चक्रदत्तः

[[चक्रदत्तः Source: EB]]

[

अयि! अनाद्यनवद्यविद्याव्यसनिनः ! लोकारोग्यैकहेतवः !!
धन्वन्तरिकल्पाः ! भिषजः !!

सन्ति यद्यप्यनेकाः संग्रहग्रन्थास्तथापि संग्रहकरणे यावान् श्रमःश्रीमता चक्रपाणिना “चक्रदत्त” इति नाम्ना विख्याते चिकित्सासारसंग्रहाख्ये स्वसंग्रहग्रन्थे कृतस्तावान्नाम्यत्र नान्येन कृत इति विदितमेवतत्रभवताम्। अत एवाद्यावधि ग्रन्थस्यास्य पठनपाठनप्रचारेमहानादरः दरीदृश्यते। भिषजस्तु चरकसुश्रुतवाग्भटादिग्रन्थकुसुमसंगृहीतचक्रदत्त-चिकित्सारसास्वादनेनात्मानं धन्यं धन्यमितिमन्यन्ते। यतो ह्यत्र समुपवर्णितं ज्वरादिरोगाणां यथादोषं चिकित्सितम्। विशेषतश्चात्र प्रत्यक्ष-फलानां वृततैलानां यथा सन्निवेशस्तथा नान्यत्र दृष्टिपथमुपयाति।स्थले २ च दुरुहार्थाव-बोधनायपरिभाषापि निक्षिप्ता। यथा-ज्वरचिकित्सायां पिप्पल्यादिघृते “यत्राधिकरणेनोक्तिर्गणे स्याद्स्नेहसंविधौ। तत्रैव कल्कनिर्यूहाविष्येतेस्नेहवेदिना। एतद्वाक्यबलेनैव कल्कसाध्यपरं घृतमित्यादि। अस्यग्रन्थस्य कर्त्ता भिषक्चक्रैकचूड़ामणिः श्रीमान् चक्रपाणिः दत्तकुलेषष्ट्यधिक-सहस्रतमे ख्रीष्टाब्देसमजनीति नात्र विद्यते ऐतिह्यविदांविवादलेशोऽपि। स्वजीवनकाले हि चक्रपाणिरिवायं चक्रपाणिर्लीलयैव रोगदा

न+++न् स्वचिकित्सा चक्रेण शातयति स्मेति तद्ग्रथितग्रन्थावलोकनेनव्यवसीयते विद्वद्भिः।

अस्य ++++श्रीशिवदासकृता तत्त्वचन्द्रिकाख्या टीका

गूढार्थ

करा+++ वबोधयतीति नात्र सन्देहस्थानं विपश्चिताम्।टीकाकृता ज्वरविस्तरोक्तञ्च संक्षिप्य प्रतिक्षिप्य च दुर्वचः। व्याख्यान्तरञ्च +++

क्षिप्य टीकेयं क्रियते मया” इति यत्प्रतिज्ञातं तेनैवास्याः सौरादि+++घिग्राम्यतेः॥

परन्तु++++भ्यो वर्षेभ्योऽस्य दुर्लभतया खिन्नान् विद्यार्थिनः

श्रष्टाहवले श्रीमति देवपुरा विर्ष स्कृत पुस्तकालयाध्यक्षैःपञ्चल - बनारसीदासी इत्यशुद्धाशने महानर्थव्ययःचाहः। संशोधयितुं चाधिगताज्ञेन मया यथामति प्रयत्नःकृतः।

दश—

स्यादेवानवधानतः खलु यथा स्वेनाध्वनां गच्छता।
तद्वन्मे स्खलनं तदत्र कृतिभिः क्षन्तव्यमित्यञ्जलिः॥

पुणे,

१६८२ विक्रमाब्द जयदेवविद्यालङ्करस्य।

विषयानुक्रमणिका

विषयाः विषयाः
अथ ज्वरचिकित्सा मुस्ताद्यगणः
षडङ्गपानीयम् शण्ठ्यादिगणः
रससामतालक्षणम् वृहत्यादिगणः
आमपाकलक्षणम् अभिन्यासज्वरचिकित्सा
सर्वज्वरेषु पाचनम् जीर्णज्वरचिकित्सा
वातज्वरचिकित्सा निदिग्धिकादिः
पित्तज्वरचिकित्सा विषमज्वरचिकित्सा
चातुर्भद्रावलेहिका मुस्तकादिः
नवाङ्गः अष्टाङ्गधूपः
पञ्चभद्रम् अपराजिताधूपः
पित्तश्लेष्मज्वरचिकित्सा तृतीयकचतुर्थकयोश्चिकित्सा
पटोलादिः ज्वरे घृतप्रयोगः
गुडूच्यादिः पिप्पल्याद्यं घृतम्
चातुर्भद्रकपाठासप्तकौ क्षीरषट्पलकं घृतम्
कण्टकार्य्यादिः दशमूलषट्पलकं घृतम्
अमृताष्टकः वासाद्यं घृतम्
पञ्चतिक्तम् गुडूच्यादि घृतानि
वातश्लेष्मज्वरचिकित्सा षट्कट्कतैलम्
पञ्चकोलः अङ्गारकतैलम्
क्षुद्रादिः लाक्षादितैलम्
सन्निपातज्वरचिकित्सा आगन्तुकज्वरचिकित्सा
निष्ठीवनम् क्रोधकामादिज्वरचिकित्सा
मधूकसारादिः भूतज्वरचिकित्सा
अञ्जनम् वर्जनीयविधिः
अष्टाङ्गावलेहिका अथ ज्वरातिसारचिकित्सा
पञ्चमुष्टिः उत्पलषट्कम्
चातुर्भद्रपञ्चमूलम् नागरादिः
दशमूलम् ह्रीवेरादिः
चतुर्दशाङ्गः गुडूच्यादिः
वातश्लेष्महरोऽष्टादशाङ्गः
पित्तश्लेष्महरोऽष्टादशाङ्गः
विषयाः विषयाः
उशीरादिः चित्रकघृतम्
पञ्चमूल्यादिः बिल्वादिघृतम्
कलिङ्गाद्यगुडिका चाङ्गेरीघृतम्
व्योषाद्यचूर्णम् मरिचाद्यं घृतम्
अथातीसारचिकित्सा महाषट्पलकं घृतम्
वृहच्छालपर्ण्यादिः स्वल्पचुक्रम्
स्वल्पशालपर्ण्यादिः बृहच्चुक्रम्
धान्यपञ्चकम् तक्रारिष्टम्
कञ्चटादिः आयामकाञ्जिकम्
अङ्कोठवटकः कल्याणगुडः
वत्सकादिः कूष्माण्डगुडकल्याणम्
कुटजपुटपाकः रसपर्पटिका
श्योणाकपुटपाकः ताम्रयोगः
कुटजलेहः अथार्शश्चिकित्सा
कुटजाष्टकः प्रलेपः
षडङ्गघृतम् दन्त्यरिष्टम्
क्षीरिद्रुमाद्यं घृतम् प्राणदा गुडिका
अथग्रहणीचिकित्सा काङ्कायनमोदकः
चित्रगुडिका माणिभद्रमोदकः
श्रीफलादेः स्वल्पशूरणमोदकः
पञ्चलवणम् बृहच्छूरणमोदकः
नागराद्यं चूर्णम् शूरणपिण्डी
भूनिम्बकाद्यं चूर्णम् व्योषाद्यं चूर्णम्
भल्लातकक्षारः समशर्करं चूर्णम्
पाठाद्यं चूर्णम् लवणोत्तमाद्यं चूर्णम्
कपित्थाष्टकचूर्णम् नागार्जुनयोगः
दाडिमाष्टकः विजयचूर्णम्
वार्त्ताकुगुडिका श्रीबाहुशालो गुडः
अष्टपलघृतम् गुडभल्लातकः
बिल्वगर्भघृतम् अपरो गुडभल्लातकः
शुण्ठीघृतम् चव्याद्यं घृतम्
नागरघृतम् व्योषाद्यं घृतम्
विषयाः विषयाः
उदकषट्पलं घृतम् विसूचिकाचिकित्सा
सिंह्यमृतं घृतम् अथ क्रिमिचिकित्सा
पिप्पल्याद्यं तैलम् त्रिफलाघृतम्
रक्तार्शश्चिकित्सा विडङ्गघृतम्
कुटजलेहः विडङ्गतैलम्
कुटजरसक्रिया अथ पाण्डुरोगचिकित्सा
कुटजाद्यं घृतम् हेतुप्रत्यनीकचिकित्सा
सुनिषणकचाङ्गेरीघृतम् नवायसं लौहम्
क्षारः योगराजः
क्षारसूत्रम् विडङ्गाद्यं लौहम्
अग्निमुखं लौहम् त्र्यूषणाद्यं मण्डूरम्
भल्लातकलौहम् पुनर्नवामण्डूरम्
रसगुडिका वज्रवटकमण्डूरम्
अथाग्निमान्द्यचिकित्सा धात्र्यरिष्टम्
हिंग्वष्टकं चूर्णम् द्राक्षाघृतम्
अन्नमण्डगुणाः हरिद्राघृतम्
तीक्ष्णाग्निचिकित्सा सूर्वाद्यं घृतम्
शार्दूलकाञ्जिकः व्योषाद्यं घृतम्
अग्निमुखं चूर्णम् अथ रक्तपित्तचिकित्सा
पानीयभक्तगुडिका एलादिगुडिका
बृहदग्निमुखं चूर्णम् दूर्वाद्यं घृतम्
भास्करलवणम् शतावरीघृतम्
अग्निघृतम् बृहच्छतावरीघृतम्
मस्तुषट्पलकं घृतम् वासाद्यं घृतम्
वडवामुखचूर्णम् कामदेवघृतम्
बृहदग्निघृतम् सप्तप्रस्थघृतम्
क्षारगुडः खण्डकूष्माण्डकः
चित्रकगुडः वासाखण्डकूष्माण्डकः
आमाजीर्णचिकित्सा वासाखण्डः
विदग्धाजीर्णचिकित्सा खण्डकाद्यो लौहः
विष्टब्धाजीर्णचिकित्सा अथ यक्ष्मचिकित्सा
पथ्यात्रिकम्
विषयाः विषयाः
त्रयोदशाङ्गः दशमूलघृतम्
सितोपलादिलेहः दशमूलाद्यं घृतम्
लवङ्गाद्यं चूर्णम् दशमूलषट्पलकं घृतम्
तालीशाद्य चूर्णं मोदकश्च कण्टकारीघृतम्
शृङ्ग्यर्जुनाद्यं चूर्णम् अपरं कण्टकारीघृतम्
विन्ध्यवासियोगः बृहत् कण्टकारीघृतम्
रसेन्द्रगुडिका रास्नाद्यं घृतम्
एलादिमन्थः अगस्त्यहरीतकी
सर्पिर्गुडः व्याघ्रीहरीतकी
च्यवनप्रासः अथ हिक्काश्वासचिकित्सा
जीवन्त्याद्यं घृतम् पर्णासपञ्चकम्
पिप्पलीघृतम् हिंस्राद्यं घृतम्
पाराशरघृतम् तेजोवत्याद्यं घृतम्
छागलाद्यं घृतम् भार्गीगुडः
अपरं छागलाद्यं घृतम् कुलत्थगुडः
अजापञ्चकं घृतम् अथ स्वरभेदचिकित्सा
बलागर्भं घृतम् कण्टकारीघृतम्
नागबला घृतम् भृङ्गराजाद्यं घृतम्
निर्गुण्डीघृतम् अथारोचकचिकित्सा
बलाद्यं घृतम् यमानीषाडवः
चन्दनाद्य तैलम् कलहंसः
बलाद्यं घृतम् अथ छर्दिचिकित्सा
अथ कासचिकित्सा जातीधात्री
वातकासचिकित्सा एलादिचूर्णम्
अपराजितलेहः पद्मकाद्य घृतम्
पित्तकासचिकित्सा अथ तृष्णाचिकित्सा
कफकासचिकित्सा वातजतृष्णा
नवाङ्गयूषः पित्तजतृष्णा
कट्फलादिः कफजतृष्णा
मरिचाद्यं चूर्णम् क्षतजतृष्णा
समशर्करं चूर्णम् क्षयजतृष्णा
व्योषान्तिका गुडिका
विषयाः विषयाः
अथ मूर्च्छाचिकित्सा दशमूलाद्यं घृतम्
अथ मदात्ययचिकित्सा छागलाद्यं घृतम्
पुनर्नवाद्यं घृतम् एलादितैलम्
अष्टाङ्गलवणम् बलाशैरीयतैले
अथ दाहचिकित्सा महाबलातैलम्
कुशाद्यं तैलं घृतञ्च विष्णुतैलम्
अथोन्मादचिकित्सा नारायणतैलम्
त्र्यूषणाद्या वर्त्तिः महानारायणतैलम्
पानीयकल्याणकं घृतम् अश्वगन्धातैलम्
क्षीरकल्याणकं घृतम् मूलकाद्यं तैलम्
महाकल्याणकं घृतम् रसोनतैलम्
चैतसं घृतम् केतक्याद्यं तैलम्
महापैशाचिकं घृतम् सैन्धवाद्यं तैलम्
हिंग्वाद्यं घृतम् स्वल्पमाषतैलम्
लशुनाद्यं घृतम् माषतैलम् (१)
अथापस्मारचिकित्सा माषतैलम् (२)
स्वल्पपञ्चगव्यं घृतम् माषतैलम् (३)
बृहत् पञ्चगव्यं घृतम् महामाषतैलम्
महाचैतसं घृतम् त्रिशतीयप्रसारणीतैलम्
कूष्माण्डकघृतम् सप्तप्रस्थमाषतैलम्
ब्रह्मीघृतम् अपरं महामाषतैलम्
पलङ्कषाद्यं घृतम् मज्जस्नेहः
अथ वातव्याधिचिकित्सा चतुःस्नेहः
स्नेहलवणम् कुब्जप्रसारणीतैलम्
कल्याणकलेहः अपरं त्रिशतीयप्रसारणीतैलम्
माषबलादिः सप्तशतिकं प्रसारणीतैलम्
आदित्यपाकगुग्गुलुवटकः एकादशशतिकं प्रसारणीतैलम्
त्रयोदशाङ्गगुग्गुलुः अष्टादशशतिकं प्रसारणीतैलम्
शाल्वणस्वेदः महाराजप्रसारणीतैलम्
अश्वगन्धाद्यं घृतम्
विषयाः विषयाः
शुक्तकरणम् रास्नासप्तकम्
गन्धद्रव्यशुद्धिः वैश्वानरं चूर्णम्
नखीशुद्धिः अलम्बुपाद्यं चूर्णम्
वचाशुद्धिः शतपुष्पाद्यं चूर्णम्
मुस्तकशुद्धिः हिंग्वाद्यं चूर्णम्
शैलजशुद्धिः योगराजगुग्गुलुः
खट्टाशीशुद्धिः सिंहनादगुग्गुलुः
महासुगन्धिलक्ष्मीविलासतैलम् बृहत् सिंहनादगुग्गुलुः
अथ वातरक्तचिकित्सा अपरम् अलम्बपाद्यं चूर्णम्
गुडूचीतैलम् बृहत् सैन्धवाद्यं तैलम्
नवकार्पिकः अजमोदाद्यवटकः
गुडूचीघृतम् शुण्ठीतघृतम्
शतावरीघृतम् गुडूचीघृतम्
अमृताद्यं घृतम् काञ्जिकषट्पलकं घृतम्
दशपाकवलातैलम् शुण्ठीघृतम्
गुडूच्यादितैलम् रसोनपिण्डः
खुड्डाकपद्मकतैलम् प्रसारणीसन्धानम्
नागवलातैलम् रसोनसुरा
पिण्डतैलम् शिण्डाकी
महापिण्डतैलम् सिध्मला
कैशोरको गुग्गुलुः अथ शूलचिकित्सा
अमृतागुग्गुलुः वातशूलचिकित्सा
पुनर्नवागुग्गुलुः नारिकेलखण्डः
योगसारामृतः पित्तशूलचिकित्सा
बृहद्गुडूचीतैलम् अपरनारिकेलखण्डः
अथोरुस्तम्भचिकित्सा कफशूलचिकित्सा
अष्टकट्वरं तैलम् हिंग्वादिः
कुष्ठाद्यं तैलम् धात्रीलौहम्
अथामवातचिकित्सा बृहद्विश्वादिः
रास्नादशमूलकम् रुचकादिः
रास्नापञ्चकम् एरण्डसप्तकम्
एरण्डद्वादशकम्
विषयाः विषयाः
दाधिकं घृतम् कफगुल्मचिकित्सा
अथ परिणामशूलचिकित्सा हिंग्वाद्यं चूर्णम्
विडङ्गादिमोदकः वचाद्यं चूर्णम्
सामुद्राद्यं चूर्णम् काङ्कायनगुडिका
सप्तामृतलौहम् हवुषाद्यं चूर्णम्
गुडपिप्पलीघृतम् पञ्चपलकं घृतम्
पिप्पलीघृतम् त्र्यूषणाद्यं घृतम्
कोलादिमण्डूरम् त्रायमाणाद्यं घृतम्
भीमवटकमण्डूरम् द्राक्षाद्यं घृतम्
क्षीरमण्डूरम् क्षीरषट्पलकं घृतम्
चविकादिमण्डूरम् धात्रीषट्पलकं घृतम्
शतावरीमण्डूरम् भार्गीषट्पलकं घृतम्
तारामण्डूरगुडः भल्लातकं घृतम्
राममण्डूरम् रसोनाद्यं घृतम्
बृहच्छतावरीमण्डूरम् दन्तीहरीतकी
रसमण्डूरम् वृश्चीराद्यरिष्टः
त्रिफलालौहः अथ हृद्रोगचिकित्सा
लौहगुडिका वल्लभघृतम्
धात्रीलौहम् श्वदंष्ट्राद्यं घृतम्
लौहामृतम् वलाद्यं घृतम्
नारिकेलखण्डः अर्जुन घृतम्
कलायगुडिका अथ मूत्रकृच्छचिकित्सा
अथोदावर्त्तचिकित्सा वातमूत्रकृच्छ्रे
नाराचचूर्णम् पित्तमूत्रकृच्छ्रे
अथानाहचिकित्सा कफमूत्रकृच्छ्रे
शुष्कमूलकाद्यं घृतम् शतावरीघृतक्षीरे
स्थिराद्यं घृतम् त्रिकण्टकाद्यं घृतम्
अथ गुल्मचिकित्सा सुकुमारकुमारकघृतम्
वातगुल्मचिकित्सा अथ मूत्राघातचिकित्सा
पित्तगुल्मचिकित्सा चित्रकाद्यं घृतम्
अथाश्मरीचिकित्सा
वीरतरादिगणः
विषयाः विषयाः
पाषाणभेदाद्यं घृतम् नारायण चूर्णम्
ऊषकादिः दशमूलषट्पलकं घृतम्
कुशाद्यं घृतम् चित्रकघृतम्
वरुणाद्यं घृतम् बिन्दुघृतम्
वरुणादिगणः दधिमण्डाद्यं घृतम्
एलादिः नाराचघृतम्
पाषाणभेदाद्यं घृतं चूर्णञ्च अथ प्लीहयकृच्चिकित्सा
कुलत्थाद्यं घृतम् माणाद्यगुडिका
शरादिपञ्चमूलादिघृतम् पिप्पलीवर्द्धमानानि
वरुणघृतम् पिप्पलीचित्रकघृतम्
अथ प्रमेहचिकित्सा लोकनाथरसः
कुशावलेहः पिप्पलीघृतम्
न्यग्रोधाद्यं चूर्णम् चित्रकघृतम्
त्रिकण्टकाद्यं तैलं घृतं यमकञ्च रोहितकघृतम्
धान्वन्तरं घृतम् महारोहितकघृतम्
दाडिमाद्यं घृतम् अथ शोथचिकित्सा
त्र्यूषणादिगुडिका क्षारादिगुडिका
शिलाजतुप्रयोगाः पुनर्नवाद्यं घृतम्
अथ स्थौल्यचिकित्सा स्वल्पपुनर्नवाघृतम्
विडङ्गाद्यं चूर्णम् पञ्चकोलाद्यं घृतम्
विडङ्गाद्यं लौहम् शुण्ठीघृतम्
व्योषाद्यशक्तुप्रयोगः चित्रकाद्यं घृतम्
अमृताद्यगुग्गुलुः चित्रकघृतम्
नवकगुग्गुलुः माणकघृतम्
लौहरसायनम् स्थलपद्मघृतम्
त्रिफलाद्यं तैलम् लेशैयाद्यं तैलम्
अधोदरचिकित्सा शुष्कमूलकाद्यं तैलम्
सामुद्राद्यं चूर्णम् पुनर्नवावलेहः
पटोलाद्यं चूर्णम् दशमूलहरीतकी
कंसहरीतकी
अथ वृद्धिव्रध्नचिकित्सा
बृहत्सैन्धवाद्यं तैलम्
विषयाः विषयाः
शतपुष्पाद्यं घृतम् पाटलीतैलम्
अथ गलगण्डगण्डमालापचीग्रन्थ्यर्बुदचिकित्सा चन्दनाद्यं यमकम्
तुम्बीतैलम् अथ नाडीव्रणचिकित्सा
अमृताद्यं तैलम् सप्ताङ्गगुग्गुलुः
छुच्छुन्दरीतैलम् सर्जिकाद्यं तैलम्
शाखोटबिम्बाद्ये तैले कुम्भीकाद्यं तैलम्
निर्गुण्डीतैलम् भल्लातकाद्यं तैलम्
व्योषाद्यं तैलम् हंसपादीतैलम्
चन्दनाद्यं तैलम् अथ भगन्दरचिकित्सा
गुञ्जाद्यं तैलम् नवकार्षिकगुग्गुलुः
अथ श्लीपदचिकित्सा सप्तविंशतिगुग्गुलुः
वृद्धदारकचूर्णम् विष्यन्दनतैलम्
कृष्णाद्यमोदकः करवीराद्यं तैलम्
सौरेश्वरघृतम् निशाद्यं तैलम्
विडङ्गाद्य तैलम् अथोपदंशचिकित्सा
अथ विदधिचिकित्सा भुनिम्बाद्यं घृतम्
अथ व्रणशोथचिकित्सा करञ्जाद्यं घृतम्
तिलाष्टकः आगारधूमाद्यं तैलम्
जीरकाद्यं घृतम् अथ शूकदोषचिकित्सा
त्रिफलागुग्गुलुः अथ भग्नचिकित्सा
वटिकागुग्गुलुः लाक्षागुग्गुलुः
विडङ्गादिवटिकागुग्गुलुः आभागुग्गुलुः
अमृतावटिकागुग्गुलुः गन्धतैलम्
जातिकाद्यं घृतम् अथ कुष्ठचिकित्सा
गौराद्यं घृतम् पञ्चकषायः
करञ्जाद्यं घृतम् कुष्ठाद्यम्
प्रपौण्डरीकाद्यं घृतम् नवकषायः
तिक्तकाद्य घृतम् सप्तसमो योगः
अङ्गारकं तैलम् पञ्चनिम्बः
प्रपौण्डरीकाद्यं तैलम् एकविंशतिकोगुग्गुलुः
दूर्वाद्य तैलं घृतञ्च तिक्तषट्पलकं घृतम्
मञ्जिष्ठाद्यं घृतम् पञ्चतिक्तघृतम्
विषयाः विषयाः विषयाः
तिक्तकघृतम् जीरकाद्यं घृतम् स्तुह्याद्यं तैलम्
महातिक्तकं घृतम् पटोलशुण्ठीघृते आदित्यपाकगुडूची
महाखादिरकं घृतम् पिप्पलीघृतम् चन्दनाद्यं तैलम्
पञ्चतिक्तघृतगुग्गुलुः द्राक्षाद्य घृतम् महानीलतैलम्
वज्रकं घृतम् शतावरीघृतम् भृङ्गराजघृतम्
आरग्वधाद्यं तैलम् अथ विसपोवस्फटचिकित्सा पटोलाद्यं घृतम्
तृणकं तैलम् नवकषायगुग्गुलुः अथ मुखरोगचिकित्सा
महातृणकं तैलम् अमृतादिः ओष्ठरोगचिकित्सा
वज्रकं तैलम् दशाङ्गः दन्तरोगचिकित्सा
मरिचाद्यं तैलम् चतु समम् विदार्य्यादितैलम्
बृहन्मरिचाद्यं तैलम् वृषाद्य घृतम् जिह्वारोगचिकित्सा
विषतैलम् पञ्चतिक्तकघृतम् कण्ठरोगचिकित्सा
कण्ठवीराद्यं तैलम् महापद्मकघृतम् कालकचूर्णम्
श्वेतकरवीराद्यं तैलम् अथ मसूरिकाचिकित्सा पीतकचूर्णम्
सिन्दूराद्यं तैलम् निम्बादिः क्षारगुडिका
महासिन्दूराद्यं तैलम् खदिराष्टकः महासहचरतैलम्
आदित्यपाकं तैलम् अथ क्षुदरोगचिकित्सा हरिमेदाद्यं तैलम्
दूर्वाद्यं तैलम् उषोदिकाक्षारतैलम् लाक्षाद्यं तैलम्
अर्कमनःशिलातैले चाङ्गेरीघृतम् वकुलाद्यं तैलम्
गण्डीरिकाद्यं तैलम् मूषिकाद्यं तैलम् सहकारगुडिका
पृथ्वीसारतैलम् हरिद्राद्यं तैलम् स्वल्पखदिरवटिका
सोमराजितैलम् कनकतैलम् बृहत्खदिरवटिका
अथोदर्दकोठशीतपित्तचिकित्सा मञ्जिष्ठाद्य तैलम् अथ कर्णरोगचिकित्सा
व्यवस्थाविधिः कुंकुमाद्य तैलम् दीपिकातैलम्
अथाम्लपित्तचिकित्सा अपरं कुंकुमाद्यं तैलम् क्षारतैलम्
दशाङ्गः अपरं कुंकुमाद्यं तैलम् अषामार्गक्षारतैलम्
वासागुग्गुलुः वर्णक घृतम् सर्जिकाक्षारतैलम्
अभ्रशुद्धिः हरिद्राद्यं तैलम् दशमूलीतैलम्
लौहशुद्धिः त्रिफलाद्यं तैलम् बिल्वतैलम्
भण्डूरशुद्धिः चित्रकाद्यं तैलम् जम्ब्वाद्यं तैलम्
रसशुद्धिः भृङ्गराजतैलम् शम्बूकाद्यं तैलम्
गन्धकशुद्धिः प्रपौण्डरीकाद्यं तैलम् धुस्तूराद्यं तैलम्
क्षुधावतीगुडिका मालत्याद्यं तैलम् कुष्ठाद्यं तैलम्
विषयाः विषयाः
स्नुह्याद्यं तैलम् जीवनीयाद्यं तैलम्
आदित्यपाकगुडूचीतैलम् अथ नासारोगचिकित्सा
चन्दनाद्यं तैलम् व्योषादिचूर्णम्
महानीलतैलम् पाठादितैलम्
भृङ्गराजघृतम् व्याघ्रीतैलम्
पटोलाद्यं घृतम् करवीराद्यं तैलम्
अथ मुखरोगचिकित्सा शिखरितैलम्
ओष्ठरोगचिकित्सा चित्रकतैलम्
दन्तरोगचिकित्सा चित्रकहरीतकी
विदार्य्यादितैलम् अथ नेत्ररोगचिकित्सा
जिह्वारोगचिकित्सा बिल्वाञ्जनम्
कण्ठरोगचिकित्सा षडङ्गगुग्गुलुः
कालकचूर्णम् वासकादिः
पीतकचूर्णम् दन्तवर्त्तिः
क्षारगुडिका पटोलाद्यं घृतम्
महासहचरतैलम् कृष्णाद्यं तैलम्
इरिमेदाद्यं तैलम् शशकघृतम्
लाक्षाद्यं तैलम् द्वितीय शशकाद्यं घृतम्
वकुलाद्यं तैलम् सुखावत्तीवर्तिः
सहकारगुडिका चन्द्रोदयावर्त्तिः
स्वल्पखदिरवटिका कुमारिकावर्त्तिः
बृहत्खदिरवटिका त्रिफलाद्यवर्त्तिः
अथ कर्णरोगचिकित्सा चन्दनाद्यवर्त्तिः
दीपिकातैलम् निशाद्यमञ्जनम्
अपामार्गक्षारतैलम् त्र्यूषणाद्यवर्त्तिः
सर्जिकाक्षारतैलम् नयनसुखावर्त्तिः
दशमूलीतैलम् चन्द्रप्रभावातः
बिल्वतैलम् श्रीनागार्जुनवर्त्तिः
जम्ब्वाद्यं तैलम् पिप्पल्याद्यवर्त्तिः
शम्बूकाद्यं तैलम् कोकिलावर्त्तिका
धुस्तूराद्यं तैलम् त्रिफलाघृतम्
कुष्ठाद्यं तैलम् महात्रिफलाद्यं घृतम्
त्रैफलं घृतम्
विषयाः विषयाः
भृङ्गराजाद्यं तैलम् बालचातुर्भद्रिका
नृपवल्लभं तैलं घृतञ्च धातक्यादिः
अभिजितं तैलम् शृंग्यादिः
चूर्णाञ्जनम् अश्वगन्धाघृतम्
अथ शिरोरोगचिकित्सा बालचाङ्गेरीघृतम्
शताह्लाद्यं तैलम् कुमारकल्याणकं घृतम्
जीवकाद्यं तैलम् अष्टमङ्गलघृतम्
बृहज्जीवकाद्यं तैलम् लाक्षादितैलम्
षड्बिन्दुतैलम् अथ विषचिकित्सा
अपामार्गतैलम् मृतसञ्जीवनोऽगदः
यष्ट्याद्यं घृतम् अथ रसायनाधिकारः
मयूराद्यं घृतम् ब्रह्मीघृतम्
प्रपौण्डरीकाद्यं तैलम् साध्यसाधनपरिमाणम्
मायूरघृतम् लौहमारणावधिः
अथासृग्दरचिकित्सा स्थालीपाकविधिः
पुष्यानुगं चूर्णम् पुटपाकविधिः
मुद्गाद्य घृतम् पाकविधिः
शीतकल्याणं घृतम् अभ्रकविधिः
बृहच्छतावरीघृतम् लौहभक्षणविधिः
अथ योनिव्यापच्चिकित्सा दासरसायनलौहम्
फलघृतं प्रथमम् ताम्रयोगः
फलघृतं द्वितीयम् अपरस्ताम्रयोगः
नीलोत्पलाद्यं घृतम् शिलाजतुप्रयोगः
बृहच्छतावरी घृतम् शिचागुडिका
आरग्वघाद्यं तैलम् अमृतभल्लातकी
क्षारतैलम् अथ वृष्याधिकारः
अथ स्त्रीरागचिकित्सा नारसिंहचूर्णम्
वज्रकाञ्जिकम् गोधूमाद्य घृतम्
पञ्चजीरकगुडः शतावरीघृतम्
श्रीपर्णाीतैलम् गुडकूष्माण्डकम्
काशीशाद्यं तैलम् अश्वगन्धातैलम्
अथ बालरोगचिकित्सा अथ स्नेहाधिकारः
हरिद्रादिः अथ स्वेदाधिकारः
विषयाः विषयाः
अथ वमनाधिकारः अथ नस्याधिकारः
पञ्चकषायः अथ धूमपानाधिकारः
अथ विरेचनाधिकारः अथ कवलगण्डूषाधिकारः
अभयाद्यो मोदकः अथाश्च्योतनाञ्जनतर्पणपुटपाकाधिकारः
अथानुवासनाधिकारः अथ शिराव्यधाधिकारः
अथ निरूहाधिकारः अथ सुस्थाधिकारः
क्षारवस्तिः दिनाचारविधिः
वैतरणवस्तिः ऋतुचर्य्या
पिच्छिलवस्तिः

चक्रदत्तः।
<MISSING_FIG href="../../../../../books_images/U-IMG-1699879602Screenshot2023-11-08131723.png"/>
ज्वरचिकित्सा

गुणत्रयविभेदेन मूर्त्तित्रयमुपेयुषे।
त्रयीभुवे त्रिनेत्राय त्रिलोकीपतये नमः॥१॥

यः सप्तवर्षदेशीयो दधार धरणीधरम्।
कंसध्वंसकरं वन्दे तं देवं देवकीसुतम्॥

तातः किमथ मातेति यं दृष्ट्वा दृष्टपूर्वकम्।
अभूत् स्कन्देऽपि सन्देहस्तं देहं शिवयोर्भजे॥

टीका रत्नप्रभा चक्रदत्तनिर्मितसंग्रहे।
यद्यप्यास्ते तथाप्येष संक्षेपाय ममोद्यमः॥

विस्तरोक्तञ्च संक्षिप्य प्रतिक्षिप्य च दुर्वचः।
व्याख्यान्तरञ्च निक्षिप्य टीकेयं क्रियते मया॥

विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकं प्रारिप्सितग्रन्थसमाप्तिफलकंतत्प्रतिबन्धकविघ्न-ध्वंसमात्रफलकं वा स्वयङ्कृतमिष्टदेवतानमस्कारं शिष्यशिक्षार्थमादौ निबध्नाति गुणत्रयेत्यादि। गुणत्रयं सत्त्वरजस्तमोरूपम्, मूर्त्तित्रयं ब्रह्महरिहरस्वरूपम्॥१॥

नानायुर्वेदविख्यातसद्योगैश्चक्रपाणिना।
क्रियते संग्रहो गूढ़वाक्यबोधकवाक्यवान्॥२॥

प्रेक्षावतां प्रवृत्त्यर्थं सम्बन्धाभिधयप्रयोजनमाह नानेत्यादि—

सदिति सिद्धफलम्।गूढवाक्यं गूढार्थं वचनम्, तद्बोधकं तदर्थप्रतिपादकं यद्वचनं तद्युक्तम्,यथा—

नवज्वरे षडङ्गादिभेषजविधानम्, तथा तत्रैव “न दद्यात् तत्र भेषजम्” इति भेषजनिषेधोऽपि, अतो विधिनिषेधयोरेकविषयत्वेन विरोधःस्यात्, अतस्तत्परिरहारार्थं “मुख्यभेषजसम्बन्धो निषिद्ध” इत्यादि वचनं निबद्धमिति। संग्रहेणसह सद्योगानां वाच्यवाचकलक्षणः सम्बन्धः, सद्योगा एवाभिधेयाः, अवान्तरप्रयोजनं चिकित्सितम्, मुख्यन्तु आरोग्यमिति॥२॥

रोगमादौ परीक्षेत ततोऽनन्तरमौषधम्।
ततः कर्म भिषक् पश्चाज्ज्ञानपूर्वं समाचरेत्॥३॥

तत्र चिकित्साक्रममाह रोगमित्यादि। आदौ निदानपूर्वरूपादिभिः रोगंपरीक्षेत।ततो रोगपरीक्षानन्तरमौषधं परीक्षेत। ज्ञानपूर्वमिति कर्मदर्शनजनितज्ञानपूर्वम्, ज्ञायते अनेनेति ज्ञानं शास्त्रं तत्पूर्वकमिति वा।

नवज्वरे दिवास्वप्नस्नानाभ्यङ्गान्नमैथुनम्।
क्रोधप्रवातव्यायामकषायांश्चविवर्जयेत्॥४॥

तत्रज्वरस्य सर्वरोगप्रधानत्वात् प्रथमं तच्चिकित्सिते वक्तव्ये कृतमपि भेषजंनिदान-सेवनादकृतमिव भवतीति निदानपरिवर्जनस्यैव गरीयस्त्वात् प्रथमं निदानपरिवर्जनरूपं चिकित्सितमाह नवज्वर इत्यादि। तत्राप्तंगुर्वन्नं लघ्वन्नस्य विधानात्, अत एवोक्तंहारीते “गुर्वन्नभोजनाश्चापिविष्टम्भो दोषकोपनम्” इति।कषायांश्चेति “न तु कल्पनमुद्दिश्य कषायः प्रतिषिध्यते” इति चरकवाक्य-स्वरसात्,कषायशब्देनात्र कषायरसमात्रमुच्यते, न तु स्वरसादिः। अतएव जतकर्णोऽपि"कषायरस-गुरूष्णस्निग्धस्नानाभ्यङ्गान् नवज्वरे वर्जयेत्” इत्युक्तम्। हरिश्चन्द्रेणापि"नात्र स्वरसादीनां निषेधः" इत्युक्तम्। तथा “स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम्। दोषा वद्धाः कषायेण स्तम्भित्वात् तरुणज्वरे" इति नरकवचने स्तम्भित्वादित्ययं हेतुः कषायरसवर्जनाभिप्रायेणैव सङ्गच्छते।उक्तंहि “कषायः स्तम्भनःशीतः” इति। वाग्भटेऽप्युक्तं “पित्तश्लेष्महरत्वेऽपि कषायः स न शस्यते। नवज्वरे मलस्तम्भात् कषायो विषमज्वरम्। कुरुतेऽरुचि

मासदिकामानादिकानपि"इति॥४॥

ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात्।
क्षयानिलभयक्रोधकामशोकश्रमोद्भवात्॥५॥

आमाशयसमुत्थानां पूर्वं लङ्घनमौषधमित्युक्तम्, ज्वरोऽप्यामाशयसमुत्थःअतस्तत्रलङ्घनमुपदिशति ज्वरे लङ्घनमित्यादि।यद्यपि लङ्घनबृंहणीये “चतुः प्रकारासंशुद्धिः” इत्यादिना दशविधमेव लङ्घनमुक्तंतथापि व्यायामप्रवातयोर्वर्जनीयत्वेनैवोक्तत्वात्संशोधनादीनाश्चावस्थाविशेषनियतत्वात् पारिशेष्यादत्रोपवास एवलङ्घनशब्देनोच्यते। अतएव लङ्घनमेवेत्येवकारेण संशोधनादिरूपं लङ्घनं निषिध्यते।तेन ज्वरस्य पूर्वरूपे यल्लघ्वशनादि-विधानं तस्य न निषेधः। वाग्भटेनापि “स्नानाभ्यङ्ग-प्रदेहांश्च परिशेषञ्चलङ्घनम्” इत्यनेन नवज्वरे अनशनरूपलङ्घनापेक्षया परिशेषलङ्घनप्रतिषेधं कुर्वता संशोधनादिरूपं लङ्घनं निषिध्यते किं वा चरकेणनिदानस्थाने “हितं लघ्वशनमतर्पणं वा” इति यदुक्तम्, तत्पूर्वरूपावस्थायाम्;व्यक्तायान्तु लङ्घनमेवेत्येवकारेण लघ्वशनमपि निषिध्यते इति ज्ञेयम्। ननु लंघनबृंहणीये कफपित्तज्वरच्छर्द्यादिषु मध्ये ज्वरं पठित्वा उक्तं “पाचनैस्तान्, भिषक्प्राज्ञः प्रायेणादावुपाचरेत्” इति; इह तु लंघनमेवादावित्यतो विरोधः? नैवम्;तद्भेषजप्रयोगस्यादौ पाचनं न तु ज्वरस्यादावित्यवगम्यते। किं वा आदावेव लंघनंकार्य्यमिति योज्यम्, तेन जीर्णज्वरे न लघनं कार्यमिति बोधयति। उक्तंहिवाग्भटे “शुद्धवातक्षयागन्तुजीर्णज्वरेषु लंघनम्। नेष्यते तेष्वभिहितं शमनं यन्नकर्षणम्” इति। हारीतेन तु “पित्तश्लेष्मविशुद्ध्यर्थं कुर्य्याद्वमनमादितः” इति यदुक्तंतत् कफप्रधानानित्यादिवक्ष्यमाणावस्थायां ज्ञेयम्। क्षयशब्देन धातुक्षयकृतं ज्वरंकिं वा राजयक्ष्मकृतं ज्वरं गृह्णाति। अनिलशब्देन निरामानिल-ग्रहणम् उक्तंहि “शुद्धवातक्षयागन्तुजीर्णज्वरिषु लंघनम्। नेष्यते” इति। किं वा क्षयानिलशब्देन धातुक्षयकुपितानिलग्रहणम्। यदुक्तं"वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन च” इति। यस्तु वायुर्मार्गावरणेन कुप्यति स आवरकधर्मितया प्रायेणसामो भवति। तत्र लंघनं मात्रया कर्तव्यमेव। यदुक्तं “सामे वातेऽपि लंघनं"इति। अनिलज्ञरमभिधायापि कामादिज्वराभिधानम्, कामादिज्वरेषु
कालान्तरेण वातसम्बन्धो भवति, तेन प्रथममपि वातासम्बन्धेन कामादिज्वराणामलंघनीयतोप-दर्शनार्थम्॥५॥

आमाशयस्थो हत्वार्न्नि सामो मार्गान् पिधापयन्।
विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत्॥६॥

लंघनोपपत्त्यर्थं ज्वरस्य सम्प्राप्तिमाह आमाशयस्थ इत्यादि वाग्भटस्य।अत्रयत्तदोर्नित्यसम्बन्धात् यस्मादिति लभ्यते॥६॥

अनवस्थितदोषाग्नेर्लङ्घनंदोषपाचनम्।
ज्वरघ्नंदीपनं काङ्क्षारुचिलाघवकारकम्॥७॥

लंघनफलमाह अनवस्थितेत्यादि।—

सुश्रुतस्य। अनवस्थितौ स्वस्थाने स्वमानेचानवस्थितौ दोषाग्नीयस्य स तथा।काङ्क्षा अन्नप्रार्थना, रुचिः अभ्यवहारपाटवम्॥७॥

प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत्।
बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः॥८॥

एतच्च लंघनं तथा कार्यं यथा न बलहानिः स्यादित्याह प्राणाविरोधिनेत्यादि।—

प्राणो बलम्, विरोधश्चातिक्षय इहोच्यते। हेतुमाह बलाधिष्ठानमित्यादि। —

अधिष्ठानमाश्रयः, अत्र बहुव्रीहिः। अत एवोक्तम्, “यस्माद्बलवतः सर्वकियाप्रवृत्तिस्तस्माद्बलमेव प्रधानमधिकरणानाम्” इति। यदर्थः आरोग्यार्थः॥८॥

तत्तु मारुतक्षुत्तृष्णामुखशोषभ्रमान्विते।
कार्य्यं न बाले वृद्धे वा न गर्भिण्यां न दुर्बले॥९॥

अलंघनीयानाह तत् त्वित्यादि॥९॥

वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे।
हृदयोद्गारकण्ठास्यशुद्धौ तन्द्राक्लमे गते॥

स्वेदे जाते रुचौ चापि क्षुत्पिपासासहोदये।
कृतं लङ्कनमादेश्यं निर्व्यथे वान्तरात्मनि॥१०॥

सम्यक् कृतस्य लंघनस्य लक्षणमाह वातमूत्रेत्यादि।—

हृदयस्य शुद्धिः। गौरवादिराहित्यम् कण्ठस्य शुद्धिः कफलिप्ततादिविरहः आस्यस्य शुद्धिः अविकृतरसत्वम्,तन्द्रा निद्रावत् क्लांतिः, क्लमो दोषजा ग्लानिः। क्षुत्पिपासासहोदय इति,क्षुत्पिपासयोर्युगपदुदय इत्यर्थः। वाग्भटेऽप्युकं “क्षुत्तृट्सहोदयः शुद्धहृदयोद्वारकण्ठता"इति। किन्तु “सृष्टमारुतविरामूत्रं क्षुत्पिपासासहं लघुम्। प्रसन्नात्मेन्द्रियं क्षामंनरं विद्यात् सुलंघितम्” इति सुश्रुतदर्शनात्, क्षुत्पिपासयोरसहोऽसत्य उदय इतिचक्रेण व्याख्यातम्; किन्तु न सहते इत्यसहः पचाद्यजन्तः कर्तरि दृश्यते, तेनअसहशब्दस्यासत्यार्थत्वकल्पने कष्टं स्यादिति। कृतमिति सम्यक् कृतम्।अन्तरात्मनीति अन्तरिन्द्रिये मनसीत्यर्थः॥१०॥

