[[प्रत्यक्षशरीरम् (द्वितीयो भागः) Source: EB]]
[
[TABLE]
[TABLE]
[TABLE]
प्रत्यक्षशारीर-द्वितीयभागस्य
विषयानुक्रमणिका
<MISSING_FIG href="../../../books_images/U-IMG-1702019384120712-removebg-preview.png"/>
| ग्रन्थकर्त्तुर्निवेदनम् | प्रगण्डीयाः पेश्यः |
| पेशीखण्डम् | प्रकोष्टीयाः पेश्यः |
| प्रथमोऽध्यायः | मणिबन्धीयाः स्नायुपट्टिकाः |
| पेशीसामान्यविज्ञानीयो नाम | करपेश्यः |
| द्वितीयोऽध्यायः | पञ्चमोऽध्यायः |
| शिरोग्रीवपेशीवर्णनीयाध्यायो नाम | अधःशाखीयपेशीबर्णनीयो नाम |
| करोटिपेश्यः, भ्रू-नेत्र-नासा-मुखपेश्यः, हानव्यपेश्यः, कर्ण-जिह्वा-गलतालुपेश्यः | नितम्बीयाः पेश्यः |
| ग्रीवापेश्यः | ऊरुपेश्यः |
| गलबाह्याः पेश्यः | जङ्घागताःपेश्यः |
| गलाभ्यन्तरस्थाः पेश्यः | पादपेश्यः |
| तृतीयोऽध्यायः | धमनीखण्डम् |
| मध्यकायपेशीवर्णनीयो नाम | प्रथमोऽध्यायः |
| पृष्ठपेश्यः | रस-रक्त-संवहनसामान्यविज्ञानीयो नाम |
| कटिपेश्यः | रक्तस्वरूपं, धमन्यः, सिराः, जालकानि,हृदयं, रक्तसंवहनं, भुक्तरससंवहनं लसीकासंवहनम् |
| उरःपेश्यः | द्वितीयोऽध्यायः |
| उदरपेश्यः | उरो-हृदयवर्णनीयो नाम |
| श्रोणिचक्राभ्यन्तरीयाः पेश्यः | फुस्फुसान्तरालम् |
| मूलाधारचतुरस्रस्थाः पेश्यः | ह्रत्कोषः, हृदयम् हृदयस्यविभागः |
| चतुर्थोऽध्यायः | हृत्कार्यचक्रम् |
| ऊर्ध्वशाखीयपेशीवर्णनीयो नाम | हृत्कार्यचक्रस्य बाह्यचिह्नानि |
| प्रधाना अंसपेश्यः | |
| कक्षादरी |
| गर्भस्थवालकस्य रक्तसंवहनम् | और्वी धमनी |
| „ हृदयांशविभागः | ऊरुजानुपृष्ठिका धमनी |
| तृतीयोऽध्यायः | पुरोजङ्घिका धमनी |
| मूलधमनीबर्णनीयो नाम | पश्विमजङ्गिका धमनी |
| फुस्फुसाभिगा धमनी | पादधमन्यः |
| महाधमनी, तच्छाखाप्रविभागश्च | पादपृष्टिका धमनी |
| आरोहिणी महाधमनी | पादतलधानुषी धमनी |
| तोरणी महाधमनी | सिराखण्डम् |
| अवरोहिणी महाधमनी | प्रथमोऽध्यायः |
| औरसी, औदरीमहाधमनी च | अग्रसिरावर्णनीयो नाम |
| चतुर्थोऽध्यायः | ऊर्ध्वशाखीयाः सिराः |
| शिरोग्रीवीयधमनीवर्णनीयो नाम | अधःशाखीयाः सिराः |
| महामातृके नाम मूलधमन्यौ | द्वितीयोऽध्यायः |
| बहिर्मातृका धमनी, तच्छाखाश्च | शिरोग्रीवीयसिरावर्णनीयो नाम |
| अन्तर्मातृका धमनी, तच्छाखाश्च | शिरोबाह्याः सिराः |
| मस्तिष्कमातृके धमन्यौ | शिरोऽभ्यन्तरीयाः सिराः |
| मस्तिष्कमूलिकं धमनीचक्रम् | तृतीयोऽध्यायः |
| पञ्चमोऽध्यायः | मध्यकायसिरावर्णनीयो नाम |
| मध्यकायधमनीवर्णनीयो नाम | औरस्यः सिराः |
| औरस्यः धमन्यः | उत्तरा महासिरा |
| अक्षाधरे धमन्यौ | फुस्फुसीयाः सिराः |
| औदर्योधमन्यः | उदर्यसिराः |
| षष्ठोऽध्यायः | अधरा महासिरा |
| ऊर्ध्वाधःशाखाघमनीबर्णनीयो नाम | प्रतीहारिणी महासिरा |
| ऊर्ध्वशाखाधमन्यः | पृष्ठवंशीयाः सिराः |
| कक्षाधरा | रसायनीखण्डम् |
| बाहवी धमनी | प्रथमोऽध्यायः |
| प्रकोष्ठधमन्यौ | रसायनीसामान्यवर्णनीयो नाम |
| करधमन्यः | |
| अधःशाखीया धमन्यः |
| रसायन्यः, रसग्रन्थयः, रसकुल्ये, रसप्रपा | अन्त्रबन्धन्यः |
| द्वितीयोऽध्यायः | अग्न्याशयः |
| रसायनीविशेषवर्णनीयो नाम | यकृत् |
| ऊर्ध्वशाखीयारसग्रन्थयोरसायन्यश्च | पित्तकोषः |
| अधःशाखीया | प्लीहा |
| उदर्या | चतुर्थोऽध्यायः |
| उरस्या | मूत्र-गर्भ-प्रजननयन्त्रवर्णनीयो नाम |
| आशयखण्डम् | वृक्कौ गवीन्यौ च |
| प्रथमोऽध्यायः | वस्तिः |
| आशयसामान्यविज्ञानीयो नाम | प्रजनन-यन्त्राणि |
| द्वितीयोऽध्यायः | पुंसां प्रजनन-यन्त्राणि |
| श्वासयन्त्रवर्णनीयो नाम | वृषणौ |
| स्वरयन्त्रम् | शुक्रवाहिन्यौ |
| स्वरतन्त्रयः | शुक्रप्रपिके |
| श्वासनलिका, क्लोमनलिका वा | पौरुषग्रन्थिः |
| उरस्या, फुस्फुसधरा वा कला | स्त्रीणां प्रजनन-यन्त्राणि |
| फुस्फुसौ | बहिर्भगम् |
| तृतीयोऽध्यायः | अन्तर्भगम् |
| अन्नपचनयन्त्रवर्णनीयो नाम | गर्भाशयः |
| मुखकुहरम् | बीजाधारौ बीजवाहिन्यौ च |
| ग्रसनिका | स्तनौ |
| अन्ननलिका | पञ्चमोऽध्यायः1 |
| उदरगुहा | विविधग्रन्थिवर्णनीयो नाम |
| उदर्या कला | बहिःस्रवा ग्रन्थयः |
| आमाशयः | अन्तःस्रवा ग्रन्थयः |
| क्षुद्रान्त्रम् | उभयतःस्रवा ग्रन्थयः |
| बृहदन्त्रम् | षष्ठोऽध्यायः |
| सूक्ष्मशारीरपरिशेषवर्णनीयो नाम |
प्रत्यक्षशारीर-द्वितीयभागस्य
चित्रानुक्रमणिका
<MISSING_FIG href=”../../../books_images/U-IMG-1702027865120712-removebg-preview.png”/>
[TABLE]
[TABLE]
| चित्रसंख्या | चित्रनाम | चित्रसंख्या | चित्रनाम |
| १४९ | कोष्ठाङ्गानां यथायोग्यस्थाननिर्देशकम् | १७० | बृक्कद्वयं गवीन्यौ च |
| १५० | उदर्याख्यमहाकलायाः सन्निवेशप्रदर्शनाय उदरगुहायाऊर्ध्वाधश्छेदः (स्त्रीशरीरस्य) | १७१ | बृक्कस्य सूक्ष्मनिर्माणम् |
| १५१ | वपा, अन्त्रबन्धनानि च | १७२ | वस्तेरभ्यन्तरम् |
| १५२ | आमाशयस्य स्वरूपंनिर्माणञ्च | १७३ | पौरुषग्रन्थिसहितः शिश्नः |
| १५३ | आमाशयस्य अभ्यन्तरम् | १७४ | शिश्नस्य अवयवविभागः |
| १५४ | ग्रहण्यग्न्याशययोरवस्थानदर्शकम् | १७५ | शिश्ननिर्माणम् |
| १५५ | ग्रहणी, अग्न्याशयश्च | १७६ | वृषणग्रन्थिः |
| १५६ | क्षुद्रान्त्राभ्यन्तरस्था बलिराज्यः, रसांकुरिकाश्च | १७७ | वृषणग्रन्थेः सूक्ष्मनिर्माणम् |
| १५७ | उण्डुकस्य बाह्यभागः | १७८ | शुक्रवाहिन्यौ, शुक्रप्रपिकेपौरुषग्रन्थिश्च |
| १५८ | उण्डुकस्य अभ्यन्तरभागः | १७९ | बहिभगम् |
| १५९ | बृहदन्त्रस्य कुण्डलिका | १८० | गर्भाशयः (बीजाधार बोजवाहिन्यादियुतः) |
| १६० | गुदनलिका (विदार्य दर्शिता) | १८१ | गर्भाशयस्य अभ्यन्तरम् |
| १६१ | अग्न्याशयस्य सूक्ष्मनिर्माणम् | १८२ | बीजाधारस्य सूक्ष्मनिर्माणम् |
| १६२ | यकृत् (सम्मुखतो दृष्टम्) | १८३ | स्तनाभ्यन्तरस्था दुग्धग्रन्थयः,दुग्धस्त्रोतांसि च |
| १६३ | „ (पश्चिमतो दृष्टम्) | १८४ | ग्रैधेयकग्रन्थिः |
| १६४ | यकृतः सूक्ष्मनिर्माणम् | १८५ | ग्रैवेयकग्रन्थेः निर्माणम् |
| १६५ | यकृत्कन्दिका-संस्थानम् | १८६ | ग्रेवेयकग्रन्थिः परिवेयकग्रन्थयश्च |
| १६६ | पित्तकोषः पित्तनलिकासहितः | १८७ | ग्रैवेयकग्रन्थेः न्यूनताकृतानिलक्षणानि |
| १६७ | प्लीहा (पराबृत्य दर्शितः) | १८८ | वालग्रैवेयकग्रन्थिः |
| १६८ | प्लीह्नः सूक्ष्मनिर्माणम् | १८९ | अधिबृक्कस्य स्वरूपम् |
| १६९ | वामवृक्कः (अनुलम्बच्छेदेनदर्शितः) | १९० | पोषणकग्रन्थिः |
| १९१,१९२ | बृषणसम्बन्धिसूक्ष्मशारीर चित्रद्वयम् |
ओं नमो ब्रह्म-प्रजापत्यश्वि-वासव-धन्वन्तरि प्रभृतिभ्यः।
प्रत्यक्षशारीरस्य
द्वितीयभागारम्भे
ग्रन्थकर्त्तुर्निवेदनम्।
<MISSING_FIG href=”../../../books_images/U-IMG-1702022290120712-removebg-preview.png”/>
श्रीकृष्णकरुणासिन्धु विन्दु-स्पर्शन-पुष्पिता।
मदीयधिषणावल्ली प्रसूतां फलमुत्तमम्॥१॥
अध्यापयन्ति च विदन्ति च वेत्तुमर्थान्
वाञ्छन्ति चान्यकृतिनाञ्च गुणान् गृणन्ति।
सत्यं च नित्यमनुयान्ति लिखन्ति तत्वम्
ये तान् वुधैकशरणान् प्रणमामि विज्ञान्॥२॥
अध्यापयन्ति न विदन्ति वदन्ति चार्था-
नुच्छृङ्खलं न तु लिखन्ति निबन्धपंक्तिम्।
निन्दन्ति शास्त्ररसिकान् कृतिनो द्विषन्ति
ये तान् सुविज्ञ-कपटान् प्रणमामि चाऽज्ञान्॥३॥
धान्वन्तरीयं शारीरं सत्यं प्रत्यक्षगोचरम्।
कालेन महता नष्टं प्रतिसंस्कर्त्तृदूषितम्।
शवच्छेदविलोपेन कल्पनाऽकल्प संवृतम्।
स्वयं परीक्ष्य मृतकानुद्धरामि प्रयत्नतः॥४॥५॥
नार्थार्थं न यशोऽर्थं वा मयेदं तप्यते तपः।
लव्धं तदुभयं प्राज्यं श्रमो लोकहिताय मे॥६॥
चित्रेषु चाप्यथ शवेषु च वीक्ष्य सर्वं
शारीरवस्तु सुधियः सुधियं लभध्वम्।
शारीररोगहरणे गुणसम्पदो हि
लभ्याः शरीर-रचनैषणयैव सम्यक्॥७॥
स्थूणा-निखननन्यायात् पुनरुक्तं क्वचिन्मया।
नातिविस्तरमुक्तञ्च शिष्यबुद्धिं विजानता॥८॥
अथाऽलस्यपरैः कैश्चित् संक्षेपोऽत्रापि मृग्यते।
ते बीजरूपानध्यायान् ज्ञात्वा यान्तु कृतार्थताम्॥६॥
दोषाश्च सन्ति यदि, सन्तु किमत्र चित्रम्
दोषाकरस्य मम सञ्चरतस्तमिस्रे।
धीरा गुणाकरतया गुणमात्रतृप्ताः
युञ्जन्तु साधुसरणौ शरणार्थिनं माम्॥१०॥
<MISSING_FIG href=”../../../books_images/U-IMG-1706964636Screenshot2024-01-09212823.png”/>
प्रत्यक्षशारीरम्
<MISSING_FIG href=”../../../books_images/U-IMG-17026458111401-removebg-preview.png”/>
पेशीखण्डम्।
<MISSING_FIG href=”../../../books_images/U-IMG-17026458771402-removebg-preview.png”/>
प्रथमोऽध्यायः।
अथातः पेशीसामान्यविज्ञानीयमध्यायं व्याख्यास्यामः।
इह खलु पेश्यो नाम प्राणभृतां प्रधानानि चेष्टासाधनानि मांसमयानि।निखिलानां चेष्टानां तदाकुञ्चनप्रसारमूलत्वात्। चेष्टावेगाश्च मस्तिष्कतः, सुषुम्नाकाण्डात्, नाड़ीचक्रेभ्यो वा प्रवर्त्तन्ते चेष्टावहाभिर्नाडीभिः। नाड़ीनां च तासांचरमाः प्रशाखाः पेश्यन्तरनुप्रविष्टाः। ताश्च तत्तत्पेशीनां प्रचेष्टन्यः, अनुप्राणन्योवा कथ्यन्ते। चेष्टावेगानाञ्च भगवान् वायुरचिन्त्यशक्तिरधिष्ठाता। “स हि प्रवर्त्तकश्चेष्टानामुच्चावचानाम्”—इति प्राञ्चः2। चेष्टाः पुनः पेशीनां वाहु-सक्थि-नेत्र-मुखाद्य-वयवेष्वारोप्यमाणाः तेषामाकर्षणाऽपकर्षणोन्नमनाऽवनमन-संकोचन-प्रसारण-मुद्रण-विस्फारणादिसंज्ञा भवन्ति। तत्र आकर्षणं मध्यरेखां प्रति प्रवर्त्तनम्; अपकर्षणंदूरान्मध्यरेखातः। उन्नमनमूर्ध्वकर्षणम्। तदेव क्वचिदुत्कर्षणं कर्षणं वा।अवनमनमधोनमनम् अधःकर्षणं वा। सङ्कोचनमंगुल्यादीनां करपादतलाभिमुख्येनप्रवर्त्तनम्। प्रसारणं तद्वैपरीत्येन। सङ्कोच-प्रसार-शब्दयोश्च क्वचित्साधारणार्थेऽपि प्रयोगः3।
चेष्टाप्रवृत्तिश्च पेशीनां मृतकशरीरे यथा एकैकपेश्याकर्षणेन प्रदर्श्यते, न सातथैव प्रायेण जीवच्छरीरे। तत्र हि एकैकस्याश्चेष्टायाः प्रवृत्तिः पेशीपुञ्जद्वारेण,न त्वेकैकया पेश्या। यथा मणिबन्धसङ्कोचने क्रियमाणे युगपदेव सङ्कोचं भजन्तेत्रिचतुराः सङ्कोचनीसंज्ञाः पेश्यः प्रकोष्ठपुरःस्थाः, शिथिलीभवन्ति च तद्विपरीताः,स्थगयन्ति च प्रकोष्ठं काश्चिदपराः पेश्यः प्रगण्डीयाः—इति दिक्। एवञ्चसर्वत्र समुन्नेया युगपत्प्रवृत्तयः पेशीनाम्।
द्विविधाश्च पेश्यः क्रियावैशेष्यात्, स्वतन्त्राः परतन्त्राश्चेत्युक्तपूर्वम्। तत्रस्वतन्त्राः स्वतःक्रियाशीलाः पुरुषेच्छां नापेक्षन्ते—यथा अन्त्र-हृदयाऽमाशयगताःपेश्यः4। परतन्त्राः पुनः पुरुषेच्छयैव क्रियाशीलाः, न स्वतः,—यथा कर-चरणादि-गताः पेश्यः5। अत एव ता इच्छानुगा अपि कथ्यन्ते। तत्र स्वतन्त्राः प्रायेणआभ्यन्तर्थ्यः, परतन्त्रास्तु बाह्याः।
आकृतितः पुनरनेकविधाः पेश्यः। तत्र स्वतन्त्रास्त्रिविधाः—कोषाकाराः,नलकाकाराः, सूत्राकाराश्च। तत्र वस्ति-हृदयाऽमाशयादिषु कोषाकाराः, अन्त्रादिषुनलकाकाराः, प्लीहादिषु सूत्राकाराः। सूक्ष्मविभागतस्तु सर्वा अपि सूत्रमय्यः।परतन्त्रास्तु पेश्यः पञ्चविधाः प्रायेण।काश्चिद्दीर्घा रज्ज्वाकाराः, काश्चित्स्थूलमध्यावेमसमाकाराः6, काश्चित्तालवृन्ताकाराः, अन्याः शरपुङ्खाकाराः, अपराः प्रच्छदाकाराः।संहति-परिमाणादिभिश्च बहुधा भिद्यन्ते पेश्यः। आहुश्च प्राश्चः—“तासां बहल-पेलव-स्थूलाणु पृथु-वृत्त-ह्रस्व-दीर्घ-स्थिर-मृदु-श्लक्ष्ण-कर्कशभावाः सन्ध्यस्थिसिरास्नायुप्रच्छादका यथादेशं स्वभावत एव भवन्ति”—इति (सु० शा० ५ अ०)।
तत्रइच्छानुगानां पेशीनामेकैकस्या द्वावन्तौ स्नायुभूयिष्ठौ स्नायुमयौ वा। तौप्रायेण अस्थ्नोर्निवध्येते अस्थिधराख्यकलया संयोगेन। क्वचित् पुनर्निबन्धनं स्नायुरज्ज्वां, मांसघरकलायां, त्वचि वा। तयोरूर्द्धगं निबन्धनं स्थिरतरं प्रभवसंज्ञम्,अधोगन्तु निवेशसंज्ञम्। पेशीनां शुभ्रमसृणदृढ़प्रान्ताश्च रज्ज्वाकाराः कण्डराः7इत्युच्यन्ते। प्रच्छदायताः पुनः कलाकण्डराः कण्डरा-विताना8 वा नाम।
ताश्च पेश्य आदौ मांसधरकलया समावृताः। तामावृणोति मेदोधरानाम कला स्थूला, मेदोभूयिष्ठत्वात्तथासंज्ञा, सा क्वविद् बहिःप्रावरणी9-संज्ञाऽपि।ताञ्च संबृणोति शरीरत्वक्। मांसधरा कला तु पेशोनां सन्धारणी, सा क्वचित्आन्तरप्रावरणी10, गम्भीरप्रावरणी वा कथ्यते। तस्याश्च प्रच्छदाकाराः शाखाःपेश्यन्तरालेषु प्रतताः पेश्यन्तरालाः11नाम। तासां बहुधा कञ्चुकरूपेणपरिणामः पेशीवेष्टनाय। मांसधरायाः कलायाः केचिदंशाः पृथक्प्रदेशेषु पेशीप्रच्छदरूपेणपरिणताः पृथक्संज्ञका भवन्ति—यथा ग्रीवायां ग्रीवाप्रच्छदा, कट्यांकटिप्रच्छदा इति। क्वचिदपरविधाऽपि मांसधरा कला दृश्यते गुहान्तश्छादनी—यथा वस्तिगुहायां वस्तिगुहान्तश्छदा, उदरे उदरान्तश्छदा इति।
मेदोधरा कला पुनः स्वाभाविकशारीरसन्तापरक्षणी।सा क्वचित्तन्वी, क्वचित् स्थूला, क्वचित् स्तरद्वयविभक्ता च। तस्यां च कदाचित् सम्बध्यन्तेपेश्योऽपि तन्व्यः, पेश्यंशा वा—यथा मुखमण्डले, ग्रीवायाञ्च। प्रसरन्ति च तत्रैवत्वाच-शाखाः नाड़ी-सिरा-धमनी-रसायनीनाम्। मांसधरा कला तु प्रायो नातिस्थूला, क्वचित् स्तरद्वयविभक्ता च। तस्याञ्च कदाचित् संबध्यन्ते पेशीनां प्रभवाःनिवेशाश्च। प्रसरन्ति च तत्रैव प्रायो मांसगाः शाखाः नाड़ी-सिरा-धमनी-रसायनीनाम्।
अर्द्धश्च प्रायेण शरीरभारस्य निष्पाद्यते पेशीभिरेव। शारीरबलञ्च पेशीनिष्ठभूम्ना। सूपचित संहत-पेशीको हि पुरुषो बलवानित्युच्यते।
निर्माणं पुनः पेशीनां जलौकाशरीरवद् आकुञ्चन प्रसरणशीलैर्मासतन्तुभिःप्राधान्येन। न हि मांसं नाम पेशीतः पृथगस्ति किञ्चित्। प्रान्तास्तु पेशीनांप्रायः स्नायुमया एवेत्यवोचाम। तत्र मांसतन्तवः अनुप्रस्थरेखाङ्किता नातिघनसंघाता दीर्घाश्च परतन्त्रासु पेशीषु। अनुलम्बरेखाङ्किता घनसंघाता हृस्वाश्च स्वतन्त्रासु पेशीषु। उभयधर्मिणस्तु ते ह्रत्पेश्याम्।
पोषणं च सर्वासां पेशीनां तदन्तःप्रसृतेभ्यः सिराधमनीजालकेभ्यो निःस्रुतेनलसीकाख्यधातुना12सम्पद्यते। सोऽयं जीवतः पुरुषस्य पेशीषु संचरन् तन्मार्दवकरःपेशीरसो13नाम। स च यदा प्राणापगमे स्त्यानीभवति, तदा सुदृढ़ं सङ्कोचमापद्यन्तेपेश्यः। सोऽयं मरणसङ्कोचः14, मरणाक्षेपो वा नाम। तद्विरतिश्च कालेनमांसकोथारम्भात्।
सन्ति च संज्ञावहा अपि नाड्यः पेशीषु। ताभिश्चेष्टाकृतं पेशीसंज्ञानमूह्यतेमस्तिष्काभिमुखम्। तञ्च संकोचप्रसारकृतं संज्ञाविशेषं पेशीसंज्ञेति15 वर्णयन्तिविशेषज्ञाः, त्वाचसंज्ञापार्थक्यात्। द्रव्याणां गुरुत्व-लघुत्वादिज्ञानञ्च पेशीसंज्ञामूलम्।
नामानि तु पेशीनां क्वचिदवस्थानविशेषात्—यथा शङ्खच्छदेति। क्वचित्प्रभवनिवेशाभ्यां—यथा उरः-कर्णमूलिकेति। क्वचित् कार्यतः—यथा अंगुलीसङ्कोचनीति। क्वचिदाकृतिविशेषात्—यथा द्विशिरस्केति। क्वचिद् यददृच्छया—यथा काकलकिनोति। एष चात्र संग्राहकः श्लोकः—
अवस्थानान्निवेशादेः कार्यतश्चाकृतेस्तथा।
यदृच्छया च पेशीनां चित्राः संज्ञाः प्रकल्पिताः॥ इति
अथ संख्यानम्। बहुधा खल्बिह संचक्षते पेशीःशारीरविदः। पञ्चशतातिपेश्य इति प्राञ्चः। षट् शतानि न्यूनाधिकानीति प्रतीच्याः। संख्याभेदश्च प्रायेणसंयोगविभागभेदेन ग्रहणात्। तथाहि अंगुलीसङ्कोचन्यादिपेशीनां पृथग् विभागादेव शाखासु संख्याधिक्यं प्राचां, संयोगेन संख्याल्पत्वमितरेषाम्। शिरसि पुनःसंयोगतो वचनात् संख्यात्त्पत्वं प्राचाम्, विभागेन बाहुल्यं नव्यानामिति दिक्।
इह तु साशीतिश्चतुःशती पेशीनां वर्ण्यते, लाघवात्। संख्यानञ्च परतन्त्राणामेव। स्वतन्त्रास्तु पेश्यस्तत्तदाशयान्तर्गता नेह पृथग् गण्यन्ते।
तच्च संख्यानं स्थानप्रविभागत उच्यते। यथा द्व्यधिकाऽशीतिः शिरसिस-मुखमण्डले। एकाधिकाऽशीतिर्ग्रीवायाम्। एकादशोत्तरं शतं मध्यकाये।ऊर्ध्वशाखयोरष्टानवतिः। अष्टोत्तरशतम् अधःशाखयोरिति। तदेतत् पेशीविज्ञानंसमासेनोक्तम्। विस्तरोऽत ऊर्ध्वम्।
स्मर्त्तव्यं चात्र—
अङ्गचेष्टा विवेकार्थं पेशीविज्ञानमुच्यते।
भग्न-विश्लिष्ट-सन्धान सौकर्यार्थं विशेषतः॥
इति प्रथमोऽध्यायः।
<MISSING_FIG href=”../../../books_images/U-IMG-1706965586Screenshot2024-01-09212823.png”/>
द्वितीयोऽध्यायः।
अथातः शिरोग्रीवपेशीवर्णनीयमध्यायं व्याख्यास्यामः।
इह खलु द्व्यधिकाऽशीतिः पेशीनां शिरसि समुखमण्डले निर्द्दिष्टा। तासांनवसु स्थानेषु विभागः। तद्यथा—करोटिपटले एका। प्रतिभ्रु वं द्वे। प्रतिनेत्रमभ्यन्तरतः सप्त। प्रतिनासापार्श्वंपञ्च। मुखं परित एका, तदेकैकतोऽष्टौ।हानव्या एकैकतश्चतस्रः। प्रतिकर्णं तिस्रो बहिः, द्वेचाभ्यन्तरतः। जिह्वायामेकैकार्द्धेचतस्रः, मध्ये चैका। गलतालुनि एकैकतश्चतस्रः, मध्ये चैकेति। तासु बाह्याःएक पेश्यो बहिःप्रावरण्यैव समावृताः। गम्भीरप्रावरण्या अपृथग्भूता तु शिरश्छदानाम पेशी।
(१) तत्र करोटिपटले प्रच्छदायता पेशी एकैच शिरश्छदा16")नाम (६८ चित्रम्)। सा पश्चात्कपालस्य उत्तरतोरणिकोपकण्ठात् संभूय पुरःकपालं
(६८ चित्रम्)
बाह्याः शिरोग्रीवायाः पेश्यः (उत्तानाः)।
| <MISSING_FIG href=”../../../books_images/U-IMG-170248505512131.png”/> |
| शिरश्छदायाः पूर्वभागः | शिरश्छदायामध्यभागः (स्नायुमयः) |
| नेत्रनिमीलनी | कर्णचूड़िका |
| सृक्कणीसमुन्नमनी | कर्णपूर्विका |
| मुखमुद्रणी | शिरश्छदायाः पश्चिमभागः |
| अधरावनमनी | कर्णपश्चिमा |
| सृक्कणीनमनी | हनुकूटकर्षणी |
| सृक्कणीकपणी (गुर्वी) | प्रहासनी |
| गलपार्श्वच्छदा | उरःकर्णमूलिका |
| पृष्टच्छदा |
** ६८ चित्रस्य व्याख्या—**१ नासामूलसंनमनी। २ नासोष्टकषणी। ३ नासासंकोचनी। ४ नासाविस्फारणी अग्रिमा पश्चिमा च। ५ नासोष्टकर्षणी। ६ सृक्कणीकर्षणी लघ्वी।
यावद् विस्तृता भ्रूमध्यमुभयतो निविशते। प्रभवनिवेशौ चास्याः शिरःप्रच्छादन्यांमेदोधरकलायामेव भूम्ना। अस्याः पुरः-पश्चिमौ भागो मांसमयौ, मध्यभागस्तुकलावितानमयो गम्भीरप्रावरण्या अभिन्नश्च। अनुप्राणयति च तस्याः पुरोभागंवक्त्रनाड्याः शङ्खानुगा शाखा, पश्चिमभागं तु तस्या एव कर्णपश्चिमा शाखा। क्रिया चास्याः—ललाटसङ्घोचनं, भ्रुवोरुन्नमनं च।
(२) प्रतिभ्रुवं द्वेपेश्यौ(६८ चित्रम्)—एका नेत्रगुहाद्वारमभितो वृत्तप्रायानेत्रनिमीलनी17नाम। अपरा भ्रूमध्यपार्श्वतः क्षुद्रा—भ्रूसंकोचनी18 नाम।उभे अपि पुरःकपालस्य भ्रू तोरणिकान्तःकोटितः सम्भूते। निविशते तु प्रथमानेत्रपुटयोः, त्वचि च नासामूलपार्श्बतः। द्वितीया पुनस्त्वचि भ्रू मध्यपार्श्वतः,भ्रू संकोचन्यां च तिरश्चीनभावेन। तदेतदेकैकतः पेशीद्वयं वक्त्रनाड्याः शङ्खगण्डानुगाभ्यां शाखाभ्यां प्रचेष्टितं भवति। चेष्टा च स्वनामव्याख्याता। प्रथमायाश्चक्षुद्रोंऽशः अभ्रुवाहिकां परितः संबद्धः—सोऽश्रुविसर्जनकार्यः। पेशी चेयमश्रुविसर्जनीति केचित्।
(३) प्रतिनेत्रमभ्यन्तरतः सप्त पेश्यः। तासां षट् अक्षिगोलकस्य नानाविधचेशप्रवर्त्तिन्यः, एका उत्तरनेत्रपुटस्य उन्मीलनी। तासां नामानि—ऊर्ध्वदर्शिनी19, अधोदर्शिनी20, अन्तदर्शिनी21, बहिदर्शिनी22, वक्रोर्ध्वदर्शिनी,23 वक्राधोदर्शिनी24, नेत्रोन्मीलनी25 चेति।सर्वासां चासां नेत्रगुहान्तःप्राचीरास्थिभ्यः प्रभवः। निवेशस्तु षण्णां नेत्रगोलकमभितः, सप्तम्या उत्तरनेत्रपुटे। नाड्यश्च तासां प्रचेष्टन्यस्तिस्रः—तृतीया, चतुर्थी,षष्ठी चेति। तद्विस्तरो नेत्रवर्णनीयाध्याये वक्ष्यते। (चित्रञ्च तत्रैव)।
(४) नासापेश्यस्तु प्रतिनासापार्श्वं पञ्च तनुदीर्घाः—(६८/६६ चित्रम्)नासामूलसंनमनी26 इयमेव पूर्वमुद्रणेषु भ्रू संनमनी संज्ञासीत्।”),नासासङ्कोचनी,27.”) नासावनमनी28, नासाविस्फारणी अग्रिमा29, सैव पश्चिमा30,चेति। तत्राद्यानासास्थिमूलपार्श्वतः संभूय शिरम्छदया संवध्यते। अपरास्तु नासापुटं परितः तत्प्राचीरनिर्मापकतरुणास्थिभ्यां त्वचा च संबद्धाः। तासां क्रियाःस्वनामव्याख्याताः। क्रियावत्त्वञ्चवक्त्रनाडीशाखाभिरेव।
[ ६९चित्रम् ]
बाह्याः शिरोग्रीवीयाः पेश्यः (गम्भीराः)।
| <MISSING_FIG href=”../../../books_images/U-IMG-17020513960802.png”/> |
| भ्रूसंकोचनी | शङ्खच्छदा |
| भ्रूसंगमनी | सृक्कणीकर्षणी(मूलमात्रम्) |
| नासोष्ठकर्षणो | ह्रनुकूटकषणी |
| अग्रिमा पश्चिमा च | द्विगुम्फिका शेषांशः |
| नासासंकोचनी | शिरोग्रीवविवत्तनी |
| सृक्कणौसमुन्नमनी | शिफाकण्ठिका |
| नासावनमनी | उरःकर्णमूलिका |
| नासासङ्कोचनी | अंसोन्नमनी |
| मुखमुद्रणी | पर्शुकाकर्षणी मध्यमा |
| कपोलिका | अंसकण्ठिका |
| सृक्कणीनमनो | पृष्ठच्छदा |
| अधरावममनो | अवटुकण्ठिका |
| अधरोत्क्षेपणी | अंसकण्ठिका |
| मुखभूमिकण्ठिका | उरःकण्ठिका |
| द्विगुम्फिका पूर्वाशः | पर्शुकाकर्षणी पुरोगा |
(५) मुखपेश्यस्तु एका मध्ये, अष्टौ उभयतः (६५ चित्रम्)। तत्र मध्यस्था वृत्तप्राया ओष्टाधरं संवेष्ट्य स्थिता, सा अष्टानामपरासां निवेशभूमिः। सेयं मुखमुद्रणी नाम। अपरास्त्वष्टौ नासापार्श्वतो बहिःक्रमेण एकैकतः, यथा—नासोष्ठकर्षणी, सृक्कणीसमुन्नमनी, सृक्कणीकर्षणी (लघ्वी गुर्वी च), कपोलिका, ग्रहासनी, सृक्कणीनमनी, अधरावनमनी, अधरोत्क्षेपणी चेति।
तत्रमुखमुद्रणी31ऊर्ध्वं नासामध्यप्राचीरमूले, अधस्ताद् अधाहनुमण्डले अग्रिमदन्तचतुष्टयमुभयतः संवद्धा। सेयमोष्ठाधरं मुकुलीकृत्य मुखविवरंमुद्रयति।
नासोष्ठकर्षणी32नाम पेशी मूलत्रयवती पूर्वं-पश्चिमांशविभागेन युग्मा।तस्या एकं मूलमूर्ध्वहन्वस्थ्नोनासाकूटे, अन्यत् तस्यैव नेत्राधरीयविवराधः, अपरंगण्डास्थ्नो गण्डकूटे निबद्धम्। निबेशस्तु तेषां नासापार्श्वस्थे तरुणास्थ्नि,सृक्कणां यावत् मुखमुद्रण्यां, ओष्ठे च।
सृक्वणीसमुन्नमनी33")नाम पेशो पूर्वोक्तायाः पृष्ठतः स्थिता। सा ऊर्ध्वहन्वस्थ्नोनेत्राधरीयविवराधःप्रदेशात् संभूय सृक्वण्यां संबद्धा।
सृक्वणीकर्षणी34 सृक्कणी सुक्कणोति उभयविधः पाठः साधुः।")गण्डास्थ्नः सम्भूय सृक्कण्यां निविशते। तस्या द्वौभागौ, अग्रिमपश्चिमभेदात्। तत्राद्या लघ्वी नाम, अपरा गुर्वीति केचित्।
कपोलिका35 नाम पेशी कपोलनिर्मापिका प्रततप्राया। सेयमूर्द्ध्वाधोहनुमण्डलयोः पार्श्वाभ्यां सम्भूय, अग्रतः सृक्वणीमूले मुखमुद्रण्यां च संबद्धा।
**प्रहासनी36**नाम तनुपेशी हनुसन्धिच्छादन्या मांसधरकलायाः सम्भूय सृक्कण्यां निविशते।
**सृक्वणीनमनी37”)**नाम त्रिकोणाकारा पेशी अधोहनुमण्डलस्य बाह्यतिरश्चीनाख्यरेखायाः संभूय अधरमूले सृक्कण्यां च संबद्धा।
अधरावनमनी38 नाम चतुरस्रा पेशी पूर्वोक्तप्रदेशादेबसम्भूता, अधरमूलेच सन्निविष्टा।
अधरोत्क्षपणी39 अधरपदं च निम्नोष्टबाधि।”) अधोहन्वस्थ्नश्चिबुकपिण्डात् सम्भूय अधराधःसन्निविष्टा।
क्रियाश्चासां स्वनामव्याख्याताः। विशेषतस्तु कपोलिका चर्वणसमयेकपोलस्य सङ्कोचविस्फाराभ्यां तत्कर्मसहाया भवति। शंखाध्मानकाले चझूत्कारिणी पेशी सैव। प्रहासनी तु सृक्वणींबहिःकर्षन्ती हास्यसहाया सम्पद्यते।अधरोत्क्षेपणी चिबुकमुत्क्षिपति सहाऽधरेण युगपत्।
अनुप्राणनन्तु सर्वासां मौखिकपेशीणां वक्त्ननाड्या मौखिकशाखया, अधोहानव्यशाखया च। तत्र मुखमुद्रणी एकैकार्द्धेउभाभ्यां शाखाभ्यां सक्रियाभवति। अपरासामूर्ध्वस्थं पञ्चकं मौखिकशाखया, अधःस्थंत्रितयमधोहानव्यशाखयेति विशेषः।
(६) हानव्यास्तु पेश्यश्चतस्त्र एकैकतः। तत्र—
शंखच्छदा40नाम प्रथमा पेशी (६९चित्रम्) करोटिपक्षस्थात् शंखखातात्संभूता तालवृन्ताकारा। सा अधोहनुकुन्तस्य अन्तर्बहिस्तलयोः सन्निविष्टा।छाद्यते च सा शंखतोरणिकाख्यरेखाविलग्नया शंखप्रच्छदाख्यया प्रावरण्या।सेयं मांसला पेशी हनुकुन्तम् ऊर्द्ध्वंकर्षन्ती अग्रदन्तानूर्द्ध्वाधःस्थान् संहत्य कर्तनकर्मसहाया भवति।
[ ७० चित्रम् ]
| <MISSING_FIG href=”../../../books_images/U-IMG-17020539720803.png”/> |
| हनुमूलकर्षणी उत्तरा | ऊर्ध्वहन्वस्थि |
| हनुमूलकर्षणी अधरा | हनुसन्धिः |
| [उभे अपि पेश्यौ गण्डचक्रहनुकुन्तयोरपसारणेन प्रदर्शिते] | शङ्खास्थ्नः कर्णविवरपश्चिमो भागः |
| अधोहन्वस्थि |
** हनुकूटकर्षणी41**नाम द्वितीया पेशी (६९चित्रम्) अस्थित्रितयात्मकस्यगण्डचक्रस्य आभ्यन्तरप्रदेशात् अधोधारातश्च संभूता अधोहनुकूटस्य वहिःसंलग्ना।सा कर्णमूलच्छदाख्यया प्रावरण्या प्रावृता। सेयं मांसला बलवती च पेशीविशेषात् चर्वणकर्मसहाया भवति। तत्पश्चिमतश्च महान् लालाप्रन्थिः कर्णमूलिको नाम।
** हनुमूलकर्षणी** संज्ञ द्वे पेश्यौ—उत्तरा42 अधरा43 चेति। (७०चित्रम्) तयोरुत्तरा जतूकास्थ्नोवृहत्पक्षतेश्चरणस्य च बहिस्तलतो मूलद्वयेन संभूयअधोहनुमुण्डस्य मूले निविशते। अधरा तु जतूकास्थ्नश्चरणान्तरालात्, ताल्वस्थ्नः,ऊर्द्ध्वहन्वस्थिपिण्डस्य पश्चिमार्वुदाच्चसंभूय अधोहनुकोणस्य आन्तरतले संलग्ना।उभे अप्येते चर्वणकर्मसहाये भवतः। प्रच्छन्ने च ते गण्डचक्र-हनुकुन्ताभ्याम्।
** **प्रचेष्टन्यो नाड्यस्तु चतसृणामपि अधोहानव्याः शङ्खच्छदादीनां नाम पञ्चमनाड्याः शाखाप्रतानाः।
** **(७) प्रतिकर्णं तिस्रः पेश्यो बाह्याः। ताः कर्णपालीं परितः संबद्धाः—कर्णपूर्विका, कर्णपश्चिमा, कर्णचूड़िका चेति44.। कर्णपश्चिमा—Auricularis Posterior (Retrahens aurern ).। कर्णचूड़िका—Auricularis Supererior (Attolens aurem).”)(६८ चित्रम्)।तासामाद्ययोः प्रभवः करोटिपार्श्ववर्त्तिनी मांसधरा कला, पश्चिमायास्तु शंखास्थोगोस्तनप्रवर्द्धनकम्। तिस्रोऽपि ताः पेश्यो मानुषेषु विलुप्तक्रिया दृश्यन्ते प्रायः45पश्वादिषु तु कर्णसञ्चालनकार्याः। प्रचेष्टन्यो नाड्यस्त्वासां वक्त्ननाड्याःप्रशाखाः।
** **अपराश्च पञ्चषाः46 क्षुद्रपेश्यः कर्णपाल्यां दृश्यन्ते। ता अतिक्षुद्रा निष्क्रियाश्चेति नेह वर्ण्यन्ते।
** **द्वे चापरे पेश्यौ अन्तःश्रवणेन्द्रियं दृश्येते एकैकतः—ते पटहोत्तंसनीपर्याणिका चेति। तद्विस्तरः श्रवणेन्द्रियवर्णने वक्ष्यते।
** **(८) जिह्वायां नव पेश्यः। एका मध्यतो जिह्वानिर्माणाय तन्तुगुच्छिकानाम। अपराश्चतस्त्र एकैकतो जिह्वापार्श्वेसंबद्धाः। ताः चिवुकजिह्वाकण्ठिका,शिफारसनिका, जिह्वाकण्ठिका अनुजिह्वाकण्ठिका चेति। तद्विस्तरो रसनावर्णने वक्ष्यते।
(९) गलतालुनि नव पेश्यः। तत्र तालुत्तोलनी, तालूत्तंसनी, तालुजिह्विका, गलतालुका चेति चतस्रः पेश्यः एकैकस्मिन् पार्श्वे, मध्ये त्वेका काकलकिनीनाम। तद्विस्तरो गलतालुवर्णने वाच्यः।
सेयं द्व्यधिकाशीतिः पेशीनां शिरसि व्याख्याता।
अथ ग्रीवापेश्यः।
अंशीतिरेकाधिका पेश्यो ग्रीवायाम्। तत्र गलबाह्याः षट्पञ्चाशत्। ताःपञ्चसु प्रदेशेषु विभज्य वर्ण्यन्ते—तद्यथा गलपार्श्वयोश्चतस्रः। गलमूलतः षोड़श।ग्रीवावंशस्य पुरस्तादष्टौ, पार्श्वयोश्चाष्टौ। शिरोग्रीवपृष्ठतो विंशतिरिति। तासुद्वयोः पृष्ठच्छदयोः पृष्ठपेशीषु संख्यानात् इह चतुःपञ्चाशदेव संख्यायन्ते। गलाभ्यन्तर्य्यःपेश्यस्तु स्वल्पाः सप्तविंशतिः। तद्यथा—अन्नमार्गं परितो दश, स्वरयन्त्रंपरितश्च सप्तदशेति। एवमेकाधिकाशीतिः साकल्येन ग्रीवापेशीनाम्।
तत्र गलबाह्याः पेश्यः प्रावरणीद्वयेन प्रावृताः।तयोर्बाह्या प्रावरणी गलपार्श्वच्छदया नाम प्रच्छदाकारपेश्या मिलिता।आभ्यन्तरी तु प्रावरणीग्रीवाप्रच्छदा47")नाम।
\सेयं पुरःपश्चिमग्रीवोयाः पेशीः साकल्येनावृणोति, विभजते च ताःपेश्यन्तरालप्रविष्टाभिः कलाभिः। तासाञ्च कलानांमध्ये ग्रीवापार्श्वगेन शाखाद्वयेनआरच्यते कञ्चुकं [मातृकाकञ्चुकं48 नाम। तद् महामातृकाख्यधमन्याः, अनुमन्याख्यसिरायाः, प्राणदाख्यायाः नाड्याश्च एकत्र धारणार्थम्। अथापरं महाकञ्चुकंपुरस्तान्मध्यरेखायां दृश्यं ग्रीवामध्यकञ्चुक49नाम, तत् श्वासान्ननलिकयोःग्रैवेयग्रन्थेश्च एकत्र धारणाय। तस्य च ग्रीवामध्यकञ्चुकस्य पुरोभागः उर्ध्वहनुपश्चिमदेशात् कर्णमूलान्तं प्रसृतः, सेयं कर्णमूलच्छदा50नाम प्रावरणी। अधश्चउरोगुहायां श्वासनलिकायाः पुरस्तात्प्रसृतः स एव हृदयधराख्यकलाकोषस्यबाह्यस्तरेण संसज्यते हृदयस्य बन्धनीभूतः। तत्पश्चिमभागस्तु ग्रीवावंशपुरस्थानांगम्भीरपेशीनामाच्छादनः, सा वंशपुरस्त्या51 नाम प्रावरणी। सेयमधस्तात्पृष्ठवंशपुरोभागे उरोगुहापश्चिमांशे प्रसृता52।]
अथ गलबाह्याः पेश्यः।
(क) गलपार्श्वे एकैकतो द्वे पेश्यौ गलपार्श्वच्छदा, उरःकर्णमूलिका चेति। तत्र—
गलपार्श्वच्छदा53नाम (६८ चित्रम्) तनुप्रच्छदायता ग्रीवार्धावरणी पेशीअंसोरश्छादिन्याः प्रावरण्याः संभूता, अधोहन्वस्थ्नो निम्नधारायां, सृक्कण्यां, त्वचिच संबद्धा। सेयं गलावरणत्वचः सङ्कोचनं किञ्चिन्मुखव्यादनसहायतां चविदधाति। तस्याः प्रचेष्टनी नाड़ी वक्त्रनाड्याः शाखा।
उरःकर्णमूलिका54 नाम (६८/६९ चित्रम) पेशी दृढ़पट्टिकासमाकारास्थूलतिरश्चीना। सा उरःफलकशिखरादक्षकोरःसन्धानाच्च संभूय शङ्खास्थ्नोगोस्तनप्रवर्द्धने पश्चात्कपालस्य उत्तरतोरणिकाबहिरर्द्धे च सन्निविष्टा। सेयं शिरसःपार्श्वतोऽधश्च विवर्त्तनी बलवती पेशी, या दृढसंकोचेन तिष्ठन्ती मन्यास्तम्भाख्यंरोगं जनयति। तस्याः प्रचेष्टनी नाड़ी नागिनी नाम (एकादशी), ग्रीवावंशविनिर्गताः कतिचिदपराश्च नाड्यः। तदेतत् गलपार्श्वगं पेशीचतुष्टयं व्याख्यातम्।
(ख) गलमूले एकैकतोऽष्टौ पेश्यः। तद्यथा—(६९।७१।७२ चित्रेषु)
द्विगुम्फिका55 नाम उभयतो गुम्फद्वयवतो तनुमध्या पेशी। सा पश्चिमगुम्फेन शङ्कास्थ्नो गोस्तनप्रबर्द्धनात्, अग्रिमगुभ्फेन अधोहन्वस्थ्नश्चिवुकपिण्डाच्चसमुत्थिता मध्यभागे कलामयबन्धन्या कण्ठिकास्थिपार्श्वतः संबद्धा। सेयं पाशवद्एकैकतो ग्रीवापार्श्वे लम्बमाना कदाचित् चिबुकमवनमयति, कदाचित् कण्ठिकास्थिपार्श्वमूर्ध्वकर्षति। तस्याः प्रचेष्टनी नाड़ी अग्रिमगुस्फं प्रति अधरदन्तिकायाःनाड्याः शाखा, पश्चिमगुस्फं प्रति तु वक्त्रनाड्याः शाखा।
शिफाकण्ठिका56 नाम तन्वी पेशी शंखास्थ्नः शिफाग्रबर्द्धनात्संभूयकण्ठिकास्थ्नो मध्यपिण्डपार्श्वतः संबद्धा, संसज्यते चेयं स्वनाम्ना स्नाय्वा।साऽसौ कण्ठिकास्थनः ऊर्ध्वं पश्चाच्च कर्षणी। अनुप्राणिता चेयं वक्त्रनाड़ीशाखया।
**मुखभूमिकण्ठिका57**नाम त्रिकोणायता पेशी मुखभूमिनिर्मापिका।
[ ७१ चित्रम् ]
गलबाह्याः पेश्यः (गम्भीराः)।
| <MISSING_FIG href=”../../../books_images/U-IMG-17020590820804.png”/> |
| अधोहनुः | उरः कर्णभूलिका |
| मुखभूमिकण्ठिका | शिफाकण्टिका |
| द्विगुम्फिकापूर्वांशः | शिरोग्रीवविवर्त्तनी उत्तरा अधरा च |
| कण्ठिकास्थि | उरः कर्णमूलिका |
| जिह्वाकण्ठिका | अंसोन्नमनी |
| अवटुकण्ठिका | अक्षकास्थि |
| अंसकण्ठिका (पूर्वांशः) | उरःकण्ठिका |
७१ चित्रस्य व्याख्या—१ पृष्ठच्छदा (मूलम्)।२ द्विगुम्फिका (शेषांशः)।३ पर्शुकाकर्षणी पुरोगा। ४ पर्शु्काकर्षणी मध्यमा। ५अंसकण्ठिका (शेषांशः)।६ पृष्ठच्छदा मध्यांशः।
[अत्र प्रदर्शिताः काश्चन पेश्यः ६९/७२ संख्यक चित्रयोरपि दृश्याः]
[ ७२ चित्रम् ]
गलमूलपुरोगाः पेश्यः।
| <MISSING_FIG href=”../../../books_images/U-IMG-17023113281101.png”/> |
| चिवुककण्ठिका | चिवुकदेशः (उन्नमितः) |
| शिफारसनिका | मुखभूमिकण्ठिका |
| जिह्वाकण्ठिका | द्विगुम्फिका |
| कण्ठिकास्थि | शिफाकण्टिका |
| अवटुः | उरःकण्ठिका |
| अंसकण्ठका | अंसकण्ठिका |
| अवटुकण्ठिका | उरःवर्णमुलिका |
| उरोऽवटुका | उरोऽवटुका (मूलदेशः) |
| श्वासनलिका | पृष्ठच्छदा |
| ग्रैवेयक ग्रन्थिः | उरःफलकशिखरम् |
| अंसकूटम् | अक्षकास्थि |
** ७२ चित्रस्य व्याख्या—**१ अंसकण्ठिका शेषांशः।
सेयमेकैकतः अधोहनुमण्डलस्य आन्तरतिरश्चीनाख्यरेखातः संभूय कण्ठिकास्थिपिण्डे संबद्धा। सा चअपरपार्श्वस्थया स्वनामिकया पेश्या चिबुकाधः संसक्तामुखभूमिमध्ये सेवनीमारचयति। तस्याः कार्यं चिबुकानमनं, कण्ठिकास्थिकर्षणंवा। प्रचेष्टनी नाडी अधरदन्तिकायाः शाखा।
चिबुककण्ठिका58 नाम तन्वी पेशी अधोहन्वस्थ्नश्चिबुकपिण्डस्थात्रसनाकलायकात् संभूय कण्ठिकास्थ्नः पुरोभागे संलग्ना इतरपार्श्वस्थयास्वनामिकया पेश्या संसज्यते। तस्याः कार्यं पूर्ववत्। प्रचेष्टनी तु नाडी प्रथमाअनुग्रोविका नाम, जिह्वामूलिन्याः शाखा च।
उरःकठिका59 नाम तन्वी पेशी उरःफलकपृष्ठतः संभूय कण्ठिकास्थ्निसंलग्ना। सा कण्ठिकास्थ्नः अधःकर्षणकार्या। तस्याः प्रचेष्टनी नाड़ीजिह्वामूलिन्याः शाखापाशोत्था प्रशाखा।
**उरोऽवटुका60**नाम ह्रस्वायता पेशी उरःफलकशिखरतः प्रथमद्वितीयोपपर्शुकयोश्यासंभूय अवटुसंज्ञकस्य ग्रीवामध्यगतरुणास्थ्नः पार्श्वसंलग्ना, इतरयास्वनामपेश्या संसज्यते। कार्यञ्चास्याः स्वरयन्त्रस्य अधः कर्षणम्। प्रचेष्टनी नाड़ीतु जिह्वामूलिन्याः शाखापाशोत्था प्रशाखा।
अवटुकण्ठिका61 नामहस्वचतुरस्रा पेशी अवटुसंज्ञकतरुणास्थ्नः संभूयकण्ठिकास्थ्नो महाभुङ्गाधः संलग्ना। कार्यं चास्याः स्वरयन्त्रस्य ऊर्ध्वकर्षणंकण्ठिकास्थ्नः अधःकर्षणं वा। प्रचेष्टनी नाड़ी जिह्वामूलिन्याः शाखा।
अंसकण्ठिका62 नाम दीर्घमांसला पेशी अंसकपालस्य शिरःकोटरपार्श्वतः संभूय तिर्यग्गता स्तोकेन स्नायुबन्धनेन अक्षकास्थिसंसक्ता, सा तिर्यगूर्ध्वंगत्वा कण्ठिकास्थिपिण्डस्य अधोधारायां निविशते। तस्याः प्रचेष्टनं जिह्वामूलिन्याःनाड्या निम्नगशाखया।
ता एताः षोड़श गलमूलस्थाः पेश्यो व्याख्याताः।
(ग) अथ ग्रीवावंशस्य पुरस्तादेकैकतश्चतस्रः पेश्यो गम्भीराः। (७३ चित्रम्)
ता श्वासान्नमार्गयोः पृष्ठतो वर्त्तन्ते। तासु—
दीर्घग्रीविका63नाम धनुर्वक्रामांसला पेशी ग्रीवावंशस्य पार्श्वतः स्थिता।तस्यास्त्रयो भागाः—ऊर्ध्वभागः, अधोभागः, मध्यभागश्चेति। तत्रोर्ध्वभागः तृतीय-चतुर्थ-पञ्चमग्रीवाकशेरुकाणां बाहुप्रवर्धनकेभ्यः संभूयचृड़ावलयाख्यग्रीवाकशेरुपिण्डेतिर्यक्संलग्नः। अधोभागः द्वित्राणां64‘आदिम-पृष्ठकशेरुकापिण्डानां पुरोभागात्संभूय पञ्चमषष्ठग्रीवाकशेरुकयोर्बाहुप्रवर्धनकेषु तिर्यक् संलग्नः। मध्यभागः स्फुटधनुर्वक्रः चरमग्रीवाकशेरुकात्रयस्य अग्रिमपृष्ठकशेरुकात्रयस्य च पिण्डपुरोभागेभ्यःसंभूय द्वितीय-तृतीय-चतुर्थग्रीवाकशेरुपिण्डेषु संलग्नः। सेयं पेशी ग्रीवावंशं पुरोनमयति, विवर्त्तयति च पार्श्वतः स्तोकेन। अस्याः प्रचेष्टनं द्वितीय-तृतीय-चतुर्थी-नामनुग्रीविकाख्यनाड़ीनां पुरःशाखाभिः संपद्यते।
दीर्घशिरस्का65—(शिरःपूर्वदण्डिका गुर्वी वा) नाम स्थूलमांसलशिरस्कापेशी अधस्तात् तनुशाखाचतुष्टये विभक्ता। सेयं तृतीयादि-षष्ठ्यन्तग्रीवाकशेरुकाणांबाहुप्रवर्धनकेभ्यः संभूय पश्चात्कपालस्य मूलभागे संलग्ना। अख्या अनुप्राणनंप्रथम-द्वितीयानुग्रीविकनाड्योः शाखाभ्यां।
शिरःपूर्वदण्डिका66—(तदाख्या लघ्वी वा) नाम हस्वायता पेशीचूड़ावलयाख्य-ग्रीवाकशेरुकापावर्श्वतः संभूय पूर्ववदेव संलग्ना पूर्वोक्तायाः पेश्याःपश्चिमतस्तिष्ठति। कार्यं पुनरुभयोरपि शिरसः पुरस्तादवनमनं, किश्चिद्विवर्त्तनं च। अस्या अप्यनुप्राणनं पूर्ववदेव।
**शिरःपार्श्वदण्डिका67,")—**नाम ह्रस्वायता पेशी चूड़ाबलयाख्यग्रीवाकशेरुकाया बाहुप्रवर्धनात् संभूय पश्चात्कपालस्य मन्याप्रवर्धने संलग्ना। सेयंशिरसः पार्श्वविवर्त्तनी। अनुप्राणिता च सा प्रथम-द्वितीय तृतीयानामनुग्रीविकनाड़ीनांपुरःशाखाभिः।
(घ) ग्रीवावंशपार्श्वतोऽपि चतस्त्र एव पेश्य एकैकतः (७३ चित्रम्)। तत्र—
पर्शुकाकर्षणी68संज्ञाः तिस्रः पेश्यः—पुरोगा, मध्यमा, पृष्ठगा चेति।सर्वा अपि ताः प्रायस्तृतीयादि-षष्ठ्यन्त-ग्रीवाकशेरुकाणां बाहुप्रवर्धनेभ्यः संभूताः।निविशते तु तासामाद्यपेशीद्वयं प्रथमायां पर्शुकायाम्, अन्त्या तु द्वितीयायाम्।
(७३ चित्रम्)
ग्रीवावंशपुरोगाः पेश्यः (गम्भीराः)।
| <MISSING_FIG href=”../../../books_images/U-IMG-17023134081102.png”/> |
| पश्चिमकपालमूलम् (पूर्वार्द्धपसारणेन दर्शितम्) | शिरःपूर्वदण्डिका |
| चूड़ावलयास्थि | मन्याप्रवद्धनम् |
| दीर्घशिरस्का | शिरःपार्श्चदण्डिका |
| दीर्घग्रीविका (मध्यभागः) | ग्रीवाकशेरुका २या |
| पर्शुकाकर्षणी पुरोगा | सैव ३या |
| १/२/३ पृष्टकशेरुकानां पिण्डपुरोभागाः | सैव४र्थी |
| द्वितीय पर्शुका | सव ५ मी |
| सैव ६ष्ठी |
अत्र ग्रीवापुरोभागस्था विशेषाः पर्शुकापुरोभागाश्च अपसारिताः।
इह वामार्धे गम्भीरतरो व्यवच्छेदः।
**७३ चित्रस्य व्याख्या—**१। दीर्घग्रीविकाया ऊर्ध्वतिरश्चीनाः शाखाः। २। चूड़ावलयायाः पार्श्वप्रबर्द्धनम्। ३। पर्शुकाकर्षणी मध्यमा। ४। ग्रीवाकशेरुका ७मी। ५। दीर्घग्रीविकायाअधस्तिरश्चीनाः शाखाः। ६। पर्शुकाकर्षणी पश्चिमा। ७। प्रथमा पर्शुका।
तासां कार्यं स्वनामव्याख्यातम्। प्रचेष्टन्यो नाड्यः अनुग्रीविकाख्यनाडीनांपुरोगाः शाखाः।
** अंसोन्नमनी69**नाम पेशी (६९/७१/७८ चित्रेषु) ऊध्वंस्थग्रीवाकशेरुकाचतुष्टयस्य बाहुप्रबर्द्धनेभ्यः संभूय अंसफलकस्य वंशानुगधारायां संबद्धा। क्रियाचास्याः स्वनामव्याख्याता। प्रचेष्टनी नाड़ी च पूर्ववत्।
ता एताः षोड़श ग्रीवावंशपुरःपार्श्वगाः पेश्यो व्याख्याताः।
(ङ) शिरोग्रीवपृष्ठतस्तु एकैकतो दश पेश्यः (७४/७५ चित्रयोः)। तद्यथा—
पृष्ठच्छदार70 नाम विपुलायता पृष्ठार्द्धच्छादिनी मांसला पेशी (७५चितम्)। सा इतरया स्वनामिकया संसक्ता चतुरस्त्रमारचयति शिरोग्रीवांऽसपृष्ठपश्चिमतः। सेयं पेशी प्राधान्येन पृष्ठस्थेति पृष्ठपेशीष्वेव संख्याता। तद्विस्तरश्चतत्रैव वक्ष्यते।
शिरोग्रीवविवत्तिन्यौ71नाम द्वेपेश्यौ—उत्तरा71 अधरा72 चेति(७१ चित्रम्)। ते संमिलिते स्थूलमांसले शिरोश्रीवपृष्ठतो धनुराकारे च दृश्येते।तयोरुत्तरा सप्तमग्रीवाकशेरुकायाः, त्रिचतुराणामुत्तरपृष्ठकशेरुकाणाञ्च कण्टकेभ्यःसंभूय ऊर्ध्वं पश्चात्कपालस्य उत्तरतोरणिकाख्य रेखायां, शंखास्थ्नो गोस्तनप्रवर्द्धनेच संलग्ना। अधरा तु तृतीयादि-षष्ठ्यन्तपृष्ठकशेरुकण्टकेभ्यः संभूय ऊर्ध्वंद्वित्राणां ग्रीवाकशेरुकानां बाहुप्रवर्द्धनकेषु संलग्ना। उभे अपि ते इतरपार्श्वीयाभ्यां स्वनाम पेशीभ्यां संसक्ते।
कार्यन्तु तयोर्युगपत्प्रचेष्टमानयोः शिरोग्रीवविवर्त्तनम्। इतरपार्श्वयाभ्यांस्वनामिकाभ्यां सह तु शिरोग्रीवस्य पश्चात्कर्षणम्। प्रचेष्टन्यौ नाड्यौ पुनरुभयोरपिमध्यमपश्चिमानुग्रीविकनाड़ीनां शाखे पार्श्वगे।
पृष्ठदण्डिका शिरोयुजा73.")नाम पेशी (७५ चित्रम्) ग्रीवाकशेरुकाणामाद्यपृष्टकशेरुकाचतुष्टयस्य च बाहुप्रबर्द्धनकेभ्यः, चरमग्रीवाकशेरुकात्रितयस्य सन्धिप्रवर्द्धनकेभ्यश्च
[ ७४ चित्रम् ]
पृष्ठगाः पेश्यः (उत्तानाः)
| <MISSING_FIG href=”../../../books_images/U-IMG-17026527011103.png”/> |
| उरः कर्णमूलिका | पृष्ठच्छदा पेशी वामा दक्षिणा च |
| अंसच्छदा | उदरच्छदा आदिमा |
| त्रिशिरस्का | नितम्वपिण्डिका मध्यमा |
| अरित्रा अग्रिम | सैव गरिष्ठा |
| कटिपार्श्वच्छदा | ३ अंसाधरिका गुर्वी |
| १ अंसाधरिका लध्वी | ४अंसापकर्षणी गुर्वी |
| २ अंसपृष्टिका अधरा | ५ उरश्छदा गुर्वी |
सम्भूता, शङ्खास्थ्नो गोस्तनप्रवर्द्धनकस्य पश्चिमतश्च सम्बद्धा। सेयंशिरोग्रीवस्य पश्चात्कर्षणी धारणी च। तस्याः प्रचेष्टनी नाडी अनुग्रीविकानाडीमण्डलस्य शाखा पश्चिमगा।
**
शिरोग्रीवष्वृष्ठिका74.”)**नाम स्थूलशीर्षातनुपुच्छा पेशी (७५ चित्रम्)सप्तमग्रीवाकशेरुकायाः आद्यपृष्ठकशेरुकाषट्कस्य च बाहुप्रवर्द्धनेभ्यः चतुर्थ-पञ्चम-षष्ठग्रीवाकशेरुकाणां सन्धिप्रवर्द्धनेभ्यश्च सम्भूय पश्चात्कपालस्य तोरणिकाख्यरेखयोरन्तराले संबद्धा। सेयं शिरोग्रीवस्य पश्चात्कर्षणी विवर्त्तनी च। तस्याः प्रचेष्टन्यो नाड्यः अनुग्रीविकाणामनुपृष्टिकानाञ्च नाडोनां प्रशाखाः।
** शिरःपृष्ठदण्डिकाख्ये** पेश्यौद्वै75—गुर्वी लध्वी च (७५ चितम्)।ते यथाक्रमं दन्तचूड़ा-चूड़ावलयाख्ययोः ग्रीवाकशेरुकयोः पृष्टकण्टकाभ्यां सम्भूयक्रमशः स्थूलीभूते पश्चिमकपालस्य अधरतोरणिकोपकण्ठे संबद्धे। कार्यन्त्वनयोःशिरसः पश्चात्कर्षणं किञ्चिद्विवर्त्तनञ्च। प्रचेष्टनी नाड़ी पुनरुभयोरपिकपालमूलिका नाम।
** उत्तरतिरश्श्चीना76**नाम ( ७५ चित्रम् ) ऊर्ध्वमायताग्रा अधश्च तनुमूलापेशी चूड़ावलयाख्यग्रीवाकशेरुकाया बाहुप्रवर्द्धनादुत्थिता पश्चात्कपालस्य तोरणिकयोरन्तराले संवद्धा। तस्याः कार्यं प्रचेष्टनी नाड़ी च पूर्ववत्।
** अधरतिरश्चीना77**तु (७५ चित्रम) दन्तचूड़ायाः पृष्ठकण्टकात्संभूय चूड़ावलयायाः वाहुप्रवर्द्धने संवद्धा। सेयंग्रीवावंशोपरि शिरोमात्रस्य पार्श्वतोविवर्त्तनी। प्रचेष्टनी नाड़ी तु तस्या अपि पूर्ववत्।
ग्रीवार्द्धपृष्टिका78 नाम ( ७५ चित्रम् ) गण्डूपदगुच्छाकारा चतुर्मूलापञ्चमुखो गम्भीरतमा पेशी ग्रीवावंशपृष्टपार्श्वतो वर्त्तमाना। सेयम् ऊर्ध्वतनपृष्ठकशेरुकापञ्चकस्य बाहुप्रवर्द्धनकेभ्यः संभूय द्वितीयादिपञ्चम्यन्तग्रीवाकशेरुकाणांकण्टकेषु संबद्धा। सा ग्रीवावंशस्य पश्चात्कर्षणी किञ्चिद्विवर्त्तनी च। तस्याः प्रचेष्टनं अनुग्रीविकनाड़ीनां पश्चिमशाखाभिः सम्पद्यते।
स्मर्त्तव्यं चास्मिन्प्रसङ्ग कपालमूलिकं79नाम त्रिकोणम्। तस्य हि उत्तरबाहुः शिरःपृष्ठदण्डिका गुर्वीं। पार्श्वसीमा उत्तरतिरश्चीना। अधोबाहुः अधरतिरश्चीना।
अस्य च त्रिकोणस्य भूमिः आद्यग्रीवाकशेरुकयोरन्तरालस्था स्नायुपट्टिकादंन्तचूड़ायाः पश्चिमार्द्धञ्च। तस्मिंश्च त्रिकोणे दृश्या—मस्तिष्कमातृका नामधमनी प्रथमानुंग्रोविका नाड़ी च। छाद्यते च तंत् मेदःपुञ्जेन शिरोग्रीवपृष्टिकया च पेश्या।
ता एताः शिरोग्रोवपृष्टस्थाः पेश्य उभयतो विंशतिर्व्याख्याताः।
अथ गलाभ्यन्तरस्थाः पेश्यः।
ताः अन्नमार्गं परितः स्थिता दश, स्वरयन्त्रीयाश्च सप्तदशेति समष्ट्यासप्तविंशतिसंख्याः। तत्र अन्नमार्ग परितः एकैकतः पञ्च, यथा—कण्ठसङ्कोचनी80संज्ञाः (अधरा, उत्तरा, मध्यमा चेति) तिस्रः, शिफागलान्तरीया81, पटहोत्तंसनो82 चेति द्वे।
स्वरयन्त्रं परितः सप्तदश पेश्यः83। तासां श्वासमार्गद्वारिण्यौ नव यथा—एका मध्ये घाटान्तरोया नाम, चतस्रश्च एकैकतः—कृकाटघाटिके द्वे (पश्चिमापार्श्वगा चेति), स्वस्तिकघाटिका, गोजिह्वाघाटिका चेति एकैकेति। स्वरतन्त्रीपेश्यश्च अष्टौ। यथा—अवघाटिका, अबटुकाटिका, अवटुगोजिहिका, अनुतन्त्रिका चेति एकैकतश्चतस्रः।
तासां बिस्तरः अन्नमार्गप्रसङ्ग स्वरयन्त्रवर्णने च वक्ष्यते।
इति द्वितीयोऽध्यायः।
अथ तृतीयोऽध्यायः।
अथातो मध्यकायपेशीवर्णनीयमध्यायं व्याख्यास्यामः।
इह खलु एकादशोत्तरं शतं पेश्यो मध्यकाये। तासां सप्तसु स्थानेषुविभागः। तद्यथा—विंशतिः पृष्ठे (तासु द्वादश उत्तानाः, अष्टौ गम्भीराः, ताश्चपृष्ठवंशमुभयतो दृश्याः)। षट् कटिमुभयतः। चतुःपञ्चाशदुरसि। द्वादश उदरे।दश श्रोणिचक्रेऽभ्यन्तरतः। सप्त उपस्थमूले। द्वे च गुदं परितः—इति।
पृष्ठपेश्यश्चेह शिरोग्रीवपश्चिमपेशीवर्जं वर्ण्यन्ते। बहिःश्रोणिप्रभवांश्चपेश्यो नेह गृह्यन्ते, तासाम् अधःशाखोपयोगित्वाद् विशेषतस्तत्रैवोपदेशः।
अथ पृष्ठपेश्यः।
तासाञ्चायं स्तरविभागः। प्रथमस्तरे द्वे द्वे पृष्ठर्धच्छादिन्यौपेश्यौ एकैकतः—पृष्ठच्छदा, कटिपार्श्वच्छदा चेति। द्वितीयस्तरेऽपि द्वे द्वे—अंसापकर्षणी लघ्वी गुर्वी चेति। तृतीयस्तरेऽपि द्वे द्वे—पश्चिमारित्रा उत्तराअधरा चेति। चतुर्थस्तरे एकैव एकैकतो बहुशाखा—त्रिकपृष्ठिका नाम। पञ्चमस्तरे द्वे द्वे—अर्धपृष्ठिका, मेरुधारिणी चेति। षष्ठस्तरे पुनरेकैका बहुमूला—मेरुविवर्त्तनिका नाम। तत्र आद्यस्तरत्रयस्था उत्तानाः, अन्त्यस्तरत्रयस्थास्तुगम्भीराः इत्युच्यन्ते।
तत्र उत्तानपृष्ठपेश्यो यथा—(७४ चितम्)।
(प्रथमस्तरे) पृष्ठच्छदा84नाम विशालायतमांसला पृष्ठदेशस्य उत्तरार्धच्छादनी पेशी त्रिकोणाकारा। सा इतरया स्वनामिकया संसक्ता चतुरस्राकारादृश्यते ग्रीवांऽसपृष्ठपश्चिमतः। साऽसौ पश्चिमकपालस्य उत्तरतोरणिकातः,श्रीवाध राख्यस्नायुरज्ज्वाः, सप्तमग्रीवाकशेरुकायाः सकलपृष्ठकशेरुकाणाञ्च पृष्ठकण्टकेभ्यः सम्भूय, परितः प्रसरन्ती अक्षकास्थनः पश्चिमधारार्धे अंसफलकस्यकूट-प्राचीर-पश्चिमधारासु च निविशते, विवर्त्तते च अंसप्राचीरमूले श्लेष्मधरकलापुटकव्यवधानेन। कार्यञ्चास्या एकाकिन्याः शिरसोंऽसफलकस्यच पृष्ठवंशं प्रति कर्षणम्, स्वनामिकया मिलितायास्तु अंसशिरसोः पश्चात्
[७५ चित्रम्]
शिरोग्रीव-पृष्ठगाः पेश्यः (गम्भीराः)।
| <MISSING_FIG href=”../../../books_images/U-IMG-17026556171501.png”/> |
| शिरःपृष्ठदण्डिका लध्वी | पश्चात्कपालम् |
| उत्तरतिरश्चीना | शिरोग्रीवपृष्टिका |
| शिरःपृष्ठदण्ड़िका गुर्वी | पृष्ठदण्डिका शिरोयुजा |
| अधरतिरश्चीना | त्रिकपृष्ठिकायामध्यपृष्ठिकभागः (ग्रीवागः) |
| मेरुधारिणी | तस्या अनुपविकभागः „ |
| ग्रीवार्द्धपृष्ठिका | प्रथम पर्शुका |
| त्रिकदृष्ठिकाया(मध्यपृष्ठिकभागस्य) ग्रीवागोंऽशःधनुर्वक्रः | द्वितीय पर्शुका |
| पृष्टार्द्धपृष्टिका | तृतीय पर्शुका |
| बहिःस्थ पर्शुकान्तरिकाणां मूलानि | त्रिकपृष्ठिकाया अनुपार्श्विकभागः(पृष्ठगः) |
| १मा कटिकशेरुका | तस्या अनुवंश भागः |
| कटिचतुरस्रा | तस्या मध्यपृष्टिकभागः (पृष्ठगः) |
| मेरुधारिणी | तस्या अनुपाश्विकभागः (कटिंगः) |
| जघनकपालधारा | त्रिकपृष्ठिका (मूलभागः) |
| त्रिकास्थ्नः पृष्ठकण्टकम् | [वामार्धे गम्भीरव्यवच्छेदेन दर्शिताः गम्भीरपेश्यः] |
| त्रिकास्थ्नो वहिर्धारा |
पश्चात्कर्षणम्। अस्याः प्रचेष्टनं नागिन्याख्यनाड्याः तृतीयचतुर्थ्योरनुग्रीविकयोःशाखाभ्याञ्च।
**कटिपार्श्वच्छदा85**नाम पेशी (७४ चित्रम्) विशालायतमांसलापृष्ठाऽधरार्धस्य कटिपार्श्वस्य च च्छादिनी। सा निम्नस्थपृष्ठकशेरुकाषट्कस्यकटिकशेरुकापञ्चकस्य त्रिकास्थ्नश्च पृष्ठकण्टकेभ्यः, श्रोणिफलकस्य जघनचूड़ातश्च कलामयैर्मूलैः संभूय तिर्यगूर्ध्वं गत्वा अंसफलकस्य अधःकोटौ त्रिचतुरनिम्नपर्शुकापार्श्वेषु च संबद्धा प्रगण्डास्थ्नः पिण्डकान्तरीयपरिखायाः अन्तस्तटेनिविशते स्थूलायतेन कण्डराग्रेण। सेयमेकाकिनी संकुचिता स्वपार्श्वस्थबाहोःपश्चादधश्च कर्षणी, स्वसंज्ञया मिलिता तु उभयोरपि बाह्वोः पश्चादाकर्षणीउरोविस्तारणी च। वृक्षाद्यारोहणे स्थिरीकृतबाहोः पुरुषस्य शरोरनिम्नार्धकर्षणोच सैव। तस्याः प्रचेष्टनी नाड़ी द्वितीया अन्वंसिका नाम।
(द्वितीयस्तरे) अंसापकर्षणी86लध्वी गुर्वी चेति एकैकतो द्वे पेश्यौ(७४चित्रम्) पृष्ठवंशांऽसफलकयोरन्तरालस्थे चतुरस्राकारे। तयोर्लध्वी ग्रीवाधराख्यस्नायुरज्ज्वाः, अन्तिमग्रीवाकशेरुकायाः प्रथमपृष्ठकशेरुकायाश्च पृष्ठकण्टकाभ्यां संभूय अंसफलकबंशानुगधाराया मध्यभागे संबद्धा। अंसापकर्षणीगुर्वी तुद्वितोयादिपञ्चम्यन्तपृष्ठकशेरुकाकण्टकेभ्यः संभूय अंसफलकस्य वंशानुगधारायाःनिम्नार्धे संबद्धा। अनयोश्च कार्यम् अंसफलकस्य ऊर्ध्वं पश्चाच्च कर्षणम्।प्रचेष्टनीनाड़ी तु अनुग्रीविकायाः पञ्चम्याः शाखा अंसपृष्ठगा नाम।
\अन्याऽपि चात्रदृश्यते पेशी [अंसोन्नमनी87 नाम। सा प्राधान्याद्ग्रीवापेशीषु वर्णिता संख्याता चेति नेह पुनर्गण्यते।]
(तृतीयस्तरे) पश्चिमारित्रा88उत्तरा, अधरा चेति द्वे द्वे तनुचतुरस्रेगम्भीरपेश्यौ एकैकस्मिन् उरःपार्श्वे पश्चात्। तयोरुत्तरा श्रीवाधराख्यस्नायुरज्ज्वाः, सप्तमग्रीवाकशेरुकायाः, द्वित्राणाम् उत्तरपृष्ठकशेरुकाणां च पृष्ठकण्टकेभ्यःसंभूय २।३।४।५ पर्शुकाणां पश्चिमार्धेषु चतुर्भिर्मुखैः संबद्धा। अधरा तु अन्तिमपृष्ठकशेरुकाद्वयस्य आद्यकटिकशेरुकात्रयस्य च पृष्ठकण्टकेभ्यः संभूय अन्तिमपर्शुकाचतुष्टयस्यपश्चिमार्धेषु चतुभिर्मुखैः संबध्यते। कार्यं पुनरुत्तरायाः स्वसम्बद्धपशुकाणामूर्ध्वाकर्षणमुच्छ्वासकाले,अधरायास्तुस्वसंबद्धपर्शुकाणामवनमनंनिःश्वासकाले।प्रचेष्टन्यो नाड्यस्तु उत्तरायाःउत्तरा, अधराया अधराअनुपृष्ठिका नाम।
ता एताः एकैकतः षड़िति कृत्वा द्वादश उत्तानाः पृष्ठपेश्यो व्याख्याताः।
तासां च विभागकरी दृढशुभ्रा गम्भीरप्रावरणी अधःस्था कटिपृष्ठप्रच्छदानाम। सा कटिपेशीव्याख्याने व्याख्येया।
(चतुर्थ स्तरे) गम्भीरपृष्ठपेशीषु प्रधानभूता स्थूलमांसला पेशी एकैकात्रिकपृष्ठिका89नाम कटिपृष्टधारिणी (७५ चित्रम्)। सेयं त्रिकास्थ्नः कटिकशेरुकापञ्चकस्य चरमपृष्ठकशेरुकाद्वयस्य च पृष्ठकण्टकेभ्यः, त्रिकास्थिपक्षतः, जघनचूड़ापश्चार्धाच्च स्थूलायतमूलैःसंभूय ग्रीवाभिमुखं प्रसृता त्रिभिर्भागैः। तस्या (१) आद्यो भागो माध्यसीमानुगतः पृष्ठवंशानुक्रमेणा तिष्ठते धनुर्वक्रः, संबध्यते चासौसकलपृष्ठकशेरुकाणां कटिकशेरुकाद्वयस्य च पृष्ठकण्टकेषु। सोऽयम् अनुवंशभागः90पृष्ठवंशानुगत्वात्। (२) मध्यो भागः क्रमेण हीयमानाग्रःसर्वासामपि कटिपृष्ठकशेरुकाणां बाहुप्रबर्धनेषु पर्शुकादशकमूलेषु च संबद्धः स मध्यपृष्ठिको91—Longissimus Dorsi & Cervicis;”) नाम,तस्य द्वावंशौ—पृष्ठगो ग्रीवागश्चेति। (३) चरमस्तु भागो बाह्यतमः पार्श्वसीमानुगः,सर्वासामपि पर्शुकाणां कोणेषु संबद्धः सोऽयम् अनुपार्शिवको92—Ileo-costalis—Lumborum, Dorsalis & Cervicis”) नाम।तस्य त्रयोंऽशाः,—कटिगः, पृष्ठगो ग्रीवागश्चेति।
कार्यं पुनस्त्रिकपृष्ठकायाः पृष्ठवंशस्य धारणं पश्चात्कर्षणञ्च सर्वैर्भागैः।मध्यभागेन पुनः पर्शुकाकर्षणेन उच्छ्वास सहायताकरणं च। अस्याः प्रचेष्टन्योनाड्यः अनुपृष्ठिकानामनुकटिकानाञ्च नाड़ीनां शाखाः।
(पञ्चमस्तरे) द्वे द्वे पेश्यौ एकैकतः—उत्तरार्धे पृष्टार्धपृष्ठिका, अधरार्धेमेरुधारिणी चेति। तत्र—
पृष्ठार्धपृष्ठिका93 नाम तन्वीपेशी (७५ चित्रम्) पञ्चम्यादि-द्वादश्यन्तपृष्ठकशेरुकाणां वाहुप्रबर्धनेभ्यः संभूय चरमग्रीवाकशेरुकाद्वयस्य आदिमपृष्ठकशेरुचतुष्टयस्यच पृष्ठकण्टकेषु संलग्ना। इयमपि पूर्ववत्कार्या, अनुपृष्ठकाख्यनाड़ीशाखाभिरनुप्राणिता च।
** मेरुधारिणी94**नाम बहुशाखा मांसला पेशी (७५ चित्रम्) त्रिकपृष्ठवंशयोःपृष्ठकण्टकश्रेण्या एकैकतो वर्त्तमाना तत्पार्श्वस्थखाताऽपूरणी। सेयं कशेरुकाणांपृष्ठकण्टकेषु, बाहुप्रबर्धनकेषु, तदन्तरालेषु, श्रोणिफलकस्य पश्चिमोर्ध्वकूटे चसंबद्धा। तस्याश्च शाखाः अघोऽधःस्थित-द्वित्र-कशेरुकाणां पार्श्वतः संभूय उत्तरोत्तरत्रिचतुरकशेरुकाणां पृष्टकण्टकेषु निविशन्ते इति विचित्राऽस्याः प्रभवनिवेशशृङ्खला कार्यं चास्याः पृष्ठवंशस्य धारणं किञ्चिद्विवर्त्तनञ्च। प्रचेष्टन्योनाड्यस्तु पूर्ववत्।
** **(षष्ठस्तरे) एकैका पेशी एकैकार्धेमेरुधारिण्याच्छादिता असंख्यप्रायशाखा,सेयं मेरुविवर्त्तनिका95नाम। तस्याः प्रधानाः शाखाः अधोऽधःकशेरुकाणांबाहुप्रवर्धनकेभ्यः संभूय उत्तरोत्तरकशेरुपत्रकेषु मीनशल्कवत् परस्पराच्छादनेनसंबद्धाः सर्वास्वपि पृष्ठकशेरुकासु, नान्यत्र। अपराश्च शाखाः पृष्ठकण्टकान्तरालेषुबाहुप्रबर्द्धनान्तरालेषु च संबध्यन्ते। सेयं शाखावाहुल्यदर्शनात् शाखासंख्याभिःसंख्यायते कैश्चित्। इह तु लाघवादेकैवोच्यते। कार्यञ्चास्याः स्वनामव्याख्यातं,प्रचेष्टन्यो नाड्यस्तु पूर्ववदेव।
अथ कटिपेश्यः।
** **कटिपेश्यस्तावत् तिस्रएकैकतः। कटिपार्श्वे—कटिचतुरस्रां, कटिवंशपुरस्तात् कटिलम्बिनी दीर्घा, ह्रस्वा चेति। कटिपार्श्वच्छदाख्या पेश्यपि कटिपृष्ठपार्श्वच्छादिनी, सा नेह गण्यते पृष्ठपेशोषु गणितत्वात्। द्रष्टव्या चात्रकटिपृष्टार्द्धच्छादिनी दृढ़स्नायुमयी सुगम्भीरा प्रावरणी कटिपृष्टप्रच्छदार96 नाम।तस्यास्त्रयो भागाः—पुरोभागो, मध्यभागः, पश्चिमभागश्चेति। तत्र पुरोभागःकटिकशेरुकाबाहुप्रबर्द्धनानां मूलेषु संबद्धः, मध्यभागस्तदग्रेषु। ताभ्याञ्च निर्मीयतेकटिचतुरस्राख्यपेश्याः कञ्चुकम्। पश्चिमभागः पुनर्गम्भीरः पृष्ठपेशीनां सन्धारणः,स कटिकशेरुकाणां पृष्ठकण्टकेषु संबद्धः। साऽसौ दृढ़प्रावरणी मध्यमचरमयोरुदरच्छदाख्यपेश्योः पश्चिममूलभूतेति विशेषेण स्मर्त्तव्या।
(७६ चित्रम्)
कठि-जघनोदरीयाः पेश्यः।
(उदर्ययन्त्रादीनामपसारणेनदर्शिताः)
| <MISSING_FIG href=”../../../books_images/U-IMG-170192643006121.png”/> |
| कटिचतुरस्रा दक्षिणा | कटिकशेरुका |
| कटिलम्बिनी ह्रस्वा | कटिचतुरस्रा वामा |
| श्रोणिफलकम् | श्रोणिपक्षिणी |
| कुकुन्दरास्थि | त्रिकास्थि |
७६ चित्रस्य व्याख्या—१।कटिलम्बिनी दीर्घा। २। श्रोणिपक्षिणी। ३। शुण्डिका।४। श्रोणिगवाक्षिणी वहिःस्था। ५। कटिलम्बिनी दीर्घा (कर्त्तितांशः)। ऊ० ऊर्वस्थि।
तत्र—कटिचतुरस्रा97नाम चतुरस्रप्रायामांसला पेशी (७६ चित्रम्) एकैकतःकटिपार्श्वे। सा पूर्वोक्तकटिजघनिकाख्यस्नायुरज्ज्वाः श्रोणिफलकस्यजघनचूड़ातश्च संभूय द्वादश्यां पर्शुकायाम्, आदिमकटिकशेरुकाचतुष्टयस्य बाहुप्रवर्द्धनेषु च सन्निविष्टा। सेयं वृहदन्त्रस्य वृक्कस्य च पश्चिमतोऽवस्थिता,महाप्राचीराख्यपेश्याः बहिस्तोरणोत्सङ्गनिर्गता कटिलम्बिन्याख्यपेश्याः बहिःसीम्निदृश्या। अस्याः कार्यमुच्छ्वासकर्मणःसहायताकरणं, चरमपर्शुकाकर्षणेन महाप्राचीरामूलधारणेन च। प्रचेष्टन्यो नाड्यः द्वादश्या औरसनाड्याः प्रथमद्वितीययोरनुकटिकनाड्योश्च शाखाः।
कटिलम्बिनी दीर्घा ह्रस्वा98चेति द्वेपेश्यौ (७६ चित्रम्) करिशुण्डाकारे कटिवंशपार्श्वंतः उदरगुहायाः पश्चिमसीम्नि वर्त्तेते। तयोः दीर्घा पेशी चरमपृष्ठकशेरुकायाः कटिकशेरुकापञ्चकस्य च पिण्डपुरोभागाद् बाहुप्रबर्द्धनेभ्यश्च संभूयतिर्यगधोगता महाप्राचीराया अन्तस्तोरणात् ततः श्रोणिपक्षिण्याख्यपेश्याः कण्डरयासंमिलितमूला सा ऊर्वस्थ्नो लघुशिखरके निविशते। ह्रस्वा कटिलम्बिनी तुतदुत्सङ्गवर्त्तिनी तत्प्रभवैकदेशप्रभवा च। सा श्रोणिफलकस्य जघनकपालमूलेवस्तिकण्ठिकैकदेशे निविष्टा। अनयोश्च कार्यं मध्यकायस्य अधोनमनमूर्ध्वंकर्षणं वा। प्रचेष्टन्यौ नाड्यौ द्वितीया तृतीया च अनुकटिका नाम।
इदञ्च पेशीत्रितयं उदरगुहाव्यतिकरेण उदर्याख्यमहाकलयाच्छादितम् उदरगुहायाः बाह्यपश्चिमसीमभूतम्। कटिलम्बिन्याख्य पेश्योः पुरस्ताच्च दृश्या उदराभ्यन्तरत इमे विशेषा वामतः—वाम वृक्कः साधिवृक्कः, सिराधमन्यश्च तत्संबद्धाः,वामा गवीनी99, ऊरुवृषणिका नाडीअन्याश्च सिराधमन्यादयः। दक्षिणतस्तु ताएव, अधरा महासिरा च।
अथ उरःपेश्यः।
उरः पेश्यस्तावत् चतुःपञ्चाशदित्युक्तम्। तत्र उरःपुरःस्था एकैकतस्तित्रः—अक्षकाधरा, उरःप्रच्छदा गुर्वी लघ्वी चेति। उरःपार्श्व च एकैका—अग्रिमारित्रानाम। द्वादशानां पशुकानामन्तरालस्थिताश्च एकैकतः—एकादश बहिःस्थाः,एकादश चान्तःस्था इति साकल्येन द्वाविंशतिः। आसां समष्टिरुभयतः संख्यानेनद्व्यधिकपञ्चाशत् द्वे चापरे एकाकिन्यौ—उरःफलकपृष्ठेऽभ्यन्तरतः उरस्त्रिकोणिका,उदरोरसोर्मध्ये महाप्राचीरा चेति। ता एताश्चतुःपञ्चाशद् उरःपेश्योनिर्दिष्टाः। तत्र—
अक्षकाधरा100 नाम तन्वीपेशी प्रथमपर्शुकोपपर्शुकयोः संधानस्थानात्संभूय तिर्यग्गता अक्षकास्थ्नोऽधस्तले संबद्धा। सेयं अंसफलकसंहितस्य अक्षकास्थ्नःअवनमनादंसावनमनकार्या। अस्याः प्रचेष्टनं पञ्चमषष्ठयोरनुग्रीविकयोः शाखाभ्याम्।
(७७ चित्रम्)
उरःपेश्यः (उत्तानाः)
| <MISSING_FIG href=”../../../books_images/U-IMG-170192858606122.png”/> |
| उरःकर्णमूलिका | अंशच्छदा |
| अक्षकास्थि | द्विशिरस्का |
| उरःफलकम् | उरच्छादा गुर्वी |
| अग्रपत्रकम् | कटिपाश्वच्छदा |
| वहिःस्था षर्शुकान्तरिका | अग्रिमारित्र् |
| उदरच्छदाया आदिमायाः कलामयः प्रभवः |
** उरश्छदा गुर्वी101**नाम स्थूलमांसला तालवृन्ताकारा पेशी उरसः पुरोभागार्द्धच्छादिनी (७७ चित्रम्)। सेयमक्षकास्थ्नो माध्यार्द्धाद् उरःफलकपार्श्वाच्चपञ्चषेभ्य उपपर्शुकाभ्यः संभूय क्रमशः संव्यूढ़ा प्रगण्डास्थ्नः पिण्डकद्वयान्तरीयपरिखाया बहिस्तटे निविशते। तस्याः कार्यमालिङ्गनादौ बाह्वोःसंव्यूहनं,वृक्षारोहणादौ तु स्थिरीकृतबाहोःपुरुषस्य मध्यकायोत्कर्षणञ्च। व्यायामोपचितगात्रस्य च पुंसः इयमेव पेशी एकैकतो वक्षसि स्थूलोन्नतायता दृश्यते। प्रवेष्टनं त्वस्या ‘औरसी’ संज्ञाभ्यामग्रिम-मध्यमनाडीभ्याम्।
** उरश्छदा लघ्वी102**नाम त्रिकोणाकारा स्थूलामांसला पेशी (७८ चित्रम्)पूर्वोक्तायाः पश्चिमतो निगूढ़ा। सेयं तृतीय-चतुर्थ-पञ्चमीनां पर्शुकानां पुरोभागात्संभूय तिर्यग्गता अंसफलकस्य अंसतुण्डपुरोधारायां निविशते। अस्याः कार्यम् अंसावनमनं, स्थिरांसस्य पुंसो मध्यकायोत्कर्षणं वा। श्वासकष्टे सति स्थिरीकृतबाहोः पुरुषस्य उभाभ्यामपि उरःश्छदाभ्यां उरःकर्षणादुच्छ्वासकर्मसहायता संपाद्यते।
** अग्रिमारित्रा103. अरित्रं करपत्रम् ( Saw ).”)** महारित्रावा नाम (७७।७८ चित्रम्) अरित्राकारमुखीप्रच्छदायता पेशी अंसफलकोरःपञ्जरयोन्तराले वर्त्तते। सेयं पार्श्वदेशे अष्टाभ्यअग्रिमपर्शुकाभ्य अरित्राकारैर्मूलैः संभूय तिर्यक् पश्चात्प्रसृता अंसफलकस्य वंशानुग धारायाः पुरःसीम्नि संबद्धा। तस्याः कार्यमंसफलकस्य पश्चादूर्ध्वं च कर्षणम्। स्थिरांसस्य तु पुंसः पशुकोत्कर्षणम्। इयमेव पेशी पशूनां मध्यकायमग्रिमपादयोर्मध्ये समवलम्बयते। अस्याः प्रचेष्टनी नाडी—दीर्घा औरसी नाम।
** पर्शुकान्तरिकाः** नाम तनुह्रस्वायताः पेश्यो द्वादशानामपि पर्शुकानामन्तरालस्थाः (७७।८० चित्रयोः)। ता उरःपञ्जरस्य एकैकार्धे एकादश बहिःस्थाः,तावत्यश्च अन्तस्थाः इति समुच्चयेन द्वाविंशतिः। तत्र—
** बहिःस्थाः पशुकान्तरिकाः104**सर्वासां पर्शुकानामधोधारातः संभूयअधोऽधःस्थानां पशुकानामूर्ध्वधारासु निविशन्ते। तासां तन्तवः पुरस्तिरश्चीनाः।
** अन्तःस्थाः पशु कान्तरिकाः105** पुनः पर्शुकानामधोधारास्थेभ्यः परिखान्तरतटेभ्यः उपपर्शुकाभ्यश्च संभूय अधोऽधः पर्शुकोपपर्शुकानामूर्ध्वधारासु संबद्धाः।
(७८ चित्रम्)
मध्यकायपुरःस्थाः पेश्यः (गम्भीराः)।
| <MISSING_FIG href=”../../../books_images/U-IMG-170196187412075.png”/> |
| चूड़ावलयाख्या ग्रीवाकशेरुका | अंसोन्नमनी |
| द्विशिरस्कायाः कण्डरा | अंसान्तरिका |
| उरश्छदा लध्वी | कटिपार्श्वच्छदा |
| अग्रिमारित्रा | उदरच्छदा मध्यमा |
| उदरदण्डिका पेश्याः भागः | वस्तिचूड़िका |
| वंक्षणिका नाम स्नायुरज्जुः | भगास्थि |
| उदरदण्डिका पेशी |
तासां तन्तवः पश्चिमतिरश्चीनाः। अन्तर्बहिःस्थानां पर्शुकान्तरिकाख्य पेशीनामन्तरालस्थासु पर्शुकानुगाख्यपरिखासु च दृश्यन्ते तदाख्याः सिरा-धमनी-नाड्यः।संपद्यते च ताभिरेव पोषणं प्रचेष्टनं च पर्शुकान्तरिकानां पेशीनाम्। कार्यन्तुतासामुरःपञ्जरस्य धारणम् उच्छ्वासनिःश्वासकाले प्रचलन्तीनां पर्शुकोपपर्शुकानांसंयमनञ्च। केचित्तु मन्यन्ते—ताभिर्बहिःस्थाभिः पर्शुकोत्कर्षणम्, अन्तःस्थाभिश्चपर्शुकावनमनं उच्छ्वास-निःश्वासकाले भवत्येव स्तोकेनेति।
उरस्त्रिकोणिका106.")नाम एकाकिनी पेशी उरःफलकस्य पश्चादुभयतोनिगूढ़ा त्रिकोणाकारा उरःफलकनिम्नार्धसंभवा। सा मध्यरेखामुभयतस्तिर्यकप्रसृताद्वितीयादिषष्ठ्यन्तानामुपपर्शुकानां पृष्ठतो निविशते पञ्चषैरग्रैः107। साऽसौसोपपर्शुकस्य उरःफलकस्य अन्तराकर्षणी निःश्वासकाले। अनुप्राण्यते च सापर्शुकानुगाभिरेव नाड़ीभिः।
महाप्राचीरा108नाम (७६ चित्रम्) उरोगुहाभूमिभूता उदरगुहाच्छदिभूता चविशालसर्पफणायता पेशी या मध्येकोष्ठमवतिष्ठते। सेयमूर्ध्वं कूर्मपृष्ठा, अधस्तात्कोरोदरा, मध्यभागे तु समतलप्राया। सा समन्तात् परिधौ मूलभागे च मांसमयी,अर्धचन्द्राकारेण त्रिपत्राकारेण दृढ़कलामयेन मध्यभागेनोपलक्षिता च। तत्रपरिधिभागो मूलद्वयञ्चास्याः प्रभवस्थानम्, मध्यभागस्तु कलामयो निवेश इतिवैचित्रयम्। अतश्च परिधौ मूलयोश्च सङ्कोचं भजन्तीयं पेशी मध्यभागं परिधिञ्चबलादधः कर्षतीति क्रियावैशेष्यमस्याः।
स चास्याः परिधिः पुरस्तादग्रपत्राख्ये उरःफलकनिम्नस्थे तरुणास्थ्नि तदेकैकतश्च षट्सु सप्तसु वा निम्नपर्शुकासु तदुपपर्शुकासु च संवद्धः। मूलद्वयं चास्याःमांसस्नायुभूयिष्ठंसंबध्यते पश्चिमतस्त्रिषु अग्रिमकटिकशेरुकापिण्डेषु। तत्रवामं मूलं तनुह्रस्वं आद्यकटिकशेरुद्वये संलग्नं, दक्षिणं तु स्थूलदीर्घ कटिकशेरुकालये। एकैकतश्च मूलद्वयस्य द्वे द्वे तोरणे दृढ़स्नायुसूत्रमये, ते अपिमहाप्राचीरायाः प्रभवभूते। तत्र पृष्ठवंशसंलग्नमन्तःसीम्नि अन्तस्तोरणं, बहिःसीम्निबहिस्तोरणम्। तयोराद्यं अग्रिमकटिकशेरुकायाः पिण्डादारभ्य वक्रीभूय बाहुप्रवर्धनान्तं गतं, तेन निर्गच्छति दीर्घा कटिलम्बिनी नाम पेशी। अन्त्यं (बहिस्तोरणम्)पूर्वोक्तबाहुप्रवर्धनाद् वक्रीभूय द्वादशपर्शुकान्तं यावत्प्रसृतं, तेननिर्गच्छति तत्पार्श्वगा कटिचतुरस्रा पेशी, महानाड़ी च ईड़ापिङ्गलयोरन्यतरा (वामेन ईड़ा, दक्षिणेन पिङ्गला)।
(७९चित्रम्)
महाप्राचीरा पेशी।
| <MISSING_FIG href=”../../../books_images/U-IMG-1701964205120711.png”/> |
| महाप्राचीराया मध्यपत्रकम् | अग्रपत्राख्यं तरुणास्थि |
| पर्शुका धाराः | अधरमहासिराधारणं विवरम् |
| अन्ननाल बिवरम् | महाधमनीधारणं विवरम् |
| क—महाप्राचीराया दक्षिणांशः | ख—तस्या एव वामांशः |
| कटिचतुरस्रा | दीर्घा कटिलम्बिनी |
| द्वादशी पर्शुका | बहिस्तोरणम् अन्तस्तोरणम् |
| महाप्राचीराया मूलद्वयसहितं कटिकशेरुकात्रयम् |
** महाच्छिद्राणि** चात्र पेश्यां त्रीण्येव पश्चिमतः। तद्यथा—किञ्चिद्दक्षिणतो महासिराच्छिद्रम्, तद् अधरमहासिराया उरोगुहा प्रवेशाय। मध्यरेखायाम्ऊर्ध्वभागे अन्ननालविवरम्, तद् अन्ननालस्य आमाशयप्रवेशाय;अधोभागेमहाधमनोच्छिद्रम् मूलद्वयान्तरालस्थं, तद् महाधमन्या उदरगुहाप्रवेशाय।
अत्रेमे विशेषाः। आद्ये न छिद्रेण अधरां महासिरामनुगच्छति अनुकोष्ठिकाख्यनाड्याः शाखा। अन्त्येन महाधमन्याः पार्श्ववर्त्तिनी दक्षिणा पुरोवंशिका नामसिरा, मुख्या रसकुल्या च। मूलद्वयं च महाप्राचीराया निर्भिद्य गताश्चतस्रोमणिपूरिकाख्या नाड्यः, वामा च पुरोवंशिकाख्या सिरा। परितश्च महाच्छिद्राणिदृश्यन्ते संदंशाकारास्तिरश्चीना मांसतन्तवः, ते अन्ननालादीनां दृढ़धारणाय।
व्यतिकरः109.")पुनर्महाप्राचीराया इत्थं दृश्यः। तस्या ऊर्ध्वतले उभयतःसंसज्येते फुस्फुसधराख्य कलाकोषयोः110 परिसरीयभागौ, मध्ये तु पेशीकेन्द्रस्थेकलामयपत्रके हृदयधराख्यकलाकोषस्य मूलम्। अधस्तलं पुनरस्याः उदरधराख्यकलया भूम्ना समाच्छन्नम्। तदुत्सङ्गे दक्षिणतो यकृद्दक्षिणपिण्डं, दक्षिणवृक्कशिखरञ्च साधिवृक्कम्। वामतो यकृद्वामपिण्डं, आमाशयशीर्षकं, प्लीहा, वामवृक्कस्यशिखरं च साधिवृक्कम्।
कार्यं तावन्महाप्राचीरायाः प्राधान्येन श्वासवायोराकर्षणसाधनम्।तच्चेत्थं संपद्यते—परिधिमूलसङ्कोचेन अधोऽवनमितेयं पेशी उरोगुहायतनं वर्धयति,तेन अवकाशलाभात् स्वतः प्रविशता श्वासवायुना स्फारीभवतः फुस्फुसाविति।दोर्घश्वासग्रहणे तु तत्सहायकीभवन्ति अपरा अपि औरस्यः पेश्यः। अन्यच्चास्याःकार्यं क्षुत्-कास-हास्य-रोदन-जृम्भण-वमनादौ मल-मूत्र-गर्भोत्सर्गार्थं प्रवाहणे च स्पष्टम्। सर्वाणि हि तानि कार्याणि उच्छ्वासपूर्वं प्रवर्त्तन्ते, परिणमन्ति च उदर्यपेशीसङ्कोचसहायकेन महाप्राचीरायाः सङ्कोचेन। प्रचेष्टन्यो नाड्यस्तु महाप्राचीरायाः—अनुकोष्ठिका नाड़ी दक्षिणा वामा च, पञ्चषाश्च पर्शुकानुगानां शाखाः।
इति चतुःपञ्चाशद् उरःपेश्यो व्याख्याताः।
अथ उदरपेश्यः॥
उदरपेश्यो हि मध्यरेखाया एकैकतः पञ्च। तद्यथा—उदरच्छदास्तिस्रः—आदिमा मध्यमा चरमा चेति। मध्यरेखापार्श्वतश्च द्वे—उदरदण्डिका, वस्तिचूड़िका चेति। मध्यरेखा च दृढशुभ्रतनुकण्डरामयी, सा उदरसोवनी111 नाम। तत्र—
** उदरच्छदा आदिमा112, उत्ताना** वा नाम (७८ चित्रम्113) बाह्यतमापेशी प्रच्छदायतमांसला। सा निम्नस्थात् पर्शुकाष्टकादष्टाभिर्मांसलमूलैः अग्रिमारित्रोरश्छदयोः
(८० चित्रम्)
उदरपेश्यः (गम्भीराः)।
| <MISSING_FIG href=”../../../books_images/U-IMG-170196493712074.png”/> |
| उरः फलकाग्रम् | पर्शुकान्तरिकाः वहिःस्थाः |
| उदरदण्डिका दक्षिणा | उदरच्छदा चरमा |
| वस्तिचूड़िका | जघनकपालस्य शिखरम् |
| भगास्थि | बंक्षणिका नाम स्नायुः |
| वृषणवन्धनी | बहिर्वंक्षणीयं च्छिद्रम् |
| क—उदरदण्डिकायाः कञ्चुकम् | ध—कटिपृष्ठप्रच्छदा ( प्रावरणी) |
| ख—मध्यरेखास्थिता उदरसीवनी | प०—पर्वलेखाः |
| ग—उदरदण्डिकावामा (कर्त्तितांशः) | प०—पर्वलेखाः |
| प०—पर्वलेखाः |
अत्र ५।६।७।८।६।१०।११।१२ अङ्काःपर्शुकोपपशुकासन्धान सूचकाः। तदन्तरालेषु च दृश्याः पर्शुकान्तरिका अन्तःस्थाः नाम पेश्यः।
पेश्योर्मू लान्तरालनिबद्धैः संभूय, तिरश्चीनैर्निम्नान्तर्मुखैः मांसतन्तुभिरुदरस्य पुरःपार्श्वयोः प्रसृता। निविशते च सा श्रोणिफलकस्य जघनधाराबहिस्तटार्धेमांसलभागेन; अग्रपत्राख्ये तरुणास्थ्नि, सेवनोकण्डरायां, भगास्थ्नो मुण्डे,वस्तिकण्टिकायाञ्च कलाकण्डराभागेन। कलाकण्डरा चेयमूर्ध्वं पुरस्तात् पर्शुकामूलेषु सम्बद्धा गुर्व्या उरश्छदायाः कलाकण्डरया एकीभूता, अधस्ताद् भगास्थिमुण्डोपकण्ठे त्रिकोणप्रायेण च्छिद्रेण उपलक्षिता च। तच्च च्छिद्रं बहिर्वंक्षणीयं114नाम त्वक्कलावृतं तत् पुंसो वृषणबन्धन्या निर्गमाय, स्त्रियास्तु गर्भाशयबन्धन्याधारणाय।
अथास्याः कलाकण्डरायाः अधोधारा जघनकपालस्य पुरःकुटाद् भगास्थिकण्टकं यावत् संबद्धा, निम्नतोविमुक्ता, सा वंक्षणिका115.")स्नायुरज्जुरित्युच्यते।तदधःस्थञ्च त्रिकोणं कुहरम्—वंक्षणदरीसंज्ञम् द्विभागविभक्तम्। तस्य बाह्यार्धेनविनिर्गता श्रोणिपक्षिणी, दीर्घा कटिलम्बिनी च पेशी। आन्तरार्धेन पुनः पुरःसक्थिका नाम नाड़ी, और्वीधमनी सिरा च।
उदरच्छदाया आदिमायाः पश्चिमधारा तु विमुक्तापग्रा,कटित्रिकोणस्यसंमुखीनभुजरूपा।
उदरच्छदा मध्यमा116 नाम तन्वायता पेशी पूर्वोतया पेश्या समाबृता।सेयमधस्तात् श्रोणिफलकस्य जघनधाराबहिस्तटात्, वंक्षणिकाख्यस्नायुरज्ज्वाःपश्चार्धाच्च संभूय पश्चात् कटिपृष्ठप्रच्छदाख्यया गम्भोरप्रावरण्या एकीभूता,ऊर्ध्वमधो मध्ये च तिरश्चीनतन्तुभिर्मध्यरेखां प्रति प्रसृता। निविशते तु साधनुर्वक्रैःकतिचित्स्नायुसूत्रैः वक्ष्यमाणायाश्चरमोदरच्छदाया अधोवर्त्तिमूलैरेकतांगतैर्भगास्थिमुण्डे वस्तिकण्ठिकायाञ्च।तैश्च निर्मीयते वंक्षणसुरङ्गायाश्छदिभागःपश्चिमभागश्च। मध्यरेखायां निवेशस्तु तस्याः उदरसेवन्याख्य तनुशुभ्रकण्डरायांस्तरद्वयविभक्तेन कलाकण्डराभागेन। तेन च निर्मीयते उदरदण्डिकाख्यपेश्याःकञ्चकम्। ऊर्ध्वं निवेशस्तु तस्या अधःस्थे उपपर्शकाचतुष्टये मांसलैर्मूलः।
