हरमेखला (प्रथमभागः)

[[हरमेखला (प्रथमभागः) Source: EB]]

[

TRIVANDRUM SANSKRIT SERIES
No. CXXIV.
Sri Citrodayamanjari.
No. XIII.

THE
HARAMEKHALA
OF
Māhuka
with commentary

EDITED BY
K. SĀMBAŚIVA SĀSTRĪ

Curater of the Department for the Publication
of Oriental Manuscripts, Trivandrum.

(Part I.)

PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJA OF TRAVANCORE.

TRIVANDRUM:

PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS,
1936
(All Rights Reserved.)

अनन्तशयनसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः १२४.

श्रीचित्रोदयमञ्जरी।
ग्रन्थसङ्ख्या १३.

हरमेखला

माहुकविरचिता
सटीका

पौरस्त्यग्रन्थप्रकाशनकार्याध्यक्षेण

के. साम्बशिवशास्त्रिणा
संशोधिता।

[प्रथमभागः।]
सा च
अनन्तशयने

महोन्नतमहामहिमश्रीचित्रावतारमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रायित्वा प्रकाशिता ।

कोलम्बाब्दाः १११२. क्रैस्ताब्दाः१९३६.

॥श्रीः॥

श्रीमूलावनिपालमौलिमणिना सङ्कल्पितश्रीरिव
श्रीमूलात्मजनिस्तथा सहजया लक्ष्म्या च सम्भावितः।

स्वातिज्योतिरिवादितः समुदितश्चित्रावतारः स्वयं
मार्ताण्डाग्रसरो विराजति महाराजः स रामाभिधः॥

भास्वद्वर्णमणिः प्रवालमृदुला श्रुत्याद्यलङ्कारिणी
श्रीमद्वञ्चिवसुन्धरानवयशोराशिप्रकाशात्मिका ।

उत्फुल्लत्सुकृतिप्रसाधनधृतामोदोन्नदड्डिण्डिमा
श्रीचित्रोदयमञ्जरी सुमनसां सर्वस्वमुज्जृम्भताम् ॥

के. साम्बशिवशास्त्री.

PREFACE.

**Subject :**This work namely Haramekhala is a Talisman for all living things. Its scope is really very great as it protects the humanity at large as well as the Animal Kingdom. Though it is supposed to comprise of five chapters the first one could not be availed of. So the department that was busily engaged in trying all possible means in the hope of bringing the first chapter as well to light, had to postpone its publication. But all endeavours proving futile, this work of so many invaluable and essential informations has been belated in its publication, by us whose duty it is to preserve all that are extant. And the final result is this publication of the first part with no more delay. Three chapters - from the second to the fourth - have been included in it. They more or less deal with Ripudamana (supression of enemies), Vidagdhadayita (allurements) and Cikitsitayoga (medicinal treatments) in order. I hope that the addition of the contents showing the details of the subjects treated in each chapter will prove of great use to the students of the work. This book which deals with various Dhūpas and others that will cause delusions at some places, the suppression of elephants belonging to enemies at other places, the destroying of mosquitoes and bugs at others, enchanting the whole world at certain others, the avoiding of tormenting caused by planets at certain places and the treatments for diabetes at still other places, and such many other Prayogas, cannot be called a treatise on Tantra, incantations, medicines or worldly experience. Thus it defies all attempts of giving a name so as to denote the subject matter individually or collectively. Rather it gives in a nut-shell all the essential sciences of such kind. So it is said at the close “हरमेखला प्रयोगमाला रचिता ॥”

** **Thus we are made to understand that this Haramēkhala is otherwise called Prayogamāla.

Nature : This Mekhala comprises of original Kārikas in Prakrit, Chhāyās - the renderings, and Tīka - the notes, inSanskrit, and as such is quite understandable to the reader. The fact that it was writtenduring a period when Prakrit was the current spoken language and that it was commented in Sanskrit on a later occasion amply testifies to its great antiquity. The historians are of opinion that Sanskrit originated from Prakrit. From the following passages found at the close of the work :-

“धरणिवराहरज्जे

कविमण्डणतणअमाहवसुएण ।

रइआ चित्तउडे

माहुएण हरमेहला ॥’
(प्राकृतम्)

“धराणेवराहराज्ये

कविमण्डनतनयमाधवसुतेन ।

रचिता चित्रकूटे

माहुकेन हरमेखला ॥”
(छाया)

**“माधवाख्यस्य तनयेन चित्रकूटे निवासिना माहुकाख्येनैषा हरमेखला प्रयोगमाला रचिता” ** (व्याख्या)

it is clear that the author is Māhuka who lived at Citrakūṭa and that he was the son of Mādhava, the grandson of Kavimaṇdana.

“एत्थरसाए असुत्ताए

समाहमासम्मि।

सत्तमदिणे समत्ता

विअबह्मजणमुणिअपरमत्था॥”
(प्राकृतम्)

“वत्सर(सु ? श) तेष्वष्टसु

समाघमासस्य ।

सप्तमदिने समाप्ता

विदग्धजनज्ञातपरमार्था ॥”
(छाया)

“श्रीविक्रमादित्यकालात् सप्ताशीत्यधिके धर्मशताष्टगते माघसप्तम्यामेषा हरमेखला व्युत्पन्नलोकैरेवावगततत्त्वा निष्पादिता टीका”

From such passages in the original, rendering, and commentary it is assumed that the date of Māhuka is the 9th century A, D, corresponding to 887 of the Vikrama Era, in which year the Mēkhalā was completed. The fact that such an antiquity is ascribed to the work is in itself sufficient excuse for the publication of this work by our department.
**The Commentator :**The place, date, name etc., of the commentator are not to be known either from internal or external evidencesnor from other catalogues. Thus the method of Sanskrit rendering and commentary adopted in this work is unrivalled and unknown. That he mentions no other author, nor is he mentioned by others is the result of his living at Citrakūṭaand his performing penance that seems quite in keeping with his life. So this publication which throws light on both is indeed an asset to our department which was fortunate enough ingetting access to the work I cut short my remarks, hoping that I shall discuss what remains in the second volume which is expected to be published shortly.
**Another work connected :**In this Haramekhala there appears to be another work after 181 Kārikas in the fourth chapter, and its name is Puttalikāpañcavimśati. In it are discussed the various rites for killing the enemies etc., with the necessary incantations and medicines.

“शुक्लमाषाष्टसंयुक्तां

कुर्यात् पुत्तलिकां शुभाम् ।

स्त्रीपुंसयोः स्वरूपेण

माने द्वादशके स्वके ॥”
(पृष्ठम् ८९.)

As the Prayogas of the Mantras begin in such a manner it is but proper to call it Puttalikāpañcavimśati, I don’t consider that this work that by some chance has fallen in, is out of place in such a work as Haramēkhalā which abounds in so many diverse rites. Even though we were aware of the existence of such an interpolation, the Puttahkāpañcavimśati is published along with Haramēkhalā as there is striking coincidence between the two in the actual practice of the rites accompanied by medicinal applications. Besides no other manuscript copy of the work has been obtained as yet. It is hoped that Māhuka himself had such an idea of both being compiled together and our duty being just to preserve what exists it will not be improper to publish the work as it is.
The only original manuscript that forms the basis of the publication of this Haramēkhalā of invaluable merits was obtained from Brahmasri C. Narayanan Bha tatiri Avl, of Parambūrillom in Tiruvalla. The manuscript was very oldwritten about 800 years before and was deplorably worn and unreadable. Sincerely thanking the generous owner of the manuscript, who gave it up for publication, I place the work before the enlightened public.

Trivandrum,

26-4.1112.
K. SĀMBAŚIVA ŚĀSTRĪ.

॥श्रीः॥

अवतारिका ।

**प्रकृतिः। -**इयं हरमेखला नाम कापि रक्षामेखलैव लब्धजनुषाम् । न केवलमनया मानवाः किन्तु पश्चादयोऽपि रक्षणीया अभिमता इति महत्यस्या अधिकारव्याप्तिः । पञ्चपरिच्छेदीपरिपुटितात्माप्यसौ प्रथमस्य परिच्छेदस्यानुपलब्धेःप्रत्याशाबद्धमतिभिः प्रबलतरप्रयत्नमुखैः पूर्वमेव प्रकाशनाय नोपादायि । प्रयत्नवैफल्यमेवोदाहरता तु गच्छता कालेन स्थितपरिरक्षणधर्मणामस्माकमवश्यप्राह्यबहुसारसम्पुटेयमचिरप्रसद्धीकृतिं प्रत्यैक्षिष्ट । फलमिदमस्याः प्रतीक्षाया यत् साम्प्रतमयमाविर्भावः प्रथमभागस्य । अत्र द्वितीयादितस्तुरीयान्तास्त्रयः परिच्छेदा घटिताः । ते च - रिपुदमनः विदग्धदयितः (वशीकरणयोगः) चिकित्सितयोगः इति यथाक्रमं सामान्येन प्रमितप्रमेया दृष्टाः । प्रतिपरिच्छेदगतसर्वांशसङ्ग्रहणसश्रद्धा कापि विषयानुक्रमणी च समायोजितेह मन्ये प्रतिपत्तृृणां सौकर्यमावहति । क्वचन मोहोत्पादकधूपविशेषादिभिः, कुहचन परगजदर्पनिवारणादिभिः, कुत्रचिन्मशकमत्कुणादिनाशोपायैः, क्वापि च भुवनवशीकरणादिभिः, एकतश्च ग्रहबाधापरीहारादिभिः, अन्यतः प्रमेहादिनिवारणचिकित्सितैरन्यैरन्यैश्च विविधकार्यसमर्पणप्रवणैः प्रतिपाद्यैरियं मेखला, न तन्त्रस्य, न वा मन्त्रस्य, नापि चिकित्सितस्य, नचापि लोकयात्रानियमस्येति सर्वसारसमुच्चयग्राहिका न विविच्य विषयतो नामग्राहं शक्यग्रहा भवति । अत एवोच्यतेऽन्ते **“एषा हरमेखला प्रयोगमाला रचिते”**ति । तस्मात् प्रयोगमालापरनामेयं हरमेखलेति ज्ञायते ॥

आकृतिः। - प्राकृतमयीभिर्मूलकारिकाभिः संस्कृतमयीभिश्छायाभिः संस्कृतभाषाटीकया च कयाचन कृताकृतिरियं मेखला जिघृक्षवे सुग्रहा प्रकाशते ।प्राकृतसंव्यवहारे प्रचुरप्रचारे जाग्रति विरचिता समयान्तरे संस्कृतच्छायाटीकाभ्यां कृतविष्टम्भा तामिमामाकृतिं प्रतिपन्नेति विचिन्तनीयेयमात्मनः प्राक्तनतामभिव्यनक्ति । प्राकृतादेव संस्कृतमिति तु निश्चप्रचं चरित्रकाराणाम् ॥

ग्रन्थसमाप्तौ -

“धरणिवराहरज्जे

कविमण्डणतणअमाहवसुएण ।

रइआ चित्तउडे

माहुएण हरमेहला॥
(प्राकृतम्)

धरणिवंराहंराज्ये

कविमण्डनतनयमाधवसुतेन ।

रचिता चित्रकूटे

माहुकेन हरमेखला ॥
(छाया)

ग्रन्थकारः। - माधवाख्यस्य तनयेन चित्रकूटे निवासिना माहुकाख्येनैषा हरमेखला प्रयोयमाला रचिता इति दृश्यमानाभिः पङ्क्तिभिरस्या मेखलाया निबन्धा कविमण्डनपौत्रो माधवपुत्रश्चित्रकूटनिवासी माहुक इत्यवगम्यते ॥

“एत्थरसाए असुत्ताए

समाहमासम्मि ।

सत्तमदिणे समत्ता

विअबह्मजणमुणिअपरमत्था ॥
(प्राकृतम्)

वत्सर(सु?श)तेष्वष्टसु

समाघमासस्य ।

सप्तमदिने समाप्ता

विदग्धजनज्ञातपरमार्था ॥
(छाया)

श्रीविक्रमादित्यकालात् सप्ताशीत्यधिके धर्मशताष्टगते माघसप्तम्यामेषा जीवितसमयः । हरमेखला व्युत्पन्नलोकैरेवावगततत्त्वा निष्पादिता ॥”

अनया मूलपङ्क्त्या छायया टीकया च विक्रमादित्यवत्सरेभ्यः सप्ताशीत्यधिकाष्टशताब्द्यामस्या मेखलायाः परिसमाप्तिं गमयन्त्या क्रिस्त्वब्दीयनवमशताब्द्यस्य माहुकस्य जीवितसमयः प्रत्येतव्यः । सिद्धमेतावता प्राचीनत्वमस्यानुगुणमस्मदधिकरणप्रकाश्यताभूषणम् ॥

व्याख्यातुश्च देशनामधेयादिकं न किमप्युपलभामहे ग्रन्थात् , न वा सूचिकान्तरेभ्य इति सिद्धमपूर्वविज्ञातं गौरवमस्यछायाकरणेविवरणकरणे च । अन्यैरयमनेन चान्ये ग्रन्थकारा नाम्मारिषतेति फलमिद चित्रकूटनिवासस्य समनुगुणस्य तपसश्चेति सम्प्रत्युभयप्रकाशाय कृतभाग्यमस्मदाधिकरणं मन्ये धन्यधन्यम् । अचिरेण च प्रचिकाशयिषितेऽस्य द्वितीयभागे यच्च यावच्चशेषं विचारयितेति सद्यः सङ्ग्रहकुतुकी विरमामि ॥

अनुबद्धं ग्रन्थान्तरम्। - अस्यां हरमेखलायां चतुर्थपरिच्छेदे एकाशीत्यधिकशततम्याः कारिकायाः समनन्तरं कियत्यपि ग्रन्थपाते किमपि ग्रन्थान्तरं प्रत्यक्षीभवति, यत् पुत्तलिकापश्चविंशत्यभिधानम् । यत्र मन्त्रसंयुक्तैरौषधैर्विविधां प्रयोगपरिपाटीं प्रपन्नैः शत्रुमारणादिकं साध्यते ॥

“शुक्लमाषाष्टसंयुक्तां

कुर्यात्ं पुत्तलिकां शुभाम् ।

स्त्रीपुंसयोः स्वरूपेण

माने द्वादशके स्वके॥”
(पृष्ठम् ८९.)

इति मन्त्रोपक्रमदर्शनाद् युक्तमिदमभिधेयं पुत्तलिकापञ्चविंशतीति । बहुप्रयोगसंरम्भसम्मिश्रितेऽस्मिन् हरमेखलाग्रन्थे मन्येपातपतितमपीदं नास्थाने । औषधोपयोगिमान्त्रिकप्रयोगस्योभयतः साम्याद् विज्ञातमपि प्रागेव, मातृकान्तरानुपलम्भादुपहितग्रन्थान्तरसाहायकस्य माहुकसङ्कल्पनापतितत्वशाङ्कयापि यथास्थितमेव प्रकाश्यमानमिदं पुत्तलिकापञ्चविंशत्याख्यं भवत्यनागसे स्थितपरिपालनाक्षतेः।

अस्या हरमेखलाया विशिष्टगुणभूषणाया एवं प्रकाशनेऽवलम्बभूतो मातृकाग्रन्थः तिरुवल्ला परम्पूरिल्लं ब्रह्मश्री सि. नारायणन् भट्टतिरिस्वामिकः नरत्तमतमो माकीमष्टशताब्दीपर्युषितोऽक्षरैः प्रायः सक्षरैरेव खिलपातबहुलैरद्वितीयः । तमिमं ग्रन्थं प्रसाधनाय समर्पितवतेऽस्मै ग्रन्थस्वामिने बहून् धन्यवादानुपहरन्नस्मि मेखलां महाजनसमक्षमवतारयामि ॥

अनन्तशयनम् ,

२९.४.११२.
के. साम्बशिवशास्त्री.

विषयानुक्रमणिका।

विषयाः पृष्ठम्
द्वितीयपरिच्छेदे -
कुट्टिन्या मदोत्पादनम्
मनस्तापकरणम्
छर्द्युत्पादनम्
विरेचनसाधनम्
रुधिरातिसारोत्पादनम् "
मुखरोगोत्पादनं तत्प्रतिक्रिया च
मूकत्वापादनम् "
कटिपवनोत्पादनम्
कुष्ठरोगोत्पादनम् "
लूतोत्पादनं तत्प्रतिक्रिया च
रजःस्रावणं तत्प्रतिक्रिया च
मलनिरोधनं तत्प्रतिक्रिया च "
मूत्रनिरोधनम्
काकादिजन्तुभिः पीडोत्पादनम् "
वराङ्गदुःखोत्पादनम्
उन्मादोत्पादनम् "
पुरुषाणां लिङ्गप्रसरनिरोधनम् "
स्त्रीणां पुंश्चिह्नेन सङ्गमनिरोधनं, तत्प्रतिक्रिया च "
योनिस्तम्भनम्
स्त्रीणां रतिनिरोधनं तत्प्रतिक्रिया च "
पुरुषान्तररमणप्रतिबन्धनं तत्प्रतिक्रिया च १०
योनिस्तम्भनं तत्प्रतिक्रिया च "
पुरुषस्य षण्डत्वापादनं तत्प्रतिविधानं च ११
विषयाः पृष्ठम्
तत्रैवोपायान्तराणि ११
रते मिथुनस्याविश्लेषणोपायः १२
तत्रैवोपायान्तरं तत्प्रतिविधानं च "
स्तनयोरदृश्यत्वकरणम् "
परस्परविरोधोत्पादको होमविशेषः "
मिथुनस्य प्रेमविघटनम् १३
तत्रैवोपायान्तराणि "
नष्टायाः प्रीतेः पुनरुत्पादनम् १४
गृहोद्वासनम् "
कुट्टिनीगृहे प्रतिदिनं कलहोत्पादनम् "
मोहोत्पादको धूपविशेषः १५
तादृशो दीपज्वालाविशेषः "
नर्तनकारको धूपादिः १६
धूपप्रयोगादीनामितिकर्तव्यता १७
केशशुक्लीकरणम् "
अधरशुक्लीकरणं तत्प्रतिक्रिया च "
मोहोत्पादक आमोदविशेषः, तत्प्रतिक्रिया च १८
केशनाशोत्पादनम् "
केशशातनसाधनम् "
अश्वपातनं तत्प्रतिक्रिया च "
तुरगान्धीकरणं तत्प्रतिक्रिया च १९
गजानां परगजदर्पनिवारणम् "
गजपलायनोत्पादनम् "
बलिष्ठपुरुषदर्पापहरणम् "
कुक्कुटबलशातनम् २०
बलाधिकप्रतिपक्षकुक्कुटनिषूदनम् "
सुराया विरसतापादनं तत्प्रतिक्रिया च "
नग्नक्षपणकध्वजोत्थापनं प्रतिक्रिया च २१
विषयाः पृष्ठम्
स्त्रीणामधरवसनोत्क्षेपणम् २१
गर्भस्तम्भनं प्रतिक्रिया च २२
गर्भस्थशिशोर्जात्यन्धत्वापादनम् "
मृष्टान्नस्य तिक्तत्वापादनं प्रतिक्रिया च "
वृष्टावप्यग्नेर्ज्वालोत्पादनम् "
जलेऽग्नेर्ज्वालोत्पादनम् २३
पुरुषस्योन्मत्तत्वापादनं प्रतिक्रिया च "
बिलगतसर्पजीवापहारिणी वर्तिः "
गृहेषु सर्पपरिहरणोपायः "
मूषिकाणां मोहोत्पादनद्वारापसारणम् २४
मूषिकासमूहनाशको लेपविशेषः "
मत्कुणनाशनम् "
मत्कुणाकर्षका दीपविशेषाः २५
भुजगोन्दुरुघुणमत्कुणमशकयूकनाशको धूपः "
मत्कुणमशकविद्रावणो धूपविशेषः २६
तृतीयपरिच्छेदे -
अभीष्टस्त्रियाः स्वसमीपोपनयनम् २७
त्रिभुवनवशीकरणे तिलकविशेषः "
नरनारीनरेन्द्रप्रीतिसम्पादनं विषानाक्रमणं च "
वशीकरणे पानभोजनविशेषाः २९
वशीकरणेऽञ्जनविशेषाः "
सर्वार्थसाधको धूपविशेषः ३१
सौभाग्यसंजननो धूपविशेषः "
सर्वसिद्धिप्रदो धूपविशेषः "
राजवशीकरणे धूपविशेषः "
तस्यैव कार्यान्तरेष्वप्युपयोगः ३२
विषयाः पृष्ठम्
भुवनवशीकरणे उपायान्तरम् ३३
कामिनीवाल्लभ्यकरणम् "
पशुपतिसृष्टो महावशीकरणाख्यस्तैलविशेषः "
सुगन्धिकुसुमाघ्राणनेन वशीकरणम् ३४
वशीकरणे लेपविशेषः "
नरकालसारहयमत्तगजवशीकरणम् ३५
योषिद्वशीकरणे लेपविशेषः "
योषितां दीर्घप्रीतिसम्पादको रुद्रदत्तो योगराजः "
कामिनीवशीकरणे लेपान्तराणि "
पतिवशीकारकं गुह्याभ्यञ्जनतैलम् ३९
तादृशो धूपविशेषः ४०
लिङ्गदार्ढ्यसम्पादकलेपविशेषाः "
तादृशं चरणाभ्यञ्जनतैलम् ४१
बीजस्तम्भको लेपविशेषः "
दुष्टधेनुवशीकरणेऽञ्जनविशेषः ४२
चतुर्थपरिच्छेदे -
खल्वाटस्य कुञ्चितकेशोत्पादनम् ४३
इन्द्रलुप्ताख्यव्याधिजातशमनम् "
कचस्थिरीकरणम् ४४
संहतरम्यकेशोत्पादनम् ४५
त्वक्चटनरूपशिरोव्याधिशमनम् "
सकलशिरोरोगनिवारकतैलानि "
दारकाख्यशिरोव्याधिशमनम् ४६
शिरस्युत्पन्नसूक्ष्मपिटकानाशनम् "
जटीभूतकेशस्य विविक्तत्वापादनम् ४७
यूकसङ्घाताकर्षिणी चीरिका "
लीक्षायूकनाशकस्तैलविशेषः "
विषयाः पृष्ठम्
पलितकेशकृष्णीकरणे लेपविशेषाः ४८
तत्रैव नस्यत्वेन प्रयोक्तव्यास्तैलविशेषाः "
शिरोवेदनापसारणम् ५०
कर्णशूंलंपरिहारः "
सर्वकर्णरोगनाशकस्तैलविशेषः "
कर्णशूलपरिहारकस्तोयविशेषः "
कर्णपूतिरोगपरिहरणम् ५१
कर्णपालीवृद्धिकरणेऽभ्यङ्गसाधनानि "
कर्णकुचवृद्धिकरणेऽभ्यङ्गसाधनम् ५२
कर्णकरकुचलिङ्गस्कन्धानां वृद्धिकरणे उद्वर्तनविशेषः "
लिङ्गमहत्त्वदृढत्वसाधनानि ५३
नेत्रव्यथापरिहारसाधनानि ५४
नीलिकारोगनाशकोऽञ्जनविशेषः ५५
पिल्लोन्मूलितपक्ष्मनेत्रपक्ष्मलीकरणम् ५६
नयनरोगनाशिनी वर्तिकादिः "
वायुजनितनेत्रशूलापसारणम् "
पटलादिनेत्ररोगनाशकमञ्जनम् ५७
पुष्पकरोगनिवारणम् "
तत्रैव वर्तिविशेषः "
रात्र्यन्धतानिवारणम् ५८
तिमिरव्याधिशमनम् "
पटलव्याधिशमनम् "
अञ्जनपिटकव्याधिशमनम् "
कामिलाव्याधिपरिहरणम् ५९
नासार्शोनाशनम् ६०
अधरोपसर्गनिवारणम् "
मुखप्रवृत्तरक्तविनाशनम् ६१
मुखरोगनाशनम् "
विषयाः पृष्ठम्
मुखदुर्गन्धपरिहरणम् ६१
मुखवेदनापरिहरणम् ६२
मधुरस्वरापादनम् "
ताम्रवृत्ताख्यव्याधिशमनम् ६३
गलरोगशीर्षवेदनाशमनम् "
दन्तवेदनापरिहरणम् "
दशनकृमिपातनम् "
मुखवैवर्ण्यनाशका लेपाः ६४
मुखशोभातिशयसम्पादका लेपः ६५
तत्रैवाभ्यङ्गसाधनतैलविशेषाः ६८
गण्डमालाव्याधिपरिहरणम् ६९
बाहुशूलस्तम्भादिपरिहरणम् ७०
अपबाहुकनिवारणम् "
स्तनयुगलपीनोत्तुङ्गमनोहरत्वसम्पादनेऽभ्यङ्गसाधनम् ७१
श्रवणपयोधरलिङ्गानां स्थूलत्वसम्पादको लेपः "
प्लीहाख्यव्याधिनिवारणम् ७२
विद्रधिव्याधिपरिहरणम् ७४
सर्वजठररोगपरिहरणम् "
उदरकृमिपरिहरणम् "
तीव्रत्वग्दोषनिवारणम् "
कुष्ठहरो लेपविशेषः ७५
चरणदद्रुपरिहरणम् "
खसररोगनिवारणम् "
श्वित्रनाशनम् ७६
पामाख्यरोगनिवारणम् ७७
पतिपित्तपरिहरणम् "
विषयाः पृष्ठम्
सिध्मरोगनिवारणम् ७८
अङ्गशोभासम्पादको लेपविशेषः ७९
शरीरदौर्गन्ध्यनिवारक उद्वर्तनविशेषः "
रक्तपित्तकामिलापाण्डुरोगपरिहरणम् ८०
**पीनसपरिहरणम् **
कण्ठवैस्वर्यनाशनम् "
कासपरिहरणम् ८२
हिक्काश्वासविनाशनम् ८३
क्षयनाशनम् "
शोषक्षपणम् ८४
शरीरपीनत्वापादनम् "
परिणामशूलपरिहरणम् "
हृदयपृष्ठशूलपरिहरणम् ८५
अतिसारप्रतिक्रिया "
रुधिरातिसारप्रतिक्रिया ८६
सर्वातिसारग्रहणीरोगप्रतिक्रिया "
विषूचिकाप्रतिक्रिया "
सर्वमेहनिवारणम् ८७
प्रमेहनिवारणम् "
मूत्रकृच्छ्रपरिहरणम् "
अश्मरीव्याधिहरणम् "
शर्कराव्याधिनिस्सारणम् ८८
गण्डमालापरिहरणम् "
[आभिचारिकमन्त्राः] ८९
समस्तज्वरप्रतिक्रिया ९६
सन्निपातज्वरे कषायविशेषः ९८
ज्वरपीनसमन्दानलश्वासकासशूलहरः क्वाथः "
विषयाः पृष्ठम्
श्लेष्मज्वरहरः कषायः ९८
मूर्छापित्तज्वरदाहविषशमनः कषायः ९९
विषमज्वरकासहृद्रोगप्रतिक्रिया "
घनसुप्तिनाशनम् १००
निद्रोत्पादनम् "
ज्वरदाहपवनशोणिततापहरो लेपः "
ऊरुस्तम्भप्रतिक्रिया १०१
रङ्गणीवातप्रतिक्रिया १०२
अस्थिभङ्गप्रतिक्रिया "
चरणतापहरो लेपः "
पादिकादोषपरिहरणम् १०३
चर्मकीलविनाशनम् "
मशकाख्यव्याधिप्रतिक्रिया १०४
अग्निदग्धशामको लेपः "
शस्त्रप्रहारजव्रणप्रतिक्रियाः १०५
शस्त्रक्षतात् शल्योद्धरणम् १०७
व्रणगतिशामकास्तैलादयः १०८
रक्तमण्डलनिवर्तकस्तैलविशेषः १०९
अर्बुदाख्यव्याधिप्रतिक्रिया "
गण्डग्रन्थिनाशनम् "
व्रणकिणग्रन्थिविलयकरणम् ११०
अपस्मारपरिहरणम् "
भूतग्रहविद्रावणो नस्यप्रयोगः "
ब्रह्मराक्षसादिनाशको नस्यप्रयोगः १११
भूतदोषनिवारकोऽञ्जनविशेषः "
भूतविद्राविणी अञ्जनगुलिका "
चातुर्थिकज्वरप्रतिक्रिया ११२
विषयाः पृष्ठम्
अहिवृश्चिकादीनां पार्श्वसञ्चारनिरोधक पानविशेषः ११२
घोरसर्पाक्रमणनिरोधक गरु..तिमाधार (असम्पादितः भागः) "
सर्पदंशनिवारणम् "
भुजङ्गोद्ग्राहको मूलिकाबन्धः ११३
सर्पजातिविषविद्रावकः पानविशेषः "
मण्डलिविषापसारणम् "
कृत्रिमविषदर्पापसारणम् "
कोद्रवधुर्धूरकभुक्तिजातमोहापहः पानविशेषः ११४
पूगफलजमदनिवर्तकः पानविशेषः "
मद्यपानजमदनिवर्तकः पानविशेषः ११५
कृत्रिमविषमदनाशकः पानविशेषः "
वृश्चिकविषवेगस्यान्यत्र सङ्क्रामणम् "
वृश्चिकविषसङ्कामणम् ११६
वृश्चिकदष्टस्य स्वेदकम्पादिनिवारणम् "
खर्जूरविषापहरणम् ११७
रात्रिकाख्यप्राणिविषपरिहरणम् "
मूषिकविषनाशनम् "
मत्स्यविषनाशनम् ११८
गोधेरकविषपरिहरणम् "
शृङ्गिमत्स्यवेदनापनयनम् "
बरटीविषनाशनम् "
माक्षिकविषनाशनम् ११९
इर्दुरविषशमनम् "
उन्मत्तशुनकविषपरिहरणम् "
सर्वप्राणिनखदन्तविषपरिहरणम् १२०
लूताविषप्रशमनम् "
कीटपिटकादिदोषप्रशमनम् "
विषयाः पृष्ठम्
ज्वालागर्दभव्याधिप्रशामको लेपः १२१
शीतलिकाव्याधिनिवारणम् "
प्रदरव्याधिनिरोधनम् १२२
रक्तगुल्मपरिहरणम् १२४
स्त्रीणां रजःप्रवर्तने वर्त्तिविशेषः "
गर्भग्रहणयोगाः १२५
गर्भधारणनिरोधनम् १२६
गर्भपातनिरोधकाः १२७
गर्भिण्याः शोणितप्रस्रावनिरोधनम् १२८
गर्भच्युतिवेदनानिवारणम् "
सुखप्रसवकरा योगाः "
गर्भस्य पुंस्त्वस्त्रीत्वपरिज्ञानम् १२९
विपन्नगर्भपातनम् १३०
प्रसूतानां वराङ्गशूलनाशनम् "
प्रसूताया दुग्धवृद्धिसम्पादनम् १३१
स्तनकीटकहरणद्वारा स्तन्यवृद्धिकरणम् १३२
स्तनवेदनापरिहरणम् "
स्त्रीणामुदरतनूकरणम् "
किक्किसिकाप्रशमनम् "
योनिशूलापहारणम् १३३
बहिःप्रसृतस्य स्त्रीवराङ्गस्य स्वस्थानप्रापणम् "
स्त्रीवराङ्गस्य शैथिल्यपरिहरणम् "
वराङ्गदौर्गन्ध्यनाशनम् १३४
वराङ्गकुहरस्य सुन्दरत्वापादनम् १३५
वराङ्गधूपनम् "
वराङ्गस्थरोमशातनम् "
विषयाः पृष्ठम्
सुखस्वापानुभूत्युपायः १३६
शिशूनां ग्रहबाधापरिहारको धूपः "
बालानां विषव्याधिभूतबाधादिपरिहरणम् "
बालानां दन्तोत्पत्तिवेदनापरिहरणम् १३७
शीघ्रं दन्तोत्पत्तिसाधनम् १३८
बालानामतिसारधरणः कषायश्चूर्णश्च "
बालस्य वच्छारुषितापनयनम् १३९
कुकूणकादिनेत्ररोगहरमञ्जनम् "
कुमारसुखप्रदतैलविशेषः "
बालपरिचर्याक्रमः १४०
शरीरसौभाग्यसम्पादनम् १४१
श्रुतधरत्वसम्पादनम् "
पलिताभिभावनं प्रज्ञासम्पादनं च १४२
मतिनयननासाश्रवणनवयौवनबलप्रदायकश्चूर्णः "
दीर्घायुष्यसम्पादकस्तैलविशेषः १४३
सुरभिकठिनदेहत्वसम्पादनम् "
व्याधिजरामरणविद्रावणम् १४४
कामिनीशतभोगसामर्थ्यसम्पादनम् "
गोगर्भग्रहणोपायः १४५
गवां जरायुपातनम् "
सुरभीणां वत्सप्रीत्युत्पादनम् १४६
मृतवत्साया अपि क्षीरप्रस्रवणोपायः "
गवामङ्गेषु व्रणात् कृमिपातनम् "
गवां मुखरोगपरिहरणम् १४७
नवनीतापहारनाशनम् "
धेनुमहिषीमरकनिवारणम् "
गवां ज्वरहरो धूपविशेषः १४८
विषयाः पृष्ठम्
नवनीतरक्षाकरणम् १४८
तुरगस्य नेत्ररोगनाशकोऽञ्जनविशेषः "
वेसरहयाना वारिस्फोटपरिहरणम् "
तुरङ्गाणां गात्रकण्डूनिवारणम् १४९
तुरङ्गाणां स्ववत्सेषु प्रीत्युत्पादनम् "

॥ श्रीः॥

हरमेखला

सटीका।

अथ द्वितीयः परिच्छेदः।

खलखुढ्ढवञ्चणा कज्जसज्जणब्भत्थणा विणिमवि+अम् ।

कुट्टणिवरसुहाणविलम्बणाहिआरं णिसामेह ॥१॥

खलकुट्टिनीप्रजुघा(?)विलम्बनाधिकारं निशामयत ।

द्वितीयस्याधिकारस्य रचने हेतुः फलं च गाथयानया प्रतिपादितमिति॥१॥

समघअमहुहरिअपईवगहिअकज्ज(ल)विमिस्सिआ दिण्णा ।

खुट्टीण कुणइ मइरा म(अअ? हामअं) जम्मपेरन्तम् ॥२॥

समघृतमधुभरितप्रदीपगृहीत(कज्जल्लवि)मिश्रि(तं? ता) द-(त्त्वा? त्ता)।

कुट्टनीनां करोति मदिरा महामदं जन्मपर्यन्तम् ॥

तुल्यमात्रा(भ्यां) क्षौद्रघृताभ्यां पूरितो यः प्रदीपः ततो गृहीतेन कज्जलेन संयुक्तः सुराद्योसवः पानाय दत्तः क्षीणं महान्तं मदमुत्पादयतीति ॥२॥

समहुघअतिमितिलभरिअणाइंखदित्तकत्तीइ ।

कुट्टीण देहकाले कुणस अण्डं बणम्मइरा ॥ ३ ॥

समधुघृततिमितैलभरितप्रदीपकान्त्या ।

कुट्टनीनां दीर्घकालं करोति मनस्तापि ॥

….. …. पूर्वोक्तद्रव्याभ्यां सममात्रेण मत्स्यानुक्वाथस्नेहेन पूरितस्यप्रदीपस्य समृद्धा ये ………… सुराद्यासवमुक्तं कार्यं करोति । अत्र द्रव्याणिसममात्राणीति ॥ ३॥

तम्माघअं सलोणं दसाहमेक्कं वराहरसअं वा।

पाऊण मुञ्च(इ मअं) छाअच्छीरं व णासाइ ॥४॥

ताम्राघृतं सलवणं दशाहमेकाहं (वा? वरा) हरसकं वा ।

पीत्वा मुञ्चति मदं छागक्षीरं वा नासिकया ॥

पूर्वोक्तभागद्वयेनारभ्य मदनेन प्रयोगत्रयेण निवर्तते ।ताम्रागोघृतसैन्धवसंयुक्तमथवा छागक्षीरं दश दिनानि नस्येनोपयुज्यत इ(त्य)र्थः ॥ ४ ॥

धवलहयमारमूलं रम्भाकुसुमाइ बिलइहलमज्जा।

दिण्णोभोअणसमए खलकुट्टणीअण वमइ ॥५॥

धवलहयमार(मूलं रम्भाकुसुमानि) बिल्वफलमज्जा ।

दत्तो भोजनसहितं खलकुट्टनीजनं वमयति ॥

श्वेतस्य हयमारस्य करवीरस्य मूलम् । रम्भा कदली तत्पुष्पाणि बिल्वमज्जा च एतत्संयुक्तभोजनेन सह दत्तं छर्दयतीति ॥ ५ ॥

सरकेण व वाणेण व दिण्णं तम्बोलमीसिअ।

अहवा कंगुष्ठं अविणअकुट्टणीओ दिअहे विरेएइ ॥६॥

सरकेन वा पानेन वा दत्तं ताम्बूलमिश्रितम् ।

अथवा कङ्गुष्ठं (स? अ)विनयकुट्टनी(दि?र्दि)वसे विरेचयति ॥

सरकमकृत्रिममद्यादि । पानं कृत्रिमं सुरादि । काङ्गुष्ठं तिक्तदुग्धिका ।शिष्टं स्पष्टम् ॥६॥

ञ्छीरल्लिदुद्धमीसिअरोहिअपीएहि ।

…………………………………………………॥७॥

(खीरल्लि? क्षीरवल्ली)दुग्धविमिश्रितरूषिकाबीजैः ।

गुलसनाथैर्भवति रुधिरातिसारः ॥

खादनेन वा दत्तैः क्षीरवल्लीसुधाक्षीरात् क्षीरेण विमिश्रितेन रुधिरकस्यार्कवृक्षस्य बीजैर्गुलसंयुक्तैः । शिष्टं स्पष्टम् ॥ ७ ॥

पसाडकत्तिणिहित्ते तंबोले कुट्टणीणं मुहरोओ।

ता होइ जा ण मुच्चइ विभवढ्ढिअहिअअपरिओसो॥८॥

स्थूलकृकलासकृत्तिनिहिते ताम्बूले कुट्टनीनां मुखरोगः ।

तावद् भवति यावन्न मुच्यते विभवर्द्धितहृदयपरितोषः ॥

सरलः कृकलासः प्रशब्दो विशेषणे तच्चर्मणि यदीयास्ताम्बूलवीटा निबध्यन्ते तस्य तावन्मुखरोगो भवति यावत् पुनर्न मुच्यते। (युक्ते तु न? मुक्ते तु) निवर्तत इति ॥ ८॥

भल्लाअअकट्ठकरण्डअम्मि आमेलपूरिए जस्सह ।

अहिवअणे व णिहिप्पइ मुहरोओ तस्स संभवइ ॥९॥

भल्लातककाष्ठकरण्टके आवेतपूरिते यस्य ।

अहिवदने वा निधीयते मुखरोगस्तस्य (स?) सम्भवति ॥

भल्लातकस्यारुष्करस्य सम्बन्धि(नो) दारुणः सम्बन्धि यत् समुद्गादि तत्र घृतसर्पमुखे वा यस्य सम्बन्धी तन्मूला पीडा धारा सपीडः पत्रिकाधटक(?) इति प्रसिद्धो निक्षिप्यते तस्य मुखरोगो जायत इति ॥ ९॥

वग्गलिवअणणिहित्ते तंबोले वेरिणो महाघोरो।

घोणसमुहबिच्छूढे दन्तधावणे होइ मुहरोओ॥१०॥

वल्गुलिवदननिहिते ताम्बूले वैरिणो महाघोरः।

गोन(समुखवि)न्यस्ते दन्तपवने भवति मुखरोगः॥

वल्गुलिश्चर्मशकुनिः । वृक्षदलतले क्वचित् प्रसिद्धः । तन्मुखे यदीयस्ताम्बूलापीडो न्यस्यते तस्य मुखरोगो भवति । तथा गोनासमुखे यच्चर्वितं दन्तधावनं न्यस्यते तस्या मुखरोगो जायत इति ॥ १० ॥

कणअसिहिणिमिअमहुअरधूमाऊरिअकुटोअरणिहित्तम्।

कुणइ जलं दिण्णं कुट्टणीण मोअत्तणमसज्झम् ॥ ११ ॥

कनकशिखिनिर्मितमधुकरधूमापूरितकुटोदरन्यस्तम् ।

करोति जलं दत्तं कुट्टनीनां मूकत्वमसाध्यम् ॥

कनको मातुलुङ्गम् । तत्काष्ठजन्मोपरि निक्षिप्तभ्रमरशरीरजेन धूमेनापूरिस्य घटस्य कुक्षौ निक्षिप्तं यज्जलं तत् पीतमसाध्यं वाग्वैकल्यं करोति ॥११॥

मालइपसृअकअवासकुम्भपरिवसिअसलिलम् ।

सुप्पसइसोअत्तणमिणमो दुद्धरं पि सत्ताहमत्तेण ॥१२॥

मालतीप्रसूनानि सुमनःपुष्पाणि तैः कृताधिवासो यो घटः तत्परिवसितजलं सूत्रपर्युषितं रात्रिमेकां स्थितं मदिति (?) ॥ १२ ॥

चण(ब ? ए)हि समं खइआ पाउं दिण्णञ्चसेअजलेण ।

अह कुणइ कुट्टिआ कुट्टणीण कडिपवणम् ॥ १३ ॥

चणकैः समं खादिता पातुं दत्ता वासिनजलेन ।

अथ करोति कुम्भीका कुट्टनीनां कटिपवनमतिमुखरम् ॥

कुम्भीका ओषधिविशेषः ॥ १३ ॥

मा + ल्ल जे भमन्ति सलिलोपरि मुडफुल्लआ।

कसणा भसगल्ल अच्चतारुअ इत्ति पसिद्धिआ॥१४॥

इक्को कीडोल्लआण ताणअ मुण्डिअदेहओ दिण्णो ।

सह चुण्णइण काडिमारुअञ्जापओ ॥१५॥

अतित्वरिततरं ये भ्रमन्ति सलिलस्योपरि सूक्ष्माः ।

कृष्णा भ्रमरा इव तारुका इति प्रसिद्धाः॥

एकः कीटानां तेषां चूर्णीकृतदेहो दत्तः।

सह चूर्णेन कटीमारुतो एकः (?)॥

ये लघुप्रमाणाः कृमिविशेषाः जलस्योपरि चतुरं कृत्वा कृष्णवर्णाः भ्रमन्ति तेषां मध्यादेकः सुपिष्टशरीरस्ताम्बूलरागे सहदत्तः पूर्वोक्तं कार्यं करोति ॥ १४, १५॥

सरडिन्दिन्दिरविजरपुअचुण्णभिक्केसु होइ अङ्गेसु।

खलकुट्टणीण कुट्ठं सवेअणं कण्डुसञ्जुत्तम् ॥ १६ ॥

सरडिन्दिन्दिरवृश्चिकचूर्णस्पृष्टेषु भवत्यङ्गेषु ।

खलकुट्टनीनां कुष्ठं सवेदनं कण्डूसंयुक्तम् ॥

कृकलासभ्रमरवृश्चिकानां शरीरचूर्णेन यस्य गात्रं लिप्यते तस्य यथोक्तं कार्यं करोति कुष्ठं जनयतीति ॥ १६॥


अस्य छाया मातृकायां नोपलंभ्येते ।

फणिनो घरगोहाइव मुहम्मि सत्ताहसण्ठिआ गुञ्छा।

खइआ जणेइ कुट्ठं चारजइन्त समुप्पुसइ ॥ १७॥

फणिनो गृहगोधाया मुखे सप्ताहसंस्थिता गुञ्जा।

खादिता जनयति कुष्ठं चारं तत्समुत्पुंसयति ॥

गुञ्जारक्तिकां सर्पस्य मुखोदरे वा , गृहगोधाया वा कुटमत्स्य इति प्रसिद्धः कृमिविशेषस्तु वा, मुखे सप्तमात्राणि दिनानि निक्षिप्ता (उ? भु)क्ता सती कुष्ठं जनयतीति । तत् कुष्ठं चारस्य प्रिया इदमस्य फल …. उपयुक्त (?) सन्निधारयतीति ॥ १७॥

सिद्धत्था अहिमुहम्मि क(द्द)मकअपरिवारञ्च पेक्का ।

णिधूमधोरिदारुसमुब्भवजलएणणिक्खित्ता ॥ १८ ॥

सअणअलपिप्फं समुग्ग…… ….. … …….आ।

खलकुट्टि(णी)अणं खपित्ति कद्दमपरिअररहिआ॥१९॥

सिद्धार्था अहिमुखे कर्दमकृतपरिवारके पक्वे ।

निर्धूमकदलीदारुसमुद्भवज्वल(न)निक्षिप्ताः ॥

शयनतले स्पर्शसमुद्गतस्फोटकाम् ।

खलकुट्टनीजनं क्षपयन्ति कर्दमपरिकररहिताः ॥

सिद्धार्थाः सर्षपाः सर्पस्य मुष्टत्यादयस्तं? क्षपयन्ति यदि पङ्केनासौ सर्वाङ्गीणकृत(कृत? )परिकरे दत्तलेपो भवति । तस्मिन् दत्तकृतस्य(?) स्फोटाः शाम्यन्तीति युगलकम् ॥ १८, १९॥

भल्लादअरसकविअच्छुरोमहि जीअहरजलणगुञ्जाहि ।

भिक्कम्मि होइ अंगे लूआ खरदिणअरे काले ॥२०॥

भल्लातकरसकपिकच्छुकरोमजीवहरज्वलनगुञ्जाभिः ।

स्पृष्टे भवत्यङ्गे लूता खरदिनकरे काले ॥

भल्लातकम् आरुष्करम् । कपिकच्छुरोमाण्यात्मगुप्तापर्णानि । जीवहरं विषम् । ज्वलनः चित्रकः । गुञ्जा रक्तिका । एतैर्द्रव्यैः समैः कृतेन चूर्णेन स्पृष्टेऽङ्गे ग्रीष्मकाले लूता जायन्ते इति ॥ २० ॥

तत्प्रत्यानयनमाह -

सा धारितं ण जीवइ सामारुणमलअचन्दतअरेहि।

वि लूआ (?) पसरन्ती मन्तसहिएहि ॥ २१ ॥

सा धारयितुं न पार्यते श्यामारुणमलयचन्द्रतगरैः।

कुष्ठोशीराभ्यां पीनाः (?) प्रसरन्तीति मन्त्रसहितैः॥

सा लूताः प्रसरन्तीति वर्द्धमा(?)वारयितुं न शक्यते वक्ष्यमाणमन्त्रसहितैरेतैर्द्रव्यैर्विना । कैः । श्यामा गन्धप्रियङ्गुः । अरुणं कुङ्कुमम् । मलयं चन्दनम् । चन्द्रः कर्पूरः । तगरं जिह्मम् । कुष्ठं वाप्यम् । उशीरमभयम् । एतैर्लेपपानादिना प्रयुक्तं निवर्तत इति । मन्त्रो यथा -‘ओन्नम उद्दामेश्वराय कुहरि कुन्दीर ठठ’ । एते(न) मन्त्रेणाभिमन्त्रितानि श्यामादीनि पूर्वोक्तप्रयोगोत्पन्नाया लूताया निवारणमित्यर्थः ॥ २१ ॥

सरलस्साहिपइस्स व सोणिअरक्तम्मि लंघिए सुत्ते ।

महिलाण गलइ रुहिरं पिच्छोइयअ लंघिए ठाइ॥२२॥

सरलस्याहिपतेर्वा शोणितरक्ते लङ्घिते सूत्रे ।

महेलानां गलति रुधिरं प्रक्षालिते लङ्घिते तिष्ठति ॥

सरलस्य कृकलासस्य अहिपतेः शोणितेन रुधिरेण रक्ते लिप्ते सूत्रे लङ्घिते सति महेलानां लङ्घयित्रीणां शोणितं गलति रजः स्रवति । तस्मिन् पूर्वप्रक्षालिते ततो लङ्घिते तद् रक्तं तस्या निरुध्यत इत्यर्थः ॥ २२ ॥

वणमूसअखल्लाविणिहिम्मि कइतन्तिगाढबद्धम्मि ।

खुट्टीण मलणिरोहो (हो)इ पुरीसम्मि हट्ठि सहा ॥२३॥

वनमूषिकचर्मनिपीडिते कपितन्त्रीगाढबद्धे ।

कुट्टनीनां मलनिरोधो भवति … ………… ॥

तन्मुक्तौ गच्छति सममिति निवर्तत इति (?) ॥ २३ ॥

गोसलिलपिट्ठवग्गुलिमललित्तसरावथइअवच्चस्स ।

णवास्समलणिरोहो होइ महादुःखसञ्जणणो ॥ २४ ॥

गोसलिलपिष्टवल्गुलिमललिप्तशरावस्थगितवर्चस्कस्य ।

वैरिणो मलनिरोधो भवति महादुःखसञ्जननः ॥

गोमूत्रेण पिष्टं वल्गुलेस्तरुचर्मशकुनेः पुरीषं तेन लिप्तं यच्छरावं तेन स्थगितं वर्चो यस्य तस्य तीव्रव्यथो मलनिरोधो भवति । शरावापासनेन निवर्तत इति ॥ २४ ॥

तरुदेव उलालयचम्मसउणिमललित्तमल्लअणिरुद्धे ।

होइ पुरीसम्मि फुडं रिउणो मलमारुअणिरोहो ॥२॥

तरुदेवकुलालयचर्मशकुनिमललिप्तमल्लकनिरुद्धे ।

भवति पुरीषे स्फुटं रिपोर्मलमारुतनिरोधः॥

वृक्षे देवकुले वायश्चर्मशकुनिः सनीलो निवसति तस्य संबन्धिना शकृता लिप्तेन शरावेन निरुद्धं स्थगितं यस्य मलं स्थाप्यते तस्य दुःसहव्यथो मलनिरोधो भवति तन्मुक्तौ ग्रन्थौ स निवर्तत इति ॥ २५ ॥

तालहडकत्तिणिक्खित्तणिविडसञ्जमिअमुत्तपंकेण ।

खलकुदृणी किलमइ मोत्तणिरोहाउला सुइरम् ॥ २६ ॥

तालहडकृत्तिनिक्षिप्तनि(मि? बि)डसंयमितमूत्रकर्दमा ।

खलकुट्टनी क्लाम्यति मूत्रनिरोधातुरा सुचिरम् ॥

तालहडस्य वनमूषिकस्य चर्मणि दृढबद्धो मूत्ररजःपङ्को यस्याः स मूत्रनिरोधातुरा क्लान्ता भवतीति ॥ २६ ॥

रिट्ठण्डअरसगुण्ठिअमल्लअथइअम्मि हिण्डइ पुरीसे ।

णहचञ्चुहणणपावडवाअ(स)णि(उ)रुंबखज्जन्तो॥२७॥

रिष्टाण्डकरसरूषितमल्लकस्थगिते हिण्डति पुरीषे ।

नखचञ्चुहननव्याप्तपृतवायसनिकुरुम्बखाद्यमानः॥

रिष्टः काकः । तदण्डान्तर्वर्तिना रसेन कललेनाक्षिप्तो यः शरावस्तेन स्थगितं पुरीषं यस्य स (स बे?)हिण्डति व्रजति । नखचञ्चुघातव्यग्रैर्भक्ष्यमाणो भवतीति ॥ २७ ॥

लिहिऊण ज(ण?)स्स णामं चूअदले कसणरिरुट्ठहिरेण।

कीरइ पुरीसमज्झे सो खज्जइ काकणिवहेण ॥ २८ ॥

लिखित्वा यस्य नाम चूतदले कृष्णरिष्ट(क?)रुधिरेण ।

क्रियते पुरीषमध्ये स खाद्यते काकनिवहेन ॥

यस्यार्द्रपत्रे कृष्णवायसरक्तेन नाम लिखित्वा तत्पत्रं शकृन्मध्ये स्थाप्यते स काकसङ्घैर्भक्ष्यत इति ॥ २८ ॥

विच्छअकण्टअमहिए मअणफलान्तकिल्लिविणिहिए होइ।

विसमं पर(ह ?ङ्ग) दुःखं महिलाणं मुत्तचिक्खिल्लो ॥२९॥

वृश्चिककण्टकसहिते मदनफलेऽन्तर्विनिहिते भवति ।

विषमं वराङ्गदुःखं महेलानां मूत्रकर्दमे ॥

स्त्रीणां स्वमूत्रोत्पन्ने पङ्के एवंविधे क्रियमाणे दुःसहयोनिवेदना भवति । कीदृशे । वृश्चिकस्य सम्बन्धि यत् कण्टकं येनासौ दशति तत्संयुक्ते मदनफलस्यान्तर्निक्षिप्त इति ॥ २९॥

विच्छअकण्टअविद्धं खलकुट्टणिपुरिसमद्दअसणाहम् ।

कुणइ कुसारणिहित्तं वराङ्गदुःखं महाघोरम् ॥ ३०॥

वृश्चिककण्डकविद्धं खलकुट्टनी(पु)रीषमार्द्रकसनाथम् ।

करोति भूतलगर्भनिहितं वराङ्गदुःखं महाघोरम् ॥

स्त्रीणां पुरीषमेवं क्रियमाणं तासामेव घोरां योनिव्यथां करोति । कथं क्रियमाणम् । वृश्चिककण्टकेन विद्धं तथार्द्रकेण सनाथं तादृ(शेन ? शं) सद् भूतलगर्भन्यस्तमिति । खलशब्दः कुट्टनीविशेषणं स्त्रीविषयत्वात् प्रयोगस्य ॥३०॥

दिअडोंबकाअकोसिअकइमज्जरछाअणउलरोमेहि ।

पच्छाइए पुरीसे रिउणो सम्भवइ उस्माओ ॥ ३१ ॥

द्विजटोम्बकाककौशिक(कपि)मार्जारच्छागनकुलरोमभिः ।

प्रच्छादिते पुरीषे रिपोः सम्भावत्युन्मादः॥

द्विजटोम्बयोः केशौ काकोलूकयोः पक्षौ मर्कटादीनां रोमभिर्यस्य पुरीषमवच्छाद्यते तस्योन्मादो जायत इति ॥ ३१॥

सुरगोवअभूअलआ(चु)ण्णं महिलाण छहइ जो गुज्झे।

तस्सेअ तत्थ वसरो पडइ(ध)ओ सेसपुरुसाण ॥ ३२ ॥

चूर्णं सुरगोप(क)भूल(त)योर्महेलानां क्षिपति यो गुह्ये।

तस्यैव तत्र प्रस(रः) पतति ध्वजः शेषपुरुषाणाम् ॥

सुस्गोपकः इन्द्रगोपकाख्यः कीटः । (भूलता) गण्डूपदः । ध्वजं लिङ्गम् । शिष्टं गतार्थम् ॥ ३२॥

वरडीघरचुण्णसणाहसलिलविच्छोलिए वरंगम्मि।

णरलिंगसंगमो महिलाणं महिअं विणा णस्थि ॥३३ ॥

वरटीगृहचूर्णसनाथसलिलपक्षालिते वराङ्गे ।

नरलिङ्गसङ्गमो महेलानां मथितं विना नास्ति ॥

वरटी क्षामोदरी, तस्या गृहमास्पदं, तच्चूर्णेन संयुक्तं यज्जलं तेन प्रक्षालिते गुह्ये स्त्रीणां पुंश्चिह्नेन सङ्गमो नास्ति यावन्मथितदध्ना तन्न पुनः प्रक्षालितमिति ॥ ३३ ॥

अविणट्ठसिप्पिसंपुटलेवो थंभेइ कामिणिवरंग ।

**सुरभिसलि(लरसे?ला)भि1सेओ पुणो वि (उ)त्थंभणंकुणइ ॥ ३४॥ **

अविनष्टशुक्तिसंपुटलेपः स्तम्भयति कामिनीवराङ्गम् ।

सुरभिमथिताभिषेकः पुनरप्युत्तम्भनं कुरुते ॥

अविनष्टः अविघटितो यः शुक्तिसम्पुटः अविश्लिष्टकपुटद्वयमित्यर्थः । तेना विश्लिष्टेन लेपः योनेः स्तम्भनं करोति सम्प्रयोगायोग्यतां करोति । तस्योत्तम्भनं निवारणं (म)थितगोदधिसेकः करोति । शुक्तिरत्र नदीसम्भवेति॥

होन्ति अहोहुत्तंमुहसुरभिविसाणग्गलेविए कमसो।

महिलाण वरंगे रइणिरोहपसरा जहिच्छाइ ॥ ३५ ॥

भवतोऽधोमुखोन्मुखसुरभिविषाणाग्रलिप्ते क्रमशः ।

महिलानां वराङ्गे रतिनिरोधप्रसरौ यथेच्छया ॥

स्त्रीणामधोमुखस्य गोशृङ्गस्य अग्रेण घृष्टेन योनिलपे कृते रतिनिरोधः सुरतव्यापाराभावो जायते । ऊर्ध्वगतशृङ्गाग्रलेपे रतिप्रसरः पुनः सुरतयोग्यता प्रयोक्तुरिच्छावशाज्जायत इति ॥ ३५ ॥

तंवाए बइल्लस्स व ओणअसिंगग्गलेविअं पडइ ।

उत्थाइ पुरुससाहणमुम्मुहसिंगग्गलेवेण ॥३६॥

ताम्राया बलीवर्दस्य वा अवनतशृङ्गाग्रलिप्तं पतति ।

उत्तिष्ठति पुरुषसाधनमुन्मुखशृङ्गाग्रलेपेन ॥

गोर्दान्तस्य वा पूर्ववदधोमुखशृङ्गाग्रलेपे नरध्वजः पतति न रतिकार्यक्षमो भवति । ऊर्ध्वशृङ्गाग्रलेपेन पुनरुत्तिष्ठति रतिकार्यक्षमो भवतीति ॥ ३६॥

गअणगहिअवग्गुलिपुरीसकअलिंगलेवेण रमिअ (?)।

अण्णेण सा णतीरइ सिविणेम्मि रमाविउं रमणी ॥३७॥

गगनगृहीतवल्गुलिपुरीषकृतलिङ्गलेपेन रमिता।

अन्येन (सा) न शक्यते स्वप्नेऽपि रमयितुं रमणी ॥

वृक्षचरस्य वल्गु(व? )लेः चर्मचटकस्य गगनादेव गृहीतेन भूमिमप्राप्तेन शकृता कृतसाधनलेपेन पुरुषेण प्रयुक्तरता सा अन्येन पुरुषान्तरेण कथञ्चिद् रमयितुं न शक्यते ॥ ३७॥