पर्वभेदोऽङ्गमर्दश्च कासः शोषो मुखस्य च।
क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः॥

मनसः सम्भ्रमोऽभीक्ष्णमूर्द्ध्ववातस्तमो हृदि।
देहाग्निबलहानिश्च लङ्घनेऽतिकृते भवेत्॥११॥

अतिलङ्घितलक्षणमाह पर्वभेद इत्यादि। अरुचिः, सत्यामपि बुभुक्षायाम्अनन्नाभिनन्दनम्, श्रोत्र-नेत्रयोर्दौर्बल्यं स्वविषयग्रहणसामर्थ्यम्। सम्भ्रमोऽनवस्थितत्वं, भ्रान्तिरित्यन्ये। अभीक्ष्णमित्यतिशयेन। ऊर्द्ध्ववातः हिक्काश्वासकर्णस्वनजृम्भादयः, न पुनरुद्गारविशेषः, अतिलङ्घनेन कफक्षयात्। स च पुनः कफकोपाद्भवति, यदुक्तम् “अधः प्रतिहतो वायुः श्लेष्मणा मारुतेन च। करोति नित्यमुद्गारमूर्द्ध्व-वातः स उच्यते।” तमः हृदि मोह इत्यर्थः॥११॥

सद्योभुक्तस्य वा जाते ज्वरे सन्तर्पणोत्थिते।
वमनं वमनार्हस्य शस्तमित्याह वाग्भटः॥१२॥

ज्वरारम्भ एव वमनावस्थामाह सद्य इत्यादि।—

सन्तर्पणोत्थितइत्यत्र “सामेविशेषतः” इति वाग्भटे पाठो दृश्यते॥१२॥

कफप्रधानानुत्क्लिष्टान्दोषानामाशयस्थितान्।
बुद्ध्वा ज्वरकरान् काले वम्यानां वमनैर्हरेत्॥१३॥

तरुणतरुणज्वरे अवस्थाविशेषे अविशेषेण वमनमाह कफप्रधानानित्यादि। —

चरकस्य।कफः प्रधानो येषां ते कफप्रधानाः। उत्क्लिष्टान् हृल्लासादिना बहिर्निर्गमनोन्मुखान्।काले यथोक्तामावस्थायां, वम्यानामिति वमनयोग्यानां, तेनगर्भिण्यादिनिषेधः॥१३॥

अनुपस्थितदोषाणां वमनं तरुणे ज्वरे।
हृद्रोगं श्वासमानाहंमोहञ्च कुरुते भृशम्॥१४॥

उक्तावस्थाव्यतिरेकेण वमने दोषमाह अनुपस्थितेत्यादि।—

चरकस्य। अनुपस्थितदोषाणाम् अनुत्क्लिष्टदोषाणामित्यर्थः॥१४॥

तृष्यते सलिलञ्चोष्णं दद्याद्वातकफज्वरे।
मद्योत्थे पैत्तिके वापि शीतलं तिक्तकैःशृतम्॥१५॥

दीपनं पाचनञ्चैव ज्वरघ्नमुभयञ्च तत्।
स्रोतसां शोधनं बल्यं रुचिस्वेदप्रदं शिवम्॥१६॥

लंघनकाले तृष्यते जलमाह तृष्यते इत्यादि।—

चरकस्य।वातकफज्वरइति वातज्वरे कफज्वरे वातकफज्वरे च उष्णं सलिलमर्द्धशृतंज्ञेयम्। यदाहअग्निवेशः “क्वाथ्यमानन्तु यत् तोयं निष्फेनं निर्मलीकृतम्। भवत्यर्द्धावशिष्टञ्चतदुष्णोदकमुच्यते”। मद्योत्थ इत्यादि।—

मद्यस्य अत्युष्ण-वीर्यत्वादम्लत्वाच्चपित्तकर्त्तृत्वात् तज्जन्य-ज्वरस्य पित्तजत्वेन परिग्रहे सिद्धेऽपि पुनस्तदभि-धानम्अन्यस्मिन्नपि मद्योत्थरोगे तिक्तकशृतजलस्यैव यौगिकत्व-बोधनार्थमित्याहुः। तिक्तकैःशृतमिति वक्ष्यमाणमुस्तादिभिस्तिक्तकैःशृतम्। ज्वरघ्नमुभयञ्च तदिति उभयमुष्णंतथा तिक्तकशृतशीतञ्च घृतं दीपनमपि न पाचनं, लङ्घनं पाचनमपि न दीपनमित्यतः पदद्वयोक्तिः, यद्यपि त्रिदोषजकफ-पित्तज्वरयोःपानीयं नोक्तं, तथापिसामान्येन विमानस्थाने यदुक्तं “किं नु खलु ज्वरिभ्यः पानीयमुष्णं प्रयच्छन्ति”इत्यादिना तत्प्रामाण्यादुष्णमेव जलं देयम्। वातपित्तज्वरेऽत्यर्थदाहकारकेशीतमर्द्धशृतं जलं देयमित्यपि विमान एवात्यर्थपित्तोत्स्यन्दे इत्यादिना ग्रन्थेनसूचितम्॥१५॥१६॥

षड़ङ्गपानीयम्।

मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः।
शृतशीतं जलं दद्यात् पिपासाज्वरशान्तये॥१७॥

तिक्तकैः शृतमिति यदुक्तं तदाह मुस्तेत्यादि। —

चन्दनं रक्तचन्दनं, यदुक्तम्"उक्तेचन्दनशब्दे तु गृह्यते रक्तचन्दनम्”। उदीच्यं बालकम्। अत्र तु शुण्ठीअतिक्ताप्यामाशयतुष्टिकारणज्वर-हितत्वाद्विहिता।वाग्भटे तु पद्मकाष्ठं पठ्यते नतु शुण्ठी॥१७॥

मुखभेषजसम्बन्धो निषिद्धस्तरुणे ज्वरे।
तोयपेयादिसंस्कारे निर्दोषं तेन भेषजम्॥१८॥

ननु “ज्वरितं षड़हेऽतीते” इत्यादिना, सप्ताहानन्तरमेवौषधदानं वक्ष्यति,अत्र तुसप्ताहाभ्यन्तर एव षडंगाद्यौषधविधानम्, अतः पूर्वापरग्रन्थविरोधंनिराचिकीर्षुराह मुख्यभेषजसम्बन्ध इत्यादि —

अन्नपानादेरसंस्कारकतयायदौषधमुपयुज्यते तत् प्रधानं, तद्भिन्नं पुनरप्रधानमिति। तेन प्रधानौषधस्यैवतरुणज्वरे निषेधः, नाप्रधानस्य षडंगादेः। उपयुज्यते इत्यनेन भक्षणविषयउपयोगो विवक्षितः, तेन स्वेदादीनामप्रधानत्वात् तरुणज्वरे न निषेधः।अष्टांगाद्यवलेहोऽपि प्रधानत्वात् तरुणज्वरे देय एव। यतस्त्रिदोषजज्वरे तु

सप्ताहाभ्यन्तर एव तस्य विधानं तदपवादरूपमेवेति उत्सर्गापवादरूपतया विधिनिषेधयार्न विरोधः॥१८॥

यदप्सुशृतशीतासु षडङ्गादि प्रयुज्यते।
कर्षमात्रं ततो द्रव्यं साधयेत् प्रास्थिकेऽम्भसि॥
अर्द्धशृतं प्रयोक्तव्यं पाने पेयादिसंविधौ॥१९॥

उक्तषडङ्गतोयसाधनार्थं तथा वक्ष्यमाणस्य कषायसाध्यपेयादेःसाधनार्थञ्चभेषजजलमानव्यव-स्थापिकां वृद्धवैद्यव्यवहारसिद्धां परिभाषामाह यदप्सु इत्यादि।शृतशीतं शृतशीतजलनिमित्तं यत् षडंगादि द्रव्यं प्रयुज्यते तत् कर्षमात्रम्।आदिशब्देन पेयादिसम्पादनार्थजलसंस्कारकधान्य-पिप्पलीपञ्चमूलीधान्यपञ्चकादिग्रहः।पेयादिसंविधावित्यादिशब्दात् तु यूषरसादीनां ग्रहणम्। अत्र मध्यवीर्य्यस्यापि षडङ्गादेःकर्षो मन्दानलपुरुषविषयतया ज्ञेयः, मध्यवीर्य्यस्यहि द्रव्यस्यार्द्धपल-प्रमाणमग्रेव्यवस्थापनीयम्। प्रास्थिक इति द्रव्यद्वैगुण्याच्छरावचतुष्टये; “द्वैगुण्यं कुदवादूर्ध्वंप्रस्थादि-श्रुतिमानतः” इत्युक्तेः। इमाञ्चपरिभाषां क्वाथसाध्ययवागूविषयत्वेन वृद्धाःप्रायः समाद्रियन्ते॥१६॥

वमितं लङ्घितं काले यवागूभिरुपाचरेत्।
यथा स्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः॥२०॥

वमनलङ्घनयोरनन्तरं यद्विधेयं तदाह वमितमित्यादि—

चरकस्य।अवस्थावशात् कदाचिद्वमितं कदाचिल्लङ्घितं, कदाचिच्चवमितलङ्घितम्। वमनानन्तरं हियदि सम्यग्विशुद्धिर्न भवति तदा तदहर्लंघनमपि क्रियते इत्यत उक्तं, —

कालेइत्यन्नदानयोग्यकाले।यथास्वौषधं यस्यां यवाग्वां यद्भेषजं पिप्पलीनागरादि वाच्यंतत्सिद्धाभिः।किं वा यस्मिन् ज्वरे यद्यद्भेषजं पाचनं वाच्यं तत्सिद्धाभिः, उक्तंहिसुश्रुते “अन्नकाले हिता पेया यथास्वं पाचनैः कृता” इति। यद् यत् स्वं यथास्वमिति वीप्सायामव्ययीभावः। मण्डपूर्वाभिरिति मण्ठः पूर्वप्रधानोऽच्छतयायासांताभिरित्यर्थः।एतेन पेयाया ग्रहणं, तस्या एव बहुद्रवेन मण्डप्रधानत्वात्; विलेप्यास्तु निरासः, तस्या अल्पद्रवत्वेन मण्ड-प्रधानत्वाभावात्। अन्ये तु मण्डः पूर्वःप्रथमाभ्यवहार्य्योयासां ता इत्यर्थः, तेन प्रथमं स्वच्छभागंखादित्वा ततो घनभागः खाद्य इत्याहुः॥२०॥

लाजपेयां सुखजरां पिप्पलीनागरैः शृताम्।
पिबेज्ज्वरी ज्वरहरां क्षुद्वानल्पाग्निरादितः॥२१॥

लाजपेयामित्यादि—

चरकस्य अत्र लाजपेयामित्यादिना घृतभृष्टां ज्वरापहामित्यन्तेन चरके दश यवाग्वोऽभिहिताः। तत्र पिप्पलीनागरैः शृतामित्यन्ता श्लेष्मणीतिहरिश्चन्द्रः।अन्ये तु लाजपेयां सुखजरामित्येकां, पिप्पलीनागरैः शृतामिति द्वितीयाम्एवं शेषाभिः सममेकादश पेया इति व्याचक्षते।किन्तु “प्राक्लाजपेयां सुखजरांसशुण्ठीम्” इति वाग्भटदर्शनात् हरिश्चन्द्रपक्ष एव समीचीनः, यतोऽस्मिन् प्रकरणेतत्र लाजपेया नोच्यते॥२१॥

पेयां वा रक्तशालीनां पार्श्वबस्तिशिरोरुजि।
श्वदंष्ट्राकण्टकारीभ्यां सिद्धां ज्वरहरां पिबेत्॥२२॥

कोष्ठेविबद्धे सरुजि पिबेत् पेयां शृतां ज्वरी।
मुद्वीकापिप्पलीमूलचव्यचित्रकनागरैः॥२३॥

पञ्चमूल्या लघीयस्या गुर्व्या ताभ्यां सधान्यया।
कणया यूषपेयादि साधनं स्याद् यथाक्रमम्॥

वातपित्ते वातकफे त्रिदोषे श्लेष्मपित्तजे।
यवागूः स्यात् त्रिदोषघ्नी व्याघ्रीदुःस्पर्शगोक्षुरैः॥२४॥

पेयामित्यादि। चरकस्य। श्वदंष्ट्रा गोक्षुरं, मृद्वीका द्राक्षा, चित्रकं रक्तचित्रकंमांसलत्वात्। पञ्च-मूल्येत्यादि चत्वारो योगा अवचारणायैव व्याख्याताः। यवागूःस्यादित्यादौ व्याघ्री कण्टकारी, दुःस्पर्शो दुरालभा॥२२-२४॥

कर्षार्द्धं वा कणाशुण्ट्योःकल्कद्रव्यस्य वा पलम्।
विनीय पाचयेद युक्त्या वारिप्रस्थेन चापराम्॥२५॥

कल्कसाध्ययवागूसाधनार्थं परिभाषामाह कर्षार्द्धं वेत्यादि। कर्षार्द्धं वेतिकर्षार्द्धंप्रत्येकम्। त्रिविधं हि भेषजद्रव्यं वीर्य्यभेदात्; तीक्ष्णवीर्य्यंयथाशुण्ठ्यादि, मध्यवीर्य्यंबिल्वाग्निमन्थादि, मृदुवीर्यमामल-क्यादि। तत्रकणाशुण्ठ्योरिति तीक्ष्णद्रव्योपलक्षणं, तेन तीक्ष्णद्रव्यमात्रस्यैव कर्षप्रमाणमितिज्ञापितम्।कल्कद्रव्यस्य वा पलमिति मृदुद्रव्योपलक्षणं, तेनान्यस्यापि मृदुवीर्य्यद्रव्यस्यामलक्यादेः पलं ग्राह्यमिति ज्ञापयति। एतेन तीक्ष्णमृदुद्रव्ययोः कर्षपलमानव्यवस्थया मध्यवीर्य्यस्यविल्वाभिमन्थादेरनु-क्तमप्यर्द्धपलमानं सामर्थ्यादेव ज्ञेयम्।यत् पुनर्मध्यवीर्य्यस्यषडंगादेः कर्षप्रमाणमुक्तं, तन्मन्दानलपुरुषाभिप्रायेणेत्युक्तमेव।विनीयेति कल्कीकृत्य, प्रक्षिप्येतिवा। अपरामित्यन्याम् अन्यत्वञ्च कषायसाध्ययवागूमपेक्ष्य, तेन कल्कसाध्यामित्यर्थः। एवञ्च तीक्ष्णद्रव्यापेक्षया कर्षप्रमाणं, मृदुद्रव्यापेक्षया च पलप्रमाणं, मध्यवीर्य्यद्रव्यापेक्षया चार्द्धपलप्रमाणं द्रव्यं विनीयकल्कसाध्यां यवागूं वारिप्रस्थेन द्रव्यद्वैगुण्याच्छरावचतुष्टयमानेन साधयेदिति योजनाननु प्रबलानलबलादौ पुरुषे बहुयवाग्वादि विधेयं तत्र कथं वारिप्रस्थेन यवागूसाधनंभविष्यति? इत्याह युक्त्येति। एतेन यत्र उत्तमबलानले बहुयवागूर्विधेया, तत्रयुक्त्या जलप्रस्थद्वयं त्रयं वा तण्डुलानुरूपं दत्त्वा यवागूं साधयेत्; अल्पवलानलेतु वारिप्रस्थेनेत्यर्थः। अपरानिति पाठे यूषादीनिति। तेन पेयासाधनरीत्या यूषादयोऽपि साधनीया इति प्रतिपादितम्॥२५॥

षडङ्गपरिभाषैव प्रायः पेयादिसम्मता॥२६॥

अथ क्वाथसाध्ययवागूसाधनार्थं कथमिह परिभाषा नोक्ता? इत्यत आह षडंगपरिभाषैवइत्यादि—

अन्ये तु “क्वाथ्यद्रव्याञ्जलिं क्षुण्णं श्रपयित्वा जलाढके। अर्द्धशृतेन तैनाथ यवाग्वाद्यपकल्पयेत्” इत्येवं परिभाषामग्निवेशसंहितोक्तां क्वाथसाध्यवागूविषयत्वेनेत्याहुः। अस्यार्थः। अञ्जलिः पलचतुष्टयं श्रपयित्वा जलाढके द्रव्यद्वैगुण्यात् जलस्य षोडशशरावे।द्रव्यं तावद् द्विविधं वीर्य्यप्रधानं रसप्रधानञ्च।तत्र आद्यं भेषजद्रव्यं, द्वितीयं पुनराहारद्रव्यं मांसा।तत्ररसप्रधानद्रव्याभिप्रायेणैवचतुःपलद्रव्याभिधानमत्रज्ञेयम्। तेन परिभाषेयं “सिद्धावराहनिर्य्यूहेयथागूबृंहणी मता” इत्यादि यवागूविषयाबोध्या।वृन्दस्तु “वृद्धवैद्याः पलं द्रव्यंग्राहयित्वाढकेऽम्भसि।भेषजस्यातिबाहुल्यात् कदाचिदरुचिर्भवेत्” इति जेज्जटव्याख्यातमेव वृद्धव्यवहारं निजपद्येन लिखितवान्।

यवागूमुचिताद्भक्ताच्चतुर्भागकृतां वदेत्॥२७॥

इदानीं यवाग्वर्थं कियन्माना दरदलिततण्डुला देया इत्यत आह यवागूमित्यादि। उचितादित्यभ्यस्तात्, चतुर्भागकृतामिति चतुर्थभागकृतां तद्दिवसीयबुभुक्षापेक्षया॥२७॥

सिक्थकै रहितो मण्डः पेया सिक्थसमन्विता।
यवागूर्बहुसिक्था स्याद्विलेपी विरलद्रवा॥२८॥

पेयादीनां लक्षणमाह सिक्थकैरित्यादि। अत्रद्रवसिक्थसमन्विता यवागूरिति यवाग्वाः सामान्य-लक्षणम्। सा च द्विविधा पेयाविलेपीभेदात्। तत्र यवाग्वाएवोपरितनभागो मण्डः, न तु पृथङ्मण्डः साध्यते। आयुर्वेदशास्त्रेऽदर्शितत्वात्।यस्तु कचिन्मण्डगुणो मण्डोपयोगो वा श्रूयते सोऽप्यस्यैव बोध्यः। नतु मण्डश्चतुर्दशगुणजलसाध्यः, यवागूस्तु षड्गुणजलसाध्या इत्यनन्तरमेव वक्ष्यति; तत्कथमुच्यते यवाग्वा उपरितनभागो मण्डः? नैवम्। तत्र यवागूशब्देन पेया विवक्षिता।तेन पेयायाः पृथक् जलमानं नोक्तम्।द्रवसिक्थसमन्वितत्वमेव यवागूसामान्यलक्षणंतेन चतुर्दशगुणजलसिद्धस्यापि मण्डस्य सिक्थसमन्वितावस्थायां यवागूत्वमेव तेन सुष्ठूक्तं यवाग्वाउपरितनभागो मण्ड’ इति। पेया इति संज्ञाबलात् बहुद्रवत्वमल्पसिक्थत्वञ्चज्ञेयम् तेन सिक्थसमन्विता यवागूः पेयेति, पेयालक्षणे बहुद्रवत्वमल्पसिक्थत्वञ्च लक्षणतयाबोध्यम्। तथा विरलद्रवा बहुसिक्था च यवागूर्विलेपीति विलेपीलक्षणं बोध्यम्।तेन पेयाविलेपीव्यतिरेकेण पृथग्यवागूर्नास्तीत्याहुः। अतएव वाग्भटेऽपि यवागूगुणःपृथड्नोक्तः। तदुक्तं “मण्डपेया-विलेपीनामोदनस्य च लाघवम्।\। यथापूर्वं शिवस्तत्रमण्डो वातानुलोमनः” इति। तथा चरवेऽप्यन्नमाने मण्डपेया-विलेप्योदनानामेवगुणो दर्शितः; न पृथग् यवाग्वा इति। यत्तु द्रव्यगुणे माधवकरेण पेयाविलेपीगुणंपठित्वा लिखितं, ‘तृणापनयनी लघ्वीदीपनी बस्तिशोधनी। ज्वरे चैवातिसारे चयवागूः सर्वदा हिता’ इति, तरसामान्यगुणाभिप्रायेण बोध्यं सामान्यक्षीरगुणवत्।यत्तु प्रयोगरत्नाकरे “चतुर्विधं भवेद्भक्तंजलदानप्रमाणतः। तत्र भक्तंविलेपी चयवागूः पेयया सह’’ इति; तत्र मण्ड एव पेयाशब्देन विवक्षितः; यतस्तदनन्तरमेव पेयायां चतुर्दशगुणजलमुक्तं तत्रैव “पञ्चगुणे जले भक्तं विलेपी च चतुर्गुणे।यवागूः षड्गुणे तोये चतुर्दशगुणे पराम्” इति॥२८॥

अन्नं पञ्चगुणे साध्यं विलेपी तु चतुर्गुणे।
मण्डश्चतुर्दशगुणे यवागूः षड्गुणेऽम्भसि॥२९॥

यवागूपाकार्थं जलपरिमाणमाह अन्नमित्यादि—

सूदशास्त्रस्य। यवागूरत्रपेया॥२९॥

पांशुधाने यथा वृष्टिः क्लेदयत्यतिकर्दमम्।
तथा श्लेष्मणि संवृद्धे यवागूः श्लेष्मवर्द्धनी॥३०॥

यवागूः कस्मिन् विषये न कर्त्तव्येत्याह पांशुधान इत्यादि—

पांशुधाने पांशुसञ्चये,अतिकर्दमं यथा स्यात् तथा क्लेदयति क्लेदं जनयति॥३०॥

मदात्यये मद्यनित्ये ग्रीष्मे पित्तकफाधिके।
ऊर्द्ध्वगेरक्तपित्ते च यवागूरहिता ज्वरे॥

तत्र तर्पणमेवाग्रे प्रदेयं लाजशक्तुभिः।
ज्वरापहैः फलरसैर्युक्तं समधुशर्करम्॥
द्रवेणालोडितास्ते स्युस्तर्पणं लाजशक्लवः॥३१॥

मदात्यय इत्यादि—

चरकस्य। चरके एतद्वचनस्योपरि “ऋते मद्यसमुत्थितात्"इत्यस्ति, तेन मद्यकारणके ज्वरे यवागूनिषिदेव। तेन मदात्यये व्याधौतथामद्यनित्ये मद्यपे योऽमद्यहेतुकोऽपि ज्वरः सोऽपि पेयानर्हः। तथा ग्रीष्मे यो ज्वरः,तथा पित्तकफाधिको यो ज्वरः, तथा ऊर्ध्वगरक्लपित्तिनो यो ज्वरः, तेषु सर्वेषुयवागूर्न हितेति। इह मदात्ययादीनां पेयानर्हत्वेन तेषु जातोऽपि ज्वरः पेयानर्हः।पित्तकफाधिक इत्यनेन पित्तकफयोरतिमात्रोद्गमे सति पेयाया अदानं बोधयति।तेन कफजे ज्वरे, पित्तजे ज्वरे अनुभूतदोषे पेया देया। उक्तंहि “कफजेऽपियदा क्षीणो लङ्घनादिक्रमात् कफः।शस्ता एव यवाग्वस्तु तत्र पित्तेऽप्ययं क्रमः"इति। अतएव चरके “पैत्तिके वाथ शीतां मधुयुतां पिबेत्।यवागूम्” इत्यनेनपित्तेऽपि यवागूरुक्ता।पांशुधाने यथा वृष्टिरित्यादि हारीतवचनमपि अतिवृद्धकफविषयं ज्ञेयम्। अन्ये तु मिलितपित्तकफाधिके पुरुषे यवागूप्रतिषेधमाहुः। ऊर्द्ध्वगेकफपित्ते चेति पाठान्तरमनार्षं, पित्तकफाधिक इत्यनेनैव तदर्थस्य लाभात्।सुश्रुतेऽपि “कफपित्तपरीतस्य ऊर्द्ध्वासृक्पित्तिनस्तथा” इत्युक्तम्। अन्ये तुऊर्द्ध्वग इति ऊर्द्ध्वगरक्तपित्ते कफपित्ते चेति कफयुक्तपित्ते पित्तस्थानगते कफेइत्यर्थः। उक्तं हिवाग्भटे “मद्योद्भवे मद्यनित्ये पित्तस्थानगते कफे। ग्रीष्मे तयोर्वाधिकयोस्तृड्दाह-च्छर्दिपीडिते। ऊर्द्ध्वंप्रवृत्ते रक्ते च पेयां नेच्छन्ति तेषु तु॥इति व्याख्याय कफपित्ते चेति पाठमुपपादयन्ति। यद्यपि चरके “ऊर्द्ध्वगेतर्पणंपूर्वम्” इति वचसा यवागूं बाधित्वा ऊर्ध्वगे रक्तपित्ते तर्पणं विहितमेव,तथाप्यूर्द्ध्वगरक्तपित्तिनो यो ज्वरस्तत्रापि तर्पणादिक्रमः कार्य्यःइत्याह तत्रेत्यादि।—

ज्वरापहानि फलानि द्राक्षादाडिमादीनि, उक्तंहि “द्राक्षादाडिमखर्जूरपियालैःसपरूषकैः। तर्पणार्हेषु कर्त्तव्यं तर्पणं ज्वरनाशनम्” इति। तर्पण-शब्दार्थमाहद्रवेणालोडितास्तं स्युरित्यादि॥३१॥

श्रमोपवासानिलजे हितो नित्यं रसौदनः।
मुद्गयूषौदनश्चापि देयः कफसमुद्भवे।
स एव सितया युद्धः शीतः पित्तज्वरे हितः॥३२॥

श्रमेत्यादि—

नित्यमिति सर्वदा नवे पुराणे च। रसो मांसरसः, तेनोपसिक्तओदनः रसौदनः। एवं मुद्रयूषद नमित्यत्रापि व्याख्येयम्। अयञ्चरसौदनःदीप्ताभिं प्रति बोध्यः उक्तंहि सुश्रुते “उपवास-श्रमकृते ज्वरे वाताधिके तथा।दीप्ताभिं भोजयेत् प्राज्ञो नरं मांसरसौदनम्” इति। मुद्गयूषौदनस्वापीति कफजेसुद्यूषौदनो देयो यवाग्वा अहितत्वात्। स एवेति मुद्गयूषौदनः॥३२॥

रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह।
यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः॥३३॥

रक्तशाल्यादय इत्यादि—

चरकस्य। चरके पुराणा इत्यत्र “शालयः” इतिपठन्ति, तेन यवकादीनां निरास इत्याहुः। ये तु पुराणा इति पठन्ति, तन्मतेयद्यपि ‘शुकधान्यं शमीधान्यं समातीतम्” इत्यनेन पुराणस्योपयोगो लब्धः,तथापि प्रमादादतिनवस्य तथातिपुरातनस्य च महणं मा भूदित्येतदर्थं पुराणाइत्युक्तम्॥३३॥

मुद्गामलकयूषस्तु वातपित्तात्मके हितः।
ह्रस्वमूलकयूषस्तु कफवातात्मके हितः।
निम्बकूलकयूषस्तु हितः पित्तकफात्मके॥३४॥

सम्प्रति द्वन्द्वजेष्वाहारविधिमाह मुद्गामलकेत्यादि—

आमलकापेक्षया मुद्गस्यभूयसी मात्रा, आहारद्रव्यत्वात्। योगोऽयं यद्यपि सुश्रुतेन अन्नपानाध्याये कफपित्तज्वरहरत्वेन निर्दिष्टः, तथापीह वातपित्तज्वरेऽभिधानात् वातपित्त-ज्वरहरत्वमपिवचनबलादेवाध्यवसीयते। ह्रस्वमूलको बालमूलकः। अत्र शमीधान्यस्य यूषयोनित्वात्मुद्गाद्यपि बोध्यम्। एवं यत्र नास्ति तत्र सर्वत्र।किंवा व्यञ्जनपरो यूषः। निम्बकूलकेत्यादि–सुश्रुतस्य।निम्बस्य पत्रं, तथा कूलकस्य पटोलस्य च पत्रम्॥३४॥

मुद्गान् मसूरांश्चणकान् कुलत्थान् समुकुष्ठान्।
आहारकाले यूषार्थे ज्वरिताय प्रदापयेत्॥३५॥

मुद्रानित्यादि—

सुश्रुतस्य। मुकुष्ठको वनमुद्रः॥३५॥

पटोलपत्रं वार्त्ताकुं कूलकं कारवेलकम्।

कर्कोटकं पर्पटकं गोजिह्वां वालमूलकम्।
पत्रं गुडूच्याःशाकार्थे ज्वरिताय प्रदापयेत्॥३६॥

पटोलेत्यादि—

सुश्रुतस्य। वार्ताकुः वार्त्ताकुफलं, कूलकमापे पटोलफलं, कर्कोटकं काकरोल इति ख्यातं, गोजिह्वादार्वीशाकः॥३६॥

ज्वरितो हितमश्नीयाद् यद्यप्यस्यारुचिर्भवेत्।
अन्नकाले ह्यभुञ्जानःक्षीयते म्रियतेऽथ वा॥३७॥

इदानीं ज्वरितस्यारुचावपि हितभोजनं नियमयन्नाह ज्वरित इत्यादि—

अस्यारुचिरपि यदि भवेत् तथापि ज्वरितो हितमेवाश्नीयादेव, इत्युभयत्रापिनियमः। यतोदिनान्ते भोजयेदित्यनेन भुजि किया विहितैव।“न हि तस्याहितं भुक्तमायुषे वासुखाय वा” इत्यादिना हितमपि विहितम्;अतः सिद्धे सत्यारम्भो नियमाय भवति।विपक्षे दण्डमाह अन्नकाले हत्यादि—यतोऽन्नकाले हितमभुञ्जानःपुरुषः क्षीयतेम्रियते वा। अन्ये तुअरुचौ सत्याम् अशितुर्भोजने इच्छाभावात् अपिशब्दं भिन्नक्रमेण योजयित्वा नखंप्रश्लिष्यान्यथा व्याचक्षते। अस्य यदि अरुचिर्भवेत् तदा अहितमप्यश्नीयात् कुत इत्याह अन्नकाले हीत्यादि, यतोऽभुञ्जानस्य धातुक्षयोमरणं वा स्यात् तस्मादहितमश्नीयादित्यर्थः। न चैवं व्याख्याने गुर्वभिष्यन्द्यकालेचेत्याद्युत्तरग्रन्थविरोधः स्यादिति वाच्यम्, यतस्तेनापि ग्रन्थेनाहितं न प्रतिषिध्यतेअन्यथा व्याख्यानात्, तथा हि ज्वरी ना पुरुषः गुर्वभिष्यन्द्यकाले च कथञ्चन कदाचिदद्यात् सकृद्भुञ्जीतेत्यर्थः। यतो भुक्तं भोजनम् आयुषे वा सुखाय वा न हितंकिन्तु हितमेव।हिशब्दस्थाने तुशब्दपाठेऽपि तुशब्दनिपातस्यानेकार्थत्वात्, हेतौव्याख्यैयः। नन्वेषा व्याख्या तदैव सङ्गच्छते यदि अहितार्थमुपदेशः क्वापि शास्त्रे तिष्ठतिकिन्तर्हि द्वितस्यैव सर्वत्रोपदेशः। अवस्थायां तदपि हितमिति चेत् तर्हि अहितमितिव्याहतम्।सत्यं, प्रायः सर्वदा मुद्रादिवन्न हितमिति कृत्वा अहितमित्युच्यते स एवाहुः"मनोऽनुरूपं यदपथ्यं तदपि क्रियत एव” इति। यदुक्तं चरके “मनसोऽप्यानुकूल्येनतुष्टिरूर्जो रुचिर्बलम्। सुखोपभोगिता च स्याद् व्याधेश्चापिबलक्षयः” इति। किन्तुजेज्जटमते एषा व्याख्या न सङ्गच्छते, यतो ज्वरितोहितमित्यादेरनन्तरमेव हितविधायकमहितप्रतिषेधकं “सततं विषमं वापि” इत्यादि “वर्जयेच्चसमासतः” इत्यन्तंग्रन्थं जेज्जटः पठति, तन्मध्ये च गुर्वभिष्यन्दीत्यादिग्रन्थोऽप्यस्ति, ततो गुर्वभिष्यन्दीत्यादिवाक्यस्याहितविधायकत्वव्याख्याने प्रकरणमसङ्गतं स्यात्। तथा चन्द्रिका-कारेणापि"ज्वरितस्य मन्दाग्नेर्गुर्वन्नपाकेऽजीर्णम्, अभिष्यन्दिनः स्रोतोरोधकत्वेन ज्वरवृद्धि"इत्यादि व्याख्यातम्। एवञ्च गुर्वष्यन्दीत्यादिग्रन्थोऽप्यहितप्रतिषेधकपरतया ऋजुमार्गेणैव व्याख्येयः।ज्वरितो हितमश्नीयादित्याद्यपि हितविधायकतया एवं व्याख्येयम्। अहितस्य रोगवर्द्धकत्वेन सर्वत्र निषेधात्, उक्तररीत्या गुर्वभिष्यन्दीत्यादिग्रन्थविरोधाच्चेति॥२७॥

अरुचौ मातुलुङ्गस्य केशरं साज्यसैन्धवम्।

धात्रीद्राक्षासितानां वा कल्कमास्येन धारयेत्॥३८॥

इदानीं बलवदुपद्रवत्वेनारुचेः प्रतीकारमाह अरुचावित्यादि—योगान्तरमाह धात्रीत्यादि॥३८॥

सातत्यात् स्वाद्वभावाद्वा पथ्यं द्वेष्यत्वमागतम्।
कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत् पुनः॥३३॥

अथ हितमेव यदि सततोपयोगादनभिमतरसादियोगाद्वा रुचिविषयो न स्यात् तदा किं कार्यम्? इत्याह सातत्यादित्यादि—दृढबलस्य।सातत्यादिति सततोपयोगात्। सततोपयोगाद्धिस्वाद्वन्नमपि अप्रियं भवतीत्यनुभवसिद्धम्, अस्वादु तु स्वत एवाप्रियम्।स्वादुरभीष्टो रसः। तैस्तैः कल्पना-विधिभिरिति स्वरसकल्कादिसूदशास्त्रोक्त-विधानः पुनः प्रियत्वं गमयेत्॥३९॥

ज्वरितं ज्वरमुक्तं वा दिनान्ते भोजयेल्लघु।
श्लेष्मक्षये विवृद्धोष्मा बलवाननलस्तदा॥४०॥

अन्नकालमाह ज्वरितमित्यादि—

वाग्भटस्य। दिनान्त इत्यपराह्णेसुश्रुतेऽप्युक्तं “सर्वज्वरेषु सप्ताहं मात्रावद्भोजनं हितम्।दिनापायेऽन्यथा तद्धि ज्वरवेगाभिवर्द्धनम्” इति। ज्वरितमित्यादिवाक्यानन्तरं वाग्भटवचनं यथा “यथोचितेऽथवा कालदेशसात्म्यानुरोधतः। प्रागल्पवह्निर्भुञ्जानो न ह्यजीर्णेन पीड्यते” इति। तेन यस्य पुरुषस्य य उचित आहारकालः तस्मिन्नेव तं भोजयेत्। यथोचिते हि काले देशसात्म्यानुरोधतः प्रायः क्षुद्बोधो भवति तदतिक्रमेच क्षुधापगमो भवति, तेन तस्य दिनान्तापेक्षा च कर्त्तव्येत्याह प्रागित्यादि। अल्पवह्निरिति कायाग्नेर्बहिर्निःसरणात् ज्वरितोऽल्पवह्निरेवभवति। देशसात्म्यानुरोधात् अल्पवह्निरपि प्रागेव पूर्वाह्णेऽपि भुञ्जानोऽजीर्णेनन पीड्यते न बध्यते इत्यर्थः॥४०॥

गुर्वभिष्यन्द्यकाले च ज्वरी नाद्यात् कथञ्चन।
न हि तस्याहितं भुक्तमायुषेमा सुखाय वा॥४१॥

नन्वरुचावपि सत्यां हितमेव भोक्तव्यम्, नाहितमित्युक्तम् अतस्तत् किमहितं यन्नभोक्तव्यम्? इत्याह गुर्वित्यादि—

सुश्रुतस्य।गुरु पिष्टकादि, अभिष्यन्दि, दोषधातुमलस्रोतसां क्लेदजनकम् अम्लिकादि नाद्यात् न खादेत्। तथा अकाले काले हितमपि नाद्यात्।कथञ्चन कदाचिदपि। अत्र हेतुर्नहीत्यादि॥४१॥

लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः।
पाचनान्यविपक्वानां दोषाणां तरुणे ज्वरे॥४२॥

इदानीं लंघनमेवादाविति यदुक्तं तस्य पाचनतां दर्शयन्, प्रसङ्गात् स्वेदादीनामपि पाचनतामाह लङ्घनमित्यादि—

काल इत्यष्टाहः। तिक्तकरसोऽत्र यवागूपानीयादिसंस्कारकत्वेन ज्ञेयः। स्वतन्त्रभेषज-प्रयोगस्य तरुणे निषेधात्। उक्तञ्च “भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम्” इति। अविपक्वानामित्युक्त्वापि यत् तरुणज्वरे इत्युक्तम्, तदष्टाहादूर्ध्वमतरुणे ज्वरे अपक्वेषु दोषेषु पाचनकषायस्य प्राधान्यमावेदयति, न तु लङ्घनादीनाम्। किं वा अविपक्वग्रहणमष्टाहादूर्द्ध्वमपि सामत्वानुवृत्तिर्भवतीति सूचनार्थम्। अत एवाष्टाहादूर्द्ध्वमपिआमपानार्थं पाचनं शमनीयंवेत्यादि वक्ष्यति॥४२॥

आसप्तरात्रं तरुणं ज्वरमाहुर्मनीषिणः।
मध्यं द्वादशरात्रन्तु पुराणमत उत्तरम्॥४३॥

ननु ज्वरस्य तरुणता कियन्तं कालं तिष्ठति इत्याह आसप्तरात्रमित्यादि—

सप्तरात्रं व्याप्य। आङ्यमभिविधौ न मर्यादायाम्, अष्टाहस्य निरामज्वरकालत्वेनोकृत्वात्। मध्यं द्वादशरात्रमिति पाठः साधीयान्, न तु मध्यं चतुर्दशाहान्त्विति,जतूकर्णे “जीर्णस्त्रयोदशदिवसः” इत्युक्तत्वात्अत उत्तरमिति द्वादशाहानन्तरं त्रयोदशदिवसमारभ्य, पुराणमिति जीर्णज्वरमाहुः। यत्तु “त्रिसप्ताहव्यतीतस्तुज्वरो यस्तनुतां गतः। प्लीहाग्निसादं कुरुते स जीर्णज्वर उच्यते” इति तन्त्रान्तरम्, तदतिजीर्णाभिप्रायेण बोध्यम्। यद्यपि तरुणज्वर एवात्रप्रकृतस्तथापि मध्यपुराणयोरत्राभिधानमेकवाक्यानिबद्धत्वात्॥४३॥

पाचनं शमनीयं वा कषायं पाययेत्तु तम्।
ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजितम्॥४४॥

ननु लङ्घनानन्तरं किं कर्तव्यम्? इत्याह पाचनमित्यादि—

एतच्च विकल्पद्वयंयोग्यतया यथा-क्रममामदोषपक्वदोषविषयं ज्ञेयम्। तेन पाचनं सामस्य, निरामस्यशमनमिति ज्ञेयम्। षडहेऽतीते इति ज्वरोत्पाददिनमारभ्य षडहेऽतिक्रान्ते सप्तमेऽहनि लवनप्रतिभोजितं ज्वरितम् अर्थादष्टमेऽहनि पाचनं शमनीयं वा पाययेदितियोजना। एवञ्चअष्टाहो निरामज्वरलक्षणमिति पूर्ववाक्येन तथा” निःसप्ततानिरामज्वरलक्षणम्” इति खरनादवाक्येन, तथा “सप्तरात्रात् परं केचिन्मन्यन्तेदेयमौषधम्” इति सुश्रुतवाक्येन, तथा “सप्ताहादौषधं केचित्” इति वाग्भटवचनेनसहैकवाक्यता उपपन्नाभवति। अन्ये पुनरमुमेवार्थं प्रकारान्तरेणेच्छन्ति—

षडहेअतीते इति ज्वरोत्पाददिनं परित्यज्य गणना कार्य्या बस्तिदिनपरिहारेण परिहारगणनावत्, तेन षडहे अतीते इत्यस्य सप्तमे अतीते इत्येवार्थो भवति। भट्टारहरिश्चन्द्रेणापि सप्तमे दिने कषायपानं यद् व्याख्यातं तस्याप्ययमभिप्राय उन्नेयः।अन्यथा सुश्रुतादिविरोधो दुष्परिहर इति। चन्द्रिकाकारेणोक्तम् “अक्षिरोगदिनचतुष्टयवत् ज्वरस्य सप्ताहं सामताकालः, तत्र न पाचनं वा शमनं न शोधनम्’‘इति। यत्तु पेयाद्यनन्तरं हारीतेनोक्तम् “एतां क्रियां प्रयुञ्जीतषड्रात्रंसप्तमेऽहनि। पिबेत् कषायसंयोगान् ज्वरघ्नान् साधुसाधितान्” इति, तथा “इति षाड्रात्रिकःप्रोक्तो नवज्वरहितो विधिः। ततः परं पाचनीयं शमनं वा ज्वरे हितम्” इतिखरनादवचनञ्च पूर्वोक्तरीत्या अष्टाहप्रतिपादकमेव ज्ञेयम्। अथवा यतः सुश्रुते “सप्तरात्रात् परं केचिन्मन्यन्ते देयमौषधम्” इत्याद्यभिधाय पैत्तिके वा ज्वरे देयमल्पकालसमुत्थिते।अचिरज्वरितस्यापि भैषज्यं दोषपाकतः” इत्युक्तम्, वाग्भटेनापि"मृदुर्ज्वरोलघुर्देहश्चलिताश्च मला यदा।अचिरज्वरितस्यापि भैषज्यंयोजयेत् तदा"इति यदुक्तम्, तदपि सुश्रुतसंवादात् पित्तज्वरपरमेव ज्ञेयम्। एतद्वचनद्वयं सप्ताहादर्वागपि पाचनकपायदानप्रतिपादकमनुद्भूतसामतायामेव ज्ञेयम्।उद्भूत-सामतायान्तु भेषजदानस्य बलवदपायजनकत्वात्। अतएवाह वाग्भटः"सप्ताहादौषधंकेचिदाहुरन्ये दशाहतः। केचिल्लघ्वन्नभुक्तस्य योज्यमामोल्वणेन तु।तीव्रज्वरपरीतस्य दोषवेगोदयो यतः। दोषेऽथवाभिनिचिते तन्द्रास्तमित्यकारिणि अपच्यमानंभैषज्यं भूयो जनयति ज्वरम्” इति। अपैत्तिकज्वरे तु वातजादौसप्ताहादर्वाक्पाचनमपि न देयमेव।सप्ताहानन्तरमपि यदि सम्यग्दोष-पाकलक्षणानि ज्वरमार्दवक्षुधादीनि न भवन्ति तदा पाचनम्, अन्यथा तु शमनं देयम्। एतदभि-प्रायेणैव"मृदौ ज्वरे लघौदेहे प्रचलेषु मलेषुच। पक्वंदोषंविजानीयाज्ज्वरे देयं तदौषधम्” इति सुश्रुतवचनं ज्ञेयम्। न चैतद्वचनं ज्वरमार्दवादौदोषपाकलक्षणे सञ्जातेसत्येव भेषजस्यदेयतां बोधयति तत्र च सप्ताहानन्तरमपि नियमो नास्तीति वाच्यम्।सप्तरात्रात् परं केचिदित्यादिवचनैः सप्ताहानन्तरमेव भेषजदानस्य बोधित्वात्, तेनसप्ताहादर्वाक् पाचनं शमनञ्चन देयमिति स्थितम्, व्याख्यानान्तरन्तु “ज्वरे पेयाःकषायाश्च” इत्यादिव्याख्यानावसर एव व्याख्येयम्। ननु सप्तरात्रादूर्ध्वं ज्वरस्यनिरामत्वात् किमर्थं तन्त्रपाचनं दीयते; यदुक्तम् “अष्टाहो निरामज्वरलक्षणम्” इति।सत्यप्यष्टाहे यदि न निरामत्वं तदा लक्षणमेव न स्यात् सामनिरामसाधारणत्वात्।असाधारणधर्मो हि लक्षणं भवति। अत्राहुः द्विविधा हि सामता, एका दोषस्य तरुणत्वरूपा, तरुणत्वञ्चसप्ताहमात्रम्, तदुक्तं पुष्कलावते ‘‘आसप्तरात्रं तरुणम्’‘इत्यादि। द्वितीया तु रसस्य, मुखवैरस्यतृष्णारोचकादिरूपा।तत्र प्रथमा अष्टाहादर्पति, यत्र हरिश्चन्द्रेण हेतुरप्युक्तः “सप्तानां धातूनां धात्वग्निना सप्ताहेनामपाकात्व नैराम्यम्” इति। उक्तञ्च “सप्ताहेनैव पच्यन्ते सप्तधातुगता मलाः। निरामश्चाप्यतःप्रोक्तोज्वरः प्रायोऽष्टमेऽहनि” इति। द्वितीया पुनः सप्ताहात्परतोऽपि कदाचिद्दोष-बाहुल्यादग्निमान्द्याच्चानुवर्तते।उक्तञ्च"श्लेष्म-लानामवान्तानांज्वरः प्रायः कफाधिकः।परिपाकं न सप्ताहे नापि याति मृदूष्मणा” इति अतस्तत्रपाचनमुचितमेव। अतएवाह सुश्रुतः “बहुदोषस्य मन्दाग्नेः सप्तरात्रात् परं ज्वरे।लङ्घनाम्बु-यवागूभिर्यदा दोषो न पच्यते। तदा तंमुखवैरस्यतृष्णारोचकनाशनैः।कषायैः पाचनैः हृद्यैर्ज्वरघ्नैःसमुपाचरेत्” इति॥४४॥