** उदरच्छदा चरमा117 (गम्भीरा वा)** नाम (८० चित्रम्) गम्भीरतमाउदरच्छादिनी पेशी। सेयमधस्ताद् वंक्षणिकाख्यस्नायुरज्ज्वाः पश्चार्धतः, श्रोणिफलकस्य जघनधारान्तस्तटाञ्च संभूय पश्चात् कटिपृष्ठप्रच्छदाख्यया गम्भीरप्रावरण्याएकीभूता, मध्यरेखां प्रति अनुप्रस्थ ऋजुप्रायैस्तन्तुभिः प्रसृता च। ऊर्ध्वं चास्याःप्रभवः षड्भ्यः अधरोपपशुकाभ्यो महाप्राचीरापरिधिप्रविष्टैर्मांसलमूलैः। निविशतेच सा मध्यरेखां प्रति उदरसेवन्याख्यकण्डरायाम्, अधश्च मध्यमोदरच्छदासाधारणैर्मूलैःपूर्ववत्। छिद्रं तु तत्राधिकं भगमुण्डपार्श्वतः अन्तर्वंक्षणीयं118नाम,दृश्यते च तदाश्रित्य वंक्षणीयसुरङ्गां प्रविशन्ती पुंसो वृषणबन्धनी, स्त्रियास्तुगर्भाशयबन्धनी।
वंक्षणसुरङ्गा119 चेयमूर्ध्वं बहिःसीम्नि बहिर्वक्षणीयच्छिद्रादारभ्य तिर्यगधस्ताद्वंक्षणिकाख्यस्नायुरज्ज्वा अनुक्रमेण मध्यरेखां प्रति प्रसृता—अन्तर्वंक्षणीयं छिद्रंयावत्। निर्मीयते च तस्याः पश्चिमभागः आदिमया उदरच्छदया, पुरोभागःचरमया उदरच्छदया, छदिभागः मध्यमाया उदरच्छदाया अधोधारया,भूमिभागश्च वंक्षणिकास्नायुरज्ज्वा—इति समासेन तस्याः सीमानिर्देशः।अन्त्रवृद्धिरोगे च अनेनैव सुरङ्गापथेन अवतरति द्विगुणीभूतमन्त्रमण्डकोषान्तः।
फलकोषकर्षणी120नाम तनुसूत्रा पेशी गर्भस्थवालस्य वृषणावतरणकालेउदरच्छदाया आदिमायाः कतिचिन्मांसतन्तूनादाय निर्मिता। सा एकैकतोवृषणबन्धन्या पार्श्वानुक्रमेण पाशाकारैः मांसतन्तुभिः फलकोषेऽवतीर्णा। तस्याःकार्यं फलकोषस्य ऊर्ध्वकर्षणम्। प्रचेष्टनी नाडी ऊरुवृषिणका नाम।
द्रष्टव्या चात्र प्रसङ्गेचरमाया उदरच्छदाया अभ्यन्तरतलच्छादनी कलाउदरान्तश्छदा121 नाम। सा उदर्याख्यमहाकलातो मेदःस्तरेण पृथक्कृता,निलीना च पश्चात् कटिवंशमुभयतोमेदःस्तरेषु। सेयमूर्ध्वं महाप्राचीरायास्तलदेशे प्रसृता, मिलिता च अधस्तात् श्रोणिगुहान्तरीयकलया।
व्यतिकरस्तावद् उदरच्छदानां पेशीनां ८१ चित्रे द्रष्टव्यः।
कार्यं तावदुदरच्छदानां पेशीनां सामान्यतः—उदर्याशयानां धारणम्,स्वमांससङ्कोचनेन उदरप्रपीड़णं च। महाप्राचीराया उत्क्षेपणेन श्वासवायुनिरसनमपि तासां प्रधानं कर्म, प्रवाहणञ्च निरुद्धश्वासस्य। निःश्वासकर्मसहायकत्वाच्च क्षुत्कास-हास्य-जृम्भणादि कर्मस्वपि स्फुटं तासां सहकारित्वम्।
प्रचेष्टनं तु तिसृणामपि तासामधरौरसीनां नाड़ीनां शाखाभिः। शेषद्वयस्य तु प्रथमानुकटिकायाः शाखाभिरपि।
** उदरदण्डिका122** नाम दीर्घमांसला पेशी मध्यरेखापार्श्वे एकैकतोऽवतिष्ठते
(८१ चित्रम्)
उदयपेशीनां व्यतिकरः
(अनुप्रस्थच्छेदन दर्शितः)।
| <MISSING_FIG href=”../../../books_images/U-IMG-1701960572120710.png”/> |
| से° उदरसेवनी | उदरदण्डिका |
| उदरच्छदा आदिमा | सैव मध्यमा |
| सैव चरमा | कटिलम्बिनी दीर्घा |
| कटित्रिकोणीयोऽवकाशः | कटिचतुरस्रा |
| कटिपार्श्वच्छदा | त्रिकपृष्ठिका |
| कटिकशेरुका |
(८० चित्रम्) सा संकोचकाले दण्डवद् अवतिष्ठते उदरसेवन्या एकैकतः—इति तथासंज्ञा। सेयमधस्ताद्भगास्थिसन्धाने द्वाभ्यां कण्डराभ्यां संभूय ऊर्ध्वं गता मध्यरेखायामुदरसेवनीकण्डराया एकैकतः संसज्यते, ऊर्ध्वञ्च पर्शुकातोरणार्धे। आच्छादयति च तां मध्यमाया उदरच्छदाख्यपेश्याः कलाकण्डरा, या द्विधात्मानं विभज्य पुरः पश्चाद्गमनेन तस्याः कञ्चुकीभूता। अनुप्रस्थञ्चात्र दृश्यन्ते तिस्रो रेखाः स्नायुसूत्रमय्यः, ताः पर्वलेखाः123 नाम। अथास्या उदरदण्डिकायाः कञ्चुकमध्ये तन्निम्नार्धपुरोभागे दृश्यते अपरा मन्दिरचूड़ाकारा क्षुद्रपेशी वस्तिचूड़िका124 नाम (८० चित्रम्)। सेयं भगास्थिसन्धानात् संभूय उदरसेवन्यां संबद्धा।
कार्यंपुनरुदरदण्डिकायाः उदरस्य संरक्षणमभिघाताद्, प्रवाहणं च।प्रचेष्टन्यो नाड्यस्तु उदरच्छदावत्। विशेषतश्च सङ्कोचमापद्यमाना सा मध्यकायंपुरो नमयति धनुर्वत्। वस्तिचूड़िकायास्तु कार्यमुदरसेवनीसंज्ञायाः कण्डरायाउत्तंसनम्। प्रचेष्टनी नाड़ी द्वादश्याःऔरसनाड्याःशाखा।
ता एताः एकैकतः पञ्चेति दश उदरपेश्यो व्याख्याताः।
इदञ्चात्रस्मर्त्तव्यम्। यः खलु कटिपार्श्वोदरपेशोमध्यवर्तींवर्णितः त्रिकोणाकारः अवकाशः, स कटित्रिकोणं125.")नाम। तस्य पुरःसीमा आदिमाया उदरच्छदायाः पश्चिमधारा, पश्चिमसीमा कटिपार्श्वच्छदायाः पार्श्विकी धारा। ते चधारे ऊर्ध्वं तिर्यक्संमिलन्त्यौ त्रिकोणं कल्पयतः, सहाधःसीमस्थेन श्रोणिफलकस्यजघनचूड़ाप्रदेशेन। तस्य भूमिस्तु अभ्यन्तरत उदरच्छदा मध्यमा। बाह्यावरणं त्वक्सहिताः प्रावरण्यः। अनेन च त्रिकोणेन तत्पार्श्वीयो वृक्कः, वृहदन्त्रांशश्च इति द्वयमपि स्पर्शेन परीक्षितुं शक्यम्—इति विशेषेण वृक्कादिरोगपरीक्षाद्वारमेतत्।
अथ श्रोणिचक्राभ्यन्तरीयाः पेश्यः।
ताः पञ्च पञ्च एकैकतः—श्रोणिचक्रान्तश्छादिन्या मांसधरया कलयासमावृताः। साऽसौ कला श्रोणिगुहान्तरीया126 प्रावरणी नाम। सा उपरिष्टात्उदान्तश्छद्या कलया, अधश्च वस्तिगुहान्तश्छदया मिलिता। संबध्यते चासौऊर्ध्वसीम्नि जघनधाराद्वयेन कटिवंशपुरोभागेन च, अधस्तात् वस्तिकण्ठिकायांत्रिकोष्ठेन च। एवञ्च प्रसृता प्रच्छादयति सा जघनोदरान्तः श्रोणिपक्षिण्यौ पेश्यौ,पृष्ठवंशपुरतश्च कटिलम्बिन्याख्यपेशीसहितं कटिवंशपुरोभागम्। धारयति च सावस्तिकण्ठिकान्तःपार्श्वयोः श्रोणिगुहाप्रविष्टे अधिश्रोणिके बाह्ये नाम स्थूलेधमन्यौसिरे च। वंक्षणदेशे च सैव वंक्षणदरीभूमिभूता ऊरुकञ्चुकया मिलिता।पेश्यश्च एकैकतो यथा—
श्रोणिपक्षिणी127नाम श्रोणिगुहायाः पक्षान्तःपूरणी मांसलायता पेशी (७६चित्रम्)। सेयं श्रोणिफलकस्य जघनोदरात्, जघनचूड़ातः, त्रिकास्थिपक्षैकदेशात्कटिजघनिका-त्रिकजघनिकाख्यस्नाय्वोश्च संभूय दीर्घायाः कटिलम्बिन्याः कण्डरयाएकीभूतमूला, वंक्षणिकाख्यस्नायुरज्ज्वोरधःस्थितया वंक्षणदर्या निर्गत्य ऊर्वस्थ्नोलघुशिखरके निविशते। तस्याः कार्यं मध्यकायस्य अवनमनम् अथवा तत्पाश्विकस्य ऊरोरूर्ध्वकर्षणम्। प्रचेष्टनी नाड़ी तु और्वीनाम।
** श्रोणिगवाक्षिणी अन्तःस्था128**नाम मांसला पेशी श्रोणिगवाक्षविवराभ्यन्तरपरिधेः तदाच्छादिकलायाश्च संभूता। सेयं कुकुन्दरकूटान्तःप्रदेशे संलग्नैकदेशा कुकुन्दरद्वारेण अधो विनिर्गत्य ऊर्वस्थ्नो महाशिखरकेनिविशते। एवञ्च वस्तिगुहायाः पुरःप्राचीरभूतेयं पेशी। तस्याः कार्यमूर्वस्थ्नोबहिर्विवर्त्तनम्। प्रचेष्टनं तु पञ्चम्या अनुकटिकया नाड्या, प्रथमद्वितीयाभ्यामनुत्रिकाख्यनाड़ीभ्याञ्च।
** शुण्डिका**129 नाम करिशुण्डाकारा पेशी (७६ चित्रम्) त्रिकास्थ्नः पुरोभागात् तिभिर्मूलैः संभूय श्रोणिफलकस्य गृध्रसीद्वारपरिधौ गुर्व्यां कुकुन्दरसंयोजन्यांस्नायौच संसक्तमूला गृध्रसीद्वारेण विनिर्गत्य ऊर्वस्थ्नो महाशिखरके निविशते।तस्याः कार्यं ऊर्वस्थ्नो बहिर्विवर्त्तनम्, वस्तिगुहाभूमिधारणञ्च सह वक्ष्यमाणाभ्यांपेशीभ्याम्। प्रचेष्टनं तु प्रथमद्वितीययोरनुत्रिकनाड्योः शाखाभ्याम्।
** पायुधारणी130**नाम प्रसृतिनिभा पेशी पायोरेकैकतः (८२ चित्रम्)। साइतरया स्वनामिकया मध्यरेखायां मिलित्वा अञ्जलिसमाकारा पायोर्वस्तेरुपस्थमूलस्य च यथास्थानं धारणाय कल्पते।
** **सेयं भगास्थनः पश्चिमप्रदेशात्, कुकुन्दरकण्टकात्, वस्तिगुहान्तरीयायाःकलायोश्च संभूय पायुं परितः (स्त्रियास्तु योनिं परितोऽपि ) प्रसृता सीवन्यामनुत्रिकाग्रे च संबद्धा। कार्यं त्वस्याः गुदोपस्थ-वस्तिधारणं, पायुकर्षणं चपायुसङ्कोचन्याख्यपेशी-साहाय्येन।
** **प्रचेष्टनं त्वस्याः चतुर्थ्या अनुत्रिकाख्यनाड्याः गुदोपस्थिकाख्यनाड्याश्च शाखाभ्याम्।
** अनुत्रिकिणी**131नाम पेशी तस्या एव सहकारिणी पश्चावर्त्तिनी च।सेयं श्रोणिफलकस्य कुकुन्दरकण्टकात्, त्रिकानुत्रिकपुरःसन्धानात्, लघ्व्यास्त्रिककुकुन्दरिकायाः स्नायोश्च संभूय, अनुत्रिकास्थ्नः पुरोभागे, एकैकतः त्रिकास्थिमूले च संबद्धा। सेयमनुत्रिकास्थ्नो धारणी वस्तिगुहाद्वारस्य प्रच्छादनी च।
(८२ चित्रम्)
शिश्न-गुद-मूलाधारपीठस्थाः पेश्यः।
| <MISSING_FIG href=”../../../books_images/U-IMG-17027235351602.png”/> |
| उपस्थसङ्कोचनी | शिश्नमुण्डम् |
| शिश्नप्रहर्षणी | शिश्नपार्श्विका |
| उरुसंव्यूहनी पेशी | मूत्रप्रसेकधरा |
| पायुधारणी | गुदद्वारम् |
** ८२ चित्रस्य व्याख्या**—१ । त्रिकोणप्रावरणी कला। २ । उपस्थमूलच्छदा पश्चिमा। ३। गुदसङ्कोचनी बाह्या। ४। नितम्बपिण्डिका गरिष्ठा। ५। कुकुन्दरपिण्डम्। ६। अनुत्रिकास्थि।
अस्याः प्रचेष्टनं चतुर्थ-पञ्चमानुत्रिकनाड्योः शाखाभिः। ता एताःएकैकतः श्रोणिचक्राभ्यन्तरीयाः पञ्च पेश्यो व्याख्याताः। तासां मध्ये आद्यत्रितयं बहिर्विनिर्गतं यथोक्तप्रकारेण ऊर्वस्थिसंबन्धाय। चरमद्वितयं तु बाह्यया गुदसङ्कोचन्याख्यपेश्या सहितं वस्तिगुहांद्वारस्य अधःपिधानभूतम्।
द्रष्टव्या चात्र प्रसङ्गे वस्तिगुहान्तरीया132नाम कला वस्तिगुहान्तश्छादनी।सा ऊर्ध्वं वस्तिकण्ठिकाख्यरेखायाम् अधश्च वस्तिगुहाद्वारं परितः संसक्ता।तस्यास्त्रयो भागाः—बाह्यो मध्यः आभ्यन्तरश्चेति। तत्र बाह्यो भागः—एकैकतःश्रोणिगवाक्षिणीमन्तःस्थां नाम पेशों संछाद्य अधःप्रसृतः कुकुन्दरास्थ्नःपिण्ड-कूटयोःसंसक्तः अनुकुकुन्दरिकां नाम सुरङ्गिकामारचयति, सा गुदोपस्थिकाख्यनाड़ी-सिरा-धमनीनां धारणाय। संसज्यते चासौ त्रिकोणप्रावरणी-संज्ञाया वस्तिगुहाद्वारच्छादिन्याः कलाया उत्तरस्तरेण। मध्यो भागः—स्तरद्वयेन पायुधारण्याख्यपेशीद्वयं छादयति धारयति च। आन्तरो भागः—पायुं वस्तिं पौरुषग्रन्थिं शुक्राधारिकाद्वयञ्च संवेष्ट्य धारयति।
वस्तिगुहाद्वारस्य च तथापिहितस्य चतुरस्त्राकारस्तलदेशो मूलाधारपीठं**मूलाधारचतुरस्त्रं133 वा नाम। तस्यैताः सीमाः अस्थिस्नायुनिर्मिताः। पुरःसीमाकोणाकारा—भगतोरणं नाम, तद् भगास्थिसंधानस्याधस्त्रिकोणप्रायम्। तदेकैकतःपार्श्वसीमा—भग-कुकुन्दरास्थोः अधरोत्तरङ्ग (परस्परसंसक्ते), कुकुन्दरपिण्डम्, त्रिककुकुन्दरिका गुर्वी नाम स्नायुरज्जुश्च। पश्चिमसीमा अनुत्रिकाप्रम्।लौकिकदृष्टया तु मूलाधारपीठस्य त्वङ्मांसनिर्मिताः सीमाः—पुरस्तात् पुरुषस्यअण्डकोषः स्त्रियास्तु योनिः, उभयतो वंक्षणद्वयम्, पश्चिमतो नितम्बद्वयञ्चेति।
इदञ्च मूलाधारचतुरस्त्रं कुकुन्दरपिण्डयोः संयोजन्या कल्पितरेखयात्रिकोणद्वये विभज्यते वर्णनासौकर्याय। तत्र पुरोवर्ति त्रिकोणं औपस्थिकंत्रिकोणं134 नाम,तत् स्त्रीपुंसोरुपस्थधारणम्। पश्चिमत्रिकोणं पुनःपायव्यत्रिकोणं135 नाम, तत् पायुधारणम्। पायूपस्थयोरन्तराले च मध्यरेखायांस्वाभाविकी स्नायुमयी संयोगरेखा त्वचि परिस्फुटा सेवनी136 नाम। तदूर्ध्वस्था च तनुकण्डरा *सेवनी-*सूत्रिका संज्ञा।
अत्र च प्रसंगे स्मर्त्तव्यं भगन्दररोगायतनं खातं—गुदकौकुन्दरं137 नाम।तत् खलु गुदस्य एकैकतः त्रिकोणविलप्रायं परितः कलावृतं मेदःपूर्णञ्च। तस्यमध्यरेखाभिमुखी सीमा—गुदसङ्कोचनी बाह्या नाम पेशी, गुदवेष्टनी कला च।पार्श्वसीमा—कुकुन्दरपिण्डं वस्तिगुहान्तरीया कला च। पश्चिमसीमा—त्रिककुकुन्दरिका गुर्वी नाम स्नायुरज्जुः, नितम्बपिण्डिका गुर्वी नाम पेशी च।तस्मिश्च खातेऽवतिष्ठन्ते गुदोपस्थिका नाम नाड़ी, धमनी-सिराश्च गुदान्तिकाः।कुकुन्दरपिण्डोत्संगे च तत्रैव गुदोपस्थिका नाम नाडी, धमनीसिरे चस्नायुमयखातस्थे।
अथ मूलाधारचतुरस्रस्थाः पेश्यः।
मूलाधारचतुरस्त्रे दृश्या नव पेश्यः। यथा—पुरस्ताद् औपस्थिकत्रिकोणेसप्त, पश्चिमतः पायव्यत्रिकोणे च द्वे इति। तद्यथा—औपस्थिकत्रिकोणेउपस्थसंकोचन्यौ138.”) नाम उपस्थपार्श्वस्थे द्वे पेश्यौ (८२ चित्रम्)। ते पुंसःशिश्नमूलमुभयतः सेवनीसूत्रिकायां परस्पर-संसक्ते शिश्नमूलं संवेष्टयतः। तयोःकार्यं मूत्रप्रसेकस्य सङ्कोचनं यत् मूत्रणकर्मान्तेपरिस्फुटम्। ते एव स्त्रियाःयोनिद्वारपार्श्वस्थे तत्संकोचनकार्ये। अनयोः प्रचेष्टनं गुदोपस्थिकाख्यनाड्योःशाखाभ्याम्।
शिश्नप्रहर्षिण्यौ139.आशयखण्डे शिश्नादिचित्राण्यपि द्रष्टव्यानि।")नाम द्वेपेश्यौ (८२ चित्रम्) कुकुन्दरास्थःपिण्डात्कूटाच्च संभूय पुंसः शिश्नमूलमुभयतः संबद्धे।स्त्रियास्तु ते एव भगशीर्षकेभगशिश्निकामुभयतः संसक्ते तनुतराकारे।
तयोः कार्यं स्वनामव्याख्यातम्। प्रचेष्टन्यौ नाड्यौ च पूर्ववत्।
उपस्थमूलच्छदा अग्रिमा पश्चिमा140चेति द्वेपेश्यौ (८२ चित्रम्)। तयोरग्रिमा उत्ताना कुकुन्दरपिण्डात् संभूय गुदपुरस्तात् सेवन्यां संबद्धा। पश्चिमातु गम्भीरा कुकुन्दरास्थ्नोऽधरशृङ्गात् संभूय किञ्चिदग्रत उपस्थमूले सेवनीकण्डरायांमध्यरेखागतायां संबद्धा। मध्ये चानयोः स्तरद्वययुता दृढ़कला त्रिकोणप्रावरणीनाम नाड़ीसिरादिधरा वक्ष्यमाणा। कार्यन्तु तयोः सेवन्या उत्तंसनंसेवनीसंबद्धानामितरपेशीनांक्रियासौकर्याय। प्रचेष्टनं पुनः गुदोपस्थिकयोर्नाड्योः शाखाभिः।
मूत्रद्वारसङ्कोचनी141नाम पेशी मूत्रस्रोतसः कलामयभागमभितः संबद्धा।तस्याः बाह्य मूलमेकैकतः कुकुन्दरकूटं संसक्तम्। क्रिया च स्वनामव्याख्याता। प्रचेष्टनी नाड़ी पूर्ववत्।
स्मर्त्तव्या चात्र प्रसङ्गे औपस्थिकत्रिकोणच्छादिनी कला त्रिकोणप्रावरणीनाम (८२ चित्रम्)। सा साधारण्या गम्भीरप्रावरण्या अंशभूता तत्प्रदेशे स्तरद्वयेविभक्ता पश्चिमाम् उपस्थमूलच्छदां पेशीं मध्ये धारयति। दृश्यन्ते च तदन्तरालेगम्भीरा उपस्थपृष्ठिका नाम सिरा नाड़ी च, मूत्रस्रोतसः कलामयो भागः,मूत्रद्वार-सङ्कोचनी पेशी, गुदोपस्थिकाख्याः मूत्रस्रोतोऽभिगाः सूक्ष्माः सिराधमन्योग्रन्थयश्च। तस्याश्च कलायाः उत्तरस्तरं वस्तिगुहान्तरीयकलाया बाह्यभागेन उभयोः पार्श्वयोर्मिलितम्।
अथ पायव्यत्रिकोणस्थे पेश्यौ यथा—
गुदसङ्कोचनी बाह्या अभ्यन्तरी142 चेति (८२ चित्रम्)। तयोर्बाह्या गुदोष्ठमभितः अञ्जलिवदवस्थिता। सा पश्चिमतः अनुतिकाग्रात् संभूयगुदमुभयतः प्रसृता सेवनीसूत्रिकायां संबद्धा। तस्या एव त्वाचं भागं केचित्गुदत्वक्सङ्कोचनीं नाम पृथक् पेशीमाहुः।
आभ्यन्तरो गुदसङ्कोचनी तु तत्रैव द्वग्ङ्गुलादूर्ध्वमधरगुदं संवेष्ट्य स्थिताचक्राकारा। सा स्वतन्त्रमांसतन्तुभूयिष्ठा अनिच्छतोऽपि गुदसंवरणी।
अनयोः कार्यं स्वनामव्याख्यातम्। नियतसंकुचितावस्था तु विशेषः।प्रचेष्टन्यौ नाड्यौ तु बाह्यायाः पेश्याः गुदोपस्थिकयोः शाखे। आभ्यन्तर्यास्तुगुदवत्। प्राचां संमतं गुदवलित्रयं तु गुदवर्णने व्याख्यास्यामः।
तदेतदेकादशोत्तरं शतं पेशीनां मध्यकाये व्याख्यातम्।
इति तृतीयोऽध्यायः।
<MISSING_FIG href=”../../../books_images/U-IMG-1707919812Screenshot2024-01-17074752.png”/>
चतुर्थोऽध्यायः।
** **अथात ऊर्ध्वशाखीयपेशीवर्णनीयं नामाध्यायं व्याख्यास्यामः।
** **इह खलु अक्षकास्थिसहितमंसफलकम् अंसचक्र नाम। तञ्चदृढ़स्नायुभिः सन्नद्धं परस्परं, प्रगण्डास्थ्ना चेत्यवोचाम। तस्य च अंसचक्रस्यसमग्रबाहुसहितस्य ऊर्ध्वशाखेति संज्ञा वर्णनासौकर्याय पेश्यध्याये। अंसचक्रेणबाहुसम्बन्धस्य घनिष्ठस्त्वात्, अंसपेशीनां भुम्ना बाहुपेशीष्वनुप्रवेशात् प्रगण्डास्थ्निनिवेशाच्च। दशानाञ्च ग्रीवोरःपृष्ठपेशोनामिहैव ग्रहणं, संयोगसम्बन्धात्। संख्याने तुनेह ता अधिक्रियन्ते, तासाम् उक्तचरत्वात्, प्राधान्येन मध्यकायनिष्ठत्वाच्च।प्रधाना अंसपेश्यस्तु संख्यायन्त इहैव, तासामनुक्तचरत्वात्, प्राधान्येन बाहुसम्बन्धाच्च। एवञ्च साकल्येनएकोनषष्टिरिह पेशीनामेकैकस्यामूर्ध्धशाखायांद्रष्टव्या। संख्यानकाले तु ग्रीवोरःपृष्ठपेशीदशकस्य वर्जनादेकोनपञ्चाशदेकैकतःइति उभयोरष्टानवतिः पेश्यः संख्यायन्ते।
** **अथासामेकोनषष्टिपेशीनां सप्तधा विभागः। तद्यथा—
** **ऊर्ध्वशाखायाः पृष्ठेन संयोजन्यश्चतस्त्रः, उरसा च चतस्रः।ग्रीवांससंयोजन्यौ द्वे। अंस-बाहुसंयोजन्यः सप्त। प्रगण्डीयास्तिस्रः। प्रकोष्ठीयाविंशतिः। पाणौ एकोनविंशतिरिति। तत्र—
** **(१) ऊर्ध्वशाखायाः पृष्ठेन संयोजन्यश्चतस्रः पेश्यो यथा—पृष्ठच्छदा,कटिपार्श्वच्छदा, अंसापकर्षणो गुर्वी, लघ्वी चेति।तासामाद्य बाहुपृष्ठसंयोजन्यौ, अन्त्ये तु अंसपृष्ठसंयोजन्यौ। सर्वाश्च ताः पृष्ठपेशीवर्णनेवर्णितपूर्वाः।
** **(२) ऊर्ध्वशाखाया उरसा संयोजन्यश्चतस्रपेश्यो यथा—उरश्छदागुर्वी लघ्वी च, अक्षकाधरा, अग्रिमारित्राचेति। तासामाद्ये उरोबाहुसंयोजन्यौ,तृतीया अक्षकोरःसंयोजनी, चतुर्थी अंसफलकोरःसंयोजनी। सर्वाश्च ता उरःपेशीवर्णने वर्णितचराः।
** **(३) ग्रीवांऽससंयोजन्यौ पेश्यौ यथा—अंसोन्नमनी अंसकण्ठिका चेति।ते यथाक्रमं पुरः पश्चाच्च अंसफलकमूर्ध्वमाकृष्य धारयतः।वर्णिते च तेग्रीवापेशीषु।
(तदेतत् पेशीदशकं न गृह्यते समष्टिसंख्याने, पूर्वोहेतोः।)
(८३ चित्रम्)
अंस प्रगण्डीयाः पेश्यः।
| <MISSING_FIG href=”../../../books_images/U-IMG-17027217661601.png”/> |
| अक्षकास्थि | अंसच्छदा |
| काकोष्ठिका | द्विशिरस्कायाः शिरोद्वयम् |
| अंसफलकम् | उरश्छदा गुर्वी (कर्त्तितकण्डरावशेषः) |
| द्विशिरस्कायाः पिण्डिका | त्रिशिरस्कायाः पार्श्विक भागः |
| त्रिशिरस्काया मध्यमशिरः | कूर्परद्वारिका |
| कूर्परद्वारिका | करोत्ताननी दीर्घा |
| कूर्परपरिका स्नायुः |
८३ चित्रस्य व्याख्या—१। उरश्छदा लघ्वी (कर्त्तितकण्डरा मात्रम्)। २। त्रिशिरस्कायादीर्घशिरः। ३। प्रगण्डास्थि। ४। मणिबन्धापकर्षणी दीर्घा।
अथ प्रधाना अंसपेश्यः।
इह खलु सप्त अंस-बाहु संयोजन्यः पेश्यः। तद्यथा—
अंसच्छदा143 (अंसपिण्डिकावा) नाम बाहुमूलच्छादिनी स्थूलमांसलापेशी अंससन्धिं बहिरावृत्य अवतिष्ठते (८३ चित्रम्)। सा बाहुकञ्चुकाख्ययादृढ़प्रावरण्या सुरक्षिता। सेयमक्षकास्थ्नः पार्श्विकार्धात् अंसफलकस्य कूटप्राचीराभ्याञ्च संभूय तिर्यक् प्रसृताप्रगण्डास्थ्नो मध्यनलकपार्श्व निविशते स्थूलकण्डरामूलेन। तस्याः कार्यं बाहोरुन्नमनं मध्यकायसामकोण्येन144.”), अपकर्षणं च स्तोकेन। प्रचेष्टनन्तु तस्याः पञ्चम्या, षष्ठ्या चानुग्रीविकया अनुकक्षाख्यनाड़ीप्रवेणीद्वारेण।
अंसान्तरिका145 नाम पेशी (७८ चित्रम्) अंसफलकस्य अंसकपालिकोदरात्सम्भूय प्रगण्डास्थ्नो लघुपिण्डके निविशते, तस्याः कार्यं प्रगण्डास्थिमुण्डस्यमध्यरेखां प्रति पृष्टतश्च विवर्त्तनम्। प्रचेष्टनी तु नाड़ी अन्वंसिका नाम।
अंसपृष्टिका उत्तरा, अधरा146 चेति पेश्यौ (८४ चित्रम्) अंसफलकप्राचीरस्य उत्तराधरप्रदेशस्थे। तेअंसकपालिकापृष्ठात् संभूय प्रगण्डास्थ्नोमहापिण्डके निविशेते। तयोराद्या बाहोरुत्तोलनी, अन्त्या तस्या बहिर्विवर्त्तनी।प्रचेष्टनी तु नाड़ी उभयोरपि अध्यंसिका नाम।
**अंसाधारिका गुर्वी, लघ्वी147**चेति द्वेपेश्यौ (८४ चित्रम्) अंसफलकस्यकक्षानुगधाराया उत्तराधरार्धाभ्यां सम्भूय प्रगण्डास्थ्नो महापिण्डके निविशेते।तयोः कार्यं प्रगण्डास्थ्नो बहिर्विवर्त्तनम्, पृष्ठतः कर्षणं च। प्रचेष्टनी तु नाड़ीप्रथमाया अन्वंसिका, द्वितीयायाः पञ्चमी अनुग्रीविका नाम।
काकोष्ठिका148 नाम (८३ चित्रम्) पेशी अंसफलकस्य तुण्डात् सम्भूयप्रगण्डास्थ्नो मध्यनलकान्तःसोम्नि संबद्धा। सेयं बाहोः पुरोविवर्त्तनी, उरोदेशंप्रति कर्षणी च।तस्याः प्रचेष्टनी नाड़ी पेशीत्वगन्तिका वाहवी नाम।
(८४ चित्रम्)
अंस-वाहु-पृष्ठगाः पेश्यः।
| <MISSING_FIG href=”../../../books_images/U-IMG-17027243521603.png”/> |
| अंसपृष्ठिका उत्तरा | अंसच्छदा मूलमात्रम् |
| अंसपृष्ठिका अधरा | १ |
| अंसधारिका लघ्वी | २ |
| अंसधारिका गुर्वी | ३ |
| द्विशिरस्काया दीर्घशिरः | ४ |
| त्रिशिरस्कायाः पार्श्विक भागः | ५ |
अथ कक्षादरी।
स्मर्त्तव्यं चात्र प्रसङ्गे कक्षान्तःस्थितं मन्दिरचूड़ाकारं कुहरं **कक्षादरीकक्षाकुहरं149**वा नाम। तस्याः शिखरभागो ग्रीवामूलाभिमुखः स अक्षकांऽसफलक-प्रथमपर्शुकानामन्तरालस्थः।तमाश्रित्य प्रवर्त्तेते ‘कक्षाधरा’ नाम धमनी सिराच, नाड़ीप्रवेणी च ‘कक्षानुगा’ नाम। तस्यास्तलदेशः त्रिकोणाकारः, स उरःपार्श्वेसमायतः, बाहुपार्श्वे तनूकृतः कोणाकारश्च। स कक्षाप्रच्छदाख्यया गभ्भीरप्रावरण्या प्रावृतः। तस्याःपुरःप्राचीरमुरश्छदाभ्यां पेशीभ्यां निर्मीयते।पश्चिमप्राचीरम्—अंसान्तरिका, अंसाधरिका, कटिपार्श्वच्छदेति पेशीत्रयेण।तस्या अन्तःसीम्नि दृश्याः प्रथमाद्याश्चतस्त्रः पर्शुकाः, तदन्तरालस्थपेशीभिरग्रिमारित्राख्यपेश्या च सहिताः। वहिःसीम्नितु दृश्यः प्रगण्डास्थन ऊर्ध्वभागः,द्विशिरस्कया काकोष्ठिकया चेति पेशीभ्यां सहितः।
अत्र च कक्षादर्यादृश्याः—कक्षाधराख्ये सिराधमन्यौ, कक्षानुगाख्या नाड़ीप्रवेणी सशाखा, लसीकाग्रन्थयो बहवः, मेदोराशिश्च तदन्तरालाऽपूरणः।
अथ प्रगण्डीयाः पेश्यः।
तास्तिस्त्र एव। तद्यथा—
** द्विशिरस्का बाहवी150**नाप्र प्रगण्डपुरःस्था पेशी (८३ चित्रम्) द्वाभ्यांशिखाभ्यामुपलक्षिता। सैव प्राचां बाहुपिण्डिका नाम। तस्याः दृढकण्डरामयीदीर्घशिखा अंसफलकस्य अंसकूटशिखरात् सम्भूय अंसोदूखलिकाख्यं स्नायुकोषंनिर्भिद्य अधःप्रसृता। ह्रस्वशिखा तु अंसतुण्डात् काकोष्टिकया सह सम्भूय दीर्घशिखामनुवर्त्तते बाहुमध्यपुरस्तात्।शिखाद्वयं च क्रमेण कूपरान्तं यावन्मांसलीभूयमिलितमेकीभूतकण्डरान्तेन वहिःप्रकोष्ठास्थ्नः ऊध्र्ध्वप्रान्तपुरःस्थे अर्बुदाख्ये उत्सेधेनिविशते। तद्द्बन्धनश्चात तिरश्चीनः प्रावरणीभागः दृढस्नायुमयो ड्यङ्गुलायतः,कूपरपट्टिका नाम। तयाऽच्छाद्यते बाहवी नाम धमनी, तद्ग्रशाखासहिता।कार्यं तु द्विशिरस्कायाः बाहोः संकोचनं कूपरसन्धौ। प्रचेष्टनं पुनः पञ्चम्या षष्ठ्या च अनुग्रीविकया नाड्या, पेशीत्वगन्तिकां बाहवीं नाम नाड़ोमाश्रित्य।
** कूर्परद्वारिका151**नाम मांसला पेशी (८३ चित्रम्) द्विशिरस्कायाः पश्चादम्तःसीम्नि चावस्थिता। सेयं प्रगण्डास्थ्नो निम्नार्धपुरोभागात् सम्भूयकूर्परसन्धिमाच्छादयन्ती अन्तःप्रकोष्टास्थ्नः चञ्चुप्रवर्धने निविशते। तस्याः कार्य पूर्ववत्। प्रचेष्टनं तु बहिर्बाहुकया नाड्या पेशीत्वगन्तिकया च।
(८५ चित्रम्)
वामप्रकोष्ठपुरःस्थाः पेश्यः (उत्तानाः)।
| <MISSING_FIG href=”../../../books_images/U-IMG-17027438191604.png”/> |
| प्रगण्डास्थ्नः अधःप्रान्तस्थम्आन्तरादर्बुम् | द्विशिरस्का बाहवी |
| करविवर्त्तनी दीर्घा | करोत्ताननी दीर्घा |
| मणिबन्धसंकोचनी (बहिःस्था) | अङ्गुष्ठसङ्कोचनी दीर्घा |
| करतलप्रसारणी | अङ्गुलीसंकोचनीमध्यपर्विका |
| मणिबन्धसङ्कोचनी (अन्तःस्था) | कङ्कणिफा स्नायुः |
** त्रिशिरस्का152**नाम दीर्घमांसला पेशी प्रगण्डपृष्ठतो वर्त्तते (८४ चित्रम्)। तस्यास्त्रीणि शिरांसि मांसलप्रायाणि। तेषां बाह्यान्तःसीमस्थं शिरोद्वयंप्रगण्डास्थ्नो मध्यनलकपश्चिमस्थायाः सीतायास्तटद्वयात् सम्भवति, मध्यस्थं तुशिरो दीर्घतमम्, तद् अंसफलकस्य अंसपीठाधः प्रदेशात् प्रभवति। तेषां च त्रयाणांसंयोगेन एकीभावो बाहुपृष्ठे, निवेशश्च कलाकण्डरामयः अन्तःप्रकोष्ठास्थ्नः कूर्परकूटपृष्ठे। कार्यं पुनरस्याः संकुचितस्य वाहोः प्रसारणं कूर्परसन्धौ। प्रचेष्टनी नाड़ीबहिर्बाहुका नाम।
अथ प्रकोष्ठीयाः पेश्यः।
** **तासां पुरोवर्त्तिन्यः अष्टौ, पश्चिमस्थाश्च द्वादशेति विंशतिरेकैकस्मिन्प्रकोष्ठे। तास्वपि पुरःस्थाः—उत्तानाः पञ्च, गम्भीरास्तिस्त्रः। पश्चिमस्थाः—उत्तानाः सप्त, गम्भीराः पञ्च।
तत्र प्रकोष्ठपुरःस्था उत्तानाः यथा—
** करविवर्त्तनी दीर्घा**153 नाम पेशी (८५ चित्रम्) प्रगण्डास्थ्नः अधःप्रान्तीयाद् आन्तरार्बुदात् अन्तःप्रकोष्ठास्थनः चञ्चुप्रवर्धनान्तःसीमतश्च मूलद्वयेनसम्मूय तिर्यग्गता बहिःप्रकोष्ठास्थ्नो मध्यभागे पश्चिमतो निविशते। अस्याःकार्य स्वनामव्याख्यातम्। प्रचेष्टनीनाड़ी तु मध्यप्रकोष्ठिका नाम, साऽस्याः मूलद्वयान्तराले प्रविष्टा।
** मणिबन्धसङ्कोचनी बहिःस्था154**नाम पेशी (८५ चित्रम्) तस्या एवअन्तःसीम्नि बर्त्तते। सा प्रगण्डास्थ्नः अधःप्रान्तीयादान्तराबुदात् पेशीपञ्चकसाधारणेन कण्डरामूलेन सम्भूय तर्जनीमूलशलाकाया मूलपुरोभागे निविशते। तस्याः कार्यं स्वनामव्याख्यातम्। प्रचेष्टनी तु नाड़ी मध्यप्रकोष्ठिका नाम।
** करतलप्रसारणी**155 नाम तनुदीर्घा पेशी (८५ चित्रम्) तस्याअप्यन्तःसीम्नि दृश्यते। तस्याः प्रभवः पूर्ववत्, निवेशस्तु कङ्कणिकाख्यस्नायौ करतलिकाख्यस्नायौ च। कार्यं स्वनामव्याख्यातम्। प्रचेष्टनी नाड़ी पूर्ववत्।
(८६ चित्रम्)
वामप्रकोष्ठपुरःस्थाः पेश्यः (गम्भीराः)।
| <MISSING_FIG href=”../../../books_images/U-IMG-17027439981605.png”/> |
| कूर्परद्वारिकायाः कर्त्तितकण्डरा | प्रगण्डास्थ्नः बहिःसीमस्थम् उपादुदम् |
| अङ्गुलीसङ्कोचनीअग्रपर्विका | द्विशिरस्कायाः निवेशकण्डरा |
| कनिष्ठामूलकर्षणी | करात्ताननी ह्रस्वा |
| [अङ्गुलीसङ्कोचन्या अग्रपर्विकायाः कण्डरा चतुष्टयम्अङ्गुलीचतुष्टये दृश्यम् | ] |
| अङ्गुष्ठमूलकर्षणी | करविवर्त्तनी चतुरस्रा |
| अङ्गुष्ठसङ्कोचनीह्रस्वा |
मणिबन्धसङ्कोचनीअन्तःस्था156नाम दीर्घमांसलापेशी (८५ चित्रम्) प्रकोष्ठस्य चरमान्तःसीमस्था। तस्याःप्रभवः—एकेन मूलेनपूर्ववत् अपरेण अन्तःप्रकोष्ठास्थ्नः कूर्परकूटान्तर्देशात् ऊर्ध्वप्रान्तपश्चिमधारार्धाच्च। निवेशस्तु अंकुशक-वर्तुलकाख्ययोः कूर्च्चास्थ्नोः, पञ्चममूलशलाकायाम्,कङ्कणिकाख्यस्नायौ च। कार्यं पुनरस्याः स्वनामव्याख्यातम्। प्रचेष्टनी नाड़ी तु अन्तः प्रकोष्ठिका नाम।
अंगुलीसङ्कोचनीमध्यपर्विका157 नाम पृथुला पेशी (८५ चित्रम्) पूर्वोक्तपेशीचतुष्टयेनाऽवृता।तस्याः प्रभवस्त्रिभिर्मूलैर्दृश्यः। तत्रैकं मूलंपूर्वोक्तपेशीचतुष्टयसाधारणं प्रगण्डास्थ्नोऽधःप्रान्ते सम्बद्धम्, अपरं मूलद्वयंअन्तर्वहिः प्रकोष्ठास्थनोरूर्ध्वप्रान्तपार्श्वयोः। निवेशस्तु तस्याश्चतुर्भिः कण्डराग्रैरंगुलीचतुष्टयस्य मध्यपर्वपार्श्वयोः। तानि च कण्डराग्राणि निर्भिद्य अधः प्रसृताःअंगुलीसङ्कोचन्या अग्रपर्विकायाः कण्डराः। अस्याः कार्यमंगुलीचतुष्टयस्य मध्यपर्वाकर्षणेन सङ्कोचनम्। प्रचेष्टनी नाड़ी तु मध्यप्रकोष्ठिका नाम।
अथ प्रकोष्ठपुरःस्था गम्भीराः पेश्यः। यथा—
अंगुलीसङ्कोचनी अग्रपर्विका158 नाम पृथुमूला पेशी (८६ चित्रम्)पूर्वोक्तपेशीपञ्चकेनावृता प्रकोष्ठान्तः सीम्नि वर्त्तते। सेयमन्तःप्रकोष्ठास्थ्नः चञ्चुप्रबर्धनमूलात्, मध्यनलकस्य पादोनसमग्रपुरोभागात्, प्रकोष्ठान्तरालायाः कलायाश्चसम्भूय अधः प्रसृतां कण्डराचतुष्टये विभज्यते। निविशते च सा अंगुलीसङ्कोचन्यामध्यपर्विकायाः कण्डराचतुष्टयं स्वकण्डराभिः निर्भिध अंगुलीनामग्रपर्वसु। अस्याःकार्यमंगुल्यग्रपर्वाकर्षणेन अंगुलिसङ्कोचनम्। प्रचेष्टनं तु अन्तःप्रकोष्ठिकया नाड्या,अग्रिमप्रकोष्ठान्तरालाया मध्यप्रकोष्ठिकाख्य-शाखया च।
अंगुलीसङ्कोचनी दीर्घा159नाम पेशी (८५/८६ चित्रयोः) पूर्वाक्तायाःसहकारिणी प्रकोष्ठबहिःसीमस्था। सा बहिः प्रकोष्ठास्थनः उत्तरार्धपुरोभागात्प्रकोष्ठान्तरालायाः कलायाश्च स्वनामव्याख्यातम्। प्रचेष्टनी नाड़ी तु मध्यप्रकोष्ठिकाया अग्रिमप्रकोष्ठान्तराला नाम शाखा।
(८७ चित्रम्)
प्रकोष्ठपश्चिमाः पेश्यः।
| <MISSING_FIG href=”../../../books_images/U-IMG-17027442101606.png"/> |
| द्विशिरस्का | त्रिशिरस्का |
| कूर्परद्वारिका | कूर्परपृष्ठिका |
| करोत्ताननी दीर्घा | मणिबन्धसङ्कोचनी अन्तःस्था |
| मणिबन्धानकर्षणो दीर्घा | मणिबन्धाकर्षणी करभिका |
| अङ्गुलीप्रसारणी साधारणी | कनिष्टाप्रसारणी |
| मणिबन्धापकर्षणी ह्रस्वा | अन्तः प्रकोष्ठास्थि |
| अङ्गुष्ठापकर्षणी दीर्घा | अंगुलीप्रसारणी साधारणी |
| अङ्गुष्ठापकर्षणीह्रस्वा | कनिष्ठाप्रसारणी |
| कङ्कणिका स्नायुः | तर्जनीप्रसारणी |
| अङ्गुष्ठप्रसारणी दीर्घ | अंगुलीप्रसारणी साधारणी |
| शलाकान्तराला पश्चिमा |
** करविवर्त्तनी चतुरस्त्रा160**नाम (८६ चित्रम्) प्रकोष्ठाधोभागपुरस्तादायता हस्वा गम्भीरतमा च पेशी। सा उभयोरपि प्रकोष्ठास्थ्नोऽधःप्रान्तयोःतिर्यक् प्रतिबद्धा। तस्याः कार्यं करतलस्य पश्चाद्विवर्त्तनम्। प्रचेष्टनीनाड़ीमध्यप्रकोष्ठिकायाः अग्रिमा प्रकोष्ठान्तराला नाम शाखा।
** **ता एता अष्टौ प्रकोष्ठपुरःस्थाः पेश्यः।
** **अथ प्रकोष्ठपश्चिमाः पेश्यः। तत्र उत्तानाः यथा—
** करोत्ताननी दीर्घा**161नाम स्थूलमांसलमध्या वेमसमाकारा पेशी(८७ चित्रम्)। सा प्रकोष्ठपश्चिमप्रभवाऽपि तद्वहिःसीम्नि स्फुटतरं दृश्या, सेयंप्रगण्डास्थ्नो बाह्यार्बुदात् संभूय बहिःप्रकोष्ठास्थ्नो बहिर्मणिकमूले दीर्घकण्डरयासम्बद्धा। सा स्वनामोद्दिष्टकार्याऽपि कूपरद्वारिकया सह प्रचेष्टमाना बाहोरपिसङ्कोचनी। तस्याः प्रचेष्टनी नाड़ी बहिःप्रकोष्ठिका नाम।
** मणिबन्धापकर्षणी दीर्घा**162 **ह्रस्वा163**चेति द्वे पेश्यौ (८७ चित्रम्)प्रगण्डास्थ्नोऽधःप्रान्तीयाद् बाह्यार्बुदात्, बहिःस्थायाः कूर्परसन्धिबन्धन्याः स्नायोश्चसमानकण्डरामूलेन सम्भवतः। निवेशस्तु दीर्घायाः तर्जनीमूलशलाकामूले,हस्वायाः पुनः मध्यमामूलशलाकामूले। क्रिया तावदुभयोरपि मणिबन्धस्यपश्चात् कर्षणम्। प्रचेष्टनी नाड़ी दीर्घाया बहिःप्रकोष्टिका नाम, ह्रस्वायाः पुनःप्रकोष्ठान्तराला पश्चिमा।
** अंगुलीप्रसारणी साधारणी**164 नाम प्रकोष्ठपश्चिमपेशीषु (८७ चित्रम्)मध्यवर्त्तिनी पेशी प्रगण्डास्थ्नोऽधःप्रान्तीयाद् बाह्यार्बुदात्वहिःस्थायाः कूर्परसन्धिबन्धन्याः स्नायोश्च साधारणकण्डरामूलेन सम्भूय मणिबन्धादूर्ध्वं कण्डराचतुष्टयेविभज्यमांना अंगुलीचतुष्टयस्य अग्र-मध्यपर्वणां पृष्ठतः सम्बद्धा। ताश्च कण्डराःअंगुलिसन्धीनां पृष्ठगस्नायुकार्यं साधयन्तीति विशेषः। तस्याः क्रिया स्वनामव्याख्याता। प्रचेष्टनी नाड़ी प्रकोष्ठान्तराला पश्चिमा नाम।
** कनिष्ठशप्रसारणी165**नाम तन्वी पेशी (८७ चित्रम्) पूर्वस्याः सहचरीपूर्ववन्मूलेन सम्भूय कनिष्ठांगुल्या मध्यापर्वपृष्ठतः पूर्ववत् सम्बद्धा, पूर्वस्याःपेश्याः कनिष्टान्तिककण्डरया मिलिता च। क्रिया त्वस्याः स्वनामव्याख्याता।प्रचेष्टनी नाड़ी पूर्ववत्।
** मणिबन्धापकर्षणी करभिका166** नाम स्थूलमांसला पेशी (८७चित्रम्) प्रगण्डास्थ्नः आन्तरार्बुदोपकण्ठतः अन्तःप्रकोष्ठास्थनो मध्यनलकपश्चिमधारार्धाच्च सम्भूय अन्तर्मणिकपश्चिमसीतामार्गेण मणिबन्धादधः प्रसृताकनिष्ठामूलशलाकामूले (करभदेशे) सम्बद्धा च। अस्याः कार्यं स्वनामव्याख्यातम्, मणिबन्धस्य मध्यरेखां प्रति कर्षणञ्चापरम्। प्रचेष्टनी तु नाड़ीप्रकोष्ठान्तराला पश्चिमा नाम।
** कूर्परपृष्ठिका167** नाम ह्रस्वत्रिकोणप्राया पेशी(८७ चित्रम्) प्रगण्डास्थ्नोबाह्यार्बुदात् सम्भूय अन्तः प्रकोष्ठास्थनः कूपरकूटपृष्ठे स्तोकेन मध्यनलकपृष्ठे चतिर्यक् सम्बद्धा। सा त्रिशिरस्कायाः सहकारिणी कूर्परसन्धेः प्रसारणकार्या।तस्याः प्रचेष्टनी नाड़ी बहिर्वाहुकायाः शाखा।
** **अथ प्रकोष्ठपश्चिमा गम्भोराः पेश्यः। यथा—
** करोत्ताननी ह्रस्वा168**नाम पेशी (८६ चित्रम्) प्रगण्डास्थो बाह्यार्बुदात्,कूपरसन्धिवन्धन्या मुण्डवेष्टनिकायस्नायोः बहिःपाविका ख्यायोः कूपरकूटबहिर्घारातश्च सम्भूय तिर्यक् प्रसृता बहिःप्रकोष्ठास्थ्नो ग्रीवायां सम्बद्धा। अख्याःकार्य करस्य उत्तानीकरणं स्तोकेन, प्रकोष्ठास्थ्नो बहिर्विवर्त्तनात्। प्रचेष्टनी नाड़ीप्रकोष्ठान्तराला पश्चिमा नाम, सा च पेशीं निर्भिद्य प्रसृतेति विशेषः।
** अंगुष्ठपकर्षणी दीर्घा**169 नाम सुमांसला पेशी (८७ चितम्)पूर्वोक्तपेश्याच्छादिता प्रकोष्ठास्थ्नो मध्यनलकपश्चिमदेशात् प्रकोष्ठान्तरालायाःकलायाश्च सम्भूता। सेयं मणिबन्धादूर्ध्वं कण्डरीभूयांऽगुष्ठमूलशलाकामूलेनिविशते। तस्याः कार्यमंगुष्ठस्य बहिर्मुखं कर्षणम्। प्रचेष्टनो नाड़ी प्रकोष्ठान्तराला पश्चिमा नाम।
** अंगुष्ठप्रसरणी ह्रस्वा170**नाम पेशी (८७ चित्रम्) पूर्वस्या उत्सङ्गेस्थिता। सेयं बहिःप्रकोष्ठास्थ्नो मध्यनलकपश्चिमभागात् प्रकोष्ठान्तरालकलायाश्चसम्भूय अंगुष्ठपश्चिमपर्बमूले सम्बद्धा। तस्याः कार्यं स्वनामव्याख्यातम्। प्रचेष्टनीनाड़ी पूर्ववत्।
** अंगुष्ठप्रसारण दीर्घा171** नाम पेशी (८७ चित्रम्) पूर्वोक्तपेश्या अन्तःसीम्नि दृश्यते। सेयमन्तःप्रकोष्ठास्थ्नो मध्यनलकपश्चिमतः सम्भूय अंगुष्ठाग्रिमपर्बमूले निविशते। तस्याः कार्य स्वनामव्याख्यातम्। प्रचेष्टनी नाड़ीपूर्ववत्।
** तर्जनीप्रसारणी**172नाम तनुदीर्घा पेशी (८७ चित्रम्) पूर्ववत् सम्भूयतर्जन्या मध्यमपश्चिमपर्वणोर्निविशते। सेयमंगुलीप्रसारणोपेश्याः तर्जनीगतकण्डरायाः सहचरीभूता। तस्या अपि कार्यं स्वनामव्याख्यातम्। प्रवेष्टनीनाड़ी पूर्ववत्।
अथ मणिबन्धीयाः स्नायुपट्टिकाः।
** **मणिबन्धव्यतिकरण प्रसरन्तीनां कण्डराणां, सिरा-धमनी-नाड़ीनां, श्लेष्मघरकलानाञ्च कण्डरानुगानां सन्धारण्यः स्नायुपट्टिकाश्चात तिस्रो द्रष्टव्याः।ताः गम्भीरायाः प्रकोष्ठप्रावरण्याः सान्द्रीभूता विभागा एवेति सुवचम्। ताश्च प्रकोष्ठाघरीया अग्रिमा, प्रकोष्ठाघरीया पश्चिमा, कङ्कणिका चेति। तत्र—
** प्रकोष्ठाधरीया अग्रिमा173** नाम स्नायुपट्टिका (८५ चित्रम्)174प्रकोष्ठास्थ्नोरधःप्रान्तयोरनुप्रस्थं सम्बद्धा मणिबन्धादूर्ध्वम् पुरस्तात्। सा अंगुलीसङ्कोचन्यादिपेशीनां कण्डराधारणी।
** प्रकोष्ठाधरीया पश्चिमा175** नाम स्नायुपट्टिका (८७ चित्रम्)174प्रकोष्ठास्थ्नोरधःप्रान्तयोरनुप्रस्थं सम्बद्धा पश्चिमतः। तस्याः प्रतानाः वर्त्तुलकोपलकयोः कूर्चास्थ्नोरपि पृष्ठतः सन्नद्धाः। सेयं प्रसारण्याख्यपेशीनां कण्डराधारणी। ते चैते स्नायुपट्टिके उत्ताने।
(८६ चित्रम्)
वामकरतलस्थाः पेश्यः।
| <MISSING_FIG href="../../../books_images/U-IMG-17028108731701.png"/> |
| अङ्गुलिसंकोचनीमध्यपर्विका | कनिष्ठासंकोचनी |
| मणिबन्धसंकोचनीअन्तःस्था | करानुकण्डरिका पेश्यः |
| वर्त्तुलकं (कलावृतं) | अंगुलिसंकोचनीमध्यपर्बिका |
| कूर्चान्तरीयास्नायुपट्टिका | कलामयं कञ्चुकम् |
| कनिष्ठापकर्षणो | अंगुलिसंकोचनी-पेश्याःकलाकञ्चुकम् (विदार्यदर्शितम्) |
८१ चित्रस्य व्याख्या—१। अंगुलिसंकोचन्या मध्यपर्बिकायाः कञ्चुकीभूता कण्डरा।२।अंगुलिसंकोचन्यायाः अग्रपर्विकायाकण्डरा। ३। मणिबन्धसंकोचनी बहिःस्था। ४। करतलप्रसारणी। ५। अंगुष्ठजापिनी। ६। अंगुष्ठापकर्षणी ह्रस्वा। ७। अंगुष्ठसंकोचनी ह्रस्वा।८। अंगुष्ठमूलकर्षणी। ९। प्रथमा पश्चिमशलाकान्तरीया। १०। अंगुष्ठसंकोचनी दीर्घा।
अथ अंगुष्ठमूलगाः पेश्यः।
** अंगुष्ठापकर्षणी ह्रस्वा176**नाम ह्रस्वामांसला पेशी (८९चित्रम्)नौनिभपर्याणकयोर्मूलतःकङ्कणिकाख्यस्नायोश्च सम्भूय अंगुष्ठपश्चिमपर्बमूलेसम्बद्धा। सेयमंगुष्ठस्य बहिःकर्षणी। तस्याः प्रचेष्टनी नाड़ी मध्यप्रकोष्ठिकानाम।
अंगुष्ठजापिनी177 नाम पेशी (८९चित्रम्) अंगुष्ठमूलबहिःसीम्निवर्त्तते। सा पर्याणकाख्यकूर्चास्थनः पुरोभागात् कङ्कणिकाख्यस्नायोश्च सम्भूयअंगुष्ठमूलशलाकाया बहिःसीम्नि सम्बद्धा। सेयमंगुष्ठसङ्कोचनाऽकर्षणाभ्यां जपकर्मसाधनी। तस्याः प्रचेष्टनी नाड़ी पूर्ववत्।
**अंगुष्ठसङ्कोचनी ह्रस्वा178**नाम पेशी (८६/८९चित्रम्) कङ्कणिकाख्यस्नायोः सम्भूय अंगुष्ठपश्चिमपर्बणः पार्श्वयोः चणकास्थियुतेन कण्डराद्वयेनसम्बद्धा। अस्याश्च पेश्याः कार्यं संवनामव्याख्यातम्। प्रचेष्टन्यौ नाड्यौमध्यप्रकोष्ठिका अन्तःप्रकोष्ठिका चेति।
**अंगुष्ठमूलकर्षणी179**नाम द्विधा विभक्ता पेशी (८९चित्रम्)मध्यकूटाख्यकूर्चास्थ्नः, तर्जनी-मध्यमामूलशलाकयोः मूलपार्श्वाभ्यां, कङ्कणिकाख्यस्नायोश्च सम्भूय अंगुष्ठपश्चिमपर्वान्तःसीम्नि चणकास्थियुतया कण्डरयासम्बद्धा। तस्याः कार्यं स्वनामव्याख्यातम्। प्रचेष्टनी तु नाडीअन्तःप्रकोष्ठिका नाम।
ता एताश्चतस्त्रः पेश्यः कोमलामुत्सेधवतीं मांसपिण्डिकामारचयन्ति अंगुष्ठमूले पुरतः। सेयमंगुष्ठपिण्डिका नाम।
अथ कनिष्ठामूलगाः पेश्यः।
करभसङ्कोचनी180 नाम तिरश्चीना पेशी (८८ चित्रम्) कङ्कणिकाख्यस्नायोः करतलिकाख्यस्नायोश्च सम्भूय करभदेशे181 मणिबन्धाधःस्थायां त्वचिसंबद्धा। तस्याः क्रिया स्वनामव्याख्याता। प्रचेष्टनी नाड़ी तु अन्तःप्रकोष्ठिका नाम।
** कनिष्ठापकर्षणी182** नाम पेशी (८९चित्रम्) वर्त्तुलकाख्यकूर्चास्थ्नःमणिबन्धसङ्कोचन्या अन्तःस्थायाः कण्डरांतश्च संभूय कनिष्ठांगुल्याः पश्चिमपर्वमूलेसम्बद्धा। तस्याः कार्यं स्वनामव्याख्यातम्। प्रचेष्टनी नाड़ी पूर्ववत्।
** कनिष्ठासङ्कोचनी183**(करगा) नाम पेशी (८९चित्रम्) फणधराख्यकूर्चास्थ्नः फणाग्रात् कङ्कणिकाख्यस्नायोश्च संभूय कनिष्ठापश्चिमपर्बमूले कनिष्ठापकर्षण्या पेश्या संबद्धा। तस्याः कार्यं स्वनामव्याख्यातम्। प्रचेष्टनी नाड़ी पूर्ववत्।
** कनिष्ठामूलकर्षणी184**नाम पेशी (८६ चित्रम्) पूर्बवत्प्रभवा कनिष्ठामूलशलाकाया अन्तःसीम्नि सम्बद्धा, स्वनामव्याख्यातकार्या। तस्याः प्रचेष्टनीनाड़ी पूर्ववत्।
** **एताश्चतस्रः पेश्यः कनिष्ठामूले करभपिण्डिकां नाम पेशीसङ्घातंनिष्पादयन्ति।
अथ करांगुलिमूलशलाकाऽन्तरालस्थाः पेश्यः।
** **ता एकादश यथा—करानुकण्डरिकाश्चतस्रः। शलाकान्तरीया अग्रिमाःतिस्रः, पश्चिमाः चतस्त्र इति। तत्र—
** करानुकण्डरिका185**नाम दीर्घजलौकाकाराः पेश्यः (८९चित्रम्) करांगुलीसङ्कोचन्या अग्रपर्बिकायाः कण्डराचतुष्टयात् सम्भूय अंगुलीमूलमाश्लिष्यकरपृष्ठतो गताभिः स्वकण्डराभिः अंगुलीप्रसारण्याः साधारण्याः कण्डरासुसम्बद्धाः। तासां कार्यमंगुलीपश्चिमनलकानामाकर्षणम्। प्रचेष्टन्यो नाड्यस्तुअन्तःप्रकोष्ठिकाया मध्यप्रकोष्ठिकायाश्च शाखाः।
** अग्रिमाः शलाकान्तरीयाः**186 नाम तिस्रः पेश्यः अंगुष्ठेतराणामंगुलीनांमूलशलाकान्तरालेषु वर्त्तन्ते। ताः मध्यमावर्जमपरासां मूलशलाकानां पार्श्वेभ्यःसम्भूय तत्तदंगुलीनां पश्चिमनलकमूलेषु सम्बद्धाः। तासां कार्यम्—अंगुलीनांसंव्यूहनम्। प्रचेष्टनी नाड़ी अन्तःप्रकोष्ठिका नाम।
** पश्चिमाः शलाकान्तरीयाः187**नाम चतस्रः पेश्यःशरपुंखाकाराः,ताः पञ्चानामपि अंगुलीमूलशलाकानां पार्श्वेभ्यः सम्भूताः।तासामेकैकस्यामूलद्वयं मूलशलाकयोः स्वपार्श्वस्थयोः पार्श्वाभ्यां सम्भवति।निविशन्ते च तासां कण्डराः इत्थम्—मध्यमांगुल्याः पश्चिमनलकमुभयतो द्वे, तर्जन्यनामिकयोर्बहिरन्तःसीम्नोश्च द्वे इति। तासां कार्यम्—अंगुलीनां विस्फारणम्। प्रचेष्टनीनाड़ी पूर्ववत्।
ता एताः करपेश्यो व्याख्याताः। समाप्यन्ते चैतावता ऊर्ध्वशाखापेश्यः।
इति चतुर्थोऽध्यायः।
<MISSING_FIG href="../../../books_images/U-IMG-1708075178Screenshot2024-01-09212823.png"/>
पञ्चमोऽध्यायः।
अथातः अधःशाखीयपेशीवर्णनीयमध्यायं व्याख्यास्यामः।
इह खलु अष्टपञ्चाशत् पेश्यः अधःशाखायामेकैकख्यां सम्बध्यन्ते। ताःस्थानप्राधान्येन पञ्चधा विभज्यन्ते। तद्यथा—जघनोदरीये द्वे। नितम्बीया नव।और्व्यः पञ्चदश। जङ्घागताः त्रयोदश। पादगता ऊनविंशतिरिति।
तत्र जघनोदरीये द्वे वस्तिगुहान्तःसम्भूते, नितम्बमूलगे च द्वे—प्राधान्येनश्रोणिचक्राभ्यन्तरस्थे। ताश्चतस्त्रो मध्यकाये संख्यातपूर्वाः। तस्मात् समष्टिसंख्याने चतुःपञ्चाशद् अधःशाखीया पेश्यः इहोच्यन्ते।
सर्वाश्च ताः सुदृढ़या उत्तानप्रावरण्या, गम्भीरप्रावरण्या च समावृताः।तत्र गम्भीरप्रावरण्या जघनोरुनितम्बच्छादनो दृढ़कञ्चुकाकारो भागः ऊरुकञ्चुकानाम (१० चित्रम्)। सा ऊर्ध्वसीम्नि—त्रिकानुत्रिकयोः, बहिःपार्श्व—जघनधारायां, पुरस्ताद् वंक्षणिकाख्यस्नायुरज्वां भगास्थ्न उत्तरशृङ्गेच,अन्तःपार्श्वे—श्रोणिगवाक्षपुरःपरिधौ, कुकुन्दरपिण्डे, त्रिककुकुन्दरिकाख्यस्नायुरज्वांच सम्बद्धा। सेयमूरुनितम्बपेशीसङ्घमाच्छादयन्ती अधःसीम्नि जानुसन्धिं परितोदृढ़संसक्ता। मिलिता च साऽधस्ताद् जङ्घाच्छादन्या प्रावरण्या। तस्याश्च
(९० चित्रम्)
ऊरूदरपार्श्विकाः पेश्यः (उत्तानाः)।
| <MISSING_FIG href="../../../books_images/U-IMG-17028131341702.png"/> |
| उरश्छदा गुर्वी | पृष्ठच्छदा |
| उदरदण्डिका | अरित्रा अग्रिमा (उत्तराधरशाखायुता) |
| उदरच्छदा आदिमा | कटिपार्श्वच्छदा |
| उदरदण्डिकायाः कञ्चुकम् | नितम्बपिण्डिका गरिष्ठा |
| ऊरुकञ्चुकाकर्षणी | ऊरुकञ्चुका (प्रावरणी) |
| जघनजङ्घिका (स्नायुपट्टिका) | द्विशिरस्कायाः और्व्याः कण्डरा |
ऊरुकञ्चुकायाः नितम्बच्छादनो भागः क्वचित् नितम्बप्रावरणीति नाम्ना निर्दिश्यते।वक्ष्यमाणाऊरुकञ्चुकां च बहिःसीम्नि कर्षति, दृढ़ं धारयति चाग्रेऊरुकञ्चुकाकर्षणी नाम पेशी। पुरस्ताच्च कञ्चुकायां वंक्षणाधः सुमहत् छिद्रंतिरश्चीन-ठकाराकारं, तत् अनुवंक्षणच्छिद्रं नाम। तेन प्रविशति अनुवंक्षणिकाख्या स्थूलोत्ताना सिरा ऊर्वन्तः। पश्चाच्च ऊरुकञ्चुकाया अन्तः प्रविष्टेपेश्यन्तरालगते स्थूलकले, ते ऊर्वस्थिपृष्टस्थायां चतुर्भुजप्राकारिकाख्यरेखायां संसक्ते।
जघनोदरीये पेश्यौ तु—कटिलम्बिनी दीर्घा श्रोणिपक्षिणी चेति। ते वर्णितपूर्वे।
अथ नितम्बीयाः पेश्यः।
**नितम्बपिण्डिका गरिष्ठा188**नाम स्थूलमांसला तालवृन्तायतना पेशीनितम्बनिर्मापणी (९०/९१ चित्रयोः)। सेयं श्रोणिफलकस्य जघनपृष्ठधारातः,त्रिकानुतिकपार्श्वाभ्यां, गुर्व्याः त्रिक-कुकुन्दराख्यस्नायोः, सन्निहितमांसधरकलातश्चविशालायतैः मांसलमूलैः सम्भूय क्रमेण दृढ़स्थूलायतकण्डरारूपेण परिणमति,निविशते च ऊर्वस्थिपृष्ठे प्राकारिकाख्यरेखायाः पश्चिमोर्ध्वधारायाम्। सम्बध्यतेच सा ऊरुकञ्चुकाख्यप्रावरण्या स्तोकेन। विवर्त्तते च तस्याः कण्डराऊर्वस्थ्नो महाशिखरकपार्श्वे श्लेष्मधरकलापुटक-व्यवधानेन।तस्याः कार्यत्रिविधम्। ऊर्वस्थनः प्रसारणं, बहिर्विवर्त्तनं चेति प्रथमम्। दण्डाकारेण तिष्ठतःपुरुषस्य मध्यकायानुपूर्व्या सक्थ्नो धारणं द्वितीयम्। पुरोऽवनमितमध्यरूयपुरुषस्य मध्यकायोत्कर्षणेन शरीरस्य सरलीकरणं तृतीयम्। प्रचेष्टनी तु नाड़ीअधरा जाघनी नाम।
नितम्बपिण्डिका मध्यमा189 नाम तादृश्येव पेशी (९१ चित्रम्)पूर्वोक्तपेश्या भूम्ना समावृता। सेयं जघनपृष्ठधाराभ्यां सन्निहितमांसधरकलातश्चआयतमांसलैर्मूलः सभ्भूय क्रमेन कण्डरारूपेण परिणमन्ती ऊर्वस्थ्नो महाशिखरकपृष्ठे निविशते। विवर्त्तते च तस्या अपि कण्डरा श्लेष्मधरकलापुटकव्यवधानेनतदुपकण्ठे। तस्याः कार्यम्—ऊर्वस्थ्नो विवर्त्तनम्, शरीरस्य ऋजुभावेनधारणञ्च। प्रचेष्टनी तु नाड़ी उत्तरा जाघनी नाम।
(९१ चित्रम्)
वामसक्थि-पश्चिमाः पेश्यः (उत्तानाः)।
| <MISSING_FIG href="../../../books_images/U-IMG-17028247341703.png"/> |
| नितम्बपिण्डिका मध्यमा | नितम्बपिण्डिका गरिष्ठा |
| नितम्बपिण्डिकाया गरिष्ठायाःकलामयी कण्डरा | जानुकर्षणी कलाकल्पा |
| द्विशिरस्का और्वी | जानुकर्षणी कण्डराकल्पा |
| ऊरुप्रसारणी बाह्या | ऊर्वन्तःपट्टिका |
| जङ्घापिण्डिका तृतीया | कलाकल्पायाः कण्डरा |
| जङ्घापिण्डिका गुर्वी (पार्श्विकमूलम्) | दीर्घायामायाः कण्डरा |
| जङ्घापिण्डिका लध्वी | जङ्घापिण्डिका गुर्वी (माध्यमूलम्) |
| पादविवत्तनी दीर्घा | पादांगुलिसङ्कोचनी दीर्घा |
| पार्ष्णिः | पिण्डिका कण्डरा |
** नितम्बपिण्डिका लघिष्ठा190**नाम (९२ चित्रम्) तादृश्येव स्वल्पतरायतना पेशीपूर्वोक्तपेशीभ्यां समावृता। सेयं जघनपृष्ठतः सम्भूय ऊर्वस्थ्नो महाशिखरकपुरोभागे निविशते। तस्याः कार्यं पूर्ववत्। प्रचेष्टनी नाड़ी अधरा जाघनी नाम।
** शुण्डिका129** नाम शुण्डाकारा पेशी (९३ चित्रम्) गरिष्ठया नितम्बपिण्डिकयाच्छादिता मध्यकाये वर्णितपूर्वा संख्यातपूर्वा च।
** श्रोणिगवाक्षिणी अन्तःस्था**191नाम पेशी (९३ चित्रम्) वक्ष्यमाणाभ्यां यमलाख्यपेशीभ्यां मध्ये धृता पूर्वं वर्णितस्वरूपा संख्यातपूर्वा च।
** यमलाख्ये पेश्यौ—उत्तरा, अधरा** चेति (९३ चित्रम्)। तेक्रमेण श्रोणिफलकस्य कुकुन्दरकण्टक-पिण्डाभ्यां सम्भूय अन्तःस्थायाः श्रोणिगवाक्षिण्याः पेश्या ऊर्ध्वाधःप्रान्ताभ्यां सम्मिलितप्राये ऊर्वस्थ्नो महाशिखरकेनिविशेते। तयोः कार्यम् ऊर्वस्थ्नो बहिर्विवर्त्तनम्। प्रचेष्टनं तु पञ्चम्याअनुकटिकया नाड्या आद्याभ्यां अनुविकाभ्यां च।
** ऊरुचतुरस्त्रा192**नाम चतुरस्त्रप्राया हृस्वमांसला पेशी (९३ चित्रम्)श्रोणिफलकस्य कुकुन्दरपिण्डात् सम्भूय ऊवस्थ्नो महाशिखरमूलपृष्ठे अनुप्रस्थंसम्बद्धा। तस्याः कार्यम् ऊर्वस्थ्नो बहिर्विवर्त्तनम्। प्रचेष्टनं पञ्चमानुकटिकया नाड्या प्रथमानुत्रिकया च।
** श्रोणिगवाक्षिणी बहिःस्था193**नाम त्रिकोणप्राया पेशी श्रोणिफलकस्य पुरोभागच्छादनी। सेयं श्रोणिगवाक्षपरिधिबहिर्देशात् तद्गवाक्षप्रावरण्याःकलायाश्च सम्भूय ऊर्वस्थनो महाशिखरपृष्ठस्थे कोटरे सम्बद्धा।तस्याः कार्यंपूर्ववत्। प्रचेष्टनी तु नाड़ी बंक्षणिका नाम।
अथ ऊरुपेश्यः।
** **ऊरुपेश्यः खलु पञ्चदश, त्रिधा विभक्ताः। यथा—अग्रिमाः और्व्यः सप्त, अन्तःसीमस्थाः पञ्च, पश्चिमाः तिस्र इति।
(९२ चित्रम्)
वामजघनोरुपुरःस्थाः पेश्यः।
| <MISSING_FIG href="../../../books_images/U-IMG-17028778841801.png"/> |
| कटिलम्बिनी दीर्घा | जघनधारा |
| श्रोणिपक्षिणी | नितम्बपिण्डिका मध्यमा |
| भगास्थिमुण्डम् | नितम्बपिण्डिका लघिष्ठा |
| कङ्कतिका | ऊरुकञ्चुकाकर्षणी |
| ऊरुसंव्यूहनी ह्रस्वा | दीर्घायामा |
| ऊरुसंव्यूहनी दीर्घा | ऊरुदण्डिका |
| ऊर्वन्तःपट्टिका | ऊरुकञ्चुकायाःपार्श्विकभागः |
| ऊरुसंव्यूहनी गरिष्ठा | ऊरुप्रसारणी बाह्या |
| ऊरुप्रसारणी अन्तःस्था | जानुकपालबन्धनी (स्नायुः) |
| दीर्घायामायाः निवेशकण्डरा |
अथ अग्रिमा ऊरुपेश्यः। यथा—
**ऊरुकञ्चुकाकर्षणी194**नाम तन्वी मांसला पेशी (९० चित्रम) या श्रोणिफलकस्य जघनधारातः अग्रिमोर्ध्वजघनकूटतश्च सम्भूय ऊरुकञ्चुकाख्य प्रावरण्यांतिर्यक् सम्बद्धा। तस्याः कार्यम् ऊरुप्रसारणेन शिथिलीभूताया ऊरुकञ्चुकायाऊर्ध्वकर्षणम्। प्रचेष्टनी तु नाड़ी-उत्तरा जाघनी नाम।
**दीर्घायामा195**नाम तन्वी पेशी (९२ चितम्) दीर्घतमा शरीरे। साश्रोणिफलकस्य अग्रिमोर्ध्वस्थाद् जघनकूटात् तदधःस्थात् खातार्धाच्च सम्भूय तिर्यग्गता जङ्घास्थन ऊर्ध्वप्रान्तस्य अन्तःसोम्नि निविशते। तस्याः कार्यं ऊरोर्बहिविवर्त्तनम्, जङ्घायास्तिर्यगाकर्षणञ्च। प्रचेष्टनीनाड़ी—अग्रिमा और्वी नाम।
ऊरुदण्डिका196 नाम स्थूलमध्या सुमांसला पेशी (९२ चित्रम्) ऊरुमध्येपुरस्तादवतिष्ठते। सेयं श्रोणिफलकस्य अग्रिमाधःस्थजघनकूटात् वंक्षणोदूखलपरिधेरूध्वंदेशाच्च कण्डरामूलाभ्यां सम्भूय जानुकपालिकाया बहिर्धारायां ऊरुपिण्डिकांसाधारण्या कण्डरया निविशते। तस्याः कार्यं जङ्घाप्रसारणम्।प्रचेष्टनी तु नाड़ी—अग्रिमा और्वी नाम।
**ऊरुप्रसारणी बाह्या197**नाम पेशो (९३ चित्रम्) ऊरुप्रसारणीषुस्थूलतमा। सा ऊरोः पुरस्ताद् बहिःसीम्नि च दृश्यते। सेयमूर्वस्थ्नो महाशिखरस्य अग्रिमधारातः प्राकारिकाख्यरेखातश्च सम्भूय जानुकपालिकायाबहिर्धारायां सम्बध्यते ऊरुपिण्डिकासाधारण्या कण्डरया। तस्याः कार्यं स्वनामव्याख्यातम्। प्रचेष्टनी नाड़ी—अग्रिमा और्वी नाम।
ऊरुप्रसारण अन्तःस्था198 नाम पेशी (९२ चित्रम्) ऊवस्थनः अग्रिम-शिखरान्तरालाख्यरेखातः, प्राकारिकाख्य चतुर्भुजरेखायाः अन्तःसीमस्थभुजद्वयाच्च सम्भूय गरिष्ठाया ऊरुसंव्यूहन्याः पेश्याः कलाकण्डरातो लब्धावयवा ऊरुपिण्डिकासाधारण्या कण्डरया जानुकपालिकाया बहिर्धारायां निविशते। तस्याःकार्यादिकं पूर्ववत्।
(९३ चित्रम्)
वामनितम्बोरु-पश्चिमाः पेश्यः (गम्भीराः)
| <MISSING_FIG href="../../../books_images/U-IMG-17028295721704.png"/> |
| नितम्बपिण्डिका मध्यम | त्रिकास्थि |
| शुण्डिका | श्रोणिगवाक्षिणी अन्तःस्था |
| यमला उत्तरा | ऊरुसंव्यूहनी गरिष्ठा |
| यमला अधरा | ऊर्वन्तःपट्टिका |
| ऊरुचतुरस्त्रा | जानुकर्षणी कण्डराकल्पा |
| नितम्बपिण्डिका गरिष्ठा (कर्त्तित कण्डरा मात्रम्) | जानुकर्षणी कलाकल्पा |
| ऊरुप्रसारणी बाह्या | दीर्घायामायाः कण्डरा |
| द्विशिरस्काऔर्वी | जानुकर्षणी कण्डराकल्पा |
| ऊरुप्रसारणी मध्यस्था | जङ्घापिण्डिका तृतीया |
| द्विशिरस्कायाः लघुशिरः | जङ्घापिण्डिका गुर्वी |
** ऊरुप्रसारणी मध्यस्था199**नाम पेशी (९३ चित्रम्) उभयोर्मध्यतःपुरस्तादवतिष्ठते ऊरुदण्डिकया समावृता। सेयम् ऊर्वस्थिनलकस्य अग्रिमोत्तरार्धात् सम्भूय पूर्ववत् ऊरुपिण्डिकासाधारण्या कण्डरया निविशते। तस्याःकार्यादिकं पूर्ववत्।
** **एवं च ऊरुप्रसारण्याख्यस्य पेशीचतुष्टयस्य निवेशकण्डरा पूर्वोक्त दिशा ‘प्रसारणी’ पेशीनां साधारणी, सेयम् ऊरुपिण्डिकाकण्डरा नाम। केचित्तु जानुकपालबन्धनीं नाम स्नायुरज्जुमेव जङ्घास्थिपुरोभागसंसक्ताम् उरुप्रसारणीनां साधारणीं कण्डरां मन्यन्ते, जानुकपालिकाञ्च तत्कण्डरोद्भवं सुवृहत् चणकास्थीति (दृश्यतां जानुसन्धिचित्रम् १४१ पृष्ठे)।
** जानुकोषकर्षणी200")** नाम गम्भीरा तन्वी च पेशी ऊर्वस्थिनलकस्यअग्रिमाधःप्रदेशात् सम्भूय जानुसन्धिकोषस्य शिरसि सम्बद्धा।तस्याः कार्य जानुप्रसारणे सति शिथिलीभूतस्य सन्धिकोषस्य ऊर्ध्वकर्षणम्। प्रचेष्टनी तुनाड़ी अग्रिमा और्वी नाम।
** **अथ अन्तःसीमस्थाऊरुपेश्यः। यथा—
** ऊर्वन्तः पट्टिका201** नाम तनुमांसला दीर्घात्ताना पेशी (९३ चित्रम्)ऊरोरन्तःसीम्नि वर्त्तते। सेयं भगास्थिसन्धानपार्श्वतः सम्भूय जानुसन्धिमुल्लङ्घयन्ती जङ्घास्थन ऊर्ध्वप्रान्तस्यान्तःसीम्नि निविशते, दीर्घायामायाःकण्डरया मिलिता। अस्याः कार्यं जङ्घास्थ्नः अन्तर्विवर्त्तनं सङ्कोचनञ्च। प्रचेष्टनी नाड़ी वंक्षणिका नाम।
** कङ्कतिका202**नाम आयतचतुरस्त्रा ह्रस्व पेशी (९२ चित्रम्) श्रोणिफलकस्यवस्तिकठिकाख्यरेखातः सम्भूय तिरश्चीनगत्या ऊर्वस्थिपृष्ठे लघुशिखरकाधःसन्निविष्टा। तस्याः कार्यं ऊर्वस्थनः संव्यूहनं बहिर्विवर्त्तनं च। प्रचेष्टनं नाड़ीद्वयम्—अनुवंक्षणिका, अग्रिमा और्वी च।
(९४ चित्रम्)
जंघापुरःपार्श्विकाः पेश्यः।
| <MISSING_FIG href="../../../books_images/U-IMG-17028306331705.png"/> |
| वाह्य धारा | जानुकपालिका |
| पादांगुष्ठप्रसारणी दीर्घा | जानुसन्धिबन्धनः स्नायुकोषः |
| पादविवत्तनी तृतीया | जानुपृष्ठिका पेशी |
| ऊर्ध्वगुल्फिका स्नायुपट्टिका | जंधापुरोगा पेशी |
| पादांगुष्ठप्रसारणी दीर्घा | जंघास्थि |
| गुल्फस्वस्तिका स्नायुः | पादविवर्त्तनी दीर्घा |
| पादांगुलिप्रसारण्या हस्वायाःकण्डराचतुष्टयम् | जंघापिण्डिकांशः |
| पादांगुष्ठप्रसारण्यादीर्घायाः कण्डरा | पादविवर्त्तनी ह्रस्वा |
** ऊरुसंव्यूहनी दीर्घा203**नाम त्रिकोणायतमांखला पेशी (९२चित्रम्)भगास्थिपुरोभागात् कण्डरामूलेन सम्भूय क्रमेणायतीभूता ऊवस्थिपृष्ठेप्राकारिकाख्यरेखाया मध्यभागे सम्बद्धा। तस्याः कार्यम् ऊर्वस्थ्नो मध्यरेखांप्रति आकर्षणं (संव्यूहनम्), बंक्षणसन्धिसकोचनम् बहिर्विवर्त्तनञ्च। प्रचेष्टनीतु नाड़ी बंक्षणिका नाम।
** ऊरुसंव्यूहनी ह्रस्वा204**नाम तादृश्येव पेशी(९२ चित्रम्) पूर्वोक्तायाऊर्ध्वं वर्त्तते। सा भगास्थ्नो मुण्डादधरशृङ्गाच्च कण्डरामूलेन समुत्थिता क्रमेणमांसला ऊर्वस्थनः प्राकारिकाख्यरेखाया ऊर्ध्वभागे सम्बद्धा। तस्याः कार्यादिकंपूर्ववत्। ताञ्च निर्भिद्यगता गम्भीरोरुकाख्यधमन्याः शाखा शाखाद्वयं वा।
** ऊरुसंव्यूहनी गरिष्ठा205**नाम विशालायतमांसला त्रिकोणप्राया पेशी(९२ चित्रम्) पूर्वोक्तयोः पेश्योः पृष्ठतोऽधस्ताद् वर्त्तते। सेयं श्रोणिगवाक्षस्यपुरःपरिधेः कुकुन्दरपिण्डाच्च कण्डरामूलेन सम्भूय क्रमेण मांसलायता ऊर्वस्थनःपृष्ठे प्रायः समग्रायां प्राकारिकाख्यरेखायां तदधःप्रान्तस्थे आन्तरोपार्वुदे चसम्बद्धा। चत्वारि चास्यां पेश्यां छिद्राणि द्रष्टव्यानि। तत्रोधंतनं छिद्रवयंगम्भीरोरुकाया धमन्याः शाखात्रयस्य पश्चाद् गमनाय। अधस्तनं तु छिद्रंबृहत्तमम्, और्ध्या धमन्याः सिरायाश्च निर्गमाय। तस्याः कार्यं ऊरुसंव्यूहनम्।प्रचेष्टन्यौ तु नाड्यौ—महागृध्रसी वंक्षणिका चेति।
अथ पश्चिमा ऊरुपेश्यः।
** द्विशिरस्का और्वी206**नाम स्थूलमांसला पेशी (९१/९३ चित्रयोः)ऊरुपश्चिमतः पिण्डिकाकारा। तस्या द्वे शिरसी शिखे वा कण्डरात्मिके।तत्र दीर्घा शिखा श्रोणिफलकस्य कुकुन्दरपिण्डात् सम्भूता जानुकर्षण्याःकण्डराकलायाः मूलेन मिलितप्राया। ह्रस्वा शिखा प्राकारिकाख्यरेखायाबहिस्तटात् पेश्यन्तरालायाः कलायाश्च सम्भूता। शिखाइयं च ऊरुमध्यपृष्ठतएकीभूय अनुजङ्घास्थ्नो बहिःसीम्नि निविशते। तस्याः कार्यं जङ्घायाःसङ्कोचनम्, बहिर्विवर्त्तनञ्च। प्रचेष्टनी नाड़ी—महागृध्रसी नाम।
** जानुकर्षणी कण्डराकल्पा207** नाम स्वल्पमांसला दीर्घा पेशी (९१ चित्रम्) श्रोणिफलकस्य कुकुन्दरपिण्डादेव सम्भूय जङ्गास्थन ऊर्ध्वप्रान्ताऽन्तःसीम्नि सम्बद्धा। तस्याश्च निवेशकण्डरा स्नायुमयीभिः शाखाभिर्दृढीकरोति जानुसन्धिबन्धनींस्नायुराजिम्। तस्याः कार्यं जङ्घायाः सङ्कोचनमन्तर्विवर्त्तनञ्च।
** जानुकर्षणी कलाकल्पा208**नाम पेशी (९१ चित्रम्) पूर्ववत्प्रभवनिवेशा ऊरुपृष्ठे तदन्तःसीम्निच वर्त्तते। तस्याः कलाकल्पेति संज्ञादृढकलामयप्रभवत्वात्। तस्याश्च निवेशकण्डरायाः पूर्ववत् प्रसरन्ति शाखाःजानुसन्धिदाय, तास्वेका शाखा जानुसन्धेः पश्चात् तिर्यक् सम्बद्धा जङ्घापश्चिमां सिरां धमनीञ्चावृणोति। कार्यादिकञ्च पूर्ववत्।
अथ जङ्घागताः पेश्यः।
** **तास्त्रयोदश, जङ्घास्थिद्वयेन तदन्तरालस्थया कलया च इत्थं विभक्ताः—अग्रिमाश्चतस्त्रः, पश्चिमाः सप्त, बहिःपार्श्वगे द्वे चेति। अन्तःपार्श्वं पुरोधाराच जङ्घास्थ्नः त्वचोऽधस्तादनुभूयेते, तत्र सर्वथा पेश्यभावः। अथाऽसु पेशीषु—
** जङ्घापुरोगा209**नाम मांसला पेशी (९४ चित्रम्) जङ्घायाः पुरस्ताद्बहिःपार्श्वे च वर्त्तते। सेयं जङ्घास्थ्नो वहिःकन्दात् मध्यनलकबहिःपार्श्वतःजङ्घान्तरालायाः कलायाश्च सम्भूय मध्ये स्थूलमांसला, अन्ते च कण्डरीभूता,पादतले, अन्तःकोणकाख्यकूर्चास्थिन पादांगुष्ठमूलशलाकामूले च तिर्यङ् निविशते।प्राक् च निवेशात् वक्ष्यमाणयोरूर्ध्वगुल्फिका-गुल्फस्वस्तिकाख्ययोः स्नायुपट्टिकयोरधःस्थेन अन्तःसुरङ्गापथेन पादतलाभिमुखं प्रसृताऽसौ कण्डरा।कार्यन्तु पेश्याः—पादस्य अन्तर्विवर्त्तनं गुल्फसन्धिसङ्कोचनं च। अस्याः प्रचेष्टनीनाड़ी—पुरोजङ्गिका गम्भीरा नाम।
** पादांगुष्ठप्रसारणी दीर्घा210**नाम तनु पेशी (९४ चित्रम्) पूर्वोक्तयापेश्या प्रच्छन्ना अनुजङ्घास्थ्नो मध्यार्धात् जङ्घान्तरालाख्यकलायाश्च सम्भूयशेषार्धे कण्डरामयी पूर्वाक्तस्नायुपट्टिकाइयाधःस्थेन मध्यसुरङ्गापथेन निर्गता पादांगुष्ठस्य अग्रिमपर्वपृष्ठे निविशते। तस्याः कार्यं स्वनामव्याख्यातम्। प्रचेष्टनी नाड़ी पूर्ववत्।
** पादांगुलीप्रसारणी दीर्घा211** नाम पेशी (९४ चित्रम्) जङ्गास्थनोबहिःकन्दात्, अनुजङ्घास्थ्नो मध्यनलकात् जङ्घान्तरालाख्यकलायाश्च सम्भूयपूर्ववत् स्नायुपट्टिकाद्वयाधःस्थेन बहिःसुरापथेन निष्क्रान्ता पादांगुलीचतुष्टयस्यअग्रिम-मध्यमपर्वपृष्ठतो निविशते, पादपृष्ठे चतुर्धा विभक्ताभिः कण्डराभिः। तस्याःकार्यं स्वनामव्याख्यातम्। प्रचेष्टनी नाड़ी च पूर्ववत्।
** पादविवर्त्तनी तृतीया212** नाम पेशी (९४ चित्रम्) पूर्वाक्तया मिलितमूलाजङ्घाबहिःपार्श्वतो वर्त्तते। सा अनुजङ्घास्थ्नो निम्नपादांशबहिस्तलात्जङ्घान्तरालकलायाश्च सम्भूय पूर्वोक्तायाः सहचरीभूय तथैव निष्क्रान्ता, पादकनिष्ठामूलशलाकामूले निविशते कण्डराग्रेण। तस्याः कार्यं पादस्य बहिर्विवर्त्तनं,गुल्फसन्धेः सङ्कोचनं च। प्रचेष्टनी नाड़ी तु पूर्ववत्।
** **जङ्घापश्चिमाः पेश्यः पुनः सप्त, जङ्घान्तरालायाः कलायाः पृष्ठतः। तासुपिण्डिकाख्यास्तित्र उत्तानाः, अपरास्तु चतस्रो गम्भीराः। तद्यथा—
** जङ्घापिण्डिका गुर्वी213**नाम स्थूलमांसला पेशी (९१/९३ चित्रयोः)प्राधान्येन जंघापिण्डिकानिर्मापणी। सा द्वाभ्यां स्थूलमूलाभ्यां ऊर्वस्थ्नोमहार्बुदद्वयस्य पृष्ठतः सम्भूय साधारण्या पिण्डिकाकण्डरया पार्ष्णिमूलपृष्ठेनिविशते। तस्याः कार्यंपार्णिमूलकर्षणम्। प्रचेष्टनी नाड़ी—अधिजङ्गिकानाम।
** जङ्घापिण्डिका लध्वी**214नाम स्वल्पमांसला पेशी (९१ चित्रम्)पूर्वोतयाच्छादिता, अनुजङ्गास्थनः ऊर्ध्वप्रान्तात् मध्यनलकोधांशात् जङ्घास्थिकाण्डपृष्टस्थायास्तिरश्चीनरेखायाश्च सम्भूय पूर्ववत् साधारण्या पिण्डिकाकण्डरयापार्ष्णिमूलपृष्ठे निविशते। तस्याः कार्यं पूर्ववत्। प्रचेष्टनी नाड़ी—अधिजङ्घिकाअनुजङ्घिका च।
** जङ्घापिण्डिका तृतीया215**नाम दीर्घकण्डरामाया पेशी (९१ चित्रम्)पूर्वस्याः सहकारिणी। सा ऊर्वस्थनो वाह्यमहार्बुदीपकण्ठात् सम्भूय पूर्ववत्साधारण्या कण्डरया मिलिता। तस्या कार्यं पूर्ववत्। प्रचेष्टनी नाड़ीअधिजङ्घिकैव। इदं च पेशीत्रयं जंघापिण्डिकेति पिण्डिकेति वा कथ्यते।
अथ गम्भीरा जंघापश्चिमाः पेश्यः।
** जानुपृष्ठिका216**नाम स्वल्पमांसा त्रिकोणप्राया पेशी (९४ चित्रम्)जानुसन्धिपृष्ठतः तिरश्चीनभावेन वर्त्तते। सा ऊर्वस्थ्नो बाह्यमहार्बुदपार्श्वतःस्वनामस्नायोश्च सम्भूय जंघास्थ्नो मध्यनलकपृष्ठे तिरश्चीनरेखोर्ध्वं निविशते।तस्याः कार्यं जानुसन्धिसङ्कोचनम्, जंघास्थ्नः किञ्चिदन्तर्विवर्त्तनेन सहितम्।प्रचेष्टनी नाड़ी अधिजंघिका नाम।
** पादांगुष्ठसङ्कोचनी दीर्घा**217 नाम पेशी (९६ चित्रम्) जंघापृष्ठतोऽन्तःसीम्नि वर्त्तते। सा अनुजंघास्थ्नो मध्यनलकपृष्ठतो जंघान्तरालकलायाश्चसम्भूय क्रमेण कण्डरीभूता, जंघास्थ्नः अन्तर्गुल्फपश्चिमया सीतया प्रसृतावक्ष्यमाणया अन्तर्गुल्फिकया स्नायुपट्टिकया च्छाद्यते। ततः पार्ष्णिकूर्चशिरसोःसीताभ्यां निष्क्रान्ता पादतलमतिक्रम्य पादाङ्गुष्ठस्य अग्रिमपर्बमूले निविशते। तस्याः कार्यं स्वनामव्याख्यातम्। प्रचेष्टनी नाड़ी अनुजंधिका नाम।
** पादांगुलिसङ्कोचनी दीर्घा218**नाम पेशी (९१/९६ चित्रयोः) जंधास्थःपृष्ठतो वर्त्तते, तन्मध्यनलकपृष्ठात् सम्भूता। तस्याः कण्डरा अन्तर्गुल्फपश्चिमया सीतया जंघानुगाख्यपेश्याः कण्डरासहचरी पूर्ववत् स्नायुपट्टिकयाऽच्छादिता। ततः पादतले पूर्वोक्तां पेशीं तिर्यगुल्लंघ्य कण्डराचतुष्टयेविभक्ता। निविशन्ते च तानि कण्डरामुखानि पादांगुलिसङ्कोचन्या ह्रस्वायाःकण्डराचतुष्टयं निर्भिद्य पादांगुलिचतुष्टयस्य अग्रिमपर्वमूलेषु। तस्याः कार्यं स्वनामव्याख्यातम्। प्रचेष्टनी नाड़ी अनुजंघिका नाम।
** जङ्घानुगा219**नाम पेशी (९७ चित्रम्) पूर्वोक्तपेश्योर्मध्ये गम्भीरमवस्थिताशरपुंखाकारा मांसला च। सेयं द्वाभ्यां मूलाभ्यां जंघानुजंघास्थ्नोः काण्डोत्तरार्धपृष्ठतः सम्भवति, मूलद्वयान्तराले च तस्याः पुरस्ताद्विनिर्गता अग्रजंधिका नामधमनी सिरा च। ततो मिलितमूलायाश्च तस्या अधस्तादपरोऽपि प्रभवोजंघानुजंघान्तरालाख्यायां कलायाम्। तस्याश्च पेश्याः कण्डरा अन्तर्गुल्फपश्चिमयासीतया प्रसृता पूर्ववत् स्नायुपट्टिकयाऽच्छादिता नौनिभान्तःकोणकयोर्निविशते।सन्ति चापरे अपि तत्कण्डरायाः शाखानिवेशा ये कोणकद्वये पार्ष्णि-घन-नौनिभेषुद्वितीय-तृतीय-चतुर्थमूलशलाकामूलेषु च सम्बध्यन्ते। तस्याः कार्यं गुल्फसन्धिप्रसारणं, पादस्य अन्तर्विवर्त्तनञ्च। धारयति च सा पादान्तरीयसीमां धनुर्वक्रभावेन शरीरभारस्य सम्यग् ग्रहणाय।तस्याः प्रचष्टनी नाड़ी अनुजंघिका नाम।
अथ जंघाबहिःसीमस्थे पेश्यौ।
** पादविवर्त्तनी दीर्घा220**नाम पेशी (९४ चित्रम्) अनुजंघास्थनःऊर्ध्वप्रान्तात् मध्यनलकपार्श्वाच्च सम्भूता। सा जंघान्तरालकलायामपि प्रतिबद्धमूला बहिर्गुल्फपश्चिमया सीतया घनाख्यकूर्च्चास्थिगतया सीतया च प्रसृत्य,पादतलं तिर्यगुल्लंघ्य अन्तःकोणके अंगुष्ठमूलशलाकामूले च निविशते। तस्याःकार्यं पादतलसङ्कोचनम्, पादस्य बहिर्विवर्त्तनञ्च। प्रचेष्टनी नाड़ी-पुरो-जंघिका उत्ताना नाम।
** पादविवर्त्तनी ह्रस्वा221**नाम तनुपेशी (९४ चित्रम्) अनुजंधास्थनःकाण्डबहिस्तलात् सम्भूय पूर्ववत् सीतया प्रसृता पादकनिष्ठामूलशलाकाया मूलपृष्ठेसम्बद्धा। तस्याः कार्यं पादतलस्य सङ्कोचनं बहिर्विवर्त्तनं च स्तोकेन। प्रचेष्टनीनाड़ी पूर्ववत्।
** **अत्र च प्रसङ्गे द्रष्टव्यास्तिस्त्रः स्नायुपट्टिकाः (गम्भीरप्रावरण्याःघनीभूतभागाः)। ताः जंघायाः पुरःस्थानामन्तर्वहिःसीमस्थानाञ्च कण्डराणांताः—ऊर्ध्वगुल्फिका, गुल्फस्वस्तिका, अन्तर्गुल्फिका चेतिसन्धारण्यः।संज्ञायन्ते। तासामाद्या गुल्फयोरूर्ध्वंस्थिता जङ्घाऽनुजङ्घास्थ्नोरनुप्रस्थं सम्बद्धा,सा पूर्वांतानां जङ्घापुरोगानां कण्डराणां पृथकसुरङ्गासु प्रविष्टानामाच्छादनीसन्धारणी च। द्वितीया गुल्फस्वस्तिका नाम स्नायुपट्टिका स्वस्तिकाकारासन्दंशाकारा वा, सा गुल्फसन्धेः पुरो बहिश्च संसक्ता। साऽसौ पूर्वोक्तपेशीनांसिराधमनीनाड़ीनाञ्च पुरस्तात् सन्धारणी। तृतीया अन्तर्गुल्फिका नामस्नायुपट्टिका पार्ष्णिगुल्फयोरन्तराले संसक्ता। सा तदधःस्थामस्थिभूमिक सुरङ्गामपरासु सुरङ्गासु विभजते स्नायुमय पत्रिकाभिः। ताभिश्च सुरङ्गाभिःदीर्घायाः पादांगुष्ठसंकोचन्याः पादाङ्गुलीसङ्कोचन्या जंघानुगायाश्चेति पेशीत्रयस्यकण्डरान्तानां, पश्चिमजंघिकाख्यसिरा-धमनी-नाड़ीनाञ्च प्रसरः।
अथ पादपेश्यः।
** **ता एकोनविंशतिरित्थम्। पादपृष्ठे एका पादतले स्तरचतुष्टये सन्निविष्टाअष्टादशेति।
** **तत्र पादपृष्ठे—
** पादांगुलिप्रसारणी ह्रस्वा222**नाम पेशी (९४ चित्रम्) दीर्घायाःपादांगुलीप्रसारण्याः कण्डराभिराच्छादिता। सा पार्ष्णिसंज्ञस्य कूर्चास्थ्नःपुरः पार्श्वभागाभ्यां पार्ष्णि-कूचंशिरःसन्धायिन्याः बाह्यस्नायोश्च सम्भूय कण्डरान्तेनतिर्यक् पादपृष्ठे प्रसृता, चतुर्षु कण्डरामुखेषु विभक्ता। तेषाञ्च कण्डरामुखानांप्रथममंगुष्ठपश्चिमपर्बपृष्ठे सम्बद्धम्,अपरत्रयं तु पादांगुलीप्रसारण्यादीर्घायाः तिसृषु कण्डरासु। तस्याः कार्यं स्वनामव्याख्यातम्। प्रचेष्टनी नाड़ीपुरोजंघिका नाम।
** **पादतलस्थास्तु सर्वाः पेश्यः पादतलिकाख्यया गम्भीरप्रावरण्याऽच्छाद्यधार्यन्ते। सा पार्ष्णेरान्तरार्बुदे सम्बद्धमूला शाखालयवती च। तत्र मध्यमाशाखा दृढ़तमा, मूले रज्वाकारा, अग्रे च पत्रकाकारा। सा पञ्चभिः प्रशाखाभिःपञ्चसु अंगुलिमूलेषु संसक्ता। पार्श्विके तु शाखे पार्श्विकपादपेशीनां संरक्षिण्यौ,पादपृष्ठिकाख्यगम्भीरप्रावरण्या मिलिते च।
अथ पादतले प्रथमस्तरे तिस्रः पेश्यः। यथा—
** पादांगुष्टापकर्षरणी223**नाम पेशी (९५ चित्रम्) पादान्तरसीम्नि वर्त्ततेशरपुंखाकारा। सेयं पार्ष्णेरान्तरार्बुदात् आन्तरवलयिकाख्यस्नायोः पादतलिकाख्यप्रावरण्याश्च सम्भूय पादांगुष्ठपश्चिमपर्वणः आन्तरसीम्नि सम्बद्धा।तस्याः कार्यं स्वनामव्याख्यातम्। प्रचेष्टनी नाड़ी आन्तरा पादतलीयानाम।
(९५ चित्रम्)
पादतले प्रथमस्तरस्थाः पेश्यः।
| <MISSING_FIG href="../../../books_images/U-IMG-17028346481706.png"/> |
| पार्ष्णिः | कण्डराकञ्चुकम् |
| पादतलिका नाम स्नायुपट्टिका (कर्त्तिता) | तदेव विदार्य दर्शितम् |
| पादकनिष्ठापकर्षणी | पादाङ्गुलिसङ्कोचनी ह्रस्वा |
| पादाङ्गुलिसङ्कोचनी ह्रस्वा | पादाङ्गुलिसङ्कोचनी दीर्घा |
| पादाङ्गुष्ठापकर्षणी |
** पादांगुलिसङ्कोचनी ह्रस्वा224**नाम स्थूलमांसलोदरा पेशी (९५ चित्रम्)पादतलमध्ये पादतलिकाख्यप्रावरण्या संसक्ता वर्त्तते। सेयं कण्डरासूत्रेणपाणितलस्य पुरोभागादुत्थिता अग्रे कण्डराचतुष्टयेन पादांगुलि चतुष्टयस्यमध्यमपर्वसु सम्बध्यते। ताश्च कण्डराः मध्ये निर्भिद्य प्रसृताः पादांगुलिसङ्कोचन्या दीर्घायाः कण्डराः। तस्याः कार्यं स्वनामव्याख्यातम्। प्रचेष्टनीनाड़ी पूर्ववत्।
** पादकनिष्ठापकर्षणी225** नाम तन्वी मांसला च पेशी (९५ चित्रम्) पादतलस्य बहिःसीम्नि वर्त्तते। सेयं पार्ष्णिमूलपार्श्वात्, पादतलिकाख्यप्रावरण्याश्चसम्भूय पादकनिष्ठापश्चिमपर्वणि सम्बद्धा। तस्याः कार्यं स्वनामव्याख्यातम्।प्रचेष्टनी नाड़ी —बाह्या पादतलीया नाम।
पादतले द्वितीयस्तरे पञ्च पेश्यः। तद्यथा—
** पादतलचतुरस्त्रा226**नाम चतुरस्त्रप्राया मांसला पेशी (९६ चित्रम्)पार्ष्णितलान्मूलद्वयेन दीर्घपादतलिकाख्यस्नायोश्च सम्भूय दीर्घायाः पादांगुलिसङ्कोचन्याः कण्डरायां सम्बद्धा।कार्यं दीर्घायाः पादांगुलिसङ्कोचन्याः तिर्यगाकृष्टायाः सरलीकरणम्। प्रचेष्टनी नाड़ी—बाह्या पादतलीया नाम।
** पादानुकण्डरिकाः227**नाम चतस्रो जलौकाकाराः पेश्यः (९६ चित्रम्), याः दीर्घायाः पादांगुलिसङ्कोचन्याश्चतुर्भ्यः कण्डरान्तेभ्यः सम्भूय पादांगुलिमूलानि तिर्यगुल्लंघ्य कण्डराग्रैः अंगुलिपश्चिमपर्वपृष्ठेषु पादांगुलिप्रसारण्यादीर्घायाः कण्डरान्तैः सह सम्बद्धाः। तासां कार्यं पादांगुलीपश्चिमपर्वणामाकर्षणम्, अंगुलिसङ्कोचनकाले प्रसारणीकण्डरान्तानां शिथिलीकरणं च।तासां प्रचेष्टनं आन्तरपादतलीयनाड्योः शाखाभिः।
(९६ चित्रम्)
पादतले द्वितीयस्तरस्थाः पेश्यः।
| <MISSING_FIG href="../../../books_images/U-IMG-17028351501707.png"/> |
| पार्ष्णिः | पादाङ्गुष्ठसङ्कोचनी दीर्घा |
| पादतलचतुरस्रा | पादानुकण्डरिकाः १ |
| पादाङ्गुलिसङ्कोचनी दीर्घा | कनिष्ठासङ्कोचनी |
पादतले तृतीयस्तरे तिस्रः पेश्यः। यथा—
** पादांगुष्ठसङ्कोचनी ह्रस्वा228** नाम पेशी (९७ चित्रम्) पादांगुष्ठाऽनुक्रमेण वर्त्तते शरपुङ्खाकारा। सेयं घनबाह्यकोणकाभ्यां जंघानुगाख्यपेश्याःकण्डरायाश्च सम्भूय पादांगुष्ठपश्चिमपर्वणो मूलपार्श्वयोः कण्डराद्वयेन सम्बद्धा।तयोश्च कण्डरयोरेका पादांगुष्ठप्रकर्षण्याः कण्डरया मिलिता, अपरा पादांगुष्ठाऽपकर्षण्याः कण्डरया। तस्याः कार्यं स्वनामव्याख्यातम्। प्रचेष्टनी नाड़ीआन्तरा पादतलीया नाम।
** पादांगुष्ठप्रकर्षणी229**नाम हस्वाकारा पेशी (९७ चित्रम्) द्वाभ्यांभागाभ्यामुपलक्षिता। तयोरेको भागो दीर्घतिरश्चीनः स मध्यममूलशलाकात्रयस्य मूलेभ्यः पादविवर्त्तन्या दीर्घायाः कण्डराकञ्चुकतश्च सम्भूय पादांगुष्ठपश्चिमपर्बमूलस्य बहिःपार्श्वे निविशते। अपरो भागः अंगुलीमूलेषु अनुप्रस्थभावेनवर्त्तते तनुतरः।स मूलशलाकाग्रसन्धायिस्नायोः सम्भूय पूर्ववत् निविशते।तस्याः कार्यं पादांगुष्ठस्य मध्यरेखां प्रति प्रकर्षणम्। प्रचेष्टनी नाड़ी बाह्यापादतलीया नाम।
** कनिष्ठासङ्कोचनी ह्रस्वा230**नाम पेशी (९७ चित्रम्) कनिष्ठामूलशलाकामूलात् सम्भूय पादकनिष्ठापश्चिमपर्वणो मूले सम्बद्धा।तस्याः कार्यं स्वनामव्याख्यातम्। प्रचेष्टनी नाड़ी पूर्ववत्।
पादतले चतुर्थस्तरे तु सप्त पेश्यः शलाकान्तरीया नाम करवत्। तासु विशेषः—अधरास्तिस्त्रः, उत्तराश्चतस्त्रः इति। तत्र—
** उत्तराः शलाकान्तरीयाः231**नाम पादपृष्ठाभिगाः चतस्रः तनुपेश्यःपञ्चानां मूलशलाकानामन्तरालस्थाः। तासां चतसृणामपि एकैकस्या द्वे द्वे मूलेस्वपार्श्वद्वय वर्त्तिमूलशलाकयोः पार्श्वसंसक्ते। ताश्च पेश्यः शरपुंखाकारेणोभयतःप्रसृतैमांसतन्तुभिरारचिता अग्रे कण्डरीभूय इत्थं सन्निविष्टाः। तर्जनीपश्चिमपर्बपार्श्वयोर्द्वे।
(९७ चित्रम्)