तञ्चेअ अदढ्ढसरावपुडधूममच्छारणाइपरिपिट्ठं।

लेवेण पुरोपि करेइ रइघरुत्तंभमबलाणं (?)॥ ३८॥

तदेव यथोक्तं वल्गु(व?)लिपुरीषम् आमपात्रसंपुटादावर्तधूमतया दग्धं सत् पश्चान्निर्मलकाञ्चिकपिष्टं लिङ्गलेपेन प्रयुक्तं पूर्वप्रयोगकृतवराङ्गबन्धं स्त्रीणां निवारयतीति ॥ ३८॥

बालेअवीअवट्टिअकरिकेसरलित्तलिंगरमिआण ।

रन्तुं रमणीण णरो तीरइ (?) अण्णो सअह्णोवि ॥३९॥

बालेयबीजवर्तितकरिकेसरलिप्तलिङ्गरमितानाम् ।

रन्तुं रमणीनां नरो न तरत्यन्यः सतृष्णोऽपि ॥

खरजरसधातुभावितेन नागकेसरेण लिप्तलिङ्गो यः पुरुषः तेनारमिता याः स्त्रियस्तास्तदन्यः पुरुषः साभिलाषोऽपि रमयितुं न शक्नोतीति ॥ ३९ ॥

होइ अहोमुहवससिग्गलेविए णाहिमण्डले महिला ।

बद्धवरंगाउम्मुहविसाणलेवं अवावन्ति ॥४०॥

भवत्यधोमुखवृषश्रृङ्गलिप्ते नाभिमण्डले महेला ।

बद्धवराङ्गा उन्मुखविषाणलेपं प्राप्नुवन्तीति (?) ॥

अधोमुखस्य दा(रु ! )शृङ्गाग्रस्य निघर्षणेन लिप्ते नाभिमण्डले स्त्री स्तम्भितयोनिर्भवति । ऊर्ध्वमुखशृङ्गाग्रलेपं यदा नाभिमण्डले करोति तदा निवृत्तयोनिस्तम्भा भवतीति ॥ ४० ॥


अस्य छाया मातृकायां नोपलभ्यते ।

वीअमलत्तअपडगाढवेडिअं सरलुविक्खतलणिहिअं।

खट्टापाददले वा णरस्स सण्ठत्तणं कुणइ ॥४१॥

बीजमलक्तकपटगाढवेष्टितं शेलुवृक्षतलनिहितम् ।

खट्वापादतले वा (न्य ? नर)स्य षण्डत्वं करोति ॥

पुरुषसम्बन्धि रेतः लाक्षारसरक्तवस्त्रनिबिडबद्धं शेलुवृक्षस्य श्लेष्मातकतरोरधस्तान्निक्षिप्तं तस्यैव वा पुरुषस्य सम्बन्धिन्याः खट्वायाः पादस्याधस्तान्निक्षिप्तं तस्य पुरुषस्य षण्डत्वं स्त्रीभोगाक्षमत्वं करोतीति ॥ ४१ ॥

सोवण्णे तामरसे व्व भाअणे धोअमोत्तिअजलेण ।

पडिअं पि पुरुसलिंगं पुणोण्णअं होइ पीएण ॥ ४२ ॥

सौवर्णे तामरसे वा भाजने धौतमौक्तिकजलेन ।

पतितमपि पुरुषलिङ्गं पुनरुन्नतं भवति पीतेन ॥

पूर्वोक्तयुक्तिप्रतिविधानमेतत् । रूप्यमये (ताम्रमये) वा भाजने धौतानि यानि मौक्तिकानि मुक्ताफलानि तत्सम्बन्धि यद् वारि तेन पीतेन सता षण्डीभूतोऽपि पुरुषः पुनः पुंस्त्वं लभत इति ॥ ४२ ॥

छष्विन्दणिसाचुण्णं पसुवइसलिलेण साहिअं बहुसो।

पाणम्मि भोअणे वा दिण्णं सण्ठत्तणं कुणइ ॥४३ ॥

षड्बिन्दुनिशाचूर्णं पशुपतिसलिलेन भावितं बहुशः।

पानेन वा भोजनेन वा दत्तं षण्डत्वं करोति ॥

षड्बिन्दुरिति बिन्दुषट्को विवक्षितः कृमिविशेषः क्षणिरिति क्वचित् प्रसिद्धः । (निशा) पिण्डहरिद्रा । पशुपतिसलिलं छागमूत्रं, तेन भावितं बहुशः शोधितं शुष्कं सदार्द्रीकृतम् । षण्डत्वं रतिकार्याक्षमत्वम् । शिष्टं स्पष्टम् ॥ ४३ ॥

समतिलगोक्खुरचुण्णं छाअच्छीरेण साहिअं ससिअं।

खइअं महुसञ्जुत्तं णइमो सण्ठत्तणं हरइ ॥४४॥

समतिलगोक्षुरचूर्णं छागक्षीरेण साधितं ससितम् ।

खादितं मधुसंयुक्तमिदं षण्ड(करो? त्वं) हरति ॥

गोक्षुरकं श्वदंष्ट्रा, तच्चूर्णं तिलेन सममात्रं छागक्षीरेण पक्वं सितशर्करया सहितं शीतीभूतं माक्षिकेण सह भुक्तं पूर्वप्रयोगकृतं षण्डत्वमपहरतीति ॥४४॥

करहट्ठिविवरणिहिआणरपरसुआकीलएण मिहुणस्स।

सअणसिरुद्देसपरिट्ठिएण बन्धो रए होइ ॥ ४५॥

करभास्थिविवरनिहितनरपरशुकाकीलकेन मिथुनस्य ।

शयनशिरोद्देशपरिष्ठितेन वन्धो रते भवति ॥

करभास्थि उष्ट्रक(ङ्का)लकं, तच्छिद्रे निक्षिप्तो योऽसौ पुरुषपरशुकाशङ्कुः, तेन मिथुनस्य स्त्रीपुंसयोः शयनशिरोभागे न्यस्तेन सुरतकाले बन्धः अन्योन्याविश्लेषः सम्भवतीति ॥ १५ ॥

कीलअकअगवअपुरीसगोलओ मिहुणतणिमविणिहित्तो।

कुणइ रए लिङ्गवरंगबन्धमोसारिओ मोक्खं ॥ ४६॥

कीटककृतगवलपुरीषगोलको मिथुनशयनविनिहितः।

करोति रते लिङ्गवराङ्गबन्धमपसारितो मोक्षम् ॥

गवलाः कीटाः कृमिविशेषाः, तैः कृतो (?) यः खण्डशः कृतः परिवर्तुलः पिण्डः स स्त्रीपुंसयोः शय्यायां निक्षिप्तः पूर्ववद् रते बन्धं करोति । अपसारितो बन्धनिवृत्तिं करोति । पूर्वगाथोक्तस्यापि बन्धस्यैवमेव निवृत्तिरिति ॥ १६ ॥

*डवलघरगोलिआ(भुत्त)जिण्णणवणीअताललित्तेण । 2

हत्थेण हरइ जुवईपओहरे मुट्ठिबन्धेण ॥ ४७ ॥

धवला यासौ गृहगोलिका कुड्यमत्स्य इति व्याख्याता, तया भुक्तं सज्जीर्णं यन्नवनीतं, तद्युक्तं यत् हरितालं तेन लिप्तकरो मुष्टिबन्धं कुर्वन् स्त्रीणां स्तनं हरति । उक्तेन द्रव्येण लिप्तहस्तः स्त्रीस्तनसाम्मुख्येन मुष्टिबन्धं कुर्वन् स्त्रीणां स्तनावदृश्यौ करोतीत्यर्थः ॥ ४७॥

चिल्ल(अ)समिहट्ठसअं रिठ्ठमहासउणसोणिआरुणिअं।

णामेण (जाण) हुच्चइ ताण महावेरमुब्भवइ ॥४८॥

चिल्लकसमिदष्टशतं रिष्टमहाशकुनशोणितारुणितम् ।

नाम्ना ययोर्हूयते तयोर्महावैरमुद्भवति ॥

चिल्लको वृक्षविशेषः तत्सम्बन्धिनीनां समिधामष्टोत्तरशतं काकोलूकस्य रक्तेन लिप्तं ययोर्नाम्ना हूयते तयोः परस्परद्वेषः उत्पद्यते । होमविधिस्तत्रान्तरा इति ॥४८॥

डच्छन्ति जाण णामेण काअकाआरिपक्खपिञ्छाइ।

पणअपरूढं पि खणेण ताण पेम्मं विसंघडइ ॥ ४९ ॥

दह्यन्ते ययोर्नाम्ना काककाकारिपक्षपिञ्छानि ।

प्रणयप्ररूढमपि क्षणेन तयोः प्रेम विसंघटते ॥

ययोर्द्वेष्ययोर्नाम्ना वायसकौशिकपक्षाः पावकेन दह्यन्ते भस्मीक्रियन्ते, तयोरन्योन्यप्रणयस्थिरापि प्रीतिस्तत्काल एव निवर्तत इति ॥ ४९ ॥

हअमहिसवसापूरिअपईवगहिअञ्जण(ञ्जिअ)च्छीणं ।

णिअजणणी वि विरज्जइ अइरा वट्ठन्तसन्तावा ॥५०॥

हयमहिषवसापूरितप्रदीपगृहीताञ्जनाञ्जिताक्षाणाम् ।

निजजनन्यपि विरज्यति अचिराद् वर्धमानसन्तापा ॥

अश्वस्य महिषस्य च सम्बन्धिन्या वसया स्नेहेन पूरितो यो दीपस्ततो गृहीतेन कज्जलेन रञ्जितनेत्राणां (यदह सन्धानेन तत्प्रयुक्तः ?) स्वस्य मातापि सती तं प्रति विरागं भजते शीघ्रमेव वर्धमानानुशयेति ॥ ५० ॥

थिरवेरजीअरुहिरेण जस्स मिहुणस्स णिंबपत्तम्मि ।

णामक्खराइ लिखन्ति ताण अ प(र)प्परं वेरं ॥५१॥

स्थिरवैरिजीवरुधिरेण यस्य मिथुनस्य निम्बपत्रे(ण?)।

नामाक्षराणि लिख्यन्ते तयोः परस्परं वैरम् ॥

परस्परं नित्यं वैरं नैसर्गिकत्वात् । यस्य युग्मस्य स्थिरमाजीवं विरोधः, तस्य काकोलूकस्य अश्वमहिषस्य वा अन्यस्य वा कस्यचिद् रक्तेन पिचुमन्दपल्लवे (ययोः) संज्ञावर्णा लिख्यन्ते तयोः परस्परं प्रति वैरं भवतीति ॥५१॥

केसेहि दिअदिअम्बर मूसअमज्जाररोमसहिएहि ।

अद्दासु (क) ओ धूओ पिअविस्सेसं जणं कुणइ ॥५२॥

केशैर्द्विजदिगम्बरयोर्मूषिकमार्जाररोमसहितैः।

(आर्द्रासु कृतो) धूपः प्रियविश्लेषं जनं कुरुते ॥

ब्राह्मणक्षपणकयोः सम्बन्धिभिःकेशैः, तथा उलूकवृषदंशयोः रोमभिः सहितरार्द्रासु रौद्रनक्षत्रे कृतो धूपो यस्य विद्वे(ष ? ष्य)स्य शरीरे वा समीपे वा दीयते तं प्रथमविद्वेष्यं करोतीति ॥ ५२ ॥

सुरदारुतअरसुरसासुमुहप्पलगुलवआविसाणेहि ।

एसो पुणो पि णिद्धं करेइ मुणिणिम्मिओ धूओ ॥५३॥

सुरदारुतगरसुरसा(सु)मुखफलगुलवचाविषाणैः।

एष पुनरपि स्निग्धं करोति मुनिनिर्मितो धूपः ॥

सुरदारु देवदारु । तगरं कुटिलम् । सुरसा मञ्जाकम् (?)। सुमुखं बृहत्पत्रं तद्बीजानि । वचा उग्रगन्धा । विषाणं कुष्ठम् । एतैर्मुनिसंख्यैः सप्तभिर्द्रव्यैर्मुनिनिर्मितो मुनिभिस्तपोधनैः कैश्चित् प्रणीतोऽयं धूपो नष्टामपि प्रीतिं पुनरुत्पादयति । पूर्वोक्तप्रयोगप्रतिविधानमेतदिति ॥ ५३ ॥

घेत्तूण जस्स णामे णिक्खिप्पइ हम्मिओअरे णिहुअं।

मअण(र)शरणाअड्ढणरज्जू सोणूणमुज्ज(ड? स)इ ॥५४॥

गृहीत्वा यस्य नाम निक्षिप्यते हर्म्योदरे निभृतम् ।

मृतनरचरणाकर्पणरज्जुस्तन्नूनमुद्वसति ॥

हर्म्योदरे उपरितनमन्दिरस्याभ्यन्तरे यन्नामग्रहणपूर्वकं परासुपुरुषपादाकर्षणदाम निक्षिप्यते तद्गृहमुद्वसतीति ॥ ५४ ॥

अइरा वड्ढन्तुद्दामदुःखसन्दावखविअजणणिवहं।

उच्चसइ घरं पुरिसट्ठिसंकुणा दारणिहिएण ॥५५॥

अचिराद्वर्धमानोद्दामदुःखसन्तापक्षपितजननिवहम् ।

उद्वसति गृहं पुरुषास्थिशङ्कुना द्वारनिहितेन ॥

यस्य गृह(स्य) द्वारदेशे नरकीकसकीलको निखन्यते तद् गृहमुक्तविशेषणमुद्वसतीति ॥ ५५ ॥

मज्झण्णखुढिअखरभूमिहाणे (?)वामहत्थणिहिएण।

कुट्टणिघरम्मि कलहो अणुदिहअ अणुट्ठिअं होइ॥५६॥

मध्याह्नलुठितखरभूमिरजसा वामहस्तनिहितेन ।

कुट्टनीगृहे कलहोऽनुदिवसमनुष्ठितो भवति ॥

मध्याह्नकाललुठितः परिवर्तितशरीरः खरो रासभो यस्यां भूमौ तद्धूलिर्यस्मिन् गृहे वामहस्तेन गृहीत्वा क्षिप्यते (तत्र) सततं कलिर्भवति ॥५६॥

हरदइअसहण्डिपुरीसहलिणिजीअहरविरइओ धूओ। 3

मूलच्छरुहिरसहिओ जणेइ मोहं विअंहन्तो ॥५७ ॥

हरदयित4 (?)शिखण्डिपुरीषः मयूरशकृत् । हलली लाङ्गली । जीवहरं विषम् । तैर्महिषरुधिरसहितैर्धूपो विजृम्भमाणः प्रसरन् मोहं निस्संज्ञत्वं करोतीति ॥ ५७ ॥

मूलच्छरुहिरकलपि(कि)अकणअपञ्चङ्गविसकलासहिओ।

धूओ णिसासु मोहं जणेइ पुरमीसिओ दिण्णो ॥५८॥

सलाक्षा(?)रुधिरार्द्रीकृतकनकपञ्चाङ्गविषकलासहितः ।

(धूपो) निशासु मोहं जनयति पुरमिश्रितो दत्तः॥

महिषरुधिरेणार्द्रीकृतानि कनकस्य कितवस्य यानि मूलस्कन्धपत्रपुष्पफलानि पञ्चाङ्गानि तैर्विषकलया विषस्य षोडशाशेन सहितः तथा गुल्गुलुना मिश्रितो निशासु प्रयुक्तो धूपो मोहं जनयतीति ॥ ५८ ॥

अजअरपुरीसधूओ तारा(?)जलुआबहलचुण्णधूओ वा।

दिण्णो जणेइ मोहं ता जा रविदंसणं जाअं॥५९॥

अजगरपुरीषधूपस्तृणजलौकोबहलचूर्णधूपो वा ।

दत्तो जनयति मोहं तावद् यावद् रविदर्शनं जातम् ॥

अजगरस्य सर्पस्य मांससम्बन्धिना शकृता कृतो धूप , तथा स्थूला(यां ? नां) जलौकसां कृमिविशेषाणां प्रभूतेन शरीरचूर्णेन कृतो यो धूपः, स प्रयुक्तः सन् आ सूर्योदयान्मोहं जनयति । तेन रात्रौ प्रयोक्तव्य इत्युक्तं भवतीति ॥५९॥

दिण्डुहतेल्लुल्लालत्तवत्तिणिम्मिअपईवकन्तीए ।

हिस्स(स्स) होइ णूणं मइमोहो सअललोअस्स ॥ ६०॥

जलसर्पतैलार्द्रीकृतालक्तकवर्तिनिर्मितप्रदीपकान्त्या ।

स्पृष्टस्य भवति नूनं मतिमोहः सकललोकस्य ॥

जलसर्पशरीराद् गृहीतेन तै(ल? लेन) सिक्ता यासौ लाक्षारसलिप्ता वस्त्रमयी वर्तिः, तया निर्मितः प्रज्वालितो यो दीपस्तस्य दीप्त्या स्पृष्ट(स्य) जन्तोश्चित्तमोहो जायत इति ॥ ६०॥

गहिअं णच्चणविहिणा पुच्छं सरलइि धूवजुत्तीए।

णच्चावेइ जणं स हि पञ्चङ्गुम्मत्तअसणाहं ॥६१॥

गृहीतं नर्तनविधिना पुच्छं सरल्या धूपयुक्त्या ।

नर्तयति जनं + + पञ्चाङ्गोन्मत्तकसनाथम् ॥

सरली प्राणिविशेषो धर्मनीति क्वचित् प्रसिद्धा । तस्या लाङ्गूलं पञ्चाङ्गमातुलसहितं नृत्यता पुरुषेण गृहीतं धूपयुक्त्या प्रयुक्तं सद् यं जनं प्रतियुज्यते तं नर्तयतीति ॥ ६१ ॥

पुच्छं हालाहलस्स जा फन्दइ विच्छिण्णअं।

ता मुक्कणिअसणो हि णच्चिज्जइ सविलासअं (?)॥६२॥

तं भवणप(व?) ईवस्स वत्तीमज्झणिहित्तअं।

खललोअं वत्तिआ णच्चावेइ च्छिवन्तअं(?)॥६३ ॥

पुच्छं हालाहलस्य (यव ? यावत् ) स्पन्दते विच्छिन्नकम् ।

तावन्मुक्त(नि)वसनो नृत्यति सविलासकम् ॥

तद् भवनप्रदीपकस्य (वर्ति) मध्यनिहितम् ।

खललोकं कान्त्या(वर्त्ति) नर्तयति स्पृशन् ॥

हालाहलस्य प्राणहा इत्युक्तस्य प्राणिविशेषस्य पुच्छमुच्छिन्नं सद् यावच्चलत् तिष्ठति तावद् दिगम्बरैः प्रयोक्तृभिः नर्तितव्यम् । ततो निवृत्तस्पन्दं तद् गृहीत्वा गृहप्रदीपकवर्त्तिमध्ये विक्षेप्तव्यम् । तत्कान्त्या लोकं संस्पृशन् नर्तयतीति ॥ ६२,६३ ॥

जावजपडपरिवोट्ठिअजलसप्पिाणिचुण्णरइअवत्तीइ ।

कअगब्भपईवसिहा करेइ विणिअंसणं महिलं ॥ ६४॥

यावकपट(परि)वेष्टितजलसर्पिणीचूर्णरचितवर्त्त्या।

कृतगर्भप्रदीपशिखा करोति विगतनिवसनां महेलाम् ॥

लाक्षारञ्जितवस्त्रवलिता (या ?) यासौ जलसर्पिणी त(या ?स्या) जलौकसः शरीरचूर्णेन रचिता वर्तिस्तया कृतगर्भया ततो ज्वलिता दीपज्वाला स्रियं निजालोकस्पृष्टां दिगम्बरां करोतीति ॥ ६४ ॥

वर्तिधूपप्रयोगा निवातभवनोदरे प्रयुज्यन्ते । 5

निजरक्षा क्रियते गोघृतेन नासिकाया अभ्यङ्गम् ॥

वर्तीनां धूपानां प्रयोगाः वातरहितगृहाभ्यन्तरे प्रयुज्यन्ते । आत्मरक्षा च गव्यघृतेन घ्राणाभ्यन्तरलेपान्निवाते । येन प्रयोक्तुः प्रयोगफलमात्मनि न बाधत इति । अनेनोक्तवर्तीधूपप्रयोगाणामितिकर्तव्यतोक्तेति ॥ ६५ ॥

निहुडुंगिदुद्धभाविअलोइअतिलतेल्लमल्लिआचिहुरा।

णवणिग्गअकासपसूअसच्छहा होन्ति लोअस्स ॥ ६६॥

निहु(डु)ङ्गदुग्धभावितलुचित(?)तिलतैलभाविताश्चिहुराः।

नवनिर्गतकाशप्रसूनसदृशा भवन्ति लोकस्य ॥

निहुडुङ्गी सुधावृक्षः तत्क्षीरेण भावितानामार्द्रीकृतानां ततः शुष्काणां तिलानां (सं)बन्धि यत् तैलं तेनाभ्यक्ताः केशाः शुक्ला भवन्तीत्युपमार्थः ॥६६॥

अक्खसिअकडुअदुद्धिअमज्झविओ पक्खमत्थपरिवसि-

लेवेण (कु)णइतअरोचिहुरचअंससिअरसरिच्छं॥\ओ।

अत्रुटितकटुक(द्वि? दुग्धि)कामध्यविनिहितः पक्षमात्रपर्युषितः।

लेपेन करोति तगरश्चिहुरचयं शशिकरसदृक्षम् ॥

अत्रुटितायामेव स्थिता यासौ कटुदुग्धिका या तिक्तालाबुस्तुम्बिका तन्मध्ये तदभ्यन्तरे निक्षिप्तं सत् तत्रैव पक्षमात्रं पर्युषितं तगरं कुटिलं पिष्टं सत् तस्य लेपेन केशसमूहं शुक्लीकरोतीत्युपमार्थः ॥ ६७ ॥

आआसि(अ)धवलतुरंगमस्स सेओल्लिए सिअंकुणइ।

अहरं अलत्तओ ता जा ण लहर (?)लमिच्छिआतेल्लं॥ ६८॥

आयासि(त)धवलतुरङ्गमस्य स्वेदार्द्रीकृतः सितं करोति ।

अधरमलक्तकस्तावद् यावन्न लभते तमिस्रातैलम् ॥

आयासितस्य बहुधायासितस्य श्वेताश्वस्य गात्रस्वेदेन आर्द्रीकृतः सन् लाक्षारसो लेपेनाधरं शुक्लीकरोति । तमिस्राबीजतैलेनैव पुनः प्रकृतिमापादयतीति ॥ ६८॥

हरदइअकुसुमरअकुण्डिआण कुसुमाण पडेइ गन्धेण ।

पअलं पावेइ णरो सोवीर(अ)णामणे दिण्णे ॥६९॥

हरदयितकुसुमरजोगुण्डि(तां? तानां) कुसुमानां पतति गन्धेन।

प्रकृतिं प्राप्नोति नरः सौवीरकनावने दत्ते ॥

हरदयितो मातुलः तत्पुप्पमकरन्देन परिवलितानि यानि कानिचित् पुष्पाणि तेषामाघ्रायमाणेनामोदेन मोहाविष्टः पतति । सौवीरकं शैलाञ्जनम् । तेन नस्ये दत्ते स्वस्थो भवति ॥ ६९॥

कुलिसतरुदुद्धभाविअपिप्पलिचुण्णेण चिहुरपब्भारो।

णासइ मज्जणसभए आमलमज्जाम्मिदिण्णेण ॥ ७० ॥

कुलिशतरुदुग्धभावितपिप्पलिचूर्णेन चिहुरप्राग्भारः।

नश्यति मज्जनसमये आमलकमध्ये दत्तेन ॥

कुलिशतरुःसुधावृक्षः तत्क्षीरभावितेन मागधिकातण्डुलचूर्णेन लिप्तः केशकलापो नश्यति उन्मूलयितुमायाति । स्नानसमये आमलकैः सह दत्तेनेति गोपनार्थप्रकारनिर्देश इति ॥ ७० ॥

[छीरल्लिअदुद्धभाविअरोहिअतिमिपिसिअसाहिअं हरइ।6

तेल्लब्भंग(अ)विहिणा सहसच्चिअ रोमसंघाआ॥७१ ॥

क्षीरलतायाः सुधाक्षीरेण भावितं यत् तद् रोहितकाख्यस्य मत्स्य(स्य) मांसं तेन साधितं यत् तैलं तदभ्यङ्गे रोमाणि झटिति शातयति । साधनप्रकारो यत् साध्यते मांसं तच्चतुर्गुणं जलं क्वाथयित्वा तैलमेव ग्राह्यमिति । अनुक्तसाधनप्रकाराणामयमेव साधनविधिः प्रायेणेति ॥ ७१ ॥

णासाणओज्झविणिहिअचुच्छुन्दरिचुण्णअम्मि णिवडन्ति ।

उड+न्ति मलअणामणपाणेण तुरंगमा तुरिअं॥ ७२ ॥

नासानिकुञ्जविनिहितचुच्छुन्दरीचूर्णे निपतन्ति ।

उत्तिष्ठन्ति मलयनावनपानेन तुरङ्गमास्त्वरि(ते ? तम् )॥

नासिकानिक्षिप्ते गन्धमूषिकाविवरचूर्णे सति अश्वः पतति । चन्दनेन दत्ते नस्यपाने सउत्तिष्ठन्तीति ॥ ७२ ॥

विगअतुसकसणजीरअचुण्णञ्चिअलोअणा ण पेच्छन्ति ।

तह पुणो विअ(?) तुरंगमा तक्रहरिअच्छा ॥ ७३ ॥

विगततुषकृष्णजीरकचूर्णाञ्चितलोचनाः (न) प्रेक्षन्ते ।

ततः पुनरपि खलु तुरङ्गमास्तक्रभरिताक्षाः ॥

निस्तुषीकृतं यत् कृष्णजीरकं कालोपकुञ्चिका तच्चूर्णेन दत्ताञ्जनानि नेत्राणि येषां तादृशाः सन्तो वाजिनोऽन्धीभवन्ति । ते पुनरपि तक्रेण गोरसेन पूरितनेत्राः सन्तः प्रेक्षन्ते निवृत्तान्ध्या भवन्तीति ॥ ७३ ॥

णिअमअजलञ्जिअच्छो समरे सुरवारणं पि रभसेण ।

णासेइ गलिअदप्पं पत्तिअपडहो वि माअंगो ॥ ७४ ॥

निजमदजलाञ्जिताक्षः समरे सुरवारणमपि रभसेन ।

नाशयति गलितदर्प प्रतीतिसूक्ष्मोऽपि मातङ्गः ॥

स्वदानाम्भसा दत्ताञ्जननेत्रः कुञ्जरः ऐरावतमप्युद्योगेन प्रशान्तदर्पं करोति, किमुतान्यम् । अत्र प्रतीतिं प्रत्ययं भावयन् सूक्ष्मोऽपीत्यतिशयोक्तिरिति ॥ ७४ ॥

करगहिअसुअन्धुन्दुरिचुण्णपवाहाबाण सम्मुहो होइ ।

आलाणं पि हु परिहरइ वारणो तेण कअलेवं ॥ ७५॥

करगृहीतसुगन्धोन्दुरीचूर्णप्रभावान्न सम्मुखो भवति ।

आलानमपि खलु परिहरति वारणस्तेन कृतलेपम् ॥

सुगन्धोन्दुरी चुच्छुन्दरी तत्कायचूर्णस्य हस्तगृहीतस्य प्रभावाद् गजो न सम्मुखीभवति पलायत इत्यर्थः । तथा तेन चूर्णेन लिप्तमालानं बन्धनस्तम्भं परिहरति ततोऽपि पलायत इत्यर्थः ॥ ७५ ॥

कर(ण)क्खत्तुप्पाडिअलंगिलिआकन्दलेविअसरीरो।

भीमस्स (वि)भीमपरक्कमस्स दप्पं णरो हरइ ॥ ७६ ॥

करनक्षत्रोत्पाटितलाङ्गलिकाकन्दलेपितशरीरः ।

भीमस्यापि भीमपराक्रमस्य दर्प नरो हरति ॥

करनक्षत्रेण हस्तनक्षत्रेण उत्पाटितं यल्लाङ्गलीकन्दं फलिनीमूलं तेन पिष्टेन समालब्धसकलगात्रः पुरुषो भीमसेनस्यापि भीमपराक्रमस्य दर्पं (नरो?) हरति । किमुतान्यस्येत्यतिशयोक्तिरिति ॥ ७६ ॥

चरणेण समं दिण्णं सुरवारुणिमृलविरइआ गुलिआ।

चिरआलपोसिअस्स वि हरइ बलं तंबचूडस्स ॥ ७७॥

चरणेन समं दत्ता सुरवारुणीमूलविरचिता गुलिका ।

चिरकालपोषितस्यापि हरति बलं ताम्रचूडस्य ॥

चरणमाहारद्रव्यं तेन सह दत्ता यासौ सुरवारुण्या विशा(ल? ला)या मूलेन कृता गुलिका सा कुक्कुटस्य चिरकालपोषितशरीरस्यापि बलं शमयतीति ॥

मज्जारवसालित्तो चम्मेण व तस्स धूविअसरीरो।

जज्झम्मि तम्मचूलो णिहणइ पेलिअं पि पडिपक्खम्॥

मार्जारवसालिप्त(स्य?:)चर्मणापि तस्य धूपितशरीरः ।

युद्धे(त?) ताम्रचूडो निहन्ति बलिनमपि प्रतिपक्षम् ॥

मार्जारः वृषदंशः । तद्वसया लिप्तस्तथा तच्चर्मणा वा दत्तधूपः कुक्कुटो युद्धे बलाधिकमपि प्रतिपक्षकुक्कुटं निपृदयतीति ॥ ७८॥

कल्लालावणविणिहित्तबहुलतरुकामरुक्खफल अम्मि ।

सुरसा वि होइ मइरा सह(स)च्चिअ कञ्चिअसरिच्छा ॥७९॥

क(ल्या? ल्य)(बा? पा)लापणविनिहितबफुलतरुकामवृक्षफ(ले?लके)।

सु(रा?र)सापि भवति मदिरा सहसैव काञ्चिकसदृक्षा ॥

कल्य(बा ? पा)लस्य सौनिकस्यापणे विक्रयस्थाने निक्षिप्ते बकुल(तरुकामवृक्ष)फलके केसरवृक्षे जातस्य वृक्षान्तरस्य वन्दाक इति प्रसिद्धस्य फलके सति तत्रापणे स्थिता सुरसापि सुरा काञ्चिकतुल्या भवतीति । तस्मिन्नुद्धृते प्रकृतिमापद्यत इति ॥ ७९ ॥

काऊण कइकवाले दुद्धंसकरञ्जवीअसञ्जुत्तं ।

जीए मइराए थोअं ताविज्जइ सृरकिरणेहि ॥८०॥

सा गलिअणिअरसा ता ण मुञ्चइ+ अम्मिलत्तणमसेमं ।

जा तम्मि क(इ)अवाले ण कअं जलमिस्सिअं दुद्धं ॥८१॥

कृत्वा कपिकपाले दुःस्पर्शकरञ्जबीजसंयुक्तम् ।

(यस्या) मदिरायाः स्तोकं ताप्यते सूर्यकिरणैः ॥

सा गलितनिजरसा (भा? ता)वन्न मुञ्च(त्युष्ण ? त्यम्ल)त्वमशेषम् ।

(यदि ? यावत्) तस्मिन् कपिकपाले न कृतं जलमिश्रितं दुग्धम् ॥

     युगलस्यायमर्थः - यस्याः सुरायाः क्वचिद् भाण्डकादौ स्तोकमुद्धृत्य (क ?म)र्कटशिरःकर्परे विनिक्षिप्तं सद् दुःस्पर्शकरञ्जस्य बीजैर्मिश्रितं च (भूरि ? सूर)किरणैस्तापितं क्रियते सा सुरा भाण्डस्थिता नष्टस्वरसा तावदम्लत्वं समग्रं न त्यजति, यावत् तस्मिन् कपिकपाले सजलं क्षीरं निक्षिप्यते । तस्मिंश्च निक्षिप्ते सा सुरा प्रकृतिस्था भवतीति । युगलकम् ॥ ८०,८१ ॥

वालेअरुहिररञ्जिअ(रू)विअसिचएण दारणिहिएण।

कल्लालावणमज्झट्ठिआ वि विरसा सुरा होइ ॥८२ ॥

बालेयरुधिररञ्जितरूपिकांशुकेन द्वारनिहितेन ।

कल्यपालापणमध्यस्थितापि (वि)रसा सुरा भवति ॥

खररुधिरेणालिप्तं यद्रूपिकार्कवृक्षस्य सम्बन्धि कार्पासप्रायं फलं तद्गतं द्रव्यं तेन निर्मितं यद् वस्त्रं तेन सौनिकगृहद्वारस्थितेन सा विक्रयस्थानान्तर्गतापि सुरा विरसा भवतीति । वस्त्रापासने पुनः प्रकृतिमापद्यत इति ॥ ८२ ॥

रअसङ्गमकामकिसोरवालकडअम्मि भुजलआबद्धे ।

होइ दिअंबरलिंगं उद्ध(सा? समा)रोविए थड्ढं ॥ ८३ ॥

रतसङ्ग(म)कामकिशोरवालकटके भुजलताबद्धे ।

भवति दिगम्बरलिङ्गमू(र्ध्व)समारोपिते स्तब्धम् ॥

करलग्नस्य वासस्थितस्य (?) कामकिशोरकस्य खरस्य पुच्छाद् बालाद् (रोमाणि) गृहीत्वा यः कटको निर्मितः तस्मिन् बाहुशिखरमानीते दिगम्बरस्य नग्नक्षपणकस्य ध्वज उत्थितो भवतीति । प्रयोक्त्रा तस्मिन् कटके बाहोराकृष्टे सति पुनः पततीति ॥ ८३ ॥

सुरतट्ठिअखरपुच्छरुहगुप्पजंवुअपुरीसबदरेहि ।

करकडअमुद्धणीअं कडिल्लमवणेइ भहिलाण ॥ ८४ ॥

सुरतस्थितखरपुच्छरुहप्रोतजम्बुकपुरीषबदरैः ।

(कर)कटकमूर्ध्वनीतमधोवस्त्रमपनयति महेलानाम् ॥

पूर्ववत् खरपुच्छरोमाणि गृहीत्वा सृगालामेध्यनिष्क्रान्तैर्बदराण्डैः यत् कटकं विनिर्मितं तत् बाहुन्यस्तं पूर्ववदूर्ध्वनीतं सत् स्त्रीणामधरवसनमुत्क्षिपतीति ॥ ८४ ॥

करदिअसगहिअमहिरोविआइ हलिणीइ मुट्ठिओ वअइ ।

गव्भोगब्भवईए ता जा सा णुक्खआ थद्धो ॥ ८५॥

करदिवसगृहीतमही(रो)पितया हलिन्या मुद्रितस्तिष्ठति ।

गर्भो गर्भवत्या(स्तावद् यावत्) सानोत्खाता ततः ॥

गर्भवत्या गर्भोऽन्तर्गतो जन्तुस्तिष्ठति न प्रवर्तते । कीदृशः सन् । हलिन्या लाङ्गल्या मुद्रितः स्तम्भितः । कीदृश्या सत्या । हस्तनक्षत्रयुक्तदिनकरगृहीतया तदनु (देवताया गर्भःस्तब्धो भवतीति।) तद्गृहभूमौ निक्षिप्तया। तावत् तिष्ठति, यावदसौ हलिनी भूमेः पुनर्नोद्धृता । उद्धृतायां तु गर्भः प्रवर्तते इति ॥

महिसमहासउणापिससिद्धत्थ (अ)तेल्लसाहिअं रसअं।

जा भुञ्जइ गब्भवई तीए सुओ होड जच्चन्धो ॥८६॥

महिष(महा)शकुनाप्तिषसिद्धार्थकतैलसाधितं रसकम् ।

या भुङ्क्ते गर्भवती तस्याः सुतो भवति जात्यन्धः ॥

महिषस्य शूलाक्षस्य तथा महाशकुनस्य कौशिकस्य च मांसेन तथा सर्षपतैलेन साधितं यूषं या भुङ्क्ते गर्भवती, सा जात्यन्धं सूत इति ॥ ८६॥

होइ महाणस(वि?)णिहिए चिल्लअभवकामरुक्खफलअम्मि ।

सिद्धं तित्तमसेसं पि भोअणं ओक्खए सुरसं ॥ ८७ ॥

भवति महानसनिहिते चिल्लकभवकामवृक्षफलके ।

सिद्धं तिक्तमशेषमपि भोजनमुत्खाते सुरसम् ॥

चिल्लकं वृक्षविशेषः तदुद्भवस्य कामवृक्षस्य वृक्षान्तरस्य फलके पचनस्थानन्यस्ते तत्र सिद्धं सर्वमेव भोजनं तिक्तं सम्पद्यते । उत्खाते तु तस्मिन् मृष्टं भवतीति ॥ ८७ ॥

सिसुमारट्ठिपरिट्ठिअवेतसतरुदारुमहणमसंभूओ।

जलसिच्चन्तो वि सिही पलिलज्जइ विज्जजलणो व्व ॥८८॥

शिशुमारास्थिपरिस्थितवेतसतरुदारुमथनसम्भूतः ।

जलसिच्यमानोऽपि शिखी प्रदीप्यते विद्युज्ज्वलन इव ॥

शिशुमारो मत्स्यविशेषः तत्संबन्धिकीकसे निवेशितं यद्वेतसतरुदारु तन्मथनेन सम्भूतोऽग्निः जलेनाभिवृष्टोऽपि प्रज्वलति, नतु शाम्यति, विद्युदग्निवत् । स हि जलमध्ये ज्वलतीति ॥ ८८॥

सलिलपवंग(विहंग)ट्ठिकखण्डकअमन्यणाहि उप्पण्णो।

बाडवजलणो व्व जले वि(जलइ)जलणो णिरासंको ॥८९॥

सलिलप्लवङ्गविहङ्गास्थिखण्डकृतमन्थनादुत्पन्नः।

बडबाज्वलन इव जले(ऽपि) ज्वलति ज्वलनो निराशङ्कः ॥

जले प्लवङ्गा जलचराः पक्षिण इत्यर्थः । तेषां सम्बन्धिना अस्थ्ना अस्थिखण्डेन यत् कृतं मथनं परस्परनिघर्षः ततः उत्पन्नोऽग्निरौर्वानलवद् जलेऽपि ज्वलति निस्संशयमिति ॥ ८९ ॥

सिहितंबचूलकलरवपुरीसहरिआलकणअतरुचुण्णं ।

उम्मत्तं कुणइ जणं ता जा (से? णो) मुण्डिअं सीसं ॥९०॥

शिखिताम्रचूडकलरवपुरीपहरितालकनकतरुचूर्णम् ।

उन्मत्तं करोति जनं तावद् यावन् (नो) मुण्डितं शीर्षम् ॥

मयूरकुक्कुटपारावतानां पुरीषं तथा हरितालधुर्धूरचूर्णम् एतत् पुरुषस्य शिरसि दत्तं सदुन्मादं जनयति । मुण्डिते शीर्षेऽसौ निवर्तत इति ॥९० ॥

जाहअपुरीसगब्भा सिहण्डिरुहिरेण भाविओ वत्ती।

अवहरइ विलगआण वि जलिआ जीअं भुअंगाण ॥ ९१ ॥

जाहकपुरीषगर्भा शिखण्डिरुधिरेण भाविता वर्ती।

अपहरति बिलगतानामपि ज्वलिता जीवं भुजङ्गानाम् ॥

जाहकः प्राणिविशेषः, तत्पुरीषेण सगर्भा पूरितान्तरा मयूररक्तेन सिक्ता या वर्ती सा ज्वलिता सती बिलस्थानगतानामपि सर्पाणां जीवम(प)हरति किमुत वहिःस्थितानामिति ॥ ९१ ॥

घरपडलन्तरविणिहिअचक्कंकजडप्पभावविहलंगा।

मुञ्चन्ति खणेण महाविसा(णि ? वि)फणिणो तमावासं ॥९२॥

गृहपटलान्तरविनिहितचक्राङ्कजटाप्रभावविह्वलाङ्गाः ।

मुञ्चन्ति क्षणेन महाविपा अपि फणिनस्तमावासम् ॥

गृहस्य पटलमाच्छादनं तदन्तरनिक्षिप्तायाः चक्राङ्कजटायाः मूलस्य प्रभावात् विसंस्थुलगात्राः सन्तः सर्पाः तद्गृहं तत्कालमेव परिहरन्तीति ॥ ९२ ॥

तेल्लोल्लपललमीसिअधोहिअदुद्धं समासकुम्मासं ।

रूविअदलेसु दिज्जइ वसाण कअगरुअदोसाणं ॥९३॥

ते तं खाऊण चिरं सुवन्ति मअपसिढिलेहि अङ्गेहि ।

कहकहवि लद्धसण्णा पुणो ण ढक्कन्ति तम्मि कए ॥९४॥

तैलार्द्रपललमिश्रितसुधाक्षीरं समापकुल्माषम् ।

रूपिकादलेषुदीयते वृषाणां कृतगुरुकदोषाणाम् ॥

ते तत् खादित्वा चिरं स्वपन्ति मदप्रशिथिलैरङ्गैः।

कथंकथमपि लब्धसंज्ञा पुनर्न ढौकन्ते तत्र गृहे ॥

तैलेन सिक्तं यत् तैलचूर्णेन मिश्रं सुधाक्षीरं तत् माषकृतैः कुन्माषैःरक्तपूपकैः सहितं वृषाणां मूषिकाणाम् अर्कपत्रेषु दीयते । कीदृशानाम् । कृतगुरुदोषाणाम् । ततश्च किं भवतीत्याह - ते वृषाःतत् सुधाक्षीरं तथाविधं भुक्त्वा चिरं स्वपन्ति मोहमनुभवन्तीति । कीदृशी मूर्छा। निःसहगात्रा । अनन्तरं कथमपि प्राप्तप्रबोधाः तद् गृहमत्यन्तं परिहरन्तीति । युगलकम् ॥९३,९४॥

पसुपइजलोल्लहरिआलपललभज्जरपुरीसकअलेवो ।

उन्दुरुणिउरुंबं हरइ मूसिए गेहवित्थारे ॥९५॥

पशुपतिजलार्द्रहरितालपललमार्जारपुरीषकृतलेपः ।

उन्दुरुनिकुरुम्बं हरति मूषिकाङ्कविस्तारे(?)॥

छागमूत्रपङ्कीकृतैः हरितालतिलचूर्णवृषदंशमलैः कृतो लेपो मूषिकासमूहमेव गृहाभोगगतं नाशयति ॥ ९५ ॥

णासन्ति तुरिअतुरिअं जीअं घेत्तृण मक्कुणा झत्ति ।

आलोलऊण सअणे बद्धं थलकुम्भिआमूलं ॥९६॥

नश्यन्ति त्वरितत्वरितं जीवं गृहीत्वा मक्कुणा झटिति ।

आलोक्य शयनबद्धं स्थलकुम्भिकामूलम् ॥

स्थलकुम्भिका ओषधिविशेषः । अस्या मूलं शयने बद्धं स्पृष्ट्वा न केवलं तत्र न ढौकन्ते, यावज्जीवितरक्षार्थं पलायन्ते । त्वरितत्वरितमिति नाशक्रियाविशेषणम् । झटितीत्यालोकनक्रियाविशेषणमिति ॥९६॥

कक्कडअवसापूरिअकुलीरकप्परअविरइओ सहसा ।7

आकरिसेइ पईवो पज्जलिओ मक्कुणसमूहं ॥ ९७ ॥

कर्कटकः कुलीरो मत्स्यविशेषस्य पर्यायः । तत्र कर्कटकस्य सम्बन्धिन्या वसया पूरितो योऽसौ कुलीरस्यास्थिखण्डः तत्र विरचितः समुज्ज्वलितो दीपो मत्कुणसमूहमाकर्षति स्वसन्निकर्षमाकर्षयतीति ॥ ९७ ॥

रइतूलरइअजावअसरिसपतेल्लोल्लवत्तिआगब्भा।

हरइ पईवो गेहम्मि मक्कुणे जामिणीगलिओ ॥९८ ॥

रवितूलरचितयावकसर्षपतैलार्द्रवर्तिकागर्भः।

हरति प्रदीपो गेहे मत्कुणान् यामिनीज्वलितः ॥ ९८ ॥

रवितूलः अर्कवृक्षफलान्तर्वर्ति कार्पासरूपं द्रव्यं तेन रचिता तथा लाक्षारसतैलसर्षपतैलाभ्यामार्द्रा वर्तिर्गर्भेऽन्तरे यस्य तादृशः प्रदीपो गृहे रात्रौ ज्वलितः सन् मत्कुणं हरति निर्वासयतीति ॥ ९८ ॥

धवलापराइआभूलककुभकुसुमफलपुरविलंगेहि।

सिसिवालअभल्लाअअलक्खासज्जरससञ्जुत्तेहि ॥

धूवो भवणब्भन्तरपसरतोद्दाममासलामोओ।

णासेइ भुअंगोन्दुरुघुणमक्कुणमसअजूआओ ॥१००॥

धवलापराजितामूलककुभकुसुमफलपुरविहङ्गैः।

श्रीवासकभल्लातकलाक्षासर्जरससंयुक्तैः ॥

धूपो भवनाभ्यन्तरप्रसरदुद्दाममांसलाप्रोदः ।

नाशयति भुजगोन्दुरुघुणमत्कुणमशकयूकान् ॥

धवलापराजिता श्वेतगिरिकर्णिका तस्या मूलं ककुभस्यार्जुनस्य पुष्पफलानि तथा धूपो गुग्गुलुः विहङ्गं कृमिघ्नम् एतैः तथा श्रीवासकेन तथा भल्लातकेन तथा लाक्षया तथा सर्जरसेन च कृतो धूपो गृहान्तःप्रसर्पदुत्कटघटगन्धः स्पर्शादहिमूषककाष्ठकृमिमत्कुणमशकयूकान् नाशयतीति । युगलकम् ॥ ९९,१००॥

तिहलाभललाअअककुभकुसुमसालजउविहंगेहि।

रणमीसिएहि धूवो मक्कुणभसआण विद्दवणो ॥१०१॥

त्रिफलाभल्लातकककुभकुसुमसालजतुविहङ्गैः ।

रणमिश्रितैर्धूपो मत्कुणमशकानां विद्रावणः ॥१०१॥

सालः सर्जरसः जतु लाक्षा । रणम् उशीरम् । शिष्टं गतार्थम् ॥१०१॥

इअ गलिअदप्पपसरा रिउणो एएहि विविहजोएहि ।

कीरन्ति णिअजणो विहु रक्खिज्जइ परपउत्ताण ॥१०२।

इति गलितदर्पप्रसरा रिपव एतैर्विविधयोगैः।

क्रियन्ते निजजनोऽपि खलु रक्ष्यते परप्रयुक्तेभ्यः ॥

स्पष्टार्था गाथा ॥ १०२॥

एसो एत्थ समप्पसइ कअन्तदूओव्व दारुणसरूवो । 8

हरमेहलाए विइवो रिउजणदमणो परिच्छेओ ॥१०३ ॥

इति हरमेखलायां द्वितीयः परिच्छेदः ।

अथ तृतीयः परिच्छेदः।

वेसाण कएधुत्ता करेइ खुड्डीइविविहभंगेहि ।

जइतात्तच्चिअ ण वसे ता किं खुट्टीहि खविएहि ॥ १ ॥

वेश्यानां कृते धूर्ताः क्षपयन्ति कुट्टनीर्विविधभङ्गिभिः ।

यदि ता एव न वशे तत् किं कुट्टनीभिः क्षपयिताभिः॥

पूर्वपरिच्छेदोक्त्तस्य कुट्टनीक्षपणस्य यद्यपि वेश्यावशीकरणोपा(य)तयोपन्यासः कृतः, तथापि वेश्यानामेव वशीकरणं मुख्यमिति तत्प्रयोजनं तृतीयपरिच्छेदोपन्यासस्य प्रतिपादयितुमेव । गाथा स्पष्टार्था ॥ १॥

अह दुव्विअढ्ढवेसासोहग्गविहडणसमत्थं ।

अविद्देअवसीअरणं भणिमो तइअं परिच्छेअं॥२॥

अथ दुर्विदग्धवेश्यासौभाग्यविघटनसमर्थम् ।

अविधेयवशीकरणं भणामस्तृतीयं परिच्छेदम् ॥

प्रस्तुतपरिच्छेदप्रशंसाप्रयोजनप्रतिपादनार्थं स्पष्टार्थेयं गाथा ॥२॥

उ(म्म)त्तसुणहदाहिणदिट्ठीफलअम्मि लिक्खए जीए ।

णाम अक्कं गारेण एइ सा कामिणी तुरिअं ॥३॥

उन्मत्तश्वदक्षिणदिगस्थिफलके लिख्यते (तया ? यस्याः)।

नामार्काङ्गारेण एति सा कामिनी त्वरितम् ॥

उन्मतश्वा अलर्क इति प्रसिद्धः । तस्य कायदक्षिणभागास्थिपट्टके अर्काङ्गारेण येन तेन कज्जलेन अमुकं वशमानयत्विति नाम लिख्यते, सा वशीकर्तुमिष्टा स्त्री क्षिप्रमागच्छतीति ॥ ३ ॥

अह कहवि णएए वसं पुव्वभणिए विहिम्मि णीसेसं ।

तत्ताविअम्मि मन्दाणलेण णामे धुवं एइ॥४॥

अथ कथमपि नैति वशं पूर्वभणिते विधौ निश्शेषे ।

तत्तापिते मन्दानलेन नाम्नि ध्रुवमेति ॥

मन्दानलः कुकूलाग्निः । पूर्वगाथार्थविशेषणार्थैषा गाथा स्पष्टार्थेति ॥४॥

अदसणसिसुलालारोअणाहि पूसम्मि विरइओ विहिणा ।

भंगरअमूलसहिओ कुणइ वसे तिभुअणं तिलओ॥५॥

अदशनशिशुलालारोचनाभ्यां तिष्ये विरचितो विधिना।

भृङ्गरजोमूलसहितः करोति वशे त्रिभुवनं तिलकः॥

अजातदन्तबा (लला) लारोचनाभ्यां मार्कवमूलेन सह पुष्यर्क्षे पिष्टाभ्या कृतो विशेषकः उक्तं कार्यं करोति । विधिरत्र कुमारी द्रव्यं पिनष्टीति ॥५॥

गोरोअणासिलारुणदलरइअविसेसओ विलित्तो व्व ।

णरणारिणरिन्दपिओ होइ असज्झो विसाणं च॥६॥

गोरोचनाशिलारुणदलरचितविशेषको विलिप्तो वा ।

नरनारीनरेन्द्रप्रियो भवत्यसाध्यो विषाणां च ॥

गोरोचना प्रसिद्धा । शिला मनश्शिला । अरुणं कुङ्कुमम् । दलं तमालपत्रम् । गन्धं पत्रमिति प्रसिद्धम् । कृत(स्ति ?ति )लकः समालब्धाङ्गो वा पुंसां स्त्रीणां राज्ञां च वल्लभो भवति । विषाणां च स्थावरादीनामनाक्रमणीयो भवति ॥ ६ ॥

भङ्गरअदेविधवलापराइआसिअवआहि णिम्मविओ।

गोरोअणासणाहो तिलओ भुवणं वसे कुणइ ॥ ७॥

भृङ्गरजोदेविधवलापराजिताश्वेतवचाभिर्निर्मितः ।

गोरोचनासनाथस्तिलको भुवनं वशीकरोति ॥

मार्कवसहदेवाश्वेतगिरिकर्णिकाश्वेतवचागोरोचनाभिः कृतस्तिलकः उक्तमेतत्कार्यं करोतीति ॥ ७ ॥

कुणइ वसे वत्ती (पी?प्री)णपित्तगोरोअणाविणिम्मविआ।

सव्वकरकणिट्ठविरइएण तिलएण तेल्लोक्कं ॥ ८॥

करोति वशे वर्ती (पी? मी)नपित्तगोरोचनाविनिर्मिता।

सव्यकरकनिष्ठाविरचितेन तिलकेन त्रैलोक्यम् ॥

मत्स्यपित्तगोरोचनकृता या वर्ती सा निघृष्टवामहस्तकनिष्ठाङ्गुल्या विरचिततिलकोक्तं कार्यं करोति ॥ ८ ॥

गोरंभापित्तुष्भवसिहिमूलामोहणीसिलारइओ । 9

तेल्लोक्कं वसिअकरिणो मुहम्मि णिव्वट्टिओ तिलओ॥

गोरम्भापित्तोद्भवगोरोचना तथा समयूरशिखा तथा मोहनी विटपत्रिका शिला मनःशिला एताभिर्विरचितस्तिलको यथोक्तं कार्यं करोतीति ॥ ९ ॥

विह्णुक्कन्ताभंगरअदेविधवलापराइअजटाहि ।

पूसम्मि रोअणापाणीएण कुमारिपिट्ठाहि ॥ १० ॥

कारूण तिलअमिमिणा ममरद्धअणिद्धबन्धसमेण ।

कुणह वसे जीअलोअं दंसण परिवड्ढिआणन्दं ॥ ११ ॥

विष्णुक्रान्ताभृङ्गरजोदेविधवलापराजितजटाभिः ।

पुष्ये गोरोचनापानीयेन कुमार्या पिष्टाभिः ॥

कृत्वा तिलकममुना मकरध्वजस्निग्धबान्धवसमेन ।

कुरुत वशे जीवलोकं दर्शनपरिवर्धितानन्दम् ॥

विष्णुक्रान्ता भीलपुष्पा तथा मार्कवेन सहदेव्या श्वेतगिरिकर्णिकामूलेन चेत्यनेन द्रव्येण गोरोचनाजलारञ्जितेन कन्यकापिष्टेन तिलकं कृत्वा कार्यं सम्पादयन्तीति युगलकम् ॥ १०, ११ ॥

बहुसोरंअरिसोणिअभाविआए गोरोअणाए कअतिलआ।

जं जं पेच्छइ पुरुसं तं तं महिला वसे कुणइ ॥१२॥

बहुशरीर्यत्तशोणित(भावित)या गोरोचनया कृततिलका ।

यं यं प्रेक्षते पुरुषं तं तं महेला वशीकुरुते ॥

तन्तुरजसबहुवारमिश्रितया गोरोचनया रचितविशेषका वधूः (यं) यमिच्छति तं तं दृष्टमात्रं वशीकुरुत इति ॥ १२ ॥

रक्तहअमारकुसुमं सिद्धत्थअकुट्ठगअमउम्मीसं ।

हरवल्लहोढ्रवारुणसिअमक्कवमूलसञ्जुत्तं ॥१३ ॥

भूअदिणे पूसे वा सीअलसलिलेण वड्ढिअं विहिणा।

सइ गुरुभआरम्भे तिलअमेअं(क)रज्जासु ॥ १४ ॥

रक्तहयमारसिद्धार्थककुष्ठगजमदोन्मिश्रम् ।

हरवल्लभोष्ट्रवारुणसितमार्कवमूलसंयुक्तम् ॥

भूतदिने पुष्ये वा शीतलसलिलेन वर्धितं विधिना ।

सदा सर्वभयारम्भेषुतिलकमेतं कुर्यात् ॥

लोहितकरवीरकुसुमं सर्षपावाप्यकरिदानमिश्रितधुर्धूरकारतवारुणीसितमार्कवसंयुक्तं शीताम्बुना पिष्टं तिष्ये चतुर्दश्यां वा नित्यं सर्वभयनिवृत्त्यै तिलकमेतं कुर्यादिति युगलकम् ॥ १३, १४ ॥

एअं विअ पाणे भोअणे ल पूसम्मि पञ्चमलमिसिअं।

दिण्णं भुवणम्मि वसे कुणइ सआ दासपडिरूवं ॥१५॥

एतदेव पाने भोजने वा पुष्ये पञ्च(म)लयुक्तम् ।

दत्तं भुवनमपि वशीकरोति सदा दासप्रतिरूपम् ॥

एतदेव पूर्वोक्तं द्रव्यं देहजैः पञ्चभिस्तत्र मुखवारिजैश्चतुर्भिस्त्वङ्मलेन त(दा ?था) पञ्चमेन मिश्रितं पाने भोजने वा दत्तं सदुक्तं कार्यं करोतीति ॥१५॥

सिअसरिसवमसिअभुजंगमच्छए गजमएण सञ्जुत्तं ।

पुटदड्ढं चुण्णइअमञ्जणमिणमो वसीअरणं ॥१६॥

सितसर्षपमसितभुजङ्गमस्तके गजमदेन संयुक्तम् ।

पुटदग्धं चूर्णीकृतमञ्जनमिदं वशीकरणम् ॥

गौरसर्षपाख्यं द्रव्यं कृष्णसर्पमस्तकाभ्यन्तरे न्यस्तं करिमदमिश्रितं पुटपाकदग्धं सत् पिण्डमित्येवं कृतमिदमञ्जनं वशीकरणमिति । आममृन्मयपात्रद्वयस्याभ्यन्तरे द्रव्यं तस्य सन्धिस्थाने च लेपने च निर्विवरं कृत्वा पादद्वयपाकपर्यन्तं पच्यते पुटपाकदग्धमित्युच्यत इति ॥ १६ ॥

होइ सिलाणाएसरपिअंगुरोअण(ञ्जिआ)च्छीणं ।

णिस्सेसतरुणिजणवल्लभत्तणं सामिसम्माणं ॥१७॥

भवति शिलानागकेसरप्रियङ्गुगोरोचनाञ्जिता(क्षी ? क्षा) णाम् ।

निश्शेषतरुणीजनवल्लभत्वं स्वामिसम्मानम् ॥

मनश्शिलानागकेसरश्यामगोरोचनाभिः कृताञ्जनेनाञ्जितनेत्राणां पुंसामुक्तं फलं भवतीति ॥ १७ ॥

