[[रससारः Source: EB]]
[
आयुर्वेदीयग्रन्थमाला
षष्ठं पुष्पम् ।
श्रीगोविन्दाचार्यविरचितो
रससारः।
आचार्योपाह्नेनत्रिविक्रमात्मजेन यादवशर्मणा
संशोधितः प्रकाशितश्च।
<MISSING_FIG href="../../../books_images/1673853282.png"/>
ĀYURVEDĪYA GRANTHAMĀLĀ.
No. 6.
RASASĀRA.
BY
GOVINDĀCHĀRYA.
EDITED AND PUBLISHED
BY
VAIDYA JĀDAVJĪTRICUMJĪĀCHĀRYA,
372, BORĀBAZĀR STREET, FORT, BOMBAY.
1912.
मूल्यं ९ आणकाः । Price 9 annas.
Printed by B. R. Ghanekar, at the Nīrnaya-sagar Press,
23 Kolbhat Lane, Bombay and Published by Vaidya
Jādavjī TricumjīĀchārya, 372, BorāBazār
Street, Fort, Bombay.
________________
All rights reseryed by the publisher.
भूमिका
<MISSING_FIG href="../../../books_images/1673854336.jpg"/>
रससारकर्ताऽयं श्रीगोविन्दाचार्य आचार्यसहदेवपौत्रः, सुरादित्यपुत्रः, अन्तर्वेदी1समुत्पन्नसारस्वतब्राह्मणजातीयश्रीधीरदेवशिष्यः, मोढाख्यब्राह्मणजातीयो गुर्जरदेशनिवासी2 चासीदिति खेनैव ग्रन्थान्ते लिखितादात्मवृत्तान्तात्प्रतीयते। स चायं ख्रीस्तीयत्रयोदशशताब्द्यां समजनीति ‘डॉ. प्रफुल्लचन्द्रराय D. Sc, Ph. D.’ इत्यतेषां मतम्3 । अयं च रससारः प्रायेण धातुवाद(Alcemi) विषयक एव। ताम्रवङ्गाद्यल्पमूल्यधातुभ्यः स्वर्णरौप्यकरणविषयमेव प्रधानीकृत्यास्य ग्रन्थस्य प्रवृत्तिः। स च विषयोऽस्मिन् स्फुटतया नातिसंक्षेपविस्तरेण प्रतिपादितः। एतद्वन्यावलोकनेन गोविन्दाचार्यसमये रसविद्या भारतवर्षे बौद्धमतावलम्बिषु सम्यग्लब्धप्रचारा आसीदिति प्रतीयते। तथा चोक्तं रङ्गाकृष्टिविषये ‘एतद्बौद्धा विजानन्ति भोटदेशनिवासिनः’ (९प. २ श्लो.) इति; तथा ग्रन्थान्ते च ‘बौद्धं मतं तथा ज्ञात्वा रससारः कृतो मया’ (२६ प. ३६ श्लो.) इति। ग्रन्थस्यास्य मुद्रणार्थमादर्शपुस्तकचतुष्टयमुपलब्धम् । प्रथमं **क.**संज्ञितं महीसुरराजकीयपुस्तकालयस्थं, द्वितीयं **ख.**संज्ञित्वं मदीयसुहृदां वटोदरपत्तननिवासिनां ‘विनायक सदाशिव जाम्बेकर’ इत्येतेषां, तृतीयं **ग.संज्ञितं मदीयपरमसुहृदां स्वर्गवासिनां वैद्यमुरारजीशर्मणां, चतुर्थेघ.**संज्ञितं च मदीयपरमसुहृदां ‘वैद्य त्र्यम्बक गुरुनाथ काले’ इत्येतेषाम् । एवं पुस्तकचतुष्टयसहायेन यथामति संशोधितोऽयं ग्रन्थः । ग्रन्थस्यास्य शुद्धिपत्रकरणे अमरावतीनिवासिभिः ‘श्रीयुत विनायक पद्माकर जोशी’ इत्येतैः, तथा ‘वैद्य त्र्यम्बक गुरुनाथ काले’ इत्येतैश्च महत्साहाय्यमनुष्ठितं, अतस्तानप्यत्र संभावयामि । ग्रन्थस्यास्य संशोधने यथामति कृतेऽपि यत्ने दृष्टिदोषादनवधानादज्ञानाद्विपरीतज्ञानाद्वा क्वचित्खलनं जातमुपलभ्येत चेद्गुणैकपक्षपातिभिर्विद्वद्भिः संशोधनीयं क्षन्तव्यश्चाहमित्यभ्यर्थयते—
भिषजामनुग्राह्यो
**यादवशर्मा।**
आयुर्वेदीयग्रन्थमाला।
<MISSING_FIG href="../../../books_images/1673860638.jpg"/>
श्रीगोविन्दाचार्यविरचितं ।
रससारः ।
<MISSING_FIG href="../../../books_images/1673860785.jpg"/>
अथ प्रथमः पटलः।
गणेशं प्रणिपत्यादौ शिवं च शिवय सह ।
गुरुभैरवसिद्धां4श्च योगिनींग्रहमण्डल5म्॥१॥
प्रणम्य शिरसा नित्यं भक्त्या तत्पादपङ्कजम् ।
हरिं ध्यात्वा6 परं देवं रसेन्द्रं शिवम्व्ययम् ॥२॥
आलोक्य सर्वशास्त्राणि अनुभूय ययास्थिति7 ।
सारात्सारं समुद्धृत्य संक्षेपादर्थगौरवात् ॥ ३॥
रससारं प्रवक्ष्यामि नानासिद्धैश्च भाषितम् ।
साधकानां हितार्थाय लोकानामनुकम्पया ॥४॥
मलहीनो यदा सूतः पितामहसमो भवेत् ।
स बद्धो विष्णुराख्यातो रञ्जितः शिव उच्यते ॥५॥
सारितो मारितश्चैव स एव जगदीश्वरः।
संक्रामति8 यदा धातून् वेधते9 च रसेश्वरः ॥६॥
स एव भगवान्नाथस्त्रैलोक्यदुरितापहः ।
जराव्याधिविनाशी च मृत्युदारिद्रयनाशनः ॥ ७ ॥
ॐ हस्ते मम सिद्धिं देहि सिद्धिं देहि स्वाहा[^10] । ॐ ईश्वराय[^11] नमः । ॐ रसेश्वराय नमः । इति रसेश्वरमनुः।
देहि मे रसराजेन्द्र देवत्वं10 सह साधकैः।
खेचरत्वं वयःस्तम्भं लोहसिद्धिं तथा पराम् ॥ १५॥
तिष्ठ तिष्ठ सुरश्रेष्ठ सिद्धिं साधय मे प्रभो ।
चञ्चलत्वं परित्यज्य वह्नौ त्वं सुस्थिरो भव ॥ १६ ॥
त्रैलोक्यदुःखनाशाय शिवः प्रत्यक्षतां गतः11।
कालग्रस्तं भयग्रस्तं त्राहि त्राहि सुरेश्वर12 ॥ १७ ॥
वेदाध्ययनदानैश्च तपोभिर्यज्ञकर्मभिः ।
मुक्तिर्भवति केषांचित्तनुस्तत्र13 न विद्यते ॥ १८ ॥
भुक्तिर्मुक्तिर्वयःस्तम्भो लोहसिद्धिश्चखेगतिः॥
एतत्कौतूहलं लोके प्राप्नोति रसराजतः ॥ १९ ॥
इच्छाभोगफलास्वादी14 शस्त्रास्त्रैश्च न भिद्यते।
त्रैलोक्ये विचरेन्नित्यं मोदते ह्यमरैः सह ॥ २०॥
धर्मार्थकाममोक्षाख्याः पुरुषार्थाश्चतुर्विधाः।
सिध्यन्ति नात्र सन्देहो रसराजप्रसादतः॥२१॥
इति श्रीमद्गोविन्दाचार्यविरचिते रससारे रसपूजास्वरूपस्तुत्यधिकारो नाम
प्रथमः पटलः ॥
_____________________
अथ द्वितीयः पटलः।
वैक्रान्तं सत्यकं ताप्यं दरदं रसकं गिरिः15।
विमला चैवकान्तं च संग्राह्या रसकर्मणि ॥१॥
गन्धकं कुन्टीं तालं गैरीं काङ्क्षींरसाञ्जनम् ।
कासीसं टकङ्कुष्ठे आनयेद्धि विचक्षणः ॥२॥
काचं बहुविधंव्योम श्वेतक्तरादिभेदतः।
राजावर्तंशिखिग्रीवं16 क्षारांश्च लवणानि च ॥३॥
सुवर्णं रजांताम्रंलोहं च त्रपु सीसकम् ।
रीतिकां वांस्यकं चैव अष्टधातून् क्रमेण तु ॥४॥
वज्रंमुक्ता17फलानि च पद्मरागं सनीलकम् ।
मरक्तं18 पुष्परागं च मेदो19वैडूर्यविद्रुमम् ॥५॥
मृगनाभिं सुकर्पूरमगुरुं कृष्णसंज्ञकम्20 ॥
विषाणि चैव सर्वाणि स्थावराणि चराणि21 च ॥६॥
सहायाः शोभनाः प्राज्ञाः सर्वभूतहिते रताः।
गुरुभक्ता जेतात्मानो, द्रव्यलोभादिनिस्पृहाः22॥७॥
उलूखलः23 शिलापट्टः खल्वो मुसलपिण्डिके ।
खर्पराणि विचित्राणि लोष्ट्रं24 चुल्ली च कण्डनी25 ॥८॥
रेतनी नलिका भस्त्री हतोडी कर्तरी कणी।
छिन्नी संदशनी चर्म अर्हिणी धनसंयुता26॥९॥
तोलनानि विचित्राणि लघुस्थूलानि तोलने27 ।
राजिकादिमणान्तानि प्रोक्तानि क्रमशो बुधैः ॥१०॥
दिव्यौषधीः समादद्यात्तैलानि विविधानि च ।
ओषधीकन्दजान् क्षारान् मञ्जिष्ठादिगणं वरम् ॥११॥
मूषाश्च विविधाः कार्या द्विविधं वक्रनालकम् ।
विरच्य बहुधा कोष्ठीं कोकिलाकाष्ठसंग्रहम् ॥ १२ ॥
सर्वजीववसारक्तं पित्तानि विविधानि च ।
कालयोगे मृतो जीवो ग्रहणं तस्य कारयेत् ॥ १३ ॥
अम्लवर्गः, समग्राश्च कषायमूत्रसंभवाः28।
संधानं च प्रकर्तव्यं क्षारैरम्लैर्महौषधैः ॥ १४ ॥
कार्यं बहुविधं यन्त्रं काचकूप्यो ह्यनेकशः।
भूनागमृत्तिकामृत्स्नालोहकिट्टानि कर्कराः29 ॥१५॥
व्रीहिधान्यसमुद्भूतास्तुषा दग्धाः प्रयत्नतः ।
एभिर्द्रव्यैः समायुक्तो रसकर्म समारभेत् ॥ १६ ॥
देशं द्रव्यं च कौशल्यं शास्त्रतत्त्वं गुरुक्रमम् ।
यो वेत्ति सत्यवादी च यत्नवान्30 क्रोधापवर्जितः ग.॥") शाठ्यवर्जितः ॥१७॥
गुणग्राही च सर्वेषां देवतातिथिपूजकः ।
योगी कन्यार्चने युक्तो नित्यं जपपरायणः ॥ १८ ॥
वस्त्राभरणसंयुक्तः पुष्पमालाविभूषितः।
आचार्यः सर्वकर्मज्ञो रसकर्मणि31 शस्यते ॥ १९॥
इति श्रीमद्गोविन्दाचार्यविरचिते रससारे द्रव्यसंग्रहाधिकारो नाम
द्वितीयः पटलः ॥
_____________________
अथ तृतीयः पटलः।
चतुर्विंशतिसंस्कारान् द्विगुणान् रसकर्मणि ।
विदित्वा साधकः पूर्वं, पश्चात्कर्मसमारभेत् ॥ १॥
(१) रसोपरसशुद्धिं च (२) लोहशुद्धिंतथैव च ।
(३) सत्त्वानां द्रावणं चैव (४) स्थिरीकरणमेव च ॥२॥
(५) द्रुतिपातं च सर्वेषां (६) रङ्गाकृष्टिं सुशोभनाम्।
(७) रत्नानां लक्षणं चैव (८) द्रावणं च विशेषतः।
(९) शोधनं सर्वधातूनां (१०) रत्नमेलापनं तथा ॥३॥
(११) वीजपाकं च सर्वेषां (१२) गर्भद्रुत्यवचारणम् ।
(१३) जारणं रसराजस्य (१४) द्रुतिमेलापनं तथा ॥४॥
(१५) रञ्जनं विधिसंयुक्तं(१६) रसराजस्य बन्धनम् ।
(१७) सारणं च तथा वक्ष्ये (१८) सूतराजस्य मारणम् ॥५॥
(१९) प्रतिसारणकं चैव (२०) क्रामणं च निगद्यते ।
(२१) वेध (२२) उद्घाटनं सम्यक् (२३) सुगुप्तो विक्रयस्तथा ॥६॥
एभिः कर्मान्तरैर्युक्तो वादिराजः स उच्यते ।
जारणा बहुधा ज्ञेया शतादिक्रमतो यथा ॥७॥
द्वन्द्व32मेलं प्रवक्ष्यामि(२४)पिष्टिस्तम्मनमुत्तमम् ।
(२५) वन्धं निगडबन्धं च(२६)संकलीकरणं तथा ॥८॥
(२७) रसोपरसलोहानां कर्म विस्तरतस्तथा।
(२८) रत्नानां शोधनं कर्म महदाश्चर्यकारकम् ॥९॥
(२९) वङ्गदोषविनाशं च (३०) कालिकाविजयं तथा ।
(३१) बहुधा कल्कभेदांश्च (३२) विषाणां कर्म साधनम् ॥१०॥
(३३) मणिमूषाश्रयं कर्म (३४) दलादिकरणं तथा ।
(३५) गुटिकां कामधेन्वाख्यां (३६) वयःस्तम्भं च (३७) खेचरीम्
(३८) अनेकगुटिका दिव्या अदृश्यजनकारिणीः ।
(३९) अनेकक्रौञ्चयोगांश्चपक्षिणां कर्म शोभनम् ॥ १२ ॥
(४०) औषधीनां तथा वक्ष्ये कल्पभेदं सुशोभनम् ।
(४१) भूरिशो यन्त्रभेदांश्च(४२) मूषाबन्धान् वदाम्यहम् ॥१३॥
(४३) आयुधानि तथा वक्ष्ये रसराजस्य कर्मणि ।
(४४) स्वेदनं रसराजस्य रसायनमनुत्तमम् ॥ १४ ॥
(४५) मारणं सर्वधातूनां (४६) देहे संक्रामणं तथा ।
(४७) भोजनं विधिसंयुक्तं रसयुक्तस्य देहिनः ॥ १५ ॥
(४८) चर्यां चैव33 नरेन्द्रस्य यथा सिद्धिमवाप्नुयात् ।
स्थानान्येतानि शास्त्रस्य वक्ष्यामि क्रमतो यथा ॥ १६ ॥
सुखेन येन जानन्ति साधकाः सिद्धिसाधनम् ।
अबुधप्रतिबोधाय रस34सारसमुच्चये ॥ १७ ॥
इति श्रीमद्गोविन्दाचार्यविरचिते रससारे अनुक्रमणिकाधिकारो नाम
तृतीयः पटलः।
_______________
अथ चतुर्थः पटलः ।
अथातः संप्रवक्ष्यामि रसराजस्य शोधनम् ।
येन विज्ञातमात्रेण साधकाः कर्मकोविदाः ॥ १ ॥
नागदोषविनाशश्च वङ्गदोषविनाशनम् ।
कालिकाविजयश्चैव भूमिदोषविनाशनम् ॥ २ ॥
अश्मकञ्चुकविध्वंसो वङ्गकापालिनाशनम् ।
कालिका नागसंभूता नागश्यामत्वनाशनम् ॥ ३ ॥
अव्यापिविजयश्चैव रसस्य वशकारकः।
अतितीव्रकरश्चैव अतिनिर्मलकारकः ॥ ४ ॥
नागशङ्काजयश्चैव वङ्गशङ्काविनाशनम् ।
विषशङ्काविनाशश्च दर्पदोषविनाशनम् ॥ ५ ॥
उन्मत्तवशकारी च सूक्ष्मदोषविनाशनम् ।
मन्दवीर्यविनाशश्च षण्डदोषविनाशनम् ॥ ६ ॥
दीपनं रसराजस्य आयुर्वृद्धिकरं परम् ।
क्षुधाकरः परश्चैव वह्निस्थितिकरस्तथा ॥ ७ ॥
महामुखकरश्चैव अजीर्णस्य विनाशकः ।
व्योममेलापकश्चैव महाबलमवाप्नुयात् ॥ ८॥
बन्धनं च तथा ज्ञेयं यथा यन्त्रेषु तिष्ठति ।
धातुमेलापकश्चैव द्रुतिमेलापकस्तथा ॥९॥
रत्नमेलकरश्चैव रञ्जनस्स विधिस्तथा ।
रसबन्धकरश्चैव व्यापी चैव यथा रसः॥१०॥
प्रवेशकरणं चैव रससंक्रामणं पुनः।
वेघमात्रा तथा ज्ञेया वेधश्चैव निगद्यते ॥११॥
रङ्गसंख्या रसेन्द्रस्य वेध उद्घाटनं तथा ।
रसायनोपयोगश्च रसराजस्य सेवनम् ॥ १२ ॥
देहसंक्रामणं चैव रसमात्रानिषेवणम् ।
व्याधीनां निग्रहश्चैव क्रमादेते प्रकीर्तिताः॥ १३ ॥
इति श्रीगोविन्दाचार्यविरचिते रससारे अष्टचत्वारिंशत्संस्कारो नाम
चतुर्थः पटलः ।
अथ पञ्चमः पटलः।
एकविंशतिवारांश्च वाससो गालयेद्रसम् ।
नागवङ्गादयः किंचिद्वस्त्रे35 तिष्ठन्ति धातवः ॥१॥
ग्रहधूमेष्टिकाचूर्णदग्धोर्णागुड36काञ्जिकैः।
मर्दयेद्दिनमेकं तु मलहीनो भवेद्रसः ॥२॥
दिनानि सप्त संपिष्टो वज्रीक्षीरेण पारदः।
स्वर्जिकाक्षारयुक्तेन भूमिदोषो विनश्यति ॥३॥
टङ्कणक्षारसंयुक्तमर्कक्षीरेण योजयेत् ॥ ४॥
सप्ताहं मर्दयेत्सूतमश्मकञ्चुकनाशनम् ।
चित्रकद्रवसंपिष्टं टङ्कणेन समन्वितम् ।
कपाली वङ्गसंभूता नश्यते नात्र संशयः ॥ ५॥
वज्रकन्दरसेनैव नवसारयुतेन च ।
वङ्गदोष37समुद्भूता कालिका नश्यति ध्रुवम् ॥ ६॥
टङ्कणेन कलांशेन कटुतुम्बीरसेन च।
दिनानि सप्त संपिष्टो नागदोषं विमुञ्चति ॥७॥
बीजकक्वाथसंपिष्टो रसेन निम्बुजेन च ।
कपाली38 नागजा सूताद्गच्छत्येव न संशयः ॥८॥
नश्यते विषदोषस्तु चित्रकेणाश्वगन्धया।
स्नुहि39त्रिफलयोः क्वाथाद्दर्पदोषः प्रणश्यति ॥ ९॥
मीनाक्ष्य40ङ्कोलधत्तूरा उन्मत्तवशकारकाः।
त्रिकटुक्वाथसंघर्षो सूक्ष्मदोषविनाशकः ॥ १०॥
दुग्धिद्वयेन संघृष्टो व्यापी भवति निश्चितम् ।
काकमाचीरसेनैव निर्मलत्वम41वाप्नुयात् ॥ ११ ॥
औषधस्यौषधस्यान्ते क्षालयेत्काञ्जिकेन तु।
मर्दनादि सदा कर्म कर्तव्यं पण्डितै42रिति ॥ १२ ॥
स्वेदनम् ।
अथातः स्वेदनं वक्ष्ये यथा तीव्रोभवेद्रसः।
आयसे मृण्मये पात्रे स्वेदस्तत्र विधीयते ॥१३॥
दिर्व्यौषधिकषायाम्लैः शिग्रुमूलैः सराजिकैः।
लवणत्रिकटुक्षारैर्विषोपविषमूत्रकैः ॥ १४ ॥
कलांशमानैः कर्तव्यो मुद्वग्नौ स्वेदनो विधिः।
एकविंशद्दिनैरेव ज्ञातव्यः सोऽतितीव्रकः ॥ १५॥
मर्दनम् ।
अनेनैव तु योगेन मर्दयेत्खल्वगं रसम् ।
एकविंशद्दिनैरेव शुद्धो भवति पारदः ॥१६॥
मूर्च्छनम् ।
मूर्च्छनं रसराजस्य कर्तव्यं वादिभिः सदा ।
विषैस्त्रिफलया पूर्वंत्रिविषोपविषै43स्तथा ॥ १७ ॥
कर्कोटीक्षीरकन्दाभ्यां चित्रकैर्गृहकन्यया।
एकैकेनापि संमर्द्ययाममेकं तु पारदम् ॥ १८ ॥
किन्नरं यन्त्रमादाय औषध्या लेपयेत्तलम् ।
नवसारयुतं सूतं यन्त्रमध्यगतं न्यसेत् ॥ १९ ॥
दद्याद्रसोपरि श्रावं संधिलेपं दृढं मृदा ॥
लवणेन च संपूर्य द्वारं संरुध्य यत्नतः ॥२०॥
चुल्लिकोपरि संस्थाप्य दीपाग्निं ज्वालयेत्सुधीः।
यामैकाच्च समुत्तार्य कर्तव्यः शीतलो रसः ॥२१॥
उत्थापनम् ।
यन्त्रादुद्धृत्य यत्नेन मूतमुत्थाप्यमूर्च्छितम् ।
अमूर्च्छितस्तदा देयः कलांशैर्मूर्च्छिते रसे ॥२२॥
सिन्धूत्थटङ्कणाभ्यां च मर्दयेन्मधुसंयुतम् ।
दोलायन्त्रे ततः स्वेद्यः क्षाराम्ललवणैः सह ॥ २३ ॥
उत्थाप्य मूर्च्छयेत् पश्चात् वारंवारं रसेश्वरम् ।
पुनरुत्थापितं कुर्यादेकविंशतिवारतः ॥ २४ ॥
अथवा चक्रयन्त्रेऽपि मूर्च्छितः क्रियते रसः।
पातनम् ।
अथातः संप्रवक्ष्यामि पातनं च यथाविधि ॥२५॥
द्वौ भागौ शुद्धमूतस शुल्बभागैकसंयुतौ ।
त्रिंशांशं लवणं दत्त्वा पिष्टीं कुर्याच्च सुन्दराम् ॥२६॥
कटाहं चिप्पटं ग्राह्यं तद्बुध्ने लेपयेद्रसम् ।
द्विगुणेन सुवस्त्रेण जडयेद्बुध्नकादधः ॥२७॥
वस्त्रान्तरे रसं लिप्त्वा सजलस्थालिकोपरि ।
स्थालीकटाहयोः सन्धिं लेपयेत्सुदृढं मृदा ॥ २८ ॥
कटाहोपरि कर्तव्यं रसराजस्य पातनम् ।
शुल्बपिष्टीं तथा कुर्यादूर्ध्वमग्निरधो जलम् ।
जलमध्ये रसो याति शुल्बंतिष्ठति बुध्नके ।
शुल्बाद्रसो रसात्ताम्रं पातनेन पृथक्कृतम् ॥२९ ॥
पुनः पिष्टी प्रकर्तव्या क्षिप्त्वाऽम्लं ताम्रसंयुतम् ।
प्रक्षाल्य तत्प्रयत्नेन स्थापयेत्स्थालिमध्यतः॥३०॥
स्थालीमधोमुखीमन्यां दत्त्वा तल्लेपयेन्मुखम् ।
उपरिस्थालिकाबुध्ने दातव्यं गोमयं शकृत् ॥ ३१ ॥
चूल्ल्यां संस्थाप्य यत्नेन दीपाग्निं ज्वालयेत्ततः।
उड्डीय सूतस्तल्लग्न ऊर्ध्वपात्रस्य बुध्नके ॥ ३२॥
याममेकं तु कर्तव्यं ऊर्ध्वपातनमुत्तमम् ।
यन्त्रो डमरुकः ख्यातः पातने परमो मतः ॥ ३३॥
यन्त्रादुद्धृत्य यत्नेन क्षाराम्लैः खेदयेत्ततः।
पुनः पिष्टीं प्रकुर्वीत पात्यं स्वेद्यं पुनः पुनः ॥ ३४ ॥
त्रिसप्तकमिदं प्रोक्तं श्रेष्ठं पातनमूर्ध्वगम् ।
अथवा चक्रयन्त्रेण ऊर्ध्वपातनमुत्तमम् ॥ ३५ ॥
नागवङ्गसमुद्भूता शङ्काऽपि नश्यति ध्रुवम् ।
बोधनम् ।
अथातः संप्रवक्ष्यामि वीर्यवान् जायते यथा ॥ ३६ ॥
आदाय शिग्रुमूलानि राजिकां कटुकान्विताम् ।
आरनालेन संपिष्ट्वा कृत्वा पिण्डेन कुल्हडीम् ॥
नवसारं कलांशेन दत्त्वा सूतं विमर्दयेत् ।
नवसारसमायुक्तं रसं तस्यां विनिक्षिपेत् ॥ ३७॥
चतुर्गुणेन वस्त्रेण बध्नीयात्पोटलीं ततः ।
निंबूकस्य रसं क्षिप्त्वा जम्बीररससंयुतम् ॥ ३८ ॥
चूर्णं च सर्जिकावारि चिश्चाद्रावं तु काञ्जिकम् ।
स्थालीमध्ये क्षिपेत्तंच कण्ठे काष्ठं विमुञ्चयेत् ॥ ३९॥
काष्ठे च पोटलीं बद्ध्वा काञ्जिकं44 च स्पृशेद्यथा।
द्वारे च मल्लकं दत्त्वा ज्वाल्यो वह्निरहर्निशम् ॥४०॥
काञ्जिकं प्रक्षिपेत्तत्र क्षीणे क्षीणे पुनः पुनः ।
प्रत्यहं नूतनं पिण्डं कुर्यात्तेनैव कुल्हडीम् ॥४१॥
नवसाररसं क्षिप्त्वाबध्नीयात्पोटलीं ततः।
दोलाखेदः प्रकर्तव्य एकविंशद्दिनावधि ॥ ४२ ॥
खेदितः सूतराजस्तु ततो बलमवाप्नुयात् ।
छागमूत्रं तु संगृह्य वानरीं च बलात्रयम् ॥ ४३ ॥
क्षाराम्लेन च संयुक्तं कान्ते45 च खेदयेद्रसम् ।
एकविंशद्दिने पूर्णे षण्ढत्वं नश्यति ध्रुवम् ॥ ४४ ॥
काकविष्ठादिभिः पित्तैः शुक्रशोणितचित्रकैः।
जपाशिग्रूर्ध्वमालाभिर्मर्दयेद्दीपनौषधैः ॥४५॥
मृण्मयीं कुण्डिकां कृत्वा मध्ये स्थण्डिलसंयुताम् ॥
जलं तत्र विनिक्षिप्य स्थापयेत् स्थण्डिले रसम् ॥४६॥
स्थण्डिलात्परितः क्षिप्रं जले पतति सूतकः ।
त्रिसप्तवारं कर्तव्यं चक्रे वा दीपनं परम् ॥ ४७॥
इति दीप्तो यदा सूतो विद्युत्कान्तिसमप्रभः ।
मीनाक्षीभुजगाक्षिभ्यां बलात्रयेण संयुतम् ॥४८॥
बिम्बीवृत्तदलाभ्यां च गिरि46कर्ण्यासमन्वितम् ।
सप्ताहमम्लवर्गैश्च कान्तपात्रे पचेद्रसम् ॥ ४९ ॥
बुभुक्षितो भवेत्सूतः पश्चात्तं च नियामयेत् ।
अथ नियमनम् ।
रक्तसैन्धवव्योषैश्च मूषाद्वयं तु कारयेत् ॥ ५० ॥
तत्संपुटे रसं क्षिप्त्वानवसारं सनिम्बुकम् ।
तत्संपुटे प्रयत्नेन लेपयेत्सन्धिमुत्तमम् ॥ ५१॥
मृत्तिकावस्त्रमादाय वेष्टयेत्तत्प्रयत्नतः।
छायाशुष्कं हि तत्कृत्वा भूगर्भे स्थापयेत्ततः॥ ५२॥
अष्टाङ्गुलप्रमाणेन मूषोर्ध्वंगर्तपूरणम् ।
त्रिसप्तदिनपर्यन्तं करीषाग्निं च कारयेत् ॥ ५३ ॥
दिने दिने प्रकर्तव्या मूषा सैन्धवनूतना ।
स्वेदयेत्तु प्रयत्नेन भूगर्भे स्थापयेत्पुनः ॥ ५४॥
अथातः कूपिकामध्ये सूतं सैन्धवसंयुतम् ।
भूगर्भे च ततः स्थाप्यं एकविंशद्दिनावधि ॥ ५५ ॥
अयं नियामको नाम वह्निमित्रत्वकारकः ।
अथ निरोधनम् ।
काचकूपीं मृदाऽऽवेष्ट्य रसं मध्ये विनिक्षिपेत् ॥५६॥
कलांशं टङ्कणं दत्त्वा मद्यं किंचित्प्रदीयताम् ।
द्वारे मुद्रा प्रदातव्या वज्रमृत्तिकया दृढम् ॥ ५७ ॥
भूगर्भे कूपिकां स्थाप्य स्मृत्स्नयागर्तपूरणम् ।
करीषाग्निः प्रकर्तव्य एकविंशद्दिनावधि ॥ ५८ ॥
अयं निरोधको नाम महामुखकरः परः।
निरोधः सूतरजस्य त्वजीर्णस्य निषेधकः ॥ ५९॥
स्वेदनं रसराजस्य क्षाराम्लैर्विषमद्यकैः।
उत्तार्य बीजपूरस्य वृन्तं कृत्वा सरन्ध्रकम् ॥ ६०॥
तस्य मध्ये क्षिपेत्मूतं कलांशक्षारसंयुतम् ।
द्वारं निरुध्य यत्नेन वस्त्रेण47 परिबन्धयेत् ॥ ६१ ॥
दोलास्वेदः प्रकर्तव्य एकविंशद्दिनावधि ।
दिने दिने प्रकर्तव्यं नूतनं बीजपूरकम् ॥ ६२ ॥
लेलिहानो हि धातूंश्च पीड्यमानो बुभुक्षया ।
अनेनैव48 प्रकर्तव्यं रसराजस्य शोधनम् ॥ ६३ ॥
त्र्यहं सप्तदिनं वाऽथ चतुर्दशैकविंशतिः।
संस्कारः49 सूतराजख क्रमात्क्रमतरं वरम् ॥ ६४॥
आदौ किंचित्प्रदाव्यं काञ्चनं मुखहेतवे ।
ॐनमो मृतलोहाय50 परमा51मृतोद्भवाय स्वाहा ॥६५॥
इति चारणजारणमन्त्रः।
सर्वजन्तूपकाराय महासिद्ध्यर्थमात्मनः।
जारणं कर्तुकामोऽहं ग्रासं गृह्णमम प्रभो ॥६६॥
खल्वश्च पिण्डिका ज्ञेया रसेन्द्रो लिङ्गमुच्यते ।
मर्दनं चन्दनं प्रोक्तं ग्रासः पूजा विधीयते ॥ ६७ ॥
दिनमेकं रसेन्द्रस्य यः करोति हुताशनम् ।
विलयं यान्ति पापानि कुर्वन्नपि न लिप्यते ॥ ६८ ॥
शंतं52 पलानि संगृह्य रसस्य रसकर्मणि ।
षोडशांशयुतेनापि साधयेत्साधकोत्तमः ॥ ६९ ॥
इति श्रीगोविन्दाचार्यविरचिते रससारे रसशोधनसंस्काराधिकारो नाम पञ्चमः पटलः ॥
______________
अथ षष्टः पटलः।
अथातः संप्रवक्ष्यामि रसोपरसशोधनम् ।
अम्लैः53 क्षारैश्च मूत्रैश्च कुलित्थक्काथसंयुतैः॥१॥
रसांश्च स्वेदयेत्पूर्वंयावत्सप्तदिनावधि ।
वैक्रान्तं सस्यकं ताप्यं दरदो रसको गिरिः॥२॥
विमलं54 कान्तकश्चैव स्वेदाच्छु55ध्यन्ति नान्यथा ।
शुध्यन्त्युपरसाः सर्वे56 कुर्यात्सत्त्वनिपातनम् ॥३॥
अम्लैः क्षारैश्च रक्तैश्च निर्गुण्डीरससंयुतैः।
निषेकस्तेषु कर्तव्यो ढालस्तेषु57पुनः पुनः॥४॥
शुध्यन्ति धातवः सर्वे दोषहीना भवन्ति च ।
एवं शुद्धिः पुनः स्वेदो रसेषूपरसेषु च ॥५॥
मूत्रस्नेहवसादुग्धैरेकविंशद्दिनावधि ।
तथा रसा विमुञ्चन्ति सत्त्वं चैव सुनिर्मलम् ॥६॥
गुडगुग्गुलुलाक्षाभिः पञ्चमाहिषटङ्कणैः॥
बध्नीयात्पिण्डिका58मेभिः सत्त्वमोक्षविधौ59 ध्रुवम् ॥७॥
वैक्रान्तं सस्यकं ताप्यं काचोऽभ्रं60 विमलं गिरिः।
मैरिका तुत्थकं61 चैव राजावर्तोविशेषतः॥८॥
एषामुपर62सानां च कोष्ठे सत्त्वनिपातनम् ।
नानाक्षेत्रसमुद्भूताः पाषाणा धातुसंज्ञकाः63॥९॥
पिण्डीं बद्ध्वाद्रवन्त्याशु सर्वे64 जार्या रसेश्वरे ॥
ध्माताः सत्त्वं विमुञ्चन्ति वक्रनालद्वयेन च ॥१०॥
विज्ञाय पतितं सत्त्वं गृहीत्वा तद्धरेत्पुनः65।
दुग्धादि66स्नेहरक्तैश्च कर्तव्यं सिञ्चनं तथा ॥११॥
यदा सत्त्वं भवेच्छुद्धं सेचनं च विवर्जयेत् ।
नागं त्रिगुणमुत्तार्य सत्वं शुद्धं भवेत्तदा ॥ १२ ॥
भूनागस्यापि कर्तव्यः सत्त्वार्थंविधिरेष वै ।
कान्तस्यान्यो विशेषः स्यात् ज्ञातव्यः क्रमकोविदैः ॥ १३॥
कान्तं शुद्धं पुरा कृत्वा छागरक्तेन भावयेत् ।
पिण्डीं बद्ध्वाप्रयत्नेन कोष्ठे सत्त्वं67 निपातयेत् ॥ १४ ॥
घात्रीबिभीतकाङ्गारैः सत्त्वं पतति शोभनम् ।
चौरं शुद्धं पुरा कृत्वा ततो मूषां प्रपूरयेत् ॥ १५॥
पलेन पूर्यते मूषा कर्तव्या शोभना दृढा ।
द्वारं निरुन्ध्य यत्नेन द्वारनालं दशाङ्गुलम् ॥ १६॥
सजले68 लघुकोष्ठे च मूषैकैका भवेत्ततः ।
दद्यात्खर्परिकां नाले यथोड्डीय न गच्छति ॥ १७ ॥
अङ्गारत्रितयादूर्ध्वेमुखनालं69 विशोधयेत् ।
एकैकाङ्गारके70 शान्ते सत्वं ग्राह्यं पुनः पुनः॥१८॥
धमेन्म71न्ददृढाङ्गारैर्यावदाङ्गारसप्तकम् ।
एवं मूषा प्रकर्तव्या मणेनैकेन विंशतिः ॥ १९॥
मणमध्यात्पतेत्सत्त्वंपलत्रितय72संमितम् ।
हिङ्गुलं च शिला काङ्क्षी कासीसं तालकस्तथा ॥२०॥
एतेषामेव सर्वेषां कूपे सत्वं निपात्यते ।
शिलां च तालकं चैव खेदयित्वा च पूर्ववत्73 ॥२१॥
ताले74 च शम्बुकक्षारं समभागं तु मर्दयेत् ।
दृढां स्थालीं समादाय तालकं75 तत्र निक्षिपेत् ॥ २२ ॥
सच्छिद्रं मल्लकं दत्त्वा सन्धिं लिम्पेदृढं मृदा ।
सूक्ष्मच्छिद्राद्विनिष्क्रान्तो यथा धूमश्च गच्छति ॥२३॥
चुल्यां संस्थाप्य यत्नेन ततो वह्निं प्रकारयेत् ।
निर्धूमे मल्लके जाते मुद्रां दद्यात्तदूर्ध्वतः76 ॥ २४ ॥
हठवह्निः प्रकर्तव्यो यावद्यामचतुष्टयम् ।
स्वाङ्गशीतं तदुत्तार्य77 सत्त्वं प्रक्षाल्य यत्नतः ॥२५॥
गृहीत्वा तत्र लग्नं तु सत्त्वं खल्वे विमर्दयेत् ।
टङ्कणक्षारसंयुक्तं काचकूपे78 निधापयेत् ॥ २६ ॥
हस्तमात्रं प्रकर्तव्यं यन्त्रं चक्राकृति शुभम् ।
चुल्लिकोपरि संस्थाप्य सन्धिलेपं तु कारयेत् ॥ २७॥
