामध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धस्य मन्यास्तम्भो भवति। बिलाङ्गमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धश्चक्षुर्विकलो भवति। अपस्कारमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धः स्तब्धगात्रो भवति। करीषस्रावमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्ध आनाहेन पीड्यते। चूचुकयोर्मध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्ध उरःसङ्गमवाप्नोति। करमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्ध उत्कर्णकेन पीड्यते। प्रतीकास(श)मध्ये मर्म षडङ्गुलप्रमाणम्। तत्र गाढं विद्धः पाकलेन पीड्यते। अंश(स)मध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धो गात्रभङ्गमवाप्नोति। क्षयभागे मर्म सप्ताङ्गुलप्रमाणम्, तत्र विद्धस्य गात्रस्य रुजा भवति। कलाभागमध्ये धर्मसप्ताङ्गुलप्रमाणम्, तत्र गाढं विद्धोऽतीसारमवाप्नोति। अन्तराप2293रमध्ये मर्म सप्ताङ्गुलप्रमाणम्, तत्र गाढं विद्धो मूत्रसङ्गमवाप्नोति। उदरमध्ये मर्म सप्ताङ्गुलप्रमाणम्, तत्र गाढं विद्धो मेढ्रशोषमवाप्नोति। पृष्ठमध्ये मर्म विशत्यङ्गुलप्र2294माणम्, तत्र गाढं विद्धोऽपरंरोगी भवति। इत्येतानि चतुस्त्रिशन्मर्मा2295णि वैगुण्यकराणि भवन्ति। तत्र वैगुण्यकराणां चतुर्दशानां मर्मणां लक्षणान्युक्तानि॥
तत्र श्लोकाः—
एवं सप्त महाराज शतं च परिकीर्तितम्।
वारणानां शरीरेषु मर्मणामिति निश्चितम्॥
तस्मान्मर्माणि संरक्षेद्वारणानां भिषग्वरः।
^(…………………….)ततः कुर्यात्क्रियापथम्॥
यो मर्माणि न जानाति वारणानां विभागशः।
न स कायक्रिया(?)नागे विषयान्ते तमुत्सृजेत्॥
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने तृतीये शल्पस्थाने
मर्मप्रमाणो नाम विंशोऽध्यायः॥२०॥
<MISSING_FIG href="../../../books_images/U-IMG-17052424221.png"/>
अथैकविंशोऽध्यायः।
——————
अङ्गश्च राजा चम्पायां पालकाप्यं स्म पृच्छति॥
एरण्डकानामुत्पत्तिं ब्रूहि लिङ्गं तथा क्रियाम्॥१॥
पूर्वं च निर्विषो भूत्वा सविषः केन जायते॥
दष्टस्तु सप्तरात्रेण कस्मात्कुप्यति दन्तिनाम्॥२॥
मासैश्च सप्तभिः2296 कस्मात्तथा संवत्सरैरपि॥
के वर्णाःकानि रूपाणि जातयः कति च स्मृताः॥३॥
निर्विषं च कथं दष्टमविषं चात्र वै कथम्॥
एवं पृष्टस्तु राजेन्द्र(?) पालकाप्यस्ततोऽब्रवीत्॥४॥
शृणु सर्वं महाराज यन्मां त्वं परिपृच्छसि॥
भौमास्तथाऽऽन्तरिक्षाश्च श्वानस्तु द्विविधाः स्मृताः॥५॥
भौमास्तु त्रिविधा ज्ञेया ग्राम्यारण्यसमुद्भवाः॥
तेषामृतुविपर्यासाद्रसानां च विपर्ययात्॥६॥
गर्भा एव तु जायन्ते मातुराहारजै रसैः॥
मण्डूकान्कुकलासान्वा सर्पवृश्चिकगोनसान्॥७॥
यदा तु नरमांसं वा श्वमांसं वा समश्नुते॥
विषं तदुपयुक्तं हि मात्रा त्वस्य तदा भवेत्॥८॥
संतर्पयति तं गर्भ तर्पितं च2297प्रसूयते॥
तेन दोषश्च जायेत गर्भस्थस्यैव देहिनः॥९॥
अप्रकोपाद्धि दोषाणां जातः स्वस्थो भवेद्यदा॥
कोपयेत्तु तदा दोषांस्तस्य तत्संचितं विषम्॥१०॥
अन्योन्यमूर्छिताः सर्वे मदं2298 कुर्वन्ति दोषजम्॥
तेन श्वा भ्राम्यतेऽत्यर्थं विनमत्युन्नमत्यपि॥११॥
लालाप्रसेकी च तथा क्रोधनो मदचेष्टि2299तः॥
श्लथलाङ्गुलचरणो मदचेष्टोऽनवस्थितः॥१२॥
यदसौ भक्षयेत्प्राप्य तल्लिङ्गः सोऽपि जायते॥
सविषं त्रिविधं दृष्टं निर्विषं तु चतुर्विधम्॥१३॥
दृष्टं चतुर्भिर्दष्ट्राभिस्तत्कष्टमिति निर्दिशेत्॥
दृष्ट्वा क्षिपति योऽत्यर्थमतिदष्टमतिक्रियम्॥१४॥
एवं द्विविधमाख्यातं सविषं निर्विषं शृणु॥
विस्फोटितं विलिखितं ग्रथितं स्निग्धशोणितम्॥१५॥
व्यवकृष्टं विजानीयान्निर्विषं तद्भवेन्नृप॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव तु जातितः॥१६॥
शुक्लारक्ता धूम्रवर्णाः कृष्णाश्चेति यथाक्रमम्॥
तेषां गन्धाः स्मृता भौममत्स्यचन्दनसर्पिषाम्॥१७॥
शुक्लास्तु श्लैष्मिका ज्ञेया रक्ता वै पित्तसंभवाः॥
धूम्रा वाससमुत्थास्तु संकीर्णा मिश्रलक्षणाः॥१८१॥
तेषां वर्णविभागेन प्रतिकुर्याच्चिकित्सितम्॥
कालेन यावता दष्टो हस्तिनः प्रति कुप्यति॥१९॥
तावतैव तु कालेन भूयो भूयः प्रकुप्यति॥
तत्रेमे हेतवः प्रोक्ता श्वदष्टस्य प्रकोपनैः॥२०॥
मेघविद्युत्रिपातेन अशनेः पतनेन वा॥
अजीर्णाध्यशनाद्वाऽपि तथैवाप्यतिभोजनात्॥२२॥
जलमध्यगतो वाऽपि यश्चाऽऽत्मानं प्रपश्यति॥
सप्तमे दिवसे मासे पक्षे संवत्सरेऽपि वा॥२२॥
परिकुप्यति यद्दष्टं तस्मात्कुर्याच्चिकित्सितम्॥
विषं तत्रिविधं ज्ञेयं त्रिवेगं त्रिःप्रतिक्रियम्॥२३॥
प्रथमे विषवेगे तु नमत्यपि च कम्पते॥
नदत्यूर्ध्वमुखोऽत्यर्थं द्वितीये जृम्भते मुहुः॥२४॥
तृतीये जृम्भतेऽत्यर्थं श्वसन्नदति वाऽसकृत्॥
श्र(स्र)स्तलाङ्गूलचरणः श्र(स्र)स्तकर्णशिरोधरः॥२५॥
मूर्छति क्रोधनोऽत्यर्थं म्रियते नात्र संशयः॥
इति त्रयाणां वेगानां लक्षपां परिकीर्तितम्॥२६॥
एवंप्रकारस्य यथा दर्शनं नाभिजायते॥
असाध्यं तं विजानीयान्त्रिवेगाक्षिप्तकश्च यः॥२७॥
याप्यो बभ्रुसवर्णाभः शेषाः साध्याः क्रियां प्रति॥
धूपाञ्जनं च पानं च विविधाश्च क्रियाः स्मृताः॥२८॥
कुङ्कुमं तगरं कुष्ठं श्वेतपर्ववचा स्मृताः॥
एतदञ्जनपानेषु धूपनेषु च योजयेत्॥२९॥
श्वेतसर्षपमादाय पिप्पलीमरिचानि च॥
एतद्गुडेन संयुक्तं छायायां परिशोषयेत्॥३०॥
एतदञ्जनपानाभ्यां धूपने च प्रशस्यते॥
कुष्ठं ध्यामकसंयुक्तं वार्ताकीबीजमेव च॥३१॥
देवदारु च सर्पिश्च पुष्पाणि ह्यसनस्य च॥
त्रिफलाऽतिविषा कुष्ठं तथा पाषाणभेदकः॥३२॥
गवां मूत्रेण पिष्टं तु क्षौद्रेण सह योजितम्॥
एतत्पानाञ्जने देयं गजानां हितमिच्छता॥३३॥
पुराण……………..राजसिद्धार्थका वचा॥
हिङ्गुजीरकशुण्ठी च सर्पिश्चापि गुडं तथा॥३४॥
दष्टे तु कुपिते पानं रसाञ्जनमनुत्तमम्॥
पिप्पली पिप्पलीग्रन्थिर्मधुसर्पिः समन्वितम्॥३५॥
एरण्डदष्टं कुपिते पानं दद्यात्तथाऽञ्जनम्॥
आर्द्रकं सगुडं कुष्ठं घृतेन सह योजितम्॥३६॥
पिण्डं दद्याद्गजानां तु दष्टानामुपशान्तये॥
कुष्ठं च तगरश्चैव आर्द्रकं गुडमेव च॥३७॥
श्वदष्टस्य तु नागस्य पिण्डं दद्याद्विचक्षणः॥
हरिद्रा हरितालं च मञ्जिष्ठा समनःशिला॥३८॥
श्वेतसिद्धार्थकाः कुष्ठं कपित्थं तगरं तथा॥
गोरोचना सुना पित्तं समभागानि योजयेत्॥३९॥
तदभ्यञ्जनपानं च आलेपं चास्य दापयेत्॥
क्षीरमिक्षुरसं चास्मै अन्नपानं प्रदापयेत्॥४०॥
शाल्योदनं ससर्पिष्कं भोजयेन्मुद्गसंयुतम्॥
मृदुं च यवसं दद्यात्सर्पिश्चास्य प्रवर्तते॥४१॥
क्षान्तिश्चास्य क्रियायोगे सिद्धिः कर्माभिनीतवत्॥
अन्तरिक्षगताः श्वानः कामगादिव्यचा2300रिणः॥४२॥
तेषां मूत्रपुरीषाणि लालाश्चापि विषं भवेत्॥
दष्ट2301वद्भजते रूपं सीदत्यपि च दष्टवत्2302॥४३॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन निवेदितः॥४४॥
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने तृतीये शल्यस्थान
एरण्डको नामैकविंशोऽध्यायः॥२१॥
<MISSING_FIG href="../../../books_images/U-IMG-17052435141.png"/>
अथ द्वाविंशोऽध्यायः।
——————
अङ्गो हि राजा चम्पायां देवराजसमद्युतिः॥
पालकाप्यं महाराजः पप्रच्छ विजितेन्द्रियः॥१॥
मर्माणि कति2303 नागानां शरीरेषु महामुने॥
तत्र मर्माणि सर्वाणि भागागोचरतत्त्वतः॥२॥
ते2304 प्रसादाद्भगवते (?) तदिच्छामि च वेदितुम्॥
पालकाप्यस्ततस्तस्य श्रुत्वा वचनमब्रवीत्॥३॥
शरीरस्य च वक्ष्यामि नागस्याहं महीपते॥
तद्यथा चानुपूर्वेण प्रदेशान्मर्मसंस्थितान्॥४॥
तत्र कुम्भस्य मध्ये तु मर्मैकं मनुजाधिप॥
नाम्ना प्रवेपणं नाम सद्यःप्राणहरं हितम्॥५॥
श्रवणश्रो(स्रो)तसी स्यातां मर्मणी द्वे महीपते॥
सद्यःप्राणहरे विद्धि वारणस्य न संशयः॥६॥
तथा निर्याणमध्येऽपि वालो यत्र प्रदृश्यते॥
मर्म तद्वारणस्यापि सद्यः प्राणहरं हितम्॥७॥
नेत्रपोरुपरिष्टात्तु इषीकागु2305च्छयामृतम्॥
मर्म तस्मिन्क्षते नागः पञ्चत्वमुपगच्छति॥८॥
अवग्रहस्य मध्ये तु कपालं यत्समाश्रितम्॥
सीवनीमर्म तं विद्यात्क्षते तस्मिन्न जीवति॥९॥
मस्तकाकृति(?) यौ पिण्डौ तयोर्मध्ये तु मस्तकौ2306॥
भिन्नो2307मस्तकमध्ये तु नागः प्राणैर्वियुज्यते॥१०॥
पिञ्जूषस्योपरिष्टात्तु कर्णसंधिसमाश्रितम्॥
कर्णश्रो(स्रो)तोनुगं मर्म क्षते चास्मिन्विपद्यते॥११॥
दन्तान्तरस्य मध्ये तु प्रतिमानस्य चोपरि॥
फेत्करं2308 नाम तन्मर्म सद्यः प्राणहरं नृप॥१२॥
वातकुम्भस्य चाधस्तात्प्रतिमानस्य चोपरि॥
तालुश्रो(स्रो)तोवहं मर्मभिन्ने तस्मिन्न जीवति॥१३॥
अथोपरिष्टाह्ग्रीवांयाः कर्मसं2309धिसमाश्रिताम्॥
मर्म वायसतुण्डं तु विद्धस्तस्मिन्न जीवति॥१४॥
ग्रीवासंधिमनुप्राप्तमधो मस्तकपिण्डयोः॥
मध्ये पणवकं नाम मर्म प्राणहरं स्मृतम्॥१५॥
वारणस्यगुहा2310भागे मर्म संधिसमाश्रितम्॥
धमन्याध्मापनं नाम सद्यः प्राणहरं नृप॥१६॥
गुहाभागे2311ऽपरमपि यतस्थानं समाश्रितम्॥
मर्म तस्मिन्क्षते नागः पाकलेन विपद्यते॥१७॥
गुहाभागेऽपि मध्ये तु कर्मसं2309धिसमाश्रितम्॥
मर्म तस्मिन्क्षते नागः स्तब्धग्रीवो भवेन्नृप॥१८॥
शङ्खसंधिगतं यत्तदुपवाहिसमाश्रितम्॥
मर्म तस्मिन्क्षते नागः सद्यः प्राणैर्वियुज्यते॥१९॥
मन्ययोर्मध्यतश्चैकं ग2312लसंधिसमाश्रितम्॥
मर्म तन्निर्गलं नाम सद्यः प्राणैर्वियोजयेत्॥२०॥
उपरिष्टादुरोमन्या2313 गलभागस्य चाप्यधः॥
हिक्कामर्मेति तद्विद्यात्सद्यः प्राणहरं हि तत्॥२१॥
संधिमध्ये तु नागस्य उरोमणिसमाश्रितम्॥
तस्मिन्क्षिते द्विपं क्षिप्रं वातस्कन्दो विनाशयेत्॥२२॥
उरोमणेर्मध्यतस्तु मणिर्नाम प्रतिष्ठितम्॥
मर्म तद्वारुणं2314 विद्यात्सद्यः प्राणहरं नृप॥२३॥
चतुरस्रं च मध्ये तु पत्राऽऽवर्तः प्रदृश्यते॥
आवतं नाम तन्मर्म सद्यः प्राणहरं स्मृतम्॥२४॥
अथोपरिष्टात्कायस्य प्रवक्ष्यामि महीपते॥
आसनस्य तु पार्श्वे तु वंशनागस्य संश्रितम्॥२५॥
उत्कर्णकेन मातङ्गः2315 क्षते तस्मिन्न जीवति॥
अधस्तात्पेचकस्याथ गुदभागस्य चोपरि॥२६॥
मर्म तस्मिन्क्षते नागो मूत्रसङ्गेन नश्यति॥
अथ निष्कोशम2316ध्ये वै मर्मैकं मनुजाधिप॥२७॥
सद्यः प्राणहरं तत्तु वारणस्य (विनिर्दिशेत्॥2317
पर्शुकास्तु समाश्रित्य निष्कोसस्प तु पार्श्वतः॥२८॥
मर्म प्राणहरं तत्तु वारणस्य) नराधिप॥
पक्षतोऽप्यथ नागस्य मर्मैकं समुदाहृतम्॥२९॥
क्षते तस्मिन्महीपाल वातानाहः2318 प्रधावति॥
वारणस्य महीपालं कक्षामागं समाश्रितम्॥३०॥
मर्म तस्मिन्क्षिते नागं पाकलस्तु विनाशयेत्॥
तनुभागस्य चाधस्तान्मर्म रन्धसमाश्रितम्॥३१॥
तस्मिन्क्षिते वारणस्य व्याधिरुत्कर्णको भवेत्॥
कक्षाभागस्य मध्ये तु क्षयभागं समाश्रितम्॥३२॥
मर्म प्राणहरं विद्धि वारणस्य महीपते॥
उपरिष्टात्तु कायस्य मर्मभागाः प्रकीर्तिताः॥३३॥
गात्रापरे प्रवक्ष्यामि मर्माणि प्रविभागशः॥
आसनस्य तु पार्श्वे तु मर्मैकं समुदाहृतम्॥३४॥
तंतस्तस्मिन्क्षते नागं गात्रशोफो विनाशयेत्॥
अपस्कारस्य चाधस्ताद्वैशाखस्य तु मध्यतः॥३५॥
तत्र क्षतस्तु मातङ्गः स्तब्धगात्रः सदा भवेत्॥
गात्रस्य पूर्वभागे तु जव2319भागस्य पार्श्वतः॥३६॥
तत्र मर्म महीपाल सद्यः प्राणहरं स्मृतम्॥
विष्कयोः पश्चिमे भागे वालयस्तत्र दृश्यते॥३७॥
मर्म तस्मिन्क्षते नागः सद्यः प्राणान्विमोचयेत्॥
विशेषयोः पश्चिमेन व(प)लिहस्तस्य मध्यतः॥३८॥
मर्म तस्मिन्क्षते नागः सद्यः प्राणैर्वियुज्यते॥
नेत्रमण्डलभागे तु मर्मैकं पृथिवीपते॥३९॥
नाम्नाआलिङ्गितं नाम तदपि प्राणनाशनम्॥
अथास्य प्रोहमध्ये तु मर्मैकं समुदाहृतम्॥४०॥
तस्मिन्क्षते महीपाल नागः प्राणैर्वियुज्यते॥
पारुण्यपश्चिमे भागे कर्मस्योपरि पार्थिव॥४१॥
पलिपादे महीपाल मर्म प्राणहरं स्मृतम्॥
पुरोनस्वरूप यत्पार्श्वे नखश्रो(स्रो)तस्य मध्यतः॥४२॥
मर्म तस्मिन्क्षते नागं गात्रशोफो विनाशयेत्॥
स्तनयोश्चूचुकः पार्श्वे मर्मैकं पृथिवीपते॥४३॥
सद्यः प्राणहरं तु स्पाद्वारणस्य हि पार्थिव॥
अथ वङ्क्षणपार्श्वे तु मर्मैकं समुदाहृतम्॥४४॥
रक्तश्रो(स्रो)तोवहं नाम तदपि प्राणनाशनम्॥
वङ्क्षणस्याप्यधोभागे वारणस्य महीपते॥४५॥
मर्म तस्मिन्क्षते नागः सद्यः शोफेन नश्यति॥
अष्ठीव्यसंधिमाश्रित्य मर्मैकं तु महीपते॥४६॥
क्षते तत्र भृशं नागस्त्वपरे परिकर्षति॥
मण्डूक्या वाऽपि नागस्य मर्मैकं समुदाहृतम्॥४७॥
क्षते तस्मिन्महीपाल स्व(ष)ण्ढःसंजायते गजः॥
तथा सकुटिकायां तु मर्मैकं समुदाहृतम्॥४८॥
सद्यः प्राणहरं त्वेतद्वारणस्य विनिर्दिशेत्॥
अपरातलयोर्मध्ये मर्मैकं समुदाहृतम्॥४९॥
सद्यःप्राणहरं तं तु वारणस्य विनिर्दिशेत्॥
इत्येष कीर्तितः सम्यक्मविभागस्तु मर्मणाम्॥५०॥
यथावदनुपूर्वेण वारणानां हितैषिणा॥
तत्र भागेषु सर्वेषु मर्माणि परिरक्षयेत्॥५१॥
मर्मभागेषु नागानां शस्त्रकर्म न कारयेत्॥
सुपक्वंभिषजा ज्ञात्वा शस्त्रकर्म नियोजयेत्॥५२॥
शस्त्रकर्माणि नागस्प शिरास्नायुयूश्च2320 वर्जयेत्॥
सर्वसंधिषु मर्माणि विज्ञाय कुशलो भिषक्॥५३॥
मर्मभागेषु नागस्य तिर्यक्शस्त्रंन पातयेत्॥
अनुलोमं तु यत्रैवं यथेष्टं सिद्धिरिष्यते॥५४॥
गजानां न हयानां च मानुषाणां तथैव च॥
छेदं तु विविधं कार्यं वारणस्य विजानता॥५५॥
वृद्धिपत्रेण तीक्ष्णेन मण्डलाग्रेण वा पुनः॥
आसनेऽथ कलाभागे कण्ठे वंशे च गण्डयोः॥
वृत्तच्छेद्यं तु कर्तव्यंभागेष्वेतेषु2321 दन्तिनाम्॥५६॥
पञ्चाङ्गुलपदं कुर्यात्सप्ताङ्गुलमथापि वा॥
नवाङ्गुलं वा नागस्य शस्त्रकर्म विधीयते॥५७॥
एतत्सर्वं विनिश्चित्य च्छेदं2322नागस्य कारयेत्॥
वासितेनैव शस्त्रेण कर्म कुर्याद्विचक्षणः॥५८॥
वेध्यं व्रीहिमुखेनैव मण्डलाग्रेण लेखनम्॥
विश्रा(स्रा)वणं कुठारेण वत्सदन्तेन2323 च स्मृतम्॥५९॥
सविनं द्विविधं विद्याद्रुणवद्ग्रन्थिमत्त्वपि2324॥
स्थिरेषु त्ववकाशेषु ग्रन्थिसीवनमिष्यते॥६०॥
मांसलेष्ववकाशेषु2325 चलेषु मृदुसंधिषु॥
गुणसीव्यं च कर्तव्यं वारणस्य विजानता॥६१॥
सीवने2326 तु भवेत्सूची सूक्ष्मा त्वष्टाङ्गुलायता॥
नागदन्तकसंस्थाना श्लक्ष्णा वै सुसमाहिता॥६२॥
कधरावग्रहा भागे कुक्षौ पक्षेषु संधिषु॥
नागदन्तकसूच्या वै सीवनं सम्यगिष्यते॥६३॥
संग्रामे हस्तियुद्धे वां विकृतस्य तु हस्तिनः॥
सद्यःक्षते महाराज सीवनं तु विधीयते॥६४॥
पक्वरेष्ववकाशेषु परिश्रा(स्रा)विषु दन्तिनाम्॥
संधानान्येव कार्याणि2327 सीव्यं तत्र न कारयेत्॥६५॥
शतं सप्त च मर्माणि भागाभागेषु हस्तिनाम्॥
प्रोक्तानि पालकाप्येन अङ्गराजाय पृच्छते॥६६॥
व्रणकर्मणि2328 नागस्य अभ्यङ्गः पूज्यते सदा॥
स्नेहपानं च नागानां स्निग्धमेव च भोजनम्॥६७॥
तस्मात्तुकुशलो वैद्यः श्रुतवान्कालदेशवित्॥
परीक्ष्यकारी शूरश्च2329 जितक्रोधो जितेन्द्रियः॥६८॥
अप्रमत्तश्च दक्षश्च यशसश्चैव रक्षिता॥
वैद्य एवंविधो राजन्नप्रमुह्यति कर्मसु॥६९॥
एष ते पृथिवीपाल यथावदनुपूर्वशः॥
मर्मणामिह सर्वेषामशेषेण विनिश्चयः॥७०॥
इति श्रीपालकाप्येहस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
मर्मविद्धो नाम द्वाविंशतितमोऽध्यायः॥२२॥
<MISSING_FIG href="../../../books_images/U-IMG-17052467291.png"/>
अथ त्रयोविंशोऽध्यायः।
——————
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति॥
भगवन्कति कामानां नृपाणां विजिगीषताम्॥१॥
प्रायशो युध्यमानानां वारणेषु ध्रुवो जयः॥
संग्रामे युध्यमानानां कायवेध्यं पृथग्विधम्॥२॥
शस्त्राकृतिविशेषैश्च तथा छेद्यं च जायते॥
शस्त्रकर्मणि चाप्येवं दन्तैर्वा प्रतिहस्तिनाम्॥३॥
तत्राल्पोऽथ कथं कश्चिद्व्रणः प्राणान्तिको भवेत्॥
अथ येन प्रबाधन्ते प्राणास्तद्वक्तुमर्हसि॥४॥