पादतले तृतीयस्तरस्थाः पेश्यः।
| <MISSING_FIG href="../../../books_images/U-IMG-17028362121708.png"/> |
| दीर्घा पादतलिका स्नायुः | पार्ष्णिः |
| जङ्घानुगा पश्चिमा | पादविवर्त्तन्या दीर्घायाः कण्डरा |
| पादविवर्त्तन्या दीर्घायाःकण्डराकञ्चुकम् | कनिष्ठासङ्कोचनी ह्रस्वा |
| पादांगुष्ठप्रकर्षणी(दीर्घतिरश्चीनभागः) | पादांगुष्ठप्रकर्षणी(अनुप्रस्थभागः) |
| पादाङ्गुष्ठसङ्कोचनी ह्रस्वा | कण्डरान्तरीयं चणकास्थिद्वयम् |
मध्यमानामिकापश्चिमपर्वणोरान्तरपार्श्वयोः एकैका इति।तासां कार्यं पादांगुलिचतुष्टयस्य अपकर्षणम्232। प्रचेष्टनी नाड़ी पूर्ववत्।
** अधराः शलाकान्तरीयाः233** नाम पादतलाभिगाः त्रयस्तनुपेश्यः। ताःकनिष्ठादि मूलशलाकात्रयस्य आन्तरपार्श्वेभ्यः सम्भूय तत्तदंगुलिपश्चिमनलकानांतत्पार्श्वेष्वेव सम्बद्धाः। तासां कार्यं कनिष्ठाद्यङ्गुलित्रयस्य मध्यरेखां प्रतिकर्षणम्। प्रचेष्टनी नाड़ी—बाह्या पादतलीया नाम।
ता एता अधःशाखीयाः पेश्यः सविस्तरं व्याख्याताः।
कर्कशं कीकसं234 येन
मांसलीभूय शोभते।
बलमूलं क्रियामूलं
पेशीजालं तदीरितम्॥
समाप्तं चैतावता पेशीखण्डम्।
<MISSING_FIG href="../../../books_images/U-IMG-1708084611Screenshot_2024-02-16-17-24-35-617_com.android.chrome-removebg-preview.png"/>
प्रत्यक्षशारीरम्
धमनीखण्डम्।
प्रथमोऽध्यायः।
अथातो रस-रक्तसंवहनसामान्यविज्ञानीयमध्यायं व्याख्यास्यामः।
** रक्तं** नाम सकलधातुप्रीणनः सारः शरीरस्य, रस एव रञ्जकाख्येन पित्तनतथा विपरिणमितः—इत्यवोचाम। तद्भारश्च शारीरभारस्य द्वादशांशः, त्रयोदशांशो वेति केचित्। पञ्चदशांश इत्यपरे।
तस्य च रक्तस्य पाञ्चभौतिकस्यापि द्विविधमुपादानं प्राधान्येन, आप्यंपार्थिवञ्च। तयोराप्यं जलवदच्छतरलं—लसीका235 नाम। स्त्यानीभूतस्य रक्तस्यतु तदेव किञ्चिद्विपरिवर्तितं पृथग्भूतञ्च रक्तमस्तु236नाम। पार्थिवे तु भागेरक्तस्य त्रिविधा विशेषाः अणुवीक्षणसहायेन चक्षुषा दृश्याः—रक्तकणिकाः237, श्वेतकणिकाः238, अणुचक्रिकाः239 चेति। तत्र रक्तकणिकाः सूक्ष्मगुलिकाकाराः संख्ययाश्वेतकणिकानां पञ्चशतगुणिताः प्रायेण, ताः एव लोहितवर्णाधाराः।श्वेतकणिकाःनियतपरिवर्त्तमानाकृतयस्तूलखण्डवद् भासन्ते, ताः रक्तकणिकानां संरक्षिण्यः,अनिष्टवस्तुग्रसनशीलाः। अणुचक्रिकास्तु प्रविरलसंख्याः सूक्ष्मतमाश्चिपिटाकारचक्रिकाकाराश्च।
तच्च रक्तं धमनीषु जालकेषु सिरासु च क्रमेण प्रवहति हृदयं केन्द्रीकृत्य। हृदयेन हि धमनीषु विक्षिप्यते रक्तं, धमनीभिश्च जालकेषु। संगृह्यते च तद्जालकेभ्यो हृदयेनैव सिराभिः सर्वकायगाभिः। स्यन्दते च जालकेभ्यः कोऽपितन्वच्छभागः शोणितस्य लसीकासंज्ञः सर्वत्र शरीरे धातुपोषणाय।
** धमन्यः240**नाम हृदयाद् बहिर्मुखं रक्तवहाः प्रणालिकाः स्थूलाः सूक्ष्माश्च।ता जीवच्छरीरे अरुणाभाः रक्तपूर्णाश्च। मृतके तु पाण्डुवर्णाः, शून्यगर्भाश्च।तासां निर्मापण्यः प्राचीरिकाः, दृढ़स्थूलाः कठिनस्पर्शाश्च। तासु सर्वत्र उज्वललोहितंरक्तं प्रवहति, अन्यत्र फुस्फुसाभिगाया धमन्यास्तच्छाखाप्रशाखाभ्यश्च।फुस्फुसाभिगा हि स्थूलधमनी सिराभिरानीतमविशुद्धं रक्तं प्राणवायुसंयोगायफुस्फुसौ प्रापयति स्वशाखा-प्रशाखाभिरिति विशेषः।
सिराः241नाम हृदयाभिमुखरक्तवहाः प्रणालिकाः। ता नीलाभास्तनुप्राचीरिकाः कोमलस्पर्शाश्च। तासु सर्वत्र श्यामाभं रक्तं प्रवहति, अन्यत्र फुस्फुसीयाभ्यःसिराभ्यः। ता हि फुस्फुसविशोधितमुज्वलारुणमेव रक्तमभिवहन्ति हृदयाभिमुखमिति विशेषः।242
संज्ञास्तावद्धमनीनां क्वचिदवस्थानविशेषाद्—यथा अक्षकाधरेति। क्वचित्पोषणीयावयवनामतः—यथा अनुमस्तिष्केति। क्वचिद् यदृच्छया यथा—महामातृकेति। सिरासंज्ञाश्च ताद्गशहेतुसमुत्थाः।
निर्माणं पुनर्धमनीनां सिराणाञ्च तिसृभिस्तिसृभिः प्राचीरिकाभिः। तत्रबाह्या प्राचीरिका243 स्नायुसूत्रनिर्मितनलिकाकृतिः, सा इतरप्राचीरिकयोः सन्धारणी।मध्यप्राचीरिका244 तु स्वतन्त्रपेशीतन्तुनिर्मितनलिकाकृतिराकुञ्चनप्रसरणशीला।आभ्यन्तरी पुनः प्राचीरिका245 तनुकलामयी, सा प्राचां रक्तधरा कला246 नाम। सेयंस्थितिस्थापकगुणैः सूक्ष्मस्नायुसूत्रैः संवेष्टिता। तासां बाह्या, मध्यमा च प्राचीरिकासिरासु तन्वी धमनीषु स्थूला, विशेषतश्च परिस्फुटं स्थूलत्वं मध्यमाकृतिधमनीषु।सन्ति च मध्यमायामपि प्राचीरिकायां स्थितिस्थापकगुणानि स्नायुसूत्राणिप्राचुर्येण। दृश्यन्ते च बहिरपि सिराधमनीसंवेष्टनानि शिथिलप्रायाणि स्नायुमयानि कञ्चुकान्यपराणि स्थूलसिराधमनीनां सन्धारणाय, तानि सिराकञ्चुकानि**धमनीकञ्चुकानि247 चेति नामधराणि।
लक्षणीयाश्च सिरासु विशेषेण अन्तरान्तरा रक्तमार्गे स्वयम्पतिष्णवःकपाटिकाः, ता ह्रदयाभिमुखं प्रवर्त्तमानस्य रक्तस्य पश्चान्मुखीं गतिं रुन्धन्तिनिर्माणकौशलेन। ताः सिराकपाटिकाः248 नाम।
जालकानि’249पुनः सूक्ष्मानुसूक्ष्मसिराधमनीजालनिर्मितानि स्रोतांसि सर्वत्रशरीरे द्रमपत्रसूक्ष्मप्रतानवत् प्रततानि। तानि क्रमशो विभज्यमानानां धमनीनांसूक्ष्मतमशाखाभिः सूक्ष्मतमसिराजालैश्चोतप्रोतभावेन जालवदारचितानि रक्तधर-कलागर्भानि। तेभ्यः कणशः स्यन्दमान्द शोणितस्य तन्वच्छभागो लसीकासंज्ञांलभते। सैव सर्वमपि शरीरमाप्याययति। निःस्रुतावशिष्टञ्च जालकेषु शोणितंक्रमेण शरीरप्रचारान्मलिनीभूतं सूक्ष्मैः सिरामार्गैः स्थूलस्थूलतरसिरासु प्रविशतिहृदयाभिमुखप्रसरणाय। धातुपोषणावशिटा लसीका तु रसायनीमार्गैः सिरापथमेवान्ते प्रविशतीत्य रसायनीखण्डे प्रतिपादयिष्यामः।
उक्तञ्च– “ध्मानाद्धमन्यः स्रवणात् स्त्रोतांसि सरणात् सिराः” इति(चरक० सूत्र ३० अ)। अत्र ध्मानं रक्तस्य बलाद् विक्षेपणं, स्रवणं स्यन्दनम्, सरणंमृदुगत्या हृदयाभिमुखं चलनमिति प्राचामभिसन्धिः सुस्पष्टः। स्रोतः पदं चात्रजालकपरम्।
रसायन्यस्तु जालकेभ्यो निःस्नुताया लसीकाया संग्राहिण्यः। ताः तद्वर्णनीयाध्याये पृथग् व्याख्येयाः।
हृदयं250 पुनः रक्तस्य युगपत् संग्रहणप्रेरणयन्त्रमुरोगुहास्थम्। तत् पेशीकोषमयं चतुःप्रकोष्टञ्चेति अग्र वक्ष्यते। तच्च प्रतिनियतसङ्कोचविस्फाराभ्यांविक्षिपति रक्तमाकर्षति च तत् पृथक् प्रकोष्ठैः। तद् दक्षिणार्धे सार्वकायिकं सिरा-रक्तमाकर्षति उत्तराऽधरमहासिराभ्याम् प्रेरयति चाकृष्टं रक्तमधरप्रकोष्टसङ्कोचेनफुस्फुसयोः फुस्फुसाभिगया धमन्या, रक्तस्य वायुसंयोगेन विशोधनाय। तस्यवामार्धन्तु फुस्फुसविशोधितं रक्तमाकर्षति उत्तरप्रकोष्ठे फुस्फुसप्रभवेन सिराचतुष्टयेन, प्रेरयति चाकृष्टं रक्तमधरप्रकोष्टस्य सङ्कोचेन सर्वत्र शरीरे महाधमनीद्वारेण। महाधमनी च क्रमेण शाखाप्रशाखाप्रविभागेन जालकेषु पर्यवस्यति सर्वशरीरपोषणाय। जालकेषु निःस्रवावशिष्ट रक्तं तु सूक्ष्मसिरामार्गेषु प्रविशति,अनुपद्यते च उत्तरोत्तरस्थलाभिःसिराभिर्महासिराद्वयं, तन्मार्गेण च हृदयम्।तदेतद्रक्तस्य निरन्तरगतागतं रक्तसंवहनं251 नाम।
तच्च रक्तसंवहनं द्वेधा विभजन्ते शारोरविदः - सामान्यकायिकं फौस्फुसञ्चेति। तत्र सामान्यतः कायिकस्य रक्तस्य हृदये प्रवेशः, हृदयात् सर्वकायगमनञ्च धमनीद्वारेणेति सामान्यकायिकम्’252 रक्तसंवहनम्।रक्तस्य हृदयदक्षिणार्धात्फुस्फुसगमनं, तत्र वायुकोषान् परितः स्थितेषु जालकेषु प्रसरणम्, तत्र वायुसंयोगेन विशुद्धिः, तथा विशुद्धस्य रक्तस्य पुनहृदयवामा समागमश्चेतिफौस्फुसम्253 रक्तसंवहनम्।तदुभयञ्च परस्परापेक्षम्।
याकृतं254 च रक्तसंवहन केचिदमनन्ति पृथगेव। तद्धि रसरक्तयोमिंश्री-भूतयोः संवहनं, सार्वकायिकस्य रक्तसंवहनस्य पोषणद्वारमित्यनुपदं वक्ष्यामः।
अथ रससंवहनम्।
रससंवहनं द्विविधं — भुक्तरससंवहनं, लसीकासंवहनञ्चेति। तत्र**—**
** भुक्तरससंवहनं**द्विविधम्।भुक्तरसस्य सौम्याग्नेयभेदेन द्वैविध्यात्।आहारो हि द्विविधः सौम्यश्चाग्नेयश्च। स तद्गुणप्राधान्याद् द्विविधं रसंजनयति। तत्र सौम्यानां दुग्धादीनां यो रसः सौम्यस्तनुमण्डाकारः, सोऽन्त्रेभ्यःसूक्ष्मैः रसस्रोतोभिराकृष्यमाणः पृष्ठवंशपुरःस्थां रसप्रपां प्रविशति, नीयते च ततोवामया रसकुल्यया गलमूलिकां सिराम्, तथा चोत्तरां भहासिराम्, तन्मार्गेन चहृदयम्। तदेतत् सौम्यं रससंवहनं नाम।अथापरो मांसाद्याहारसम्भवोयो रस आग्नेयः स आमाशय-पक्काशयं परितः प्रसृतैः सूक्ष्मसिराभिराकृष्यमाणःप्लीहाद्यागतेन रक्तेन मिश्रीभूय यकृत् प्रविशति प्रतीहारिण्याख्यया महासिरया।यकृत्प्रविष्टश्च स विपच्यते निर्विषीक्रियते च तत्रस्थैः सूक्ष्मैः सिराजाल कैर्निर्माण-कौशल विशेषात् याकृतक्रियाविशेषप्रभावाच्च। ततश्चापराभिः सूक्ष्मसिराभिःसंगृह्यमाणस्य तस्य याकृतीभिः सिराभिरघरमहासिरायां, ततश्च हृदये प्रवेशः।तदेतद् आग्नेयं याकृतं वा रससंवहनम् नाम। एवञ्च रसरक्तयोर्मिश्री-भावाद्रसस्य रक्तपरिणामदर्शनाच्च याकृतं रक्तसंवहनं पृथगेव सामान्यकायिकरक्तसंवहनादिति सूक्ष्मदृशः।
** लसीकासंवहनं255**तु जालकेभ्यःस्यन्दमानस्य शोणिततन्वच्छभागस्यधातुपोषणानन्तरमवशिष्टस्य लसीकास्त्रोतोभिः रसायनीसंज्ञैःपुनरपि रक्तस्रोतसिप्रतिनिवर्त्तनम्। तदित्थं संपद्यते। शिरोश्रीचदक्षिणार्धस्य दक्षिणबाहोश्चलसीका दक्षिणां रसकुल्यां प्रविशति, तया च दक्षिणज256त्रुमूलस्थं सिरासन्धिम्।सिरापरम्परया रक्तेन मिश्रीभूतस्य च तस्य हृदये प्रवेशः। शिरोग्रीववामार्धस्यवामबाहोश्च लसीका वामया रसकुल्यया प्रविशति वामजत्रुमूलस्थं सिरासन्धिम्,ततश्च सिरापरम्परया हृदयम्। अधोजतुस्थस्य समग्रशरीरभागस्य लसीका तुप्रविशति रसप्रपामेव पूर्वोक्ताम्। अन्त्रेभ्यः समागताः दुग्धाभ-सौम्यरसवाहिन्यःप्रणालिकास्तु पयस्विनी257 संज्ञाः, ता अपि रसप्रपां प्रविष्टाः।
एवं रसायनीमार्गेषु प्रसरन्त्याश्च लसीकाया दृश्यन्ते मार्गरक्षिभूता ग्रन्थयोगुञ्जा-निम्बफलाद्याकाराः। ते ग्रीवा-कक्षा-वंक्षणादि-प्रदेशेषु उदरोरसोरभ्यन्तरेपृष्ठवंशपुरस्ताच्च संलक्ष्या विशेषेण। ते रसायनीखण्डे वर्णनीयाः।
तदेतद् द्विविधमपि रससंवहनं रक्तसंवहनेन घनिष्टसम्बन्धं, परिणामेतदन्तर्भूतञ्च। तस्मात् क्वचिद् रसवहस्रोतसां क्वचिद् रक्तवहस्रोतसाञ्च हृदयमेवमूलमुपदिशन्ति प्राञ्चः। रसपदं हि रक्तार्थपरं बहुधा तेषु तेषु प्राचां वचनेषु।
गर्भस्थशिशोः रक्तसंवहनं तु उरोहृदयवर्णनीयाध्याये पृथग् वक्ष्यामः।
तदेतद् रस-रक्तसंवहन सामान्यविज्ञानमभिहितं बीजरूपेण। विस्तरोऽतऊर्ध्वम्।
द्वितीयोऽध्यायः।
अथात उरोहृदयवर्णनीयमध्यायं व्याख्यास्यामः।
उरःपञ्जरं नाम उरोगुहाया आधारभूतं व्याख्यातपूर्वम् तस्य च आभ्यन्तरा-यतनं न सर्वथा बाह्यायतनमनुसरति। न्युजपृष्ठेन महाप्राचीराविनिर्मितेन तदीयतलदेशेन तद्धोभागस्य हस्वीभावात्, फुस्फुसशिखरयोरागलमूलं प्रसृतत्वाच्च नियतपरिवृत्तिशीलञ्च तद् उच्छ्वासनिःश्वासकालयोः महाप्राचीरायाः पशुकोपपशुकानाञ्च प्रतिनियतमूर्ध्वाधः-प्रचलनशीलत्वात्।
तस्याञ्च उरोगुहायां चतुष्टयं प्रधानम् - मध्ये हृदयम् महाधमन्यादिसहितम्,उभयतश्च फुस्फुसौ, श्वासनलिकासहितौ, अन्ननलिका च पृष्टतः - इति।
फुस्फुसान्तरालं’258 नाम —उरःफलकपृष्ठात् पृष्ठवंशपुरोभागं यावदुपलक्षितोऽवकाशः तं वर्णनासौकर्याय चतुर्धा विभजन्ते शारीरविदः (कल्पना-मात्रेण)। तत्रादौ द्वेधा विभागः, उत्तराऽधरप्रदेशभेदात्। ततः अधरस्यफुस्फुसान्तरालस्य अग्रिम-मध्यम-पश्चिमाख्यप्रदेशेषु पुनस्त्रिधा विभागः। एवंचेह वर्ण्यन्ते —उत्तरम्, अधरात्रिमं, अधरमध्यमं अधरपश्चिमञ्चेति चत्वारिफुस्फुसान्तरालानि। तेषु शेषाणां त्रयाणामग्रिम-मध्यम-पश्चिमसंज्ञाभिः व्यपदेशः।
तत्र उत्तरे फुस्फुसान्तराले259 दृश्याः प्रधानशाखात्रयेण सहिता तोरणीमहाधमनी, उत्तरमहासिराया उत्तरार्धम्, गलमूलिकाख्ये सिरे, प्राणदाख्येोनाड्यौ, अनुकोष्टिकाख्ये नाड्यौ, क्लोमनलिका, अन्ननलिका,बालग्रैवेयका260ख्यग्रन्थेरवशेषः, लसीकाग्रन्थयः, अपराश्च पेशीनाड्यादयो विशेषाः।
अग्रिमं फुस्फुसान्तरालं261 पुनः उरःफलकपृष्ठात् हृत्कोषपुरोभागान्तंस्थानम्। तत्र दृश्याः - अन्तस्तलिकाख्ये धमन्यौ, उरःस्था लसीकाग्रन्थयः,उरस्त्रिकोणिका नाम पेशी च।
मध्यमे फुस्फुसान्तराले262 तु दृश्यन्ते हृत्कोषप्रावृतं हृदयम् आगेहिणीमहाधमनी, उत्तरमहासिराया अधरार्धम् श्वासनालस्य विभागकाण्ड द्वयम्,फुस्फुसाभिगा धमनी (द्विधाविभक्ता), फुस्फुसीयाः सिराः, अनुकोष्टिके नाड्यौ,उरोमध्यस्था लसीकाग्रन्थयश्च।
पश्चिमे फुस्फुसान्तराले263 पुनर्दृश्याः- अवरोहिणी महाधमनी, अन्ननलिका, रसकुल्या, पुरोवंशिकाख्ये सिरे, प्राणदाख्ये नाड्यौ, ईड़ा-पिङ्गलाख्य-महानाड्योरौरख्यभागौ, लसीकाग्रन्थयश्च पश्चिमोरस्काः।
अथाऽस्या उरोगुहाया ऊर्ध्वंद्वारे दृश्यन्ते मध्यरेखायां - पेशीपरिवृतोवालग्रैवेयकप्रन्थिशेषः, क्लोमनलिका264, अन्ननलिका च पूर्वापरक्रमेण। तदुभयतश्चस्थूले महामातृकाख्ये धमन्यौ, गलमूलिकाख्ये सिरे, प्राणदाख्ये नाड्यौ,इड़ा-पिङ्गलाख्ये महानाड्यौ, रसकुल्या, काश्चिद् श्रीवावंशपुरःस्थाः पेश्यश्च।तत्पाश्र्वयोश्च समुत्थिते फुस्फुसयोः शिखरे फुस्फुसधरया कलया फुस्फुस-शीर्षण्याख्य गम्भीरप्रावरण्या च प्रावृते।
सेयमुरोगुहा फुस्फुसधरायाः कलायाः परिसरीयभागेन अन्तःपरिवृता।सा च यथास्थानं वर्णनीया। उरोगुहातलं च महाप्राचीराख्यपेश्या निर्मितं,छिद्रत्रयोपलक्षितं, तथैव कलयातयैव कलया प्रावृतञ्च। तद्विवरणं महाप्राचीरावर्णनेसविस्तरमवोचाम।
अथ हृत्कोषः।
** हृदयं** तावद् उरः फलकस्य पश्चाद्वामतश्च भूम्ना वर्त्तते अधर-मध्यम-फुस्फुसान्तरालस्थम्। प्रावृतं च तत् स्थूलसिरा-धमनी-मूलनिवहसहितं हृदय-धराख्येन कलाकोषेण।
** हृदयधरः कलाकोषः,** हृदावरणकोषो वा नाम अतनुस्तरद्वयेननिर्मितः कोषः।तस्य बाह्यस्तरः दृढ़स्नायुमयो शिथिलश्च स न संसक्तःहृदयेन। संसक्तस्तु स उत्तरमहासिरावर्जमन्यासां स्थूलसिराधमनीनांमूलेषु प्रतिबद्धश्चोपरिष्टात् श्रीवामध्यकञ्चुकस्य पुरोभागेन।अधस्ताच्चसम्बद्धस्तस्य तलभागो महाप्राचीराया मध्यपत्रकेण।तस्य आभ्यन्तरस्तरःतनुमसृणकलामयः। स साक्षाद् हृदयेन संसक्तः एकतः, बाह्यस्तरैकदेशेन मिलितश्चसोमासु। स्तरद्वयान्तराले च स्वभावतो वर्त्तते स्वल्पमात्रा लसीका, तया चअभ्यक्तं हृदयं नियतमुद्रणविस्फारशीलमपि स्वकोषस्पर्शतो नाववृष्यते। सैवलसीका प्रवृद्धा स्त्यानीभूता च रोगाय कल्पते। अमुष्य च कलाकोषस्यपोषणम् अन्तस्तलिकायाः धमन्या महाधमन्याश्च तनुशाखाभिः सम्पद्यते। तत्-संज्ञावहा नाड्यस्तु प्राणदाख्ययोः, अनुकोष्ठिकयोः, ईड़ा-पिङ्गलयोश्च सूक्ष्माःप्रतानाः।
अथ हृदयम्।
** हृदयं265** नाम स्वतन्त्रपेशीनिर्मितं शून्योदरं यन्त्रम्। (१८ चित्रम्)तद् अधोमुखबृहत्पद्ममुकुलाकारं, मध्यमे फुस्फुसान्तराले पुरस्ताद्वामत-स्तिर्यगवस्थितम्, हृदयधराख्येन कलाकोषेण प्रावृतं च। तस्य मूलदेशःदक्षिणतृतीयोपपर्शुकाया उरःफलकसन्धानादारभ्य वामद्वितीयोपपशुकाया उरः-फलकसन्धानोपकण्ठं यावद्विस्तृतः। अनं तु तस्य वामतः पञ्चमषष्टपशुकयो-रन्तराले मध्यरेखाया बहिश्चतुरङ्गुलाद् दृश्यते, स्पर्शेनानुभूयते च नियतमाहन्यमानम्।
गुरुत्वपरिमाणं तावद् यूनो हृदयस्य पञ्चविंशतितोलकेभ्य आरभ्यत्रिंशत्तोलकान्तं मानतः। स्त्रियांस्तु हृदयं लघुतरं, प्रायेण विंशतितोलकंकिञ्चिदधिकं वा। दैर्घ्य-प्रस्थ-वैधास्तु हृदयस्य क्रमेण षडंगुल-चतुरंगुल-त्यंगुलप्रमाणाः प्रायः।
तदेतद् हृदयं मध्यवर्त्तिना अनुदैर्घ्यमवस्थितेन मांसमयान्तःप्राचीरकेणद्विधाविभक्तं, दक्षिणार्धे वामार्धे च। तत्र दक्षिणाधं भूम्ना पुरस्ताद् वर्त्तते,वामाध॑न्तु पृष्ठतः। एकैकं चार्धं हृदयस्य अनुप्रस्थम् विभज्यते अभ्यन्तरस्थितेनप्राचीरकेण उत्तराधरप्रकोष्ठयोः। तत्र उत्तरप्रकोष्टस्य अलिन्द266इति संज्ञा,अधरप्रकोष्ठस्य निलय267 इति। तथा च दक्षिणालिन्दो, दक्षिणनिलयः, वामालिन्दः,वामनिलयश्चेति हृदयस्य चत्वारो भागाः।
बहिर्देशस्तावद् हृदयस्य हृत्कोषोयतनुकलावृत इत्युक्तपूर्वम्। तत्रच अनुदैर्घ्यं वहिर्दृश्येनिलययोर्मध्यस्थे अगम्भीरे सीते पुरः पश्चाच्च, ते अधिनिलयिके नाम।ताभ्यां बहिर्देशतोऽपि निलयद्वयाभ्यन्तरस्थं प्राचीरमुन्नीयते।अपरे च तत्र अनुप्रस्थं गते सीते अलिन्दनिलययोविभागं सूचयतः पुरः पश्चाच्च।ते अलिन्दनिलयान्तरिके नाम। तत्र अधिनिलयिके सीते संश्रित्य प्रसृतेवामदक्षिणे हार्दिकसंज्ञ धमन्यौ हार्दिकसिरासहिते। अपरयोः सीतयोरन्तरालेषुतु प्रसृतास्तच्छाखाः।
इमे चात्रविशेषा आदावेव संलक्ष्याः (६८चित्रम्)
दक्षिणालिन्दे —ऊर्ध्वसंसक्ता उत्तरा महासिरा, अधःसंसक्ता च अधरामहासिरा। दक्षिणनिलया दूर्ध्वं प्रसृता फुस्फुसाभिगा धमनी। वामालिन्देप्रविष्टाश्चतस्त्रः सिराः फुस्फुसप्रभवाः। वामनिलयादूर्ध्वं प्रसृता महाधमनी।
आसां च सिराधमनीनां मध्ये हृदयस्य बहिर्देशे पुरोदृश्या दक्षिणतोमहाधमनी, वामतश्च फुस्फुसाभिगा धमनी। तयोराद्या अपरां क्रोडीकृत्य स्थितास्वकीय तोरणभागेन। पश्चिमतो दृश्याः पुनः - उत्तराधरे महासिरे, चतस्रश्चफुस्फुसप्रभवाः सिराः हृदयं प्रविशन्त्यः।
सर्वे च ते हृदयाभ्यन्तरीया विशेषाः सम्यग् व्यवच्छेदेन दृश्याः। कृत्स्नश्चहृदभ्यन्तरभागो हृदन्तरीयाख्यया सुसूक्ष्मया रक्तधरकलया प्रावृतः। सिराधमनीनामभ्यन्तरस्थायाः रक्तधरकलाया हृदभ्यन्तरेऽनुवृत्तिरूपा।
(९८ चित्रम्)
हृदयम्
(महासिरा-धमन्यादिसहितम्)
| <MISSING_FIG href="../../../books_images/U-IMG-1702050001Untitled.png"/> |
| महामातृका धमनी (दक्षिणा) | महामातृका धमनी (वामा) |
| प्राणदा नाड़ी | अनुकोष्ठिका नाड़ी |
| अक्षाधरा धमनी | रसकुल्या |
| काण्डमूला धमनी | अक्षाधरा धमनी |
| अधरग्रैवेयकी सिरा | गलमूलिका सिरा (वामा) |
| गलमूलिका सिरा (दक्षिणा) | प्राणदा नाड़ी |
| महाधमनी (तोरणी) | वामालिन्दः |
| उत्तरा महासिरा | वामनिलयः |
| महाधमनी (आरोहिणी) | महाधमनी (अवरोहिणी) |
| दक्षिणालिन्दः | अधरा महासिरा |
| हृतूपोषणी धमनी | दक्षिणनिलयः |
क —क्लोमनलिका (श्वासमार्गः)। ख — तस्या एव विभागस्थानम्। ग — ग्रैवेयकग्रन्थिः। १ ।फुस्फुसाभिग-महासिरायाः विभागस्थानम्। २ ।फुस्फुसाभिगा महासिरा
अथ विस्तरः।
दक्षिणालिन्दः268तनुमांसलप्राचीरो वामालिन्दात् किञ्चिदधिकायतनः। तदन्तःस्था गुहा प्रायेण पञ्चतोलकप्रमाणं रक्तं धारयति। तस्य च द्वौ भागौ—अलिन्दशीर्षकम् अलिन्दोदरश्च। तत्रआद्यमुपरिष्टादवस्थितं कङ्कतिकाख्यक्षुद्रपेशीगुच्छेन दृढ़ीकृतं च। अलिन्दोदरन्तु हृदयप्रवेशिनः सिरारक्तस्य मुख्याय-तनम्। तत्र च ऊर्ध्वाधो दृश्ये विशाले च्छिद्रे उत्तराधरमहासिरयोर्द्वारभूते। तेउत्तराधरे नाम महासिराच्छिद्रो नाम। तत्र अधरमहासिराच्छिद्रमुखे दृश्यं स्वयंपतिष्णु सिराकपाटं, तद् गर्भस्थशिशोर्विशेषेण कार्यकरम्। अनयोश्च छिद्रयो-मध्यतः अलिन्दान्तरीयप्राचीरके क्षुद्रशुक्तिकाकारं खातम्, शुक्तिखातं नाम।तद् गर्भस्थस्य शिशोर्हृदये अलिन्दद्वयान्तराले छिद्रभूतमवतिष्ठते, प्रसूते तु शिशौदशभिर्दिनैरवरुध्यते। क्वचिदनवरुद्धं च तद्विशुद्धाऽविशुद्धरक्त- योर्मिश्रीभावाद्रोगकरं भवति आ बाल्यात्।
अस्य च शुक्तिखातस्य वामतो दृश्यं हार्दिकं नाम सिराविवरं, तद्हार्दिक्याः सिरायाः द्वारभूतम्।(हार्दिकी हि सिरा हृदभितः स्थिताभिःसिराभिरापूरिता दक्षिणालिन्दमेव प्रविशति।) तत्र च क्षुद्रा सिराकपाटिकाहार्दिकसिरारक्तस्य प्रतिनिवर्त्तनवारिणी। अपरञ्चेह दृश्यं दक्षिणालिन्दनिलययो-मध्यस्थं महाद्वारम्, दक्षिणालिन्दद्वारं नाम। तद् वृत्तप्रायं द्वांगुलायतंप्रतनुस्नायुचकरक्षितं, त्रिपत्रकेण कपाटकेन युक्तं च।
** दक्षिणनिलयः269**त्रिकोणप्रायस्तनुप्राचोरको दक्षिणालिन्दद्वारात् हृदग्रोपकण्ठं यावदायतश्च। तस्य पुरःप्राचीरं किञ्चित् न्युजपृष्ठं हृदयस्य पुरोभाग-निष्पादकम्, तलदेशो महाप्राचीरोपरिस्थः। तस्य गुहा प्रायेन सार्धसप्ततोलक-रक्तधारणक्षमा। तत्रैतानि लक्षणीयानि-
** त्रिपत्रकपाटम270’ —**त्रिभिः स्वयंपतिष्णुभिः पत्रकैरारचितम्। तच्च पत्रक-लयम् अलिन्दतो निलयाभिमुखं प्रसरद्रक्तं नावरुणद्धि, रुणद्धि तु निलयात्पराङ्मुखीं गतिं रक्तस्येति विचित्रं तस्य निर्माणकौशलम्। तानि च पत्रकाणि-त्रिकोणप्रायाणि ऊर्ध्वमुखैर्मूलभागैरलिन्दद्वारं परितः संसक्तानि। तदग्राणि तुअधोमुखानि धार्यन्ते निलयप्राचीरलग्नाभिमासमयीभिः स्तम्भिकाभिः प्रतनुस्नायु-रज्जुकासहिताभिः। ताश्च स्तम्भिकाः कपाटस्तम्भिका271 नाम क्षुद्रपेश्यः, प्रतनु-स्नायु तन्तुभिः कपाटपत केषु सम्बद्धाः।ताश्च स्नायुतन्तवः सूत्रकण्डरिका272 नाम।
फुस्फुसधमनीद्वारम्273 तु दक्षिणनिलयस्य ऊध्वान्तःकोणस्थं वृत्तप्रायंस्नायुचकारक्षितं च। सन्ति च तदवरोधाय तिस्रः अर्धचन्द्राकाराः स्वयंपतिष्णवःकपाटिकाः परस्परसंसक्ता ऊर्ध्वं कोरोदराश्च। ताः फुस्फुसांभिगायां धमन्यांदक्षिणनिलयादूर्ध्वं प्रवत्तमानं रक्तं नावरुन्धन्ति, रुन्धन्ति तु रक्तस्य धमनीतः पराङ्-मुखीं गतिमित्यहो निर्माणकौशलं तासाम्। ता एता अर्धेन्दु-कपाटिका274नाम।
** वामालिन्द275ः**दक्षिणालिन्दात् स्तोकेनाल्पायतनः किन्तु विशेषेणस्थूलप्राचीरकः। तस्य गुहा प्रायेण पञ्चतोलकरक्तधारणक्षमा।द्वौ भागौ - अलिन्दशीर्षकं, अलिन्दोदरञ्चेति। तत्र अलिन्दोदरे दृश्यानि चत्वारिछिद्राणि, द्वे दक्षिणतो द्वे च वामतः, तानि फस्फुसोत्थ-सिरा276-चतुष्टयस्यप्रवेशद्वाराणि। अधश्चास्य द्वारं वामालिन्द-निलययोर्मध्यस्थम् द्वग्ङ्गुलायतम्,स्नायुचक्रवेष्टितं द्विपत्रकपाटयुक्तं च। तद् वामालिन्दद्वारं नाम।
वामनिलयः277 त्रिकोणाकारः दक्षिणालिन्दात् त्रिगुणस्थूलप्राचीरकःवामालिन्दद्वाराद् हृदयाग्रंयावदायतश्च।तस्यगुहाऽपि सार्धसप्ततोलकरक्तधारणक्षमा। तत् पश्चिमप्राचीरञ्चाधस्ताद् हृदयाग्रनिर्मापकम्। तत्र च विशेषाः—
द्विपत्रकपाटं278नाम स्वयंपतिष्णुना पत्रकद्वयेन निर्मितं कपाटमलिन्दद्वाररोधनम्। तत्कार्यश्च त्रिपत्रकपाटवत्।
महाधमनीद्वारम्279 वामनिलयस्य ऊर्ध्वान्तःकोणस्थं फुस्फुसाभिग-धमनी-द्वारेण तुल्यायतनम्, तिसृभिः अर्धेन्दुकपाटिकाभिरवरुद्धं च। महाधमनोच पुरस्तात् तिर्यग्वति तदेतद्द्वारमपि फुस्फुसाभिगधमनीपृष्ठमुल्लघ्य तिर्यक्-पुरोऽभिमुखं वर्त्तते इति विशेषः।तदेतद् हृदयनिर्माणं व्याख्यातम्।
अथ हृत्कार्यचक्रम्।
रक्तसंवहनं हि हृत्कार्यमपेक्षते। हृत्कार्यञ्चेह स्पष्टतरं व्याख्यायते शिष्य-बुद्धिवैशद्याय। तत्र हृत्पेश्याः सङ्कोचः उत्तराधरमहासिरा-द्वाराभ्यामारभ्य क्रमेणसमप्रयोरलिन्दयोः प्रवर्त्तते280, ततश्च निलययोः। तेनादौ अलिन्दयोः सङ्कोचेनदक्षिणालिन्दस्थं कायिकसिरारक्तं दक्षिणनिलयं प्रति, वामालिन्दस्थं फुस्फुसाभ्या-मागतं सिरारक्तं च वामनिलयं प्रति प्रणुद्यते युगपदेव। तदाच सिगद्वाराणि कपाट-रहितान्यपि दृढ़ाकुञ्चनमात्रेण पिहितानि भवन्ति, अलिन्दद्वारद्वयं च निलयद्वारद्वयंप्रति सममेव सर्वथा उन्मुच्यते, कपाटपत्रकाणामधःपतनात्। एवमापूर्यते निलयद्वयंरक्तेन। सोऽयं प्रथमः कार्यक्रमः। अथ क्रमेण निलययोः प्रसर्पति सङ्कोचे281, दक्षिण-निलयस्थं रक्तं फुस्फुसाभिगधमनीपथेन, वामनिलयस्थं च रक्तं महाधमनी पथेनऊर्ध्वं प्रणुद्यते। न च तत् प्रतिनिवर्त्तते अलिन्दयोः, रक्तवेगात् स्वयमुत्पतिष्णुभिःकपाटपत्र कैस्तद्वारयोरवरोधात्। सोऽयं द्वितीयः कार्यक्रमः।अथ क्रमेणव्यपगच्छति सङ्कोचे हृत्पेश्याः विस्फारणं प्रवर्त्तते पुनरलिन्दाभ्यामेव282। तदाचाकृष्यते सिरारक्तमुभयोरलिन्दयोः, ततश्च निलययोरपि स्फारीभूतयोः283।न च पुनस्तदा प्रतिनिवर्त्तते रक्तम् निलयाभ्यां महाधमन्यां फुस्फुसाभिगधमन्यांवा, धमनोसंकोचकृतरक्तप्रतिघातेन अधःपतिष्णूनामर्धेन्दुकपाटिकानां क्रियवाधमनीद्वारयोरवरोधात्। सोऽयं तृतीयः कार्यक्रमः, विश्रामावस्था वा हृत्पेश्याः।एवं च आद्यकार्यक्रमयोः संकुचितावस्था, शेषे तु विस्फारितावस्था हृदयस्यस्मर्त्तव्या। तत्र सङ्कोचकालो विस्फारकालस्य तुल्यः प्रायेण। विपलद्वयेन284 द्विसप्ततिवारमित्यवगन्तव्यम् । वस्तुतस्तु ७० ८० वार पर्यन्तं स्वाभाविकी गतिरिति गण्यते “)चप्रवर्त्ततेहृत्कार्यचक्रं285 षड्वारं286 स्वभावेन —इति परीक्षकाणां सिद्धान्तः। एषच कार्यकालो बाल-वृद्ध-श्रान्त-दुवैल-ज्वरितादिषु त्वरितः, विलम्बितो वा क्वचिद्भवति। इदं चास्य हृत्कार्यचक्रस्य सुखस्मरणाय सर्वार्थसंग्राहकं श्लोकद्वयम्—
आदावलिन्दसङ्कोचो निलयद्वयपूरणः।
ततो निलवसङ्कोचो धमनीद्वयपूरणः॥
शेषे तु स्फारता, तेन सिराभिः पूर्यते हि हृत्।
क्रियाचक्रप्रवृत्तिश्च षड्वारं विपलद्वये॥
अथ हृत्कार्यचक्रस्य वाह्यचिह्नानि।
त्रिविधानि खलु संभवन्ति चिह्नानि हत्कार्यस्य बहिःशरीरे- हृच्छन्दः,हृत्प्रतीघातः, धमनीप्रतीघातश्चेति। तत्र—
** हृच्छब्दः287**हृत्प्रदेशे पुरस्तादाकर्णनेनस्पष्ट श्रूयते—धग् टग् इतिध्वनिद्वयात्मकः। तत्रआद्यो धगिति मन्द्रध्वनिः निलयद्वयसङ्कोचे प्रवर्त्तमानेश्रूयते, स द्विपत्र-त्रिपताख्यकपाटद्वयेन अलिन्दद्वारयोर्युगपदवरोधात्। द्वितीयस्तुटगिति तीव्रध्वनिः निलययोर्विस्फारारम्भे श्रूयते स अर्धेन्दुकपाटिकाभिर्धमनीद्वारयोर्युगपदवरोधात्। तत्र त्रिपत्रकपाटावरोधध्वनिः उरःफलकस्याधःप्रान्तो-परिष्टाद् अग्रपत्रसन्धाने स्फुटतमः। द्विपत्रकपाटावरोधध्वनिस्तु वामचूचुकाधःपञ्चमपर्शकान्तराले। अर्धेन्दुकपाटिकाभिर्महाधमनीद्वारावरोधस्य ध्वनिस्तुउरःफलकस्य दक्षिणतः द्वितीयपर्शकोपपर्शुकयोः सन्धानदेशे। फुस्फुसाभिगधमन्याद्वारावरोधध्वनिस्तु तादृश एव वामतः।
हृत्प्रतीघातः288 हृदयप्रतीघातो वा —दृश्यते, स्पर्शनानुभयते च अस्थूलदेहस्योरसि पञ्चम-षष्ठपर्शुकान्तराले वामचूचुकानुलम्बरेखाऽन्तःसीम्नि द्व्यंगुलमात्रेण सार्धांगुलेन वा। तदेतत् स्वाभाविकं स्थानं हृत्प्रतीघातस्य, तत्-स्थानच्युतिस्तु रोगलिङ्गम्। हृत्प्रतीघातश्च प्राप्तसङ्कोचस्य हृदयस्य धमनीमूलंप्रति किञ्चित् पुरोविवर्त्तनात् सम्पद्यते - इति परीक्षकाः।
धमनीप्रतीघातः289”) पुनः हृत्स्पन्दनजन्यः स स्पर्शसंवेद्यः (क्वचिद्-दृश्योऽपि) सर्वत्र नातिगम्भीर धमनीषु, विशेषतश्च मणिबन्धादि-स्थानेषु) अंगुष्ट-मूलादिषु तु स्पर्शानुभूतोऽसौ हृत्स्पन्दनप्रकारं सूचयति। अतएव – “धमनीजोवसाक्षिणी’ इत्युच्यते। तत्प्रतीघातस्य वैचित्र्यविशेषानुभवाच्च हृत्कार्य-विज्ञानं धमनीस्पर्शविज्ञान290मुखेन, ततश्च वातादिदोषक्षयवृद्धिविज्ञानमपि।
(९९ चित्रम्)
गर्भस्थबालकस्य रक्तसंवहनम्
| <MISSING_FIG href="../../../books_images/U-IMG-1702781479112.png"/> |
| महामातृका दक्षिणा | महामातृका वामा |
| अक्षाधरा दक्षिणा | अक्षाधरा वामा |
| उत्तरा महाशिरा | महाधमनी |
| दक्षिणालिन्दः | सेतुधमनी |
| दक्षिणफुस्फुसः | वामालिन्दः |
| यकृत् (वामपिण्डम्) | फुस्फुसाभिगा धमनी |
| सेतुसिरा | वामफुस्फुसः |
| संवाहिनी महासिरा | दक्षिणनिलयः |
| प्रतिहारिणी सिरा | वामनिलयः |
| यकृत् | महाधमनी |
| नाभिदेशः | अधरा महाशिरा |
| वस्तिः | अधिश्रोणिका साधारणी धमनी |
| नाभिनालम् | अधिश्रोणिका आभ्यन्तरी धमनी |
| संवाहिनी धमनी | अमरा अपरा वा |
अथ गर्भस्थबालकस्य रक्तसंवहनम्291।
इतरविलक्षणं तावद् रक्तसंवहनं गर्भस्थ शिशोः (९९चित्रम्), तस्यमातृपरतन्त्रत्वात्, गर्भस्थदशायां हृदयादिनिर्माणवैलक्षण्याच्च। स हि नस्वयमाहारमादत्ते श्वासानिलं वा, मातुरेवाहाररसेन नाभिनालमाश्रित्यतच्छरोरप्रवेशिना तत्तत्कार्यसाधनात्।आहुश्च प्राञ्चः — “मातुस्तु खलु रसवहायांनाड्यां गर्भनाभिनाड़ी प्रतिवद्धा, साऽस्य मातुराहाररसवीर्यमभिवहति। तेनोप-स्नेहेनास्याभिवृद्धिर्भवति" — इति (सुश्रुत० शारीर० ३ अ०)।“नाभ्यां ह्यस्यनाड़ी292’ प्रसक्ता, नाड्याञ्चामरा293। अमरा चाख्य मातुः प्रसक्ता हृदये। मातृहृदयंह्यस्य ताममरामभिसंप्लवते सिराभिः स्यन्दमानाभिः”294—इति (च० शा० ६ अ०)।
निर्माणवैलक्षण्यं पुनरीद्द्वशं तस्य पञ्चभिर्विशेषैः।यथा —
** संवाहिनी** नाम महासिरा295 मातुरमरातो रक्तमभिवहन्ती वालस्य नाभि-ृमार्गेणयकृत्तलदेशे प्रसृता। सा द्वाभ्यां शाखाभ्यां यकृपिण्डद्वयं पुष्णाति।अग्रे च प्रसृत्य द्वयोरप्रशाखयोर्विभज्यते (१६ चित्रम्)।
तयोश्च अग्रशाखयोरेका **सेतुसिरा296**नाम, सा सेतुवद् योजयति संवाहिनींमहासिरामधरया महासिरया। अपरा धनुर्बका “प्रतीहारिणी” संज्ञया याकृत-स्थूलसिरया मिलिता याकृतं रक्तसंवहनं साधयति।
** सेतुधमनी297**नाम धमनी फुस्फुसाभिगां धमनों महाधमन्या योजयतिउभयोर्मध्यस्था।
** संवाहिन्यौ298** नाम धमन्यौ भ्रूणस्य आभ्यन्तरीभ्यामधिश्रोणिकाख्य-धमनोभ्यां निर्गत्य वस्तिमुभयतः प्रसृते नाभिमार्गेण वहिर्गच्छतः। ते भ्रूणस्यनाभिनालमाश्रित्य मातुरमरायां रक्तमभिवहतः। प्रसूतस्य तु वालस्याचिरेणशुष्कप्राये ते “वस्तिरज्जुका"संज्ञे भवतः।
** शुक्तिच्छिद्रं299**नाम विवरं गर्भस्थशिशोहृदयस्य अलिन्दद्वयान्तरस्थप्राचीरे दृश्यते। अधरमहासिरयानीतस्य रक्तस्य दक्षिणालिन्दाद् वामालिन्दगमनंसम्पाद्यते तेन मार्गेण।
ता पताः सिरा धमन्यश्च प्रसूतस्य बालकस्य पञ्चभिर्दिनैरवरुध्यन्ते, तिष्ठन्तिच ततः परं नीरन्ध्रसूलाकाराः शरीरे। शुक्तिच्छिद्रस्य तु दशभि-र्दिनैर्विलोपः,तच्चिह्नञ्च शुक्तिखातमुक्तपूर्वम् कदाचित्तु कस्यचिद् अविलुप्त शुक्तिच्छिद्रम्आ वाल्याद् हृद्रोगकरं सम्पद्यते, अलिन्दयोः शुद्धाशुद्धरक्तमिश्रणात्।
रक्तसंवहनप्रकारश्च गर्भस्थवालस्येदृशः। तस्य हि मातुरमरातः समागतंरक्तं नाभिनालपथेन प्रविशति शरीरं संवाहिन्या महासिरया।महासिरा पूर्वोक्तदिशा स्वशाखाभिः यकृत् पुष्णन्ती सेतुसिराद्वारेण अधरमहासिरया मिलिता। एवञ्च तद्रक्तं सिरारक्तेन मिश्रीभूतमूर्ध्वं प्रवर्त्तते अधर-महासिरया हृदयाभिमुखम्। ततो हृदयस्य दक्षिणालिन्दे प्रविष्ट तद् दक्षिण-निलयमगत्वैव शुक्तिच्छिद्रमार्गेण प्रसरति वामालिन्दे, ततश्च वामनिलये, ततश्चमहाधमन्यामिति विलक्षणोऽयमाद्यः क्रमः। अथ ऊर्ध्वकायात् प्रत्यागतं उत्तरमहा-सिरागतं रक्तमपि दक्षिणालिन्दे प्रविशति, ततश्च दक्षिणनिलयमेव, पूर्वोक्तंरक्तस्त्रोत उल्लङ्घ्य इति विचित्रं निर्माणकौशलं विधातुः। दक्षिणनिलयतश्चफुस्फुसाभिगां धमनों प्रविश्य तद्रक्तं स्वल्पेन भागेन फुस्फुसद्वयं पुष्णाति, न तुतल विशोध्यते, फुस्फुसयोस्तदा निष्क्रियत्वात्। अधिकेन तु भागेन तत् सेतुधमनी-द्वारेण प्रविशति महाधमनीमेव। फुस्फुसाभ्यामागतं च कियन्मात्रं रक्तं साधारण-क्रमेण प्रविशति वामालिन्दं फुस्फुसप्रभवाभिः सिराभिः, ततश्च वामनिलयं,ततश्च महाधमनीम्। सोऽयं द्वितीयः क्रमः। अथ महाधमनीप्रविष्टं रक्तं सर्वत्रशरीरे साधारणक्रमेण प्रसरति स्वशाखाभिः, प्रतिनिवर्त्तते च उत्तराधराभ्यांमहासिराभ्याम्। एष तु तत्र विशेषः —तस्य भूयिष्टो भागः संवाहिनीभ्यां धमनीभ्यांनाभिनालमार्गेण प्रविशति पुनः मातुरमरामेव इति तृतीयः क्रमः।
** सैषा गर्भस्थबालस्य रक्तसंवहनशैली व्याख्याता।**
तृतीयोऽध्यायः।
अथातो मूलधमनीवर्णनीयमध्यायं व्याख्यास्यामः।
सर्वासां हि धमनोनां मूलं हृदयम्—इत्युक्तपूर्वम्। ततश्च निर्गते द्वे धमन्यौप्रधानभूते—फुस्फुसाभिगा धमनी, महाधमनी चेति।तयोराद्या फुस्फुसीयरक्त-संवहनस्य द्वारभूतां, अन्त्या तु सामान्यकायिक रक्तसंवहनस्य (६८ चित्रम्)।
तत्र **फुस्फुसाभिगा धमनी300**अविशुद्धरक्तवहा स्थूलधमनी शरीरे। सा हृदयस्य दक्षिणनिलयात् सम्भूता पञ्चांगुलपरिणाहा व्यंगुलमात्रदीर्घाच। दृश्यते चासाबूर्ध्वं हृन्मूले वामतो महाधमन्याः, आच्छाद्यते च हृदयधरेणकलाकोषेण। महाधमन्यास्तोरणोत्सङ्ग प्रविष्टायाश्च तस्या दक्षिणवामयोःफुस्फुसाभिगयो-र्महाशाखयोर्विभागः। ते च महाशाखे नानाविधशाखाप्रशाखाऽनु-शाखासु विभज्यते फुस्फुसद्वयान्तः। तासां चरमाःसूक्ष्मशाखाःफुस्फुसीयवायुकोषानभितो जालकाकारण प्रसृताः। जालकान्तरीयं च रक्तं श्वासवायुनाविशोध्यते।
**महाधमनी301**नाम विशुद्धरक्तवहा स्थूलतमा मूलधमनो शरीरे। साहृदयस्य वामनिलयात् सम्भूता, मूले पञ्चांगुलपरिणाहा, शेषे तदर्धपरिणाहा, प्रायेणस्वहस्तप्रमाणदीर्घा च। दृश्यते चासौ हृन्मूले दक्षिणतः पुरस्तात् फुस्फुसा-भिगायाःधमन्याः, आच्छाद्यते च मूलभागे हृदयधराख्येन कलाकोषेण सिराधमनीकञ्चुकर्मिलितेन। सेयमधोमुखमरालग्रीवावद् वक्रीभूय पृष्ठवंशाभिमुखं गत्वा तत्-सम्मुखतो वामपाश्र्वानुक्रमेण अधःप्रसृता चतुर्थकटिकशेरुकायाः पुरस्ताद् द्वयोर्महा-शाखयोविभज्यते। तस्याश्च तथाविधायाः त्रयो भागाः कल्प्यन्ते वर्णनसौकर्याय—आरोहिभागः, तोरणभागः, अवरोहिभागश्चेति। तेषामारोहिणी, तोरणी,अवरोहिणी चेति विशेषणसंज्ञाः लाघवाथमुद्दिष्टाः।
अथ महाधमन्याः शाखाप्रविभागः।
महाधमन्याः, तदन्तिममहाशाखयोः, काण्डमूलाख्यधमन्याश्च काण्डोत्थिताःशाखाः काण्डशाखा नाम।तासां शाखाः केवलं शाखाशव्देन व्यपदिश्यन्ते।तच्छाखानां प्रशाखेति संज्ञा, तच्छाखानाञ्च अनुशाखेति। ततः परं धमनीप्रतानाःजालकानि च सर्वकायगतानीति चरमो विभागः।यदा पुनः काचित् काण्डशाखा अन्ते द्वेधा विभज्यते, तदा विभागद्वयस्यअग्रशाखेति संज्ञा। एवं शाखायाश्चरमप्रशाखे अग्रप्रशाखे नाम। यदा तावत्काचित् काण्डशाखा शाखा वा अक्षशाखाणां त्रिचतुराणां धमनीनां मूलभूता,तदासौ अक्षशाखा नाम।
धमनीचक्राणि नाम धमनीनां शाखाप्रशाखाभिःपरस्परानुप्रविष्टाभि-रारचितानि चक्राणि। तानि च सन्धीनाशयान् इन्द्रिया-धिष्टानादीनि च विशेषादभिव्याप्य तिष्ठन्ति। एवं च सत्यपि कस्याश्चिद् धमन्याः अवरोधे नावरुध्यतेरक्तसंवहनं तत्तद्दशेषु, न च शीर्यन्ते प्रकुथ्यन्ते वा तद्देशस्था विशेषाः, तद्देशीयानांधमनीचक्राणामितरधमनी-प्रशाखाभिरभितर्पणात्।
प्रभवप्रसरौ शाखाप्रविभागश्च धमनीनां बहुधा विलक्षणरूपा दृश्यन्तेकेषुचित् कायेषु। तस्मादिह सर्वत्रापि तद्वर्णनेन भूयोदर्शन-मूलं प्रायिकमेवमन्तव्यम्। भिन्नक्रमविभागस्यापि बहुशो दर्शनात्।
सिराश्च प्रायेण सर्वत्र धमनीरनुसरन्ति, एकाकिन्यो युग्मा वा। तत्रस्थूलधमन्यनुसारिण्य एकाकिन्यः, तनुधमन्यनुसारिण्यश्च युग्माः प्रायशः। ताः सहचर्यो302नाम सिराः।
अथ आरोहिणी महाधमनी (९८ चित्रम् )।
महाधमन्या आरोहिभागो द्वांगुलमातदीर्घः पञ्चांगुलपरिणाहश्च —तस्यआरोहिणी महाधमनी303— इति संज्ञा। सेयम् हृदयस्य वामनिलयात्सम्भूय ऊर्ध्वमुखमीषद्बकञ्च प्रसृत्य महाधमन्यास्तोरणभागे मिलिता।
तस्या हृदयसम्बद्धं मूलमभितस्त्रय उत्सेधाः, पूर्वोक्तानामर्धेन्दुकपाटिकानांतदन्तःस्थानां सूचकाः। तेषां चाभ्यन्तरतस्त्रीणि कोरोदराणि कोटरकाणि।तदुपरिष्टाञ्चोभयतः सम्भूते द्वे काण्डशाखे तनुपरिणाहे हृदयं पुष्णीतः। तेहार्दिकधमन्यौ नाम। तयोर्वामा हृदयबहिर्भागे पुरःस्थायां निलयान्तरिकाख्यसीतायां प्रसृता, दक्षिणा तु तस्यामेव पश्चिमस्थायाम्। एकैकस्याश्च हार्दिक-धमन्या अग्रशाखे द्वे—अनुलम्बा, अनुप्रस्था चेति। तयोरनुलम्बा शाखा तत्रैवसीतायां हृदयात्र यावद् गत्वा अपरया अनुलम्बशाखया मिलिता। अनुप्रस्था तुशाखा अलिन्द-निलयान्तरिकायां सीतायां प्रसृता अपरया अनुप्रस्थया मिलिता।तासां च शाखानां प्रशाखाऽनुशाखाभिरारचितं धमनीचक्रं हृदयं परितो दृश्यते, तद् हृन्मांसं पुष्णाति।
व्यतिकरः पुनरारोहिण्या महाधमुन्या ईद्वशः। सा पुरस्ताद् दक्षिण-फुस्फुसैकदेशेन हृत्कोषांशेन च संवृतप्राया।तस्याः पश्चिमतः—हृदयस्यवामालिन्दः, फुस्फुसाभिगधमन्या दक्षिणमहाशाखा, दक्षिणक्लोमकाण्डिका च।तस्या दक्षिणतः-उत्तरा महासिरा, हृदयस्य वामालिन्दश्च।वामतस्तुफुस्फुसाभिगा धमनी।
अथ तोरणी महाधमनी (९८ चित्रम्)।
** तोरणी महाधमनी304**नाम महाधमन्यास्तोरणभागः।परिणाहा चतुरंगुलदीर्घा च। सेयं महाधमन्या आरोहिभागस्य अवरोहिभागेनसंयोजनो। सा उरःफलकस्य पृष्ठतो दक्षिणद्वितीयोपपर्शकासन्धानदेशादारभ्यतिर्यक् चतुर्थपृष्टकशेरुकायाः पुरोभागं यावत् शरगत्या305 प्रसृता। दृश्यते चासौआदौ क्लोमनलिकायाः पुरस्तात्, ततश्च तद्वामतः। तदुत्सङ्गे च फुस्फुसाभिगानाम धमनी महाशाखाद्वये विभक्तरूपा, वरमा क्लोमकाण्डिका च। मध्ये चमहाधमनी- फुस्फुसाभिगधमन्योः योजनी शुष्कधमनी सेतुबन्धनिका नाम, सागर्भस्थस्य बालस्य सेतुधमन्या अवशेषभूता।
तोरण्याश्च महाधमन्याः शिखरदेशात् सम्भूता काण्डमूला306नामस्थूलधमनी दक्षिणतः। वामतस्तु वामा महामातृका, अक्षाधरा चेति द्वे कांडशाखे।सा च काण्डमूला धमनी दक्षिणाक्षकेण उरःफलकसन्धानस्य पृष्टतो विभज्यतेद्वयोः काडशाखयोः। ते दक्षिणामहामातृका, अक्षाधरा चेति प्रसिद्धे। एवं चतस्त्रउत्तराः काण्डशाखाः महाधमनोतोरणात् साक्षात् परम्परया वा सम्भूताः।
तासां महामातृकाद्वयं ऊर्ध्वं प्रसृत्य मातृकाधमनीचतुष्टये विभक्तं प्राधान्येनशिरोश्रीवं पुष्णाति शाखाप्रशाखाभिः।अक्षाधरे तु तिर्यग् बहिःप्रसृते मध्येपथंकतिचिद्भिः शाखाप्रशाखाभिः शिरोश्रीवांशोरःस्थलादीन् तर्पयतः। ततः कक्षयोःकक्षाघरे नाम धमन्यौ भूत्वा बाह्रोः प्रविष्टे बाहुधमन्यौ भवतः। एकैका चबाहुधमनी कूर्परसन्धेः पुरस्ताद् द्वधा विभज्यते प्रकोष्टस्यान्तर्बहिःसीम्नोः,तत्प्रशाखाऽनुशाखाभिश्च तप्यन्ते वाहुस्थाः विशेषाः।
(व्यतिकरः) तोरणी महाधमनी पुरस्तात् फुस्फुलधरयोः कलाकोषयोरंशाभ्यां वालग्रैवेयकाख्य-ग्रन्थिशेषेण च संवृता। तद्वामतो दृश्यन्ते वामफुस्फुसांशःकलाकोषसहितः, वामा अनुकोष्टिका नाम नाड़ी, वामा प्राणदाख्या नाड़ी,तच्छाखाश्च। तदक्षिणतो दृश्यम् अनाहतचक्रं, अन्ननलिका, रसकुल्या च।क्लोमनलिका तु तद्दक्षिणपश्चिमतः। ऊध्र्ध्वं पुनस्तोरण्या महाधमन्याः तिस्रो धमन्यः—काण्डमूला धमनी, वामा महामातृका, अक्षाघरा चेति। ताः पुरोवर्त्तिन्यावामगलमूलिकास्यसिरया तिर्यगुल्लंधिताः। तोरणाधस्तु पूर्वोक्ताः तोरणोत्-संगस्था विशेषाः- इति तोरण्या महाधमन्या व्यतिकरो व्याख्यातः।
अथ अबरोहिणी महाधमनी (९८ चित्रम्)।
महाधमन्या अवरोहिभागः — अवरोहिणी महाधमनी307 इत्युच्यते।सा चतुर्थपृष्ठकशेरुकायाः पुरोदेशादारभ्य चतुर्थकटिकशेरुकां यावत् प्रसृता पृष्ठवंशस्य पुरस्ताद् वामपार्श्वे। द्वधा विभज्यते चासौ वर्णनासौकर्याय उरस्यभागः, उदयभागश्चेति। तत्र महाप्राचीरास्थ महाधमनीच्छिद्रमाश्रित्य यावदियंनाधः प्रवर्त्तते, तावदस्या औरसी महाधमनीति308 संज्ञा।तु सैव दरी (उदय वा)महाधमनी309**नाम। तयोश्च विभागयोस्तन्व्यःकाण्डशाखाः स्वशाखाप्रशाखाभि-रुरस्यानुदयश्च विशेषानभिव्याप्य तर्पयन्ति।
(व्यतिकरः) औरस्या महाधमन्या व्यतिकरस्तावदीदृशः। तस्याःपुरस्तात्—वामफुस्फुसस्य मूलदेशः, हृत्कोषः, अन्ननलिका, महाप्राचीरा च।पश्चात् पृष्ठवंशः, वामा पुरोवंशिकाख्या सिरा च। दक्षिणतः-रसकुल्या,दक्षिणा पुरोवंशिका सिरा च। वामतः—वामफुस्फुसधरा कला,वामफुस्फुस-श्चेति। एवं च पश्चिमे फुस्फुसान्तराले दृश्योऽयं महाधमनीभागः।
औदर्या महाधमन्याः व्यतिकर इत्थंभूतः। तस्याः पुरस्ताद्आमाशयः, अग्न्याशयः, वामा वृक्कागता सिरा, ग्रहणीसंज्ञः क्षुद्रान्त्रस्याद्यभागः,अन्तवन्धनीमूलञ्च।तस्याः पश्चात् कटिकशेरुकाचतुष्टयम्। दक्षिणतः - रसाधारिका, रसकुल्या, दक्षिणा पुरोवंशिका नाम सिरा, महाप्राचीराया दक्षिण—मूलम्, अधरा महासिरा च।वामतः - महाप्राचीराया वाममूलं, ग्रहण्याःपूर्वभागः, क्षुद्रान्त्राणि, इड़ा नाम महानाड़ी, वामा गवीनी चेति।
(अन्तिमविभागः) सा च महाधमनी अन्ते चतुर्थकटिकशेरुकायाःते चमहाशाखे त्रिकास्थिशिखरंपुरस्ताद् महत्योरप्रशाखयोर्विभक्ता। ते च महाशाखे त्रिकास्थिशिखरंप्राप्य पुनरग्रशाखाचतुष्टये विभज्येते। ताः महाधमन्याःप्रधानशाखाः—तासां द्वे बाह्ये काण्डशाखे - अधिश्रोणिके बाह्ये310 नाम।ते वंक्षण-दरीमार्गेण बहिर्गते और्व्यौनाम धमन्यौ भवतः।एकैका च और्वीधमनी जानुसन्धिपृष्ठे द्वयोः शाखयोर्विभक्ता जङ्गायाः पुरः पश्चाच्च प्रसृताःनानाविधाभिः प्रशाखाऽनुशाखादिभिः। ताभिरपराभिश्च प्रशाखादिभिःसन्तर्प्यन्ते अधःशाखागता विशेषाः।
अथापरे महाधमन्याः काण्डशाखे वस्तिगुहान्तः अधिश्रोणिकेआभ्यन्तर्यौ311 नाम। ते स्वशाखाप्रशाखादिभिः वस्तिगुहास्थितानाशयान्तत्परिसरगतांश्च बाह्याभ्यन्तरविशेषान् पुष्णीतः।
सोऽयं समासेन महाधमनीप्रविभागो वीजरूपो व्याख्यातः। विस्तरोऽतऊर्ध्वम्।
चतुर्थोऽध्यायः।
अथातः शिरोग्रीवीयधमनीवर्णनीयमध्यायं व्याख्यास्यामः।
द्वे तावत् महामातृकाख्ये स्थूलधमन्यौ शिरोग्रीचं पुष्णीतः परःशताभिःशाखाप्रशाखाऽनुशाखादिभिः। तत्सहकारिण्यौ च अक्षकाधराख्य-धमन्योःशाखे मस्तिष्कमातृके नाम, अपराश्च सन्ति तच्छाखा-प्रशाखादयस्तादृश्यः तासां सूक्ष्मानुसूक्ष्मप्रतानेरभिव्याप्ता निखिला अपि शिरोग्रीवस्था विशेषाः,बाह्या आभ्यन्तर्यश्च।
** अथमहामातृके नाम मूलधमन्यौ (९८।१०० चित्रयोः)।**
तत्र वामा महामातृका312 (अक्षाधरा च) साक्षादेव महा-धमनोसम्भवा पृथगभावेन। **दक्षिणा महामातृका313**अक्षाधरा चेति द्वेमहाधमनीप्रभवायाः काण्डमूलाख्यधमन्या विभागसम्भूते। विभागश्च तस्याअक्षकोरःफलकसन्धानस्य दक्षिणतः पृष्ठतश्च।
ते च महामातृके नाम धमन्यौ कनिष्ठांगुल्यग्रपरिणाहे, अक्षकोरः सन्धानयोः पश्चिमत आरभ्य तिर्यगूध्वं च ग्रीवायां प्रसृते अवष्टुद्वयस्य ऊर्ध्वधारांयावत्। तत्र एकैका महामातृका द्वयोरग्रशाखयोर्विभज्यते। ते बहिर्मातृका,अन्तर्मातृका च नाम। तयोराद्या पुरःस्था उत्तानतरा सां प्रायेण बहि-श्रींवीयानां विशेषाणां पोषणी, अन्त्या पश्चिमा गम्भीरा च। सा अन्तर्थीवंप्रविष्टा घ्राणनेत्रश्रवणेन्द्रियाधिष्ठानानि शाखाप्रतानैः पुष्णन्ती मस्तिष्कमभिप्रसृता।
(व्यतिकरः) उभे च महामातृके पुरस्तादुरः कर्णमूलिकाभ्यां पेशीभ्यांसंवृते तदनुक्रमेण प्रसृते च। धार्यते च एकैका महामातृका ग्रीवाप्रच्छदांशनिर्मितेन मातृकाकञ्चुकेन, दृश्यते च सा तदन्तः सह प्राणदाख्नाड्याअनुमन्याख्यसिरया च। तत्र च कञ्चुकाभ्यन्तरे बहिःसीम्नि सिरा, मध्ये नाड़ी,अन्तःसोनि च धमनीति तासामवस्थानक्रमः। कञ्चुक पुरस्ताच्च दृश्या जिह्वामूलिन्या नाड्या निम्नगा शाखा। अन्तराले च महामातृकयोर्दृश्या—श्रीवामूलेक्लोमनलिकैव, ऊर्ध्वभागे तु नैवेयप्रन्थिः स्वरयन्त्रम्, अन्ननलिकाया आद्यभागश्चपूर्वापरक्रमेण।पश्चात्तु तयोः दीर्घग्रीविका, दीर्घशिरस्का चेति पेशीद्वयं श्रीवाबंशपुरःस्थम्। पेशीधमन्योरन्तराले च वामतः इड़ा, दक्षिणतश्च पिङ्गलेतिमहानाड्यौ नाड़ीकन्दैः सहिते।
अथ बहिर्मातृका धमनी।
बहिर्मातृका314 नाम धमनी (१०० चित्रम्) महामातृकाया उत्तानाअग्रशाखा।सा अवटुसंज्ञस्य कण्ठस्थतरुणास्थ्नः ऊध्वंधारात आरभ्य कर्णमूलंयावत्तिर्यगुध्वं च प्रसृता एकैकतो ग्रीवापार्श्वे। तस्या अष्टौ प्रशाखाः।तासां चतस्रः पुरोमुख्यः, तिस्रः पश्चान्मुख्यः, एका ऊर्ध्वगा। तद्यथा — (मूलदेशादारभ्य ऊर्ध्वाेर्ध्वक्रमेण) पुरोमुख्यः —उत्तरग्रीविका, अनुजिह्विका,
(१००चित्रम्)
दक्षिणगलपार्श्वस्था धमन्यः (व्यवच्छेदेन दर्शिताः)।
| <MISSING_FIG href=”../../../books_images/U-IMG-1702632124122.png"/> |
| अनुशङ्खा उत्ताना * | बहिर्हानव्या* |
| अनुवक्तृका* | उत्तरग्रीविका* |
| अन्तर्हानव्या* | ग्रैवेयकग्रन्थिः |
| पश्चिमकर्णिका | “क्लोमनलिका(श्वासमार्गः) |
| वक्तृनाडी | अध्यंसिका धमनी |
| कपालमूलिनी* | अक्षकास्थि |
| अनुमन्या सिरा | अक्षाधरा |
| अन्तर्मातृका (पुरश्च बहिर्मातृका - व) | महामातृका |
| प्राणदा नाड़ी | कक्षानुगा नाडी प्रवेणी |
| अनुकोष्ठिका नाडी |
चित्रव्याख्या — *एतच्चिह्नं धमनी वाचकम्। द —द्विगुम्फिका पेशी। ट -उरःकर्णमूलिकाख्यपेश्याः कर्तितप्रान्तद्वयम्।पृ. —पृष्ठच्छदा पेशी। ब —बहिर्मातृका धमनी।बहिर्हानव्या (वक्त्रधमनी वा), अन्तर्हानव्या चेति प्रसिद्धाः।पश्चान्मुख्यः—अन्नद्वारिणी ऊर्ध्वगा, कपालमूलिनी, पश्चिमकर्णिका चेति तिस्रः। ऊर्ध्वगा तु —एकैव अनुशंखा उत्ताना नाम। विस्तरोऽत ऊर्ध्वम्।
तत्रबहिर्मातृकायाः पुरोमुख्यः प्रशाखाः। यथा—
(१)उत्तरग्रीविका315नाम धमनी (१०० चित्रम्) कण्ठिकास्थ्नो महाशृङ्गाधो बहिर्मातृकायाः पुरोभागात् सम्भूय प्रवेयकग्रन्थिं प्रविष्टा। सा इतरपार्श्ववत्तिन्या स्वनामिकाया धमन्या मध्यरेखायामनुशाखाभिर्मिलिता, सूक्ष्मप्रतानैःतदुपकण्ठस्थान् पेश्यादीन् पुष्णाति। सन्ति चापरा अपि तस्याःप्रधानानुशाखाश्चतस्रः। ताः अनुकण्ठिका, अधिस्वरा उत्तरा, अनुकृकाटिका,मन्याऽभिगा चेति प्रसिद्धाः। तासामाद्यास्तिस्रः क्रमेण कण्ठिकास्थि-स्वरयन्त्र-कृकाटिकास्वनुप्रविष्टाः। चतुर्थी तु मन्याख्यां पेशीं तर्पयति।
(२) अनुजिह्विका316नाम धमनी बहिर्मातृकायाः पुरोदेशात् सम्भूयकण्ठिकास्थ्नोऽधःशृङ्गः प्रति तिर्यग् जिह्वाधः प्रसृता।अनुशाखाः —अनुकण्ठिका, रसनोत्तरिका, रसनाधरिका, गम्भीररसनिका चेतिस्वनामव्याख्याताः (१०१ चित्रम्)।
(३) बहिर्हानव्याधमनी317वक्त्रधमनी वा (१०० चित्रम्)बहिर्मातृकाया उत्ताना प्रशाखा अधोहनुपाश्वस्थया वक्तधमनीपरिखयोर्ध्वं प्रसृताचिवुकोष्ठनासापार्श्वेषु कुटिलगत्या सङ्गता।तस्या अष्टौ अनुशाखाः क्रमेणधमनीपरिखाप्रवेशादधः ऊर्ध्वञ्च—चतस्रो गलानुगाः, चतत्रश्च वक्त्रानुगा इति।तत्र गलानुगाः— आरोहिणी तालुगा, उपजिह्वानुगा, चिवुकाधरीया ग्रन्थिगा,चिबुकाधरिका चेति। वक्तानुगास्तु-अधराभिगा, ओष्ठाभिगा, नासापार्श्विका,नासामूलिका चेत। ताः स्वनामव्याख्याताः।
(४) अन्तर्हानव्या318 नाम (१००/१०१ चित्रयोः) बहिर्मातृकायाः स्थूल-गम्भीरा प्रशाखा, या कर्णमूलाधः सम्भूय अधोहनुकूटस्य अन्त-स्तलमाश्रित्य हनु-सन्धेरधस्तात् तिर्यगन्तःप्रविष्टा। सा च पञ्चदशभिरनुशाखाभिः हनु-कर्ण-कपोल-ताल्वादीन्, बाह्यां मस्तिष्कवृतिकां कलाञ्च पुष्णाति। तस्यास्त्रयो भागाःकल्प्यन्ते वर्णनासौकर्याय। तद्यथा - आद्यो भागः कर्णमूलादारभ्य उत्तरायाहनुमूलकर्षण्याः पेश्या अधोधारामनुसरति। मध्यो भागः -मध्यो भागः - धनुर्वक्रः तामेवपेशीं तिर्यगधिशेते, स च शंखच्छदया पेश्याच्छादितः।अन्त्यो भागस्तुगम्भीरतरः, हनुमूलकर्षण्याः पेश्याःमूलद्वयान्तरालेन करोटिपक्षस्थं हनुजातूकखातंप्रविश्य अनुशाखासु विभक्तः। तत्र—
आद्यभागस्य पञ्च अनुशाखाः। तासां द्वे कर्णगे - गम्भीरकर्णिका,पटहपुरस्का चेति। द्वे मस्तिष्कवृतिगे — मध्यमा, तदनुचरी चेति। एका अधोहनुमण्डलगा—अधरदन्तिका नाम। मध्यभागस्य चतस्रः अनुशाखाः—शाखानुगागम्भीरा, हनुमूलिका, हनुकूटिका, अनुकपालिका चेति। अन्त्यभागस्य षट्अनुशाखाः - पश्चिमदन्तिका, नेताधरीया, अवरोहिणी तालुगा, अनुप्रसनिका,जतूका-पादिका, जतूकातालुका चेति। तासां नेत्राधरीया द्वयोस्तनुशाखयोर्विभक्ता — नेत्रगुहानुगा, उत्तरदन्तिका चेति। अनुग्रसनिका जतूकापादिका चग्रासनीं पेशीं श्रुतिसुरङ्गाञ्च अभिप्रसृते। सर्वासां चासां प्रायेण नामभिरेवपोषणीयस्थानानि समुन्नेयानीति विस्तरो नाभिहितः। ता एताः बहिर्मातृकायाःपुरोमुख्यः प्रशाखाःव्याख्याताः।
** अथ बहिर्मातृकायाः पश्चान्मुख्यः प्रशाखा। यथा**—
(१) अन्नद्वारिणी ऊर्ध्वगा319नाम बहिर्मातृकायाः पश्चिमदेशप्रभवा तनुदीर्घाप्रशाखा, या अन्तर्मातृकायाः पार्श्वे ऊर्ध्वमुखी दृश्यते। तस्यास्तिस्रोऽनुशाखाः — अनुग्रसनी, पटहाधरीया, मस्तिष्कवृतिगा पश्चिमा चेति। ताः क्रमेण अन्नद्वारकर्णपटहमस्तिष्कवृतीनां पर्यन्तेषु प्रसृताः।
(२) कपालमूलिनी320 नाम (१०० चित्रम्) प्रशाखा कपालमूलस्थपेशीःनिर्भिद्य प्रसृता। तस्या अनुशाखाः षट् —मन्यानुगा, गोस्तनिका, कर्णपालिगा,मांसगा, मस्तिष्कवृतिगा, पश्चिमकपालिका चेति। तासामाद्या मन्याख्यांपेशीमनुप्रविष्टा। द्वितीया शंखास्थ्नो गोस्तनप्रबर्धनं, तृतीया कर्णपालिं, चतुर्थीश्रीवापृष्ठस्थाः दीर्घपेशीः पञ्चमी शिरोगुहान्तःप्रसृतां मस्तिष्कवृतिम् षष्ठीशिरश्छदाख्यपेश्याः पश्चार्धम्, शिरस्त्वचश्च इति तासां पोषणीयस्थानसमुद्देशः।
(१०१चित्रम्)
अन्तर्हानव्याख्यधमन्याः शाखाविस्तारः
(अधोहन्वस्थ्नो दक्षिणार्धापसारणेन दर्शितः)
| <MISSING_FIG href=”../../../books_images/U-IMG-1702386794Untitled.png"/> |
| अनुशङ्खा उत्ताना धमनी | अधरदन्तिका धमनी |
| बहिर्मातृका धमनी | अधरदन्तिकायाः धमन्याः शाखा |
| अन्तर्हानव्या धमनी |
चित्रव्याख्या —क —हनुमूलकर्षणी उत्तरा पेशी। ख —हनुमूलकर्षणी अधरा पेशी।
अ०— अन्तर्हानव्याख्यधमन्याः नेत्राधरीया शाखा।
(३)पश्चिमकर्णिका321नाम ( १०० चित्रम्) धमनी कर्णमूलस्य पश्चिमदेशेबहिर्मातृकातः समुत्थाय द्विगुम्फिकायाः पेश्याः मूलोपरिष्टात् कर्णमूलिकप्रन्थेश्चपश्चिमतः प्रसृता।सा शंखास्थ्नो गोस्तन-कर्णविवरयोरन्तरालं प्रविष्टाकतिचिदनुशाखाभिः द्विगुम्फिकाद्याः पेशी, कर्णमूलिकग्रन्थिं च पुष्णाति।अपराश्च तस्यास्तिस्त्रोऽनुशाखाः — कर्णान्तरीया, कर्णपृष्टगा, पश्चिमकपालिका चेति।ता एताः पश्चान्मुख्यः प्रशाखाःव्याख्याताः।
अथ बहिर्मातृकाया ऊर्ध्वगा प्रशाखा—
सेयम् अनुशंखा उत्ताना322नाम (१०० चित्रम्) कर्णमूलप्रन्थिं निर्भिद्यतिर्यक् कर्णपुरतः प्रसृता शङ्खदेशे द्वयोरनुशाखयोर्विभक्ता। ते चानुशाखेपुरःकपालिका पार्श्वकपालिका चेति संज्ञे। अपराश्च तस्या अनुशाखाःकर्णमूलिकग्रन्थिं, हनुसन्धिं, हनुकूटकर्षणीं पेशीं च पुष्णन्ति। अन्याश्चचतस्त्रोऽनुशाखाः कर्णपुरस्ताद् दृश्याः - अनुवक्त्रिका, पुरःकर्णिका, गण्ड-नेत्रिका,मध्यमशङ्खिका चेति। सर्वास्ताः स्वनामव्याख्याताः।
अथ अन्तर्मातृका धमनी।
अन्तर्मातृका323 नाम (१०२ चित्रम्) एकैकतो ग्रीवापार्श्वे अवटुसंज्ञस्यतरुणास्थ्न ऊर्ध्वधारोपकण्ठे विभज्यमानाया महामातृकाया गम्भीरा शाखा, याप्राधान्येन करोटिगुहान्तरीयविशेषान् नेत्रद्वयं च पुष्णाति।
तस्याश्चत्वारो भागाः कल्प्यन्ते वर्णनासौकर्याय। यथा – (१) यावदसौतिसृणामुत्तरप्रीवाकशेरुकाणां बाहुप्रवर्धनकपुरस्तादूर्ध्वगता गलविलस्य उपजिह्विकायाश्च पार्श्वतः सन्निहिता भवति, सोऽयमस्या गलपार्श्विको भागःआद्यः।(२) अत ऊर्ध्वं यावदसौ शङ्खास्थ्नः अश्मतटिकांशस्थायां मातृकासुरङ्गायां प्रविष्टाकरोटेरभ्यन्तरं प्रविशति, सोऽयमस्या आश्मतटिको भागः द्वितीयः। (३) अथकरोटेरभ्यन्तरं प्राप्ताऽसौ मस्तिष्कवृतिकां कलां निर्भिद्य यावदसौ जतूकास्थनःशरीरपार्श्वस्थां मातृकापरिखामधिशेते लुप्ताकारचिह्नवद् (ऽ) वक्रीभूय, सोऽयमस्याजातूकपार्श्विको भागस्तृतीयः। (४) अतश्चोर्ध्वमेषा धमनी मस्तिष्कतलदेशमधिष्ठाय शाखाचतुष्टये विभज्यते। सोऽयमस्या *मास्तिष्कमूलिको भागश्चतुर्थः।*विशेषतश्च तृतीयभागे त्रिकोणिकाख्यां सिरासरितं निर्भिद्य गतासौ धमनी, तत्परितश्च दृश्यास्तृतीयादिषष्ठ्यन्ताश्चतस्रः शीर्षण्य नाड्यः—इति स्मर्त्तव्यम्।
अथास्याः अन्तर्मातृकायाः प्रशाखा विस्तारः। तत्र—
(१) गलपार्श्विके भागे सर्वथा प्रशाखाऽभावः।
(२) आश्मतटिके भागे द्वले प्रशाखे - अनुपटहिका, जतूकापादिका चेति।ते स्वनामव्याख्याते।
(३) जातूकपार्श्विके भागे पञ्चविधाः प्रशाखाः। जतूकापाश्विकाः,अनुपोषणिका, विधारकन्दिकाः, अग्रिमा मस्तिष्कवृतिगा, चाक्षुषी चेति। तत्रजतूकापार्श्विकाः नाम असंख्यप्रायाः प्रशाखाःजतूकास्थिशरीरोपकएठस्थान्मास्तिष्क विशेषान् पुष्णन्ति। अनुपोषणिका नाम प्रायशो युग्मा प्रशाखापोषणकाख्यं ग्रन्थिं तर्पयति। त्रिधारकन्दिकाः नाम तनुप्रशाखाः पञ्चमनाड्यास्त्रिधारकन्दमाप्याययन्ति विशेषेण। अग्रिमा मस्तिष्कवृतिगा नाम तनुप्रशाखामस्तिष्कवृतिं पुष्णाति। चाक्षुषी नाम प्रशाखा जतूकास्थनःपक्षान्तरालेन नेत्रगुहांप्रविष्टा दशभिरनुशाखाभिश्चाक्षुषान् विशेषानभिप्रीणाति, अपराभिश्च तिसृभि-मस्तिष्कवृतिं ललाटं नासामूलं च।सा नेत्राध्याये सविस्तरं वर्णनीया।
(४) मास्तिष्कमूलिके तु भागे अन्तर्मातृकायाश्चतस्त्रः प्रशाखाःमस्तिष्कतले प्रसृताः मस्तिष्कपोषणाय।ताश्च मस्तिष्काभिगा अग्रिमा, सैवमध्यमा, पश्चिमा मूलयोजनिका, अग्रिमा अनुश्शृङ्खलिका चेति प्रसिद्धाः। ताःइतरपाविकाया अन्तर्मातृकायास्तथाविधेन शाखाचतुष्टयेन सह मिलिताः, मस्तिष्क-मातृकाख्ययोर्धमन्योरप्रमूलिकया सह संयुज्यन्ते। ताभिर्हि निर्मीयते वक्ष्यमाणंमस्तिष्कमूलीयं धमनीचक्रम्।
प्रधाना चात्र शाखाचतुष्टये मध्यमा मस्तिष्काभिगैव। सा हि स्थूलतमाअग्रप्रशाखा, या स्वपाश्र्वयमस्तिष्कार्धस्य मध्यभागान्तः प्रविष्टा।
अथ मस्तिष्कमातृके।
मस्तिष्कमातृके324नाम (१०२ चित्रम्) धमन्यौ अक्षाधराख्यधमन्योःशाखे श्रीवामुभयतः ऊर्ध्वमुखं प्रसृते। ते प्राधान्येन मस्तिष्कं पुष्णीतः।
(१०२ चित्रम्)
दक्षिणान्तर्मातृकाख्यधमन्याः शाखाविभागः
| <MISSING_FIG href="../../../books_images/U-IMG-1702783532130.png"/> |
| अन्तर्मातृकायाः अश्मतटिकांशः* | अनुजिह्विका* |
| अग्रमूलिका* | कण्ठिकास्थि |
| अन्तर्मातृका* | उत्तरग्रीविका |
| बहिर्मातृका* | अवटुकम् |
| मस्तिष्कमातृका* | श्वासनलिका |
| प्रथमा पर्शुका | महामातृका दक्षिणा* |
| द्वितीया पर्शुका | अक्षाधरा धमनी |
| प्रथमा पर्शुकानुगा* | महामातृका धमनी* |
चित्रव्याख्या —(क) कपोलिका पेशी। (ख) गलसङ्कोचनी उत्तरा पेशी। (ज) जिह्वाकण्ठिका पेशी।
(म) चिवुकजिह्वाकण्ठिका पेशी। १ । जिह्वामूलाधरीया ग्रन्थिः।
* एतच्चिह्नं धमनीवाचकम्
ग्रीवाकशेरुकाणां बाहुप्रवर्धनान्तरीयेण मातृकाच्छिद्रमार्गेणसम्प्राप्य पश्चिमकपालमूलस्थेन महाविवरेण शिरोऽभ्यन्तरं प्रविशतः सहसुषुम्नाकाण्डेन। तदनं च मस्तिष्काघस्ताद् उभयोर्मिलनेन एकैव सम्पद्यते धमनी,सा अग्रमूलिका, मस्तिष्कमूलिका वा नाम। सेयं पुनर्विभज्य मास्तिष्कमूलि केजमनीचक्रे प्रविष्टा।
अथ एकैकस्या मस्तिष्कमातृकाया द्विविधाः शाखाः - श्रीवागताः,शिरोऽभ्यन्तरोयाश्च। तत्र श्रीवागताः द्विविधाः —मांसगाः, सुषुम्नाकाण्डीयाश्च।तासां मांसगाः शाखाः पश्चिमकपालमूले विनिर्गताः पश्चिमग्रीवीया गम्मीरपेशीःपुष्णन्ति। सुषुम्नाकाण्डीयास्तु कशेरुचक्रान्तरोयाणि च्छिद्राणि समाश्रित्यसुषुम्नाकाण्डमनुप्रविष्टास्तदाप्यायनाय।शिरोऽभ्यन्तरीयाः पुनः शाखाः मस्तिष्कमूलिकानिर्माणात् प्राक् चतुर्विधाः — मस्तिष्कवृतिगाः, पृष्ठवंशान्तरीयाः,अनुमस्तिष्कीयाः, सुषुम्नाशोषंगाश्चेति।
मस्तिष्कमातृकाद्वयस्यमेलकेन निर्मिताया मस्तिष्कमूलिकायास्तुपञ्चविधाः शाखा उभयतो निर्गताः अनुमस्तिष्कीया उत्तरा, सैव अग्रिमाधरा,अनुधम्मिल्लकाः, अन्तःश्रुतिगा, मस्तिष्काभिगा पश्चिमा चेति। ताभिश्चपार्श्वोद्गताभिः शाखाभिराप्याय्यन्ते- अनुमस्तिष्कम्, धम्मिल्लकम्, अन्तःश्रवणीया विशेषाः, मस्तिष्कपश्चिमभागश्च। अन्ते हि मस्तिष्कमूलिकायाःपुनद्धा विभागः पश्चिममस्तिष्काभिगयोः धमन्योः। ते वक्रीभूय पश्चिमाभिमुखंगत्वा पुनरनुशाखासु विभज्येते —इति विचित्रमनयोर्निर्माणम्।
अथ मस्तिष्कमूलिकं नामधमनीचक्रम्325।
मस्तिष्कमूलिकं धमनीचक्रम् — संन्यासादिरोगसंपरिज्ञानायसप्रयोजनमिति विशदं व्याख्यायते।
मस्तिष्कस्य भूयिष्ठो भागो मस्तिष्कमातृकाभ्यामन्तर्मातृकाभ्यां च संतप्यंते।ता हि धमन्यः स्वशाखानां परस्परसंमेलनेन मस्तिष्कमूले दृष्टिनाड़ीस्वस्तिकंपोषणकग्रन्थिञ्च परितो विचित्रं धमनीचक्रमारचयन्ति (१०३ चित्रम्)। तच्चानेनक्रमेण निर्मीयते। पुरोभागे अन्तर्मातृकायाः अन्तर्मुख्यौ प्रशाखे अग्रिमे मस्तिष्काभिगेनाम धमन्यौ, ते अश्रयोजनिकाख्यधमन्या मूलमात्रेण योजितेततो युग्मरूपेणपुरस्तात् प्रसृते।मध्ये अन्तर्मातृकायाश्चरमप्रशाखे बहिर्मुख्यौ स्थूलतरे, ते
(१०३ चित्रम्)
मस्तिकमूलिकं धमनीचक्रम्।
| <MISSING_FIG href="../../../books_images/U-IMG-1702387589Untitled.png"/> |
| अन्तर्मातृकायाः अग्रप्रशाखे अग्रिमे मस्तिष्काभिगे* | अग्रमूलिका* (मस्तिष्कमूलिका वा) |
| (अन्तर्मातृकायाः विभागस्थानम्) | पश्चिममस्तिष्काभिगायाः शाखाः |
| मध्यमा मस्तिष्काभिगा* | मस्तिष्कमातृका |
| मस्तिकाभिगा पश्चिमा* |
(*एतत् चिह्नं धमनीवाचकम्।) च—इति धमनीचक्रस्य केन्द्रम्। तदुभयतः पुरतश्च
योजनिकाख्याधमन्यः तदनुशाखाश्च।)
मध्यमे मस्तिष्काभिगे नाम। पश्चिमभागे मध्यतः मस्तिष्कमातृकयोर्मेलकसम्भूताअग्रमूलिका, मस्तिष्कमूलिका वा नाम धमनी, या पार्श्वगयोः पश्चिममस्तिष्काभिगाख्यशाखाधमन्योर्विभक्ता। ते च शाखाधमनीअन्तर्मातृकायाःपश्चिमयोजनिकाख्यशाखाभ्यां मूलयोर्मिलिते। सर्वासां चासामन्तर्मस्तिष्कंशाखाप्रतानैर्विस्तारः।
सन्ति च ग्रीवायामपरा अपि अक्षाधराधमनीप्रभवाः शाखाः याः ग्रीवागतान्कांश्चिद् विशेषानभितर्पयन्ति। तासामेकैकतो ग्रीवायाम् अक्षाधरायाः शाखाद्वयंमूलम्। ते च शाखे—गलग्रैवेयकी, ग्रैवपाशुंकी चेति प्रसिद्धे अग्रे वर्णनीये।
सर्वासाञ्चासां धमनीनां नामभिरेव स्थान-संस्थानादयो व्याख्याताः।
इति शिरोग्रीवाया धमन्यः।
————
पञ्चमोऽध्यायः।
अथातो मध्यकायधमनीवर्णनीयमध्यायं व्याख्यास्यामः।
सार्वकायिकधमनीषु महाधमनी मुख्यतमा। सा च सविभागा सध्यतिकरासकाण्डशाखा सूचितपूर्वा। तस्या आरोहिभागस्तोरणभागश्च व्याख्यातौ।अंवरोहिभागस्तु तस्याः—उरसि औरसी महाधमनीति, उदरे च औदरीमहाधमनीति अभिधीयते। तच्छाखाप्रशाखादिभिरेव हि भूम्ना सन्तप्यंन्तेमध्याऽधःकायस्था विशेषाः।
सन्ति चापरा अपि महाधमन्यास्तोरणभागप्रभवयोरक्षाधरयोर्धमन्योः शाखाप्रशाखादयो ये मध्यकाये ऊर्ध्वशाखयोश्च प्रसृताः। ताःपूर्वोक्तानाम्। फुस्फुसाभिगा धमनी तु सार्वकायिकस्य अविशुद्धरक्तस्य फुस्फुस-प्रापणीति तद्वैलक्षण्यं व्याख्यातपूर्वम्।
अथ औरस्यः धमन्यः।
औरस्यः326") नाम धमन्यो द्विविधाः। औरस्या महाधमन्याः शाखाः,अक्षाधरयोः शाखाश्च। उभयविधा अपि ताः पुनर्द्विविधाः, तर्पणीयदेशभेदात्।यथा - आशयानुगाः, परिसरीयाश्चेति। तत्र—
आशयानुगाःत्रेधा विभज्यन्ते — हृत्कोषानुगाः, क्लोमकाण्डानुगाः, अन्ननलिकानुगाश्चेति। परिसरीयाश्च त्रेधैवफुस्फुसान्तरालीयाः, महाप्राचीरोत्तराः, फुस्फुसानुगाश्चेति। ताः प्राधान्येन महाधमन्याः पाश्र्वभ्यां पृष्ठतो वासम्भूताः। यथा—
हत्कोषानुगा नाम त्रिचतुराःतनुशाखाःहृत्कोषस्य पश्चात् प्रसृताः।हार्दिकधमन्यौ तु आरोहिमहाधमनीप्रभवौ पृथगेव हृवर्णने वर्णितपूर्वे।
क्लोमकाण्डानुगाः नाम द्विताः शाखाःक्लोमकाण्डशाखानामनुगामिन्यः, ताः प्रशाखानुशाखाभिः शतशो विभक्ताः सक्कोमफुस्फुसयोः परिपोषण्यः।
फुस्फुसान्तरालीयाः नाम काश्चन तन्व्यः शाखाःपश्चिमफुस्फुसान्तरालस्थान् लसीकाग्रन्थीन् पुष्णन्ति।
अन्ननलिकानुगाः नाम चतस्त्रः पश्च वा धमन्यः अन्ननलिकां परितःशाखाप्रतानैः प्रसृताः।
महाप्राचीरोत्तराः नाम तनुशाखाः महाप्राचीराख्यपेश्याः ऊर्ध्वतलपश्चिमार्धेप्रसृताः।
पर्शुकानुगाः नाम एकेकतो दश शाखाः, प्रथमादि पर्शुकादशकस्य अधोधारानुवर्त्तिन्यः। ताःपर्शुकान्तरालाख्याः पेशीरभिप्रीणयन्ति। तासां काश्चन सा एवपेशीर्निर्भिद्य पुरस्ताद् बहिर्गताः उरःपुरस्थाः पेशीस्त्वचः स्तनद्वयञ्च तर्पयन्ति।अक्षाधरयोर्धमन्योरौरस्यः शाखास्तु अनुपदं वक्ष्यन्ते।
अथ अक्षाधरे धमन्यौ।
अक्षाधरे327नाम स्थूलधमन्यौ दक्षिणतः काण्डमूलाख्यधमन्या विभागेन,वामतस्तु साक्षादेव, महाधमनीतोरणात् सम्भूय अक्षकास्थ्नोरधस्तात् प्रथमपर्शुकयोरूर्ध्वतलमाश्रित्य उभयतो धनुर्वक्रे दृश्येते। उभयतः प्रथमपर्शकासीमाति-क्रान्तयोश्च तयोः कक्षाधरा-संज्ञा, कक्षापोषकत्वात्। एकैकस्याश्च अक्षाधरायाश्चतस्रः शाखाः - मस्तिष्कमातृका, गलयैवैयकी, ग्रैवपाकी, अन्तःस्तनिका चेति।
तासामाद्या शाखा मस्तिष्कमातृका नाम, सा वर्णितपूर्वा।
गलग्रैवेयकीनाम द्वितीया अक्षशाखा ग्रीवामूलदेशे सम्भूता। तस्याश्चचक्राक्षाद् अरा इव तिस्रः प्रशाखाः प्रसरन्ति। ताः – अधरग्रीविका षण्मुखी, अधि-ग्रीविका, अध्यंसिका च नाम।तासामाद्या षडुभिरनुशाखाभिः प्रसृता-द्वाभ्यांक्लोमान्ननलिके पुष्णाति, चतुर्भिश्च ग्रैवेयकप्रन्थिं, स्वरयन्त्रं, ग्रीवापेशीश्च।द्वितीया (अधिग्रोविका) श्रीवापृष्ठपेशोरेव काश्चित्। तृतीया (अध्यंसिका) अंसफलकोर्ध्वंप्रसृता काश्चिदंसपेशीप्री॑वापेशोश्च।
ग्रैवपार्शुकीनाम अक्षाधरायाः या शाखा, तस्या द्वे प्रशाखे - गम्भीरग्रीविका, प्रथमा पर्शुकानुगा चेति। तयोराद्यैव श्रीवाधमनीषु दृश्यते, सा गम्भीर-ग्रोवापेशीष्वनुप्रविष्टा शाखाप्रतानैः।
अन्तःस्तनिका328 नाम अक्षाधरायाः शाखा उरःपञ्जराभ्यन्तरे एकैच कतःउरःफलकस्य पार्श्वसन्धान-रेखानुक्रमेण अधोमुखं प्रसृता, षष्टोपपर्शकासन्धिं यावत्।साऽसौ द्वयोरग्रप्रशाखयोर्विभक्ता। तयोरेका मध्यरेखापार्श्वगा सरलाऽधोमुखी च,सा उत्तरा औदरिकी नाम, उदयपेशीनां पोषणी। अपरा तिर्यगभ्यन्तरगताहृत्कोषं, महाप्राचीराम्, उदर्यपेशीश्च अनुशाखाभिः पुष्णाति। तस्याःतिरश्चीना औदरिकीति संज्ञा। तस्याः पाविषयः प्रशाखाः उरःप्राचीरान्तः स्थाःपेशीः, स्तनौ च पुष्णन्ति।
प्राक् च विभागात् तस्याः षट् प्रशाखाः सम्भवन्ति। तासामग्रिमफुस्फुसान्तराले, हृत्कोषे, महाप्राचीरायाम्, उरःफलके, फुस्फुसधरायां कलायां,पर्शकान्तरालेषु च अनुशाखाभिर्विस्तारः।
सर्वे च अन्तःस्तनिकाया धमन्याः शाखाप्रताना औरसधमनीनां पूर्वोक्तानांशाखाप्रतानैः परस्परं मिलिता उरसि बहिरन्तश्च धमनीचक्राण्यारचयन्ति बहुधा।ता एता औरस्यो धमन्यो व्याख्याताः।
अथ औदर्यो धमन्यः।
औदर्यो329धमन्यः औदर्या महाधमन्याः काण्डशाखासमुत्थाः प्राधान्थेन।सन्ति चापरा अपि काश्चन परिसरीयाः धमन्यस्तत्रापि याः अन्तस्तनिकायाः,अक्षाधरायाः, बाह्याया अधिश्रोणिकायाः, और्ध्याश्च धमन्याः सम्भूय उदर्य-पेशीत्वगादिषु प्रसृताः।
तत्र औदर्या महाधमन्याः काण्डशाखास्त्रिविधाः - आशयानुगाः, परिसरीयाः,चरमशाखाश्चेति। तासामाशयानुगास्तित्र एकाकिन्यः, तिस्रश्च युग्माः—इति साकल्येन नव। परिसरीयाः पुनः पञ्च युग्माः, एका चैकाकिनीइत्येकादश। चरमशाखास्तु प्रधानाश्चतस्रः। ताः महाधमनीविभागसम्भूतयोःमहाशाखयोः पुनर्विभागसमुत्थाः। तच्छाखाप्रशाखादिभिश्चाऽप्याय्यन्ते सक्थिद्वयस्थाः वस्तिदेशस्थाश्च विशेषाः।
तत्रआशयानुगाः नाम औदय धमन्यः।यथा —
(१)अर्धोदरिका330 नाम तासामाद्या अक्षशाखा (१०४।१०५चित्रयोः)। सा हि अक्ष331इवाऽराणां तिसृणां शाखानां प्रभवभूता उदरस्यो-त्तरार्धस्थान् आशयान् पुष्णातीति तथासंज्ञा। ताश्च शाखाः—दक्षिणतःअभियाकृती, वामतः अभिप्लीहिका, मध्ये च आमाशयकोड़िका वामा नाम।तत्र —
(क)अभियाकृती332नाम धमनी यकृदभिमुखं प्रसरन्ती मध्येपथं इप्रशाखे अर्पयतः, ते आमाशयस्य ऊर्ध्वाधःपरिधिस्थे।
तयोराधा आमाशयस्य धनुर्वक्रमूर्ध्वस्थं कोड़मनुगता आमाशयक्रोड़िकादक्षिणा नाम। द्वितीया तु आमाशयतलमनुगता तादृश्येव आमाशयतलिका दक्षिणानाम। सा आमाशयतलीयां सीमामभिव्याप्य स्थिता वामया स्वनामिकया (वक्ष्यमाणया) मिलिता वपासहितमामाशयं तर्पयति। तस्याश्च एका अनुशाखाग्रहणींप्रतिगता उत्तरा अनुग्रहणिका नाम।
अथासौ अभियाकृती नाम धमनी यकृत्तलदेशे दक्षिणवामयोः प्रशाखयोःविभज्यमाना यकृत्पिण्डयोः प्रसरति। तयोः दक्षिणप्रशाखातः सम्भूतापित्तकोषानुगा नाम धमनी।
(ख)अभिप्लोहिका333नाम धमनी सर्पवत् कुटिलगत्या प्लीहाभिमुखप्रसरन्तो मध्ये पञ्चषाभिः प्रशाखाभिरग्न्याशयस्य ऊर्ध्वदेशं प्रीणांति। ततः प्लीहमूलगतायास्तस्याः सम्भवति स्थूला प्रशाखा आमाशयतलिका वामा नाम।सा धनुवैक्रमामाशयतलमाश्रित्य स्थिता पूर्वोक्तया दक्षिणया स्वनामिकयासंमिलिता। सन्ति च अभिप्लीहिकायास्तद्देशत एव समुत्थिता अपरा अपिहस्वाः प्रशाखाःआमाशयपादिकाः नाम, ताः सहकारिण्यः आमाशयतलिकयोः।
प्लीहानञ्च प्रविष्टाऽसौ अभिप्लीहिका नाम धमनी बहुभिः प्रशाखानुशाखादिभिः प्लीहान्तरीयवस्तुनि प्रसृता।
(ग)आमाशयक्रोडिका334 वामा नाम अर्धोदरिकायाः मध्यमा शाखा तुआमाशयस्य क्रोड़देशे प्रसृता, पूर्वोक्तया स्वनामिकया दक्षिणया मिलिताआमाशयस्यार्धं भागं तर्पयति। आमाशयक्रोड़िकयोः आमाशयतलिकयोश्चशाखाप्रतानैरारच्यन्ते आमाशयस्य अन्तर्वहिःस्थितानि शतशो धमनीजालकानियैस्तर्प्यन्ते सर्वेऽपि आमाशयगता विशेषाः।
(२)उत्तराऽन्त्रिकी334नाम औदर्या महाधमन्याः द्वितीया काण्डशाखा(१०६ चित्रम्)। याअग्न्याशयस्य335 पृष्ठस्थात् महाधमनीभागात् प्रायः
(१०४ चित्रम्)
अवरोहिणी महाधमनी (सशाखा)
| <MISSING_FIG href="../../../books_images/U-IMG-1702785009138.png"/> |
| अधरा महासिरा याकृतसिराभिः सहिता | महाप्राचीरा (पेशी) |
| महाप्राचीरा (पेशी) | अन्ननलिका (कर्तिता) |
| अर्धोदरिका* | कटिलम्बिनी दीर्घा पेशी |
| अभियाकृती* | अधिश्रोणिका बाह्या* |
| उत्तरान्त्रिकी* | सैव आभ्यन्तरी |
| महाधमनी | त्रिकमध्या सिरा धमनी च |
| अधरा महासिरा | अधिश्रोणिका बाह्या सिरा |
| महाधमन्याः शेषप्रान्तः |
* एतच्चिह्नं धमनीवाचकम्।
चित्रव्याख्या — १। अधरा महाप्राचीरिका धमनी।२। अधिबृक्कः ।३। महाधमनी।४। आमाशयक्रोडिका वामा धमनी।५। अभिप्लोहिका धमनी।६। बृक्कप्रभवाः सिराः बृक्कद्वारस्थाः ।७। गवीनीप्रभवः।८। वामा गवीनी।९। अधरान्त्रिकी धमनी।
कङ्कतिकाकाराभिः शाखाभिः सम्भूय समग्राणि क्षुद्रान्त्राणि बृहदन्त्रं च भूम्नातर्पयति अन्तबन्धनीषु तालवृन्ताकारेण प्रसृतैः शाखाप्रतानैः।
तस्याश्चतस्त्रः पाश्र्वंशाखाः मुख्याः। यथा—
(क)अधरा अनुग्रहणिका, या पूर्वोक्तया उत्तरानुग्रहणिकया मिलिताशाखांप्रतानैः ग्रहणीमग्न्याशयञ्च तर्पयति। (ख) मध्यमा बृहदन्त्रिका,(ग) दक्षिणा बृहदन्त्रिका च। ते बृहदन्त्रस्य भूयिष्ठं भागमभिव्याप्नुतः।(घ) उण्डुकान्त्रिका, या बृहदन्त्रस्य उण्डुकाख्यमाद्यभागं सन्निहितं क्षुद्रान्त्रभागञ्च तर्पयति।
चरमशाखास्तु उत्तरान्त्रिक्याः क्षुद्रान्त्रेषु बहुभिरनुशाखाभिःप्रसृताः। ताःक्षुद्रान्त्रिकाः नाम।
(३) अथ तृतीया काण्डशाखा **अधराऽन्त्रिकी336**नाम (१०६चित्रम्)। सा उत्तरान्त्रिक्यास्तनुतरा बृहदन्त्रस्य शेषार्धं गुदसहितमाप्याययति।तस्याः (क) आद्यशाखा वामा बृहदन्त्रिका नाम, सा मध्यमया बृहदन्त्रिकयाधनुर्वद् वक्रीभूय मिलिता बृहदन्त्रवन्धन्यां प्रसृतैः शाखाप्रतानैः बृहदन्त्रस्यमध्यान्तरभागौ पुष्णाति। तस्याः (ख) मध्यशाखास्तु द्विवसंख्याः गुदकुण्डलिकायां प्रसृताः। (ग) अन्त्यशाखा पुनः उत्तरगुदान्तिका नाम, साउत्तरगुदमभिप्रीणाति।