सप्ताहात् परतोऽस्तब्धे सामे स्यात् पाचनं ज्वरे।
निरामे शमनं स्तब्धे सामे नौषधमाचरेत्॥४५॥

इदानीं सप्ताहानन्तरमेव यस्यामवस्थायां पाचनं शमनञ्चदेयं तदाह सप्ताहादित्यादि—

अस्तब्धे सामे इति लालाप्रसेक इत्यादि वक्ष्यमाणस्य रससामतालक्षणस्य निवृतौ सत्यां प्राप्तलघुभावे मधुभाण्डावलेपन्यायेन स्थितस्य कोष्टावलेपकामभागस्य पाकार्थं पाचनं देयम्, निरामे शमनमिति पाचनेन कोष्ठावलेपकस्यामभागस्य पाकात् सम्यङ्निरामत्वे सतीत्यर्थः। सम्यङ्निरामता च दशरात्रात्परमेव दोषामतारसामतयोः सर्वथा निवृत्त्या प्रायशो भवतीति। अतएव"दशरात्रात् परं केचिद्दातव्यमिति निश्चितम्” इति सुश्रुतेनोक्तम्। किंवा यत्रदोषाणामनतिवृद्धत्वात् सप्ताहेनैव रससामतापि निवर्त्तते, तत्र सप्ताहानन्तरमपिशमनादि देयम् “स्तब्धे सामे नौषधमाचरेत्” इति लालाप्रसेकादिरससामतालक्षणानां सत्त्वादप्राप्तलघुत्वे सप्ताहानन्तरमपि पाचनं शमनञ्चन देयमित्यर्थः॥४५॥

रससामतालक्षणम्।

लालाप्रसेको हृल्लासहृदयाशुद्ध्यरोचका।
तन्द्रालस्याविपाकास्यवैरस्यं गुरुगात्रता॥
क्षुन्नाशो बहुमूत्रत्वं स्तब्धता बलवान् ज्वरः।
आमज्वरस्य लिङ्गानि न दद्यात् तन्त्र भेषजम्॥
भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम्॥४६॥

रससामतालक्षणमाह लालाप्रसेक इत्यादि। हृदयाशुद्धिः हृदयगौरवम्। नदद्यादित्यत्र हेतुमाह भेषजमित्यादि॥४६॥

आमपाकलक्षणम्।

मृदौ ज्वरे लघौ देहे प्रबलेषु मलेषु च।
पक्वंदोषं विजानीयाज्ज्वरे देयं तदौषधम्॥४७॥

पाकलक्षणमाह मृदावित्यादि—

सुश्रुतस्य।मृदौ मन्दीभूते। मान्द्यश्च ज्वरस्यामरसस्य पाकात् स्रोतसि शुद्धे पुनः कोष्ठगते चोष्मणि भवति, प्रचलेषु प्रतिबन्धकस्यामरसस्य व्यपगमात् अवरुद्धेषु मलेषु वातपित्तकफशकृदादिषु। पक्वमितिनिरामम्। दोषमित्यनेन दुष्टिकारकत्वात् शकृदप्युच्यत इत्याहुः। देयं तदौषधमिति अल्पदोष अस्तब्धसामतायां पाचनं, सर्वथा निरामत्वे तु शमनं, शोधनंयथावस्थं देयम्। एतदनन्तरन्तु अन्यदपि पक्वलक्षणम् एकीयमतेन सुश्रुतेनोक्तंयथा “दोषप्रकृतिवैकृत्यादेकेषां पक्वलक्षणम्” इति ज्वरारम्भकाले यो दोषस्वभावः सम्प्राप्तिरूपः तस्यान्यथात्वादल्पत्वादेकेषां मते पक्वलक्षणमिति। अन्ये तु प्रथमाप्रकृतिः आमरससम्मूर्च्छितानां ज्वरजननसमर्थानां स्वकार्य्यस्य ज्वरतीव्रत्वदेहगुरुत्वमलविबन्धादेरुत्पादनं ततो विपर्य्ययौवैकृत्यम्। प्रथमा प्रकृतिरप्याम एव।यदुक्तं “प्रथमां दोषदुष्टिश्चकेचिदामं प्रचक्षते इति॥४७॥

नागरं देवकाष्ठञ्च धन्याकं वृहतीद्वयम्।
दद्यात् पाचनकं पूर्वं ज्वरिताय ज्वरापहम्॥४८॥

इदानीं सर्वज्वरसाधनार्थं पाचनकषायमाह नागरमित्यादि—भेलस्य। योगोऽयंद्रव्यगुण-पर्य्यालोचनया वातकफजे इति भद्रः, व्याधिप्रत्यनीकतया तु पित्तजे हितत्वमस्याभ्युपगम्य सर्वज्वर-विषयत्वं ज्ञेयमित्याह सर्वज्वरेष्विति, अतएव तत्रापि एतत्प्रभृतियोगान्ते पठ्यते “सर्वज्वरेषुपठ्यन्ते यथादोषबलं प्रति” इति॥४८॥

सर्वज्वरेषु—पीताम्वुर्लङ्घितः क्षीणोऽजीर्णी भुक्तः पिपासितः।
न पिबेदौषधं जन्तुः संशोधनमथेतरत्॥४९॥

यैर्भेषजं न पेयं तानाह पीताम्वुरित्यादि—भुक्त इति कर्तरि क्तः; अथशब्दः’समुच्चये निपातस्याने-कार्थत्वात् तेनेतरत् शमनश्च न पिबेदित्यर्थः॥४६॥

वीर्य्याधिकं भवति भेषजमन्नहीनं
हन्यात् तदामयमसंशयमाशु चैव।
तद्बालवृद्धयुवतीमृदुभिश्च पीतम्
ग्लानिं परां नयति चाशु बलक्षयञ्च॥५०॥

परिणामप्रयुक्तभेषजगुणमाह वीर्य्याधिकमित्यादि—भोजनसमयक्रियमाणौषधापेक्षया वीर्य्येणोत्कृष्टमित्यर्थः। अन्नहीनमितिहेतुगर्भविशेषणं, यतोऽन्नहीनभेषजमावरकदोषाभावादखिलमेव स्रोतः प्रतिपद्यते कोष्टतसम्यग्भावयति। अन्नहीनइति पाठान्तरे कोष्ठ इति शेषः॥५०॥

अनुलोमोऽनिलः स्वास्थ्यं क्षुत् तृष्णा सुमनस्कता।
लघुत्वमिन्द्रियोद्वारशुद्धिजीर्णौपधाकृतिः॥५१॥

भेषजपाकलक्षणमाह अनुलोमोऽनिलः स्वास्थ्यमित्यादि॥५१॥

क्लमोदाहाङ्गसदनं भ्रमो मूर्च्छा शिरोरुजा।
श्ररतिर्थलहानिश्च सावशेषौषधाकृतिः॥५२॥

भेषजस्यासम्यक्पाकलक्षणमाह क्लम इत्यादि॥५२॥

औषधशेषेभुक्तं पीतञ्च तथौषधं सरोपेऽन्ने।
न करोति गदोपशमं प्रकोपयत्यन्यरोगांश्च॥५३॥

भेषजाजीर्णे भोजने अन्नाजीर्णेऽपि भेषजोपयोगे दोषमाह औषधशेष इत्यादिभुक्तं भोजनं एतच्चाभ्यवहारोपलक्षणं तेन लेहपानयोरपि ग्रहणम्, भुक्तमित्यस्यसम्बन्धे न करोति गदोपशममित्यन्तर्भावितो ण्यर्थोज्ञेयः, यतः प्रस्तुतत्वादौषधमेवगदोपशमकं युक्तम्, तेनायमर्थः, भेषजाजीर्णे भोजनमौषधमेव गदोपशमनं न कारयतीत्यर्थः। पीतमित्यन्तःपरिमार्जनाभिप्रायेणोक्तम्, तेन लेहादीनामपि ग्रहणम्।सशेषेऽन्ने इत्येव पाठः, अन्यथा च्छन्दोः स्यात्॥५३॥

शीघ्रं विपाकमुपयाति बलं न हिंस्यात्।
अन्नावृतं न च मुहुर्वदनान्निरेति।
प्राग्भुक्त सेवितमथौपधमेतदेव

दद्याच्च वृद्धशिशुभीरुवराङ्गनाभ्यः॥५४॥

भोजनसमयोपयुज्यमानस्याप्यौषधस्य विषयावशेषे गुणमाह शीघ्रमित्यादि—

शीघ्रपाकिता बुभुक्षितस्य प्रबल-जठरानलसम्बन्धादित्यभिसन्धिः। प्राग्भुक्तसेवितमितिभक्तात् पूर्वमव्यवहितकाले सेवितम्॥५४॥

मात्राया नास्त्यवस्थानं दोषमलिं बलं वयः।
व्याधि द्रव्यञ्च कोष्ठञ्च वीक्ष्य मात्रां प्रयोजयत्॥५५॥

तद्भेषजं किंपरिमाणमित्याह मात्रया इत्यादि—

अवस्थानमिति नैयत्यम्,अतएव चरकेणाप्युक्तं “मात्रा खलु व्याधिबलापेक्षिणी” इति॥५५॥

उत्तमस्य पलं मात्रा त्रिभिश्चाक्षैश्च मध्यमे।
जघन्यस्य पलार्द्धेन स्नेहक्वाथ्यौपधेषुच॥५६॥

तर्हि मन्दबुद्धेरनध्यवसायः स्यात्, इत्यतः क्वाथ्यस्य मानं प्रसङ्गंस्नेहस्याप्याहउत्तमस्येत्यादि—

स्नेहक्वाथ्यौषधेष्विति स्नेहरूपाणि क्वाथ्यरूपाणि चौषधानि तेषु,किंवा औषधं स्वरसगुडादि॥५६॥

कर्षादौ तु पलं यावद्दद्यात् षोडशिकं जलम्।
ततस्तु कुडवं यावत् तोयमष्टगुणं भवेत्॥
क्वाथ्यद्रव्यपले कुर्य्यात् प्रस्थार्द्धंपादशेषितम्॥५७॥

क्वाथ्यस्य तावत् पलमानं तच्च कियता जलेन कथनीयमतस्तन्मानमाह कर्षादावित्यादि—अग्निवेशस्य क्वाथविषयेयं परिभाषा, पलं यावदित्येकपलम्। षोडशिकंजलमिति षोडशकर्षादिरूपम्, अतएव कर्षादिमानक्वाथ्यापेक्षया दीयमानस्य षोडशगुणजलस्य वस्तुगत्या कुडवादिमानत्वेऽपि न द्वैगुण्यम्, जलमानस्यापि कर्षादिरूपतया निर्दिष्टत्वात्। उक्तं हि “रक्तिकादिषु मानेषु यावन्न कुडवो भवेत्। शुष्कंद्रवाईयोश्चापि तुल्यं मानं प्रकीर्तितम्” इति। रक्तिकादिष्विति रक्तिरूपतया निर्दिष्टेष्वित्यर्थः। तत इति एकपलादूर्द्ध्वंपलद्वयमारभ्य कुडवपर्य्यन्तमित्यर्थः। अत्र पलं यावदत्यन्तस्यैव वचनस्य पेयक्वाथविषयता, ततस्तु कुडवं यावदित्यादि तुसम्पूर्णशलाकानु-रोधादेवोक्तम्, अतएव पलं यावदित्यस्य पेयक्वाथविषयत्वं द्रढयन्पादावशिष्टत्वञ्चबोधयन् कृष्णात्रियोक्तवचनमुपन्यस्यति क्वाथ्यद्रव्यपले कुर्य्यादित्यादि—

प्रस्थार्द्धमिति द्रवद्वैगुण्यात् षोडश पलानि अतएवोक्तमन्यत्र “क्वाथ्यद्रव्यपले वारि द्विरष्टगुणमिष्यते। चतुर्भागावशिष्टञ्च पेयं पलचतुष्टयम्” इतिद्विरष्टगुणमिति षोडशगुणमित्यर्थः। एतेन पले क्वाथ्ये दीयमानस्यापि षोडशगुणजलस्य पादावशिष्टता कार्य्येति सूचयति। उक्तञ्चान्यत्र “द्रव्यमापोथितं क्वाथ्यंदत्त्वा षोडशिकं जलम्।पादावशिष्टं कर्त्तव्यमेष क्वाथविधिः स्मृतः” इति॥५७॥

द्वात्रिंशन्माषकैर्माषश्चरकस्य तु तैः पलम्।
अष्टचत्वारिंशता स्यात् सुश्रुतस्य तु माषकः।

द्वादशभिर्धन्यमाषैश्चतुःषष्ट्या तु तैः पलम्॥५८॥

इदानीं क्वाथ्यस्य पलत्रिकर्षादिकमित्यादि यदुक्तं तत् सर्वमकिञ्चित्करं यतो रक्तिकादिज्ञानाधीनं माषक-ज्ञानं,माषकज्ञानाधीनञ्चकर्षपलादिज्ञानं तदेवं मूलं निर्णीतम् अतोमाषकादिमानं व्यवस्थापयितुं परिभाषामाह द्वात्रिंशन्माषकैरित्यादि—द्वात्रिंशन्माषकैरित्यर्थः। तेन द्वात्रिंशता व्रीहिमाषेः साधारणैर्माषकः, तैश्च भाषकैरष्टचत्वारिंशताचरकमते पलं स्यादिति योग्यं, सुश्रुतमतेपुनर्व्रीहि-माषैर्द्वादशभिर्माषकः, तैर्माषकैश्चतुःषष्ट्या सुश्रुतमते पलमित्यर्थः॥५८॥

एतच्च तुलितं पञ्चरक्तिमाषात्मकं पलम्।
चरकार्द्धपतोन्मानं चरके दशरक्तिकैः॥
माषैःपलं चतुःषष्ट्या यद्भवेत् तत् तथेरितम्॥५९॥

इदानीं सुश्रुतचरकमते यावतीभी रक्तिभिर्माषको भवति तदाह एतञ्चेत्यादि—

एतदिति द्वादशधान्य-माषकृतैश्चतुः-षष्ट्या माषकैः सुश्रुतेन यत् पलमुक्तं तत् रक्तिकाभिस्तुलितं सत् पञ्चरक्तिमाषात्मकं भूत्वा चरकार्द्धपलोन्मानं भवतीत्यर्थः। एतदेवविशदयति चरके दशरक्तिकैरित्यादि—

यतश्चरके द्वात्रिंशन्माषकलायकृतैरष्टचत्वारिंशन्माषकैः यत् पलमीरितमुक्तंतद्दशरक्तिकैश्चतुःषष्ट्या माषकैस्तुलितं सत्तथा तावन्मानमेव भवेत्, यतश्चतुर्विंशत्या माषकलायैर्दशरक्तिकास्तुल्या भवन्तिततश्चदशरक्तिकमानाश्चतुःषष्टिमाषकाश्चतुर्विंशतिमाषकलायैर्गुणिताः सन्तः षट्त्रिंशदधिकपञ्च-दशशतमाषकलाया भवन्ति। एवं चरकमतेऽपि द्वात्रिंशन्माषकलायप्रमाणा येऽष्ट-चत्वारिंशन्माषकास्तेद्वात्रिंशता गुणिताः सन्तः षट्त्रिंशदधिकपञ्चदशशतमाषकलायाः स्युरिति दशरक्तिकमाषकृतपलमानेन सह द्वात्रिंशन्माषकलायप्रमाणमाषकृतपलमानस्य तुल्यता।सुश्रुतमते पुनर्द्वादशमाषकलायामाषकः, तेचतुषष्टिः पलमित्युक्तम्। ते चतुःषष्टिमाषका द्वादशमाषकलाय-गुणिताःसन्तोऽष्टषष्ट्यधिकसप्तशतमाषकलाया भवन्तीति चरकोक्तपल-मानादर्द्धेनसुश्रुतोक्तपलमानमिति॥५६॥

तस्मात् पलं चतुःषष्ट्या माषकैर्दशरक्तिकैः।
चरकानुमतं वैद्यैश्चिकित्सासूपयुज्यते॥६०॥

इदानीं चरकसुश्रुतोक्तमानयोर्मध्ये चरकोक्तमानमेव व्यवहारोपयोगिकमित्याहतस्मादित्यादि—

यस्माच्चरकोक्त-मानमेव वैद्यैश्चिकित्सासूपयुज्यते, तस्माद्दशरक्तिकैश्चतुःषष्ट्या माषकैर्यत् पलं तदैव व्यवहारसिद्धमिति शेषः॥६०॥

वातज्वरचिकित्सा।

बिल्वादिपञ्चमूलस्य क्वाथः स्याद्वातिके ज्वरे।
पाचनं पिप्पलीमूलगुडूचीविश्वजोऽथवा॥६१॥

पाचनयोगद्वयमाह बिल्वादीत्यादि—बिल्वादिपञ्चमूलं महत् पञ्चमूलम्। अव

चारणाप्यनेन क्रियते पिप्पलीमूलेत्यादिकन्तु क्वाथविषयमेवेति, क्वाथार्थोक्तपाचनयोगन गणरूपेणैव अवचारणा क्रियते, न पुनरगणरूपेण, अवचारणायोगेनापिगणरूपेणैव कषायोऽपि कियते। तेन धान्यपिप्पल्यादिना कषायविधिरित्याहुः;केचित्तु क्वाथार्थोक्तपाचनयोगेनागणरूपेणापि अवचारणमाहुः॥६१॥

किराताब्दामृतोदीच्यवृहतीद्वयगोक्षुरैः।
सस्थिराकलसीविश्वैः क्वाथो वातज्वरापहः॥६२॥

किरातेत्यादि—

किरातः चिरायितेति ख्यातम्, अब्दो मुस्तकम्, अमृतागुडूची, उदीच्यं बालकम्, स्थिरा शालपर्णी, कलसी पृश्निपर्णी; विश्वः शुण्ठी;विश्वस्थाने विल्वस्य क्वचित् पाठः। “योगवाहः परं वायुः” इति पित्तयुते पाचनोऽयंयोज्य इति निश्चलः॥६२॥

रास्नावृक्षादनी दारु सरलं सैलवालुकम्।
कषायः शर्कराक्षौद्रयुक्तो वातज्वरापहः॥६३॥

रास्नेत्यादि—

वृक्षादनी वन्दा; एलवालुकं स्वनामख्यातं, हारीतेऽयं योगः,किन्तु तत्रोत्तरार्द्धमन्यथा पठ्यते, “कोष्णं सगुडसर्पिष्कं पिबेद्वातज्वरापहम्” इतिएवं चन्द्राटेऽपि। शर्कराक्षौद्रपाठस्तु बहुसंग्रहपुस्तकेष्वेवास्ति अत आर्षेणापि भवितव्यम्। अतः पित्तश्लेष्मयुत्ते तत्प्रक्षेपो बोध्यः। अयं योगो गुडमात्रप्रक्षेपादपिरविगुप्तेन पठ्यते॥६३॥

प्रक्षेपः पादिकः क्वाथ्यात् हे कल्कसमो मतः॥६४॥

परिभाषामिमामन्ये प्रक्षेपेऽप्यूचिरे यथा।
कर्षश्चूर्णस्य कल्कस्य गुडिकानाञ्च सर्वशः॥
द्रवशुक्त्या सलेढव्यः पातव्यश्च चतुर्द्रवः।
मात्रा क्षौद्रघृतादीनां स्नेहक्वाथेषु चूर्णवत्॥६५॥

क्षौद्रशर्करयोर्मानार्थं परिभाषामाह प्रक्षेप इत्यादि—

क्वाथ्यात् कथनीयद्रव्यात् रास्नादेः उत्तम-पुरुषापेक्षया पलात् पादिकः कर्ष इत्यर्थः। हे कल्कसमोमत इति “कल्कस्तु स्नेहपादिकः” इत्युक्तेः कल्कसमः पादिक इत्यर्थः। इमामितिवक्ष्यमाणाम्। कर्ष इत्यादावपि क्षौद्रादीनां मात्रा चूर्णवदित्यतिदेशेन कर्ष एवार्थः।अत एकार्थत्वादनुमतैव। एवं “सितोपलागुडक्षारसामान्यांशप्रकल्पना” इतिवचनस्यापि “प्रक्षेपः पादिकः क्वाथ्यात्” इति वचनेन सहैकवाक्यता ज्ञेया।तथा हि सितोपलादिकमत्रोपलक्षणं तेन मध्वादिकमपि ज्ञेयम्। सामान्यमुत्सर्गसिद्धं पलत्रिकर्षार्द्धपलरूपं यत् क्वाथ्यद्रव्यमानं तस्यांशेन चतुर्भागरूपेण प्रकल्पनायेषां ते तथा।तेनापि क्वाथ्यात् पादिक एव प्रक्षेपो ज्ञेयः। समानैषां प्रकल्पनेतिपाठपक्षेऽपि समाना चूर्णसमाना कर्ष इत्यर्थः। तेन “मात्रा क्षौद्रघृतादीनां स्नेहक्वाथेषु चूर्णवत्” इत्यनेन सहैकवाक्यता। यत्र क्वाथप्रधानता तत्र प्रक्षेपःपादिक इत्यादि परिभाषा, एवं यत्र चूर्णापेक्षी द्रवः तत्र कर्षश्चूर्णस्य कल्कस्येति

परिभाषा। द्रवशुक्त्या स लेढव्य इति स लेढव्यश्चेत् तदा द्रवशुक्त्या द्रवार्द्धपलेन इत्यर्थः। पातव्यश्चेत् तदा चतुर्द्रवः चतुर्गुणद्रवः वृद्धवैद्यव्यवहारन्तु पश्वपणमाषकेणेति॥६४॥६५॥

बिल्वादिपञ्चमूली च गुडूच्यामलके तथा।
कुस्तुम्बुरुसमो ह्येषकषायो वार्तिके ज्वरे॥६६॥

बिल्बादीत्यादि—

कुस्तुम्बुरु धनीयकम्। सम इति समभागकृतः कषायइत्यर्थः एतेन “भागेऽप्यनुक्ते समता विधेया” इति परिभाषार्थः सूचितः। किंवाशमं तालव्यादिः तेन नायं पाचनयोगः किं तर्हि शमन इत्यर्थः। चन्द्राटेऽपि शमनाधिकारेऽयं योगः पठितः। अत्र शमनलक्षणं यथा “न शोधयति यद्दोषान् समान् नोदीरयत्यपि। समीकरोति च क्रुद्धांस्तत्संशमनमुच्यते” इति न शोधयति यद्दोषानितिदुष्टान् दोषान्न देहान्निःसारयति, एतेन शोधनं व्यवच्छिनत्ति। समान् नोदीरयत्यपीति अदुष्टानतिवृद्धयान विमार्गगान् करोति अनेन पाचनं व्यवच्छिनत्ति, पाचनंहि दोषान् विमार्गीकुर्वन् पचति यथा अग्निः स्थाल्यां जलतण्डुलादीन् विमार्गीकुर्वन्नेव पचति, न कोपयतीति क्वचित् पाठः स च न सङ्गतः, नोदीरयतीत्यनेन पौनरुक्त्यात् शोधनव्यवच्छेदाय पदान्तरं मृग्यम्॥६६॥

पिप्पलीशारिवाद्राक्षाशतपुष्पाहरेणुभिः।
कृतः कषायः सगुडोहन्याच्छ्वसनजं ज्वरम्॥६७॥

पिप्पलीत्यादि—

सुश्रुतस्य।यत्रशारिवैका पठ्यते तत्रानन्तमूलमेव, एवमन्यत्रापि ज्ञेयम्। श्वसनजमिति वातजम्। पिप्पलीशारिवेत्यादिकमारभ्य वातज्वरे येवाच्यास्ते शमनयोगा एव बोध्याः, यस्मात् सुश्रुते “अतः संशमनीयानि कषायाणिनिबोध मे” इत्यभिधाय एते योगा उक्ताः॥६७॥

गुडूची शारिवा द्राक्षा शतपुष्पा पुनर्नवा।
सगुडोऽयं कषायः स्याद्वातज्वरविनाशनः॥६८॥

गुडूचीत्यादि—

तन्त्रान्तरे गुडूचीस्थाने पिप्पली पठ्यते॥६८॥

द्राक्षागुडूचीकाश्मर्य्यत्रायमाणाः सशारिवाः।
निष्क्वाथ्य सगुडं क्वाथं पिबेद्वातज्वरापहम्॥६६॥

द्राक्षेत्यादि—

सुश्रुतस्य।काश्मर्य्यंगाम्भारीफलम्॥६६॥

शतावरीगुडूचीभ्यां स्वरसो यन्त्रपीडितः।
गुडप्रगाढः शमयेत् सद्योऽनिलकृतं ज्वरम्॥७०॥

शतावरीत्यादि—

अनयोः स्वरसः सम एव प्रायः॥७०॥

पित्तज्वरचिकित्सा।

कलिङ्गंकट्फलं मुस्तं पाठा तितरोहणी।
पक्कं सशर्करं पीतं पाचनं पैत्तिके ज्वरे॥७१॥

सक्षौद्रंपाचनं पैत्तेतिक्ताव्देन्द्रयवैः कृतम्॥७२॥

पैत्तिकज्वरे पाचनयोगमाह कलिङ्गमित्यादि—

कलिङ्गम्इन्द्रयवः। पाठा आकनादि सक्षौद्रमित्यादौ तिक्ता कटुकी॥७१॥७२॥

लोध्रोत्पलामृतापद्मशारिवाणां सशर्करः।
क्वाथःपित्तज्वरं हन्यादथवा पर्पटोद्भवैः॥७३॥

लोध्रोत्पलेत्यादि—

उत्पलं नीलोत्पलम्; पद्मं च पद्मपुष्पम्। “गुडूचीशारि—

बालोध्रकमलोत्पलशर्कराः” इत्यायुर्वेदसारदर्शनात्। एक एवायं योगः सुश्रुते तु योगद्वयं पठ्यते “गुडूचीपद्मलोध्राणां शारिवोत्पलयोस्तथा। शर्करामधुरः क्वाथः शीतः पित्तज्वरापहः” इति। किंवा एतद्वचनसंवादात् सुश्रुतेऽप्येकयोगो व्याख्येयः। पर्पटोद्भव इत्यत्रापि सशर्कर इति योज्यम्॥७३॥

पटोलयवनिप्क्वाथो मधुना मधुरीकृतः।
तीव्रपित्तज्वरामर्द्दीपानात् तृड्दाहनाशनः॥७४॥

पटोलेत्यादि—

स्पष्टम्॥७४॥

दुरालभापर्पटकप्रियङ्गुभूनिम्बवासाकटुरोहिणीनाम्।
जलं पिबेच्छर्करयावगाढं तृष्णास्रपित्तज्वरदाहयुक्तः॥७५॥

दुरालभेत्यादि—

शर्करात्र प्रक्षपविधिनैव, अन्ये त्ववगाढमिति वचनात् सम्यङ्माधुर्य्यादिका शर्करा देयेत्याहुः॥७५॥

त्रायमाणा च मधुकं पिप्पलीमूलमेव च।
किराततिक्तकं मुस्तं मधूकं सविभीतकम्।
सशर्करं पीतमेतत् पित्तज्वरविनाशनम्॥७६॥

त्रायमाणेत्यादि—

त्रायमाणा वलोयालता इति, मधुकं यष्टिमधु, मधूकं मधूकपुष्पं पित्तहन्तृत्वात्॥७६॥

मृद्वीका मधुकं निम्बं कटुका रोहिणी समा।
अवश्यायस्थितं पाक्यमेतत् पित्तज्वरापहम्॥७७॥

मृद्वीकेत्यादि—

मृद्वीका द्राक्षा कटुका रोहिणी कटुरोहिणी, अवश्यायस्थितंशिशिरस्थितम्, न तु शीतकषायमत आह पाक्यमिति। एतेन पाकंकृत्वैव शिशिरे स्थापयेत्, न तु “द्रव्यदापोथितात् तोये” इत्यादि शीतकषायविधिना॥७७॥

एकःपर्पटकः श्रेष्ठः पित्तज्वरविनाशनः।
किं पुनर्यदि युज्येत चन्दनोदीच्यनागरैः॥७८॥

एक—

इत्यादिचन्दनं रक्तचन्दनम्, नागरं कटुकमपि न पित्ते विरुध्यते मधुरपाकित्वात्॥७८॥

विश्वाम्बुपर्पटोशीरघनचन्दसाधितम्।
दद्यात् सुशीतलं वारि तृट्छर्दिज्वरदाहनुत्॥

पर्पटामृतधात्रीणां क्वाथः पित्तज्वरापहः॥७९॥

विश्वेत्यादि—अम्बुचालकम्, घनं मुस्तम्। पर्पेटत्यादि—

अमृता गुडूचीछान्दसत्वात् ह्रस्वः॥७६॥

द्राक्षारग्वधयोश्चापि काश्मर्य्यस्याथवा पुनः॥८०॥

द्राक्षेत्यादि—

सुश्रुतस्य। आरग्वधः शोनालुः, अस्य च चरके फलिनीवर्गेसुश्रुते पत्रवर्गे पाठात् अन्तःपरिमार्जने फलम्, बहिः परिमार्जने कुष्ठादौपत्रं ज्ञेयम्,तेनात्र फलमेव, एवं काश्मर्य्या अपि फलमेव। अत्र द्राक्षारग्वधयोश्चापीत्येको योगःकाश्मर्य्यस्याथवेति द्वितीयः। इदन्तुयोगद्वयं “गुडूचीपद्मलोध्राणां शारिवोत्पलयोस्तथा। शर्करामधुरः क्वाथःशीतः पित्तज्वरापहः” इत्यस्यानन्तरं सुश्रुतेपठ्यते, तेनात्रयोगद्वये शर्करामधुरः क्वाथः इत्यनुवर्त्य टीकाकारैः शर्कराप्रक्षपोविधेय इति व्याख्यातम्॥८०॥

द्राक्षाभयापर्पटकाव्दतिक्ताक्वाथं सशम्पाकफलं विदध्यात्।
प्रलापमूर्च्छाभ्रमदाहशोषतृष्णान्विते पित्तभवे ज्वरे तु॥८१॥

द्राक्षेत्यादि—

ख्यातमसितप्रभस्य शम्पाकः शोनालुः तस्य मज्जाभागः प्रक्षेपइति केचित् अयं प्रचारी।अन्ये तु तत्फलैः सह मिलित्वाक्वाथ इत्याहुः॥८१॥

व्युषितं धन्याकजलं प्रातः पीतं सशर्करं पुंसाम्।
अन्तर्दाहं शमयत्यचिराद्दूरप्ररूढमपि॥८२॥

व्युषितमित्यादि—

धन्याकक्वाथ एव व्युषितः कार्यः इति कश्चित्, अन्ये तु"द्रव्यादापोथितात् तोये प्रतप्ते निशि संस्थितात्। कषायो योऽभिनिर्याति स शीतःसमुदाहृतः। षड्भिः पलैश्चतुभिर्वा सलिलाच्छीतफाण्टयोः। आप्लुतं भेषजपलंरसाख्यायां पलद्वयम्” इति शास्त्रयुक्त्याशीत-कषायमित्याहुः। वृद्धवैद्यस्तु भेषजार्द्धपले जलपलद्वयेन शीतकषायं कुर्वन्ति॥८२॥

पित्तज्वरेण तप्तस्य क्रियां शीतां समाचरेत्॥६३॥

पित्तज्वरेण तप्तस्येत्यादि—

तप्तस्येत्यनेन वक्ष्यमाणा प्रदेहाद्या शीतलक्रियाजीर्णज्वर एव कर्त्तव्येतिबोधयति। अत एवोक्तंसुश्रुते “परिषेकान् प्रदेहांश्चमहान् संशोधनानि च। स्नानाभ्यङ्गदि-वास्वप्नशीतष्यायामयोषितः। कषायगुरुभक्ष्याणि क्रोधादीनि तथैव च। सारवन्ति च भोज्यानि वर्जयेत् तरुणज्वरी”॥८३॥

विदारी दाडिमं लोध्रंदधित्थं बीजपूरकम्।
एभिः प्रदिह्यान्मूर्द्धानं तृड्दाहार्त्तस्य देहिनः॥८४॥

विदारीत्यादौ—दधित्थं कपित्थफलम्, दाडिमस्यापि फलं, बीजपूरकस्यकशरम्॥८॥

घृतभृष्टाम्लपिष्टा च घात्रीलेपाच्चदाहनुत्।
अम्लपिष्टैःसुशीतैर्वा पलाशतरुजैर्दिहेत्॥
वदरीपिल्लवोत्थेन फेनेनारिष्टकस्य वा॥८५॥

घृतेत्यादि—धात्री आमलकी, आदौ अम्लकाञ्जिकपिष्टा पश्चान्मनाग्वृतभृष्टेत्यर्थः। अम्लपिष्टैरित्यादि अम्लं काञ्जिकम्,पलाशतरुजैश्च पलाशनवपल्लवैःदिहेत् लिम्पेत्। वदरीपल्लवोत्थेनेत्यादि—अत्रापिवदरीपल्लवं काञ्जिकेन पिष्ट्वाप्रचुरकाञ्जिकेन गोलयित्वा मन्थानदण्डेन प्रमथ्य फेनग्रहणं कर्त्तव्यम्। एवं निम्बपत्रस्येत्याहुः॥८५॥

कालेयचन्दनानन्तायष्टीबदरकाञ्जिकैः।
सघृतैः स्याच्छिरोलेपस्तृष्णादाहार्त्तिशान्तये॥८६॥

कालेयेत्यादि—कालेयं कालेयकाष्ठम्; अनन्ता अनन्तमूलम्; बदरं बदरफलम्।सधृतैरिति घृतमत्र शतधौतं प्रयच्छन्ति वृद्धाः॥८६॥

उत्तानसुप्तस्य गभीरताम्रकांस्यादिपात्रं प्रणिधाय नाभौ।
तत्राम्बुधारा बहुला पतन्ती निहन्ति दाहं त्वरितं सुशीता॥८७॥

उत्तानेत्यादि—सर्वत्रैव कफसंबन्धं विना यथा गात्रेअम्बुकणा न पतन्ति,तथा कार्यम्॥८७॥

पीतकाञ्जिकवस्त्रावगुण्ठनं दाहनाशनम्॥८८॥

पीतेत्यादि—परन्तु सम्यगालोडयित्वा क्रियते॥८८॥

जिह्वातालुगलक्लोमशोषे मूर्द्ध्नितु दापयेत्।
केशरं मातुलुङ्गस्य मधुसैन्धवसंयुतम्॥८९॥

जिह्वेत्यादि—सुश्रुतस्य।लेपोऽयम्, क्लोम पिपासास्थानम्, मूर्ध्नि शिरस्तालुमध्ये॥८६॥

मातुलुङ्गशिफाविश्वब्राह्मीग्रन्थिकसम्भवम्।
कफज्वरेऽम्बु सक्षारं पाचनं वा कणादिकम्॥९०॥

मातुलुङ्गेत्यादि—शिफा मूलम्, ब्राह्मी ब्राह्मीशाकम्, ग्रन्थिकं पिप्पलीमूलम्,सक्षारमिति मातुलुङ्ग-शिफाविशेषणमेव, न तु करणादिकमित्यस्य, यतस्तन्त्रान्तरेपिप्पल्यादिकन्तु पाचने कफजे ज्वर इत्युक्तम्। न तु यवक्षारप्रेक्षप इति॥६०॥

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरम्।
मारिचैलाजमोदेन्द्रपाठारेणुकजीरकम्॥
भार्गी महानिम्बफलं हिङ्गु रोहिणिसर्पपम्।
विडङ्गातिविषे मूर्वा चेत्ययं कीर्त्तितो गणः॥
पिप्पल्यादिः कफहरः प्रतिश्यारोचकज्वरान्।
निहन्याद्दीपनो गुल्मशूलघ्नस्त्वामपाचनः॥९१॥

कणादिकामिति सुश्रुतोक्तपिप्पल्यादिगणःअतस्तमेव गणं निर्दिशति पिप्पलीत्यादि॥९१॥

कटुकं चित्रकं निम्बं हरिद्रातिविषे वचा।
कुष्ठमिन्द्रयवं मूर्वा पटोलञ्चापि साधितम्॥

पिबेन्मरिचसंयुक्तं सक्षौद्रं श्लैष्मिके ज्वरे॥९२॥

कटुकमित्यादि—

तन्त्रान्तरस्य। सुश्रुते “हरिद्रा चित्रकं निम्बमुशीरातिविषे वचा” इति दर्शनात् कटुकस्थाने उशीरमिति निश्चलः पठति।कटुकेत्यादि—

वचान्त एको योगः, कुष्ठादिपटोलान्तो द्वितीयः अतएव वृन्दे पूर्वार्द्धं परित्यज्य कुष्ठमित्यादि द्वितीयार्द्धमेव पठ्यते। डल्वणस्तु एकयोगत एव सुश्रुतटीकायांव्याख्यातवान्।पटोलमिति पटोलपत्रम्, “पटोलादेश्छदस्तथा” इति वचनात्।साधितमित्यनन्तरं कषायमिति शेषः।मरिचमल्पं मधु तु प्रचुरं प्रक्षेप्यं तीक्ष्णमृदुवीर्य्यत्वादिति चक्रः॥९२॥

निम्बविश्वामृतादारु शटी भूनिम्बपौष्करम्।
पिप्पल्यौ वृहती चेति क्वाथो हन्ति कफज्वरम्॥९३॥

निम्बेत्यादि—

पौष्करं पुष्करमूलम्, तदभावे कुष्ठम्, एवं सर्वत्र।बृहती कण्टकारी॥९३॥

सिन्धुवारदलक्वाथः सोपणः कफजे ज्वरे।
जङ्घयोश्च बले क्षीणे कर्णे वा पिहिते पिबेत्॥९४॥

सिन्धुवारेत्यादि—

आयुर्वेदसारस्य।सोषण इति सपिप्पलीकः, अतएव कणाढ्यइति पठ्यते; अन्ये तु ऊषणशब्देन मरिचं व्याख्यानयन्ति व्यवहरन्ति च॥९४॥

आमलक्यभया कृष्णा चित्रकश्चेत्ययं गणः।
सर्वज्वरकफातङ्कभेदी दीपनपाचनः॥९५॥

आमलकीत्यादि स्पष्टम्॥९५॥

त्रिफला पटोलवासाच्छिन्नरुहातिक्तरोहिणीषड्ग्रन्थाः।
मधुना श्लेष्मसमुत्थे दशमूली वासकस्य वा क्वाथः॥९६॥

त्रिफलेत्यादि—

छिन्नरुहा गुडूची। तिक्तरोहिगणी कटुरोहिणी; षड्ग्रन्था वचा;अयं योगो दशमूलीवासकक्वाथ-साहचर्यात् क्वाथ एव, दशमूलीवासकाभ्याम्मिलिताभ्यां क्वाथः। अत्रापि मधु प्रक्षिपन्ति॥९६॥

मुस्तं वत्सकबीजानि त्रिफला कटुरोहिणी।
परूपकाणि च क्वाथः कफज्वरविनाशनः॥९७॥

मुस्तमित्यादि—

सुश्रुतस्य।वत्सकः कुटजः ॥९७॥

चातुभर्द्रावलेहिका।

कट्फलं पौष्करं शृङ्गी कृष्णा च मधुना सह।
कासश्वासज्वरहरः श्रेष्ठो लेहः कफान्तकृत्॥९८॥

** **कट्फलमित्यादि—

कट्फलं खनामख्यातम्, शृङ्गांकर्कटशृङ्गी॥९८॥

कर्षश्चूर्णस्य कल्कस्य गुडिकानाञ्च सर्वशः।
द्रव्यशुक्त्या स लेढव्यः पातव्यश्च चतुर्द्रवः॥९९॥

** **कर्ष इत्यादि—

परिभाषा व्याख्याता पूर्वमेव, किन्तु इदं कर्षमानम् उत्तमपुरुषमपेक्ष्य कथितम्, तेन मध्यजघन्यापेक्षया कर्षमानादपकर्षो ज्ञेयः। व्यवहारस्तु द्वित्रैश्चूर्णमाषकैरिति॥९९॥

ऊर्द्ध्वजत्रुगरोगघ्नी सायं स्यादवलेहिका।
अधोरोगहरी या तु सा पूर्वं भोजनान्मता॥१००॥

अस्योपयोगार्थं समयमाह ऊर्द्ध्वेत्यादि॥१००॥

क्षौद्रोपकुल्यासंयोगः कासश्वासज्वरापहः।
प्लीहानं हन्ति हिक्काञ्च बालानाञ्च प्रशस्यते॥१०१॥

क्षौद्रोपकुल्येत्यादौ उपकुल्या पिप्पली॥१०१॥

संसृष्टदोषेषु हितं संसृष्टमथ पाचनम्॥१०२॥

द्वन्द्वजानां चिकित्सामाह संसृष्टमित्यादि—

संसृष्टं मिलितं वातहरादिभिः॥१०२॥

नवाङ्गः—

विश्वामृताब्दभूनिम्बैः पञ्चमूलीसमन्वितैः।
कृतः कषायो हन्त्याशु वातपित्तोद्भवं ज्वरम्॥१०३॥