समतुलिअञ्जनचंदनपङ्कअदलरोअणापिअंगूहि ।

अञ्जिअणअणो जं जं पेच्छ इ तं तं वसे कुणइ ॥१८॥

समतुलिताञ्जनचन्दनपङ्कजदलरोचनाप्रियङ्गूभिः ।

अञ्जितनयनो यं यं द्रक्ष्यति तं तं वशीकुरुते ॥

समतुलिताभिस्तुल्यभागाभिः सौवीराञ्जनचन्दनपद्मतमालपत्रगोरोचनाभिः कृतेनाञ्जनेनाञ्जितनेत्रो दर्शनमात्रेण परं वशीकुरुत इति ॥ १८ ॥

बहुसो वराहसोणिअभाविअजावअ(रञ्जिअ)कआए।

सौवीरञ्जणमहुअरचुण्णसगब्भाए वत्तीए ॥ १९ ॥

कोलवसाभरिअपईवगहिअकज्जलकअञ्जणा होंति ।

सअलजणहिअअदइआ विहडिअपडिपक्खमाहप्पा ॥ २०॥

बहुशो वराहशोणितभावित(परिभावित ?)यावक(रञ्जित)कृतया ।

सौवीराञ्जनमधुकरचूर्णसगर्भया वर्त्त्या॥

कोलवसाभरितप्रदीपगृहीतकज्जलकृताञ्जना भवन्ति ।

सकलजनहृदयदयिता विघटितप्रतिपक्षमाहात्म्याः ॥

गाथायुगलस्यायमर्थः -बहुशो बहून् (व ? वा)रान् सूकरमांसरयासृजा भावितं सत् शुष्कं यद् यावकं लाक्षारसरञ्जितं वास उपचारात् । तेन निर्मितया वर्त्त्या। तथा सौवीराञ्जनेन शुष्कभ्रमरचूर्णेन सगर्भया पूरितान्त(रा? रया) सूकरस्नेहेन पूरितप्रदीपगृहीतेन कज्जलेन कृताञ्जननेत्रा उक्तफलभागिनो भवन्तीति । युगलकम् ॥१९, २०॥

सज्जरसविसाणवआभुअंगभुडिकामिणीहि णिम्मविओ। 10

स्रिअसिद्धत्थसणाहो धूवो सव्वत्थसि(द्धि)अरो ॥ २१॥

सर्जकुष्ठवचानागकेसरसूक्ष्मिकाप्रियङ्गूभिः निर्मितः तथा गौरसर्षपैर्युक्तो धूपः सर्वार्थान् साधयतीति ॥ २१ ॥

जलवाहमलअमहीअरजोइअसमभाअ(वि?)मीसिओ पूसे।

णिअलालासञ्जुत्तो धूवो सोहग्गसञ्जणणो ॥ २२ ॥

जलवाहमलयमहीधरयोजितसमभागमिश्रितः पुष्ये ।

निजलालासंयुक्तो धूपः सौभाग्यसञ्जननः ॥

पुष्यर्क्षे मुस्ताचन्दनशैलेयानां योजितैः समैर्भागैर्मिश्रीकृतस्तथा स्वमुखनिष्यन्दसहितो धूपः सौभाग्यं जनयतीति ॥ २२ ॥

कंकुतएणाएसरपउमअमालूरकुडिलमंसीहि ।

सव्वत्थ कुणइ सिद्धिंधूवो समभाअणिम्भविओ॥२३॥

कङ्कुत्वङ्नागकेसरपद्मकमालूरकुटिलमांसीभिः ।

सर्वत्र करोति सिद्धिं धूपः समभागनिर्मितः॥

कङ्गु प्रियङ्गु । त्वक् भृङ्गः । नागकेसरपद्मके प्रसिद्धे। मालूरं बिल्वम् । कुटिलं तगरम् ।मांसी नलदः । एतैर्द्रव्यैस्तुल्यांशैः कृतो धूपः11… ….॥ २३॥

व्रजथ नरेन्द्रभवनं यदीच्छथ वशीकर्तुम् ॥

लघु कृष्णागरु । मलयं च(न्द)नम् । कुष्ठं विषाणम् । कुङ्कुमं काश्मीरम् । सुरदेवदारु करिनागकेसरं वन्यं परिपेलवम् । कुसुमसलिलं माक्षिकम् । एतैः कृतो धूपो यैस्तथाविधाः सन्तो राजगृहं गच्छत, यदि राजानं वशीकर्तुं कामश्चेति ॥ २४ ॥

क्रण्णाव(रेण? रणे) कामिणिसमागमे पण्णविक्कए तुरिअं।

एसोच्चिअ सिद्धिअरो धूवो चिन्तामणी णाम ॥२५॥

कन्यावरणे कामिनीसमागमे पण्यविक्रये त्वरितम् ।

एष एव सिद्धिकरो धूपश्चिन्तामणिर्नाभ ॥

अस्यैव फलान्तरप्रतिपादनार्था स्पष्टा गाथेति ॥ २५ ॥

कररुहकललकुन्दकालाउरुदललक्खासणाहओ।

दलमालाविसाणमलउब्भवविरइअसमभाओ॥ २६ ॥

मअणमहाणरिन्दणवणिसिअसराणिपुडुमदूअओ।

कुणइ वसम्मि सअलं भुवणं वि हु एस सअन्धधूपओ॥

कररुहकललकुन्दकालागरुदललाक्षासनाथः ।

दलमालाविषाणमलयोद्भवविरचितसदृशभागः ॥

मदनमहानरेन्द्रनवनिशितशराशनिप्रथमदूतः।

करोति वशे (सकलं) भुवनमपि खल्षेष सगन्धो धूपः॥

कररुहो नखम् । कललं मांसी । कुन्दं कुन्दुरुष्कः । कृष्णागरु लघु । दलं गन्धपत्राणि । लाक्षा प्रसिद्धा । एतैः सहितं दलं सल्लकम् । माला स्पृक्का । विषाणं कुष्ठम् । मलयोद्भवं चन्दनम् । एतैर्विरचितास्तुल्यभागा यस्य समांशैः एतैः सर्वैरित्यर्थः । सुगन्धधूपोऽयमत्यन्तसौभाग्यप्रदत्वात् स्मरशराग्रदूतकल्पः । उक्तार्थक्रियाकर इति । युगलकम् ॥ २६, २७ ॥

मलआरुणगिरिमिअंककन्दलीसमकअभाअओ।

गअदाणसिलापिअंगुरससरिसवसञ्जुत्तओ धूवो॥

मअरद्धओव्व विडडिअजणमाहप्पओ भुअणं ।

ससुरासुरं पि कुणइ वसे विलसन्तओ॥ २९ ॥

मलयारुणगिरिमृगाङ्ककन्दलीकृतसमभागः।

गजदानशिलाप्रियङ्गुरससर्षपसंयुक्तो धूपः ॥

मकरध्वज इव विघटितजनमाहात्म्यं भुवनम् ।

ससुरासुरमपि करोति वशे विलसत् (?)॥

मलयं चन्दनम् । अरुणं कुङ्कुमम् । गिरिः शिलापुष्पम् । मृगाङ्कः कर्पूरम् । कन्दली ओषधिविशेषो देशान्तरे प्रसिद्धः । गजमदः । शिला मनश्शिला । प्रियङ्गुः कामिनी । रसो गोलः । सर्षपः सटहः । एतैः समभागैः कृतो धूपः उक्तं कार्यं करोतीति ।

“द्वादशाङ्गयुतो धूपो (ह्य)त्यन्तविबुधप्रिय।

(द ? दा)रकर्मणि विख्यातः सम्यग्विधिनियोजितः” ॥ २८,२९ ॥

णिअवाहविंअसोणिअमलमीसुम्मत्तसुणहजीहाए ।

खाणेण व पाणेण व (पु? कु)णइ वसे तिभुवणं सअलं ॥

निजबाष्पशोणितमल(य?)मिश्रोन्मत्तश्वजि(ह्वया ? ह्वायाः)।

खादनेन वा पानेन वा करोति वशे त्रिभुवनं सकलम् ॥

बाष्पादीनि प्रसिद्धानि । तान्येव त्रीणि समानि एतैर्मिश्रिता उन्मत्तशुनोऽलर्कस्य जि(ह्वया ? ह्वा) खादनपानदत्ता उक्तं कार्यं करोतीति । एतानि द्रव्याणि साधको यस्मै प्रयुङ्क्ते तं तं वशीकरोतीत्यर्थः ॥ ३० ॥

रइसमए णिअबीअं घेत्तूण करेण कामिणीचरणं ।

जो (वा? आ)लिंपइ वामं सो तीए चिरं वल्लहो होइ ॥

रतिसमये निजबीजं गृहीत्वा करेण कामिनीचरणम् ।

य आलिम्पति वामं स तस्याश्चिरं वल्लभो भवति ॥

सम्प्राप्तयोगे भावप्राप्त्यवसरे स्ववीर्यं वामकरेण गृहीत्वा कामिन्या वामं चरणं लिम्पति स तां वशीकरोतीति ॥ ३१ ॥

माअंगणिहअणरणअणणासिआहिअअलिंगजीहाहि ।

पक्कं पिणाइभवणे तेल्लं पूसम्मि रअणीए ॥ ३२ ॥

मअणंकुस त्तिणामेण सिद्धमिणमो महावसीअरणं ।

फस्सेण वि किं बहुणा कुणइ वसं वणगइ (न्दो ? न्दं)पि॥

एअं पुरा सुरमणिमउडमऊहच्छुरिअचलणेण ।

सिट्ठं पसुवइणा पव्वईए तेल्लं पसण्णेण ॥ ३४ ॥

खाणेण व पाणे(ण) व दिण्णं पूसम्मि कामिणिजणस्स।

पञ्चङ्गमलसणाहं कत्तो अण्णं वसीअरणं ॥ ३५ ॥

एअं गुरुआराहणपविअसिअलोअणारविन्देण ।

कहिअं दणइन्दपुरोहिएण सुरमन्तितणअस्स ॥३६॥

मातङ्गनिहतनरनयननासिकाहृदयलिङ्गजिह्वाभिः।

पक्वं पिनाकिभवने तैलं पुष्ये रजन्याम् ॥

मदनाङ्कुश इति नाम्ना सिद्धमिदं महावशीकरणम् ।

स्पर्शेनापि किं बहुना करो(ति) वशं वनगजेन्द्रानपि ॥

एतत् पुरा सुरमकुटमणिमयूखच्छुरितचरणेन ।

सृष्टं पशुपतिना पार्वत्यास्तैलं प्रसन्नेन ॥

खादनेन वा पानेन वा दत्तं पुष्ये कामिनीजनस्य ।

पञ्चाङ्गमलसनाथं कुतोऽन्यद् वशीकरणम् ॥

एतद् गुर्वाराधनप्रविकसितलोचनारविन्देन ।

कथितं दानवेन्द्रपुरोहितेन सुरमन्त्रितनयस्य ॥

गाथापञ्चकेन कुलकस्येदं तात्पर्यं - गजेन व्यापादितस्य पुंसो नेत्रघ्राणहृदयपद्मध्वजलालाभिरतैलं पुष्यर्क्षे रात्रौ रुद्रालये पंक्ते शुद्धास्वस्थित्या (?) उक्तं कार्यं करोतीति । एतदेव पञ्चभिः कुलकम् ॥ ३२-३६ ॥

णिअवीअसुभाविअकइवराङ्गचुण्णेण कसलिअदलाइं।

दिण्णाइ कुणन्ति वसे अघ्घाउं सुरहिकुसुमाइं॥३७॥

निजबीजसुभावितकपिवराङ्गचूर्णेन लिप्तदलानि ।

दत्तानि कुर्वन्ति वश आघ्रातुं सुरभिकुसुमानि ॥

निजबीजसंयुक्तेन प्लवङ्गध्वजचूर्णेन अवकुतपत्राणि सुगन्धिकुसुमान्यामोदग्रहणाय यस्मै दीयन्ते तं वशीकुर्वन्तीति ॥ ३७॥

पुत्तञ्जारिव्व कअञ्जालिव्व मोहव्व बर्हिचूलोव्व ।

कुणइ वसे गोरम्भव्व पञ्चमलमीसिआ दिण्णा ॥३८॥

पुत्रञ्जारी वा कृताञ्जलिर्वा(मोहा वा) बर्हिचूडा वा।

करोति वशे गोरम्भा वा पञ्चमलमिश्रिता दत्ता॥

पुत्रञ्जारी स्थितिभिः कृताञ्जलिर्नतिकृत् मोहा मोहनी बर्हिचूडा मयूरशिखा। गोरम्भानि सुमनस्य(?)चूर्णमिश्रनवनीतमतिशयप्रसिद्धम् अविधेयवशीकरणं चरणतलाभ्यङ्गयुक्त्या । गोरम्भा ओषधिविशेषः । तदीयसूक्ष्मचूर्णभावितं नवनीतं वशीकार्यस्य पादतललेपात् सुप्रसिद्धं वशीकरणमिति ॥ ३८॥

णरकालसारहयमत्तकुञ्जरा होन्ति दासपडिरूवा ।

चण्डालिआइ कमसो वढ्ढन्तएक्कक्कपत्ताइ ॥ ३९॥

नरकालसारहयमत्तकुञ्जरा भवन्ति दासप्रतिरूपाः।

चण्डालिकया क्रमशो वर्धमानैकैकपत्र या ॥

चण्डालिका रक्तकञ्चुकाख्या ओषधिः तया नरस्य कृष्णसारस्य मृगस्य तुरगस्य मत्तवारणस्य एकैकपत्रवृद्ध्या दत्तया ते नरादयो दासप्रतिरूपा भवन्ति ॥ ३९ ॥

गन्धअसिलाविलेविअसोसिअचुण्णीकअं महुम्मीसं ।

लेवेण (वसे महिलां) कुणइ र ए कुलिसतरुखण्डं ॥४०॥

गन्धकशिलाविलेपितशोषितचूर्णीकृतं मधून्मिश्रम् ।

लेपेन वशे महेलां करोति (रते) कुलिशतरुखण्डम् ॥

कुलिशः सुधावृक्षः तस्य खण्डः एकदेशः गन्धपाषाणमनश्शिलाखण्डाभ्यां शोषितस्ततश्चूर्णीकृतः पश्चात् क्षौद्रभावितो रतिसमये ध्वजलेपाद् योषितं वशीकरोतीति ॥ ४०॥

दिच्छिन्दिअमहुकप्पूरलित्तलिंगा रमन्तिते सुरए ।

हिअए महिलाण णरा वसन्ति ते दिघ्घअंकालं ॥४१॥

एस किल जोअराओ दिण्णो रुद्देण मूलएवस्स ।

भद्दस्स देवअत्ता(ए?) वस्सम्मि सम सट्ठिआणेण ॥४२॥

दक्षे(न्द्र ? न्द्रिय)मधुकर्पूरलिप्तलिङ्गा रमन्ते ये सुरते ।

हृदये महेलानां नरा वसन्ति ते दीर्घं कालम् ॥

एष किल योगराजो दत्तो रुद्रेण मूलदेवाय ।

भद्राय देवदत्ता(य?) वशेऽस्य संस्थितानेन ॥

दक्षः प्राणिविशेषो भालूक इति प्रसिद्धः । तदीयेनेन्द्रियेण पिष्टेन तथा माक्षिकघनसाराभ्यां लिप्तसाधना ये रमन्ते निधुवने क्रीडन्ति ते कामिनीनां चिरं कालं हृदये वसन्ति । सदा भवन्तीत्यर्थः । अस्यैवानुशंसार्था स्पष्ट। द्वितीया गाथा । भद्रशब्दो मूलदेवविशेषणमिति । युगलकम् ॥ ४१,४२॥

मुणिकुसुमसलिलघअ(महु)जालिणिफलरेणुपारअहिमेहि ।

कीरइ विअढ्ढदइओ कअअफलुम्मीसिओ लेओ॥४३॥

मुनिकुसुमसलिलघृताधुजालिनीफलरेणुपारतहिमैः।

क्रियतां विदग्धदयितः कतकफलोन्मिश्रितो लेपः॥

मुनिरगस्त्यतरुः तत्कुलुमजलेन तद्रसेनेत्यर्थः। तथा घृतमाक्षिकाभ्यां तथा जालिन्या देवताल्याः सम्बन्धिना फलचूर्णेन तथा सूतेन चन्दने दत्तै. कतकफलचूर्णमिश्रैर्नागरप्रियो ध्वजलेपः कामिनीवशीकारहेतुः क्रियतामिति ॥ ४३ ॥

जस्स मणे कज्जं सामलिए दासत्तणं पवण्णाए ।

सो कुणइ लिंगलेवं कलरवमलसिन्धवमहूहि ॥४४॥

यस्य मनसि कार्यं श्यामलया दासत्वं प्रपन्नया ।

स करोतु लिङ्गलेपं कलरवमलसैन्धवमधुभिः ॥

कलरवमलं पारावतशकृत् । सैन्धवमधुनी प्रसिद्धे। शिष्टं गतार्थमिति ॥ ४४ ॥

ससिसूआरुणकइलिंगकणअमहुलित्तलिंगरमिआओ।

कुणइ वसे लडहविलामिणोओ विरहे ण जीअन्ति ॥ ४५ ॥

शशिसूतारुणकपिलिङ्गकनकमधुलिप्तलिङ्गरमिताः।

करोति (वशे) लटहविलासिनीर्विरहे न जीवन्ति ॥

पारतकर्पूरकुङ्कुमवानरध्वजमातुलक्षौद्राभ्यक्तेन लिङ्गेन कामिता सुभगकामिनीः पुरुषो वशीकरोति । एवं नाम (काश्यपा ? ता वश्या) भवन्ति, यत् तद्विप्रयोगे न जीवन्तीति ॥ ४५ ॥

ससिरसलअणिमअगअणपिप्पलिसिन्धुतुंबु(रु)महूहि।

लेविअधआण महिला होन्ति रए णिज्झरसरिच्छा॥४६ ॥

शशिरसलवनामदगगनपिप्पलिसिन्धुतुम्बुरुमधुभिः ।

लेपितध्वजानां महेला भवन्ति रते निर्ज्झरसदृक्षाः॥

कर्पूरपारताभ्यां तथा लयनिमदेन (?) लताकस्तूरिकया तथा गगनेनाभ्रकेण तथा मागधिकया तथा सैन्धवेन तथा तुम्बुरुफलैः प्रसिद्धैस्तथा माक्षिकेणएतैरभ्यक्तलिङ्गानां निधुवनसमये वनिता बहुमदस्यन्दिन्यो भवन्ति । ततश्च वश्यत्वमापद्यन्त इत्यर्थः स्थित एवेति ॥ ४६॥

हरिआलञ्जणपारअमागहिआकुट्ठसेन्धवमहूहि ।

कलरवपुरीसमीसो लिं(ग? गे)लेवो कओ विहिणा ॥४७॥

सोहग्गमअपरवसतरुणिअणहिअअमत्तमाअंगो।

सुरए रभसेण वसे करेइ मअणंकुसो णाम ॥ ४८ ॥

हरितालाञ्जनपारतमागधिकाकुष्ठसैन्धवमधुभिः।

कलरवपुरीषमिश्रैर्लिङ्गलेपः कृतो विधिना ॥

सौभाग्यमदपरवशतरुणीजनहृदयमत्तमातङ्गम् ।

सुरते रभसेन वशे करोति मदनाङ्कुशो नाम ॥

हरितालसौवीराञ्जनहरवीर्यपिप्पलीविषाणलवणमाक्षिकैः पारावतमलसंयुक्तैः विधिना मदसमांशरूपेण विधानेन कृतो ध्वजाभ्यङ्गो सुरते रभसेन साभिलाषत्वेनोक्तविशेषणविशिष्टास्तास्तरुणीर्वशीकरोतीति युगलकम् ॥ ४७,४८॥

जाइ (व) काइ व घेत्तूण पञ्च कुसुमाइ रत्तवण्णाइ ।

समतलिअपिअंगुमीसिआइ अइमसिणपिट्ठाइ ॥ ४९ ॥

एएण लित्तलिंगो जं जं कामेइ कामिणिं कुसलो ।

सोभग्गरूवगुणगव्विअं तरुणिं वसे कुणइ ॥५०॥

यानि वा कानि वा गृहीत्वा पञ्च कुसुमानि रक्तवर्णानि ।

समतुलितप्रियङ्गुमिश्रितान्यतिमसृणपिष्टानि ॥

एतेन लिप्तलिङ्गो यां यां कामयते कामिनीं कुशलः ।

सौभाग्यरूपगुणगर्वितां (तरुणीं) वशीकुरुते ॥

यानि वा कानिचित् प्रभि(न्न)जातिपुष्पमिति पञ्च लोकहितानि पुष्पाणि गृहीत्वा तत्तुल्यपरिमाणगन्धप्रियङ्गुमिश्रितानि कृत्वा एतेन द्रव्येण कृतध्वजाभ्यङ्गो यां यां योषितं रमयति सा सा सुभगत्ववपुःप्रकर्षगर्वितापि तस्य वश्यत्वमापद्यत इति युगलकम् ॥ ४९,५०॥

घअघट्ठ (रत्त)कइलिंग(लित्त)लिंगाण लडह(वणिदाओ)।

होइ वसे मअरद्धअसर(सोअर)सल्लविहुराओ ॥५१॥

एअस्स मूलसिरिणा मअरद्धअसरसहोअ(र)समस्स।

लेवस्स पट्टबन्धो कओ महाआलभुवणम्मि ॥५२॥

घृत(भृ? पि)ष्ट(रक्त)कपिलिङ्गलिप्तलिङ्गानां लटहवनिताः।

भवन्ति वशे मकरध्वजशरसोदरशल्यविधुराः॥

एतस्य श्रीमूलदेवेन मकरध्वजशरसहोदरसमस्य ।

लेपस्य पट्टबन्धः कृतो महाकालभुवने ॥

घृतपिष्टेन रक्तस्य कपेर्मकटस्य मेढ्रेण लिप्तसाधनानां सुन्दरस्त्रियः स्मरशरनिकरशल्यव्यथिताः सद्यो वशीभवन्ति । अस्यैवानुशंसार्था स्पष्टार्था गाथा । मकरध्वजशराणां सहोदरतुल्यस्य समानार्थकारित्वाद् भ्रातृतुल्यस्य योग(स्य) पट्टबन्धः कृत इति युगलकम् ॥ ५१, ५२ ॥

जालिणिफलरेणुरसिन्दकणअलोअणखण्डसहिएहि ।

सुरअम्मि ओट्ठवारुणिदुद्धेण करंभिओ लेवो ॥ ५३॥

एसोविअ गुरुजोव्वणसोभग्गोत्ताणकामि(णि)जणस्स।

हरइ मअरट्ठं मअरद्धओ व्व भुवणे विअंभन्तो॥ ५४॥

जालिनिफलरेणुरसेन्द्रकनकलवणाम्लवेतस(स? )हिमैः।

सुरते उष्ट्रवारुणिदुग्धे मिश्रीकृतो लेपः ॥

एषोऽपि गुरुयौवनसौभाग्योत्तानकामिनीजनस्य ।

हरति गर्व मकरध्वज इव भुवने विजृम्भमाणः ॥

देवतालीफलचूर्णेन पारतेन च हरदयितेन सैन्धवेन अम्लवेतसेन चन्दनेन च एतैः करभवारुण्याः क्षीरेण च आलोलितो लेप एषोऽपि सुरतसमये प्रयोगः प्रकृष्ट (वारुण्या ? तारुण्य) सौन्द(र्या ? र्यो)न्नतस्य विलासिनीलोकस्य साक्षात् कन्दर्प इव दर्पं (जनयति विजयमानो?) हरतीति युगलकम् ॥ ५३, ५४ ॥

हअलालासिअसरिसवमञ्जिट्ठाजाइकुसुमदलमीसं।

जो कुणइ लिङ्गलेवं सोच्चिअ कुसुमाउहो होइ ॥५५॥

हयलालासितसर्षपमञ्जिष्ठाजातिकुसुमदलमिश्रम् ।

यः करोति लिङ्गलेपं स एव कुसुमायुधो भवति ॥

तुरगमुखनिःष्यन्दो गौरसर्षपः मञ्जिष्ठा जातिकुसुमं सुमनःपुष्पाणि तमालपल्लवानि एतानि मिश्रयित्वा कृतो ध्वजलेपः प्रयोक्तुः साक्षात् कुसुमायुधत्वमापादयतीति ॥ ५५॥

हरबीअघुसिणघणसाररोअणामलअहेमरअरइओ।

सुरअम्मि हरइ हिअअं लेवो सुरसुन्दरीणं पि ॥५६॥

हरबीजकुङ्कुमघनसाररोचनामलयहेमरजोरचितः।

सुरते हरति हृदयं लेपः सुरसुन्दरीणामपि ॥

पारतः काश्मीरकर्पूरगोरोचनाचन्दनमातुलचूर्णैर्निर्मितः साधनलेपोऽप्सरसामपि चित्तं हरतीति ॥ ५६ ॥

तइतअरकल्लकेसरकुसुम्भसेलेअविरइअं कुणइ।

सोभग्गमणण्णसमं वामाण विलेवणं सुहअं॥५७॥

त्वक्तगरतकल्लकेसरकुसुम्भशैलेयविरचितं करोति ।

सौभाग्यमनन्यसमं वामानां विलेपनं सुखदम् ॥

वल्कलकुटिलमांसीनागरकेसरमहारजनीपरपुष्टैर्विरचितः वधूनां वराङ्गलेपः परमं सौभाग्यं करोति सुखदत्वादिति ॥ ५७ ॥

सिन्धुवआसोवच्चलसोवीर(अ)मच्छपित्तवरणीहि ।

घअमहुक(ला?णा)सणाहो भअलेओ कुणइ सोभग्गं॥

सैन्धववचासौवर्चलसौवीरकमत्स्यपित्तवरणीभिः ।

घृतमधु(कृतोऽसौ ? कणासनाथौ) भगलेपः करोति सौभाग्यम् ॥

लवणोग्रगन्धाकृतकशैलाञ्जनमत्स्यापित्तैस्तथा वरण्या सौराष्ट्रमृत्तिकया चेत्येतैः कृतः सर्पिर्माक्षिकपिप्पलीचूर्णयुतः स्त्रीणां वराङ्गाभ्य(क्तः ? ङ्गः) सौभाग्यमावहतीति ॥ ५८॥

(सिअ)सिद्धत्थअतेल्लं दालिमपञ्चङ्गसाहिअं विहिणा।

गुज्झब्भङ्गेण रए कुणइ वसे णिअपइंमहिला ॥ ५९ ॥

सितसिद्धार्थकतैलं डाडिमपञ्चाङ्गसाधितं विधिना ।

गुह्याभ्यङ्गेन रते करोति वशे निजपतिं महेला ॥

गौरसर्षपतैलं डाडिमस्य पञ्चभिरंशैर्दलादिभिर्विधानेन साधितं पक्वं वराङ्गलेपेन प्रयोज्य स्त्री कामुकं वशीकरोति । विधिरत्र द्रव्यचतुर्गुणं तैलं तच्चतुर्गुणं जलं पक्वं लेपमात्रमिति ॥ ५९ ॥

मालइपसूणसाहिअतेल्लब्भ(ङ्गो?त्ते) वरङ्गकुहरम्मि ।

महिलाण सुरअसमए होइ पई दासपडिरूवो ॥ ६०॥

मालतीप्रसूनसाधिततैलाभ्यक्ते वराङ्गकुहरे ।

महेलानां सुरतसमये भवति पतिर्दासप्रतिरूपः ॥

सुमनःपुष्परुक्तेन विधिना साधितं यत् तिलतैलं तेन सुरतसमये क्षिप्ते संसारमार्गविवरे कामिनी कामुकमत्यन्तवश्यं करोतीति ॥ ६०॥

पसुवइजलवट्टिअणिंबदारुगुग्गुलुरसञ्जणकएण ।

महिला वरङ्गधूएण णिअदइअं वसे कुणइ ॥ ६१॥

पशुपतिसलिलवर्तितनिम्बदारुगुग्गुलुरसाञ्जनकृतेन ।

महेला वराङ्गधूपेन निजदयितं वशीकरोति ॥

छागमूत्रपिष्टैः पिचुमन्ददेवदारुपुरभागैः कृतो निर्मितो यो धूपः तेन महेला वराङ्गं धूपयति कामुकं वशे करोतीति ॥ ६१ ॥

दप्पिअपसुवइजलपिट्ठवाणरीमूललेविउम्मलिअं।

ण पडइ लिङ्गं खरकोरिखररआ (आ) ससुढिअं पि॥६२॥

दर्पितपशुपतिजलपिष्टवानरीमूललेपितोद्वर्तितम् ।

न पतति लिङ्गं खरखारीखररतायासमूदितमपि ॥

मत्तबस्तप्रस्रवेण निघृष्टंयद्वानार्याः कपिकच्छ्वा मूलं तेन लिप्तं यदुद्वर्तितं चिह्नं कर्कशाधमदासीनिधुवनक्लेशकदर्थितमपि पुंश्चिह्नं स्तब्धत्वं न जहातीति ॥ ६२॥

सत्ताहं पसुवइसलिलभाविअं करहवारुणीमूलं।

गाहोव्वट्टणविहिणा कुणइ रए साहणत्थम्भं ॥ ६३ ॥

(सप्ताहं) पशुपतिसलिलभावितं करभवारुणीमूलम् ।

गाढोद्वर्तनविधिना करोति रते साधनस्तम्भम् ॥

सप्त दिनानि छागमूत्रेण भावितमुष्ट्रवारुणीमूलं पिष्टं सद् बहलेनोर्द्वतनकर्मणा सुरते ध्वजस्तम्भ(म? मु)पहरतीति ॥ ६३ ॥

कमपरिवढ्ढिदअटंकणपिप्पलितण्डुलविसेहि पिट्ठेहि ।

लेविअधोण्ण णरो लिङ्गेण चिरं रए मलइ ॥ ६४ ॥

क्रमपरिवर्धितटङ्कणपिप्पलितण्डुलवि(षयीः? षैः पिष्टैः)।

विलिप्तधौतेन नरो लिङ्गेन चिरं (ओरमओ ?रते मिलति)॥

टङ्कणं सुवर्णपादिका, पिप्पलीतण्डुलं मागधिकाबीजानि, विषं मुस्तादि, एतैरुत्तरोत्तरवृद्ध्या गृहीत्वा पिष्टैः प्रथमं लिप्तेन पश्चाद्धौतेन ध्वजेन बहलं निधुवने क्रीडतीति ॥ ६४ ॥

मण्डोक्कवसाकुरुविल्लखण्डखण्डेहि काढिअं दुद्धं ।

धअधूमधअत्थंभं करेइ चरणअललेवेण ॥ ६५ ॥

मण्डूकवसाकुरुविल्लखण्डखण्डैः क्वथितं दुग्धम् ।

(ध्वज)धूमध्वजस्तम्भं करोति चरणतललेपेन ॥

दुर्दुरस्नेहेन तथा कुरुविल्लस्य कुलीराख्यस्य मत्स्यस्य (खण्ड)खण्डैः पिशितशकलैः सह क्वथितं क्षीरं (ध्वजस्य धूम) ध्वजस्य वाग्नेः स्तम्भं करोति । तेन लिप्तपादश्चिरं स्तब्धध्वजो भवति अग्निना च न दह्यत इत्यर्थः ॥ ६५ ॥

सिद्धं कुसुम्भतेल्लं भूमिलआचुण्णमीसिअं विहिणा।

चलणब्भंगेण रए (करेइ) ण(र?रं) ख(रअ)रुच्छाहं॥६६॥

सिद्धं कुसुम्भतैलं भूमिलताचूर्णमिश्रितं विधिना ।

चरणाभ्यङ्गेन रते करोति नरं खरतरोत्साहम् ॥

कुसुम्भस्य पद्मकस्य बीजोद्भवं तैलं गण्डूपदचूर्णेन (कुरु ? खर) पचनविधिना साधितं पादलेपेन रतिविषये पुरुषं तरुणरासभं करोतीति ॥ ६६ ॥

णीलुप्पलसिअपंकअकेसरमहुसक्कराविलित्तेण ।

सुरअम्मि चिरं कीलइ दढलिंगे णाहिविवरेण ॥ ६७॥

नीलोत्पलसितपङ्कजकेसरमधुशर्कराविलिप्तेन ।

सुरते चिरं क्रीडति दृढलिङ्गो नाभिविवरेण ॥

कुवलयेन तथा श्वेतपद्मकिञ्जल्केन तथा मधुशर्कराभ्यां लिप्तेन नाभिकुहरेण पुरुषः स्तब्धलिङ्गः सन् सुरते चिरं रमत इति ॥ ६७॥

सिअवाअसजंघामूलोम्मीसकमलकेसरमहूहि ।

णाहीहि कओ लेवो वीअत्थम्भं रए कुणइ ॥ ६८॥

सितवायसजङ्घामूलोन्मिश्रकमलकेसरमधुभिः ।

नाभौ कृतो लेपो बीजस्तम्भं रते करोति ॥

श्वेतायाः काकजङ्घाया मूलेन तथा किञ्जल्केन तथाच मधुना एतैर्मिश्रैः सम्पादितो नाभिविवराभ्यङ्गो रतौ वीर्यनिरोधं करोति चिरं रम(य)तीत्यर्थः ॥६८॥

छीरल्लिचुलुंपादुद्धव(त्ति)अं च लणजुअल्लेवेण ।

कुणइ समंगामूलं वीअत्थम्भं रए सुइरं ॥६९॥

छीरलिगविकादुग्धवर्तितं चरणयुगलविलेपेन ।

करोति समङ्गामूलं बीजस्तम्भं रते सुचिरम् ॥

सुधायास्तथा छगल्याः क्षीरेण पिष्टं लज्जालुकाया मूलं पादद्वयलेपेन रतौ पूर्वोक्तं कार्यं करोतीति ॥ ६९॥

सिअसरिसवमिरिअवआविसाणसुरसाविलङ्गणवीएहि ।

दृस्सीलगोवसीअरणमञ्जणं पसुवइजलेण ॥ ७० ॥

सितसर्षपमरिचवचाविषाणसुरसाविलङ्गबीजैः ।

दुश्शीलगवीवशीकरणमञ्जनं पशुपतिजलेन ॥

गौरसिद्धार्थकृष्णोग्रगन्धाकुष्ठखञ्जकाकृमिघ्नबीजैः छागमूत्रपिष्टैः कृतमञ्जनं दुष्टानां धेनूनां दमनमिति ॥ ७० ॥

इअएस परिसमत्तो विविहवसीअरणजोअसंपुण्णो।

हरमेहलाए तइओ विअढ्ढदइओ परिच्छेओ ॥ ७१ ॥

इत्येष परिसमा(प्यते ? प्तो) विविधवशीकरणयोगसंपूर्णः ।

हरमेखलायास्तृतीयो विदग्धदयितः परिच्छेदः ॥

स्पष्टमेतत् ॥ ७१ ॥

इति हरमेखलायां तृतीयः परिच्छेदः ।

अथ चतुर्थः परिच्छेदः ।

वेसाण विअढ्ढाण अ सरीरपरिअम्मजणिअपरिओसं ।

साहेमि चउत्थमहं सम्पइ विउलं परिच्छेअं॥१॥

वेश्यानां विदग्धानां च शरीरपरिकर्मजनि(त)परितोषम् ।

साधयामि चतुर्थमहं सम्प्रति विपुलं परिच्छेदम् ॥

वेश्याविदग्धग्रहणं पूर्वपरिच्छेदक्रमानुसरणमात्रम् । वक्ष्यमाणं तु सर्वसाधारणम् । शिष्टः सुबोधः ॥ १॥

करिदसणामलअमसीभअगरअविपक्कतेल्लकल्लविआ।

लेवेण कुणइ फुडं खललीवि कुञ्चिए चिहुरे ॥ २ ॥

करिदशनामलकमषीभृङ्ग(राजो? रस)विपक्वतैलार्द्रीकृतान् ॥

लेपेन करो(ति) स्फुटं खलतेरपि कुञ्चितान् चिकुरान् ॥

हस्तिदन्तं धात्रीफलं च पुटपाकेन मषीकृत्य मार्कवरसेन विपक्वं तेन मिश्रित(धाम ? )स्यालेपः खल्वाटत्यापि कुटिलान् केशानापादयति । किं पुनरन्यस्य । तैलपाकविधिः समूलस्य मार्कवस्य च पले तत्स्वरसस्य द्वात्रिंशत् पलानि तिलतैलपलान्यष्टौ तान्येव ग्राह्याणीति स्वरसपाकेन सर्वत्रैषैव स्थितिः ॥ २॥

छाअच्छीररसञ्जणपुडदढ्ढगइन्दन्तमसिलित्ता॥

जाअन्ति सत्तरत्ता खललीउवि कुञ्चिआ केसा ॥३॥

छागक्षीररसाञ्जनपुटदग्धगजेन्द्रदन्तमषीलिप्ताः।

जायन्ते सप्तरात्रात् खलतेरपि कुञ्चिताः केशाः ॥

अजादुग्धरसाञ्जनाभ्यां मिश्रितया पुटपाकदग्धकरिदशनमष्या लिप्ताः केशाः पूर्ववत् श्रेष्ठा भवन्तीति ॥ ३ ॥

भंगरअरसोम्मीसिअगुञ्जाफल (चुण्ण) साहिअं तेल्लं ।

कुणइ सिरोरुहरिद्धिं कुट्ठमुरातुडिजडासहिअं॥ ४॥

भृङ्गर(जो ? सो)न्मिश्रितगुञ्जाफलचूर्णसाधितं तैलम् ।

करोति शिरोरुहवृद्धिं कुष्ठमुरातुटिजटासहितम् ॥

मार्कवरसेन गर्भीकृतरक्त्तिकाचूर्णेन पूर्वोक्तपरिमाणस्थित्यादिना नि(च? चितं) तैलं विषाणेन मधुरया सुगन्धमुरया तु(ल्या ? टिभिः) सूक्ष्मैलाभिर्जटया मांस्या च तैर्मिश्रीकृतचूर्णितैः सहितं केशसम्पत्तिं करोतीति ॥ ४ ॥

भल्लाअअबुहईफलगुञ्जामूलप्फलाण एक्केण ।

महुसहिएण विलित्तंसुरवइलुत्तं समञ्छाइ ॥५॥

भल्लातकबृहतीफलगुञ्जामूलफलानामेकेन ।

मधुसहितेन विलिप्तं सुरपतिलुप्तं श(मय? मं या)ति ॥

भल्लातकमरुष्करम् । बृहतीफलं कण्टकालिकाफलम् । गुञ्जाया रक्तिकाया मूलं फलं वा । एतेषां मध्यादन्यतमेन चूर्णीकृतेन माक्षिकेसति तेनाभ्यक्तमिन्द्रलुप्तसंज्ञया प्रसिद्धं शिरसि श्मश्रुणि वा लुप्तलोमरूपव्याधिजातं शमं याति विनश्यतीति ॥५॥

पिट्ठेहि कसणरोहिणिमुत्तुम्प्रीसेहि जवअकुसुमेहि ।

कअलेवमिन्दलुत्तं घणचिहुरमणोहरं होइ ॥६॥

पिष्टैः कृष्णरोहिणीमूत्रमिश्रैर्जपाकुसुमैः।

कृतलेपमिन्द्रलुप्तं (कनक ? घन)चिकुरमनोहरं भवति ॥

जपापुष्पाण्युड्रपुप्पाणीति प्रसिद्धानि । तैः पिष्टैः कृष्णाया रोहिण्या धेनोः प्रस्रवेण मिश्रितैर्लिप्तं पूर्वोक्तमिन्द्रलुप्ताख्यं व्याधिजातं पुनर्जातमनोहरकेशं भवतीति ॥ ६॥

वुहईफलरसघट्ठं गुञ्जामुलं फलं व लेवेण ।

काञ्चणणिहट्टपच्छिअममराहिपमुण्डिअं हरइ ॥ ७ ॥

बृहतीफलरसघृष्टं गुञ्जामूलं फलं वा लेपेन ।

काञ्चननिघृष्टप्रच्छितममराधिपमुण्डितं हरति ॥

कण्टकालीफलरसेन पिष्टं रक्तिकानां मूलं फलं वा लेपेन पूर्वोक्तमिन्द्रलुप्तं हरति । कीदृशमिन्द्रलुप्तं, पूर्वं सुवर्णेन निघृष्टं पश्चात् सूक्ष्मशस्त्रेण कृतक्षतमिति । सर्वेषामिन्द्रलुप्तलेपानां निघर्षणप्रच्छादनविधिः साधारणः ॥७॥

पसुगन्धाणीलुप्पलतिलकलिफलमज्जमहुअछल्लीहि ।

गुण्डिअसिराण चिहुरा ण पडन्ति पिअंगुसहिएहि ॥८॥

पशुगन्धानीलोत्पलतिलकलिफल(मज्ज)मधुकत्वग्भिः ।

गुण्डितशिरसां केशा न पतन्ति प्रियङ्गुसहितैः ॥

पशुगन्धा अविगन्धा पूतिपर्वरक इति प्रसिद्धः । नीलोत्पलं कुवलयम् । तिलाः प्रसिद्धाः । कलिफलं विभीतकफलं तस्य मज्जा अण्डसारः । मधुकस्य मधुयष्ट्यास्त्वगेतैः श्यामया सहितैः लिप्तमूर्ध्नां कचा न पतन्ति स्थिरीभवन्ति । अत्र लेपत्वापादनाय द्रवद्रव्यं जलमेव ग्राह्यम् । विशेषानुक्तौ सर्वत्रैषैव स्थितिरिति ॥ ८॥

आमलअकुट्ठकुवलअमंसिवलालेविअम्मि सीसम्मि ।

अइरा विरला वि घणा जाअन्ति मणोहरा चिहुरा ॥९॥

आमलककुष्ठकुवलयमांसीबलालिप्ते शीर्षे ।

अचिराद् विरला अपि घना जायन्ते मनोहराश्चिकुराः॥

धात्रीफलविषाणोत्पलनलदैस्तथा वलया अनयैव संज्ञया प्रसिद्धया कृतलेपेन लिप्ते मस्तके लुप्तत्वाद्विरला अ(पि) केशाः संहता रम्याश्च पुनर्जायन्ते इति ॥९॥

माअन्दबीअमीसिअह्णाणामलएहि गुण्डिआ चिहुरा ।

ण पडन्ति दढबद्धमूलघणदीहरसिणिद्धा ॥१०॥
आम्रवीजमिश्रितस्नानामलकैगुष्ठिताश्चिकुराः।

न पतन्ति भवन्ति दृढबद्धमूलघनस्निग्धदीर्घाः ॥

   आम्रफल्मज्जाभ्यन्तरवर्ति यत् सारं तेन मिश्रितैः स्नानार्थमुपसाधितैः सुगन्धामलकैर्लिप्ते शिरसि सति केशा न केवलं न पतन्ति, यावत् सर्वैः स्वगुणैः संयुक्ता भवन्तीति । स्रनामलकविधिं पञ्चमे वक्ष्यति ॥ १० ॥

समणीलोप्पलकेसरलट्ठिमहुतिलेहि सरिसामलअं।

सीसभ्मि चिरपरूढं पि उप्पिआसं समुप्पुसइ ॥११ ॥
समनीलोत्पलकेसरयष्टिमधुतिलैः सदृशामलकम् ।

शीर्षे चिरप्ररूढमपि दारणं समुन्मूलयति ॥

   समानैस्तुल्यभागैः कुवलयेन नागकेसरेण मधुयष्ट्या तिलेन चेत्येतैः सर्वैः समानैर्धात्रीफलं शीर्षे दत्तं सत्वक्चटनरूपं व्याधिजातम् उप्पियासमिति देशीपदे व्याख्यातं निवारयति ॥ ११ ॥

रविदुद्धोल्लन्तरधूमदढ्ढसुहमासचुण्णमासिमीसं ।

लेवेण सअलसिररोअविउडणं कुणइ कडुतेल्लं ॥१२॥
रविदुग्धार्द्रान्त(र)धूमनिदग्धशुभमाषचूर्णमपीमिश्रम् ।

लेपेन सकलशिरोरोगविघटनं करोति कटुतैलम् ॥

अर्कक्षीरेणार्दीकृताः सन्तो धूपेन पुटपाकेन विदग्धा विशोषिता ये (मा)षास्तच्चूर्णजा यासौ मषी तया मिश्रं कटुतैलं सर्षपतैलं तदलाभे गुल्गुलबीजतैलं लेपेन शिरोभ्यङ्गेन सर्वेषां शिरोरोगाणां विनाशं करोति इति ॥ १२॥

आमलअफलफअमालकिसलअप्पम्माडबीअलक्खाहि।

लेओ सीसम्मि कओ दारुणमवि हरइ दारणअं॥१३॥

आमलकफलकृतमालकिसलयग्रपुन्नाटवीजलाक्षाभिः ।

लेपः शीर्षे कृतो दारुणमपि हरति दारकम् ॥

धात्रीफलमारग्वधप्रवालमेलकबोजं दीप्तिश्चेत्येतै लेपो घोरमपि दारुणं शीर्षत्वग्विकारमुप्पियासमिति प्रागुक्तं निवारयतीति ॥ १३ ॥

लेओ घणचण्डासुरविसाणतणुदलणिसाहलद्दीहि ।

दारणअपमुहसिररूढचिहुररिउणो विणासेइ ॥ १४ ॥
लेपो घनचण्डासुरविपाणतनुदलनिशाहरिद्राभिः ।

दारणकप्रमुखशिरोरूढचिकुररिपून् विनाशयति ॥

    घनो मुस्ता चण्डा चोरकभेदः काष्ठगुग्गुलुरिति प्रसिद्धः, असुरः, (सुर?) विषाणं कुष्ठं, तनुदलं तमालपत्रं, निशा दारुहरिद्रा पिण्डहरिद्रेत्येतैः कृतोऽसावालेपः प्रागुक्तान् दारणप्रमुखान् सर्वाश्चिरप्ररूढानपि केशव्याधीन् विनाशयति॥१४॥

णिग्गुण्डिफ(लि)णिरूविअसिद्धं सिद्धञ्च मोरअफलेहि।

तेल्लं सिररो(अ)हरणमब्भंगजुत्तीए ॥१५॥

निर्गुण्डीफलिनीरूपिकसिद्धं सिद्धं वा मसूरकफलैः।

तैलं शिरोरोराहरणमभ्यङ्गयुक्त्या ॥

  निर्गुण्डी भूतकेशी । फलिनी लाङ्गली । रू(णो? पि)कोऽर्कवृशः एतैः पूर्वोक्तर....ष्यां विधिना सिद्धम् अथवा अपामार्गफलसिद्धं तिलतैलं शिरोरोगहरणं लेपयुक्त्या मूर्धरोगाणां समूहोत्सादनं भवतीति ॥ १५ ॥

खप्परभज्जणा वा चुण्णिएण कुट्ठेण तेल्लसहिएण ।

चिररूढरूसिआदाहकण्डुविअणाओ णासेन्ति ॥१६॥
खर्परभर्जना(द्) वा चूर्णितेन कुष्ठेन तैल(सुलिप्ते ? सहिते)न ।

चिररूढपिटकादाहकण्डुवेदना (नाशय ? नश्य)न्ति ॥

    खर्परे मृत्पात्रकपाले भृष्टं यत् कुष्ठं तेन तैलेन च सहितेन शिरोभ्यङ्गात् तज्जानां रुषकाख्यानां सूक्ष्मपिटकानां सम्बन्धी यो दाहः कण्डूश्च तत्कृता वेदना नश्यन्तीति ॥ १६ ॥

अतरुणविल्लसिरेण व धोओ गुलपाणिएण व जहिच्छं।

मूढो कि होइ सहसा विसंखलो चिहुरब्भारो ॥१७॥
अतरुणबिल्वशिरसा वा धौतो गुलपानीयेन वा यथेष्टम् ।

मूढोऽपि भवति सहसा विश्रृङ्खलश्चिकुरप्राग्भारः ॥

   अतरुणर व पववत्य (असम्पादितः भागः) बिल्वफलस्य मज्ज्ञा वा शोधितस्य गुलस्य जलेन वा अभ्यक्तः केशसमूहो जटीभूतोऽपि विविक्तो भवतीति ॥ १७ ॥

फणिवल्लीदलरसमिलिअमसिणपारअविलेविआ चेली ।

(आअर)सेइ णिवद्धा सिरम्मि पीसेसजूअसंघाओ॥१८॥
फणिवल्लीदलरसमिलितमसृणपारतविलिप्ता चीरिका।

आकर्पति निबद्धा (शिरसि निश्शेषयूकसङ्घातान् ॥)

तद्गतान् यूकाख्यान् जन्तूनाकर्षति ततो विद्वेषयतीति ॥ १८ ॥

सविलंगगन्धआसिलासिद्धं सुर(भि? भी)जलेन कडुतेल्लं ।

आजम्म णेइ खअं लिक्खासहिआउ जूअसंघाउ ॥ १९ ॥
सविलङ्गगन्धकशिलासिद्धं सुरभिजलेन कटुतैलम् ।

आजन्म नयति क्षयं लीक्षासहितान् यूकसङ्घातान् ॥

   कृमिघ्नेन सह गन्धपाषाणमनश्शिलाभ्यां गर्मक्षिप्ताभ्यां गोमूत्रेण पूर्वोक्तिशुद्धाम्बुयुक्त्या सिद्धं सम्पन्नं कटुतैलं केशाभ्यङ्गाद् यावज्जीवं सलीक्षा यूकाः क्षपयन्ति । पुनस्ता न भवन्तीत्यर्थः ॥ १९ ॥

णवधसंखचुण्णआणिहट्ठसीसअविलेविआ चिहुरा ।

ससिकिरणकन्तिधवला विहोन्ति भमरउलसच्छाआ॥
\२०॥

नवदग्धशङ्खचूर्णकनिघृष्टसीस(क)विलिप्ताश्चिकुराः।

शशिकिरणकान्तिधवला अपि भवन्ति भ्रमरकुलसच्छायाः ॥

   तत्कालं पुटपाकदग्धस्य शङ्खस्य कच्चोर्यकचूर्णकेन निघृष्टं समरसी कृतं यत् सीसकं नागं तेन लिप्ताः केशाः पलितशुक्ला अपि भ्रमरवत् कृष्णीभवन्तीति ॥ २०॥

भंगरअलोहतिहलावीअअकणवीरणीलिसमभाअं।

वहुसो कअगुलधूषं करेइ कसणाइ पलिआइ ॥ २१ ॥
भृङ्गरजोलोहत्रिफलावीजककणवीरनीलीसमभागम् ।

बहुशः कृतगुलधूषं करोनि कृष्णानि पलितानि ॥

 मार्कवशस्त्रचूर्णत्रिफला असनहयमारनीलीनां समभागा यस्मिन् तत् तथाविधं द्रव्यं बहुवारं गुलधूपेन कृताधिवासं लेपेन जराशुक्लान् कृष्णयतीति ॥ २१ ॥

माअन्दबीअतिहलाणीलीभंगरअपंकलोहेहि ।

पलिआइ कुणइ लेवो सकञ्चिओ अलिउन्दणीहाइ ॥२२॥
आम्रबीजत्रिफलानीलीभृङ्गर(जः ? स)पङ्कलोहैः ।

पलितानि करोति लेपः सकाञ्चिकोऽलिकुलनिभानि ॥

आम्रास्थिसारं त्रिफला तथा नेकराजरसः पङ्कः पद्मिनीतले कर्दम. शस्त्रचूर्णमित्येतैः काञ्चिकसंयुक्तैर्लेपो जरां नाशयतीति ॥ २२ ॥

कच्चूरतअरसामासेलेहि सम सुवट्टिआ रअणी।

रञ्जेइ धवलचिहुरे जणस्स गुलधूधिए वहुसो ॥ २३ ॥
कच्चूरतगरश्यामाशैलैः समं सुवर्तिता रजनी ।

रञ्जयति धवलचिकुरान् जनस्य गुलधूपितान् बहुशः॥

    कच्चूर कलयमिति प्रसिद्धं, तेन, तथा कुटिलं तथा प्रियङ्कः तथा शैलं शिलापुष्पम् एतैः सह सुपिष्टा हारेद्रा । किमुक्तं भवति। कच्छूरादीनां चतुर्णां समांशानां यावत् परिमाणं तावत् प्रमाणं हरिद्रा, सा बहुशो गुलधूपकृताधिवासा पलितं नाशयतीति ॥ २३ ॥

सेलुसिवाखंभरीकाअणिकलिरक्खणिम्बतेल्लेण ।

णासेइ पलिअविउडणमेक्केकं दुद्धणिरअस्स ॥ २४॥
शेलुशिवाखंभारीकाकनिकलिवृक्षनिम्बतैलानाम् ।

नस्येन पलितविघटनमेकैकं दुग्वनिरतस्य ॥

        क्षीराहारस्य सतः पुरुषस्य शेल्वादिफलानां सम्बन्धि तैलं नस्येनोपयुक्तं पलितं नाशयति । तत्र शेलुः श्लेष्मातकः । शिवा हरीतकी । खम्भारी श्रीपर्णींकाकनी गुञ्जा कलिवृक्षो विभीतकः निम्बः पिचुमन्दः एतेषामेकतमस्यापि फलसारनिर्गतेन तैलेन नस्यप्रयोगाद् उक्तफलसम्पत्तिरिति ॥ २४ ॥

समतिलकाकणिआवीअचुण्णतेल्लेण णावणं दिण्णं ।

कुणइ घणकसणकुडिलं सुसिणिद्धं कुन्तलकलावं ॥२५॥
समतिलकाकनिकाबीजचूर्णतैलेन नावनं दत्तम् ।

करोति घनकृष्णकुटिलं (सुस्निग्धं) कुन्तलकलापम् ॥

समास्तुल्यभागा यस्य तिलास्तादृशं यद् गुञ्जाफलान्तर्वर्तिसारचूर्णं तदुद्भवेन तैलेन प्रयुक्तं नस्यं चिकुरचयं सर्वं निजगुणैः संयुक्तं करोतीति ॥२५॥

कश्चिअवट्टिअपरिपक्कसेलुफलमज्जलित्ततविआहि ।

खररविअरेहि तेल्लं परिच्चुअं लोहतण्णाहि ॥२६॥

अब्भंगणासविहिणा सिहिगलणीलाइ कुणइ पलिआइ।

गलदसणसवणणासामुहणअणविआरसमणञ्च ॥ २७॥
काश्चिकवर्तितपरिपक्वशेलुफलमज्जलिप्ततप्तात् ।

खररविकरैस्तैलं परिच्युतं लोहभाण्डात् ॥

अभ्यङ्गनस्यविधिना शिखिगलनीलानि करोति पलितानि ।

गलदशनश्रवणनासामुखनयनविकारशमनं च ॥

      काञ्चिकेन आरनालेन पिष्टो योऽसौ श्लेष्मातकस्य फलस्य मज्जा सारः तेनाभ्य(क्तं ? क्तात्) शस्त्रमयाद् भाजनात् तीक्ष्णार्करश्मिाभिस्तातिाद् यत्तैलं प्रस्रवति, तेन नस्याभ्यङ्गप्रयुक्तेन मयूरकण्ठकृष्णानि पलितानि संपद्यन्ते । तथा तत् तैलं कण्ठादिविकारान् शमयतीति युगलकम् ॥ २६,२७ ॥

विहिणा सिहिसिहभङ्गरअसरससिद्धेण सुरहिसारेण ।

कअणावणाण णासन्ति सत्तरत्तेण पलिआइ ॥ २८ ॥

विधिना शिखिशिखाभृङ्गराजस्वरससिद्धेन सुरभिसारेण ।

कृतनाव(ना)नां नश्यन्ति सप्तरात्रेण पलितानि ॥

       शिखिशिखा मयूरशिखा मार्कवस्वरसे हि कल्कीकृत्य सिद्धं यत् सुरभिसारं घृतं तेन नस्यप्रयोगेण सप्तरात्रं प्रयुक्तं जरां विनाशयति । सिद्धिरत्र स्वरससिद्धतैलस्य पूर्वमुक्तो यः स (एवमि ? वे)ति ॥ २८ ॥

अइकम्मलकञ्चिअवट्टिएहि एरण्डमूलकुट्ठेहि।

पउणाडलेविआ वा सिरविअणा दूरमोसरह ॥ २९ ॥

अत्यम्लकाञ्चिकपतिंताभ्यामरेण्डमूलकृष्ठाभ्याम् ।

प्रपुन्नाटलिप्ता वा शिरोवेदना दूरमपसरति ॥

चुक्रारनालपिष्टाभ्यां गन्धर्वविषाणमूलाभ्यां शिरआर्तिर्नश्यति । अथवा एलकबीजेन पूर्वोक्तद्रव्यपिष्टेन लेपान्नश्यतीति ॥ २० ॥

तेल्लोल्लयत्वेढिअसुरपिल्लकिलिञ्चआण एक्कस्स ।

जलणादीपिअगलिआ मिमिसिमिआ हरइ सुइसूलं ॥३०॥

तैलार्द्रवस्त्रवेष्टितसुरबिल्वसूक्ष्मदारुणोरेकस्य ।

ज्व(लिता? लना) दीपितगलिता सिमिसिमा हरति श्रुतिशूलम् ॥

    तिलतैलेनार्द्रीकृतं यद् वस्त्रं तेन वेष्टितयोर्देवदारुमालूरसूक्ष्मकाष्ठयोर्मध्यादेकत(म?र)स्य सम्बन्धिनी अग्निप्रज्वलिता सती गलिता प्रस्रुता यासौ सिमिसिमाशब्दोपलक्षिता स्नेहकणिका सा कर्णान्त प्रविष्टा कर्णरुजं हरतीति ॥ ३० ॥