सर्वाश्च आन्त्रिक्यो धमन्यो यथासम्भवं शाखाप्रतानः परस्परं मिलिताअन्त्रमूलेषु धमनीचक्राणि रचयन्ति बहुशः।
(ता एतास्तिस्त्र एकाकिन्य आशयानुगाः धमन्यः)। अथ युग्मधमन्यः।
(४) मध्यमे अधिवृक्किन्यौ337नाम काण्डशाखे महाधमन्याः पार्श्वाभ्यां सम्भूय वृक्कशिखरस्थौ अधिवृक्कौ338 प्रति प्रसृते। ते उत्तराभ्यामधराभ्यांच अधिवृक्किनीभ्यां धमनीभ्यां सङ्गत्य धमनीचक्रमारचयन्ति अधिवृक्कपोषणाय।
(५) द्वे चापरे तदधस्तात् तादृश्यौ एव धमन्यौ वृक्कौ संप्राप्त। तयोश्चशाखे अधिवृक्कौ प्रसृते —ते अधरे अधिवृक्किन्यौ339 नाम।
(६) अन्ये द्वे महाधमन्यास्तनुदीर्घे काण्डशाखे तिर्यगधो गत्वा पुंसोवृषणौ संप्राप्त, अनुवृषणिके340 नाम। स्त्रियास्तु त एव वीजकोषौ तर्पयतः—अनुवीजकोषिके नाम।
अथ परिसरीयाः कांण्डशाखाः।
ताश्च—द्वे अधरे महाप्राचीरिके, अष्टौ अनुकटिकाः, एका त्रिकमध्या चेतिएकादश (१०४ चित्रम्)। यथा—
(१) अधरे महाप्राचीरिके341— Inf. Phrenic Arteries.") महाधमन्याः महाप्राचीराधःप्रसृते ऊर्ध्वतमेशाखे।ते क्वचित् अर्धोदरिकाया अधःशाखातः सम्भवतः। तयोःपूर्वोक्ताभ्यां महाप्राचीरोत्तराख्यधमनीभ्यां शाखाप्रतानैः परस्परसम्बन्धो महाप्राचीरायाः सम्यक्पोषणाय।
द्वे चानयोः पार्श्वोत्थिते शाखे अधिवृक्कौ अनुगते, ते उत्तरेअधिवृक्किन्यौ नाम।
(२) अनुकटिका342 —Lumber Arteries.")ःनाम एकैकतश्चतस्त्रः काण्डशाखाः कटिकशेरुकानांपुरतः प्रसृताः कटिपेशीरुदर्यपेशीश्च पुष्णन्ति। ताश्च उद्रमुभयतः समागत्यमध्यरेखोपकण्ठे परस्परमनुसङ्गताः शाखाप्रतानैः।
(३) त्रिकमध्या343—Middle Sacral Artery.")नाम एकाकिनी धमनी महाधमन्याः पृष्टतः सम्भूयत्रिकानुत्रिकयोरुत्सङ्ग मध्यरेखायां प्रसृता अनुतिकपुरःस्थं क्षुद्रखगाण्डाकार(इडापिङ्गलयोर्मूलस्थं) नाड़ीकन्दं गुदञ्च पुष्णाति । सेयं महाधमन्या विभागस्थानात् पूर्वं सम्भूता अधस्तमा शाखा।
ता एता एकादश परिसरीया धमन्यो महाधमनीप्रभवा व्याख्याताः।
अथ औदर्या महाधमन्याः चरमशाखाविस्तारः।
औदर्या महाधमन्या विभागसमुत्थे महाशाखे द्वे —अधिश्रोणिकेसाधारण्यौ344—Common lliac Arteries.") नाम (१०४ चित्रम्)। विभागश्च चतुर्थकटिकशेरुकायाःपुरस्ताद्वामतश्चेत्यवोचाम। दक्षिणपश्चिमतश्च तयोर्दृश्येते अधरमहासिरायाःकाण्डसिरे समानसंज्ञे। पुरश्च तयोर्दृश्ये वृक्काभ्यां विनिर्गते मूत्रवहे स्रोतसीगवीन्यौ नाम, क्षुद्रान्त्राणि च।
(१०५ चित्रम्)
अर्धोदरिका धमनी तच्छाखाश्च
(अत्र यकृत् - रज्जुबन्धेन समुन्नमितम्, तदावृतभागानां प्रदर्शनाय)
| <MISSING_FIG href="../../../books_images/U-IMG-1702786366142.png"/> |
| यकृदाकर्षणी रज्जुः | महाप्राचीरा पेशी |
चित्रव्याख्या— अ— अन्ग्याशयः। अ०म०— अधरा महासिरा। आ० आ०— आमाशयः। य १—यकृत् (वामपिण्डम्)। य २—यकृत् (दक्षिणपिण्डम्) य ३— यकृत् (पश्चिमपिण्डम्)। पि— पित्तकोषः। मः— महाधमनी। प्र— प्रतीहारिणी महासिरा।व-व-व—वपा (उत्तरांशः)— कर्तितावशेषः) १— अर्धोदरिका धमनी (अक्षशाखआ)। २. अभियाकृती धमनी। ३—पित्तस्रोतः। ४।५ — आमाशयक्रोडिका धमनी। ६ — अभिप्लीहिका धमनी। ७।८— आमाशयतलिकाख्ये धमन्यौ (मिलिते)।
एते च महाशाखे त्रिकपृष्ठवंशीयसन्धानमुभयतो द्वयोद्वयोरप्रशाखयोःविभज्येते। तयोर्वहिर्मुखं प्रसृते शाखे अधिश्रोणिके बाह्यनाम। अधो वस्ति-गुहान्तःप्रसृते शाखे तु अधिश्रोणिके आभ्यन्तर्यौनाम। तासां चतसृणांमूलधमनीनां काण्डशाखेति ज्ञा पारिभाषिकी। तत्र—
(१) **अधिश्रोणिका बाह्या345**नाम महाधमन्याः एकैका काण्डशाखा(१०७ चित्रम्) तद्विभागदेशादारभ्य जघनोदरे बहिस्तिर्यक् प्रसृता वंक्षणिकाख्यस्नायुरज्जुं यावत्। ततश्च वंक्षणदरीविनिर्गता सैव प्रौर्वी धमनी- इत्युच्यते। सेयं त्रिक-पृष्ठवंशोपकण्ठे कटिलम्बिन्यादिपेशीः लसीकाग्रन्थींचतनुशाखाभिः पुष्णन्ती वंक्षणदरीमूले स्थूलतरं शाखाद्वयमर्पयति। तयोःअधरा औदरिकी, गम्भीरजघनिका चेति संज्ञे।
तयोराद्या अधरा औदरिकी नाम धमनी तिरश्चीनगत्या उदरपरिसरंनिर्भिद्य उदरदण्डिकाख्यपेश्याः कञ्चुकान्तःप्रविष्टा पूर्वोक्ताया उत्तरौदरिक्याधमन्याः शाखाप्रतानैः सह धमनीचक्रमारचयति, प्रेरयति च फलकोषगामिनींप्रशाखाम्। अन्त्या गम्भीरजघनिका नाम धमनी पुनस्तिरश्चीनगत्या जघनचूड़ांप्रतिगता, सा उदरच्छदां चरमां नाम पेशीं निर्भिध पश्चात् प्रसृता क्रमेण कटि-नितम्बोदरीयैः शाखाप्रतानैस्तत्तद्देशीयधमनीभिः सह चक्राण्यारचयति।
(२) **अधिश्रोणिकाआभ्यन्तरी346**नाम अपरा काण्डशाखा तु(१०७ चित्रम्) महाधमन्या विभागदेशादारभ्य जघनकपालख्याधस्ताद् गृध्रसीद्वारंयावत् प्रसुता वस्तिगुहायामङ्गलमात्रेण दृश्या।विभज्यते च सा तत्र द्वयोःशाखयोः पुरः-पश्चिमयोः।
तयोश्च पुरःशाखातः प्रसूताः प्रशाखाः पुंसः षट्, स्त्रियास्तु सप्त।तद्यथा — उत्तरा वस्तिगा, अधरा वस्तिगा (स्त्रियास्तु सैव अनुयोनिका),मध्यमा गुदान्तिका, गुदोपस्थिका, श्रोणिवंक्षणिका, अधरा नितम्बिनीति।स्त्रियास्तु अनुगर्भाशया चेति। तासामनुशाखाभिराप्याय्यन्ते वस्तिगुहान्तरीयाःमूलाधारचतुरस्रस्थाश्च विशेषाः।
पश्चिमशाखातः पुनः प्रसूताः - कटिश्रोणिका, त्रिकपाश्विकी, उत्तरानितम्बिनी चेति तिस्त्रः प्रशाखाः, तासां चानेकाभिरनुशाखाभिराप्याय्यन्ते कटि-त्रिक-नितम्बसम्बद्धाः पेश्यः प्राधान्येन।
इदं चात्रस्मर्त्तव्यम्। इयमेव अधिश्रोणिका आभ्यन्तरी नाम धमनीगर्भस्थशिशोः शरीरे स्वशाखाभ्यां संवाहिनी-संज्ञाभ्यां धमनीभ्यां मातुरमरां प्रतिरक्तमभिवहति, द्विगुणस्थूला च सा तदानीं तत एव हेतोः। प्रसूतस्य तु त एवधमन्यौ शुष्कप्राये संवाहिन्यौ नाम वस्तिरज्जुके भवतः —इति सूचितपूर्वम्।
अथासां प्रशाखाधमनीनां विस्तारः।यथा—( १०७ चित्रम्)
(क)उत्तरा वस्तिगा347नाम धमनी वस्तिं, शुक्रवहे स्रोतसी, गवीन्यौच पुष्णाति अनुशाखाप्रतानः।
(ख) अधरा वस्तिगा348 नाम धमनी पुंसी वस्तिं, पौरुषग्रन्थिं,शुक्राधारिके च पुष्णाति। सैव —स्त्रिया अनुयोनिकाख्या वस्तिं योनिं चतर्पयति अनुशाखाभिः।
(ग) मध्यमा गुदान्तिका349 नाम धमनी मध्यगुदं पायुं च प्रीणाति।
(घ) गुदोपस्थिका350 नाम गुदोपस्थादिपोषणी चरमप्रशाखाभूता धमनीगृध्रसीद्वारेण निर्गत्य कुकुन्दरपिण्डोत्सङ्गस्थेन स्नायुमयमार्गेण स्वनामिकयानाड्या सिरया च सह मूलाधारचतुरस्रं प्रविष्टा। तस्याः काश्चन अनुशाखाःतद्देशस्थासु पेशीषु प्रविष्टाः। अपरास्तु — अधरा गुदान्तिका, मूलाधारिणी,मूलस्रोतोमूलिका, मूत्रस्रोतोऽनुगा, शिश्नपृष्टिका, शिश्नमांसगा चेति षट् स्वनामव्याख्याताः। स्त्रियास्तु ता एव तथा, किन्तु मूलाधारिणी भगोष्ठयोः, शिश्नगेच भगशिश्निकां प्रविष्टे - इति विशेषः। तासां च षण्णामाद्ये अनुशाखे उत्ताने,चरमास्तु चतस्रो गम्भीराः। सर्वाश्च ताः त्रिकोणप्रावरण्याः (पूर्वोक्तायाः)स्तरद्वयान्तराले प्रसृताः - इति स्मर्त्तव्यम्।
(ङ) अनुगर्भाशया351नाम धमनी स्त्रिया एव। सा गर्भाशयस्य एकैकतःकूर्चाकाराभिरनुशाखाभिः प्रसृता। सेयं तत्पावयाया अनुवीजकोषिकाख्यधमन्याः352
(१०६ चित्रम्)
अन्त्राभिगा धमन्यः सशाखाः।
| <MISSING_FIG href="../../../books_images/U-IMG-1702787477146.png"/> |
| अनुप्रस्थबृहदन्त्रम् | अवरोहिबृहदन्त्रम् |
| आरोहिबृहदन्त्रम् | उत्तरगुदम् |
| क्षुद्रान्त्राणि (दक्षिणतः आकृष्य पातितानि) | मध्यगुदम् |
| अधरगुदम् |
म —महाधमनी। वृ १ — वृहदन्त्रम् (आरोहिभागः)। वृ २ — बृहदन्त्रम् (मध्यभागः)। वृ ३ —बृहदन्त्रम् (अवरोहिभागः)। उ०आ०— अधरान्त्रिकी धमनी। १क । २क। ३क— उत्तरान्त्रिक्या धमन्या अन्त्रगाः शाखाः। अ१। अ२। अ३ —अधरान्त्रिक्या धमन्या गुदान्तिकाः शाखाः।
(१०७ चित्रम्)
महाधमन्याः श्रोणिगुहान्तरीयाः शाखाः।
| <MISSING_FIG href="../../../books_images/U-IMG-1702568663Untitled.png"/> |
| उदर्याकलाप्रसृता धमनीप्रशाखाः | महाधमनी |
| अधरा महासिरा |
चित्रव्याख्या। गु —गुदम् । क ५ — पञ्चमी कटिकशेरुका। द — उदरदण्डिका पेशी। १. — अधिश्रोणिका साधारणी धमनी । २ — अधिश्रोणिका बाह्या धमनी। ३.— अधिश्रोणिका आभ्यन्तरी धमनी। ४. — तस्याः पुरःशाखा। ५. — तस्याः पश्चिमशाखाः। ६।७।८।९ — वस्तिगुदगा धमन्यः। X X-कटित्रिकिणीसंज्ञं स्थूलनाडीद्वयम्। १० — श्रोणिवंक्षणिका, अधरा नितम्बिनी चेति अग्रशाखा धमन्यौ। व — वस्तिः।अनुयोनिकायाःस्वनामिकयोरपरयोश्च धमन्योः प्रशाखानुशाखाभिधमनीचक्रमारचयति परितो योनिं गर्भाशयं वीजकोषौ च। तासां च धमनीनां सर्वासामपिविशेषेण स्थूलतावृद्धिर्दृश्यते धृतगर्भायां नार्यामिति विशेषः।
(च)श्रोणिवंक्षणिका353नाम धमनी श्रोणिगवाक्षेण निर्गत्य वंक्षणसन्धिंप्रतिगता। सा वस्ति गुहान्तः- वस्तिं, जघनोदरं, भगास्थिसन्धानं चानुशाखाभिःपुष्णाति। बहिश्च वस्तिगुहातः- वंक्षणदेशस्थाः पेशीः, वंक्षणसन्धिञ्च।
(छ) अधरा नितम्बिनी354 नाम धमनी अधिश्रोणिकाया आभ्यन्तर्याःपुरःशाखाप्रभवा चरमप्रशाखा।सा श्रोणिगुहान्तः गुदवस्त्यादीन, पार्श्वपृष्टस्थाःपेशीश्च पुष्णाति प्राधान्येन। सेयं वस्तिगुहान्तः कतिचिदनुशाखाभिः वस्तिं,गुदं, शुण्डिकाद्याः पेशीश्च सन्तप्यं गृध्रसीद्वारेण विनिर्गता नितम्बपिण्डिकांगुर्वी ऊरुप्रसारण्याद्याः पेशोश्च अभिव्याप्नोति शाखाप्रतानैः।
ता एता आभ्यन्तर्या अधिश्रोणिकायाः पुरःशाखाभवा धमन्यः। तस्याःपश्चिमशाखाप्रभवा धमन्यस्तु तिस्त्र एव (१०७ चित्रम्)।यथा—
कटिश्रोणिका355 नाम धमनी वस्तिगुहान्तरेव तिष्ठन्ती दोघीं कटिलम्बिनीं, कटिचतुरस्त्रां, श्रोणिपक्षिणीं चेति पेशीत्रयं पुष्णाति अनुशाखाभिः। तर्पयति चतस्या अनुशाखा पृष्ठवंशान्तः प्रविष्टा सुषुम्नाचामर356संज्ञं सुषुम्नाकाण्डशेषम्।
त्रिकपार्श्विका357नाम धमनी उत्तराधराभ्यामनुशाखाभ्यां त्रिकास्थिविवराणि अनुप्रविश्य तदन्तःस्था नाड़ीःशाखाप्रतानैः सन्तर्प्य त्रिकपृष्ठे बहिर्गतातद्देशीयाः पेशीस्त्वचश्च पुष्णाति।
उत्तरा नितम्बिनी358नाम धमनी आभ्यन्तर्या अधिश्रोणिकायाः चरमप्रशाखाभूता उत्तानगम्भीराभ्यामनुशाखाभ्यां नितम्बपिण्डि-काख्यं पेशीतयं, त्रिक-पृष्ठदेशं, बंक्षणसन्धिञ्च तर्पयति। तस्या अपरा अनुशाखा जघनकपालमनुप्रविष्टा।
ता एता मध्यकायधमन्यः सविस्तरं व्याख्याताः।
इति पञ्चमोऽध्यायः।
————
षष्ठोऽध्यायः।
** अथातः ऊर्ध्वाधःशाखाधमनीवर्णनीयमध्यायं व्याख्यास्यामः।**
इह खलु ऊर्ध्वाधः शाखागतानां धमनीनां सत्यपि बहुधा सादृश्ये न सर्वथासारूप्यं मन्तव्यम्, ऊर्ध्वाधः-शाखयोर्निर्माणभेदात्, सन्निवेशवैलक्षण्याच्च।तस्मात् ताः पृथग् विभज्य वर्णनीयाः।
अथ ऊर्ध्वशाखाधमन्यः।
सर्वा एव ऊर्ध्वशाखाधमन्यः अक्षाधराख्यस्थूलधमन्योः सम्भूताः।ते च महाधमन्याः साक्षात् परम्परया वा सम्भूय प्रथमपर्शुकयोः बहिर्धारांयावत्तथासंज्ञ। अग्रतश्च कक्षाद्वयगते त एव कक्षाधरे नाम इत्यवोचाम। एकैकाच कक्षाघरा एकैकस्मिन् बाहौ प्रविष्टा बाहवी नाम धमनी भवति। मूलं च सासर्वासां बाहुधमनीनाम्।
अथ कक्षाधरा।
या खल्वेकैकतो ग्रीवामूले अक्षाघरा नाम महाधमन्याः काण्डशाखा, सैववक्रीभूय कक्षादरी प्रविष्टा प्रथमपर्शुकाया बहिःसीमामतिक्रम्य गुर्व्याअंसाधरिकाख्यपेश्या अधःसीमां यावत् कक्षाधरा359 – Axillary Artery.")— संज्ञां लभते (१०८ चित्रम्)।सा कक्षादर्याम् उरश्छदाख्यपेश्योः कण्डराभ्यां पुरश्छादिता, स्वनामिकायाःसिरायाः पार्श्वस्था कक्षानुगां नाड़ीप्रवेणी निभिद्य बाहुमूले प्रसृता। तस्याः षट् प्रशाखाःऊर्ध्वाधःक्रमेण अंससन्धिमुरःपार्श्वंच प्रतिगताः।ताःऊर्ध्वोरस्का, अंसोरस्का, दीघरस्का, अंसकपालिनी, अंसवेष्टनिका अग्रिमा,सैव पश्चिमा चेति प्रसिद्धाः। तत्र —
ऊर्ध्वोरस्का360 - Superior Thoracic Artery.") नाम धमनी कक्षाधराया ऊर्ध्वतमा प्रशाखा हस्वा तन्वी च,सा उरश्छदाख्यपेशीद्वयस्य पोषणी।
अंसोरस्का361 – Thoraco-acrominal Artery.") नाम धमनी कक्षाधराया हस्वस्थूला अक्षशाखा, याद्वाभ्यामंसगताभ्यां प्रशाखाभ्याम् अंसकूटमंसच्छदां पेशीञ्च पुष्णाति, द्वाभ्यां चउरोगताभ्यामक्षाधरिकाख्यां पेशीम् अक्षकोरःसन्धानम् उरश्छदाख्यं पेशीद्वयञ्च। अपराश्च तस्याः प्रशाखाः कक्षादरीस्थानां लसीकाग्रन्थ्यादीनां पोषण्यः।
(१०८ चित्रम्)
कक्षाधरा, बाहवी च धमनी सशाखा।
| <MISSING_FIG href="../../../books_images/U-IMG-1702568957150.png"/> |
| अंसच्छदा पेशी | त्रिशिरस्का पेशी |
| काकोष्ठिका पेशी | अंसकपालिनी धमनी |
| बाहवी धमनी |
द०—द्विशिरस्का पेशई ।१। गम्भीरप्रगण्डिका धमनी।२। मध्यबाहुका नाडी ।३। अन्तःप्रकोष्ठिका नाडी।४। रेखोर्ध्वम् उरःकर्णमूलिका पेशी कर्तिता, रेखाधः अक्षकाधरा पेशी।५। ऊर्ध्वोरस्का धमनी। ६। उरश्छदा पेशी गुर्वी (कर्तिता)।७। सैव लघ्वी ।८। दीर्घोरस्का धमनी ।९। अंसाधरिका पेशी। क— कटिपार्श्वच्छदा पेशी। x चिह्नादूर्ध्वं निर्गता अंसोरस्का धमनी (द्विमुखी)।
दीर्घारस्का362नाम धमनी कक्षाधराया दीर्घतमा शाखा उरोगामिनी। साउरश्छदाख्यं पेशीद्वयमग्रिमारिवाञ्च पेशीं प्रशाखाभिः पुष्णन्ती उरः पार्श्वे अन्तः-स्तनिकादिधमनीभिः सह चक्रमारचयति, अंसकक्षयोश्च अंसाभिगाभिर्धमनीभिः।स्त्रियान्तु तस्या एव प्रशाखा बहिःस्तनिका नाम स्तनपोषणाय प्रसृता, अन्तः-स्तनिकया सह धमनीचक्रमारचयति स्तनं परितः ( १०८ चित्रम्)।
अंसकपालिनी363नाम धमनी कक्षाधरायाः स्थूलतमा शाखा, या कक्षापथेनअंसफलकस्य अधःकोटिं प्रति प्रसृता। सा अंसोरस्कादिभिरंसधमनीभिश्चक्रमारचयति अंसकपालिकां परितः। तस्या अंसपृष्टिका नाम प्रशाखा अंसकपालिकायाः पृष्ठे प्रसृता (१०८ चित्रम्)।
अंसवेष्टनिका अग्रिमा पश्चिमा364 – Anterior and Posterior Circumflex Arteries.")चेति धमन्यौ कक्षाधरायाः शेषांशतःसम्भूय प्रगण्डास्थिप्रीवायाः पुरः पश्चाच्च वक्रीभूय प्रसृते, अंससन्धिमंस च्छदांपेशों च प्रविशतः। ताभ्यां परस्परं गम्भीरप्रगण्डिकाख्यधमन्याः शाखाप्रतानैश्चमिलिताभ्यामारच्यते धमनीचक्रमंसचक्रं परितः।
दृश्यते च क्वचिदपरापि क्षुद्रशाखा कक्षाधरायाः अन्तःपार्श्वे—पार्श्वोरस्कानाम, सा उरःपेशीनां पोषणी अनिश्चितावस्थाना।ता पताः कक्षाधरायाः धमन्याः प्रशाखा व्याख्याताः।
अथ बाहवी धमनी।
इह खलु कक्षाधरैव धमनी गुर्व्या अंसाधरिकाख्यपेश्याः अधोधारामतिक्रम्यबाहु प्रविष्टाबाहवी365नाम धमनी भवति, कूर्परसन्धिं यावत् (१०८० १०६११० चित्रेषु)। सेयं कक्षायां काकोष्ठिकायाः पेश्याः, बाहौ च द्विशिरस्कायाःपेश्याः, अन्तःसीम्नि वर्त्तते, सह सहचरीभ्यां सिराभ्याम्।तस्या अन्तःसीभिनदृश्याः — अन्तर्बाहुका366नाम सिरा, तिस्रश्च प्रकोष्ठिकाख्या नाड्यः। तासांमध्यप्रकोष्ठिका367नाम नाड़ी ऊर्ध्वभागे धमन्या बहिःसीम्नि स्थिताऽपि क्रमेणतामुल्लघ्य अधरार्धे तदन्तःसीम्नि दृश्या।पश्चिमतश्च धमन्याः तच्छाखैवगम्भीरप्रगण्डिका नाम धमनी बहिःप्रकोष्ठिकाख्यनाड़ीसहिता, त्रिशिरस्का नामपेशी च। कूपरसन्धेः पुरस्तु तिर्यग्गताऽसौ धमनी कूपरपट्टिकाख्यया स्नायुबन्धन्यासन्धार्यते, विभज्यते च तदग्रे द्वयोशाखयोर्वक्ष्यमाणयोः।
अथास्याः पार्श्वोत्थिताः शाखाः सप्त, अष्टौ वा (१०९चित्रम् )। यथा—
(१) गम्भीरप्रगण्डिका368 – Arteria Profunda Brachii.")नाम स्थूलदीर्घा आद्यशाखा बहिःप्रकोष्ठिकाख्यनाड्याः सहचरीभूय प्रगण्डास्थ्नः पश्चिमस्थां तिरश्चीनसीतामाश्रित्य सर्पगत्याप्रगण्डास्थिनलकं वेष्टयन्ती तद्बहिःसीम्नि प्रसृता। सेयं शाखाद्वयेनाऽत्मानं विभज्यपुरः पश्चाञ्च कूपरसन्धेः धमनीचक्रमारचयति सह आरोहिण्या बहिःकृपरिकाख्यधमन्या। अपरं चास्याः शाखाद्वयं त्रिशिरस्कां पेशीं प्रगण्डास्थिनलकं च पुष्णाति।
(२)प्रगण्डास्थिपोषणी369 - Nutrient Artery.")नाम द्वितीया शाखा प्रगण्डास्थ्नः पोषणी।
(३) कूर्परगा उत्तरान्तरा370 —Superior Ulnar Collateral.")नाम शाखा बाहुधमन्याः ऊध्वभागसम्भूताकूपरसन्धेः पश्चादन्तःसीम्नि प्रसृता। सा अन्तःप्रकोष्ठीयधमन्याः कूर्परान्तरांपृष्ठारुहां नाम प्रशाखामभिगच्छति धमनीचक्रारचनाय कूर्परं परितः।
(४) कूपरगा अधरान्तरा371 – Inferior Ulnar Collateral Artery.")नाम शाखा कूपरसन्धेः पृष्ठतः तिर्यकप्रसृताधमनीचक्रारचनाय। तथा च पुरस्तान्मिलिता कूर्परान्तरा अग्रारुहा नामअन्तःप्रकोष्ठीयधमन्याः प्रशाखा।
(५-७) सन्ति च पेशीगाः नाम बाहुधमन्यास्त्रिचतुराः शाखाः, याःकाकोष्ठिकां द्विशिरस्कां कूपरद्वारिकां चेति पेशीत्रयं पुष्णन्ति।
अथ प्रकोष्ठधमन्यौ।
अग्रशाखे पुनर्बाहुधमन्या द्वे —बहिःप्रकीष्टीया, अन्तःप्रकोष्ठीया चेति।बाहुधमनी हि कूर्परसन्धेः पुरस्ताद् गम्भीरं प्रविष्टा विभज्यते तयोःशाखयोः।
अथ बहिःप्रकोष्ठीया धमनी।
बहिः प्रकोष्ठीया372 नाम धमनी (११० - १११ चित्रयोः) बाहुधमन्या बाह्यशाखा, या दीर्घायाः करोत्तानन्याख्यपेश्या अन्तःसीमामनुवर्त्तते अङ्गुष्टमूलं यावत्।
(१०९ चित्रम्)
बाहवी धमनी, तच्छाखाश्च।
| <MISSING_FIG href="../../../books_images/U-IMG-1702569338154.png"/> |
| असच्छदा (पेशी) | उरश्छदा पेशी |
| ककोष्ठिका (पेशी) | मध्यबाहुका नाडी |
| द्विशिरस्का (पेशी) | कूर्परगा उत्तरान्तरा धमनी |
| बाहवी धमनी | गम्भीरप्रगण्डिका धमनी |
| करोत्ताननी दीर्घा (पेशी) | त्रिशिरस्का पेशी |
| बाहवी धमन्या विभागस्थानम् | अन्तर्बाहुका सिरा |
| करविवर्तनी पेशी | अन्तर्बाहुका नाडी |
| स्नायुपट्टिका (बाहुधमनीच्छादनी) | मध्यबाहुका नाडी |
| बाहवी धमनी |
ततोऽसौ मणिबन्धबहिःसीम्नि तिर्यक् पृष्ठतः प्रसृता अंगुष्ठमूले दीर्घाया अंगुष्ठापकर्षण्याख्यपेश्याः अंगुष्ठप्रसारण्योःपेश्योश्च कण्डराभिश्छादिता। सा अंगुष्ठतर्जनीमूलशलाकयोरन्तराले पश्चिमशलाकान्तरालाख्यां पेशीं निर्भिध करतलंप्रविष्टा। करतले तु सैव करतलधानुषीं गम्भीरां नाम धनुर्वक्रां धमनीं निर्मिमीते।
अथाख्याः मुख्याः प्रशाखाः पञ्च, पेशीगाश्च पञ्चषाः(१११ चित्रम्)। तद्यथा — आरोहिणी बहिःकूर्परिका373— Radial Recurrent Artery.")नाम आद्यप्रशाखा कूर्परसन्धेर्बहिःसीम्निसमुत्थिता। सा गम्भीरप्रगण्डिकाख्यधमन्याः बहिः कूर्परगया अनुशाखया सहमिलिता धमनीचक्रमारचयति बहिःसीम्नि कूपरसन्धेः।
बहिर्मणिबन्धीया अग्रिमा, पश्चिमा374 — Volar Radial Carpal and Dorsal Radial Carpal Arteries.") चेति प्रशाखे ऊध्वं मणिबन्धात्तद्बहिः-सीम्नि समुत्थिते। ते मणिबन्धस्य पुरःपश्चाच्च धमनीचक्रमारचयतः, सहतादृशीभ्यामन्तर्मणिबन्धीयाख्यधमनीभ्याम्।
धानुषीयोजनी उत्ताना375 — Superficial Volar Artery.") नाम धमनी मणिबन्धपुरोभागे समुत्थाय अधः-प्रसृता। सा करतले उत्तानया करतलधानुष्या संयुज्यते।
शलाकापृष्टिका प्रथमा376— Dorsal Metacarpal Artery.")नाम धमनी बहिःप्रकोष्ठीयधमन्या अंगुष्ठमूलपृष्ठभागात् समुत्थिता। सा अंगुष्ठपृष्ठिका तर्जनीपृष्ठिकाख्ययोरनुशाखयोरात्मानं विभज्य प्रसृता।
पेशीगास्तु पञ्चषाः प्रशाखाः प्रकोष्टबहिःसीमस्थासु पेशीषु प्रसृताः।
करतलधानुषी गम्भीरा377Deep Volar Arch (Arterial).") पुनर्बहिःप्रकोष्टीयधमन्याश्चरमो भागः करतलंप्रविष्टः। सा करधमनीवर्णने पुनर्वर्णनीया।
अथ अन्तःप्रकोष्ठीया धमनी।
अन्तःप्रकोष्ठीया378नाम बाहव्या धमन्याः शाखा अन्तःप्रकोष्टीयपेशीभिःपरिवृता पूर्वार्धे (११०।१११ चित्रयोः)।सा कूर्परसन्धेरधस्तात्पुरश्चबाहव्या धमन्याः विभागस्थानादारभ्य प्रकोष्ठान्तःसीमानुक्रमेण मणिबन्धान्तं गत्वाकरतलं प्रविष्टा।तत्र च धनुर्वद्वक्रीभूय सैव करतलधानुषी उत्ताना नामधमनी सम्पद्यते। मिलति च स बहिःप्रकोष्ठीयायाः धानुषीयोजन्याख्यया शाखया।
अस्याः षट् प्रशाखाः मुख्याः, पञ्चषाश्च पेशीगाः(१११ चित्रम्)। यथा—
(१-२ )कूर्परान्तरिके379 — Anterior and Posterior UInar Recurrent Arteries")नाम आरोहिण्यौ धमन्यौ द्वे—कूपरान्तः सीम्निपुरः पश्चाच्चोर्ध्वमुखं प्रसृते। तयोराद्या अप्रारुहा, द्वितीया च पृष्ठारुहा नाम।ते बाहव्या धमन्याः कूर्परगाभ्यां शाखाभ्यां धमनीचक्रमारचयतः कूपरसन्धिं परितः।
(३) अरनिमध्या साधारणी380 - Common Interosseus Artery.")नाम स्थूलतमा प्रशाखा बाहव्या धमन्याविभागस्थानादधींगुलमात्रेण सम्भूता। सा अंगुलीसङ्कोचन्योः पेश्योर्मध्येगम्भीरतरं प्रविश्य प्रकोष्ठास्थ्नोरन्तराले प्रसृता द्वयोः शांखयोर्विभज्यते।तयोरेका प्रकोष्ठान्तरालाख्यकलायाः पुरस्तान्मणिबन्धं प्रति मध्यरेखायां प्रसृता,नेसा अरनिमध्या अग्रिमा नाम। अपरा तां कलां निर्भिद्य पश्चिमतो मणिबन्धं प्रतिगता, सा अरत्निमध्या पश्चिमा नाम। तयोरेकैकस्यास्त्रिविधा अनुशाखाः — सन्धिगाः मांसगाः, अस्थिगाश्चेति।
(४-५)अन्तर्मणिबन्धीये381 – Volar & Dorsal Ulnar Carpal Arteries.") नाम द्वे प्रशाखे मणिबन्धस्य पुरः पश्चाच्चप्रसृते तदन्तःसीमगे। ते तादृशीभ्यां बहिःप्रकोष्टीयायाः शाखाभ्यां धमनीचक्रमारचयतः।
(६) धानुषी योजनी गम्भीरा382 – Deep Volar Communicating Artery.") नाम प्रशाखा करमूलान्तःसीम्नि गम्भीरं प्रविष्टा गम्भीरया करतलधानुष्या संयुज्यते।
करतलधानुषी उत्ताना नाम धमनी तु अन्तःप्रकोष्ठीयायाश्चरमो भागःकरतलं प्रविष्टः (११० चित्रम्)।
अथ करधमन्यः।
करथमन्यो हि द्विविधाः करतलीयाः, करपृष्टीयाश्च। तत्र करतलीयानांधमनीनां मूलभूते धमन्यौ द्वे— करतलधानुषी उत्ताना, गम्भीरा चेति (११०।१११ चित्रयोः) तत्र—
(११० चित्रम्)
अन्तःप्रकोष्ठीया, बहिःप्रकोष्ठीया च धमनी।
(दक्षिण प्रकोष्ठस्य उत्तानव्यवच्छेदेन दर्शिता)
| <MISSING_FIG href="../../../books_images/U-IMG-1702569853158.png"/> |
| बाहवी धमनी | मध्यबाहुका नाड़ी |
| आरोहिणी बहिःकूर्परिका(धमनी) | करविवर्त्तनी दीर्घा (पेशी ) |
| करोत्ताननी (पेशी ) | मणिबन्धसङ्कोचनी बहिःस्था(पेशी ) |
| बहिःप्रकोष्ठीया धमनी | करतलप्रसारणी पेशी |
| अङ्गुष्ठाकर्षणी दीर्घा (पेशी) | मणिबन्धसङ्कोचनी अन्तःस्था (पेशी) |
| अङ्गुष्ठाकर्षणी ह्रस्वा (पेशी) | अङ्गुष्ठसङ्कोचनी मध्यपविका (पेशी) |
| अङ्गुष्ठमूलकर्षणी (पेशी) | अन्तःप्रकोष्ठीया धमनी |
| अङ्गुलीपार्श्विका धमनीप्रशाखा | कङ्कणिकाख्या स्नायुपट्टिका |
| कनिष्ठासङ्कोचनी (पेशी) | कनिष्ठापकर्षणी पेशी |
| तस्या एव शाखा | करतलधानुषी उत्ताना धमनी |
करतलधानुषीउत्ताना383(११० चित्रम्) नाम धमनी अन्तःप्रकोष्ठीयधमन्याः धनुर्वक्रेण प्रान्तभागेन बहिःप्रकोष्टीयधमन्या धानुषीयोजन्याख्यया शाखया मिलितेन निर्मीयते। सा करतलस्य मध्यभागे दृश्या करतलिकाख्यया कलाकण्डरयाऽच्छादिता। ततश्च सम्भूताश्चतस्त्रः प्रशाखाः, यास्तर्जन्यादीनां चतसृणामंगुलीनां मूलशलाकान्तरालेषु प्रसृताः। तासामेकैका अंगुलीमूले शाखाद्वये विभक्ता एकैकतः सन्निहितांगुलिद्वयपाश्वयोरित्थं प्रसरति —यथा प्रथमा तर्जनीमध्यमापार्श्वयोः, द्वितीया – मध्यमाऽनामिकापार्श्वयोः।तृतीया अनामिका —कनिष्ठा पार्श्वयोः। चतुर्थी कनिष्ठाया आन्तरपार्श्वे — इति। तर्जन्या बहिःपार्श्वे, अंगुष्ठस्य पार्श्वयोश्च प्रसृतास्तु करतलधानुष्याः गम्भीरायाः शाखा। अस्ति च उत्तानायाः करतलधानुष्याः अपराऽपि शाखा करभदेशं प्रतिगता।
करतलधानुषीगम्भीरा384 – Deep Volar Arch.") नाम धमनी तु (१११ चित्रम्) कूर्चास्थनां पुरस्ताद् बहिः प्रकोष्ठीयधमन्याश्चरमेण धनुर्वक्रभागेन अन्तः प्रकोष्ठीयधमन्या धानुषीयोजनीसंज्ञयाशाखया मिलितेन निर्मिता तस्या अंगुलि - मूलगाःशाखाः पञ्च। तासु प्रथमा अंगुष्टमूलगा नाम, सा द्विधा विभज्याऽत्मानं अंगुष्टपार्श्वयोः प्रसृता।द्वितीया तर्जनीमूलगा नाम, सा तर्जन्या बहिःपार्श्वमात्रे प्रसृता। अपरास्तु तिस्रः उत्तानायाः करतलधानुष्या — स्तिसृभिः शाखाभिः तर्जन्याद्यांगुलीचतुष्टयस्य अन्तरालमूलेषु संयुज्यन्ते। तेभ्यश्च संयोगस्थानेभ्यः करतलमांसं निर्भिद्य पृष्टतः प्रसृतास्तिस्रः प्रशाखाः योजन्याख्याः, ताभिर्मूलशलाकापृष्ठस्थं धमनीलयमारच्यते।
द्वित्राश्चाऽस्याः शाखाः मणिबन्धसन्धेः पुरःस्थे धमनीचक्रेप्रविष्टाः।
करपृष्ठीयाः धमन्यः पुनश्चतस्त्रो मुख्याः - शलाकापृष्ठिकाः385 नाम।तासां प्रथमा बहिः प्रकोष्टीयधमनीप्रभवा वर्णितपूर्वा, सा अंगुष्ठपृष्ठे, तर्जनी पृष्ठे तद्वहिःपार्श्वे च त्रिभिः शाखाभिः प्रसृता। द्वितीया, तृतीया, चतुर्थी चेति शलाकापृष्टिकाः मणिबन्धपश्चिमस्थाद् धमनीचक्रात् प्रभवन्ति, तास्तर्जन्याद्यंगुली- चतुष्टयस्य अन्तरालेषु दृश्याः। तासामेकैका द्वयोद्वयोः शाखयोरात्मानं विभज्य सन्निहितांगुलिपृष्टपार्श्वयोः प्रसरति।
एवञ्च अंगुष्ठप्रति एका धमनी (द्वे वा) पृष्टतः, द्वे च तलपार्श्वयोः।अपरासामंगुलीनान्तु एकैकांप्रति चतस्रो धमन्यः—द्वे तलपार्श्वयोः, द्वे चपृष्ठपार्श्वयोः। तासां तलपार्श्वगं धमनीद्वयमंगुल्य पुरस्तात् स्वल्पं धमनीचक्रमारचयति, पृष्ठपार्श्वगं धमनीद्वयं तु नखभूमौ। करस्थाः पेश्यादयश्च करतल-धानुष्योर्मणिबन्धीयधमनीनां च शाखाप्रतानैराप्याय्यन्ते।
ता एता ऊर्ध्वशाखीया धमन्यो व्याख्याताः।
अथ अधःशाखाधमन्यः।
अधःशाखीयधमनीनां तावत् मूलम् — और्वी नाम धमनी।नितम्बीयास्तुधमन्यः अधिश्रोणिकाया आभ्यन्तर्या धमन्याः प्रशाखानुशाखाः।ताः प्रायेणऔर्या धमन्या जघनाभिगैः शाखाप्रतानैः सह धमनीचक्रमारचयन्ति नितम्बजघनंपरितः। ता व्याख्यातपूर्वाः।
अथ और्वीधमनी।
या तावन्मध्यकाये औदर्या महाधमन्याः विभागसम्भूता काण्डशाखाअधिश्रोणिका बाह्या नाम स्थूला धमनी सैव वंक्षणदरीमुखाद् विनिर्गताऔर्वो386नाम धमनी सम्पद्यते (११२ चितम्) \। सा वंक्षणदेशस्यान्तःसीम्नि और्व्यासिरया, बहिःसीम्निच और्व्या नाड्या परिवारिता, प्रच्छादिता चऊरुमध्ये ऊरुकञ्चुकया। सिराधमन्यौ च तत्र समानसंज्ञं एकस्मिन्नेवसिराकञ्चुके तिष्ठतः। तदन्तःसीम्नि वंक्षणान्तर्दृश्यम्अन्तवंक्षणीयं नाम छिद्रंवृषणबन्धनीधरम्। तच्च वर्णितचरं पेश्यध्याये।
सेयं कनिष्ठांगुलीपरिणाहा स्थूलधमनी ऊरुपुरोभागे वंक्षणस्य मध्यविन्दुतआरभ्य तिर्यगन्तःसीम्नि प्रसृता। ऊरोरर्धाऽधिकं दैर्घ्यमतिक्रम्य तु सैव ऊरुसंव्यूहनींगरिष्ठां पेशीं निर्भिय ऊरुपश्चिमतो निर्गता ऊरु-जानुपृष्ठिका-संज्ञां लभते।
अथास्याः षट् प्रशाखा मुख्याः। पञ्चषाश्च गौण्यः पेशीगाः। तत्र—
(१)उत्ताना औदरिकी387 नाम और्व्या धमन्याः शाखा ऊर्वन्तःसीम्निस्थितेन ऊरुकञ्चुकाया अनुवंक्षणीयछिद्रेण बहिर्गत्य तलोदरमधिरोहति नाभिदेशं
(१११ चित्रम्)
अन्तः प्रकोष्ठीया बहिःप्रकोष्ठीया च धमनी।
(दक्षिणप्रकोष्ठस्य गभोरव्यवच्छेदेन दर्शिता)
| <MISSING_FIG href="../../../books_images/U-IMG-1702570100162.png"/> |
| द्विशिरस्का पेशी | आरोहिणी कूर्परान्तिका धमनी (अन्तःस्था) |
| बाहवी धमनी | मध्यबाहुका नाडी |
| आरोहिणी बहिःकूर्परिकाधमनी | कूर्परपुरःस्था स्नायुपट्टिका |
| करविवर्त्तनी दीर्घा पेशी | अन्तःप्रकोष्ठीया नाडी |
| बहिःप्रकोष्ठिका नाड़ी | अन्तःप्रकोष्ठीया धमनी |
| अरनिमध्या पश्चिमा धमनी | अरत्निमध्या अग्रिमा धमनी |
| बहिःप्रकोष्टीया धमनी | धानुषी योजनी गम्भीरा धमनी |
| अङ्गुष्टसङ्कोचनी दीर्घा पेशी | कनिष्ठामूलकर्षणी पेशी |
| करविवर्त्तनी चतुरस्रा पेशी | तस्याः तर्जनीगा शाखा |
| करतलधानुषी गम्भीराधमनी | तस्या अङ्गुष्ठगा शाखा |
यावत्। तस्याः अनुशाखास्त्वचि, मेदोधरकलायां, लसीकाग्रन्थिषु च वंक्षणस्थेषु प्रसृताः।
(२) उत्तानजघनिका वेष्टनी388 - Superficial Iliac Circumflex Artery.")नाम और्व्या धमन्याः शाखा जघनधारां प्रतिगता शाखाप्रतानैः जघनं संवेष्ट्य जघन-वंक्षणस्थां त्वचं, बहिःप्रावरणीं, लसोकाग्रन्थींश्च बंक्षणस्थान् पुष्णाति।
(३-४)बहिरौपस्थिक्यौ389 – External Pudendal Arteries — Superficial and Deep.") नाम धमन्यौ द्वे—उत्ताना, गम्भीरा चेति। ते ऊर्वन्तःसीम्नि और्व्या धमन्याः सम्भूय उपस्थस्य बहिर्देशं प्रति तिर्यक् प्रसृते। तयोरुत्ताना पुरस्ताद् ऊरुकञ्चुकां निर्भिद्य अनुवंक्षणीयछिद्रोण बहिगता, भगास्थिसन्धानं प्रति प्रसृता। सेयं वस्तिदेशस्य शिश्नाण्डकोषयोश्च त्वचि (स्त्रियास्तु भगोष्ठे) गम्भीरशाखाप्रतानैः प्रसृता। गम्भीरा बहिरौपस्थिकी तु तदधस्तात् तथैव तिरश्चीनं गत्वा तेष्वेव भागेषु, विशेषतश्च औपस्थिकतिकोणे, गम्भीरतरं प्रसृता।
(४) गम्भीरोरुका390 - Profunda Femoris Artery.") नाम स्थूला धमनी (११२ चित्रम्) और्ध्या धमन्याः मूलदेशाद् द्विवांगुलेन सम्भूय पश्चिमतः ऊर्वन्तःसीम्नि तामेव धमनीमनुवर्त्तते, निर्भिनत्ति च सा ऊरुसंव्यूहनीं गरिष्ठां नाम पेशों तद्वत्। तस्याः द्वेप्रशाखे ऊरोरन्तर्वहिःसीम्नोः प्रसृते ऊरुवेष्टन्यौ नाम।तयोरेकैका तिसृषु प्रशाखासु विभक्ता ऊर्ध्वाधःस्थाभिर्धमनीभिः सह धमनोचकाणि रचयति जघन-नितम्ब-वंक्षणसन्धीन् परितः, पुष्णाति च प्रशाखाभिः काश्चन ऊरुसम्बद्धाः पेशीः। सन्ति च गम्भीरोरुकायाः अपरा अपि प्रशाखाः मांसगाः, तासामपि त्रिचतुराः ऊरुसंव्यूहन्याख्यपेशी निर्भिध पश्चात् प्रसृताः।
(५) महाजानुका391 — Highest Gericular ( Anastomotica Magna ) Artery.")नाम शाखा और्व्या धमन्याः शेषतः सम्भूय जान्वन्तःसीम्नि प्रसृता। सा एकया प्रशाखया जान्वन्तःसीमस्थाः पेशीः, जानुसन्धिं च पुष्णाति, प्रविशति च शाखाप्रतानैः पुरःस्थैर्धमनीचक्रम्।अपरा तु तस्याः प्रशाखा जान्वन्तरीयां त्वाचनाड़ीमनुवर्त्तते।
और्व्या धमन्याः पेशीगाः शाखास्तु पञ्चषाः ऊर्वन्तःसीम्नि दृश्याः, ता अपि सन्निहितपेशीर्विशेषेण पुष्णन्ति।
अथ ऊरुजानुपृष्ठिका धमनी।
ऊरुजानुष्पृष्ठिका392 – Popliteal Artery.")नाम धमनी ऊरुसंव्यूहनीं गरिष्ठां नाम पेशों निर्भिध पश्चात् जानुपृष्ठखाते प्रसृता और्व्या धमन्या अनुवृत्तिरूपा। सा जानुपृष्टिकाख्यपेश्या अधोधारां यावत् ऊरुजानुपृष्टिंकेति संज्ञां लभते (११३ चित्रम्)।सेयं जानुसन्धेः पश्चात् किञ्चिन्निम्नतश्च पुरः-पश्चिमजडिकयोर्धमन्योः विभज्यते। तस्याः पश्चिमतो दृश्या जानुपृष्ठिका नाम सिरा, जङ्घानुगा नाम नाड़ी च जानुपृष्ठपट्टिकया रंक्षिता। तत्पुरःस्थं च ऊर्वस्थ्नोऽधःप्रान्तपृष्ठं जानुसन्धिपृष्ठं च मेदः पिण्डपरिवृतम्। तदुभयतश्च जङ्घापिण्डिकाख्यपेश्योर्मूलप्रभवौ।
अथाऽस्या ऊरुजानुपृष्ठिकाया स्त्रिविधाः शाखाः - त्वाचशाखाः, पेशीगाः, जानुगाश्चेति।
तत्र त्वाचशाखाःजानुजङ्घयोः पृष्टतः प्रसृताः। पेशीगाः शाखास्तु द्वि-त्रसंख्याः ऊर्वन्तःसीग्नि पेशीषु प्रविष्टाः, अपरे च द्वे शाखे जङ्घापिण्डिकां प्रविष्टे।
जानुगाः पुनः शाखाः पञ्च। द्वे उत्तरजानुगे, द्वे च अधरजानुगे इति, ताः जानुसन्धेर्बाह्यान्तरसीम्नोः प्रसृताः। एका च मध्यजानुगा, सा जानुसन्धिकोषं निर्भिद्यजानुसन्धिं प्रविष्टा। ताभिश्च जानुसन्धिं परितो विरच्यते धमनीचक्रम्।
अथ पुरोजङ्घिका धमनी।
**पुरोजङ्घिका393 - Anterior Tibial Artery.")**नाम धमनी (११५ चत्रम्) ऊरुजानुपृष्ठिकाया धमन्या अग्रिमा शाखा, या जङ्घाऽ-नुजङ्घास्थ्नोरूर्ध्वप्रान्तयोरन्तराले पुरस्तात् प्रसृता। सेयमस्थ्यन्तरालीयकलायाः सम्मुखीना जङ्घान्तःसीम्नि गुल्फयो- मध्यं यावत् तन्नाम्ना प्रसिद्धा। तदधस्तात् पादपृष्ठे प्रसृता तु सेव पादपृष्ठिकेति संज्ञां लभते।
एषा च पुरोजङ्गिका नाम धमनी जङ्घास्थ्नः अन्तःसीम्नि जङ्घापुरोगाख्य पेश्या भूम्ना समाच्छादिता। तदधःप्रान्तोपकण्ठे तु त्वकूकलामालाऽवृता सा गुल्फयोर्मध्ये गुल्फस्वस्तिकायस्नायोरधस्तात् अंगुष्ठांऽगुलीप्रसारणीपेशीनां
(११२ चित्रम्)
और्वी धमनी सशाखा।
| <MISSING_FIG href="../../../books_images/U-IMG-1702609664166.png"/> |
| और्वी नाडी | वक्षणिका स्नायुरज्जुः |
| दीर्घायामा कोष्ठी | और्वी सिरा धमनी च |
| उरुकञ्चुकाकर्षणी | वृषणबन्धनी |
| उरुवेष्टनी धमनी (सशाखा) | ऊरुसंव्यूहनी दीर्घा पेशी |
| गम्भीरोरुका धमनी | और्वी धमनी |
| उरुदण्डिका पेशी | ऊरूसंव्यूहनी गरिष्ठा पेशी |
| ऊरुदण्डिका पेशी | ऊरुपार्श्विकी त्वाची नाडी |
| ऊरुप्रसारणी बाह्या पेशी | महाजानुका शाखाधमनी |
| जानुसन्धिपुरस्थं धमनी चक्रम् | दीर्घायामा पेशी |
| महाजानुका धमनी | ऊरुप्रसारणी मध्यस्था |
(११३ चित्रम्)
ऊरुजानुपृष्ठिका धमनी, पश्चिमजङ्घिका च सशाखा।
| <MISSING_FIG href="../../../books_images/U-IMG-1702610306167(1"/>.png) |
| जानुकर्षणी कण्डराकल्पा | द्विशिरस्का पेशी |
| सैव कलाकल्पा | गृध्रसी नाडी |
| ऊरुजानुपृष्ठिका धमनी | पुरोजङ्घिका धमनी |
| जानुपृष्ठिका पेशी | जङ्घापिण्डिका लध्वी |
| पश्चिमजङ्घिका धमनी | पादविवर्तनी दीर्घा पेशी |
| पश्चिमजङ्घिका नाडी | बहिर्जङ्घिका धमनी |
| पादाङ्गुलिसङ्कोवती दीर्घा पेशी | पादविवर्तनी ह्रस्वा पेशी |
| पश्चिमजङ्गिका धमनी | बहिर्जङ्घिका धमनी |
| सैव नाडीसहिता | पिण्डिकाकण्डरा (कर्तिता) |
कण्डरान्तराले स्पर्शनयोग्या। अनुवर्त्तते च तां पुरोजङ्घिका गम्भीरा नामनाड़ी सह सहचरीभ्यां सिराभ्याम् (११४ चित्रम्)।
अथास्याः मुख्याः प्रशाखाश्चतस्रः, पेशोगाश्च बहवः। यथा—
(१-२) जानुगा अग्रारुहा, पृष्ठारुह394 - Tibial Recurrent — Anterior & Posterior Arteries.")चेति द्वेआरोहिण्यौ प्रशाखे जानुसन्धिं परितः स्थिते धमनीचक्रे पुरः पश्चाञ्च मिलिते।
(३-४) गुल्फयोः पुरस्ताच्च द्वे प्रशाखे - अग्रिमा अन्तर्गुल्फिका395 - Anterior Internal Malleolar Artery.") अग्रिमाबहिर्गुल्फिका396 - Anterior External Malleclar Artery,") च नाम। ते अन्तर्गुलकं बहिर्गुल्फ चाभितो मनीचकद्धयमारचयतः सह बहिर्जङ्गिकाया धमन्याश्चरमैः शाखाप्रतानैः।
पेशीगास्तु शाखाः - पुरोजङ्घिकाया धमन्याः पाश्र्वभ्यां सम्भूय परितोजङ्घापेशीषु त्वचि च प्रसृताः।
अथ पश्चिमजङ्घिका।
पश्चिमजविका397 – Posterior Tibial Artery.") नाम धमनी (११३ चित्रम्) जानुसन्धिपृष्ठस्थे खातेऊरुजानुपृष्टिकायाः धमन्याः विभागसम्भूता।सा जङ्घास्थिपृष्ठे जङ्घापिण्डिकया-ऽच्छादिता तदन्तःसीमानुक्रमेण अधोमुखं प्रसृता, अन्तर्गुल्फ-पायरन्तरालंयावत्। तदधश्च विभज्यतेऽसौ द्वयोरग्रप्रशाखयोः। सेयम् अन्तर्गुल्फस्यपश्चात् त्वङ् मात्रावृता स्पर्शनपरीक्षायोग्या अंगुष्ठमूलस्थधमनीवत्।
अथास्या मुख्याः प्रशाखाः सप्त अष्टौ वा। तासु प्रधानतमा बहिर्जडिका नामधमनी या जङ्गापृष्ठे बहिःसीम्नि प्रसृता।मांसगाश्च398प्रशाखाः पञ्चषाः।तत्र—
बहिर्जङ्घिका399 — Peroneal Artery.")नाम स्थूला धमनी (११३ चित्रम्) पश्चिमजङ्गिकायाःमूलदेशात् द्वग्ङ्गुलाधः सम्भूता, सा किञ्चिद्वक्रीभूय जङ्घापिण्डिकायाः बहिःसीमानु-क्रमेण बहिर्गुल्फान्तं गत्वा तत्रैव शाखाप्रतानैरास्तृता। तस्या अनुशाखाः — अनुजङ्घास्थिपोषणी कलानिर्भेदिनी, पाणिपृष्ठगा योजनी, बहिःपार्ष्णिगा,पेशीगाश्च। तासु कलानिर्भेदिनीजङ्घास्थ्नोरन्तरालगां कलां निभिद्य पुरो निर्गताअग्रिमा **बहिर्जंघिका400**नाम कदाचित्। पार्ष्णिपृष्ठगा योजनी तु पार्ष्णिपृष्ठोर्ध्वदेशेपिण्डिकाकण्डरायाः पुरस्ताद् वक्रीभूय प्रविष्टा। पेशीगाश्च अनुशाखाः पञ्चषाःजङ्घापृष्ठस्थाः पेशीः पुष्णन्ति।
पश्चिमजङ्घिकायास्तनुप्रशाखास्तु षट् सप्त वा। तासां जङ्घास्थिपोषणीजङ्घास्थिन प्रविष्टा। पार्ष्णिपृष्ठगायोजनी पूर्ववत् पिण्डिकाकण्डरायाः पुर-स्ताद्वक्रीभूय प्रविष्टा, स्वनामिकया पूर्वोक्तया धमन्या चक्रारचनी। अन्तर्गुल्फिकापश्चिमा401 अन्तर्गुल्फपृष्ठे प्रसृता स्वनामिकया अग्रिमधमन्या चक्रमारचयति।अन्तःपार्ष्णिगा नाम त्रिचतुराः प्रशाखाः पुनः पारन्तःसीम्नि, पाणिपृष्ठतः,पादतलमूले च स्वनामिकाभिर्धमनीभिः धमनीचक्राणि रचयन्ति।
अन्ते तु पश्चिमजडिकायाः विभागजे अग्रप्रशाखे द्वे —पादतलीया आन्तरी,बाह्या चेति। तयोराद्या तन्बी पादान्तःसीम्नि पेशीषु त्वगादिषु च शाखाप्रतानेंःप्रसृता। पादतलीया बाह्या धमनी तु पादान्तःसीम्नि पाणि-पार्श्वतः सम्भूयतिर्यक् प्रसृता पादतलमुल्ल घ्य पादतलधानुष धमनीं रचयति।
अथ पादधमन्यः।
ता द्विविधाः—पादपृष्टगाः, पादतलगाश्च। तत्र पादपृष्ठगासु प्रधानापादपृष्टिका नाम धमनी। पादतलगासु तु पादतलीयांख्ये धमन्यौ पूर्वोक्तं,पादतलीया धानुषी च। तत्र—
पादपृष्ठिका402 नाम धमनी (११४चित्रम्) पुरोजडिकाया अनुवृत्तिरूपा।पुरोजडिका हि धमनी गुल्फसन्धेः पुरस्ताद् गुल्फस्वस्तिकाख्यस्नायुपट्टिकयाच्छादिता तदन्तःस्थेन स्नायुमयसुरङ्गापथेन पादपृष्ठे विनिर्गता पादांगुष्टमूल-शलाकामूले पादपृष्ठिकेति संज्ञां लभते। प्रथमामुत्तरशलाकान्तराला पेशीनिर्भिद्य पादतलं प्रविष्टा तु सैव पादतलगा गम्भीरा नाम धमनी भवति।
पादपृष्ठिकायाः सहचरी च तत्र पुरोजङ्घिका गम्भीरा नाम नाड़ी, सिराद्वयी च।
अथास्याश्चतस्त्रः प्रशाखाः पादपृष्ठे दृश्याः —बहिःकूर्चिका, अन्तःकूचिका,पादपृष्ठगा धानुषी, अंगुष्ठपृष्ठिका चेति। तासां बहिःकर्चिका नाम धमनीनौनिभास्थनः पुरोभागं तिर्यगुल्ल घ्य बहिःसोम्नि प्रसृता वहिर्गुल्फीयेन धमनीचक्रेण,पादपृष्ठगाया धानुष्याः शाखाप्रतानैश्च मिलिता। अन्तःकूर्चिका तु प्रायेण युग्मरूपा
(११४ चित्रम्)
पुरोजंघिका धमनी (सशाखा)।
| <MISSING_FIG href="../../../books_images/U-IMG-1702806422170(2"/>.png) |
| जानुपुरःस्थं धमनीचक्रम् | पुरोजंघिका धमनी |
| पुरोजंघिका अग्रारुहा धमनी | जंघापिण्डिका गुर्वी पेशी |
| पादाङ्गुलिप्रसारणी दीर्घा पेशी | पुरोजङ्घिका गम्भीरा नाडी |
| अङ्गुष्ठप्रसारणी दीर्घा पेशी | जङ्घापिण्डिका लघ्वी पेशी |
| पादविवर्तनी तृतीया पेशी | जङ्गापुरोगा पेशी (कर्तिता) |
| अग्रिमा बहिर्गुल्फीया धमनी | गुल्फस्वस्तिका स्नायुः |
| अङ्गुलिप्रसारणी ह्रस्वा पेशी (कर्तिता) | पादपृष्ठिका धमनी |
| अन्तःकूर्चिका धमनी | पादतलगा गम्भीरा धमनी |
| पादपृष्ठगा धानुषी धमनी | अङ्गुलिपार्श्विकाः पृष्ठगाः (धमन्यः) |
(११५ चित्रम्)—पादतलधमन्यः उत्तानाः।
| <MISSING_FIG href="../../../books_images/U-IMG-1702807987171(1"/>.png) |
| पश्चिमजंघिकाधमन्याः अन्तःपार्श्वगाः शाखाः | कनिष्ठापकर्षणी पेशी |
| पादतलिका स्नायुः | पादाङ्गुलिसङ्कोचनी ह्रस्वा (पेशी) |
| पादांगुष्टापकर्षणी (पेशी) | पादतलधानुष्या धमन्याः उत्तानशाखा |
| पादतलगा गम्भीरा धमनी | अङ्गुलिपार्श्विक्यः शाखाधमन्यः |
| तस्या एव अङ्गुष्ठगा शाखा |
(११६ चित्रम्)—पादतलधमन्यः गम्भीराः।
| <MISSING_FIG href="../../../books_images/U-IMG-1702808137171(1"/>-Copy.png) |
| पश्चिमजंघिकाधमन्या अग्रशाखा | पादतलधानुषी धमनी |
| पादतलीयाख्य धमन्या अन्तःशाखा | पादतलचतुरस्त्रा पेशी |
| दीर्घायाः पादाङ्गुलिप्रसारण्याः पेश्याः कण्डरा | पादतलधानुष्याः अङ्गुलिपार्श्विक्यः शाखाः (१ |
| पादाङ्गुष्ठसङ्कोचन्या दीर्घायाः कण्डरा | पादतलधानुष्याः धमन्याः निर्भेदिन्यः शाखाः |
गुल्फपादान्तःसीम्नोः शाखाप्रतानैः प्रसृता। पादपृष्ठगाधानुषोनाम धनुर्वक्राह्रस्वप्रशाखा तु पादबहिःसीम्नि धनुर्वत् प्रसृता, पूर्वोक्तशाखया मिलिता च।तस्याश्चतस्रः अनुशाखाः पञ्चानामंगुलीमूलशलाकानाम् अन्तरालेषु प्रसृताः।तासां पादांगुष्ठकनिष्टाभिगे अनुशाखे प्रत्येकं तिसृषु तनुशाखासु विभज्येते। अपरेचद्वे द्वयो योस्तनुशाखयोः। ताश्च तनुशाखाः पादांगुलीनां पृष्ठेषु पार्श्वेषु चप्रसृताः-अंगुलीपार्श्विक्यः पृष्ठगाः नाम। ताः नखभूमिषु प्रसृतैः सूक्ष्मप्रतानैःधमनीचक्राणि रचयन्ति।
**पादतलीयेधमन्यौ403 — Medial & Lateral Planter Arteries,")**द्वे — आन्तरी, बाह्या चेति। ते पश्चिमजङ्घिकायाअन्तिमविभागतः सम्भूते वर्णितपूर्वे।
पादतलधानुषी404 – Planter Arch (Artery).")नाम धमनी तु (११६ चित्रम्) पश्चिमजंघिकायाअग्रप्रशाखयोर्बाह्या प्रशाखा, या पादान्तःसीम्नि पार्ष्णि-नौनिभाख्ययोः कूर्चास्थ्नोःसन्धानाधस्तात् सम्भूय, तिर्यक् पुरस्ताद्वहिश्च कनिष्ठामूलशलाकामूलं यावत्प्रसृता पादतलमुल्लंघ्यपुनरन्तर्मुखं पुरश्च धनुर्वक्रभावेन प्रसृता। मिलिता चसा अंगुष्टमूलशलाकामूले पादतलगम्भीराख्यया धमन्या।
तस्या बहबोऽनुशाखाःपादतले त्वगादिषु च प्रसृताः। तासां षट् पुरोगाः अंगुलिपार्श्विक्यस्तलगाः नाम, पश्चिमगास्तु तिस्रः निर्भेदिनी संज्ञाः।
तत्र पुरोगस्य अनुशाखाषट्कस्य मध्यस्थाश्चतस्रोऽनुशाखाःपञ्चानामंगुलीमूलशलाकानामन्तरालेषु प्रसृताः अंगुलीमूलान्तरालेषु द्वयोद्व योस्तनुशाखयोर्विभज्यन्ते।ताःअंगुलीनां सन्निहितपार्श्वेषु प्रसरन्ति। द्वे च पुरोगे अनुशाखेअविभक्ते एव क्रमेण अंगुष्ठकनिष्ठयोरन्तर्बहिःसीम्नोः प्रसृते। ता एता अंगुलीपार्श्विक्यःतलगाः नाम दश धमन्यः अंगुल्यग्रेषु धमनीचक्राणि विरचयन्ति।
तिस्रश्च निर्भेदिनीसंज्ञाःपश्चिमानुशाखाःपादतलपेशीः निर्भिद्यपादपृष्ठंगताः पादपृष्टिकायाः अंगुलीमूलपृष्टस्थाभिरनुशाखाभिः संयुज्यन्ते।
ता एता अधःशाखीया धमन्यो व्याख्याताः।
समाप्तञ्च धमनीखण्डम्।
प्रत्यक्षशारीरम्
सिराखण्डम्।
<MISSING_FIG href="../../../books_images/U-IMG-1703124966173-removebg-preview.png"/>
प्रथमोऽध्यायः।
अथातः सोपक्रमशाखासिरावर्णनोयमध्यायं व्याख्यास्यामः।
इह खलु सर्वासां सिराणामाशयो हृदयं समुद्र इवाऽपगानाम्। अतश्चसर्वा अपि सिराः हृदयाभिमुख्यः405। अविशुद्धरक्तवहाश्च ताः, अन्यत्र फुस्फुस-प्रभवाभ्यः सिराभ्यः।फुस्फुसप्रभवा हि ताः फुस्फुसान्तर्विष्णुपदामृत406 स्पर्शेनविशोधितं रक्तं हृदयं प्रापयन्तीत्युक्तपूर्वम्। सर्वासां च सिराणामारम्भोजालकेभ्यः। तेभ्यो हि संगृह्यते जालकान्तरीयं रक्तं सूक्ष्मैः सिराप्रतानैः। तैश्चमिलितैः सम्भवन्ति सिरास्तन्व्यः। तासां परस्परसंमेलनेन क्रमशः परिणामउत्तरोत्तरस्थूलासु सिरासु।स्थूलसिराणां च काण्डसिरासु प्रवेशः। काण्डसिराणां च उत्तराऽधरमहासिरयोः। तयोश्च हृदयस्य दक्षिणालिन्दे। हार्दिकीमूलसिराऽपि तत्रैव प्रविष्टा। सोऽयं सिरापरिणामक्रमो व्याख्यातः। विपरीतश्चतवर्णनक्रमो धमनीवर्णनक्रमस्य, सिराधमन्योर्यथाक्रमंसंयोगविभागाभ्यां407परिणामात्।
सन्ति च शिरःकपालानामभ्यन्तरतः मस्तिष्कबहिर्वृतेः स्तरद्वयान्तरालेषुअस्थिपरिखाश्रिताः आयतसिरामार्गाः तेषां**सिरासरित्, सिराकुल्या408—**इति वा संज्ञा। सिराप्राचीरिकाः409, सिराकपाटिकाः410सिराकञ्चुकानि411 चव्याख्यातपूर्वाणि धमनोखण्डादौ। न च सन्ति सिराकपाटिकाः सर्वासुसिरासु। उत्तराऽधरमहासिरयोः प्रतीहारिण्यां सिरायां, मस्तिष्क-यकृद्-वृक्कगर्भाशयादिप्रभवासु सिरासु, गर्भस्थशिशोः संवाहिन्यां महासिरायां च कपाटिका-नामदर्शनात्। सिराकञ्चुकानि च धमनीकञ्चुकेभ्योऽभिन्नानि बहुशः।
** द्विविधाश्च सिराः**—उत्तानाः गम्भीराश्च। तत्र उत्तानाः त्वचोऽधस्ताद्बाह्यप्रावरण्याः स्तरद्वयान्तरालेषु तिष्ठन्ति, ताश्च न धमनीनामनुचर्यः —इतिपृथक्संज्ञा। दृश्यन्ते च ता अस्थूलगौरदेहानां त्वगधस्तात् सर्वत्रैव प्रायः,विशेषतश्च शाखासु। परिणामे तु ता अपि गम्भीरसिराः प्रविशन्ति। गम्भीरसिराः पुनः प्रायेण धमनीसहचर्यः, तत्संज्ञाश्च। तासां स्थूलगम्भीरधमनीनांसहचर्यः स्थूलाः, प्रायेण एकाकिन्यश्च। शाखाधमनीनां सहचर्यस्तु तन्थ्योयुग्मरूपाश्च प्रायशः412।
सिराचकाणि च सर्वकार्येषु संख्याधिकानि धमनीचक्रेभ्यः।
बहबश्च सिराः प्रतिपुरुषं भिन्नक्रमेण संयोगमापद्यन्ते, विभिद्यन्ते च बहुधाअवस्थानभेदात्। तस्मादिहोक्तं सिरासंयोगावस्थानवर्णनं प्रायिकमवगन्तव्यम्।
वर्णनीयाश्चातः परमादौ शाखासिराः, ततः शिरोग्रोवायाः सिराः, ततश्चमध्यकायसिराः। शाखा-शिरो-प्रोवीयाभिः सिराभिर्मध्यकाय सिराणामापूरणात्।
अथ ऊर्ध्वशाखीयाः सिराः।
तत्राऽदौ उत्तानसिराः। ताश्च एकैकस्यामूर्ध्वशाखायाम् बहवः। तासुद्व प्रधानभूते—बहिःसीम्नि बहिर्बाहुका, अन्तःसीग्नि अन्त-र्बाहुकाचेति। तत्सह-कारिण्यौ च मुख्यसिरे द्वे —मध्यप्रकोष्ठिका, मध्यबाहुका योजनी चेति। तत्र -
बहिर्बाहुका413नाम सिरा (११७ चित्रम्) प्रायेण अंगुष्टमूलादारभ्यप्रकोष्टबहिःसीमानुक्रमेण गत्वा कूपरसन्धेः पुरस्तादधश्च दृश्या। ततश्चोर्ध्वं प्रगण्डबहिःसीम्नि दृश्याऽसौ क्रमेण अंसमूलपुरोभागमुल्लंघ्यतदन्तः सीमानुक्रमेणअक्षकाऽस्थनोऽधस्तले प्रसृता, क्रमेण अंसच्छदोरश्छदयोः पेश्योरन्तराले गम्भीरंप्रविष्टा च। अन्ते चाऽसौ कक्षाधराख्यस्थूलसिरायां मिलिता।
अन्तर्बाहुका414 नाम सिरा (११७ चित्रम्) कनिष्टामूलादारभ्य तिर्थक्प्रकोष्ठपृष्टान्तः सीमानुक्रमेण गत्वा कूर्परान्तः सीम्निपुरस्ताद् दृश्या।ततः साप्रगण्डान्तःसीम्नि प्रसृता प्रगण्डमध्यभागे बाहुकञ्चकां निर्भिद्य गम्भीरप्रविष्टशबाहवी संज्ञाया धमन्याः सहचरीभ्यां सिराभ्यां मिलिता। कक्षायां तु ते एव सिरेकक्षाघरा नाम एकाकिनीं स्थूलसिरां सम्पादयतः।अनयोश्च सिरयोः परस्परसंयोगाः प्रकोष्टस्य पुरस्तात् पृष्टतश्च बहुभिःसिराभिस्तिर्यक्-प्रसृताभिर्दर्शनीयाः। विशेषतश्च -
मध्यबाहुका योजनी415 नामस्थूलतिरश्चीना हस्वसिरा कूर्परसन्धेःपुरस्तात् पूर्वोक्तसिरयोः संयोजनी।
**मध्यप्रकोष्ठिका416**नाम सिरा तु (११७ चित्रम्) प्रकोष्टपुरस्तादन्तर्बहि-बहुकयोः सिरयोर्मध्ये ऋजुप्रायं प्रसृता। सा कृपरसन्धेरधोमागे अन्तर्बादुकांसिरां प्रविष्टा। संयुक्ता चाऽसौ प्रकोष्ठपुरस्तादन्तर्बहिर्बाहुकाभ्यां सिराभ्याम्।
अथामीषां सिराणामापूरणमित्थं सम्पद्यते। करपृष्ठे अङ्गुलीपृष्टिकादिसिराभिरापूरितानि सिराजालानि करपृष्ठिकानि नाम। करतले च अंगुलीतलिकादिसिरारचितानि सिराजालानि करपृष्ठिकानिनाम। अस्ति च तद्द्योजनंसिराजालमंगुलीमूलानामन्तरालस्थम्। तल करपृष्ठिकानि उत्तानसिराजालानिमणिबन्धोपकण्ठे स्वल्पसंख्यासु सिरासु परिणम्य बाहुल्येन बहिर्बाहुकायां सिरायांप्रविशन्ति। अन्तःसीमस्थानि तु कानिचिदन्तर्बाहुकायाम्। करतलिकानांपुनः सिराजालानामन्तर्बाहुकायामेव भूना प्रवेशः, मध्यप्रकोष्टिकायां च।बहिःसीमस्थानां च कासाञ्चित् सिराणां बहिर्बाहुकायाम्।
सर्वासाञ्च प्रकोष्ठ-प्रगण्डीयानामुत्तानसिराणाम् अन्तर्बाहुका-बहिर्वाहुकयोःसिरयोर्यथासम्भवं प्रवेशः। अंसपृष्टोद्गतानां तु कासाञ्चिद् बहिर्वाहुकायामंसोपकण्ठे।
इदञ्चात्र स्मर्त्तव्यम्। रक्तमोक्षणाथम् अन्तर्बाहुका-बहिर्बाहुका-मध्य-बाहुकेति सिराणामेकतमाया व्यधो विशेषेण सुकरः। तयाऽन्ययावासिरया कालातिसारादौ म्रियमाणस्य रोगिणो रक्तस्याऽप्यभागपूरणाय लवणजलंप्रस्थमानमधिकं वा लीलयैव रक्तस्त्रोतसि निःक्षिपन्ति कुशलाः, जीवयन्ति चतेन सपदि मुमूर्षूमपि रोगिणमिति। भेषजप्रवेशनमपि क्रियते तत्पथेनैव बहुशः417।
अथ गम्भीरसिराः। सर्वा अप्यूध्वंशास्त्रीया गम्भीरसिराः प्रायेणधमनीनां सहचर्यः, युग्मरूपाश्च। तासांद्व द्वो एकैकस्या धमन्याः पाश्र्वयोग श्ये,ते च अनुप्रस्थगाभियजन्याख्यसिराभिः यतस्ततः संयोजिते परस्परम्।
(११७ चित्रम्) उत्ताना बाहव्याः सिराः।
| <MISSING_FIG href="../../../books_images/U-IMG-1702622088176.png"/> |
[TABLE]
(११८ चित्रम्)
अधःशाखीया उत्तानसिराः।
| <MISSING_FIG href="../../../books_images/U-IMG-1702622485177.png"/> |
| और्वी धमनी, तदन्तःसीम्नि और्वी सिरा | ऊरुजानुपृष्ठिका सिरा |
| पादपृष्ठिका सिरा | त्वाची नाडी |
| ह्रस्वोत्ताना सिरा |
(क)— समग्रं दक्षिणसक्थि (सम्मुखतो दृष्टम्)। (ख)— दक्षिणजङ्घा (पश्चिमतो दृष्टा)।
(द—द—दीर्घोत्ताना सिरा)
संज्ञाश्च तासां धमनोवदेव। यथा —अंगुलीपार्शिवक्यः418, करतलधानुषीउत्ताना, सैव गम्भीरा,419") अरत्निमध्या420 चेति। तासां करसिराणां प्रकोष्ठसिरासु,प्रकोष्ठसिराणाञ्च बाहवी-सिरान्तः प्रवेशः। तत्र बाहव्या धमन्याः पार्श्ववर्त्तिन्यौद्व सिरे सम्मिलिते कक्षाधरासंज्ञामेकाकिनीं स्थूलसिरां सम्पादयतः।
भवति च गम्भोरसिराणामुत्तानसिराभिरपि संयोगः संयोजनीभिः सिराभिःबहुशः।विशेषतश्च अन्तर्बाहुका नाम उत्तानसिरा बाहव्या धमन्याःपार्श्वे गम्भीरंप्रविष्टा तत्सहचरोभ्यां सिराभ्यां मिलिता।
कक्षाधरा421 नाम स्थूलसिरा तु तत्संज्ञाया धमन्याः पार्श्ववर्त्तिनीएकाकिनी च। सा अक्षकास्थ्नोऽधस्तात् प्रथमपर्शुकाया बहिःसीमानं यावत्तथासंज्ञा। तस्याञ्च प्रविशन्ति तदाख्यधमन्याः शाखासहचर्यः सिराः,अंसकपालिन्यंसवेष्टनिकाद्याः। सिराश्च ताः - परस्परमेलनेन त्रिचतुरासु सिरासुपरिणमन्ति। अक्षकास्थ्नोऽधश्च कक्षाधरायां प्रविष्टा बहिर्बाहुका नाम उत्तानसिराऽपि। सेयं कक्षाधरा नाम सिरा प्रथमपशुकामधिरूढ़ा अक्षाधरेति संज्ञांलभते। सा च—
अक्षाधरा422 नाम स्थूलसिरा (१२३ चित्रम्) अक्षकास्थ्नोऽधस्तात्तिर्यग्वक्रीभूय अक्षकोरःफलकयोः सन्धानपृष्ठं यावत् प्रसृता अनुमन्याख्ययाकाण्डसिरया ग्रोवागतया मिलित्वा गलमूलिका नाम अधोमुखी स्थूलसिरासम्पद्यते। सा उरस्यसिराणां वर्णने पुनर्वर्णनीया।
अक्षाधरां च सिरां प्रविशतः — पुरोग्रीविका, अधिमन्या चेति ग्रीवादेश तःसमागते द्वे सिरे प्राधान्यतः। अधिमन्याख्यसिरासंयोगस्थले च तां प्रविशतिदक्षिणतो लसीकाकुल्या, वामतश्च रसकुल्येति विशेषः स्मर्त्तव्यः।
ता एता ऊर्ध्वशाखोयाः सिरा व्याख्याताः।
अथ अधःशाखीयाः सिराः।
तत्रादौउत्तानसिराः। एकैकस्यामधःशाखायामुत्तानसिरासु द्वे प्रधानभूते — दीर्घोत्ताना, हस्वोत्ताना चेति (११८ चित्रम्)। तत्र—
दीर्घोत्ताना423नाम सिरा (११८चित्रम्) दीर्घतमा सक्थिसिरासु। सा पादान्तःसीम्न आरभ्य जङ्घान्तःसीमां यावत् प्रसृता, ततो जानुसन्धि-पृष्टान्तःसीमां संस्पृश्य पुनरूरौ तिर्यगूर्ध्वं पुरस्तादागता क्रमशः स्थूलीभूता अनुवंक्षणीयेन ठकारच्छिद्रेणऔर्वी सिरां प्रविष्टा। सेयं वचिद् युग्मरूपा निम्नार्धे।
ह्रस्वोत्ताना424नाम सिरा (११८ चित्रम्) बहिर्गुल्फस्य पश्चिमदेशादारभ्य तिर्यग् जानुसन्धिपृष्ठं गता सन्धिपृष्ठखातस्याच्छादनीं गभ्भोरप्रावरणों निर्भिध ऊरुजानुपृष्टिकां नाम गम्भीरसिरां प्रविष्टा। सा तत्रैव गम्भीरप्रवेशात् पूर्वम् ऊर्ध्वमुखीम् उत्तानयोजनीसंज्ञां सिरां द्वारीकृत्य दार्घोत्तानया मिलिता।
अनयोश्च सिरयोरापूरणमित्थं सम्पद्यते। पादपृष्ठे धानुष उत्तानं सिराजालं पादांगुलीपृष्टिकादिसिरा-भिरारब्धं पादपृष्टिकंनाम। पादतले च तादृशं तत् पादांगुल्यादिगतसिराभिरारब्धं पादतलिकं नाम। तयोश्च परस्परसंयोजनं सिराजालमंगुलोमूलानामन्तरालस्थं तदन्तर्वहिःसीम्नोरवस्थितम्। तत्र पादपृष्ठीयानां पादबहिःसोमस्थानाञ्च सिराणां प्रवेशो हस्त्रोत्तानायाम्। अपरासान्तु दीर्घोत्तानायांम्। जङ्घायामूरौ च अन्या अपि उत्तानसिराः परस्परसंयोजनैः सिराजालैबर्धमानाकृतयो ह्रस्वदीर्घयोरुत्तानसिरयोरापूरण्यो भवन्ति। दीर्घोत्तानां प्रविष्टाश्च काश्चिदुदरजघनोपस्थगता उत्तानसिराः उत्तानौदरिकी प्रभृतयः। अस्ति चालैका दीर्घसिरा उत्तानौदरिक्याः उरः पार्शिवकसिराभिः सह संयोजनी- औदरौरसी नाम, सा दीर्घोत्तानां नाम सथिसिरां परम्परया कक्षाधराख्य- सिरया संयोजयतीति वैचित्र्यम्।
अथ गम्भीरसिराः। गम्भीरसिरास्ताउँदधःशाखाया ऊर्ध्वशाखावदेव भूम्ना, प्रायेण युग्मरूपाः, धमनीसहचर्यः, तत्संज्ञाश्च। तासु पादतलगानां संग्रहः पश्चिमजंघिकयोः सिरयोः। पादपृष्ठिकानान्तु पुरोजंघिकयोः। पुरःपश्चिम- जंघिकानां सिराणां पुनः प्रवेशः ऊरुजानुपृष्ठिकाख्यायां गम्भोरसिरायाम्।
ऊरुजानुवृष्ठिका च मांसं निर्भिय पुरोगता और्वो नाम एकाकिनी स्थूल- सिरा सम्पद्यते। ऊर्ध्वं च वंक्षणाद् उरोगुहां प्रविष्टा तु सैव अधिश्रोणिका425बाह्या नाम सिरा भवति तदाख्यधमन्याः पार्श्ववर्त्तिनी (११२।१२३ चित्रयोः)।
द्वितीयोऽध्यायः।
अथातः शिरोग्रीवीयसिरावर्णनीयमध्यायं व्याख्यास्यामः।
शिरोश्रीवीयाः सिराश्चतुर्धा विभज्य व्याख्येया वर्णनासौकर्याय। तद्-यथा —स-मुखमण्डलीयाः शिरोबाह्याः सिराः, श्रीवासिराः, शिरोऽभ्यन्तरीयाःसिराः, नेत्रगुहान्तरीयाः सिराश्चेति।
अथ समुखमण्डलीयाः शिरोबाह्याः सिराः।
एतासु बाह्यसिरासु—शिरस एकैकार्धे नव मुख्याः (११६ चित्रम्)।ताश्चललाटिका, अधिभ्रुवा, नासामूलिका, अग्रिमवक्तिका, अनुशङ्खा, अन्तर्हान घ्या,पश्चिमकर्णिका, पश्चिमवक्तिका, कपालमूलिका चेति-संज्ञाः। ताभिर्यथासम्भवंपरस्परसंयुक्ताभिः स-मुखमण्डलस्य शिरसो बहिःस्थानां सिरावलीनां रक्तमभिप्रवर्त्तते ग्रीवासिरासु।तासां —ललाटिका, अधिभ्रुवा चेति सिराद्वयं एकैकतोललाटस्य नासामूलस्य च पार्श्वस्थं केषाञ्चित् ललाटे दीर्घोःर्ध्वपुण्ड़वद् दृश्यते।
नासामूलिका426 नाम सिरा पूर्वोक्तयोः संयोगसम्भवा नासामूलात्तिर्यगधः प्रसृता।
सैव गण्डकूटाऽधस्ताद् अग्रिमवक्तृका427 नाम सिरा सम्पद्यते।तदापूरणं च नेताधरप्रदेश-नासापार्श्व-गण्डाऽधरोष्टादिस्थानेभ्यः समागताभिःसिराभिः। सा हनुकोणाऽधःप्रदेशे पश्चिमवक्तिकाख्यसिराया अश्रिमशाखयामिलिता, ततो ग्रीवायामनुमन्यां नाम स्थूलसिरांप्रविष्टा।
**अनुशंखा428**नाम सिरा शङ्खदेशस्थैः सिराजालैरापूरिता कर्णपालि-पुरस्ताद् दृश्या। सा कर्णमूलोऽधो गम्भीरं प्रविश्य अन्त-र्हानव्यथा सिरया मिलिता।
अन्तर्हानव्या429नाम सिरा स्वसंज्ञाया धमन्याः सहचरी अन्तर्हानव्यैःसिराजालैरापूरिता। सा अधोहनुसन्धानाधस्ताद् अनुशङ्ख्या सिरया मिलिता।
पश्चिमकर्णिका430 नाम सिरा कर्णपश्चिमदेशाधः पश्चिमवक्त्रिकांसिरां प्रविशति।
पश्चिमवक्त्रिका431नाम सिरा तु (११६ चित्रम्) कर्णमूले अनुशङ्खाऽन्तर्हानव्याख्ययोः सिरयोर्मेलकसम्भवा हनुकोणपृष्ठस्था, सा पुरस्ताद् अग्रिमवक्तिकयासिरया मिलिता। ग्रीवायामधःप्रसृता तु सैव अधिमन्या नाम सिरा सम्पद्यते।
कपालमूलिका432नाम सिरा (११९-चित्रम्) करोटिपश्चिमस्थस्यसिराजालस्य मेलकेनाऽरचिता पश्चिमकपालमूले निबद्धं पृष्ठच्छदाख्यपेशीमूलंनिर्मिध एकैकतः कपालमूलिकाख्ये त्रिकोणे प्रविष्टा। सा गम्भीरश्रीवीयाभिःसिराभिः संयुज्यते, प्रविशति वा अनुमन्याख्यां स्थूलसिराम्।
अथ ग्रीवासिराः।
पञ्च पञ्च हि सिरा एकैकार्धे ग्रीवाया मुख्याः—पुरोग्रीविका, अनुमन्या,अधिमन्या, पश्चिमग्रीविका, मस्तिष्कमातृका चेति (११चित्रम्)।तासुअनुमन्या स्थूलतमा मुख्यतमा च। तत्र—
पुरोग्रीविका433नाम सिरा जिह्वामूलस्थस्य सिराजालस्य सम्मेलन सम्भवाश्रीवामध्यरेखायाः एकैक-पाश्वतोऽधस्तात् प्रसृता गल-मूले अधि-मन्याम्, अक्षाधरांसिरां वा प्रविष्टा।
**अनुमन्या434**नाम स्थूला सिरा (१००/११९चित्रयोः) श्रीवापार्श्वेमन्याख्यपेश्या प्रावृता प्रायस्तदनुक्रमेणाधःप्रसृता च। सा आदौ अन्तर्मातृकायाः, ततश्च महामातृकाया धमन्याः पार्श्ववर्त्तिनी प्राधान्येन मस्तिष्काऽभ्यन्तरीयंसिरारक्तं संगृह्णाति।मुखमण्डलार्धीयस्य उत्तानसिराजालस्य तत्पार्श्वीयग्रीवा-सिराणां च भूम्ना तत्रैव प्रवेशः। सेयं शिरोऽन्तीयायाः अनुपार्शिवकाख्यसिरासरितोऽनुवृत्तिरूपा करोटिमूले (१२२ चित्रम्)। सा हि पश्चिमकपालमूलपार्श्वस्थेन मन्याखाताख्यसिरामार्गेण ग्रीवां प्रविष्टा वक्त्र-जिह्वा-गलविलादिभ्यआगताभिः सिराभिः, कपालमूलिकादिसिराभिश्चाऽपूयते। संयुज्यते चेयमधस्ताद्गलमूले अक्षाघराख्यया सिरया, गलमूलिकाख्य-काण्डसिराया निर्माणाय।
**अधिमन्या435**नाम सिरा भूम्ना शिरोग्रीवबाह्यानां सिराणां, विशेषतश्चमुखमण्डलीयगम्भीरसिराणां, रक्तसंग्राहिणी। सा ग्रीवाया एकैकपार्श्वे मन्याख्यां
(११६ चित्रम्)
स-मुखमण्डलीयाः शिरोबाह्याः सिरा।
| <MISSING_FIG href="../../../books_images/U-IMG-1702622848182.png"/> |
| अनुशंखा* | असंग्रीवीये तिरश्चीनसिरे |
| सैव गम्भीरा* | पश्चिमग्रीविका सिरा |
| अन्तर्हानव्या* | अनुमन्या सिरा |
| पश्चिमकर्णिका* | अधिमन्या सिरा |
| कपालमूलिका* |
(*—एतच्चिह्नं सिरावाचकम्। च—चिबुकाधरीयो ग्रन्थिः। ग—ग्रीवाप्रच्छदा
प्रावरणी। पृ—पृष्ठच्छदा पेशी। एतान्यक्षराणि चित्रान्तर्दृश्यानि।
चित्रव्याख्या— १ । ललाटिका सिरा। २ । अधिभ्रुबा सिरा। ३ । नासामूलिका सिरा। ४ । तत्प्रभवाः सिराः।५ । ओष्ठप्रभवाः सिराः। ६ । अग्रमिवक्तृका सिरा। ७ । रासनी सिरा। ८ । गलबिलागताः सिराः। ९ । पुरोग्रीविका सिरा। १० । उत्तरग्रैवेयकी सिरा। ११ । ग्रीवाप्रभवाः , सिराः। X—एतचिह्नं पश्चिमवक्तृका सिरान्तर्दृश्यम् ।
(१२० चित्रम्)
कपालपत्रान्तरिकाः सिराः।
(अत्र कपालास्थ्ना निर्मापकं बाह्यपत्रकमपसारितम्अभ्यन्तरसिराजालप्रदर्शनाय)
<MISSING_FIG href="../../../books_images/U-IMG-1702623121183.png"/>
चित्रव्याखा—१। अग्रिमकपालिकाः सिराः। २ । शङ्खपूर्वाः सिराः। ३ । पार्श्वकपालिकाः सिराः।४-४। पश्चिमकपालिकाः सिराः।
पेशीमधिरुढ़ा कर्णमूलाद् अक्षकास्थिमध्यविन्दु यावत् तिर्यक् प्रसृता।सेयंपुरःपश्चिमश्रीविकाभ्यां सिराभ्याम्, अंस-ग्रीवीय-तिरश्चीनसिराभ्यां चाऽपूरिताग्रीवामूले अक्षाधरां सिरां प्रविशति (११९चित्रम्)।
पश्चिमग्रीविका436नाम सिरा करोटिपश्चिमस्थाभिरुत्तानसिराभि-राषूरिता पश्चिमकपालमूलादारभ्य तिर्यग् ग्रीवापार्श्वे अधिमन्यां सिरां प्रविष्टा ।
मस्तिष्कमातृका437 नाम सिरा तत्संज्ञाया धमन्याः पार्श्ववर्त्तिनी, सामस्तिष्कमूलिकसिराजालस्य ग्रीवाकशेरुकोयसिराजालस्य च रक्तसंग्राहिणी।सेयं ग्रीवाकशेरुकाणां बाहुप्रबर्धनेषु स्थितेन ऋजुरन्ध्रपथेन गत्वा अन्ते गलमूलिकांनाम सिरां प्रविशति ।
अथ शिरोऽभ्यन्तरीयाः सिराः।
करोटिसम्पुटाभ्यन्तरीयास्तावत् सिरास्त्रिविधाः - मस्तिष्कीयाः, सिरासरितश्चेति । तत्र-कपाल-पलान्तरिकाः,
१। कपालपत्रान्तरिका438ःनाम (१२० चित्रम्) स्थूलसिराःकपालास्थनां निर्मापकस्य पत्रकद्वय-स्यान्तरालेषु प्रसृताः। ता मस्तिष्कवृतिगाभिःसिराभिः, सिरासरिद्भिः, करोटिबाह्याभिः सिराभिश्च सम्बन्धवत्यः सूक्ष्मसिराभिः कपालास्थिच्छिद्रगाभिः। चतुर्विधाश्च ताः — अग्रिमकपालिकाः,शङ्खपूर्वाः, शङ्खपश्चिमाः, पश्चिमकपालिकाश्चेति। तासां परस्परं शाखाप्रतानैःसंयोगः, पुरःपार्श्व-पश्चिमकपालानां पत्रकद्वयान्तरालेषु ।
२। मस्तिष्कीयाः सिराः पुनस्त्रिविधाः — मस्तिष्क प्रभवाः, अनुमस्तिष्कप्रभवाः, सुषुम्नाशीर्षकप्रभवाश्चेति।
तासामिमे विशेषाः। (क) तासु सिराप्राचीरिका अतीव तनवः, मांसतन्तु-हीनाः, सिराकपाटिकारहिताश्च। (ख) न च ताः धमनोसहचर्यः (ग) सर्वच तासां रक्तं सिरासरित्सु सिराकुल्यासु वा प्रविशति।
तत्र मस्तिष्कप्रभवाः सिराःद्वेधा विभज्यन्ते - मस्तिष्कबाह्याः, मस्तिष्काभ्यन्तरीयाश्चेति। तासां बाह्याः प्रायेण मस्तिष्कपिण्डि कानामन्तरालस्थासु सीतासुप्रसृताः। ताः स्थानभेदेन उत्तराऽधर-मध्यम-तलगाख्यासु चतुर्विधसिरासुविभक्ताः।
मस्तिष्काभ्यन्तरीयाः सिरास्तु मस्तिष्कस्याभ्यन्तरभागेभ्यः सम्भूय स्थूल-सिरयोः परिणमन्ति। ते च स्थूलसिरे मस्तिष्काभ्यन्तरीयसिरामञ्जरीद्वयस्यरक्तसंग्राहिण्यौ मस्तिष्क सेतोरधस्तात् पश्चिमतो निर्गते। तयोः संयोगसमुत्था**महती मस्तिष्कमूलिका439**नाम सिरा मस्तिष्कमूले दीर्घिकायोजनीं नामसिराकुल्यां प्रविष्टा। सन्ति चापरे अप्यत गम्भीरसिरे - अन्तर्मस्तिष्कीये नाम।
**अनुमस्तिष्कप्रभवाः440**सिराः पुनरनुमस्तिष्कीयरक्तसंग्राहिण्यः, ता उत्तरा-धरयोः सिरावल्यो-र्विभज्यन्ते। तत्र उत्तराः सिरावल्यः संघीभूय दीर्घिकायोजनींनाम सिराकुल्यां, महतीं मस्तिष्कमूलिकां सिरां वा प्रविशन्ति।पारिवकाख्ये सिरासरितौ पश्चिमाधरिकां सिराकुल्याञ्च।
सुषुम्नाशीर्षकप्रभवाः सिरास्तु उष्णीषकप्रभवाभिःमस्तिष्कमूलिकाख्यं सिराचक्रं प्रविशन्ति, अधरे वा सिराकुल्ये अश्मतटिनी-संज्ञो।सम्बन्धश्च तासां प्रायेण सुषुम्नाकाण्डीयसिराभिरण्यधस्तात्। अन्ते च तासांशोणितं मस्तिष्कमातृकयोः सिरयोरभिविशन्ति। ते च वर्णितपूर्वे।
३। सिरासरितःसिराकुल्या441 वा नाम (१२१११२२ चित्रयोः)तत्र तत्र स्तरद्वये विभक्ताया मस्तिष्कबहिर्वृतेरन्तरालस्थाः सिरा-मार्गाः शिरः-सम्पुटस्य अभ्यन्तरगाः। ताः कपालास्थ्नां जतूका-शङ्कास्थ्नोश्च सिरापरिखासुवर्णितचरासु प्रवहन्ति, आपूर्यन्ते च मस्तिष्कीयाभिः सिराभिः प्राधान्येन।स्वयञ्चापूरयन्ति ताः अनुपार्शिवकाभ्यां सिरासरिभ्याम् अनुमन्याख्ये ग्रीवासिरे।तेषाञ्च सिरामार्गाणां स्थूलदीर्घाः सिरासरित्संज्ञाः, तनुहस्वास्तु सिराकुल्याः नाम।साधारणी वा संज्ञा सर्वासां सिरासरिदिति।
ताश्च द्विविधाः। पश्चिमोत्तराः पश्चिमाधराश्चेति। तासां पश्चिमोत्तराःपश्च।यथा—
(१)दीर्घिकाउत्तरा442 नाम सिरासरित् पश्चिमोत्तरासु सिरासरित्सुप्रधाना दीर्घतमा च सा करोटिपटलान्तः मध्यरेखावस्थितां दीर्घिकां नामसिरापरिखामाश्रित्य प्रवहति। धार्यते च सा दात्रिकाख्यकलाया ऊर्ध्वधारया
(१२१ चित्रम्)
शिरोऽभ्यन्तरीयाः सिरासरितः सिराकुल्याश्च।
(करोटेरनुलम्बच्छेदेन दर्शिताः)
| <MISSING_FIG href="../../../books_images/U-IMG-1702820463186(1"/>.png) |
| दीर्घिका उत्तरा | दीर्घिका अधरा |
| दात्रिका कला | उत्तर-दीर्घिकायाः अग्रभागः |
| दीर्घिका योजनी | पश्चिमकपालिका |
| महासिरावर्तः | अनुपार्श्विका सिरासरित् |
म— मस्तिष्कवृतिस्थाः सिराः ।
स—सिरासरिदापूरण्यः।
(१२२ चित्रम्)
(ता एव करोटेरनुप्रस्थच्छेदेन करोटिभूमौ दर्शिताः)
| <MISSING_FIG href="../../../books_images/U-IMG-1702820892186(1"/>-Copy.png) |
| त्रिकोणिकायोजनं सिराचक्रम् | चाक्षुषं सिराजालं स्थूलसिराद्वयसहितम् |
| त्रिकोणिका सिरासरित् | त्रिकोणिका सिरासरित् |
| अश्मतटिन्याः योजनी सिरा | अश्मतटिनी सिराकुल्या (उत्तरा) |
| महासिरावर्तः | सैव अधरा |
| पश्चिमकपालमूलिनी | अनुपार्श्विका |
स्तरद्वयविभक्तया। स्तरद्वयं च तत् सिरापरिखातटयोः संसक्तम्। सेयं सिरासरित्पुरस्ताद् झर्झरास्थनः शिखरकण्टकादारभ्य पश्चिमकपालस्य पुरस्तलस्थं महावर्त्तयावद् गत्वा तत्रैव अनुपाविकाभ्यां सिरासरियां, क्वचिद् दक्षिणपाश्विकया वासिरासरिता मिलिता। तदुभयतश्च करोटिपटले क्वचित् क्वचिद् दृश्यानित्रिचतुराणि सिराविस्फारस्थानानि सिरापल्वलानि443नाम येषु प्रविशन्तिकाश्चिन्मस्तिष्कीया सिराः।
दीर्घिकामुत्तरां नाम सिरासरितं च प्रविशन्ति उत्तरा मस्तिष्काभ्यन्तरीयाः,कपालान्तरिकाः, मस्तिष्कवृतिगाश्च सिराः।
(२) दीर्घिका अधरा444नाम सिराकुल्या दात्रिकास्यस्य मस्तिष्कगोलार्धद्वयविभाजकस्य कलाभागस्य अधोधारायां पश्चिमार्धानुक्रमेण प्रसृतानातिस्थूला सिरा तत्स्तरद्वयान्तराले आलम्बते। सा दीर्घिकायोजन्याख्ययापश्चिमस्थया सिराकुल्यया मिलिता।
(३)दीर्घिकायोजनी445 नाम सिराकुल्यामस्तिष्क व हिवृतिभूतायाःकलायाः मध्यरेखास्थिता पूर्वोक्तया सिराकुल्यया पुरः संयुज्यते, पश्चिमतश्चमहावर्तेन।
(४)**अनुपार्श्विके446**नाम द्वे स्थूलतमे सिरासरितौ पश्चिमकपालस्यआभ्यन्तरसिराकेन्द्रं महावर्त्तमुभयतो बाहुवदवस्थितयोः पार्शिवकाख्यसिरापरिखयोःप्रवहतः। धार्यते च ते अनुप्रस्थमवस्थितस्य पक्षपुटसंज्ञस्य मस्तिष्क-बृतिभागस्य पश्चिमधारया स्तरद्वयविभक्तया। स्तरद्वयं च तत् पार्शिवकसिरापरिखातटयोः संसक्तम्। तयोर्मध्यस्थो महावत्तः पुरस्तादूर्ध्वं दीर्घिकया, अधश्चअनुदीर्घिकया सिरासरिता संयुक्तः। तत्रायं विशेषः—दक्षिणानुपार्शिवकाख्यासिरासरित् कदाचिद् उत्तरदीर्घिकाया अनुवृत्तिरूपा, वामपार्शिवका च अनुदीर्घिकायाः, तदा न दृश्यते तयोः परस्परसंयोगो महावर्त्ते। ते च अनुपार्शिवकाव्येसिरासरितौ बहिःसीम्नोर्वक्रोभूय अर्धचन्द्रिकाख्ययोः सिरापरिखयोः (पूर्वोक्तयोः) प्रवहतः। सङ्गते च ते बहिःप्रान्तयोः अनुमन्याख्यस्थूलसिराभ्याम्।
(५)पश्चिमकपालिका447 नाम हस्वा सिराकुल्या पश्चिमकपालमूलादूर्ध्वं मध्यरेखानुक्रमेण गत्वा महासिरावत्तंप्रविष्टा।
महासिरावर्त्तः448, महावर्त्तो वा नाम पूर्वोक्तानां पञ्चानामपि सिरासरितां सन्धिसन्निपातः पश्चिमकपालस्य आभ्यन्तरतलकेन्द्रस्थः ।तमेवअधिपतिसंज्ञ सद्योमारकं सिरामर्मेति वर्णयन्ति प्राञ्चः।
पश्चिमाधरास्तावत् सिरासरितश्चतस्त्रो युग्मरूपाः। अस्ति चालैकं सिरा-कुल्याचक्रम्, अपराश्च तनवः सिराकुल्यास्तदुभयतो मस्तिष्कमूले। तद्यथा—
(१) **त्रिकोणिके449**नाम सिरासरितौ (१२२ चित्रम्) युग्मासु सिरा-सरित्सु प्रधानभूंते। ते जतूकास्थ्नः शरीरमुभयतो मातृकापरिखयोरवतिष्ठेते।तत्प-रिसरस्य त्रिकोणप्रायत्वाच्च तयोस्त्रिकोणिकेति संज्ञा। एकैका च त्रिकोणिकाअग्र जतूकापक्षान्तरालादारभ्य शङ्खास्थ्नः अश्मभागानं यावत् प्रसृता।ताश्चनिर्भिध प्रवर्त्तते अन्तर्मातृका नाम धमनीति तद्द्वैचित्र्यम्। तत्परिसरे च दृश्यन्तेकलावृतास्तृतीयादिषष्ठ्यन्ता नाड्यः, कलांशाश्च तन्तुजालाकाराः।
आपूरणञ्च त्रिकोणिकयोः सिरासरितोः सम्पद्यते सिराभिश्चाक्षुषोभिः,मस्तिष्कीयाभिश्च। आपतति च तद्रक्तं पश्चिमतः अनुपाश्विकयोः सिरासरितोःअश्मतटिन्याख्यसिराकुल्याद्वारेण।
(२) **त्रिकोरिणकायोजन्यौ450**नाम द्व हस्बे सिराकुल्ये अग्रिमापश्चिमा चेति। ते जतूकास्थ्नः पोषणकखातस्य पुरः पश्चाच्च अनुप्रस्थमवस्थितेत्रिकोणिकाख्ये सिरासरितौ परस्परं योजयतः। पोषणकग्रन्थिं परिवेष्ट्यस्थितत्वाच्च तयोर्मिलितयोः कदाचित्परिपोषणकं सिराचक्रम्— इति संज्ञा।
(३)अश्मतटिन्य451 Sinuses “)ौनाम एकैकतोद्वे द्वे तनुदीर्घे सिराकुल्येउत्तराधरे शङ्कास्थनः अश्मतटभागमधितिष्ठतः। तासां चतसृणामुत्तरे सिराकुल्येदीर्घतरे अनुपाश्विकाभ्यां सिरांसरिद्भ्यां त्रिकोणिकयोः संयोजन्यौ। अधरे तुसिराकुल्ये त्रिकोणिकागतं रक्तांशं, सुषुम्नाशीर्षकधम्मिल्लकोष्णोषकस्थसिराणांरक्तं च संगृह्य अनुमन्याख्ये ग्रीवासिरे प्रापयतः।
(४)मस्तिष्कमूलिकं452 नाम सिराकुल्याचक्र मस्तिष्कमूलभागेपश्चिमकपालमूलमधिशेते। तद् अधरयोरश्मतटिन्योरनुप्रस्थं संयोजनम्।
तद्रक्तं च पृष्ठवंशान्तः कशेरुकान्तरीयमग्रिमसिराजालं प्रविशति महाविवरस्यपरिसरमाश्रित्य।मस्तिष्कमूलिके नाम ग्रीवासिरे च पूर्वोक्ते तद्रक्तं संगृहीतः।
सन्ति चापराः सूक्ष्माः सिराकुल्याः पार्श्वकपालयोः शङ्कास्थ्नश्च धमनी-प्रतानाङ्केषु संन्यस्ताः। ता मध्यममस्तिष्कवृतिगयोर्धमन्योः शाखासहचर्यः।तासां रक्तं भूम्ना दीर्घिकायां सिरासरिति, तत्संयुक्तपलवलेषु वा प्रविशति।
स्मर्त्तव्यञ्चेदमत्र प्रसङ्ग। सिरासरितां रक्ताधिक्ये सति तत्परीवाह-भूताभिः सिराभिः सप्तावसंख्याभिः मस्तिष्कान्तरीयरक्तस्य बहिर्निर्गमः ।ताः हि करोटिच्छिद्रपथैः पाश्र्श्वकपालादिस्थितैर्विनिर्गत्य ग्रीवासिरासु रक्त-मभिवहन्ति। ताः सिरापरीवाहिका453 संज्ञाः।