इत्थं शुद्धिमवाप्नोति79 गन्धको नात्र संशयः॥
अयश्चूर्णंतुरीयांशं दत्त्वा यन्त्रे स्थिरीकुरु ॥ ३९ ॥
इति श्रीगोविन्दाचार्यविरचिते रससारे रसलोहशुद्धिसत्त्वपातनाधिकारो नाम षष्ठः पटलः ॥
______________
अथ सप्तमः पटलः।
चोरहंसशिलाकाङ्क्षीकासीसा अलयस्तथा ।
एषामस्थिरसत्त्वानां स्थिरीकुर्याद्विचक्षणः ॥१॥
दग्धात्तुषात्तु भागैकं मृदो भागद्वयं तथा ।
किंचित्कार्पासकं दत्त्वा कुट्टयेन्मृत्तिकां दृढम् ॥ २॥
मृत्पोलिकां80 ततः कृत्वा बुद्ध्या81 विस्तार्य यत्नतः।
बुध्ने मृदधिका कार्या वेष्टयेत्कूपिकां ततः ॥३॥
यत्नेन वेष्टितां कूपीं छायायां शोषयेत्ततः।
अञ्जनं तीक्ष्णसंयुक्तं तत्समं टङ्कणं कुरु ॥४॥
अन्धमूषागतं ध्मातं वरनाग इति स्मृतः।
चौरभागचतुष्कं तु वरनागैकसंयुतम् ॥५॥
तत्सर्वं82 रेतयित्वा तु रक्तवर्गेण भावयेत् ।
सूर्यतापेन संशोष्य काचपात्रे निधापयेत् ॥६॥
वैश्वानरः प्रदातव्यो83 वर्धमानो ह्यहर्निशम् ।
स्वाङ्गशीता यदा कूपी यत्नात्तां84 स्फोटयेत्तदा ॥७॥
अत85 ऊर्ध्वं च तल्लग्नमेकीकृत्वा च मर्दयेत् ।
भावयेद्रक्तवर्गेण काचकूप्यां निधापयेत् ॥ ८॥
तावदेवं86 प्रकर्तव्यं यावत्सत्त्वं स्थिरं भवेत् ।
स्थिरीभूतं यदा सत्वं स्वेदयेज्जलयन्त्रगम् ॥ ९॥
रसको बन्धमाप्नोति नात्र कार्या विचारणा।
सप्तरात्रमिदं कार्यं सत्त्वबन्धनमुत्तमम् ॥ १० ॥
एवं स्थिरत्वमन्येषामस्थिराणां च चौरवत् ॥
अभावे वरनागस लोहचूर्णेन कारयेत् ॥ ११ ॥
अमुनैव प्रकर्तव्यं स्थिरत्वं गन्धकस्य च ।
अथवा गन्धकं शुद्धं नवसारसमन्वितम् ॥ १२ ॥
रक्तवर्गेण संभाव्य चक्रयन्त्रे स्थिरीकुरु।
अस्थिराण्यपि सर्वाणि स्थिरत्वं प्राप्नुवन्ति हि ॥ १३ ॥
स्थिरीकरणमाख्यातं चक्रराजे सुशोभने ।
अन्ये च ये बिडाः87 ख्याताः श्रेष्ठाश्चारणकर्मणि88 ॥१४॥
तेषां च चक्रयन्त्रेण स्थिरत्वं कारयेद्बुधः।
इति श्रीमद्गोविन्दाचार्यविरचिते रससारे सत्त्वस्थिरीकरणाधिकारो नाम सप्तमः पटलः ॥
_______________
अथाष्टमः पटलः।
अथातः संप्रवक्ष्यामि द्रुतिपातनमुत्तमम् ।
रसोपरससत्त्वानां संक्षेपाल्लोहजं तथा ॥१॥
वैक्रान्तसत्त्वचूर्णंतु पादांशौ रसगन्धकौ।
पादांशं नवसारं च सर्वमम्लेन मर्दयेत् ॥२॥
शरावसंपुटे क्षिप्त्वा सन्धिं लिप्त्वा पुटेल्लघु।
स्वाङ्गशीतं तु तच्चूर्णं क्षारोदकविभावितम् ॥ ३॥
कूपीमध्ये विनिक्षिप्य मध्वाम्लेन89 समन्वितम् ।
कूपिकां पूरयेन्नूनं90 चर्मणा बन्धयेन्मुखम् ॥४॥
जानुमात्रं91 खनित्वा तु लद्दिं तत्र प्रपूरयेत् ।
विनिक्षिपेत्तत्र कूपीं लद्दिना गर्तपूरणम् ॥५॥
नूतनं92 त्रिदिनादूर्ध्वंलद्दिना गर्तपूरणम् ।
चत्वारिंशद्दिने पूर्णे द्रुतिर्भवति शोभना ॥६॥
स्थालीमध्ये द्रुतिं93 मुक्त्वा घर्मेण शोध(ष)येज्जलम् ।
द्रुतिर्भवति सर्वेषां सर्वकर्मसु पूजिता ॥७॥
लवणक्षारमूत्राणि क्षाराश्चौषधिसंभवाः ।
एते क्षारा रसाश्चैव औषधीकन्दसंभवाः॥८॥
यश्चान्यो द्रावकः कल्कः फलत्रयकटुत्रयम् ।
शिलाधातुः शिलामेदः शैलं सौवीरमञ्जनम् ॥९॥
काङ्क्षीगन्धककासीसमयस्कान्तश्च भूलता।
इन्द्रगोपकमण्डूकौद्विमुखी मत्स्यसंयुता ॥ १० ॥
कुलित्थक्काथतोयं च सर्वं मृद्वग्निना पचेत् ।
गालयेद्वस्त्रयोगेन पुनः पाकं च कारयेत् ॥ ११ ॥
गगनं सर्वलोहानि चूर्णंकृत्वा विभावयेत् ।
एकविंशतिवारांश्च भावयित्वा विशोषयेत् ॥ १२ ॥
लद्दिमध्ये तु भूगर्ते धान्यराशौ च भास्करे ।
सप्ताहं धारयेत्तं तु दोलायां स्वेदयेत्र्यहम् ॥ १३ ॥
द्रुतिर्भवति सर्वेषां सूतरूपा94 सुशोभना।
अनेनैव तु रत्नानि मृतानि द्रुतिमाप्नुयुः॥ १४ ॥
श्वेताभ्रकं च संचूर्ण्य मुनिपुष्पेण भावयेत ।
नष्टपिष्टं ततः कृत्वा एकविंशद्दिनावधि ॥ १५ ॥
आनीय95 सूरणं कन्दं तस्य मध्ये विमोचयेत् ।
धान्यराशौ तु संस्थाप्य मासमेकं तु साधकः ॥ १६ ॥
तस्मादुद्धृत्य संग्राह्य वटदुग्धेन भावयेत् ।
संस्थाप्य भाण्डयोगेन द्रुतिर्भवति निश्चितम् ॥ १७ ॥
श्वेताभ्रकं96 च संचूर्ण्य गोमूत्रेण विभावयेत् ।
कदलीफलसंयुक्तं भावयेत्तद्विचक्षणः ॥ १८ ॥
धमेत्तदन्धमूषायां त्रिवारं च पुनः पुनः।
द्रुतिर्भवति तद्वज्रं97 नात्र कार्या विचारणा ॥१९॥
काकमाचीबीजचूर्णेनाभ्रचूर्णं समं कृतम् ।
भावितं वज्रदुग्धेन धमनाद्द्रुतिमाप्नुयात्98 ॥ २०॥
रक्तोत्पलेन संयुक्तं धमनाद्द्रुतिमाप्नुयात् ।
वज्रवल्लीरसेनैव99 सौवर्चलसमन्वितम् ॥ २१॥
शरावसंपुटे पक्वंमूषायां द्रुतिमाप्नुयात् ।
अभ्रकं नरतैलेन100 भावितं च पुनः पुनः ॥ २२॥
तेनालेपितमूषायां धमनाद्दुतिमाप्नुयात् ।
पक्वधात्रीफलरसैर्लोहं द्रुतिमवाप्नुयात् ॥ २३ ॥
इन्द्रगोपककर्पूरं वसा मण्डूकसंभवा ।
रुधिरं कोकिलानां च हेम्नि101वापाद्दुतिर्भवेत् ॥ २४ ॥
देवदाल्या रसेनैव गन्धाश्मानं विभावयेत् ।
पञ्चाशद्भावना कार्या शोषयित्वा पुनः पुनः ॥ २५ ॥
भावयित्वा पुनर्गन्धं काकमाच्या रसेन च ।
गन्धकं प्रक्षिपेद्धेम्नि गालिते पञ्चमांशकम् ॥ २६॥
त्रिवारं क्रियतामाशु द्रुतिर्भवति शोभना102 ।
कञ्चुकीकन्दचूर्णंतु कञ्चुकीरसभावितम् ॥ २७॥
वापनात्सेचनाद्धातोर्ढालनाद्द्रावणं भवेत् ।
कृष्णागरुसितानाभिजलशूकं सरामठम् ॥ २८॥
जलं103 समुद्रतोयं च छत्राम्बरसमन्वितम् ।
लवणक्षारसंयुक्तं104 भावयेदेकविंशतिः ॥ २९ ॥
लेपयेद्धेमपत्राणि रवितापे द्रुतिर्भवेत् ।
द्रवन्ति सर्वलोहानि रसरूपा105 द्रुतिर्भवेत् ॥ ३०॥
आदौ धान्याभ्रकं कृत्वा खेदयेद्दिनविंशतिः।
स्नेहदुग्ध106वसामूत्ररैम्लैः क्षारैर्विधीयते ॥ ३१ ॥
पश्चाद्द्रुतिः प्रकर्तव्या अन्यथा नैव जायते ।
धूर्तभल्लातकालिङ्गबिभीताङ्कोल्लसंभवम् ॥ ३२॥
ज्योतिष्मत्यास्तिलानां च बाकुच्यतसिसंभवम् ।
तुम्बीपलाशजं तैलं कटुतैलं च राजिकम् ॥ ३३ ॥
देवदाली107करञ्जानामेरण्डकटुनिम्बजम् ।
गृहीत्वा सर्वतैलानि यथाप्राप्तानि साधकः ॥ ३४ ॥
महिषाजगजाश्वानां मण्डूकनरसंभवा ।
खरोष्ट्रजम्बुकादीनां नखिनां च विशेषतः ॥ ३५ ॥
शिशुकमत्स्यसंभूता वसा ग्राह्या च साधकैः।
पित्तान्येषां सरक्तानि रक्तवर्गेण योजयेत् ॥ ३६ ॥
मञ्जिष्ठा द्वे रजन्यौ च कौसुम्भं रक्तचन्दनम् ।
पत्राङ्गं रक्तनिर्गुण्डी शाककूपलिकद्रवः108 ॥ ३७॥
शिरीषशाल्मलीपुष्पं महिन्दीपत्रजो रसः ।
जपाकिंशुकपुष्पाणि घातकीकुसुमानि च ॥३८ ॥
अक्षीवः शालिमूलं च नारङ्गं दाडिमत्वचः।
पूगीखदिरजौ क्वाथौ नागवल्लीदलानि च ॥ ३९ ॥
टङ्कणं109 पद्मकन्दश्च नीलं110 नीली च बीजकः ।
पनसं111 त्रिफला बिल्वं पक्वाम्रजम्बुजो रसः॥४०॥
अन्यानि रक्तपुष्पाणि पीतकृष्णानि यानि च ।
क्वाथो वा चूर्णमेषां वा रक्तवर्ग इति स्मृतः॥४१॥
रक्तवर्गस्य भागैकमष्टौ भागान् जलस्य च ।
अष्टावशेषं कृत्वा तु क्वाथं वस्त्रेण पीडयेत् ॥४१॥
तस्य क्वाथस्यैकभागो भागस्तैलाच्च तत्समः।
पित्तानि रक्तयुक्तानि ताम्रेमृद्वग्निना पचेत् ॥ ४२॥
क्वाथादिकं च संशोष्यशुद्धतैलं समुद्धरेत् ।
रञ्जनेषु प्रयोक्तव्यं सारणेषु विशेषतः॥ ४३ ॥
बीजपाकेषु सर्वेषु सेचनीयं मुहुर्मुहुः ।
अम्लवर्गे तथा वक्ष्ये सर्वकर्मसु साधकम् ॥ ४४॥
अम्लवेतसजम्बीरबीजपूरकनिम्बुकम् ।
चिञ्चाकरमदाम्रातमाम्रामलकदाडिमम् ॥ ४५ ॥
अन्याम्लानि च सर्वाणि मद्यानि च विशेषतः।
सर्वधान्यसमुद्भूतं काञ्जिकं च तुषाम्बुकम्112 ॥ ४६ ॥
चवकोद्रववर्ज्य113ंंच प्रशस्तं चणकाम्लकम् ।
रक्तवर्गाम्लवर्गौच सर्वकर्मसु योजयेत् ॥४७॥
अहिमारमपामार्गंतण्डुलीयकमङ्कुलम् ।
स्नुह्यर्ककरवीरं च लाङ्गलीक्षीरकन्दकौ ॥४८॥
कर्कोटीं कञ्चुकीं तुण्डीं पालाशं चाग्निमन्थकम् ।
करीरं चित्रकं शिग्रं वरुणं वेतसं वटम् ॥ ४९ ॥
पटोलार्जुनकूष्माण्डीकदलीवज्रकन्दकम् ॥
अश्वत्थं सूरणं जालिं दहेत्कन्दाननेकशः ॥ ५०॥
अन्तर्धूमेन सर्वांश्च देवदालीं दहेदिति ।
औषधीक्षारनामाऽयं गणस्तु परिकीर्तितः ॥५१॥
क्षारोऽयं द्रावणे योज्यः खेदने च विशेषतः ।
बिडान्यन्यानि वक्ष्यामि क्षारांश्च लवणानि च ॥५२॥
स्वर्जिकाचूर्णभागैकं त्रिंशद्भागान् जलस्य च ।
तावत्क्काथं पचेद्भाण्डे यावत्फेनः सितो भवेत् ॥ ५३॥
क्षीणे क्षीणे114 जलं दत्त्वा श्वेतः फेनश्च गृह्यते ।
तं फेनं देगयन्त्रेण द्रावयेदग्नियोगतः ॥ ५४॥
त्रिसप्तवारं कर्तव्यं द्रावणं मूत्रसंयुतम् ।
सूचिकाक्षारनामाऽयं115 द्रावणे परमो मतः॥ ५५ ॥
सौवर्चलं यवक्षारं नवसारं च सैन्धवम् ।
गजादिपशुमूत्रोत्थं शाकम्भरं च सागरम् ॥ ५६ ॥
एकविंशतिवारांश्च द्रावयेद्देगयन्त्रके116।
क्षारद्रावः प्रदातव्यः सर्वकर्मसु साधकैः ॥५७ ॥
स्थिरीकृत्वा पुरा क्षारान् द्रावयेत्तदनन्तरम् ।
द्रवन्ति सर्वलोहानि रत्नसत्त्वाभ्रकादयः117 ॥ ५८ ॥
वज्रादिसर्वरत्नानि मणयः क्षेत्रधातवः।
खेदने बिडयोगे च द्रावणे जारणे तथा ॥ ५९॥
क्षारद्रावः प्रदातव्यो द्रावयेत्सलिलं यथा ।
इति श्रीमद्गोविन्दाचार्यविरचिते रससारे द्रुतिपात नानागणनिरूपणात्मकोऽष्टमः पटलः ॥
________________
अथ नवमः पटलः।
रङ्गाकृष्टिं118 प्रवक्ष्यामि यथा जानामि तत्त्वतः ।
न कुत्रचित्प्रयोगोऽस्ति शास्त्रेऽपि च न दृश्यते ॥ १ ॥
रसोपरसधातूनां रङ्गद्रावं सुशोभनम् ।
एतद्बौद्धा विजानन्ति भोटदेशनिवासिनः ॥२॥
मणैकं लोहचूर्णस्य खर्जिकाया मणद्वयम् ।
त्रिभागं119 चूर्णकं दत्त्वा एकस्थमतिमर्दयेत् ॥३॥
क्षिप्त्वाचूर्णंबृहद्भाण्डे जलमूत्रेण पूरयेत् ।
चुल्लिकोपरि संस्थाप्य वह्निं प्रज्वालयेत्ततः ॥४॥
यदा फेनः समागच्छेच्छ्वेतवर्णस्तदूर्ध्वतः।
अन्यपात्रे तदा120ऽऽस्थाप्य यावद्बध्नाति रक्तताम्121 ॥ ५॥
पश्चात्तं रक्तफेनं च पात्रमध्ये क्षिपेत्पुनः।
क्षीणे मूत्रे122 जलं दद्याद्यावद्रक्तं च दृश्यते ॥६॥
तावद्रक्तं च गृह्णीयात्पुनः पात्रे निधापयेत् ।
यदा रक्तं न दृश्येत तदा वह्निंनिवारयेत् ॥७॥
रक्तं वस्त्रेण संगाल्य मलशेषं विवर्जयेत् ।
श्वेतफेनेन संयुक्तं तस्यैतज्जलशोधनम्123 ॥ ८॥
काचसारितघट्यां च तद्धार्यं तदनन्तरम् ।
बृहद्भाण्डं समादाय कुक्षौ च छिद्रसंयुतम् ॥ ९ ॥
भाण्डमध्ये घटीं क्षिप्त्वामुखं छिद्रे नियोजयेत् ।
तदास्येकाचनालं स्यात्तच्च नालमधोमुखम् ॥१०॥
रुद्ध्वातदा तयोः सन्धिमर्धं च नालकं दिहेत् ।
भाण्डं वालुकयाऽऽपूर्य तस्य द्वारं निरुन्ध्यच ॥११॥
चह्नेःप्रज्वालनं तावद्यावत्तन्नालकं द्रवेत् ।
शीतं यन्त्रं समुत्तार्य घटीं प्रक्षालयेत्ततः॥ १२ ॥
द्रावं क्षिप्त्वा पुनर्दद्यात्पुनः पाको विधीयते ।
एवं रङ्गद्रुतिःप्रोक्तादेगयन्त्रेऽतिशोभना ॥ १३ ॥
तालो नागः शिला चौरः शुल्बो हंसश्चगन्धकः ।
एते रङ्गंविमुश्चन्ति विद्रुमं गैरिकं तथा ॥ १४ ॥
वालुकादेगयन्त्रेण पिच्छकेशा द्रवन्ति च ।
अम्लादिद्रावणं कार्यं यन्त्रेणानेन यत्नतः॥१५॥
स्फटिकीनवसारौ च मारणौषधिभावितौ ।
चक्रयन्त्रे स्थिरीकृत्वा व्योमादिजारणं बिडम् ॥१६॥
सैन्धवं च यवक्षारं मालतीतीरसंभवम्124 ।
स्थिरीकृत्वा द्रवः कार्यः सर्वकर्मसु युज्यते ॥ १७॥
शुक्तिका शङ्खचूर्णंच कुक्कुटाण्डभवास्त्वचः।
पचेद्गजपुटे चूर्णंसुदृढे125 मल्लयन्त्रके ॥१८॥
नवसारयुतं गन्धं पचेत्कूपे सचूर्णकम्126 ।
सप्तवारं सुपक्वं127च लोहद्रावे नियोजयेत् ॥ १९ ॥
जारणे128 च बिडः प्रोक्तः परमो रसकर्मणि129 ।
सर्जिसैन्धवकासीसकाङ्क्षीः पिष्ट्वाऽम्लमूत्रकैः ॥२०॥
सप्तवारं पचेत्कूपे बिडोऽयं व्योमजारणः130 ।
गन्धकः सूचिकाक्षारो नवसारसमन्वितः॥२१॥
एतानि समभागानि काङ्क्षीभागं च तत्समम् ।
व्याघ्य्राश्चित्रस्य शिग्रोश्च यवचिञ्चारसेन च ॥२२॥
भावयित्वा पचेत्सर्वंवालुकायन्त्रखर्परे ।
सक्षारसैन्धवादीनि काङ्क्षीकासीसतुत्थकम् ॥ २३ ॥
भावयित्वा पचेत्कूपे सगन्धं चूर्णितं बिडः।
व्याघ्री सिंही तथा वज्रीकुमारी चैव लाङ्गली ॥२४॥
मोचा चैवाग्निदमनी हंसपादी तथैव च।
महौषध्यः प्रयोक्तव्या अष्टावेताश्च जारणे131 ॥२५॥
ब्रह्मदण्डी त्रिदण्डी च रुदन्ती चैव वानरी ।
मुद्गपत्री त्रिशूली च शङ्खी वज्री तथैव च ॥ २६॥
अष्टौ चैताः प्रयोक्तव्या औषध्यो बन्धने सदा।
कर्कोटी कञ्चुकी चैव काकमाची च कालिका ॥२७॥
काकाह्वाकाकतुण्डी च कटुतुम्बी तथैव च ।
कालाञ्जनी च विख्याता अष्टावेताश्च मारणे128 ॥ २८॥
इति श्रीमद्गोविन्दाचार्यविरचिते रससारे क्षारद्रावबीडपाकदिव्यौषध्याधिकारो नाम नवमः पटलः ॥
____________
अथ दशमः पटलः।
रत्नानां लक्षणं चैव जातिभेदं तथैव च ।
द्रावणं चैव वक्ष्यामि भेदनं च समासतः॥ १ ॥
पञ्च दोषा गुणाः पञ्च छाया चैव चतुर्विधा ।
श्वेता रक्ता तथा पीता कृष्णा चैव निगद्यते ॥२॥
षट्कोणं लघु तीक्ष्णं च बृहदष्टफलं132 तथा ।
जले तरति यद्वज्रंतद्ग्राह्यं रसकर्मणि ॥३॥
मलो बिन्दुर्यवो रेखा पदं काकस्य दूषणम् ।
धाराहीनं तु यद्वज्रंत्रिकोणं च विवर्जयेत् ॥ ४॥
मेघानामथ133 शङ्खानां134 वराहस्य तु दन्तिनः ।
मीनजं वंशजं चैव फणिजं शुक्तिजं तथा ॥५॥
अष्टौ मुक्ताफलान्येव सदा जारणकर्मणि ।
गुणयुक्तानि संगृह्य दोषयुक्तानि वर्जयेत् ॥ ६॥
स्थूलं वृत्तं मधुच्छायं भ्राजिष्णु श्वेतमुज्ज्वलम् ॥
गुरु स्निग्धं तथा प्रोक्तं रसराजस्य कर्मणि ॥७॥
पद्मरागं कुरुविन्दं135 सुगन्धं नीलगन्धकम्136 ।
माणिक्यं चैव विज्ञेयं ब्राह्मणादिक्रमेण तु ॥८॥
निर्धूमखदिराङ्गारमिन्द्रगोपसमप्रभम् ।
गुञ्जारागप्रतीकाशं माणिक्यं रसकर्मणि ॥९॥
इन्द्रनीलो महानीलो नीलश्च कृष्णनीलकः।
एते नीलाश्च चत्वारो ब्राह्मणादिक्रमेण तु ॥ १० ॥
अतसीपुष्पसंकाशो नीलो137 जीमूतसन्निभः।
यः करोति पयो नीलं महानीलः स उच्यते ॥ ११ ॥
विज्ञेयो गरुडोद्गारः कीरपक्षो138 द्वितीयकः ।
तृतीयो वंशपत्रश्च चतुर्थो धूलिधूसरः॥ १२॥
खद्योतद्युतिसंकाशो मयूरगलसन्निभः।
कोमलश्च चतुर्वर्णः139 प्रशस्तो रसकर्मणि ॥ १३॥
चम्पकेन समो140 वर्णे हेमवर्णः सुनिर्मलः।
अतिदीप्तो भवेद्यस्तु पुष्परागः स उच्यते ॥ १४ ॥
बिडालनेत्रसंकाशं पीतवर्णं सुनिर्मलम् ।
चलद्बहुसुसूत्रं141 च वैडूर्यं रसकर्मणि ॥ १५ ॥
अतिरक्तं सुदीप्तं च विद्रुमं परमं मतम् ।
ब्राह्मणादिचतुर्वर्णाः सर्वेष्वेवं142 भवन्ति हि ॥१६॥
लघु वज्रंप्रशंसन्ति पद्मरागादि वै गुरु ।
कोमलत्वं मरकते प्रशंसन्ति परीक्षकाः ॥१७॥
सर्वे भानुनिभा दीप्ताश्छायापटलवर्जिताः।
निजैर्वर्णैः समायुक्ता उत्कृष्टा रसकर्मणि ॥ १८ ॥
तारकर्मणि विप्राश्च क्षत्रिया हेमकर्मणि ।
रसैश्चोपरसैश्चैव ज्ञातव्यं143 कर्मकोविदैः॥१९॥
द्रावणं च प्रवक्ष्यामि रत्नानां च यथाक्रमम् ।
वटाश्वत्थाश्वमारैश्च मेषशृङ्ग्यर्कसूरणैः ॥ २० ॥
स्नुह्युदुम्बरचिञ्चाभिः कुलित्थैर्वास्तुकेन च ।
पेटारीवज्रवल्लीभ्यां कोद्रवैष्टङ्कणेन144 च ॥२१॥
मीनाक्षीकाञ्चनाराभ्यां मञ्जर्या हि खरस्य च ।
नारीकुसुमदुग्धाभ्यां प्रसारण्या रसेन च ॥ २२ ॥
औषधीस्नेहयुक्तानि क्षारैरौषधिजैस्तथा।
अम्लैः क्षारैश्च मूत्रैश्च रत्नानि खेदयेत्सुधीः ॥ २३ ॥
भजन्ति मार्दवं तानि खेदितानि न संशयः।
निम्बुपत्ररसं145 गृह्य मध्ये रत्नानि मोचयेत् ॥२४॥
शोषयेद्रवितापेन द्रवो विंशद्दिनैर्भवेत् ।
मण्डूकमूत्रमध्ये तु द्रवन्ति सलिलं यथा ॥२५॥
मूलेन गन्धमुख्यास्तु146 वेष्टयेत्स्वेदितानि च।
पलेन वेष्टितान्येवं वेष्टयेद्गोमयेन तु ॥ २६ ॥
जानुमात्रं खनित्वा तु गोमयं तत्र मोचयेत् ।
गोमयोपरि तं पिण्डं पुनर्गोमयपूरितम् ॥ २७ ॥
ऊर्ध्वेगजपुटो देयो दिनत्रयमहर्निशम् ।
विकसन्ति च रत्नानि प्रभाते पङ्कजं यथा ॥२८॥
ततः संगृह्य यत्नेन काचकूप्यां निधापयेत् ।
मद्येन147पूरयेत्कूपं स्थिरक्षारैः समन्वितम् ॥ २९॥
भूगर्भे लद्दिमध्ये च चत्वारिंशद्दिनावधि ।
भूगर्भादुद्धरेत्कूपींरत्नद्रावो भवेत्स्फुटम् ॥ ३०॥
अथवा मारयित्वा तु रत्नानि द्रावयेद्बुधः ।
शोषयित्वा जलं सर्वं रत्नानां ग्राहयेद्द्रुतिम् ॥ ३१॥
अथा148न्यत्संप्रवक्ष्यामि रत्नानां मारणं स्फुटम्149 ।
गन्धतालशिलाहंसमाक्षिकं विमलं समम् ॥ ३२ ॥
मारणौषधिभिर्भाव्यं तेन रत्नानि वेष्टयेत् ।
म्रियन्ते सर्वरत्नानि पुटैर्द्वाशभिर्दृढैः ॥ ३३॥
मेषशृङ्गी150 च माक्षीकं कर्कोटी चारणी151 तथा ।
मारणं सर्वरत्नानां परमं समुदाहृतम् ॥ ३४ ॥
गरुडं गन्धकं भिन्द्याद्बदर्या152वन्ध्यया तथा ।
अश्वत्थेन च संभाव्य पुटेत् पिण्डं सरत्नकम् ॥ ३५ ॥
म्रियन्ते तेन योगेन ब्रह्मरत्नानि153 तत्त्वतः ।
स्नुह्यर्ककरवीरं च भूनागो दरदो वटः ॥ ३६॥
म्रियन्ते क्षत्रजातीनि पुटैरेषां न संशयः।
गन्धकं कूर्मपृष्ठं च बलात्रयमुदुम्बरम् ॥ ३७॥
उत्तरावारुणीक्षीरं वैश्यानां मारणं पुटैः।
गन्धाश्मा च शिला तालं गरुडं गन्धटङ्कणे ॥ ३८॥
मेषशृङ्गं समाक्षिकं नारीपुष्पपयःप्लुतम् ।
एभिर्विलिप्तमूषायां धमनाद्रत्नमारणम् ॥ ३९ ॥
(द्विचक्राङ्कैः154स्नुहीक्षीरं नारीपुष्पपयःप्लुतम् ।
एभिर्विलिप्तमूषायां धमनाद्रत्नमारणम् ॥४०॥)
निलिका शङ्खचूर्णं तु शिलाभूनागसूरणम् ।
वटवज्रलतापेषं155 शूद्राणां मारणं पुटैः॥४१॥
रसहंसशिलातालं गरुडं गन्धटङ्कणम् ।
भूनागं विमलं वङ्गं मेषशृङ्गं सकञ्चुकम्156 ॥ ४२ ॥
शुक्रशोणितसंयुक्तं स्वेदनौषधिभावितम् ।
मूषालेपप्रयोगेन रत्नानां मारणं परम् ॥ ४३ ॥
क्षारेण शशदन्तस्य वल्कलेन157 शणस्य च ।
अम्लवेत्ररसेनैव गन्धकं परिभावयेत्158 ॥ ४४ ॥
हन्ति वज्रंन संदेहो वज्र वज्राहतं यथा ।
मृतवज्रस्य चूर्णेन इन्द्रनीलं च मौक्तिकम् ॥ ४५ ॥
वापनान्म्रियते क्षिप्रं शिखिपित्तेन संयुतम् ।
शिलाजितु शिलाभेदमम्लवेतसकं तथा ॥ ४६ ॥
चुह्लिकाटङ्कणक्षारं शिखिपित्तेन भावयेत् ।
अनेन पद्मरागश्च म्रियते पुटयोगतः ॥ ४७ ॥
पद्मरागस्य चूर्णंतु वज्रचूर्णसमन्वितम् ।
हन्ति चैकेन वापेन वैडूर्यं नात्र संशयः॥४८॥
पुष्परागं च वैडूर्यं गोमेदं हन्ति तत्क्षणात् ।
म्रियन्ते येन योगेन मेलं कुर्वन्ति तेन वै ॥४९॥
इदं तु परमं गुह्यं गोपनीयं प्रयत्नतः।
जारणार्थ159ंच रत्नानि भेदयेत्सततं बुधः ॥ ५० ॥
अन्यथा भेदयेद्यस्तु रौरवं नरकं व्रजेत् ।
इति श्रीमद्गोविन्दाचार्यविरचिते रससारे रत्नलक्षणद्रावणभेदनमेलापकाधिकारो नाम दशमः पटलः ॥
_________
अथ एकादशः पटलः।
बीजपाकं प्रवक्ष्यामि जारणार्थ160ं रसस्य च ।
मूतक्रमोऽयं161 जीर्णेन समबीजेन सिध्यति ॥१॥
रक्ताभ्रंहेमरसकं हेमाभ्रंचपलं शिला ।
माक्षिकं कान्ततीक्ष्णं च तीक्ष्णमाक्षिकमभ्रकम्162 ॥ २ ॥
हेम कान्तं च माक्षीकं तीक्ष्णमाक्षिककाञ्चनम् ।
तीक्ष्णारुणं च माक्षीकं कान्ताभ्रंताप्यकाञ्चनम् ॥३॥
कृष्णाभ्रंहेमतीक्ष्णं तु शुल्बायस्कान्ततीक्ष्णकम् ।
माक्षिकं गगनं हेम तीक्ष्णं ताम्रंच माक्षिकम् ॥४॥
पीताभ्रंकान्ततीक्ष्णं च कान्तताम्राभ्रमाक्षिकम् ।
ताम्रंकान्ताभ्रमाक्षीकं तीक्ष्णोभ्रं163 नागमाक्षिकम् ॥५॥
(ताम्रतीक्ष्णाभ्रकं164 रुक्मं काञ्चनं शुल्बमाक्षिकम् ।)
रुक्मव्योमखगं165 तीक्ष्णं हेमाभ्रंशुल्बमाक्षिकम् ।
(रुक्मव्योमरविर्नागं166कान्ताभ्रंहेममाक्षिकम् ॥ ६॥)
रुक्मव्योमखगं चौरं खगं वङ्गाभ्रकाञ्चनम् ।
रुक्मव्योमखगं शैलं सस्याभ्रंकाञ्चनं खगम् ॥ ७॥
रुक्मव्योमखगं167 हंसं तुत्थाभ्रंखगकाञ्चनम्168 ।
रुक्मव्योमखगं शैलं रुक्मव्योमखगं त्रपु॥८॥
रुक्मव्योमखगं चौरं तालाभ्रंकाञ्चनं खगम् ।
रुक्मव्योमखगं घोषं रुक्मव्योमखगाञ्जनम् ॥९॥
रुक्मव्योमखगं ब्राह्मी रुक्मव्योमखगं शिला।
रुक्मं खगं त्रपु तारं खगायश्चौरकाञ्चनम् ॥ १०॥
रुक्मं चौरं खगं शैलं हंसं राश्चोरमाक्षिकम् ।
रुक्मं चौरं खगं सस्सं चौरं वैक्रान्तमाक्षिकम् ॥११॥
रुक्मं चौरं खगं गन्धं रुक्मचौरं मलं खगम् ॥ १२ ॥
(शिलांचोरखगं169 रुक्मं रुक्मचोरं च माक्षिकम् ।)
रुक्मचौरखगं तुत्थं काशीसं चौरमाक्षिकम् ।
रुक्मं चौरं खगं काङ्क्षीरुक्मं चौरं खगं त्रपु॥ १३ ॥
रुक्मं चौरं खगं नागं शुल्बारश्चौरमाक्षिकम् ।
रुक्मचौरखगं शुल्वं राश्चौरं खगमाक्षिकम् ॥१४॥
रुक्मं हंसशिलाचौरं चौरं राहंसमाक्षिकम् ।
नागंरा रसकंशुल्बंहंसं राश्चौरमाक्षिकम् ॥ १५ ॥
राः शुल्बंरसकं हंसं राश्चौरं शुल्बहिङ्गुलम्170 ।
चौरं रा दरदं रिरी हंसं राश्चौरहिङ्गुलम् ॥ १६ ॥
लौहं रा दरदं चौरं हिङ्गुलं चौरतीक्ष्णकम् ।
रा काङ्क्षीहिङ्गुलं चौरं रा काशी(स)चौरहिङ्गुलम् ॥१७॥
हंसं रा रसकंचौरं पुनर्बीजं विधीयते ।
हेमैकं त्रिगुणं चौरं हेमैकं त्रिगुणं खगम् ॥ १८॥
हेमैकं त्रिगुणं हंस हेमैकं त्रिगुणं गिरिः ।
हेमैकं त्रिगुणं तालं हेमैकं विमला त्रयम् ॥ १९॥
त्रिर्भूनागस्य हेमैकं हेमैकं त्रिगुणा शिला।
हेमैकं त्रिगुणं रक्तं हेमैकं त्रिगुणं वटम् ॥ २०॥
हेमैकं त्रिगुणा रिरी हेमैकं च त्रितुत्थकम् ।
हेमैकं त्रिगुणं घोषं हेमैकं त्रिगुणं त्रपु ॥२१॥
हेमैकं त्रिगुणं नागं प्रोक्तं बीजमनेकधा ।
प्रत्येकं श्लोकपादैकं कल्पितं बीजमत्र वै ॥२२॥
पुनः प्रचारयोगेन बीजानामप्यनन्तता।
नानाक्षेत्रसमुद्भूतधातुपाषाणसत्त्वतः ॥ २३॥
रसोपरससंयोगात्कल्पयेद्बीजमुत्तमम् ।
बीजैर्व्यस्तैः समं सूते171 भागोत्तरकृतैरपि ॥ २४ ॥
कनके त्रिगुणे जीर्णे क्रमाद्वेधः शतावधिः172।
उत्तमं कनकं जार्यं क्रमवृद्ध्या च वेधकृत ॥ २५ ॥
रसे च क्रमवृद्ध्या173 हि विंशत्रिंशद्गुणोत्तरम् ।
विषमं वा समं वापि समं विषममेव वा ॥ २६॥
रागसंख्याक्रमेणैव बीजे174 जीर्णे च वेधकृत् ।
आदावेव तु बीजानां कुर्यान्मेलं यथाविधि175 ॥ २७॥
निर्वाह्य सर्वबीजानि तापेन176 सेचनेन तु ।
ताप्यं वा रसकं वाथ हंसं वा विमलं शिलाम् ॥२८॥
वापयेत्सर्वबीजेषु177 सततं सेकपिण्डतः178।
सेचनं रक्ततोयेन रञ्जनं स्थाद्विशेषतः ॥ २९ ॥
भवन्ति सर्वबीजानि रञ्जितानि विशेषतः179।
रसाश्चोपरसाश्चैव रक्ता पीताश्च कृष्णजाः॥३०॥
त्रिगुणा हेम्नि निर्व्यूढा हेमशेषं तु बीजकम् ।
तद्बीजं चारयेत्सूते180 समभागं च जारयेत् ॥ ३१॥
रसस्यरञ्जनं कृत्वा समबीजेन सारयेत् ।
शतवेधी तदा मन्ये दिव्यं भवति काञ्चनम् ॥ ३२ ॥
व्योमसत्त्वं समं जीर्णं181 बीजं चैव समं यदि ।
सारितः समबीजेन शतवेधी भवेद्रसः ॥ ३३ ॥
द्विगुणं यदि तज्जीर्णं सहस्रं वेधकारकम् ।
समेन शतवेधी स्थाद्द्विगुणेन सहस्रकम् ॥ ३४॥
चतुर्गुणेन लक्षैकं कोटिंपञ्चगुणेन तु ।
तच्च षोडशधा जीर्णं तद्विधो जारितो रसः182॥ ३५ ॥
वेधयेत्सर्वलोहानि स्पर्शधूमावलोकनात् ।
लोहघोषारताम्राणामेकद्वित्रिगुणांशकाः183॥३६॥
नागस्तिथ्यंशकः सर्वंधाम्यं तदर्धशेषतः।
रञ्जनीयं समे जीर्णे कनके स्यात्सुबीजकम् ॥ ३७॥
जारिते184 सारिते बीजे शतवेधी भवेद्रसः।