विश्वामृतेत्यादि—

अमृता गुडूची, पञ्चमूली स्वल्पा पञ्चमूली॥१०३॥

त्रिफलाशाल्मलीरास्नाराजवृक्षाटरूषकैः।
शृतमम्बुहरेत् तूर्णं वातपित्तोद्भवं ज्वरम्॥१०४॥

त्रिफलेत्यादि—

शाल्मलीवृक्षस्य मूलम्।राजवृक्षस्य शोणालुवृक्षस्य फलम्अन्तःपरिमार्जनत्वादिति प्रागेवोक्तम्, आटरूषको वासकः॥१०४॥

किराततिक्तममृताद्राक्षामामलर्काशटीम्।
निष्क्वाथ्य पित्तानिलजे क्वाथं तं सगुडं पिबेत्॥१०५॥

किराततिक्तमित्यादि—

सुश्रुतस्य।अमृता गुडूची॥१०५॥

निदिग्धिकावलारास्नात्रायमाणामृतायुतैः।
मसूरविदलैः क्वाथो वातपित्तज्वरं जयेत्॥१०६॥

निदिग्धिकेत्यादि—निदिग्धिका कण्टकारी। मसूरविदलैरिति ब्रीहिमसूरदलैरिति वकुलः। अन्ये तु मसूरविदलं श्यामालतामाहुः, यद्यप्यस्याः पर्य्यायेमसूरविदला पठ्यते, तथापि लिङ्गमशिष्टं लोकाश्रयत्वात् इति लिङ्गे अनादरः।अस्याश्च द्रव्यगुणे ज्वरहन्तृत्वमस्ति, व्यवहारस्तु क्वचिदनया क्वचिद्व्रीहिमसूरेणेति॥१०६॥

पञ्चभद्रम्—

गुडूची पर्पटं मुस्तं किरातं विश्वभेषजम्।
वातपित्तज्वरे देयं पञ्चभद्रमिदं शुभम्॥१०७॥

पञ्चभद्रस्य पित्तकफहन्तृत्वमपि बोध्यम्, यदाह हारीतः, “किरातं पर्पटं निम्बंगुडूची विश्वभेषजम्। पित्तश्लेष्मज्वरे कुर्य्यात् पाचनं ज्वरनाशनम्” इति॥१०७॥

मधुकं शारिवे द्राक्षा मधूकं चन्दनोत्पलम्।
काश्मरी पद्मकं लोधं त्रिफलां पद्मकेशरम्॥

परूषकं मृणालञ्च न्यसेदुत्तमवारिणि।
मधुलाजसितायुक्तं तत् पीतमूषितं निशि॥
वातपित्तज्वरं दाहतृष्णामूर्च्छावमिभ्रमान्।
शमयेद्रक्तपिञ्च जीमूतानिव मारुतः॥१०८॥

मधुकमित्यादि—

द्वे शारिवे श्यामालतानन्तमूले, मधूकं मधूकपुष्पम्, उत्पलंनीलोत्पलम्, काश्मरी, गाम्भारी अस्याः फलं वृद्धोपदेशात्। पद्मस्य केशरंकिञ्जल्कः, मृणालमुशरिम्, उत्तमवारिणि तण्डुलोदके। एतत् सर्वं शीतकषायविधिना गृहीतम्॥१०८॥

अथ पित्तश्लेष्मज्वरचिकित्सा।

पटोलादिः—

पटोलं चन्दनं मूर्वा तिला पाठामृतागणः।
पित्तश्लेष्मारुचिच्छर्दिज्वरकण्डूविषापहः॥१०६॥

पित्तकफज्वरचिकित्सामाह—

पटोलमित्यादिसुश्रुतस्य। गणोक्तत्वात्क्वाथकल्कादिकल्पनास्य बोध्या॥१०६॥

गुडूच्यादिः—

गुडूची निम्बधन्याकं पद्मकं चन्दनानि च।
एषसर्वज्वरान् हन्ति गुडूच्यादिस्तु दीपनः॥
हृल्लासारोचकच्छर्दिपिपासादाहनाशनः॥११०॥

गुडूचीत्यादि—

पद्मकं पद्मकाष्ठम्। यत्र पद्ममित्यस्ति तत्र प्रायः पद्मकेशरमेवगृह्यते। अत्र अत्यन्तदाहपिपासायां वृद्धाः शीतीकृत्य मधु प्रक्षिपन्ति। तच्च बहुधादृष्टफलम्॥११०॥

चातुर्भद्रकपाठासप्तकौ।

किरातं नागरं मुस्तं गुडूचीञ्च कफाधिके।
पाठोदीच्यमृणालैस्तु सह पित्ताधिके पिबेत्॥१११॥

किरातमित्यादि—

“पाठोदीच्यमृणालैस्तु सह पित्ताधिके पिबेत्” इति किरातादिभिः सह मिलित्वा पिबेत् अतः पाठासप्तकत्वम्। मृणालमुशीरम्। पित्ताधिक इत्यत्र कफ इति शेषः। जतुकर्णेऽप्युक्तं"भूनिम्बघन-गुडूची-शुण्ठ्यम्बुवासकभार्ग्यभयापाठा” इति॥१११॥

कण्टकार्यादिः—

कण्टकार्य्यमृताभार्गी नागरेन्द्रयवासकम्।
भूनिम्बंचन्दनं मुस्तं पटोलं कटुरोहिणी॥
कषायं पाययेदेतत् पित्तश्लेष्मज्वरापहम्।
दाहतृष्णारुचिच्छर्दिकासहृत्पार्श्वशूलनुत्॥११२॥

कण्टकार्य्यादि—

भार्गीवामनहाटी, इन्द्र इन्द्रयवः, यवासकं दुरालभा। एषयोगः पित्तोसरे कफ इति केचित्॥११२॥

सपत्रपुष्पवासाया रसः क्षौद्रसितायुतः।
कफपित्तज्वरं हन्ति सास्रपित्तं सकामलम्॥११३॥

सपत्रेत्यादि—

रसः स्वरसः, तस्य गुरुत्वात् अर्द्धपलं प्रायेणोपयुज्यते।सितामधुनोस्तु प्रत्येकं चतुर्माषकयोरत्र प्रक्षेप इति॥११३॥

पटोलं पिचुमर्दश्च त्रिफला मधुकं बला।
साधितोऽयं कषायः स्यात् पित्तश्लेष्मोद्भवे ज्वरे॥११४॥

पटोलमित्यादौ पिचुमर्दो निम्बः॥११४॥

अमृताष्टकः—

गुडूचीन्द्रयवारिष्टपटोलं कटुरोहिणी।
नागरं चन्दनं मुस्तं पिप्पलीचूर्णसंयुतम्\।\।
अमृताष्टक इत्येष पित्तश्लेष्मज्वारापहः।
हृल्लासारोचकच्छर्दितृष्णादाहनिवारणः॥११५॥

अमृताष्टके अरिष्टो निम्बः॥११५॥

पटोलयवधन्याकं मुद्गामलकचन्दनम्।
पैत्तिके श्लेष्मपित्तोत्थे ज्वरे तृट्छर्दिदाहनुत्॥११६॥

पटोलेत्यादि—

स्पष्टम्॥११६॥

पञ्चतिक्तम्।

क्षुद्रामृताभ्यां सह नागरेण सपौष्करञ्चैव किराततिक्तम्।
पिबेत् कषायन्त्विह पञ्चतिलं ज्वरं निहन्त्यष्टविधं समग्रम्॥११७॥

क्षुद्रेत्यादि—क्षुद्राकण्टकारी, नागरस्य कटुत्वेऽपि छत्रिणो गच्छन्तीतिन्यायात् पञ्चतिक्तकसंज्ञा॥११७॥

सशर्करामक्षमात्रां कटुकामुष्णवारिणा।
पीत्वा ज्वरं जयेज्जन्तुः कफपित्तसमुद्भवम्॥११८॥

सशर्करामित्यादि—सुश्रुतस्य। कल्पकल्पनेयम्। शर्कराकटुरोहिण्योःमिलित्वा समभागेन कर्षः। वैद्यप्रसारकेऽपि समभाग एवोक्तः। चक्रस्तु शर्करायाउपसर्जनत्वात् कटुकायाश्च प्राधान्यात् कटुकाया द्वादश माषकाः सितायाश्चत्वारइति तन्न, आयुर्वेदसारे “सितां कटुकया युक्तां पीत्वा चोष्णेन वारिणा।जीर्णज्वरंजयेच्छीघ्रं कफपित्तकृतं ज्वरम्” इत्यत्र सिताया एव प्राधान्येन निर्देशात् तस्मात्"भागेऽप्यनुक्ते समता विधेया” इति वचनात् समभागतैव युक्ता॥११८॥

दीपनं कफविच्छेदि वातपित्तानुलोमनम्।
ज्वरघ्नं पाचनं भेदि शृतं धान्यपटोलयोः॥११६॥

दीपनमित्यादि—अत्र धन्याकस्य दश माषकाः पटोलस्य तु षण्माषका इतिकेचित्, तन्न, समभागबाधकाभावात्। शृतं क्वाथः, व्यवहारस्तु व्यञ्जनेनैव॥११६॥

वातश्लेष्मज्वरचिकित्सा।

कफवातज्वरे स्वेदान् कारयेद्रूक्षनिर्मितान्।
स्रोतसां मार्दवं कृत्वा नीत्वा पावकमाशयम्।

हत्वा वातकफस्तम्भं स्वेदो ज्वरमपोहति॥१२०॥

वातकफज्वरचिकित्सामाह कफवातेत्यादि—

रूक्षनिर्मितानिति करीषवुसपापाणवाष्पनिर्मितान्। यद्यपि वातश्लेष्मणि स्निग्धरूक्ष एवस्वेदो युक्तः"स्वेदोऽनिले स्निग्धरूक्षोवातश्लेष्मणि शस्यते” इति तथापि आमाशयगतस्यैव दोषस्य ज्वरारम्भकत्वात् वातेऽपि रूक्ष एव स्वेद उक्तः। उक्तंहि"आमाशयगते वाते रूक्षपूर्वः प्रशस्यते”॥१२०॥

खर्परभृष्टपटस्थितकाञ्जिकसिक्तोहि वालुकास्वेदः।
शमयति वातकफामयमस्तकशूलाङ्गभङ्गादीन्॥१२१॥

तमेवरूक्षस्वेदमाह खर्पर इत्यादि—

स्विद्यते अनेनेति स्वेदः, वालुका एवस्वेदः वालुकास्वेदः, तेन खर्परभृष्टेत्यादि विशेषणं सङ्गच्छते। वालुकाप्रकर इत्यपिपाठः॥१२१॥

मुस्तनागरभूनिम्बंत्रयमेतत् त्रिकार्षिकम्।
कफवातामशमनं पाचनं ज्वरनाशनम्॥१२२॥

मुस्तेत्यादि—

प्रत्येकं कर्षः॥१२२॥

पञ्चकोलः - पिप्पलीपिप्पलीमूलचव्यचित्रकनागरम्।
दीपनीयः स्मृतो वर्गः कफानिलगदापहः॥१२३॥

पिप्पलीत्यादि—

योगोऽवचारणया क्वाथेनापि क्रियते; प्रत्येकं कोलप्रमाणयोमादस्य पञ्चकोल इति संज्ञा ज्ञेया॥१२३॥

पिप्पलीभिः शृतं तोयमनभिष्यन्दि दीपनम्।
वातश्लेष्मविकारघ्नं प्लीहज्वरविनाशनम्॥१२४॥

पिप्पलीभिः शृतमित्यादि—

पिप्पल्यास्तीक्ष्णवीर्यत्वात् क्वाथ्यान्तरवत् अस्यअर्द्धपलादिमानेन क्वाथो न युज्यते; तेन कर्षमेकमल्पं वा गृहीत्वा कषायः कार्यःप्रबले श्लेष्मणि वाते च योज्यः।वृद्धास्तु क्वाथेन व्यवहरन्ति, अष्टमाषकं गृहीत्वाषडङ्गवदर्द्धशृतमामावस्थायामपि कुर्वन्ति॥१२४॥

आरग्वधेग्रन्थिकमुस्ततिक्ताहरीतकीभिः कथितः कषायः।
सामे सशूले कफवातयुक्ते ज्वरे हितो दीपनपाचनश्च॥१२५॥

आरग्वधेत्यादि—

आरग्वधः शोणालुफलम्, ग्रन्थिकं पिप्पलीमूलम्, तिक्ताकटुकी; दीपनपाचनश्चेत्यत्र, “दीपन-भेदनोऽसौ” इत्यपि पाठः॥१२५॥

क्षुद्रादिः वा कण्टकार्य्यादिः।

क्षुद्रामृतानागरपुष्कराह्वयैः कृतः कषायः कफमारुतोद्भवे।
सश्वासकासारुचिपार्श्वरुक्करे ज्वरे त्रिदोषप्रभवे च शस्यते॥१२६॥

क्षुद्रेत्यादि—

क्षुद्रा कण्टकारी॥१२६॥

दशमूलीरसः पेयः कणायुक्तः कफानिले।
अविपाकेऽतिनिद्रायां पार्श्वरुक्श्वासकासके॥१२७॥

दशमूलीत्यादि—

रसः क्वाथः। अविपाके दोषाणामीषत्पाके; तेन पाचनत्वमस्य॥१२७॥

मुस्तं पर्पटकः शुण्ठी गुडूची सदुरालभा।
कफवातारुचिच्छर्दिदाहशोषज्वरापहः॥१२८॥

मुस्तमित्यादि—

क्वाथेन॥१२८॥

दारुपर्पटभार्ग्यब्दवचाधान्यककट्फलैः।
साभयाविश्वपूतीकैः क्वाथो हिङ्गुमधूत्कटः॥
कफवातज्वरे पीतो हिक्काश्वासगलग्रहान्।
कासश्वासप्रसेकांश्च हन्यात् तरुमिवाशनिः॥
मात्रा क्षौद्रघृतादीनां स्नेहक्वाथेषु चूर्णवत्।
माषिकं हिङ्गुसिन्धूत्थजरणाद्यस्तु शाणिकाः॥१२९॥

दार्वित्यादि।—

पूतिको लाटाकरञ्ज इति निश्चलः। किन्तु भूतीक इति पाठोबहुपुस्तकेषु दृश्यते स च टीकया न व्याख्यातः। भूतीकश्चयमानी।हिंगुक्षौद्रयोःप्रक्षेपार्थं परिभाषामाह मात्रेत्यादि—

चूर्णवदिति कर्ष इत्यर्थः। उत्तमस्य पलंमात्रेति पक्षे इयं मात्रा ज्ञेया; माषिक हिङ्ग्विति छेदः। आद्यशब्देन सैन्धवसौवर्चलमरिचादयः॥१२९॥

मातुलुङ्गफलकेशरो धृतः सिन्धुजन्ममरिचान्वितो मुखे।
हन्ति वातकफरोगमास्यगं शोषमाशु जडतामरोचकम्॥१३०॥

मातुलुङ्गेत्यादि—

सिन्धुजन्म सैन्धवम्॥१३०॥

सन्निपाते—

लङ्घनं बालुकास्वेदो नस्यं निष्ठीवनं तथा।
अवलेहोऽञ्जनञ्चैवप्राक् प्रयोज्यं त्रिदोषजे।
सन्निपातज्वरे पूर्वं कुर्य्यादामकफापहम्।
पश्चात् श्लेष्मणि संक्षीणे शमयेत् पित्तमारुतौ॥१३१॥

सन्निपातज्वरचिकित्सामाह लङ्घनमित्यादि।—

यद्यपि सन्निपातज्वरस्त्रिदोषारब्धः, तथापि आमाशयस्य कफस्थानत्वात्, स्थानित्वेन च कफ एव बली; अतस्तत्प्रत्यनीकचिकित्सा प्रथमतोविधेया। अतः कफप्रत्यनीकमेव लङ्घनादिकं प्रथमंकर्तव्यम् इत्याह लङ्घनमित्यादि। अव एवोक्तमन्यत्र “श्लेष्मनिग्रहमेवादौकुर्यात्व्याधौत्रिदोषजे” इति, यत् पुनस्तन्त्रान्तरे “शमयेत् पित्तमेवादौ ज्वरेषु समवायिषु।दुर्निवारतमं तद्धि ज्वरार्त्तेषु विशेषतः” तथा “वातस्यानु जयेत् पित्तंपित्तस्यानु जयेत् कफम्।त्रयाणां वा जयेत् पूर्वं यो भवेद्बलवत्तमः” इत्युक्तं, तत्पुनरवस्थाविशेषे बोध्यम्। तथाहि सामज्वरे कफमेवादितः प्रतिकुर्य्यात् आमपाकान्ते पित्तमेवादी, चिरजे मारुतमेवादाविति। अत्रार्थे तन्त्रातरं “ज्वरे त्रिदोषजेसामे शमयेत् कफमादितः। पाकान्तमागते पित्तं चिरजे विषमेऽनिलम्” इति।

अन्ये पुनः “वातस्यानु जयेत् पित्तम्” इत्यादिश्लोकमतीसारविषयतया वर्णयन्ति।ननु वातादीनां विभिन्न-सञ्चयप्रकोपादीनां युगपदवस्थानाभावात् कथं सम्भूयसान्निपातिकव्याध्यारम्भकत्वम्? अथ मन्यते त्रिदोषकरनिदानवशेन प्रकोपादेषांयुगपदुपस्थितिरिति, तदपि न मनोरमं यतस्तथाविधनिदानोप-सेधनेऽपि दोषाणांविपरीतैर्गुणैः परस्परोपघातात् युगपत्प्रकोपस्य अनुपपत्तेः। अत्रोच्यते न खलुदोषाणां निखिल एव गुणो विपरीतः, समानस्यापि कतिपयगुणस्य सद्भावात्, समानेन हि गुणेन दोषाणामन्योन्यप्रकोपस्यापि सम्भवात्। तथाहि रौक्ष्यलाघवाद्यैर्वायुस्तैजसं पित्तं प्रकोपयति, पित्तमप्येवमेव वायुम्, वायुरपि शैत्यात् कफम्,कफोऽपि तथा वायुम्, पित्तञ्चद्रवत्वेन कफम्, कफोऽपि तथा पित्तमिति, गुणसाम्यम्। न वाच्यम्, विपरीतस्तु गुणो भूयान् अल्पं समानगुणमभिभूय प्रशमयत्येव, कृतो न करोत्येव यतो दूष्यापेक्षया त्रिदोषकरद्रव्यप्रभावाच्च दोषगुणौदूषयन्ति परं न शमयन्तीति। दृढबलस्त्वाह ‘विरुद्धैरपि न त्वेते गुणैर्घ्नन्तिपरस्परम्। दोषा सहजसात्म्यत्वात् घोरं विषमहीनिव” इति। अस्यार्थस्तु अस्मदीयचरक-तत्त्वप्रदीपिकायामनुसन्धेयः॥१३१॥

त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा।
लङ्घनं सन्निपातेषु कुर्याद्वारोग्यदर्शनात्॥
दोषाणामेव सा शक्तिर्लङ्घने या सहिष्णुता।
न हि दोषक्षये कश्चित् सहते लङ्घनादिकम्॥१३२॥

लङ्घनं सूचयित्वा दोषभेदेन तदवधिमाह त्रिरात्रमित्यादि—

त्रिरात्रं लङ्घनविधिविकल्पो यथा-क्रममुल्वणवाताद्यपेक्षया ज्ञेयः। कुर्य्याद्वारोग्यदर्शनादित्यभिधानंसमवृद्धदोषत्रयापेक्षया बलसम्पत्तौ च ज्ञेयम्। एतावन्तं कालं कथं लङ्घनं कर्त्तुंशक्यमित्याशङ्क्याह दोषाणामित्यादि। “लङ्घनादिकम्’’ इत्यत्र आदिशब्दात्वालुकास्वेदादीनामपि ग्रहणम्॥१३२॥

निष्ठीवनमाह—

आर्द्रकस्वरसोपेतं सैन्धवं कटुकत्रयम्।
आकण्ठं धारयेदास्ये निष्ठीवेच्च पुनः पुनः॥
तेनास्य हृदयात् श्लेष्मा मन्यापार्श्वशिरोगलात्।
लीनोऽप्याकृष्यते शुष्को लाघवञ्चास्य जायते॥
पर्वभेदोऽङ्गमर्दश्चमूर्च्छाकासगलामयाः।
मुखाक्षिगौरवं जाड्यमुत्क्लेशश्चोपशाम्यति॥
सकृद्द्वित्रिचतुः कुर्य्यात् दृष्ट्वा दोषबलाबलम्।
एतद्धिपरमं प्राहुर्भेषजं सन्निपातिनाम्॥१३३॥

निष्ठीवनमाह आदेकेत्यादि—

आर्द्रकस्वरसमुष्णं कृत्वा सैन्धवादिचूर्णमनुरूपंदत्त्वा निष्ठीवनमुप-दिशन्ति वृद्धाः॥१३३॥

मातुलुङ्गार्द्रकरसं कोष्णं त्रिलवणान्वितम्।

अन्यद्वासिद्धिविहितं तीक्ष्णं नस्यं प्रयोजयेत्॥

तेन प्रभिद्यते श्लेष्मा प्रभिन्नश्च प्रसिच्यते।
शिरोहृदय कण्ठास्यपार्श्वरुक् चोपशाम्यति॥१३४॥

नस्यमाह मातुलुङ्गेत्यादि—लवणत्रयं सैन्धवसौवर्चल—विडम्। सिद्धिविहितमिति अस्य योगस्य भालुकितन्त्रोक्तत्वात्भालुकितन्त्रस्यैव सिद्धिस्थाने ज्ञेयम्॥१३४॥

मधूकसारादिः।

मधूकसारसिन्धूत्थवचोषणकणाः समाः।
श्लक्ष्णं पिष्ट्वाम्भसा नस्यं कुर्य्यात् संज्ञाप्रबोधनम्॥१३५॥

मधूकसारेत्यादि—मधूकं फलविशेषस्तस्य सारः फलास्थि, ऊषणं मरिचम्,अम्भसा कोष्णेन॥१३५॥

सैन्धवं श्वेतमरिचं सर्षपंकुष्ठमेव च।
वस्तसूत्रेन पिष्टानि नस्यं तन्द्रानिवारणम्॥१३६॥

सैन्धवमित्यादि––श्वेतमरिचं शोभाञ्जनबीजम्॥१३६॥

अञ्जनमाहशिरीषबीजगोमूत्रकृष्णामरिचसैन्धवैः।
अञ्जनं स्यात् प्रबोधाय सरसोनशिलावचैः॥१३७॥

अञ्जनमाह शिरीषेत्यादि—शिला मनःशिला। सरसोनेत्यादिविशेषादेकोयोगः पृथक्पाठात् पृथग्योगोऽपि बोध्यः।यदुक्तमायुर्वेदसारे “शूकाक्षबीज-गोमूत्र-कणा-मरिच-सैन्धवैः। शिलावचारसोनैर्वा अञ्जनंस्यात् प्रबोधनम्” इति॥१३७॥

अष्टाङ्गावलेहिका।

कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी।
लवणचूर्णीकृतञ्चैतन्मधुना सह लेहयेत्॥

एषावलेहिका हन्ति सन्निपातं सुदारुणम्॥
हिक्कां श्वासञ्च कासञ्च कण्ठरोगं नियच्छति॥

उर्द्ध्वगश्लेष्महरणे उष्णेस्वेदादिकर्मणि।
विरोध्युष्णे मधु त्यक्त्वा कार्य्यैषार्द्रकजैरसैः॥१३८॥

अवलेहमाहकट्फलमित्यादि—यासो दुरालभा, कारवी कृष्णजीरकम्।सन्निपाते स्वेदस्य सर्वदा हितत्वेन अग्निसम्बन्धसमुद्भूतं देहस्य उष्णत्वं मधु चउष्णे विरुध्यते, अतस्तत्र मधु त्यक्त्वा आर्द्रकस्वरसेनावलेहः कार्य इत्याह ऊर्ध्वगइत्यादि—एकमुष्णे इति पदं स्वेदादिविशेषणम् अपरञ्चोपपत्त्यर्थम्।यस्मात्उष्णविरोधि मधु ततो मधु त्यक्त्वा इत्यर्थः। ननु “क्रियायास्तु गुणालाभेक्रियामन्यां प्रयोजयेत्। पूर्वस्यां शान्तवेगायां न क्रियासंकरोहितः” इत्यनेनसुश्रुते क्रियासङ्करो निषिद्धः, तत् कथं नस्यनिष्ठीवनादीनां युगपदेव सन्निपातज्वरे विधानम्? अत्रोच्यते, क्रियाङ्करो ह्यनेकक्रियामेलकः तस्य च दूषकत्वंन सङ्करत्वमात्रेण, किं तर्हि अतिमात्रत्वेन अग्निमान्द्यजनकतया तथापरस्परगुणविरोधादुभयोरपि निष्फलतया च। एतद्दोषद्वयमन्तः परिमार्जन एवसम्भवति, न पुनर्बहिःपरिमार्जने नस्यनिष्ठीवनादौ। एतदभिसन्धाय वृन्दोऽपिसमाधानमुक्तवान् यथा “क्रियाभिस्तुल्यरूपाभिः क्रियासाङ्कर्यमिष्यते। भिन्नरूपतया यास्तु ताः कुर्वन्ति न दूषणम्” इति। तुल्यरूपता चात्रान्तःपरिमार्जनत्वेनैव ज्ञेया।तेनायमर्थः एकस्मिन् अन्तः परिमार्जने उपयुक्ते यद्यपरमन्तःपरिमार्जनमुपयुज्यते तेनैव कियासाङ्कर्य्यस्यउक्तरीत्या दूषकत्वं न बहिःपरिमार्जनेनस्यादाविति। कषायादिभेषजोपयोगान्तरं पुनरवलेहादिदाने च यद्यपि क्रियासाङ्कर्य्यदोषो भवत्येव तथापि क्वाथ्याङ्गतया न विरोधः। तदङ्गता चानादिवृद्धव्यवहारात्दोषानुपलम्भाच्च बोध्यम्। किंवा क्रियासाङ्कर्य्यस्यदोषस्याल्पतया कण्ठरोधादि-बलवदपायप्रशमकतया च निषिद्धमप्यवलेहादिकमवस्थाविशेषे अंगीक्रियते।यथा पतिविषे बालादौवमनम्। अन्ये तु कल्पनया तुल्यरूपतां व्याख्यायकषायावलेहयोर्युगपदुपयोगेऽपि कल्पना-भेदान्न सांकर्य्यमित्याहुः। तन्न,सुश्रुते अग्निमान्द्यादिहेतुत्वेन कियासङ्करमात्रस्यैव दोषत्वमुक्तम्। तत्र चातुल्यचातुल्यरूपता तुल्यरूपता वेति विशेषो नास्ति। केवलं वृन्देनैव कषायनस्यादीनांसन्निपाते युगपदुपयुज्यमानानामविरोधार्थम्, क्रियाभिस्तुल्यरूपाभिरिति वचनंनिबद्धम्। तच्च क्रियाद्वयं कल्पनया तुल्यरूपमतुल्यरूपं वा भवतु, उभयथाप्यतिमात्रादिनाग्निमान्द्यादिहेतुतया निषिद्धमेव। तेनाभिन्नकल्पनात्मकेऽपि भेषजद्वयेयुगपद्भुक्तेअतिमात्रत्वादिना अग्निमान्द्यादिहेतुत्वं दूषकता-बीजमस्यैवेति। तस्मात्अन्तःपरिमार्जनत्वेनैव तुल्यरूपत्वम्, बहिःपरिमार्जने च भिन्नरूपत्वं व्याख्याय कषायनस्याञ्जनादिषुक्रियासांकर्यदोषत्वं परिहरणीयम्॥१३८॥

पञ्चमुष्टिः—

यवकोलकुत्थानां मुद्गमूलकशुण्ठयोः।
एकैकं मुष्टिमाहृत्य पचेदष्टगुणे जले॥
पञ्चमुष्टिक इत्येष वातपित्तकफापहः।
शस्यते गुल्मशूले च श्वासे कासे क्षये ज्वरे॥१३६॥

यवेत्यादि—प्रत्येकं यवादीनां मुष्टिमन्तर्नखम्, न तु पलं द्रव्यबाहुल्यात्।अयमेव पक्षः प्रचारी। एकैकं द्रव्यमाहृत्यसमुदितानामेषां मिलित्वा पलमात्रं पचेदित्यन्ते चक्रः पुनर्यवादीनामाहारद्रव्यात् प्रत्येकं पलमानत्वेऽपि न दोषइत्याह। अस्यैव योगस्य धान्यशुण्ठीयोगात् सप्तमुष्टिक इत्यपि नाम।यदुक्तंकोलकुलत्थैश्च मुद्गमूलकशुण्ठकैः। धन्याकविश्वसंयुक्तैर्यूषःस्यात् सप्तमुष्टिकः”॥१३६॥

चातुर्भद्रकपञ्चमूलकम्।

पञ्चमूलीकिरातादिर्गणो योग्यस्त्रिदोषजे।
पित्तोत्कटे च मधुना कण्या च कफोत्कटे॥१४०॥

पञ्चमूलीत्यादि—

वातपित्तोक्तनवाङ्गयोग एवायम्। अत्र पुनर्मधुयोगात् पित्तोल्वणात्रिदोषहन्तृत्वम्, पिप्पलीयोगाच्च कफोल्वणत्रिदोषहन्तृत्वमस्य ज्ञेयम्। अत्र कनीयस्या एव पञ्चमूल्या व्यवहारः। अन्ये पुनः श्लेष्मोल्वणे महतीं पञ्चमूलीमाहुः॥१४०॥

दशमूलम्—

बिल्वश्योणाकगाम्भारीपाटलागणिकारिकाः।
दीपनं कफवातघ्नं पञ्चमूलमिदं महत्॥

शालपर्णीपृश्निपर्णीवृहतीद्वयगोक्षुरम्।
वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम्॥

उभयं दशमूलन्तु सन्निपातज्वरापहम्।
कासे श्वासे च तन्द्रायां पार्श्वशूले च शस्यते॥
पिप्पलीचूर्णसंयुक्तं कण्ठहृद्ग्रहनाशनम्॥१४१॥

दशमूलस्य उक्तत्वादुक्तव्याख्याद्वयानुरोधाच्च पञ्चमूलद्वयमाह विल्वेत्यादि—

महातरुसम्भवत्वात् बिल्वादिपञ्च-मूलस्य महत्वं स्वल्पतरुसम्भवत्वाच्चशालपर्ण्यादीनामल्पत्वंज्ञेयम्। सुश्रुते तु गोक्षुरस्थाने एरण्डमूलं पठ्यते, चरके तु गोक्षुर इति। तेन सुश्रुतप्रयोगेषु एरण्डमूलेन, चरकादिप्रयोगेषुगोक्षुरेणैव व्यवहार इति शालिहात्रादावप्येरण्ड-मूलेनैवेति॥१४१॥

चतुर्दशाङ्गः

चिरज्वरे वातकफोल्वणे वा त्रिदोषजे वा दशमूलमिश्रः।
किराततिक्तादिगणः प्रयोज्यः शुद्ध्यर्थिने वा त्रिवृताविमिश्रः॥१४२॥

चिरज्वर इत्यादि—

वातकफोल्वण इत्युभयत्रापि सम्बन्ध्यते। शुद्ध्यर्थिने वा त्रिवृताविमिश्र इति मलविबन्धे सति शोधनार्थं त्रिचतुस्त्रिवृच्चूर्णमाषकाणां प्रक्षेप इत्याहुः॥१४२॥

वातश्लेष्महरोऽष्टादशाङ्गः।

दशमूली शटी शृङ्गी पौष्करं सदुरालभम्।
भार्गी कुटजबीजञ्च पटोलं कटुरोहिणी॥
अष्टादशाङ्ग इत्येष सन्निपातज्वरापहः।
कासहृद्ग्रहपार्श्वार्त्तिश्वासहिक्कावमीहरः॥१४३॥

दशमूलीत्यादि—

स्पष्टम्॥१४३॥

पित्तश्लेष्महरोऽष्टादशाङ्गः।

भूनिम्वदारुदशमूलमहौषधाब्द-

तिक्तेन्द्रबीजधनिकेभकणाकषायः।

तन्द्राप्रलापकसनारुचिदाहमोह-

श्वासादियुक्तमखिलं ज्वरमाशु हन्ति॥

भूनिम्बेत्यादि—

इन्द्रबीजम् इन्द्रयवः।

मुस्ताद्यगणः—

मुस्तपर्पटकोशीरदेवदारुमहौषधम्।
त्रिफला धन्वयासञ्च नीली कम्पिल्लकं त्रिवृत्॥
किराततिक्तकं पाठा बला कटुकरोहिणी।
मधुकं पिप्पलीमूलं मुस्ताद्यो गण उच्यते॥
अष्टादशाङ्गमुदितमेतद्वा सन्निपातनुत्।
पित्तोत्तरे सन्निपाते हितञ्चोक्तंमनीषिभिः।
मन्यास्तम्भे ऊरुधाते उरः पार्श्वशिरोग्रहे॥१४४॥

मुस्तेत्यादि—नीली नीलबुद्धा, कम्पिल्लकं गुण्डारोचनी। बलास्थाने वचेति नपाठः, आयुर्वेदसारादौ बलापाठात्॥१४४॥

शट्यादिगणः—

शटी पुष्करमूलञ्च व्याघ्री शृङ्गी दुरालभा।
गुडूची नागरं पाठा किरातं कटुरोहिणी॥
एप शट्यादिको वर्गः सन्निपातज्वरापहः।
कासहृद्ग्रहपावर्त्तिश्वासे तन्द्रपाञ्चशस्यते॥१४५॥

शटीत्यादि—

किरातस्थाने केचित् पटोलं पठन्ति, तन्न, हारीतजतुकर्णचन्द्राटविदेहेषु किरातस्यैव पाठादिति॥१४५॥

वृहत्यादिगणः—

वृहत्यौ पुष्करं भार्गीशटी शृङ्गी दुरालभा।
वत्सकस्य च बीजानि पटोलं कटुरोहिणी॥
वृहत्यादिगणः प्रोक्तः सन्निपातज्वरापहः।
कासादिषुच सर्वेषु देयः सोपद्रवेषु च॥१४६॥

वृहत्यावित्यादि—

कासादिष्वित्यत्र आदिशब्दग्रहणात् शठ्याद्युक्तहृद्ग्रहादीनां ग्रहणम्।चरकेऽपि शठ्याद्यनन्तरमस्य योगस्य पाठात्॥१४६॥

भार्गी पुष्करमूलञ्च रास्नां विल्वंयमानिकाम्।
नागरं दशमूलञ्च पिप्पलीञ्चाप्सु साधयेत्॥
सन्निपातज्वरे देयं हृत्पार्श्वानाहशूलिनाम्।
कासश्वासाग्निमन्दत्वं तन्द्राञ्च विनिवर्त्तयेत्॥
द्विपञ्चमूली षड्ग्रन्था विश्वगृध्रनखीद्वयम्।
कफवातहरः क्वाथः सन्निपातहरः परः॥१४७॥

भार्गीमित्यादि—

भेलस्य।विल्वं विल्वमूलं यौगिकमस्तम्भकत्वात्। दशमूलश्चेतिपाठपक्षेऽपि भागद्वयं तस्य ग्राह्यं, किन्तु भेले “नागरञ्च मृणालश्चपिप्पली च” इति पाठो दृश्यते एवं चन्द्राटेऽपि, अत एकभागस्तस्येति युक्तम्। द्विपञ्चमूलीत्यादि—द्विपञ्चमूली दशमूली, षड्ग्रन्था वचा, गृध्रनखीद्वयं कानागरकुडकराणिभेदात् रक्तश्वेतपुष्पभेदाद्वा॥१४७॥

अभिन्यासज्वरचिकित्सा।

कारवी पुष्करैरण्डत्रायन्तीनागरामृताः।
दशमूलीशटीशृङ्गीयासभार्गीपुनर्नवाः॥
तुल्या मूत्रेण निष्क्वाथ्य पीताः स्रोतोविशोधनाः।
अभिन्यासज्वरं घोरमाशु घ्नन्ति समुद्धतम्॥१४८॥

सन्निपातज्वरभेदस्याभिन्यासस्य चिकित्सामाह कारवीत्यादि—

कारवी कृष्णजीरकम्, त्रायन्ती त्रायमाणा, मूत्रेण गोमूत्रेण॥१४८॥

मातुलुङ्गाश्मभिद्विल्वव्याघ्रीपाठोरुवूकजः।
क्वाथो लवणमूत्राढ्योऽभिन्यासानाहशूलनुत्॥१४६॥

मातुलुंगेत्यादि—

अश्मभित् पाषाणभेदी, बिल्वस्य मूलं, लवणं सैन्धवं, मूत्रंगोमूत्रम्। गोमूत्रसैन्धवे प्रक्षिप्य क्वाथः पेयः। गतप्रयोगदर्शनात् गोमूत्रेण क्वाथःप्रक्षेपञ्च लवणमित्येके॥१४६॥

निद्रोपेतमभिन्यासं क्षीणं विद्याद्धतौजसम्॥१५०॥

रुग्विनिश्चये अभिन्यासलक्षणस्य अनुक्तत्वात् तल्लक्षणमिहैवाह निद्रोपेतमित्यादि—

सन्निपातज्वरमेव निद्रोपेतमभिन्यासं विद्यात्। क्षीणं विद्याद्धतौजसमितिक्षीणमिति क्षीराधातुगतम्। अभिन्यासज्वरमेवं सन्निपातज्वरमेव क्षीणधातुगतंहतौजसं विद्यात्। उक्तंसुश्रुते “अभिन्यासन्तु तं प्राहुर्हतौजसमथापरे। सन्निपातज्वरं कृच्छ्रमसाध्यापरे जगुः” इति॥१५०॥

कण्ठरोधकफश्वासहिक्कासन्यासपीडितः।
मातुलुङ्गार्द्रकरसं दशमूल्यम्भसा पिबेत्॥१५१॥

कण्ठरोधेत्यादि—

दशमूलक्वाथमेव मातुलुंगार्द्रकरसे प्रक्षिप्य पिबेदित्यर्थः १५१

व्योषाब्दत्रिफलातिक्तापटोलारिष्टवासकैः।
सभूनिम्बामृतायासैस्त्रिदोषज्वरनुज्जलम् ॥१५२॥

व्योषेत्यादि—अरिष्टो निम्बः, तस्य त्वक्, जलं क्वाथः॥१५२॥

त्रिवृद्विशालात्रिफला कटुकारग्वधैः कृतः।
सक्षारो भेदनः क्वाथः पेयः सर्वज्वरापहः॥१५३॥

त्रिवृदित्यादि—

विशाला गोरक्षकर्कटी, यवक्षारः प्रक्षेप्यः॥१५३॥

स्वेदोद्गमे ज्वरे देयश्चूर्णो भृष्टकुलत्थजः।
घर्षेज्जिह्वां जडां सिन्धुत्र्यूषणैः साम्लवेतसैः॥

उच्छुष्कां स्फुटितां जिह्वां द्राक्षया मधुपिष्टया।
लेपयेत् सघृतञ्चास्य सन्निपातात्मके ज्वरे॥१५४॥

स्वेदोद्गम इत्यादि—

सन्निपातात्मके ज्वर इत्यन्तं स्पष्टम्॥१५४॥

काकजङ्घा जटा निद्रां जनयेच्छिरसि स्थिता॥१५५॥

काकजङ्घेत्यादि—

जटा मूलम्॥१५५॥

सन्निपाते प्रकम्पन्तं प्रलपन्तं न वृंहयेत्।
तृष्णादाहाभिभूतेऽपि न दद्याच्छीतलं जलम्॥१५६॥

सन्निपात इत्यादि—

स्पष्टम्॥१५६॥

सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः।
शोधः सञ्जायते तेन कश्चिदेव प्रमुच्यते॥

रक्तावसेचनैः पूर्वं सर्पिःपानैश्च तं जयेत्।
प्रदेहैः कफपित्तघ्नैर्वमनैः कवलग्रहैः॥

गैरिकं पांशुजं शुण्ठीवचा कटुककाङ्क्षिकैः।
कर्णशोथहरो लेपः सन्निपातज्वरे भृशम्॥१५७॥

सन्निपातज्वरस्यान्ते शेष सन्निपातज्वरे वा गते इत्यर्थः, रक्तावसचनैरितिबहुवचनात्।रक्तावसेचनं नैरन्तर्येण बोध्यम्। जतुकर्णे “शश्वद्रक्तस्य मोक्षणम्”इत्युक्तत्वात्। सर्पिरत्र पचतिक्तत्रिफलाघृतादि। चकरात् वातकफने लेहोऽपि बोध्यःयदुक्तं तत्रैव “लेहाश्चकफवातघ्नाः कार्य्याः सकवडग्रहाः। त्रिफलाघृतपानं वा बलंज्ञात्वा समाचरेत्” इति॥१५७॥

कुलत्थकट्फले शुण्ठी कारवी च समांशिकैः।
सुखोष्णैर्लेपन कार्य्यंकर्णमूले मुहुर्मुहुः॥१५८॥

कुलत्थेति—स्पष्टं, दशमूलेनापि सुखोष्णेनात्र लेपमुपदिशन्ति॥१५८॥

जीर्णज्वरचिकित्सा।निदिग्धिकादि :—

निदिग्धकानागरकामृतानां क्वाथं पिबेन्मिश्रितपिप्पलीकम्।
जीर्णज्वरारोचककासशुलश्वासाग्निमान्द्यार्दितपीनसेषु॥
हन्त्यूर्द्ध्वगामयं प्रायः सायं तेनोपयुज्यते॥१५६॥

जीर्णज्वरचिकित्सामाह निदिग्धिकेत्यादि—

निदिग्धिका कण्टकारी वातकफेक्रियते, पित्तानुबन्धे पिप्पलीं त्यक्त्वा मधु प्रक्षिपन्ति वृद्धाः। पिप्पलीचूर्णस्य माषकद्वयं प्रक्षेप्यं प्रचारादितिकश्चित्। पुराणप्रतिश्यायेऽप्ययं योगो दृष्टफलः।अस्यैव योगस्य सोपपत्तिकं वैद्यव्यवहारसिद्धमुपयोगकालमाह हन्तीत्यादि—

किन्तुविन्दुसारे प्रातःसमयोऽप्युक्तः। यथा “श्वासकासविनाशाय मन्दाग्नेर्दीपनाय च। अरुचेश्चनिवृत्त्यर्थं प्रातरुत्थाय तं पिबेत्” इति तथा वृन्दोऽप्याह” तच्च रात्रिज्वरेसायमन्यत्र प्रातरिष्यते” इति॥१५६॥

पिप्पलीचूर्णसंयुक्तः क्वाथश्छिन्नरुहोद्भवः।
जीर्णज्वरकफध्वंसी पञ्चमूलीकृतोऽथवा॥

कासाजीर्णारुचिश्वासहृत्वाण्डुक्रिमिरोगनुत्।
जीर्णज्वरेऽग्निसादे च शस्यते गुडपिप्पली॥१६०॥

पिप्पलीत्यादि—

छिन्नरुहा गुडूची, पञ्चमूली च महती योगद्वयेऽपि पिप्पलीचूर्णप्रक्षेपः। पित्तानुबन्धे मधु उपदिशन्ति वृद्धाः, इदञ्चयोगद्वयं प्रायः सायमुपयुज्यते। कासेत्यादी गुडपिप्पल्योः प्रत्येकं माषकत्रयेण व्यवहरन्ति वृद्धाः॥१६०॥