अथ नेत्रगुहान्तरीयाः सिराः।
द्विविधाः खलु सिराः नेत्रसम्बन्धिन्यः।ताश्चाक्षुषीसंज्ञाया धमन्याःशाखाप्रतानसहचर्यः। द्विविधाश्च ताः—नेत्रगोलकीयास्तत्परिसरोत्थाश्च। तवाद्याः —सिरागुल्मिकाः नाम नेत्रगोलकस्य शुक्लकर्बुरवृत्योरन्तराले तृणगुल्मवद्दृश्याः, चतस्त्रः पञ्च वा प्रतिनेत्रम्।ताः सम्मिलिता उत्तराधर चाक्षुष्योः सिरयोःपरिणमन्ति। ते च सिरे एकैकतस्त्रिकोणिकां नाम सिरासरितं प्रविशतः।विस्तरस्तु तासामिन्द्रियखण्डे द्रष्टव्यः।
तृतीयोऽध्यायः।
अथातो मध्यकाय सिरावर्णनीयमध्यायं व्याख्यास्यामः।
प्रायेण सार्वकायिकसिराणां रक्तसंग्राहिण्यौ द्व महासिरे उत्तराधरे नाम,ते हृदयस्य दक्षिणालिन्दं प्रविशतः। सन्ति च पृथगेव ताभ्यामुरसि फुस्फुसागताःसिराः, हार्दिक्यः सिराश्च। उदरे च प्रतीहारिणो नाम स्थूलसिरा यकृदभिगामिनी। नास्ति तासां साक्षात् सम्बन्धो महासिराभ्याम्।
तत्रभूम्ना ऊर्ध्वशाखासिराणां, कासांचिद् ग्रीवासिराणां च, संग्रहःअक्षाघराभ्यां सिराभ्याम्। शिरोश्रीवीयाणां च अनुमन्याभ्याम्। अक्षा-धरानु-मन्ययोश्च मेलकसंभूता एकैकतो गलमूलिका नाम काण्डसिरा, —सा कासांचित्शिरोश्रीवीयसिराणामपि साक्षाद् रक्तसंग्राहिणी। उभाभ्यां च गलमूलिकाभ्यांसम्भवति उत्तरा महासिरा। सा अपराभिः औरसोभिः सिराभिर्वाह्याभ्यन्तरीयाभिरापूरिता प्रविशति हृदयदक्षिणालिन्दमूर्ध्वदेशात्। फुस्फुसागताः सिराः पुनःविशुद्धरक्तवहाः हृदयस्य वामालिन्दप्रवेशिन्यः। हार्दिक्यस्तु हृदयदक्षिणालिन्दप्रवेशिन्यः। ता एता औरसीसंज्ञाःसिराः समासेन व्याख्याताः।
अधःशाखीयसिराणां पुनः संग्रहो भूम्ना औवभ्यां सिराभ्याम्। ते चवंक्षणदरीप्रविष्टे अधिश्रोणिके बाह्यनाम स्थूलसिरे भवतः। गुदोपस्थवस्तिगुहादिसिराणां संग्रहस्तु भूम्ना अधिश्रोणिकाभ्यामाभ्यन्तरीभ्याम्। अधिश्रोणिकयोश्च बाह्याभ्यन्तर्योः संयोगेन एकैकतः सम्भूता अधिश्रोणिका साधारणीनाम स्थूलसिरा, सा संग्राहिणी कटित्रिकोयसिराणां च कासाञ्चित्। उभयोश्चसाधारण्योरधिश्रोणिकयोर्मेलनेन सम्भवति अधरा महासिरा। सा अपराभि-रुदसिराभिर्वाह्याभ्यन्तरीयाभिरापूरिता प्रविशति हृदयदक्षिणालिन्दमधोदेशात्।
प्रतोहारिणी सिरा तु आमाशयपक्काशयप्लीहादिरक्तसंग्राहिणी यकृदेवप्रविशति। संगृह्यते च तद्रक्तमधरायां महासिरायां याकृतीभिः सिराभिः।
पृष्ठवंशीयसिराणां पुनग्रीवा-पृष्ठ-कटिगतानां क्रमेण ग्रीवा-पृष्ठ-कटिदेशीय-सिरासु पूर्वोक्तासु प्रवेशः। ताः पृथगेव वक्ष्यामः शिष्यबुद्धिवैशद्याय।
अथ औरस्यः सिराः।
औरसीसंज्ञासु सिरासु द्वादश मुख्याः—द्वे गलमूलिके, एका उत्तरामहासिरा, फुस्फुसीय-सिराश्चतस्रः, हार्दिक्यश्च सिराः पञ्च षड् वा।
**गलमूलिके454**नाम स्थूले काण्डसिरे (०१२३ चित्रम्) गलमूलाभ्यांतिर्यगधो गत्वा महाधमन्यास्तोरणभागादूर्ध्वं परस्परं मिलिते। ताभ्यां ग्रीवांसबाहुसिराणामखिलानां संग्रहः। तयोः—
दक्षिणा गलमूलिका455 सार्धाङ्गलमालदीर्घा दक्षिणाक्षकोरःफलकसन्धानपृष्ठे दक्षिणयोरक्षाधरानुमन्ययोः संयोगसमुत्था। अधःप्रसृता तिरश्चीनागतया वामगलमूलिकया मिलिता प्रथमदक्षिणोपपशुकापृष्ठतः। सा काण्डमूलाया धमन्याः पुरस्ताद् दक्षिणतश्च दृश्या।तदापूरण्यश्च सिराश्चतस्रः। यथा —दक्षिणा मस्तिष्कमातृका, अन्तःस्तनिकाअधरग्रैवेयकी, प्रथमा पर्शुकानुगा चेति456। उत्तरा पर्शकानुगामेलनी दक्षिणा चतामेव प्रविशति प्रायः।
वामा गलमूलिका457 सार्धाङ्गुलदीर्घा वामाऽक्षकोरःसन्धानपृष्ठे दृश्यावामयोरक्षाघराऽनुमन्ययोः सिरयोः संयोगसमुत्था। सा अत्यन्ततिरश्चीनगत्यापूर्वोक्तप्रदेशे दक्षिणगलमूलिकया सिरया मिलिता उत्तरां महासिरां सम्पादयति।उल्लङ्घयति च सा तिरश्चीनगत्या पश्चावर्त्तिनो वामामक्षाघरां धमनीम्, अन्तःस्तनिकाञ्च, वामामनुकोष्ठिकां प्राणदाञ्च नाड़ी, क्लोमनलिकां, काण्डमूलाख्यांधमनीञ्च । आपूरयन्ति च तां पूर्ववदेव सिराः वामाः, वामा प्रथमपर्शकानुगा-मेलनी उत्तरा च सिरा कदाचित् (१८ चित्रमपि द्रष्टव्यम्)।
अन्तःस्तनिके458 नाम सिरे (१२३ चित्रम्) स्वसंज्ञयोर्धमन्योःसहचर्यो। ते उरःपरिसरान्तः उरःफलकपार्श्वसन्धानरेखानुक्रमेणोभयत ऊर्ध्वंप्रसृते। तयोदक्षिणा दक्षिणां, वामा च वामां गलमूलिकां प्रविष्टा। तेउरःपरिसरीयाणां बहूनां बाह्याभ्यन्तरसिराणां रक्तसंग्राहिण्यौ।
अधरग्रैवेयक्यौ459 नाम सिरे (१२३ चित्रम्) ग्रैवेयकप्रन्थिमूलस्थात्सिराचकात् सम्भूय अधोमुखं गत्वा गलमूलिकयोः सिरयोः प्रविष्टे पूर्ववत्।तच्च सिराचक्रमापूर्यते श्वासाऽन्ननलिकादिसमुत्थाभिरनेकाभिः सिराभिः।
पर्शूकानुगाः460नाम सिराः स्वसंज्ञानां धमनीनां सहचर्यः एकैकतएकादशसंख्याः (१२३ चितम्)।तासां प्रथमपशुंकानुगे पृष्ठवंश पर्शुका-सन्धान-देशाभ्या-मूर्ध्वं गत्वा गलमूलिकयोः सिरयोः प्रविष्टे — बामा वामां, दक्षिणा चदक्षिणामिति क्रमेण। द्वितीयतृतीयचतुर्थीनान्तु पर्शकानुगसिराणां संयोगेनएकैकतः सम्भूता उत्तरा पर्शुकानुगामेलनी461 नाम सिरा।तयोर्वामा वामांगलमूलिकां प्रविष्टा, दक्षिणा तु दक्षिणां गलमूलिकां, दक्षिणपुरोवंशिकां वा।अपरासां तु पर्शकानुगानां सिराणां प्रवेशः पुरोवंशिकाख्यासु सिरासुवक्ष्यमाणासु। सर्वाश्च पर्शुकानुगा उरःपरिसरस्य पृष्ठस्थानां सिराणां पार्श्वीयसिराणां च संग्राहिण्यः।
अथ उत्तरा महासिरा।
उत्तरा महासिरा462 उत्तरशरीराधंस्य सिरारक्तसंग्राहिणी (१२३ चित्रम्)स्थूलतमसिराणामन्यतमा पञ्चाङ्गुलदीर्मा च। सा गलमूलिकयोः सिरयोः संयोगेननिर्मिता दक्षिणप्रथमोपपर्शकापृष्ठादारभ्य उरःफलकस्य दक्षिणसीमानुक्रमेणाधःप्रसृता, दक्षिणतस्तृतीयोपपशुकां यावद् गत्वा हृदयस्य दक्षिणालिन्दं प्रविष्टा।सेयमधरार्धे हृदयधरस्य कलाकोषस्य दक्षिणांशेनाच्छाद्यते।
व्यतिकरश्च तावदस्या इत्थंभूतः। तस्याः पुरस्ताद् —दक्षिणफुस्फुसस्यपुरोधारा तदाच्छादिकलासहिता। पश्चिमतो दक्षिणफुस्फुसस्य वृन्तदेशः,प्राणदा च नाड़ी दक्षिणा। दक्षिणतो—दक्षिणा अनुकोष्टिका नाड़ी, दक्षिणफुस्फुसश्च तच्छादिकलासहितः। वामतश्च आरोहिणी महाधमनी।
अथास्या आपूरण्यः सिराः यथा —पुरोवंशिका दक्षिणा, हृत्कोषीयाः सिराः,अपराश्च फुस्फुसान्तरालीय-रसग्रन्थ्यादिप्रभवाः।सेयम्—
**पुरोवंशिका दक्षिणा463**नाम सिरा (१२३ चित्रम्) पृष्टवंशस्य पुरस्ताद्दक्षिणपार्वानुक्रमेण दृश्या, सा पुरोवंशिकाख्यसिरासु दीर्घतमा।साऽसौउदरगुहायां दक्षिणानुकटिकायाः सिरायाः (अधरमहासिरायाः वा) आपूरणीरूपेणप्रथमकटिकशेरुकायाः पुरोभागादारभ्य ऊर्ध्वं गता महाप्राचीरास्थमहाधमनीच्छिद्र-पथेन उरोगुहां प्रविष्टा। उरोगुहायाञ्च चतुर्थपृष्टकशेरुकान्तं गत्वा अग्रतोधनुर्वक्राऽसौ सिरा दक्षिणं फुस्फुसवृन्तमुल्लंघ्य उत्तरां महासिरां प्रविष्टा।तदापूरण्यश्च सिराः बहवः। तद्यथा —दश दक्षिणपर्शकानुगाः, वामेपुरोवंशिके, दक्षिणाः क्लोमसिराः, हत्कोषीयसिराः, फुस्फुसान्तरालीयसिराश्चेति।
पुरोवंशिका वामोत्तरा464 वामाधरा465 चेति द्वे सिरे पृष्ठवंशवामतः(१२३ चित्रम्)। तयोराद्या चतुर्थ्यादिषष्ठ्यन्ताभिः पर्शका-नुगाख्यसिराभिः प्रायेण वामाभिः क्लोमसिराभिश्च आपूरिता सप्तमपृष्ठवंशमुल्लघ्यदक्षिणां
(१२३ चित्रम्)
मध्यकायसिराः।
(गलकोष्ठयोः सम्मुखभागापसारणेन दर्शिताः)
| <MISSING_FIG href=”../../../books_images/U-IMG-1702623891194(1"/>.png) |
| महामातृका धमनी | उत्तरग्रैवेयकी सिराद्वयम् |
| अधरग्रैवेयकी सिरा | अनुमन्या सिरा |
| अक्षाधरे सिराधमन्यौ | अधिमन्या सिरा |
| गलमूलिका सिरा | गलमूलिका सिरा |
| अन्तःस्तनिका सिरा (उत्तरमहासिरां प्रविष्टा) | महाधमनी तोरणी |
| पर्शुकानुगे सिराधमन्यौ | पुरोवंशिका वामाधारा दक्षिणतः सैव दक्षिणा |
| याकृती सिरा | अधिबृक्कीया सिरा |
| अधरा महासिरा | अधरा महाप्राचीरिका सिरा |
| अधिबृक्कः | वृक्कसिरा |
| अनुबृक्का सिरा | अनुकटिका सिरा |
| अधरा महासिरा | दक्षिणाधिश्रोणिका बाह्या धमनी सिरा च |
| त्रिकमध्या सिरा | ते एव आभ्यन्तरीसंज्ञे |
| वामा अधिश्रोणिका आभ्यन्तरी धमनी | दक्षिणा और्वी धमनी सिरा च |
| वामा अधिश्रोणिका वाह्या धमनी | सैव और्वी धमनीरूपेण परिणता |
पुरोवंशिकां प्रविष्टा। अपरा कटिवंशपुरोभागादारभ्य दक्षिणपुरोवंशिकावन्महाप्राचीरां निर्भिद्य ऊर्ध्वं गता अष्टमपृष्टकशेरुकामुल्ल घ्य तामेव सिरां प्रविशति।सा चतुर्भिः पञ्चभिर्वा निम्नतमाभिः पशुकानुगाव्यसिराभिरापूर्यते। कदाचित्तुवामोत्तरायाः पुरोवंशिकायाः सर्वथाऽभावः। तदा वामोत्तरा पर्शकानुगामेलनीनाम सिरा तत्कार्यकरी।
अथ फुस्फुसीयाः सिराः।
फुस्फुसीयाः466फुस्फुसोत्था वा नाम सिराः खलु संज्ञामात्रेण सिराः,हृदयाभिगत्वात्। वस्तुतस्तु ताः फुस्फुसविशोधितं धमनीरक्तमभिवहन्त्यःफौस्फुसरक्तसंवहनस्य साधनभूताः धमनीवत् कार्यतः। फुस्फुसाभिगा धमनीतु सिरारक्तं वहन्त्यपि, हृदयाद् बहिःप्रसराद् धमनीसंज्ञा—इत्यवोचाम(६८।१६ चित्रयोः)।
ताश्च एकैकफुस्फुसादागते इ इ इति चतस्रः। तासामारम्भः फुस्फुसीयवायुकोषानभितः स्थितेभ्यो जालकेभ्यः सूक्ष्मैः सिराप्रतानैः। तैर्हि मिलितैरारच्यन्ते सूक्ष्माः सिराः, तासाञ्च क्रमेण परस्परसंयोगेन एकैकफुस्फुसपिण्डादुद्भवति परिणामे एकैका सिरा। तत्र दक्षिणफुस्फुसस्य पिण्डत्रयविभक्तत्वात्,ततः सम्भवन्ति तिस्रः सिराः। ताश्च फुस्फुसवृन्तोपकण्ठे द्वयोः सिरयोःपरिणमन्ति। वामफुस्फुसात्त पिण्डद्वयविभक्तादादित एव द्वेसिरे सम्भवतः।
तासां च फुस्फुसीयसिराणां हृदयवामालिन्दं पृष्टभागे निर्भिद्य प्रवेशः,तस्य वामदक्षिणपार्श्वस्थितैश्चतुर्भिश्छिद्रैः। कदाचित्तु वामं सिराद्वयं मिलितमेकेनैव च्छिद्रपथेन प्रविशति तदा त्रीण्येव दृश्यानि छिद्राणि। क्लोमसिरास्तुसिरारक्ताभिवाहिन्यो दक्षिणां वामां वा पुरोवंशिकां सिरां प्रविशन्तीत्युक्तपूर्वम्।
हार्दिक्य467ःसिरास्तु प्रायेण हार्दिक धमनीनां सहचर्यः।ता हृदयस्।बहिःप्राचीरस्थासु सीतासु दृश्याः पुरः, पश्चात्, पार्श्वतश्च। तासां मूलायतनभूताहृदयपृष्ठस्था बालमूलिकाकारा सिरा,हार्दिकी मूलसिरा468 नाम। तस्यां पञ्चषाणांहार्दिकसिराणां प्रवेशः। प्रविशति च सा हृदयदक्षिणालिन्दम् (१२४ चित्रम्)।
सन्ति चापरा अपि क्षुद्राः सिरा इतस्ततो हृदयपरिसरे दृश्याः, तासाक्षादेव सूक्ष्मैश्छिद्रपथैर्हृदयस्य दक्षिणालिन्दे दक्षिणनिलये वा प्रविष्टाः।
अथ उदर्यसिराः।
उदर्यसिरासु अष्टौ मुख्याः। द्वे अधिश्रोणिके बाह्य, द्वे अधिश्रोणिकेआभ्यन्तर्यो चेति। तासां द्वयोर्द्व योः संयोगेन सम्भूते द्वे अधिश्रोणिकेसाधारण्यौ।तयोर्मेलकेन एका अधरा महासिरा। तदतिरिक्ता च आमाशय-पक्काशयादि-रक्तसंग्राहिणी एका महासिरा प्रतीहारिणी नाम।
अधिश्रोणिकेबाह्ये469नाम सिरे (१२३ चित्रम्) और्व्योसिरयोरनुवृत्तिरूपे वंक्षणदरीमुखात् त्रिकपृष्ठवंशसन्धिं यावत् स्वसंज्ञयोर्धमन्योरन्तः पार्श्वगे।तयोरेकैका अधिश्रोणिकया आभ्यन्तर्या मिलिता अधिश्रोणिकां साधारणींनिर्मिमीते। तदापूरण्यश्च सिरास्तिस्रः एकैकतो धमनीशाखासहचर्यः। यथा — अधरा औदरिकी470, जघनवेष्टनिकागम्भीरा471,भगानुगा472 चेति। तासां स्थानसंस्थानादि तत्संज्ञकधमनोवद् विज्ञेयम्।
**अधिश्रोणिकेआभ्यन्तर्यो473**नाम सिरे (१२३ चित्रम्) वस्ति-गुहान्तरीय सिरासु प्रधानभूते स्वसंज्ञयोर्धमन्योः पार्श्ववर्त्तिन्यौ।एकैका चआभ्यन्तर्यधिश्रोणिका त्रिकपृष्ठवंशसन्धानस्य पुरस्तादेकैकतो बाह्यया अधि-श्रोणिकाख्यसिरया मिलिता अधिश्रोणिकां साधारणीं नाम सिरां रचयति।
एकैकस्या अधिश्रोणिकाया आभ्यन्तर्याः आपूरण्यः सिरास्तु प्रायेणधमनीसहचर्यः, ताः इत्थं वेदितव्याः। श्रोणिबहिर्देशतस्तत्प्रविष्टाः —उत्तराधरनितम्बिन्यःसिराः474, श्रोणिवंक्षणिकासिरा,475 गुदोपस्थिकाः सिराश्च476। त्रिकपार्श्वतः—त्रिकपाविषयः सिराः477 विक्रास्थनःपुरोभागे मिलिताः। गुदोपस्थान्तःसीम्नि, मध्यमा गुदान्तिका — मध्यमा गुदान्तिका478, वस्ति-योनि गर्भाशयादिसमुत्याःसिराश्च वक्ष्यमाणसिराचक्रेभ्यः सम्भूताः ।
(१२४ चित्रम्)
हार्दिक्यः सिराः (हृदयपृष्ठस्थाः)।
| <MISSING_FIG href="../../../books_images/U-IMG-1702624155198.png"/> |
| तोरणी महाधमनी | दक्षिणालिन्दः |
| फुस्फुसाभिगा धमनी | फुस्फुसप्रभवे सिरे (दक्षिणे) |
| वामालिन्दः | दक्षिणनिलयः |
| फुस्फुसप्रभवे सिरे (वामे) | अधर-महासिराच्छिद्रम् |
| हार्दिकी मूलसिरा | हार्दिकी मूलसिरा |
| वामनिलयः | अपरा हार्दिक्यः सिराः |
[ १२५ चित्रम् ]
श्रोणि-वस्ति-गुदोपस्थिकाः सिराः ।
<MISSING_FIG href="../../../books_images/U-IMG-1709039396199.png"/>
औपस्थिकं सिराचक्रम् ।अनुवस्तिकं सिराचक्रम् \। गुदोपस्थिका सिरा ।
\१।अनुकटिकाः सिराः । २। अधिश्रोणिका साधारणी सिरा \। ३ ।अधिश्रोणिका आभ्यन्तरी सिरा (दक्षिणा वामा च )।४।उत्तरगुदान्तिका सिरा । ५। गुदद्वेष्टनं सिराचक्रम् । ६ । शिश्नपृष्ठिका सिरा । ७। पौरुषग्रन्थिवेष्टनं सिराचक्रम् ।८।वीर्यवाहिनी ।६। श्रोणिवंक्षणिका सिरा ।१०। अधिश्रोणिका बाह्या सिरा ।कतितांशः ।१२।अनुवृषणिका सिरा धमनी च । ग - गुदनलिका।)
चत्वारि च सिराचक्राणि वस्तिगुहान्तर्द्रष्टव्यानि । तद्यथा—
(क) [गुढ़वेष्ठनं सिराचक्रम्479(१२५ चित्रम्)।तत् पुञ्जीभूतैः सिराप्रतानैस्तिसृषु सिरासु परिणतैः साक्षात् परम्परया वा पूरयति अधिश्रोणिकामाभ्यन्तरीं नाम सिराम्। ताश्च सिरा उत्तर-मध्यमाऽधरगुदान्तिकासंज्ञाः480। तासामान्त्रिकीभिः सिराभिरपि सम्बन्धः, परम्परया च प्रतीहारिण्या सिरया सम्बध्यते च तत् सिराचक्रमनुवस्तिकसिराचक्रेण स्त्रियास्तु अनुयोनिगर्भाशयिकेणापि। तच्चेदं गुदद्वेष्टनं सिराचक्रंबाह्यमाभ्यन्तरञ्चेति द्विविधम्। तयोराभ्यन्तरं सिराचक्रमायतप्रायाभिः सिराभिः परस्परसंयुक्ताभिर्निर्मितम् अपानद्वारमावेष्ट्य प्रसृतम्।तत् प्रतीहारिण्या सिरया विशेषेण सम्बध्यते सिराप्रतानैरान्त्रिकीषु सिरासु प्रविष्टैः। तेनात्रसिराचक्रे ऊर्ध्वमुखं रक्तप्रसरणं चेदवरुध्यते (याकृतरक्तसंवहनस्य बाधितत्वाद्), तदा पुरीषोत्सर्गकाले निभिन्नैः सिरामुखैरपानस्थैः प्रवर्त्तते शोणितनिःस्रवो बहुशः। तानि हि सिरामुखानि त्वक्कलावृतानि रक्तार्शसामायतनानि।
(ख) औपस्थिकं सिराचक्रम्481(१२५ चित्रम्) भगास्थिसन्धानाधस्तादुपस्थमूलस्थम्। निर्मीयते च तत् शिश्नपृष्टिकाभ्यां सिराभ्यां(स्त्रियास्तु भगपृष्टिकाभिःसिराभिः), वस्तिद्वारस्थं पौरुषग्रन्थिं परितः स्थिताभिः सिराभिश्च। सम्बन्धश्चास्य सिराचक्रस्य सिराप्रतानैरनुवस्तिकेन सिराचक्रेण।
(ग) **अनुवस्तिकं सिराचक्रं482**वस्तिसंबेष्टनम् (१२५ चित्रम्), तस्य सम्बन्धः स्त्रिया अनुयोनिकसिराचक्रेण, पुंसस्तु पूर्वोक्ताभ्यां सिराचक्राभ्याम्।
(घ) अनुयोनि-गर्भाशयिकं483 नाम सिराचक्रम् योनि-गर्भाशययोः संवेष्टनभूतम्। तद् अनुयोनिकमनुगर्भाशयिकं चेति द्वेधा विभज्यते। तयोः पूर्वोक्तैः सर्वैरपि सिराचक्रैःसम्बन्धः।परिणामे च अनुयोनिकसिराचक्रीयं रक्तं द्वाभ्यामनुयोनिकाभ्यां सिराभ्यामधिश्रोणिकामाभ्यन्तरीं सिरां प्रविशति। अनुगर्भाशयिकसिराचक्रस्य रक्तमपि द्वाभ्यामनुगर्भाशयिकोभ्यां सिराभ्याम् तामेव सिराम्।
**अधिश्रोणिके साधारण्यौ484**नाम महत्यौ काण्डसिरे (१२५ चित्रम्) त्रिकपृष्ठवंशसन्धानस्य पुरोभागात्तिर्यगन्तर्मुखं गत्वा चतुर्थ-पञ्चमकटिकशेरुकासन्धेः पुरस्ताद् दक्षिणतो मिलिते अधरां महासिरां रचयतः। तयोरेकैका स्वसंज्ञयोर्बाह्याभ्यन्तरसिरयोः संयोगेन सम्भूता। तयोः दक्षिणा ह्रस्वा सरलप्राया च, सा स्वसंज्ञाया धमन्याः पृष्ठे पार्श्वतश्च दृश्या। वामा दीर्घा तिरश्चीना च, सा आदौ स्वसंज्ञायाः धमन्याः अन्तःसोम्नि, ततश्च तत्पृष्टतो वर्त्तते। एकैका च सा कटिश्रोणिकां485नाम सिरां संगृह्णाति, त्रिकपार्श्विकां486च कदाचित्। वामा तु त्रिकमध्याम्487अपीति विशेषः।
अथ अधरा महासिरा।
**अधरा महासिरा488**अधरशरीरार्धस्य रक्तसंग्राहिणी (१२३।१२५ चित्रयोः)। सा साधारण्योरधिश्रोणिकासिरयोः संयोगेन निर्मिता, चतुर्थ-पञ्चमकटिकशेरुकासन्धेरूर्ध्वं पुरश्च महाधमन्या दक्षिणपार्श्वानुक्रमेणोर्ध्वं प्रसृता यकृत्पृष्ठस्थायां गम्भीरपरिखायां धार्यते। ततश्चोर्ध्वम् महाप्राचीरां निर्भिद्य पूर्वोक्तेन महासिराच्छिद्रपथेन उरोगुहां प्रविष्टाऽसौ हृदयस्य दक्षिणालिन्दमधोदेशात् प्रविशति हृदयधरेण कलाकोषेण संवृतमुखी। अस्ति च तन्मुखे सिराकपाटिका रक्तस्य अधःप्रतिनिवर्त्तनवारणी, सा गर्भस्थशिशोरेव विशेषतः कार्यकरी स्फुटतरा च।
एष चास्या व्यतिकरःउदरगुहायामधरोर्ध्वक्रमेण। अस्याः पुरस्ताद्—अन्त्रबन्धनीनां मूलदेशः, दक्षिणानुवृषणिका धमनी, ग्रहण्याः अधरभागः,अग्न्याशयस्य शीर्षदेशः, पित्तवहा नलिका, प्रतीहारिणी सिरा, अभियाकृती धमनी, यकृत्पृष्ठं च। पश्चिमतः—पृष्ठवंशः, दक्षिणा कटिलम्बिनी दीर्घा नाम पेशी, महाप्राचीरायाः दक्षिणमूलं, धमन्यश्च दक्षिणाः सप्त (अधरमहाप्राचीरिका, अनुवृक्कश्च, अधिबृक्विणी, अनुकटिकाश्चतस्रश्चेति), पिङ्गलाख्या स्वतन्त्रनाड़ी, दक्षिणाधिबृक्वश्च अस्या दक्षिणतः—दक्षिणबृक्वः, गवीनी489च दक्षिणा। वामतस्तु महाधमनी, महाप्राचीराया दक्षिणमूलम्, यकृदेकदेशश्चेति।
सेयमधरा महासिरा अधिश्रोणिकाभ्यां साधारणीभ्यामपराभिश्च सिराभिरापूर्यते। ताश्च सिराः यथा — अनुकटिकाः (अष्टौ), दक्षिणा अनुवृषणिका (स्त्रियास्तु अनुबीजकोषिका), अनुवृक्का, दक्षिणा अधिवृक्किणी, दक्षिणा अधरप्राचोरिका, याकृतसिराश्चेति षड्विधाः। तत्र—
*अनुकटिकाः490*नाम सिराः पृष्ठवंशस्य एकैकतश्चतस्रः स्वसंज्ञकधमनोसहचर्यः(१२३ चित्रम्)।ताः कटिपृष्ठोदरीयाणां विशेषतश्च पृष्ठवंशीयानां सिराणां रक्तसंग्राहिण्यः। अस्ति च तासां पुरोवंशिकाद्याभिःसिराभिर्योजनी सिरा *आरोहिणी अनुकटिका491*नाम पृष्ठवंशपुरस्तादूर्ध्वगा।
*अनुवृषणिके492*नाम सिरे तदाख्यधमनीसहचर्यो वृषणपृष्टस्थयोः सिराजालयोवृषणबन्धनीद्वये पुञ्जीभूतयोः रक्तसंग्राहिण्यौ। एकैक्तश्च सिराजालात् सम्भूतास्त्रिचतुराः सिराः वंक्षणसुरङ्गापथेनोर्ध्वं प्रसृताः क्रमेण द्वयोः सिरयोः स्वसंज्ञकधमनीसहचर्योः परिणमन्ति। तत्र दक्षिणा अनुवृषणिका अधरमहासिरां प्रविशति, वामा तु वामामनुवृक्कामिति विशेषः। स्त्रियास्तु ते एव *अनबीजकोषिके493*नाम बीजकोषाभ्यामागते सिरे भवतः।
अनुवृक्के494नाम स्थूलसिरे वृक्काभ्यां विनिर्गते स्वसंज्ञयोर्धमन्योः पुरःस्थे (१२३ चित्रम्)। तयोर्वामा दक्षिणायास्त्रिगुणदीर्घा महाधमन्याः पुरोभागमुल्लंध्य प्रसृता, सा वामामनुवृक्काम् अधरमहाप्राचोरिकामधिवृक्किणीञ्च सिरां संगृह्णाति। दक्षिणा च प्रायस्ता एव सिराः उभयोश्च तयोरधरमहासिरायां प्रवेशः।
*अधिवृक्कण्यौ495*नाम सिरे द्वे अधिवृक्काभ्यां विनिर्गते (१२३ चित्रम्) तदाख्यधमनोसख्यौ। तयोर्दक्षिणा अधरां महासिरां, वामा च वामामनुवृक्कां प्रविशति।
*अधरमहाप्राचीरिका496*नाम द्वित्राः सिराः महाप्राचीरायास्तलदेशसम्भूताः धमनीसख्यः। तासां दक्षिणा एकैव प्रायः, सा अधरमहासिरां प्रविष्टा। वामा तु सिराद्वयी अनुवृक्काम् अधिवृक्किणीमधरमहासिरां वा।
याकृतसिराः497पुनर्याकृतरक्तस्य संग्राहिण्यः। ताः प्रतीहारिण्याः सिरायाः शाखाप्रतानैर्यकृति विकीर्णं रसमिश्रं रक्तं तव निर्विषीकृतं सूक्ष्माभिः सिराभिः समूह्य क्रमशः परिणामेण स्थूलीभूताः तिसृषु स्थूलसिरासु, कासुचित् तनुसिरासु च यकृत्पृष्टनिगूढासु परिणमन्ति। प्रविशन्ति च ताः अधरां महासिरां तस्या यकृत्पृष्टसंसक्तं भागमाश्रित्य।
अथ प्रतीहारिणी सिरा।
प्रतीहारिणी महासिरा498(१२६ चित्रम्) आमाशय-पक्वाशययोः अन्नरसमिश्रं सिरारक्तं, प्लीहाऽग्न्याशय-पित्तकोषीयं सिरारक्तञ्च समूह्य यकृदन्तः प्रापयति। सा अन्नरसस्य अविशोधितस्य साक्षान्महासिरागमनं वारयतीति499तथासंज्ञा। सेयं सिरा यकृति अभियाकृतधमन्या सह स्वयमपि धमनीवच्छाखाप्रशाखादिभिः प्रसृता याकृतपिण्डाणुकानि500परितः कन्दिकान्तरालाः सिरास्तजालकानि च रचयति। पिण्डाणुकेषु प्राप्तपाकस्य च तद्रक्तस्य संग्रहो याकृतीभिः सूक्ष्मसिराभिः पिण्डाणुकानां केन्द्रभ्यो निर्गताभिः। याकृतसिरास्तु वर्णितपूर्वाः।
साऽसौ प्रतीहारिणी सिरा प्रायश्चतुरंगुलदीर्घा द्वितीयकटिकशेरुकापुरोदेशादारभ्य तिरश्चीनगत्या यकृदभिगता। तथाविधायाश्च तस्याः पुरस्ताद्दृश्या अग्न्याशयस्य ग्रीवा, पश्चिमतश्च अधरा महासिरा।यकृत्प्रवेशात् पूर्वञ्च सा द्वयोः शांखयोर्विभज्यते। तयोर्दक्षिणा शाखातयोर्दक्षिणा शाखा पित्तकोषप्रभवया सिरया मिलिता, यकृदक्षिणपिण्डं प्रविशति। वामा तु दीर्घतरा अग्रिम पश्चिममध्यमयकृत्पिण्डेषु प्रशाखाद्वयं प्रेरयन्ती यकद्वामपिण्डं प्रविष्टा। तस्यां च यकृत्प्रवेशात् पूर्वमेव प्रविष्टाः परिनाभिका योजन्यो नाम सिरा वक्ष्यमाणाः। पूर्येते च तया गर्भस्थशिशोः संवाहिन्यौ नाम महासिरे पूर्वपश्चिमदेशयोः।
एनां च प्रतीहारिणीसंज्ञां महासिरामापूरयन्ति पञ्च मुख्याः सिराः यथा — प्लैहिकी, उत्तरान्त्रिकी, आमाशयक्रोड़िका, अनुग्रहणिका, पित्तकोषिणी चेति, परिनाभिका योजन्यो नाम तनुसिराश्च परिसरीयाः। तत्र—
प्लैहिकी501 नाम स्थूलसिरा (१२६ चित्रम्) प्लीहवृन्तात् पञ्चषाभिर्मूलसिराभिः सम्भूय एकीभूता अग्न्याशयस्य ऊर्ध्वाधारानुक्रमेण दक्षिणतः अनुप्रस्थं
[ १२६ चित्रम् ]
प्रतीहारिणी महासिरा
(आशयव्यतिकरेण दर्शिता)
| <MISSING_FIG href="../../../books_images/U-IMG-17021200758.jpg"/> |
| प्लीहा | अधरगुदम् |
| बृहदन्त्रम् (अवरोहोभागः)502 | उत्तरगुदम् |
चित्रव्याख्या—क—पित्ताशयः।ख—प्रतीहारिणी महासिरा। ग—पित्तस्रोतः। घ—बृहगन्त्रम् (आरोहिभागः)। ङ—उण्डुकम्। आ—आमाशयः। य-य—यकृत्।
१। अग्न्याशयः। २।ग्रहण्याः कर्त्तितांशः।३। अधरान्त्रिकी सिरा। ४। उत्तरान्त्रिकी सिरा।५। क्षुद्रान्त्रप्रभवाः सिराः।प्रसृता। सेयं मध्येपथमग्न्याशयप्रभवाभिः सिराभिरापूरिता शेषभागे आमाशयोत्थाभिर्ह्रस्वसिराभिः, दक्षिणया आमशयतलिका503ख्यया सिरया वा मिलिता विशेषेण स्थूलत्वमापद्यते। संयुज्यते चेयमधरान्त्रिक्या सिरया अग्न्याशयशिरसि प्रतीहारिण्या महासिरया संयोगाय।
**उत्तरान्त्रिकी504**नाम स्थूलसिरा (१२६ चित्रम्) स्वनामधमनीसहचरी क्षुद्रान्त्रेभ्यो बृहदन्त्रस्य आरोहिभागात्, मध्यमभागाच्च सम्भूतैः सिराप्रतानैः परस्परमिलितैरापूर्यते। सा अन्त्रमूलबन्धन्यामूर्ध्वमुखं प्रसृता क्रमशः स्थूला अग्न्याशयक्रोड़देशमाश्रित्य तत्पृष्टतः प्लैहिक्या सिरया संमिलिता प्रतिहारिणीं निर्मिमीते। वपाऽमाशयिकाद्याः सिराश्च उत्तरान्त्रिकीमेव सिरां प्रविष्टाः।
**अधरान्त्रिकी505**नाम सिरा तु तद्वद् बृहदन्त्रस्य अवरोहिभागाद् रक्तसंग्राहिणी (१२६ चित्रम्), अग्न्याशयपृष्ठे प्लैहिक्या सिरया मिलिता।
**आमाशयकोड़िका506**नाम सिरा (१२६ चित्रम्) आमाशयस्य कोरोदरपरिधौ दृश्यते तत्पूर्वपश्चिमदेशस्थानां सिराणां संग्राहिणी। सा यकृद्वन्तदेशे ग्रहणीपृष्टतः प्रतीहारिणीं महासिरां प्रविष्टा।
**अनुग्रहरिणका507**नाम ह्रस्वसिरा (१२६ चित्रम्) ग्रहणीपार्श्विकाभिस्तनुसिराभिरापूरिता तदुपकण्ठ एव प्रतीहारिणीं महासिरां प्रविशति वामतः।
**पित्तकोषिणी508**सिरा च ताद्गेव पित्तकोषपरिसरादागता प्रतीहारिण्याः सिराया दक्षिणशास्त्रां विशति पित्तस्रोतसः पाश्वतः।
**परिनाभिका योजन्यः509**नाम सिराः पुनरुदरपुरःपरिसरे शुष्कसंबाहिनीमनुवर्त्तमाना नाभित ऊर्ध्वम् प्रसृताः प्रतीहारिण्या वामशाखां प्रविष्टाः। ताश्च उदरपरिसरीयाभिः सिराभिरधिश्रोणिकाख्यसिराभिश्च सम्बन्धवत्यः।
इदमत्रावधेयम्। जलोदरादौ याकृतवस्तुनः क्रमशः शुष्कीभावाद् याकृतरक्तसंवहनस्य अवरोधे शनैः प्रवर्त्तमाने ताभिरेव सिराभिः आमाशयपक्वाशयादिभ्य आगतस्य सिरारक्तस्य कथमपि सार्वकायिकसिरासु एकांशेन प्रवेशः, अपरांशेन उदरगुहान्तजलसञ्चयः। तेन उदर्याणामुत्तानसिराणां तदा स्फुटतरत्वमिति विशेषः।
पृष्ठवंशीयाः सिराः पुनरसंख्याः विचित्रसश्निवेशाश्च (१२७ चित्रम्)। ताः कशेरुकाः संवेष्ट्य बहिरन्तः अस्थ्यन्तश्च सर्वतस्तिष्ठन्ति परस्परयोजनीभिः सिराभिः सहिताः।तासां चतुर्धा विभागो वर्णनासोकर्याय।तद्यथा—
(१) *काशेरुकसिराचक्रं बाह्य510*कशेरुकाणां बहिःपरिधिसंवेष्टनम्। तच्च अग्रिम-पश्चिमयोः सिराचक्रयोः स्फुटतरं विभक्तम्। तत्र अग्रिमं कशेरुपिण्डानां पुरःस्थम्, पिण्डान्तरीयसिराभिरापूर्यते विशेषेण। पश्चिमं काशेरुकसिराचक्रं पृष्ठस्थ तस्याः पूरणं प्रायेण गम्भीरपृष्ठपेशीप्रभवाभिः सिराभिः।
(२) काशेरुकसिराचक्रमाभ्यन्तरं511सुषुम्नाविवरस्य संवेष्टनम् (चित्रे २ सु २)। तत् सुषुम्नाकाण्डवृतिषु अस्थिमयस्य विवरपरिधेश्चान्तराले वर्त्तते, स्थूलतराभिः सिराभिः कशेरुपिण्डपृष्ठस्थाभिरुपचितं विशेषात्।
(३) *कशेरुपिण्डान्तरीयाः सिराः512*कशेरुकापिण्डानि निर्भिद्य शरगत्या बहिर्गताः बाह्याभ्यन्तरयोः सिराचक्रयोः प्रविष्टाः। सिराचक्रयोजन्यः सिराश्च तेषु सर्वतः प्रसृताः परस्परसम्बन्धिन्यः।
(४)*कशेरुचक्रान्तरीयाःसिराः513*कशेरुचक्रान्तरालस्थितैश्छिद्रैर्नाड़ीभिः सह निर्गताः। ताःबाह्याभ्यन्तरसिरा-चक्रयोःशोणितं संगृह्य ग्रीवा-मध्य-कायाभ्यन्तरीयासु सिरासु इत्थमर्पयन्ति। ग्रीवागताः मस्तिष्क-मातृकयोः सिरयोः, पृष्ठभागीयाः पर्शुकानुगासु, कटिगताः अनुकटिकासु त्रिकपार्श्विकासु चेति।
[१२७ चित्रम्]
| <MISSING_FIG href="../../../books_images/U-IMG-17019711001.jpg"/> |
| ११ कशेरुकावेष्टनं सिराजालम् |
समाप्यते चैतावता सिराखण्डम्।
प्रत्यक्षशारीरम्
रसायनीखण्डम्।
<MISSING_FIG href="../../../books_images/U-IMG-17020165572-removebg-preview.png"/>
प्रथमोऽध्यायः।
अथातो रसायनीसामान्यवर्णनीयमध्यायं व्याख्यास्यामः।
**रसायन्यः514**नाम सूक्ष्माः रसवाहिन्यः प्रणालिकाः सर्वत्र शरीरे प्रसृताः, अन्यत्र नख-रोम-बहिस्त्वक्-तरुणास्थिभ्यः।तासां सूक्ष्मतरास्तनुस्वच्छेनप्राचीरिकाद्वयेन निर्मिताः, अन्यास्तु प्राचीरिकात्रयेण। अपि ताः सूक्ष्ममुक्तामालिकाकाराः शिथिलकार्पाससूत्राकारा वा।
**रसश्च द्विविधः -**शुद्धो मिश्रश्चेति। तत्र यः शोणितस्य तन्वच्छभागो लसीकाख्यो जालकेभ्यःस्यन्दमानो धातून् पुष्णाति, धातुपोषणावशिष्टश्च रसायनोभिः प्रतिनिवर्त्तते, स शुद्धः515—Lymph (Pure). ३ ।")। यः पुनरन्त्रेभ्यो दुग्धघृतादीनां स्नेहबहुलः सारो लसीकामिश्रः पयस्विनीसंज्ञैःस्रोतोभिराकृष्यमाणो रसप्रपां प्रविशति, स मिश्रः। तस्य पायस516इति संज्ञा, तत्सादृश्यात्। सोऽसौ द्विविधोऽपि रसो रसकुल्याभ्यां गलमूलिकयोः सिरयोः प्रविशति, ततश्चोत्तरमहासिराम्।
असंख्याश्च ता रसायन्यः कक्षावंक्षणोदरादिप्रदेशेष्ववस्थितान् रसग्रन्थीन् प्रविशन्ति, समर्पयन्ति च स्वरसं तदभ्यन्तरतः। स च रसस्तेषु संचरन् सम्यग्विशोधितो बहिरभिप्रवर्त्तते नवीनाभिः रसायनीभिः। ताश्चाग्रे प्रसरन्त्यो मध्येपथमपराभिरपि रसायनीभिर्मिलिताः पुनरपि तादृशान् ग्रन्थीन् प्रविशन्ति। एवञ्चोत्तरोत्तरं परस्परसंमेलनेन स्थूलस्थूलाः स्वल्पतरसंख्याश्च ताः रसप्रपां रसकुल्ये वा प्रविशन्ति। सन्ति च तासु कपाटिकाः सिराकपाटिकावत्, लसीकायाः प्रतिनिवर्त्तनवारणाय। ताश्च कपाटिकाः रसकुल्ययोः स्फुटतमाः।
कार्यं तावद् रसायनीनां न केवलं रससंवहनं किन्तु शोषणमपि अभ्यङ्गादीनाम्। सविषकण्टकादिवेधे श्लीपदादौ च रसायनीनां व्रणशोथः स्थूलीभावश्च।
रसग्रन्थयः517लसीकाग्रन्थयो वा नाम (१२८/१२६ चित्रयोः) गुञ्जा-निम्बफल-शिम्बीबीजाधाकारा मृदुस्पर्शा ग्रन्थयः, ये कक्षा-वंक्षण-ग्रीवा-कर्णमूलादि-बाह्यप्रदेशेषु, उदरोरसोरभ्यन्तरतश्च दृश्याः। ते रसायनोमार्गेषु मुस्ताकन्दवत् पुञ्जीभूताः पृथक् चावतिष्ठन्ते। ते बहिर्भागे तनुस्नायुसूत्रमयैः कोषैः518प्रावृताः, क्रोडदेशेषु खाताङ्किताश्च। तैश्च खातैः519तदन्तः प्रविशन्ति नाड़ी-धमनी-रसायनीनां सूत्राकाराः प्रतानाः। एकैकग्रन्थिपरिधेश्च विनिर्गताः नवीना रसायन्यःसिराश्च तास्तदभ्यन्तरविशोधितं रक्तं संगृह्णन्ति। एवश्च द्विविधा रसायन्यः—अन्तर्मुख्यः520, *बहिर्मुख्य521*श्चेति।
रसग्रन्थिनिर्माणं त्वणुवीक्षणयन्त्रसहायेन चक्षुषा दृश्यते बीजपूरवत्। सन्ति हि ग्रन्थीनां बहिरावरणकोषाः, अभ्यन्तरतश्च स्नायुप्राचोरिकाः522,तदन्तरालेषु च रसजालिकाः523प्रत्यप्रश्वेतकणिकासंकुलाः, यासु अन्तर्मुख रसायनीभिरानीतो रसो निर्विषत्वमापद्यते, आपूर्यते च श्वेतकणिकाभिस्तद्रक्षिभूताभिः, निर्गच्छति च बहिर्मुखीभिः रसायनीभिस्तत्परिधिनिर्गताभिः।
(१२८ चित्रम् — पञ्चाशद्गुणवर्धितायतनम्)
रसग्रन्थिनिर्माणप्रदर्शकम्।
| <MISSING_FIG href="../../../books_images/U-IMG-17020202974.jpg"/> |
| अन्तर्मुखी →रसायनी524 | अन्तर्मुखी रसायनी |
| ग्रन्थिकोषः → | रसजालिका (श्वेतकणिका-सङ्कुला) |
| प्राचीरिका | → बहिर्मुखी रसायनी |
| जालिकापरिधौ सूक्ष्मरसायनीमार्गः |
यदा पुनः शरीरे कस्यापि विषस्य संक्रमणं रसायनीमार्गैःतदा लसीकाग्रन्थिष्वेवादौ तदवरोधः तविध्वंसनप्रयत्नश्च श्वेतकणिकाभिः तस्मात् शरीररक्षिभूताः खल्विमे लसीकाग्रन्थयः। प्रवर्त्तमाने च विषविध्वंसनप्रयत्ने रुजाशोथौ, काठिन्यं बृहत्त्वञ्च ग्रन्थोनां प्रादुर्भवन्ति रासायनीनाञ्च, विषजीवाणुभिः युद्धारम्भात्। विषस्य तीव्रत्वे तु विपच्यन्ते प्रन्थयः, क्वचिद् रसायन्यश्च, ब्रणवत्।
**रसकुल्ये525**नाम (१२९चित्रम्) समग्रस्य शरीरस्य रससंग्राहिण्यौ प्रणाल्यौ। तयोर्वामा अतिदीर्घा महाप्राचीरां निर्भिद्य ऊर्ध्वं गता, समग्रस्य शरीराधरार्धस्य वामोत्तरार्धस्य च रससंग्राहिणी, सा मुख्या रसकुल्येति कथ्यते।
सेयं मुख्या रसकुल्या526(वामा वा – १२९चित्रम्) प्रायो वितस्तिप्रमाणदैर्घ्या, शरेषीकापरिणाहा, ऊर्ध्वं क्रमशः संकुचितमुखी, कटिवंशपुरःस्थाया रसप्रपाया निर्गत्य महाप्राचीरामध्यस्थेन महाधमनीच्छिद्रपथेन उरसि प्रविशति, प्रसरति च पृष्ठवंशपुरस्तात्तदनुक्रमेणोर्ध्वं सर्पवत्। सा सप्तमग्रीवाकशेरुकायाः पुरस्ताद् वक्रीभूय अक्षाधरां धमनीमुल्लंध्य अनुमन्याऽक्षाधरयोः सिरयोः संयोगस्थले गलमूलिकां सिरां प्रविष्टा।उरसि च पश्चिमफुस्फुसाऽन्तराले वर्त्तमानायास्तस्या वामतो दृश्या महाधमनी, दक्षिणतो दक्षिणा पुरोवंशिका सिरा, पुरो दक्षिणतश्च अन्ननलिका, पश्चिमतश्च पृष्ठवंशः।
**दक्षिणा रसकुल्या527**तु (१२९चित्रम्) क्षुद्रा, अर्धगुलमात्रदीर्घा शरेषीकापरिणाहा केवलं ग्रीवामूले दृश्या। सा दक्षिणयोरनुमन्याऽक्षाधरयोः सिरयोः संयोगस्थले ग्रीवामूलिकां सिरां प्रविष्टा। तस्या निर्माणं तिसृभिः स्थूलरसायनीभिः। तासामेका दक्षिणबाहोःरसायनीनां संग्राहिणी, अपरा शिरोग्रीवदक्षिणार्धगतानाम् अन्या उरोदक्षिणार्धस्थानामाशयादिगतानाञ्च। ताश्च रसायन्यः क्वचित् पृथगपि पूर्वोक्तसिरासन्धिं प्रविशन्ति, तदा दक्षिणरसकुल्याऽभावः।
**रसप्रपा528**नाम (१२९चित्रम्) रसाधारिका प्रथमद्वितीयकटिकशेरुकयोः पुरस्तान्महाधमनीपृष्ठतो वर्त्तते। सा चतुरंगुलदीर्घा द्व्यांगुलायता, निम्नतः स्थूला लघुपटोलफलसमाकारा च प्रायः। प्रविशन्ति च तां तिस्रः स्थूलरसायन्यः — द्वे कटिमूलिके, एका च आन्त्रिकीति। ताश्च सर्वा अपि
[ १२९चित्रम् ]
रसप्रपादिसंस्थानम् ।
| <MISSING_FIG href="../../../books_images/U-IMG-17020217451.jpg"/> |
| पुरोवंशिका सिरा | अन्ननलिका (कर्त्तिता) |
| पर्शुकान्तरीयाः रसग्रन्थयः ( पश्चिमाः ) | मुख्या रसकुल्या |
| उदर्या रसग्रन्थयः | महाप्राचीरा |
| अनुकटिकाः रसग्रन्थयः | रसप्रपा |
| चतुर्थी कटिकशेरुका | कटिलम्बिनी दीर्घा पेशी |
१।१ अक्षाधरा सिरा, तदन्तःसीम्निधमनी। २।२ अनुमन्या सिरा।३।दक्षिणानुमन्याऽक्षाधरयोः सिरयोः सन्धिप्रवेशिनी दक्षिणा रसकुल्या।४।तादृशी वामा रसकुल्या।महाधमनीं परितः स्थितेभ्यो रसग्रन्थिभ्यो विनिर्गताः। तासां कटिमूलिके अधरशरीरार्धस्य वस्तिवृक्कादेश्च लसीकामभिवहतः, आन्त्रिकी तु आमाशयपक्काशय-यकृत्-प्लीहादेः। ग्रन्थिषु च तेषु प्रविष्टास्तास्ता रसायन्यः पयस्विन्यश्चान्त्रेभ्यो दुग्धसदृशं पायसाख्यं रसमभिवहन्ति।
सेयं रसप्रपा ऊर्ध्वं क्रमशःसंकुचितमुखी मुख्यायां रसकुल्यायां परिणमति महाप्राचीराधस्तले। युज्यन्ते च तथा तत्रैव महाप्राचीरोर्ध्वञ्च काश्चन रसायन्यः पश्चिमपर्शुकान्तरालीयेभ्यो लसीकाग्रन्थिभ्यः समागताः, फुस्फुसान्तरालीयग्रन्थिभ्यश्च। ग्रीवामूलं प्राप्तां च तां प्रविशन्ति तिस्रः स्थूलतररसायन्यः। ताश्च — वामाग्रोवामूलगा या शिरोग्रोववामार्धीयरसायनीनां संग्राहिणी, वामा बाहुमूलगा, वामा उरोमूलगा चेति।
____________
द्वितीयोऽध्यायः।
अथातो रसायनीविशेषवर्णनीयमध्यायं व्याख्यास्यामः।
सत्यपि सामान्यतो रसायनोविज्ञाने विशेषा अवश्यं ज्ञातव्याः, स्थानसम्बन्धपरिज्ञानार्थम्, वीसर्पगतिनिर्णयार्थञ्च। तस्मादिहाधुना रसग्रन्थीन् रसायनीश्च नातिसंक्षेपविस्तरं ब्रमः।
ते पञ्चसु प्रदेशेषु दृश्याः — शिरोग्रीवे, ऊर्ध्वाधःशाखासु, उदरोरसोश्चेति।
अथ शिरोग्रीवीया रसग्रन्थयो रसायन्यश्च।
तत्र शिरसि रसग्रन्थयः सप्तसु बाह्यप्रदेशेषु दृश्याः। तद्यथा—
(१) कपालमूलिकाः529 नाम द्वित्राग्रन्थयः (१३० चित्रम्) शिरोग्रीवसन्धिपृष्ठे एकैकतः पश्चिमकपालमूले। तान् प्रविशन्ति करोटिपश्चिमाः रसायन्यः।
(२) पश्चिमकर्णिकाः530नाम (१३० चित्रम्) तावन्त एव ग्रन्थयः कर्णपृष्ठे एकैकतः। तान् प्रविशन्ति शंखदेशीयाः कर्णपश्चिमाश्च रसायन्यः।
(३) अग्रिमकर्णिकाः531 नाम च तावन्तो ग्रन्थयः कर्णपालीपुरस्तादूर्ध्वभागे। तेषु प्रविष्टाः कर्णपालीप्रभवाः काश्चन रसायन्यः।
(४) पुरःकर्णमूलिकाः532 नाम रसग्रन्थयः (१३० चित्रम्) कर्णमूले पुरस्तादेकैकतः। ते द्वयोः ग्रन्थिपुञ्जयोर्विभक्ताः। तयोराद्योग्रन्थिपुञ्ज उत्तानः, स त्वगवस्तात् कर्णमूलिकाख्यस्य महतो लालाग्रन्थेः पिण्डान्तरेषु च वर्त्तते, तं प्रविशन्ति शिरोऽपाङ्ग-कर्ण-ललाटाऽगता रसायन्यः। द्वितीयो ग्रन्थिपुञ्जो गम्भोरो गलविलपार्श्वस्थः तस्मिन् नासा-तालु-गल-विलप्रभवाणां रसायनीनां प्रवेशः।
(५) मौखिकाः533 नाम मुखसम्बन्धिनः सप्त अष्टौ वा क्षुद्रा रसग्रन्थयो मुखस्य एकैकपार्श्वे त्रिधा सन्निविष्टाः नेत्राऽधरप्रदेशे नेत्राऽधरीया नाम द्वित्राः, कपोले सृक्कणीबहिर्देशे तावन्तः कपोलिका नाम तदद्धश्चाधोहनुपार्श्वतोऽपि द्वित्रा हनुपार्श्विका नाम इति। तेषु नेत्रपुर-नेत्रवर्त्मप्रभवाणां गण्ड-नासा-मुखोत्थानाञ्च रसायनीनां प्रवेशः। सन्ति च गभीरग्रन्थयोऽपि द्वितास्तत्रैव हनुकुन्त-कूटयो-रन्तराले, ते मुख-नासा-गलविलरसायनीनां रससंग्राहकाः।
(६) जिह्वामूलिकाः534 नाम द्वित्राग्रन्थयः तेषु मुख्यो ग्रन्थिरेको जिह्वामूले चिवुकजिह्वाकण्ठिकयोः पेश्योर्मध्यस्थः। जिह्वामूलस्थरसायनीनां तत्र प्रवेशः।
(७) गलबिलपश्चिमाः535नाम ग्रन्थयो ग्रसनिकायाः पश्चिमतो निगूढाः। ते नासा-गलविलागतानां कासाञ्चिद्रसायनोनां रसं शोधयन्ति। सर्वेभ्यश्चैतेभ्यो विनिर्गता रसायन्यो गम्भीरग्रीविकेषु ग्रन्थिषु प्रविष्टाः।
ग्रीवायान्तु द्विविधा रसग्रन्थयः — उत्ताना गम्भीराश्च। तत्र—
(१) उत्तानग्रीविकाः536 नाम ग्रन्थयस्त्रेधा विभज्यन्ते—हन्वधरीयाः, कण्ठिकोत्तराः, पुरोग्रोविकाश्चेति। तेषु—(१३० चित्रम्)
(क) हन्वधरीयाः537नाम पञ्चषा रसग्रन्थयो हनुकोणाधस्ताद् वत्तन्ते, तन्नामक-लालाग्रन्थेः पुरःस्थाः। तेषु प्रविशन्ति भ्रूमध्य-नासापार्श्व-गण्ड-जिह्वा-ऽधरोष्ट-दन्तवेष्टाद्यागता रसायन्यः।
(ख) **कण्ठिकोत्तराः538**नाम द्वित्रारसग्रन्थयः कण्ठिकास्थनः उपरिष्टान्मध्यरेखामुभयतः। ते जिह्वाग्र-मुखभूमिप्रभवाणां रसायनीनां लसीकामाददते।
(ग) पुरोग्रीविकाः539नाम मन्यापुरःस्था बहवो रसम्रन्थयो (१३० चित्रम्) मन्याख्यपेश्याः पुरस्ताद् अधिमन्याख्यसिरामुभयतः, अन्तरा च मन्ययोः, क्लोमनलिकामुभयतश्च वर्त्तन्ते। तेषु पूर्वोक्तानां कर्णमूल-कपोलाद्यागतानां ग्रोवागतानाञ्च कासाञ्चिद् रसायनीनां प्रवेशः।
(२) गम्भीरग्रीविका540 नाम रसग्रन्थयः(१३० चित्रम्) प्रायो विंशतिः पञ्चविंशतिर्वा दृश्यन्ते। ते मन्याख्यपेश्या गम्भीरप्रावरण्या च प्रावृता
[१३० चित्रम्] शिरोग्रीवीया रसग्रन्थयो रसायन्यश्च।
| <MISSING_FIG href="../../../books_images/U-IMG-17020237532.jpg"/> |
| कपालमूलिका ग्रन्थयः पश्चिमकर्णिकाश्च | हन्वधरीया ग्रन्थयः कण्ठिकोत्तराश्च |
| गम्भीरग्रोविका ग्रन्थयः | पुरोग्रोविका रसग्रन्थयः |
क—कर्णमूलिकाख्यो लालाग्रन्थिः, तत्पृष्ठतश्च अग्रिमकर्णिका रसग्रन्थयः।
ग्रीवापार्श्वयोरवतिष्ठन्ते, अनुवर्त्तन्ते च प्रायेण अन्तर्मातृकां धमनोमनुमन्याख्यां सिराञ्च आ गलमूलादुभयतः। सर्वासाञ्च करोटिबाह्यानां, करोटिगुहान्तरीयाणां, गम्भीरश्रीविकाणाञ्च रसायनीनां तैरेव चरमः सम्बन्धः।
तेभ्यो विनिर्गताश्व सर्वा अपि रसायन्यः क्रमशः परस्परं मिलिताः द्वित्रा स्थूलरसायनीरारचयन्ति ग्रीवामूलयोरेकैकतः। तासां दक्षिणवामयोः रसकुल्ययोर्यथासम्भवं प्रवेशः।
[ १३१ चित्रम् ]
ऊर्ध्वशाखीया रसग्रन्थयो रसायन्यश्च।
| <MISSING_FIG href="../../../books_images/U-IMG-17029783881.jpg"/> |
| उत्तानग्रीविका रसग्रन्थयः, अंसान्तरिकग्रन्थिश्च | बहिर्बाहुका सिरा |
| अंसच्छदा पेशी → | कूर्परोत्तरिको ग्रन्थिः |
| कज्ञादरीस्था ग्रन्थयः | उ—उरःपरिसरीया रसग्रन्थयो रसायन्यश्च |
अथ ऊर्ध्वशाखीया रसग्रन्थयो रसायन्यश्च।
एकैकस्यामूर्ध्वशाखायां द्विविधा रसग्रन्थयः, रसायन्यश्च —उत्तानाः, गम्भीराश्चेति (१३१ चित्रम्)। तेषु—
उत्ताना रसग्रन्थयः कूर्परान्तःसीम्नि, अंसपुरस्ताच्च वर्त्तन्ते। तेषां *कूर्परान्तरिको541*नाम ग्रन्थिरेको (द्वौ वा) कूर्परसन्धेरुपरिष्टादन्तर्बाहुकायाः सिरायाः पार्श्वतः। तस्मिन् कासाश्चिदुत्तानरसायनीनां कर-प्रकोष्ठान्तः सोमस्थानां प्रवेशः। अंसान्तरिकस्तुग्रन्थिरेको (द्वौ वा) अंसच्छदायाः पेश्या अन्तःसीम्नि पुरश्च दृश्यः। तत्र कासाञ्चिदंसगतानामुत्तानरसायनीनाम् प्रवेशः।
**कक्षान्तरीयाः542**नाम गम्भीराः रसग्रन्थयः एकैकतः कक्षादर्यं तदुपकण्ठे पुरः पश्चाच्च वर्त्तन्ते। तेषां संख्या आ विंशतेः त्रिंशत्पर्यन्ता। ते प्रायेण कक्षाधरे सिराधमन्यौ अनुवर्त्तन्ते, छाद्यन्ते च उरश्छदाभ्यां पेशीभ्याम्। सन्ति च तत्सम्बन्धिनो ग्रन्थयः अक्षकास्थ्नोऽधस्तादपि पेशीच्छादिताः, तेषु विशेषेण उरःपुरःस्थानां स्तनप्रभवाणाञ्च कासाञ्चिद् रसायनीनां प्रवेशः। सन्ति च तत्सम्बन्धिनः त्रिचतुरा ग्रन्थयः पृष्ठतोऽपि, अंसफलकाच्छादिताः। सर्वासां च बाह्वंसीयानां, बहूनामुरःपुरःस्थानाञ्च रसायनीनां कक्षान्तरीयेषु प्रन्थिषु प्रवेशः।
कक्षान्तरीयग्रन्थिभ्यो विनिर्गताः रसायन्यस्तु क्रमेण परस्परमिलिताः ग्रीवामूले एकैकतो द्वित्रासु स्थूलरसायनीषु परिणमन्ति। तासां पूर्वोक्तदिशा शिरोग्रीबीयस्थूलरसायनीभिर्मिलितानां रसकुल्ययोः प्रवेशः। क्वचित् पृथगपि वा पूर्वोक्तसिरासन्धौ।
अथ अधःशाखीया रसग्रन्थयो रसायन्यश्च।
एकैकस्यामधःशाखायां द्विविधा रसग्रन्थयः, रसायन्यश्च—गम्भीराश्चेति। तत्र रसग्रन्थीनां त्रिषु प्रदेशेषु विभागः—जानुपुष्ठिके स्वातेअनुवंक्षणीयच्छिद्रं परितः, वंक्षणदेशे च। तत्र—
*जानुपृष्ठिका543*नाम क्षुद्रा रसग्रन्थयः षट् सप्त वा साकल्येन। तेषां चत्वारः पञ्च वा उत्तानाः, ते जानुपृष्ठस्थे खाते मेदःपुञ्जानुविद्वाः, जङ्घापश्चिमानां रसायनीनां संग्राहिणः। अवशिष्टो ग्रन्थिः (ग्रन्थिद्वयं वा) जानुसन्धिकोषस्य
[ १३२ चित्रम् ]
अधःशाखीया रसग्रन्थयः रसायन्यश्च।
| <MISSING_FIG href="../../../books_images/U-IMG-17020269564.jpg"/> |
| वंक्षणीया अनुवंक्षणीयाश्च रसग्रन्थयः | दीर्घोत्ताना सिरा परितश्च जङ्घागता रसायन्यः |
| दीर्घोत्ताना सिरा परिचयश्च और्व्यो रसायन्यः | [उ—उदरपरिसरीया रसायन्यः ] |
पृष्टस्थः, तत्र जानुसन्धिवेष्टनीनां रसायनीनां प्रवेशः। तेभ्यो निर्गताश्च रसायन्यः प्रायेण और्वोसंज्ञे सिराधमन्यौ अनुवर्त्तमाना गम्भीरवंक्षणीयान् ग्रन्थीन् प्रविशन्ति।
अनुवंक्षणीयाः544नाम सप्त अष्टौ वा ग्रन्थयो वंक्षणाधस्तादूरुमूलपुरस्ताद् वर्त्तन्ते (१३२ चित्रम्), अनुवंक्षणीयं ठकारच्छिद्रंपरितः। तेषां पञ्चषा उत्तानाः, त्रिचतुरा गम्मीराः। तेषु प्राधान्येन शिश्न-वृषण-नितम्बीयानामधः-शाखीयानाञ्च कासांचिद् रसायनीनां प्रवेशः।
वंक्षणीयाः545 नाम रसग्रन्थयो वंक्षणिकाख्यस्त्रायुरज्ज्वा अनुक्रमेण तिर्यगास्तृताः — उत्ताना गम्भीराश्च (१३२ चित्रम्)। तेषां संख्या दशकादारभ्य विंशतिपर्यन्ता। ते गुदोपस्थ-वृषण-नितम्बीयानाम् अधःशाखीयानाञ्च रसायनीनां पूर्वोक्तग्रन्थिभ्यो विनिर्गतानां लसीकां पुनर्विशोधयन्ति। उदरनिम्नार्धपरिसरीया अपि रसायन्यस्तानेव प्रविष्टाः। चरणक्षतादिसम्भूतं हि वीसर्पादिविषं, फिरङ्गादिविषं च शिश्नक्षतादिप्रभवं वंक्षणग्रन्थिष्वेव प्रसर्पतीति तेषां रुजाशोथौ पाकश्च प्रायः।
दृश्यते च क्वचिद् गृध्रसीद्वारेऽपि रसग्रन्थिरेको (द्वौ वा), गृध्रसीद्वारिकोनाम। स अनिश्चितावस्थानः।
वंक्षणीयग्रन्थिभ्यो विनिर्गता रसायन्यस्तु वंक्षणदीपथेन और्व्याख्ये सिराधमन्यौ अनुवर्त्तमाना उदरगुहान्त-रधिश्रोणिकान् रसग्रन्थीन् प्रविशन्ति।
अथ उदर्या रसग्रन्थयो रसायन्यश्च।
उदर्या रसग्रन्थयः546 खलु असंख्यप्रायाः आभ्यन्तराश्च। द्विविधाश्च ते – परिसरीयाः आशयिकाश्चेति। सर्वेऽपि ते महाधमन्याः, तत्काण्डशाखानाञ्च अनुक्रमेण तदुभयतः, तत्पुरस्ताच्च वर्त्तन्ते। आशयिकास्तु आशयानभितः सज्जिताः आशयसंज्ञानुसारेण संज्ञायन्ते। तेषु चेह मुख्या एव रसग्रन्थयो वर्ण्यन्ते, केषांचिदुदर्यरोगाणां संप्राप्तिपरिज्ञानाय।तत्र—
(१) परिसरीयाः रसग्रन्थयःपुनश्चतुर्धा विभज्यन्ते। तद्यथा — श्रोणिगुहायां अधिश्रोणिका उत्तराः, अधिश्रोणिका अधराः, त्रिकपूर्विकाश्चेति। कटिवंशस्य पुरस्तात् अनुकटिकाश्च। तत्र—
[ १३३ चित्रम् ]
अधिश्रोणिका रसग्रन्थयः।
| <MISSING_FIG href="../../../books_images/U-IMG-17020290135.jpg"/> |
| महाधमनीपुरःस्था रसग्रन्थयः | २|२|२ त एव अधराः |
| अधरा महासिरा | ४ |
| १ | १ अधिश्रोणिका उत्तरा नाम रसग्रन्थयः |
अधिश्रोणिका उत्तराः547 नाम एकैकतः अष्टौ दश वा पृथुतरा रसग्रन्थयो जघनोदरे महाधमनीमधरमहासिरां चोभयतोऽनुवर्त्तन्ते तत्पुरश्च (१३३ चित्रम्)। तान् प्रविशन्ति अधःशाखीया वंक्षणोदरपरिसरीयाश्च रसायन्यः। उपस्थमूल-बस्तिप्रभवाणां योनिगर्भाशयिकानाञ्च कासाञ्चिद्रसायनीनां तेषु प्रवेशः।
अधिश्रोणिका अधराः548 नाम बहवो ग्रन्थयो बस्तिगुहाभ्यन्तरे पश्चिमतो दृश्याः। बस्तिगुहापरिसरीयाः, गुद-बस्ति-मूलाधाराद्यागताश्च रसायन्यः प्राधान्येन तानेव प्रविशन्ति।
केचित्तु अधिश्रोणिकाख्यानां धमनीनां संज्ञानुसारेण पञ्चविधान्549 External lliac Lymph-glands. (b) Common lliac Lymph-glands. (c) Inferior Epigastric Lymph-glands. (d) lliac Circumflex Lymph glands. (e) Hypogastric Lymph-glands.")अधिश्रोणिकान् रसग्रन्थीनाचक्षते। सर्वेऽपि ते इहैवान्तर्भूताः।
**त्रिकपूर्विकाः550**नाम रसग्रन्थयःत्रिकास्थनः पुरस्तात् कोरोदरे भागे त्रिकमध्या-त्रिकपार्श्विकाख्य-धमनीद्वयानुक्रमेण सन्निविष्टाः। तेषु प्रविशन्ति गुदसम्भवाः वस्तिगुहायाः पश्चिमप्राचीरोत्थाश्च रसायन्यः। तेभ्यो विनिर्गतानां रसायनीनामधिश्रोणिकाख्यग्रन्थिषु प्रवेशः।
अनुकटिकाःनाम असंख्यकल्पा ग्रन्थयः(१२९चित्रम्) कटिवंशस्य पुरस्ताद् महाधमनीं परिवृत्य समन्ताद् वर्त्तन्ते। तेषु पूर्वोक्तप्रन्थिप्रभवाणां रसायनीनां प्रवेशः। ग्रन्थिविनिर्गतानान्तु रसप्रपायाम्।
(२) आशयिका रसग्रन्थयः551 पुनरर्धोदरिकां नाम महाधमन्याः अक्षशाखाम्, उत्तरान्त्रिकीमधरान्त्रिकीञ्च नाम धमनीद्वयमनुवर्त्तन्ते। तत्र अर्धोदरिकायाः प्रधानशाखात्रयसंज्ञानुसारेण प्रन्थयोऽपि — यकृन्मूलिकाः पर्यामाशयिकाः, पर्यग्न्याशयप्लोहिकाश्चेति त्रिधा संज्ञिताः। आन्त्रिक्योर्धमन्योरनुवृत्त्या अवस्थिता प्रन्थयस्तु अन्त्रमूलबन्धनीनां स्तरद्वयान्तःस्थाः, ता अन्त्रमूलिका उत्तराः, अधराश्चेति अभिधीयन्ते। तत्र—
यकृन्मूलिका552नाम रसग्रन्थयःयकृन्मूले तिष्ठन्ति। ते द्विविधाः — (१) याकृतधमनीसहचराः, (२) ग्रहणीद्वारिकाश्चेति। तत्राद्याः उदर्याख्यमहाकलायाःलघुकोषस्य स्तरद्वयान्तरालस्थाः आयकृद्द्वारम्। तेष्वेको ग्रन्थिः पित्तकोषग्रोवोपकण्ठे दृश्यो नियमेन। अपरे ग्रन्थयः, संख्यया चत्वारः पञ्च वा। ते ग्रहण्यामाशययोः सन्धिं पुरिवृत्य तिष्ठन्ति। त पते यकृन्मूलिकाः रसग्रन्थय आमाशय-ग्रहणी-यकृत्-पित्तकोषाऽग्न्याशयोत्थानां रसायनीनां रससंग्राहिणः। तेभ्यो विनिर्गताः रसायन्यस्तु महाधमनीपुरःस्थान् उदर्यरसग्रन्थीन् प्रविशन्ति।
पर्यामाशयिका553 नाम बहवः क्षुद्रग्रन्थयः आमाशय-ग्रहण्योः उत्तराधरसीम्नोरास्तृताः मालाकारेण। आमाशयप्रभवाणां रसायनीनां, ग्रहणीप्रभवाणाञ्च कासाञ्चित् तेषु प्रवेशः।
पर्यग्न्याशयप्लीहिका554नाम ग्रन्थयः अग्न्याशयस्य ऊर्ध्वधारायामभिप्लोहिकां धमनीमनुसरन्ति, आ प्लीहमूलात्। ते आमाशय-प्लीहाऽग्न्याशयोत्थानां कासाञ्चिद् रसायनीनां रसं संगृह्णन्ति।
अन्त्रमूलिकाः555नाम रसग्रन्धयः पुनः सार्धंशतावधिसंख्याः प्रायः। ते अन्तबन्धनीनां स्तरद्वयान्तरालेषु विन्यस्ताः। तान् अन्त्रेभ्यः सौम्यरसाकर्षण्यः पयस्विन्यो नाम रसायन्यः प्रविशन्ति। तद्विनिर्गतानां तु रसायनीनां प्रवेशो उदर्यमहाधमन्याः पुरोवर्त्तिषु रसग्रन्थिषु, तेभ्यश्च रसप्रपायाम्।
तेषां च ग्रन्थीनां रुजाशोथौ कठिनीभावश्च उदर्यक्षयरोगे विशेषात्, आन्त्रिकज्वरादौ च स्तोकेन भवन्तोति विशेषेण स्मर्त्तव्यम्।
उदर्या रसायन्यः पुनस्त्रिविधाः — बहिःपरिसरीयाः, अन्तःपरिसरीयाः, आशयिकाश्चेति। तत्र — (१) बहिःपरिसरीया नाभेरधःस्थाः वंक्षणीयग्रन्थिषु प्रविष्टाः, नाभेरुर्ध्वस्थास्तु उरोऽन्तःपरिसरीयग्रन्थिषु। कटिपृष्टस्थाः पुनः उदरान्तःस्थेषु अनुकटिकाख्येषु प्रन्थिषु प्रविशन्ति। (२) अन्तःपरिसरीयाः पुनर्यथासम्भवम् अन्तःपरिसरीयग्रन्थोनधिश्रोणिकादीन् प्रविशन्ति। (३) आशयिकास्तु आशयान् परिवृत्य वर्त्तमाना आशयिकग्रन्थीन् पूर्वोक्तान्प्रविशन्ति।
अथ उरस्या रसग्रन्थयो रसायन्यश्च।
ते ताश्च द्विविधाः — परिसरीया आशयिकाश्चेति। तत्र परिसरीयाः पुनर्द्विविधाः — बाह्या आभ्यन्तराश्च। आशयिकास्तु आभ्यन्तरा एव। तत्र—
(१) बाह्याः परिसरीय रसग्रन्थयः स्वल्पतरा उरः पुरोभागे दृश्याः (१३१ चित्रम्)।सन्ति च कक्षान्तरीयाःअक्षकाधरीयांश्च ग्रन्थयः उरोबाहुसन्धौ, ते वर्णितपूर्वाः। उरःपूर्विकानां बाह्यरसायनीनां भूम्ना तेषु प्रवेशः, आभ्यन्तरीणाञ्च कासाञ्चित्। प्रविशन्ति च प्रायस्तानेव स्त्रोणां स्तनपरिसरीयाः स्थूलरसायन्यः। अन्तःपरिसरीयाणां तु रसायनीनामाभ्यन्तरेष्वेव रसग्रन्थिषु प्रवेशः।
(२) आभ्यन्तराः परिसरोयरसग्रन्थयः पुनरुरसि त्रिविधाः। तद्यथा—
(क) उरःफलकपार्श्वगाः556 (उपपर्शुकान्तरालीया वा) ग्रन्थयः उरःफलकपार्श्वगयोरन्तःस्तनिकाख्यधमन्योरनुसारिणः। ते एकैकतः पञ्चषाः, उपपर्शुकान्तरालेषु दृश्याः। तेषु कासाञ्चित् स्तनोत्थानां रसायनीनां, नाभेरूर्ध्वस्थानामुदरपरिसरीयाणां, उरःपूर्विकाणाञ्च गम्भीराणां प्रवेशः। तद्विनिर्गतारसायन्यस्तु द्वयोः स्थूलतररसायन्योः परिणमन्ति। ते रसकुल्ययोः प्रविशतः।
पृष्ठवंशपार्श्वगाः557 (पर्शुकान्तरालीया वा) नाम ग्रन्थयः पृष्ठवंशमुभयतो वर्त्तन्ते पर्शुकान्तरालेषु। ते एकैकतो दश द्वादश वा संख्यया।पृष्ठस्यानां
[ १३४ चित्रम् ] अधिक्लोमका रसग्रन्थयः।
| <MISSING_FIG href="../../../books_images/U-IMG-17020311656.jpg"/> |
| क्लोमनलिका | क्लोमकाण्डिकाः |
[ चित्रव्याख्या—१\।१\।१ क्लोमनलिकामुभयतोऽवस्थिता रसग्रन्थयः।२।२ क्लोम परितः स्थिताः रसग्रन्थयः।३।३ क्लोमकाण्डिकाः, परितः स्थिताः ग्रन्थयश्च।४ फुस्फुसान्तरीया रसग्रन्थयः। ५।५ फुस्फुसाभिगे महाधमन्यौ। ]
रसायनीनां पृष्ठपेश्यादीन् निर्भिद्याऽन्तःप्रविष्टानां तेषु प्रसरः। तन्निर्गतानान्तु स्थूलतररसायनीषु परिणतानां रसप्रपायां, रसकुल्ययोर्वा प्रवेशः।
महाप्राचीरोत्तराः558नाम रसग्रन्थयां महाप्राचीराख्यपेश्याः समन्ताद्। तेषु कासाञ्चित् पेशोसमुत्थानां यकृत्पृष्टादिप्रभवाणां च रसायनीनां प्रवेशः। तन्निर्गतानान्तु पूर्वोक्तेषु ग्रन्थिषु यथासम्भवम्।
आशयिका पुनर्ग्रन्थयःउरोगुहायां त्रिविधाः — अग्रिमफुस्फुसान्तरीयाः, पश्चिमफुस्फुसान्तरीयाः, अधिक्लोमकाश्चेति। तत्र—
**अग्रिमफर्स्फुसान्तरीयाः559**नाम रसग्रन्थयः पुरस्तादुत्तरे फुस्फुसान्तराले वर्त्तन्ते तोरण्या महाधमन्याः ऊर्ध्वं काण्डसिराधमनीरभितश्च। बालग्रैबेयकग्रन्थेः, हृत्कोषतश्च समुत्थितानां रसायनीनां प्रवेशः। तेभ्यो विनिर्गतानान्तु अधिक्लोमकाख्येषु रसग्रन्थिषु।
पश्चिमफुस्फुसान्तरीयाः560नाम रसग्रन्थयः हृत्कोषस्य पश्चिमस्थाः। ते अवरोहिणीं महाधमनीमन्ननलिकाञ्च परितो वर्त्तन्ते। तत् प्रवेशिन्यो रसायन्यः, हृत्कोषान्ननलिकादिप्रभवाः। तन्निर्यायिण्यश्च प्रायो दीर्घां रसकुल्यां प्रविशन्ति।
**अधिक्लोमका561**नाम बहवो रसग्रन्थयो नानाविधाकृतयः (१३४ चित्रम्) क्लोमनलिकामुभयतः, तत्काण्डयोः शांखा-प्रशाखादीनाञ्च समन्ताद् दृश्यन्ते श्रेणीवद्धाः। तेषु क्षुद्रतमाः क्लोमकाण्डिकाभिः क्षुद्राभिः सह फुस्फुसान्तरनुप्रविष्टाः। सर्वे च ते क्लोम-फुस्फुस-हृदयप्रभवाणां रसायनोनां विशोधनकर्माणः। तद्विनिर्गताश्च रसायन्यो द्वयोः स्थूलरसायन्योः परिणमन्ति। ते चोर्ध्वं गत्वा गलमूलमुभयतो रसकुल्ययोः प्रविशन्ति, क्वचिद् वा गलमूलिकयोः सिरयोः पृथमेव।
एते चाऽधिक्लोमका ग्रन्थयःसंकुलजनपदनिर्वासिनां श्यामाभाः कठिनीभूताश्च दृश्यन्ते, श्वासवायुवाहितस्य रजोधूमादेः सम्पर्कात्। राजयक्ष्मादौ च विशेषेण शोथवन्तस्ते कृच्छ्रकासादीन् जनयन्तीति स्मर्त्तव्यम्।
रसायन्यश्च उरस्याः सर्वत्र उरःपरिसरे, आशयिकधमनीः स्रोतांसि च संवेष्ट्य तिष्ठन्ति। तासां प्रवेश-निर्गमादिकं व्याख्यातपूर्वम्।
इति समाप्तं रसायनीखण्डम्।
प्रत्यक्षशारीरम्
आशयखण्डम्।
<MISSING_FIG href="../../../books_images/U-IMG-17020322852-removebg-preview.png"/>
प्रथमोऽध्यायः।
अथात आशयसामान्यविज्ञानीयमध्यायं व्याख्यास्यामः।
इह खलु आशेरते दोषधातुमलादय एष्विति कृत्वा अन्न-मल-मूत्रादीनां मुख्याधारा आशया इत्युच्यन्ते। तैरेव साधनभूतैः शारीरकार्याणां प्रवर्त्तनात् नियमनात् च। शारीरयन्त्राणीति तु तेषां सानुबन्धानां साधारणी संज्ञा।
ते चाशया द्विविधाः —सगर्भा562अगर्भाश्च। त्रिविधा वा — महागर्भाः, ईषद्गर्भाः, अगर्भाश्चेति। तत्रमहागर्भाः—आमाशय-पक्वाशय-मूत्राशय-गर्भा-शयाद्याः। ईषद्गर्भाः—मस्तिष्कादयः, फुस्फुसद्वयञ्च बहुक्षुद्रगर्भत्वात्।अगर्भाः यकृत्प्लीहाद्याः। तेषु महागर्भाणामेव आधेय563संज्ञाभिर्व्यवहारः प्रायेण अन्येषान्तु विलक्षणसंज्ञाविशेषैः। निःस्त्रोतस्का ग्रन्थिविशेषास्तु अगर्भाशयेष्वन्तर्भवन्ति।अथवा द्विविधा एव आशयाः—कोषरूपाः, पिण्डरूपाश्च।
निर्माणं पुनराशयानां द्विविधम्—स्वतन्त्रपेशीप्रधानं, विलक्षणवस्तुप्रधानञ्च। तत्र महागर्भाणां पूर्वं, परमितरेषाम्। सिराधमनीजालकैरभिव्याप्तानि च सर्वत्र आशयनिर्माणवस्तूनि, तानि विशिष्टकार्यकराणि।
सर्वेषाञ्चाशयानां बहिरावरणं कलामयम्। अन्तरावरणञ्च तादृशमेव कोषाकाराणां, सूक्ष्मतरञ्च\। उभयमपि तनुश्लेष्मस्रावि, विशेषतश्चाभ्यन्तरावरणम्।
निर्माणवैचित्र्यविशेषांश्च तेषां प्रत्याशयं विभज्य यथास्थानमुपदेक्ष्यामः।
आशयप्रसंगेषु चेह तत्तदाशयसम्बन्धिनां लालाग्रन्थ्यादीनां संग्रहः, ते ह्यनुबन्धास्तुल्यप्रयोजनाः। आशयानां च सानुबन्धानां तन्त्रमितिसंज्ञा564।
तांश्च तथा तथा कार्यविभागेन षोढ़ा प्रविभज्य व्याचक्षते शारीरविदः। तद्यथा—संज्ञाचेष्टायतनयन्त्राणि, रक्तसंवहनयन्त्राणि, श्वसनयन्त्राणि, अन्नपचनयन्त्राणि, मूतयन्त्राणि, प्रजननयन्त्राणि चेति। तेषां तिसृषु गुहास्ववस्थानमित्युक्तपूर्वम्। तदनुबन्धानां तु बहिरपि गुहाभ्यः।
शिरोगुहाद्यन्तरीयाणां संज्ञाचेष्टायतनयन्त्राणां मस्तिष्कादीनां नाड़ीतन्त्रेष्वन्तर्भावः, विस्तरश्च तत्रैव वाच्यः दरोगुहान्तरीयेषु रक्तसंवहनयन्त्राणि विवृत पूर्वाणि। श्वासयन्त्रतन्त्रं565तावदिह व्याख्यास्यते, उदरगुहान्तरीयाणि यन्त्राणि च। उदरोरसोरवस्थितानां यन्त्राणां संग्रहाय च ‘कोष्ट’ इति संज्ञा प्राचाम्। तदुक्तम्—
“स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च।
हृदुण्डुकःफुस्फुसश्च कोष्ट इत्यभिधीयते॥”
सर्वेषाञ्च यन्त्राणां सारथिभूतास्त्रयो धातवः सूक्ष्म-स्थूल रूपैरवस्थिताः—वायुः, पित्तं, कफश्चेति वैद्यकविदः। तैर्हि प्रकृतिस्थैः सम्यक् प्रवर्त्यन्तेऽनुगृह्यन्ते प्रगृह्यन्ते च शारीरक्रियाः स्वाभाविषयः। विकृताश्च ते ता एवोच्छृङ्खलं प्रवर्त्तयन्तस्तांस्तान् रोगान् जनयन्ति।
तत वायुः सर्वयन्त्रतन्त्रधरः, तदनुगौ च सर्वथा पित्तश्लेष्माणौ। ते च सर्वशरीरचरा अपि केषुचिदाशयेषु धात्वादिषु च परिस्फुटकार्याः। तद्यथा—संज्ञाचेष्टायतनयन्त्रेषु वायुः, अन्नविपचनयन्त्रेषु पित्तं, श्वसनयन्त्रादिषु श्लेष्मा। तद्विस्तरस्त्वाकरेषु सिद्धान्तनिदाने च द्रष्टव्यः।
तदेतदाशयसामान्यविज्ञानमभिहितं बीजरूपेण। विस्तरोऽत ऊर्ध्वम्।
भवन्ति चात्र—
“नित्याः प्राणभृतां देहे वातपित्तकफास्त्रयः।
विकृताः प्रकृतिस्था वा तान् बुभुत्सेत पण्डितः॥
उत्साहोच्छ्वासनिःश्वासचेष्टा धातुगतिः समा।
समो मोक्षो गतिमतां वायोः कर्माऽविकारजम्॥
दर्शनं पक्तिरूष्मा च क्षुत्तृष्णा देहमार्द्दवम्।
प्रभा प्रसादो मेधा च पित्तकर्माऽविकारजम्॥
स्नेहो बन्धः स्थिरत्वं च गौरवं वृषता बलम्।
क्षमा धृतिरलोभश्च कफकर्माऽविकारजम्॥”
(चरक० सूत्र० १८ अ०)
इति प्रथमोऽध्यायः।
द्वितीयोऽध्यायः।
अथातः श्वासयन्त्रवर्णनीयमध्यायं व्याख्यास्यामः।
उरोगुहायां फुस्फुसौ, श्वासनलिका, अन्ननलिका, हृदयञ्च सानुबन्ध566मिति कथितपूर्वम्। तत्रफुस्फुसयोः स्वरयन्त्र-श्वासनलिकादिसहितयोः श्वास-यन्त्रमिति संज्ञा।अन्ननलिका तु उरोगताऽपि अन्नपचनयन्त्रवर्णने वर्णनीया, तदनुबन्धभूतत्वात्। हृदयं तु व्याख्यातचरं धमनीखण्डे।
सेयमुरोगुहा समन्तादुरःपञ्जरवेष्टिता सूचितपूर्वा, सह तदन्तःस्थैर्विशेषः। धार्यते च सा — अधस्ताद् महाप्राचीरोर्ध्वतलेन कूर्मपृष्ठाकारेण, पार्श्वयोर्धनुर्वक्राभिः पशुकाभिः, पुरस्तात् सोपपर्शुकेन उरःफलकेन, पश्चिमतः पृष्ठवंशपुरोभागेन। अन्तरालेषु च पशुकोपपर्शुकानां तदापूरण्यः पेश्यः पर्शकान्तरिका नाम। उभयतश्चोरःफलकं तत्पृष्ठस्थे पेश्यौ उरस्त्रिकोणिकासंज्ञ। सन्ति चापरा अपि पेश्यः उरश्छदाद्या बाह्याः ये उरःफलक-पर्शको-पपर्शुकादिषु संलग्नाः श्वासकर्मसहायाः।
सेयमुरोगुहा अभ्यन्तरतो दृढकलावृता।कला चासौ उरस्या, फुस्फुसधरावा नाम अग्रे वक्ष्यमाणा।
उरोगुहायतनञ्च स्फारोदरकलशाकारम् अधःसमायतमृर्ध्वं संकुचितम्, विशेषतश्च पार्श्वयोरधिकायतम्। तलदेशे तु मध्ये पुरश्चाऽगभीरं, गभीरं च पश्चात् पार्श्वयोश्च। नियतपरिवृत्तिशीलञ्च तत् प्रश्वास-निःश्वासकालयोः, उरःपञ्जरस्य विस्फारसङ्कोचाभ्याम् फुस्फुसयोर्वायुपूरणरेचनकृताभ्याम्।
अथ स्वरयन्त्रम्।
स्वरयन्त्रं567 नाम (१३५।१३७ चित्रयोः) विविधस्वरोत्पादनसाधनम् तरुणास्थिमयं सम्पुटमुभयतश्छिद्रं, यत् श्वासनलिकायाः शिखरेऽवतिष्ठते जिह्वामूलेन सम्बद्वम्। तदेतत् कण्ठिकास्थिमूलादारभ्य अवटुसंज्ञस्य ग्रीवापुरोवर्त्तिन उत्सेधस्याधःसीमां यावदनुभूयते दृश्यते च मध्यरेखायां त्वगधस्तात् पेशीप्रच्छदावृतम् कण्टकवत्। तस्योर्ध्वच्छिद्रम् श्वासवायुप्रवेशद्वारभूतम् श्वासवायुनैव स्वरयन्त्रप्रविष्टेन विविधस्वरोत्पादनात्। तच्च छिद्रम् अधिजिह्विकाख्यतरुणास्थिकपाटकेन संरक्षितम्। कपाटकञ्च तत् सदैवोर्ध्वमुखं श्वासद्वारमपावृत्यतिष्ठति, संवृणोति च तत् अन्नजलादिनिगिरणकाले—इत्यस्य नैसर्गिको नियमः। अधश्छिद्रं तु स्वरयन्त्रस्य श्वासनलिकान्तरीयवायुमार्गेण सानुबन्धम्।
संयोगश्च स्वरयन्त्रस्य ऊर्ध्वं कण्ठिकास्थ्ना, अधश्च श्वासनलिकया। निर्मीयते च तत् नवभिस्तरुणास्थिभिः। तेषां तोणि बृहन्ति एकाकीनि च। तानि—अवटुकं, कृकाटकम्, अधिजिह्वकं चेति-संज्ञानि। त्रीणि क्षुद्राणि युग्मरूपाणि च। तानि—घाटिके, कोणिके, कर्णिके चेति प्रत्येकं द्वे द्वे इति षट्। एवं साकत्येन नव।
तत्र अवटुकं568नाम (१३५।१३६ चित्रयोः) किञ्चिदायतपक्षद्वयात्मकं प्रधानं तरुणास्थि स्वरयन्त्रसम्पुटनिर्मापकम्। तयोः संयोगजः कण्टकवदुत्सेधो यूनां दृश्यः, विशेषतश्च पुंसाम्, ग्रीवापुरस्तात्। पक्षद्वयञ्चास्य मध्यरेखायां कोणमारचय्य पश्चात् प्रसृतम् तदन्तरालस्थया अवटुपट्टिकाख्यया स्नायुबन्धन्या पश्चिमतः संयोजितम्। तस्य च द्वे द्वे शृङ्गे ऊर्ध्वमधश्च तत्र ऊर्ध्वशृङ्गयोः सम्बध्येते कण्ठिकावटुङ्गिके नाम स्नायुरज्जू, कण्ठिकास्थिपाश्र्वाभ्यां तत्सन्धानाय। अधःशृङ्गद्वयस्य तु सन्धानं कृकाटकपाश्र्वाभ्याम् अवटुकाटिकाख्य स्नायुभ्याम्। पक्षद्वयसन्धानकोणस्य चोर्ध्वभागे त्रिकोणं खातम्, अधिजिह्वकमूलेन सन्धानाय। ऊर्ध्वधारा चास्य संयुज्यते कण्ठिकास्थना स्थूलकलापट्टिकामन्तरीकृत्य—सेयं कला कण्ठिकाऽवटुयोजनीं569नाम। अधोधारा तु ताद्दशीमेव कलापट्टिकामन्तरीकृत्य कृकाटकेन—सेयं कला *अवटुकृकाटिका570*नाम।
एकैकस्य च अवटुपक्षस्य बहिःष्टष्ठे संयुज्यन्ते तिस्रः पेश्यः—उरोऽवटुका, अवटुकण्ठिका, कण्ठसङ्कोचनी अधरा चेति। आभ्यन्तरपृष्ठे तु पक्षद्वयस्य संलग्नाः पञ्च विशेषाः। तद्यथा—मध्ये स्नायुबन्धनीसंबद्धा अधिजिह्विका, उभयतश्च स्वरयन्त्रोदरे परिघवदवस्थितं स्वरतन्त्रीचतुष्टयं द्वे मुख्ये, द्वे च गौण्यौ। तिस्रश्च पेश्य एकैकतस्तत्रैव—अवटुघाटिका, अवटुगोजिह्विका, अनुतन्त्रिका चेति।
**कृकाटकं571**नाम (१३५—१३७ चित्रेषु) अङ्गयकाकारं तरुणास्थि स्वरयन्त्रस्याधरावयवभूतम्। तस्य द्वौ भागौ—तनुवृत्तार्धः पुरस्तात्, स्थूलायतार्धश्च पश्चात्। तत्र पुरोऽर्धे पार्श्वयोरूर्ध्वं सम्बद्धा अवटुकस्याधोधारा, अधस्तात् श्वासनलिकाया ऊर्ध्वधारा संयोजनकलाव्यवधानेन। पश्चिमार्धस्तावत् सार्धाङ्गुला-
[ १३५ चित्रम् ]
स्वरयन्त्रंक्लोमनलिका च।
| <MISSING_FIG href=”../../../books_images/U-IMG-17020372577.jpg”/> |
| उत्तरम् अवटुशृङ्गम् | अधिजिह्विका |
| अवटुपक्षः | अवटुपक्षः |
| अधपमवटुशृङ्गम् | अ० कृ० |
| दक्षिणा क्लोमशाखा | कृकाटकम् |
| क्लोमकाण्डिका त्रयम् | क्लोमनलिका |
| क्लोमकाण्डिकाः | क्लोमविभागस्थानम् |
| वामा क्लोमशाखा |
[अ० कृ०—अवटुक्कुकाटकान्तरोया कला ]
यतः।तस्य पृष्ठतो मध्यरेखायां सम्बद्धः अन्ननलिकायाः पुरोदेशः। तदेकेकतश्च पेशी कृकाटघाटिका पश्चिमा नाम। तद्द्बहिश्च स्थालके अवटुकपक्षयोरधःशृङ्गसन्धायिनी। ऊर्ध्वधारावस्थिताभ्यां स्थालकभ्यान्तु संधीयेते तरुणास्थिनी घाटिके नाम। अधोधारा तु तस्य श्वासनलिकाशिखरेण संबद्धा कलामयपट्टिकया।
अधिजिह्वक572ं(अधिजिविका वा) नाम स्वरयन्त्रस्योधंद्वारपिधानभूतम् तरुणास्थि क्षुद्रसर्पफणाकारम्, यत् स्वरयन्त्रस्योर्ध्वप्रान्ते पुरःसीम्निमध्यरेखायां वृन्तमात्रेण सम्बद्धम् (१३६/१३७ चित्रयोः)। तदन्नजलादिनिगिरणकाले स्वरयन्त्रद्वारं सपदि संछादयति। तच्च सर्वतः श्लेष्मलकलावृतम् पुरस्तादुभयतश्च तनुस्थितिस्थापकस्नायुभ्याम् जिह्वामूलेन पुरः सम्बद्धम्, घाटिकाख्यतरुणास्थिभ्याञ्च पश्चात्। श्वासमार्गसंरक्षिकपाटभूतच्चतद्—इति विशेषेण स्मर्त्तव्यम्। तद्धि जिह्वामूले सर्पफणवत् सदा समुन्नतं पश्चादभिमुखं तिष्ठति। अंगुल्या स्पर्शनयोग्यं दर्शनयोग्यञ्च तद् जिह्वामूलावनमनेन। स्वरयन्त्रद्वारं तदन्तरञ्च मुकुरादिसहायेन चक्षुषा दृश्यम् कृतयोग्येन वैद्येन।
**घाटिके573**नाम त्रिकोणप्राये तरुणास्थिनी (१३६।१३७ चित्रयोः) कृकाटकशिरसि स्वरयन्त्रपश्चिमभागे सम्बद्धे। तयोश्चूड़ाद्वयमंकुशवद् विवृत्ताग्रम्।पृष्ठतश्च एकैकस्य अंकुशस्य संयुज्यते स्वरतन्त्रीचतुष्टयम्। तेषां द्वो मुख्ये, द्वे च गौण्यौ। उभयोश्च संव्यूहनी पेशी एकैव चूड़ाद्वयस्य मूले पश्चिमतः परिघवदवस्थिता—सा घाटान्तरीया नाम। अपरा स्वस्तिकाकारैर्मंससूतैरुभयोः संव्यूहनी पश्चात्, सा स्वस्तिक-घाटान्तरीया नाम । एकैकस्या घाटिकायाः पृष्टतश्चैकैकतः पेशीद्वयं—कृकाटघाटिका पश्चिमा, पार्श्वगा चेति।
**कोणिके574, कर्णिके575**चेति नाम (१३६ चित्रम् ) द्वे द्वे क्षुद्रतरुणास्थिनी घाटिकयोः चूड़ाद्वयसंयोजन्याः स्नायुसूत्रिकाया अन्तर्निविष्टे तद्दृढ़ीकरणाय चणकास्थिवत्।तासामाद्ये क्षुद्रवर्त्तलाग्रे तनु-वक्रदण्डिकाकारे पार्श्वस्थे, अन्त्ये क्षुद्रपुष्पमुकुलाकारे मध्यरेखामुभयतः। स्नायुसूत्रिका चासौ तद्धारिणी अर्धचन्द्राकारमास्थाय अधिजिह्विकापार्श्वयोर्मिलिता।
अथास्य तरुणास्थिसंघातमयस्य स्वरयन्तस्य अभ्यन्तरं स्वरयन्त्रोदरं(१३६।१३७ चित्रयोः) नाम।तदन्तःपरिधिस्तनुश्लेष्मस्त्राविण्या सूक्ष्मकलया सर्वत्र समावृतः। तस्योर्ध्वद्वारं गलविलसंयोगि, तदभिरक्ष्यते नियतमूर्ध्वमुख्या गोजिह्निकया। सेयमन्नादिनिगिरणकाले स्वयमेव पिदधाति स्वरयन्त्रद्वारं
साकल्येन। अधोद्वारं पुनः स्वरयन्त्रस्य श्वासनलिकानुबन्धि।
अथ स्वरतन्त्रयः।
स्वरतन्त्रयः576 (१३८ चित्रम्) स्वरयन्त्रोदरे शरगत्या पुरः-पश्चादायतं तन्त्रोचतुष्टयं कलावृतस्त्नायुसुमयम्। तस्य उत्तरतन्त्रीद्वयं गौणीसंज्ञम्, अधरं पुनः
( १३६ चित्रम् )
कण्ठिकास्थिसहित-
स्वरयन्त्रस्य विशेषदर्शकं चित्रम्।
| <MISSING_FIG href="../../../books_images/U-IMG-17020391698.jpg"/> |
| कण्ठिकास्थि | कृकाटकम् |
| अवटुकम् | मण्डलाख्यानि तरुणास्थीनि |
चित्रव्याख्या—१।कण्टिकास्थ्नो महाशृङ्गम्।२।तस्यैव मध्यपिण्डार्धम्३।पार्श्वस्थाअवटु-कण्ठिका स्नायुः। ४। तन्मध्यस्थं चणकास्थि। ५। कण्ठिकाऽवटुसंयोजनी कलाबन्धनी (मध्यस्था)। ६। उत्तरमबटुशृङ्गम्। ७ अवटुमध्यस्थः उत्तरकोणः। ८। अवटुपक्षः। ९।तिरश्चीन रेखा (अवटुपार्श्वस्थ)। १० । अवटु-काटक योजनो कलाबन्धनी मध्यस्था। ११। अधरम् अवटुशृङ्गम्।१२। अवटु-कृकाटिकयोः सन्धिः पार्श्वस्थः। १३ । कुकाटकेन श्वासनलिकाया बन्धनी। १४ । श्वासनलिका (क्लोमनलिका वा)। ध०—स्वरयन्त्रपोषण्या धमन्याः प्रवेशद्वारम्।
( १३७ चित्रम् )
स्वरयन्त्रीयतरुणास्थ्नां प्रदर्शकम्।
( पृष्ठतो दृष्टम् )
| <MISSING_FIG href="../../../books_images/U-IMG-17020397779.jpg"/> |
| (पृष्टतो दृष्टम्) | |
| कर्णिका | अधिजिह्नकम् |
| घाटिका | तस्यैव पृष्टस्थाऽलिका |
| कुकाटकस्य पश्चिमांशः (मध्यरेखायामुत्सेधवान्) | तस्यैव बृन्तः |
| कृकाटकस्य पार्श्वम् | अवटुशृङ्गम् (उत्तरम्) |
| अवदुशृङ्गम् (अधरम्) | कोणिकाख्यं तरुणास्थि |
| अवटुकस्य पश्चिमधारा |
[ १३८ चित्रम् ] स्वरयन्त्रस्य ऊर्ध्वमुखम्।
| <MISSING_FIG href="../../../books_images/U-IMG-170204026510.jpg"/> |
| कृकाटकम् | कृकाटघाटिका पेशी पश्चिमा |
| अवटुशृङ्गम् उत्तरम् | घाटाख्यं तरुणास्थि |
| घटान्तरीया पेशी | कृकाटघाटिका पेशी पार्श्वगा |
| स्वरतन्त्री गौणी | स्वरयन्त्रद्वारम् |
| कृकाटघटिका पेशी पार्श्वगा | स्वरतन्त्री मुख्या वामा |
| स्वतन्त्री मुख्यादक्षिणा | काटकपार्श्वम् |
| कृकाटकम् | अबटुकस्य उत्सेधः |
| पुरोभागः |
मुख्यसंज्ञम्। चतसृणामपि तासां संयोगः पुरस्तादवटुशिखरस्थे कोणे, पश्चाच्च घाटिकयोरंकुशाग्रद्वयस्य पुरस्तले, ऊर्ध्वाधःक्रमेण।तासां चान्तरालं त्रिकोणं *तन्त्रोद्वारं577*नाम। तस्य विकास-मुद्रणाभ्यां स्वरतन्त्रीणां ह्रस्वदोरर्घीकरणाञ्च नानाविधविचित्रस्वरनिष्पत्तिः। तच्चोभयंघाटिकास्थ्नोराकर्षणाऽपकर्षणाभ्यां सम्पाद्यते। स्वरयन्त्रद्वारं578तु पृथगेवोर्ध्वम्, तदेव श्वासमार्गद्वारमपि।
तत्र स्वरतन्त्रीणामुत्तंसनाय द्वे पेश्यौ मुख्ये —अवटुक्ककाटिके579नाम।द्वे च तत्सहायभूते — कृकाटघाटिके पश्चिमे580 नाम।तासामेव श्लथीकरणाय द्वे —अवटुघाटिके581नाम। ता एताः षट् स्वरतन्त्रीपेश्यः582, अष्टौ वा गोजिह्वाघाटिकयो-ग्रहणात्। अथ तन्त्रीद्वारस्य मुद्रणाय नव पेश्यः। तासु मध्ये घाटान्तरीया583एकाकिनी, अष्टौ त्वपराः—एकैकतश्चतस्त्र इति। तद्यथा—स्वस्तिकघाटिका584, गोजिह्वाघाटिका585, कृकाटघाटिका पार्श्वगा586, अनुतन्त्रीका587 चेति। अवटुगोजिह्निके588नाम पेश्यौ तु गोजिह्विकावनमनेन श्वासमार्गद्वारं छादयतः अन्नादिनिगरणकाले। ता एताः स्वरयन्त्रपेश्यो व्याख्याताः, तत्कार्याणि च। समग्रस्य स्वरयन्त्रस्य ऊर्ध्वाधःकर्षणन्तु क्रमेण अवटुकण्ठिकया उरोऽवटुकाख्यया च पेश्या। ते ग्रीवापेशीषु व्याख्याते।
अथास्य स्वरयन्त्रस्य पोषण्यो धमन्यः—उत्तरग्रीविकाऽधरग्रीविकयोर्धमन्योः प्रशाखाः, बहिर्मातृकायाश्च। तासां संहचर्यः सिरास्तु अनुमन्याख्यसिराद्वयं गलमूलिकाञ्च प्रविशन्ति। नाड्यः पुनः स्वरयन्त्रस्य—प्राणदयोः शाखाश्चतस्रः प्राधान्येन—द्वे स्वरयन्त्रारोहिण्यौ, द्वे च उत्तरस्वरिण्यौ नाम।
तदेतत् स्वरयन्त्रं समासेन व्याख्यातम्। एतानि च तत्स्मरणाय पद्यानि—
श्वासमार्गप्रतीहार-भूमिः स्यात् स्वरयन्त्रकम्।
घटितं सम्पुटं चारु नवभिस्तरुणास्थिभिः॥
गोजिह्विकाऽवटु-कृकाटक-घाटिकेति, मुख्यानि तेषु गिलने तु पिधानमाद्यम्।
सत्स्नायुजालकलितं ललितस्वरं तद्, यन्त्रं नियन्त्रितमुखं स्वरतन्त्रिकाभिः॥
विकास-मुद्रणाभ्याञ्च तस्य स्वरशतोद्भवः।
तत्साधनाय चेष्टन्ते सप्त पेश्यो दशाधिकाः॥
अथ श्वासनलिका।