हेमसीसकताम्राणां प्रत्येकं च ग्रहांशकम् ॥ ३८ ॥
रीतिकातीक्ष्णघोषाणां वेदपक्षगुणांशकाः ।
हेमशेषं भवेद्बीजं शतवेधं करोति च ॥ ३९ ॥
तीक्ष्णं ताम्रसमं कृत्वा नागं निर्वाह्य षड्गुणम् ।
ताम्रशेषा भवेद्धेतुरक्ती व्यूढं सुबीजकम् ॥४०॥
नागस्य षड्गुणा रिरी नागताम्रंतथैव च ।
तच्छुल्बंहेग्नि निर्व्यूढं बीजं भवति शोभनम् ॥४१॥
वसुभागकृतं हेम शुल्बरक्तं चतुष्टयम् ।
नागभागद्वयं सर्वं हेमशेषं तु बीजकम् ॥ ४२ ॥
सारं वङ्गं सितो गन्धो नागं शैलं च तालकम् ।
शिलारविसमं185 कान्तं कारवेल्लकमाक्षिकम् ॥४३॥
स्फटिका श्वेतकासीसे कुनटी श्वेतमञ्जनम् ॥
तारे त्रिगुणनिर्व्यूढं तारशेषं तु बीजकम् ॥ ४४ ॥
यथा हेमकृतं बीजं तारबीजं तथैव च ।
कारयेत्सर्वबीजानि भागसंख्याक्रमेण186 तु ॥४५॥
स्वेदैः स्नेहैश्च संयुक्तं187 तालसत्त्वं च निर्वहेत् ।
ताराच्च त्रिगुणं सत्त्वं तारशेषं तु बीजकम् ॥ ४६ ॥
आरं तारं समं कृत्वा श्वेतमाक्षिकसंयुतम् ।
तारशेषं भवेद्बीजं जारितं सारितं समम् ॥४७॥
शुल्वं वङ्गं रीतिकां च वेधते नात्र संशयः।
तारं भवति शोभाढ्यं पूर्णेन्दुरिव राजते ॥४८॥
सतीक्ष्णं कुटिलं ध्मातं तारे त्रिगुणवाहितम् ।
जारितः सारितस्तेनं188 शतवेधी भवेद्रसः॥४९॥
पुनः पाकं प्रवक्ष्यामि बीजानां जारणाय च ।
हेमशेषं कृतं बीजं चूर्णयेद्रेतनेन तु ॥५०॥
मूत्राम्लक्षारकासीसं चित्रं काङ्क्षीकटुत्रयम् ।
जारणौषधिकाषायं तत्र189 लोध्रसमन्वितम् ॥५१॥
सप्ताह शुल्बजे पात्रे धृत्वा वस्त्रेण गालयेत् ।
भावयेद्बीजचूर्णं तु त्र्यहं च भूधरे पुटेत् ॥ ५२॥
एवं सप्तपुटा देया भावयित्वा पुनः पुनः।
धान्याभ्रमभ्रसत्त्वं वा बीजवत्पुटयेत्सुधीः ॥ ५३॥
सूतेन्द्रो जीर्यते190 क्षिप्रं यथाऽन्नं जठरानलः ।
अथवा बीजचूर्णं तु मारयित्वा त्रिगन्धकैः॥ ५४॥
माक्षिकेण191 युतं बद्ध्वापचेद्द्वादशभिः पुटैः।
मूत्राम्लैर्भावयित्वा तु रुद्ध्वा192च भूधरे पुटेत् ॥ ५५ ॥
इच्छया सर्वबीजानां द्रुतिं कुर्याच्च पूर्ववत् ।
द्रुतिं चरति सूतेन्द्रो यथाज्यं च हुताशनः ॥५६॥
यन्त्रेण बिडयोगाच्च खेदयोगेन जीर्यते ।
निर्मुखो जीर्यते बीजं दोलायां शतधा रसः ॥५७ ॥
इति श्रीगोविन्दाचार्यविरचिते रससारे बीजपाकाधिकारो नामैकादशः पटलः ॥
अथ द्वादशः पटलः।
पुरा शुद्धो रसेन्द्रश्च संस्कारैर्यश्च संस्कृतः ।
चारयेज्जारयेत्तं193 च महासिद्धिप्रदो भवेत् ॥ १॥
लोहखल्वे चतुष्पादे रसं तत्र विनिक्षिपेत् ।
क्षाराम्लवेतसं काङ्क्षीबिडं द्वात्रिंशदंशकम् ॥२॥
चतुःषष्ठ्यंशकं व्योम ग्रासं दत्त्वा रसस्य तु ।
टङ्कणं हयलाला च लशुनार्द्रकचित्रकम् ॥३॥
मधुनिम्बरसं दत्त्वा यामयुग्मं विमर्दयेत् ।
सोष्णखल्वे चरेद्ग्रासं गर्भद्रुतिमवाप्नुयात् ॥४॥
नष्टपिष्टं परिज्ञाय यत्नेन क्षालयेद्रसम् ।
सोमानलख यन्त्रस्य नाभिमध्ये194 रसं क्षिपेत् ॥ ५॥
दत्वाऽष्टांशं बिडं नामि किञ्चिदम्लेन पूरयेत् ।
क्षाराम्लं त्र्यूषणं मूत्रं राजिकाशिग्रुचित्रकम् ॥ ६॥
यन्त्रं195प्रपूरयेदेभिर्नाभेश्चोपरि साधकः ।
दद्यादुपरि यन्त्रस्य सछिद्रं समबुध्नकम्196 ॥७॥
छिद्रे च दोरकं बद्ध्वाअम्लैः197 खर्परपूरणम् ।
रसोपरि पतेद्विन्दुः स्तोकं स्तोकं पुनः पुनः॥८॥
यन्त्राधः स्थापयेद198ग्निमहोरात्रत्रयं बुधः ।
त्रिदिनैर्जीर्यते ग्रासं सूतको नात्र संशयः॥९॥
यन्त्रादुद्धृत्य कोष्णेन क्षालयेत्काञ्जिकेन तु ।
चतुर्गुणेन वस्त्रेण शोषयित्वा निपीडयेत् ॥ १० ॥
ग्रहधूमेष्टिकाचूर्णं दग्धोर्णा च गुडं तथा ।
चतुःषष्ठ्यंशकेनैभिर्ग्रसते च पुनः पुनः ॥११॥
निर्मलो जीर्यते ग्रासं तस्मादेभिर्विमर्दयेत् ।
ग्रासं तु पूर्ववद्दत्त्वा यन्त्रेणानेन जारयेत् ॥ १२ ॥
ग्रासे जीर्णे पुनर्ग्रासमजीर्णे च विवर्जयेत् ।
अजीर्णस्तु यदा सूतस्तदा कुर्याच्च पातनम् ॥ १३ ॥
खेदं तस्य प्रकुर्वीताजीर्णदोषविनाशनम् ।
पुनार्ग्रासं ततो दत्त्वा सोमाग्नौ चैव जारयेत् ॥ १४ ॥
मन्दानलं प्रकुर्वीत त्र्यहं सोमानलादधः।
अमुना जीर्यते ग्रासं सूतको नात्र संशयः ॥१५॥
अथवा दोलिकायन्त्रे जारणीयो रसेश्वरः ।
यानि कानि च पत्राणि भव्यानि सुलभानि च ॥१६॥
एतेषां प्रपुटं कृत्वा दत्तग्रासंन्यसेद्रसम् ।
स्फटिकीनवसारौ च बिडाम्लं पूर्ववत्क्षिपेत् ॥ १७ ॥
चतुर्गुणेन वस्त्रेण बध्नीयात् पोटलीपुटम्199 ।
क्षाराम्लव्यूषणैर्मूत्रै राजिकाशिग्रुचित्रकैः ॥ १८ ॥
यत्रभाण्डं च संपूर्य काष्ठे बद्ध्वाच पोटलीम् ।
भाण्डमध्ये च विन्यस्यद्वारे दद्यात्सुटङ्कणम् ॥ १९ ॥
यन्त्राधः स्थापयेदग्निमहोरात्रत्रयं दृढम् ।
लोहे मृत्खर्परे वाऽथ खेदयोगेन जीर्यते ॥२०॥
चतुःषष्ठ्यंशभागेन द्वयं ग्रासस्य दीयते ।
चत्वारिंशतिभागेन ग्रासस्यैव चतुष्टयम् ॥२१॥
त्रिंशांशकेन षड् ग्रासा अष्टौ विंशांशकेन च।
एते चतुर्विधा ग्रासा जीर्यन्ते खेदयोगतः॥ २२ ॥
अतः परं प्रवक्ष्यामि सुखेनैव200 तु जारणम् ।
चक्रराजेन यन्त्रेण यथा जीर्यति पारदः ॥ २३ ॥
दत्त्वा ग्रासं कलांशेन कूपेमृद्वेष्टिते न्यसेत् ।
गन्धाश्मनवसाराभ्यां हीनमष्टांशकं201 बिडम् ॥ २४ ॥
क्षिप्त्वा संधाय तच्चक्रे लम्बमानं सुकूपके ।
मुद्रां वज्रमयीं202 दद्यान्मुखं तस्य निरु203न्ध्यच ॥२५॥
वज्रमृत्स्नां च संगृह्य कर्तव्या सेवनाकृतिः।
क्षिप्त्वा मुखे च तां तस्य204लेपयेत्सुदृढं मुखम् ॥ २६ ॥
मूषां च मृण्मयीं205 कृत्वा पुनर्दद्यात्तदानने ।
लेपयेत्तां प्रयत्नने वज्रमुद्रा206 च सा भवेत् ॥ २७ ॥
वज्रलोहं सुपानीयं207 काष्ठक्षारं तु कर्करम् ।
लवणेन च संयुक्तमिति सूक्ष्मं विमर्दयेत् ॥ २८ ॥
भवेन्मृत्स्नायदा शुष्का अनयैव तु लेपयेत् ।
शुष्के शुष्के प्रदातव्यं मुखे मुद्रात्रयं शुभम् ॥ २९ ॥
बलिपूजादिकं कृत्वा मन्दानलमहर्निशम् ॥
शीतं कूपं च संभेद्य शालयेदुद्केन वै ॥३०॥
मर्दयित्वा पुनग्रासं जीर्णे जीर्णे पुनः पुनः ।
एवं देया दश ग्रासा चारयेद्वाऽथ208 कच्छपे ॥ ३१॥
अर्कांशैर्वा दश ग्रासा209 अष्टांशैर्नव च स्मृताः।
चक्रेवा वालुकायन्त्रे कूपीयोगेन जीर्यति ॥ ३२ ॥
दद्याद्ग्रासं विधानेन210 सहमानाग्निवर्धनम् ।
खेदादूर्ध्वेदशग्रासान् जारयेद्वाऽथ कच्छपे ॥ ३३ ॥
द्वादशांशैश्च ये ग्रासास्तान् दद्यात्स्थलकच्छपे ।
अष्टांशैः कन्दगा जार्यास्तदूर्ध्वं211 मुखमध्यतः॥३४॥
त्रिदिनं खेदयोगेन जलकूर्मे दिनत्रयम्212 ।
स्थलकूर्मे213 दिनत्रीणि कन्दगं त्रिदिनं पचेत् ॥ ३५ ॥
क्षणाज्जीर्यति सूतेन्द्रो मुखमध्यगतो हि सः।
दिने दिने प्रकुर्वीत दृढवह्निंसदा बुधः॥३६॥
रसोपरि पुटं दद्याज्जलकूर्मे जलस्थिते ।
स्थलकूर्मे पुटं दद्याज्जलहीने सुकर्मधीः॥ ३७॥
सग्रासं विडसंयुक्तं कन्दमध्यगतं रसम् ।
तं कन्दं तु मृदाऽऽवेष्ट्य पुटं दद्याच्च214 भूधरे ॥ ३८ ॥
अतः परं प्रवक्ष्यामि मूपाबन्धनमुत्तमम्215 ।
वज्रमूषा प्रकर्तव्या गर्भे216 क्षारश्च दीयते ॥ ३९ ॥
क्षारगर्भे बिडं दद्याद्बिडमध्ये च पारदम् ।
मोचयित्वा विधानेन पुटं दद्यात्करीषजम् ॥४०॥
जीर्यते तत्क्षणाद्ग्रासं सूतको नात्र संशयः।
दीयन्ते षोडश ग्रासाः पादांशैः पुटयोगतः॥४१॥
चतुःषष्ठ्यंशके जीर्णे दण्डधारी217 भवेद्रसः।
चत्वारिंशत्सु ग्रस्तेषु रसः218 स्यात्पायसाकृतिः॥४२॥
जलौकाकारस्त्रिंशांशे विंशांशेऽविप्लुषो219 रसः।
छेदी च षोडशांशेषु दधिवद्द्वादशेषु च ॥४३॥
अष्टांशे नवनीताभः पादांशे बध्यते रसः।
अभ्रके द्विगुणे जीर्णे धूमत्वं220 नैव गच्छति ॥ ४४ ॥
जीर्णे दशगुणे221 ग्रासे गतिस्तस्य न विद्यते ।
उत्प्लुत्योप्लुत्य222सूतेन्द्रो मूषायां पतते ध्रुवम् ॥ ४५ ॥
जीर्णे च षड्गुणे ग्रासे कम्पते च मुहुर्मुहुः ।
बाह्ये चोत्प्लुत्य नायाति स्थितिस्थाने स्थिरायते॥४६॥
जीर्णे चाष्टगुणे व्योम्नि ध्मातः क्षाम्यति223 पारदः।
श्वेतादिबहुधा छाया व्योम्नि जीर्णे च दृश्यते224 ॥४७॥
न कम्पो न गतिस्तस्य धमनाज्जीर्यते रसः ।
अभ्रकेऽष्टगुणे जीर्णे महाबलमवाप्नुयात् ॥ ४८॥
लेपेन तारपत्राणि करोति दशवर्णकम् ।
गगनं शुल्बमाक्षीकं निर्वाह्य225 व्योमशेषतः ॥ ४९ ॥
एतत्पादांशकं दत्त्वा धमनाद्रसजारणम्।
गुञ्जेन्द्रगोपकेशाश्च226 लाङ्गलीगन्धमूषकाः ॥ ५० ॥
बलात्रितयकार्पासं227 स्त्रीपयष्टङ्कणं मधु।
एभिर्विलिप्तमूषायां धमनाद्य्वोममेलनम् ॥५१॥
वंशदण्डेन संचाल्य सेचनादभ्रमेलनम् ।
अथाभ्रेत्रिगुणे228 जीर्णे पश्चात्कान्तं च जार्यते ॥ ५२ ॥
उत्तीर्णमभ्रसत्त्वेन229हेलया ग्रसते रसः।
तद्द्वात्रिंशद्गुणादूर्ध्वंमहाबीजं च जारयेत् ॥ ५३॥
लोहाष्टकं रसाः सर्वे तथैवोपरसाः खलु ।
एकत्र मेलनं कृत्वा लोहशेषं च कारयेत् ॥ ५४॥
तद्द्वात्रिंशद्गुणं जार्यंमहाबीजमिदं रसे।
जारयेद्धेमबीजं तु द्वात्रिंशद्गुणितं तथा ॥ ५५ ॥
व्योमादीनां च सर्वेषां द्रुतिमेलं च कारयेत् ।
व्योममाक्षिकशुल्बानां द्रुतिं दत्त्वा विमर्दयेत् ॥ ५६ ॥
औषधीलेपिता मूषारसस्तत्र निधाप्यते ।
अन्धमूषागतं ध्मातं द्रुतिमेलापकं शुभम् ॥ ५७ ॥
स्फुटं निवार्हयेत्सूतंद्रुतिजारणमुत्तमम् ।
अमुनैव प्रकर्तव्यं सर्वेषां द्रुतिजारणम् ॥ ५८ ॥
रत्नमेलं प्रवक्ष्यामि यथा जानन्ति साधकाः।
नागं हेमद्रुतियुतं रत्नानां द्रुतिमेलनम् ॥ ५९॥
अयस्कान्तस्य तैलेन230 गन्धपाषाणकस्य वा।
मिलन्ति सर्वरत्नानि द्रवन्ति सलिलं यथा ॥ ६० ॥
स्त्रीपुष्पं नरशुक्रं च इन्द्रगोपश्च भूलता।
छुच्छुन्दरीवसायुक्तं टङ्कणेन समन्वितम् ॥ ६१॥
मूषालेपप्रयोगेण रत्नानां मेलकारकम् ।
जीर्यन्ते231 सर्वरत्नानि षड्गुणानि च सूतके ॥ ६२ ॥
भागैकं रत्नचूर्णस्य भागौ द्वौ काञ्चनस्य च ।
नागभागैकसंयुक्तमन्धमूषागतं धमेत् ॥ ६३ ॥
तद्बीजं जीर्यति क्षिप्रं हेलया च रसेश्वरः।
तरुणार्कनिभःभूतस्तडिल्लेखेव सुप्रभः॥६४ ॥
इन्द्रगोपकसंकाशो रत्नजीर्णे तु रञ्जितः।
रङ्गाकृष्टिः232 कृता पूर्वं तस्यारागेण रञ्जयेत् ॥ ६५ ॥
मूषायां वालुकायन्त्रे रञ्जयेत्क्रमयोगतः233।
रक्तविद्रुमरागेण द्वात्रिंशद्गुणितेन234 च ॥६६॥
ततो235 गन्धकरागेण रञ्जयेच्च रसेश्वरम् ।
गन्धकोऽप्यधिको जार्यः शतसाहस्रसंख्यया ॥ ६७ ॥
रागाधिक्यं236 करोत्येष सर्वचारणकर्मणि ।
स्थिररागो भवेत्सूतोदर्शनाद्वेधकारकः237 ॥ ६८॥
खेर्मण्डलकं238 तस्यदृश्यते पुरुषाकृतिः।
अतःपरं प्रवक्ष्यामि रसबन्धनमुत्तमम् ॥ ६९॥
बध्यते239 हि रसः सम्यग्भवेद्रागोदयः स्फुटम् ।
मारणैरौषधैर्दिव्यैर्मूत्रधृष्टैर्विलेपयेत्240 ॥ ७० ॥
मूषायां भावितः सूतो धमनाद्भस्मतां व्रजेत् ।
बन्धने याश्च विख्याता अष्टावेव महौषधीः॥ ७१ ॥
ताभिष्टङ्कणयुक्ताभिर्भावयेच्च रसेश्वरम् ।
ताभिर्विलिप्तमूषायां धमनात्खोटतां व्रजेत् ॥ ७२ ॥
बद्धं वाऽप्यथवाऽबद्धं सारयेच्च रसेश्वरम्।
पादांशहेमसंयुक्तमबद्धं241 च विवर्जयेत्242 ॥ ७३ ॥
दीर्घा लोहमयी मूषा रसं तस्यां विनिक्षिपेत् ।
रक्ततैलवसायुक्तं मूषामध्ये विनिक्षिपेत् ॥ ७४॥
मुषोर्ध्वं243संपुटं दत्त्वा सन्धिलेपंतु कारयेत् ।
सच्छिद्रे संपुटे नालमुन्मत्तकुसुमप्रभम् ॥ ७५ ॥ .
अतियत्नेन तां मूषां करीषाग्नौ निधापयेत्244 ।
हेमरक्तसमं नागं गालयित्वा विचक्षणः ॥ ७६ ॥
मृषानाले विनिक्षिप्तमित्थं सरति245 सूतके।
सप्तवारं प्रकर्तव्यं सारणं च महारसे ॥ ७७॥
सङ्कलीक्रमयोगेन सारणैव गुणोत्तरा ।
स्वर्णे करोति शब्देन नात्र कार्या विचारणा ॥७८॥
इत्थं च सारितः246 सूतो व्यापी भवति निश्चितम् ।
मारयेत्सूतराजेन्द्रं प्रवेशी जायते ततः ॥ ७९ ॥
माक्षिकं कुनटी गन्धं दरदश्च समीकृतम् ।
मारणौषधिभिर्भाव्यं नवसारेण संयुतम् ॥ ८० ॥
तेनैव लिप्तमूषायां रसेन्द्र स्थापयेत्सुधीः।
पुटेन247 धाम्यमानोऽसौ म्रियते नात्र संशयः ॥ ८१ ॥
अथवा पुटयोगेन मारणं तु त्रिगन्धकैः।
मारितो रसराजेन्द्रः प्रवेशी जायते ध्रुवम् ॥ ८२॥
तदूर्ध्वं रसराजस्य कारयेत्प्रतिसारणम् ।
नागेन मारितं हेम रसात्रिगुणितं कृतम् ॥ ८३ ॥
पञ्चामृतेन संयुक्तं संमर्द्यपुटयोगतः।
इत्थं कृतो248 रसेन्द्रोऽसौ वेधते नात्र संशयः ॥ ८४ ॥
षड्गुणैर्नागपत्रैश्च पुटे बध्नीत सूतकम् ।
मधूच्छिष्टं च मधुकं मधूकं टङ्कणं सिता ॥८५ ॥
अश्वकर्णमलं गुञ्जा केशाश्चुच्छुन्दरीवसा ।
स्त्रीरजः स्त्रीपयः शुक्रमिन्द्रगोपश्च भूलता ॥ ८६ ॥
वसातालशिलागन्धं249 सारिवा क्षीरिणी विषम् ।
हयारिनाभिकर्पूरस्नुह्यकक्षीरकन्दकम्250 ॥ ८७॥
सर्जश्व मृतनागश्च गुडगुग्गुलुतुत्थकम्251 ।
संगृह्यन्ते यथालाभं क्रामणोऽयं गणः स्मृतः॥८८॥
क्रामणेन समायुक्तो वेधते पर्वतानपि ।
लोहेषु धाम्यमानेषु वेधस्तत्र प्रदीयते ॥ ८९ ॥
स्नेहैश्च वसया युक्तं सेचनीयं पुनः पुनः।
पर्वते252 क्रामणं चैतत् परं गुह्यमुदाहृतम् ॥ ९० ॥
स च सिद्धरसो नाम देहलोहार्थकारकः ।
महता पुण्ययोगेन सिध्यते च रसेश्वरः ॥९१ ॥
कोऽर्थः पुत्रेण जातेन मातुर्यौवनहारिणा ।
आत्मा संहारितस्तेन न कृतो येन पारदः॥१२॥
साधिते सूतराजेन्द्रे सिद्धः सिद्धेषु मोदते ।
इच्छया विचरेल्लोके द्वितीय इव शङ्करः ॥ ९३ ॥
सिद्धविद्याधरा यक्षा उरगाश्च दिवौकसः।
स्तुवन्ति ते साधकेन्द्रं साधिते च महारसे ॥ ९४ ॥
(सर्पे च षड्गुणं कृत्वा पारदं च द्विधा स्मृतम् ।
हेमभस्म त्रिभागेन क्रामणं समुदाहृतम्253 ॥ ९५ ।)
इति श्रीगोविन्दाचार्यविरचिते रससारे महारसजारणादिविधिर्नाम द्वादशः पटलः ॥
अथ त्रयोदशः पटलः।
अथातः संप्रवक्ष्यामि शतादिक्रममुत्तमम्254 ।
शतवेधी सहस्रस्य दशसाहस्रवेधकः॥१॥
(लक्षवेधी ततो ज्ञेयो दशलक्षस्य वेधकः ।
कोटिवेधी च विज्ञेयो रसः कोट्यधिवेधकः॥२॥)
धूमवेधी च सूतेन्द्रः स्पर्शवेधी महारसः।
अवलोकनवेधी च शब्दवेधी महाबलः॥३॥
व्योमसत्त्वं समं जीर्णं बीजं च समजारितम् \।
गन्धकःषड्गुणोजार्यः समबीजेन सारयेत् ॥४॥
शतवेधी प्रदातव्यो दिव्यं भवति काञ्चनम् ।
सारणान्ते भवेद्वेधोमारणान्ते रसायनम् ॥ ५॥
प्रतिसारणकं श्रेष्ठं सहस्रानन्तरं रसे।
द्विगुणं व्योमसत्त्वं च बीजं च द्विगुणं यदि ॥६॥
गन्धको रविसंख्यश्च बध्नीयात्मूतकं ततः।
द्विगुणेन तु संसार्य सारणात्प्रतिसारणम्255 ॥ ७ ॥
क्रामणेन समायुक्तः सहस्रैकस्य वेधकः।
त्रिगुणं व्योमसत्त्वं च बीजं च त्रिगुणं यदि ॥८॥
अष्टादशगुणं गन्धं रक्तवर्गेण रञ्जितम् ।
त्रिगुणेन च संसार्य कारयेत्प्रतिसारणम् ॥९॥
क्रामणेन समायुक्तोऽप्ययुतैकस्य वेधकः ।
वेदसंख्यागुणं व्योम बीजं चैव चतुर्गुणम् ॥ १० ॥
चतुर्विंशतिसङ्ख्याकं जारयेद्गन्धकं क्रमात् ।
चतुर्गुणेन संसार्य प्रतिसार्योरसेश्वरः॥ ११ ॥
क्रामणेन समायुक्तो लक्षवेधी भवेद्रसः।
षड्गुणं व्योमसत्त्वं च बीजं जार्यं च षड्गुणम् ॥ १२ ॥
षट्त्रिंशतिगुणं गन्धं जारणीयं प्रयत्नतः।
षड्गुणेन च संसार्य प्रतिसार्योरसेश्वरः॥ १३ ॥
क्रामणेन समायुक्तो दशलक्षस्य वेधकः ।
तथा चाष्टगुणं व्योम बीजं चाष्टगुणं यदि ॥ १४ ॥
रञ्जयेद्गन्धरागेण अभ्ररागेण256 सारयेत् ।
सारणात्प्रतिसंसार्यः कोटिवेधी भवेद्रसः॥ १५ ॥
यावत्संख्यं ग्रसेद्बीजं257 तावत्संख्यं तु सारयेत् ।
एकद्वित्रिचतुःपञ्चसप्तवारं तु सारयेत् ॥ १६ ॥
सर्वेषामुक्तबीजानां शतवेधी समेन तु ।
द्विगुणेन सहस्रं तु अयुतं त्रिगुणेन तु ॥ १७ ॥
चतुर्गुणेन लक्षैकं कोटिमष्टगुणेन तु ।
बीजं कलागुणं जीर्णं द्वात्रिंशत् षट् च त्रिंशकम् ॥१८॥
वेधयेत्सूराजेन्द्रो धूमस्पर्शावलोकतः।
संकरे258 तु विधिः प्रोक्तो बीजे त्रिगुणवाहिते ॥१९॥
दद्याद्वेधं विधानेन259 तद्विधानमथोच्यते ।
गद्याणः सिद्धकल्कस्य नागगद्याणका दश ॥२०॥
क्रामणेन समायुक्तमेकीकृत्वा260 धमेत्ततः ।
वेधं261 नागेन तेनैव तारं शुल्वं च वेधयेत् ॥ २१ ॥
अथवा धातुमावर्त्य262 क्षिपेत्क्रामणसंयुतम् ।
वेधस्योद्घाटनं कार्ये क्रयं च विक्रयं ततः ॥ २२ ॥
गालिते नागगद्याणे सूतगद्याणकं क्षिपेत् ।
गन्धकं स्वर्जिकक्षारमेतद्गद्याणकद्वयम् ॥२३॥
एतच्चतुष्टयं क्षिप्त्वाखल्वे कृत्वा विमर्दयेत् ।
जलेन भावनां दत्त्वा शरावसंपुटे क्षिपेत् ॥ २४ ॥
सन्धिं विलिप्य दातव्यं दृढं गजपुटं मृदा।
गालयेत्सिद्धवेधं263 तु चूर्णंतत्र विनिक्षिपेत् ॥ २५॥
तच्चूर्णस्य दशांशेन उद्घाटो जायते ध्रुवम् ।
खटिका लवणं गैरी काङ्क्षीचेष्टिकचूर्णकम् ॥ २६ ॥
इमाः पञ्च मृदः प्रोक्ताः सुवर्णशुद्धिहेतवे264 ।
लेपितं पुटितं ताभिर्दिव्यं भवति काञ्चनम् ॥ २७ ॥
इति श्रीमद्गोविन्दाचार्यविरचिते रससारे वेधादिक्रमो नाम त्रयोदशः पटलः ॥
अथ चतुर्दशः पटलः।
द्वन्द्वमेलं265 प्रवक्ष्यामि साधकानां हिताय वै ।
विज्ञाते जायते यस्मिन् साधकःसाधनक्षमः॥१॥
भागः शुद्धरसस्यैकोगन्धभागद्वयं तथा ।
मारणौषधिभिर्भाव्यं रक्तवर्गेण संयुतम् ॥२॥
उत्थापयेत्काचकूप्यां चक्रयन्त्रे पुनः पुनः ।
स्थिरत्वे च समापन्ने जलयत्रेण बन्धयेत् ॥३॥
अथाधोऽग्निरुपर्यापो मध्ये देयो रसेश्वरः।
अग्नीषोमाख्ययन्त्रेण बध्यते सप्तरात्रतः॥४॥
समहेम्ना च संसार्यश्चन्द्रार्के षष्टिवेधकः।
एवं चोरशिलातालैरन्यसत्त्वैश्व संयुतम् ॥५॥
बीजाभ्रबन्धितं सूतं मारयेच्चक्रयन्त्रगम् ।
रञ्जितो गन्धरागेण द्वन्द्वमारः सुशोभनः ॥६॥
यदा सूतः स्थिरीभूतो बध्यते जलयन्त्रगः266 ।
बन्धनौषधिसंयुक्तं मूषामध्यगतं धमेत् ॥ ७॥
रसशेषं भवेत्पश्चात्समबीजेन267 सारयेत् ।
चन्द्रार्कं शतवेधेन करोति कनकं शुभम् ॥ ८॥
पिष्टीस्तम्भनकं चैव कथयामि समासतः।
रसात्पादांशकं268 बीजं पिष्टीकुर्याच्च269 सुन्दरम् ॥ ९॥
दोलायन्त्रेण मद्याम्लैर्बन्धनौषधिभिस्तथा ।
धान्याभ्रकं च सिन्धूत्थं मालतीतीरसंभवम् ॥१०॥
स्फटिकी यावशूकं च बन्धनौषधिभावितम्270 ।
रसं संवेष्टयेदेभिर्माषपिष्ठ्यातथोपरि ॥११॥
आतपे शोषयित्वा तु खेदयेत्तैलमध्यगम् ।
तैलखेदः प्रकर्तव्यो यावत्सप्तदिनावधिः ॥ १२ ॥
माषपिष्टं271 परित्यज्य संगृह्य रसगोलकम् ।
स्फटिक्याद्यौषधैर्वेष्ट्यो माषपिष्ठ्याततः परम् ॥१३॥
तं गोलं भूधरे यन्त्रेअहोरात्रत्रयं पचेत् ।
त्रिदिनात्त्रिदिनादूर्ध्वं272 पिण्डं कृत्वा तु नूतनम् ॥ १४ ॥
एवं च पुटयेत्सूतं विंशत्यैकाधिकैः पुटैः।
पिष्टिस्तम्भनकं सम्यग्जायते नात्र संशयः ॥१५॥
रञ्जयेद्गन्धरागेण समबीजेन सारयेत् ।
मारयित्वा273 ततो वेधं274दद्यात्त्रिंशत्सु चोत्तमम् ॥ १६ ॥
एवं पिष्टिः प्रकर्तव्या सर्वबीजैः सुशोभना ।
अतः परं प्रवक्ष्यामि वरं निगडवन्धनम् ॥१७॥
बीजचूर्णंपलैकं तु माक्षिकस्य पलं तथा ।
पलैकं275 गन्धकं चैव पलैकं पातितं रसम् ॥ १८ ॥
पैलैकं276 टङ्कणं चैव बन्धनौषधिभावितम् ।
धमनाज्जायते खोटो रञ्जयेद्गन्धकेन तम्277 ॥ १९॥
समहेम्ना च संसार्य मारयेत्पुटयोगतः।
चन्द्रार्कं षष्टिवेधेन करोति कनकं शुभम् ॥ २०॥
इच्छया समभागेन278 कारयेत्संकलीं क्रमात् ।
रसस्य समभागेन पिष्टीकुर्याच्च बीजकम् ॥ २१॥
गन्धकेन समायुक्तं दिव्यौषधिविभावितम् ।
वज्रमूषां दृढां कृत्वा लेपयद्बन्धनौषधैः ॥ २२ ॥
भूगर्भे279 स्थापयित्वा तु पुटं दद्यात्करीषजम् ।
सप्तदिनान्यतिक्रम्य पाशयुक्तं280 धमेत्ततः॥ २३ ॥
आशापाशनिबद्धेऽयं दुःसाध्यः सुखसाधकेः281 ।
सिध्यते च महापुण्यैरतियत्ने282 कृते सति ॥२४॥
आशापाशनिबद्धस्य283 अतिवह्णिंविवर्जयेत् ।
गन्धकं वा त्रिगन्धं वा सूततुल्यं तु कारयेत् ॥ २५॥
दिव्यौषधिसमायुक्तं खल्वे कृत्वा विमर्दयेत ।
ऊर्ध्वपातनकं कृत्वा तं रसं टङ्कणान्वितम् ॥ २६ ॥
वज्रमूषागते बद्धे बीजं निर्वाह्ययत्नतः।
सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा च धामयेत् ॥ २७॥
सूतशेषं ततः कृत्वा रञ्जयेद्गोलकं पुनः।
समबीजेन संसार्यः शतवेधी भवेद्रसः ॥२८॥
रसखोटपलैकं तु स्वच्छं रसपलं तथा ।
बीजं रससमायुक्तमेकत्रैव विमर्दयेत् ॥ २९ ॥
खोटं कृत्वाऽथ284मूषायां क्षिप्त्वा देयः पुटो लघुः।
क्रमेणाग्निसहं कृत्वा धम्यते सूतको बुधैः ॥ ३० ॥
निर्वाहयेत्तदा मूषां सूतशेषा285 भवेद्यदा।
तत्खोटपलमेकं तु स्वच्छं रसपलं तथा ॥३१॥
बीजं रससमायुक्तमेकीकृत्वा तु धामयेत् ।
एवं तु सप्त संकल्यो286 वेधो दशगुणोत्तरः ॥ ३२ ॥
दशसंकलिकायोगात्स्पर्शवेधी287 भवेद्रसः ।
एवं क्रमेण कर्तव्या सर्वकर्मसुसंकली ॥३३॥
यथाबीजप्रयोगाश्चद्रुतियोगास्तथैव च ।
ज्ञातव्याः साधकेन्द्रेण देवानामपि दुर्लभाः ॥ ३४ ॥
दशव्योमसमं सत्त्वं दशसत्त्वसमा द्रुतिः।
द्रुतियोगाच्च सूतेन्द्रः सद्यो वेधकरो भवेत् ।
एवं सर्वंमया प्रोक्तं साधयेत्तद्विचक्षणः ॥ ३५ ॥
इतिश्रीमद्गोविन्दाचार्यविरचिते रससारे द्वन्दुमारपिष्टिस्तम्भननिगडबन्धनसंकलिकायोगद्रुतिकर्मादिनिरूपणं नाम चतुर्दशः पटलः ॥ १३ ॥
अथ पञ्चदशः पटलः ।
रसोपरससत्त्वानां कर्माणि कथयाम्यहम् ।
येन विज्ञातमात्रेण सिद्धिः स्याच्च सुशोभना ॥१॥
अरक्तवर्णवैक्रान्तसत्त्वं288 हेमसमन्वितम् ।
एकत्र मेलनं कृत्वा समं289 सूतस्य जारयेत्290 ॥२॥
सारितः291 समबीजेन सहस्रैकस्य वेधकः ।
वेधते292 सर्वलोहानि रञ्जितो293 गन्धकेन तु294 ॥ ३ ॥
पीतवर्णं च वैक्रान्तं ज्ञातव्यं रक्तवर्णवत् ।
कृष्णवैक्रान्तभागैकं समं कुर्याद्रसेन तु ॥४॥
व्याघ्रीरसेन संमर्द्यदेयो लघुपुटस्ततः।
तद्भस्मीभवति295 क्षिप्रं नात्र कार्या विचारणा ॥५॥
अस्यचूर्णस्यभागैकं शुद्धं296 रससमं कृतम् ।
संमील्यैकत्र चूर्णंतु धमनाद्भस्मतां व्रजेत् ॥ ६॥
भस्मनस्तस्य भागैकं शुद्धं297 रससमीकृतम् ।
बन्धनौषधिभिर्भाव्यं गन्धकेन समन्वितम् ॥ ७॥
अन्धयित्वा प्रयत्नेन देयो लघुपुटस्ततः।
वज्रमूषागतो ध्मातो धमनात्खोटतां व्रजेत् ॥ ८॥
तस्य खोटस्य भागैकं हेमभागसमं कृतम् ।
अन्धमूषागतो ध्मातः खोटो भवति शोभनः॥९॥
प्रकटमूष्यां तु निर्वाह्य सूतशेषं च कारयेत् ।
तस्य खोटस भागैकं स्वच्छं रससमीकृम्298 ॥१०॥
समहेम्नासमायुक्तमेकीकृत्वा च धामयेत्299 ।
सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा च धामयेत्299 ॥११॥
सप्तसंकलिकायोगाद्वेधो दशगुणोत्तरः।
दशसंकलिकायोगात्स्पर्शवेधी300 भवेद्रसः ॥ १२ ॥
वैक्रान्तो वज्रवज्ज्ञेयो नात्र कार्या विचारणा ।
कृष्णवर्णंच वैक्रान्तं कृष्णाभ्रकसमन्वितम्301 ॥ १३ ॥
समहेम्ना समायुक्तं सूतेन्द्रे जारितं समम् ।
सहस्रं वेधते सूतः संकल्या302 चोत्तरोत्तरम् ॥ १४ ॥
नीलवर्णं तु वैक्रान्तं सिद्धान्नसदृशं कृतम् ।
सूतराजसमं कार्यं जम्बीरनीरमर्दितम् ॥ १५ ॥
जलयन्त्रे च संस्थाप्य सप्ताहं मर्दयेद्रसम् ।
अन्धमूषागतो ध्मातः खोटो भवति शोभनः ॥१६॥
मुखे प्रक्षिप्य मेधावी भूमौ303 छिद्राणि पश्यति ।