विषमज्वर—चिकित्सा।

कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी।
पटोलं शारिवा मुस्तं पाठा कटुकरोहिणी॥
निम्बं पटोलं त्रिफला मृद्वीका मुस्तवत्सकौ।
किराततिक्तममृता चन्दनं विश्वभेषजम्॥
गुडूच्यामलकं मुस्तमर्द्धश्लोकसमापनाः।
कषायाः शमयन्त्याशु पञ्च पञ्चविधान् ज्वरान्॥
सन्ततं सततान्येद्युस्तृतीयकचतुर्थकान्॥१६१॥

विषमज्वरचिकित्सा माह कलिङ्गका इत्यादि—

वाग्भटस्य। एते पञ्च योगाःपञ्चसु सन्तत-सततान्येद्युष्क तृतीयकचतुर्थकेषु यथासंख्यं ज्ञेयाः। अन्ये तु सर्वएव योगाः सर्वत्र इत्याहुः। तत्र यथासंख्यमेव युक्तं सततोल्लेखेन पटोलादियोगस्यतथा निम्बादेश्चान्येद्युष्कोल्लेखेन, गुडूच्यादेश्च चतुर्थकोल्लेखेन क्षारपाणौ दृष्टत्वात्।सन्ततसततान्येद्युस्तृतीयकचतुर्थकानिति पाठस्तु वाग्भटे चरके नास्ति वृन्देऽपिनास्ति। तेनायमर्द्धश्लोकः संग्रहे केनापि प्रमादात् लिखितः॥१६१॥

गुडप्रगाढां त्रिफलां पिबेद्वा विषमार्दितः।
दीर्घपत्रककर्णाख्यनेत्रं खदिरसंयुतम्।
ताम्बुलैस्तद्दिने भुक्तं प्रातर्विषमनाशनम्।
गुडूचीमुस्तधात्रीणां कषायं वा समाक्षिकम्॥१६२॥

गुडप्रगाढामित्यादि—

सुश्रुतस्य।त्रिफलामित्यत्र क्वथितामिति शेष इतिडल्वणः। गुडोऽत्र प्रक्षेप्यः। दीर्घपत्रकेत्यादि—

कर्णाख्यः काणाखोड इति ख्यातः।तस्य विशेषणं दीर्घपत्रेति। नेत्रं मूलं तदपि शुष्कदेशजातं ग्राह्यमुपदिशन्ति वृद्धाः।गुडूचीत्यादि—

सुश्रुतस्य अयं योगो यद्यपि पूर्वं चतुर्थके पठितः, तथापि मधुयोगात्विषमज्वरमात्रहन्तृत्वमप्यस्य बोध्यम्। डल्वणस्तु यद्यपि योगोऽयं विषमज्वरेपठितः तथापि समानतन्त्रोक्तत्वात्विषमज्वरविशेषे चतुर्थक एवायं बोध्य इत्याह॥१६२॥

मुस्तकादि :—

मुस्तामलकगुडूचीविश्वौषधकण्टकारिकाक्वाथः।
पीतः सकणाचूर्णः समधुर्विषमज्वरं हन्ति॥
महौषधामृतामुस्तचन्दनोशीरधान्यकैः।
क्वाथस्तृतीयकं हन्ति शर्करामधुयोजितः॥
वासाधात्रीस्थिरादारुपथ्यानागरसाधितः॥
सितामधुयुतः क्वाथश्चातुर्थकनिवारणः॥

मधुना सर्वज्वरनुच्छेफालीदलजो रसः॥१६३॥

मुस्तादिमहौषधादी स्पष्टौ।वासादौवासस्थाने चन्द्राटे पाठा पठ्यते, व्यवहारस्तु वासयैव। स्थिरा शालपर्णी।पथ्या हरीतकी।मधुनेत्यादौसर्वज्वरनुत्विषमाविषमज्वरनुत्॥१६३॥

अजाजी गुडसंयुक्ता विषमज्वरनाशिनी।
अग्निसादं जयेत् सम्यग्वातरोगांश्च नाशयेत्॥१६४॥

अजाजीत्यादि—

मनाग्मृष्टं कृष्णजीरकमिति चक्रः। सितजीरकमित्यन्ये॥१६४॥

रसोनकल्कं तिलतैलमिश्रं योऽश्नाति नित्यं विषमज्वरार्त्तः।
विमुच्यते सोऽप्यचिराज्ज्वरेण वातामयैश्चापि सुघोररूपैः॥१६५॥

रसोनकल्कमित्यादि—

भक्तात् पूर्वं कर्त्तव्यं; यदाह चरकः “रसोनस्य सतैलस्यप्राग्भक्तमुपसेवनम्” इति॥१६५॥

प्रातः प्रातः ससर्पिर्वा रसोनमुपयोजयेत्।
पिप्पलीवर्द्धमानं वा पिबेत् क्षीररसाशनः।
षट्पलं वा पिबेत् सर्पिःपथ्यां वा मधुना लिहेत्॥१६६॥

प्रातरित्यादिपिप्पलीत्यादियोगौसौश्रुतौ। षट्पपलं सर्पिरत्रैव वक्ष्यमाणम्॥१६६॥

पयस्तैलं घृतञ्चैव विदारीक्षुरसं मधु।
सम्मूर्च्छय पाययेदेतद् विषमज्वरनाशनम्॥१६७॥

पय इत्यादि—

दुग्धं शृतं बोध्यम्। विदारीक्षुरसमिति इक्षुरसस्थाने स्वरसइति न पाठः, उक्तंहि हारीते “विदारीक्षुरसः सर्पिर्मधुतैलशृतं पयः पिबेच्चातुर्थकश्वासकासवातज्वरापहम्” इति। अन्ये तु विदारीस्वरसो विषमज्वरमात्रे,चातुर्थे इक्षुरसात् योगान्तरमाहुः॥१६७॥

पिप्पलीशर्कराक्षौद्रं घृतं क्षीरं यथाबलम्।
खजेन मथितं पेयं विषमज्वरनाशनम्॥१६८॥

पिप्पलीत्यादि—

दुग्धं शृतं बोध्यम्॥१६८॥

पयसा वृपदंशस्य शकद्वेगागमे पिबेत्।
नृपस्य दधिमण्डेन सुरया वा ससैन्धवम्॥१६९॥

पयसेत्यादि—

वृषदंशो विडालः।वृषस्यापि शकृदित्यर्थः॥१६९॥

नीलिनीमजगन्धाञ्च त्रिवृत्तां कटुरोहिणीम्।
पिबेज्ज्वरस्यागमने स्नेहस्वेदोपपादितः॥१७०॥

विषमज्वरे विरेकार्थमाह नीलिनीत्यादि—

नीलिनी नीलवुहा। आगमनेआगमनदिवसे॥१७०॥

सुरां समण्डां पानार्थे भक्ष्यार्थेचरणायुधान्।
तित्तिरांश्चमयूरांश्च प्रयुञ्ज्याद्विषमज्वरे॥१७१॥

सुरामित्यादि—चरकस्य स्पष्टम्॥१७१॥

अम्लोटजसहस्रेण दलेन सुकृतां पिबेत्।
पेयां घृतप्लुतां जन्तुश्चातुर्थकहरां त्र्यहम्॥१७२॥

अम्लोटजश्चाङ्गेरी॥१७२॥

सैन्धवं पिप्पलीनाञ्च तण्डुलाः समनःशिलाः।
नेत्राञ्जनं तैलपिष्टं विषमज्वरनाशनम्॥

व्याघ्रीवसा हिंगुसमा नस्यं तद्वत् ससैन्धवा॥१७३॥

सैन्धवमित्यादि—चरकस्य। अञ्जनशब्दः अभ्यञ्जनेऽपि वर्त्तते; तन्निरासायनेत्रपदम्। व्याघ्रीत्यादौस्त्रीलिङ्गनिर्देशात् लिङ्गमेव प्रयोजकं न तु जातिः॥१७३॥

कृष्णाम्बरदृढ़ाबद्धगुग्गुलूलूलूकपुच्छजः।
धूपश्चातुर्थकं हन्ति तमः सूर्य इवोदितः॥१७४॥

कृष्णाम्बरेत्यादि—अम्बरस्य कृष्णत्वं भृङ्गराजस्वरसादिभिः उलूक पेचकः॥१७४॥

शिरीषपुष्पस्वरसो रजनीद्वयसंयुतः।
नस्यं सर्पिःसमायोगाच्चातुर्थकज्वरं जयेत्॥
नस्यं चातुर्थकं हन्ति रसो वागस्त्यपत्रजः॥१७५॥

नस्यमाह शिरीषेत्यादि—रजनीद्वयचूर्णं सर्पिश्चप्रक्षेप्यम्। नस्यमित्यादौअगस्त्यपत्रंवंगसेनपत्रम्॥१७५॥

अष्टाङ्गधूपः।

पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी।
सर्षपाः सयवाः सर्पिर्धूपनं ज्वरनाशनम्॥१७६॥

पलङ्कषेत्यादि—पलङ्कषा गुग्गुलुः॥१७६॥

अपराजिता धूपः।

पुरध्यामवचांसर्जनिम्बार्कागुरुदारुभिः।
सर्वज्वरहरो धूपः कार्य्योऽयमपराजितः॥१७७॥

पुरेत्यादि—पुरो गुग्गुलुः ध्याम गन्धतृणम्॥१७७॥

वैडालं वा शकृद् योज्यं वेपमानस्य धूपने।
अपामार्गजटा कट्यां लोहितैः सप्ततन्तुभिः।
बद्धा वारे रवेस्तूर्णं ज्वरं हन्ति तृतीयकम्॥१७८॥

वैडालमित्यादि स्पष्टम्—अपामार्गस्य जटा मूलं, पृष्ठे पादं दत्त्वा बन्धः कार्यइत्याहुः, बन्धन-विधिरायुर्वेदसारे यथा “अपामार्गस्य मूलञ्चसम्यगाक्षालिताननः।बध्नीयाद्वामहस्तेन सर्वज्वर-विमोक्षणम्”॥१७८॥

काकजङ्घा बला श्यामा ब्रह्मदण्डी कृताञ्जलिः।
पृश्निपर्णी त्वपामार्गस्तथा भृङ्गराजोऽष्टमः॥

एषामन्यतमं मूलं पुष्येणोद्धृत्य यत्नतः।
रक्तसूत्रेण संवेष्ट्यबद्धमैकाहिकं जयेत्॥१७६॥

काकजंघत्यादि—

काकजंघा स्वनामख्याता, श्यामा वृद्धदारकः, ब्रह्मदण्डीब्रह्मयष्टिका, कृताञ्जलिः लाजालिया॥१७६॥

मूलं जयन्त्याः शिरसा धृतं सर्वज्वरापहम्॥१८०॥

मूलमित्यादि—

जयन्त्याः श्वेताया इत्याहुः, भूजयन्त्या इत्यन्ये॥१८०॥

भूतानुबन्धिनोस्तृतीयकचतुर्थकयोश्चिकित्सा।
कर्म साधारणं यद्यत् तृतीयकचतुर्थकौ।
आगन्तुरनुबन्धो हि प्रायशो विषमज्वरे॥१८२॥

भृतानुबन्धिनोस्तृतीयकचतुर्थकयोश्चिकित्सामाह कर्मेत्यादि—

दैवव्यपाश्रयं वलिमंगलादि, युक्ति-व्यपाश्रयञ्च कषायादि, एतदुभयमपि चिकित्सितं साधारणशब्देनात्रोच्यते।जह्यादिति अन्तर्भूतण्यर्थमिदं तेन साधारणं चिकित्सितं तृतीयकचतुर्थकौकर्मरूपौजह्यात् हापयेत् निराकुर्य्यादित्यर्थः। ननु ज्वरान्तरे सर्वत्र युक्तिव्यपाश्रयं कषायादिकमेवोपदिष्टम्, न दैवव्यपाश्रयम् अत्र पुनः किमर्थं दैवव्यपाश्रयमपि कर्तव्यत्वेन उपदिश्यते इत्याह आगन्तुरिस्यादि—

आगन्तुर्भूतादिः।विषमज्वरशब्देन तृतीयक-चतुर्थकावेवाभिमतौ।तृतीयकचतुर्थकशब्देनात्र तद्विपर्य्ययस्यापिग्रहणम्। अन्ये तु यद्यप्यागन्तुरनुबन्धो हि इत्यादिवचनबलाद् विषमज्वरमात्रएव दैवव्यपाश्रयं कर्म कर्त्तव्यमित्यायाति तथापि तृतीयक-चतुर्थकाविति यदुक्तंतद्विशेषार्थम्।तेन तृतीयकचतुर्थकयोः प्रायेण भूतानुबन्धजन्यत्वात् तयोरेवविशेषेण दैवव्यपाश्रयं कर्म कर्तव्यमित्याहुः। अन्ये तु साधारणशब्देन दोषमात्र-साधारणंयुक्तिव्यपाश्रयमात्रंकर्मोच्यते। जयादित्यस्य त्यजतीत्यर्थः, तेन तृतीयक-चतुर्थकेयुक्तिव्यपाश्रयमात्रं न कार्य्य किन्तूभयमपि कार्यम्। एवञ्चागन्तुरनुबन्धो हीत्यादिद्वितीयार्द्धमपि संगच्छत इत्याहुः॥१८१॥

गङ्गाया उत्तरे कूले अपुत्रस्तापसो मृतः।
तस्मै तिलोदकं दद्यान्मुञ्चत्यैकाहिको ज्वरः॥

एतन्मन्त्रेण चाश्वत्थपत्रहस्तः प्रतर्पयेत्।
सोमं सानुचरं देवं समातृगणमीश्वरम्॥

पूजयन् प्रयतः शीघ्रं मुच्यते विषमज्वरात्॥१८२॥

गंगाया इत्यादि—

एकवृक्षायाः पुष्करिण्या अकाकरुदिते पानीयं नूतनघट्यानेतव्यम्; उदिते च रवौ पालिदिने तर्पणं कार्य्यम्।कुशा यवः कुसुमानिच उत्खिन्नमाषभक्तादिना वलिश्चेत्युपदिशन्ति वृद्धाः। अस्य मन्त्रस्य केचिदाद्य-श्लोकं पठन्ति यथा।“अंगकलिंगे सौराष्ट्रमगधेषु च। वाराणस्याञ्च यद्वृत्तं तन्न स्मरसिहे ज्वर !” इति सोममित्युमया सहितम् ; अनुचरैर्नन्द्यादिभिश्चसहितम्॥१८२॥

विष्णुं सहस्रमूर्द्धानं चराचरपतिं विभुम्।
स्तुवन् नामसहस्रेण ज्वरान् सर्वान् व्यपोहति॥१८३॥

विष्णुमित्यादि—

नामसहस्रेण महाभारतायुकेन॥१८३॥

ज्वरे घृतप्रयोगः।

ज्वराः कषायैर्वमनैर्लङ्घनैर्लघुभोजनैः।
रूक्षस्य ये न शाम्यन्ति सर्पिस्तेषां भिषग्जितम्।
निर्दशाहमपि ज्ञात्वा कफोत्तरमलङ्घितम्।
न सर्पिः पाययेत् प्राज्ञः शमनैस्तमुपाचरेत्॥

यावल्लघुत्वादशनं दद्यान्मांसरसेन तु॥१८४॥

इदानीं घृतप्रयोगान् विवक्षुः घृतस्य कालविषयश्चाह ज्वराः कषायैरित्यादि—

कषायैरित्यसमास-निर्देशेन व्यस्तैरपि कषायादिप्रयोगः रूक्षस्य सर्पिष्पानं कर्त्तव्यमिति दर्शयति। वमनैरित्यनेन अवस्थाविधेयवमनप्रयोगान् सर्पिःषडहपूर्वभाविनोदर्शयति, लङ्घनैरित्यनेन च लङ्घनं स्वेदनं काल इत्याद्युक्त्वा लङ्घनसमानफलाःस्वेदादयोऽपि गृह्यन्ते। रूक्षस्येति वचनेन कषायादिप्रयोगे सत्यपि यद्यपि सामानुबन्धत्वात् कफोत्तरतया वा यत्र रूक्षत्वं न भवति, तत्र सर्पिर्न दातव्यमिति दर्शयति। भिषग्जतं चिकित्सितम्। दशहादूर्द्ध्वंहि घृतपानावस्थाचरकेणोक्ता, इदानींतदपवादमाह निर्दशाहमपीत्यादि—

निर्गतो दशाहान्निर्दशाहः। आलिङ्गितमितिअसञ्जातलङ्घितफलम्, इयञ्चावस्था प्रबलसामदोषारब्धत्वात् ज्वरस्य, तथा असम्यगुपचाराच्च भवतीति ज्ञेयम्। यावल्लघुत्वादिति छेदः। लघुत्वे तु जाते कफोत्तरता अलङ्घिता चापयाति, तेन तदा सर्पिःपानमनुवृत्तं कर्त्तव्यमित्यर्थः। यावदितियावल्लघुत्वात् लघुत्वपर्य्यन्तंशमनैरुपाचरेत् लघुत्वे सति सर्पिःपानम् अथवा यावत् तावत्नित्ययोगित्वात्यावत्पर्यन्तं शमनैरुपाचरेत्मांसरसेन। अशनन्तु निर्दशाहज्वरे कफोत्तरेऽप्यलङ्घितेऽपि मांसरसेन देयमित्याहुः’अशनं दद्यान्मां सरसेनेति। ननु किमर्थमेतादृशमशनं कफविरुद्धमपि कफप्रधानावस्थायां दीयते? सत्यं मांसरसस्य बलजनकत्वात् अत एवोक्तं तत्रैव “बलं ह्यलंनिग्रहाय दोषाणां बलकृच्च तत्” इति॥१८४॥

मांसार्थमेणलावादीन् युक्त्यादद्याद्विचक्षणः।
कुक्कुटांश्च मयूरांश्च तित्तिरिं क्रौञ्चमेवच॥
गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः।
लङ्घनेनानिलबलं ज्वरे यद्यधिकं भवेत्॥

भिषङ्मात्राविकल्पज्ञोदद्यात् तानपि कालवित्॥१८५॥

एणलावादीनित्यादिशब्दात् कपिञ्जलादीनां ग्रहणम्। मात्राविकल्पज्ञ इति,विकल्पो विशिष्टकल्पना संस्कार इत्यर्थः। मात्राज्ञो विकल्पज्ञश्चेत्यर्थः। तेन तावतीमात्रा कर्त्तव्या, तादृशः संस्कारः कार्य्यः, यथा लघुत्वानुष्णत्वे भवत इत्यर्थः॥१८५॥

पिप्पल्याद्यं घृतम्।

पिप्पल्यश्चन्दनं मुस्तमुशीरं कटुरोहिणी।
कलिङ्कास्तामलकी शारिवातिविषेस्थिरा॥
द्राक्षामलकविल्वानि त्रायमाणा निदिग्धिका।
सिद्धमेतैर्घृतं सद्यो ज्वरं जीर्णमपोहति॥
क्षयं कासं शिरःशूलं पार्श्वशूलं हलीमकम्।
अङ्गाभितापमग्निञ्चविषमं सन्नियच्छति॥
पिप्पल्याद्यमिदं क्वापि तन्त्रे क्षीरेण पच्यते॥१८६॥

सर्पिःपानावस्थां प्रतिपाद्य सर्पिष्याह पिप्पल्य इत्यादि—

कलिङ्गक इन्द्रयवः,तामलकी भूम्यामलकी, शारिवा अनन्तमूलम्, बिल्वं बिल्वशलाटुःद्राक्षादिफलसाहचर्य्यात्। अत्र यद्यपि घृतस्य मानं नोक्तं, तथापि वृद्धवैद्यव्यवहारात् प्रस्थमात्रंगृह्यते, अत एवोक्तम् “अनिर्दिष्टप्रमाणानां स्नेहानां प्रस्थ इष्यते। अनुक्के क्वाथमाने तु पात्रमेकं प्रशस्यते” इति। अन्ये पक्तव्यनृतस्य मानानिर्देशे अव्यवस्थित-मानमेवेच्छातः पक्तव्यमिति। यत्र तु प्रस्थादिमाननिर्देशं करोति, तत्र तावन्मानेनैव स्नेहेन प्रायो रोगोपशमो भवतीति ज्ञेयम्। तथाहि वातव्याध्यादौभूरिस्नेहेसाध्ये भूयसीमेव स्नेहमात्रां वक्ष्यति। तथा प्रपोण्डरीकाद्यनस्ये योगितया स्नेहस्यकुडवमानमेवोक्तम्। कुष्ठोक्ततिक्तषट्पलादौ अत्यल्प-घृतसंविधानेन तथैव पक्वस्यघृतस्य कार्य्यकर्त्तृत्वं भवतीति भेषजप्रभावदर्शी महर्षिर्बोधयति। तत्र यदि कुष्ठस्यदीर्घरोगतया भूयसा तिक्तषट्पलेन प्रयोजनं, तदा पुनः पुनः षट्पलमानं घृतंपक्तव्यं “यथा कुर्वन्ति स उपाय” इति वचनात्। एवं पानीयकल्याणागस्त्यहरीतक्यादावपि प्रतिनियतमानकथन-प्रयोजनं वाच्यम्। तस्मान्न यादृच्छिकमाचार्य्यस्यक्वचिन्मानाभिधानमनभिधानञ्चक्वचिदिति। अत्र क्वचित् पुस्तके हलीमकमितिपाठः क्वचिच्चारोचकमिति पाठद्वयमपि न प्रक्षेपणीयम्। यतः सुश्रुते “जीर्णज्वर-शिरःशूलगुल्मोदरहलीमकान्” इति दृश्यते। वाग्भटे च “पिप्पलीन्द्रयवधावनितिक्ता-शारिवामलकतामलकीभिः। विल्वमुस्तहिमापानिनिसेव्यैः द्राक्षयातिविषयास्थिरया च। घृतमाशु निहन्ति साधितं ज्वरमग्निंविषमं हलीमकम्। अरुचिंभृशतापमसयोर्वमथुं पार्श्वरुजं तथा क्षयम्” इति दृश्यते तस्मात् पाठद्वयमेव युक्तम्॥१८६॥

यत्राधिकरणे नोक्तिर्गणे स्यात् स्नेहसंविधौ।
तत्रैव कल्कनिर्य्यूहाविष्येते स्नेहवेदिना॥
एतद्वाक्यबलेनैव कल्कसाध्यपरं घृतम्॥१८७॥

अत्र केचित् “कल्कक्वाथावनिर्देशे गणात् तस्मात् समापवेत्” इति सुश्रुतवचनात् पिप्पल्यादीनां कल्कत्वं कषायत्वञ्चेच्छन्ति। अन्ये तु कल्कत्वमेव ब्रूवते। अतएतत्संशयनिरासार्थं परिभाषामाह यत्रेत्यादि—अधिकरणेनेत्यधिकारितया, तेनयत्रैवाचार्येण गणत्वमधिकृतं, तत्रैव विदारिगन्धादिगणादौ कल्ककषायकल्पना।यत्र त्वधिकृतगणत्वं नास्ति, तत्र कल्ककल्पनैव, एतेन सुश्रुतोक्ता“कल्कक्वाथावनिर्देशे” इत्यादिका परिभाषा अधिकृतगणविषयैव, न तु भेषजसमूहमात्र-विषया इतिननु मा भूदुभयकल्पना अनियमेन कदाचित् कल्ककल्पना कदाचित् क्वाथकल्पनाकुतो न स्यात्? इति चेन्नैवम्, कषायकल्पनायां द्रव्यं न साक्षात् प्रधानभूतं स्नेहसाधने व्यवह्रियते। कल्कस्तु साक्षादेव स्नेहसम्बन्धः पठ्यत इति कल्कस्य प्राधान्यात् तथा वृद्धवैद्यव्यवहाराच्चेत्याह एतद्वाक्य-बलेनैवेत्यादि॥१८७॥

जलस्नेहौषधानान्तु प्रमाणं यत्र नेरितम्।
तत्र स्यादौषधात् स्नेहः स्नेहात् तोयं चतुर्गुणम्॥
अनुक्ते द्रवकार्य्येतु सर्वत्र सलिलं मतम्॥१८८॥
घृततैलगुडादींश्च नैकाहादवतारयेत्।
व्युषितास्तु प्रकुर्वन्ति विशेषेण गुणान् यतः॥
स्नेहकल्को यदाङ्गुल्या वर्त्तितो वर्त्तिवद्भवेत्।
वह्नौक्षिप्ते च नोशब्दस्तदा सिद्धिं विनिर्दिशेत्॥
शब्दस्योपरमे प्राप्ते फेनस्योपरमे तथा।
गन्धवर्णरसादीनां सम्पत्तौ सिद्धिमदिशेत्॥१८९॥

जलस्नेहेत्यादौजलशब्दो द्रवमात्रोपलक्षकः॥१८८।१८९॥

क्षीरषट्पलकं घृतम्।

पञ्चकोलैः ससिन्धूत्थैः पलिकैः पयसा समम्।
सर्पिःप्रस्थं शृतं प्लीहविषमज्वरगुल्मनुत्॥
अत्र द्रवान्तरानुक्तेः क्षीरमेव चतुर्गुणम्।
द्रवान्तरेण योगे हि क्षीरं स्नेहसमं भवेत्॥१९०॥

पञ्चकोलेत्यादि—

पयसा सममित्यस्य समशब्दस्य तुल्यार्थतास्वीकारेण स्नेहसमं क्षीरम्; त्रिगुणञ्च जलमर्शोऽधिकारोक्लषट्पलघृतसंवादात्। तद्यथा “सक्षारैःपञ्चकोलैस्तु पलिकैस्त्रिगुणोदके। समक्षीरं घृतं प्रस्थं ज्वरार्शःप्लीहगुल्मनुत्” इति।क्षीरदध्यारनालैस्तु पाको यत्रेरितः क्वचित्। चतुर्गुणं जलं तत्र वीर्य्याधानार्थमावपेत्” परिभाषेयमनार्षेति कृत्वा कैश्चित् नाद्रियते। अन्ये तु क्षीरादिसाधन-विषयेयमित्याहुः। चक्रस्तु सममित्यस्य सहार्थतामाश्रित्याह अत्रेत्यादि। एतच्चान्येदूषयन्ति यतः सुश्रुतोक्तोदरचिकित्सिते “षट्पलकेऽस्मिन् घृतप्रस्थं तुल्यक्षीरम्"इति पठ्यते। चरकेऽप्युक्तं गुल्मे “घृतप्रस्थं विपाचयेत् क्षीरप्रस्थेन” इति। व्यवहारस्तु क्वचित् त्रिगुणोदकेन, क्वचिच्चतुर्गुणोदकेनेति॥१६०॥

दशमूलषट्पलकं घृतम्।

दशमूलीरसे सर्पिःसक्षीरे पञ्चकोलकैः।
सक्षारैर्हन्ति तत् सिद्धं ज्वरकासाग्निमन्दताः॥

वातपित्तकफव्याधीन् प्लीहानञ्चापि पाण्डुताम्॥१९१॥

दशमूलीरस इत्यादि—

रसः क्वाथः जेज्जटमते क्वाथश्चतुर्गुणः, क्षीरन्तु स्नेहसमम्। स हि क्वाथ्याच्चतुर्गुणं वारीत्यादि परिभाषार्थमृजुं बुद्ध्वा क्षीरयोगे सर्वत्रैवमेव पाकंव्याचष्टे।चक्रस्त्वाह यत्र क्वाथः क्षीरञ्चास्ति तत्र क्षीरेण सह स्नेहाच्चतुर्गुणो द्रवः कार्य्यः, स्नेहपाके चतुर्गुण एवद्रव उत्सर्गसिद्धः। “स्नेहात् तोयंचतुर्गुणम्” इत्यत्र तोयस्य द्रवोपलक्षणत्वात्। अतः क्वाथोऽत्र त्रिगुणः क्षीरञ्चस्नेहसममिति।पञ्चकोलयवक्षाराः प्रत्येकं पलिका : पूर्वोक्त-षट्पलकसाहचर्य्यात् षट्पलत्वानुपपत्तेश्चेति॥१९१॥

क्वाथ्याच्चतुर्गुणं वारि पादस्थं स्याचतुर्गुणम्।
स्नेहात् स्नेहसमं क्षीरं कल्कस्तु स्नेहपादिकः।
चतुर्गुणन्त्वष्टगुणं द्रवद्वैगुण्यतो भवेत्॥
पञ्चप्रभृति यत्र स्युर्द्रवाणि स्नेहसंविधौ।
तत्र स्नेहसमान्याहुरर्वाक् च स्याच्चतुर्गुणम्॥१९२॥

दशमूलीक्वाथार्थं परिभाषामाह क्वाथ्यादित्यादि—

स्नेहसमं क्षीरमिति यत्रद्रवान्तरमस्ति तत्रेदं, केवलक्षीरे तु क्षीरमेव चतुर्गुणं पाकस्य चतुर्गुणद्रवेणैवोत्सर्गसिद्धत्वात् इति गयदासचक्रौ। अन्ये तु यत्रैव केवलं क्षीरं तत्रैव स्नेहसमं क्षीरम्,जलन्तु चतुर्गुणं क्षीरदध्यारनालैस्त्वित्यादिवचनादित्याहुः। द्रवद्वैगुण्यतो भवेदितियद्यपि “शुष्कद्रव्येष्विदं मानमेवमादि प्रकीर्त्तितम्। द्विगुणं तद्द्रवेष्विष्टं सद्यएवोद्धृतेषु च” इति वचनात् द्रवमात्र एव द्वैगुण्यमायाति, तथापि सुनिषण्णकचाङ्गेरीघृते षोडशपलरूपस्य द्रवप्रस्थस्यास्य द्वैगुण्येन द्वात्रिंशत्पलरूपत्वे द्रवत्वेनसिद्धे यदयमाचार्यः “त्रिंशत्पलानि तु प्रस्थो विज्ञेयो द्विपलाधिकः” इति करोति,तेन द्वैगुण्याभिधायकपरिभाषाव्यभिचारः क्वचिदस्तीति ज्ञापयति। अतएव रक्तिकादौ त्रिपलपर्यन्ते कुडवपूर्वमाने द्रवार्द्रयोर्द्वैगुण्यंन कार्यम्। यदाह गोपुर-रक्षितः"रक्तिकादिषुमानेषु यावन्न कुडवो भवेत्। शुष्के द्रवार्द्रयोश्चापितुल्यं मानंप्रकीर्त्तितम्” इति, तथा “द्विगुणं कुडवादौतु शुष्कान्मानं द्रवस्य च। आर्द्रस्यचाल्पवीर्यत्वात् ज्ञेयमन्यत्र तत्समम्” इति तथा जतुकर्णेऽप्युक्तम् आर्द्राणाञ्चद्रवाणाञ्च द्विगुणाः कुडवादयः।” एवञ्च कुडवादिमानयोग्यस्यापि यत्र पलोल्लेखेनमानं तत्रापि न द्वैगुण्यं विधेयं तेन “रास्नासहस्रनिर्यूहे तैलद्रोणं विपाचयेत्”इत्यादिषु पलोल्लेखेन जलं गृह्यमाणं द्विगुणं भवति। क्वचित्तु पलोल्लेख-विधानेऽपितन्त्रान्तरीयवाक्यैकवाक्यतया पलोल्लेखः गतद्रवेऽपि कुडवादिविवक्षां कृत्वा द्वैगुण्यंविधेयम्। यथा क्षतक्षीणचिकित्सिते “मधुकाष्टफलं द्राक्षाप्रस्थक्वाथः” इत्यादिनाचरके यः प्रयोग उक्तः स जतुकर्णे “द्राक्षाया मधुकार्द्धप्रस्थक्वाथः” इत्यादिनाग्रन्थेन पठितः। तेन जतुकर्णे मधुकस्यार्द्ध-प्रस्थोल्लेखपाठात् कृतद्वैगुण्यमेव जलस्यभवति। तत्प्रत्ययाच्चेहापि मधुकाष्टपलोल्लेखविहितेऽपि क्वाथे कुडवद्वयविवक्षयाकृतद्वैगुण्यमेव जलं देयम्। एवमन्यदनुसरणीयम्। अत्र केचित् कुडवस्यापिद्वैगुण्यं नेच्छन्ति, यदि हि द्विगुणः कुडवः स्यात्, तदा क्वाथ्याच्चतुर्गुणमित्यादि,कल्कश्व स्नेहपादिक इति परिभाषा, सर्वतन्त्रसिद्धा बाधिता स्यादिति, यतः सुश्रुते"स्नेहकुडवे साध्ये भेषजपलं कल्कमिष्टम्” इत्युक्तम्, तथा च कृष्णात्रेयेणाप्युक्तं"स्नेहपाकविधौ यत्र प्रमाणं नोदितं क्वचित्।स्नेहस्य कुडवं तत्र पचेत् कल्कपलेनतु” इति अत्र हि यदि कुडवचतुःपलरूपः स्यात्, तदैव कल्कपलस्य स्नेह-पादिकत्वंघटते। अष्टपलरूपत्वे कल्कपलस्य स्नेहापेक्षया अष्टभागत्वमेव स्यादिति। एतच्चनातिसाधु, यतः सुश्रुत एव “स्नेहकुडवे साध्ये क्वाथ्यद्रव्यप्रस्थो विधेयः” इत्युक्तम्तत्र कुडवेनैव यदि स्नेहपलचतुष्टयं गृह्यते तदा चतुःपलस्नेह षोडशपलक्वाथ्यग्रहणंस्यात्। न च तथा व्यवहरति क्वाथ्यं षोडशपलं हि अष्टपल एव स्नेहे गृह्यते,तस्मादसाधकमेतत् कुडवाद्द्वैगुण्यस्येति द्वैगुण्यं कुडवे युक्तम्। अगस्त्यहरीतक्यांमधुनः कुडवं यच्चरकेणोक्तं तन्त्रान्तरे “मधुनश्च पलाष्टकम्” इति पठ्यते, तथातन्त्रान्तरे “त्रायमाणाचतुःपलं पक्त्वा दशकेऽम्भसि शेषिते। कुडवे कुडवान्सर्पिःक्षीरधात्रीरसान् पचेत्” इत्युक्तम्। तत्र यदि चतुःपलं कुडवः स्यात् तदाचरकोक्तत्रायमाणाघृतेन सह विरोधः स्यात्। तथाहि “जले दशगुणे साध्यंत्रायमाणचतुःपलम्” इत्यादि यावत् “रसस्यामलकानान्तु क्षीरस्य च घृतस्य
च। पलानि पृथगष्टाष्टौ दत्त्वा सम्यग्विपाचयेत्।” तथान्यत्राप्युक्तम्। “आर्द्रद्रव्यद्रवद्रव्यपलैरष्टाभिरेव च। शुष्कद्रव्य-चतुष्केण कुडवः समुदाहृतः” इति। तस्मात्कुडवे द्वैगुण्यं साधु, यत् तु अष्टपलेऽपि हे कल्कस्य पलमानत्वम्, तत् स्वरससाध्यस्नेहाभिप्रायेण पुष्पकल्काभिप्रायेण वा ज्ञेयम्। यदुक्तं"स्नेहे सिध्यतिशुद्धाम्बुनिःक्वाथस्वरसैः क्रमात्। कल्कस्य योजयेदंशं चतुर्थं षष्ठमष्टमम्” तथा"शणस्य कोविदारस्य कर्बुदारस्य शाल्मलेः। कल्काढ्यत्वात् पुष्पकल्कं प्रशंसन्तिचतुःपलम्” इति। अत्र स्नेहप्रस्थापेक्षया चतुःपलं कल्कं स्नेहादष्टमभाग एवभवतीत्यादि विशेषवचनेन कल्कश्च स्नेहपादिक इति सामान्यवचनस्य बाधा क्वचिद्विषयविशेषे भवतीह न विरोधमावहतीति अलमतिप्रपञ्चेन सर्वथा वृद्धव्यवहारानुमतमेव वर्त्मानुसरणीयमस्माभिरिति संक्षेपः। विस्तरः पुनरस्मदीयचरकतत्त्व-प्रदीपिकायामेव गवेषणीय इति॥१९२॥

वासाद्यं घृतम्।

वासां गुडूचीं त्रिफलां त्रायमाणां यवासकम्।

पक्त्वा तेन कषायेण पयसा द्विगुणेन च॥
पिप्पलीमूलमृद्वीकाचन्दनोत्पलनागरैः।
कल्कीकृतैश्च विपचेद् घृतं जीर्णज्वरापहम्॥१९३॥

पञ्चप्रभृतीत्यादिपरिभाषार्थं पुनर्वासाद्यघृतव्याख्यावसर एव व्यक्तीकरिष्यामः।वासामित्यादि—

यवासकं दुरालभा। अत्र चकाराद्वासादिक्वाथोऽपि घृताद् द्विगुणाइत्याहुः। युक्तञ्चैतत्, यतः स्नेहपाके चतुर्गुणमेव द्रवमुत्सर्गसिद्धम्; “नेहात् तोयंचतुर्गुणम्” इति वचनात्।तोयशब्दोऽपि तत्र द्रवमात्रोपलक्षक इति। अत्रद्वाभ्यामपि चातुर्गुण्यमित्यादि परिभाषयैव क्षीरकषाययोः प्रत्येकं द्वैगुण्ये सिद्धेचकारोऽयं क्वाथचातुर्गुण्यार्थ इति केचित्। अन्ये तु परिभाषाबलात् यद्यपि क्षीरंकषायश्चद्विगुण एव लभ्यते, तथापि स्पष्टार्थं क्षीरद्वैगुण्याभिधानमित्याहुः, तन्न,क्षीरस्य हि मानानुक्तौ"क्वाथ्याचतुर्गुणं वारि पादस्थं स्याच्चतुर्गुणम्। स्नेहात् स्नेहसमं तीरं कल्कस्तु स्नेहपादिकः” इति वचनात् क्षीरस्य द्रवान्तरसान्निध्ये सतिस्नेहसमत्वमेव स्यात्। ततः कषायभागत्रयं क्षीरभागञ्चैक इति कृत्वा द्वाभ्यामपिचातुर्गुण्यमिति परिभाषार्थोऽप्यनुगृहीतो भवति। तस्मात् कर्त्तव्यं क्षीरद्वैगुण्याभिधानम्।अन्ये तु द्वाभ्यामपि चातुर्गुण्यमिति परिभाषायां प्रत्येकमेव द्रवेणचातुर्गुण्यमिच्छन्ति। ततश्चेह कषायस्य चातुर्गुण्यं क्षीरस्य द्वैगुण्यमेव"पयसाद्विगुणेन च” इति वचनात्, तन्न एकेनापि चातुर्गुण्यम्, द्वाभ्यामपि चातुर्गुण्यंत्रिभिरपि चातुर्गुण्यम्, चतुर्भिः सममिति वचनेन चतुर्भिः स्नेहसमताभिधानेन स्नेहाच्चातुर्गुण्यमेव द्रवस्योक्तम्। अतो द्वाभ्यां त्रिभिरपि तथा चातुर्गुण्यं कार्यम्। यथास्नेहचातुर्गुण्यंस्यात् तथा च मिलित्वैव चातुर्गुणंयं सिध्यति, न प्रत्येकमित्यर्थः।किञ्चयदि प्रत्येकं चातुर्गुण्यं विवक्षितं स्यात् तदा द्वयोस्त्रयाणां चातुर्गुण्यमितिकुर्यात्।तृतीयानिर्देशेन हि साहित्यं सूचयता मिलितयोरेव चातुर्गुण्यंप्रतीयतइति। अत एवैतत्परिभाषास्वरसात् " पञ्चप्रभृति यत्र स्युर्द्रवाणि स्नेहसंविधौ।तत्र स्नेहसमान्याहुरर्वाक्तस्माच्चतुर्गुणम्” इति मिलित्वेव चातुर्गुण्यम्।अन्यथाएतद्वचनयोर्विरोधो दुष्परिहरः स्यात्। अन्ये तु “अर्वाक् स्याच्च चतुर्गुणम्” इतिप्रत्येकमेव चातुर्गुण्यम्। अन्यथा यत्र यत्र स्नेहपाके चत्वारि द्रवाणि सन्ति तत्रयदि द्रवचतुष्टयस्य मिलित्वा चातुर्गुण्यंस्यात् तदा स्नेहसमान्याहुरेतावतापि द्रवचतुष्टयस्य मिलित्वा चातुर्गुण्ये सिद्धे, अर्वाक् स्यात् तु चतुर्गुणमिति वचनं तावदेकद्वित्रिद्रवविषये चरितार्थमेव।यत्र वा द्रवचतुष्टयविषये अनुचितार्थमित्युच्यते तावतापि न वस्तुक्षतिः। यस्मादेकेनापि चातुर्गुण्यमित्यादि चतुर्भिः सममित्यन्तयापरिभाषया द्रवचतुष्टयविषये तावन्मिलित्वा चातुर्गुण्यं सिद्धमेव तदिदानीं प्रत्येकंस्नेहसमत्वेन साध्यताम्, अर्वाक्स्यात्तु चतुर्गुणमिति वचनेन साध्यतामिति। अन्येपुनरनयेवानुपपत्त्या चतुःप्रभृतीनि पठन्ति। श्रीकण्ठोऽपि गुल्माधिकारे परिभाषायामस्यां चतुःप्रभृतीति पाठमेव स्वीकृतवान्॥१९३॥

गुडूच्यादिघृतानि।

गुडूच्याःक्वाथकल्काभ्यां त्रिफलाया वृषस्य च।
मृद्वीकाया बलायाश्च सिद्धाः स्नेहा ज्वरच्छिदः॥१९४॥

गुडूच्या इत्यादि—

वाग्भटस्य।गुडूच्यादीनां पञ्चानां पृथक् पृथक् क्वाथकल्काभ्यां सिद्धानि पञ्च-घृतानि बोध्यानि॥१९४॥

ज्वरे पेयाः कषायाश्च सर्पिः क्षीरं विरेचनम्।
षडहे षडहे देयं कालं वीक्ष्यामयस्य च॥१९५॥

अत्र पेयादिकं यदिहोक्तंतद्व्याप्यवच्छिन्नकालविशेषापेक्ष्यमिति प्रतिपादयन्क्षीरादिकमभिधातुं पीठिकां रचयति ज्वरे पेया इत्यादि—

अत्र पेया कषायसर्पिःक्षीरविरेचनानामुत्सर्गविधया ज्वराहादारभ्य षडहे यथाक्रमं देयत्वमुच्यते। तेन"वमितं लङ्घितं काले यवागूभिरुपाचरेत्” इत्यादि विशेषवचनात् लङ्घितादेः षडहातिक्रमेऽपि यत् पेयादिदानमुक्तं तन्न विरोधमावहति, सामान्यविधेः विशेष-विधिनाबाधनस्य सर्वत्रैवानुमतत्वात्। ननु पेयादिप्रयोगे “यावज्ज्वरमृदूभावात् षडहं वाविचक्षणः” इत्यादिना षडहं यावत् यवागूर्देयेति चरकेणोक्तं, तथा अत्रापि षडहेपेयादानमुक्तम्, तदयं षडहः किं ज्वरोत्पाददिनं गृहीत्वा भवतु लंघनविषयदिनंहित्वा वा ? नाद्यः, अनशनरूपवैयर्थ्यात्। लङ्घनं ह्याद्य एवोपक्रमः। यदुक्तं"ज्वरे लंघनमेवादौ” इति। नापि द्वितीयः, “ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजितं” ज्वरदिनादारभ्याष्टमे पाचनं शमनीयं वा पाययेदित्युक्तत्वात् ज्वरदिनञ्चक्रोडीकृत्वैवाष्टाहः, यदुक्तं “निरामज्वरलक्षणम्” इति। अत्राहुः ज्वरोत्पाददिनं गृहीत्वैवाष्टाहः प्रत्येतव्यः। “यावज्ज्वरमृदूभावात् षडहं वा विचक्षणः” इत्यनेनापि ज्वरोत्पाद-दिनमारभ्यैव, षडहपर्य्यन्तं पेयाप्रयोग उच्यते। पेया हि ज्वरेप्राधान्येन दोषपाचनार्थं क्रियते, यदुक्तं “लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः।पाचनान्यविपक्वानां दोषाणां तरुणे ज्वरे” इति, न तु यस्मिन् षडहे पेया, तस्मिन्नेव षडहे लङ्घनादिकमपीति। लङ्घनादिभिर्निरवकाशतया पेया षडहस्य निर्विषयत्वमिति वाच्यम् तस्य वातज्वर-विषयत्वात्। वातज्वरो ह्यलङ्घनीयःयदुक्तं"ऋतेज्वरात् क्षयानिलभयक्रोधकामशोकश्रमोद्भवात्” इति तेनालङ्घनीये वातज्वरे पेया समग्रमेव षडहं व्याप्नोति। एकद्वित्रिदिनं ते पेया च दोषपाचनार्थं क्रियते।क्रियतेऽपि ज्वरे पञ्चतुस्त्रिदिनं यावत् पेयादिकमेवेति अतो निर्विषयत्वम्? पेयाषडहस्य यत्र तु दोषाणामतिस्रामतया सन्निपातज्वरे वा लंघनमेव षड्रात्रातिक्रमेणापिकियते। तत्र प्रादेशिके विधौपेयायाः षड्रात्रनियमः औत्सर्गिकः प्रवर्त्तते। ननुपेया दोषपाचनार्थं क्रियते, तर्हि अतिलंघिते पेया कथं क्रियते? लंघनेनैव दोषपाकसिद्धत्वात्। नैवम्, अतिबंधिते पेया न दोषपाचनार्थं क्रियते किं तर्हि बहूपवासक्षीणाग्निसन्धुक्षणाय। तत्राग्निसन्धुक्षणे जाते पुनरौषधपानामेव भवति। ज्वरे पेयाः