स्वभावात्सर्वसत्त्वानां प्राणा दे2330हसमाश्रयाः॥५॥
देहप्राणेष्वथाऽऽपन्नाः प्राणा म2331र्माश्रयास्तथा॥
तेजोनिलगुणैः सार्धं पुरुषो मर्मसंश्रयः॥६॥
तस्मान्मर्माश्रयं विद्यात्प्राणबाधाकरं व्रणम्॥
मर्म चाप्यमिविज्ञेयं प्रतिभागाच्चतुर्विधम्॥७॥
सद्यः प्राणहरं चैव तथा कालान्तरेण च॥
तथा सशल्यप्राणं च वैगुण्यकरमेव च॥८॥
तत्रानलगुणैर्युक्तं सद्यः प्राणहरं भवेत्॥
कालान्तरप्राणहरं सौम्याग्रेयमुदाहृतम्॥९॥
तथा सशल्यप्राणं च वायव्यं कथ्यते बुधैः॥
सौम्यं वैगुण्यकरणमिति पूतगुणाश्रयः2332॥१०॥
सद्यःप्राणहराण्यादौ तत्र वक्ष्यामि पार्थिव॥
गुदोऽण्डकोशो हृदयं मेण्ढ्रंपणवकस्तथा॥११॥
मन्याभागे विवेकश्च गलो ना2333भिस्तथैव च॥
मृदुकुक्षी सनिष्कोशौ कक्षाभागो तथा तलाः॥१२॥
वङ्क्षणौ मुष्कभागौच तालु जिह्वा स्तनान्तरम्॥
रन्ध्रौ कुम्भं तथा वक्षः कण्ठश्चोदरमेव च॥१३॥
करीषास्राव इत्येवं सद्यःप्राणहराणि तु॥
चतुस्त्रिंशत्तु मर्माणि निर्दिष्टानि मनीषिभिः॥१४॥
अग्निर्जीवाश्रयो यस्माज्जीवश्चाग्निसमाश्रयः॥
तस्मात्तत्र क्षते क्षिप्रं प्राणांस्त्यजति वारणः॥१५॥
कालान्तरप्राणहराण्यथ वक्ष्यामि तच्छृणु॥
प्रोहे सकुटिके त्र्यस्थिसंदानौ तलसंधयः॥१६॥
विक्षोभौ कूर्मभागौ च उरःसंधिरुरस्तथा॥
पलिहस्तौ यतस्थाने अन्तर्बाहू तथैव च॥१७॥
कालान्तरविनाशीनि याप्याभागौ च पार्थिव॥
निर्याणे चैव कुम्भे च स्रोतसः कुम्भयोरपि॥१८॥
क्षीरिके च महीपाल पुरस्कारे तथैव च॥
पञ्चविंशतिरेतानि ज्ञेयानि परिसंख्यया॥१९॥
क्रमाद्यावत्क्षपयति साम्यस्तेजोगुणैर्गुणात्॥
यस्मात्क्रमेण म्रियते कालप्राणहरं ततः॥२०॥
तत्रोपद्रवजातं च रोमस्थमभिलक्षयेत्॥
ततः सशल्यप्राणानि प्रवक्ष्याम्यनुपूर्वशः॥२१॥
निर्माणश्चैव कुक्षी च स्रोतसी कर्णयोस्तथा॥
कुम्भश्चैव महीपाल पुरस्कारोऽथ चूचुके॥२२॥
स्यातामक्षिगुहे चैव बिदुलं वदतां वर॥
विद्यात्सशल्यप्राणानि मर्माणीह चतुर्दश॥२३॥
यावच्छल्पनिरुद्धस्तु वायुस्तिष्ठति मर्मणि॥
तावत्सशल्यप्राणेषु स जीवति मृतोऽन्य2334था॥२४॥
अथ वैगुण्यकारीणि अपस्कारस्तथैव च॥
विज्ञाय तु गुहाभागौक्षपभागं ततः परम्॥२५॥
अस्मे चैव विभागे च करस्यश्रो(स्रो)तसी तथा॥
प्रतिमानं गुहाभागौ चत्वारो ग्रन्थयस्तथा॥२६॥
तथाऽन्तरपरे स्यातां प्रवक्ष्याम्यत उत्तरम्॥
करश्च प्रत्यगंसौ च प्रतीकासौतथैव च॥२७॥
नेत्रे चैव महीपाल मुनिभिः परिकीर्तिते॥
ग्रीवा चान्तरसूना च वाहित्थं च नराधिप॥२८॥
पेचकश्च विताने च वैगुण्यकरसंग्रहः॥
एतान्येव चतुस्त्रिंशत्प्रोक्तानि मनुजाधिप॥२९॥
स्थिरा यतः सौम्यगुणाः स्थिरत्वाच्च न मृत्युदाः॥
तस्मात्तद्वैगुण्यकरं मृत्युदं क्लेशयेन्नतम्॥३०॥
इति सप्तोत्तरं प्रोक्तं शतं ते मर्मणां मया॥
धैर्यं वीर्यं बलं सत्त्वं संघातः पौरुषा गुणाः॥३१॥
एतेष्वधिष्ठिताः सर्वे गुणा मर्मसु हस्तिनाम्॥
यस्मात्तस्मात्क्षते तत्र प्राणांस्त्यजति वारणः॥३२॥
मारणादुच्यते मर्म नैरुक्तैः शास्त्रनिश्चपात्॥
तथैवाष्टविधं प्राहुः संख्यया मनुजाधिप॥३३॥
शिराम2335र्मास्थिमर्माश्च(?) धमनीमर्म चापरम्॥
स्नायुमर्मं च विज्ञेयं कोष्ठमर्म तथैव च॥३४॥
संधिमर्म च विज्ञेयं स्रोतोमर्म तथैव च॥
दोषमर्म च विज्ञेयं वक्ष्यन्ते तत्र हेतवः॥३५॥
शिरामर्मण्यभिहतो रक्तश्रा(स्रा)वाद्गजोऽधिकः॥
क्षिप्रं वियुज्यते प्राणैस्तस्मात्तदभिरक्षयेत्॥३६॥
अस्थिमर्मण्यभिहतः शुक्रमज्जापरिश्र(स्र)वात्॥
परित्जेयद्गजः प्राणानस्थिधातुक्षयात्ततः॥३७॥
हिंस्यते धमनीमर्म यदा नागस्य मर्मसु॥
तदाऽप्यगुणनिश्रा(स्रा)वाद्गजस्त्यजति जीवितम्॥३८॥
स्नायुमर्मण्यभिहतः स्नायुसंश्र(स्र)वणाद्गजः॥
विश्लिष्टसंधिर्भवति स्नायुर्देहनिबन्धनः॥३९॥
कोष्ठमर्मण्यभिहतः करीषस्रावपीडितः॥
महाक्षयाभिभूतस्तु प्राणांस्त्यजति वारणः॥४०॥
संधिमर्माभिघाताच्च चेष्टावैगुण्यमुत्तमाः॥
प्राप्नुयाद्वारणः क्षिप्रं मरणं वातपीडितः॥४१॥
श्रो(स्रो)तोमर्माभिघाताश्च स्वगुणैः स्रोतसां गजः॥
विमुक्तस्त्यजति प्राणान्विगुणो वाऽपि जीवति॥४२॥
दोषाशयाभिघाताच्च क्षीणपित्तकफानिलः॥
प्राणांस्त्यजति मातङ्गो दोषमर्मसु ताडितः॥४३॥
रक्षणं मर्मणां नित्यं तस्मात्कार्यं विचक्षणैः॥
शस्त्रकर्मविधिज्ञैश्च का2336र्यं शस्त्रावचारणम्॥४४॥
असिद्धिरल्पसिद्धिर्वा हिंसितेष्वपि कर्मसु॥
विपत्तिः श्रेयसी वाऽपि सिद्धिदृच्छिकी भवेत्॥४५॥
अस्थिस्नायूपपन्ना ये गम्भीराश्चैव सर्वशः॥
शिरामर्मगता ये च न च्छेद्या ये च संधिषु॥४६॥
स्नायुजाले न कार्यं च तज्ज्ञैः शस्त्रावचारणम्॥
अनुलोममृजुगतिं त्वचि सम्यक्समाहितम्॥ ४७॥
श्वयथूनां विदधानां कार्यं शस्त्रावचारणम्॥
यथा व्यापद्यते नागः स्वयोगाच्छस्त्रकर्मणाम्॥४८॥
न तथा म्रियते दोषैः प्रवृद्धैरपि वारणः॥
शस्त्रकर्मणि निर्युक्तेसेवनं सर्पिषा हितम्॥४९॥
पानं च सर्पिषः श्रेष्ठं स्निग्धं भोजनमेव च॥
शस्त्रकर्मणि निर्युक्ते हवनं शान्तिकर्म च॥५०॥
वारणस्य तु कर्तव्यं यथोक्तंयज्ञकर्मणि॥
तम्मात्सर्वप्रहाराणां विद्धमादि प्रकीर्त्यते॥५१॥
अवाच्छन्नावसृष्टानि त्ववकृत्तं तथैव च॥
वृष्टदग्धे च राजेन्द्र यञ्चाज्ञ(न्य)द्व्रण2337संज्ञितम्॥५२॥
तस्माद्विद्धमिति प्राहुः शास्त्रतत्त्वार्थकोविदाः॥
तस्मात्प्रयोगकुशलं लघुहस्तं जितेन्द्रियम्॥५३॥
परीक्ष्यकारिणं शूरं बलिनं शास्त्रकोविदम्॥
यशस्विनमलुब्धं च जितक्रोधं जितक्लमम्॥
वैद्यं नियोजयेद्राजा प्रतिकर्मसु हस्तिनाम्॥५४॥ इति।
तत्र श्लोकाः(कः)—
इति भिषगंमुशिष्य बुद्धी शुभमशुभं च ततः शुभं च कुर्यात्॥
विपुलबलयशोर्थकीर्तिहेतोर्विपुलगुणार्थीं गजं परीक्ष्य॥५५॥

मर्मविद्धो नाम त्रयोविंशोऽध्यायः॥२३॥
<MISSING_FIG href="../../../books_images/U-IMG-17053973251.png"/>
अथ चतुर्विंशोऽध्यायः।
——————
भङ्गराजो महाप्राज्ञः कुबेरसमविक्रमः॥
हस्तिशालासमासीनं पालकाप्यं स्म पृच्छति॥१॥
भगवन्यत्त्वया प्रोक्तं रोगज्ञानं सलक्षणम्॥
तत्र मे संशयः कश्चित्तन्मे शंसितुमर्हसि॥२॥
शुद्धश्लेष्मसमुत्पत्तिः शुद्धपाकल आदितः॥
प्राग्भागोष्णः कथं विप्र पश्चाद्भागेन शीतलः॥३॥
न चोष्णलक्षणं चेति हस्तिनां जायते ज्वरः॥
निदानलक्षणो ह्येष यस्त्वयोक्तो महामुने॥४॥
कथं साध्यश्च बालोऽयं कूटश्चायं न सिध्यति॥
समानदोषैर्विप्रेन्द्र तावुभावपि कीर्तितौ॥५॥
पक्वलःपुण्डरीकश्च वातपित्तकृतावुभौ॥
विकारेषु विरुध्येते चिकित्सायां तथैव च॥६॥
शनैः क्षीयेत वा केन हेतुना च मृदुग्रहः॥
कथं च भूतसंसृष्टो दृष्टः कुक्कुटपाकलः॥७॥
दैवाच्च केचिदिच्छन्ति दोषतश्चापरे जनाः॥
एकाङ्गग्रहसंज्ञस्तु पाकलो मुनिसत्तम॥८॥
दृश्यते भूतसंसृष्टो दोषतश्च न दृश्यते॥
स कृशत्वेन संयोज्यः कथं तीक्ष्णोदरानलः॥९॥
शारदश्चोपल2338क्ष्यश्च प्रसुप्तः पाकलो भवेत्॥
महापाकलसंज्ञश्च श्लेष्मणः संचयाद्भवेत्॥१०॥
न चाऽऽदौ क्रियते कस्मात्प्रतीकारः कफस्य वै॥
महत्त्वं चैव यत्तस्य तन्मे शंसितुमर्हसि॥११॥
एतान्सपरिहारान्मे सनिरुक्तान्ससंभवान्॥
तत्त्वतो निखिलान्प्रश्नान्महार्थान्वक्तुमर्हसि॥१२॥

शृणु राजन्नवहितो यन्मां पृच्छसि संशयम्॥१३॥
नाभेरुपरि पित्तस्य स्थानं हृदयमाश्रितम्॥
नाभेःपश्चिमभागे तु स्थानं वायोर्निरुच्यते॥१४॥
प्रोक्तान्यामाशयः पर्वाण्युरः कण्ठः शिरस्तथा॥
स्थानान्येतानि सर्वाणि श्लेष्मणो दन्तिनां नृप॥१५॥
शुद्धपाकलनिर्वृत्तौ स्थानात्पित्तं च विच्युतम्॥
श्लेष्माणं पश्चिमं भागमानयेत्सह वायुना॥१६॥
ततः श्लेष्मानिलौ तत्र शीतलं कुरुते गजम्॥
प्राग्भागसोष्मता तस्य सा तु पित्तस्यवीर्यतः॥१७॥
सुरशापाद्गजेन्द्राणामन्तःस्वेदत्वमाहितम्॥
न चोष्मलक्षणस्तेषां हस्तिनां जायते ज्वरः॥१८॥
कदाचिदङ्गप्रत्यङ्गं यदा गच्छति मारुतः॥
तेन वालस्य राजेन्द्र युज्यते यदि भेषजम्॥१९॥
तेन सिध्यति बालोऽयं कूटहेतुः प्रवक्ष्यते2339॥
मुक्त्वा स्थानानि सर्वाणि कूटादानं प्रभञ्जनः॥२०॥
सहसा हृदयं गच्छेद्धृतश्चापि च पातयेत्॥
हृदयग्रहणाद्वायुः कूटस्तेन न सिध्यति॥२१॥
व्यानो वायुः प्रकुपितो ह्युदानसहितो नृप॥
पित्तमुत्क्षिप्य जनयेत्पक्वलं कोपमाश्रितम्॥२२॥
गुरुस्थानोपरोधाच्च रौद्रस्तस्माद्भवेद्गजः॥
इत्येष पाकले हेतुः पुण्डरीके प्रवक्ष्यते॥२३॥
मारुतः कुपितः पित्तं कोपयेन्मनुजाधिप॥
पित्तं सरक्तं नागस्य त्वचं दूषयति प्रभो॥२४॥
तस्माद्ध्युक्तोविकारोऽयमधिकश्चैव लक्षयेत्॥
मारुतः कुपितो देहे कारणैः पूर्वकीर्तितः॥२५॥
मांसं मेदो रसं रक्तंमज्जां शुक्रं च दन्तिनाम्॥
यस्यात्क्रमात्क्षप2340यति तेनैष क्षीयते शनैः॥२६॥
श्लेष्माभिभूतो योऽत्यर्थं, पेशलं तु लभेत वै॥
समानः कुपितस्तस्य प्राणापानौ च दूषयेत्2341॥२७॥
व्यानोदानौ च संहृष्य कुर्यात्कुक्कुटपाकलम्॥
शरीराणां च भूतानां विपर्यासस्ततोभवेत्॥२८॥
विपर्यस्तेषु भूतेषु भूतसंश्लेषवद्भवेत्॥
तस्माद्भूतोपसृष्टस्तु दृष्टः कुक्कुटपाकलः॥२९॥
स्पृष्टस्य वारुणैः पाशैर्गजस्पाऽऽदौ नराधिप॥
पीड्यमानस्य तैः पाशैर्वातः श्लेष्मा च कुप्यति॥३०॥
एवं स दैविको भूत्वा पश्चाद्दोषेण लिप्यते॥
आदानं दैवमेवास्य दोषाणां संप्रकीर्तितम्॥३१॥
पित्तादानैर्गजे पित्तं वृद्धमग्निं विवर्धयेत्॥
तीक्ष्णज्योतिः स भवति शारदत्वं स2342 गच्छति॥३२॥
ततः सुषि2343रमांसत्वाद्वायुर्नागस्य कुप्यति॥
श्लेष्माणं कोपयेत्पश्चाद्विकारः श्लैष्मिकः स्मृतः॥३३॥
बलेन संचितः श्लेष्मा जठरं कुरुते गजम्॥
स यदा जठरो नागः सहसा कर्म कार्यते॥३४॥
समानः कुपितं प्राणं पश्चात्संदूषयेद्यतः॥
क्षीयते हेतुना तेन कृशत्वे तु प्रतिक्रिया॥३५॥
मारुतः कफमादाय हृदयं संश्रितस्तु पत्॥
करोति महतींपीडां तेनायं पाकलो महान्॥३६॥
वातोऽत्र कारणं यस्मात्तेन वाते प्रतिक्रिया।
कर्तव्या नृपशार्दूल पालकाप्यमतानुगा॥३७॥
महारोगो यतश्चायं पतनाच्च महद्भयम्॥
उभयत्र महत्त्वाञ्च महापाकलसंज्ञितः॥३८॥