हिङ्गुवआमिप्तिसिन्धवणाअरसुरदारुकुट्टपरिपक्कं ।

गोमअरसेण तेल्लं समत्थसुइरोअविद्दवणं ॥ ३१ ॥

हिङ्गवचामिसिसैन्धवनागरसुरदारुकुष्ठपरिपक्वम् ।

गोमयरसेन तैलं समस्तश्रुतिरोग(निर्मलनम् ?) ॥

    राम(ठाश्व ? ठोग्र)गन्धाभ्यां तथा मिस्या शतपुष्पया लवणेन शुण्ठ्या देवदारुणा वा चव्येन च गोशकृद्रसकल्कितेन सिद्धं तैलं श्रवणगदविनाशनम् । पचनीवीधरत्र स्वरससाध्यतैलवदिति ॥ ३१ ॥

रूविअदलवेट्ठिअजलणसिण्णलसुणंबु सवणसूलहरं ।

सवणाण भरणविहिणा गोसे णिहुडुंगितोयं वा॥३२॥
रूपिकादलवेष्टितज्वलनस्विन्नलशुनाम्बु श्रवणशूलहरम् ।

श्रवणानां भरणविधिना प्रभाते निहुडुङ्गितोयं वा ॥

    अकपल्ल(वरस ? वे) न वेष्टितं यद् रसोनमूलं ज्वलने मन्दाग्नौ कुकूले स्विन्नं द्रवो निष्पीडनान्निष्क्रान्तः तेन कर्णपूरणात् श्रवणशूलहरः । अथवा सुधावृक्षजलं श्रवणपूरणविधिना शूलमपहरति । सुधावृक्षस्य यावद(रुण)स्योदयो न जातस्तावद्यज्जलं स्रवति, तस्यायं प्रयोग इति ॥ ३२॥

ओस(रह) ससिन्धवमीसमुत्तपरिपूरिआण सवणाण ।

विअलन्तपूअविअणातुराण दुक्खं मुहुत्तेण ॥ ३३ ॥
अपसरति (स)सैन्धवमेषमूत्रपरिपूरितयोः श्रवणयोः ।

विगलत्पूयवेदनातुरयोः दुःखं मुहूर्तेन ॥

   मेषशब्देनात्र छागो विवक्षित इत्याचार्यास्तेन सैन्धवयुक्तलवणेन छागमूत्रेण कृतपूरणयोः कर्णयोः स्यन्दमानपूतिजनितव्यथयोरपि घटिकाद्वयमात्रपूरणात् शूलं निवर्तत इति ॥ ३३ ॥

मालइदलकुसुमरसेहि पूरिअं गोजलेण भरिअंपि ।

दूरेण परिहरिज्जइ सवणजुअं पूइरोएण ॥ ३४ ॥

मालतीदलकुसुमरसाभ्यां पूरितं गोजलेन भरितं वा ।

दूरेण परिह्वियते श्रवणयुगं पूतिरोगेण ॥

     सुमनःपल्लवाभ्यां (कुसुम)रसेन च माक्षिकेण च अथवा गोमूत्रेणैव च पूरितं कर्णयुग्मं कर्णस्रावव्याधिना वर्ज्यते । स तस्य पुरुषस्य पुनर्न भवतीत्यर्थः ॥ ३४ ॥

माहिसणवणीअजुअं सत्ताहं धण्णरासिपरिवसिअं।

णवमुसलिकन्दचुण्णं विद्धिअरं कण्णपालीण ॥ ३५ ॥

माहिषनवनीतयुतं सप्ताहं धान्यराशिपर्युषितम् ।

नवमुसलीकन्दचूर्णं वृद्धिकरं कर्णपालीनाम् ॥

    नवायाः प्रत्यग्राया मुसल्याः क्षुरिकाया मूलस्य चूर्णं महिषीनवनीतेन संयुक्तं सप्ताहोरात्रं व्रीहिकूटमध्ये स्थापितं तदभ्यङ्गाभ्यासात् कर्णपाली वर्धते इति ॥ ३५॥

गुञ्जाफलचुण्णम्प्रीसजाअमाहिसपउब्भवं कुणइ।

घअमणुदिणमब्भंगेण कण्णविद्धिं जहिच्छाई ॥३६ ॥
गुञ्जाफलचूर्णोन्मिश्रितजातमाहिषपयोद्भवं करोति ।

घृतमनुदिनमभ्यङ्गेन कर्णवृद्धिं यथेच्छया ॥

    रक्तिकाफलसारचूर्णेन सहितं यन्माहिषं पयः क्वथितं ततो दधिभूतादुत्पन्नं यन्नवनीतं तत्सिद्धं यद् घृतं तदभ्यङ्गाभ्यासाद् यथारुचि श्रोत्रपालीवृद्धिं करोति ॥ ३६ ॥

विसगब्भत्तित्तालाउतेल्लमट्ठउणखरजलविपक्कं ।

एक्कब्भंगेण विकुणइ कण्णपालीउ विउलाउ ॥ ३७॥

विषगर्भतिक्तालाबुतैलमष्टगुणखरजलविपक्वम् ।

एकाभ्यङ्गेनापि करोति कर्णपालीर्विपुलाः ॥

कटुतुम्ब्या बीजोद्भूतं तैलमष्टभागमात्रं विषसंयुक्तं तैलादष्टगुणेन रासभमूत्रेण पक्वं सकृदभ्यङ्गात् कर्णपालीवृद्धिं करोतीति ॥ ३७॥

सिअसरिसववुहईफलरोहिअझसिपित्तसुरभिपिसि
[एहि।

होइ थणसवणविद्धी माहिसणंवणीअसहिएहि ॥३८॥

सितसर्षपबृहतीफलरोहितझषपित्तगोपिशितैः ।

भवति स्तनश्रवणवृद्धिर्माहिषनवनीतसहितैः ॥

    गौरसिद्धार्थकण्टकालीफलाभ्यां सह रोहिताख्यस्य मत्स्यस्य पित्तं रोहिषीद्रव्यं चैताभ्यां शुष्कचूर्णीकृताभ्यां तथा माहिषनवनीतेन युक्ताभ्यामभ्यङ्गाभ्यां कर्णकुचवृद्धिर्भवतीति ॥ ३८॥

कुसुमरसतअरमोरअसिअसरिसवबुहइपिप्पलिति
[लेहि।

हयगन्धसिन्धवमरीअकुट्ठजवमासमीसेहि ॥ ३९ ॥

उम्मलअमिन्नमो सवणपाणिथणलिंगबाहुसिहराण ।

कुणइ सई किरमाणं विद्धिं णिउणो गुणाण व्व ॥४०॥

कुसुमरसतगरमयूरकसितसर्षपबृहतीपिप्पलीतिलैः।

हयगन्धसैन्धवमरीचकुष्ठयवमाषमिश्रैः ॥

उन्मलनमिदं श्रवणपाणिस्तनलिङ्गबाहुशिखराणाम् ॥

करोति सदा क्रियमाणं वृद्धिं निपुणो गुणानामिव ।

      माक्षिकं तथा कुटिलं तथा अपामार्गः तथा गौरसिद्धार्थः तथा कण्टकाली तथा कणा तथा तिलाः तथा अश्वगन्धा तथा लवणं तथा मरिचं तथा व्याधिस्तथयवास्तथा माषाश्चेत्येतैः समभागैः कृतमुद्वर्तनं कर्णकरकुचध्वजस्कन्धानां सदाभ्यस्यमा(नैः? नं) वृद्धिं करोति गुणानां श्रुतानामभियुक्तो यथेति युगलकम् ॥ ३९, ४०॥

भल्लाअअबुहईफललालिमछल्लीहि(ता? का)ढिअं

[कुणइ।

सरिसवतेल्लं लिंगं जणस्स हयलिंगपडिरूवं ॥ ४१॥

भल्लातकबृहतीफलडाडिमत्वक्क्वथितं करोति ।

सर्षपतैलं लिङ्ग जनस्य हयलिङ्गप्रतिरूपम् ॥

 अरुष्करकण्टकारीफल(दाडिम)त्वक्साधितं यत् पूर्वोक्तशुद्धाम्बुयुक्त्या सम्पादितं सिद्धार्थकतैलं तल्लोकस्याभ्यासात् महासाधनतां करोतीति ॥ ४१ ॥

पुडडढ्ढपुडइणीदलभल्लाअअसलिलकह्णलोणाण ।

भूईअ कालपरिणअवुहईफलवारिपिट्ठाण ॥ ४२ ॥

महिसीपुरिसुम्मलिअं णरसाहणमणुविले होइ ।

मुसलव्व मम्महाउरजुअईजणदप्पविद्दवणं ॥ ४३ ॥

पुट(पाक ?)दग्धपुटकिनी(दल)भल्लातकसलिलकृष्णलवणानाम् ।

भूत्या कालपर्युषितबृहतीफलवारिपिष्टानाम् ॥

महिषीपुरीषोन्मलितं नरसाधनमनुलिप्तं भवति ।

मुसलमिव मन्मथातुरयुवतिजनदर्पविद्रवणम् ॥

   पुटपाकदग्धस्य (पुटकिनीदलस्य) तथा अरुष्करस्य तथा सलिलस्य वालकस्य तथा कृष्णलवणस्यार्कस्य चेत्येतेषां भस्मना सुपक्वकण्टकारीफलरसमिश्रितेन प्रागिव शूलाक्षशकृतोद्वर्तितमभ्यङ्गानन्तरं वराङ्गं महत्त्वादुक्तकार्यक्षमं भवतीति युगलकम् ॥ ४२, ४३ ॥

जलसूअरोहिणीपिसिअचुण्णमाहिसघडम्मलिज्जन्तं ।

लिंगं तरुणतुरंगमलिंगसमाणं समुव्वहइ॥ ४४ ॥
जलशूकरोहिणीपिशितचूर्णमाहिषघृतोन्मल्यमानम् ।

लिङ्गं तरुणतुरङ्गमलिङ्गप्रमाणमुद्वहति ॥

शैवालेन तथा ताम्रापलस्य शुष्कस्य चूर्णेन महिषीघृतेन चोद्वर्त्यमानं लिङ्गमुक्तप्रमाणं भवतीति ॥ ४४ ॥

वुहईफलभल्ला अअणलिणीदलसिन्धुसलिलसूएहि ।

माहिसणवणीअकरंभिएहि हयपरिमलाच्छन्दो ॥४५॥

सत्ताहमेत्तवसिएहि सेरिहीकानकअदुम्मलअं(?)।

लित्तं इमेहि जाअइ लहुइअखरसाहणं लिंगं ॥४६ ॥
पूर्वं महिषीनवनीतकृतोन्मलनम् (?) ।

लिप्तमेतैर्जायते लघूकृतखरसाधनकं लिङ्गम् ॥

पूर्वं महिषीशकृता गाढमुद्वर्तितं पश्चादेतैः सर्पिरश्वगन्धाया मूलमुत्कर्णिन अन्तर्निहितैः (?) पश्चात् सप्ताहमात्रपर्युषितमिति युगलकम् ॥ ४५,४६॥

कणअरसमसिणवट्टिअहयगन्धाकन्दमीसिअं थविअं।

माहिसणवणीअम्मि विगअविअधुत्तीरफलम्मि॥४७॥

गोमअगाढुव्वट्टिअमेएण विलेविअं तिरत्तेण ।

होइ हयलिंगसरिसं लिंगं कढिणंगणादइअं॥ ४८ ॥

कनक(रस)मसृणवर्तितहयगन्धाकन्दमिश्रितं पर्युषितम् ।

माहिषनवनीतं विगतबीजधुर्धूरकफले ॥

गोमयगाढोद्वर्तितमेतेन विलिप्तं त्रिरात्रम् ।

भवति हयलिङ्गसदृशं लिङ्गं कठिनाङ्गनादयितम् ॥

  पूर्वं गोशकृता दृढोन्मलितं साधनं पश्चादेतेन द्रव्येण त्रिरात्रं लिप्तमुक्तरूपं भवति । केन द्रव्येण। मातुलरसेन श्लक्ष्णपिष्टेनाश्वगन्धाकन्देन मिश्रितं महिषीनवनीतमुद्बीजस्य हरदयिताफलस्यान्तर्निहितमहोरात्रमेकं पर्युषितं कृत्वानेनेति युगलकम् ॥ ४७, ४८ ॥

धवलकणवीरकिसलअछेउब्भवबहलसलिलसंपुण्णं ।

णअणजुअंणीरुज्जइ सहसच्चिअतक्खणुक्कुविअं॥४९॥
धवलकणवीरकिसलयच्छेदोद्भवबहलसलिलसम्पूर्णम् ।

नयनयुगं नीरुजीभवति सहसैव तत्क्षणोत्कुपितम् ॥

श्वेतहयमारबालपल्लवत्रोटनादुद्भवो यस्य तादृशेन बहुना जलेन तद्रसेनेत्यर्थः । सम्पूर्णं भरितं तत्कालं विकृतं नेत्रयुग्मं तत्क्षणमेव विगतव्यथं भवति ॥ ४९॥

मोरअमूलं तम्ममअभाअणे थोअसिन्धवोम्मीसं ।

मन्थणिहित्तं मरणेण हरइ णवलोअणुक्कोवं ॥ ५० ॥
मयूरकमूलं ताम्रमयभाजने स्तोकसैन्धवोन्मिश्रम् ।

मस्तुनिघृष्टं भरणेन हरति नवलोचनोत्कोपम् ॥

अपामार्गमूलं ताम्रभाण्डे ईषत्सैन्धवयुक्तं दधिमण्डेन निघृष्टं कृत्वा तेन पूरितयोर्नेत्रयोस्तरुणो विकारस्तत्कालमेव शाम्यतीति ॥ ५० ॥

कण्णणिविट्ठासहएविनूलिआ हरइ लोअणुक्कोवं ।

भरणे (अ?)ण सिग्गुपल्ल वरसो व्व महुणा समुम्मि
[स्सो ॥५१॥

कर्णनिविष्टसहदेवीमूलिका हरति लोचनोत्कोपम् ।

भरणेन शिग्रुपल्लवरसो वा मधुना समुन्मिश्रः॥

    सहदेव्या दण्डोत्पलाया मूलं श्रोत्रपालीभृतं तत्क्षणात् कुपितयोर्नेत्रयोर्विकारं संशमयति । अथ सौभाञ्जनकिसलयस्यन्दो माक्षिकसहितो नेत्रपूरणेन पूर्वोक्तं कार्यं करोतीति ॥ ५१ ॥

अणुदिअसं गोसे लोअणाइ जो धुवइ तीणि वाराओ।

विमलजलभरिअवअणो सो मुच्चइ णअणरोएहि ॥ ५२॥
अनुदिवसं प्रभाते लोचने यो धावति त्रीन् वारान् ।

विमलजलभरितवदनः स मुच्यते नयनरोगैः॥

       सुप्रभाते शिशिरनिर्मलस्वादुजलपूरितास्यः अञ्जलित्रयैः प्रतिदिवसं लोचने प्रक्षालयन् सर्वनेत्ररोगैः न कदाचिद् बाध्यते । स्वस्थवृत्तस्य च नित्याभ्यासार्थमयं प्रयोगो न तु विकृतनेत्रस्य इति ॥ ५२ ॥

हरइ तुरंगमजलघट्ठमसिणकरवल्लिआजडा णीलिं ।

अञ्जणजुत्तीए णरा(ण) णीअमेत्तिव्व माहप्पं ॥ ५३॥

हरति तुरङ्गमजलघृष्टमसृणकारवल्लीजटा नीलिकाम् ।

अञ्जनयुक्त्या नराणां नीचमैत्रीव माहात्म्यम् ॥

     अश्वप्रस्रवेण सूक्ष्मपिष्टा कारवल्ल्याख्या या ओषधी निष्पर्याया या, (?) तस्या यन्मूलम् अञ्जनयोगेनोपयुक्तं नीलिकां पटलाख्यं नेत्ररोगं हरति । अन्धनीलिकाशब्दोऽपि पटलपर्यायः । यथा निकृष्टेन सह सौहार्दं गुणगरिमाणमिति ॥ ५३॥

पसुसलिलगाढभाविअसुमसिणसुरदारुरअभरिज्जन्तं।

विल्लोमूलिअपह्मं वि पह्मलं होइ णअणजुअं ॥ ५४॥

पशु(पति?)सलिलगाढभावितमसृणसुरदारुरजोभ्रयमाणम् ।

(वैमल्यो? पिल्लो)न्मूलितपक्ष्मा(पि) पक्ष्मलं भवति (नयनयुगम् )।

छागमूत्रेण पुनःपुनर्दत्तभावनं सुसूक्ष्मं यद्देवदारुकाष्ठचूर्णं तेन पूर्यमाणं लोचनयुगलं चिरकालपिल्लत्वात् पतितपत्रमपि पुनर्जातैः पत्रैः शोभितं भवतीति ॥ ५४॥

गअणजलपिट्ठपिप्पलिकअअवआमलअ(अ)रअणिणि
[म्मिआ।

वत्ती क्खपअइणीसे(स)णअणरोए पउज्जन्ती ॥ ५५ ॥

गगनजलपिष्टपिप्पलिकतकवचामलय(ज)रजनिनिर्मिता ।

वर्तिः क्षपयति निश्शेषनयनरोगान् प्रयुज्यमाना ॥

    अवश्यायपानीयेन चूर्णीकृतया मागधिकया तथा कतकस्याच्छस्य फलेन तथोग्रगन्धया तथा रक्तचन्दनेन तथा पिण्डहरिद्रयेत्येतैः समभागैः सम्पादिता वर्तिः सर्वनेत्रामयानुपयुक्ता (भव ? ह)न्तीति ॥ ५५ ॥

तरुसण्ठिअणहणिब्भिण्णपरिणआमलअसलि(ल ?लेण)।

भरिआण लोअणाण संमासक्कन्ति णीसेसदुःखाई॥५६॥

तरुसंस्थितनखनिर्भिन्नपरिणतामलकसलि(ल? लेन)।

भरितयोः (लोचनयोः) संसर्पन्ति निश्शेषदुःखानि ॥

झटिति वृक्षस्थितस्यैव कर(ज)विदारितस्य सुपक्वस्य धात्रीफलस्य रसेन पूरितयोर्नेत्रयोः सर्वरुजोऽपसर्पन्तीति ॥ ५६ ॥

सिअतरुणमूलपल्लवसाहिअपसुदुद्धसेअजुत्तीए ।

ओसरइ पवणमूलं णअणाण मुहुत्तमत्तेण ॥ ५७ ॥

सिततरुणमूलपल्लवसाधितपशुदुग्धसेकयुक्त्या ।

अपसर(न्ति? ति) पवनशूलं नयनयोर्मुहूर्तमात्रेण ॥

सितपुष्पोपलाक्षितं यत् तरुणमेरण्डं तस्य मूलं पत्राणि च तैः क्वथितं यदजाक्षीरं तत्सेकयुक्त्या अभ्युक्षणप्रयोगेण नेत्रयोर्वायुजं शूलमल्पेन कालेनशाम्यति । क्षीरस्य साधनयुक्तिः - एरण्डमूलपत्रयोः पलं पानीयपलैः षोडशभिः क्वाथयित्वा चतुर्भागो (असम्पादितः भागः )पानीयं कृत्वा तत्र क्षीरपलानि चत्वारि मिश्रीकृत्य पुनः क्वाथयित्वा क्षीरपलान्येव चत्वारि ग्राह्याणीति ॥ ५७ ॥

कमपरिवढ्ढिअचन्दणसिन्धवपत्थापलासखइरेहि।

अञ्जणमिणमो पडलन्धकुसुमणीलिहरं भणिअं॥५८॥

क्रमपरिवर्धितचन्दनसैन्धवपथ्यापलाशनिर्यासैः ।

अञ्जनमिदं पटलान्धकुसुमनीलिहरं भणितम् ॥

    उत्तरोत्तरभागवृद्धया चन्दनादिभिः साधितमञ्जनं पटलादीन् नेत्ररोगान् नाशयतीति सम्बन्धः । तत्र रक्तचन्दनं श्वेतमेव लवगं हरीतकी किंशुकनिर्यास इत्येतैरेकैकांशवृद्ध्या श्लक्ष्णचूर्णितैरुक्तफलसिद्धिः पटलार्दः पुष्पितार्दः । शेषौ प्रसिद्धाविति ॥ ५८ ॥

वासाहुसेअगिरिअण्णिआण मूलाइ जवसणाहाइं।

जलवट्टिआइ णोलेन्ति फुल्लअं लोअणगआइ ॥ ५९॥

वर्षाभूश्वेतगिरिकर्णिकयोर्मूलानि यवसनाथानि ।

जलवर्तितानि लुडन्ति पुष्पकं लोचनगतानि ॥

    वर्षाभूः पुनर्नवा श्वेतगिरिकर्णिका शुक्लकटभी तयोर्मूले सूक्ष्मयवचूर्णयुक्ते सलिलपिष्टे नेत्रन्यस्ते पुप्पाख्यं तद्रोगं निवारयति । एकैकमनयोः कार्यकरणमिति ॥ ५९॥

किंसुअरसभाविअकरञ्जतरुबीअविरइआ वत्ती

चिरजाअं वि पउत्ता फुल्अमइरा समुप्पसइ ॥ ६० ॥

किंशुकरस(परि ?)भावितकरञ्जतरुबीजविरचिता वर्तिः ।

चिरजातमपि प्रयुक्ता पुष्पकमचिरात् समुत्पुंसयति ॥

पलाशनिर्यासेन मिश्रितं यत् करञ्जवीजं करञ्जस्य नक्तमालस्य बीजानां चूर्णं तन्निर्मिता वर्तिः बहुकालोत्पन्नमपि पुष्पाख्यं नेत्ररोगं शीघ्रमञ्जनेनापसारयति ॥ ६ ॥

थण्णेण मसिणपत्थरघट्टाइ विभीअअस्प्त मज्जाए।

णासइ फुल्लअमइरा णिसामुहे अञ्जिअच्छस्स ॥१॥

स्तन्येन मसृणप्रस्तरघृष्टया विभीतकस्य मज्जया।

नश्यति पुष्पमचिरान्निशामुखे अञ्जिताक्षस्य ॥

   स्त्रीक्षीरेण सुश्लक्ष्णदृढपाषाणपिष्टो यः कलितरुफलस्य मज्जासारस्तेन दत्ताञ्जननेत्रस्य पुष्पाख्यरोगो नश्यतीति ॥ ६१ ॥

महुमीसिअकण्णमलञ्चिपहि णासइ जणस्स णअणेहि ।

णत्तन्धं कडुआलअमसिणमसिअञ्जणेण व जहिच्छं ॥१२॥
मधुमिश्रितकर्णमलाञ्जिताभ्यां(नश्यति जनस्य नयनाभ्याम् ।)

नक्तान्ध्यं लघुमत्स्यमसृणमष्यञ्जनेन वा यथेच्छम् ॥

        माक्षिकभावितेन स्वश्रवणगूथेन दत्ताञ्जनाभ्यां नेत्राभ्यां राञ्यन्धता निवर्तते । अथवा सूक्ष्ममत्स्यं पुटपाकदग्धं कृत्वा तत्कायजेन मषीचूर्णेन माक्षिकमिश्रेणैवाञ्जनात् । यथेच्छमिति पूर्वप्रयोगापेक्षया बोद्धव्यमिति ॥ ६२ ॥

पसुसलिलघट्ठगुञ्जामूलञ्जिअलोअणस्स तिमिराइ ।

जलघठ्ठजलहरञ्जिअणअणस्स व झत्ति णासन्ति ॥६॥
पशुसलिलघृष्टगुञ्जामूलाञ्जितलोचनस्य तिमिराणि ।

जलघृष्टजलधराञ्जितनयनस्य वा झटिति नश्यन्ति ॥

    तिमिराख्या नानानिदा(ने? ना) नेत्ररोगाः छागमूत्रपिष्टेन रक्तिकामूलेन दत्ताञ्जनस्य निवर्तन्ते । अथवा पानीयघृष्टेन मुस्तेन कृ(त्वा ! ता)ञ्जनस्य अचिरेणैव विनश्यन्तीति ॥ ६३ ॥

तण्डुलधुअणसुवट्टिअपड़गालिअदोणफुलिलमूलेण ।

विउडिज्जइ पडलं लोअणाण णासेइ दिण्णेण ॥ ६४ ॥
तण्डुलधावनसुवर्तितपटगालितद्रोणपुष्पिकामूलेन ।

विहन्यते पटलं लोचनयोर्नस्ये दत्तेन ॥

    द्रोणपुष्पिका कुसुम्भयोनिस्तन्मूलेन तण्डुलक्षालनजलसू(क्ष्मेण!क्ष्म)पिष्टेन पटगालितेन वस्त्रपूतेन नस्यप्रयुक्तेन पटलाख्यो नेत्रव्याधिनश्यतीति॥६॥

सुप्पाडणीलघट्ठा अहवा कणएण रुप्पएणं व ।

णासह अञ्जणगुलिआ गिरिणो काणच्छएणं व ॥६५॥
शूर्पाटव्या घृष्टा अथवा कनकेन वा रूप्येण वा ।

नश्यत्यञ्जनगुलिका गिरेः काणाक्षकेण वा ॥

अञ्जनगुलिका अञ्जनपिटकाख्यो नेत्रव्याधिः । शूर्पस्य अटव्या भ्रान्तेन सुवर्णेन रूप्येण वा निघृष्टा सा विनश्यति अथवा पर्वतकटाख्यैर्निरीक्षणेनेति ॥ ६५ ॥

अंकोल्लाक्कजडाणं एक्कं ओहरइ कामलावाहिं।

तण्डुलजलेण णावणमध्घाअं जालिणिफलं वा ॥६६॥
अङ्कोलार्कजटयोरेकं हरति कामिलाव्याधिम् ।

तण्डुलजलेन नावनमाघ्रातं जालिनीफलं वा ॥

  अङ्कोलस्य चिरिबिल्वस्य वृक्षस्य रूषकस्य ये जटे मूले तयोर्मध्यादेकं तण्डुलधावननिघृष्टं नस्येनोपयुक्तं कामिलां शमयति । अथवा जालिन्या जीमूतकाख्यस्य ओषधिविशेषस्य सम्बन्धि फलं मर्दयित्वाघ्रातं पूर्वोक्तं कार्यं करीतीति ॥ ६६ ॥

जालिणिफलपरिभाविअंबुणामणं हरइ कामलावाहिं ।

सिसिरजलमासिणवट्टिअकुमारिकन्देण व विइण्णं
[॥ ६७॥

जालिनीफलपर्युषिताम्बुनावनं हरति कामिलाव्याधिम् ।

शिशिरजलमसृणवर्तितकुमारिकन्देन वा वितीर्णम् ॥

    देवताल्याः फलस्यान्तः पर्युषितं यज्जलं तेन दत्तं नस्यं कामिलारोगं शमयति । अथवा शीतजलसुसूक्ष्मपिष्टेन कुमार्या अफलायाः कर्कोट्या मूलेन दत्तं नस्यमुक्तफलं करोतीति ॥ ६७ ॥

ओसरइ दोणफुल्लीरसरञ्जिअलोअणारविन्दस्स।

हिङ्गुविहिअञ्जणस्स व दारुणमवि कामिलादुःखं ॥ ६८॥
अपंसरति द्रोणपुष्पिकारसरञ्जितलोचनारविन्दस्य ।

हिङ्गुषिहिताञ्जनस्य वा दारुणमपि कामिलादुःखम् ॥

द्रोणपुष्पिकारसेन दत्ताञ्जननेत्रस्य अथवा रामठेनाञ्जिताक्षस्य तीव्रापि कामिलावेदनापसरतीति ॥ ६८॥

पच्छालत्तअडाडिमपसूअदुव्वारसो णिवारेइ ।

णाराविहिणा खुंखुणअसोणिभ सइपअट्टं पि ॥ ६९ ॥

पथ्यालक्तकडाडिमप्रसूनटूर्वारसो निवारयति ।
…………………………………………………….

तत्रायं विशेषः । डाडिमपुप्पदूर्वारस वेकैकं नस्येन प्रयुक्तावुक्तकार्यकरौ । हरीतकीलाक्षारसावित्येकम् । गताभ्यां द्वाभ्यां रसाभ्यां सहितौ कार्यकरौ । चत्वार्यपि द्रव्याणि सहसा प्रयुक्तान्युक्तकार्यकराणीति ॥ ६९ ॥

परिवसिअसलिलवट्टिअक डुहुञ्चकन्दणासेण ।

णासरिणाउ णासं पच्चन्ति कअं व अउलीण ॥ ७० ॥

पर्युपितसलिलवर्तितकडु(हु)म्वीकन्दनस्येन ।

नासार्शासि नाशं व्रजन्ति कृतमिवाकुलीनेन ॥

   अहोरात्रस्थापितेन जलेन पिष्टं यत् परिपक्वायाः कडुहुम्ब्या निष्पर्याया (या) मूलेन नस्योपयुक्तेन घ्राणविवरोत्पन्ना अनामिका नश्यन्ति उपकारो दुर्जन इवेति । फलाविसंवादनार्थमुपमानमिति ॥ ७० ॥

मञ्जिट्ठातुत्थअकमलसालिजीवन्तिदारुरअणीहि ।

सिद्धं सदुद्धमहरोपसग्गविणिवारणं मअणं ॥ ७१ ॥
मञ्जिष्ठातुत्थककमलशालिजीवन्तीदारुरजनीभिः ।

सिद्धं सदुग्धमधरोपसर्ग(वि)निवारणं मदनम् ॥

     मदनं सिक्थकं दुग्धेन सह मञ्जिष्ठया मित्रवल्या तथा तुत्थकेन मयूरग्रीवेण किटिभाख्येन कार्परिकेनामृतासङ्गेन वा तथा कमलशालिना तथा जीवन्त्या जीवनीयया तथा दारुहरिद्रया एतैश्चूर्णितैः समांशैः सम्पन्नमोष्ठस्फुटनादिदोषनिवारणम् । साधनं त्वस्य क्षीर क्वाथयित्वा तन्मध्ये सिक्थकं गालयित्वा मञ्जिष्ठादिचूर्णकं क्षिप्त्वा तेनाधरावुपलिम्पेदिति ॥ ७१ ॥

सज्जरसकणअगेरिअफाणिअघअतेल्लसेन्धुसञ्जुत्तं ।

सिद्धं सित्थअमहरफ्फुडिओच्छडिआइवणहरणं ॥७२॥
सर्जरसकनकगैरिकफाणितघृततैलसैन्धवैर्युक्तम् ।

सिद्धं सिक्थकमधरस्फुटितोच्छटितव्रणशमनम् ॥

      मदनं सिद्धं सिक्थकं गालितं सदुक्तं कार्य करोतीति । कथं गालितं गलया सुवर्णगैरिकेण तथा गुडक्वाथाप्रकल्केन फाणिताख्येन तथा गव्यघृततैलाभ्यां लवणेन च संयुक्तम् । अयं तु विशेषः । प्रथमं घृततैले क्वाथयित्वारालादिचूर्णं क्षिपेत् तेन लिप्तयोरोष्ठयोः पिष्टादिवशात् स्फुटितयोस्तथा तच्चटितयोरुद्गतत्वचोर्यानि क्षतानि तानि नश्यन्तीति ॥ ७२ ॥

तण्डुलजलेण पिठ्ठं काअंबरिआइ मूलप्रइभसिणं ।

पीअं वअणपअट्टं खणेण रुहिरं विणासेइ ॥ ७३ ॥
तण्डुलजलेन पिष्टं काकोदुम्वरिकाया मूलमतिमसृणम् ।

पीतं वदनप्रवृत्तं क्षणेन रुधिरं विनाशयति ॥

काकोदुम्बरिका फल्लूः तन्मूलं तण्डुलधावनजलेन पिष्टं पीतं सन्मुखप्रवृत्तं दन्तस्रावादि रक्तं शमयतीति ॥ ७३ ॥

चव्विअधरिएहि मुहे णासइ जाईदलेहि मुहरोओ।

केसरवीएहि पुणो चलिआ दन्ता थिरा होन्ति ॥ ७४ ॥
चर्वितधृतैर्मुखे(न?) नश्यति जातीदलैर्मुखरोगः।

केसरबीजैः पुनश्चलिता दन्ता स्थिरा भवन्ति ॥

  सुमनःपल्लवैः पूर्वं चर्वितैस्ततः आस्याभ्यन्तरे धृतैः आस्यरोगो निवर्तते । वकुलपुप्पफलस्य बीजैः पूर्ववत् कृतैः शिथिलाः सन्तो दशना बद्धमूला भवन्तीति ॥ ७४ ॥

घणकुट्ठेलाधणिअअलट्टिमहुएलावालुआकबलो।

वअणाइ पूइगन्धं हरइ सुरालसुणगन्धश्च ॥ ७५ ॥
घनकुष्ठैलाधान्यकयष्टिमध्वेलावालुककबलः।

वदनात् पूतिगन्धं हरति सुरालशुनगन्धं च ॥

     मुस्ताकुष्ठतुटिधान्यकफलैस्तथैलावालुकेन हरिवालुकेन च एतैः कृतः कबलः आस्यान्तरसञ्चार्यमाणद्रव्यापीड आस्यात् सहजदुर्ग(न्ध !न्धि)त्वं तथा पीतस्य सुरादेरासवस्य तथा भुक्तस्य लशुनादेः कर्कटगन्धस्य द्रव्यस्य सम्बन्धिनः दुरामोदमपसारयतीति ॥ ७५ ॥

तंबाजलगाढुक्काढिआओ मसिचिहुरकुट्ठमिलिआओ।

णासन्ति वअणदोसं सेविज्जन्तीओ पच्छाओ ॥७६॥

ताम्राजलगाढत्क्वथिता मिसिचिहुग्कुष्ठमिलिताः ।

नाशयन्ति वदनदोषं सेव्यमानाः पथ्याः॥

हरीतक्योऽभ्यासेनोपयुज्यमाना दौर्गन्ध्याद्यास्यदोषं निवारयन्ति । कीदृश्यः प्रथमं गोमूत्रेण गाढं घनत्वापत्तिपर्यन्तं कृतक्वाथाः पश्चात् शतपुप्पावालुकबाष्पचूर्णेन मिश्रिताः सत्यः उपयुक्ता इति ॥ ७६ ॥

जाईफलकोसकुवलअवरंगमरुवअविणिम्मआ हरह।

घोरं(वि)पूइगन्धं मुहविवरपरिट्ठिआ गुलिआ ॥ ७७ ॥

जातीफलकोशकुवलयवराङ्गमरुवकविनिर्मिता हरति ।

घोरमपि(हरति ?)पूतिगन्धं मुखविवरपरिष्ठिता गुलिका ॥

     एतैर्द्रव्यैः सम्पादिता गुलिकास्यकुहरस्था दुर्निवारमपि तद्दुर्गन्धमपोहति । कैर्द्रव्यौर्निर्मिता जातीफलं प्रसिद्धम् , तस्य मज्जा, तथा कोशो जातिपत्रिका कुवलयं कुष्ठं, वराङ्गं त्वक्, मरुवकम् फणिज्जकम् इत्येतैः समांशैजलवर्तितैरिति । यत्र गुलिकावलेहत्वाद्यापादनया विशिष्टद्रवद्रव्यं नोक्तं तत्र सामान्यमेव पानीयं ग्राह्यमिति सर्वत्र सिद्धिः ॥ ७७ ॥

विल्डेइ पूइगन्धं मुहरोअं हरइ खयमणुदिअहं ।

दन्तहणन्तेल्लजुअं कडुअन्तित्तं कसाअं व ॥ ७८ ॥

विघटयति पूतिगन्धं मुखरोगं हरति क्षयमनुदिवसम् ।

दन्तधावनं तैलयुतं कटु(कं) तिक्तं कषायश्च ॥

दन्तकाष्ठं कटुतिक्तकषायाणां रसानामन्यतमरसयुक्तं तैलसिक्ताग्रं नित्यमभ्यस्यमानमास्यदौर्गन्ध्यं तद्व्याध्यन्तराणि च शमयतीति ॥ ७८ ॥

तंबोलतिव्वचुण्णअअन्तोडढ्ढे मुहभ्मि गण्डूसो।

तेल्लेण कञ्चिएण व धरिओ वेअणं विणासेइ॥७९॥
ताम्बूलतीव्रचूर्णकान्तर्दग्धे मुखे गण्डूषः ।

तैलेन काश्चिकेन वा धृतो वेदनां विनाशयति ॥

अतिखरेण ताम्बूलचूर्णरागेण दग्धस्यास्यस्य या व्यथा भवति तैलेनारनालेन वा कृतो गण्डूषस्तां शमयतीति ॥ ७९ ॥

जाइदलेलापिप्पालिलाआमहुमाउलुंगदललेहो।

किण्णरसममहुरसरं कुणइ णरं सइ पउज्जन्तो॥ ८॥
जातिदलैलापिप्पलिलाजामधुमातुलुङ्गदललेहः।

किन्नरसममधुरस्वरं करोति नरं सदा प्रयुज्यमानः॥

एतैर्द्रव्यैः कृतो लेहोऽवलेह्यद्रव्यं नित्यं प्राग्भक्तगमनेनाभ्यस्यमानं किम्पुरुषतुल्यश्राव्यध्वनिं पुरुषं करोति । कैर्द्रव्यैः कृतो तुट्या तथा मागधिकया (जातीदलैः) लाजैस्तथा माक्षिकेण तथा मातुलुङ्गवृक्षस्य पत्रैः तत्र माक्षिकमवलेहस्य द्रवद्रव्यमिति ॥ ८० ॥

सेहालिआजडाचव्वणेण गलसुण्ठ(आ)समो सरइ ।

उवजंभिआवि णासाविवरसिरासोणिए गलिए ॥ ८१ ॥

शेफालिकया स्ताम्रव्रत्ताख्यो व्याधिर्निवर्तते यो शिरव्याध्यादियुक्त्य नासिकापाातिसिरामार्गेण रक्ते विगलिते सतीति(?) ॥ ८१॥

सुरतरुबीअसगब्भं हअलद्दिढ्ढिरसेण साधिअन्तेल्लं ।

गलरोअसीसपिअणाओ णावणविहिणो विणासेइ ॥ ८२॥
सुरतरुबीजसगर्भं हयशकुद्रसेन साधितं तैलम् ।

गलरोगशीर्षवेदना नस्यविधिना शमयति ॥

 तैलमेतन्नस्येनोपयु(क्तमु)क्तं कार्यं करोति । कीदृशम् अश्वशकृद्रसेन स्वरसयुक्त्या गर्भीकृतं तदेव दारुफलान्तवर्तितसारेण सिद्धं पक्वमिति ॥ ८२ ॥

गुञ्जावराहकण्णीण मूलमेक्कक्कमं समुप्पसइ ।

चव्विअदन्तक्कन्तं घुणदन्तअवेअणादुःखं ॥ ८३ ॥
गुञ्जावराहकर्ण्योर्मूलमेकैकमुत्पुंसयति ।

चर्वितदशनाक्रान्तं घुणदन्तवेदनादुःखम् ॥

    रक्तिकायास्तथा वराहकर्ण्या मूषिककर्ण्या एकतरस्या मूलं चर्वितं सत् सरुजा दशनेनाक्रान्तं सत् तत्रैकं धृतमित्यर्थः । तादृशं सद् घुणदन्तव्याधिविशेषस्य सम्बन्धिनीं व्यथामपसारयतीति । अन्तर्गतकृमिदन्तो यत्र घुणदन्तकाख्यो व्याधिरिति ॥ ८३ ॥

णिहुडुंगिणीलीजंघादुद्धिआमूलिआण एक्काए ।

दसणक्कन्ताए किमीणि पडइ दसणुब्भवो णिउणं ॥८४॥

णिहुडुङ्गिनीलीजङ्घादुग्धिकामूलिकानामेकैकया।

दशनाक्रान्तया कृमिणः पतन्ति दशनोद्भवा निपुणम् ॥

सुधावृक्षस्य तथा नील्या नीलिन्यास्तथा जङ्घायास्तथा दुग्धिकाया अर्कपुष्पिकाया अलालिकामूलानि सामान्यतमया सरुजा दशनेनाक्रान्तया(व)ष्टब्धया दन्तजा कृमिर्निश्शेषं निपततीति ॥ ८४ ॥

अंगुट्ठअ णहलेवो कीरइ फलिए जम्प्र पासम्मि ।

तत्तो आवरदिगुब्भबघुणदन्तअ कीडओ पडइ ॥ ८५ ॥

अङ्गुष्ठे नखलेपः क्रियते फलिन्या यस्मिन् पार्श्वे ।

ततोऽपरदिगुद्भवघुणदन्तात् कीटकः पतति ॥

  फलिन्या लाङ्गलिकया जलपिष्टया चरणाङ्गुष्ठे यस्मिन् दक्षिणे वामे लेपः क्रियते तत्कल्पनया तदन्यदिग्भागघुणदन्तकाख्यव्याधिजः कृमिर्निपततीति ॥ ८५ ॥

दुद्धोम्मीसिअकक्कडअचलणपरि(पक्क)घअकअब्भंगा।

णहु कडअन्ति दन्ता केवलत्तच्चलणलित्तं व ॥ ८३॥
दुग्धोन्मिश्रितकर्कटकचरणपरिपक्वघृतकृताभ्यङ्गाः ।

न खलु कटकटायन्ते दन्ताः केवलतच्चरणलिप्ता वा ॥

   कर्कटकस्य कुरुबिल्वाख्यस्य मत्स्यविशेषस्य पादास्ते गोक्षीरेण पानीयस्थाने प्रयुक्तेन पश्चात् सिद्धं यद् घृतं तेन कृताभ्यङ्गाद् बालादेर्दन्ताः कटकटाशब्दं न कुर्वन्ति । अथवा कर्कटकस्य पादैः परिपिष्टैर्लिप्तास्सन्तस्तथा (न) कुर्वन्ति ॥ ८६ ॥

णासन्ति तक्खणाहअसससोणिअलेविआइ वंगाइ।

सजलाए व जाईफलवाहिच्छल्लीए लित्ताइ ॥८७॥

नश्यन्ति तत्क्षणाहतशश्शोणितलिप्तानि व्यङ्गानि ।

सजलया वा जातीफलबाह्यत्वचा लिप्तानि ॥

        व्यङ्गानि मुखवैवर्ण्यकारीणि प्रसृतरूपाणि श्यामानि मण्डलानि त्वग्विकारस्थानि तत्क्षणव्यापादितशशरुधिराभ्यक्तानि निवर्तन्ते । यदि वा पानीयपिष्टया जातीफलस्याण्डपरिहारेण बाह्यत्वचा केवलया लिप्तानि निवर्तन्त इति ॥ ८७॥

इंगुइफलमज्जा सिसिरसलिलपिठ्ठा तिरत्तीमत्तेण ।

लेवेण हरइ वंगं गंगासंगो व्व दुरिआइं ॥ ८८ ॥

इङ्गुदीफलमज्जाशिशिरसलिलपिष्टस्त्रिरात्रमात्रेण \।

लेपेन हरति व्यङ्गं गङ्गासङ्ग इव दुरितानि ॥

इङ्गुदी पिल्वकः तत्फलसारस्य सलिलेन पिष्टस्य लेपेन व्यङ्गं निवारयति । कार्याविसंवादार्थमुपमानं स्पष्टमिति ॥ ८८ ॥

कसणतिलकसणजीरअसिद्धत्थअजीरएहि मुहससिणो ।

दुद्धेण कओ लेवो वंगकलंकं समुप्पसइ ॥ ८९॥
कृष्णतिलकृष्णजीरकसिद्धार्थकजीरकैर्मुखशशिनः।

दुग्धेन कृतो लेपो व्यङ्गकलङ्क समुत्पुंसयति ॥

      कृष्णतिलाः प्रसिद्धाः । कृष्णजीरकं कोलोपकुञ्चिका । तथा गौरसर्षपाः तथा जीरकं सिताजाजी एतैः समांशैः पिष्टैर्गोक्षीरभावितैर्लेपो मुखचन्द्रव्यङ्गमपसारयति । चन्द्रस्य यथा कलङ्को दुर्भरस्तथैव यो मुखस्य व्यङ्गकलङ्कः तमप्ययं प्रयोगो हरतीत्युपमानप्रयोजनमिति ॥ ८९ ॥

अवहरइ बोरमज्जा गुलमहुणवणीअसञ्जुआ बंगं ।

पसुदुद्धमसिणपिट्ठा वारुणिछल्लिव्व लेवेण ॥९॥
अपहरति बदरमज्जा गुल(मधु)नवनीतसंयु(तो? ता) व्यङ्गम् ।

पशुदुग्धमसृणपिष्टा वारुणीत्वगिव लेपेन ॥

 बदर(स्य) कर्कन्धोरस्थिसारं गुलं तथा मधुनवनीतमिश्रितं व्यङ्गमपहरति । तथा छागक्षीरेण सूक्ष्मपिष्टा विशालात्वक् लेपेन पूर्वप्रयोगकार्यं करोतीति ॥ ९०॥

तुसरहिअमसिणजवरअसरिसवमहुलट्ठिलोद्धलेवेण ।

होन्ति मुहाइ विणिज्जिअचामीअर(चारु)सोहाइ॥९१ ॥

तुषरहितमसृणयवरजस्प्तर्षपवधुयष्टिलोध्रलेपेन ।

भवन्ति मुखानि विनिर्जितचामीकरचारुशोभानि ॥

      निस्तुषीकृत्य पिष्टानामक्षतानां सूक्ष्मचूर्णेन तथा गौरसिद्धार्थैस्तथा मधुयष्ट्या तथा लोध्रेण शबरेण एतैरपि सूक्ष्मपिष्टैः पानीयभावितैः कृतले(पो? पेन) मुखान्यतिगौराणि सर्वकलङ्कदोषरहितत्वाद् भवन्ति । चामीकरं सुवर्णमिति ॥ ९१ ॥

परिणअवटपण्णसुवण्णछल्लिपंकअपिअंगुमहुएहि ।

मञ्जिट्ठाकालेअअलक्खारुणलोद्धभाएहि ॥ ९२॥

जलवट्टिएहि लेवो वअणाइ विलासिणीण सुहआइं।

कुणइ विणिज्जिअसंपुण्णसरअससिविंबसोहाइं ॥९३॥
परिणतवटपर्णसुवर्णत्वक्पङ्कजप्रियङ्गुमधूकैः ।

मञ्जिष्ठाकालेयक(लाक्षारुण)लोध्रभागैः॥

जलवर्तितैर्लेपो वदनानि विलासिनीनां सुभगानि ।

करोति विनिर्जितसंपूर्णशरच्छशिबिम्बशोभानि ॥

      परिपक्वानां वटस्य न्यग्रोधवृक्षस्य पत्राणां तथा सुवर्णत्वगाख्या ओषध्यस्तथा पङ्कजस्य पद्मस्य तथा श्यामायास्तथा मधुयष्ट्यास्तथा चित्रवल्ल्यास्तथा कालेयकस्य पीतसारस्य तथा द्रुमव्याधेस्तथा कुङ्कुमस्य तथा शाबरस्यैतेषां समैर्भागैः पानीयपिष्टैः कृतेन लेपेन मुखान्यतिवर्णावढ्यानि भवन्तीत्युपमानार्थ इति । कालेयकस्यालाभे दारुहरिद्रा देयेति सर्वत्र योज्यम् । शिष्टं सुबोधम् । युगलकम् ॥ ९२,९३ ॥

जलफलिणिबोरमज्जाचन्दणकालेअएहि सरिसेहि।

वअणाइ कुणइ लेवो कमलोअरकन्तिचोराइं ॥ ९४ ॥
जलफलिनी(कोल? बदर)मज्जाचन्दनकालयकैः सदृशैः।

वदनानि करोति लेपः कमलोदरकान्तिचोराणि ॥

वालप्रियङ्गुबदरफलसारमलयपीतसारैः समांशैः पानीयपिष्टैः कृतो लेपो मुखान्यपहृतपद्मकर्णि(का)कान्तीनि करोति ॥ ९४ ॥

कुंकुमकालेअअछ (लिल ?इ)पदुममुणालेहि मलअसहि
[एहि ।

पत्तंगरोअणाबोरसार(स?सा)माहिकुट्ठेहि ॥ ९५ ॥

वितुमम (असम्पादितः भागः )सूरुणिसाजुअमहूअलोद्धेहि सलिलपिट्ठेहि।

लेवो करेइ वअणं लहुइअमिअलञ्छणच्छाअं ॥ ९६ ॥

(कुङ्कुमकालेयकच्छविपद्ममृणालैर्मलयसहितैः।)

पत्तङ्गरोचनावदरसारश्यामाहिकुष्ठैः॥

वितुषमसूरनिशाद्वगसमधूकलोध्रैः सलिलपिष्टैः ।

लेपः करोति वदनं लवूकृतमृगलाञ्छनच्छायम् ॥)

एतैर्द्रव्यैर्लेपो मुखमतिशयितपूर्णशशिशोभं करोति । कैर्द्रव्यैः । काश्मीरकतृतीयचन्दनसुवर्णच्छविकल शोशीरचन्दनैर्गोरोचनाबदरास्थिसारप्रियङ्गुनागकेसरवाप्यैस्तथा वितुपमसूरसूक्ष्मचूर्णहरिद्राद्वयमधुयष्टिशाबरैरित्येतैः समांशैर्जलपिष्टैरिति युगलकम् ॥ ९५,९६ ॥

महुसारफंगुसरिसवपउम(अ)कालेअलोद्धरअणीहि ।

पइऊण घअं विहिणा सिचअञ्च (ल) गालिअं पच्छा
[॥९७॥

णिम्मलपवणुमसिं जलवहिअपउरकुङ्कुमसणाहं।

सिसिरजलम्मि णिहित्तं मउआणलताविअं णिहुअं
[॥९८॥

वण्णअघएण इमिणा सिसिरे वि हुरन्तकन्तिसुहआइ।

वअणाइ विला(स)वईण होन्ति तामरससोहाइ ॥ ९९ ॥

मधुसार(कुङ्कुम ? कङ्गु)सर्षपपद्मककालेयकलोध्ररजनीभिः ।

पक्त्वा घृतं विधिना (सिचयाञ्चल)गालितं पश्चात् ॥

निर्मलपवनोन्मिश्रं जलवर्तिनप्रचुरकुङ्कुमसनाथम् ।

शिशिरजले निक्षिप्तं मुद्वनलतापितं निभृतम् ॥

वर्णकघृतेनापुना शिशिरेऽपि स्फुरत्कान्तिसुभगानि ।

वदनानि विलासपतीनां भवन्ति तामरसशोभानि ॥

       त्वगस्थिता(!) मधुयष्टि(:) (कुङ्कुम ? फङ्गुः)प्रियङ्गुस्तथा गौरसिद्धार्थः पद्मकं तथा कालेयकं पीतचन्दनं तथा शाबरं तथा पिण्डहरिद्रा(या !) इत्येतैः कल्कद्रव्यैः समांशैरक्तपानीयमात्रापक्वैर्वृतमुक्तमात्रं साधयित्वा कर्पटपूतं कृत्वा ततः निष्कलीकृत्य सिक्थके घृतपले कर्ष इति भावितं सत् श्रेष्ठकाश्मीरेण तदर्धपरिमाणेन सहितं कार्यम् । ततः शीतलपानीये निक्षिप्तं तत उद्धृतकाले अनुत्कटाग्निना शनैर्दापितं कार्यमित्येवं साधितेनानेन वर्णकघृतामिधानेन घृतेन सुन्दरीणां मुखानि अभ्यक्तानि वैवर्ण्यकारिणि शिशिरकालेऽपि विलसद्दीप्तिसुन्दराणीति । युगलकम् (!) ॥९७-९९॥

कुङ्कु(म)महू अचन्दणमञ्जिट्ठातरुविआरकरिसेहि।

तेल्लकुडुबं विपकं नि उणि अपसुबुद्धसञ्चत्तं (असम्पादितः भागः )॥१०० ॥

पलितिलअवंगरहिआइ मासल्लावण्णगण्डसुहआइं ।

कुणइ समब्भंगेण सत्ताहा कामिणिमुहाइं॥१०१॥

कुङ्कुममधूकचन्दनमञ्जिष्ठातरुविकारकर्षैः।

तैलकुडुबं विपक्वं द्विगुणितपशुदुग्धसंयुक्तम् ॥

पलितिलकव्यङ्गरहितानि मांसललावण्यगण्डसुभगानि ।

करोति समभ्यङ्गेन सप्ताहात् कामिनीमुखानि ॥

   अरुणेन तथा मधुयष्ट्या तथा चन्दनेन तथा मञ्जिष्ठया अरुणया तथा तरुविकारेण लाक्षया एतैः प्रत्येकं कर्षपरिमाणैस्तैलपलाष्टकद्विगुणच्छागक्षीरसहितं विपक्वं साधितं सत् सप्ताहात् सम्यगभ्यङ्गप्रयोगेण विलासिनीनां वदनानि त्वक्सकोचेन तथा कृष्णर्बिन्दुभिस्तथा भृङ्गैर्मुखत्वग्वैवर्ण्यरूपैर्मण्डलैः रहितानि परिपूर्णगौरकपोलसुभगानि करोतीति युगलकम् ॥ १००, १०१॥

कलधोअमसिणवट्टिअटंकणकोविअकअकमलगब्भं।

तंबादुद्धेण चउग्गुणेण मन्दाणले सिद्धं ॥१०२॥

जुत्तीइ विमलसित्थअसञ्जोइअथोअकुंकुमउमिस्सं ।

अइकुणइ वअणसोहं तेल्लं सिसिरम्मि सविसेसं ॥१०३॥

कलधौतमसृणवर्ति(त)टङ्कणकोपितकमलकृतगर्भम् ।

ताम्रादुग्धेन चतुर्गुणेन मन्दानले सिद्धम् ॥

युक्त्या विमलसित्थकसंयोजितस्तोककुङ्कुमोन्मिश्रम् ।

अतिकरोति वदनशोभां तैलं शिशिरेऽपि सविशेषम् ॥

        एतत्तैलमुक्तक्रमेण मृद्वग्नौ सिद्धं सच्छिशिरकाले वातप्रधानेऽपि मुखाभ्यङ्गेन प्रयुक्तं वधूनां वदनमेकविंशतिदिनाभ्यासादतिसुन्दराभं करोति । कीदृशम् । कमलं ताम्रं तच्चूर्णं गर्भे यस्य । कीदृक्चूर्णं प्रथमटङ्कणेन सुवर्णम् । एवंविधं ताम्रचूर्णगर्भं तत्तैलं चूर्णचतुर्गुणपरिमाणं तच्चतुर्गुणगोक्षीरसंयुक्तं युगपच्च मुखं (!) ततो युक्त्या वैदग्ध्येन विमिश्रीकृतं यन्मधूच्छिष्टं तैलपलमेकत्वमात्रपरिमाणमष्टभागमात्रकुङ्कुमसंयुक्तं तेन तैलमिश्रं सं(यु ! यो)ज्यमिति युगलकम् ॥ १०२, १०३ ॥

अवहरइ गण्डमालं सुरहीसलिलेण सञ्ज़ुअं पीअ।

गिरिकण्णिआपुरन्दरवारुणिमू(लमे?लेसु ए)क्कक्कं ॥१०४॥
अपहरति गण्डमालां सुरभिसलिलेन संयुतं पीतम् ।

गिरिकर्णिकापुरन्दरवारुणीमूलयोरेकैकम् ॥

श्वेतस्पन्दायास्तथा पुरन्दरवारुण्या विशालायाश्च सम्बन्धिनोर्मूलयोरेकतमं गोमूत्रेण पिष्ट्वा पीतं सन्मालारूपां गण्डमुपचीति प्रसिद्धां नाशयतीति ॥ १०४॥

सरिसेहि जवाकुसुमक्कदुद्धतिलतेललजावअरसेहि।

णासेइ गण्डमालां लेवो कोवं पणामो ल ॥१०५॥

सदृ(जै?शै )र्जपाकुसुमार्कदुग्धतिलतैलयावकरसैः।

नाशयति मण्डमालां लेपः कोपं प्रणाम इव ॥

      तुल्यमात्रैर्जपाकुसुमस्य जापकाख्यया लोके प्रसिद्धस्य पुष्पस्य रसेन तथार्कवृक्षस्य क्षीरेण तथा तिलतैलेन तथा लाक्षारसेनेत्येतैर्मिश्रितैः कृतो लेपः पूर्वोक्तं कार्यं करोतीति । उपमानं फलाविसंवादार्थमिति ॥ १०५ ॥

विउडेइ गण्डमालं (दवि? गहि)अं पूसम्मि कन्धराबद्धं ।

पीअं व घउम्मीसं सिअपव्वअकण्णिआमूलं ॥ १०६॥

विघटयति गण्डमालां गृहीतं पुष्ये कन्धराबद्धम् ।

पीतं वा घृतोन्मिश्रं सितपर्वतकर्णिकामूलम् ॥

श्वेतगिरिकर्णिकामूलं तिष्यर्क्षगृहीतं व्याधितस्य ग्रीवाग्रथितं पूर्वोक्तं व्याधिं नाशयति । अथवा तदेव गोघृतेन सहावलीढमुक्तं कार्यं करोतीति ॥ १०६॥

चुच्छुन्दरिसाहअतलेलतुप्पिआ दारुणा वि वेएण ।

परिहरइ गण्डमाला धणरहिअं धुत्तगोहि व्व ॥ १०७॥
चुच्छुन्दरीसाधिततैलाभ्यक्ता दारुणापि वेमेन ।

परिहरति गण्डमाला धनरहितं धूर्तकुट्टिनीव ॥

चुच्छुन्दरी गन्धमूषिका तया पक्वं यत् तैलं तेनाभ्यक्ता सती गण्डमाला रो(गं न! गिणं) वेगेन शीघ्रमेव घोरापि परित्यजति । न तं बाधत इत्यर्थः । उपमानं गाथापूरणार्थमेवेति । अत्र साधनयुक्ति(:) शुद्धाम्बुयुक्त्या ॥१०७॥

(जं? जो) खाअइ वेल्लतल्लं पिबइ कसाअं व्व सेलुरु
[क्खस्स।

फुटिआ वि गण्डमाला तस्स फुडं णिव्वणा होइ ॥१०८॥
(यत् ? यः) खादति पल्लवतैलं पिबति कषायं वा शेल्लवृक्षस्य ।

स्फुटितापि गण्डमाला तस्य स्फुटं निर्व्रणा भवति ॥

       पल्लव इति देशान्तरप्रसिद्धसंज्ञो निष्पावाख्यः शिम्बधान्यविशेषः । तं तैलेन सह योऽश्नाति तस्य भग्नापि गण्डमाला रोहति । निवृत्तव्याधिरसौ भवतीत्यर्थः । अथवा श्लेष्मातकतरोः कषायं क्वाथं यः पिबति तस्यापि पूर्वोक्तमलसंपत्तिरिति ॥ १०८॥