कषायश्चेत्यादावपि समानकार्य्याणांलंघनादीनामुपलक्षणभूता पेया। यतः पेयायत्र प्रतिषिद्धा मद्योत्थे ज्वरादौतर्पणक्रमेणापि षडहो ग्राह्यः।तत्र प्रथमषडहेउत्सर्गितलंघनादि पाचनं कार्यमिति पेया षडहे देयेति वचनेनोच्यते, कषायषडहोऽपि ज्वरोत्पादात् सप्तमदिनं परित्यज्याष्टमाहमारभ्यैव ज्ञेया सप्तमे ज्वरस्यतरुणत्वेन कषायपाननिषेधात् यत् तु हारीते लंघनोष्णोदकमुस्तादिषडंगशृतजलपानीय-पानपेयाविधानान्तरमुक्तम् “एतां क्रियां प्रयुञ्जीत षड्रात्रंसप्तमेऽहनि।पिबेत् कषायसंयोगान् ज्वरघ्नान् साधुसाधितान्” इति, तथा स्वरानादेनापि"लंघितालंघितं तस्माद् वमितं वा ज्वरादितम्। तत्सात्म्यत्वादतस्ताभिरादौ ज्वरमुपाचरेत्” इति यवागूभिर्यथादोषमित्यादि तर्पणादिक्रममभिधयोक्तम्” इति षड्रात्रिकः प्रोक्तो नवज्वरहितो विधिः। ततः परं पाचनीयं शमनं वाज्वरे हितम्” इति तदपि प्रागुक्तरीत्या अष्टाह एव कषायपानविधायकमिति प्रागेवप्रतिपादितम्। वस्तुतस्तु सप्तमाष्टमाह कषायपानविधायकानां रचनानामदूरान्तरत्वात्एव न परस्परविरोध इत्युक्तम्। एतन्मतेऽप्यनुद्भूत-सामतायां सप्तमदिन एव कषायपानम्।उद्भूतसामतायान्तु अष्टमेऽहनिइति व्यवस्था। तेनैतस्मिन् व्याख्यानेहारीतखरनादवचनं यथाश्रुतमेव सङ्गच्छते।तथा ज्वरे पेयाः कषायाश्चेत्यादिनापिपेया षडहानन्तरमेव सप्तमे दिने यत् कषायपानमुक्तं तदप्यनुद्भूतसामताभिप्रायेणेति न विरोधमावहति। कालं वीक्ष्यामयस्य चेति ज्वरलक्षणस्यामयस्यावस्थारूपंकाले वीक्ष्य षडहे यथाक्रमं पेयादि देयमित्यर्थः॥१९५॥

जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम्।
तदेव तरुणे पीतं विषवद्धन्ति मानवम्॥१९६॥

क्षीरपानावस्थामाह जीर्णज्वरे इत्यादि—

कफे क्षीण इति, कफक्षयात् वातपित्तोत्तरतायां क्षीरममृतायत इत्यर्थः। यदुक्तं “दाहतृष्णापरीतस्यवातपित्तोत्तरंज्वरम्। बन्धप्रच्युतदोषं वा निरामं पयसा जयेत्” इति॥१९६॥

कासाच्छ्वासात् शिरःशूलात् पार्श्वशालात् सपीनसात्।
मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः॥१९७॥

कासादित्यादि—

पञ्चमूली स्वल्पा वातपित्तहन्तृत्वात्॥१९७॥

द्रव्यादष्टगुणं क्षीरं क्षीरात् तोयं चतुर्गुणम्।
क्षीरावशेषः कर्त्तव्यः क्षीरपाके त्वयं विधिः॥१९८॥
त्रिकण्टकवलाव्याघ्रगुडनागरसाधितम्।
वर्च्चोमूत्रविबन्धघ्नं शोथज्वरहरं पयः॥१९९॥

क्षीरसाधानपरिभाषामाह द्रव्यादित्यादि—

त्रिकण्टकेत्यादौ गुडः प्रक्षेप्यः;गुडपाकस्य निष्प्रयोजन-स्वादित्याहु॥१९८॥१९९॥

वृश्वीरबिल्ववर्षाभूपयश्चोदकमेव च।

पचेत् क्षीररावशिष्टन्तु तद्धि सर्वज्वरापहम्॥२००॥

वृश्चीरेत्यादिवृथ्वीरः श्वेतपुनर्नवा, वर्षाभूः रक्तपुनर्नवति। अत्रोदकक्षीरौषधांनां पूर्ववदेव मानम्॥२००॥

शीतं वोष्णं ज्वरे क्षीरं यथा स्वरौषधैर्युतम्॥२०१॥

शीतं वेत्यादि—विकल्प इच्छाविशेषकृतः, किं वा वाते उष्णं, पित्ते शीतमिति॥२०१॥

एरण्डमूलसिद्धं वा ज्वरे सपरिकर्त्तिके॥२०२॥

एरण्डेत्यादि—अत्र बिल्वफलसिद्धं दुग्धमपि बोध्यं चरकोक्तत्वात्। गुदे कर्त्तनवत पीडा परि-कर्त्तिका॥२०२॥

ज्वरिभ्यो बहुदोषेभ्य ऊर्द्ध्वञ्चाधश्च बुद्धिमान्।
दद्यात् संशोधनं काले कल्पे यदुपदेक्ष्यते॥२०३॥

संशोधनावस्थामाह ज्वरिभ्य इत्यादि— बहुदोषेभ्य इति अल्पदोषेषु संशोधननिषेधार्थमुक्तम्। काल इति यथोक्त-वमनविरेचनयोग्यज्वरावस्थायाम्। कल्प इतिकल्पस्थाने ग्रन्थे यदुपदेक्ष्यते तद्देयम्॥२०३॥

मदनं पिप्पलीभिर्वा कलिङ्गैर्मधुकेन वा।
युक्तमुष्णाम्बुना पीतं वमनं ज्वरशान्तये॥२०४॥

वमनयोगत्रयमाह मदनमित्यादि—मदनं पिप्पलीयुक्तं कफे।कलिङ्गम् इन्द्रयवः तद्युक्रं पित्तकफे, यष्टिमधु-युक्तन्तु दाहप्राय इत्याहुः॥२०४॥

आरग्वधंवा पयसा मृद्वीकानां रसेन वा।
त्रिवृतां त्रायमाणां वा पयसा ज्वरितः पिबेत्॥२०५॥

चतुरो विरेचनयोगानाह आरग्वधमित्यादि—

अत्र चरके वाग्भटे च त्रिवृतास्थले त्रिफलापाठो दृश्यते, टीकाकारैश्च त्रिफलैव व्याख्यायते॥२०५॥

ज्वरक्षीणस्य न हितं वमनं न विरेचनम्।
कामन्तु पयसा तस्य निरूहैर्वा हरेन्मलान्॥
प्रयोजयेज्ज्वरहरान् निरूहान् सानुवासनान्।
पक्काशयगते दोषे वक्ष्यन्ते ये च सिद्धिषु॥२०६॥

ज्वरक्षीणस्येत्यादि—

स्पष्टम्।सिद्धिषु सिद्धिस्थानोक्ताध्यायेषु॥२०६॥

गौरवे शिरसः शूले विबद्धेष्विन्द्रियेषु च।
जीर्णज्वरे रुचिकरं दद्याच्छीर्षविरेचनम्॥२०७॥

नस्यावस्थामाह गौरव इत्यादि—

विबद्वेष्विति स्वविषयग्रहणासमर्थेषु॥२०७॥

अभ्यङ्गांश्च प्रदेहांश्च सस्नेहान् सानुवासनान्।
विभज्य शीतोष्णकृतान् दद्याज्जीर्णज्वरे भिषक्॥
तैराशु प्रशमं याति बहिर्मार्गगतो ज्वरः।

लभन्ते सुखमङ्गानि वलं वर्णश्च वर्द्धते॥२०८॥

जीर्णज्वरेऽभ्यङ्गादीनाह अभ्यङ्गानित्यादि—विभज्येति शीतोष्णसमुत्थज्वरविभागेनेत्यर्थः तेन उष्णोत्थे जीर्णज्वरे शीतद्रव्यकृताः प्रदेहादयः शीतोत्थेतुउष्णद्रव्यकृता देया इत्यर्थः बहिर्मार्गस्त्वगादिः। उक्तंहि “शाखा रक्तादयो धातवस्त्वक् च स वाह्यो रोगमार्गः” इति॥२०८॥

षट्कट्वरतैलम्।

सुवर्चिकानागरकुष्ठमूर्वालाक्षानिशालोहितयष्टिकाभिः।
तैलं ज्वरे षड्गुणकट्य सिद्धमभ्यञ्जनाच्छीत विदाहनुत् स्यात्॥
दध्नःससारकस्यात्र तक्रंकट्वरमिष्यते।
घृतवत् तैलपाकोऽपि तैले फेनोऽधिकः परः॥२०९॥

सुवर्चिकेत्यादि—सुवर्चिका सर्जिकाचारः लोहितयष्टिका मञ्जिष्ठा, सुश्रुतवृद्धवाग्भटादिबहुतर-तन्त्रसंवादात्। अन्ये तु लोहितं चन्दनम्, यष्टिका मञ्जिष्ठाविदेहसंवादादित्याहुः। व्यवहारस्तु पूर्वव्याख्ययैव शीतविदाहहन्तृत्वञ्चयोगस्यअचिन्त्यशक्तित्वात्। तैलपाके विशेषं स्मारयति घृतवदित्यादि॥२०९॥

अङ्गारकं तैलम्।

मूर्वा लाक्षा हरिद्रे द्वे मञ्जिष्ठा सेन्द्रवारुणी।
वृहती सैन्धवं कुष्ठं रास्नामांसी शतावरी।
आरनालाढकेनैव तैलप्रस्थं विपाचयेत्।
तैलमङ्गारकं नाम सर्वज्वरविमोक्षणम्॥२१०॥

मूर्वेत्यादि—इन्द्रवारुणी गोरक्षकर्कटी, अङ्गारको मङ्गलः, तत्कृतत्वादङ्गारकसंज्ञा॥२१०॥

लाक्षादितैलम्।

लाक्षाहरिद्रामञ्जिष्ठाकल्कैस्तैलं विपाचयेत्।
षड्गुणेनारनालेन दाहशीतज्वरापहम्॥२११॥

लाक्षादितैलं स्पष्टम्—यत्रापि दाहशीतहरत्वं प्रभावात्॥२११॥

यवचूर्णार्द्धकुड़वं मञ्जिष्ठार्द्धपलेन तु।
तैलप्रस्थः शतगुणे काञ्जिके साधितो जयेत्॥
ज्वरं दाहं महावेगमङ्गानाञ्च प्रहर्षनुत्॥२१२॥

यवेत्यादि—मञ्जिष्ठाअर्द्धपलेनेत्यत्र द्विपलेनेति न पाठः सुश्रुतचन्द्राटादौ अर्द्धपलेनेति पाठात्॥२१२॥

सर्जकाञ्जिकसंसिद्धं तैलं शीताम्बुमर्दितम्।
ज्वरदाहापहं लेपात् सद्योवातास्रदाहनुत्॥२१३॥

प्रदेहमाह सर्ज इत्यादि—सर्जो धूनकः वस्कः, काञ्जिकं चतुर्गुणम्, सिद्धंपक्वम्। ततः शीताम्बुमर्दितम् शांतलजलेन तैलं सम्मर्द्यगाढाभ्यङ्गः कार्य्यः॥२१३॥

चन्दनाद्यमगुर्वाद्यं तैलं चरककीर्त्तितम्।
तथा नारायणं तैलं जीर्णज्वरहरं परम्॥२१४॥

नारायणतैलं वातव्याधौ वक्ष्यमाणम्॥२१४॥

अभिघातज्वरो न स्यात् पानाभ्यङ्गेन सर्पिषः।
क्षतानां व्रणितानाञ्च क्षतव्रणचिकित्सया॥२१५॥

अभिघातेत्यादि—न स्यात् न भवेत् शाम्यतीत्यर्थः। क्षतानामित्युरःक्षतानाम्। अत्रापि ज्वरो न स्यादिति योज्यम्॥२१५॥

आगन्तुज्वरचिकित्सा।

ओषधिगन्धविषजौ विषपीतप्रबाधनम्।
जयेत् कषायैर्मतिमान् सर्वगन्धकृतैस्तथा॥२१६॥

ओषधीत्यादि—सुश्रुतस्य। प्रबाधनं चिकित्सितम्। विषपीतप्रबाधनैरितिपाठे, विषपीतस्य यानि चिकित्सितानि तैरित्यर्थः। सर्वगन्धकृतैरिति सर्वगन्धःसौश्रुत एलादिगणः, स एवात्र विषहरत्वादुचितः, न तु “चातुर्जातककर्पूरकक्कोलागुरुशिल्हकम्।लवनसहितञ्चैव सर्वगन्धं विनिर्दिशत्” इति निर्घण्ट-कारोक्तो ग्राह्यः।तस्योद्वर्त्तनादिमात्रविषयत्वात्॥२१६॥

अभिचाराभिशापोत्थौ ज्वरौ होमादिना जयेत्।
दानस्वस्त्ययनातिथ्यैरुत्पातग्रहपीड़जौ॥२१७॥

अभिचारेत्यादि—सुश्रुतस्य।अभिचारोऽथर्ववेदोक्तः श्येनादियागः।अभिशापो गुर्वादीनामनिष्टाभि-शंसनम्।हेमादिनेत्यादिशब्दात् प्रायश्चित्तबलिमङ्गलादयोगृह्यन्ते। उत्पातो निर्घातादिः। ग्रहपीडाजमिति ग्रहपीडाजन्यम् “ङ्यापोः संज्ञच्छन्दसोर्बहुलम्” इति पीडाशब्दस्याकारस्य ह्रस्वत्वम्। सुश्रुते तु “उत्पात-ग्रहपीडितम्” इति पाठो दृश्यते॥२१७॥

क्रोधकामादिज्वरचिकित्सा।

क्रोधजे पित्तजित् काम्या अर्थाः सद्वाक्यमेव च।
आश्वासेनेष्टलाभेन वायोः प्रशमनेन च॥
हर्षणैश्च शमं यान्ति कामक्रोधभयज्वराः।
कामात् क्रोधज्वरो नाशं क्रोधात् कामसमुद्भवः।
याति ताभ्यामुभाभ्याञ्च भयशोकसमुद्भवः॥२१८॥

क्रोधज इत्यादि—अत्र चरकः “काम्यैरर्थैर्मनोज्ञैश्च पित्तघ्नैश्चाप्युपक्रमैः।सद्वाक्येव शमं याति ज्वरः कामसमुद्भवः” इति। आश्वासेनेत्यादि—चरकस्यस्पष्टम्।कामादिजन्यान् ज्वरान् कामादयः परस्परं नाशयन्तीत्याह कामादित्यादि चरकस्य॥२१८॥

भूतज्वरचिकित्सा।

भूतविद्यासमुद्दिष्प्रैर्वन्धाषेशनताड़नैः।
जयेद् भूताभिषद्कोत्थं मनःशान्तैश्च मानसम्॥२१६॥

भूत विद्यत्यादि—सुश्रुतस्य। भूतानां यक्षराक्षसादीनां ज्ञानार्थाप्रशमनार्था च विद्या, सा च सुश्रुतोत्तर-तन्त्रादावनुसरणीया। बन्धावेशनताडनैरिति अनुप्रविष्टस्य भूतस्य पुनरपसरतो मन्त्रेण संयमनं बन्धः। मन्त्रेणाकृष्य मस्तके निवेशनमावेशनम्। ताडनं मन्त्रैः सर्षपादिभिरभिहननम्। ताडनैरित्यत्र पूजनैरित्येव पाठः सुश्रुते दृश्यते। टीकाकृतोऽपि पूजनैः वल्युपहारस्तुत्यादिभिरिति व्याख्यानयन्ति। भूताभिषंगोत्थमिति, भूताभिसम्बन्धोत्थम्। मानसं कामकोधादिजम्। मनःशान्तैरिति मनःप्रसादनैः।मनःशान्तैरित्यत्र विज्ञानाद्यैरित्यपि पाठः सुश्रुते दृश्यते। टीकाकृतोऽप्यादिशब्दात् समाधिधैर्य्यादीनां ग्रहणमिति व्याचक्षते॥२१९॥

वर्जनीयविधिः।

व्यायामञ्चव्यवायञ्च स्नानं चंक्रमणानि च।
ज्वरमुक्तो न सेवेत यावन्नो बलवान् भवेत्॥२२०॥

ज्वरमुक्तेन यन्नसेव्यं तदाह व्यायामञ्चेत्यादि—स्नानमूर्जस्करमपि ज्वरं प्रत्यानयति, तदुक्तं"स्नानमाशु ज्वरं कुर्यात् ज्वरमुक्तस्य देहिनः। तस्मान्मुक्तज्वरः स्नानं विषवत् परिवर्जयेत्” इति॥२२०॥

ज्वरमुक्तिलक्षणम्।

देहो लघुर्व्यपगतक्लममोहतापः
पाको मुखे करणसौष्ठवमव्यथत्वम्।
स्वेदः क्षवः प्रकृतिगामिमनोऽन्नलिप्सा
कण्डूश्च मूर्ध्निविगतज्वरलक्षणानि॥२२१॥

ज्वरमुक्तिलक्षणमाह—देह इत्यादि—वाग्भटस्य।मुख एव पाको व्याधिप्रभावात्। एवं कण्डूश्च मूर्ध्नीत्यपि॥२२१॥

इति ज्वरचिकित्साविवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1702137054Screenshot2023-12-09210959.png”/>

अथज्वरातिसारचिकित्सा।

ज्वरातिसारे पेयादिक्रमः स्यालहिते हितः॥१॥

ज्वरे सत्युपद्रवत्वेनातीसारस्य सम्भवात् ज्वरानन्तरं ज्वरातीसार उच्यते। ज्वरातीसारमेलकश्च ज्वरातीसाराभ्यामन्योन्यस्य इति कृत्वा निदानसंग्रहे माधवेन न पठितः। अत एवोक्तंसिद्धसारे ‘ज्वरातिसारयोरुक्तंनिदानं यत् पृथक् पृथक्। तत् स्याज्ज्वरातिसारस्य तेन नात्रोदितं पुनः” इति। ननु एवं चिकित्सापि भविध्यतीति चेत्? नैवम् मिथोवर्द्धनात्, उक्तं हि, “ज्वरातीसारयोरुक्तं भेषजं यत्पृथक् पृथक्। न तन्मिलितयोः कार्य्यमन्योन्यं वर्द्धयेद्यतः”। प्रायेण हि ज्वरहरमौषधमनुलोमनम् अतिसारहरञ्च स्तम्भनमिति परस्परविरुद्धत्वात् मिलितयोर्नकार्यमित्यर्थः॥१॥

उत्पलषट्कम्।

ज्वरातिसारी पेयां वा पिबेत् साम्लां भृतां नरः।
पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः॥२॥

ज्वरातीसारीत्यादि—

पेयां वेति वाशब्दश्वरके यवाग्वन्तरापेक्षया। किं वासाम्लामित्यस्यानन्तरं वाशब्दो योज्यः। तेनानम्लामपीत्यर्थः फलति। साम्लामितिईषदम्लाम्।अम्लत्वञ्चदाडिमस्वरसादिना। एतच्चाम्लसात्म्यं प्रति ज्ञेयम्।पृश्निपर्णीत्यादि—

सुश्रुते त्वस्मिन् योगे बालकमपि दृश्यते, यथा “पृश्निपर्णीबलाविश्वधान्यकोत्पलवालकैः।सनागरैः पिबेत् पेयां साधितामुदरामयी"॥२॥

पाठेन्द्रयवभूनिम्बमुस्तपर्पटकामृताः।
जयन्त्याममतीसारं सज्वरं समहौषधाः॥३॥

पाठेत्यादि प्रयोग क्वाथेन॥३॥

नागरादिः—

नागरातिविषामुस्तभूनिम्बामृतवत्सकैः।
सर्वज्वरहरः क्वाथः सर्वातीसारनाशनः॥४॥

नागरेत्यादि—

वत्सक इद्रयवः सिद्धसारे “छिन्नाभूनिम्बशुण्ठ्यब्दकलिङ्गातिविषाकृतः” इत्युक्तत्वात्॥४॥

ह्रीवेरादिः—

ह्रीवेरातिविषामुस्तबिल्वधान्यकनागरैः।
पिबेत् पिच्छाविबन्धघ्नं शूलदोषामपाचनम्॥
सरक्तंहन्त्यतीसारं सज्वरं वाथ विज्वरम्॥५॥

ह्रीवेरादिर्वातश्लेष्मणीति वृद्धाः।योगोऽयमवचारणायापि। विल्वशुण्ठकंस्तम्भकत्वात्; एवं वक्ष्यमाणेषु॥५॥

गुडूच्यादिः—

गुडूच्यतिविषाधान्यशुण्ठीबिल्वान्दबालकैः।
पाठाभूनिम्बकुटजचन्दनोशीरपद्मकैः॥
कषायः शीतलः पेयो ज्वरातीसारशान्तये।
हल्लासारोचकच्छर्दिपिपासादाहनाशनः॥६॥

गुडूच्यादौ कुटजेन तत्फलं लघुत्वात् पाचनत्वाच्च। अयं योगः पित्तश्लेष्मणीत्यपि व्याचक्षते॥६॥

उशीरादिः—

उशीरं बालकं मुस्तं धन्याकं विश्वभेषजम्।
समङ्गाधातकी लोध्रंबिल्वं दीपनपाचनम्॥
हन्त्यरोचकपिच्छामं विबन्धं सातिवेदनम्।
सशोणितमतीसारं सज्वरं वाथ विज्वरम्॥७॥

उशीरेत्यादि—

यद्यपि समङ्गाशब्देन मञ्जिष्ठाप्युच्यते, तथापि वराहकान्तयैव

व्यवहरन्ति वृद्धाः॥७॥

पञ्चमूल्यादिः—

पञ्चमूलीवलाविल्वगुडूचीमुस्तनागरैः।
पाठाभूनिम्बह्रीवेरकुटजत्वफ्फलैः शृतम्॥
हन्ति सर्वानतीसारान् ज्वरदोषं वमिंतथा।
सशूलोपद्रवं श्वासं कासं हन्यात् सुदारुणम्॥८॥

पञ्चमूल्यादौ यद्यपि ‘पञ्चमूलीति सामान्याद् योज्या पित्ते कनीयसी महतीपञ्चमूलीति वात-श्लेष्माधिके तथा" इति वृन्देनोक्तम्, तथापि स्वल्पपञ्चमूल्यैवव्यवहरन्ति वृद्धाः॥८॥

कलिङ्गातिविपाशुण्ठीकिराताम्बुयवासकम्।
ज्वरातीसारसन्तापं नाशयेदविकल्पतः॥९॥

वत्सकस्य फलं दारु रोहिणी गजपिप्पली।
श्वदंष्ट्रा पिप्पली धान्यं विल्वं पाठा यमानिका॥
द्वावप्येतौ सिद्धयोगौ श्लोकार्द्धेनाभिभाषितौ।
ज्वरातिसारशमनौ विशेषाद्दाहनाशनौ॥१०॥

नागरामृतभूनिम्बबिल्ववालकवत्सकैः।
समुस्तातिविपोशीरैर्ज्वरातीसारहज्जलम्॥११॥

मुस्तकबिल्वातिविषापाठाभूनिम्बवत्सकैः क्वाथः।
मकरन्दगर्भयुक्तो ज्वरातीसारौ जयेद् घोरौ॥१२॥

घनजलपाठातिविषापथ्योत्पलधान्यरोहिणीविश्वैः।
सेन्द्रयवैः कृतमम्भः सातीसारं ज्वरं जयति॥१३॥

कलिङ्गेत्यादि यमानिकान्तं योगत्रयं पित्तोत्तरे इत्याहुः। नागरामृतभूनिम्बेत्यादिजयतीत्यन्तं स्पष्टम्॥९–१३॥

कलिङ्गाद्यगुडिका।

कलिङ्गबिल्वजम्ब्वाम्रकपित्थं सरसाञ्जनम्।
लाक्षाहरिद्रेह्रीवेरं कट्फलं शुकनासिकाम्।
लोध्रंमोचरसं शङ्खं धातकीवटशुङ्गकम्।
पिष्ट्वातण्डुलतोयेन वटकानक्षसम्मितान्।
छायाशुष्कान् पिबेच्छीघ्रं ज्वरातीसारशान्तये।
रक्तप्रसादनाश्चैते शूलातीसारनाशनाः॥१४॥

कलिंगेत्यादौ हारीतचन्द्राटसंवादात् कलिंगस्थाने कट्वङ्गंपठन्ति, कट्वङ्गञ्चश्योणाकः जम्ब्वाम्र-फलयोरस्थि ग्राह्यम्। हरिद्रेइति हरिद्राद्वयम्। तण्डुलोदकश्च"जलमष्टगुणं दत्त्वा पलं कण्डिततण्डुलात्।भावयित्वा ततो ग्राह्यंतण्डुलोदककर्मणि" इत्यनेन ग्राह्यम्। शुकनासिका चर्मकारवटकः॥१४॥

उत्पलं दाडिमत्वक् च पद्मकेशरमेव च।
पिबेत् तण्डुलतोयेन ज्वरातसारनाशनम्॥१५॥

उत्पलेत्यादौ—

दाड़िमफलस्य त्वक्, “फलं स्याद्दाडिमादीनाम्” इति वचनात्, एवमन्यत्रापि बोध्यम्। अन्ये वृक्षत्वचमाहुः।पद्मस्य केशर : किञ्जल्कम्।सरक्तेपित्तोत्तरे योगोऽयमित्याहुः॥१५॥

व्योषाद्यं चूर्णम्।

व्योषं वत्सकबीजञ्च निम्बभूनिम्बमार्कवम्।
चित्रकं रोहिणीं पाठां दार्वीमतिविषां समाम्॥

श्लक्ष्णचूर्णीकृतान् सर्वांस्तत्तुल्यां वत्सकत्वचाम्।
सर्वमेकत्र संयुज्य प्रपिबेत् तण्डुलाम्बुना॥

सक्षौद्रं वा लिहेदेतत् पाचनं ग्राहि भेषजम्।
तृष्णारुचिप्रशमनं ज्वरातीसारनाशनम्॥

कामलां ग्रहणदोषान् गुल्मं प्लीहानमेव च।
प्रमेहं पाण्डुरोगञ्च श्वयथुञ्च विनाशयेत्॥१६॥

व्योषादौ तत्तुल्यां वत्सकत्वचामिति मिलितव्योषादिचूर्णतुल्याम्॥१६॥

दशमूलीकषायेण विश्वमक्षसमं पिबेत्।
ज्वरे चैवातिसारे च सशोथे ग्रहणीगदे॥१७॥

विडङ्गातिविषामुस्तं दारुपाठाकलिङ्गकम्।
मरिचेन समायुक्तं शोधातिसारनाशनम्॥१८॥

दशमूलीत्यादि—

अत्र प्रक्षेप्यस्य शुण्ठीचूर्णस्य यत् कर्षमानत्वमुक्तम्, तत्क्वाथ्यस्य दशमूलस्य पलरूपामुत्तम-मात्रामपेक्ष्य; तेन मध्यमाधममात्रानुसारेणशुण्ठीचूर्णस्य हासोऽपि बोध्यः। तेनात्र प्रक्षेपः पादिकः क्वाथादित्येव परिभाषाप्रवर्त्तते। न तु पातव्यश्च चतुर्द्रव इति वचनाद्विश्वचूर्णापेक्षया दशमूली-क्वाथश्चतुर्गुणः कार्यः। यतः विश्वचूर्णापेक्षया दशमूलस्य पाचनदीपनत्वेन यौगिकत्वात्प्राधान्यम्।अपि च क्वाथकरणं हि क्वाथ्यमानापेक्षम्।क्वाथ्यमानञ्चउत्तमपुरुषाद्यपेक्षम्। अतस्तत्र पलत्रिकषार्द्धपल-मानमुत्सर्गतो व्यवस्थितमस्त्येव, तदपेक्षस्य चक्वाथ्यस्य उत्तमपुरुषाद्यपेक्षया व्याधिनिवृत्त्यै प्रयुज्यमानस्य न्यूनत्वकरणे भेषजस्याल्पमात्रत्वदोषाद् व्याधिनिवृत्तिरेव न स्यादिति विपक्षे दोषदर्शनाद् यथावस्थितचतुर्भागावशिष्टक्वाथप्रयोगाच्चक्वाथस्यैव प्रधानता। ततश्चयदि पातव्यश्च चतुर्द्रवइत्यनुसाराद् विश्वचूर्णापेक्षया दशमूलीक्वाथश्चतुर्गुणो गृह्यते, तदा प्रधानस्य क्वाथस्यन्यूनता स्यात्, चतुर्भागावशिष्टक्वाथानुसारेण वा यदि चतुर्भागं चूर्णं गृह्यते, तदाचूर्णबाहुल्यं स्यादिति। तेन यत्र क्वाथेन चूर्णपानम्, तत्र प्रक्षेपः पादिकः क्वाथ्यादित्यस्यैव विषयः, न तु पातव्यश्च चतुर्द्रव इत्यस्येति सिद्धः। एवमन्यत्रापि क्वाथेनचूर्णस्य कल्कस्क वा पाके क्वाथस्य प्राधान्यमनुमन्तव्यम्। अतएव रुचकादिचूर्णेवृन्दोऽप्याह “क्वाथेन चूर्णपानं यत् तत्र क्वाथप्रधानता। प्रवर्त्ततेन तैनात्र चूर्णापेक्षी चतुर्द्रवः” इति चूर्णापेक्षी चूर्ण-मानापेक्षीत्यर्थः॥१७॥१८॥

किराताब्दामृताविश्वचन्दनोदीच्यवत्सकैः॥
शोधातिसारशमनं विशेषाज्ज्वरनाशनम्॥१९॥

किराताब्दामृतोदीच्यमुस्तचन्दनधान्यकैः।
शोथातिसारतृड्दाहशमनो ज्वरनाशनः॥२०॥

किरातेत्यादि स्पष्टम्॥१६॥२०॥

इति ज्वरातिसारचिकित्साविवृतिः।
<MISSING_FIG href="../../../../../books_images/U-IMG-1701788406Screenshot2023-11-08115216.png"/>

अथातीसारचिकित्सा।

आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः।
अतः सर्वातिसारेषु ज्ञेयं पक्वामलक्षणम्॥१॥

ज्वरोपद्रवस्यातीसारस्य चिकित्सामभिधाय सम्प्रति स्वतन्त्रस्यातीसारस्य चिकित्सामाह आमेत्यादि—सुश्रुतस्य।क्रिया चिकित्सा॥१॥

मज्जत्यामा गुरुत्वाद्विट्पक्वातूत्प्लवते जले।
विनातिद्रवसंघातशैत्यश्लेष्मप्रदूपणात्॥२॥

आमपक्वलक्षणमाह मज्जतीत्यादि—चरकस्य। आमेति आमान्विता विट्जले मज्जति।गुरुत्वादिति आमाहित-गुरुत्वात्। पक्वेति निरामा, प्लवते निरामत्वेन लघुत्वादित्यर्थः। द्वयोरप्यामपक्व-लक्षणयोरपवादमाह विनातिद्रवेत्यादि—अतिद्रत्वात् आमापि प्लवते, तथा अतिसङ्घातात् अतिकाठिन्यात् पक्वापि मज्जति,तथा शत्यसंहतिश्लेष्मप्रदूषणात् कफसम्बन्धकृतगौरवेण पक्वापि मज्जति। शैत्यस्थाने श्वैत्यपाठे श्वेतवर्णता। एतेनातिद्रवत्वादिकं विना मजनप्लवने सामनिरामलक्षणतया ज्ञेये इत्यर्थः॥२॥

शकृद्दुर्गन्धि साटोपविष्टम्भार्त्तिप्रेसकिनः।
विपरीतं निरामन्तु कफात् पक्वञ्च मज्जति॥३॥

सामत्वनिरामत्वयोः सम्यग्ज्ञानार्थमपरमपि लक्षणमाह शकृदित्यादि—आटोपविष्टम्भावेवार्त्ती तत्सहितम्। किं वा अर्तिः शूलम्; आटोपी रुजापूर्वक उदरक्षोभः; विष्टम्भः सतोदशूलमलाप्रवृत्तिः; प्रसेकिनः कफप्रसेकिनः; किं वा प्रसेकःस्तोकस्तोकमलसरणम्। कफात् पक्वञ्चमज्जतीत्यस्य तन्त्रान्तरीयवचनत्वान्न पौनरुक्त्यमाशङ्कनीयम्। इह तु सम्पूर्ण-श्लोकानुरोधात् पठितम्॥३॥

आमे विलंघनं शस्तमादौ पाचनमेव च।

कार्यञ्चानशनस्यान्ते प्रद्रवं लघुभोजनम्॥४॥

आम इत्यादि—

प्रद्रवमिति प्रकृष्टद्रवम् प्रकर्षश्चात्र शास्त्रविहितत्वन ज्ञेयः।तेनात्राविहितद्रवान्न-निषेधार्थम्, विहितलाजमण्डादिविधानार्थश्च प्रशब्दोपादानंज्ञेयम्। अतः “वर्जयेद् वैदलं शूली कुष्ठी मांसं क्षयी स्त्रियम्। द्रवमन्नमतीसारीसर्वञ्च तरुणज्वरी” इत्यादि वचनेन सहात्रन विरोधः।अन्ये तु प्रगतद्रवमितिव्याख्याय विरोधं परिहरन्ति। अपरे तु निपातस्यानेकार्थत्वात् प्रशब्दस्य ईषदर्थतांव्याख्यानयन्ति। अन्ये तु केवलद्रवस्यैव निषेधो न तु लाजमण्डादेरित्याहुः॥४॥

लंघनमेकं मुक्त्वा न चान्यदस्तीह भेषजं बलिनः।
समुदीर्णं दोषचयं शमयति तत् पाचयत्यपि च॥५॥

लङ्घनपाचनयोर्मध्ये लङ्घनस्य प्राधान्यमाह लङ्घनमित्यादि—

स्पष्टम्॥५॥

ह्रीवेरशृङ्गवेराभ्यां मुस्तपर्पटकेन वा।
मुस्तोदीच्यशृतं तोयं देयं वापि पिपासवे॥
युक्तोऽन्नकाले क्षुत्क्षामं लघून्यन्नानि भोजयेत्॥६॥

ह्रीवेरेत्यादि योगत्रयं षडङ्गविधिना अर्द्धशृतं बोध्यम्।उदीच्यं बालकम्॥६॥

औषधसिद्धाः पेया लाजानां शक्तवोऽतिसारहिताः।
वस्त्रप्रस्नुतमण्डः पेया च मसूरयूषश्च॥७॥

प्रदवं लघुभोजनमिति यदुक्तं तदेव दर्शयति औषधसिद्धा इत्यादि—

औषधंवक्ष्यमाणशालपर्ण्यादि—

धान्य-पञ्चकादिकम्। पेया चेति पेया च वस्त्रप्रस्नुतेत्यर्थः।अतएवोक्तम्"वस्त्रस्नुता यवागूर्वाऽ-प्रस्नुतक्षुद्रभक्तकम्” इति॥७॥

गुर्वी पिण्डीखरात्यर्थंलघ्वीसैव विपर्य्ययात्।
शक्तूनामाशु जीर्य्येतमृदुत्वादवलेहिका॥८॥

गुर्वीत्यादि—अत्यर्थं खरा कठिना शक्तुपिण्डिका गुर्वी स्यात्। सैव विपर्ययादिति मृद्वीसा लघ्वीभवति।अवलेहिका अवलेहयोग्या पिण्डी॥८॥

बृहच्छालपर्ण्यादिः।

शालपर्णी पृश्निपर्णी वृहती कण्टकारिका।
बलाश्वदंष्ट्राबिल्वानि पाठानागरधान्यकम्॥
एतदाहारसंयोगे हितं सर्वातिसारिणाम्॥९॥

बृहच्छालपर्यादौ—बिल्वानि बिल्वशलाटवः संग्राहित्वात्। यदुक्तं कफानिलहरं ताीक्ष्णंस्निग्धं संग्राहि दीपनम्। कटुतिक्तकषायोष्णं बिल्वमाममुदाहृतम्"इति। एवं सर्वत्र स्तम्भनयोगे बोध्यम्।छर्द्यान्तु बिल्वस्य मूलं ज्ञेयम्, “बिल्वमूलंमरुत्श्लेष्मच्छर्दिघ्नं न तु पित्तकृत्” इति गुणपाठात्। आहारसंयोग इति आहारस्यसंयोजने संस्कार इति यावत्। सर्वातिसारिणामिति आमपच्यमान-पक्वातिसारिणाम्,प्रत्येकद्वन्द्वसन्निपातातिसारिणां वा॥९॥

स्वल्पशालपर्ण्यादि :—

शालपर्णीबलाबिल्वैः पृश्निपर्ण्याच साधिता।
दाडिमाम्ला हिता पेया पित्तश्लेष्मातिसारिणाम्॥१०॥

स्वल्पशालपर्ण्यादि—

वाग्भटस्य॥१०॥

यवागूमुपभुञ्जानो न तु व्यञ्जनमाचरेत्।
शाकमांसफलैर्युक्ता यवाग्वोऽम्लाश्चदुर्जराः॥११॥

यवाग्वोऽम्ला इति अम्ला अम्लविपाकाः॥११॥

धान्यपञ्चकसंसिद्धो धान्यविश्वकृतोऽथवा।
आहारो भिषजायोज्यो वातश्लेष्मातिसारिणाम्॥१२॥
वातपित्ते पञ्चमूल्या कफे वा पञ्चकोलकैः॥१३॥

धान्यपञ्चकेत्यादि स्पष्टम्। वातपित्ते पञ्चमूल्या इति स्वल्पपञ्चमूल्या॥१२॥१३॥

धान्योदीच्यशृतं तोयं तृष्णादाहातिसारनुत्।
आभ्यामेव सपाठाभ्यां सिद्धमाहारमाचरेत्॥१४॥

आभ्यामितिधान्योदीच्याभ्याम्॥१४॥

दोषाःसन्निचिता यस्य विदग्धाहारमूर्च्छिताः।
अतिसाराय कल्पन्ते भूयस्तान् सम्प्रवर्त्तयेत्॥१५॥

दोषा इत्यादि—

सन्निचिता इति सञ्चयं प्राप्ताः। विदग्धशब्देनात्राविपक्वाहारवाचिना चतुर्विधमप्यामविदग्धविष्टब्धरसशेषरूपमजीर्णमुच्यते। मूर्च्छिता इतिवर्द्धिताः। सम्प्रवर्त्तयेदिति स्वयं प्रवर्त्तमानदोषस्य उपेक्षया प्रवर्त्तनं कारयेत्।उक्तं हि “तेषूपेक्षैव भेषजम्” इति तथा स्तोकं स्तोकं विबद्धं वा विरेचनयोगेनप्रवर्त्तयेत्। अतएव वक्ष्यति स्तोकं स्तोकं विबद्धं वेत्यादि॥१५॥

नतु सङ्ग्रहणं दद्यात् पूर्वमामातिसारिणे।
दोषा ह्यादौ रुध्यमाना जनयन्त्यामयान् बहून्।
शोथपाण्ड्वामयप्लीहकुष्ठगुल्मोदरज्वरान्।
दण्डकालसकाध्मानग्रहण्यर्शोगेदांस्तथा॥१६॥

न तु संग्रहणमित्यादी—

पूर्वमिति विशेषणेनोत्तरकालमामातिसारिणेऽपिअतिनिस्रुतबहुदोषतया क्षीणाधातवे संग्रहणं देयमिति दर्शयति। अतएव वक्ष्यतिक्षीणधातुबलार्त्तस्येति। अन्ये तु पूर्वं संग्रहणं न देयमिति वचनेन प्रधानमम्बष्ठाशाल्मलकुटजत्वगादिसंग्रहणं न देयमिति बोधयति, मुस्तोदीच्यादि तु पाचनग्रहणञ्चयत्, पूर्वमपि देयमेवैत्याहुः॥१६॥

क्षीणधातुबलार्त्तस्य बहुदोषोऽतिनिस्रुतः।
आमोऽपि स्तम्भनीयः स्यात् पाचनान्मरणं भवेत्॥१७॥

अवस्थायामामेऽपि संग्रहणं देयमित्याहक्षीणेत्यादि—

पाचनादिति केवलपाचनात्, पाचनस्तम्भनन्तु हितमेव॥१७॥

स्तोकं स्तोकं विबद्धं वा सशूलं योऽतिसार्यते।
अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत्॥१८॥

विरेचनावस्थामाह स्तोकमित्यादि—

सुश्रुतस्य।अभयापिप्पलीकल्कस्य सुखोष्णता कदुष्णयोगेन ज्ञेया॥१८॥

धान्यपञ्चकम्—

धान्यकं नागरं मुस्तं बालकं बिल्वमेव च।
आमशूलविबन्धघ्नं पाचनं वह्निदीपनम्॥
इदं धान्यचतुष्कं स्यात् पित्ते शुण्ठीं विना पुनः॥१९॥

धान्यकमित्यादि—

अयं योगः सामपित्ते बोध्यः। यदुक्तमायुर्वेदसारे “बिल्व-विश्व-घनदीच्य-धान्यकैः क्वथितं जलम्। सामपित्तातिसारघ्नं दीपनं धान्यपञ्चकम्।धान्यपञ्चकं यदुक्तं तत् शुण्ठीव्यतिरेकेण कर्त्तव्यमित्येतदर्थमाह इदं धान्यचतुष्कंस्यादित्यादि। भोजेऽप्युक्तं “धान्यकं बालकं मुस्तं बिल्वं पित्ते प्रयोजितम्। आमशूलविबन्धनं पाचनं वह्निदीपनम्” इति। तथान्यत्राप्युक्तं “धान्यकं बालकं मुस्तंबिल्वं पित्ते तु दीपनम्। आमशूलविबन्धघ्नं पाचनं नागरान्वितम्” इति॥१९॥