दोषविवायो(चयो) नाम चतुर्विंशोऽध्यायः॥२४॥
अथ पञ्चविंशोऽध्यायः।
—————
अङ्गराजो हि चम्पायां पालकाप्यं स्म पृच्छति॥
भगवन्नग्रिदग्धानां वारणानां महामुने॥१॥
व्रणा देशेषु जायन्ते नानासंस्थानवर्णकाः॥
तेषां रूपं चिकित्सां चब्रवीतु भगवा2344न्मम॥२॥

तत्राग्रिदग्धो द्विविधस्त्वग्गतः स्फोट एव च॥३॥
द्रवात्स्थिराच्च विज्ञेयः स तु दाहो नराधिप॥
भवेज्जतुम2345धूच्छिष्टस2346गुडामेध्ययावकैः॥४॥
अङ्गराशीविषाभ्यां च तथाऽशनिनिपाततः॥
दाहयोनिः स्वयं प्रोक्ता बहुधा पार्थिवोत्तम॥५॥
विकल्पतः पञ्चविधो राजन्दाहः प्रकीर्तितः॥
परंपरादिद्रव्येभ्यस्तथाऽऽदित्याग्रिसेवनात्॥६॥
ज्वालाबाष्पैश्च नागानांदग्धमुत्पद्यते नृप॥
तत्र वैद्यो यथाशास्त्रं कर्म कुर्यादतन्द्रितः॥७॥
परिषेकं प्रदेहं स चूर्णं तैलं घृतं वसाम्॥
अतिदग्धस्य नागस्य यथाक्रमं सुखोदकम्॥८॥
मे(इ)क्षुरसं पयश्चैव मधुकं च सशर्करम्॥
तण्डुलोदकमप्येवं सुराश्चैव पृथग्विधाः॥९॥
एष कार्यो भवेत्सेको वैद्यैः संनिहितैः सदा॥
एतेन दाहो रोगश्च वेदना व प्रशाम्यति॥१०॥
अतः प्रलेपं कुर्वीत मधुपर्णी शतावरी॥
तालीसपत्रमञ्जिष्ठातिलाश्चोते2347न लेपयेत्॥११॥
ततः सयष्टीमधुकं सर्वमालोड्य भाजने॥
प्रलेपं कारयेद्वैद्यस्त्वग्निदग्धप्रशान्तये॥१२॥
एवमेवानुपूर्वेण कुर्यादालेपनं भिषक्॥
अश्वत्थोदुम्बरप्लक्षान्मधुकं काकजम्बुकम्॥१३॥
एलां2348 मधुरसां चैव श्लक्ष्णपिष्टानि कारयेत्॥
तेनास्य व्रणमालिम्पेद्घृताक्तेन पुनः पुनः॥१४॥
दाहो निवर्तते तेन वेदना चोपशाम्यति॥
लभते सौमनस्यंच यवसं चाभिनन्दति॥१५॥
रोध्रंच मांषपर्णी च हरिद्रे चाप्युभे तथा॥
क्षीरिकायाः शतावर्याः पयसा च घृतं पचेत्॥१६॥
ततोऽस्य दग्धं नागस्य म्रक्षणेन प्ररोहति॥
अथवा रोपणं तैलं विपद्येतेन रोपयेत्॥१७॥
मांसी समङ्गाममृतां माषपर्णी तथैव च॥
मधुकं च समञ्जिष्ठं कुशमूलं च पेषपेत्॥१८॥
एतत्सर्वं समाहृत्य क्षीरेण सह योजयेत्॥
तत्तैलं पाचयेद्धीरो यथायोगं यथासुखम्॥१९॥
तेनास्य व्रणमभ्यङ्गान्नित्यमेवमतन्द्रितः॥
क्षिप्रं प्ररोहते तेन अग्निदग्धं समन्ततः॥२०॥
तथैव कारयेच्चूर्णं रोपणं मनुजाधिप॥
पद्मं समङ्गा तगरं जीवकर्षभकावुभौ॥२१॥
मधुकं धातकीपुष्पं रोध्रंसर्जर2349सं तथा॥
बलामतिविषां चैव सूक्ष्मचूर्णानि कारयेत्॥२२॥
प्रतिचूर्णनमेवं स्यादिदमन्यच्च रोपणम्॥
सुपिष्टानथ कृष्णांश्च तिलांस्तु मधुना सह॥
घृतेन मिश्रयित्वाऽथ रोपणं वा प्रलेपनम्॥२३॥
सुप्ररूढव्रणं नागं प्रसूनत्वक्तनूरुहम्॥
दोषप्रशमनार्थाय घृतेन सह भोजयेत्॥२४॥
इत्यङ्गराजो विधिवद्धस्तिशास्त्रसमाश्रयम्॥
श्रावितं(तः) पालकाप्येन अग्निदग्धचिकित्सितम्॥२५॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने वृद्धोपदेशे तृतीये शल्पस्था-
नेऽग्निदग्धचिकित्सितं नाम पञ्चविंशोऽध्यायः॥२५॥
अथ षड्विंशोऽध्यायः।
——————
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति॥
कथं लूताः संभवन्ति वारणांनां महामुने॥१॥

अतो लूताः प्रवक्ष्यन्ते भास्करानुचराश्च ताः॥२॥
तासां लालाः प्रति प्राप्ता विनाशयति वारणम्॥
मालती पुष्कराग्रे तु काकोल्यपि च वर्त्मनि॥३॥
अङ्गुल्यां मेदिनी नाम स्थूलहस्तेऽतिभावनी॥
कुम्भे च प्राभवा2350 नाम विद्रोश्च2351 हरिणी स्मृता॥४॥
आसने विजया नाम श्यामा ज्ञेया2352 तथोरसि॥
आष्ठीव्ये2353 मधुका नाम धनुर्नामा तु या मुखे॥५॥
अंसयोरपि कापोती सुभगा दन्तवेष्टयोः॥
मण्डे गृध्रनखी नाम पांशुका गात्रयोरपि॥६॥
कर्णिकारी भवेत्प्रोहे कोशे च कुक्कुटीं2354 स्मृता॥
अक्षिका तल्पले चैव मेढ्रेवसुमती तथा॥७॥
नाभ्यां पुष्करमध्ये तु स्वगता रन्ध्रदेशयोः॥
नाम्ना गुल्मवती नाम मस्तकेषीकयोर्दिशेत्2355॥८॥
एकविंशतिरित्येता देशेष्वन्येष्वपि स्मृताः॥
सर्वाः संमोहसंदाहव्यापत्सु परिकीर्तिताः॥९॥
सर्वसु च भ्रमच्छर्दिस्तृष्णादाहसमुद्भवाः॥
विशेषान्मस्तकेषीकास्तनगण्डकटाक्षिषु2356॥१०॥
स्तनान्तराण्डकोशांसतल्पलेष्वप्रतिक्रिया॥
धूमश्रमरशुश्राश्रपक्वोदुम्बरसंनिभाः॥११॥
कटुकाश्च कपोताश्च कर्णिकारनिभास्तथा॥
वदन्ति वर्णतो लूतास्तासां कुर्यात्क्रयां भिषक्॥१२॥
तां छिन्द्यान्मण्डलाग्रेण प्रोत्क्षिप्य बडिशेन तु॥
ताश्चाग्निना दहेत्सम्यक्कुर्याच्चाऽऽशु प्रलेपनम्॥१३॥
हरिद्राद्वयमञ्जिष्ठाप्रपुन्नाटफलेन तु॥
लक्ष्णैर्हिङ्गुलकागारधूमसैन्धवसंयुतैः॥१४॥
प्रपौण्डरीकरोध्रत्वक्सारिवोत्पलकन्दुकैः॥
नवनीतयुतैःक्षीरैः क्षालितं लेपयेत्पुनः॥१५॥
ततो मन्त्रं त्रिरुक्त्वाऽस्य पुनः कुर्याच्चिकित्सितम्॥
शीतावगाहक्षीराज्यपानमृल्लेपनैः शुभैः॥१६॥
उत्तरे हिमवत्पार्श्वे पर्वतो गन्धमादनः॥
तस्यकुक्षौ निवसति कुमारी पुण्यलक्षणा॥१७॥
ऐणेयचर्मवसना सर्पमेखलमण्डिता॥
गोनसांश्चोत्तरां कृत्वा भुङ्क्ते नानाविधं विषम्॥१८॥
सा तत्र नित्यं लपति विद्या जाङ्गुल्यहं शुभा॥
विषाण्यहं दोषयामि निहन्मि विषकुम्भके॥१९॥
मया मन्त्रपदाः सृष्टा यैर्दष्टः साध्यते गजः॥
स2357मां स्मरतु मन्त्रांश्च दष्टो यो लूतया क्वचित्॥२०॥
** ** ‘इरिलि मिरिलि द्रमिडि द्रामिडि गुल्मगुल्माशिरोवेष्टानि अङ्गानामङ्गनाटानि अङ्गानां दंशानाशने यक्षराक्षसपिशाच मिरिलि स्वाहा’।

षड्विंशो लूता2358ध्यायः॥२६॥
<MISSING_FIG href="../../../books_images/U-IMG-17054001131.png"/>
अथ सप्तविंशोऽध्यायः।
——————
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति॥
चरन्तस्तेऽपि बहवो विषकीटा नराधिप॥१॥
तस्मिन्मिथुनकाले तु मुदिता जन्तवः स्मृताः॥
सृजन्ति शुक्रं मूत्रं वा पुरीषं स्वेदमेव वा॥२॥
हस्तिनां यदि चेत्काये पतेयुर्मनुजाधिप॥
स्फोटास्तत्रोपजायन्ते तस्मिन्देशे महारुजाः॥३॥
अग्निदग्धा इवाऽऽभान्ति दाहश्चान्तः प्रजायते॥
हस्तेन जिघ्रत्यसकृल्लालां च विसृजत्यपि॥४॥
मुखं न लभते चैव यवसं नाभिनन्दति॥
परिमूत्री भवेच्छ्वासी मुहुस्तुद2359ति विस्वरम्॥५॥
विसर्प इति तं प्राहुर्दृष्ट्वा केचिदपण्डिताः॥
एतदेवास्यविज्ञानमत ऊर्ध्वं चिकित्सितम्॥६॥
जलौकाभिर्हरेद्रक्तं शस्त्रेण निशितेन वा॥
शुद्धे तस्मिन्हते रक्ते चेन्द्रगोपकसंनिभे॥७॥
शीतलेन ततः सिञ्चेत्सलिलेन मतङ्गजम्॥
अथास्य लेपं वक्ष्यामि येनायं लभते सुखम्॥८॥
स्वदिरं चाश्वकर्णं च धवं शैलमुदुम्बरम्॥
अश्वत्थं सिन्दुवारं च उशीरं नलदं तथा॥९॥
वरुणस्य प्रवालानि करञ्जतरुजानि वा॥
अश्वमारकनिर्गुण्ड्योर्मधूकस्य तथैव च॥१०॥
तगरः श्वेतकिणिही श्यामा काला तथैव च॥
श्लक्ष्णपिष्टकृतांश्चैताञ्शीतले भाजने स्थितान्॥११॥
कृष्णमृत्तिकया सार्धं घृतेन सह संसृजेत्॥
दिह्यात्प्रलेपेनैतेन सुखी संपद्यते गजः॥१२॥
परिषेकस्ततः कुर्याद्विषनाशनमुत्तमम्॥
क्षीरवृक्षत्वचश्चैव मधूकाश्मन्तकत्वचः॥१३॥
श्लक्ष्णपिष्टं द्रवीकृत्य नवे कुम्भे निपातयेत्॥
तेन कुर्यात्परीषेकं ततः संपद्यते सुखी॥१४॥
अभ्यङ्गः शतधौतेन सर्पिषा चैव कारयेत्॥
अङ्कोठं वरुणं शेलुंतथा द्वे च पुनर्नवे॥१५॥
श्वेतां श्यामां च भा…….रोहिषं चापि तत्समम्॥
सलिले पाचयेदेनं ततस्तमवतारयेत्॥१६॥
तस्मिन्नेव च निक्वाथे द्विद्रोणे भेषजं भवेत्॥
दन्तीमूलपलं चैव तृ(त्रि)वृतायास्तथैव च॥१७॥
चित्रकस्य पलं चैव शुकाख्यायास्तथैव च॥
फणिज्जकपलं चैव विडङ्गानां पलं तथा॥१८॥
पिप्पलीनां पलं चैव शृङ्गवेरपलं तथा॥
पाठाया गजपिप्पल्या बीजपूरफलं तथा॥१९॥
यावन्त्येतानि सर्वाणि घृतं तावत्प्रदीपयेत्॥
तत्सर्वमेकतः कृत्वा शनैर्मृद्धग्निना पचेत्॥२०॥
एवं तु पाययेन्नागं विषं तेन प्रशाम्यति॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेनाथ नोदितः॥२१॥

सप्तविंशो विषकीटचिकित्साध्यायाः॥२७॥
<MISSING_FIG href="../../../books_images/U-IMG-17054006011.png"/>
अथाष्टाविंशोऽध्यायः।
——————
अथ व्यालेन दष्टस्य लक्षणं वारणस्य च॥
चिकित्सां च महाराज शृणु कीर्तयतो मम॥१॥
व्यालो यदाऽक्षिकाविष्टो वारणं दशति प्रभो॥
वातमूर्छानिदानानि द्विरदः कुरुते तदा॥२॥
व्यालवद्रमते क्रुद्धो वित्रसेच्च जलाशयात्॥
व्यापन्नचित्तश्च गजो मूर्छते व्यथतेऽपि च॥३॥
एतल्लक्षणविज्ञानं चिकित्साऽतः प्रवर्तते॥
दहेच्छलाकया तस्य दशां भिषगतन्द्रितः॥४॥
समन्ताच्चापि दष्टस्य कार्यं शोणितमोक्षणम्॥
तस्यकार्यं विशेषेण रात्रिक्षिप्तचिकित्सितम्॥५॥
या तु वातगतिः प्रोक्ता क्रियास्तस्य तु कारयेत्॥
धूपाञ्जनाभ्यङ्गविधेस्तस्यरक्षोघ्नमिष्यते॥६॥
काश्यपस्य मताच्छेषं चिकित्सितमुपाचरेत्॥
अनाविष्टश्चिकित्स्यः स्यादाविष्टश्चन2360 सिध्यति॥७॥
तत्र श्लोकः—
इक्षुविकारःपललं तिलतैलं क्षारमार्कमिति॥
पीतं सद्यो विषमिह शु2361ष्काश्रमिवानिलः क्षिपति॥८॥