**श्वासनलिका, क्लोमनलिका589**वा नाम (१३५ चित्रम्) प्रायः षडङ्गुलदीर्घा स्वांगुष्टपरिणाहा नलिका, या ग्रीवापुरस्तादवटुदेशाऽधःसीमत आरभ्य उरोमध्यं प्रविष्टा विभक्ता च। सेयमुपर्युपरि संहितैः पश्चादसम्पूर्णैस्तरुणास्थिमण्डलैः स्नायुवृतिसंबद्धरारचिता कण्ठकूपे त्वगधस्तादनुभवनीया द्वितांगुलमात्रेण। ततश्च उरोगुहान्तःप्रविष्टाऽसौ पञ्चमपृष्टकशेरुकासन्धेःपुरस्ताद् द्वयोः शाखानलिकयोर्विभक्ता फुस्फुसद्वयप्रवेशाय। एकैका च सा शाखानलिका पुनः शाखा-प्रशाखाऽनुशाखासु विभज्यमाना चरमैः शाखाप्रतानैरणून् वायुकोषान् प्रविशति। सेयं शाखाप्रशाखादिवती श्वासनलिका सर्वत्राप्याभ्यन्तरपरिधौ अवलंबकाख्यतनुश्लेष्मस्त्राविण्या सूक्ष्मकलया परिवृता। सोऽसौ श्वासवायोर्गतागतमार्गः। समग्रायाश्च शाखाद्वयविभक्तायाः श्वासनलिकायाः क्लोमेति590 इति प० कृष्णशास्त्रिकवडे महाशयानां मतं नोपेक्ष्यम्, केषाञ्चित् लक्षणानां तत्र समन्वयात्। तथापि “)संज्ञा वेदविदाम्।
व्यतिकरः पुनः श्वासनलिकाया ईद्वशः। ग्रीवायामस्याः पुरस्ताद् ग्रैवेयकग्रन्थिः, अधरग्रैवेयक्यौ नाम सिरे, उरोग्रैवेयक्यौ उरःकण्ठिके चेति पेश्यश्च। पश्चादन्ननलिका। तदाच्छादनी च ग्रीवाप्रच्छदाख्या प्रावरणी सिराधमन्यादिसहिता। उरसि तु—उत्तरे फुस्फुसान्तराले क्लोमनलिकायाः पुरस्तात् दृश्यानि (सम्मुखत आरभ्य) एतानि—उरःफलकं, बालग्रैवेयकग्रन्थिशेषः, वामा गलमूलिकाख्या सिरा, महाधमन्यास्तोरणभागः, काण्डमूला धमनी, वामा महामातृका धमनी, नाड़ीचक्रं च अनाहतसंज्ञम्। पश्चिमतश्च क्लोमनलिकायाः—अन्ननलिका तत्पृष्ठसंलग्ना।दक्षिणतः काण्डमूला धमनी, प्राणदाख्या नाड़ी व दक्षिणा। वामतः पुनर्महाधमन्यास्तोरणांशः, महामातृका धमनी अक्षाधरा च।
इह तु मुख्यायाः श्वासनलिकायाः क्लोमनलिकेति संज्ञा, प्रधानशाखाद्वयस्य पुनर्दक्षिणवामे क्लोमशाखे इति, तच्छाखाप्रशाखानान्तु क्लोमकाण्डिकाः इति। तत्र—
दक्षिणा क्लोमशाखा591स्थूलतरा सार्धांगुलायता हृदयस्योत्तरमहासिरायाश्च पश्चाद्दक्षिणतोऽवस्थिता। सा षड्भिरष्टभिर्वा तरुणास्थिमण्डलैः स्नायुजालनिबद्धैर्विनिर्मिता। तस्या द्वयोः क्लोमकाण्डिकयोर्विभागः। ते फुस्फुसाभिगाया धमन्या उत्तराधरदेशावधिनिष्टतः। तयोरुत्तरा दक्षिणफुस्फुसस्य उत्तरं पिण्डं प्रविशति । अधरा तु पुनर्द्विधाविभक्ता अधरम्।
वामा592क्लोमशाखा592षडंगुलायता प्रायो दशभिर्दादशभिर्वा तरुणास्थिमण्डलैर्निमिता। सा महाधमनीतोरणस्याधस्तात् प्रविश्य अन्ननलिकाया रसकुल्यायाश्च पुरस्तात् फुस्फुसाभिगधमन्याश्च पश्चादवतिष्ठते, विभज्यते च तिसृषु शाखासु वामफुस्फुसस्य पिण्डत्रयप्रवेशाय।
अथेमाःसशाखायाः श्वासनलिकायास्तर्पण्यो धमन्यः। श्वासनलिकायाः अधरग्रीविका नाम धमनी अक्षाधरोत्था। क्लोमकाण्डिकानान्तु क्लोमकाण्डानुगाः। सिराश्च धमनीभिस्तुल्यसंज्ञाः। नाड्यः पुनः प्राणदयोरेव शाखाः प्राधान्येन।
अथ उरस्या, फुस्फुसधरा वा कला।
उरस्या593।”), फुस्फुसधरा वा नाम विशालायतना तनुमसृना कला स्तरद्वयवती उरोगुहाया एकैकार्धेएकैकं फुस्फुसं प्रावृत्य धारयति एकेन स्तरेण, संसज्यते च उरःपञ्जरार्धस्य प्राचीरान्तःपरिधौ ऊर्ध्वाधस्तलयोश्च अपरेण स्तरेण (१४१ चित्रम्) सेयमेकैका कला दीर्घायतमुद्रितकोषरूपा। स्तरद्वयान्तश्च तस्या दृश्यते स्तोकमात्रा तनुलसीका, स्तरयोः परस्परसंघर्षणवारणाय। तयोर्बाह्यभागस्य “परिसरीयभाग” इति संज्ञा, उरःपरिसरान्तर्वेष्टनभूतत्वात्। आभ्यन्तरस्य तु “पर्याशयभाग” इति संज्ञा, आशयं परितः संसञ्जनात्। न च फुस्फुसः कलायाः स्तरद्वयाभ्यन्तरे, स्तरद्वयस्य परिसरसीमासु नीरन्ध्रमिलनात्।
सोऽसौ परिसरीयभागः594पार्श्वयोः पुरः पश्चाञ्च क्रमात् पर्शुकामयप्राचीरान्तः, उरःफलकपृष्ठे, पृष्ठवंशपुरोभागे च संसक्तः। ऊर्ध्वभागे तु तत्संस्पर्शःफुस्फुसशीर्षण्याख्याया गम्भीरप्रावरण्यास्तलदेशेन, अधोभागे महाप्राचोरोर्ध्वतलेन। सोऽयम् उत्तरांशेन मध्यरेखां प्रति प्रसृतः क्लोमनलिकापार्श्वंस्पृष्ट्वाफुस्फुसवृन्तं वेष्टयति। अधराशिन च हृतकोषपार्श्वं संस्पृश्य ऊर्ध्वं मध्यरेखां प्रति प्रस्थितः तद्वदेव फुस्फुसवृन्तं स्पृशति। तत्परितश्च उभाभ्यामंशाभ्यां मिलितोऽसौ फुसफुसावरणेन “पर्याशयभागेन” अनुबध्यते।
त्रिकोणाकारी द्विगुणीभूतः परिसरीयभागस्तु पश्चिमतोऽधश्च प्रसृतः, स फुस्फुसस्य महाप्राचीरामूलेन सम्बन्धनाय। तस्य फुस्फुसबन्धनीति संज्ञा।
पर्याशयभागः595पुनरेकैकं फुस्फुसं प्रावृत्य फुस्फुसवृन्तं परितः संव्यूहितः परिसरीयभागेन अनुबध्यते। सेयं विचित्रनिर्माणा उरस्या, फुस्फुसधरा वा नाम कला, फुस्फुसमङ्कने धारयन्त्यपि नाभ्यन्तरे गृह्णाति।
अथास्याः कलायाः स्तरद्वयसान्निध्यं प्रश्वासकाले, फुस्फुसस्य वायुपूर्णत्वेन विस्फारात्। व्यवधानाधिक्यञ्च निःश्वासकाले, फुस्फुसस्य वायुरेचनेन सङ्कोचात्। शीतवर्षादिबाधावशाच्च कदाचिद् व्रणशोथःउरस्याया एकदेशे, तदा प्रश्वासकाले स्तरद्वयसंघर्षणात् तीव्ररुजाप्रादुर्भावः। कालेन प्रायो जलसञ्चयश्च उरस्यायाः स्तरद्वयान्तःस्थावकाशे, स क्रमेण प्रवर्धमानः ‘उरस्तोय596‘संज्ञः। ततश्च फुस्फुसस्य क्रमेण दृढ़सङ्कोचः क्रियालोपश्च प्रतीकारविरहे।
अथ फुस्फुसौ।
फुस्फुसौ597नाम (१३६ १४१ चित्रयोः) श्वसनकर्मणः प्रधानसाधनं यन्त्रद्वयम् उरोगुहान्तरवस्थितम्। तयोरेकैक एकैकार्धेउरसः। तदन्तराले च हृदयं, क्लोमनलिका, सिराधमनीनाड्यादयश्च विशेषाः। चतुर्धा विभक्तं च तत् फुस्फुसान्तरालं सविशेषं वर्णितपूर्वम्598।
तौ च फुस्फुसौ फुस्फुसधराभ्यां कलाभ्यां सर्वतः प्रावृतौ मसृण-कोमलस्पर्शो वायुकोषबहुलत्वाल्लघुभारौ जलप्रतरणार्हौच। तौ क्लोमनलिकया फूत्कारेण वातापूरणाद् विचित्रविशालाकारौ भवतः, अंगुल्या पोड़नाद् मृदुमर्मरशब्दौ च। तत्र पुंसो दक्षिणफुस्फुसः प्रायेण पञ्चपञ्चाशत्तोलकपरिमाणः, वामस्तु पञ्चाशत्तोलकमितः। स्त्रियास्तु यथाक्रमं तोलकपञ्चकेन न्यूनः। तौ च जातमात्रस्य बालस्य पद्मदलवर्णों, प्राप्तवयसस्तु क्रमात् श्यामकर्वुरच्छायौ।
[ १३९चित्रम् ]
फुस्फुसद्वयम्, हृदयञ्च ( महासिरा-धमन्यादि सहितम् ) ।
| <MISSING_FIG href=”../../../books_images/U-IMG-17021194927.jpg"/> |
| दक्षिणा महामातृका धमनी | क्लोमनलिका |
| अनुमन्या सिरा | महाधमनी (तोरणी ) |
| दक्षिणा अक्षाधरा सिरा धमनी | वामा अक्षाधरा सिरा धमनी च |
| गलमूलिका सिरा | महाधमनी (आरोहिणी) |
| दक्षिणा क्लोमशाखा | फुस्फुसाभिगा धमनी |
| दक्षिण फुस्फुसवृन्तः | वाम फुस्फुसः |
| हृदयस्य दक्षिणालिन्दः | वामा क्लोमशाखा |
| दक्षिण फुस्फुसः | फुस्फुसाभिगधमन्या वामशाखा |
| अधरा महासिरा | हृदयस्य वामालिन्दः |
| दक्षिणफुस्फुसमूलम् | हृदयस्य दक्षिणनिलयः |
| वामं फुस्फुसमूलम् | हार्दिकी धमनी |
आकृतितस्तु—एकैकस्य फुस्फुसस्य परिणाह ऊर्ध्वं संकुचितः, अधस्तात् आयतः। स बहिःपार्श्वे वृत्तप्रायः, अन्तःपार्श्वे कोरोदरश्च। तस्य पुरोधारा तन्वी शिथिला स्तोकेन हृदयावरणी चोभयतः। तत्र पञ्च विशेषा लक्षणीयाः। तद्यथा—फुस्फुसचूड़ा, फुस्फुसतलं, फुस्फुसखातम्, फुस्फुसवृन्तम् पिण्डविभागश्चेति। तत्र—*फुस्फुसचूड़ा599*वृत्तशिखराकारा गलमूले अक्षकास्थ्न ऊर्ध्वं द्व्याङ्गुलमात्रेणोद्गता उरःकर्णमूलिकायाः प्रभवकण्डराद्वयेन प्रच्छादिता।
फुस्फुसतलं600नाम फुस्फुसस्य तलभागो महाप्राचीरापृष्ठमधिष्ठाय वर्त्तमानः। तत् कोरोदरमायतं तनुपत्राकारेण पश्चिमांशेनोपलक्षितञ्च। सोऽयं पश्चिमपत्रकांशः फुस्फुसस्य वातपूर्णत्वे सति महाप्राचीरापृष्टपश्चिमस्थे खाते प्रविशति।
फुस्फुसखातानि601 तावदनेकानि—उत्तानानि गभीराणि च। तेषु त्रीणि प्रधानानि-वृन्तखातद्वयं, हृदयखातञ्च। तत्र वृन्तखातमेकैकस्य फुस्फुसस्य मध्यदेशे आन्तरसीम्नि वर्त्तते, यदाश्रित्य प्रविशति फुस्फुसवृन्तम्।हृदयखातं तावदु वामफुस्फुसान्तःसीम्नि विशेषेण दृश्यं, हृदुवामांशधारणम्, तद् दक्षिणफुस्फुसान्तःसोम्मि स्तोकेन लक्ष्यम्। अपराणि खातानि तु अधरमहासिरामहाधमन्योरन्ननलिकादीनाञ्च स्पर्शकृतानि नातिगभीराणि यथास्थानं दृश्यानि।
फुस्फुसवृन्तं602नाम फुस्फुसस्व अन्तःपार्श्वखातप्रवेशी फुस्फुसीयनाड़ी-सिरा-धमनी-क्लोमशाखादिसङ्घातः—स च फुस्फुसधराख्यकलांशेन द्विगुणीभूतेन संवेष्टितः। (१४१ चित्रम्) तस्य पुरस्तादवस्थिताऽनुकोष्टिकाख्या नाड़ी, पश्चिमतश्च प्राणदा। फुस्फुसवृन्तान्तश्च सिरादीनामित्थम्भूता स्थितिः—पुरस्तात् फुस्फुसीयसिराद्वयं, मध्ये फुस्फुसाभिगलमन्याः शाखा, पश्चात् सकाण्डशाखा क्लोमनलिकेति।
अथ फुस्फुसयोः पिण्डविभागः। दक्षिणफुस्फुसे त्रीणि पिण्डानि603, वामे द्वे एकैकस्मिंश्च पिण्डे पृथग्भूते प्रविशति एकैका क्लोमकाण्डिका, प्रसरति च स प्रशाखानुशाखादिभिः क्रमशो विभज्यमाना द्राक्षाफलगुच्छसद्द्वशेषु वायुकोषसंघेषु (१४० चितम्) चरमैः शाखाप्रतानैः। एकैकश्च कोषसङ्घः अंगुलीषोड़शांशमानः प्रायः तस्मिन् पञ्चषावायुकोषाः क्वचिदधिकसंख्या वा। तत्सङ्घातनिर्मितश्च फुस्फुसः।
[ १४० चित्रम् ]
क्लोमकाण्डिका, वायुकोषपुञ्जौ च।
| <MISSING_FIG href="../../../books_images/U-IMG-17020492585.jpg"/> |
क—क्लोमकाण्डिका।ख—सैव द्विर्विभक्ता।१।२ वायुकोषपुञ्जौ। ३।उरस्या कला।
वायुकोषनिर्माणं तत्कार्यञ्च संक्षेपेणोच्यते। एकैको वायुकोषः604स्थितिस्थापकगुणैः स्नायुसुत्रेर्वेष्टितत्वाद् विस्फारशीलःअभ्यन्तरे प्रतनुश्लेष्मलकला संवृतश्च। सूक्ष्मसिरा-धमनीमयानि जालकानि कोषं परिवृत्य स्थितानि। तेषु समानोयते सिरारक्तं फुस्फुसाभिगधमन्याश्चरमैः शाखाप्रतानैः। तत्र च श्वासवायुसम्पर्केण वाष्पविनिमयाद् विशोधितं तद्रक्तं प्रतिनिवर्त्तते सूक्ष्माभिः फुस्फुसीयसिराभिर्हृदयाभिमुखम्।
सिरारक्तं हि सर्वकायप्रचाराद् धात्वग्निपरिपक्वधातूनां मलभूतेन *आङ्गारिक605*वाष्पेण सम्पद्यते मलिनम्। स च वाष्पो वायुकोषान्तर्वेष्टनेषु सिराजालकेषु प्रविष्टेन रक्तेन परित्यज्यते। अतएव निःश्वासवायोस्तद्वाष्पपूर्णत्वाद् मलिनीभावः। अथा प्रश्वासाकृष्टवायुसमानीतस्य विशुद्धवायोः सम्पर्कात् तदीय “विष्णुपदामृत606“ग्रहणेन तद्रक्तस्य तत्क्षण एव विशुद्धिरुज्ज्वलोभावश्च। फुस्फुसीयसिराभिः हृदयागतस्य विशुद्धरक्तस्य महाधमनीपथेन सर्वकाये प्रचारः।
तदेतत् फुस्फुसीयरक्तसंवहनं समासेन व्याख्यातम्।
इति द्वितीयोऽध्यायः।
तृतीयोऽध्यायः।
अथातः अन्नपचनयन्त्रवर्णनीयमध्यायं व्याख्यास्यामः।
अन्नपचनयन्त्राणि द्विविधानि — मुख्य-गौणभेदात्। तेषु आमाशयः, क्षुद्रान्त्राणि, बृहदन्तञ्चेति मुख्यानि, तेषां साक्षादन्नविपचनादिकार्यत्वात्607। अपराणि दन्त-जिह्वा-लालाग्रन्थि ग्रसनिकाऽन्ननलिकादीनि गौणानि, तेषामादान-चर्वण क्लेदन-निगरणादिसाधनत्वात्।
तत्र मुखं, ग्रसनिका, अन्ननलिका, आमाशयः, क्षुद्रान्त्राणि, बृहदन्तं चेत्येतेषां मिलितानां **महास्रोतः608**इति संज्ञा प्राचाम् (१४१ चित्रम्)। सर्वेषामेषामेकस्यैव महतः स्रोतसोऽङ्गभूतत्वात् गर्भस्याद्यावस्थायां—केषुचित् प्राणिषु च यावज्जीवं—तस्य नलकरूपेणावस्थानदर्शनाच्च।
तदेतत् महास्रोतः क्वचित् क्वचित् स्फारीभूतमपि एकमेव प्रायेण विंशतिहस्तदीर्घं स्वतन्त्रपेशीनिर्मितं नलकमिति शारीरविदः। तत्राद्या स्फारता मुखकुहरे, ग्रसनिकायाञ्च, अन्नादीनां धारण क्लेदन-चर्वण-निगरणार्थम्। ततः स्फुटनलकाकृतिरन्ननलिकायाम्। ततो द्वितीया स्फारता आमाशये, अपक्वस्य प्रचुरान्नपानस्य धारणाय, तत्पाकारम्भाय च।ततः पुनः सुदीर्घनलिकाकृतिरन्त्रेषु, अर्धपक्वस्य अन्नस्य शनैः सम्यक् पाकाय रसाकर्षणाय च। बृहदन्त्रस्य तु स्थूलतरनलकाकृतिः, मलभूतस्यान्नस्य धारण शोषण-निःसारणसौकर्याय। तदेतद् विचित्रनिर्माणं स्त्रोतः आ मुखकुहरादपानदेशान्तं महास्रोतः संज्ञया व्यपदिश्यते महायतनत्वात्, निखिलस्रोतसां तदधीनत्वाच्च। अन्नरसो हि मूलं धातूनां, स चाकृष्यते महास्रोतोगताभिः सूक्ष्माभिः रसांकुरिकाभिः रसायनीभिश्च।
तत्यच महास्रोतसः षोढ़ा प्रविभागो वर्णनासौकर्याय—मुखकुहरं, ग्रसनिका, अन्ननलिका, आमाशयः, क्षद्रान्त्राणि, बृहदन्तञ्चेति। तत्सहायकाश्च जिह्वा दन्त-लालाग्रन्थि-यकृदग्न्याशयाः तत्प्रसङ्गेनैव वर्णनीयाः। तत्र आमाशयक्षुद्रान्त्रबृहदन्त यकृदग्न्याशयाः उदरगुहान्तर्दृश्याः। अपराणि मुखकुहरादीनि तद्बाह्यानि। तान्यादौ वर्णनीयानि द्वारभूतत्वात्।
[ १४१ चित्रम् ]
कोष्ठाङ्गानां प्रदर्शकं कल्पित चित्रम्।
(अत्र हृदयं न प्रदर्श्यते उरख्याख्यकलाकोषयोःसम्यक् प्रदर्शनाय)
| <MISSING_FIG href=”../../../books_images/U-IMG-17020547081.jpg”/> |
| श्वासमार्गः | ग्रसनिका |
| अन्नमार्गः | अन्ननलिका |
| श्वासनलिका | वामोरस्यायाः परिसरीयभागः |
| दक्षिणफुस्फुसः | आमाशयः |
| दक्षिणोरस्यायाःपर्याशयिकभागः | बृहदन्त्रस्य अनुप्रस्थभागः |
| तस्या एव परिसरीयभागः (महाप्राचीराष्पृष्ठस्थः) | क्षुद्रान्त्रस्य आद्यभागः |
| यकृत्तदधः पित्तकोषः | बृहमन्त्रस्य अवरोहिभागः |
| ग्रहणी | बृहदन्त्रस्य कुण्डलिका |
| बृहदन्त्रस्य आरोहिभागः | गुदनलिका |
| उण्डुकम् | पायुः |
| उण्डुकपुच्छम् | क्षुद्रान्त्रस्य चरमभागः |
अथ मुखकुहरम्।
मुखकुहरं609नाम (१४२ चित्रम्) मुखाभ्यन्तरस्था क्षुद्रनारिकेलफलाकारा गुहा जिह्वा-दन्तादिमती। तस्याश्छदिः कठिन-कोमलतालुभ्यां निर्मिता, भूमिस्तु ऊर्ध्वाधोहनुमण्डलान्तरालं सवृन्तजिह्वापूरितं प्राधान्येन। तस्य द्वारमोष्ठयोर्मध्ये मुखद्वारं नाम। ओष्ठाभ्यन्तरतश्च मुखालिन्दो दन्तपंक्त्योः पुरःस्थः अर्धचन्द्राकारः। दन्तपंक्त्योः पश्चाद् आ-गलविलद्वारं मुखान्तर्गुहा, ततः परं गलविलम्। मुखकुहरसम्बन्धेन च लक्षणीयास्तदन्तः, तत्परिसरे चाऽवस्थिता दश विशेषाः—ओष्टद्वयं, कपोलद्वयं, दन्तवेष्टौ, दन्ताः, जिह्वा, तालुपटलं, गलतोरणिके, उपजिह्निके, अधिजिह्वा, लालाग्रन्थयश्चेति। ते च मुखकुहरान्तःस्थाः सर्वेऽपि भागास्तनुश्लेष्मस्राविण्या सूक्ष्मकलया संवृताः, अन्यत्र दन्तेभ्यः। तत्र—
(१) **ओष्टद्वयं610.")**मुखद्वारकपाटभूतं मुखमुद्रण्याख्यपेश्या निर्मितम्। तद् विशेषेण मेदोमृदुलं सूक्ष्मसिरा-धमनी-रसायनी-नाड़ीबहुलञ्च।परिवृतञ्च तद् बहिर्भागे त्वचा, अन्तश्च तनुश्लेष्मस्राविण्या सूक्ष्मकलया। संवृतञ्च त्वक्कलासन्धानस्थानेऽतितनुत्वचा सर्पकञ्चुकवत् स्वभावतः परिवर्त्तनशीलया। तयोरधरोष्ठस्य अधर इति, उत्तरोष्टस्य च ओष्ट इति प्रसिद्धं संज्ञाद्वयं लोके, उभयोर्वा ओष्ठाविति संज्ञा।तत्सन्धिकोणयोश्च सृक्कणीति सक्कण्याविति611वा। एकैकस्य चौष्ठस्याभ्यन्तरतो मध्यरेखायां स्नायुसूत्रनिर्मिता सेवनी दन्तवेष्टपुरोभागेण तस्य प्रबन्धनाय, सा *ओष्ठसेवनी612*नाम (उत्तरा अधरा च)।
(२) **कपोलद्वयं613**कपोलिकाख्यपेशीभ्यां मेदोजालबहुलाभ्यां निर्मितम्। तद् बहिर्भागे त्वचा, अन्तश्च श्लेष्मस्राविण्या सूक्ष्मकलया परिवृतम्, पुरस्तादोष्टद्वयेन मिलितमूर्ध्वाधःसीम्नोश्च आ-दन्तवेष्टं संसक्तम्। तत्र उत्तरदन्तवेष्टमुभयतो द्वितीयपश्चिमचर्वणकदन्तमूलयोर्दृश्ये कर्णमूलिकग्रन्थ्योः स्रोतोनलिके।
(३) **दन्तवेष्टौ614.")**नाम दन्तोदूखलमण्डलयोरस्थिधरकलासंसक्तौ दृढ़स्नायुसूत्रनिर्मितौवेष्टनकौ, श्लेष्मलकलापरिवृतौ। तौ दन्तमूलानां तदुदुखलेषु सम्यक् प्रबन्धनाय।तयोश्च स्पर्शज्ञानं मन्दम्, संज्ञावहनाड़ीसूत्राणां तत्र विरलत्वात्। दन्तानां सम्यगधावनाच्च प्रायः सम्भवन्ति दन्तवेष्टगता रोगा बहवः, शिथिलीभावश्च दन्तानाम्।
[ १४२ चित्रम् ]
मुखकुहरं लालाग्रन्थयश्च।
(मुखपार्श्वभागावसारणेन दर्शिताः)
| <MISSING_FIG href="../../../books_images/U-IMG-17020563792.jpg"/> |
| अनु° | हन्वधरोयो लालाग्रन्थिः |
| कर्णमूलिकं लालास्रोतः | कण्ठिकास्थि |
| वक्त्रनाड्याः शाखाः | जिह्वाधरीयो लालाग्रन्थिः |
| जिह्वा | जिह्वाधरीयं लालास्रोतः |
| रासनी नाड़ी |
[ क-क—कर्णमूलिको नाम लालाग्रन्थिः। अनुः°—अनुशङ्खा उत्ताना धमनी ]
१—गोस्तनप्रवर्धनम्।
२—हनुकूटकर्षणी पेशी।
३—द्विगुम्फिका पेशी।
४—जिह्वामूलिनी नाड़ी।
५—अन्तर्मातृका धमनी, अनुमन्या सिरा च वामतः।
६—कपोलिकाख्यपेश्याः कर्त्तितावशेषोंऽशः।
(४) **दन्ताः615**खलु द्वात्रिंशदुक्तपूर्वाः। तेषां भेदाः, कर्त्तनकादिसंज्ञाश्च व्यख्यातचराःसह दन्तोदूखलमण्डलेन616। तन्निर्माणं तु सूक्ष्मशारीरे व्याख्येयम्।
(५) **जिह्वा617**तावत् स्वादग्रहण-चर्वण-ग्रसनादिसाधनम्। सा प्रधानतः पेशीमयी, तनुश्लेष्मस्राविण्या कलयापरिवृता, स्वादांकुरैरनुविद्धा च। नद्धा च सा मुखभूमितले कण्ठिकास्थ्ना पश्चात् सेवन्याश्च पुरतः। पश्चिमतः पुनस्तया संलग्ना मध्ये अधिजिह्विका, एकैकतश्च गलस्तम्भिका पूर्वा। जिह्वा-निर्माणविस्तरस्तु रसनेन्द्रियवर्णने वर्णनीयः।
(६) **तालुमण्डलं618**नाम मुखान्तश्छदिभूतं तालुपटलमेवास्थिमयमुक्तपूर्वम्। मांसल-तालुयुतं श्लेष्मलकलावृतञ्च तत् तालुमण्डलमुच्यते। तस्य पूर्वपश्चिमक्रमेण द्वौ भागौ—कठिनतालु, कोमलतालु चेति। तत्र—
(क) **कठिनतालु619**तावत् कठिनास्थिपत्रकमयं मुखान्तगुहायाः कोरोदरं पटलम् कोमलतालुपुरःस्थं श्लेष्मलकला-वृतम्। तच्च निर्मीयते परस्परसंहिताभ्यामूर्ध्वहनुमण्डलस्य तालुपत्रकाभ्यामग्रतः, ताल्वस्थ्नोः ह्रस्वपत्रकाभ्यां च पश्चिमतः।
(ख) **कोमलतालु620**पुनः (१४३/१४४ चित्रयोः ) कठिनतालुनः पश्चिमधारासंलग्ना उत्पतिष्णुः जवनिका श्लेष्मलकला-वृता मांसस्नायुतन्तुमयी च। सा गलविलमध्ये अर्धचन्द्रवदालम्बते। अन्ननिगरणकाले तु सैव पश्चादूर्ध्वं चोत्पत्य गलविलायतनं विस्फारयति, वारयति चान्नस्य नासापश्चिमद्वारगमनम्। कोमलतालुनः पश्चिमसीम्नि च मध्यरेखायां दृश्या ताल्वस्थिकण्टकालम्बिनी क्षुद्रा शुण्डिकाकारा पेशी गलशुण्डिका, *काकलकं621.")*वा नाम। सा कोमलतालुनः उत्पतनसहायभूता।
पेश्यश्च तालुसम्बन्धिन्यो नव। तालूत्तोलनी622, तालूत्तंसनी623, तालुजिह्विका624, गलतालुक625चेति चतस्र एकैकतः मध्ये च काकलकिनीति। तासामाद्या समग्रस्य कोमलतालुन उत्कर्षणी,—सा शङ्खास्थ्नोऽश्मकूटात् सम्भूय
[ १४३ चित्रम् ]
गलविलद्वारम् (सम्मुखतो दृष्टम्)।
| <MISSING_FIG href="../../../books_images/U-IMG-17020578723.jpg"/> |
| कोमलतालु | गलस्तम्भिका पश्चिमा |
| काकलकम् | उपजिह्विका |
| जिह्वा | गलस्तम्भिका पूर्वा |
चित्रव्याख्या—१।२—स्वादाङ्कुराः महान्तः क्षुद्राश्च यथाक्रमम्।३—गलविलम्।
क-क—कपोलिका पेशी कर्त्तितावशेषा। म—तदन्तःस्थो मेदःपुञ्जः।
मध्यरेखायां स्वनामिकया संसज्यते। द्वितीया जतूकास्थ्नश्चरणफलकात् सम्भूय तदग्रस्थमंकुशमाश्रित्य विवर्त्तमाना तालुत्तंसनं626, वीणातन्त्रीणामिव।")करोति। अपरे द्वे स्वनामव्याख्यातप्रभवनिवेशे, ते जिह्वामूलपार्श्वयोः गलबिलपार्श्वयोश्चाकर्षणं कोमलतालुनः कुरुतः, गलद्वारविस्फारणेन निगरणकर्मसहायतार्थम्। काकलकिनी तु काकलकस्य उत्तोलनो ताल्वस्थ्नोर्मध्यरेखासन्धानस्ये कण्टके सम्बद्धा।
(७) **गलतोरणिके627**नाम (१४३ चित्रम्) गलविलद्वारमुभयतो वर्त्तमानौ तोरणाकारौ गलावयवौ ऊर्ध्वसीम्नि मिलितौ। ते हि काकलकादारभ्य एकैकतो द्विधाविभक्ते अधस्तादवतीर्य द्वयोर्द्वयोः गलस्तम्भिकयोः परिणमतः, धारयतश्चोत्सङ्ग उपजिह्विकाम्। तयोः पुरःस्तम्मिका628, पश्चिमस्तम्भिका629चेति संज्ञाद्वयम्। तत्र पुरःस्तम्भिकाद्वयं जिह्वामूलमुभयतः सङ्गतमधस्तात्। निर्मितञ्च तद् जिह्वातालुकाभ्यां पेशीभ्याम्। पश्चिमस्तम्भिकाद्वयं तु गलतालुकाभ्याम्।
(८) उपजिह्विके630.")(१४३ चितम्) नाम गलबिलद्वारमुभयतः पुरःपश्चिमस्तम्भिकयोर्मध्यस्थे क्षुद्रकोलफलास्थिप्रमाणे ग्रन्थिपिण्डिके। तयोः निर्माणवस्तु प्रायेण लसीकाग्रन्थिसद्दृशम्। ते च बालानां कफाधिक्यादिहेतोः विषजीवाणुदूषणाच्च भृशं प्रवृद्धे शुष्ककासादिकं स्वास्थ्यभङ्गञ्च जनयतः। स्वभावतस्तु गलविलद्वारस्य प्रतिहारिभूते ते— इति शारीरक्रियाविदः।
(६) **अधिजिह्निका631**तु (१४४ चित्रम्) स्वरयन्त्रद्वारस्था वर्णितपूर्वा632")। सा रसनामूलेन संलग्नवृन्ता सदैवोर्ध्वमुखी तिष्ठति, निरुणद्धि च द्राक् श्वासमार्गद्वारम् अन्नादिनिगरणकाले। ततपुरश्चोभयतः खातद्वयम् अधिजिह्वखातं नाम, मध्ये चाधिजिह्विकायाः सीवनी।
(१०) **लालाग्रन्थयः633**खलु चत्वारः—कर्णमूलिकाख्यौ द्वौ, हन्व धरीय एकः, जिह्वाधरीयश्चापरः। तेभ्यः प्रवृत्ता हि तनुपिच्छिला लाला मुखकुहरान्तः स्रवन्ती अन्नस्य क्लृदन-चर्वणादिकर्मसहाया भवति। तत्संक्किन्नं चान्नं शीघ्रमेव मधुरविपाकं भजते—इति परीक्षकाः। तत्र—
कर्णमूलिकः634नाम (१४२ चितम्) तूलपिण्डनिभो महान् लालाग्रन्थिः द्वित्रतोलकपरिमाणः। स कर्णमूलस्य पुरस्तादधश्च हनुमुण्डसन्धिं समावृत्य वर्त्तते एकैकतो मुखपार्श्वे। तत्पुरतश्च दृश्या हनुकूटकर्षणी पेशी, या संकोचमापद्यमाना ग्रन्थिमेनं निष्पीड्य लालां स्रावयति चर्वणकर्मसौकर्याय। अस्य च ग्रन्थेः स्रोतोनलिके कपोलिकाख्यां पेशीं निर्भिद्यमुखान्तःप्रसृते कर्णमूलिकस्रोतसी635नाम। तयोरेकैकं त्र्यंगुलदीर्घं कुशेषीकापरिणाहञ्च।तन्मुखञ्च मुखालिन्दस्यएकैकतो हनुमण्डलस्य द्वितीयपश्चिम-चर्वणकदन्तमूलस्थं शलाकाप्रवेशाहञ्च।
[ १४४ चित्रम् ]
ग्रसनिकाभ्यन्तरम्।
[ तस्याः पश्चिमप्राचीरं विदार्य पृष्ठतो दृष्टम् ]
| <MISSING_FIG href="../../../books_images/U-IMG-17020599664.jpg"/> |
| जतूकास्थिशरीरम् | अन्ननलिका (विदार्य दर्शिता) |
| शङ्खास्थनःअश्मकूटांशः | कृकाटघाटिका पश्चिमा पेशी |
| तस्यैव गोस्तनकम् | अधरा कण्ठसोङ्कोचनी पेशी |
| तालूत्तंसनी पेशी | स्वस्तिकघाटिका पेशी |
| तालूत्तोलनी पेशी | श्वासमागद्वारम् |
| जतूकाया अङ्कुशकम् | अधिजिह्विका |
| शङ्खास्थ्नः शिफाग्रम् | जिह्वा |
| श्रुतिसरङ्गाद्वारिका पेशी |
चित्रव्याख्या—१। पश्चिमं नासागुहाद्वारम्।२।श्रतिसुरङ्गास्थितं तरुणास्थि।३। तालूत्तोलनी पेशी। उ०—उत्तरा कण्ठसङ्कोचनो पेशी। म०—मध्यमा कण्ठसङ्कोचनी पेशी। का०—काकलकं कोमलतालु मध्यस्थम्।
इदञ्चात्र विशेषेण स्मर्त्तव्यं—कर्णमूलपाके सति शस्त्रकर्मणो निर्विघ्नतार्थम्। इमं दि खलु ग्रन्थिं निर्भिद्योर्ध्वं प्रसृता बहिर्मातृका नाम धमनी, अन्तर्हानव्यायाः शाखाद्वयेन सहिता। वक्त्रनाड़ी च श्रुतिनाड़ीशाखासहिता तमेव ग्रन्थिं निर्भिनत्ति। एवञ्च शल्यतान्त्रिकेण भ्रमवशाद् धमनीच्छेदने रक्तातिप्रवृत्तिः, प्राणहानिश्चाऽप्रतीकारे। वक्त्रनाड़ीच्छेदनात्तु अर्दितरोग636,")प्रादुर्भावः। दृश्यते च सन्निपातज्वरादिषु मुखकुहरस्य सम्यगशोधनात् प्रायः कर्णमूलिकग्रन्थिपाकः, स शक्यः प्रतिषेद्धुं काले सम्यङ् मुखशोधनेन, बहिःप्रलेपादिना च।
हन्वधरीयः637नाम लालाग्रन्थिरधोहनुमण्डलस्याधस्तदुत्सङ्गे च वर्त्तते (१४२ चित्रम्) अक्षोटफलमज्जाकारः। तं पश्चिमतो निर्भिद्य प्रसृता बहिर्हानव्या नाम धमनी (वक्त्रधमनी)। वर्त्तते चासौ मुखभूमिनिर्मापिकाणां पेशीनामधस्ताद् गलप्रच्छदाख्यया प्रावरण्या दृढमाच्छादितः। तस्यापि स्रोतोनलिका त्र्यंगुलदीर्घा प्रायेण। सा जिह्वाधरीयसेवन्याः पार्श्वस्थेन जिह्वाधरीयग्रन्थेः स्रोतोमुखेन मिलिता प्रायः।
जिह्वाधरीयः638नाम (१४२ चित्रम्) तत्सदृश एव लालाग्रन्थिःजिह्वासेवन्या अधस्तात् कलावृतो वर्त्तते, अधोहनुमण्डलमध्यस्थे खाते निगूढ़ः। तस्य दश द्वादश वा (क्वचिद् विंशतिर्वा) स्रोतांसि। तेषामनेकानि मुखानि हन्वधरीयग्रन्थेः स्रोतसा मिलित्वा, पृथग् वा, जिह्वासेवन्याः पार्श्वत उन्मुच्यन्ते।
तदेतत् सानुबन्धं मुखकुहरं व्याख्यातम्।
अथग्रसनिका।
ग्रसनिका639।")नाम (१४४\।१४५ चित्रयोः) अन्नादिनिगरणद्वारभूता आयतोदरा मांसावृतकलामयीनलिका, या अन्ननलिकायाः स्वरयन्त्रस्य च शिखरमधितिष्ठति। सा उत्तरग्रोवाकशेरुकाणां पुरस्ताद्-वर्त्तते, पश्चिमतश्च मुखनासागुहयोः स्वरयन्त्रस्य च। तस्या आकृतिः धुस्तूरपुष्पसदृशी—ऊर्ध्वमायता, अधःसंकुचिता। निर्मिता च सा भूम्ना कण्ठसङ्कोचन्याख्य-पेशीत्रयेण अन्तः श्लेष्मलकलावृतेन।
[ १४५ चित्रम् ]
ग्रसनिकापेश्यः, अन्ननलिका च (पृष्ठतो दृष्टाः)।
| <MISSING_FIG href="../../../books_images/U-IMG-17020630895.jpg"/> |
| ग्रसनिका | कृकाटघाटिका पेशी (पश्चिमा) |
| अन्ननलिका | उत्तरा कण्ठसङ्कोचनी पेशी |
| श्वासनलिका | मध्यमा कण्टसङ्कोचनी पेशी |
| अधरा कण्ठसङ्कोचनी पेशी |
तस्यास्त्रयो भागाः कल्प्यन्ते वर्णनासौकर्याय—ऊर्ध्वं नासागुहापश्चिमांशः, मध्ये गलविलांशः, अधस्तात् स्वरयन्त्रपश्चिमांशश्चेति। तेषां क्रमेण उत्तरमध्यमाऽधरग्रसनिका-संज्ञाभिर्व्यपदेशः। तत्र—
(क) **नासागुहापश्चिमांशे640**पुरस्ताद् द्वश्यानि मध्ये नासामध्यप्राचीरं, तदुभयतः पश्चिमं नासागुहाद्वारयुगलं641च। तदुभयतश्च द्वे च्छिद्रे *श्रुतिसुरङ्गाद्वारे642*नाम, ते तद्द्वेष्टनाभ्यां त्रिकोणतरुणास्थिभ्या643मुपलक्षिते। पश्चिमतश्च ग्रसनिकाप्राचीरे संलग्नस्तूलपिण्डकाकारो ग्रन्थिः ग्रसनिकाग्रन्थिः644.")नाम। तस्य निर्माणमुपजिह्विकावद् रसग्रन्थिप्रायम्। नासागुहापश्चिमांशस्य अधोभागस्तु गलविलानुबन्धी। स च अन्नादिनिगरणकाले पुरःस्थेन कोमलतालुना किञ्चिदुत्पतिष्णुना सर्वथाऽवरुध्यते, अन्नादीनां नासागुहाप्रवेशवारणाय।
(ख) **गलविलांशः645.")**नाम ग्रसनिकामध्यभागी **गलविल-**संज्ञः (१४४।१४६ चित्रयोः)। स ऊर्ध्वं नासागुहापश्चिमांशेन अनुबध्यते, अधश्च स्वरयन्त्रपश्चिमांशेन, आ कण्ठिकास्थिपृष्ठात्। तस्य पुरस्तात् संकुचितप्रायं गलविलद्वारं, गलतोरणिकाभ्यामुपलक्षितम्। पश्चिमतो द्वितीय-तृतीयश्रीवा-कशेरुकयोः पिण्डद्वयं। तदुभयतश्च उत्तर-मध्यमयोः कण्ठसङ्कोचन्योः पेश्योः पक्षांशौ कलावृतौ।
(ग) **स्वरयन्त्रपश्चिमांशः646**नाम स्वरयन्त्रस्य पृष्ठस्थो ग्रसनिकाऽधरांशः, स कण्ठिकास्थिपृष्टादारभ्य कृकाटिकापृष्टा-न्तमायतः, कलावृतयाऽधरकण्ठसङ्कोचन्याख्यपेश्या परिवृतश्च (१४६ चित्रम्)।स चोध्व गलविलेन, अधश्च अन्ननलिकयाऽनुबध्यते। तत्रैव पुरस्ताद् दृश्यं स्वरयन्त्रद्वारम्।
सप्त च विवराणि ग्रसनिकान्तर्दृश्यानि — द्वे नासागुहापश्चिमद्वारे, द्वे श्रुतिसुरङ्गाद्वारे, एकं गलविलद्वारम्, एकं स्वरयन्त्रद्वारम्, एकमन्ननलिकाद्वारञ्चेति।
पेश्यः पुनर्ग्रसनिकां परितोऽवस्थिताः एकैकतः पञ्च—*कण्ठसङ्कोचनी647-*संज्ञास्तिस्रः, शिफागलान्तरीया648, *श्रुतिसुरङ्गा-द्वारिका649*चेति। (१४४/१४५ चित्रयोः) तत्र —कण्ठसङ्कोचन्याख्यं पेशीत्रयम् उत्तर-मध्यमाऽधरसंज्ञम् उत्तरोत्तरा-श्लेषेण ग्रसनिकां परिवृत्य तिष्ठति इतरपार्श्वंस्थेण पेशीत्रयेण मिलितम्। तस्य क्वचिद् “ग्रासनी” पेशीति साधारणी संज्ञा।तत्प्रावरणी च दृढ़स्नायुसूत्रमयी प्रच्छदाकृतिः, या पश्चिमतो ग्रोवावंशपुरोभागेण संबद्धा। तत्रैव च मध्यरेखायां दृश्या पेशीत्रिकयोः सन्धानरेखा *ग्रसनिकासेवनो650*नाम। तत्रोत्तरायाः कण्ठसङ्कोचन्याः प्रभवः एकैकतो जतूकाचरणफलकम्, अधोहनुमण्डलीयं पश्चिमदन्तोदूखलमूलञ्च। शृङ्गद्वयं सान्तरालं, शिफाकण्ठिकास्नायुश्च। अधरायास्तु स्थूलप्रच्छदाकृतेः प्रभवः अवटु-कृकाटिकाख्यतरुणास्थ्नोः पार्श्वद्वयम्। निवेशः पुनस्तिसृणामपि ग्रसनिकासेवनी दृढ़स्नायुसूत्रमयो। शिफागलान्तरीयादिपेशीद्वयन्तु ग्रसनिकामूर्ध्वं कर्षति।
[ १४६ चित्रम् ]
शिरोग्रीवार्धस्य अभ्यन्तरम्।
( मुख-नासा-गल-ताल्वादिप्रदर्शनाय मध्यरेखायामूवीधश्छेदेन दर्शितम् )
| <MISSING_FIG href="../../../books_images/U-IMG-17020649566.jpg"/> |
| मस्तिष्कस्थानम् | ललाटकोटरम् |
| जतूकास्थ्नःपोषणकखातम् | जिह्वा |
| जातूककोटरम् | जिह्वासेवनिका |
| मध्यशुक्तिका | कण्ठिकास्थि |
| अधरशुक्तिका | अवटुकम् |
| ग्रसनिकाग्रन्थिः | स्वरयन्त्रद्वारम् |
| श्रुतिसुरङ्गाद्वारम् | स्वरतन्त्री |
| ग्रसनिकायाः नासागुहापश्चिमांशः | कृकाटकांशः |
| कोमलतालु | ग्रैवेयक ग्रन्थिः |
| द्वितीया ग्रीवाकशेरुका | अन्ननलिका पृ० |
| ग्रसनिकाया गलविलांशः | कृकाटिकायाः पश्चिमांशः |
| अधिजिह्विका | स्वरयन्त्रम् |
| ग्रसनिकाया अधरांशः |
[१ । नासामुरङ्गा उत्तरा। २।ऊर्ध्वशुक्तिका।३ नासासुरङ्गा मध्यमा। ४। नासालिन्दः ५। नासासुरङ्गा अधरा।६। चिवुकजिह्वाकण्ठिका पेशी।७।चितुककण्ठिका पेशी। पृ०—पृष्ठवशः ]
अथ अन्ननलिका
अन्ननलिका651नाम (१४७ चित्रम्) प्रायेण वितस्तिप्रमाणदैर्घ्या द्व्यांगुलायता मांसमयी नलिका, या ग्रसनिकृया निगीर्णमन्नपानमामाशये प्रवेशयति। तस्या ऊर्ध्वमुखं ग्रसनिकयाऽनुबध्यते, अधोमुखमामाशयेन।
सेयं षष्ठ्या ग्रीवाकशेरुकाया आरभ्य एकादशीं पृष्ठकशेरुकां यावत् पृष्ठवंशपुरस्तात् किञ्चिद्वामभागमास्थाय तदनुक्रमेण आलम्बते। त्रयश्च तस्या अंशाः कल्यन्ते वर्णनासौकर्याय—ग्रीवागतांशः, उरोगतांशः, उदरगतांशश्चेति। तेषामाद्यन्तभागौ ह्रस्वौ त्रि-चतुरांगुलमात्रौ च। मध्यभागो दीर्घः, सप्ताष्टांगुलप्रमाणश्च।
(व्यतिकरः) अथास्या आदिमभागस्य ग्रीवागतस्य पुरस्ताद् दृश्यानि—क्लोमनलिका, ग्रैवेयकग्रन्थेर्वामपिण्डम्, अधरग्रैवेयक्यौ सिराधमन्यौ, नाड्यादयश्च। पश्चात् पृष्ठवंशः। दक्षिणतो दक्षिणा महामातृका धमनी, अनुमन्या सिरा, आरोहिणी स्वरयन्त्रनाड़ी च।वामतः—ताएव वामाः, मुख्या रसकुल्या च।
मध्यभागस्य तु उरोगुहाप्रविष्टस्य पुरस्ताद् उत्तरफुस्फुसान्तरालंदृश्याः—क्लोमनलिका, अनाहताख्यं नाड़ीचक्रम्, वामा अक्षाधरा धमनी महामातृका च। महाधमन्यास्तोरणभागश्च अन्ननलिकां तिर्यगुल्लंध्यपश्चात् प्रसृतः। वामतश्च अन्ननलिकायाः तदेव धमनीद्वयं महाधमन्यास्तोरणान्तश्च। दक्षिणतः दक्षिणा फुस्फुसधरा कला, आरोहिणी स्वरयन्त्रनाड़ी च। पश्चिमतः पृष्ठवंशो रसकुल्या च।
अथ क्रमात् क्लोमनलिकाविभागस्थानमतिक्रम्य पश्चिमाधरं फुस्फुसान्तरालं प्रविशन्त्या अन्ननलिकायाः पुरस्ताद् आदौ वामा क्लोमशाखा, दक्षिणा फुस्फुसाभिगा धमनी च। तदधस्तात् पुरो हृदयधरः कलाकोषः, पश्चादवरोहिणी महाधमनी, मुख्या रसकुल्या, पुरोवंशिकाः सिराश्च। उभयतश्च फुस्फुसधरौ कलाकोषौ, प्राणदे नाड्यौ च, तच्छाखाप्रताननिर्मितं नाड़ीचक्रञ्च परितः।
अथ महाप्राचीरां निर्भिद्य उदरगुहायां प्रविष्टायास्तस्याश्चरमो भागो वामतस्तिर्यग्भूय आमाशयमुखेन संबद्धः। तत्र च पुरस्ताद् यकृद्वामपिण्डम्।वामतश्च तदेव आमाशयस्कन्धश्च। दक्षिणतो यकृत्पिण्डिका दीर्घा। पश्चिमता महाप्राचीरा।
निर्माणं पुनरन्ननलिकाया बहिर्भागे स्वतन्त्रपेशीतन्तुभिरनुदैर्घ्यैमनुप्रस्थञ्चावस्थितैः तेषामनुदैर्घ्याबाह्यतमाः। अभ्यन्तरतश्च तदावेष्टनी स्थूलकला, या तत्परितः स्थितेभ्यः श्लेष्मस्त्राविसूक्ष्मग्रन्थिभ्यः स्रुतेन श्लेष्मणा नियतमार्द्रीक्रियते। परितश्च तां नाड़ीजालकानि, सिराधमनीजालकानि च। तत्र नाड्यः—नागिन्योः नाड्योः शाखाप्रशाखाः, प्राणदयोश्च। धमन्यः पुनरधरग्रैवेयक्योः पर्शुकानुगानामन्ननलिकानुगानाञ्च धमनीनां शाखाप्रतानाः।
अथ उदरगुहा।
उदरगुहा652नाम (१४६ चित्रन्) उदराभ्यन्तरस्था महती गुहा अलावुफलायतना, या मध्यप्राचीरया उरोगुहातः प्रविभक्ता, अधश्च श्रोणिगुहानुबन्धिनी। तस्याः पश्चिमसीमा पृष्ठवंशः, कटिलम्बिनीसंज्ञं पेशीचतुष्टयं653, कटिचतुरस्रेपेश्यौ च, तानि च सर्वाणि महाप्राचीराया मूलद्वयमुभयतः स्थितानि गम्भीरप्रावरणीच्छादितानि। पुरःसीम्नि पार्श्वयोश्च उदरगुहायाः—उदान्तश्छदा नाम गम्भीरप्रावरणी वर्णितपूर्वा654, निम्नस्थाः पर्शुकोपपर्शुकाः, जघनकपालद्वयश्च। समग्रायाश्च उदरगुहाया अन्तःपरिधेर्यन्त्रतन्त्राणां च छादिनी तन्वी कला—उदर्या नाम। तामग्रे वक्ष्यामः।
सेयमुदरगुहा बहूनां यन्त्र—तन्त्राणां धारणी। तानि च—आमाशयः, क्षुद्रान्त्राणि, बृहदन्त्रम्, यकृत्, प्लीहा, अग्न्याशयः, वृक्कौ, गवीन्यौ, वस्तिः अवरोहिणी महाधमनी, अधरा महासिरा, रसप्रपा रसकुल्यासहिता, मणिपूराख्यं नाड़ीचक्रं चेत्यादीनि।
उदरबहिर्भागश्च नवसु प्रदेशेषु विभज्यते वर्णनासौकर्याय (१४८ चित्रम्)। तद्विभाजन्यश्च रेखाश्चतस्रः कल्प्यन्ते—द्वे अनुलम्बे, द्वे च अनुप्रस्थे। तयोरनुलम्बे मध्यरेखामुभयतः ऊर्ध्वाधः प्रसृते। एकैका च तयोः अष्टमोपपर्शुकामध्यभागानुक्रमेण स्तनचूचुकाद् वंक्षणरज्जुमध्यविन्दुं यावद् द्रष्टव्या। अथ अनुप्रस्थयो
[ १४७ चित्रम् ]
अन्ननलिका
(कोष्टयन्त्राणामपसारणेन दर्शिता)
| <MISSING_FIG href="../../../books_images/U-IMG-17020661947.jpg"/> |
| दक्षिणा महामातृका धमनी | अन्ननलिका |
| प्रथमा प्रर्शुका | वामा महामातृका धमनी |
| अक्षाधरा धमनी ( दक्षिणा ) | क्लोमनलिका |
| दक्षिणा क्लोमशाखा | अक्षाधरा धमनी (वामा) |
| पुरोवंशिका दक्षिणा (सिरा) | तोरणी महाधमनी |
| अन्ननलिका (महाप्राचीरां निर्भिद्य निर्गता) | वामा क्लोमशाखा |
| महाधमनी (तथैव निर्गता) | अवरोहिणी महाधमनी |
| महाप्राचीरा | अन्ननलिका |
रेखयोरुत्तरा उत्तरनाभिका नाम सा नाभेरुपरिष्टात् नवमोपपर्शुकाग्रद्वयं स्पृष्ट्वा प्रसृता। अधरा तु अधरनाभिका नाम जघनकपालशिखरद्वयमाक्रामति। इत्थञ्च विभक्ता नव प्रदेशा यथा—ऊर्ध्वभागे उभयतो दक्षिणवामौ अनुपाश्विकौ प्रदेशौ, मध्ये हृदयाधरिकः। मध्यभागे कटिपुरस्ताद् उभयतः कुक्षिद्वयं कटिपार्श्विकप्रदेशौ वा, मध्ये नाभिं परितः परिनाभिकः। अधोभागे उभयतो वंक्षणोत्तरिकौ प्रदेशौ, मध्ये अधिवस्तिकः वस्तिप्रदेशो वा इति।
एतेषु च प्रदेशेष्ववस्थिताः शारीरभागा नियतं स्मर्त्तव्याः। तद्यथा—
(१) *दक्षिणे अनुपार्श्विकप्रदेशे655*यकृदक्षिणपिण्डम् बृहदन्त्रस्य याकृतकोणः, दक्षिणवृक्कांशश्च। *हृदयाधरिक-प्रदेशे656*अग्न्याशयस्य दक्षिणार्धः, यकृतो वामपिण्डं दक्षिणपिण्डांशः, पित्तकोषश्च, ग्रहणिका, अग्न्याशयः, अधिवृक्कसहितौ वृक्कांशौ, अधरा महासिरा, प्रतीहारिणी सिरा, अवरोहिणी महाधमनी, मणिपूराख्यं नाड़ीचक्रम्, रसकुल्यादयश्च। *वामे अनुपार्श्विकप्रदेशे657*आमाशयस्कन्धः, प्लीहा, अग्न्याशयपुच्छम् बृहदन्त्रस्य प्लैहिककोणः, वामवृक्कांशश्च।
(२) *दक्षिणे कटिपार्श्विकप्रदेशे658*बृहदन्त्रस्य आरोहिभागः, दक्षिणवृक्कस्य अधरार्धः, क्षुद्रान्त्रैकप्रदेशश्च। *परिनाभिकप्रदेशे659*बृहदन्त्रस्य अनुप्रस्थभागः, ग्रहणिकांशः, वपामध्यभागः, अन्त्रबन्धनिकांशः, क्षुद्रान्त्राणि च भूम्ना। *वामे कटिपार्श्विकप्रदेशे660*बृहदन्त्रस्य अवरोहिभागः, वामवृक्कस्य अधराधः, क्षुत्रान्त्रैकप्रदेशश्च।
(३) *दक्षिणे वंक्षणोत्तरिकप्रदेशे661*दक्षिणा गवोनी, उण्डुकम्, उण्डुकपुच्छम् वृषणधमन्यादयश्च। अधिवस्तिकप्रदेशे662—क्षुद्रान्त्रैकदेशः, बालानां वस्तिः (यूनां च मूत्रपूर्णा), गर्भाशयश्च गर्भिणीनाम्। वामे वंक्षणोत्तरिकप्रदेशे663वामा गवीनो, बृहदन्त्रस्य कुण्डलिका, वृषणधमन्यादयश्च।
[ १४८ चित्रम् ]
उदरोरसोः पुरस्ताद बहिर्भागस्थाः काल्पनिकरेखाः
तत्कृतः प्रदेशविभागश्च।
| <MISSING_FIG href="../../../books_images/U-IMG-17020674748.jpg"/> |
| मध्यरेखा | वंक्षणोत्तरिक प्रदेशः (वामः) |
| स्तनान्तरिका रेखा (वामा) | अधरनाभिका रेखा |
| उत्तरनाभिका रेखा | वामः कुक्षिदेशः |
[१। हृदयाधरिकः प्रदेशः।२।परिनाभिकः।३।अश्रिवस्तिकः (वस्तिप्रदेशो वा) ] अनु०—अनुपार्श्विक प्रदेशः (दक्षिणः)। कु०—दक्षिणः कुक्षिदेशः। व०—वंक्षणोतरिक प्रदेशः (दक्षिणः)
[ १४९चित्रम् ] कोष्ठाङ्गानां यथायोग्य स्थाननिर्देशकम्।
(उरःपञ्जर श्रोणिचक्रसहितं, त्वङ्मांसापसारणेन दर्शितम्)
| <MISSING_FIG href="../../../books_images/U-IMG-17020679959.jpg"/> |
| श्वासनलिका | पृष्टकशेरुका |
| दक्षिण फुस्फुसः | अन्ननलिका |
| महाप्राचीरा | वामफुस्फुसः |
| यकृत् | हृत्कोषः |
| बृहदन्त्रं | महाप्राचीरा |
| श्रोणिचक्रम् | यकृत् प्रबन्धनी |
| वस्तिशीर्षम् | आमाशयः |
| श्रोणिचक्रम् | बृहदन्त्रस्य अनुप्रस्थभागः |
| बृहदन्त्रं | क्षुद्रान्त्राणि |
अष्टौ च तावद् उदरगुहां परितश्छिद्राणि। तद्यथा—महाधमनीच्छिद्रम्, अधरमहासिराच्छिद्रम्, अन्ननालविवरञ्चेति त्रयं महाप्राचीरायां गुहाच्छदिभूतायाम्। द्वे अन्तर्वक्षणीयसंज्ञे वंक्षणप्रदेशयोः, द्वे च वंक्षणदर्यौनाम वंक्षणिकाख्यस्नायुरज्ज्वोरधस्ताद् वर्णितपूर्वे।
अथ उदर्या कला।
उदर्या664नाम तनुस्वच्छमसृणा महाकला (१४९चित्रम्), या एकेन स्तरेण समग्रमपि उदरगुहापरिसरम्, अपरेण च स्तरेण तदन्तःस्थानि यन्त्राणि समावृणोति। सेयम् उरस्याख्यकलेव निश्छिद्रा महाकोषरूपा। महाकोषस्य स्तरद्वयान्तश्च दृश्या तनुपिच्छिला लसीका स्तोकमात्रा, या यन्त्राणां परस्परघर्षणकृतं क्षयं वारयति पैच्छिल्यगुणेन। सा च लसीका रोगवशाद् विकृता प्रवृद्धा च जलोदरं जनयति।
अस्याश्च कलायाः द्वावंशौ कोषरूपौ—बाह्यो महाकोषः, आभ्यन्तरो लघुकोषश्चेति। तत्र बाह्यकोषस्य बहिःस्तरेणावृत उदरगुहापरिधिः सर्वत्रैव प्रायः। अन्तःस्तरेण पुनरावृतानि—यकृत्, प्लोहा, आमाशयः, ग्रहणी, बृहदन्त्रम्, क्षुद्रान्त्राणि, वस्तिशिखरम्, स्त्रीणां गर्भाशयश्च सपरिकरः। एतेषां च यन्त्राणां प्रबन्धनाय यत्र यत्र द्विगुणीभावः कलायाः, तत्र तत्र निर्मोयन्ते यकृदादीनां बन्धन्यः। तेषु च मुख्या बन्धन्यो यकृत्-प्लोहामाशय-क्षुद्रान्त्र-बृहदन्त-वस्ति-गर्भाशय-गुदादिधारिण्यः। तद्विस्तरं तत्तदाशयप्रकरणे वक्ष्यामः।
आभ्यन्तरस्य लघुकोषस्य पुनः संस्थानं यकृदामाशययोरन्तराले तदधः, पृष्टतश्च। तस्य चाधरांशो दीर्घाकृतिः वपाख्ये स्थूलकलामये प्रञ्छदे प्रविष्टः (१४९चित्रम्)। यकृद्वृन्तस्य चाधस्ताद् उभयोः कलाकोषयोः संयोजनं च्छिद्रम् उदर्यान्तरिकं नाम। तत्पथेन हि कलाकोषद्वयस्य अभ्यन्तरस्था लसीका परस्परसम्बन्धं भजते।
वपा665नाम उदर्यायाः कलायाः स्तरचतुष्टयात्मको भाग आम्नाय6663प्रसिद्धो (१५० चित्रम्), येन स्थूलजवनिकारूपेण पुरस्तात् संच्छाद्यन्तेऽन्त्राणि। सा चामाशयस्याऽधोधारातो लम्बमाना बृहदन्त्रस्य अनुप्रस्थभागं क्षद्रान्त्राणि च
[ १५० चित्रम् ]
उदर्याख्य-महाकलायाः सन्निवेशप्रदर्शनाय उदरगुहाया
ऊर्ध्वाधरछेदः (स्त्रीशरीरस्य)।
| <MISSING_FIG href="../../../books_images/U-IMG-170206932610.jpg"/> |
| महाप्राचीरा | उदर्यामहाकोषस्य चरमसीमा |
| यकृत् | उदर्यालघुकोषस्य ऊर्ध्वसीमा |
| आमाशयबन्धनी | अग्न्याशयः |
| आमाशयः | ग्रहणी |
| बृहदन्त्रं सबन्धनम् | महाधमनी |
| वपायाः स्तरचतुष्टयम् | क्षुद्रान्न्रबन्धनी |
| क्षुद्रान्त्रम् | त्रिकदेशः |
| उदर्याया महाकोषः | गर्भाशयः |
| वस्तिः | गुदनलिका |
| योनिमार्गः |
१। उदर्याविरहितो यकृत्ष्टष्टांशः।२।योनिगुदांन्तरीयं कलामयं स्थालीपुटम्। ३। वस्तिगर्भाशयान्तरीयं कलामयं स्थालीपुटम्।पृ०—पृष्ठवंशः।
[चित्रे बाणाग्रफलकचिह्नाङ्कितम् उदर्याख्यकलायाः कोषद्वयान्तरिकं छिद्रम्।कोषद्वयञ्चात्र विशेषेण लक्षणीयम्—यथा महाकोषो घनश्यामवर्णाङ्कितः, लघुकोषः किञ्चिद्धूसरवर्णाङ्कितः। ]
[ १५१ चित्रम् ] वपा, अन्त्रबन्धनानि च।
(वपा चेह बृहन्त्रेण सह ऊर्ध्वंपरावृत्य दर्शिता)।
| <MISSING_FIG href="../../../books_images/U-IMG-170207034611.jpg"/> |
| वपा |
[ १।बृहदन्न्रीया मेदःपुष्पिकाः।२।बृहदन्त्रस्यः आरोहिभागः।३।उदर्याख्यकलायाः परिसरीयभागः। ४। उण्डुकबन्धनी। ५। उडुकपुच्छम्। ६। उण्डुकुखातम्। ७।बृहदान्त्रस्य कलामयी बन्धनी।८। बृहदन्त्रस्य प्लीहान्तकोणः।६।क्षुद्रान्त्रम् (वामत आकृष्य पातितम्)। १०। उण्डुकम् (कर्त्तितं रज्जुबन्धनाकृष्टञ्च)। ११। क्षुद्रान्त्रबन्धनी।]
संरक्षति। अधोधारा त्वस्या विमुक्ताग्रा। मेदस्विनामुदरे मेदःसञ्चयश्चवपास्तरान्तरेव विशेषेण दृश्यः।
अथैतानि उदर्याकलायाः तत्र तत्र द्विगुणीभावादारचितानि स्थालीपुटानि (१५०/१५१ चित्रयोः)। तत्र गुद-वस्ति-योनि-गर्भाशयादिव्यतिकरेण स्त्रीणां द्वे स्थालीपुटे स्वनामव्याख्याते — वस्ति-गर्भाशयान्तरीयं667, योनि-गुदान्तरीयं668चेति। पुंसान्तु वस्तिगुदान्तरीयम्669— एकमेव। बन्धन्यश्च द्विगुणीभूतकलारचिता बहुधा दृश्याः (स्त्रीपुंसयोः)। तद्यथा—ग्रहणीमभितः पञ्चषाः, उण्डुकं परितस्तिस्रः, क्षुद्रान्त्रबन्धन्यस्तालवृत्ताकाराः, अपराश्च प्लीहामाशय-बृहदन्त्रादिसम्बद्धाः।
एते पुनराशयभागाः सर्वत उदर्याकलाच्छादिता द्रष्टव्याः। —यकृत्, आमाशयः, ग्रहण्या उत्तरांशः, प्लीहा, क्षुद्रान्त्राणि, बृहदन्त्रस्य अनुप्रस्थभागः, कुण्डलिका, उत्तरगुदञ्च।स्त्रीणां तु बीजकोषौ, बीजस्रोतसी, गर्भाशयश्च। बीजस्रोतसोः पुष्पितमुखे तु उदर्यामहाकोषान्तरुन्मुक्ते670इति विशेषः।
इमे पुनरंशमात्रेषु उदर्याख्यकलाच्छादिताः—ग्रहण्या अनुप्रस्थभागःअधरभागश्च उण्डुकम्, बृहदन्त्रस्य आरोहिभागः अवरोहिभागश्च, मध्यगुदम्, योनेरुत्तरांशः, वस्तिपृष्ठञ्चेति। एतान् पुनः स्तोकेन स्पृशति उदर्या कला पुरस्तादेव — अग्न्याशयः, वृक्कौ, अधिवृक्कौ चेति।
अथ आमाशयः।
आमाशयः671नाम भुक्तपीतस्य प्रथमाधारो मृदुमांसमयः दृतिसमाकारः। स च स्फारतमो भागो महास्रोतसः, यो वामानुपार्श्विकभागं हृदयाधरिकभागं चोदरख्याऽधिकृत्य तिर्यगधिशेते (१४६/१५२/१५३ चित्रेषु)।परिवर्त्तेते च तस्याकृतिरवस्थानञ्च भुक्तपीतपरिमाणानुसारतः स्थानशयनादितश्च। तस्य ऊर्ध्वमुखं महाप्राचीरां निर्भिद्य विनिर्गतेन अन्ननलिकाप्रान्तेन अनुबध्यते, अधोमुखं ग्रहणीमुखेन दक्षिणतः।
तस्य दैर्घ्यंरिक्तावस्थायां प्रायेण षोड़शांगुलप्रमाणं किञ्चिदधिकं वा पूर्णवयसः। प्रस्थन्तु अष्टांगुलमात्रमधिकं वा बहुभोजिनाम्। तस्योर्ध्वं वामतश्च
[ १५२ चित्रम् ]
आमाशयस्य स्वरूपं निर्माणञ्च।
(अत्र बाह्यवृतिमध्येऽपसारिता)
| <MISSING_FIG href="../../../books_images/U-IMG-170207169112.jpg"/> |
| अन्ननलिकाप्रान्तः कर्त्तितः | आमाशय स्कन्धः |
| ग्रहणीमुखम् | आमाशयमध्यम् |
| मुद्रिकाद्वारम् | आमाशय प्रणालिका |
[ क्र-क्र-क्र- आमाशयक्रोड़िका धारा। पृ-पृ-पृ—आमाशयपृष्टिका धारा। १—हार्दिकद्वारम्। २—अनुदैर्घ्यास्तिरश्चीनाश्च मांसतन्तवः।३—अनुप्रस्थाःसंवेष्टनशीला मांसतन्तवः। ]
महाप्राचीरा। अधस्ताद् बृहदन्त्रस्य अनुप्रस्थांशो वपाच्छादितः (वपा हि तस्य अधोधारासंलग्ना)। दक्षिणतो यकृत्। वामतः प्लीहा। पृष्ठतः अग्न्याशयः।
सोऽयम् प्रचुरान्नपानस्य निषेवणात् स्फारीभूय दीर्घायतो जलपूर्णदृतिसदृशः किञ्चिद्विवृत्तकायश्च भवति। अधिकरोति च तदा मध्योदरम्, आ-नाभिविलम्बितः। स्फारीभूतश्च स शरावत्रयं शरावचतुष्टयं672। २ ।")वा भुक्तपीतं धारयति भारतीयानाम्, अर्धशरावन्यूनमपरेषाम्। औदरिकाणान्तु स एव कालेन नियतस्फारीभूतस्तिष्ठति, जनयति च क्रमाद् आमाशयविस्फारं673नाम दुःखदं रोगम् यत्र चिराय तिष्ठत्यन्नपानमामाशये, प्रच्छर्द्यते वा चिरेण।
अथात्र लक्षणीया नव विशेषाः — द्वारद्वयं, धाराद्वयं, तलद्वयम्, आमाशयस्कन्धः, आमाशयमध्यम्, आमाशयप्रणालिका चेति। तत्रास्य—
(१) द्वारद्वयम् प्रान्तद्वयस्थम्। तत्रोर्ध्वद्वारम् अन्ननलिकाप्रान्तानुबन्धि — तस्य हार्दिकद्वार674मिति संज्ञा, हृदयसान्निध्यात्। तद् आमाशयस्कन्धादधो दक्षिणतश्च दशमपृष्टकशेरुपिण्डस्य पुरस्ताद् वत्तेते। अधोद्वारन्तु ग्रहणीमुखानुबन्धि—*मुद्रिकाद्वारं675*नाम मुद्रिकाकारत्वात्। तत् संकोचविस्फारशीलया मांसमयकपाटिकया सुरक्षितम्। सा च कपाटिका *मुद्राकपाटिका676*नाम। स्थानञ्च मुद्रिकाद्वारस्य प्रथमकटिकशेरुपिण्डस्य पुरस्तात्।
(२) धाराद्वयम्—तावदामाशयस्य ऊर्ध्वधारा अधोधारा चेति। ते द्वारद्वयस्य मध्ये ऊर्ध्वमधश्च द्रष्टव्ये, रिक्तस्य तु तस्य त एव पूर्व-पश्चिमधारे भवतः। तयोरुर्ध्वधारा अन्ननलिकाया दक्षिणधारानुबन्धिनी ह्रस्वा दक्षिणाभिमुखी सेयम् *आमाशयकोड़िका677*नाम। तस्यां सम्बद्धा आमाशयबन्धनी (लघुवपा678वा) उदयाकलायाः स्तरद्वयनिर्मिता। अधोधारा तु सुदीर्घा, या आमाशयस्कन्धं वामतः संवेष्ट्य आमाशयतलं प्राप्तोति, सा *आमाशयपृष्ठिका679*आमाशयतलिका वा नाम। तस्यां संलग्ना वपाख्या स्थूलकला वर्णितपूर्वा।
(३) तलद्वयं नाम आमाशयस्य बाह्यप्रदेशौ धाराद्वयान्तरालस्थौ। तयोः पुरस्तलं पश्चिमतलञ्चेति संज्ञे। रिक्तस्य तु आमाशयस्य संकोचकृतविवर्त्तनात् तयोरेव ऊर्ध्वाधस्तलयोः परिणामः।
(४) **आमाशयस्कन्धः680**नाम आमाशयस्य कुब्जाकार ऊर्ध्वप्रान्तः, यो वामानुपार्श्विकप्रदेशे वर्त्तते महाप्राचीराया उत्सङ्गस्थः। सोऽयं स्फारतमो भाग आमाशयस्य।स च कलाबन्धन्या संबध्यते वामतः।
(५) **आमाशयमध्यं681**नाम आमाशयस्य मध्यभागः स्फारोदरः, स हि धारयति अन्नपानं प्राधान्येन।
(६) **आमाशयप्रणालिका682**नाम आमाशयस्य चरमो भागो नातिस्थूलनलकाकारः। सा पित्तकोषस्य समीपस्था ग्रहण्याऽनुबध्यते, तदन्ते चान्तर्दृश्ये मुद्राकपाटिका, मुद्रिकाद्वारञ्च।
[ १५३ चित्रम् ]
आमाशयस्य अभ्यन्तरम् (विदार्य दर्शितम्)।
| <MISSING_FIG href="../../../books_images/U-IMG-170210584013.jpg"/> |
| मुद्राकपाटिका | आमाशयस्कन्धः |
| मुद्रिकाद्वारम् | आमाशयमध्यम् |
| आमाशयप्रणालिका |
[ १।आमाशयस्य-हार्दिकद्वारम्।२।आमाशयक्रोड़स्थः कोणः।३।ग्रहणीमुखम्। ब-ब-ब ब—अत्रान्तर्दृश्या उच्चावचा बलीराजयः श्लेष्मलकलावृताः। ]
निर्माणं पुनरामाशयस्य वृतिचतुष्टयेन सम्पद्यते। तद्यथा—बहिर्भागे वृतिरुदर्याकलामयी, तदन्तर्मंसमयी, तदन्तः योजकतन्तुमयी, तदन्तश्च आभ्यन्तरी वृतिः स्थूलकलामयीति। तव विशेषाः (१५२/१५३ चित्रयोः)—
(क) बहिर्वृतिः— उदर्याख्यकलायाः स्तरंद्वयेन पूर्वापरदेशप्रसृतेन आरच्यते। सा सर्वमपि आमाशयस्य बहिर्देशमावृणोति, अन्यत्र प्रबन्धनस्थानेभ्यः। तेषु हि द्विगुणीभूता उदर्याकलांशाः यकृत्-प्लीह-महाप्राचीरादिभिः सह संवघ्नन्ति आमाशयं कलामयीभिर्वन्धनीभिः। बृहदन्त्रस्यानुप्रस्थांशेन च सम्बद्धा आमाशयस्य अधोधारा वपाबन्धनाख्येन683,")वपांशेन।
(ख) मांसमयी वृतिस्तावत् त्रिविधैः स्वतन्त्रपेशीतन्तुभिरनुदैर्घ्यमनुप्रस्थं तिर्यक् च सन्निविष्टैरारच्यते। तत्र अनुदैर्घ्यास्तन्तवो बाह्यतमाः, तदन्तरनुप्रस्थास्ताः समग्रमामाशयं संवेष्ट्य स्थिताः, तदन्तश्च तिरश्चीनाः। त्रिविधैश्च तैः स्थितिस्थापकगुणैः मांसतन्तुभिर्दृढ़ीकृतानि आमाशयगात्राणि।
(ग) योजकतन्तुमयी वृतिस्तु आभ्यन्तरकलायाः सम्यक प्रबन्धनार्था। योजकतन्तवश्च ऊर्णनाभसूत्रवत् सूक्ष्माणि सूत्राणि। तस्यां च वृत्यां प्रसृतानि सिरा-धमनी-रसायनीजालकानि, अणुप्रन्थयश्च पाचकाम्लरसस्राविणः।
(घ) आभ्यन्तरी वृतिः पुनः स्थूलकलामयी। सेयं कला आमाशयस्य रिक्तावस्थायां वृद्धजनस्य लुलितगात्रचर्मवद् वलीराजिभिः684उपलक्षिता प्रशिथिला च तिष्ठति। तस्यां च उन्मुच्यन्ते पाचकाम्लरसस्राविणः क्लेदकश्लेष्मस्राविणश्च अणुग्रन्थयः685। तेष्वसंख्येयाः पाचकरसस्राविणो ग्रन्थयः (अंगुलमात्रेस्थाने शताधिकसंख्याः) इति परीक्षकाः। भोजनकाले कियत्कालानन्तरं च ते यथा-प्रयोजनम्लरसं क्षरन्ति, विशेषतो दुग्धमांसादिविपाकाय।
पोषणं तावदामाशयस्य सम्पद्यते आमशयक्रोड़िकयोरामाशयतलिकयोश्च धमन्योः शाखाप्रतानैः। सर्वाश्च ता धमन्यो महाधमन्या अर्धोदरिकाख्यशाखाप्रभवाः। सिराश्च तत्संज्ञा भुक्तरसभूयिष्ठं रक्तमभिवहन्त्यः प्रतीहारिणीं महासिरां प्रविशन्ति। रसग्रन्थयो रसायन्यश्च आमाशयस्य धाराद्वयोपकण्ठस्थाः।
नाड़ीप्रतानास्तु तत्र प्राणदयोवर्नाड्योः शाखाप्रशाखाऽनुशाखाः, मणिपूरचक्रप्रभावाश्च। तत्रेदंस्मर्त्तव्यम्—प्राणदयोः शाखाप्रताना आमाशयेऽजीर्णादि हेतोरुत्तेजिताः हृदय-फुस्फुसादिप्रसृतांस्तच्छाखाप्रतानानपरान् कोपयन्ति। ततो वातिकहृद्रोगस्य तमकश्वास-कासयोश्च सम्भवो बहुशः।
अथ क्षद्रान्त्रम्।
क्षुद्रान्त्रम्686 (क्षद्रान्त्राणि वा) नाम मृदुमांसमयी सुदीर्घा नलिका (१४९/१५१ चित्रयोः), या नाभिं परितो रज्जुराशिरिव समूह्य रक्षिता। आमाशये किञ्चित्पक्वमन्नं हि तत्रैव, विशेषतश्च तदाद्यभागे ग्रहण्याख्ये, शनैः सम्यक् पच्यते। अतएवास्य पच्यमानाशय इति संज्ञा। पक्वाशय इति वा बृहदन्त्रसहितस्य। तस्योर्ध्वमुखमामाशयेन सम्बद्धम्, अधोमुखं बृहदन्त्रस्योण्डुकभागेन। क्षुद्रान्त्राणि च दैर्ध्येण सार्धतिव्यामानि687, एवञ्च सार्धत्रिव्यामदैर्घ्यम् किञ्चिन्न्यून चतुर्दशहस्तप्रमाणम् = 20 ft. 1 1/2 inches. According to Potter, the length of the small intestine is 20 ft. but acc. to others, it is 23 ft.")पुंसां, स्त्रीणां तु अर्धव्यामहोनानि—इति प्राञ्चः। तदेतत् प्रायिकम्, बहुधा अल्पाधिकदैर्घ्यदर्शनात्। परिणाहस्तु तेषां करांगुष्ठवत्।
संबध्यन्ते च तानि उदर्याकलारचिताभिर्बन्धनीभिः पृष्ठवंशपुरोभागेण। तासाम् *अन्त्रबन्धनी688*ति संज्ञा (१५०/१५१ चित्रयोः)।
संरक्ष्यन्ते च बृहदन्त्रानुप्रस्थभागसहितानि क्षुद्रान्त्राणि वपाख्यया स्थूलकलया पुरस्तात्तदाच्छादन्या।अभितश्च क्षुद्रान्त्राणि दृश्यं बृहदन्त्रम्।
अथ क्षद्रान्त्रस्य त्रयो विभागाः कल्प्यन्ते वर्णनासौकर्याय—ग्रहणी, मध्यान्त्रकं, शेषान्त्रकं चेति। तत्र—
ग्रहणी689नाम क्षुद्रान्त्रस्य आद्यभागो द्वादशांगुलमानः (१५४।१५५ चित्रयोः)। तत्र पित्तकोषादागतं पाचकपित्तम्, अग्न्याशयादागत आग्नेयरसश्च पृथक् स्त्रोतोद्वयेनान्ते सम्मिलितमुखेन प्रसिच्येते, अर्धपक्वस्य अन्नस्य सम्यग् विपाकाय।मध्ये च आमाशय-ग्रहणीमुखयोर्द्वारं मुद्रिकाद्वारं नाम वर्णितपूर्वम्।
सोऽयमन्त्रभागः कुटिलगत्या अग्न्याशयस्य शीर्षभागं क्रोड़ीकृत्य निम्नतः प्रसृतः अनुप्रस्थबृहदन्त्रस्य पश्चिमतोऽवतिष्ठते, ततो वामाभिमुखः पृष्ठवंशमुल्लंघ्य द्वितीयकटिकशेरुकाया वामपाश्व यावत् प्रसर्पति।ततः पुनर्वक्रीभूय अधः प्रसर्पति इति तस्याः संस्थानवैचित्र्यम्।विदारितायाञ्च ग्रहण्यां दृश्यते आभ्यन्तरवृतौ पूर्वोक्तस्य स्रोतोद्वयस्य सम्मिलितं मुखं शलाकाप्रवेशार्हम्, वलीराज्यश्च रसांकुरिकाधारिण्यः (१५५ चित्रम्)।
अत्रेदं स्मर्त्तव्यम्। ग्रहण्या मार्दवात् क्रियालाघवाच्च प्रायेण ग्रहणीरोगसम्भवः। सा हि अर्धपक्वमन्नं गृह्णाति, पचति च तत् तत्र निरुध्य।
मध्यान्त्रकं690नाम पञ्चषहस्तदीर्घः क्षुद्रान्त्रभागो ग्रहण्या अनुवन्धी। तत् नाभिं परितोऽवस्थितं मूम्ना, अन्त्रबन्धनीभिर्दृढ़ंप्रतिबद्धञ्च पृष्ठतः।
शेषान्त्रकं691नाम तत्परवर्ती क्षद्रान्तभागश्चरमः। स अधिवस्तिकदेशस्थो भूम्ना।तस्याधःप्रान्तः बृहदन्त्रस्याद्यगागेन उण्डुकाख्येन दक्षिणवंक्षणोत्तरिकप्रदेशे सम्बद्धः खातद्वयाङ्कितया बन्धन्या।
निर्माणं पुनः क्षद्रान्त्राणां चतसृभिरेव वृतिभिरामाशयवत्। ताश्च यथा—
(क) उदर्या वृतिः—उदर्यया कलया निर्मिता, ग्रहणीवर्जं सर्वत्र सर्वान्त्रच्छादनी। सेयमन्त्रनलिकां सर्वतः संवेष्ट्य द्विगुणीभूता दीर्घाभिरन्त्र-
[ १५४ चित्रम् ] ग्रहण्यग्न्याशययोरवस्थानदशकम्।
(अत्र यकृद् ऊर्ध्वमाकृष्य परावृत्य च प्रतिबद्धम्। आमाशयः, ग्रहणीवर्जं क्षुद्रान्त्रम्, बृहदन्त्रञ्च भूम्ना—इति त्रयमपसारितम्, अवशिष्टांशाः शुभ्ररेखाभिः पृथग् दर्शिताः)।
| <MISSING_FIG href="../../../books_images/U-IMG-17021131901.jpg"/> |
| पित्तकोषः | यकृत् |
| यकृत् | प्लीहा |
| पित्तस्रोतः | वामबृकः |
| ग्रहणीमुखम् | गवीनी |
| अग्न्याशयः | दक्षिणबृकांशः |
| ग्रहणीमध्यम् |
[अ०—अग्न्याशयपुच्छम्। आ०—आमाशयस्कन्धः (कर्त्तितः)। म० ध०—महाधमनी। अ० म०—अधरा महासिरा। उ०—उण्डुकः। बृ० प्र०—बृहदान्त्रस्य अवरोहिभागः।उ० ध०—उत्तरान्त्रिकी धमनी। १—प्रतीहारिणी महासिरा।२—याकृतं पित्तस्रोतः।३—यकृत्पिण्डविभाजकः कलांशः। ४। अभियाकृती धमनी। ५।५—महाप्राचीराया मूलद्वयम्। ६—अभिप्लीहिका धमनी। ]
[ १५५ चित्रम् ]
ग्रहणी, अग्न्याशयश्च।
| <MISSING_FIG href="../../../books_images/U-IMG-17021153932.jpg"/> |
| अग्न्याशयस्य स्रोतोनलिके | अग्न्याशयपुच्छ्म् |
| उभयोः स्रोतसोः सम्मिलितमुखम् | ← ग्रहण्याश्चरमांशः |
| ग्रहण |
१। पित्तस्रोतोनलिका।२।प्रतीहारिणी महासिरा।३।याकृती धमनी। तासां पुरस्ताद् ग्रहणीमुखम्। ४। उत्तरान्त्रिकी सिरा धमनी च। ५।ग्रहण्या अभ्यन्तरम् (अंशतो विदार्य दर्शितम्)। अग्न्याशयोऽपीह मध्ये विदारितः, तन्मध्यस्थस्रोतोनलिकयोः प्रदर्शनाय। न—अग्न्याशयस्य मुख्या स्रोतोनलिका, तदूर्ध्वं तिर्यगवस्थिता पित्तनलिका तथा मिलिता।
बन्धनीभिः स्वकीयस्तरद्वयारचिताभिः सन्धारयति अन्त्राणि। ग्रहणी तु पुरस्ताद् उदर्यकलया स्तोकेनावृता अन्त्रबन्धनीविरहितैव पश्चात्।
(ख) पेशीमयी वृतिः—स्वतन्त्रपेशीतन्तुभिरारचिता। पेशीतन्तवश्च बहिरनुदैर्घ्यं प्रसृताः, तदन्तश्च अनुप्रस्थमन्त्रनलिकां संवेष्ट्य।
(ग) योजनी वृतिः—ऊर्णनाभतन्तुवत् सूक्ष्मसंयोजकतन्तुभिरारचिता आभ्यन्तरकलासंधारणी। सा श्लेष्मस्राविणामान्त्ररसस्राविणां च अणुग्रन्थिकानामधिष्ठानभूमिः।
(घ) आभ्यन्तरी वृतिः—मृदुमसृणश्लेष्मलकलामयी पूर्वोक्तानामणुग्रन्थिकानां स्रोतोमुखधारणी (१५६ चित्रम्)। सेयं कला कदम्बकेशरसदृशीभिः रसाकर्षणीभिरंकुरिकाभिरन्तराचिता, अनुप्रस्थाभिर्वलीराजीभिरुपलक्षिता च रसशोषकस्थानपरिमाणवर्धनार्थम्।ताश्च *रसांकुरिकाः692*क्षुद्रान्त्राणामभ्यन्तरे लक्षशो दृश्याः। एकैकस्यां च अंकुरिकायामेकैका सूक्ष्मा रसायनीजालिका मध्यतः (१५६ चित्रम्), सा सिराधमनीजालकेन परिवृता, सुरक्षिता च मूले मांसतन्तुभिः। संख्यातश्च अर्धकोटिसंख्या रसांकुरिकाःक्षुद्रान्त्रेषु — इति परीक्षकाः। तासु रसायनीजालिकाभिराकृष्टो दुग्धनिभः स्नेहबहुलोऽन्नरसः पयस्विनीसंज्ञासु रसायनीषु सञ्चरन्, अन्त्रमूलिकैः रसग्रन्थिभिर्मध्येपथं विशोधितः, क्रमाद् रसप्रपां प्रविशति, ततश्चान्ते गलमूलिकां सिराम्। अवशिष्टस्त्वन्नरसो रसांकुरिकापरिवारिभिस्तदन्तरालस्थैश्च सिराजालकैराकृष्टः क्रमशः सिरापथैः प्रतीहारिणीं महासिरां प्रविशति, ततश्च यकृदभ्यन्तरमिति रसस्य द्विविधो मार्गः स्मर्त्तव्यः।
अन्त्रपोषण्यस्तावद्धमन्यः — उत्तरान्त्रिक्या अधरान्त्रिक्याश्च धमन्याः शाखाप्रताना वर्णितपूर्वाः। सिरास्तु तत्सहचर्यः प्रतीहारिणीं महासिरां प्रविशन्ति, अभिवहन्ति च आग्नेयमन्नरसं रक्तमिश्रम् — इति विशेषः।
नाड्यः पुनरन्त्राणां मणिपूराख्यात् नाड़ीचक्रात् प्राधान्येन प्रभवन्ति। ताः समानवायोः क्रियासाधनभूताः। ताश्च क्रियाःउभयविधरसादानाऽन्त्रसङ्कोचन693-प्रसारणाद्याः शरीरपोषणमलनिःसारणादिकर्मसहायाः।
अथ बृहदन्त्रम्।
**बृहदान्त्रं694**नाम क्षुद्रान्त्रविपक्वस्यान्नस्य मलीभूतस्याऽधारभूतं स्थूलनलकम् (१४९।१५१ चित्रयोः)। तस्य दैर्घ्यं प्रायः सार्धहस्तत्रयप्रमाणं, परिणाहः पादांगुष्टवत् स्थूलतरो वा। तच्च उदरगुहायां दक्षिणवंक्षणोत्तरिकप्रदेशादुत्थाय, ऋजुगत्या दक्षिणकुक्षौ यकृत्तलावधि गच्छति, ततोऽनुप्रस्थमवस्थिता वामतः प्लोहतलं संस्पृश्य वामकुक्षौ अवतीर्णं वामं वंक्षणोत्तरिकप्रदेशं प्राप्नोति, ततश्च तत्र कुण्डलिकामारचय्य पश्चान्मध्यरेखानुक्रमेण सरलीभूयाऽवतरति, परिणमति च गुदनलिकायां पृष्ठवंशपुरस्तात्।
तस्य च बृहदन्त्रस्य *पक्वाशय695*इति मलाशय इति वा संज्ञा प्राचाम्। अन्नस्य खलु विपक्वस्य आप्यभागशोषणात् तत्रैव हि सर्वथा शुष्कमलभावपरिणामः।
[ १५६ चित्रम् ]
क्षुद्रान्त्राभ्यन्तरस्था वलिराज्यः, रसांकुरिकाश्च।
(क)
| <MISSING_FIG href="../../../books_images/U-IMG-17021170403.jpg"/> |
(ख)
| <MISSING_FIG href="../../../books_images/U-IMG-17021170884.jpg"/> |
| कलामयी वृतिः | संयोजनी वृतिः |
| मांसमयी वृतिः |
[(क) चित्रे वलिराज्यः(अन्त्रविदारणेन दृश्याः)। १। सूक्ष्मसिराधमनीरचितंंजालकं (बाह्यम्)। २। मध्यस्था रसायनी। (ख) चित्रस्थाः सूक्ष्मपदार्थाः अणुवीक्षणसहायेन चक्षुषा दृश्याः]
तस्य निर्माणं क्षद्रान्त्रवत्, केवलमत्र रसांकुरिकाणामभावः। एष चात्रान्यो विशेषः — पेशीमयी वृतिः तिसृभिस्तनुदीर्घपट्टिकाभिस्तदंशान् सङ्कोच्य सन्नद्धा तद्दार्ढ्याय\। ताभिश्च संग्रथितं बृहदन्तनलकं क्षुद्रस्थालिकामालावत् लक्ष्यते।
अथास्य षोढ़ा प्रविभागो वर्णनासौकर्याय — उण्डुकः, आरोहिभागः, अनुप्रस्थभागः, अवरोहिभागः, कुण्डलिका, गुदनलिका चेति। तत्र—
**उण्डुकः पुरीषोण्डुकः696—Cæcum. सेयं प्राचीना संज्ञा। अस्यैव क्वचित् पोट्टलक—इति संज्ञाऽपि प्राचीना।")**वा नाम बृहदन्त्रस्य आद्यभागश्चतुरंगुलायतः स्थालिकाकारो दक्षिणवंक्षणोत्तरिकप्रदेशस्थः (१५४।१५७।१५८ चित्रेषु)। तं वामपार्श्वतः प्रविशति क्षुद्रान्त्रभागश्चरमः, स स्वबन्धन्यां खातद्वयोपलक्षितः। प्रवेशद्वारञ्च उण्डुकान्तः सन्दंशाकाराभ्यां कलावृतपेशीमयीभ्यां कपाटिकाभ्यामुपलक्षितम्, मलस्य विपरीतगतिवारणाय। तयोः *सन्दंशकपाटिके697*इति संज्ञा। निम्नतश्चोण्डुके संलग्ना प्रायस्त्रिचतुरंगुलदीर्घा शरनलिकाकारा नलिका, *उण्डुकपुच्छं698*नाम। सा गर्भस्थबालस्य अन्त्रनिर्माणावशेषभूता निष्क्रियप्राया च। तस्याञ्च कदाचिद् जम्बीरबीजादिदुर्जरवस्तुप्रवेशादन्यथाऽपि वा विद्रधि699सम्भवः।
[ १५७ चित्रम् ]—उण्डुकस्य बाह्यभागः।
| <MISSING_FIG href="../../../books_images/U-IMG-17021179215.jpg"/> |
| बृहदन्त्रस्य आरोहिभागः | जघनकूटम् (उदर्याकलावृतम्) |
| अन्न्रबन्धनोखातम् (उत्तरम् ) | उण्डुकः |
| क्षुद्रान्त्रस्य चरमोंऽशः | उण्डुकपुच्छम् |
| अन्न्रबन्धनोखातम् (अधरम् ) | उदर्या-कलांश |
| उण्डुकपुच्छस्य कलामयी बन्धनी |
[ १५८चित्रम् ]—उण्डुकस्य अभ्यन्तरभागः (विदार्य दर्शितः)।
| <MISSING_FIG href="../../../books_images/U-IMG-17021180096.jpg"/> |
| बन्धनी | क्षुद्रान्त्रस्य शेषभागः |
| उण्डुकप्राचीरम् | क्षुद्रान्त्रम् |
| उण्डुकः | उण्डुकपृच्छम् |
सं० क०—सन्दंशकपाटिकाद्वयम्। श०—उण्डुकपुच्छान्तःप्रवेशिता शलाका।
**आरोहि बृहदन्त्रं700**नाम उण्डुकादूर्ध्वस्थो बृहदन्त्रस्य आरोहिभागो दक्षिणकुक्षिदेशस्थः। स यकृत्तलं यावद् गत्वा वक्रीभूय अनुप्रस्थभागेन मिलितः। तथाऽरचितस्य च बृहदन्त्रकोणस्य *याकृतकोण701*इति संज्ञा।
**अनुप्रस्थ बृहदन्तुं702**यकृत्तलदेशात् प्लोहतलं यावदनुप्रस्थमवस्थितो बृहदन्त्रभागः, स नाभेरुपरिष्टाद् आमाशयतलानुक्रमेण किञ्चिदिव धनुर्वक्रस्तिष्ठति। तेन संसक्ता चावलम्बते उदर्यख्यमहाकलांया वपा नाम स्थूलतमो भागः क्षुान्त्राणामाच्छादनः।
अवरोहि बृहदान्त्रं703 नाम अनुप्रस्थबृहदन्त्रस्य प्लीहतले किश्चिद् वक्रीभूयावस्थितस्य अनुबन्धी बृहदन्त्रभागो वामकुक्षिदेशे लम्बमानः। तथाऽरचितस्य च कोणस्य *प्लैहिककोण704*इति संज्ञा। अधःप्रान्तश्च अवरोहिबृहदन्त्रस्य वामे वंक्षणोत्तरिकप्रदेशे किञ्चिद् वक्रोभूय कुण्डलिकयाऽनुबध्यते।
**बृहदन्त्र-कुण्डलिका705**नाम लुप्ताकारचिह्नवद् (ऽ) वक्रीभूय नाभेरधस्तान्मध्येऽवतीर्णो बृहदन्तप्रान्तः (१५९चित्रम्)। सा अधिवस्तिकप्रदेशं वस्तिगुहाञ्चाकम्य तिष्ठति, अनुबध्यते चाऽधस्तात् गुदनलिकया।
**गुदनलिका706**नाम बृहदन्त्रस्य अधःप्रान्तः प्रायेण वितस्तिप्रमाणः (१६० चित्रम्)। सेयं त्रिकास्थ्नः पुरस्तात् किञ्चिदिव धनुर्वक्रासरला नलिका, या ऊर्ध्वं बृहदन्त्रकुण्डलिकया, अधश्च पायुद्वारेणानुबध्यते। तस्याश्च पुरस्तात्—पुंसो वस्तिः, स्त्रियास्तु गर्भाशयो योनिश्च। पश्चात्—त्रिकपुरःस्था नाड़ीप्रवेण्यः अनुतिकाख्याः, शाखाश्च वामाया आभ्यन्तराऽधिश्रोणिकाख्यधमन्याः।
अथास्यास्त्रयो भागाः कल्प्यन्ते वर्णनासौकर्याय—उत्तरगुदम्, मध्यगुदम्, अधरगुदञ्चेति। तत्राद्यं स्थालिकावदायतं सार्धचतुरंगुलमानं च प्रायेण, तत् शुण्डिकाख्यपेश्याः पुरःस्थम्। द्वितीयं द्वित्रागुलमानं किञ्चित् संकुचितं पुंसो वस्तिद्वारपृष्ठस्थं च तत् पुरस्तात् पौरुषग्रन्थिं शुक्राधारिके च संस्पृश्यावतिष्ठते। स्त्रियास्तु योनिपृष्ठप्राचीरेण संबद्धोऽस्य पुरोभागः।अधरगुदं पुनः संकुचिततरं
[ १५९चित्रम् ] —बृहदन्त्रस्य कुण्डलिका।
| <MISSING_FIG href="../../../books_images/U-IMG-17019502774.jpg"/> |
| कुण्डलिका मध्यं | कुण्डलिकारभ्यः |
| उत्तरगुदम् (विदार्य दर्शितम्) | श्रोणिपक्षिणी पेशी और्वी सिराधमनीनाड्यश्च |
| अधरगुदम् | श्रोणिफलकं |
| कुण्डलिकाशेषांशः |
[ १६० चित्रम् ] —गुढ़नलिका (विदार्य दर्शिता)।
| <MISSING_FIG href="../../../books_images/U-IMG-17019504645.jpg"/> |
| उत्तरगुदम् | गुदवलिद्वयम् (प्राचाम् प्रवाहणी विसर्जनी च ) |
| मध्यगुदम् | प्रतनुका वलीराजयः |
| अधगुदम् | गुदसङ्कोचनीसंज्ञं पेशीद्वयम् (प्राचां—संवरणी बलिः) |
| पायुद्वारम् |
सार्धांगुलमात्रं द्वयंगुलमात्रंवा अनुत्रिकास्थिपुरःस्थं, तद् गुदसङ्कोचनीभ्यां पेशीभ्यां पायुधारण्याख्यपेश्या च संवेष्टितम्। तस्य चरमप्रान्तः पायव्यत्रिकोणान्तःस्थः।
अथास्या गुदनलिकाया अभ्यन्तरे दृश्या अनुप्रस्थावस्थिताश्चक्रार्धप्रायास्तिस्रो वलयः (चतस्त्रो वा क्वचित्) कलाबृतमांसतन्तुनिर्मिताः। ताः गुदसङ्कोचे सति मलसन्धारणसहायाः अन्तरान्तरा जबनिका भूताः, गुदविस्फारे तु मार्गोन् मोचनात् मलविसर्जन्यः। प्रवाहणं पुनः सम्पद्यते औदर्यपेशीनामुत्तरगुदस्य च सङ्कोचनेन, पायुधारण्याः शिथिलीकरणेन च। मलविसर्जनं गुदनलिकाया अधोऽधःक्रमेण सङ्कोचनात्। गुदसंवरणं पुनः गुदसङ्कोचन्याख्यपेशीद्वयस्य सङ्कोचेन, पायुधारण्या पायोरूर्ध्वाकर्षणेन च।
प्राचां वलित्रयं तु पूर्वोक्ताद् वलित्रयात्किञ्चिद् भिन्नं प्रतिभाति। तत्तत् क्रियाधिष्ठानसान्निध्यादेव हि तत्र तत्र वली-पेश्यादौ कथमपि प्रवाहणी- विसर्जनो- संवरणीति संज्ञात्रयस्य सङ्गतिरुर्ध्वाधः क्रमेण। तथाहि प्रथमवलि- चक्रोपलक्षितभागेन मलस्य अधःपीड़नात् प्रथमा प्रवाहणी। गुदविस्फारणेन मलविसर्जनाद् द्वितीया विसर्जनी।गुदसङ्कोचन्याख्यपेशीद्वयकृता चक्राकारा वलिस्तु तृतीया संवरणी नाम (१६० चित्रम्)।
गुदद्वारं, पायुद्वारं वा707नाम (१६० चित्रम्) अधरगुदस्याधःप्रान्तः अनुत्रिकास्थनः पुरस्तान्नितम्वद्वयान्तराले दृश्यः। स संक्षेपेण पायुरिति गुदमित्यपि वा क्वचित्संज्ञायते। तत्परितश्च तन्वी त्वक् प्रतनुकाभिरनुदैर्घ्यं प्रसृताभिः वलोराजिभिरुपलक्षिता गुदाभ्यन्तरस्थया श्लैष्मिककलया समनुबध्यते। त्वक्कलयोः सन्धिस्थानं च तत्र नोलाभशुभ्ररेखाङ्कितम्।अभ्यन्तरतश्च श्लैष्मिककलायामपि तादृश्य एव वलीराज्यो708.")गभीरतराः। परितस्तु पायुं गुदसङ्कोचनो बाह्या नाम पेशी वर्णितपूर्वा। पुरस्ताच्च गुदोपस्थयोरन्तरालस्थःप्रदेशो मूलाधारो709नाम, मध्ये सेवन्या710उपलक्षितः। खातं च गुदं परितो मेदः पूर्णम् भगन्दररोगायतनम् —गुदकौकुन्दरं711 नाम वर्णितपूर्वम्।समग्रस्य च बृहदन्त्रान्तरीयकलाभागस्य ‘मलधरा कला’- इति संज्ञा प्राचाम्।
इदञ्चात्र स्मर्त्तव्यम्। गुदनलिकां परितोऽवस्थितस्य सिराचक्रस्य भृशं रक्तपूर्णत्वे सति सिरामुखाणामधःस्थानां स्फारीभावात् तीब्ररुजाप्रादुर्भावो रक्तस्रुतिश्च। तानि च सिरामुखाणि रक्तार्शसामायतनानीति सिराध्याये वर्णितचराणि। शुष्कार्शसान्तु सम्भवो गुदद्वारं परितः स्थितानां त्वक्कलामयीनां प्रतनुवलीनां शिथिलीभावात्। प्रवाहिकादौ तु अधरगुदाभ्यन्तरस्थकलाभागस्य प्रशिथिलीभावात् पुरीषोत्सर्गंकाले गुदनिर्गमो बालानां प्रायः।
पोषणंपुनरन्त्राणाम् उत्तराधराख्ययोः आन्त्रिकीसंज्ञयोर्धमन्योः शाखाप्रतानैः। सिराश्च तदनुवर्त्तिन्यः प्रतीहारिणीं महासिरां प्रविशन्ति। ततो यकृद्र्राेगेषु तस्यां स्तोकेनापि रक्तावरोधे तदापूरणीषु सिरासु रक्ताधिक्यं, ततश्च रक्तार्शसांसम्भवः प्रायशः—इति विशेषतः स्मरणीयम्।
नाड्यस्तावदन्त्राणां मणिपूराख्यनाड़ीचक्रादुद्भूताः संज्ञावहाश्चेष्टावहाश्च। मूलाधारचक्रोद्भवाश्च काश्चन गुदोपस्थादिप्रसृताः। क्रियाःपुनरन्त्राणां स्वतन्त्रपेशीनिर्मितानां न पुरुषेच्छापेक्षिण्यः, अन्यत्र गुदप्रान्तात्। स्वत एव हि ताः प्रवर्त्तन्ते समानापानयो र्वाय्वोरानुलोम्ये सति अन्त्रसङ्कोचनादिरूपाः स्वभावात्।
अन्त्रबन्धन्यः712 पुनः क्षुद्रान्त्राणां बृहदन्त्रस्य च कलामय्यः प्रबन्धन्यः (१५०/१५१ चित्रयोः)। ता उदर्यकलाया अन्त्राणि परितः प्रसृताया द्विगुणीभावेनाऽरचिताः सिराधमनी, रसायनीरसग्रन्थ्यादिभिः सहाऽन्त्राणां सन्धारण्यः।
उदर्या हि कला ग्रहणीवर्जं क्षुद्रान्त्राणि, अनुप्रस्थाख्यं बृहदन्त्रं, तत्कुण्डलिकान्त्रञ्च सर्वत आवृणोति, रचयति च दृढ़ां बन्धनत्रयीम्। ताश्च क्षुद्रान्त्रबन्धनी713,अनुप्रस्थबृहदन्त्रधरा714, कुण्डलिकान्त्रधरा715च नाम। न च सन्ति आरोहिबृहदन्त्रस्य अवरोहिबृहदन्त्रस्य च सन्धारणाय सर्वत्र समानाः अन्त्रबन्धन्यः, स्वल्पतरा हि ताः प्रायेण। तासां संज्ञाः तत्तदन्त्रभागनामानुसारेण भवन्ति।सन्ति च बृहदन्त्रस्याऽधोधारालम्बिताःमालतीपुष्पगुच्छाकाराः काश्चन कलावृता मेदोगुच्छिकाः, ता अन्त्रपुष्षिकाः716 नाम।
गुदनलिका तु उत्तरगुदांशमात्रेउदर्यकलयाच्छादिता। उदर्यकलाया द्विगुणीभावाच्च पुंसां गुद-वस्त्यन्तरीयस्य स्थालीपुटस्य सम्भवः, स्त्रीणान्तु योनिगुदान्तरीयस्य वस्तिगर्भाशयान्तरीयस्य च।
तच्चोक्तपूर्वमुदर्यकलाप्रसंगे।
अथ अग्न्याशयः।
अग्न्याशयः717नाम प्रायेण दशांगुलदीर्घः त्रि-चतुरांगुलायतो विशिष्टग्रन्थिसङ्घातमय आशयः। स आमाशयस्य पृष्ठतः प्रथमकटिकशेरुकायाः पुरस्ताद् अनुप्रस्थमधिशेते (१५४।१५५ चित्रयोः )। तस्य स्थूलः शिरोभागो दक्षिणाभिगो ग्रहण्या क्रोड़ीकृतः, तनुः पुच्छभागस्तु वामाभिगः प्लीह्ना। तस्योर्ध्वधारानुक्रमेण प्रसृता अभिप्लीहिका नाम धमनी। पश्चिमतस्तु दृश्याः —साधारणी पित्तनलिका, अधरा महासिरा, वामा अनुबृक्का सिरा, महाधमनी, उत्तरान्त्रिकाख्ये सिराधमन्यौ, महाप्राचीराया मूलद्वयं पृष्ठवंशसहितम् वामबृक्कःअधिबृक्कसहितः, वामा कटिचतुरस्त्रा पेशी च। अधोधारा पुनस्तस्य दक्षिणभागे ग्रहण्या उत्सङ्गधृता; वामभागे अनुप्रस्थबृहदन्तस्य बन्धन्या। अस्य च तावदग्न्याशयस्य अनुलम्बविदारणेन दृश्यं दीर्घं स्रोतोद्वयम् आग्नेयरसस्स्रावि। तच्चमिलितम् एकमेव स्रोतः सम्पद्यते, आग्नेयस्रोतोनलिका718 नाम, उन्मुच्यते च तद् ग्रहण्यन्तः सह साधारण्या पित्तनलिकया एकेनैव च्छिद्रेण।
सोऽयम् अग्न्याशयः आमाशये अर्धविपक्कस्य सर्वविधान्नपानस्य पचनक्षममाग्नेयरसं719,आमिषवस्तुपाचकं (Trypsin),स्नेहपाचकं(Lipase) चेति प्रतीच्याः। परीक्षासिध्दञ्चैतत्। अतएव अग्न्याशयः पाचकरसस्य मुख्यः प्रभवः। [किण्वं नाम सूक्ष्मं वस्तु सुराकिण्ववत् कार्यकरम्— Enzyme]") प्रक्षरति पूर्वोक्तया स्फुटस्त्रोतोनलिकया ग्रहण्याम्। तत्परिमाणञ्च साधारणान्नपानसेविनः पुरुषस्य अहोरात्रेप्रायेणाशीतितोलकमानमिति परीक्षकाः।