रक्तवर्णमयस्कान्तं304 तच्चूर्णंरससंयुतम् ॥ १७॥
मर्दितं छागमूत्रेण धमनात्खोटतां व्रजेत् ।
समहेम्ना च संसार्यः शतवेधं तु कारयेत् ॥ १८॥
चपलस्य तु भागैकं सूतभागद्वयं तथा ।
हेमभागचतुष्कं च रसतुल्यं च गन्धकम् ॥ १९ ॥
भावयित्वाऽन्धमूषायां धमेत्क्रमगतं ततः।
हेम्ना चपलयुक्तेन305 समं तेनैव सारयेत् ॥२०॥
तेन सूतसमांशेन नागवेधोऽरुणो भवेत् ।
तेन सूतशतांशेन306 शुल्बवेधोऽरुणो भवेत् ॥ २१॥
तेन शुल्बशतांशेन तारं भवति काञ्चनम् ।
अन्ये सर्वे रसाश्चैव शतवेधस्य कारकाः॥ २२ ॥
जारिताः समबीजेन307 सारिताश्च समेन तु ।
द्विगुणं308 विमलं चैव जारितं शतवेधकृत् ॥ २३॥
उपरसानां सर्वेषां रञ्जने बलमुत्तमम् ।
गन्धकेन विना लोके कर्म किंचिन्न विद्यते309 ॥ २४ ॥
गन्धकेन विना सर्वंलोहं310 नैवाभिरञ्जति ।
नागे स्नेहो बलं व्योम्नि रागस्तीक्ष्णात्परो नहि ॥२५॥
बलं रागस्तथा स्नेहः कमले311 च व्यवस्थिताः ।
नागेन जारितः सूतो312 लोहभावं परित्यजेत् ॥ २६ ॥
बीजत्वं बीजराजेन जायते नात्र संशयः।
सर्वे मृदुकरा स्नेहाः सर्वे चाम्लाः प्रबोधकाः ॥ २७ ॥
सर्वे मलापहाः313 क्षाराः सर्वे रक्ताश्च रञ्जकाः।
दीपका अम्लतीव्राश्च314 पाचका जारयेद्धनम् ॥ २८ ॥
रेचको द्रावयेल्लोहान् क्षीरिण्यो रसबन्धकाः।
कठिणैजीर्णबीजैश्च नागं वङ्गं च वेधयेत् ॥ २९ ॥
मृदुबीजैश्च सर्वैश्च आरं शुल्वं च वेधयेत् ।
बीजै रागाधिकैर्जीर्णै315स्तारवेधं समाचरेत्316 ॥ ३०॥
माक्षिकेण विना बीजं न द्रवेत्सूतगर्भगम् ।
मृदुत्वं क्रामणोद्घाटं भवेन्नागेन निश्चितम् ॥ ३१ ॥
रसानुपरसांश्चैव मौक्तिकं वज्रमेव च ।
श्वेतानि सर्वरत्नानि तारकर्मसु योजयेत् ॥ ३२ ॥
तारकर्मणि कर्तव्यं तालकेनैव रञ्जनम् ।
वङ्गवेधो भवेद्यत्र तालकं तत्र वर्जयेत् ॥ ३३ ॥
स्त्रीस्तन्यटङ्कसौवीरं317 लाङ्गली गिरिकर्णिका ।
चित्रकः करवीरश्च सारिवा क्षीरणी विषम् ॥ ३४॥
आभिर्विलिप्तभूषायां बध्नीयाद्बन्धनौषधैः।
इति श्रीमद्गोविन्दाचार्यविरचिते रससारे रसोपरसलोहकर्माधिकारो नाम पञ्चदशः पटलः ॥ १४ ॥
___________________
अथ षोडशः पटलः।
अथातः संप्रवक्ष्यामि रत्नानां च यथाक्रमम् ।
सुखसाध्यं318 भवेद्येन साधकस्य च साधनम् ॥१॥
कनके वज्रचूर्णं च319कलांशं योजयेद्बुधः।
तद्बीजं भूतराजस्य समं यत्नेन जारयेत् ॥२॥
समहेम्ना च संसार्यः शतवेधी भवेद्रसः।
तारशुल्बकनागेषु वेधो देयो निजेच्छया ॥३॥
जीर्णाभ्रकस्य भागैकं मृतवज्रसमं कृतम् ।
मर्दयेन्मातुलुङ्गेन अङ्गुल्या मर्दनं स्मृतम्320 ॥ ४॥
शुक्तिसंपुटमादाय तस्य मध्ये विमुञ्चयेत्321 ।
संपुटं मृत्स्नयाऽऽवेष्ट्य रविधर्मे विशोषयेत् ॥५॥
शरावसंपुटे क्षिप्त्वासन्धिलेपं तु कारयेत् ।
ततो लघुपुटेनैव रसभस्म प्रजायते ॥६॥
भस्मसूतस्य322 भागैकं स्वच्छरससमीकृतम्323 ।
मर्दयेन्मातुलुङ्गेन भस्म324 लघुपुटाद्भवेत् ॥ ७ ॥
वैडूर्यपुष्परागेषु लक्षमेकमुदाहृतम् ।
विद्रुमं च शतांशेन सूतेन्द्रे जारितं यदि ॥ २० ॥
तारपत्रस्यलेपेन325करोति कनकं शुभम् ।
रत्नद्रुतिप्रयोगेण क्षणाद्बद्धो भवेद्रसः ॥२१॥
अद्रुतैरमृतै रत्नैःकुतो बद्धो326 भवेद्रसः।
रत्नानां शोधनं कर्म संक्षेपात्कथितं मया ॥ २२ ॥
इतिश्रीमद्गोविन्दाचार्यविरचिते रससारे रत्नप्रयोगाधिकारो नाम षोडशः पटलः ॥
____________
अथ सप्तदशः पटलः।
अथातः संप्रवक्ष्यामि कल्कबन्धाननेकशः।
सर्वबीजैस्तु कर्तव्यं पिष्टीस्तम्भनमुत्तमम् ॥१॥
रञ्जितो गन्धरागेण त्रिंशद्वेधी भवेत् स्फुटम् ।
भागद्वयं रसेन्द्रस्य बीजभागत्रयं327 कृतम् ॥ २ ॥
गन्धकं रसतुल्यं च बन्धनौषधिभावितम् ।
चक्रराजेन यन्त्रेण स्थिरभस्म प्रकारयेत् ॥३॥
खोटं कृत्वा328 तु संसार्य षष्टिवेधो329 भवेत्स्फुटम् ।
बीजेनावर्तिते स्याच्चखोटबद्धश्च पारदः॥४॥
मृतबद्धो मृते बीजे सजीवे च न वेधकृत्330 ।
खोटः पाटो जलौका च बद्धो भस्मेति पञ्चधा ॥५॥
अंशाशेन निबद्धोपि331 बीजयुक्तः सुरञ्जितः॥
स्थिरीभूतो यदा सूतस्तदा वेधे नियुज्यते ॥६॥
धूमश्चिटिचिटिश्चैव मण्डुकप्लुतिरेव च ।
सकम्पोऽतिभ्रमश्चैव पञ्चावस्था रसस्य तु ॥७॥
पश्चावस्थाविनिर्मुक्तस्तदा वेधकरो भवेत् ।
पिष्टिं वा निगडं वाऽथ स्थिरभस्मकृतं रसम् ॥ ८॥
पूर्वोक्तेन विधानेन चत्वारिंशद्दिनावधिः।
भावयित्वा332 च संसार्यस्तदा333 वेधकरो भवेत् ॥९॥
अथवा द्रुतसूतस्य धमनाद्बीजजारणम् ।
उच्चवेधी भवेत्सूतः क्रमेण बीजजारणम्334 ॥ १०॥
अथवा तस्य सूतस्य द्रुतेर्जारणमुत्तमम् ।
क्षुधितोऽतिनिराहारो335 लोहाशुद्धस्य जारणात् ॥ ११ ॥
अक्रामणादतिग्रासाद्बिडहीनाधिकात्तथा336 ।
शीतत्वादतिवह्नित्वाद्देवतानां च विघ्नतः ॥ १२॥
इत्येता विक्रिया ज्ञेया दशभिः षण्ढजातयः।
अनेकशास्त्रभेदेषु कल्कभेदा अनेकशः ॥१३॥
यदा तु विदिता युक्तिस्तदा सिद्धिर्न संशयः ।
शिलया मारितं नागं सूतराजसमन्वितम् ॥ १४ ॥
रञ्जितं गन्धरागेण समबीजेन337 सारयेत् ।
तारवेधः प्रदातव्यो दिव्यं भवति काञ्चनम् ॥ १५॥
ज्ञातव्या रागसंख्या338 च रञ्जनं तदनन्तरम् ।
सारणं सर्वयोगेषु कर्तव्यं पण्डितैः सदा ॥ १६ ॥
एवं विधानतः कार्यं तारकर्म सुशोभनम् ।
पद्मवर्णंहिरण्याभंपद्मगर्भं339तथा स्मृतम् ॥१७॥
रूक्षं च पित्तलं चैव तद्विषं ब्राह्मणं विदुः।
रक्तवर्णंभवेद्यच्च गन्धेनागरुतुल्यकम् ॥ १८॥
तन्नूनं बहुवीर्यं च विज्ञेयं क्षत्रियं विषम् ॥
यद्विषं पीतवर्णंच गन्धेनैवागरूपमम् ॥ १९॥
रूक्षं च वातलं चैव विज्ञेयं वैश्यजातिकम् ।
अजाशृङ्गसमाकारमञ्जनं गिरिनालकम्340 ॥२०॥
कटुकं मद्यगन्धं च विज्ञेयं शूद्रजातिकम् ।
मयूरं कालकूटं च सक्तुकं बिन्दुकं तथा ॥ २१ ॥
वत्सनाभं सुनाभं च शङ्खनाभं सुनिर्मलम्341 ।
भृङ्गं कर्कोटकं मुस्तंपुष्करं शुक्लकन्दकम् ॥ २२ ॥
रक्तशृङ्गं हरिद्रं च चक्रं हालाहलं तथा ।
विषाणि भ्रामरान्तानि मया ख्यातानि तत्त्वतः ॥२३॥
अष्टादश इमे ख्याताः342कालकूटाद्विनिर्गताः ।
चत्वारि ब्रह्मजातीनि चत्वारि क्षत्रियस्य च ॥ २४ ॥
चत्वारि वैश्यजातीनि शूद्रजातिविषाणि षट् ।
ब्राह्मणं तारयोगेषु क्षत्रियं हेमकर्मणि ॥२५॥
वैश्यं हेमकरं प्रोक्तं शूद्रं व्याधिविनाशनम् ।
हारिद्रं सक्तुकं मुस्तं रक्तशृङ्गं च कृष्णकम् ॥ २६ ॥
एतद्विषपञ्चकं343 च शीघ्रसिद्धिकरं परम् ।
रसात्पादांशकं बीजं पिष्टीकुर्वीत तेन च ॥२७॥
विषं षडंशकं प्रोक्तं रसतुल्यं च गन्धकम् ।
हिङ्गुलं चोरसत्त्वं च माक्षिकं च मनःशिला ॥ २८ ॥
खल्वे प्रक्षिप्य मेधावी समं सूतेने344 मर्दयेत् ।
शृङ्गेवा काचपात्रे वा भूचक्रेचक्रराजके ॥२९॥
मन्दानलःप्रकर्तव्यो मासमेकं तु साधकैः ।
रक्तस्नेहप्रवापं345 तु क्षीणे क्षीणे पुनः पुनः ॥३०॥
लेपयेन्नागपत्राणि मूषालेपं च कारयेत् ।
स्त्रीरजोनरशुक्रेण पयसा आर्द्रकेण च ॥३१॥
क्षीरिणीसारिवाभ्यां च लाङ्गल्या च हयारिणा ।
रुन्धयित्वा धमेन्नागं जपापुष्पसमं भवेत् ॥ ३२ ॥
वेधितं तेन नागेन तारं भवति काञ्चनम् ।
जारणे346 च प्रयोक्तव्यं बलयुक्तं च यद्विषम् ॥ ३३ ॥
मारयेद्विषसंयुक्तं नागवेधं च कारयेत् ।
शतादिकोटिपर्यन्तं क्रमेण वेधयेद्रसः॥ ३४ ॥
तारक्रिया प्रकर्तव्या हेमबद्धादिभिः सदा ।
वेधयेन्नागवङ्गं च तारं चन्द्रोपमं भवेत् ॥ ३५॥
समुद्रे चैव जायन्ते विषमत्साश्चतुर्विधाः347 ।
तेभ्यः फेनं समुत्पन्नमहिफेनं348 चतुर्विधम् ॥ ३६ ॥
केचिद्वदन्ति सर्पस्य फेनं स्यादहिफेनकम् ।
जारणं श्वेतवर्णंच मारणं रक्तवर्णकम् ॥ ३७॥
विषविदुत्तमं349 फेनं योजयेद्रसकर्मणि।
सारणं350 पीतवर्णं च रक्तवर्णं च चारणम् ॥ ३८॥
व्योमजीर्णं रसं कृत्वा सूरणेन351 विमर्दयेत् ।
यन्त्रे सोमानले ग्रासं352 रुद्ध्वाक्रमेण जारयेत् ॥ ३९ ॥
समजीर्णे यदा रुक्मं चतुर्थांशेऽहिफेनकम् ।
एकत्र मर्दयेत्खल्वे अम्लयुक्ते विशोधयेत्353 ॥ ४०॥
यन्त्रस्य नलिकामध्ये सर्वे क्षिप्वा तु चारयेत्354 ।
नलबाह्ये तु तद्यन्त्रं सिक्तया पूरयेत्ततः ॥४१॥
मन्दानलः प्रकर्तव्यो घटिकानां चतुष्टयम् ।
मधुघृताहिफेनैश्च तद्भस्मोद्धृत्य भावयेत् ॥४२॥
गद्याणचतुरशीतिर्ग्राह्य355ोहठाच्च356 पारदः।
गद्याणं मृतकल्कस तस्य मध्ये विनिक्षिपेत् ॥ ४३॥
निरुन्ध्य वज्रभूषायां करीषाग्नौ तु धारयेत् ।
तद्धमेदन्धभूषायां रसो हेम प्रजायते ॥ ४४ ॥
आरतारार्कनागानां शतवेधातु काञ्चनम् ।
रसवङ्गारशुल्बानां वेधात्तारं च हेमवत् ।
जारणादीनि कर्माणि उत्तमान्यहिफेनतः ॥ ४५ ॥
इति श्रीमद्गोविन्दाचार्यविरचिते रससारेऽनेककल्कभेदाधिकारोनाम सप्तदशः पटलः ॥१७॥
______________
अथाष्टादशः पटलः।
वदत्याचार्यगोविन्दो मणिकर्मप्रसाधनम् ।
रवीन्दुतारसंज्ञाश्च357 मणयस्त्रिविधाः स्मृताः॥१॥
कोरयित्वाऽर्ककान्तौ च कार्यं भूषापुटद्वयम् ।
अष्टांशं कनकं दत्त्वा रसपिष्टिं च कारयेत् ॥ २॥
जारयेद्गन्धकं सूते सूर्यकान्तख संपुटे ।
ग्रीष्मे लघुपुटो देयो मध्याह्नेसूर्यरश्मिभिः ॥३॥
तापत्रयेण संतप्तो बद्धो358 भवति पारदः॥
प्रत्यहं जारपेद्गन्धं मासं तापत्रयेण च ॥४॥
त्र्यहादिकोटिपर्यन्तं359 जारयेच्च रसेश्वरम् ।
रसायनप्रयोगेषु वर्जयेत् सततं बुधः ॥५॥
सोमकान्तमणेः कर्म कर्तव्यं चन्द्ररश्मिभिः ।
वर्षे360 पुटः प्रदातव्यो बद्धो हेम्नाऽक्षयो भवेत् ॥ ६॥
तं गोलं धारयेद्बक्रेअमरः खेचरो भवेत् ।
तारकान्तमणेः कर्म कर्तव्यं चन्द्रकान्तवत् ॥७॥
कठिनं मौक्तिकं लोके तारकान्तश्च कथ्यते ।
सूर्यकान्तादिवत्कार्यं चुम्बकभ्रामकादिषु ॥८॥
एषां361 तापत्रये सूतो बद्धो जीर्यति गन्धकम् ।
अथातः संप्रवक्ष्यामि लोहादिकरणं शुभम् ॥९॥
जारणादिविहीनस्य द्रव्यसाधनकारकम्362 ।
घोषभागाष्टकं चैव तीक्ष्णं विंशतिभागकम् ॥१०॥
एकत्र मेलनं कृत्वा भूनागनागसंयुतम् ।
तन्नागं त्रिगुणं व्यूढं घोषशेषं तु कारयेत् ॥११॥
मेलयित्वाऽर्धबीजं तु हेमार्धंकाञ्चनं भवेत् ।
गौरीचूर्णं तु निर्वाह्य नागे च त्रिगुणं बुधः ॥ १२ ॥
तन्नागं त्रिगुणं शुल्बेशुल्बंतारे तथैव च ।
तारशेषं भवेद्रुक्मं वर्णैकादशकं स्फुटम् ॥ १३ ॥
रसकं त्रिगुणं शुल्वे शुल्वं तारे तथैव च ।
निर्वाह्य तारशेषं तु हेमार्धं363 काञ्चनं स्फुटम् ॥ १४ ॥
आरं च त्रिगुणं तारे वापितं विमलं तथा ।
तत्कृतं तारशेषं च हेमार्धं काञ्चनं भवेत् ॥१५॥
भागद्वयं च तीक्ष्णस्य घोषभागद्वयं तथा ।
वेदभागकृता रीतिस्तारमेभिः समीकृतम् ॥ १६ ॥
तारमागसमं शुल्वं नागः शुल्बसमो भवेत् ।
तारशेषं प्रकर्तव्यं निर्बीजंसप्तवर्णकम् ॥१७॥
बाणभागकृतं तारं नागार्कयोस्त्रिपञ्चकम् ।
रुद्रभागकृतं तीक्ष्णं शुल्बं364तारे च निर्वहेत् ॥१८॥
कङ्गुतैलनिषेकात्तु तारशेषं च कारयेत् ।
जायते काञ्चनं दिव्यं पुरा देवेन भाषितम् ॥ १९ ॥
अवैक्रान्तानि365 सत्त्वानि तारे च त्रिगुणानि तु ।
मारयित्वा तु निर्वाह्य अर्कबीजेन366 काञ्चनम् ॥ २०॥
माक्षिकेन हतान्367 धातून् तारवापाद्दलं शुभम् ।
माक्षिकेन त्रिधाऽर्केन्दु368 निहत्य पुनरुत्थितौ ॥२१॥
(मृतलोहानि निर्वाह्य तारे च षड्गुणं वपेत् ।
रक्तस्नेहनिषेकात्तु अर्धबीजेन काञ्चनम्369 ॥ २२॥)
मरुतं तारशेषं तु हेमार्धे काञ्चनं शुभम् ।
एवं तु वेधितं तारं रसोपरसधातुभिः ॥ २३ ॥
विनिहत्य त्रिगन्धेन त्रिधा चोत्थाप्य मारयेत् ।
रङ्गैःसिक्तं तारशेषं हेमार्धे काञ्चनं शुभम् ॥ २४ ॥
इति श्रीमद्भगोविन्दाचार्यविरचिते रससारे मणिभूषाकर्मदलाधिकारो नामाष्टादशः पटलः ॥ १८॥
___________
अथैकोनविंशतितमः पटलः।
अथातः संप्रवक्ष्यामि गुटिकाबन्धमुत्तमम् ।
समजीर्णंकृतं व्योम समतारं370 च योजयेत् ॥ १॥
रविसंख्यांशकं तारं दत्त्वा पिष्टिं प्रकल्पयेत्371 ।
धान्याभ्रकसमं गन्धं खल्वे372 क्षिप्त्वाविमर्दयेत् ॥ २॥
तयोर्मूषाकृतिं373 कृत्वा पिष्टिं मध्ये विमोचयेत् ।
नरमांसेन संवेष्ट्य माषपिष्ट्या तथैव च ॥३॥
पचेदतसितैलेन374 मासमात्रं तु साधकः।
अक्षया कामधेनुश्च वङ्गस्तम्भनकारिणी ॥४॥
श्वेताभ्रद्रुतिमादाय समं सूतेन मर्दयेत् ।
समं तारेण संयुक्तां श्वेतागस्त्यरसेन च ॥५॥
अयस्कान्ताश्म गन्धं च हयलालासमन्वितम् ।
एकत्र गोलकं कृत्वा नरमांसेन पाचयेत् ॥६॥
द्वितीया कामधेनूक्ता तारकर्मणि शोभना ।
समजीर्णं तु कृष्णाभ्रंरुक्मं375सप्तगुणं यदि ॥ ७॥
रञ्जितं गन्धरागेण नरमांसेन वेष्टयेत् ।
माषपिष्ट्या प्रलिप्याथातसीतैलेन376 पाचयेत् ॥ ८॥
कामधेनुः समाख्याता नागस्तम्भनकारिणी।
पिष्टिं वा निगडं वाऽथ संकलीकृतमेव च ॥९॥
बीजं377 जीर्णं तु सूतेन्द्रे नरमांसेन पाचितम् ।
व्ययेऽपि विस्तरा378 जाता बहुधा कामधेनवः ॥ १० ॥
रसात्पादांशकं हेम पिष्टिं कुर्याच्च सुन्दरम् ।
विलिप्य कामधेनुं च नागद्रावे विमुञ्चयेत् ॥११॥
तन्नागं कुरुते रुक्मं वाञ्छितार्थेषु सिद्धिदम् ।
गुटिकां कामधेनुं तां प्रत्यहं धारयेन्मुखे ॥१२॥
शस्त्रास्त्रैर्न च भिद्येत दिव्यदेहमवाप्नुयात् ।
इति श्रीमद्गोविन्दाचार्यविरचिते रससारे गुटिकाकथनं नामैकोन विंशतितमः पटलः ॥ १९ ॥
अथ विंशतितमः पटलः।
जारितः सूतराजेन्द्रः पादांशहेमयोजितः ॥१॥
दिव्यौषधिनिबद्धश्च वयःस्तम्भकरो भवेत् ।
वारुणी यवचिञ्चा च धूर्तमूलं च लाङ्गली ॥२॥
विषटङ्कणगुञ्जाश्च पिकाक्षं पद्मबीजकम् ।
कार्पासफलनिर्यासरसैः पिष्ट्वौषधानि तु ॥३॥
भूषाकारेण कर्तव्यं भावयित्वा न्यसेद्रसम् ।
मृदा संवेष्टितं गोलं तथा कर्पटकेन तु॥४॥
छायाशुष्कं तु संवेष्ट्य अष्टवारं पुनः पुनः।
तुषाग्नौ स्वेदयेद्गोलं यावद्यामाष्टकं भवेत् ॥ ५ ॥
हठेन धाम्यमानस्तु खोटो भवति चाक्षयः ।
बद्धश्च सह हेम्ना379 तु मुखस्थः स्तम्भयेद्वयः ॥६॥
अभ्रकेऽष्टगुणे जीर्णे समबीजेन सारिते।
षड्गुणे गन्धके जीर्णे गुटिका खेचरी भवेत् ॥ ७॥
व्योमद्रुतिश्च रत्नं380च मुक्ताद्रुतिसमं कृतम् ।
गन्धकेन समायुक्ता गुटिका खेचरी भवेत् ॥८॥
(व्योमद्रुत्या रसो बद्धो हेमद्रुत्या समो यदि ।
वज्रेचान्नपथे381 जीर्णे गुटिका सिद्धखेचरी382 ॥९॥
व्योम हेम शिलासत्त्वं गन्धकं जारयेद्रसे।
शैलोदके रसे बद्धे खेचरत्वं न संशयः ॥१०॥
समेऽथ द्विगुणे वाऽथचतुरष्टगुणेऽथवा।
षोडशद्विगुणे बीजे गुटिका खेचरी भवेत् ॥ ११ ॥
व्योम383 हेम तथा तारं वज्रंमुक्ताफलं तथा।
गन्धकं च शिलासत्त्वमेभिर्बद्धो हि खेचरः॥ १२॥
कोरयेद्वारुणं काष्ठं रसपिष्टिं विमोचयेत् ।
शैलोदके च384 त्रिगुणे काले संस्थापयेत्सुधीः ॥१३॥
पञ्चामृतेन संखेद्य बलिपूजाविधानतः।
जपेदघोरमन्त्रं तु खेचरः केन वार्यते ॥ १४ ॥
सबीजा गुटिका कार्या जारयेच्च महाबिडम् ।
पिङ्गलाखञ्जनगृध्रकृष्णपारावते तथा ॥१५॥
उलूकहृदये बद्धा भूयो385 भवति खेचरी।
पक्षिणं चारयेत्सूतं मारयेत्तदनन्तरम् ॥ १६ ॥
शालिपिष्टेन संवेष्ट्य पचेत्तैलेन साधकः।
मासैकस्य प्रयोगेण गुटिका खेचरी भवेत् ॥ १७॥
बलिपूजा प्रकर्तव्या जपो होमस्तथैव च ।
पक्षिणा भक्षितं सूतं चितायां पाचितं यदि ॥१८॥
दुग्धेन सिञ्चनं कार्यंगुटिका खेचरी भवेत् ।
समाभ्रकं यदा जीर्णंसमं स्रोतोजमञ्जनम् ॥ १९ ॥
बन्धनौषधिबद्धं च नरमांसेन वेष्टयेत्386 ।
कुक्कुटं चारयेत्कृष्णतिलैः संयोजितं रसम् ॥ २०॥
वमनं दीयते तस्य गुटिका गोप्यकारिणी387 ।
अथ पारावतं कृष्णं चारयेत्पूर्ववद्रसम् ॥२१॥
चितायां पाचनं कृत्वा पुना रक्तेन सेचयेत् ।
बलिपूजाविधानेन वक्रस्था गोप्यकारिणी388 ॥ २२ ॥
जीर्णव्योमाञ्जनरसं बीजैः पिष्टिं तु कारयेत् ॥
चारयेत्कृष्णमार्जारं चितायां पाचयेद्यदि ॥ २३ ॥
तस्यरक्तेन संसिक्ता गुटिकाऽदृश्यकारिणी।
सरक्तंव्योमसंयुक्तं सूतेन्द्रं जारितं समम् ॥ २४ ॥
कनकेन युतं बद्ध्वापाताले विचरेन्नरः।
पद्मरागयुतं बद्ध्वापातालं वशमानयेत् ॥२५॥
कृष्णभूतानि389 संगृह्य जीवन्तं सितजम्बुकम् ।
भारण्डं गृध्रमासं वा रेवत्यथ बिडालकम् ॥२६॥
तरक्षुद्वीपिसेढाश्च काकश्च नकुलस्तथा ।
श्यामा च खञ्जनश्चैव उलूको द्विमुखी तथा ॥२७॥
पिङ्गला नातिकृष्णा च बलाका असिता तथा।
सिद्धद्रव्या390 इमे ख्याता विविधाः391 साधयेच्च तान् ॥२८॥
एकं संगृह्य चैतेषां कृष्णसूते विधातयेत्392 ।
दत्त्वा बलिमघोरेण विश्वरूपाय विश्वया ॥ २९ ॥
अस्त्रेण मारयित्वा393 तु निखनेच्च चतुष्पथे।
स्मशाने वाऽथ रक्षेत त्रिसन्ध्यं394 घोरपूजनात् ॥३०॥
लक्षमन्त्रं जपेत्तत्र अघोरं विश्वया सह ।
मासैकेन यथायोगं मासे पूर्णे समुद्धरेत् ॥ ३१ ॥
मत्स्यमांसबलिं दत्त्वा395 पललं सार्वभौतिकम् ।
पुष्पाणि च सुगन्धीनि गन्धंधूपं396 निवेदयेत् ॥ ३२ ॥
समुद्रगामिनीं गत्वा एकैकास्थि विमोचयेत्397 ।
यस्मिन् करस्थे पुरुषो दर्पणस्थं398 न पश्यति ॥ ३३ ॥
तदस्थि गोपनं ख्यातं देहलग्नं न संशयः।
तदस्थि भ्रामयेद्देहे399 विश्वरूपं400 स गच्छति ॥ ३४ ॥
मायाजालान्यनेकानि दर्शयेत्तत्क्षणेन तु ।
यावत्स्थितप्रयातानि पूरकुम्भकरेचकैः ॥ ३५॥
उलूकस्य शृगालस्य समभागकृता वसा ।
पादलेपमिमं कृत्वा पादुके चोष्ट्रचर्मणः ॥ ३६ ॥
आरुह्य विचरेद्धीरो यत्र यत्र प्ररोचते ।
गृध्रस्य च उलूकस्यवसां पादे प्रलेपयेत् ॥ ३७॥
अश्वत्थस्य च पत्राणि जङ्घायां च निबन्धयेत् ।
आरुह्य खेच्छया याति पादुके चोष्ट्रचर्मणः ॥ ३८ ॥
मानवाः सर्ववर्णानां कालयोगात्क्षयं गताः।
अन्ये चैव महावीरा महाहवनिपातिताः ॥ ३९॥
तेषां कपालमादाय पुष्येऽधोरविधानतः।
नृपापराजितां सिद्धां कृष्णलां वा सितां तथा ॥४०॥
भावयित्वाऽऽङ्कुले401 तैले नृकपाले प्रवापयेत् ।
अर्कतोयप्रसिक्तानि अजाविकपयस्यपि ॥ ४१॥
पुष्यार्के फलकाले तु उद्धरेत्तां निशामुखे ।
पूजां402 मांसबलिं दत्त्वा वक्रस्था गोपना भवेत् ॥ ४२ ॥
त्रिलोहवेष्टितां कुर्यादर्कषोडशखेन्दुभिः403 ।
वीर्यस्तम्भं च कुरुते शस्त्रघातं विनाशयेत् ॥४३॥
रक्ता सिताश्वमारस्य404 गुञ्जा वा कक्षिणी405 मता।
ताडनात्स्पर्शनाद्वाऽपि सुबीजेन तु संयुता ॥४४॥
न406 तन्मूलगतं पात्रं तत्रान्नमक्षयं भवेत् ।
तदङ्गफलपुष्पैश्च माला कण्ठे तु गोपनी ॥४५॥
वापयेत्सर्वबीजानि तत्तद्रूपो नरो भवेत् ।
फलं वा मुखनिक्षिप्तं तत्तद्रूपस्य साधकम् ॥ ४६॥
शणकार्पासबीजं407 यो मुखे यस्य च वापयेत् ।
करबद्धेन तेनाथ तस्य रूपधरो भवेत् ॥४७॥
इतिश्रीमद्गोविन्दाचार्यविरचिते रससारेऽनेकगुटिकादीनां साधनोपायो नाम विंशतितमः पटलः ॥ २० ॥
___________
अथैकविंशतितमः पटलः।
अथातः संप्रवक्ष्यामि क्रौञ्चयोगाननेकशः।
व्योमादिकानि सर्वाणि क्रौञ्चयोगे408 द्रवन्ति च ॥१॥
शुभाश्च कल्कयोगाश्च सर्वाश्च पिष्टिकादयः।
कौञ्चयोगकृतं कर्म सफलं409 च शुभं भवेत् ॥२॥
सागरे विहगा रम्या दीर्घवक्राश्चिरायुषः ।
तेषां410 च चारयेत्सूतं विष्ठां तेषां च धामयेत्411 ॥ ३॥
अक्षीणो412 मीलितो व्योम्ना धमनाद्द्वन्द्वतां व्रजेत् ।
अण्डमध्यगतः सूतो धमनाद्द्वन्द्वतां413 व्रजेत् ॥४॥
कुक्कुटाण्डरसेनैव रसराजं414 विभावयेत् ।
निपात्यः कूपिकायन्त्रे स्थिरतां415भजते रसः॥५॥
सर्वाण्डेषु च पानीयं श्वेतं पीतं द्विधा भवेत् ।
श्वेतं पयः श्वेतकार्ये पीतकार्येषु पीतकम् ॥६॥
अपादैर्द्विपदैश्चैव चतुष्पादैश्च संकुलैः।
जलजैः स्थलजैः सर्वैरेभिर्ज्ञेयो रसक्रमः ॥७॥
तेषामामसृग्भिः पित्तैश्च कर्माणि स्युः पृथक् पृथक् ।
वक्ष्ये दिव्यौषधिकल्पं रसे चैव रसायने ॥८॥
अचिन्त्यमौषधीवीर्यं रसराजस्य बन्धने ॥
क्रियामन्त्रविधानेन सबीजो बध्यते रसः॥९॥
तृणं गुल्मो लता वल्ली वृक्षजाऽतिविसर्पिणी ।
षड्विधास्तु रसौषध्यो लक्षणेनावलोकयेत्416 ॥१०॥
(कृष्णे पक्षे प्रगलति दलं प्रत्यहं चैकमेकं
शुक्लेऽप्येवं प्रभवति च पुनर्लम्बमाना लता स्यात् ॥
तस्याः कन्दः कलयतितरां पौर्णिमायां गृहीतो
बद्ध्वासूतं कनकसहितं देहलोहं विधत्ते ॥ ११ ॥
इयं सोमकला नाम्नी वल्ली परमदुर्लभा ।
अनया बद्धसूतेन्द्रो लक्षवेधी प्रजायते417 ॥ १२॥)
सोमवल्ली द्विधा ज्ञेया श्वेता रक्ता सकन्दका ।
रसो रक्तो भवेद्यस्यास्तिथिसंख्यादलानि च ॥ १३ ॥
शुक्ल पक्षे प्रजायन्ते कृष्णे च प्रपतन्ति हि ।
कृष्णपक्षक्षये418 चापि वल्ली भवति केवला ॥ १४ ॥
पूर्णिमायां गृहीतव्या रसबन्धे रसायने ।
जलजा419 पद्मिनी दिव्या स्थले420 तद्रूपधारिणी ॥ १५ ॥
तथाऽन्याऽजगरी नाम मण्डलैश्च विचित्रिता ।
अजगराकृतिः सा तु खल्पपत्रा पयखिनी ॥ १६ ॥
गोनसी421 गोनसाकारा सक्षीरा रसबन्धिनी।
त्रिजटा च422 शुकाकारा रसबन्धकरी भवेत् ॥ १७ ॥
रक्तक्षीरा भवेद्वल्ली ईश्वरी लोकविश्रुता।
निम्बपत्राकृतिवल्ली भूतकेशी तु कथ्यते ॥ १८ ॥
कृष्णवल्ली कृष्णमूला सक्षीरा रसबन्धिनी।
रुदन्ती चणकाकारा स्रवन्ती तोयबिन्दुकान् ॥ १९ ॥
भूकदम्बा वृद्धमुण्डी सर्वत्र भुवि दृश्यते ।
लशुनी लशुनाकारा सक्षीरा रसबन्धिनी ॥२०॥
औषधी शम्बरा नाम स्नुहिपत्रा कपिप्रिया।
सक्षीरा किंचिदूर्ध्वाङ्गा423 जायते च शिलातले ॥२१॥
वाराही लोमशा कन्दे वल्ली सा गतपत्रका ।
अश्वत्थपत्रा सक्षीरा वल्ली या जातकी स्मृता ॥ २२॥
अल्पपत्री भवेदल्पा वल्ली नातिविसर्पिणी।
कचोरनालकन्दा424 सा त्रिपत्रा च पयस्विनी ॥ २३॥
अशोकनाम्नी सक्षीरा लताचाशोकसंनिभा॥
पुन्नागपत्रिका वल्ली सुगन्धक्षीरिणी भवेत् ॥ २४ ॥
नागिनी नाम सक्षीरा सपर्वा सर्पसन्निभा।
वृक्षारोहा भवेद्वल्ली रसराजस्य बन्धिनी ॥ २५ ॥
छत्राकारा च सक्षीरा एकपत्रा सकन्दका।
छत्री नामेति सा प्रोक्ता रसबन्धे महाबला ॥२६॥
शम्बरी425 नामतो ज्ञेया पीतक्षीरा वनोद्भवा426 ।
नात्युच्चा गुल्मजातिश्च नन्दिकापत्रसन्निभा॥२७॥
मूलक्षीरफलैः पुष्पैः क्षणात्सूतकबन्धिनी ।
वालुकीपत्र427सदृशी पीतक्षीरा सकोमला ॥२८॥
देवीनाम्नी लता सा तु रसबन्धे महौषधी ।
वज्रवल्ली सपुष्पा च स्नुहिपत्रा पयस्विनी ॥ २९ ॥
चित्रकौरक्तकृष्णौ च क्षीरं कृष्णं करोति यः।
कृष्णस्तु गोपनः ख्यातो शुभौ द्वौ रसबन्धने ॥३०॥
पालाशलतिका नाम पत्रैः पालाशसन्निभैः।
कन्दे पीतरसं मुञ्चेद्रसराजस्य बन्धिनी ॥ ३१ ॥
नराजकृष्णपुष्पी च ईषद्रक्तदला लता ।
काकपक्षा428 भवेद्वल्ली कुमुदी429 स्थूलपर्वते ॥ ३२॥
नीलोत्पलसमाकारा नीलोत्पला च पर्वते ।
रजनी सहरित्पत्रक्षीरा कौमारिकन्दका ॥ ३३ ॥
सिंहिका नाम विख्याता श्वेतपत्रा पयस्विनी।
कुलत्थपत्रवत्पत्रा क्षीरकन्दा च भेदिनी ॥३४॥
गजदन्ताकृतिः430 कन्दे क्षिप्ता क्षीरलता भवेत् ।
महौषधी जपापुष्पा स्नुहीपत्रा चतुर्दला ॥ ३५ ॥
गोकर्णपत्रा गोशृङ्गाकन्दक्षीरा नगोद्भवा।
त्रिवल्ली रक्तमाला च नाम्ना खदिरपत्रिका ॥३६॥
पीता हरिद्रासंकाशा रसं रक्तं विमुञ्चति ।