पिप्पली नागरं धान्यं भूतीकञ्चाभयां वचाम्।
ह्रीवेरभद्रमुस्तानि बिल्वं नागरधान्यकम्॥
पृश्निपर्णी श्वदंष्ट्रा च समङ्गा कण्टकारिका।
तिस्रः प्रमथ्या विहिताः श्लोकार्द्धैरतिसारिणाम्॥
कफे पित्ते च वाते च क्रमादेताः प्रकीर्त्तिताः।
संज्ञा प्रमथ्या ज्ञातव्या योगे पाचनदीपने॥२०॥

पिप्पलीमित्यादि—प्रमथ्यात्रयं चरकस्य। अत्र भूतीकं यमानी; भद्रमुस्तंमुस्तकमेव, समङ्गावराह-क्रान्ता। एतास्तिस्रः प्रमथ्याः यथाक्रमं कफपित्तवातेष्वितिचरकटीकाकृतो व्याचक्षते। अतस्तमेवार्थं चक्रोऽप्याह कफे पित्ते चेत्यादि। यद्यपिह्रीवेरमित्यादि द्वितीयो योगो धान्यपञ्चकमेव, तथापि तस्यैव प्रमथ्यासंज्ञाविधानार्थंपुनश्चरकवाक्यं लिखितम्। न च वाक्यं प्रमथ्यामध्यपठितं ह्रीवेरमित्यादिकमेवास्तु;किं धान्यपञ्चकयोगस्य पृथक्कथनेन? सत्यम्, धान्यपञ्चकसंज्ञया हि शास्त्रव्यवहारःकर्त्तव्यो यथा धान्यपञ्चकसंसिद्ध इत्यादि। तथा शुण्ठीरहितस्य तस्यैव धान्यचतुष्क-संज्ञयापि, अत एतद्विशेषकथनार्थमेव तस्य पृथक्कथनमिति ज्ञेयम्।संज्ञाप्रमथ्या इत्यादि—

प्रमथ्याशब्दो हि वृद्धपरम्परया पाचनदीपनकषाये वैद्यशास्त्रेपरिभाषितः श्रूयते। यथा विडंगकषायः शैखरिक-कषायशब्देन वैद्यैरुच्यते इति॥२०॥

त्र्यूषणातिविषाहिंगुबलासौवर्चलाभयाः।
पीत्वोष्णेनाम्भसा हन्यादामातीसारमुद्धतम्॥२१॥

अथवा पिप्पलीमूलपिप्पलीद्वयचित्रकान्।
सौवर्चलवचाव्योषहिङ्गुप्रतिविषाभयाः॥
पिबेत् श्लेष्मातिसारार्त्तश्चूर्णिताश्चोष्णवारिणा॥२२॥

हरिद्रादिंवचादिं वा पिबेदामेषु बुद्धिमान्।
खडयूषयवागूषुपिप्पल्यादिं प्रयोजयेत्॥२३॥

त्र्यूषणेत्यादौ त्र्यूषणादीनां चूर्णम्। अथवेत्यादि चित्रकान्त एको योगः।सौवर्चलेत्यादौ प्रतिविषा अतिविषा।हरिद्रादिवचादिगणौसौश्रुतौ। यदाह हरिद्रा दारुहरिद्रा कलसी फुटजबीजानि मधुकश्चेति।” “वचा मुस्ताविषाभया भद्रदारु नागरश्चेति।” खडयूष इत्यादि—

पिप्पल्यादिश्च सौश्रुतो गणो ज्वराधिकारे चक्रेणैवोक्तः॥ २१––२३॥

**तक्रंकपित्थचाङ्गेरीमरिचाजाजिचित्रकैः।
सुपक्वः खडयूषोऽयमयं काम्बलिकोऽपरः।
दध्यम्लो लवणस्नेहतिलमाषसमन्वितः॥२४॥ **

खडयूषमाह तक्रमित्यादि—

अयञ्चयूषः"कर्षार्द्धं वाकणाशुण्ठपोः कल्कद्रव्यस्यवा पलम्” इत्यादिना बोध्यः। तेन तीचणवीर्य्याणां मरिचाजाजीचित्रकाणामल्पमानत्वम्, कपित्थचाङ्गेर्य्योस्तु मध्यवीर्य्यत्वाद् बहुमानत्वम्, तक्रस्य तु प्रस्थमानत्वं कल्पनीयम्।यूषयोनित्वाच्च मुद्गोऽपि देयः। तस्यैव दध्यादियोगात् काम्बलिकसंज्ञामाह दध्यम्ल इत्यादि—

दध्यम्लेति।अम्लीकृतः॥२४॥

नागरातिविषामुस्तैरथवा धान्यनागरैः।
तृष्णातीसारशूलघ्नं पाचनं दीपनं लघु॥२५॥

नागरादौ शृतमिति शेषः। उक्तं हि चरके “नागरातिविषामुस्तक्वाथः स्यादामपाचनः” इति॥२५॥

पाठावत्सकबीजानि हरीतक्यो महौषधम्।
एतदामसमुत्थानमतीसारं सवेदनम्।
कफात्मकं सपित्तञ्च वर्च्चोबध्नाति च ध्रुवम्॥२६॥

पाठेत्यादि—

सुश्रुतस्य। अयं योगः क्वाथेन चूर्णेन वा ज्ञेयः। यतोऽयं सुश्रुते विंशतियोगमध्ये पठितः। तदनन्तरं सुश्रुतेनैवोक्तंयथा “प्रयोज्या विंशतिर्योगाः लोकार्द्धविहितास्त्वमी।धान्याम्लोष्णाम्बुमद्यानां पिबेदन्यतमेन वा निष्क्वाथान् वा पिबेदेषां सुखोष्णान् साधुसाधितान् इति॥२६॥

पयस्युत्क्वाथ्य मुस्ता वा विंशतिं भद्रकाह्वयाः।
क्षीरावशिष्टं तत् पीतं हन्यादामं सवेदनम्॥२७॥

पयस्युत्क्वाथ्येत्यादौ त्रिगुणोदकं बोध्यम्; यदाह वाग्भटः “पयस्युक्त्वाथ्य मुस्तां वा विंशतिं त्रिगुणेऽम्भसि” इत्यादि। अत्र छागदुग्धमित्याहुर्वृद्धाः॥२७॥

पक्वोऽसकृदतीसारो ग्रहणीमार्दवाद् यदा।
प्रवर्त्तते तदा कार्य्यःक्षिप्रं साङ्ग्राहिको विधिः॥२८॥

पक्व इत्यादि स्पष्टम्॥२८॥

पञ्चमूलीबलाविश्वधान्यकोत्पलबिल्वजाः।
वातातिसारिणे देयास्तक्रेणान्यतमेन वा॥२६॥

पञ्चमूलीत्यादौ पञ्चमूली स्वल्पा महतीं वा। धान्यकोत्पलबिल्वजा इति बिल्वजाबिल्वशलाटवः।अन्ये तु बिल्वजा इत्यनन्तरं कल्पना इति शेषः, तेनाविशेषात्सर्वकल्पनैव कार्य्येत्याहुः।तन्न, स्वरसस्य सम्भवात् तत्कल्पनाया गुरुत्वाच्च।अतएव कल्कोऽपि न, पारिशेष्यात् कषायश्चूर्णो वा योग्यत्वादित्याहुः। अन्यतमेनेति काञ्जिकजलादीनामन्यतमेन।क्वाथपक्षे तक्रादौ अर्द्धजलं देयम्॥२६॥

कञ्चटादिः—कञ्चटजम्बूदाडिमशृङ्गाटकपत्रबिल्वह्रीवेरम्।
जलधरनागरसहितं गङ्गामपि वेगिनीं रुन्ध्यात्॥३०॥

कञ्चटेत्यादौ—कश्चटादीनां चतुर्णां पत्रम्। नागरान्तैरष्टाभिः कषायः॥३०॥

कृत्वालवालं सुदृढं पिष्टैर्वामलकैर्भिषक्।
आर्द्रकस्वरसेनाशु पूरयेन्नाभिमण्डलम्।
नदीवेगोपमं घोरमतीसारं निरोधयेत्॥३१॥

कृत्वेत्यादि स्पष्टम्॥३१॥

किराततिक्तकं मुस्तं वत्सकं सरसाञ्जनम्।
पित्तातिसाररोगघ्नं सक्षौद्रं वेदनापहम्॥३२॥

किराततिक्तकमित्यादि—अत्र तण्डुलोदकमपि बोध्यम्। तेन एषां चूर्णंमधुसहिततण्डुलोदकेन पिबेदित्यर्थः। यदाह वाग्भटः “किराततिक्तकं मुस्तंवत्सकं सरसाञ्जनम्। कटकटेरी ह्रीवेरं बिल्वमध्यं दुरालभा। तिला मोचरसोलाध्रंसमंगा कमलोत्पलम्।नागरं घातकीपुष्पं दाडिमस्य त्वगुत्पलम्। अर्द्धश्लोकैः स्मृता योगाः सक्षौद्रास्तण्डुलाम्बुना” इति। चरकेऽप्युक्तं “किराततिक्तकंमुस्तं वत्सकः सरसाब्जनः। बिल्वं दारुहरिद्रात्वग् ह्रीवेरं सदुरालभम्। चन्दनञ्चमृणालञ्चनागरं लोध्रमुत्पलम्। तिला मोचरसो लोधं समंगा कमलोत्पलम्।नागरं धातकीपुष्पमुत्पलं दाडिमत्वचः। कट्फलं नागरं पाठाजम्ब्वस्थि सदुरालभम्।योगाः षडेते सक्षौद्रास्तण्डुलोदकसंयुताः। पेयाः पित्तातिसारघ्नाः श्लोकार्द्धैस्तुनिदर्शिताः” इति। निश्चलस्तु वातेत्यादौ क्वाथयित्वेति शेष इत्याह॥३२॥

पलं वत्सकबीजस्य श्रपयित्वा जलं पिबेत्।
यो रसाशी जयेच्छीघ्रं सपैत्तं जठरामयम्॥३३॥

पलमित्यादि—वाग्भटस्य।रसाशी जांगलमांसरसेन भुञ्जानः॥३३॥

मधूकं कट्फलं लोध्रं दाडिमस्य फलत्वचम्।

पित्तातिसारे मध्वाक्तं पाययेत् तण्डुलाम्वुना॥३४॥

मधूकमित्यादि—

चूर्णविधया योगोऽयम्॥३४॥

कुटजातिविपामुस्तं हरिद्रापर्णिनीद्वयम्।
सक्षौद्रशर्करं शस्तं पित्तश्लेष्मातिसारिणाम्॥३५॥

कुटजेत्यादौ हरिद्राद्वयम्, पर्णिनीद्वयं शालपर्णीपृश्निपर्ण्यौ। क्वाथेनायं योगः॥३५॥

कुटजत्वक्फलं मुस्तं क्वाथयित्वा जलं पिबेत्।
अतीसारं जयत्याशु शर्करामधुयोजितम्॥३६॥

कुटजत्वगित्यादि योगत्रयं स्पष्टम्॥३६॥

बिल्वचूतास्थिनिर्यूहः पीतः सक्षौद्रशर्करः।
निहन्याच्छर्द्यतीसारं वैश्वानर इवाहुतिम्॥३७॥

बिल्वेत्यादि ख्यातम्॥३७॥

पटोलयवधन्याकक्वाथः पेयः सुशीतलः।
शर्करामधुसंयुक्तश्छर्द्यतीसारनाशनः॥३८॥

पटोलेत्यादि ख्यातम्॥३८॥

प्रियङ्ग्वञ्जनमुस्ताख्यं पाययेत् तु यथाबलम्।
तृष्णातिसारच्छर्दिघ्नं सक्षौद्रं तण्डुलाम्बुना॥३९॥

प्रियङ्ग्वित्यादौ अञ्जनम् रसाञ्जनम्।चूर्णविधया योगोऽयम्॥३९॥

कलिङ्गकवचामुस्तं दारु सातिविषंसमम्।
कल्कं तण्डुलतोयेन पिबेत् पित्तानिलामयी॥४०॥

कलिङ्गेत्यादौ सातिविषमिति कलिङ्गादिविशेषणम्॥४०॥

कुटजं दाडिमं मुस्तं धातकीबिल्वबालकम्।
लोध्रचन्दनपाठाश्च कषायंमधुना पिबेत्॥
सामे सशूले रक्तेऽपि पिच्छास्रावेषु शस्यते।
कुटजादिरिति ख्यातः सर्वातिसारनाशनः॥४१॥

कुटजं दाडिममित्यादौ दाडिमफलवल्कलम्॥४१॥

समङ्गातिविषा मुस्तं विश्वं हीवेरघातकी।
कुटजत्वक्फलं बिल्वं क्वाथः सर्वातिसारनुत्॥४२॥

समङ्गेत्यादौसमंगा वराहकान्ता क्वाथ इत्यत्रएषामिति शेषः॥४२॥

दलोत्थः स्वरसः पेयो हिज्जलस्य समाक्षिकः।
जयत्याममतीसारंक्वाथो वा कुटजत्वचः॥४३॥

दलोत्थइत्यादिः स्पष्टः॥४३॥

वटारोहन्तु सम्पिष्य श्लक्ष्णं तण्डुलवारिणा।
त् पिबेत् तक्रसंयुक्तामतीसाररुजापहम्॥४४॥

तण्डुलजलपिष्टाङ्कोठमूलकर्षार्द्धपानमपहरति।
सर्वातिसारग्रहणीरोगसमूहं महाघोरम्॥४५॥

वटारोहमित्यादौआरोहः अस्याग्रोभागः। सर्वातिसारग्रहणीत्यत्र संयोगादेरपि रेफस्य लघुत्वान्न च्छन्दोभंगः। तदुक्तं “यदा तीव्रप्रयत्नेन संयोगादेरगौरवम्।न छन्दोभंग इत्याहुस्तददोषाय सूरयः” इति॥४४॥४५॥

कल्कः कोमलबब्बोलदलात् पीतोऽतिसारहा॥४६॥

कल्क इत्यादौ—

कोमलबब्बोलदलः बब्बोलकिशलयः॥४६॥

कुटजत्वक्कृतः क्वाथो घनीभूतः सुशोभनः।
लोहितोऽतिविषायुक्तः सर्वातीसारनुद्भवेत्॥४७॥

कुटजत्वक्कृतः क्वाथ इत्यादौघनीभूत इति चतुर्थभागावशिष्टः क्वाथ एवपुनःपाकात् तथा घनः कार्यः यथा चूर्णे प्रक्षिप्ते लेहः स्यात्; अतएव सुशोभनइत्युक्तम्॥४७॥

वदन्त्यत्राष्टमांशेन क्वाथादतिविषारजः।
प्रक्षेप्यत्वात् पादिकन्तु लेहादिति च नो मतिः॥४८॥

अतिविषाचूर्णं कियद्देयमित्येतदर्थमाह वदन्तीत्यादि—

चतुर्थभागावशिष्टक्वाथापेक्षया अष्टमांशेनाति-विषाचूर्णं देयमिति वदन्ति वृद्धाः। चक्रस्तु स्वमतमाहप्रक्षेप्यत्वादित्यादि—तदितिविषाचूर्णं पादिकं चतुर्भागावशिष्ट-क्वाथापेक्षयेत्यर्थःकुत इत्याह प्रक्षेप्यत्वादिति। लेहादिति ल्यब्लोपे पञ्चमी, लेहमुद्दिश्य प्रक्षेप्यत्वादित्यर्थः। तदुक्तं “लेहे यत्र तु नो भागो निर्दिष्टो द्रवकल्कयोः। तत्रापि पादिकःकल्को द्रवात् कार्य्योविज्ञानता’ ; इति। “कल्को दृशदि पेषितः” इति हि कल्कलक्षणम्। अतः कल्कशब्देन चूर्णस्यापि ग्रहणम्। द्रवादिति चतुर्थभागावशिष्टात्।अतः क्वाथ्यपलचतुष्टये दत्तस्य शरावचतुष्टयजलस्य पादशेषादष्टपले क्वाथे अतिविषाचूर्णपलद्वयमित्यर्थः। लेहाकारीकृतक्वाथापेक्षया पादिकमिति तु न व्याख्येयम्द्रवात् पादिकः कार्य्यइत्युक्तेः तत्रापि लेहाकारात् द्रवादिति व्याख्याने कष्ट-कल्पनास्यात्। अतिविषायुक्त इति घनीभूतक्वाथस्य विशेषणम्, तेन क्वाथे घनीभूते अतिविषाचूर्णप्रक्षेप इत्यर्थः। वृद्धवैद्यास्तु मधुनापि लेहं कारयन्ति सायंसमयेऽपि॥४८॥

अङ्कोठवटकः।

सदार्व्यङ्कोठपाठानां मूलं त्वक् कुटजस्य च।
शाल्मलीशालनिर्यासघातकीलोध्रदाडिमम्।
पिष्ट्वाक्षसम्मितान् कृत्वा चटकांस्तण्डुलाम्बुना॥
तेनैव मधुसंयुक्तानेकैकान् प्रातरुत्थितः।
पिबेदत्ययमापन्नो विड्विसर्गेण मानवः।
अङ्कोठटको नाम्ना सर्वातीसारनाशनः॥४९॥

सदार्वीत्यादौदार्वीदारुहरिद्रा, अङ्कोठः अङ्कोड इति ख्यातस्तरुः। तस्यमूलमेव। उक्तंहि हारीते “पलञ्चाङ्कोठमूलस्य पाठां दार्वीञ्चतत्समाम्।पिष्ट्वा तण्डुलतोयेन वटकानक्षसम्मितान्” इत्यादि॥४९॥

पयस्यर्द्धोदके च्छागे ह्रीवेरोत्पलनागरैः।
पेया रक्तातिसारघ्नी पृश्निपर्ण्याच साधिता॥५०॥

पयसीत्यादि—

चरकस्य।नागरमत्र मुस्तं, न तु शुण्ठी,रक्तातिसारे “अजाक्षीरकोष्ट्रीधनजलोत्पलैः” इति जतुकर्णसंवादात्।कोष्ट्री पृश्निपर्णीं। अतएवपृश्निपर्ण्यन्त एको योगः, अन्ये तु पृश्निपर्ण्याच साधित इति पृथक्पाठः पृश्निपर्णीक्वाथेन साधित इत्यर्थः।तेनार्द्धोदकच्छागदुग्धं पृश्निपर्णीक्वाथैर्मिलित्वा पाकः कार्य्यः। उक्तं हि वाग्भटे ‘पयस्यर्द्धोदके छागे ह्रीवेरोत्पलनागरैः। पेया रक्तातिसारघ्नीपृश्नि-पर्णीरसान्विता” इति ब्रुवते॥५०॥

रसाञ्जनं सातिविषंकुटजस्य फलं त्वचम्।
धातकी शृङ्गवेरञ्च प्रपिबेत् तण्डुलाम्बुना॥
क्षौद्रेण युक्तं नुदति रक्तातिसारमुल्वणम्।
मन्दं दीपयते चाग्निं शुलञ्चापि निवर्त्तयेत् ॥५१॥

रसाञ्जनमित्यादि—

अत्र कुटजस्य फलं त्वक् च। सुश्रुतेऽप्युक्तं “रसाञ्जनंसातिविषं त्वग्बीजं कौटजं तथा। घातकी नागरञ्चैवपाययेत् तण्डुलाम्बुना।सशूलं रक्तजं हन्ति योगो मधुसमन्वितः” इति॥५१॥

विडङ्गातिविषा मुस्तं दारु पाठा कलिङ्गकम्।
मरिचेन समायुक्तं शोथातिसारनाशनम्॥५२॥

विडङ्गेत्यादि—

अत्र मरिचस्य प्रक्षेप्यत्वमित्याहुः॥५२॥

वत्सकादिः।

सवत्सकः सातिविषः सबिल्वः सोदीच्यमुस्तश्च कृतः कषायः।
सामे सशूले सहशोणिते व चिरप्रवृत्तेऽपि हितोऽतिसारे॥५३॥

वत्सकादौ वत्सकः क्तटजः। तस्य त्वगिति चन्द्रकलाटीकाकारः वैद्यप्रसारकश्च।अन्ये तु ‘बिल्वशत्रु-यवाम्भोदबालकातिविषाकृतः। कषायो हन्त्यतीसारं सामं पित्तसमुद्भवम्” इति सुश्रुतसंवादात् फलमेवेत्याहुः। किन्तु प्रायो व्यवहारस्त्वचा,फलेनापि ज्वरे रक्तप्राबल्ये च।यदुक्तं “कुटजः कफवातासृक्त्वग्दोषार्शोऽतिसारजित्।तद्बीजं रक्तपित्तातीसार ज्वरहरं हिमम्” इति॥५३॥

कषायो मधुना पतिस्त्वचो दाडिमवत्सकात्।
सद्यो जयेदतीसारं सरक्तंदुर्निवारकम्॥५४॥

कषाय इत्यादी—

दाडिमात् कोमलत्वक्॥५४॥

गुडेन खादयेद्बिल्वंरक्तातिसारनाशनम्।

आमशूलविबन्धघ्नं कुक्षिरोगविनाशनम्॥५५॥

गुडेनेत्यादि—अत्र गुडबिल्वयोः समभागः, बिल्वञ्च बिल्वशलाटुः, तच्चपानीयेनोत्स्विद्य ग्राह्यम्।उत्स्वेदनशेषजलञ्चानुपेयम्॥५५॥

बिल्वाब्दधातकीपाठाशुण्ठीमोचरसाः समाः।
पीता रुन्धन्त्यतीसारं गुडतक्रेण दुर्जयम्॥५६॥

बिल्वाब्देत्यादि।गुडेन मधुरीकृतं तक्रं गुडतक्रम्।पेषणमपि तक्रेण आयुर्वेदसारसंवादात्॥५६॥

शल्लकीवदरीजम्बूपियालाम्रार्जुनत्वचः।
पीताः क्षीरेण मध्वाढ्याः पृथक् शोणितनाशनाः॥५७॥

शल्लकीत्यादौ—क्षीरमाजं ग्राह्यमित्याहुः॥५७॥

जम्ब्वाम्रामलकीनान्तु पल्लवानथ कुट्टयेत्।
संगृह्य स्वरसं तेषामजाक्षीरेण योजयेत्।
तं पिबेन्मधुना युक्तं रक्तातीसारनाशनम्॥५८॥

जम्ब्वाम्रेत्यादौस्वरसच्छागक्षीरयोः समभागः मधुनोऽपि मात्रा चूर्णवदेव,मात्रा क्षौद्रघृतादीनां स्नेहक्वाथेषु चूर्णवदित्युक्तेः॥५८॥

बिल्वं छागपयःसिद्धं सितामोचरसान्वितम्।
कलिङ्गचूर्णसंयुक्तं रक्तातीसारनाशनम्॥५९॥

बिल्वं छागपयःसिद्धमित्यादि—बिल्वशलाटूत्स्वेदेन छागदुग्धेन किञ्चित् पानीयसहितनोत्स्विद्य ततः सितादिना संयोज्य लेह्यम्।बिल्वशलाटुमाषकाष्टकंसिताया एकमाषकः, मोचरसकलिङ्गयोश्चूर्णं मिलित्वा माषकम् इति वृद्धव्यवहारः।आजदुग्धमुत्स्वेदनावशिष्टमनुपेयम्॥५९॥

ज्येष्ठाम्बुना तण्डुलीयं पीतञ्च ससितामधु।
पीत्वा शतावरीकल्कं पयसा क्षीरभुग् जयेत्।
रक्तातिसारी पीत्वावा तथा सिद्धं घृतं नरः॥६०॥

ज्येष्ठाम्बुनेत्यादावपि रक्तातिसारनाशनमिति योज्यम्। ज्येष्ठाम्बु तण्डुलाम्बु।तण्डुलीयकस्य क्षुद्रमारिषस्यमूलम्।पीत्वेत्यादि—चरकस्य। वातपित्तोत्तरेयोगोऽयमिति वदन्ति।पयसा पीत्वेत्यन्वयः। क्षीरभुगिति क्षीरेण भुञ्जानः। तयेतिशतावर्य्या कल्कस्वरसरूपतयाघृतं पीत्वेत्यन्वयः॥६०॥

कुटजस्य पलं ग्राह्यामष्टभागजले शृतम्।
तथैव विपचेद्भूयो दाडिमोदकसंयुतम्॥
यावच्चैव लसीकाभं शृतं तमुपकल्पयेत्।
तस्यार्द्धकर्षं तक्रेण पिबेद्रक्तातिसारवान्॥
अवश्यमरणीयोऽपि मृत्योर्याति न गोचरम्।

क्वाथतुल्यं दाडिमाम्बु भागानुक्तौसमं यतः॥६१॥

कुटजस्य पलमित्यादि—

कुटजछाल पल १, पानीय श १, शेष पल १ ।दाडिमफलकल्कपल १, पानीय श १, शेष पल १ । एतत्क्वाथद्वयं मिश्रीकृत्य तावत् पक्तव्यंयावत् लसीकाभं स्यात् ततोऽष्ट-माषकं गृहीत्वा तक्रकर्षद्वयेन सह पातव्यमित्यर्थः॥६१॥

कल्कस्तिलानां कृष्णानां शर्कराभागसंयुतः।
आजेन पयसा पीतः सद्यो रक्तं नियच्छति॥६२॥

कल्कस्तिलानामित्यादि—

शर्कराभागसंयुत इति शर्कराया भागश्चतुर्थोंऽशः,तेन संयुतइत्यर्थः। तेन शर्करायाश्चत्वारो भागाः, एकस्तिलस्येति। उक्तंहि जतुकर्णे"कल्कस्तिलानां शर्करापादिकान् छागीपयसा” इति एवं चरके वाग्भटेऽपि। यथा"कल्कस्तिलानां कृष्णानां शर्करापञ्चभागिकः” इति। शर्कराभागमपेक्ष्य पञ्चमो भागस्तिलकल्कस्येत्यर्थः॥६२॥

गुददाहे प्रपाके वा पटोलमधुकाम्बुना।
सेकादिकं प्रशंसन्ति छागेन पयसापि वा।
गुदभ्रंशे प्रकर्त्तव्या चिकित्सा तत्प्रकीर्तिता॥६३॥

गुददाह इत्यादि—

पटोलमधुकाम्बुनेत्यर्द्धशृतेन। सेकादिकमित्यत्रादिशब्दात्प्रलेपादिग्रहः। चिकित्सा तत्प्रकीर्त्तितति गुदभ्रंशचिकित्सा, सा च क्षुद्ररोगेवाच्या॥६३॥

अवेदनं सुसम्पर्क दीप्तानः सुचिरोत्थितम्।
नानावर्णमतीसारं पुटपाकैरुपाचरेत्॥६४॥

पुटपाकयोग्यावस्थामाह अवेदनमित्यादि—

सुश्रुतस्य।अवेदनमशूलमल्पशूलंवा।डल्वणस्तु नानावर्णमित्येनन सान्निपातिकोऽतिसारः पुटपाकस्य विषय इतिदर्शितमित्याह॥६४॥

कुटजपुटपाकः—

स्निग्धं घनं कुटजवल्कमजन्तुजग्ध-
मादाय तत्क्षणमतीव चपोथयित्वा।
जम्बूपलाशपुटतण्डुलतोयसिक्तम्
बद्धं कुशेन च बहिर्घनपङ्कलिप्तम्॥

सुस्विन्नमेतदवपीड्य रसं गृहीत्वा
क्षौद्रेण युक्तमतिसारवते प्रदद्यात्।
कृष्णात्रिपुत्रमतपूजित एषयोगः
सर्वातिसारहरणे स्वयमेव राजा॥

स्वरसस्य गुरुत्वेन पुटपाकपलं पिबेत्।
पुटपाकस्य पाकोऽयं वहिरारकर्वणता॥६५॥

सिग्धमित्यादि—

अजन्तुजग्धमिति न क्रिमिभिर्भक्षितम्। पोथयित्वा क्षोदयित्वा।जम्बूपत्रनिर्मितपुटेतण्डुलतोयेन सिक्तमित्यर्थः।योगोऽयं रक्तपित्तोत्तरइत्याहुः॥६५॥

श्योणाकपुटपाकः।

त्वक्पिण्डं दीर्घवृन्तस्य काश्मरीपत्रवेष्टितम्।
मृदावलिप्तं सुकृतमङ्गारेष्ववकूलयेत्॥
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय यत्नतः।
शीतीकृतं मधुयतं पाययेदुदरामये॥६६॥

त्वक्पिण्डमित्यादि—कस्यचित् तन्त्रस्य।त्वचः पिण्डरूपकल्कम्। दीर्घवृन्तःश्योणाकः।काश्मरी गाम्भारी। सुकृतमिति कुशवेष्टनेन सुष्ठुबद्धमित्यर्थः। अवकूलयेत् अङ्गारैराच्छादयेत्। कूल आवरणे इत्यस्य रूपम्। दहेदित्यन्ये।उदरामयप्रकरणादतिसारे सुश्रुते पुनरयं योगोऽन्यथा पठ्यते, यथा “त्वक्पिण्डंदीर्घवृन्तस्य पद्मकेशरसंयुतम्। काश्मरीपद्मपत्रैश्चावेष्ट्यसूत्रेण तं दृढम्। “शेषंतुल्यमेवेति।श्योणाकस्य त्वचं पद्मकेशरश्चसमभागं कृत्वा सम्पिष्य, तं पिण्डंगाम्भारीपत्रपद्मपत्रयोः पुटेनिक्षिप्य सूत्रेणावेष्ट्य मृत्तिकया चावलिप्य निर्धूमखदिराङ्गारेषु पुटपाकविधिना पक्त्वा रसो ग्राह्य इति व्याख्यानयन्ति टीकाकृतः।अत्र श्योणाकपुटपाके वाग्भटसंवादात् मधुस्थाने शर्कराप्रक्षेपोऽपि बोध्यः॥६६॥

कुटजलेहः —शतं कुटजमूलस्य क्षुण्णंतोयार्मणे पचेत्।
क्वाथे पादावशेषेऽस्मिन् लेहं पूते पुनः पचेत्।
सौवर्चलयवक्षारविडसैन्धवपिप्पली-
धातकीन्द्रयवाजाजीचूर्णं दत्वा पलद्वयम्॥
लिह्याद्वदरमात्रं तत् शीतं क्षौद्रेण संयुतम्।
पक्वापक्वमतीसारं नानावर्णं सवेदनम्।
दुर्वारं ग्रहणीरोगं जयेच्चैव प्रवाहिकाम्॥६७॥

शतमित्यादि—अर्मणो द्रोणः। लेहमिति लेहाकारं यथा भवति तथा पचेत्।पलद्वयमिति मिलित्वा। आसन्नपाके चूर्णप्रक्षेपः।यवक्षारस्थाने गुडक्षारपाठोनप्रसिद्धः। वदरमात्रमित्यष्टमाषकम्। माष-चतुष्टयेन व्यवहारः। क्षौद्रयुक्तमित्युपयोगकाले अनुरूपं मधु दत्त्वा उपयोज्यम्॥६७॥

कुटजाष्टकः।

तुलामथार्द्रां गिरिमलिकायाः संक्षुद्यपक्त्वा रसमाददीत।
तस्मिन् सुपूते पलसम्मितानि लक्ष्णानि पिष्ट्वासह शाल्मलेन॥
पाठां समङ्गातिविषां समुस्तां बिल्वञ्च पुष्पाणि च धातकीनाम्
प्रक्षिप्य भूयो विपचेत्तु तावद्दर्वीप्रलेपः स्वरसस्तु यावत्।
पतिस्त्वसौ कालविदा जलेन मण्डेन वाजापयसाथवापि।

निहन्ति सर्वन्त्वतिसारमुग्रं कृष्णं सितं लोहितपीतकं वा॥
दोषं ग्रहण्यांविविधञ्च रक्तं शूलं तथाशींसि सशोणितानि।
असृग्दरञ्चेवमासाध्यरूपं निहन्त्यवश्यं कुटजाष्टकोऽयम्।
तुलाद्रव्ये जलद्रोणे द्रोणे द्रव्यतुला मता॥६८॥

तुलामित्यादि—

तुलाद्रव्ये जलद्रोण इति वक्ष्यति। रसश्च पादावशिष्ट एवोत्सर्गसिद्धः। पल-सम्मितानीति प्रत्येकं, द्रव्यप्रधानत्वान्निर्देशस्य।समङ्गावराहकान्ता।शाल्मलेनेति शाल्मलीवेष्टकेन। अत्र केचित् चूर्णं दत्त्वैव पाकः, “प्रक्षिप्य भूयोविपचेत्” इति वचनात् प्रचाराच्चेत्याहुः। अन्ये तु तस्मिन् सुरते भूयः पचेत्;ततो मनाक् दर्वीप्रलेपनावस्थायां शाल्मलीवेष्टकादिचूर्णं प्रक्षिप्य, ततो रसः पीतइति योज्यम्। एतेन “प्रायो न पाकश्चूर्णानां भूरिचूर्णस्य योगतः” इत्यपि वचनमनुगृहीतं भवतीत्याहुः। व्यवहारश्चानेनैवेति। जलेनेति शीतलजलनाग्निमान्द्येमण्डेन वस्तिदुष्टौ, छागीदुग्धेनरक्ते॥६८॥

षडङ्गघृतम्—

वत्सकस्य च बीजानि दार्व्याश्चत्वच उत्तमाः।
पिप्पली शृङ्गवेरञ्चलाक्षा कटुकरोहिणी॥
षड्भिरेभिर्घृतं सिद्धं पेयं मण्डावचारितम्।
प्रतीसारं जयेच्छीघ्रं त्रिदोषमपि दारुणम्॥६९॥

षडङ्गघृते दार्व्याश्च त्वच उत्तमा इति सर्वत्र दार्व्यास्त्वच एव ग्राह्या उत्तमगुणत्वात्। तस्य दुर्लभत्वात् अत्रकाष्ठमेव गृह्यते। षड्‌भिरिति पदं यथालाभग्रहणनिषेधार्थम्। एभिः कल्कैरर्थाच्चतुर्गुणमेव जलं देयम्। इदमेव घृतं कुटजत्वचा सप्ताङ्गं भवति, तदुक्तं वैद्यप्रदीपे “मण्डेन पेयं तत्सर्पिः सप्तांगं कुटजत्वचाइति॥६६॥

क्षीरिद्रुमाद्यं घृतम्—

क्षीरिद्रुमाभीरुरसे विपक्वं तज्ज्ञैश्च कल्कैः पयसा च सर्पिः।
सितोपलार्द्धंमधुपादयुक्तं रक्तातिसारं शमयत्युदीर्णम्॥७०॥

क्षीरिद्रुमेत्यादी—

क्षीरिणोद्रुमा वटे हुम्बरादयः। एषामन्यतमस्य समुदितस्यचा क्वाथः। शतावरी-रसश्चघृतापेक्षया मिलित्वा त्रिगुणः। कल्कोऽप्येषामेव।पयश्च स्नेहसमम्। घृतमपेक्ष्य च सिताया अर्द्धं षोडशपलमित्यर्थः। मधुनोऽपिघृतमपेक्ष्यैव पादिकत्वं ज्ञेयम्॥७०॥

जीर्णेऽमृतोपमं क्षीरमतीसारे विशेषतः।
छागं तद्भेषजैः सिद्धं देयं वा वारिसाधितम्॥७१॥

क्षीरपानविषयमाह जीर्ण इत्यादि—

तद्भेषजैरिति अतिसारहन्तृभेषजैः।देयं वा वारिसाधितमिति केवलेन त्रिगुणेन जलन साधितमित्यर्थः। उक्तं हि सुश्रुते"यथामृतं तथा क्षीरमतीसारेषु पूजितम्। चिरोत्थितेषु तत् पेयमपां भागैस्त्रिभिःशृतम्”॥७१॥

बालं बिल्वं गुडं तैलं पिप्पली विश्वभेषजम्।
लिह्याद्वाते प्रतिहते सशूले सप्रवाहिके॥७२॥

बालविल्वमित्यादि—चरकस्य। वाते प्रतिहत इति विबद्धवाते॥७२॥

पयसा पिप्पलीकल्कः पीतो वा मरिचोद्भवः।
त्र्यहात् प्रवाहिकां हन्ति चिरकालानुबन्धिनीम्॥७३॥

पयसेत्यादि—दुग्ध पल १, पिप्पली माष ४, अथवा मरिचचूर्ण माष २, एवंव्यवहरन्ति। सविबन्धायां प्रवाहिकायामयं योगः॥७३॥

कल्कः स्याद्बालबिल्वानां तिलकल्कश्च तत्समः।
दध्नःसराम्लः स्नेहाढ्यः खडो हन्यात् प्रवाहिकाम्॥७४॥

कल्कः स्यादित्यादि—चरकस्य। अत्र स्नेहाढ्यता तिलदधिसरयोगात्। खडइत्यस्यैव योगस्य संज्ञा।चरके खडस्थाने सद्य इति पाठान्तरम्॥७४॥

बिल्वोषणं गुडं लोधं तैलं लिह्यात् प्रवाहणे॥७५॥

बिल्वोषणेत्यादौ बिल्वं बिल्वशलाटुः, उषणं मरिचम्।यदुक्तं “बिल्वपेशीगुडं लोध्रंतैलं मरिचं मरिचयोजितम्” इति। तैलन लेहः॥७५॥

दध्ना ससारेण समाक्षिकेण भुञ्जीत निश्चारकपपीडितस्तु।
सुतप्तकुप्यक्वथितेन वापि क्षीरेण शीतेन मधुप्लुतेन॥७६॥

दध्नेत्यादि—सुश्रुतस्य।ससारेण अनुद्धृतनवनीतेन। निश्चारकः प्रवाहिकायदाह पराशरः “निर्वाहयेत् सफेनञ्चपुरीषं यो मुहुर्मुहुः। प्रवाहिकेति साख्याता कैश्चिन्निश्चारकश्च सः” इति। सुतप्तकुप्यक्वथितेनेति अत्यन्ततप्तसुवर्णरजतेतरलोहप्रक्षेपात् क्वथितेन। अन्ये तु अघटितं रूप्यादि कुप्यमाचक्षते। केचित्तुकुप्यस्थाने कूपे पठन्ति, व्याचक्षते च।कूर्पःपाषाणभेदो दक्षिणापथे ख्यातःशङ्खनाभ्याकृतिरिति॥७६॥

दीप्ताग्निर्निष्पुरीषो यः सार्य्यतेफेनिलं शकृत्।
स पिबेत् फाणितं शुण्ठीदधितैलपयोघृतम्॥७७॥

शोथं शूलं ज्वरं तृष्णां कासं श्वासमरोचकम्।
छर्दिं मूर्च्छाञ्च हिक्काञ्च दृष्ट्वातीसारिणं त्यजेत्।
बहुमेही नरो यस्तु भिन्नविट्को न जीवति॥७८॥

स्नानाभ्यङ्गावगाहांश्च गुरुस्निग्धातिभोजनम्।
व्यायाममग्निसन्तापमतीसारी विवर्जयेत्॥७९॥

दीप्ताभिरिति—

सुश्रुतस्य।एतत्सर्वमालोच्य पेयम्॥७७–७९॥

इति अतीसारचिकित्साविवृतिः।

अथ ग्रहणीचिकित्सा।

ग्रहणीमाश्रितं दोषमजीर्णवदुपाचरेत्।
अतीसारोक्तविधिना तस्यामञ्च विपाचयेत्॥१॥

ग्रहण्यतीसारयोः परस्परं कार्यकारणभावसम्बन्धोऽस्तीत्यनन्तरं ग्रहणीचिकित्सितमुच्यते ग्रहणीमाश्रितमित्यादि—

वाग्भटस्य।ग्रहणी अग्न्याधाननाडी, तदुक्तम्"अग्न्यधिष्ठानमन्नस्य ग्रहणाद् ब्रहणी मता” इति। अजीर्णवदुपाचरेदिति, आमाद्यजीर्णेषु यथा वमनाद्युपचारो दीपनपाचनञ्चौषधम् तथेत्यर्थः। अतीसारोक्तविधिनेति लङ्घनलघ्वन्नपाचनादिना॥१॥

शरीरानुगते सामे रसे लंघनपाचनम्।
विशुद्धामाशयायास्मै पञ्चकोलादिभिर्युतम्।
दद्यात् पेयादि लघ्वन्नं पुनर्योगांश्च दीपकान्॥२॥

शरीरानुगत इत्यादि—

चरकस्य। शरीरानुगते शरीरव्यापके।सामे रस इतिआमशब्दोऽत्र भाव-प्रधानः, तेन आमतासहितेऽपक्व इत्यर्थः। रस इत्याहाररसे।विशुद्धामाशयायीति—

वमनविरेचन-लङ्घनैर्यथायोग्यतया निर्हृतामदोषाय॥२॥

कपित्थबिल्वचाङ्गेरीतकदाडिमसाधिता।
पाचनी ग्राहिणी पेया सघाते पाञ्चमूलिकी॥३॥

कपित्थेत्यादि—

चरकस्य। कपित्थबिल्वयोः फलम्; दाडिमफलस्य तु त्वक्,अन्य तु फलमेवेत्याहुः।कपित्थादीनां चतुर्णां मृदुद्रवत्वेनमिलित्वा पलं कल्कः,तक्रञ्च द्रवस्थाने, तव तावज्ज्ञेयम् यावता यवागूः सिध्यति। वृद्धवैद्यास्तु अत्यम्लगुरुत्वभिया तक्रजलाभ्यां तुल्याभ्यां पाकमिच्छन्ति। ग्राहिणीत्यन्ता एका यवागूः,एषा च वातकफे।सवाते पाञ्चमूलिकेति द्वितीया, वातातिसारे स्वल्पपंचमूल-सिद्धायवागूर्हितेतिशेषः, “ध्रुवाद्यैर्वाय्वतीसार” इति जतुकर्णसंवादात्॥३॥

ग्रहणीदोषिणां तक्रंदीपनं ग्राहि लाघवात्।
पथ्यं मधुरपाकित्वान्न च पित्तप्रकोपणम्॥
कषायोष्णविकाशित्वाद्रौक्ष्याच्चैव कफे हितम्।
वाते स्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत्॥४॥

तक्रस्य ग्रहणीदोषसात्म्यतां दोषत्रयहितत्वञ्च सहेतुकमाह ग्रहणीदोषिणामित्यादि—दीपनं ग्राहि लाघवादिति पथ्यत्वे हेतुः।मधुरपाकित्वान्न च पित्तप्रकोपणमिति अम्लत्वात् पित्तप्रकोपणे प्राप्ते मधुरपाकितया पित्तंन प्रकोपयति,चकारान्नापि पित्तं शमयतीति आकूतम्, किं वा “सर्वमेवान्नंप्रायो ह्यस्य विदह्यते”इति उक्तेर्विदाहजनकं यदस्ति, तदपि तक्रप्रयोगे विदाहकृन्न भवति, मधुरपाकित्वात्तक्रस्य। न तु जाताम्लत्वेन पित्तप्रकोपनिषेधार्थमयं ग्रन्थः, सद्यस्कोपयोगेन पित्तकारिणोऽम्लरसस्याभावात्। अम्लञ्चन प्रयोज्यंविदाहित्वादेव, अतएवाहसद्यस्कमविदाहीति सद्योमथितमेव तक्रं पच्यमानावस्थायां विदाहकृन्नभवति।किञ्चित्कालस्थितं पुनरम्लत्वाद् विदाहि भवत्येव। यत्तु स्याद्वम्लसान्द्रत्वादित्यनेनअम्लरसत्वमुक्तंतदम्लानुरसतया ज्ञेयमित्याहुः। विकाशित्वादिति दोषावृत्त-स्रोतोविशोधकत्वादित्यर्थः। रौक्ष्यादित्यत्र वैशद्यादित्यपि पाठान्तरम्, पैच्छिल्यरहितत्वादित्यर्थः। एतच्चबलिनो जीर्णावस्थायां ग्रहण्यां देयमित्याहुः॥४॥

