काश्यपसंहिता / वृद्धजीवकीयतन्त्रम्

[[काश्यपसंहिता / वृद्धजीवकीयतन्त्रम् Source: EB]]

[

काश्यप
Kāshyapa
सूत्रस्थानम्
Sūtrasthānam
Chapter 18 19 20 21 22 23 24 25 26 27 28
सूत्रस्थानम्

श्रीकाश्यपसंहिता
वा
वृद्धजीवकीयं तन्त्रम्
कौमारभृत्यम्
सूत्रस्थानम्
किंवा लेहयितव्यं च किंवा लेहितलक्षणम्
अतिलेहितदोषाः के के च दोषा अलेहिते

मन्दीलीढस्य किं रूपं गुडदोषाश्च तत्र के
के लेहनोद्भवा रोगाः कश्च तेषामुपक्रमः

एतन्मे भगवन् सर्वं वक्तुमर्हसि तत्त्वतः
सुखं दुःखं हि बालानां दृश्यते लेहनाश्रयम्

इति पृष्टो महाभागः कश्यपो लोकपूजितः
प्रश्नं प्रोवाच निखिलं प्रजानां हितकाम्यया

यदन्नपानं प्रायेण गर्भिणी स्त्री निषेवते
रसो निर्वर्तते तादृक् त्रिधा चास्याः प्रवर्तते

मातृपुष्ट्यर्थमेकांशो द्वितीयो गर्भपुष्टये
तृतीयः स्तनपुष्ट्यर्थं नार्या गर्भस्तु पुष्यति

तादृक्प्रकृतयस्तस्माद्गर्भात् प्रभृति देहिनः
वातपित्तकफस्थूणास्तिस्रः प्रकृतयश्च ताः

वातिकाः पैत्तिकाः केचित् कफिनश्चैव देहिनः
द्वन्द्वप्रकृतयश्चान्ये समस्थूणास्तथाऽपरे

अरोगास्तु समस्थूणा वातिकाद्याः सदातुराः
एताः प्रकृतयः प्रोक्ता देहिनां वृद्धजीवक

एता आश्रित्य तत्त्वज्ञो भेषजान्युपकल्पयेत्
य एता वेद तत्त्वेन न स मुह्यति भेषजे

विलङ्गफलमात्रं तु जातमात्रस्य देहिनः
भेषजं मधुसर्पिर्भ्यां मतिमानुपकल्पयेत्

वर्धमानस्य तु शिशोर्मासे मासे विवर्धयेत्
अथामलकमात्रं तु परं विद्वान्न वर्धयेत्

अक्षीरा जननी येषामल्पक्षीराऽपि वा भवेत्
दुष्टक्षीरा प्रसूता या धात्री वा यस्य तादृशी

दुष्प्रजाताभृशव्याधिपीडितायाश्च ये सुताः
वातिकाः पैत्तिका ये च ये च स्युः कफवर्जिताः

स्तन्येन ये न तृप्यन्ति पीत्वा पीत्वा रुदन्ति च
अनिद्रा निशि ये च स्युर्ये च बाला महाशनाः

अल्पमूत्रपुरीषाश्च बाला दीप्ताग्नयश्च ये
निरामयाश्च तनवो मृद्वङ्गा ये च कर्शिताः

वर्चःकर्म न कुर्वन्ति बाला ये च त्र्यहात् परम्
एवंविधाञ्छिशूनाह लेहयेदिति कश्यपः

— च मन्दाग्निजठरो जनः
निद्रालुर्बहुविण्मूत्रः स्वल्पो यो दृढगात्रकः

कल्याणमातृकोऽजीर्णी गुरुस्तन्योपसेविता
सुतः सर्वरसाशिन्या ऊर्ध्वजत्रुरुजान्वितः

आमे ज्वरेऽतिसारे च कामलाशोथपाण्डुषु
हृद्रोगश्वासकासेषु गुदबस्त्युदरामये

आनाहे गण्डवैसर्पे छर्द्यरोचकयो
—- हे सर्वग्रहेषु च

न लेहयेदलसके नाहन्यहनि नाशितम्
न दुर्दिनपुरोवाते नासात्म्यं नातिमात्रया

सेवितान्यन्नपानानि गर्भिण्या यान्यभ —
तानि सात्म्यानि बालस्य तस्मात्तान्युपचारयेत्

देशकालाग्निमात्राणां न च कुर्याद्व्यतिक्रमम्
द्रव्याणां लेहनीयानां विधिश्चैवोपदेक्ष्यते

विघृष्य धौते दृषदि प्राङ्मुखी लघुनाऽम्बुना
आमथ्य मधुसर्पिर्भ्यां लेहयेत् कनकं शिशुम्

सुवर्णप्राशनं ह्येतन्मेधाग्निबलवर्धनम्
आयुष्यं मङ्गलं पुण्यं वृष्यं वर्ण्यं ग्रहापहम्

मासात् परममेधावी व्याधिभिर्न च धृष्यते
षड्भिर्मासैः श्रुतधरः सुवर्णप्राशनाद्भवेत्

ब्राह्मी मण्डूकपर्णी च त्रिफला चित्रको वचा
शतपुष्पाशतावर्यौ दन्ती नागबला त्रिवृत्

एकैकं मधुसर्पिर्भ्यां मेधाजननमभ्यसेत्
कल्याणकं पञ्चगव्यं मेध्यं ब्राह्मीघृतं तथा

समङ्गा त्रिफला ब्राह्मी द्वे बले चित्रकस्तथा
मधु सर्पिरिति प्राश्यं मेधायुर्बलवृद्धये

कुष्ठं वटाङ्कुरा गौरी पिप्पल्यस्त्रिफला वचा
ससैन्धवैर्घृतं पक्वं मेधाजननमुत्तमम्

ब्राह्मी सिद्धार्थकाः कुष्ठं सैन्धवं सारिवा वचा
पिप्पल्यश्चेति तैः सिद्धं घृतं नाम्नाऽभयं स्मृतम्

न पिशाचा न रक्षांसि न यक्षा न च मातरः
प्रबाधन्ते कुमारं तं यः प्राश्नीयादिदं घृतम्

खदिरः पृश्निपर्णी च स्यतृ सैन्धवं बले
केवुकेति कषायः स्यात् पादशिष्टो जलाढके

अर्धप्रस्थं पचेदत्र तुल्यक्षीरं घृतस्य तु
घृतं संवर्धनं नाम लेह्यं मधुयुतं सदा

निर्व्याधिर्वर्धते शीघ्रं संसर्पत्याशु गच्छति
पङ्गुमूकाश्रुतिजडा युज्यन्ते चाशु कर्मभिः

स्वरसस्याढके ब्राह्म्या घृतप्रस्थं विपाचयेत्
सवत्साऽजागोपयसामाढकाढकमावपेत्

त्रिफलांऽशुमती द्राक्षा वचा कुष्ठं हरेणवः
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरम्

त्वक्पत्रबालकोशीरचन्दनोत्पलपद्मकम्
शतावरी नागबला दन्ती पाठा प्रियङ्गुका

देवदारु हरिद्रे द्वे जीवनीयश्च यो गणः
विडङ्गो गुग्गुलुर्जातिः
एकोनविंशोऽध्यायः
— शकुनी कटुतिक्तके
स्कन्दषष्ठीग्रहौ ज्ञेयौ व्यापन्ने सान्निपातिके
पूतना स्वादुकटुके शेषाः संसृष्टदोषजाः

बहुविण्मूत्रता स्वादौ कषाये मूत्रविड्ग्रहः
तैलवर्णे बली तुल्या घृतवर्णे महाधनः

यशस्वी धूमवर्णे तु शुद्धे सर्वगुणोदितः
तस्मात् संशोधनपरा नित्यं धात्री प्रशस्यते

कषायपानैर्वमनैर्विरेकैः पथ्यभोजनैः
वाजीकरणसिद्धैश्च स्नेहैः क्षीरं विशुध्यति

त्रिफला सत्रिकटुका पाठा मधुरसा वचा
कोलचूर्णं त्वचो जम्ब्वा देवदारु च पेषितम्

सर्षपप्रसृतोन्मिश्रं पातव्यं क्षौद्रसंयुतम्
एतत् स्तन्यस्य दुष्टस्य श्रेष्ठं शोधनमुच्यते

शृङ्गवेरपटोलाभ्यां पिप्पलीचूर्णचूर्णितम्
यूषपथ्यं विदध्याच्च ह्यन्नपानं च यल्लघु

धातकीपुष्पमेला च समङ्गी मरिचानि च
जम्बूत्वचं समधुकं क्षीरशोधनमुत्तमम्

नाडिका सगुडा सिद्धा हिङ्गुजातिसुसंस्कृता
क्षीरं मांसरसो मद्यं क्षीरवर्धनमुत्तमम्

वाजीकरणसिद्धं वा क्षीरं क्षीरविवर्धनम्
घृततैलोपसेवा च बस्तयश्च पयस्कराः

पाठा महौषधं दारु मूर्वामुस्तकवत्सकाः
सारिवारिष्टकटुकाः कैरातं त्रिफला वचा

गुडूची मधुकं द्राक्षा दशमूलं सदीपनम्
रक्षोघ्नश्च पटोलश्च गणः क्षीरविशोधनः

लाभतः क्वथितस्तेषां कषायः स तु सेवितः
क्षीरं शोधयति क्षिप्रं चिरव्यापन्नमप्युत

सक्षौद्रः कफसंसृष्टे सघृतः शेषयोर्भवेत्
नेत्येके श्लेष्मणः स्थानात् क्षीरं हि कफसंभवम्

मसूराः षष्टिका मुद्गाः कुलत्थाः शालयो घृतम्
गव्यमाजं पयः काले लवणं चाप्यनौद्भिदम्

आहारविधिरुद्दिष्टः स्तन्यशोधनकालिकः
गुर्वन्नस्नेहमांसानि दिवास्वप्नं च वर्जयेत्

शोधनाद्वा स्वभावाद्वा यस्याः क्षीरं विशुष्यति
तस्याः क्षीरप्रजनने प्रयतेत विचक्षणः

मधुराण्यन्नपानानि द्रवाणि लवणानि च
मद्यानि सीधुवर्ज्यानि शाकं सिद्धार्थकादृते

वराहमहिषादूर्ध्वं मांसानां च रसो हितः
लशुनानां पलाण्डूनां सेवनं शयनं सुखम्

क्रोधाध्वभयशोकानामायासानां च वर्जनम्
अ—या भवति वत्स इति क्षीरविवर्धनम्

वटादीनां च वृक्षाणां क्षीरिकायाश्च वल्कलम्
पाक्यः कषायः क्वथितः क्षीरं तेन पुनः शृतम्

पाक्यं गुडविडोपेतं सघृतं शालिमाशयेत्
अपि शुष्कस्तनीनां तत् क्षीरोपजननं परम्

शालिषष्टिकदर्भाणां कुशगुन्द्रेत्कटस्य च
सारिवावीरणेक्षूणां मूलानि कुशकाशयोः

पेयानि पूर्वकल्पेन श्रेष्ठं क्षीरविवर्धनम्
स्वभावनष्टे शुष्के वा दुष्टे साध्वीक्षिते हितम्

अव्याहतबलाङ्गायुररोगो वर्धते सुखम्
शिशुधात्र्योरनापत्तिः शुद्धक्षीरस्य लक्षणम्

संभवन्ति महारोगा अशुद्धक्षीरसेवनात्
तेषामेवोपशान्तिस्तु शुद्धक्षीरनिषेवणात्

तृणं कीटं तुषं शूकं मक्षिकाङ्गमलाष्टकम्
केशोर्णास्थ्यादिकं विद्याद्वज्रमित्युपचारतः

सहान्नपानेन यदा धात्री वज्रं समश्नुते
पच्यमानेन पाकेन ह्यनन्नत्वान्न पच्यते

अपच्यमानं विक्लिन्नं वायुना समुदीरितम्
रसेन सह संपृक्तं याति स्तन्यवहाः सिराः

सर्वस्रोतांसि हि स्त्रीणां विवृतानि विशेषतः
तत् पयोधरमासाद्य क्षिप्रं विकुरुते स्त्रियाः

रूपाणि पीतवज्रायाः प्रवक्ष्याम्यत उत्तरम्
अजीर्णमरतिर्ग्लानिरनिमित्तं व्यथाऽरुचिः

पर्वभेदोऽङ्गमर्दश्च शिरोरुग् क्षवथुग्रहः
कफोत्क्लेदो ज्वरस्तृष्णा विड्भेदो मूत्रसंग्रहः

स्तम्भः स्रावश्च कुचयोः सिराजालेन संततः
शोथशूलरुजादाहैः स्तनः स्प्रष्टुं न शक्यते

स्तनकीलकमित्याहुर्भिषजस्तं विचक्षणाः
कीलवत् कठिनोऽङ्गेषु बाधमानो हि तिष्ठति

एष पित्तात्मना शीघ्रं पाकं भेदं च गच्छति
कफाच्चिरं क्लेशयति वातादाशु निवर्तते

शाखाशिरोभिस्तु यदि विमार्गान्न प्रपद्यते
अकृष्यमाणं बालेन क्षिप्रं निर्धावति स्तनात्

निर्दुह्यमानमुत्पीडाद्वज्रं सक्षीरशोणितम्
अथवाऽभ्येति सहसा प्रत्यक्षं चोपलभ्यते

घृतपानं प्रथमतः शस्यते स्तनकीलके
स्रोतांसि मार्दवं स्नेहाद्यान्ति वज्रं च च्याव्यते

निर्दोहो मर्दनं युक्त्या पायनं च गलेन च
शीताः सेकाः प्रलेपाश्च विरेकः पथ्यभोजनम्

स्रावणं चाविदग्धस्य दोषदेहव्यपेक्षया
स्य पाटनं कुर्यान्मृजां विद्रधिवच्च तत्

परवद्धितभोक्त्री च परालालिततर्पणा
परवेश्मरता धात्री मुच्यते स्तनकीलकात्

दर्शनीयौ स्तनौ पीनौ सुजातौ संहतौ समौ
सुकरौ पर्यकीलौ च दृष्ट्वा त्वीक्षन्ति दुर्हृदः

ततो रुजामवाप्नोति कार्यं तन्त्रावचारणम्
इति ह स्माह भगवान् कश्यपः

परिहृत्याममांसं तु निशि नेयं चतुष्पथम्

एतच्छ्रुत्वा वचस्तथ्यमृषिपत्न्यः प्रहर्षिताः
प्रशशंसुर्महात्मानं कश्यपं लोकपूजितम्
इति क्षीरोत्पत्तिर्नामाध्याय ऊनविंशतितमः १९

विंशतितमोऽध्यायः
अथातो दन्तजन्मिकमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

अथ खलु भगवन् देहिनां जातानामभिवर्धमानानां कतिषु मासेषु दन्तां निषिच्यन्ते निषिक्ताश्च कियता कालेन मूर्तीभवन्ति मूर्तीभूताश्च कदोद्भिद्यन्ते कानि चैषां पूर्वरूपाणि के चोपद्रवाः कश्चैषामुपक्रमः किञ्च दन्तजन्म प्रशस्तमप्रशस्तं च किं कस्माच्च स्वमङ्गमभिवर्धमानं प्राणसंशयाय भवति कियन्तश्च दन्ताः कतिचैषां द्विजाः कियता च
कालेन पतन्ति पतिता वा जायन्ते दन्तसंपदसंपच्च कीदृशीति ३

अथोवाच भगवान् कश्यपः – इह खलु नृणां द्वात्रिंशद्दन्ताः तत्राष्टौ सकृज्जाताः स्वरूढदन्ता भवन्ति अतः शेषा द्विजाः । यावत्स्वेव च मासेषु दन्ता निषिच्यन्ते तावत्स्वहः सूद्भिद्यन्ते । यावत्स्वेव च मासेषु जातस्य सत उद्भिद्यन्ते तावत्स्वेव च वर्षेषु पतिताः पुनरुद्भिद्यन्ते । तत्र मध्ये द्वावुत्तरौ राजदन्तसंज्ञौ भवतः तौ पवित्रौ तस्मात्ताभ्यां खण्डे न श्राद्धमर्हति अपपित्रो हि सः । तयोरुभयतः पार्श्वयोरपि वस्तौ तयोरपि दंष्ट्रे शेषाः स्वरूढा हानव्या इति चोच्यन्ते
तथाऽधस्तात् ४

तत्र कुमारीणामाशुतरमल्पाबाधकरं च दन्तजन्म सुषिरत्वाद्दंशानां मृदुस्वभावाच्च प्रकृष्टकालमाबाधाबहुलं तु कुमाराणामाचक्षते घनत्वाद्दंशानां स्थिरस्वभावाच्च । दन्तानां निषेकमूर्तित्वोद्भेदवृद्धिपतनपुनर्भावनिवृत्तिस्थितिपरिक्षयचलनपतनदृढदुर्बलता जातिविशेषान्निषेकात् स्वभावान्मातापित्रोरनुकरणात् स्वकर्मविशेषाच्चेत्याचक्षते
महर्षयः तथाऽन्येऽपि शरीरवृद्धिह्रासगुणदोषप्रादुर्भावाः ५

नृणां तु चतुर्थादिषु मासेषु दन्ता निषिच्यन्ते । तत्र सदन्तजन्म च पूर्वमुत्तरदन्तजन्म च विरलदन्तजन्म च हीनदन्तता च अधिकदन्तता च करालदन्तता च विवर्णदन्तता च स्फुटितदन्तता चामङ्गल्या भवति । तत्र शान्त्यर्थं मारुतीमिष्टिं निर्वपेत् स्थालीपाकमनाहिताग्नेः प्राजापत्यमित्येके तथाऽन्येष्वपि स्वाङ्गोनाधिकभावेषु तथा तद्घोरं
प्रशाम्यति ६

चतुर्विधं तु दन्तजन्माचक्षते सामुद्रं संवृतं विवृतं दन्तसंपदिति । तत्र सामुद्गं क्षयि नित्यसंपातात् संवृतमधन्यं मलिष्ठं विवृतं वीतमनित्यलालोपहतमसंछन्नदन्तत्वादाशुदन्तवैवर्ण्यकरमासन्नाबाधमिति ७

चतुर्थे तु मासि दन्ता निषिक्ता दुर्बला भवन्त्याशुक्षयिणश्चामयबहुलाश्च पञ्चमे स्यन्दनाश्च प्रहर्षिणश्चामयबसुलाश्च षष्ठे प्रतीपाश्च मलग्राहिणश्च विवर्णाश्च घुणदन्ताश्च भवन्ति सप्तमे द्विपुटाः स्फोटिनश्च राजिमन्तश्च खण्डाश्च रूक्षाश्च विषमाश्चोन्नताश्च भवन्ति तथाऽष्टमे मासि सर्वगुणसंपन्ना भवन्ति । पूर्णता समता घनता शुक्लता स्निग्धता श्लक्ष्णता निर्मलता निरामयता किञ्चिदुत्तरोन्नतता दन्तबन्धनानां च समता रक्तता स्निग्धता बृहद्वनस्थिरमूलता चेति दन्तसंपदुच्यते । हीनोल्बणसितासिताऽप्रविभक्तदन्तबन्धनत्वमप्रशस्तमृषयो वदन्ति । तत् स्वभावाद्दन्तोदूखलकेषु यच्छोणितं गर्भे निषिक्तं तदेव जातस्य
समतोऽभिवर्धमानस्य क्रमेण —
एकविंशतितमोऽध्यायः
रोहिणी स्वयङ्गुप्तामूलं द्वे हरिद्रे बृहतीफलरसैर्घृतार्धवत् पचेत् पच्यमानेऽपामार्गं चावपेत् । सिद्धेन कर्णपालीमहन्यहन्ति म्रक्षयेद्विमृद्नीयाच्च आशु वर्धते पीना समा च पाली भवति । मधूच्छिष्टसर्जरसयववत्सकैरण्डान्यन्तर्धूमं दग्ध्वा तेन भस्मना म्रक्षितां कर्णपा
लीं विमृद्नीयात् आशु वर्तते पीना समा च पाली भवतीति

तत्र श्लोकाः
नाभिषग्राजपुत्राणामन्येषां वा महात्मनाम्
कर्णान् विध्येत् सुखप्रेप्सुरिह लोके परत्र च

आमच्छेदेऽत्ययो ह्यत्र कुवेधाद्वोपजायते
अभिषक् तत्र मन्दात्मा किं करिष्यत्यशास्त्रवित्

कदा वेध्यं कथं वेध्यं कुत्र वेध्यं कथं व्यधः
हितोऽहितोऽत्ययः कश्च तत्राज्ञः किं प्रपत्स्यते

तस्माद्भिषक् सुकुशलः कर्णं विध्येद्विचक्षणः
शिशोर्हर्षप्रमत्तस्य धर्मकामार्थसिद्धये
इति ह स्माह भगवान् कश्यपः
इति चूडाकरणीयोऽध्याय एकविंशतितमः २१

द्वाविंशतितमोऽध्यायः
अथातः स्नेहाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
स्नेहो द्वियोनिरुक्तश्चतुर्विकल्पश्चराचरसमुत्थः
सर्पिर्मज्जवसाख्यं खगमृगजलजप्रभवमाहुः ३
तैलानि चोद्भिदेभ्यस्तिलचूतसर्षपबिभीतबिल्वेभ्यः
एरण्डातसिशिग्रुमधूकमूलककरञ्जेभ्यः ४
घृततैलवसामज्जां पूर्वः पूर्वो वरोऽन्येभ्यः
मुख्यं घृतेषु गव्यं संस्कारात् सर्वसात्म्याच्च ५
विनिहन्ति पित्तमनिलं पीतं सर्पिः कफं न च चिनोति
जनयति बलाग्निमेधाः शोधयति शुक्रं च योनिं च ६
उष्णं कफानिलघ्नं स्वरवर्णकरं तनुस्थिरीकरणम्
भग्नच्युतसन्धानं धातुव्रणशोधनं तैलम् ७
मज्जावसे विशेषाद्वातघ्ने वृष्यसंमते चैव
बलिनां तत्सात्म्यानां प्रजाबलायुः स्थिरीकरणे ८
नित्यानित्यात्मविधौ तिलतैलघृते बुधः प्रयुञ्जीत
एरण्डशङ्खिनीभ्यां स्रंसनमन्यद्रसायनं नास्ति ९
मज्जावसे वसन्ते प्रावृषि तैलं पिबेच्छरदि सर्पिः
सर्पिर्वा सर्वेषां सर्वस्मिञ्छरयते पातुम् १०
अनुपानमुष्णमुदकं घृतस्य तैलस्य यूषमिच्छन्ति
मज्जधसयोस्तु मण्डं सर्वेषां कश्यपः पूर्वम् ११
शूलकफानिलतृष्णाहिक्कारोचकविबन्धगुल्मघ्नम्
व्रणधातुमृदूकरणं दीपनमुष्णोदकमुशन्ति १२
पादावशेषसिद्धं तद्दोषघ्नैः शृतं जलं मुख्यम्
पेयं कवलग्राह्यं स्नेहं हि तथा विलाययति १३
पयसि दधनि मधुमये तूक्ते नोष्णोदकं भवेत् पथ्यम्
पित्ते रक्तस्रावे गर्भच्यवने च गर्भदाहे च १४
ओदनविलेपिकाभ्यां रसमांसक्षीरदधियवागूभिः
काम्बलिकसूपयूषैः पेयाशनभक्ष्यविकृतीभिः १५
स्नेहप्रयोग इष्टः सोर्ध्वाधः कर्मभिः खलाभ्यङ्गैः
चक्षुर्वदनश्रोत्रैर्धारणयोगश्च सात्म्यज्ञैः १६
पित्तानिलप्रकृतयः स्नेहं रात्रौ पिबेयुरुष्णे च
श्लेष्माधिको दिवोष्णे निर्मलसूर्ये लघुत्वे च १७
तृण्मूर्च्छोन्मादादीन् पूर्वो लभते विपर्ययेण पिबन्
आनाहारुचिपर्वण्युच्छूलं च समृच्छते शेषः १८
स्नेहाच्छपाने त्रिविधा तु मात्रा
ह्रस्वाऽथ मध्या महती तृतीया ।
ह्रस्वा दिनार्धेन दिनेन मध्या
जीर्यत्यहोरात्रवशात् प्रधाना १९
दीप्ताग्नयो बलिनः स्नेहनित्या
उन्मादिनो धृतिविण्मूत्रसक्ताः ।
गुल्मार्दिताश्चाहिदष्टा विरूक्षा
वैसर्पिणः प्रवरां ते पिबेयुः २०
प्रमेहकुष्ठानिलशोणितारुचि
विचर्चिकास्फोटविषेषु कण्डौ ।
मृदौ तथाऽग्नौ प्रवदन्ति मध्यां
बले च मध्या अशने च ये स्युः २१
बालेषु वृद्धेषु सुखोचितेषु
जीर्णेऽतिसारे ज्वरकासयोश्च ।
येषां हि कोष्ठो न गुणाय रिक्तो
मन्दाग्निकार्श्ये च कनीयसी स्यात् २२
दोषानुकर्षिण्यनुसारिणी च
यत्नोपचर्या बलवर्धनी च ।
ज्येष्ठाऽथ मध्या न बलं निहन्ति
त्वन्योन्यथोः स्नेहयते सुखाच्च २३
ह्रस्वा परीहारसुखाऽविकारा
वृष्याऽथ बल्याऽप्यनुवर्तनी च ।
देशं वयःकालबलाग्निसात्म्या
न्यालक्ष्यमात्रां मतिमान् विदध्यात् २४
पित्तानिलात्माऽनिलपित्तरोगी
क्षामः शिशुर्वर्णबलायुरक्तः ।
मेधेन्द्रियार्थी विषशस्त्रदाहै
रार्ताः पिवेयुर्घृतमेव काले २५
प्रवृद्धमेदःकफमांसवाता
नाडीकृमिव्याध्यनिलार्तदेहाः ।
क्रूरानुकोष्ठास्तनुवीर्यकामा
स्तैलं पिबेयुर्न तु तीव्रकुष्ठे २६
संशुष्कमेदःकफरक्तशुक्रा
वातातपाध्वश्रमरौक्ष्यनित्याः ।
भृशाग्नयो वातनिपीडिताङ्गा
वसां पिबेयुर्धृतिधातुकामाः २७
दीप्ताग्नयो घस्मराः स्नेहनित्याः
क्लेशक्षमाः क्रूरकोष्ठानिलार्ताः ।
मज्जानमेतेषु भिषग्विदध्यात्
स्नेहो भवेत्सात्म्यतो यस्य यो वा २८
व्यायाममद्यचिन्तामैथुननित्याः श्रमाध्वकृशदेहाः
स्नेह्यास्तथाविधाः स्युर्बलकालवयोग्निसात्म्यज्ञैः २९
न स्नेहयेद्गर्भिणीं न प्रसूतां
न क्षीरपं नैव दग्धातिवृद्धौ ।
न श्लेष्मपित्तोपहतान्तराग्निं
मूर्च्छारुचिग्लानिभृशामतृट्सु ३०
बस्तौ न नस्तश्च विधिक्रियायां
छर्द्यां ज्वरे विट्प्रकोपे कफे च ।
बृहत्त्वजाड्येषु गलामयेषु
नस्नेहयेत् स्नेहमदात्ययेषु ३१
तेषां स्नेहाच्छपानान्ते वर्धन्ते व्याधयो भृशम्
असाध्यनां वा गच्छन्ति स्नेहपानाभिवर्धिताः ३२
वायोरप्रगुणत्वं रौक्ष्यं खरताऽघृतिर्ज्वलनहानिः
शुष्कप्रथितपुरीषं लक्षणमस्निग्धगात्रस्य ३३
धृतिर्मृदुपुरीषत्वं मेधापुष्ट्यग्नितेजसां वृद्धिः
काले शरीरवृत्तिः स्निग्धस्य वदन्ति लिङ्गानि ३४
गौरवजाड्योत्क्लेशाध्मानानि पुरीषमविपक्वम्
अरुचिरपि पाण्डुतन्द्रे वदन्त्यतिस्निग्धलिङ्गानि ३५
द्रवमितलघूष्णपन्नं काले सात्म्यं बलाग्निरुग्युक्तम्
स्वः स्नेहपानमिच्छन् भुञ्जीत शयीत गुप्तश्च ३६
उष्णोदकोपचारी जितेन्द्रियः स्यान्निवातशयनस्थः
व्यायामवेगरोषत्यागी स्नेहाच्छपोऽस्वप्नः ३७
संस्निह्यति मृदुकोष्ठो नरस्त्रिरात्रेण सप्तरात्रेण
स्नेहाच्छपानयोगाज्जीवक यः क्रूरकोष्ठस्तु ३८
द्राक्षापीलुत्रिफलागोरसतप्ताम्बुतरुणमद्यानि
भुक्त्वाऽथ पायसं यो मृदुकोष्ठःस्रंस्यते नान्यः ३९
पित्तबहुलेतराल्पा ग्रहणी भवति मृदुकोष्ठिनां तस्मात्
सुविरेच्या मृदुकोष्ठाः प्रायः पित्तं ह्यधोभागि ४०
तृण्मूर्छामुखशोषैः शब्दद्वेषाङ्गमर्दजृम्भाभिः
तन्द्रीवाग्देहसादैः स्नेहज्ञाजीर्यतीत्याह ४१
जीर्णाजीर्णविशङ्की केवलमुष्णोदकं पिबेत् तद्धि
उद्गारस्य विशुद्धिं जनयति भक्ताभिलाषं च ४२
तैलेऽधिको विदाहः सर्पिषि मूर्च्छा वसासु हृल्लासः
मज्जनि गौरवमेषां दोषैरल्पा प्रवृत्तिस्तु ४३
स्नेहाजीर्णे तृष्णा शूलं परिकर्तिका च यस्य स्यात्
समतीतजरणकाले तस्य प्रच्छर्दनं श्रेयः ४४
उद्गारस्य विशुद्धिः कांक्षा स्थिरता लघुत्वमविषादः
बलवागिन्द्रियसंपज्जीर्णे स्नेहे बलसुखे च ४५
कर्णाक्षिप्रणबलं स्मृतिकेशौजसां वृद्धिधृतिपुष्टिः
शान्तिस्तद्व्याधीनां भुक्त्वाऽनु स्नेहपीतस्य ४६
पित्तानिलामयघ्नं बस्त्यूरुकटीदृढीकरं वृष्यम्
ऊर्जस्करं श्रमघ्नं विद्यात् स्नेहावपीडं तु ४७
वर्णस्वरमेधौजःशुक्रायुर्धृतिबलाग्निसंवृद्धिः
विण्मूत्रानिलवृत्तिः सुखेन संभोजनस्नेहात् ४८
ज्वरपाण्डुकुष्ठशोथास्तृण्मूर्छाच्छर्द्यरोचकोत्क्लेदाः
ग्रहणीन्द्रियोपघातस्तैमित्यानाहशूलाद्याः ४९
स्नेहापचारजास्ते रोगाः स्वेदोपपादिता येषु
वमनविरेचनयोगा रूक्षाशनतक्रमूत्राद्याः ५०
मात्राकालवियुक्तः स्नेहः सात्म्योपचारगुणहीनः
युक्तो व्यापदमृच्छति तस्मिन् संशोधनं पथ्यम् ५१
स्नेहद्वेषी क्षामो मृदुकोष्ठः स्नेहमद्यनित्यश्च
अध्वप्रजागरस्त्रीश्रान्ता नाच्छं पिबेयुस्ते ५२
तेषामन्नैर्विविधैः स्नेहस्य विचारणा सात्म्यम्
निर्दिष्ट्वा मासाद्यैः कालाग्निवयःप्रकर्षाच्च ५३
गुरुपानभोज्यमांसैर्गुडदधितिलशाकदुग्धनिर्यूहैः
न स्नेहयेत् प्रमेहे न कुष्ठकफशोषरोगार्तान् ५४
तद्दोषघ्नैर्द्रव्यैः स्नेहैः सिद्धैर्यथास्वमविकारैः
स्नेह्यास्तथात्रिधाः स्युस्त्रिफलासव्योषलवणाद्यैः ५५
स्नेहितदेहस्यादौ स्वेदमनन्तरमथ प्रयुञ्जीत
सम्यक्स्निग्धस्विन्नैर्विशोधनमनन्तरं कार्यम् ५६
इति स्नेहाध्यायो द्वाविंशतितमः २२

त्रयोविंशतितमोऽध्यायः
अथातः स्वेदाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
सम्यक्स्निग्धस्य भगवन् कथं स्वेदं प्रयोजयेत्
अनत्ययं भिषग्वाले द्रव्यं स्वेदोपगं च किम् ३
मन्दातिसम्यक्स्विन्नानां बालानां लक्षणं च किम्
कः स्वेद्यो न च कः स्वेद्य इत्युक्तः प्राह कश्यपः ४
शृणु स्वेदविधिं कृत्स्नं वृद्धजीवक तत्त्वतः
यथा बाले प्रयोक्तव्यः प्रयुक्तश्च यथा हितः ५
स्तैमित्यशूलकाठिन्यविबन्धानाहवाग्ग्रहैः
हृल्लासारुच्यलसकशीतासहनवेपनैः ६
वातश्लेष्मोद्भवं दृष्ट्वा पृथग्वा स्वेद इष्यते
वाते स्निग्धः कफे रूक्षो द्वयोः साधारणो मतः ७
बालानां कृशमध्यानां स्वेद आवस्थिको हितः
शीतव्याधिशरीराणां बालानां च विशेषतः ८
वृषणौ हृदयं चक्षुर्मृदु वा स्वेदयेन्न वा
शेपोवङ्क्षणसन्धींस्तु मध्यमं शेषमिष्टतः ९
कुमुदोत्पलपद्मानां पत्रैराच्छाद्य लोचने
वाससा वाऽथ श्लक्ष्णेन बाले स्वेदं प्रयोजयेत् १०
मुक्तावलीचन्द्रकान्तशीताम्बुकरभाजनैः
स्पृशेदभीक्ष्णं हृदयं बालस्य स्वेदकर्मणि ११
कर्पूरचूर्णमास्येन धारयेत् स्विद्यतः सुखम्
फलाम्लयुक्तं खण्डं वा मृद्वीकां वा सशर्कराम् १२
शीतगौरवविष्टम्भशूलादीनां निवर्तने
तद्विपर्ययभावे च स्वेदं प्राज्ञो निवर्तयेत् १३
विषादमूर्च्छातृड्दाहपित्तकोपारतिभ्रमाः
स्वराङ्गहानिर्वैह्वल्यमतिस्विन्नस्य लक्षणम् १४
तच्चिकित्सां प्रयुञ्जीत यथा वैसर्पिणां तथा
रागव्रणविसंज्ञाभिः कृच्छ्रसाध्यं तमादिशेत् १५
वातस्याप्रगुणत्वं च गुरुत्वं स्तब्धगात्रता
मन्दस्विन्ने न च ग्लानिस्तृष्णादीनां च विभ्रमः १६
तत्र स्वेदं प्रयुञ्जीत भिषग्भूयो विचारयन्
बलकालवयोदोषान् पथ्यचेष्टाशनस्थितीः १७
स्वेदाभिनन्दिता सौख्यं मृदुता रोगदेहयोः
काले विसृष्टिः क्षुत्तृष्णा सम्यक् स्विन्नस्य लक्षणम् १८
पित्तात्मा पित्तरोगी च गर्भिणी मधुमेहिनः
क्षुत्तृष्णाशोषरोषार्ताः कामल्युदरिविक्षताः १९
कार्श्यमद्यविषार्ताश्च भृशाग्नितिमिरस्रुताः
भ्रष्टभग्नविदग्धाङ्गा न स्वेद्यास्ते कथंचन २०
स्वरभेदप्रतिश्यायगलग्रहशिरोरुजि
मन्याकर्णशिरःशूले गौरवे श्वासकासयोः २१
कुक्षिपार्श्वकटीपृष्ठविड्ग्रहे मूत्रयक्ष्मणि
शुक्राघाते पक्षवधे कोष्ठानाहविबन्धयोः २२
विनामार्दितजृम्भासु हनमन्याशिरोग्रहे
अङ्गमर्दे महत्त्वे च वेपथौ वातकण्टके २३
शीतशोथामखल्वीषु पाणिपादाङ्गमारुते
आयामाक्षेपशूलादौ स्वेदः पथ्यतमो नृणाम् २४
जन्मप्रभृति बालानां स्वेदमष्टविधं भिषक्
प्रयुञ्जीत यथाकालं रोगदेहव्यपेक्षया २५
हस्तस्वेदः प्रदेहश्च नाडीप्रस्तरसंकराः
उपनाहोऽवगाहश्च परिषेकस्तथाऽष्टमः २६
जातस्य चतुरो मासान् हस्तस्वेदं प्रयोजयेत्
अप्रमादी निवातस्थो विधूमाग्न्यूष्मणा शनैः २७
निवर्तमाने बालस्य सौकुमार्ये यथाक्रमम्
प्रवर्तमाने काठिन्ये तेषां स्वेदं प्रवर्धयेत् २८
सन्ति चाप्यपरे बालाः सुकुमाराः सदासुखाः
घृतक्षीराशिनः कल्या ईश्वराणां महात्मनाम् २९
मध्यमा मध्यमानां च दरिद्राणां च दुःखिनाम्
निषेकदेशसात्म्ये च तान् विद्यात् पण्डितो भिषक् ३०
अविशेषेण बाधन्ते सर्वे सर्वान्नरान् गदाः
विशेषस्तु महान् दृष्टो दक्षिणाहारभेषजे ३१
देशकालवयोमात्रासर्वरुग्गुरुलाघवैः
स्वेदोऽतिरिक्तो हीनो वा हन्याद्बालं यथा विषम् ३२
तस्मादवेक्ष्य देशादीन् काठिन्यं सुकुमारताम्
शिशोः स्वेदं प्रयुञ्जीत यशोधन्यार्थसिद्धये ३३
गलकर्णशिरोमन्याकर्णाक्षिचिबुकोरसि
अभिष्यन्दात् समुच्छूने प्रदेहस्वेद इष्यते ३४
एरण्डवृषशिग्रूणां त्वक्पत्रैः कल्कसाधितैः
समूत्रबुक्कलवणैः प्रदेहः स्यात् सुखोष्मभिः ३५
शीतीभूतं तु निर्मृज्य लेपयेदपरापरम्
अनेकशस्तु विज्ञाय स्विन्नं स्वेदं निवर्तयेत् ३६
द्रव्यैर्वातकफघ्नैश्च प्रदेहः शिग्रुवद्धितः
अन्यैरपि करीषैश्च गोखराश्वाविबस्तजैः ३७
वंशमुञ्जनलाद्यैश्च यथायोगं यथासुखम्
नाडीस्वेदं प्रयुञ्जीत निवाते वस्त्रसंवृतम् ३८
उष्णान् पुलाकानास्तीर्य पायसं कृसरादि वा
वाससान्तरिते बालमभ्यक्तं शाययेत् सुखम् ३९
पञ्चाङ्गुलोरुवूकार्कपत्रैर्वा स्नेहितोष्णितैः
प्रस्तरस्वेदमित्याहुरभीक्ष्णपरिवर्तिनः ४०
पायसैः कृशरैर्मांसैरोदनैस्त्रिकठोरकैः
उष्णैः सलवणस्नेहैरम्बरास्तरितैः सुखैः ४१
किण्वातसीदधिक्षीरसंयुक्तैः पिण्डकैः कृतैः
स्थानस्वेदनमिच्छन्ति सङ्करस्वेद उच्यते ४२
किण्वातसीदधिक्षीरलवणैः साम्लचिक्कणैः
कुष्ठादिभिश्च सस्नेहैरुपनाहः प्रशस्यते ४३
खराजाविबिडालेनद्वीपिसिंहतरक्षुजैः ।
— ४४
चतुर्विंशतितमोऽध्यायः
— प्रोक्तं चिकित्सितम् ।
अतः पञ्चजनात् कञ्चित्संम्यक्शुद्धं प्रकाङ्क्षितम्
लघुं विशदसर्वाङ्गं प्रसन्नेन्द्रियमिच्छुकम्

सुखाम्बुसिक्तसर्वाङ्गमनुलिप्तं विभूषितम्
कृतपूजानमस्कारं मनोज्ञासनवेश्मगम्
पुराणरक्तशालीनां मण्डपूर्वां सुसाधिताम्
यवागूं त्रिःस्रुतामुष्णां दीपनीयोपसंस्कृताम्

भोजयेद्युक्तलवणां रूक्षां युक्ताशितो भवेत्
भोजनेषु सुहृद्येषु सुधौतेष्वपराह्णिके

शिरोललाटहृद्ग्रीवावृषणे साक्षशङ्खके
स्वेदश्चेत् पीतमण्डस्य सम्यक्शुद्धं तमादिशेत्

उद्गारवातकर्मभ्यां विशुद्धाभ्यां दिने दिने
निरुपद्रवपुष्टिभ्यां सम्यक्शुद्धं विनिर्दिशेत्

सुखोषितं जीर्णभक्तं द्वितीयेऽहनि भोजयेत्
यवागूं तु तृतीयेऽह्नि दद्यादस्मै विलेपिकाम्

दीपनोदकसंसिद्धां रूक्षामुष्णां ससैन्धवाम्
चतुर्थे मुद्गमण्डः स्यादोदनश्च सुसाधितः

पुराणरक्तशालीनां भृष्टानां वा कृशात्मनः
निस्तुषाणां च मुद्गानां मण्डः स्यादुक्तवेषणः
ईषत्फलाम्लः कर्तव्यो मुद्गमण्डोऽह्नि पञ्चमे
ईषत्स्नेहः कृतः षष्ठे सप्तमे च विधीयते

जाङ्गलानां रसं सिद्धं तनुकं मांसवर्जितम्
दिनेऽष्टमेऽथ नवमे दद्यात् स्नेहाल्पसंस्कृतम्

दशमैकादशे चाह्नि लवणस्नेहसंस्कृतः
फलाम्लसिद्धो युक्तोष्णः शस्यते रसकौदनः

उष्णोदकानुपानौ तु स्यातां वातकफात्मकौ
तत उत्तरकालं तु भोज्यसंसर्ग इष्यते

एषां मण्डादिसंसर्गो सर्वव्याधिक्रियोपगः
एनं व्यभिचरन्मोहाद्दारुणाल्ँलभते गदान्

ज्वरामकामलापाण्डुकर्णकुष्ठगलामयाः
हिक्कातिसारश्वयथुकासाद्या व्यभिचारजाः

शूलातिसरौ शुद्धस्य शीतपानान्नसेवनात्
शोथोदरज्वरा अम्लभृशस्नेहदिवाशयात्

कांक्षा बुभुक्षा वैशद्यं लघुता स्थिरता सुखम्
स्वस्थवृत्तानुवृत्तिश्च सम्यग्जीर्णान्नलक्षणम्

विषादो गौरवं तन्द्री श्लेष्मसेकारतिभ्रमाः
स्वस्थवृत्तोपरोधश्च तदजीर्णस्य लक्षणम्

आमं विदग्धं सश्लेष्म रसशेषं तथैव च
चतुर्विधमजीर्णं तु तस्य वक्ष्यामि लक्षणम्

यथाभुक्तं भवेदामे धूमोद्गारौ विदाहिनि
सश्लेष्मणि गुरुत्वं तु रसशेषे तु हृद्द्रवः

तन्द्रीशूलारतिग्लानितृड्विदाहारुचिभ्रमाः
अङ्गमर्दज्वरानाहाः सर्वेष्वप्यल्पशो गदाः

सर्वैरसाध्यतोत्कृष्टैः क्रमशो याप्यसाध्यते
साध्यानां साधनं यत्तु तन्मे प्रवदतः शृणु
आमस्योद्धरणं पथ्यं विदग्धे प्रावृतः स्वपेत्
सश्लेष्मणि भवेत् स्वेदः परिशोष्यो रसाधिके

यदुक्तं पथ्यमशनं तदेवैतेषु शस्यते
दीर्घकालौषधानां तु मुद्गमण्डः सदाडिमः

सस्नेहलवणव्योषः पेयो मांसरसोऽपि वा
बालमूलकयूषो वा हितः शाल्योदनस्तथा

चिकित्सितं पञ्चजनान् राज्ञो राजोपमस्य वा
धनिनां निर्धनानां वा यथार्थमुपकल्पयेत्

बलघ्नं दोषशमनं बलवर्णसुखावहम्
सम्यक् संशोधनं कृत्वा दीर्घमायुरवाप्नुते
इति ह स्माह भगवान् कश्यपः
इत्युपकल्पनीयोऽध्यायश्चतुर्विंशतितमः २४

पञ्चविंशतितमोऽध्यायः
अथातो वेदनाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
उपास्यमानमृषिभिः कश्यपं वृद्धजीवकः
चोदितो दारुवाहेन वेदनार्थेऽभ्यचोदयत् ३
बालकानामवचसां विविधा देहवेदनाः
प्रादुर्भूताः कथं वैद्यो जानीयाल्लक्षणार्थतः ४
इति पृष्टो महाभागः कश्यपो लोकवृद्धपः
प्रोवाच वेदनास्तस्मै कारणैर्बालदेहजाः ५
भृशं शिरः स्पन्दयति निमीलयति चक्षुषी
अवकूजत्यरतिमानस्वप्नश्च शिरोरुजि ६
कर्णौ स्पृशति हस्ताभ्यां शिरो भ्रमयते भृशम्
अरत्यरोचकास्वप्नैर्जानीयात् कर्णवेदनाम् ७
लालास्रवणमत्यर्थं स्तनद्वेषारतिव्यथाः
पीतमुद्गिरति क्षीरं नासाश्वासी मुखामये ८
पीतमुद्गिरति स्तन्यं विष्टम्भिश्लेष्मसेवनम्
ईषज्ज्वरोऽरुचिर्ग्लानिः कण्ठवेदनयाऽर्दिते ९
लालास्रावोऽरुचिर्ग्लानिः कपोले श्वयथुर्व्यथा
मुखस्य विवृतत्वं च जानीयादधिजिह्विकाम् १०
ज्वरारुचिमुखस्रावा निष्टनेच्च गलग्रहे
कण्डूके श्वयथुः कण्ठे ज्वरारुचिशिरोरुजः ११
मुहुर्नमयतेऽङ्गानि जृम्भते कासते मुहुः
धात्रीमालीयतेऽकस्मात् स्तनं नात्यभिनन्दति १२
प्रस्रावोष्णत्ववैवर्ण्ये ललाटस्यातितप्तता
अरुचिः पादयोः शैत्यं ज्वरे स्युः पूर्ववेदनाः १३
देहवैवर्ण्यमरतिर्मुखग्लानिरनिद्रता
वातकर्मनिवृत्तिश्चेत्यतीसाराग्रवेदनाः १४
स्तनं व्युदस्यते रौति चोत्तानश्चावभज्यते
उदरस्तब्धता शैत्यं मुखस्वेदश्च शूलिनः १५
अनिमित्तमभीक्ष्णं यस्योद्गारः प्रवर्तते
निद्राजृम्भापरीतस्य छदिस्तस्योपजायते १६
निष्टनत्युरसाऽत्युष्णं श्वासस्तस्योपजायते
अकस्मान्मारुतोद्गारः कृशे हिक्का प्रवर्तते १७
स्तनं पिबति चात्यर्थं न च तृष्यति रोदिति
शुष्कौष्ठतालुस्तोयेप्सुर्दुर्बलस्तृष्णयाऽर्दितः १८
विशालस्तब्धनयनः पर्वभेदारतिक्लमी
संरुद्धमूत्रानिलविट् शिशुरानाहवेदनी १९
अकस्मादट्टहसनमपस्माराय कल्पते
प्रलापारतिवैचित्त्यैरुन्मादं चोपलक्षयेत् २०
रोमहर्षोऽङ्गहर्षश्च मूत्रकाले च वेदना
मूत्रकृच्छ्रे दशत्योष्ठौ बस्तिं स्पृशति पाणिना २१
गौरवं बद्धता जाड्यमकस्मान्मूत्रनिर्गमः
प्रमेहे मक्षिकाकान्तं मूत्रं श्वेतं घनं तथा २२
बद्धपक्वपुरीषत्वं सरक्तं वा कृशात्मनः
गुदनिष्पीडनं कण्डूं तोदं चार्शसि लक्षयेत् २३
सशर्करातिमूत्रत्वं मूत्रकाले च वेदना
प्रततं रोदिति क्षामस्तं ब्रूयादश्मरीगदम् २४
रक्तमण्डलकोत्पत्तिस्तृष्णा दाहो ज्वरोऽरतिः
स्वादुशीतोपशायित्वं विसर्पस्याग्रवेदनाः २५
दह्यन्तेऽङ्गानि सूच्यन्ते भज्यन्ते निष्टनत्यति
विसूचिकायां बालानां हृदि शूलं च वर्धते २६
शिरो न धारयति यो भिद्यते जृम्भते मुहुः
स्तनं पिबति नात्यर्थं ग्रथितं छर्दयत्यपि २७
विषादाध्मानारुचिभिर्विद्यादलसकं शिशोः
विसूचिकालसकयोर्दुर्ज्ञाने लक्षणौषधे २८
दृष्टिव्याकुलता तोदशोथशूलाश्ररक्तताः
सुप्तस्य चोपलिप्यन्ते चक्षुषी चक्षुरामये २९
घर्षत्यङ्गानि शयने रोदितीच्छति मर्दनम्
शुष्ककण्ड्वऽर्दितं विद्यात्ततश्चार्द्रा प्रवर्तते ३०
सुखायते मृद्यमानं मृद्यमानं च शूयते
शूनं स्रवति सस्योढा मार्द्रायां शूलदाहवत् ३१
स्तैमित्यमरुचिर्निद्रा गात्रपाण्डुकताऽरतिः
रमणाशनशय्यादीन् धात्रीं च द्वेष्टि नित्यशः ३२
अस्नातः स्नातरूपश्च स्नातश्चास्नातदर्शनः
आमस्यैतानि रूपाणि विद्याद्वैद्यो भविष्यतः ३३
नाभ्यां समन्ततः शोथः श्वेताक्षिनखवक्रता
पाण्डुरोगेऽग्निसादश्च श्वयथुश्चाक्षिकूटयोः ३४
पीतचक्षुर्नखमुखविण्मूत्रः कामलार्दितः
उभयत्र निरुत्साहो नष्टाग्निरुधिरस्पृहः ३५
मूर्च्छाप्रजागरच्छर्दिधात्रीद्वेषारतिभ्रमैः
वित्रासोद्वेगतृष्णाभिर्विद्याद्बाले मदात्ययम् ३६
मुहुर्मुखेनोच्छ्वसिति पीत्वा पीत्वा स्तनं तु यः
स्रवतो नासिके चास्य ललाटं चाभितप्यते ३७
स्रोतांस्यभीक्ष्णं स्पृशति पीनसे क्षौति कासते
उरोघाते तथैव स्यान्निष्टनत्युरसाऽधिकम् ३८
स्वस्थवृत्तपरो बालो न शेते तु यदा निशि
रक्तबिन्दुचिताङ्गश्च विद्यात्तं जन्तुकादितम् ३९
यदा तु ललिता धात्री सुखिनी सर्वभोगिनी
पश्यत्यभीक्ष्णं दुःस्वप्नं स्वयं क्षीरं प्रवर्तते ४०
बालो विस्मरते चास्याः सहसाङ्कात् पतत्यपि
असज्जनेन संसर्गं याति संभोजनं तथा ४१
मृतापत्यावकीर्णाभिः परवृद्ध्यसहिष्णुभिः
अमङ्गलानि घोराणि पश्यत्याचरतेऽपि च ४२
सेवते विपरीतानि मृत्युं चोदयते शिशोः
सुप्ते शिशौ निलीयन्ते पक्षिणो दारुणोदयाः ४३
विडालो लङ्घयत्येनं परधूमं च जिघ्रति
परावतारणबलिं प्रेक्षते लङ्घयत्यपि ४४
दुर्गन्धदेहवक्रत्वं नासिकाग्रे मलोद्भवः
अहृद्यरक्तमाल्यानां मातापुत्रनिषेवणम् ४५
भस्माङ्गारतुषादीनामधिरोहणसेवनम्
रोदित्यकस्मात्त्रसति छायाशीलविपर्ययः ४६
अल्पाशितोऽतिविण्मूत्रस्त्वविण्मूत्रो विपर्यये
भविष्यतां निमित्तानि ग्रहाणां वेदनाश्च ताः ४७
न यः शिरो धारयति क्षिपन्त्यङ्गानि दुर्बलः
श्वासाध्मानपरीताभ्यामन्तवच्चोपलक्ष्यते ४८
विनोद्यमानो बहुधा विनोदं नाभिनन्दति
तृट्प्रमीलकनिद्रार्तः कूजत्यपि कपोतवत् ४९
पीड्यमानस्य रूपाणि ज्वरच्छर्द्यतिसारिषु
वैद्यो दृष्ट्वैव जानीयात् कृच्छ्रं सर्वं न सिध्यति ५०
इत्येता विविधाः प्रोक्ता वेदना बालदेहजाः
प्रायोद्भवानां रोगाणां कश्यपेन महर्षिणा ५१
तेषां चिकित्सितं स्वं स्वमविरुद्धं यथाक्रमम्
दृष्ट्वा चिकित्सितस्थाने दोषतश्चाभ्युपक्रमेत् ५२
इति ह स्माह भगवान् कश्यपः
इति वेदनाध्यायः पञ्चविंशतितमः २५

षड्विंशतितमोऽध्यायः
अथातश्चिकित्सासंपदीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

चिकित्सासंपद्यथोपपद्यते तमुपायमनुव्याख्यास्यामः । चत्वारः खलु पादाश्चिकित्सितस्योपपद्यन्ते । ते यदा गुणवन्त उपपद्यन्ते तदा साध्यो व्याधिर्नातिवर्तते । तद्यथाभिषक् भेषजमातुरः परिचारक इति ३

तत्र भिषक् सुतीर्थो न्यायेनार्षज्ञानप्राप्तो विज्ञानवाननेकशो दृष्टकर्मा विदितसिद्धयोगो दक्षो दक्षिणः शुचिरनुद्धतवेषः सर्वभूतेषु बन्धुभूतः सिद्धिमान् धर्मार्थदर्शी सत्यदयादानार्जवनिरतो देवद्विजगुरुसिद्धानां पूजयिता चाभिगन्ता चोत्तरोत्तरप्रतिपत्तिकुशलो गुरुवृद्धसेवी न्यायाभिनिवेशी व्यपगतभयलोभमोहक्रोधानृतोऽपैशुन्योऽमद्यलौल्यः सुमु
खश्चाव्यसनी चेति ४

तत्र भेषजसंपत् – सुभूमौ जातं काले चोद्धृतं काले चोत्पन्नम् अविकारि अग्नितोयजन्तुविण्मूत्रजरादिभिरनुपहतं तत्तद्रोगयोग्यं क्रमेण
विधिवदुपपादितमिति ५

तत्रातुरसंपत् – साध्यरोगता सत्त्वबलबुद्धिशरीरेन्द्रियधृतितेजसां दार्ढ्यं निदानपूर्वरूपातङ्कोपद्रवयात्रोपशयानुपशयानां यथावदाख्यानं धात्र्या वा श्रद्दधानता देवद्विजगुरुभिषग्भेषजसुहृदामभि
नन्दनमास्तिक्यं विनयप्रधानता यथोक्तकारित्वं वशित्वं चेति ६

तत्र परिचारकसंपत् – विपक्वकषायता आरोग्यं शक्तिः भर्तृभक्तिः उपचारज्ञता दाक्ष्यं शौचम् आशुकारित्वं सर्वकर्मसु कौशलम् अघृणित्वम् अक्षुद्रपुत्रत्वमद्वैविध्यं दमो जितक्रोधादिता सहिष्णुता
चेति ७

तत्र श्लोकाः
अस्य पादचतुष्कस्य मन्यन्ते श्रेष्ठमातुरम्
तदर्थं गुणवन्तो हि त्रयः पादा इहेप्सिताः ८
नेति प्रजापतिः प्राह भिषङ्मूलं चिकित्सितम्
भिषग्वशे त्रिवर्गो हि सिद्धिश्च भिषजि स्थिता ९
स युनक्ति प्रयुङ्क्ते च शास्ति च ज्ञानचक्षुषा
तस्माज्ज्ञाने सविज्ञाने युक्तः श्रेष्ठतमो भिषक् १०
यदा चतुर्णां पादानां संपद्भवति जीवक
तदा धर्मार्थयशसां वैद्यो भवति भाजनम् ११
इति ह स्माह भगवान् कश्यपः
इति चिकित्सासंपदीयोऽध्यायः षड्विंशतितमः २६

सप्तविंशतितमोऽध्यायः
अथातो रोगाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

एको रोगो रुजाकरणसामान्यादिति भार्गवः प्रमतिः द्वौ रोगौ निजश्चागन्तुश्चेति वार्योविदः त्रयो रोगाः साध्ययाप्यासाध्या इति काङ्कायनः चत्वारो रोगा आगन्तुवातपित्तकफजा इति कृष्णो भारद्वाजः पञ्च रोगा आगन्तुवातपित्तकफत्रिदोषजा इति दारुवाहो राजर्षिः षड्रोगाः षड्रसत्वादन्नपानस्येत्यृषिषद्भ्यः सप्त रोगा वाताद्येकैकद्वित्रिदोषजा इति हिरण्याक्षः अष्टौ रोगा वाताद्येकैकद्वित्रिदोषा
गन्तुनिमित्ता इति वैदेहो निमिः अपरिसङ्ख्येयाः समहीनाधिकदोषभेदादिति वृद्धजीवकः एवमनवस्थानमुपलभ्याह भगवान् क
श्यपो द्वावेव खलु रोगौ निजश्चागन्तुश्च तावनेकविस्तराविति ३

हेतुप्रकृत्यधिष्ठानविकल्पायतनार्थतः
ज्ञेया रोगा असङ्ख्येयाश्चिकित्सानां च विस्तरात् ४
अधिष्ठानद्वयं तेषां शरीरं मन एव च
मानसानां च रोगाणां कुर्याच्छारीरवत् क्रियाम् ५
धातुस्थूणात्मवैषम्यं तद्दुःखं व्याधिसंज्ञकम्
धातुस्थूणात्मसाम्यं तु तत्सुखं प्रकृतिश्च सा ६
अव्याहतशरीरायुरभिवर्धेत वा कथम्
इत्यर्थं भेषजं प्रोक्तं विकाराणां च शान्तये ७
निजागन्तुनिमित्ता च द्विविधा प्रकृती रुजाम्
नखदन्ताग्निपानीयवधबन्धाधिदेवताः ८
शापाभिचारादागन्तुर्निजा वातादिहेतवः
वातपित्तकफानां तु देहे स्थानानि मे शृणु ९
सर्वगानामपि सतां प्रायः स्थानं च कर्म च
अधोनाभ्यस्थिमज्जानौ वातस्थानं प्रचक्षते १०
पित्तस्यामाशयः स्वेदो रक्तं सह लसीकया
मेदः शिर उरो ग्रीवा सन्धिर्बाहुः कफाश्रयः ११
हृदयं तु विशेषेण श्लेष्मणः स्थानमुच्यते
आमपक्वाशयौ स्थानं विशेषात् पित्तवातयोः १२
आगन्तुर्बाधते पूर्वं पश्चाद्दोषान् प्रपद्यते
निजस्तु चीयते पूर्वं पश्चाद्वृद्धः प्रबाधते १३
तस्मादागन्तुरोगाणामिष्यते निजवत् क्रिया
निजानां पूर्वरूपाणि दृष्ट्वा संशोधनं हितम् १४
हृदि श्लेष्मानुपश्लिष्टमाश्यावं रक्तपीतकम्
तदोजो वर्धते जन्तुस्तद्वृद्धौ क्षीयते क्षये १५
मधुरस्निग्धशीतानि लघूनि च हितानि च
ओजसो वर्धनान्याहुस्तस्माद्बालांस्तथाऽऽशयेत् १६
वृद्धिर्वर्णबलौजोग्निमेधायुःसुखकारणम्
वातादिसाम्यं वैषम्यं विकारायोपकल्पते १७
तेषामपरिमेयानां विकाराणां स्वलक्षणैः
आविष्कृततमान् व्याधीन् यथास्थूलान् प्रचक्ष्महे १८
अशीतिर्वातिका रोगाश्चत्वारिंशत्तु पैत्तिकाः
विंशतिः कफजाः प्रोक्ता वातरोगान्निबोध मे १९
पादभ्रंशः पादशूलं नखभेदो विपादिका
पादसुप्तिर्वातखुडो वातगुल्फोऽनिलग्रहः २०
गृध्रसीपिण्डिकोद्वेष्टौ जानुविश्लेषभेदकौ
ऊरुस्तम्भोरुसादौ च पाङ्गुल्यं वातकण्टकः २१
गुदभ्रंशो गुदार्तिश्च वृषणाक्षेपकस्तथा
शेफःस्तम्भः श्रोणिभेदो वंक्षणानाहविड्गदौ २२
उदावर्तोऽथ कुब्जत्वं वामनत्वं त्रिकग्रहः
पृष्ठग्रहः पार्श्वशूलमुदरावेष्टहृद्द्रवौ २३
हृन्मोहो वक्षसस्तोदो वक्षोद्घर्षोपरोधकौ
ग्रीवास्तम्भो बाहुशोषः कण्ठोद्ध्वंसो हनुग्रहः २४
दन्तचालौष्टभेदौ च मूकत्वं वाग्ग्रहस्तथा
कषायास्यास्यशोषौ च घ्राणनाशो रशाज्ञता २५
बाधिर्यमुच्चैः श्रवणं कर्णशूलमशब्दता
वर्त्मसंकोचविष्टम्भौ तिमिरं शूलमक्षिषु २६
व्युदासो भ्रुव्युदासश्च शङ्खभेदः शिरोरुजा
स्फुटनं केशभूमेश्च दण्डकाक्षे पकोऽर्दितम् २७
एकाङ्गकः पक्षवधः श्रमभ्रमविजृम्भिकाः
प्रलापो वेपथुर्ग्लानी रौक्ष्यं निद्रापरिक्षयः २८
श्यावारुणावभासत्वमनवस्थानमेव च
हिक्काश्वासौ विषादश्च वन्ध्यात्वं षाण्ढ्यमेव च २९
प्रतिश्यायः शरण्यश्च प्राधान्येनानिलात्मकाः
तेष्वनुक्तेषु चान्येषु वायोः स्वं रूपमुच्यते ३०
शैत्य रौक्ष्यं लघुत्वं च गतिश्चेत्यथ कर्म च
विशदारुणपारुष्यसुप्तिसंकोचवैरसम् ३१
शूलतोदकषायत्वशौषिर्यखरकम्पनम्
सादहर्षौ कार्श्यवर्तव्यासस्रंसनभेदनम् ३२
उद्वेष्टदंशभङ्गाश्च शोषश्चानिलकर्म तत्
मधुराम्लोष्णलवणस्तत्रोपक्रम इष्यते ३३
ओषः प्लोषो भ्रमो दाहो वमथुर्धूमकाम्लकौ
अन्तर्दाहो ज्वरोऽत्यौष्ण्यमतिस्वेदोऽङ्गदाहकः ३४
त्वग्दाहः शोणितक्लेदो मांसक्लेदोऽङ्गशीर्यणम्
मांसपाकश्चर्मदलो रक्तविस्फोटमण्डले ३५
रक्तपित्तं च कोठाश्च कक्ष्या हारिद्रनीलके
कामला तिक्तवक्त्रत्वं रक्तगन्धास्यता तथा ३६
अतृप्तिः पूतिवक्त्रत्वं जीवादानं तमस्तृषा
मेढ्रपायुगलाक्ष्यास्यपाको हारिद्रमूत्रविट् ३७
इति प्रधानाः पित्तार्त्यः स्वं रूपं तस्य वक्ष्यते
लाघवं तैक्ष्ण्यमौष्ण्यं च वर्णाः शुक्लारुणादृते ३८
वैगन्ध्यं कटुकाम्लत्वमीषत्स्नेहश्च पित्तजाः
दाहोष्णपाकप्रस्वेदकण्डूकोठस्रवादिभिः ३९
विद्यात् पित्तविकारार्तं कर्मैतत् तदुपक्रमः
कषायतिक्तमधुरस्नेहस्रंसनशोषणाः ४०
स्तैमित्यं गुरुताऽङ्गस्य निद्रातन्द्रातितृप्तयः
मुखमाधुर्यसंस्रावकफोद्गारबलक्षयाः ४१
हृल्लासोऽथ मलाधिक्यं धमनीकण्ठलेपकौ ४२
आमं च गलगण्डश्च वह्निसाद उदर्दकः
श्वेतावभासताङ्गानां तथा मूत्रपुरीषयोः ४३
कफजानामसख्यानां प्रधनाः परिकीर्तिताः
स्नहशैत्यगुरुश्वेतमाधुर्यं कफलक्षणम् ४४
श्लक्ष्णता चामयोत्पत्तौ तस्य कर्माणि चक्षते
स्नेहादि चिरकारित्वं बन्धोपचयसुप्तयः ४५
विष्टम्भश्चेति तत्र ज्ञः कषायकटुतिक्तकैः
रूक्षोष्णैश्चाप्युपचरेन्मात्राकालौ विचारयन् ४६
स्नेहस्वेदोपचारौ च तेषु कर्माणि पञ्च च
वातघ्नानां तु सर्वेषामनुवासनमुत्तमम् ४७
पित्तघ्नानां विरेकश्च वमनं श्लेष्मघातिनाम्
येषां चिकित्सितस्थानमर्थे तु परिकीर्तितम् ४८
तांस्तु रोगान् प्रवक्ष्यामि न ह्यत्रैतत् समाप्यते
महागदोऽथ संन्यास ऊरुस्तम्भस्त एकशः ४९
ज्वरव्रणामगृध्रस्यः कामला वातशोणितम्
अर्शांस्यपि तथाऽऽयामो द्विविधा व्याधयस्तु ते ५०
वातासृक्श्वित्रशोथास्तु त्रिविधाः परिकीर्तिताः
ग्रहण्यक्षिविकाराश्च कर्णरोगा मुखामयाः ५१
अपस्माराः प्रतिश्यायः शोषाणां हेतवो मदाः
चतुर्विधास्ते निर्दिष्टा मूर्च्छा क्लैव्यानि चैव हि ५२
तृष्णाच्छर्दिश्वासकासगुल्मप्लीहारुचिव्यथाः
हिक्कोन्मादशिरोरोगा हृद्रोगाः पाण्डुसंज्ञकाः ५३
एते पञ्चविधाः प्रोक्ताः षड्विधानपि मे शृणु
उदावर्ता अतीसाराः सवैसर्पा अथामयाः ५४
मेहिनां पिडकाः कुष्ठं सप्त सप्तोपलक्षयेत्
शुक्रदोषाः पयोदोषा मूत्राघातोदराणि च ५५
अष्टावष्टौ वदन्त्येतान् ग्रहास्तु दश कीर्तिताः
योनिव्यापत्कृमिमेहान् विंशति विंशतिं विदुः ५६
एते समासतः प्रोक्ताश्चिकित्सास्थानहेतवः
पूर्वोद्भवनिमित्तेन योऽपरो जायते गदः ५७
तमुपद्रवमित्याहुरतीसारो यथा ज्वरे
चिकित्सितं तथोत्पत्तिं तेषामेके प्रचक्षते ५८
उपद्रवाणामित्येके पूर्वं नेत्याह कश्यपः
उभयत्रैव यद्युक्तं पानभोजनभेषजम् ५९
शान्तये तत् प्रयुञ्जीत न वर्धेते तथा ह्युभौ
यं वा तीव्रतरं पश्येद्व्याधिं विद्वान् स्वलक्षणैः ६०
तमेवोपक्रमेतादौ सिद्धिस्कामो भिषग्वरः
यो हेतुः पित्तरोगाणां रक्तजानां स एव तु ६१
शोणितं कुपितं जन्तुं क्लिश्नाति बहुभिर्मुखैः ६२
वैवर्ण्यसंतापशिरोक्षिरोगदौर्बल्यदौर्गन्ध्यतमः प्रवेशाः
वैसर्पविद्रध्युपजिह्वगुल्मरक्तप्रमेहप्रदरातिनिद्राः ६३
मन्दाग्निता स्रोतसां पूतिभावः
स्वरक्षयः स्वेदमदानिलासृक् ।
तृष्णाऽरुचिः कुष्ठविचर्चिकाश्च
कण्ड्वः सकोठाः पिडकाः सकण्डवः ६४
अन्ये च रोगा विविधा अनुक्ता
स्तेष्वादितः स्रंसनमेव पथ्यम् ।
वैसर्वपच्चात्र वदनति सिद्धं
रक्तावसेकं च विशोषणं च ६५
न त्वेव बालस्य विशोषणं हितं
नैवातिसंशोधनरक्तमोक्षणे ।
स्निग्धैः सुशीतैर्मधुरैरदाहिभिस्त
त्रोपचारोऽशनलेपसेचनैः ६६
इति ह स्माह भगवान् कश्यपः
इति रोगाध्यायः सप्तविंशतितमः २७

अष्टाविंशतितमोऽध्यायः
अथातो लक्षणाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
भगवल्ँलक्षणैर्बाला आयुष्मन्तो भवन्ति कैः
सुखिनो दुःखिनः कैः कैर्वैद्यो विद्यादनायुषः ३
कति सत्त्वानि मर्त्यानां सत्त्वानां लक्षणं च किम्
प्रशस्तं निन्दितं देहे यद्यत्तत्तधिओच्यताम् ४
पञ्चावदानवचनं श्रुत्वा प्रोवाच कश्यपः
कृत्स्नं लक्षणविज्ञानं सत्त्वं निन्दितपूजितम् ५

इह खलु कुमाराणां वृद्धजीवक स्निग्धतनुश्लक्ष्णताम्रा नखा आधिपत्याय भवन्ति स्थूला आचार्याणां राजीमन्तश्च दीर्घाश्चायुष्मतां निम्नशुक्तितुषाकृतयो दरिद्राणां रूक्षा दुःखभागिनां पुष्पिता लुण्ठानां श्वेता मण्डला अनायुषां स्फुटिता अस्वतन्त्राणां विवर्णा व्यसनिनां समुन्नता निपिण्डान्ता अल्पाः सुखभागिनां विपुलैर्नखैर्मध्यत्वमाह स्थूलाः श्वेता विषमाश्च प्रव्राजयन्ति । पादैः पीनैः सुप्रतिष्ठितैरूर्ध्वलेखैरायुष्मन्तो धनवन्तोऽधिपतयः स्वस्तिकलाङ्गलकमलशङ्खचक्रहयगजरथप्रहरणमङ्गलाङ्कितै राजानः ताम्रैः स्निग्धैः सुभगाः उत्कुटकैर्मध्यधनायुषः श्वेतैरधनाः अलेखैः परकर्मकराः बहुलेखै रोगिणः सुवृत्तश्लक्ष्णपार्ष्णिभिः सर्वगुणोपपन्ना भवन्ति हीनपार्ष्णिभिरनायुषः प्रजाहीनाः चिपिटाः पारदारिकाः । अङ्गुलीनखपादैर्दीर्घैर्दीर्घायुषो ह्रस्वैर्ह्रस्वायुषः । अङ्गुलीभिर्घनाभिर्भाग्यवन्तो गूढपर्वाभिर्भोगिनः स्थूलपर्वाभिराचार्याः लोमशाभिरधनाः । खरपरुषतनुविषमस्फुटितमंलिना पाष्णिर प्रशस्ता । उत्तरपादमुन्नतमसिरमलोमकं प्रशस्यते विषमं विपरीत च तस्कराणाम् । गुल्फौ गूढावल्पावलोमसिरौ प्रशस्येते धननाशायोल्वणौ विपुलौ परिक्लेशाय । प्रजङ्घा तन्वी प्रशस्यते स्थूला पतिपुत्रद्रव्यसुखक्षयकरी स्तेनाय च । जङ्घे चानुद्बद्धे असिरे अलोमिके प्रशस्येते शुष्कस्थूलसिरालोमशे विपरीते वैधव्यकर्यौ तु नारीणाम् । जानुनी च गूढे धन्ये । ऊरू मांसोपचितौ गूढसिरौ श्लक्ष्णौ प्रशस्येते । स्फिचौ निर्वृत्तावलम्बौ निर्व्रणाबलोमशावविषमौ प्रशस्येते शुष्कावनपत्यानां लम्बौ प्रधाननाशाय महान्तौ पौंश्चल्याय अल्पकौ शीलवताम् । कुकुन्दरौ गम्भीरावलोमशौ प्रविभक्तौ समौ प्रशस्येते लोमशौ प्रव्रज्यायै प्रदक्षिणावर्तौ तु धन्यौ विपुलौ दीर्घायुषां श्लिष्टावनायुषाम् । जघनमुरसा तुल्यं प्रशस्यत इत्येके । कुमाराणामुरस्तु विशालतरं जघनं तु कुमारीणां न तु मध्याय कल्पते । वृषणौ प्रलम्बौ बृहतौ गौरस्य कृष्णौ कृष्णस्य गौरौ रक्तस्य श्यामौ श्यामस्य रक्तौ लोमशौ मध्यौ स्मृतौ पीनौ प्रशस्येते विपरीतौ दौर्भाग्यपुस्त्वप्रजाहानिकरौ स्वल्पावनायुषां दुःखाय चैके गोखरहयाजाविकाकृती तु सुभगानामायुष्मतां च विज्ञेयौ । प्रजननं मृदु दीर्घमुच्छ्रितं बृहत्ताम्रनिर्वृत्तमणि महाकोशं महास्रोतः प्रशस्यते तनु ह्रस्वं लम्बि विकोशं श्वेतश्यावविसृतं वामावृत्तमप्रशस्तम् । मूत्रमनाविद्धमतनुकमनल्पमृजुवेगं प्रशस्यते तद्विपरीतमतिगन्धि सवेदनमत्युष्णं विवर्णमनिमित्तकालमशब्दमप्रशस्तं कन्यकानां च स्फालितमूत्रत्वमुभयोर्वाऽनपत्यकरम् । योनिः शकटाकृतिरपत्यलाभाय पीना सौभाग्याय लम्बाऽपत्यवधाय मण्डला व्यभिचरणाय उत्क्षिप्ताऽनपत्यत्वाय सूचीमुखी दौर्भाग्याय भृशविवृतसंवृतशुष्का लम्बा विषमा विलिङ्गा क्लेशलाभाय मध्यनिबिडा कन्याप्रजननाय उन्नता रमणीया मांसला पुत्रजन्मने व्यञ्जनवती च धन्या अतिलोमशा वैधव्यकरी व्यञ्जनहीना त्वयशसे पिप्लुमद्वसावती व्यभिचारप्रव्रज्यायै । तथैव लोमराज्युभयतो मध्यमागता नातिघना प्रशस्यते वैधव्यायातिस्थूला अतिस्थूलघनलोमा पौंश्चल्याय अधोजाता दौर्भाग्याय नाभिमतिवृत्ता मध्यत्वाय । कुक्षी समुन्नतौ प्रशस्येते लोमशौ प्रव्रज्यायै सिरालौ कुभोजनाय निम्नौ दारिद्र्याय समौ मध्यत्वाय दक्षिणोन्नतौ पुत्रजन्मने वामोन्नतौ विपरीतौ । ईषदुन्नतमुदरमशिथिलमकठिनमविपुलं प्रशस्यते दारिद्र्याय शुष्कम् उन्नतं भोगाय विशालविषमं विषमशीलभोगाय कल्पते भृशशुष्कमनपत्यं स्त्रियाश्चाधस्तादुपचितमसिरमतिविपुलमवलिकमनायुषे मध्यं नाभेरुपरिष्टादनायुषे एकवलिकं धन्यं द्विवलिकं बुद्धिलाभाय त्रिवलिकं सौभाग्याय चतुर्वलिकं प्रजायुषे बहुवलिकमधन्यमनायुषे भवत्युदरम् । नाभिः गम्भीरा प्रदक्षिणा वृत्तोत्सङ्गिनी लोमसिरावर्तवर्जिता प्रशस्यते गर्ताकृतिरनुन्नता सुखदुःखकरी विषमेन्नताऽनायुष्या स्वल्पाकृतिरनपत्या विदेशस्था प्रव्राजयति बृहती गम्भीरोन्नताऽऽधिपत्याय । नाभ्या पायुर्व्याख्यातः । पार्श्वे वृत्ते मांसले स्निग्धे अलोमसिरे प्रशस्येते लोमसिरे प्रव्राजयेते । पृष्ठं सममुपरिविशालमसिरमलोमकमनावर्तकं प्रशस्यते मध्ये निम्नमायुष्मतां निर्भुग्नं दुःखभागिनां संक्षिप्तमनायुषां लोमशममैत्राणामल्पापत्यानां च । लोमस्कन्धो वणिग्भारजीवी कितवो रङ्गजीवी वा शुष्कांसो दरिद्रः तावुभौ दीर्घायुषौ कदाचित् प्रव्रजेतामपि स्निग्धांसः कर्षकः पीनांसः आढ्यः कठिनांसः शूरः शिथिलांसोऽसक्तः उन्नतांसः पुमान् प्रशस्यते भ्रष्टांसा कन्या विपरीते तद्गुणहानिः । कक्षावुन्नतौ पृथुलौ पीनौ सुव्यञ्जनौ प्रशस्येते विपरीतावधन्यौ भृशलोमशौ च नारीणाम् । तथा बाहू आनुपूर्व्योपचितौ गूढारत्नी दीर्घौ जानुस्पृशौ प्रशस्येते सिराततावायुष्मतां पक्ष्मवन्तौ प्रजावताम् असिरावप्रजानां तिर्यक्सिरौ कृच्छ्रजीविनां तिलवन्तौ । प्रव्राजयतः मशकलक्षणवन्तौ कलहाय । मणिबन्धने स्थूले पुंसः प्रशस्येते तनू स्त्रियः । उभयोरेव तिस्रो यवपङ्क्तयोऽच्छिन्नाः प्रशस्यन्ते प्रथमा धन्या द्वितीया मुख्या तृतीया प्रजायुषे सर्वाश्चेदविच्छिन्नाः स्निग्धा व्यक्तगम्भीरलिखिता आधिपत्याय चतस्रो राजर्षेः पञ्च षट् शतपुत्रस्य सप्त देवनिकायानामेकाऽपि
चेदविच्छिन्ना व्यक्ता सुखायोपपद्यते । –
स्त्रीणां चातिदीर्घाश्चातिह्रस्वाश्च निन्दिताः । केशभूमिः स्निग्धा लोहिता निर्मला निर्व्रणा च प्रशस्यते ॥ मत्तगजवृषभसिंहशार्दूलहंसगतयोऽधिपतयः स्तिमितगतयो धन्याः चपलगतयश्चपलसुखदुःखलाभिनः तिर्यग्गतयस्त्वधन्याः स्खलनाश्चाङ्गविस्फोटिनश्चाप्रशस्ताः । तथा अतिगौरमतिकृष्णमतिदीर्घमतिह्रस्वमतिकृशमतिस्थूलमतिलोमशमलोमशमतिमृद्व-तिकठिनं च शरीरेष्वप्रशस्तमुच्यते । तथा बालानां रुषितरुदितस्वप्नप्रजागरक्रोधहर्षविसर्गादा
नपङ्क्तिस्थैर्यगाम्भीर्याणि युक्तानि गुणाधिकानि प्रशस्यन्त इति ६

अत्र श्लोकाः –
यथा वक्त्रं तथा वृत्तं यथा चक्षुस्तथा मनः
यथा स्वरस्तथा सारो यथा रूपं तथा गुणाः

त्रिविधं सत्त्वमुद्दिष्ट कल्याणक्रोधमोहजम्
श्रेष्ठमध्याधमत्वं च तेषां प्रोक्तं यथाक्रमम्

अष्ट सप्त त्रिधा चैषां क्रमाद्भेदः प्रवक्ष्यते
सत्त्वानां सत्त्वविज्ञानं हितमौषधकल्पने

तपःसत्यदयाशौचदानशीलरतं समम्
ज्ञानविज्ञानसंपन्नं ब्राह्मं विद्याज्जितेन्द्रियम्

प्रजावन्तं क्रियावन्तं धर्मशीलं जगत्प्रियम्
अनीर्ष्यमशठं प्राज्ञः प्राजापत्यं वदेच्छुचिम्

शौचव्रतेज्याध्ययनब्रह्मचर्यदयापरम्
जितमानमदक्रोधं वक्तारं चाषमादिशेत्

त्रिवर्गनित्यं विद्वांसं शूरमक्लिष्टकारिणम्
प्राहुरैन्द्रं महाभागमधिष्ठातारमीश्वरम्

त्यक्तदम्भभयक्रोधं प्राप्तकारिणमीश्वरम्
समं मित्रे च शत्रौ च याम्यं विद्यात् सुनिश्चितम्

अशुचिविशुचिः शूरः शीघ्रक्रोधप्रसादवान्
पुण्यशीलो महाभागो वारुणो वरुणप्रियः

स्थानमानपरीचारधर्मकामार्थलोभिनम्
क्रोधप्रसादफलदं कौबेरं प्राहुरूजितम्
श्लोकाख्यानेतिहासज्ञं गन्धमाल्याम्बरप्रियम्
नृत्तगीतोपहासज्ञ गान्धर्वं सुभगं विदुः

ये चान्येऽपि शुभा भावाः शुद्धास्ते चापि सात्त्विकाः
एतत् कल्याणभूयिष्ठं शुद्धं सत्त्वमिहाष्टधा

आरोग्यं प्रशमो रूपं ज्ञानविज्ञानमार्यता
दीर्घमायुः सुखात्यक्तं सामान्यं शुद्धलक्षणम्

ईश्वरोऽसूयकश्चण्ड आत्मपूजोपधिप्रियः
सानुक्रोशभयो रौद्रो हन्ता शूरस्तथाऽऽसुरः

क्रूरच्छिद्रप्रहारी च रोषेर्ष्यामर्षसन्ततः
वैरमांसाशनायासः कलहार्थी च राक्षसः

शुचिद्विडशुचिः क्रूरोऽभीरुर्भीषयिताऽऽविलः
मद्यमांसप्रियः शङ्की पैशाचो बहुभोजनः

तीक्ष्णमायासबहुलं निद्रालुं बहुवैरिणम्
अक्रुद्धभीरुं स्त्रैणं च सार्पं नित्यौष्ठलेहिनम्

दानशय्यात्यलङ्कारपानभोजनमैथुनैः
नित्योपेतं प्रमुदितं याक्षं विद्यात् प्रभक्षणम्

अहङ्कृता महाहारा वैरिणो विकृताननाः
विरूपा विकृतात्मानो भूतसत्त्वा निशाप्रियाः

अमषिकुत्सिताहारवाग्द्यूनं नित्यशङ्कितम्
चलं दुर्मेधसं भीरुं शाकुनं विद्ध्यनोकसम्
इत्येतद्राजसं सत्त्वं सप्तधा क्रोधकारितम्
व्यामिश्रगुणदोषं च रज एवोपलक्षयेत्

आहारमैथुनपरं स्वप्नशीलममेधसम्
अथैवं पाशवं विद्यान्मृजाऽलङ्कारवर्जितम्

भीरुमप्रज्ञमाद्यूनं कामक्रोधवशं गतम्
हिंस्रमात्मपरं विद्यान्मात्स्यं सुप्रजसं शठम्

वधबन्धपरिक्लेशशीतवातातपक्षमम्
बुद्ध्यङ्गहीनमलसं वानस्पत्यं वदेदृजुम्

इत्येतत्त्रिविधं सत्त्वं तामसं मोहसंभवम्
यच्चामेध्यमकल्याणं सर्वं तच्चापि तामसम्

सत्त्वं प्रकाशकं विद्धि रजश्चापि प्रवर्तकम्
तमो नियामकं प्रोक्तमन्योन्यमिथुनप्रियम्

यदा यच्चाधिकं यस्य स देही तेन भावितः
शुभाशुभान्याचरति फलं भुङ्क्ते तथाविधम्

समानसत्त्वा बालानां तस्माद्धात्री प्रशस्यते
उद्वेगवित्रासकरी विपरीता न शस्यते

न जीवन्त्यथ जीवन्ति कृच्छ्रा धात्रीविपर्यये
समान त्त्वा बालानां पुष्टिरायुर्बलं सुखम्

त्वगसृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः
ओजः सत्त्वं च सर्वं च तत्सारं तु निबोध मे
त्वग्रोगरहितो भोगी प्रसन्नव्यञ्जनच्छविः
सद्यःक्षतप्ररोहश्च त्वक्सारः सुतनूरुहः
रक्तसारोऽरुणाभासः —
सूत्रस्थानस्यैतावानेव भाग उपलब्धः

काश्यप
Kāshyapa
विमानस्थानम्
Vimānasthānam

विमानस्थानम्

तृतीयं विमानस्थानम्
—पृथक् पजा हिताशनम् ।
तिथिनक्षत्रदेवार्चा घ्नन्त्यवेक्षितजान् गदान्

इति ह स्माह भगवान् कश्यपः
इति कर्णायजयावष्ठीवनं विमानम्

शिष्योपक्रमणीयविमानाध्यायः
अथातः शिष्योपक्रमणीयं विमानमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

अथ खलु गुरुः शिष्यमभिगतं विद्याथिनं शिष्यगुणान्वितं विधिनोपनयेदुदगयने पुण्याहे नक्षत्रेऽश्वयुजि रोहिण्यामुत्तरास्वन्यस्मिन् वा । पुण्ये प्रागुदक्प्रवणदेशे गोमयेनाद्भिश्च गोचर्ममात्रं स्थण्डिलमुपलिप्य यथोक्तं तत्र लक्षणोल्लेखनाग्निप्रणयनपरिसमूहनपर्युक्षणब्रह्मप्रणीतास्तरणाज्योत्पवनाघाराज्यभागा-ग्निहोमान् कृत्वा पालाशीः समिधो घृताक्ता जुहोति–अग्नये स्वाहा सोमाय स्वाहा प्रजापतये स्वाहा कश्यपाय स्वाहा अश्विभ्यां स्वाहा इन्द्राय स्वाहा धन्वन्तरये स्वाहा सरस्वत्यै स्वाहा पूर्णभगाय स्वाहा अग्नये स्विष्टकृते स्वाहा इति हुत्वा ब्राह्मणं हविष्यौदनेन दक्षिणावता तर्पयित्वा देवांश्च बलिभिः गुरवे पूर्णकुम्भं दक्षिणां दत्त्वा दधिक्राव्ण इति प्राङ्मुखो दधि प्राश्य उपस्पृश्याद्भिः परिक्रम्य प्रदक्षिणं गुरोर्बाहुं संस्पृस्य ब्रूयात् असावहं
पुत्र इति पादौ संस्पृश्य ब्रूयात्–असावहं शिष्य इति ३

अथ शिष्यगुणाः – क्षान्तिर्दाक्ष्यं दाक्षिण्यमानुकूल्यंशौचं कुले
जन्म धर्मसत्याहिंसासामकल्याणज्ञानविज्ञानस्थितिविनिवेशः पाटवं यथोक्तकारित्वं ब्रह्मचर्यमनुत्सेको लोभेर्ष्याविवर्जनमिति अतोऽअन्यथा दोषैः सवर्ज्यः ४

अथ गुरुः–धर्मज्ञानविज्ञानोहापोहप्रतिपत्तिकुशलोगुणसंपन्नः सौम्यदर्शनः शुचिः शिष्यहितदर्शी चोपदेष्टा च भिषकशास्त्रव्याख्यानकुशलस्तीर्थागतज्ञानविज्ञानः कल्योऽनन्यकर्माऽव्यावृत्तः शिष्य गुणान्वितश्च । अतोऽन्यथा दौषैर्वर्ज्यः ५

अथ शिष्यानुशासनं–भोः सौम्येनानुकूलेन धार्मिकेण जितेन्द्रियेणाहूताध्यायिना च भवितव्यं सर्वनिवेदिना समानदुःखेन देशकालज्ञेन धृतिमता च भवितव्यं लोभक्रोधमोहेर्ष्याप्रहासवैरमद्यमांसस्त्रीभ्यो निवर्त्तयितव्यं गुरुशुश्रूषाऽवशेषेणाध्येतव्यं न
चाननुज्ञातेन न चानभ्यर्च्य वा गुरुमसमाप्तविद्येन वा प्रचरितव्यम् ६

अथाध्ययनविधिः – गुरुः शुचिरुद्धतहस्तः शुचौ देशे तद्वच्छिष्यायावहितायाथशब्दमोङ्कारं वा पूर्व प्रयुज्य महाव्याहृतीरनूच्य सावित्रीं च त्रिरभ्यस्याऽधीष्व भो इत्युक्ते रूपमेकं निगदेत् तं चानुपठेत् तच्छिष्यो रूपहतं संस्थाहतं च कुर्यात् ग्रहणशक्त्यवेक्षः खण्डनसंदर्शनापूर्वग्रहणानि सोढुं यथोक्तश्रवणं तस्याभ्यासो धन्यः धारणाध्यापनेनार्थतत्त्वाधिगमनं तु मोक्षाय । नानध्यायेष्वधीयीत न गुरुव्यलीकेषु न पर्वसु न सन्ध्यायां न विद्यदुल्कानभ्रवर्षाऽसूर्यदर्शनेषु न महोत्सवे न भुक्तवान् नाद्भुतदर्शने न गोब्राह्मणगुरुपरात्मपीडायां न पक्षिणीषु नाप्यष्टकासु नात्युच्चनाचप्लतक्लीबस्वरैः नामुखाद्गुरोः नालक्षितं न संदिग्धं न च क्षुत्पिपासाव्याधिवैमनस्यादियुक्तोऽभ्यसेत् ७

अधीत्यानुज्ञातः प्रचरेच्छुक्लवासाः संहतकेशोऽनुद्भ्रान्तो युगमात्रावलोकी पूर्वाभिभाषी सुमुखः । न चातुरकुलमनाहूतः प्रविशेत् प्रविशंश्च निमित्तानि लक्षयेत् । न च सर्वतोऽवलोकयेदन्यत्रातुरात् । न चातुरकुलेषु स्त्रीभिः प्रेष्याभिरपि महोपहासं गच्छेत् न चासामपूजापुरस्कृतं नाम गृह्णीयात् मान्यस्थानेनैव तु ब्रूयात् न च ताभिः संव्यवहारमतिप्रणयं वा कुर्यात् न च भर्तुरविदितं स्त्रीभ्यः किञ्चिदादद्यात् न चाविदितः प्रदिशेत् न च रहसि स्त्रिया सह ब्रूयादासीत वा न चैनां विवृतां प्रेक्षेत विहसेद्वा प्रणयन्तीं चोपेक्षेत न च प्रकाशयेत् । न चातुरकुलगुह्यं बहिः प्रकाशयेत् नातुरकुलदोषान् प्रथयेत् । दृष्टारिष्टमपि चातुरं न तत्त्वं ब्रूयात् नित्यमाश्वासयेत् । न मृत्युपरिगतशरीरमसाध्यरोगमनुपकरणं चोपगच्छेत् नौषधमक्रमेणोपदिशेत् न पराधीनं कुर्यात् । न स्वयं कृतकमौषधं प्रयुञ्जीत शरीरौषधव्याधिवयसां चावस्थान्तरज्ञः स्यात् । नित्यसंभृतधूपाञ्जनौषधः स्यात् । न चान्यभिषग्भिर्विरोधं गच्छेत् । सयुक्तश्च तैरौषधं प्रकल्पयेत् । प्रगल्भो निःशङ्क उपस्थितपदे विस्पष्टं विचित्रं मृदूपनयवद्ग्राहकमविरुद्धं धर्म्यं सदा ब्रूयात् । प्रजानां हि स्वस्तिकामो
भिषगिह चामुत्र च नन्दत इति ८

अथान्यो भिषगभिषदेत्तस्मै क्षमेत साम्ना चानुनयेत् । पुनः पुनः कुत्सयन्तं तु विगृह्यादितो ग्रन्थेनाऽवकिरेत् न चास्य वाक्यावकाशं दद्यात् । ब्रुवतोऽपि प्रोक्तं च ब्रूयात् नैतदेवमिति । परिहसेत् अपशब्दांश्चास्य विगृह्णीयात् अर्थे कृच्छ्रे चैनमवतारयेत् न चैनमवशः
परुषयेत् स्तोत्रगर्भैरेवैनं धर्षयेदिति ९
भो भिषक् आयुः किं किमायुर्वेदस्यायुर्वेदत्वं किं चायुरित्युच्यते कत्यङ्गश्चायुर्वेदः कथं चाध्येयः किमर्थं चाध्येय किञ्चास्याद्यं तन्त्रं कश्चैषां धुर्यः कतमं च वेदं श्रयति किं नित्योऽनित्यः किमाश्रयश्चायुर्वेदः कानि चैषां सु लक्षणानि तत्प्रकृतीनां तिसृणां च वेदनानामतीतवर्त्तमानानागतानां कतमां भिषक् चिकित्सति किं चास्यायुर्वेदसाधनं किं पुण्योऽपुण्यः इति पृष्टो वा प्रतिब्रूयात् – भोः तत्रायुर्जीवितमित्युच्यते ॥ विद ज्ञाने धातुः विदॢ लाभे च आयुरनेन ज्ञानेन विद्यते ज्ञायते विन्दते लभ्यते न रिष्यतीत्यायुर्वेदः कत्यङ्गश्चायुर्वेद इति अष्टाङ्गः तस्य कौमारभृत्यं कायचिकित्सा शल्याहर्तृकं शालाक्यं विषतन्त्रं भूततन्त्रमगदतन्त्रं रसायनतन्त्रमिति ॥ अत्राह–अङ्गान्येतानि शरीरमस्य कतमत् यदाश्रयन्त्यङ्गानि अङ्गानि हि शरीराश्रयाणि भवन्ति अत्राह तस्य शरीरं धर्मः धर्माश्रयं ह्यस्मिन् कर्म सिध्यतीति ॥ कथं चोत्पन्न इति आहअथर्ववेदोपनिषत्सु प्रागुत्पन्नः स्वयंभूर्ब्रह्मा प्रजाः सिसृक्षुः प्रजानां परिपालनार्थमायुर्वेदमेवाग्रेऽसृजत् सर्वंवित् ततो विश्वानि भूतानि । ततस्तं पुण्यमायुर्वेदमनन्तमायुषो वर्धनमाधारमाप्यायनममृतमश्विभ्यां कः प्रददौ ताविन्द्राय इन्द्र ऋषिभ्यश्चतुर्भ्यः कश्यपवशिष्ठात्रिभृगुभ्यः ते पुत्रेभ्यः शिष्येभ्यश्च प्रददुर्हितार्थं धर्मार्थकाममोक्षशक्तिपरिपालनार्थं चेति एवमुत्पन्नः ॥ कथं चाध्येय इति गुरोरनुमतेनेति ॥ केन चाध्येय इति ब्राह्मणक्षत्रियवैश्यशूद्रैरायुर्वेदोऽध्येयः ॥ तत्रार्थपरिज्ञानार्थं पुण्यार्थं चात्मनः प्रजानुग्रहार्थं ब्राह्मणैः प्रजासंरक्षणार्थं क्षत्रियैः वृत्त्यर्थं वैश्यैः शुश्रूषार्थमितरैः धर्मार्थं च सर्वैः । सुखजीवितदानं हि सर्वधर्मस्याधिकं ब्रुवते ततश्च पुण्य एवमायुर्वेदः । सुखजीवितदानतुष्टाश्च देहिनः कृतज्ञाय संविभजन्ति पुरःस्तुवन्ति च तदस्य धर्मार्थकामनिर्वर्तकं भवतीति किमर्थं चाध्येय इत्यत्रोक्तम् ॥ किंचास्याद्यं
तन्त्रमिति