तृणकन्दलतावृक्षा ज्योतीरूपा निशामुखे ॥ ३७॥
ज्वलन्ती पर्वते जातास्ते सर्वे रसबन्धकाः।
मञ्जिष्ठा रसबन्धे च रक्तवल्ली विसर्पिणी ॥ ३८॥
ब्रह्मदण्डी भवेद्यष्टी क्षीरकन्दा रसौषधी ।
नाम्ना मधुतृणा दिव्या अपत्रा मधुगन्धिका ॥ ३९ ॥
पद्मदण्डी पद्मपत्रा पद्मकन्दा पयस्विनी।
सोमदण्डी431 भवेत्पीता सक्षीरा पीतपुष्पिका ॥४०॥
विजया नाम मञ्जिष्ठा चित्रपत्रदलावृता432।
आढकीपत्रसंकाशा जया शुक्ला विसर्पिणी ॥४१॥
जयानिभदला433 वल्ली त्रिकोणा कटुतिक्तका॥
शिखिकण्ठनिभैः पत्रैर्नाले चन्दनगन्धिका ॥ ४२ ॥
स्वादे तिक्तंभवेन्मूलं नवनीतसुगन्धिकम् ।
सक्षीरा रक्तपुष्पा च श्रीनाम्नी च महौषधी ॥४३॥
त्रिलोहवेष्टितं मूलं वक्रस्थं गोपयेन्नरम्434 ।
कीटमारी भवेद्वल्ली शिग्रुपत्रा पयस्विनी ॥४४॥
व्याघ्री नामेति विख्याता नीलपुष्पा सकन्दका435।
गरुडी पीतपुष्पा च निम्बपत्रा पयस्विनी ॥४५॥
तुम्बी च तुम्बीसदृशा सक्षीरा तरुगामिनी ।
कटुतुम्बी भवेदन्या सक्षीरा भूमिगामिनी ॥ ४६ ॥
मयूरस्थ शिखा नाम्नी ज्ञातव्या रसबन्धिनी।
मूलकाकारपत्रा च रक्तक्षीरा सपीतका ॥ ४७ ॥
नाम्ना हेमलता दिव्या पीतपुष्पा रसौषधी ।
आसुरी तुम्बिकापुष्पी पत्रैः पञ्चाङ्गुलैः समा ॥४८॥
पीतक्षीरा भवेदन्या रसराजस्य बन्धिनी।
व्याघ्रपादलता दिव्या सक्षीरा रक्तपुष्पिका ॥४९॥
सप्तच्छदसमैः पत्रैः सप्तपर्णी भवेल्लता।
गोमारी नाम विख्याता सक्षीरा खण्डपत्रिका ॥५०॥
धान्यकुस्तुम्बरीरूपा क्षीरिणी पीतपुष्पिका।
दिव्यौषधिर्महावीर्या त्रिशूली नातिसर्पिणी ॥५१॥
त्रिदण्डी रक्तपत्रा च त्रिपत्रा सातला436 भवेत् ।
भृङ्गाकारा भवेद्भृङ्गापीतपुष्पा पयस्विनी ॥५२॥
समरी समराकारा क्षीरिणी कन्दसंयुता।
वज्रीवज्रसमा ख्याता क्षीरिणी कन्दवत्यपि ॥ ५३॥
रक्तपर्णीसिता चैव दिव्यौषधी महाबला।
करवीरदला पुष्पा रक्तक्षीरा महौषधी ॥५४॥
कुरण्टपत्रा सक्षीरा वज्रकन्दवती भवेत् ।
पीतमुस्तककन्दा च मुस्तरूपा पयस्विनी ॥ ५५ ॥
रक्तक्षीरा भवेद्वीरा वल्ली बिल्वदला शुभा।
शणरूपा भवेद्वल्ली रोहिणी रसबन्धिनी ॥५६॥
बिल्वातकी भवेद्वल्ली ज्योतिष्पत्रा पयस्विनी।
गोरोचनाऽरुणक्षीरा वल्ली गोरोचनप्रभा ॥५७ ॥
शल्या सकन्दपुष्पा स्याल्लता कन्दैकपत्रिका।
शल्याकारा विशल्या च त्रिपत्रा कन्दवर्जिता ॥५८॥
कन्दक्षीरा नगोद्भूता शीघ्रं शल्यविमोचिनी ।
चतुःषष्टिः समाख्याता औषध्यः स्युः437 सुपूजिताः॥५९॥
शुभेऽह्नि शुभनक्षत्रे बलिपूजाविधानतः।
क्षेत्ररक्षा प्रकर्तव्या अघोरेण दिशां तथा ॥६०॥
शक्तिबीजैस्तथाऽघोरैर्गृह्णीयात् प्राप्तियोगतः438।
याः काश्चिन्मुनिभिः प्रोक्ता औषध्यस्तु सहस्रशः॥६१॥
ताभिर्युक्तिवशाज्ज्ञेयं तत्त्वज्ञै439 रसबन्धनम् ।
गगनं शुल्बमाक्षीकं कनकं कान्ततालकम् ॥ ६२ ॥
दरदं विमलं चौरं कनटी गन्धटङ्कणम् ।
एतानि समभागानि तावद्भागं च सूतकम् ॥ ६३ ॥
दिव्यौषधिसमायुक्तं खल्वे कृत्वा विमर्दयेत् ।
अष्टाष्टकनियोगेन धमनाद्बन्धमाप्नुयात् ॥ ६४ ॥
ध्मातः संवत्सरैकं440 तु अक्षयो हि भवेद्रसः॥
जारयेत्सारयेत्तं तु क्रमेण कोटिवेधकः ॥ ६५ ॥
तं गोलं धारयेद्वक्रेदिव्यं देहमवाप्नुयात् ॥
छायाशुष्काऽथवा कार्या पञ्चाङ्गा च महौषधी ॥६६॥
सूक्ष्मचूर्णंततः कृत्वा कांस्यपात्रे441 निधापयेत् ।
तद्रसेनैव संभाव्य सप्तवारंपुनः पुनः ॥ ६७ ॥
घृतेन मधुना सार्धेकर्षमेकं442 तु भक्षयेत् ॥
दिव्यं देहमवाप्नोति जीवेच्चन्द्रार्कतारकम् ॥ ६८॥
जितेन्द्रियश्च लघ्वाशी शीतातपविवर्जितः ।
इति श्रीमद्गोविन्दाचार्यविरचिते रससारे क्रौञ्चयोगपक्षकर्मदिव्यौषध्यधिकारो नामैकविंशतितमः
पटलः ॥२१ ॥
अथ द्वाविंशतितमः पटलः॥
अथातः संप्रवक्ष्यामि यन्त्राणां नामनिर्णयम् ।
प्रथमं स्वेदनं यन्त्रं किन्नरं च द्वितीयकम् ॥ १॥
अथ पातनकं यन्त्रं443 डमरूं दीपनं तथा ।
दोलास्वेदं च विज्ञेयं नियामं च निरोधकम् ॥२॥
चक्रराजं महायन्त्रं देगयन्त्रं444 च भूधरम् ।
यन्त्रं सोमानलं कार्ये जारणे दोलकं शुभम् ॥३॥
जारणे कूपिकायन्त्रं तृतीयं सिद्धिदं परम् ।
अथवा जलकूर्मंच स्थलकूर्मं तथैव च ॥४॥
भूगर्भे445 कन्दमध्ये च भूषायां च ततः परम् ।
भागैकं लोहकिट्टंच तुषदग्धद्वयं तथा ॥ ५॥
मृद्भागत्रयसंयुक्तं किंचित्कार्पाससंयुतम्446 ।
एकत्र कुट्टयेत्सर्वंमृत्तिका वज्रवद्भवेत् ॥ ६॥
तया मूषा प्रकर्तव्या त्रिविधा साधकेन तु ।
लोहकिट्टंतुषा दग्धाः शुक्तिचूर्ण447ंच कर्कराः॥७॥
एतानि समभागानि तावद्भागेन मृत्तिका ।
(भूषाबन्धः प्रकतर्व्योधमनाद्वज्रतां व्रजेत्448)
कौपेन449 च समायुक्ता वज्रमूषा450 च कथ्यते ॥८॥
(दग्धात्तुषात्तु भागैकं मृद्भागद्वयमेव च ।
कूर्पेण451च समायुक्ता व्रज्रभूषा च कथ्यते)
काचचूर्णे452 च भागैकं समभांग तु मृत्तिका ।
भूषाबन्धः प्रकर्तव्यो धमनाद्वज्रतां व्रजेत् ॥९॥
दीर्घमूषा प्रकर्तव्या सारणे सत्त्वपातने ।
संपुटं रुन्धने कुर्यात् शरावं वाहने तथा ॥१०॥
सार्धहस्तप्रमाणेन भुजा453 कार्या सुशोभना ।
वक्रनालं भुजाग्रेषु कोष्ठिमध्ये वितस्तितः ॥११॥
उच्छ्रयेण पृथुत्वेन कोष्ठिका षोडशाङ्गुला।
तावद्वितीयकोष्ठं च तदूर्ध्वंसारयेत्ततः454॥१२॥
धमेत्तावदृढाङ्गारैर्यावत्सत्वं पतत्यधः ।
कदाचिन्न द्रवेत्सत्त्वं पिण्डीं बद्ध्वा455 धमेत्ततः ॥ १३ ॥
संदंशिनी द्विधा कार्या शुकचञ्चुश्च वायसी ।
दीर्घसंदंशकश्चैव हस्तमात्रोऽतिपत्तलः456 ॥ १४ ॥
कणी द्विहस्तमात्रा तु धातूनां चालने हिता ।
रेतनी च वितस्त्यैव छिन्नकोऽष्टाङ्गुलः शुभः॥ १५॥
द्विविधा अर्हिणी कार्या लघुः स्थूला सुशोभना ।
हत्थोडी द्विमुखा कार्या पत्राकारा च वर्तुला ॥ १६ ॥
द्वाभ्यां चतुर्भिरष्टाभिः सप्तभिर्दशभिर्मणैः ।
प्रकर्तव्या घणी भव्या धातूनां कुद्दने हिता ॥ १७ ॥
भस्त्री भव्या प्रकर्तव्या धातोर्घमनहेतवे।
लोहखल्वे चतुष्पादे पिण्डिका च दशाङ्गुला ॥ १८ ॥
उन्मत्तकुसुमाकारा लघुः स्थूला च कर्तरी ।
योन्याकारा दृढा खल्वाशिलापट्टः सलोष्टकः ॥१९॥
कर्परं बहुधा स्थाली लोहोदुम्बरमृण्मयी।
वशंकृकः कुठारश्च कुशीकुट्टलवर्धनम् (?) ॥२०॥
अनुक्तान्यायुधान्येवं कुर्यात्तदनुसारतः457।
इति श्रीमद्गोविन्दाचार्यविरचिते रससारे यन्त्रभूषाधिकारो नाम द्वाविंशतितमः पटलः ॥ २२ ॥
**
अथ त्रयोविंशतितमः पटलः ।
वक्ति श्रीधीरदेवाय साष्टाङ्गं प्रणिपत्य च ।
गोविन्दाचार्यनामाऽयं सच्छिष्यो भक्तिपूर्वकम् ॥१॥
अष्टपत्रं लिखेच्चादौ पद्मयन्त्रं458 विभूषितम् ।
सुगन्धीनि च पुष्पाणि नैवेद्यं च सुशोभनम् ॥२॥
पद्ममध्ये न्यसेद्रुद्रमग्रतो विघ्ननायकम् ।
यन्त्रे यन्त्रे च योगिन्यः सिद्धाष्टकसमन्विताः ॥ ३ ॥
पश्चिमे तु रसेन्द्रं हि पूजयेत्सिद्धिपूर्वकम् ।
इन्द्रादींश्च दिशां पालान् पूजयेत् क्रमयोगतः ॥४॥
दिग्बन्धश्च प्रकर्तव्यः सर्वकार्ये459 प्रयत्नतः।
दीक्षां च कारयेत्तत्र मन्त्रेणानेन मन्त्रवित् ॥५॥
श्वेतेनैव च वस्त्रेण पट्टसूत्रं460 च दापयेत् ।
सिद्धं प्रवेशयेत्तत्र शुक्लपक्षे पुटाञ्जलिम् ॥६॥
पूजयित्वा ततः सिद्धं मन्त्रेण च पृथक् पृथक् ।
तटयेद्बद्धपटहं मण्डलं दर्शयेत्तदा ॥७॥
सर्वपापविनिर्मुक्तो भवेद्दृष्टे461 च साधकः ।
कुम्भोदकं462 च संगृह्य पूजयित्वा कुमारिकाः ॥८॥
सुश्चेतकञ्चुकवृताः शुक्लगन्धानुलेपनाः ।
गुरुपादं463 च संपूज्य सुभक्त्या च प्रयत्नतः॥९॥
अर्चयेच्छ्वेतकुसुमैस्तथा गन्धानुलेपनैः।
कलशं सहिरण्यं च वस्त्रयुग्मसमन्वितम् ॥१०॥
न रिक्तं कारयेन्मन्त्रं संपूर्णंघटमम्बुना।
जायते विपुला सिद्धिः साधकस न संशयः ॥११॥
अथान्यत्संप्रवक्ष्यामि सिद्धिदं मण्डलं परम् ।
ॐनमो भगवते रुद्राय वज्रत्रिशूलधारक मम विघ्नं भञ्ज भञ्ज स्वाहा ॥ पट्टपूजा ॥१२॥
पद्ममध्यस्थितं देवं श्वेतवस्त्रविभूषितम् ॥
खड्गबाणधरं देवं मण्डले शीघ्रमाह्वय ॥ १३ ॥
ॐनमो भगवते रुद्राय वज्रत्रिशूलधारक मम विघ्नं भञ्जय भञ्जय स्वाहा । शिवाय नमः। इति शिवपूजा ॥ ॐब्रह्मस्थाने गणेशाय नमः। ॐब्रह्म रुद्र रुद्र सर्वजनं वशं कुरु कुरु गणपतये नमः । ॐशान्ताय नमः। ॐरौद्राय नमः। ॐअनन्ताय नमः। ॐविष्णुरूपाय नमः। ॐहरबीजाय नमः। ॐपारदाय नमः। इति रसपूजाविधिः ॥ ॐसूर्यमण्डलाय नमः। ॐसुप्रभाय नमः। ॐसूर्यमण्डलाय वायुवेगाय नमः । ॐसूर्यमण्डलाय जलवासिने नमः । ॐसूर्यमण्डलाय जयाय नमः । ॐसूर्यमण्डलाय विजयाय नमः । ॐसूर्यमण्डलाय मेघमालिने नमः। इति योगिपूजा ॥ ॐमेघनादक्षेत्रपालाय नमः । ॐवायुवेगायनमः । ॐकरम्बकाय नमः । ॐअग्नये नमः । इति दिक्पालपूजा ॥ ॐश्वेतहृदयाय नमः । ॐश्वेतहस्ताय नमः । ॐसर्वविघ्नप्रश्रवपारदे शिरसे स्वाहा । इति शिरोरक्षामन्त्रः॥ ॐवद वद वादिने नमः ॥ ॐघटमन्त्रः[^468]-ॐघं घटसहस्राणि सिंहवाहिनी श्रीः स्वाहा ॥ ॐदीक्षामन्त्रः । ॐहूं अन्धपट्टछोटनमन्त्रः । ॐकुमारीपादुकाभ्यां नमः । ॐगुरुपादुकाभ्यां नमः। वद वद वाग्वादिन्यै ऐं स्वाहा ॥ अथाघोरमन्त्रः । ॐघोरे क्रीं अघोरे ह्रींअघोरतरे ह्रींसर्वतः[^469] संरक्ष ह्रांह्रीं हूं क्षुंरुद्ररूप हुं फट् स्वाहा । अघोरमन्त्रः ॥ प्रस्फुर २ घोर २ तन २चट २ दह २वम २घातय २ ह्रांह्रींक्लूं अघोरास्त्राय हुः क्षुः हुं फट् खाहा । अघोरास्त्रम् ॥ १४॥
सिद्धलोके महोत्साहे विमानैर्मण्डिताम्बरे ।
जयशब्दं प्रकुर्वन्ति सिद्धा देवाश्च खेचराः॥१५॥
रत्नजीर्णस्तु सूतेन्द्रः साधकैःसाधितो यदा।
लक्षसंख्यं जपेन्मन्त्रमघोरं सुसमाहितः॥ १६ ॥
होमं कृत्वा दशांशेन खण्डाज्यमधुपायसैः।
दशांशं तर्पणं होमात्तद्दशांशाभिषेचनम् ॥ १७ ॥
अभिषेकदशांशेन दद्याद्ब्राह्मणभोजनम् ।
रसेन्द्रात्काञ्चने जाते दशांशा भूरिदक्षिणा ॥ १८ ॥
जुहुयात्सर्वदेवेभ्यः पञ्चामृतयुतं रसम् ।
गणेशक्षेत्रपालेभ्यो464 भैरवेभ्यस्तथैव च ॥ १९ ॥
योगिनीभ्यश्च465 सिद्धेभ्यो दिक्पालेभ्यो विशेषतः ।
दद्यात्तेभ्यश्च सूतेन्द्रं ये चान्ये विघ्नकारकाः ॥२०॥
गणेशः466 क्षेत्रपालश्च भैरवो योगिनीकुलम् ।
होमान्ते तर्पयेत्तांश्च दिक्पालान् सिद्धखेचरान् ॥२१॥
पयसा सर्पिषा चैव मधुना पायसेन तु ।
शिष्येभ्यः काञ्चनं देयमाचार्येण यदृच्छया ॥ २२॥
गुरुदत्तं च गृह्णीयादन्यथा न467कदाचन ।
शिवस्य पूजनं कृत्वा रसराजस्य पूजनम् ॥ २३ ॥
गुरुं च प्रणिपत्यादौ शिवं सूर्यंच चण्डिकाम् ।
गणेशं गिरिजां भक्त्या भूयो भैरवमण्डलीम्468 ॥ २४॥
अघोरं च न्यसेद्देहे अघोरास्त्रं च विन्यसेत् ।
अनुलोमविलोमेन त्रिवारं च पुनः पुनः॥२५॥
एवं सम्यग्विधानेन न विघ्नैः469 परिभूयते ।
पादांशव्योमजीर्णे च470कान्तजीर्णं रसं471 तथा ॥ २६ ॥
देहशुद्धिं ततः कृत्वा वमनस्नेहरेचनैः।
सैन्धवं घृतसंयुक्तं पिबेत्प्रातर्दिनत्रयम् ॥ २७ ॥
प्रत्यहं रक्तिकामात्रं472 वर्षमेकं तु भक्षयेत् ।
क्षेत्रशुद्धिमवाप्नोति देहं क्रमति पारदः ॥ २८ ॥
महारसस्ततः सेव्यश्चाधोरेणाभिमन्त्रितः।
भक्षयेद्रक्तिमात्रं473 तु घृतेन मधुना सह ॥ २९ ॥
संसेव्यः क्रमवृद्ध्या तु यावत्सप्तदिनावधि।
एवं भुक्त्वा474 पुनः सेव्यो यावद्वर्षं पुनः पुनः ॥ ३० ॥
प्रत्यहं क्रामणं कार्यंरसराजस सेवने।
अन्ये ये च रसाः सर्वे लोहवेधस्य कारकाः।
सेवनीयाः प्रयत्नेन सेविताः सिद्धिदाश्चते ॥ ३१ ॥
इति श्रीमद्गोविन्दाचार्यविरचिते रससारे महारससेवनाधिकारो नाम त्रयोविंशतितमः पटलः ॥ २३ ॥
-
*
अथ चतुर्विंशतितमः पटलः।
अतः परं प्रवक्ष्यामि475 रसायनमनुत्तमम् ।
नानाव्याधिप्रशमनं बलवृद्धिकरं परम् ॥१॥
शुद्धसूतस्य भागैकं हेमभागसमीकृतम् ।
द्विगुणं गन्धकं दत्त्वा दिव्यौषधिविभावितम् ॥ २॥
चक्रराजेन तं पक्त्वा यावदेव476स्थिरायते ।
भृङ्गराजेन संभाव्य बध्नीयाद्गुटिकां शुभाम् ॥३॥
हेमेन्द्ररसनामाऽयं कामलादिगदापहः।
निहन्ति सकलान् रोगान् क्रामणेन समायुतः ॥ ४॥
तारं कान्तं व्योमवङ्गं477तावद्भागं च सूतकम् ।
गन्धकेन समायुक्तं चक्रयन्त्रेस्थिरीकृतम् ॥५॥
क्षुरको478 गोक्षुरः कच्छुः शतमूली बलात्रयम् ।
एभिर्बद्धा वटी श्रेष्ठा सुन्दरी तारसंज्ञका ॥६॥
रमेद्रामाशतं रात्रौ दुर्दण्डविहितेन्द्रियः479।
मृतनागसमं सूतं समगन्धेन मर्दयेत् ॥७॥
चक्रराजे स्थिरीकृत्वा विषं दद्यात्कलांशकम् ।
गुटिका भृङ्गराजेन नागेन्द्रोऽयं रसः स्मृतः॥८॥
अशेषव्याधिविध्वंसी क्रामणेन समन्वितः480।
मृतशुल्बसमं सूतं गन्धं481 च क्रमपाचितम् ॥९॥
संभाव्य खदिरक्वाथे मञ्जिष्ठादिगणेऽपि वा।
भृङ्गकेण वटी बद्धा कुष्ठाद्युदरनाशिनी482 ॥१०॥
ताम्रेन्द्रो नाम विख्यातः कफवातहरः स्मृतः।
एवं रसौ प्रकर्तव्यौ बङ्गेन्द्रलोहसुन्दरौ ॥११॥
रसोपरसलोहानि धान्याभ्रादिविशेषतः। .
गन्धत्रययुतं सूतं मारयेत्पुटयोगतः ॥ १२ ॥
पचेत्तं चक्रयन्त्रे च गन्धकेन समन्वितम् ।
विषं कलांशकं दत्त्वा दीपनौषधिभावितम् ॥ १३॥
पित्तैश्वोपविषैर्भाव्यं वटी माषप्रमाणिका ।
ख्यातो483 रसेश्वरः सूतः सन्निपातविनाशनः ॥ १४ ॥
भिषग्भिश्च प्रदातव्यं शीतस्त्रानं च रोगिणे ।
अगदः सर्पदष्टस्य मृतसंजीवनः परः ॥१५॥
क्रामणेन समायुक्तः सर्वव्याधिविनाशनः ।
नागवङ्गविषैर्युक्तं विना व्याधिंन सेवयेत् ।
(सर्वव्याधिहरो नाम पुरा रुद्रेण भाषितः484 ॥ १६ ॥)
इति श्रीमद्गोविन्दाचार्यविरचिते रससारे रसायनकथनं485 नाम चतुर्विंशतितमः पटलः ॥२४॥
अथ पञ्चविंशतितमः पटलः।
अतोऽहं486 संप्रवक्ष्यामि धातूना487ं मारणं परम् ।
मारणं सर्वसत्त्वानां शत्रुमित्रत्वकारकम् ॥ १ ॥
गन्धकेन समायुक्तं सूतं चक्रेण मारयेत् ॥
खिरत्वे च समापन्ने सर्वकर्मसु योजयेत् ॥२॥
पलाशक्षारभागैकमाटरूषसमन्वितम् ।
संस्थाप्य खर्परे नागं पादांशक्षारयोजितम् ॥ ३॥
आटरूपकदण्डेन चालयेच्च पुनः पुनः।
दिनत्रयं प्रकर्तव्यं नागभस्म सुशोभनम् ॥ ४ ॥
स्वाङ्गशीतं तदुत्तार्य जलेन क्षालयेत्ततः।
शिलासत्त्वं च पादांशं दत्त्वा खल्वे विमर्दयेत् ॥ ५॥
कुमार्या भावितं शुष्कं त्रिंशल्लघुपुटैः488 पचेत् ।
नागस्य मारणं श्रेष्ठं सर्वकर्मसु योजयेत् ॥ ६॥
चिश्चाश्वत्थत्वचाक्षारं वङ्गात्पादांशयोजितम् ।
चिञ्चादण्डेन संचाल्य वङ्गभस्म प्रजायते ॥७॥
पादांशं तालकं सत्त्वं मृतवङ्गे नियोजयेत् ।
मूत्राम्लस्वर्जिकैर्भाव्यं विंशल्लघुपुटैः पचेत् ॥ ८ ॥
नागवङ्गस चूर्णं489 तु पुटैर्द्वादशभिर्भवेत् ।
हेमतारं प्रयुञ्जीत रसो व्याधिविनाशकः ॥९॥
माक्षिकं गन्धसंयुक्तमम्लेन सह मर्दयेत् ।
लेपयेत्तारपत्राणि शोषयित्वा तु संपुटे ॥१०॥
पुटं चोत्पलकैर्दद्यात्तारभस्म प्रजायते ।
माक्षिकस्य रसं490 सत्त्वं पादांशसमगन्धकम् ॥ ११ ॥
मृततारयुतं पक्वंपुटैर्भस्मवरं भवेत् ।
हिङ्गुलं गन्धकं सूतं नवसारं मनःशिला ॥ १२ ॥
अम्लेन मर्दयेत्सर्वं हेमपत्राणि लेपयेत् ।
छाणकैश्च पुटो देयो हेमभस्म प्रजायते ॥ १३ ॥
मृतस्वर्णस्य भागैकं भागैकं नागभस्मनः।
अष्टांशं तारभस्मापि मीनाक्षीरसभावितम् ॥ १४ ॥
पचेद्गजपुटैश्चूर्णं हेमभस्म प्रजायते ।
गन्धकं रससंयुक्तमर्कक्षीरेण भावयेत् ॥ १५॥
लेपयेच्छुल्वपत्राणि पुटैर्भस्म प्रजायते ।
एवं च पुटयेद्ब्राह्मीं491रसगन्धेन मारेयत् ॥ १६ ॥
तीक्ष्णं वा कान्तलोहं वा सूक्ष्मं कृत्वा विचक्षणः ।
पादांशगन्धसंयुक्तं492 त्रिफलाक्वाथभावितम् ॥ १७ ॥
पुटानि लघु दीयन्ते सप्तवारं पुनः पुनः ।
जायते मृतलोहं च पुटैदशभिर्द्दढैः॥१८॥
गन्धकं तालसंयुक्तमकर्क्षीरेण भावयेत् ।
लेपयेत्कांस्यपत्राणि पुटैर्भस्म प्रजायते ॥ १९ ॥
सर्वसत्त्वसमं सूतं गन्धकेन समन्वितम् ।
मारयेच्चक्रयन्त्रेण धातुमारे नियोजयेत् ॥ २० ॥
त्रिगन्धरविदुग्धेन493 व्योमसत्त्वस्य मारणम् ।
मृतनागं मृतं वङ्गमष्टांशं मृतसूतकम् ॥ २१ ॥
अहिमारेण संभाव्य दृढैर्गजपुटैः पचेत् ।
मृतवङ्गंतथा नागमष्टांशं मृतसूतकम् ॥ २२ ॥
मुनिपुष्परसेनैव भाव्यं गजपुटैः पचेत् ।
मृततारं दशांशेन शुल्बमष्टांशसूतकम् ॥ २३ ॥
व्याघ्रीचित्रेण संभाव्य तारभस्म पुटैर्वरम् ।
मृतशुल्बंमृता ब्राह्मी रुद्रांशाऽष्टांशकं रसम् ॥ २४ ॥
मारणौषधिभिर्भाव्यं सगन्धं पुटयेत्पुटैः।
मृतलोहसमं वङ्गं494पुटैर्द्वादशभिःपचेत् ॥ २५॥
सर्वेषु धातुमारेषु गन्धो योज्यः पुटे पुटे ।
धातुमारस्तदा शुद्धो निर्मलो दृश्यते यदा ॥२६॥
रसस्य रञ्जने योज्यो बीजानां वपने शुभः।
हेमाम्नं वाहयेच्चूर्णंधातुमारस्यषड्गुणम् ॥ २७ ॥
मृतधातुं नियुञ्जीत रसायनविधौसदा॥
माक्षिकेण हतो धातुस्तारवापाद्दलं शुभम् ॥ २८ ॥
इति श्रीमद्गोविन्दाचार्यविरचिते रससारे धातुमारणप्रयोगाधिकारो नाम पञ्चविंशतितमः पटलः ॥ २५ ॥
____________
अथ षड्विंशतितमः पटलः ।
अथातः495 संप्रवक्ष्यामि देहक्रामणमुत्तमम् ।
रसेन्द्रं सेवयेत्प्रातर्घृतेन मधुना सह ॥१॥
अप्रवासी वसेद्गेहे शीतातपविवर्जितः।
प्रावृट्काले496 हितं पथ्यं सस्नेहं मारुतापहम् ॥२॥
हेमन्ते सर्पिषा युक्तमातपे शीतलं च यत् ।
पानानि च विचित्राणि शीतानि मधुराणि च ॥३॥
शर्करां दाडिमं द्राक्षां नारङ्गमिक्षुमुत्तमम् ।
षष्टिकानां पिबेत्तोयं497 सुशीतं शर्करायुतम् ॥ ४ ॥
पायसं मधुसर्पिश्च भुञ्जीत शालिषष्टिकम् ।
लघ्वाशी मधुराहारो जितात्मा च विमत्सरः ॥ ५॥
देवध्यानरतो नित्यं सदानन्दपदस्थितः॥
सहायैःशोभनैर्युक्तो रसराजं तु सेवयेत् ॥६॥
कटुतिक्तकषायाम्लक्षारतैलादिसेवनम् ॥
व्रतोपवासकृच्छ्राणिवर्जयेद्रससेवने ॥७॥
चन्दनोद्वर्तनं कार्यमुष्णकाले च साधकैः।
वर्षाकाले प्रकर्तव्यं सुगन्धतैलमर्दनम् ॥ ८॥
नृत्यवाद्यकथागीतैर्दिनं कौतूहलैर्नयेत् ।
इत्थं क्रामति सूतेन्द्रो महासिद्धिप्रदो भवेत् ॥९॥
यदि न क्रमते सूतस्तदा कुर्याच्च शोधनम् ।
अनेकमाससंसर्गः498 कर्तव्यः साधकेन तु ॥ १०॥
यच्च499यच्च वरं स्त्रीणां साधनं तच्च कारयेत् ।
योगैर्नानाविधैर्दिव्यैर्वशीकृत्वा तु कामयेत् ॥ ११ ॥
क्रीडमानस्य वीरस्य दिव्याभिस्तु कदाचन ।
यदि गर्भस्य संभूतिस्तदा तन्मृतिरेव च ॥ १२ ॥
दिव्यां स्त्रियमदिव्यां च वन्ध्यां कृत्वा तु कामयेत् ।
सिद्धेश्च स्वकुले कार्या समयेष्वप्रसूतिका ॥१३॥
अन्यथा सिद्धिहानिः स्याद्वञ्चयन्ति हि साधकम् ।
शतवेधी च यः सूतः सेवयेद्रक्तिकाद्वयम् ॥ १४॥
संवत्सरप्रयोगेण ततः सिद्धो भवेन्नरः।
सहस्रवेधी यः सुतस्तद्रक्तींभक्षयेन्नरः ॥१५॥
एकद्वित्रिचतुर्वर्षैर्महासिद्धिमवाप्नुयात् ।
रक्तयर्धंदशसाहस्रे तदर्धं लक्षवेधके ॥ १६ ॥
तस्यार्धंदशलक्षे तु तदर्धंकोटिवेधके ।
अतः परं प्रयोक्तव्या राजिकैक500ासुशोभना ॥ १७ ॥
सप्तमात्रा मया ख्याताः साधकानां हिताय वै ।
एवं यः साधयेत् सूतं सिद्धं देहमवाप्नुयात् ॥ १८॥
तन्मूत्रखेदनिष्ठीवपुरीषैर्लेपयेच्च यत् ।
तल्लोहं हेमतामेति नात्र कार्या विचारणा ॥१९॥
अमरप्रक्लो वीरः शस्त्राद्यैर्नैवबाध्यते501।
न विघ्नैः परिभूयेत अभिचारादिकर्मभिः ॥२०॥
कामभोगरतश्चैव कालादपि न बिभ्यति ।
दिव्यकल्पाननेकांश्चशिवलोके महीयते ॥ २१॥
पुत्रमित्रकलत्रैश्च बान्धवैः सह संयुतः।
सशिष्यः सिद्धिमाप्नोति शिवलोके महीयते ॥२२॥
अनेनैव शरीरेण ये च सिद्धिमुपागताः।
ते वन्द्या रससिद्धाश्च सर्वदेवैः प्रपूजिताः ॥ २३ ॥
खन्यवादे महाक्लेशः क्षेत्रवादे तथैव च ।
मन्त्रे च बहुविघ्नानि रससिद्धिस्तु शोभना ॥ २४ ॥
महाक्लेशं प्रकुर्वन्ति मूढा द्रव्यस्य हेतवे ।
रसेन्द्रं नैव जानन्ति मृत्युदारिद्यनाशनम् ॥ २५ ॥
बीजात् प्ररोहो भवति फलं पुष्पं च दृश्यते ।
स्त्रीपुंसोर्गर्भसंभूती रससिद्धिर्न संशयः ॥ २६ ॥
बालत्वेच महादुःखं कौमारे च तथैव च ।
तारुण्ये च महादुःखं वृद्धो मृत्युवशंगतः ॥ २७ ॥
असारोऽयं च संसारो महादुःखकरो नृणाम् ।
एतज्ज्ञात्वा502 प्रकर्तव्यं रसराजस्य सेवनम् ॥ २८ ॥
येन सेवितमात्रेण अमरैः सह मोदते।
एतच्छास्त्रं मया ख्यातं संक्षेपाच्च503 सविस्तरम् ॥ २९ ॥
सर्वकामप्रदं चैव लोहदेहस्य साधनम् ।
मोढज्ञातिसमुत्पन्न आचार्यसहदेवकः ॥३०॥
सर्वशास्त्रप्रवीणोऽसौ मन्त्रसिद्धो द्विजोत्तमः ॥
तदुत्पन्नस्तु यः सूनुः सुरादित्यः कृती भुवि ॥३१॥
तत्संभवः सुतः ख्यातो गोविन्दः शिववन्दकः।
शिष्यः श्रीधीरदेवस्य रसकर्मसु कोविदः ॥ ३२ ॥
अनुभूयेदमखिलं शास्त्रं तेन विनिर्मितम् ।
कृपया धातुवादीनां दीनत्वस्यविनाशनम् ॥ ३३ ॥
अन्तर्वेदीसमुत्पन्नो ज्ञात्या सारस्वतो द्विजः।
अभयपालपुत्रोऽसौ धीरदेवो504 हि वादिराट्॥ ३४॥
जारणान्तमिदं कर्म प्रोक्तं श्रेष्ठं च यत्स्फुटम् ।
अनुभूतं च यत्सर्वं धीरदेवप्रसादतः॥३५॥
निर्मथ्य सर्वशास्त्राणि अनुभूय पुनः पुनः।
बौद्धं मतं तथा ज्ञात्वा रससारः कृतो मया ॥३६ ॥
अनेककर्मसंयुक्तो नानामतविभूषितः॥
क्रियया पूरितः सर्वो रससारः सुदुर्लभः ॥ ३७॥
किमन्यैर्बहुभिः शास्त्रैर्बहुभिश्च रसायनैः।
रससारं च यो वेत्ति वादिराजः स उच्यते ॥ ३८ ॥
यः कोऽपि साधयेद्धीरः क्रममेकं505 सुशोभनम् ।
कुर्यात्सकनकां पृथ्वीं सशैलवनकाननाम् ॥ ३९ ॥
इदं च परमं गुह्यं रक्षणीयं प्रयत्नतः।
कुशिष्येभ्योऽन्यशिष्येभ्यो न देयं यस्य कस्य चित्॥४०॥
व्यसनोपहतायैव त्वरितं फलकाङ्क्षिणे ।
भगवन्निन्दकानां च गोपनीयं प्रयत्नतः ॥४१॥
देवद्विजार्चने नित्यं गुरौ भक्तो दृढव्रतः।
तस्मैशिष्याय दातव्यं पूर्वमेतच्छिवोऽब्रवीत् ।
सुभक्ताय सुशिष्याय विद्यादानं च कारयेत् ॥ ४२॥
पातु नो रसराजेन्द्र सिद्धिं यच्छतु साधके ।
शिवप्रसादान्निर्विघ्नं रससारः कृतो मया ॥ ४३ ॥
प्रसीदतु रसेन्द्रोऽसौ शिवः सिद्धिं प्रयच्छतु ।
यत्प्रसादान्मयाऽपूर्वंरससारः कृतः शुभः॥४४॥
एकधा दशधा चैव शतधा तु सहस्रधा।
मत्प्रणीतेषु योगेषु सिद्धिर्ज्ञेया विचक्षणैः॥ ४५ ॥
यदुक्तं सर्वशास्त्रेषु तदिहास्त्वखिलं स्फुटम् ।
यदिहास्ति तदन्यत्र नैवास्ति रसकर्मणि ॥ ४६॥
इति श्रीमद्गोविन्दाचार्यविरचिते रससारे महारससेवाधिकारो नाम षड्विंशतितमः पटलः ॥ २६ ॥
समाप्तोऽयं रससारः।
________________
रससारान्तर्गतविषयानुक्रमणिका ।
<MISSING_FIG href="../../../books_images/1674126222.jpg"/>
[TABLE]
[TABLE]
[TABLE]
रससारपाठसंशोधनम् ।
<MISSING_FIG href="../../../books_images/1674130908.jpg"/>
[TABLE]
१ एवमन्यत्रापि यत्र ‘औषधि’शब्द उपलभ्येत तत्र ‘ओषधि’ शब्द एव पठनीयः।
[TABLE]
अपपाठः सुपाठः
[TABLE]
[TABLE]
आयुर्वेदीयग्रन्थमाला
सप्तमं पुष्पम् ।
**वैद्यवरकायस्थचामुण्डविरचिता **
रससङ्केतकलिका ।
आचार्योपाह्णेन त्रिविक्रमात्मजेन यादवशर्मणा
संशोधिता प्रकाशिता च।
ĀYURVEDĪYA-GRANTHAMĀLĀ.