कइकच्छुमूलमीसिअजिंगिणितरुसरससीसअजलेहि ।

णावणमवबाहुअकण्ठकन्धरारोअ(वि?णि)द्दलणं ॥१०९॥
कपिकच्छूमूलमिश्रितजिङ्गिणीतरुस्वरसशीतलजलैः।

नावनमपबाहुककण्ठकन्धरारोगनिर्दलनम् ॥

       कपिकच्छ्वा आत्मगुप्ताया मूलं तथा जिङ्गिण्याश्च तथा मौचक्या निर्यासः तथा शीतोदकमेतैः कृतं नस्यमपबाहुकस्य बाहुशूलस्तम्भादिलक्षणस्य बाहुन्या(धिं! धेः) तथा गलगण्डव्याधीनां विनाश(न)मिति । नस्यविधिरत्रायुर्वेदोक्तः ॥ १०९॥

जिङ्गिणीरसोदुम्बरदुद्धहिङ्गुकपिकच्छुमूलणासेण ।

अवबाहुअरोओ रुसिओ व्व दूरं समोसरइ ॥११॥
जिङ्गिणीनिर्यासोदुम्बरदुग्धहिङ्गुकपिकच्छूमूलनस्येन ।

अपबाहुकरोगो रुषित इव दूरं समपसरति ॥

       जिङ्गिणीनिर्यासेन तथा उदुम्बरस्य वृक्षस्य कृमिफलाख्यस्य क्षीरेण तथा बाह्लिकेन कपिकच्छ्वा आत्मगुप्ताया मूलेनैतैः कृतेन नस्येन हेतुना पूर्वोक्तः अपबाहुकरोगो निवर्तते । उपमानं गतार्थमिति ॥ ११० ॥

सूलक्खकोलकुञ्जरमेएहि वसाहि (ज?पबि)लणिवासीण।

अब्भंगो पीणुत्तुंगमणहरं कुणइ थणजुअलं ॥ १११॥
शूलाक्षकोलकुञ्जरमेदोभिर्वसाभिर्बिलनिवासिनाम् ।

अभ्यङ्गः पीनोत्तुङ्गमनोहरं करोति स्तनयुगलम् ॥

      महिषसूकरकरिणां मेदोभिस्तथा सर्पादीनां बि(ल!ले)शयानां पूर्वोतयुक्तिगृहीताभिर्वसाभिश्चम्पुटनं (!) स्त्रीणां कुचयुग्मं पीवरोन्नतत्वेन सुन्दरं करोतीति । शरीरान्तर्गत आश्यानस्नेहो मेदः, द्रवरूपस्नेहादियुक्तिग्राह्यशुद्धमांसस्नेहो वसा इति ॥१११॥

माहिसणवणीअवआमअपिप्पलिकुट्ठतुरअगन्धाहि ।

सवणपओहरलिंगाण कुणइ थोरत्तणं लेवो ॥ ११२॥

माहिषनवनीतवचागजपिप्पलिकुष्ठतुरगगन्धाभिः ।

श्रवणपयोधरलिङ्गानां करोति स्थूलत्वं लेपः॥

महिषीनवनीतेन सहोग्रगन्धाहस्तिपिप्पलीविषाणाश्वगन्धाभिः कृतो लेपः कर्णपाली(स्तन)नरचिह्नानां स्थौल्यं जनयतीति ॥ ११२ ॥

तण्डुलजलेण परमञ्जणेण महिलाण णावणं दिष्णं ।

कुणइ पओहरजुअलं थिरथोरमणोहरुत्तुंगं ॥ ११३ ॥
तण्डुलधावनेन परमाञ्जनेन महेलानां नावनं दत्तम् ।

करोति पयोधरयुगलं स्थिरस्थूलमनोहरोत्तुङ्गम् ॥

तण्डुलधावनेन सह स्रोतोञ्जनेन स्त्रीणां नस्यं प्रयुक्तं स्तनौ कठिनौ पीवरौ सुस्पर्शवर्णावुन्नतौ च करोतीति ॥ ११३ ॥

माहिसणवणीअजुअं कुट्ठवआगअबलोब्भवं चुण्णं ।

लेवेण कुणइ जुवईण पीणघणमणुहरे थणए ॥ ११४ ॥

महिषीनवनीतयुतं कुष्ठवचागजबलोद्भवं चूर्णम् ।

लेपेन करोति युवतीनां पीन(धन)मनोहरौ स्तनौ ॥

माहिषनवनीतेन भावितं व्याध्युग्रगन्धानागबलानां सम्बन्धि चूर्णं स्त्रीणां लेपप्रयुक्तं स्तनावुक्तरूपौ करोति ॥ ११४ ॥

दाडिमवक्कलभाविअसिद्धत्थअतेल्लतुंबिआ बहुसो।

होन्ति थणा थिरथोरा सवणा वि हु मासलपलंव॥११५॥

दाडिमवल्कलसाधितसिद्धार्थकतैलाभ्यक्ता बहुशः।

भवन्ति स्तनाः स्थिरस्थूलाः श्रवणान्यपि मांसलपलम्बानि ॥

दाडिमफलस्य रक्तबीजस्य वल्कलेन त्वचा शुद्धाम्बुस्थित्या पक्वं यद् गौरसर्षपतैलं तेनाभ्यक्ताः स्तनाः श्रवणानि चोक्तरूपा(णि) भवन्तीति ॥११५॥

गोमहिसीघअसहिअं तेल्लं सामाकअञ्जलिवआहि ।

कडुअणिसासञ्जुत्ताहि सा(हि)अंणामणे दिण्णं ॥११६॥

कुणइ वअपरिणआण विम(हि)लाण तिसत्तरत्तलित्तेण ।

थणजुअलं पीणुत्तुंगथोरिथरमणहरच्छाअं॥११७॥
गोमहिषीघृतसहितं तैलं श्यामाकृताञ्जलिवचाभिः।

कटुकनिशासंयुक्ताभिः साधितं नावने दत्तम् ॥

करोति वयःपरिणतानामपि महेलानां त्रिःसप्तरात्रेण ।

स्तनयुगलं पीनोत्तुङ्गस्थूलस्थिरमनोहरच्छायम् ॥

         गव्येन माहिषेण घृतेन तुल्यमानं तैलं प्रियङ्वा तथा कृताञ्जल्या प्रसिद्धया तथोग्रगन्धया तथा कटुकरोहिण्या तथा पिण्डहरिया एताभिस्तुल्यमात्राभिः पक्वं सत् नस्ये प्रयुक्तं स्त्रीणामुक्तरूपान् स्तनान् करोति । अत्र पाकयुक्तिद्रव्येभ्यः षोडशगुणं जलं द्रव्यचतुर्गुणं स्नेहं त्रयं क्षिप्त्वा शेषं ग्राह्यमिति युगलकम् ॥ ११६,११७ ॥

मुण्डिअकसाअचुण्णेहि साहिअं पाणणामणविइण्णं ।

तेल्लं पडिअथणाणं वि कुणइ पीणुण्णए थणए ॥११८॥

मुण्डितकषायचूर्णाभ्यां साधितं पाननावनवितीर्णम् ।

तैलं पतित(स्थूला? स्तना)नामपि करोति पीनोन्नती स्तनौ ॥

      श्रवणशीर्षक्वाथेन च सम्पादितं तैलं पाननस्याभ्यां युक्तमुक्तं कार्यं करोतीति । अत्र पाकयुक्तिकषायद्रव्यपलं षोडशगुणेन जलेन पक्त्वा चतुर्भागशेषे तस्मिन् जले कषायद्रव्यमुद्धृत्य गर्भस्नेहे पले तत् षड्भागं चूर्णस्य च दत्त्वा तैलशेषं ग्राह्यमिति ॥ ११८ ॥

णिअदसणखुण्णगिरिअंविअडवि(लासा?साला)ण बा-
[णपुंखा(इ?ण)।

मुलं पिहिलिअसमणं विलीविआ मोअणरअस्स ॥

निजदशनक्षुण्णनिगीर्णपिचटविशालाया बाणपुङ्खायाः।

मूलं प्लीहकशमनं विलेपिकाभोजनरतस्य ॥

     शरपुङ्खाया ओषधिप्रतानविस्तीर्णाया मूलं स्वदन्तनिर्दलितं कृत्वा ग्रस्तं सद् वामपार्श्वान्तर्व(र्ती ? र्ति)कृष्णमांसविकारात्मकप्लीहाव्याधिनिवर्तकम् । कीदृशस्यातुरस्य, घनप्राया विलेपिकेत्युच्यते, तदशनरतस्य । भोजनान्तरपरिण(!) इत्यर्थः ॥ ११९ ॥

घेत्तूण जस्स णामं णिक्खिप्पइ इन्दवारुणीमूलं ।

फालेऊण सुदूरे णासइ पिलिहो(अ)रं तस्स ॥१२० ॥
गृहीत्वा यन्नाम निक्षिप्यते इन्द्रवारुणीमूलम् ।

पाट(लि ? यि)त्वा सुदूरे नश्यति प्लीहोदरं तस्य ॥

यस्य पुरुषस्य देवदत्तस्य प्लीहोदरं विनष्टमिति संज्ञायामुच्चार्य विशालामूलं द्विधा कृत्वा दूरे क्षिप्यते, तस्य प्लीहप्रधान उदरव्याधिर्निवर्तत इति ॥ १२० ॥

अन्तरधूमे++ऊण लोणसहिआइ रूविअदलाइ।

खाआइ म(थु? थ्थु)णा मिसिआइ पिलीहोअरहराइ
[॥१२॥

अन्तर्धूमेन दग्ध्वा लवणसहितानि रूपिकदलानि ।

(खादि)तानि मस्तुना मिश्रितानि प्लीहोदरहराणि ॥

      अर्कवृक्षपत्राणि सैन्धवेन सह पुटपाकदग्धानि कृत्वा मस्तुना सह मिश्रयित्वा पीतानि पूर्वोक्तकार्यकराणि । अत्र मात्रा मेष्टद्रव्ययोः शशांशयोः(!) कर्षो मस्तुपलानि त्रीणि ॥ १२१ ॥

पिप्पलि(मूल ?)चुण्णं णिहुडुंगिदुद्धपरिभाविअं (ति)
[सत्ताहं।

दिण्णमपहरइ उअरं महुरासणपाणणिरअस्स ॥ १२२ ॥

पिप्पलीचूर्णं सुधाक्षीरपरिभावितं त्रिसप्ताहम् ।

दत्तमपहरत्युदरं मधुराशनपाननिरतस्य ॥

मागधिकाचूर्णं सुधाक्षीरेण एकविंशतिरात्रिकृतभावनं सक्षीरादिद्रव्यभोजनरतस्य उदरव्याधिं विनाशयतीति ॥ १२२ ॥

एक्केण सिअपुणण्णवपाढाचक्कंकिआण मूलेण ।

उवसमइ झत्ति विदिही पीएण सतण्डुलजलेण ॥१२३॥
एकेन सितपुनर्नवपाठाचक्राङ्कमूलानाम् ।

उपशाम्यति द्रागिति विद्रधिः पीतेन सतण्डुलजलेन ॥

         श्वेतवर्षाभ्वस्तथा पाठाया वङ्ग्यास्तथा सुदर्शनायाः सम्बन्धिनां मूलानां (पथ्या !मध्या)देकतमेन तण्डुलधावनेन सहितेन शीघ्रमेव विद्रधिव्याधिर्निवर्तत इति ॥ १२३ ॥

कअलिदलभूइगालिअजलसिद्धविलेविआ विणासेइ ।

खइआउअरुब्भवसअलरोअजालं तिरत्तेण ॥ १२४ ॥

कदलीदलभूतिगालितजलसिद्धविलेपिका विनाशयति ।

खादितोद्भवसकलरोगजालं त्रिरात्रेण ॥

    रम्भापत्राणां पुटपाकदग्धानां भस्मना मिश्रीकृतं सत् पटपूतं यत् पानीयं तेन पकविलेपिकावलेह्यप्राया पेया भुक्ता सती दिनत्रयेण सर्वज(ठर)रोग(मा)मयसमूहं क्षपयति ॥ १२४ ॥

कन्दलिआकन्दअगुल…………… ।

(वारेन्ति तक्ख)णच्चिअ किमिजालअमुअरसभूअं॥ १२५ ॥
कन्दलिकाकन्दगुलघृतानि सितापीतानि खादितानि ।

वारयन्ति तत्क्षणमेव कृमिजालमुदरसम्भूतम् ॥

        कन्दलिन्या निष्पर्यायाः तस्या मूलानां पलं गुलपलानि चत्वारि घृतपलानि चत्वारि पानीयपलानि षोडश एतत् सर्वमग्निना पक्वं लेहीकृत्य मात्रया खादितं जठरजान् सर्वकृमीन् पातयति ॥ १२५ ॥

जो लिहइ रअणिविरमे र्णिबदलामलअचुण्णमणुदिअहं।

सो गाढकुट्ठविउडिअदेहो वि पुणो णवो होइ ॥ १२६ ॥
यो लेढि रजनिविरामे निम्बदलामलकचूर्णमनुदिवसम् ।

स गाढकुष्ठविघटितदेहोऽपि पुनर्नवो भवति ॥

यः क्षपाक्षये पिचुमन्दपत्राणि आमलकानि च चूर्णीकृत्य मध्वादिना योजितानि प्रतिदिवसमभ्यासेनावलेह्यत्वेनोपयुङ्क्ते, स तीव्रत्वग्दोषविनाशितशरीरोऽपि निवृत्तनिर्मूलव्याधित्वाद् भूयो जात इव निर्विकारः सम्पद्यत इति ॥ १२६ ॥

सिन्धुविलंगसिवासोमरईसरिसवकरञ्जरअणीहि ।

सुरहिसलिलेण लेवो कुट्ठहरो दिअहणाहो व्व ॥१२७॥

सिन्धुसैन्धवविलङ्गशिवासोमराजीसर्षपकरञ्जरजनीभिः।

सुरभिसलिलेन लेपः कुष्ठहरो दिवसनाथ इव ॥

        सैन्धवलवणे(न) तथा कृमिघ्नेन तथा हरीतक्या तथा सोमराज्या चन्द्रलेखया तथा गौरसिद्धार्थकैः तथा करञ्जस्य नक्तमालस्य फलैस्तथा पिण्डहरिद्रया च एतैः समांशैः कल्कीकृतैर्गोमूत्रमिश्रितैः कृतो लेपः कुष्ठव्याधिं विनाशयति यथा भगवान् भास्कर इति ॥ १२७ ॥

एक्को तिलाण भाओ दो भाओ सोमराइवीआण ।

खज्जन्ता णेइ खअं चलणे दद्दुं सुदुव्वारं ॥१२८ ॥

एकस्तिलानां भागो द्वौ भागौ सोमराजिबीजानाम् ।

खाद्यमाना नयन्ति क्षयं चरणदद्रुं सुदुर्वारम् ॥

सोमराज्याश्चन्द्रलेखायाः संबन्धिनां बीजानां द्वौ भागौ तृतीयस्तिलानामिति भुज्यमानं चूर्णं पादत्वप्रोगविशेषं दुर्वाराख्यं घोरमपि क्षपयतीति ॥ १२८॥

अइअम्मिलतक्कसमं सुरहिजलं लोणमीसिअं कढिअं।

षणगोमअगण्डघट्ठाइ लेवेण हरइ खसराइं ॥ १२९ ॥
अत्यम्लतक्रसमं सुरभिजलं लवणमिश्रितं क्वथितम् ।

बनगोमयगण्डघृष्टानि लेपेन हरति खसराणि ॥

अतिचुक्रेण गोरसेन तुल्यमात्रं गोमूत्रं सैन्धवेन संयुक्तं संपक्वं खसराणि त्वग्विकारविशेषमरण्यगोमयशकलघृष्टानि सन्ति लेपेन विनाशयतीति ॥१२९॥

ववगअतुसगुञ्जाचुण्णमीसणवणीअलेविअं विहिणा ।

णासः सतक्कतंबअ(कि)ट्टेण पलेविअं कुट्ठं॥१३०॥

व्यपगततुषगुञ्जाफलचूर्णमिश्रनवनी(तलेपि)तं विधिना ।

नश्यति सतकताम्रकिट्टेन वा लेपितं कुष्ठम् ॥

अथवा गोरसयुक्तताम्रमलेन कृतलेपो विनश्यतीति ॥ १३० ॥

दुव्वासिन्धवहरिआलरअणिगोमुत्तमलिअं सहसा ।

दद्दुं खसरञ्च तहा णासइ चिरआलजाअं पि ॥१३१॥
दूर्वासैन्धवहरितालरजनीगोमूत्रमिश्रितं सहसा ।

दद्रुं खसरं च तथा नाशयति चिरकालजातमपि ॥

         शाड्वलं सैन्धवं लवणं हरितालं पिण्डहरिद्रा चैतत् समांशचूर्णीकृतं गोमूत्रेण मिश्रितं सदुपयुक्तं बहुकालोत्पन्नावपि दद्रुखसराख्यौ त्वग्विकारौ झटिति नाशयतीति ॥ १३१॥

ससिरेहाचुण्णमीसजापिअदुद्धोब्भवं सुणवणीअं।

सिअकुट्ठहरं महुणा लीढं तक्काणुपाणेण ॥ १३२ ॥
शशिरेखाचूर्णमिश्रितयापितदुग्धोद्भवं सुनवनीतम् ।

सितकुष्ठहरं मधुना लीढं तक्रानुपानेन ॥

        शशिरेखायाः सोमराज्याश्चूर्णेन भाण्डमुपलिप्य कृतदधिभावमापादितं गव्यक्षीरं तन्मथित्वोत्पादितं शोभनं यन्नवनीतं तन्माक्षिकेण सहावलीढं तक्रेण सानुपानेन सितकुष्ठं श्वित्रं नाशयतीति ॥ १३२॥

जलवहिअसेअप्फन्दमूलपंकेण लित्तमणुदिअहं ।

पक्खेण व मासेण व सिअकुट्ठं वच्चइ विणासं ॥ १३३ ॥
जलवर्तितसितश्वेतस्पन्दामूलपङ्केन लिप्तमनुदिवसम् ।

पक्षेण वा मासेन वा सितकुष्ठं व्रजति विनाशम् ॥

श्वेतगिरिकर्णिकाया मूलं पानीयेन पिष्ट्वा पाकीकृतं लेपेनोपयुज्यमानमभ्यासात् पक्षाद् मासाद् वा सितकुष्ठं नाशयतीति ॥ १३३ ॥

माअंगकत्तिचित्तअचम्ममसीतेल्लपंकलेवेण ।

सिअकुट्ठदूसिआइ पि होन्ति सवण्णाइ अंगाइ ॥१३४ ॥
मातङ्गकृत्तिचित्रकचर्ममषीतैलपङ्कलेपेन ।

सितकुष्ठदूषितान्यपि भवन्ति सवर्णान्यङ्गानि ॥

हस्तिद्वीपिनोश्चर्मणी पुटपाकदग्धे कृत्वा तिलतैलमिश्रितेन तत्कज्जलकर्दमेन यो लेपस्तेन श्वित्रकलङ्कितानि गात्राणि स्ववर्णमचिरेणासादयन्ति, निवृत्तचित्राणि भवन्तीत्यर्थः । एतयोरेकैकमपि कार्यकरमिति ॥ १३४ ॥

सिन्दूरपुररसञ्जणतुत्थालसचुण्णमीसिअं कढिरं ।

कडुइल्लं चिरआलुब्भवं पि पामं विणासेइ ॥१३५ ॥

सिन्दूरपुररसाञ्जनतुत्थालसचूर्णमिश्रितं (क्वथितम्)।

कटुतैलं चिरकालोद्भवामपि पामां विनाशयति ॥

     सिन्दूरमिनपिष्टं तथा गुग्गुलुः तथा कृत्रिमाञ्जनं तथा तुत्थकं मयूरग्रीवाकारयोरन्यतमं तथालसं सिक्थकं तेषां समांशानां चूर्णेन शुद्धाम्बुस्थित्या पक्वं सर्षपतैलं लेपात् प्ररूढामपि पामाख्यां त्वग्विकृतिं विनाशयति । अथवा कटुतैलं सुतप्तं कृत्वा तन्मध्ये द्रव्याणि मिश्रीकृतानि लेपेनोपयुज्यमानमित्यर्थः पामालक्षणम् -  

“विस्फोटपिटका पामा कण्डूक्लेदरुजाधिका।
सूक्ष्माख्या वारु(णो! णा) बह्व्यः प्रायः स्फिक्पाणिकोर्परे ॥” १३५ ॥

माहिसणवणीउम्मीसमिरिअसिन्दूरलेविआ बहुसो।

णासइ पामा खलकुट्टिणिव्व धुत्तविडंबिआ दूरं॥१३६॥

(माहिषनवनीतोन्मिश्रमरिचसिन्दूरलेपिता बहुशः।

नश्यति पामा खलकृट्टिनीव धूर्तबिडम्बिता दूरम् ॥)

सिन्दूरमरिचयोः समांशं चूर्णं माहिषेण नवनीतेन मिश्रितं यत् तेन बहुवारं कृतलेपा पामात्यर्थं विनाश(मुप)यति धूर्तवञ्चिता कुट्टनीवेति ॥ १३६॥

खंभारितरुफलाइं परिणअसुक्खाइ दुद्धसिण्णाइ।

खइआइ पीअपित्तं ह(रइ ? रोन्ति) पच्छासिणो विहिणा ॥
खम्भारीतरुफलानि परिणतशुष्काणि दुग्धस्विन्नानि ।

खादितानि पीतपित्तं हरन्ति पथ्याशिनो विधिना ॥

    खम्भारी श्रीपर्णी, काष्मर्याख्यानि फलानि परिपक्वानि ततः शोषितानि दुग्धेन सह स्विन्नानि सन्ति भुक्तानि पीतपित्तं पीतवर्णं पित्तं यद् दृश्यते तच्छमयन्ति क्षीरादिपथ्याशिनः । विधिरत्र क्वाथ्यद्रव्यपलं पानीयं च पलैरष्टभिः क्षीरपलान्यष्टौ सह क्वाथयित्वा चतुर्भागशेषं ग्राह्यम् । तत्क्वथितानि (प ! फ)लानि भु (क्ता! क्त्वा) तेन क्षीरेणानुपानं कर्तव्यमिति ॥ १३७ ॥

कइरोअफलिणिचन्दणमूलअवीआइ कुट्ठस(म)भाअं।

उव्वट्टणअं सिह्नाइ हरइ गन्धञ्च सुसुअन्धं ॥ १३८॥

कपिरोगफलिनिचन्दनमूलकबीजानि कुष्ठसमभागम् ।

उद्वर्तनं सिध्मानि हरति सुसुगन्धगन्धं च ॥

      कपिरोगः कपिकच्छूः तथा प्रियङ्गुः तथा श्वेतचन्दनं तथा मूलकस्य बीजानि तथा नागकेसरं तथा कुष्ठानि एतानि समांशानि पानीये लेपीकृतान्युद्वर्तनप्रयोगेन सिध्माख्यं त्वग्विकारं शमयन्ति । अतिसुभगं च सौ(रं ! रभं) भवतीति ॥ १३८ ॥

फलहोइदलमूलअबीअमीसजंघाजडा(कि)ओलेवो ।

महिएण मंगलदिणे दुब्भित्तसमूहविद्दवणं ॥१३९॥
कार्पासीदलमूलकबीजमिश्रजङ्घाजटाकृतो लेपः।

मथितेन मङ्गलदिने दुर्भित्तसमूहविद्रवणम् ॥

       फलिनीदलं (हीदलं!) कार्पासलतापत्रं तथा मूलकबीजं ताभ्यां सहितेन काकजङ्घामूलेन (मास्या ।) तक्रेण सम्पादितो लेपो भौमवारे प्रयुक्तं सिध्ममिति (प्र)सिद्धं दुर्भित्ताख्यं त्वग्विकारं नाशयतीति ॥ १३९ ॥

मोअन्दअरसपिट्ठेहि लेविरं मूलअस्स बीएहि ।

णासह सिह्यारंभा खारुम्मीसाइ व णिसाइं ॥१४॥

मयूरकर(स)पिष्टैर्लेपितं मूलकस्य बीजैः।

नश्यति सिध्मारम्भः क्षारोन्मिश्रयेव निशया॥

नश्यति तथैवेति द्वितीयः प्रयोग इति ॥ ११० ॥

मोरअकअलिक्खारं सतेल्लमेक्कक्कमं समुप्पसइ ।

कुंभण्ड(ण)लक्खारंप (जो? गो)जलुम्मीसिअं सिह्मं
[॥१५१ ॥

मयूरककदलीक्षारं सतैलमेकैकं समुत्पुंसयति ।

कुश्माण्डनालक्षारं वा गोजलोन्मिश्रितं सिध्मम् ॥

   अपामार्गस्यान्तर्धूमदग्धस्य भस्मनः, अथवा रम्भायाः पूर्ववद् गृहीतेन भस्मना द्वयोरेकतरस्य तैलमिश्रितस्य लेपः सिध्मं नाशयति । अथवा समाण्डकं पुष्पफलं तस्य वृन्तं पूर्ववत् कृत्वा क्षारेण गोमूत्रसहितेन लेपः सिध्मं

जलपिट्ठमाहिसच्छअणवेड्ढिआ मउअजल(ण)संसिद्धा ।

अंगाणि कुणह रअणी रोमाणि अक(स?)णअगोराइं
[॥१४२॥

जलपिष्टमाहिषच्छगणवेष्टिता मृदुलज्वलनसंसिद्धा।

अङ्गानि करोति रजनी (रोमाणि च) तापितकनकगौराणि ॥

      पिण्डहरिद्रा चूर्णीकृता पानीयेन गुलिकात्वमापादिता ततो दर्मेण वेष्टिता ततो महिषीपुरीषेण पृष्ठतोऽवकुण्ठिता मृद्वग्नो पक्त्वा ततो निष्कृष्य लेपेनोपयुक्ता गात्राणि पामनिष्क्रान्तहेमोज्ज्वलानि करोति ॥ १४२॥

(जो मज्जइ) तिलसरिसवरअणिणिसाकुठ्ठलेविअसरीरो।

सो होइ सुरहिदेहो मणुहरवष्णुज्जलावअवो ॥ १४३ ॥
यो मज्जति तिलसर्षपरजनिनिशाकुष्ठलेपितशरीरः।

स भवति सुरभिदेहो मनोहरवर्णोज्ज्वलावयवः ॥

रजनी पिण्डहरिद्रा । निशा दारुहरिद्रा । शिष्टं गतार्थमिति ॥ १४३ ॥

जंबूदलककुभपसूअसबरसमभाअमेलिअं कुणह ।

उव्वट्टणअं गिम्हे शरीरदुग्गन्धविद्दवणं ॥ १४४ ॥
जम्बूदलककुभप्रसूनशबरसमभागमेलितं कुरुते ।

उद्वर्तनकं ग्रीष्मे शरीरदौर्गन्ध्यविद्रवणम् ॥

जम्बूदलानि सुरभिपत्रपल्लवानि तथा अर्जुनकुसुमानि तथा लोध्रमेतैः समांशैर्मिश्रीकृतैरुद्वर्तनं निदाघे घर्मादिजनितदेहदुरामोदशमनं कुरुते ॥१४॥

लामज्जअहेमसिरीससबरचुण्णेण मलिअदेहस्स ।

तअदोससेअपसरा गिम्हे विणिहोन्ति लोअस्स ॥१४॥
लामज्जकहेमशिरीषशवरचूर्णेन मलितदेहस्य ।

(त्वग्दोषस्वेदप्रसरान् ग्रीष्मे विनिघ्नन्ति लोकस्य ॥)

त्वग्दोषस्वेदयोर्दोषा अपसरन्ति ॥ १४५ ॥

दलजलरुणमलआरुणविलेवणं हरइ देहदुग्गन्धं ।

विमलारणालसहिअं(पीअं) वालंबुसाचुण्णं ॥१४६ ॥
दलजलारुणमलयारुणविलेपनं हरति देहदौर्गन्ध्यम् ।

विमलारनालसहितं पीतं बालम्बुसाचूर्णम् ॥

दलं सुगन्धपत्रं, जलं वालकम् , अरुणमुशीरं, मलयं चन्दनन् , अरुणं कुष्ठम् एतैः कृतं विलेपनं शरीरदुरामोदं हरति । अथवा श्रमणशीर्षस्य चूर्णं निर्मलकाञ्चिकपीतमुक्तं कार्यं करोतीति ॥ १४६॥

एक्को किरिमालअणिंबदुद्धदाडिमासिरीसछल्लीहि ।

जलहर(सा)मारअणीहिमणोहरसलिलपिठ्ठाहि ॥१४७॥

अण्णो णिंबदलासिवाडाडिममाअन्दवक्कलरसेहि ।

महिलाण अंगराओ णराण जंघाकसाओ व्व ॥१४८॥
ए(तैः कः) किरिमालकनिम्ब(दुग्ध)डाडिमशिरीषत्वग्भिः ।

जलधरश्यामारजनीभिर्मनोहरसलिलपिष्टाभिः ॥
अ(न्यो) निम्बदलशिवाडाडिमाम्रबल्कलरसैः।

महेलानामङ्गरागो नराणां जङ्घाकषायश्च ॥

किरिमालस्यारग्वधस्य तथा पिचुमन्दस्य तथा शाबरस्य तथा डाडिमफलस्य वल्कलैस्तथा कीरतरोस्त्वग्भिः तथा मुस्ताप्रियङ्गुपिण्डहरिद्राभिरेतैः सर्वैः समांशैर्जलपिष्टैः कृतो रम्यो महेलानामङ्गरागोऽङ्गशोभाजनकमुद्वर्तनं भवत्येक आद्यः । अन्योऽपरः पिचुमन्दपत्रैस्तथा हरीतकीडाडिमरसानां बिल्वरसेन कृतकषायः पुरुषाणां जङ्घावर्णप्रकर्ष इति पूर्वापरगाथापठितौ स्त्रीपुरुषविषयौ द्वौ प्रयोगाविति ॥ १४७, १४८ ॥

वा(अ?आ)रसोल्ललट्ठिमहुसक्करामहुविमीसिओपीओ।

अवहरइ रत्तपित्तं सकामलं पण्डुरोअश्च ॥ १४९ ॥
वाशारसार्द्रयष्टिमधुशर्करामधुविमिश्रितं पीतम् ।

अपहरति रक्तपित्तं सकामिलं पाण्डुरोगं च ॥

     वाशाया आटरूषस्य निष्यन्देन आर्द्रा यासौ मधुयष्टिः तथा श्वेतशर्करा तथा माक्षिकम् एतद्विमिश्रीकृतं सत् पीतं रक्तपित्तं कामिलां पाण्डुरोगं च नाशयति । पानद्रव्यं वाशानिष्यन्द एव । तस्य पलत्रयेण मधुयष्टिशर्करयोः कर्षं माक्षिककर्षद्वये इत्युपयोग इति ॥ १४९॥

वासअपल्लव(सु)रसं (कु)सुमरसुम्मीसिअं पिअन्तस्स ।

उवसमइ रसपित्तं सलिलेण हुआसपुञ्जो ष्व ॥ १५०॥

वाशापल्लवस्वरसं कुसुमरनोन्मिश्रितं पिबतः ।

उपशाम्यति रक्तपित्तं सलिलेन हुताशपुञ्ज इव ॥

आटरूषकस्य पत्राणां स्वरसं चतुष्पलमात्रंं माक्षिककर्षमात्रेण सह पिबतो रक्तपित्तं क्षणात् शाम्यति । आशुकार्यकरत्व -तिपादनार्थमुपमानमिति ॥ १५० ॥

अहिणवपीणसदुहिओ समरिअगुलदहिअपाणमत्तेण ।

पण्णम्मइ गोहुमपल्लवखिरघअभोअणे (ण) व्व ॥ १५१॥
अभिनवपीनसदुःखितः समरिचगुलदधिपानमात्रेण ।

स्वस्थी भवति गोधूमपल्लवकृसरभोजनेन वा ॥

    तत्कालेन प्रतिपन्नेन प्रतिश्यायेन कदर्थितो दध्नो गुलमरिचयुक्तस्य पानमात्रात् पुरुषो निरामयीभवति । अथवा निस्पुषीकृतेन गोधूमेन तथा निष्पावाख्येन शिम्बधान्यविशेषेण सिद्धं गव्यघृतसंयुक्तं कृतरमश्नतः पूर्वोक्तकार्यसम्पत्तिरिति । घृतक्षीरनवनीतदधिमथितादीनामविशेषोक्तो गव्यमेव सर्वत्र बोद्धव्यमिति ॥ १५१॥

जो पिबइ सअणकाले सअणारूढो ससीअलत्योअ।

सलि(लेण ? लं) पीणसदुहिओ पण्णप्पइ सोतिरत्तेण । १५२॥
यः पिबति शयनकाले शयनारूढः सशीतलमस्तोकम् ।

सलिलं पीनसदुःखितः स्वस्थीभवति (स त्रिरात्रेण) ॥
स्पष्टार्था गाथा ॥ १५२ ॥

कलितरु(फल)सिन्धुकणाचुण्णं चुक्केण लीढमवहरइ ।

सरसेअं तंबादुद्ध(तीअमासलो? पीअमामल)अचुण्णोव्व
॥ १५३ ॥

कलितरुफलसैन्धवकणाचूर्णं चुक्रेण लीढमपहरति ।

स्वरभेदं ताम्रादुग्धेन पी(ता? तमा मलकचूर्णं वा ॥

        विभीतकफलं तथा सैन्धवं लवणं तथा पिप्पलीचूर्णं समांशमेकीकृत्य (शुक्लेना ! चुक्रेणा )वलीढं सत् कण्ठवैस्वर्यं नाशयति । अथवा गोक्षीरेण पीतं धात्रीचूर्णमिति ॥ १५३ ॥

समतुलिअकुरुंमीसिअजणणिवसेकोलपल्लवासिहाहि ।

विउणा वि वलामूलाधूमो कासं समुप्पसइ ॥ १५४ ॥
समतुलितपुरोन्मिश्रितजननी(वाशा)कोलपल्लवशिखाभिः ।

द्विगुण पि बलामूलाधूपः कास प्रुत्पुंसयति ॥

     जनन्याः सुमनसो वृक्षस्य वाशायास्तथा कोलस्याम्बूवदनस्य पत्रमूलाभ्यामित्येतैः समांशैः एतेषां तुल्येन गुग्गुलुना कृतो धूपः । कीदृशः । (ऐतषां पुवर्ज्यं!) सर्वेषां द्विगुणपरिमाणं नागबलाया मूलं यस्मिन् तथाविधः कासव्याधिं शमयति । अस्य धूमपानन प्रयोग इति तस्य विधिर्जान्वोः समे सुखासने स्थित्वा शरावसम्पुटेऽन्तस्थमृद्वग्निक्षिप्तचूर्णस्तोकादुत्थितं धूममू(र्ध्व)शरावमध्यकृतामलकाण्डपरिमाणाच्छिद्रयोजितदशद्वादशाङ्गुलप्रमाणदीर्घे(ध! ण) नलि निकादिना निराकुलं कृत्वा वक्षःप्रदेशपर्यन्तं तुङ्गवत् प्रपीत्वा तथैव तत्कालमेव मुखेनोद्वमेत् । ततो निष्ठीवनशान्तौ पुनरेव पिबेत् यावद् वारत्रयम् । ततः श्लेप्मशान्तौ सत्यामनुपानं गुलदुग्धमिति ॥ १५४ ॥

पुरजाइजटाकिसलअमोरअफलकोल्लपल्लवसिलाहिं।

वत्ती सरीरधूवाहि हरइ खारग्गिण क्खासं ॥ १५५ ॥
पुरजातिजटाकिसलयमयूरफलकोलपल्लवशिलाभिः।

वर्त्तिः शरीरधूपाद्धरति बदगग्निना कासम् ॥

       गुग्गुलुना तथा सुमनोमूलपल्लवाभ्यां तथापामार्गफलैस्तथा बदरपत्रैस्तथा मनश्शिलाभिः एतैः समांशैर्जलवर्तितैः कृता वर्तिर्बदरकाष्ठाग्निना गन्धा धूपेन देह धिवासनादेव कासमपहरतीति ॥ १५५ ॥

भोअणसमए महुणा पिप्पलितिहलाण चुण्णमवलीढं।

सिम्भुब्भवजडपीणससो(स)महासासविद्दवणं ॥ १५६ ॥
भोजनसमये मधुना पिप्पलित्रिफलायाश्च चूर्णमवलीढम् ।

श्लेष्मोद्भवजलपीनसशोषमहाश्वासविद्रावणम् ॥

      मागधिकात्रिफलयोर्द्रव्यचतुष्टयस्य समांशस्य चूर्णं माक्षिकेण सहाग्रभोजनेऽवलेहनोपयुक्तं कफोत्थं जाल्यं (प्रति चतुष्टयस्य समांशस्य चूर्णं माक्षि. केण सह ! )प्रतिश्यायं तथात्युद्बणं श्वासमपसारयतीति ॥ १५६ ॥

पवलं पि हरइ हिक्कं सासम(दि)प्पसरिअं णिवारेइ।

सिहिपिञ्जहूइपिप्पलिचुण्णं महुमीसिअं लीढं ॥ १५७॥
प्रबलामपि हरति हिक्कां श्वासमतिप्रतिहतं विनाशयति ।
शिखिपिञ्छभूतिपिप्पलीचूर्णं मधुमिश्रितं लीढम् ॥

करिसं कलिहलचुण्णस्स लीढमच्चन्तमीसिअं महुणा।

गुरुसासवाहिविउडणमुद्धंसिहरञ्च जिमिआम्म॥१५८ ॥
कर्षं कलिफलचूर्णस्य लीढमत्यन्तमिश्रितं मधुना ।

गुरुश्वासव्याधिविघटनमूर्ध्वंशिहरञ्च जिमिते॥

विभीतकफलचूर्णस्य विलालपदकं माक्षिकसंयुक्तं भुक्तोत्तरमवलेहनोपप्रवृद्धश्वासकासहरमिति ॥ १५८ ॥

घअकुसुमसारलीढं खअं खअं णेइ गअबलामूलं।

पसुजुद्धेण (च?व) पीए कुरङ्गपसुपलरओ विहिणा ॥१९॥
घृतकुसुमसारलीढं क्षयं क्षयं नयति गजबलामूलम् ।

पशुदुग्धेन वा पीतं कुरङ्गपशुपलरजो विधिना ॥

   गव्यसर्पिष माक्षिकेण च सह नागबलाचूर्णमवलेहनोपयुक्तं क्षयव्याधिं राजयक्ष्माणं क्षपयति । अथवा छागक्षीरेण पीतं कुरङ्गमृगस्य तथा छागस्य पलरजः शुष्कमांसचूर्णमुक्तं कार्यं करोति ॥ १५९ ॥

घअसहिअं कइ(कव्वं) णीलीमूल व्व जुद्धसञ्जुत्तं ।

विउडेइ राअमन्दं दन्तिसमूहं मइन्द ल ॥ १६० ।
घृतसहितं कपि(द्र?क्र)व्यं नीलीमूलं वा दुग्धसंयुक्तम् ।

विघटयति राजप्रान्द्यं दन्तिसमूहं मृगेन्द्र इव ॥

गव्यसर्पिषा मर्कटमांसमथवा नीलीमूलं गव्यक्षीरसहितमुपयुक्तं नृपव्याधिं राजयक्ष्माणं नाशयति । सकृत्करत्वप्रतिपादनार्थमुपमानमिति ॥१६०॥

चुण्णं महुसञ्जोइअहअगन्धाकन्दगोक्खुरफलाणं ।

सोसमोसिरिअबलाणं दुद्धं पी(ते ? ए) बलं कुणइ ॥ १६१ ॥
चूर्णं मधुसंयोजितहयगन्धाकन्दगोक्षुरकफलयोः।

शोषम(प)सृतबलानां दुग्धं पीतं बलं कुरुते ॥

हयगन्धामूलश्वदंष्ट्रामूलयोः समांशयोश्चूर्णं माक्षिकसहितं छागक्षीरेण क्वथितशीतेन पीतं क्षयेणापगतसामर्थ्यानां बलाधानं करोतोति ॥ १६१ ॥

विह्णुक्कान्ता सोसं खवेइ सेलञ्जणेण सञ्जुत्ता।

दुद्धण केवलच्चिअ वाअसजंघव्व पिज्जन्ती ॥ १६२॥
विष्णुक्रान्ता शोषं क्षपयति शैलाञ्जनेन संयुक्ता ।

दुग्धेन केवलेन वा वायसजङ्घा (वा) पीयमाना॥

      विष्णुक्रान्ता नीलपुष्पी सौवीराञ्जनेन सह क्षीरेण पीता शोषं क्षपयति। दुग्धेन केवलेन वा वायसजङ्घा पीयमाना । (विष्णुक्रान्ता नीलपुष्पी सौवीराञ्जनेन सह पीता शोषं नाशयति अथवा काकजङ्घैव क्षीरेण सह पीतेति !) ॥ १६२॥

हअगन्धादुद्धलिआचुण्णे दुद्धेण पिअइ जो मासं ।

दुद्धाहारो (सो) दुव्बलो वि पीणत्तणं लहइ ॥ १६३ ॥
हयगन्धादुद्धलिकाचूर्णे दुग्धेन पिबेद् यो मासम् ।

दुग्धाहारः स दुर्बलोऽपि पीनत्वं लभते ॥

अश्वगन्धार्कपुष्पिकयोश्चूर्णं गव्यक्षीरेण प्रत्यहं मासं यः पिबति, स क्षीणबलोऽपि बललाभात् पीवरत्वं प्राप्नोतीति ॥ १६३ ॥

जबतीलतुरगगन्धाणाअबलाञासगुलणिसेवीण।

होइ बलं णवजोव्वणवणवारण(वारण)समत्थं ॥१६४॥
यवतिलतुरगगन्धानागबलामाषगुलनिषेवणात् ।

भवति बलं नवयौवनवनवारण(वारण)सपर्थम् ॥

अक्षततिलाश्वगन्धागाङ्गेरुकीमाषान् समांशांश्चूर्णीकृत्य गुलेन द्विगुणांशेन सह ये समुपयुञ्जते, ते तरुणारण्यकुञ्जरप्रतिषेधक्षमसामर्थ्यं प्राप्नुवन्तीति ॥१६४ ॥

तिहला सलोहचुण्णं महुणा परिणामसूलमवहरइ ।

काढिअजलमलिअगलिओ व्व मसहसेंभुक्कखारेण
[॥१६५॥

त्रिफला सलोहचूर्णा मधुना परिणामशूलमपहरति ।

क्वथितजलमिलितनिगीर्णं वा सूक्ष्मशम्बूकक्षारेण ॥

** ** हरीतकीविभीतामलकानि त्रीणि यावत्प्रमाणानि, तावत्प्रमाणेनैव शस्त्रचूर्णेन सहितानि माक्षिकेण सहोपयुक्तानि अन्नपरिणामकालजं हृच्छूलमपहरति । अथवाशीततोयेन मिलितं सत् पीतं सूक्ष्माणां नलादिप्रदेशजानां शङ्खानां पुटपाकदग्धानां भस्मोक्तकार्यं करोति ॥ १६५ ॥

डढ्ढमणिग्गअधूअं मअसंणं गोघहीण सह पीअं।

हिअअणिरिप्पासूलं हरइ सिही दारुणिवहं व्व ॥ १६६॥

दग्धमनिर्गतधूपं मृग(व्य ?शृ)ङ्गं गोघृतेन सह पीतम् ।

हृदयपृष्ठ(वर्तिशूलं) हरति शिखी दारुनिवहमिव ॥

हरिणविषाणमन्तर्धूमदग्धं गोघृतेन सह पीतं हृत्पृष्ठवर्ति शूलमपहरति । उपमानमाशुकार्यकरत्वप्रतिपादनार्थम् इति ॥ १६६ ॥

सोवच्चलहिङ्गमहोतहोहि पीएहि (का?)काढिअजलेण ।

दोग्गच्चेण सुहाइ व णासन्ति समत्थसूलाइं ॥ १६७॥
सौवर्चलहिङ्गुमहौषधैः पीतैः क्वथितजलेन ।

दौर्गत्येन सुखानीव नश्यन्ति समस्तशूलानि ॥

रुचकरामठनागरैः गृहपानीयपीतैः सर्वशूलानि निवर्त(न्ते) । व्यक्तार्थमुपमानमिति ॥ १६७ ॥

णासइ फुडमइसारो वरजलपिट्ठेहि तक्कपीएहि ।

वडपाअपप्परोहंकुरेहि कुलमविणअं व ॥१६८॥

नश्यति स्फुटमतिसारो वरजलपिष्टैस्तकपीतैः ।
वटपाद(प)प्ररोहाङ्कुरैः कुलमविनयमिव ॥

वटपादपस्य न्यग्रोधवृक्षस्य ऊर्ध्ववृत्तशाखोद्गतैर्मूलाङ्कुरैस्तण्डुलोदकपिष्टैः पश्चाद् गोरसेन पीतैः निश्चितमतिप्रवृतं नश्यतीति सुबोधार्थमुपमानमिति ॥ १६८॥

जलमसिणपिट्ठकोमलबन्धूलदलेहि पीअमत्तेहि।

सइ पसरिओ (वि) थक्कइ अइसारोमुट्ठिगहिओ व्व॥१६९॥
जलमसृणपिष्टकोमलबन्धू(ल)दलैः पीतमात्रैः।

सदाप्यतिसृतोऽपि तिष्ठत्यतिसारो मुष्टिगृहीत इव ॥

जलेन सूक्ष्मपिष्टानि यानि बन्धूलकस्य किङ्किरातस्य पत्राणि तैः पीतमात्रैः नित्यं प्रवृत्तोऽप्यतिसारो निरुध्यते । यथा मुष्ट्यावष्टब्धः के(न)चिद् बलवता कश्चिन्निरुध्यत इति ॥ १६९ ॥

महुसक्करासणाहं तण्डुलधुअणेण पीअमणुदिअहं ।

हरइ रुहिराइसारं घणरवमूलं तिरत्तेण ॥ १७० ॥
मधुशर्करासनाथं तण्डुलधुवनेन पीतमनुदिवसम् ।

हरति रुधिरातिसारं घनरवमूलं त्रिरात्रेण ॥

माक्षिकसितशर्कराभ्यां युक्तं घनरवस्य लोहिलीसस्य मूलं गोष्ठोदकेन पष्ट्वा पीतं रक्तातिप्रवृत्तं त्रिरात्राभ्यासान्निवारयतीति ॥ १७० ॥

तण्डुलजलपिट्ठंकोल्लमूलकरिसद्धपाणम(व)हरइ।

सव्वाइसारगहणीरोअसमूहं महाघोरं ॥१७१ ॥
तण्डुलजलपिष्टाङ्कोलमूलकर्षार्ध(मात्र ? पान)मपहरति ।

सर्वातिसारग्रहणीरोगसमूहं महाघोरम् ॥

वरजलेन पिष्टमिरिकिल्लस्य मूलं तोलकमात्रपरिमाणं पीतं सत सर्वेषामतिसाराणां च वृन्दं विनाशयति ॥ १७१ ॥

चुण्णं मरिअमहोसहकुडअजडाविउणभाअकमवधिअं।

गुलमीसमहिअपीअं गहणिमहावाहिविद्दवणं ॥ १७२॥
चूर्णं मरिचमहौषधकुटचत्वग्भिर्द्विगुणभागक्रमवृद्धम् ।

गुलमिश्रमथितपीतं ग्रहणीमहाव्याधिविद्रवणम् ॥

ऊषणस्य तथा नागरस्य तथा कुटचत्य एषामुत्तरोत्तरद्विगुणभागतया वृद्धं चूर्णं गुलमिश्रेण तक्रेण पीतं ग्रहणीशैथिल्यात्मकं महाव्याधिं द्रावयति इति॥१७२ ॥

मोरअतण्डुलमाहूअसारगिरिकण्णिआहलद्दीहि ।

अञ्जणगुलिआ णिहणइ विसूइअंतिअड्डसणाहा ॥१७३॥

मयूरकतण्डुलमाधूकसारगिरिकर्णिकाहरिद्राभिः।

अञ्जनगुलिका निहन्ति विषूचिकां त्रिकटुप्तनाथा ॥

         एभिर्द्रव्यैः कृताञ्जनगुलिका विषृचिकाख्यमजीर्णरोगं नाभ्यञ्जनेन नाशयति । कैः । अपामार्गस्य बीजैः स्तबकगृहीतया मधुयष्ट्या तथाटव्या तथा पिण्डहरिद्रया तथा शुण्ठिमरिचपिप्पलीभिरित्येतैः समांशैर्जलपिष्टैरिति ॥१७३॥

तिहलालोहसिलाजउहरडइचुण्णाण लीढमेक्केक्कं।

महुणाग(लू) इसुरसोव्व (सव्व)ने(हे ? हं)णिवारेइ॥१७॥
त्रिफलालोहशिलाजतुहरीतकीचूर्णानां लीढमेकैकम् ।

मधुना गुलूचीस्वरसो वा सर्वमेहं निवारयति ॥

   त्रिफलायास्तथा शस्त्र चूर्ण ! स्य तथा मनश्शिलानिःष्यन्दस्य तथा पथ्यायाः सम्बन्धिनां चूर्णानामेकैकं माक्षिकेण सहावलीढं सर्वमेहान् बहुमूत्ररूपव्याधिभेदान् अपवारयतीति । अथवा गुलूच्या अमृतायाः स्वरसः पीतः सन् पूर्वोक्तं कार्यं करोति ॥ १७४ ॥

अच्चन्दमसिणमहिणवणिम्मलमहुमीसिअंणिसाचुण्णं ।

आमलअरसोम्मीसं णासेइ पमेहसन्दोहं ॥ १७५ ॥
अत्यन्तमसृणमभिनवनिर्मलमधुमिश्रितं निशाचूर्णम् ।

आमलकरसोन्मिश्रं नाशयति प्रमेहसन्दोहम् ॥

पिण्डहरिद्राचूर्णमतिसूक्ष्मपिष्टमपुराणनिष्कलङ्कमाक्षिक तथामलकरसेन सह पीतमुपयोगात् प्रमेहव्याधीन् सर्वान् निवारयति इति ॥ १७५ ॥

गोधावईइमूलं कढिअं घअतेल्लगोरसुम्मीसं ।

मुत्तमहरुद्धपसरं (वि) पीअमत्तं पवट्टेइ ॥ १७६ ॥
गोधावतीमूलं क्वथितं घृततैलगोरसोन्मिश्रम् ।

मूत्रमतिरुद्धप्रसरमपि पीतमात्रं प्रवर्तयति ॥

गोधावत्याः (स्त्री! श्री)पर्ण्या मूलं गोरसेन तथा धृततैलाभ्यां भूई पीतमत्यन्तगाढमूत्रकृच्छ्रमाशु निवर्तयति । पूर्वं घृततैलभृष्टं पश्चाद गोरसेन पक्तव्यमिति ॥ १७६॥

पाणाहवाहिपीडं सोवच्चलमीसिआ सुरा हरइ ।

महुदुद्धेहि तिरत्तं पीआ तिलणालभूइ व्व ॥ १७७॥
अश्मरीव्याधिपीडां सौवर्चलमिश्रिता सुरा हरति ।

मधुदुग्धाभ्यां त्रिरात्रं पीता (तृण ? तिल)नालभूतिर्वा ॥

अश्मरीरोगजं वारुणी रुचकसंयुक्ता पीता सती नाशयति। अथवा तिलकाण्डानां भस्म माक्षिकक्षीराभ्यां सह पीतमेतत्कार्यं करोति इति ॥१७७॥

वच्छकडिआमूलं परिवसिअजलेण पीअमणुदिअहं ।

पाडेइ पच्छणिरअस्स सक्करं तइअदिअहम्मि ॥ १७८ ॥
वच्छकर्कटिकामूलं पर्युषितजलेन पीतमनुदिवसम् ।

पातयति पथ्यनिरतस्य शर्करां तृतीयदिवसे ॥

      बच्छकर्कटिकाया गोपाया (कर्कटिका!)मूलं पर्युषितेन रात्रिपूर्वस्थापितेन जलेन पिष्टं प्रातः प्रातः प्रत्यहं तेनैव सह पीतं सत् पथ्याशिनः शर्कराख्यं  

व्याधिविशेषं निस्सारयति तृतीयेऽह्वीति ॥ १७८ ॥

पीआ दुद्धुम्मीसा कम्मओडिजडा दसाहमत्तेण ।

भइकण्डसक्करं हित्तिऊण कढिअं पि पाडेइ ॥ १७९ ॥
पीता दुग्धोन्मिश्रा कपोटिजटा दशाहमात्रेण ।

अप्यण्डशर्करां भित्त्वा कठिनामपि पातयति ॥

कपोट्या(अ) र्कपुष्प्या मूलं गव्यक्षीरेण सह पीतं (दधि! दिन)दशफमात्राभ्यासादतिकर्कशामप्यण्डगतां शर्करां विदार्य पातयति इति ॥ १७९ ॥

गिह्मुप्पोडिअमालइमूलं पसुदुद्धसाहिअं ससिअं ।

(पीअं)मुत्तणिरोहण्डसक्करादुक्खविद्दवणं ॥ १८० ॥
ग्रीष्मोत्पाटितमालतीमूलं पशुदुग्धसाधितं ससितम् ।

पीतं मूत्रनिरोधाण्डशर्करा(दुःख)विद्रावणम् ॥

निदाघो( न्मी! न्मू)लितायाः सुमनोलताया मूलं छागक्षीरेण सितशर्कंरया च साधितं सत् पीतं मूत्रकृच्छ्राण्डशर्कराव्यथानिवारणम् । अत्र साधनविधिः पानीयपलानि षोडश द्रव्यपलेन सह क्वाथयित्वा चतुर्भागशेषं ततो द्रव्य(मपा)स्य तेनैव जलेन सह क्षीरपलानि चत्वारि क्वाथयित्वा क्षीरं ग्राह्यमिति ॥

गलगण्डगण्डमाला कुरण्डरोआविणेण णासन्ति ।

कअलेवातण्डुलधुअणपिट्ठदिअल्लं(?) ॥ १८१ ॥

[[“नमः प्रयोगै(!) प्रयोगसम्बन्धैरौषधैर्मन्त्रसंयु(क्तैः! तैः) । भिषग्वरकृतैः शास्त्रैस्तथान्यग्रन्थमि(श्रैः ! श्रितैः) ॥12
मन्त्रैश्च विविधैः प्रोक्तं वामदक्षिणकैस्तथा । सर्वतः सारभूतं तु यत्तद् वक्ष्याम्यशेषतः ॥

नाम्ना मिश्रकमित्युक्तं सर्वस्रोतसमुच्चयम् ॥

तत्र कर्म प्रवक्ष्यामि यथायोगसुखप्रदम् ।

सिद्धयोगा यथा मन्त्रा धूलिकर्माणि चैव हि ॥

धूपाश्च विविधाश्चान्ये स्नानवर्तिविलेपनम् ।

विदग्धैर्विविधैः प्रोक्तास्तथान्यैः शास्त्रचिन्तकैः ॥

तदहं चैकतो वक्ष्ये सुभाषितकरण्डकम् ।

हर आगमलागर्ते संज्ञावर्णसमन्वितम् ॥

मारयस्वपदैर्युक्तं रेफस्सान्तरईसमम् ।
कद्वितीयविसर्गेण हुंफडन्तनियोजितम् ॥

अत्र मन्त्रः —

ओं भूगोलगर्भे अमुके भारय ह्रीं खः हूं फट् ।
शुष्कमाषाष्टसंयुक्तां कुर्यात् पुत्तलिकां शुभाम् ।

स्त्रीपुंसयोः खरूपेण माने द्वादशके खके ॥

पुंसोऽस्थिकेन सम्मथ्य शङ्कुं कुर्याच्चतुरङ्गुलम् ।

हृदये निखनेत्तद्धि स्नाप्यश्चेयोद्भवे मृणा ॥

स्थापयेद् वह्निसंस्थाने पूजयेद् दिनसप्तकम् ।

त्रिपञ्चार्णयुतं मन्त्रं मारयेत् त्रिदशानपि ॥

गुलात्तीयनमेतद्धि विद्वेषे रिपुनिग्रहे ।

किण्टं सप्तदिनोषितं सुनिहितं गोमूत्रतोये स्थितं
रजश्मशानारिपुपादकण्टका सविषं सर्पकञ्चकम् ।

एतैः कण्टकवेधितां प्रतिकृतिं साम्ये रिपुं चालिखेत्
पश्चाद्वा लिखितं च पूजय महाकालं ततोऽस्याः स्तनौ ॥

सप्ताहं कुसुमानि चूर्णमपि तथा कृष्णं विषं धूपनं
रक्तं पानमतिप्रसादय तथा कामं मु(मुक्षुस्तथा ।

अत्र मन्त्रं प्रवक्ष्यामि येन कर्म प्रसिद्धयति ॥

ओं नमो गणपतये महाकालाय हन गृह्ण तापय अमुं मारय मारय ग्लां हूं फट् ।

अनेन मन्त्रणालोड्य कारयेत् प्रतिमां ततः ।

चुल्लीपृष्ठे तथा आमे शवे स्था(ने) तथा गृहे ।

श्मशाने वान्यदेशे वा यत्र वा रोचते मनः ॥

तत्र स्थाने कृतं ह्येवं मृत्युरेष्यति वं नरम् ।
नरस्य दक्षिणा कार्या (स्त्र्या! स्त्रिया) वामेन कारयेत् ॥