कौमारभृत्यमष्टानां तन्त्राणामाद्यमुच्यते
आयुर्वेदस्य महतो देवानामिव हव्यपः

अनेन हि संवर्धितमितरे चिकित्सन्ति । बालस्य हृद्यमौषधमन्यत् प्रमाणमन्य उपक्रमोऽन्ये च विशेषाः ॥ कं च वेदं श्रयति अथर्ववेदमित्याह तत्र हि रक्षाबलिहोमशान्ति — प्रतिकर्मविधानमुद्दिष्टं विशेषेण तद्वदायुर्वेदे तस्मादथर्ववेदं श्रयति । सर्वान् वेदानित्येके पद्यगद्यकथ्यगेयविद्याश्रयादिति न चैतदेवमायुर्वेदमेवाश्रयन्ते वेदाः । तद्यथा–दक्षिणे पाणौ चतसृणामङ्गुलीनामङ्गुष्ठ आधिपत्यं कुरुते न च नाम ताभिः सह समतां गच्छति एकस्मिंश्च पाणौ भवति एवमेवायमृग्वेदयजुर्वेदसामवेदाथर्ववेदेभ्यः पञ्चमो भवत्यायुर्वेद इति । किं कारणं यथाहि वेदेषु सतत ब्रह्मज्ञैस्त्रिवर्गसंयुक्तं पुरुषनिश्रेयसं चिन्त्यते एवमेवास्मिन्नपि वेदे निदानोत्पत्तिलिङ्गारिष्टचिकित्सितैः सततमेव हितसुखकरं त्रिवर्गसारभूतं पुरुषनि श्रेयसं चिन्त्यते तद्यथा च विविधविज्ञानज्ञानोपपन्ना भाष्यवचनविदोऽष्टाङ्गया बुद्ध्योपपन्ना लङ्घनप्लवनस्थानासनगमनागमनसमर्था अपि च नाम मनुष्या अदेशज्ञानवन्तो नित्यमेव देशज्ञं दैशिकमन्वयुरेवमेव खलु वेदनासु शिक्षाकल्पसूत्रनिरुक्तवृत्तच्छन्दोयज्ञसंस्तरज्ञानसमुच्चयविशेषज्ञा आयुर्वेदमेवानुधावन्ति तस्माद्ब्रूमः ऋग्वेदयजुर्वेदसामवेदाथर्ववेदेभ्यः पञ्चमोऽयमायुर्वेदः । यतश्च व्याधितस्यारोग्यमरोगस्य च शेषाः क्रिया धर्मार्थकाममोक्षेषु निर्वर्तन्ते ॥ किं नित्योऽनित्य इति कुतः आर्षवचनप्रामाण्यादविनाशित्वात् साध्यासिद्धेर्देशकालसामान्यादिति ॥ किमाश्रय इति वातपित्तकफाश्रयः । ते च द्वे द्वे देवते श्रिताः मारुतमाकाश च वातः श्रितः अग्निमादित्यं च पित्तं सोमं वरुणं च कफः तास्तेषां देवताः । धर्मार्थकामानित्येके सत्त्वरजस्तमांसीत्येके साध्ययाप्यासाध्यत्वमित्येके ॥ कानि चैषां
स्वलक्षणानि तत्प्रकृतीनामित्यत्रोच्यते ।
तत्र श्लेष्मा स्निग्ध —
विमानस्थानस्यैतावानेव भाग उपलब्धः

काश्यप
Kāshyapa
शारीरस्थानम्
Shārīrasthānam
Chapter 1 2 3 4
शारीरस्थानम्

चतुर्थं शारीरस्थानम्
— तस्मात् पञ्चैव खलु ऋतवोऽपि तदनुपपत्तेर्नास्ति षट्त्वमिति अत्रोच्यते – रसार्थमेषां षट्त्वं रसविमाने प्रोक्तम् ॥ — स कः कलासमूहं कालं द्विविधमकल्पयत्–शुभं चाशुभं च तौ तुल्यप्रमाणौ भूतवर्तमानानागतविभागात् । तत्र शुभ उत्सर्पिणी अशुभोऽवसर्पिणी ते पुनरुभे त्रिविधे युगभेदेन–आदियुगं देवयुगं कृतयुगमित्युत्सर्पिणी त्रेताद्वापरकलियुगान्यवसर्पिणी तयोरानन्त्यात् परिमाणं नोच्यते । तत्रादियुगदेवयुगेऽचिन्त्यप्रमाणोद्भवे कर्मभोजनपानगतिवीर्यायुषि अनिर्देश्ये । कृतयुगे तु नारायणं नाम देहिनां संहननं शरीरमुत्पद्यते तस्मात्तदाहुः – तस्य घनं निष्कपालं शिरः अस्थीनि च सत्त्वास्पदान्याकृतयो वज्रगरीयस्यः हृदि चास्य महासिरा दशैव त्वगस्य शिरश्चाभेद्यमच्छेद्यं सर्वतोऽस्य शुक्रं योजनं चास्योत्सेधः सप्तरात्रं चास्य गर्भवासः सद्योजातस्य चास्य सर्वकर्माणि शक्यानि भवन्ति न चैनं क्षुत्पिपासाश्रमग्लानिशोकभयेर्ष्याऽधर्मचिन्ताधिव्याधिजरा बाधन्ते न च स्तन्यवृत्तिर्भवति धर्मतपोज्ञानविज्ञानस्थितियुक्तिश्चाति भवति । तस्य पलितोपमार्धमायुरुत्कृष्टमाहुरिति ॥ अथ त्रेतायामर्धनारायणं नाम देहिनां संहननं शरीरमुत्पद्यते । तस्यैकास्थिप्रायं शरीरमाकुञ्चनप्रसारणवर्ज्यं गर्भवासोऽस्याष्टमासिकः स्तन्यजीविका च द्वे शिरस्कपाले पार्श्वयोरेकैकः सन्धिः उरसि च त्र्यस्थि पृष्ठं कोष्ठस्य सिरा विंशतिः शुक्रं च पलितोपमचतुर्भागमायुरुत्कृष्टं पूर्वाच्चार्धगुणावसर्पणमिति ॥ अथ द्वापरे कैशिकसंहननं शरीरमुत्पद्यते केशमात्राणुसुषिरास्थि अतिक्षिप्तसन्धि महाहस्तिबलः सिरानुवेष्टितगात्रः गात्रसन्धिषु चास्य शुक्रं पलितोपमाष्टभागमायुरुत्कृष्टं पूर्वाच्चा र्धगुणावसर्पणमिति ॥
अथ कलियुगे प्रज्ञप्तिपिशितं संहननं शरीरमुत्पद्यते । तस्य षष्टिश्च त्रीणि चास्थिशतानि भृशसुषिराणि मज्जपूर्णानि नलवदासन्नवधानि चत्वारि मांसपेशीशतानि सप्त सिराशतानि हृदयमूलानि नव स्नायुशतानि मस्तुलुङ्गमूलानि द्वे धमनीशते तालुमूले सप्तोत्तरं मर्मशतं त्रीणि महामर्माणि दश प्राणायतनानि पञ्च हृदयानि त्रीणि सन्धिशतान्येकाशीतानि चतुर्दश कण्डराः कूर्चा द्विचत्वारिंशत् षट् त्वचः सप्त धातवः स्रोतांसि द्विविधानि जातस्य पृथग्दन्तजन्म दशमासं गर्भवासः संवत्सरादूर्ध्वं प्रतितिष्ठति वाचं च विसृजति तस्य
वर्षशतमायुरुत्कृष्टं सुखदुःखाधिव्याधिजरामृत्युपरिगतः—
सर्वगात्रः क्षुत्पिपासागौरवश्रमशैथिल्यचित्तेर्ष्यारोषानृतलौल्यपरिक्लेशमोहवियोगप्रायः संसारगोचरः आबाधबहुल इति द्वे द्वे युगे
सत्त्वरजस्तमोन्वये विद्धि । इति पुरुषस्य सृष्टिकारणमुक्तम् ॥

समुदयकारणं तु ब्रूमः – अव्यक्तान् महान् महतोऽहङ्कारः अहङ्कारात् खादीनि ता अष्टौ भूतप्रकृतयः । चक्षुः श्रोत्रं घ्राणं रसनं स्पर्शनमिति पञ्चेन्द्रियाणि तान्येव बुद्धीन्द्रियाणि हस्तौ पादौ जिह्वा गुद उपस्थ इति पञ्च कर्मेन्द्रियाणि शब्दस्पर्शरसरूपगन्धाः पञ्चेन्द्रियार्थाः अतीन्द्रियं तु मनः इत्येते षोडश विकाराः महदादि सर्वं क्षेत्रमव्यक्तमाचक्षते क्षेत्रज्ञं तु शाश्वतमचिन्त्यमात्मानम् । अस्य लिङ्गानिचेतनाहङ्कारप्राणापानोन्मेषनिमेषसुखदुःखेच्छाद्वेषस्मृतिधृतिबुद्धयः तदभावे मृताख्या । शरीरेन्द्रियात्मसत्त्वसमुदयं पुरुषमाचक्षते आत्मानमेके । ज्ञानस्याभावो भावश्च मनसो लक्षणं तस्यैकत्वमणुत्वं च द्वौ गुणौ प्रयत्नज्ञानायौगपद्यादेकं पृथक् । समनस्कमिन्द्रियमर्थग्रहणसमर्थं भवति । खं वायुस्तेज आपः पृथिवीति पञ्च महाभूतानि शरीरहेतुरुच्यते । शब्दादयस्तेषां गुणाः । गुनवृद्ध्याऽवस्थितानि महाभूतानि दिगात्मा मनः कालश्च द्रव्याणि । द्रव्याश्रया गुणाः । खस्याप्रतिषेधो लिङ्गं वायोश्चलनं तेजस औष्ण्यम् अपां द्रवत्वं पृथिव्याः स्थैर्यम् । मनःषष्ठानामिन्द्रियाणां त्रीणि त्रीणि विप्रकृष्टसन्निकृष्टवृत्तीनि । मनश्चक्षुः श्रोत्रमिति विप्रकृष्टवृत्तीनि घ्राणं रसनं त्वगिति सन्निकृष्टवृत्तीनि । तत् सर्वं स्पर्शनलक्षणमाहुः तद्यथा–पुरुषः सर्वतोगवाक्षं प्रासादमभिरूढस्तांस्तानर्थान् गवाक्षैरालोचयत्येवमयमात्मा शरीरस्थ इन्द्रियैरनुपहतैर्मनः
असमानगोत्रीयशारीराध्यायः
प्राणस्तु बीजधातुं हि विभजत्यस्थिसंख्यया
प्रविष्टमात्रं बीजं हि रक्तेन परिवेष्ट्यते

शुक्रादस्थ्यस्थितो मांसमुभाभ्यां स्नायवः स्मृताः
सर्वेन्द्रियाणि गर्भस्य सर्वाङ्गावयवास्तथा

तृतीये मासि युगपन्निर्वर्तन्ते यथाक्रमम्
प्रस्पन्दते चेतयति वेदनाश्चावबुद्ध्यते

सूक्ष्मप्रव्यक्तकरणस्तृतीये तु मनोधिकः
चतुर्थे स्थिरतां याति गर्भः कुक्षौ निरामयः

गुरुगात्रत्वमधिकं गर्भिण्यास्तत्र जायते
मांसशोणितवृद्धिस्तु पञ्चमे मासि जीवक

गर्भिणी पञ्चमे मासि तस्मात् कार्श्येन युज्यते
बलवर्णौजसां वृद्धिः षष्ठे मातुः श्रमोऽधिकः

सर्वधात्वङ्गसंपूर्णो वातपित्तकफान्वितः
सप्तमे मासि तस्माच्च नित्यक्लान्ताऽत्र गर्भिणी

अष्टमे गर्भिणीगर्भावाददाते परस्परम्
ओजो रसवहायुक्तेः पूर्णत्वाच्छलयत्यपि

तस्मात्तत्र मुहुर्ग्लाना मुहुर्हृष्टा च गर्भिणी
अत्ययं चाप्नुते तस्मान्न मासो गण्यतेऽष्टमः

नवमादिषु मासेषु जन्म चास्य यथाक्रमम्
पूर्वदेहकृतं कर्म गर्भावाससुखासुखम्

जातः स्मरति तावच्च यावन्नोपैति जीविकाम्
इति ह स्माह भगवान् कश्यपः
इति शारीरेऽसमानगोत्रीयं नाम
गर्भावक्रान्तिशारीराध्यायः
अथातो गर्भावक्रान्तिं शारीरं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

जीवस्तु खलु भो सर्वगतत्वादीश्वरगुणसमन्वितः पूर्वशरीराच्चावक्रामति परशरीरं चोपक्रामति युगपत् न कदाचिदपि बीजशोणितवाय्वाकाशादिमनोबुद्धिभिर्वियुक्तपूर्वः सर्वगतत्वाच्च न कस्यांचिद्योनौ
नोपपद्यते स्वकर्मफलानुभवादिति ३

गर्भस्य पुनर्भगवन् के शरीरावयवा आकाशान्निर्वर्तन्ते के वायोः के तेजसः केऽद्भ्यः के पृथिव्याः के चास्य मातृतः संभवतः संभवन्ति के चास्य पितृतः किमात्मनः किंच सात्म्यतः किंच रसतः किंच सत्त्वतः कुत्र चैते सर्वभावा अन्वायत्ता भवन्ति कं चार्थमवेक्षन्ते इति पृष्टो
भगवान् कश्यप उवाच –
गर्भस्य खलु भो शब्दश्च श्रोत्रं च लाघवं च सौक्ष्म्यं च विवेकश्च मुखं च कण्ठश्च कोष्ठं चाकाशात्मकानि भवन्ति स्पर्शश्च स्पर्शनं च रौक्ष्यं च प्रेरणं च धातुव्यूहनं च प्राणश्चापानश्च शरीरचेष्टा च वाय्वात्मकानि भवन्ति रूपं च चक्षुश्च प्रकाशश्च पित्तं च पक्तिश्चोष्मा च शरीरवृद्धिश्च तैजसानि भवन्ति रसश्च रसनं च शैत्यं च मार्दवं च द्रवश्च स्नेहश्च क्लेदश्च श्लेष्मा च मेदश्च रक्तं च मांसं च शुक्रं चाप्यानि भवन्ति गन्धश्च घ्राणं च गौरवं च स्थैर्यं च मूर्तिश्च पार्थिवानि भवन्ति तस्मात् पुरुषो लोकसंमितः प्रोच्यते । लोहितं च मांसं च नाभिश्च हृदयं च क्लोम च यकृच्च प्लीहा च वृक्कौ च बस्तिश्च पुरीषधारणं चामाशयश्चोत्तरगुदश्च क्षुद्रान्त्रं च स्थूलान्त्रं चेति मातृजानि केशाश्च रोमाणि च श्मश्रूणि च नखाश्च दन्ताश्चास्थीनि च सिराश्च स्नायवश्च धमन्यश्च शुक्रं चेति पितृजानि आयुश्चात्मज्ञानं च मनश्चेन्द्रियाणि च प्राणापानौ च धारणं च प्रेरणं च चाकृतिश्च स्वरवर्णोपचयविशेषाश्च सुखदुःखे इच्छाद्वेषौ च स्मृतिश्चाहङ्कारश्च प्रयत्नश्चावस्थान्तरगमनं च सत्त्वं च नानायोनिषूपपत्तिश्चेत्यात्मजानि आरोग्यं चोत्थानं च संतोषश्चेन्द्रियप्रसादश्च स्वरवर्णबीजसंपच्च मेधा च प्रहर्षभूयिष्ठता चेति सात्म्यजानि शरीराभिनिर्वृत्तिश्च शरीराभिवृद्धिश्च प्राणाश्च बन्धश्च वृत्तिश्च पुष्टिश्चोत्साहश्चेति रसजानि । कल्याणरोषमोहात्मकं तु सत्त्वं त्रिविधमुक्तमग्रे तत्रौपपादिकं सत्त्वं मनश्च लयि नित्यं शुभाशुभमिश्रभावानां स्पर्श इत्युच्यते । ते सर्वभावाः स्वकर्मण्यायत्ताः कालं चावेक्षन्ते । वायुर्हि कालसहितः शरीरं विभजति संदधाति चेति ४

तत्र श्लोकाः –
शोणिताद्धृदयं तस्य जायते हृदयाद्यकृत्
यकृतो जायते प्लीहा प्लीह्नः फुप्फुसमुच्यते ५
परस्परनिबन्धानि सर्वाण्येतानि भार्गव
तेषामधस्ताद्विपुलं स्रोतः कुण्डलसंस्थितम् ६
जरायुणा परिवीतं स गर्भाशय उच्यते
आमपक्वाशयौ तस्मिन्नन्नपानाश्रयौ गुदः ७
तस्मात् संजायते बस्तिः परिष्यन्दाच्च पूर्यते
धमनीमुखसंस्थाने स्रोतसी चाप्यधः स्मृते ८
विण्मूत्रकृमिपक्वामकफपित्ताशयाः पृथक्
सन्त्येते देहिनां कोष्ठे स्त्रिया गर्भाशयोऽष्टमः ९
शुक्रमज्जास्थि पितृतो मातृतो मांसशोणितम्
षट्कोशं प्रवदन्त्येके देह — १०
शरीरविचयशारीराध्यायः
द्वात्रिंशत्तु मता दन्तास्तावन्त्यू खलिकानि च
पाणिपादाङ्गुलास्थीनि षष्टिः स्युर्विंशतिर्नखाः
पाणिपादशलाकास्तु विंशतिः परिकीर्तिताः
पाणिपादशलाकानामधिष्ठानचतुष्टयम्
द्वे पार्ण्योरस्थिनी कूर्चाश्चत्वारः पादयोः स्मृताः
द्वावेव हस्तमणिकौ चत्वार्याहुररत्निषु
जान्वस्थिनी द्वे संख्याते चत्वार्यस्थीनि जङ्घयोः
द्वावूरुनलकौ द्वे च ख्याते जानुकपालिके
द्वावंसावंसफलकावपि द्वावेव चाक्षकौ
द्वे बाहुनलके द्वे द्वे श्रोणितालूषके तथा
एकं जत्रु भगास्थ्येकं ग्रीवा पञ्चदशास्थिकी
भार्गवाऽस्थीनि पृष्ठयानि चत्वारिंशच्च पञ्च च
चतुर्दशास्थीन्युरसि हन्वस्थ्येकं तु निर्दिशेत्
शिरसस्तु कपालानि चत्वार्याहुर्मनीषिणः
चतुर्विंशतिः पार्श्वे च तावन्ति स्थालकानि च
चतुर्विंशतिरेवाहुः स्थालकार्बुदकानि च
द्वौ शङ्खौ परिसंख्यातौ द्वे हनुमूलबन्धने
ललाटनासिकागण्डकूटास्थ्येकं विनिर्दिशेत्
इत्यस्थिसंख्या सामान्याद् वृद्धिह्रासौ निमित्तजौ
दशैवायतनान्याहुः प्राणानां तानि मे शृणु
मूर्धाऽथ हृदयं बस्तिः कण्ठौजः शुक्रशोणितम्
शङ्खौ गुदं ततस्त्रीणि महामर्माणि चादितः
नाभिः प्लीहा यकृत् क्लोम हृद्वृक्कौ गुदबस्तयः
क्षुद्रान्त्रमथ च स्थूलमामपक्वाशयौ वपा
कोष्ठाङ्गानि वदन्ति ज्ञाः प्रत्यङ्गानि निबोध मे
अक्षिणी नासिके कर्णौ स्तनावोष्ठौ कुकुन्दरौ
हस्तौ पादौ भ्रुवौ कूटौ बाहुजङ्घोरुपिण्डिकाः
सृक्किणी कर्णशष्कुल्यौ कर्णपुत्राक्षितारके
वृषणौ दन्तवेष्टौ च शङ्खकावुपजिह्विके
दन्तलोहाधिमूलानि द्वे द्वे सर्वाणि निर्दिशेत्
बस्तिर्बस्तिशिरः शेफः पृष्ठं सचिबुकोदरम्
ललाटमास्यं गोजिह्वा शिरो हृदयमेकशः
पाणिपादतलेष्वेव चत्वारि हृदयानि तु
शाखाहृदयसंज्ञानि पञ्चमं चेतनाश्रयम्
अक्षिबन्धानि चत्वारि विद्याद्विंशतिरङ्गुलीः
स्रोतांसि द्विविधान्याहुः सूक्ष्माणि च महान्ति च
महान्ति नव जानीयाद् द्वे चाधः सप्त चोपरि
नाभिश्च रोमकूपाश्च सूक्ष्मस्रोतांसि निर्दिशेत्
हृदयात् संप्रतायन्ते सिराणां दश मातरः
ऊर्ध्वं चतस्रो द्वे तिर्यक्चतस्रोऽधोवहाः सिराः
व्याप्नुवन्ति शरीरं ता भिद्यमानाः पुनः पुनः
पर्णानामिव सीवन्यः सरणाच्च सिराः स्मृताः
यथा काष्ठमयं रूपं तृणरज्ज्वोपवेष्टितम्
भवेल्लिप्तं मृदा बाह्यं तथेदं देहसंज्ञकम्
अस्थीनि स्नायुबद्धानि स्नायवो मांसलेपनाः
सिराभिः पुष्यते नित्यं तस्य सर्वं त्वचा ततम्
सन्ततं कर्णमूलाभ्यां धमनीनां शतं शतम्
तासु नित्योऽनिलस्तिष्ठन्नग्नीषोमौ बिभर्त्यधि

साग्रे शतसहस्रे द्वे बहिरन्तश्च कूपकाः
रोमकूपानि तावन्ति जातान्येकैकशो यदि

वृद्धिह्रासौ निषेकाच्च स्वभावाद्विश्वकर्मणः
चतुर्भागविहीनानि स्त्रीणां विद्धि स्वभावतः

कूपके कूपके चापि विद्यात् सूक्ष्मं सिरामुखम्
प्रस्विद्यमानस्तैः स्वेदं विमुञ्चति सिरामुखैः

जातस्य वर्धमानस्य यूनो वृद्धस्य देहिनः
स्वेनाञ्जलिप्रमाणेन द्रवाणि प्रमिमीमहे
मज्जमेदोवसामूत्रपित्तश्लेष्माणि विट् तथा
एकद्वित्रिचतुष्पञ्चषट्सप्ताञ्जलिकाः स्मृताः

शोणिताञ्जलयोऽष्टौ तु नव पक्तिरसस्य तु
दशैवाञ्जलयः प्रोक्ता उदकस्य त्वगाश्रयाः

तेनोदकेन पुष्यन्ति धातवो लोहितादयः
अतीसारे पुरुषं च ततो मूत्रं प्रवर्तते

व्रणे लसीका पूयं च पिच्छा चातः प्रवर्तते
भवन्ति तस्मिन् दुष्टे च दद्रुकण्डूविचर्चिकाः

त्वगामयाः किलासानि पामा केशवधस्तथा
तदग्निमारुतोद्विद्धं पकैः स्वेद उच्यते

श्लेष्मणस्तु प्रमाणेन प्रमाणं तुल्यमोजसः
शुक्रस्यार्धाञ्जलिर्देहे मस्तिष्कस्य तथैव च

एतत् प्रमाणमुद्दिष्टमुत्कृष्टं सर्वमेव तु
प्रज्ञाप्तपिशितीयस्य ततो मध्यं ततोऽधमम्

शुक्रं तु षोडशे वर्षे संपूर्णं संप्रवर्तते
अन्योन्यसंश्रयाण्याहुरन्योन्यगुणवन्ति च

महाभूतानि दृश्यानि दार्वग्नितिलतैलवत्
शरीरसंख्या निर्दिष्टा यथास्थूलं प्रकारतः

देहावयवसूक्ष्मं तु भेदानन्त्यं सुदुर्वचम्

इति ह स्माह भगवान् कश्यपः
इति शारीरस्थाने शरीरविचयं नाम शारीरम्
जातिसूत्रीयशारीराध्यायः
अथातो जातिसूत्रीयं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

जातौ जातौ खलु स्वभाव एवाकृतिभेदनिर्वर्तयिता भवति । स्वभावतो ह्यस्य वायुपरमाणवः संयोगविभागचेष्टाधिकारा आकुञ्चनप्रसारणकोष्ठाङ्गप्रत्यङ्गधातुचेतनास्रोतांसि विभजान्त । समत्यके धातुरिव निषिक्तः पुरुषः पुरुषमभिनिर्वर्तयति गौर्गामश्वाऽश्वमेवमादि । नृणामपि तु मध्ये गर्भनिर्वृत्तिः । तत्र द्वयोर्दम्पत्योः स्वभावात् स्वकर्मपरिणामाद्वा प्रजाभिवृद्धिर्भवति तौ धन्यौ अतोऽन्यथा भिषजितव्यौ । स्नेहस्वेदवमनविरेचनास्थापनानुवासनैः क्रमश उपचरेन्मधुरौषधसिद्धाभ्यां क्षीरघृतपुष्टं पुरुषं स्त्रियं तु तैलमांसाभ्यामित्येके सात्म्यैरेवेति प्रजापतिः ३
यथा च पुष्पमध्ये फलमनिर्वृत्तं सुसूक्ष्ममस्ति न चोपलभ्यते यथा चाग्निर्दारुषु सर्वगतः प्रत्नाभावान्नोपलभ्यते तथा स्त्रीपुंसयोः शोणितशुक्रे कालावेक्षे स्वकर्मावक्षे च भवतः । षोडशवर्षयोर्हि शोणितशुक्रयोर्मध्ये प्रभवतः अर्वागपि यदाहारविशेषादारोग्याश्च पूर्णे भवत
इति परिषत् ४

रजस्वलायाश्चेत् प्रथमेऽहनि गर्भ आपद्येत तं वातगर्भमाचक्षते विफलं वातपुष्पमिवोद्भिदानां द्वितीयेऽहनि चेत् स्रंसते च्यवते वा तृतीयेऽहनि सूतिकासने म्रियते न वा दीर्घायुर्भवति हीनाङ्गश्च जायते अत ऊर्ध्वमृतुर्द्वादशाहं ब्राह्मणीनामेकादशाहं क्षत्रियाणां दशाहं वैश्यानां नवरात्रमितरासाम् । ऋतुर्बीजकालमवेक्षत इत्याहुर्महर्षयः । अत ऊर्ध्वमकालजमाहुः । अकालजं हीनं दुर्बलमस्थिरमदृढमपीनभङ्गुरं
धान्यमिव भवति ५

युग्मेष्वहःसु पुत्रकामोऽन्यत्र कन्यार्थी हर्षितस्तृप्तोऽनुरुद्धः स्त्रियमुपेयादिति सिद्धम् ६

अथ शुद्धस्नातां स्त्रियं चतुर्थेऽहनि स्नानगृहे श्वेतेन एवाऽन्येन वाससाऽवगुण्ठ्यानवलोकयन्ती शुचिर्देवगृहं प्रविश्योद्घटाग्निं प्रज्वलन्तं घृताक्षतेनाभ्यर्च्य ब्राह्मणमीश्वरं विष्णुं स्कन्दं च संप्रेक्ष्याभिवाद्य निष्क्रम्य सूर्याचन्द्रमसाविति न तु प्रेतपिशाचरक्षांसि शुद्धस्नातमात्रा हि स्त्री यं वा पश्यति मनसा वाऽभिध्यायति तादृशाचारवपुषं प्रायेण जनयति तस्माद्देवगोब्राह्मणगुरुवृद्धाचार्यान् सतः पश्येत् कल्याणमनाश्च स्यात् । न तु सन्ध्ययोः स्नानं मैथुनं वोपेयान्नान्यमना इति

तत ऋत्विक् पुत्रीयामिष्टिं निर्वपेत् । सिद्धमांसौदना वातघ्नौ वाज्यभागौ यवमयः पुरोडाशोऽष्टाकपालो व्रीहिमयश्चरुः उभौ वागायुर्युतौ प्रजायेते न त्वदे — क्षे आब्रह्मन्ब्राह्मण इति यजमानभागमभिमन्त्र्य शेषं दम्पती प्राश्नीयाताम् । श्वेत ऋषभोऽश्वो वा हिरण्यं वा भिषजे सैव दक्षिणा सैवमनाहिताग्नेः शालाग्नौ नित्यं होमं हुत्वा तेनैव मन्त्रेण हुतशेषं तौ प्रा । शयनीये मृदुस्वास्तीर्णोपहितेऽस्यै भर्ता —त्र लक्ष्मणामद्भिरालोड्य सोमः पवत इत्येतेन शतजप्तेन सावित्र्या व्याहृतिभिः अपो देवीरुपसृज इति मन्त्रेण नस्यं दत्त्वा वामदेव्यं जपित्वा दक्षिणेन पार्श्वेन स्त्रियं शाययीत वामपार्श्वेन पुमानूर्ध्वोत्तरेणोपशयीत । शनैः प्रजार्थं चाचरेत् । बीजेऽवसिक्ते विधार्यावसर्पेत् । शीतोदकेन च शौचं कुर्यात् । तत ऊर्ध्वमग्निकर्मप्रतापायासव्यायामशोकादिवर्जनमिति ८

सा चेदिच्छेद् गौरमोजस्विनं शुचिमायुष्मन्तं पुत्रं जनयेयमिति तस्या एवं शुद्धस्नानात् प्रभृति शुक्लयवसक्तूनां मधुघृताभ्यां श्वेतायाः श्वेतपुंवत्साया गोः क्षीरेण संसृज्य मन्थं राजते पात्रे कांस्ये वा सदा पाययेत् शालिगौरयवक्षीरदधिघृतप्रायं च काले मात्रया अश्नीयात् पुष्पाभरणवासांसि च शुक्लानि बिभृयात् सायं प्रातश्च श्वेतमश्वं वृषभं वा पश्येत् सौम्यहितप्रियकथाभिरासीत अनुकूलपरिवारा च स्यादिष्टमपत्यं जनयति । या तु श्यामं लोहिताक्षं व्यूढोरस्कं पुत्रमिच्छेत् कृष्णं वा तत्र तादृगुपचारो भोजनवसनकुसुमालङ्काराणां तादृग्देशानुचिन्तनं चेति । यवागूं तु कन्याथिनीभ्योदद्यात् क्षीरोदकतिलसिद्धास्तु वर्ण्याः । गौरश्यामकृष्णेभ्योऽन्ये वर्णा निन्दिताः ९

आहारश्चतुर्विधः षड्रसाश्रयो विंशतिविकल्पोगुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छि-लश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवविकल्पात् तेन त्वगादयः शुक्रान्ता धातव आप्यायन्ते । तेषां समानं वर्धनमविरुद्धाशनम् । वातादीनां तु धातूनामन्ये धातव आप्यायिता भवन्ति भुज्यमानं मांसं मांसस्य शोणितं शोणितस्येति तदधर्मभयादनिष्टं तद्गुणैस्तु शुचिभिराहारैः क्षीणधातूनाप्याययेत् । शुक्रक्षये क्षीरघृतोपयोगो मधुरस्निग्धजीवनानां चान्येषामपि द्रव्याणामविदाहिनां प्रशस्यते मूत्रक्षये पुनरिक्षुरसवारुणीमण्डद्रवमधुराम्ललवणतक्रगुडत्रपुसोपक्लेदिनां पुरीषक्षये यवान्नविकृतिकुल्माषमाषषष्टिकयावकगोरसाम्ललवणस्निग्धशाकोपयोगः वातक्षये कटुतिक्तकषायलघुरूक्षशीतयवान्नोपयोगः पित्तक्षये कटुलवणाम्लतीक्ष्णोष्णक्षाराणां कफक्षये स्निग्धमधुरगुरुसान्द्रादीनाम् १०

यानि द्रव्याणि पुण्यानि मङ्गल्यानि शुचीनि च नवान्यभग्नखण्डानि पुन्नामानि प्रियाणि च

गर्भिण्यै तान्युपहरेद्वासांस्याभरणानि च
न स्त्रीनपुंसकाख्यानि धारयेद्वा लभेत वा

धूपितार्चितसंमृष्टं मशकाद्यपवर्जितम्
ब्रह्मघोषैः सवादित्रैर्वादितं वेश्म शस्यते

प्रातरुत्थाय शौचान्ते गुरुदेवार्चने रता
अर्चेदादित्यमुद्यन्तं गन्धधूपार्घ्यवार्जपैः

क्षीयमाणं च शशिनमस्तं यान्तं च भास्करम्
न पश्येद्गर्भिणी नित्यं नाप्युभौ राहुदर्शने

सोमार्कौ सग्रहौ श्रुत्वा गर्भिणी गर्भवेश्मनि
शान्तिहोमपराऽऽसीत मुक्तयोगं तु याचयेत्

न द्विष्यादतिथिं भिक्षां दद्यान्न प्रतिवारयेत्
स्वयं प्रज्वलिते चाग्नौ शान्त्यर्थं जुहुयाद्घृतम्

पूर्णकुम्भं घृतं माल्यं पूर्णपात्रं घृतं दधि
न किञ्चित् प्रतिरुध्नीयान्न न बध्नीत गर्भिणी

सूत्रेण तनुना रज्ज्वा स्तम्भनं बन्धनानि च
वर्जयेद्गर्भिणी नित्यं कामं बन्धानि मोक्षयेत्

अथ हीमानि रूपाणि गर्भिण्या उपलक्षयेत्
यानिदृष्ट्वा जिवानीयाद्बालजन्मान्युपक्रमेत्

मुखग्लानिः क्लमोऽङ्गानामक्षिबन्धनमुक्तता
कुक्षेश्च स्यादवस्रंसस्त्वधोभागस्य गौरवम्

पृष्ठपार्श्वकटीबस्तिवंक्षणं चातितुद्यति
योनिप्रस्रवणौदार्यभक्तद्वेषारतिक्लमाः

एतानि दृष्ट्वा रूपाणि कृत्वा ब्राह्मणवाचनम्
प्रविशेयुः स्त्रियो वृद्धाः कुशलाः शस्तधाविताः

गर्भिणीं सान्त्वयेयुस्ता हर्षयेयुः प्रियंवदाः
आश्वासयेयुर्धर्मार्थौ चोदयन्तं प्रजापतिम्

लोकान् पुत्रवतीनां च सुखानि विविधानि च
कीर्तयेयुरपुत्राणां दुःखानि निरयादिषु

अदितिं कश्यपं देवमिन्द्राणीमिन्द्रमश्विनौ
आयुष्मतां पुत्रवतां मङ्गल्यानां च कीर्तनम्

तन्त्रीवर्णोऽल्पशः स्रावः पिच्छिलः पुत्रजन्मनि
किंशुकोदकसंकाशः पुत्रिकाजन्म शंसति

सूतेरूर्ध्वं तु ये स्रावा निन्दिताञ्शस्मयेत्तु तान्
तस्या अस्यामवस्थायामुपयाचेत देवताः

अव्यावृते स्त्रिया गर्भे विवृते चापरामुखे
ग्राहीषु वर्तमानासु सा विवर्तेत गर्भिणी
न तीक्ष्णं ग्राहिशूलेषु क्षिप्रं नारी प्रजायते
विलम्बिताभिरावीभिर्गर्भः क्लेशयते स्त्रियम्

केचिदस्यामवस्थायां व्यायामं मुसलादिकम्
जृम्भाचङ्क्रमणाद्यं च भिषजो ब्रुवते हितम्

वर्जनीयं तु तत् सर्वं भगवानाह कश्यपः
नार्याः प्रसवकाले हि शरीरमुपमृद्यते

त्रयो दोषाः प्रकुप्यन्ति विचाल्यन्ते च धातवः
गर्भिणी तदवस्था हि यत्नधार्या विशेषतः

अधिकं सौकुमार्यं हि गर्भिण्याः क्लेद्यमेव च
स्रावकाले विशेषेण विषादभयसंश्रयः

एकपादो यमकुले पाद एक इह स्थितः
दृष्ट्वा दुःखं स्त्रियस्तस्या इत्येवं ब्रुवते मिथः

तस्यास्त्वस्यामवस्थायां व्यायामो न प्रशस्यते
व्यायामः सेव्यमानो हि गर्भिणीमाशु नाशयेत्

अतिचङ्क्रमणेनापि हन्याद्गर्भमुपस्थितम्
अत्ययं प्राप्नुयाद्धोरं देहान्तकरणं महत्

उपविष्टाऽसकृत्तस्मादनिर्विण्णात्रपान्विता
वृद्धस्त्रीद्रव्यसंपन्ना प्रजायेत प्रजार्थिनी

वचा लाङ्गलिकी कुष्ठं चिरबिल्वैलचित्रकाः
चूर्णितं मुखराजिघ्रेत्तथा शीघ्रं प्रजायते

आजिघ्रेद्भूर्जधूपं वा नमेरोर्गुग्गुलोस्तथा
अथ प्रपद्यते गर्भस्तथा क्षिप्रं विमुच्यते

पार्श्वसन्धिकटीपृष्ठं तैलेनोष्णेन म्रक्षितम्
मृद्गीयुरवकर्षेयुः शनैः प्राज्ञ्यः स्त्रियः सुखाः

दुर्बलां पाययेन्मद्यमित्येके नेति कश्यपः
पूर्वक्लिष्टा तथैवास्यायवागूं तृषिता पिबेत्

यदा गर्भोदकं योनौ सशूलं संप्रवर्तते
कालेन चोदितो गर्भो विमुच्य हृदयोदरम्

बस्तिशीर्षमधोभागमवगृह्णाति जन्मनि
ग्लानिश्च जायतेऽत्यर्थं योन्युत्पीडनभेदनम्
इत्येतैः कारणैर्विद्याद्गर्भस्य परिवर्तनम्
अथास्याः प्रसवश्चेति ततः पर्यङ्कमारुहेत्

प्रावारमुपधानं वा —
शारीरस्थानस्यैतावानेव भाग उपलब्धः

काश्यप
Kāshyapa
इन्द्रियस्थानम्
Indriyasthānam

इन्द्रियस्थानम्

पञ्चममिन्द्रियस्थानम् ओषधभेषजेन्द्रियाध्यायः
अथात ओषधभेषजीयमिन्द्रियं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
ओषधं भेषजं प्रोक्तं द्विप्रकारं चिकित्सितम्
तयोर्विशेषं वक्ष्यामि भेषजौषधयोर्द्वयोः ३
ओषधं द्रव्यसंयोगं ब्रुवते दीपनादिकम्
हुतव्रततपोदानं शान्तिकर्म च भेषजम् ४
उभयं तद्यदा जन्तोः कृतं न कुरुते गुणम्
क्षीणायुरिति संज्ञात्वा न चिकित्सेद्विचक्षणः ५
यस्य गोमयचूर्णाभं चूर्णं मूर्धनि जायते
सस्नेहं भ्रश्यते चैव मासान्तं तस्य जीवितम् ६
कुक्षिः स्नातानुलिप्तस्य पूर्वं यस्य विशुष्यति
आर्द्रेषु सर्वगात्रेषु मासार्धं तस्य जीवितम् ७
स्वप्नाधिपानगो नाशो ज्योतिषां पतनानि च
अग्निदाहोपशान्तिश्च पतनं गृहवृक्षयोः ८
गुहाटवीप्रवेशश्च स्वप्नं स्वप्ने विगर्हितम्
कृष्णां दण्डधरां नग्नां मुण्डां लोहितलोचनाम् ९
स्वप्ने दृष्ट्वैव जानीयाद्यमदूतानुपस्थितान्
दीर्घकेशस्तननखीं विरागकुसुमाम्बराम् १०
स्वप्ने दृष्ट्वा स्त्रियं कृष्णां कालरात्रीं निवेदयेत्
गन्धान् पुष्पाणि वासांसि या रक्तानि निषेवते ११
यदा स्वप्ने शिशुर्वाऽपि तदा स्कन्दग्रहाद्भयम्
मयूरं कुक्कुटं बस्तं मेषं वा योऽधिरोहति १२
रक्तर्चितः सहैतैर्वा तत्रापि स्कन्दतो भयम्
घण्टां पताकां यः स्वप्ने विध्वस्तां भुवि पश्यति १३
शयनं शोणिताक्तं वा तत्रापि स्कन्दतो भयम्
रक्तपुष्पाम्बरधरा रक्तचनदनरूषिता १४
नृत्यते सह भूतैर्वा स्कन्दापस्मारतो भयम्
रक्तपद्मवनं प्राप्य धात्र्यात्मानं यदाऽर्चति १५
बालं वा पद्ममालाभिस्तदा स्कन्दपितुर्भयम्
रक्तपुष्पवनं धात्री स्वप्नेऽग्निं वा यदा विशेत् १६
दह्यते वाऽग्निना बालः पौण्डरीकाद्भयं तदा
समुद्रादिषु तोयेषु निमग्ने रेवतीभयम् १७
शुष्ककूपनदीदर्शं निहन्याच्छुष्करेवती
मांसादान् पक्षिणो दृष्ट्वा शकुन्या बध्यते शिशुः १८
अवडीनाभिदष्टस्तु सद्यो मरणमृच्छति
हरितालादिभी रङ्गैर्मण्डितः पीतकाम्बरः १९
मांसलोऽलङ्कृतः स्वप्ने तं हन्ति मुखमण्डिका
नक्षत्रग्रहचन्द्रार्कतारकाऽक्षिकनीनिकाः २०
दृष्ट्वा प्रपतिताः स्वप्ने पूतनाभ्यो भयं भवेत्
सर्वाण्येतानि रूपाणि नैगमेष्यां प्रपश्यति २१
कीटवृश्चिकसर्पैर्वा दष्टः स्याद्विषमृत्युःक
श्वभिर्दुष्टैः खरैर्वाऽपि दक्षिणां याति मुण्डितः २२
कृष्यते मृद्यते तैर्वा ज्वरस्यान्तस्तदुच्यते
प्रार्थितं कल्पितं दृष्टमनुभूतं श्रुतं च यत् २३
भावितः पश्यति स्वप्ने ह्रस्वं दीर्घं दिवा च यत्
अफलाः सर्व एवैते निदानोक्तास्तु दोषजाः २४
यथा तु फलवान् स्वप्नो वृद्धशीवक तच्छृणु
अदृष्टमश्रुतानुक्तमकल्पितमभाषितम् २५
कार्यमात्रं च यः स्वप्नो जीर्णान्ते फलवांस्तु सः
एतांश्चान्यांश्च दुःस्वप्नान् दृष्ट्वा रोगी विनश्यति २६
स्वस्थस्तु संशयं गत्वा धर्मशीलो विमुच्यते
यद्यदेव द्विजादीनां स्वप्ने शीतकृशात्मनाम् २७
मलिनाम्बरपुष्पाणां दर्शनं न प्रशस्यते
तेषामेव तु हृष्टानां शुद्धपुष्पाम्बरात्मनाम् २८
दर्शनं शस्यते स्वप्ने तैश्च संभाषणं शुभम्
प्रासादवृक्षशैलांश्च हस्तिगोवृषपूरुषान् २९
अधिरोहन्ति ये स्वप्ने तेषां स्वस्त्ययनं कृतम्
सूर्यसोमाग्निविप्राणां नृणां पुण्यकृतां गवाम् ३०
मत्स्यामिषस्य चाषस्य दर्शनं पुण्यमुच्यते
शुक्लपुष्पादर्शच्छत्रग्रहणं तोयलङ्घनम् ३१
स्वरक्तदर्शनं चैव सुरापानं च शस्यते
गवाश्वरथयानं च यानं पूर्वोत्तरेण च ३२
रोदनं पतितोत्थानं रिपूणां निग्रहस्तथा
पङ्ककूपगुहाभ्यश्च समुत्तारोऽध्वनस्तथा ३३
एवंविधानि चान्यानि सिद्धये मुनयोऽब्रुवन्
अदारुणत्वं रोगाणां वैद्यभैषज्यसंभवम् ३४
धृतिर्जन्मानुकूल्यं च सत्त्वं धर्मश्च भूतये
दृष्ट्वा स्वप्नान् दारुणान्वेतरान् वा
पूतः स्नातः सर्षपानग्निवर्णान्
हुत्वा सावित्र्या सर्पिषाक्तांस्तिलांश्च
पूतः पापैर्मुच्यते व्याधिभिश्च ३५
कौमारभृत्यमतिवर्धनमुक्तमेतज्ज्ञात्वा हि देहगतमिन्द्रियमादिरूपैः शश्चिकित्सितपरांस्तु विवर्जयध्वं शास्त्रं च धर्ममतयः परिपालयध्वम् ३६
इति ह स्माह भगवान् कश्यपः
इति वृद्धजीवकीये कौमारभृत्ये वास्त्यप्रतिसंस्कृते इन्द्रियस्थाने
औषधभेषजीयं नामेन्द्रियम्
समाप्तानि चेन्द्रियानि
इन्द्रियस्थानस्यायमन्तिमोऽध्याय एवोपलब्धः

काश्यप
Kāshyapa
चिकित्सितस्थानम्
Chikitsāsthānam
Chapter 1 2 3 4 5 6 7 8 9 10 11 12
चिकित्सितस्थानम्

षष्ठं चिकित्सितस्थानम् ज्वरचिकित्सिताध्यायः
अथातो ज्वरचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
प्रजापतिं समासीनमृषिभिः पुण्यकर्मभिः
पप्रच्छ विनयाद्विद्वान् कश्यपं वृद्धजीवकः ३
सूत्रस्थाने भगवता निर्दिष्टो द्विविधो ज्वरः
पुनरष्टविधः प्रोक्तो निदाने तत्त्वदर्शिना ४
तेषां ज्वराणां कतमो जातमात्रस्य जायते
पूर्वरूपं च रूपं च किञ्च तस्य चिकित्सितम् ५
इतरेषां ज्वराणां च पूर्वरूपं सलक्षणम्
चिकित्सितं च किं तेषामामजीर्णज्वरेषु च ६
क्षीरपस्य च किं पथ्यं पथ्यं किंचान्नभोजिनः
क्षीरान्नभोजिनः किंच ज्वरितस्य शिशोर्हितम् ७
कां च वृत्तिं —
गर्भिणीचिकित्सिताध्यायः
संयोज्य मधुना शीतं क्षीरं मधुरसाधिकम्
शर्करा मधु तैलं च यष्टीमधुकफाणितम्

एते हि लोहिता घ्नन्ति तथैव परिकर्तिकाम्
फाणितं तिलकल्कं च शर्करा मधुकं तथा

तण्डुलोदकसंयुक्तं सद्यो हन्ति प्रवाहिकाम्
काश्मर्यवृक्षत्वक्कल्कं श्यामामूलं तथैव च

यवागूं दधिमण्डेन सिद्धामल्पघृतां पिबेत्
किराततिक्तकं लोध्रं यष्टीमधुकमेव च

पातव्यं मधुसंयुक्तं सद्यो हन्ति प्रवाहिकाम्
वर्षाभूमूलनिष्क्वाथं योजयेद्देवदारुणा
तत् पिबेन्मधुसंयुक्तं शूना स्त्री मूर्वया सह
पिप्पल्यङ्कोठमूलानि वाजिलेण्डरसं तथा

माहिषेण पिबेद्दध्ना कामलायां चिकित्सितम्
मातुलुङ्गरसः पेयः सैन्धवेन सुयोजितः

हृदि शूलस्य भैषज्यं श्रेष्ठमित्याह कश्यपः
पिप्पलीमूलकल्कस्तु पत्रं गन्धप्रियङ्गवः

मातुलुङ्गरसश्चैव हृदि शूलस्य भेषजम्
प्रियङ्गवोऽथ पिप्पल्यो भद्रमुस्तं हरेणवः

क्षौद्रं बदरचूर्णं च षडङ्गं हृदयौषधम्
स्निग्धो मांसरसः पथ्यः सैन्धत्त्रावेनावचूर्णितः
माहिषे षष्टिका वाऽपि स्यादम्ले त्वचि मारुते
भद्रदारुहरीतक्यौ सैन्धवं कुष्ठमेव च
सफाणितं घृतं चैव लेह ऊर्ध्वानिलापहः
पिप्पल्यो गैरिकं भार्गी हिङ्गु कर्कटकी तथा
समाक्षिको भवेल्लेहो हिक्काश्वासनिबर्हणः
पिप्पली पिप्पलीमूलं मुस्ता नागरमेव च
दीपनीयं पिबेदेतं पयसा शर्कराऽन्वितम्

नित्यं स्नाता च हृष्टा च शुक्लवस्त्रधरा शुचिः
देवविप्रपरा सौम्या गर्भिणी पुत्रभागिनी

नैवोन्नता न प्रणता न गुरुं धारयेच्चिरम्

उद्वेजनं तथा हास्यं संघातं चापि वर्जयेत्
इति ह स्माह भगवान् कश्यपः
इति गर्भिणीचिकित्सितम्

दुष्प्रजाताचिकित्सिताध्यायः
अथातो दुष्प्रजाताचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
ये स्त्रीणां दुष्प्रजातानां व्याधयः संभवन्ति हि
नामतस्तान् प्रवक्ष्यामि तेषां चैव चिकित्सितम् ३
याः कृच्छ्रेण प्रजायन्ते प्रसूताश्चामयन्ति याः
स्नेहस्वेदैस्ततस्तासां क्षिप्रं वायुः प्रशाम्यति ४
यवागूं दीपनीयां तु स्मृतिमान् दातुमर्हति
यथा शेते सुखं नारी नीरुजा शयने सुखे ५
रात्रौ निर्गमनात्त्रासात् सहसोत्पनादपि
ईर्ष्याशोकभयक्रोधान्नानावेगविधारणात् ६
एतैश्चान्यैश्च नारीणां व्याधयः संभवन्ति हि
सूतिकानां दिवास्वप्नादजीर्णाद्ध्यशनादपि ७
योनिपृष्ठकटीभेदशाखावायुरसृग्दरः
वाताष्ठीला च गुल्मश्च हृदि शूलं प्रवाहिका ८
पुरीषमूत्रसंरोध आध्मानं शूलमेव च
शूयते दुष्यते योनिर्योनिशूलं च दारुणम् ९
वेपथुश्छर्दनं मोहो मन्यास्तम्भो हनुग्रहः
ज्वरातिसारो वैसर्पो दद्रुपामाविचर्चिकाः १०
किटिभान्यथ विस्फोटा गात्रे चार्धशिरोरुजा
हृद्रोगाश्चाक्षिरोगाश्च प्लीहा श्वयथुकामले ११
एते चान्ये च बहवो दुष्प्रजाताशरीरजाः
व्याधयः संप्रकुप्यन्ति चिकित्सितमतः परम् १२
द्वे पञ्चमूले भार्गी च मधुशिग्रुः शतावरी
उशीरं चन्दनं चैव श्वदंष्ट्रा मदयन्तिका १३
द्वे बले वसुकः पाठा पयस्या ह्यमृता तथा
वृषादनी सुगन्धा च तथा कार्या पुनर्नवा १४
मूर्वा गृध्रनखी मुस्ता मोरटस्तिल्वकस्तथा
इत्येतासां तु मूलानि यथालाभं समानयेत् १५
यवकोलकुलत्थानां त्रयः प्रस्थाः समास्ततः
एतान्यष्टगुणे तोये पाचयेद्भिषगुत्तमः १६
अष्टभागस्थितं तं तु परिपूतं निधापयेत्
तत्रावापमिदं दद्यान्मुष्टिकान्यौषधानि तु १७
पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पली
चव्यं द्वे रजनी चैव शृङ्गवेरं वचाऽभया १८
कुष्ठं रास्नाऽजमोदश्च विडङ्गं मरिचानि च
भद्रदारुरथैला च भार्गीकुटजतण्डुलाः १९
एतेषां कार्षिका भागा लवणानां पलं भवेत्
तैलप्रस्थं वसाप्रस्थं निष्क्वाथो द्विगुणो भवेत् २०
क्षीरप्रस्थो दधिप्रस्थो जलप्रस्थस्तथैव च
मातुलुङ्गाम्रपेशीनां रसप्रस्थार्धयोजितम् २१
शनैर्मृद्वग्निना सिद्धमथैनमवतारयेत्
अभ्यञ्जनेषु पानेषु बस्तिकर्मणि चोत्तमम् २२
ये तु वातसमुत्थानाः सूतिकानामुपद्रवाः
सर्वेषां शमनं श्रेष्ठमेतत्त्रैवृतमुत्तमम् २३
एतेषामेव सर्वेषां कल्कं निष्क्वाथ्य पाययेत्
यः कश्चित् सूतिकाव्याधिस्तं त्रिरात्रेण साधयेत् २४
द्वे पञ्चमूल्यौ भार्गी च रास्ना द्वे च पुनर्नवे
शिग्रुर्हंसपदी —
बालग्रहचिकित्सिताध्यायः
— श्चाभियाचनम्
ब्रह्मण्यभावात् क्रुद्धाऽपि प्राह सानुग्रहं वक्क्क्प्क्षईचः
एषां व्यतिक्रमाणां त्वं फलमाप्नुहि रेवति

सर्वग्रहाणामेका त्वं तुल्यवीर्यबलद्युतिः
भविष्यसि दुराधर्षा देवानामपि पूजिता
नाभिर्बहुभिश्चैव त्वां वक्ष्यन्ति जना भुवि
वारुणी रेवती ब्राह्मी कुमारी बहुपुत्रिका

शुष्का षष्ठी च यमिका धरणी मुखमण्डिका
माता शीतवती कण्डूः पूतनाऽथ निरुञ्चिका

रोदनी भूतमाता च लोकमातामहीति च
शरण्या पुण्यकीर्तिश्च नामानि तव विंशतिः

ये च त्वां पूजयिष्यन्ति श्रद्दधाना जना भुवि
नैतेषां सर्वभूतेभ्यो भविष्यति भयं क्वचित्
सायं प्रातश्च नामानि यो जपेत्तव विंशतिम्
शुचिर्नरः प्रजास्तस्य वर्धिष्यन्ति विपाप्मनः
तत उग्रेण तपसा स्कन्दमाराधयन् पुनः
तस्या मनीषितं ज्ञात्वा रेवतीमब्रवीद् गुहः

भ्रातॄणां च चतुर्णां वै पञ्चमो नन्दिकेश्वरः
भ्राता त्वं भगिनी षष्ठी लोके ख्याता भविष्यसि

यथा मां पूजयिष्यन्ति तथा त्वां सर्वदेहिनः
अस्मत्तुल्यप्रभावा त्वां भ्रातृमध्यगता सदा

षण्मुखी नित्यललिता वरदा कामरूपिणी
षष्ठी च ते तिथिः पूज्या पुण्या लोके भविष्यति

इत्येवं भगिनी जज्ञे षष्ठी स्कन्दस्य धीमतः
तस्मात् सा सततं पूज्या सा हि मूलं सुखायुषोः

तस्माच्च सूतिकाषष्ठीं पक्षषष्ठीं च पूजयेत्
उद्दिश्य षण्मुखीं षष्ठीं तथा लोकेषु नन्दति

इत्येवं रेवती जज्ञे सुरासुरनमस्कृता
वृद्धजीवक कर्माणि शृणु तस्याः प्रधानतः

ज्वरातिसारो वैसर्पः पीडनेन्द्रियदूषणम्
आनाहः शूलमरुचिर्मि—नं श्वासकासतृट्

निद्रानाशोऽतिनिद्रा च मुखपाको व्रणोद्भवः
एकाङ्गकः पक्षवधः क्षीरालसविसूचिकाः

हिक्का मूर्च्छा मदो मोहो रोदनं स्तब्धनेत्रता
स्वरवर्णाग्निभेदश्च पाण्डुत्वं कामलाऽरतिः

क्षीरदूषणनाशौ च शिरोरुग्घृदयद्रवः
नासाक्षिकर्णरोगाश्च त्रासकुञ्चनरोदनम्

ये चान्ये चैव विविधा ये रोगा नानुकीर्तिताः
रेवतीरोषसंभूता भूयिष्ठं त उदाहृताः

तस्मात् साधारणीं तस्याः क्रियां कुर्याद्विचक्षणः

अतश्च रेवतीमेके ग्रहमेके वदन्त्यपि
अश्वगन्धाऽजशृङ्गी च सारिवे द्वे पुनर्नवे

क्षुद्रा सहा विदारी च कषायः परिषेचने
पलङ्कषा सर्जरसः कुष्ठं गिरिकदम्बकः

देवदारु समञ्जिष्ठं सुरा तैलं सुवर्चिका
नलदं तुम्बरु त्वक् च समभागानि कारयेत्

एतेन गात्रमभ्यज्य ततः संपद्यते सुखी
अश्वकर्णस्य पुष्पाणि धातक्यास्तिन्दुकस्य च

ककुभस्य च पुष्पाणि दाडिमस्य धवस्य च
त्वक्क्षीरी मधुकं चैव क्षीरेण सह पाचयेत्
ततो मात्रां पिबेद्बालस्ततः संपद्यते सुखी
एतेष्वेव घृतं पक्वमतीसारमरोचकम्

हन्ति तृष्णाऽरुचिच्छर्दीः शर्करामधुसंयुतम्
उलूकगृध्ररोमाणि कट्वलाबूस्तथाऽजटी
यवाः श्वेता घृतं गव्यं पेयोऽयं रेवतीनुदे
वरुणारिष्टकौ चोभौ पुत्रञ्जीवकचित्रकौ

एतेषां तु त्वचं बालो माता धात्री च धारयेत्
उपद्रवाँश्च शमयेद्दृष्ट्वा स्वैः स्वैश्चिकित्सितैः

नक्षत्रे चास्य रेवत्यां पुष्टिकर्माणि कारयेत्
अतश्चोर्ध्वं प्रवक्ष्यामि पूतनायाश्चिकित्सितम्

यदुक्तं पूर्वभैषज्यं तच्च सर्वं प्रचारयेत्
असुरो दुन्दुभिर्नाम सुरासुरभयङ्करः

स्कन्दमायोधयन्मोहात् क्रुद्धं दृष्ट्वा च षण्मुखम्
विवेश क्रौञ्चस्य गुहां मातुलस्य महागिरेः

स्कन्दस्तं च महाशैलं मातुलं तं च दानवम्
शक्त्या जघान युगपत्ततो गुहवधाद्गुहः

आसीद्वर्णपरिभ्रष्टस्तं समेत्य सुरासुराः
दिशः समुद्राः सरितो महाभूतानि तोयदाः

पूत्यर्थं धूपयामासुस्ततः पूतोऽभवद्गुहः
यस्मिन् देशे तु भगवान् पूतः स्कन्दो महाबलः

संजज्ञे पूतना तस्मात्सर्वलोकभयङ्करी
तामब्रवीद्गुहः पुण्यां पूतनामग्रतः स्थिताम्

याहि त्वं भिन्नमर्यादा चेत्युक्ताऽऽह तथाऽस्त्विति
मलजा पूतना कौञ्जी वैश्वदेवी च पावनी
पञ्चनामेति चाप्युक्ता शृणु तस्याश्चिकित्सितम्
करञ्जशोभाञ्जनकावास्फोटा ह्याटरूषकः

सप्तपर्णश्च निम्बश्च भार्गी च परिषेचनम्
सुरासौवीरकाभ्यां च हरितालं मनःशिला

कुष्ठं सर्जरसं चैव तैलमभ्यञ्जनं पचेत्
पिप्पली पिप्पलीमूलं बृहती कण्टकारिका

शालपर्णी पृश्निपर्णी मधूकं मधुकस्तथा
एतं संभृत्य संभारं क्षीरे सर्पिर्विपाचयेत्

छर्दिं हिक्कां च शमयेदेतत् सर्पिर्नेषेवतः
कुक्कुटस्य पुरीषं च केशाश्चर्म पुराणकम्

जीर्णां च भिक्षुसङ्घाटीं सर्पनिर्मोचनं घृतम्
धूपमेतं प्रयुञ्जीत सन्ध्याकाले सुखङ्करम्

अनन्तां कुक्कुटीं बिम्बीमरिष्टामथ कर्कटीम्
सूत्रेण ग्रथिता एता धारयेत् पाणिपादयोः

अक्षिरोगचिकित्साभिः शमयेदन्धपूतनाम्

शीतङ्कारचिकित्साभिः शमयेच्छीतपूतनाम्
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः

पचेद् घृतं पञ्चमूल्या सैन्धवेन च पण्डितः
दीपनीयमिति प्रोक्तं सर्पिरेतन्महात्मना

सक्षौद्रशर्करं लेह्यं शमयेच्छीतपूतनाम्
रास्ना पुनर्नवा कुष्ठं तगरं देवदारु च

पत्रागुरुहरेण्वश्च गुडूची त्रिफला सिता
दशमूलं च तैः सर्पिः पचेत् क्षीरे चतुर्गुणे

विशुद्धं लेहयेद्बालं शाम्यते कटपूतना
बिल्वाङ्कोठौ कपित्थार्कौ कार्पासमटरूषकम्

उरुवूकस्य पत्राणि वंशस्याश्मन्तकस्य च
प्रपौण्डरीकं मधुकं शतपुष्पा पुनर्नवा
एतैस्तैलं घृतं वाऽथ पयसा योजितं पचेत्
एतेन गात्रमभ्यज्य सक्षारं पाययेदिदम्

मृद्वीकां च पयस्यां च श्रीपर्णीं सारिवा तथा
मधूकं नागपुष्पं च शीतपाकीयुतं पिबेत्

शर्करामधुसंयुक्तं तदा संपद्यते सुखी

अथास्य धूपनं दद्यात् सायं प्रातरतन्द्रितः
गोलोमीसर्पनिमोकं वचां सिद्धार्थकाँस्तथा

संसृज्य सर्पिषा तेन धूपयेत् सन्ध्ययोर्भिषक्
इत्यन्धपूतनायास्तु बिल्वाङ्कोठादि भेषजम्

जातमात्रं पुरा स्कन्दमुमाशङ्करसन्निधौ
गन्धालङ्कारपुष्पाद्यैर्मण्डयामास षण्मुखम्

इषुकं चित्रकं चास्य ललाटचक्षुषि व्यधात्
नासिकागण्डचिबुकवक्त्रे चित्रविशेषकान्
गन्धर्वापसरसश्चैनं रमयन्ति गणास्तथा
ततोऽब्रवीद्बालभावान्मातरं भगवान् गुहः

एतमेव महादेवजटाभारं विभूषणम्
देहीति न च लेभे तं पुनः पुनरपि ध्रुवम्

गुहस्त्वलभमानस्तं रुषितो ललितः सदा
अपविद्ध्य क्षितौ सर्वं निर्मृज्य मुखमण्डलम्

ततः क्षुब्धास्त्रयो लोका नष्टज्ञाना विचेतसः
दम्पती चापि संविग्नौ ददतुश्चामृतोद्भवम्

ततः प्रभृति सप्तानां चन्द्रः शिरसि दृश्यते
रुद्रस्कन्दादिनन्दीनां रेवत्याश्च महात्मनः

अपविद्धं तु यत् क्रोधात् स्कन्देन मुखमण्डलम्
ततो ग्रहः सा बभूव दारुणा मुखमण्डिका

निर्दहिष्यन्निव क्रोधात्ततस्तामब्रवीद्गुहः
अन्नं कुरु महाभागे सङ्कीर्णाकारकर्मणाम्

तथाऽस्त्विति च सा प्राह स्कन्दस्य परिचारिका
एवं मुखाचि जज्ञे शृणु तस्याश्चिकित्सितम्

कपित्थबिल्वतर्कारीबिम्बीगन्धर्वहस्तकाः
तैलमेतैस्तु संयुक्तं हितमभ्यञ्जनं शिशोः

खुड्डाकं पञ्चमूलं च श्योनाकोऽथ मधूलिका
मधूकानि त्वचः क्षीरी पिप्पल्यस्तैर्घृतं पचेत्
गव्यं क्षीरं गवां पक्वं शर्करामधुसंयुतम्
पिबेत् कोलमितं बालस्ततः संपद्यते सुखी

कुष्ठं सर्जरसं चैव यवाः सर्पिश्च धूपनम्
सर्पवीरल्लचाषाणां जिह्वानां धारणं मणेः

जीर्णे भोजनमप्यस्य ततः शस्तं प्रदापयेत्
अतश्चोर्ध्वं प्रवक्ष्यामि शीतपूतनयाऽर्दिते

नादेयी सुरसा बिम्बी कपित्थं जीवकस्तथा
नदीभल्लातकं श्यामा बिल्वं शीतशिवं तथा

एतं कषायं निष्क्वाथ्य परिषिञ्चेत् सुखाम्बुना
एतेन परिषिक्तस्य तैलमभ्यञ्जनं शृणु

गोमूत्रं बस्तमूत्रं च मुस्तकं देवदारु च
कुष्ठं च सर्वगन्धाश्च तैलमभ्यञ्जनं पचेत्

खदिरं रोहिणीसारं पलाशं ककुभत्वचम्
एतं संभृत्य संभारं क्षीरे सर्पिर्विपाचयेत्

तत् सिद्धं लेहयेत् काले शर्कराक्षौद्रमात्रया
शीतपूतनया ग्रस्तो मुच्यते पथ्यभोजनः

गृध्रोलूकतरक्षूणां पुरीषाणि समानयेत्
अग्निको बस्तलोमानि पिचुमन्दश्च धूपनम्

शीतपूतनया ग्रस्ते तच्चेदं च चिकित्सितम्
अत ऊर्ध्वं तु सर्वेषां शृणु सामान्यभेषजम्
अग्निमन्थः कुरबको वरुणः पारिभद्रकः
निशाऽनलः पोटगलः पूतिका रोहिषस्तथा

एतेन परिषिक्तस्य तैलमभ्यञ्जनं शृणु
प्रियङ्गू रोचना चैव शतपुष्पा कुटन्नटम्

तालीसपत्रं नलदं तथा चन्दनसारिवे
मधूकाङ्कोठमञ्जिष्ठापृथ्वीकाभूतिकानि च

एतैस्तैलं समं सिद्धं मुद्गाम्लोदकसंयुतम्
एतेन बालमभ्यक्तं मुञ्चत्याशु पितृग्रहः

बिम्बीकाश्मर्यमधुकं कुलत्था बदरा यवाः
खुड्डाकपञ्चमूलस्य निष्क्वाथं चात्र दापयेत्
खर्जूरं मुस्तकं चैव नारिकेलफलानि च
नालिकाङ्कुरमृद्वीका मधूकं मधुकं तथा

एतानि शुष्कचूर्णानि —
प्लीहहलीमकचिकित्सिताध्यायः
—दोऽग्निबलसंक्षयः
मूर्च्छा तृष्णा भ्रमस्तन्द्री विषादारुचिगौरवम्

तस्य प्रतिक्रियां कुर्याद्वातपित्तहरीं बुधः
गुडूचीस्वरसे सिद्धं सक्षीरं माहिषं घृतम्

उपस्निग्धं ततस्तं तु स्रंसयेद्बलकालवित्
रसेनामलकानां तु त्रिवृद्युक्तेन युक्तितः
मधुराण्यविदाहीनि विरिक्तं नित्यमाशयेत्
दुर्बलस्य प्रयोज्या तु नित्यं गुडहरीतकी

रक्तपित्तौषधं यच्च तच्चाप्यत्र प्रशस्यते
धात्रीफलानां पक्वानां स्वरसस्याढकं भवेत्

पिप्पल्यो मधुकं द्राक्षा चन्दनोशीरबालकम्
घृतप्रस्थं पचेदेतैः पक्वे दद्याच्च शर्कराम्
तल्लिहेन्मधुना प्रातः पथ्याशी नीरुजो भवेत्
एतत् पित्तोत्तरे कार्यं शृणु वातोत्तरेऽपि तु

कल्याणकं बलातैलं कौमारं वा प्रयोजयेत्
कामलापाण्डुशोथानां तुल्यं कुर्याच्च भेषजम्

पथ्याशिना च सततं सेव्याऽगस्त्यहरीतकी
इति ह स्माह भगवान् कश्यपः
इति प्लीहाहलीमकचिकित्सतम्

उदावर्तचिकित्सिताध्यायः
अथात उदावर्तचिकित्सितमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

कषायकटुतिक्तरूक्षशीतपूतिशुष्कशाकवल्लूरपिण्याकसुनिषण्णकदुग्धिकाकोद्रवश्या-माकनीवारयवककट्ट वेत्राग्रकर्कन्धूकपित्थबिल्वकरीरगाङ्गेरुकीलिकुचपारावतभव्यकाञ्जिकशुक्तारनालतुषो-दकमुद्नकलायातसीप्रभृतिनिषेवणाद्रुक्षात्मनो वातभूयिष्ठप्रकृतेर्वेगविधारणादनिलः प्रकुपितो देहमूर्ध्वमुदामुत्य वायुनोदानेन प्रत्याहतो गुदमासाद्याशयं कृत्वाऽधोवहानि स्रोतांसि दूषयित्वा विण्मूत्रकफपित्तानिलशुक्रमार्गानुपरुणद्धि तत आनाहमुपजनयति प्राणहरं तल्लक्षणं वा । क्षीरमुपसेवमानस्य शिशोरचिरं वा कटीधारणाद्बस्तिगुदसंरोधनादतिरोदनात् प्रजागरादस्नेहात्क्षीरानुपसेवनाद्वेगविधारिण्या उपवासप्रमिताशनविषमाशनप्रजागरचित्तेर्ष्याव्यायामनित्यायाः क्षीरमामोद्यते वायुना तत् पीयमानमुदावर्ताय संपद्यते । तत्र षडुदावर्ताः । वातविण्मूत्रशुक्रच्छर्दिक्षवथूनां संधारणादप्रवृत्तेश्च षण्णां षडुच्यन्ते । तदुदावर्तसामान्यात्तु तमेकमेवाहुरेके । तेषां नवेगान्धारणीयेऽध्याये लक्षणान्यौषधानि चोक्तानि । तानीहापि तु दारुणत्वादस्य व्याधेर्यत्किञ्चिदुपदेक्ष्यामः । शूलमूर्च्छादाहानाहाध्मानानि प्रवृत्तिद्वेषो वैवर्ण्यं संज्ञानाशस्खलनपतनविलपनतृष्णाहिक्काश्वासप्रस्वेदाऽङ्गारपरिकर्तिकाभिरभीक्ष्णं बाध्यते बस्तिगुदहृदयपार्श्ववंक्षणोदरशूलमूरुसादो व्यथा चेत्सुदावर्तलक्षणानि । पञ्चादौ
पूर्वरूपाणि भवन्ति ३

पञ्चजनमादावुष्णलवणतैलाभ्यक्तं यथायोगं स्विन्नशरीरं फलवर्तिभिरुपक्रमेत् । विस्रंसितं च संतमुष्णस्निग्धमधुरलवणप्रायमशनं यवगोधूमषष्टिकशाकघृतप्रायमानूपौदकमांसप्रायं वाऽऽहारमनुपद्रवाय बलिने उपकल्पयेत् । कोशातकीकष्ट्वलाबुबीजपिप्पलीसैन्धवहिङ्गुवचाहरितालमनःशिलामाषचूर्णैर्गोमूत्रपिष्टैः फलवर्त्य उपवाता घृताक्ते कटुतैलाक्ते वा गुदे शलाकया प्रणयेत् । पूर्ववदेव चोपचारः । म्रक्षणाच्छादनपरिषेकाशनानि तानि चास्य स्निग्धोष्णानि विदध्यात् । सक्तुवाट्यकुल्माषापूपवास्तुकयवशाकसुधापत्रत्रिवृच्छाकपञ्चाङ्गुलश्रीवारिकाश्रीफला-सुवर्चलाकाकमाचीकलायपालङ्क्यादिभिश्च शाकैर्घृतसिद्धैर्भोजयेद्यवान्नम् । त्रिवृत्पीलुयवोत्कारान् वा गोमूत्रेण पाययेत् । त्रिवृद्धरीतकीश्यामासुधाः क्षीरेण युक्ता मूत्रैर्वानाहभेदनम् । त्रिफलादन्तीश्यामात्रिवृत्कम्पिल्लकपीलुस्वर्णक्षीरीवचासप्तलानीलिकाग्रहघ्नीचूर्णानि सुधाक्षीरेण गुटिका आमलकमात्रीः कृत्वा तत एकां भक्षयित्वोष्णोदकमूत्रानुपानादानाहैर्मुच्यते । एतान्येव त्रिफलादीनि क्षीरमूत्रवर्जितानि पञ्चकटुकपञ्चलवणहिङ्गुकुष्ठक्षारद्वयशतपुष्पापाठाश्रीफलयुतानि चूर्णानि कृत्वा बिडालपदकं क्षीरमद्योष्णवारिगोमूत्रान्यतमपीतमानाहशूलगुल्मभगन्द रार्शसां निर्णाशनं चूर्णं नाराचकमित्युच्यते तत् ४

तत्र श्लोकाः–
यदि व्यतिक्रमेदेतानुदावर्त उपक्रमान्
युक्तोष्णलवणं तस्य निरूहमुपकल्पयेत् ५
आस्थापनं च —
राजयक्ष्मचिकित्सिताध्यायः
— रोगानीकविनाशनम् ।
पिप्पल्यो विंशतिः श्रेष्ठा उदकार्धाढके शृताः

चतुर्भागावशेषं तं छागक्षीरेण तावता
शृतं नित्यं पिबेच्छोषी तेनैवाश्नीत नित्यदा

विना वाऽन्नोदकं शक्त्या तत्प्रधानो विमुच्यते
द्वादशाब्दानतीतो वा स्निग्धस्विन्नो वशोधितः

पिबेत्क्षीरेण पिप्पल्यः पञ्च पञ्च च वर्धयेत्
शतं तथैव ह्रसयेद्भोजनोदकवर्जितः
पिप्पलीवर्धमानं तु सर्वरोगविनाशनम्
पिप्पलीनां शतं वाऽपि शृतं तोयाढके सदा

पादशिष्टं समक्षीरं श्रपयेत्पुनरेव तत्
कफाधिके तु सक्षौद्रं सघृतं पवनाधिके

पित्तोत्तरे शर्करया सेवमानः सुखी भवेत्
पिप्पलीवर्धमानं तु वातश्लेष्मोत्तरे हितम्

सर्वत्र पिप्पलीक्षीरं हितं कालादिदर्शनात्
शरन्मुखे नागबलामूलान्युद्धृत्य शोषयेत्

सन्निधाय नवे भाण्डे व्रह्मचारी जितेन्द्रियः
स्त्रीशूद्रवर्जी विजने चूर्णं क्षीरेण पाययेत्

प्रथमे दिवसे कर्षं ततश्चोर्ध्वं विवर्धयेत्
ततः पलं पलं नित्यं पाययेत् पयसा शुचिः

जीर्णे तस्मिन् पिबेत् क्षीरं भक्तोदकविवर्जितः
मासात्सोपद्रवं शोषं हन्ति नागबला नृणाम्

प्रजामायुर्बलं मेधां प्रयताय ददात्यपि
षण्मासेन श्रुतधरः सर्वरोगविवर्जितः

अशीतिकोऽपि च युवा भवेत् संवत्सरान्नरः
मण्डूकपर्ण्याः शुण्ठ्याश्च ब्राह्म्याश्च मधुकस्य च

तद्गुणः सर्वरोगघ्नो विधिर्नागबलासमः
उद्वर्तितस्त्वजालेण्डैरजामूत्राभिषेचितः
अजाक्षीरं पिबेन्नान्यदजाभिश्च वसेत् सह
अधस्तादवटेऽजानां वसञ्छोषी विमुच्यते

आजं रसायनं ह्येतत्क्षयघ्नं बलवर्धनम्
हरीतकीनां श्रेष्ठानां द्वे शते जर्जरीकृते

दशमूलसुधादन्तीकरञ्जाधोगुडासनाः
मयूरकं देवदारु निचुलं कुटजाटजी

कटङ्कटेरी बृहती रास्ना श्योनाकचित्रकौ
वरुणं चेति संकुट्य पञ्चविंशतिकैः पलैः

षड्द्रोणेऽपां पचेदेतद्यावत्पञ्चाढकं स्थितम्
तस्मिन् पूते गुडतुलां दत्त्वा भूयश्च साधयेत्

परिवृत्तं समालक्ष्य घृतभाण्डे निधापयेत्
मरिचानि विडङ्गानि भार्गीं शक्रयवांस्तथा

आवपेत्कुटबीजानि पिप्पलीप्रस्थमेव च
मधुप्रस्थं च संसृज्य मासादूर्ध्वं प्रयोजयेत्

पथ्याशी मात्रया काले मुच्यते कफजैर्गदैः
महाभयारिष्ट इति कश्यपेन प्रकल्पितः

अपामार्गोऽश्वगन्धा च नाकुली गौरसर्षपाः
तिला बिल्वं च कल्कः स्यात्क्षयेषूद्वर्तनं हितम्
लशुनानां पलशतं निस्तुषं जर्जरीकृतम्
जलद्रोणेषु दशसु श्रपयेत्पादशेषितम्

घृताढकद्वयं तत्र विपचेज्जीवनैः सह
आजस्य पयसो द्रोणं क्वाथं च दशमूलिकम्

आवपेत्तद्घृतं गोप्यं प्रयोज्यं मासतः परम्
इन्द्राणीघृतमित्येतद्राजयक्ष्मविनाशनम्

वन्ध्याषण्ढकवृद्धानां कामदं पथ्यभोजिनाम्
लशुनं वाऽपि कल्पेन यथोक्तेनोपचारयेत्
घृतस्यार्धाढके गव्ये जर्जरं लशुनाढकम्

घृतभाण्डे समावाप्य वर्षं धान्येषु गोपयेत्
षण्मासमष्टमासं वा चतुर्मासमथो ततः

पेयं नागबलावच्च सर्वरोगैर्विमुच्यते
इन्द्राणीघृतकल्पेन द्राक्षासर्पिर्विपाचयेत्

तथा पीलुघृतं चैव सर्वरोगैर्विमुच्यते
इष्टयो रोहिणीस्नानं तयोर्मङ्गलसेवनम्

रुद्रपूजा धृतिः शौचं ब्रह्मचर्यं च शान्तये
षडेकादश चोक्तानि यानि रूपाणि यक्ष्मिणः

त एवोपद्रवास्तेषामशान्तौ स्वं चिकित्सितम्
इति ह स्माह भगवान् कश्यपः
इति चिकित्सितेषु राजयक्ष्मचिकित्सितम्

गुल्मचिकित्सिताध्यायः
अथातो गुल्मिनां चिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
वातादिसर्वरक्तोत्थाः कुक्षिहृत्पार्श्वबस्तिजाः
पञ्च पञ्चापदामग्र्या गुल्माः सूत्रे निदर्शिताः ३
चेष्टान्नपानसामान्या दोषाः प्रकुपिता नृणाम्
आमाशयमधिष्ठाय ततो गुल्मान् प्रकुर्वते ४
वातलेष्वन्नपानेषु वातलो यः प्रसज्जति
धावति प्लवतेऽधीते भृशं गायति नृत्यति ५
शीतवाताम्बुसेवी च शीतरूक्षकटुप्रियः
व्याधिक्लिष्टः कृशो रूक्षः सेवते तीक्ष्णमौषधम् ६
उदीरयति च्छर्दिं च बलाच्छर्दयतेऽपि वा
निरुणद्धि च वातादीन् तृप्तः पिबति वा बहु ७
शीघ्रयानेन वा यति व्यवायं वाऽतिसेवते
व्यायामाध्ययनस्त्रीषु बालो रूक्षश्च यो रतः ८
एतैश्चान्यैश्च कुपितो मारुतो दोषसंचयम्
करोति यत्र तत्रास्य स्थाने गुल्मो निचीयते ९
अग्निनाशोऽरुचिः शूलं च्छर्द्युद्गारान्त्रकूजनम्
पुरीषवर्तनं कार्श्यं गुल्मानां पूर्वलक्षणम् १०
शूलं मूर्च्छा ज्वरस्तोदः कार्श्यं तृष्णाऽरुणात्मता
पार्श्वांसाक्षकशूलं च वातगुल्मस्य लक्षणम् ११
ऊषायणं ज्वरो दाहस्तृष्णाविड्भेदेपीतताः
पित्तगुल्मे विजानीयात् पित्तलान्नोष्णसेविनः १२
रोमहर्षो ज्वरश्छर्दिररुचिर्हृदयग्रहः
मूत्राक्षिनखविट्शौक्ल्यं शैत्यं च कफगुल्मिनः १३
सर्वाण्येतानि रूपाणि लक्ष्यन्ते सान्निपातिके
रक्तगुल्मः स्त्रिया योनौ जायते न नृणां क्वचित् १४
दुष्प्रजाता गर्भा च गर्भस्रूर्बहुमैथुना
अन्वक्षगर्भकामा च बहुशीतार्तवा च या १५
उदावर्तनशीला च वातलान्ननिषेविणी
या स्त्री तस्याः प्रकुपितो वातो योनिं प्रपद्यते १६
निरुणद्ध्यार्तवं तत्र मासिकं संचिनोति च
रक्ते च संस्थिते नारी गर्भिण्यस्मीति मन्यते १७
स्तनमण्डलकृष्णत्वं रोमराजिः सदोहदा
गर्भिणीरूपमव्यक्तं भजते सर्वमेव तु १८
विपाकपाण्डुकार्श्यानि भवन्त्यभ्यधिकानि तु
इत्येवं लक्षणं स्त्रीणां रक्तगुल्मं प्रचक्षते १९
अनेकदोषसंघातो गुल्मवद्गुल्म उच्यते
त्रिदोषजादृते गुल्माः सिद्ध्यन्ति न चिरोत्थिताः २०
गुल्मिनं प्रथमं वैद्यः स्नेहस्वेदोपपादितम्
यथास्वदोषशमनैरौषधैः समुपक्रमेत् २१
बृंहणं चातिगुल्मेषु भृशं चातिविरूक्षणम्
अतिसंशोधनं चैव गुल्मिनां न प्रशस्यते २२
अभया पिप्पली व्योषं यावशूकोऽथ चित्रकः
सौवर्चलं विडङ्गानि वचा चेत्यक्षसंमिताः २३
सम्यक्पक्वं घृतप्रस्थं तत्पिबेच्च यथाबलम्
घृतं दशाङ्गमित्येतद्वातगुल्मनिवारणम् २४
सैन्धवं यावशूकश्च पिप्पली हस्तिपिप्पली
शुण्ठी चित्रक इत्येषां षड्भागाः पलिका पृथक् २५
तुल्यक्षीरं घृतं प्रस्थं पक्वं षट्पलमुच्यते
षट्पलं सर्वगुल्मेषु वैद्याः प्राहुर्यथाऽमृतम् २६
अभया पिप्पली द्राक्षा गुडूची सपुनर्नवा
लवणक्षारगन्धर्वभार्गीरास्नारसाञ्जनम् २७
तुल्यक्षीरं पचेदेतैर्घृतमक्षसमैर्भिषक्
शैशुकं नाम तत् सर्पिर्वातगुल्मनिवारणम् २८
स्निग्धस्विन्नसमाश्वस्तं गुल्मिनं स्रंसयेत्ततः
विरेचनेन मृदुना तैलेनैरण्डजेन वा २९
विरिक्तं च यथाकालं नातिरूक्षाणि भोजयेत्
युक्ताम्ललवणोष्णानि युक्तस्नेहरसानि च ३०
भोजयेद्गुल्मिनं नित्यं निदानगुरुवर्जकम्
न चातिभोजनं नित्यं शस्यते सर्वगुल्मिनाम् ३१
पिप्पलीं पिप्पलीमूलं चव्यं चित्रकनागरम्
बिल्वं कपित्थं बदरं वृषकं गणिकारिकाम् ३२
हिङ्गुदाडिमजीवन्तीवृक्षाम्लं साम्लवेतसम्
पौष्करं शटिदन्त्यौ च लवणानि च सर्वशः ३३
द्वौ क्षारावजमोदं च तुल्यं शुष्काणि चूर्णयेत्
मातुलुङ्गरसेनैते वटका बदरोपमाः ३४
कृताः सुखाम्बुना पेया मद्यैरम्लेन वा भिषक्
वातगुल्ममुदावर्तं प्लीहशूलं च नाशयेत् ३५
मयूरांस्तित्तिरीन् क्रौञ्चान् कपोतान् वनकुक्कटान्
यवगोधूमशालींश्च वातगुल्मी सदाऽश्नियात् ३६
यदि तु स्निह्यमानस्य वातगुल्मो न शाम्यति
हितमास्थापनं तस्य तथैवाप्यनुवासनम्
क्षीरानुपानामभयां सगुडां संप्रयोजयेत् ३७
गुल्मिनां बद्धवर्चानां —

कुष्ठचिकित्सिताध्यायः
स्वेदो वाऽतिखरत्वमङ्गानामतिश्लक्ष्णता वा वैवर्ण्यं
रौक्ष्यं लोमहर्षः पिपासा गौरवं रागो दौर्बल्यं वेपथुः
पिडकारुषां संभवश्चातिवेदना च क्षतविसर्पणमिति

तत ऊर्ध्वमक्रियावतां कुष्ठानि जायन्ते । तत्र श्यावारुणशूलकण्डूचिमिचिमखरत्वपारुष्यसंस्तम्भायामैर्वातोत्तराणि विद्यात् दाहवेदनाज्वरविड्भेदोषायनपाकस्रावकोठानिकर्णा क्षिप्रोत्थानैः शीतमधुरकषायसर्पिरनुशयैश्च पित्तोत्तराणि विद्यात् श्वेतपाण्डुघनोत्सेधगुरुस्तैमित्यस्तम्भमहापरिग्रहाग्निसादैः शीतादितरानुशयैः कफोत्तराणि विद्यात् व्याविद्धरूपबहुस्फुटितपरिस्रावकृमिदाहरुजोपेतशरीरावयवपातनमशुचिविगन्धिशो-थबहुलमनेकोपद्रवं सान्निपातिकं रक्तत्वात् काकणमित्युच्यते । द्विदोषजानीतराणि तान्यनुव्याख्यामः – वातोत्तरे कपालकुष्ठं पित्तोत्तरे त्वौदुम्बरं कफोत्तरे मण्डलकुष्ठं वातपैत्तिकमृष्यजिह्वं पित्तश्लैष्मिकं पौण्डरीकं सिध्मं च इति समासलक्षणम् । विस्तरतस्त्वष्टादश कुष्ठानि तान्यनुव्याख्यास्यामः–सिध्मं च विचर्चिका च पामा च दद्रुश्च किटिभं च कपालं च स्थूलारुष्कं च मण्डलकुष्ठं च विषजं चेति नव साध्यानि पौण्डरीकं च श्वित्रं च ऋष्यजिह्वं च शतारुष्कं चौदुम्बरं च काकणं च चर्मदलं चैककुष्ठं च विपादिका चेति नवासाध्यानि । सर्वं तु कुष्ठं त्वङ्मांसरुधिरलसीकाश्रयं स्पर्शघ्नं चेति वर्धमान च वैरूप्यकरं भवति । तत्तु रजोध्वस्तमलाबुवारणपुष्पीपुष्पसदृशं सिध्मं श्यामलोहितव्रणवेदनास्रावपाकवती विचर्चिका कण्डूतोदपाकस्रावारुष्मती पामा रौक्ष्यकण्डूदाहस्राववन्ति मण्डलानि वृद्धिमन्ति दद्रुः कृष्णश्यावारुणखरपरुषस्राववृद्धिमन्ति गुरूणि प्रशान्तानि च पुनः पुनरुत्पद्यन्ते किटिभानि कृष्णखरपरुषमलिनमनेकसंस्थानमण्डलं मण्डूलमृतुसन्धिषूष्णे चातिबाधते कपालाकृति कपालं पिच्छास्राववेदनादाहकण्डूतोदज्वरवैसर्पमहाब्रणपरिग्रहं मृदुखरनिभं महारुष्कं मण्डलैर्बन्धुजीवकुसुमोपमैर्दाहकण्डूवेदनास्राववद्भिर्मण्डलकुष्ठं लूताकीटपतङ्गसर्पदशनदष्टमुपेक्षितं व्यभिचारेण खरीभवति कृच्छ्रसाध्यं विषजं महाशयसमुत्सेधं जातं चिराद्भेदि पुण्डरीकपलाशवर्णं पौण्डरीकं श्वेतभावाच्छ्वित्रं पञ्चविधमुत्तरत्रोपदेक्ष्यामः ऋष्यजिह्वोपमं पारुष्यवैवर्ण्यगौरवर्णविल्केदैऋर्ष्यजिह्वं नीललोहितपीतासितैरनेकैररुद्भिः खरैः स्राविभिरुपद्रुतं शतारुष्कं पक्वोदुम्बरफलसदृशमस्रावि जडमनेकमौदुम्बरं व्याख्यातं काकणं हस्तिचर्मसदृशं खरं वृद्धिमच्चर्मदलं वैसर्पोद्भवं नित्यविसर्पि स्राववेदनाक्रिमिमदेककुष्ठं पाणिपादाङ्गुष्ठौष्ठजङ्घादण्डदेशेषुस्फुटितस्राविवेदनावतीमविपाकिनीं विपादिकां विद्यात् । सर्वरोगाश्चैव मोहादुपेक्ष्यमाणा असाध्यतां यान्ति असाध्यास्त्वाशु नृणां घ्नन्ति तस्मादात्महितायाशु प्रयतेत । कुष्ठेष्वादौ वातोत्तरेषु घृताच्छपानमनेकशो मण्डान्तरितं प्रशस्यते तिक्तसर्पिष
इतरोत्तरयोः वमनविरेचनास्थापन —

मूत्रकृच्छ्रचिकित्सिताध्यायः

कटीस्कन्धातिधरणात् पित्तं क्रुद्धं कफानिलौ
अनुसृत्य यदा बस्तिं दूषयन्ति तदाश्रयाः

मूत्रकृच्छ्रं तदा जन्तोर्दारुणं संप्रवर्तते
सफेनमल्पमरुणं कालं वा शूलसंततम्

मूत्रमानद्धवर्चस्त्वं वाताघातस्य लक्षणम्
सदाहवेदनं पीतमत्युष्णं बाष्पसंहितम्

स्विद्यमानमुखो मूत्रं कुरुते पैत्तिके शिशुः
बहुलं कुरुते मूत्रमल्पबाधं सितं घनम्

बस्तिगौरवशोथौ च मूत्राघाते कफात्मके
द्वन्द्वजं द्वन्द्वरूपेभ्यः सर्वेभ्यः सान्निपातिकम्

रक्तजं पित्तवज्ज्ञेयं सरक्तस्य च मूत्रणात्
विशेषाः सन्निपातोत्थे मूर्च्छाभ्रमविलापकाः

सर्वेषु कार्श्यमरतिररुचिः सानवस्थितिः
तृष्णाशूलविषादातिस्त एव स्युरुपद्रवाः

चिरात् प्रमेहाः कुप्यन्ति सद्यः कृच्छ्राणि देहिनाम्
विशेषः कृच्छ्रमेहानां कृच्छ्रे दाहोऽति चेन्द्रिये

कुच्छ्राण्याशु निवर्तन्ते प्रमेहास्तु प्रसङ्गिनः
पित्तप्रायाणि कृच्छ्राणि वातस्थानाश्रयाणि च

तस्मात्सामान्ययोगेन चिकित्सा ह्युपदेक्ष्यते
शरमूलानि निष्क्वाथ्य शीतं पूतं च तज्जलम्

शर्करामधुसंयुक्तं पिबेत् कृच्छ्रोपशान्तये
मधुकं शरमूलं च त्रिफला सितवारिका

शृतं सशर्कराक्षौद्रं मूत्रकृच्छ्रनिवारणम्
तार्णस्य पञ्चमूलस्य रसं निष्क्वाथ्य पाययेत्

शर्कराक्षौद्रसंयुक्तं सर्वकृच्छ्रनिवारणम्
शतावरी पृथक्पर्णी कुलत्थबदराणि च

शर्करामधुसंयुक्तो लेहो मूत्रग्रहापहः
विपरीतं प्रमेहेभ्यो मूत्रकृच्छ्रेषु कल्पयेत्

औषधं पानमन्नं च सुस्निग्धं मृदु शोधयेत्
मधुराणीक्षुविकृतीस्त्रपुसानि घृतं पयः

सेवेत वर्जयेन्नित्यं यत् संग्राहि विदाहि च
ऊषकोऽथ बृहत्यौ द्वे श्वदंष्ट्रा वसुकावुभौ

शृङ्गवेरं यवाश्चैव दर्भो वृक्षादनी बला
पिप्पली तैः शृतं क्षीरं घृतमात्रादिमूर्च्छितम्

सरक्ते पाययेत्कृच्छ्रे क्षिप्रमेतेन सिध्यति
कनीयसीं पञ्चमूलीं कुलत्थं बदराणि च
शर्करामधुसंयुक्तो लेहो मूत्रग्रहे हितः
ससैन्धवो रसः कार्यो मूत्राघाते घृतायुतः

सतार्णपञ्चमूलो वा रास्नागोक्षुरकेण वा
द्वौ करञ्जौ निगर्भा च कार्पासो मधुशिग्रुकः

श्वदंष्ट्रा वसुकौ द्वौ च मृणालं चोत्पलानि च
पिप्पल्यः सैन्धवं चैव सूक्ष्मैला मरिचानि च
एतैः सिद्धां पिबेद्बालो यवागूं ससुवर्चलाम्
एतैरेवौषधैर्लेहं शर्करामधुसंयुतम्

प्रयुञ्जीत घृतं चैव पक्वं कृच्छ्रनिवारणम्
कनीयसी पञ्चमूली पञ्चकोलयवैः सह
कुलत्थमधुशिग्रूणि कार्यश्च सतिलो भवेत्

मन्दस्नेहो रसस्त्वेष सौवर्चलयुतो भवेत्
मूत्राघाते प्रयोक्तव्यः शर्करासु विशेषतः

एकत्रिदोषजैः कृच्छ्रैः शर्करास्तुल्यलक्षणाः
सुवर्णचूर्णसदृशास्तथा सर्षपसन्निभाः

रोचनेव गवां पित्ते संभवन्त्यनिलात्मनाम्
वातेनोन्मथितं मूत्रं खजितं पापकर्मणाम्

शर्कराः स्युर्विवृद्धास्ता अश्मर्यः संभवन्त्यथ
तदेतल्लक्षणं तासां नित्यमेव तु वेदना

शर्करा सहमूत्रेण निर्धावत्यपि कस्यचित्
शल्यवत्यश्मरी बस्तौ वर्धमानाऽवतिष्ठते

क्षीयते क्षीयमाणस्य पुष्यमाणस्य पुष्यति
तस्मान्न नित्यं रुजति तस्योद्धरणमिष्यते

अश्मर्युद्धरणं तीक्ष्णमौषधं स्रोत ईरणम्
साहसादतिबालेषु सर्वं नेच्छति कश्यपः
इति ह स्माह भगवान् कश्यपः
इति चिकित्सास्थाने मूत्रकृच्छ्रचिकित्सिताध्यायः

अथ द्विव्रणीयचिकित्सिताध्यायः
अथातो द्विव्रणीयं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
सूत्रस्थाने भगवता द्वौ व्रणौ परिकीर्तितौ
तयोर्विस्तरमिच्छामि श्रोतुं लक्षणमेव च ३
अनुग्रहाय बालानां चेष्टाहारौषधानि च
इति पृष्टः स शिष्येण संपूज्याह प्रजापतिः ४
तरतन्त्रस्य समयं प्रब्रुवन्न च विस्तरम्
न शोभते सतां मध्ये लुब्धः काक इवाचितः ५
अवश्यं भिषजा त्वेतज्ज्ञातव्यमनसूयया
तस्मात्समयमात्रं भो शृणु बालहितेप्सया ६