No.7.
RASASANKET-KALIKĀ.
BY
KĀYASTH CHĀMUNDA.
____________
EDITED AND PUBLISHED
BY
VAIDYA JĀDAVJĪ TRICUMJĪ ĀCHĀRYA,
372, BORĀBAZĀR STREET, FORT, BOMBAY.
1912
मूल्यं ३ आणकाः। Price 3 annas.
Printed by B. R. Ghanekar, at the Nīrnaya-sagar Press,
23 Kolbhat Lane, Bombay and Published by Vaidya
Jādavjī TricumjīĀchārya, 372, BorāBazār
Street, Fort, Bombay.
भूमिका।
रससङ्केतकलिका नामायं ग्रन्थो नैगम (निगम) कायस्थजातीयवैद्यवरश्रीचामुण्डविरचितः। स चायं चामुण्डः कस्मिन् समये कतमे वा जनपदे समजनीति निर्णेतुं न किञ्चिदपि साधनमुपलभ्यते। ग्रन्थश्वायंलघुरपि अतिसरलत्वात् विशदार्थत्वात् दृष्टप्रत्ययाल्पप्रयत्नसाध्यप्रयोगवत्त्वाच्च रसचिकित्साग्रन्थेषु मूर्धन्यः । पुत्रप्रदरसप्रभृतयः केचन अपूर्वप्रयोगा अप्यत्रोपलभ्यन्ते। ग्रन्थस्यास्य मुद्रापणार्थमादर्शपुस्तकद्वयमुपलब्धम्। एकं मण्डीराजधानीनिवासिनां राजवैद्यानां पं. श्रीविद्यासागरशर्मणां, अपरं च पुण्यपत्तनस्थडेक्कनकॉलेजपुस्तकालयात् प्राप्तम् । एतत्पुस्कद्वयसहायेन ग्रन्थसंशोधने यथामति कृतो यन्त्रः, तथापि भ्रमप्रमादादिवशाज्जातं स्खलनं क्वाप्युपलभ्येत चेद्गुणैकपक्षपातिभिःसुधीभिःसंशोधनीयमित्यभ्यर्थयते—
भिषजामनुग्राह्यो
यादवशर्मा.
श्रावणशुक्ल ११ स. १९६८,
नं. ३७२ बोराबझारस्ट्रीट,
- कोट मुंबई .
आयुर्वेदीयग्रन्थमाला।
कायस्थचामुण्डविरचिता
रससङ्केतकलिका।
<MISSING_FIG href="../../../books_images/1674213412.jpg"/>
अथ प्रथमोल्लासः।
शिवं नत्वा रसेशं चामुण्डः कायस्थवंशभूः।
करोति रससङ्केतकलिकामिष्टसिद्धिदाम् ॥१॥
पारदोत्पत्तिः।
स्कन्दात्तारकहिंसार्थंकैलासे विधृतं सुरैः।
रते शम्भोश्च्युतं रेतो गृहीतमग्निना मुखे ॥२॥
क्षिप्तं तेन चतुर्दिक्षु क्षाराब्धौ506 तत्पृथक्पृथक् ।
सौम्यादिदिक्त्रयस्थं यद्गौरीशापान्न कार्यकृत् ॥ ३॥
पश्चिमायां विमुक्तं तत् सूतोऽभूत् सर्वकार्यकृत् ।
रसभेदाः।
श्वेतारुणहरिद्राभकृष्णा विप्रादिपारदाः॥४॥
देहे लोहे गदे पिष्ट्यां योज्या वा स्वस्वजातिषु ।
रसदोषाः।
तेषु नैसर्गिका दोषाः पञ्च, सप्ताथ कञ्चुकाः ॥५॥
मलाद्याः507 पञ्च दोषाः स्युर्भूजाद्याः सप्त कञ्चुकाः।
कुष्ठादीन्508 हि प्रकुर्वन्ति रसस्था द्वादशैव ते ॥६॥
रससंस्काराः ।
तेनाष्टादश संस्कारा उक्ता ज्ञैर्दोषमुक्तये ।
कर्तुं ते दुष्करा यस्मात् प्रोच्यन्ते सुकरा रसे ॥७॥
पलादारभ्य पञ्चाशत्पलं यावच्च पारदः।
तत ऊनोऽधिको वाऽपि न संस्कार्योरसो बुधैः॥८॥
मर्दनम् ।
वस्त्रे चतुर्गुणे पूतः सूतः स्थाप्यः शुभेऽहनि ।
लोहार्काश्मादिखल्वे तु तप्तेष्वेव तु मर्दयेत् ॥ ९॥
निशेष्टिकासूरीधूमव्योषाम्ललवणैः पृथक् ।
कलांशैर्मर्दितः सूतो भवेच्छुद्धो दिनैकतः ॥१०॥
पातनम् ।
त्रिधोर्ध्वपातनात् पात्यः पादांशार्कयुतः शुचिः।
हिङ्गलादुद्धृतः सूतो भवेद्वा दोषवर्जितः ॥११॥
गन्धकजारणम् ।
गुरुशास्त्रे परित्यज्य विना जारितगन्धकात् ।
रसं निर्माति दुर्मेधाः शपेत्तं च रसेश्वरः ॥ १२॥
सूतं गन्धं रसैकांशं स्तोकं स्तोकं तु खल्वगम् ।
कुट्टनात् कुट्टनात् पिण्डं भवेद्वा ताम्रपात्रगम् ॥ १३ ॥
तत्तुल्यं गन्धकं दत्त्वा रुद्ध्वातं लोहसंपुटे ।
पुटेद्भूधरयन्त्रे च यावज्जीर्यति गन्धकम् ॥ १४ ॥
एवं पुनः पुनर्देयं षड्गुणं गन्धचूर्णकम् ।
पड्गुणे गन्धके जीर्णे रसो निखिलरोगहा ॥ १५ ॥
रसबन्धभेदाः।
पाटः खोटो जलौका च भस्माख्यश्च चतुर्थकः ।
बन्धश्चतुर्विधः सूते विज्ञेयो भिषगुत्तमैः॥ १६ ॥
पाटः पर्पटिकाबन्धः पिष्टीबन्धस्तु खोटकः ।
जलौका पक्वबन्धः स्याद्भस्म भस्मनिभोभवेत् ॥ १७ ॥
रसभस्मभेदाः।
सूतभस्म द्विधा ज्ञेयमूर्ध्वगं तलभस्म च ।
ऊर्ध्वभस्मविधिः।
ऊर्ध्वभस्मकरं यन्त्रं स्थालिकासंपुटं शृणु ॥ १८ ॥
कार्यंस्थालीद्वयं मध्ये सर्वतः षोडशाङ्गुलम् ।
लवणेनेषदार्द्रेणाऽऽपूर्य स्थालीमधोगताम् ॥ १९ ॥
सन्धिं वस्त्रमृदा लिम्पेत् संपुटीकृत्य चान्यया।
त्रिद्वारचुल्लके स्थाप्य चतुर्यामं दृढाग्निना ॥२०॥
पचेत्तत्स्वाङ्गशीतं चेदुद्धृत्य लवणं त्यजेत् ।
लावणीमूर्ध्वगां कृत्वा क्षेप्योऽन्यस्यां रसेश्वरः॥२१॥
पूर्ववत्संपुटीकृत्य पश्चात्तु चुल्लके न्यसेत् ।
दृढं कृत्वाऽऽलवालं तु जलं तत्र विनिक्षिपेत् ॥ २२ ॥
उष्णं पुनः पुनस्त्यक्त्वा क्षिपेच्छीतं मुहुर्मुहुः ।
त्रिद्वारे काष्ठमेकैकं दीर्घं हस्तमितं क्षिपेत् ॥ २३ ॥
हस्त्रवत्पिण्डमानं तु ह्यादौ प्रज्वालयेत्सुधीः ।
द्वे द्वे काष्ठे च तस्योर्ध्वेतदूर्ध्वंत्रितयं क्षिपेत् ॥ २४ ॥
यावद्यामद्वयं पश्चादङ्गारांश्च जलं त्यजेत् ।
ऊर्ध्वस्थाल्यां तु यल्लग्नं तदूर्ध्वंभस्म सिद्धिदम् ॥ २५ ॥
तलभस्मविधानम् ।
गन्धकं धूमसारं च शुद्धसूतंसमं त्रयम् ।
यामैकं चूर्णयेत् खल्वे काचकूप्यां विनिक्षिपेत् ॥ २६ ॥
रुद्धा द्वादशयामं तद्वालुकायन्त्रगं पचेत् ।
स्फोटयेत्स्वाङ्गशीतं च तदूर्ध्वं गन्धकं त्यजेत् ॥ २७॥
तले भस्मनिमं योगवाहि स्यात् सर्वरोगहृत् ।
वर्णभेदेन रसभस्मभेदाः।
औषधान्तरसंयोगाद्वक्ष्ये वर्णविपर्ययम् ॥ २८ ॥
रक्तं पीतं तथा कृष्णं नीलं च पाण्डुरारुणम् ।
रक्तभस्म।
निर्गुण्डीरससंयुक्तं चपलेन समन्वितम् ॥ २९॥
रक्तवर्णं भवेद्भस्म दाडिमीकुसुमोपमम् ।
पीतभस्म।
भूधात्रीहस्तिशुण्डीभ्यां रसं गन्धं च मर्दयेत् ॥ ३०॥
काचकूप्यां चतुर्यामं पक्वःपीतो भवेद्रसः।
कृष्णभस्म ।
सूतं गन्धकसंयुक्तं कुमारीरसमर्दितम् ॥ ३१ ॥
कृष्णवर्णं भवेद्भस्म देवानामपि दुर्लभम् ।
नीलभस्म।
वाराहीकन्दसंयुक्तं रसकेन समन्वितम् ॥ ३२॥
श्यामवर्णं भवेद्भस्म वलीपलितनाशनम् ।
पाटलभस्म।
लवणान्तर्विलिप्तायां कूप्यां स्यात्पाण्डुरारुणम् ॥ ३३ ॥
प्रकारान्तरेण रसभारणम् ।
सामुद्राद्येकलवणं सूतं विंशैकभागिकम् ।
काञ्जिके मर्दयित्वाऽग्नौपुटनाद्भस्मतां व्रजेत् ॥ ३४ ॥
उद्धृत्याऽन्यरसं क्षिप्त्वायथेच्छं मारयेद्रसम् ।
एवं ताम्राहिवङ्गाभ्रंमारितं स्याद्गुणप्रदम् ॥ ३५॥
तदम्बुपूरिते पात्रे स्थाप्यं यामाष्टकं शनैः।
त्यक्त्वा तोयं रसो ग्राह्यो पात्रस्थो भस्मसूतकः ॥ ३६॥
द्रोणपुष्प्या प्रसूनानि विडङ्गमरिमेदकः॥
चूर्णमेषामधश्चोर्ध्वं दत्त्वा मुद्रां प्रकल्पयेत् ॥ ३७॥
विधाय गोलकं सम्यङ्मृण्मृषासंपुटे क्षिपेत् ।
शोषयन्मुद्रितं कृत्वा पचेद्गजपुटे ततः॥ ३८ ॥
पारदो भस्मतामित्थं पुटेनैकेन गच्छति ।
स्वाङ्गशीतं समुद्धृत्य सर्वकर्मसु योजयेत् ॥ ३९ ॥
ग्रोत्तानखर्परे चुल्ल्यां फटकीलेपिते क्षिपेत् ।
पुनर्नवारसे पक्वोमर्दनान्म्रियते रसः॥ ४०॥
मृतरसपरीक्षा।
अतेजा अगुरुः शुभ्रो लोहहा चाऽचलो रसः।
यदा नावर्तते वह्नौनोर्ध्वंगच्छेत्तदा मृतः ॥४१॥
रसगुणाः।
पारदः सर्वरोगघ्नौयोगवाही सरो गुरुः ।
पाण्डुताकृमिकुष्ठघ्नो वृष्यो बल्यो रसायनः ॥ ४२ ॥
जीर्णानां रसादीनामधिकगुणवत्त्वम् ।
सूतो धातुरसाः सर्वे जीर्णा जीर्णा गुणाधिकाः ।
रसस्थापनयोग्यपात्राणि ।
दन्ते शृङ्गे मणौ वेणौ रक्षयेत्साधितं रसम् ॥ ४३ ॥
**गुटिकादिषु पित्तविषयोर्मानपरिभाषा। **
पित्तानि षोडशांशेन विषाणामपि रक्तिका ।
गुटीरसेष्वनुक्तोऽपि ज्ञेयो विधिरयं स्वयम् ॥ ४४ ॥
रससेवनविधिः।
सर्वरोगविनाशार्थं देहदार्ढ्यस्य हेतवे ।
शुद्धकायश्च पथ्याशी सेवेत पूज्यपूजनात् ॥ ४५ ॥
रसमात्रा।
चल्लमेकं नरेऽश्वे तु गद्याणंच गजे द्वयम् ।
दत्तः सूतो हरेद्रोगान् धातुयुग्वा निजौषधात् ॥ ४६॥
रसविकृतिलक्षणानि ।
रसस्य विकृतौ सत्यां मूर्च्छाहिक्काज्वरोऽरतिः।
कासः श्वासो भ्रमो मोहो दाहः कम्पश्च जायते ॥४७॥
रसविकृतिचिकित्सा।
तच्छान्त्यैबीजपूरस्य रसं सशुण्ठीसैन्धवम् ।
पिबेद्वा गोजले सिद्धं मूलं कर्कोटजं शुभम् ॥४८॥
**रसपूजाफलम् । **
यत्रागारे रसाधीशः पूज्यते बहुभक्तितः।
तदपत्यधनैः पूर्णमाधिव्याधिविवर्जितम् ॥ ४९ ॥
इति श्रीनैगमज्ञातीयकायस्थचामुण्डकृतायां रससङ्केतकलिकायां प्रथमोल्लासः॥१॥
_____________
अथ द्वितीयोल्लासः।
धातुनिरूपणम् ।
हेमरूप्यार्कवङ्गाहिलोहैर्लोहाः षडीरिताः ।
अकृत्रिमा इमे घोषावर्तकाद्यास्तु कृत्रिमाः॥१॥
शुद्धा मृता निरुत्थाश्च योजिताः सर्वरोगहाः।
अशुद्धान् हीनपाकांश्च रोगमृत्युप्रदांस्त्यजेत् ॥ २॥
रसव्यतिरेकेण धातुमारणनिषेधः।
लोहं सूतयुतं दोषांस्त्यजेत्सूतश्चलोहयुक् ।
अतः स्वर्णादिलोहानि विना सूतं न मारयेत् ॥ ३॥
सुवर्णभेदाः।
स्वर्णं पञ्चविधं प्रोक्तं प्राकृतं सहजाग्निजम् ।
एतत्स्वर्णत्रयं देवयोग्यं षोडशवर्णकम् ॥ ४॥
खनिजं रसवादोत्थंसुपत्रीकृत्य शोधितम् ।
तच्चतुर्दशवर्णाढ्यंमनुजार्हंरुजापहम् ॥ ५॥
सुवर्णशोधनम् ।
सुवर्णंसप्तशो ढाल्यं काञ्चनाररसे शुचि ।
सुवर्णमारणम् ।
सुवर्णेगलिते नागं प्रक्षिपेच्छोडशांशकम् ॥६॥
अम्लेन मर्दयित्वा तु कृत्वा तस्य च गोलकम् ।
गन्धकं गोलकसमं विनिक्षिप्याधरोत्तरम् ॥ ७॥
शरावसंपुटे कृत्वा सन्निरुध्य प्रतापयेत् ।
त्रिंशद्वनोत्पलैरग्नौ सप्तैवं भस्मतां व्रजेत् ॥ ८॥
सुवर्णगुणाः ।
तिक्तं कषायं ज्वरहृत्स्वादुपाकं बलावहम् ।
वयोधीकान्तिदं वृष्यं शोषालक्ष्मीविषापहम् ॥९॥
रूप्यभेदाः।
कैलासे सहजं रूप्यं खनिजं कृत्रिमं भुवि ।
व्युत्क्रमेण गुणैः श्रेष्ठं नागोत्तीर्णंरमे हितम् ॥ १० ॥
रूप्यशोधनम्।
श्वेतागस्तिरसे रूप्यं स्वर्णवच्छुचि
रूप्यमारणम् ।
मारणम् ।
गन्धकाम्लकसंयोगान्नागं हित्वा क्षिपेत्त्रषु ॥११॥
रूप्यगुणाः।
वयःशुक्रबलोत्साहकरं सर्वामयापहम् ।
मृतस्वर्णादिपरीक्षा।
पृथग्भस्माम्ललिप्तोऽसिस्ताम्रवर्णस्तदा मृतिः ॥ १२ ॥
सुवर्णरूप्यामावे कान्तलोहोपयोगः ।
सुवर्णमथवा रूप्यं योगे यत्र न विद्यते ।
तत्र कान्तोद्भवं लोहं क्षेप्यं ज्ञैस्तत्समं गुणैः ॥ १३ ॥
ताम्रभेदाः।
व्द्यर्कौ नेपालम्लेच्छौ तु रसे नेपाल उत्तमः ।
घनघातसहः स्निग्धो रक्तपत्रोऽमलो मृदुः ॥ १४ ॥
म्लेच्छस्तु क्षालितः कृष्णो रूक्षस्तब्धोऽधनासहः।
मिश्रितो नागलोहाभ्यां न श्रेष्ठो रसकर्मणि ॥१५॥
ताम्रदोषाः।
ताम्रंतु विषवज्ज्ञेयं यत्नतः साध्यते हि तत् ।
एको दोषो विषे सम्यक्ताम्रेतेऽष्टौ प्रकीर्तिताः ॥ १६ ॥
कुष्ठं रेको वमिर्भ्रान्तिस्तापो वातश्च कामला।
देहस्य नाशनं दोषा इत्यष्टौ कथिता बुधैः ॥१७॥
ताम्रशोधनम् ।
गवां चाम्लैः पचेच्चाहस्ताम्रपत्रं दृढाग्निना।
वारिणा क्षालयेत्पश्चादेकविंशतिधा शुचि ॥ १८॥
ताम्रमारणम् ।
पारदं गन्धकं ताम्रंसममम्लेन लेपयेत् ।
जायते त्रिपुटाद्भस्म वालुकायन्त्रतोऽथवा ॥ १९ ॥
गन्धकार्कौव्द्येकभागौ शरावसंपुटे पुटेत् ।
स्वाङ्गशीतं च संपेष्य खल्वे वस्त्रेण गालयेत् ॥ २० ॥
सामुद्रं तत्समं कृत्वा पुनः पुटनमाचरेत् ।
तदेव तत्क्षये देयं सामुद्रं च पुनः पुनः ॥ २१ ॥
कासीसस्य जलेनैव वारं वारं तु भावयेत् ।
चतुःषष्टिपुटैरित्थं निरुत्थं योगवाहिकम् ॥ २२ ॥
तत्ताभ्रंसूरणे कन्दे पुटेत्पञ्चामृतेऽथवा ।
अष्टौ दोषांश्च पूर्वोक्तान् न करोति गुणावहम् ॥ २३ ॥
ज्वरं गुल्मं क्षयं कासमजीर्णं कफपाण्डुरुक् ।
शूलस्थौल्योदरहरमूर्ध्वाधःशोधनं परम् ॥ २४ ॥
वङ्गभेदाः।
खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते ।
खुरकं तु मुणैः श्रेष्ठं मिश्रकं न रसे हितम् ॥ २५ ॥
वङ्गनागशोधनम् ।
कन्याभृङ्गरसे वङ्गनागौ शोध्यौ त्रिसप्तधा।
अथवा ब्रह्मवृक्षोत्थे क्वाथेनिर्गुण्डिजेऽथवा ॥ २६ ॥
वङ्गमारणम् ।
मृद्भाजने द्रुते वङ्गे चिञ्चाश्वत्थत्वचो रजः।
क्षिपेत्तस्य चतुर्थांशं लोहदर्व्याप्रचालयेत् ॥ २७॥
यावद्भस्मत्वमायाति ततः खल्वे सतालकम् ।
ब्रह्मद्रुक्वाथकाम्लेन मर्द्यंगजपुटे पचेत् ॥ २८॥
पुटे पुटे दशांशालं दत्त्वैवं दशधा पुटेत् ।
वङ्गभस्म निरुत्थं तत् पाण्डुमेहगदापहम् ॥ २९ ॥
कारीषसंपुटे वङ्गपत्रं छागशकृद्युतम् ।
म्रियते पुटमात्रेण तन्मेहान् हन्ति विंशतिम् ॥ ३० ॥
नागमारणम् ।
वङ्गवन्नागभस्मापि कृत्वादौ तत्समां शिलाम् ।
क्षिप्त्वातप्तोदकैमर्द्यंदत्त्वा गजपुटं ततः॥३१॥
पष्ट्यंशं गन्धकं दत्त्वा पाच्यं षष्टिपुटावधि ।
नागभस्म निरुत्थं तद्वङ्गभस्मगुणाधिकम् ॥ ३२॥
मृतवङ्गनागगुणाः।
मृतं वङ्गं च नागं च रसभस्मसमं गुणैः।
परस्परमलाभे च योजयेत्तत् परस्परम् ॥ ३३ ॥
लोहभेदाः।
मुण्डं तीक्ष्णं तथा कान्तं भेदास्तस्य त्रयोदश ।
मृदु कुण्ठं च काण्डारं त्रिविधं मुण्डमुच्यते ॥ ३४ ॥
खरसारं च होत्रासं तारावर्तं बिडं तथा ।
काललोहं गजाख्यं च षड्विधंतीक्ष्णमुच्यते ॥ ३५ ॥
पात्रे यस्मिन्प्रसरति जले तैलबिन्दुर्न, लिप्तो
हिङ्गुर्गन्धं विसृजति निजं, तिक्ततां निम्बकल्कः ।
पाके दुग्धं भवति शिखराकारतां नैति भूमौ
कान्तं लोहं तदिदमुदितं लक्षर्णैवचान्यत् ॥ ३६ ॥
कान्तं लोहं चतुर्थोक्तं रोमकं भ्रामकं तथा।
चुम्बकं द्रावकं चेति गुणास्तस्योत्तरोत्तराः॥३७॥
लोहपाकस्त्रिधा प्रोक्तो मृदुर्मध्यः सरस्तथा ।
पङ्कशुष्करसौपूर्वौवालुकासदृशः सरः ॥ ३८ ॥
लोहमारणम् ।
लोहपत्रं गन्धलिप्तंवह्नौ तप्तं पुनः पुनः।
क्षिपेन्मीनाक्षिकानीरे यावत्तत्रैव शीर्यते ॥ ३९॥.
रसहिङ्गुलगन्धेन तुल्यं तन्मर्दयेदृृढम् ।
निर्गुण्डीवृक्षमत्साक्षीरसैर्गजपुटान्मृतिः॥४०॥
लोहचूर्णंवराक्वाथे पिण्डं कृत्वा पुनः पुनः॥
षोडशाङ्गुलमाने हि निर्वातगर्तके पुटेत् ॥ ४१ ॥
चतुःषष्टिपुटैरेवं जायते पद्मरागवत् ।
निरुत्थाम्बुतरं योगवाहि स्यात्सर्वरोगहृत् ॥ ४२ ॥
जम्बूत्वचारसे तिन्दुमार्कण्डफलजेऽथवा ।
त्रिसप्तधाऽऽतपे शोष्यं पेष्यं वारितरं भवेत् ॥ ४३ ॥
चिश्चापत्रनिभंलोहपत्रं दन्तीद्रवे क्षिपेत् ।
धर्मे धृत्वा रसो देयो मृतं यावद्भवेच्च तत् ॥४४॥
मत्स्याक्षीरसमध्यस्थं लोहपत्रं विनिक्षिपेत् ।
त्रिंशद्दिनान्यर्ककरे ततो वारितरं भवेत् ॥४५॥
मृतलोहपरीक्षा।
लोहमध्वाज्यगं तारं ध्मातं चेत्पूर्वमानकम् ।
तदा लोहं निरुत्थं स्यादन्यथा साधयेत्पुनः ॥ ४६ ॥
मृतलोहस्यामृतीकरणम् ।
वराक्वाथेष्टशेषे तु तत्तुल्यं घृतपायसम् ।
सिता लोहमिता ताम्रेपक्त्वा चामृतवद्भवेत् ॥ १७ ॥
लोहगुणाः।
पाण्डुशोफप्लीहगुल्ममेहार्शोग्रहणीज्वरान् ।
हन्ति कामप्रदं लोहं बलपुष्टिविवर्धनम् ॥ ४८ ॥
लोहसेवने अपथ्यानि।
कूष्माण्डं तिलतैलं च माषान्नं राजिकां तथा ।
मद्यमम्लरसं चैव त्यजेल्लोहस्य सेवकः ॥ ४९ ॥
लोहकिट्टम् ।
गोमूत्रे त्रिफलाक्वाथे तप्तं शोध्यं त्रिसप्तधा।
स्वर्णादिसर्वलोहानां किट्टंतत्तद्गुणावहम् ॥ ५० ॥
किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् ।
तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते गुणम् ॥५१॥
खर्परमारणं गुणाश्च ।
लवणान्तर्गतं भाण्डे सत्त्वं खर्परसम्भवम् ।
मुखं रुद्ध्वा विपक्वंतन्म्रियते गजवह्निना ॥५२॥
मृतस्तु रसको रूक्षस्त्रिदोषघ्नो ज्वरापहः।
योगवाह्यतिसारघ्नःक्लेदनो विड्विबन्धकृत् ॥ ५३ ॥
कांस्यपित्तलयोः शोधनं मारणं च।
शोधनं मारणं प्रोक्तं ताम्रवत्कांस्यपित्तले।
धातुभक्षणविकृतिचिकित्सा।
सिता गव्ययुता देया धातुभक्षणवैकृतौ ॥ ५४॥
सुवर्णादीनां शीघ्रमारणप्रकारः।
अथैकं पारदं भागं गन्धकं द्विगुणं ततः।
तयोः समं सुवर्णादि निरुत्थं शीघ्रमारणम् ॥ ५५ ॥
निरुत्थधातुलक्षणम् ।
मध्वाज्यटङ्कणैर्गुञ्जागुडाभ्यां मृतधातवः ।
ध्माता पिण्डीकृता नैव जीवन्ते ते निरुत्थकाः ॥ ५६ ॥
धातूनां निरुत्थकरणम् ।
तुल्यगन्धोत्थितो धातुर्मर्द्यःकन्यारसे दिनम् ।
पक्वोगजपुटादित्त्थं सर्वो याति निरुत्थताम् ॥ ५७ ॥
अभ्रकभेदाः।
पीतं सितासितं रक्तमेकैकं तच्चतुर्विधम् ।
पिनाकं दर्दुरंनागं वज्रंचाग्नौ परीक्षयेत् ॥ ५८॥
न पत्राणि न शब्दांश्च कुर्यात्तद्वज्रसंज्ञकम् ।
त्रीणि ध्मातानि किट्टं हि वज्रीसत्त्वं विमुञ्चति ॥ ५९॥
अभ्रमारणम् ।
तत्सत्त्वं विधिवद्ग्राह्यं शोध्यं मार्यं च लोहवत् ।
सत्त्वाभावे तु निश्चन्द्रं रसेष्विष्टं तदुच्यते ॥ ६ ॥
धान्याभ्रंमेघनादैर्झषनयनजलैर्जम्भलैष्टङ्कणेन
खल्वे संमर्द्यगाढं तदनु गजपुटान् द्वादशैवं प्रदद्यात् ।
मीनाक्षीभृङ्गतोयैस्त्रिफलजलयुतैर्मर्दयेत्सप्तरात्रं
गन्धं तुल्यं च दत्त्वा प्रवरगजपुटात्पञ्चतां याति चाभ्रम् ॥
मृतं निश्चन्द्रतां यातमरुणं चामृतोपमम् ।
सचन्द्रं विषवज्ज्ञेयं मृत्युकृव्द्याघ्ररोमवत् ॥ ६२ ॥
मृताभ्रकस्यामृतीकरणम् ।
वराम्बु गोघृतं चाभ्रंकलाषट्दिक्क्रमांशकम् ।
मृद्बग्निनापचेल्लोहे चामृतीकरणं भवेत् ॥ ६३ ॥
मृताभ्रगुणाः।
वयःस्तम्भकारी जरामृत्युहारी
बलारोग्यधारी महाकुष्ठहारी ।
मृतं त्वभ्रकं सर्वरोगेषु योज्यं
सदा सूतराजस्य वीर्येण तुल्यम् ॥ ६४ ॥
अभ्रसेवने वर्ज्यानि ।
क्षाराम्लं द्विदलं वर्ज्यंकर्कोटं कारवेल्लकम् ।
वृन्ताकं च करीरं च तैलं चाभ्रकसेवने ॥६५॥
इति श्रीकायस्थचामुण्डकृतायां रससङ्केतकलिकायां द्वितीयोल्लासः ॥२॥
अथ तृतीयोल्लासः।
गन्धकादीनां संशोधनप्रकारः।
गन्धं विषादि नेपालं गोदुग्धेऽथ शिलाजतु ।
गोमूत्रेण च तालाद्यंशङ्खाद्यमम्लतः शुचि ॥१॥
विषमारणम् ।
रसेषूक्तं विषं ग्राह्यं तुल्यटङ्कणपेषितम् ।
तन्मृतं योगवाहि स्यात् सूताभ्रायःसमं गुणैः ॥२॥
नीलकण्ठाख्यमन्त्रेण विषं सप्ताभिमन्त्रितम् ॥
औषधे च रसे चैव दातव्यं हितमिच्छता ॥३॥
ॐ ह्रीं प्रों श्रीं ठः श्रीनीलकण्ठाय नमः । इति मन्त्रः॥
विषगुणाः।
नानारसौषधैर्ये तु दुष्टा यान्तीह नो गदाः ।
ते नश्यन्ति विषे दत्ते शीघ्रं वातकफोद्भवाः॥४॥
विषमात्रा।
श्रेष्ठमध्यावरा मात्रा अष्ट षट् च चतुर्यवाः ।
अतिमात्रभुक्तविषप्रतीकारः।
अतिमात्रं यदा भुक्तं तदाऽऽज्यटङ्कणं पिबेत् ॥ ५॥
रजनीं मेघनादं वा सर्पाक्षीं वा घृतान्विताम् ॥
लिहेद्वा मधुसर्पिर्भ्यांचूर्णितामर्जुनत्वचम् ॥ ६॥
विषानर्हाः।
न देयं क्रोधने क्लीवे पित्तार्तेराजयक्ष्मिणि ।
क्षुत्तृष्णाभ्रमघर्माध्वसेविने क्षीणरोगिणे ॥ ७॥
गुर्विणीबालवृद्धेषु न विषं राजमन्दिरे।
विषयोग्याः।
हिताशने घृतक्षीररसायनरते ददेत्॥ ८॥
उपविषानि ।
वज्रार्कहेमहलिव्रीहवारिविषमुष्टिकाः।
एतान्युपविषाण्याहुः शस्तानि रसकर्मणि ॥९॥
अहिफेनोत्पत्तिस्तद्गुणाश्च ।
रत्नाकरे मथ्यमाने वासुकेर्वदनाद्द्रुतः।
फेनौघौव्याकुलत्वाच्च फूत्कारात्पतितः क्षितौ ॥१०॥
तेनाहिफेनं विख्यातं तिक्तं संग्राहि शोषणम् ।
मोहकृच्छ्वासकासघ्नं509 सेवितं त्यक्तुमक्षमम् ॥ ११ ॥
श्लेष्महृद्वातकृद्युक्त्या युक्तं तदमृतं विषम् ।
वीर्यस्तम्भकरं नॄणां स्त्रीणां सौख्यप्रदायकम् ॥१२॥
भृङ्गयुत्पत्तिः।
पुरा देवैश्च दैत्यैश्च मथितो रत्नसागरः।
तस्मादमृतमुत्पन्नं देवैः पीतं न दानवैः॥१३॥
तदा धन्वन्तरिकरादमृतं पतितं भुवि ।
तसिन् सर्पर्लेह्यमाने दर्भैर्जिह्वा द्विधा कृता ॥१४॥
जिहासृग्विषसंभूता सिद्धमूली महौषधी।
सा चतुर्धा सिता रक्ता पीता कृष्णा प्रसूनकैः ॥१५॥
भृङ्गीगुणाः।
आह्लादिनी बुद्धिरूपा योगे मन्त्रे च सिद्धिदा।
सर्वरोगहरी कामजननी क्षुत्प्रबोधिनी ॥ १६॥
इति श्रीकायस्थचामुण्डकृतायां रससङ्केतकलिकायां तृतीयोल्लासः ॥
___________________
अथ चतुर्थोल्लासः।
अथ रसाधिकारः।
कियन्तोऽप्यथ वक्ष्यन्ते रसाः प्रत्ययकारकाः।
शास्त्रं दृष्ट्वा गुरोर्वक्त्रात् संप्रदायादथागताः॥१॥
विषमज्वरे शीतभञ्जीरसः।
पारदं रसकं तालं तुल्यं गन्धकटङ्कणम् ।
सर्वमेतत्समं शुद्ध कारवेल्ल्या रसैर्दिनम् ॥ २॥
मर्दयेत्तेन दिह्याच्च ताम्रपात्रोदरं धनम् ।
अङ्गुलार्घार्धमानेन तत् पचेत्सिकताह्वये ॥३॥
यन्त्रे यावत्स्फुटन्त्येव व्रीहयस्तस्य पृष्ठतः।
ततः सुशीतले ग्राह्यस्ताम्रपात्रोदराद्वुधैः॥४॥
तत्समंमरिचं दत्त्वा सर्वमेकत्र चूर्णयेद ॥
द्विगुञ्जं पर्णखण्डेन वातिके, पैत्तिके ज्वरे ॥५॥
गुञ्जैकं ससितं दद्यात्रिगुञ्जं व्योषयुक्कफे।
सन्निपाते ज्वरे देयो वल्लैकमार्द्रकद्रवैः॥ ६ ॥
त्रिदिनैर्विषमं तीव्रमेकद्वित्रिचतुर्थकम् ।
नाशयेच्छीतभञ्ज्याख्यो रसो रुद्रेण निर्मितः॥७॥
सन्निपातज्वरे चैतन्यभैरवः।
सूतं गन्धं शिलां तालं संमर्द्यनिम्बुजैर्द्रवैः ।
लिप्त्वा तन्वर्कपत्राणि यन्त्रे भस्माभिधे क्षिपेत् ॥८॥
यामाष्टौ ज्वालयेदग्निं स्वाङ्गशीतं समुद्धरेत् ।
विषोषणं चतुर्थांशं दत्वा वल्लमिता गुटी ॥९॥
देवदालीरसैर्बद्धा रसश्चैतन्यभैरवः ।
दत्ताऽऽर्द्रकरसैः सर्वसन्निपातविघातकृत् ॥ १०॥
भूमौ गतं विसंज्ञं च शीतार्तं तन्द्रितं नरम् ।
तत्क्षणाद्बोधयेद्दाहे कुर्याच्छीतोपचारकान् ॥ ११ ॥
वाराहच्छागमात्स्याश्वमायूरं पित्तपञ्चकम् ।
अनेन भावितश्चापि देयश्चैतन्यभैरवः ॥ १२॥
सन्निपातज्वरे लघुसूचिकाभरणो रसः।
विषं रसं कलैकांशं काचलिप्तशरावके ।
रुद्ध्वाचुल्ल्यां मन्दवह्नौपचेद्यामद्वयं ततः ॥ १३॥
स्यंवशीतं च गृह्णीयादुपरिष्टाच्छरावकात् ।
वायुवर्जं क्षिपेत्कूप्यां सनिपातेऽहिदष्टके ॥ १४ ॥
सूच्यग्रेण च दातव्यः क्षणाज्जागर्ति मानवः ।