** माषयवतण्डुलपिष्टैः पुत्तलिकां कृत्वा शुक्तेनालोड्य विपराजिकारक्कैल्ले पयेच्चतुरङ्गुलं मानुषास्थिमयं कीलकगतशूलमुत्पद्यते । अमुद्धृते मारयति । उद्धृते मोक्षः । अस्य मन्त्रं प्रवक्ष्यामि । ओं त्रैशिखे ज्वालामुखि ह्रीं हाहा भूं हहहै फट् ह्रें ह्रैं नमः ओहन्नतमृफट्टतिश्च शय त्रूं ज्रूं ह्रूं ह्रीं पाशहस्ते अमुकं मारय फट्। (स्त्र्या ? स्त्रिया)वा पुरुषस्य क्रियते । एषा सिद्धिः। मानुषास्थिचूर्णं गोधूमराजिकातण्डुलाढकैर्व्यामिश्रंं शुक्तेनालोड्य. प्रादेशमात्रां पुत्तलिकां कृत्वा खदिरकीलकां खात्वा रोहदि शिरासे बाहुद्वये च विधायाष्टसहस्रं जप्तं कृत्वा सप्ताहपूजनान्मारयति । गुह्यमातरं संपूज्य मन्त्रमेतमनुस्मरेत् ।**

हे कालि काकरुदिते काकि पिण्डोपहारिणि ।
अमुकस्य हृदयं भित्त्वा गच्छ काकि यथासुखम् ॥
ओं ह्रीं क्रां अमुकं मारय ह्रीं फट् । पुरुषस्य पुरुषास्थिभिः (स्त्र्य! स्त्रियाः) स्त्र्यस्थिभिः कार्यम् । एषा सिद्धिः॥

श्मशानास्थिमयं भस्म शत्रुपांसुपदच्युतम् ।

यवशिष्टं तु मोटाह्वा स्वरक्तेन क्षपेत् + +॥

शत्रुनामयुतां कृत्वा याम्यायां स्थापयेद् दिशि ।

शुनोऽस्थ्ना हृदये विद्ध्वा नरकेशैश्च वेष्टयेत् ॥

विलोमेनैव हृदये जप्तव्या साधकेन तु।

मों जम्भे मोहे नमः।
सप्ताहं तापयेद् यत्नाच्छत्रूणां नाशनाय च ।

निखनेद् यत्र संस्थाने मन्त्रेणानेन संयुताम् ॥
ओं रुद्राय वज्रतुण्डाय गणेभ्यः । उद्धृते मोक्षः तापमध्ये स्वस्थीकरणम् ।

मानुषास्थीनि संपूज्य विषेण सह पेषयेत् ।

रक्तेन बोधिकां कृत्वा कुर्यात् पुत्तलिकां शुभाम् ॥

साध्यनामाक्षरैर्युक्तां तस्य कर्णे तु बन्धयेत् ।

चुल्लिमध्यस्थितां कुर्यादुत्तमामुक्तराशिना ॥

वामेन पाणिना चैव अष्टधारां तु कारयेत् ।

ततस्तु ज्वलिते वह्नौ तत्क्षणाद् दह्यते भृशम् ॥

सखे पतति मोहात्तु यदि ब्रह्मा स्वयं भवेत् ।

सिकमेवं (असम्पादितः भागः )प्रयोगं तु कुर्यात् खे मन्त्रवित् तदा ॥

ओं ह्रीं आज अमुकं नाशय फट् ।

सर्षपानथ सञ्चूर्ण्य सिक्तकेन सहैव तु ।

ततः पुत्तलिकां कृत्वा नामाक्षरसमन्विताम् ॥

कपाले निहितामेतां मुक्तकेशो निशामुखे ।

गृहीत्वा वामहस्तेन मन्त्रमष्टशतं जपेत् ॥

ओं ह्रीं ज्रूं आं जं अमुकं मे वशमानय स्वाहा ।
अनेन मन्त्रराजेन योजनानां शतैरपि ।
आनयेद् यक्षकन्याश्च किं पुनर्मानुषस्त्रियः ।

पुरुषं वा,

चिताभस्म गृहीत्वाथ पादपांसुसमन्वितम् ॥
शुक्तेन भावयेदेतद् विषेण च समन्वितम् ।

कृष्णाष्टम्यां चतुर्दश्यां कपाले कारयेत् कृतिम् ॥

चित्यङ्गारे च पत्रे च शत्रुनाम निवेशयेत् ।

विषेण सह संलिप्य मन्त्रेणानेन बुद्धिमान् ॥

** ओं नमो भगवति कामरूपिणि माये महामाये स्फुटं स्फोटय रौद्रकर्माणि साधनीकुरु । याम्ये यमान्तिके घातय ओं नमो भगवति अप्रतिहतशक्तिदमनि दारय शी(घं! घ्रं) नाशय हूं फट् ।**

काकपक्षेण संलिख्य मन्त्रं हृदि निवेशयेत् ।

शवकेशेन संवेष्टय चीरिकां तत्र निक्षिपेत् ॥

अग्निस्थाननिविष्टातो मन्त्रेशेनापतान्वितम् ।

एवं विधानतः कुर्यात् प्रपन्नः साधकोत्तमः ॥

मातृभिः सहितं पूज्यं भैरवं तु स चाङ्कुशम् ।

द्विसप्ताहकृते जापे शत्रुः प्राणैर्वियुज्यते ॥

इत्येतद् गुह्यमुद्दिष्टं न देयं यस्य कस्य चित् ।

यवतण्डुलगोधूमचूर्णमाम्राणि योजितम् ॥

श्मशानभस्मना युक्तां कुर्यात् तद्रूपतत्कृतिम् ।

भावयेत श्वमूत्रेण विषघृष्टं लिखेत्तु ता ।

शवकेशेन संवेष्ट्य चीरिकान्तति निक्षिपेत् ॥

नरास्थि शङ्कुग्रीवायां द्वितीयं चैव वक्षसि ।

कृत्वा यममयी शूली गुह्यदेशे तु निक्षिपेत् ॥

सहस्रपरिजप्तानां कुर्यान्मन्त्रवरेण तु ।

भैरवं च शिवादूतीं याम्यां ज्वालामुखीं तथा ॥

मध्ये ह्यत्र कृता गौरी न विगर्भेह कर्हिचित् ।

होमयेच्चितिकं भस्म विषमर्घ्यं यया सह ॥

होमं कृत्वा त्रिसन्ध्यान्तं मारयेत् त्रिदशानपि ।

मारयेदसुरान् क्रुद्धो यदि रक्षासुरक्षितः ॥

मारयेद्धोमयेत् तां तु आहुत्यन्ते तु भैरवम् ।

विनाप्ययुतहोमेन स्नायुशेषो भवेद् रिपुः ॥

श्मशाने सिध्यति ह्येतद् यस्मात् कर्म सुदारुणम् ।
मन्त्रः

चितिभस्म तथा गृह्य पादपांसु तथैव च ॥

माषाष्टकेन संयुक्तां कुर्यात् पुत्तलिकां नरः ।

आर्द्रा च भरणी चैव तिस्रः पूर्वास्तथैव च ॥

एते पुत्तलिकायोगा अन्येषां नैव योग्यता ।

प्रादेशमात्राः कर्तव्याश्छागरक्तेन स्नापयेत् ॥

रक्तपुष्पं तथा धूपो रक्तो देयो बलिस्तथा ।

एतं त्रिसप्तवर्णेन सप्तरात्रं प्रपूजयेत् ॥

ततोऽन्ते सप्तरात्रस्य दक्षिणायां दिशि स्थितः ।

चुल्ल्या निवापयेत् प्राज्ञो मन्त्रराजं च षड्जपम् ॥

ततोऽग्निवर्णा विकटा जायन्ते तस्य निग्रहे ।

तोयमध्ये तदाक्षिप्य शोषं चैव न संशयः॥

गृहे तालुगतो शोषं दाघं शुक्लस्य मध्यगः ।

अं(ब)रीषे शिरोर्तिः स्याद् गोमये कृतसञ्चयः॥

उदेधृते चैव मोक्षः स्याद् यदि नेच्छेत मारणम् ।

ओं नमः कृष्णशबलाय।

अन्यथा क्षिप्रकरणं योगं योगवरं शृणु ॥

सुरा…….. कीमां कुर्याद् वश्यं तथा क्रमम् ।

हर्म्योपरिगृहे गोष्ठे यत्र वा जनवर्जिते ॥

देवदारुसमिद्भिर्वा होमयेद् विषमासुरीम् ।

प्रतिमां स्थापयेत् तत्र तादृगिच्छेदवेदना ॥

पानीये सतिले शोषं दाहं प्रस्फोट्य वह्निना ।

क्षीरेण शीर्यते मांसो गृहे ताल्वादिशोषणम् ॥

शुक्तमध्ये तदाघं गोमूत्रे शूलना सह ।

अम्बरीषे शिरोर्तिः स्याद् गोमये कृमिसञ्चयः ॥

उद्धृते कुरुते मोक्षं यदि नेच्छेत्तु मारणम् ।
घृतदुग्धतिलैर्होमाच्छान्तिः स्यात् सर्वकर्मसु ॥

ओं ज्रं थ्रं ढ्रीं ह्रीं शत्रुं नाशय । चीरिकाभ्यन्तरेण विषेण सुशिवाम्बुना घृष्ट्वा लेखनीय किण्टेभ्येवत् भैरवो गौरी शिवा दूती याम्या ज्वालामुखी।

यत् पूर्वं द्युतिवर्णान्यं पमेति च पदे तथा ।

उलूखीति पदं पश्चात् कालीति + पदं पुनः ॥

विद्युज्जिह्वेति संयोज्यममुकं द्विहनेति च ।

दहेति च पदं द्वेधा उत्सादयपदं द्विधा ॥

दूतीद्वितीयबीजान्तं फट्कारान्तसमन्वितम् ।

चितिस्थं लोष्टकं गृह्य आग्नेये दिग्गतं प्रिये ॥

जपेदष्टशतं मन्त्री नग्नो मुक्तशिखस्तथा।
स्थापयेत त्रिभुवने पर्वतानपि चालयेत् ॥

** ह्रीं धमत चूली कराली विद्युज्जिह्वे अमुकं हन दह उत्सादय हूं फट् । संज्ञा दुर्वचसापौरन्दरमन्दिरे लूटीभूतां मलउबीजविद्धाममुकवचो हनस्व प्रत्येकं नणनीवत् पुटितं स्यात् । वेधय तीक्ष्णाग्रकण्टकैः बीजमावेष्टनीयं रजसा असरिचूणस्तर्थौ सुरायुक्तैः ।**

मृत्पुटसम्पुटितोऽयं वेधय तीक्ष्णाप्रकण्टकैर्बीजम् ।

देन्यग्रे भवि निहितं वागीशस्यापि संहरेद वाचम् ॥

पुङ्खन्ते चितिनाग्निना यमदिने मुष्कान्तमध्ये रिपुः
भूयस्ते ज्ञोम तेजो भुवनं संलिख्यते सप्तधा।

खण्डश्चापि सप्तधा दिशसपद्दक्षिणां संस्थितः
सङ्धृष्टं च तथात्र सप्तदिवसान्तो वर्णो मन्त्रनिर्परे ॥

सप्ताहेन रिपुर्ज्वरेण म्रियते सत्यं वदे नानृतं
भूयोभूय निघृष्यते यदि रुषा सप्तत्रयं यावधिः ।

शत्रोर्वाथ बृहस्पतिर्दिनकरं खस्थं च सम्पातयेत्
……………………………………………………….॥

** ओं आमुटे प्रस्नटि सप्तपुटके अमुकस्य अमुकेन सह विद्वेषमुत्पादयोस्पादय । विषच्छागरुधिरश्मशानाङ्गारमृत्तिकां श्मशानादानीयास्थिना लिखेत् काकपक्षलेखिन्या आश्लेषानक्षत्रे नैर्ऋत्यां दिशि यक्षमाणास्यैव होमं दिवसात् सप्तसन्ध्यात्रयं काष्ठं रावरासुहृयं वा नैर्ऋत्यां दिशि वीक्षमाणा सन्ध्यावेलायां नग्नोन्मुक्तशिखस्तु विषच्छागरुधिरेणालोड्याहुतीनां शतमेकेनवथिकं दद्यात् । देवताध्यानेन चण्डिका चिन्तनीया कुमारीद्वये भोजयेत् विनायकं यजेत् पूर्वसेवा आसनं कृष्णभूर्थकं बहिः प्राणस्थः असितं ध्यानं काञ्चिकेन सहालोड्य सर्वदुःखोपशमनी हस्तस्पर्शदुःखाच्छिन्दन्ति इदं च कपालद्वयलिखितं काकपक्षेण विषरुधिरेण काञ्चिकेनालिख्य श्मशानमृत्तिका अस्थि अङ्गारिका पदपांसुं साध्यस्य बाह्ये केशेनावेष्ट्य कुम्भकाराग्निमध्ये क्षेप्तव्यं पीडार्थं धरण्यां खनित्वा क्षेपणीयं पृष्ठे अग्निं प्रज्वाल्य विषपीडा उत्सादयति । ओं रुद्र शवरि फु फु। एषां प्रदोषे आग्नेयमण्डलमध्ये ध्याये मध्यरात्रो शय्यामूत्रणंस्तर्तिश्यति ओं नमः परिव्राजकानां तद्यथा कथम ओमि । आत्मीयलिङ्गमभिमन्त्रयेद्वाराभ्यस्तवामहस्तेनावष्टभ्य ततो मैथुनं कुर्याद् वश्यो भवति। पूर्वसेवालोहितपटाद्वर्तिसिरातैलेन कज्जलमध्ये मातुलुङ्गपञ्चाङ्गं वर्तिमध्ये प्रदीपयेत् ।**

एतेनाञ्जितनेत्रस्तु यद् ब्रवीति स पश्यति ।

** अत्र मन्त्रः । ओं रक्ते रक्ताङ्गुष्ठे अवतर विद्ये । अनेनाष्टशताभिमन्त्रितेनाङ्गुष्ठे प्रलेपने प्रसेना दृश्यते । ओं दधिविवेकाय अमुकं मे वशमानय हुंफट् । पीठतासिद्धः वचया वशीकरोति ।**

प्रियङ्गुरोचनालोध्रं पिप्पल्यथ मनश्शिला ।

अश्वलालासमायुक्तं प्रीतिकारकमुत्तमम् ॥

अनेन तिलकं कृत्वा यावत् पश्यत्यसौ जनम् ।

प्रियो ददाति सर्वेषां दर्शनादेव मानवाः ॥

अग्नीषोमौ समौ कृत्वा शुचिरग्निं प्रपश्यति ।
तत्रस्थस्तु जपेन्मन्त्रं विघ्नैर्नैवाभिभूयते ॥

** लापीविविकलास्या यदि जीरेण वेष्टिता तन्तुगुल्गुलु धपश्चित्रस्त्रीकर्षणश्रेष्ठ ओं भैरव भयसन्त्रासनिनत रक्षरक्षनार्थमिह देवियात्वं बलेन बलवति बलायिके त्वां नमस्तेस्तु बलायिकायै अमुकस्य जिह्वां स्तम्भय । पूर्वाषाढनक्षत्र पूर्वामुखं चतुरश्रमण्डले दे पूज्या । अनेन मन्त्रेणार्घ्यपुष्पप्रापणकं विक्षेपाद्यं श्मशानाङ्गारिकैः साध्यं वित्रस्तं जिह्वा निर्गत्वान्यछामजिह्वा तत्पृष्ठे कुम्भके सूचितव्यम् । कुष्ठे प्रदेशे चितिभस्मकण्टकैर्वेष्टयित्वात्मपृष्ठके दातव्यम् । घण्टाकर्णाय नमः । अनेन मन्त्रेण सप्ताभिमन्त्रितं लोष्टं कृत्वा तेन वृक्षं ताडयेत् ग्रामे प्रविशते लभ्यते पूर्वसेवा । ओं नमो भगवति वामेश्वरि अनुपूर्वे ग्रामप्रवेशे जपेच्छतमष्टाधिकं भक्तञ्जमिकं लभ्यते । ओं विटिचिटिभाटिलि अनेमाष्टाङ्गुलां काष्ठिकामभिमन्त्र्य कर्णे निक्षिपेत् ग्रामे प्रदेशे अयाचितमन्नं लभते । ओं रक्ते देवदत्ते अवतर उच्छष्ममातङ्गिनि कृष्णाष्टम्यां शुचौ देशे अष्टसहस्रं जपेत् सिद्धा भवति । अङ्गुष्ठमलक्तके विलिप्य कुमारिका शुभाशुभं पश्यति प्रसेनेयम् । ओं नमो भगवते आर्द्रपटेश्वराय अनिले कालिका आर्द्रजिह्वे चण्डशोषणि रुद्रकापालिनि ज्वालामुखि सप्तजिह्वे सहस्रजिह्वे अमुकं ते पशुं ददामि तस्य जीवितं निकृन्त रुद्राय फट् अघोराय फट् विकलाय फट् चिण्डि चण्डमुखि गच्छ पशुपतिराज्ञापयति श्मशानमध्ये यावत्पटो न शुष्यति तावच्छत्रुं मारयति ।**

न तिथिर्न च नक्षत्रं नोपवासेन च क्रिया।
अथ मारयितुर्नाम ग्राहयेच्चितिभस्मना ॥

** रुधिराक्तेन जुहुयात् सद्यो म्रियते । वशीकरणे पादपांसु जपेदष्टोत्तरशतं यस्य ददाति सर्वस्य उच्चाटन गौरसर्षपकाकजिह्वामर्कटरोमाणि निम्बपत्रलवणगोपित्तं जपेदष्टोत्तरशतं शत्रुद्वारे धूपः अथ श्मशानभस्मना पदमात्रं कृत्वा मध्याह्नं यावदादित्याभिमुखो जप्त्वा श्मशानभस्मभ्यो पटमार्द्रीकृत्य देवाग्रेजपेदुत्सादयति । ओं मुण्डे महापिशाचि । अहोरात्रोपोषितो जपेत् स्वप्नं कलयति । अमुकमन्त्रं जपस्वेति । ओं ईगिलि पिङ्गिलि । भिक्षायाः प्रथमपिण्डं सप्ताभिमन्त्रितं भूम्यां क्षिपेत् अपरिमितमनुभवति । पूर्वाषाढनक्षत्रे साध्यपादपांसुश्मशानाङ्गारविषराजिकाच्छागरक्तहरिद्रा भौमवारे अथार्द्राभरणीकृत्तिकापूर्वफल्गुन्यां वा शरावद्वये मारणे कपालद्वये वा भौमचण्डकौ तुषके श्मशानाङ्गारकैः श्मशानास्थिभिः पूरणीयौ परस्परं पुटितौ अङ्गाररज्ज्वा अश्ववालरज्ज्वा वा उपरिलिखितद्रव्यलिप्तयोर्बाह्ये वेष्टितव्यौ सन्ध्याकाले रात्रौ बहिः प्राणेन कृत्वा लिखितव्यौ दक्षिणादिङ्मुखः काकपक्षलेखिन्या तयोः पृष्ठौ स्तोकमात्रां मृत्तिकां दत्त्वा मूत्रपुरीषौ कार्यौ तच्च राहुशिरसि शरावलिखिते द्वयीशराव अमु(क्त! क)स्यवाचं स्तम्भय जिह्वां स्तम्भय अथवा अमुकं मारय अथवामु(क्त! क)स्यान्नपानं भक्ष पानीयं वा पानं स्तम्भय इति द्विधा लेख्यमाकारे वकारे लग्लौकारेणोभयसंपुटितेनावर्तन्तत्पृष्ठे लिखित्वा ठ तत्पृष्ठेन्द्रपुर वज्रलाञ्छितं लकारचिह्नितं सपावं सपुटयोर्बाह्ये वज्रपुरं राहुशिरा नाममन्त्रः॥**

पुत्तलिकापञ्चविंशतिका समाप्ता ॥

** तथा सर्वेषु त्रिष्वपि दोषेषु ज्वरनिमित्तेषु महौषधसूक्ष्मपत्रप(यो! यः)काथः पूर्ववत् सुखावहः । अस्य च दोषस्य वातिकादिज्वरेषु पृथगपि प्रयोगमिच्छन्त्याचार्या इति युगलकम् ॥**

जलजलहरधम्मासअरोहिणिसुण्ठीउ काढिअजलेण \।

पीआउ समत्तजरे हरन्ति उअराग्गिजणणीओ॥
जलजलधरधन्वयाषरोहिणीशुण्ठ्यः क्वथितजलेन ।

पीताः समस्तज्वरान् हरन्त्युदराग्निजनन्यः ॥

बालकमुस्तकदुरालभाकटुनागराणि क्वाथक्रमेण जलसाधितानि पीतानि सन्ति सर्वदोषोद्भवान् व्यस्तसमस्तान् ज्वरान् नाशयन्ति जठराग्निं च दीपयन्तीति ।

छिण्णरुहाघणभूणिंब(सुण्ठि)कढिअं जलं जरं हरइ ।

घणसुरणिडिड्डिआहि व मुणालपाठाजलेहिं ब ॥

छिन्नरुहाघनभूनिम्बशुण्ठीक्वथितं जलं ज्वरं हरति ।

घनसुरनिदिग्धिकाभिर्वा मृणालपाठाजलैर्वा ॥

गुलूचीमुस्तककिराततिक्तकविश्वौषधैः क्वथितं तोयं पीतं सत् ज्वरं हरति । अथवा मुस्तदेवदारुकण्टकारीभिः क्वथितम् अथवा उशीरभङ्गीबालकैः क्वथितम् । क्वाथत्रयस्यास्य बलाबलं विचार्य सर्वज्वरेषु प्रयोग इति ॥१८३॥

तिहलापडोलजलहरछिण्णरुहाणिंबधणिअकसाओ।

हरइ समत्थे विअणं पीओ महुसक्करासहिओ ॥१८५॥

त्रिफलापटोलजलधरछिन्नरुहानिम्बधनिककषायः।

हरति समस्तानपि ज्वरा(न्) पीतो मधुशर्करासहितः॥

      हरीतक्यामलकविभीतकैः तथा पटोलेन कुलकेन तथा गुलूच्या तथा पिचुमन्देन तथा धान्यकाफलैः कृतक्वाथो माक्षिकसितशर्कराभ्यां सह शृतशीतं सत् सर्वज्वरान् निवारयतीति ॥ १८४ ॥

अपहरइ (स)मत्थजरे कुणइ खुहं मम्महं च दीवेइ ।

आमलअसिवाचित्तअपिप्पलिचुण्णो समब्भसिओ॥ १८५॥

अपहरति समस्तज्वरान् करोति क्षुधं मन्मथं च दीपयति ।

आमलकशिवाचित्रकपिप्पलीमूलचूर्णं समभ्यस्तम् ॥

धात्रीफलपथ्याग्निकर्णानां समांशानां चूर्णमभ्यासेनोपयुक्तं सर्वज्वरानरुचिं च क्षपयति, वृषकार्यं च करोतीति ॥ १८५ ॥

आमलअमलअवालअ(मुणाल)पप्पडअघणगुलोईहि ।

कढिअजलं स(म)हुसिअ समत्थजरदप्पविद्दवणं ॥ १८६ ॥
आमलकमलयवालकमृणालपर्पटघनगुलूचीभिः।

क्वथितजलं समधुसितं समस्तज्वरदर्पविद्रावणम् ॥

धात्रीफलचन्दनवालकफलोशीरतिक्तमुस्तामृताभिः कृतः क्वाथः शृतमाक्षिकसितशर्कराभ्यां सहितः सर्वज्वरवेगविद्रा(वण) इति ॥ १८६ ॥

किरिमालअधम्मासअवसाणिंबमलअदक्खाहि ।

कढिअजलं पि तहचिअ हरइ जरं सअलदोसभवं ॥ १८७॥

किरिमालकधन्वयावकवसानिम्बमलयद्राक्षाभिः।

क्वथितजलमपि तथैव हरति ज्वरं सकलदोषभवम् ॥

आरग्वधदुरालभाटरूषककिराततिक्तकचन्दनमृद्वीकाभिः शृतं जलं (असम्पादितः भागः )र्ववन्मधुसिताभ्यां सहितं पूर्वोक्तं कार्यं करोतीति ॥ १८७ ॥

मुत्थापडोलरोहिणिनिहलासुरदारुणिंबरअणीहि ।

सलहन्ति सण्णिवाए कसाअमिणमो महावज्जा \।\।१८८॥

मुरतापटोलरोहिणित्रिफलासुरदारुनिम्बरजनीभिः ।

श्लाघन्ते सन्निपाते कषायमेतं महावैद्याः ॥

घनकूलककटुकापथ्यामलकाक्षदेवदारुपिचुमन्दहरिद्राभिः नवभिः कृतो यो जलक्वाथः, एनं भिषग्वराः प्रशंसन्ति सन्निपातज्वरघ्नमिति ॥ १८८ ॥

पुक्खरगलोइणाअरणिडिढ्ढिआकढइ तिदोसजरे ।

सपवणबलासविअणाखासुब्भअसासपीडसञ्जणणे ॥१८९॥
पुष्करगलोजिनागरनिदग्धिकाक्वाथस्त्रिदोषज्वरान् ।

सपवनवलासवेदना(खा? का)सोद्भवस्य श्वासपीडायाश्च ॥

     निवृत्तिहेतुभूत इति । पुष्करस्य वाद्याहुमूलस्य तथा शुण्ठ्यास्तथा कण्टकार्याः क्वाथः सन्निपातज्वरे योज्यः । कीदृशी वातश्लेष्मसंयुक्ता या वेदना तया कासोद्भवस्य श्वासपीडायाश्च निवृत्तिहेतुभूत इति ॥ १८९ ॥

हिण्णुब्भवामहोसहणिडिट्ढिआकाढओ कणासहिओ।

पिज्जन्तो जरपीणसमन्दाणलकाससाससूलहरो ॥१९०॥

छिन्नोद्भवामहौषधनिदग्धिकाक्वाथः कणासहितः ।

पीयमानो ज्वरपीनसमन्दानलश्वासकासशूलहरः ॥

गुलूचीशुण्ठीकण्टकारीणां सममानः क्वाथः उपरि पिप्पलीचूर्णयुतः पीयमानो ज्वरं प्रतिश्यायमग्निकार्श्यं कासं श्वासं शूलानि च हरतीति ॥१९०॥

किरिमालअ(मर?)सुण्ठिसिवाघणपिप्पलिमूलरोहिणि
\कसाओ।

(स)पवणसूले वि बलासजरहरो दन्तिवाअवरो॥१९१ ॥

किरिमालशुण्ठिशिवाघनपिप्पलीमूलरोहिणिकषायः।

सपवनशूलेऽपि बलासज्वरहरो दन्तीपादवरः॥

आरग्वधनागरपथ्यामुस्ताग्रन्थिकाक्वाथः सर्वेषां चतुर्भागमात्रेण निकुम्भेन संयुक्तः सवातशूलेऽपि आतुरे श्लेष्मप्रधान ज्वरं हरतीति ॥ १९१ ॥

किरिमालअरोहिणिदक्खापप्पडअंचेअइकसाओ।

तण्णाउलाण मुच्छापित्तजरदाहविससमणो ॥१९२ ॥

किरिमालरोहिणीद्राक्षापर्पटकचेतकिकषायः।

तृष्णाकुलानां मूर्छापित्तज्वरदाहविषशमनः ॥

आरग्वधशीतकटुकावरतिक्तहरीतकीनां क्वाथः तृषितानां हृद्वयथाकुलत्वं पित्तज्वरकृतं सन्तापं वमनं च शमयतीति ॥ १९२ ॥

मलअमुणालमहोसहमुत्थापप्पडअवालअसणाहं ।

जरतह्णादाहहरं काढिअसिसिरं जलं पीअं॥ १९३ ॥

मलयमृणालमहौषधमुस्तापर्पटकवालकसनाथम् ।

ज्वरतृष्णादाहहरं क्वथितशिशिरं जलं पीतम् ॥

श्वेतचन्दनोशीरशुण्ठीघनवरतिक्तकह्नीबेरसंयुक्तं शृतशीतलं सलिलं पीतं सज्वरं तृषं दाहमपनयति ॥ १९३ ॥

पिप्पलिचुण्णो घअमहुविमीसिओ कढिअदुद्धसञ्जुत्तो।

पीओ विसमज्जरकासहिअअरोए विणासेइ ॥ १९४॥
पिप्पलीचूर्णं घृतमधुमिश्रितं क्वथितदुग्धसंयुक्तम् ।

पीतं विषमज्वरकासहृद्रोगान् विनाशयति ॥

     मागधिकाचूर्णं सर्पिर्माक्षिकाभ्यां सहितं शृतशीतेन गोक्षीरेण सह पीतं विषमज्वरांस्तथा हृद्रोगान् नाशयति । विषमज्वरस्थ यावन्तः प्रभेदाः सम्भवन्ति, तेष्वयं प्रतिपक्षप्रयोगः । भेदाः सततोऽन्येद्युराश्रितस्तृतीयकश्चतुर्थको द्विधेति पञ्च विषमज्वरभेदाः । वैषम्यं च उद्भवति चिकित्साकालवैषम्यात् । तेषामुत्तरत्राहोरात्रे मध्ये द्वौ वारौ यो भवति सतता सतत एकवार्यो भवति सोऽन्येद्युराश्रितः। एकाहान्तरितस्तृतीयकः । दिनमेकं भूत्वा दिनद्वयं न भवति पुनश्चतुर्थे प्रवर्तत इति । तद्विपर्ययो दिनद्वयं भूत्वा एके दिने भवति, पुनश्चतुर्थे प्रवर्तत इति । सर्वेषु व्याधिषु निदानादिपञ्चकं देशकालप्रवृत्त्या दिनादिविकारं च कृत्वा प्रयोगाः प्रयोक्तव्या इति ॥ १९४॥

गोमयरसंजुत्तं विसमज्जरपीडिआण गोदुद्धं ।

सुण्ठीसहिअं व कढिअं छाअच्छीरं सुहं देह ॥ १९५ ॥

गो(म)यरससंयुक्तं विषमज्वरपीडितानां गोदुग्धम् ।

शुण्ठीसंहितं वा क्वथितं छागक्षीरं सुखं ददाति ॥

      गोक्षीरं क्वथितं त्रिभागमात्रेण गोशकृद्रसेन पश्चात् संयुक्तमुक्तप्रभेदैः सर्वशीतज्वरैः कदर्थितानां पीतं स्वास्थ्यं करोति । अथवा नागरेण सहितमजापयः क्वथितं वा तावदेवं करोति इति ॥ १९५ ॥

मोत्थाथिहईफलसेन्धवेमहुलतिआसणाहेहि।

वच्च(इ) बलिआ वि खअंणिद्दाणे सेसेविइणेहि ॥१९६॥

मुस्तबृहतीफलसैन्धवमधुयष्टिसनाथैः ।

व्रजति बलवत्यपि क्षयं निद्रा नस्येव तिलैरेतैः॥

सतैलैर्भावनैर्दत्तैः सुप्तिर्घनापि नश्यति । कैः मुस्तेन तथा कण्टकारिकाफलेन तथा सैन्धवलवणेन तथा मधुयष्ट्या एतैः समाशैरिति ॥ १९६ ॥

मरिअतुरंगमलालापसूअसारञ्जणं पणासेइ।

वाअसजंघाजडिआ जणेइ सिरसण्ठआ णिद्दं ॥१९७॥
मरिचतुरंगमलालापसूअसाराञ्जनं विनाशयति ।

वायसजङ्घाजटिका जनयति शिरःसंस्थिता निद्राम् ॥

ऊषणमश्वमुखनिष्यन्दो माक्षिकं चेत्येतैः कृतमञ्जनं नेत्रन्यस्त निद्रां निवर्तयति । कालजङ्घामूलं तु मूर्ध्नि निबद्धं नष्टां निद्रामुत्पादयतीति ॥ १९७॥

तेल्लं सज्जरसम्मिलपरिविक्कमथोअसिसिरजलम
[लअं ।

जरदाहपवणसोणिअतावहरं लेहमत्तेण ॥ १९८ ॥

तैलं सर्जरसाम्लं परिपक्वमस्तोकशिशिरजलमलितम् ।

ज्वरदाहपवनशोणिततापहरं लेपमात्रेण ॥

रालागर्भेण काञ्चिकेन यथोक्तमात्रया पक्वं सत् तैलं पश्चादतिशीतकेन बहुनोदकेन निर्मथितं लेपेनोपयुक्तमेव ज्वरकृतं च वातकृतं च तापं हरतीति ॥ १९८॥

चुण्णीकअजवकुडअड्ढरत्तवल्लीवलद्धसञ्जुत्तं ।

तेल्लस्स पत्थमेक्कं सअगुणतुससल्लिसंसिद्धं ॥ १९९ ॥

एअ जरदारुणदाहप्पसमण तुहिणकिरणपडिरूअं।

तेल्लमुपयुज्जमाणं पहरिसजणणश्च अंगाणं ॥२०० ॥

चूर्णीकृतयवकुटचा(र्क?)र्धरक्तवल्लीपलार्धसंयुक्तम् ।

तैलस्य प्रस्थमेकं शतगुणतुषसलिलसंयुक्तम् ॥

एतद् ज्वर(दारुण)दाहप्रशमनं तुहिनकिरणप्रतिरूपम् ।

तैलमुपयुज्यमानं प्रहर्षजननं चाङ्गानाम् ॥

    इदं तैलमभ्यङ्गेनोपयुज्यमानं ज्वरकृतं दारुणं दाहं प्रशमयति । गात्राणि प्रह्ला(द)यत्यत एव शशिकरसदृशम् । कीदृशं चूर्णम् । इन्द्रेव चूर्णस्य कुटचार्ध(फ ! प)लद्वयं तथा मञ्जिष्ठाया अर्धपलम् एतद् गर्भीकृत्य द्वात्रिंशत्पलपरिमाणं तैलं शतगुणेन काञ्चिकेन सिद्धमिति युगलकम् ॥ १९९,२००॥

भल्लाअअपिप्पलीमूलपिप्पलीकाढअंपिअन्तस्स ।

जूआरसिरिव्विअ ऊरुत्थंभं ण सण्ठाइ ॥२०१ ॥
भल्लातकपिप्पलीमूलपिप्पलीक्वाथं पिबतः ।

द्यूतकारश्रीरिव ऊरुस्तम्भो न सन्तिष्ठते ॥

अरुष्करग्रन्थिकमागधिकाभिः सिद्धं क्वाथं पानेनाभ्यवहरतः ऊरुस्तम्भाख्यो व्याधिः शीघ्रं नश्यति । उपमानं गतार्थमिति ॥ २०१॥

मूलकबीएहि समं अस्सगन्धा रप्फमट्टिआसहिआ।

लेवं मलअविहिणा ऊरुत्थम्भं समं णेइ ॥ २०२॥

मूलकबीजैः सममश्वगन्धा वल्मीकमृत्तिकासहिता ।
लेपो मदनविधिनोरुस्तम्भं शमं नयति ॥

मूलकस्य महाकन्दस्य बीजैः सह वाजिगन्धा वल्मीकमृदा सहिता । त्रीणि समांशानीत्यर्थः । सा जलेन सह लेपोद्वर्तनकर्मणा ऊरुस्तम्भं शमं नयति इति ॥ २०२॥

अइगुरुणिंबमूलं सीअलजलवट्टिअंपिअन्तस्स।

विइडइ रंघणि(व?वा)ओ वसणे अकुंलीण पिच्चोव्व ॥ २०३ ॥

अद्दद्दकअरमूलं पिट्ठं तक्केण पीअमवहरइ।

सेहालिआदलेहि व कढिअजलं रंघणीवाअं॥ २०४॥
अतिगुरुनिम्बमूलं शीतलजलवर्तितं पिबतः ।

विघटयते रङ्घणिवातो व्यसनेऽकुलीनभृत्य इव ॥

आद्रार्द्रकतरमूलं पिटं तक्रेण पीतमपहरति ।

शेफालिकादलैर्या क्वथितजलं रङ्घणीवातम् ॥

     पिचुपन्दवृक्षस्य मूलं महदेव शिशिरोदकेन सह पिष्टं तेनैव सह क्वाथितजलै रङ्घनिवातमतिसरसस्य विकुटितमूलं गोरसेन सह पिष्टं तेनैव सह प्रतिदिवसं पीतं पूर्वोक्तं व्याधिं शमयति । अथवा शेफालिका याम्ताम्रवृत्तायाः पल्लवैः पानेनोपयुक्तमेतदेव कार्यं करोति । पानेनोपयुञ्जानस्यातुरस्य रङ्घण्योर्जङ्घ्योर्वातो गच्छत्युपमानं व्यक्तार्थमिति ॥ २०३, २०४॥

अण्णेण समं खअल्लआ पीआ वा पिसिअरससञ्जुत्ता।

अपहरह अट्ठिभंगं पवणञ्च सिआलमेहलिआ॥२०५॥
अन्नेन समं खादिता पीता वा पिशितरससंयुक्ता ।

अपहरत्यस्थिभङ्गं पवनं च सृगालमेखकिका ॥

अस्थिसहारावरनाम्नः ओदनेन सह व्यञ्जनीकृत्य भुक्तमांसरसेन सह क्वथिता पीता वा भग्नमस्थि रोहयति! व्याधिं विनाशयति ॥ २०५॥

घअमीसिअमसिणसत्तुअछाअच्छीरेण लित्तमत्ताण।

सम्मलिलेवेणं वा णासइ चलणाण सन्तावो। २०६॥
घृतमिश्रमसृणसक्तुकच्छागक्षीरेण लिप्तमात्रयोः।

शल्मलिलेपेन वा नश्यति चरणयोः सन्तापः॥

         गव्यघृतेन मलिताः सूक्ष्माः यवसक्तवो यस्मिन् तादृशेन अजापयसा लेपसमकालमेव पादयोर्वातरक्तादिजनितो दाहः शमयतीति । अथवा शल्मल्या कारयत्या जलेन पिष्टया त्वचा लेपेनैतत् कार्यं स्यादिति ॥२०६॥

गुलगैरुअपुररालासिन्धवमहुमअणघअकआलेवा।

पुट्ठावि होन्ति पतीअ कमलोअरकोमला चरणा ॥२०७॥

गुलगौरिकपुररालासैन्धवमधुमदनघृतकृतालेपौ ।

स्फुटितावपि भवतः प्रतीहि कमलोदरकोमलौ चरणौ ॥

    गुलेन तथा गैरिकेण तथा गिरिमृदाख्येन धातुविशेषेण तथा गुग्गुलना सर्जरसेन तथा सैन्धवलवणेन तथा माक्षिकेण तथा गोघृतेन च एतैस्तुल्यैश्चूर्णद्रव्यैर्द्रवद्रव्यलेपैः कृतैः कृतोऽभ्यङ्गो ययोस्तादृशौ पादौ स्फुटितावपि पादिकादूषितावपि पद्मगर्भसुकुमारौ सम्पद्येतामिति ॥२०७॥

विअरल्लिअघरकुमरीदलद्धबद्धाण तइअदिअहाह्मि ।

उद्देसोवि वि हु कहकहवि णज्जए चम्मकीलाण ॥२०८॥

विदारितगृहकुमारीदलार्धबद्धानां तृतीयदिवसे।

उद्देशोऽपि खलु कथं कथमपि न ज्ञायते चर्मकीलानाम् ॥

    घरकुमार्या हठकुमार्याः पत्रेण विदलीकृत्य प्रच्छाद्यग्रथितानां पादादिजातानां कठिनग्रन्थिरूपाणां व्याधिविशेषाणां चर्मकीलसंज्ञानां संबन्धादनन्तरं तृतीये वधं नाम विनाशं सम्पद्यते यत्तु दीयते तद्देश उत्पत्तिस्थानमेव क्लेशेन ज्ञायत एतेन च सूक्ष्ममध्यसूक्ष्मरूपा जतुमणिचर्मकीलामशसंज्ञा प्रसिद्धा व्याधयस्त्रिविधा अप्यनेन योगेन वक्ष्यमाणानि रत्यैर्वास सर्वे विनश्यति अर्दकीलादिसंज्ञाग्रहणम् उपलक्षणार्थमिति (!)॥२०८ ॥

घट्ट वणदक्खाकन्दएण भलिद्वदलेहि या तीए।

णिपडन्ति चम्मकीला सरिअड्डविडविव्व पूरेण ॥२०९ ॥
घृष्टा वनद्राक्षाकन्देन मिलिता दलैर्वा तस्याः ।

** निपतन्ति चर्मकीलाः सरित्तटविटपिन इव पूरेणेवीर (असम्पादितः भागः )**

वनद्राक्षाया गोष्ट्राम्लिकायाः मूलेन कृतनिघर्षणास्तस्था एव पत्रैर्वा मृदिताः सन्तः पूर्वोक्ताश्चर्मकीला निपतन्ति नदीतीर इव ओघेन क्थेति ॥२०९॥

पबणारिपल्लवछेअगललिअचुण्णअणिहंससढिलंगा।

बहुलसमुग्ग(अ)रुहिरोसूर व्व रणे मसोया ॥ २१० ॥ (असम्पादितः भागः)

पवनारिपल्लवच्छेदगृहीतचूर्णकनिघर्षशिथिलाङ्गाः कमाल (असम्पादितः भागः )

बहलसमुद्गतरुधिरःशुर इव रणे पतति मर्शकान (असम्पादितः भागः )

पवनारेरे(र)ण्डस्य यः पल्लवस्तस्य छेदस्थाने वृन्तसन्धिरूपैर्गृहीतं यच्चूर्णं ताम्बूलरंगतेन यद् घर्षणं तेन मृदूभूतं गात्रं यस्य स तथा अत एव भूरिसमुद्भूतरक्तो मशकाख्यो व्याधिः स्वस्थानात् पतति निवर्तत इत्यर्थः । व्यक्तार्थमुपमानम् ॥ २१ ॥

णिसिविसिअसज्जिआजलविज्जविअशुडड्ढसंखअवि
[लित्ता।

णस्सन्ति मसा दुग्गच्चणोलिलआ सज्जणगुण व्व ॥२११॥
निशोषितसर्जिकाजलनिधावितसुदग्धशङ्कविलिप्ताः ।

नश्यन्ति मशका दौर्गत्यनुन्नाः सज्जनगुणा इव ॥

 रात्रिपर्युषितेन स्वर्चिकाक्षारस्य सुवर्चिकायाः कर्षमात्रप्रयुक्तेन पानीयकुडुबमात्रेण प्रशमितपुटपाकदग्धो यः कम्बुस्तेन पिष्टेन सता दत्तलेपाः सन्तः प्रागु(प्ता!क्ता) मशका अभावं यान्ति दारिद्र्ये ग्रस्ता यथा साधुगुणाः श्रुतशमादय इति ॥ २११ ॥

आदीविअपलहिकिलिव्वोअग्ग अंगारसेइआ बहुसो।

पडइ मसा अहिकञ्चुअघट्ठे वा तम्मि कोहविए॥११॥
आदीपितकार्पाससूक्ष्मदार्वग्राङ्गारस्वेदितो बहुशः।

(पतति)अहिकञ्चुकघृष्टो वा तस्मिन् रुषिते ॥

     कार्पासलतायाः सम्बन्धिनोऽग्निदग्धो यः प्रान्तः तद्गतेन स्फुलिङ्गेन तेन पुनः पुनस्तापनाज्जनितस्वेदस्य दशो नश्यति । अथवा सर्पनिर्मोकेन पुटपाकदग्धेन कृतनिघर्षणं तद्भस्म क्लेशमापन्ने निपततीति ॥ २१२ ॥

जीरअपिक्खं पच्छा सित्थअसज्जरसमीसिअं हरइ।

घअमब्भंगेण हुआसडड्ढदुक्खं माट्ठेण ॥ २१३ ॥
जीरकपक्वं पश्चात् सिक्थकसर्जरसमिश्रितं हरति ।

घृतमभ्यङ्गेन हुताशदग्धेन दुःखं क्षणार्धेन ॥

      अजाज्यसिद्धं घृतं कृत्वा मधूच्छिष्टेन राल्या च घृतपले प्रत्येकतोलकमिति मात्रया मिश्रितं संलेपेनोपयुक्तमग्निदग्धं तत्कालमेव शमयति । अत्र साधनं पूर्वोक्तापलं (असम्पादितः भागः ) पानीयपलषोडशं घृतपलचतुष्टयं युगपत् क्वाथयित्वा

तिलतेलडढ्ढजवमिसिविलित्तमइरा विमुत्तसन्दावम् ।

सिहिडढ्ढं पण्णपई तत्तेल्लभग्गिअं बहुसो ॥ २१४ ॥
तिलतैलदग्धयवमषीविलिप्तमचिराद् विमुक्तसन्तापम् ।

शिखिदग्धं गेहति तत्तैलाभ्यक्तं बहुशः॥

तिलतैलमध्यदृष्टा त्रिधान्दृष्ट्वा(!) कृतया मष्या विलिप्तं सद् अग्निप्लुष्टं तत्कालमेवोपशान्तदाहं तेनैव तैलेन पुनः पुनः कृताभ्यङ्गं निर्ब्रणीभवतीति ॥

माहिसणवणीअं दुद्धपिट्ठतिलमीसिअं समं णेइ ।

लेवेण सूणिमं दुद्धरं पि भल्लादअप्पभवं ॥ २१५ ॥

माहिषनवनीतं दुग्धपिष्टतिलमिश्रितं शमं नयति ।

लेपन त्वं(?) दुर्धग्मपि भल्लातकप्रभवम् ॥

महिषीनवनी(तेन! तं) महिषीक्षीरसञ्चूर्णिततिलसहितं लेपेन अरुष्करफलभोजनस्पर्शनादिना जीनच्छ्वेथुं (!) घोरमपि शमयतीति ॥ २१५ ॥

सहसच्चिअ घअघणसारपूरिओ धतलपट्टअणिबन्धो।

अप्पत्तपाअधिअणो रुब्भइ सत्थुब्भवो पहरो ॥ २१६ ॥
सहसैव घृतघनसारपूरितो धवलपट्टकनिबन्धः ।

अप्राप्तपादखदनो रोहति शस्त्रोद्भवः प्रहारः॥

   गोसर्पिषा तथा घनसारेण कर्पूरेण सहसैव लग्नमात्र एव हरितस(!) खड्गाघातः श्वेतांशुकबद्धपाकमनपेक्ष्यैव तेनैव पट्टिकाबन्धेन निर्व्रणीभवति । आ सप्ताहात् सद्योव्रणोक्ता चिकित्सा शस्त्रक्षते कर्तव्या । सप्ता(हा)दूर्ध्वं त्वन्येति ॥ २१६ ॥

रोहेइ दहणल्विअसरपुंखामूलिआरसो पहरं

महिसीसुअपठमपुरीसमसिणवुण्ण बनिमिण (असम्पादितः भागः )॥२१७॥
रोह(य)ति दशनचर्वितशरपुङ्खामूलरसः प्रहारम् ।

महिषीसुतप्रथमपुरीषमसृणचूर्णमिव निमिषेण ॥

     शरपुङ्खायाः बाणपुङ्खायाः मूलस्य दन्तचर्वितस्य रसः पूरणात् शस्त्रघातं रोहयति, यथा तत्कालप्रसूतस्य महिषीवत्सस्यागृहीतग्रासस्य प्रथमप्रवृत्तशकृत् तस्य शुष्कस्य सम्बन्धी चूर्णो रोहयतीत्युपमानद्वारेण द्वितीयः प्रयोग इति ॥ २१७ ॥

हरिओ यि हरिओ सहएविरमेण बद्ध अणिबद्ध।

अहिणवर. रोहं पञ्च नेणेअ बन्धण ॥ २१८॥ (असम्पादितः भागः )

हरितो रिक्तीकृत्य भरितः सहदेवीरसेन पट्टकनिबद्धः।

अभिनवप्रहारो रोहं व्रजति तेनैव वन्धेन ॥

    सहदेवी दण्डोत्पलावख्या फपधिः, तन्मूलस्य निप्पीडितस्य रसेन प्रभमं पूरितः पुनः रिक्तीकृतः पुनस्तेनैव रसेन पूरितः पश्चाद् बद्धपिटकः सन् तत्काललग्नशस्त्रघातो रोहति तनैव बन्धेन, द्वितीयं पट्टिकाधारं नापेक्षत इति ॥

एकञ्चिअ सरपुंखापाटालजालुआण जलपिलम् ।

रोहेइ महापहरं पि भूलमोलवभत्तेण ॥ २१९ ॥

एकमेव शरपुङ्खापाठालज्जालुकीनां जलपिष्टः ।

रोहयति महाप्रारमपि (असम्पादितः भागः )मूलमालेपमात्रेण ॥

बाणपुङ्खायास्तथा भार्ग्यास्तथा समङ्गायाश्च तिसृणां मध्यादेकस्या एव मूलं सलिलचूर्णितं सल्लेपेनैव दृढमपि प्रहारमविरेणैव रोहयतीति ॥ २१९ ॥

रोहेइ वणं विउडेइ वेअणं पूअवाअमवहरइ।

वाअसजङ्घालेवो तिरत्तमत्तं कओ पहरे ॥ २२० ॥
रोहयति व्रणं विघटयति वेदनां पूतिपाकमपहरति ।

वायसजङ्घालेपस्त्रिरा(त्रं? त्रमात्रं) कृ(ते? तः) प्र(ह? हा)रे ॥

काकजङ्घायाः पिष्टायाः शस्त्रप्रहारे दत्तो लेपस्त्रिरात्रमात्रेण व्रणं रोहपति । पूतिपाकावस्थामप्राप्तमेव व्रणमाशु रोहयतीत्यर्थः ॥ २२० ॥

कढिअं लज्जिरिआसरसमूलखण्डेहि सञ्ज़ुअं तेल्लं ।

रोहेइ सेअविहिणा +++ पाउज्जिअं पहरं ॥ २२१ ॥

क्वथितं लज्जालुकीसरसमूलखण्डैः संयुक्तं तैलम् ।

रोहयति सेकविधिना पाकोज्झितं प्रहारम् ॥

   लज्जालुकी समङ्गा तस्या आर्द्राया मूलानां शकलैः सहितं पक्वं तिलतैलं सेकविधिना अभ्यङ्गकर्मणा वृथा पाकरहितं शस्त्रकृतं व्रणं रोहयति । अत्र तैलपाकविधिर्न विवक्षितः । केवलमूलखण्डानि क्षिप्त्वा तैलं पच्यत इति ॥२२१॥

सलिलमोरन्दअमूलपक्कतिलतेल्ललद्धसेआण \।

सहसत्ति दारुणाण वि वणाण विअणा समोसरइ ॥२२२॥

सलिलमयूरकमूलपक्वतिलतैललब्धसेंकानाम् ।

सहसातिदारुणानामपि व्रणानां वेदना समपसरति ॥

सलिलैः स्वरसैरार्द्रैरपामार्गमूलैस्तैलपाकविधिना साधितं यत् तिलतैलं तेन प्राप्तः सेको यस्तादृशानां व्रणानां घोराणामपि आश्वेव वेदनापगच्छतीति ॥ २२२ ॥

वणदक्खावणघरकुमरिकन्दझिण्टुअमोरअविपक्कम् ।

अपहरइ घअं सेएण सअलपहरुब्भवं दुक्खं ॥ २२३ ॥

वनद्राक्षावनगृहकुमारीकन्दझिण्टुकमयूरकविपक्वम् ।

अपहरति घृतं सेकेन सकलप्रहारोद्भवं दुःखम् ॥

   वनद्राक्षायाः गोषाम्बिकायाः तथा वनकुमार्याः बन्ध्यकार्कोठ्याः गृहकुमार्याः फटकुमारीति प्रसिद्धायाश्च मूलैश्च गोपालपीठकेन तथापामार्गेण चैतैः समांशैः कल्कीकृतैः सिद्धं घृतमभ्यङ्गेन सर्वशस्त्रस्याभिघातजं दुःखं निवारयतीति । पाकविधिरत्र शुद्धाम्बुक्रमेण द्रव्येभ्यश्चतुर्गुणः स्नेहस्तच्चतुर्गुणं जलं, सहसैव पक्त्वा स्नेहशेषं ग्राह्यमिति ॥ २२३ ॥

करसम्पुडणिप्पीडिअमोरन्दअओलरसेण दिण्णेण।

पहराहि चिरपअट्ठं पि सोणिअं थक्कइ खणेण ॥ २२४ ॥

(करसम्पुटनिष्पीडितमयूरदलरसेन दत्तेन ।

प्रहारैश्चिरप्रवृत्तमपि शोणितं त्रुट्यति क्षणेन ॥)

करसम्पुटनिष्पीडितानाम् अपामार्गपत्राणां निःष्यन्देन प्रवृत्तेन शस्त्रक्षताद् बहु(ज! का)लप्रसृतमपि रक्तं तत्कालमेव त्रुट्यतीति ॥ २२४ ॥

लंगलिआवच्छलकन्दलेविए (व)णमुहम्मि णीसरइ ।

चिरआलपणट्ठं पि हु सल्लं तेणेअ (णीसरइ ? मग्गेण)
॥ २२५॥

लाङ्गलिकावर्तुलकन्दलिप्ते व्रणमुखे निस्सरति ॥

चिरकालप्रणष्टमपि (खलु) शल्यं तेनैव मार्गेण ॥

लाङ्गलिका हलिनी तस्या वृत्तरूपेणादीर्घेण मूलेन जलपिष्टेन कृताभ्यङ्गे शस्त्रक्षतास्ये बहुकालमदृश्यमानमपि शस्त्रशकलादिरूपं शल्यं येनैव मार्गण प्रविष्टं तेनैव निष्कामतीति ॥२२५॥

जलवढ्ढिउट्ठवारुणिमूलं (मूलं) मेससिंगीए।

बणपेरन्तालेवेण णट्ठसल्लं समुद्धरइ ॥ २२६ ॥

जलवर्तितोद्रवारुणीमूलं मूलं वा मेषशृङ्ग्याः।

प्रणपर्यन्तालेपेन नष्टशल्यं समुद्वरति ॥

उष्ट्रवारुण्याः करभवारुण्याः मूलं जलपिष्टं श(स्त्रंं? स्त्र)क्षताभ्यङ्गेनादृश्यं शल्यमाकर्षयति, अथवा मेषशृङ्ग्या अजशृङ्गया मूलमिति ॥ २२६ ॥

आअलिअमूलरअणीण खण्डखण्डिद्दि काढिअं तेलं ।

पूरणमत्तेणच्चिअ णासे(इ) चिरब्भघं णाडिं ॥ २२७ ॥
आअल्लिअमूलरजन्योः खण्डखण्डैः क्वथितं तैलम् ।

पूरणमात्रेणैव नाशयति चिरकालोद्भवां नालीम् ॥

        आअल्ली निष्पर्याया देशविशेषप्रसिद्धा या, तस्या मूलं तथा रजनी पिण्डहरिद्रा तयोः शकलशकलेः क्वथितं तैलं घ्रणस्य पूरणमात्रेणैव कालान्तरप्ररूढां नालीं गतिं रोहयति । तैलस्य मूलखण्डैः सह क्वाथमात्रं विवक्षितं, न (त! तु) पाकविधिरिति ॥ २२७ ॥

माहिसदाधिकुद्दवकूरमीसिअं हरइ चिरपरूढं पि।

खइअं कंगुलिआमूलचुण्णमइदारुणं णाडिं ॥२२८ ॥

माहिषदधिकोद्रवान्नमिश्रितं हरति चिरप्ररूढमपि ।

खादितं कङ्कुनीकामूल(चूर्ण)मतिदारुणां नालीम् ॥

    कङ्कनिका निष्पर्याया ओषधिस्तस्या मूलचूर्णं कोद्रवस्य कोरदूषस्य (असम्पादितः भागः ) तृणधान्यविशेषस्यान्नेन महिषीदधिसंयुक्तेन सह भुक्तं चिरप्रवृत्तामपि घोरां ब्रणस्य गतिं शमयतीति ॥ २२८॥

समतुलिअपुडपईपिअतालघणणाअमृलमसीभरिआ ।

णासइ णाडी दुट्ठं दूसहं चिरपरूढं पि ॥ २२९ ।
समतुलितपुटप्रदीपिततालपननागमूलमषीभरिता ।

नाति (असम्पादितः भागः )नाली दुट्टं च दुःसहं चिरप्ररूढमपि ॥

      तुल्यांशैर्मितस्यान्तर्धूमदग्धस्य हरितालस्य तण्डुलीयफमूलस्य मष्या पूरिता नाली व्रणगतिः प्ररोहति । दुष्टं च व्रणं चिरकालपस्थितमसद्यवेदनमपि निवर्तते पूरणादेवेति ॥ २२९ ॥

हेहंसोसुब्भवरत्तमण्डलं सिसिरसलिलपिट्ठेण ।

उवसमइ क्खेणञ्चिअ दिअतरुफललेवमत्तेण ॥ २३०॥

फे(न)निकर्षोद्भवरक्तमण्डलं शिशिरसलिलपिष्टेन ।

उपशाम्यति तत्क्षणमेव (जितस्त ? द्विजत)रुफललेपमात्रेण ॥

     समुद्रफेननिकर्षणवशाज्जङ्घादिगात्रेषु यद् रक्तमण्डलमण्डलं दूषितरुधिरबिम्बमुत्पद्यते तद् द्विजतरोः पलाशवृक्षस्य फलैः शीताम्बुपिष्टैर्लिप्तमात्रेण निवर्तत इति ॥ २३० ॥

सरलरुहिरोल्ल(अ?)गन्धअविडंगजबहूसुण्ठिलेवेण ।

विद्दधइ अब्बुदं रविमऊहछिक्कं व हिमखण्डं ॥ २३१ ॥
सरलरुधिरार्द्रगन्धकविलङ्गयवभूतिशुण्ठिलेपेन ।

विद्रवत्यर्बुदं रविमयूखस्पृष्टमिव हिमखण्डम् ॥

    कृकलासस्य रक्तेनार्द्रीकृतं यद् गन्धपाषाणस्य चूर्णं तथा कृमिष्नबीजानि तथा यवक्षारं तथा नागरमेतैर्मिश्रितैः कृतेन लेपेन शोफविकारोऽर्बुदाख्यो व्याधिर्नश्यति । आशु निवृत्तावुपमानं स्पष्टमिति ॥ २३१ ॥