व्यालदष्टो नामाष्टाविंशोऽध्यायः॥२८॥
<MISSING_FIG href="../../../books_images/U-IMG-17054007851.png"/>
अथैकोनत्रिंशोऽध्यायः।
——————
अथातः प्रदेशज्ञानं नामाध्यायं व्या2362ख्यास्यामः।
इति ह स्माऽऽह भगवान्पालकाप्यः। इह खलु शरीरं मूलम्। सन्मूलान्यप्रत्यङ्गानि लोकप्रसिद्धानि। पञ्चदश प्रदेशाः प्रत्यङ्गानीत्यनर्थान्तरम्॥
तत्र प्रदेशानामग्रेऽङ्गुलिः। अङ्गुल्यभ्यन्तरे वर्त्म। ततः स्रोतसी। एतयोरन्तरं श्रो(स्रो)तोन्तरम्। तस्मात्पुष्करम्। पुष्करे2363 राजिः। (तदुपर्यङ्गुलम्।2364) अङ्गल्या उपरि गण्डूषः। ततोऽग्रहस्तः। गण्डूषपार्श्वयाःश्रीः। एतयोरभ्यन्तरं गण्डूषा। तदुपरि बहिष्कर्षः। एतस्य दक्षिणपार्श्व आकर्षः। वामपार्श्वे परिकर्षः। पृष्ठत उपकर्षः। तस्यैवाभ्यन्तर उत्कर्षः। एतेः प्रदेशैः समन्वितोऽग्रहस्तः। बहिष्कर्षादुपरि मध्ये हस्तस्य संभोगः। एतस्य पार्श्वयोर्हस्तबाहू। तयोश्चाभ्यन्तरं संभोगान्तरम्। संभोगस्योपरि त्रिराजिः। त्रिराजेरुपरि पर्व। तस्योपरि स्थूलहस्तः। एतस्याभ्यन्तरे पलिहस्तः। पलिहस्तस्योपरि पृथुहस्तः। पृथुहस्तस्याभ्यन्तरेऽतिहस्तः। अतिहस्तस्याभ्यन्तरे राजयः। सर्वगता वलयश्चेति॥
तत्र श्लोकः—
अङ्गुलीप्रभृति प्रोक्ताः क्रमेण द्विरदस्य ते।
अष्टौ च विंशतिश्चैव प्रदेशा इस्तमाश्रिताः॥
आस्ये कृष्णान्त(र)म्। ततस्तालु। तालुमध्ये श्रो(स्रो)तसी। अतो मध्ये तालुवंशः। ततो जिह्वाभ्यन्तरे भक्षणार्थं दशनाः षोडशाधस्ताच्चोपरिष्टाच्च। तेषु चतस्रो दंष्ट्राः। तत ओष्ठः। तस्याभ्यन्तरे वर्त्मनी। तत ओष्ठप्रस्राव ओष्ठापार्श्वयोः। ओष्ठबाहू अधस्तात्। ओष्ठसंधी ओष्ठसंध्योः। ततः सृक्विणी। ओष्ठाधो रोमकूर्च इति॥
तत्र श्लोकः—
कृष्णान्तादय इत्येते क्रमशः परिकीर्तिताः।
प्रदेशा मुखसंबद्धास्त्रिंशदिहतु संख्यया॥
दन्तयोर्दन्ताग्रे दन्तमध्ये दन्तमूले। दन्तयोरुपरि दन्तवेष्टौ। एतयोरुपरि प्रवेष्टाविति॥
तत्र श्लोकः—
इत्येते त्वभिविज्ञेयाः प्रदेशा दन्तयोर्दश।
यथाव्दनुपूर्वेण शिक्षाविद्भिरुवाहृताः॥
बहिर्मुखे दन्तान्तरे प्रतिमानम्। तस्य पार्श्वयोः शम्बुके। प्रतिमामस्योपरि मध्ये मुखस्य वाहित्थम्। तस्य पार्श्वयोर्विलागौ। विलागयोरुपरि कर्कटमध्ययोः कटस्त्रोतसी। कटस्रोतसोरधस्तात्कटप्रस्रावौ। कटप्रस्रावपोरधस्ताद्गण्डौ। गण्डयोरधस्तात्कपोलौ। कपोलयोर्मध्ये रोमकूर्चौ। रोमकूर्चयोरधस्ताद्धून्। हन्वोरधस्तात्सगदे। तयोः संधिः सगदासंधिः। एतयोरन्तरं सगदान्तरम्। कटयोः पार्श्वतो घाटे। घाटयोरुपरि कटसंधी। कटसंध्याश्रितौश्रवणाविति॥
तत्र श्लोकः—
त्रयस्त्रिंशदिह प्रोक्ताः प्रदेशा मुखमाश्रिताः॥
प्रतिमानप्रभृत्येते क्रमशः शास्त्रनिश्चिताः॥
चक्षुषोरक्षिगुहे। अक्ष्णोरुपर्यक्षिकूटौ। अक्ष्णोरधस्तादक्षिस्रावौ। अक्ष्णोः पूर्वभागयोः कनीनिके। पश्चाद्भागयोरङ्गौ। पक्ष्ममण्डले वर्त्ममण्डले शुक्लमण्डले कृष्णमण्डले दृष्टिमण्डले पक्ष्मवर्त्मसंधी वर्त्मशुक्लसंधी शुक्लकृष्णसंधी कृष्णदृष्टिसंधी कनीनिकासंधी चेति॥
तत्र श्लोकः—
प्रदेशा2365 नेत्रपोरेते द्वात्रिंशदिह कीर्तिताः।
दृष्टिमण्डलसंयुक्ता व्यक्ता द्वादश संधिजाः॥
शिरसि वाहित्थम्। वाहित्यस्योपरि कुम्भौ। एतस्याभ्यन्तरे कुम्भान्तरम्। एतस्याग्रे कुम्भस्योपरि बिम्बकौ। बिम्बकपार्श्वयोः पाकले। अक्षिकूटोपरीषीके। इषीकयोर्मध्य इषीकान्तरादूर्ध्वे इषीकाग्रे। इषीकाग्रयोर्बहिः पार्श्वे निर्याणम्। पार्श्वयोरधस्तान्निर्याणसंधी। निर्याणसंध्योरूर्ध्वं बिम्बकस्योपरीषीकाग्रमध्ये तिर्यगायतोऽवग्रहः2366। अवग्रहस्योपरि पुरस्कारः। पुरस्कारस्योपरि निर्याणम्। तयोरन्तर उन्नता तिर्यगायताऽवग्रहवर्तिः। अवग्रहवर्त्या उपरि मस्तकौ। मस्तकयोर्मध्ये विदुः2367। मस्तकयोर्बहिःपार्श्वयोर्विताने निर्याणयोः पश्चात्पार्श्वायेः कूर्ममस्तकंसंधी केशाश्चेति॥
तत्र श्लोकः—
चतुर्विंशतिरित्युक्ताः शिरसः क्रमशो मया।
पथावदनुपूर्वेण प्रदेशा हस्तिनामिह॥
कर्णयोः कर्णाग्रे कर्णपर्वतौ। कर्णयोरधस्तात्प्राक्कर्णौकर्णमध्ययोः। तयोःपर्यन्तौ मध्यकर्णौ। कर्णयोरधस्तात्कर्णपाली। कर्णयोर्बहिर्बहिष्कर्णौ, अन्तरेऽन्तरकर्णौकर्णपर्वतौ। कर्णयोः कर्णपिञ्जूषौ। कर्णावर्तपार्श्चयोः कर्णपिञ्जूकौ। कर्णावर्तपार्श्वपार्श्वयोः कर्णपञ्जूकौ। अधस्तात्कर्णसंधी। ततः श्रोत्रे। श्रोत्रपार्श्वयोर्वातालके कर्णचूलिके कर्णपिप्पल्यावुद्यानवत्यावुद्यातौ चेति॥
तत्र श्लोकः—
एते कर्णाश्रिताः शास्त्रे संख्यया दन्तिनामिह।
त्रिंशत्प्रदेशा व्याख्याता यथावदनुपूर्वशः॥
ग्रीवायां ग्रीवापृष्ठम्। तस्याधस्ताद्गलः। ततः कण्ठपार्श्वयोर्धमन्यौ। गलपार्श्वयोर्दुर्दुरौ। दुर्दुरयोरुपरि मन्ये। मन्ययोरुपरि (गुहे।2368 गुहाभ्यां समुद्गौ।समुद्गपार्श्वयोः पिण्डिके। पिण्डिकयोरुपरि गुहाभागौ। तयोर्यतस्थाने)। यतस्थानपार्श्वयोः पार्ष्णिघातौ। पार्ष्णिघातयोरुपर्युत्सङ्गौ। उत्सङ्गयोरुपरिस्कन्धः। स्कन्धमध्ये पणवकश्चेति॥
तत्र श्लोकः—
त्रयोविंशतिरित्येते संख्यया परिकीर्तिताः।
ग्रीवाप्रदेशा नागानां क्रमशः शास्त्रनिश्चिताः॥
उरसि ग्रीवासंध्याश्रितोऽन्तर्मणिः। अन्तर्मणेरधस्तादुरोमणिः। उरोमणिपार्श्वयोर्गात्रसंध्याश्रितौविक्षोभौ। विक्षोभयोर्मध्य आवर्तमणिः। आवर्तमणेःप्रभृति हृदयम्। हृदयादुरः। ततः संधिः। उरोगात्रमध्ये चतुरक्षान्तरमिति॥
तत्र श्लोकः—
प्रदेशाः सप्त संख्याता उरसस्तु नृपोत्तम।
हृदयस्थानप्रदेशान्प्रवक्ष्याम्यत उत्तरम्॥
हृदय(ये) स्तनौ। (यं) चूचुकयोर्मध्ये क्षीरिके इति॥
तत्र श्लोकः—
हृदयस्थानसह (?) ते व्यक्ता मे जठराश्रयाः।
दश प्रदेशा व्याख्याता दन्तिनामिह संख्यया॥
गात्रयोरासनपार्श्वयोः प्रतीकासौ। प्रतीकासयोरधस्तादंसौ। अंसाधस्तात्प्रत्यंसौ। प्रत्यंसाधस्ताद्बाहू। बाहुमध्ययोरुपरि प्रत्यंसफलकौ। अंसफलकाधस्ताद्गात्रसंधयः। संधयोरधस्तात्क्षयौ। क्षययोरधस्तात्पृष्ठतो वहिः। तयोरधः पुरस्तात्पिण्डिकौ। पिण्डिकयोरधस्ताद्वैशाखौ। वैशाखयोरधस्ताज्जवभागौ। जवभागयोरधस्ताद्विशेषौ। विशेषयोरधस्तादुत्सङ्गौ। उत्सङ्गयोरधस्तात्प्रोत्साहौ। प्रोत्साहयो2369रधस्तात्पर्वणी। पर्वण्योरधस्तात्संदानभागौ। संदानभागयोरधः पलिपादौ। तयोरधः कर्मौ। ततो दश नखाः। ततो दश नखविशिखाः, दश नखाग्राणि। ततो राज्यः। ततः पश्चात्पादयोर्दश नखाः। तेषामुभौ पुरोनखौ। पुरोनखद्वयस्य प्रत्येकं बहिःपार्श्वे द्वौ सनखौ। अन्तःपार्श्वे नखश्रा(स्रा)वौ। तेषां चतुर्णां बहिःपार्श्वतश्चत्वारः पार्श्वे नखाः। इत्येवं नखा विंशतिः। पार्श्वनखयोरुपरि बहिःपार्श्वपराजयः। अन्तःपार्श्वे नखयोरुपरि तलप्रोहौ। तलप्रोहयोरुपरि विक्षे। विक्षयोरुपरि पलिहस्तौ। पलिहस्ताभ्यन्तरे निवाहू। पलिहस्तयोरधस्तात्प्राक्कर्णौ नवहौ2370। पलिहस्तयोरुपर्यपस्कारौ। अपस्कारयोरुपरि पाद्यौ। पाद्ययोरधस्ताद्गात्रग्रहौ॥
तत्र श्लोकः—
षडेते नवतिश्चैव प्रदेशा2371 गात्रसंश्रिताः॥
आसनात्प्रभृति श्रीमानातलात्परिकीर्तिताः2372॥
काय आसनम्। आसनात्परो वंशः। वंशपार्श्वे तल्पलौ। वंशादुपरि कुवंशः। कुवंशस्य मध्ये पश्चिमासनम्। पश्चिमासनात्परं त्र्यस्थि। तस्योभयपार्श्वयोरुत्कृष्टौ। अस्थ्रःपरो लाङ्गूलवंशः। पश्चिमवंश इत्येके। अपरवंश इत्यपरे। लाङ्गूलवंशस्याधस्ताल्लाङ्गूलसंधिः। लाङ्गूलसंधेरधस्तात्पेचकः। पेचकाधस्ताद्गुदः। पायुरित्येके। गुदाधस्तात्करीषस्रावः। कायस्य मध्ये कक्षाभागौ। कक्षाभागपार्श्वयोः करणौ। ततः पृष्ठतः पादौ यत्र प्रतिबद्धाः पर्युकाः। पक्षयोरुपर्यवतारौ। पक्षपश्चाद्भागयोः कुक्षी। कुक्षिमध्ये निष्कोसौ। ततः संकोसौ। तयोरुपरि मृदुकुक्षी। वंशस्य पश्चाद्भागाश्रितौ पक्षसंधी। ततः पक्षयोरधस्तादायामकाण्डे। तयोरधः कक्षौ। आयामकाण्डयोः पश्चादपरसंधिः। अपरसंधेरधस्तादनुसारौ। तत्र आहृदयाज्जठरम्। जठरमध्ये कोशम्। कोशस्याग्रतो नाभिः। तत एव हृदयानुसृतान्तरं स्तनाः। तस्याः पार्श्वे स्तनौ। उत्कृष्टसंधयोरधस्तादुत्कृष्टसंधी इति॥
तत्र श्लोकः—
चत्वारिंशञ्च पञ्चैव प्रदेशाः परिकीर्तिताः।
संख्ययाकुञ्जराणां तु कायमध्ये समाश्रिताः॥
अपरयोर्जघनम्। जघनस्याधस्तात्पार्श्वयोरधस्तात्कारीषयस्रावादधः कलाभागौ। कलाभागयोरधस्ताद्वहिःपार्श्वे जघनस्य पश्चात्पिण्डिके। पिण्डिकयोरधस्तान्मण्डूक्यौ। मण्डूक्योरधस्तात्संदानभागौ। संदानभागपारेधस्तात्सं2373त्कुटिके। स2374त्फुटिकासंधिपार्श्वयोश्चत्वारो ग्रन्थयः। स2375त्कुटिकयोरधस्तात्पार्ष्णी। पार्ष्ण्योरधस्तात्तलप्रोहौ तयोरभ्यन्तरपार्श्वे कचाः। बहिःपार्श्वे राजयः। तलप्रोहयोरधस्तात्तलकर्णौ। ततस्तलौ। समन्ततस्त लसंधी। संध्योरूपर्यष्ठीव्यौ। अष्ठीव्याधस्ताद्वक्त्रसक्थिनी। अनन्तरं वक्त्रसक्थ्नोरधस्तादपरान्तरे। संदानभागयोरधस्तात्कूर्मौ। कूर्मयोरधस्ताद्दशनकर्म। दश नखकूर्माः। दश नखशिखाः। तेषां पुरो नखादिविभागो गात्रनखवज्ज्ञेयः। नखान्तराण्यष्टाविति॥
तत्र श्लोकः—
चतुःसप्ततिरित्येते प्रदेशाःपरिसंख्यया।
आतलात्प्रभृति प्रोक्ता जघनात्प्रभृति प्रभो॥
मेढ्रस्य करीषप्रस्रावाधस्तादण्डकोशः। अण्डकोशस्य पार्श्वयोर्वङ्क्षणौ। वङ्क्षणपार्श्वयोर्मुष्कौ। अण्डकोशस्योपरि कोशसंधिः। मेहनस्तलः2376। तत्संधिनिर्गमात्प्रत्यूहः। प्रत्यूहस्याग्रे ककुदम्। ककुदान्मेढ्राग्रम्। तस्य मध्ये श्रो(स्रो)त इति॥
तत्र श्लोकः—
एवं मेढ्राश्रिताः शास्त्रे प्रदेशा दन्तिनामिह।
संख्ययैकादश प्रोक्ता यथावदनुपूर्वशः॥
लाङ्गूलस्यसर्वत्र2377 ग्रन्थयः। लाङ्गूलमध्ये वर्तकः। अभ्यन्तरे किली। तस्या बहिः संवर्तकाः। अधस्तात्किल्याः संवालः। तस्याधस्ताद्वालपुष्करम्। वालपुष्कराधस्तात्पर्व, इति।
तत्र श्लोकाः—
सप्तैते संख्यया सर्वेये लाङ्गूलसमा2378श्रिताः।
प्रदेशा हस्तिनां प्रोक्ता गजशास्त्रविशारदैः॥
हस्तास्यदन्तवदनदृक्शिरःकर्णकंधराः।
उरोहृदयगात्राङ्गमपरामेढ्रबालधिः॥
एतानि पञ्च दश च हस्तिनोऽङ्गानि ये श्रिताः।
चतुःषष्टिशतं प्रोक्तं ते प्रदेशाः प्रमाणतः॥
शरीरं हि चिकित्सायाः प्रदेशज्ञानमुच्यते।
शरीरमेवं विज्ञाय प्रदेशैर्बहुभिर्वृतम्॥
वारणानां यथाशास्त्रं प्रतिकर्म प्रयोजयेत्।
विदितेषु प्रदेशेषु सुखं कर्माणि वेदिषुः (?)॥
कर्मणामनभि2379ज्ञस्तु गजं व्यापादयेद्भिषक्।
वातेनैव2380 विना तस्याः प्रयोगो नेष्यते क्वचित्॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने प्रदेशज्ञानं
नामैकोनत्रिंशोऽध्यायः॥२९॥
<MISSING_FIG href="../../../books_images/U-IMG-17054030801.png"/>
अथ त्रिंशोऽध्यायः।
—————
अथासनस्थमासीनमभिवाद्याङ्गराजो रोमपाद2381 (एव)मब्रवीत्—‘भगवञ्शाखेछेद्यभेद्यलेख्यविस्रावणविदारणैषणसीवनान्युक्तानि कर्माणि। तत्र कीदृशेनकिंसमुत्थेन वा शस्त्रेण कीदृशं किं कर्म चानुष्ठेयम्॥
अथोवाच भगवान्पालकाप्यः—इह खलु भो हस्तिनामागन्तवो दोषसमुत्थाश्च व्रणविधयो बहुविधा भवन्ति। तेषां दोषप्रशमनार्थं शस्त्रविधानंसंस्थानप्रमाणतश्च वक्ष्यामः॥
तत्र कुण्ठं स्वरधारं वक्रं2382 ह्रस्वमनति2383स्थूलं दीर्घमानतं खण्डं वर्जयेत्। गुणवद्विपरीतं न चातिनिशितं2384 शस्त्रमवचारयेत्॥
तत्र तीक्ष्णेनायसा विधिवन्निष्पन्नेन कुशलकर्मारः शस्त्राणि कुर्यात्। तदुत्तमेन हि द्रव्येणोत्तमेन चाऽऽचार्येण क्रियया चोत्तमया कृतं शस्त्रंकार्यं साधयेदिति। तस्मात्प्रयत्नः कार्यः शस्त्राणामुत्तमानां करणे॥
तत्र शस्त्राणि दशनामसंस्थानानि भवन्ति। तद्यथा—वृद्धिपत्रम्, कुशपत्रम्, मण्डलाग्रम्, व्रीहिमुखम् कुठाराकृति, वत्सदन्तम्, उत्पलपत्रम्, शलाका, सूची, रम्पकश्चेति। फालजाम्बवता2385पिकादर्व्याकृतयश्चेति। एतान्यग्निकर्मविधाने चत्वारि चान्यानि शल्योद्धरणानि यथायोगं सिंहदंष्ट्रंगोधामुखंकङ्कमुखं कुलिशमुखं चेति। तिस्त्र एषिण्यः। एकविंशतिरेव वाऽयोमयानि साधनानि भवन्ति। तेषां संस्थानं प्रमाणं कर्माणि वक्ष्यामः—तत्र दशाङ्गुलप्रमाणं वृद्धिपत्रम्। षडङ्गुलप्रमाणं वृत्तम्। चतुरङ्गुलप्रमाणं पत्रम्। त्र्यङ्गुलविस्तीर्णं पाटनार्थं छेदनार्थं चेति। षडङ्गुलवृत्तमर्धाङ्गुलं सर्वतः। तत्र पूर्णचन्द्राकृतिरग्रे मण्डलाग्रम्। लेखनार्थमक्ष्णोव्रीहिमुखम्। उत्पलपत्रकमष्टाङ्गुलमेवैकम्। तच्चाष्टाङ्गुलप्रमाणमध्यर्धाङ्गुलविस्तृतमुभयतोधारं (व्रीहि2386मुखाकृति व्रीहिमुखम्। मुञ्जभेदनार्थं छेदनभेदनार्थं चेति। नवाङ्गुलं कुशपत्रम्। पञ्चाङ्गुलं वृत्तम्। चतुरङ्गुलं पत्रम्। अध्यर्धाङ्गुलतुलविस्तृतमुभयतोधारं) कुशपत्राकृति गम्भीरपाकभेदनार्थं षडङ्गुलं वृत्तम्। अध्यर्धाङ्गुलं पत्रम्। पूर्णचन्द्राकृत्याग्रमण्डलाग्रम्। लेखनार्थमक्ष्णोव्रीहिमुखप्रमाणमुत्पलपत्रं भेदनार्थं कुठाराकृति कुर्यात्। कुठारो (?) शस्त्रप्रच्छेदनार्थम्। वत्सदन्ताकृति वत्सदन्तं दशाङ्गुलंम्। एकैकमध्यर्धाङ्गुलमुखम्। एवमेतानि च त्रीण्यपि यथायोगं प्रच्छन्नार्थम्। सूची सेवनार्थम्। अष्टाङ्गुलं नागदन्ताकृति। त्र्यस्रा चतुरस्रा वा दृढा समाहिता समा वा शलाका वने वर्त्मविधृत्पर्थम्। रम्पकस्त्र्यङ्गुलमुखो दशाङ्गुलवृत्तः पादशोधनार्थं नवच्छेदनार्थं चेति। एषणी दशाङ्गुला विंशत्यङ्गुला त्रिंशदङ्गुला यथायोगमञ्जनशलाकाकृति मुखतः लक्ष्णा समा चैवमेतास्तिस्रएषण्यः प्रमाणतः कार्याः। कोरण्टकपुष्पाकृति मुखनेत्रताम्रायसं षोडशाङ्गुलमनुपूर्वं व्रणानां प्रक्षालनं कुर्याद्बडिशं चक्राग्रमष्टाङ्गुलप्रमाणमक्ष्णोः पटलोद्धरणार्थं चेति॥
तत्र श्लोकः—
यथोक्तान्येवमेतानि शस्त्राणि विधिवद्भिषक्।
कारयित्वा यथायोगं कुर्याद्व्रणविदारणम्॥

त्रिंशः शस्त्रविधिरध्यायः॥३०॥
<MISSING_FIG href="../../../books_images/U-IMG-17054039501.png"/>
अथैकत्रिंशोऽध्यायः।
—————
क्षारयोगं प्रवक्ष्यामि यथा सिध्यति कुर्वतः॥
विविधानां विकाराणां क्षारः प्रशमने हितः॥१॥
देशे प्रशस्ते जातं तु प्रशस्तं ग्राहयेद्द्रुमम्॥
मुष्ककं मध्ययवसं काण्डशस्तं2387 प्रकल्पयेत्॥२॥
अशुष्कं दाहयित्वा तु तिलनाले2388न संमितम्॥
तद्भस्म परिनिर्वातं सुनिगुप्तं निधापयेत्॥३॥
गोगजाश्वस्वरमूत्रैरालोड्यविधिवद्भिषक्॥
परिश्रा(स्रा)व्य च तद्भस्म सप्तकृत्वः पुनः पुनः॥४॥
परिश्रु(स्रु)तं तु तं क्षारमायसे भाजने पचेत्॥
पञ्चभागावहीनं तु तत्र वापं समाचरेत्॥५॥
सुवर्चिका सुधाचूर्णंयवक्षारो विडं तथा॥
कासीसं शङ्खचूर्णं च तथा सौराष्ट्रिकामपि॥६॥
चूर्णीकृत्यैतदावापं पच्यमाने विनिक्षिपेत्॥
दर्व्या च घट्टयेत्सम्यग्यावद्दर्विप्रलेपनम्॥७॥
उत्तार्य स्थापयेद्गुप्तं ततो वैद्यः प्रयोजयेत्॥
व्रणा येऽल्पव्रणा राजन्दुष्टमांसचितांश्च ये॥८॥
सास्रावा नाडिका जन्तोः कृमिदुष्टाश्च ये व्रणाः॥
कण्डूमन्तः प्रदुष्टाश्च ये च केशाः प्रकीर्तिताः॥९॥
वातिकाः पैत्तिकाश्चापि श्लैष्मिकाश्चापि ये व्रणाः॥
क्षारेणानेन साध्यास्तु यथायोगं भिषग्जता॥१०॥
गम्भीरानुशया ये2389 च व्रणास्ते राजसत्तम॥
सुरा सौवीरकं चापि व्रणप्रक्षालनं हितम्॥
इत्ययं क्षारयोगस्तु पालकाप्येन कीर्तितः॥११॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थान
एकत्रिंशः क्षाराध्यायः॥३१॥
<MISSING_FIG href="../../../books_images/U-IMG-17054041861.png"/>
अथ द्वात्रिंशोऽध्यायः।
——————
अङ्गो हि राजा चम्पायां पालकाप्यंस्म पृच्छति॥
भग्नं कतिविधं दृष्टं भगवन्ब्रूहि तत्त्वतः॥१॥