नो चेत्तालुप्रदेशे च क्षुरक्षुण्णे प्रचारयेत् ॥१५॥
नवज्वरे शीघ्रज्वरारिरसः ।
रसहिङ्गुलनेपाला वृद्ध्या दन्त्यम्बुमर्दिताः।
द्वौ यामौ ज्वरनाशाय गुञ्जैका सितया सह ॥ १६ ॥
चातुर्थकज्वरे चातुर्थकारिरसः।
पुरं टङ्कद्वयं कृष्णधूर्तबीजाष्टवल्लकम् ।
पालिकात्रितयं देयं चातुर्थकज्वरापहम् ॥ १७ ॥
ज्वरागमनवेलायां शीतवारिचतुर्घटैः।
शिरोऽभिषिञ्च्यदातव्यं पथ्ये क्षीरं सशर्करम् ॥ १८॥
सर्वज्वरे अर्धनारीनटेश्वरो रसः ।
निम्बबीजं शिलाऽजाजी धूमं कृष्णा समांशकम् ।
कारवेल्ल्या रसैर्भाव्यमेकविंशतिवारकान् ॥ १९ ॥
यत्पार्श्वतोऽञ्जयेन्नेत्रे ज्वरं तत्पार्श्वजं जयेत् ।
अर्धनारीनटेशाह्वोरसः कौतुककारकः ॥ २० ॥
ज्वरातिसारे हेमसुन्दररसः।
हिङ्गुलं मरिचं गन्धं पिप्पली टङ्कणं विषम् ।
कनकस्य तु बीजानि समांशं विजयारसैः ॥ २१॥
मदयेद्याममात्रं तु चणमात्रं वटीकृतः ॥
ज्वरातिसारं ग्रहणीं नाशयेद्धेमसुन्दरः ॥ २२ ॥
ग्रहण्यामर्कलोकेश्वरो रसः।
शुद्धसूतं पलं चार्कक्षीरैर्मर्द्यंपुनः पुनः।
द्विपलं शुद्धगन्धख महाकम्बु पलाष्टकम् ॥२३॥
उभे वह्निरसैर्भाव्येशोष्ये पेष्ये दिनत्रयम् ।
मेलयेत्पूर्वसूतेन तदर्धं टङ्कणं क्षिपेत् ॥ २४॥
अर्कक्षीरैः पुनः सर्वंयामैकं मर्दयेद्दृढम् ।
तच्छुष्कं चूर्णलिप्तेऽथ भाण्डे रुद्ध्वापुटे पचेत् ॥ २५ ॥
चतुर्गुञ्जामितं खादेन्मरिचाज्येन संयुतम् ।
देयं दध्योदनं पथ्यं विजया सगुडा निशि ॥ २६ ॥
ग्रहणीदोषनाशार्थंनास्त्यनेन समं भुवि ।
ग्रहणीर्नाशयेत्सर्वा अर्कलोकेश्वरो रसः ॥२७॥
श्वासकासारिरसः (शिलातालेश्वरः)।
कटुत्रिकरसैर्भाव्यं तालमेकं चतुःशिला।
दिनं वासारसैः पिष्ट्वा वालुकायन्त्रपाचितम् ॥ २८ ॥
द्वियामान्ते समुद्धृत्य तत्तुल्यं च कटुत्रयम् ॥
निर्गुण्डीमूलचूर्णं च, वासारससमन्वितः ॥ २९ ॥
शिलातालेश्वरो नाम्ना गुञ्जैका श्वासकासजित् ॥ ३० ॥
राजयक्ष्मणि राजमृगाङ्करसः।
सूतं हेमाभ्रजं भस्म शिलागन्धकतालकम् ।
त्र्यैकैकभूभवैकाख्यान् कृत्वैक्यं क्रमशोंऽशकान् ॥ ३१ ॥
वराटीः पूरयेत्तेन छागीक्षीरेण टङ्कणम् ।
पिष्ट्वा तेन मुखं रुद्धा शरावे भूपुटे पचेत् ॥ ३२ ॥
स्वाङ्गशीतं समुद्धृत्य कृत्वा तं वस्त्रगालितम् ।
रसो राजमृगाङ्कोऽयं चतुर्गुञ्जः क्षयापहः ॥ ३३ ॥
राजयक्ष्मणि सिद्धमृगाङ्कः।
सुवर्णं भस्मसूतं च वल्लार्घं मधुना लिहेत् ।
पथ्यभुग्ब्रह्मचर्येण मृगाङ्को वा क्षयापहः ॥ ३४ ॥
राजयक्ष्मणिक्षयारिरसः ।
शिलाजतुमधुव्योषताप्यलोहरजांसि यः।
क्षीरभुग्लेढि तस्याशु क्षयक्षयकरो रसः ॥ ३५ ॥
उदररोगे उदरध्वान्तसूर्यः ।
शुल्वश्यामास्नुहीदन्तीपथ्यानेपालकाः क्रमात् ।
भूव्द्येकैकाग्नियुग्वल्लानेतानुष्णाम्बुना पिबेत् ॥ ३६ ॥
अष्टोदराणि हन्त्येष विशेषेण जलोदरम् ।
आध्मानगुल्मशूलघ्न उदरध्वान्तभास्करः ॥ ३७॥
शूलरोगे शङ्खभास्कररसः ।
दग्धं शङ्खं वराटं च तुल्यार्कं नवनीतयुक् ।
टङ्कार्धंभक्षयेत्सर्वशूलार्तःशङ्खभास्करः ॥ ३८ ॥
कुष्ठे रक्तारिरसः।
सूतं गन्धं तथा शुद्धं क्रमादेकद्विभागकम् ।
तुल्यार्कंभावयेदार्द्ररसैश्चापि त्रिसप्तधा।
गोलं कृत्वाऽन्धमूषायां रुद्ध्वागजपुटे पचेत् ॥३९ ॥
घृतशुण्ठ्या च गुञ्जैकं शीतोदं ससितं ह्यनु ।
त्रिदोषं नाशयेच्छीघ्रं क्रियां शीतां प्रयोजयेत् ॥४०॥
स्थूलं कृशं कृशं स्थूलं करोत्यग्निप्रदीपनम् ।
त्रिदोषात्पतितं रक्तं व्रणनाड्यभिघातजम् ॥ ४१ ॥
यकृत्प्लीहोत्थितं यच्च यच्च कुष्ठकरं त्वसृक् ।
शोधयेद्दुष्टरक्तं तद्रसो रक्तारिसंज्ञकः ॥४२॥
मेदोरोगे वडवाग्निरसः।
सूततारार्ककं बोलं मर्द्यमर्कपयस्त्र्यहम् ।
वल्लैकं मधुना लेह्यंस्थौल्यमाशु व्यपोहति ॥४३॥
द्विपलं क्षौद्रशीतोदमनुपानं पिबेत्ततः।
वडवाग्निरसे पथ्यं दध्यादि श्लेष्मलं त्यजेत् ॥ ४४ ॥
मूत्रकृच्छ्रे त्रिविक्रमरसः।
सूतार्कौगन्धकं मर्द्यंदिनं निर्गुण्डिकाद्रवैः ।
यामैकं वालुकायन्त्रे पक्त्वा देयो द्विगुञ्जकः ॥ ४५ ॥
बीजपूरजटाक्वाथं ससितं पाययेदनु ।
रसस्त्रिविक्रमो मूत्रकृच्छ्ररोधाश्मरीप्रणुत् ॥ ४६॥
श्वित्रेश्वेतकुष्ठारिरसः।
निस्तुषीकृत्य बाकुच्या बीजानां पलविंशतिम् ।
गोनलस्थंत्रिसप्ताहं लोहं पथ्या पलद्वयम् ॥४७॥
गृहीत्वा गोजले शोष्यं सूर्यतापेऽतिनिष्ठुरे ।
काकोदुम्बरिकाद्रोणत्वचांक्वाथे त्रिसप्तकम् ॥ ४८ ॥
भावयेत्तस्य चूर्णस्यगन्धभूतं समं कृतम् ।
अम्लेन कज्जलीं कृत्वा सर्वमेकत्र कारयेत् ॥ ४९ ॥
शिग्रुमूलरसेनापि नागवल्लीदलेन च ।
भावनांत्रिदिनं दत्त्वा कर्षार्धांशांगुटीं कुरु ॥ ५० ॥
एकैकां भक्षयेत्प्रातः श्वेतकुष्ठोपशान्तये ।
चित्रकाङ्घ्रित्वचाचूर्णं रात्रौ गोदुग्धके वरम् ॥५१॥
क्षिपेद्दधि विलोड्याथ ग्राहयेत्तक्रमुत्तमम् ।
तत्तक्रकुडवं चैकं मध्येऽष्टवल्लगन्धकम् ॥५२ ॥
प्रक्षिप्य गुटिकां पश्चात् प्रपिबेद्द्वित्रिसंख्यकाम् ।
नवनीतेन चाभ्यङ्गः कार्यः स्थेयमथातपे ॥ ५३॥
सर्वश्वित्रे प्रजायन्ते स्फोटकाश्चाग्निदग्धवत् ।
प्रथमे सप्तके, पाको जायतेऽथ द्वितीयके ॥ ५४ ॥
रोहणं च तृतीये हि कुर्वन्ति च न संशयः।
निम्बुकस्य रसोपेतं कुङ्कुमालेपनं हितम् ॥ ५५ ॥
सतक्रागुटिका वाऽपि रसस्यालेपने हिता।
श्वित्राणां रोहणं रम्यं वर्णदं जायते भृशम् ॥ ५६ ॥
त्रिवेलं तक्रभक्तं च पूर्वे देयं च सप्तके ।
मकुष्ठा अपि रूक्षाश्च देया जाते द्विसप्तके॥ ५७॥
तृतीये सप्तके देया मकुष्ठास्त्रिफलाघृतम् ।
घृतमल्पं प्रदातव्यं श्वित्रकुष्ठी वरो भवेत् ॥ ५८ ॥
चम्पकाभंवरं देहं कान्तियुक्तं च नीरुजम् ।
प्राप्नुयाच्छ्रीयुतः सम्यङ्भनुजो भूमिमण्डले ॥ ५९॥
रसराजप्रभावेण सत्यं सत्यं च नान्यथा ।
वातरोगे स्वच्छन्दभैरवो रसः।
शुद्धस्तूतंमृतं लोहं ताप्यगन्धकतालकम् ।
पथ्याग्निमन्थनिर्गुण्डीत्र्यूषणं टङ्कणं विषम् ॥ ६ ॥
तुल्यांशं मर्दयेत्खल्वे दिनं निर्गुण्डिकाद्रवैः।
मुण्डीद्रवैर्दिनैकं तु गुञ्जैकं वटकीकृतम् ॥ ६१ ॥
भक्षयेद्वातरोगार्तोरसं स्वच्छन्दभैरवम् ।
लघुरास्नाह्वयं510 क्वाथं सपुरं ह्यनुपानकम् ॥ ६२ ॥
उन्मादापस्मारयोरुन्मादगजकेसरीरसः ।
शुद्धं सूतं वचाक्वाथैस्त्रिदिनं मर्दयेत्ततः।
शङ्खपुष्पीरसैस्तद्वद्गन्धकं मर्दितं क्षिपेत् ॥ ६३ ॥
गोमूत्रमर्दितं गोलं कृत्वा मुष्यां निरोधयेत् ।
सप्तधाऽऽलेप्य मृदस्त्रैःपुटितं स्वाङ्गशीतलम् ॥ ६४ ॥
चूर्णीकृतं चतुर्वल्लं समसर्षपचूर्णकम् ।
जीर्णघृतानुपानं च नस्येस्नेहं तु सार्षपम् ॥ ६५॥
कारयेत्तेन चाभ्यङ्गं दिनानामेकविंशतिम् ।
उन्मादापस्मृतिं हन्ति ह्युन्मादगजकेसरी ॥ ६६ ॥
अग्निमान्द्येक्रव्यादरसः।
सूतं गन्धमयस्ताम्रमेकव्द्यवर्धार्धकं पलम् ।
द्रावयेल्लोहजे पात्रे क्षिपेदेरण्डपत्रके ॥ ६७ ॥
चूर्णितं वस्त्रपूतं च लोहपात्रे पुनः पचेत् ।
जाम्बीरं बैजपूरं वा रसं पात्रमितं क्षिपेत् ॥ ६८ ॥
संचूर्ण्य पञ्चकोलोत्थैः कषायैश्चाम्लवेतसैः ।
भावनाः खलु दातव्याः पञ्चाशत्प्रमितास्ततः ॥६९ ॥
भृष्टटङ्कणचूर्णं तु दद्यात्सर्वसमानकम् ।
टङ्कणार्घंबिडं दद्याद्बिडतुल्यं मरीचकम् ॥ ७० ॥
सप्तधा भावयेच्चाशु चणकक्षारवारिणा।
एवं सिद्धरसाद्वल्लद्वितयं वा चतुष्टयम् ॥ ७१॥
सैन्धवं माषमेकं तु जीरकं च द्विमाषकम् ।
तक्रेण योजितं चैतदनुपानं पिबेत्सुधीः ॥ ७२ ॥
भोजयेत्कण्ठपर्यन्तं गुरुमामिषभोजनम् ।
क्षिप्रं तज्जीर्यते भुक्तं पुनः काङ्क्षति भोजनम् ॥ ७३ ॥
घटश्रवाकुम्भयोनिवृकोदरशनैश्चरैः॥
सहस्रदृक्पञ्चचतुर्मुखैरासेवितोऽग्नये ॥ ७४ ॥
अस्य संसेवनादेते सर्वे जाता महाशनाः।
अतः संसेव्यते भूपैर्महदग्निविवृद्धये ॥ ७५ ॥
कुर्याद्दीपनमद्भुतं च पचनं दुष्टामयोच्छेदनं
तुन्दस्थौल्यनिबर्हणं, गरहरः शूलार्तिमूलापहः ।
गुल्मप्लीहविनाशनो बहुरुजां विध्वंसनः स्रंसनो
वातग्रन्थिमहोदरापहरणः क्रव्यादनामा रसः ॥ ७६ ॥
सिंहणक्षोणिपालाय भूरिभोज्यप्रिये रसम् ।
दत्तवान् भैरवानन्दो भूयो ग्रामाष्टकं ददौ ॥ ७७॥
अग्निमान्द्येवडवानलरसः ।
सूतं भुजङ्गममृतं लवणं हरिद्रा
व्योषं धनञ्जयजटाऽवनिभूतधात्री-।
क्वष्टादशद्वयनिधित्रयभागसङ्ख्याः
शोभाञ्जनार्द्रककरीरकबीजपूरैः ॥ ७८ ॥
निम्बूफणीश्वरलतासुपलाशतोयै-
र्भाव्या विशोष्य खरले प्रविधाय चूर्णम् ।
वस्त्रस्रुतं सकलवातगणान्निहन्ति
वह्नेरपाटवमरोचकशूलवान्तीः ॥ ७९ ॥
मन्दानले अग्निकुमाररसः।
सूतं गन्धं विषं शङ्खं कपर्दं टङ्कणोषणे॥
चन्द्रैकाग्निगजत्रिद्विवसुभागैर्मितं क्रमात् ॥ ८०॥
जम्बीरकेण संमर्द्यंभवेदग्निकुमारकः ।
वाते मन्दानलेजीर्णे ज्वरश्लेष्मविषूचिके ॥ ८१॥
गुञ्जामात्रंप्रदातव्यो विण्मूत्रशिरसोग्रहे ।
कासे श्वासे क्षये शूले सर्वरोगेषु योजयेत् ॥ ८२ ॥
गुल्मादौ शङ्खद्रावरसः ।
फिट्करीं सादरं सोरं त्रयमेकत्र चूर्णयेत् ।
तत्क्षिपेन्मृण्मये कूपे नालहस्तमिते दृढे ॥८३॥
सरन्ध्रोदरकाचोत्थे कूपे तत्सन्नियोजयेत् ।
सप्तधा वेष्टयेत्पश्चात्कूपकौवस्त्रमृत्स्नया ॥ ८४ ॥
खर्परे वालुकापूर्णे तिर्यगौषधकूपकम् ।
अर्धंयन्त्रे निघायाथ श्रीगुरोः संप्रदायतः॥ ८५॥
अधोमुखं, द्वितीयं तु स्थाप्यं चुल्लेः पराङ्मुखे ।
अधः प्रज्वालयेदग्निं हठाद्यावद्रसः स्रवेत् ॥ ८६॥
धारयेत्काचजे पात्रे शङ्कद्रावं रसायनम् ॥
शाणैकं सेवयेत्पश्चाद्दन्तस्पर्शविवर्जितम् ॥ ८७ ॥
गुल्मोदरयकृत्प्लीहविद्रधिग्रन्थिशूलनुत् ।
बलपुष्टिप्रदो ह्येष भुक्तं जारयते क्षणात् ॥ ८८ ॥
विलोक्यतामहो लोका रसमाहात्म्यमद्भुतम् ।
कपर्दकाम्बुलोहानि यसिन् क्षिप्ते गलन्ति हि ॥ ८९
धातुक्षये हरगौरीरसद्वयम् ।
पारदं तत्तृतीयांशं गन्धं दत्त्वा तु मर्दयेत् ।
दशांशनवसारेण युतं चोन्मचवारिणा ॥९॥
खल्वे संमर्द्यतत्सर्वं काचकुप्यां निवेशयेत् ॥
गुरुक्तसंप्रदायेन वालुकायन्त्रमध्यगम् ॥ ९१ ॥
पचेत् षोडशयामांश्च मन्दमध्यहठाग्निना ।
पक्कःसुशीतलो ग्राह्यो हरगौरीरसो भवेत् ॥ ९२ ॥
भूतं गन्धं समं कृत्वा सर्पाक्षीरसमर्दितम् ॥
पूर्ववत्पाचितं त्वन्ये हरगौरीरसं विदुः ॥ ९३ ॥
धातुक्षये मदनकामदेवरसः।
पारदाद्द्विगुणं गन्धं दत्त्वा कार्पासिकाद्रवैः।
पूर्ववत्पाचितो ह्येष तदा मदनकामदः ॥ ९४ ॥
धातुक्षये मृत्युञ्जयरसः ।
एकांशं क्षिप्यते स्वर्णं रूप्यं ताम्रंच तत्समम् ।
मुशल्या चाखुपर्ण्याच मातुलुङ्गरसैस्त्र्यहम् ॥९५॥
मोचचिञ्चात्मगुप्ताभिस्तदा मृत्युञ्जयो रसः।
हरगौरीकामदेवमृत्युञ्जयरसाः ।
त्रयाणां सेवनं पथ्यमुच्यते क्रमशो गुणाः ।
एकमासं सिताज्याभ्यां सदा सेव्यो नरोत्तमैः॥९६ ॥
एवं निषेव्य सूतेन्द्रं भुञ्जीत मधुरं सदा ।
शाल्यन्नं गोपयः खण्डं सितां जाङ्गलमामिषम् ॥ ९७ ॥
गोधूमजान् विकारांश्च माषान्नंकदलीफलम् ।
पनसं चाथ खर्जूरं द्राक्षां च नालिकेरकम् ॥९८॥
सेवेत सर्वं तत्प्राज्ञो वृष्यं यत्किञ्चिदुच्यते।
वलीं संवत्सराद्धन्ति पलितं च द्विहायनात् ॥ ९९ ॥
वज्रदेहो भवेत्सेवी द्रावयेद्वनिताशतम् ।
न रेतःसंक्षयस्तस्य षण्ढोऽपि पुरुषायते ॥१००॥
ऊर्ध्वलिङ्गः सदा तिष्ठेल्ललनामक्षयं ब्रजेत् ।
तप्तहाटकवर्णामः श्रीधीमेधाविभूषितः ॥ १०१ ॥
हयवेगो मयूराक्षो वराहश्रुतिरेव च ।
अपरः कामदेवोऽपि मानिनीमानमर्दनः ॥१०२ ॥
राजयक्ष्मादिरोगांश्च मेहान् जीर्णज्वरानपि ।
गोतक्राद्ग्रहणीं हन्त्यतीसारं बहुमूत्रताम् ॥ १०३॥
सर्वरोगहरो ह्येष निजौषधानुपानतः।
हरगौरी कामदेवो रसो मृत्युञ्जयाभिधः ॥ १०४॥
किमत्र बहुनोक्तेन जरामृत्युहरास्त्रयः।
वाजीकरणार्थंमानिनीमानमर्दनरसः।
कञ्जलीं भूतगन्धाभ्यां तुल्यमुन्मत्तबीजकम् ।
तत्तैलमर्दितं सेव्यं द्विवल्लं ससितापयः॥१०५ ॥
मेहौघं नाशयेद्वीर्यं स्तम्भयेद्द्रावयेत्स्त्रियम्॥
रसः कामप्रदो नॄणां मानिनीमानमर्दनः ॥ १०६॥
प्रमेहे कामदो रसः ।
हेमबीजविषवङ्गसूतकं हंसपादकरभंच जारणम् ।
नागवल्लिदलद्रावभावितः कामदः सकलमेहनाशनः १०७
सन्तानार्थंपुत्रप्रदो रसः ।
शुद्धभूतं त्र्यहं स्वेद्यं मन्दाग्नौ दध्निमाहिषे ।
त्रुटिते त्रुटिते दद्याद्दधि तुर्येऽह्नि चोद्धरेत् ॥ १०८ ॥
तस्मिन् स्वर्णं क्षिपेत्प्राज्ञश्चतुःषष्टितमांशकम् ।
मर्दयेन्निम्बुनीरेण यावदैक्यं हि जायते ॥ १०९ ॥
पुनः संस्वेद्य तं सूतं वटशुङ्गाहिवल्लिजैः।
काकमाच्या च जीवन्त्या रसः स्याद्यामयुग्मकात् ॥ ११० ॥
दिनं शीताम्बुकुम्भस्थं दिनैकं दध्नि माहिषे।
एवं सिद्धरसाद्वल्लं प्रत्यहं ब्रह्मचर्यधृक् ॥ १११ ॥
मासैकं सेवते भर्ता सितादुग्धौदनप्रियः।
त्रिफलानिम्बकार्पासीरसैर्नारी क्रमात्पृथक् ॥ ११२ ॥
सप्त सप्त दिनान् पीत्वा पश्चाद्दतुसमागमे ।
रसं वल्लं त्र्यहं चैकं कार्पास्यम्बुसितायुतम् ॥ ११३ ॥
टङ्कणं तूरिका सूत्रं पक्वाम्लिकरसान्वितम् ।
त्रिदिनं मधुना योनेर्लेपंशुद्धिकरं परम् ॥ ११४ ॥
महिष्यादधिमध्यस्थं दिवा सूतं त्रिमाषकम् ।
स्त्रीसेवासमये रात्रौ भक्षयेद्दधिसंयुतम् ॥ ११५ ॥
संभोगान्ते तथा स्थेयं यामार्धंसंपुटेन च ।
सर्वलक्षणसंपन्नं सुतं जनयते वरम् ॥ ११६ ॥
तापादिके समुत्पन्ने देयं द्राक्षासितादिकम् ।
कार्यः शीतोपचारश्च युवत्याभिषजा सदा ॥ ११७॥
आयुर्वृद्धिं बलं कान्तिं नष्टवीर्यविवर्धनम् ।
कुर्याद्रोगहरः पुत्रप्रदो रुद्रविनिर्मितः ॥ ११८ ॥
नेत्ररोगे दिव्यदृष्टिकरो रसः ।
रसं नागाञ्जनं चन्द्रमेकैकव्द्यर्धभागकम् ।
सूक्ष्मचूर्णीकृतं नेत्रस्याञ्जनाद्दिव्यदृष्टिकृत् ॥ ११९ ॥
उदररोगे सारणसुन्दररसः ।
सूतं गन्धं समं शुद्धं सप्तधा भावयेत् क्रमात् ।
स्नुह्यर्कदुग्धैः श्रीखण्डद्वयपथ्याभयारसैः॥ १२० ॥
समं नेपालजं चूर्णंदेयमेकत्र मर्दयेत् ।
उष्णाम्बुना वल्लयुग्मं देयमष्टगुणे गुडे ॥ १२१ ॥
मलाः पूर्वं जलं पश्चात्ततश्चामः शनैः शनैः।
उदराच्च विनाऽन्त्राणि सर्वं निर्याति किल्बिषम् ॥ १२२ ॥
जाते विरेके संशुद्धे पथ्यं दध्योदनं हितम् ।
जयेज्ज्वरादिकान् रोगान् रसः सारणमुन्दरः ॥ १२३ ॥
वमनकारकरसः।
राढार्कौमधुकं चैकसार्धद्विपञ्चभागकम् ।
टङ्कैकाम्बुयुतं दत्तं रसोऽयं वामकः स्मृतः ॥ १२४ ॥
**सन्निपातज्वरे उन्मत्ताख्यो रसः । **
रसं गन्धं समं व्योषं मर्द्यमुन्मत्तकैर्दिनम् ।
उन्मत्ताख्यो रसो नाम नस्येस्यात्सन्निपातजित् ॥ १२५॥
वामकेश्वररसः।
ताम्रपत्रं गन्धलिप्तं वह्नौ तप्तंतु ताडितम् ।
तच्चूर्णं तक्रसंयुक्तं वल्लार्धं वामयेद्भृशम् ॥ १२६ ॥
सन्निपातादौ संज्ञाप्रबोधनरसः ।
फिट्करी तुत्थनेपालं मरिचं निम्बबीजकम् ।
पुत्रजीवकमज्जा च निम्बुकेनार्कभाजने ॥ १२७ ॥
भावना सप्त दातव्या गुटी गुञ्जामिताऽञ्जनात् ।
सन्निपातमपस्मारं विषं सर्पस्य नाशयेत् ॥ १२८ ॥
खेदातिप्रवृत्तौ उद्धूलनरसः।
आकल्लकं विषं कृष्णं हेमद्रुफलभस्मकम् ।
उद्धूलनं खेदहरमेकद्वित्र्यष्टभागकैः ॥ १२९ ॥
इति कायस्थचामुण्डकृतायां रससङ्केतकलिकायां चतुर्थोल्लासः ॥
_________________
अथ पञ्चमोल्लासः।
अथातो गुटिकाधिकारः।
सर्वरोगे जयागुटिका।
विषं व्योषं हरिद्राब्दं निम्बपत्रं विडङ्गकम् ।
गुटी छागाम्बुना बद्धा स्थाञ्जया योगवाहिका ॥१॥
कासादौ विजयागुटिका।
सूतार्कायोविषं गन्धं विडङ्गाग्न्यब्दकेसरम् ।
रेणुका ग्रन्थिकं बोलं सर्वेषां द्विगुणं गुडम् ॥२॥
कोलप्रमाणां गुटिकां भक्षयेत्प्रातरेव हि ।
कासे श्वासे क्षये गुल्मे प्रमेहे विषमज्वरे ॥ ३॥
शोफे पाण्ड्वामये कुष्ठे ग्रहण्यर्शोभगन्दरे ।
विजया गुटिका ह्येषा रुद्रप्रोक्ताधिका गुणैः ॥४॥
अर्शोरोगादौ शङ्करवटिका।
शङ्कोलाग्नीच गन्धोषणरसविषकं पित्तमाजं क्रमात्त-
त्सामुद्रं चार्कदुग्धैस्त्रिभिरथ पुटितं जम्भतोयैर्विमर्द्य।
कृत्वा गुञ्जासमानाभिपुशररसदिग्वह्निवाणेषुदिग्भि-
र्दद्याच्छ्वेष्मानिलार्शोज्वरजठरकफे तां वटीं शङ्कराख्याम् ॥५
ग्रहण्यादौ शङ्खवटिका ।
चिञ्चाक्षारपलं पटुव्रजपलं निम्बूरसैः कल्कितं
तसिन् शङ्खपलं प्रतप्तमसकृन्निर्वाप्य शीर्णावधिम् ।
हिङ्गुव्योषपलं रसामृतवलीन्निक्षिप्य निष्कांशकान्
बद्धा शङ्खवटी क्षयग्रहणिकागुल्मांश्च शूलं जयेत् ॥६॥
कासे कासकर्तरीवटिका।
रसं कृष्णाऽभया त्वक्षं वासा भार्गी क्रमोत्तरम् ।
तत्समं खादिरं सारं बब्बूलक्वाथभावितम् ॥७ ॥
एकविंशतिवारांश्च मधुनाऽक्षमिता वटी।
कासं श्वासं क्षयं हिक्कां हन्त्येषा कासकर्तरी ॥८॥
शूलरोगे सूर्यप्रभावावटिका।
व्योषग्रन्थिवचाग्निहिङ्गुजरणद्वन्द्वं विषं निम्बुक-
द्रावैरार्द्रकजै रसैर्विमृदितं तुल्यं मरीचोपमा ।
वर्तिः सा विनिहन्ति शूलमखिलं सर्वाङ्गजं मारुतं
वह्निंचाशु करोति वाडवसमं सूर्यप्रभावाभिधा ॥९॥
प्रमेहे चन्द्रकला गुटिका।
एला सकर्पूरसिता सधात्री जातीफलं शाल्मलिगोक्षुरौ च ।
सूतेन्द्रवङ्गायसभस्म सर्वमेतत्समानं परिभावयेच्च ॥ १० ॥
गुडूचिकाशाल्मलिकाकषायैर्निष्कार्धमाना मधुना ततश्च ।
बद्धा गुटी चन्द्रकलेति संज्ञा मेहेषु सर्वेषु नियोजनीया॥११॥
क्लैव्ये भोगपुरन्दरीगुटिका।
हिङ्गुलं च चतुर्जातं लवङ्गौषधचन्दनम् ।
जातिजं केसरं कृष्णा त्वाकल्लमहिफेनकम् ॥ १२ ॥
कस्तूरीन्दु समं सर्वं तत्समे विजयासिते ।
क्षौद्रात्कोलमिता कार्या गुटी भोगपुरन्दरी ॥ १३ ॥
शुक्रस्तम्भकरी ह्येषा बलमांसविवर्धिनी।
नरश्चटकवद्गच्छेच्छतवारं स्थिरेन्द्रियः ॥ १४ ॥
नागार्जुनीगुटिका।
वङ्गं कासीसकं कृष्णा गुञ्जातुल्याऽऽर्द्रकाम्बुना ।
कफवातामयं हन्ति गुटी नागार्जुनाभिधा ॥ १५ ॥
विषरोगे महामृत्युञ्जया गुटिका।
त्रिफलाविडङ्गसोमाभल्लातकवह्निविश्वानाम् ।
अष्टौ शुक्लवचाया भागा स्युः सद्विषस्यैकः ॥१६॥
सर्पविषूचिगदार्ते दुष्टाजीर्णहते त्रिदुष्टेऽपि ।
सद्यो जीवति पुरुषो मृतोऽपि गुटिकाप्रभावेण ॥१७॥
उन्मादे कितववटिका।
मूलेन पत्रेण फलेन वाऽपि व्योषान्विता या कितवोद्भवेन ।
बद्धा गुटी सा सहसैव हन्ति सोन्माददोषत्रयदुष्टवातान्॥१८॥
अलर्कविषहा गुटिका।
कट्फलाम्बुगिलं कृष्णां हिङ्गुलं बोलटङ्कणम् ।
गुडेन गुटिका शाणमिता सा नवमेऽहनि ॥ १९ ॥
उष्णोदकेन दातव्या सद्योऽलर्कविषापहा ।
गरभृङ्गोषणं चूर्णं साज्यं वा तद्विषापहम् ॥ २० ॥
सन्निपाते मृतसञ्जीवनी गुटिका
रसराजशुल्बगन्धकसुरतिक्तैः पीतभृङ्गमरिचैश्च ।
ब्राह्मीद्वितयरसाढ्या गुटिकाः कार्याश्च चणकाभाः॥२१॥
एका देया प्रथमं त्रिदोषविकलस्य मूर्च्छितस्यापि ।
अन्या मुहूर्तपरतः प्रहरादन्याऽपरा नैव ॥२२॥
जीवति मृतोऽपि पुरुषस्त्रिदोषजान्विततन्द्रिकायुक्तः।
श्रीनागार्जुनगदिता गुटिका मृतसञ्जीवनी ख्याता॥२३॥
ज्वरनाशिनी गुटिका।
एल्वालुकाभयाबोलमिन्द्रा गुग्गुल्लसंयुता ।
स्नुहीक्षीरेण गुटिका शोधनी ज्वरनाशिनी ॥ २४ ॥
नेत्ररोगे नागार्जुनी वर्तिका।
वरा व्योषं वरं तुत्थं यष्टीवेल्लार्कवारिजम् ।
रोधं रसाञ्जनं चूर्णं वर्तिः कार्या नभोम्बुना ॥२५॥
सद्योऽक्षिकोपं स्तन्येन तिमिरं रोध्रतोयतः ।
किंशुकस्य रसाद्धन्ति पिल्लं पुष्पं च रक्तताम् ॥ २६ ॥
पटलं बत्समूत्रेण स्तम्भे पाटलिपत्तने ।
नागार्जुनेन लिखिता सर्वनेत्रामयापहा ॥२७॥
सन्निपाते सुप्रचेतना गुटिका।
व्योषं वरा वरं हिङ्गु तिक्तोग्रा नक्तमालकः।
गौरी कटु त्वजामूत्रैश्छायाशुष्का गुटी कृता ॥२८॥
अपस्मारं स्मृतिभ्रंशमुन्मादं शिरसो रुजम् ।
नक्तान्ध्यंतिमिरं हन्ति दोषं भूतादिकं भ्रमम् ॥ २९ ॥
एकद्वित्रिचतुर्थाख्यमञ्जनाज्ज्वरमेव च ॥
सन्निपातं त्वचैतन्यं नाशयेत्सुप्रचेतना ॥ ३०॥
ज्वरनाशनो विरेकः।
सैन्धवेन युतं वज्रक्षीरमग्निविपाचितम् ।
द्विवल्लमुष्णकैः पीतं विरेकाज्ज्वरनाशनम् ॥ ३१ ॥
वमनकारको रसः।
लवणं भानुदुग्धेन सकृद्भावितमातपे।
गव्येन पयसा पीतं कषार्धं वान्तिकारकम् ॥ ३२ ॥
वातरोगादौ महद्वातारितैलम् ।
सूतेन्द्रं बलितालकं च कुनटी खल्वे समांशं दिनं
सौवीरेण विमर्द्यतेन वसनं वर्तीकृतं लेपयेत् ।
तैलेन प्रविलेपितं च बहुशो वह्निं ततो दीपये-
तस्माद्यद्गलितं च तैलमसितं तेनाङ्गलेपः कृतः॥३३॥
जङ्घाबाहुकराग्रपादशिरसां कम्पानशेषाञ्जये-
त्कुष्ठं तीव्रभगन्दरं व्रणगणान्रोगान्महागृध्रसीम् ।
अन्यान् रोगगणांश्च वातजनितान्नाडीव्रणान्दुस्तरान्
विख्यातं भुवनत्रये गदहरं वातारितैलं महत् ॥ ३४ ॥
कर्णरोगे कर्णामृतं तैलम् ।
रामठं निम्बपत्राणि फेनः सागरसंभवः ।
एतानि समभागानि तद्वद्देयं सितं विषम् ॥ ३५॥
गोमूत्रेण समायुक्तं कटुतैलं विपाचितम् ।
तेनैव पूरयेत्कर्णं नरकुञ्जरवाजिनाम् ॥ ३६॥
कर्णरोगं निहन्त्याशु लेपनाच्छिरसो गदान् ।
नाम्ना कर्णामृतं तैलं ब्रह्मणा निर्मितं स्वयम् ॥ ३७ ॥
राजवल्लभधूपः ।
कस्तूरीन्दुश्च बाह्लीकं नखं मांसी च सर्जकम् ।
मुस्ताऽगुरु सिता सर्वंक्रमवृद्धं समं पुरम् ॥ ३८॥
स्तोकं स्तोकं क्षिपेत्तैलं दिनैकमथ कुट्टयेत् ।
वर्तिं कुर्यात् प्रदीप्ता सा दिव्यं धूमं विमुञ्चति ॥ ३९ ॥
सर्वदेवप्रियः सर्वमन्त्रसिद्धिप्रदायकः।
स्नाने वस्त्रे रतागारे धूपोऽयं राजवल्लभः॥४०॥
इति नैगमज्ञातीयकायस्थचामुण्डकृतायां रससङ्केतकलिकायां पञ्चमोल्लासः ॥
**समाप्तेयं रससङ्केतकलिका। **
रससङ्केतकलिकापाठसंशोधनम् ।