सोम्मदिसासंभूअं विहिगहिअं हर लेवमत्तेण ।

दढगण्ठि(अ)गण्डमालबुआइ उत्तण्टईमूलं ॥ २३२॥

सोमदिक्संभूतं विधिगृहीतं हरति लेपमात्रेण ।

दृढग्रन्थिगण्डमालार्बुदान्युत्तण्टकीमूलम् ॥

     उत्तण्टकी निष्पर्याया, तस्या उत्तराशाभिमुखत्वेन जातं मूलं विधिना वनप्रवेशोचितेन संयमेन स्वीकृतं जलपिष्टं लेपमात्रेणैतान् विकारान् विनाशयति । तत्र ग्रन्थिरर्बुदापेक्षया सूक्ष्म. किन्त्वसमा (?)। बहूनि गण्डानि गण्डमाला अर्बुदमुक्तलक्षणमिति ॥ २३२ ॥

अअसिसमीसिद्धत्थअजवमूलअसिग्गुबीअलेवेण ।

अंथिलअतक्कपिट्ठे(ण) गण्डगण्डीओ णासन्ति ॥ २३३ ॥

अतसिशमीसिद्धार्थकयवमूलकशिग्रुबीजलेपेन ।

अम्लतक्रपिष्टेन गण्डग्रन्थयो नश्यन्ति ॥

अतसी भङ्गा, शमी पवित्रपत्रा, तथा गौरसर्षपस्तथा यवमहाकन्दा, तथा श्वेतमरिचमेतद्बीजैश्चुक्रगोरसपिष्टैः कृतेन लेपेन गण्डानि ग्रन्थयश्च नशयन्तीति ॥ २३३ ॥

पम्षणमसंग (असम्पादितः भागः )विलिज्जइ वणकिणगण्डी णराण कठिणो वि।

णिअजणणिवाहकीडअपिच्छिल्लपलेविओणिउणं ॥२३४॥
क्षणमात्रेण विलीयते व्रर्णाकणग्रन्थिर्नराणां कठिनोऽपि ।

निजजननिवाहकीटपिच्छिललिप्तो निपुणम् ॥

         निजजननिवाहाख्यः कीटाऽर्कशलभ इति प्रसिद्धम्तस्याच्छादिय पिपिच्छलं सरसं (!) वस्त्रान्तेन प्रलिप्तो व्रणानां किणस्य रूढव्रणनाशस्योपरि ग्रन्थिः कठिनो विकारस्तत्कालमेव निश्शेषं गलतीति ॥ २३४ ॥

उल्लंविअणरगीवावासमसी सिसिरसलिलसञ्जुत्ता ।

पीआपह्मारं हरइ दुट्ठघरिणिव्व घरसारं ॥ २३५ ॥
उल्लम्बितनरग्रीवापाशमषी शिशिरसलिलसंयुक्ता ।

पीतापस्मारं हरति दुष्टगृहिणीव गृहसारम् ॥

उद्वद्धस्य पुंसो ग्रीवापाशस्य (घ! पु)टपाकदग्धस्य यद् भस्म तच्छीतामम्बुना सह पीतमपस्मृतिं विनाशयति । उपमानं गतार्थमिति ॥ २३५ ॥

वरसलिलपिट्ठसेआपराइआसलिलणा(स?म)णं सघअं।

भूअग्गहविद्दवणं समिरिअमुणिकुसुमसलिलं व ॥ २३६ ॥
वरसलिलपिष्टश्वेतापराजितासलिलनावनं सघृतम् ।

भूतग्रहविद्रावणं समरिचमुनिकुसुमसलिलं वा ॥

   तण्डुलोदकपिष्टश्वेतगिरिकर्णिकामूलं घृतसहितं नस्येनोपयुक्तं भूताना पिशाचादीनां ग्रहाणामपस्मारादीनां विनाशनम् । अथवा कटुकसमभागः अगस्त्यतरुपुष्पाणां रस एवमेवोपयुक्त इति ॥२३६ ॥

हिङ्गुवआसिद्धत्थअणिंबदलभुअंगकत्तिणिम्मविओ।

लामामोद्दिअमोक्खं करेइ सिद्धो महाधूवो ॥ २३७॥

हिङ्गुवचासिद्धार्थक निम्बदलभुजङ्गकृत्तिनिर्मित(म् ? :)।

लामामुद्रितमोक्षं करोति सिद्धो महाधूपः ॥

वाल्हीकोग्रगन्धागौरसर्षपपिचुमन्दपत्रैः सर्पकञ्चुकैः सम्पादित उत्कृष्टो धूपो द्रागित्यधिष्ठितानां मोक्षं ततः परित्यागं करोतीति ॥ २३७ ॥

पक्कं गोजलअसिअं पलं विसालाए णामणं दिण्णं ।

णासेइ बह्मरक्खसमण्णे वि गहे सुदुव्वारे ॥ २३८ ॥

पक्कं गोजलोषितं फलं विशालाया नावनं दत्तम् ।

नाशयति ब्रह्मराक्षसमन्यांश्च ग्रहान् सुदुर्वारान् ॥

गोमूत्रपर्युषितं पूर्णं फलं पक्वमिन्द्रवारुण्या निष्पीड्य नस्येनोपयुक्तं ब्रह्मराक्षसाख्यमहाग्रहमन्यानप्यपस्मारादीन् दुष्करनिवारणान् महाग्रहान् नाशयतीति ॥ २३८॥

मागहिआसेन्धवसुरहिपित्तमहुमरिअरइअमइपअडं ।

भूअहरमञ्जणभिणं दुद्धरगहदप्पविद्दवणं ॥२३९ ॥

मागधिकासैन्धवसुरभिपित्तमधुमारिचरचितमतिप्रकटम् ।

भूतहरमञ्जनमिदं दुर्द्धरग्रह र्पविद्रावणम् ॥

    उपकुल्यासैन्धवलवणगोपित्तक्षौद्रोषणैः सम्पादितं सुलभद्रव्यसाध्यस्त्वादत्यन्तस्फुटमिदमञ्जनं भूतदोषनाशनं, तथा दुर्वारबलानां ब्रह्मराक्षसादिग्रहाणां मदविद्रावणमिति ॥ २३९॥

दारुहरिद्दं पूसे पूसफलरसेण वट्टिआ रइआ।

अञ्जणगुणिआ गहवन्दवन्दिआ भूअविद्दवणी ॥२४॥
दारुहरि(द्रां? द्रा) पुष्ये पुष्यफलरसेन वर्तिता रचिता ।

अञ्जनगुलिका ग्रहवृन्दवन्दिता भृतविद्रावणी ॥

    दारुहरिद्रां पिष्ट्वा कूश्माण्डरसेनालोख्य पुष्यनक्षत्रे सम्पादिताञ्जनार्थं गुलिकाञ्जनेनोपयुक्ता सर्वदुष्टग्रहैर्भीतैः सद्भिः स्तुता सर्वदुष्टभूतानां व्यपसारिणी, सर्वग्रहभूतनिवारणीत्यर्थः ॥ २४०॥

कसणंयरगाढणिअन्धसपुरकाआरिपिञ्छाधूवेण ।

रविअ(र)छिक्कोव्व तमो णासइ वातुत्थओ दुरं ॥ २४१॥
कृष्णाम्बग्दृढग्रथितपुरकाकारिपि उन । (असम्पादितः भागः )

रविकरस्पृष्टमिव तमो नश्यनि पातुर्थको दृग्म् ॥

कृष्णखर्पटखण्डे निबिडं कृत्वा ग्रथिना ये माहिपाक्षसहिताः कौशिकपक्षास्तैः सर्वैर्दग्धैर्जनितेन धूपेन चातुर्थकज्वरो नश्यति ॥ २४१ ॥

जो पिअइ पृसदिअहे जलपिट्ठं सिअपुण्ण गवामूलं ।

पासे वि णहु विअरन्ति तस्स अहिविच्चुआ अरिसं॥२४२॥
यः पिबति पुष्यदिवसे जलपिष्टं सितपुनर्न पामूठम् ।

पार्थेऽपि न खलु विचरन्ति तस्याहिवृश्चिका वर्षम् ॥

यस्तोयसञ्चूर्णितं श्वेतवर्षाभूमूलं पिबति. न. (असम्पादितः भागः ) संवत्सर यावत् सर्पवृश्चिकाः समीपेऽपि न गच्छन्तीति ॥ २४२ ॥

जो विणअतणअपडिमं तरच्छदढदसणविरइअं वहइ ।

भोजग्गिअं ण तीरइ भीमेहि वि ओ भुअंगेहि ॥ २४३ ॥
यो विनतातनयप्रतिमां तरक्षुदृढदशनविरचितां वहति ।

अभिभवितुमपि न पार्यते भीमैरपि स भुजङ्गमैः ॥

     यस्तरक्षोः श्वापदविशेषस्य ऋक्षाख्यस्य सम्बन्धिन्या दंष्ट्रया दृढदशनया निर्मितां गरुडमूर्तिं कण्ठादौ धारयति, अशनिदारुणेरप्युरगैराक्रमितुं न स शक्य इति ॥ २१३ ॥

छम्मासमही ण डसइ पूसे पीएण गरुलिमूलेण ।

अह डसइ कह वि पुरिसं ता मरइ खणद्धमत्तेण ॥ २४४ ॥

षण्मासानहिर्न दशति पुष्ये पीतेन गरुलिमूलेन ।

अथ दशति कथमपि पुरुषं तदा म्रियते क्षणार्धमात्रेण ॥

गरुली रक्तपुष्पा पुनर्नवा तन्मूलेन जलपीतेन मासषट्कं सर्पः पुरुषं न दशति । यदि बा कथञ्चिद् दशति तदासौ सर्पस्तत्कालमेव म्रियत इति ॥ २१४॥

पाणञ्जणलेवणणावणेहि (क? त)ञ्चिअ विअं समुप्पसइ ।

डक्कस्स गरुलमूलं जइ ढट्ठमसामलं होइ ॥ २४५ ॥

पानाञ्जनलेपननावनैस्तदेव विषं समुत्पुंसयति ।

दष्टस्य गरुलिमूलं यदि घृष्ट(म)श्यामलं भवति ॥

      तदेव गरुल्याः पुनर्नवाया मूलं पानाञ्जनलेपननस्यैः प्रयुक्तं दष्टस्य विषमशेषं नाशयति । यदि तन्मूलं निघृष्टं सत् कृष्णवर्णं न भवति । श्वेतवर्णं तत्कार्यं करोतीत्यर्थः ॥ २४५ ॥

लित्त(क?)करो बद्धेण (व) लज्जा मूलेण णिअसरीरम्नि।

त्तग्गाहेइ भुअंगे गरुडव्व णरो णिरासंको ॥ २४६ ॥
लिप्तकरो बद्धेन वा लज्जामूलेन निजशरीरे ।

उद्ग्राहयति भुजङ्गान् गरुड इव नरो निराशङ्कः ॥

लज्जा समङ्गा तन्मूलेन जलपिष्टेन लिप्तहस्तोऽथवा तेनैव बाहादिशरीरैकदेशबद्धेन वैनतेय इव निर्भयः सर्पं गृह्णातीति ॥ २१॥

अक्कजडावक्कलमसिणचुण्णमइसिसिर(सलिल)सजुत्तं।

पीअमहिकणअघोणसहआरि(अ)विसाण विद्दवणं ॥२४७॥
अर्कजटावल्कलमसृणचूर्णमतिशिशिरसलिलसंयुक्तम् ।

पीतमहिकनकगोनसायारि(ज)विषाणा विद्रावणम् ॥

रूपिकामूलस्य त्वचं सूक्ष्मचूर्णीकृतमतिशीतलजलसहितं सत् पानिनोपयुक्तं सर्पधुर्धूरमण्डलिकरवीरजानां विषाणां निवारणमिति ॥ २४७ ॥

तुससलिलमसिणवट्टिअकाअणिआनूलपाणलेवेण ।

ओसरइ मण्डलिविसं मारुअविहुअंव घणवन्दं ॥२४८॥

तुषसलिलमसृणवर्तितकाकनिकामूलपानलेपेन ।

अपसरति मण्डलिविषं मारुतविधुतमिव घनवृन्दम् ॥

काञ्चिकसूक्ष्मपिष्टं गुञ्जामूलं तेनैव सह जलेनोपयुक्तम् ।गोनासविषमपगच्छति वायुनिर्धूतमभ्रजालं यथेति ॥ २४८ ॥

तण्डुलजलेण पिट्ठा पीआ घअभीसिआ समुप्पसइ।

घणणाअजडा णिम्मिअगरलं अइगरुअवेअंपि॥२४९॥

तण्डुलजलेन पिष्टा पीता घृतमिश्रिता समुत्पुंसयति ।

घननादजटा निर्मितगरलमतिगुरुवेगमपि ॥

तण्डुलीयकमूलं तण्डुलधावनसञ्चूर्णितं सद् घृतेन सह पीतं निर्मितं कृत्रिमं विषं तीव्रदर्पमप्यपसारयतीति ॥ २४९ ॥

लज्जालुईए मूलं णीलीमूलं व तण्डुजलेण।

मण्डलिविसमइविसमं पि पीअमत्तंणिवारेइ ॥२५०॥
लज्जालु(की ?क्या) मूलं नीलीमूलं वा तण्डुलोदकेन ।

मण्डलिविषमतिविषममपि पीतमात्रं निवारयति ॥

समङ्गाया मूलं तण्डुलोदकेन पिष्ट्वा तेनैव पीतं घोरतरमपि गोनासविषं तत्कालमेव नाशयति । अथवा नीलीमूलमेवोपयुक्तमिति ॥ २५० ॥

सगुलो कोहल(अ)रसो (कण)(असम्पादितः भागः)(दु)द्धञ्च सक्करासहिअं।

पीअमपहरइ मोहं कुद्दवधुद्धूरअप्पहवं ॥ २५१ ॥
सगुलः कोहलकरसः क्रमेण दुग्धं च शर्करासहितम् ।

पीतमपहरति मोहं कोद्रवधुर्धूरकप्रभवम् ॥

कूश्माण्डकरसो गुलसहितः पीतः कोरदूषकभोजननिमित्तं मोहं नाशयति । तथा गोक्षीरं शर्करासंयुक्तं मातुलप्रभवं मोहं नाशयतीति॥२५१॥

गरुओ वि वोफ्फलमओ जविउव्भढपुलअभेअमइमोहो।

उवसमइ झत्ति सीअलजलेण घुलुएहि पीएण॥२५२॥
गुरुरपि पूगफलमदो जवितोद्भटपुलकस्वेदमतिमोहः।

अपशाम्यति झगिति शीतलजलेन चुलुकैः पीतेन ॥

पूगफलेनोद्वेगेन महानपि कृतो मदः स्वेदरोमाञ्चबुद्धिप्रयसहितः शिशिरोदकेन चुलुकैः पीतेन झगिति निवर्तत इति ॥ २५२ ॥

अवइत्विअमुइणीसरिअपडल(ला)लाजलोसमोसरइ।

पुरुसाण पुफ्फलमओ जिघाए अटविहारे व्व(?)॥ २५३ ॥
अपहस्तितमुखनिःसृत(बहल)लालाजलः समपसरति ।

पुरुषाणां पूगफलम् (दे?दो) घ्रातेऽसुवीशुष्कओमये द्रा ॥

अपना पूगफलमदः पुंसामरण्यगणेशकको विधि)ो सति (असम्पादितः भागः )

निवर्तते । कीदृशः सन् । द्रव्यबला (द)निवारित आस्यनिष्क्रान्तो बहलः श्लेष्मनिःष्यन्दो य(ते ?त्र) स तथाविध इति ॥ २५३ ॥

घअसक्करावलेहं पढमे काऊण पिअइ जो पच्छा।

उद्दाममणहरं पि हु तस्सण (स?स ) ज्झं मअं कुणइ॥
२५४॥

घृतशर्कराबलेहं प्रथमं कृत्वा पिबति यः पश्चात् ।

उद्दाममनोहरमपि खलु तस्य (न) म(ध्ये?द्यं) मदं कुरुते ॥

यो गोघृतमत्स्य(पि !)ण्डीतत्सेकाभ्यामपावलीढमुपयुज्य पश्चादुद्दामं बहुप्रगल्भवीर्यं वा मनोहरं हृद्यमपि तम्य तन्मद्यं न विकारं जनयतीति ॥२५४ ॥

कसणंकोल्लजहाकाठओ व्व चुष्णं व तिण्णि दिअहाइ ।

अवहरह गरविसं दुज्जअं पि पीओ पअत्तेण ॥ २५५ ॥
कृष्णाङ्कोलजटाक्वाथो वा चूर्णं वा त्रीणि दिवसानि ।

अपहरति गरविषं दुर्जयमपि पीतः प्रयत्नेन ॥

कृष्णस्य इरिबिल्लस्य मूलक्वाथचूर्णाभ्यामेकतरो दिनत्रयमुपयुक्तः गरविषं दुष्करमपि कृत्रिमविषं नाशयति ॥ २५५ ॥

अरुणसिलाभण्टिकरञ्जवीअकुट्ठेहि होइ संकामो।

अइविसमस्स वि विच्छ अवढ्ढन्तविसवेअदुक्खस्स ॥ २५६॥

कुङ्कुमशिलाभण्टिकरञ्जबीजकुष्ठेर्भवति संक्रामः ।

अतिविषमस्यापि वृश्चिकवर्धसालगिश्वेश (असम्पादितः भागः )दुःखस्य ॥

     अरुणशिलाशिरीषनक्तमालबीजवाप्यैस्तुल्यांशै पानीयेन कृतया गुलिकया दंशस्थाने गाढं व्यवधाय करनदन्तिरादिन (?)न्यस्तया वृश्चिकसम्बन्धिनो वर्धमानविषदर्पक्लेशस्य दुप्करस्यापि तत्र संक्रामो भवति । दृष्टः स्वास्थ्यं गच्छत्यतः खहस्तेन निरन्तरतया सा तत्र न देयेति ॥ २५६ ॥

ओआरेइ अहोणाअभुद्धभारोविअं पि वढ्ढेइ।

डक्कस्स विज्जुअविसं विहिणा वणमज्जुआमूलं ॥२५७ ॥
अवधारयत्यधोनीतमूर्ध्वमारोपि(तं? तमपि) वर्धयति ।

दष्टकस्य वृश्चिकविषं विधिना वनमज्जुकमूलम् ॥

उन्दुरुदंशसङ्कान्तेन विषेण व्याधितस्य संज्ञां गृहीत्वा उन्मूलिता पट्टपुल्लिका निष्पार्याया यावत् प्रवृत्त दूरे परिवस्यते अमुकस्य मूषिकविषं नश्यत्वित्युक्त्वा तावत्कालं जपतस्य (!) विषं निवर्तत इति ॥ २६५॥

कडुएल्लकोससतिअधूविअक्कस्त णासइ खणेण। अंकोल्लपत्तधूविअडक्क(अविस ? स्स दि)मच्छविसवि
अणा ॥ २६६ ॥

कटुतैलकोशसंयुक्तधूपितदंशस्य (नश्यति) क्षणेन ।

(अङ्कोलपत्रधूपितदंशस्यापि) मत्स्य(विष)वेदना ॥

     सर्षपतैलेन रवलय(!)सक्तुभिर्दत्तधूपः शृङ्गिमत्स्यविषदंशो यस्य तस्य पुरुषस्य तत्कृता व्यथा तत्कालमेव प्रणश्यति । अथवारिकिल्लस्य पल्लवैर्धू पितो दंशो यस्य तस्यापि शृङ्गिमत्स्यविषवेदना तथैव नश्यतीति ॥ २६६॥

अहोअअमसिणणिहठ्ठणामिअं हरइ विसमवेअंपि।

गोहेरअडक्कविसं मूलमहिं(सइ ? साए)णिमिसेण ॥२६७॥
उष्णोदकमसृणनिघृष्टनावनं (कृतं?) हरति विषमवेगमपि ।

गोधेरकदंशविषं मृलमहिं(स? सा)या निमिषेण ॥

       अहिंसाया गृध्रनख्या मूलमुष्णसलिलेन पिष्ट्वा तेनैव सह नस्यं कृतं सद् गोधेरकस्य प्राणिविशेषस्य प्राग्बाहुसंज्ञया प्रसिद्धस्य सम्बन्धिना दंशेन सङ्क्रान्तं विषं क्षणेन नश्यतीति २६७ ॥

घिअभीसिअविक्कसपिण्डी सेअविहिणा वणाहि अवणेइ ।

सिंगिअमच्छअनिहिणा मिअंककन्तिव्व गोसग्गे॥२६८॥
घृतमिश्रितचिक्कसपिण्डी खेदविधिना व्रणानपनयति ।

शृङ्गिमत्स्यवेदना मृगाङ्ककान्तिरिव निशान्ते ॥

गोघृतेन मिश्रिता भ्रष्टयवचूर्णिपिण्डी स्वेदविधिना शृङ्ग्याख्यमीनदंशसङ्क्रान्तविषव्यथामपसारयति । (अथवा !) रात्र्यवसाने ज्योत्स्नेवेति ॥२६८॥

डक्कम्मि लोहघट्ठे उद्धरिए कण्टए (व) डक्काहि ।

णासइ वरडीए विसं दिण्णाए व फणि(ज्ज)अरसम्मि
[॥२६९ ॥

दंशे लोहघृष्टे उद्धृते कण्टके वा दंशे ।

नश्यति वरट्या विषं दते (वा) फणिज्जकस्य (रसे)॥

मरुबकस्य कुबेरस्य वा (शरे! रसे) दत्ते सति तद्विषं नश्यतीति ॥२६९॥

लेवो मिरिअमहोसइकेसरकुडिलेहि मच्छिआगरलं।

णासेइ घउम्मीसिअसअउफ्फा(सैं)धवकओ व्व ॥ २७० ॥
लेपो मरिचमहौषधकेसरछुटिलैर्माक्षिकगरलम् ।

नाशयति धृतोन्मिश्रितशतपुष्पापैन्धवकृतो वा॥

** ** कटुनागरकेसरतगरैर्जलवर्तितैः समांशैः कृतो लेपो माक्षिकाणां सरवाणां संबन्धि विषं नाशयति । अथवा गोघृतमिश्रया (तस्याः ! मिस्या) सैन्धवलवणयुक्तया कृतो लेप एवं करोति ॥ २७० ॥

कुलिसलखुखपहिनिदीसमोसाइछिवजबहरह। (असम्पादितः भागः )

दद्दुरविस(मा?म)दिसअदारुणं पि सलि(ल?लेण) जलणी
[व्य॥ २७१॥

कुलिशतरुदुग्धवर्तितशिरीषबीजैर्लिप्तमुपशाम्यति ।

दर्दुरविषमतिरायदारुणमपि सलिलेन ज्वलन इव ॥

सुधावृक्षस्य क्षीरेण पिष्टं क्षीरतरुबीजैः कृतेन लेपेन लिप्तं मण्डूकविषं घोरमपि नश्यति । व्यक्तमुपमानमिति ॥ २७१ ॥

हरषल्लहरसमीसं दुद्धसमं गुलघआण पलजुअलं।

उन्मत्तसुणहविसमविसवे(अ)णं हरइ पाणेण ॥ २७९॥
हरवल्लभसुरसोन्मिश्रं दुग्धसमं घृतगुलानां पलयुगलम् ।

उन्मत्तश्च(विषम)विषवेदनां हरति पानेन ॥

मातुलस्वरससहि(तेन ! त)क्षीरतुल्यांशयोर्घृतगुलयोः पलद्वयम् । एवमुक्तं भवति-चतुर्णां द्रव्याणां प्रत्येकमर्धपलम् एकत्र पलद्वयं पानेनोपयुक्तम्

अलर्कदशनसंक्रान्तघोरविषव्यथां निवारयतीति ॥ २७२ ॥

काउंबरिआमूलं हरदइअफलाइ तण्डुलजलेण ।

समबीआइ व पीआइ कविलश्सिदोससमणाइ ॥२७३॥
काकोदुम्बरिकामूलं हरदयितफलानि तण्डुलजलेन ।

समबीजानि वा पीतानि कपिलविषदोपशमनानि ॥

** ** सेरुकोदुम्बरिका फल्गु तस्या मूलं तण्डुलधावनेन सह पिष्ट्वा पीवं श्वदंशविषदोषं शावयति । अथवा धुर्धूरकफलानि असनतरुमूलतुल्यांशानि तेनैव तण्डुबलजलेन पीतान्युक्तं कार्यं कुर्वन्तीति ॥ २७३॥

जलपलिआए गोइज्जिआए महुमीसिआए कअलेवो।

णीसेसजीअसंभवणहदन्तविसं खअं णेइ ॥ २७४ ॥
जलवर्तितया गोजिह्वया (मधुमिश्रितया) कृतलेपः ।

निश्शेषजीवसम्भवनखदन्तविषं क्षयं नयति ॥

गोजिह्विकया गोधूमिकया पानीयेन पिष्टया माक्षिकेण सहितया (धृ!कृ)तलेपः सर्वेषां विषवतां प्राणिनां नखदशनसमुद्भवं क्षपयति ॥२७४॥

निम्बमसीवडवक्कलकाढिअसलिलेण लित्तमुवसमइ ।

णइदन्तविसं गरुअं दारुणिसारअणि(वि?)लित्तं व ॥२७॥
निम्बरजनीवटवल्कक्वथितसलिलेन लिप्तमुपशाम्यति ।

नखदन्तविषं गुरुकं दारुनिशारजनीलिप्तं वा ॥

     पिचुमन्दपत्रपत्रन्यग्रोधत्वग्भिस्तुल्याभिः क्वथितेन सलिलेन लिप्तं घोरमपि पूर्ववन्नवदन्तजं विषं विनश्यति । अथवा दार्षीपिण्डहरिद्राभ्यां जलपिष्टाभ्यां लिप्तमेवं भवतीति ॥ २७५ ॥

पत्तंगणिसाकेसरमञ्जिट्ठारअणिलेविआ (लूआ)।

उषसमइ इं(गु)ईतरुवक्कललेवेण गण्डं व ॥ २७६ ॥

     पत्तङ्गनिशाकेसरमनिष्ठाचित्रवल्लिलता दार्वित्येताभिर्जलपिष्टाभिर्मत्तोतिसा(!) लूता विनश्यति । तथा इङ्गुदीवृक्षस्य तिल्वकस्य त्वचा जलपिष्टया लिप्तं सद् वा पिट(प!)कविशेष उपशाम्यति इति। उपमानद्वारेण द्वितीयप्रयोग इति । तत्र लूता सूर्यकिरणमध्यमेवा(रि! ति दुर्लक्षप्राणिरूपा दंशविशेषानुमेया। आयु(व!र्वे)दात् तस्या लक्षणानि ज्ञेयानी(ति) ॥ २७६ ॥

मूलेहि व वीएहि व कञ्ज़ुअपिट्ठेहि लित्तमुवसमइ ।

कीडविड(अ? आदि)दुट्ठं लंबासुरतालिफलिणीणं ॥ २७७॥
मूलैर्वा बीजैर्वा काञ्चिकपिष्टैर्लिप्तमुपशाम्यति ।

कीटपिटकादिदुष्टं लम्बासुरतालिफलिनीनाम् ॥

तिक्तालाबुदेवतालीलाङ्गलीनामेकतमाथा मूलैः फलैर्वा आरनालसञ्चूर्णितैर्दत्तकेपस्य शारीरकीटपिटकादित्वग्दोषो विनश्यति। कीटादि ग्रन्थ्याकारम् ।

येषां लोहितपा(पा? मा)नां पाकेन विना स्वेदः कठिनं च मुखं दृश्यते ते पिटकाः प्रसिद्धा विकारा इति ॥ २७७ ॥

तिलसरिसवमीसकरञ्जवीअलेवेण सअलपिडआण ।

(दा? त)रुणफलदन्तिणिहि व भवज्जइ पसरो विलि
[त्ताणं ॥ २७८ ॥

तिलसर्षपमिश्रकरञ्जबीजलेपेन सकलपिटकानाम् ।

(दा? त)रुणफलदन्ति(नी)भ्यां वा भिद्यते वा प्रसरो विलिप्तानाम् ॥

        तिलसिद्धार्थकचूर्णमिश्रैः करञ्जस्य नक्तमालस्य बीजैः पानीयपिष्टैः कृतेन लेपेन ये केचित् पिटकभेदाः शरीरेषु सम्भवन्ति, तेषां प्रसूतिर्निवर्तते । यदि तरु(ण)स्यैरण्डस्य फलं (तेन) तथा दन्तिन्या निकुम्भेनेत्येताभ्यां कृताभ्यामेतत् कार्यं भविष्यतीति ॥ २७८ ॥

जालावद्दहविअणं हरेन्ति जलवट्टिआइ सघआइ ।

णीलीतण्डुलमूलाइ णूणमुवलेवमत्तेण ॥ २७९ ॥
ज्वालागर्दभवेदनां हरन्ति जलवर्तितानि सघृतानि ।

(तिल? नीली)तण्डुलमूलानि नूनमुपलेपमात्रेण ॥

         नीलिन्या मेघनादस्य च मूलानि नूनमुपलेपमात्रेण तोयघृष्टानि घृतेन सहितानि लेपोदव ज्वालागर्दभाख्यस्य व्याधेः सम्बन्धिनी व्यथां शमयन्ति । यस्यैवं लक्षणं पठन्ति - दोषैः पित्तोल्बणैः मत्तैः विसर्पवत् शोफपाकस्ताम्रो ज्वरकृत् ज्वालागर्दभो जालगर्दभ इति द्विधा चास्य संज्ञा श्रूयत इति ॥ २७९ ॥

गोइभिआए मूलं (अहवा) उत्तण्टअस्स विहिगहिअं।

तण्डुलजलेण दिण्णं सेअ(लिअ)णिवारणं कुणइ ॥२८०॥
गोजिह्विकाया मूलमथवोत्कण्टकस्य विधिगृहीतम् ।

तण्डुलजलेन दत्तं शीतलिकानिवारणं करोति ॥

       गोजिह्विका व्याख्याता, तस्या मूलं ज्येष्ठोदकेन पिष्टं तेनैव सह पीतं सत् शीतलिकाव्याधेर्विस्फोटाख्यस्य विनाशं सम्पादयति । (अथवा उत्कण्टकस्य । विनाशं सम्पादयति । !) अथवा उत्कण्टकस्य पुनर्नवाया मूलमेवमुक्तकार्यं करोति । सर्वौषधीनां ग्रहणे विधिर्नियमविशेषो ग्रन्थसमाप्तौ विवक्षित इति ॥ २८०॥

उवसग्गम्मि पअट्ठे रअणी चिञ्चादलेहि सञ्जुत्ता।

सिसिरजलपिट्ठपीआ करेइ सीअलिअपडिसेहं ॥२८१॥
उपसर्गे प्रवृत्ते रजनी चिञ्चादलैः संयुक्ता।

शिशिरजलपिष्टपीता करोति शीतलिकाप्रतिषेधम् ॥

          पिण्डहरिद्रा अम्लिकादलैः सह शीतलेन (जलेन) सञ्चूर्णिता तेनैव सह पीता पूर्वगाथोक्तस्य व्याधेः प्रसरनिरोधं करोति । कदा । उपसर्गे दैविक उपद्रवे बाहुल्येन प्रवृत्ते सति। उपसर्गजस्य शीतलिकादोषस्य निवर्तनेऽयं प्रयोग इति ॥ २८१ ॥

जत्तिअमत्ता अङ्गे सीअलिआओ त्तिएहि पण्णेहि।

छिण्णेहि सेलुतरुणो आउरणामेण णासन्ति ॥ २८२ ॥

यावन्मात्रा अङ्गे शीतलिकास्तावद्भिः पर्णैः।

छिन्नैः शेलुतरोरातुरनाम्ना विनश्यन्ति ॥

        यावन्मात्राः सङ्ख्या यावन्त्यः आतुरस्य गात्रे शीतलिका उत्पत्त्यवसरे दृश्यन्ते, तावत्सङ्ख्यैरेव श्लेष्मातकतरोर्दलैर्देवदत्तस्य शीतलिका नश्यन्त्विति आतुरनामग्रहणपूर्वं त्रोटितैस्ता निवर्तन्त इति ॥ २८२ ॥

[*अन्ते सेअलिअसमुब्भवम्मि गरुएहि देहसन्दावे । 13

परिवसिअसलिलपाणं महुमीसफुलं (समं) (पु? कु)णइ
[॥२८३॥

रात्रिपर्युषितस्य माक्षिकसंयुक्तस्य तोयस्य पानं शीतलिकाजनितं शरीरस्यात्मदाहं शमयतीति ॥ २८३ ॥

महिलाण तक्खणच्चिअथक्कइ रुहिरं सिरम्मि विणिहित्ते।

जलकलसे दुद्धेण व पीए चक्कङ्कमूलम्मि ॥ २८४ ॥
महेलानां तत्क्षणमेव तिष्ठति रुधिरं शिरसि विनिहिते ।

जलकलशे दुग्धेन वा पीते चक्राङ्कमूले ॥

स्त्रीणामतिप्रवृत्तं रक्तं प्रदराख्यो व्याधिस्तत्क्षणेनैव निरुध्यते शीतलसलिलपूर्णे कलशे मस्तके न्यस्ते सति, अथवा गोक्षीरेण सुदर्शनामूले पीते सतीति ॥ २८४ ॥

कुसवडिआतरुमूलाइ पीअमत्ताइ तण्डुलजलेण ।

महिलाण महारुहिरं वरोन्ति कअलीहलाइ व्व ।. २८५ ॥

कुशवाट्यालकतरुमूलानि (समांशानि?) पीतमात्राणि तण्डुलजलेन ।

महेलानां महारुधिरं वारयन्ति कदलीफलानि वा ॥

         स्त्रीणामतिरजः कुशानां दर्भाणां तथा वाट्यालकस्य बलाया मूलानि समांशानि वरजलेन पिष्ट्वा पीतान्येव नि(तन्व रुन्ध)न्ति । अथवा रम्भायाः फलं मोचकाख्यं घृतेन सह पीतमेतत्कार्यं करोतीति ॥ २८५॥

तण्डुलसलिलेण बला पुराणगुलविरइअव्व पोराली ।

महिलाण महारुहिरं (वि) पीअमत्ते णिवारेइ ॥ २८६ ॥

तण्डुलसलिलेन बला पुराणगुलविरचिता (वा) बदराली ।

महेलानां महारुधिरमपि पीतमात्रान्निवारयति ॥

    ज्येष्ठसलिलेन पिष्टा तेनैव सह पीता बला (तस्या !) महारुधिरं घोरमपि प्रदरं स्त्रीणां निवारयति । अथवा बदरचूर्णं शीतलगुलसममात्रं ज्येष्ठजलपीतम् उक्तकार्य(कर)मिति ॥ २८६ ॥

दुद्धेण बलामूलं घणरवमूलाइ तण्डुलजलेण ।

महुमीसिअमेक्केक्कं पीअं पअरं समं णेइ ॥ २८७ ॥
दुग्धेन बलामूलं घनरवमूलानि तण्डुलजलेन ।

मधुमिश्रितमेकैकं पीतं प्रदरं शमं नयति ॥

बलायाः कन्दौदन्या मूलं गोक्षीरेण पिष्टं पीतं मधुसंयुक्तं प्रदरमतिरजः शमयति । अथवा लोहितलीलसस्य मूलानि ज्येष्ठोदकेनैव पीतानि माक्षिकसहितान्येवोक्तं कार्यं कुर्वन्तीति ॥ २८७ ॥

पिट्ठञ्च रत्तसालीण दुद्धसिद्धं सुसीअलं समहु ।

पीअमवहरइ पअरं सिवचिन्ता पापणिवहं व ॥२८८॥
पि(ष्टेन ?ष्टं च) रक्तशालीनां दुग्धसिद्धं सुशीतलं समधु ।

पीतमपहरति प्रदरं शिवचिन्ता पापनिवहमिव ॥

** **रक्तशालीनां लोहितशालीनां शालिविशेषाणां संबन्धि पिष्टं तण्डुलचूर्णं गोक्षीरेण सह क्षीरिणीवत् पक्वं पश्चात् सिद्धं माक्षिकेण सहोपयुक्तमतिरजः शमयति । यथा महेश्वरस्मरणं किल्बिषसमूहमिति ॥ २८८ ॥

लक्का घअसक्कढिआ पीआ दुद्धेण हरइ महिलाण ।

मोअररसो व्व सीसे अमुणिअणिम्मीलिओ पअरं॥२८॥
लाक्षा घृतसंक्वथिता पीता दुग्धेन हरति महेलानाम् ।

मयूरकरसो वा शीर्षे अज्ञातनिष्पी(डि)तः प्रदरम् ॥

      लाक्षा तरुव्याधिः पूर्वं घृतेन क्वथि(ते! ता) पश्चाद् दुग्धेन पिष्टपीता स्त्रीणामतिरजः शमयति । अथवा अपामार्गस्य अगृहीतसंज्ञस्यैवातुरशिरसि निष्पीडितस्य रस उक्तं कार्य करोतीति ॥ २८९ ॥

चुण्णं तिअडुअदिअलट्ठिआण तिलकाढेण पिअमवहरइ।

विसमं पि रत्तगुम्मं कुसुमणिरोहञ्च तरुणीण ॥ २९० ॥
चूर्ण त्रिक(टुक)द्विजयष्ट्यास्तिलक्वाथेन पीतमपहरति ।

विषममपि रक्तगुल्मं कुसुमनिरोधं च तरुणीनाम् ॥

व्योषस्य चूर्णं ब्राह्मणयष्ट्याश्च मूलचूर्णमेवं चतुर्णां समांशानां चूर्णं तिलक्वथितेन सह पीतं स्त्रीणां घोरमपि रक्तगुल्मं वातेन गुल्मत्वमापादितं रक्तं तथा कुसुमस्य ऋतुकालजस्य रक्तरोधं स्तम्भं शमयतीति ॥ २९० ॥

किव्वकणागुलमअणफलदन्तिजलखारतुंबिबीएहि ।

सकुलिसदुद्धा वत्ती जोणिगआ कुसुम(सं)जणणी ॥२९१ ॥
किण्वकणागुलमदनफलदन्तीयवक्षारतुम्बिबीजैः ।

सकुलिशदुग्धा वर्ती योनिगता कुसुमसञ्जननी ॥

          किण्वं सुराबीजं तथा पिप्पली तथा गुलः तथा मदनस्य सुमनस्य फलं तथा निकुम्भः तथा यवशूकः तथा तिक्तालाबुबीजान्येतानि तुल्यांशानि सुधाक्षीरेण वर्तितानि कृत्वा कृता वर्ती स्त्रीणां वराङ्गन्यस्ता कुमुमस्यान्तर्भवस्य रजसः प्रवर्तनीति ॥ २९१॥

णवणा(अ)एसरचुण्णं घएण पाऊणं कुसुमदिअहेसु।

दुद्धरआ स + णरसङ्गमेण णारी सुअं लभइ ॥२९२॥

नवनागकेसरचूर्णं घृतेन पीत्वा कुसुमादिवसेषु ।

दुग्धर(त? ता) सदा नरसङ्गमेन नारी सुतं लभते ॥

     नवस्य प्रत्यग्रस्य कनकस्य चूर्णं गोघृतेन सहावलेहं प्रागृतुदिनान्युपयुज्य गोक्षीराहा(र! रा) पुरुषसंप्रयोगेन पुत्रं लभते । सदेति, प्रयोगस्याव्यभिचारार्थं नित्यग्रहणमिति ॥ २९२ ॥

सघअं णाम(ण)विहिणा दाहिणणा(सा)उडम्मि उदुसमए।

वज्झाणं देइ सुअं लिङ्गङ्किअलक्खणामूलम् ॥ २९३ ॥
सघृतं नावनविधिना दक्षिणनासापुटे ऋतुसमये ।

वन्ध्याभ्यो ददाति सुतं लिङ्गाङ्कितलक्ष्मणामूलम् ॥

केनचिद् वस्तुना लिखितेन लिङ्गेनाङ्कितं कृतचिह्नं यल्लक्ष्मणायाः पुत्रजनन्योषधेर्मूलं तद् वन्ध्याभ्यः गर्भग्रहणरहिताभ्यः पुत्रजन्म प्रयच्छति केन प्रकारेण * 14॥ २९३ ॥

(दक्खि? एक्के)ण सिहिसिहालखणाण मूलेण दुद्धपीएण ।

गब्भं धरेइ महिला कुसुमवई तीण्णि दिअहाइ ॥ २९४ ॥
एकेन शिखिशिखालक्ष्मणयोर्मूलेन दुग्धपीतेन ।

गर्भं धारयति महेला कुसुमवती त्रीणि दिवसानि ॥

मयूरशिखापुत्रजननीमूलयोरेकतमेन गोक्षीरेण सह त्रीणि दिवसानि पिष्टपी(तानि! तेन) महेला गर्भमपत्यं गृह्णाति । वन्ध्या पीतसंयोगा (!) न भवतीत्यर्थः ॥ २९४ ॥

कमाइ कुरण्डअमूलं ऋद्धिं गब्भस्स पीअमणुदिअहं ।

गोहामिसे व कमिसो थोअत्थोअं समब्भसिअं ॥ २९५ ॥
करोति कुरण्टकमूलम् ऋद्धिं गर्भस्य पीतमनुदिवसम् ।

गोधामिषं वा क्रमशः स्तोकस्तोकं समभ्यस्तम् ॥

      कुरण्डस्याम्लातकस्य मूलं पानीयेन पिष्टं सत् तेनैव सह प्रतिदिवसं पीतं गर्भस्य ऋद्धिं सम्पूर्णधातुत्वं करोति । अथवा गोधा प्राणिविशेषः प्रसिद्धस्तन्मांसं क्रमेणाभ्यस्यमानमुक्तं कार्यं करोतीति ॥ २९५ ॥

जलपिट्ठं जोणिगअंधरेइ (ण धरेइ) जट्टजलपीअं।

गब्भं लक्खेसदिसाभवमुन्दुरुकण्णिमूलं ॥ २९६ ॥

जलपिष्टं योनिगतं धारयति न धारयति ज्येष्ठजलपीतम् ।

गर्भं यक्षेशदिग्भवमुन्दुरुकर्णिकामूलम् ॥

     उन्दुरुकर्णिकाया मूषिककर्णिकाया मूलमुदीचीप्रसृतं जलेन पिष्टं वराङ्गस्थं सद् गर्भं धारयति । तण्डुलधावनेन सह पिष्टं पीतं तु गर्भं न धारयति प्रवर्तयतीत्यर्थः ॥ २९६ ॥

जा महुघअमीसपलासबीअलेवं करेइ भअकुहरे।

उदुसमए सा महिला ण कआ(इ) वि होइ गब्भवई
[॥ २९७ ॥

या मधुघृतमिश्रपलाशबीजलेपं करोति भगकुहरे।

ऋतुसमये सा महेला न कदाचिदपि भवति (गर्भवती)॥

     या स्त्री गोघृतक्षौद्राभ्यां सहितेन पलाशतरोः किंशुकस्य बीजानां चूर्णेन योन्यन्तरम् ऋतुकाले लिम्पति, सा न कदाचिदपि गर्भं गृह्णाति । ऋतुकालशेषप्रयोगो न तु सकृदेवेति ॥ २९७ ॥

रइसमए तेल्लोलं गब्भासअवअणविणिहिअंविहिणा।

अवहरइ लोणखण्डं गब्भभअं दुट्ठरण्टाण ॥ २९८ ॥
रतिविरामे तैलार्द्रं गर्भाशयवदनविनिहितं विधिना ।

अपहरति लवणखण्डं गर्भभयं दुष्टरण्डानाम् ॥

दुश्शीलविधवानां सैन्धवशकलं तिलतैलाभ्यक्तं गर्भसम्भवं त्रासं हरति । गर्भं तासां नाशयतीत्यर्थः । किं कृतं सत् , सुरतावसाने गर्भग्रहणमुखे विधिना तत्रैव सम्यक्समर्पणरूपेण प्रकारेण निक्षिप्तमिति ॥ २९८ ॥

पूसुम्मूलिअहरदइअमूलिअं णिअकडीए बन्धेउं।

कामेह कामिणीओ कामेन्ति ण पसवितं जाउ ॥ २९९ ॥
पुष्योन्मूलितहरदयितमूलिकां निजकटौ बद्ध्वा ।

कामयन्तं कामि(नीं? न्यः) कामयन्ते (न) प्रसवितुं यान्ति ॥

पुष्यनक्षत्रोत्खातां मातुलशिफां स्वनितम्बे प्रथयित्वा रमणी रमयति । यास्ताः प्रसवं नेच्छन्ति ॥ २९९ ॥

जलकुसुमकन्दतिलसक्कराओ महुमीसिआ(ओ) पीआओ।

वारेन्ति गब्भपडणं धम्ममई कुगइगमणं व ॥३००॥
जल(कुसुमकन्दतिल)शर्करा मधुमिश्रिताः पीताः ।

(धा?वा)रयन्ति गर्भपतनं धर्ममतिः कुगतिगमनमिव ॥

        जलकुसुमस्य पद्मस्य कन्दं बिसं तथा तिलास्तथा सितशर्करा एतानि समांशानि माक्षिकेणोपयुक्तानि गर्भस्य पातं निरुन्धन्ति । यथा धर्मबुद्धिर्नरकपातमिति ॥ ३००॥

धाअइकुसुमसमंगाणीलुप्पलसबरकुसुममारेहि ।

ण पडइ गब्भो जलसण्ठिआइ दुद्धेण पीएहि ॥३०१॥
धातकीकुसुमसमङ्गानीलोत्पल(शबर)कुसु(म)मारैः।

न पतति गर्भो जलसंस्थिताया दुग्धेन पीतैः ॥

         आ नाभेः पानीयान्तर्गताया गर्भवत्या गर्भम् एतैर्द्रव्यैर्गोक्षीरेण सह पीतैर्न पतति न स्रवति । कैर्द्रव्यैः । धातकी मदयन्ती तत्पुष्पैस्तथा लज्जावत्यास्तथा कुवलयैस्तथा लोध्रेण एतैः समांशैर्माक्षिकेणावलोलितैरिति ॥३०१॥

सिहसुरहिकलमतण्डुलचुण्णं समसक्करं पिअन्तीए ।

उंबरिकन्दकसाएण पडइ गब्भो (ण) महिलाए ॥३०२॥

सितसुरभिकलमतण्डुलचूर्णं समशर्करं पिबन्त्याः ।

उदुम्बरिकन्दकषायेण पतति गर्भो न महेलायाः ॥

       शुक्लस्य सुगन्धस्य च शालेः पिष्टं सितशर्करासमां(शैः !शं) काकोदुम्बरिकाया मूलक्वथितेन सह पिबन्त्याः (नया ? नार्या) गर्भो (महेलायाः शुक्लाशुक्लस्य सुगन्धस्य शालेः पिष्टम्मतिशर्करासमांशैः काकोदुम्बरिकाया मूलक्वाथेन सह पिबन्त्यानया गर्भो?) न विस्रवतीति ॥ ३०२ ॥

थंमेइ गब्भपडणं कुला(कु?)लकरकद्दमं मुहुत्तेण ।

……… धरिआ गिरिअण्णिअजडव्व ॥ ३०३ ॥
(स्तम्भयति गर्भपतनं कुलालकरकर्दमं मुहूर्तेन ।

…………धृता गिरिकर्णिकाजटा वा ॥)

कुम्भकारपाणिलग्नो मृत्पिण्डो माक्षिकयुक्तेन छागक्षीरेण सह पीतो ग(र्भिणी!र्भं नि) रुणद्धि । अथवा श्वेतस्पन्दाया मूलं नारीनितम्बबद्धमेवं करोतीति ॥ ३०३ ॥

पज्झरह सोणिअंगब्भिणीए गब्भाव जीए महिलाए।

तिस्सा पाणं तण्डुलजलेण पारावअपुरीसं ॥ ३०४ ॥

(प्रस्रवति शोणितं गर्भिण्या गर्भाद् यस्या महेलायाः।

तस्याः पानं तण्डुलजलेन पारावतपुरीषम् ॥)

यस्या गर्भिण्या गर्भाद् रक्तं स्रवति, तस्यास्तन्निवृत्तये कलरवमलं ज्येष्ठाजलेन सह पानं देयमिति ॥ ३०४ ॥

महुअसिआकुवलअकन्द(चुण्ण)पाणं परिब्भमइ गब्भे ।

महिलाण हरह पीडं परि(पी?षे)ओ सीअलो तहअ ॥
मधुकसिताकुवलयकन्दचूर्णपानं परिच्युते गर्भे ।

महेलानां हरति पीडां परिषेकः शीतलस्तथाच ॥

मधुयष्टिसितोत्पलमूलानां समांशानां चूर्णस्य पानीयेन सह पानं स्त्रीणां गर्भच्युतौ सत्यां वेदनां निवारयति शिशिरश्च परिषेक इति ॥ ३०५ ॥

कढिआरनालपीअं सिन्धुब्भवहिंगुचुण्णमबलाण ।

तुरिअं करेइ पसवं कडिबद्धा मातुलजडव्व ॥ ३०६॥

क्वथितारनालपीतं सिन्धूद्भव(हिङ्गु)चूर्णमबलानाम् ।

त्वरितं करोति प्रसवं कटिबद्धा मातुलजटा वा ॥

   सैन्धवलवणबाह्वीकयोश्चूर्णं क्वथितकाञ्चिकेन सह पीतं स्त्रीणामाशु गर्भमोक्षं करोति । अथवा हरवल्लभस्य मूलं स्त्रीनितम्बे ग्रथितमेवं करोति ॥

एक्कं सुरअरुवाअसमोरअमूलाण विहिपरिग्गहिअं।

माहिलाण कडिणिबद्धं सुहपसवं कुणइ णिमिसेण ॥३०७॥
एकं सुरतरुवायसमयूरकमूलानां विधिपरिगृहीतम् ।

महेलानां कटि(नि)बद्धं सुखप्रसवं करोति निमिषेण ॥

सुरतरुः पारिभद्रकः तथा वायसजङ्घा तथा अपामार्गः एतन्मूलानामेकं स्त्रीणां नितम्बग्रथितं सुखेन शीघ्रं च प्रसवं करोतीति (विधिरक्षति ?)॥३०७॥

वाढाए मोरअस्स व मूलं महिलाण जोणिविणिहित्तं ।

कुणइ सुहं विअ पसवं दुक्खप्पसवाण विखणेण ॥३०८॥
भङ्ग्या अपामार्गस्य वा मूलं महेलानां योनिविनिहितम् ।

करोति मुखमेव प्रसवं (दुःख)प्रसवानामपि क्षणेन ॥

भङ्ग्या अपामार्गस्य (वा) मूलं स्त्रीणां वराङ्गनिक्षिप्तं सक्लेशप्रसवानामप्यक्लेशेनैव शीघ्रं गर्भमोक्षं सम्पादयतीति ॥ ३०८ ॥

जइ तं मोरअमूलं पावो कुट्टइ समुद्धरिज्जन्तं ।

तापस हिइ कुमारीं महिला तणअं अकुट्टम्मि ॥३०९॥
यदि तन्मयूरकमूलं तदानीं खण्ड्यते समुद्ध्रियमाणम् ।

तत् प्रसोष्यते कुमारीं महेला तनयमखण्डिते ॥

यदि तदपामार्गमूलं पूर्वोक्तप्रयोगा(र्थ)मुन्मूल्यमानं तदानीमेव त्रुट्यति तन्नारी कन्यां जनयिष्यतीति ज्ञेयम् । अत्रुटिते तूद्धृते पुत्रमिति ॥ ३०९

पुडडदृसप्पकञ्चुअमसिणमसीकुसुमसारभरिअब्भी।

झ(त्ति) विसल्ला जाअइ गब्भवई मूढगब्भा वि॥३१०॥
पुटदग्धसर्पकञ्चुकममृणमषीकुसुमसारभरिताक्षी।

झगिति विशल्या जायते गर्भवती मूढगर्भापि ॥

       अन्तर्धूमदग्धेन भुजगनिर्मोकेन कृतं यत् सूक्ष्मपिष्टं (भरिते! तेन) माक्षिकमिश्रितेन पूरितनेत्रा अपमार्गप्रवृत्तगर्भापि स्त्री तत्कालमेव विगतशल्या सम्पद्यते । सुखेन शीघ्रं मुञ्चतीत्यर्थः ॥ ३१० ॥

थोएणच्चिअ णिपडइ (पु?कु)लिसच्छीरेण सीसणिहिएण।

महिलाण गब्भसल्लं सरपुंखामूलिआएण ॥ ११ ॥
स्तोकेनैव निपतति कुलिशक्षीरेण शीर्षनिहितेन ।

महेलानां गर्भ(शल्यं) शरपुङ्खामूलिकाया वा॥

सुधाक्षीरेणाल्पेनापि मूर्धन्यस्तेन स्त्रीणां जरायुः केवलगर्भरहितो वा निपततीति । अथवा बाणपुङ्खाया मूलेन शिरसि न्यस्तेन एवं भवतीति ॥ ३११॥

परइ पभावेणच्चिअ गब्भो महिलाण जोणिधरिआए

……….. …… . ……… जाआ वा जडाए॥३१२॥

……….. …….. ……… ……….

……….. …………. ……….. …….

आर्द्रायाः श्वेतापराजिताया जटामूलेन वीर्यमात्रेणैव महेलानां गर्भः प्रवर्तते । कीदृश्या । अन्तर्वराङ्गस्थापितया । अथवा काकादन्याः शिफमैवं कृपया गर्भः पततीति ॥ ३१२ ॥

पाडेह जरसणाहं मअंपि गब्भं जरं (च) पाडेइ।

महिलाण चरणचूडं उत्तरिणीमूलिआवइअं ॥ ३१३ ॥

पातयति जरासनाथं मृतमपि (गर्भं जरां च) पातयति ।

महेलानां चरणन्यस्तमुत्तरिणीमूलिकावलयम् ॥

           उत्त(रस्या ? रिण्या) उष्ट्रवारुण्या मूलं वलयीकृतं पयोक्षिप्तं स्त्रीणां तत्कालमेव जरायुसहितं विपन्नमपि गर्भं पातयति । तस्मिन् वा पूर्वपचितं शिष्टं(!) जरायुमपि पातयति ॥ ३१३ ॥

दरचुण्णिअगोसेणाडअमूलमूलखण्डेण (?) जोणिविणिहि
एण।

रमणीण तक्खणच्चिअ णिपडइ गब्भो पपेवन्तो॥३१४॥

……… ……… ………… …………

……….. ……….. ………… ……….

दरचूर्णितगोरसेन वराङ्गन्यस्तेन तत्कालमेव गर्भं प्रवर्तत इति ॥३१४ ॥

जज्जरिअतिल्लतुंबिअपुणण्णवा(स)रसमूलखण्डेण ।

गब्भासअमुहछित्तेण पडइ गब्भो मुहुत्तेण ॥ ३१५ ॥

……… ……….. ……… ……..

………… ……… ………. ……….