शरीरे पूर्वमुक्तानि यानि चास्थीनि दन्तिनाम्॥२॥
अस्थनां तेषां प्रवक्ष्यामि यथावद्भङ्गकारणम्॥
पतने ह्यवपाते च समरेऽभिहतस्य च॥३॥
स्खलनश्रंशनावेधैः पतनैरपि दन्तिनाम्॥
नागानामभिघातैर्वा भज्यन्तेऽस्थीनि सर्वशः॥४॥
तेषां नामापि वक्ष्यामि भग्नानां मनुजाधिप॥
निष्पिष्टमथ विश्लिष्टं तथा प्रक्षिप्तमेव च॥५॥
तिर्यक्क्षिप्तमतिक्षिप्तं मुक्तकाण्डं च यद्भवेत्॥
स्थापितं जर्जरीभूतं चूर्णितं मथितं च्युतम्॥६॥
मज्जानुजातं मथितं भग्नंचैव तथा स्मृतम्॥
त्रयोदशविधं त्वेवं भग्नं भवति दन्तिनाम्॥७॥
यथावदनुपूर्वेण कीर्तितं ते मया नृप॥
पालकाप्यवचः श्रुत्वा ततः प्रोवाच पार्थिवः॥८॥
तत्र यच्छिन्नभिन्नं च स्फोटितं मोटितं तथा॥
त्वङ्मांसममृतं चैव स्थानभ्रष्टं च यद्भवेत्॥९॥
कथं तदभिजानीयात्काण्डमुक्तं तथैव च॥
एतन्मे पृच्छतः सर्वं भगवन्वक्तुमर्हसि॥१०॥

नातिमात्रं भवेच्छोफो वेदना च न शाम्यति॥११॥
अस्थिस्थाने स्थितं दृष्ट्वानिष्पिष्ट इति तं विदुः॥
यः संधिदेशे श्वयथुर्यदा वा स्याद्रुजाऽन्वितः॥१२॥
एभिर्लिङ्गैर्महाराज विद्याद्विश्लिष्टमेव तु॥
निवृत्तो विषमः संधिर्गात्रदेशे यथा भवेत्॥१३॥
वेदना वर्धते वाऽपि तथा ह्युत्क्षिप्तमा2390दिशेत्॥
यद्वै पार्श्वगतं स्थानात्तिर्यक्क्षतमिति स्मृतम्॥१४॥
अतिक्रान्तं भवेत्संधिं तद्वा निक्षिप्तमुच्यते॥
वेदना शूनभावश्च केवलं विच्युते सदा॥१५॥
मथितं पृथुलं विद्धि चूर्णितं तु महारुजम्॥
स्फालितं स्फटितं नाम जर्जरं जर्जरीकृतम्॥१६॥
वेदना परिशोषश्च भृशमस्योपजायते॥
सशल्यमिव चाऽऽध्मातं सरुजं जर्जरं तु पत्॥१७॥
वारणानां महीपाल यथावदुपलक्षयेत्॥
यदा न क्षमते स्पष्टं विसृष्टं शब्दवत्तथा॥१८॥
विषण्णो वाऽनुवृत्तो वा वारणो न लभेत्सुखम्॥
भग्नास्यास्थ्नस्तु विज्ञानं वेदना चाभिवर्धते॥१९॥
स्फालितं त्वस्थिमध्येऽन्ग्रन्मज्जानुगतमेव तत्॥
काण्डमुक्तं तु यत्किंचिद्वेल्लितं तत्प्रकीर्तितम्॥२०॥
चतुर्विधानामस्थ्नां तु तेषां वक्ष्यामि लक्षणम्॥
कपालास्थीनि भिद्यन्ते भज्यन्ते नालिकास्तथा॥२१॥
नाम्यन्ते तरुणास्थीनि स्फटन्ति रुचका नृप॥
अत्यर्थमभिघाताच्च मन्यते चूर्ण्यते तथा॥२२॥
अस्थित्रयं नृपश्रेष्ठस्तरुणास्थिमुखक्रियाम्॥
इति भङ्गाः समुद्दिष्टा यथावदनुपूर्वशः॥२३॥
चिकित्सोपक्रमस्तेषां साध्यासाध्यं च वक्ष्यते॥
(अप्राप्तं………………………………………..2391)॥२४॥
अत ऊर्ध्वं महाराज चिकित्सां न प्रयोजयेत्॥
स्थानस्थश(यनं चात्र1551) यन्त्रे वाऽपि प्रतिष्ठिते॥२५॥
वारणं शीतलेनाथ जलेन परिषेचयेत्॥
(…………………………लभते मुखम्)॥२६॥
यस्त्वपर्वणि भङ्गः स्यादसाध्यः स नु कर्त्यिते॥
ऊर्ध्वं संवत्सराद्याप्यो भङ्गो भवति हस्तिनाम्॥२७॥
च्युतप्रम्लानविश्लिष्टव्याविद्धेषु महीपते॥
सर्वेषामेव भग्रानामेतदेव चिकित्सितम्॥२८॥
कर्तव्यं च मनुष्येण2392 नागानां हितमिच्छता॥
एवं हि कीर्तितं सर्वं मया भग्नचिकित्सितम्॥२९॥

भग्नचिकित्सितं नाम द्वात्रिंशोऽध्यायः॥३२॥
<MISSING_FIG href="../../../books_images/U-IMG-17054052871.png"/>
अथत्रयस्त्रिंशोऽध्यायः।
———————
परापरज्ञं तत्त्वज्ञं वेदवेदाङ्गपारगम्॥
पालकाप्यं महात्मानं रोमपादः स्म पृच्छति॥१॥
कथं व्यापद्यते कुक्षौ मूढगर्भः कथं भवेत्॥
लक्षणं मूढगर्भाया गर्भनिर्हरणं तथा॥२॥
श्र(स्र)वणं लयनं चैव वक्तुमर्हसि(ति) तद्भवान्॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत्॥३॥
विषमशय्यान्यशनैर्व्याधिभिश्च क्षुधा तथा॥
अतियानातिभाराद्वा लङ्घनप्लवनादपि॥४॥
वातमूत्रपुरीषाणां धारणादभिघातनात्॥
उपद्रवान्मनस्तापात्कुक्षौ गर्भो विपद्यते॥५॥
आचतुर्थाच्च मासाच्च रक्तं श्र(स्र)वति संनिभम्॥
ऊर्ध्वं संघातभूतस्तु पतेदासप्तमादपि॥६॥
यथापर्यागतं काले फलं वृन्तात्प्रमुच्यते॥
एवं विमुच्यते गर्भस्तन्तुमुक्तश्च जायते॥७॥
पूर्वोक्तकारणैर्वाऽपि यस्याः कुक्षौ विपद्यते॥
मृतगर्भा तदाऽत्यर्थं पूतिमूत्रपुरीषिणी॥८॥
पूतिनिःश्वासिनी क्षामा नचाऽऽहाराभिलाषि2393णी॥
दुर्मना दुर्मनस्का च गुरुप्राणा च हस्तिनी॥९॥
विपन्नमत्स्यगन्धा वा मृतगर्भेति तां विदुः॥
धर्मार्थं च यशोर्थं च मित्रार्थं च भिषग्वरः॥१०॥
भर्तुस्त्वनुम2394तेनास्या गर्भेशल्यं तु नि2395र्हरेत्॥
सर्पिषा कल्कमिश्रेण शाल्मल्या धन्वनस्य च॥११॥
दक्षिणं करमभ्यर्च्य योनिद्वारं च सर्वशः॥
विश्वासयित्वा सर्वस्वं यन्त्रयित्वा च हस्तिनीम्॥१२॥
प्रवेश्य हस्तं योनौ तु गर्भमार्गेण वा हरेत्॥
ऋजुमार्गेण नाऽऽगच्छेत्तं तु शस्त्रेण निर्हरेत्॥
छित्त्वा तथाऽऽनुपूर्व्येण तस्याङ्गानि पृथक् पृथक्॥१३॥
अक्लीबो दारुणो भूत्वा त्वरमाणो जितेन्द्रियः॥
सूतिकारक्षणार्थं तु निःशेषं निर्हरेत्तु तम्॥१४॥
यदि वाऽपि विशल्योऽयं जरायुर्न प्रमुच्यते॥
तत्र लाङ्गलकीकन्दं पानमस्यै प्रदापयेत्॥१५॥
एलागुडसमायुक्तं न चेदेतेन सिध्यति॥
ततः पूर्वोक्तविधिना हस्तैनैव तु निर्हरेत्॥
विमृश्य2396 नारीगर्भं च तस्यास्तमपसंह2397रेत्॥
उपाचरेद्विशल्यां च सूतिकाविधिना भिषक्॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने मूढग-
र्भापनयनं नाम त्रयस्त्रिंशोऽध्यायः॥३३॥
<MISSING_FIG href="../../../books_images/U-IMG-17054047141.png"/>
अथ चतुस्त्रिंशोऽध्यायः।
———————
इदमन्यत्प्रवक्ष्यामि शल्यभूते चिकित्सितम्॥
प्रशस्ते तिथिनक्षत्रे मुहूर्ते करणे तथा॥१॥
कृत्वा सामान्ययज्ञं तु ततो दन्तमुपाचरेत्॥
शाला2398ऽवश्यं भवेत्कार्या जलाध्या(भ्या)से तु शीतले॥२॥
निवाता कुसुमाकीर्णा द्रव्योपस्करसंभृता॥
प्रमाणेनोत्तमं स्तम्भं निखातं चात्र कारयेत्॥३॥
दृतयश्च परिश्रा(स्रा)व्याः शरीरे वारिपूरिताः॥
घृतेन2399 शतधौतेन कषायैः शीतलैस्तथा॥४॥
लेपयेच्चास्य वदनं पटेनाऽऽच्छादयेत्ततः॥
दध्नाच सघृतेनैनं शाल्यन्नं भोजयेद्दि्वपम्॥५॥
पूर्वोक्तैस्त्रयोदशभिर्बध्नीयात्तैर्मत2400ङ्गजम्॥
वत्सादन्ताकृतिमुखा जलौकः पृष्ठसंनिभाः॥६॥
द्वात्रिंशदङ्गुलायामा लोहसूचीस्तु कारयेत्॥
ताभिः संवेष्टयेद्दन्तं विवृताभिरथाङ्गुलम्॥७॥
दन्तश्चे(वे)ष्टानुसारेण ततस्ताः कुशलो भिषक्॥
नोन्नता न चावनता न च पार्श्वगता नृप॥८॥
शनैः प्रवेशयेत्सूचीर्व्यापत्तिर्न भवेद्यथा॥
तालुस्रोतः करश्रो(स्त्रो)तस्तथा नेत्रनिबन्धनम्॥९॥
शिराः स्नायूश्च रक्षेत्तु उन्मार्गगमनं तथा॥
त्र्यहात्र्यहात्प्रवेश्यैतान्ह्यङ्गुलं द्व्यङ्गुलं भिषक्॥१०॥
क्षारेण लेपयेच्चाग्रं तेन मांसं विशुध्यति॥
प्रवेशयित्वाऽङ्गुलानि विंशतिस्त्रिंशदेव ताः॥११॥
चतुर्विंशत्यङ्गुलं वा ततोऽस्थीनि विनिर्दिशेत्॥
मुखप्रमाणं सत्त्वस्य स्वबुद्ध्या विभजेद्भिषक्॥१२॥
यदा विमुक्तो मांसेन बन्धमूलाञ्चलत्यपि॥
यन्त्राध्यायविधिप्रोक्तैर्बन्धैर्बद्ध्वा मतङ्गजम्॥१३॥
त्रिभागे वेधयेद्दन्तं शलाकां चानुकारयेत्॥
तत्र सूत्रमयीं रज्जुं दन्ते बद्ध्वा नवां दृढाम्॥१४॥
ततोऽन्यां वर्धयेत्तस्मिन्नज्जुं वा रतृकां(?) दृढाम्॥
वक्त्रश्रमरकं यन्त्रं ततोत्सेधायमेव च॥१५॥
यन्त्रमेकतमं तस्मिन्पुरस्तात्संनिवेशयेत्॥
ततस्तं योजयेत्प्राज्ञो यन्त्रयोगेन बुद्धिमान्॥१६॥
प्रक्षिपेच्च बलाद्रज्जुं यथा दन्तो निपात्यते॥
दन्तमार्गं च नागस्प पूरयेन्मधुसर्पिषा॥१७॥
जलेऽवगाहयेचैनं विमले शीतले च तम्॥
पानार्थं दापयेत्क्षीरं घृतयुक्तं नराधिप॥१८॥
शाल्योदनं च सघृतं भोजनाय प्रदापयेत्॥
पूर्वमेकं च नागाय सर्पिषा दापयेद्भिषक्॥१९॥
द्विव्रणीयोपचारस्य कर्तव्यं स्यादतः परम्॥
असाध्यदन्तनाडी या दन्ते यस्येह जायते॥२०॥
दन्तस्त्रावीति तं विद्यात्तस्योपायः प्रवक्ष्यते॥
विद्ध्वा दन्तं विभागेन दूषयत्वा करीरिकाम्॥२१॥
तस्मात्तु चालितं रक्तं कृत्वा तु सुपरिश्रु(स्रु)तम्॥
पूर्वोक्तेनैव विधिना दन्तं नागस्य साधयेत्॥२२॥
भोजनं चास्य तेनैव क्रमेणोपचरेद्भिषक्॥
भज्यते यस्य वा दन्तः पतेद्वा सकरीरिकः॥२३॥
वनं प्रस्थापयेत्तं तु न तस्मै प्रतिकारयेत्॥
उन्मार्गगमने सूची दोषानुत्पाद्बहून्॥२४॥
व्यापदश्चास्प जायन्ते यास्ता निगदतः शृणु॥
शोफोऽस्य कूर्मसंस्थानो मांसं दूषयते यदा॥२५॥
मांसधावनतुल्पस्तु श्रा(स्रा)वश्चास्य प्रवर्तते॥
श्रो(स्रो)तसा प्रक्षरत्युग्रं श्रो(स्रो)तः संदूषयेद्यदा॥२६॥
व्यापत्संजायते नेत्रे दूषिते नेत्रबन्धने॥
वेदना गद्गदत्वं च स्नायुच्छेदे प्रजायते॥२७॥
यवनिक्वाथतुल्पस्तु श्रा(स्रा)वस्तस्य प्रवर्तते॥
करकर्णास्यसंतप्तः शिराः संदूषयेद्यदा॥२८॥
श्रा(स्रा)वो माञ्जिष्ठतुल्यो वा रक्तो वाऽथ प्रवर्तते॥
वैकल्यं जायते चास्य प्राणैर्वाऽपि प्रयुज्यते॥२९॥
अतोऽथं रक्षयेद्राजन्नुन्मार्गगमनाद्भिषक्॥
सद्यः क्रियामथोत्सृज्य मत्वाऽवस्थां2401 च पीडितः॥३०॥
सद्यःक्षतविधानोक्तां क्रियां तस्येह कारयेत्॥
शोफस्योपशमं दृष्ट्वा वेदनायास्तथैव च॥३१॥
आरभेत्स(त) ततो दन्तं पूर्वोक्तेनैव कर्मणा॥
मन्दोष्मा जायते शोफो वेदना चतथा भवेत्॥३२॥
सम्पक्श्रा(स्रा)वसमे सूच्याः क्लेदश्चैवोपजायते॥
अत्यर्थं च यदा सूची दन्तं नागस्य कर्षति॥३३॥
तदा सुखं न लभते भज्यते वा न संशयः॥
तत उत्सृज्य2402 तां सूचीं पुनः सम्यक्प्रवेशयेत्॥३४॥
पूर्वोदितवि2403धानेन []2403 व्यापत्तिर्न भवेद्यथा॥
…. …. …. …. …. …….. …. …. ….॥३५॥
…. …. …. …. …. …. …. …. …. ….॥
इत्युक्तोभूमिपालेन पालकाप्यस्वतोऽब्रवीत्॥३६॥
यष्टिदन्ताःसद2404न्ताश्च प्रशलाकास्तथाऽपरे॥
राजिदन्ता ग्रन्थिदन्ताः पर्वदन्तास्तथाऽपरे॥३७॥
वल्लीदन्ताय वक्राश्च द्विपुटास्त्रिपुटास्तथा॥
अतिदीर्घाश्च ह्रस्वाश्च अतिस्थूलाः कृशास्तथा॥३८॥
भवन्ति दन्ता नागानां दुर्भगा2405 विषमास्तथा॥
एवं बहुविधा भेदा दन्तानां दन्तिनां नृप॥३९॥
महाविकल्पाश्चत्वारः शृणु कीर्तयतो मम॥
अन्तर्मुखावूर्ध्वमुखावधः पार्श्वगतौ तथा॥४०॥
दन्तावूर्ध्वमुखौ यौ तौ करालाविति निर्देिशेत्॥
आपाण्डुरौ पार्श्वमुखावाग्यौ ^(…. ….) वाऽप्यधोमुखौ॥४१॥
दन्तावनुगतौ हस्वं मानं हस्तौ तु तौविदुः॥
आभ्यन्तरगतौ यस्य सदन्तः स तु कीर्तितः॥४२॥
संमुखौ संकटौ ज्ञेयौ विशालौ चास्थिसंमितौ॥
एकपार्श्वामुखाभ्यां2406तुससाधी2407त्युच्यते नृप॥४३॥
एते विशल्या2408 व्याख्याताः शृणु दोषानुपक्रमम्॥
पूर्वोक्तैः कारणैर्युक्तो दन्तो यस्येह दृश्यते॥४४॥
कल्पयित्वा तु तं दन्तं लक्षयेद्यत उद्यतः॥
अनुपूर्वं ततः कृत्वा तत्रान्यं योजयेदृढम्॥४५॥
काष्ठदन्तोपमं कृत्वा माहिषं शृङ्गमेव च॥
मूले तु कर्तरिं कृत्वा दन्तमूलसमां नृप॥४६॥
कुशलं शिल्पिनं चैव ग्राहयित्वा समन्ततः॥
आयसैश्च त्रिभिः पट्टेः कीलां चास्पानुकारयेत्॥४७॥
सूचीप्र2409योगादृतस्य तथा पीडनमेव च॥
तेनैव विधिना राजन्यो मया परिकीर्तितः॥४८॥
—:():—
अतः परं प्रवक्ष्यामि दन्तानां संभवं नृप॥
वातकुम्भादधस्तातु वृत्ताः स्युः सकरीरिकाः॥४९॥
संभूता नृपशार्दूल विज्ञेयावात2410संभवाः॥
रन्ध्रध्रुवाश्चविज्ञेया दन्तमध्ये व्यवस्थिताः॥५०॥
सप्तत्रिंशत्रयस्त्रिंशत्रिंशच्चैव प्रमाणतः॥
नद्युभयाद्रि2411वा(चा)रीणामङ्गलानि करीरिकाः॥५१॥
षडङ्गुला नदीजस्य वृद्धिर्भवति दन्तयोः॥
अष्टार्धंविश्वरूपस्य त्र्यङ्गुलं गिरिचारिणः॥५२॥
मारुतस्तु2412 यदा चे (वे)ष्टौ दूषयित्वोष्मणा सह॥
मत्कुणस्तेन जायेत अग्राह्यः स तु दन्तिनाम्॥५३॥
एकवेष्टनिरोधेन एकदन्तो भवेन्नृप॥
द्विदन्तानां तु नागानां प्रकृत्या जायते नृप॥५४॥
त्रिदन्ताश्चापि जायन्ते चतुर्दन्तास्तथाऽपरे॥
पिशाचाश्चासुराश्चैव न तेषां ग्रहणं स्मृतम्॥५५॥
गृहीताः पापमिच्छन्ति स्वभावानुगतास्तथा॥
स्पृशन्ते यस्य सङ्गाय दृश्यन्ते वा नराधिप॥५६॥
न तस्य ग्रहणं कार्यं परराष्ट्रं तमुत्सृजेत्॥
न्यूनाधिकत्वं नागानां वैषम्यं वैकृतं तथा॥५७॥
तत्सर्वं मारुताद्विद्धि समत्वं चैव यद्भवेत्॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रणोदितः॥५८॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे वृद्धोपदेशे तृतीये
शल्पस्थाने दन्तोद्धरणं नाम चतुस्त्रिंशोऽध्यायः॥३४॥
समाप्तं चेदं तृतीयं शल्य स्थानम्॥
<MISSING_FIG href="../../../books_images/U-IMG-17052982421.png"/>
अथातश्चतुर्थमुत्तरस्थानमारभ्यते।