अथ खलु द्वौ व्रणौ निजश्चागन्तुश्च । निजो वाताद्येकैकसर्वद्वन्द्वजः । क्षतभङ्गविद्धपाटितदग्धच्छिन्ननिष्पिष्टाभिरूनशस्त्रतृणकाष्ठाग्निविषदन्तनखशापमन्त्रमू-लकर्मादिज आगन्तुः । तस्य निजवदेव
लक्षणमौषधं च स्वतर्केणानुविदध्यात् ७

स्तम्भकाठिन्याल्पस्रावशूलतोदस्फुरणकषायास्यत्वैर्वातिकं विद्यात् ज्वरदाहमोहतृष्णाशुपाकलौहित्यावदारणारुचिदौर्गन्ध्यैः पैत्तिकं विद्यात् स्तैमित्यशैत्यमार्दवमन्दवेदनास्नेहपाण्डवचिरकारित्वातिस्रावैः
कफजं विद्यात् सर्वरूपं सान्निपातिकं द्विदोषं संसृष्टं विद्यात् ८

इत्यत्र श्लोकः–
सर्वव्रणानां प्रकृतिनिरुक्ता दोषदर्शनात्
न हि दोषाननाश्रित्य व्रणः कश्चिच्छरीरिणः ९

तेषामुपक्रमं धात्रीबालनिग्रहौ संशमनं बन्धनम् उत्क्लिन्नप्रक्षालनं कल्कप्रणिधानं शोधनं रोपणं सवर्णीकरणम् इत्येतैः स्नेहपानसंभोजनोपनाहस्वेदोष्णपरिषेकमधुराम्ललवणैर्वातव्रणं शीतोदकदुग्धपरिषेकशीतप्रलेपनमधुरकषायतिक्तकल्कघृतपानमुद्गशालिजाङ्गलोपचा-रैरुष्णाम्लकटुलवणबन्धनसंपूरणवर्जनैश्च पैत्तिकव्रणम् उष्णतीक्ष्णतिक्तकटुकषायक्षारसंशोधनोपनाहस्वेदनोष्णवारिपरिषेकलङ्घनबन्धनस्रावणैः कफव्रणं शमयेत् । अतो युक्त्येतरान् ।
स्रावणपाटनदहनसीवनैषणसाहसादीन्यतिबालेषु न कुर्यादिति १०
अत्र श्लोकाः–
जीर्णैः प्रक्षालितैर्वस्त्रैस्तथा बद्धं निधापयेत्
यथौषधं न पतति बालकं च न पीडयेत् ११
वैसर्पः श्वयथुर्दाहो ज्वरस्तृडतिबन्धनात्
शिथिलादनवस्थानं मध्यमस्तु प्रशस्यते १२
वातार्कतृणकाष्ठाम्बुमक्षिकादिभयाद्व्रणम्
बन्धो रक्षति शीघ्रं च दह्यते न च खादति १३
ज्वरवैसर्पदाहार्तं रक्तपित्तोल्वणं व्रणम्
न बध्नीयाद्द्विरह्नस्तु सर्वं प्रक्षालयेद्व्रणम् १४
द्वे हरिद्रे तिलाः सर्पिः सैन्धवं मधुकं त्रिवृत्
अरिष्टपत्रमित्येष कल्कः शोधनरोपणः १५
शोधने रोपणे चैव युक्त्या क्षौद्ररसक्रिया
तत्र निर्वापणे चोक्ता घृतेनोदकसक्तवः १६
समङ्गाधातकीपुष्पमग्रस्थामलकीत्वचम्
घृतं कृष्णास्तिला मांसी कल्कोऽयं व्रणरोपणः १७
एतैरेवौषधैः सर्वैः सर्पिस्तैलमथो पचेत्
व्रणरोपणमित्याहुः कट्फलं वाऽवचूर्णितम् १८
ज्वरदाहपिपासार्त्या पच्यमानं व्रणं वदेत्
तेषां निवृत्तौ जानीयात् पक्वं पीनोन्नताकृतिम् १९
मर्मस्थश्चेदुपेक्ष्यः स्याद्बालं धात्रीं च पूरयेत्
गोदध्ना म्रक्षितं चैनं बध्नीयाल्लवणान्वितम् २०
अमर्मजं पाटयेद्वा नेत्येके पूर्वदर्शनात्
रक्तक्षयादल्पभावाद्धन्याद्बालं कुपण्डितः २१
पाटितं वा प्र—
—मञ्जिष्ठाथ मनःशिला ।
प्रलेपः सघृतक्षौद्रः सवर्णकरणः परम्

त्रिफला जातिपुष्पाणि कासीसं लोहपत्रिका
लेपः सगोमयरसः सवर्णकरणः परम्

चतुष्पदानां त्वग्रोमखुरशृङ्गास्थिभस्मना
तैलाक्ता चूर्णिता भूमिर्भवेल्लोमरुहा पुनः

अथ खलु बालानामष्टौ पिडकाः स्वशरीरदोषात् स्वदोषाच्चोत्पद्यन्ते । तासां निदानलक्षणे प्रोक्ते नामरूपचिकित्सां च ब्रूमः – शराविका च कच्छपिका च जालिनी च ताः कफप्रायाः सर्षपिका चाऽलजी च विद्रधिश्च ताः पित्ताधिकाः विनता वाताधिका सर्वदोषजा त्वरुंषिका । तासां लक्षणानिमध्ये निम्ना शराविका श्लक्ष्णोन्नता कच्छपिका सिराजालतनुच्छिद्रवती जालिनी सर्षपाभाऽल्पाऽशुपाकिनी बहुला वा सर्षपिका बहूपद्रवाऽऽशुपाकवैसर्पाऽलजी विनता तूदरे पृष्ठे वाऽवगाढनीला रुजावती मांसपाकस्तु पित्तप्रकोपो वा उत्पद्यते स एव सन्धिषु मर्मसु वा विद्रधिरित्युच्यते विदह्याशु अङ्गं विदीर्यत इति विद्रधिः सा बहिरन्तश्चोत्पद्यते ते चोभे बालानां कृच्छ्रसाध्ये । त्रिदोषजा त्वरुंषिका चतुर्विधा दोषभेदादेकैकाधिकसमदोषत्वात् शूलतोदाटोपस्फुरणानाहपामा वातलिङ्गानि ज्वरतृष्णादाहमोहमदप्रलापाः पित्तलिङ्गानि शैत्यपैच्छिल्यबहुक्लेदारुचिस्तैमित्यानि कफलिङ्गानि सर्वैः समदोषत्वम् अन्यत्रापि च व्रणे पूर्वोक्तानि च
लक्षणानि

तत्र श्लोकाः–
पूर्वं सराविकाद्यासु सुस्निग्धस्य विरेचनम्
शस्यते च भिषक् तासु व्रणकर्म यथोचितम्

निवर्तनमपक्वासु पिडकासु प्रयोजयेत्
परिषेकैः प्रलेपैश्च घृतपानैहिताशनैः

अरुंषिकासु सततं शिरसो मुण्डनं हितम्
स्नापनं म्रक्षणं चैव व्रणतैलैरनेकशः

द्वे हरिद्रे त्रिकटुकं सैन्धवं वा मनःशिला
सुवर्णजो जपा जातिर्वचा कुष्ठं रसक्रिया

अश्वघ्नमूलोदकणादशमूलं फलत्रयम्
एतैर्गोमूत्रसंयुक्तैः प्रमृद्वीयादरुंषिकाम्

एतैरेव पचेत्तैलं हन्ति तच्चाप्यरुंषिकाम्
अथ चेद्वेदनां दद्यात्तिलैरुद्वर्तयेत्ततः

स्वादुना व्रणतैलेन नवनीतेन वा दिहेत्
अथो सलोहितां छिन्नां क्षुरेणारुंषिकां भिषक्

तुल्याभ्यां क्षीरमूत्राभ्यां सिद्धोष्णाभ्यां प्रलेपयेत्
न चेदेवं निवर्तेरन् स्रावणं तु ततः परम्
यदा पक्वेष्टकाचूर्णैरभीक्ष्णं गुण्ड्यते शिशुः
त्रपुसैर्वारुबीजं वा खादतोऽङ्गेषु शुष्यति

मेदोऽभिवर्धनं चान्नं दिवास्वप्नं च सेवते
तस्य मेदः प्रकुपितं वायुना त्वचमाहृतम्

मेदःपूर्णत्वचानद्धा जनयत्यरकीलिकाः
लवकर्तनतश्चैता दृश्यन्ते च क्वचित् क्वचित्

कर्कन्धुगोस्तनप्रख्या वर्धमाना भवन्ति च
तासां दहनमेवागे?र तप्तैः स्नेहैर्गुडेन वा

एकैकशो हितं जन्तोश्छित्वा वा क्षारसारणम्
बन्धनं क्षारसूत्रैर्वा व्रणकर्म ततः परम्

विरुद्धाद्ध्यशनपूतिपर्युषितात्युष्णविषमाशनात्तुर —
—णादवलङ्घनादवधूननाद्बीजानां कोद्रवशणबीजमूलकातसीकार्पासानां तुवरीकुलत्थादीनां दह्यमानानां गन्धाघ्राणात् तथा
वस्त्रावकर्तनालभल्लातकास्थि —

—शालिपिष्टकसाधितम् ।
शीतं सशर्करक्षौद्रनवनीतं—
—लेहयेन्नवनीतं वा लेहयेद्वा तपश्चितम् ।
दीप्ताग्निमवसन्नाग्नि स्तन्येनैव तु धारयेत्
चपलानां तु बालानां सर्पतां वा तथा भृशम्

तृणकाष्ठेष्टकाशस्त्रैरन्यैर्वाऽपि क्षतं भवेत्
आमच्छेदवदे दारुणस्तस्य चात्ययः
संदध्यात्तं निनिर्मृज्य सिञ्चेदुष्णोदकेन च
अथातिरुधिरस्रावे संस्तम्भ्यः शीतवारिणा

स्वेदयेद्वा प्रसङ्गे तु दहनं क्षारमेव वा
सहितं मधुसर्पिर्भ्यां बध्नीयात् पथ्यभोजिनः

उभयोर्घृतपानं च विदध्याद्व्रणवत् क्रियाम्
शीतकालेषु भूयिष्ठं बालानां कुक्षिशायिनाम्

स्वमूत्रोपहताङ्गानां मूत्रसंक्लिन्नवाससाम्
तृणेषु वा शयानानां स्नानोद्वर्तनवर्जिनाम्

कृमिमत्कुणयूकानां संभवात्तैश्च भक्षणात्
गात्रं दद्रुलतां याति कटिदेशे विशेषतः

म्रक्षणोद्वर्तनस्नानं गन्धधूपनिषेवणम्
बालानां शस्यते तत्र शय्यायाश्च विकल्पनम्

नित्यमेव तु बालानां निशि स्नेहविमर्दनम्
हितं निद्राकरं बल्यं वर्धनं श्रमनाशनम्

तस्माच्च शस्यते नित्यं बालानां परिमर्दनम्
महासेनस्य तुष्ट्यर्थं सृष्टः शक्रेण धीमता

कुञ्जरो दुस्सहो नाम ऐरावणबलद्युतिः
स स्कन्देनोपवाह्यश्च कृतः शाखविशाखयोः

आभ्यां परमतुष्टाभ्यां ग्रामपोऽस्त्यश्मभिः कृतः

उपग्रहाणां सर्वेषामाधिपत्यं च लम्भितः
स यदा क्रुध्यते जन्तोः पूजाकालेष्वपूजितः

पक्षच्छिद्रेषु संध्यासु समाजेषूत्सवेषु च
स्वप्ने त्रासयते बालं चतुर्दंष्ट्रो महागजः

सुबुद्ध्यते त्रास्यमानः सहसा वित्रसन् द्रुतम्
यत्रैतमङ्गं स्पृशति गण्डस्तत्रास्य जायते
मेदोलसीकापूर्णानि प्रसज्यन्ते बहून्यपि

पच्यन्ते कानिचित्तेषां निरायान्त्यपराण्यपि
दुःसहं पूजयेत्तत्र पञ्चम्यां नागसत्तमम्

कुलोचितेन न्यायेन तथा नश्यन्ति तान्यपि
घृतक्षीराशिनो नित्यं श्लैष्मिकस्यातिभोजिनः

स्वपतो मांसमेदोऽसृग्वृद्धः संवर्तते गदः
तस्मान्मातासुतौ चात्र वमनेनोपपादयेत्

शाल्यन्नमुद्गमण्डांस्तु सप्ताहं चोपचारयेत्
अशाम्यत्सु विवर्धत्सु शरदाहोऽपि शस्यते

तथैषां छिद्यते मूलं पक्वेषु व्रणवत् क्रिया
इति विविधरोगभेषजं मुनिः
शिशुजनहिताय कश्यपोऽब्रवीत्
तदिदमुपलक्ष्य पण्डितो भिष
क्छिशुजनहिताय धारयेत् सदा
इति ह स्माह भगवान् कश्यपः
इति चिकित्सास्थाने द्विव्रणीयोऽध्यायः

प्रतिश्यायचिकित्सिताध्यायः
अथातः प्रतिश्यायचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

गुरुमधुरशीतरूक्षाभ्यवहारात् सततं द्विविधं वा स्तन्यं पीत्वा पीत्वा स्वपतो नित्यं गुरुत्वाजीर्णयोश्च स्नानात् सश्लेष्मणश्च शीतोदकपानादवगाहनाच्च भुक्ते चातिपिबतो वेगविधारणाच्च सततं संरुद्धवेगस्याभ्यवहाराच्च नित्यं चानुपहितशायिनोऽतिपार्श्वशयनशायिनोऽपावृतमुखशायिनोऽन्यैश्च निदानैर्मन्दाग्नेर्विषमाशिनो वातः प्रकुपित ऊर्ध्वकफाशयं प्रदूष्य स्रोतांसि प्रतिश्याययति स यदा मुखस्रोतांसि दूषयति तदा मुखरोगाजायन्ते यदा श्रोत्रं तदा कर्णरोगाः यदा नासिकामूलं प्रति कफं पित्तमसृग्वा श्याययति तदा प्रतिश्याय
इत्युच्यते ३

तस्य प्रतिनद्धा इव शिरोमुखनासिका भवन्तीष्टानिष्टाव्यक्ताश्च गन्धाः — ते तस्य वातात् प्रतिबन्धः कफादवैशद्यं रक्तान् परिक्लेदः
पित्ताद्दौर्गन्ध्यं स्रोतस उपजायते ४

स एतदवस्थो जाड्यारोचकं हृल्लासप्रतिघातार्थं भृशोष्णतीक्ष्णाम्ललवणेषु प्रसज्यते ततोऽस्य पित्तं प्रकुप्यति । बलाभिवर्धनात्तस्य ज्वरं तृष्णामन्तर्दाहमरति — नी स्रोतसां वैगन्ध्यं
पाकं च दिवाकरावर्तं चोत्पादयति ५
अतश्चैनं चतुर्विधमृषयो वदन्ति – वातिकः पैत्तिकः श्लैष्मिकः सान्निपातिक इति । तद्यथा – यो रौति न रमते जागर्त्यभीक्ष्णं क्षौति नासिका चोत्तानस्यापि तनुश्लेष्म —र्भवति स्निग्धोष्णलवणाम्लोपशयि चेत्तं प्रतिश्यायं वातिकं विद्यात् ज्वरदाहपिपासाप्रलापितातालुशोषमुखनासिकाक्षिपाकैराशुकफसंपाकैः—पैत्तिकं विद्यात् चिरकारित्वारोचकहृल्लासशिरोगौरवातिस्रावमन्दक्षवथुमन्याग्रहहृदयप्रलेपाविपाकै-रुष्णकटुकषायरूक्षणोपशयैः प्रतिश्यायं कफजं विद्यात् सर्वरूपं स्रोतोवैगन्ध्यकृमि— सान्निपातिकं विद्यात् ६

तत्र श्लोकाः–
वातश्लेष्मोत्तरः प्रायः प्रतिश्यायस्त्रिदोषजः
बलाग्निवर्णशमनो निहन्ता चाप्युपेक्षितः ७
तस्मात् प्रथमतस्तस्मिन्नुपवासः प्रशस्यते
सुखोष्णं दीपनीयाम्बु पिबेद्वा पाञ्चमूलिकम् ८
यथाशक्त्य—
—दकेऽपि वा

यवागूं रक्तशालीनामुष्णां त्रिलवणान्विताम्
पिबेद्यवानामथवा दृष्ट्वा दोषबलाबलम्

अग्निप्रावरणोपेतो निवातशयनासनः
लघ्वन्नमुष्णं भुञ्जानो मुच्यते नातिसंपिबेत्

वेष्टनं धूमपानं च —
—गुडहरीतकीम्
जीर्णे च सर्पिषः पानं निशि भुक्त्वा प्रशस्यते

अशाम्यमाने तेनापि पुराणं पाययेद्घृतम्
षट्पलं पञ्चगव्यं वा कल्याणकमथाभयम्
यवान्नं च सदाऽत्युष्णं लवणस्नेहवर्धितम्
पिप्प—
—सं पिबेद्वा मरिचान्वितम्

मरिचानि मुखे नित्यं धारयेदापरिक्षयम्
सैन्धवोष्णोदकोपेतां पिबेच्छुण्ठीं विमुच्यते

पिप्पलीवर्धमानं वा युञ्जानो वा गुडाभयाम्
पथ्याशी रोगतत्त्वज्ञः सात्म्यज्ञश्च विमुच्यते

पटोलपत्रत्रिफला—
—प्रतिश्यायाद्विमुच्यते
अपानं सर्पिषाऽभ्यज्य निवाते स्वेदयेत् सदा

विष्टम्भिगुरुशीतान्नं दिवास्वप्नं च वर्जयेत्
प्रतिश्यायस्य यत् प्रोक्तमेतत् सर्वं चिकित्सितम्

अतिबालस्य तत् सर्वं धात्री कुर्यादशङ्किता
इति ह स्माह भगवान् कश्यपः
इति चिकित्सास्थाने प्रतिश्यायचिकित्सितम्

उरोघातचिकित्सिताध्यायः
अथात उरोघात चिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
स्वहेतुकुपिता दोषा उरोघातं चतुर्विधम्
कुर्वन्ति सेवमानानां लौल्यमध्यशनादि च ३
शीतज्वरः प्रतिश्यायः कण्ठः शूकैरिवावृतः
उत्कासिकमन्दक —

—समेति समाख्याता सर्वरोगविनाशिनी

एषैव व्योषसहिता हन्त्युरोघातमुद्बलम्

कफाधिके तु सक्षौद्रा लीढाऽऽरोग्याय कल्पते
पित्तश्लेष्मोत्तरो व्याधिरुरोघातस्त्रिदोषजः

तस्मात् पित्तकफघ्नानि धात्री नित्यं समाचरेत्
इति चिकित्सास्थाने उरोघातचिकित्सितम्

अथ शोफचिकित्सिताध्यायः
अथातः शोफचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
वमनविरेचनोपवासव्याधिकर्शनापथ्याजीर्णेषु यः सदाऽत्यर्थलवणाम्लकटुक्षारोष्णोपसेवी भवति — यनान्ते वा लवणादिषु प्रसज्यते यथेष्टं च शीतोदकस्नानपानशयनव्यवायव्यायामादिभिर्व्यभिचरति तथा तद्गुणक्षीरा वा भवति तस्याः श्वयथुर्नाम रोग उत्पद्यते दारुणश्चतुर्विधः । दोषा ह्यस्याः – पथः कृष्णारुणवर्णोऽल्पो रूक्षः पिपीलिकापूर्ण इव सवेदनः पीडितश्च निम्नो भवत्यनिमित्तश्चोष्णस्नेहाभ्यां प्रशाम्यति
तं वातिकं विद्यात् नीललोहितपीत —
कृमिचिकित्सिताध्यायः
— च लाभतः समुपानयेत्
पादशेषे जलद्रोणे शृते सर्पिर्विपाचयेत्
प्रस्थं सैन्धवसंयुक्तं तत् परं कृमिनाशनम्
विडङ्गघृतमित्येतल्लेह्यं शर्करया सह

सर्वकृमीन् प्रणुदति वज्रो मुक्त इवासुरान्
तिक्तोष्णकटुरूक्षाणां मूत्राणां लवणस्य च

स्नेहस्वेदोपसेवा च पथ्यं च कृमिनाशने
बहिःकृमीणां स्नानाद्यं द्विव्रणीये प्रकीर्तितम्

अतिबालस्य तु शिशोर्धात्री सर्वं समाचरेत्
संशोधनैर्विशुद्धं च पथ्यान्नैश्च लघूकृतम्

भावितं चौषधैः क्षीरममृतत्वाय कल्पते
अत्युष्णं कटुतैलं तु गुदे दत्त्वा ससैन्धवम्

स्वेदयेद् गुदमङ्गुल्या तथाऽऽशु लभते सुखम्
इति ह स्माह भगवान् कश्यपः
इति चिकित्सास्थाने कृमिचिकित्सितम्

मदात्ययचिकित्सिताध्यायः
अथातः पानात्ययचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
मद्यप्रवृत्तौ रोगस्तु प्रोच्यते त्रिविधो नृणाम्
पानात्ययो विभ्रमश्च पानापक्रम एव च ३
तत्र योऽध्युषिते पाने त्वजीर्णे पिबते नरः
तत् पानमत्ययं याति तस्मात् पानात्ययो मतः ४
विभ्रान्तानां तु पानानां सेवनात्पानविभ्रमः
सहसा पानविच्छेदः पानापक्रम उच्यते ५
दीपनं रोचनं वृष्यं रतिवैशद्यकारकम्
कार्श्यचित्तश्रमहरं हर्षणं बलवर्धनम् ६
युक्तोपसेवितं मद्यं सात्त्विकानां विशेषतः
प्रमोदारोग्यपुष्टीनां तन्मूलं चान्नभोजनम् ७
स्तन्यक्षये च धात्रीणामुत्पन्ने चाप्य—
—वातशूलेषु शीतके विषमज्वरे ८
नारीणां सुकुमारीणां रोगेषु विविधेषु च
सूतानां दुष्प्रजातानां योनिभ्रंशेऽतिमैथुने ९
दन्तजन्मनि बालानां पीडितानां पिपासया
तालुकण्ठौष्ठशोषे च रोदितेऽतिप्रजागरे १०
वातश्लेष्मात्मके व्याधौ मद्यमाहुर्यथाऽमृतम्
तदेवातिप्रसङ्गेन पीयमानं पुनः पुनः ११
सर्वव्याधिमुखं प्रोक्तं विषवत् कारयत्यपि
मदात्ययं वातकरं कृच्छ्रसाध्यं करोति वा १२
तरुणं वाऽप्यजीर्णे वा यो मद्यमतिसेवते
लघुसत्त्वो निराहारो रसस्तस्य विदुष्यति १३
अनिलं रूक्षतीक्ष्णत्वात् पित्तमौष्ण्याद्विपाकतः
युगपत् कुपितौ दोषौ प्राप्तावामाशयं ततः १४
विष्टब्धश्लेष्मणात्यक्तौ विप्लवेते महासिराः
ततो हृदयमूलासु विप्लुतासु सिरासु च १५
शरीरं क्लिश्यतेऽत्यर्थं तस्य वक्ष्यामि लक्षणम्
मुह्यते घृष्यते रौति दह्यते ज्वर्यते भृशम् १६
हृद्द्रवो वेपथुर्हर्षः पार्श्वशूलं शिरोरुजा
अरुचिः स्वेदविष्टम्भो विह्वलत्यतिसार्यते १७
शुष्यते — याति विलपत्यपि
एवं मदात्ययं विद्यात्तस्य वक्ष्यामि लक्षणम् १८
हृत्पार्श्वपर्वरुजनं प्रलापोऽतिप्रजागरः
उन्मत्त इव चाभाति पवनोत्थे मदात्यये १९
स्रोतःपाको ज्वरो दाहो विड्भेदः स्वेदपीतता
छर्दी रक्तप्रकोपो वा पीतं पश्यति पैत्तिके २०
आ — सेकच्छर्दिशीतज्वरालसाः
तन्द्रा स्तम्भो विसंज्ञत्वं विषादश्च कफात्मके २१
श्वासकासभ्रमोत्सादविड्भेदानाहवेपकाः
शूलमोहौ च सामान्यौ सर्वरूपस्तु सर्वज्ञः २२
भूयिष्ठमामप्रभवं प्रवदन्ति मदात्ययम्
तस्मान्मदात्यये पूर्वं हितं लङ्घनमेव तु २३
प्रकाङ्क्षा लाघवं स्थैर्यमिन्द्रियाणां प्रसन्नता
रोगोपशान्तिर्वाक्छुद्धी रूपं सम्यग्विशोषिते २४
एतानि कृत्वा विकृतिं याति चातिविशोषणात्
असंप्राप्तिमथैतेषां जानीयात्तमलङ्घिते २५
इत्येतैः कारणैर्दृष्ट्वा विदग्धमदपीडितम्
पाययेत्तर्पणं काले शीतं दाडिमवारिणा २६
येनैव मद्येन भवेत् समुत्पन्नो मदात्ययः
तथैवोपहरेत् पातुं बहुशीतोदकान्वितम् २७
कायाग्निस्तन्मयो ह्यस्य सिरा रसवहास्तथा
मनश्च भावितं तेन तस्मात्तद्ध्यस्य भेषजम् २८
अथवा क्लान्तविक्लिष्टयथर्तुसुखवारिणा
स्नातानुलिप्तं प्रयतं मनोज्ञासनवेश्मगम् २९
पाययेत्तर्पणं युक्त्या हृद्यपात्रोपनायकम्
सक्तवः पारणा हृद्या अथवा लाजसक्तवः ३०
विडसौवर्चलाजाज्यः सुशीतं दाडिमोदकम्
तन्मद्यमल्पतक्रं च रूषिताः सक्तवोऽल्पशः ३१
कुठेरभूस्तृणक्षौद्रजम्बीरसुमुखादयः
युक्ताम्लाः षाडवा मुख्याः पक्वापक्वाः सुगन्धिनः ३२
केशरं मातुलुङ्गानामार्द्रकं जीवदाडिमम्
शर्करागुडखण्डानि जाङ्गलान्यामिषाणि च ३३
अम्लानम्लानि सिद्धानि संस्कृतानि विभागशः
उपोदिकां तक्रसिद्धां सिद्धां वा गुडचुक्रयोः ३४
एवंविधां त्ववक्षीरीं पानात्ययनिपीडितम्
यथालाभोपसंपन्नां पाययेत् सिद्धये भिषक् ३५
कानिचिद्ध्यत्र भक्ष्याणि कानिचित् स्वादयेद् बुधः
जिघ्रेत् पश्येत् पिबेत् किञ्चिच्छ्रद्धाजननकारणात् ३६
सुखं चास्यानुजानीयादृतुयोग्यं यथाक्रमम्
यच्च यच्चानुशेतेऽस्य तत्तदेवोपचारयेत् ३७
क्रमेण चास्य संसर्गमन्नपानेषु योजयेत्
दुकूलक्षौमकदलीपक्षपत्रादि सेवयेत् ३८
चन्दनानि च मुक्तानि शीतानि विविधानि च
उष्णानि त्वन्नपानानि रूक्षाणि च गुरूणि च ३९
अग्निसूर्योपसेवां च दिवास्वप्नं विशोषणम्
शोकाध्वमैथुनायासान् व्यायामांश्च विवर्जयेत् ४०
मण्डा यवाग्वो यूषाश्च न शस्यन्ते मदात्यये
एवं चेन्नोपशाम्येत तत्रेमां कारयेत् क्रियाम् ४१
उशीरं तिन्तिडीकं च दाडिमस्वरसं मधु
पानात्यये पित्तकृते श्रेष्ठं तर्पणपानकम् ४२
काश्मर्यं दाडिमं द्राक्षाः खर्जूराणि परूषकम्
दद्यात् कुडवशातानि लोध्रादीनि तु युक्तितः ४३
लोध्रामलकमञ्जिष्ठोः सूक्ष्मं पिष्ट्वा —
तोयाढके प्लुतं स्थाप्यं सजाति वा सकेशरम् ४४
तृष्णां छर्दिमतीसारमदमूर्च्छाविलापकम्
अनवस्थानमरुचिं ग्लानिं चैतदपोहति ४५
लामज्जकमृणालत्वङ्मधुकान्युत्पलं तथा
पलं पलं गुडूच्या द्वे अष्टौ गुडपलानि तु ४६
जलाढके नवे भाण्डे गोपयेत् केशरान्वितम्
वातपित्तोत्तरं हन्ति मदं सोपद्रवं नृणाम् ४७
लोकसिद्धानि चान्यानि पानकान्युपकल्पयेत्
समद्यान्यन्नपानानि भूयिष्ठं चोपपादयेत् ४८
अथानुबन्धं कुर्वीत स रोगी च बली भवेत्
यथादोषं ततस्तस्य कुर्यात् संशोधनं बुधः ४९
मद्ययुक्तं त्रिवृच्चूर्णं पेयं स्यादनुलोमनम्
पानकेनाप्यवत् कार्यं समद्यगुडयुक्तया ५०
वैसर्पदाहज्वरयोरेवं चोक्ता परिक्रिया
पिपासाज्वरदाहार्ते सैव कार्या मदात्यये ५१
इति ह स्माह भगवान् कश्यपः ५२
इति चिकित्सास्थाने पानात्ययचिकित्सितम्

फक्कचिकित्सिताध्यायः
अथातः फक्कचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
बालः संवत्सरा पादाभ्यां यो न गच्छति
स फक्क इति विज्ञेयस्तस्य वक्ष्यामि लक्षणम् ३
धात्री श्लैष्मिकदुग्धा तु फक्कदुग्धेतिसंज्ञिता
तत्क्षीरपो बहुव्याधिः कार्श्यात् फक्कत्वमाप्नुयात् ४
पित्तानिलप्रकृतिकी पटुक्षीरा पटुप्रजा
कुतः पङ्गुजडा मूका त्रिदोषक्षीरभोजिनः ५
हृदयात् संप्रवर्तन्ते मनःपूर्वाणि देहिनाम्
इन्द्रियाणीन्द्रियावश्चौद्वा—हितम् ६
तत्र वागिन्द्रियं त्वेकं द्विधा भिन्नं यथा करौ
अर्धेन शब्दं वदति गृह्णात्यर्धेन तं पुनः ७
तस्माच्च मूका भूयिष्ठं भवन्ति बधिरा नराः
वाङ्मूलं हि स्मृतं श्रोत्रं वाग्भ्रंशे भ्रश्यते हि तत् ८
मूलं वाच्छोत्र म—च्च बधिरो नरः
ब्रवीति मूले हि हते हतावा— ९
क्षीरजं गर्भजं चैव तृतीयं व्याधिसंभवम्
फक्कत्वं त्रिविधं प्रोक्तं क्षीरजं तत्र वर्णितम् १०
गर्भिणीमातृकः क्षिप्रं स्तन्यस्य विनिवर्तनात्
क्षीयते म्रियते वाऽपि स फक्को गर्भपीडितः ११
निजैरागन्तुभिश्चैव — रो ज्वरादिभिः
अनाथः क्लिश्यते बालः क्षीणमांसबलद्युतिः १२
संशुष्कस्फिचबाहूरुर्महोदरशिरोमुखः
पीताक्षो हृषिताङ्गश्च दृश्यमानास्थिपञ्जरः १३
प्रम्लानाधरकायश्च नित्यमूत्रपुरीषकृत्
निश्चेष्टाधरकायो वा पाणिजानुगमोऽपि वा १४
दौर्बल्यान्मन्दचेष्टश्च मन्दत्वात् परिभूतकः
मक्षिकाकृमिकीटानां गम्यश्चासन्नमृत्युरुक् १५
विशीर्णहृष्टरोमा च स्तब्धरोमा महानखः
दुर्गन्धी मलिनः क्रोधी फक्कः श्वसिति ताम्यति १६
अतिविण्मूत्रदूषिकाशिङ्घाणकमलोद्भवः
इत्येतैः कारणैर्विद्याद्व्याधिजां फक्कतां शिशोः १७
गर्भिणीमातृकेनैव —
— मनाथानां विशेषतः
प्रदुष्टग्रहणीकाश्च प्रायशो बहुभोजिनः

फक्का भवन्ति तस्माच्च भुक्तं तेषामपार्थकम्
मन्दाग्नित्वाद्रवोत्सर्गाद्बहुमूत्रपुरीषिणः

— कारयेत् क्रियाम्

कल्याणकं पिबेत् फक्कः षट्पलं वा यथाऽमृतम्
सप्तरात्रात् परं चैनं त्रिवृत्क्षीरेण शोधयेत्

शुद्धकोष्ठस्ततः फक्कः पि —

न तु ब्राह्मीघृतं शूद्रः पिबेत्तद्ध्यस्य नाशनम्
प्रजाक्षयेण युज्यन्ते शूद्रा ब्राह्मीं पिबन्ति ये

मृताः स्वर्गं न गच्छन्ति धर्मश्चैषां विलुप्यते
दीप —-

— ल्या वा रास्नया मधुकेन वा

पुनर्नवैकपर्णीभ्यामेरण्डशतपुष्पयोः
द्राक्षापीलुत्रिवृद्भिर्वा शृतं क्षीरं प्रयोजयेत्
एतानि त्वेव सर्वाणि संभृत्य मतिमान् भिषक्
मांसस्य —

—पुनर्यूषं संस्कृतं क्षीरमेव वा
शाल्यन्नेन सहाश्नीयात् पिबेत्तं चापि नित्यशः

तेन प्राणं च लभते यानि रोगैश्च मुच्यते
तेनैव तैलं विपचेत् फक्कानां सर्वथोदितम्

रास्नामधु —।
— घृतं वा तैलं वा क्षीरं यूषमथो रसम्

द्विःसंस्कृतं प्रयुञ्जीत सर्वरोगैर्विमुच्यते
कफाधिकं चेन्मन्येत मूत्रमिश्रं पयः पिबेत्

प्रयोगेण हिताशी च फक्करोगैर्विमुच्यते
एरण्डांशुमतीबिल्व —

— शास्ते कार्या दशपलाः पृथक्
यवकोलकुलत्थानां प्रस्थं प्रस्थं समावपेत्

अपां पचेच्चतुर्द्रोणे कषायं पादशेषितम्
तैलप्रस्थं दधिप्रस्थं कषायं च पुनः पचेत्

तत् सिद्धं गोपयेद्यत्नात् सर्वथा संप्रयोजयेत्
बन्ध्यापङ्गु—

—ते इक्ष्वाकोः सुबाहोः सगरस्य च
नहुषस्य दिलीपस्य भरतस्य गयस्य च
एतेन लेभिरे पुत्रा गतिमायुर्बलं सुखम्
राज्ञां पूर्वोपदेशाच्च राजतैलमिति स्मृतम्

अनुग्रहप्रवृत्तौ हि राज्ञामासी — ।
—प्रशस्यते

त्रिचक्रं फक्करथकं प्राज्ञः शिल्पिकनिर्मितम्
विदध्यात्तेन शनकैर्गृहीतो गतिमभ्यसेत्

बस्तयः स्नेहपानानि स्वेदाश्चोद्वर्तनानि च
वातरोगेषु बालानां संसृष्टेषु विशेषतः

—जन्तोः सुखाश्च शय्यासनबस्तियोगाः
इति ह स्माह भगवान् कश्यपः
इति चिकित्सास्थाने फक्कचिकित्सितम्

धात्रीचिकित्सताध्यायः
अथातो धात्रीचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

धात्रीचिकित्सां निखिलां वक्तुमर्हसि मे मुने

सुखं दुखं हि बालानां धात्रीमूलमसंशयम्
इति पृष्टः स शिष्येण स्थविरेण महातपाः

धात्रीचिकित्सितं कृत्स्नं प्रोवाच वदतां वरः

— पुष्पिकी धात्री तीक्ष्णाग्निर्वातपैत्तिकी
समधातुः समाग्निस्तु विषमैर्विषमाग्निकी
आयुरारोग्ययोर्मूलं प्रजानां च समाग्निता

विषमः सर्वरोगाणां मूलं ह्रास—
तीक्ष्णस्य बृंहणं नित्यं मन्दाग्नेर्दीपनक्रिया

पथ्याशनं तु सततं विषमाग्नेः सुखावहम्
कल्याणकं षट्पलं वा प्रयोगेनोऽपयुज्यते

यथाबलं यथायोगं पञ्चक — ।
— ति यथाविधि
न तूपयोजयेत् क्षारं क्षारप्रायौषधानि वा

प्रजाविनाशनः क्षारो धात्रीणां स न शस्यते
म्रक्षणोद्वर्तनस्नानं शुक्लाम्बरनिषेवणम्

मृष्टमन्नं सुखा —
— धर्मतिर्धात्रीणां सुखहेतवः
मेदस्विनीनां धात्रीणां सिराकर्म प्रशस्यते

स्नेहस्वेदोपपन्नानामूर्ध्वं चाधश्च शोधनम्
ततः सा मेदसि क्षीणे स्रोतःसु विवृतेषु च

—यो रसः

कृशां च नष्टपुष्पां च बृंहयेत्तेन सिद्ध्यति
बलामूलतुला धौता दशमूलं शतावरी

गुडूची रोहिषं रास्ना वृश्चिकाली पुनर्नवा
वृषः सहचरोशीरसारिवासूर्वच
—काकजङ्घांऽशुमत्यपि

अश्वगन्धा मृगैर्वारुः कालाऽथ नवमालिका
अतिमुक्तकशार्ङ्गेष्टाकपित्थं त्रिफलेति च

दशमूलात् प्रभृत्येते भागा दशपलाः स्मृताः
यवाः कुलत्था माषाश्च —

—जलद्रोणे चतुर्भागावशेषिते

तं कषायं परिस्राव्य पुनरग्नावधिश्रयेत्
अथेमान्यौषधान्यत्र पलिकानि निधापयेत्

द्वे मेदे द्वे हरिद्रे च काकोल्यौ वृषजीवकौ
माषपर्णी —

त्वक्पत्रचन्दनोशीरं द्वे बले लवणद्वयम्

मूर्वा श्वदंष्ट्रा शार्ङ्गेष्टा श्यामा द्राक्षा सुरोहिणी
मधुकं हस्तिपिप्पल्यः कुष्ठं व्याघ्रनखं वचा

सूक्ष्मैलागुरुकाश्मर्यः शतपुष्पा परूषकम्
—नि च

शङ्खपुष्पी विशल्या च वृश्चिकाली मधूलिका
दाडिमानि चाम्लानि गुग्गुल्यादि सुगन्धि च
अक्षोटं पनसं भव्यं प्राचीनामलकानि च

शतावरी विदारी च मधुपर्णी त्रिषाणिका
—कषायार्धाढकं भवेत्
लवङ्गपुष्पं कर्पूरं स्पृक्काऽथ कटुकाफलम्

आढकं तिलतैलस्य क्षीरद्रोणं च पाचयेत्
तत् सिद्धं प्रतिसंहृत्य बलातैलं निधापयेत्

घृतभाण्डे दृढे दान्ते —
—सां म्रक्षणेषु प्रशस्यते
शाखागतं कोष्ठगतमस्थिमज्जसिरागतम्

बहिराभ्यन्तरायामं हनुस्तम्भं शिरोभ्रमम्
एकपक्षवधं शोषम्लानकार्दितगुल्मिनम्

बधिरं वेपमानं च —
—ऽपस्मारमुन्मादं कटपूतनाम्
कर्णशूलं शिरःशूलं ब्रध्नं मारुतकुण्डलम्

अशीतिं वातिकान् रोगान् योनिदोषांश्च विंशतिम्
रेतोदोषान् ग्रहान् सर्वान् बलातैलमपोहति

वृद्ध्यां —।
—ज्वरे जीर्णे तृतीयकचतुर्थके
नारीणां दुष्प्रजातानां योनिशूले श्रमेषु च

नानातिसारज्वरयोः कफरोगेषु सर्वशः
नाजीर्णकृशमूर्च्छासु न च्छर्द्यां च प्रयोजयेत्

एतेनैव विधानेन रास्नातैलं विपाचयेत्
निहन्ति रोगान् भूयिष्ठं य एते परिकीर्तिताः
शतावर्या बदर्याश्च गुडूच्या मधुकस्य च
पुनर्नवाया द्राक्षायाः पीलोः सहचरस्य च

वृषस्य नागवीर्याया अनन्ताशतपुष्पयोः
स्वनामपाकतैलानामेष एव विधिः स्मृतः

— लं पक्वं तैले सहाचरे

दद्यान्निर्मथ्य सततमेतदत्र विशेषणम्
श्योनाकतैलस्य विधिः स एव परिकीर्तितः

कषाये मधुमांसस्य दद्यात् त्रिंशत्पलानि तु
कपित्थतैलस्य विधिः स एव परिकीर्तितः

कपित्थानां तु पक्वानां तुलां दद्यात् स —।
—देव प्रकीर्तितम्

केवलं स्वरसस्यात्र दद्यात्तैलाच्चतुर्गुणम्
मीनतैलं च मीनानां कषायेण रसेन च

पक्वं बलातैलमिव वातव्याधिषु शस्यते
बलाकाहंसवल्गूनां क्रौञ्चसारसयोरपि

आटीशकुनकानां च तैलान्याहुः स्वनामभिः
— दौर्गन्ध्यनाशनम्
विधानं कीर्तितं पण्यं षण्ढबन्ध्याप्रजाकरम्
योनिनासामुखश्रोत्रदौर्गन्ध्ये पिच्छिलेषु च

कपित्थतैलं पिचुभिर्धारयेयुः सदा स्त्रियः
सहकाररसेनापि तद्वत्तैलं प्रशस्यते

विविधानां च तैलानां हृद्या—
—न्धानां च निषेवणम्

अत ऊर्ध्वं प्रवक्ष्यामि धातूणां शेषकर्म यत्
स्नेहपानात् प्रसूतानां षष्ठीमल्लकभक्षणात्
अतिमात्राशनाच्चैव विरुद्धाजीर्णभोजनात्

षष्ठिग्रहः कुमाराणां जायते देहनाशनः
असाध्यश्चानुषङ्गी च —
—मिता हारा धर्मशीला तपस्विनी
जीर्णाशिनी च सततं षष्ठीमतितरत्यसौ
प्राप्तायां वञ्चनायां च पञ्चकर्माणि कारयेत्

अथवा तपसोग्रेण शिवं स्कन्दं च तोषयेत्
अजीर्णं चापि धात्रीणां नित्यमेव न शस्यते

अजीर्णदूषिता दोषा धात्रीणां जनयन्ति हि
—ऽरुचिग्लानिमदमोहविचर्चिकाः

पामाकुष्ठालजीगुल्महृद्रोगश्वासकासकाः
हिक्कातन्द्राश्रमश्वासच्छर्द्यपस्मारविग्रहाः

रक्तपित्तभ्रमोन्मादशूलशोषगलग्रहाः
ऊरुस्तम्भः ससंन्यासस्तथाऽन्ये च महागदाः


मितपथ्याशनान्मातुः पुत्रे तेषामसंभवः
सुखोदयश्च धात्रीणां तस्मात्तदुपपादयेत्
वृद्धजीवक लोकेऽस्मिस्त्रयो दुष्करकारिणः

भिषग्धात्री च बालश्च त एव सुखदुःखिताः
परिज्ञानं विना वाताद्योषधकल्पने शिशोः


शास्त्रानुसारचेष्टाभिरिङ्गितैर्नित्यदर्शनैः

कर्त्तव्यं भेषजं बाले स कथं नाऽपराध्नुयात्
भिषक्कौमारभृत्यस्तैः कारणैर्नित्यदुःखितः

दुष्करं चापि कुरुते युञ्जन् साधारणाः क्रियाः
गर्भिण्याः सह गर्भेण धात्र्याः सह सुतेन च

—ज्ञातुमदूषकम्
धात्री पुत्रशरीरार्थं स्वशरीरोपशोषणम्

स्नेहात्प्राप्नोति सुबहून् क्लेशांश्चान्यान् सुदारुणान्
आशास्नेहकृपाधर्माद्रक्षणार्थं च मातरः
सहन्ते सर्वदुःखानि मानिनी चात्र कीर्त्यते
गर्भान् प्रभृति बालोऽपि —

अधिकं पीड्यते दुःखैरकुर्वन्नपि तत् स्वयम्
तस्माच्च धात्री सततं शुभचेष्टाऽशनस्थितिः

माता भवति पुत्राणां भुंक्ते पुत्रफलानि च
इति ह स्माह भगवान् कश्यपः
इति वृद्धजीवकीये कुमारभृत्ये चिकित्सास्थाने धात्रीचिकित्सिताध्यायः
समाप्तानि च चिकित्सितानि

काश्यप
Kāshyapa
सिद्धिस्थानम्
Siddhisthānam
Chapter 1 2 3 4 5 6 7 8
सिद्धिस्थानम्

अथ सप्तमं सिद्धिस्थानम्
राजपुत्रीया सिद्धिर्नाम प्रथमोऽध्यायः
अथातो राजपुत्रीयां सिद्धिं वक्ष्यामः १
इति ह स्माह भगवान् कश्यपः २
भगवन् राजपुत्राणामन्येषां वा महात्मनाम्
कतिवत्सर युक्तस्य बस्तिकर्म समीरितम् ३
स्नेहप्रमाणं किं बस्तौ बस्तयः के च तद्धिताः
केषु रोगेषु शस्यन्ते बस्तयः केषु गर्हिताः ४
आस्थापनमवस्थायां कस्यां केषु गदेषु च
बस्तिकर्मप्रमाणं किं — ५

हिताहितं व्यापदः काः किं च तासां चिकित्सितम् ६
ऋषिमध्ये तथा पृष्टः प्रश्नान् प्रोवाच कश्यपः
निबोध सम्यग्भवता महत्कार्यं प्रचोदितम् ७
बस्तिकर्म हि दुर्ज्ञानं बालकेषु विशेषतः
— ८
शिशूनामशिशूनां च बस्तिकर्मामृतं यथा
भिषजामर्थयशसी शिशोरायुः प्रजां पितुः ९
त्रयमेकपदे हन्ति भेषजं दुरनुष्ठितम्
तस्मादापन्नरोगेषु वातप्रायेषु देहिषु १०

जन्मप्रभृति बालानां बस्तिकर्मोपकल्पयेत् ११
इत्याह गार्ग्यो नेत्याह बालत्वादि दति माठरः
मासेन शस्यते मासाद्बालो हि स्यादवस्थितः १२
अल्पान्तरत्वान्नेत्याह तमात्रेयः पुनर्वसुः
चतुर्मास्योऽनुवास्य स्तु— १३
— प्राह स्तन्यक्षीरघृताशनात्
ऊर्ध्वाधो बृंहमाणस्तु रोगैः संतर्पणोद्भवैः

कृच्छ्रसाध्यो भवेद्ग्रस्तस्तस्मात् संवत्सराद्धितम्
तदा शक्यश्च शक्तश्च बालो व्रजति जल्पति

मति —
—न्नभुक्

पाराशर्यस्तु नेत्याह तदा दुर्ललितो हि सः

त्रिवर्षस्यैव तु हितं नेति भेलस्तमब्रवीत्
अल्पान्तरत्वाद्व्याघाताद्विभ्रमाणामसंसहात्

षड्वर्षप्रभृतीनां तु भेल —।
—षु पक्षेषु सूक्ष्मेष्वपि पुनः पुनः

निश्चयार्थं ततः सर्वे कश्यपं पर्यचोदयन्
स तेभ्यो निश्चयं प्राह शिशूनां बस्तिकर्मणि

अधस्तनोऽन्नभोक्ता च चयदावा—

—भिषक् पुण्याहे कनकरजतताम्रकांस्यत्रपुसीसलोहगजदन्ततरुवेणुशृङ्गास्थिनलानामन्यतमस्योपपत्त्या-मत्रकं कारयेच्छ्लक्ष्णमव्रणमृजु गुलिकामुखं गोपुच्छ—नोष्णोदकपरिषेकगन्धशुक्लवसनकुसुमरोचनाप्रतिसराभ्यलङ्करणभोजनविनोदान् क्रमेण सुखानाप्नुयात् । म्रक्षणोत्सादनोष्णोदकपरिषेकभोजनान्यहन्यहनि प्रागनुवासनादिष्यन्ते । पश्चान्निरूहेभ्य अ—कोष्णोदकोपचारब्रह्मचर्योपसेवनं च
विरिक्तवदिति परिषत्

तत्र श्लोकाः–
एतेन विधिना बस्तीन् दद्यादेकान्तरं भिषक्
अहन्यहनि बस्तीनां प्रणिधानं विनाशनम्

स्नेहो गुरुः स्वभावेन बहुत्वाद्ब—
—च्छूलं ज्वरोऽरुचिः

आनाहाध्मानकृमयो विड्भेदः कुष्ठसंभवः
अपस्मारजडत्वाद्यास्तस्मादेकान्तरं हितः

एकान्तरमपि प्राप्ते बस्तौ देये शरीरिणाम्
न देयो धातुवैषम्ये धातूनेव स सादयेत्

— विचक्षणः
निरूहयेदर्थतस्तु ह्रासवृद्ध्या निरूहयन्

जडीभवन्ति स्रोतांसि स्नेहदानात्पुनः पुनः

उद्घाटनार्थं शुद्ध्यर्थं तेषामास्थापनं हितम्

निरूहकाले संप्राप्ते यो बालो न निरूह्यते
स —

स्विन्नं पर्युषितं जीर्णं निवातशयनादिकम्
स्वभ्यक्तमकृताहारं भिषग्बालं निरूहयेत्

वातं मूत्रं पुरीषं च देहिनां विषमस्थितम्
अनुलोमयते शीघ्रं निरूहः साधु योजितः

आमं जडत्वमरचिं विष्टम्भं दो —
— दीपयत्यपि

वस्त्रस्य धावनमिव दर्पणस्येव मार्जनम्
आस्थापनं नृणां तद्वत् प्राज्ञैः कालोपपादितम्
अनुवासनवच्चास्य विधिः सर्वः प्रशस्यते
निरूहः पुनरावृत्तान्न तु वेगान् विधारयेत्

निरुपद्रवमाश्वस्तं —
—णां विकारे स्नानमिष्यते

हृद्रोगे पार्श्वशूलेषु कुष्ठेषु कृमिकोष्ठिषु
प्रमेहोदरगुल्मेषु वातशूले सकुण्डले

संसृष्टदोषरोगेषु लीनगम्भीरगेषु च
रक्ते श्लेष्मणि वा दुष्टे निरूहमुपकल्पयेत्

—येत्

आकेशाग्रनखाग्रेभ्यो बस्तिर्बृंहयते नरान्
वर्णतेजोबलकरमायुष्यं शुक्रवर्धनम्

योनिप्रसादनं धन्यं वन्ध्यानामपि पुत्रदम्

बस्तिकर्म कृतं काले बालानाममृतोपमम्
वातिकान् वातसंसृष्टान् —
—हबीजं सर्वं बस्तिरपोहति
यासां च गर्भाः स्रंसन्ते जाता वा न दृढाः सुताः
सुकुमार्यश्च या नार्यः सुभगा नित्यमैथुनाः

बहुस्त्रीकाश्च ये बाला ईश्वराणामयौवनाः
संक्षीयन्तेऽतिसङ्गाद्वा ये च —
— तेषां प्रशस्तममृतं यथा
इति ह स्माह भगवान् कश्यपः
इति सिद्धिस्थाने राजपुत्रीया सिद्धिर्नाम प्रथमोऽध्यायः १

त्रिलक्षणा सिद्धिर्नाम द्वितीयोऽध्यायः
अथातस्त्रिलक्षणं सिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
त्रिविधं लक्षणं पश्येन्नृणां पञ्चसु कर्मसु
दुर्यो—

—च पण्डितः
शरीरयात्रां कायाग्निं शक्तिं वर्णं बलं स्वरम्

दोषांश्च विकृतान् दृष्ट्वा यथादोषं विशोधयेत्
सर्वदोषाः प्रशाम्यन्ति बलमायुर्वपुर्वयः

अग्निः प्रजाश्च —

विरेचनेन शुद्ध्यन्ति प्रसीदन्तीन्द्रियाणि च
धातवश्च विशुद्ध्यन्ते बीजं भवति कार्मुकम्

मेदोदौर्गन्ध्यकफजै रोगैर्वान्तश्च मुच्यते
रोगोपशान्तिर्ह्रासो वा विशुद्धिलाघवासु —

आमाशयस्य पूर्णत्वं गौरवं हृदयस्य च

शीतज्वरागमाध्मानं ष्ठीवनं च मुहुर्मुहुः
शिरोग्रहोऽरुचिर्जाड्यमग्निसादोऽतिनिद्रता

आलस्यं व्याधिवृद्धिश्च विद्याद्दुर्वान्तलक्षणम्
— सां च व्यथनमतिवान्तस्य लक्षणम्
यदा तु पित्तं रक्तं वा पुरीषं मिश्रमेव वा

वमत्यविरसं शूली न स सिद्ध्यति कुर्वतः
आमपक्वाशयौ पित्तं गुदो गर्भाशयासृजी

विरेक —
—क्षुद्वातमूत्रानुलोमता
लाघवं चाग्निदीप्तिश्च सम्यक्स्रंसितलक्षणम्

कृच्छ्रविण्मूत्रता त्वक्षपिडका ज्वरसंभवः
अरुचिर्गौरवाध्माने दुर्विरिक्तस्य लक्षणम्

मूर्च्छा शूलं गुदभ्रंशो वात —
बृंहणं कर्शनं चैव द्विविधं नस्यकर्म तु
बृंहणं वातरुक्प्राये कफाधिक्ये तु कर्शनम्

बृंहणं विविधैः स्नेहैर्मधुरौषधसंस्कृतैः
सूक्षैर्वा कटुसिद्धैर्वा स्नेहैः कर्शनमुच्यते

ते गुणा बृहण —
— नस्यमुच्यते

रोगशान्तिः प्रमोदश्च देहयात्रानुवर्तनम्
स्मृतिमेधाबलाग्न्याप्तिरिन्द्रियाणां प्रसन्नता

विद्धि सम्यक्कृते नस्ये दुर्योगस्तदलक्षणैः
उन्मादवातपित्ताँश्च —
— हृद्द्रवौ
सूर्यावर्तो न तृप्तिश्च नस्येनात्यपतपिते

अग्निदीप्तिर्वयःस्थानं पुष्टिर्वर्णो धृतिर्बलम्
वातानुलोमता शान्तिः स्वनुवासितलक्षणम्

विषादस्तृप्तिररुचिर —
—णम्

विष्टम्भो गाढवर्चस्त्वं रोगवृद्धिर्विवर्णता
वेपथुर्वातवृद्धिश्च रूपं दुरनुवासिते

शुद्धस्फटिकसंकाशं यदा श्लेष्म विरिच्यते
विना मूत्रपुरीषेण —


निरुपद्रवता क्षुच्च निरूढः सम्यगुच्यते
विण्मूत्रनिग्रहः शूलमानाहो व्याधिसन्नतिः

तन्द्री निद्राऽरुचिस्तृप्तिर्दुर्निरूढस्य लक्षणम्

वातप्रकोपो बलवान् सर्वदेहो —

—बस्तयः कर्मसंज्ञिताः
अन्तरेषु निरूहाः स्युरतश्चोर्ध्वं न दापयेत्
इति ह स्माह भगवान् कश्यपः
इति सिद्धिस्थाने त्रिलक्षणासिद्धिर्नाम द्वितीयोऽध्यायः २

वमनविरेचनीयासिद्धिर्नाम तृतीयोऽध्यायः
अथातो वमनविरेचनीयां सिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

मयस्वलक्षणैर्वमनेनोपपादयेद्विधिवदुपस्निग्धमग्निबलावेक्षी वा यथाशक्तिस्विन्नमुषितमपरेद्युर्विजीर्णभक्तं प्रातरेव दन्तकाष्ठाद्यनु–कटफलनिचुलशिरीषादीनां लाभतः पल्लवान् सर्वशो वाऽऽहृत्यापां द्रोणमात्रेऽधिके वारिण्युत्क्वाथ्य ग्रहघ्नीकृतवेधनवचासैन्धवपिप्पलीवत्सकत्रपुसमदनबीजा — उपविष्टमासने प्राङ्मुखो भिषगालोड्य तं कषायं ग्रहघ्न्यादिकल्कैर्नातिघनोष्णशीतमाकण्ठात् पाययेत् यथाबलमरिष्टं वा पञ्चषट्कालोत्तरमथ विधायोत्पलकुमुद—न वेगमुत्पन्नमवगृह्णीयात् न वेगान्तरे विश्रमयेत् उपसंगृहीतपार्श्वः
स्यादीषन्न्युब्जः

वमनं तु द्वित्रिवेगं कनीयः चतुष्पञ्चवेगं मध्यमं षट्सप्तवेगमुत्तममिति कोत्सः श— महतां कृशमध्यबलवतां योग्यमिति पाराशर्यः व्याध्यवेक्षमिति भूयांसः ॥ अथैनं वान्तमुष्णाभिरद्भिराचाम्य निवाते प्राक्शिरसं शाययित्वाऽपामार्गपिप्पलीशिरीषान्यतमतण्डुला — रितविलग्नस्य कफस्याकर्षणार्थं संक्षम्य तिष्ठन् प्रतिश्यायशिरोरोगाक्ष्यभिष्यन्दकर्णशूलकर्णपाकमन्याग्रहदन्तपुष्पुटकदन्तमूलशोथ-कण्ठगलग्रह — स्य मण्डादिदिवाजागरोष्णोदकोपचार उपदिष्टः पथ्यतमः । शृङ्गवेरशृतमुदकं पिपासितः पिबेदीषदुष्णम् । अल्पशोऽपि शीतं ह्यस्य प्रतिश्यायादीन् प्रकोपयति — कुष्ठहृल्लासज्वरारुचिनिद्रातन्द्रीरुपजनयति तस्मादित्येतत् षड्वर्षादीनामर्थे तदुपदेक्ष्यामोऽतिबालो ह्यशक्त एनं विधिमनुष्ठानहिते चक्षुराख्याति न — दुपगृह्य देयमातङ्कशमनं विडङ्गमात्रं बदरास्थिमात्रं बदरमात्रमामलकमात्रमौषधं सर्वमेव संभृतं स्यात् । वमनोपगं विरेचनोपगं वा चाचुर्मास्याष्टम —षु सर्वाणि सशर्कराणीति वृद्धकाश्यपः । तेषां पलाध्यर्धपलद्वित्रिपलान्यालोडनानि युक्त्या वा ततो विधार्य भिषग्धात्री वा कुशला कॢप्तन्खयाङ्गुल्यान्तर्खावयवा —थ सर्पेण गौतमी वाऽङ्गुली हीना स्यान्नस्यमेकेनेति वृद्धकाश्यपः अतिबालस्य सक्षौद्रशर्करमपामार्गतण्डुलद्वयं त्रयं वेति वैदेहो जनकः ॥ अथ खलु — नैरतिबाले हि भगवन् भिषग्वमनादीनि प्रयुञ्जानः कालमात्रावयोव्याधिबलाबलानामनभिज्ञो बालविनाशायात्मधर्मविनाशाय च संपद्यत इत्याह — मिति वार्योविदः धात्रीगुरुलघुत्वहेतोरिति वात्स्यः धात्रीशर्मणि शिशुशर्मेति भूयांसः

अथ भगवान् कश्यपोऽब्रवीदसम्यगेतत् सर्वमप्यसाधकम —-
मिति

तत्र श्लोकाः –
शिशोर्व्याधौ समुत्पन्ने धात्रीणामेव शोधनम्
अलं बालसुखायेति को लोके नावबुद्ध्यते

यस्तु कायगतस्तस्य दोषाणां पूर्वसंचयः
अनुद्धृते कथं तस्मिन् —
— व्याधिस्तस्य प्रशाम्यति

अनागतविघातस्तु न वर्धयति वाऽऽशयम्
उभयोस्तु यदा सम्यक्शोधनं कुरुते भिषक्

तदाऽऽरोग्यं भवत्याशु शिशोर्लेखा यथाऽश्मनि
दोषाणामाशयो धात्री भूधराः सरितामिव

— रोभूतो दोषो बालं प्रबाधते

तयोः संशोधनमृते न शातिरिति धारणा
स्वयं छर्दयते यस्तु पीतं पीतं पयः शिशुः

न तं कदाचिद्बाधन्ते व्याधयो देवमानुषाः
स्तनमौ —
— रार्यते

मुखपाकं च बालानां कुर्याद्धात्र्या ज्वरं तथा
तस्माद्बलादिवाचूच्या दद्यादेवौषधं शिशोः

अथ खलु विधिवदुपस्निग्धस्विन्नसुखोषितजीर्णाहार — दन्तीश्यामाकम्पिल्लकनीलिकासप्तलावचाविषाणिकादीनां पूर्वोक्तानां लाभतः कर्षिणां भागानर्धपलिनां वा प्रस्थद्विप्रस्थमात्रीष्वप्सु चतुर्भागावशेष— मूत्रसंयुक्तं नातिद्रवोष्णशीतं पाययेत् कालबलवयोगदावेक्षम् । बालं तु पूर्ववदाडूकेन प्रपाययेन्नवनीतेन वा सार्धमेतं लेययेत्तपश्चित्तं नित्यं द्वित्रिवेगं चतु—मेकद्वित्रिप्रस्थम् । अत
ऊर्ध्वमतियोगमाचक्षते । तत्रापि वमनवदुपचारः सर्व इति

तत्र श्लोकाः–
पित्तान्तं वमनं कुर्यात् कफान्तं च विरेचनम्
स्वयं चोपरतं श्रेष्ठमनाबाधं त —

— न तु वेगान् विधारयेत् ।
हस्तस्वेदं च शूलेषु बालकानां विधापयेत्

षड्वर्षप्रभृतीनां तु पटस्वेदः प्रशस्यते

अथ खल्वतिबृंहणादतिरौक्ष्यादतिकार्श्यादतिमांसमेदो ऽत्यल्पौषधत्वादौषधस्यातिघ-नत्वादतिद्रवत्वादत्युष्णत्वादतिशीतत्वादतिमधुरत्वादतिकटुत्वाद-तिलवणत्वादतिकषायत्वादत्यम्लत्वादतिक्षारत्वादतिबीभत्सरूपरसगन्धत्वात् — न्नस्य पीतौषधस्य वा प्रचलायतः प्रस्वपतोऽन्यमनसः शीतवातशीतगृहशीतोदकशीताम्बरोपसेवनादुपानत्पादुकाग्निवर्जनाद्वेग-विधारणाद्वेगप्रेरणात्—वमनविरेचनौषधानां दुर्योगातियोगावुत्पद्येते तयोर्लक्षणानि भवन्ति — आध्मानप्रतिश्यायविबन्धहृदयोपग्रहशूलपरिकतिकाच्छर्दिशिरोग्रहप्रवाहिकाहिक्काश्वा-सकासतालुशोषकण्ठ—मुखवैरस्यनिष्ठीविकोरोघातज्वरविषादस्रोतोमलप्रादुर्भावा दुर्योगलक्षणोपद्रवाः । श्रमदौर्बल्यविषादमोहस्मृतिश्रोत्रभ्रंशवान्क्तनुत्वविप्रलापजीवादानपक्वाशयशूलाप्लवन — मुखहृदयशोषमन्यापार्श्वाक्षेपहृदयकम्पकेशमुखाङ्गरूक्षताकटिबस्तिवङ्क्षणशूलमेढ्रदाह-गुदशूलपाकभ्रंशातीसारोरुकम्पजानुघातजङ्घावा—च महागदा अतियोगादुत्पद्यन्ते

वमनं च विरेकाय विरेको वमनाय
यदा भवति तं प्राहुरतियोगविपर्ययम्

क्रूरकोष्ठोऽनुपस्निग्धोऽल्पेनौषधेन मृदुना प्रतिश्यायानाहकफप्रसेकाः । सश्लेष्मणि ज्वरेऽतीसारे चौषधं कुर्वतो बिवन्ध उत्पद्यते मृद्वल्पौषधेन वा । अतिविस्रंसनाद्गुदभ्रंशानिलप्रकोपसंज्ञानाश— परिकर्तिकाः । स्नेहस्वेदहीनस्याजीर्णे पिबतश्चौषधं प्रवाहिकाशूलच्छर्दिहिक्काध्मानश्वासकासारोचकहृल्लासग्रहाः । अतिस्निग्धस्य शूलतन्द्रीनिद्रागुदस्रावशिरो—दाहौष्ठसंवेष्टाग्निसादयक्ष्माणः । वेगविधारणाद्दोषत्रयप्रकोपश्चाल्पजीवादानोन्मादभ्रमाः । स्नेहस्वेदोपपन्नं मृदुकोष्ठमपि बहुनौषधेन य उपक्रमते तस्यौषधं जीवादानाय संपद्यते — गुणमवाप्नोत्यनिलं चास्य प्रकोपयति स प्रकुपितः प्रलापोन्मादहिक्काश्वासकासतालुशोषतृष्णाशूलबाधिर्यवाग्ग्रहबीजोपघाततिमिरपुष्पो-पघाताय संपद्यते — मतिलवणमतिकषायमतिप्रतान्तकालमनुदीरितमवशेषितमौषधं वमनीयमुपकल्पितमस्य विरेचनाय संपद्यते । अजीर्णे सश्लेष्मणि वाऽतिद्रवमतिशीत — यतो वा विरेचनं वमनाय संपद्यते तमौषधविपर्ययमाचक्षतेऽतियोगं च । स्नेहनिरूहयोश्चोर्ध्वभावं च दोषाणां मन्दप्रवृत्तिर्दुर्योगोऽप्रवृत्तिरयोगः । तयो — शोधनमिष्यते निरूहो वा । तदस्य परिकर्तिकाध्मानपरिस्रावाटोपशूलनिद्रातिविषादरोगोपशमाय भवति । त्रिफलाचित्रकोरुपूगदन्तीश्यामासिद्धं चैनं घृतं पाययेत् प्रयोगेण अथवा जीवनीयौषधसिद्धं सर्पिस्तैलं पयो वा बस्तिना दद्याद् विबन्धाटोपशूलपरिस्रावप्रवाहिकामारुतोपशान्तये — त्रिफलाकाश्मर्यमृद्वीकागन्धत्वङ्मूलशृतं वा पयो विबन्धपरिस्रावयोर्बस्तौ प्रशस्यते । गन्धर्वतैलं चास्यानुवासने प्रशस्यते सर्वानिलामयोपशमनं सिद्धं वा गन्धर्वकषायेण हिङ्गुदारु — दारुबिल्वशलाटुपथ्यापूतिककल्केनाम्लकाञ्जिकयोपसिद्धेन पूर्ववदेवानुवासनं सर्वोपद्रवशमनमाहुरेतद्गन्धर्वतैमित्युच्यतेऽनुवासनीयमिति

तत्र श्लोकाः ।
— मानस्य तथाऽतिमात्रं शीताम्भसा लेहनमेव पथ्यम्

तथोभयोः शीतकषायपान—
घृतेन चैन सशिरस्कमाशु दिग्धं सुशीतेन जलेन सिञ्चेत्

पादौ च धाव्यौ शिशिरोदकेन —
—ष्टः ।
सकट्फलं पद्मयवासमोचं सकेशरोशीरसमङ्गयुक्तम्

एतैःसुपिष्टैःशिशिराम्बुयुक्तैःकल्कैस्तथा शीतपयोद्रुमाणाम्
प्रलिप्यमानं सशिरस्कपादं सं —

— श्च शय्याशनपानभोज्यैः ।
संस्थापयेदत्ययमाशु विद्वान् गृह यथा प्रज्वलितैकदेशम्

द्रव्यैस्तु तैरेव यथोपपत्त्या शृते जले छागपयोऽर्धमिश्रे ।
संस्कृत्य शाल्युत्तमलाजपेयां —

—द्रुते च्छर्दिरुदीर्यते हि ।
अल्पाल्पकं चैव विलम्बितं च शीतं कषायं तु पिबेद्वरिष्ठम्

फलाम्लवल्कश्च रसाञ्जनं च लोध्रं च तत्तण्डुलवारियुक्तम्
पिबेद्विरेके वमनेन वृद्धे तेनाशु शान्तिं लभते हि बालः

— नाम् ।
तत् स्थापनं श्रेष्ठमुदाहरन्ति कपित्थसिद्धश्च रसश्च मध्वा

जम्ब्वाम्रवेतसपयोद्रमाग्रैस्तोयं विपक्वमथ दुग्धमिश्रम्
भूयः शृतं प्रवरमाहुरेतत् पाने तथा बस्तिविधौ प्रयुक्तम्

—घ्नमोचौ ।
धातक्यथैतैरुदकं पयो वा शृतं यवागूश्च हिताऽतियोगे
मांसानि मुख्यानि च जाङ्गलानि संस्कृत्य यूषाम्रसकापयश्च
साज्ये विदद्ध्यादतियोगशान्त्यै —

— सा विरेको गुदशूलपाकौ
उपद्रवाश्चापि न कीर्तिता ये सर्वे शमं यान्ति भवत्यरोगः

स्वभ्यक्तगात्रस्य तु वातशूले स्वेदं यथायोग्यमुशन्तिवैद्याः ।
पेयां पिबेद्दीपन —
इति ह स्माह भगवान् कश्यपः
इति सिद्धिस्थाने वमनविरेचनीयासिद्धिर्नाम तृतीयोऽध्यायः ३

नस्तःकर्मीयासिद्धिर्नाम चतुर्थोऽध्यायः
अथातो नस्तःकर्मीयां सिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
शोधनं पूरणं चैव द्विविधं नस्यमुच्यते

कफानिलाधिकत्वे ष — कवृश्चीकापिप्पलीक्ष्वाकुक्षवकप्रवरकशिग्रबीजशिरीषबीजापामार्गबीजनक्तमालबीज-लसुनबीजमयूरकसैन्धवसौवर्चलवराङ्गत्वग्ज्योतिष्मतीविश्वभेषजाद्यन्यतमं द्वे त्रीणि — धौतायां दृषदि बीजपूरकस्वरसमूर्च्छितमार्द्रकस्वरसमूर्च्छितं वा तयोर्वाऽन्यतमं क्षौद्रमृद्वीकासंयुतमाडूके समवाप्येषदुष्णं कृत्वाऽऽतुराय प्राक्शिरसे शयानायोन्न तनासाग्राय —गलधमनीमुखललाटनासिकाशिरःश्मश्रुमुखमन्यादेशानर्हतः स्वेदयित्वा भिषग्भिषगनुमतो वा वामेनाङ्गुष्ठेनावनम्य नासिकाग्रं शिरस्तो भवेद् दक्षिणे — त्वन्यत्राल्पशोऽल्पशो दत्त्वा श्लेष्माणमाकर्षयेदभीक्ष्णं च हृदयादीनङ्गावयवान् स्वेदयेत् परिमृद्नीयादनु त्वल्पकफप्रसेचनात् । त्रिचतुष्पञ्च कृत्वेति वा — तः शुष्कचूर्णानि प्रधमनानि जिघ्रतो वस्त्रपुटिकाबद्धानि भवन्ति । क्षौद्रयुतानि त्ववपीडः स्यात् । मुखनासिकयोरलं कफं विघातयतीति परिषत् ॥ तैरेव कटुतैलमज्जामूत्रसिद्ध — । बालाय धात्र्यङ्कगताय बलादुपगृह्य देयं व्याधिर्ह्युपेक्ष्यमाणो विषवत् परिणमति तस्मान्नातिद्रतं नातिविलम्बितं नातिघनं नातितनुं नात्युष्णं नातिशीतं —द्वा पिपासतः पीतवतो वा नापक्वे प्रतिश्याये नाजीर्णे न वातशिरोरोगज्वरयोर्न श्रमे न शिरःस्नातुकामस्य न सद्यःशिरःस्नातस्य न रजस्वलायाः — कर्म विदध्यादन्यत्रात्ययात् । तस्यातिद्रुतं दत्तमौषधं प्राणानुपरुणद्धि खानि चास्योपतप्यन्ते श्वासकासहिक्कालालास्राववाग्ग्रहायासाश्चोत्पद्यन्ते । — वाऽत्युष्णं दाहं व्रणान् दिवाकरावर्तं चोत्पादयति । अतिशीतं विष्टम्भयति । अतिबहु सकृदाशु प्रत्यागच्छति । अल्पं शश्वदावेजयति । अतिबहुशो वातप्रको — अतितीक्ष्णमजस्रं स्मृतिभ्रंशोन्मादवातादीन् प्रकोपय
ति । एतेनैवोपचारो व्याख्यातः
अथ पीतवतो नस्यकर्मणा नासास्रावशिरोरोगगौरवकफप्रसेका — पक्वे प्रतिश्याये घ्राणोपघातपूतिनाससोर्मीरमिन्मिन नासार्शांसि । अजीर्णप्रतिश्याये पार्श्वोपरोधकण्ठोद्ध्वंसकासश्वासच्छर्दिज्वरारोचकारतयः । शिरःस्नातस्य — ऽर्धावभेदकज्वराग्निनाशाः । वातज्वरादिषु तानेव रोगान् संतनोति । रजस्वलाया ऋतुर्व्यापद्यते । शुद्धस्नाताया योनिरुपशुष्यति । गर्भिण्या हीनाङ्गस्य — पघातारोचकौ । बुभुक्षितस्य क्लमारुची । तृषितस्य कासश्वासकफच्छर्दयः । अथ खल्वेषां यथार्थमौषधमुपदेक्ष्यामः रूक्षं स्निग्धं वोभयं हि नस्तःकर्म — तेषां स्वं स्वं चिकित्सितमविरुद्धम् । अयं चात्र विशेषः – मृद्वीकादाडिमजम्ब्वाम्रमुस्तशृतं कषायं शीतं स्रुतं पूतं सक्षौद्रशर्करं पाययेच्छर्द्याम् । पूर्ववच्च — प्रशस्यते । रक्तशालिमुद्गमण्डसैन्धवोष्णभोजनं च स्वेदलङ्घनकवलग्रहावपीडष्ठीवनानि च धूपनधूमपाने च प्रतिश्याये लङ्घनमिति परिषत् ॥ जीर्णे — कफप्रसेके त्रिफलाचूर्णं ससैन्धवं सक्षौद्रं वा लिह्यात् । चक्षुषोरुक्तं सैन्धवमरीचरसाञ्जनमनःशिला वाऽजाक्षीरपिष्टा वर्त्यः कण्डूतिमिरोपदेहदूषिकाशमन्यो भवन्ति । रसक्रिया वा स — शिरोविरेचनधूमपानावपीडवमनविरेचननिरूहपथ्यभोजनानि शस्यन्ते । देवदारुतालीसमांसीमुस्तशिगु?रगन्धर्ववासकपुनर्नवाकल्कैः सक्षौद्रैस्तैलं पक्वमभीक्ष्णमुपचार्यमाणमस्य योऽतिनस्या — र्य तृष्णालोः शीततो वेपमानस्य तीक्ष्णं शिरोविरेचनमनिलशङ्खहनुस्तम्भदिवाकरावर्तातिमोहानुपज नयति ज्वरं वा सोपद्रवं तेषु कुमारतैलं यष्टीमधुकतैलं पुनर्नवातैलं घृतं वा तद्वत्संस्कृतं वा — त्रकं प्रशस्यते जाङ्गलश्च संस्कृतो रसः । निद्रानाशे मत्स्यमांसदधियवगोधूमशालिषष्टिकान्नगुडसंस्कृतानि स्नेह लवणवेषणोपदंशयुक्तान्यानयन्ति निद्राम् । रजस्वलायाः स्नाताया गर्भिण्याश्च पुष्पाध्याययूषाध्याय — येभ्योऽध्यायेभ्यो भेषजं विदद्ध्यात् । क्षीरं
वा जीवनीयोपसिद्धमिति परिषत्

तत्र श्लोकाः –
कुमारतैलमेतेषां व्याधीनां शमनं परम्
नस्ये पाने तथाऽभ्यङ्गे पुराणं घृतमेव च

लङ्घनं धूमधूपौ च स्वेदोष्णपरिषेचनम्
उपनाहोऽवपीडश्च श —

यवान्नं शालयो मुद्गधात्रीदाडिमसैन्धवम्
हितं नस्यविधौ भोज्यं तदा ह्यार्तस्य विभ्रमे

नस्यकर्मणि बालानां स्तनपानां विशेषतः
कटुतैलं प्रयुञ्जीत घृतं वा सैन्धवान्वितम्

बिन्दुं बिन्दुमथो द्वौ द्वौ त्रींस्त्रीन् वा रोगदर्शनात्
अङ्गुल्या नासयोर्दद्यादपिदध्यात् क्षणं ततः

तेनास्य पच्यते श्लेष्मा श्लेष्मणा न च बाध्यते
स्नानादीन् परिहारांश्च यथोक्तानुपचारयेत्
इति ह स्माह भगवान् कश्यपः
इति सिद्धिस्थाने नस्तःकर्मीयासिद्धिर्नाम चतुर्थोऽध्यायः ४

क्रियासिद्धिर्नाम पञ्चमोऽध्यायः
अथातः क्रियासिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
क्रियाणां सिद्धिमन्विच्छन्नित्यं ब्रूयाद्भिषङ्नरः
तैलपात्रमिवात्मानं — रोगदर्शनात् ३
अजीर्णं मैथनं यानमुच्चैर्भाष्यं दिवाशयम्
अतिचङ्क्रमणस्थानमसात्म्यादि च वर्जयेत् ४
अजीर्णे वर्धते व्याधिः पुनः कार्श्यं च जायते
क्रियायां मैथुनाच्छाण्ढ्यं पाण्डुत्वं च निगच्छति ५
योऽतीव नित्यं रमते यानाद्वातश्च कुप्यति
अग्निसादो दिवास्वप्नात् कफवृद्धिर्ज्वरोऽरुचिः ६
मन्यास्तम्भः शिरःशूलं वाक्पार्श्वहनुसंग्रहः
कण्ठोद्ध्वंसः श्रमो ग्लानिर्ज्वरश्चात्युञ्चभाषणात् ७
कटीवङ्क्षणपादोरुजानुबस्त्यनिलामयः
शर्कराश्मरिखल्ल्याद्या अतिचङ्क्रमणोद्भवाः ८
सुप्तताऽधरकायस्य तन्द्रीजाड्यादिविभ्रमाः
वातशोणितहृल्लासप्रे — ९
वैवर्ण्यमरुचिर्ग्लानिः कण्डुपाण्डुज्वरभ्रमाः
कामलाकुष्ठवैसर्पपामाद्याश्चाप्यसात्म्यजाः १०
तेषां चिकित्सितं स्वं स्वमविरुद्धं विधापयेत्
कृशान् संबृंहयेच्चापि कर्शयेत् परिबृंहितान् ११
अतिदीर्घमतिस्थूलं जर्जरं स्फुटितं तनु
कुटिलं — च वर्जयेत् १२
अतिह्रस्वः खरः स्थूलस्तनुदीर्घचिरस्थिताः
छिद्री महानुपहतो वर्जिता बस्तयो नव १३
अप्राप्तमतिनीतं च विन्यस्तमतिपीडितम्
स्रुतं विलग्नं शिथिलं रुद्धवातं चिराचिरम् १४
प्रज्ञापराधजा दोषाः प्रणेतुर्बस्तिकर्मणि
— भगन्दरम् १५
जीवकर्षभसिद्धेन तं घृतेनानुवासयेत्
निरूहयेत् स्रंसयेद्वा ततः संपद्यते सुखी १६
क्षीरं यवान्नशाकानि जङ्गलान्यामिषाणि च
भोजयेत् स्नेहयुक्तानि गुदरोगोद्भवे शिशुम् १७
इति ह स्माह भगवान् कश्यपः
इति सिद्धिस्थाने क्रियासिद्धिर्नाम पञ्चमोऽध्यायः ५

बस्तिकर्मीयासिद्धिर्नाम षष्ठोऽध्यायः
अथातो बस्तिकर्मीयां सिद्धि व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
— गुदे मलाभिभूते गुदे समुपस्थितानिले वोपस्थितपुरीषे वा संस्थितश्लेष्मणि वा नेत्रे वा जिह्मे शिथिलवत्यपीडिते न स्नेहः
पक्वाशयमनुप्राप्नोति । तमयोगं विद्यात् ३
यः — वातपित्तकफपुरीषमूत्राभिभूतस्य — गच्छन्नूर्ध्वं वा प्रपद्यते विरिक्तस्रतविशोषिततृषितबुभुक्षितश्रान्तचिन्तेर्ष्यायासशोकभयार्तस्य वा न प्रत्यागच्छति तमतियोगं विद्यात् । तयोस्तृष्णामूर्च्छाहृल्लासज्वरदाहहृद्रोगश्वयथशूलार्शः पाण्डुका मला—तिस्तैमित्याद्या
रोगा उत्पद्यन्ते । तत्रापि यथादोषं स्नेहस्वेदवमनविरेचनास्थापनफलवतिहितमिताशनादिभिः शममापद्यते

तत्र श्लोकाः –
भृशमुत्पीडितो बस्तिर्बाहुल्याद्वातमूर्च्छितः ।

— पित्तकफसंमिश्रो मुखे निपतितेऽपि वा ।
विष्टम्भयति वा तीव्रं प्राणानुपरुणद्धि वा

तृण्मूर्च्छास्वेदहृल्लासदाहगौरवविभ्रमाः
ऊर्ध्वमागच्छतस्तस्य रूपाण्येतानि लक्षयेत्

एतानि रूपाण्युपलभ्य —
—विश्राम्य विश्राम्य पुनः पुनश्च

निपीडयेज्जातबलं बलेन शीताभिरद्भिः परिषेचयेच्च
वित्रासयेद्भीषयेद्रोदयेच्च ब्रूयान्मृतान् वा स्वजनेष्टबन्धून्

बद्धान् हतान् विप्रकृतांस्तथैव शीताम्बुसिक्तैर्व्यजनै —
कुष्ठं सुपिष्टं कुमुदेन सार्धं गव्यं च पित्तं प्रपिबेज्जलेन
गोमूत्रयुक्तामभयां पिबेद्वा युक्तं त्रिवृत् सैन्धवसप्तलाद्यैः

विरेचनद्रव्यकषायसिद्धं सतैलमुष्णं लवणीकृतं च
निवृत्तदोषस्य सपञ्चमूलमास्थापनेऽत्यन्तमुशन्ति वृद्धाः

— म्बुयुक्तेन रसेन चैनम् ।
संभोजयेज्जाङ्गलकेन शालीन् स्नानादि सर्वं परिहारयेच्च

ततोऽस्य सात्म्याग्निबलाद्यवेक्ष्य संबृंहयेद्बस्तिभिरेव बालम्
आनाहिनं शूलरुजापरीतं सुस्निग्धगात्रं फलवर्तियोगैः

विस्रंसयेत् पथ्यभुजं यथोक्तं — ।
— गैश्च सकिण्वसिद्धार्थकमाषचूर्णैः

ससैन्धवैस्तैलगुडोपपन्नैर्यवोपमाः फलवर्तीविदद्ध्यात्
आनाहिनस्ताः प्रणयेदपाने षट् सप्त पञ्चेति वयोनुरूपम्
ताभिर्विरिक्ते लभते स शर्मे विरेचयेत्तदसिद्धौ तु तीक्ष्णैः
इति ह स्माह भगवान् कश्यपः
इति सिद्धिस्थाने बस्तिकर्मीयासिद्धिर्नाम
षष्ठोऽध्यायः ६

पञ्च कर्मीया सिद्धिर्नाम सप्तमोऽध्यायः
अथातः पञ्चकर्मीयां सिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

अथ खलु भगवन् देहिनां व्याधयः के वमनसाध्या के न के विरेचनसाध्याः के न केऽनुवासनसाध्याः के न के निरूह साध्याः के न —भगवान् कश्यपः–कफज्वरारुचिमुखवैरस्यकफप्रसेककफहृद्रोगविसूचिकाकासश्वासगलग्रहगलशुण्डि-कागलगण्डगण्डमालारोहिणिकाविदारिकाधोरक्तपित्तहृल्लासप्रमेहहलीमक—स्कन्दग्रहस्कन्दापस्मारस्कन्दपितृनैगमेषक्षीरगौरवक्षीरवृद्धिक्षीरघनत्वाजीर्णपरिकतिका-हृल्लासशूलाटोपातिविरिच्यमानगरितविषपी ताद्या वमनसाध्या इति ३

अत्र श्लोकः
कफाधिकाश्च ये रोगा — ।

वृद्धजीवक पुष्पिण्यतुमती गर्भिणी कुटीगताऽल्पक्षीरा लघुक्षीरा नष्टक्षीरा छीरच्छर्दनपुत्रा प्रच्छर्दिनी सुभगा पण्डितमानिनी जाठरी वातज्वरी स्थूलोऽक्षिरोगी तृष्णालुर्मूर्च्छावान्निरूढोऽनुवासितः क्षतः क्षीणःसोप—गैन्नोऽतिबालोऽतिवृद्धो गुल्मप्लीहोर्ध्वरक्तलोमव्यापत्कर्णरोगशिरःकम्पार्दितार्धावभेदकसूर्यावर्तरेवतीपौण्डरी-कशकुनीपूतनामुखमण्डिकार्ताश्च न वाम्याः अगर्भा गर्भकामा विवर्णक्षीरा स्रवत्क्षीरा मन्दाग्नयो — वैसर्पशोणितार्शोविषमाग्निकुष्ठश्वयथुश्वित्रोर्ध्वरक्तप्लीहगुल्ममधुमेहहलीमककामला-पाण्डुरोगहृद्रोगकृमिकोष्ठापस्मारोपस्तम्भोदावर्तकफोन्मादविद्रधिश्लीपदयोनि — द्या
इति

अत्र श्लोकः –
व्याकुलान् सन्निपातोत्थान् पैत्तिकान् कफपैत्तिकान्
संसृष्टान् कफमूलांश्च स्रंसनेनाभ्युपक्रमेत्

अनुपस्निग्धरिक्तकोष्ठकृशस्थूलदुष्णाफदुर्बल ललितसुकुमारश्रीधन-नष्ट — षक्षतपक्षहततृष्णातालुशोषोरुस्तम्भार्दितहनुग्रहवातहृद्रोगरेवतीकेवलवातार्ताश्च न विरेच्याः ॥ प्रतिश्यायकासश्वासशोषहिक्कामुखशोषापस्मारगलग्रहरोहिणिका — तिमुखार्बुदाधिमन्थनासार्शालज्युपजिह्विकागलगण्डगण्डमालागलशुण्डिकाक्ष्यभि ष्यन्दाश्च नस्ततो विरेच्याः

दन्तचालहनुस्तम्भमन्यास्तम्भशिरोग्रहबाधिर्यकर्णशूलार्धावभेदकसू-र्यावर्तापतानक—स्वरभेदवाग्ग्रहौष्ठस्फुरणतिमिरमुखनासिकादौर्गन्ध्याकालपलितखालित्यानिलात्म-कार्ताश्च नस्तत उपस्नेह्या इति

अत्र श्लोकः –
स्नेहयेद्वातिकान्नस्तः कफजांस्तु विरेचयेत्
ऊर्ध्वजत्रुगतान् रोगांस्तद्धि तेषां परायणम्

शोषमर्मवातप्लीहवातगुल्ममूत्रकृच्छ्रपक्वाशयशूलकुक्षिवातकुण्डलयोनिशूलोदा-वर्तसन्धिग्रहगात्रवेष्टगात्रभेदापतानकार्दिताल्पपुष्पानष्टपुष्पानष्टबीजाकर्मण्यबी-जपरीता—अनुवास्या इति

अत्र श्लोकः –
वातिका वातभयिष्ठाः शोषणाः स्तम्भना गदाः
हुण्डना भञ्जनाश्चैव तेऽनुवास्या हितैषिणा

हृदयग्रहपाण्डुत्वश्वयथूदरप्रमेहकुष्ठरोगार्शोभगन्दरराजयक्ष्मवैसर्प — कफरोगार्तांश्च नानुवासयेत् ॥ हृद्रोगोदावर्तवातगुल्मवातोदरविबन्धमूत्रग्रहबस्तिकुण्डलप्रमेहरक्तगुल्मयोनिजाड्योप-रोधपार्श्वरुजामधुमेहकुष्ठश्वित्रभगन्दरापस्तम्भसंसृष्ट — हृदयद्रवकृशव्याधिपरिगतरक्तातीसारमूर्च्छाशोथमैथुनश्रमभयचिन्तेर्ष्याप्रजागरहताश्च न
निरूह्या इति

अत्र श्लोकाः –
स्नेहप्रमाणं यद्बस्तौ निरूहस्त्रिगुणस्ततः
एके तु सममेवाहुर्वयःकालादिदर्शनात्

निरूहं यदि वा बस्तिमल्पमल्पं महर्षयः
प्रशंसन्ति बहु त्वज्ञाः प्रभूतादत्ययो ध्रुवः
य एते कफजा रोगा एते संतर्पणोद्भवाः
ते चापतर्पणीयाः स्युर्लङ्घनीयास्त एव च

य एव वातिका रोगास्तेऽपतर्पणजाः स्मृताः
त एव बृंहणीयाः स्युः संसृष्टास्तु ततः परम्

स्नेहस्वेदोपपन्नानामूर्ध्वं चाधश्च शोधनम्
सर्वसंसृष्टरोगाणां स्नेहनं न तु बस्तिभिः
इति ह स्माह भगवान् कश्यपः
इति सिद्धिस्थाने पञ्चकर्मीयासिद्धिर्नाम सप्तमोऽध्यायः ७

मङ्गलसिद्धिर्नामाष्टमोऽध्यायः
अथातो मङ्गलसिद्धि व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
मङ्गलान्येव सततं प्रजानामभिवर्धयेत्
सर्वे गृहस्थाः सेवेरन् दानानि च तपांसि च ३
मङ्गलाचारयुक्तानां नित्यं च नियतात्मनाम्
ददतां जुह्वतां चैव विनिपातो न विद्यते ४
आमः पक्वोऽपि वा स्नेहो बस्ति —
— नित्ये च तच्चोक्तमनुवासनम्

कषायैर्विविधैर्मिश्रः स्नेहः स्नेहैश्च मूर्च्छितः
सक्षौद्रमूत्रलवणो निरूहो दोषवाहनात्

त्रिफलाश्वगन्धाभूतीकदशमूलपुनर्नवाः
बलागोक्षुरकोशीर —
— लीनानि कुट्टयेत् ।
अष्टभागावशेषं तं जलद्रोणे विपाचयेत्

ततस्तेन कषायेण द्वौ प्रस्थौ तैलसर्पिषोः
पचेच्चतुर्गुणे क्षीरे कल्कं चेमं समावपेत्

सैन्धवं मधुकं द्राक्षां शतपुष्पां महासहाम्
बीजानि चात्मगुप्ताया मोर्वारुकस्य च

विडङ्गकुञ्चिकवचावृषकं शिरिवारिका
जीवनीयानि सर्वाणि दद्यात् खरबुषामपि

शैशुको नाम स स्नेहो बस्तिकर्मणि शस्यते
बालानां सर्वरोगघ्नो निदिष्टः पुण्यकर्मणा
वमनं स्रंसनीयानि दशमूलं च शोधयेत्
तत्कषायं परिस्राव्य गोमूत्रलवणान्वितम्

घृततैलार्धयुक्तोष्णं निरूहमुपकल्पयेत्
तेनास्य विलयं दोषा यान्ति वह्निश्च दीप्यते

श्रेष्ठामदनबीजानामाढकं निस्तुषीकृतम्
विपाचयेदपां द्रोणे चतुर्भागावशेषितम्

उपकुञ्चीखरबुषापिप्पल्यः सैन्धवं वचा
त्रपुसो — नि शतपुष्पा यवान्यपि

स कषायः समायुक्तः क्षीरगोमूत्रकाञ्जिकैः

सर्वानिलामयहरः स निरूहोऽर्धतैलिकः
त्रिफला सारिवा श्यामा बृहत्यौ वत्सकत्वचम्

त्रायमाणाबलारास्नागुडूचीनिम्बकूलकम्
— कल्पयेत्

महासहा शक्रयवाः शतपुष्पाऽथ वत्सकः
मधूकांशुमतीद्राक्षाः समुद्रान्ताऽथ बालकम्

क्षीरक्षौद्रघृतोपेतो निरूहः पित्तनाशनः
त्रिफलादारुभूतीककरञ्जद्वयचित्रकान्

एकाष्ठीलां विषाणीं च —
कणामूलं त्रिवृद्दन्त्यौ पूर्वकल्पेन शोधयेत्

ऊर्ध्वाधःशोधनैः कल्कैर्युक्तो लवणतैलयोः
ईषदुष्णः सगोमूत्रो निरूहः कफनाशनः

अयं तु सर्वदोषघ्नो निरूहः कत्तृणादिकः
कतृणोशीरभूतीकत्रिफला —

रास्नाश्वगन्धाश्वदंष्ट्राशिग्रुरयामाः शतावरी
एलापुनर्नवाभार्ग्यः सपटोला गुडूच्यपि

त्रिपलीनां जलद्रोणे पचेत् पादार्वशोपिते
ततस्तेन कषायेण पेष्याणीमानि योजयेत्

वचाजमोदे मदनपिप्पली —
सिद्धिस्थानस्यैतावानेव भाग उपलब्धः

काश्यप
Kāshyapa
कल्पस्थानम्
Kalpasthānam
Chapter 1 2 3 4 5 6 7 8 9
कल्पस्थानम्

कल्पस्थानम् धूपकल्पाध्यायः
—कुष्ठं पूतिकमम्बरं वचा

सर्षपा बस्तलोमानि धूपः स्याद्धिङ्गुसंयुतः
घृतं मेषविषाणं च वाजिकुञ्जरयोः खुरौ

कपिशल्यकबभ्रूणां लोमाभिर्धूप उत्तमः
घृतं सर्जरसः कृष्णो भल्लातकशिलेयके

द्वे हरिद्रे जतूशीरसर्षपाः पुष्पमार्जकम्
विडङ्गं तगरं पत्रं वचा हिङ्गु सबालकम्

कौमारो नाम धूपोऽयं युक्तो वर्धयति प्रजाः
घृतं सर्पस्य निर्मोको गृध्रकौशिकयोश्च विट्

वचा हिङ्गु च धूपः स्यादपस्मारग्रहापहः
घृतं गुग्गुलु बिल्वं च देवदारु नमेरु च

एष माहेश्वरो धूपो यवयुक्तो ग्रहापहः
आग्नेयस्तु स्मृतो धूपो गोबाला घृतसंयुताः

ब्राह्मणानां विशेषेण सर्वरोगेषु शस्यते
घृतं हयखरोष्ट्राणां बालाः केशाश्च मातृकाः

नखाश्चतुष्पदां लाभाद्धूपो भद्रङ्करः स्मृतः
पिशाचयक्षगन्धर्वभूतस्कन्दकफार्दिते

धूपमेतं प्रयुञ्जीत यमिच्छेदगदं क्षणात्
घृतं सिद्धार्थको हिङ्गु देवनिर्माल्यमक्षताः