जर्जरिततैलाभ्यक्तमार्द्रं वर्षाभूमूलं गर्भग्रहणीवदननिक्षिप्तं प्रवर्तयति गर्भं शीघ्रमेवेति ॥ ३१५॥

महरामण्डालोलिअपुराणगुलसुरसपत्तसरसेहि।

पीएहि जाइ णासं बरंगसूलं पसूआण ॥ ३१६ ॥
मदिरामण्डालोकितपुराणगुलसुरसपत्रस्वरसाभ्याम् ।

पीताभ्यां याति नाशं वराङ्गशूलं प्रसूतानाम् ॥

     (मदिरा) स्वच्छभागेन मिश्रितो यो जीर्णगुलं मज्जुकापल्लवगुणनिःष्यन्दः ताभ्यां गुलस्य कर्षो द्रवद्रव्यस्य पलत्रयेणेति मात्रया मिश्रीकृत्य पीताभ्यां वृत्तप्रसवानां नारीणां प्रसवजनिता वेदना नश्यतीति ॥ ३१६ ॥

‘णासइ वरंगविअणा पुणण्णचामोरआण एक्कस्स ।

सरसेण झत्ति दढदूसहा वि अन्तो णिहित्तेण ॥३१७॥

नश्यति वराङ्गवेदना पुनर्नवामयूरकयोरेकस्य ।

स्वरसेन झटिति दृढदुस्सहाप्यन्तर्निहितेन ॥

वर्षाभ्वा अपामार्गस्य च मध्यादेकतरस्य स्वरसेन निजनिःष्यन्देन योन्यन्तरनिक्षिप्तेन स्त्रीणां तीव्रमपि योनिशूलं तत्कालमेव निवर्तत इति ॥३१७॥

विउडेइ जोणिविअणं पञ्चंगुलतिल्लतिम्मिअं तूलं ।

अन्तो णिहिओव्व फुडं सञ्जाआलंबुसारइओ॥ ३१८ ॥

विघटयति योनिवेदनां पञ्चाङ्गुलतैलसिक्तं तूलम् ।

अन्तर्निहितो वा स्फुटं शम्बालम्बुसारचितः॥

        कार्पासपिञ्छम् ऐरण्डकमूलबीजतैलाभ्यक्तं योन्यन्तरन्यस्तं तच्छूलं शमयति । अथवा श्रमणशीर्षके (ण) (केश? श्लक्ष्ण)चूर्णीकृतेन घृतभर्जितेन सम्पादितं सद्यावकसारं प्रायः तद्वत् कलाख्यया प्रसिद्धं योनिशूलं नाशयति । संयावविरचने द्विधा युक्तिर्यत् तप्तघृतमध्ये श्रमणशीर्षचूर्णं भृष्टं कृत्वा तत उद्धृत्य पानीयपिष्टं पिण्डीकृत्य यथासुखावहं घृताभ्यक्तं योनौ संयोज्यमित्येकः प्रकारः । द्वितीयस्तु पानीयेन सूक्ष्मपिष्टं पिण्डीकृत्य तप्तघृतेनाद्रीकृतं पूर्ववद् योनौ संयोज्य तथा निवेश्यमिति ॥ ३१८ ॥

अवहरइ जवक्खारो पक्कल्लं सूइआण महिलाण ।

कढिअं जलेण घएण व पीअं वेरं विसाओ व्व ॥३१९॥
अपहरति यवक्षारं पक्कल्लं सूतिकानां महेलानाम् ।

क्वथितं जलेन घृतेन वा पीतं वीर्यं विषाद इव ॥

       वृत्तप्रसवानां स्त्रीणां यादृशं शूलमुत्पद्यते तस्य पक्कल्लमित्याख्या । तद् यवशूकः कफादिकानां क्वथिततोयेन वा पीतं घृतेन वावलेहयोग्यं कृत्वा क्रमात् पानावलेहनोपयुक्तः शमयति । स्पष्टमुपमानमिति ॥ ३१९ ॥

दुद्धेण कलमतण्डुलचुण्णं पीओ विडारिकन्दोवा।

सत्ताहं दुद्धरआए कुणइ दुद्धं पसूआए ॥ ३२० ॥

दुग्धेन कलमतण्डुलचूर्णं पीतो विदारिकन्दो वा।

सप्ताहं दुग्धरतायाः करोति दुग्धं प्रसूतायाः ॥

गोक्षीरेण सदृशकालं शालेस्तण्डुकानां सम्बन्धि पिष्टं सप्त दिनानि पानेनोपयुक्तं जातापत्यायाः अल्पक्षीरायाः क्षीरवृद्धिं करोति । (तथा विदारिकन्दं वा) तान्येव सप्त दिनानि क्षीरप्रधानमेव भुञ्जानायाः भरितस्तनीयुक्तं कार्ग्रमिति(!) ॥ ३२०॥

कुक्कुरमद्दयमूलं चव्विअधरिअं मुहम्मि महिलाए ।

हरइ ठणकीडए कुणइ (ठ)पणरिद्धिश्च सत्ताहा ॥ ३२१॥
कुक्कुरमर्दकमूलं चर्वितधृतं मुखे महेलायाः।

हरति स्तनकीटकान् करोति स्तन्यर्द्धिं च सप्ताहात् ॥

         कुक्कुरमर्दकस्य रामशीतलिकाया मूलं तच्चूर्णितं सदास्यान्तरस्थापितं नार्थाः कु(चयो)रुत्पन्नान् क्षीरदोषकृतान् कण्टकप्रायान् विकारान् नाशयति, क्षीरं च वर्धयति सप्त दिनान्युपयुक्तमिति ॥ ३२१॥

हरइ विसालामूलं थणविअणं कामिणीण लेवेण ।

तणअभवं सहलिद्दो कुमारिकन्दोव्व णिमि(षे)ण ॥ ३२२॥
हरति विशालामूलं स्तनवेदनां कामिनीनां लेपेन ।

तनयभवां सहरिद्रः कुमारिकन्दो वा निमिषेण ॥

    स्त्रीणामपत्यविपत्त्यादिव्यथाडिजां कुचपीडामिन्द्रवारुणीमूलं पानीयपिष्टं विलेपेनोपयुक्तं नाशयति । अथवा पिण्डहरिद्रासहितं फलकुमारीमूलमेकोपयुक्तमतिशीघ्रमेवं करोतीति ॥ ३२२ ॥

तणुईकरेइ मज्झं पीअंमहिएण माहवीमूलं ।

लीढव्व णिशाविरमे कशेलुअं घअमहुम्मीसं ॥ ३२३॥

तनूकरोति मध्यं पीतं मथितेन माधवीमूलम् ।

लीढं वा निशाविरामे कशेलुकं घृतमधून्मिश्रम् ॥

             माधव्या अतिमुक्तकलताया मूलं तक्रेण सह पीतं स्त्रीणामुदरं (तनूकरोति । ) अथका गोघृतमाक्षिकाभ्यां मिश्रितं कम्पिल्लकं माचितं चूर्णीकृतं सदवलेहनोपयुक्तमेवं करोति ॥ ३२३ ॥

गोमअविरुक्खिआइं जलवट्टअसघअवरणअदलेहि।

सृष्वट्टिआइ बहुसो कक्कसिआणं विणासन्ति ॥ ३२४॥

गोमयविरूक्षितानि जलवर्तितसघृतवरणकदलैः।

उद्वर्तितानि बहुशः किक्किसिकानि (विनश्यन्ति)॥

      (किक्किसिकानि) प्रन्थिकात्वग्भेदजलवैरूप्यहेतवो रोगविशेषाः गोशकृता प्रथमं विरूक्षत्वं प्रतिपादितानि पश्चाद् गोघृतसंयुक्तैर्वरणवृक्ष (स्य) श्वेतपुष्पाख्यस्य पत्रैस्तोयपिष्टैः पुनः पुनः कृतैरुद्वर्तनैः शाम्यन्ति ॥ ३२४ ॥

कप्पासवीअसाहिअघअपोणी जोणिसूलमवहरइ।

मूसिअपिसिअविपक्कं तेल्लं (व) वरंगविब्भंसं ॥३२५॥

(कार्पासबीजसाधितघृतपोणी योनिशूलमपहरति ।

मूषिकपिशितविपक्वं तैलमिव वराङ्गविभ्रंशम् ॥)

      कार्पासबीजैः साधितेन घृतेनाक्ता कार्पासबीजचूर्णेनावचूर्णिता यासौ पोणी कार्पासादिपिचुरुष्णीकृता योनौ समर्पिता तच्छूलं निवर्तयति यथा उन्दुरुमांससिद्धं तैलं वराङ्गस्य बहिर्निस्सरणरूपेण विभ्रंशमभ्यङ्गान्निवर्तयति । घृततैलपाकविधिः सामान्येनोक्त इति ॥ ३२५ ॥

पविसइ णिक्कन्ता वि खु कारल्लीकन्दलेविआ जोणी।

सढिला वि होइ गाढा सुरगोवअ(घअ)कअब्भंगा॥३२६॥
प्रविशति निर्गतापि खलु कारवल्लीकन्दलेपिता योनिः।

शिथिला(पि) भवति गाढा सुरगोपक(घृत)कृताभ्यङ्गा ॥

          बहिः प्रसृतमपि स्त्रीणां वराङ्गमन्तः प्रविशति प्रकृतिस्थं भवति, कारवल्ली निष्पर्याया, तन्मूलेन जलपिष्टेन कृतलेपं सत् । तथापि शिथिला स्रस्तापि गाढा दृढा भवति योनिः इन्द्रगोपाख्यः कीटस्तच्छरीरचूर्णयुतेन घृतेनाभ्यक्ता सतीति ॥ ३२६ ॥

माआफलमहुकप्पूरपूरिअं होइ कामिणिजणस्स।

चिरगलिअजोव्वणस्स वि वरंगमइगाढसोमालं ॥३२७॥
मायाफलमधुकर्पूरपूरितं भवति कामिनीजनस्य ।

चिरगलितयौवनस्यापि वराङ्गमतिगाढसुकुमारम् ॥

मायाफलानि प्रसिद्धानि तैस्तथा माक्षिकघनसाराभ्यां भरितं स्त्री(जनस्य) बहुवृद्धस्यापि वराङ्गं विगतशैथिल्यं मृदुस्पर्शं च भवति ॥ ३२७॥

धाअइतुरंगगन्धाकाराअणिखउरसाहिअं सलिलं।

पक्खालणेण जोणिं कुणइ गाढग्रं सुइरं(?)॥ ३२८ ॥
(धातकितुरङ्गगन्धाकारायणिनिर्याससाधितं सलिलम् ।

प्रक्षालनेन योनिं करोति …. … …. …. … ॥)

धातकितुरङ्गगन्धाकारायणिनिर्याससाधितं सलिलं प्रक्षालनेन प्रयुक्त बहुकाखं तस्य शैथिल्यं निवारयतीति ॥ ३२८ ॥

खरतरणिकिरणभाविअभे(अ?)ण्टअरस(र?व)ण्ण
[मूसअवसाहि।

मण्डूअवसासहिओ कुणइ कुमारत्तणं लेवो ॥ ३२९ ॥
खरतरणिकिरणभावितभे(क?)ण्टकरसवन्यमूषिकवसाभिः ।

मण्डूकवसासहितः करोति कुमारित्वं लेपः॥

         तीव्रार्करश्मिभिर्भावितस्य भेण्टकस्य वार्ताकस्य तालहडस्य (रसेन) तथा दर्दुरवसया तथा (वन्यमूषिकवसया) एतैस्तुल्यांशैः कृतो यः स लेपः कुमार्याः सत्याः पुरुषोपभुक्तायाः पुनः कुमारित्वमविभग्नयोनित्वं सम्पादयतीति ॥ ३२९॥

महुलट्ठिपश्चपल्लवमालइकुसुमेहि रविअरविपक्कं ।

णारीवरंगगन्धं घअमभंगेण णासेइ ॥ ३३०॥
मधुयष्टिपञ्चपल्लवमालतीकुसुमै रविकरविपक्वम् ।

नारीवराङ्गगन्धं घृतमभ्यङ्गेन नाशयति ॥

      मधुयष्ट्या तथा पञ्चभिः पल्लवैः कपित्थस्याम्रस्य जम्बीरस्य बीजपूरस्य बिल्वस्येति पञ्चानां वृक्षाणां पत्रैः तथा सुमनःपुष्पैरेतैः सप्तभिस्तुल्यांशैरष्टगुणं गोघृतं पक्षमात्रं सूर्यकिरणैः क्वथितं वराङ्गाभ्यङ्गान्नारीणां तद्दौर्गन्ध्यं नाशयतीति ॥ ३३०॥

अवहरइ कमल(कुवल)अवीअविसोसीरजलहरविपक्कं ।

दुग्गन्धसिइिलपिच्छिलविसमवरत्तणं(?) तेल्लं ॥३३॥
अपहरति कमलकुवलयबीजविषोशीरजमधरविपक्वम् ।

दुर्गन्धशिथिलपिच्छिल … … .. … तैलम् ॥

अपहरति कमलकुवलयबीजविषोशीरजलधरविपक्वं (तैलं) दुर्गन्धशिविलपिच्छिलत्वं, तथा वैषम्यं निम्नोन्नतत्वं च नाशयतीति ॥ ३३१ ॥

पक्खालिअं सुबहुसो णिंबकसाएण धूविअं पच्छा।

णिं(ब)च्छल्लीए वरङ्गकुहरमइसुन्दरं होइ ॥ ३३२॥
प्रक्षालितं सुबहुशो निम्बकषायेण धूपितं पश्चात् ।

निम्बत्वचा वराङ्गकुहरमतिसुन्दरं भवति ॥

पिचुमन्दक्वाथेन पुनःपुनर्निर्मार्जितं पश्चान्निम्बत्वचा दत्तधूपं स्त्रीणां वराङ्गं सौकुमार्यसौगन्ध्यादिगुणयोगादतिसुन्दरं भवति सम्पद्यत इति ॥३३२ ॥

मअससिकुङ्कुमरसाउरु च(?)तण्डुलमलअकुवलअणहेहि।

समहूहि लडहकामिणिवरंगधूओ समुद्दिट्ठो ॥ ३३३ ॥
मदशशिकुङ्कृमरसागुरु च(?) तण्डुलमलयकुवलयनखैः।

समधुभिर्लटहकामिनीवराङ्गधूपः समुद्दिष्टः ॥

     एतैर्दव्यैरुत्तमस्त्रीणां भगधूपनमुक्तम् । कैर्द्रव्यैः । मदेन कस्तूरिकया तथा कर्पूरेण तथा काश्मीरेण तथा वोलेन तथा नखेन एतैस्तुल्यांशैर्माक्षिकमिश्रितैरिति ॥ ३३३ ॥

चुण्णं हरिआलपलासभूइछारेहि रोमणिउरुम्पो।

णासेइ लेविअमत्तं रसचन्दमिअंकसरिसेहि ॥ ३३४॥
चूर्णं हरितालपलाशभूतिक्षा(रेण?रै) रोमनिकुरुम्बम् ।

नाशयति लिप्तमात्रं …. …. श्चन्द्रमृगाङ्कसहितैः॥

        हरितालं तथा शुकदारुभस्म तथा यवक्षारम् एतैः हरितालस्य पश्च भागाः (पलाशभस्म, क्षारयोर्द्वौ भागौ इति मात्रया जलपिष्टैः रोमसमूहं लिप्तमात्रं शातयतीति । मृगाङ्कः कर्पूरः ॥ ३३४ ॥

उप्पडिऊण रोमाइ तुप्पिअ (?) जस्स होइ पेरन्तो।

रोमरहिअंचरंगं पत्तिहि कोसंवितेल्लेण ॥ ३३५ ॥

उत्पाठ्य रोमाण्य(त्यर्थो? भ्यक्तो) यस्य भवति पर्यन्तः ।

रोमरहितं वराङ्गं प्रतीहि कौशाम्बितैलेन ॥

       यस्य वराङ्गस्य रोमाण्यु(ङ्खायाः ! त्खाय) कौशाम्ब्याः कोशातक्या बीजसम्भूतेन तैलेन पर्यन्तभागेऽभ्यज्यते तद् वराङ्गं नित्यमेव रोमवर्जितं भवत्यत्र प्रत्ययं कुर्विति ॥ ३३५॥

इालाहलकिप्पइचुण्णमीसिअं सत्तरत्तपरिवसिअं।

सरिसवतेल्लं व इमं करेइ अब्भंगमत्तेण ॥ ३३६॥

हालाहलपुच्छविचूर्णमिश्रितं सप्तरात्रपर्युषितम् ।

सर्षपतैलं बेदं करोत्यभ्यङ्गमात्रेण ॥

    इदमुक्तं कार्यं गौरसिद्धार्थकतैलं वा अभ्यङ्गमात्रेण सम्पादयति । कीदशम् । ब्राह्मणिकाख्यस्य प्राणिनश्चूर्णीकृतेन पुच्छेन मिश्रितं सत् सप्ताहोरात्रस्थापितमिति ॥ ३३६ ॥

महुमीसवीअपूरअदलचुण्णं पिबइ जा पओसम्भि ।

सा लज्जावहमारुअणिरुद्धपसरा सुहं सुवइ ॥ ३३७ ॥

मधुमिश्रबीजपूरकदलचूर्णं पिबति या प्रदोषे ।

सा लज्जावहमारुतनिरुद्धप्रसरा सुखं स्वपिति ॥

     माक्षिकेण मिश्रं यन्मातुलुङ्गतरुपत्राणां चूर्णं। तदपराह्णसन्ध्यायामवलेहेन या उपभुङ्क्ते सा व्रीलाकरस्य मारुतस्य निरुद्धप्रवृत्तिः सती निराशङ्कत्वात् सुखं स्वपिति समीपे निद्रामनुभवतीति ॥ ३३७ ॥

जम्मदिअहाहि दिण्णो सत्ताहं बालआण सघिएहि ।

धूओ करेइ रक्खं दाहिणदिअपक्खपिञ्छाहि ॥३३८॥
जन्मदिवसादारभ्य (दत्तः) सप्ताइं बालकानां सघृतः ।

धूपः करोति रक्षां दक्षिणद्विजपक्षपिञ्छैः ॥

उत्पत्तिदिनादारभ्य सप्त दिनानि शिशूनामेतैर्द्रव्यैर्दत्तो धूपः ग्रहादिभ्यो रक्षां करोति ॥ ३३८ ॥

विसवाहिभूअरक्खं मेहं सुरहित्तमंगलावण्णं ।

कुणइ सिअकुट्ठं अन्तरा पाणअविहिणा सि (?) डिंबाण।
विषव्याधिभूतरक्षां मेधां सुरभित्वमङ्गलावण्यम् ।

करोति सितकुष्ठमन्तरा पानविधिना बालानाम् ॥

श्वेत(प्र! कुष्ठस्य) चूर्ण गोघृतक्षौद्रमिश्रितं जातमात्रस्यागृहतिस्तन्यस्यैव बाकस्यावलेहनत्वेनोपयुक्तं विषादिभ्यो रक्षां करोति सौगन्ध्यादिस्वगुणान् करोतीति ॥ ३३९ ॥

सिहिचूलआए मूलं अहिमअरविडप्पसंगमे गहिअं।

बालाण कण्ठबद्धं समत्थगहदोसविद्दवणं ॥३४०॥

शिखिचूडाया मूलमहिमकररादुसङ्गमे गृहीतम् ।

बालानां कण्ठबद्धं समस्तग्रहदोषविद्रावणम् ॥

शिखिचूडा मयूराशिखा तस्या मूलं ग्रहणकाले स्वीकृतं शिशूना गलग्रथितं सर्वबालग्रहभयनिवारणम् । अहिमकरः सूर्यः । विडप्पो राहुरिति ॥३४०॥

संखुप्पलकुट्ठवआ(क? का)लाअसधारणं कुमाराण ।

कुणइ सआ सव्वत्तो रक्खं सअलोवसग्गेसु ॥ ३४१॥
शङ्खोत्पलकुष्ठवचाका(लवयो ? लायस)धारणं कुमाराणाम् ।

करोति सर्वदा सर्वतो रक्षां सकलोपसर्गेषु ॥

      आधिदैवादिषु सर्वेषूपद्रवेषु जातेषु सर्वेभ्यो ग्रहादिदोषेभ्यो बालानांं रक्षामेतेषां धारणं सम्पादयति । केषां, शङ्खस्य समुद्रजस्य कम्बोरुत्पलस्य कुष्ठस्य वाप्यस्यैव तथोग्रगन्धायास्तथा शस्त्रस्यैषां व्यस्तानां समस्तानां चेति ॥ ३४१॥

रूविअदुद्धमहोसहतम्माघअकुणडिआहि णिम्माविअं ।

डिम्भाण विलेवणअं गहगणघणदोसविद्दवणं ॥ ३४२ ॥
रूपिकदुग्धमहौषधताम्राघृतकुनटीभिर्निर्मितम् ।

डिम्भानां विलेपनं ग्रहगणघनदोषविद्रावणम् ॥

    अर्कक्षीरेण तथा नागरेण तथा गोघृतेन तथा कुनट्या मनःशिलया एतैनिर्मितं कृतं समालम्भनं बालानां सर्वदुष्टग्रहवृन्दानां सततानां दोषाणामपसारणं करोतीति ॥ ३४२॥

सिअसिन्दुवारमूलं पुव्वदिसासंभवं समुप्पसइ ।

वा(ल ?लाण) गलणिबद्धं दसणुब्भववेअणादुक्खं ॥३४३ ॥
सितसिन्दुबारमूलं पूर्वदिग्भवं समुत्पुंसयति ।

बालानां गलनिबद्धं दशनोद्भववेदनादुःखम् ॥

सितसिन्दुवारस्य श्वेतपुष्पस्य मूलं प्राचीदिग्भागप्रसृतं कण्ठग्रथितं सत् कुमाराणां दन्तजन्मव्यथात्मकं क्लेशमपहरतीति ॥ ३४३ ॥

एक्कं दुद्धलिआसंखफुल्लितुंबीजवासमूलाण ।

वालाण कण्ठबद्धं दसणुब्भवदुक्खमपहरइ ॥ ३४४ ॥

एकं दुग्धलिकाशङ्खपुष्पितुम्बीयवाषमूलानाम् ।

बालानां कण्ठबद्धं दशनोद्भवदुःखमपहरति ॥

      अर्कपुष्प्याः तथा शङ्खपुष्प्याः स्फेरुट्याः तथा तिक्तालाव्वास्तथा यवाषस्य दीर्घमूलस्य सम्बन्धिनां मूलानामन्यतमं शिशूनां गलग्रथितं सद् दशनोद्भवकालजातां व्यथां (शिशूनां !) शमयतीति ॥ ३४४॥

महु(णा) कअरअपिञ्छ(ल)वल्लूर+ओ करेइ अवलीढे।

दन्तग्गममइतुरिअं बालाण उवद्दवविमुत्तं ॥ ३४५ ॥

मधुना ककरपिञ्ज(ल)वल्लूरकं करोत्यवलीढम् ।

दन्तोद्गममतित्वरितं बालानामुपद्रवविमुक्तम् ॥

        क्रकरकपिञ्जलयोः सम्बन्धि शुष्कमांसचूर्णं क्षौद्रेण सहावलेहेनोपयुक्त कुमाराणां शीघ्रमेव करोत्यतिसाराद्युपद्रवरहितं दशनजन्म सम्पादयतीति । क्रकरकपिञ्जलयोरभावे तित्तिरिलाबकौ ग्राह्याविति ॥ ३४५॥

वालाण बिल्लधाअइ(गअ)पिप्पलिसबरसलिलसम
[भाओ।

सव्वाइसारधरणो समहू चुण्णो कसाओ व्व ॥ ३४६ ॥

बालानां बिल्वधातकिगजपिप्पलीशवरसलिलसमभागः।

सर्वातिसारधरणः समधुश्चूर्णः कषायो वा ॥

     मालूरमज्जा तथा ताम्रपुष्पा तथा चविका तथा लोध्रः तथा वालक इत्येतेषां समभागो यस्मिंस्तादृशश्चूर्णो माक्षिकेण सहावलेहनोपयुक्तः अतीसारं सर्वदोषमपि निरुणद्धि । अथवा एतैरेव क्वाथः समाक्षिक एवेति ॥३४६॥

घअफलिणीसोवीरअचुण्णो तण्डुलजलेण महुसहिओ।

अइसारछद्दितह्णाउ हरइ दिण्णो कुमाराण ॥ ३४७॥

घनफलिनीसौवीरकचूर्णस्तण्डुलजलेन मधुसहितः।

अतिसारच्छर्दितृष्णा हरति दत्तः कुमाराणाम् ॥

मुस्ताप्रियङ्गुशैलाञ्जनानां चूर्णं ज्येष्ठजलेनालोड्य तेनैव सह माक्षिकेण पीतमतिप्रवृत्तिं वर्मि तृषं च नाशयति ॥ ३४७॥

णिपडन्ति क्किप्रिवच्छारु(सि)आ डिंभस्स मुण्डिपी
[न्तस्स (?) दाऊण उत्तमङ्गे सहझपलासाबलामूलं ॥ ३४८॥

निपतन्ति कृमयो वत्सारु(षिता) डिम्भस्य सुपीतमात्रस्य (?)।

दत्त्वोत्तमाङ्गे सूक्ष्मपलाशावलामूलम् ॥

         बालस्य वच्छारुषिता व्याधिविशेषा मूर्ध्नि तोये भवन्ति । तेषु कृमयो जायन्ते। ताः (स्या!)सूक्ष्मपत्राया बला(ग्राश्च)(तद्रौदिय्याः!) मूलचूर्ण शिरसि दत्त्वा स्नापितस्यैव (भवन्ति !) ततो निपतन्ति तद्रणं च रोहति ॥ ३४८ ॥

लक्खासुवण्णगेरिअसविलंगसिलाहिदारुरअणी(हि)।

खुक्खुणियामुत्थ(इ)पमुहरोअहरमञ्जणं भणिअं ॥
लाक्षा(द्रव ?)सुवर्णगैरिकसविलङ्गशिलाहिदारुरजनीभिः ।

कुखुणिकामुस्तकीप्रमुख(नयन?)रोगहरमञ्जनं भणितम् ॥

  तरुव्याधिस्तथा सुवर्णगैरिकं प्रसिद्धं तथा कृमिघ्नसहिता कुनटी तथा अहिर्नागकेसरं तथा दार्वी एतैः समांशैः कृतमञ्जनं कुकूणकमुस्तकीप्रमुखानां चक्षुरोगाणां विनाशनमुक्तम् । कुकूणकस्य लक्षणमेवं पठन्ति -

“कुकूणकः शिशोरेव दन्तोत्पत्तिनिमित्तजः ।
स्यात् तेन शिशुरुच्छूनताम्राक्षो वीक्षणाक्षमः ॥”

इति । एष कुखुणिकासंज्ञयेहोक्तः । मुस्तकाख्यस्तु शिशूनामन्येषामपि भवतीत्यस्य वाभ्यन्तरे सूक्ष्मपिटको नामादिरूपं (१) लक्षणमाहुः । प्रमुखग्रहणेन इच्छपबोधादीनां चतुर्वि(शा ! शल्य)न्तर्वमरोगाणां ग्रहणमिति ॥ ३४९॥

मसिणवलामूलवआचुण्णसणाहं खराअवविपक्कं ।

तुलिआमअमाहप्पं तेल्लं सुहअं कुमाराण ॥ ३५०॥
मसृणबलामूलवचाचूर्णसनाथं खरातपविपक्वम् ।

तुलितामृतमाहात्म्यं तैलं सुखदं कुमाराणाम् ॥

         सूक्ष्मपिष्टेन वाट्यालकमूलस्य तथा (जपा! वचा)याश्चूर्णेन संयुक्तं तैलं पक्षमात्रं तीक्ष्णार्ककिरणक्वथितं सदभ्यङ्गेन प्रयुक्तं बालकानां बालमुष्टिबर्णाधि कारत्वात् स्रवितामृतप्रभावमत एव सौख्यदायीति ॥ ३५० ॥

एएण कअब्भंगो थलाजडाविगअतुसजलोम्मलिओ।

उह्वोह्ववलाकाहिअजलेण बालो थलं लहइ ॥ ३५१ ॥

एतेन कृताभ्यङ्गो बलाजटाविगततु(षो? षजलो)न्मलितः । उष्णोष्णवलाक्वथितजलेन बालो (बलं लभते)

** **अनेनोक्तेन तै(ला! लेना)भ्यक्ताङ्गः शिशुः पश्चाद् बलाचूर्णेन निस्तुषीकृत(मांसी)चूर्णेन चैताभ्यां जलामश्रिताभ्यामुद्वर्तितस्ततो बलाक्वाथेन सुखोप्णेन सलिलेन स्नापितो बलं लभत इति ॥ ३५१॥

हअरिउकरञ्जरूविअसत्तच्छअपण्णपसुजलोम्मलिओ ।

हिरिव्वेरदे(सि?)बिलंबुषकाढिअविच्छोणिअसरीरो॥३५२॥

हिंगुवआपुरवेर्हिणणिग्गुण्डीणिंबपण्णकअधूओ।

घअकुसुमसार(स)कउहवेणुव्भवकणअकअलेहो॥ ३५३ ॥

गअविसहविसाणुद्धरिअमट्टिआसुरहिरोअणातिलओ ।

मोरअणिमत्तकण्टअसुवण्णमाणिमूलकअरक्खो ॥ ३५४ ॥

सुसिणिद्धजणणिपरिअणणिप्वत्तिअविविहमंगलाआरो।

गहदोसवाहिरहिओ होइ कमारो कुमार व्व ॥ ३५५ ॥

हयरिपुकरञ्जरूपिकसप्तच्छदर्पणपशु(पति ?)जलोन्मलितः ।

हीबेरदेव्यलम्बुषाक्वाथविक्षालितशरीरः॥

हिङ्गुवचापुरशिखि(ञ्ज ? पिञ्छ)निर्गुण्डिनिम्बपर्णकृतधूपः ।

धृतकुसुमसार(स)ककुभवेणूद्भनकनककृतलेहः ॥

गजवषभविपाणोद्धृतमृत्तिकासुरभिरोचनातिलकः ।

मयूरकण्टकसुवर्णमणिमूलकृतरक्षः ॥

सुस्निग्धजननीपरिजननिवर्तितविविधमङ्गलाचारः।

ग्रहदोषव्याधिरहितो भवति (कुमारः) कुमार इव ॥

      परिचर्यमाणो बालः स्कन्दसमो भवति । कीदृशः। करवीरनक्तमालार्क(सप्तपर्ण)मूलानां चूर्णेन, एतैः गांशर (असम्पादितः भागः) छागमूत्रमिश्रितैः कृतोद्वर्तनः, वालकसहदेवीश्रमणशीर्षकैः क्वथितजलेन क्षालिताङ्गः, तथा बाह्वीकेनोग्रगन्धया महिषाक्षेण मयूरपक्षण तथा भूतकेश्या पिचुमन्दपत्रैः समांशैः प्रयुक्तधूपः, तथा गव्यसर्पिषा क्षौद्रेण चालोलितेः अर्जुनपुष्पवंशरोचनापद्मकैः समांशैर्दत्तावलेहः, तथा दन्तिबलीवर्दशृोङोत्खातया मृदा तथा गोरोचनया रचितविशेषकः, तथा सर्पभयघ्नैर्मन्त्रैः कृतेन कण्ठाभरणेन तथा सुवर्णेन तथा मणिमरतकादिभिः तथा बलमोटाद्यौषधीनां मूलैः कण्ठे बद्धैः सम्पादितरक्षः, स्निग्धैर्मातृप्रमुखैःपरिचारकैः सम्पादिता नानाकाराः कल्याणप्रधानक्रियाविशेषा यस्य तथाविधः बालो बालग्रहदोषैर्ज्वरादिभिश्च वर्जितः सन्नुक्तरूपो भवतीति ॥ ३५२ -- ३५५॥

कुट्ठमुराणा(अ)एसरघुण्णं जो लिहइ घअमम्मीसं।

सो होइ सुरहिगन्धो तरुणीअणवल्लहो तह अ ॥ ३५६ ॥
कुष्ठमुरानागकेसरचूर्णं यो लेढि घृतमधून्मिश्रम्

स भवति सुरभिगन्वस्तरुणीजनवल्लभस्तथा च ॥

       वाप्यस्य तथा मुराया गन्धवाट्याः (तथा नागकेसरस्य) सूक्ष्मपिष्टचूर्णं सर्पिःक्षौद्राभ्यामालोलितं यः पुप्रानवलेहेनोपयुङ्के स सुगन्धिशीलः कामिनीलोकदयितश्च भवतीति ॥ ३५६ ॥

तामरसणाअकेसरविसुद्धकुट्ठाण पलसअं विहिणा ।

महुसुरहिघअकरंभिअमअ(णं) धण्णम्मि परिवसिअं
[॥ ३५७॥

थोअत्थो(अञ्जा)अं गोसे खज्जन्तमिणं करेइ सोभग्गं।

आअढ्ढअभमरउलं सरीरगन्धञ्च मासेण ॥ ३५८॥
तामरसनागकेसरविशुद्धकुष्ठानां पलशतं विधिना।

मधुसुरभिघृतमिश्रितमयनं धान्ये पर्युषितम् ॥

स्तोकस्तोकं प्रभाते खाद्यमानं करोति सौभाग्यम् ।

आकृष्टभ्रमरकुलं शरीरगन्धं च मासेन ॥

    तामरसस्य पद्मपुष्पस्य तथा (नागकेसरस्य तथा) निर्मलीकृतस्य वाप्यस्यैतेषां तुल्यांशकल्पनारूपेण विधानेन पलशतं माक्षिकेण गोघृतेन च समांशाभ्यामालोलितं षण्मासं व्रीहिर्मध्ये पर्युषितं कृत्वा ततःपरमग्निबलापेक्षिण्या मात्रया स्वल्पं स्वल्पं भुज्यमानं सुभगतां जनयति । देहामोदं चाक्षिप्तषट्पदवृन्दं मासेन जनयति । विधिरत्र रसायनोपक्रमविहितशरीरशोधनादिर्विवक्षित इति युगलकम् ॥ ३५७, ३५८ ॥

सवअं आमलअघोसाणिआण जो पिणइ घअमहुम्मीसं ।

लहुपच्छासी तइए निलिम (असम्पादितः भागः )सो सुअहरो होइ ॥ ३५९ ॥

स(पद ? वच)मामलककोशातकीनां यः पिवति घृतमधून्मिश्रम् ।

लघुपथ्याशी तृतीये दिनेऽसौ श्रुतधरो भवति ॥

    धात्रीफलघोषयोश्चूर्णम् उग्रगन्धाचूर्णेन (सह !) सहेति त्रयं समांशं घृतमाक्षिकाभ्यां समांशाभ्यामालोलितं यः पुमान् स्वल्पहितभोजनः सन्नवलेढि दिनत्रयं, सः तृतीय एव दिवसे यच्छास्रादिकं किञ्चिच्छृणोति, तद् धारयति न विस्मरत्येकसन्धो भवति । गाथायामस्यां चूर्णशब्दोऽध्याहार्य इति ॥ ३५९ ॥

समहुघअं सविडंगं पलासबीअरअमा(म)लरसेण ।

पीअं मासेण जरं जअइ महाबुद्धिजणणश्च ॥ ३६० ॥
समधुघृतं सविलङ्गं पलाशबीजर(स? ज) आमामलकरसेन ।

पीतं मासेन जरां जयति महाबुद्धिजननं च ॥

     किंशुकबीजानां चूर्णं कृमिघ्नफलेन समांशघृतक्षौद्राभ्यामालोलितं धात्रीफलनिःष्यन्देन सह पानयुक्त्मोपयुक्तं सत् मासाभ्यासात् पलितमभिभवति, प्रकृष्टां च प्रज्ञामुत्पादयतीति ॥ ३६॥

घअमहुतिलमीसामलअचुण्णसेवाए परिणअवओ वि।

मासेण जोव्वणं पाविऊण वाईसरो होइ ॥ ३६१ ॥
घृतमधुतिलमिश्रामलकचूर्णसेवया परिणतवयस्कोऽपि ।

मासेन यौवनं प्राप्य वागीश्वरो भवति ॥

तिलचूर्णसमांशस्य धात्रीचूर्णस्य घृतक्षौद्राभ्यामालोलितस्य त्रिंशद्रात्रोपयोगेन वृद्धोऽपि पुरुषस्तारुण्यमासाद्य वादादौ स्वेच्छाविधेयभारतीकः सम्पद्यत इति ॥ ३६१ ॥

सघआमलअसिभामहुतिलसमतुलिअं पलासतरुबीअं।

मत्ताए सअणकाले खइऊण णरो जरं जिणइ ॥ ३३२॥
सघृतामलफसितामधुतिलसमतुलितं पलाशतरुबीजम् ।

मात्रया शयनकाले खादित्वा नरो जरां जयति ॥

         किंशुकतरोर्बीजचूर्णभेतैः सर्वैः समांशैः कृत्वैषां सर्वेषां यावत्परिमाणं भवति तुलितं, (तावत् कृत्वा) पुरुषोऽग्निबलानुसारेण निद्राकाले भुक्त्वा पलितं तिरस्करोतीति ॥ ३६२ ॥

आमलचुण्णं लीढं जलेण महुणा घएण व पओसे।

कुणइ मइणअणणासासवणे णवजोव्वणवलाइं॥३६३॥

आमलकचूर्णं लीढं जलेन मधुना घृतेन वा (प्र)दोषे ।

करोति मतिनयननासाश्रवणनवयौवनबलानि ॥

  धात्रीफलचूर्णं सलिलेन सह पीतं घृतमाक्षिकाभ्यां वा सहावलेहेव निशारम्भे उपयुक्तं प्रज्ञायाश्चक्षुषो घ्राणस्य कर्णयोर्जठराग्नेस्तारुण्यस्य चैषां बलानि स्वशक्तीर्जनयतीति ॥ ३६३॥

पीलणविहिगहिअंकोल्लबीअसिअसरिसवुब्भवं तेल्लं ।

णा(सइ ज?वणजु)त्तीए जणं करेइ परमाउसंपुण्णं ॥३६४ ॥
पीलनविधिगृहीताङ्कोलबीजसितसर्षपोद्भवं तैलम् ।

नावनयुक्त्या जनं करोति परमायुस्सम्पूर्णम् ॥

     इरिकिल्लबीजेभ्यस्तथा गौरसर्षपेभ्यः समांशेभ्यः पीलनकर्मणा सञ्जातं तैलं नस्येनोपयुक्तमभ्यासात् पुरुषं परमेनायुषा विंशत्यधिकवर्षशतपरिमाणेन सम्पूर्णं सम्पादयतीति । परमायुःप्रमाणं —

“समा षष्टिर्द्विघ्ना मनुजकरिणां पञ्च च निशा
हयानां द्वात्रिंशत् खरकरभयोः पञ्चककृतिः ।

विरूपा साप्यायुर्वृषमहिषयोर्द्वादश शुनां
स्मृतं छागादीनां दशकसहिताः षट् च परमम् ॥”

इति वराहमिहिरः॥ ३६४ ॥

जो लिहइ रअणिविरामे घअमहुणा कुट्ठचुण्णमणुदिअहं।

सो सुरहिकढिणदेहो जिअइ णरो दीहरं कालं ॥ ३६५ ॥
यो लेढि रजनिविरामे घृतमधुना कुष्ठचूर्णमजुदिवसम् ।

(स) सुरभिकठिनदेहो जीवति नरो दीर्घकालम् ॥

वाप्यचूर्णं घृतसमांशेन क्षौद्रेण सह प्रत्यहं प्रभात एव योऽवलेहेनोपयुद्धे, स सुभगामोदस्थैर्ययुक्तशरीरः सन् पुरुषायुषमात्रजीवी भवतीति ॥ ३६५ ॥

सिसिरे तुरङ्गगन्धाकुन्दरओ पललघअमहुम्मीसं।

खज्जन्तो तारुण्णं थेराण वि कुणइ मासेण ॥ ३६६ ॥

शिशिरे तुरङ्गगन्धाकुन्दरजः पललघृतमधून्मिश्रम् ।

खाद्यमानं तारुण्यं स्थविराणामपि करोति मासेन ॥

अश्वगन्धा(कुन्द)मूलानां चूर्णं तिलचूर्णेन समांशेन सहितं घृतमाक्षिकाभ्यामालोलितमवलेहेन शिशिरर्तुकाले मासं भुज्यमानं वृद्धानामपि यौवनं जनयतीति ॥ ३६६ ॥

रसलोहसिलाजतुलोहदइअचक्कंकगअणविसचुण्णं ।

खज्जन्तं घअमहुणा वाहिजरामरणविद्दवणं ॥ ३६७ ॥

रसलोहशिलाजतुलोहदयितचक्राङ्कगगनविषचूर्णम् ।

खाद्यमानं घृतमधुना व्याधिजरामरणविद्रावणम् ॥

        (रसः पारतः), लोहं शस्त्रचूर्णं, शिलाजतु शिलानिःष्यन्दः, लोहदयितो भ्रामकोऽयस्कान्तः, चक्राङ्कं पट्टमाक्षिकं, गगनमभ्रकं स्थावरं मुस्तकादि, एषां विषरहितानां समांशानां चूर्णम् । विषचूर्णस्य तु प्रत्येकं रसादीनां यदि पलं तत्तस्य तिलमात्रया । घृतसहितेन माक्षिकेणालोलितं प्रत्यहं भुज्यमानमेतच्चूर्णं सर्वरोगाणां पलितस्य मृत्योश्च निवारणमिति ॥ ३६७ ॥

ववगअतुसघअसोप्पडिअमासलिआइपाअसं सिद्धं (?)।

घअसक्करासणाहञ्छिमित्त महिलासअं रमइ ॥ ३६८॥
व्यपगततुषचुप्पटितमाषमयूरकदुग्धमसूरककच्छबीजदुग्धानि (?)।

पीत्वा नरो रमणीशतमपि रमयति रजन्याम् (?)॥

         निस्तुषीकृता यवास्तथा माषास्तथा अपामार्गस्य तथा कोकिलाक्षस्य तथा कपिकच्छ्वा बीजानि एतानि समांशानि पिष्टानि क्षीरेण सह पीत्व सुमनो तस्यामपि(!) रात्रौ शतं कामिनीनां कामयत इति ॥ ३६८ ॥

सममासकलमतण्डुलजवगोहुमविप्पली(ण) चुण्णेण ।

घअ(वि)पक्कं पूपलिअं खइऊण ससक्करं दुद्धं ॥ ३६९ ॥

जो पिअइ सो सकन्दप्पसमणससमत्थो(?)।

फलविको व्व विलंभइ तोसविअविलासिणीस(म?)त्थो
[॥३७०॥

स्रममाषकलमतण्डुलयवगोधूमपिप्पलीनां चूर्णेन ।

घृतपक्वां पूपलिकां खादित्वा सशर्करं दुग्धम् ॥

यः पिबति स कन्दर्पप्रशमनसमर्थः ।

कलविङ्क इव जृम्भति तोषितविलासिनीसार्थः॥

        सममाषा येषां तादृशा ये कलमस्य शलिस्तण्डुलास्तथा यवास्तथा गोधूमाः तथा मागधिका एषां समांशानां चूर्णेन कृतमपूपं घृतमध्ये पक्वं भुक्त्वा पश्चात् सितशर्करासहितं क्षीरं यः पिबति, स मन्मथोद्रिक्तयुवतिवृन्दमदक्षपणशक्तः सन् चटकावद् विलसति अत एवानन्दितसुन्दरीवृन्द इति युगलकम् ॥ ३६९, ३७० ॥

भणिअं णरणारीअणसरीरपरिअम्ममिह सुवित्थिण्णं ।

गोमहिसप्पमुहाण वि संपइ भणिमो समासेण ॥ ३७१ ॥

भणितं (नर)नारीजनशरीरपरिक(र्ममि?र्मे)ह सुविस्तीर्णम् ।

गोमहिषप्रमुखानामपि सम्प्रति भणामः समासेन ॥

उक्तार्थसंग्रहार्था वक्ष्यमाणोपक्षेपणार्था स्पष्टार्था गाथा । समासेन संक्षेपेणेति ॥ ३७१ ॥

गह्लइ दुहाअणेच्चिअ तमा गब्भं सुपुट्ठसव्वंगं ।

घष्विअलक्खणजडिआसगब्भमुहहूइअवरंगा ॥३७२॥
गृह्णाति द्विहायनैव ताम्रा गर्भं सुपुष्टसर्वाङ्गम् ।

चर्वितलक्षणाजटिकासगर्भमुखपूत्कृतवराङ्गा ॥

     द्विहायना वर्षद्वय(वय)स्कैव गौर्गर्भमाधत्ते । कीदृशं, सुसम्पूर्णसकलावयवम् । कीदृशी गौः । चर्वितेन दन्तदलितेन लक्षणायाः पुत्रजनन्या मूलेन सगर्भं पूरितं यद् गोपस्यास्यं, (तेन) दत्तत्फूकारं योनिदलं यस्याः सा तथा या गौर्गर्भं न गृह्णाति, सानेन प्रयोगेणाकालेऽपि गर्भवती भवतीत्यतिशयोक्तिरिति ॥ ३७२ ॥

तम्माए संगबद्धं सामरिसञ्जाभ(सर)सकुसखण्डं ।

तुरिअं पाडेइ जरउं दिण्णं गुञ्जाफलद्धं वा ॥ ३७३ ॥

ताम्रायाः शृङ्गबद्धं (श्यामल ? शाल्मलि)सञ्जात(स)रसकुशखण्डम् ।

त्वरितं पातयति जरायुं दत्तं गुजाफलार्धं वा ॥

        शल्मलिवृक्षे समुत्पन्नानां कुशानां दर्भाणां प्रत्यग्रो भागः गोविषाणग्रथितो गर्भशय्याम(स्थो ! स्थ्नो) बहिर्निस्सारयति । अथवा रक्तिकायाः फलं द्विषा कृत्वा गोरास्ये क्षिप्तमर्धं योनावुक्तं कार्यं करोतीति ॥ ३७३ ॥

अच्छउ णिअमण्णं पि खु गोरंभातक्कजीरअमहूहि ।

कअलेवं बच्छरुअं होइ पिअइ(?)सुरहीण ॥ ३७४ ॥
आस्तां निजोऽन्योऽपि खलु गोरम्भातक्रजीरकमधुभिः ।

कृतलेपो वत्सको भवति (प्रियः सुरभीणाम् ) ॥
आत्मीये तु का भ्रान्तिरिति ॥ ३७४ ॥

पाहाणं पि विलित्तं इमिणा जोएण विणिहिअं पुरओ।

षट्ठन्ती मअ(र?)वच्छा वि रोहिणी झत्ति वह्णअइ॥३७५ ॥
पाषाणमपि विलिप्तम(धु?मु)ना योगेन विनिहितं पुरतः।

लिहन्ती मृतवत्सापि रोहिणी झत्ति प्रस्नौति ॥

   अनेन पूर्वोक्तेन प्रयोगेणाभ्यक्तमश्मानमग्रे स्थापितं जिह्वयाव(लीढं !लिह्य) मृतवत्सापि गौः सहसैव क्षीरं प्रसवति । पूर्वोक्तयोगातिशयप्रतिपादनपरमेतदिति ॥ ३७५ ॥

उम्मुहलित्तम्मि किमी वणाहि दसणा अहोमुहविलित्ते।

सुरहीए संगजुअले पडन्ति किल बह्मदण्डीए ॥ ३७६ ॥
उन्मुखलिप्ते कृमयो व्रणाद्दशनादधोमुखविलिप्ते ।

सुरभेः शृङ्गयुगले पतन्ति किल ब्रह्मदण्ड्या ॥

        द्विजयष्ट्या जलपिष्ट्यावलिप्तेन हस्तेन गोशृङ्गे ऊर्ध्वगामिना (कार! करे)णाभ्यक्ते व्रणात् कायगतात् क्षताज्जन्तवो विलुप्यन्ति । तथाथोगामिना (कार ! करे)ण शृङ्गे लिप्ते सति जन्तवः पतन्तीति ॥ ३७६ ॥

सुरहीए सेरिहीए व मण्डलहठ्ठेण कण्ठबद्धेण ।

सुइरुब्भवं पि सहसा वणाहि किमिजालअं पडइ ॥३७७॥
सुरभ्या महिष्याश्च मण्डलास्थ्ना कण्ठग्रथितेन ।

सुचिरोद्भवमपि सहसा प्रणात् कृमिजालं पतति ॥

मण्डलास्थ्ना तदीयेन कीकसेन गोर्महिष्या वा गलग्रथितेन क्षतात् खन्तुवृन्दं च्यवते कालान्तरजातमपीति ॥ ३७७ ॥

करजुअलमलिअवारुणिफलभरिअवणाहि पड(इ) णीसेसं।

किमिजालं दुवइचउप्पआण पण्णप्पइ वणो वि॥ ३७८ ॥
करयुगलमलितवारुणिफलभरितव्रणात् पतति निश्शेषम् ।

कृमिजालं द्विपदचतुष्पदानां रोहति व्रणोऽपि ॥

        हस्तद्वयनिर्मथितेन्द्रवारुणीफलरसेन पूरिताद् (व्रणात्) समग्रजन्तु न्द च्यवते द्विप(दानां) मनुष्यपक्ष्यादीनां, तथा चतुष्पदानां गवाश्वादीनां च । व्रणं च तेषां रोहतीति ॥ ३७८ ॥

उह्णोदअपक्खालणमत्त(अ)सिद्धत्थतेल्लचुव्वडणं ।

लालादल्लेवो वा मुहरोअं हरइ तम्माण ॥ ३७९ ॥

उष्णोदकप्रक्षालनमात्रसिद्धार्थतैलचुव्वडणम् ।

रालादललेपो वा मुखरोगं हरति ताम्राणाम् ॥

घेनूनामास्यव्याधिमन्तरुष्णजलेन प्रक्षाल्य गौरसर्षपाभ्यङ्गाच्चाथवा सर्जरस्रगन्धपत्राभ्यां लेपनं हरति ॥ ३७९ ॥

अम्मकणअं(?) गोसेरिहीण णासेइ लेवमत्तेण ।

चण्डालिअभूइ फुल्लमवि(?) घोणसक्खारं ॥ ३८॥
नवनीतापहारं गोमहिषीणां नाशयति लेपमात्रेण ।

चण्डालिकाभूते पुष्पमपि गोनासक्षारम् ॥

        गवां महिषाणां च मुष्कभूतहिंसादिना यो नवनीतापहारः तं नाशयति लेपमात्रेण शमयति । अथवा गोनासशरीरदाहजं भस्म तथा कृतं शमयति । प्रत्यक्षं नवनीतनाम तदभावात् प्रत्यक्षमिति केचिद् दध्याचक्षत इति(!)॥३८८॥

ओसक्कइ तम्मासेरिहीण गअमुत्तसेअ(मा? पा)णेहि।

मरु(व?)अमुवसग्गदुक्खं हट्ठेण ववे णिहीएण ॥ ३८१ ॥

अपसर्पति(तासां?) गोमहिषीणां गजमूत्र(सङ्क? सेक)पानाम्याम् ।

म(रुव?र)कमुपसर्गदुःखमस्थ्ना गोष्ठनिहितेन ॥

        धेनूनां च महिषीणां च मरकं समूहमरणम् अन्यच्च व्याध्याद्युपप्लवदुःखं गजानां सम्बन्धिनो मूत्रस्य पानेन तदभ्युक्षणेन चापसर्पति । अथवा गजसम्बन्धिनैव कीकसेन गवादीनामास्पदस्थाने निखातेनापसर्पति ॥ ३८१ ॥

अथवा —

मोरअमुणाललाआपुरवेसिणरेन्दगोमअघएहि।

धूओ वज्झन्तो गोहणाण गोट्ठे जरं हरइ ॥ ३८२ ॥

मयूरमृणालकराजपुरपेशिनरेन्द्रगोपयघृतैः।

धूपो दह्यमानो गोधनस्य गोष्ठे ज्वरं हरति ॥

अपामार्गोशीर(दृ? भृ)ष्टधान्यगुग्गुलमांसीतगरगोशकृत्सर्पिर्भिर्गवामास्पदे दह्यमानो धूपभागो ज्वरं निवर्तयतीति ॥ ३८२ ॥

भूमीकुरवअमूलं चक्कङ्कजडव्व मत्थअणिबद्धा ।

कुणइ णवणीभरक्खं रक्खइ थण्णञ्च(च)क्कङ्का ॥३८३॥
भूमिकुरवकमूलं चक्राङ्कज(भा?टा) वा मस्तकनिकद्धा।

करोति नवनीतरक्षां रक्षति स्तन्यं (च) चक्राङ्का ॥

        गोमहिषीणां नवनीतस्य रक्षां हिंसानिवृत्तिं भूमिकुरवकस्य तिरक(!)तरोर्मूलं शीर्षग्रथितं सम्पादयति । अथवा सुदर्शनामूलमेवं करोतीति । सुदर्शना च शीर्षनिबद्धा क्षीरेण रक्षति तस्य दुग्धहिंसां निवारयतीति ॥ ३८३ ॥

पेक्खइ अन्धो विहओ गुञ्जाबीअब्भिएहि अच्छीहि।

णवणीअपूरिएहि व उह्णोअअसेइएहि व्व ॥ ३८४ ॥

प्रेक्षतेऽन्धोऽपि हयो गु़ञ्जाबीजाञ्जिता(भ्याम)क्षिभ्याम् ।

नवनीतपूरिताभ्यामुष्णोदकसिक्ताभ्यां वा॥

अचक्षुष्मानपि तुरगः रक्तिकासूक्ष्मचूर्णेन दत्ताञ्जनाभ्यां नेत्राभ्यां पश्यति । अथवा नवनीतघृताभ्यां पश्चादुष्णजलेन पूरिताभ्यां दत्तसेकाभ्यां पश्यतीति ॥ ३८४॥

घुण्णिअसरपुंखावण्णलोणपिण्डेण बेसरहआण ।

णासन्ति वारिफोधा होइ बलं सुन्दरच्छाअं ॥ ३८५ ॥
चूर्णितशरपुङ्कापर्णलवणपिण्डेन वेसरहयानाम् ।

नश्यन्ति वारिस्फोटा भवति बलं सुन्दरच्छायम् ॥

वाणपुङ्खायाः पत्रैः सैन्धवलवणेन च कृतकवलैस्तेन दत्तेन वेसरतुरगाणां वेसराणां खरेण तुरगीतो जातानां तथा(ग्रा!प्रा)कृतानामश्वानां वारिस्फोटाः

अन्तर्जलेन वारिस्फोटीचूर्णाः शारीरविस्फोटरूपा विकारा नश्यन्ति । सामर्थ्यशोधनाच्छवी भवतीति (!) ॥ ३८५ ॥

घरकुमरि(द?प)त्तपिण्ढो लोणसणाहो दसाहमत्तेण ।

भवहरइ तुरङ्गम(वे)सराण सव्वंगिअंकण्डुं ॥ ३८६ ॥
गृहकुमारीपत्रपिण्डो लवणसनाथो दशाहमात्रेण ।

अपहरति तुरङ्गम(घे)सराणां सार्वाङ्गिकीं कण्डूम् ॥

हठकुमार्याः (पत्र)पिण्डैश्चूर्णीकृतेन रसेन संयुक्तैः कृतः कबलः दशदिवसमात्रोपयोगादश्वानां वेसराणां (च) समस्तावयवजां कण्डूतिमपनयतीति ॥ ३८६॥

देसं पिणिअविलिवं वटवा सेवेत तक्खणच्चेअ।

सिन्धुब्भवकुट्ठसणाहकुसुम(रस)ललेविअसरीरं ॥ ३८७॥
द्वेष्यमपि निजशिबिलिं(?) वडवा सेवते तत्क्षणमेव ।

सिन्धूद्भवकृष्ठसनाथकुसुमरसलिप्तशरीरम् ॥

सैन्धवलवणवाप्यचूर्णेन युक्तं यन्माक्षिकं, तेनाभ्यक्तदेहं स्ववत्सं द्वेष्यमप्यश्वा प्रीत्या भजत इति ॥ ३८७ ॥

वारावएसु कम(र?)सो धवलाकणसद्दलानि जाअन्ति ।

करडाममूलसद्दइ मुग्गपिट्ठे वलाणी(?)॥ ३८८ ॥
पारावतेषु क्रमशो धवलाकणसद्दलानि जायन्ते ।

करटामयूरसमुद्गसुपिष्टे पलानि ॥ (?)

        कलरवैः प्रकटिताद्याहारपोषितशरीरेषु यथाक्रमं धवलान्यपथ्यान्युत्पद्यन्ते । तेन कटिकया कुसुम्भबीजेन येषु पिष्टा भवन्ति तेषां सुवर्णपातका जायन्ते ये दलिताः मसूरेण तेषां लोहितवर्णाः ये सदलैः समुद्गैस्तेषां पीवरा इति क्रमार्थ इति (!) ॥ ३८८ ॥

इअ विविहजोअदंसणपरितुट्टविअढ्ढविज्जगोरविए।

हरमेहलाए विरमइ एत्थ चउत्थो परिच्छेओ ॥ ३८९ ॥

इति विविधयोगदर्शनपरितुष्टविदग्धवैद्यजनितगौरवः ।

हरमेखलाया विरमतीह चतुर्थः परिच्छेदः॥

इति यथोक्तेन क्रमेण प्रतिपादितो हरमेखलायाश्चतुर्थः परिच्छेदः समाप्तिं भजते । कीदृशः । नानाकाराणां प्रयोगाणां निरूपणेन सानन्दैर्व्युत्पन्नैर्भिषग्भिः प्रशंसया प्रकटितमाहात्म्य इति ॥ ३८९ ॥

चतुर्थस्य प्रयोगाणामयमुद्देशसंग्रहः ।

स्मृतिसौकर्यसम्पत्त्यै क्रमेण परिलख्यते ॥

शिरसः परिकर्मादौ शिरश्शूलचिकित्सितम् ।

श्रोत्ररोगचिकित्सा (च) श्रोत्रपाल्यादिवर्धनम् ॥

चिकित्सा नेत्ररोगाणां कामलानामिकारुजाम् ।

चिकित्सा मुखरोगाणां मुखस्य परिकर्म च ॥

कण्ठरोगप्रशमनमपबाहुचिकित्सितम् ।

परिकर्म स्तनादीनां शान्तिः प्लीहोदरादिषु ॥

कुष्ठादीनां चिकित्सा च रक्तपित्तचिकित्सितम् ।

तथा पीनसवैस्वर्यकासश्वास(मप ! शम)क्रिया ॥

यक्ष्मादीनां प्रशमनं हृद्रोगस्य च भेषजम् ।

अतीसारचिकित्सा च विषूच्याश्च निवारणम् ॥

प्रमेहादिनिवृत्तिश्च भगन्दरचिकित्सितम् ।

चिकि(त्स ! त्सित)ञ्च दुर्नाम्नां प्रयोगश्चाग्निदीपनः ॥

छर्दितृष्णाप्रशमनं ज्वरस्य च चिकित्सितम् ॥

निद्रायोगस्तथा वातशोणितस्य चिकित्सितम् ॥

ऊरुस्तम्भादिशमनमस्थिभङ्गचिकित्सितम् ।

अग्निदग्धचिकित्सा च शल्यभूतचिकित्सितम् ॥

नानाविषचिकित्सा च गर्भसंस्थापनादिकम् ।

चिकित्सितं च बालानां रसायनविधिस्तथा ॥

वृद्धियो(ग! गो) गवादीनामग्निकर्म यथाक्रमम् ॥

इति हरमेखलायां चतुर्थः परिच्छेदः॥
(प्रथमो भागः समाप्तः। )

LIST OF SANSKRIT PUBLICATIONS
FOR SALE .

** Rs. As. P.**

[TABLE]

Trivandrum Sanskrit Series.

[TABLE]

** RS. As. p.**

[TABLE]

** RS. AS. P.**

[TABLE]

** RS. AS. P.**

[TABLE]

** RS. AS. P.**

[TABLE]

** RS. AS P.**

[TABLE]

** RS. AS. P.**

[TABLE]

** RS. AS. P.**

[TABLE]

** RS. AS. P.**

[TABLE]

** RS. AS. P**

[TABLE]

** RS. S. P.**

[TABLE]

Apply to: —

The Superintendent,

Government Press,
Trivandrum.

]


  1. " महि आभि इति तु व्याख्यानुसारीपाठः" ↩︎

  2. “* अस्य छाया मातृकायां नोपलभ्यते ।” ↩︎

  3. “अस्य छाया मातृकायां नोपलभ्यते । " ↩︎

  4. " अस्यार्थो लुप्तः स्यात् । " ↩︎

  5. “* अस्य प्राकृतं मातृकाय नोपलभ्यते।” ↩︎

  6. “अस्य छाया मातृकायो नोपलभ्यते। " ↩︎

  7. “* अस्य छाया मातृकायां नोपलभ्यते। " ↩︎

  8. “* अस्य छायाविवरणं वा न दृश्यते । " ↩︎

  9. “* अस्य छाय मातृकायां नोपलभ्यते । " ↩︎

  10. “अस्य छाया मातृकायां नोपलभ्यते।” ↩︎

  11. “अत्र कियांश्चिद् ग्रन्थो गलित इति प्रतिभाति ॥ " ↩︎

  12. “इतः पर मातृकायां ग्रन्थाशो लुप्त इति, पुत्तलिकापञ्चविंशातका समाप्ता इत्येन्तं दृश्यमानो ग्रन्थः प्रक्षिप्त इति च प्रतिभाति । " ↩︎

  13. “* अस्य छाया मातृकायां न दृश्यते । " ↩︎

  14. “* अवशिष्टो भगः लुप्तः स्यात् । " ↩︎