अस्ति च क्वचित् क्वचित् काये अग्न्याशयात् पृथग्भूतो द्वितीयोऽपि ग्रन्थिस्तादृश एव तत्पार्श्वे तादृशस्त्रोतसा मुख्यस्रोतोनलिकां प्रविष्टेन सहितः, स तत्कार्य एव।
सन्ति चादृश्यानि स्रोतांसि अग्न्याशयस्य, यैः प्रक्षरति सूक्ष्म आग्नेयरसः सूक्ष्मसिराजालकान्तः। स च सर्वशरीरचरः शुक्रसारवत्, धात्वग्निसहायश्च। तद्विवरणं आशयखण्डान्ते वक्ष्यामः।
** सूक्ष्मनिर्माणं** तु अग्न्याशयस्य अणुवीक्षणयन्त्रसहायेन चक्षुषा दृश्यम् (१६१ चित्रम्), लालाग्रन्थिनिर्माणवत्। लक्ष्यन्ते हि उभयोरन्तः शून्यस्थानानि विशिष्टरसस्त्रावि-कोषाणुपुज्जैः परिवृतानि। ते चेह कोषाणुपुञ्जाःआग्नेयरसाख्यं रसं स्रवन्ति, स च रसस्तत्रतत्र सञ्चीयमानः सूक्ष्मैराग्नेयस्रोतोभिः ईषतस्थूलेषु द्वित्र-स्रोतःसु उपचीयते। तेभ्यश्च प्रवहन् स मुख्यया स्रोतोनलिकया ग्रहण्यांपतति (१५५ चित्रम्)। सन्ति चाग्न्याशयान्तरपरेऽपि कोषाणुपुञ्ज निःस्रोतस्काः, ते अग्निद्वोपाः720 नाम। तेभ्यो निःस्रुतो हि रसः सिराजालकैराकृष्टः सार्वकायिकरक्तप्रवाहे सञ्चरन् मांसधात्वग्निपोषणो भवति, मांसधातुस्थस्य ‘मधुरक’ स्य परिणामकरत्वात्। तं च निगूढरसं प्रतीच्यपरीक्षकाः ‘इन्सुलीन’721संज्ञया व्यपदिशन्ति, प्रयुञ्जते च पृथक्कृत्य त्वाचमार्गेण मधुमेहरोगे, तदापूरणेन तत्प्रतीकारः722 सुलभः – इति।
[ १६१ चित्रम् ]
अग्न्याशयस्य सूक्ष्म-निर्माणम्।
| <MISSING_FIG href="../../../books_images/U-IMG-1702304002Screenshot2023-12-11194220.png"/> |
[क-क— आग्नेयरसस्रावी कोषाणुपुञ्जः— मध्ये रससञ्चयाय शून्यस्थानयुतः।
अ - अग्निद्वीपः।स – आग्नेयरसस्य सूक्ष्मस्रोतः। ]
यकृत्723नाम बृहत्तमः प्रधानतमश्च घनकोमलग्रन्थिः (ईषद्गर्भ आशयो वा) शरीरे (१६९/१६२ चित्रयोः)। स उदरगुहायां दक्षिणानुपार्श्विकदेशे प्रच्छन्नो भूम्ना, प्रसृतश्च स्पर्शनयोग्यश्च हृदयाधरिकदेशे (क्वचिद् वामानुपार्शिवकदेशे च) स्तोकेन।
सोऽयम् बहिःस्निग्ध-मसृण-संहताकृतिस्त्रिकोणप्रायो ग्रन्थिर्महायतनः पक्कतालफलवर्णश्च। आच्छाद्यते चासौ बहिर्भागे प्रायः सर्वत्र प्रतनुना उदर्याख्यकलाभागेन अन्यत्र पृष्ठैकदेशात् (१६२।१६३ चित्रयोः)। तस्य च द्विगुणितकलानिर्मितस्य कोषस्य याकृतकोष इति संज्ञा। दैर्घ्यं तु यकृतो वितस्तिप्रमाणं प्रायेण। प्रस्थं मध्ये अष्टांगुलम् स्थूलत्वञ्च तत्र तावदेव। प्रान्तेषु तु तत् क्रमशस्तनूकृतत्वात् न्यूनम्।गुरुत्वपरिमाणं तु यकृतः पुंशरीरे-शतोत्तरविंशतितोलकादारभ्य सार्धशततोलकपर्यन्तं भवति। स्त्रोशरीरे तु शतोत्तरविंशतितोलकमेव किञ्चित्न्यूनं वा। तदायतनस्य ह्रासवृद्धी तु रोगकृते।
तस्य द्वे तले —ऊर्ध्वतलमधस्तलञ्च। द्वे धारे — पुरोधारा, पश्चिमधारा च। द्वे पिण्डे —दक्षिणं वामञ्च। द्वे पिण्डिके—दीर्घपिण्डिका, चतुरस्रपिण्डिका च। पञ्च सीताः, पञ्च प्रबन्धन्यः पञ्च आशयसम्पर्काश्च। तत्र तलद्वयं यथा—
** ऊर्ध्वतलं** कूर्मपृष्ठाकारं महाप्राचीरोदरस्थं तद् दक्षिणाभिमुखं पुरोबिलम्बिच बाहुल्येन। पुरस्ताच्च तदाच्छादन्यः षट् सप्त वा अधराः पर्शुकोपपर्शुकाः पर्शुकान्तरालाभिः पेशीभिरापूरिताः। दृश्यते च तत्रैव मध्ये यकृत्प्रबन्धनी नाम कलामयी बन्धनी, या वामदक्षिणयोः पिण्डयोर्यकृद् विभजते,धारयति च गर्भस्थशिशोः संबाहिनीं नाम महासिरां वर्णितपूर्वाम्।
** अधस्तलं** तु तस्य कोरोदरं वाम-पश्चिमाभिमुखं विशेषादुच्चावचञ्च, तत्र सोताबाहुल्यादाशयसम्पर्काच्च। पञ्च हि सीताः पिण्डविभजन्य इहैवाग्रे वक्ष्यमाणाः। आशयाश्च तद्वयतिकरेण दृश्याः पञ्चैव— आमाशयो, ग्रहणी, बृहदन्त्रस्य याकृतकोणः, साधिबृक्को दक्षिणबृक्कः, पित्तकोषश्चेति ।
धाराद्वयं च तस्य —पुरस्तात्, पश्चिमतश्च दृश्यम्। तत्र—
[ १६२ चित्रम् ]
यकृत् (सम्मुखतो दृष्टम्)
| <MISSING_FIG href="../../../books_images/U-IMG-1702127398Screenshot2023-12-09152334.png"/> |
| १— यकृतृपाश्विकी प्रबन्धनी | ३— दक्षिण पिण्डम् |
| २— दक्षिणा वामा च | ४— वामपिण्डम् |
पुरोधारा दक्षिणानुपाश्विकदेशस्थानां पर्शुकोपपर्शुकानामधोधारानुवर्त्तिनी तनुपत्राकारा। स्तोकेन खण्डिता च सा द्वयोरंशयोः पित्तकोषधारणाय दक्षिणतः, यकृत्प्रबन्धनीसंयोगाय च मध्यतः (१६१ चित्रम्)।
** पश्चिमधारा** पुनर्यृकृतः स्थूला गभीरखाताङ्किता च अधरमहासिराधारणाय।पिण्डद्वयं तु यकृन्निर्मापकम्। तत्र—
** दक्षिणपिण्डं724** बृहत्तरं दक्षिणानुपार्श्विकप्रदेशे पर्शुकादिभिः प्रच्छन्नं, वामपिण्डस्य षड्गुणायतनम्। तस्यैव वाम-पश्चिमसीमायामधरमहासिराधरं खातम्। अधस्तले च चत्वारि आशयस्पर्शलक्ष्माणि — अधिबृक्क-बृक्क-ग्रहणी- बृहदन्त्र-स्पर्शनसम्भवानि।
वामपिण्डं725लघुतरं, धारायां वटपत्राकारं, हृदयाधरिकप्रदेशस्थं च। तद् आमाशयमंशेन छादयति। तस्याधस्तले दृश्यमामाशयस्य अन्ननलिकासंयुक्तस्य स्पर्शकृतं खातम् ईषद्गभीरम्।
[ १६३ चित्रम् ]
यकृत् (पश्चिमतो दृष्टम् )
| <MISSING_FIG href="../../../books_images/U-IMG-1702308989Screenshot2023-12-11210522.png"/> |
| अधरा महासिरा | ६ |
| दीर्घपिणिडका | ७ |
| दक्षिणपिणिडम् | ८ |
| दीर्घसीता | ६ |
| द्वारसीता | १० |
| पित्तकोषः | ११ |
| १ | उदर्ययाऽनावृतः प्रदेशः |
| २ | अधिबृक्कस्पर्शजं खातम् |
| ३ | ४ |
| ५ | बृक्कस्पर्शजं खातम् |
[ १ । उदर्ययाऽनावृतः प्रदेशः। २। अधिबृक्कस्पर्शजं खातम् ।३।४। यकृद्बन्धन्याः पूर्वापरभागौ ।५। बृक्कस्पर्शजं खातम्। ६। ग्रहणीस्पर्शजं खातम् ।७। बृहदन्त्रकोणस्पर्शजं खातम्। ८। चतुरस्रपिण्डिका। ६। संवाहिनीसिरावशेषः। १०। पिण्डकूटम्। ११ । पिण्डयोजनिका । १२। वामपिण्डम्। १३ । आमाशयस्पर्शजं खातम् । १४। अन्ननलिकास्पर्शजं खातम्। ]
पिण्डिकाद्वयं तु यकृतः—
** चतुरस्रपिण्डिका726, दीर्घपिण्डिका727** चेति। ते यकृत्तले पिण्डद्वयस्यान्तराले पूर्वापरक्रमेणाऽवतिष्ठेते। तयोराद्यायाः पुरो दक्षिणतश्च दृश्यः पित्तकोषः। द्वितीयायास्तु पश्चाद् दक्षिणतो दृश्या अधरा महासिरा गभीरखातप्रविष्टा। पिण्डिकाद्वयान्तराले च दृश्या द्वारसीता प्रतीहारिणीसंज्ञकमहासिरादिधरा।
लक्षणीयश्चात्रद्वारसीतायाः पुरस्तात् दक्षिणपिण्डस्य चतुरस्त्रपिण्डिकया संयोजनोऽवयवः —पिण्डयोजनिका728 नाम।
** सीतापञ्चकं** पुनर्यकृत् पश्चिमतले स्फुटं दृश्यं H इत्यक्षरवदवस्थितम् । तत्र यकृद्द्वारगता मध्यस्थसीता-**द्वारसीता729नाम।तामाश्रित्य प्रविशति यकृद्भ्यन्तरे प्रतीहारिणी महासिरा। ‘याकृती’ —संज्ञा नाड़ी धमनी च निर्गच्छतस्तेनैव द्वारेण। पित्तस्त्रोतोनलिके च तत्ररसायनीभिः परिवृते। सोऽयं सिराधमन्यादिसङ्घातः ‘उदर्याख्य’- महाकलायाः स्तरद्वयेन याकृतकलाकोषेण च समन्तात् परिवृतो यकृद्वृन्तं नाम।
प्रान्तयोस्तु द्वारसीतायाः द्वे सीते — वामा दक्षिणा चेति। तयोर्वामा सीता सुदीर्घेण पूर्वां शेन पुरस्तले प्रसृता यकृत्पिण्डद्वयस्य विभजनी, तस्याः वामपूर्वेति, दीर्घसीतेति वा संज्ञा। पश्चिमांशेन पश्चात् प्रसृतस्तु वामसीतांशः गर्भस्थशिशोः सेतुसिराधारणः, तस्य वामपश्चिमेति, सेतुसीतेति वा संज्ञा। दक्षिणा पुनः सीता मध्ये नातिगभीरा। सा पूर्वार्धेन पित्तकोषधारणं नातिगभीरं खातम्, पश्चार्धेन च अधरमहासिराधरं गभीरखातमारचयति। तयोरंशयोः क्रमाद् दक्षिणपूर्वा, दक्षिणपश्चिमा चेति संज्ञा (१६२ चित्रम्)।
** यकृत्- प्रबन्धन्यः730 पुनः पञ्च कलामय्यः। तासां दीर्घा (मध्यमा वा) प्रबन्धनो पुरस्ताद् यकृत्पिण्डद्वयविभजनी। पार्श्विकप्रबन्धन्यौ च तत्संलग्ने तत्कार्येउभयतः, तिस्रश्च ताः पुरस्तात् परस्परसंयुक्ताः। पश्चिमप्रबन्धनी—महाप्राचीरया यकृत्पृष्ठ सम्बध्नाति। गर्भस्थशिशोः संवाहिनीसिराया अवशेषधरा त्वपरा, सा दीर्घायाःप्रबन्धन्या अनुवृत्तिरूपा पुरस्तादधश्च रज्जुरूपेण तां प्रबन्धनींनाभिमूलान्तं प्रबघ्नाति, तस्या रज्जुप्रबन्धनीति संज्ञा।
[आशयादिसम्पर्कास्तु यकृतो व्याख्याताः। पित्तकोषःपृथगिहैव व्याख्यास्यते]।
** सूक्ष्मनिर्माणं** पुनर्यकृतः क्षुद्राभिः कन्दिकाभिः सिरा-धमनी-जालकानु विद्धाभिः (१६३/१६४ चित्रयोः)। प्रतीहारिणी हि महासिरा शाखा-प्रशाखानु-शाखादिभिर्यकृन्मध्ये प्रसृता चरमैः शाखाप्रतानैः संवेष्टयति तास्ताः कन्दिकाः। तेषाञ्च सिराप्रतानानां **कन्दिकान्तरालाःसिराः731 —**इति संज्ञा। याकृती धमनी च
[१६४चित्रम्]
यकृतः सूक्ष्म-निर्माणम् ।
प्रतीहारिणीमहासिरायाः कन्दिकान्तराला शाखा (विदार्य दर्शिता )।
(तत्र अणुवीक्षणयन्त्रसहायेन चक्षुषा लक्षणीया विशेषाः)
| <MISSING_FIG href="../../../books_images/U-IMG-1702290762Screenshot2023-12-11160039.png"/> |
| अत्रोन्मुक्तानां शाखासिराणां मुखानि | याकृती सिरा |
| पत्तस्रोतः | कन्दिकान्तराला सिरा |
| याकृतकोषाणवः |
[१६५चित्रम्]
यकृत्कन्दिका-संस्थानम्
(अणुवीक्षणयन्त्रसहायेन चक्षुषा दृश्यम्)
| <MISSING_FIG href="../../../books_images/U-IMG-1702309366Screenshot2023-12-11211207.png"/> |
| कन्दिकान्तराला सिरा | कन्दिकाकेन्द्रणी सिरा |
| कन्दिकाकेन्द्रणी सिरा (परितश्च जालकम्) | कन्दिकान्तराला सिरा |
तथैव विभज्यते चरमैः शाखाप्रतानैः। तेषां प्रतानानां कन्दिकान्तराला धमन्यः इति संज्ञा। केन्द्रेषु पुनः कन्दिकानां दृश्यन्ते मुखानि सूक्ष्माणां याकृतसिराणाम्। ताश्च सिराः कन्दिकाकेन्द्रिण्योनाम।तासां पुञ्जीभावात् सम्भवन्ति याकृत्यः सिराः क्रमशः स्थूलतराः। तासामधरमहासिरायां प्रवेशः।
यकृत्कन्दिकाः732पुनः सूक्ष्माणां यकृद्वस्तुनिर्मापककोषाणूनां733 संघातमय्यः।
पित्तस्त्रोतांसि734 तु सूक्ष्मतमानि, कन्दिकान्तर्वर्त्तिभ्यःसिराधमनी—जालकेभ्यः सम्भूतानि, तत्सहचराणि च। तेषां परस्परसम्मेलनात् सम्भवन्तितनूनि पित्तस्रोतांसि, तानि कन्दिकान्तरालानां सिराधमनीनां सहचराणि। तेषां क्रमशः परस्परसंयोगात् सम्पद्यन्ते स्थूलानि पित्तस्त्रोतांसि। तेषां प्रधानयोर्याकृतपित्तस्रोतसोः परिणामः। ते यकृद्द्वारसीतायां स्फुटं दृश्ये। तयोश्चैकोभावात् सम्भूता याकृती नाम पित्तनलिकां। सा च ‘कौषिकी’ संज्ञकनलिकया ग्रहणीपार्श्वे मिलिता साधारणींपित्तनलिकां निर्मिमीते। तस्या मुखं ग्रहण्यन्तदृश्यम्।
** कार्याणि तु यकृतः** पञ्चविधानि—(१) अन्नरसस्य विविधभुक्तजस्य शोधनं, यथार्हपरिणमनं च। (२) पित्तनिर्माणम्। (३) ‘मधुरक’संरक्षणम्।(४) रक्तस्य रञ्जकवस्तुनिर्माणम्। (५) रक्तस्य स्कन्दनप्रद वस्तुनिर्माणञ्च— इति प्रतीच्याः। ओदनशर्करादिसम्भवो हि मधुरको735 नाम मधुरवस्तुविशेषो याकृतकोषाणुकेषु किञ्चिद्विपरिणतस्तत्रैव संरक्ष्यते, मांसादिधातूनां (सति धातुक्षये ) व्यवहाराय। स हि स्वभावाद् यकृति मांसधातौ चावतिष्ठते, परिणमति च शरीरप्रचेष्टनेन। मूत्रस्य प्रधानांशश्च आमिषादिपरिणामजो736यकृत एव सम्भवति।शोणितस्य शोणिमप्रदं रञ्जकपित्तं737 च यकृत्प्लीहोः सम्भवतीति प्राञ्चः738 पाण्डुरोगे यकद्भक्षणेन रक्तनिर्माणं भवतीत्याविष्कृतं प्रतीच्यैरपि। तेषु केचित् (e.g. Wright) यकृतो रक्तकणिका निर्मापकत्वमपि स्वीकुर्वते। प्लीह्निरक्तकणिकानिर्माणं तु पुराऽपि स्वीकृलमेव तैः।")।
अथ पित्तकोषः।
पित्तकोष739ःनाम क्षुद्रतुम्बीसमाकार ऊर्ध्वमुखः कोषो यकृदधस्तले संलग्नः (१६५ चित्रम्)।तस्य तलभागो यकृत्-पुरोधारास्पर्शी नवमोपपर्शुकापुरोभागस्य कोणे वर्त्तते, स विदारितोदर स्तोकेन पुरस्ताद् दृश्यः।अनुभवयोग्यश्चासौ पित्तकोषस्य व्रणशोथे, विवृद्धौ च। ऊर्ध्वभागस्तु तस्य मरालग्रीवावद् वक्रीभूतमुखो यकृद्द्वारसीतां यावत् प्रसृतः। तत्र च नलिकारूपेण परिणतमस्य मुखं प्रतिहारिणीं महासिरामनुवर्त्तते, गच्छति चाधोमुखं ग्रहणीप्रवेशाय।
तस्य दैर्घ्यं पञ्चषांगुलपरिमाणम्, प्रस्थं मूले द्वित्रांगुलं, मुखे तु सार्धांगुलमंगुलमात्रं वा। स्वाभाविकमायतनं त्रिचतुरतोलकपरिमाणस्य पित्तस्य धारणक्षमम्। निर्मीयते चासौ स्नायुतन्तुभूयिष्ठैः स्वतन्त्रमांसतन्तुभि-रुदर्यकलाच्छादितैः। अभ्यन्तरतश्च तदावरणी कला सर्पनिर्मोकवद् विचित्रवलीकदम्बकाचिता। सेयं पित्तकोषनलिका740 (कौषिकी नलिका वा) शरेषीकापरिणाहा द्वित्रांगुलदीर्घायाकृत्या पित्तनलिकया741ऽनुबध्यते ग्रहणोपृष्ठतः। मिलितयोश्च नलिकयोः
[ १६६ चित्रम् ]पित्तकोषः पित्तनलिकासहितः।
(विदार्य दर्शितः —स्वाभाविकायतनः)
| <MISSING_FIG href="../../../books_images/U-IMG-1702309737Screenshot2023-12-11211818.png"/> |
| साधारणी पित्तनलिका (उन्नमय्य दर्शिता) वस्तुतस्तु अधोमुखी सा ग्रहणीमभिगता | कौषिकी पित्तनलिका (आवर्त्ताङ्किता) |
| याकृती पित्तनलिका (परावृत्य दर्शिता) | पित्तकोषनलिकायाः स्वाभाविकस्थान-दर्शिका रेखा |
| पित्तकोषान्तःस्था वलीराजियुक्ता कला | पित्तकोषस्य मांसकलामयंप्राचोरकम् |
पित्तप्रसेकः इति साधारणी पित्तनलिकेति742वा संज्ञा। अवस्थानवैचित्र्याच्चयकृन्निःस्रुतस्य पित्तस्य पित्तकोषे सञ्चयः, सद्यःस्त्रुतिर्वा यथाप्रयोजनं ग्रहण्याम्। याकृतपित्तविकृतौ पित्तकोषस्य व्रणशोथे वा पित्तरोचनाश्च743 बहुधा तत्र सम्भवन्ति मानुषाणां, गवां पित्तेषु रोचनावत्। सच रोगः शूलकामलादिकरः सिद्धान्तनिदाने वर्णितः।
** पित्तस्रावस्य परिमाणं** तु पुंसामहोरात्रेण षट्पलादारभ्य दशपलपर्यन्तं भवति प्रायः। स्त्रीणान्तु—तत् पलमात्रेण न्यूनम्। प्रयोजनं पुनः पित्तस्त्रावस्य स्वकीयक्षारत्वेन आमाशयाद् ग्रहण्यामागतस्य अम्लीभूतभुक्तस्य अम्लत्वनिवारणं, स्नेहानां क्षारमिश्रणेन सुपचत्वसम्पादनं, अन्नविषनिष्कासनञ्च। न तु साक्षादन्नपाचकत्वमस्य पित्तस्य नीलपीतादिवर्णस्य744, मलभूतत्वात्।
अथ प्लीहा।
** **प्लीहा745 नाम निःस्त्रोतस्कग्रन्थिषु बृहत्तमो मुख्यो ग्रन्थिः (१६७ चित्रम्) उदरगुहायां वामानुपार्श्विकभागे प्रच्छन्नः। स प्रायेण सप्ताष्टांगुलदीर्घः, चतुरंगुलप्रस्थः द्व्यंगुलस्थूलः, किञ्चिद्विवृत्तकायः, स्थूलकपालिकाकारः पक्कजम्बूफलश्यामलश्च। तस्य गुरुत्वपरिमाणं प्रायेण पञ्चदशतोलकमात्रम्। ज्वरादिहेतोस्तु तस्य आयतनं गुरुत्वञ्च क्रमाद् विवर्धते। प्लीहोदरे746 पुनः स एवाभिप्रवृद्ध आवंक्षणं प्रसृतः प्रायः समग्रामपि उदरगुहामधिकरोति।
एष चास्य प्रकृतिस्थस्य व्यतिकरः। पुरस्ताद् दक्षिणतश्च प्लीह्नः—आमाशयस्कन्धः। पश्चाद् ऊर्ध्वञ्च महाप्राचीरा नाम पेशी नवम-दशमैकादशवामपर्शुकाभिः सम्बद्धा। अन्तःसीम्नि चास्य खातं प्लीहद्वारम्747नाम। तत्र दृश्या अभिप्लीहिका धमनी, प्लैहिकी सिरा च। तदधस्ताद् अग्न्याशयपुच्छम्। अधोधारा त्वस्य त्रिकोणप्राया बृहदन्त्रस्य प्लैहिकं कोणं स्पृशति।
सोऽयं सर्वतोऽपि उदर्याख्यकलयाऽच्छादितः प्लीहा तिसृभिः कलामयबन्धनीभिर्यथास्थानमभिरक्ष्यते। तासामाद्या प्लीहामाशयिका748 नाम बन्धनी आमाशयस्कन्धेन प्लीह्नःप्रबन्धनी। द्वितीया प्राचीरबन्धनी749** **प्लीहप्राचीरिका
[ १६८ चित्रम् ]
प्लीहः(परावृत्य दर्शितः)।
| <MISSING_FIG href="../../../books_images/U-IMG-1702810862Screenshot2023-12-17162829.png"/> |
| पश्चिमोत्तर कोणः | |
| बृक्कस्पर्शी प्रदेशः | आमाशयस्पर्शी प्रदेशः |
| प्लैहिकी सिरा | अग्न्याशयस्पर्शी प्रदेशः |
| अभिप्लीहिका धमनी | बृहदन्त्रकोणस्पर्शीप्रदेशः |
| पश्चिमाधरकोणः |
[ १६८ चित्रम् ]
प्लीहः सूक्ष्म निर्माणम् ।
| <MISSING_FIG href="../../../books_images/U-IMG-1702811018Screenshot2023-12-17163301.png"/> |
| प्लैहिसिरा | आभिप्लीहिका धमनी |
चित्रव्याख्या—धमनीयं प्लीहवस्तुमध्ये विस्फारं गतेति लक्षणीयम्।सिरा-धमन्योः शाखाप्रशाखाभिर्जालकनिर्माणं प्लीहवस्तुनि लक्ष्यभू, अन्तरालेषु च जालकानामीषच्छुभ्राः ‘प्लीहवालुकाः’ ।
नाम, सा महाप्राचीरापार्श्वेन प्रबध्नाति प्लीहानम्। तृतीया बृक्कलोहिका750नाम, या प्लीहो वामबृक्केण प्रबन्धनी।
सिरा-धमनी-रसायन्यः पुनः प्लीह्नो यथास्थानं वर्णितपूर्वाः। नाड्यस्तु—भूम्ना मणिपूरचक्रतः सम्भूताः, प्राणदाख्यनाड़ीप्रभवाश्च।
सूक्ष्मनिर्माणं तु प्लोह्नःविनाप्यणुवीक्षणयन्त्रेण कथञ्चिद् दृश्यं सामान्यतः, विशेषतस्तु अणुवीक्षणयन्त्रसहायेन चक्षुषा। तत् चेदृशम्। अभिप्लीहिका धमनी प्लीह्निप्रविष्टा स्फारायतना भवति, प्रसरति च सूक्ष्माभिः शाखाप्रशाखाभिः।ताश्च सूक्ष्मेषु जालकेषु विभज्यन्ते, जालकानि च विशिष्टकोषाणुसंघातमयानि प्लोहवस्तूनि संवेष्ट्य स्थितानि प्लोहाभ्यन्तरं मधुचक्रवद् विभजन्ते। तेषु च जालकेषु शोणितस्य रक्तकणिकाः श्वेतकणिकाशच प्राचुर्येणोपलभ्यन्ते। यथा च—रसग्रन्थिषु दृश्यन्ते वालुकाकणवत् कणकाः तद्वदिहापि ‘प्लीहवालुकाः’ नाम कणकविशेषाः स्थूलतराः। किञ्च, मधुचक्रवन्निर्माणवैशेष्यात् न स्थिरं प्लीहायतनं जीवच्छरीरे। तद्धि ह्रसतिवर्धते च नियतं काले काले रक्तप्रवाहस्य अल्पत्वाद् भूरित्वाद् वा। अत एव यावदायतनः प्लीहा मृतकशरीरे, नाऽसौ तथा जीवच्छरीरे। वस्तुतस्तु स्वस्थे जीवच्छरीरे चतुर्गुणायतनः सः मृतकशरीरस्थप्लीहापेक्षया—इति विशेषविदः। जीर्णविषमज्वरादौ तु स भृशं वर्धते, आच्छादयति च कदाचित् सर्वानप्पुदर्याशयान्।
प्लीह्नःकार्याणि तु इत्थमुपदिशन्ति परीक्षकाः। (१) रक्तकणिकानां श्वेतकणिकानां च यथाप्रयोजनं निर्माणम्। (२) तासां सञ्चयनञ्च स्ववस्तुनि सर्वकायरक्तसंवर्धनाय।यथा हि —दुर्गान्तःसमेताः सेनाः काले काले निष्कम्य दुर्गबहिःस्थसैनिकानां साहाय्यं विदधते सति प्रयोजने, तथैव प्लीहसञ्चिताः श्वेतरक्तकणिकाः बहिःस्थानां तादृशकणिकानां साहाय्यकारिण्यः। (३) विध्वंसनञ्च जीर्णानां श्वेतरक्तकणिकानाम् तत्रैव। (४) व्यापादनञ्च रक्तप्रवाहप्रविष्टानां रोगकरजीवाणूनाम्।
सुश्रुताद्याचार्यास्तु शोणितस्य रक्तवर्णप्रदं रञ्जकपित्तं प्लीह- यकृतोः सम्भवतीत्याहुः। तच्च न विरुध्यते पूर्वाक्तसिद्धान्तेन।
इदञ्चात्र स्मर्त्तव्यम्। प्लीह्निसमुत्पन्नाः श्वेत-रक्तकणिकाः प्लेहिकीसंज्ञया सिरया प्रतीहारिणीं महासिरां प्रविशन्ति, ततो यकृदभ्यन्तरम्, ततश्च अधरां महासिराम्, ततश्च हृदयम्।
चतुर्थोऽध्यायः।
**अथातो मूत्र-गर्भ-प्रजननयन्त्र751वर्णनीयमध्यायं व्याख्यास्यामः। **
इह खलु मूत्रोत्पादन-निष्कासन-यन्त्राणि मूत्रणयन्त्राणीत्युच्यन्ते। शुक्रार्त्तव धारण-निरसन-गर्भोत्पादन-यन्त्राणि तु प्रजननयन्त्राणि। तेषां सम्बन्धोऽतिघनिष्ठः, परस्परसन्निकर्षात्, परस्परापेक्षित्वाच्च।
तत्र बृक्कौ, गवीन्यौ, वस्तिर्मूत्रप्रसेकश्चेति मूत्रनिर्माणनिरसनयन्त्राणि। प्रजननयन्त्राणि तुं पुंसां शिश्नः, वृषणौ, शुकवाहिन्यौ, शुक्रप्रपिके चेति, तत्पारिपार्शिवकश्च पौरुषग्रन्थिः शिश्नमूलिकग्रन्थिद्वयसहितः। स्त्रीणां प्रजननयन्त्राणि पुनः—योनिः, गर्भाशयः, बोजकोषौ, बीजवाहिन्यौ चेति, तत्पारिपार्श्विकञ्च योनिद्वारिकं ग्रन्थिद्वयम्।
अथ बृक्कौ गवीन्यौ च।
** **बृक्कौ752 नाम —महाशिम्बीवीजसमाकारे मुख्ये मूत्रनिर्माणयन्त्रेस्त्रीपुंसयोस्तुल्ये (१६९चित्रम्)। तयोरवस्थानमुदर-गुहायां कटिप्रदेशे पृष्ठवंशमुभयत एकादश-द्वादशपर्शुकयोरुपकण्ठे। तत्र दक्षिणबृक्कस्य स्थितिर्वामबृक्कात् स्तोकेन निम्नतरा, दक्षिणपार्श्वे यकृदवस्थानात्। उदर्याकला च बृक्कयोः पुरःस्थैव (न परितश्छादनी)।
एकैकस्य च बृक्कस्य धनुर्वक्राबहिर्धारा कटिपार्श्वाभिमुखी, सा कटित्रिकोणाख्येन पेश्यन्तरालेन753स्पर्शनयोग्या। अन्तर्धारा तु मध्ये खाताङ्किता पृष्ठवंशाभिमुखी च। तच्च खातं बृक्कद्वारं754 नाम। तत् संश्रित्य प्रविशन्ति अनुबृक्का नाम धमनी पञ्चषासु शाखासु विभक्ता, नाड्यश्च बृक्कान्तः प्रसर्पिण्यः। निर्गच्छन्ति च तेनैवद्वारेण बृक्कप्रभवाः सिरा रसायन्यो गवीनो च।
(व्यतिकरः) उदरगुहायां पृष्ठवंशमुभयतो मेदः पुञ्जपरिवृतयोर्बृक्कयोः आशयान्तरसम्पर्कः उक्तपूर्वः यकृत्-प्लीह वर्णने (१६३/१६७ चित्रयोः)। स्पृशति हि दक्षिणबृक्कः पुरस्ताद् यकृद्दक्षिणपिण्डं, ग्रहण्या अधरभागम्, आरोहि बृहदन्त्रञ्च।वामबृक्कस्तु प्लीहानम्, अम्न्याशयपुच्छं, स्तोकेन आमाशयम्, अवरोहि बृहदन्त्रं चेति। पश्चिमतस्तु उभावपि स्पृशतः एकादश-द्वादशाख्यं पर्शुकाद्वयं, महाप्राचीराया मूलद्वयं, कटिलम्बिन्यौ, कटिचतुरस्त्रे च पेश्यौ।
[ १६९चित्रम् ]
वामवृक्कः (अनुलम्बच्छेदेन दर्शितः )।
| <MISSING_FIG href="../../../books_images/U-IMG-1702813385Screenshot2023-12-17171101.png"/> |
| गवीन्या उपरि द्विगुणीभूतो बृक्ककोषः | बहिर्वस्तु |
| गवीनीग्रीवा | शिखरिकाऽग्रवेष्टनम् आलवालिकाद्वयम् |
| गवीनी | शिखरिकाग्रम् |
| अन्तर्वस्तुनि शिखरिकामुकुलम् | गवीनीमुखस्था चञ्चुः |
| बृक्कद्वारम् (गवीनीचञ्चुवाह्यांशः ) | [× बृक्कालिन्दः] |
अधिबृक्कौ755नाम निःस्त्रोतस्कौ ग्रन्थी त्रिकोणप्रायौ बृक्कशिखरयोः सम्बद्धौ (१७० चित्रम्)। तयोर्दक्षिणस्य यकृदधः प्रदेशेन, वामस्य च प्लीहाधःप्रदेशेन स्पर्शः। तयोर्निर्माणादिवर्णनं निःस्रोतस्कग्रन्थिवर्णने करिष्यामः।
** निर्माणं** पुनर्बृक्कयोरनुलम्बच्छेदेन स्फुटं दृश्यं स्थूलतः। सूक्ष्मनिर्माणन्तु अणुवीक्षणयन्त्रसहायेनैव चक्षुषा।
तत्र बृक्कच्छेदेन स्थूलतो लक्षणीयानि—बृक्कवस्तु, बृक्कद्वारं, बृक्कालिन्दः, बृक्ककोषश्चेति (१६६ चित्रम्)। तत्र—
(१) बृक्कवस्तु बृक्कस्य स्थूलोपादानभूतम्। तद् द्विविधम् —बहिर्वस्तु अन्तर्वस्तु चेति। तत्र — (क) बहिर्वस्तु756बृक्कस्य बाह्यपरिधिभागनिर्मापकम्। (ख) अन्तर्वस्तु757अभ्यन्तरतो रेखावल्यङ्कितं, बृक्कद्वाराभिमुखीभिः शिखरिकाभिरुपलक्षितञ्च।शिखरिकाणां स्थूलमूलानि बहिर्वस्तुप्रतिबद्धानि। अग्राणि तु पुष्पमुकुलाकाराणि बृक्कालिन्दाख्ये शून्यभागे दृश्यानि।
[ १७० चित्रम् ]
बृक्कद्वयस्य गवीन्योश्च व्यतिकरः।
(उदरं विदार्य अन्त्राणामपसारणेन दर्शितः )
| <MISSING_FIG href="../../../books_images/U-IMG-1702813927Screenshot2023-12-17172011.png"/> |
| उदर्या कला | अधि० |
| बृक्कः |
\अधि०—अधिबृक्कः। ग— गवीनी। १। महाप्राचीरिका धमनी (कर्त्तितमूला)।२।उत्तरान्त्रिकी धमनी। ३।अधारान्त्रिकीधमनी। ४। अनुबृक्के सिरे धमन्यौ च। ५। अधरा महासिरा।६।महाधमन्याश्चरमविभागस्थानम्। ७। अनुत्रिकिणो सिरा धमनी च। ८।वस्तिबन्धनं रज्जुकात्रयम् ।९। कटिप्रावरणी। १०। कटिचतुरस्रा पेशी। ११। कटिलम्बिनी दीर्घा पेशी।१२।वस्तिशीर्षम्।
(२) [बृक्कद्वारं758 नाम बृक्कान्तः परिधिस्थं खातं, यत्र संयुज्यते गवीनीशीर्षम्।
(३)बृक्कालिन्दः, (गवीनीशीर्षकं वा)759 नाम बृक्कद्वारे स्फारीभूयावस्थितो गवीन्याः शीर्षभागः बृक्ककोषाख्यस्थूल-कलया परिबृतः। तत्र सञ्चीयन्ते बृक्कशिखरिकाग्रैःशनैः शनैर्निः स्रुता मूत्रविन्दवः।दृश्यन्ते च तत्र बृक्कशिखरिकाणां दश द्वादश वा मुकुलाग्राणि, तानि कलामयीभिःआलबालिकाभिर्वेष्टितानि। तासां च प्राचीराणि गवीनीप्राचीरानुबन्धीनि (१६९चितम्)।
(४) बृक्ककोष760ःनाम एकैकं बृक्कमभितः संलग्नं स्थूलकलामयं प्रावरणम्। कला च सा बृक्कद्वारोपकण्ठे समूहिता बृक्कद्वारमवनाह्य बृक्कालिन्दस्य परिसरं निर्मिमीते, ततश्च प्रत्याबृत्ता गवीनीशीर्ष प्राबृणोति।
** सूक्ष्मनिर्माणं तु** बृक्कस्याऽतिविचित्रम्।बुक्कपरिधिस्थं दि बहिर्वस्तु मूत्रनिर्मापकैः सूक्ष्मैर्वर्त्तुलप्रायै-र्जालकमयैःयन्त्रकैरेव भूम्ना निर्मितम्। तेषां मूत्रोत्सिका761इति संज्ञा, उत्सवद् अजस्रं वारिप्रभवत्वात्। नवतिसंख्याश्च ता अङ्गुलमात्रेप्रदेशे प्रायः। ताः ऋजुकाख्यानां सूक्ष्मसिरा-धमनीनामन्तरालेषु सूक्ष्मतरशाखाधमनीभिरालम्बिताः फलगुच्छवद् अवतिष्ठन्ते (१७१ चित्रम्)।
एकैकाञ्च उत्सिकां प्रविशति एकैका सूक्ष्मा धमनी गुच्छमुखी। तां च वर्त्तुलप्राये गुच्छे परिणतां प्रावृणोति विचित्रनिर्माणं कलामयं पुटकम् उत्सिकपुटकं762** **नाम। पुटकान्तश्च शनैः शनैः सूक्ष्मकणैःक्षरति शोणितस्य त्याज्यभाग आप्यो मूत्रंनाम। तद् उत्सिकापुटकनिर्गतेन सूक्ष्मेण मूत्रवहस्रोतसा बृक्कान्तनीयते। उत्सिकापुटकेभ्यो निर्गतानि च मूत्रस्रोतांसि क्षुद्रान्त्रवत् प्रसृतानि सर्पगत्या केन्द्राभिमुखं प्रवर्त्तन्ते। एवञ्च प्रतिस्रोतो दृश्याश्चत्वारो भागाः — (१) आद्यकुण्डलिकाभागः763 (२) पाशभाग764ः, (३) अन्त्यकुण्डलिकाभागः765, (४) ऋृजुभागः766चेति। परस्परपार्श्वस्थानि च ऋजुत्रोतांसि बृषकशिखरिकाणां निर्माणाय कल्पन्ते। तेषामन्त्रवत् प्रसर्पणाद् आन्त्राणीति767संज्ञा768
प्राचाम्।
एकैकस्याश्च उत्सिकाया मूत्रभागोत्सर्गावशिष्टं रक्तं विनिवर्त्ततेसूक्ष्मसिरया ततो निर्गतया। एवमुत्सिकाभ्यो निःसृताः सूक्ष्मसिराः परस्परमिलिताः
[ १७१ चित्रम् ]
बृक्कस्य सूक्ष्म-निर्माणम्।
(अणुवीक्षणयन्त्र सहायेन चक्षुषा दृश्यम्)
| <MISSING_FIG href="../../../books_images/U-IMG-1702814279Screenshot2023-12-17172606.png"/> |
| उत्सिकापुटकम् | बहिर्षस्तु |
| मध्यसीमा | अन्तर्वस्तु |
| शिखरिकाग्रस्थ-मूत्रस्रोतोमुखानि |
[ ध १— उत्सिकाप्रवेशिनी ‘गुच्छमुखी’ धमनी। स १— उत्सिकाविनिगता सिरा। स० जा० — सिराजालकम्। स २ — ऋृजुका सिरा। स२ — ऋजुका धमनी। ध २ —स्थूलतराधमनी।सि— स्थूलतरा सिरा।जा० — सिराधमनीजालकम्। १ — उत्सिकापुटकान्निर्गत — मान्त्राख्यमूत्रस्रोतसो मुखम्। २ — तस्यैव अद्यकुण्डलिका। ३—४—५— तस्यैव पाशाकारो भागः। ६—७— तस्यैव अन्त्यकुण्डलिका।८— बृक्कान्तरीयम् ऋृजु मूत्रस्रोतः। ९—बृक्कान्तरीयंचरमं स्थूलतरं मूत्रस्रोतः।]
धमनीसहचरीः सिराः प्रविशन्ति। ता अपि मूत्रवहस्रोतसांबृक्ककेन्द्राभिमुखाणामनुवर्त्तिन्यः क्रमात् सङ्घीभूय बृक्कप्रभवासु स्थूलसिरासु परिणमन्ति। ताश्च अनुबृक्काभ्यां सिराभ्यामधरां महासिरां प्रविष्टाः।
इदञ्चात्र विशेषेण लक्ष्यम् — अनुबृक्का-धमन्याः चरमानुशाखाः बृक्कबहिर्वस्तुनि, सरलद्रमशाखा इव फलवत्यः, उभयतोऽवस्थिताः उत्सिका धारयन्ति पुष्णन्ति च शाखाप्रतानैः। ता हि ऋजुकां नाम धमन्यः। सन्ति च तत्पार्श्ववर्त्तिन्यः तादृश्य एव ऋजुका नाम सिराः769उत्सिकाभ्यो विनिर्गतानां सिखणां संग्राहिण्यः। न च प्रसिच्यते मूत्रेण सह रक्तस्था लसीका, अन्यत्र बृक्करोगात्। तत्र हेतुरुत्सिकावरणानां पुटकानामाभ्यन्तरकला प्रभाव एव।
आन्त्राख्याणां मूत्रस्त्रोतसां संनिवेशस्तु उत्सिकाराजीनामन्तरालेषु बृक्कान्तर्वस्तुनि दृश्यः। तासां क्रमशः ऋृजु-स्थूलीभूतानां मुखानि शिखरिकाग्रेषु दृश्यन्ते।
गवीन्यौ770नाम बृक्काभ्यां निर्गतस्य मूत्रस्य मूत्राशयप्राप्तिसाधने (१७० चित्रम्)। तयोरेकैकस्या शीर्षं वक्रीभूतधत्तूरपुष्पसदृशंबृक्कालिन्दसंलग्नं, पञ्चषाभिश्चञ्चुभिरुपलक्षितञ्च। ते तिर्यगधो गत्वा क्रमेण संकुचितविवरे वस्तिमभि प्रसर्पतः। तयोरेकैका प्रायेण विंशत्यंगुलदीर्घा हंसपक्षनलिकापरिणाहा, तिरश्चीनगत्या पृष्ठवंशपुरस्ताद् महासिराधमन्यावुल्लंघ्य श्रोणिगुहायामवतरति। उन्मुच्यते च तस्या द्वारं वस्तेः पश्चादेकैकस्मिन् पार्श्वे। तस्य गवीनीद्वार771**-**मिति संज्ञा।
निर्माणञ्च गवीन्या अनुदैर्ध्यमवस्थितैः स्वतन्त्रपेशीतन्तुभिः अन्तर्बहिश्च कलावृतैः। तत्र बाह्या कला स्थूला बृक्ककोषानुषङ्गिणी।
गवीनीनिर्माणवैशेष्याञ्चैबृक्कालिन्दे सञ्चिता मूत्रक्षारजाः सिकताः गुडिकाकारेण कदाचिद् निरुन्धन्ति गवीनीमार्गम्। तेनाश्मरीशूलाख्या772ःतीव्ररुजः प्रादुर्भवन्ति पेशीतन्तुसंकोचात्, विनश्यन्ति च ता गुडिकावतरणेन।
पोषणं पुनबृक्कयोः गवीन्योश्च इत्थं संपद्यते महाधमन्या अनुबृक्काख्यशाखानुशाखाभिः। अनुबृक्के हि धमन्यौ महाधमन्याः पार्श्वाभ्यांसंभूय पृष्ठवंशस्य पुरस्ताद् अधरमहासिरापृष्ठे चोभयतः प्रसृते बृक्कौ प्रविशतः बुक्कद्वारद्वयमाश्रित्य। तयोरेकैका पञ्चषासु शाखासु विभज्यमाना प्रतनुभिः शाखाभिः स्वपार्श्ववर्त्तिबृक्कमधिबृक्कं गवीनीञ्च तर्पयति। अवशिष्टाश्च शाखाः बृक्कान्तः प्रविष्टा बृक्कान्तर्वस्तुनि बृक्कपोषणीषु सूक्ष्मधमनीषु परिणमन्ति। तासां सूक्ष्मतमाश्चरमशाखाः ऋृजुका नाम धमन्य उक्तपूर्वाः। ता गुच्छमुखीभिर्धमनीभिरुत्सिका रचयन्तीति व्याख्यातपूर्वम्। अधिबृक्कयोस्तर्पणन्तु उत्तर-मध्यमाऽधराभिः अधिबृक्किणीसंज्ञाभिर्धमनीभिः। गवीनीपोषण्यो धमन्यस्तु अनुबृक्काभ्यां धमनीभ्याम् अनुवृषणिकाभ्याञ्च सम्भूताः, क्वचिद् वस्तिगाख्यधमनीशाखाभ्यश्च।
सिराः पुनर्बृक्कयोः धमनीनामनुसारिण्यः प्रायः। तत्र विशेषः— उत्सिकाभ्यो मूत्रक्षरणावशिष्टं रक्तं वहन्त्यस्ताः सूक्ष्मसिराजालेषु परिणम्य पुनः ऋृजुसिरासु परिणमन्तीति। अधिबृक्कगवीन्योः सिरास्तु धमनीसहचर्यः प्रायेण।
नाड्यः पुनर्बृक्काधिबृक्कगवीनीनामधिवस्तिकनाड़ीचक्रप्रभवाः, द्वितीय-तृतीय-चतुर्थानुत्रिकनाड़ीप्रभवाश्च।
अथ वस्तिः (१७०।१७२ चित्रयोः)।
**
**वस्तिः773 द्रष्टव्यम्।"), मूत्राशयो वा नाम —क्षुद्रालाबुफलसमाकारो मूलाधारो वस्तिगुहायां भगास्थिसन्धिपृष्ठतोऽवस्थितः। स पुंसो गुदनलकस्य पुरोवर्त्ती, स्त्रियास्तु योनिगर्भाशययोः। आच्छाद्यते चासौ ऊर्ध्वं पश्चिमतश्च किञ्चिन्मात्रमुदर्यया कलया774। सम्बध्यते च वस्तेरुध्वं तनुशिखाकारा कलामयी प्रबन्धनी आ-नाभि प्रसृता, सा वस्तिशीर्षबन्धनीति775नाम।तदाकृष्टस्य वस्तिशिखरस्य च ‘वस्तिशिरः’संज्ञा प्राचाम्। तदुभयोर्धारयोश्च दृश्ये संवाहिन्याख्यधमन्योरवशेषभूते बन्धनिके। तिसृणामपि तासां वस्तिरज्जुकेति776संज्ञा।
अस्ति च वस्तिद्वारं संवेष्ट्यावस्थितो ग्रन्थिःपौरुषग्रन्थिर्नाम। वस्तिपृष्ठतश्च एकैकस्मिन् पार्श्वे तिर्यगवस्थिते— शुक्रवाहिनी, शुक्रप्रपिका च। ते वस्तिद्वारोपकण्ठे परस्परमिलितमूले मूत्रप्रसेकान्तः शुक्रप्रसेकं रचयतः।
निर्माणं पुनर्वस्तेरामाशयवत्, त्रिधा सन्निविष्टैःस्वतन्त्रमांसतन्तुभिः। तैर्निपीड्यते मूत्रपूर्णो वस्तिर्मूलनिष्कासनाय। अभ्यन्तरतश्च वस्तेर्दृश्या बिचित्रवलिराजियुता कलामयी वृतिः वस्त्यन्तरोया नाम। त्रिकोणाकारश्च तत्र प्रदेशो वस्त्यन्तरीयं त्रिकोणं777 नाम।तस्योर्ध्वभागे उभयोः कोणयोर्दृश्ये
**[ १७२ चित्रम् ] **
वस्तेरभ्यन्तरम्।
( वस्तिं मध्ये विदार्यपूर्वार्धमधः परावृत्य दर्शितम् )
| <MISSING_FIG href="#"/><MISSING_FIG href="../../../books_images/U-IMG-1702815051Screenshot2023-12-17173931.png"/> |
| वलीराज्यः | मूत्रार्गलिका |
| दक्षिणा गवीनी | वस्तिद्वारम् |
| गवीनीद्वारम् | वस्तिशिरः |
| तस्यैव ऊर्ध्वधारा | वस्तिशिरः (अधःपातितं) |
| वस्त्यन्तरीयंत्रिकोणम् | वामा गवीनी |
गवीनीद्वारे, अधःकोणे तु मूत्रप्रसेकानुबन्धि वस्तिद्वारं क्षुद्रकलायिकाकारेणोत्सेधेनोपलक्षितम्। सेयं कलायिकामूत्रार्गलिका778नाम, या अर्गलमिव मूत्रद्वारं निरुणद्धि उत्थाप्यते च सा मूत्रणकाले पायुधारिण्याः पेश्याः सङ्कोचवशादिति केचित्।
मूत्रप्रसेकः779नाम —मूत्रवाहिनी कलामयी नलिका वितस्तिप्रमाणा, या पुंसो वस्तिद्वारात् शिश्नाग्रपर्यन्तं शिश्नाधोभागे मध्यरेखानुक्रमेण प्रसृता। तस्यास्त्रयो भागाः— आद्यो वस्तिद्वारिकः780."), मध्यो मूलाधारिक781.")ः, शेषः शैश्विकश्चेति782.")। तत्राद्योद्व्यङ्गलमात्रो वस्तिद्वारानुषङ्गी पौरुषग्रन्थिं मध्ये निर्भिद्य प्रसृतः। तदभ्यन्तरे चोभयतो दृश्ये शुक्रप्रसेकयोश्छिद्रे। मध्यभागोमूलाधारदेशे वर्त्तमानः प्रतनुकलामयाऽङ्गुलमात्रःस क्वचित् कलामयभाग इत्यपि संज्ञायते। तं संवेष्ट्य स्थिता मूत्रद्वारसङ्कोचनी पेशी। तदावरणी च औपस्थिकत्रिकोणच्छादनी स्थूलकला त्रिकोणप्रावरणी नाम। अथ चरमः शैश्निकभागः शिश्नाधःसंलग्नोदीर्घतमः। स आदावन्तेच किञ्चिदायतोदरो नवांगुलप्रमाणश्च दैर्घ्येण प्रायः। तस्य मूलभाग आयतो वर्त्तुलप्रायः शिश्नमूलस्थः। तद्वहिरुभयतो दृश्यौ कलायनिभौ ग्रन्थी शिश्नमूलिकौ नाम, तत्स्त्रोतसी च मूत्रप्रसेकान्तरुन्मुच्येते (१७३।१७४ चित्रयोः)।
स्त्रीणान्तु मूत्रप्रसेको द्वयंगुलमात्रः, स योनेः पुरःप्राचीरे सम्बद्धः शरेषीकापरिणाहः। तस्य द्वारं योनिद्वारस्योर्ध्वं पुरस्ताच्चभगशिश्निकाऽधो दृश्यम्।
अथ प्रजननयन्त्राणि।
इह खलु सर्वषां प्रजननयन्त्राणां प्रधानं गर्भोत्पत्तिकारणं ग्रन्थिद्वयम् स्त्रीपुंसयोः शरीरे। तत्र पुंसो बहिःस्थं तद् वृषणसंज्ञं शुक्रप्रभवम्, तत्स्स्रोतसी च
[ १७३ चितम् ] पौरुषग्रन्थिसहितः शिश्नः।
(निम्नदेशादवलोकितः)
| <MISSING_FIG href="../../../books_images/U-IMG-1702815472Screenshot2023-12-17174710.png"/> |
| पौरुषग्रन्थिः | तस्यैव शैश्निकभागमूलस्थो वृर्तुलंशः |
| मूत्रप्रसेकपार्श्विको ग्रन्थिः | शिक्षपार्श्विका पेशी |
| मूत्रप्रसेकस्य मध्यभागः | शिश्नपार्श्विको पेशी |
| मूत्रप्रसेकधरापेशी | शिश्नमणिः |
शुक्रवाहिन्यौ नाम। स्त्रियास्तु तादृशमेव ग्रन्थिद्वयमन्तर्निगूढ़ंगर्भाशयोभयपार्श्वस्थं बीजकोषसंज्ञं बीजार्त्तवप्रभवम्, तत्स्त्रोतसी च गर्भाशयपार्श्वयोः प्रतिबद्धे। गर्भाधानसाधनन्तु पुंसां शेफः, स्त्रोणां योनिः। गर्भाधारस्तु गर्भाशयः। तदेतद् बीजरूपं प्रजननयन्त्रवर्णनमुक्तम्, विस्तरोऽत ऊर्ध्वम्।
अथ पुंसां प्रजननयन्त्राणि।
शिश्नः, वृषणौ, शुक्रवाहिन्यौ, शुक्रप्रपिके, पौरुषग्रन्थिः, शिश्नमूलपार्शिवकं ग्रन्थिद्वयं चेति पुंसां प्रजननसहायानि यन्त्राणि। तत्र—
[ १७४ चित्रम् ]
शिश्नस्य अवयवविभागः।
| <MISSING_FIG href="../../../books_images/U-IMG-1702815733Screenshot2023-12-17175052.png"/> |
| शिश्नपार्श्निके पेश्यौ | मूत्रप्रसेकधरापेशी (आवयवविभागः) |
| शिश्नपार्श्निकयोः पेश्योर्मूलद्वयम् (भगास्थ्नोः संयुक्तम्) | शिश्नमुण्डम् |
[व—मूत्रप्रसेकधराया मूलस्थो वर्त्तुलभागः]
शिश्नः783नाम — मेढ्र-मेहनादिपर्यायं पुंसां मैथुनसाधनं यन्त्रं, मूत्रप्रसेकधरम्। तत् तिसृभिः पेशोभिर्दीर्घदण्डिकाकारा-भिर्निर्मितम्, प्रहृष्टदशायां त्रिधारदंडप्रायम्। ताश्च पेश्यःदृढ़स्नायुजालेन परस्परं निबद्धाः, उत्तेजनवशात्प्रहर्षणशीलाः।
तासां शिश्नपार्श्वयोः परस्परसंसक्ते प्राधान्येन शिश्ननिर्मापिके स्थूलमांसले पेश्यौ द्वे — शिश्नपार्शिवके784नाम (१७४ चित्रम्)। तयोमूलद्वयं भगास्थिसन्धानमुभयतः सम्बद्धम्। पेश्योरधस्ताञ्च मध्यरेखायां तु संसक्ता मृणालसंस्थाना अल्पमांसला पेशी मूत्रप्रसेकधरा785 नाम। सा मध्ये मूत्रप्रसेकाख्यं मूत्रमार्गंधारयति।
तस्याश्च मूत्रप्रसेकधराख्यपेश्याः पश्चिमभागो वर्त्तुलप्रायो मूलाधारप्रदेशस्थः। तं निर्भिद्य प्रविष्टो मूत्रप्रसैकः। तस्याश्व पेश्याःछत्राक786.") सदृशोऽग्रभागः शिश्नमुण्डं 787शिश्नमणिर्वा नाम, स शिश्नपार्श्विकाख्यपेश्योः पुरः प्रान्तच्छादनः।
[१७५ चित्रम्] शिश्ननिर्माणम्।
(अनुप्रस्थच्छेदेन स्थूलचक्षुषा दृश्यम्)
| <MISSING_FIG href="../../../books_images/U-IMG-1702815936Screenshot2023-12-17175351.png"/> |
| मूत्रप्रसेकः | ३ |
| मूत्रप्रसेकधरा पेशी | ४ |
| १ | शिश्नपृष्ठिकेसिराधमन्यौ |
| २ | कामसंवेदिन्यौ नाड्यौ |
तदेतत् शिश्नमुण्डं तनुमृदुलाऽरक्तकलया संवृतं समन्तादुच्छ्रितया चक्रनेमि तुल्यया धारया उपलक्ष्यते। तत्र च दृश्या गौरसर्षपाभाः पूतिरसस्त्राविणो ग्रन्थयः। सेयं धारा शिश्ननेमिका788 नाम। पश्चिमतश्च धाराया दृश्यं शिश्नग्रीवावेष्टनं खातंशिश्नकण्ठिका789नाम। शिश्नमुण्डं परितश्च स्थिता शिथिलकोमला शिश्नावरणी त्वक् शिश्नच्छदा790नाम, सा अभ्यन्तरतः तनुश्लेष्मलकलावृता स्वभावतः शिश्नमुण्डमावृणोति, प्रकाशयति च पश्चादाकृष्टा। अशिथिलीभूता तु सा निरुद्धप्रकशं791नाम रोगं जनयति शिश्नमुण्डस्य प्रकाशं निरुध्य। सैव परावृत्य दृढ़ीभूताशिश्नमुण्डस्य प्रावरणाऽसमर्था अवपाटिकाख्यं792 रोगमुत्पादयति।
अधश्च शिश्नमुण्डस्य मध्यरेखायां दृश्या शिश्नच्छदायाः प्रबन्धनसूत्रं शिश्नसेवनी793नाम (१७३ चित्रम्)।सा शिश्नमुण्डं द्विदलमिव विभजतेऽधस्तात्। तत्पुरतश्च दृश्यं बाह्यंमूत्रप्रसेकद्वारम्794, तत् शिश्न-मुण्डाभ्यन्तरेकिञ्चिदायतं, बहिश्च संकुचितमुखम्।
उभयतश्च शिश्नमूलम् उपस्थसङ्कोचनीसंज्ञे पेश्यौ मध्यरेखायां सेवन्या संयोजिते। अस्ति चापरा पेशी एकैकतः शिश्नमूले संयुक्ता शिश्नप्रहर्षणी नाम।सर्वाश्च ताः प्रावृणोति त्रिकोणप्रावरणो नाम दृढ़कला।सर्वास्ता उक्तपूर्वाः पेशीखण्डे (८२ चित्रम्)। उपरिष्टाच्च शिश्नच्छदापृष्टेदृश्याः —मध्ये शिश्नपृष्ठिका सिरा, उभयतश्च शिश्नधमन्यौ, तदुभयतश्च नाड्यौ कामसंवेदन्यौ नाम।
अस्ति च स्त्रीपुंसयोः उपस्थोपरिष्टाद् मृदुमेदुरः कोमलत्वगावृत उत्सेधः कामपीठं795 नाम, स यौवनारम्भात्प्रभृति तनुरोमजालैराच्छाद्यते।
अथ वृषणौ।
अत्रेमे परिज्ञेया विशेषाः—वृषणकोषः, वृषणग्रन्थी, अधिवृषणिके, वृषणबन्धन्यौ, शुक्रवाहिन्यौ चेति।तत्र—
वृषणकोषः796, अण्डकोषो वा—नाम शिथिलचर्मावृतस्थूलकलामयो बाह्यपुटकः, स-बन्धनोक-वृषणद्वयस्य सन्धारणः। तस्य च बाह्यचर्मपुटकमात्रस्य चर्मकोष इति संज्ञा। तदाभ्यन्तरस्य स्थूलकला-पुटकस्य तु दृढ़प्रावरणकलामयत्वात्प्रावरणकोष797 इति। स च मध्यस्थेन दृढ़कलामयप्राचीरेण भागद्वये विभक्तः। एकैकस्मिंश्च भागे दृश्यः एकैको वृषणग्रन्थिः, अण्डधरपुटकसंवृतः।
वृषणग्रन्थी798, मुष्कौ वा नाम—आम्रशलाटुनिभौ799 कुक्कुटाण्डसंस्थानौ वा ग्रन्थी, अधिवृषणिकाभ्यां सह अण्डधरपुटकान्तर्दृश्यौ (१७२ चित्रम्)। तयोरण्डाविति, आण्डाविति वा संज्ञामाचक्षते आथर्वणाः। तौ वृषणबन्धनीभ्यां सह वृषणकोषान्तस्तिष्ठतः। तयोरेकैकस्य परिमाणं तोलकद्वयम्। गर्भस्थशिशोस्तु तावेववस्तिगुहाभ्यन्तरमधितिष्ठतः, आ-सप्तममासात्। ततः क्रमाद् वंक्षणसुरङ्गापथेनावतीर्णौ तौ पुरःस्थया त्वचा प्रावरण्यादिसहितयाऽच्छादितौ वृषणकोषाभ्यां धार्येते। क्वचिदनवतीर्णौतु तौ गूढ़ाण्डं नाम पुमांसं जनयतः।
अस्ति हि प्रतिवृषणग्रन्थि तत्संसक्तं कलाकोषमयं पुटकम्। तदेकेन स्तरेण वृषणग्रन्थिमावृत्य अपरेण स्तरेण तद्धारणं निश्छिद्रकोषं निर्मिमीते। तस्य अण्डधरपुटकम्800 इति संज्ञा। स च गर्भस्थ-शिशोर्वृषणावतरणकाले वृषणेन सह पुरस्तादाकृष्टः उदर्याख्यकलांश एव पृथग्भूत इति सूक्ष्मद्वशः। तस्मिंश्च कोषे स्तरद्वयाभ्यन्तरे सञ्चीयमानं लसीकाभूयिष्ठं जलं उदकवृद्धिं801 नाम रोगं जनयति।
**[१७६ चित्रम्] **
वृषणग्रन्थिः (वृषणबन्धनी-सहितः)।
वृषणकोषापसारणेन आभ्यन्तरवृषणवृतीनां विदारणेन च प्रदर्शितः।
| <MISSING_FIG href="../../../books_images/U-IMG-1707068427Screenshot2024-02-04204759.png"/> |
| वृषणवन्धनी (मांसमय वृति सहिता) | अण्डधर पुटकम् |
| अधिवृषणिका | अधि १ |
| अधि २ | वृषणग्रन्थिः |
| पेशीमयः कोपः |
[अधि १। अधि २—अधिवृषणिकाया आद्यन्तभागौ। १।२— वृषणाधिवृषणस्थं स्वाभाविकविन्दुद्वयं यत् प्रयोजनं न ज्ञायते]
दृश्यन्ते च अण्डधरपुटकस्य बहिः स्तरसंलग्नानि कानिचित् पेशीसूत्राणि। तानि गर्भस्थ-शिशोरण्डावतरणकालेऽवतीर्णानि मध्यमायाः उदरच्छदाख्य-पेश्याः कतिचित् सूत्राणीति गर्भ-व्याकरणाभिज्ञाः। फलकोषकर्षणी नाम तनुसूत्रा पेशी च तन्निर्मिता वर्णितपूर्वा। सा च कलायुता वृषणस्य पेशीमयः कोषः802 इति केचित्।
अण्डधरपुटकान्तश्च दृश्ये द्वे पुटके अन्तरन्तः प्रविष्टे तयोराद्यः अण्डच्छदो803 नामाग्रेवक्ष्यमाणः। अपरःसूक्ष्मसिरा-धमनी-नाड़ी-रसायनीमयो जालकाकारः, स जालकपुटकं804 नाम। एवञ्च पुटकानां त्रयेण संवृतमेकैकमण्डुमिति स्मर्त्तव्यम्।
** **अधिवृषणिका805नाम एकैकस्य वृषणग्रन्थेः पार्श्वेसंलग्नः अर्धचन्द्रप्रायोऽवयवः (१७७ चित्रम्) यं प्रविशन्ति सूक्ष्माणि शुक्रवहस्रोतांसि अण्डशिखरदेशाद् विनिर्गतानि। सोऽयम् अतिदीर्घ-सूक्ष्म-शुक्रस्त्रोतसां लताशुङ्गा-
[१७७ चित्रम्]
वृषणग्रन्थेः सूक्ष्मनिर्माणम्।
| <MISSING_FIG href="../../../books_images/U-IMG-1705555386Screenshot2024-01-18105108.png"/> |
| वीर्यवाहिनी | अनुवृषणिकाख्य धमन्याः प्रशाखाः |
| अनुबृषणिकाधमनी | वीर्यवाहिनी |
| अधिवृषणिकायाः शिरोभागः | अधिबृषणिकायाश्वरमभागः |
| शुक्रस्रोतांसि |
[पु १—अण्डधरपुटकस्य परिेसरीयभागः।पु २—तस्यैव आशयिकभागः। पु ३—स्तरद्वयस्य अन्तरालस्थोऽवकाशः यत्रोदकवृद्धौ जलसञ्चयो भवति। शु० नि०—शुक्रनिर्मापक–ग्रन्थिवस्तूनि।]
वदावर्त्तवतां संघात एव यः सावधानमाकृष्य ऋृजूकृतः प्रायेण त्रयोदशहस्तदीर्घसूत्राकारोभवतीति विचित्रमेवास्या निर्माणम्। सेयमधिवृषणिका उपरिष्टात् स्थूलग्रन्थिनिभा,अधः प्रान्ते च तनूकृता वृषणग्रन्थिं क्रोड़ीकृत्य अवतिष्ठते। परिणामे सरलस्थूलनलिकाकारा च सशुक्रवाहिनी-संज्ञा भवति।
**वृषणबन्धन्यौ806**नाम—वृषणग्रन्थ्योरवलम्बनभूते स्थूलकोमले रज्जुकेवृषणकोषान्तः स्पर्शानुभव-योग्ये। तयोरेकैका वृषणपार्श्वाद् अन्तर्वंक्षणीयच्छिद्रं यावत् प्रसृता पञ्चाङ्गुलदीर्घा प्रायेण। अन्तर्वंक्षणच्छिद्रादूर्ध्वं तु वंक्षणसुरङ्गायां निगूढ़ावस्थिता सा बहिर्वंक्षणीयच्छिद्रेण वस्तिगुहां प्रविशति। सेयम् अनुवृषणिकाख्य सिरा-धमनी-रसायनीभिः गुदोपस्थिकनाड़ीचक्रसम्भवैः नाड़ीप्रतानैश्च परिवृता शुक्रवाहिन्येव। बहिरावृता च सा वृषणाकोषीय त्वचा प्रावरणी सहितया, फलकोषकर्षण्याख्य-पेशीतन्तुभिश्च यत्सङ्कोचेन ऊर्ध्वमाकृष्यते सपरिकरो वृषणः।
** सूक्ष्मनिर्माणं** पुनर्वृषणग्रन्थेरनुलम्बच्छेदेन स्फुटं दृश्यते स्थूलचक्षुषा,स्फुटतरन्तु अणुवीक्षणयन्त्र-सहायेन चक्षुषा (१७७ चित्रम्)।तत्र अण्डधरपुटकान्तर्दृश्यो ग्रन्थिच्छादनः तनुस्नायुमयः कोषोऽपरः अण्डच्छदो नाम। तच्छाखाभूताश्च स्नायुपत्रिकास्तनुकुशपत्रसंस्थानाः, दश द्वादश वा, ग्रन्थिवस्तुनोऽन्तः प्रविश्य तावतीषु प्रकोष्ठिकासु विभजन्ते एकैकमण्डग्रन्थिम्।एकैकस्याञ्च प्रकोष्ठिकायां दृश्यं शुक्रनिर्मापकेण ग्रन्थिवस्तुना परिवृतमेकैकं सूक्ष्मं शुक्रस्त्रोतो मूले कुण्डलीकृतम्,अस्ति चात्रपरितो ग्रन्थिवस्तुवेष्टनं सूक्ष्मं सिरा-धमनीजालकं, यतो नियतं स्रवति लसीका शुक्रनिर्माणाय। ततश्च वृषणग्रन्थिवस्तुनिर्मापकैः विचित्रप्रभावैः कोषाणुभिर्निर्मितं शुक्रं807 — Semen.") शुक्रवहस्रोतोभिर्नीयमानं कतिचित् प्रधानस्त्रोतांसि संश्रित्य अण्डशिरसि अधिवृषणिकामभिप्रपद्यते। ततश्च तदन्तः क्रमादुपचीयमानं शुक्रमूर्ध्वं नीयते शुक्रवाहिन्येति संक्षेपतः शुक्रनिर्माणप्रणाली व्याख्याता। अतएव प्राञ्चः— “शुक्रवहानां स्रोतसां वृषणौ मूलम्"—इति। शुक्रन्तु सूक्ष्मदीर्घसूत्रसदृशैरतिचञ्चलैः शुक्रजीवाणुभिरभिव्याप्तमिति प्रत्यक्षमीक्षणीयमणुवीक्षणसहायेन चक्षुषा। सूक्ष्मशुक्रसारन्तु सर्वशरीरचरं शुक्रप्रपिकाभ्यन्तरतः सिरापथैनींयते रक्तप्रवाहे इत्यग्रेवक्ष्यामः।
** शुक्रवाहिन्यौ, वीर्यवाहिन्यौ वा808** नाम—अधिवृषणिकाभ्यां विनिर्गते कपोतपक्षनलिकाकारे पेशी-स्नायुतन्तुनिर्मिते नलिके (१७७ चित्रम्), वृषणविनिगतस्य शुाक्रस्य वस्तिद्वारमभि वहनाय।ते अनुवृषणिकाख्यसिरा-धमनी-नाड़ीजालवेष्टिते, वृषणबन्धनीभ्यामूर्ध्वंगच्छतः। तयोर्गतिः सरलोर्ध्वमुखी आ-वंक्षणसुरङ्गाद्वारम्, वंक्षणसुरङ्गायान्तु बहिस्तिरश्चीना। ततः श्रोणिगुहान्तः प्रविष्टे ते वक्रीभूय तिर्यगधो गत्वा बस्तिपृष्ठाश्रयेण वस्ति-द्वारमुभयतस्तिष्ठतः। शुक्रप्रपिके च तत्पाश्वंयोदृश्ये गवीनीसहचयौं। एकैकतश्च वस्तिद्वारसमीपे शुक्रप्रपिका-शुक्रवाहिन्योः मेलकेन प्रभवति अंगुलमात्रदीर्घः शुक्रप्रसेकः। तद्द्वारञ्चमूत्रप्रसेकाभ्यन्तरे दृश्यम्।
शुक्रप्रपिके।
** **शुक्रप्रपिके809नाम—मधुचक्रवदन्तः सुषिरेपेशी-स्नायुतन्तुभूयिष्ठे शुक्राधारिके (१७८ चित्रम्), ये प्रायश्चतुरंगुलप्रमाणदैर्घ्येकनिष्ठिकापरिणाहे तिर्यग् वस्तिपृष्ठमधितिष्ठतः। ते तत्रशुक्रवाहिन्योः सहचर्यौ। तयोः सञ्चीयते शुक्रं ब्रह्मचर्यकाले810। एकैकस्याश्च शुक्रप्रपिकायाः तनूकृतमधोमुखं शुक्रवाहिन्या मुखेन संबद्धम्। उभयोश्च मुखयोर्मिलितयोः साधारणं सूक्ष्मं स्त्रोतो वस्तिद्वारपार्श्वस्थं शक्रप्रसेकः811नाम। तस्य सूक्ष्मं द्वारं मूत्रप्रसेकान्तर्दृश्यमेकैकस्मिन् पार्श्वे।
प्राञ्चोऽप्याहुः—“द्वयङ्गुले दक्षिणे वामे812वस्तिद्वारस्य चाप्यधः।
पौरुषग्रन्थिः।
पौरुषग्रन्थिः813 नाम—वस्तिद्वारं मूत्रप्रसेकस्याद्यभागञ्च संवेष्ट्य** **स्थितोऽक्षोटफलाकारो814.”) ग्रन्थिः (१७३।१७८ चित्रयोः) भगास्थिसन्धानपृष्ठेऽवस्थितः। स तोलकद्वयपरिमाणः, द्व्यङ्गुलायतः, बहिः स्नायुमय-कोषपरिवृतोऽभ्यन्तरतश्च मधुचक्रसंस्थानः।तस्मात् स्रवति पिच्छिल उपस्नेहः सति कामोद्रेके यूनाम्, अतिप्रवाहणे च सर्वेषाम्। तस्य दश द्वादश वा (क्वचिद् विंशतिर्वा) स्रोतांसि मूत्रप्रसेकान्तरुन्मुच्यन्ते सुसूक्ष्मैश्छिद्रैः। वार्धके तु स्नायुतन्तुभूयिष्टामभिवृद्धिं गतोऽसौ कदाचिद् मूलमार्ग सङ्कोचयति, निरुणद्धि वा क्वचिद् वस्तिद्वारमिति स्मर्त्तव्यम्।
** **शिश्नमूलपार्श्विकौ815नाम—चणकसंस्थानौ ग्रन्थी मूत्रप्रसेकस्य मध्यमभागमुभयतो बहिर्वर्त्तेते (१७३ चित्रम्)।तयोरपि स्रोतसी मूत्रप्रसेकान्तर्दृश्ये। ताभ्यां निःस्रुत उपस्नेहो मूत्रप्रसेकं सदा तर्पयतीति केचित्।
[१७८ चित्रम्]
शुक्रवाहिन्यौ, शुक्रप्रपिके, पौरुषग्रन्थिश्च।
(वस्तिपृष्ठतो दृष्टाः)
| <MISSING_FIG href="../../../books_images/U-IMG-1708595348Screenshot2024-02-22151542.png"/> |
.
| गवीनी | पौरुषग्रन्थिः |
| वस्तिः | शुक्रप्रपिका |
| गवीनी | मूत्रप्रसेकच्छिद्रम् |
| शुक्रवाहिनी |
अथ स्त्रीणां प्रजनन-यन्त्राणि।
भगं816, गर्भाशयः, बीजाधारौ, बीजवाहिन्यौ चेति स्त्रीणां प्रजननयंत्राणि। तत्र—भगं, योनिर्वा नाम— स्त्रीणां बहिरवयवैः सहितोऽपत्यपथः। तस्य बहिर्भगम्, अन्तर्भगञ्चेति द्वेधा विभागो वर्णनासौकर्याय।कामपीठं तु भगोपरिष्टाद् वर्त्तमानो मृदुमेदुर उत्सेधो वर्णितपूर्वः। तत्र—
** बहिर्भगं817**नाम—भगस्य बाह्यः प्रदेशो गवाक्षाकारः सप्तावयवः (१७६ चित्रम्)। ते चावयवाः—बृहद्भगोष्ठद्वयं, लघुभगोष्ठद्वयं, भगशिश्निका, भगालिन्दः, मूत्रप्रसेकद्वारं, भगद्वारं, भगाञ्जलिका चेति। मध्ये च भगद्वार पायुद्वारयोः सेवन्यङ्कितो भागो मूलाधारपीठं, मूलपीठं वा नाम। तत्र—
(१)बृहदभगोष्ठद्वयं818 नाम—भगपीठाद्मूलपीठं यावदुभयतोऽवस्थितं किंञ्चित्स्थूलकोमलमोष्ठद्वय-सदृशं भगावयवद्वयम् (१७६ चित्रम्)। तद् बहिः सीम्नोःलोमशतनुत्वगावृतम्, अन्तर्मेदुरं, स्नायुसूत्रप्यप्रावरण्या दृढ़ीकृतञ्च त्वगधः। यस्तावत्पुंसामण्डकोषः स एवाण्डवर्जितो द्विधाभिन्नो बृहद्भगोष्ठद्वये परिणतः—इत्याहुः गर्भव्याकरणविदः।
**[१७६ चित्रम्] **
बहिर्भगम्।
| <MISSING_FIG href="../../../books_images/U-IMG-1705557056Screenshot2024-01-18111952.png"/> |
.
| कामपीठम् | भगशिश्निका |
| भगशिश्निकाग्रम् | बृहद्भगोष्ठम् |
| मूत्रप्रसेकद्वारम् | लघुभगोष्ठम् |
| पायुद्वारम् | भगद्वारम् |
(क—कुमारीच्छदा। ख—भगाञ्चलिका। ग—मूलपीठम्।)
तञ्च बृहद्भगोष्ठद्वयमुपरिष्टाद् भगशिश्निकापार्श्वयोर्मिलितम्,अधस्ताच्च भगाञ्जलिकायाम्। तदन्तश्च दृश्यानि सूक्ष्माणि सिराधमन्यादि जालकानि कामसंवेदनीभिर्नाड़ीभिः सहितानि, पूतिरसस्त्रविग्रन्थयश्च तत्र निगूढ़ाः सह तत्स्रोतोभिः।
(२) लघुभगोष्ठद्वयं819 नाम—तनुस्वल्पावयवमोष्ठद्वयं बृहद्भगोष्ठयोरुत्सङ्गस्थमेकैकतो द्वयङ्गुल-मात्रायतम्(१७९चित्तम्)। तत् मूत्रप्रसेकद्वारस्य च पार्श्वयोः स्तोकेन अवतिष्ठते। तदन्तराले च योनिद्वारम् अनुबिद्धञ्च तद् विशेषेण पूतिग्रन्थिस्रोतोभिः।
(३)भगशिश्निका820 नाम—भगपीठाधोमध्यरेखायां तनुत्वगावृतो वटप्ररोहवद्नीरन्ध्रोऽवयवः (१७९चित्रम्)\। तस्याग्रभागमात्रं शिश्नमुण्डवत् लघुभगोष्ठयोरूर्ध्वसन्धाने दृश्यम्। छाद्यते च तत् स्तोकेन शिश्निकाच्छदाख्यया तनुत्वचा। सेयं भगशिश्निका तनूकृतः शिश्नावशेष एवेति गर्भव्याकरणविदः।
(४) भगालिन्द821ःनाम—लघुभगोष्टयोरन्तराले वर्त्तमानस्त्रिकोणाकारः प्रदेशो योनिद्वारोपरिष्टात् (१७९चित्रम्)\। तन्मध्ये दृश्यं काकपक्षनलिकाप्रवेशार्हं छिद्रं मूत्रप्रसेकद्वारं नाम, यद् द्वयङ्गुलमात्रदीर्घं स्त्रीणाम्।
(५) भगद्वारं822, योनिद्वारं वा नाम—कुक्कुटाण्डायतनं द्वारं लघुभगोष्ठयोरन्तराले मूत्रप्रसेक-द्वारस्याधस्तादवस्थितम् (१७९चित्रम्)। तद् योनिसङ्कोचन्याख्यपेशीद्वयेनावेष्टितम्। अभिरक्षितञ्च तत् प्रायो निम्नार्धमात्रेकुमारीषु कुमारीच्छदाख्यया जवनिकया823। सेयं स्थूलकला यौवने प्रथममैथुनात् प्रभृति क्रमशः शीर्यते।कदाचित्तु साकल्येन भूम्ना वा योनिद्वारं प्रावृण्वन्ती सा मासिकमार्त्तवं निरुणद्धि। तेन आर्त्तवकाले दारुण शूलयुगार्त्तवरक्तसञ्चयो योनिमार्गान्तः। शस्त्रसाध्योऽयं रोगः।
उभयतश्च योनिद्वारमभ्यन्तरतः श्लेष्मलकलान्त-र्निगूढ़ ग्रन्थिद्वयं योनिद्वारिकं824 नाम। तत् स्फुटाभ्यां सूक्ष्मस्त्रोतोभ्यां पिच्छिलमुपस्नेहं स्त्रवति पुंसः शुक्रवद् वेगेन मैथुनान्ते। तं स्त्रीशुक्रमित्याचक्षते प्राञ्चः825।
(७) भगाञ्जलिका826नाम—भगद्वारस्य अधोधारायाम् अञ्जलिवदवस्थितो भगावयवः दृढ़कला-वृतमेदोभूयिष्ठः। सेयं मूलाधारपीठस्य पुरः सीमा। सा प्रायः प्रसवकालेऽवदीर्यते सह मूलपीठेन सेवनीप्रदेशे। तत् मूलावदरणम्827 इत्याहुःप्रसूतितन्त्रज्ञाः। तच्चेत् न सीव्यते काले, तर्हि सम्भवति कष्टकरी योनिव्यापद् योनौ गर्भाशयाऽवतरणादिति सर्वथा प्रतिषेध्या सा कुशलेन।
अथ अन्तर्भगम्।
अन्तर्भगं828, योनिमार्गो वा नाम—भगद्वाराद् गर्भाशयमुखं यावत् प्रसृतः ईषद्वक्रोमार्गः वस्ति-गुदयोरन्तरालस्थः।स एव ‘अपत्यपथ’-संज्ञोऽपि। सोऽयं पुरः प्राचीरानुक्रमेण चतुरंगुलदीर्घः, पश्चिमप्राचीरानुक्रमेण तु पञ्चषांगुलायतः।तत्प्राचीराणां नियतसङ्कोचात् स्वभावतो रुद्धप्रायोऽपि स सति प्रयोजने बहु विस्फारणयोग्यः। तदूर्ध्वप्रान्तस्तु गर्भाशयग्रीवां संवेष्ट्य तिष्ठति किञ्चिद् विस्फारितः, दूरतः प्रसृतश्च पश्चिमतः (१८० चित्रम्)\।
योनिद्वारन्तु व्याख्यातचरम्, योनिसङ्कोचन्यौ पेश्यौ च तत्पार्श्वस्थे।
(व्यतिकरः) पुरस्ताद्—योनेः पुरः प्राचीरव्यवहितो वस्तिः मूत्रप्रसेकश्च।पश्चिमतः—योनेः पश्चिमप्राचीरव्यवहिता गुदनलिका, योनिगुदान्तरीयं स्थालीपुटञ्च उदर्याकलानिर्मितम् पार्श्वयोस्तु— पार्श्वप्राचीरव्यवहिते पायुधारिण्यौ पेश्यौ।
निर्माणं पुनर्योनिप्राचीराणां अन्तस्तनुश्लेष्मस्त्राविकलावृतैः स्वतन्त्रपेशीतन्तुभिः। कला च सा सङ्कोचकाले वलयाकाराभिः शिथिलवलीराजिभिरुपलक्षिता, अन्तः सेवनीचिह्नाङ्गितश्च योनिमार्गः पुरः पश्चाञ्च मध्यरेखायाम्।
पोषणं पुनर्योनिमार्गस्य—आभ्यन्तर्योरधिश्रोणिकाख्यधमन्योरनुयोनिकाभ्यां शाखाभ्यां गुदोपस्थिकाया धमन्यास्तनुप्रशाखाभिश्च।
अथ गर्भाशयः।
** गर्भाशयः829**नाम अधोमुख-क्षुद्रालावुफलाकारः स्थूलपेशीमयः कोषः योनेरूर्ध्वमुखे प्रतिबद्धः।तस्यायतनं830, प्रस्थं किञ्चिदूनत्र्यंङ्गुलम् ( 2“ )।") स्वमुष्टिमात्रमगृहीतगर्भायाः, गृहीतगर्भायास्तु यथागर्भायतनं प्रवृद्धम् (१८०।१८१ चित्रयोः)।
अथास्य त्रयो भागाः कल्प्यन्ते— मुखं, ग्रीवा, शरीरञ्चेति। तत्र—
गर्भाशयमुखं831योनिमार्गशिखरालम्बि निम्नाभिमुखम्। तत्र लक्षणीयं छिद्रं—बाह्यं832 गर्भच्छिद्रं832 नाम, तदेवगर्भाशयस्य द्वारम्। तच्च नियतं संकुचितमेवावतिष्ठते, स्फारीभवति च विशेषात् प्रसवकाले, आत्तवकाले च स्तोकेन षोड़शदिनपर्यन्तं (आ- विंशतिदिनं वा) पुंबीजधारणाय। रजः कृच्छ्रे तु असम्यग् विस्फारितं तन्निरुणद्धि यथार्हं रजः प्रवाहमिति तीव्ररुजाः सम्भवन्ति, बन्ध्यात्वं च प्रायः।
गर्भाशयग्रीवा833पुनर्गर्भाशयस्य मुख-शरीरयोरन्तरालस्थः कलसिकाग्रीवावत् संकुचितभागो द्वयं गुलमात्रः। तत्प्राचीराणां स्थूलता तु अंगुलचतुर्थांशपरिमाणा। तदन्तर्वर्त्तीं मार्गश्च क्षद्रपटोलफलाकारः प्रायेण श्लेष्मपिण्डिकाप्रतिबद्धः, अन्यत्न रजः कालात्। तस्य ग्रीवासरणि834 रिति संज्ञा (१८१ चित्रम्)।
गर्भाशयशरीरं835 पुनर्गर्भाशयस्य मुख्यभागः तुम्बीफलवदायतोदरः। तदन्तर्दृश्यस्त्रिकोणाकारोऽव-काशः। तस्योर्ध्वमुभयतःकोणद्वयं सच्छिद्रं बीजस्त्रोतोभ्यां प्रतिबद्धम्। अधोगस्तु कोणो गीवासरण्या अनुबन्धी। तस्य आभ्यन्तरं गर्भच्छिद्रम्836इति संज्ञा। गर्भाशयप्राचीरिकाश्च गर्भाशयशरीरांशे स्थूलतमाः, तासां मिलितानां स्थूलत्वं प्रायेण सार्धागुलपरिमाणम्।शिरोभागश्च गर्भाशयस्यगर्भतुम्बी837 संज्ञः।
सोऽयं गर्भाशयः अष्टाभिर्बन्धनिकाभिर्यथास्थानं धार्यते वस्ति-गुदयोरन्तराले। प्राव्रियते च समन्तादुदर्यया कलया ग्रीवां परितः सङ्गत्य द्विगुणीभूतया। द्विगुणीभावाञ्चतस्याः स्तरद्वयान्तराले विरच्येते द्वे स्थालीपुटेवक्ष्यमाणे।
बन्धनिकाश्च838 गर्भाशयस्य अष्टौ(१८० चित्रम्) यथा—एका अग्रिमा, एका पश्चिमा, द्वे पक्षबन्धन्यौ, द्वे रज्जुबन्धनिके, द्वे त्रिकगर्भाशयिके चेति। तत्र—
अग्रिमा पश्चिमा चेति द्वे बन्धनिके उदर्याख्यकलाया द्विगुणीभावादारचिते तस्याः पूर्व-पश्चिमांशभूते। ताभ्यामारच्येते वस्ति-गर्भान्तरीयम्, योनिगुदान्तरीयं चेति द्वे स्थालीपुटे उक्तपूर्वे (१५० चित्रम्)।
[ १८० चित्रम् ]
गर्भाशयः (बीजाधार- बीजवाहिन्यादियुतः)।
| <MISSING_FIG href="../../../books_images/U-IMG-1705557330Screenshot2024-01-18112451.png"/> |
.
| बीजवाहिनी | पक्षबन्धनी |
| गर्भतुम्बी | बीजकुल्या |
| बीजाधारयन्धनी | गर्भाशयमुखम् |
| बीजाधारः | बाह्यं गर्भच्छिद्रम् |
| बीजवाहिनी | योनिमार्गस्य प्राचीरिका (विदार्य परावर्त्तिता) |
| रज्जुबन्धनिका | योनिमार्गस्था बलीराज्यः |
| योनिमार्गः |
[ पु०-पु०—बीजवाहिन्योः पुष्पितप्रान्तौ।× ×— चिह्निता—गर्भाशय-ग्रीवा।]
पक्षबन्धन्यौ839नाम—गर्भाशयपार्श्वस्थे पक्षिपक्षवदायते बन्धनिके (१८०चित्रम्)। ताभ्यां मध्यप्राचीरवत् स्थिताभ्यां विभज्यते वस्तिगुहा840.सा अस्थिखण्डे (४३ पृष्ठे) वर्णिता।") पूर्वापरभागयोः। निर्माणञ्च पक्षबन्धन्योः स्थूलजवनिकावदास्तृतयोः उदर्याख्यकलाया द्विगुणीभावात्। दृश्यन्ते च एकैकस्यां पक्षबन्धन्यां कलास्तरद्वयान्तराले सप्रबन्धनो बीजाधारः, बीजकुल्या, रज्जुबन्धनिका, नाड़ी-सिरा-धमन्यो रसायन्यश्च।
रज्जुबन्धनिके841नाम—रज्ज्वाकारे बन्धनिके पञ्चषांगुलदीर्घे। दृश्ये च ते गर्भाशयशरीरस्य पार्श्वकोणाभ्यां पुरस्तात् तिर्यग् बहिः प्रसृते पक्षबन्धन्योरंशभूते। ते च स्त्रीणां वंक्षणसुरङ्गयोः प्रविश्य तत्रैव क्रमशः प्रनष्टे। तयोर्वृषणबन्धनिकाभ्यां स्फुटं सादृश्यमिति गर्भव्याकरणज्ञाः।
[ १८१ चित्रम् ]
गर्भाशयस्य अभ्यन्तरम्।
(अनुलम्बच्छेद्रेन दर्शितम्)
| <MISSING_FIG href="../../../books_images/U-IMG-1705558383Screenshot2024-01-18114128.png"/> |
.
| गर्भाशयशिखरम् | गर्भाशयग्रीवा |
| अपत्यपथः |
[१।१—बीजवाहिन्योः संयोगस्थानम्।२—गर्भाशयप्राचीरिका।३—गर्भाशयस्य अभ्यन्तरम्। ४—आभ्यन्तरं गर्भच्छिद्रम्।५—ग्रीवासरणिः। ६—बाह्यं गर्भच्छिद्रम्।७—योनिप्राचीरिका]
त्रिकगर्भाशयिके842नाम ह्रस्वप्राये बन्धनिके तु गर्भाशयस्य पार्श्वकोणाभ्यां सम्भूय पश्चाद् धनुर्वद् वक्रीभूय त्रिकास्थिपार्श्वयोः सम्बद्धे।
ताश्चामी बन्धनिकाः पेशी-स्नायुसूत्रभूयिष्ठाः गर्भाशयं सम्यक् समन्तात् प्रबन्धन्ति, धारयन्ति च यथास्थानं सर्वास्ववस्थासु, सति प्रयोजने दीर्घीभूताः।
अथ बीजाधारौ, बीजवाहिन्यौ च।
** ** बीजाधारौ,843 बीजकोषौ वा नाम—स्त्रीणां चटकाण्डसमाकारौ ग्रन्थी पुंसां वृषणग्रन्थिवत्। तयोरेकैकःवस्तिगुहान्तः प्रच्छन्नो गर्भाशयस्य एकैकपार्श्वतः पक्षबन्धन्याः स्तरद्वयान्तराले (१८० चित्रम्) तिर्यगवतिष्ठते। तस्य द्वौ प्रान्तौ, माध्यसीमस्थः पार्श्वसीमस्थश्चेति। तत्राद्यो गर्भाशयाभिमुखः गर्भाशयेनसम्बध्यते द्वित्रांगुलदीर्घया रज्ज्वाकारप्रबन्धन्या बीजाधारबन्धनिका844संज्ञया। तस्य पार्श्वसीमाभिमुखेन प्रान्तेन तु सम्बद्धा तन्वी कुल्या बीजाधाराद् बीजार्त्तवस्य प्रवहणाय, सेयं बीजकुल्या845 नाम या बीजवाहिन्याः पुष्पितप्रान्तेनाऽनुबध्यते।
[१८२ चित्रम्]
बीजाधारस्य सूक्ष्मनिर्माणम्।
| <MISSING_FIG href="../../../books_images/U-IMG-1708593579Screenshot2024-02-22144842.png"/> |
[१।१।१।१।१—बीजानां बाल्यावस्था।२।२।२—तेषां पुटकान्तः पृथग्भूतानां मध्यावस्था। ३।३—तेषां परिणतावस्था बीजनिर्गमप्रकारश्च। ४—उत्सृष्टबीजस्य पुटकस्य शुष्यमाणोऽवशेषः। ५—बीजनिर्गमाय बीजकोषस्य विदीर्णावस्था]
निर्माणं पुनर्बीजाधारस्य तनुकोषावृतस्य स्नायुसूत्रमयजालाभ्यन्तरे अतिसूक्ष्मसिराधमनीजाल-कान्तःस्थानां सिकताकृतीनां स्त्रीबीजानां846 सन्निवेशात्। एकैकस्मिंश्च बीजाधारे प्रायः सप्ततिसहस्रं सूक्ष्मबीजानां पुटका847 वृतानाम्। तानि च बीजानि यौवनारम्भे क्रमशः पुष्टीभूय तिष्ठन्ति, सम्भवन्ति च पुष्टतराणि गर्भधारणकाले। तेषु च पुष्टतमानां बीजानां मासि मासि रजःकाले आषोड़श-रात्रमाविंशतिरात्रंवा बीजाधारगात्रस्फुटनाद् बहिर्निर्गमः। निःर्गतानि च बीजानि बीजकुल्यामार्गेण प्रचलितानि बीजवाहिन्योः पुष्पितमुखाभ्यामाह्रियन्ते, ततस्तेषां बीजवाहिनीपथेन गर्भाशये प्रवेशः। तेभ्यश्च पुंबीजसम्पर्काद् गर्भसम्भवः848.") (१८० चित्रम्)।
दृश्यानि च प्रतिबीजकोषं बीजनिर्गमावशिष्टानि पुटकानि बीजकिणपुटक849संज्ञानि, विदारलक्ष्माणि च बीजनिर्गमकृतानि (१८२ चित्रम्)।
बीजवाहिन्यौ850."), बीजस्रोतसी, वा नाम—(१८० चित्रम्) गर्भाशयपार्श्वकोणाभ्यां बाहुवदुभयतः प्रसृते स्वतन्त्रपेशीतन्तुभूयिष्ठे दीर्घनलिके काकपक्षनलिकाकारे। ते पक्षबन्धन्योरूर्ध्वधारानुक्रमेण पार्श्वतः प्रसृते। तयोर्बहिःप्रान्तौ प्रस्फुटितपुष्पाकारौ पुष्पितप्रान्तौ851 नाम। ताभ्यामाह्रियन्ते मासि मासि बीजाधार-गात्रस्फुटनाद् विनिर्गतानि स्त्रीबीजानि गर्भाशयप्रापणाय।
तान्येतानि स्त्रीपुंसयोः प्रजननयन्त्राणि व्याख्यातानि।
अथ स्तनौ।
स्तनौ852, कुचौ वा नाम—स्त्रीणां दुग्धनिर्मापकौ ग्रन्थिसङ्घातौ उरःपुरःस्थौ, तयोर्दूरस्थयोरपि प्रजननयंत्रैरतिघनिष्टः सम्बन्धो853दुर्विज्ञेयकारणः। तयोः शैशवे पुंस्तनाभ्यामविशेषः, कैशोरे वयसि तु क्रमात् पुष्टिरायौवनम्। पुष्टतमौ च तौ दृश्येते गर्भिण्याः प्रसूतायाश्च दुग्धपूर्णत्वात्। वयःपरिणामे तु (अकालवार्धके वा) तयोः क्रमात् परिशोषः,प्रलम्बित्वङ्मात्रशेषता च।
तावेतौ सम्यक् परिणतौ त्वचा मेदोभूयिष्ठया कलया च परिवृतौ नातिकठिनग्रन्थिसङ्घातमयौ बिल्वफलवत् सम्पद्येते। सन्ति च एकैकस्मिन् स्तने षोड़शाऽष्टादश विंशतिर्वा वा ग्रन्थिसङ्घाताः दुग्धप्रभवाः, तेभ्यश्च सम्भूताःदुग्धवाहिन्यः854 स्तनविद्रधौ शस्त्रावचारणविधिवर्णने दुग्धहरिणीति संज्ञा।") नाम प्रणालिकाः। ताः क्रमशः परस्परमेलकेन पुष्टाः शेषे कलसिकावत्855स्फारीभूता भवन्ति, सम्मिलन्ति च सर्वतः समूहिताः चूचुकं केन्द्रीकृत्य, उन्मुच्यन्ते च सूक्ष्मैर्मुखैस्तत्रैव। अन्तरालेषु च दुग्धवाहिनीनां दृश्याः मेदोऽनुबिद्धसिरा-धमनीजालकैर्व्याप्ताः स्नायुमय्यः प्राचीरिकाः। ताः सर्वावरणभूतात् स्नायुमयकोषात् संभूय स्तनान्तःप्रसृताः ग्रन्थिपिण्ड-सङ्घातानां विभागाय (१८३ चित्रम्)।
[१८३ चित्रम्]
स्तनाभ्यन्तरस्थादुग्धग्रन्थयः, दुग्धस्रोतांसि च।
| <MISSING_FIG href="../../../books_images/U-IMG-1705560414Screenshot2024-01-18121433.png"/> |
.
| दुग्धग्रन्थयः | दुग्धहारिणी |
| त्वङ्मेदोधरा प्रावरणी (कर्त्तितशेषा) |
[दु१—दुग्धहारिण्याः कलसिकाभागः। दु२—तस्या एव चरमप्रान्तः। क०—स्रायुजालरचिताः कोष्टिकाः—यास्वाधीयन्ते ग्रन्थयः।]
चूचुकं856नाम—दुग्धवाहिस्रोतसां सम्मेलनकेन्द्रभूतं स्नायुसूत्रभूयिष्ठं स्तनशिखरम्। तदावरणी च त्वक् स्वभावतः किञ्चित्ताम्रवर्णा श्यामाभा वा भवति। कृष्णमण्डलोपलक्षिता तु सा विशेषतो गर्भिण्याः गर्भलक्षणं सूचयति। तत्स्फुटनाच्च प्रायः सम्भवति स्तनाभ्यन्तरे विद्रधिः प्रसूतानाम्।
पञ्चमोऽध्यायः।
अथातो विविधग्रन्थिवर्णनीयमध्यायं857 व्याख्यास्यामः।
ग्रन्थयः858.") नाम घन-कोमलेषत्सुषिर-वस्तुविशेषसंघातमयानि शारीरयंत्रकाणि, यानि स्वकीयैर्निःस्त्रवैः शरीरमभिरक्षन्ति साक्षात् परम्परया वा। ते त्रिकोण-वर्त्तुलाऽर्धचन्द्र-खगाण्डादिनानाविधाकृतयः, स्वल्पायतनाः बृहदायतना वा,कोष्ठादिगुहान्तस्तद्द्बहिश्च निर्दिष्टस्थानेषु शरीरस्य वर्त्तन्ते। तेषां स्रोतांसि स्फुटानि सूक्ष्म-स्थूलनलिकारूपेण, निगूढ़ानि वा। निगूढ़ानि च तानि सूक्ष्मैः सिरापथैः (रसायनीमार्गैर्वा859) स्वकीयं निःस्रवं प्रायः स्वोत्पादितवस्त्वन्तरसहितं समर्पयन्ति सार्वकायिके रक्तप्रवाहे। सन्ति चोभयविधानि वा स्त्रोतांसि केषाश्चित् ये पृथग्विधं निस्रवं (बाह्यमाभ्यन्तरं च) स्रवन्ति मार्गभेदेन। एवञ्च त्रिविधा ग्रन्थयः शरीरे बहिःस्रवाः, अन्तःस्रवाः, उभयतःस्त्रवाश्चेति। सन्ति च केचिदन्ये तत्सदृशा ग्रन्थयो ये नाद्यापि विज्ञातनिः स्रवाः। सोऽयं समासतस्त्रिविधग्रन्थिपरिचयो बीजरूपः। विस्तरोऽत ऊर्ध्वम्।
अथ बहिःस्रवा ग्रन्थयः।
बहिःस्त्रवा ग्रन्थयः860 खलु स्ववस्तुभ्यो निर्गतं स्थूलचक्षुर्दृश्यं निःस्रवं सूक्ष्मैः स्त्रोतोभिः पृथक्कृत्य स्रवन्ति बहिर्गामिनीभिः स्रोतोनलिकाभिः। ते द्विविधाः—(१) केवलबहिःस्रवाः—यथा लालाग्रन्थयः, बृक्कौ, पौरुषग्रन्थ्यादयश्च वर्णितपूर्वाः। (२) आपातबहिःस्रवाश्च ये स्थूलदृष्ट्या बहिःस्रवा एवेति लक्ष्यन्ते,सूक्ष्मपरीक्षया तु ज्ञायन्ते अन्तःस्त्रवा अपीति। यथा—यकृदग्न्याशय-वृषण-बीजकोषााद्याः। त एव उभयतःस्रवा नाम अग्रे वक्ष्यमाणाः।
अथ अन्तःस्त्रवा ग्रन्थयः।
अन्तःस्रवा ग्रन्थयः861.") पुनः सूक्ष्मपरीक्षयापि अलक्षितस्रोतसो ग्रन्थयः ये स्ववस्तुनिर्मापककोषाणु-सम्भवमलक्ष्यं निःस्रवविशेषं862सिरापथेन रक्तप्रवाहे निःक्षिपन्ति। अतएव तेषां निःस्त्रोतस्का ग्रन्थयः863 इति व्यपदेशः। तेषां दशकमद्यापि आविष्कृतप्रभावम्। अन्तः स्रवाणाञ्च केषाञ्चिदान्तरनिःस्रवीः पृथक्कृत्य त्वक्पथेन प्रयोक्तुं शक्यन्ते, तेषामभावात् न्यूनताहेतोर्वा सम्भूतानां रोगाणां प्रतीकाराय। अन्यथाऽपि वा ते प्रयुज्यन्ते तत्क्रियाविशेषलाभाय। तत्र—
अथ प्लीहा, ग्रैवेयकग्रन्थिः, बालग्रैवैयकग्रन्थिः, चत्वारः परिग्रैवेयकसंज्ञा ग्रन्थयः, अधिबृक्कौ, पोषणकग्रन्थिः (अमृतग्रन्थिर्वा)—इति दशको गणः केवलान्तः स्त्रवाणां मुख्यग्रन्थीनां संग्राहकः, भूम्ना परिज्ञातप्रभावश्च। त एते निःस्रोतस्का864 नाम ग्रन्थयः, अदृश्यस्त्रोतस्कत्वात्।
अथैषां स्थान संस्थान कार्याणि। तत्र—
१। प्लीहा865 नाम वृहत्तमो ग्रन्थिः सविस्तरं वर्णितपूर्वः (१६७।१६८ चित्रयोः)।
२।ग्रैवैयकग्रन्थिः866ग्रोवायामवटुकाधो दृश्यः पुरस्तात्। सत्यंगुलमात्रप्रदेशे श्वासनलिकामावेष्ट्य वर्त्ततेपुरः पार्श्वयोश्च। तस्य द्वे पिण्डे वामदक्षिणसंज्ञे, ते अधोभागे सार्धाङ्गुलायतेन योजकभागेन संयोजिते पुरस्तादेव। पश्चिमतस्तु पृथग्भूते ते एकैकतो द्वौद्वौ चणकाकारौ ग्रन्थी परिग्रैवेयक संज्ञौ स्वोत्सङ्ग धारयतः।
[१८४ चित्रम्]
ग्रैवेयकग्रन्थिः (सम्मुखतो दृष्टः)।
| <MISSING_FIG href="../../../books_images/U-IMG-1705564201Screenshot2024-01-18131920.png"/> |
.
| कण्ठिका स्थि | ग्रैवेयकस्य योजकभागः |
| तदंशाः | श्वासनलिका |
| अवटुकम् | अवटुसन्धानम् |
| ग्रैवेयकस्य दक्षिण पिण्डम् | ग्रैवेयकस्य वामपिण्डम् |
सोऽयं ग्रैवेयकग्रन्थिरूर्ध्वाधःक्रमेण त्रिचतुराङ्गुलायतः पञ्चषांगुलप्रस्थश्च। तद्गुरुत्वं तु सार्धतोलकद्वयमितं पुंसाम्। स्त्रीणान्तु किञ्चिदधिकं तत्, वृहत्तरं च।
पोषणं तु तस्य उत्तराधरग्रीविकासंज्ञाभ्यां धमनीभ्यामन्तःस्तनिकादिधमनीशाखाभिश्च। अतो बहुसिराधमदीजालकानुविद्धोऽयं ग्रन्थिरन्तर्बहिश्च।
सूक्ष्मनिर्माणं पुनरस्य ग्रन्थेरीदृशम्। आदौ सर्वावरणः कलाकोषः, ततोऽन्तःप्रसृताः कलामय्यः प्राचीरिकाः पिण्डिकाणुपिण्डिकासु तद्विभजन्यः। तथाविभक्तस्य चास्य निर्माणं सान्द्रमधुसद्गश-निर्यासधरैः कोषैर्मधुचक्रवत्। ते चकोषाःषट्कोणकोषाणुकैः867 परिवेष्टिताः। तेभ्यश्च निःस्रवति मधु-सद्गशो निर्यासः868 कोषाभ्यन्तरपूरणः।तस्य च सूक्ष्मांशाः सूक्ष्मैः सिराजालकैराकृष्टाः सार्बकायिकं रक्तप्रवाहमाविशन्तीति तदान्तरनिःस्रवः वक्ष्यमाण-कार्यदर्शनादनुमीयते। सोऽसौ ग्रन्थिर्दोषज-विकृतिहेतोः शनैः प्रबर्धमानो गलगण्डाख्यं रोगं जनयति। तत्र नेत्रगोलकयोर्नेत्रगुहातः स्तोकेन बहिर्निर्गमः869, सन्त्रस्तदृष्टिता चेति विशिष्टलिङ्गद्वयं प्रायः।
[१८५ चित्रम्]
ग्रैवेयक-ग्रन्थेराभ्यन्तरनिर्माणम्।
| <MISSING_FIG href="../../../books_images/U-IMG-1708590451Screenshot2024-02-22135559.png"/> |
चित्रव्याख्या—१।कोषाभ्यन्तरस्थं निर्यासवद् धनवस्तु। २।रसायनी (कर्त्तिता) ३। कोषपरिधिस्थिता वेष्टनी षट्कोण-कोषाणुकैःनिर्मिता।
अथ चेदस्य ग्रन्थेः आवाल्यादल्पनिःस्रवत्वं, तदा जड़-गद्गद-मिन्मिन-भाषिणः, स्थूलाः, वामनाः स्वल्पबुद्धयश्च भवन्ति वाला870 इति प्रतीच्या संज्ञा।")ः(१८७ चित्रम्)। कदाचिद् यौवने वार्धकेऽपि वा सम्भवति प्रायस्तादृश्येव दशा871- इति संज्ञा। “)ग्रैवेयकग्रन्थिशोषात्। त एते रोगिणो यथार्हमात्रया पशूनां ग्रैवेयकग्रन्थिवस्तु872भक्षणेन शीघ्रमेव स्बास्थ्यं लभन्ते—इति बहुशो द्वष्टमेतत्। तथा चास्य ग्रन्थेर्महाप्रभावता अकामेनापि स्वीकरणीया।
३। परिग्रैवेयकग्रन्थयः873 पुनः प्रायेण चत्वारः (कदाचित् पञ्च षड् वा), उद्दिष्टपूर्वाः। ते स्विन्न-चणकाकाराः लघुनिम्बफैलाकारा वा लसीकाग्रन्थिवद् रूपेण। तेषां द्वेद्वे एकैकस्य ग्रैवेयक-पिण्डस्योत्सङ्ग दृश्ये पश्चिमतः। आवरणकोषाश्च तेषां प्रतिग्रन्थि पृथगेव, बहिर्मुखस्त्रोतांसि तु न दृश्यानि।
**[ १८६ चित्रम् ] **
ग्रैवेयकग्रन्थिः, परिग्रैवैयकग्रन्थयश्च।
(पश्चिमतो दृष्टाः)
| <MISSING_FIG href=”../../../books_images/U-IMG-1708590721Screenshot2024-02-22140047.png"/> |
.