हितं निःश्रेयसं चैव गजानामनुचिन्तयन्॥१॥
यदा मयेयं विजिता सागरान्ता वसुंधरा॥
तदा मे वारणैस्तुल्यं न कृतं कर्म केनचित्॥२॥
गुरुभाराभिवहनं गमनं विषमेषु2413 च॥
तरसा मर्दनं चैव तरणं सलिलस्य च॥३॥
तीव्राघाता विघाताश्च तोयौघस्यावतारणम्॥
सर्वगात्रायुधत्वं च वारणेष्वेव दृश्यते॥४॥
नान्यैरसंमिताः2414 सन्ति गुणा दन्तिषु केवलम्॥
त्रिविधेष्वपि ये न स्युर्बलाङ्गेषु महामुने॥५॥
अप्रमेयैर्गुणैरेतैर्बलाङ्गं प्रथमं गजाः॥
अपि शालागताः कृत्स्नां रक्षन्ति सनृपां महीम्॥६॥
कथं ते भगवन्नागा नीरोगा बलशालिनः॥
भवेयुर्जवसंपन्ना बलिनो मददर्पिताः॥७॥
तेषां मे भगवन्प्रश्रमिममाख्याहि पृच्छतः॥
तेहि मे वाहनं तुल्पमन्यद्भुवि न विद्यते॥८॥
तेषां कतिविधः स्नेहः कीदृशः किंप्रयोजनः॥
कत्युपायाः कथं चापि प्रदातव्यो2415 विजानता॥९॥
यश्चान्यदपि नागानां कर्तव्यं हितमिच्छता॥
तदशेषेण भगवन्सर्वं व्याख्यातुमर्हसि॥१०॥
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः॥
पृच्छते रोमपादाय प्रश्नं गजहितं शुभम्॥११॥
सर्पिस्तैलं वसा मज्जा संस्कृतासंस्कृतं भवेत्॥
वारणेभ्यः प्रदातव्यं स्नेहजातं चतुर्विधम्॥१२॥
सर्वौषधप्रयोगेभ्यः स्नेहपानं मतं मम॥
स्नेहपानं प्रशंसन्ति पूर्वाचार्या मनीषिणः॥१३॥
तद्धि वर्णकरं बल्यं सर्वव्याधिहरं स्मृतम्॥
उत्तमाधममध्यानां कुञ्जराणां यथागमम्॥१४॥
स्नेहपाने विधि कृत्स्नं तमिमं प्रवरं शृणु॥
आषाढे समतिक्रान्ते श्रावणे पर्युपस्थिते॥१५॥
बहुले चातिक्रा2416न्ते च शुक्ले स्नेहं समावपेत्2417॥
यदाऽल्पसारं तरुणं तृणं वर्षासु लक्ष्यते2418॥१६॥
स्नेहपानं तदाकार्यं रोगघ्नंबलवर्धनम्॥
सम्पक्परिणमेच्छिष्य (च्छष्प) मल्पसारं तथाऽसितम्॥१७॥
लघुत्वात्तैलवृद्धौ च हितं न हितमन्यथा॥
शीतकालश्च विहितः शीतसात्म्या हि हस्तिनः॥१८॥
भूर्यम्बुपानेन तदा मन्दतृष्णा तदा भवेत्॥
अहितं मृत्तिकादीनां सततं यन्निषेवते॥१९॥
तद्वश्रिशक्तिनिष्पिष्टं तै2419लं काले निषेवितम्॥
ऋतुसंधौ विशेषेण यो देहे कुपितोऽनिलः॥२०॥
तं तैलं हन्ति सहसा शक्रः शत्रुमिवौजसा॥
आर्तवं तु यथाकामं पाययेन्नत्वनार्तम्॥२१॥
मन्यन्तेऽनातवेऽप्यन्ये स्नेहं प्रायोगिकं जनाः॥
मदकोदकदुग्धैश्च सुरया विधयाऽपि वा॥२२॥
संयुक्तं दन्तिनां देयंक्वचित्क्वचिदसंयुतम्॥
तेषामभ्यञ्जने पाने नस्तकर्मानुवासने॥२३॥
मेढ्रतः कटतश्चैव प्रदानं षड्विधं स्मृतम्॥
व्याधिनिर्ग्रहणार्थंचबलार्थ चैव दन्तिनाम्॥२४॥
स्नेहपानं महीपाल हितं तद्धि प्रयोजनम्2420॥
तत्र तैलं प्रदातव्यं सुकृतं चक्रसंभवम्॥२५॥
गजानाममलं चैव सद्यः कृत2421मपूतिकम्॥
विश्रं(स्रं) पुराणमत्यर्थं विवर्णं कटुकं च यत्॥२६॥
पूतिकं चातिदग्धं च घृतमेतद्विवजितम्॥
मां2422सपक्वमनिर्दग्धरसौषधिसमन्वितम्॥२७॥
त्रिवृतं दन्तिनां देयं सर्वस्नेहसमुद्भवम्॥
महिषाजवराहाणां वसा सद्यो विनिःसृता॥२८॥
त्रिवृतार्थ प्रदातव्या गात्राम्पङ्गे च दन्तिनाम्॥
हेमन्ते तैलपानं तुः वर्षासुच विधीयते॥२९॥
वसा मज्जा चनागानां वसन्ते संप्रदीयते॥
शरत्काले निदाघे चघृतपानं प्रशस्यते॥३०॥
एवं यथर्तुसामान्यात्स्नेहं नागेषु दापयेत्॥
वर्षासु पुष्टा नागेन्द्राः स्नेहादिभिरूपक्रमम्॥३१॥
तुरङ्गा रणदक्षाश्च योधाश्च रणकर्कशाः॥
वैशेषिकं बलं लब्ध्वा व्यायामैश्च स्थिरीकृताः॥३२॥
प्रवातवर्षे कुर्वीत राज्ञः कर्माष्टमासिकम्॥
न मार्गप्रतिपन्नेषु परेषां विषयेऽपि वा॥३३॥
शक्यं बलिक्रियां कर्तुं रोगाणां वा प्रतिक्रियाम्॥
हेमन्तकाले च पुनर्निदाघसमयेऽपि च॥३४॥
स्नेहपानं बद्धफले तृणे शुष्के च वर्जितम्॥
दोषाः शुष्कतृणे दृष्टा2423 तथा बद्धफले तृणे॥३५॥
शुष्केणानह्यते नागः सफलेनास्य जीर्यति॥
दिनेैर्हेमन्तिकैः2424 पीतं पानं सम्यङ्न जीर्यति॥३६॥
अथ सर्पिः पिबेन्नागः शीते तदपि लीयते॥
निदाघे तैलपानेन2425 मूर्छा तन्द्रा प्रजायते॥३७॥
पिपासा2426वमथुश्चापि त्वग्दोषाश्चैव दन्तिनाम्॥
तस्माद्धेमन्तकालं च ग्रीष्मकालं च वर्जयेत्॥३८॥
हिताहितज्ञो नागानां कालाकालविभागवित॥
काले वा यदि वाऽकाले तैलं दत्तमजानता॥३९॥
सर्वानुपद्रवान्कुर्याद्व्यापादयति वा गजम्॥
रक्षेद्यत्नेन वैद्यस्तु स्नेहपीतं मतङ्गजम्॥४०॥
आतपाच्चप्रवाताच्च अजीर्णाध्यशनादपि॥
अतितोयवगाहाच्च पानाच्छीतस्य चाम्भसः॥४१॥
सात्म्यासात्म्यविपर्यासादतिचङ्क्रमणादपि॥
निदाघे स्नेहपीतस्य दोषाः पूर्व प्रकीर्तिताः॥४२॥
स्नेहं प्रवाते पिबतो वायुरङ्गानि बाधते॥
अजीर्णाध्यशनाद्वाऽपि स्नेहेकोष्ठे व्यवस्थिते॥४३॥
आनाहो वा भवेत्तस्य मरणं वाऽपि जायते॥
अतितोयावगाहाच्च कायाग्निरुपशाम्पति॥४४॥
पिपासा वर्धते चापि स्नेहस्तस्य न पच्यते॥
यदि पीत्वा गजः स्नेहं जलमक्वथितं पिबेत्॥४५॥
तेन तस्यापचारेण स्नेहो भवति दुर्जरः॥
वेदना सर्वगात्रेषु वमथुश्चापि जायते॥४६॥
कुक्षिर्विहन्यते चास्य दौर्मनस्यं भवत्यपि॥
सात्म्यासात्म्यविपर्यासात्स्नेहपीतस्य दन्तिनः॥४७॥
जायते चापि दौर्बल्यं रोगाः प्रादुर्भवन्ति च॥
अतिचङ्क्रमणाद्वाऽपि सद्योव्यायामसंभवः॥४८॥
बायुः प्रचलितः स्थानात्सर्वाण्यङ्गानि बाधते2427॥
पाकलस्तस्य भवति प्रवोपो(?)2428 वाऽतिदारुणः॥४९॥
भेदश्च पर्वणां चापि गात्राणामपि वेष्टनम्॥
स्नेहोपयोगाद्द्विगुणः परिहारो विधीयते॥५०॥
विरूक्षणं बृंहणं च कर्मणश्च प्रवर्तनम्॥
तस्मात्कुर्याद्बुधो वैद्यस्तैलपाने त्ववेक्षणम्॥५१॥
दुर्युक्तं तैलपानं तु विषं हालाहलं भवेत्॥
इत्येष स्नेहपानस्य कालाकालविधिः स्मृतः॥५२॥
स्थावरो जङ्गमश्चैव द्विविधः स्नेह उच्यते॥
तस्य चैवं प्रयुक्तस्य विकल्पा बहवः स्मृताः॥५३॥
सर्पिस्तैलं वसा मज्जा मेदो मांस पयो दधि॥
एवमादि विजानीयात्स्नेहजातं पृथग्विधम्॥५४॥
तिलादिजस्तु यः स्नेहः स्वशास्त्रेपरिकीर्तितः॥
स्थावरस्तु समाख्यातो नानाफलसमाश्रयः॥५५॥
तत्र सर्पिर्वसा मज्जा तैलं चैवोत्तमं स्मृतम्॥
घृतं तु सविशेषत्वात्तेषु श्रेष्ठतमं स्मृतम्॥५६॥
यथावदनुपूर्वेण गुणांस्तस्य निबोध मे॥
मधुरं शीतवीर्यं च लघु चैवाविदाहि च॥५७॥
हितं वाते च पित्ते च मेदः शुक्रविवर्धनम्॥
दारुणानां मृदुकरं बलवृद्धिकरं तथा॥५८॥
प्रसृष्टमल्पमूत्रं च ग्रहणीदीपनं तथा॥
सुकुमारकरं बल्यमायुष्यं चक्षुषोर्हितम्॥५९॥
अल्पक्लेशं मुखस्पर्शं स्नेहानामपि चोत्तमम्॥
घृतान्यन्यानि वक्ष्यामि भैषज्यं सर्वदेहिनाम्॥६०॥2429
तत्र ये पित्तला नागाः प्रकृत्याऽवनताश्च ये॥
मदक्षीणाश्च वृद्धाश्च धेनुकासु च निश्रु(स्रु)ताः॥६१॥
बाला दुर्बलपादाश्च ये च नेत्रातुरा गजाः॥
तेभ्यः सर्पिः प्रदातव्यं गजा येच नवग्रहाः॥६२॥
घृतादनन्तरं तैलमृषिभिः समुदाहृतम्॥
गुणांस्तस्य प्रवक्ष्यामि यथावदनुपूर्वशः॥६३॥
तैलं त्वच्यं बलकरं लेखनीयं तिलोद्भवम्॥
विदाहि चोष्णवीर्यं च कषायमधुरं तथा॥६४॥
वातश्लेष्महरं चैव विपाके कटुकं स्मृतम्॥
कृमिघ्नंपित्तलं चापि मेदोघ्नं योनिशोधनम्॥६५॥
अव्यायामैरुपचिता ये2430 गजाः स्थूलशारदाः॥
वातोपद्रुतदेहाश्च ये चाल्पलघुविक्रमाः॥६६॥
वातप्रकृतयो ये च श्लैष्मिका ये च वारणाः॥
बहुशश्चापि सज्जन्तो ये चाऽऽनाहेन कुञ्जराः॥६७॥
सहसा हसते येषां मांसं चाध्वप्रयोजने॥
तेषां तैलं प्रदातव्यं ये चापि कृमिकोष्ठिनः॥६८॥
धेनुकानां तु विहितं तैलमेव महीपते॥
तासां हि बहुवातत्वाद्वायुः कोष्ठे प्रकुप्यति॥६९॥
वसा हि वातशमनी दन्तिनां मधुरा स्मृता॥
वृष्ट्या विपाके मधुरा बलवर्णप्रसादनी॥७०॥
स्रोतोभिघा2431ते विहिता मन्यास्तम्भे गलग्रहे॥
भग्नस्फटितविद्धानां गात्ररोगेषु चोत्तमाम्॥७१॥
मज्जा बल्या विशेषेण वातपित्तविनाशिनी॥
कफं मेदश्च शुक्रं च वृद्धिं नयति दन्तिनाम्॥७२॥
उष्णश्चैवोष्णवीर्यश्च गुरुश्चापि प्रकीर्तितः॥
वातरोगहरी वृष्यः स्रोतसां परिशोधनम्॥७३॥
तैलादर्धंघृते मात्रा ततोऽर्धं त्रिवृता भवेत्॥
मज्जश्चैव वसायाश्च मात्रा प्रायोगिकी स्मृता॥७४॥
इति स्नेहगुणाः प्रोक्ताः कालाकालो च हस्तिनाम्॥
अतः परं प्रवक्ष्यामि स्नेहपाने विधि नृप॥७५॥
शालां सुगुप्तां सुच्छि(च्छ)न्नां सर्वतः कटकैर्वृताम्॥
देशे यथोक्ते कुर्वीत नित्यं बलिविभूषिताम्॥७६॥
अजातपर्व तरुणं शुचि चोपहरेत्तृणम्॥
यथाकालं यथामात्रं स्थलजं चविशेषतः॥७७॥
उष्णोदकः(कं) कटाहानि स्नानपानाय दन्तिनाम्॥
नित्यं संनिहितानि स्युः स्नेहकाल उपस्थिते॥७८॥
अलिन्दांश्च घटांश्चैव पर्याप्तानुपकल्पयेत्॥
पानार्थे चैव तैलस्य सलिलस्य च हस्तिनः॥७९॥
काष्ठान्युष्णोदकस्यार्थे संशुष्कान्युपकल्पयेत्॥
कुशलांश्चापि गृह्णीयान्नागस्य परिचारकान्॥८०॥
वैद्यं च शास्त्रकुशलं दृष्टकर्माणमेव च॥
हस्त्यध्यक्षं च तत्रैव संदिशेत्पितृवद्धितम्॥८१॥
मुखद्वारविशुद्धाय सुकृतं पानपायिने॥
हस्तैः सुमर्दितं कृत्वा तैलं नागस्य दापयेत्॥८२॥
दापयित्वा त्र्यहं मद्यं ततो रूक्षं च भोजनम्॥
विरूक्षितशरीराय स्नेहं नागाय दापयेत्॥८३॥
उपाये चापि सुकृतं तैलं चक्रसमुद्भवम्॥
स्थापयेद्भोजने स्निग्धे तैलं दद्याद्विचक्षणः॥८४॥
उपार्जयेच्चत्रिवृतं सर्वं स्नेहसमुद्भवम्॥
पानार्थे च वसा ग्राह्या गात्राम्यङ्गे चहस्तिनाम्॥८५॥
मापयित्वा प्रमाणेन यथोक्तेन तु बुद्धिमान्॥
यथोक्ते तिथिनक्षत्रे स्वस्थं2432 विज्ञाय वारणम्2433॥८६॥
भक्ततैलप्रमाणेन श्रेष्ठां मात्रां प्रदापयेत्॥
पादहीनं(नां) तथा मध्यां मध्यार्धेन कनीयसीम्॥८७॥
एषएवक्रमो वृद्धेरा समाप्तेर्विधीयते॥
यथाग्निपञ्चरात्रं वा त्रिरात्रं वा मतङ्गजम्॥८८॥
सप्ताहं वापि वा स्नेहं पानी गुणयुतो2434 भवेत्॥
यदि न स्नेहमर्यादां प्राप्य न स्निह्यते गजः॥८९॥
स्नेहान्तां पीनिमेकैकां पुनस्तां प्रतिलोभयेत्॥
केचित्पीनींव्यवस्यन्ति दिनान्यष्टादशोत्तमाम्॥९०॥
मध्यमां दश पञ्चैव सप्त पञ्च कनीयसीम्॥
तासां वक्ष्यामि राजेन्द्र प्रमाणं च शृणुष्व मे॥९१॥
एष एवक्रमो वृद्धेरा समाप्तेर्विधीयते॥
त्रिषष्टिराढकानि स्युरुत्तमायाः प्रमाणतः॥९२॥
मध्यमाया द्विपञ्चाशदाढकानि च निर्दिशेत्॥
कनीयसीं विजानीयाद्द्विचत्वारिंशदेव हि॥९३॥
एतत्प्रमाणं निर्दिष्टं पीनीनां त्रिविधं मया॥
यस्मात्प्रीणयते पीनी देहे नागस्य पार्थिव॥९४॥
तस्मात्पीनीति सा प्रोक्तासम्यग्दत्ता मनीषिभिः॥
दिनान्यष्टादशैवात्र दापयेत्तैलसर्पिषी॥९५॥
दश पञ्च च तैलस्यसर्पिषः सप्त पञ्च च॥
मात्रा यद्यपि निर्दिष्टाः स्नेहस्य करिणां नृप॥९६॥
अग्नेर्बलाबलं ज्ञात्वा पथाग्न्येव प्रदापयेत्॥
समस्तं पायितः स्नेहं स्निग्धो भवति नान्यथा॥९७॥
तव त्वग्निपरीक्षायामिदं लक्षणमिष्यते॥
वैद्यस्तत्र विबुध्येत गजरक्षार्थमुत्थितः९८॥
तत्र यः पीतवान्स्नेहं परिणामेन मुह्यति॥
न वा नमति मातङ्गो न चात्यर्थं प्रवेपते॥९९॥
स्पष्ट2435लाङ्गूलनयनः स्पष्ट2435कर्णशिरोधरः ॥
न च तिष्ठति मातङ्गः स्तम्भमालानमाश्रितः॥१००॥
ग्रासार्थं चोद्यमानस्य न वा कुप्यति वारणः॥
तस्य स्नेहं यथायोगं क्रमेणाभिप्रवर्धयेत्॥१॥
यस्त्वतो विपरीतानि लिङ्गानि कुरुते गजः॥
न तस्य वर्धयेत्स्नेहं स्नेहो यस्य न जीर्यति॥२॥
अरतिर्गात्ररुग्ग्लानिर्दाहस्तृष्णा विजृम्भणम्॥
सीकरभ्रममोहाश्च स्नेहेऽजीर्णे विमुह्यति॥३॥
(एषामुपशमे2436 विद्याज्जीर्णस्नेहस्य लक्षणम्॥
स्नेहपीतो यदि स्नेहे जीर्यमाणे प्रमुच्यति)॥४॥
अतस्तं लम्भयेच्छय्यां जलेनाक्ष्णोश्च सेचयेत्॥
ग्रहणीं दीपयेच्चास्य दीपनैः कुशलो भिषक्॥१०५॥
येन योगेन नागस्य स्नेहयोगो विवर्धते॥
तेन योगेन कर्तव्यं विधाया व्यपकर्षणम्॥६॥
चतुर्भागे चतुर्भागमर्धेऽर्धं चापकर्षयेत्॥
त्रिभागवृद्धौ तु भवेत्त्रिभागाद्यपकर्षणम्॥७॥
स्नेहत्रिभागवृद्धौ तु कर्तव्यं दन्तिनां भवेत्॥
वैद्यो लवणवर्जाया विधाया व्यपकर्षणम्॥८॥
हीनं चतुर्थेनांशेन स्नेहस्य तत्तृणं हितम्॥
अध्यधांशेन हीनं वा प्रदद्यात्प्रथमेऽहनि॥९॥
ततोऽर्धमासं च ततः क्रमेणैवं प्रदापयेत्॥
आध्मातकुक्षिरचलः प्रकोपान्मातरिश्वनः॥११०॥
परुषं फेनिलं नीलं तथा मारुतपीडितम्॥