[TABLE]
]
-
“अन्तर्वेदी गङ्गायमुनयोर्मध्यप्रदेशः।” ↩︎
-
“यतो मोढब्राह्मणानां वसतिगुर्जरदेश एवोपलभ्यते ।” ↩︎
-
“Sea history of Hindu chemistry introduction Page 65-69.” ↩︎
-
" सिद्धेभ्यो ग. ।" ↩︎
-
" योगिनीग्रहमण्डलान् ग. ।" ↩︎
-
" ध्यायन् ग. ।" ↩︎
-
" यथास्थितम् ग. ।" ↩︎
-
" संक्रामते ग. ।" ↩︎
-
“वध्यते ग. ।” ↩︎
-
" सिद्धिं साधय मे प्रभो ग.।" ↩︎
-
" प्रत्यक्षमागतः ख.। " ↩︎
-
" रसेश्वर ख.। " ↩︎
-
" वै तेषां क्लेशस्तत्र न ख., वै तेषां क्लेशस्तत्रच ग.।" ↩︎
-
" फलावाप्तिः ख. ग.॥" ↩︎
-
“गिरिः शिलाजतुकम्” ↩︎
-
" च चपलं ग.।" ↩︎
-
" वज्रमुक्ताफलान्यष्टौ ग; वज्रं मुक्ताफलान्यष्टौख. । " ↩︎
-
“मरक्तंमरकतमणिम् ।” ↩︎
-
“मेदो गोमेदमणिः। " ↩︎
-
" कृष्णसर्जिकम् ग.। " ↩︎
-
" स्थावराण्युरगानि च ख. ग. चराणि जङ्गमानि । " ↩︎
-
“रत्नलोहादिनिस्पृहाः ख. ।” ↩︎
-
" उलूखशिलापट्टखल्लोपलसुपिण्डिकाः ग.। " ↩︎
-
" लोहचुल्हीं ग.।” ↩︎
-
“उलूखलः धान्यादिकण्डनसाधनं काष्ठमयं पात्रम् ; शिलापट्टः शिलापुत्रः, कल्कपेषणसाधनभूतः, पिण्डिका प्रस्तरमयी, यस्या उपरिकल्कःपेष्यते; कण्डनी लोहनिर्मितोदूखलः, कण्डनीत्यत्र हण्डिकेति पाठान्तरम् । " ↩︎
-
“रेतनी लोह चूर्णकरणसाधनं कानस इति प्रसिद्धा; कणीति स्वर्णकाराणामुपकरणविशेषः, छिन्नी धात्वादिद्विधाकरणसाधनं लोहमयं शस्त्रम्; अर्हिणीति यस्या उपरि लोहादिकं स्थाप्य घनेन संकुट्यते सा अर्हिणी, “एरण इति प्रसिद्धा ॥” ↩︎
-
" तोलनी इति पाठान्तरे तुलेत्यर्थः।” ↩︎
-
" वर्गाः इति शेषः। कषायवर्गा दशमूल्याद्याः। आम्लवर्गे समग्रं च कषाया मूलसंभवाः ख, अम्लवर्गः समद्यश्च कषायमूत्रसंयुतः ग.। " ↩︎
-
“कर्कराः सुधापाषाणाः। " ↩︎
-
" यतः (तिः ↩︎
-
" रसकर्माणि योजयेत् ग.।” ↩︎
-
" द्वन्द्वमारान् ग.॥" ↩︎
-
" पूजां चैव रसेन्द्रस्य ग. " ↩︎
-
" रससारः समुच्यते ग. ॥" ↩︎
-
" सर्वे वस्त्रे ग.।" ↩︎
-
" गुडराजिकैः ख.।" ↩︎
-
" नागदोषसमुद्भूता ग.।" ↩︎
-
" कपालिनागजो दोषो गलत्येव न संशयः ग.।" ↩︎
-
" नाहित्रिफलयोः ख. त्रिफलायास्तथा ग.। " ↩︎
-
" मीनाक्षी चाङ्कुलश्चैव उन्मत्तवशकारकौ ख.॥" ↩︎
-
" रसो बन्धमवाप्नुयात् क., रसो वशमवाप्नुयात् ग.। " ↩︎
-
" पण्डितैधिया ग.।" ↩︎
-
" बृहत्योपविषैस्तथा ग.॥" ↩︎
-
" काञ्जिकं न का ॥" ↩︎
-
“कान्ते कान्तलोहमये पात्रे।” ↩︎
-
" गह्णोडीडिण्डिरीबिम्बीगिरिकर्णीबृहस्फला ख. ।" ↩︎
-
“वस्त्रमध्ये निवन्धयेत् ख. ग.।” ↩︎
-
" अमुनैव ख. ग." ↩︎
-
" संस्काराः सूराजस्य क्रमात्तत्क्रामणंवरम् ख.।" ↩︎
-
" अमृतलोहाय ख.।" ↩︎
-
“परमामृतरसोद्भवाय ग.।” ↩︎
-
" ग्राह्योपलादि ख.।" ↩︎
-
" आम्लैः क्षारैश्च रक्तैश्च कुलित्थक्वाथमूत्रकैः" ↩︎
-
" रसकः ग.।" ↩︎
-
" स्वेदाच्छुद्धिमवाप्नुयुः ग.। " ↩︎
-
" पूर्वे ख.।" ↩︎
-
" ढालस्तेषां ख. ग.।" ↩︎
-
" बध्नीयाद्वटिकामेभिः ख.।" ↩︎
-
" सत्त्वपातनहेतवे ख. ग.।" ↩︎
-
" कान्ताभ्रे ख." ↩︎
-
" तुत्थकासीसं ख.। " ↩︎
-
" एतेषामञ्जनानां ख. ग.।" ↩︎
-
" क्षेत्रसंभवाः क. ख." ↩︎
-
" सत्त्वं जायैग.। " ↩︎
-
" तद्धमेत् ग.।" ↩︎
-
" द्रवपूर्वनेहरक्तैःकुलित्थस्वेदनं तथा क. ग. । अयं श्लोकः ख. पुस्तके नोपलभ्यते। " ↩︎
-
" सत्त्वनिपातनम् ख. ग." ↩︎
-
" सनाले लघुकोष्ठे च मूषैकैकां धमेत्ततः ग. " ↩︎
-
" मुखानां च विशोषयेत् ग.। मूषानालं ख.।" ↩︎
-
““एकैकाङ्गारकस्यान्ते ग.।” ↩︎
-
" धमेन्महादृढाङ्गारै- ख. मध्यमन्ददृढाङ्गारै- ग.।" ↩︎
-
" पलद्वितय- ग. ।" ↩︎
-
" पूर्वतः ख.।" ↩︎
-
" तालं ख.।" ↩︎
-
" तालस्तत्र विमुच्यते ख. ग.।" ↩︎
-
" दत्त्वा ग.।" ↩︎
-
" समुत्तार्य ग.।" ↩︎
-
" काचकूप्यां विनिक्षिपेत् खः।" ↩︎
-
" इति स्नेहमवाप्नोति ख.।" ↩︎
-
" मृत्पोटलीं ख.। " ↩︎
-
" बद्ध्वा ख.। " ↩︎
-
" तत्समं क. ख.।" ↩︎
-
" प्रकर्तव्यो ग.। " ↩︎
-
“यत्नतः ग.।” ↩︎
-
“अध ऊर्ध्वेच यल्लग्नं तदेकीकृत्य ग.।” ↩︎
-
“तावदेतत् ग.।” ↩︎
-
" अन्ये पिण्डा च ये ख्याता ग.। " ↩︎
-
" जारणकर्मणि ख.।" ↩︎
-
" मद्याम्लेन ख. । मध्वाज्येन ग.।" ↩︎
-
" पूरयित्वा तु मुखे चर्म निबध्यते ग.।" ↩︎
-
" हस्तमात्रं ग.। " ↩︎
-
" त्रिदिनात्र्रिदिनादूर्ध्वेनूतनं लद्दिपूरणम् ग.। उद्धृत्य त्रिदिनादूर्ध्वेनूतनं लद्दिपूरणम् ख.।" ↩︎
-
" रसं क. ख.। ज्यते ख. ग.।" ↩︎
-
" सुखरूपा ख.।" ↩︎
-
" नूतनं ख. ग.।" ↩︎
-
" शैलाभ्रकं क.। " ↩︎
-
" तद्वच्च ख. ।" ↩︎
-
" मूषया द्रुतिपातनम् क.।" ↩︎
-
" वज्रवल्लोरसं व्योम ख.। " ↩︎
-
" वरतैलेन ख.। " ↩︎
-
" हेमि ख.।" ↩︎
-
" चारणात्पचनाद्वाऽथ ज्वालनाद्द्रावणं भवेत् ग.।" ↩︎
-
" क्षारं ग.।" ↩︎
-
" लोणक्षाराम्लसंयुक्तं ख., क्षाराम्लजलसंयुक्तं ग.। " ↩︎
-
" सूतरूपा ग.।" ↩︎
-
" स्नुहिदुग्ध -ग.। " ↩︎
-
" क्रौञ्चजालिकरञ्जानां ग.।" ↩︎
-
“कूपलिकाः शुङ्गाः ।” ↩︎
-
" इषुणः क.। दमणः ख. उषकः ग.। " ↩︎
-
" नीली नलिनीबीजकम् ग.।" ↩︎
-
“त्रिफलामलकीत्वक्च पक्कविम्बीफलद्रवः क.।” ↩︎
-
" तुषजातयः क.ख.। " ↩︎
-
" एतत्कोद्रववज्यैच प्रशस्तं यवकाञ्जिकम् ख ।" ↩︎
-
" क्षणे क्षणे घ.।" ↩︎
-
" खर्जिकाक्षारनामाऽयं ग.।" ↩︎
-
" द्रावयेन्मद्ययन्त्रतः घ.।" ↩︎
-
" सत्त्वान्यभ्रादिकानि च ग.।" ↩︎
-
" रङ्गाष्टकं घ.।" ↩︎
-
" त्रिभागचूर्णकं कृत्वा घ.।" ↩︎
-
" अन्यपात्रे समादाय यावद्भवति रक्तता घ.।" ↩︎
-
" रक्तताख. " ↩︎
-
" मूत्रजलं क. ग.।" ↩︎
-
" -शोषणम् घ.। " ↩︎
-
" मालारसविभावितौं मालतिरससंङ्गतौ घ.।" ↩︎
-
" द्वादशोपलकैर्द्दढैः क; दशांशं मलकैर्द्दढैः ख.घ.।" ↩︎
-
" सकर्णिके क.। " ↩︎
-
" सप्तवारमिदं पक्वं ख. ग.।" ↩︎
-
“रत्नकर्मणि ग.।” ↩︎
-
" व्योमचारणः क., व्योमकमर्णि ख.। " ↩︎
-
" चारणे क.।" ↩︎
-
" बृहदष्टदलं ख. ग.।" ↩︎
-
" भेषाणां ग.।" ↩︎
-
" सिंहानां घ.।" ↩︎
-
" गुरुवृत्तं ग.।" ↩︎
-
" नीलकं मणिः ख.।" ↩︎
-
" नीलजीमूतसन्निभः ख. घ.।" ↩︎
-
" कीटपक्षो ख.।" ↩︎
-
" चतुर्नीलं चतुर्वर्णे प्रशस्तं ख.।" ↩︎
-
" चम्पकेन समो वर्णो क.।" ↩︎
-
" चलल्लसुनमध्यं तु ख. चलल्लसनमध्यं तु घ.।" ↩︎
-
" सवत्रैवं ख.।" ↩︎
-
" कर्तव्यं ।" ↩︎
-
“-कपिकच्छुभिः घ.।” ↩︎
-
" निम्बपत्ररसं घ.।" ↩︎
-
“च्छुमुख्या मलेनैव घ.।” ↩︎
-
" मध्ये तु कूपिकां स्थाप्य पञ्चक्षारसमन्विताम् घ. ।" ↩︎
-
" अथातः ग.।" ↩︎
-
" शुभम् ख.।" ↩︎
-
" मेषशृङ्गं ग.।" ↩︎
-
“वारुणी ग; नागरी ख.।” ↩︎
-
" बदरी वन्ध्यकां यथा घ.।" ↩︎
-
“बवरत्नानि ख.।” ↩︎
-
“अयं श्लोकः ख. ग. पुस्तकयोर्नोपलभ्यते।” ↩︎
-
" वटत्वचा तथा मेषी ख.।" ↩︎
-
“सचुम्बकम् घ.।” ↩︎
-
" कल्केन लशुनस्य च घ.।" ↩︎
-
" तेन भावयेत् क.ख." ↩︎
-
" चारणार्थे क.।" ↩︎
-
““चारणार्थे क.।” ↩︎
-
" शतक्रमोऽयं ग.। शतक्रमेण घ.।" ↩︎
-
" हेममाक्षिकमभ्रकम् ख.।" ↩︎
-
" तीक्ष्णार्के ख.।" ↩︎
-
“अयमर्धश्लोकः क. पुस्तके नोपलभ्यते। " ↩︎
-
" रुक्मं व्योमरविस्तीक्ष्णं ख. घ.” ↩︎
-
“अयमर्धश्लोकः क. ग. पुस्तकयोर्नोपलभ्यते।” ↩︎
-
" रुक्मव्योमरविर्हसं ख. घ.। ख. घ. पुस्तकयोः सर्वत्र खगं इत्यत्र रविः इति पाठ उपलभ्यते । " ↩︎
-
" रविकाञ्चनम् ख.। " ↩︎
-
“अयंपाठः क. ख. पुस्तकयोर्नोपलभ्यते ।” ↩︎
-
" शैलहिङ्गुलम् ख.।" ↩︎
-
" समं भूतैः क., समं भूतं ग.।" ↩︎
-
" शतादिके ग.।" ↩︎
-
" भागवृद्ध्या घ.।" ↩︎
-
" बीजं जीर्णे घ.।" ↩︎
-
“यथोचितम् ख. ग.।” ↩︎
-
“पातने ख., बापेन ग., पातनैः घ. " ↩︎
-
" सर्वपिण्डेषु । क.” ↩︎
-
" सेकपण्डितः क., स्तोकं स्तोकं च पिण्डकम् ग.।" ↩︎
-
“ब संशयः ख.। " ↩︎
-
" जारिते सूते ख.। " ↩︎
-
" जार्ये ग.। " ↩︎
-
“दश षोडश विंशद्वा त्रिंशद्वा जारितो रसः ग.” ↩︎
-
" ग्रहांशकाः ख. ग.।” ↩︎
-
" चारिते क.।" ↩︎
-
" लोहारविमलं ख.। श्वेताभ्रं ख.। " ↩︎
-
" प्रोक्तभागक्रमेण ख.।" ↩︎
-
" संसिक्तं ख.।" ↩︎
-
" सारितस्तस्य क.।" ↩︎
-
" तक्रलोध्रसमन्वितम् ख., तक्रलोहसमन्वितम् ग.। " ↩︎
-
" जार्यते घ.।" ↩︎
-
" माक्षीकसंयुतं कृता ग.।" ↩︎
-
" बहुधा भूधरे पुटे ग.।" ↩︎
-
" चारयेज्जारयेद्यन्त्रे ग.।" ↩︎
-
" नालिमध्ये ग. । " ↩︎
-
" नालं ग., भाण्डं क.।" ↩︎
-
" खर्परं इति शेषः ।" ↩︎
-
" अम्लैश्च परिपूरणम् ग.।" ↩︎
-
" ज्वालयेदार्भि ग.।" ↩︎
-
" पोटलीं ततः ग.।" ↩︎
-
" सुखेन हेमजारणम् क.।" ↩︎
-
" हीनषष्ठांशकं बिडम् घ.।" ↩︎
-
" वज्रमृदा ग.।" ↩︎
-
" निरुष्णके घ.।" ↩︎
-
" लिप्त्वामुखे च नालस्य घ.। " ↩︎
-
" मुखं च मृण्मयं ग.। " ↩︎
-
" यथा वज्रसमा भवेत् घ.। " ↩︎
-
" वज्रलोहस्य पानीयं गः; वज्रलोहसुपानीयं घ.।" ↩︎
-
" कलांशैश्चरसेश्वरे गः जारयेत्काचकूपके घ.।" ↩︎
-
" अकौशैर्द्वादशांशैश्च घ. ।" ↩︎
-
“दद्याद्ग्रासविधानेन घ. ।” ↩︎
-
" अष्टांशकं हेमजायै ग. ।" ↩︎
-
" जलस्थिते ग.।" ↩︎
-
" स्थलकूर्भेपुटं दद्यात्कन्दमध्ये दिने जरेत् ग.; स्थलकूर्मे जलं त्रीणि कन्दगस्निदिनैर्जरेत् क.।" ↩︎
-
" दद्यादतन्द्रितः ग.।" ↩︎
-
" मूषाभेदनमुत्तमम् घ., मुखभेदनमुत्तमम् ग.।" ↩︎
-
" मध्ये ग.। " ↩︎
-
“दण्डधारी भवेद्वस्त्रान्न क्षरतीत्यर्थः। " ↩︎
-
" चत्वारिंशांशके ग्रस्ते ग्रासे घ.।” ↩︎
-
“अविप्लुषो भवेदासनान्न चलतीत्यर्थः।” ↩︎
-
" धूमत्वेनैव घ.।" ↩︎
-
" वेदगुणे ग.।" ↩︎
-
" उत्पत्योत्पत्य क. ग.।" ↩︎
-
" शाम्यति घ.।" ↩︎
-
" श्वेता निवध्यते छाया व्योमकीर्णश्व दृश्यते घ.।" ↩︎
-
" निर्वाह्यव्योम संस्कृतम् घ.।" ↩︎
-
" गुञ्जेन्द्रगोपकीटाश्च ग.।" ↩︎
-
" बलात्रिवृत्करीरास्थि घ.। " ↩︎
-
" द्वात्रिंशद्गुणे ग.।" ↩︎
-
" उत्तीर्णे पुष्पसत्वे च घ. उत्तीर्णे तुत्थसत्त्वेन ग.।" ↩︎
-
" गन्धेन ग.।" ↩︎
-
" जारयेत् ग.। " ↩︎
-
" रङ्गाकृष्टैस्ततः पूर्वे तप्तरागैश्व रञ्जयेत् घ.।" ↩︎
-
" तं धमेत्कमयोगतः घ.।" ↩︎
-
" द्वाविंशतिगुणेन च ग.।" ↩︎
-
" अतो घ. अन्ते ग.।" ↩︎
-
" रागान्वितं ग.। " ↩︎
-
" हेमकारकः ग.।" ↩︎
-
" रश्मिण्डलकं ग.। " ↩︎
-
" बन्धितो हि रसः सम्यप्रागे देयो भवेत्स्फुटम् ग.।" ↩︎
-
" मारणैरौषधैर्व्यैर्द्रव्यैर्मूषापृष्ठं विलेपयेत् घ.।" ↩︎
-
" अवेधं घ.।" ↩︎
-
“विमर्दयेत् ग.।” ↩︎
-
" मूषार्धे घ.।" ↩︎
-
" च साधयेत् ग.।" ↩︎
-
" चरति घ.।" ↩︎
-
" साधितः ग.।" ↩︎
-
" हठेन घ.। " ↩︎
-
" कृते ग.। " ↩︎
-
" वसातैलशिलागन्धं घ.।" ↩︎
-
" लाङ्गली घ.।" ↩︎
-
“सिक्थकम् ग.।” ↩︎
-
" सर्वेषां ग.।" ↩︎
-
" सारणक्रममुत्तमम् ग.।" ↩︎
-
" अयंश्लोकःक. ग. पुस्तकयोर्नोपलभ्यते।" ↩︎
-
" सारणं घ.।" ↩︎
-
" अभ्रबीजेन घ.।" ↩︎
-
" भवेद्बीजं घ.।" ↩︎
-
" शङ्करेण घ.। " ↩︎
-
" दद्याद्धेमविधानेन घ.। " ↩︎
-
" अधिकृत्वा ग. घ.।" ↩︎
-
“विद्धनागेन ग.।” ↩︎
-
" धातुमाक्षीकं घ.।" ↩︎
-
" सिद्धधातुं च घ.।" ↩︎
-
" सुवर्णसिद्धिहेतवे ग.।" ↩︎
-
" द्वन्दमारान् घ.ग.।" ↩︎
-
" जलयन्त्रके ग. " ↩︎
-
" ततः कृत्वा ग.।" ↩︎
-
" रसपादांशकं घ.।" ↩︎
-
" पिष्टिं कुर्यात् क.।" ↩︎
-
" बन्धनौषधिमिश्रितम् ग.घ.। " ↩︎
-
" माषपिष्टिः परित्याज्या रसगोलस्तु गृह्यते ग.।" ↩︎
-
" त्रिदिनं, त्रिदिनादूर्ध्वै ग." ↩︎
-
" सारयित्वा ग.। " ↩︎
-
“दद्यात्त्रिंशद्वेधनमुत्तमम् ग.।” ↩︎
-
" पलार्धै ग. घ. ।" ↩︎
-
“कर्षैकं टङ्कणं दत्त्वा घ.।” ↩︎
-
" तु ग. घ.।" ↩︎
-
" सूतशेषेण ग. घ.।" ↩︎
-
" भूगर्ते ग. ।" ↩︎
-
“पशुयुक्तं ग.। " ↩︎
-
" सुखसाधनः ग.।” ↩︎
-
“रतियत्नैः कृतैरपि ग.” ↩︎
-
" आखोटको निबध्येत घ.।" ↩︎
-
" कृत्वाऽन्धमूषायां ग. घ.।" ↩︎
-
" सूतशेषं ग.। " ↩︎
-
" संस्कारा ग." ↩︎
-
" शतवेधी ग.।" ↩︎
-
“रक्तवर्णे च वैक्रान्तं हेमबीजं समं कृतम् ग; रक्तवर्णं तु वैक्रान्तसत्त्वं हेमसमीकृतम् घ.” ↩︎
-
" समसूतेन क.।" ↩︎
-
" जार्यते घ. सार्यते ग." ↩︎
-
" सारिते ग.।" ↩︎
-
" विध्यते घ.।" ↩︎
-
" रञ्जिते ग.।" ↩︎
-
" यत् क ।" ↩︎
-
" सोमाकैवेधयत् क.।" ↩︎
-
" हेमभागसहस्रकम् घ.।" ↩︎
-
" स्वच्छं घ" ↩︎
-
" रससमं कृतम् ग.घ.।" ↩︎
-
" कोटिवेधी घ.।" ↩︎
-
" कृष्णाभ्रकसमीकृतम् घ, बीजं चैव समं यदि ग. ।" ↩︎
-
" संस्काराच्च गुणोत्तरम् ग.।" ↩︎
-
" भूमेश्छिद्राणि ग.।" ↩︎
-
" रक्तवर्णे च वैकान्तं क.। " ↩︎
-
" चपलयुक्तं च ग.।" ↩︎
-
" नागशतांशेन घ.।" ↩︎
-
" समभागेन क. । " ↩︎
-
" द्विगुणे व्योमजे बीजे जीर्णे तु शतवेधकृत् ग., द्विगुणं विमलं बीजं जीर्णे तत्सूतवेधकृत् घ.।" ↩︎
-
" दृश्यते ग.।" ↩︎
-
" लोहं च नैव रज्यते घ.। " ↩︎
-
" कमलं क.।" ↩︎
-
" नागे च जारिते सूते घ., वङ्गंच सारितः सूतो ग.।" ↩︎
-
" मेलापकाः क.। " ↩︎
-
" आम्लतिक्ताश्च.। " ↩︎
-
“जीर्णे। " ↩︎
-
" प्रदापयेत् घ.।” ↩︎
-
" स्त्रीस्तन्यं टङ्कणक्षारो घ.।" ↩︎
-
" सुसाधनं घ.।" ↩︎
-
“रक्तवज्रस्य चूर्णं च ग.। " ↩︎
-
" स्फुटम् ग.।” ↩︎
-
" विनिक्षिपेत् घ.।" ↩︎
-
" भस्मनस्तस्य ग. ।" ↩︎
-
" खर्णस्यैकं समीकृतम् घ." ↩︎
-
" भस्मी लघुपुटे भवेत् घ.।" ↩︎
-
" तारपत्रं प्रलेपेन ग.।" ↩︎
-
" वेधो भवेद्रसात् क.।" ↩︎
-
" बीजं भागद्वयं तथा घ. । " ↩︎
-
" द्रावयित्वा ग.।" ↩︎
-
" पिष्टिबद्धो ग.।" ↩︎
-
" मृतबद्धो मृते जीवे सद्रवे नच मेलकृत् ग.; मृतबद्धो मृतो बीजे न जीवो नच मेलकृत् घ.। " ↩︎
-
“अंशाच्चलनिबद्धोऽसौ घ.।” ↩︎
-
" द्रावयित्वा ग.घ.। " ↩︎
-
" ततो वेधः स्फुटो ग.। " ↩︎
-
“वीजजारितः ग. " ↩︎
-
" अतिशुद्रो निराहारो अशुद्धलोहजारणात् ग.।” ↩︎
-
" अक्रमेणादिते ग्रादसे बिडहीनादिकल्कतः ग.।" ↩︎
-
" समहेम्ना तु सारितः ग.।" ↩︎
-
" भागसंख्या क. ग.। " ↩︎
-
" पद्मगन्धं ग.।" ↩︎
-
" गिरिनामकम् ग.।" ↩︎
-
" सुमङ्गलम् ग. घ.।" ↩︎
-
" भेदाः ग. घ." ↩︎
-
" विषपश्चममिदं प्रोक्तं शीघ्रकर्मकरं परम् ग.।" ↩︎
-
" सूतं च ग.।" ↩︎
-
" रक्तस्नेहः प्रदातव्यो ग. ।" ↩︎
-
" जारणेन घ. ।" ↩︎
-
" समुद्राच्चैव जायेत विषं तस्याच्चतुर्विधम् ग.। " ↩︎
-
" तस्य फेनसमुत्पन्नं ग.। " ↩︎
-
" विवादत्युत्तमं घ. विवादत्युत्तमं ग.।" ↩︎
-
" धारणं घ.।" ↩︎
-
" गन्धकेनैव मर्दयेत् घ., द्रावणेनैव मर्दयेत् घ.।" ↩︎
-
" स्व ग्रासक्रमेण ग. " ↩︎
-
“विशोषयेत् घ.।” ↩︎
-
" चालयेत् ग.।" ↩︎
-
“अयमर्धश्लोको ग. पुस्तके न विद्यते।” ↩︎
-
" यत्नेन घ। " ↩︎
-
" रसबिन्दुतारसंज्ञाः ग.। " ↩︎
-
" भस्मीभवति ग.।" ↩︎
-
" शतादिकोटिपर्यन्तं ग.घ.।" ↩︎
-
" कोष्ठे ग.।" ↩︎
-
" एष घ.। " ↩︎
-
" द्रव्यसंधानकारकम् क. ग.।" ↩︎
-
" हेमार्धे घ.।" ↩︎
-
" तीक्ष्णं शुद्धं च निर्वहेत् ग.। " ↩︎
-
" आवैक्रान्तानि घ.। " ↩︎
-
" अर्धबीजेन ग.घ.।" ↩︎
-
" हतं ताम्रंग.। " ↩︎
-
“त्रिधार्के तु निहत्य पुनरुत्थितम् घ.।” ↩︎
-
“अयं श्लोकः केवलं क.घ. पुस्तकयोरेवोपलभ्यते।” ↩︎
-
" समसारं च सारयेत् घ., समतारं च जारयेत् ग.।" ↩︎
-
" तु कारयेत् घ.। " ↩︎
-
" शुल्बे घ.क.।" ↩︎
-
" ताभ्यां ग.।" ↩︎
-
" मर्दयेत्तिलतैलेन ग.।" ↩︎
-
“रुक्ममष्टगुणं घ.।” ↩︎
-
" उन्मत्ततैलपाचिता ग.।" ↩︎
-
" बीजे जीर्णे तु सूतेन्द्रो नरमांसेन पाचितः घ. ।" ↩︎
-
" ख्याताः सविस्तरं घ.।" ↩︎
-
" द्वन्द्वितं समहेम्ना तु ग.।" ↩︎
-
" रुक्मं च घ.।" ↩︎
-
" वाऽनपथे ग. । " ↩︎
-
" खेचरी भवेत् ग. । अयं श्लोको घ. पुस्तके नोपलभ्यते।" ↩︎
-
" व्योमसत्त्वं घ.।" ↩︎
-
" त्रिकालं च स्थापयेद्यत्नतः सुधीः ग.।" ↩︎
-
" वश्वा ग. घ.।" ↩︎
-
“वेष्टितम् ग. घ.” ↩︎
-
" गोपनी भवेत् ग.।" ↩︎
-
" गोपयेन्नरम् ग.।" ↩︎
-
" कृष्णभूताह्नि घ.।" ↩︎
-
" सिद्धिद्रव्या ग.।" ↩︎
-
“विधिना संग्रहेच्चतान् ग.। " ↩︎
-
" एवं संग्रहयेत्तेषां कृष्णभूतानि पातयेत् ग. एतान् संग्रह्य चैतेषां कृष्णभूताङ्गि घातयेत् घ.।” ↩︎
-
" रक्षयित्वा ग.क.। " ↩︎
-
" त्रिसन्ध्याघोरपूजनात् घ. क. ।" ↩︎
-
" मत्स्यमांसासृर्ज दद्यात् ग.।" ↩︎
-
" धूपदीपे घ.।" ↩︎
-
" विशोघयेत् ग.।" ↩︎
-
" दर्पणे खं ग.। " ↩︎
-
" भ्रामयेन्मन्त्री ग. घ.।" ↩︎
-
“विश्वरूपात्सगच्छति क.; विश्वरूपात समुद्धरेत् ग.घ. ।” ↩︎
-
" भावयित्वाऽऽखुतैलेन क.। " ↩︎
-
" सा शिखा तु क., तां शिखां तु घ.।" ↩︎
-
“दशार्कषोडशादिभिः घ., अर्कषोडशवहिभिः ग.।” ↩︎
-
" सिद्धाश्चसारस्य घ., " ↩︎
-
" कर्षणा घ. ।" ↩︎
-
" तन्मण्डले मतं पात्रं तत्रान्नमक्षयं भवेत् ग., तन्मूढं गतपत्रं च तत्ताम्रमक्षयं भवेत् घ.।" ↩︎
-
" श्वेतकार्पासबीजं च मुखे यस्य विनिक्षिपेत् घ.।" ↩︎
-
" कौञ्चयोगाद्द्रवन्ति च घ.।" ↩︎
-
" सकलं ग. घ.।" ↩︎
-
" धनं ग.।" ↩︎
-
" धारयेत् घ.।" ↩︎
-
" अक्षयो मिलते हेम्ना धमनाद्बद्धतां व्रजेत् घ.।" ↩︎
-
" षण्मासाद्बद्धतां व्रजेत् घ.।" ↩︎
-
" रसं लोहं च भावयेत् ग.। " ↩︎
-
" स्थिरबद्धो भवेद्रसः घ.।" ↩︎
-
" लक्ष्यते ता विलोकयेत् ग.।" ↩︎
-
“इमौ श्लोकौ क. ग. पुस्तकयोर्नोपलभ्यते। " ↩︎
-
" कृष्णपक्षे पत्रहीना घ.।” ↩︎
-
" स्थलजा घ.।" ↩︎
-
" वने घ.।" ↩︎
-
" गोखनी गोस्तनाकारा घ.।" ↩︎
-
“तुङ्गकाकारा घ.।” ↩︎
-
" किञ्चिद्दूर्वाभा क." ↩︎
-
" कचौरकं नालकन्दा घ.।" ↩︎
-
" संवरी ग., शबरी घ.।" ↩︎
-
" च नो ध्रुवा क.। " ↩︎
-
" पत्रसुदृशा ग.।" ↩︎
-
" कालपर्णी घ. ।" ↩︎
-
" कुमुदस्यच पर्वते घ.। " ↩︎
-
" राजदन्ताकृतिः घ.।" ↩︎
-
" हेमदण्डी घ.।" ↩︎
-
" चित्रपत्रदला लता घ.।" ↩︎
-
" जयाचित्रदला घ. ।" ↩︎
-
" पालयेन्नरम् घ.। " ↩︎
-
" सुगन्धिका घ.।" ↩︎
-
" सा लता घ.।" ↩︎
-
“शिवपूजितः घ.।” ↩︎
-
" सिद्धियोगतः घ.।" ↩︎
-
" युक्तिज्ञैः क.।" ↩︎
-
" स वसरैकं घ. ।" ↩︎
-
" कान्तपात्रे ग., काचपात्रे घ.।" ↩︎
-
" वर्षमेकं ग. घ. ।" ↩︎
-
" अधःपातनयन्त्रं च ग." ↩︎
-
" ढेकयन्त्रं घ.।" ↩︎
-
“भूगर्ते ग.।” ↩︎
-
“किंचित्कौपं प्रदापयेत् क.; किञ्चित्कूर्पे प्रदापयेत् ग.।” ↩︎
-
" मृत्तिकाचूर्णकर्कराः घ.।" ↩︎
-
“अयमर्घश्लोको घ. पुस्तक एवोपलभ्यते ।” ↩︎
-
" कूर्पेण ग. घ. ।" ↩︎
-
" साहि वज्रोपमा भवेत् ग.।" ↩︎
-
" रूप्यस्य शणसंयुक्तावज्रमृत्स्नेति कथ्यते ग.। अयं श्लोक क. पुस्तके नोपलभ्यते।" ↩︎
-
" इष्टिकाचूर्णभागैकं ग.।" ↩︎
-
" शुभाः घ.।" ↩︎
-
" साधयेत्ततः ग. घ. ।" ↩︎
-
" बिडं दत्त्वा क.। " ↩︎
-
“-ऽतिचपत्तलः " ↩︎
-
" कुर्याच्छास्त्रानुसारतः घ.।” ↩︎
-
" लक्षत्रयविभूषितम् क. । लतायन्त्रं विभूषितम् घ.।" ↩︎
-
" रसाचार्येण यत्नतः घ.।" ↩︎
-
" पट्टबन्धं घ.।" ↩︎
-
“भवेदृष्टे च जायते घ.।” ↩︎
-
" शुभोदकं घ. ।" ↩︎
-
" गुरुपादौ घ. ।" ↩︎
-
" आसक्तिपूर्वै कर्तव्यं भैरवादिप्रपूजनम् घ.।" ↩︎
-
“योगिन्यश्च ससिद्धांश्च पूजयेच्च विशेषतः घ.।” ↩︎
-
" गणेशक्षेत्रपालेभ्यो भैरवेभ्यस्तथैव च घ.।" ↩︎
-
" दोषभाक् भवेत् ।" ↩︎
-
“भैरवमञ्जसा घ.।” ↩︎
-
" एवं न्यासविधानेन अविघ्नं । " ↩︎
-
" -जीर्णस्य घ." ↩︎
-
" -रसस्यच घ.।" ↩︎
-
“रिक्तवान्तस्य घ.।” ↩︎
-
“भक्षयेद्राविकामात्रं घ.।” ↩︎
-
" एवमुच्चावचः घ. ।" ↩︎
-
" अधातः संप्रवक्ष्यामि घ.।" ↩︎
-
" यन्त्रराजेन संपाच्य यावदेष ग.।" ↩︎
-
“- तारं चापि मृतं व्योम घ.। तालकान्तमृतव्योम ग.।” ↩︎
-
" इक्षुरो ग. " ↩︎
-
" उद्दण्ड -ग.। " ↩︎
-
" महाबलः क.।" ↩︎
-
" सगन्धं चक्रपाचितम् घ. ।" ↩︎
-
" कुष्टदद्रुविनाशिनी ग.। " ↩︎
-
" नाम्ना ग. घ.। " ↩︎
-
" अयमर्धश्लोको घ. पुस्तक एवोपलभ्यते।" ↩︎
-
" सर्वव्याधिहरो घ.।" ↩︎
-
" अथातः घ. ।" ↩︎
-
" धातुमारणमुत्तमम् घ. ग.।" ↩︎
-
“विंशल्लघुपुटैः ग.।” ↩︎
-
" चूर्णे घ.।" ↩︎
-
" मृतं ग.।" ↩︎
-
“व्राह्मीब्रह्मरीतिः, ब्राह्मीरसगन्धेन घ.।” ↩︎
-
“पादांशहंससंयुक्तं घ. पादोशरक्तसंसुक्त ग.।” ↩︎
-
" वटदुग्धेन ग.घ.।" ↩︎
-
" गन्धं क.॥" ↩︎
-
" अतः परं प्रवक्ष्यामि ग.।" ↩︎
-
" प्रातःकाले ग. घ.।" ↩︎
-
" पिबेत्पेयां सुशीतां शर्करायुताम् ग.।" ↩︎
-
" अनेकासंससंसर्गः घ.।" ↩︎
-
" पुमानुच्चवरस्त्रीणां घ.।" ↩︎
-
" राजिकार्धेसुशोमनम् घ. ।" ↩︎
-
" भिद्यते घ.।" ↩︎
-
" एतद्रीत्या ग.; एतत्प्रोत्या घ.।" ↩︎
-
" संक्षेपान्न तु विस्तरात् घ. " ↩︎
-
" बीरदेवो घ.।" ↩︎
-
" कनकं रसशोभनम् ग." ↩︎
-
" क्षीराब्धौ क.।" ↩︎
-
“विषं वहिर्मलश्चापि चाञ्चल्यं चाथ गौरवम् । दोषा नैसर्गिकाः प्रोक्ताः, स्मृताः सप्ताथ कञ्चुकाः ॥ भूमिजा गिरिजा वार्जा द्वे च द्वे भागवङ्ग जे॥” ↩︎
-
" कुष्ठान्यष्टौ रसान्तःस्था रसे तेऽनन्तदोषदाः क.।" ↩︎
-
" मोहकृत्सारणं दीप्तं कं ।" ↩︎
-
" रास्रागोक्षुरकैरण्डदेवदारुपुनर्नवाः ।गुडूच्यारग्वधश्चैव लघुरास्रादिव स्मृतः ॥" ↩︎