| ग्रसनिका | ग्रसनिकायाः सेवनी |
| परिग्रैवेयकग्रन्थयः | परिग्रैवेयकग्रन्थयः |
| ग्रैवेयकस्य वाम पिण्डम् | ग्रैवेयकस्य दक्षिणपिण्डम् |
| अन्ननलिका (पश्चात्) | श्वासनलिका (पुरस्तात्) |
[१८७ चित्रम्]
ग्रैवेयकग्रन्थेः न्यूनताकृतानि लक्षणानि।
| <MISSING_FIG href="#"/><MISSING_FIG href="../../../books_images/U-IMG-1708547541Screenshot2024-02-22015817.png"/> |
१। जड़गद्गदभाषी स्थूलो निर्बुद्धिश्चबालकः।
२ । स एव बालको ग्रैवेयकग्रन्थिभक्षणेन सुभाषणः शोभनाकृतिरस्थूलः सुबुद्धिश्च।
३ । स एव बालको ग्रैवेयकग्रन्थिभक्षणवर्जनात्पुनः पूर्वावस्थः।
अथैषां क्षुद्रत्वेऽपि महाप्रभावता निरणायि नव्यैः परीक्षकैः। अस्ति खलु मानुषाणां शोणिते स्वाभाविकःसुधाभागः874, स च निर्दिष्टपरिमाणः अस्थ्यादीन्धातून्पुष्णाति, स्कन्दयति875 चाभिघातादि हेतोः सद्यः स्रुतं शोणितं क्षणमात्रेण। सोऽयं सुधाभागः परिग्रैवेयकग्रन्थीनां निष्कासनात् (इतरथा वा तत्कार्यहानेः) मात्राल्पत्वं भजते, जनयति च विविधान् व्यानवायुविकारान्। तद्यथा—सार्वकायिक-पेशीनां—विशेषतश्च करपादांगुलीपेशीनाम्—उद्वेष्टनाक्षेपकादीनि876 लिङ्गानि, श्वासमार्गद्वारिकपेशी-नामाक्षेपक877हेतुका श्वासकृच्छ्रता च मुहुर्भाविनी। तान्येतानि लक्षणानि यथार्हमात्रया परिग्रैवेयकग्रन्थि-भक्षणेन शोणितस्य सुधाभागवृद्धौ शीघ्रं विलीयन्ते—इति परीक्षितं बहुशः। अतः शोणितस्य सुधाभागनियन्त्रणकार्या इमे ग्रन्थयः प्राणधारणसहायाः—इति नव्याः।
४।बालग्रैवेयकग्रन्थिः878बालानां कण्ठमूलेऽवतिष्ठते उरसि च आ यौवनारम्भादिति तथासंज्ञः। तस्य हि पिण्डद्वयम् उरःफलकपृष्ठे अग्रिम-
[ १८८ चित्रम् ]
बालग्रैवेयकग्रन्थिः
(कण्ठोरःस्थलयोः पुरोभागं विदार्य दर्शितः)
| <MISSING_FIG href="../../../books_images/U-IMG-1705647176Screenshot2024-01-19122227.png"/> |
.
| श्वासनलिका | बालग्रैवेयकः |
| दक्षिण फुस्फुसः | वाम फुस्फुस |
| हतूकोषः |
फुस्फुसान्तराले वर्त्तते, अधस्ताद् हृत्कोषशिखरं यावद्, ऊर्ध्वञ्च स्तोकेन कण्ठकूपमतिक्रम्य।आलम्बितञ्च तद् ग्रैवेयकग्रन्थिपिण्डयोरधस्तात्। स्नायुमयबन्धनीभ्याम्।
सोऽयं ग्रन्थिरारक्तधूसरवर्णोऽनिश्चितायतनश्च, बाल्यादारभ्य यौवनारम्भं यावत् क्रमशो वर्धमानत्वात्। ततः प्रजननयन्त्राणां पूर्णविकासे तस्य क्षयारम्भः। तद्विलोपश्च (शुष्कावशेषता वा) प्रौढ़ानां शरीरे।
सूक्ष्मनिर्माणं तु बालग्रैवेयकस्य प्रायो ग्रैवेयकग्रन्थिवत्, लसीकाग्रन्थिवद् वा आपातदृष्ट्या। तस्य हि ताद्वश एव आवरणकोषः, कलामय्यः प्राचीरिकाश्च तदन्तः प्रसृताः। कोषविभागश्च तादृगेव। कोषान्तरीयं वस्तु पुनः संहततरम्। न च सन्ति सिराधमनीवर्जमस्य बहिर्मुखानि स्रोतांसि। अन्तर्निः-स्त्रवस्तु अस्त्येव \।
कार्यं चास्य ग्रन्थेरित्थं निर्णीयते। अस्य हि ग्रन्थेनिष्कासनाद् बालानां अकाले यौवनोद्गमलिङ्गानि सम्भवन्ति। स्वभावाधिककालं वर्त्तमानश्चासौ यौवनलिङ्गानि विलम्बेन दर्शयति। ततो बालानां बाल्योचितसौकुमार्यरक्षणम्, अकाले यौवनलिङ्गोद्भव-वारणञ्चास्य ग्रन्थेः कार्यमिति परीक्षकाः।
५। अधिबृक्काै879नाम पीताभौ नातिक्षुद्रौ ग्रन्थी त्रिकोणप्रायौ, बृक्कशिखरयोः संलग्नावुद्दिष्टपूर्वाै(१७० चित्रम्)। तयोरेकैकस्य द्वौ भागौ अनुप्रस्थच्छेदेन दृश्यौ—(क) बहिर्भागः पीताभवेष्टनभूतः ईषत्कठिनश्च, स बहिर्वस्तुसंज्ञः। (ख) अन्तर्भागः आरक्तधूसरः सुकोमलश्च मध्यभागेऽवस्थितः, अन्तर्वस्तुसंज्ञः। तयोरान्तरनिःस्त्रवौ पृथक्कृत्य प्रयुक्तौ स्व-स्वप्रभावं पृथगेव दर्शयतः।
सूक्ष्मनिर्माणं च बाह्यान्तर्वस्तुनोः पृथगेव। तद्यथा—
(क) बहिर्वस्तु880तावत् तनुयोजकवस्तुमयकोषावृतं समन्तात्, तदन्तश्च ईषद्दीर्घकोषाणुकमयः स्तरः, तदन्तश्च सूक्ष्मवर्त्तुलकोषाणुकमयः स्तरः उभयोश्च स्तरयोर्दृश्या मेदः कणिकाः—इति तस्य निर्माण-वैशिष्ट्यम्।
(ख) अन्तर्वस्तुनः881 सूक्ष्मनिर्माणं तु अन्यविधम्। तत्र हि सिराधमनीजालकानामतिप्राचुर्यम्, तदन्तरालेषु च कोषविभक्तेषु दृश्याः नाड़ीकन्दिकाः नाड़ीप्रतानाशच, कोषाणुकानि च बहुकेन्द्र-कणायुतानि। न च तत्रोपलभ्यन्ते मेदःकणिकाः बहिर्वस्तुनीबा—इति तस्य वैचित्र्यम्।
[ १८९चित्रम् ]
अधिबृक्कस्यस्वरूपम्।
| <MISSING_FIG href="../../../books_images/U-IMG-1705647708Screenshot2024-01-19123109.png"/> |
| पुरोभागः | पश्चिमभागः |
| दक्षिणः | वामः |
(१— दक्षिणाधिबृक्कीया सिरा। २— दक्षिणाधिबृक्कस्य यकृत्स्पर्शी प्रदेशः। ३—तस्यैव अधर-महासिस्पर्शी प्रदेशः। ४ — वामाधिबृक्कस्य आमाशयस्पर्शी प्रदेशः।५— तस्यैवअग्न्याशयस्पर्शी प्रदेशः। ६—वामा अधिबृक्कीया सिरा।)
प्रभावस्तु अधिबृक्क-बहिर्वस्तुमः प्रधानतः प्रजननयन्त्रेषु लक्षणीयः। बाल्य एवास्य वृद्धेरकाले यौबनागमः स्त्रीपुंसयोः, स्त्रीणां पुरुषोचितशरीरसंहननञ्च।अथ चेद् रोगवशात् क्षीयते, अपाकृष्यते वेदं बहिर्वस्तु शरीरात्, तर्हि सम्भवति दारुणो रोगः882 प्राणघाती। तस्येमानि लिङ्गानि—त्वचः कृष्णता, बलमांसक्षयः, दौर्बल्यं, सिराधमनीनां क्रमशो रिक्तता, हृत्सादश्चान्ते—इति। तत्राधिवबृक्कबहिर्वस्तुनः सारश्चेत् प्रयुज्यते त्वाचपथेन सिरापथेन वा तर्हिशीघ्रमुपशमो लिङ्गानामिति बहुधा परीक्षितं विशेषज्ञैः।आरोग्यसम्भवश्च तत्र काले प्रतीकारात्।
प्रभावश्चान्तर्वस्तुनः स्वतन्त्रनाडीतन्त्रे, स्वतन्त्रपेशीतन्त्रे, रक्तसंवहनयन्त्रतन्त्रेषु च विशेषतो लक्षणीयः। दृश्यन्ते हि तत्सारस्य त्वाचपथेन सिरापथेन वा प्रयोगादेतानि लिङ्गानि—हृद्यन्त्रस्य अतिद्रुत-दुर्बलगतेरपि मन्दता, संयतवेगता च, धमनीवेष्टनस्वतन्त्रनाड़ीतन्त्रस्य उत्तेजनात् धमनीप्राचीरिकाणां संकोचः तत्कृता रक्तसंहतिवृद्धिश्च883शरीरे, आशयद्वारिकपेशीनां सपदि सङ्कोचः, तमकश्वासादौ संकुचितानां क्लोमकाण्डिकानां विस्फारणम्, नेत्रकनोनकयोर्विस्तारः, विशेषतोसार्वकायिकशोणिते मधुरकभागवृद्धिश्चेति। अतएव हृद्दौर्वल्ये, तमकश्वासादौ बहुधा प्रयुञ्जतेऽस्य सारं त्वाचपथेन नव्याः, सद्यःफलप्रदत्वात्।
६। पोषणकग्रन्थिः884 -Pituitary gland or body.") अमृतग्रन्थिर्वा नाम निम्बफलसदृशो ग्रन्थिर्महाप्रभावः करोटिगुहान्तः स्थः। स जतूकास्थिशरीरपृष्ठस्थे पोषणकखाते885 वर्त्तते, मस्तिष्कतलभागेन तद्बृन्तिकया सम्बद्धः। तस्य त्रयो भागाः—अग्रिमपिण्डम्, पश्चिमपिण्डम्, मध्यपत्रिका चेति। द्वावेव वा भागौ निर्माणवैशेष्यात्—पूर्वार्धः, पश्चिमार्धश्चेति। मध्यपत्रिकायाः पश्चिमार्धान्तर्गतत्वात्, निर्माणसादृश्याच्च। तयोरान्तरनिः स्रवौ पृथक्प्रभावौ—इति परीक्षकाणां सिद्धान्तः। तत्र—
(क) पोषणकपूर्वार्धस्य सूक्ष्मनिर्माणं सूक्ष्मसिकतासदृशीभिः कणिकाभिः सिराधमनीजालकान्त-र्निविष्टाभिः। तदान्तरनिः स्रवस्य कार्यं त्रिविधम्—प्रथममस्थां सम्यक् पोषणं बर्धनञ्च, द्वितीयं प्रजननयन्त्राणां यथाकालं यथार्हञ्च संबर्धनम्, तृतीयं मानसवृत्तीनां यथार्हं क्रमशो विकासनम्—इति। दृश्यते हि पोषणकपूर्वार्धनिःस्रवस्य हानौ वयोवृद्धावपि बालकवदेव शरीरम्, अस्थिपोषणाल्पत्वात्।
[ १९० चित्रम् ]
पोषणकग्रन्थिः (विदार्यदर्शितः)।
| <MISSING_FIG href="../../../books_images/U-IMG-1705648047Screenshot2024-01-19123701.png"/> |
चित्रव्याख्या–१। दृष्टिनाड़ीयोजनिका।२। ब्रह्मगुहा886। ३-४-७। पोषणकग्रन्थेः मध्यभागः। ५। अग्रिमपिण्डम्। ६। मध्यपत्रिका।७। पश्चिमपिण्डम्।
उपचीयते चास्य मेदोधातुर्विशेषेण धात्वन्तरपोषणनिरोधात्, प्रजनमयन्त्राणां यौवनोचितपुष्ट्यभावात्, मानसवृत्तीनां विकासाल्पत्वाच्च। अथ चेत् कस्यापि पोषणकपूर्वार्धी887वर्धतेऽतितरां बाल्ये यौवनारम्भे वा, तदा समधिकमुपचीयन्ते अतिदीर्घीभवन्ति चास्याङ्गानि—येन महाप्रांशुर्विशालकर-पाद-मुख-मण्डलश्चासौ लक्ष्यते, पूर्णयौवनलक्षणश्चाऽकालेऽपि। अतएवानुमीयते—शरीरपोषणसहायोऽसौ ग्रन्थिर्विशेषेणेति, तस्मात् पोषणग्रन्थिरिति अमृतग्रन्थिरिति वाऽस्य संज्ञा। इदमपि निर्णोतं परीक्षकैर्यत् पोषणकपूर्वार्धस्य सारप्रयोगेण ग्रैवेयकग्रन्थेः स्त्रीणां बीजाधारग्रन्थेश्च क्रियोत्तेजनं सुशकमिति।
(ख) पोषणकग्रन्थेः पश्चिमार्धः888 पुनः मध्यपत्रिका889 वृतो विचित्रनिर्माणश्च। सम्बन्धश्चास्य विशेषतो मस्तिष्कस्य प्राणगुहया पोषणकवृन्तिकाद्वारेण। तद्विशेषवर्णनं तु नाड़ीखण्डे (८४ पृष्ठे) द्रष्टव्यम्। सूक्ष्मनिर्माणं पुनरस्य नाड़ीतन्त्रोक्तक्षेत्रवस्तुवद्वस्तुना। मध्यपत्रिकानिर्माणं तु निर्यासगर्भैरणुकोषैरिति विशेषः।
अस्य च ग्रन्थेः पश्चिमार्धस्य कार्य परीक्षकैरित्थं निर्णीतम्। अस्य सारांशश्चेत् पृथक्कृत्य प्रयुज्यते त्वक्पथेन सिरापथेन वा, तदेमानि लिङ्गानि प्रादुर्भवन्ति-शोणितस्य माधुर्यवृद्धिः, सिराधमनीनां प्राचीरसङ्कोचाद् रक्तचापवृद्धिः890 मन्तव्यः।"), आन्त्रपेशीनां वस्तिपेशीनां गर्भाशयपेशीनाञ्च दृढ़सङ्कोचः, मूत्रस्य मात्राल्पत्वं, हृद्बलवृद्धिश्च—इति। अतएवास्य सारः हस्तिमेहे वहुमूत्रताप्रतिषेधाय, गर्भस्रावे, गर्भपाते, प्रसवानन्तरं वा रक्तस्त्रावनिवारणाय च प्रयुज्यते कुशलैः। हृद्दौर्बल्ये चप्रत्यक्षफलत्वाद् बहुसमादृतोऽयं ग्रन्थिसारः पाश्चात्यानाम्।
सन्ति च मातृकाग्रन्थ्यादयः केचनाऽन्येऽपि क्षुद्रा ग्रन्थयस्तादृशा एव स्वरूपतः। ते अपरिज्ञात-कार्यत्वान्न चिन्त्यन्ते विस्तरेण। तत्परिचयमात्रन्तु यथा—
(१) मातृकाग्रन्थी891.")नाम द्वौ क्षुद्र ग्रन्थी गलपार्श्वयोः—तयोरेकैंको महामातृकधमन्याः विभागस्थाने एकैकतो दृश्यः।
(२) तृतीयदृक्कन्दिका892 नाम—क्षुद्रग्रन्थिः मस्तिष्कमूलपिण्डस्याऽधो मध्यरेखायां दृश्यः। तं योगिनां योगसाधनेन, केषाञ्चित् प्राणिनां तु स्वभावेन, तृतीयदृगुन्मेषमूलं मन्यन्ते केचित्। तद्वर्णनं नाड़ीखण्डे (८४ पृष्ठे ) द्रष्टव्यम्।
(३) कन्दमूलग्रन्थिः893नाम—क्षुद्रग्रन्थिः चटकाण्डवद्रूपः इड़ापिङ्गलाख्ययोः स्वतन्त्रनाड़ी-शृङ्खलयोर्मेलकस्थाने, अनुत्रिकास्थ्नः उत्संगे वर्त्तते—इति नाड़ीखण्डे वर्णनीयम्। तं “ध्वजाधोगुदोर्ध्वं खगाण्डवद्”—इति वर्णयन्ति षट्चक्रवर्णने तन्त्रकाराः894।
अथ उभयतःस्रवा ग्रन्थयः।
सन्ति खल्विह केचन ग्रन्थयः शारीरे येषां सत्स्वपि वहिर्मुखेषु स्रोतःसु बहिर्निःस्रववाहिषु, निगूढ़ान्तरनिःस्रवा अपि स्रवन्ति शोणितजालकान्तरेषु। त एतेउभयतः स्त्रवानाम ग्रन्थयः। तेषां षट् आविष्कृततमाः यथा—(१) यकृत्, (२) अग्न्याशयः, (३।४) वृषणग्रन्थी, (५।६) बीजकोषौ—इति। तेषां स्थान संस्थान-निर्माणानि सकार्याणि वर्णितपूर्वाणि। तत्र विशेषाः यथा—
१। यकृत् नाम सुमहान् ग्रन्थिः ऊरोगुहायां व्याख्यातचरः। तस्य स्थूलनिःस्रवः—मलभूतं पित्तं यद् द्वाभ्यां स्रोतोभ्यामन्ते मिलिताभ्यां निष्पतति ग्रहण्याम्। सूक्ष्मनिःस्रवास्तु—रञ्जकपित्तादयो यकृत्कार्य-वर्णनमुखेनोद्दिष्टपूर्वाः।
२। अग्न्याशयः वर्णितपूर्वः। तस्य स्थूलनिःस्रवः आग्नेयरसो नाम यो ग्रहण्यां निष्पतति पृथक् स्रोतसा पित्तनलिकया मिलितेन। तस्याऽन्तरनिःस्त्रवः अग्निद्वीपाख्यभागेभ्यः प्रवर्त्तमानो रक्तस्त्रोतसि सञ्चरन् रक्तस्य ‘मधुरक’ भागं सर्वधातुपोषणाय परिणमयति। सोऽयं पृथक्कृत्य प्रयुक्तः सद्यः फलदो मधुमेहादौ—इति सूचितपूर्वमग्न्याशयवर्णने।
३\।४। बृषणग्रन्थी मुष्कौ वा नाम शुक्रनिर्मापकौग्रन्थी वर्णितपूर्वौ। तयोः स्थूलनिःस्रवो वहिर्मुखः शुक्रसंज्ञः, स विचित्रप्रभावेभ्यो ग्रन्थिवस्तुनिर्मापककोषाणुकेभ्यो निःसरति। शुक्रान्तश्च दृश्यन्ते सूक्ष्म-सूर्त्राकारा अतिचञ्चलाः मुण्डपुच्छवन्तो जीवाणवः895 (१६१।१६२ चित्रयोः) ते गर्भोत्पादनाय कल्पन्ते स्त्री-बीजाणुकसंयोगेन। सूक्ष्मनिःस्रवस्तु मुष्कयोः शुक्रसारसंज्ञः शुक्रेण सहोत्पद्यमानः साक्षाद् रक्तस्रोतसि प्रविशति, शुक्रप्रपिकयोः सञ्चिताद् वा शुक्रादाऽकृष्यते, तदेव शुक्रसाराख्यं वस्तु शोणिते सञ्चरत् पुरुषोचितं शरीरावयवसंस्थानं श्मश्रुगुम्फादिलिङ्गानि च जनयति। सोऽयमान्तरनिःस्रवः सर्वशरीरचरः शुक्रसारसंज्ञः। स एव क्वचित् शुक्रसंज्ञयाऽपि व्यपदिष्टः प्राचां ग्रन्थेषु। न हि स्थूलं शुक्रं सर्वशरीरचरं दृश्यते—इति शुक्रसारार्थमेव तत्र शुक्रपदं मन्तव्यम्।
बृषणसम्बन्धि सूक्ष्मशारीरचित्रद्वयम्।
** (१९१ चित्रम्)
(१९२चित्रम्)
मुष्कान्तरोय शुक्रस्त्रोतोन्तरस्था
शुक्रान्तर्दृश्यंक्रिमिसदृशं जीवाणुद्वयम्**
** क्रिमिसदृशाः जीवाणवः । ( एकैकजीवकोषाणुमयम् ) **
| <MISSING_FIG href="../../../books_images/U-IMG-1705648609Screenshot2024-01-19124614.png"/> |
१९१ चित्रव्याख्या—क—गुच्छाकारेण स्थिताः शुक्रजीवाणवः। ख—तदुत्पादकाः कोषाणुकाः। ग— तद्धारकाः कोषाणुकाः।घ—सूक्ष्मकलामयी आवरणी।ड—योजकवस्तु।
१९२ चित्रव्याख्या—मु—शुक्रजीवाणोर्मुण्डम्। श—तस्यैव शरीरम्। पु—तस्यैव पुच्छम्।
५।६। अथ स्त्रीणां बीजकोषौ अपि पुंसां मुष्कवदुभयतःस्रवौ वर्णितचरौ896 ।")। तयोर्बाह्यनिःस्रवो गर्भोत्पादकानां बीजाणूनां धारणः, ते हि मासि मासि आर्त्तवकाले प्रक्षरन्ति बिजवाहिन्योः, नीयन्ते च गर्भाशये आषोड़शरात्रम् आ-विंशतिरात्रंवेत्युक्तम्। आर्त्तवशोणितन्तु गर्भाशयान्तरीयकलया सह निःस्रवत् तेन मिश्रोभवति, न तु तदेव शोणितं गर्भकरम्897। आन्तरनिःस्रवस्तु बीजकोषयोः पृथगेव, स शुक्रसारवत् सर्वशरीरचरः, तत्प्रभावादेव योषितां यौवनारम्भात् प्रभृति सौन्दर्य-सौकुमार्यादिकं स्तन-योनि-गर्भाशयादिपरिवर्त्तनविशेषाश्च प्रादुर्भवन्ति। स च सद्योमारितस्त्रोपशूनां बीजकोषाभ्यां पृथक्कृत्य त्वक्पथेन प्रयुक्तो नष्टार्त्तवानामार्त्तवप्रदो भवति प्रायशः—इति नव्यपरीक्षकाणां परीक्षासिद्धः सिद्धान्तः।
इति पञ्चमोऽध्यायः898।
इति
वङ्गाधिपतिश्रीमन्महाराजलक्ष्मणसेननरपतेः सभापण्डितस्य महाकविधोयीसेन-
कविराजस्य वंशधुरेण श्रीमन्नारायणकरुणावतारश्रीकृष्णचैतन्यतनयीकृत-
धन्यनिश्रीमद्रघुनन्दनगोस्वामिदौहित्रकुलोद्भवेन निखिलराढभूमि-
सौरभप्रभवश्रीखण्डपुरवास्तव्य-विद्याकल्पद्रुमेत्यन्वर्थनामधेय-
सर्वतन्त्रस्वतन्त्रश्रीविश्वनाथोपमविश्वनाथकविराजात्मजेन
महामहोपाध्याय-श्रीगणनाथसेनशर्म-सरस्वती-
विद्यासागर-वैद्यावतंस एम्.ए, एल, एम, एस्
इत्याद्युपाधिकेन प्राणाचार्येण विरचिते
प्रत्यक्षशारीरे
पेशी-धमनी-सिरा-रसायन्याशयादिवर्णनीयो
नाम
द्वितीयो भागः
समाप्तः।
।श्रीकृष्णचरणार्पणमस्तु।
]
-
“पञ्चम-पष्टाध्यायौ नवीनसंस्करणे सं १९९८ जन्माष्टम्यां योजितौ।” ↩︎
-
“चरक० सूत्र० १२ अ०।” ↩︎
-
“यथा मांसतन्तूनामाकुञ्चनप्रसारणाथयोः।” ↩︎
-
“स्वतन्त्राः=Involuntary muscles.” ↩︎
-
“परतन्त्राः=Voluntary muscles.” ↩︎
-
“वेमा=Spindle तन्तुवायानां सूत्रगतागतकारको यन्त्रबिशेषः। सच मध्ये स्थूलः प्रान्तयोस्तनुरिति तत्सादृश्यं कासाञ्चित् पेशीनाम्।” ↩︎
-
“कण्डराः=Tendons.” ↩︎
-
“कण्डराः कण्डराविताना वा=Aponeuroses.” ↩︎
-
“बहिः-प्रावरणी, मेदोधरा कला वा=Superficial Fascia.” ↩︎
-
“आन्तरप्रावरणी, मांसधरा कला वा=Deep Fascia.” ↩︎
-
“पेश्यन्तरालाः कलाः=Inter-muscular Septa.” ↩︎
-
“लसीका = Lymph.” ↩︎
-
“पेशीरसः=Muscle Juice.” ↩︎
-
“मरण संकोचः=Rigor Mortis.” ↩︎
-
“पेशीसंज्ञा=Muscle-sense.” ↩︎
-
“शिरश्छदा पेशी=Epicranius (Occipito-frontalis. ↩︎
-
“नेत्रनिमीलनी=Orbicularis Oculi.” ↩︎
-
“भ्रू सङ्कोचनी=Corrugator Supercilii.” ↩︎
-
“ऊर्ध्वदर्शिनी—Superior Rectus. " ↩︎
-
“अधोदर्शिनी—Inferior Rectus.” ↩︎
-
“अन्तदर्शिनी—Internal Rectus. " ↩︎
-
" बहिर्दर्शिनी—External Rectus.” ↩︎
-
“वक्रोर्ध्वदर्शिनी—Superior Oblique. " ↩︎
-
“वक्राधोदर्शिनी—Inferior Oblique.” ↩︎
-
“नेत्रोन्मीलनी—Lavator Palpabrae Super.” ↩︎
-
“नासामूलसंनमनी—Procerus (Pyramidalis Nasi ↩︎
-
“नासासङ्कोचनी—Nasalis (Compressor Nares ↩︎
-
“नासावनमनी—Depressor Septi.” ↩︎
-
“नासाविस्फारणी अग्रिमा—Dilator Nares Anterior.” ↩︎
-
“नासावित्फारणी पश्चिमा—Dilator Nares Posterior.” ↩︎
-
“मुखमुद्रणी—Orbicularis Oris.” ↩︎
- ↩︎
-
“सृक्कणीसमुन्नमनी—Caninus (Lev. Anguli Oris. ↩︎
-
“सृक्कणी कषणी—Zygomaticus (major & minor ↩︎
-
“कपोलिका—Buccinator. " ↩︎
-
“प्रहासनी—Risorus.” ↩︎
-
“सृक्कणीनमनी—Triangularis (DepressorAnguli Oris. ↩︎
-
“अधरावनमनी—Quadratus LabiiInferioris.” ↩︎
-
“अधरोतुक्षेपणी—Mentalis ( Lavator Menti. ↩︎
-
“शंखच्छदा—Temporalis” ↩︎
-
“हनुकूटकर्षणी—Masseter. [* Parotid Gland]” ↩︎
-
“हनुमूलकर्षणी उत्तरा—External Pterygoid, " ↩︎
-
“सैव अधरा—Internal Pterygoid.” ↩︎
-
“कर्णपूर्विका—AuricularisAnterior ( Attrahens aurem ↩︎
-
“क्वचित् मानुषेऽपि सक्रियाः।” ↩︎
-
“पञ्च षड् वा परिमाणमासामिति पञ्चषाः।” ↩︎
-
“ग्रीवाप्रच्छदा—Fascia Colli (Deep Cervical fascia. ↩︎
-
“Carotid Sheath.” ↩︎
-
" Mid. Cervical Sheath.” ↩︎
-
“Parotideo-masscteric fascia.” ↩︎
-
“Pre-ver-tebral fascia.” ↩︎
-
“एते विभागाः शवव्यवच्छेदकाले सम्यग् द्रष्टव्याः। "
↩︎ -
“गलपार्श्वच्छदा— Platysma.” ↩︎
-
“उरःकर्णमूलिका—Sterno-mastoid. " ↩︎
-
“द्विगुम्फिका—Digastric. " ↩︎
-
“शिफाकण्ठिका—Stylo-hyoid. " ↩︎
-
“मुखभूमिकण्ठिका—Mylo-hyoid.” ↩︎
-
“चिबुककण्ठिका—Genic-hyoid.” ↩︎
-
“उरःकण्ठिका—Sterno-hyoid.” ↩︎
-
“उरोऽवटुका—Sterno-thyroid.” ↩︎
-
“अवटुकठिका—Thyro-hyoid.” ↩︎
-
“अंसकण्ठिका—Omo-hyoid.” ↩︎
-
“दीर्घग्रीविका—Longus colli.” ↩︎
-
“द्वौ त्रयो वा—इत्यथः।” ↩︎
-
“दीघशिरस्का—Longus Capitis.” ↩︎
-
“शिरःपूर्वदण्डिका—Rectus Capitis anterior.” ↩︎
-
“शिरःपार्श्वदण्डिका—Rectus Capitis Lateralis ( or Posterior ↩︎
-
“पर्शुकाकर्षणीसंज्ञाः पेश्यः—Scaleni muscles.” ↩︎
-
“अंसोन्नमनी—Levator Scapulae.” ↩︎
-
“पृष्ठच्छदा—Trapezius.” ↩︎
-
“सैव अधरा—Splenius Cervicis.” ↩︎
-
“पृष्टदण्डिकाशिरोयुजा—Longissimus Capitis (Trachelo-mastoid ↩︎
-
“शिरोग्रीवपृष्ठिका—Semi-spinalis Capitis (Complexus ↩︎
-
“शिरःपृष्ठदण्डिकागुर्वी लघ्वी च—Rectus Capitis Posticus—major & minor.” ↩︎
-
“उत्तरतिरश्श्चीना-Obliqus Capitis Superior.” ↩︎
-
“अधरतिरश्चीना—Obliqus Capitis Inferior.” ↩︎
-
“ग्रीवार्द्धपृष्ठिका—Semispinalis Cervicis.” ↩︎
-
“कपालमूलिकं त्रिकोणम्—Sub-occipital triangle.” ↩︎
-
“Constrictors ofPharynx—Superior, Middle & Inferior.” ↩︎
-
“Stylo-pharyngeus” ↩︎
-
“Tensor tympani.” ↩︎
-
“आसां पेशीनां आग्लभाषीय संज्ञाः स्वरयन्त्रवर्णने दृष्टव्याः।” ↩︎
-
“पृष्ठच्छदा-Trapezius” ↩︎
-
“कटिपार्श्वच्छदा- Latissimus Dorsi.” ↩︎
-
“अंसापकर्षणी लघ्वीगुर्वी च—Rhom boideus—minor and major.” ↩︎
-
“असोन्नमनी—Levator Scapulae. सेयं १८ पृष्ठे वर्णिता” ↩︎
-
“पश्चिमारित्रा उत्तरा अधरा च—Serratus Posticus—Superior and Inferior. अग्रिमारित्रा तु उरःपेशीषु वर्णनीया।” ↩︎
-
“त्रिकपृष्टिका—Sacrc-spinalis.” ↩︎
-
“तस्या अनुवंश भागः—Spinalis Dorsi.” ↩︎
-
“मध्यपृष्टिक भागः ( ग्रीवागः, पृष्टगश्च ↩︎
-
“अनुपार्श्विक भागः—( ग्रीवागः, पृष्टगः, कटिगश्च ↩︎
-
“पृष्ठार्धपृष्टिका—Semispinalis Dorsi.” ↩︎
-
“मेरुधारिणी—Multifidus Spinæ.” ↩︎
-
“मेरुविवर्त्तनिका—Rotatores—Inter-spinalis and Inter-transversalis.” ↩︎
-
“कटिपृष्टप्रच्छदा प्रावरणी—Lumbc-dorsal Fascia.” ↩︎
-
“कटिचतुरस्रा—Quadratus Lamborum.” ↩︎
-
“कटिलम्बिनी दीर्घा हस्वा च—Psoasmagnus and parvus,” ↩︎
-
“गवीनी नाम मूत्रवहा नालिका, या बृक्काद्विनिर्गत्य वस्तिपार्श्वैप्रतिवद्धा—Ureter.” ↩︎
-
“अक्षकाधरा—Sub-clavius.” ↩︎
-
“उरश्छद। गुर्वी—Pectoralis major.” ↩︎
-
“उरश्छुदा लघ्वी—Pectoralis minor.” ↩︎
-
“अग्रिमारित्रा—Serratus Anterior (Serratus magnus ↩︎
-
" पर्शकान्तरिका वहिःस्था—Intercostal External.” ↩︎
-
“पर्शुकान्तरिका अन्तःस्थाः—Intercostal Internal.” ↩︎
-
“उरस्त्रिकोणिका—Transversus Thoracis (Triangularis Sterni ↩︎
-
“पञ्चः षट् वा परिमाणमेवामिति पञ्चषाः। बहुव्रीहिनिष्पन्नोयं प्रसिद्ध प्रयोगः। समासान्तोऽकारः। एवं द्वित्राःत्रिचतुराः इत्यादि प्रयोगाः।” ↩︎
-
“महाप्राचीरा—Disphragm.” ↩︎
-
“व्यतिकरः—सम्पर्कः, परस्पर सन्निधिः (Relations to one another ↩︎
-
“फुस्फुसधराख्य कलाकोषौ—Pleural Sacs.” ↩︎
-
“उदरसीवनी—Linea Alba.” ↩︎
-
“उदरच्छदा आदिमा—Obliqus Externus” ↩︎
-
“७८ चित्रे मध्यमेति या लिखिता सैव आदिमेति संशोधनीया।” ↩︎
-
“Ext. Abdominal Ring.” ↩︎
-
“Inguinal ligament ( of Poupart ↩︎
-
“उदरच्छदा मध्यमा—Internal Oblique.” ↩︎
-
“उदरच्छदा चरमा—Transversalis.” ↩︎
-
“अन्तर्वक्षणीयं च्छिद्रं—Internal Abdominal Ring.” ↩︎
-
“वंक्षणमुरङ्गा—Inguinal Canal.” ↩︎
-
“फलकोषकर्षणी—Cremaster muscle.” ↩︎
-
“उदरान्तश्छदा—Transversalis Fascia.” ↩︎
-
“उदरदण्डिका—Rectus Abdominis.” ↩︎
-
“पर्वलेखाः—Line Tranverse,” ↩︎
-
“बस्तिचूड़िका—Pyramidalis,” ↩︎
-
“कटित्रिकोणम्—Lumber Triangle (of Petit ↩︎
-
“श्रोणिगुहान्तरीया कला—Pelvic fascia.” ↩︎
-
“श्रोणिपक्षिणी—Iliacus.” ↩︎
-
“श्रोणिगवाक्षिणी अन्तःस्था—Obturator Internus.” ↩︎
-
“पायुधारणी—Levator Ani.” ↩︎
-
“अनुत्रिकिणी—Coccygeus.” ↩︎
-
“वस्तिगुहान्तरीया कला—Endo-pelvic part of Pelvic fascia.” ↩︎
-
“मूलाधारपीठं—Perinæum or Perineal Quadrangle.” ↩︎
-
“औपस्थिकं त्रिकोणम्—Uro-genital Triangle.” ↩︎
-
“पायव्य त्रिकोणम्—Anal Triangle.” ↩︎
-
“Perineal Raphe.”
↩︎ -
“गुदकौकुन्दरं खातं—Ischio-rectal fossa.” ↩︎
-
“उपस्थसङ्कोचनी—Bulbo-caver-nosus (Ejaculator Urinæ ↩︎
-
“शिश्नप्रहर्षणी—Ischio-cavernosus ( Erector Penis ↩︎
-
“उपस्थमूलच्छदा अग्रिमा पश्चिमा च—Transversus Perinei—superficialis and profundus.” ↩︎
-
“मूत्रद्वारसङ्कोचनी—Sphincter Urethræmembranacæ.” ↩︎
-
“मूत्रसङ्कोचनी बाह्या अभ्यन्तरी च—Sphincter Ani — Externus and Internus.” ↩︎
-
“सच्चा—Daltoid.” ↩︎
-
“बाहु प्रति समकोणं रचयित्वा ( At Right Angle ↩︎
-
“सान्तरिका—Subscapularis.” ↩︎
-
“अंसपृष्टिक उत्तरा अधराच—Supra-spinatus and Infra-spinatus.” ↩︎
-
“अंसाधारिका गुर्वी लध्वी च—Teres major and minor.” ↩︎
-
“काकोष्टिका—Coraco-brachialis.” ↩︎
-
“Axillary fossa,” ↩︎
-
" द्विशिरस्का बाहवी—Biceps Brachialis.” ↩︎
-
“कूर्परद्वारिका—Brachialis.” ↩︎
-
“त्रिशिरस्का—Triceps Brachii.” ↩︎
-
“करविवत्तनी दीर्घा—Pronator Teres.” ↩︎
-
“मणिबन्धसंकोचनी बहिःस्था—Flexor Carpi Radialis.” ↩︎
-
“करतलप्रसारणी—Palmaris Longus.” ↩︎
-
“मणिबन्धसंकोचनी अन्तःस्था—Flexor Carpli Ulnaris.” ↩︎
-
“अंगुलीसोचनी मध्यपर्विका—Flexor Sublimis Digitorum” ↩︎
-
“अंगुलीसङ्कोचनी अग्रपर्विका—Flexor Profundus Digitorum.” ↩︎
-
“अंगुष्टसंकोचनी दीर्घा—Flexor Pollicis Longus.” ↩︎
-
“करविवत्तैनी चतुरस्रा—Pronator quadratus.” ↩︎
-
" करोत्ताननी दीर्घा—Brachio-radialis.” ↩︎
-
“मणिबन्धापकर्षणी दीर्घा—Extensor Carpi Radialis Longus.” ↩︎
-
“सैवह्रस्वा—Extensor Carpi Radialis Previs.” ↩︎
-
“अंगुलीप्रसारणी साधारणी—Extensor Digitorum Communis.” ↩︎
-
“कनिष्ठाप्रसारणी—Extensor Digiti Quinti Proprius.” ↩︎
-
“मणिबन्धापकर्षणी करभिका—Extensor Carpi Ulnaris.” ↩︎
-
“कूर्परपृष्टिका—Anconeus.” ↩︎
-
“करोत्ताननीह्रस्वा—Supinator.” ↩︎
-
“अंगुष्ठापकर्षणी दीर्घा—Abductor Policis Longus.” ↩︎
-
“अंगुष्ठप्रसारणी ह्रस्वा—Extensor Pollicis Brevis.” ↩︎
-
“अंगुष्ठप्रसारण दीर्घा—Extensor Pollicis Longus.” ↩︎
-
“तर्जनीप्रसारणी—Extensor Indicis Proprius.” ↩︎
-
“प्रकोष्ठाधरीया अग्रिमा—Volar Carpal Ligament.” ↩︎
-
“८५। ८७ चित्रयोः प्रमादात् कङ्कणिकेति लिखितं पट्टिकाद्वयं क्रमेणप्रकोष्ठाधरीया अग्रिमा, पश्चिमा चेति अवगन्तव्यम्। प्रमादश्च क्षन्तव्यः।” ↩︎ ↩︎
-
“प्रकोष्ठाधरीया पश्चिमा—Dorsal Carpal Ligament.” ↩︎
-
“अंगुष्ठापकर्षणी ह्रस्वा—Abductor Pollicis Brevis.” ↩︎
-
“अंगुष्टजापिनी—Opponens Pollicis.” ↩︎
-
“गुष्टसंकोचनो हस्वा—Flexor Pollicis Brevis. दीर्घा तु ५३ पृष्ठे वर्णिता।” ↩︎
-
“अंगुष्ठमूलकर्षणी—Adductor Pollicis.” ↩︎
-
“करभसंकोचनी—Palmaris Brevis.” ↩︎
-
" मणिबन्धादाकनिष्ठ करस्य करभो बहिः —इत्यमरः।” ↩︎
-
“कनिष्ठापकर्षणी—Abductor Digiti Quinti.” ↩︎
-
“कनिष्ठासंकोचनी—FlexorDigiti Quinti Brevis.” ↩︎
-
“कनिष्ठामूलकर्षणी—Opponens Digiti Quinti.” ↩︎
-
“करानुकण्डरिकाः—Lumbricales.” ↩︎
-
“अग्रिमाः शलाकान्तरीयाः—Volar Inter-ossei.” ↩︎
-
“पश्चिमाः शलाकान्तरीयाः—Dorsal Inter-ossei.” ↩︎
-
“नितम्बपिण्डिका गरिष्ठा—Gluteus Maximus.” ↩︎
-
“नितम्बपिण्डिका मध्यमा—Gluteus Medius.” ↩︎
-
“नितम्बपिण्डिका लघिष्ठा—Gluteus Minimus.” ↩︎
-
“श्रोणिगवाक्षिणी अन्तःस्था—Obturator internus.” ↩︎
-
“ऊरुचतुरस्रा—Quadratus Femoris.” ↩︎
-
“श्रोणिगवाक्षिणी बहिःस्था—Obturator Externus.” ↩︎
-
“ऊरुकञ्चुकाकर्षणी—Tensor VaginæFemoris.” ↩︎
-
“दीर्घायामा—Sartorius.” ↩︎
-
“ऊरुदण्डिका—Rectus Fcmoris.” ↩︎
-
“ऊरुप्रसारणी बाह्या—Vastus Externus.” ↩︎
-
“ऊरुप्रसारणी अन्तःस्था—Vastus Internus.” ↩︎
-
“ऊरुप्रसारणी मध्यस्था—Vastus Medius.” ↩︎
-
“जानुकोषकर्षणी—Articularis Genu (Sub-crureus ↩︎
-
“ऊर्वन्तःपट्टिका—Gracilis.” ↩︎
-
“कङ्कतिका—Pectineus.” ↩︎
-
“ऊरुसंव्यूहनी दीर्घा—Adductor Longus.” ↩︎
-
“ऊरुसंव्यूहनी ह्रस्वा—Adductor Brevis.” ↩︎
-
“ऊरुसव्यूहनी गरिष्ठा—Adductor Magnus.” ↩︎
-
“द्विशिक और्वी—Biceps Femoris.” ↩︎
-
“जानुकषणी कण्डराकल्पा—Semi-tendinosus.” ↩︎
-
“जानुकर्षणी कलाकल्पा—Semi-membranosus.” ↩︎
-
“जंघापुरोगा—Tibialis Anterior.” ↩︎
-
“पादाङ्गुष्ठप्रसारणी दीर्घा—Extensor Hallucis Longus.” ↩︎
-
“पादाङ्गुलीप्रसारणी दीर्घा—Extensor Digitorum Longus.” ↩︎
-
“पादविवर्त्तनी तृतीया—Peroneus Tertius.” ↩︎
-
“जंघापिण्डिका गुर्वी—Gastrocnemius.” ↩︎
-
“जंघापिण्डिका लध्वी—Soleus.” ↩︎
-
“जंघापिण्डिका तृतीया—Plantaris. " ↩︎
-
“जानुपृष्ठिका—Popliteus.” ↩︎
-
“पादाङ्गुष्ठसङ्कोचनी दीर्घा—Flexor Hallucis Longus.” ↩︎
-
“पादाङ्गुलिसंकोचनी दीर्घा—FlexorDigitorum Longus.” ↩︎
-
“जंघानुगा—Tibialis Postericr.” ↩︎
-
“पादविवर्त्तनी दीर्घा—Peroneus Longus.” ↩︎
-
“पादविवत्तनी ह्रस्वा—Peroneus Brevis.” ↩︎
-
“पादाङ्गुलिप्रसारणी ह्रस्वा—Extensor Digitorum Brevis.” ↩︎
-
“पादाङ्गुष्ठापकर्षणी—Abductor Hallucis.” ↩︎
-
“पादांगुष्ठसङ्कोचनी ह्रस्वा—Flexor Digitorum.” ↩︎
-
“पादकनिष्ठापकर्षणी—AbductorMinimi Digiti.” ↩︎
-
“पादतलचतुरस्रा—Quadratus Plante.” ↩︎
-
“पादानुकण्डरिकाः—Lumbricales.” ↩︎
-
“पादांगुष्ठसङ्कोचनी ह्रस्वा—Flexor Hallucis Brevis.” ↩︎
-
“पादांगुष्ठप्रकर्षणी—Adductor Hallucis. प्रकर्षणं नाम मध्यरेखां प्रति अतिसान्निध्येनाकर्षणम्।” ↩︎
-
“कनिष्टासङ्कोचनी ह्रस्वा—Flexor Minimi Digiti Bevis.” ↩︎
-
“उत्तराः शलाकान्तरीयाः—Dorsal Inter-ossei.” ↩︎
-
“अकर्षणं नाम मध्यरेखातो दूरे कर्षणम्।” ↩︎
-
“अधराः शलाकान्तरीयाः—PlanterInter-ossei. " ↩︎
-
“कङ्कालम्।” ↩︎
-
“लसीका—Lymph.” ↩︎
-
“रक्तमस्तु—Serum.” ↩︎
-
“रक्तकणिकाः—Red Cor-puscles” ↩︎
-
“श्वेतकणिका—White Corpuscles.” ↩︎
-
“अनुचक्रिका—Blood Platelets.” ↩︎
-
“धमन्यः—Arteries.” ↩︎
-
“सिराः—Veins.” ↩︎
-
“सिरा-धमनीसंज्ञयोर्निरुक्तिस्तु—हृदयाद् बहिःप्रवाहिन्यो धमन्यः,हृदयाभिमुखं प्रवाहिन्यः सिराः—इति स्मर्त्तव्यम्। शुद्धाशुद्धरक्तप्रवहणं तु तटस्थलक्षणं,फुस्फुसीयसिराधमनीषु अन्यथा दर्शनात्।” ↩︎
-
“बाह्या प्राचीरिका—External Coat orTunica Adventitia.” ↩︎
-
“मध्यप्राचीरिका—Middle Coat or Tunica Media.” ↩︎
-
“आभ्यन्तरी प्राचोरिका—Internal Coat or Tunica Intima.” ↩︎
-
“Endothelial Membrane.” ↩︎
-
“Sheaths of Arteries.” ↩︎
-
“सिराकपाटिकाः—Valves of Veins.” ↩︎
-
“जालकानि – Capillary Networks.” ↩︎
-
“हृदयं – Heart.” ↩︎
-
“रक्तसंवहनं- Circulation of blood.” ↩︎
-
“सामान्यकायिकम् – General Circulation.” ↩︎
-
“फौस्फुसम् – Pulmonary Circulation.” ↩︎
-
“याकृतं रससंवहनं - Portal Circulation.” ↩︎
-
“लसीकासंवहनम् –Lymph-circulation.” ↩︎
-
“जत्रुपदमक्षकास्थिपरम्” ↩︎
-
“पयस्विन्यः - Lacteals.” ↩︎
-
“फुस्फुसान्तरालं - Mediastinum” ↩︎
-
“उत्तरं फुस्फुसान्तरालं- Superior mediastinum.” ↩︎
-
“बालग्रैवेयकं - Thymus Gland.” ↩︎
-
“अग्रिमं फुस्फुसान्तरालं -Anterior mediastinum” ↩︎
-
“मध्यमं फुस्फुसान्तरालं- Middle mediastinum” ↩︎
-
“पश्चिमं फुस्फुसान्तरालं - Posterior mediastinum” ↩︎
-
“क्लोम-नलिका – श्वासमार्गः” ↩︎
-
“हृदयम् - Heart” ↩︎
-
“अलिन्द - Auricle,” ↩︎
-
“निलयः -Ventricle” ↩︎
-
“दक्षिणालिन्दः - Right Auriicle” ↩︎
-
“दक्षिणनिलयः - Rijght Ventricle.” ↩︎
-
“त्रिपत्रकपाटम् - Tricuspd Valve.” ↩︎
-
“कपाटस्तम्भिका - Masculæ Papillares” ↩︎
-
“सूत्रकण्डरिका - Chorde Ten- dine.” ↩︎
-
“फुस्फुसधमनीद्वारम् - Opening of Pulmonary Artery.” ↩︎
-
“अर्धेन्दुकपाटिकाः - Semilunar Valves.” ↩︎
-
“वामालिन्दः – Left Auricle.” ↩︎
-
“फुस्फुसोत्थसिरा - Pulmonary Veins.” ↩︎
-
“वामनिलयः - Left Ventricle.” ↩︎
-
“द्विपत्रकपाटं-Bicuspid or Mitral Valve,” ↩︎
-
“महाधमनीद्वारम् - Aortic Opening.” ↩︎
-
“अलिन्दसङ्कोचः – Auricular Systole” ↩︎
-
“निलयसङ्कोचः- Ventricular Systole.” ↩︎
-
“अलिन्दविस्फारः – Auricular Diastole.” ↩︎
-
“निलयविस्फारः – Ventricular Diastole. स्थूलतस्तु सङ्कोचः- Systole विस्फारः – Diastole.” ↩︎
-
“विपलद्वयं – Five Seconds. एवञ्च प्रतिमिनिटं ( per minute ↩︎
-
" हृतुकार्यचक्र – Cardiac Cycle.” ↩︎
-
" षड्वारमिति प्रायिको नियमो यूनाम् । बालानान्तु सप्तवारमष्टवारं वा । दशवारं त्वेकद्विवर्षीय बालानाम् । वयोवृद्धौ तु क्रमशो वेगहासः, येन बृद्धानां पञ्चवार मपि विपलद्वये हतूकार्यचक्र प्रवर्त्तते ।” ↩︎
-
“हृच्छन्दः–Heart Sound.” ↩︎
-
“हृत्प्रतीघातः - Cardiac Impulse.” ↩︎
-
“धमनी- प्रतीघातः – Pulse beat. (which as usually 70 to 80 per minute. ↩︎
-
“धमनी- स्पर्शविज्ञानमेव लोके नाड़ी विज्ञानमित्युच्यते । तत्र नाड़ीशब्दो धमन्यर्थे दुष्प्रयुक्तः ।” ↩︎
-
“गर्भस्थशिशोः रक्त संवहनम् - FoetalCirculation.” ↩︎
-
“गर्भनाड़ी, नाभिनाड़ी,नाभिनालं वा - Umbilical Cord.” ↩︎
-
“अपरावा - Placenta.” ↩︎
-
“तथा च भोजः-“सा नाड़ी गर्भमाप्नोति तथा गर्भस्य वर्त्तनम् । यद्यदश्नाति माताऽस्य भोजनं हि चतुर्विधम्॥ तस्मादन्नाद्सीभूतं वीर्य त्रेधा प्रवर्त्तते । भागः शरीरं पुष्णाति स्तन्यं भागेन वर्धते ॥ गर्भः पुष्यति भागेन वर्धते च यथाक्रमम् । गर्भ कुल्येव केदारं नाड़ी प्रीणाति तर्पिता” ↩︎
-
“संवाहिनी महासिरा - Umbilical Vein.” ↩︎
-
“सेतुसिरा - Ductus Vencsus.” ↩︎
-
“सेतुधमनी - Ductus Arteriosus.” ↩︎
-
“संवाहिन्यौ — Hypogastric Arteries.” ↩︎
-
“शुक्तिच्छिद्रं - Foramen Ovale.” ↩︎
-
“फुस्फुसाभिगा धमनी - Pulmonary Artery.” ↩︎
-
“महाधमनी - Aorta.” ↩︎
-
“सहचर्यः – Vane Comites.” ↩︎
-
“रोहिणी महाधमनी - Ascending Aorta.” ↩︎
-
“तोरणी महाधमनी – Aortic Arch.” ↩︎
-
“शरो यथा पुरस्ताद् ऋजुगत्या धावति तद्वद् गत्या” ↩︎
-
“काण्डमूला - Innominate Artery.” ↩︎
-
“अवरोहिणी महाधमनी - Descending Aorta.” ↩︎
-
“औरसी महाधमनी- Thoracia Aorta,” ↩︎
-
“श्रौदरी महाधमनी - Abdomina! Aprta.” ↩︎
-
“अधिश्रोणिके बाह्ये - Ext. Iliac Arteries” ↩︎
-
“अधिश्रोणिके आभ्यन्तरे- Internal lliac Arteries.” ↩︎
-
“वामा महामातृका - Left Common Carotid” ↩︎
-
“दक्षिणा महामतृका - Right Common Carotid” ↩︎
-
“बहिर्मातृका - External Carotid” ↩︎
-
“। उत्तरग्रीविका धमनी - Superior Thyroid Artery” ↩︎
-
" अनुजिह्निका धमनी- Lingual Artery, " ↩︎
-
" बहिनव्या धमनी - External Maxillary or Facial Artery” ↩︎
-
“अन्तनिव्या धमनी - Internal Maxillary Artery” ↩︎
-
" अन्नद्वारिणी ऊर्ध्वगा धमनी - Ascending Pharyngeal Artery” ↩︎
-
" कपालमूलिनी धमनी - Occipital Artery.” ↩︎
-
" पश्चिमकर्णिका घo - Posterior Auricular Artery” ↩︎
-
" अनुशङ्खा उत्ताना ध०– Superficial Temporal Artery” ↩︎
-
" अन्तर्मातृका धः - Internal Carotid Artery.” ↩︎
-
" मस्तिष्कमातृके धमन्यौ- Vertebral Arteries.” ↩︎
-
“मस्तिष्कमूलिकं धमनीचक्रम् - The Arterial Circle of Willis” ↩︎
-
" और, उरावा - इति द्विविधमपि रूपं साधु, नतु और इति । तस्मात् क्वचित् लिपिकरप्रमाददर्शनात् न भ्रमितव्यम् । उरस्यापदन्तु विशेषेण फुस्फुसघरकलार्थे निरूद्धमत्र शास्त्रे । अतः सिराधमन्यर्थे औरसीति विशेषणमेवेह प्रयोक्तव्यम् । ( औरसी = Thoracic. ↩︎
-
“अक्षाधरे धमन्यौ - Subclavian Arteries.” ↩︎
-
“अन्तःस्तनिका धमनी - Internal Mammary Artery.” ↩︎
-
“श्रदर्यः धमन्यः - Abdominal Arteries. औदरीति उदयेति च उभयमपि पदं साधु, न।” ↩︎
-
" अदरका धमनी - Coeliac Axis.” ↩︎
-
“अक्षो नाम चक्रस्य नाभिभागः यत्र संयुज्यन्ते दण्डवद् अराः।” ↩︎
-
" अभियाकृती धमनी - Hepatic Artery” ↩︎
-
" अभिलीहिका धमनी - Splenic or Lienal Artery” ↩︎
-
“अग्न्याशयः – Pancreas.” ↩︎
-
" अन्त्रिी धमनी - Inferior Mesenteric Artery” ↩︎
-
" मध्यमे अधिवृक्किन्यौ धमन्यौ — Middle Supra renal Arteries” ↩︎
-
“अधिवृक्कौ– Suprarenal Bodies” ↩︎
-
“अधरे अधिबृक्किन्यौ धमन्यौ—Side-Branches of Suprarenal Arteries,” ↩︎
-
“अनुवृषणिके धमन्यौ—Testicular Arteries.” ↩︎
-
“अधरे महाप्राचीरिके (घ० ↩︎
-
“अनुकटिका (ध ० ↩︎
-
“त्रिकमध्या (ध० ↩︎
-
“अधिश्रोणिके साधारण्यौ (ध० ↩︎
-
" अधिश्रोणिका बाह्या धमनी - External lliac Artery” ↩︎
-
“अधिश्रोणिका आभ्यन्तरी धमनी—Internal or Hypogastric Artery.” ↩︎
-
" उत्तरा वस्तिगा धमनी - Superior Vesical Artery.” ↩︎
-
" धरा वस्तिगा धमनी- Inferior Vesical Artery” ↩︎
-
" मध्यमा गुदान्तिका धमनी— Middle Hæmorrhoidal Artery.” ↩︎
-
" गुदोपस्थिका धमनी - Internal Pudendal Artery.” ↩︎
-
“अनुगर्भाशया धमनी — Uterine Artery” ↩︎
-
“अनुवीजकोषिका धमनी - Ovarian Artery, -” ↩︎
-
" श्रोणिवंक्षणिका धमनी — Obturator Artery.” ↩︎
-
" अधरा नितम्बिनी ध० — Inferior Gluteal Artery.” ↩︎
-
“कटिश्रोणिका ध० — Ileo - Lumbar Artery,” ↩︎
-
" सुषुम्नाचामरः — Cauda Equina. " ↩︎
-
“त्रिकपार्शिवका ध० — Lateral Sacral Artery.” ↩︎
-
“उत्तरा नितम्बिनी धo —Superior Gluteal Artery.” ↩︎
-
“कक्षाधरा (ध० ↩︎
-
“। ऊर्ध्वारका (ध० ↩︎
-
" अंसोरस्का (ध० ↩︎
-
" दीर्घोरस्का धमनी – Lateral Thoracic Artery.” ↩︎
-
" अंसकपालिनी धमनी- Subscapular Artery.” ↩︎
-
" अंसवेष्टनिका अग्रिमा पश्चिमा च ( धमन्यौ ↩︎
-
" बाहवी धमनी - Axillary Artery.” ↩︎
-
" अन्तर्बाहुका सिरा — Basilic Vein.” ↩︎
-
" मध्यप्रकोष्टिका नाड़ी - Median Nerve” ↩︎
-
" गम्भीरप्रगण्डिका ( घ ० ↩︎
-
“। प्रगण्डास्थिपोषणी ( घ ० ↩︎
-
“कूर्परगा उत्तरान्तरा (घ० ↩︎
-
" कूर्परगा अधरान्तरा ( ध० ↩︎
-
“। बहिः- प्रकोष्ठीया धमनी - Radial Artery.” ↩︎
-
" आरोहिणी बहिःकूर्परिका (ध ० ↩︎
-
" बहिर्मणिबन्धीया अग्रिमा पश्चिमा च ( ध० ↩︎
-
" धानुषीयोजनी उत्ताना (घ० ↩︎
-
“शलाका—पृष्ठिका प्रथमा (ध. ↩︎
-
“करतलधानुषी गम्भीरा (ध० ↩︎
-
“अन्तःप्रकोष्ठीया धमनी — Ulnar Artery.” ↩︎
-
" कूर्परान्तरिके (६० ↩︎
-
“अरत्निमध्या साधारणी (ध० ↩︎
-
" अन्तर्मणिबन्धीये (घ० ↩︎
-
" धानुषो योजनी गम्भीरा (घ ० ↩︎
-
" करतलधानुषी उत्ताना धमनी - Superficial Volar Arch.” ↩︎
-
“। करतलधानुषी गम्भीरा (ध ० ↩︎
-
" शलाकापृष्टिकाः धमन्यः - Dorsal Metacarpal Arteries” ↩︎
-
" और्वी धमनी– Femoral Artery.” ↩︎
-
" उत्ताना श्रदरिकी धमनी - Superficial Epigastric Artery.” ↩︎
-
" उत्तानजधनिका वेष्टनी ( ६० ↩︎
-
“बहिरौपस्थिक्यौ ( ध० ↩︎
-
“। गम्भीरोरुका (६० ↩︎
-
" महाजानुका (घ ० ↩︎
-
" ऊरुजानुपृष्ठिका ( ध० ↩︎
-
“। पुरोजङ्घिका (ध० ↩︎
-
" जानुगा अग्रारुहा, पृष्ठारुहा च (ध० ↩︎
-
“अग्रिमा अन्तर्गुल्फिका (ध ० ↩︎
-
“ग्रम बहिर्गुल्फिका (ध ० ↩︎
-
“पश्चिम- जङ्घिका (ध० ↩︎
-
" पेशीगाः मांसगाश्चेति पदद्वयं तुल्यार्थम् ।” ↩︎
-
" बहिर्जङ्घिका ( थ० ↩︎
-
“अग्रिमा बहिर्जङ्किका घ० – Anterior Peroneal Artery.” ↩︎
-
" अन्तर्गुल्फिका पश्चिमा ध० – Posterior Internal Malleolar Artery.” ↩︎
-
“पादपृष्ठिका धमनी - Dorsalis Pedis Artery.” ↩︎
-
" पादतलीया आन्तरी, बाह्या च ( ध० ↩︎
-
" पादतलधानुषी (घ ० ↩︎
-
“सिरापदं प्रत्यक्षशारीरे पारिभाषिकार्थविशेषे रूढ़म्। वैद्यके तु क्वचिद् धमन्यर्थेऽपि तत्-प्रयोगः। विवेचितञ्चैतदस्मदीये “संज्ञापञ्चकविमर्शो”।” ↩︎
-
“विष्णुपदामृतं - Oxygen” ↩︎
-
“उत्तरोत्तरसंयोगपुष्टा हि सिराः स्थूल-स्थूलतराकृतयः, उत्तरोत्तरविभागमूलास्तु धमन्यः क्रमशस्तनूभूताः " ↩︎
-
" Cranial Sinuses.” ↩︎
-
" सिराप्राचीरिकाः – Media or Wails of Veins” ↩︎
-
" सिराकपाटिकाः- Valves of Veins,” ↩︎
-
" सिराकञ्चुकानि— Sheaths of Veins” ↩︎
-
“यथा बाहवी धमन्याः तत्स्थूलशाखानाञ्च सहचर्यः।” ↩︎
-
" बहिर्बाहुका सिरा-cephalic Vein " ↩︎
-
" अन्तर्बाहुका सिरा–2asilic Vein.” ↩︎
-
" मध्यबाहुका योजनी सिरा- Median Cubital Vein.” ↩︎
-
“मध्यप्रकोष्ठिका सिरा - Median Ante-brachial Vein” ↩︎
-
" यथा फिरङ्गरोगादिषु ।” ↩︎
-
“अङ्गुलीपार्श्विक्यः सिराः— Digital Veirs.” ↩︎
-
" करतलधानुषी सिरा- उत्ताना, गम्भीरा च Superficial & Deep Palmar Arches (Venous ↩︎
-
" अरत्निमध्या सिरा - Inter-osseous Vein.” ↩︎
-
" कक्षाधरा सिरा — Axillary Vein.” ↩︎
-
“अक्षाधरा सिरा— Subclavian Vein.” ↩︎
-
" दीर्घोत्ताना सिरा – Long Sapheneus Vein. " ↩︎
-
" हस्वोत्ताना सिरा - Short Sapheneus Vein.” ↩︎
-
" अधिश्रोणिका सिरा – The External lliac Vein.” ↩︎
-
" नासामूलिका सिरा - Angular Vein.” ↩︎
-
“अग्रिमवक्तृका सिरा - Anterior Facial Vein.” ↩︎
-
“अनुशङ्खा सिरा - Superficial Temporal Vein. " ↩︎
-
“अन्तर्हानव्या सिरा – Internal Maxillary Vein.” ↩︎
-
" पश्चिमकर्णिका सिरा - Posterior: Auricular Vein.” ↩︎
-
" पश्चिमवक्तिका सिरा - Posterior Facial Vein.” ↩︎
-
" कपालमूलिका सिरा- Occipital Vein.” ↩︎
-
" पुरोग्रीविका सिरा – Anterior Jugular Vein.” ↩︎
-
" अनुमन्या सिरा — Internal Jugular Vein." ↩︎
-
“अधिमन्या सिरा - External jugular Vein.” ↩︎
-
" पश्चिमग्रीविका सिरा - Posterior External Jugular Vein." ↩︎
-
“मस्तिष्कमातृका सिरा—Vertebral Vein.” ↩︎
-
" कपालपत्रान्तरिकाः सिराः- Diploic Veins." ↩︎
-
“। महती मस्तिष्कमूलिका सिरा - Great Cerebral Vein. " ↩︎
-
" अनुमस्तिष्कपदेन धम्मिल्लकोष्णीषकयोर्ग्रहणेऽपि अत्र प्रधानतो धम्मिल्लकवाचकमेतत् उष्णीषकप्रभवानां सिराणामग्रे पृथगभिधानातू ।” ↩︎
-
“। सिरासरितः, सिराकुल्याः वा - Venous Sinuses” ↩︎
-
" दीर्घिका उत्तरा सिरासरित्- Superior Sagittal Sinus." ↩︎
-
" सिरापल्वलानि - Venous Lacunce." ↩︎
-
“। दीर्घिका अधरा - Inferior Sagittal Sinus.” ↩︎
-
“। दीर्घिकायोजनी - Straight Sinus " ↩︎
-
“अनुपार्श्विके –Transverse Sinuses.” ↩︎
-
" पश्चिमकपालिका - Occipital Sinus,” ↩︎
-
" महासिरावर्त्तः - Confluence of Sinuses." ↩︎
-
“त्रिकोणिके – Cavernous Sinuses” ↩︎
-
“त्रिकोणिकायोजन्यौ- Inter-cavernous Sinuses.” ↩︎
-
“अश्मतटिन्यौ — Petrosal Sup. & Inf, ↩︎
-
" मस्तिष्कमूलिकं सिराचक्रम् — Basilar Plexus.” ↩︎
-
" सिरापरीवाहिकाः — Emissary Veins." ↩︎
-
" गलमूलिके– Innominate Veins." ↩︎
-
" दक्षिणा गलमूलिका – Right Innominate Vein." ↩︎
-
“दक्षिणेति विशेषणं सर्वत्र योजनीयम् । एवमग्रे वामेति विशेषणमपि।” ↩︎
-
“वामा नलमूलिकासिरा —Left Innominate Vein.” ↩︎
-
“अन्तःस्तनिके सिरे - Internal Mammary Veins.” ↩︎
-
“अधरग्रैवेयक्यौ सिरे — Inferior Thyreoid Veins.” ↩︎
-
“पर्शुकानुगाः सिराः - Intercostal Veins.” ↩︎
-
“उत्तरा पर्शुकानुगामेलनी सिरा - Superior Intercostal Vein.” ↩︎
-
" उत्तरा महासिरा - Superior Vena Cava." ↩︎
-
" पुरोवंशिका दक्षिणा सिरा - Azygcs Vein." ↩︎
-
“। पुरोवंशिका वामोत्तरा सिरा - Hemi-azygos Vein.” ↩︎
-
" पुरोवंशिका वामाधरा सिरा - Accessory Hemi-azygos Vein." ↩︎
-
“फुस्फुसीयाः सिराः - Pulmonary Veins.” ↩︎
-
“हार्दिक्यः सिराः - Cardiac Veins.” ↩︎
-
" हार्दिकी मूलसिरा - Coronary Sinus." ↩︎
-
“अधिश्रोणिके बाह्ये सिरे - External lliac Veins.” ↩︎
-
“अधरा औदरिकी सिरा- Inferior Epigastric Vein.” ↩︎
-
“जघनवेष्टनिका गम्भीरा सिरा - Deep Iliac Circumflex Vein” ↩︎
-
" भगानुगा सिरा - Pubic Vein." ↩︎
-
“अधिश्रोणिके आभ्यन्तर्यौ सिरे - Internal lliac or HypogastricVeins.” ↩︎
-
“उत्तराधरनितम्बिन्यः सिराः - Superior and Inferior Gluteal Veins.” ↩︎
-
“श्रोणिवंक्षणिका सिरा - Obturator Vein.” ↩︎
-
" गुदोपस्थिकाः . सिराः – Inferior Pudendal Veins, &" ↩︎
-
“त्रिकपार्श्विक्यः सिराः - Lateral Sacral Veins.” ↩︎
-
" मध्यमा गुदान्तिका सिरा - Middle Hæmorrhoidal Vein." ↩︎
-
“गुदद्वेष्टनं सिराचक्रम्—Hæmorrhoidal Plexus of Veins.” ↩︎
-
“उत्तर-मध्यमाऽधरगुदान्तिकाः सिराः— Superior, Middle & Inferior Hæmorrhoidal Veins. " ↩︎
-
" औपस्थिकं सिराचक्रम्—Pudendal Plexus of Veins.” ↩︎
-
“अनुवस्तिकं सिराचक्रम्—Vesical Plexus of Veins.” ↩︎
-
“अनुयोनि-गर्भाशयिकं सिराचक्रम्—Utero-vaginal Plexus of Veins.” ↩︎
-
“अधिश्रोणि साधारण्यौ काण्डसिरे—Common lliac Veins.” ↩︎
-
“कटिश्रोणिका सिरा—lio-lumber Vein.” ↩︎
-
“त्रिकपार्श्विका सिरा—Lateral Sacral Vein.” ↩︎
-
" त्रिकमध्या सिरा—Middle Sacral Vein." ↩︎
-
“अधरा महासिरा—Inferior Vena Cava.” ↩︎
-
“गवीनी—Ureter.” ↩︎
-
“अनुकटिकाःसिराः—Lumbar Veins.” ↩︎
-
“रोहिणी अनुकटिका सिरा—Ascending Lumbar Vein.” ↩︎
-
“अनुवृषणके सिरे—Testicular Veins.” ↩︎
-
“अनुबीजकोषिके सिरे—Ovarian Veins” ↩︎
-
“अनुवृक्के सिरे—Renal Veins.” ↩︎
-
“अधि-वृक्किण्यौ सिरे—Supra-renal Veins.” ↩︎
-
“अधरमहाप्राचीरिकाः सिराः—Inferior Phrenic Veins.” ↩︎
-
“याकृतसिराः—Hepatic Veins.” ↩︎
-
“प्रतिहारिणी महासिरा—Portal Vein.” ↩︎
-
" तादृशस्य अविशुद्धरक्तस्य विश्वमारकत्वात्।" ↩︎
-
“याकृतपिण्डाणुकसमष्टयस्तु कन्दिकासंज्ञाः। तद्वर्णनं यकृद्वर्णने द्रष्टव्यम्।” ↩︎
-
“प्लैहिकी सिरा—Splenic or Lienal Vein.” ↩︎
-
“बृहदन्त्रस्य मध्यभागस्तु चित्रे कर्त्तितः अपसारितश्च अग्न्याशयादिप्रदर्शनाय।” ↩︎
-
“आमाशयतलिका सिरा—Right Gastro-epoploic Vein.” ↩︎
-
“उत्तरान्त्रिकी सिरा—Superior Mesenteric Vein.” ↩︎
-
“धरान्त्रिकी सिरा—Inferior Mesenteric Vein.” ↩︎
-
" आमाशयक्रोड़िका सिरा—Coronary Gastric Vein." ↩︎
-
“अनुग्रहणका सिरा—Pyloric Vein.” ↩︎
-
" पित्तकोषिणी सिरा—Cystic Vein." ↩︎
-
" Par-umbilical Veins." ↩︎
-
“काशेरुकसिराचक्रं बाह्यम्—External Vertebral Venous Plexuses. २ ।” ↩︎
-
“काशेरुकसिराचक्रमाभ्यन्तरम्—Internal Vertebral Venous Plexuses.” ↩︎
-
“कशेरुपिण्डान्तरीयाः सिराः—Inter vertebral Veins. " ↩︎
-
“कशेरुचक्रान्तरीयाः सिराः—Basi-vertebral Veins.” ↩︎
-
“रसायन्यः—Lymphatic Vessels or Lymphatics.” ↩︎
-
“शुद्धो रसः (लसीका वा ↩︎
-
“पायसरसः—Chyle. यस्तु आग्नेयरसःआमाशय-पक्वाशयाभ्या-मुद्भूतः सिरामार्गमाश्रित्य रक्तेन मिश्रीभूय प्रविशति प्रतीहारिणीं महासिराम्, स पृथगेव।वैद्यके तु उभयमपि रसपदाभिधेयम्।” ↩︎
-
“रसग्रन्थयः—Lymphatic Glands.” ↩︎
-
“ग्रन्थिकोषः—Capsule of gland.” ↩︎
-
“Hilus of gland. " ↩︎
-
“Afferent Lymphatics.” ↩︎
-
“Efferent Lymphatics.” ↩︎
-
“Trabeculæ. " ↩︎
-
“Lymphatic tissue.” ↩︎
-
“[ * तच्छाखाश्च रसजालिकाप्रविशिन्योऽत्र लक्षणीयाः। प्राचीरिकाश्च रसजालिकान्तरालेषु। ]” ↩︎
-
“रसकुल्ये—Lymph Ducts .” ↩︎
-
“मुख्या रसकुल्या—Thoracic Duct.” ↩︎
-
“दक्षिणा रसकुल्या—Right Lymph Duct.” ↩︎
-
“रसप्रपा—Cisterna Chyli.” ↩︎
-
“कपालमूलिकाः ग्रन्थय—Occipital Glands.” ↩︎
-
“पश्चिमकर्णिकाः ग्रन्थयः—Posterior Auricular Glands.” ↩︎
-
“अग्रिमकर्णिक ग्रन्थयः—Anterior Auricular Glands.” ↩︎
-
“पुरःकर्णमूलिकाः रसग्रन्थयः—Parotid Lymph-Glands. " ↩︎
-
“मौखिकाः रसग्रन्थयः—Bucinator Lymph glands.” ↩︎
-
“जिह्वामूलिकाः रसग्रन्थयः—Lingual Lymph-glands.” ↩︎
-
“गलचिलपश्चिमाः रसग्रन्थयः—Retro-pharyngeal Lymph-glands.” ↩︎
-
“उत्तानग्रोविकाः रसप्रन्थयः—Snperficial Cervical Lymph-glands.” ↩︎
-
“हन्वधरीयाः रसग्रन्थयः—Sub-maxillary Lymph-glands.” ↩︎
-
“Sub-mental or Supra-hyoid Lymph glands.” ↩︎
-
“पुरोग्रीविकाः रसग्रन्थयः—Anterior Cervical Lymph-glands.” ↩︎
-
“गम्भीर-ग्रीविका रसग्रन्थयः—Deep Cirvical Lymp-glands.” ↩︎
-
“कूर्परान्तरिको रसग्रन्थिः—Supra-trochlear Lymph-gland.” ↩︎
-
“कक्षान्तरीया रसग्रन्थयः—Axillary Lymph-glands,” ↩︎
-
“जानुपृष्टिका रसग्रन्थयः—Popliteal Lymph-glands. —” ↩︎
-
“अनुवंक्षणीया रसग्रन्थयः—Sub-inguinal Lymph-glands.” ↩︎
-
“वंक्षणीया रसग्रन्थयः—Inguinal Lymph glands,” ↩︎
-
“उदर्या रसग्रन्थयः—Abdominal Lymph glands † तच्च २य भागस्य ६५ पृष्ठे वर्णितम्।” ↩︎
-
“अधिश्रोणिका उत्तरा रसग्रन्थयः—Upper Pelvic Lymph-glands.” ↩︎
-
“अधिश्रोणिका अधरा रसग्रन्थयः—Lower Pelvic Lymph-glands.” ↩︎
-
“पञ्चविधाः रसग्रन्थयः—(a ↩︎
-
“त्रिकपूर्विका रसग्रन्थयः—Sacral Lymph-glands.” ↩︎
-
“अनुकटिकाः रसग्रन्थयः—Lumbar Lymph-glands. " ↩︎
-
“यकृन्मूलिकाः रसग्रन्थयः—Hepatic Lymph-glands.” ↩︎
-
“Gastric Lymph glands.” ↩︎
-
“पर्यग्न्याशयप्लीहिकाः रसग्रन्थयः—Pancreatico-lienal Lymph-glands.” ↩︎
-
“अन्त्रमूलिका रसग्रन्थयः—Masenteric Lymph-glands. " ↩︎
-
“उरःफलकपार्श्वगाः रसग्रन्थयः—Sternal or Internal Mammary Lymph-glands.” ↩︎
-
“पृष्ठवंशपार्श्वगाःरसग्रन्थयः—Intercostal Lymph-glands.” ↩︎
-
“महाप्राचीरोत्तरा रसग्रन्थयः—Diaphramatic Lymph-glands.” ↩︎
-
“अग्रिमफुस्फुसान्तरीयाः रसग्रन्थयः—Anterior Mediastinal Lymph-glands.” ↩︎
-
“पश्चिमफुस्फुसान्तरीया रसग्रन्थयः—Posterior Mediastinal Lymph-glands.” ↩︎
-
" अधिक्लोमका रसग्रन्थयः—Tracheo-bronchial Lymph glands.” ↩︎
-
“गर्भपदमिह कुक्षिस्थावकाशार्थे ।” ↩︎
-
“आयनि—ग्राम-पक्व-गर्भ-मूत्रादीनि, तेषा-माधारत्वात्। " ↩︎
-
“क्वचित् सानुबन्धामां नाड्यादीनामपि तन्त्रसंज्ञयानिर्देशः—यथा नाड़ीतन्त्रम्।” ↩︎
-
“यन्त्रतन्त्र पदेन सानुबन्धानां यन्त्राणां ग्रहणं सुप्रसिद्धम् ।” ↩︎
-
“महासिराधमन्यादि सहितमित्यर्थः.” ↩︎
-
“स्वरयन्त्रम्—Larynx.” ↩︎
-
“अवटुकं—Thyreoid Cartilage. " ↩︎
-
“कण्ठिकाऽवटुयोजनीं—Hyo-thyreoid Mem- brane.” ↩︎
-
“अवटुकृकाटिका—Crico-thyreoid Membrane.” ↩︎
-
“Cricoid Cartilage.” ↩︎
-
“अधिजिह्नकम्—Epiglottis.” ↩︎
-
“घाटिके—Arytenoid Cartilages” ↩︎
-
“कोणिके—Cuneiform Cartilages.” ↩︎
-
“कर्णिके—Corniculate Cartilages” ↩︎
-
“स्वरतन्त्रयः—Vocal Cords.” ↩︎
-
" Rima Glottidis.” ↩︎
-
“Aditus or Entrance to Larynx.” ↩︎
-
“Crico-thyreoideus Muscle. " ↩︎
-
“Crico-arytaenoideus Posterior M.” ↩︎
-
“Thyreo-arytaenoideus M. " ↩︎
-
“Muscles of the Vocal Cords. " ↩︎
-
“Arytaenoideus Transverses M. " ↩︎
-
“Ary-tenoideus Obliqus M.” ↩︎
-
“Aryteno-epiglotticus M.” ↩︎
-
“Crico-arytaenoideus Lateralis M.” ↩︎
- ↩︎
-
“Thyreo-epiglotticus M.” ↩︎
-
“क्लोमनलिका—Trachea.” ↩︎
-
“क्लोमपदार्थनिर्णये बहुधा विवदन्ते वैद्याः। तद्विवरण-मुपोद्घातस्य ७२ पृष्ठे द्रष्टव्यम्। तत्र क्लोम नाम गलविलवेष्टनोऽवयवः (ग्रसनिका Pharynx ↩︎
-
“दक्षिणा क्लोमशाखा—Right Bronchus. " ↩︎
-
“उरस्या कला—Pleura (प्लुरा ↩︎
-
“परिसरीयभागः—Parietal Layer.” ↩︎
-
“पर्याशयभागः—Visceral layer.” ↩︎
-
“उरस्तोयः—Pleurisy with Effision.” ↩︎
-
“फुस्फुसौ—Lungs. फुस्फुसपदं सुश्रुते एकवचनान्तं दृश्यते, तद् लिपिकरप्रमादकृतं प्रतिभाति। चरके तु फुस्फुसयोः श्लेष्मभुवौइति संज्ञा द्विवचनान्तैव। " ↩︎
-
“द्वितीय भागस्य ८६६० पृष्टयोः।” ↩︎
-
“फुस्फुसचूड़ा—Apex of Lung. " ↩︎
-
“फुस्फुसतलं—Base of Lung. " ↩︎
-
“फुस्फुसखातानि—Depressions on Lungs.” ↩︎
-
“फुस्फुसवृन्तं—Roct of Lung. " ↩︎
-
“फुस्फुसपिण्डानि—Lobes of Lungs.” ↩︎
-
“वायुकोषः—Alveolus.” ↩︎
-
“प्राङ्गारिक वाष्पः—Carbon Dioxide gas.” ↩︎
-
“विष्णुपदामृतम्—Oxygen. तच्च " ↩︎
-
“आदि पदेन मलनिर्माणादि।” ↩︎
-
“महास्रोतः—Alimentary Canal.” ↩︎
-
“मुखकुहरम्—Buccal Cavity.” ↩︎
-
“ओष्टद्वयं—Lips (Labii ↩︎
-
“सुकणी,सृक्विणी, सृक्विण्यौ—इत्यादि नानारूपमिदं पदं दृश्यते। सृक्कण्यौ = Angles of the mouth.” ↩︎
-
“ओष्टसेवनी—Frænum of Lip. " ↩︎
-
“कपोलद्वयं—Cheeks.” ↩︎
-
“दन्तवेष्टौ—Gums (Gingyvi ↩︎
-
“दन्ताः—Teeth. " ↩︎
-
“अस्थिखण्डे १०० पृष्ठे।” ↩︎
-
“जिह्वा—Tongue.” ↩︎
-
“तालुमण्डलं—Palate. तालुपटलवर्णनन्तु अस्थिखगडे १०१ पृष्ठे द्रष्टव्यम्।” ↩︎
-
“कठिनतालु—Hard Palate. " ↩︎
-
“कोमलताल—Soft Palate.” ↩︎
-
“गलशुण्डिका, काकलकं वा—Uvula ( Azygos Uvulæ Muscle ↩︎
-
“तालूत्तोलनी—Levator Palati Muscle.” ↩︎
-
“तालूत्तंसनी—Tensor Vele Palati Muscle” ↩︎
-
“तालुजिह्विका—Glosso-palatine Muscle.” ↩︎
-
“गलतालुका—Pharyngc-palatinus Muscle.” ↩︎
-
“+ उत्तंसनं तीव्राकर्षणेन तान्तीकरणम् (Making taut ↩︎
-
“गलतोरणिके—The Palatine Arches or Fauces.” ↩︎
-
“पुरःस्तम्भिका—Anterior Pillar of the Fauces.” ↩︎
-
“पश्चिमस्तम्भिका—Posterior Pillar of the Fauces.” ↩︎
-
“उपजिह्निके—Tonsils ( Palatine ↩︎
-
“अधिजिह्विका—Epiglottis. " ↩︎
-
“स्वरयन्त्रद्वारमेव श्वासमार्गद्वारम्। दृश्यतां स्वरयन्त्रवर्णनमपि (२य भागस्य १७५ पृष्ठे ↩︎
-
“लालाग्रन्थयः—Salivary glands. " ↩︎
-
“कर्णमूलिकग्रन्थिः—Parotid gland. " ↩︎
-
“ततूस्रोतसी—Parotid ducts.” ↩︎
-
" अर्दितंनाम मुखमण्डलार्धस्य पेशीक्रियालोपकरो बातव्याधिविशेषः (Facial Paralysis ↩︎
-
“हन्वधरीयो ग्रन्थिः—Sub-maxillary gland. " ↩︎
-
“जिह्वाधरीयो ग्रन्थिः—Sub-lingual gland.” ↩︎
-
“ग्रसनिका—Pharynx सैव क्लोमेति केचित्। तञ्चिन्त्यम्। दृश्यतां क्लोमबिचारः१७८ पृष्ठे (पाटीकायाम् ↩︎
-
“नासागुहापश्चिमांशः—Naso-pharynx.” ↩︎
-
“नासागुहाद्वारयुगलम्—Choance.” ↩︎
-
“श्रुतिसुरङ्गाद्वारद्वयम्—Openings of Auditory tubes.” ↩︎
-
“तत्रत्यं त्रिकोण तरुणास्थि—Torus” ↩︎
-
“ग्रसनिकाग्रन्थिः—Pharyngeal Tonsil (of Luschka ↩︎
-
“Oral part of Pharynx (or Cavity of Throat ↩︎
-
“Laryngeal part of Pharynx. " ↩︎
-
“Constrictor muscles of the Pharynx.” ↩︎
-
“Stylo-pharyngeus Muscle.” ↩︎
-
“Salpingo-pharyngeus Muscle.” ↩︎
-
“Pharyngeal Raphe.” ↩︎
-
“अन्ननलिका—Oesophagus or Gullet.” ↩︎
-
“उदरगुहा—Abdominal Cavity.” ↩︎
-
“कटिलम्बिनी ह्रस्वा दीर्घा च एकैकत इत्यर्थः। ३ ।” ↩︎
-
“पेशीखण्डे ३५ पृष्ठे।” ↩︎
-
“दक्षिण अनुपार्श्विकप्रदेशः—Right Hypocondriac Region.” ↩︎
-
“हृदयाधरिकप्रदेशः—Epigastric Region.” ↩︎
-
“वामः अनुपार्श्विकप्रदेशः—Left Hypocondriac Region.” ↩︎
-
“दक्षिणः कटिपार्श्विकप्रदेशः—Right Lumbar Region.” ↩︎
-
“परिनाभिकप्रदेशः—Umbilical Region.” ↩︎
-
“वामः कटिपार्श्विकप्रदेशः—Left Lumbar Region.” ↩︎
-
“दक्षिणो वंक्षणोत्तरिकप्रदेशः—Right Inguinal Region. " ↩︎
-
“अधिवस्तिकप्रदेशः—Hypogastrtc Region.” ↩︎
-
“वामो वंक्षणोत्तरिकप्रदेशः—Left Inguinal Region.” ↩︎
-
“उदर्या कला—Peritoneum. " ↩︎
-
" वपा—Great Omentum.” ↩︎
-
“आम्नायो वेदः। याज्ञिका हि पशोर्वपां यज्ञ निर्वपन्ति ।” ↩︎
-
“Vesico-uterine Pouch.” ↩︎
-
“Recto-uterine Pouch.” ↩︎
-
“Recto-vesical Pouch.” ↩︎
-
" अतः क्वचित्तत्रापि गर्भसम्भवः।” ↩︎
-
“आमाशयः—Stomach. आमस्य अपक्वस्यान्नस्याशयः—इत्यामाशयः। सेयं चरकसुश्रुतादिसम्मता संज्ञा।यत्तु केचिद् वङ्गीयाः पाकस्थलीति नवीनां संज्ञामस्मिन्नर्थे व्यवहरन्ति, तदसङ्गतम्। न हि सत्यां प्राचीनसंज्ञायामसंदिग्धायां यादृच्छिक-नवीनसंज्ञाकरणं युज्यते।” ↩︎
-
“शरावो नाम अष्टपलपरिमाण (चतुःषष्टितोलकात्मकः ↩︎
-
“आमाशयविकारः—Dilatation of Stomach, औदरिका हि शरावदशकमपि भुञ्जते।” ↩︎
-
“हार्दिकद्वारं—Cardiac Orifice. आमाशयरुजायां हृदि व्यथेति व्यपदेशः एतदपेक्षयैव। " ↩︎
-
“मुद्रिकाद्वारं—Pyloric Orifice. " ↩︎
-
“मुद्राकपाटिका—Pyloric Valve.” ↩︎
-
“प्रामाशयक्रोड़िका धारा—Lesser Curvature.” ↩︎
-
“लघुवपा—Lesser Omentum or Omental Bursa.” ↩︎
-
“आमाशयपृष्टिका धारा—Greater Curvature.” ↩︎
-
“आमाशयस्कन्धः—Fundus.” ↩︎
-
“आमाशयमध्यं—Body of Stomach.” ↩︎
-
" आमाशयप्रणालिका—Pylorus.” ↩︎
-
“वपाबन्धनम्—Gastro-colic Ligament ( Part of the Greater Omentum ↩︎
-
“बलीराजयः—Ruge.” ↩︎
-
“ग्रन्थयः—Peptic & Mucous glands.” ↩︎
-
“क्षुद्रान्त्रम्क्षुद्रान्त्राणि वा—Sm. Intestine or Intestines or guts.” ↩︎
-
" व्यामो वाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम् इत्यमरः। स च किञ्चिन्न्यून चतुर्हस्तप्रमाणः (5 ft. 9 in. ↩︎
-
“क्षुद्रान्त्रबन्धन्यः—Masenteries.” ↩︎
-
“ग्रहणी—Duodenum ग्रहणीपदं क्वचित् समग्रक्षुद्रान्त्राभ्यन्तरीयां कलामपि लक्षयति वैद्यकग्रन्थेषु, साऽसौ पित्तधरा -कलासंज्ञा सुश्रुतमतेन।” ↩︎
-
“मध्यान्त्रकम्—Jejunum.” ↩︎
-
“शेषान्त्रकम्—Ileum.” ↩︎
-
“रसाङ्करिकाः—Villi.” ↩︎
-
“सङ्कोचनं चान्त्राणां किञ्चुलुकगात्रसङ्कोचवत्।” ↩︎
-
“बृहदन्त्रम्—Large Intestine. सेयं प्राचीना संज्ञा।” ↩︎
-
“पक्वाशयपदं क्वचित् सामान्यतः सर्वान्त्रवाचकमपि। मलाशय -पदं तु बृहदन्त्रार्थे रूढ़म्। पक्काशयान्तर्गतस्य क्षुद्रान्त्रस्य तु पच्यमानाशय -संज्ञा समीचीना।” ↩︎
-
" उण्डुकः (उराडकं वा ↩︎
-
“सन्दंशकपाटिकेIleo-cæcal Valve.” ↩︎
-
“उण्डुकपुच्छं—Appendix.” ↩︎
-
“उण्डुकविद्रधिः—Appendicitis. ताञ्च सति विद्रधौ, अन्यथाऽपि वा, विद्रधिक्षेत्रभूतेयमिति छित्वा निष्कासयन्ति केचिदाधुनिकाः शल्यतान्त्रिकाः।” ↩︎
-
“रोहि बृहृदन्त्रं—Assending Colon. " ↩︎
-
“बृहदन्त्रस्य याकृतकोणः— Hepatic Flexure.” ↩︎
-
“अनुप्रस्थबृहदन्त्रं—Transverse Colon.” ↩︎
-
“अवरोहि बृहदन्त्रं—Descending Colon.” ↩︎
-
“बृहदन्त्रस्य प्लैहिककोणः—Splenic Flexure.” ↩︎
-
“बृहदन्त्रकुण्डलिका—Sigmoid Flexure.” ↩︎
-
“गुदनलिका—Rectum.” ↩︎
-
“गुदद्वारं पायुद्वारं वा- Anus.” ↩︎
-
“वलीराज्यः—Rectal Columns (of Morgagni ↩︎
-
“मूलाधारः— perineum.” ↩︎
-
“सेवनो— Perineal Raphe.” ↩︎
-
“गुदकौकुन्दरं खातम्— Ischio-rectal Fossa.” ↩︎
-
“अन्त्रबन्धन्यः -Mesenteries and Mesocolon” ↩︎
-
“क्षुद्रान्त्रबन्धनी— Mesenteries.” ↩︎
-
“अनुप्रस्थान्त्रधरा बन्धनी—Transverse Meso-colon.” ↩︎
-
“कुण्डलिकान्त्रधरा बन्धनी—Sigmoid Meso-colon.” ↩︎
-
“अन्त्रपुष्पिकाः - Appendices Epiploicae” ↩︎
-
“अग्न्याशयः– Pancreas.” ↩︎
-
“आग्नेयस्रोतोनलिका - Pancreatic Duct.” ↩︎
-
“स एव वैद्यके अच्छपित्तमित्युच्यते, याकृतन्तु पित्तमीषदाविलं पीतहरिद्वर्णञ्च। स च त्रिविधपचक-किण्वाधिष्ठानम्—मधुरकपाचकं(Amylase ↩︎
-
“Islets of Langerhans.” ↩︎
-
“Insulin.” ↩︎
-
“प्रतीकारश्चायं यावद् इन्सलीन रसः प्रयुज्यते तावदेव। स च रसः सद्योमारितपशोरग्न्याशयादाकृष्यते निपुणैः।” ↩︎
-
“यकृत् – Liver.” ↩︎
-
“दक्षिणपिणडम् – Right Lobe.” ↩︎
-
“वामपिण्डम् - Left Lobe.” ↩︎
-
“चतुरस्रपिण्डिका - Quadrate Lobe.” ↩︎
-
“दीर्घपिण्डिका - Caudate or Spigelian Lobe.” ↩︎
-
“पिण्डयोजनिका- Caudate Process.” ↩︎
-
“द्वारसोता– Porta Hepatis or Transverse Fissure.” ↩︎
-
“यकृत्- प्रबन्धन्यः- Ligaments of the Liver.” ↩︎
-
“कन्दिकान्तरालाः सिरा - Inter- lobular Veins.” ↩︎
-
“यकृत्कन्दिकाः— Liver-lobules.” ↩︎
-
“यकृद्वस्तुनिर्मापककोषाणवः—Liver-cells.” ↩︎
-
“पित्तस्रोतांसि— Bile-capillaries” ↩︎
-
“मधुरकः— Glucose.” ↩︎
-
“Urea.” ↩︎
-
“रञ्जकपित्तम्—Haemoglobin or Haemoglobinogin.” ↩︎
-
“अधुना (ई० १६२६ वर्षात् ↩︎
-
“पित्तकोषः—Gall-bladder.” ↩︎
-
“पित्तकोषनलिका– Cystic Duct.” ↩︎
-
“याकृती पित्तनलिका - Hepatic Duct” ↩︎
-
“साधारणी पित्तनलिका—Common Bile-Duct. " ↩︎
-
“पित्तरोचना – Gall-stone.” ↩︎
-
“उक्तं चैतदभिप्रायेणैव चरके— किट्टमन्नस्य विण्मूत्रं, रसस्य च कफः, असृजः पित्तम् इत्यादि। धातुभूतं पित्तं तु पाचकादिगुणसम्पन्नमन्यत्।” ↩︎
-
“प्लीहा- Spleen.” ↩︎
-
“प्लीहोदरञ्च कालज्वरादौ दृश्यं प्रायः।” ↩︎
-
“प्लीहद्वारम्- Hilum of Spleen.” ↩︎
-
“प्लीहामाशयिका बन्धनी- Gastro-splenic Ligament.” ↩︎
-
“प्राचीरबन्धनी- Phreno-splenic Ligament.” ↩︎
-
“बृक्क-प्लीहिका प्रबन्धनी—Lieno-renal Ligament.” ↩︎
-
“मूत्र-गर्भ-प्रजनन-यन्त्राणि - Uro-genital Apparatus.” ↩︎
-
“बृक्कौ — Kidneys.” ↩︎
-
" दृश्यतां पेशोखण्डे ३६श पृष्टम्” ↩︎
-
“बृक्कद्वारम् - Hiium of Kidney.” ↩︎
-
“अधिबृक्कौ- Adrenals or Suprarenal Bodies. " ↩︎
-
“बहिर्वस्तु - Cortical Matter.” ↩︎
-
“अन्तर्वस्तु - Medullary or Pyramidal matter.” ↩︎
-
“बृक्कद्वारम् – Hilum of Kidney.” ↩︎
-
“बृक्कालिन्दः, गवीनीशीर्षकं वा — Pelvis of Kidney. " ↩︎
-
“बृक्ककोषः – Renal Capsule. " ↩︎
-
“मूत्रोत्सिका - Glomerulus” ↩︎
-
“उत्सिकापुटकं - Bowmans Capsule.” ↩︎
-
“आद्य-कुण्डलिकाभागः First Convoluted Tubule.” ↩︎
-
“पाशभागः Henle s Loop.” ↩︎
-
“अन्त्य-कुण्डलिकाभागः - Second Con-voluted Tubule.” ↩︎
-
“ऋृजुभागः - Straight Tubule.” ↩︎
-
“आन्त्राणि – Convoluted Tubules अन्त्रवत् प्रसर्पन्तीति आन्त्राणि” ↩︎
-
“आथर्वण सूक्तञ्चात्र उपोद्घातस्य ७५ पृष्ठे द्रष्टव्यम् ।” ↩︎
-
“ऋृजुकाः सिराः – Vene Rectae” ↩︎
-
“गवीन्यौ - Ureters.” ↩︎
-
“गवीनीद्वारम्- Opening of Ureter.” ↩︎
-
“अश्मरीशूलः— Renal Colic. उक्तञ्च– “मूत्रवेगनिरस्तासुतासुशाम्यति वेदना।यावदन्या पुनर्नैति गुड़िका स्रोतसो मुखम्” ↩︎
-
“वस्तिः— Bladder.वस्तिशब्दः क्वचिद् वस्तिगुहार्थेऽपि प्रयुज्यते। तदूवर्णनमस्थिखण्डे (१म भागस्य ४३ पृष्ठे ↩︎
-
“सा च कला सर्वतो नावृणोति वस्तिमिति स्मरणीयम्।” ↩︎
-
“Urachus” ↩︎
-
“Ligaments of the bladder.” ↩︎
-
“वस्त्यन्तरीयं त्रिकोणम्- Trigone.” ↩︎
-
“Uvula Vesicæ.” ↩︎
-
“मूत्रप्रसेकः - Urethra.” ↩︎
-
“Prostatic portion (of Urethra ↩︎
-
“Membranous portion (Do ↩︎
-
“Penile portion (Do ↩︎
-
“शिश्नः—Penis,” ↩︎
-
“शिश्नपार्श्विके पेश्यौ - Corpora Cavernosa.” ↩︎
-
“मूलप्रसेकधरापेशी—Copora Spongiosa. " ↩︎
-
“छत्राकम् – शिलोन्ध्रम् (Mushroom ↩︎
-
" शिश्नमुण्डम् -Glans Penis.” ↩︎
-
“शिश्ननेमिका - Corona glandis.” ↩︎
-
“शिश्नकण्ठिका Cervix of Glans Penis.” ↩︎
-
" शिश्नच्छदा – Prepuce.” ↩︎
-
“निरूद्धप्रकशः— Phimosis.” ↩︎
-
“अववाटिका– Para-phimosis. इमे संज्ञे प्राचीने” ↩︎
-
" शिश्नसेवनी -Fraenum Preputti” ↩︎
-
“मूत्रप्रसेकद्वारम्– External Urinary Meatus.” ↩︎
-
“कामपीठम्– Mons Veneris.” ↩︎
-
“वृषणकोषः- Scrotum.” ↩︎
-
“प्रावरणकोषः- Dartos.” ↩︎
-
“वृषणग्रन्थी - Testes or Testicles.” ↩︎
-
“शलाटुः अपक्कफलम् ।” ↩︎
-
“Tunica Vaginalis.” ↩︎
-
“Hydrocele- मूत्रवृद्धिरिति प्राचां संज्ञा तु न शोभना, मूत्रस्य तत्र प्रवेशासम्भवात् ।” ↩︎
-
“पेशीमयः कोषः - Cremasteric Fascia.” ↩︎
-
“अण्डच्छदः – Tunica Albugenia.” ↩︎
-
" जालकपुटकम् – Tunica Vasculosa.” ↩︎
-
" अधिवृषणिका - Epididymus.” ↩︎
-
“वृषणबन्धन्यौ- Sparmatic Cords.” ↩︎
-
“शुक्रं ( वीर्य वा ↩︎
-
“शुक्रवाहिन्यौ, बीर्यवाहिन्यौ वा - Ducta or Vasa Deferentia.” ↩︎
-
“शुक्रप्रपिके—Vesiculæ Seminales.” ↩︎
-
“* शुक्रसारस्तु सूक्ष्मस्तत एव काले सिरारक्तेनाकृष्टः सर्वशरीरे सञ्चरन् बलवर्णोजसां बृद्धये पुरुषोचित लक्षणाय च कल्पते। अत एव ब्रह्मचर्य प्रशंसन्ति प्राञ्चः।” ↩︎
-
“शुक्रप्रसेकः - Ejaculatory Duct.” ↩︎
-
““द्वचङ् दक्षिणे पार्श्वे” – इति पाठस्तु लिपिकरप्रमादकृतः प्रतिभाति। वर्णनमिदंप्राचां शारीर ज्ञानोत्कर्ष दर्शयति।”
↩︎मूत्रस्रोतःपथाच्छुक्रं पुरुषस्य प्रवर्त्तते।” इति (सु० शा० अ० ४) -
“पौरुषग्रन्थिः- Prostate gland. " ↩︎
-
“अक्षोटफलं आखरोट इति भाषायाम् (Walnut ↩︎
-
“शिश्नमुलपाश्विकौ ग्रन्थी— Cowper s glands.” ↩︎
-
“योनिर्वा—Female Genital Apparatus.भगशब्दः क्वचित् सामान्यतो जननेन्द्रियवाची च।” ↩︎
-
“बहिर्भगम्— External genital organs.” ↩︎
-
“बृहद्भगोष्टद्वयम् – Labia Majora.” ↩︎
-
“लघुभगोष्ठद्वयम् – Labia Minora.” ↩︎
-
“भगशिश्निका - Clitoris.” ↩︎
-
“भगालिन्दः - — Vestibule.” ↩︎
-
“भगद्वारं, योनिद्वारम् वा - Vaginal Orifice.” ↩︎
-
“कुमारीच्छदा - Hymen” ↩︎
-
“योनिद्वारिकग्रन्थी - Glands of Bartholin.” ↩︎
-
“उक्तं हि — योषितोऽपि स्रवन्त्येव शुक्र पुंसां समागमे। तन्न गर्भस्य किञ्चित्त करोतीति न चिन्त्यते” ↩︎
-
“भगाञ्जलिका – Fourchette.” ↩︎
-
“Rupture of Perineum.” ↩︎
-
“अन्तर्भगम्, योनिमार्गो वा - Vaginal Canal. योनिशब्दश्च क्वचिदेतदर्थ एव।” ↩︎
-
“गर्भाशयः - Uterus. जरायु शब्दो गर्भाशयार्थे कैश्चिदज्ञैः प्रयुज्यते प्रमादेन, तत् परिहर्त्तव्यम्। स हि ऊर्णनाभतन्तुजालाभ-सूत्रजालकत्राचकः सामान्यतः, विशेषतस्तु गर्भवेष्टककलापुटार्थः” ↩︎
-
“विशेषतस्तु तस्य दैघ्यं चतुरङ्गुलम् ( 3“ ↩︎
-
" गर्भाशयमुखम् – Os Uteri.” ↩︎
-
“गर्भाशयग्रीवा—Cervix Uteri.” ↩︎
-
“ग्रीवासरणिः- Gervical Canal.” ↩︎
-
“गर्भाशयशरीरम् - Body of the Uterus.” ↩︎
-
“आभ्यन्तरंगर्भच्छिद्रम् - Internal Os.” ↩︎
-
“गर्भतुम्बी –Fundus Uteri.” ↩︎
-
“Ligaments of the Uterus.” ↩︎
-
“पक्षबन्धन्यौ— Broad Ligaments.” ↩︎
-
“वस्तिगुहा नाम लघ्वीश्रोणिगुहा (True Pelvis ↩︎
-
“रज्जुबन्धनिके– Round Ligaments.” ↩︎
-
“त्रिकगर्भाशयिके बन्धनिके—Sacro-uterine Ligaments” ↩︎
-
“बीजाधारौ, बीजकोषौवा—Ovaries.” ↩︎
-
“बीजाधारबन्धनिका—Ligament of the Ovary.” ↩︎
-
“बीजकुल्या—Ovarian Fimbria.” ↩︎
-
“स्त्रीबीजम्—Ovum.” ↩︎
-
“बीजपुटकम्—Ovisac or Graafian Vesicle.” ↩︎
-
“एष स्वाभाविको नियमः। क्वचित्तु गर्भाशयादूर्ध्वबीजवाहिनीं प्रविश्य प्रसर्पतः शुक्रजीवाणुकस्य बीजकुल्यादौ तदुपकण्ठे वा स्त्रीबीजसंयोगादस्थानेऽपि गर्भोत्पत्तिः (Ectopic Gestation ↩︎
-
“बीजकिण-पुटकम्—Corpus Luteum.” ↩︎
-
“बीजवाहिन्यौ, बीजस्रोतसी वा— Oviducts or Uterine tubes (Fallopian tubes ↩︎
-
“पुष्पितप्रान्तौ—Fimbriated ends of Oviducts.” ↩︎
-
“स्तनौ, कुचौ वा—Mammary glands or Breasts.” ↩︎
-
“अतएव स्तनयोरत्र वर्णनम्।” ↩︎
-
“दुग्धहारिण्यः—Lactiferous ducts.सुश्रुते तु—“पक्वे तु दुग्धहरिणीः परिहृत्य नालीः”—इत्यादि पाठे (स० चिकि १८ अ० ↩︎
-
“कलसिकाः—Ampulae.” ↩︎
-
“चूचुकम्—Nipple.” ↩︎
-
“एषोऽध्यायो ग्रन्थस्य चतुर्थावृत्तौ योजितः, न्यूनत्वपरिहाराय।” ↩︎
-
“Glands (Including Endocrine organs ↩︎
-
“लसीकाग्रन्थीनामत्र ग्रहणाय इदमुक्तम्।ते च रसायनीनां बहिर्मुखीनां तेभ्यो निर्गमदर्शनाद् बहिः स्रवा इव, निःस्रु ताया लसीकायाः श्वेतकणिकाबाहुल्याद्, अन्ते सिरारक्तप्रवेशाच्च अन्तः स्रवा इवेति तेषां वैलक्षण्यं स्मर्त्तव्यम्। अतएव ते बहिः स्रवाः अप्यन्तः स्रवाः—इति सुवचम्।” ↩︎
-
“बहिःस्रवा ग्रन्थयः— Glands with external secretions; Exocrine glands.” ↩︎
-
“अन्तःस्रवा ग्रन्थयः— Endocrine glands (or Organs ↩︎
-
“निः स्रबविशेषः— Internal Secretion or Autocoids : Sometimes called Hormones.” ↩︎
-
“निःस्रोतस्का ग्रन्थयः — Ductless glands or Endocrine organs.” ↩︎
-
“निःस्रोतस्कग्रन्थयः—Ductless Glands.” ↩︎
-
“प्लीहा—Spleen.” ↩︎
-
“ग्रैवेयकग्रन्थिः— Thyroid Gland.” ↩︎
-
“Cubical Epithelial Cells.” ↩︎
-
“Colloid matter.” ↩︎
-
“Ex-opthalmic Goitre.” ↩︎
-
“वाल्ये प्रादुर्भूतस्य एतद्रोगस्य क्रेटिनिज्म् (Cretinism ↩︎
-
“तस्यैव यौवने प्रौढ़ौ वा दृष्टस्य मिक्सिडीमा (myxedema ↩︎
-
“ग्रन्थिवस्तु च शुष्कं मुखद्वारेण प्रयुज्यते नव्यैः। तत् स्थूलानां कृशीकरणाय च प्रयुञ्जते केचित्।” ↩︎
-
“परिग्रैवेयकग्रन्थयः—Parathyroid glands.” ↩︎
-
“सुधाभागः— Calcium Content.” ↩︎
-
“रुकन्दनं स्त्यानीकरणम्—Coagulation.” ↩︎
-
“उद्वेष्टनम्— Irregular Contraction-Tetany or Cramps.” ↩︎
-
“आक्षेपकः- Spasm.” ↩︎
-
“बालग्रैवेयकग्रन्थिः—Thymus gland.” ↩︎
-
“अधिबृक्कौ– Supra-renal Bodies or Adrenal” ↩︎
-
“बहिर्वस्तु - Cortex.” ↩︎
-
“अन्तर्वस्तु - Medulla.” ↩︎
-
“Addison s disease.” ↩︎
-
“Rise of Blood pressure.” ↩︎
-
“पोषणकग्रन्थिः (पोषणिका वा ↩︎
-
“पोषणकखातम्- Sella Turcica in Sphenoid bone.” ↩︎
-
“ब्रह्मगुहा— Third Ventricle of Brain” ↩︎
-
“पोषणकपूर्वार्धः- Anterior Pituitary. " ↩︎
-
“पोषणकग्रन्थेः पश्चिमार्धः - Posterior Pituitary.” ↩︎
-
“मध्यपत्रिका - Pars Intermedia.” ↩︎
-
“४। चपू कल्पने- इति धातो निष्पन्नोचाप शब्दः पीड़नार्थो ( To mean pressure ↩︎
-
“मातृकाग्रन्थी - CarotidGlands ( Glomus Caroticus ↩︎
-
“६ । तृतीय हक्कन्दिका - Pineal body.” ↩︎
-
“कन्दमूलग्रन्थिः— Glomus Coccygens.” ↩︎
-
“इदं पूर्णानन्द कृतात् पटचक्राख्य प्रसिद्धग्रन्थात्।” ↩︎
-
" शुक्रजीवाणवः – Spermatozoa.” ↩︎
-
“२५३ पृष्ठ ( १८२ चित्रम् ↩︎
-
“शुक्र-शोणितसंयोगेन गर्भोत्पत्तिरिति प्राचामुक्तौ शोणितपदेन वीजार्त्तवमेव लक्ष्यते, आत्तवशोणितस्य तद्धारकत्वात्।” ↩︎
-
“एषोऽध्यायः नवीन संस्करणे सं १९६८ वर्षे योजितः।” ↩︎