सत्त्वस्थिरमदुर्गन्धमविदग्धमसंप्लवम्॥११॥
संशुष्कं पिच्छिलं लिण्डं2437 कृच्छ्रनिर्गममेव च॥
अपक्वमुदके यच्चक्षिप्रमेव निमज्जति॥१२॥
प्रवाहणविसर्गे च शकुन्मूत्रानिलस्य वा॥
वायुर्न चातिप्रगुणो पस्य प्राणश्च ही2438यते॥१३॥
तस्य व्यावर्तयेत्स्नेहं यथाकालं यथाबलम्॥
दौर्बल्यमधिकं गच्छेदतिस्नेहेन पीडितः॥१४॥
गात्राणि चास्यसीदन्ति बलहानिश्च जायते॥
अतीसाश्चतृष्णा च वर्णभेदश्च लक्ष्यते॥१५॥
भिन्नं स्विन्नमदुर्गन्धि शकृदाशु प्रमुञ्चति॥
कृच्छ्रादल्पाल्पमापीतं मूत्रं सृजति वारणः॥१६॥
हस्तगात्रापरैर्नागः सीदति भ्रमतीव च॥
न च सम्यक्तृणे लोभं कुरुते प्राणकर्षितः॥१७॥
अतिस्निग्धस्य नागस्य लिङ्गान्येतानि लक्षयेत्॥
नागमेवंविधं स्निग्धं क्रमेणैवं विरूक्षयेत्॥१८॥
स्नेहजीर्णे तृणं किंचिद्भक्षयित्वा जलं पिबेत्॥
स्नापयेच्च ततो युक्ता(क्त्या) दद्यात्तृणमनिग्रहम्॥१९॥
वातानुलोमता हर्षः श्रेष्ठता लिण्डमूत्रयोः॥
प्रकाङ्क्षा लाघवं चैव स्नेहे जीर्णे निदर्शनम्॥१२०॥
गुरुत्वं सर्वकायस्य मूत्रानिलशकृद्ग्रहः॥
यवसेऽल्पप्रकाङ्क्षा च तदजीर्णस्य लक्षणम्॥२१॥
कृष्णाभं यच्च दुर्गन्धं विच्छिन्नं फेनिलं च यत्॥
द्रवं खरं सशूलं च तत्पुरीषमपक्वजम्॥२२॥
अवेदनमदुर्गन्धं श्लेष्मणा विद्धि वर्जितम्॥
यथा यवसवर्णं च पक्वमित्युच्यते शकृत्॥२३॥
परिषेकश्च कर्तव्यः सुखोष्णेनात्र वारिणा॥
तैलघृतं तु पीताय कदुष्णेनोभयक्रियाम्॥२४॥
शय्याभागोत्थितं नागं पीततैलं तथैव च॥
शनैरेकेन वा रूढं गमयेद्द्वेधनुःशते॥१२५॥
गजस्याधिक्रमकृतान्गुणदो2439षान्निबोध मे॥
प्रवर्तनं ग्रासपाने छा(स्था)ने स्कन्नस्य कर्शनम्॥२६॥
उत्साहप्राणजननं रुजाशोकनिबर्हणम्॥
मृदूकरं शरीरस्य श्रो(स्रो)तसां परिशोधनम्॥२७॥
कामाग्रिज्वलनं बल्पंमनसश्च प्रसादनम्॥
गात्रापरव्यथार्ते च नागे कफविकारिते॥२८॥
श्रेयस्तु व्याधिते वाऽपि प्रागुत्थाय विचारणम्॥
व्याधितेषु विशेषेण नित्यं चङ्क्रमणं हितम्॥२९॥
यत्पित्तं तैलजनितं लिण्डशेषं2440च यद्भवेत्॥
तयोर्निर्हरणार्थाय तैलान्ते पाययेद्घृतम्॥१३०॥
सप्ताहमथपञ्चाहं त्रिरात्रमथवा पुनः॥
ति(तै)लपानाद्घृतंवाऽपि वृद्ध्यर्थेन प्रदापयेत्॥३१॥
हृष्टोदग्रः2441स मातङ्गस्तेजोबलसमन्वितः॥
लघुर्जर्वबलामर्षाद्दीप्ताग्निर्धेनुकामना2442॥३२॥
मांसोपचयसंयुक्तः कामवानिन्द्रियैः (*पटुः2443॥
विसृष्टलिण्डमूत्रस्तु स्निग्धत्वक् प्रियदर्शनः॥३३॥
मृदुभिर्विशदैः स्निग्धैः सर्वश्रोतोभिर) न्वितः॥
धान्यान्मार्थयते कामान्समस्तांश्चोपपादयेत्॥३४॥
न वेपते उरश्वास्य सम्यग्मक्ते व जीर्यति॥
न क्षुद्रमतिश्शुष्कं च स्रिग्धं वृत्तं व युक्तितः॥१३५॥
पक्वलिङ्गान्वितं काले शकृद्वाऽपि प्रमुञ्चति॥
ततो जवे च भारे च स्थाने व शयनेऽपि च॥३६॥
न च स्वेदमवाप्नोति सुखं शेते विबुध्यते॥
वातादीनां च दोषाणामनुलोमप्रवर्तनम्॥३७॥
इन्द्रियैरिन्द्रियार्थं च यथावदवगच्छति॥
नित्योदग्रोऽथ सुमनाः सम्यविस्नग्धो भवेद्विपः ॥ ३८ ॥
यदा तु गुरुगात्रत्वं क्रमे न्यासे च लक्ष्यते॥
मन्दमुद्धरते गात्रं मन्दं च परिवीजति॥३९॥
अल्पमूत्रपुरीषश्च जृम्भते च पुनः पुनः॥
पर्यश्रु चोपलक्ष्येत ध्यानस्वप्नपरोऽपि वा॥१४०॥
विनमत्ययं चामीक्ष्णं द्वेष्टि शय्यासनं निशि॥
क्षिप्रं न कुरुते संज्ञां दुर्मनाः संभवेद्द्रजः॥४१॥
विद्यात्सुमनसं नागं दीप्ताग्निंधेनुकार्थिनम्॥
मृदुगात्रमुदीर्णं च रूपेभ्यो न च कुप्पति॥४२॥
रुजावन्नभवेत्तस्य त्वक्प्रसादश्च लक्ष्यते॥
शरीरोपचपश्चास्य स्वाम्पर्थाश्च विवर्धते॥४३॥
शब्दं स्पर्शं रसं रूपं गन्धं वाऽपि विशेषतः॥
सर्वाण्येतानि निःसङ्गं वेत्ति यः पञ्च पञ्चभिः॥४४॥
घनं स्निग्धं च यस्प स्पाच्छकृत्पाण्डु विवर्णतः॥
मृत्तिका शर्करा वाऽपि पत्र मिश्रा न दृश्यते॥१४५॥
एकवर्णमदुर्गन्धमविदग्धमनप्लवम्॥
पुरीषं दृश्यते यस्य स नागो रोगवर्जितः॥४६॥
तैले दत्ते घृते दत्ते स्नेहं यद्यतिसार्यते॥
पञ्चाहमथसप्ताहं कदुष्णं स पिबेज्जलम्॥४७॥
दर्भमूलपलान्यष्टौ सलिले क्वाथयेच्छुचौ॥
एतत्स्निग्धाय पानीयं देयं वातानुलोमनम्॥४८॥
किंचित्स्निग्धपुरीषाय यवागूं पाययेद्भिषक्॥
यदा यञ्च प्रयोक्तव्यं स्नेहपानाय तच्छृणु॥४९॥
यावद्द्रोणो भवेन्नागस्तावत्प्रस्थान्सुसंस्कृतान्॥
तन्दुलानां प्रमाणेन यवागूं पाययेद्भिषक्॥१५०॥
एतेैश्च मुद्गसहितैरनयैव हि मात्रया॥
कृत्वा यवागूं नागायत्र्यहं भूयः प्रदापयेत्॥५१॥
तन्दुलाद्याढके भुक्तं मुद्गानामाढके रसम्॥
कृत्वा नागाय दातव्यमस्नेहलवणं त्र्यहम्॥५२॥
ततो भक्तचतुर्भागं चतुर्भागरसप्लुतम्॥
लवणस्य चतुर्भागं चैकाहं प्रतिभोजयेत्॥५३॥
विधार्थं त्वथ भुञ्जीत रसार्धेन मतङ्गजः॥
लवणस्योचितस्पार्धयोगं चास्मिन्प्रदापयेत्॥५४॥
रसस्य तु यथोक्तस्य विधाया लवणस्य च॥
पादहीनं प्रदातव्यं समस्तं भोजयेत्कृतम्॥१५५॥
धान्याम्लैर्दाडिमाम्लैश्च दध्यम्लैः स्वरसंयुतम्॥
भक्तं त्र्यहं त्र्यहं दत्त्वा प्रसन्नां पाययेत्त्र्यहम् ॥ ५६ ॥
यथापूर्वं समादिष्टो भोजनस्यविधिक्रमः॥
रसजातेषु सर्वेषु तया2444कार्यक्रमो भवेत्॥५७॥
यवसस्यचतुर्भागं स्नेहस्यान्ते प्रदापयेत्॥
ततोऽर्धमर्धस्यार्धेन हीनं सर्वक्रमाचतः॥५८॥
स्नेहे निवृत्तमात्रे तु गात्राभ्यङ्गो विधीयते॥
विधां समस्तां च तथा शीतं चाम्भोऽवतारयेत्॥५९॥
नागं ततः स्वलंकृत्य बलिनं व्याधिवर्जितम्॥
प्रशस्ते तिथिनक्षत्रे पार्थिवाय प्रदर्शयेत्॥१६०॥
अथ क्रमेण कुर्वीत रक्षां बद्ध्वाऽध्वकर्मसु॥
स्रेहं ततोऽस्यजनयेन्मदं च मदवर्धनैः॥६१॥
तैलक्षीरघृताद्यैश्च रोगसंशमनैः पुनः॥६२॥
इत्यङ्गाधिपनोदितेन मुनिना हेत्वर्थयुक्ता स्मृता
** पीनी प्रीतिगुणेन वारणहिता मात्रोपचारक्रमैः॥
यां पीत्वाऽऽतपशीतवृष्टिपवनाद्यत्यर्दितानां क्रमो
नीरोगो बलवान्गजः श्रु(स्रु)तमदो भूत्वाऽथ हन्याद्रिपून्॥१६३॥**
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने महापाठे वृद्धोपदेशे चतुर्थ
उत्तरस्थाने स्नेहपानं नाम प्रथमोऽध्यायः ॥ १॥
<MISSING_FIG href="../../../books_images/U-IMG-17053112251.png"/>
अथ द्वितीयोऽध्यायः ।
_______________
अङ्गो हि राजा चम्पायांहस्तिशास्त्रविशारदम्॥
पालकाप्यं महाप्राज्ञं सुखासीनं स्म पृच्छति॥१॥
स्नेहपानं तथा कार्यं वारणानां महामुने॥
सर्पिर्वाऽपि कथं देयं वसा मज्जाऽपि वा कथम्॥२॥
कस्मिन्दिने वा मासे वा तैले मात्रा च का स्मृता॥
जीर्यमाणं कथं तैलं विद्याज्जीर्णं कथं पुनः॥३॥
अजीर्णायां(?) कथं कुर्यादेतदिच्छामि वेदितुम्॥
उपचारप्रयोगं च निष्ठा तैलस्य वाऽऽदितः॥४॥
माननिर्माणयोगं च यवसे वाऽपि को विधिः॥
आहारं च कथं दद्यात्तैलपीताय दन्तिने॥५॥
शय्याभागं कथं कुर्यात्कथं च रसभोजनम्॥
को घृतस्योपचारश्च देयो वा कीदृशो गजे॥६॥
विचार्य सम्यग्बुद्ध्या हि भगवन्वक्तुमर्हसि॥
पालकाप्योऽङ्गराजेन स पृष्टस्त्विदमब्रवीत्॥७॥
शृणु राजन्निदं सर्वं यथावदनुपूर्वशः॥
सर्पिस्तैलं वसा मज्जा यस्मिन्काले प्रदीयते॥८॥
आषाढे समतिक्रान्ते श्रावणे समुपस्थिते॥
बहुले व व्यतिक्रान्ते शुक्रे स्नेहं प्रदापयेत्॥९॥
हस्तश्रवणपुष्येषु चित्रायामश्वयुज्यपि॥
दशम्पेकादशीद्वित्र्यष्टम्यादिषु तिथिष्वपि॥१०॥
बलाभिजितसावित्रमैत्रेषु विजयेषु च॥
वर्जिता ऋतवो ये च तैलपानस्य ताञ्शृणु॥११॥
ग्रीष्मे हेमन्तकाले च तैलपानं न दापयेत्॥
उद्योगे पूजितावेतौ ऋतू विजयकाङ्क्षिभिः॥१२॥
हृष्टो वा विजयार्थं यो गजो राज्यान्तरं व्रजेत्॥
पीड्यमानोऽपि चान्येन राजा योद्धुं समुत्सहेत्॥१३॥
हेमन्ते सस्यसंपूर्णा मेदिनी शीतलोदका॥
पत्त्यश्वरथनागानां भवेच्चापि सुखावहा॥१४॥
लोभाद्वा यो व्रजेद्यात्रां भयाद्वाऽप्यथवा च यः॥
अकस्मात्संप्रयोगात्तु व्यापत्तिर्द्विरदे ध्रुवा॥१५॥
महामात्रैस्तदा नागा विनीयन्ते च कर्मसु॥
शिशिरे घर्मकाले च वारणानां नराधिप॥१६॥
घर्मकाले च ये दोषाः स्नेहपानस्य ताञ्शृणु ॥
ग्रीष्मे सूर्यांशुभिर्दग्धा वृक्षा गुल्मास्तथैव च॥१७॥
मेदिनी दवदग्धा च संक्षिप्तयवसोदका॥
निदाघजलरोधे च स्नेहतृष्णा प्रवर्तते॥१८॥
क्षिप्रंप्राणा विपद्यन्ते तृणाग्निरिव पार्थिव॥
इत्येतैः कारणे राजन्नृतुर्ग्रीष्मो विगर्हितः॥१९॥
तस्मात्प्रावृषि तैलं तु वारणेभ्यः प्रदापयेत्॥
तृणानि हरितान्यत्र स्युर्वनस्पतयस्तथा॥२०॥
पूर्णा वापी तडागानि मेदिनी सस्यसंवृता॥
शोभते हरतेऽत्यर्थमिन्द्रगोपकदर्दुराः॥२१॥
न चातिशीतं नात्युष्णं न च युद्धं न कर्म वै॥
सर्वावस्थाश्च राजानो जलपूर्णा च मेदिनी॥२२॥
स्वादुपानोदके पथ्ये विचित्रयवसावृते ॥
स्थाने ग्रामे शिवे रम्ये स्नेहपानं समाचरेत्॥२३॥
श्रावणे तैलयानंस्यादादौभाद्रपदस्य च॥
तैलयात्रा तु नागस्य प्रानर्धस्थसंमता॥२४॥
उत्तमाधममध्यानां प्रदेयाहस्तिनां भवेत्॥
तेलं स्थूलेप्रदातव्यं कृशेसर्पिर्विधीयते॥२५॥
उरःक्षतानंभग्नानां वतां मज्जांचदापयेत्॥
तैलस्याथ प्रवक्ष्यामि प्रयोगमत उत्तरम्॥२६॥
प्रतिपानं विशुद्धाय कदलैर्दीपितायच॥
प्रातरुत्थायनामाय तैलपानंसमाचरेत्॥२७॥
जीर्णेऽल्पश(स)स्यंदेयं च ततस्तोयावमाहनम्॥
स्नातपीतोदकं चैव निवाते स्थापयेत्ततः॥२८॥
यच्चोदितं च यवसं सस्यंदद्याद्विवक्षणः॥
विधांचस्नेहयोगेन हासयेत्तस्य हस्तिनः॥२२॥
पीते वर्तुतालिकंचशय्यांरात्रौनयेद्गजम् ॥
प्रत्युद्राताय यवसं वारणाय प्रदापयेत्॥३०॥
प्रभाते सुखसुप्तं च शुद्धस्त(ग)जपुरीषिणम्॥
ततः सुमनसं ज्ञात्वा तैलं नागायदापयेत्॥३१॥
द्रोणं चतुर्थेदिवसं पीतवन्तं मतङ्गजम्॥
धनुःशतायतावीथींनयेश्रीवेगतेन तम्॥३२॥
चोद्यमानस्य तत्तैलंसर्वतः प्रतिधावति॥
सम्यग्गच्छति कोष्ठं चविक्वियांन च गच्छति॥३३॥
स्वच्छन्द्रं चोदकं दद्याद्यावत्सारम्यं च मोहिकम् (?)॥
पञ्चाडकं भवेद्देयंदिवसे पञ्चमेमते ॥ ३४॥
षष्ठे षडाडकं दद्यारिवमेतस्य हस्तिनः॥
दिवसे सप्तमं चैव परीक्षेत मतङ्गजम्॥३५॥
अच्छपानं च पिबतः कोष्ठो यस्य न विद्यते॥
कथंतु तस्य तं विद्यात्कोष्ठं मारुतपीडितम्॥ ३६॥
आडकक्रमयोगेन वर्धयेत्तस्य हस्तिनः॥
यां मात्रां अरथत्सम्यकांमात्रां समुपाचरेत्॥३७॥
उत्तमाय च नागाय देयंविचारको द्वात्रिंशदाडकम्॥
अष्टौ च विंशतिश्चैव अध्ययाय नराधिप॥३८॥
___________________________
१ क. मीनें को दे त° ।
____________________________
चतुर्विंशस्याडकं तु दापयेच्चकनीयसे॥
सप्ताहं दापयेत्स्नेहमुत्तमाग्निं मतङ्गजम्॥३९॥
मध्यमाग्निं चपञ्चाहंमन्दाग्निंत्र्यहमेव च॥
विरिच्यते ततःसम्पक्कोष्ठंवाऽस्य विशुध्यति॥४०॥
एतत्स्नेहप्रमाणं तु विधिं चैवसमाचरेत्॥
विभागेन विधायाश्चरुक्षंभोजनमिष्यते॥४१॥
स्नेहमच्छं तु पिबतोलवणं न प्रदापयेत्॥
यस्यापि पिबतस्तैलं वारणस्य न जीर्यति॥४२॥
तस्य विश्रम्यदातव्यं द्व्यहंवा त्र्यहमेव वा॥
पिप्पलीशुण्ठिमरिचंसपञ्चलवणायुतम्॥४३॥
विश्राम्यैतस्य पिण्डं तु सायं प्रातः प्रदापयेत्॥
तक्रं वातहरं चैव लवणांश्चप्रदापयेत्॥४४॥
यथोक्तंपरसं चैव नानार्थेषु सुखोदकम्॥
एवं जीर्णं यदा तेैलमद्यैनं पाययेत्पुनः॥४५॥
अथास्याजीर्णं तेैलस्य लिङ्गानीमानिलक्षयेत्॥
दाहंसंजनपेच्चैव ग्लानिंमुर्छां च दन्तिनः॥४६॥
तैलं दमति सश्लेष्महृदयं हास्यपीड्यते॥
विपतेश्वसिवि स्थूलं मुखशोषश्चजायते॥४७॥
मिश्रं चैवपुरीषं स्पाद्रक्तमल्पंच प्रेहति॥
स्नेहम्पापस्तुचप्रोक्तां क्रियां तस्य समाचरेत्॥४८॥
सक्षणं जीर्यप्राणे तु तैले वक्ष्याभ्यतः परम्॥
द्विपस्प करुतेग्लानिंदृढं चपरिबीजति॥४९॥
विकारान्परिचाये तु कुरुते वारणो मुखे॥
वितृम्भते विनयतिवृज्या वास्पोपजायते॥५०॥
जीर्यप्राणस्य विज्ञानं जीर्णे जीर्णेप्रदापयेत्॥
अद्यैनं लद्दश्चितंस्नेहंयवागुंप्रतिपाययेत्॥५१॥
ईप्सितंयदिनागेषुतैलंदद्यान्नृपोत्तम॥
परं प्रमाणंवक्ष्यामिवदतस्तन्निबोध मे॥५३॥
पञ्चसार्पः स्मृताः श्रेष्ठेचतस्रो मध्यमे स्मृताः॥
विश्वा वार्यो अप्रम्यस्यइत्येवं स्नेहनिश्चयः॥५३॥