सर्पत्वग्भिक्षुसंघाटी धूपो रक्षोघ्न उच्यते
घृतं सिद्धार्थकाः क्षौद्रं मेषशृङ्गमजापयः

खरस्य मूत्रं बालांश्च सोमं चैवात्र योजयेत्
एष धूपोत्तमो नाम्ना परः प्रेतनिवारणः

परः प्रेताभिभूतेषु पूतनायां च शस्यते
घृतं सिद्धार्थकाः श्वेताः कुष्ठं भल्लातकं वचा

बस्तलोमानि तगरं भूर्जावर्तं सगुग्गुलु
दशाङ्गो नाम धूपोऽयं प्रयोज्यः सर्वरोगिषु

अपस्मारे विशेषेण ग्रहेषूपग्रहेषु च
घृतं सिद्धार्थकाः श्वेताश्चोरकं सपलङ्कषम्

शूकरी जटिला चेति धूपो मोह इति स्मृतः
स्मृतं श्रीवेष्टका — रलाक्षापद्मकचन्दनम्

सदेवदारुसुरसं शालजं चेति योजयेत्
धूपोऽयं वारुणो नाम ग्रीष्मकाले प्रशस्यते

शकुन्यां पौण्डरीके च रेवत्यां च कफाधिके
घृतं मज्जा वसा लाक्षा धूपोऽयं चतुरङ्गिकः

अल्पदोषे कृशे बाले प्रयोज्यो ग्रहवैकृते
घृतं वचा तरक्षोश्च विष्ठा लोमानि चर्म च

प्रसहानां पुरीषं च धूपो नन्दक उच्यते
घृतं कणा व्रीहितुषाः कपिलोमत्वचं वचा

सर्षपाः कुष्ठमेला च कणधूपो ग्रहापहः
घृतं सर्पत्वचं बिल्वं सरः सिद्धार्थका जतु

श्रीधूप इति निर्दिष्टः श्रीकामेषुपयोजयेत्
श्वविण्मूत्रं मयूराणां लोमान्यथ वचा घृतम्

सर्षपाश्चेति धूपोऽयं ग्रहघ्न इति विश्रुतः
घृतं कुञ्जरदन्तं च तनुजान्यजमेषयोः

गोशृङ्गमिति धूपोऽयं पुण्यः पुण्यजनावहः
घृतं स्थौणेयकं मांसी तगरं परिपेलवम्

ह्रीबेरं शतपुष्पां च हरितालं मनःशिलाम्
मुस्तं हरेणुकामेलां धूपार्थमुपकल्पयेत्

शिशुको नाम धूपोऽयं सर्वरोगग्रहापहः
धूपने चानुधूपे च प्रतिधूपे च भार्गव

घृतं सिद्धार्थका लाजाः कुशाः सह —
सर्वतुल्या भवेद् ब्राह्मी धूपोऽयं ब्राह्म उच्यते
ब्राह्मणक्षत्रवैश्येषु प्रयोज्यो भिषजा भवेत्
सर्वरोगेषु सततं क्षिप्रं रोगान्निरस्यति

घृतं श्वदंष्ट्रा वसुका हरिद्रे परिपेलवम्
वचा भार्गी च धूपोऽयं प्रतिधूपः सुखावहः

घृतं च पद्मकोशीरं वालकं केसरं रसम्
प्रतिधूप इति ख्यातः सर्वरोगेषु शस्यते

घृतं वानरलोमानि कुक्कुटाण्डं वचा यवाः
सिद्धार्थकाश्च धूपोऽयं प्रतिधूपमहोदयः

घृतं निम्बस्य पत्राणि मूलं पुष्पं फलं त्वचम्
अरिष्टो नाम धूपोऽयमरिष्टं कुरुते क्षणात्

घृतं निम्बस्य पत्राणि खरमूत्रं वचा जतु
सर्षपाश्चात्र धूपोऽयं प्रतिधूपश्च शस्यते

घृतं निम्बस्य पत्राणि जतुसर्जरसाक्षताः
भासोलूकशकृच्चेति धूपोऽपस्मारनाशनः

घृतं निम्बस्य पत्राणि सुरसाश्वघ्नयोस्तथा
गोमेषबस्तबालाश्च भूपोऽय सर्वरोगहा

घृताक्षतं जातिपुष्पं मधु सिद्धार्थका वचा
गणधूप इतिख्यातः सर्वभूतरुजापहः

घृतं शल्लकिधूपश्च पुष्पं जातिशिरीषयोः
नमेरुणा समायुक्तो धूपः स्वस्तिक उच्यते

घृतं गुग्गुलुसंयुक्तं देवदारु घृतान्वितम्
कालागुरु च सर्पिश्च सर्षपाश्चापि सर्पिषा

तृणमृलस्य पत्राणि सारं पुष्पफलं त्वचम्
पञ्च धूपाः समाख्याताः सघृता ग्रहनाशनाः

गुग्गुल्वादीनि चैतानि दशाङ्गं च समापयेत्
गृहधूप इति ख्यातो न क्वचित् प्रतिहन्यते

सिद्धार्थाश्चेति धूपास्ते चत्वारिंशदुदाहृताः
भिषक्सिद्धिकरा नॄणां पुत्रदा रोगनाशनाः

एतैर्बालान् समापन्नानरिष्टागारमेव च
बस्त्रशय्यासनाद्यं च बालानां धूपयेद्भिषक्

पूर्वमेव भिषग्धूपं पुष्ययोगेन संहरेत्
उपोषितः शुचिः स्नातो मैत्राग्नेयोत्तरासु वा

वाचयित्वा बलिं कृत्वा श्रुत्वा शब्दान्मनोऽनुगान्
चतस्रः शुचयः कन्याः कुट्टयेयुरतन्द्रिताः

— तं धूपं निदध्याद्भाजने नवे
गोपयेच्च सुपिहितं काले चैनं प्रयोजयेत्

तत्कालमपि चापन्नः संभृत्याशु प्रयोजयेत्
ननु तस्मिन् ध्रुवा सिद्धिर्यथापूर्वोपकल्पिते

आघ्रातपरधूपस्तु यदि न प्रतिधूप्यते
आशु तं रोगमाप्नोति तदर्थं धूप्यते पुनः

धूपश्चैवानुधूपश्च प्रतिधूपश्च जीवक
त्रिविधो धूप उद्दिष्टः कर्मभेदाच्चिकित्सकैः

कौमारभृत्यास्त्वपरे जङ्गमस्थावराश्रयात्
द्वियोनिं ब्रुवते धूपं कश्यपस्य मते स्थिताः

कुतो धूपाः समुत्पन्नाः किंदैवत्याः किमाश्रयाः
कैर्नामभिर्मतास्तेषु दह्यमानेषु किं जपेत्

एवं महाजनगतश्चोच्यते भिषजा भिषक्
तस्मान्निर्णयमेतेषां प्रश्नानां शृणु तत्त्वतः

जाता जाता ऋषिसुता ह्रियन्ते राक्षसैर्यदा
तदा महर्षयः सर्वे वह्निं शरणमन्वियुः

होमजापतपोयुक्तास्ततस्तुष्टोऽग्निरब्रवीत्
इमान् धूपान् प्रयच्छध्वं प्रयुङ्ध्वं च मदर्पितान्

रक्षोभूतपिशाचेभ्यो न भयं वो भविष्यति
जातेषु वर्धमाने च रोगे धात्र्यां च युङ्क्त ह

ततस्ते मुनयस्तुष्टाः कश्यपं लोकवर्धनम्
ऋषिलोकहितं ज्ञात्वा युयुजुस्तत्र कर्मणि

अग्नेः सकाशाद्धपान् स संलब्ध्वा चाधिकोऽभवत्
अधृष्याः सवभूतानां कुमारास्ते च रक्षिताः

एवं धूपाः समुत्पन्नाः प्रजानां हितकाम्यया
निर्दिष्टाश्चाग्निदैवत्या जङ्गमस्थावराश्रयाः

विधूरस्यनुवाकेन सर्वमेवाभिमन्त्र्य च
प्रयुञ्जीत शिशौ रक्षां दह्यमाने जपेत्त्विदम्

अग्निस्त्वा धूपयतु ब्रह्मा त्वा धूपयतु शिवस्त्वा धूपयतु वसवस्त्वा धूपयन्तु रुद्रस्त्वा धूपयतु आदित्यस्त्वा धूपयतु मरुतस्त्वा धूपयन्तु साध्यस्त्वा धूपयतु देवा ऋभवस्त्वा धूपयन्तु विश्वे त्वा देवा धूपयन्तु सर्वे त्वा देवा धूपयन्तु छन्दांसि त्वा धूपयन्तु पृथिवी त्वा धूपयतु अन्तरिक्षं त्वा धूपयतु द्यौस्त्वा धूपयतु दिशस्त्वा धूपयन्तु दिशां त्वा पतयो धूपयन्तु देवीरापस्त्वा धूपयन्तु शिवस्त्वा पवमानो धूपयतु मित्रस्त्वा सविता सूर्यो धूपयतु चन्द्रस्त्वा सोमो धूपयतु नक्षत्राणि त्वा सुप्रजात्वाय धूपयन्तु नक्षत्राणां त्वा देवताः सुमनसे धूपयन्तु अहोरात्राणि त्वा शान्तये धूपयन्तु ऋभवस्त्वा पुण्याय कर्मणे धूपयन्तु संवत्सरास्त्वाऽऽयुषे ब्रह्मवर्चसे बलाय धूपयन्तु प्रजापतिस्त्वा सुप्रजात्वाय धूपयतु अश्विनौ त्वाऽऽरोग्याय दीर्घायुष्ट्वाय सहसे शेवसे धूपयताम् मातरस्त्वा स्निहा धूपयन्तु पितरस्त्वा तनोरच्छेदाय स्वधायै धूपयन्तु कुमारस्त्वा कौमाराय वसवे धूपयतु शाखस्त्वा यौवनाय धूपयतु विशाखस्त्वा मध्याय वयसे धूपयतु नैगमेषस्त्वा जरसे धूपयतु सर्वे त्वा देवा दिव्याय धाम्ने धूपयन्तु सर्वे त्वा ऋषयो ब्रह्मवर्चसाय धूपयन्तु सर्वास्त्वा नद्यः सुपीताय धूपयन्तु सर्वे त्वा पर्वताः स्थैर्याय धूपयन्तु सर्वास्त्वा ओषधोऽन्नाद्याय धूपयन्तु सर्वे त्वा वनस्पतयः सुव्रतानां श्रैष्ठ्याय धूपयन्तु सर्वे त्वा पशवः शक्त्यै शान्त्यै धूपयन्तु सत्येन त्वा धूपयाम्यृतेन त्वा धूपयाम्यृतसत्याभ्यां त्वा धूपयामि नमो
देवेभ्य इति जपेत् । इति ह स्माह भगवान् कश्यपः
इति कल्पस्थाने धूपनकल्पः

लशुनकल्पाध्यायः
अथातो लशुनकल्पं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
हुताग्निहोत्रमासीनं गङ्गाद्वारे प्रजापतिम्
पप्रच्छ स्थविरः काले प्रजानां हितकाम्यया ३
भगवल्ँलशुनोत्पत्तिं प्रयोगं चोपयोजने
श्रोतुमिच्छामिकालं च रोगान् येषु न येषु च ४
व्यापदश्चास्य काः सन्ति किं च तासां चिकित्सितम्
अन्नपानं च किं तत्र परिहारः फलं च किम् ५
इति पृष्टः स शिष्येण मुनिराह प्रजाहितम्
शृणु सौम्य यथोत्पन्नं लशुनं सपरायणम् ६
न लेभे गर्भमिन्द्राणी यदा वर्षशतादपि
तदैनां खादयामास शक्रोऽमृतमिति श्रुतिः ७
सव्येन परिरभ्यैनां बाहुनां चारुणा स्निहा
व्रीडन्तीं सान्त्वयन् देवीं पतिर्भार्यामपाययत् ८
तस्यास्तु सौकुमार्येण ह्रिया च पतिसन्निधौ
अमृतस्य च सारत्वादुद्गार उदयद्यदा ९
यदृच्छया च गामागादमेध्ये निपपात च
ततोऽब्रवीच्छचीमिन्द्रो बहुपुत्रा भविष्यसि १०
एतच्चाप्यमृतं भूमौ भविष्यति रसायनम्
स्थानदोषात्तु दुर्गन्धं भविष्यत्यद्विजोपगम् ११
लशुनं नामतस्तच्च भविष्यत्यमृतं भुवि
एवमेतत् समुत्पन्नं शृणु तस्य क्रियाविधिम् १२
रसोऽस्य बीजे कटुको नाले लवणतिक्तकौ
पत्राण्यस्य कषायाणि विपाके मधुरं च तत् १३
स्वादुस्तिक्तः कटुश्चात्र यथापरपरोत्कटाः
स्वादुत्वाद्गुरु सस्नेहं बृंहणं लशुनं परम् १४
रससाधारणत्वाच्च साधारणरुजापहम्
आयुष्यं दीपनं वृष्यं धन्यमारोग्यमग्निमम् १५
स्मृतिमेधाबलवयोवर्णचक्षुःप्रसादनम्
मुखसौगन्ध्यजननं स्रोतसां च विशोधनम् १६
शुक्रशोणितगर्भाणां जननं ह्रीनिषेधयोः
सौकुमार्यकरं केश्यं वयसः स्थापनं परम् १७
अमृतोद्भूतममृतं लशुनानां रसायनम्
दन्तमांसनखश्मश्रुकेशवर्णवयोबलम् १८
न जातु भ्रश्यते जातं नृणां लशुनखादिनाम्
न पतन्ति स्तनाः स्त्रीणां नित्यं लशुनसेवनात् १९
न रूपं भ्रश्यते चासां न प्रजा न बलायुषी
सौभाग्यं वर्धते चासां दृढं भवति यौवनम् २०
प्रमदाऽतिविधायापि लशुनैः प्राप्नुते मृजाम्
नचैनां संप्रबाधन्ते ग्राम्यधर्माद्भवा गदाः २१
कटीश्रोण्यङ्गमूलानां न जातु वशगा भवेत्
न जातु बन्ध्या भवति न जात्वप्रियदर्शना २२
दृढमेधाविदीर्घायुर्दर्शनीयप्रजा भवेत्
अश्रान्तो ग्राम्यधर्मेषु शुक्रधाश्च भवेन्नरः २३
यावतीभिश्च समियात्तावत्यो गर्भमाप्नुयुः
नीलोत्पलसुगन्धिश्च पद्मवर्णश्च जायते २४
गात्रमार्दवमाप्नोति कण्ठमाधुर्यमेव च
ग्रहणीदोषशमनं परं कायाग्निदीपनम् २५
च्युतभग्नास्थिरोगेषु सर्वेष्वनिलरोगिषु
पुष्परेतोभ्रमे कासे कुष्ठरोगेषु सर्वशः २६
क्रिमिगुल्मकिलासेषु कण्ड्वां विस्फोटकेषु च
वैवर्ण्यतिमिरश्वासनक्तमान्ध्याल्पभोजने २७
जीर्णज्वरे विदाहे च तृतीयकचतुर्थके
स्रोतसामुपघातेषु गात्रजाड्योपशोषयोः २८
अश्मरीमूत्रकृच्छ्रेषु कुण्डलेऽथ भगन्दरे
प्रदर प्लीहशोषेषु पाङ्गुल्ये वातशोणिते २९
लशुनान्युपयुञ्जीत मेधाग्निबलवृद्धये
मुच्यते व्याधिभिः क्षिप्रं वपुश्चाधिकमाप्नुते ३०
नान्यत्तच्छ्लैष्मिके व्याधौ पैत्तिके वा प्रयोजयेत्
ह्रसिष्ठः स्थविरोऽनग्निः सूतिका गर्भिणी शिशुः ३१
आमे ज्वरेऽतिसारे च कामलायां तथाऽर्शसि
ऊरुस्तम्भविबन्धेषु गलवक्त्ररुजासु च ३२
सद्योवान्ते विरिक्ते च कृतनस्ये विशोषिते
तृष्णाच्छर्दिपरीतेषु हिक्काश्वासातिवृद्धिषु ३३
अधृतिष्वसहायेषु दरिद्रेषु दुरात्मसु
दत्तबस्तिनिरूहेषु लशुनं न प्रयोजयेत् ३४
अक्षीणाग्निबलानां तु सर्वरोगेषु शस्यते
पौषे माघेऽथवा मासे लशुनान्युपयोजयेत् ३५
वयस्थानि सुहृद्यानि निस्तुषाण्यविशोधितम्
कायाग्निकालसात्म्येन मात्रा स्यान्नियमोऽपि च ३६
चतुष्पली भवेन्मात्रा लशुनानां कनीयसी
षट्पली मध्यमा श्रेष्ठा पलाष्टौ च दशाथ वा ३७
शतं षष्टिः शतार्धं च मात्राः स्युर्गणितेष्वपि
शुष्केषु बद्धबीजेषु पलवद्धरितेषु तु ३८
अथवा यावदुत्साहं भक्षयेदपि मूर्च्छितः
पुण्येऽहनि नरो धीरो लशुनाननुपचारयेत् ३९
बह्वग्निके निरुद्वेगं निवातशरणः सुखी
मार्गकौशेयकार्पासकोवयाजिनकम्बलैः ४०
वासोभिनिर्मलैर्युक्तो भृशं चागरुधूपितैः
धूपैश्चूर्णैश्च युक्तः स्यान्नित्यं विधृतपादुकः ४१
लशुनान्यानयेदन्यस्त्वथान्य उपकल्पयेत्
पत्राणि वर्जयेदेषां बीजं नालं च कल्पयेत् ४२
सूक्ष्मच्छिन्नानि कृत्वा च सर्पिषा प्लावयेद्भृशम्
हैयङ्गवीनं तु घृतं तैलं बालोचितं नवम् ४३
प्लावनं यावदुत्साहं तिष्ठेयुश्चाप्लुतान्यपि
द्वित्रिपञ्चदशाष्टाहं प्रशस्तस्नेहभावितम् ४४
आत्मचिन्तामनुस्वापं दन्तकाष्ठं विवर्ज्य च
जीर्णाहारः सुखोत्थायी ब्राह्मणान् स्वस्तिवाच्य च ४५
आसित्वा भक्षयेत्तानि सेव्यमुष्णोदकं सदा
उपदंशेऽपि दातव्यमार्द्रकं विश्वभेषजम् ४६
केसरं मातुलुङ्गानामथ वा जीवदाडिमम्
मूलकं वर्जयित्वा च दद्याद्धरितकान्यपि ४७
अङ्गानामपि भृष्टानां चूर्णं स्यादवचूर्णनम्
त्वक्पत्रशुण्ठीमरिचसूक्ष्मैलाजातिमिश्रितम् ४८
लवणान्यपि सर्वाणि लाभतस्तत्र चूर्णयेत्
सुजातं मद्यमप्यस्य युक्तितः समुदानयेत् ४९
लशुनान्यन्तरा खादेत् पिबेन्मद्यं तथाऽन्तरा
सुखमग्निमुपासीनो भक्षयेत्तृप्तये शनैः ५०
उष्णोदकं वा मद्यं वा शृतं वाऽनुपिबेत् पयः
हेत्वग्निरोगसात्म्यज्ञो द्वितीयं न च भक्षयेत् ५१
ततः कलायचूर्णेन हस्तमुष्णोदकेन च
प्रक्षाल्य मुखमोष्ठौ च गुरुप्रावरणोऽग्निमान् ५२
ताम्बूलपत्रं सस्वाकं सजातीकटुकाफलम्
लवङ्गपुष्पकर्पूरकक्कोलकफलान्वितम् ५३
निष्ठीवन् धारयेदास्ये न च निद्रां दिवा भजेत्
तेनास्य विलयं श्लेष्मा याति मूर्च्छा च शाम्यति ५४
सौगन्ध्यं जायते चास्य दौर्गन्ध्यं च विनश्यति
तृषितस्तु पिबेदुष्णं दीपनीयशृतं जलम् ५५
अत्यन्तपैत्तिको वाऽपि कदुष्णं पातुमर्हति
शृतं मुस्तकशुण्ठीभ्यां सशुण्ठीबालकेन वा ५६
शुण्ठ्या वा केवलं कोष्णं निशि पीत्वा सुखं स्वपेत्
एतेन विधिना खादेत् पक्षं मासमृतुं तथा ५७
त्रिमासं हैमनं वाऽपि चतुरो वा जितेन्द्रियः
द्रव्यमासाद्य रोगं च यथाकालं प्रयोजयेत् ५८
रूक्षाणि तु न भक्ष्याणि तानि पित्तभयाद्वधैः
अन्नमप्यल्पशो देयं शृणु यादृशकं हितम् ५९
कपालभृष्टपक्वाः स्युर्यवगोधूममण्डकाः
रूक्षाः सुगन्धयो हृद्याः पूपटा लवणैर्युताः ६०
शालीनां पोलिकाश्चोष्णा मुद्गकुल्माषसंस्कृतिः
सक्तुपिण्ड्यः सुलवणाः कुस्नेहाः पञ्चपट्टिताः ६१
लावैणतित्तिरिशशकपिञ्जलचकोरकाः
मांसार्थं जाङ्गलाश्चान्ये विधेया मृगपक्षिणः ६२
अभ्युष्णाः संस्कृतानम्ललवणस्नेहवेषणैः
मांसं शस्तं फलाम्लं वा कोलामलकदाडिमैः ६३
वास्तुको दाडिमे सिद्धश्चाङ्गेर्यामलकेन वा
बुर्बुर्वृषस्य वा पुष्पमथवा बालमूलकम् ६४
यः स्नेहं बहु भुञ्जीत रूक्षान्नं तस्य शस्यते
अल्पस्नेहाशनो भोज्यं सुस्निग्धं तु निधापयेत् ६५
कुष्ठी श्वासी तमी कासी प्रमेही वातकुण्डली
ध्यायी प्लीह्यर्शसो गुल्मी भक्षयेयुर्विनाऽम्भसा ६६
भक्षितान्ते ततो यूषं विदध्यात् पानभोजने
लशुनानां पलं पिष्टं द्विपलं दाडिमस्य च ६७
द्विपलं द्विपलं दद्यान्मांसस्य घृततैलयोः
सुवेषणं सुलवणं सोष्णं क्षुधितमाशयेत् ६८
शालिषष्टिकगौराणां भक्तं तेनाल्पशो भजेत्
त्र्यहं सदधितक्रं तु यूषमस्योपपादयेत् ६९
ततस्त्र्यहे सशुक्तं तु मुद्गमण्डाद्यतः परम्
न पर्युषितमश्नीयाद्यूषं नित्यं तु साधयेत् ७०
विरुद्धानि विदाहीनि वर्जयेच्छाकगोरसान्
अभिष्यन्दीनि चान्नानि मांसं भक्ष्यैक्षवाणि च ७१
अध्वानं मैथुनं चिन्तां शोकव्यायामशोषणम्
अहितं वर्जयेत् सर्वं निवातशयनासनः ७२
त्यजञ्छीतोपचारांश्च लशुनान्युपयोजयेत्
शीतोपचारात् स्नेहाच्च जलोदरमवाप्नुयात् ७३
स्नेहादण्डोपचाराच्च पाण्डुशोफरुजाभयम्
स्नेहाद् गुर्वन्नपानाच्च ग्रहणीदोषकामले ७४
कुमद्यमत्स्यगव्यैस्तु ज्वरकुष्ठक्षयाहतिः
रूक्षेभ्यश्चोष्णकाले च सर्वपित्तरुजाभयम् ७५
शूलातिसारसाध्मानहृल्लासच्छर्द्यरोचकाः
हिक्का विसूचिका श्वासनिद्रेऽन्येऽत्राप्युपद्रवाः ७६
उपद्रवप्रतीकारः कार्यः स्वैः स्वैश्चिकित्सितैः
छर्द्यजीर्णविदाहेषु गौरवे कफसंभवे ७७
लङ्घयित्वा यथायोगं पथ्याशी पुनराचरेत्
विरेकं वमनं नस्यं कुर्याच्च कवलग्रहान् ७८
देहव्याधिबलापेक्षी तीक्ष्णांस्त्वस्य विवर्जयेत्
श्रद्दधानो भवेद्धीमान्न त्वरेतोद्विजेत वा ७९
अथ पथ्याशने वृत्ते सप्ताहात् सर्वभोजिनम्
निरुपद्रवमाश्वस्तं बलिनं लशुनादिनम् ८०
पाययेत्त्रिफलायुक्तं सर्पिः सलवणं त्र्यहम्
न विहन्याद्यथाऽहारः पक्वमन्नं च भोजयेत् ८१
काये दोषोऽस्य यो लीनः स तेनाशु प्रशाम्यति
न च स्नेहकृतो दोषः पश्चात्तं संप्रबाधते ८२
पामा विस्फोटकाः कण्डूर्बाधिर्यं जाड्यसुप्तते
एते ह्येतं प्रबाधन्ते यद्यसौ न विरिच्यते ८३
तस्मान्मृदुविरेकः स्यात्त्रिवृत्त्रिफलया घृतम्
विदध्यात् सोष्णलवणमनु चोष्णोदकं पिबेत् ८४
गुरुदेवाग्निपूजाश्च भक्षयन् वर्जयेद्बुधः
स्नात्वा सुगन्धिर्हृद्यात्मा पूजयेद् गुरुदेवताः ८५
अत ऊर्ध्वं प्रवक्ष्यामि लशुने शेषकर्म यत्
बीजाढकं जलद्रोणे जर्जरीकृतमावपेत् ८६
जलानित्येऽग्नि — वा गोपयेत् षष्टिकेषु वा
अव्याधिरमरप्रख्यो जीवेद्वर्षशतं नरः ८७
यावद्वर्षस्थितं खादेत्तावद्वर्षशतान्यपि
जहाति च त्वचं जीर्णां जीर्णां त्वचमिवोरगः ८८
लशुनानां पलं नित्यं पले द्वे वा घृतस्य तु
मधुनः किञ्चिदेव स्यात्तल्लीढ्वाऽनु पिबेत् पयः ८९
संवत्सरमजीर्णान्ते भुञ्जीत पयसौदनम्
सोऽपि सर्वरुजाहीनः शतवर्षाणि जीवति ९०
आमानि यो न शक्नोति तस्य भृष्टानि सर्पिषि
पत्रपूपलिकावच्च संस्कृतान्युपयोजयेत् ९१
सिद्धानि सह मांसैर्वा यवाग्वा दाधिकेन वा
निमन्दकाश्च शस्यन्ते नानाद्रव्योपसंस्कृताः ९२
लशुनानां पलशतं जलद्रोणेषु पञ्चसु
क्वाथयेद्द्रोणशेषं तं पचेद्भूयो घृताढके ९३
आढकं पयसो दद्याद्गर्भं चेमं समावपेत्
लशुनानां पलशतं बीजानां श्लक्ष्णसंस्कृतम् ९४
दीपनं जीवनं वृष्यं यत्किञ्चित् सर्वमावपेत्
अक्षवद्दशमूलं च तत् सिद्धमवतारयेत् ९५
एतत् पाने च भोज्ये च हितं समधुशर्करम्
तेनैव विधिना तैलं बस्तिकर्मणि शस्यते ९६
क्लीबबन्ध्यातिवृद्धानामपि वीर्यप्रजाप्रदम्
विरेकवमनद्रव्यैः संस्कृते कुष्ठम्रक्षणम् ९७
श्वित्रनाडीक्रिमीणां च पानभोजनम्रक्षणे
प्रयुक्तमारोग्यकर गन्धसर्पिरनुत्तमम् ९८
अथ गन्धमहन्नाम धनिनामुपदिश्यते
यं दृष्ट्वा भज्यते शीघ्रं साक्षादक्पि सदागतिः ९९
रोगानीकेन सहितः सहितश्च मरुद्गणैः
लशुनं न्यायतः खादेन्मुकुटं रचयेदपि १००
कुर्याल्लशुनमालां च शिरसः कर्णयोरपि
बहिः प्रावरणस्यापि कुर्याल्लशुनकम्बलम् १०१
हस्तयोः पादयोः कण्ठे बध्नीयाद्गुच्छितान्यपि
अधस्ताद्वाससश्चापि विदद्ध्याच्छयनाशने १०२
दद्याल्लशुनचीराणि गृहद्वारेषु सर्वशः
भार्याणां भ्रातृपुत्राणां दासीनामुपचारिणाम् १०३
सर्वेषामात्मवत् कुर्यात् कृते गन्धवरे बुधः
अन्नपानानि सर्वाणि कुर्याल्लशुनवन्ति च १०४
वादयन्तु च वादित्रं गान्तु गीतानि चेच्छया
नटा भल्लाश्च मल्लाश्च दर्शयन्त्वात्मशिक्षितम् १०५
गन्धमाल्यान्नपानानि यथार्हमुपकल्पयेत्
दृष्ट्वा गन्धमहं वातो द्वारादेव निवर्तते १०६
देवदारुवने भैक्षं चरता छन्नरूपिणा
अवज्ञातेन रुद्रेण मुनिभार्या निरीक्षिताः १०७
ततस्तासां प्रजा नासीत्ततस्ताः शरणं ययुः
भद्रकालीमुमां देवः स च तुष्टोऽब्रवीद्वचः १०८
अयं गन्धमहो नाम तं कुरुध्वमृषिस्त्रियः
सर्वरोगविनाशाय बलरूपप्रजाकरम् १०९
उन्मादविषशापघ्नं वातानीकविशातनम्
अश्मनीव ध्रुवा लेखा प्रजाऽवश्यं भविष्यति ११०
ततस्ता ब्रह्मवादिन्यश्चक्रुर्गन्धमहं तदा
लेभिरे चेप्सितान् कामाञ्छास्त्रं चेदं प्रचक्रिरे १११
अख्यातं गुरुपुत्राय रहस्यं ह्येतदुत्तमम्
भिषजा न प्रमादेन वक्तव्यं यत्रकुत्रचित् ११२
सम्यक् सुभूषितश्चाहं त्वयेदं प्राप्नुवन्मुने
यं पठित्वा भिषग्लोके न क्रियास्ववसीदति ११३
गिरिजं क्षेत्रजं चैव द्विविधं लशुनं स्मृतम्
अमृतेन समं पूर्वं तदलाभे परं हितम् ११४
देववैद्यद्विजपरैरुपयोज्यं च सिद्धये
इति ह स्माह भगवान् कश्यपः ११५
इति कल्पेषु लशुनकल्पः

कटुतैलकल्पाध्यायः
अथातः कटुतैलकल्पं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
कटुतैलोपदेशं तु वक्ष्यामि प्लीहनाशनम्
न ह्यतः परमं किञ्चिदौषधं प्लीहशान्तये ३
प्लीहोदरिणमादौ तु बलिनं निरुपद्रवम्
कल्याणकेन वा स्निग्धं सर्पिषा षट्पलेन वा ४
मात्रया पाययेत्तैलं पथ्यचेष्टाशनस्थितिम्
पञ्चप्रयोगास्त्वस्योक्ता मात्रासाततयभोजनैः ५
पलानि द्वादश ज्येष्ठा मध्यमा षट्पला स्मृता
मात्रा चतुष्पली ह्रस्वा यावद्वाऽग्निबलं भवेत् ६
स्नेहपीतोपचारं च विदध्यादखिलं भिषक्
प्रजागरनिवाताग्निस्वातन्त्र्याम्बरसेविनाम् ७
पीतमात्रे क्रमं विद्याद् व्यथा तन्द्री च जीर्यति
उद्गारशुद्धिर्वैशद्यलाघवानि जरां गते ८
कृशं चातिविरिक्तं च मण्डादिभिरुपक्रमेत्
बली मन्दविरिक्तश्च भुञ्जीत मृदुमोदनम् ९
ईषत्स्नेहाम्लयूषेण संस्कृतेन यथाबलम्
रोहीतमोचयोर्वश्यं कुर्यात् काम्बलिकं सदा १०
फलाम्लदीपनोपेतं कटुतैलोपसंस्कृतम्
तेनैनं भोजयेन्नित्यं यावत्प्राणो यथा भवेत् ११
लब्धप्राणं ततश्चैनं मात्रया पाययेत् सदा
कटुतैलं यथाशक्ति संस्कृतं नवमेव वा १२
द्राक्षाकाश्मर्यमधुकबालकोशीरचन्दनैः
कटुतैलं पचेत् क्षीरे प्लीह्नि दाहोत्तरे नृणाम् १३
जीर्णेऽपराह्णे चोद्वर्त्य लघुरुष्णोदकाप्लुतः
अभयां कटुतैलेन भृष्टां दधनि साधिताम् १४
शाल्योदनेन भुञ्जीत तथा काम्बलिकेन च
तच्चेद्विदाहं जनयेत् पिबेत् कल्याणकं ततः १५
मत्स्याः कटुकतैलं च दधि माषान् घृतं पयः
क्षारेण पारिजातस्य तत् पक्वमवचारयेत् १६
एतत्तैलघृतं प्रोक्तं प्लीहगुल्मनिवारणम्
दीपनं स्नेहनं बल्यं ग्रहणीपार्श्वरोगनुत् १७
कणिकारत्वचतुलां चतुर्द्रोणे पचेदपाम्
पादशेषे समक्षीरे कषाये तत्र पाचयेत् १८
प्रस्थं कटुकतैलस्य द्वौ प्रस्थौ दधिमाषयोः
दशमूलोपसंसिद्धरोहीतरसमावपेत् १९
क्षारजीवनवर्गं च सैन्धवं दीपनं च यत्
एतत् सिद्धं प्रयोगेण कर्णिकारीयमुत्तमम् २०
उद्वर्तनं ब्रह्मचर्यं कटुतैलोपसेवनम्
सुखाः शय्यासनस्वप्नाश्चिन्तेर्ष्याभयवर्जनम् २१
वामपार्श्वोपशयनं दधिमत्स्योपसेवनम्
लघ्वल्वस्निग्धसेवा च शमयन्ति प्लिहोदरम् २२
कर्णिकारस्य वा कल्कश्चूर्णितः स्वरसोऽपि वा
कटुतैलेन तक्रैर्वा सेवितः प्लीहनाशनः २३
रागसर्षपतैलं वा पूर्ववत् प्लीहनाशनम्
सेवितं मात्रया नित्यं दधिमाषौदकाशिनाम् २४
रागसर्षपमुष्टिं तु पिष्टं काञ्जिकयोजितम्
पिबेत् सलवणक्षारं भोज्यं काम्बलिकेन च २५
सप्ताहादतिवृद्धोऽपि प्लीहा प्रशममृच्छति
दाहश्चेदतिबाधेत रसक्षीरं च भोजयेत् २६
इत्याह भगवान् वृद्धो जीवको लोकपूजितः
बालानां महतां चैव प्लीहोदरनिवर्तनम् २७
इति ह स्माह भगवान् कश्यपः
इति कल्पस्थाने कटुतैलकल्पः

षट्कल्पाध्यायः
अथातः षट्कल्पं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
मारीचमृषिमासीनं सूर्यवैश्वानरद्युतिम्
विनयेनोपसङ्गम्य प्राह स्थविरजीवकः ३
भगवन्नक्षिरोगेण परिक्लिष्टस्य चक्षुषः
कदा संशमनं देयं किञ्च संशमनं हितम् ४
कः प्रयोगश्च तत्रोक्तः किञ्च तत्र हिताहितम्
इति पृष्टः स कल्याणं भगवान् प्रश्नमब्रवीत् ५
अक्षिरोगेण बालेषु क्लिष्टं वाऽऽश्च्योतनादिभिः
रागश्वयथुशूलास्रनिवृत्तौ षडहात् परम् ६
अल्पशो वा निवृत्तेषु बाधमानेषु वाऽल्पशः
रागादिषु प्रयुञ्जीत काले संशमनं हितम् ७
दूषिका चोपलेपश्च दृष्टिव्याकुलताऽरतिः
वर्त्मशोथः शिरोरोगः स्रावशेषेऽक्षिपक्ष्मणि ८
एतानि दृष्ट्वा रूपाणि कुर्यात् संशमनं विधिम्
स्तनपं सह धात्र्या च स्थापयेत् पथ्यभोजने ९
चक्षुष्या पुष्पकं माता रोचनाऽथ रसाञ्जनम्
कतकस्य फलं षष्ठं तेषां कल्पान्निबोध मे १०
जन्मतश्चतुरो मासान् पञ्च षड् वाऽक्षिरोगिणाम्
विघृष्य नारीस्तन्येन चक्षुषी प्रतिपूरयेत् ११
कांस्ये हिरण्यशकलं सस्तन्यक्षौद्रनाभिकम्
घृष्ट्वाऽक्षिणी पूरयेद्वा सर्वानक्षिगदाञ्जयेत् १२
एतैः कल्याणकैर्यागावृषिभिः संप्रकीर्तितौ
नाभ्यञ्जनकृतौ मुख्यौ कश्यपेन महर्षिणा १३
शरद्धेमन्तयोः पक्वां चक्षुष्यां ग्राहयेद्भिषक्
नवे कमण्डलौ चैनामनुगुप्तां निधापयेत् १४
ततः फलान्युपत्रिशद्यवांश्च दश साधयेत्
शरावे पूतिकां बद्ध्वा गोमयालोडितां प्लुताम् १५
यवसिद्धौ भवेत्सिद्धा ततस्तां निस्तुषीकृताम्
स्तन्यपिष्टां प्रयुञ्जीत विशेषश्चोपदेक्ष्यते १६
सरागे रोचनोपेता सस्रावे च ससैन्धवा
दूषिकामलशोथेषु प्रयोज्या सरसक्रिया १७
सपुष्पकां सगोमूत्रां ससैन्धवरसक्रियाम्
पिल्लिमाशोथजाड्येषु चक्षुष्यां संप्रयोजयेत् १८
अम्ले ताम्रं च कास्यं च विघृष्य मरिचं तथा
चक्षुष्यया समायुक्तं शमयत्यक्षिभूनिमान् १९
चक्षुष्यां रोचनां स्तन्यं पुष्पकं च समानयेत्
सर्वाक्षिरोगशमनो योगोऽयं संप्रकीर्तितः २०
एकाऽपि स्तन्यसंयुक्ता चक्षुष्या संप्रशस्यते
चक्षुष्याकल्प इत्येष पुष्पकल्पं निबोध मे २१
निवाते पुष्पकं पूतमपराह्णे प्रयोजयेत्
निशि वा शुष्कचूर्णस्य पूरयित्वाऽक्षिणी स्वपेत् २२
रसाञ्जनेन वा सार्धं पुष्पकं मधुनाऽपि वा
स्तन्येन वा समायुक्तं सर्वानक्षिगदाञ्जयेत् २३
एत एव त्रयो योगाः स्तन्यक्षौद्ररसाञ्जनैः
रोचनायाः प्रशस्यन्ते सर्वाक्षिगदशान्तये २४
रसाञ्जनस्य चाप्येते त्रयो योगाः सहाम्भसा
कतकस्य फलस्यापि योगाश्चत्वार एव ते २५
अक्षिरोगप्रशमनाश्चक्षुषश्च प्रसादनाः
उक्तसूत्रानुसारेण बालानां हितकाम्यया २६
स्वादुर्विकासिनी शीता त्रिदोषशमनी शिवा
कषाया स्तम्भिनी स्निग्धा चक्षुष्या चक्षुषे हिता २७
रूक्षोष्णतिक्तलवणाऽनलघ्नी पिच्छिला घना
मङ्गल्या पापनाशनी रोचना पक्ष्मवर्धनी २८
तीक्ष्णमुष्णं मलहरं रक्तपित्तकफापहम्
दृष्टिप्रसादनं चाशु पुष्पकं शीतमन्ततः २९
त्रिदोषशमनं रूक्षं षड्रसं चानुसारि च
शोधनं पक्ष्मजननं चक्षुष्यं च रसाञ्जनम् ३०
कषायमधुरं शीतमाशुदृष्टिप्रसादनम्
विकासि ह्लादनं स्निग्धं चक्षुष्यं कतकं विदुः ३१
इदं तैलं तु वक्ष्यामि नाम्नोक्तं पाञ्चभौतिकम्
प्रोक्तं तीर्थकरैः सर्वैः पञ्चेन्द्रियविवर्धनम् ३२
जीवकर्षभकौ द्राक्षा मधुकं पिप्पली बला
प्रपौण्डरीकं बृहती मञ्जिष्ठा त्वक्पुनर्नवा ३३
शर्करांऽशुमती मेदा विडङ्गं नीलमुत्पलम्
श्वदंष्ट्रा सैन्धवं रास्ना भवेदपि निदिग्धिका ३४
समभागैः पचेदेतैस्तैलं वा यदि वा घृतम्
चतुर्गुणेन पयसा सम्यक्सिद्धं निधापयेत् ३५
नस्यमेतत् प्रयुञ्जीत यथा सिद्धौ निदर्शनम्
अक्षिरोगैश्चिरोत्पन्नैर्नस्येनानेन मुच्यते ३६
तिमिर पटलं काचं पिल्लमान्ध्याकुलाक्षिताम्
दूषिकां स्रावरागौ च शोथं शूलं च नाशयेत् ३७
खालित्यं पलितेन्द्राख्यौ शिरोरोगमथार्दितम्
दन्तचालं हनुव्याधिं पूतित्वं स्रोतसामपि ३८
प्रजागरं प्रलापं च वाग्ध्वंसं मूकतां जडम्
बाधिर्यं हनुसंदंशं स्मृतिलोपं च नाशयेत् ३९
इन्द्रियाणि प्रसीदन्ति स्मृतिर्मेधा वपुर्बलम्
स्नेहेनानेन वर्धन्ते मङ्गल्यं पाञ्चभौतिकम् ४०
इति ह स्माह भगवान् कश्यपः
इति कल्पस्थाने षट्कल्पः

शतपुष्पाशतावरीकल्पाध्यायः
अथातः शतपुष्पावरीकल्पं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
शतपुष्पाशतावर्यौ रसवीर्यविपाकतः
प्रयोगतश्च भगवञ्छ्रोतुमिच्छामि तत्त्वतः ३
इति पृष्टः स शिष्येण स्थविरेण प्रजापतिः
शतपुष्पाशतावर्यौ प्रोवाच गुणकर्मतः ४
मधुरा बृंहणी बल्या पुष्टिवर्णाग्निवर्धनी
ऋतुप्रवर्तनी धन्या योनिशुक्रविशोधनी ५
उष्णा वातप्रशमनी मङ्गल्या पापनाशनी
पुत्रप्रदा वीर्यकरी शतपुष्पा निदर्शिता ६
शीता कषायमधुरा स्निग्धा वृष्या रसायनी
वातपित्तविबन्धघ्नी वर्णौजोबलवर्धनी ७
स्मृतिमेधामतिकरी पथ्या पुष्पप्रजाकरी
भूतकल्मषशापघ्नी शतवीर्या शतावरी ८
तयोः प्रयोगं ब्रुवते कृत्वा दोषविशोधनम्
प्रावृट्शरद्वसन्तेषु धृतिपथ्यान्नसेविनाम् ९
आर्तवं या न पश्यन्ति पश्यन्ति विफलं च याः
अतिप्रभूतमत्यल्पमतिक्रान्तमनागतम् १०
अकर्मण्यमविस्रंसि किञ्जातमृतयश्च याः
दुर्बलाऽदृढपुत्राश्च कृशाश्च वपुषाऽथ याः ११
प्रस्कन्दना विवर्णाश्च याश्च प्रचुरमूर्तयः
स्पर्शं च या न विन्दन्ति याश्च स्युः शुष्कयोनयः १२
शतपुष्पाशतावर्यौ स्यातां तत्रामृतं यथा
पुमानप्युपयुञ्जानो यथोक्तानाप्नुते गुणान् १३
चूर्णितायाः पलशतं नवे भाण्डे निधापयेत्
तच्चूर्णं शतपुष्पायाः प्रातरुत्थाय जीर्णवान् १४
पलार्धार्धं पलार्धं वा पलं वा सर्पिषा लिहेत्
शक्त्या वा तस्य जीर्णान्ते भुञ्जीत पयसौदनम् १५
विस्रंसितोपचारं च विदध्यादत्र पण्डितः
उपयुक्ते पलशते यथेष्टांल्लभते सुतान् १६
अपि बन्ध्या च षण्ढा च सूयेते शतपुष्पया
युवा भवति वृद्धोऽपि बलवर्णौ लभेत च १७
तेजसा चौजसा बुद्ध्या दीर्घायुष्केण मेधया
युज्यते प्रजया धृत्या वलीपलितवर्जितः १८
अतो बिडालपदकं लिह्यान्मधुघृताप्लुतम्
मेधावी शतपुष्पाया मासाच्छ्रुतधरो भवेत् १९
अग्निकामस्तु मधुना रूपार्थी क्षीरसर्पिषा
बलकामस्तु तैलेन प्लीहकी कटुतैलयुक् २०
कामलापाण्डुशोथेषु महिषीक्षीरमूत्रवत्
गुल्मी चैरण्डतैलेन कुष्ठी खदिरवारिणा २१
शुष्कविण्मत्स्यवसया पिबेन्मांसरसेन वा
जीर्णमांसरसेनाद्यान्मुद्गमण्डेन कुष्ठिकः २२
शतपुष्पापलशतं जलद्रोणेषु पञ्चसु
पादावशेषं निष्क्वाथ्य पूतं भूयो विपाचयेत् २३
धात्रीचिकित्सिते वर्गः सामान्यो य उदाहृतः
तैलाढकं पचेत्तेन शनैः क्षीरे चतुर्गुणे २४
तत् पक्वं नस्यपानाद्यस्नेहम्रक्षणबस्तिषु
प्रशस्तमृषिणा नित्यं यथोक्तगुणलब्धये २५
य एवं शतपुष्पाया विधिर्दृष्टोऽत्र सर्वशः
स एवोक्तः शतावर्या घृतं पाके तु शस्यते २६
इति ह स्माह भगवान् कश्यपः
इति कल्पस्थाने शतपुष्पाशतावरीकल्पः

रेवतीकल्पाध्यायः
अथातो रेवतीकल्पं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

प्रजापतिर्वै खलु ह स्मैक एवेदं सर्वमासीत् । स कालमेवाग्रेऽसृजत । ततो देवाँश्चासुराँश्च पितॄँश्च मनुष्याँश्च सप्त च ग्राम्यान् पशूनारण्यानोषधींश्च वनस्पतींश्च । अथो स प्रजापतिरैक्षत ततः क्षुदजायत सा क्षुत् प्रजापतिमेवाविवेश सोऽग्लासीत् तस्मात् क्षुधितो ग्लायतीति । स ओषधीः क्षुत्प्रतीघातमपश्यत् । स ओषधीरादत् । स ओषधीरुषित्वा क्षुधो व्यत्यमुच्यत । तस्मात् प्राणिनि ओषधीरशित्वा
क्षुधो व्यतिमुच्यन्ते । कर्मसु च युज्यन्ते ३

स प्रजापतिरग्रीयमेव रसमासां यस्मादग्रहीत् तस्मात् स तृप्त एव स्यात् । ऋजीषं प्राणिन ओषधीनां रसमश्नन्ति । तस्मादहरहः क्षुध्यन्ति
प्रजाः ४

प्रजापतिर्ह्यासां सारमघसत् स प्रजापतिस्तृप्तस्तां क्षुधं काले न्यदधात्
। ततः स कालः क्षुधितो देवाँश्चासुराँश्च प्राभक्षयत ५

ते देवाश्चासुराश्च कालेन भक्ष्यमाणाः प्रजापतिमेव शरणमीयुः । स एभ्योऽमृतमाचख्यौ तेऽमृतं ममन्थुस्तदभवदिति । को न्विदमग्रे भक्षयिष्यतीति । तं देवा एवाभक्षयन्त । ततो देवा अजराश्चामराश्चाभवन् । ते देवा अमृतेन क्षुधं कालं चानुदन्त । स कालः प्रतिनुन्न इमानि भूतानि तस्मादादत्ते ततो देवानसुराअभ्यषजन्त तेऽन्योऽन्यं युयुधिरे । अथो दीर्घजिह्वी नामाऽसुरकन्या सा देवसेनामक्षिणोत् । ते देवाः स्कन्दमब्रुवन्–दीर्घजिह्वी नो बलं क्षिणोति तां शाधीति । सोऽब्रवीत्–वरं वृणुतेति ते देवा ॐ मित्यूचुः । सोऽब्रवीत्–वसुष्वेको रुद्रेष्वेक आदित्येष्वेकोऽहं स्यामिति । ते देवा ॐ मित्यूचुः स तथाऽभवत् । सोमो धरोऽग्निर्मातरिश्वा प्रभासः प्रत्यूषश्चैते पुरा सप्त वसव आसन् तेषामष्टमो ध्रुवो नामाभवत् ध्रुवो भवत्येषु लोकेषु य एवं वेद । अज एकपादहिर्ब्रध्नो हरो वैश्वानरो बहुरूपस्त्र्यम्बको विश्वरूपः स्थाणुः शिवो रुद्र इत्येते पुरा दश रुद्रा आसन् तेषां गुह एकादशोऽभवच्छङ्करो नाम सम एष लोकेष्वस्य भवति य एवं वेद । इन्द्रो भगः पूषाऽर्यमा मित्रावरुणौ धाता विवस्वानंशो भास्करस्त्वष्टा विष्णुरिति द्वादश पुरा आदित्या आसन् । तेषां त्रयोदशो गुहोऽभवदहस्पतिर्नाम तस्यैष त्रयोदशो मासोऽधिकस्तस्मात्तत्र तपति मुच्यते सर्वेभ्योऽर्तिभ्यो य एवं वेद । तस्मात्सर्वेषु लोकेषु सर्वेषु छन्दःसु सर्वासु देवतासु स्कन्दो राजाऽधिपतिरित्युच्यते । तस्मै नमो नम
इत्युक्त्वा सर्वानर्थानारभेत सिध्यन्ति य एवं वेद ६

अथो स दीर्घजिह्व्यै रेवतीमेव प्राहिणोत् । सा शालावृकी भूत्वासुरसेनामभ्यवर्तत । अथो दीर्घजिह्वीमेवाग्रेऽभक्षयत् । तां हत्वा शकुनिर्भूत्वा सोल्का सविद्युत्साऽश्मवर्षा सर्वप्रहरणवर्षिणी बहुरूपाऽसुरानभ्यजयत्तेऽसुरा वध्यमाना बहुरूपया गर्भानीयुर्मानुषीणां चामानुषीणां च । अथो रेवती तानसुरान् गर्भेष्वपश्यत् मानुषीणां चामानुषीणां च । तत एनानवधीज्जातहारिणी भूत्वा । तस्माज्जातहारिणी पुष्पं हन्ति वपुश्च हन्ति गर्भांश्च हन्ति जातांश्च हन्ति जायमानांश्च जनिष्यमाणांश्च हन्ति यद्भवत्यासुरमधार्मिकाणामपत्यमधर्मोपहतं विशेषेण । सैषा वृद्धजीवक रेवती बहुरूपा जातहारिणी पिलिपिच्छिकेति चोच्यते रौद्रीति चोच्यते वारुणीति चोच्यते । सैषा स्कन्दवराज्ञया सर्वजातिषु भूता याऽधार्मिकाणि मूढयत्यसतां विच्छेदाय । वृद्धजीवक तस्यास्तु निदानं चागमनं च पूर्वरूपं च निवर्तनं च भेषजं चोपदेक्ष्यामः । कस्मात् संसर्जने ह्येषामासुराणामसतां सन्तोऽपि वध्यन्ते । संसर्गे हि जातहारिणी दिव्येन चक्षुषा
दृश्यते । तस्यास्तु धर्मएव निवृत्तिकारणमुक्तमिति ७

अथ खलु या स्त्री त्यक्तधर्ममङ्गलाचारशौचदेवक्रिया देवगोब्राह्मणगुरुवृद्धसद्द्वेषिणी दुराचाराऽहङ्कृताऽनवस्थिता वैरकलिमांसहिंसानिद्रामैथुनप्रिया चण्डाऽरुन्तुदा दन्दशूका वावदूका विगतसाध्वसाऽथोऽकस्मात्प्रहसनाऽथोऽकस्मात्प्ररोदनाऽथोऽकस्माच्छोचनाऽनृत-वादिनी घस्मराऽथो आहुः सर्वाशिनी स्वमतकारिणी पथ्यवचनभोजनत्यागिनी भृशमश्रद्दधाना परविजातोपहिंसिका स्वार्थपरा परार्थविलम्बिनी प्रतीपा भर्तरि पुत्रेषु च निःस्नेहा तैश्च नित्यशपथा स्वश्वशुरननन्दादेवरानृत्विजमन्यान् वा तत्स्थानीयान्महतो वाऽवमन्यते तथैनान्मन्युना निर्दहन्त्यभिशपन्ति वा सपत्नीं वा दुःशीला पापचक्षुरभिध्यायति मन्त्रासदौषधकर्मभिर्वैनामभिचरति मूध्नि चाभिहन्ति बालं च चैषां सुखदुःखज्ञा भवति मित्रद्रोहिणी ह्यमङ्गलवादिनी शान्तिहोमजपदानबलिकर्मस्वस्त्ययनावष्ठीवनपरिचुम्बनपरिष्वजनपरिवर्जिता स्थानेष्वपि भवति तस्या एभिः कर्मभिरन्यैश्चाशुभैः पूर्वकैश्चेह कृतैरतिपानभोजनस्वप्नव्यायामसेवनैश्च छिद्रेष्वेतेष्वधर्मद्वारेषु जातहारिणी सज्जते । अथो पतिरस्या एवंशीलो भवति । तयोरसाध्यां जातहारिणीं विद्यात् । अथो दम्पत्यो– रेकतरोऽधार्मिको भवति कृच्छ्रा भवति । उभयोस्तु धार्मिकयोरार्जवयोरनभिमानिकयोररोगयोश्च प्रजा वर्धते । यदा वा स्त्री प्रथमगर्भिणी म्रियमाणापत्याभिरालिभिर्वाऽन्याभिरचौक्षाभिरशुभाभिरसतीभिरमानुषपरिगृहीताभिर्जा-तहारिणीसक्ताभिर्वा संयोगमुपैति सह भुङ्क्ते सह स्नाति वस्त्रालङ्कारं वा ददाति तासां स्नानमूत्रबलिभूमीराक्रामति विशेषादार्तवोपहतानि चैतानि केशलोमनखोद्वर्तनकजीर्णवस्त्रावकर्तनान्याक्रामति भोजनशेषं पानशेषमौषधशेषं गन्धशेषं पुष्पशेषं जीर्णोपानहौ वा दधाति तदा जातहारिणी सज्जते । यदा वैनां प्रथमगर्भिणीं वा दर्शनीयां वपुष्मतीमरोगां पीनश्रोणिपयोधरोरुबाहुवदनामभिजायमानसौभाग्यां सुकेशीं विशालरक्तान्तलोचनामभिवर्धमानलोमराजिं स्निग्धकरचरणखदृष्टित्वचमतिसुकुमारीमक्लेशसहामनायासपरमां कालयोगादभिवर्धमानगर्भामुपचीयमानवपुषमाप्यायमानपयसं स्त्रियं गर्भिणीं दृष्ट्वा दुरात्मानोऽन्वीक्षन्ते न चास्याः शान्तिकर्म क्रियते तदाऽस्या जातहारिणी सज्जते । एतस्मात् कारणात् पुत्रीया काम्येष्टिरहन्यहन्युक्ता सा ह्यस्याः पापं
शयमति तस्माज्जनन्याऽपि सह भोक्तुं नार्हति गर्भिणी ८

विशेषात् प्रथमे गर्भे प्रमादं चात्र वर्जयेत्
बहुयाज्यस्य विप्रस्य संप्रसक्तस्य याजने ९
विदुषोऽपि स्वदोषेण सज्जते जातहारिणी
आक्षेप्ता यश्च वादेषु दाम्भिकोऽहङ्कृतश्च यः १०
सर्वे ते जातहारिण्या भक्ष्यभूताः सयाजकाः
रात्रौ यदा गतो मार्गात् पतिः पांसुलपादकः ११
स्पृशेदृतौ वा गर्भे वा तदाऽऽविशति रेवती
गृहीतां जातहारिण्या सेवित्वा यः स्त्रियं पतिः १२
भार्यामुपैति तत्कालं सज्जते जातहारिणी
गृहीतं जातहारिण्या गृहं नित्यं च वर्जयेत् १३
आददानं ततः किञ्चिद्गृह्णीते जातहारिणी
वधभेदाङ्गकरणैर्गवां बन्धनदोहनैः १४
गोपालस्य प्रजा हन्ति गोमाता जातहारिणी
महिष्युष्ट्र्यजपालानामेवमेव प्रजाक्षयम् १५
करोत्यधर्मसंजाता प्रसक्ता जातहारिणी
ब्रह्मस्वहारिणां लोके विषमाणां दुरात्मनाम् १६
तस्कराणां शठानां च प्रजा हन्त्युग्ररेवती
रसनाः पापकार्याणां दुष्कुला भिन्नसेतवः १७
ये भवन्त्यनयप्राया निर्दयाः सर्वजातिषु
अरक्षिणस्तीक्ष्णदण्डा वृद्धानां शासनातिगाः १८
अनपेक्षितवृत्तान्ता अधर्मस्य प्रवर्तकाः
राज्ञो यस्य च दौर्बल्यात् क्षयं यान्तीह च प्रजाः १९
गोब्राह्मणं विशेषेण हन्ति तं जातहारिणी
एवमेव दुरात्मानो राजमात्रा नृपाज्ञया २०
प्रजा यदा प्रबाधन्ते हन्ति ताञ्जातहारिणी
वणिक् पण्योपघाती यो यश्चाप्यस्य प्रतीक्षकः २१
अतिवार्धुषिकश्चैव हन्यन्ते बहुरूपया
कन्याया यश्च भूमेश्च हिरण्यस्याश्ववाससाम् २२
कुर्वन्ति येऽनृतान्येषां घातिनी जातहारिणी
सन्ध्ययोरप्सु रजसि शून्यदेवालयेषु च २३
मैथुनं यान्ति ये मोहाद्धन्ति ताञ्जातहारिणी
अधर्मद्वारमासाद्य यदा विशति रेवती २४
नारीं तदा भवन्त्यस्या रूपाणीमानि जीवक
प्रम्लायतस्तनोस्तस्या रूपाणीमानि हीयते २५
दृष्टिर्व्याकुलतां याति यथाकालं न पुष्यति
भ्रष्टसत्त्वा निरुत्साहा कुक्षिशूलनिपीडिता २६
भवत्यप्रियरूपा च तैस्तै रोगैरुपद्रुता
विपरीतसमारम्भा विपरीतनिषेविणी २७
उच्छिष्टा विकृता धृष्टा सर्वार्थेषु प्रवर्तते
अर्थसिद्धिर्न भवति संपच्चास्याः प्रलुप्यते २८
गोजाविमहिषीष्वस्या न जीवन्ति च वत्सकाः
अयशः ग्राप्नुते घोरं वैधव्यं वा निगच्छति २९
कुलक्षयं वा कुरुते प्रसक्ता जातहारिणी
शास्त्रतस्त्रिविधामाहुर्मुनयो जातहारिणीम् ३०
साध्यां याप्यामसाध्यां च तासां लक्षणमुच्यते
आषोडशवर्षप्राप्ता या स्त्री पुष्पं न पश्यति ३१
प्रम्लानबाहुरकुचा तामाहुः शुष्करेवतीम्
विना पुष्पं तु या नारी यथाकालं प्रणश्यति ३२
कृशा हीनबला क्रुद्धा साऽपि चोक्ता कटम्भरा
वृथा पुष्पं तु या नारी यथाकालं प्रपश्यति ३३
स्थूललोमशगण्डा वा पुष्पघ्नी साऽपि रेवती
कालवर्णप्रमाणैर्या विषमं पुष्पमृच्छति ३४
अनिमित्तबलग्लानिर्विकुटा नाम सा स्मृता
अभीक्ष्णं स्रवते यस्या नार्या योनिः कृशात्मनः ३५
परिस्रुतेति सा ज्ञेया नारीणां जातहारिणी
यस्यास्त्वालक्ष्यमालग्नमण्डं प्रपतति स्त्रियाः ३६
अण्डघ्नीमिति ह्याहुस्तां दारुणां जातहारिणीम्
नातिनिर्वृत्तदेहाङ्गो यस्या गर्भो विनश्यति ३७
दुर्धरा नाम सा ज्ञेया सुघोरा जातहारिणी
संपूर्णाङ्गं यदा गर्भं हरते जातहारिणी ३८
कालरात्रीति सा प्रोक्ता दुःखात् स्त्री तत्र जीवति
यया विषज्जते गर्भः प्रतीतो वाऽथ मुच्यते ३९
स्त्रीविनाशाय सा प्रोक्ता मोहिनी जातहारिणी
यस्या न स्पन्दते गर्भः स्तम्भनी नाम सा स्मृता ४०
उदरस्थो यया क्रोशेत् क्रोशना नाम सा स्मृता
दशैता जातहारिण्यो जीवमानासु मातृषु ४१
असाध्याः पुष्पघातिन्यः साध्या गर्भोपघातिकाः
जायते तु मृतं नित्यं यस्या नार्याः सवे सवे ४२
नाकिनीमिति तां विद्याद्दारुणां जातहारिणीम्
जातं जातमपत्यं तु यस्याः सद्यो विनश्यति ४३
पिशाची नाम सा घोरा मांसादी जातहारिणी
द्वितीये दिवसे यक्षी तृतीयेऽहनि चासुरी ४४
कलिर्नाम चतुर्थेऽह्नि पञ्चमेऽह्नि च वारुणी
षष्ठेऽहनि स्मृता षष्टी सप्तमेऽहनि भीरुका ४५
अष्टमे दिवसे याम्या मातङ्गी नवमेऽहनि
दशमे भद्रकालीति रौद्री त्वेकादशेऽहनि
द्वादशे वर्धिका प्रोक्ता त्रयोदशे च चण्डिका ४६
कपालमालिनी नाम चतुर्दशे च रेवती
ततः पक्षात् परे काले विज्ञेया पिलिपिच्छिका ४७
एताः षोडश निर्दिष्टा नामभिः कर्मभिः पृथक्
दारुणा जातहारिण्यो याप्या धर्मक्रियावताम् ४८
यस्यास्तु गर्भरूपाणि पञ्च षट् सप्त वा मुने
म्रियन्तेऽनन्तरं वश्या असाध्या जातहारिणी ४९
म्रियन्ते दारका यस्याः कन्या जीवन्त्ययत्नतः
कुलक्षयकरी नाम साऽसाध्या जातहारिणी ५०
जातं जातमपत्यं तु यस्याश्च म्रियते स्त्रियाः
घोरा पुण्यजनी नाम साऽसाध्या जातहारिणी ५१
निष्पन्नं म्रियतेऽपत्यं यस्याः प्राक् षोडशाब्दतः
पौरुषादिनी सा प्रोक्ता असाध्या जातहारिणी ५२
बिभर्त्यन्यं यदा गर्भं तदा पूर्वः प्रमीयते
संदंशीति वदन्त्येनामसाध्यां जातहारिणीम् ५३
गर्भेणैकं ग्रहेणैकं मृत्युनैकेन युज्यते
एषा कर्कोटकीत्युक्ता दारुणा जातहारिणी ५४
यमजं म्रियते यस्या एकं वोभयमेव वा
तामाहुरिन्द्रवडवामसाध्यां जातहारिणीम् ५५
एकनाभिप्रभवयोरेकश्चेन्म्रियते पुरा
म्रियते तद्वदप्येकस्तामाहुर्बडवामुखीम् ५६
अथैवंवादिनमृषिं कश्यपं लोकपूजितम्
पुनरेव महाप्रश्नमपृच्छद् वृद्धजीवकः ५७
एकनाभिकयोः कस्मात्तुल्यं मरणजीवितम्
रोगारोग्यं सुखं दुःखं न तु तृप्तिः समानजा ५८
अथ खलु भगवान् कश्यप उवाच–
एकमेव हि तद्बीजं भिन्नं वायुबलादथ
समानकर्मकत्वात् प्राङ्नाड्यैकत्वं च जन्म च ५९
तुल्यं निषेकाद् वृद्धेश्च जन्मनः स्तनसेवनात्
तस्मातुल्यं वयः प्रोक्तं सुखं दुःखं भवाभवौ ६०
लक्षणाकृतिवर्णाङ्गबलप्रकृतितुल्यता
न तु तृप्तिविसर्गाणां पृथग्भावात् समानता ६१ इति

अथ खलु वृद्धजीवक त्रिविधैव जातहारिणी प्रोच्यते लोकभेदतः – दैवी मानुषी तिरश्चीनेति । तस्मात्त्रयो लोका भगवत्या रेवत्या बहुरूपया व्याप्ताः । इत्यतश्च सर्वलोकभयङ्करी रेवती पठ्यते । तां देवा अन्यन्त तत एषां प्रजाः प्रावृध्यन्त न एषां प्रजा विच्छेदमगमत् । नास्य प्रजा विच्छिद्यते य एवं वेद । तामथ रेवतीं सर्वलोकगुरुमभिव्यापिकां सर्वर्षीणां कश्यप एवाग्रे तपसोग्रेणाऽविन्दत । तस्मै प्रजां बहुलामाशीरायुष्मतीमविच्छिन्नां प्रादात् । ततः सर्वेभ्योऽभ्यधिकोऽभवत् । रेवतीमेकशोऽभिज्ञश्च रेवतीकल्पं शिष्येभ्यः
प्रादाज्जगद्धितार्थम् ६२

अतो वृद्धजीवक निरुक्ता दैवी रेवती मानुषीमत्र व्याख्यास्यामः–तत्र यथोक्तैरधर्मद्वारैर्यां यां स्त्रियमत्र प्रविशति तां तां स्त्रियमनुवर्तयिष्यामः ६३

कस्मिन् वयसि काले वा कस्मिन् कर्मणि वा मुने
स्त्रियमाविशते क्रुद्धा भगवञ्जातहारिणी ६४
अथोवाच भगवान् कश्यपः–
रजस्वलां गर्भिणीं वा प्रसूतां वा कुटीगताम्
स्त्रियमाविशते क्रुद्धा त्रिषु कालेषु रेवती ६५
न चाधर्ममृते नारीं विशते जातहारिणी
मातुः पितुः सुतानां च साऽधर्मेण प्रवर्तते ६६
— मातॄणां च प्रजाक्षयम्
आयुः क्षयं च बालानां करोत्येषा स्वकर्मजम् ६७

अथ खलु वृद्धजीवक इमाः स्त्रियश्चतुर्विधा जातहारिण्याविश्य स्त्रियमत्र प्रविशति । वर्णां वर्णान्तरां लिङ्गिनीं कारुकीमिति । ताः खल्वतो व्याख्यास्यामः । अथो वृद्धजीवक ब्राह्मणीं समाविष्टां गृहानागतां स्त्रीं प्रत्युपतिष्ठतेऽभिवादयते संव्यवहरते संवदति संस्पृशति संभुङ्क्तेऽभिहन्त्याक्रोशत्युपशेते पदमृतुनिर्माल्यवासोलङ्कारमाक्रामति वा तस्या ब्राह्मणी जातहारिणी भवति । अथो आहुः – सैवैनां ब्राह्मणी ऋतुमतीमवसिञ्चेत् । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति । नास्या ब्राह्मणी जातहारिणी भवति या एवं वेद । अथो वृद्धजीवक क्षत्रियां जातहारिणीं समाविष्टां गृहानागतां स्त्रियं प्रत्युपतिष्ठतेऽभिवादयते संव्यवहरते संवदति संस्पृशति संभुङ्क्तेऽभिहन्त्याक्रोशत्युपशेते पदमृतुनिर्माल्यवासोलङ्कारमाक्रामति वा तस्याः क्षत्रिया जातहारिणी भवति । अथो आहुः–सैवैनां क्षत्रिया ऋतुमतीमवसिञ्चेत् सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति । नास्याः क्षत्रिया जातहारिणी भवति या एवं वेद । अथो वृद्धजीवक वैश्यां जातहारिण्याऽऽविष्टामथो महाशूद्रीं स्त्रीं प्रत्युपतिष्ठतेऽभिवादयते संव्यवहरते संवदति संस्पृशति संभुङ्क्तेऽभिहन्त्याक्रोशत्युपशेते पदमृतुनिर्माल्यवासोलङ्कारमाक्रामति वा तस्या वैश्या जातहारिणी भवति अथो शूद्रा अथो महाशूद्री वा । अथो आहुः– सैवैनां वैश्याऽथो शूद्राऽथो महाशूद्री स्त्रियमृतुमतीमवसिञ्चेत् । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति । नास्या वैश्या वा शूद्रा वा महाशूद्रा वा जातहारिणी भवति या एवं वेद । अथो वृद्धजीवक सूतमागधवेनपुक्कसाम्बष्ठप्राच्यकचण्डालमुष्टिकमेतडौम्बडवाकद्रुमिडसिंहलोड्रखश-शकयवनपह्लवतुखारकम्बोजावन्त्यनेमकाभीरकहूणपारशवकुलिन्दकिरातशवरशम्बरजा जातहारिण्यो भवन्ति । अथो आहुः–तामेवैनां स्तिकनिषादप्रभृतीनां वर्णसंकराणां वा या स्त्रियो जातहारिण्याऽऽविष्टा गृहाणीयुस्ताः स्त्रीः प्रत्युपतिष्ठते अभिवादयते अभिनन्दयते संव्यवहरति संवदति संस्पृशति संभुङ्क्तेऽभिहन्त्याक्रोशति उपशेते पदमृतुनिर्माल्यवासोलङ्कारमाक्रामति वा तस्याः एता वर्णसंकरजा जातहारिण्यो भवन्ति । अथो आहुः– तामेवैनां स्त्रियमृतुमतीमवसिञ्चेत् । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति । नास्या वर्णसङ्करा जातहारिणी स्त्री जातहारिणी भवति या एवं वेद । अथो वृद्धजीवक लिङ्गिनी परिव्राजिका श्रमणका कण्डनी निर्ग्रन्थी चीरवल्कलधारिणी तापसी चरिका जटिनी मातृमण्डलिकी देवपरिवारिका वेक्षणिका वा जातहारिण्यो वा जातहारिण्याऽऽविष्टा वा गृहानुपेयात् तां प्रत्युपतिष्ठतेऽभिवादयते वा संव्यवहरते वा संस्पृशति संभुङ्क्तेऽभिहन्त्याक्रोशत्युपशेते पदमृतुनिर्माल्यवासोलङ्कारमाक्रामति वा तस्या लिङ्गिनी जातहारिणी भवति । अथो आहुः–सैवैनां लिङ्गिनी स्त्रियमृतुमतीमवसिञ्चेत् । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति । नास्या लिङ्गिनी जातहारिणी भवति या एवं वेद । अथो वृद्धजीवक अयस्करी जातहारिण्याऽऽविष्टा कार्ष्णायसेनार्हणे नाभ्यैत्यथो तक्ष्णी दारवेणाथो कुलाली मार्तिकेनाथो पदकरी चार्मणेनाथो मालाकारी मुक्तकुसुमेनाथो कुविन्दी तानुकेनाथो सौचिकी स्यूतेनाथो रजकी सुरक्तेनाथो नेजिका निर्णिक्तेनाथो गोपी तक्रेणाथो कारुकुणीस्वेनार्हणेन जातहारिण्याविष्टा गृहानुपेयात् तां स्त्री प्रत्युपतिष्ठतेऽभिवादयते संव्यवहरते संवदति संस्पृशति संभुङ्क्तेऽभिहन्त्याक्रोशत्युपशेते पदमृतुनिर्माल्यवासोलङ्कारमाक्रामति वा तस्याः कारुकुणीजातहारिणी भवति । अथो आहुः–सैवैनां कारुकी स्त्रियमृतुमतीमवसिञ्चेत् । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति । नास्याः कारुकी जातहारिणी भवति या एवं वेद
६८

अत ऊर्ध्वं वृद्धजीवक तिरश्चीं जातहारिणीमनुव्याख्यास्यामः–पञ्चविधा ह्येषा प्रोच्यते । तद्यथा–शकुनी चतुष्पदी सर्पा मत्सी वनस्पतीरिति । ता एता प्रायेण सतामेव प्रसज्जन्ते । वृद्धजीवक ये शकुनीं वर्द्धन्तीं घ्नन्ति घातयन्ति वा तेषां शकुनिरूपा जातहारिणी प्रसज्जते महाग्रहः । सा काकी भासी कुक्कुटी मयूरी चाषी सारिका तैलपायिका उलूकी भोलन्तिका गृध्री श्येनी भारद्वाजी ततोऽन्यतमा वा भूत्वा स्वप्नेऽपूर्वान् दर्शयति गर्भिणीं सूतिकां बिभीषयति बालं चोत्त्रासयति महावेगा महाप्राणा घोररूपा रौद्राऽनायतपक्षा वज्रतुण्डनखदशनदंष्ट्रा वैदूर्यज्वलनसदृशलोचना बहुविचित्रमहापत्रा कण्ठे कनकमणिविचित्रगुणधारिणी विविधकुसुमगन्धवसनमुसलोज्ज्वलधारिणी वरमुकुटा नूपुरकविकम्बूकदाङ्गदकुण्डलवामघण्टापताकाऽऽतपत्रोल्काविद्युन्मेघमालाऽलङ्कृता भगवतः कुमारवरस्य ग्रानी च स्वसा च स्वप्ने धर्षयित्वा रोगागममनन्तरमस्य करोति । ततो मध्याह्नेऽर्धरात्रे वा संध्ययोर्वा सुप्ते वा बालगृहे निलीयते यथोक्तानामेकतमा ततो बाल उच्चैः क्रोशति रोदिति त्रसते वेपते बिभेति ज्वर्यते विह्वलति निस्तनति मुह्यति विस्खलति सूच्यते शून्यते विस्रंस्यते रोगैरन्यैश्चोपद्रूयते । या त्वभीक्ष्णं शकुनीं स्त्री स्वप्ने पश्यति ततः साऽस्याः शकुनी जातहारिणी सज्जते । तस्या एव शकुन्या निभीतस्या एव पुरीषेण पक्षोदकेन वैनां वृद्धस्त्री शकुनिना स्त्रीं तत्रावसिञ्चेत् । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भगधेयेन प्रजावतीं स्त्रियं करोति । नास्याः शकुनी जातहारिणी भवति या शकुनीं न हिनस्ति या एवं वेद । अथो वृद्धजीवक ये गां घ्नन्ति घातयन्ति वा गोमांसं चोपयुञ्जन्ते तेषां गोमाता जातहारिणी प्रसज्जते । एषा एनां स्वप्नेऽभिद्रवति गोपालो वा वत्सकपालो वा असाध्या तस्या गोमाता जातहारिणी प्रसज्जति । अथो आहुर्गोमध्य एनां गोमूत्रपुरीषाभ्यामुपोषितां स्नपयेत् सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन गौः प्रजावतीं करोति । नास्या गोमाता जातहारिणी भवति या गां न हिनस्ति या एवं वेद । एवमेव महिषीणामजानामविकानां गर्दभीनां श्वाश्वतरीणामुष्ट्रीणां सूकरीणां मूषिकाणां शुनीनां गलगोलिकानां गोपानां विष्वम्भराणां मृगादीनां चैवमेष विधिरुक्तः ॥ अथो वृद्धजीवक सर्पीं गृहचारिणीमगृहचारिणीं वा स्त्री हन्ति घातयति वा तस्याः सर्पी जातहारिणी प्रसज्जतेऽथो विषमृत्युमस्याः प्रजाया आहुः । एनां वल्मीके नागकुले वा सिञ्चेदथो आहुर्वल्मीकशतमध्य इति । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति नास्याः सर्पी जातहारिणी भवति । या सर्पान् न हिनस्ति नास्याः प्रजाया विषमृत्युर्भवति या एवं वेद ॥ अथो वृद्धजीवक या मत्स्यमकरतिमिङ्गिलनक्रशङ्खशम्बूकसुखनकादीनि भूतान्यदुकचराणि हन्ति तस्यास्तेनाधर्मेण रेवती क्रुद्धा प्रजा हिनस्ति मत्सी वा मकरी शुक्तिः शङ्खी भूत्वा स्वप्ने पूर्वं हर्षयति ततो हिनस्ति भूयिष्ठं तस्या अप्सु प्रजा विनश्यति जलत्रासेन एकैकरोगैर्वा । अथो आहुः–रोहिणीस्नानेनैवैनां प्रयुदियात् सैव तत्र प्रायश्चित्तिः । या मत्स्यान् न हिनस्ति नास्या मत्सी जातहारिणी भवति या एवं वेद ॥ अथो वृद्धजीवक ये वनस्पतीन् हिंसन्ति परिगृहीतानपरिगृहीतान् वा तेषां वनस्पतिदेवता अभिक्रुद्ध्यन्ति । अग्निर्वैश्वानरो नाम सोमः पितृमान्नाम स्वधिति शिवो नाम आपो वरुणो नाम भूमिर्निऋर्तिर्नाम गौर्वियन्नाम गौः श्लोको नाम देव पवनो नाम आदित्यः पूषा नाम दिशः काष्ठा नाम इन्द्रो वरुणो नाम वायुः प्राणो नाम ता वै द्वादश वनस्पतीनां देवताः । एता एव वनस्पतीन् घ्नन्तं घ्नन्ति । अथो आहुर्वनस्पतिमध्ये विवृत्तेषु ता एव देवताः स्थालीपाकैर्यजेत । अग्निमाज्येन सोमं श्यामाकेन शिवं पायसेन आपो दध्ना भूमिं सप्तान्नकेन ग्रामधूपैः गां वाऽग्निं पवमानं पिशितेन पूषाणमन्नाद्यैः दिशो मद्यैः इन्द्रं हविष्यभोजनेनेति । अथो अस्या वनस्पतिदेवताः प्रजामेव प्रयच्छन्ति या वनस्पतीन् न हिनस्ति । नास्या वनस्पतिदेवता
जातहारिण्यो भवन्ति या एवं वेदेति ६९

तत्र श्लोकाः–
अधर्मस्यातिसंवृद्ध्या रेवती लभतेऽन्तरम्
लब्ध्वाऽन्तरमतिक्रुद्धा नानारूपैर्यथोदितैः ७०
अन्यैश्च दारुणतरैस्ततो हन्ति प्रजा इमाः
यौगपद्येन भार्या वा म्रियन्ते वा पृथक् पृथक् ७१
ग्रस्तस्य जातहारिण्या शिशो रूपाणि मे शृणु
सद्यो रूपं तु तत्रैकं यदुच्चैस्त्रस्तवाशितम् ७२
स्तन्यदूषणमेवाग्रे ज्वरस्तन्द्री प्रमीलकः
शिरोभितापो वैवर्ण्यं भृशं वा पाण्डुपीतता ७३
तृष्णाऽतिसारो वैस्वर्यं तालुशोषः प्रहर्षणम्
मुखपाको मुखस्फोटो वैसर्पः पाण्डुकामले ७४
जागर्ति रोदिति भृशं पीड्यते च मुहुर्मुहुः
श्वसते कासते क्षौति शीतीभवति च क्षणात् ७५
निश्चेष्टो मृतकल्पश्च मुहुः स्थित्वा प्रचेष्टते
न पुष्यति यथाकालं स्तनं न प्रतिनन्दति ७६
अपूर्वं च जनं दृष्ट्वा भृशमुद्विजते शिशुः
बिडालेनकुलाखूनां शब्देनाशु प्ररोदिति ७७
मृदुनाऽपि च रोगेण पीडामाप्नोति दारुणाम्
अभीक्ष्णं त्रसते सुप्तो न शर्म लभते सुखात् ७८
रूपाण्येतानि संलक्ष्य भेषजं न पृणोति यः
सोऽपत्यैः कुरुते कार्यं स्वप्नलब्धैर्धनैरिव ७९

अत ऊर्ध्वं वरणबन्धमुपक्रमिष्यामः । बन्धो हि गर्भिण्याः क्षयति प्रागष्टमान्मासात् अत ऊर्ध्वं प्रतिषेधस्तस्यान्यत्र । वृद्धजीवक श्रद्दधानानां धर्मक्रियावतां त्रिरात्रोपोषितानां भिषक् छुचिरुपोषितः प्रजावरणं बध्नीयात् बद्धे चैनां दक्षिणाभिरिष्टा भिरर्चेत् सा ह्यस्याः प्रजाः प्रयच्छति । तत्र संभारा रोहिणीस्नान स्नाता । स्नपनमप्येके रात्रौ चेत् कुर्याद् गृहेषु दिवा चेदरण्येऽनुगुप्तमुभयं दिग्बन्धं कृत्वाऽऽत्मर क्षामत्र विधायारभेत् तत्कर्म । अथ शुचौ देशे गोचर्ममात्रं गोमयेनाद्भिश्च स्थण्डिलमुपलिप्य भिषगहतवासाः स्नातोऽलङ्कृतः प्राङ्मुख उपस्पृश्योद्धृतहस्तस्तूष्णीमुपस्पृशेदशब्दवतीभिरफेनाभिरनुष्णाभिरद्भिर्ब्राह्मेण तीर्थेन त्रिः प्राश्नीयात् द्विरोष्ठौ परिमृजेत् तत्त्रिरित्येके । अक्षिणी कर्णौ नासिकेऽप्यपानं चोपस्पृशेत् । दुव्यमहति सूर्ये स्थण्डिलमभ्युक्ष्य हिरण्यपाणिर्दर्भपिञ्जूलीनां गर्भवतीं गृहीत्वा तया लक्षणमुल्लिख्य दर्भपिञ्जुलीमभ्युक्ष्य बहिर्निरस्यति तत्राग्निं प्रणयति । यथापूर्वोक्तं परिसमूह्य परिसंमृक्ष्य प्रदक्षिणं बर्हिषा परिस्तीर्याग्नेः पुरस्तात् काञ्चनीं राजतीमुशीरमयीं दर्भमयीं वा प्रतिकृतिं प्रतिष्ठाप्य कुमारं षष्ठीं विशाखं च दक्षिणतो ब्रह्माणमुत्तरत उदपात्रं द्वाभ्यां दर्भाभ्यामच्छिन्नाग्राभ्यां समाभ्यां विष्टरबद्धाभ्यामाज्यमुत्पूय आज्यमसि देवभोजनमसि तेजोऽसि चक्षुरसि श्रोत्रमसीन्द्रियमस्यायुरसि सत्यमसि हविरसीति । अथ जुहोति दर्भश्रुवेण आघारौ हुत्वा गर्भिणीं स्त्रियं स्नातामुषितां शुक्लवसनोपसंवीतामलङ्कृतां दक्षिणत उदङ्मुखीं सुखे पीठेऽथोपवेश्य द्वौ दर्भौ हस्ते दत्त्वा सा तूष्णीमासीत । अथ भिषगनुज्ञातो नित्यं होमं हुत्वाऽऽज्यभागौ हुत्वा मातङ्ग्या विद्यया जुहुयात् । मातङ्गी नाम विद्या पुण्या दुःस्वप्नकलिरक्षोघ्नी पापकल्मषाभिशापमहापातकनाशनी पातकी ब्रह्मर्षिराजर्षिसिद्धचारणपूजिताऽर्चिता मतङ्गेन महर्षिणा कश्यपपुत्रेण कनीयसा महता तपसोग्रेण पितामहादेवासादिता सर्वभयनाशनी सर्वलोकवशीकरणी स्वस्तिकरणी शान्तिकरी प्रजाकरी बन्धनी विमला अमोघकल्याणी य इमां विद्यां शुचिरावर्तयति सन्ध्ययोः पूतो भवति नास्य सर्वभूतेभ्यो भयं भवति य एनां शुचिरहन्यहनि जपति बहुपुत्रो बहुधन आयुष्माननमीवा सिद्धार्थश्च भवति य इमां विद्यां श्राद्धे आवाहयत्यक्षयमस्य पितरश्च श्राद्ध अवतार्यन्ते । य इमां गोमध्ये जपेद् बह्व्योऽस्य भवन्ति गावः । य इमां स्त्रियमृतुस्नातां श्रावयते गर्भिणी भवति । य इमां गर्भिणीं श्रावयति पुत्रवती भवति । य इमां कृच्छ्रप्रसवां श्रावयत्याशु मुच्यते । य इमां म्रियमाणपुत्रां श्रावयति जीवत्पुत्रा भवति । यत्र चैव वेश्मनि सर्पान् रक्षांसि च गुह्यकान् वा विद्यात् तत्र सर्षपानष्टशताभिमन्त्रितानवकिरेत् सर्वे नश्यन्ति । यो वा द्विष्यात् तस्य वा द्वारेऽवकिरेद्यः पूर्वमाक्रामति स आर्तिमाप्नोति । दुर्गेषु जपतस्तस्करमृगव्यालभयं न भवति । रूपे रूपेऽश्वमेधफलमवाप्नोति । सर्वतीर्थेषु स्नातो भवति । सर्वोपवासाः कृताभवन्ति । सर्वाणि दानानि दत्तानि भवन्ति । अर्थविद्या नचैतामूहेत् । नमो मातङ्गस्य ऋषिवर्यस्य सिद्धकस्य नम आस्तीकस्य तेभ्यो नमस्कृत्वा इमां विद्यां प्रयोजयामि सा मे विद्या समृद्ध्यतां सत्थव हिलि मिलि महामिलि कुरुट्टा अट्टे ममटे तुम्विपसे करटे गन्धारि केयूरि भुजङ्गमि ओजहारि सर्षपच्छेदनि अलगणिलगणि पंसुमसि ककिकाकण्डि हिलि हिलि बिडि बिडि अट्टे मट्टे अजिहट्टे कुक्कुकुक्कुमति स्वाहा । इत्येतया मतङ्गविद्यया शमीमयीनां समिधानमष्टशतं पालाशीनामश्वत्थमयीनामष्टशतं श्वेतानां पुष्पाणामष्टशतं सर्षपाणामग्निवर्णानामष्टशतं घृतं तैलं वसामित्युपकल्प्य समध्वाज्यमैकध्यमालोड्य युगपत्तिस्रः समिधो हुत्वा मन्त्रान्ते चाज्यं जुहोति एवमष्टशतं हुत्वा प्रतिसरं लक्ष्मणा पुत्रञ्जीवफलसमुद्रफेनप्रतिग्रथितालम्बाग्रहघ्नीवासुशुक्तिजीवोर्णानां रुद्रमातङ्ग्या विद्ययाऽभिमन्त्र्य कण्ठे विसर्जयेत् । अथैषा विद्या रुद्रमातङ्गी भवति । नैनामूहेत् । नमो भगवतो रुद्रस्य मातङ्गि कपिले जटिले रुद्रशामे रक्ष रक्षेमं रिरक्षुमाज्ञापयेति स्वाहा । इत्येतया रुद्रमातङ्ग्या प्रतिसरं बध्नीयात् । बद्धे प्रतिसरे प्रजावरणं बद्धं भवति । नास्याः सर्वभूतेभ्यो भयं भवति आशा समृद्ध्यते जीवत्पुत्रा सुभगा चाविधवा च भवति । ततः स्विष्टकृतं हुत्वा यथा पूर्वोक्तं शान्तिं जपित्वा महाव्याहृतिभिर्हुत्वा देवतामभ्यर्च्य विसर्ज्य बलिं कृत्वाऽग्निमभ्युक्ष्य तूष्णीं ब्राह्मणान् साधून् पुत्रवत आयुष्मतश्चान्नवासोदक्षिणाभिरभ्यर्च्य तत उपवसेत् । तत्सर्वमाहवनमुपसंगृह्य चतुष्पथे वोदके वा क्षीरवृक्षे वा निदधाति । एवमेतेन विधिना प्रजावरणं बद्धं भवति नास्याः प्रजा न भवतीत्याह भगवान् कश्यपः
अत ऊर्ध्वं सप्तरात्र प्राजापत्यं चरुं पयसि शृतं प्रजापतये जुहुयात् पूर्वोक्तं
गोघृतमित्येके । प्रजाकामपशुकामाऽयुष्कामानामिति वा ८०

इति प्रधानार्थमुदाहृतं परं
नॄणां हितार्थं भिषजां यशस्करम् ।
अलङ्घनीयं हि रहस्यमुत्तमं
शुचिः प्रयुञ्जीत न तु प्रकाशयेत् ८१
इति ह स्माह भगवान् कश्यपः
इति कल्पस्थाने रेवतीकल्पो नामाध्यायः

भोजनकल्पाध्यायः
अथातो भोजनकल्पं वक्ष्यामः १
यथोवाच भगवान् कश्यपः २
मारीचमासीनमृषिं पुराणं
हुताग्निहोत्रं ज्वलनार्कतुल्यम् ।
तपोदमाचारनिधिं महान्तं
पप्रच्छ शिष्यः स्थविरोऽनुकूलम् ३
किं लक्षणं भोः क्षुधितस्य जन्तोः
पिपासितस्याथ तथोभयस्य ।
भृशे च मन्दे च कथं नु विद्यात्
तृषाक्षुधे तत्र च किं हितं स्यात् ४
भोज्यानुपूर्वी च कथं हिता स्याद्
भक्तं क्व देशे परिपच्यते च
किं लक्षणं भुक्तवतो महात्मन्
मन्दाशितात्याशितयोश्च कानि ५
गुणाश्च दोषाश्च हि तत्र के स्युरत्युष्णशीताशनयोश्च के च ।
विपर्यये के च भवन्ति दोषाः
क्षुत्तृष्णयोर्भोजनपानयोगात् ६
मण्डश्च केषां भवति प्रशस्तः
केषां प्रशस्तो भगवन्न मण्डः ।
मण्डस्य सम्यक् च निषेवितस्य
गुणाश्च दोषाश्च विपर्यये के ७
केषां यवागूरहिता हिता वा
कृताकृतौ चाप्यथ मुद्गमण्डौ ।
यूषश्च कस्मै विरसः प्रदिष्टः
समूलको वाऽथ सदाडिमो वा ८
सजाङ्गलो वा रसकौदनो वा
संभोजनस्नानमथो हितं क्व ।
इत्येवमुक्त्वा स बभूव जोषं
प्रजापतिर्वाक्यमथो बभाषे ९
नासर्वविन्नो खलु मांसचक्षुः
प्रश्नानिमान् वक्तुभिहोत्सहेत ।
उत्साहवर्णस्वरदृष्टिहानि
विषादकार्श्यश्रमवाग्विकाराः १०
भृशं च पीडा हृदयस्य जन्तो
र्ग्लानिर्मुखस्यातिबुभुक्षितस्य ।
ताल्वोष्ठजिह्वागलगण्डशोषः
श्रोत्राक्षिदौर्बल्यविषादमोहाः ११
स्मृत्यग्निमेधासुखवाक्यहानि
र्जिह्वाविवृद्धिश्च पिपासितस्य ।
एतानि रूपाण्युभयानि विद्यात्
पिपासिते चैव बुभुक्षिते च १२
विशोषणं तत्र शिरोरुजार्ति
र्मूत्रग्रहो भुक्तवतश्च भेदः ।
तत्रान्नपानानि यथोपजोषं
सात्म्यानि भोज्यानि वदन्ति तज्ज्ञाः १३
तृष्णाबुभुक्षाभृशपीडिते तु
सकृत् कृतं पूरणमप्रशस्तम् ।
ओजो हि दग्धं ज्वलनानिलाभ्यां
पुनः पुनः शोषयते च पीतम् १४
लोहं यथा तप्तमपोनिषिक्तं
तत्रान्नपानस्य गतिः कथं स्यात् ।
सकृत्प्रपीतस्य वदन्ति चैके
तृप्तिं प्रशस्तां भिषजोऽनुचिन्त्य १५
सकृत्प्रपीतस्य हि नश्यते क्षुद्
यथा पृथिव्याः सकृदाप्लुतायाः ।
आदाय पित्तं पवनो ह्युदीर्ण
ओजोदहां संजनयेद्धि तृष्णाम् १६
शिरोगतः स्थाननिरुद्धवेगो
हृत्क्लोम संतापयते ततस्तृट् ।
शूलारताध्मानगुदप्रकोप
ज्वराङ्गदाहश्रममोहतृष्णाः १७
शय्यासनस्त्रीविषयेष्वभक्ति
र्भवन्ति रूपाण्यपतर्पितस्य ।
आदातुमिच्छत्यपि यस्तु भूयो
मध्यस्थता चेद्भवतीप्सितेषु १८
तद्देशकालौ भजते च युक्त्या
मन्दाशितं तं प्रवदन्ति तज्ज्ञाः ।
अत्याशितानां वमनं प्रशस्तं
मन्दाशितानामशनं तु युक्त्या १९
कालं च देशं च वयो बलं च
समीक्ष्य चोपद्रवभेषजं च ।
दृष्टिप्रसादो वचनप्रसिद्धिः
स्वरस्य गाम्भीर्यमदैन्यमूर्जाः २०
इष्टेन्द्रियार्थेषु मनःप्रहर्षः
स्निग्धं मुखं भुक्तवतश्च विद्यात् ।
कान्तिर्बलस्मृतिमेधावयांसि
प्रमोदसत्त्वस्थितिरङ्गवृद्धिः २१
दृढेन्द्रियत्वं स्थिरताऽऽयुषश्च
सम्यग्गुणा भुक्तवतो नरस्य ।
भोज्यस्य कालं मुनयो बुभुक्षां
वदन्ति तृष्णामपि पानकालम् २२
भोज्यानुपूर्वी तु यथा हिता स्यात्
तां तु प्रवक्ष्यामि निबोध वत्स ।
तृष्णाक्षुधौ चेद्युगपद्भवेतां
तयोर्भिषक् तां प्रथमं चिकित्सेत् २३
पूर्वं पिपासां शमयेद्विपश्चित्
त्रिभागसात्म्योचितपानयोगैः ।
ततोऽशनैः कुक्षितृतीयभागं
संपूरयेद्भागमथावशिष्यात् २४
एवं हि भुञ्जानमथो पिबन्तं
जितेन्द्रियं साहसवर्जिनं च ।
आरोग्यमायुर्बलमग्निदीप्तिः
प्रजा च मुख्या भजते सुखं च २५
बुभुक्षितो यस्तु पिबेत् पुरस्ता
दश्नाति चान्नाति पिपासितः सन् ।
तस्याशु रोगाः प्रभवन्ति घोरा
विपर्ययादानभवा अपायाः २६
ज्वराङ्गदाहश्रमकार्श्यकुष्ठ
च्छर्दिभ्रमानाहविसूचिकास्तृट् ।
यक्ष्मातिसारौ गलतालुशोषो
देहेन्द्रियार्थेन्द्रियवर्णहानिः २७
प्रतान्तभोक्तुर्विषमाशिनश्च
तोयातिपस्यातिमहाशनस्य ।
विरोध्यजीर्णाधिविभोजनस्य
वह्निः प्रशाम्यत्यपि चान्नकाले २८
तस्माच्च पूर्वं न जलं पिबेयुः
स्नेहोपरिष्टान्न न चातिभुक्त्वा ।
पीतं हि सद्यः शमयत्युदर्यं
ततो ज्वराद्याः प्रभवन्ति रोगाः २९
स्नेहं समाक्रम्य विचित्रभोज्यै
र्जलं पिबेन्मध्य इवाशनस्य
भुक्त्वाऽपि पित्तप्रकृतिः पिबेच्च
मात्रां च सर्वत्र हितं च सात्म्यम् ३०
जिह्वौष्ठताल्वन्त्रगलोदरौजो
विदह्यते भुक्तफलं न वेत्ति ।
आनाहदुर्नामजलोदरासृग्
वैसर्पतृष्णाक्षिशिरोरुजश्च ३१
अत्युष्णपानान्ननिषेवणेन
रेतोऽसृगण्डोपचयश्च दुष्येत् ।
अग्निः क्षयं याति रसं न वेत्ति
श्लेष्मा च पित्तं च निचीयतेऽस्य ३२
शीतान्नपानातिनिषेवणात्तु
कफानिलारोचकशूलवाताः ।
हिक्काशिरोनेत्रगलग्रहाद्या
आलस्यविण्मूत्रगुरुत्ववृद्धिः ३३
स्निग्धं च पूर्वं मधुरं च भोज्यं
मध्ये द्रवं शीतमथो विचित्रम् ।
तीक्ष्णोष्णरूक्षाणि लघूनि पश्चाद्
भोज्यानुपूर्वी खलु सात्म्यतश्च ३४
यः पैत्तिकः क्षीणकफो निरोगो
मूर्च्छाश्रमात्यध्वनिपीडितश्च ।
अत्युष्णपानान्ननिषेवणाच्च
दृष्टिर्हता मद्यनिषेवणाच्च ३५
शुष्कं कफं ष्ठीवति यश्च कृच्छ्रात्
ष्ठीवंश्च यः क्लिश्यति निर्विकारः ।
क्लेशात् प्रसूते तृषिता च या स्त्री
क्षीणेन्द्रियो यश्च मदात्ययार्तः ३६
मन्दाशिनो योषिति जागरूकाः
संशोधनैर्ये मृदिताश्च मर्त्याः ।
दग्धाश्च वैसर्पविदाहिनश्च
कासेन कोपेन मदेन चार्ताः ३७
उद्भ्रामितः पूगफलेन यश्च
जग्धेन वा यो मदनेन मूढः ।
किंपाकभल्लातविषोपसृष्टाः
क्षौद्राशिनो ये गरपीडिताश्च ३८
मद्यं पयस्तक्रमथो दधीनि
येऽश्नन्ति वाराहमथापि मत्स्यान् ।
ताम्बूलपूगोन्मथिताश्च ये स्युः
कालोचिता यस्य भवेच्च तृष्णा ३९
एते तथाऽन्येऽपि च तद्विधा ये
तेषां जलं शीतमुशन्ति पथ्यम् ।
विष्टम्भतृष्णाग्निनिपीडिता ये
तथा लभन्ते बलसत्त्वपुष्टीः ४०
कौरुक्षेत्राः कुरवो नैमिषेयाः
पाञ्चालमाणीचरकौसलेयाः ।
हारीतपादाश्चरशौरसेना
मत्स्या दशार्णाः शिशिराद्रिजाश्च ४१
सारस्वताः सिन्धुसौवीरकाख्या
ये चान्तरे स्युर्मनुजाः कुरूणाम् ।
उदग्विपाट्सिन्धुवसातिजाश्च
काश्मीरचीनापरचीनखश्याः ४२
बाह्लीकदाशेरकशातसाराः
सरामणा ये च परेण तेषाम् ।
एषामवक्षार्यशनादिरुक्ता
सात्म्येचितत्वाद्भिषजा विधेया ४३
सा ह्यस्य तृष्णां शमयत्युदीर्णां
बलं च पुष्टिं च रुचिं च धत्ते ।
वातानुलोम्यं प्रकृतिस्थतां च
विण्मूत्रदेहेन्द्रियजां करोति ४४
संतर्पयत्याशु च तेन सौभ्यो
हिता मता सात्म्यगुणेन चैव ।
पात्रेषु हृद्येषु सुपुष्पवत्सु
भुञ्जीत देशे च मनोऽनुकूले ४५
तक्रं शुक्तं दधि मस्तुर्गुडं च
द्राक्षा मुख्याः सुकृताः शक्तवश्च ।
शीतं हितं दाडिमवारि चार्यं
स्यात्सैन्धवं भूस्तृणपल्लवाश्च ४६
तानि त्रिवृद्वासककारवृन्ताद्
रसः कुठेरादिसमातुलुङ्गात् ।
स्यादार्द्रकयुताः शक्तवश्च
सर्पिर्वरिष्ठं लघवः षाडवाश्च ४७
भक्ष्याश्च मुख्या लघवः सपक्वाः
सूपा रागाः पानकं मद्ययोगाः ।
अतो गणाद्युक्तिमवेक्ष्य कुर्यात्
सात्म्यादवक्षारिमथो विधिज्ञाः ४८
काशीन्सपुण्ड्राङ्गकवङ्गकाचान्
ससागरानानूपकतौसलेयान् ।
पूर्वं समुद्रं च समाश्रिता ये
किरातदेश्यानपि पूर्वशैलान् ४९
शाकैः समत्स्यामिषशालितैलै
र्द्रव्यैश्च तीक्ष्णैः समुपक्रमेत ।
कफो हि तेषां निचितः स्वभावा
द्विलीयमानः कृशतां करोति ५०
कलिङ्गकान् पट्टनवासिनश्च
सदक्षिणान् वाऽपि च नार्मदेयान् ।
उच्चावचद्रव्यगुणान्विताभिः
पेयाभिरेतान् समुपक्रमेत ५१
तैलानि कङ्ग्वाढकीयावकाश्च
मूलानि कन्दाश्चणकाः कलायाः ।
एतानि सात्म्यानि भवन्ति तेषां
पेयास्तथोष्णाः परिसिद्धिकाश्च ५२
पेया हि सिद्धा सह दाडिमेन
तक्रेण चुक्रेण जलेन चोष्णा ।
ससैन्धवा चाशु विहन्ति तृष्णां
कालोपपन्ना मरिचार्द्रकाभ्याम् ५३
पित्तात्मनः सर्पिषि संस्कृता वा
क्षीरोदके शर्करयाऽन्विता वा ।
ज्वरातिसारश्रममोहकासान्
हिक्कां च तृष्णां च हिनस्ति पेया ५४
यद्यस्य सात्म्यं च हितं च भोज्यं
शरीरदेशप्रकृतौ स्थितं च ।
तत्तस्य वैद्यो विदधीत नित्यं
काले च हृद्यं लघु मात्रया च ५५
स्तनस्य वामस्य भवत्यधस्ता
दामाशयस्तत्र विपच्यतेऽन्नम् ।
धातूरसः प्रीणयते विसर्पन्
किट्टान्मलानां प्रभवोऽखिलानाम् ५६
दीप्ताग्नयो वर्णबला थनश्च
व्यायामनित्या बहुभाषिणश्च ।
स्त्रीषु प्रसक्ताः क्षयिनो विनिद्रा
रोगैर्विमुक्ताः कृशदुर्बलाश्च ५७
विशुष्कविण्मूत्रकफाध्वखिन्ना
निपीड्यमाना विषमज्वरैश्च ।
एते नरा मांसरसं पिबेयुः
प्राग्भोजनाद्वातविकारिणश्च ५८
प्रक्लिन्नकाया गलवक्त्ररोगै
रार्ताः क्षताः पित्तकफादिताश्च ।
ज्वरातिसारग्रहशोकनिद्रा
प्रमेहपाण्ड्वामयकामलार्ताः ५९
विषान्विताश्चापि मदान्विता वा
ये चोपसृष्टा विविधैर्गरैर्वा ।
छर्द्यूरुविष्कम्भविकारिणश्च
नैते नरा मांसरसं पिबेयुः ६०
तक्रं तु तेषां भवति प्रशस्तं
ससैन्धवं शर्करयाऽन्वितं वा ।
सौवर्चलेनाथ विडेन युक्तं
मध्येऽपि चान्तेऽपि सनावनीतम् ६१
तक्रं हि सद्यो मथितं सुगन्धि
रुचिं बलं पुष्टिमथो दधाति ।
अम्लोष्णवैशद्यलघु स्वरो वा
निषेव्यमाणं ज्वलयत्युदर्यम् ६२
वान्ते विरिक्ते ज्वरिते विशुष्के
महोपवासश्रमपीडिते च ।
तृष्णातिसारोरुगदोपतप्ते
वैसर्पपित्तामयघर्मिते च ६३
संसृष्टरोगेषु महाशनेषु
विदह्यमानेषु जलोदरेषु ।
सद्यःप्रसूतास्वपि चाङ्गनासु
मण्डं विदध्यादपि कामलासु ६४
आमातिसारज्वरयोर्विबन्धे
कफोद्भवे श्वासगलामयेषु ।
हिक्कोपजिह्वागलशुण्डिकासु
कासेऽक्षिरोगे शिरसो गुरुत्वे ६५
छर्दिश्रमोन्मादविसूचिकासु
योन्यामये प्लीह्नि च पीनसे च ।
गुल्मेषु हृद्रोगहलीमकेषु
वातप्रकोपेष्वथ केवलेषु ६६
धात्र्याः प्रवृद्धे पयसि प्रदुष्टे
बालस्य निद्राकफवातवृद्धौ ।
मूत्राभिवृद्धौ हृदयद्रवे च
निष्ठीविकालस्यविषादकेषु ६७
छर्देषु सर्वेषु तथा ग्रहेषु
पृष्ठग्रहे यक्ष्मणि हृद्गदे च ।
चिन्ताश्रमोन्मादमदोपतापे
मण्डं भिषङ्नोपदिशेद्विपश्चित् ६८
मण्डो हि पीतः कफिना गदे वा
कफात्मके वर्धयते कफस्तान् ।
सोऽस्याग्निमुत्साद्य गदान् पुनस्तान्
प्रकोपयन् कष्टतरान् करोति ६९
तस्मात्तु तेषां काफनां नराणां
न मण्डमाहुर्भिषजः प्रशस्तम् ।
स्यान्मुद्गमण्डोदक एव तेषां
ससैन्धवव्योषयुतः सुखाय ७०
कषायतिक्तः कटुपाकिभावात्
कफं निहन्त्याशु हि मुद्गमण्डः ।
तस्मात् कृशं रोगविमुक्तदेहं
दीप्तानलं वा सविलम्बिरोगम् ७१
व्यायामिनं वा बलिनं सरोगं
यश्चोचितो गोरसमांसमत्स्यैः ।
संयोजयेत्तं विरसेन यूष्णा
सास्रेण वा गोरससाधितेन ७२
त्रिःप्रस्रुतो दीपनतोयसिद्धः
स्यात्तण्डुलैः संपरिभृष्टकैर्वा ।
मुद्गैर्यवैश्चापि तथैव लाजै
रुष्णः सुगन्धिर्विशदेन पीतः ७३
मण्डः क्षणेनास्य बलं दधाति
व्याधिस्तथा मार्दवमभ्युपैति ।
सर्वेन्द्रियाणि प्रकृतिं भजन्ते
भोज्यानुपूर्वी च तथा कृता स्यात् ७४
मण्डं यथोक्तं पिबतो गुणास्ते
विपर्यये चापि विपर्ययः स्यात् ।
य एव मण्डस्य भवन्ति योग्या — ७५
लघ्वी यवागूर्न विदह्यते च
दोषानुलोम्यं विदधाति चोष्णा ।
पित्तं च माधुर्यगुणेन हन्ति
भोज्यानुपूर्वीं क्रमशश्च युङ्क्ते ७६
सदाडिमा वातकफार्दितस्य
सशर्करा पित्तकफान्वितस्य ।
रसेन वा जाङ्गलकेन सिद्धा
सगोरसा वा सह दाडिमैर्वा ७७
हितां नृणां मारुतपीडितानां
गुल्मे तथा प्लीह्नि च पीनसे च ।
सभोजनस्नानविहारयान
व्यायामसंभाषणगीतपथ्याम् ७८
तत्स्वस्थवृत्तौ च हितां वदन्ति
रोगे निवृत्ते ज्वलने च मन्दे ।
रोगे निवृत्ते ज्वलने च दीप्ते
रोगैर्विमुक्ताः कृशदुर्बलाश्च ७९
क्षीणेन्द्रिया वर्णबलाग्निहीना
यातार्दिताः पित्तनिपीडिताश्च ।
ज्वरतिसारोदरपायुरोग
चिन्तेष्यपानाध्वगरोगतप्ताः ८०
कासेन शस्त्रेण विषेण चैव
निपीडिताः शोकहताश्च नित्यम् ।
व्यायामगेयाध्ययनश्रमार्ता
भूमाग्निवातातपजागरार्ताः ८१
विदह्यमानाक्षिगलास्यनासा
विषीदमानाः स्मृतिबुद्धिहीनाः ।
आनाहिनः शुष्कपुरीषमूत्रा
भगन्दरार्शोग्रहकुण्डलार्ताः ८२
निष्पिष्टभग्नच्युतपीताङ्गे
शुद्धव्रणे मांसवेवर्जिते च
जीर्णज्वरान्येद्युतृतीयकेषु
नित्यज्वरे चापि चतुर्थके च ८३
रक्षःपिशाचोरगभूतयक्ष
क्षुद्वज्रतृष्णाग्निहिमाहताश्च ।
स्त्रीबालपुत्राल्पविशुष्कदुग्धा
गर्भश्च यस्या न विवर्धते च ८४
नाप्यायते यः स्तनपश्च बालो
जागर्ति नित्यं भृशरोदनश्च ।
चक्षुर्हतिर्यस्य च तीक्ष्णनस्यै
र्विशोषणैर्वा प्रतिकर्मणा वा ८५
एते शृतं क्षीरमथाभ्यसेयु
रलं शृतं यस्तु विरेचनीयः ।
क्षीरं हि सद्यो बलमादधाति
दृढीकरोत्याशु तथेन्द्रियाणि ८६
मेधायुरारोग्यसुखानि धत्ते
रसायनं चापि वदन्ति मुख्यम् ।
पुष्टिर्दृढत्वं लभते च गर्भो
बन्ध्या च षण्ढश्च जरंश्च सूते ८७
पायुं पयः शोधयतेऽनुलोमं
करोति वातं लघुतां नराणाम् ।
तस्माच्च सर्वेषु रसायनेषु
रोगस्य चान्ते प्रवदन्ति दुग्धम् ८८
क्षीरं सात्म्यं क्षीरमाहुः पवित्रं
क्षीरं मङ्गल्यं क्षीरमायुष्यमुक्तम् ।
क्षीरं वर्ण्यं क्षीरमाहुश्च केश्यं
क्षीरं सन्धानं क्षीरमाहुर्वयस्यम् ८९
क्षीरं सर्वेषां देहिनां चानुशेते
क्षीरं पिबन्तं च न रोग एति ।
क्षीरात् परं नान्यदिहास्ति वृष्यं
क्षीरात् परं नास्ति च जीवनीयम् ९०
शैत्यात् पयो वर्धयतेऽनिलं प्राक्
पित्तात्मनस्तेन भिनत्ति वर्चः ।
ईषच्च शूलं कुरुते गुरुत्वात्
स्नेहाद्विपाके शगयत्युभे द्वे ९१
माधुर्यतो वर्धयते शरीरं
प्रसादयत्याशु तथेन्द्रियाणि ।
स्थैर्यं पयः सान्द्रतया करोति
पैच्छिल्यतः शोधयतेऽन्तराणि ९२
विष्टभ्यते चापि कषायभावाद्
वातात्मनस्तेन करोति शूलम् ।
स्नेहाच्च माधुर्यगुणाच्च शूलं
पयो नियच्छत्यनुजीर्यमाणम् ९३
स्नेहाद्गुरुत्वात् सकषायशैत्याद्
विस्रंस्य सद्यो बलमादधाति ।
सस्नेहशैत्यान्मधुरान्वयत्वात्
कफात्मनां वर्धयते कफं च ९४
एतद्धितं सात्म्यकषायभावात्
पाकस्य तुष्टिं कुरुते न दोषम् ।
गौरं च वर्णं कुरुते सितत्वात्
स्नेहं च सस्नेहतया करोति ९५
शैत्यात् कषायाद्घनसान्द्रभावात्
संपर्कतश्चाभिषवाच्च भाण्डे ।
क्रमेण चोष्मोपचयान्निरुद्धं
पयो दधित्वाय शनैरुपैति ९६
पयो हि वातातपपीडितं द्रा
क्कूर्चीभवत्येष हि तत्र हेतुः ।
औष्ण्याद्घनत्वादथ वर्धमानः
संक्लेदनाच्चाभिषवाच्च दध्नः ९७
निर्वर्तयत्यम्लरसं पयोऽग्नि
र्मस्तुं तथा चाप्यतिवर्तमानः ।
ऊर्ध्वं सरश्चोत्प्लवते स्वभावात्
किट्टं ततोऽधश्च निषीदतेऽस्य ९८
दिव्येन च ज्ञानबलेन दृष्टं
मुखैः पुरा मन्थनमस्य युक्त्या ।
ततो घृतोदश्विदुपोपलभ्य
गावः प्रतिष्ठाः सचराचरस्य ९९
तस्माच्चिरव्याधिनिपीडितानां
मूर्च्छागतानां पततां नराणाम् ।
परायणं क्षीरमुशन्ति वैद्या
निद्रासुखायुर्बलकृत् पयो हि १००
मूढस्तु यः स्यान्मदनस्य बीजै
र्भल्लातकैः पूगफलादिभिश्च ।
पयो हि तस्योपदिशेद्विपश्चिद्
गुडोदकं वा शिशिरं पिबेत् सः १०१
क्षीरेण चैनं सगुडेन नित्यं
संभोजयेत् सर्पिषि संस्कृतेन ।
धान्वीरकार्तेऽपि तथैव कार्यं
क्षीरं हि तस्यौषधमुक्तमग्न्यम् १०२
आनूपजो जाङ्गलजो वरिष्ठः
सुभूमिजातो गुरुबद्धचक्षुः ।
सामुद्रषण्ढे क्षुकवंशकाना
मिक्षुः प्रशस्तस्तु परः परो यः १०३
स्वादुः शीतः पुष्टिकृद्दीपनीयः
स्निग्धो वृष्यो वर्णचक्षुःप्रसादी ।
श्लेष्माणमुत्क्लेदयते च जग्धो
रसस्तु पीतः कुरुते विदाहम् १०४
भुक्त्वा पिबेदिक्षुरसं कफात्मा
प्राग्भोजनात् पैत्तिकवातिकौ तु ।
संसृष्टदोषस्य हितोऽन्नमध्ये
तथाहि सर्वे सुखमाप्नुवन्ति १०५
इति प्रकृत्येक्षुरसप्रकारा
रोगांस्तु वक्ष्यामि हितार्थमेषाम् ।
ज्वरातिसारामगलामयेषु
विसूचिकाकुष्ठविलासकासे १०६
पाण्ड्वामये शूलजलोदरेषु
छर्द्यां कफोद्रेकविरिक्तवान्ते ।
नस्तः क्रियावस्तिनिरूहितेषु
स्वरोपघातक्षयपीनसेषु १०७
प्रमेहशोथोरुगदेषु नाद्याद्
रोगेष्वभिष्यन्दसमुत्थितेषु ।
ग्रहेषु सर्वेषु पयोऽतिवृद्धौ
बालेऽतिनिद्रे कफरोगिते च १०८
इक्षुः प्रयोगो न हितो हितस्तु
येषामिमांस्तानपि मे निबोध ।
जीर्णज्वरारोचकरक्तपित्त
कासक्षतक्षीणकफक्षयेषु १०९
तृष्णाग्निवैसर्पमदात्ययेषु
मूत्रामये कर्णशिरोक्षिवाते ।
त्वङ्मांसवर्णद्युतिबुद्धिरेतो
निद्राबलौजोरुधिरक्षयेषु ११०
येषामथोक्तं च पयः प्रशस्तं
तेषां हितश्चेक्षुरसः शिशूनाम् ।
कफप्रसेकारुचितृप्तिमोह
शूलप्रतिश्यायगलामयार्तान् १११
प्रमेहहृल्लासजडाग्निनाशान्
रसोऽतिपीतः कुरुते ज्वरं च ।
इत्येष धन्यं प्रवरश्च कल्पो
भोज्यं प्रति प्रश्न उदाहृतस्ते ११२
नृणां हितार्थं भिषजां च वृद्ध
सुखस्य मूलं प्रवदन्ति धर्म्यम् ११३
इति ह स्माह भगवान् कश्यपः
इति कल्पस्थाने भोजनकल्पः

विशेषकल्पाध्यायः
अथातो विशेषकल्पं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
हुताग्निहोत्रमासीनं कश्यपं लोकपूजितम्
वृद्धो विशेषमन्विच्छन् पप्रच्छ विनये स्थितः ३
सूत्रस्थाने भगवता निर्दिष्टो द्विविधो ज्वरः
हेतुलिङ्गौषधज्ञानैः प्रतिपन्नोऽस्मि तं तथा ४
संशयस्त्वस्ति भगवन् सन्निपातज्वरं प्रति
तत्र मे संशयं छिन्धि विशेषज्ञ विशेषणैः ५
किमेकः सन्निपातोऽयं किं वा किं बहवो मुने
एकश्चेत् किं समैर्दोषैरनेकत्वं कथं पुनः ६
वातपित्तकफानां तु त्रयाणां संप्रकुप्यताम्
क एषां प्रथमं दोषः प्रकुप्यति महामुने ७
युगपद्वा प्रकुप्यन्ति दोषाः किं वाऽनुपूर्वशः
प्रकुप्यतां वा विषममेकैकश्येन वा पुनः ८
विशेषाः के महाभाग दोषव्याससमासतः
सन्निपाताः कियन्तो वा कानि नामानि वा पृथक् ९
उपद्रवाश्च के तेषां परिहारविधिश्च कः
उपक्रमश्च कस्तेषां साध्यासाध्यवराश्च के १०
इति पृष्टः स शिष्येण स्थविरेण प्रजापतिः
सन्निपातविशेषार्थमद्भुतं वाक्यमब्रवीत् ११
शृणु भार्गव तत्त्वार्थं सन्निपातविशेषणम्
जानते भिषजो नैनं बहवोऽकृतबुद्धयः १२
शीतोपचारात् सूतानां मैथुनाद्विषमाशनात्
प्रजागराद्दिवास्वप्नाच्चिन्तेर्ष्यालौल्यकर्शनात् १३
तथा दुःखप्रजातानां व्यभिचारात् पृथग्विधात्
शिशोर्दुष्टपयःपानात्तथा संकीर्णभोजनात् १४
विरुद्धकर्मपानान्नसेविनां सततं नृणाम्
अभोजनादध्यशनाद्विषमाजीर्णभोजनात् १५
सहसा चान्नपानस्य परिवर्तादृतोस्तथा
विषोपहतवाय्वम्बुसेवनाद्गरदूषणात् १६
पर्वतोपत्यकानां च प्रतिकूले विशेषतः
अवप्रयोगात् स्नेहानां पञ्चानां चैव कर्मणाम् १७
यथोक्तानां च हेतूनां मिश्रीभावाद्यथोच्छ्रिताः
त्रयो दोषाः प्रकुप्यन्ति क्षीणे चायुषि भार्गव १८
ततो ज्वरादयो रोगाः पीडयन्ति भृशं नरम्
सर्वदोषविरोधाच्च दुश्चिकित्स्यो महागदः १९
यथाऽग्निवज्रपवनैर्न स्यादभिहतो द्रुमः
वातपित्तकफैस्तद्वत् क्रुद्धैर्देही न जीवति २०
विषाग्निशस्त्रैर्युगपन्न जीवन्ति यथा हताः
सन्निपातार्दितास्तद्वन्न जीवन्त्यतपस्विनः २१
द्वयं तदुपरिष्टाच्च यथा प्रज्वलितं गृहत्
न शक्यते परित्रातुं सन्निपातस्तथा नृषु २२
दिग्धबाणास्त्रयो व्याधाः परिवार्य यथा मृगम्
घ्नन्त्यनौषधयस्तद्वत्त्रयो दोषाः शरीरिणम् २३
संगता नियतं यस्मात् पातयन्ति कलेवरम्
अन्यच्चाशु संनिपतत्यतो वा सन्निपातता २४
अकस्मादिन्द्रियोत्पत्तिरकस्मान्मूत्रदर्शनम्
अकस्माच्छीलविकृतिः सन्निपाताग्रलक्षणम् २५
निर्दिष्टास्तस्य भेदास्तु भिषक्श्रेष्टैस्त्रयोदश
हीनमध्याधिकसमद्व्युद्बलैकोद्बलोद्भवाः २६
वातपित्ताधिको यस्य सन्निपातः प्रकुप्यति
तस्य ज्वरोऽङ्गमर्दस्तृट्तालुशोषप्रमीलिकाः २७
अरुचिस्तन्द्रिविड्भेदश्वासकासश्रमभ्रमाः
पित्तश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति २८
अन्तर्दाहो बहिः शीतं तस्य तृष्णा च वर्धते
तुद्यते दक्षिणं पार्श्वमुरःशीर्षगलग्रहः २९
निष्ठीवति कफं सासृक्कृच्छ्रात् कण्ठश्च दूयते
विड्भेदश्वासहिक्काश्च वर्धन्ते सप्रमीलकाः ३०
विधुफल्गू च तौ नाम्ना सन्निपातावुदाहृतौ
श्लेष्मानिलाधिको यस्य सन्निपातः प्रकुप्यति ३१
—सन्निपातः सुदारुणः

वातपित्ताधिक सन्निपात–विभु ।
पित्तश्लेष्माधिक सन्निपात – फल्गु ।
कफवाताधिक सन्निपात – मकरी ।
वाताधिक सन्निपात – विस्फारक ।
पित्ताधिक सन्निपात – शीघ्रकारी ।
श्लेष्माधिक सन्निपात – उल्वण ।
हीनाभिवृद्धमध्यैस्तु सन्निपातो यदा भवेत्
तस्य रोगास्त एवोक्ता यथादोषबलाश्रयात्

सर्वस्रोतोभवं त्वस्य रक्तपित्तं प्रकुप्यति
विस्फोटैरग्निदग्धाभैश्चीयते च समन्ततः

हृदयोदरमन्त्रं च यकृत्प्लीहाऽथ फुप्फुसम्
पच्यतेऽन्तः शरीरस्थमूर्ध्वाधः पूयमेति च

शीर्णदन्तश्च मृत्युश्च तस्याप्येतद्विशेषणम्
मध्याभिवृद्धहीनैस्तु सन्निपातो यदा भवेत्

तस्य रोगास्त एवोक्ता यथादोषबलाश्रयात्
स्तब्धाङ्गः स्तब्धदृष्टिश्च स तु शेते हतो यथा

विरिच्यतेऽतिमात्रं च पुरीषं बह्वनश्नतः
सर्वेषां स्रोतसां पाक एतदत्र विशेषणम्

वृद्धभिहीनमध्यैस्तु सन्निपातो यदा भवेत्
तस्य रोगास्त एवोक्ता यथादोषबलाश्रयात्
जृम्भाप्रजागरायामविप्रलापशिरोरुजः
मन्यास्तम्भेन मृत्युश्च तस्याप्येतद्विशेषणम्

एषां त्रयाणां नामानि याम्यक्रकचपाकलाः
समैर्दोषैः प्रकुपितं सन्निपातं निबोध मे

त्रयाणामत्र दोषाणां सर्वरूपाणि लक्षयेत्
त्रिदण्डवत् समबलान्यथो आहुस्त्रिपादवत्

यानि ज्वरचिकित्सायां रूपाण्युक्तानि तानि च
कूटपाकल इत्येष सन्निपातः सुदारुणः

व्याधिभ्यो दारुणेभ्यश्च वज्रशस्त्राग्नितो यदा
सद्यो हन्ता महाव्याधिर्जायते कूटपाकलः

कूटपाकलविग्रस्तो न शृणोति न पश्यति
न स्पन्दते न ब्रवीति नाभिष्टौति न निन्दति

केवलोच्छ्वासपरमः स्तब्धाङ्गः स्तब्धलोचनः
त्रिरात्रं परमं तस्य जन्तोर्भवति जीवितम्

तदवस्थं तु तं दृष्ट्वा मूढो व्याभाषते जनः
धर्षितो रक्षसा नूनमवेलायां चरन्निशि

अन्वयं ब्रुवते चैके यक्षिण्या ब्रह्मराक्षसैः
पिशाचैर्गुह्यकैश्चैव तथाऽन्ये विषयोजितम्
आक्रुष्टमभिशप्तं च तथाऽन्ये मस्तकाहतम्
कुलदेवार्चाविहतं धर्षितं गृहदैवतैः

नक्षत्रपीडामपरे गरकर्माणि चापरे
वदन्ति सन्निपातं तु भिषजः कूटपाकलम्

सद्यः स्वस्थस्य युगपद्यदा कुप्यन्ति ते त्रयः
तदा निर्वर्तते देहे पिडका विषसंज्ञिता
विरुद्धभोजनात् कालात् परिणामाच्च कर्मणाम्
प्रकुप्यत्यनिलः शीघ्रं सोऽस्याग्निमुपहन्त्यनु
तस्योपहतकायाग्नेः पूर्ववत् पिबतोऽश्नतः
कफीभवति भूयिष्ठं यदादत्ते चतुर्विधम्

तं कफं वायुरादाय स्रोतांस्यस्य विधावति
तस्य स्रोतांसि सर्वाणि सूक्ष्माणि च महान्ति च

पूरयित्वा पिधायास्ते संरुद्धः पवनस्ततः
पित्तं प्रकोपयत्यस्य तत् पित्तं मारुतेरितम्

सर्वतः श्लेष्मणा रुद्धमन्योन्यमिथुनाश्रयात्
ज्वरं हृल्लासमरुचिं पर्वभेदं विसूचिकाम्

रोगान् नानाविधांश्चान्यान् कुर्वन्मृद्नाति देहिनम्
प्रकृतेर्वा विपर्यासात् प्रकृत्या वा प्रकुप्यति

यथा यथोद्बलत्वं वा प्राप्नुवन्ति गदाधिपाः
तथैकद्व्युद्बलानाहुर्हीनमध्याधिकानपि

कूटस्थे तु समैर्दोषैर्जायते कूटपाकलः
एवमेते विनिर्देश्याः सन्निपातास्त्रयोदश

विपन्नस्तु रसो योऽस्य धावन् यात्यनिलेरितः
विषादं गौरवं मूर्च्छां कुर्याच्चास्याङ्गवेदनाम्

स्वलक्षणेषु दोषाणां भिषक् प्राज्ञो न विभ्रमेत्
उदीरिता हि संसृष्टा दुर्बला एकदोषजाः

सन्निपातेषु दाहार्तं यः सिञ्चेच्छीतवारिणा
आतुरः स कथं जीवेद्भिषग्वा स कथं भवेत्

सन्निपातेषु कम्पन्तं विलपन्तं च यो घृतम्
पाययेद्भोजयेद्वाऽपि तौ च स्यातामुभौ कथम्

सन्निपातेषु तृष्यन्तं पार्श्वरुक्तालुशोषिणम्
यः पाययेज्जलं शीतं स मृत्युर्नरविग्रहः

समुद्रतरणं ह्येतद्वदन्ति भिषजोऽश्मना
मृत्युना सह योद्धव्यं सन्निपातं चिकित्सता

सन्निपातार्णवे मग्नं योऽभ्युद्धरति देहिनम्
कस्तेन न कृतो धर्मः कां च पूजां स नार्हति

सन्निपाते समुत्पन्ने किमादावभ्युपक्रमेत्
एतत् प्रश्नमतश्चोर्ध्वं चिकित्सोपक्रमं शृणु

संमोहमत्र भूयिष्ठं भिषजो यान्त्यनिश्चिताः
अग्रे मूले च भैषज्यं कुर्वन्तो घ्नन्ति मानवान्

यं दोषमुद्बलं पश्येत् सन्निपाते स्वलक्षणैः
तस्याग्रे निग्रहं कुर्यादित्यन्यभिषजो विदुः

वृद्धजीवक नैवं तु वयं कुर्मश्चिकित्सितम्
असम्यग्दर्शिनस्ते तु य एवं भिषजो विदुः

श्लेष्मनिग्रहमेवादौ कुर्याद्व्याधौ त्रिदोषजे
निरस्ते श्लेष्मणि ह्यस्य स्रोतःसूद्घाटितेषु च
लाघवं जायते सद्यस्तृष्णा चैवोपशाम्यति

शिरोहृदयकर्णस्य पार्श्वरुक् चोपशाम्यति
जिह्वागुरुजडत्वं च दृष्टिश्चैव प्रसीदति

तस्मात् पुनः पुनः कुर्याच्छ्लेष्मकर्षणमौषधैः
उदीर्णदोषं प्रथमे दिवसे वामयेन्नरम्

विशोषितं न वमयेदमेध्यं हि वमेत्तथा
सर्वेषु सन्निपातेषु न क्षौद्रमवचारयेत्

शीतोपचारि हि क्षौद्रं शीतं चात्र विरुध्यते
उष्णोपचारी सततं सन्निपाती प्रशस्यते

वर्जयेच्च दिवास्वप्नं धृति सत्त्वं च संश्रयेत्
लङ्घनं स्वेदनं नस्यं मर्दनं कवलग्रहः

एतान्यादौ प्रयुञ्जीत सन्निपातेषु युक्तिवित्
त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा

लङ्घनं सन्निपाते तु कुर्याद्वाऽऽरोग्यदर्शनात्
प्रकाङ्क्षा लाघवं ग्लानिः स्वच्छता संप्रसन्नता

उपद्रवनिवृत्तिश्च सम्यग्लङ्घितलक्षणम्
अग्लानिगौरवाश्रद्धाविकृतिश्चाविशोषिते
संमोहक्षामशैथिल्यवातरुक् चातिलङ्घिते
स्वेदाध्याये यथा प्रोक्ताः स्वेदाः सर्वाङ्गिकास्तथा

तच्चास्य स्वेदयेत् प्रायो यत्र यत्रास्य वेदना
कफो हि वायुना क्षिप्तो विष्टब्धः पार्श्वयोर्हृदि

खरीकृतश्च पित्तेन शल्यवद्बाधते नरम्
तस्याशुष्कस्य लीनस्य विलग्नस्य कृशात्मनः

दुःखनिर्हरणं कर्तुं तीक्ष्णादन्यन्न भेषजात्
तस्य तीक्ष्णानि नस्यानि तीक्ष्णाश्च कवलग्रहाः

स्वेदं दिवाजागरणं विदद्ध्यात् पार्श्वशूलिनः
मातुलुङ्गार्द्रकरसं कोष्णं त्रिलवणान्वितम्

अन्यद्वा सिद्धिविहितं तीक्ष्णं नस्यं विधापयेत्
तेन प्रभिद्यते श्लेष्मा प्रस्विन्नश्च प्रसिच्यते

शिरोहृदयमन्यास्यं दृष्टिश्चास्य प्रसीदति
प्रमीलकस्तालुशोषः श्वासः कासश्च शाम्यति

पुनः पुनश्च निद्रायां कटु नस्याञ्जनं हितम्
तीक्ष्णैर्द्रव्यैः सलवणैर्मातुलुङ्गरसद्रवैः

द्रवाम्लयुक्तैरथवा कोष्णाः स्युः कवलग्रहाः
आर्द्रकस्वरसोपेतं सैन्धवं सकटुत्रिकम्

आकर्षं धारयेदास्ये निष्ठीवेच्च पुनः पुनः
तेनास्य हृदयश्लेष्मा मन्यापार्श्वशिरोगलात्
लीनो व्याकृष्यते शुष्के लाघवं चास्य जायते
पर्वभेदो ज्वरो निद्राश्वासकासगलामयाः

मुखाक्षिगौरवं जाड्यमुत्क्लेशश्चोपशाम्यति
सकृद्द्वित्रिचतुः कुर्याद् दृष्ट्वा दोषबलाबलम्

एतद्धि परमं प्राहुर्भेषजं सन्निपातिनः
श्लेष्मणा कृष्यमाणस्य सततं सन्निपातिनः

तृष्णा भवति शुष्कास्यहृत्कण्ठगलतालुनः
तस्य तृष्णाप्रशमनं पानीयमुपदेक्ष्यते

दीपनं कफवातघ्नं त्रिदोषघ्नमथापि वा
तेनास्य पच्यते श्लेष्मा पक्वः स्थानं विमुञ्चति

कफे विमुक्ते च ततो याति वातोऽनुलोमताम्
कफानिलानुलोम्येन पित्तमल्पबलीकृतम्

सुचिकित्स्यं भवत्यस्य तस्य ह्यनुबलः कफः
अथैनं लङ्घितं ज्ञात्वा स्वल्पाबाधं प्रकाङ्क्षितम्

दीपनीयोदके सिद्धां पेयामस्योपहारयेत्
शालीनां षष्टिकानां वा पुराणानां तु तण्डुलैः

भृष्टैस्त्रिः प्रस्रुता रूक्षा सुखोष्णा लवणैर्युता

शस्यते नातिबहला नचैनं बहु भोजयेत्

स चेज्जीर्यत्यविघ्नेन तं विद्याज्जीवितं नरम्
मुद्गमण्डस्तु तत्रैव तोये श्लेष्माधिके हितः
सहार्द्रकः समरिचः ससौवर्चलसैन्धवः
मृद्वीकां भक्षयित्वाऽग्रे शर्कराक्षौद्रसंयुताम्

पित्ताधिके च ससितां पेयामेवावचारयेत्
न तु स्नेहान्नपानं वा गुरूण्यन्यानि वा भिषक्

भोजयेत् संनिपातेषु तद्ध्यस्य विषभोजनम्
पेयामरोचकार्ताय भिषग्दद्यात् सदाडिमाम्

नात्युष्णां नातिलवणां फलाम्लां यूषमेव वा
प्रदोषे भोजयेच्चैनं भुक्तमात्रे यथा स्वपेत्

गुप्ते निवातेऽग्निमति सुखप्रावरणास्तृते
सप्ताहं भोजयेच्चैनमन्नवृद्ध्याऽल्पमल्पशः

ततो विरसिकां दद्यात्तक्रदाडिमसाधिताम्
यथादोषं कषायांश्च सन्निपातज्वरापहान्

सम्यक्परिणते चान्ने विदद्ध्याज्जाङ्गलं रसम्
रूक्षोष्णव्योषलवणं तेन वा त्र्यहमाशयेत्

ततो बदरमात्रस्तु स रसस्त्र्यहमिय्यते
दशमूलादिनिर्यूहे लावाद्यादानसंस्कृतः

व्यक्ताम्ललवणस्नेहो रसः स्यादनिलोत्तरे
सर्पिषा मुद्गनिर्यूहः प्रत्यादानेन संस्कृतः

मन्दस्नेहाम्ललवणः कार्यः पित्तोत्तरे गदे
तथा कुलत्थनिर्यूहे शशाद्यादानसंस्कृतः
सबालमूलकव्योषः किञ्चित्स्नेहः कफोत्तरे
जातप्राणं तु दृष्ट्वैनमीषद्रोगावलम्बितम्

विस्रंसनेन मृदुनाऽऽभोज्य स्निग्धं विरेचयेत्
दोषशेषं तु तद्ध्यस्य विरिक्तस्योपशाम्यति

इति क्रमः समुद्दिष्टः कषायानपि मे शृणु
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरम्

दीपनीयः स्मृतो वर्गः कफानिलगदापहः
रोचनो दीपनो हृद्यो लघुः सांग्राहिकः परः

शटीपौष्करपिप्पल्यो बृहती कण्टकारिका
शुण्ठी कर्कटकी भार्गी दुरालम्भा यवानिका

शूलानाहविबन्धघ्नं शट्याद्यं कफवातनुत्
मुस्तपर्पटकोशीरदेवदारुमहौषधम्

त्रिफला सदुरालम्भा नीली कम्पिल्लकस्त्रिवृत्
किराततिक्तकं पाठा वचा कटुकरोहिणी

मधुकं पिप्पलीमूलं मुस्ताद्यो गण उच्यते
संशोधनः संशमनस्त्रिदोषघ्नोऽग्निदीपनः

अष्टादशाङ्गमुदकमेतद्वा स्यात् सपार्वतम्
पित्तोत्तरे सन्निपाते प्रशस्तं तीर्थकर्तृभिः

दीपनं पञ्चमूलं वा शट्याद्यं वा प्रकल्पितम्
सपञ्चदशमूलं वा शृतं पेयं लघूदकम्
सुखोष्णं वा भृशोष्णं वा दृष्ट्वा दोषबलाबलम्
पार्वत्याः पञ्चमूल्या वा शृतं तोयं सदीपनम्

समुस्तकं पर्पटकमथवा सदुरालभम्
पेयं पित्तोत्तरे व्याधौ कोष्णं सर्वं च शस्यते

पिप्पल्यादिर्वचादारुवयस्थासरन्वितः
पेयः कफोत्तरे सामे सहिङ्गुक्षारसैन्धवः

दोषास्तेनाशु पच्यन्ते विबन्धश्चोपशाम्यति
अभया कट्फलं भार्गी भूतीकं देवदारु च

वचा पर्पटकं मुस्तं धान्यकं विश्वभेषजम्
सहिङ्गमाक्षिकः पेयो व्याधौ वातकफोत्तरे

दुरालभा वचा दारु पिप्पली भद्ररोहिणी
महौषधं कर्कटकी बृहती कण्टकारिका

क्वाथः सलवणः पेयः सन्निपातज्वरापहः
त्रिफला रोहिणी निम्बं पटोलं कटुकत्रयम्

पाठा गुडूची वेत्राग्रं सप्तपर्णं सवत्सकम्
किराततिक्तकं मुस्ता वचा चेत्येकतः शृतम्

कफोत्तरं निहन्त्येतत् पानादग्निं च दीपयेत्
आरग्वधवचानिम्बपटोलोशीरवत्सकम्

शार्ङ्गेष्टाऽतिविषा मूर्वा त्रिफला सदुरालभा
भद्रमुस्ता बला पाठा मधुकं भद्ररोहिणी
कषाय एष शमयेज्ज्वरमाशु त्रिदोषजम्
जाड्यं सशोफमाध्मानं गुरुत्वं चापकर्षति

मन्यास्तम्भमुरोघातमुरःपार्श्वशिरोरुजः
उपनाहैः सलवणैरभ्युष्णैरुपनाहयेत्

चिरकालोपवासस्य नस्योष्णकवलग्रहैः
हृदयं क्षण्यते जन्तोः पार्श्वकण्ठौष्ठतालु च

क्षतोरस्को घनं श्लेष्म सरक्तं ष्ठीवते ततः
ष्ट्यूते चायम्यते मूर्च्छंस्तेन जन्तुर्विगच्छति

दह्यते जठरं चास्य किञ्चिच्च परिकूजति
निद्रायते च पीत्वाऽऽशु जीर्णे जागर्ति चोदके

लङ्घनोष्णोपचाराद्वा व्याधौ पित्तोत्तरे नृणाम्
तीक्ष्णौषधप्रयोगाच्च पित्तमस्य प्रकुप्यति

पित्तोत्तरं सन्निपातमेभिर्ज्ञात्वा तु कारणैः
मुस्तादिक्वथितं तोयं शीतं समधुशर्करम्

पाययेदातुरं काले तेन शर्म लभेत सः
विस्रस्यतेऽल्पमपि चेत्तेनैवाशु सुखी भवेत्

त्रिफला पिप्पली श्यामा केसरं शर्करा त्रिवृत्
सक्षौद्रो मोदको ह्येष पित्तोत्तरमपोहति

यवकोलकुलत्थानां पञ्चमूलद्वयस्य च
त्रिफलायाश्च निष्क्वाथे सर्पिर्धीरो विपाचयेत्
संहृत्य कल्कानेतांश्च सुपिष्टान् भागकल्पितान्
मुस्ता पाठा वचा शुण्ठी रोहिणी चव्यचित्रकौ
शृङ्गी दुरालभा शिग्रुः कैरातो रजनीद्वयम्
तेजोवती सोमवल्कः सप्तपर्णः सकेवुकः

वयस्था पिप्पलीमूलं पिप्पली गजपिप्पली
छिन्नरुहा चातिविषा पत्रं निम्बपटोलयोः

कण्डोपपुष्पी गोजिह्वा नक्तमालफलानि च
तुम्बुरुं पौष्करं मूलं मूलं च मदनार्कयोः

क्षाराः सपञ्चलवणा हिङ्गुमात्रासमन्वितम्
सिद्धमेतैर्यथान्यायं सर्पिः कटुकसंज्ञितम्

पाययेन्मात्रया काले सन्निपातज्वरार्दितम्
लीनदोषावशेषं च विषमज्वरपीडितम्

हृद्रोगं ग्रहणीदोषं वातगुल्मं प्लिहोदरम्
श्वासं कासं च शमयेद्बलमग्नेश्च दीपयेत्

सन्निपातेषु भूयिष्ठं निवृत्तोपद्रवेष्वपि
श्लेष्मा च पार्श्वशूलं च निवर्तेत समश्नतः

तस्याग्निं चिरकारित्वाद्भिषक् संदीपयेत् पुनः
न चातिविश्वसेद्वैद्यो जितो व्याधिर्मयेति ह

कृशे विरुद्धसेवित्वाच्चिराद्दोषः प्रकुप्यति
व्यावृत्तश्च पुनर्हन्ति सन्निपातो यथा विषम्

सन्निपातात् समुत्तीर्णो यदि जीवति मानवः
क्षीणौजोबलमांसात्मा शीर्णश्मश्रशिरोरुहः

स्वरस्मृतिपरिभ्रष्टः क्षीणशुक्रो हतेन्द्रियः
अव्यक्तवाग्विवर्णश्च मन्दाग्निश्च भवत्यसौ

सन्निपातेन मुक्तस्तु चिरादाप्यायते नरः
दृष्ट्वा संभोजनीयश्च पुनर्जन्म हि तस्य तत्

तदवस्थो व्यभिचरेद्यदि रोगानवाप्नुते
ज्वरशोषारुचिप्लीहयक्ष्मपाण्डून्न जीवति

सर्वलक्षणसंपन्नः सर्वोपद्रवसंयुतः
त्रिरात्रोपेक्षितश्चापि सन्निपातो न सिद्ध्यति

सन्निपाते निवृत्ते तु यो व्याधिरवलम्बते
सोपद्रवाँस्ताँश्चिकित्सेद्यथास्वैः स्वैश्चिकित्सितैः

एकाहारब्रह्मचर्यलघुपानान्नसेवनम्
अकर्मण्यमनायासः सुखशय्यासनस्थितिः

दिवाजागरणं सद्भिः सुहृद्भिश्च सहासनम्
अभ्यङ्गाच्छादने चित्रं कदाचित् स्नेहमेव तु

जाङ्गलाँश्च रसानुष्णान् कुलत्थरससाधितान्
वास्तुकं तण्डुलीयं च संस्कृतं बालमूलकम्

सेवेत विधिवच्चैव द्वौ मासौ जीवितार्थिकः
त्रीन्मासाँश्चतुरो वाऽपि जिह्मत्वादस्य यक्ष्मणः
सशृतेन समश्नीयात् पयसाऽऽज्येन पैत्तिकः
शर्कराक्षौद्रयुक्तेन गवां क्षीरेण वा पुनः

कर्पूरचूर्णं तृष्णायां वदने धारयेत् सदा
तैलानि गन्धपुष्पाणि नित्यं मुख्यानि धारयेत्

औदकानूपमांसानि माषपिष्टतिलोत्कृतम्
मन्दजातानि मद्यानि गुरूण्यभिनवानि वा

पायसं कृसरं चुक्रं शष्कुल्यो यवकं दधि
वर्जयेत्तानि सर्वाणि श्रद्धाभोजनमेव च

अश्वव्यायामसंक्लेशं शीताम्बु मदिरासवम्
अवश्यायं पुरोवातमभ्युष्णं च विवर्जयेत्

यानि तस्य प्रशस्यन्ते श्रद्धाभोज्यानि जीवक
पथ्यानि चान्नपानानि यथास्वं तानि मे शृणु

गुडसर्पिषि पिप्पल्यः संस्कृता दधिसाधिताः
तथा मुख्यं गुडकृतं भक्ष्या मुद्गमयाश्च ये

यवगोधूमसंस्कारा दाधिकं शुष्कमूलकम्
मुद्गामलकयूषश्च तिक्तसूपश्च सर्पिषा

एवं श्रद्धाविनयनं भिषक्कुर्यादरोचके
अप्रमादेन धर्मार्थी चिकित्सेन्मतिमान् भिषक्

सूतिकोपक्रमाध्याये यच्च वक्ष्ये खिले मुने
तदिहापि प्रयोक्तव्यं सन्निपातचिकित्सितम्
इति ह स्माह भगवान् कश्यपः
इति कल्पस्थाने विशेषकल्पः

संहिताकल्पाध्यायः
अथातः संहिताकल्पं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
संहिताध्ययने युक्तः शुचिः साधुर्जितेन्द्रियः
वैद्यो वैद्यकुले जातो ग्रन्थे चार्थे च निष्ठितः ३
स पृष्टोऽन्येन वैद्येन प्रब्रूयात् संहिताविधिम्
कति स्थानमिदं तन्त्रं कस्मात्तन्त्रमिति स्मृतम् ४
स्थानानां कानि नामानि कर्माध्यायानि यानि च
स्थाननामानुपूर्वीं च श्रोतुमिच्छामि तत्त्वतः ५
अष्टौ स्थानानि वाच्यानि ततोऽतस्तन्त्रमुच्यते
अध्यायानां शतं विंशं योऽधीते स तु पारगः ६
सूत्रस्थाननिदानानि विमानान्यात्मनिश्चयः
इन्द्रियाणि चिकित्सा च सिद्धिः कल्पाश्च संहिता ७
सूत्रस्थानं चिकित्सा च त्रिंशदध्यायके उभे
निदानानि विमानाश्च शारीराण्यष्टकानि तु ८
सिद्धयो द्वादशाध्यायाः कल्पाश्चैवेन्द्रियाणि च
खिलान्यशीतिरध्यायास्तन्त्रं सखिलमुच्यते ९
धारणं ह्यस्य तन्त्रस्य वेदानां धारणं यथा
पुण्यं मङ्गल्यमायुष्यं दुःस्वप्नकलिनाशनम् १०
धर्मार्थकाममोक्षाणां धर्म्यमायतनं महत्
सुखप्रदं नृणां शश्वद्धनमानयशस्करम् ११
नाधार्मिको न चापुत्रो नाविद्वान्न च गर्हितः
नापूजितो नाविदितो लोके भवति पारगः १२
सततं चाप्यधीयानः सम्यगध्यापयन् भिषक्
इह लोके यशः प्राप्य शक्रलोके महीयते १३
दक्षयज्ञे वधत्रासाद्देवर्षीणां पलायताम्
रोगाः सर्वे समुत्पन्नाः संतापाद्देहचेतसोः १४
ज्वरो गुरुत्वाद् गुल्मस्तु धावतां प्लवनात् प्लिहा
भ्रमो विषादाद्विड्भेदो धावतां वेगधारणात् १५
तृष्णा च रक्तपित्तं च श्रमादुष्णे च धावताम्
हिक्काश्वासौ कफाधिक्याद्धावतां पिबतां जलम् १६
प्रागुत्पत्तिस्तथाऽन्येषां रोगाणां परिकीर्तिता
कृतत्रेतान्तरत्वेन प्रादुर्भूता यथा नृणाम् १७
धर्मार्थकाममोक्षेषु विद्याबलयशोहराः
ततो हितार्थं लोकानां कश्यपेन महर्षिणा १८
पितामहनियोगाच्च दृष्ट्वा च ज्ञानचक्षुषा
तपसा निर्मितं तन्त्रमृषयः प्रतिपेदिरे १९
जीवको निर्गततमा ऋचीकतनयः शुचिः
जगृहेऽग्रे महातन्त्रं संचिक्षेप पुनः स तत् २०
नाभ्यनन्दन्त तत् सर्वे मुनयो बालभाषितम्
ततः समक्षं सर्वेषामृषीणां जीवकः शुचिः २१
गङ्गाह्रदे कनखले निमग्नः पञ्चवार्षिकः
वलीपलितविग्रस्त उन्ममज्ज मुहूर्तकात् २२
ततस्तदद्भुतं दृष्ट्वा मुनयो विस्मयं गताः
वृद्धजीवक इत्येव नाम चक्रुः शिशोरपि २३
प्रत्यगृह्णन्त तन्त्रं च भिषक्च्छ्रेष्ठं च चक्रिरे
ततः कलियुगे नष्टं तन्त्रमेतद्यदृच्छया २४
अनायासेन यक्षेण धारितं लोकभूतये
वृद्धजीवकवंश्येन ततो वात्स्येन धीमता २५
अनायासं प्रसाद्याथ लब्धं तन्त्रमिदं महत्
ऋग्यजुःसामवेदाँस्त्रीनधीत्याङ्गानि सर्वशः २६
शिवकश्यपयक्षांश्च प्रसाद्य तपसा धिया
संस्कृतं तत् पुनस्तन्त्रं वृद्धजीवकनिर्मितम् २७
धर्मकीर्तिसुखार्थाय प्रजानामभिवृद्धये
स्थानेष्वष्टसु शाखायां यद्यन्नोक्तं प्रयोजनम् २८
तत्तद्भूयः प्रवक्ष्यामि खिलेषु निखिलेन ते
इति ह स्माह भगवान् कश्यपः
इति वृद्धजीवकीये तन्त्रे कौमारभृत्ये वात्स्यप्रतिसंस्कृते
कल्पेषु संहिताकल्पो नाम द्वादशः
समाप्तं च कल्पस्थानम्
समाप्ता चेयं सहिता
अतः परं खिलस्थानं भवति

काश्यप
Kāshyapa
खिलस्थानम्
Khilasthānam
Chapter 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 21 22 24 25
खिलस्थानम्

अथ नवमं खिलस्थानम्
विषमज्वरनिर्देशीयाध्यायः प्रथमः

अथातो विषमज्वरनिर्देशीयं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
कश्यपं सर्वशास्त्रज्ञं सर्वलोकगुरुं गुरुम्
भार्गवः परिपप्रच्छ संशयं संश्रितव्रतः ३
प्रोक्तं ज्वरचिकित्सायां विषमज्वरभेषजम्
न निर्दिष्टं भगवता विषमत्वस्य कारणम् ४
युक्तं सततकादीनां वैषम्यं विषमागतेः
अविसर्गी ज्वरः कस्मात् संततो विषमः स्मृतः ५
प्रेतज्वरो ग्रहोत्थश्च विषमः केन हेतुना
तदिदानीं यथाकालं वक्तव्योऽवयवाद्यथा ६
वक्तुमहसि तत्त्वेन सविशेषं सविस्तरम्
इति पृष्टः स शिष्येण प्रश्नं प्रोवाच कश्यपः ७
अल्पहेतुर्बहिर्मार्गो वैकृतो निरुपद्रवः
एकाश्रयः सुखोपायो लघुपाकः समो ज्वरः ८
विषमस्तद्विपर्यस्तस्तीक्ष्णत्वात् संततो मतः
तद्वत् प्रेतग्रहोत्था ये चत्वारो विषमागमात् ९
दुर्जयत्वादुग्रहपरिग्रहात्
वैषम्यं संततादीनां दारुणत्वादुदाहृतम् १०
तथा सततकादीनां चतुर्णां कालकारितम्
विषमत्वं प्रवक्ष्यामि ज्वराणां जायते यथा ११
समस्ता द्वन्द्वशो वाऽपि धमनी रसवाहिनीः
दोषाः प्रपन्नाः कुर्वन्ति विषमा विषमज्वरम् १२
ज्वरितो मुच्यमानो वा मुक्तमात्रश्च यो नरः
व्यायामगुर्वसात्म्यान्नमतिमात्रमथो जलम् १३
पायसं कृशरं पिष्टं पललं दधि मन्दकम्
पिण्याकमाषविकृतीर्ग्राम्यानूपं तथाऽऽमिषम् १४
एवं विधानि चान्यानि विरुद्धानि गुरूणि च
सेवते च दिवास्वप्नमजीर्णाध्यशनानि च १५
ज्वरोऽभिवर्धते तस्य विषमो वाऽऽशु जायते
दोषेष्वपरिपक्वेषु कषायं यश्च सेवते १६
लौल्याद्वा स्नेहपानानि क्षीरं संतर्पणानि वा
दैवतानामभिध्यानाद् ग्रहसंस्पर्शनादपि १७
सद्यो वान्तो विरिक्तो वा स्नेहपीतोऽनुवासितः
शीतोपचारं गुर्वन्नं व्यवायं यश्च सेवते १८
तस्यापि सहसा वायुरस्थिमज्जान्तरं गतः
कुपितः कोपयत्याशु श्लेष्माणं पित्तमेव च १९
ततोऽस्य धातुवैषम्याद्विषमो जायते ज्वरः
सततोऽन्येद्युको वाऽपि तृतीयः सचतुर्थकः २०
न च नोपशमं याति न च भूयो न कुप्यति
शमप्रकोपयोः कालं न चायमतिवर्तते २१
न च स्वभावोपशमं गच्छत्यनुशयात्मकः
न हि स्वभावशान्तानां भावानामस्ति संभवः २२
ज्वरप्रवेगोपरमे देही मुक्त इवेक्ष्यते
तथाऽप्यस्यामवस्थायामेभिर्लिङ्गैर्न मुच्यते २३
मुखवैरस्यकाटुक्यमाधुर्यादिभिरल्पशः
नात्यन्नलिप्साग्लानिभ्यां शिरसो गौरवेण च २४
पुनः पुनर्यथा चैष जायते तन्निबोध मे
निरुद्धमार्गो दोषेण विषमज्वरहेतुना २५
वायुस्तद्दोषकोपान्ते लब्धमार्गो यथाक्रमम्
दोषशेषं तमादाय यथास्थानं प्रपद्यते २६
स दोषशेषः स्वे स्थाने लीनः कालबलाश्रयात्
रसस्थानमुपागम्य भूयो जनयति ज्वरम् २७
उपक्रमविशेषेण स्वबलस्य व्ययेन च
क्षयं प्राप्नोति वृद्धिं च समानगुणसंश्रयात् २८
सोऽयं निवृत्तिं संप्राप्य यथा दीपः स्वभावतः
पुनः पुनः प्रज्वलति क्षीणत्तैलेन्धनोऽपि सन् २९
स्वमधिष्ठानमाश्रित्य शान्तः शान्तस्तथा ज्वरः
काले बलं दर्शयति क्षीणदोषेन्धनोऽपि सन् ३०
स्वहेतुदोषमाश्रित्य नियतो नियमेन यः
अहोरात्रे दर्शयति कालहेतुकृतं बलम् ३१
द्विकालं स यथादोषं ज्वरः सततकः स्मृतः
स्थानमामाशयस्तस्य यं समाश्रित्य वर्तते ३२
उरस्त्वन्येद्युकस्थानमहोरात्रादुरश्च्युतः
दोषो रसं समासाद्य यदा दर्शयते बलम् ३३
तदाऽनुषङ्गी स्वे काले जायतेऽन्येद्युको ज्वरः
कण्ठस्तृतीयकस्थानमहोरात्राच्च्युतस्ततः ३४
उरः प्रपद्यतेऽन्यस्मादहोरात्राद्यथाक्रमम्
रसधात्वाश्रितो दोष ऊष्मणा सह मूर्च्छितः ३५
तृतीयेऽहनि निर्वृत्तिं जनयेत् स तृतीयकः
शिरश्चतुर्थकस्थानं चतुर्थं समुदाहृतम् ३६
अहोरात्राच्च्युतः स्थानाद्दोषः कण्ठेऽवतिष्ठते
ततः पुनरहोरात्रादुरसि प्रतिपद्यते ३७
तृतीये चाप्यहोरात्रे रसधातौ प्रकुप्यति
चतुर्थकः स विज्ञेयश्चिरस्थायी महाज्वरः ३८
गम्भीरस्थानसंभूतो धातुसंकरदूषितः
दर्शयित्वा बलं काले जन्तोः शिरसि लीयते ३९
त्रिदोषसंभवत्वाच्च भूतसंस्पर्शनादपि
दुश्चिकित्स्यतमो ह्येष तस्माद्ध्येनमुपक्रमेत् ४०
बलिभिः शान्तिहोमैश्च सिद्धैर्मन्त्रपदैस्तथा
पापापहरणं चास्य कर्तव्यं सिद्धिमिच्छता ४१
भूतेश्वरं नीलकण्ठं प्रपद्येत वृषध्वजम्
चिरानुबन्धी विषमो यथाकालं विवर्धते ४२
एकाहाच्च द्व्यहाच्चैव त्र्यहाच्चतुरहात्तथा
पञ्चमेऽहनि षष्ठे वा कस्मादेष न जायते ४३
तस्य त्वामाशयः स्थानमुरः कण्ठः शिरस्तथा
स्थानमन्यत्ततो नास्ति स्थानाभावान्न जायते ४४
आग्नेयः स्यात् सततको वायव्यो हि द्वितीयकः
वैश्वदेवस्तृतीयः स्यादैशानस्तु चतुर्थकः ४५
कस्मात् परिक्षीणबलः क्षीणधातुबलौजसः
ज्वरो विवर्धते जन्तोर्मोक्षकाले विशेषतः ४६
गतेरभावाद्वाह्येन वायुनाऽभ्याहतक्रमः
संक्षीणवर्त्यनुगतः स्नेहवाय्वभिमूर्च्छितः
शान्तोऽपि तदुपादानाद्यथा दीपो न दीप्यते ४७
तद्वद्धातुबले क्षीणे ज्वरः क्षीणबलोऽपि सन्
निरुपादानदोषत्वान्मोक्षकाले विशेषतः ४८
हेतुशेषमशेषेण दहन् दर्शयते बलम्
सप्रतीकारवैशेष्यात् प्रशमं याति हन्ति वा ४९
पाकाद्वा शमनाद्वाऽपि शोधनाद्वा हृताधिके
स्वस्थानस्थे नरो दोषे शुद्धस्रोता विसृज्यते ५०
निर्दिष्टो दोषपाकादेरस्माद्धेतुत्रयात् परम्
अन्यत्र चैव नान्योऽस्ति हेतुर्ज्वरविमोक्षणे ५१
कस्माद्दोषपरिक्षोभे प्रायशः शीतपूर्वकम्
निर्वर्तते ज्वरो जन्तोः पश्चाद्दाहः प्रवर्तते ५२
वायुर्व्यवायी विशदः शीतो रूक्षश्चलः खरः
पित्तमाग्नेयमुष्णं च तीक्ष्णमल्पं लघु द्रवम् ५३
सौम्यः शीतो गुरुः स्निग्धो बलवान् कफको बहु
कफो मन्दव्यवायी च चिरोत्थाननिवर्तनः ५४
वायुश्च शीतसामान्यात् कफस्यानुबलो बली
बलवान् हि गुणः सौम्य आग्नेयो दुर्बलः स्मृतः ५५
हेतुनाऽनेन महता श्लेष्मा हि बलवत्तरः
तस्मात् पूर्वं ज्वरे शीतं पश्चाद्दाहः प्रवर्तते ५६
स्ववेगपरिणामाच्च क्रियाभिश्च यदा कफः
उष्णाभिः प्रशमं याति तदा पित्तं प्रकुप्यति ५७
परीणामक्रियाभिर्वा शान्ते तस्मिन् सुखी भवेत्
हेतुरुक्तो महानेष यथावच्छीतपूर्वके ५८
अथ कस्माज्ज्वरो जन्तोर्जायते दाहपूर्वकः
स एव हेतुरत्रापि बलीयस्त्वादुदाहृतः ५९
अत्युदीर्णं यदा पित्तं वायुनाऽल्पेन मूर्च्छितम्
अनुबद्धं रसस्थाने श्लेष्मणाऽल्पबलेन च ६०
दाहः पूर्वं तदा जन्तोः शीतमन्ते प्रवर्तते
सोद्वेपकः सप्रलापस्मृतिबुद्धिप्रमोहनः ६१
तावेतौ शीतदाहादी ज्वरौ संसर्गसंभवौ
असाध्यः कृच्छ्रसाध्यो वा दाहपूर्वो ज्वरस्तयोः ६२
प्रत्यनीकगुणाः सन्तो दोषा वातादयः कथम्
संभूय कुर्वते रोगान्नान्योऽन्यं शमयन्ति च ६३
स्वभावाद्दूषणाद्दोषा नान्योन्यशमनाः स्मृताः
यस्मात्तस्माद्बहुविधाः संसृष्टाः कुर्वते गदान् ६४
विरुद्धा गुणतोऽन्योन्यं कार्यं सत्त्वादयो यथा
शिरः संतप्यते कस्माज्ज्वरितस्य विशेषतः ६५
सति सर्वाङ्गतापे च शैत्यं भवति पादयोः
दोषैरावृतमार्गत्वादूर्ध्वगत्वाच्च तेजसः ६६
बाहुल्यादिन्द्रियाणां च शिरः संतप्यतेऽधिकम्
तेजसाऽतिप्रवृद्धेन सोमधातुः प्रपीडितः ६७
अधः प्रपद्यते तेन शैत्यं भवति पादयोः
ज्वरोष्मणाऽभिसंतप्ते प्रागुष्णादिक्रियाविधिः ६८
क्रियते नेतरः कस्माच्छीत उष्णस्य बाधकः
यथाऽग्न्यगारे संतप्ते कपाटपुटसवृते ६९
भवत्यत्यधिकस्तूष्मा सर्वतः परितापनः
स एवोद्घाटितद्वारे मन्दीभवति तत्क्षणात् ७०
एवमावृतमार्गेषु दोषैः स्रोतःसु देहिनाम्
ज्वरोष्मा वर्धते देहे यथाहेतुबलाश्रयम् ७१
उद्घाटनार्थं तत्तेषामुष्णोपक्रम इष्यते
स्तम्भनो हि गुणः शीत उष्णो विलयनः स्मृतः ७२
तस्मादुष्णाम्बु पानाय ज्वरिताय प्रदीयते
तेनास्य दोषाः पच्यन्ते कायाग्निश्चाभिदीप्यते ७३
ज्वरोष्मा मार्दवं याति विबन्धश्च प्रशाम्यति
तृष्णा निवर्तते चाशु प्रकाङ्क्षा चोपजायते ७४
ऋते पित्तज्वरादुष्णो विधिः सर्वो ज्वरापहः
तत्राप्यनुष्णशीतादिरुपचारो विधीयते ७५
इति सप्त यथाप्रश्नं निर्दिष्टा विषमज्वराः
वक्ष्ये सततकादीनां चिकित्सां शृण्वतः परम् ७६
उपक्रमैः परिक्लिष्टं क्षीणधातुबलौजसम्
ज्वरः पुराणो रूक्षत्वादनुबध्नाति देहिनम् ७७
तस्मादस्य बलाधाने प्रयतेत विचक्षणः
रम्यैर्विचित्रैराहारैर्हृद्यैः श्रद्धोपपादितैः ७८
सुराग्रपानैर्मांसानां वैष्किराणां च भक्षणैः
सर्पिषः पञ्चगव्यस्य पयसो लशुनस्य च ७९
उपक्रमेच्चौषधानां प्रयोगैर्विषमज्वरम्
दैवतेज्योपहारैश्च धूपनाभ्यञ्जनाञ्जनैः ८०
वातोत्तरं स्नेहपानैरभ्यङ्गैः सावगाहनैः
स्निग्धोष्णैरन्नपानैश्च बलिभिश्चाप्युपक्रमैः ८१
पित्तोत्तरं तिक्तशीतैः शमनैः सविरेचनैः
पयसा सर्पिषा चैव शीतैश्चाभ्यञ्जनैर्जयेत् ८२
वमनैः पाचनीयैश्च लङ्घनैर्लघुभोजनैः
रूक्षोष्णैश्चाप्युपचरेत् कषायैश्च कफोत्तरम् ८३
रोमहर्षोऽङ्गमर्दश्च वातपित्तोत्तरे ज्वरे
महाकल्याणकं सर्पिः पञ्चगव्यमथो पिबेत् ८४
पीत्वा वा महतीं मात्रां सर्पिषः पुनरुल्लिखेत्
तदहर्वा परेद्युर्वा पेयां समरिचां पिबेत् ८५
राजमूलस्य वा क्वाथं पिबेत् प्रज्वरकं हविः
क्रितोयं — मयोगश्चतुर्थकमपोहति ८६
धारोष्णं वा पयः पीत्वा तद्वमेदिच्छया न वा
शीतं वा मधुनाऽशीतं निम्बपत्रोदकं पिबेत् ८७
सर्पिर्वा माहिषं पीत्वा हिङ्गुस्तोकसमन्वितम्
तस्मिन् विदग्ध एवान्नं दध्ना भुञ्जीत केवलम् ८८
नीलस्पन्दशिफा वाऽपि सुपिष्टा तण्डुलाम्बुना
देया ज्वरतिथौ नस्ये मृगराजस्य वा वसा ८९
हरीतकी वचा कुष्ठं निम्बपत्रं पलङ्कषा
सिद्धार्थका यवाः सर्पिर्धूपो जीर्णज्वरापहः ९०
मूलानि सहदेवायाः कटुका रोहिणी वचा
तण्डुलोदकपिष्टोऽयं देहो दाहज्वरापहः ९१
सुरया सर्वगन्धैश्च तैलमभ्यञ्जनं पचेत्
सर्षपा लसुनं हिङ्गु त्रिव्योषं रोचना वचा ९२
ऋक्षपित्तं बस्तमूत्रं करञ्जस्य फलानि च
ग्रहज्वराभिभूतानां नस्यकर्माञ्जनं हितम् ९३
सन्निपातविबन्धे च व्यालदष्टे च शस्यते
अर्शःसु योनिशूले च प्रलेपोऽयमनुत्तमः ९४
भीषणैर्हर्षणैश्चैव विचित्राद्भूतदर्शनैः
व्याक्षेपं मनसश्चास्य भिषक्कुर्याज्ज्वरागमे ९५
पानं चैतत्प्रदातव्यं स्निग्धस्विन्नस्य देहिनः
त्रिभण्टीमजगन्धां च नीलिनीं कटुरोहिणीम् ९६
कल्कं वा कटुरोहिण्याः पिबेद्गोमूत्रसंप्लुतम्
चिकित्सायां च यत् प्रोक्तं तच्च कुर्याद्विधानवित् ९७
इति ह स्माह भगवान् कश्यपः
इति खिलेषु विषमज्वरनिर्देशीयो नाम प्रथमोऽध्यायः

विशेषनिर्देशीयो नाम द्वितीयोऽध्यायः
अथातो विशेषनिर्देशीयं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
महर्षिं कश्यपं वृद्धं वेदवेदाङ्गपारगम्
सुखोपविष्टमव्यग्रमपृच्छद् वृद्धशीवकः ३
विषमाणां ज्वराणां ते सविकल्पं सविस्तरम्
यद्यथावच्च यावच्च प्रोक्तं वक्तव्यमादितः ४
सामान्येनापि सर्वेषां ज्वराणां विगतज्वर
वक्तुमर्हसि कार्त्स्न्येन परिशेषमतः परम् ५
इति संचोदितः प्राह प्रजापतिरिदं वचः
समासाभिहितं यच्च नाभिहितं हितम् ६
ज्वरितानां ज्वराणां च भूयो वक्ष्यामि तच्छृणु
अवस्थालक्षणोद्देशविशेषोपक्रमे क्रमात् ७
भैषज्यमनवस्थायां पथ्यमप्यवचारितम्
गुणं न किञ्चित् कुरुते दोषायैव तु कल्पते ८
प्रयुक्तं तदवस्थायाममृतत्वाय कल्पते
वाताद्बाह्यादभीघातात् क्रोधाच्छोकाद्भयात् क्षयात् ९
श्रमाद् ग्रहाभिषङ्गाच्च वेगानां च विधारणात्
समुत्पन्ने ज्वरे जन्तोर्वमनं न प्रयोजयेत् १०
प्रयुक्तं कुरुते क्षिप्रं तीव्रं सोपद्रवं ज्वरम्
पूरणात्तु समुत्पन्ने ज्वरे ह्यमात्रया श्रयेत् ११
दोषे वृद्धेऽतिमात्रा च समुत्क्लिष्टे तथैव च
सन्निपातज्वरभयात्त्वरितं वामयेद्भिषक् १२
वामितं लङ्घनाद्येन क्रमेणोपक्रमेत्ततः
वमनानन्तरं चास्य कुर्याच्छीर्षविरेचनम् १३
तथाऽऽशु शिरसः शूलं गौरवं चोपशाम्यति
विबन्धश्चक्षुरादीनामरुचिश्च निवर्तते १४
जीर्णज्वरेऽप्यथैतेषु विकारेषु प्रदापयेत्
बहुदोषे बलवती मध्यदोषेषु मध्यमा १५
अल्पदोषे ज्वरे मृद्वी क्रियः कार्या विजानता
स्वानि रूपाणि कार्त्स्न्येन यदा व्याधौ विशेषतः १६
तीव्राणि व्यथितत्वं च शरीरस्योपलक्षयेत्
बहुदोषं तदा विद्यादल्पदोषमतोऽन्यथा १७
तथा मध्यबलेष्वेषु मध्यदोषं विभावयेत्
विबन्धारुचितृण्मूर्च्छा गात्रभेदः शिरोरुजा १८
प्रलापालस्यहृल्लासतन्द्रीदाहश्रमभ्रमाः
मूत्रप्रचुरता ग्लानिः पुरीषस्याविपक्वता १९
उत्क्लेशो गुरुकोष्ठत्वं लिङ्गान्यामज्वरे वदेत्
निवृत्तौ प्रायशश्चैषां संजाते ज्वरमार्दवे २०
लघुत्वं चाष्टरात्रे च निरामज्वरमादिशेत्
आपातलक्ष्यः स्यादूष्मा तत्क्षणादेति मार्दवम् २१
अन्तर्लघुत्वमुत्साहो दोषपक्तिः प्रसन्नता
तृष्णादीनां मृदुत्वं च बहिर्मार्गगते ज्वरे २२
तत्राभ्यङ्गान् प्रदेहांश्च परिषेकांश्च कारयेत्
अविपक्वा विपक्वा वा दोषा यस्य न निर्हृताः २३
न च व्याधेरुपशमो न चोत्साहो न लाघवम्
ग्लानिकार्श्ये न चात्यर्थं न च च्छन्दोऽशनं प्रति २४
अप्रकृष्टे वा स काले दोषदुर्बलः
अतो विपर्ययाद्देही भवेदौषधदुर्बलः २५
पाचनैरविपक्वानां दोषाणां दोषदुर्बले
सम्यक्कुर्यादुपशमं पक्वानां च विरेचनैः २६
इतरस्यामयावेक्षं बलाप्यायनमिष्यते
समुदीर्णेषु सहसा दोषेष्वभिनवेषु च २७
बलवद् दुर्बले वाऽपि कषायं वाऽपि भेषजम्
संरक्षन् धर्मयशसी न प्रयुञ्ज्यात् कदाचन २८
यथा शरत्सु महतोः क्रुद्धयोरभिषक्तयोः
न धत्ते दुर्बला वेगं हस्तिनोरग्रवारणी २९
तथा बलं बलवतोस्तद्दोषौधयोर्द्वयोः
संक्षुब्धयोर्न सहते संतप्ता देहिनस्ततः ३०
पुष्णाति दुर्बलं दोषाः कषायः स्तम्भयत्यतः
भूयोऽभिवृद्धास्ते प्राणान्निघ्नन्त्याशु शरीरिणः ३१
कषायेणाकुलीभूताश्चिरं संक्लेशयन्ति वा
भग्नवेगेषु दोषेषु विधिना लङ्घनादिना ३२
काले प्रयुक्तं भैषज्यं स्याद्विकारोपशान्तये
लङ्घनं स्वेदनं पेया त्रिविधा दीपनान्विता
ओदनस्त्रिविधो यूषः कषायस्त्रिविधो रसः ३३
सर्पिरभ्यञ्जनं बस्तिः प्रदेहः सावगाहनः
ज्वरापहः समुद्दिष्टो लङ्घनादिरयं क्रमः ३४
पच्यन्ते सप्तरात्रेण दोषाः सप्तसु धातुषु
तस्मात् कषायं सप्ताहे पाचनीयं विधापयेत् ३५
शमनं स्रंसनीयं वा यथावस्थमतः परम्
मन्दोष्मत्वात् स्थिरत्वाच्च गुरुत्वाच्च कफज्वरः ३६
परिपाकं चिरादेति तस्मादस्यौषधक्रमः
अष्टाहात् परतो वाऽपि यथापाकं विधीयते ३७
पक्वावशेषस्तेनाशु पच्यतेऽग्निश्च दीप्यते
दोषपक्त्याऽग्निदीप्त्या च ज्वरस्यापचयो ध्रुवम् ३८
तद्युक्तस्नेहसंस्कारान् रसानत्रावचारयेत्
ततः संशमनं कुर्याद्व्याधिशेषोपशान्तये ३९
प्रसादनार्थं धातूनां बलस्याप्यायनाय च
देशदोषाग्निसात्म्यर्तुयुक्तं चात्र प्रशोषणम् ४०
त्र्यहं चतुरहं वाऽपि नातिमात्रमतः परम्
रूक्षत्वाज्ज्वर्यमाणाय देयं सर्पिर्ज्वरापहम् ४१
ज्वरितोऽनेन निर्वाति प्रदीप्तं चाम्बुना गृहम्
सर्पिः पित्तं शमयति शैत्यात् स्नेहाच्च मारुतम् ४२
समानगुणमप्येतत् संस्काराज्जीयते कफम्
अथ चेद्बहुदोषत्वात् कृतेऽपि शमने सति ४३
पक्वाशयगुरुत्वं च स्तिमितत्वं च लक्ष्यते
स्वेदो विण्मूत्ररागश्च भक्तस्यानभिनन्दनम् ४४
स्निग्धाय क्षामदेहाय दद्यात्तत्र विरेचनम्
शूले पक्वाशयगते पार्श्वपृष्ठकटिग्रहे ४५
वातविण्मूत्रसङ्गे च निरूहः सानुवासनः
बहिर्मार्गगते चापि ज्वरेऽभ्यङ्गादिरिष्यते ४६
नरस्य वातप्रकृतेर्यदि स्याद्वातिको ज्वरः
ऋतौ च वातप्रकृतौ स दुःसाध्यस्त्रिसंकरः ४७
तथैव पित्तप्रकृतेः श्लैष्मिकस्य च देहिनः
विपरीतप्रकृतयः सुखसाध्या ज्वरादयः ४८
एकद्वित्रिप्रकृतयो व्याधयः सर्व एव हि
सुखदुःखाश्चिकित्स्याः स्युः प्रायशस्ते यथाक्रमम् ४९
समुत्क्लिष्टेषु दोषेषु त्रिविधं कर्म निश्चितम्
शोधनं शमनं चैव तथा शमनशोधनम् ५०
तत्र पुंसां बलवतां वह्निमतां सताम्
तीव्रवेगामयानां च हितं शोधनमौषधम् ५१
बलिनामल्पदोषाणां नातिवृद्धविकारिणाम्
नातिक्लेशसहानां च शमनं हितमुच्यते ५२
तथैव मध्यदोषाणां दुर्बलानां शरीरिणाम्
बलवद्व्याधिजुष्टानां हितं शमनशोधनम् ५३
ऊर्ध्व हरति यद्दोषानधश्चोभयतश्च यत्
द्रव्यं विविधवीर्यत्वात्तद्धि संशोधनं स्मृतम् ५४
नाधो न चोर्ध्वं हरति यद्दोषाञ्छमयत्यपि
न चोग्रगुणवीर्यं तद् द्रव्यं संशमनं विदुः ५५
नात्यर्थं शोधयति यद्दोषान् संशमयत्यपि
तत्र मध्यबलोपेतं द्रव्यं शमनशोधनम् ५६
दशमूलशटीरास्नावयस्थापञ्चकोलकम्
शार्ङ्गेष्टा रोहिणी पाठा सरलो देवदारु च
मुस्ताऽमृता वृश्चिकाली कर्कटाख्या दुरालभा ५७
त्रायन्तीत्येवमादीनि शमनीयानि निर्दिशेत्
वचाकोशातकीनिम्बपिप्पल्यः कौटजं फलम् ५८
क्षारद्वयं सगोमूत्रं मदनं लवणानि च
त्रिफलाऽऽरग्वधो दन्ती नीलिनी सप्तला त्रिवृत् ५९
एवमादि तु यच्चान्यद् द्रव्यं शोधनमुच्यते
काश्मर्यामलकं द्राक्षा शीतपाकी परूषकम् ६०
मधुकं पिप्पलीमूलं विडङ्गं हिङ्गु सैन्धवम्
पाठाऽजगन्धाऽतिविषा पथ्या मुस्ता कटुत्रिकम् ६१
रोहिणीत्येवमादि स्याद् द्रव्यं शमनशोधनम्
त्रिविधं कर्म निर्दिष्टमित्येतद्दोषशान्तये ६२
दोषशान्तौ च धातूनां प्रसाद उपजायते
मलायनानां सर्वेषामव्याघातक्रियासु च ६३
दोषधातु मलैस्तस्मात् स्वे स्वे कर्मण्यवस्थितैः
स्वास्थ्यमुत्पद्यते नॄणामस्वास्थ्यं तद्विपर्यये ६४
सम्यगाहारचेष्टाभ्यां यदा सात्म्यं यथेरितम्
समानां रक्षणं कुर्याद्दोषादीनां विचक्षणः ६५
कुपितानां प्रशमनं क्षीणानामभिवर्धनम्
क्षपणं चैव वृद्धानामेतावद्धि चिकित्सितम् ६६
तदेकत्वमनेकत्वमवस्थामुदयव्ययम्
दोषाणामातुराणां च संप्रधार्य बलाबलम् ६७
यथावदौषधानां च भिन्नानां नामरूपतः
रसान् गुणांश्च वीर्यं च विपाकं च यथातथम् ६८
देशं कालमुपायं च प्रमाणं व्याधिमेव च
ज्ञात्वा चिकित्सा भिषजा प्रणेतव्याऽप्रमादतः ६९
ये यथा च समुद्दिष्टा योगाः स्वे स्वे चिकित्सिते
ते तथैव प्रयोक्तव्या न तेष्वस्ति विचारणा ७०
को हि नाम प्रणीतानां द्रव्याणां तत्त्वदर्शिभिः
नानाविधानामेकत्वे तत्कर्म ज्ञातुमर्हति ७१
किञ्चिदन्यरसं द्रव्यं गुणतः किञ्चिदन्यथा
वीर्यतश्चान्यथा किञ्चिद्विद्यादत्र विपाकतः ७२
अथ चैकत्वमागम्य प्रयोगे न विरुध्यते
उत्पद्यते यथार्थं च समवायगुणान्तरम् ७३
पृथक्पृथक्प्रसिद्धेऽपि गन्धे गन्धान्तरं यथा
गन्धाङ्गानां मनोह्लादि प्रत्यक्षं सामवायिकम् ७४
तस्मादार्षप्रयोगेषु प्रक्षेपापचयं प्रति
न प्रमाद्येदविज्ञाय दोषौषधबलाबलम् ७५
वयः शरीराग्निबलं त्ववेक्ष्य मतिमान् भिषक्
मात्रां विकल्पयेदत्र प्रधानावरमध्यतः ७६
इति ज्वराणामुद्दिष्टो विशेषोऽयमुपक्रमे
यं विदित्वा तु कार्येषु विविधेषु न संभ्रमेत् ७७
इति ह स्माह भगवान् कश्यपः ७८
इति खिलेषु विशेषनिर्देशीयो नाम द्वितीयोऽध्यायः

भैषज्योपक्रमणीयस्तृतीयाध्यायः
अथातो भैषज्योपक्रमणीयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
ब्राह्मया श्रिया प्रज्वलन्तं ब्रह्मर्षिममितद्युतिम्
कश्यपं लोककर्तारं भार्गवः परिपृच्छति ३
आबाधकारणं व्याधिर्भेषजं सुखकारणम्
सम्यग्युक्तं तदमृतं स्यात्तदन्यद्विषवद्भवेत् ४
भेषजोपक्रमं तस्माद्भगवन् वक्तुमर्हसि
औषधं किमधिष्ठानं कथं चास्योपदिश्यते
औषधज्ञौषधत्वं च भेषजत्वमथापि च ५
भैषज्यत्वागदत्वं च कषायत्वं तथैव च
यथा च गौण्येन रसा द्रव्ये द्रव्ये व्यवस्थिताः ६
प्राधान्येन यथा दृष्टो मधुके मधुरो रसः
अम्लः कपित्थे लवणः सैन्धवे नागरे कटुः ७
तिक्तस्तिक्तकरोहिण्यां कषायश्चाभयां प्रति
सत्येवं रसनानात्वे संयोगः सर्व एव हि ८
कषायत्वेन निर्दिष्टः कुतः किं चात्र कारणम्
कति के चौषधगुणा भेदाश्चास्य कति स्मृताः ९
कति चौषधकालाश्च काले काले च को विधिः
कस्थां कस्यामवस्थायां पातव्यं भेषजं न वा १०
कथं च पेयं पीतस्य परिहार्यं च किं भवेत्
जीर्यमाणस्य किं रूपं किं च जीर्णस्य लक्षणम् ११
विभज्य वयसस्त्रित्वं कथं मात्रा विधीयते
अधोभागोर्ध्वभागानां दोषसंशमनी च या १२
जीवनीया च या मात्रा दीपनीया च या स्मृता
मात्रा संशोधनी या च स्नेहमात्रा च या भवेत् १३
सर्वमेतद्यथातत्त्वं कीर्तयस्व महामुने
जातमात्रमुपादाय यावद्वर्षशतं परम् १४
इति शुश्रूषमाणाय शिष्याय वदतांवरः
आचचक्षे यथान्यायं भैषज्योपक्रमं प्रति १५
अयं हेतुरिदं लिङ्गमस्य चायमुपक्रमः
इति तावत् परं सूक्ष्मं व्याधिज्ञानं प्रचक्षते १६
अस्मादप्यौषधज्ञानमाहुः सूक्ष्मतरं बुधाः
तदहं तेऽभिधास्यामि कार्त्स्न्येनैव निबोध मे १७
पथ्यसेविनमारोग्यं गुणेन भजते नरम्
अपथ्यसेविनं क्षिप्रं रोगः समभिमर्दति १८
स रोगो द्विविधश्चोक्तः शारीरो मानसस्तथा
आधयो मानसास्तत्र शारीरा व्याधयः स्मृताः १९
साध्योऽसाध्यश्च याप्यश्च त्रिविधं रोगलक्षणम्
वातपित्तकफा दोषाः शारीरव्याधिहेतवः २०
सत्त्वेतरं च द्वन्द्वं च मानसामयहेतवः
धृतिवीर्यस्मृतिज्ञानविज्ञानैर्मानसं जयेत् २१
शारीरं भेषजैः कालयुक्तिदैवव्यपाश्रयैः
स पुनर्द्विविधो व्याधिरागन्तुर्निज एव च २२
आगन्तुर्बाधते पूर्वं पश्चाद्दोषान् प्रपद्यते
निजस्तु चीयते पूर्वं पश्चाद्वृद्धः प्रबाधते २३
तस्मादागन्तुरोगाणां पश्यन्ति निजवत् क्रियाः
निजानां पूर्वरूपाणि दृष्ट्वा संशोधनं हितम् २४
संशोधनं सप्तविधं तदायत्तं चिकित्सितम्
तच्चायत्तं चतुष्पादे पादश्चौषधमुच्यते २५
ओषधं युक्त्यधिष्ठानं दैवाधिष्ठानमेव च
युक्तिर्वमनकर्मादि दैवं यागादि कीर्त्यते २६
ओसो नाम रसः सोऽस्यां धीयते यत्तदोषधिः
ओसादारोग्यमाधत्ते तस्मादोषधिरोषधः २७
भिषग्विज्ञाननेयत्वाद्भेषजं भिषजो विदुः
भिषग्जिते हितत्वाच्च भैषज्यं परिचक्षते २८
अगदत्वं च युक्तस्य गदानामपुनर्भवात्
कण्ठस्य कषाणात् प्रायो रोगाणां वाऽपि कर्षणात् २९
कषायशब्दः प्राधान्यात् सर्वयोगेषु कल्प्यते
शब्दरूपरसस्पर्शगन्धवद्देशजं नवम् ३०
अजग्धमविदग्धं च द्रव्यं गुणवदुच्यते
मात्रावल्लघुपाकं च हृद्यं दोषप्रवाहणम् ३१
अल्पपेयं महावीर्यं प्रीणनं बलरक्षणम्
व्यापत्तावल्पदोषं च मन्दग्लापनमेव च ३२
संस्कारगुणसंपन्नं राजार्हं भेषजं मतम्
तद्धि सिद्धमसिद्धं च शीतमुष्णं द्रवं घनम् ३३
कोष्णं सस्नेहमस्नेहमिति भिन्नमनेकधा
तदामयवयोभेदात् सप्तधैव विभज्यते ३४
चूर्णं शीतकषायश्च स्वरसोऽभिषवस्तथा
फाण्टः कल्कस्तथा क्वाथो यथावत्तं निबोध मे ३५
सूक्ष्मचूर्णीकृतं चूर्णं नानाकर्मसु युज्यते
ग्रहण्यामविकारेषु ब्रणवत्यञ्जनादिषु ३६
शीतः शीतकषायः स्यादन्तरिक्षाम्बुसंप्लुतः
स पित्तज्वरदाहासृग्विषमूर्च्छामदापहः ३७
तद्वदेव निशाव्युष्टोऽभिषवः साधु साधितः
प्रशान्ताग्निबलक्षोभः सौम्यः स्वरससङ्गतः ३८
द्राक्षेक्ष्वामलकादीनां पीडनात् स्वरसः स्मृतः
स संशमनसंयोगे नानारोगेषु कल्पते ३९
क्वथितस्त्वान्तरिक्षेण वारिणाऽर्धावशेषितः
सकृद्वा फाणितः फेनं कषायः फाण्ट उच्यते ४०
सोऽल्पदोषबले बाले लघुव्याधौ च शस्यते
कल्कः कल्कीकृतो योज्यः पानलेपावलेहने ४१
केवलद्रव्यपेयत्वाद्विकार्षी दुर्जरश्च सः
पादस्थितो भवेत् क्वाथो युक्तोऽबह्वग्नितेजसा ४२
स वयोबलसंपन्ने गुरुव्याधौ च शस्यते
सप्तधैवं विभज्यैतद्दशधा प्रविचारयेत्
पूर्वं भक्तस्य मध्येऽधः समुद्गं समुहुर्मुहुः ४३
सभक्तं भक्तयोर्मध्ये ग्रासग्रासान्तरे परः
पूर्वं भक्तस्य भैषज्यं न करोति बलक्षयम् ४४
आमाशयगतान् दोषान्निहन्त्याशु च पच्यते
अन्नसंस्तम्भिते देहे च्छर्द्युद्गारव्यथादयः ४५
न भवन्ति यतस्तस्मात्तद्देयं दुर्बलीयसे
मध्येभक्तं ह्युभयतो रुद्धमन्नेन भेषजम् ४६
तदन्तराशये दोषान् सुखेनैव नियच्छति
शमयत्याश्वधो भक्तमुरःकण्ठशिरोगदान् ४७
व्यत्यासेन च सामुद्गं दोषे तूर्ध्वमधोगते
मुहुर्मुहुः श्वासकासहिक्कातृट्छर्दिशान्तये ४८
हितं बलाग्निरक्षार्थं सभक्तं दुर्बलात्मनाम्
स्त्रीबालवृद्धललितक्षतक्षीणौषधद्विषाम् ४९
व्याधौ मन्देऽनले तीक्ष्णे भक्तयोर्मध्य इष्यते
क्षीणक्षीणाल्पशुक्राणां वाजीकरणमौषधम् ५०
ग्रासे विधेयं चूर्णं च यदग्निबलवर्धनम्
ग्रासान्तरे च्छर्दनीयं धूमपानं च शस्यते ५१
अभक्तमौषधं पीतं व्याधिमाशु बलीयसाम्
हन्यात्तदेवेह बलं बलवद्दुर्बलीयसाम् ५२
एतानौषधकालांस्तु विभजेद्दशधा दश
क्षीणधात्विन्द्रिये शान्ते क्लान्ते तान्ते बुभुक्षिते ५३
भैषज्यदग्धकोष्ठे च भेषजं नावचारयेत्
क्रुद्धे विषण्णे शोकार्ते रात्रौ जागरिते तथा ५४
विदग्धाजीर्णभक्ते च भेषजं नावचारयेत्
कर्मातिभाराभिहते निरूढे सानुवासिते ५५
उपोषिते विरिक्ते च भेषजं नावचारयेत्
यत्किञ्चिदप्युपात्तान्ने मूर्च्छिते घर्मतापिते ५६
सद्यः पीतोदके चैव भेषजं नावचारयेत्
अवस्थाविपरीतं च भेषजं नावचारयेत् ५७
ऊनद्वादशवर्षाणां नैकान्तेनावचारयेत्
अवचारितमेकान्तेनाहन्यहनि चौषधम् ५८
असमत्वागतप्राणदोषधातुबलौजसाम्
अत्यन्तसुकुमाराणां कुमाराणां बलायुषी ५९
क्षीणातिवृद्धक्रुद्धानां क्षीणधात्विन्द्रियौजसाम्
एकान्तेनौषधं पीतं सूर्यस्तोयमिवाल्पकम् ६०
व्याधिदोषबलाग्निभ्यो हीनं तेभ्योऽधिकं च यत्
अजिज्ञासितपूर्वं च गुणैश्चोक्तैर्विवर्जितम् ६१
अरोगसात्म्यं दुर्युक्तमनिष्टं मनसश्च यत्
यस्य पीतस्य पाकान्ते दोषः सूक्ष्मोऽपि लक्ष्यते ६२
व्याधेश्च प्रशमो न स्यात्तच्च वर्ज्यं विजानता
यन्नातुरबलं हन्ति व्याधिवीर्यं निहन्ति च ६३
तदेवास्यावचार्यं स्यादाव्याध्युच्छेददर्शनात्
कामं व्याधौ प्रशान्तेऽपि शमदानाच्छमौषधम् ६४
तदेवाल्पं विधातव्यं सकृद् द्विस्त्रिर्यथाबलम्
पुण्येऽहनि नमस्यादौ देवद्विजभिषग्गुरून् ६५
पूर्वाह्णे प्राङ्मुखायास्मै सुखासीनाय साधवे
बुभूषमाणाय भिषङ्मन्त्रवद्भेषजं शुचिः ६६
इदं हन्त पिब चेति संप्रयच्छेदुदङ्मुखः
अतिचङ्क्रमणत्थानशयनासनभाषणम् ६७
क्रोधशोकदिवास्वप्नविरुद्धान्नहिमातपान्
पीतौषधो न सेवेत तथा स्त्रीवेगधारणम् ६८
विजृम्भाः शब्दविद्वेषो मुखशोषोऽरतिः क्लमः
तन्द्रीरुद्वेष्टनं सादो लिङ्गं जीर्यति भेषजे ६९
सृष्टिर्विण्मूत्रवातानां शरीरस्य च लाघवम्
उद्गारशुद्धिर्वैशद्यं वैमल्यं हृदयस्य च ७०
प्रकाङ्क्षा कुक्षिशैथिल्यमन्नकालस्य लक्षणम्
वयस्त्रिधा विभज्यादौ मात्रा वक्ष्याम्यतः परम् ७१
गर्भबालकुमाराख्यमित्येतत्त्रिविधं वयः
यौवनं मध्यमं वृद्धमेतच्च त्रिविधं पुनः ७२
वर्षावरः क्षीरपः स्याद्यावत् पिबति वा पयः
वयस्तद्बालमस्माच्च यावत् षोडशवार्षिकः ७३
अन्नादः सर्व एव स्यात् कौमारे वयसि स्थितः
अतः परं धातुसत्त्वबलवीर्यपराक्रमैः ७४
वर्धमानैश्चतुस्त्रिंशद्युवा वर्षाण्युदर्कतः
धात्वादिभिः स्थिरीभूतैर्यावदासप्ततिर्नरः ७५
मध्यो धात्वादिभिः पश्चात् क्षीयमाणैर्यथाक्रमम्
वृद्धो भवति मन्दात्मा प्रवृत्तिर्यावदायुषः ७६
विकल्पनाऽन्या वृद्धस्य तस्य षोडशवार्षिकी
भवेद्भेषजमात्रा तु क्षीयमाणोत्तरोत्तरा ७७
शतिके शताधिके वाऽपि क्षीरान्नादवदिष्यते
जातमात्रस्य मात्रा स्यात् सर्पिष्कोलास्थिसंमिता ७८
पञ्चरात्रं भवेद्यावद्दशाहमधिकं ततः
कोलार्धसंमितं यावद्विंशद्रात्रमतः परम् ७९
कोलमात्रं भवेद्यावन्मासं मासद्वयेऽधिकम्
द्विकोलसंमितं सर्पिस्तृतीये मासि शस्यते ८०
शुष्कामलकमात्रं तु चतुर्थे मास्युदाहृतम्
पञ्चमे मासि षष्ठे च ह्यार्द्रामलकसंमितम् ८१
तदेवाभ्यधिकं किञ्चिद्विहितं सप्तमाष्टमे
क्षीरान्नादस्य बालस्य प्रायेणाहारसंकरात् ८२
भवत्यनियतो वह्निः पक्तौ बह्वनिलात्मनः
तस्याऽग्न्यावेक्षिकी तस्मात् स्नेहमात्रा विधीयते ८३
अनादस्य तु भूयिष्ठं समो भवति पावकः
तस्यामलकमात्रस्य सर्पिषः पानमिष्यते ८४
तदेवाग्निबलं वीक्ष्य वर्धमानस्य वर्धयेत्
क्षीरपस्य कुमारस्य क्षीरान्नदस्य चोभयोः ८५
देयं स्नेहचतुर्भागं भेषजस्य यथामयम्
घृतेन पाययेद्बालं यावत् स्यादष्टमासिकः ८६
मासादतोऽष्टमाज्जन्तोर्जलपिष्टं प्रदापयेत्
अतः परं यथाशास्त्रं कुमारस्यान्नसेविनः ८७
वक्ष्यामि विविधां मात्रां भेषजानां विभागशः
मुचूटिं वा प्रकुञ्चं वा प्रसृतं वाऽथवाञ्जलिम् ८८
आतुरस्य प्रमाणेन समेतव्यं चिकित्सिते
अग्रपर्वाङ्गुलिग्राह्या चूर्णमात्रा तु पाणिना ८९
चूर्णानां दीपनीयानामेषा मात्रा विधीयते
द्विगुणा जीवनीयानां तथा संशमनस्य च ९०
ऊर्ध्वभागे त्वर्धमात्रा तथैव च विरेचने
वातपित्तकफघ्नानां कषाये तु प्रदापयेत् ९१
द्वौ दापयेत प्रसृतौ शर्करामधुसंयुतौ
प्रसृतं छर्दनीयस्य निष्क्वाथस्य प्रदापयेत् ९२
तथा वैरेचनीयस्य प्रसृतं नात्र संशयः
द्विगुणां जीवनीयस्य तथा संशमनस्य च
दीपनीयस्य कल्कं तु अक्षमात्रं प्रदापयेत् ९३
द्विगुणं जीवनीयस्य तथा संशमनस्य च
अक्षार्धं छर्दनीयस्य तथा वैरेचिकस्य च ९४
स्नेहमात्रामतो वक्ष्ये वमने सविरेचने
वमने वमनीयाभिरोषधीभिः सुसंस्कृते ९५
मात्रावत्तु घृतं दद्याद्वमने कफसंभवे
अर्धमात्रा भवेद्देया विरेके सर्पिषस्तथा ९६
वैरेचनैर्विपक्वस्य पित्ते प्रकुपिते सति
मात्राऽधश्चोर्ध्वभागा च श्लैष्मिकस्य प्रशस्यते ९७
दीपनैः शमनीयैश्च जीवनीयैश्च साधितम्
तथाऽपि कुपिते वाते दोषे पक्वाशये स्थिते ९८
कुक्षिग्रन्थिषु पार्श्वे च सक्ते देयं विरेचनम्
शमनैर्दीपनीयैश्च पाचनीयैश्च साधितम् ९९
चतुर्भागगुणं दद्यान्मात्रायाः कुम्भसर्पिषः
पादार्धहीनं पादोनमर्धं वाऽपि यथाक्रमम् १००
सर्पिर्विदद्याद्बालेषु संप्रधार्य वयोबले
निष्क्वाथानां सकल्कानां चूर्णानां सर्पिषस्तथा १०१
इत्युक्ता विविधा मात्रा मात्रामूलं चिकित्सितम्
तस्मादग्निमृतुं सात्म्यं देहं कोष्ठं वयो बलम् १०२
प्रकृतिं भेषजं चैव दोषाणामुदयं व्ययम्
विज्ञायैतद्यथोद्दिष्टां मात्रां सम्यक् प्रयोजयेत् १०३
अप्रमत्तः सदा च स्याद्भेषजानां प्रयोजने
ओषधीर्नामरूपाभ्यां जानन्ति वनगोचराः १०४
अजपालाश्च गोपाश्च न तु कर्मगुणं विदुः
योगं तु तासां योगज्ञा भिषजः शास्त्रकोविदाः १०५
मात्राबलविधानज्ञा जानते गुणकर्म च
कर्मज्ञो वाऽप्यरूपज्ञस्तासां तत्त्वविदुच्यते १०६
किं पुनर्यो विजानीयादोषधीः सर्वथा भिषक्
यथा विषं यथा शस्त्रं यथाऽग्निरशनिर्यथा १०७
तथौषधमविज्ञातं विज्ञातममृतोपमम्
औषधं चापि दुर्युक्तं तीक्ष्णं संपद्यते विषम् १०८
विषं च विधिना युक्तं भैषज्यायोपकल्पते
अग्निर्यथा प्रज्वलितः क्रुद्धश्चाशीविषो यथा १०९
असिधारा यथा तीक्ष्णा प्रभिन्नो वाऽपि कुञ्जरः
तथौषधमसंयुक्तमवैद्येनावचारितम् ११०
विपर्ययेण मात्राया निरुणद्ध्यस्य जीवितम्
दृष्ट्वा स्पृष्ट्वा तथा पृष्ट्वा कार्याकार्यक्रियां ततः १११
औषधानि प्रसिद्धानि यानि स्युर्बहुशो भिषक्
रसतो वीर्यतश्चैव तानि तत्रावचारयेत् ११२
अतोऽन्यथा ह्यमात्रज्ञो युक्त्यागमबहिष्कृतः
कृशं रोगपरिध्वस्तं सुकुमारं समात्विकम् ११३
तीक्ष्णौषधप्रयोगेण हन्ति चाप्यतिमात्रया
महारोगं महाहारं महासत्त्वं महाबलम् ११४
मृद्वल्पौषधयोगेन क्लेशयत्यातुरं भिषक्
उपक्रम्यो बली तस्माद् दुर्बलो निरुपक्रमः ११५
मध्यं युक्तैरुपक्रम्य न चाहारान्निवर्तयेत्
कृशं विश्राम्य विश्राम्य पथ्यैरौषधसाधनैः ११६
धारयेद्वर्धयेदग्निमग्नौ वृद्धे हि जीवति
यथाऽनिलः पित्तकफासृजश्च
नित्याः शरीरे निहिता नराणाम् ।
तथैव बालेष्वपि सर्वमेत
द्द्वयोस्तु रूपं तु तदल्पमल्पम् ११७
यथाऽल्पदेहस्य तदल्पमल्पं
तथाऽन्नपानौषधमल्पमल्पम् ।
बुद्ध्या विमृश्येह भिषग्विदद्ध्यात्
मात्रा हि देहाग्निवयः प्रधानाः ११८
इति ह स्माह भगवान् कश्यपः
इति खिलेषु भैषज्योपक्रमणीयाध्यायस्तृतीयः ३