अतः परं तु गतयः प्रवक्ष्यन्ते2445यथाबलम्॥१०१॥
श्रेष्ठमध्यजघन्यानां[^5054]गजानामनुपूर्वशः॥

<MISSING_FIG href="../../../books_images/U-IMG-1700060467Screenshot2023-11-08115216.png"/>

अस्मिन् पुस्तके ५५६ तः ५७७ पर्यन्तंपुटेषुस्पष्टता नस्ति।
]
-
“श्रीमन्महाराजाधिराजश्री १०८ युतसवाईमाधवसिंहजी ( G. C. S. I.
↩︎ ↩︎ -
“क. °त्त्वज्ञो वदान्यः सर्वशास्त्रवित् ॥ ग. °के च धू° ।” ↩︎ ↩︎
-
“अयमर्धश्लोकः कपुस्तके नास्ति । उत्तरार्धमात्रं लिखित्वा ( ७ ↩︎ ↩︎
-
" ख. ग. समेखलाः।”
↩︎ ↩︎ -
“इतः पूर्वं धनकार्याणि लोकानां राजा सन्मन्त्रिभिः सह इति ग. पुस्तके धिकः पाठः।”
↩︎ ↩︎ -
“पुस्तकद्वये श्लोकार्धोत्तरमेव श्लोकाङ्क (२५
↩︎ ↩︎ -
“अयमर्ध श्लोकः ग पुस्तके अहं जिघृक्षुः इत्यतः प्राग्दृश्यते ।” ↩︎ ↩︎
-
" ख. वचारिणः॥ ३५॥"
↩︎ ↩︎ -
“लौहित्यं लोहितत्वे स्यात्क्लीवं पुंसि नदान्तरे इति मेदिनी ।” ↩︎ ↩︎
-
“ख. "
↩︎ ↩︎ -
“क. °मथोऽग्रतः ।”
↩︎ ↩︎ -
“क. °भिश्चवश्याभिः पो° ।”
↩︎ ↩︎ -
“क. °था देवप°।”
↩︎ ↩︎ -
“क. ऋषेस्त ° । "
↩︎ ↩︎ -
“क. °णि भद्र° ।”
↩︎ ↩︎ -
“क. °न नागनेतॄंस्त° ।”
↩︎ ↩︎ -
“आरब्धोऽन्वे °। "
↩︎ ↩︎ -
" ख. °नां व्रणानालिम्प°।"
↩︎ ↩︎ -
" क. ºवान्ब्राह्मण श्चैº।"
↩︎ ↩︎ -
“क. मदीयाश्रयणे यस्मा° ।”
↩︎ ↩︎ -
" ग. वाणीमथंशु°।"
↩︎ ↩︎ -
“क. तत्र । "
↩︎ ↩︎ -
" ख. दधे ।”
↩︎ ↩︎ -
" ग. प्रजासर्वे । "
↩︎ ↩︎ -
“क. ख्याताः ।”
↩︎ ↩︎ -
“ख. °र्णाक्षां प्र° ।”
↩︎ ↩︎ -
“ख. सोऽञ्जलिम् ।”
↩︎ ↩︎ -
“ख तरसा ।”
↩︎ ↩︎ -
“ख. स्नुताम् ।”
↩︎ ↩︎ -
“ग. र्जिते् ॥ त° ।”
↩︎ ↩︎ -
“क. चेतसा । ग. तेजसा ।”
↩︎ ↩︎ -
“क. तपोनिधेः ।”
↩︎ ↩︎ -
“ख. °पि मुकुले ° । "
↩︎ ↩︎ -
" सेवमानानाम् इति तूचितम् ।"
↩︎ ↩︎ -
“क. थैवमभित ° ।”
↩︎ ↩︎ -
“क. दृ्ष्टोऽस्मि ।”
↩︎ ↩︎ -
“ग. °जा वचनम° ।”
↩︎ ↩︎ -
" क. °रणायोर्थका° ।"
↩︎ ↩︎ -
“कपुस्तक टिप्पण्याम् - तस्मादभुक्तपीतेषु न भुञ्जीत नराधिपः ।” ↩︎ ↩︎
-
" विधा गजासने रुद्धौ प्रकारे वेतने विधौ इति मेदिनी ।"
↩︎ ↩︎ -
“क विधिप्र° ।”
↩︎ ↩︎ -
“ख. र्वेदे प्र° ।”
↩︎ ↩︎ -
“क.पद्मिनाम् ।”
↩︎ ↩︎ -
" त्सलिले इत्युचितम्।"
↩︎ ↩︎ -
“ख. प्रारतेता ° ।”
↩︎ ↩︎ -
“क. ख. दिनान्तरे तं यवो दद्यात्प्राज्येन सर्पिषा सह । ख. पुस्तके शोधितः पाठः द्विदिनान्तरितं पश्चाद्दद्यात्प्राज्येन सर्पिषा ।” ↩︎ ↩︎
-
“ग तान्निरुरुद्धांस्ततो ।”
↩︎ ↩︎ -
“ख. ॰विशैश्चैव त॰।”
↩︎ ↩︎ -
“क. ° पनह्यं प्र° ।”
↩︎ ↩︎ -
“क. त्यानाय पी°।”
↩︎ ↩︎ -
“ग. °नि दापयेद्दीपनानि च ।”
↩︎ ↩︎ -
“अयं सार्ध श्लोकोऽपि कगपुस्तके त्रुटितः । कगपुस्तके, इतः पूर्वं उपनह्यान्यथा स्विन्नान्गोधूमांश्चापि दापयेत् । इत्युपलभ्यते । यथर्तु इत्युचितम् ।” ↩︎ ↩︎
-
“क. यदा भेद्यतमा ।”
↩︎ ↩︎ -
“ग.चतुरुर्ध्वः ।”
↩︎ ↩︎ -
" क °चार्ष्टिकं ।"
↩︎ ↩︎ -
“क. °र्णाथकु°।”
↩︎ ↩︎ -
" अनुवासे तु या मात्रा इति पाठो भवेत् ।"
↩︎ ↩︎ -
“क. निष्पावमात्रे।”
↩︎ ↩︎ - ↩︎
-
“ख. ग. °नां नागाना° ।”
↩︎ -
" ऋतुयोगात्तथैव च इति तु स्यात् ।"
↩︎ ↩︎ -
“ग. नात्ते ग्राममा°।”
↩︎ ↩︎ -
“क, °रान्नीर°।”
↩︎ ↩︎ -
" पाकला इति पाठ एव साधीयान् । अत एवाग्रे पाकलाध्यायेऽपि पचतीति पाकलः इति व्युत्पत्तिर्दर्शिता ।”
↩︎ ↩︎ -
" शरनद्ध इति त्वग्रेलिख्यते ।"
↩︎ ↩︎ -
“तथा चान्यः क्षरीकृतः इत्येव पाठ उचित उत्तरग्रन्थानुरोधात् ।” ↩︎ ↩︎
-
“ख. विन्द्याच्च° । "
↩︎ ↩︎ -
“अग्रे व्यापदध्याये प्राङ्मद्यव्यापन्निरूपिता, ततो धान्यव्यापत् ।” ↩︎ ↩︎
-
“अष्टादशस्य शोफचिकित्सितस्य, एकोनविंशस्याक्षिरोगचिकित्सितस्य, मध्ये स्वेदशान्तिरक्षाध्यायावपि स्तः ।” ↩︎ ↩︎
-
“अग्रेऽक्षिरोगाध्याये तु वर्त्मक्लिष्ट इत्युपलभ्यते ।”
↩︎ ↩︎ -
“क. पूर्वोविद्धोऽथ ।”
↩︎ ↩︎ -
" क.सः।"
↩︎ ↩︎ -
“ग. सुदुर्बलः ।”
↩︎ ↩︎ -
“क. तापादर्काग्नि° ।”
↩︎ ↩︎ -
“गजरक्षाधिकारी, गजाधिकारी, वैद्यः, गजामात्यः, गजाध्यक्षः, गजाजीवी, महामात्रः, आरोढा, एवमष्ट कुलानि - इति कपुस्तकटिप्पणी।” ↩︎ ↩︎
-
“क. टिप्पणीगतः दैत्या हि पूर्वं प्लुतिपूर्वभेदाः रथाश्वपत्तिप्रतिबृंहिताश्च इति” ↩︎ ↩︎
-
“कपुस्तके इत आरम्य दिग्भ्यः स्वाहा इत्यन्तः पाठो नास्ति” ↩︎ ↩︎
-
“धनुराकारचिह्नद्वयान्तर्गतपाठः कपुस्तके नास्ति।” ↩︎ ↩︎ ↩︎ ↩︎
-
" धनुराकारचिह्नचतुष्टयान्तर्गतपाठः कपुस्तके नास्ति॥” ↩︎ ↩︎ ↩︎ ↩︎
-
“धनुराकारचिह्नान्तर्गतपाठः कपुस्तके नास्ति।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
“नवम इत्येव युक्तम्। यद्वाऽयमध्यायसमाप्त्युल्लेख एव प्रामादिकः, प्रथमस्थानेऽष्टादशाध्यायप्रतिज्ञाविरोधात्।” ↩︎ ↩︎
-
“यद्यपि पुस्तकत्रये दशमः इत्येव पाठ उपलभ्यते, तथाऽपि नवमः इत्येव युक्तम्, अस्याध्यायस्य पाकलरूपज्वरहेतुविनिश्चयत्वात्, पाकलाध्याय—स्कन्दाध्याययोर्मध्येऽस्य पृथक्संग्रहाध्यायेऽपरिगणितत्वाच्च। यद्वाऽग्रे स्वेद—शान्तिरक्षाध्याययोरिवात्राध्यायसंख्याङ्काभाव एव। अत्रोल्लेखस्तु प्राज्ञेन कृत इति प्रतिभाति॥” ↩︎ ↩︎
-
“यद्यपि त्रिष्वपि पुस्तके एकादशः इत्येव पाठः, तथाऽपि दशमः इत्येव पाठो युक्तः शास्त्रसंग्रहाध्यायेऽस्य दशमत्वेनोपन्यासस्य फलितत्वात्॥” ↩︎ ↩︎
-
“यद्यपि त्रिष्वपि पुस्तकेषु द्वादशः इत्येवोपलभ्यते, तथाऽपि प्राक्संग्रहाध्याये पाण्डुरोगाध्याय एकादशत्वस्यैव ध्वननात् एकादशः इत्येव पाठः समीचीनः।” ↩︎ ↩︎
-
“* तल्पाभिनयेऽवगाहे इति, तल्पेऽभिनवावगाहे इति वा पाठः स्यात्।” ↩︎ ↩︎
-
“+ सविप्लुतः इत्येव पाठः साधुः, अग्रिमग्रन्थानुरोधात्॥” ↩︎ ↩︎
-
“* ‘चान्यः क्षरीकृतः इति पाठ उचितः, अग्रिमग्रन्थानुरोधात्।” ↩︎ ↩︎
-
“* क पुस्तके तु जूर्ण्णपाद इति, गपुस्तके तु उष्णपाद इति पाठः। द्वयोरपि पुस्तकयोरग्रेतु जीर्णपाद इत्युपलभ्यते।” ↩︎ ↩︎
-
“+अस्य गात्रशोफस्यैव शुद्धशोफता भवेत्। अत एव सप्तसंख्योद्दिष्टा संग्रहाध्याये गात्रशोफस्यानुल्लेखश्च संगच्छते॥” ↩︎ ↩︎
-
“+ इतः पूर्व कपुस्तके सैन्धवेनाथसंभूयो लवणेनैव चूर्णयेत् इत्यधिकः पाठः ।” ↩︎ ↩︎
-
“+ …… द्वयोरपि,पुंस्तकयोरक्षरपञ्चकं त्रुटितं नोपलभ्यते।” ↩︎ ↩︎
-
“* अयमध्यायः प्रायः शोफाध्यायाङ्गभूतः, अतो नास्य पृथग्गणनेति प्रतिभाति॥” ↩︎ ↩︎
-
" एषोऽध्यायः प्रायः पाकलाध्यायशेषभूतः। अतः संग्रहाध्यायेऽस्य गणना न कृता। अत्रास्य लेखफलं न स्फुटम्॥” ↩︎ ↩︎
-
“धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
" क. °जातिर्दृष्टं जात्यं साध्यासाध्ये नयनव्याधिनिदानं सा°। ख. °जातिं दृष्टिं जात्यं साध्यासाध्ये नयनव्याधिनिदानं सा°।” ↩︎ ↩︎
-
“*कपुस्तके धनुराकारमध्यस्थः पाठस्त्रुटितः। प्रत्युत विद्युद्वारिहतप्रकरणस्थः बहिरक्ष्णोः — इत्यादि, भोजयेच्चैनं मृगवराहं कुक्कुटमहिषमांसरससंयुक्तं शाल्योदनं इत्यन्तः पाठोऽस्ति।” ↩︎ ↩︎
-
" एकोनविंशः इति त्वसंगतमेव प्रतिभाति, पूर्वं संग्रहाध्याये प्रथमस्थानेऽष्टादशानामेवाध्यायानां परिगणितत्वात्। प्रसङ्गतो ज्वरहेतुविनिश्चय — स्वेद— शान्तिरक्षाध्यायानामधिकानां सत्त्वेऽपि ज्वरहेतुविनिश्चयाध्याये संख्याङ्कोल्लेखः, स्वेदशांन्तिरक्षाध्याययोर्न इत्यत्र विनिगमकाभावात्।" ↩︎ ↩︎
-
“धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
" वृक्षगुल्मलताप्रतानगूढे प्रवातातपरहिते शोभनप्रदेशे सहसा वारणं प्रत्यन्तरे वा पाठः—इति कपुस्तके टिप्पणी॥” ↩︎ ↩︎
-
“क—खपुस्तकयोरेतावानेवेदृगेव पाठ उपलक्ष्यते। तत्र न निश्चितम्—पाठत्रुटितः, इति दूषीविषार्तः इतिपाठो वा—इति॥” ↩︎ ↩︎
-
" सप्त वेगा महाराज काश्यपेन प्रकीर्तिताः इति पाठो भवेत्।" ↩︎ ↩︎
-
" दृष्ट्वा तांश्च स्युर्निर्विषाः इति पाठो यथाकथंचिद्भवेत्॥" ↩︎ ↩︎
-
“इतोऽग्रे त्रुटितचिह्नभूता काकपदी कपुस्तके, खपुस्तके इतः किंचित्त्यक्तमस्ति इति मूल एव लिखितं गैरिकरक्तं दृश्यते।” ↩︎ ↩︎ ↩︎ ↩︎
-
“धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके॥” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
“प्रथमान्तत्वेन द्वितीयान्तत्वेनवा सारूप्येणैव पाठो योग्यः।” ↩︎ ↩︎
-
" शोभितानि इति द्वयोरपि पुस्तकयोस्त्रुटितम्, तथाऽपि कपुस्तके पार्श्वावकाशेत्रुटिपूरणाय लिखितमत्र लिखितम्॥" ↩︎ ↩︎
-
“पुस्तकद्वयेऽपि– कोकौभितौसौपार्थिवमिवचित्या इति लिखितमुपलभ्यते॥” ↩︎ ↩︎
-
“इतः परं मेढ्रक्षाण्यध्याये कियान्पाठस्त्रुटितः पुस्तकद्वयेऽपीति ज्ञायते।” ↩︎ ↩︎
-
“इतः पूर्व पुस्तकद्वयेऽपि हस्तग्रहणाध्याये कियान्पाठस्त्रुटित इति ज्ञायते॥” ↩︎ ↩︎
-
“सर्वेष्वपि पुस्तकेष्वत्र उदावर्तनाम पञ्चत्रिंशत्तमोऽध्यायः इति वर्ततेतर्हि तत्पञ्चत्रिंशत्तमत्वं ग्रन्थारम्भतः, न तु द्वितीयस्थानारम्भतः।” ↩︎ ↩︎
-
“* सर्पिषा स्पर्शदेशं तु शतधौतेन धावयेत् इत्यभिप्रायः प्रतिभाति॥” ↩︎ ↩︎
-
“इतः पूर्व कपुस्तके ^ इति त्रुटिचिह्नम्, खपुस्तके अत्र किंचित्त्यक्तमस्ति इति दृश्यते। तथाचास्मिञ्शूलाध्याये प्रारम्भश्लोकहीनता, पूर्वस्मिल्लुँप्ताध्याये समाप्तिश्लोकादिहीनताऽवसीयते॥” ↩︎ ↩︎
-
“इतः प्राक्तनः प्रश्नग्रन्थो नोपलभ्यतेऽतस्त्रुटित इति प्रतिभाति।; क. भवांश्च रोम°।” ↩︎ ↩︎
-
“इतः प्राक्तनाः दद्रुकी, महादद्रुकी, जातसूका इत्येते त्रयश्छषीदोषासुटिताः पुस्तकद्वयेऽपि नोपलभ्यन्ते। " ↩︎ ↩︎
-
“एतदग्रे पुस्तकद्वयेऽपि सन्निविलगं इत्येतावानेव पाठः॥” ↩︎ ↩︎
-
“एतदग्रेपुस्तकद्वयेऽपि च तेष्वदग्निसमापेतु इत्येवोपलभ्यते॥” ↩︎ ↩︎
-
“आदर्शद्वयेऽपीतः परं षासान्समुपलाह्ये इत्येवोपलभ्यते।” ↩︎ ↩︎
-
“इतः परं कपुस्तके तु द्वित्राक्षरलिखनावकाशस्त्यक्तः। खपुस्तके तु चतुर्दशपङ्क्तिस्थानमलिखितमेव रक्षितमस्ति।” ↩︎ ↩︎
-
“खपुस्तके इतः पङ्कित्रयमितं त्यक्तमस्ति इति लिखितमुपलभ्यते॥” ↩︎ ↩︎
- ↩︎ ↩︎
-
“अत्रैव द्वादशविधोत्पत्तिः इति त्रुटितं प्रतिभाति स द्वादशविधोत्पत्तिरिति यदुक्तम् इत्यग्रिमग्रन्थानुरोधात्।” ↩︎ ↩︎
-
“निघातम् इति पाठो भवेत्, अग्रे संनिहन्यते इति वक्ष्यमाणत्वात्।” ↩︎ ↩︎
-
“अपृष्टच्छिनस्य निदानलक्षणानि त्वग्रे नोपलभ्यन्ते पुस्तकद्वये।” ↩︎ ↩︎
-
“संकुचितग्रन्थस्यान्तिमो ग्रन्थः, भग्नग्रन्थस्याऽऽदिमो ग्रन्थश्चाऽऽदर्शद्वयेऽपि त्रुटित इव प्रतिभाति।” ↩︎ ↩︎
-
" इतः प्रागपृष्टच्छिन्नस्य लक्षणादि त्रुटितमिति प्रतिभाति।" ↩︎ ↩︎
-
“खपुस्तके तु ‘भवे’इत्युत्तरमेव ‘इतिश्री’–इति स्थानसमाप्तिलेख उपलभ्यते। कपुस्तके तु ‘सुखं सर्वार्थदेहजम्’इत्युत्तरम्। पुस्तकद्वयेऽप्यध्यायसमाप्तिलेखो नोपलभ्यते। अतः प्रतिभाति—‘कियान्ग्रन्थभागस्त्रुटितः’इति॥” ↩︎ ↩︎
-
“२ क. तस्मादनुस्थानां। * केशश्मश्रुलोमास्थिनखदन्तसिरास्त्रायुधमनीरेतःप्रभृतीनि स्थिराणि पितृजानि, मांसशोणितमेदोमज्जात्दृन्नाभियकृत्प्लीहान्त्रगुदप्रभृतीनि मृहूनि मातृजानि इति सुश्रुतात् दृढानि पितृजानि, मृदूनि मातृजानि इति पर्यवसितम्॥” ↩︎ ↩︎
-
“+ अयमर्धश्लोकः नाम्यां —इत्यर्धतः परं पाठ्यः इति प्रतिभाति॥” ↩︎ ↩︎
-
“* धनुराकारमध्यस्थौ श्लोकौ पूर्वाध्यायस्य गर्भसंभवाव्यस्य चरमलिखितौ केवलंखपुस्तके पुनरुक्तौ। कपुस्तके तु प्रकृताध्यायप्रारम्भे कृतप्रश्नानामेतदुत्तरकानुयोगाभावेन व्यर्थत्वावगमेन न लिखितौ ॥” ↩︎ ↩︎
-
“* मन्दो भद्रमना नागो मन्दो मृगमनास्तथा। मृगो भद्रमना नागो मृगो मन्दमनास्तथा इत्येव पाठो भवितुमर्हति वक्ष्यमाणषट्संख्यानुरोधात्।” ↩︎ ↩︎
-
“* अयं सार्धश्लोकः वायुर्गर्भे —इत्यर्धोत्तरं कपुस्तके॥” ↩︎ ↩︎
-
“आदर्शद्वयेऽपि तुल्यत्वादस्मिन्नध्याये छन्दोविचितिश्चिन्तनीया॥” ↩︎ ↩︎
-
“कण्ठमध्ये मर्म सप्ताङ्गुलप्रमाणम्। इत्यधिकमितः परं कपुस्तके।” ↩︎ ↩︎
-
“आदर्शद्वयेऽपि तुल्यः पाठः। तथाऽप्युक्तसंख्या तु न लभ्यते॥” ↩︎ ↩︎
-
“*क पुस्तके धनृश्चिह्नान्तर्गतं पाठमलिखित्वा इन्द्रियान्वितः इति लिखितमस्ति ।” ↩︎ ↩︎
- ↩︎