अथ यूषनिर्देशीयो नाम चतुर्थोध्यायः
अथातो यूषनिर्देशीयं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
यूषादिव्यञ्जनोपेतं भोज्यं पथ्यतरं भवेत्
स्वस्थानामातुराणां च विशेषारोग्यकारकम् ३
अतश्च सर्वभूतानामाहारः स्थितिकारणम्
न त्वाहारादृतेऽस्त्यन्यत् प्राणिनां प्राणधारणम् ४
न चाहारसमं किञ्चिद्भैषज्यमुपलभ्यते
शक्यतेऽप्यन्नमात्रेण नरः कर्तुं निरामयः ५
भेषजेनोपपन्नोऽपि निराहारो न शक्यते
तस्माद्भिषग्भिराहारो महाभैषज्यमुच्यते ६
स ह्याहरणसामान्याद्दृष्टं एकविधो बुधैः
द्विविधो वीर्यभेदेन त्रिविधो दोषभेदतः ७
भक्ष्यभोज्यादिभेदेन तथैवोक्तश्चतुर्विधः
पञ्चभूतात्मकत्वाच्च पुनः पञ्चविधः स्मृतः ८
स एव पुनरुद्दिष्टः षड्विधः षड्रसाश्रयात्
पुनर्द्वादशधा भिन्नो द्वादशप्रविचारतः ९
चतुर्विंशतिधा भूयः कालादीनां विकल्पतः
प्रवर्तते तमाश्रित्य धर्मार्थाद्रिचतुष्टयम् १०
स्वस्थयात्रा चिकित्सा च तमेवाश्रित्य वर्तते
तुष्टिः पुष्टिर्धृतिर्बुद्धिरुत्साहः पौरुषं बलम् ११
सौस्वर्यमोजस्तेजश्च जीवितं प्रतिभा प्रभा
आहारादेव जायन्ते एवमाद्या गुणा नृणाम् १२
तदात्मवान् हितमितं काले भुञ्जीत षड्रसम्
यथा च यच्च भोक्तव्यं ये च भोग्यगुणागुणाः १३
तत्ते भोज्यविभागीये सर्वं वक्ष्याम्यतः परम्
अत्र ते संप्रवक्ष्यामि नानाद्रव्योपसंस्कृतान् १४
नानारोगोपशमनान् यूषान् स्थविरजीवक
रोचनो दीपनो वृष्यः स्वरवर्णबलाग्निकृत् १५
प्रस्वेदजननो मुख्यस्तुष्टिपुष्टिसुखावहः
यूषः स्नेहोष्णभावाच्च वातं स्नेहकषायतः १६
पित्तं कफं कदुष्णत्वात् संस्काराच्च नियच्छति
यूषधातुं वदन्ति ज्ञा द्रवीकरणपाकयोः १७
द्रवीकरोति भोज्यानि पक्वः सद्यूष इत्यतः
द्रव्यैर्बहुविधैर्द्रव्यैस्तथा चान्यैरतण्डुलैः १८
यूष इत्युच्यते सिद्धो यवागूस्तण्डुलैः सह
मद्गयूषो विरसिका यूषो दाडिमकस्तथा १९
चित्रकामलकानां च द्वौ यूषौ परिकीर्तितौ
पञ्चकोलकयूषौ द्वौ संग्राही दीपनस्तथा २०
धान्ययूषोऽथ कौलत्थः फलयूषश्च भार्गव
पुष्पयूषः पत्रयूषो वल्कयूषस्तथैव च २१
मुख्यः पल्लवयूषश्च महायूषस्तथैव च
रास्नायूषो महायूषश्चाङ्गेर्या मूलकस्य च २२
पुनर्नवातिबलयोर्गुडकम्बलिकस्तथा
मुख्यत्रिकटुयूषश्च लशुनैर्वास्तुकेन च २३
पञ्चविंशतिरित्येते यूषाः कश्यपनिर्मिताः
यूषाः कषायमधुरा कषायाम्लाश्च भार्गव २४
द्विविधा विहिताः सर्वे सर्वे च द्रवयोनयः
कृताऽकृताऽकृतकृताः पित्तश्लेष्मानिलात्मसु २५
रोगेषु स्नेहयोगाच्च ते यूषास्त्रिविधाः स्मृताः
त एव पाचनाः प्रोक्ताः कर्षणा बृंहणास्तथा २६
शीतोष्णमिश्रवीर्यत्वान्नानाद्रव्योपसंश्रयात्
लवणव्योषणस्नेहपक्तिसंस्कारयुक्तयः २७
सिद्धा यूषेषु विदुषो न वक्ष्यामि पुनः पुनः
दोषभेदेन यूषास्ते संख्याताः पञ्चसप्ततिः २८
तथैव यापनादित्वात् पञ्चाशत्तु रसाश्रयात्
एके यूषास्तथैकेषां यत्किञ्चिद्व्यञ्जनं द्रवम् २९
अग्नौ सिद्धमसिद्धं तु रागखाडवपानकम्
यमकस्नेहसिद्धास्तु ते यूषा घृततैलयोः ३०
शष्यन्ते वातरोगेषु वर्चः शोषाभिघातयोः
दीप्ताग्नीनामनिद्राणां भाराध्वश्रममैथुनैः ३१
क्लान्तानां पतनाद्यैश्च यूषोऽयमेक इष्यते
दधिकाञ्जिकशुक्तानि वर्गो यश्चापि दीपनः ३२
निर्यूहः सर्वयूषाणामन्यस्मात् पाञ्चकर्मिकात्
क्वाथो निर्यूह आदानं कषायश्चेति तत् समम् ३३
गर्भः कल्कस्तथाऽऽवापः पाकः संस्कार उच्यते
निस्तुषाणां पुराणानां मुद्गानां दीपनाम्बुना ३४
मुद्गमण्डस्तनुत्वात् स मुद्गयूषो घनोऽल्पशः
मुद्गतक्राम्लसिद्धस्तु यूषो विरसिका स्मृतः ३५
स एव दाडिमोदश्वित्कृतो रोचन उच्यते
स्मृतो दाडिमयूषश्च मुद्गदाडिमसंस्कृतः ३६
मुद्गामलकनिर्यूहो धात्रीयूषोऽभिधीयते
इत्येते पञ्च यूषास्तु विहिताः पाञ्चकर्मिकाः ३७
काम्यांस्त्वन्यान् प्रवक्ष्यामि यूषानामयदर्शनात्
सिद्धश्चित्रकनिर्यूहे समूलस्कन्धपत्रके ३८
ख्यातश्चित्रकयूषस्तु ग्रहणीदोषशूलनुत्
प्लीहार्शोगुल्मकुष्ठघ्नो हृद्रोगकफवातजित् ३९
तद्वन्मूलकयूषोऽपि स वै संस्कारमीक्षते
शटीकर्कटकीबिल्वमाजपौष्करधातकी ४०
दधित्थं दाडिमफलं चाङ्गेरीससमङ्गयोः
पञ्चकोलकयूषोऽयं परः सांग्राहिकः स्मृतः ४१
स एव दीपनोपेतो लवणैश्चापि दीपनः
अखण्डितानां धान्यानां सर्वेषां समभागिनाम् ४२
निर्यूहः स्यादृते माषतिलनिष्पावसर्षपात्
धान्ययूषः स्मृतो मुख्यो द्वीपदाडिमसंस्कृतः ४३
दधिमण्डेऽथ वा सिद्धस्तक्रे वा रोगदर्शनात्
शिरःकर्णात्तिरोगेषु हृद्रोगेऽवर्धाभेदके ४४
अरुचौ चातिसारे च कार्यः सतिलमाषकः
कुलत्थानां तु निर्यूहे कौलत्थो यूष उच्यते ४५
सन्निपातानिलकफव्याधीन् हन्ति विरूक्षणः
कपित्थबिल्वबदरद्वाकदाडिमचूतजैः ४६
फलयूषः फलैरामैर्जीर्णातीसारनाशनम्
शणशाल्मलिधातक्यः पद्मसौगन्धिकैः सह ४७
कोविदारात् कर्बुदारात् पुष्पैर्यूषं प्रकल्पयेत्
असृग्दरे रक्तपित्ते दाहे चोदरचक्षुषोः ४८
तैलाम्लाभ्यामृते सिद्धः पुष्पयूषः सदाडिमः
बिल्वशोभाञ्जनैरण्डबलारास्नाम्रवारिणा ४९
पत्रनिष्क्वाथयूषः स्यात् पत्रयूषोऽनिलापहः
दाडिमाम्रातजम्बूनां चिरबिल्वस्य च त्वचः ५०
निष्क्वाथ्य दधिमण्डेन वल्कयूषोऽतिसारनुत्
न्यग्रोधोदुम्बराश्वत्थप्लक्षकालापलाशजैः ५१
पल्लवैः कमलानां च घृतदाडिमसंस्कृतः
पित्तरोगेषु सर्वेषु गर्भच्यवनदाहयोः ५२
मुख्यः पल्लवयूषोऽयं हितः कटुकिनीषु च
पुनर्नवाया रास्नायाश्चाङ्गेरीबलयोस्तथा ५३
पृथग्यूषाः समाख्याता वातघ्ना दधिसर्पिषा
रोहितापोतमत्स्यानां निर्यूहं साधयेज्जले ५४
तं क्वाथं साधयेद्भूयः शुक्तकाञ्जिकमस्तुभिः
द्रवाणि कुडबीजानि गुडपञ्चपले शृतः ५५
एष काम्बलिको रूक्षः कटुतैलेन वा कृतः
वातरोगप्रशमनो बृंहणो बलवर्धनः ५६
रतिनिद्रारुचिकरस्तिलतैलेन वा कृतः
दीपनं पञ्चमूलं च फलानि मधुराणि च ५७
पूर्ववत् सर्वधान्यानि धान्यकं मरिचानि च
काकोलीक्षीरकाकोलीकाश्मर्याणि परूषकम् ५८
बदराणि कुलत्थाश्च रास्नैरण्डपुनर्नवाः
द्वे पले गोक्षुरः शिग्रुपलाशतरुणानि च ५९
जलद्रोणे पचेदेतं निर्यूहं पादशेषितम्
दधिकाञ्जिकशुक्तानि प्रस्थशस्तैलसर्पिषी ६०
मूलकानामपत्राणां तरुणानां शतं भवेत्
एष सिद्धो महायूषो व्योषसंस्कारसंस्कृतः ६१
सर्वरोगेषु भूयिष्ठं संसृष्टेषु प्रशस्यते
अत्यग्निषु विनिद्रेषु स्तब्धाङ्गच्छुबुकाक्षिषु ६२
निर्यूहेण समं दद्यान्मांसनिर्यूहमेव तु
कार्यः सतिलकल्को वा जीर्णातीसारशान्तये ६३
उक्तो लशुनयूषस्तु स्वकल्पे वातनाशनः
सूपाश्च रसकाश्चैव त्रिविधाः प्राङ्निदर्शिताः ६४
स्विन्नानि मूलकान्यप्सु निष्पीड्य तरुणो विभुः
परिभृज्य ततः स्नेहे तत आदानमावपेत् ६५
एष मूलकयूषस्तु सर्वरोगविनाशनः
अनम्लोलदकरसः संस्कृतो जलसर्पिषोः ६६
भवेत् पित्तोपशमनस्तैलभृष्टोऽनिलापहः
एते यूषाः स्वतन्त्रोत्था उक्ता व्याससमासतः ६७
यवागूरपि वक्ष्यामि नानाद्रव्योपसंस्कृताः
नानारोगोपशमनीः शृणु वृद्धैकविंशतिम् ६८
ओदनस्य विलेप्ल्याश्च यवाग्वाश्च किमन्तरम्
शुश्रूषे भगवन्नेतदित्युक्तः प्राह कश्यपः ६९
ओदनो विशदः सिद्धः सुस्विन्नो निस्रुतो मृदुः
तण्डुलैः सकलप्रायैरक्षीणैश्चापि पठ्यते ७०
अस्विन्नत्वमवक्लेदस्त्वसाकल्यमनिस्रवः
विरसोऽविशदः शीत ओदनस्य विपर्ययाः ७१
द्रवाद्विंशतिभागेन तण्डुलैः सह साधयेत
तथा पञ्चदशाख्येन यवागूर्दशकेन वा ७२
विंशतेः स्फुटितैः सिक्थैस्तुल्याधोमध्यतोपरि
अहस्तहार्या पेया स्याद्यवागूः सपरिग्रहाः ७३
घना विशीर्णा शीता च न चावक्षीणतण्डुला
पिच्छिला विशदाऽहृद्या यवाग्वा दोषसंग्रहः ७४
तक्रसिद्धा यवागूस्तु दधिसिद्धा च ते घने
संस्कृते हस्तहार्ये ते प्रतिषिद्धे क्रियावताम् ७५
उष्णा घना प्रशिथिला दलितैस्तण्डुलैः कृता
विलेप्या गुणदोषांस्तु यवाग्वा इव निर्दिशेत् ७६
दीर्घोपवासिनां नॄणां क्षीरपेया प्रशस्यते
शीतपित्तोपशमनी बृंहणी वर्चबन्धनी ७७
शूलघ्नी दीपनी पेया दीपनीयोपसाधिता
पाचनी पचनी चोक्ता कषायैर्वर्चबन्धनी ७८
बिल्वं दधित्थं सह दाडिमेन
सव्योषचाङ्गेरिकृता यवागूः
सांग्राहिणी दीपनपाचनी च
सपञ्चमूलाऽनिलपीडिते तु ७९
बला वृषत्पर्ण्यथ शालपर्णी
स्याद्दाडिमं बिल्वशलाटुयुक्तम्
पेया हिता पित्तकफातिसारे
तोयं च तत्तत्र वदन्ति पेयम् ८०
एषैव दध्ना रुचिवर्धनी स्यान्निर्वाहिकां हन्ति तिलोपसिद्धा
रक्तातिसारं शमयत्युदीर्णमसृग्दरं गर्भपरिस्रवं च ८१
सदाडिमा सातिविषाऽथ साम्ला
पेया भवेदामविपाचनीया
स्यात् कण्टकारीरसगोक्षुराभ्यां
सफाणिता मूत्रगदे यवागूः ८२
सुवर्चिकाक्षारविडङ्गशिग्रुसपिप्पलीमूलकृता यवागूः ।
तक्रोपसिद्धा क्रिमिनाशनी स्याद्गुल्मेऽथ कासे ग्रहणीगदे च ८३
मृद्वीकलाजामधुपिप्पलीभिः
ससारिवा तृड्शमनी यवागूः
विषं निहन्त्याशु तु सोमराज्ञ्या
वराहनिर्यूहकृता तु बल्या ८४
कार्श्यार्थमिष्टा तु गवेधुकानां
सर्पिष्मती सैन्धवयुग्बलाय
द्विपञ्चमूलोदकसाधिता तु
श्वासं च कासं च कफं च हन्ति ८५
शाकैः समांसैः सतिलैः समाषैः
सर्पिष्मती स्नेहनभेदनी तु ।
जम्ब्वाम्रयोरस्थिदधित्थबिल्वैस्तैरम्लयुग्वर्चविबन्धनी तु ८६
तक्रोपसिद्धा तु घृतामये स्यात्
पिण्याकयुक् सैव तु तैलरोगे
उपोदिकादध्युपसाधिता तु
मदं विदाहं च नयेत् प्रसादम् ८७
शाकैरभृष्टैः परिभृष्टकैश्च रोगातुरावेक्ष्युपकल्पयेत्ताः
लोके प्रसिद्धं यन्मानं तर्कमानं तुलाधृतम्
तत्तन्त्रेऽस्मिन् प्रमाणं स्याद्वक्तव्य तत्र नास्ति मे ८८
इति ह स्माह भगवान् कश्यपः
इति खिलेषु यूषनिर्देशीयो नाम चतुर्थेऽध्यायः

भोज्योपक्रमणीयाध्यायः पञ्चमः
अथातो भोज्योपक्रमणीयं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कशयपः २
अथ खल्वस्माभिः पूर्वं यद्रसविमानेऽभिहितं कालादिचतुर्विंशतिविधमाहारमानं तस्येदानीं प्रतिविकल्पविशेषानुपदेक्ष्यामः । किं कारणम् न ह्याहारादृते प्राणिनां प्राणाधिष्ठानं किञ्चिदप्युपलभामहे । स सम्यगुपयुज्यमानो जीवयति सर्वेन्द्रियाणि ह्लादयति धातूनाप्याययति स्मृतिमतिसर्वबलौजांस्यूर्जयति वणप्रसादं चोपजनयति असम्यगुपयुज्यमानस्त्वसुखेनोपयोजयति । तस्मात् काले सात्म्यं मात्रावदुष्णं स्निग्धमविरोधि शुचौ देशे शुचिषु पात्रेषु शुचिपरिचरेणोपनीतं प्राङ्मुखस्तूष्णींस्तन्मना आस्वादयन्नातिद्रुतं नातिविलम्बितं नात्युष्णं नातिशीतं नातिरूक्षं नातिस्निग्धं नातिबहु नातिस्तोकं नातिद्रवं नातिशुष्कं नाकांक्षितो न प्रतान्तो नैकरसं वाऽऽरोग्यायुर्बलार्थी समश्नीयात् ३
भवन्ति चात्र–
आरोग्यं दोषसमता सर्वाबाधनिवर्तनम्
तदर्थमृषयः पुण्यमायुर्वेदमधीयते ४
रसायनानि विधिवत्तदर्थं चोपयुञ्जते
धर्मार्थकाममोक्षाणामवाप्तिश्च तदाश्रया ५
तदात्मवांस्तदर्थाय प्रयतेत विचक्षणः
अन्नाभिलाषो भुक्तस्य परिपाकः सुखेन च ६
सृष्टविण्मूत्रवातत्वं शरीरस्य च लाघवम्
सुप्रसन्नेन्द्रियत्वं च सुखस्वप्नप्रबोधनम् ७
बलवर्णायुषां लाभः सौमनस्यं समाग्निता
विद्यादारोग्यलिङ्गानि विपरीते विपर्ययम् ८
आरोग्यं भोजनाधीनं भोज्यं विधिमवेक्षते
विधिर्विकल्पं भजते विकल्पस्तु प्रवक्ष्यते ९
स्वस्थानस्थेषु दोषेषु स्रोतःसु विमलेषु च
जातायां च प्रकाङ्क्षायामन्नकालं विदुर्बुधाः १०
कालेऽश्नतोऽन्नं स्वदते तुष्टिः पुष्टिश्च वर्धते
सुखेन जीर्यते न स्युः प्रतान्ताजीर्णजा गदाः ११
सात्म्यं नामाहुरौचित्यं सातत्येनोपसेवितम्
आहारजातं यद्यस्य चानुशेते स्वभावतः १२
सात्म्याशी सात्म्यसाद्गुण्याच्छतं वर्षाणि जीवति
न चाप्यनुचिताहारविकारैरुपसृज्यते १३
लघूनां नातिसौहित्यं गुरूणामल्पशस्तथा
मात्रावदश्नतो भुक्तं सुखेन परिपच्यते १४
स्वास्थ्य यात्राग्निचेष्टानामविरोधि च तद्भवेत्
उष्णं हि भुक्तं स्वदते श्लेष्माणं च जयत्यपि १५
वातानुलोम्यं कुरुते क्षिप्रमेव च जीर्यते
अन्नाभिलाषं लघुतामग्निदीप्तिं च देहिनाम् १६
स्निग्धं प्रीणयते देहमूर्जयत्यपि पौरुषम्
करोति धातूपचयं बलवर्णौ दधाति च १७
सुमृष्टमपि नाश्नीयाद्विरुद्धं तद्धि देहिनः
प्राणानस्याऽऽशु वा हन्यात्तुल्यं मधुघृतं यथा १८
अविरुद्धान्नभुक् स्वास्थ्यमायुर्वर्णं बलं सुखम्
प्राप्नोति विपरीताशी तेषामेव विपर्ययम् १९
शुचिपात्रोपचरणः शुचौ देशे शुचिः स्वयम्
भुञ्जानो लभते तुष्टि पुष्टिं तेनाधिगच्छति २०
नानिष्टैरमनस्यैर्वा विघातं मनसोर्च्छति
तस्मादनिष्टे नाश्नीयादायुरारोग्यलिप्सया २१
प्राङ्मुखोऽश्नन्नरो धीमान् दीर्घमायुरवाप्नुते
तूष्णीं सर्वेन्द्रियाह्लादं मनःसात्म्यं च विन्दति २२
एतदेव च मात्रां च पक्ति युक्तिं च तन्मनाः
तस्मात्तत्प्रवणोऽजल्पन् स्वस्थो भुञ्जीत भोजनम् २३
आस्वाद्यास्वाद्य योऽश्नाति शुद्धजिह्वेन्द्रियो रसान्
स वेत्ति रसनानात्वं विशेषांश्चाधिगच्छति २४
अतिद्रुतं हि भुञ्जानो नाहारस्थितिमाप्नुयात्
भोज्यानुपूर्वीं नो वेत्ति न चान्नरससंपदम् २५
नातिद्रुताशी तत्सर्वमनूनं प्रतिपद्यते
प्रसादमिन्द्रियाणां च तथा वातानुलोमताम् २६
शीतीकरोति चान्नाद्यं भुञ्जानोऽतिविलम्बितम्
भुङ्क्ते बहु च शीतं च न तृप्तिमधिगच्छति २७
शैत्याद्बहुत्वाद्वैरस्याद् भुक्तं क्लेशेन पच्यते
अत्युष्णभोजनाज्जिह्वाकण्ठौष्ठहृदयोदरम् २८
दह्यते न रसं वेत्ति रोगांश्चाप्नोति दारुणान्
मुखाक्षिपाकवैसर्परक्तपित्तभ्रमज्वरान् २९
अतिशीताशिनः शूलं ग्रहणीमार्दवं घृणा
कफवाताभिवृद्धिश्च कासो हिक्का च जायते ३०
रूक्षं करोति विष्टम्भमुदावर्तं विवर्णताम्
ग्लानिं बह्वशितं वायोः प्रकोपं मूत्रनिग्रहम् ३१
अतिस्निग्धाशिनस्तन्द्रीतृष्णाजीर्णोदरामयाः
भवन्ति कफमेदोत्था रोगाः कण्ठोद्भवास्तथा ३२
विष्टम्भोद्वेष्टनक्लेशचेष्टाहानिविसूचिकाः
ज्ञेया विकारा जन्तूनामतिबह्वशनोद्भवाः ३३
अतिस्तोकाशिनोऽत्यग्निविकाराः कृशता भ्रमः
अतृप्तिर्लघुता निद्राशकृन्मूत्रबलक्षयः ३४
अतिद्रवाशनाज्जन्तोरुत्क्लेशो बहुमूत्रता
पार्श्वभेदः प्रतिश्यायो विड्भेदश्चोपजायते ३५
अतिशुष्काशनं चापि विष्टभ्य परिपच्यते
पूर्वजातरसं जग्ध्वा कुर्यान्मूत्रकफक्षयम् ३६
मोहात् प्रमादाल्लौल्याद्वा यो भुङ्क्ते ह्यप्रकाङ्क्षितः
अविपाकारुचिच्छर्दिशूलानाहान् समृच्छति ३७
प्रतान्तभोक्तुस्तृण्मूर्च्छा वह्निसादोऽङ्गसीदनम्
ज्वरः क्षयोऽतिसारो वा मन्दत्वं दर्शनस्य च ३८
दौर्बल्यमदृढत्वं च भवत्येकरसाशनात्
दोषाप्रवृद्धिर्धातूनां साम्यं वृद्धिर्बलायुषोः ३९
आरोग्यं चाग्निदीप्तिश्च जन्तोः सर्वरसाशनात्
तस्मादेकरसाभ्यासमारोग्यार्थी विवर्जयेत् ४०
कालसात्म्यादिनाऽनेन विधिनाऽश्नाति यो नरः
स प्राप्नोति गुणांस्तज्जान्न च दोषैः प्रबाध्यते ४१
स्थिरत्वं स्वस्थताऽङ्गानामिन्द्रियोपचयं बलम्
कफमेदोऽभिवृद्धिं च कुर्यान्मधुरसात्म्यता ४२
दन्ताक्षिकेशदौर्बल्यं कफपित्तामयोद्भवम्
लघुतामग्निदीप्तिं च जनयेदम्लसात्म्यता ४३
रक्तप्रकोपं तैमिर्यं तृष्णां दुर्बलशुक्रताम्
पालित्यं बलहानिं च कुर्याल्लवणसात्म्यता ४४
पक्तेरुपचयं कार्श्यं रौक्ष्यं शुक्रबलक्षयम्
पित्तानिलप्रवृद्धिं च कुर्यात् कटुकसात्म्यता ४५
क्लेदाल्पतां वातवृद्धिं दृष्टिहानिं कफक्षयम्
त्वग्विकारोपशान्तिं च जनयेत्तिक्तसात्म्यता ४६
कफपित्तक्षयं वायोः प्रकोपं पक्तिमार्दवम्
कुर्याद्रक्तोपशान्तिं च कषायरससात्म्यता ४७
ओजस्तेजो बलं वर्णमायुर्मेधा धृतिः स्मृतिः
जायते सौकुमार्यं च घृतसात्म्यस्य देहिनः ४८
तथैव क्षीरसात्म्यस्य परं चैतद्रसायनम्
दृढोपचितगात्रश्च निर्मेदस्को जितश्रमः ४९
बलवान् तैलसात्म्यः स्यात् क्षीणवातकफामयः
चक्षुष्मान् बलवाञ्छ्लेष्मी दृढसत्त्वो दृढेन्द्रियः ५०
दृढाश्रयो मन्दरुजो मांससात्म्यो भवेन्नरः
अहितं यस्य सात्म्यं स्यादसात्म्यं च हितं भवेत् ५१
स शनैर्हितमादद्यादहितं च शनैस्त्यजेत्
आदौ तु स्निग्धमधुरं विचित्रं मध्यतस्तथा ५२
रूक्षद्रवावसानं च भुञ्जानो नावसीदति
भागद्वयमिहान्नस्य तृतीयमुदकस्य च ५३
वायोः संचरणार्थं च चतुर्थमवशेषयेत्
ततो मुहूर्तमाश्वस्य गत्वा पादशतं शनैः ५४
स्वासीनस्य सुखेनान्नमव्यथं परिपच्यते
वीणावेणुस्वनोन्मिश्रं गीतं नाट्यविडम्बितम् ५५
विचित्राश्च कथाः शृण्वन् भुक्त्वा वर्धयते बलम्
सुखस्पर्शविहारं च सम्यगाप्नोत्यतोऽन्यथा ५६
अतिस्निग्धातिशुष्काणां गुरूणां चातिसेवनात्
जन्तोरत्यम्बुपानाच्च वातविण्मूत्रधारणात् ५७
रात्रौ जागरणात् स्वप्नाद्दिवा विषमभोजनात्
असात्म्यसेवनाच्चैव न सम्यक् परिपच्यते ५८
हिताहितं यदैकध्यं भुक्तं समशनं तु तत्
पूर्वभक्तेऽपरिणते विद्यादध्यशनं भिषक् ५९
क्षुत्तृष्णोपरमे जाते शान्तेऽग्नौ प्रमृताशनात्
विषमं गुणसंस्कारात् क्रमसात्म्यव्यतिक्रमात् ६०
विरुद्धं पयसा मत्स्या यथा वा गुडमूलकम्
स्यादजीर्णाशनं नाम व्युष्टाजीर्णे चतुर्विधे ६१
तथैवात्यशनं ज्ञेयमतिमात्रोपयोगतः
स — तान्यामयोत्पत्तौ मूलहेतुं प्रचक्षते ६२
आहारसात्म्यं देशेषु येषु येष यथा यथा
प्रोक्तं तथोपदेष्टव्यं तेषु तेषु तथा तथा ६३
चतुर्विंशतिरित्येते विकल्पाः समुदाहृताः
भिषजा ह्युपदेष्टव्या राज्ञो राजोपमस्य वा ६४
अन्येषां वा वसुमतां यशोधर्मार्थसिद्धये
इति ह स्माह भगवान् कश्यपः
इति खिलेषु भोज्यविभागीयो नाम पञ्चमोऽध्यायः ५

अथ रसदोषविभागीयाध्यायः षष्ठः
अथातो रसदोषविभागीयं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
रसदोषविभागज्ञः प्रकोपोपशमं प्रति
भिषग्भिषक्त्वं लभते विपर्ययमथान्यथा ३
तस्माद्दोषविकल्पांश्च विकल्पांश्च रसाश्रयान्
प्रवक्ष्यामि यथाशास्त्रं सविशेषं सविस्तरम् ४
व्यासतस्तु ज्वरादीनां व्याधीनां दोषभेदतः
द्विषष्टिधा कल्पनोक्ता स्थूलसंख्या त्वतः परम् ५
एकैकशस्त्रयो द्वन्द्वैर्नव सर्वे त्रयोदश
क्षीणाधिकसमैश्चान्यैर्दश द्वौ च प्रकीर्तिताः ६
तेषां विभागं वक्ष्यामि विस्तरेण यथाक्रमम्
एकैकशस्त्रयो ज्ञेया वातपित्तकफैर्गदाः ७
समैर्द्वन्द्वैस्त्रयः षट् तु विषमैर्नव ते स्मृताः
द्व्यधिकैकाधिकैः षट् च हीनमध्याधिकैश्च षट् ८
एकः समैस्त्रिभिर्दोषैरित्यातङ्कास्त्रयोदश
दोषैरेतैर्विवृद्धैः स्युर्विकल्पाः पञ्चविंशतिः ९
दोषैः क्षीणैरपि गदा दृष्ट्वैवं पञ्चविंशतिः
द्विक्षीणैरेकवृद्धैः स्युरेकक्षीणैर्द्विरुद्बलैः १०
षट् षट् क्षीणाधिकसमैर्दश द्वौ चापरे गदाः
इति द्विषष्टिसंख्यैषा विकाराणां विकल्पशः ११
वातपित्तकफैरेको दश स्यात् प्रकृतिस्थितैः
रसानां तु विकल्पाः स्युरेकैकश्येन षट् स्मृताः १२
पूर्वः पूर्वः परैर्युक्तो द्विकाः पञ्चदशापरे
रसेषु त्रिषु पूर्वेषु विकल्पाः स्युस्त्रयोऽधिकाः १३
द्विकेषु त्रिष्वथैकैकं संयोज्य कटुकादिभिः
कट्वादिषु तथा पूर्वैः स्वाद्वम्ललवणैः पृथक् १४
अष्टादशैते द्वाभ्यां च त्रिकाभ्यां विंशतिस्त्रिकाः
पूर्वोत्तराभ्यां मधुरव्योषादिभ्यां यथाक्रमम् १५
ये द्विकास्त्रिषु पूर्वेषु योज्यास्ते त्रिभिरुत्तरैः
प्रत्येकशो नवैते स्युर्विकल्पाः षडिहान्यथा १६
युक्ताः स्वाद्वम्ललवणाः पृथक् कष्ट्वादिभिस्त्रिभिः
कट्वादयस्तथा पूर्वैरित्येते दश पञ्च च १७
चतुष्काः पञ्चकाः षट् स्युरेकैकस्य विवर्जनात्
षड्भिरेको रसैस्तेषां कल्पनेयं त्रिषष्टिधा १८
संयोगाः सप्तपञ्चाशदसंयुक्तास्तु षड्रसाः
षडेव त्रिषु युज्यन्ते रसा दोषेषु योगतः १९
क्वचिदेकः क्वचिद् द्वौ च दोषवृद्ध्या क्वचित्त्रयः
हीनमध्यातिवृद्धानां दोषाणां तु यथाक्रमम् २०
हीनमध्याधिकैरेवं रसैः कुर्यादुपक्रमम्
द्व्युद्बलैकोद्बलानां च समानां चैव तद्विधैः २१
वृद्धानां क्षपणं कार्यं मध्यानां यापनं तथा
क्षीणानां वर्धनं चैव रसवृद्धिप्रमाणतः २२
विशेषोऽत्र यथायोगं कार्यो रसविपर्ययात्
एवं द्विषष्टिदोषाणां रसैरेपां द्विषष्टिभिः २३
साम्यं तैः षट्कैरेवैकः स्वस्थवृत्तौ प्रयुज्यते
कटुतिक्तकषायांस्तु रसान् प्राज्ञो यथाक्रमम् २४
योगतः कफजे व्याधौ भैषज्यमवतारयेत्
प्रयुक्तः कटुकः पूर्वं पैच्छिल्यं गौरवं च यत् २५
श्लेष्मणस्तं निहन्त्याशु तिक्तस्तस्मादनन्तरम्
ह्रासयत्यास्यमाधुर्यं कफं संशोषयत्यपि २६
संगृह्णाति कषायश्च स्नेहं चास्यावकर्षति
तिक्तस्वादुकषायाः स्युः क्रमशः पैत्तिके हिताः २७
आमान्वयत्वात् पित्तस्य पूर्वं तिक्तोऽवचारितः
पाचयत्याशु तं पक्वं ततस्तु मधुरो रसः २८
शैत्याद्गुरुत्वात्स्नेहाच्च माधुर्याच्च नियच्छति
तद्द्रवत्वविघातार्थं कषायश्चावचारितः २९
रौक्ष्याद्विशोषिभावाच्च विशोषयति तैजसम्
वातिके लवणः पूर्वं संयोगादवचारितः ३०
प्रक्लेदिभावाज्जयति विबन्धं मातरिश्वनः
निहन्ति शैत्यमुष्णत्वाद्गुरुत्वाच्चापि लाघवम् ३१
तथैवाम्लो रसः पश्चात्तस्मिन्नेवावचारितः
जडीकृतानि स्रोतांसि तैक्ष्ण्यादुद्घाट्य मारुतम् ३२
अनुलोमयति क्षिप्रं स्निग्धोष्णत्वाद्विमार्गगम्
अम्लादनन्तरं पश्चात् प्रयुक्तो मधुरो रसः ३३
वायोर्लघुत्वं वैशद्यं रूक्षत्वं च व्यपोहति
गुरुत्वात् पिच्छिलत्वाच्च स्निग्धत्वाच्च यथाबलम् ३४
इत्युक्ताः सर्वरोगेषु रसानां प्रविचारणाः
दृश्यन्ते प्रायशो योगा रोगेषूक्ता ज्वरादिषु ३५
कटुतिक्तकषायाश्च रसतो मधुरास्तथा
वातज्वरे यथापूर्वं पेयायूषरसादिषु
लवणोऽम्लश्च युज्येते रसौ संस्कारयोगिनौ ३६
ततो विदारिगन्धादिर्मधुरः संप्रयुज्यते
पित्तज्वरे यथा तिक्तः शाङ्गिष्ठादिः प्रयुज्यते ३७
मधुरः सारिवादिश्च कषायश्चाभयादिकः
पिप्पल्यादिर्यथापूर्वं कटुकः कफजे ज्वरे ३८
आरग्वधादिकस्तिक्तः कषायस्त्रिफलादिकः
सर्वत्रैवानया युक्त्या यथोद्दिष्टान्रसान् बुधः ३९
यथादोषं यथायोगं प्रयुञ्जीत यथेप्सितम्
प्रक्षेपैरवकर्षैश्च द्रव्याणामन्यथान्यथा ४०
यथा वा वीणया वीणी तन्त्रीणां स्वरकोविदः
उत्कर्षंश्चावकर्षंश्च स्वरान् सम्यक् प्रयोजयेत् ४१
विन्दन् नानाविकल्पैश्च ग्रामरागांश्च दर्शयेत्
स्वरमण्डलतत्त्वज्ञो विकल्पैर्बहुविस्तरैः ४२
तथैव शास्त्रतत्त्वज्ञो योगज्ञः प्रतिपत्तिमान्
व्याधौ बलाबलज्ञश्च प्रकृतिज्ञश्च योगवान् ४३
उत्कर्षंश्चावकर्षंश्च प्रयोगाञ्छास्त्रकोविदः
केवलैः शीतवीर्यैश्च तथैवोष्णैश्च वीर्यतः ४४
शीतैरुष्णैश्च संपृक्तैर्द्रव्यैर्योगान् प्रयोजयेत्
कार्त्स्न्यतश्च प्रयुञ्जीत यथावदनुपूर्वशः ४५
समुच्चयैर्विकल्पैश्च नानारससमुच्छ्रयैः
युञ्जीत बहुधा योगान्नृत्तं गीतवशादिव ४६
समस्योक्तं पृथक्चोक्तं संप्रधार्य बलाबलम्
द्विषष्टिर्दोषभेदा ये निर्दिष्टास्तानतः परम् ४७
स्थानानि दश संगृह्य प्रवक्ष्यामि सविस्तरम्
त्रय एकैकशस्तेषां ये च वृद्धास्त्रयः समाः ४८
समैरेकश्च सप्तैते क्षयवृद्ध्या चतुर्दश
स्थानवृद्ध्या भवेत्तेषां चत्वारिंशोत्तरं शतम् ४९
व्युदस्यैतानतः शेषा ये त्रिंशद्दश चाष्ट च
ते भेदं यान्त्यमेयत्वाच्छतशोऽथ सहस्रशः ५०
द्वन्द्वानां विषमाणां तु षण्णामन्यतमं बुधः
स्वस्थानाद्वर्धयेत्तावद्यावत् स्यात् स्थानमष्टमम् ५१
एकैकशो द्विशश्चैव चतुर्विंशद्भवन्ति ते
ह्रासेनैकैकशश्चापि विंशन्नव च भेदतः ५२
एवमेते त्रिपञ्चाशद्द्वन्द्वेनैकेन दर्शिताः
एषैव युक्तिः शिष्टानां द्वन्द्वानां स्यान्न संशयः ५३
शतत्रयं भवत्येवमेषामष्टादशोत्तरम्
द्व्युद्बलैकोद्बलानां च तावदेव विनिर्दिशेत् ५४
हीनमध्याधिका दोषाः स्वे स्वे स्थाने व्यवस्थिताः
स्वस्थानात् सप्तमं स्थानमेकैकश्येन यान्ति ते ५५
द्वौ च द्वौ च समस्ताश्च तेषां षट् सप्तकास्तथा
भवन्ति ह्रासयेत्तांश्च यथानमधः क्रमात् ५६
पञ्चाशीतिमतस्तेषां भेदानां परिचक्षते
एष एव विकल्पः स्याच्छेषाणां प्रविभागशः ५७
शतानि सप्त षष्टिश्च द्वौ च भेदा भवन्ति ते
एवं सहस्रं भेदानां वृद्धैस्त्रीणि शतानि च ५८
दोषैर्नवतिरष्टौ च क्षीणैस्तावन्त एव ते
द्विक्षीणैरेकवृद्धैः स्युः षट् च त्रीणि शतानि च ५९
यावन्त्येव च भेदानामेकक्षीणैर्द्विरुद्बलैः
क्षीणाधिकसमैः षट् च षट् च षट् च शतानि च ६०
क्रम एवात्र भागः स्याद्यो द्वन्द्वेषु निदर्शितः
चतुर्दश विनिर्दिष्टाः सविकल्पास्तयोः पृथक् ६१
तैः सार्धमेषां सर्वेषां कार्त्स्न्येनैव विभावयेत्
सहस्राणि च चत्वारि शतं षष्ट्युत्तरं तथा ६२
एतावन्तो ज्वराद्यानां भेदाः प्रोक्ता यथागमम्
अथैतेषु चतुर्योगविभागगतिकर्मतः ६३
सहस्रं सन्निपातानां विद्यात् सनवकं भिषक्
अत ऊर्ध्वं रसानां तु वक्ष्यते भेदविस्तरः ६४
कर्मस्थानानि दोषाणां भाववृद्ध्या यथाक्रमम्
तथा रसानां षट्कुर्यात् स्थानानीति विनिश्चयः ६५
तदेव कर्म सर्वेषां द्विकादीनां क्षयं विना
भवत्येवं द्विकानां तु पञ्चषष्ट्युत्तरं शतम् ६६
त्रिकानां च सविंशानि षट्शतानि विनिर्दिशेत्
चतुष्कानां सहस्रं च पञ्चषष्ट्युत्तरं वदेत् ६७
पञ्चकाणां शतान्यष्टौ स्याच्छतं च षडुत्तरम्
षष्ठकानां शते द्वे तु शतं चैकादशोत्तरम् ६८
संयुक्तानां विकल्पोऽयं सविकल्पाः षडेककः
समानां रसभेदानामेकमेकं तु पिण्डितम् ६९
त्रिसप्ततिर्भवत्येषां सहस्रत्रयमेव च
रसदोषविकल्पानामतिसौक्ष्म्यादतः परम्
न वक्ष्यामि महाभाग न तु बुद्धिपरिक्षयात् ७०

अतः परमिदानीं रसभेदान् विस्तरेणोपदेक्ष्यामः । तद्यथा–मधुराम्ललवणकटुकतिक्तकषायाः षड्रसाः । एषामिदानीं रसानां विकल्पास्त्रिषष्टिर्भवन्ति । तत्रैकैकश्येन षट् । तद्यथा–मधुर एव अम्ल
एव लवण एव कटुक एव तिक्त एव कषाय एव ७१

पूर्वः पूर्वः परैर्युक्तो द्विकः ते पञ्चदश भवन्ति । तत्र मधुरः पञ्चभिरम्लादिभिर्युज्यते । तद्यथा–मधुराम्लः मधुरलवणः मधुरकटुकः मधुरतिक्तः मधुरकषाय इति । अम्लश्चतुर्भिर्लवणादिभिः तद्यथा–अम्ललवणः अम्लकटुकः अम्लतिक्तः अम्लकषाय इति । लवणस्त्रिभिः कटुकादिभिः तद्यथा–लवणकटुः लवणतिक्तः लवणकषाय इति । कटुकस्तिक्तकषायाभ्यां द्वाभ्यां तद्यथा–कटुतिक्तः कटुकषाय इति । तिक्तः कषायेण च । तद्यथा–तिक्तकषाय इति । ते पञ्चदश एव । ते द्विकाः पञ्चदशविकल्पा भवन्ति मधुरसंयोगेन पञ्च भवन्ति अम्लसंयोगेन चत्वारः लवणसंयोगेन त्रयः कटुसंयोगेन द्वौ तिक्तसंयोगेनैक– इति । पूर्वेषु त्रिषु रसेषु मधुराम्ललवणेषु त्रयोऽधिका निष्पद्यन्ते । मधुराम्लः मधुरलवणः अम्ललवण इति
७२

एषां त्रयाणां द्विकानामेकैको द्विकस्त्रिभिरितरैः कटुतिक्तकषायै रसैर्योज्यः ततस्त्रिका निष्पद्यन्ते । तद्यथा–मधुराम्लकटुः मधुराम्लतिक्तः मधुराम्लकषायः मधुरलवणकटुः मधुरलवणतिक्तः मधुरलवणकषायः अम्ललवणकटुः अम्ललवणतिक्तः अम्ललवणकषाय इति । उत्तरेषु त्रिषु रसेषु कटुतिक्तकषायेषु त्रयो द्विका निष्पद्यन्ते तद्यथा–कटुतिक्तः कटुकषायः तिक्तकषाय इति एषां त्रयाणां द्विकानामेकैको द्विकस्त्रिभिरितरैर्मधुराम्ललवणै रसैर्योजयितव्यः तत्र त्रिका निष्पद्यन्ते । तद्यथा–कटुतिक्तमधुरः कटुतिक्ताम्लः कटुतिक्तलवणः कटुकषायमधुरः कटुकषायाम्लः कटुकषायलवणः तिक्तकषायमधुरः तिक्तकषायाम्लः तिक्तकषायलवण इति । पूर्वे चोत्तरे च । पूर्वे च त्रयः मधुराम्ललवणत्रिक एकः उत्तरे च त्रयः कटुकतिक्तकषायत्रिक एकः । त एते त्रिका विंशतिर्भवन्ति प्रथमेन
सूत्रेणोक्ता नव नव च द्वितीयेन तृतीयेन द्वाविति ७३

पूर्वेषु त्रिषु रसेषु मधुराम्ललवणेषु त्रयोऽधिका ये पूर्वोक्तास्ते परेषां त्रयाणां रसानां कटुकतिक्तकषायाणां पूर्वोक्तैस्त्रिभिर्द्विकैः प्रत्येकैकश्येन योजयितव्याः तेन चतुष्का निष्पद्यन्ते । तद्यथा–मधुराम्लकटुतिक्तः मधुराम्लकटुकषायः मधुराम्लतिक्तकषायः मधुरलवणकटुतिक्तः मधुरलवणकटुकषायः मधुरलवणतिक्तकषायः अम्ललवणकटुतिक्तः अम्ललवणकटुकषायः अम्ललवणतिक्तकषाय इति । पूर्वे मधुराम्ललवणा उत्तरैः कटुकतिक्तकषायैरेकैकशो युज्यन्ते । तद्यथा–मधुराम्ललवणकटुः मधुराम्ललवणतिक्तः मधुराम्ललवणकषाय इति । उत्तरे त्रयः कटुकतिक्तकषायाः पूर्वैर्मधुराम्ललवणैरेकैकशो युज्यन्ते ततश्चतुष्का निष्पद्यन्ते । तद्यथा–कटुतिक्तकषायमधुरः कटुतिक्तकषायाम्लः कटुतिक्तकषायलवण इति । एते चतुष्काः पञ्चदश पूर्वसूत्रोक्ता नव द्वितीयसूत्रोक्तास्त्रयः तृतीयसूत्रोक्तास्त्रयः इत्येते चतुष्काः पञ्चदश ७४

षट् पञ्चकाः । षण्णां रसानां मधुराम्ललवणकटुतिक्तकषायाणामेकैकमपनयितव्याः षट् पञ्चका निष्पद्यन्ते । तद्यथा–अम्ललवणकटुतिक्तकषायः मधुरलवणकटुतिक्तकषायः मधुराम्लकटुतिक्तकषायः मधुराम्ललवणतिक्तकषायः मधुराम्ललवणकटुकषायः मधुराम्ललवणकटुतिक्त इति । त एते षट् पञ्चकाः । षड्भिर्मधुराम्ललवणकटुतिक्तकषायैरेकः । तद्यथा–मधुराम्ललवणकटुतिक्तकषाय इति । त एवमेते रसास्त्रिषष्टिधा भिन्नाः तत्र
संयुक्ताः सप्तपञ्चाशत् असंयुक्ताः षट् ७५
इति ह स्माह भगवान् कश्यपः ७६
इति खिलेषु रसदोषविभागीयो नाम षष्ठोऽध्यायः ६

अथ संशुद्धिविशेषणीयो नाम सप्तमोऽध्यायः
अथातः संशुद्धिविशेषणीयं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
सिद्धौ विशोधनाख्यायामनुक्तं यद्विशेषणम्
ऊर्ध्वानुलोमयोः सर्वं तत् प्रवक्ष्याम्यतः परम् ३
चयप्रकोपप्रशमाः पित्तस्य प्रावृडादिषु
श्लेष्मणः शिशिराद्येषु वायोर्ग्रीष्मादिषु त्रिषु ४
प्रावृट्शरद्धेमन्ताख्या विसर्गस्त्वृतवस्त्रयः
शिशिरश्च वसन्तश्च ग्रीष्मश्चादानसंज्ञिताः ५
विसर्गादानयोर्मध्ये बलं मध्यं शरीरिणाम्
आद्यन्तयोस्तु दौर्बल्यमन्ताद्योरुत्तमं बलम् ६
हेमन्ते स्निग्धशीताभिरद्भिरोषधिभिस्तथा
चितोऽपि शैत्यात् प्रस्कन्नः कफो नात्र प्रकुप्यति ७
स कुप्यति हिमापाय संतप्तो भास्करांशुभिः
तस्मात् संशोधनं तत्र कर्तव्यं वमनोत्तरम् ८
ग्रीष्मे निष्पीतसारत्वाद्रसानां विचितोऽपि सः
औष्ण्यातिरेकात् कालस्य वायुरत्र न कुप्यति ९
रवेरम्बुदसंरोधात् प्रकुप्यत्यम्बुदागमे
बस्तिकर्मोत्तरं तत्र प्रतिकर्म विशिष्यते १०
अपां चैवौषधीनां च वर्षास्वम्लविपाकतः
चितमप्यत्र तत् पित्तं वर्षाशैत्यान्न कुप्यति ११
दिवाकरांशुसंतप्तं शरत्काले प्रकुप्यति
विरेचनोत्तरं चात्र विधातव्यं विशोधनम् १२
दोषप्रकोपे सर्वस्मिन् काले कार्यमनन्तरम्
न हि हेत्वीरितो दोषः कञ्चित्कालमुदीक्ष्यते १३
औचित्यादार्तवो दोषप्रकोपो न तथा भृशः
यथा हेतुकृतस्तस्मात् क्षिप्रमेनमुपक्रमेत् १४
वमनैश्च विरेकैश्च निरूहैः सानुवासनैः
तथा स्वास्थ्यमवाप्नोति रोगेभ्यश्च प्रमुच्यते १५
स्थौल्यामपाण्डुताकर्णकोठारुःपिडकोद्भवः
निद्रानाशोऽरतिस्तन्द्रीरुत्क्लेशः कफपित्तयोः १६
श्रमदौर्बल्यदौर्गन्ध्यमालस्यं सीदनं क्लमः
भक्तद्वेषोऽविपाकश्च क्लैब्यं बुद्धेरुपप्लवः १७
बृंहणैस्तृप्यतोऽपि स्याद्बलवर्णपरिक्षयः
दुःस्वप्नदर्शनं चेति बहुदोषस्य लक्षणम् १८
बलिनः स्थिरदेहस्य तस्य संशोधनं भिषक्
कुर्यात् संशमनं चैव मध्यदोषबलस्य तु १९
अल्पदोषबलस्यापि यथाकालं विशोषणम्
अथ संशोधनार्हे तु स्नेहस्वेदोपपादिते २०
वमनं स्रंसनं वाऽपि यथावदुपकल्पयेत्
स्नेहः पीतोऽनिलं हन्ति कुरुते देहमार्दवम् २१
सङ्गं मलानां निघ्नन्ति स्वेदः स्निग्धस्य देहिनः
स्रोतःसु लीनं सूक्ष्मेषु दोषं द्रवयति द्रवम् २२
शोधनं हरति क्षिप्रं यथावत् संप्रयोजितम्
मन्त्रपूतमबीभत्सं हृद्यं कार्यं विरेचनम् २३
सबीभत्सं तु वमनं तथा तद्योगमृच्छति
स्निग्धो वमेत्तृतीयेऽह्नि चतुर्थे स्रंसनं पिबेत् २४
विकारजाते तद्युक्तं स्वस्थवृत्तौ तु कामतः
कफवृद्धिकरं भोज्यः श्वः पाता वमनं नरः २५
विरेचनं द्रवप्रायं स्निग्धोष्णविशदं लघु
तथोत्क्लिष्टकफत्वाच्च पुरीषस्य च लाघवात् २६
ऊर्ध्वं चाधश्च दोषाणां प्रवृत्तिः स्यादयत्नतः
विष विसर्पे श्वयथौ वातरक्ते हलीमके २७
कामलापाण्डुरोगे च नातिस्निग्धं विरेचयेत्
नातिस्निग्धशरीराय विदध्यात् स्नेहसंयुतम् २८
स्निग्धाय रूक्षं रूक्षाय कामं स्नेहविरेचनम्
स्निग्धाभारं रथात् को वा स्रंसनं सहते नरः २९
घृतकुम्भाद्यथा तोयमयत्नेन निरस्यते
निरस्यते तथा दोषः स्निग्धाद्देहाद्विरेचनैः ३०
स्निग्धं विष्यन्दयत्यङ्गं स्वेदो स्निग्धार्द्रमिन्धनम्
ततः स्विन्नशरीरस्य दोषान् हरति भेषजम् ३१
यथा हि मलिनं वासः क्षारेणोत्क्लेश्य वारिणा
शोध्यते शोधनैस्तद्वदुत्क्लेश्य विधिवद्बलात् ३२
वामितं लङ्घयेल्लङ्घ्यं लघु भोजयेत्
तस्य वान्तविरिक्तस्य क्रमः पेयादिरिष्यते ३३
तेनाग्निर्वर्धते सूक्ष्मैरिन्धनारणयो यथा
समुत्थितेऽग्नौ संजाते मले देहे च निर्मले ३४
वाससीवार्पितो रागः सिद्धिं यात्युत्तरो विधिः
यश्चात्र वा यदाबाधः स्यादयोगादियोगतः ३५
समासव्यासतस्तस्य सिद्धौ सिद्धिरुदाहृता
ततोऽन्नप्रविचारस्य विकल्पः संप्रवक्ष्यते ३६
सर्वत्र त्रिविधा पेया संसर्गादौ विधीयते
अकृतादिविकल्पेन ततो यूषस्ततो रसः ३७
व्यपेतलवणा पूर्वा दीपनीयाम्बुसाधिता
तानि क्षुद्रा द्वितीया स्यात् किञ्चिल्लवणदीपना ३८
तद्वदेव तृतीया तु संस्कृता स्नेहमात्रया
अव्यक्तलवणस्नेहो यूषस्त्वकृतको मतः ३९
मन्दाम्ललवणस्नेहसंस्कारः स्यात्कृताकृतः
व्यक्तस्नेहाम्ललवणः कृतयूषः सुसंस्कृतः ४०
एवमेव रसं विद्यादिमं पेयादिकं क्रमम्
सकृज्जघन्या द्विर्मध्या त्रिः श्रेष्ठा शुद्धिमर्हति ४१
इमां पेयादिसंसर्गीं सर्वसंशोधनोपगाम्
आरोग्यकामः सेवेत स्वास्थ्ये प्रकृतिभोजनम् ४२
वर्जयित्वा विरुद्धान्नं गुर्वसात्म्यं च यद्भवेत्
अतः परं प्रवक्ष्यामि प्रमाणादिप्रयोजनम् ४३
वमनीयकषायस्य चत्वारोऽञ्जलयः परा
मात्रा मध्या त्रयो ह्रस्वा द्वौ तदर्धा विरेचने ४४
पुरुषं पुरुषं प्राप्य दोषाणां च बलाबलम्
मदनस्य फलक्वाथः पिप्पलीसर्षपान्वितः ४५
ग्रहघ्न्या वा स एवाऽथ पटोलारिष्टवत्सकैः
युक्तो वाऽथ प्रियङ्गूनां कल्केन मधुकस्य च ४६
वमनार्थे विधेयः स्यान्मधुसैन्धवमूर्च्छितः
न त्वजीर्णे हितं त्वत्र लवणोष्णाम्बु केवलम् ४७
तद्धि सर्वं समुत्क्लिश्य मुखेनाशु विनिर्हरेत्
यद्येवमामं विष्टम्भान्नापैति तत उत्तरम् ४८
वचाजगन्धामदनपिप्पलीभिस्तदुद्धरेत्
अन्यैर्वा कल्कविहितैर्बीभत्सोद्वेजनौषधैः ४९
अङ्गल्युत्पलनालाद्यैर्गलावतुदनैः सुखैः
तत्पार्श्वोदरपृष्ठानां पीडनोन्मदनैरपि ५०
पितवन्तं च वमनं मुहूर्तमनुपालयेत्
विदाहपूर्वः स्वेदोऽस्य यदा भवति सर्वतः ५१
विष्यन्दमानं जानीयात्तदा दोषं भिषग्वरः
लोमहर्षेण चान्वक्षं स्थानेभ्यश्चलितं तथा ५२
आध्मानोद्वेष्टनाभ्यां च निर्दिशेत् कोष्ठमाश्रितम्
हृल्लासास्यपरिस्रावैश्चामुखी भूतमुद्धरेत् ५३
उष्णाम्बु लवणोपेतं पीत्वाऽऽकण्ठं पुनः पुनः
यावत् स्युरष्टौ षड्वाऽपि वेगाश्चत्वार एव वा ५४
आपित्तदर्शनाद्वाऽपि दोषोच्छित्तेरथापि वा
मानप्रमाणतो वैकाध्यर्धद्विप्रस्थसंमितम् ५५
पीतादभ्यधिकं यत् स्यात् सदोषस्तद्विनिर्गमे
निरामगन्धं सोद्गारं यावत् पीतमपिच्छिलम् ५६
यदा विकलुषं वान्तं दृश्यतेऽम्बु प्रतिग्रहे
कुक्ष्युरःकण्ठशिरसां लाघवं रोगमार्दवम् ५७
क्लमकार्श्ये न चात्यर्थमुत्साहो विशदात्मता
सद्यो निर्हृतदोषस्य लिङ्गान्येतानि निर्दिशेत् ५८
शिरोगतं ततश्चास्य तैलैः स्विन्नस्य देहिनः
दोषावशेषं नस्येन धूमपानेन वा हरेत् ५९
यथाशुद्धिं ततश्चैनं संसर्गेणोपपादयेत्
हरीतक्या ग्रहघ्न्या वा कल्पोक्तं स्याद्विरेचनम् ६०
पिप्पलीसैन्धवोपेता पथ्या वा त्रिवृतायुता
शृतं चारग्वधफलं क्षीरेणाथ रसेन वा ६१
त्रिफला वा त्रिवृद्युक्ता सघृतव्योषसैन्धवा
तथा गन्धर्वतैलं वा श्रेष्ठं स्नेहविरेचनम् ६२
दशमूलकषायेण जाङ्गलानां रसेन वा
द्राक्षाक्वाथेन वा युक्तमथवा दीपनाम्बुना ६३
त्रिवृद्द्राक्षाभयानां वा गवां मूत्रेण संयुता
सद्राक्षा त्रिवृता वा स्यादथवा त्रिवृताष्टाकम् ६४
पथ्या त्रिजातकं व्यूषं विडङ्गामलकं घनम्
समानि षड्गुणा त्वत्र शर्कराऽष्टगुणा त्रिवृत् ६५
चूर्णं ज्वरश्रमश्वासकासपाण्ड्वामयक्षयान्
हन्यात्क्रिमिविषार्शांसि मूत्रकृच्छ्रं च देहिनाम् ६६
दशावरे पञ्चदश मध्यमे त्रिंशदुत्तमे
वेगा द्वित्रिचतुष्प्रस्थप्रमाणाः स्युर्विरेचने ६७
विट्पत्तिकफसंमिश्राः सवाताः स्युर्यथाक्रमम्
पित्तावसाना वमने कषायकफमूर्च्छिताः ६८
सम्यग्योगेऽतियोगेऽतिप्रवृत्तिः शोणितोत्तरा
अयोगे त्वप्रवृत्तिः स्याद्विपरीताऽल्पशोऽपि वा ६९
विभ्रंशः कर्मणो भ्रंशः केवलौषधनिर्गमः
सर्पिष्पानं विकारे स्यादतियोगानुबन्धजे ७०
मधुकादिविपक्वं वा तैलं तत्रानुवासनम्
दुर्वान्तं दुर्विरिक्तं वा स्निग्धदेहं बलान्वितम् ७१
बहुदोषं दृढाग्निं च पाययेदपरेऽहनि
दुर्बलं क्रमशो भूयः स्निग्धस्विन्नं विशोधयेत् ७२
न तु दुश्छर्दनं जातु क्ररकोष्ठमथापि वा
तयोः संशमनैर्दोषान् बस्तिभिर्वा शमं नयेत् ७३
अहृद्यमतिदुर्गन्धमजीर्णे चाति वा बहु
यस्यानुलोमिकं पीतमूर्ध्वं याति कफावृतम् ७४
तं वामितं लङ्घितं वा परिस्निग्धं विरेचयेत्
अत्यर्थस्निग्धदेहस्य विशुद्धामाशयस्य वा ७५
मारुतस्यानुलोम्यस्य यस्याधो वमनं व्रजेत्
तस्य संसर्गमात्रेण परिशुद्धिर्विधीयते ७६
दुर्बलस्याल्पदोषस्य मृदु संशोधनं हितम्
विगृहीताचिराद्दोषैः स्तोकं स्तोकं व्रजत्यधः ७७
उष्णाम्बुपानं तत्र स्यादानुलोम्यकरं परम्
दोषो भवेद्वा सोद्गारो नोर्ध्वं नाधश्च गच्छति ७८
सशूले भेषजे जन्तोः स्वेदं तत्रावचारयेत्
मात्राविरिक्ते सोद्गारमौषधं क्षिप्रमुद्धरेत् ७९
अतिप्रवृत्तौ जीर्णेऽस्मिन् स्तम्भनीयैरुपक्रमेत्
दीप्ताग्नेः क्रूरकोष्ठस्य बहुदोषस्य देहिनः ८०
सोदावर्तस्य निर्वाह्य पुरीषं फलवर्तिभिः
सुस्निग्धस्विन्नगात्रस्य भिषग्दद्याद्विरेचनम् ८१
यदसक्तं महावेगैः सुखेनाशु प्रवर्तते
अनाबाधकरं नातिग्लपनं दोषशोधनम् ८२
अव्यापन्नगुणोदर्कं मात्रायुक्तं सुसंस्कृतम्
पीतमेकाग्रमनसा सम्यक्च्छुद्धिकृदावहेत् ८३
दीप्ताग्नयः कर्मनित्या ये नरा रूक्षभोजिनः
शश्वद्दोषाः क्षयं यान्ति तेषां वाय्वग्निकर्मभिः ८४
विरुद्धाध्यशनाजीर्णदोषानपि सहन्ति ते
स्वस्थवृत्तौ न ते शोध्या रक्ष्या वातविकारतः ८५
विज्ञायैवंविधं वैद्यः संशुद्धिं कर्ममर्हति
इति ह स्माह भगवान् कश्यपः
इति खिलेषु संशुद्धिविशेषणीयो नाम सप्तमोऽध्यायः ७

अथ बस्तिविशेषणीयो नामाष्टमोऽध्यायः
अथातो बस्तिविशेषणीयं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
बस्तिदानात्परं नास्ति चिकित्साऽङ्गसुखावहा
शाखाकोष्ठगता रोगाः सर्वार्धाङ्गगताश्च ये ३
तेषां समुद्भवे हेतुर्वातादन्यो न विद्यते
तथा कफस्य पित्तस्य मलानां च रसस्य च ४
विक्षेपणे संहरणे वायुरेवात्र कारणम्
जेता चास्य प्रवृद्धस्य बस्तितुल्यो न कश्चन ५
तदुपार्धं चिकित्सायाः सर्वं वातचिकित्सितम्
कर्म कालश्च योगश्च तिस्रः संज्ञा यथाक्रमम् ६
वक्ष्ये निरुक्तनिर्देशसंख्यादोषविकल्पतः
बाहु — तेः कर्मसंज्ञितम् ७
अत्युदीर्णबले जाते प्रयोज्यं तद्यथाविधि
तदर्धकलनात् कालः स हि मध्यबलान्वये ८
पवने पित्तसंसृष्टे विधातव्यो विजानता
अल्पत्वात् स्नेहबस्तीनां युक्तेर्योगः स लाघवात् ९
प्रयोज्यः कफसंसृष्टे नातितीव्रबलेऽनिले
अन्वासनाश्चतुर्विंशतिर्निरूहाः षट् च कर्मणि १०
द्वादशाऽन्वासनाः काले निरूहाश्चात्र वै त्रयः ११
त्रय एव निरूहाः स्युर्योगे पञ्चानुवासनाः
कर्मादीनां त्रिपञ्चाशद्बस्तिसंख्या निदर्शिता १२
पञ्चादौ कर्मणि स्नेहाश्चत्वारोऽन्ते तथाऽनयोः
मध्ये षण्णां निरूहाणामन्तरेषु त्रयस्त्रयः १३
आदावन्तेऽन्तरे चैव काले स्नेहास्त्रयस्त्रयः
योगे निरूहान्तरितास्त्रयोऽन्ते द्वाविति क्रमात् १४
प्रोक्तो विभागनिर्देशस्तद्विकल्पमतः शृणु
सप्त पञ्च त्रयो वाऽऽदौ वाते गर्हिताः १५
जघन्यौ पित्तकफयोरेतावेव कदाचन
तां तामवस्थामन्वीक्ष्य दोषकालबलाश्रयाम् १६
उत्कर्षेच्चावकर्षेच्च बस्तीन् द्रव्याणि वा भिषक्
कुर्याद्योगे तथोत्कर्षमपकर्षं तु कर्मणि १७
काले तदुभयं चैव वीक्ष्य दोषबलाबलम्
वाते समांशः स्निग्धोष्णो निरूहः पानतैलिकः १८
षड्भागस्नैहिकौ पित्ते सक्षीरौ स्वादुशीतलौ
त्रयः समूत्रास्तीक्ष्णोष्णः श्लेष्मण्यष्टाङ्गतैलिकाः १९
सकृत्प्रणिहितो वातमाशयस्थं निरस्यति
सपित्तं सकफं द्विस्त्रिरत ऊर्ध्वं न शस्यते २०
शस्यतेऽत्र रसक्षीरयूषाशनविधिः क्रमात्
अथवा बलकालाग्निदेशप्रकृतिसात्म्यतः २१
एता दोषविकल्पान्ता निर्दिष्टा बस्तियुक्तयः
एष चाप्यपरः कल्पश्चतुर्भद्र इति स्मृतः २२
चत्वारो बस्तयः पूर्वमन्ते चत्वार एव च
तयोरास्थापनं मध्ये कल्पः सोऽयं निरत्ययः २३
द्विस्त्रिर्वाऽर्थवशादेष क्रियमाणः सुखावहः
ज्वरादिभिः परिक्लिष्टे हीनवर्णबलौजसि २४
जातानुवासनावस्थे बलपुंस्त्वाग्निवर्धनाः
अयुग्मा बस्तयो देया न तु युग्माः कथञ्चन २५
विषमा विषमैरेव हन्यन्ते बस्तिभिर्गदाः
एकस्त्रयो वा कफजे पैत्तिके पञ्च सप्त वा २६
वाते नवैकादश वा यो यदाप्नोति वा समम्
इति सूक्ष्मविचित्रार्थमुक्तं व्याससमासतः २७
विज्ञायैतत् प्रयोक्तव्यं यथा वक्ष्याम्यतः परम्
गम्भीरानुगता यस्य क्रमेणोपचिता मलाः २८
कुपिता वातभूयिष्ठा बस्तिसाध्या विशेषतः
संपन्नस्य सहिष्णोश्च कर्म तस्य परायणम् २९
अतो मध्यस्य कालः स्यादवरस्यावरस्तथा
स्नेहस्वेदोपपन्नस्य वामितस्य यथाक्रमम् ३०
स्निग्धस्विन्नस्य तु पुनर्विरिक्तस्य क्रमे गते
दत्तानुवासनस्यास्य यथायोगं ततस्त्र्यहात् ३१
क्षणिकस्य प्रशान्तस्य निरूहमुपलक्षयेत्
त्रिभिरन्वासितस्यातः सप्ताहः कर्मकालयोः ३२
पुनरास्थापनं कार्यं योगः स्यात् पञ्चमेऽहनि
स्वभ्यक्तस्विन्नगात्रस्य काल्यमप्रातराशिनः ३३
कोष्ठानु साऽऽमं शाखाभ्यः सम्यक्संवाहितस्य च
निरूहं योजयेत् प्राज्ञः सर्वोपकरणान्वितः ३४
हैमे रौप्येऽथवा कांस्ये सुमृष्टे भाजने समे
प्रक्षिप्यैकैकशो द्रव्यं यत् क्रमेणोपदेक्ष्यते ३५
भिषङ्निरूहं मृद्नीयात् प्राङ्मुखः सुसमाहितः
पूर्वमेवात्र निक्षेप्यं मधुनः प्रसृतद्वयम् ३६
सैन्धवस्यार्धकर्षं च तैलं च मधुनः समम्
ततश्च कल्कप्रसृतं क्वाथं कल्कचतुर्गुणम् ३७
प्रसृतौ मांसनिर्यूहान्मूत्रप्रसृतमेव च
द्वादशप्रसृतो बस्तिरित्येवं खजमूर्च्छितः ३८
यथार्थं च यथावच्च प्रणिधेयो विजानता
स्याच्चेद्विवक्षा द्रव्याणां प्रक्षेपं प्रति कस्यचित् ३९
तत्र वाच्यमिदं व्यस्तक्रमसंयोगकारणम्
मङ्गल्यं मङ्गलार्थाय मधु पूर्वं निषिच्यते ४०
पैच्छिल्यं बहुलत्वं च कषायत्वं च माक्षिके
भिनत्ति लवणं तैक्ष्ण्यात् सङ्घातं च नियच्छति ४१
मधुनोऽनन्तरं तस्माल्लवणांशो निषिच्यते २५
ततस्तैलं विनिक्षिप्तमेकीभावाय कल्पते ४२
कल्कः संसृज्यते चाशु क्वाथश्च समतां व्रजेत्
स्नेहकल्ककषायाणामेवं संमूर्च्छने कृते ४३
मूत्रं पटुत्वं कुरुते वीर्यं चोद्भावयत्यपि
सम्यगेवं विमृदितः स्रोतोभ्यः कफमारुतौ ४४
विष्यन्दयति पित्तं च क्षिप्रं चैव हरत्यपि
अतोऽन्यथा मृद्यमानो न श्लेषमधिगच्छति ४५
असम्यङ्मथितः श्लिष्टो बस्तिर्नार्थाय कल्पते
तत एष क्रमो दृष्टो निरूहस्योपयोजने ४६
प्रमाणं च प्रकृष्टस्य प्रसृतेर्यदुदाहृतम्
तस्मात् प्रमाणादुत्कर्षो वयोबलवदिष्यते ४७
अपकर्षस्तु कर्तव्यः संप्रधार्य वयोबलम्
गुणतस्तूभयत्वेन दृष्ट्वा व्याधिबलाबलम् ४८
उत्कर्षणं यदङ्गेन तदङ्गेनापकर्षयेत्
शीतोष्णस्निग्धरूक्षाणां द्रव्याणामुपकल्पयेत् ४९
स्वाद्वम्ललवणोष्णानामुत्कर्षं नातिमात्रशः
वातव्याधौ भिषक्कुर्यात् स्नेहस्य तु विधापयेत् ५०
रूक्षाणां शीतवीर्याणामपकर्षं च युक्तितः
स्वादुतिक्तकषायाणां व्याधौ पित्तोत्तरे भिषक् ५१
उत्कर्षमपकर्षं तु कुर्यात्तिक्ष्णोष्णयोग्यथा
तीक्ष्णोष्णरूक्षद्रव्याणामुत्कर्षं तु कफोत्तरे ५२
विपर्ययं विपर्यये गुणानां च प्रकल्पयेत्
संसृष्टदोषे संसृष्टगुणद्रव्याणि योजयेत् ५३
आस्थापनं दुष्प्रयुक्तं भवत्याशीविषोपमम्
सुप्रयुक्तं तदेवेह प्राणिनाममृतोपमम् ५४
प्रायो यत्र गुणाधिक्यं सम्यग्योगेन लक्ष्यते
तदप्रमादं कुर्वीत बस्तिकर्मणि बुद्धिमान् ५५
न हि तादृग्विधं किञ्चित् कर्मान्यदुपपद्यते
क्षिप्रं रोगाभिघाताय रोगाणां चोपपत्तये ५६
व्याध्यातुराग्निभैषज्यबलं प्रकृतिमेव च
वयः शरीरमौचित्यं सौकुमार्यं साहष्णुताम् ५७
प्रधार्य बुद्ध्या मतिमाँस्तत्तत्कर्मावचारणम्
अवस्थायामवस्थायां कुर्यात् सम्यगतन्द्रितः ५८
नातिशीतं न चात्युष्णं नातितीक्ष्णं नचेतरत्
नातिरूक्षमतिस्निग्धं नातिसान्द्रं न च द्रवम् ५९
नातिमात्रं न चात्यल्पं निरूहमुपकल्पयेत्
अतिशीतोऽतिशैत्येन स्कन्नो बातबलावृतः ६०
भृशं स्तम्भयते गात्रं कृच्छ्रेण च निवर्तते
अत्युष्णः कुरुते दाहं मूर्च्छां चाशु निरेति च ६१
अतितीक्ष्णस्तथैवास्य जीवादानं करोति वा
मन्दो न दोषान् हरति दूषयत्येव केवलम् ६२
कर्षयत्यतिरूक्षश्च मारुतं च प्रकोपयेत्
स्निग्धोऽतिजाड्यं कुरुते व्यापादयति चानलम् ६३
क्षपयत्यतिसान्द्रस्तु न वा नेत्राद्विनिष्क्रमेत्
अतिद्रवोऽल्पवीर्यत्वादयोगायोपपद्यते ६४
अल्पमात्रो न चाप्येति कृच्छ्राद्वाऽपि निवर्तते
अतिमात्रोऽतियोगाय तस्मादेते विगर्हिताः ६५
यथावन्मूर्च्छितो मृत्स्नो भोज्योष्णलवणः समः
बालकाष्ठौष्ठजिह्वानां योनिदाहप्रवर्तकः ६६
श्रोणिबस्तिकटीपार्श्वनाभिमूलोदराश्रितः
सम्यक्समुच्छ्रयं कृत्स्नं वीर्यतः प्रतिपद्यते ६७
ऊर्ध्वभागैर्बलान् क्षिप्तो मारुतैरिव पावकः
पित्तस्थानमतिक्रम्य स्वल्पमाक्षिपते कफम् ६८
तीक्ष्णो मात्राशतादूर्ध्वं नातितीक्ष्णः प्रयुज्यते
न तिष्ठति मृदुस्तिष्ठत्यधिकं वाऽपि यापनः ६९
आनुलोम्यादपानस्य गुदस्यारोपणाद्भृशम्
तद्द्वितीयस्तृतीयो वा कालमल्पतरं तथा ७०
दोषान् स्थूलांश्च सूक्ष्मांश्च गम्भीरानुगतानपि
विष्यन्दयति विष्टब्धान् सपुरीषान् प्रकर्षति ७१
न कुर्याद्व्यापदः काश्चित् सुखेन च निवर्तते
युक्तो युक्तेन भिषजा स बस्तिः संप्रशस्यते ७२
वयसः स्थापनो वृष्यः स्वरवर्णबलाग्निकृत्
वातपित्तकफानां च मलानां चापकर्षणः ७३
बालवृद्धवयस्थानां क्षिप्रमूर्जस्करः परम्
सर्वेन्द्रियाणां वैशद्यं कुरुते चाङ्गमार्दवम् ७४
एवमेते समाख्याता निरूहस्य गुणागुणाः
पुरीषं मारुतः पित्तं कफश्च क्रमशो यदा ७५
प्रवर्तन्ते च फेनं च शङ्खस्फटिकसन्निभम्
सम्यङ्गिरूढगात्राणां मार्दवं जनयेत् परम् ७६
अन्नाभिलाषो वैशद्यं लघुता वाऽथ मार्दवम्
सृष्टविण्मूत्रवातत्वमिन्द्रियाणां प्रसन्नता ७७
अयोगे विपरीतं स्यादतियोगेऽतिवर्तनम्
कफपित्तासृजां मांसप्रक्षालननिभस्य वा ७८
हिक्का कम्पस्तृषा ग्लानिर्गात्रभेदस्तमः क्लमः
निद्रानाशः प्रलापश्च यत्र चाप्युपजायते ७९
सम्यङ्निरूढमाश्वस्तं परिषिक्तं सुखाम्बुना
तनु वा भोजयेन्मात्रां जाङ्गलानां रसेन वा ८०
भुक्तवन्तं च तैलस्य प्रसृतेनानुवासयेत्
वायुः प्रशाम्यते तेन निरूहेण प्रचालितः ८१
आस्थापनो बस्तिरयं गुदनिर्वापणं नरः
एकान्तरं ततश्चोर्ध्वं यथोक्तमनुवासनम् ८२
दीप्ताग्नेर्दृढदेहस्य सोदावर्ते विमार्गते
श्रोणिवङ्क्षणसंस्थे च वाते शस्तं दिने दिने ८३
तस्य पक्वाशयगतः स्नेहमात्रां प्रभञ्जनः
बलवान् बलवत्यग्नौ वारिवत् स विशोधयेत् ८४
न च तैलात् परं किञ्चिद्द्रव्यमस्त्यनिलापहम्
स्नेहाद्रौक्ष्यं गुरुत्वाच्च लघुत्वं मारुतस्य तु ८५
औष्ण्याच्छैत्यं निहन्त्याशु तैलं पुष्टि करोति च
मनःप्रसादः स्नेहं च बलवर्णमथापि च ८६
स्यात्स्निग्धविटपस्कन्धः कोमलाङ्कुरपल्लवः
मूले सिक्तो यथा वृक्षः काले पुष्पफलप्रदः ८७
स्नेहबस्तेर्नरस्तद्वद् दृढकायो दृढप्रजः
वाता मकैर्विकारैश्च पूर्वोक्तैर्नाभिभूयते ८८
पञ्चमूलाढकेऽध्यर्धं फलानामाढकं भवेत्
यवकोलकुलत्थानां कुडवाः स्युस्त्रयः पृथक् ८९
चतुर्भागावशिष्टं तु पश्चादष्टगुणे जले
मस्तुनश्चाढकेनैतत्तैलप्रस्थं विपाचयेत् ९०
कुष्ठस्य शतपुष्पाया वचाया मधुकस्य च
कुटजस्य च बीजानां बीजानां मदनस्य च ९१
यवान्याः पिप्पलीनां च हरेण्वा देवदारुणः
बिल्वस्य देवपुष्पस्य रास्नाया मुस्तकस्य च ९२
सूक्ष्मैलायाः प्रियङ्ग्वाश्च भागैरक्षसमैः पृथक्
सिद्धं सुलवणं पूतं निदध्याद्भाजने शुचौ ९३
एतन्मन्दनिरूढानां बस्तिव्यापत्सु चोत्तमम्
फलतैलमिति ख्यातमुदावर्तनिवर्तनम् ९४
तथैवोदरिणां सिद्धं गुलिमिनां क्रिमिकोष्ठिनाम्
पृष्ठश्रोण्यूरुजङ्घासु वातेष्वप्रगुणेषु च ९५
निरूहसाध्या ये केचिद्विकाराः समुदाहृताः
ताञ्जयेद्बस्तिनाऽनेन मूत्राघातांश्च नाशयेत् ९६
एरण्डमूलत्रिफलाबलारास्नापुनर्नवाः
गुडूच्यारग्वधो दारु पलाशो मदनं फलम् ९७
मूलं तुरङ्गगन्धायाः पञ्चमूलं कनीयसम्
पलप्रमाणान्येतानि जलद्रोणे विपाचयेत् ९८
अष्टभागावशेषं तं परिपूतं समाहरेत्
कर्षप्रमाणान्येतानि श्लक्ष्णपेष्याणि कारयेत् ९९
शताह्वा मधुकं मुस्ता प्रियङ्गुर्हपुषा वचा
रसाञ्जनं तार्क्ष्यशैलं पिप्पल्यः कौटजं फलम् १००
खजेन मथितः कोष्णः सतैलमधुसैन्धवः
समूत्रमांसनिर्यूहो निरूहः साधुयोजितः १०१
लेखनो दीपनो बल्यो ग्रहण्यर्शोविकारनुत्
पार्श्वपृष्ठकटीशूलं पार्श्वजङ्घोरुजा रुजः १०२
एरण्डबस्तिः शमयेन्मारुतं च कफावृतम्
युक्तमात्रोष्णलवणः स्नेहबस्तिर्विधीयते १०३
समासतः स द्विविधस्तस्य मात्रा प्रचक्ष्यते
प्रकुञ्चः कन्यसी मात्रा ततोऽध्यर्धा तु मध्यमा १०४
उत्तमा द्विपला मात्रा मात्राबस्तौ तु भार्गव
अपस्तनस्यार्धपलं परिहार्या निरत्यया १०५
कर्वत्रयं त्रिवर्षस्य चतुर्वर्षस्य वै पलम्
षड्वर्षस्य तु बालस्य स्व एव प्रसृतः स्मृतः १०६
द्वौ द्वौ द्वादशवर्षाणां चत्वारः प्रसृतास्तथा
देयाः षोडशकादीनां पूर्वाह्णे वाऽन्तरेषु च १०७
यावन्मध्यं वयो वार्धे त्वपकर्षेद्यथाक्रमम्
समीक्ष्य देहदोषाग्निबलं प्रकृतिमेव च १०८
स्नेहप्रमाणं यद्बस्तौ निरूहस्त्रिगुणस्ततः
अतिव्यवायव्यायामपानयानाध्वसङ्गिनः १०९
वयस्थाः स्नेहसात्म्याश्च येषां चाग्निबलं दृढम्
येषां चाधः प्रकुपितो वायुर्वातात्मकाश्च ये ११०
तेषूत्तमां प्रणिदधेत् स्नेहमात्रां विचक्षणः
य एभ्यो मध्यमावस्थाः पुरुषास्तेषु मध्यमाम् १११
वयोव्याधिबलावेक्षामितरामितरेषु च
इति कर्मादिबस्तीनां त्रितयं समुदाहृतम् ११२
निर्देशश्च विकल्पश्च प्रविभागश्च कार्त्स्न्यतः
यच्च यस्मिन् विधातव्यं या मात्रा येषु युज्यते ११३
निरूहयुक्तिः स्नेहश्च निरूहश्च प्रकीर्तितः
इति ह स्माह भगवान् कश्यपः ११४
इति खिलेषु बस्तिविशेषणीयो नामाष्टमोऽध्यायः ८

अथ रक्तशुल्मविनिश्चयाध्यायो नवमः
अथातो रक्तगुल्मविनिश्चयमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
भगवन्तमृषिश्रेष्ठं सर्वशास्त्रविदां वरम्
कश्यपं भार्गवो धीमान् पर्यपृच्छत् प्रजापतिम् ३
रक्तगुल्मः कथं स्त्रीणां जायते दुरुपद्रवः
अथ कस्मात्कुमाराणां कन्यानां च न जायते ४
रक्तगुल्मः कथं चासौ रक्तगुल्म इति स्मृतः
कस्मान्निश्चेतनत्वेऽपि गर्भचेष्टा विचेष्टते ५
दूरान्तरं न त्वनयोश्चेतनाचेतनावतोः
विप्रकृष्टान्तरेऽप्यस्मिन् गर्भशोणितगुल्मयोः ६
केचिद्विशेषं नेच्छन्ति केचिदिच्छन्ति लिङ्गतः
तयोर्विशेषो यद्यस्ति किमर्थं स उपेक्ष्यते ७
युक्तो गर्भे दोहदस्य क्षीरस्य च समुद्भवः
आपाण्डुगण्डतादीनां लिङ्गानां च समुद्भवः ८
न युक्तमिव पश्यामि तस्मिन्नेषां समुद्भवम्
रक्तगुल्मेऽथ दृश्यन्ते लिङ्गान्येतानि तत् कथम् ९
कस्मादादशमान्मासात् परिपाकं नियच्छति
एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवादिषु १०
मासेषु भेदं नाप्नोति प्रायो गर्भवदास्थितः
नारीणां सुकुमारीणां स कष्ट इति मे मतिः ११
उपक्रम्यः कथमयं कश्चास्योपक्रमः स्मृतः
कस्यां कस्यामवस्थायां का का वाऽस्यावचारणा १२
कस्मिन् काले च निर्भेद्यो भेदनीयं च किं भवेत्
विनिर्भिन्ने च किं कार्यमेतदाचक्ष्व मे विभो १३
इति पृष्टः स शिष्येण प्रोवाच वदतां वरः
रक्तगुल्मस्तु नारीणां जायते येन हेतुना १४
येन चैव कुमाराणां कन्यानां च न जायते
तत् सर्वमभिधास्यामि विस्तरेण निबोध मे १५
विण्मूत्रक्रिमिपक्वामकफवाताशयाः पृथक्
सप्तैते देहिनां कोष्ठे स्त्रीणां गर्भाशयोऽष्टमः १६
रजोवहाः सिरा यस्मिन् रजः प्रविसृजन्त्यतः
पुष्पभूतं हि तद्दैवान्मासि मासि प्रवर्तते
विपर्ययात्तदेवेह तत्रैव तु निचीयते १७
अनेन हेतुना स्त्रीणां रक्तगुल्मो हि जायते
तदाशयस्य चाभावात्पुरुषाणां न जायते १८
हीनयोन्यास्तु बालायाः कायं गच्छति शोणितम्
अथ पूर्णस्वभावायाः कायं योनि च गच्छति १९
गर्भमङ्गे भावयति किञ्चित् स्तन्याय कल्पते
पक्तये शोणिताद्यस्तु शेषः कायं समिन्धति २०
तथैव गर्भः सूतायाः सद्यः स्तन्याय कल्पते
शेषं तु रुधिरीभूतं कायं योनिं च सर्पति २१
धातुषु प्रतिपूर्णेषु शरीरे समवस्थिते
संचितं रुधिरं योनिः पुनः कालेन मुञ्चति २२
यदा रक्तवहा रक्तं प्रदोषान्नानुपद्यते
विमार्गाद्योनिमन्वेति विकृतिस्तेन जायते २३
तथैव रक्तगुल्मोऽपि हेतुनाऽनेन जायते
यदा ऋतुमती नारी प्राप्तान् वेगान् विधारयेत् २४
ह्रिया त्रासाद्व्यवायाद्वा वर्तमानानधोगतान्
एवमादिभिरप्यन्यैरुदावृत्तैः प्रकोपितः २५
वायुः शोणितमादाय प्रतिस्रोतः प्रपद्यते
गर्भाशयमुदावृत्तस्तस्या वहति गोणितम् २६
मारुतश्च्युतगर्भाया यदा मिथ्योपचर्यते
तस्याः स वायुरुद्वृत्तः प्रतिघातात् सशोणितः २७
गत्वा गर्भाशयं रुद्धः स्थिरत्वमुपपद्यते
संवृत्तं शोणितं तत्र मारुतो विषमं गतः २८
रजोवहाः समावृत्तः संस्तम्भयति गर्भवत्
स गुल्मः स्पन्दतेऽभीक्ष्णं मारुतेन समीरितः २९
दर्शयन् यानि रूपाणि तानि वक्ष्यामि सर्वशः
कासते शूल्यते चैव ज्वर्यतेऽथातिसार्यते ३०
मन्यते सर्वगात्राणि मूर्च्छितानि गुरूणि च
तमोऽस्या जायतेऽभीक्ष्णं कार्श्यं चैव निगच्छति ३१
वमत्यभीक्ष्णशो भुक्तमन्नं चास्यै न रोचते
जायन्ते चोदरे गण्डा नीलं चास्याः प्रदृश्यते ३२
स्तनान्तरं च नाभिश्च लोमराजी च मूर्च्छिता
ओष्ठौ च कृष्णौ भवतस्तथैव स्तनचूचुकौ ३३
पयोधरौ प्रसिच्येते दोहदं च निगच्छति
नानारसान् प्रार्थयते निष्ठीवति मुहुर्मुहुः ३४
शुभादुद्विजते गन्धाद्वर्णश्चास्याः प्रसीदति
गर्भिण्या यानि रूपाणि तानि संदृश्य तत्त्वतः ३५
वर्षाणि हरति व्याधिं गर्भोऽयमिति दुःखिता
केनचित्त्वथ कालेन निर्भेदं यदि गच्छति ३६
ततो गुल्मप्रमुक्ता सा ज्ञातिमध्ये प्रभाषते
गर्भिण्यहं चिरं भूत्वा प्रच्युते गर्भशोणिते ३७
गर्भरूपं न पश्यामि तत्र मे संशयो महान्
तामिदं प्रतिभाषन्ते सर्वग्रामकुतूहलाम् ३८
दिव्यो गर्भा व्यतिक्रान्तो नैगमेषेण ते हृतः
इत्येनामबुधाः प्राहुर्हृतं सर्वमशोभनम् ३९
परिप्लुत इति प्राहुः कुशला ये मनीषिणः
गुल्मश्चय इति प्रोक्तो रक्तं रुधिरमुच्यते ४०
रक्तस्य संचयस्तेन रक्तगुल्म इति स्मृतः
गर्भवच्चेष्टते नायं किन्तु सादृश्यदर्शनात् ४१
गर्भोऽयमिति मन्वाना मनसा तद्विभाविनी
नारी विचेष्टते तास्ता गर्भचेष्टाः पृथग्विधाः ४२
दोहदं यत् करोतीति शृणु तत्रापि कारणम्
य एव हि रसाः प्रायो धातूनां वृद्धिहेतवः ४३
तेषामेवाभिलाषः स्याद्योनिसाधर्म्यतत्त्वतः
वातपित्तान्वितं रक्तं चीयमानं विकारवत् ४४
कष्ट्वम्ललवणादीनां रसानां गृद्धिमावहेत्
गर्भिण्यस्मीति तत्प्रीतिप्रेमसंकल्पसंभृतः ४५
प्रस्रुतो जायते नार्यास्तेन स्तन्यं प्रवर्तते
सर्वा रसवहा नाड्यः समन्तान्नाभिमाश्रिताः ४६
गर्भो विवर्धमानश्च संपीडयति ताः स्त्रियाः
तद्वच्च रक्तगुल्मोऽपि पीडयन्नुपचीयते ४७
ताभिश्च पीड्यमानाभिर्न सम्यग्वर्तते रसः
आपाण्डुगण्डतादीनि लक्षणानि भवन्त्यतः ४८
कथं प्रकर्षते कालमिति तत्रापि मे शृणु
विवृद्धेरिह सारूप्याद्गर्भोऽयमिति निश्चिता ४९
संरक्षतेऽभिघातेभ्यः कुक्कुट्यण्डमिवाङ्गना
तदपायकरान् हेतून्न कथंचन सेवते ५०
श्रमोपवासतीक्ष्णोष्णक्षारादीनि च सर्वशः
स एवं याप्यमानस्तु यथाकालं प्रकर्षते ५१
व्यापत्तिहेतुमासाद्य कालेनाल्पेन वा पुनः
भेदं गच्छत्यधस्ताद्धि जलकुम्भ इव क्षतः ५२
केचिदिच्छन्ति गुल्मस्य मासादादशमात्परम्
परिपाकं फलस्येव स्वकालपरिणामतः ५३
तस्मिंश्च काले स व्याधिः स्यान्नातिदुरुपक्रमः
तत्रोपक्रममिच्छन्ति तस्य कर्तुमतो बुधाः ५४
अप्राप्तकालो याप्यः स्याद्गर्भवद्युक्तिकोविदैः
नापक्वो भिद्यते व्याधिरिति मत्त्वा यथाभवम् ५५
विशेषं रक्तगुल्मस्य गर्भस्य च निबोध मे
अङ्गप्रत्यङ्गवान् गर्भस्तैरेव च विचेष्टते ५६
रक्तगुल्मस्तु वृत्तः स्याल्लोष्टवच्च विचेष्टते
स्थानात्स्थानं व्रजन् गर्भो व्याविद्धं परिवर्तते ५७
नाभेरधस्ताद्गुल्मोऽयमव्याविद्धं विवर्तते
आनुपूर्व्येण गर्भश्च अहन्यहनि वर्धते ५८
विपरीतं हि गुल्मस्तु मन्दं मन्दं विवर्धते
तां तामवस्थां गर्भस्तु मासि मासि प्रपद्यते ५९
गर्भिणी नानिमित्तं च ज्वर्यते दह्यतेऽपि वा
गुल्मिनी ह्यनिमित्तं तु ज्वर्यते दह्यतेऽपि वा ६०
अस्मिन् विशेषेऽपि सति संदेहो जायते महान्
नानागर्भविकाराणां सङ्कराद्भिषजे मतः ६१
संभूय सह संमन्त्र्य भिषग्भिः शास्त्रकोविदैः
काले चिकित्सां कुर्वीत यथा वक्ष्याम्यतः परम् ६२
अल्पान्तरावुभावेतौ गर्भो गुल्मश्च रक्तजः
तद्यथावद्विदित्वाऽऽदौ क्रियां कुर्याद्भिषग्वरः ६३
यो हि गुल्मे गर्भ इति गर्भे वा गुल्म इत्यपि
क्रियां कुर्यादयशसा एनसा चैव युज्यते ६४
अतस्तु संशये जाते कुर्यात् साधारणीः क्रियाः
नोपक्रमेदविदितं रोगं कञ्चिच्चिकित्सकः ६५
अथ काले त्वसंपूर्णे संदिग्धे चापि दर्शने
हेतुना केनचिद्रक्तं स्रवेत्तं चाशु वारयेत् ६६
पूर्णे प्रसवकाले तु न रक्तं प्रतिवारयेत्
तत्रानुवासनं दद्याद् द्रवं स्निग्धं च भोजनम् ६७
विधिनाऽनेन गर्भश्चेत् सुखेन प्रसविष्यति
अथवा रक्तगुल्मः स्यात् सोऽप्यकृत्स्नेन भेत्स्यते ६८
एतस्मात्कारणाद्रक्तं प्रवृत्तं न निवार्यते
रक्तगुल्मे प्रथमतो युक्त्या स्नेहोपपादनम् ६९
शस्तं बाहुसिरायाश्च वेधनं पाकवारणम्
तथा संशमनीयं च दोषशेषावकर्षणम् ७०
कल्याणकं पञ्चगव्यं षट्पलं तिक्तमेव वा
सरुजां पाययेन्नारीं दोषवित् कर्मकोविदः ७१
तीक्ष्णैरास्थापयेदेनां युक्तितश्चानुवासयेत्
पथ्यानि भोजयेच्चैव क्षीरयूषरसादिभिः ७२
अन्नपानानि रूक्षानि विदाहीनि गुरूणि च
व्यायामं मैथुनं चिन्तां गुल्मिनी तु विवर्जयेत् ७३
ज्वरारुचिश्वासकासशोषकार्श्यारतिव्यथाः
शोफश्चोपद्रवा गुल्मे तांश्चिकित्सेत् स्वभेषजैः ७४
बिल्वश्योनाकनिर्यूहे साधितैर्जाङ्गलैः रसैः
शैथिल्यकरणार्थं च रक्तगुल्मस्य भोजयेत् ७५
यूषेण वा कुलत्थानां लावसंस्कारिकेण वा
चालनार्थं विरेकं च त्रिवृत्त्रिफलया पिबेत् ७६
वायोरुपशमार्थं च फलतैलानुवासिताम्
आस्थापयेत् सकृद् द्विर्वा शूलाटोपनिवृत्तये ७७
तुल्यं मधु च तैलं च ताभ्यामुष्णोदकं समम्
द्वौ कर्षौ शतपुष्पायाः कर्षार्धं सैन्धवस्य च ७८
एतेनास्थापयेन्नारीं दशमूलादिकेन वा
बलं चाप्याययेत्तस्या रसैः क्षीरैश्च संस्कृतैः ७९
उपक्रमेत्ततश्चूर्णैरेतैः शोधनपातनैः
हरीतकी वचा हिङ्गु सैन्धवं साम्लवेतसम् ८०
यवानी यावशूकं च चूर्णमुष्णाम्बुना पिबेत्
हरीतकीयवक्षारसौवर्चलमिति त्रयम् ८१
घृतयुक्तं पिबेद्युक्त्या रक्तगुल्मस्य भेदनम्
पत्रैलापिप्पलीशुण्ठीचूर्णं वा विडसंयुतम् ८२
नागरं शुक्तिचूर्णं वा पिबेद्गोमूत्रसंप्लुतम्
सूक्ष्मैलाकुञ्चिकाचव्यपिप्पलीचित्रकस्य वा ८३
कल्कं बल्वजयूषाद्यैः पिबेन्मण्डोदकेन वा
अपरापातनोद्दिष्टैरौषधैश्चापि भेदयेत् ८४
अतिप्रवृत्तं रुधिरं ग्लानिं जनयते यदि
विनिर्हृते गुल्मदोषे सावशेषेऽपि वा भिषक् ८५
पुनरास्थापनोक्तेन तत्र कुर्याद्भिषग्जितम्
अनुबन्धभयाच्चैव शनैस्तदनुशोधयेत् ८६
पद्मादीनि समूलानि दग्ध्वा तद्भस्म संहरेत्
गाढयित्वा च तत्क्वाथं चूर्णैरेतैर्विपाचयेत् ८७
शुण्ठीपिप्पलिकुष्ठैश्च चव्यचित्रकदारुभिः
दर्विप्रलेपितं सिद्धमभ्यसेत्तेन शुद्ध्यति ८८
शिलाजत्वभयारिष्टं कल्पेनाभ्यस्य मुच्यते
यच्चापि पञ्चगुल्मीये चिकित्सितमुदाहृतम् ८९
तदिहापि प्रयोक्तव्यं प्रसमीक्ष्य बलाबलम्
इति ह स्माह भगवान् कश्यपः ९०
इति खिलेषु रक्तगुल्मविनिश्चयो नाम नवमोऽध्यायः

अथ अन्तर्वत्नीचिकित्सिताध्यायो दशमः
अथातोऽन्तर्वत्नीचिकित्सितमध्यायं वक्ष्यामः १
यथोवाच भगवान् कश्यपः २
सूक्ष्मां चिकित्सां वक्ष्यामि गर्भिणीनां विभागशः
तथा गर्भश्च नारी च वर्धते रक्ष्यतेऽपि च ३
गर्भिणीनां ज्वरः कष्टः सर्वव्याधिषु पार्थिव
ज्वरोष्मणाऽभितप्तस्तु गर्भो यात्येव विक्रियाम् ४
तस्माज्ज्वरचिकित्सां तु पूर्वमेव निबोध मे
क्षुच्छ्रमाभ्यञ्जनाद्रौक्ष्यादौष्ण्यापक्वविधारणात् ५
स्नेहस्वेदौषधानां च विभ्रमात्तेजसोऽपि च
सन्तापान्मनसश्चापि पर्वतानां तथैव च ६
गन्धाच्च तृणपुष्पाणां गर्भिण्या जायते ज्वरः
गर्भिणीं ज्वरितां नारीमेकाहमुपवासयेत् ७
ततो दद्यादलवणां पेयां स्नेहविवर्जिताम्
तीक्ष्णानि त्वन्नपानानि स्वेदमायासमेव च ८
वर्जयेज्ज्वरिता नारी यवागूं केवलां पिबेत्
यवाग्वा ह्रसिते दोषे यूषैरन्नानि दापयेत् ९
यूषैस्तु ह्रसिते दोषे रसं वा क्षीरमेव वा
दापयेन्मतिमान् प्राज्ञो न त्वौषधविधिर्हितः १०
अनुबन्धे तु दोषस्य गर्भकालमपेक्ष्य च
मासाच्चतुर्थात् प्रभृति भिषग्भेषजमाचरेत् ११
शारीरं तु ज्वरं ज्ञात्वा वातपित्तकफात्मकम्
मध्यां क्रियां प्रयुञ्जीत संचिन्त्य गुरुलाघवम् १२
उपद्रवबलं ज्ञात्वा सत्त्वं चापि समीक्ष्य तु
गर्भावस्थां तु विज्ञाय लेखनानि प्रदापयेत् १३
उत्पन्नायां तु तृष्णायां नात्युष्णं प्रपिबेज्जलम्
वातश्लेष्मसमुत्थे तु ज्वरे नीरं विषायते १४
अथ पित्तकृते चापि शृतशीतं प्रशस्यते
कुप्यपाषाणनिष्पक्वं शीतं तृष्णानिबर्हणम् १५
ज्वरे तु तरुणे दृष्टो विधिरेष विशेषतः
भग्नवेगे तु कर्तव्यं तृष्णाप्रजमनैः शृतम् १६
ज्वरं ज्वरं समासाद्य शीतं वा यदि वेतरम्
शिरोरोगे तु कर्तव्यो यथावद्भेषजक्रमः
भग्नवेगे ज्वरे कृत्स्ने गुरु नैव प्रशस्यते १७
तरुणे तु ज्वरे नार्या अभ्यङ्गो न प्रशस्यते
गर्भे तु तरुणे दत्तो गर्भघाताय कल्पते १८
गर्भिणीनां तु नारीणां नस्ततो नानुसेचयेत्
नस्यदानेन गर्भिण्याः प्राणास्तु परिहीयते १९
कुणिर्वा यदि वाऽन्धश्च जायते दुर्बलेन्द्रियः
धूमपानेन गर्भिण्या धूमतेजोऽहतो भृशम् २०
विवर्णो जायते गर्भः पतेद्वाऽपि विशांपते
शिरोविरेके गर्भिण्याः संक्षोभात्तु भयेन वा २१
मारुतः कुपितो देहे गर्भघाताय कल्पते
अथवा वातरोगी तु गर्भो भवति पार्थिव २२
स्वेदेन तरुणे गर्भे पित्तं प्रकुपितं भृशम्
च्यावयेदाशु गर्भं तु तस्मात् स्वेदं विवर्जयेत् २३
स्वेदः स्थिरे तु विहितो गर्भवैवर्ण्यकारकः
वमनं तरुणे गर्भे स्वैर्गुणैर्गर्भघातकम् २४
नाभिप्रपीडनत्करात् संक्षोभाच्च विशेषतः
गर्भिण्यास्तरुणे गर्भे स्रंसनं न प्रशस्यते २५
गुरुत्वादुष्णतीक्ष्णत्वाद्वाहनाच्चास्य घातकम्
आस्थापनं तु तरुणे गर्भे नार्या न शस्यते २६
अनुवासनं च मतिमानिति शास्त्रविनिश्चयः
आस्थापनं सानुवासं करोति स्वेन तेजसा २७
हीनाङ्गं स्राविणं वाऽपि गर्भमित्येष निश्चयः
तस्मादेतानि मतिमान् गर्भिण्या न प्रदापयेत् २८
इमानि दद्यात् संचिन्त्य रोगावस्थाविशेषवित्
विदारिगन्धां कलशीं तथा गन्धर्वहस्तकम् २९
मधुकं भद्रदारुं च क्वाथः शर्करया युतः
वातज्वरहरो देयो मातुलुङ्गरसाप्लुतः ३०
वर्गो विदारिगन्धादिः क्वथितो नातिशीतलः
भद्रदारुसमायुक्तो वातज्वरहरो मतः ३१
एरण्डो वरुणश्चैव बृहत्यौ मधुकं तथा
वातज्वरहरः क्वाथो रास्नाकल्कसमायुतः ३२
द्विपञ्चमूलनिष्क्वाथः कोष्णो वा यदि वा हिमः
रास्नाकल्कसमायुक्तो वातज्वरहितो मतः ३३
जीर्णे तु भोजने पेया तन्वी लवणवर्जिता
कुष्ठं सयष्टीमधुकं रास्ना गिरिकदम्बकः ३४
शताह्वा पद्मकं चैव सारिवोशीरमुत्पलम्
मुस्ता शृगालविन्ना च करविन्दी तथा वचा ३५
पयस्या हंसपादी च तथा पुन्नागमेव च
कर्षप्रमाणान्येतानि दधिमण्डेन पेषयेत् ३६
ततस्तमेषामङ्गानां निष्क्वाथं क्वाथयेद्भिषक्
भागाश्च दशमूलस्य कार्या द्विपलसंमिताः ३७
बलातिबलयोश्चैव कुर्यादर्धपलं भिषक्
कोरण्डमधुशिग्रूणि मदयन्ती च ते त्रयः ३८
यवकोलकुलत्थानां भागाः स्युः प्रस्थसंमिताः
निष्क्वाथ्यैतानपां द्रोणे शेषमाढकसंमितम् ३९
तत्र दद्यात् प्रतीवापं यत् पूर्वमुपकल्पितम्
क्षीरं तथैव गोमूत्रं वारुणीं दधि चोत्तमम् ४०
भिषक्कुडवमात्राणि तिलतैलेन योजयेत्
अवहृत्याग्निना सिद्धमीषत्क्षोदायितं यदि ४१
उष्णेनैतेन तैलेन सर्वगात्राणि म्रक्षयेत्
वातज्वरं निहन्त्येतन्म्रक्षणैस्त्रिभिरेव तु ४२
एषोऽभ्यङ्गः स्थिरे गर्भे यथावत् संप्रशस्यते
क्षीरं क्षीरयवागूर्वां रसो वा जाङ्गलो हितः ४३
जीर्णज्वरे सदा नार्या वातघ्नैरौषधैः शृतः
अथ पित्तकृते चापि क्वथितं सारिवादिकम् ४४
शर्करामधुसंयुक्तं पाययेत् कल्यमुत्थितम्
पयस्या क्षीरकाकोली मृद्वीका मधुकानि च ४५
शर्करामधुसंयुक्तं पानकं पैत्तिके ज्वरे
नीलोत्पलं पयस्या च सारिवा मधुकं मधु ४६
पिप्पल्यो मरिचोशीरं लोध्रं लाजा सशर्करा
एतत् क्षीरसमायुक्तं खजेन मथितं पिबेत् ४७
गर्भिणी ज्वरिता क्षिप्रं पित्तात्तेन प्रशाम्यति
नलवञ्जुलमूलानि गुन्द्रामूलानि चाहरेत् ४८
सहां च सहदेवां च मार्कवं पाटलिं तथा
क्षीरिणां च प्रवालानि तथा जम्ब्वाम्रयोरपि ४९
उत्पलं सारिवोशीरं चन्दनं पद्मपत्रकम्
श्लक्ष्णान्येतानि पिष्टानि प्रदेहः शीतलो भवेत् ५०
पित्तज्वरहरो नार्यास्तर्पणो घृतसंयुतः
यवपिष्टस्य कुडवो मञ्जिष्ठार्धपलं तथा ५१
अम्लप्रस्थशते तैलं तैलप्रस्थं विपाचयेत्
दाहज्वरहरं तैलं प्रशस्तं ज्वरनाशनम् ५२
अथ श्लेष्मज्वरे नारीं रास्नाक्वाथं सुशीतलम्
क्षौद्रेण सह संयुक्तं पाययेदिति कश्यपः ५३
भद्रदारुकनिष्क्वाथो रास्नाक्षौद्रसमायुतः
अथवा चन्दनक्वाथः पिप्पलीक्षौद्रसंयुतः ५४
श्लेष्मज्वरहरः पेयो रास्नावासाऽमृताशृतः
श्रीपर्णिकामृतानां तु निष्क्वाथो मधुयोजितः ५५
पेयः सयष्टीमधुको ज्वरे श्लैष्मिकपैत्तिके
महतः पञ्चमूलस्य क्वाथः श्लैष्मिकवातिके ५६
रास्नाकल्कसमायुक्तः पेयः कल्यमिति स्थितिः
क्वाथो विदारिगन्धादेः शर्करामधुयोजितः ५७
वातपित्तज्वरे पेय इति ह स्माह कश्यपः
पित्तज्वरे हिमा पेया पथ्या क्षीरमथापि च ५८
जीर्णे पित्तहरैः पक्वो यूषस्तु चणकैस्तथा
श्लेष्मज्वरे सुखोष्णा तु पेया नार्याः प्रशस्यते ५९
तथैव मुद्गयूषोऽथ मौलको रस एव च
सुसात्म्यश्चेति कर्तव्यो व्याधावस्मिन् विशेषतः ६०
संसृष्टे तु भिषक् प्राज्ञो योजयेत यथाबलम्
सन्निपातसमुत्थाने त्रिदोषशमनं हितम् ६१
अथ या मद्यपा नारी शृणु तस्याश्चिकित्सितम्
वातिके पैत्तिके वाऽपि श्लैष्मिके च विशांपते ६२
ज्वरे दद्यात् सुरां नार्या जलेनार्धेन योजिताम्
सुरया वासयित्वैनां ततः कल्पं प्रदापयेत् ६३
हरेणुमुद्गचुच्चूनां कर्कट्याश्च रसेन तु
रसेन किञ्चिदम्लेन लघून्यन्नानि भोजयेत् ६४
लवणस्नेहहीनानि मृदूनि सुरभीणि च
आहारेण गदे भग्ने मद्यस्योपरमे कृते ६५
यथोक्ता तु क्रिया पथ्या यथास्वमिति कश्यपः
अतिसारे तु गर्भिण्याः समुत्पन्ने भिषग्जितम् ६६
वातिके पैत्तिके चैव श्लैष्मिके च प्रवक्ष्यते
विरुद्धाध्यशनाजीर्णैस्तथैवात्यशनादपि ६७
भयोद्वेगविघाताद्वा संघातात् पूरणात् क्षयात्
कन्दमूलफलैरामैर्दुष्टतोयनिषेवणात् ६८
रौक्ष्याद्बुभुक्षया छोकाद्गुर्वभिष्यन्दिभोजनात्
अब्धातोश्च सद्रेकादतीसारः प्रवर्तते ६९
आमातिसारे संजाते पाचनानि प्रदापयेत्
कुटजस्य च बीजानि मुस्ता पाठा तथैव च ७०
अजमोदाऽथ सरलं तथा चातिविषा शुभा
आमे श्लेष्मान्विते पेयमेतत् पिष्टं सुखाम्बुना ७१
पाठाचन्दनभागश्च कुटजस्य फलानि च
तथा चातिविषा मुख्या पिष्टमेतद्धिताम्बुना ७२
आमे पित्तान्विते पेयमिति ह स्माह कश्यपः
हिङ्गुसैन्धवनागाश्च बृहत्यौ कौटजं फलम् ७३
तथा पिप्पलिमूलं च मुख्या चातिविषा नृप
आमे वातोत्थिते पेयमेतत् पिष्टं सुखाम्बुना ७४
बृहत्यादिस्तु पातव्यः सन्निपातसमुत्थिते
पक्वसंग्रहणे पथ्यः सर्वेषामिति निश्चयः ७५
श्लैष्मिके मधुसंयुक्तस्तण्डुलोदकसंयुतः
अम्बष्ठादिगणः पेयो भिन्नवर्चोविबन्धनः ७६
अथवा कौटजं पिष्ट्वा फलं क्षौद्रेण संयुतम्
धातकी मरिचं लोध्रं कट्वङ्गं देवदारु च ७७
तण्डुलोदकसंयुक्तं श्लेष्मातीसारनाशनम्
तण्डुलोदकपिष्टं वा केसरं नलिनस्य तु ७८
मधुयुक्तं पिबेन्नारी श्लेष्मातीसारनाशनम्
न्यग्रोधादिस्तु निर्यूहः क्षौद्रेण मधुरीकृतः ७९
पित्तातिसारशमनः कुशलैः परिकीर्तितः
कणा धातकिपुष्पं च मधुकं बिल्वपेशिका ८०
शर्करामधुसंयुक्तं पित्तवृद्धिविनाशनम्
पद्मं समङ्गमाम्रास्थि मधुकं पद्मकेसरम् ८१
लोध्रं मोचरसश्चैव शर्कराक्षौद्रसंयुतः
पित्तातिसारशमनो योग एष विधीयते ८२
एरण्डवर्जं खुड्डाकं पञ्चमूलं शृतं हितम्
कालाकट्वङ्गसंयुक्तं वातातीसारनाशनम् ८३
पद्मं समङ्गमाम्रास्थि बृहती बिल्वपेशिका
श्लक्ष्णपिष्टं पिबेद्दध्ना वातातीसारनाशनम् ८४
पिप्पल्यो धातकी पद्मं समङ्गा मोचजो रसः
मत्स्यण्डिकेन्द्रधान्यं च पिष्टमेतन्नृपोत्तम ८५
तण्डुलोदकसंयुक्तं सशूले वातिके हितम्
मुस्ताबिल्वशलाटूनि अनन्ता मधुकं तथा ८६
श्लक्ष्णपिष्टं पिबेद्दध्ना सर्पिर्गुडसमायुतम्
वातातीसारशान्त्यर्थं यथावदिति कश्यपः ८७
पिप्पल्यो धातकी लोध्रं समङ्गा पद्मकेसरम्
पद्मा मोचरसश्चैव दीर्घवृन्ततरोस्त्वचः ८८
केसरं चेति चूर्णानि श्लक्ष्णान्येतानि चूर्णयेत्
घृतं मत्स्यण्डिका क्षौद्रं लेहीभूतानि लेहयेत् ८९
लेहः कल्याणकस्त्वेष सर्वातीसारनाशनः
काश्मर्यमूलत्वक्कल्कः श्यामामूलं तथैव च ९०
यवागूं दधिमण्डेन सिद्धामल्पघृतां पिबेत्
प्रवाहिकार्तां सततं तथा संपद्यते सुखी ९१
किराततिक्तकं लोध्रं यष्टीमधुकमेव च
फाणितं तिलकल्कश्च शर्करामधुसंयुतम् ९२
तण्डुलोदकमित्येतत् प्रतिहन्ति प्रवाहिकाम्
कपित्थबिल्वमाषाणां कल्कानक्षसमान् पृथक् ९३
तथा कोमलमोचाऽपि पिप्पलीशृङ्गबेरयोः
अर्धप्रस्थं भवेद्दध्नो गौडमद्यकृतः खटः ९४
घृतक्षौद्रेण सहितः पीतो हन्ति चिरोत्थिताम्
वाहिकां जीर्णभक्षायाः प्राणस्य बलवर्धनः ९५
बाणमूलस्य निष्क्वाथस्त्रपुषीबीजसंयुतः
शर्करामधुसंयुक्तो रक्तातीसारनाशनः ९६
पद्मं समङ्गा मधुकं चन्दनं पद्मकेशरम्
पयसा मधुसंयुक्तं रक्तातीसारनाशनम् ९७
तिलान् कृष्णान् समङ्गा च यष्टीमधुकमुत्पलम्
पिबेदामेन पयसा रक्तातीसारनाशनम् ९८
मौचो रसस्तिला लोध्रमुत्पलं कमलं तथा
पिबेत् क्षीरेण संयुक्तं रक्तातीसारनाशनम् ९९
पयस्या चन्दनं लोध्रं पद्मकेसरमेव च
पयसा मधुसंयुक्तं पिबेद्रक्तातिसारिणी १००
रक्तं निर्वाहते यावत् कृच्छ्रात् सगुदवेदनम्
कुप्यपाषाणतप्तेन पयसा भोजितां ततः १०१
मधुकं घृतमण्डेन त्वथैनामनुवासयेत्
गर्भिण्या वातिकी यस्या जायते परिकीर्तिका १०२
बृहतीबिल्वमानन्तैर्यूषं कृत्वा तु भोजयेत्
परिकीर्तिकायां गर्भिण्याः पैत्तिकायामिदं हितम् १०३
मधुकं हंसपादी च वितुन्नकमथापि च
पाययेन्मधुसंयुक्तं सुपिष्टं तण्डुलाम्बुना १०४
श्लैष्मिकायां तु कर्तव्यं यथावत्तन्निबोधत
कण्टकारी श्वदंष्ट्रा च अश्वत्थं चेति तत् समम् १०५
संपन्नलवणं कृत्वा भोजयेत् पाययेदपि
शालपर्णीं पृश्निपर्णीं बृहतीं कण्टकारिकाम्
बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलिम् १०७
यूषं कृत्वा तु संपन्नं भोजयेत् पाययेदपि
अथ चेदत्र गर्भिण्या मुखपाको भवेदिह १०८
हरिद्रादारुनिष्क्वाथं ग्राहयेत् कवलं ततः
ततः स्नेहेन कृत्वा तु ततः स्याच्छर्करोदकम् १०९
लोध्रोदकेन कृत्वा तु कुर्यात्तत्प्रतिसारणम्
अनन्तां च समङ्गां च घृषीं मोचरसं तथा ११०
मधुना सहमश्नीयात्ततः संपद्यते सुखी
आक्षेपके समुत्पन्ने तथैवाप्यपतानके १११
मातुलुङ्गरसः पेयो बिडसैन्धवसंयुतः
अग्निमन्थस्य निर्यूहः क्वथितो वरुणस्य वा ११२
लावो वा तैत्तिरो वाऽपि रसः स्निग्धः प्रशस्यते
पानार्थं वातशमनो वादूलो रस एव च ११३
असंसृष्टे तु कर्तव्यो विधिरेष सुखावहः
पित्तोपसृष्टे तु हितो जाङ्गलो मधुरो रसः ११४
शृतो मधुरकैः सर्वैर्दाडिमाम्लसमायुतः
वातश्लेष्मसमुत्थे तु व्यम्लस्तु कटुको रसः ११५
यवक्षारेण संयुक्तो जाङ्गलः सततं हितः
मृदवः पाणितापाश्च पित्तवर्ज्ये हितास्तथा ११६
घृतसेकोऽथवा कार्यो जीर्णे गर्भे विशेषतः
उष्णो वा यदि वा शीतो व्याधिमासाद्य तत्त्वतः ११७
अथ छर्दिचिकित्सां तु प्रोच्यमानां निबोधत
मातुलुङ्गरसो लाजाः कोलमज्जा तथाऽञ्जनम् ११८
तथा दाडिमसारश्च शर्करा क्षौद्रमेव च
एष वातात्मिकां छर्दिं हन्ति लेहो विशेषतः ११९
दाडिमाम्लो रसः पक्वो हृद्यो लवणवर्जितः
वातच्छदिहरो राजन् माहिषो वा सुसंस्कृतः १२०
शर्करामधुसंयुक्तं लाजचूर्णसमायुतम्
चातुर्जातककल्केन हृद्यं पुष्पैः सुवासितम् १२१
पित्तच्छर्दिप्रशमनं हितं तण्डुलधावने
हिता लाजमयी पेया सिताक्षौद्रेण संयुता १२२
जाङ्गलो वा रसः पथ्यः शर्करामधुरीकृतः
आम्रजम्बूप्रवालानि सितानि सुशृतानि तु १२३
क्षौद्रयुक्तानि पेयानि श्लेष्मच्छर्द्यां विशेषतः
भोजनार्थे हितं यूषं मुद्गैर्दाडिमसारितम् १२४
व्यपेतस्नेहलवणं हृद्यं छर्दिविनाशनम्
सन्निपातसमुत्थायां संसृष्टान्यवचारयेत् १२५
क्रिमिजायां तु कर्तव्यं यत् पुरस्तात् प्रवक्ष्यते
वर्षाभूमूलनिष्क्वाथं योजयेद्भद्रदारुणा १२६
तत् पिबेन्मधुसंयुक्तं शोफं स्त्री पूर्वया सह
पिप्पल्यङ्कोठमूलानि वाजिलिण्डरसस्तथा १२७
दधि माहिषमित्येतत् कामलायाश्चिकित्सितम्
मातुलुङ्गरसः पेयः सैन्धवेन सुयोजितः १२८
वातिके हृदि शूले तु प्रधान इति निश्चयः
प्रियङ्गवोऽथ पिप्पल्यो भद्रमुस्ता हरेणवः १२९
क्षौद्रं बदरचूर्णं च पिबेत् पित्तार्दिते हृदि
पिप्पलीचूर्णकल्कस्तु पत्रं चोचं प्रियङ्गवः १३०
मातुलुङ्गरसश्चैव लेहः श्लेष्मार्दिते हृदि
कुलीरशृङ्गी शरटं भार्गी पिप्पल्य एव च १३१
वातकासहरो लेहो मातुलुङ्गरसप्लुतः
मधूलिका तु गोक्षीरी पिप्पली शर्करा तथा १३२
द्राक्षाक्षौद्रसमायुक्तो लेहो वै पित्तकासहा
पिप्पल्यस्त्रिफला रास्ना भद्रदारु समाक्षिकम् १३३
श्लेष्मकासहरो लेहः कुशलैः परिकीर्तितः
मधुकं शङ्खचूर्णं च जीवलाक्षाऽथ माक्षिकम् १३४
लेहः शर्करया युक्तः क्षतकासविनाशनः
मयूरस्य तु रोमाणि श्वाविच्छल्यकयोरपि १३५
पिप्पलीतण्डुलाश्चैव कोलमूलं च तत्समम्
चूर्णितं मधुसर्पिर्भ्यां लिहेच्छ्वासकफापहम् १३६
गुडो रास्नाऽथ पिप्पल्यो द्राक्षा समरिचा तथा
हरिद्रा च समङ्गानि चूर्णान्येतानि लेहयेत् १३७
तैलेन श्वासकासेषु तमके चैव पूजितः
अभयाऽऽमलकं वाऽपि शल्यकस्य त्वचा युतम् १३८
अन्तर्गृहं सहोष्ट्रास्थि दधितैलेन लेहयेत्
पिप्पल्यामलकी मुस्ता तथा फाणितशर्करा १३९
हरीतकीति चूर्णानि मधुतैलेन लेहयेत्
शमनं सर्वकासानां श्वासानां च प्रशस्यते १४०
भद्रदारुहरीतक्यौ सैन्धवं कुष्ठमेव च
घृतं च फाणितं चैव लेह ऊर्ध्वानिलापहः १४१
पिप्पली गैरिकं भार्गी हिङ्गु कर्कटकी तथा
समानि च भवेल्लेहो हिक्काप्रशमनः स्त्रियाः १४२
पिप्पली पिप्पलीमूलं मुस्ता तगरमेव च
दीपनीयं भवेदेतत् क्षीरेण तु समाक्षिकम् १४३
शतावरी दर्भमूलं मधुकं क्षीरमोरटः
पाषाणभेदकोशीरं कतकस्य फलानि च १४४
एषां क्वाथरसं कल्कं क्षीरं वा पाययेद्भिषक्
मूत्रग्रहेषु सर्वेषु सिद्धमित्याह कश्यपः १४५
वातगुल्मस्य भैषज्यं योनिगुल्मस्य चाप्यथ
यथावत् पूर्वमुद्दिष्टं समासेन चिकित्सितम् १४६
वातिके पैत्तिके चैव श्लैष्मिके च विशेषतः
चतुर्थे मासि नारीणामिदं कुर्याच्चिकित्सितम् १४७
सर्पिर्भिरन्नपानैर्वा क्षीरेणेक्षुरसेन वा
वामयेत् फलयुक्तेन यथावदिति कश्यपः १४८
चतुरङ्गुलसिद्धेन रसेन पयसाऽपि वा
विरेचयेत्तु मतिमान् य इच्छेत् सुखमात्मनः १४९
पूतीकपत्रैर्भृष्टैर्वा पुष्पैर्वाट्यालकस्य वा
अम्लां यवागूं प्रपिबेन्नातिवेगा यथा भवेत् १५०
एरण्डपत्रं क्षीरेण वातरोगान्विता पिबेत्
वातमूत्रविरोधे तु शूले वाऽपि समुत्थिते १५१
पञ्चमे मासि गर्भिण्या व्यक्ताम्ललवणं ततः
आस्थापनं हितं नार्या मधुरं चानुवासनम् १५२
ग्रन्थीनां पिडकानां च शोथे चैव विशाम्पते
रोहिण्यां विद्रधौ वाऽपि षष्ठमासे विशेषतः
यथास्वं भेषजं कुर्याद्दारुणं शास्त्रपारगः १५३
पीनमांसोपशमनं क्षारकार्माग्निकर्म च
भग्नास्थिश्लेषणं चैव शस्त्रकर्म तथैव च १५४
सप्तमे मासि नारीणां सर्वमेतत् प्रयोजयेत्
दष्टा सर्पेण पीता वा या विषं गर्भिणी नृप १५५
वमनादिर्विषघ्नैस्तु संसृष्टः स्यादुपक्रमः
पाठाऽमृता सोमवल्कं द्वे सहे कुटजं तथा १५६
क्षीरक्वथितमेतत्तु पेयं नार्या विषापहम्
शिरीषं पाटलीमूलं तण्डुलीयकमेव च १५७
सिन्दुवारितमूलं च मूलं सहचरस्य च
निष्क्वाथ्य साधयेत्पेयां प्रक्षुद्रां विषनाशनीम् १५८
खडयूषादिकं चापि युक्त्याऽन्नमशितं हितम्
द्वितीये वक्ष्यते यच्च स्थाने तच्चापि कारयेत् १५९
गर्भिणी दुर्बलाकारा या भवत्यासिता सती
ज्वरश्चाभिद्रवत्येनां तस्या गर्भो विपद्यते १६०
बहु भुङ्क्ते तु याऽत्यर्थं बहुशो बहुमूर्च्छिता
भवेत्तस्याः पतेद्गर्भो गर्भिण्यास्तु न संशयः १६१
नेत्रे मुस्तोत्थिताकारे कर्णौ पादौ च शीतलौ
केशाश्च जटिला यस्यास्तस्या गर्भो विपद्यते १६२
उपरिष्टात्तु यो नाभ्या उभे पार्श्वे निषेवते
मध्ये वा तिष्ठते नार्याः सोऽपि गर्भो विपद्यते १६३
रुक् सन्धिमोक्षे यस्याः स्यान्मृष्टान्ने चारुचिस्तथा
निश्चेष्टस्वप्नकामायास्तस्या गर्भो विपद्यते १६४
सन्धिशोथोऽङ्गपाकश्च विक्रामश्च गुरुर्भवेत्
यस्यास्तस्याः सुतो जातो म्रियते नात्र संशयः १६५
शोचन्त्याः परिदेविन्याः प्रध्यायिन्यास्तथैव च
अङ्गुलीस्फोटशीलाया जातः पुत्रो न जीवति १६६
दुर्गन्धि च पयो यस्या जटिलाश्च शिरोरुहाः
मलिनाश्च ततस्तस्या जातः पुत्रो न जीवति १६७
पूतिगन्धि मुखं यस्याः शूलं चैवोपजायते
निद्रा वाऽभिद्रवत्येनां मूढगर्भा न जीवति १६८
मयूरग्रीवसंकाशं या पश्यति हुताशनम्
शूनपादमुखी चैव मूढगर्भा न जीवति १६९
पार्श्वशूलं च तृष्णा च संज्ञानाशस्तथैव च
श्वासश्च वर्त्मरोधश्च यस्याः साऽपि न जीवति १७०
कटिग्रहो योनिशूलं पूतिगन्धि मुखं तथा
संज्ञानाशः प्रलापो वा गर्भिण्याः सा न जीवति १७१
नासा तु काकवद्यस्याः स्रस्तनेत्रा च या भवेत्
तथा शकुन्तगन्धा च गर्भः शस्त्रेण मुच्यते १७२
अजाश्वगन्धा श्वेता या मायूरं मांसमिच्छति
गर्भस्तस्यापि शस्त्रेण नार्या निर्ह्रियते नृप १७३
रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना
स्मयते सा शयाना वा श्मशानं याऽधिरोहति १७४
मूढगर्भा सगर्भा वा गर्भिणी सा विनश्यति
खरं वराहं महिषं श्वानमुष्ट्रं तथैव च १७५
स्वप्नेऽधिरोहते या तु सगर्भा सा विनश्यति
नित्यस्नाता च मृष्टा च शुक्लवस्त्रधरा शुचिः १७६
देवविप्रपरा सौम्या गर्भिणी तु सदा भवेत्
बहुपुत्रामनन्तां च ईश्वरीं मुदितां तथा १७७
ब्राह्मीं च सहदेवां च तथा चैवेन्द्रवारुणीम्
जीवकर्षभकौ भार्गीं समङ्गां च तथैव च १७८
रोहपादान् वटशुङ्गानात्मगुप्तां तथैव च
अरिष्टं पूतनां केशीं शतवीर्यां च पार्थिव १७९
सहस्रवीर्यां चैतानि प्राजापत्येन संहरेत्
संदधेदथ पुष्येण धारयेदुत्तरेषु च १८०
त्रैवृतं तु मणिं कृत्वा तं श्रोण्यां गर्भिणी सदा
प्रजाता शिरसा राजन् धारयेत् कारयेत्तथा १८१
सूतिकाया विशेषेण रक्षोघ्नानि हितानि च
ज्वराद्यानां विकाराणां यत्र यत्रेह लक्षणम् १८२
अन्नादानां प्रवक्ष्यामि तज्ज्ञेयं गर्भिणीष्वपि
इति ह स्माह भगवान् कश्यपः १८३
इति खिलेष्वन्तर्वत्नीचिकित्सितं नाम दशमोऽध्यायः १०

सूतिकोपक्रमणीयाध्याय एकादशः
अथातः सूतिकोपक्रमणीयं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
उपक्रमं तु सूतानां सविशेषमतः परम्
संप्रवक्ष्यामि कार्त्स्न्येन तन्निबोध यथाक्रमम् ३
गर्भात् प्रभृति सूतायां भिषग्भवति कार्यवान्
कथं नु काले संपूर्णे सूयेदित्यपरापरम् ४
प्राप्ते प्रसवकाले च भयमुत्पद्यते यतः
अस्मिन्नेकः स्थितः पादो भवेदन्यो यमक्षये ५
सूतायाश्चापि तत्र स्यादपरा चेन्न निर्गता
प्रसूताऽपि न सूता स्त्री भवत्येवं गते सति ६
दुष्प्रजातामयाः सन्ति चतुःषष्टिरिति स्थितिः
योनिर्भ्रष्टा क्षता चैव विभिन्ना मूत्रसङ्गिनी ७
सशोफस्राविणी चैव प्रसुप्ता वेदनावती
पार्श्वपृष्ठकटीशूलं हृदि शूलं विषूचिका ८
प्लीहा महोदरत्वं च शाखावातोऽङ्गमर्दकः
भ्रक्षेपको हनुस्तम्भो मन्यास्तम्भोऽपतानकः
मक्कल्लो विद्रधिः शोफः प्रलापोन्मादकामलाः ९
दौर्बल्यं भ्रमली कार्श्यं भक्तद्वेषोऽविपाचकः
ज्वरातिसारौ वैसर्पश्छर्दिस्तृष्णा प्रवाहिका १०
हिक्का श्वासश्च कासश्च पाण्डुर्गुल्मश्च रक्तजः
आनाहाध्मापने चोभे वर्चोमूत्रग्रहावपि ११
मुखरोगोऽक्षिरोगश्च प्रतिश्यायगलग्रहौ
राजयक्ष्माऽर्दितं कम्पः कर्णस्रावः प्रजागरः १२
उष्णवातो ग्रहावाधस्तनरोगोऽथ रोहणी
वाताष्ठीला वातगुल्मरक्तपित्तविचर्चिकाः १३
इत्येते सूतिकारोगाश्चतुःषष्टिरुदाहृताः
तेभ्यः सर्वेभ्य एवासौ रक्षितव्या कथं त्विति १४
तद्विदामपि समोहो भिषजामुपजायते
किं पुनर्येऽल्पमतयः परतन्त्रोपशिक्षिताः १५
तस्मात्सुनिश्चितार्थेन तद्विद्येनाऽनुदर्शिना
अप्रमत्तेन संभाव्यं सूतिकानामुपक्रमे १६
तदुपक्रमसामान्यं विशेषापक्रमं तथा
वक्ष्यामि व्यासतो देशविदेशकुलसात्म्यतः १७
प्रजातमात्रामाश्वास्य सृतां शक्ला विजाविका
न्युब्जां शयानां संवाह्य पृष्ठे संश्लिष्य कुक्षिणा १८
पीडयेद्घट्टमुदरं गर्भदोषप्रवृत्तये
महताऽदुष्टपट्टेन कुक्षिपार्श्वे च वेष्टयेत् १९
तेनोदरं स्वसंस्थानं याति वायुश्च शाम्यति
चर्मावनद्धामासन्दीं बलातैलोष्णपूरिताम् २०
अप्यासीत सदा सूता तथा योनिः प्रसीदति
प्रियङ्गुकानां कृसरैः स्वभ्यक्तां स्वेदयेत्ततः २१
स्विन्नामुष्णाम्बुना स्नातां विश्रान्तां विगतक्लमाम्
कुष्ठगुग्गुल्वगुरुभिर्धूपयेद्घृतसंयुतैः २२
ततोऽग्निबलवद्वीक्ष्य त्र्यहं पञ्चाहमेव वा
मण्डानुपानमन्वक्षं पिबेत् स्नेहं हिताशिनी २३
स्नेहव्युपरमेऽश्नीयादल्पस्नेहामसैन्धवाम्
यवागूं त्र्यहमेवात्र पिप्पलीनागराश्रिताम् २४
स्याद्व्यपेतौषधा पश्चात्सस्नेहलवणोत्तरा
कुलत्थयूषः सस्नेहलवणाम्लस्ततः परम् २५
तथैव जाङ्गलरसः शाकानीमानि चाप्यतः
घृतभृष्टानि कूष्माण्डमूलकैर्वारुकाणि च २६
स्नेहस्वेदौ च सेवेत मासमेकमतन्द्रिता
उष्णोदकोपचारं च स्वस्थवृत्तमतः परम् २७
त्रिविधं देशमाश्रित्य वक्ष्यामि त्रिविधं विधिम्
आनूपदेशे भूयिष्ठं वातश्लेष्मात्मका गदाः २८
तत्राभिस्यन्दभूयस्त्वादादौ स्नेहो विगर्हितः
मण्डादिरत्र कर्तव्यः संसर्गोऽग्निबलावहः २९
स्वेदो निवातशयनं सर्वमुष्णं च शस्यते
नियतं जाङ्गले देशे वातपित्तात्मका गदाः ३०
तदत्र स्नेहसात्म्यत्वात् स्नेहादिः स्यादुपक्रमः
कार्यः प्रजातमात्राया विशेषश्चात्र बुध्यते ३१
कुमारप्रसवे तैलं कुमारीप्रसवे घृतम्
पिबेज्जीर्णे यवागूं च दीपनीयोपसंस्कृताम् ३२
पञ्चाहं सप्तरात्रं वा ततो मण्डाद्युपक्रमः
देशे साधारणे चास्या हितः साधारणो विधिः ३३
वैदेश्याश्च प्रयच्छन्ति विविधा म्लेच्छजातयः
रक्तं मांसस्य निर्यूहं कन्दमूलफलानि च ३४
कुलसात्म्यं च बुध्येत यस्मिन् यस्मिन् यथा यथा
औचित्यात् कुलसात्म्यस्य तत्तथैवानुवर्तते ३५
अतो नैकान्तिकत्वाच्च सूतिकोपक्रमस्य च
देशं च जातिसात्म्यं च संप्रधार्य प्रयोजयेत् ३६
उक्तं तद्व्याधिभैषज्यं दुष्प्रजातोपचारिके
केषांचिदिह वक्ष्यामि व्याधीनामत उत्तरम् ३७
सर्वेषामेव रोगाणां ज्वरः कष्टतमो मतः
तदस्यादौ विधिं वक्ष्ये निदानाकृतिभेषजैः ३८
षड्विधस्तु प्रसूतानां नारीणां जायते ज्वरः
निजागन्तुविभागेन निदानं तस्य मे शृणु ३९
वेगसंधारणाद्रौक्ष्याद्व्यायामादत्यसृक्क्षयात्
शोकादत्यग्निसंतापात् कट्वम्लोष्णातिसेवनात् ४०
दिवास्वप्नात् पुरोवाताद्गुर्वभिष्यन्दिभोजनात्
स्तन्यागमाद्ग्रहाबाधादजीर्णाद्दुष्प्रजायनात् ४१
ज्वरः संजायते नार्याः षड्विधो हेतुभेदतः
स एव पूर्वरूपेषु व्यभिचीर्णो विरोधिभिः ४२
संसृष्टैः स्नेहशीताम्बुस्नानपानाशनादिभिः
सन्निपातज्वरो घोरो जायते दुरुपक्रमः ४३
तस्य तीव्राभिरावीभिः प्रततं वाहनश्रमैः
शैथिल्यं चागते देहे संक्षुब्धेष्वनिलादिषु ४४
क्लान्तेष्विन्द्रियमार्गेषु सारशून्येषु धातुषु
एकोऽपि दोषः कुपितः कृच्छ्रतो वहते महत् ४५
परिजीर्णं यथा वस्त्रं मलदिग्धं समन्ततः
क्लेशेन शोध्यते तज्ज्ञैः प्रदृश्य तत्तदाश्रयम् ४६
तथा शरीरं सूतायाः परिक्लिष्टं परिस्रुतम्
भृशं दोषबलैर्दिग्धं क्लेशेन परिशोध्यते ४७
यथा च जीर्णं भवनं सर्वतः श्लथबन्धनम्
वर्षवातविकम्पानामसहं स्यात्तथाविधम् ४८
तथा शरीरं सूतायाः स्विन्नं प्रस्रवणश्रमैः
वातपित्तकफोत्थानां व्याधीनामसहं भवेत् ४९
दोषैरेव शरीराणि धार्यन्ते सर्वदेहिनाम्
तेषु क्षीणेषु सूताया ज्वरः संतापलक्षणः ५०
देहं सन्तापयत्याशु शुष्केन्धनमिवानलः
तद्धेतुमात्रवृद्धानां दोषाणां तु यथोच्छ्रयम् ५१
कुर्यादुपशमं धीमान् धातूनां च प्रसादनम्
षड्भिर्मासैः प्रसूताया धातवो रुधिरादयः ५२
प्रत्यागच्छन्त्यरोगाया यथास्वं परिसंस्थितिम्
एतच्चान्यच्च संचिन्त्य चिकित्सां संप्रयोजयेत् ५३
अतः परं ज्वराणां तु लक्षणं संप्रवक्ष्यते
विषमोष्माऽङ्गमर्दश्च जृम्भथू रोमहर्षणम् ५४
कषायविरसास्यत्वं शीतद्वेषोष्णकामते
दन्तहर्षः प्रलापश्च शुष्कोद्गारः प्रजागरः ५५
आध्मानमङ्गसंकोचो वातज्वरनिदर्शनम्
तृष्णा दाहः प्रलापश्च वमथुः कटुकास्यता ५६
पीतास्यनखदन्ताक्षिविण्मूत्रत्वं च लक्ष्यते
कण्ठस्य शोषः सर्वं च प्रदीप्तमिव मन्यते ५७
भ्रमः शीताभिलाषश्च पित्तज्वरनिदर्शनम्
उष्णाभिकामता कासः शिरोरुग्गात्रगौरवम् ५८
मन्दोष्मता प्रतिश्यायः शुक्लमूत्रपुरीषता
निद्रा तन्द्रीर्हिमद्वेषः ष्ठीवनं मधुरास्यता ५९
गात्रसादोऽन्नविद्वेषः कफज्वरनिदर्शनम्
मुहुः शीतं मुहुर्दाहो मुहुरूष्मा समोऽसमः ६०
कृच्छ्रविण्मूत्रवातत्वं वाताङ्गान्त्राभिसंजनम्
दाहस्तृष्णा प्रलापश्च पित्ताद्विक्षिप्तचित्तता ६१
गुरुत्वं कण्ठसंरोधः कफाच्च प्रतिशीतता
सन्निपातज्वरस्यैतल्लक्षणं समुदाहृतम् ६२
तृतीयेऽह्नि चतुर्थे वा नार्याः स्तन्यं प्रवर्तते
पयोवहानि स्रोतांसि संवृतान्यभिघट्टयेत् ६३
करोति स्तनयोः स्तम्भं पिपासां हृदयद्रवम्
कुक्षिपार्श्वकटीशूलमङ्गमर्दं शिरोरुजाम् ६४
एतत् स्तन्यागमोत्थस्य ज्वरस्योक्तं स्वलक्षणम्
स हि पीयूषसंशुद्धौ क्रममात्रेण तिष्ठति ६५
ग्रहावलोकितत्रासवाताघातावधूननैः
ज्वर्यते चेत् प्रसूता स्त्री तस्य वक्ष्यामि लक्षणम् ६६
उद्वेपको निष्टननं चक्षुषो विभ्रमः श्रमः
कम्पनं हस्तनेत्राणां हारिद्रमुखनेत्रता ६७
क्षणेन श्यावताङ्गानां क्षणेन च सवर्णता
सुप्रबोधः सह–क्रोशः केशलुञ्चनम् ६८
पवनज्वररूपाणि भूयिष्ठानि करोति च
विधिर्ग्रहघ्नोऽस्य हितः क्रमो यश्चानिलज्वरे ६९
श्लेष्माभिष्यन्दिनीं स्थूलामक्लिन्नामल्पनिःस्रुताम्
विदग्धभक्तां स्निग्धां च लङ्घनेनोपपादयेत् ७०
रूक्षां निःस्रुतरक्तां च कृशां वातज्वरादिताम्
क्षुत्तृष्णाभिहतां क्लान्तां शमनेनोपपादयेत् ७१
तस्यास्तदहरेवेह पेयादिः क्रम इष्यते
लङ्घितायाश्च मण्डादिरित्येष द्विविधः क्रमः ७२
पेया हि दीपत्यग्नि धातून् संशमयत्यपि
गर्भदोषावशेषघ्नो मण्डो दोषविपाचनः ७३
तस्मात् पेया च मण्डश्च क्रमादौ विहितौ हितौ
अकृतश्च कृतश्चैव द्विस्त्रिर्यूषरसौ तथा ७४
स्वेदोऽपतर्पणं युक्त्या पाचनौषधसेवनम्
कषायोऽभ्यञ्जनं सर्पिर्ज्वरघ्नः परमो विधिः ७५
शीतोपवासे व्यायाममायासमहिताशनम्
तद्धेतुसेवनं चैव क्षिप्रं ज्वरबलावहम् ७६
गर्भाशये च्युते नार्या दोषास्तदनुगामिनः
च्यवन्ति तस्माद्वमनं नस्यं बस्तिर्विरेचनम् ७७
न कार्यमल्पदोषायाः शरीरे परिसंस्थिते
तदेव युक्तितः कार्यं वीक्ष्य दोषबलाबलम् ७८
वमन वा विरेकं वा तीक्ष्ण तीक्ष्णौषधान्वितम्
न ह्यतिच्युतदोषायां ज्वरितायाः प्रशस्यते ७९
संतप्ते तूष्मणा देहे धातवः परिपाचिताः
भूयस्तीक्ष्णौषधं प्राप्य गच्छेयुरमितां गतिम् ८०
उत्क्लिश्यमाने हृदये कफे चाप्युरसि स्थिते
कफज्वरे क्षमे देहे विदध्याद्वमनं मृदु ८१
अरुचौ कण्ठसंरोधे कफे चैव शिरोगते
अशक्यमाने कवले नस्यं तत्र विधापयेत् ८२
संसर्गपाचिते दोषे ज्वरे च मृदुतां गते
पञ्चाहात् सप्तरात्राद्वा कषायमवचारयेत् ८३
पाचनीयं तु पञ्चाहात् सप्ताहादानुलोमिकम्
कफपित्तज्वरे दद्यात् पञ्चाहे शमनौषधम् ८४
स्वभावतैक्ष्ण्यादल्पेन कालेन परिपच्यते
दुर्बलत्वाच्च धातूनां च्युतत्वादामयस्य च ८५
वातज्वरे जितेऽभ्यङ्गैस्तथैव रसभोजनैः
पक्वाशयस्थे विमले विदध्यादानुलोमिकम् ८६
भोजयेल्लघु चाप्यन्नं तनुभिर्जाङ्गलै रसैः
यश्च नैवं शमं याति वातपित्तात्मको ज्वरः ८७
सर्पिस्तं शमयेदाशु दावाग्निमिव तोयदः
विमलेऽग्नौ मृदौ सर्पिरेव परायणम् ८८
स्नेहवध्यास्तु भूयिष्ठं व्याधयो दुष्प्रजातयः
सन्निपातज्वरे नार्या मारुते च बलीयसि ८९
संस्कृतं रसयूषाभ्यां पुराणं सर्पिरिष्यते
तत्र वातज्वरे तावत् प्रवक्ष्यामि चिकित्सितम् ९०
क्रव्यादानां च मांसानि धान्यमाषतिला यवाः
दशमूलमपामार्गभण्ट्येरण्डाटरूषकाः ९१
अश्वगन्धां श्वदंष्ट्रां च वंशपत्रं च संहरेत्
इत्येष संकरस्वेदः सकरीषोऽम्लसंयुतः ९२
वातज्वरेऽवचार्यः स्यात् संसर्गादौ सुखावहः
द्वे पञ्चमूल्यौ वृश्चीवमेकेषीकां पुनर्नवाम् ९३
सहस्रवीर्यां नादेयीं शतवीर्यां शतावरीम्
विश्वदेवां शुकनसं सहदेवां सनाकुलीम् ९४
रास्नाऽजगन्धे पूतीकं देवाह्वां देवताडकम्
बले द्वे हंसपादीं च क्वाथार्थमुपसंहरेत् ९५
कृष्णागरुं व्याघ्रनखं शतपुष्पां पलङ्कषाम्
कायस्थां च वयस्थां च चोरकं जटिलां जटाम् ९६
अपेतराक्षसीं यक्षगुहां महोष्ट्रलोमिकाम्
हरेणुकां हैमवतीं कैरवं सुवहां वचाम् ९७
वृश्चिकालीं च भार्गीं च श्यामां शिग्रुं च कल्कशः
संहृत्य तैलं विपचेद्वातज्वरनिबर्हणम् ९८
महतः पञ्चमूलस्य पिबेत् क्वाथं ससैन्धवम्
पेयो विदारिगन्धाया निष्क्वाथो वा ससैन्धवः ९९
रास्नां सरलदेवाह्वयष्टीमधुकसंयुताम्
बृहतीं सरलं दारुं भार्गीं वरुणकं तथा १००
एरण्डमूलं रास्नां च वृश्चिकालीं च संहरेत्
एतदुत्क्वथितं कोष्णं पिबेद्वातज्वरापहम् १०१
पिबेदन्तरपानं च बिल्वमूलशृतं जलम्
पञ्चमुष्टिकयूषेण युक्ताम्ललवणेन च १०२
भुञ्जीत भोजनं काले जाङ्गलानां रसेन वा
यवकोलकुलत्थानां पञ्चमूलद्वयस्य च १०३
क्वाथे दधियवक्षारचव्यचित्रकनागरैः
पिप्पलीभिश्च तत् सिद्धं सर्पिर्ज्वरहरं पिबेत् १०४
वातश्लेष्मविबन्धघ्नं ग्रहणीदीपनं परम्
श्यामातिल्वकसिद्धेन सर्पिषा च विरेचयेत् १०५
स चेद्वातोल्बणत्वाच्च वेपथुर्नोपशाम्यति
स्वभ्यक्तामुष्णतैलेन धूपयेत् सुरदारुणा १०६
सुखोष्णैरम्लपिष्टैश्च सर्वगन्धैः प्रलेपयेत्
स्योनाकवासावंशानां तर्कार्येरण्डयोस्तथा १०७
अपामार्गस्य काश्मर्या भङ्गोष्णाम्लेऽवगाहयेत्
सुखावगाढामाश्वस्तां मांसाद्याजिनकम्बलैः १०८
कुष्ठगुग्गुलुधूपेन घृतमिश्रेण धूपयेत्
उष्णानि चान्नपानानि — १०९
उष्णो वर्ज्यश्च पवनः पित्ते चोष्णं विरुद्ध्यते
अतीक्ष्णोपद्रवं तस्मात् पित्तज्वरमुपक्रमेत् ११०
कषायतिक्तमधुरैः प्रदेहाभ्यञ्जनौषधैः
शार्ङ्गिष्ठां मरुवां पाठां नक्तमालं सवत्सकम् १११
निम्बमारग्वधोशीरमासुतं मधुना पिबेत्
स्थिराद्यं पञ्चमूलं च केसरं सकशेरुकम् ११२
गोपीं पर्पटकोशीरं धान्यकं चेति साधयेत्
पादावशिष्टं तच्छीतं पिबेत् समधुशर्करम् ११३
मुस्तद्विसारिवोशीरयष्टिकालोध्रपद्मकैः
ससप्तपर्णैरष्टाङ्गैर्वार्यर्धाढकमाप्लुतम् ११४
तन्निशामुषितं पूतं पातव्यं शर्करायुतम्
कर्षेण कटुरोहिण्याः श्लक्ष्णपिष्टेन चान्वितम् ११५
सर्वाभिषवराजोऽयं सर्वज्वरनिवारणः
मृद्वीका नागपुष्पं च मरिचान्यथ शर्करा ११६
पत्रमेला च चव्यं च पानकं पैत्तिके ज्वरे
भद्रश्रीस्तिन्दुको मुस्ता पयस्या मधुकं वचा ११७
कषाय एषां पातव्यो ज्वरातीसारनाशनः
पिबेन्मुद्गरसं वाऽपि पृश्निपर्णीस्थिरायुतम् ११८
सारिवाचन्दनोशीरद्राक्षापद्मकसाधितम्
लाजपेयां पिबेच्छर्दिमूर्च्छादाहज्वरापहाम् ११९
मुद्गयूषेण वाऽश्नीयान्मधुरेण रसेन वा
मधुकं केसरं गोपी निम्बपत्रं कशेरुकम् १२०
शर्करामधुसंयुक्तो लेहो मुखविशोधनः
शान्तवेगे ज्वरे चास्यै दद्यान्मृदु विरेचनम् १२१
चतुरङ्गुलमृद्वीकात्रिवृत्कल्केन बुद्धिमान्
प्रदिहेद्दारुसंयुक्तैस्तालीसोशीरचन्दनैः १२२
मधुकस्य च कल्केन कल्केन तगरस्य च
तैलमभ्यञ्जनं सिद्धं पीतं ज्वरमपोहति १२३
पटोलस्य गुडूच्याश्च रोहिण्यारग्वधस्य च
चन्दनस्य च कल्केन सिद्धं सर्पिर्ज्वरापहम् १२४
चन्दनाद्येन वा सिद्धं पटोलाद्येन वा घृतम्
पाययेत्तिक्तसर्पिर्वा तित्तिराद्यमथापि वा १२५
अम्लानि चान्नपानानि तथोष्णकटुकानि च
पित्तज्वरे विवर्ज्यानि प्रत्यनीकानि चाचरेत् १२६
सम्यक्संसर्गयोगेन भग्नवेगं कफज्वरम्
जयेद्भैषज्यपानैश्च सर्पिषाऽभ्यञ्जनेन च १२७
बृहत्यौ पुष्करं दारु पिप्पल्यो नागरं शटी
क्वाथमेषां पिबेदुष्णमादौ दोषविपाचनम् १२८
द्विपञ्चमूलीं भार्गीं च कर्कटाख्यां दुरालभाम्
नागरं पिप्पलीं दारुं पिबेद्वा सैन्धवान्वितम् १२९
पटोलं धान्यकं मुस्ता मूर्वा पाठा निदिग्धिका
कषाय एषां पातव्यः षडङ्गो मधुसंयुतः १३०
नागरामरदारुभ्यां शृतमुष्णं पिबेज्जलम्
बालमूलकयूषेण जाङ्गलानां रसेन वा १३१
कटूष्णद्रव्ययुक्तेन मन्दस्निग्धेन भोजयेत्
पिबेद्गोमूत्रसंयुक्तं त्रिवृत्कल्कविरेचनम् १३२
काले कल्याणकं सर्पिः पिबेद्वा दाशमौलिकम्
लाक्षा मुस्ता हरिद्रे द्वे शताह्वा भद्ररोहिणी १३३
देवपुष्पा वचा दारु सरलं चेति तैः समैः
पचेत्तैलं तदेतेन कुर्यादभ्यञ्जनं भिषक् १३४
कुष्ठागरुव्याघ्रनखं मांसी धान्यकसामकम्
वक्रं हरेणुं ह्रीबेरं स्थौणेयं केसरं त्वचम् १३५
एले द्वे सरलं दारु मूर्वा कालानुसारिवा
बर्हिष्टं शतपुष्पा च पृथ्वीका देवपुष्पकम् १३६
एतैर्हि समभागैस्तु तैलं धीरो विपाचयेत्
एतदभ्यञ्जनादेव कफज्वरमपोहति १३७
शेषं वातज्वरहितं कार्यमत्र चिकित्सितम्
मधुराण्यन्नपानानि स्निग्धानि च गुरूणि च १३८
कफज्वरे विवर्ज्यानि प्रत्यनीकानि चाचरेत्
सन्निपातज्वरस्यातः प्रवक्ष्यामि चिकित्सितम् १३९
स सर्वलक्षणोऽसाध्यः कृच्छ्रसाध्योऽल्पलक्षणः
बलहीनस्य नष्टाग्नेः सर्वथा नैव सिद्ध्यति १४०
किमङ्ग सूतिकानां तु क्षीणधातुबलौजसाम्
तथाऽपि यत्नमातिष्ठेदानृशंस्याद्भिषग्वरः १४१
सन्निपातेषु दोषेषु यो दोषो बलवान् भवेत्
तमेवादौ प्रशमयेच्छेषदोषमतः परम् १४२
अल्पान्तरबलेष्वेषु दोषेषु मतिमान् भिषक्
श्लेष्माणमादौ शमयेत् स ह्येषामनुबन्धकृत् १४३
गुरुत्वात्कृच्छ्रपाकित्वादूर्ध्वकायाश्रयात्तथा
तस्माज्ज्वरेण दुर्दिष्टं वातपित्तकफात्मके १४४
तस्यां तस्यामवस्थायां तत्तत् कार्यं चिकित्सितम्
सामान्येन तु वक्ष्यामि तद्विशेषं भिषग्जितम् १४५
कुशकाशश्वदंष्ट्रार्कसुधैरण्डपरूषकैः
— न्नयवद्रोणं चर्मण्यास्तीर्य युक्तितः १४६
स्वेदयेत् सूतिकां तत्र गुरुप्रावरणावृताम्
नागरं दशमूलं च कट्वङ्गं दारुकद्वयम् १४७
पिप्पल्यस्त्रिफला भार्गी कर्कटाख्या दुरालभा
ससैन्धवः कषायोऽयं ज्वरे पूर्वापराह्णिके १४८
मधुहिङ्गुसमायुक्तो देयः सायाह्निके ज्वरे
पटोलमुस्तामधुकरोहि — १४९
सर्पिषा सह पातव्यं सन्निपातेऽनिलोत्तरे
एतदेव त्रिफलया युक्तं च सुरदारुणा १५०
पाययेन्मधुनाऽलोड्य सन्निपाते कफोत्तरे
एलामधूकमधुकशीतपाकीपरूषकैः १५१
त्रिफलासारिवापाठामञ्जिष्ठाचतुरङ्गुलैः
पित्तोत्तरे त्वभिन्यासे पिबेत् समधुशर्करम् १५२
भार्गी शृङ्गी त्रिवृद्दन्ती दशमूली दुरालभा
कट्वङ्गं त्रिफला शुण्ठी पिप्पली चेति तैः शृतम् १५३
क्वाथं ससैन्धवक्षारं पाययेच्चानुलोमिकम्
गोमूत्रयुक्तां त्रिवृतां केवलां वा वचां पिबेत् १५४
अनुलोमं गते दोषे संजाते ग्रहणीबले
— ततः सर्पिर्वा साधु संस्कृतम् १५५
मधुकेनातिविषया रोहिण्या भद्रदारुणा
सिद्धं सर्पिः पिबेत् काले सन्निपातज्वरापहम् १५६
कल्याणकं महान्तं वा पञ्चगव्यमथापि वा
शीतोष्णैरौषधैस्तैलं सर्वैरेवोपसंस्कृतम् १५७
अभ्यञ्जनं विधातव्यं यच्चान्यत्त्रिमलापहम्
हरीतक्या प्रियंग्वा च मालत्याऽऽमलकेन च १५८
मुखप्रक्षालनं कार्यं वासया खदिरेण वा
श्लक्ष्णपिष्टं तथाऽम्रास्थि रसाञ्जनसमन्वितम् १५९
दन्तमांसौष्ठजिह्वानां प्रधानं प्रतिसारणम्
सन्तप्यमाने शिरसि दधिसर्जरसाक्षतैः १६०
साश्वगन्धैर्मधुयुतैर्ललाटमुपलेहयेत्
लघ्वन्नकृतसंसर्गे निरष्टाहपरे ज्वरे १६१
संसर्गे सन्निपाते वा सप्रलापेऽनिलोत्तरे
सशूलबद्धविण्मूत्रे सश्वासे च विशेषतः १६२
पुराणसर्पिः संस्कारो विधेयो जाङ्गलो रसः
दशमूलकुलत्थानां यवानां कुवलस्य च १६३
कुलीरशृङ्ग्या रास्नायाः शटीपुष्करमूलयोः
भार्ग्या दुरालभायाश्च निर्यूहे साधु साधितः १६४
तेनास्य विगुणो वायुर्ज्वरश्चास्य प्रशाम्यति
पाचनीयैरुपक्रान्ते भग्नवेगे सति ज्वरे १६५
पक्वावशेषे च मले बले मन्दत्वमागते
पेयं सुशीतं सक्षौद्रमिदं संशमनद्वयम् १६६
पिप्पली सदुरालम्भा मृद्वीका वा सपिप्पिली
गुडूच्यामलकानां च स्वरसे साधितं घृतम् १६७
कल्केन सारिवाशुण्ठीलोध्रदाडिमचन्दनै
तद्धि मङ्गल्यकं नाम विषमज्वरनाशनम् १६८
ज्वराणां चापि सर्वेषामेतदेवामृतोपमम्
इति ह स्माह भगवान् कश्यपः
इति खिलेषु सूतिकोपक्रमणीयो नामैकादशोऽध्यायः

अथ जातकर्मोत्तराध्यायो द्वादशः
अथातो जातकर्मोत्तरमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
अथ खलु शिशोर्जातस्य तत्कर्मण्यभिनिर्वृत्ते प्रथम एव मासि कृतरक्षाहोममङ्गलस्वस्त्ययनस्य सूर्योदयदर्शनोपस्थानं प्रदोषे चन्द्रमसः ३
चतुर्थे मासि स्नातालङ्कृतस्याहतवाससा संवीतस्य ससिद्धार्थकमधुसर्पिषा रोचनया चान्वालब्धस्य धात्र्या सहान्तर्गृहान्निष्क्रमणं देवतागारप्रवेशनं च । तत्राग्निं प्रज्वलन्तं घृताक्षतैरभ्यर्च्य ब्रह्माणमीश्वरं विष्णुं स्कन्दं मातॄश्चान्यानि च कुलदैवतानि गन्धपुष्पधूपमाल्योपहारैर्मक्ष्यैश्च बहुभिर्बहुविधैः संपूज्य ततो ब्राह्मणवाचनं कृत्वा तेषामाशिषो गृहीत्वाऽभिवाद्य च गुरून् पुनः स्वमागारं प्रविशेत् । प्रविष्टं चैनमनेन मन्त्रेणाभ्युक्ष्य भिषग्वर्तेत ४
शरच्छतं जीव शिशो त्वं देवैरभिरक्षितः
द्विजैरप्याशिषा पूतो गुरुभिश्चाभिनन्दितः इति ५
षष्ठे मासि पुण्याहेऽभ्यर्च्य देवतां द्विजांश्च भोजनेन सन्तर्प्य दक्षिणाभिः स्वस्ति वाच्य च गृहमध्ये वास्तुमध्ये वा शुचौ देशे गोमयेनाद्भिश्च चतुर्हस्तमात्रं स्थण्डिलमुपलिप्य मण्डलं चतुरस्रं वा हिरण्यसुवर्णरजतताम्रकांस्यशीसायसानि मणयो मुक्ताप्रवालादयः सर्वे सर्वाणि धान्यानि व्रीहयः सर्वसतालेष्टक क्षीरदधिघृतमधुगोमयगोमूत्रकार्पासादीनि बालक्रीडनकानि पिष्टमयानि तद्यथा–गोगजोष्ट्राश्वगर्दभमहिषमेषच्छागमृगवराहवानररुरुशरभसिंहव्याघ्रकपितरक्षुवृककूर्ममीनशुकसारिकाकोकिलकल-विङ्कचक्रवाकहंसक्रौञ्चसारसमयूरक्रकरचकोरकपिञ्जलचरणायुधवर्तकाकाराणि शैलकगृहकरथकयानकस्यन्दनकशल्लिकाजिज्झिरिकाखैरिकेशीकातुम्बीकादुष्प्रवाह-कभद्रकसंचोल्लकपीठप — न्दिकादुहितृकाकुमारकगोलगन्दुकादीन्यन्यानि च स्त्रीकौतुकानीति भिषक् तस्य
मण्डलं सन्निधाय वसुधायै अर्ध्यं दत्त्वाऽनेन मन्त्रेण ६
त्वमग्रजा त्वं प्रभवाऽव्यया च
लोकस्य धात्री सचराचरस्य ।
त्वमीज्यसे त्वं यजसे महीह
मात्रेऽव नः पाहि कुमारमेनम् ७
तं ब्रह्मा अनुमन्यतां स्वाहा । ततस्तं मण्डलमध्ये तथैव स्नातमलङ्कृतमहतवाससं कुमारं प्राङ्मुखमुपवेशयेन्मुहूर्तं मुहूर्त्तमुपविश्य यद्धस्ताभ्यां प्रथमं गृह्णीत परिमृशेद्वा कृष्याद्वा तद्भागी भविष्यतीति हृदि निमित्तं कृत्वोत्थाप्योत्तरकालमवहितया धात्र्याऽन्वितः कुमारेण वा एतैरेव क्रीडनकैस्तैजसैरितरैश्च लघुभिरखरैरतीक्ष्णैरवक्रङ्गमैरनवोपस्करैराकर्षणाहरणशक्तै रुचिभिर्घोषवद्भिर्विनोद्यमानः सोपाश्रयास्तरणोपेतायां भूमौ प्रतिदिनमभ्यासार्थं सकृदुपविशेदिति ८
तत्र श्लोकाः–
उपलिप्ते शुचौ देशे शस्त्रतोयाग्निवर्जिते
उपविष्टं सकृच्चैनं न चिरात् स्थापयेद् बुधः ९
स्तैमित्यं कटिदौर्बल्यं पृष्टभङ्गः श्रमो ज्वरः
विण्मूत्रानिलसंरोधाध्मानं चात्युपवेशनात् १०
आसीनस्यातिबालस्य सततं भूमिसेवनात्
आसन्नान्येव दुःखानि निर्घातं गात्रभेदनम् ११
निर्घाताज्जर्जराङ्गत्वं वेदना ज्वरसंभवः
ततो न वृद्धिर्बालस्य कठोराङ्गत्वमेव च १२
मक्षिकाक्रिमिकीटानां वेलाझञ्झानिलस्य च
सर्पाखुनकुलादीनां गम्यो भवति नित्यशः १३
तस्मान्नातिचिरं नैको न बालो न च रोगितः
उपवेश्यो भवेद्बालो नापुण्याहकृतादिकः १४ इति
तस्मिन्नेव मासि विविधानां फलानां प्राशनं भिषगनुतिष्ठेत् । तद्धि दन्तजातस्यान्नप्राशनं दशमे वा मासि प्रशस्तेऽहनि प्राजापत्ये नक्षत्रेऽऽभ्यर्च्य देवतां ब्राह्मणांश्च समांसेनान्नेन दक्षिणावता स्वस्ति वाच्य गोमयोपलिप्ते स्थण्डिले दर्भानास्तीर्य सुमनसोऽवकीर्य चतुर्षु स्थानेषु गन्धमाल्यालङ्कृतान् पूर्णकलशान् स्वस्तिकांश्च स्थाप्य क्रीडनकविहितानि पूर्ववदुपकरणानि सर्वाण्येवोपकल्प्य लावककपिञ्जलतित्तिरचरणायुधानामन्यतमस्य मांसेनान्यैश्च विचित्रसुसंस्कृतकामिकैर्व्यञ्जनैः समुदितमन्नपानं मध्ये निधाय ततो भिषक् सुतमलङ्कृतमहतवस्त्रपरिहितमनुष्ठितरक्षाविधानं कुमारं प्राङ्मुखः प्रत्यङ्मुखमुपवेश्याग्निं प्रज्वाल्यान्नं सर्वव्यञ्जनोपेतं गृहीत्वाऽनेन मन्त्रेण जुहुयात् १५
यथा सुराणाममृतं नागेन्द्राणां यथा सुधा
तथाऽन्नं प्राणिनां प्राणा अन्नं चाहुः प्रजापतिम् १६
तदुद्भवस्त्रिवर्गश्च लोकाश्चैव यथा ह्यमी
जुहोमि तस्मात्त्वय्यन्नमग्नेऽमृतसुखोपगम् १७
प्रजापतिरनुमन्यतां स्वाहा । हुतशेषस्याङ्गुष्ठमात्रं सुमृदितं कृत्वालभ्य बालं ततोऽस्य मुखे दद्यात्त्रीणि पञ्च वा वारान् प्राश्योपस्पृशेच्चैनम् उत्थाप्योर्ध्वं द्वादशमासिकस्यान्नमभिलषतोऽल्पशश्चमानि दद्यादिति
१८
तत्र श्लोकाः–
शालीनां षष्टिकानां वा पुराणानां विशेषतः
तण्डुलैर्निस्तुषैर्भृष्टैः क्षालितैः साधिता द्रवाः १९
सस्नेहलवणा लेह्या बालानां पुष्टिवर्धनाः
गोधूमानां तथा चूर्णं यवानां वाऽपि सात्म्यतः २०
विडङ्गलवणस्नेहैः पक्वोष्णं लेहनं हितम्
भृशं भिन्नपुरीषस्य कोद्रवानां निधापयेत् २१
मृद्वीकामधुसर्पींषि दद्यात् पित्तात्मनः सदा
मातुलुङ्गरसोपेतं वाते सलवणाशनम् २२
एकान्तरं द्व्यन्तरं वा देशाग्निबलकालवित्
यदा वा क्षुधितं पश्येत्तदैनम् सात्म्यमाशयेत् २३
इति ह स्माह भगवान् कश्यपः
इति खिलेषु जातकर्मोत्तरं नाम द्वादशोऽध्यायः

अथ कुक्कुणकचिकित्सिताध्यायस्त्रयोदशः
अथातः कुक्कुणकचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
यदा माता कुमारस्य मधुराणि निषेवते
मत्स्यं मांसं पयः शाकं नवनीतं तथा दधि ३
सुरासवं पिष्टमयं तिलपिष्टाम्लकाञ्जिकम्
अभिष्यन्दीनि सर्वाणि काले काले निषेवते ४
भुक्त्वा भुक्त्वा दिवा शेते विसंज्ञा च विबुध्यते
तस्य दोषाः प्रकुपिता दूरं गत्वा च तिष्ठते ५
दोषेणावृतमार्गायास्ततः स्तन्यं च दुष्यते
प्रदुष्टदोषसंज्ञं तु यदा पिबति दारकः ६
लवणाम्लनिषेवित्वान्मातापुत्रौ रसादिह
आहारदोषातस्यास्तु बालस्यानन्नभोजिनः ७
अनुप्रवेशादाक्षेपादुष्णसत्त्वावनादपि
जायते नयनव्याधिः श्लेष्मलोहितसंभवः ८
अभीक्ष्णमस्रं स्रवते न च क्षीवति दुर्मनाः
नासिकां परिमृद्नाति कर्णं वाञ्छति दुःखितः ९
ललाटमक्षिकूटं च नासां च परिमर्दति
नेत्रे कण्डूयतेऽभीक्ष्णं पाणिना चाप्यतीव तु १०
स प्रकाशं न सहते अश्रु चास्य प्रवर्तते
वर्त्मनि श्वयथुश्चास्य जानीयात्तं कुक्कुणकम् ११
तस्य चिकित्सितं श्रेष्ठं व्याख्यास्यामि यथा तथा
धात्रीं तु तस्य वामयेद्युक्तं चैव विपाचयेत् १२
तस्या वान्तविरिक्ताया निर्दुह्य च स्तनावुभौ
भोजनानि च सर्वाणि यथायुक्तं प्रदापयेत् १३
पथ्यं भुञ्जीत खादेत विपरीतं च वर्जयेत्
प्रयता शुद्धवस्त्रा स्यादक्लिष्टाऽमलिना तथा १४
ततो वर्त्मनि बालस्य निर्भुज्याथ प्रमृज्य च
निर्मुच्य रुधिरं दुष्टं कुर्याद्धीरोऽवसेचनम् १५
एरण्डं रोहिषं चैव त्वक्क्षीरीं वरुणं तथा
निष्क्वाथमेतत् कृत्वा च कुमारं परिषेचयेत् १६
फणिज्झकस्य पत्राणि सुरसस्य च पीडयेत्
जातिप्रसन्नामण्डेन यष्टीमधुकमेव च १७
एतदाश्चोतनं तस्य शारदेन जलेन तु
त्र्यहमेतत् प्रयुञ्जीत द्व्यहं वाऽपि विधानवित् १८
ने कराजस्य पत्राणि बिल्वस्याच्छवनां तथा
सुराग्रमण्डसंपिष्टं श्रेष्ठमाश्चोतनं मतम् १९
कोलान्युत्क्वाथ्य कल्कं वा यष्टीमधुकसंयुतम्
नेत्रामये मुखालेपः कश्यपस्तत्प्रशंसति २०
नेकराजीं च नीलीं च सुरसं गौरसर्षपाः
हरिद्रां चैव तत् सर्वं कल्कं कुर्वीत भागशः २१
एतदालेपनं कुर्याद्रोगघ्नं नयनामये
वेदनामक्षिरोगं च क्षिप्रमवापकर्षति २२
हरिद्रात्वचमाहृत्य पिप्पलीं चाथ भागशः
वरप्रसन्नया मण्डं कुर्यादञ्जनवर्तिकाम् २३
पिल्लिका चोपलेपश्च नेत्रयोस्तेन शाम्यति
अथास्याश्च्योतनं कुर्यात् सौवीरकमनुत्तमम्
प्रपौण्डरीकं लोध्रं च हरिद्रां शर्करां मधु २४
परिषेको भवेच्छ्रेष्ठो जलेनोष्णेन योजयेत्
अक्षिरोगेषु सर्वेषु योग एष प्रशस्यते २५
आचार्यानुमतं श्रेष्ठं रात्रौ चैनं प्रयोजयेत्
आटरूषकपत्राणि मधूकं सैन्धवं तथा २६
पुण्डरीकस्य पत्राणि तथा नीलोत्पलानि च
सुखोदकेन संयुक्तः परिषेको हितो भवेत् २७
कफात्मके त्वभिष्यन्दे सिद्धमेतं नराधिपः
अमृतायास्तु निष्क्वाथे कुष्ठं च गुडमेव च २८
विनीय पिष्टं तोयेन परिषेकोऽक्षिरोगिणाम्
परिषेकास्तु बलानां दन्तजन्मनि ये मया २९
कीर्तितास्ते प्रयोक्तव्याः परिभूताक्षिरोगिषु
गव्येन मधुना पिष्ट्वा शङ्खेन सह सैन्धवम् ३०
सप्तरात्रं प्रलेप्यं तु तेन स्रौतसमञ्जनम्
तं पिष्ट्वा गुडिकां कृत्वा छायायां परिशोषयेत् ३१
पुष्ये सर्वास्तु सिद्धास्ता गुडिकाः पत्रसन्निभाः
पृश्निपर्ण्यास्तु भागौ द्वावंशुमत्यास्तथा भवेत् ३२
त्रयश्चैवोरुपूगस्य बृहत्या भागमेव तु
रजसश्चायसश्चाथ तथा ताम्रायसस्य च ३३
अजाक्षीरेण पिष्ट्वा तु शोषयेद् गुटिकां कृताम्
अजानां लिण्डिकाभिस्ताः शमीपत्रैश्च धूपयेत् ३४
तथैवार्द्राश्च शुष्काश्च बालानामक्षिरोगके
रसाञ्जनं च यन्मुख्यं हरिद्रात्वचमेव च ३५
प्रसन्नयाऽञ्जनं त्वेतत् कुर्यादञ्जनवर्तिकाम्
पिप्पलीं शृङ्गबेरं च समभागानि पेषयेत् ३६
सुराग्रेण ततः कुर्यात् पिल्लिकाञ्जनवर्तिकाम्
अथवाऽतिभवेन्नेत्रशूलं बालस्य लक्षयेत् ३७
स्तब्धनेत्रश्च दृश्येत तत्रेमं विधिमाचरेत्
पिप्पलीं शृङ्गबेरं च पर्णानि सुरसस्य च ३८
कालमालकपर्णानि तथैव च कुठेरकम्
तं प्रपिष्य सुराग्रेण कुर्यादञ्जनवर्तिकाम् ३९
पिल्लिकामुपदेहं च न चिरादेव नाशयेत्
कपित्थस्याथ बिल्वस्य खदिरस्य च पेषयेत् ४०
अजाक्षीरस्य पात्रं च ततः श्च्योतनमुत्तमम्
कपित्थस्याऽटजीनां च पत्राणि सुरसस्य च ४१
अजाक्षीरेण पिष्टानि कुर्यादाश्च्योतनं भिषक्
मधुकं पर्वतीयां च हरिद्रां पेषयेत् समाम् ४२
अजाक्षीरेण तत् कुर्यादाश्च्योतनमनुत्तमम्
सर्पिर्मण्डं सुराग्रं च ऐन्द्रीं चन्दनमेव च ४३
सलिलेन प्रपिष्टानि कुर्यादञ्जनवर्तिकाम्
पद्मकं चोत्पलं चैव मधुकं च प्रपेषयेत् ४४
अक्षिरोगे मुखालेपमजाक्षीरेण शर्कराम्
शृङ्गबेरोऽथ मञ्जिष्ठा कार्पासकुलकानि च ४५
सलिलेन प्रपिष्टानि मुखालेपनमुत्तमम्
त्रिफलामञ्जनं चैव तथैव च रसाञ्जनम् ४६
मधुना समभागानि कुर्यादाशु रसक्रियाम्
पिप्पलीं शृङ्गबेरं च मरिचानि तथाऽञ्जनम् ४७
त्रिफलां शङ्खनाभिं च सैन्धवं ताम्रजं रजः
एते भागाः समाः पिष्टाश्छायायां गुडिकाः कृताः ४८
शोषयित्वा विकारेषु नैकजेषु प्रदापयेत्
तिमिरे तोयसंसृष्टा कोथके मार्कवेन तु ४९
रसेन पिष्ट्वा सिद्धस्य द्राक्षाक्षुद्रोदकेन तु
गुडिका कोकिला नाम चक्षुर्व्याधिषु संमता ५०
हितभोजिषु योक्तव्या बालेषु भिषगुत्तमैः
निर्यासो नक्तमालस्य घृतमण्डेन साधितः ५१
स्तन्यक्षीरेण तिमिरे कण्डौ चैव हितो भवेत्
सुवर्णगैरिकं लाक्षा सैन्धवं मरिचानि च ५२
सशर्करं त्रिकटुकं गुटिकां ह्युपकल्पयेत्
एषा लोहितिका नाम गुडिका तु स्मृता बुधैः ५३
प्रयोक्तव्याऽक्षिसंरम्भे क्षिप्रं निर्वाणमिच्छता
पिप्पल्यस्त्रिफला चैव वचा कटुकरोहिणी ५४
षडेताः समभागाः स्युः सप्तमं ताम्रजं रजः
जलपिष्टा भवेदेताः सूर्यतप्ताः पुनः पुनः ५५
गुडिकाः कारयेत्ता हि छायायां परिशोषयेत् ५६
रूक्षां घृतेन पिष्टां दुग्धेनाजेन कोथके दद्यात्
पाशवरसेन तिमिरे राजिषु मधुकेन देया तु ५७
कोथके मर्मजे सर्वा सर्वाभिष्यन्द एव च
सैन्धवेन समायुक्ता हन्यात् कण्डूं जलान्विता ५८
द्वीपिशत्रोश्च पत्राणि निष्क्वाथमुपहारयेत्
एतेन चाक्षिरोगं तु कोष्णेन परिषेचयेत् ५९
सरलं मधुकं चैव देवदारुं च पेषयेत्
कल्केनैतेन वदनं वेदनासु प्रलेपयेत् ६०
रसाञ्जनं तार्क्ष्यशिलां क्षौद्रेण सह संयुताम्
आश्च्योतनं प्रयुञ्जीत नेत्राव्याधिविनाशनम् ६१
शर्करां शृङ्गबेरं च स्तन्यं गोपित्तमेव च
रसाञ्जनं समधुकं कुर्यादाश्च्योतनं भिषक् ६२
हरिद्रां शङ्खनाभिं च सलिलेन प्रपेषयेत्
क्षीरस्य मात्रया चैव कुर्यादाश्च्योतनं हितम् ६३
हरिद्रां पर्वतीयां तु सूर्यतेजसि पाचयेत्
ताम्रपट्टेषु पिष्टां च सारसेनावसेचयेत् ६४
शीतं च परिपूतं च स्तन्येन सह संयुतम्
आश्च्योतनं प्रयुञ्जीत नेत्रव्याधिविनाशनम् ६५
सर्पिषश्च भवेद्भागः क्षौद्रेण द्विगुणं भवेत्
तत्काले प्रलिपेद्बालो नेत्रव्याधौ प्रमुच्यते ६६
हरिद्रां शङ्खनाभिं च भद्रमुस्तं च काढकम्
पिष्ट्वा व्याघ्रनखं चैव मधुकं चैव भागशः ६७
शिरीषबीजं प्रथमं ताभ्यां कुर्वीत पूपिकाम्
ताम्रपात्रे सतैलास्ताः सूर्यतेजसि पाचिताः ६८
द्वादशेऽह्नि निवाते च नीरजस्काः प्रयत्नतः
शिलामये ततो भाण्डे तैलं तां चैव पूपिकाम् ६९
आतुराण्यथ नेत्राणि तैलेनानेन पूरयेत्
व्याधिमाशु नृणां हन्ति प्रयोगश्चेत् प्रशस्यते ७०
हरीतकीमामलकीं हरिद्रां गिरिजामपि
मधुकं च समं सर्वं सलिलेन प्रपेषयेत् ७१
एतदाश्च्योतनं मुख्यं व्याधीनां शमनं हितम्
स्थविराणां शिशूनां च एतदाश्च्योतनं हितम् ७२
हरिद्राशकलीकानामार्द्राणां कर्षमावपेत्
ताम्रपात्रे मितं दद्यात् सारमस्याढकं मितम् ७३
दशभागावशेषं तु मृद्वग्निमुपसाधितम्
शीतं च परिपूतं च मुख्यमाश्योतनं हितम् ७४
शकलीकमथाक्षीणां धारयेन्नयनामये
ग्रीवायामुत्तमाङ्गे वा तथा रोगात् प्रमुच्यते ७५
आलङ्कतकमूलाणि वास्तुकस्य यवस्य च
आघृष्य नव एषां तु मूर्ध्नि कुर्वीत कण्टकान् ७६
अक्षिरोगं शिरोरोगं सर्वमेतेन शाम्यति
बलामतिबलां चैव त्रिवृतां चैव गर्भिणी ७७
सव्ये पाणिपुटे कृत्वा पीडयेत्तमपूर्वशः
तं रसं क्षौद्रसंसृष्टं कण्ठमस्याः प्रलेपयेत् ६७
सपिप्पलीशृङ्गबेरां हरितालमनःशिलाम्
रसाञ्जन तार्क्ष्यशिलां सुमनाकोरकाणि च ७९
सप्तमोऽत्र गुडस्यांशो मधुना सह पेषितः
एषा कल्याणिका नाम सर्वरोगरसक्रिया ८०
मरिचं शृङ्गबेरं च समभागानि कारयेत्
दधिनाऽम्लेन पिष्ट्वा तु ताम्रपट्टं प्रलेपयेत् ८१
सप्तरात्रं प्रलिप्यैव ततो दध्ना प्रपेषयेत्
वर्त्योऽथ तनुकाः कार्या दद्यात् कौतुकमञ्जनम् ८२
मृदुपूर्वमदोषं तु मात्रायुक्तं च भेषजम्
सादेश्यात्तत्कुलीनां च कुर्याद्बाले भिषक् क्रियाम् ४७
कटुकीया हि केचित् स्यान्मधुरीयास्तथाऽपरे
मृदु तस्मै उपक्राम्यंस्तीक्ष्णमप्यल्पमाचरेत् ८४
इति वार्योविदायेदं महीपाय महानृषिः
शशंस सर्वमखिलं बालानामथ भेषजम् ८५
लोध्रं सयष्टीमधुकं तु पिष्टं
घृतेन भृष्टं तु निबध्य वस्त्रे
क्वाथं गुडूच्याः परिमृज्य तप्ते
निहन्ति सर्वाक्षिगतान्विकारान् ८६
इति ह स्माह भगवान् कश्यपः ८७
इति वृद्धकाश्यपीयायां संहितायां कुक्कुणकचिकित्साध्यायस्त्रयोदशः १३

अथ विसर्पचिकित्सिताध्यायश्चतुर्दशः
अथातो वैसर्पचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
कश्यपं भिषजां श्रेष्ठमादित्यसमतेजसम्
हुताग्निहोत्रमासीनमपृच्छद् वृद्धजीवकः ३
भगवन् मण्डलीभूतं त्वग्रक्तं मांसमेव च
विदहन् दृश्यते व्याधिराशीविषविषोपमः ४
दुःसहः सुकुमाराणां कुमाराणां विशेषतः
तस्य दारुणरूपस्य दीप्ताग्निसमतेजसः ५
समुत्पत्ति च रूपं च चिकित्सां च महामुने
वक्तुमर्हसि तत्त्वेन बालानां हितकाम्यया ६
इति पृष्टः स शिष्येण प्रोवाचेदं महामुनिः
दक्षक्रोधाद्भगवतो रुद्रस्यामिततेजसः ७
संदष्टौष्ठपुटस्यौष्ठाद्यद्रक्तं प्रापतद् भुवि
लोहिताङ्कोऽभवत्तस्माद्वैसर्पश्चाग्निसन्निभः ८
तस्मान्निर्दाहिनावेतौ भृशं पीडाकृतौ नृणाम्
विविधं सर्पणाद्देहे वैसर्पस्तु निरुच्यते ९
क्षताद्भग्नादथोत्पिष्टादामच्छेदाद्विधारणात्
दध्यम्लमन्दकसुराशुक्तसौवीरकस्य च १०
तिलमाषकुलत्थानां पलाण्डोर्लशुनस्य च
ग्राम्यानूपौदकानां च मांसानामतिसेवनात् ११
विरोधिगुर्वभिष्यन्दपूतिपर्युषिताशनात्
दिवास्वप्नादजीर्णाच्च शाकपिष्टान्नसेवनात् १२
विषोपहतवाय्वम्बुवस्त्रपानान्नसेवनात्
एवमादिभिरप्यन्यैर्दुष्टा वातादयः शिशोः १३
वैसर्पं जनयन्त्याशु रक्तादीन् संप्रदूष्य तु
एवमेव प्रकुपितैर्दोषैर्दुष्टं यदा पयः १४
सेवते तस्य तद्दोषाद्वैसर्पः संप्रजायते
वातिकः पैत्तिकश्चैव श्लैष्मिको द्वन्द्वजास्त्रयः १५
सन्निपाताच्च सप्तैते वैसर्पाः समुदाहृताः
न विना रक्तपित्ताभ्यां वैसर्पो जातु जायते १६
रक्ताश्रयो रक्तभवः पित्तं रक्ते व्यवस्थितम्
तस्माद्रक्तावसेकोऽत्र भेषजं परमुच्यते १७
बलकालवयोदोषदेशदेहव्यपेक्षया
लक्षणान्यत ऊर्ध्वं तु प्रवक्ष्याम्यनुपूर्वशः १८
हेतुभिः पूर्वमुद्दिष्टैर्यदा प्रकुपितोऽनिलः
रक्तादीन्यभिदूष्याशु वै — १९
वातरक्तज्वर — स्फोटांश्चैष न – येत्
ऊर्ध्वाधःशुद्धदेहानां बहिर्मार्गाश्रिते मले
आदितश्चाल्पदोषाणां क्रियां कुर्यादिमां भिषक्

लङ्घयित्वा यथाकालं कषायैः समुपक्रमेत्
प्रदेहैः परिषेकैश्च स्नेहैरभ्यञ्जनैरपि

रक्तावसेकैः पथ्यैश्च पानान्नौषधसेवनैः
वातवैसर्पिणं पूर्वमनुबन्धविशेषतः

पुराणं प्रपुराणं वा कौम्भं वा पाययेद् घृतम्
तैलं सलवणं चास्य क्षिप्रमभ्यञ्जने हितम्

आरनालेन सुरया बलया वा विपाचितम्
मधुकस्य च कल्केन गुडूच्या स्वरसेन च

तुल्यक्षीरं पचेत्तैलं तदस्याभ्यञ्जने हितम्
बलां रास्नां बृहत्यौ द्वे वर्चीवं सपुनर्नवम्

पाटलां सुषवीं चैव मधुकं देवदारुकम्
पिष्ट्वा विपक्वं दध्ना च तैलमभ्यञ्जने हितम्

बिल्वाग्निमन्थकाश्मर्यश्योनाकैरण्डपाटलैः
पयसा चाम्बुना वाऽपि शृतेन परिषेचयेत्

भृष्टैः पयसि निर्वातैरतसीतिलसर्षपैः
क्षीरपिष्टैः प्रलिम्पेद्वा वातवैसर्पपीडितम्

सुषवीं सुरभीं रास्नां वर्चींवं सपुनर्नवम्
एकाष्ठीलां पलाशं च देवदारुं च पेषयेत्
जलेनाम्लेन वा तेन स्निग्धोष्णेन प्रलेपयेत्
तिल्वकेन त्रिवृतया नीलिन्या वा पृथक्पृथक्

विपक्वं पाययेत् सर्पिः समस्तैर्वा विरेचनम्
आभिः क्रियाभिः प्रशमं न प्रयाति यदाऽनिलः

स्वभ्यक्तं स्वेदयेद्वस्त्रैर्वेशवारेण वा पुनः
उक्ताभिराभिः स्निग्धाभिः पायसैः कृसरेण वा

शुष्कमूलककल्कैर्वा कल्कैः शोभाञ्जनस्य वा
सुखोष्णैः प्रदिहेदेनं नात्युष्णं वाऽऽचरेद्विधिम्

स्वेदैः प्रशान्ते त्वनिले प्रकुप्येत् पित्तमग्निवत्
यथा न च प्रकुप्येत पित्तं वायुश्च शाम्यति

तथा भिषक् प्रयुञ्जीत वातपित्तहरीं क्रियाम्

पैत्तिके तिक्तकं सर्पिरुक्तं ज्वरचिकित्सिते
निरामं पाययेद्वैद्यः स्निग्धं ज्ञात्वा विरेचयेत्

चन्दनं पद्मकोशीरं तथा चन्दनसारिवाम्
मृद्वीकां च विदारीं च काश्मर्याणि परूषकम्

वासाशृतं पिबेदेतद्बैसर्पज्वरनाशनम्

उशीरं मधुकं द्राक्षां काश्मर्याण्युत्पलानि च
कशेरुकामिक्षुगण्डं परूपकफलानि च

पूर्वकल्पेन पेयानि ज्वरवैसर्पशान्तये
कैरातं मधुकं लोध्रं चन्दनं सबिभीतकम्

पद्मोत्पलं नागपुष्पं नागरं सदुरालभम्
निष्क्वाथ्य शीतं मधुना पेयं वैसर्पशान्तये १६

पटोलं चन्दनं मूर्वा गुडूचीं कटुरोहिणीम्
मुस्तां पाठां सयष्टीकां पूर्वकल्पेन पाचयेत्

व्याघातकं हरिद्रे द्वे कुटजं कटुरोहिणीम्
गुडूचीं मधुकं चैव चन्दनं चेति तत् पिबेत्

पिचुमन्दं पटोलं च दार्वीं कटुकरोहिणीम्
गुडूचीं मधुकं चैव चन्दनं चेति तत् पिबेत्

पिचुमन्दं पटोलं च दार्वीं कटुकरोहिणीम्
त्रायमाणां सयष्टीकां पिबेद्बैसर्पशान्तये

पटोलनिम्बमुस्तानां चन्दनोशीरयोरपि
मुस्तकामलकोशीरसारिवाणामथापि वा

दद्यात् कषायं पानेन पित्तवैसर्पशान्तये
पटोलमुस्तामलकशृतं वा सघृतं पिबेत्

उदुम्बरत्वङ्मधुकं प्रियङ्ग्वो नागकेशरम्
पद्मोत्पलानां किञ्जल्कं प्रदेहः सघृतो हितः

अश्वत्थोदुम्बरप्लक्षवटवेतसजाम्बवैः
त्वग्भिः सुपिष्टैरालेपः शतधौतघृताप्लुतैः

शकुभोदुम्बराश्वत्थवटलोध्रत्वचः समाः
वेतसत्वक् सशालूका नऽ— पेषयेत्

सहविष्कः प्रलेपोऽयं दाहरागनिवारणः
उशीरं चन्दनं चैव शाड्वलं शङ्खमुत्पलम्

वेतसस्य च मूलानि प्रदेहः स्यात् सतण्डुलः
ह्रीबेरं चन्दनोशीरं मञ्जिष्ठां कुमुदोत्पलम्
शारिवां पद्मकिञ्जल्कं प्रलेपनमनुत्तमम्
विदारीं चन्दनोशीरं तथा चन्दनसारिवाम्

मधुकं क्षीरशुक्लां च दद्यादालेपनं भिषक्
तालीशं पद्मकोशीरं मञ्जिष्ठां चन्दनद्वयम्

प्रपौण्डरीकं मधुकं प्रलेपो दाहनाशनः
मुक्ताशङ्खप्रलेपैश्च शुक्तिस्फाटिकगैरिकैः

सघृतैः प्रदिहेदेनं समस्तैर्लाभतोऽपि वा
कदलीकुशकाशानां तथैव नडवेत्रयोः

मूलानि चन्दनोशीरं पद्मकर्षभजीवकम्
कुमुदोत्पलपत्राणि मूर्वासौगन्धिकानि च
मृणालविशशालूकतृणशोलेक्षुवालिकाः
प्रपौण्डरीकं मधुकं तालीशं सकशेरुकम्

इक्षुवेतसमूलानि सानन्ताः क्षीरिणां त्वचः
शतावरीं समञ्जिष्ठां कुम्भीकामिति संहरेत्

संक्षोद्यैतानि मतिमान् वासयेत् सलिले निशि
रसं तमथ निस्राव्य परिषेकं तु दापयेत्

घृतं वा विपचेदेभिर्म्रक्षणं पयसा सह
एतेनैव कषायेण पयस्तुल्यं पचेद्भिषक्

चतुर्भागावशिष्टं च खजेनाभिप्रमन्थयेत्
तत्रोत्थितं घृतं भूयः पयसाऽष्टगुणेन तु

कल्कैः पयस्यामधुकचन्दनानां विपाचितम्
अभ्यङ्गे भोजने पाने दद्याद्वैसर्पनाशनम्

घृतेन परिषक्त — न्तर ।
यष्टीमधुकतोयेन क्षीरेणेक्षुरसेन वा

वटादिवल्कतोयेन शीतेन परिषेचयेत्
प्रदिहेद्वा वटादीनां कल्केन सघृतेन तु

तथा सहस्रधौतेन शतधौतेन वा पुनः
सर्पिषा प्रदिहेदेनं दाहे क्षीरोत्थितेन वा
सदाहरामपाके तु श्वयथौ विप्रसर्पति

अन्तर्विशुद्धदेहानां जलौकाभिहरेदसृक्
निःस्राव्य दुष्टं रुधिरं कुर्याद्रक्तप्रसादनम्

सघृतैः क्षीरिणां कल्कैर्यथोक्तैः शीतलैरपि
आदितः श्लेष्मवैसर्पे वमनं संप्रकल्पयेत्

लङ्घनं वाऽल्पदोषाणां ततः कुर्यादिमां क्रियाम्
मुस्तां पाठां हरिद्रे द्वे कुष्ठं तेजोवतीं वचाम्

शार्ङ्गिष्ठां त्रिफलां मूर्वामग्निं हैमवतीमपि
वत्सकातिविषे चैव तथा कटुकरोहिणीम्

निष्क्वाथ्य पाययेदेनं पिष्टैस्तैश्च प्रलेपयेत्
आरग्वधं सोमवल्कं कुटजातिविषे घनम्

पाठां मूर्वां सशार्ङ्गिष्ठां कुष्ठं च विपचेद्भिषक्
तत्कषायं पिबेत् काले सुपिष्टैस्तैश्च लेपयेत्

तेनास्य कण्डूः कोठानि शोफश्चाशु प्रशाम्यति
शृतं वाऽप्यमृताशुण्ठीपर्पटैः सदुरालभैः

पिबेत् कषायं मधुना वैसर्पज्वरपीडितः
त्रिफलोशीरमुस्तानि एरण्डं देवदारु च

निष्क्वाथ्य परिषेक्तव्यो निम्बपत्रोदकेन वा
शिग्रुत्वक्सुरसास्फोटकालमालफणिज्झकैः

साटरूषैः शृतं तोयं प्रदद्यात् परिषेचनम्
खदिरोदकसेको वा गोमूत्रेणाथवा हितः

गृहधूमं हरिद्रे द्वे मालतीपल्लवानि च
विडङ्गं द्वे हरिद्रे च पिप्पल्यस्तललण्डिका

मुस्ताऽमृता हरिद्रे द्वे पटोलारिष्टपल्लवाः
कुटजातिविषे मुस्तं कुष्ठं चेति प्रपेषयेत्

आगारधूमं रजनीं सैन्धवं च प्रलेपनम्
श्लोकार्धविहिता ह्येते योगाः स्वल्पघृतायुताः

प्रदेहार्थे प्रयोक्तव्याः शोफकण्डूरुजापहाः
सप्तपर्णं सखदिरं मुस्तमारग्वधत्वचम्

कुरण्टकं देवदारु प्रलेपनमनुत्तमम्
पलाशभस्म चैकाङ्गं लेपो गोमूत्रसंयुतः

सक्षारं सार्षपं तैलमथवाऽपि ससैन्धवम्
अभ्यङ्गार्थे प्रयोक्तव्यं तैलं कारञ्जमेव वा
कुष्ठसैन्धवचूर्णं वा तैलाक्तस्यावघर्षणम्

स्वर्जिकातिविषे मुस्तं त्वगेलेल्वार्थवत्सकैः
शताह्वागरुकुष्ठैश्च पिष्टैस्तैलं विपाचयेत्

तदस्याभ्यञ्जने योज्यं कण्डूकोठारुनाशनम्
शिग्रुमूलमहिंस्रां च पिष्ट्वा सर्पिर्विपाचयेत्
तेनास्याभ्यञ्जयेद्गात्रं कुष्ठतैलेन वा पुनः

एतेन विधिना व्याधिर्यदि नैवोपशाम्यति
कण्डूमद्भिः सदाहैश्च मण्डलैर्विदहेदपि

ततो विरेचनं दद्याद्रक्तं चास्यावसेचयेत्
विनिर्हृते दुष्टरक्ते कुर्याद्रक्तप्रसादनम्

सघृतैस्त्रिफलाकल्कैर्मधुकोदुम्बरान्वितैः
इति वातादिजानां ते वैसर्पाणां चिकित्सितम्

समासव्यासयोगैश्च पृथक्त्वेन च कीर्तितम्
एतदेव च संसृष्टं संसृष्टेषु प्रयोजयेत्

यवान्नं शालयो मुद्गा मसूराः सहरेणवः
भोजनार्थे पुराणाः स्युर्जाङ्गलाश्च मृगाद्विजाः

मसूरिकाः सविस्फोटाः कक्ष्यां पामां तथैव च
संसृष्टपित्तरक्तोत्था वैसर्पवदुपक्रमेत्
इति ह स्माह भगवान् कश्यपः
इति उत्तरेषु खिलस्थाने भार्गवीयायां संहितायां वैसर्पचिकित्साध्यायश्चतुर्दशः १४

अथ चर्मदलचिकित्सिताध्यायः पञ्चदशः
अथातश्चर्मदलचिकित्सितं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

अथ खलु भगवन्तमृषिगणपरिवृतं ब्राह्मा श्रिया देदीप्यमानमृषिश्रेष्ठं कश्यपमभिवांद्य पप्रच्छ भार्गवः–भगवन् क एषचर्मदलो नाम व्याधिर्विसर्पमाणोऽग्निदग्धोपमरूपोऽत्याबाधकरो बालानामङ्गेषूपपद्यते कथं चोत्पद्यते क्षीरपाणां कुमाराणां क्षीरान्नादानां तु नवाऽन्नादवयःस्थानाम् अत्र को हेतुः किमात्मकः कतिविधः कानि चास्य
लक्षणानि उपद्रवाश्च के इत्येवं व्याख्यातुमर्हसीति ३

अथ भगवानब्रवीद्वत्स श्रूयतामिह खलु क्षीरपाणां कुमाराणां स्तन्यदोषेण क्षीरान्नादानां स्तन्यदोषेणाहारदोषेण च सुकुमाराणामस्थिरधातूनां बालानां गर्भशय्योचितमृदुशरीराणां वस्त्राङ्काधारणोष्णानिलातपस्वेदोपनाहस्वमलमूत्रपुरीषसंस्पशाशौचपाणिपीडनाऽती-वोद्वर्तनकुलप्रवृत्त्यादिभिरुपायैर्मुखगलहस्तपादवृषणान्तरकट्यङ्ग
सन्धिषु चोत्पद्यते ४

नचान्नादवयःस्थानामिति किं कारणं स्थिरकठिनसंहतत्वगस्थिधातूनां तथा नित्यव्यायामोपचितगात्राणां क्लेशं सहतां न भवत्येष
व्याधिरिति ५

वायुभूयिष्ठत्वाद्वाय्वात्मकमेवोदाहरन्ति । चर्मदलमिति चर्मावदारणात् । स चतुर्विधो–वातिकः श्लैष्मिकः सान्निपातिक इति ६

तत्र या बालस्य माता वा धात्री वा रूक्षसमुदाचाराहारोदावर्तनोपवसनशीला तथाऽतिचङ्क्रमणव्यायामक्लेशानत्यर्थमुपसेवते तस्या वायुः प्रकुपितः स्तन्यं दूषयति । तस्य लक्षणम् – उदके प्रक्षिप्तं प्लवते विच्छिद्यते छत्रायते श्यावावभासं रसेन तिक्तकषायं विरसं चेति । तत् पिबतो जन्तोरिमानि रूपाणि भवन्ति–सकण्डूस्फुटितपरुषश्यावावभासान्यङ्गे मण्डलानि पिप्लुतं तनु विवर्णमतिसार्यते प्रवेपकमुखशोषरोमहर्षान्वितश्च वातचर्मदलः ७

यदा तु धात्री क्रोधसंतापोष्णाम्ललवणकटुकविदग्धाध्यशनविवशानुपसेवते तस्याः पित्तं प्रकुपितं वायुना विक्षिप्यमाणं स्तन्यवहाभिः सिराभिरनुसृत्य स्तन्यं दूषयति । तस्य लक्षणानि–उदके प्रक्षिप्तं हरितरक्तासितावभासं भवत्यथ रसेन कट्वम्ललवणतिक्तं स्पर्शेनोष्णमिति । तत् पिबतो जन्तोरिमानि रूपाणि भवन्ति–रक्तनीलावभासानि श्यावपीताभानि शुष्कच्छवीन्युष्णानि कुथितदोषपूर्णानि मण्डलान्युत्पद्यन्तेऽस्य विसर्पीणित्वङ्मांसदारणानि प्रभिन्नानि पद्मपत्रप्रकाशान्यग्निदग्धोपमानि भवन्ति । अतोऽतिसार्यते हरितपीतगुदपाककरमभीक्ष्णं दाहमुखशोषच्छर्दियच्च वदनान्वितश्च पित्तचर्मदलः ८

अथ या धात्री गुर्वम्ललवणमधुराभिष्यन्दिदिवास्वप्नालस्याहितानि चात्यर्थमुपसेवते तस्याः प्रकुपितः श्लेष्मा वायुना समुदीर्यमाणः स्तन्यमभिदूषयति । तस्य लक्षणं–जले निषीदत्यधस्ताद्रूपेण सान्द्रं स्नेहबहलं स्पर्शेन शीतपिच्छिलं रसेन मधुरमिति । तत् पिबतो जन्तोरिमानि रूपाणि भवन्ति–शीतस्तिमितस्निग्धसान्द्रैर्मण्डलैः श्वेताभैर्बहुभिर्नात्यर्थवेदनाकरैः सर्षपमात्रीभिः पिडकाभिरुपचितैश्चिरपाकिभिः सकण्डूतोदयुतैरुपचीयते ततोऽस्य प्रतिश्यायारोचकाङ्गगौरवकासपाका उत्पद्यन्ते बहुलं पिच्छिलं चाऽनुबद्धमतिसार्यते निष्टनति श्लेष्माणं छर्दयति तन्द्राभिभूतः श्वेतताल्वोष्ठश्च भवतीति
श्लेष्मचर्मदलः ९

तदा तु त्रिदोषसंसृष्टं क्षीरमनुपिबति तदाऽस्याङ्गे मण्डलानि प्रादुर्भवन्ति कृष्णरक्तावभासानि दग्धगुडप्रकाशानि वा त्रिभिर्गुणैरन्वितानि क्षिप्रपाकीनि विगन्धीन्यवदीर्णानि पूतिकुणपविस्रावीणि चेति । तैः स सर्वावनद्धाङ्गो निष्टनत्यनिशं कृच्छ्रेण रोदिति स्तनं नाभिनन्दति कृष्णमरुणवर्णावभासं चाऽतिसार्यते । सोऽसाध्यः सन्निपातात्मक
इति १०

छर्दितृष्णाज्वराध्मानश्वयथुहिक्काश्वासस्वरभेदोपद्रवान्वितश्च प्रत्याख्येयः ११

भवन्ति चात्र श्लोकाः–
नोपक्रमेदसाध्यं तु साध्यं यत्नेन साधयेत्
यत् पश्येद् द्वन्द्वजं रूपे पाकं वा रूपतोऽधिकम् १२
तस्य तस्य विदित्वा तु क्रियां सम्यक् प्रयोजयेत्
येनोपक्रम्यमाणोऽपि शान्तिं नैति पुनः पुनः १३
तेनैवोत्पातरोगोऽयं न विश्वास्यः कथञ्जन
तस्मात् सम्यगुपक्रम्यो यथा वक्ष्ये चिकित्सितम् १४

तत्रादितश्चैव धात्रीं स्नेहाभ्यङ्गस्वेदोपपन्नां नीलिकाचूर्णयुतं सर्पिः पाययेत् त्रिवृच्चूर्णघृतं वा । ततः संसर्गोपपादितालघुस्निग्धैर्यूषैर्द्राडिमसैन्धवयुतैर्मृदुमोदनमश्नीयान्निवातशयनासनपरा । व्यायामाजीर्णमथुनं च नानुचरेत् । विदारिगन्धैरण्डबृहतीगोक्षुरकपुनर्नवापृश्निपर्ण्य इति कषायमेनां पाययेत् स्तन्यशोधनार्थं द्विपञ्चमूलकषायं वा । रास्ना सुगन्धा नाकुलीति कल्कः स्तनालेपः तथाऽजगन्धाऽवल्गुजकबृहतीकण्टकारिकायुतः प्रदेहः शताह्वामधुकाजगन्धाकाश्मर्यबृहतीकण्टकारिकाबलापीलुगुडूचीकल्को वा भद्रमुस्तात्वग्गरुकल्को वा पुराणसर्पिस्तिलकल्को वेति । अथोरुपूगपलाशपाटलिरास्नाक्वाथः परिषेकः पयसा वा सुखोष्णेन चेति । देवदारुरास्नाबर्हिणमज्जेति तैलं विपक्वमभ्यञ्जनीयं बिल्वदेवदारुचूतमुक्तिफलविपक्वं वा द्विबलाबिल्वमूलसुरदार्वाम्रपेशिका विपक्वं वेति वातचर्मदलचिकित्सितमुक्तम् १५

अथ पैत्तिके वक्ष्यामः । तद्यथा–धात्रीं स्नेहाभ्यङ्गोपपन्नां वमनविरेचनेनोपक्रमेत् निम्बोदकपिप्पलीकल्केन वामयेत् पिप्पलीलवणयुक्तेन वा दोषनिर्हरणार्थं मृद्वीकेक्षुरसाभयादिभिर्विरेचयेन्मृद्वीकामलकसंयोगेन वा आरग्वधफलमज्जकषायसंयुक्तेन वा क्षीरेणेति यथाबलं वीक्ष्य । संसर्गं कारयेद्यवाग्वा यूषकृताकृतविधानेन वा । काश्मर्यमधुकपरूषकशीतपाक्य इति कृत्वा सुशीतं शर्करामधुलिखितं कषायं पाययेत् स्तन्यशोधनार्थं पयस्यासारिवामृतामधूकमृद्वीकानां कषायं शर्करायुतं चेति । प्रपौण्डरीकसारिवोशीरचन्दनकल्कः स्तनालेपः मधुकक्षीरशुक्लाचन्दनरसाञ्जनतुङ्गयुतः प्रदेहः यष्टीमधुकचन्दनकल्को वा मधुकचन्दनभद्रमुस्तामञ्जिष्ठारसाञ्जनकल्को वा रसाञ्जनसारिवामधुकचन्दनोशीरकल्को वा ककुभोदुम्बराश्वत्थवटनलमूलशालूकवञ्जुलकल्को वा घृतयुतः विशमृणालपद्मकमञ्जिष्ठापद्मरसाञ्जनकल्को वेति । मधुकमधुपर्णी वेडवेतसशतावरीनलमूलकदलीकुशकाशपद्मोत्पलेक्षुविदारीवटोदुम्बरत्वग्जम्बू-कुम्भीका मधुरा चेत्येतानि जलाढके पक्त्वा चतुर्भागावशेषे घृतप्रस्थं पाचयेत् कषायद्विगुणक्षीरेण सगर्भः स्यान्मञ्जिष्ठावितूर्णकपयस्याधातक्युशीर चन्दनक्षीरकाकोलीप्रपौण्डरीकक्षीरशुक्लातालीसमृद्वीकेति सुपिष्टं विदध्यादेतेन सिद्धेनाभ्यज्य ततोऽवचूर्णयेल्लोध्रमधुकदारुहरिद्रामलकीत्वक्पत्रचूर्णेनैतेनेत्येवम् अस्माज्ज्वरदाहरागपाकव्रणादयश्चोपशाम्यन्तीति पित्तचर्मद लचिकित्सितमुत्तमम् १६

अत ऊर्ध्वं श्लैष्मिके वक्ष्यामः–अथ धात्रीं पूर्वेण विधिनोपचार्य निम्बकषायमदनफलसिद्धां व्यक्तलवणां यवागूं पाययेन्मदनफलतिलपिष्टतण्डुलसिद्धां वा वमनविधानेन सुखसलवणस्निग्धायाः श्लेष्मोद्धरणार्थं च पिप्पल्युष्णोदकं पीत्वा च्छर्दयेत् कृतवमनायाः शिरोविरेचनं विदध्यान्मुद्गसतीनवेत्राग्रपटोलनिम्बमुस्तकानामन्यतमपरिगृहीतेन यूषेण मृदुमोदनं भोजयेत् । कुटजफलमुस्ताप्रियङ्गुशार्ङ्गिष्ठापाठालोध्रगुडूचीमूर्वेत्यक्षमात्राणि यथालाभं सुखोष्णोदकेनानुपिबेत् पाठाशृङ्गबेरकल्कं वा कुटजफलपाठाकल्कं वा किराततिक्तकमुस्ताचूर्णं वा मधुना लिहेत् । भद्रमुस्तारिष्टपटोलमूर्वादारुहरिद्रात्रिफलासप्तपर्णत्वगित्येतैः कषायमासुतं मधुना पाकव्यपदेशतश्चोपयोजयेत् मुस्तकमालतीपत्रकल्केन स्तनावालेपयेत् । अथ विरेचनं त्रिवृत्त्रिफलोष्णोदकलवणसंयुक्तमुपयोज्य यूषश्चाहारविधिः । कुटजारिष्टारग्वधमदनस्वादुकण्टकमुस्तकनक्तमालयुतः प्रदेहः कुष्टशुकनासारोहिणीमुस्तककिराततिक्तातिविषायुतो वा सुरसशिग्रुमुस्ताकालमालकविडङ्गहिङ्गुपर्णीति वा त्रिफलादारुहरिद्राकल्को वा हरिद्रारसाञ्जनकल्को वेति । भद्रमुस्तोशीराफोटाटरूषकहरिद्राकरञ्जसुमनारिष्टसिद्धं तैलमभ्यञ्जनीयमिति १७

भवति चात्र श्लोकः
एषा चर्मदलोत्पत्तिर्व्याख्याता वर्णरूपतः
साध्यासाध्यविधानैश्च प्रतीकार्यो यथाक्रमम् १८
इति ह स्माह भगवान् कश्यपः
इति खिलेषु चर्मदलचिकित्साध्यायः पञ्चदशः १५

अथाम्लपित्तचिकित्सिताध्यायः षोडशः
अथातोऽम्लपित्तचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
विरुद्धाध्यशनाजीर्णादामे चामे च पूरणात्
पिष्टान्नानामपक्वानां मद्यानां गोरसस्य च ३
गुर्वविष्यन्दिभोज्यानां वेगानां धारणस्य च
अत्युष्णस्निग्धरूक्षाम्लद्रवाणामतिसेवनात् ४
फाणितेक्षुविकाराणां कुलत्थानां च शीलनात्
भृष्टधान्यपुलाकानां पृथुकानां तथैव च ५
भुक्त्वा भुक्त्वा दिवास्वप्नादतिस्नानावगाहनात्
अन्तरोदकपानाच्च भुक्तपर्युषिताशनात् ६
वातादयः प्रकुप्यन्ति तेषामन्यतमो यदा
मन्दीकरोति कायाग्निमग्नौ मार्दवमागते ७
एतान्येव तथा भूयः सेवमानस्य दुर्मतेः
यत्किञ्चिदशितं पीतं देहिनस्तद्धि दह्यति ८
विदग्धं शुक्ततां याति शुक्तमामाशये स्थितम्
तदम्लपित्तमित्याहुर्भूयिष्ठं पित्तदूषणात् ९
जन्तोर्यदनुबध्नाति लौल्यादनियतात्मनः
अविशुष्के यथा क्षीरं प्रक्षिप्तं दधिभाजने १०
क्षिप्रमेवाम्लतामेति कूर्चीभावं च गच्छति
रसधातौ तथा व्यम्ले भुक्तं मुक्तं विदह्यते ११
अव्यापन्ने त्वधिष्ठाने जाग्रतः स्वपतोऽपि वा
प्रेर्यमाणः समानेन प्रश्वासोच्छ्वासयोगतः १२
धम्यमान उदानेन सम्यक् पचति पाचकः
इत्युद्दिष्टं समुत्थानं लिङ्गं वक्ष्याम्यतः परम् १३
विड्भेदो गुरुकोष्ठत्वमम्लोत्क्लेशः शिरोरुजा
हृच्छूलमुदराध्मानमङ्गसादोऽन्त्रकूजनम् १४
कण्ठोरसी विदह्येते रोमहर्षश्च जायते
सामान्यलक्षणं त्वेतद्विशेषश्चोपदेक्ष्यते १५
वाताच्छूलाङ्गसादौ च जृम्भा स्निग्धोपशायिता
पित्ताद्भ्रमो विदाहश्च स्वादुशीतोपशायिता १६
कफाद् गुरुत्वं छर्दिश्च स्याद्रूक्षोष्णोपशायिता १७
व्याधिरामाशयोत्थोऽयं कफपित्ते तदाश्रये
तस्मादादित एवास्य मूलच्छेदाय बुद्धिमान् १८
अक्षीणबलमांसस्य वमनं संप्रकल्पयेत्
नान्यो मान्यः क्रमो ह्यस्य शान्तये वमनादृते १९
मूलच्छेदादिव तरोः स्कन्धशाखाविपर्यये
दोषशेषश्च वान्तस्य यः स्यात्तदनुबन्धकृत् २०
तस्योपशमनं कुर्याल्लङ्घनैर्लघुभोजनैः
सात्म्यकालोपपन्नैश्च योगैः शमनपाचनैः २१
दोषोत्क्लेशे न सहसा द्रवमौषधमाचरेत्
वमनीयादृते तद्धि न सम्यक् परिपच्यते २२
चेष्टाहारविशेषेण किञ्चित् परिणते ततः
पीतं तु कुरुते यस्माच्छमपाचनभेदनम् २३
नागरातिविषे मुस्ता नागरातिविषेऽभया
त्रायमाणा पटोलस्य पत्रं कटुकरोहिणी २४
त्रयस्त्रिकार्षिका ह्येते पातव्या दोषदर्शनात्
किराततिक्तक्वाथो वा रोहिण्या वाऽथ केवलः २५
संसर्गहृतदोषस्य विशुद्धामाशयस्य च
यतेनाग्निसमाधाने प्रयतेत विचक्षणः २६
यथा गोमयचूर्णाद्यैः सूक्ष्मैः सन्धुत्तितोऽनलः
क्रमेणाप्यायितबलो दहत्यार्द्रमपीन्धनम् २७
तथा विशुद्धदेहानां कायाग्निः समुदीरितः
पाचयत्यन्नपानानि सारवन्त्यपि देहिनाम् २८
सम्यक्परिणतेष्वेषु न स्युरामान्वया गदाः
जायते च तदोत्साहस्तुष्टिः पुष्टिर्वपुर्बलम् २९
ततः क्रमविशेषेण जातप्राणस्य देहिनः
पक्वाशयगतान् दोषान् स्रंसनेन विनिर्हरेत् ३०
लवणाम्बुना सुखोष्णेन क्षीरेणेक्षुरसेन वा
मधूदकेन तिक्तैर्वा वमनं संप्रकल्पयेत् ३१
त्रिफला त्रायमाणा च कटुका रोहिणी त्रिवृत्
पञ्चैषामर्धपलिकास्त्रिवृता त्वर्धभागिका ३२
पीत्वा विरेचनं ह्येतदम्लपित्ताद्विमुच्यते
पटोलपत्रं त्रिफलात्वचश्चार्धपलोन्मिताः ३३
त्रायन्तीरोहिणीनिम्बयष्टिकाः कर्षसंमिताः
पलद्वयं मसूराणां चैकध्यं तद्विपाचयेत् ३४
जलाढकेऽष्टभागं तु पूतशेषं पुनः पचेत्
सर्पिषः कुडवं दत्त्वा प्रस्थार्धमवशेषितम् ३५
तत् पीत्वा नातिशीतोष्णं सुखेनाशु विरिच्यते
चिरप्रसक्तमप्येतदम्लपित्तं व्यपोहति ३६
वातपित्तं ज्वरं कुष्ठं वैसर्पं वातशोणितम्
विद्रधि रक्तगुल्मं च विस्फोटांश्चाशु नाशयेत् ३७
पुराणाः शालयो मुद्गा मसूराः सहरेणवः
गव्यं सर्पिः पयो वाऽपि जाङ्गलाश्च मृगद्विजाः ३८
कलायशाकं पौतीकं वासापुष्पं सवास्तुकम्
यानि चान्यानि शाकानि तिक्तानि च लघूनि च ३९
भोजनेनाऽतिशस्यन्ते यच्चान्यदविदाहि च
तत्सात्म्यानां प्रयोगाणां यथोक्तानां च शीलनम् ४०
लशुनस्य हरीतक्याः पिप्पल्याः सर्पिषस्तथा
मदिरायाश्च जीर्णायाः कालाग्निबलवृद्धये ४१
व्याधेरस्य यथोक्तानां निदानानां च वर्जनम्
युक्ताहारविहारस्य युक्तव्यायामसेविनः ४२
शुक्तकोऽयमलोलस्य शाम्यत्यात्मवतः सतः
यश्च यस्यानुबन्धः स्याद्दोषस्तस्योपशान्तये ४३
प्रयतेत भिषङ् नित्यं तच्छान्तौ स प्रशाम्यति
आनूपदेशे प्रायेण संभवत्येष देहिनाम् ४४
तस्माज्जाङ्गलजैरेनमौषधैः समुपक्रमेत्
अप्रशाम्यति चैतस्मिन्नपि देशान्तरं व्रजेत् ४५
स एव देशो यत्र स्यादारोग्यं ते च बान्धवाः
गच्छन्ति ये न गच्छन्ति ये चास्य हितकारिणः ४६
नित्यालोलस्य दीनस्य परिदूनस्य देहिनः
क्रियाः सर्वाः प्रहीयन्ते स्वजनो विजनीभवेत् ४७
तस्मात् सततमारोग्ये प्रयतेत विचक्षणः
अरोगो जीवितफलं सुखं समधिगच्छति ४८
ज्वरातीसारपाण्डुत्वशूलशोथारुचिभ्रमैः
उपद्रवैरिमैर्जुष्टः क्षीणधातुर्न सिद्ध्यति ४९
इति ह स्माह भगवान् कश्यपः
इति खिलेष्वम्लपित्तचिकित्साध्यायः षोडशः १६

अथ शोथचिकित्साध्यायः सप्तदशः
अथातः शोथचिकित्सितं नामाध्यायं व्याख्यास्यामः
इति ह स्माह भगवान् कश्यपः २
वान्तस्याथ विरिक्तस्य कर्शितस्य ज्वरादिभिः
महोपवासक्लिष्टस्य विरुद्धाजीर्णभोजिनः ३
सद्यश्चात्यर्थलवणक्षारोष्णाम्लकटून् रसान्
शूकरोरभ्रमांसादि दधिमृद्भक्षणादि च ४
शीतप्रवातव्यायामव्यवायांश्चातिसेवतः
तथैव दुष्प्रजाताया नार्याः कृच्छ्रेण वा पुनः ५
सूताया निःस्रुतायाश्च द्विषन्त्याः स्वमुपक्रमम्
एतदेव निदानं च शीलयन्त्यास्ततस्तयोः ६
शोथः संजायते शीघ्रं दारुणः स चतुर्विधः
वातिकः पैत्तिकश्चैव श्लैष्मिकः सान्निपातिकः ७
आगन्तुः क्षतनिष्पिष्टच्युतमग्नादिसंभवः
दष्टावमूत्रिताघ्रातसंस्पर्शगरयोगजः ८
प्रकोपहेतुः सर्वेषां सामान्येनैव कीर्तितः
पूर्वं ज्वरनिदाने तु प्रोक्तः प्रत्येकशो मया ९
यथावदेषां रूपाणि संप्रवक्ष्याम्यतः परम्
अपराह्णे ध्रुवा वृद्धिः श्वयथोरनिलात्मनः १०
पूर्वाह्णे श्लैष्मिकस्य स्यान्मध्याह्ने पैत्तिकस्य तु
पूर्वामध्यापरे यामे ह्रासश्चैषां यथाक्रमम् ११
श्याववर्णः सवर्णो वा क्षिप्रोत्थाननिवर्तनः
पिपीलिकाकीर्ण इव ताम्यते परितुद्यते १२
विषमज्वरजुष्टस्य चिराच्चैव विदह्यते
भिन्नरोमा चलोऽङ्गुल्या निम्नो भवति पीडितः १३
सिरास्नायुत्वगायामैरधःकाये च वर्धते
स्निग्धोष्णोपशयी रूक्षः श्वयथुर्वातसंभवः १४
नीललोहितपीताभः पीड्यते धूप्यते मुहुः
क्षिप्रपाकी सविड्भेदस्तृष्णादाहज्वरान्वितः १५
नाभ्यां च बस्तिमूले च वृद्धिश्चास्य विशेषतः
नित्यं च रोचते शीतं श्वयथुः पित्तसंभवः १६
स्थिरः शीतोऽतिबहलः श्लक्ष्णः पाण्डुरवेदनः
सोत्क्लेशारोचकस्वापकण्डूकाठिन्यगौरवः १७
चिराद् वृद्धिमवाप्नोति चिराच्च विनिवर्तते
उरोगण्डाक्षिकूटेषु वृद्धिश्चास्य विशेषतः १८
शीतज्वरकरः शीतद्वेषी शोफः कफात्मकः
नीलपीतारुणाभासः सिराजालोपसन्ततः १९
अनेकोपद्रवस्रावः सर्वरूपसमन्वितः
सुतीव्रवेदनोऽसाध्यः श्वयथुः सान्निपातिकः २०
रक्तश्यावारुणोऽत्युष्णस्तोदभेदरुजान्वितः
आगन्तुः सविषस्ताम्रिः कृष्णो वाशु विसर्पितः २१
हृल्लासारुचितृण्मूर्छाज्वरारुचिकरो भृशम्
इति षड्विधमुद्दिष्टं श्वयथोर्लक्षणं मया २२
नृणां तु पादप्रभवः स्त्रीणां च मुखसंभवः
उभयोर्यश्च गुह्यस्थः सर्वगश्च न सिद्ध्यति २३
मारुतः सर्वशोफानां मूलहेतुरुदाहृतः
यथा च पित्तं दाहस्य शैत्यस्य च यथा कफः २४
त्वग्रक्तमांसमेदांसि शोथोऽधिष्ठाय वर्धते
तदस्याशु क्रियां कुर्याद्दारुणस्य यत्थोत्तरम् २५
कफपित्तोत्तरे शोफे क्षामदेहस्य देहिनः
वमनाद्यां क्रियां कुर्यात्तद्युक्तमनिलोत्तरे २६
शाल्यन्नमुद्गमण्डेन शोथी भुञ्जीत मात्रया
सबालमूलकव्योषपिप्पलीकेन वाऽऽदितः २७
लघ्वामाशयकोष्ठस्य पञ्चगव्येन सर्पिषा
कल्याणकेन तिक्तेन दशमूलादिकेन वा २८
स्निग्धस्विन्नस्य वमनं विदध्याच्च विरेचनम्
ततो दशाहान् सोऽश्नीयात् पयसा वाऽप्यभोजनम् २९
ततो यवान्नं तक्रेण शीलयेच्च यथाबलम्
पञ्चमुष्टिकयूषेण जाङ्गलानां रसेन वा ३०
द्रधिमद्यसुरास्नेहशाकपिष्टाम्लसेवनम्
असात्म्यानि निदानं च वर्जयेत् पथ्यमाचरेत् ३१
सगुडं शृङ्गबेरं च भक्षयेत् प्रातरुत्थितः
हरीतकीं गुडयुतां त्रिसमां वाऽभ्यसेत् सदा ३२
पिप्पलीवर्धमानं वा पिप्पल्यो मधुकेन वा
देवर्दावभयाशुण्ठीचूर्णकल्कमथापि वा ३३
पिबेत्त्रयाणामेतेषां क्वाथं च सपुनर्नवम्
महौषधं चित्रकं वा पिप्पल्यो देवदारु वा ३४
तक्रेण पयसा वाऽथ सेवमानः सुखी भवेत्
चित्रामूलाग्निकश्यामात्रिव्योषैर्वा शृतं पयः ३५
महौषधं देवदारुकल्कं वा पयसा पिबेत्
गन्धर्वहस्तं त्रिव्योषं श्यामामूलं च पञ्चमम् ३६
क्षीरसिद्धं पिबेदेतद्यस्य स्याच्छ्वयथुर्महान्
गोमूत्रं महिषीमूत्रमुष्ट्रमूत्रमथो पिबेत् ३७
यथास्वं क्षीरमिश्रं वा शीलयेच्छोफशान्तये
सर्पिः पुनर्नवाक्वाथे कल्कैरेभिर्विपाचयेत् ३८
व्योषमुस्ता — दिने दिने
सर्वेषामेव शोथानां प्रयोगोऽयं विधीयते ३९
अयोरजस्त्रिकटुकं त्रिवृता कटुरोहिणी
त्रिफलाया रसेनैतत् पीत्वा चूर्णं सुखी भवेत् ४०
त्रिफला त्रिवृता दन्ती विडङ्गं गजपिप्पली
त्रिव्योषं रोहिणी दारु चित्रकं चेति चूर्णयेत् ४१
अयोरजस्तद् द्विगुणं क्षीरेणाभ्यस्य मुच्यते
त्रिव्योषत्रिफलामुस्ताविडङ्गचित्रकाः समाः ४२
नवैते सुधृता भागा नवायोरजसस्तथा
तच्चूर्णं मधुना लीढ्वा भुञ्जीत यवषष्टिकम् ४३
शुष्कमूलकयूषेण मुस्ताक्तपयसाऽपि वा
भल्लातकं त्रिवृद्दन्ती त्रिव्योषं त्रिफलाऽग्निकः ४४
तिला गुडा विडङ्गं च मधु सर्पिरयोरजः
नाम्ना कटुकबिन्दुर्हि लेहः शोथप्रमर्दनः ४५
सामान्येनैतदाख्यातं पृथक्त्वेन निबोध मे
तत्रादितः प्रवक्ष्यामि वातिकस्य भिषग्जितम् ४६
कुलत्थयवकोलानामुभयोः पञ्चमूलयोः
निर्यूहे साधितं तैलं कल्कैरेतैः समांशिकैः ४७
शतावरीकृष्णगन्धायष्टीमधुकजीवनैः
सक्षीरैस्तत् पिबेत् काले कुर्यादभ्यञ्जनं च तत् ४८
शताह्वां मधुकं दारु सश्वेतां च गवादनीम्
वत्सादनीं च पिष्ट्वा तैः सुखोष्णैः शोथमादिहेत् ४९
वर्चीवं बिल्वमेरण्डं तर्कारीं सपुनर्नवाम्
निष्क्वाथ्य वारिणोष्णेन श्वयथुं परिषेचयेत् ५०
तिलानां सर्षपाणां च गोधूमस्य यवस्य च
चूर्णानां तैलमिश्राणामुपनाहं विधापयेत् ५१
तथैवैरण्डबीजानां भृष्टानां वोपनाहनम्
एरण्डो बिल्वमूलं च बृहती कण्टकारिका ५२
करञ्जश्चिरिबिल्वश्च श्वदंष्ट्रा च समांशिका
लेपोऽयं सर्पिषा युक्तो वातश्वयथुनाशनः ५३
एष एव यथालाभं परिषेकः सुखावहः
शारिवा मूलकं शुष्कं शुकनासा महौषधम् ५४
कुष्ठं मुस्ता जलं लम्बा प्रलेपः शोफनाशनः
श्वदंष्ट्रैरण्डमूलं च बिल्वमूलं महौषधम् ५५
पुराणमूलकं चैषां क्वाथे क्षीरं विपाचयेत्
क्षीरावशेषमाहृत्य काले सघृतशर्करम् ५६
यथाग्नि पाचयेदेनं वातश्वयथुनाशनम्
एरण्डतैलं पयसा गवां मूत्रेण वा पिबेत् ५७
तेनास्य दोषशेषश्च श्वयथुश्च निवर्तते
लघून्यन्नानि भुञ्जीत स्निग्धोष्णसहितानि च ५८
अथ पित्तसमुत्थस्य प्रवक्ष्यामि चिकित्सितम्
अभयाऽऽमलकीदन्तीत्रिकर्ममधुचन्दनैः ५९
संजीवनीयमञ्जिष्ठैर्मधूककुसुमैः समैः
सक्षीरैः पाचितं सर्पिः शोफस्याभ्यञ्जनं परम् ६०
पानं चैतत् प्रदातव्यं शोफरोगनिवारणम्
जीवकर्षभकावैन्द्री मधुपर्णी शतावरी ६१
मुदिता वेतसं चैव प्रलेपः सरसाञ्जनः
तालीशोशीरमुदिताचन्दनं सरसाञ्जनम् ६२
मधुकं पद्मकं चेति लेपः श्वयथुनाशनः
शतावरीं हंसपदीं मधुपर्णीं च चित्रकम् ६३
बन्दां तालीसपत्रं च पिष्ट्वा श्वयथुमादिहेत्
क्षीरद्रुमाणां त्वङ्मूलक्वाथस्तु परिषेचने ६४
सदाहरागपाके च हितः सक्षीरशर्करः
त्रिवृन्मधुकमृद्वीकाकाश्मर्याभिः शृतं पयः ६५
विरेचनीयमन्यद्वा यथावस्थं प्रयोजयेत्
नात्यच्छस्निग्धशीतानि स्वादूनि च लघूनि च ६६
पयो द्रवाणि भुञ्जीत यथोक्तानि च मात्रया
श्वयथोः कफजस्यापि चिकित्सां शृण्वतः परम् ६७
ह्रीबेरागरुदारूणि चव्यचित्रकनागरम्
अभया पिप्पलीमूलं रजन्यौ हिङ्गु मात्रया ६८
क्वाथं गोमूत्रपिष्टं वा पिबेच्छोफनिबर्हणम्
चित्रकारग्वधौ मूर्वाविडङ्गामलकाभयाः ६९
पिप्पलीशारिवापाठाकषायं मधुना पिबेत्
देवदारु च पाठां च शृङ्गबेरं च भागशः ७०
तथा पुष्करमूलं च गोमूत्रक्वथितं पिबेत्
पाठा मुस्ताऽभया दारु चित्रको विश्वभेषजम् ७१
पिप्पल्यतिविषा मूर्वा तथा ताडकपत्रिका
बाधासु तत् पिबेत् पूतं कफश्वयथुनाशनम् ७२
तगरागरुमुस्तानि सरलं देवदारु च
कुष्ठं त्वचा च लेपोऽयं कफश्वयथुवारणः ७३
कालां गोधापदीं हिंस्रां सुषवीं तालपत्रिकाम्
पिष्ट्वा शीतकमूलं च शोथमस्य प्रलेपयेत् ७४
कुष्ठच्छत्राकवल्कं च यातुमूलं त्रिकण्टकम्
भद्रदारुं सुगन्धां च पिष्ट्वोष्णैः शोफमादिहेत् ७५
मूलकानि च शुष्काणि भद्रमुस्तं सशारिवम्
गोमूत्रपिष्टो लेपोऽयं श्वयथोविनिवारणः ७६
पलाशभस्म चैकाङ्गलेपो गोमूत्रसंयुतः
श्लैष्मिके श्वयथावेष परिषेको विधीयते ७७
पञ्चमूलशृतं तोयं गोमूत्रं वाऽपि केवलम्
निम्बाङ्कोठोरुपूगानां तर्कार्याः कुटजस्य च ७८
नक्तमालस्य वंशस्य पत्रक्वाथोऽवगाहनः
त्रिफला चित्रकवचे द्वे हरिद्रे कुठेरकः ७९
श्यामाखुपर्णीकटुकाकाकमाचीसुवर्चलाः
वार्ताकी निचुलं निम्बो विडङ्गं विश्वभेषजम् ८०
रास्ना पुनर्नवा मूर्वा कुष्ठं व्याघ्रनखं वृषम्
शिग्रुमूलमथार्कं च यथालाभं समाहृतैः ८१
गोमूत्रपिष्टैर्लेपः स्यात् क्वथितैः परिषेचनम्
एतैरेव द्रवैः पक्वैरभ्यङ्गः शोथनाशनः ८२
पटोलमूलं त्रिफला विडङ्गं रजनीति षट्
कार्षिकाः स्युस्तथैकस्माद्द्विगुणं रोचनीफलम् ८३
नीलिका त्रिगुणा देया त्रिवृता तु चतुर्गुणा
चूर्णमेतद्गवां मूत्रसंयुतं मात्रया पिबेत् ८४
काले विरिक्तो भुञ्जीत जाङ्गलानां रसेन तु
त्रिफला सरलं दारु रजन्यो रोहिणी वचा ८५
पिप्पली पिप्पलीमूलं नागरातिविषे घनम्
क्षारद्वयं विडङ्गं च पाठाऽगरु सचित्रकम् ८६
अयोरजश्च चूर्णानि गोमूत्रेण विपाचयेत्
द्राक्षावलयमाहृत्य गुटिका बदरोपमाः ८७
कृत्वाऽथैकां ततो द्वे वा पिबेदुष्णेन वारिणा
मुच्यते कफजाच्छोफादेवं श्वयथुपीडितः ८८
एषा हि ग्रहणीदोषं पाण्डुरोगं कफात्मकम्
कफार्शांसि च वृद्धिं च प्रमेहं च शमं नयेत् ८१
पञ्चमूलं वरुणकं सरलं देवदारु च
हस्तिकर्णपलाशश्च फलानि निचुलस्य च ९०
पलाशः काकला काला गुडूची देवपुष्पकम्
अहिंस्रा श्रेयसी हिंस्रा कृष्णगन्धा पुनर्नवा ९१
कायस्था च वयःस्था च चोरको जटिला जटा
अलम्बुषं सोरुपूगं प्रपुन्नाडं सनागरम् ९२
शिग्रर्गोधापदी भार्गी तर्कारी शुष्कमूलकम्
एतैः सिद्धं यथालाभं तैलमभ्यञ्जनैस्त्रिभिः ९३
निहन्त्युदीर्णश्वयथुं जन्तोर्वातकफोत्तरम्
उभे हरिद्रे मञ्जिष्ठा यष्टीमधुकचन्दनम् ९४
पिप्पल्यो बालकं चैव पीतद्रुः पद्मकं तथा
मांस्युशीरं सतगरमेलाऽगरु कुटन्नटम् ९५
श्रीवेष्टकं सर्जरसं मूर्वाकुष्ठप्रियङ्गवः
एतैस्तैलं विपक्तव्यमभ्यङ्गाच्छोथनाशनम् ९६
क्रियैषा दोषजस्योक्ताऽऽगन्तोर्वैसर्पवत् क्रिया
अग्निसादो ज्वरस्तृष्णा कार्श्यारुचितमोभ्रमाः ९७
श्वासव्रणातिसाराश्च स्वैश्चिकित्स्या उपद्रवाः ९८
इति ह स्माह भगवान् कश्यपः
इति खिलेषु श्वयथुचिकित्साध्यायः सप्तदशः १७

अथ शूलचिकित्साध्यायोऽष्टादशः
अथातः शूलचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
क्षोभात्त्रासाध्ययनातिप्रसङ्गात्
क्षुत्काले चात्यम्भसः पानदोषात्
वेगानां वा निग्रहाद्यानयानादामाद्भ्रंशसाद्रूक्षधान्याशनाद्वा ३
क्रुद्धो वायुः कर्तनायामतोदैः
कम्पाध्मानैराविशन् कुक्षिदेशे ।
शूलं पित्तेनान्वितः श्लेष्मणा वा
द्वाभ्यां वाऽपि प्रेर्यमाणः करोति ४
वाताच्छूलं क्षुधितस्योग्ररूपं
घोरैर्वेगैर्यन्निरुच्छ्वासकर्तृ । विद्याद्भुक्ते जीर्यति स्वेददाह तृष्णार्तस्य प्रततं पित्तशूलम् ५
मन्दाबाधं स्तिमितं भुक्तमात्रे
कफोद्रेकात् स्तम्भहृल्लासकर्तृ ।
विद्याच्छूलं सन्निपाताच्चतुर्थं
सर्वैर्लिङ्गैर्दुःसहं तत्त्वसाध्यम् ६
वायुः प्रोक्तो बलवानुग्रवेगः
सोऽयं क्रुद्धो देहमाश्वेव हन्ति ।
तस्मादादावर्दितं वातशूलेनाऽभ्यक्ताङ्गं स्वेदयेदाशु वैद्यः ७
वातघ्नोष्णैरवगाहोपनाहैः
पिण्डस्वेदैरुष्णकैः पायसैर्वा ।
एणादीनां जाङ्गलानां रसांश्च
लावादीनां चान्वितान् सैन्धवेन ८
स्निग्धोष्णाम्लान् शीलयेद्वातशूली
वातघ्नैर्वा साधितं क्षीरमुष्णम् ९
तैलं शुक्तं मस्तु सौवीरकं च
पिबेच्छूली सह सौवर्चलेन
श्यामां शुण्ठीं सैन्धवं तुम्बुरूणि
हिङ्गु क्षारं यावशूकं विडं च १०
श्लक्ष्णं पिष्ट्वा प्रवराह्वं शटि च
पेयं कोष्णं चाम्भसा वातशूले
क्षीरं पीत्वा शीतलं पित्तशूली
वमेत् कामं शर्करावारिणा वा ११
शूलार्तं वा शङ्खकुन्देन्दुगौरैर्मुक्ताहारैः संस्पृशेत् पङ्कजैर्वा ।
रौप्यैः कांस्यैः स्फाटिकैः काञ्चनैर्वा
तोयासिक्तैर्भाजनैश्चन्द्रशीतैः १२
यस्मिञ्छूलं संस्पृशेत्तं प्रदेशं
भूयो भूयः कदलीनां दलैर्वा ।
मृद्वीं शय्यां विसिनीपत्रभक्तिन्यासोपेतां चन्दनाम्बुप्रसिक्ताम् १३
शीते वेश्मन्यहतां सोपधानां
सेवेतान्तःप्रस्फुरत्पद्मपत्राम्
हृद्याः शीता मधुरा भेदनीयाः
पेयाः सिद्धाः शीतला वा कषायाः १४
क्षौद्रोन्मिश्राः स्वादवः पित्तशूलस्योच्छेदार्थं शर्कराचूर्णयुक्ताः ।
सामे सोत्क्लेशे भोजने वा विदग्धे
संशुद्ध्यर्थं सैन्धवोष्णोदकेन १५
कुर्यात् कामं वमनं श्लेष्मशूले
वान्तं चैनं लङ्घितं सुप्रतान्तम्
क्षारोपेतं पाययेत् पाचनीयं
पिप्पल्यादिक्वाथमुष्णं सहिङ्गु १६
तत्सिद्धां वा भोजयेत्तं यवागूं
संसृष्टान्नः क्रमशो वा निषेवेत्
चूर्णं सर्पिर्वटकक्षारबस्तीन्
कल्कक्वाथान् भागशः कल्पशश्च १७
शूलाटोपानाहगुल्मामयघ्नं
सिद्धं प्रोक्तमृषिभिर्ध्यानयोगात् १८
हिङ्गुपाठात्रिकटुकक्षारसैन्धवचित्रकान्
हपुषामभयां चव्यमजाजीधान्यपुष्करान् १९
अम्लवेतसवृक्षाम्लयवानीदाडिमानि च
शटिं सौवर्चलं चैव सूक्ष्मचूर्णानि कारयेत् २०
एतद्धि चूर्णमुष्णाम्बुदधिमस्तुप्तुरासवैः
पीतमानाहहृद्बस्तिशूलगुल्मार्तिनाशनम् २१
प्लीहार्शोग्रहणीदोषकासश्वासानुरोग्रहम्
मातुलुङ्गरसैर्युक्तं हन्ति मूत्रग्रहं तथा २२
अम्लवेतसवृक्षाम्लयवानीक्षारचित्रकम्
हिङ्गुचव्योषकशटीजीवन्तीत्रिकटूनि च २३
पिप्पलीं पिप्पलीमूलं बदरं शिरिवारिकाम्
नागदन्तीं च बिल्वं च तथा लवणपञ्चकम् २४
समभागानि मतिमान् सूक्ष्मचूर्णानि कारयेत्
रसेन मातुलुङ्गस्य वटकान् कारयेत्ततः २५
गुल्मोदावर्तशूलेषु पिबेदेतान्महागुणान्
सुखोष्णवारिमद्याम्लैर्मूत्रकृच्छ्रे तथैव च २६
हृद्रोगेषु गुदभ्रंशमेढ्रबस्तिरुजासु च
विडदाडिमहिङ्गूनि सैन्धवं मरिचं तथा २७
मातुलुङ्गरसैर्युक्तं शूलाटोपहरं पिबेत्
एतानि व्योषपृथ्वीकाचव्यचित्रकसैन्धवैः २८
साजाजिपिप्पलीमूलयुतैर्वा पथ्यमुत्तमम्
सौवर्चलवचाहिङ्गुत्र्यूषणं सहरीतकम् २९
सुरेशयवसंयुक्तं हन्ति शूलबलं क्षणात्
पलिकान् घृतसंयुक्तान् सक्तुसैन्धवचित्रकान् ३०
वचां चैवैकतः कृत्वा कटाहे प्रदहेद्भिषक्
प्रदीप्तमवतार्याथ तं क्षारं मात्रया पिबेत् ३१
तण्डुलोदकसंयुक्तं शूलगुल्मरुजापहम्
पञ्चमूलयवक्वाथयुक्तमेरण्डजं पिबेत् ३२
तैलं वाय्वात्मके शूले द्राक्षाक्वाथयुतं तथा
सशर्करं पित्तशूले पित्तगुल्मे प्लिहेषु च ३३
दाडिमव्योषहपुषापृथ्वीकाक्षारचित्रकैः
साजाजिपिप्पलीमूलचव्यदीप्यकसैन्धवैः ३४
समांशैर्विपचेत् सर्पिः सक्षीरं मृदुनाऽग्निना
कोलमूलकयूषेण संयुक्तं वातगुल्मनुत् ३५
शूलानाहश्वासकासविषमज्वरहृद्ग्रहान्
अरुचिग्रहणीदोषशूलपाण्ड्वामयांस्तथा ३६
योनिदोषांश्च हन्त्येतदमृतप्रतिमं घृतम्
बिल्वकुष्ठयवक्षारवचाचित्रकसैन्धवैः ३७
एनीयकविडव्योषतिन्तिडीकाम्लवेतसैः
हिङ्गुसौवर्चलाजातिदाडिमेन्द्रयवैस्तथा ३८
पुनर्नवाकारवीभ्यां हंसपद्या च साधितम्
घृतं चतुर्गुणे दध्नि शुक्तकातिकसंयुतम् ३९
द्विपञ्चमूलकोलानां कुलत्थानां रसेन च
शूलगुल्मानिलोत्कम्पग्रन्थीनर्दितहृद्ग्रहान् ४०
वातकुण्डलिकावर्तमेतत् सर्पिरपोहति
सौवर्चलयवक्षारवचात्र्यूषणचित्रकैः ४१
हरीतकीविडङ्गाभ्यां पयसा चैव साधितम्
संयुक्तं भद्ररोहिण्या दशाङ्गं शूलनुद् घृतम् ४२
प्लीहगुल्मक्रिमिश्वासकासहिक्काविनाशनम्
शतपुष्पावचाकुष्ठपिप्पलीफलसैन्धवैः ४३
सर्षपद्वयसंयुक्तां फलवति प्रयोजयेत्
एषाऽऽध्मानमुदावर्तं शूलं चाशु व्यपोहति ४४
उष्णोदकस्नेहयुक्तं मूत्रक्षौद्राम्लकाञ्जिकैः
संयोज्यैकत्र मतिमानेभिश्चूर्णैः समावपेत् ४५
शताह्वापिप्पलीकुष्ठवचानां देवदारुणः
पूतीकस्य हरेणूनां बिल्वानां मदनस्य च ४६
शूलानाहविबन्धघ्नमिमं बस्तिं प्रदापयेत्
आस्थापनप्रमाणेन स्निग्धस्विन्नस्य देहिनः ४७
संरुद्धे वायुना मूत्रे प्रतिस्तब्धे तथोदरे
पुरीषे च विमार्गस्थे चूर्णबस्तिरयं हितः ४८
वारिद्रोणे पलान्यष्टौ पचेद्गन्धपलाशकात्
ततः कषायं तु वचापिप्पलीफलसैन्धवैः ४९
संयुक्तं क्षौद्रतैलाभ्यां शताह्वाकुडवेन च
दद्यान्निरूहमानाहपार्श्वहृद्बस्तिशूलिनाम् ५०
बलवर्णाग्निजननं श्रोणिगुल्मरुजापहम्
कुलत्थयवकोलानि पञ्चमूलद्वयं तथा ५१
क्वाथयेत्तं जलद्रोणे ततस्तं तैलसंयुतम्
कषायं पिप्पलीकुष्ठवचेन्द्रयवसर्षपैः ५२
हरेणुकासैन्धवाभ्यां तगरेण घृतेन वा
तन्निरूहमुदावर्तकुष्ठगुल्मोपशान्तये ५३
दद्याच्चैवेदमाश्वेव बलवर्णाग्निवर्धनम्
तैलपक्वाशनं धीरः कल्कपेष्यैर्विपाचितम् ५४
पिप्पलीबिल्वमधुकशताह्वाफलचित्रकैः
देवदारुवचाकुष्ठपुष्कराख्यैश्च संयुतम् ५५
समांशैद्विगुणक्षीरं तदुदावर्तिनां हितम्
शूलानाहगुदभ्रं शवर्चोमूत्रविनिग्रहान् ५६
कट्यूरुपृष्ठशूलार्शोमूढवातांश्च नाशयेत्
गुदशूलं तथोत्थानं बहुशः सप्रवाहिकम् ५७
कुष्ठं विडङ्गातिविषादारुदार्वीहरेणुकाः
एलाऽजमोदा ह्रीबेरं नागरं पुष्करं शटी ५८
स्थिरा सकट्फला रास्ना पिप्पल्यश्चव्यचित्रकम्
श्यामा शताह्वा यष्ट्याह्वा सैन्धवं मदनं वचा ५९
निचुलं नीलिनी दन्ती बिल्वं चाक्षार्धसंश्रितैः
गन्धर्वतैलं तैलं वा पचेत्तदनुवासनम् ६०
गुल्माढ्यवातशूलार्शःप्लीहोदावर्तवृद्धिनुत्
सकुण्डलं मूत्रकृच्छ्रमानाहं च व्यपोहति ६१
शतार्धं दशमूलस्य मदनानां तथाऽऽढकम्
पूतीकदन्तीसुरभीश्वदंष्ट्राणां च बुद्धिमान् ६२
पलानि विंशतिं दद्यादेकैकस्य तमेकतः
यवकोलकुलत्थानां प्रस्थयुक्तं जलोन्मने ६३
क्वाथयेत् पादशेषं तु तस्मिंस्तैलाढकं पचेत्
गोमूत्रार्धाढकं यवपिप्पलीसैन्धवत्रिकम् ६४
— यवशताह्वानां — वलीनकैः
कुष्ठवक्त्रस्य चायुक्तमेतत् स्यादनुवासनम् ६५
ऊरुस्तम्भकटीपृष्ठगुदवंक्षणशूलिषु
प्लीहोदावर्तगुल्मेषु फलतैलं प्रयोजयेत् ६६
इति शूलचिकित्सा ते विस्तरेण प्रकीर्तिता
सिद्धैः प्रयोगैर्विविधैः प्राणिनां हितकाम्यया ६७
इति ह स्माह भगवान् कश्यपः
इति खिलेषु शूलचिकित्साध्यायोऽष्टादशः १८

अथाष्टज्वरचिकित्सितोत्तराध्याय एकोनविंशतितमः
अथातोऽष्टज्वरचिकित्सितोत्तरमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
एकद्वित्रिसमुत्थानां निदानं प्रागुदाहृतम्
चिकित्सां संप्रवक्ष्यामि सन्निपातस्य हेतुवत् ३
अहिता — ।
—– गुडसंयुतः
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिस्तथा
एषां तु मूलं निष्क्वाथ्य पिबेत् सक्षारसैन्धवम्

समङ्गी मधुकं मुस्तं भद्रदार्वथ शर्करा
वातज्वरे प्रयोक्तव्यं गुडूच्या सह पानकम्

विदारिगन्धा ह्येरण्डं बृहत्यौ पृश्निपर्णिका
भद्रदारुसमायुक्तो वातज्वरहरो मतः

विदारिगन्धा कलशी तथा गन्धर्वहस्तकः
मधुकं भद्रदारुश्च क्वाथः शर्करया युतः

वातज्वरहरो देयो मातुलुङ्गरसाप्लुतः
एरण्डं वरुणं चैव बृहत्यौ मधुकं तथा

वातज्वरहरः क्वाथो रास्नाकल्कसमायुतः
द्विपञ्चमूलनिष्क्वाथः कोष्णो वा यदि वा हिमः
रास्नाकल्कसमायुक्तो वातज्वरहितो मतः

रास्नासरलदेवाह्वयष्टीमधुकसंयुतः
पेयो विदारिगन्धाद्यो निष्क्वाथो वा ससैन्धवः

पञ्चमुष्टिकयूषेण युक्ताम्ललवणेन च
भुञ्जीत भोजनं काले जाङ्गलानां रसेन च
पिबेदन्तरपानं च बिल्वमूलशृतं जलम्
द्वे पञ्चमूले वर्चीवमेकेषीकां पुनर्नवाम्

सहस्रवीर्यां नादेयीं शतवीर्यां शतावरीम्
विश्वदेवां शुकनसां सहदेवां सनाकुलीम्

रास्नाजगन्धे पूतीकं देवाह्वं देवताडकम्
बले द्वे हंसपादीं च क्वाथोत्थीमुपलङ्कशाम्

कृष्णागरुं व्याघ्रनखं शतपुष्पां पलङ्कषाम्
कायस्थां च वयस्थां च चोरकं जटिलां जटाम्
अपेतराक्षसीं यक्षां गुहाह्वामुष्ट्रलोमिकाम्
हरेणुकां हैमवतीं कैटर्यं सुवहां वचाम्

वृश्चिकालीं च भार्गीं च — स्या शिग्रुं च कल्कशः
संहृत्य तैलं विपचेद्वातज्वरनिबर्हणम्

पुराणसर्पिःसंस्कारो विधेयो जाङ्गलो रसः
दशमूलकुलत्थानां यवानां कुडवस्य च

कुलीरशृङ्ग्या रास्नायाः शटीपुष्करमूलयोः
भार्ग्या दुरालभायाश्च निर्यूहः साधु साधितः

तेनास्य विगुणो वायुर्ज्वरश्चाशु प्रशाम्यति
वातश्लेष्मसमुत्थस्य व्याख्यास्यामि चिकित्सतम्

बृहत्यौ पुष्करं दारु पिप्पल्यो नागरं शटी
क्वाथमेषां पिबेदुष्णमादौ दोषविपाचनम्

द्विपञ्चमूलं भार्गीं च कर्कटाख्यां दुरालभाम्
नागरं पिप्पलीं दारु पिबेद्वा सैन्धवान्वितम्

पटोलं धान्यकं मुस्ता मूर्वा पाठा निदिग्धिका
कषाय एषां पातव्यः षडङ्गो मधुसंयुतः

त्रिफला जीवनीयानि पिप्पलीमूलशर्करे
सिद्धो ग्रहघ्नसंयुक्तो वातश्लेष्मज्वरापहः

नागरं दशमूलं च कट्वङ्गं दारुकद्वयम्
पिप्पल्यस्त्रिफला भार्गी कर्कटाख्या दुरालभा

वातश्लेष्मज्वरे पेयं सुखोष्णं सैन्धवान्वितम्
तिक्तकं कटुरोहिण्याः कल्कमक्षसमं भिषक्

हिङ्गुसैन्धवसंसृष्टं पिबेत् क्षिप्रं सुखाम्बुना
कफजेऽनिलजे चैव ज्वरे पीतं सुखावहम्

महतः पञ्चमूलस्य क्वाथः श्लैष्मिकवातिके
नागरामरदारुभ्यां शृतमुष्णं पिबेज्जलम्

बालमूलकयूषेण जाङ्गलानां रसेन वा
कटूष्णद्रव्ययुक्तेन मन्दस्निग्धेन भोजयेत्

लाक्षाप्रियङ्गुमञ्जिष्टायष्टिकोशीरबालकैः
चन्दनागरुबाह्लीकश्रीवेष्टककुटन्नटैः

मूर्वाशताह्वासरलसालनिर्यासरोचकैः
क्षीरद्रोणेऽर्धपलिकैर्भिषक्तैलाढकं पचेत्
तत् साधु सिद्धमाहृत्य स्वनुगुप्तं निधापयेत्
लाक्षादिकमिदं तैल —
पिपल्योऽतिविषा मुस्ता स्थिराढ्या सदुरालभा

सचन्दनयवोशीरसारिवाः सनिदिग्धिकाः
रोहिण्यामलकं बिल्वं त्रायमाणातिसाधितम्

घृतं हन्ति शिरः शूलं कासं जीर्णज्वरं क्षयम्
वमनं कफरोगाणां पैत्तिकानां विरेचनम्

शोधनं शमनं कार्यं कृशे शमनशोधनम्
मण्डादिरिष्यते सामे ववागूर्वातजे तथा

विषौषधिप्रजातानां पित्तघ्नीं कारयेत् क्रियाम्
सन्निपातज्वरस्यातः प्रवक्ष्यामि चिकित्सितम्

स सर्वलक्षणोऽसाध्यः कृच्छ्रसाध्योऽल्पलक्षणः
बलहीनस्य नष्टाग्नेः सर्वथा नैव सिध्यति

किमङ्ग बालकानां तु क्षीणधातुबलौजसाम्
तथाऽपि यत्नमातिष्ठेदानृशंस्याद्भिषग्वरः

सन्निपातेषु दोषेषु यो दोषो बलवान् भवेत्
तमेवादौ प्रशमयेच्छेषं दोषमतः परम्

अल्पान्तरबलेष्वेषु दोषेषु मतिमान् भिषक्
श्लेष्माणमादौ शमयेत् स ह्येषामनुबन्धकृत्

गुरुत्वात् कृच्छ्रपाकित्वादूर्ध्वकायाश्रयात्तथा
तस्माज्ज्वरे यदुद्दिष्टं वातपित्तकफात्मके

तस्मात्तस्यामवस्थायां तत्तत् कार्यं चिकित्सितम्
पिप्पल्यादिवचादारुवयस्थासरलान्वितः

पेयः कफोत्तरे सामे सहिङ्गुक्षारसैन्धवः
दोषास्तेनाशु पच्यन्ते विबन्धश्चोपशाम्यति

नागरं कट्फलं धान्यं मुस्तं पर्पटकं वचा
देवदार्वभया भार्गी भूतीकं दशमं भवेत्

शृतं सैन्धवहिङ्गुभ्यां पेयं वातकफोत्तरे
ऊर्ध्वजत्र्वङ्गरोगाणां ज्वरितानां प्रशस्यते

शटीपौष्करपिप्पल्यो बृहती कण्टकारिका
शुण्ठी कर्कटकी भार्गी दुरालम्भा यवानिका

शूलानाहविबन्धघ्नं शट्याद्यं कफवातनुत्
विडङ्गातिविषे भार्गी पौष्करं चित्रकं शटी

शार्ङ्गेष्टा पिप्पली शुण्ठी पिबेद्वातकफोत्तरे
दुरालभावचादारुपिप्पलीमूलनागरम्

— पुष्करं शटी ।
क्वाथं सलवणं देयं हिङ्गुक्षारान्वितं पिबेत्

सन्निपाते विबन्धे च वातश्लेष्मोत्तरे ज्वरे
जीवकर्षभकौ शृङ्गी मूलं पुष्करजं शटी

सन्निपातेऽनिलकफे कासे चैषां प्रशस्यते
बृहत्यौ पुष्करं दारु पिप्पल्यो नागरं शटी

क्वाथमेषां पिबेदुष्णमादौ दोषविपाचनम्
दुरालभा वचा दारु पिप्पली भद्ररोहिणी

महौषधं कर्कटकी बृहती कण्टकारिका
क्वाथः सलवणः पेयः सन्निपातज्वरापहः

देवदारु वचा मुस्तं कैरातं कटुरोहिणी
गुडूची नागरं क्वाथः सन्निपातज्वरापहः

उरोग्रहे कण्ठरोगे मुखरोगे च शस्यते
त्रिफला रोहिणी निम्बं पटोलं कटुकत्रयम्

पाठा गुडूची वेताग्रं सप्तपर्णः सवत्सकः
किराततिक्तकं मुस्ता वचा चेत्येकतः शृतम्

कफोत्तरं निहन्त्येतत् पानादग्निं च दीपयेत्
पटोलमुस्तमधुकरोहिणीक्वथितं जलम्

योगमेतं त्रिफलया युक्तं च सुरदारुणा
पाययेन्मधुनाऽऽलोड्य सन्निपाते कफोत्तरे

आरग्वधवचानिम्बपटोलोशीरवत्सकम्
शार्ङ्गेष्टाऽतिविषा मूर्वा त्रिफला सदुरालभा

भद्रमुस्ता बला पाठा मधुकं भद्ररोहिणी
कषाय एष शमयेज्ज्वरमाशु त्रिदोषजम्

जाड्यं सशोफमाध्मानं गुरुत्वं चापकर्षति
नागरं दशमूलं च कट्वङ्गं दा —
— शिशुं प्राशयेयुः कथञ्चन

नवसद्यःक्षतानां तद् व्रणानां रोहणं भवेत्
क्षतजं प्राप्य हि विषं दर्शयत्यात्मनो बलम्

प्रसादयति तच्चाशु सन्धत्ते च मधु व्रणम्
तस्मात् स्वभावतो नॄणां सहोष्णेनाशितं मधु

विरुद्धत्वात्त्रिभिर्दोषैर्जीवितान्ताय कल्पते
तुल्यत्वादुष्णयोगाच्च यथा च मधुसर्पिषी
इति ह स्माह भगवान् कश्यपः
इति खिलेषु मधुविशेषणीयो नामैकविंशतितमोऽध्यायः २१

अथ क्षीरगुणविशेषीयाध्यायो द्वाविंशतितमः
अथातः क्षीरगुणविशेषीयं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
गोर्महिष्या अजायाश्च नार्या उष्ट्र्या अवेः स्त्रियाः
तुरङ्ग्या इति चोक्तानि पूर्वमेव पयांसि तु ३
भूयश्च गुणवैशेष्यात् क्षीराण्यष्टौ निबोध मे
प्रजापतेः पुरेच्छातः प्रजानां प्राणधारणम् ४
पञ्चभूतगुणं चापि भूरुहां जन्म कथ्यते
वनस्पतीनां वृक्षाणां वानस्पत्यगणस्य च ५
वीरुधामोषधीनां च गुल्मानामपि जीवक
विविधानां तृणानां च सस्यानां चैव देहिनाम् ६
एवमादिगणो यस्तु भूमेः सार उदाहृतः
सोमस्य वायुतेजोपां बुद्धिश्चेति प्रजापतेः

तदाहारगुणोत्पन्नं गवादीनामतः परम्
यथा सर्वौषधीसारं क्षीरोदे मथिते पुरा

संभूतममृतं दिव्यममरा येन देवताः
तथा सर्वौषधीसारं गवादीनां तु कुक्षिषु

क्षीरमुत्पद्यते तस्मात् कारणादमृतोपमम्
जरायुजानां भूतानां विशेषेण तु जीवनम्

क्षीरं सात्म्यं हि बालानां क्षीरं जीवनमुच्यते
क्षीरं पुष्टिकरं वृद्धिकरं बलविवर्धनम्

क्षीरमोजस्करं पुंसां क्षीरं प्राणगुणावहम्
गर्भधानकरं क्षीरं बन्ध्यानामपि योषिताम्

क्षीणानां च कृशानां च शोफिनां राजयक्ष्मिणाम्
व्यायामश्रमनित्यानां स्त्रीनित्यानां च देहिनाम्

संक्षीणरेतसां चापि गर्भस्रावे च दारुणे
रक्तपित्तामयेऽर्शस्सु मदक्षीणे ज्वरे तथा

गर्भशोषे च वातानां क्षीरं परममुच्यते
सामान्यादिह दुग्धानां पुरा चोक्ता गुणादयः

पृथक्त्वेन च वक्ष्यामि गवादीनां विशेषणम्
तृणगुल्मौषधीनां च अग्राग्रं पय एव हि

खादन्ति मधुरप्रायं लवणं च विशेषतः
तत्सारगुणवैशेष्याद्गवां क्षीरं प्रशस्यते

मधुरो हि रसः श्रेष्ठो रसानां परिकीर्तितः
तन्नित्यं वा गवां क्षीरं मधुरं बृंहणं मतम्

औषधाग्रातिभक्षत्वाद्विरेचयति तत् पयः
एतस्मात् कारणादुक्तं गवां क्षीरं रसायनम्

एष वैशेषिकगुणो गोक्षीरस्य प्रकीर्तितः
क्रिमिकीटपतङ्गैश्च सर्पैरपि तृणाश्रितैः

सह नानातृणं हीनं महिष्यो भक्षयन्ति हि
अवगाहन्ति तोयानि गर्भाणि च विशेषतः

एतस्मात् कारणात्तासां क्षीरं कषायशीतलम्
शीतत्वाद्दुर्जरं स्निग्धं गुरुदाहनिबर्हणम्

गवां क्षीराच्चाल्पा गुणं महिषीणां पयो मतम्
अजानामल्पकायत्वात् कटुतिक्तानिबर्हणात्

अल्पत्वाच्च बलित्वाच्च लघु दोषहरं पयः
अल्पत्वात्तद्घनं क्षीरं घनत्वादपि बृंहणम्

शीतं संग्राहि मधुरं बल्यं वातानुलोमनम्
महाशयतया श्याममधुरप्रायसेवनात्

बहुत्वाच्च घनत्वाच्च बल्यं पुष्टिकरं पयः
गुरु वृष्यं च निर्दिष्टं मधुरं च विशेषतः

अल्पाहारतयोष्ट्रीणां प्रियं चाऽऽलवणं —

अतीते प्रथमे मासि प्रावृट्प्रोष्ठपदागमे

दिव्यं खात् पतितं तोयं नाम्ना हंसोदकं शिवम्
आपूतं सूर्यतेजोभिरगस्त्येनाऽविषीकृतम्

— ति

स्निग्धं वृष्यं च बल्यं च हेमन्ते गुरु वर्षति
शिशिरे वर्षति जलं कफवातप्रकोपनम्

वसन्ते वर्षति जलं कषायस्वादुरूक्षणम्
तत्र —

— पतितं क्षितौ ।
तत् पात्रोपेक्षितवति पात्रदोषेण तत्त्वतः

नानारसत्वं भजते तोयं संप्राप्य भूतलम्
सर्वाम्बु सद्यःपतितमप्रशस्तमनार्तवम्

त — ।
—रूदकम्

कफानिलकरं पित्ते हितं शीतातिकारकम्
रक्तापित्तहरं रूक्षमवश्यायोदकं लघु

एतच्चतुर्विधं प्रोक्तं तत्त्वेनाम्भोऽन्तरिक्षजम् ।
सहृ —

— श्लेष्मप्रकोपनाः ।
क्षारोदाः प्राक्सृता नद्यः कफघ्नाः पित्तकोपनाः

लघूदकाः प्रतीचीगा वातलाः कफनाशनाः
क्षारं ताभ्यस्तु सामुद्रं मधुरं गुरु पच्यते

— ।
—- लवणं जलम्

साभिष्यन्दि स्वादुपाकि शीतं पित्तघ्नमौद्भिदम्
सत्त्वक्लेदमलाद्दुष्टं पल्वलाम्बु गुरु स्मृतम्

कषायमधुरं स्वादु विमलं सारसं जलम्
कौपं पि —

—- ।
इत्यष्टधा जलं प्रोक्तं भूमिजं वृद्धजीवक

लघु प्रकामं सस्नेहं शीतं सर्वरसान्वितम्
तृष्णापहं मनोह्लादि श्लेष्मघ्नं क्रिमिनाशनम्

रक्षोघ्नं जीवनं वृष्यं मूर्च्छाघ्नं —

— सूक्ष्मप्राणिसमाकुलम् ।
बहलं कलुषं चैव तथा पिच्छिलमाविलम्
ग्रामक्षेत्ररसैर्दुष्टं विषमूलोपदूषितम्

शकुन्तक्रिमिशैवालयुक्तमत्युष्णचिक्कणम्

— गुर्विणीषु च वर्जयेत् ।
धात्रीणां च विशेषेण स्वस्थानां रोगिणामपि

पूर्वोक्तगुणबाहुल्यात् पानीयं सेव्यमिष्यते
विपाके मधुरं शैत्याद्वारि पित्तघ्नमुच्यते

— ।
—- णशीतमुष्णमथापि वा ।
भक्तस्य पूर्वं पीतं वा कृशत्वं कुरुते शिशोः

भक्तस्य मध्ये पीतं तन्मध्यमत्वं नियच्छति
भक्तस्योपरि पीतं तु पीनत्वं संप्रयच्छति

— निष्क्वाथोष्णाम्बु पाचनम्

श्रमे भेदेषु तृष्णासु मूर्च्छास्वतिपिपासिते
निष्क्वाथलाघवादम्बु सलिलं तप्तशीतलम्

निर्दिशेत् सर्वदोषघ्नं बालानां — ।
— मुष्णोदकं शिशोः ।
रक्तपित्तामयं त्यक्त्वा प्रायो वातकफात्मके

रोगे शिशुर्वा धात्री वा गुर्विणी वोष्णकं पिबेत्
क्वचिद्रोगविशेषेण तप्तशीतं हितं बहु

अथान्तरिक्षं शरदि प्रशस्तं
संतप्यमानं च रवेर्मयूखैः ।
पिबेत्सरो वाऽथ नदीं तडागं
हेमन्तकाले शिशिरे च बालः

वाप्यौद्भिदं प्रास्रवणं हि तोयं
ग्रीष्मे प्रशस्तं कुसुमागमे च । वर्षासु कौपं सलिलं प्रशस्त मारोग्यहेतोरथ तप्तशीतलम्
इति ह स्माह भगवान् कश्यपः
इति खिलेषु पानीयगुणविशेषीयाध्यायः २३

अथ मांसगुणविशेषीयाध्यायश्चतुर्विंशः
अथातो मांसगुणविशेषीयं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
मांसं वृष्यं च बल्यं च मांसं प्राणविवर्धनम्
मांसं पुष्टिकरं वृद्धकृशानां मांसवर्धनम् ३
क्षयिणां क्षीणदेहानां मांसमेव परायणम्
न मांसतुल्यमन्यत्त्वारोग्यवीर्यविवर्धनम् ४
नराणां क्षीणशुक्राणां मांसं रेतोभिवर्धनम्
बन्ध्यानामपि नारीणां कुमाराणां तथैव च ५
गर्भाधानकरं मांसमन्ते पुष्टिकरं तथा
गर्भिणीनां च नारीणां वातप्रशमनं परम् ६
स्त्रीणां प्रसवकाले तु मांस — मेव च
गर्भकाले च बालानां सरसं परमौषधम् ७
स्त्रीप्रियाणां तथा पुंसां नित्यव्यायामसेविनाम्
क्षीणानां यक्ष्मिणां चैव ज्वरक्षीणाश्च ये नराः ८
वाताहतास्तु ये सत्त्वास्तेषां मांसरसो हितः
सुसंस्कृतो मांसरसो बिडजीरकहिङ्गुभिः ९
स्नेहे सिद्धश्च पयसा विशेषाद्वातिके स्मृतः
वातपित्तोत्तरे पुंभिः शर्करामधुरीकृतः १०
स्निग्धो मांसरसः पेयस्तथा रक्तामयार्दितैः
क्षीणसिद्धो मांसरसो मधुरो लवणोऽपि वा ११
बालानां क्षीणदेहानां गर्भकाले च शस्यते
हितं च बालकामानां मांसस्वरससाधितः १२
सुसिद्धं लवणे सिद्धं मांसं कटुकरोचनम्
कायाग्निदीपनं चैव रसा — पो हितः १३
वेसवारः समधुरो लावणो वाऽपि रोचनः
पिष्टचूर्णितपक्वं वा प्रकु—वापिवान्नतत् १४
शूल्यमङ्गारतप्तं च मांसं श्लेष्मामये हितम्
साम्लः सलवणश्चैव
हितस्तस्मात्तु जीवक १५
पिष्टं वा खण्डशो वाऽपि मांसं पुटकसाधितम्
सहिङ्गुसैन्धवबिडैर्मरिचाम्लसजीरकैः १६
साङ्कुरैर्धान्यकैश्चैव शृङ्गबेरार्द्रकैरपि
पलाशे भूस्तृणोपेतं मांसं सिद्धं प्रयोजयेत् १७
अथ मांसरसं सर्पिः
सिद्धं सक्षीरमिष्यते ।
रसपाकविशेषेण तद्बल्यं
तद्रसायनम् १८
अतः परं तु मांसानां रसपाकविशेषणम्
वक्ष्ये गुणविशेषं च वृद्धजीवक तच्छृणु १९
कफपित्तकरं मांसं गवां वाते हितं गुरु
विदाहि बृंहणं चैव खङ्गमांसं च तत्समम् २०
न्यङ्कूनां विहितं वाते कफपित्तहरं लघु
सक्षारं दान्तिनं मांसं बृंहणं कटुतिक्तकम् २१
वीर्येणोष्णं च तद्विद्यात् कफपित्तं करोति च
गोकर्णमांसं तत्तुल्यं गवयस्य रुरोरपि २२
रसे पाके च मधुरं वातपित्तहरं गुरु
उष्णं चैव च्छागमांसमाविकं चापि तद्गुणम् २३
वृष्यं तु मांसं वाराहं मधुरं गुरु पच्यते
तद्गुणं माहिषं विद्धि शौकरं स्यात्ततो गुरु २४
गर्दभस्य तथाऽश्वस्य मांसं यत् पृषतस्य च
कफघ्नं वातलं रूक्षं कटुतिक्ताह्वयं लघु २५
श्वदंष्ट्रो वृषदंष्ट्रश्च ऋष्यः शरभ एव च
वातघ्ना उष्णवीर्याश्च रसतः कटुकान्वयाः २६
गोलाङ्गूला वानराश्च तत्तुल्या मधुरोत्तराः
वृकर्क्षकोकजम्बूकाः सिंहा व्याघ्रतरक्षवः २७
स्वाद्यमांसास्त्विमे वृष्या उष्णाः पित्तविवर्धनाः
कषायतिक्ता रसतो वातघ्नाः कटुपाकिनः २८
नकुलो मूषिकः श्वाविद्बभ्रुः शल्यक एव च
कषायमधुराः शीता वृष्या गोधाश्च तद्गणाः २९
ये स्युः शशकुरङ्गाद्याः सृमरश्चमराश्च ये
लघवो—ष्णाः पित्तला नातिबृंहणाः ३०
बार्हिणं मधुरोष्णं तु विषघ्नं गुरु बृंहणम्
तुल्यं कौक्कुटजं वन्यं तत्तुल्यं ग्राम्यकौक्कुटम् ३१
विष्किराः क्रौञ्चवर्तीका मयूरेण समाः स्मृताः
तस्माल्लघुस्तु वर्तीरो वर्तीका लघवो लघुः ३२
तित्तिरिस्तु कटुः पाके सोष्णस्तु कफवातजित्
कपिञ्जलश्चकोरश्च उपचक्रश्च तत्समाः ३३
लोहपृष्ठो रक्तपृष्ठो रक्ताक्षो जीवजीवकः
तथाऽन्ये हिमवज्जाता मधुरा वृष्यबृंहणाः ३४
गुरवः शीतलाः पाके कषाया रसतस्तथा
खञ्जरीटो वपुक्कारः क्रकरो दीर्घपुंसकः ३५
कोयष्टिकः कपोतश्च रक्तपादो वसन्तकः
भृङ्गराजोऽथ हारीतः कोकिलः शुकसारिकाः ३६
एते चान्ये च प्रच्छदा शीतमारुतकोपकाः
कषायमधुराः स्वादे कफघ्नाः कटुपाकिनः ३७
गृध्रः काकः श्येनचाषौ भासोलूककुलिङ्गकाः
शशन्ता मूषिकाः कोडास्तथाऽन्ये मांसभोजनाः ३८
प्रसहास्ते तु मधुरा वातघ्ना कटुपाकिनः
बृंहणाश्चोष्णवीर्याश्च सततं शोषिणां हिताः ३९
प्लवा बका बलाकाश्च तीदार्यः कुररास्तथा
— रक्ताक्षा मल्लिकाक्षाः सवारटाः ४०
नन्दीमुखा मेघरावाः शराख्या जलकुक्कुटाः
समुद्रकाकाः कुहरा गोटुभा गण्डमालकाः ४१
कारण्डवाः सजोमूतास्तथाऽन्ये जलचारिणः
पाके च मधुरा वृष्या गुरवश्च — ४२
— ४३
हंसस्तु गुरुरत्यर्थं वृष्योऽथ कफपित्तलः
शरारिः पाकहंसश्च चक्रवाकस्तथैव च ४४
जालपादास्तथाऽन्ये च हंसतुल्या गुणैः स्मृताः
क्रौञ्चः कुलिङ्गो द्रविडः पद्मपुष्करसादकः ४५
वार्धीणसः सारसश्च सारङ्गो धामृण्यलिकः
एते चान्ये चाबुचराः पक्षिणो गुरवः स्मृताः ४६
रसे पाके च मधुरा उष्णाः सलवणान्वयाः
वृष्या वातहराश्चैव कफपित्तविवर्धनाः ४७
नलमीनो झषश्चैव पाठीनश्चर्मपीवरः
चेलीमः शकुलार्भश्च शिलीन्ध्रो गर्गरस्तथा ४८
पुष्करो गोकरो मूचो वारडः शूलपाटलः
कृष्णमत्स्यः श्वेतमत्स्यो गोमत्स्यो रोहितस्तथा ४९
शकली महाशकली चम्पः कुन्दोऽथ मद्गुरः
इल्यः शङ्कुश्चिचरणो राजीवः शफरी तथा ५०
एते चान्ये च बहवो विविधा मत्स्यजातयः
रसे पाके च मधुरा वातघ्ना वृष्यबृंहणाः ५१
उष्णवीर्याश्च ते ज्ञेया गुरवः कफपित्तलाः
लघ्वाशयास्तेऽन्ये तु किञ्चित्तिक्तान्वयान्तराः ५२
रोहितो नलमीनश्च — लघवः स्मृताः ।
कूर्मो दुटिश्च नक्रश्च मकरोऽवकुशस्तथा ५३
तिमिः सहस्रदशनस्तथैव च तिमिङ्गिलः
इञ्चकः शुक्तिकः शङ्खोऽवलूको जलसूकरः ५४
शम्बूकश्चन्द्रिकः शृङ्गी कर्कटः शकुटीपयः
एते चान्ये च जलजा मधुरा रसपाकयोः ५५
गुरवश्चोष्णवीर्याश्च गुरवः कफपित्तलाः
आनूपे तूत्तमश्च्छागः श्रेष्ठो मत्स्येषु रोहितः ५६
जलजे शुक्तिकूर्मौ च वारटोऽप्यथ पक्षिषु
एणो मृगेषु प्रवरः प्रतुदेषु शुको वरः ५७
विषयेषु — ग्न्यो लावः खगेषु तु ।
तित्तिरो विष्किरेष्वग्न्यः काकोऽग्न्यः प्रसहेषु तु ५८
लघूक्तं रुधिरं मांसाद् गुरु मेदश्च चर्म च
मज्जावसे गुरुतरे तेभ्यो गुरु शिरः स्मृतम् ५९
लघुः स्कन्धो हि शिरसस्तस्मात् पार्श्वं लघु स्मृतम्
पार्श्वात् सक्थि लघु प्रोक्तं पादमांसं गुरु स्मृतम् ६०
वसा मेदश्च मज्जा च वातपित्तहिताः स्मृताः
रसे पाके च मधुराः स्नेहाच्छ्लेष्मप्रकोपनाः ६१
रक्तं रक्तप्रशमनं मांसं मांसम्विवर्धनम्
गुरवः प्राणिनो बाला युवानो वृष्यबृंहणाः ६२
वृद्धास्तु वातला रूक्षाः पुंभ्यस्तु लघवः स्त्रियः
मृगाल्लघुतरः पक्षी पक्षिभ्योऽम्बुचरो गुरुः ६३
महाशरीराश्चाल्पकाया लघवो जीवक स्मृताः
विज्ञेयाश्चाल्पभुग्भ्योऽपि गुरवो बहुभोजनाः ६४
लघवोऽल्पभूमिचरा अलसेभ्यो विदूरगाः
लघुदेशचरा अल्पा लघवो लघुभोजनाः ६५
गुरुदेशचराः स्थूला गुरवो गुरुभोजनाः
पाशबद्धं गुरु मांसं रूक्षं क्षुद्व्याधिभिर्हतम् ६६
श्वभिर्हतं पीतरक्तं नातिबृंहणमुच्यते
पिषैर्हतमभक्ष्यं स्याच्छुष्कं नातिगुणावहम् ६७
सद्योऽपरिक्लिष्टहतं मांसं धातुं विवर्धयेत्
पूतिमांसं गुर्वसारं तदवृष्यमबृंहणम् ६८
एवं मांसविशेषज्ञः कल्पयेद्भोजने सदा
बालानां गुर्विणीनां वा बालपुत्रासु वा भिषक् ६९
दुष्प्रजातासु वा स्त्रीषु बाले वा कृशिते सदा
प्रयुञ्जन् सिद्धिमाप्नोति तत्त्वविद् वृद्धजीवक ७०
इति ह स्माह भगवान् कश्यपः
इति खिलेषु मांसगुणविशेषीयाध्यायश्चतुर्विंशतितमोऽध्यायः २४

अथ देशसात्म्याध्यायः पञ्चविंशः
अथातो देशसात्म्याध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
कश्यपाख्यमृषिश्रेष्ठं पृष्टवान् — रोचतः
देशसात्म्यमजानन्तः कथं कुर्युश्चिकित्सितम् ३
कस्य देशस्य मध्ये तु कुरुक्षेत्रं प्रतिष्ठितम्
इत्येवमुक्तो भगवान् काशिराजो महामुनिः ४
इदमुत्तरमक्लिष्टं व्याख्यातुमुपचक्रमे
कुरुक्षेत्रं मध्यदेशाद्योजनानां शतं परम् ५
समस्तान् षड्रसान् प्रायो भुञ्जते मध्यदेशजाः
भक्ष्यभोज्यान्नवीरास्ते तु भुञ्जन्तो वाऽसकृत्तथा ६
पूर्वदेशस्तु विज्ञेयो मधुरः शीतलो गुरुः
कुमारवर्तनीमादौ कटीवर्षस्तथैव च ७
मगधासु महाराष्ट्रमृषभद्वीपमेव च
पौंड्रवर्धनकं चापि मृत्तिकावर्धमानकम् ८
कर्वटं च समातङ्गं तामलिप्तं सचीरकम्
प्रियङ्गुमथ कौशल्यं कलिङ्गपृष्ठपूरकम् ९
एषु प्लीहविनो मर्त्या गलगण्डिकमेव च
गुडशाल्योदनप्राया मत्स्यभोजनसेविनः १०
प्रायशो मधुराहारा वातश्लेष्मात्मका नराः
तेषां कटुकतिक्तं च रूक्षमुष्णं च भोजनम् ११
यच्चान्यदपि श्लेष्मघ्नं तेषां तत्तत् प्रयोजयेत्
कञ्चीपदा नवध्वाना कावीरास्तुल्ययोरपि १२
वानसी कुमुदाराज्यं चिरिपालिस्तथैव च
चीरराज्यञ्च चोराणां पुलिन्दं द्रविडेषु च १३
करघाटशनानां च विवेहा मण्डपेषु च
कान्तारं च वराहं च घटास्वाभीरमेव च १४
दक्षिणां दिशमाश्रित्य देशा वि —

खिलस्थानस्यैतावानेव भाग उपलब्धः
काश्यपसंहिता वृद्धजीवकीयतन्त्रं च
एतावत्येवोपलब्धभागे
विश्राम्यति

]