शुण्ठीं समुस्तातिविषां गुडूचीं पिबेज्जलेन क्वथितां समांशाम्।
मन्दानलत्वे सततामतायामामानुबन्धे ग्रहणीगदे च॥५॥

शुण्ठीमित्यादि—सततामतायामिति सर्वदा आमकोष्ठतायाम्। आमानुबन्धइति मे प्रवर्त्तमान इत्याहुः। ग्रहणीगदविशेषणतया पुनरामानुबन्ध इति क्वचित्पाठो दृश्यते॥५॥

धान्यकातिविषोदीच्ययमानीमुस्तनागरम्।
बला द्विपर्णीं बिल्वञ्च दद्याद्दीपनपाचनम्॥६॥

धान्यकेत्यादियोगः क्वाथेन॥६॥

चित्रगुडिका—चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च।
व्योषं हिंग्वजमोदाञ्च चव्यञ्चैकत्र चूर्णयेत्॥
गुडिका मातुलुङ्गस्य दाडिमाम्लरसेन वा।
कृता विपाचयत्यामं दीपयत्याशु चानलम्॥
सौवर्चलं सैन्धवञ्च विडमौद्धिदमेव च।
सामुद्रेण समं पञ्च लवणान्यत्र योजयेत्॥७॥

चित्रकमित्यादि—चरकस्य। अत्र कपिञ्जलाधिकरणकन्यायात् केचिल्लवणमिच्छन्ति, तन्न, “पटूनि पञ्चद्वौक्षारौ मरिचं पञ्चकोलकम्। दीप्यकं हिंगुगुडिका बीजपूररसे कृता। कोलदाडिमताये वा परं पाचनदीपनी” इति वाग्भटवचनात्।अतएव चक्रेऽप्याहसौवर्चलमित्यादि—औद्भिदं शाम्बरि-लवणम्,उत्कारिकेत्यन्ये।सामुद्रकं करकचम्।गुडिकेयमार्द्रकरसेनापि बोध्या आयुर्वेदसारदर्शनात्॥७॥

श्रीफलादिः।

श्रीफलशलाटुकल्को नागरचूर्णेन मिश्रितः सगुडः।
ग्रहणीगदमत्युग्रं तक्रभुजा शीलितो जयति॥८॥

श्रीफलेत्यादि—नागरचूर्णं कटुत्वमात्रकृत्। सगुड इति समगुडः।अयं योगो वाते इत्याहुः॥८॥

पञ्चपल्लवम्—

जम्बूदाडिमशृङ्गाटपाठाकञ्चटपल्लवैः।
पक्वं पर्युषितं बालबिल्वं सगुडनागरम्।
हन्ति सर्वानतीसारान् ग्रहणीमतिदुस्तराम्॥९॥

जम्बूदाडिमेत्यादि—

एषां पल्लवैरास्तरणं कृत्वा अनुरूपञ्चजलं दत्त्वा बालबिल्वमुतस्वेद्य पर्य्युषितं कार्य्यम्।सगुडनागरमिति बिल्वसमो गुडः, नागरचूर्णन्तुकटुत्वमात्रकम्।रक्ते तु नागरं न देयम्।उत्स्वेदनशेषजलमनुपेयमित्याहुर्वृद्धाः॥९॥

नागरातिविषामुस्तक्वाथः स्यादामपाचनः।
चूर्णेहिङ्ग्वष्टकं वातग्रहण्यान्तु घृतानि च॥१०॥

नागरेत्यादि स्पष्टम्।हिङ्ग्वष्टकमग्निमान्द्यं वक्ष्यमाणम्॥१०॥

नागराद्यंचूर्णम्।

नागरातिविषामुस्तं धातकीं सरसाञ्जनाम्।
चत्सकत्वक्फलं बिल्वं पाठां कटुकरोहिणीम्।
पिवेत् समांश तच्चूर्ण सक्षौद तरादुलाम्बुना।
पैत्तिके ग्रहणी दोषे रक्तं यश्चोपवेश्यते॥
अस्यथ गुदे शूलं जयेश्चैव प्रवाहिकाम्।
नागराद्यमिदं चूर्ण कृष्णात्रेयेण पूजितम्॥
शीतकपायमानेन तरादुलोदक कल्पना।
के उप्पष्टगुणतोयेन प्राहुस्तराहुलभावनाम्॥११॥

नागरायचूर्णे रुक्षौद्रमिति मधुप्रक्षेपयुक्तम्। कृष्ण त्रयः पुनर्वसुः। तण्डुलाम्बुनेत्यादि। तण्डुलाम्बुना तण्डुल-धावनाम्बुना तच्चतण्डुलाम्बुकथंकर्त्तव्यमिति जिज्ञासायां स्वमतं वृन्दमतञ्चोपन्यस्यति शीतकषायमानेनेत्यादि—

शीतकषायविधानञ्च “क्षुण्णमुष्णाम्भसिव्युष्टं शीतमाहुश्चिकित्सकाः” इति।तण्डुलमपेक्ष्य षड्गुणं प्रायम्। उक्तं हि “षड्भिः पलैश्चतुर्भिर्वा सलिलाच्छीतफाण्टयोः” इति। वृन्दमतमाह केऽपीत्यादि। अन्ये तु द्विगुणमम्बु तण्डुलेन समं चिरं स्थितं तण्डुलाम्बुवदन्ति। अपरे तु अनियततण्डुलमनियतजलेन प्रक्षाल्यजलं गृह्णन्ति॥११॥

भूनिम्बाद्यं चूर्णम्।

भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान् समान्।
द्वौ चित्रकाद् वत्सकत्वग्भागान् षोडश चूर्णयेत्॥
गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत्।
कामलाज्वरपाण्डुत्वमेहारुच्यतिसारनुत्।
गुडयोगाद् गुडाम्बुस्याद् गुडवर्णरसान्वितम्॥१२॥

भूनिम्बेत्यादि—

द्वौ चित्रकात् तथा वत्सकत्वग्भागान् षोडशेति प्रथमभागापेक्षया द्विभागषोडशभाग-परिग्रहः। गुडयुक्तं शीताम्बुगुडशीताम्बुगुढञ्चात्रगुडवर्णतामाधुर्य्यापत्तिजनको देय इत्याह गुढयोगादित्यादि। वैद्यप्रसारके तु सर्वचूर्णसमो, गुडः, शीतलजलेन च पानमित्युक्तम्। व्यवहारस्तु पूर्वेणैव। पैत्तिकग्रहण्यामम्लपित्तचिकित्सितमपि बोध्यम्। तदुक्तं वैद्यप्रदीपे” अम्लपित्तहितं यच्च पानंभोजनभेषजम्। पैत्तिके ग्रहणीदोषे तत्सर्वमुपकल्पयेत्” इति॥१२॥

ग्रहण्यांश्लेष्मदुष्टायां वमितस्य यथाविधि।
कट्वम्ललवणक्षारैस्तीक्ष्णैश्चाग्निंविवर्द्धयेत्॥१३॥

ग्रहण्यामित्यादि स्पष्टम्॥१३॥

समूलां पिप्पलीं क्षारौ द्वौ पञ्चलवणानि च।
मातुलुङ्गाभयारास्नाशटीमरिचनागरम्।
कृत्वा समांशं तच्चूर्णं पिबेत् प्रातः सुखाम्बुना॥
श्लैष्मिके ग्रहणीदोषे बलवर्णाग्निवर्द्धनम्।
एतैरेवौषधैः सिद्धं सर्पिः पेयं समारुते॥१४॥

समूलामित्यादि—मातुलुङ्गस्यात्र मूलम्। एतैरिति पिप्पलीमूलादिभिःकल्करूपैः॥१४॥

भल्लातकक्षारः।

भल्लातकं त्रिकटुकं त्रिफला लवणत्रयम्।
अन्तर्धूमं द्विपलिकं गोपुरीषाग्निना दहेत्॥
स क्षारः सर्पिषा पेयो भोज्ये वाप्यवचारितः।
हृत्पाण्डुग्रहणीदोषगुल्मोदावर्त्तशूलनुत्॥१५॥

भल्लातकमित्यादि—चरकस्य। गोपुरीषाग्निनेति अचिन्त्यप्रभावात् संयोगसंस्कारजशक्तीनामिति। स क्षार इति भल्लातकादीनामन्तर्धूमदाहात् यः क्षारः स एवसर्पिषा पीत इत्यर्थः। भोज्ये व्यञ्जने वा स क्षारो देयः॥१५॥

सर्वजायां ग्रहण्यान्तु सामान्यो विधिरिष्यते॥१६॥

सर्वजायामित्यादि—सामान्यो विधिरिति प्रत्येकदोषोक्तचिकित्सामेलकेन त्रिदोषग्रहणीचिकित्सा कार्य्येत्यर्थः॥१६॥

चूर्णं मरिचमहौषधकुटजत्वग्भवं क्रमाद् द्विगुणम्।
गुडमिश्रमथितपीतं ग्रहणीदोषापहं ख्यातम्॥१७॥

चूर्णमित्यादि—गुडमिश्रतकेणालोड्यपतिमित्यर्थः॥१७॥

पाठाद्यं चूर्णम्।

पाठाबिल्वानलव्योषजम्बूदाडिमधातकी
कटुकातिविषामुस्तदार्वीभूनिम्बवत्सकैः॥
सर्वैरेतैःसमं चूर्णं कौटजं तण्डुलाम्बुना।
सक्षौद्रञ्चपिबेच्छर्दिज्वरातिसारशूलवान्।
तृड्दाहग्रहणीदोषारोचकानलसादजित्॥१८॥

पाठादिचूर्णे जम्बूफलास्थि; एतत्साहचर्य्यात् दाडिमफलस्यापि बीजम्।वत्सकइन्द्रयवः॥१८॥

कपित्थाष्टकचूर्णम्।

यमानीपिप्पलीमूलचातुर्जातकनागरैः।
मरिचाग्निजलाजाजीधान्यसौवर्चलैः समः॥

वृक्षाम्लधातकीकृष्णाबिल्वदाडिमतिन्दुकैः।
त्रिगुणैः षड्गुणसितैः कपित्याष्टगुणैः कृतः॥

चूर्णोऽतीसारग्रहणीक्षयगुल्मगलामयान्।
कासं श्वासारुचिंहिक्कां कपित्थाष्टमिदं जयेत्॥१६॥

यमानीत्यादि—

अयं योगो वाग्भटे अतीसारचिकित्सिते लिखितः। अग्निश्चित्रकः, जलं बालकम्।समैरिति समभागैः।वृक्षाम्लं महार्द्रकम्।त्रिगुणैरिति एकभागापेक्षया वृक्षाम्लादीनां षण्णांप्रत्येकं त्रिगुणत्वम्। षड्गुणसितैः कपित्थाष्टगुणैः कृत इति सिताकपित्थयोरपि षड्गुणाष्टकगुणत्वे एकगुणापेक्षयैव, एतैःकृतचूर्ण इति योज्यः।अरुणस्तु वाग्भटटीकायां षड्गुणसितैरिति पदं वृक्षाम्लादि-तिन्दुकान्तानां विशेषणं व्याख्याय मिलितवृक्षाम्लादिद्रव्यषट्कापेक्षया सितायाःषड्गुणत्वमाह तथा सति सिताभागानां शतमष्टाधिकं भवति। अन्ये तुषड्गुणसिते कपित्थाष्टगुणे इति पठन्ति, व्याख्यानयन्ति च—

एकभागापेक्षयाकपित्थस्याष्टगुणत्वम्, अष्टगुणकपित्थापेक्षया च सितायाः षड्गुणत्वमिति तथासति सिताया अष्टचत्वारिंशद्भागा भवन्तीति। अपरे तु षड्गुणसितः कपित्थाष्ट-गुणीकृत इति चूर्णविशेषणं कृत्वा समुदितचूर्णापेक्षया सिताकपित्थयोः षड्गुणाष्टगुणत्वमित्याहुः। एतन्मतत्रयमपि न व्यवहारसिद्धम्, शर्कराकपित्थयोरतिबहुत्वादिति। तस्मादेकभागापेक्षयैव षड्गुणाष्टगुणत्वमिति। कपित्थभागाधिक्यादस्यकपित्थाष्टक इति संज्ञा॥१६॥

दाडिमाष्टकः।

कर्षोन्मिता तुगाक्षीरी चातुर्जातं द्विकार्षिकम्।
यमानीधान्यकाजाजीग्रन्थिव्योषंपलांशिकम्॥

पलानि दाडिमादष्टौ सितायाश्चैकतः कृतः।
गुणैः कपित्थाष्टकवच्चूर्णोऽयं दाडिमाष्टकः॥२०॥

कर्षोन्मितेति—

वाग्भटस्य। तुगाक्षीरी वंशलोचना, चातुर्जातं त्वगेलापत्रकेशरम्।द्विकार्षिकमिति प्रत्येकं, निर्देशस्य द्रव्यप्रधानत्वात्। एवं यमान्या दिकमपिप्रत्येकं पलांशिकम्। ग्रन्थिकं पिप्पलीमूलम् दाडिमस्यात्र फलं “फलन्तु दाडिमादीनाम्” इत्युक्तेः। एवमन्यत्रापि।चकारात् सिताया अपि अष्टौपलानि॥२०॥

वार्त्ताकुगुडिका।

चतुष्पलं सुधाकाण्डात् त्रिपलं लवणत्रयात्।

वार्त्ताकुकुडवश्वार्कादष्टौ द्वे चित्रकात् पले।
दग्ध्वा रसेन वार्त्ताकोर्गुडिका भोजनोत्तराः।
भुक्ता भुक्तं पचन्त्याशु कासश्वासार्शसां हिताः।
विसूचिकाप्रतिश्यायहृद्रोघ्नाश्च ता हिताः॥२१॥

चतुष्पलमित्यादि—

वाग्भटस्य।त्रिपलं लवणत्रयादिति मिलित्वा, निर्देशस्यमानप्रधानत्वात्। त्रिफला लवणानि चेति ये पठन्ति, ते त्रिफलालवणैर्मिलित्वाचतुष्पलं वदन्ति पूर्वोक्तचतुष्पलमित्यस्यापि सम्बन्धात्। लवणान्यविशेषात् पञ्चैवेत्याहुः। वार्त्ताकुकुडव इति शुष्कवार्त्ताकुपलचतुष्टयं, व्यवहारात्। अर्कादितिअर्कमूलात्। दग्ध्वा रसेन वार्त्ताकोरिति अन्तर्धूमं दग्ध्वा क्षारीकृत्य वार्ताकुरसेनगुडिकाः कार्य्या इत्यर्थः। दग्धानि वार्त्ताकुरस इति च पाठः। भोजनोत्तरा इतिभोजनमुत्तरं पश्चात्कालीनं यासां तथा। किंवा भोजनादुत्तः। भुक्ता भुक्तं पचन्तीत्यत्र भुक्तं भुक्तमित्यपि पाठः॥२१॥

अष्टपलं घृतम्।

त्र्यूषणत्रिफलाकल्के बिल्वमात्रे गुडात् पले।
सर्पिषोऽष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत्॥२२॥

त्र्यूषणत्यादौ—

बिल्बमात्र इति षड्भिर्मिलित्वा पलमात्रे, कल्कस्य पादिकत्वात्। चतुर्गुणजलेनाष्ट-पलघृतस्यात्र पाकः। इत्थमेव फलदानक्षमत्वमस्य भवतीतिमहर्षिवचनादुन्नीयते। मात्रामिति अग्निबलानुरूपपरिमाणम्॥२२॥

बिल्वगर्भघृतम्—

मसूरस्य कषायेण बिल्वगर्भं पचेद्धृतम्।
हन्ति कुक्ष्यामयान् सर्वान् ग्रहणीपाण्डुकामलाः।
केवलं व्रीहिप्राण्यङ्गक्वाथो व्युष्टस्तु दोषलः॥२३॥

मसूरस्येत्यादि—

मसूरस्य क्वाथोऽत्यन्तशिथिलपोट्टलकं बद्ध्वाकार्य्यः। एवंमाषकुलत्थादीनामपि। बिल्वगर्भमिति बिल्वशलाटुकल्कम्। घृतमत्र प्रस्थमानमेव।व्रीहिमांसक्वाथस्य तदहःकार्यतामाह केवलेत्यादि—

जन्त्वङ्गं छागादिमांसम्।केवलमिति पाठे केवलं समग्रं यथा स्यात् तथा व्युष्टो रात्रिव्युषितो दोषलः, यावताकालेन व्यम्लीभवति स एव दोषल इत्यर्थः।केवलव्रीहिजन्त्वङ्गपाठे तु द्रव्यान्तरसंयुक्तव्रीह्यादिक्वाथस्य न दोषलत्वमित्याहुः। तत्तु न व्यवहारसिद्धम्, अतएव वृन्दे"ब्रीहि-प्राण्यङ्गयोः क्वाथं व्युषितं दोषलं मतम्” इत्येवोक्तम्। व्युष्टेति पदसिद्धिस्तुव्युष्टादिभ्योऽन् इति सूत्र निर्देशात्॥२३॥

शुण्ठीघृतम्—

विश्वौषधस्य गर्भेण दशमूलजले शृतम्।
घृतं निहन्याच्छ्वयथुं ग्रहणीसामतामयम्॥२४॥

विश्वौषधस्येत्यादि—

ग्रहणीसामतामयमिति ग्रहणीनाड्याश्रितो यः सामतारूपआमयो रोगस्तमित्यर्थः॥२४॥

नागरघृतम्—

घृतं नागरकल्केन सिद्धं वातानुलोमनम्।
ग्रहणीपाण्डुरोगघ्नं प्लीहकासज्वरापहम्॥२५॥

घृतमित्यादौ जलं चतुर्गुणम्॥२५॥

चित्रकघृतम्—

चित्रकक्वाथल्काभ्यां ग्रहणघ्नं शृतं हविः।
गुल्मशोथोदरप्लीहशूलार्शोघ्नं प्रदीपनम्॥२६॥

चित्रकघृतं स्पष्टम्॥२६॥

बिल्वादिघृतम्।

बिल्वाग्निचव्यार्द्रकशृङ्गवेरक्वाथेन कल्केन च सिद्धमाज्यम्।
सच्छागदुग्धं ग्रहणीगदोत्थशोथाग्निमान्द्यारुचिनुद्वरिष्ठम्॥२७॥

बिल्वाग्नीत्यादौ—

आर्द्रकेति शृङ्गवेरविशेषणं, तेन शुष्कस्य शुण्ठीरूपस्य निरासः। बिल्वादीनां क्वाथस्त्रिगुणः, चतुर्गुण इत्येके छागतीरं स्नेहसमम्॥२७॥

चाङ्गेरीघृतम्—

नागरं पिप्पलीमूलं चित्रको हस्तिपिप्पली।
श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यमानिका।
चाङ्गेरीस्वरसे सर्पिः कल्कैरेतैर्विपाचितम्।
चतुर्गुणेन दध्ना च तद् घृतं कफवातनुत्॥
अर्शांसि ग्रहणीदोषं मूत्रकृच्छ्रंप्रवाहिकाम्।
गुदभ्रंशार्त्तिमानाहं घृतमेतद्व्यपोहति॥२८॥

नागरमित्यादि—

अत्र हस्तिपिप्पली चर्वी, जतूकर्णसंवादात्। तद्यथा “दधिधान्यबिल्व-पाठायमानिकापञ्चकोलगोक्षुरकैः। चाङ्गेरीस्वरसे सर्पिर्गुदनिःसृतिमूत्रार्त्तिनुद् ग्राहि” इति। द्रव्यावल्याञ्चहस्तिपिप्पली चवीपर्य्यायत्वेन दृश्यते"चविकाकोलवल्ली च हस्तिपिप्पल्यपीष्यते” इति। बिल्वस्थाने विषापाठोऽपिजतूकर्णसंवादादेव न भवति। चाङ्गेरीस्वरसोऽप्यत्र चतुर्गुणः। चतुर्गुणेन दध्नाचेत्यत्र चकारस्य समुच्चयार्थत्वात्, आयुर्वेदसारेऽपि “चतुर्गुणेन दध्ना च चाङ्गेरीस्वरसेन च” इत्युक्तम्। अन्ये तु “स्वरसे क्षीरवद्विधिः” इति वचनात् चाङ्गेरीस्वरसश्चस्नेहसम इत्याहुः, व्यवहारस्तु पूर्वव्याख्ययैव॥२८॥

मरिचाद्यं घृतम्।

मरिचं पिप्पलीमूलं नागरं पिप्पली तथा।
भल्लातकं यमानी चविडङ्गं हस्तिपिप्पली॥

हिङ्गु सौवर्चलञ्चैव विडसैन्धवचव्यथ।
सामुद्रं सयवक्षारं चित्रको वचया सह॥

एतैरर्द्धपलैर्भागैर्घृतप्रस्थं विपाचयेत्।
दशमूलीरसे सिद्धं पयसा द्विगुणेन च॥

मन्दाग्नीनां हितं सिद्धं ग्रहणीदोषनाशनम्।

विष्टम्भमामं दौर्बल्यं प्लीहानमपकर्षति॥

कासं श्वास क्षयञ्चैव दुर्नामं सभगन्दरम्।
कफजान् हन्ति रोगांश्च वातजान्क्रिमिसम्भवान्।
तान् सर्वान् नाशयत्याशु शुष्कं दार्वनलो यथा॥२९॥

मरिचाद्यघृते विडङ्गसैन्धवचवीति समाहारद्वन्द्वः। किंवा विडङ्गसैन्धवयुक्ताचवीति मध्यपदलोपी समासः। द्विगुणेन चेति चकाराद्दशमूलीक्वाथोऽपि द्विगुणः।अन्ये तु दशमूलीरसचतुर्गुण इत्याहुः, व्यवहारस्तु पूर्वेणैव॥२६॥

महाषट्पलकं घृतम्।

सौवर्चलं पञ्चकोलं सैन्धवं हवुषां वचाम्।
अजमोदां यवक्षारं हि जीरकमौद्भिदम्॥

कृष्णाजाजीसभूतकं कल्कीकृत्य पलार्द्धकम्।
कस्य रसं चुक्रंक्षीरं मस्त्वम्लकाञ्जिकम्॥

दशमूलकषायेण घृतप्रस्थं विपाचयेत्।
भक्तेन सह दातव्यं निर्भक्तं वा विचक्षणैः॥

क्रिमिप्लीहोदराजीर्णज्वरकुष्ठप्रवाहिकाम्।
वातरोगान् कफव्याधीन् हन्याच्छूलमरोचकम्॥

पाण्डुरोगं क्षयं कासं दौर्बल्यं ग्रहणीगदम्।
महाषट्पलकं नाम वृक्षमिन्द्राशनिर्यथा॥३०॥

सौवर्चलेल्यादौ—

पञ्चकोलं मिलितार्द्धपलं, कल्कस्य षट्पलरूपत्वात्। हचुषास्वनामख्याता; कृष्णाजाजी कृष्णजीरकम् भूतकं यमानी। सौवर्चलादीनां प्रत्येकमर्द्धपलम्। अत्र वचेति न पाठ; किन्तर्हि विडमित्येव, चन्द्राटादौ दृष्टत्वात्। आर्द्रकस्वरसादीनां वराणां द्रवाणां प्रत्येकं, स्नेहसमत्वं " पञ्चप्रभृति यत्र स्युःइत्युक्तेः॥३०॥

स्वल्पचुक्रम्—

यन्मस्त्वादि शुचौ भाण्डे सगुडक्षौद्रकाञ्जिकम्।
धान्यराशौ त्रिरात्रस्थं शुक्लं चुक्रंतदुच्यते।
द्विगुणं गुडमध्वारनालमस्तु क्रमादिह॥३१॥

स्वल्पचुक्रमाह यदित्यादि—

मस्त्वादीत्यस्य विशेषणं सगुडेत्यादि। आदिशब्दाद्दधि तक्रञ्च, मस्तुस्थाने यत्, तदपि मस्तुसमं ग्राह्यमिति। अन्ये तु आदिभूतंमस्तु प्रथमोत्थितं मस्त्वित्याहुः।त्रिरात्रस्थमिति ग्रीष्माभिप्रायेण, वर्षादिषु पुनर्वक्ष्यमाणबृहच्चुक्रवदवस्थापनकालव्यवस्था।अम्लत्वं यावद्वा भवतीति॥३१॥

बृहचुक्रम्—

प्रस्थं तण्डुलतोयतस्तुषजलात् प्रस्थत्रयञ्चाम्लतः
प्रस्थार्द्धंदधितोऽम्लमूलकपलान्यष्टौ गुडान्मानिके।
मान्यौ शोधितशृङ्गवेरशकलाद्द्वे सिन्ध्वजाज्योः पले।

द्वे कृष्णोषणयोर्निशापलयुगं निक्षिप्य भाण्डे दृढे॥

स्निग्धे धान्ययवादिराशिनिहितं त्रीन् वासरान् स्थापयेद्
ग्रीष्मे तोयधरात्यये च चतुरो वर्षासु पुष्पागमे।
षट् शीतेऽष्टदिनान्यतः परमिदं विस्राव्य सञ्चूर्णयेत्
चातुर्जातपलेन संहितमिदं शुक्लञ्च चुक्रञ्च तत्॥

हन्याद्वातकफामदोपजनितान् नानाविधानामयान्
दुर्नामानिलगुल्मशूलजठरान् हत्वानल दीपयेत्॥३२॥

बृहच्चुकमाह प्रस्थमिलादि—

तुषजलादिति सतुषयवकृतसन्धानात्, तदभावेकाञ्जिकात्। अम्लत इतितुषजलस्य दध्नश्चविशेषणम्।अम्लमूलकं काञ्जिकाधःक्षिप्तमूलकमित्याहुर्वृद्धाः। मानिके इति मानिकाद्वयम्, मानिका पलान्यष्टौ, तेनषोडशपलमित्यर्थः। शोधितशृङ्गवेरशकलादिति निस्तुपार्द्र-कण्डात्। द्वे कृष्णोपणयोरिति ऊषणं मरिचम्।तोयधरात्यये चेति चकारादत्रापि त्रीन् वासरान्स्थापयेत्। शीत इत्यनेन हेमन्तशिशिरयोरेव ग्रहणम्। विस्राव्येति वस्त्रपूतं कृत्वाचातुर्जातपलेन मिलित्वा पलमात्रेण।सञ्चूर्णयेत् अवचूर्णनं कारयेदिति॥३२॥

तक्रारिष्टम्—

यमान्यामलकं पथ्या मरिचं त्रिपलांशकम्।
लवणानि पलांशानि पञ्च चैकत्र चूर्णयेत्॥

तक्रकंसासुतं जातं तक्रारिष्टं, पिबेन्नरः।
दीपनं शोथगुल्मशः क्रिमिमेहोदरापहम्॥३३॥

तक्रारिष्टे त्रिपलांशकं तथा पलांशानीत्यपि प्रत्येकं ज्ञेयम्। तक्रस्य कंसेआढके आसुतं कृत-सन्धानम्। जातमिति अम्लरसतया जातम्॥३३॥

आयामकाञ्जिकम्।

वाट्यस्य दद्याद्यवशक्तुकानां पृथक् पृथक् त्वाढकसम्मितञ्च।
मध्यप्रमाणानि च मूलकानि दद्याच्चतुःषष्टिसुकल्पितानि॥

द्रोणेऽम्भसः प्लाव्य घटे सुधौते दद्यादिदं भेषजजातयुक्तम्।
क्षारद्वयं तुम्बुरु वस्तगन्धा धनीयकं स्याद्विडसैन्धवञ्च।
सौवर्चलं हिङ्गु शिवाटिकाञ्च चव्यञ्च दद्याद् द्विपलप्रमाणम्।
इमानि चान्यानि पलोन्मितानि विजर्जरीकृत्य घटे क्षिपेच्च॥

कृष्णामजाजीमुषकुञ्चिकाञ्च तथासुरीं कारविचित्रकञ्च।
पक्षस्थितोऽयं बलवर्णदेह—

वयस्करोऽतीव बलप्रदश्च॥

कान् जीवयामीति यतः प्रवृत्तस्तत्काञ्जिकेति प्रवदन्ति तज्ज्ञाः।
आयामकालाजरयेच्च भक्तमायामकेति प्रवदन्ति चैनम्॥

दकोंदर गुल्ममथ प्लिहानं हृद्रोगमानाहमरोचकञ्च।
मन्दाग्नितां कोष्ठगतञ्च शूलमशविकारान सभगन्दरांश्च।

वातामयानाशु निहन्ति सर्वान् संसेव्यमानं विविधान्नराणाम् ३४

आयामकाञ्जिके वाट्यस्यति निस्तुषदरदलितयवमण्डस्य तथा यवशक्तुकानाञ्चपृथक् पृथगाढक-सम्मितमित्याढकप्रमाणम्। सम्मितमिति भावे क्तः। चतुःषष्टीत्याकृतिमानेन। सुकल्पितानीति खण्ड-खण्डीकृतानि। प्लाव्येत्याप्लाव्य।तुम्बुरुचणिग्द्रव्यम्, वस्तगन्धा फौकान्धी, शिवाटिका वंशपत्री (हिंगुपत्री), कृष्णापिप्पली, उपकुचिका स्थूलकृष्णजीरकः, आसुरी राजिका, कारवि सुगन्धि सूक्ष्म-कृष्णजीरकम्। आयामकालादिति यामः प्रहररूपः कालः तमवधीकृत्य॥३४॥

कल्याणगुडः।

प्रस्थत्रयेणामलकीरसस्य शुद्धस्य दत्त्वार्द्धतुलां गुडस्य।
चूर्णीकृतैर्ग्रन्थिकजीरचव्यव्योषेभकृष्णाहवुषाजमोदैः॥

विडङ्गसिन्धुत्रिफलायमानी पाठाग्निधान्यैश्च पलप्रमाणैः।
दत्त्वा त्रिवृच्चूर्णपलानि चाष्टावष्टौ च तैलस्य पचेद् यथावत्॥

तं भक्षयेदक्षफलप्रमाणं यथेष्टचेष्टं त्रिसुगन्धियुक्तम्।
अनेन सर्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोथाः॥

शाम्यन्ति चायं चिरमन्तराग्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः।
स्त्रीणाञ्च बन्ध्यामयनाशनोऽयं कल्याणको नाम गुडः प्रदिष्टः।
तैले मनाग् भर्जयन्ति त्रिवृदत्र चिकित्सकाः।
अत्रोक्तमानसाधर्म्यात् त्रिसुगन्धं पलं पृथक्॥३५॥

प्रस्थत्रयेणेत्यादि—अयं योगः सुश्रुते कासप्रतिषेधे पठितः। अत्र ग्रन्थिकंपिप्पलीमूलम्, अजमोदा यमानी, अन्तःपरिमार्जनत्वात्, अतो यमान्या भागद्वयम्।अग्निश्चित्रकः। पलप्रमाणैरिति प्रत्यकम्।त्रिवृच्चूर्णं तैले मनाग् भर्जनीयम्, भर्जनेन च तस्य मन्दवीर्य्यत्वादतिविरेचकत्वं न भवति। अक्षफल-प्रमाणंकर्षम्, व्यवहारस्तु चतुःपञ्चमाषकैरिति। त्रिसुगन्धत्वगेलापत्रकम्।त्रिवृच्चूर्णसहित एव तैले गुडमामलकीरसगोलितं प्रदाय पाकः, सिद्धे च लेहेग्रन्थिकादिचूर्णप्रक्षेप इति व्यवहारो वैद्यानाम्। अत्रोक्तमानसाधर्म्यादिति ग्रन्थिकादिचूर्णस्य प्रत्येकं पलमानमुक्तम् तत्साहचर्य्यादित्यर्थः॥३५॥

कूष्माण्डगुडकल्याणकम्

कूष्माण्डकानां रूढानां सुस्विन्नं निष्कुलत्वचाम्।
सर्पिःप्रस्थे पलशतं ताम्रभाण्डे शनैः पचेत्॥

पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली।
धान्यकानि विडङ्गानि यमानी मरिचानि च॥

त्रिफला चाजमोदा च कलिङ्गाजाजिसैन्धवम्।
एकैकस्य पलञ्चैव त्रिवृदष्टपलं भवेत्।

तैलस्य च पलान्यष्टौ गुडपञ्चाशदेव तु॥

प्रस्थैस्त्रिभिः समेतन्तु रसेनामलकस्य तु।
यदा दर्वीप्रलेपस्तु तदैनमवतारयेत्॥

यथाशक्ति गुडान् कुर्य्यात् कर्षकर्षार्द्धमानकान्।
अनेन विधिना चैव प्रयुक्तस्तु जयेदिमान्॥

प्रसह्य ग्रहणीरोगान् कुष्ठान्यर्शोभगन्दरान्।
ज्वरमानाहहृद्रोग-गुल्मोदरविसूचिकाः॥

कामलापाण्डुरोगांश्च प्रमेहांश्चैव विंशतिम्।
वातशोणितवीसर्पान् दद्रुचर्महलीमकान्।
कफपित्तानिलान् सर्वान् प्ररूढांश्च व्यपोहति॥

व्याधिक्षीणा वयःक्षीणाः स्त्रीषुक्षीणाश्च ये नराः।
तेषां वृष्यञ्च वल्यञ्च वयःस्थापनमेव च।
गुडकल्याणकं नाम बन्ध्यानां गर्भदं परम्॥३६॥

कूष्माण्डकानामित्यादि—

रूढानामिति सम्यकृपक्वानाम्; सम्यक्पाकश्चसंवत्सरातीतत्वेनैव भवतीति। तादृशस्य कूष्माण्डस्य खण्डखण्डीकृतस्य व्यक्तबीजमञ्जरीवल्कलस्य त्वचा कृतास्तरणस्य किञ्चित् पानीयं दत्त्वा उत्स्विन्नस्य निष्पीड्यगलितरसस्य पिष्टस्यातपे किञ्चिच्छुष्कस्य पलशतं ग्राह्यम् ततस्तस्य घृतशरावचतुष्टये तैलस्य चाष्टपले सन्तलनं कार्य्यम्। तत आमलकस्वरसस्य द्वादश-शरावेणपञ्चाशद्गुडपलान्यालोड्य, ततः पूत्वासन्तलित-कूष्माण्डादिकमेकीकृत्य पक्तव्यम्।ततो गुडपाकविधया अवतारिते पिप्पल्यादिचूर्णस्य प्रक्षेप इत्यर्थः। भक्षणमात्रा चप्रायः कर्षार्द्धेनेत्याहुः॥३६॥

रसपर्पटिका।

याम्लपित्ते विधातव्या गुडिका च क्षुधावती।
तत्र प्रोक्तविधा शुद्धौ समानौ रसगन्धकौ॥

सम्मर्द्य कज्जलाभन्तु कुर्य्यात् पात्रे दृढाश्रये।
ततो बादरवह्निस्थलोहपात्रे द्रवीकृतम्॥

गोमयोपरिविन्यस्तकदलीपत्रपातनात्।
कुर्य्यात् पर्पटिकाकारमस्य रक्तिद्वयं क्रमात्॥

द्वादशरक्तिकां यावत् प्रयोगः प्रहरार्द्धतः।
तदूर्द्ध्वंबहुपूगस्य भक्षणं दिवसे पुनः॥

तृतीय एव मांसाज्यदुग्धाद्यत्र विधीयते॥

वर्ज्यं विदाहिस्त्रीरम्भामूलं तैलञ्च सार्षपम्।
क्षुद्रमत्स्याम्बुजखगांस्त्यक्त्वोन्निद्रः पयः पिबेत्॥

ग्रहणीक्षयकुष्ठार्शःशोषाजीर्णविनाशिनी।
रसपर्पटिका ख्याता निबद्धा चक्रपाणिना॥३७॥

सिद्धफलां रसपर्पटीमाह याम्लेत्यादि—तत्रेति तत्र क्षुधावत्यां या विधा योरसगन्धकशुद्धिप्रकारो वक्तव्यः, तेन शुद्धावित्यर्थः। तत्र सगन्धकं रसं दृढाश्रयेखल्वशिलायां सम्मर्द्यकज्जलाभं चूर्णं कुर्यात्। बादरवह्निस्थेति बदरदारुसन्धुक्षिताग्निस्थ इत्यर्थः। शुद्धपारदकर्ष १, शुद्धगन्धककर्ष १ एतद्द्वयं खल्वे तावद्धर्षणीयं लोहदण्डेन पाषाणदण्डेन वा, यावत् कज्जलाभं भवति। ततो लोहदर्विकायामेतच्चूर्णं दत्वा बदरांगारोपरि विन्यस्य लोहदण्डेन सञ्चाल्य यदा द्रवीभूतंभवति, तदा आर्द्रगोमयपिण्डोपरिस्थापित-कोमलकदलीपत्रे ढालनीयम्, अपरकदलीपत्रान्तरेण सम्पीड्य पर्पटिकाकृतिः कार्य्या। रक्तिद्वयं क्रमादिति प्रथमंगुञ्जायुगलं, प्रतिदिनमेकैकवृद्धितो भक्ष्यमिति क्रमादित्यर्थः। पर्णे कृत्वा सम्भक्ष्यहिंगुगुञ्जामेकां जीरकगुञ्जाद्वयञ्च भक्षणीयम्। ततः क्षणं स्थित्वा दन्तादिलग्नंप्रक्षाल्य जलचुलुकं पातव्यमित्युपदेशः। प्रहरार्द्धत इति प्रहरार्द्धाभ्यन्तरे। तदूर्द्ध्वमितिप्रहरार्द्धादूर्द्ध्वम्,तृतीये दिवसे इति सम्बन्धः॥३७॥

ताम्रयोगः।

स्थाल्यां सम्मर्द्य दातव्यौ माषिकौ रसगन्धकौ।
नखक्षुण्णंतदुपरि तण्डुलीयं द्विमाषिकम्॥

ततो नैपालताम्रादि विधाय सुकरालितम्॥
पांशुना पूरयेद्दूर्ध्वं सर्वांस्थालीं ततोऽनलः॥

स्थाल्यधो नालिकां यावद्देयस्तेन मृतस्य च।
ताम्री ताम्रस्य रक्त्येका त्रिफलाचूर्णरक्तिका।
त्र्यूषणस्य च रक्त्येका विडङ्गस्य च तन्मधु।
घृतेनालोड्य लेढव्यं प्रथमे दिवसे ततः॥

रक्तिवृद्धिः प्रतिदिनं कार्या ताम्रादिषु त्रिषु।
स्थिरा विडङ्गरक्तिस्तु यदा भेदो विवक्षितः।
तदा विडङ्गन्त्वधिकं दद्याद्रक्तिद्वयं पुनः॥
द्वादशाहं योगवृद्धिस्ततो ह्रासक्रमोऽप्ययम्॥

ग्रहणीमम्लपित्तञ्च क्षयं शूलं च सर्वदा।
ताम्रयोगो जयत्येष बलवर्णाग्निवर्द्धनः॥३८॥

ताम्रयोगमाह स्थाल्यामित्यादि—अत्रापि रसगन्धकौ क्षुधावतीगुडिकोक्तविधया शोधितौ ग्राह्यौ। सुकरालितामिति पिष्टभक्तसिक्थकेन नीरन्ध्रलेपितामित्यर्थः।पांशुना वालुकया। नालिकां घटीमेकां यावदनलज्वाला स्थाल्यधोदेयेत्यर्थः। त्रिफलाया मिलित्वा चूर्णरक्तिका एवं त्रिकटोरपि। सर्वमिदं चूर्णंविडङ्गान्तं मधुघृताभ्यामालोड्यलेहः। विडङ्गरक्तिका पुनः स्थिरा न न्यूनाधिकमात्रा इत्यर्थः। यदा पुनः कोष्ठविबन्धाध्मानादिषुविरेकोऽपेक्षितो भवति, तदैवपरं विडङ्गस्य रक्तिद्वयं ग्राह्यमित्यर्थः। अस्य च पत्री यथा—

शोधितरसगन्धकप्रमाष १, एतद्द्वयं कज्जलीकृत्य दृढनूतनपातिलिकायां स्थाप्यम्। तदुपरि तण्डुलीयकशाकमूलचूर्णस्य माषकद्वयमङ्गुलीद्वयेन गृहीत्वा देयम्। अनन्तरमेतत् सर्वंकण्टक-वेधयोग्येन नैपालताम्रपञ्चदशमाषकेण कृतताम्रया अम्बरोलिरसभावितयाढक्कनीयम्। ढक्कित्वा पिष्टभक्तसिक्थकेन ताम्रिकाया रन्ध्रलेपनं कार्यम्। ततःस्थालीमध्यस्थितायास्ताम्रिकाया उपरि तां स्थालीं वालुकया पूरयित्वा तदधोघटिकां यावत् ज्वाला देया। एवं कृतताम्रादक्ति १, मिलितत्रिफलाचूर्णरक्ति१,तथा मिलितत्रिकटुचूर्णरक्ति १, विडंगचूर्णरक्ति १, एतत् सर्वं घृतमधुभ्यामालोड्यलेह्यम्, शीतलजलमनुपेयम् प्रथमदिने। एवं द्वादशदिनपर्य्यन्तं रक्तिमेकां कृत्वावृद्धिः।वृद्धिवत् हासक्रमोऽपि एवमेव ज्ञेयम्। रसगन्धकलक्षणञ्च योगरत्नाकरेयथा—

“मुक्ताफलसमं स्निग्धं घनं निष्पटलं गुरु।चपलं चपलं शस्तं वदन्तिभिषजां वराः” चपलमिति रसं, द्वितीयं चपलमिति चञ्चलम्। “शुक्रपिच्छसमच्छायो नवनीतसमप्रभः।मसृणः कठिनः स्निग्धः श्रेष्ठो गन्धक उच्यते।“घृतमांसरसादीनाञ्चात्राहारविधिर्बोध्यः॥३८॥

इति ग्रहणीचिकित्सा।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1702136662Screenshot2023-12-09210959.png”/>

अथार्शचिकित्सा।

दुर्नाम्नां साधनोपायश्चतुर्धा परिकीर्त्तितः।
भेषजक्षारशस्त्राग्निसाध्यत्वादाद्य उच्यते॥

यद्वायोरानुलोम्याय यदङ्गबलवृद्धये।
अनुपानौषधद्रव्यं तत् सेव्यं नित्यमर्शसैः॥

शुष्कार्शसां प्रलेपादिक्रिया तीक्ष्णा विधीयते।
स्नाविणां रक्तमालोक्य क्रिया कार्य्यास्रपैत्तिकी॥१॥

पूर्वोक्तसंगत्यैव ग्रहण्यनन्तरमर्शश्चिकित्सितमुच्यते दुर्नाम्नामित्यादि—

आद्य इतिभेषजोपायः। विस्तरेण वक्ष्यमाणां चिकित्सां सारोद्धारेणाह यद्वायोरित्यादि—

चरकस्य। अर्शसैरित्यर्शोरोगयुक्तैः। शुष्कार्शसामित्यादि—

आदिशब्दात् स्वेदादीनांग्रहणम्॥१॥

प्रलेपमाह—

स्नुक्क्षीरं रजनीयुक्तं लेपाद् दुर्नामनाशनम्।
कोषातकीरजोघर्षान्निपतन्ति गुदोद्भवाः॥२॥

लेपादीनाह स्नुक्क्षीरमित्यादि—

स्नुहीक्षीरेण हरिद्राचूर्णमार्द्रंकृत्वा लेपः।

उक्तं हि वाग्भटे “स्नुक्क्षीरार्द्रनिशालेपः” इति। कोषातकी घोषकः॥२॥

अर्कक्षीरं सुधाक्षीरं तिक्ततुम्ब्याश्च पल्लवाः।
करञ्जो वस्तमूत्रञ्च लेपनं श्रेष्ठमर्शसाम्॥३॥

अर्केत्यादौ—करञ्जस्य त्वक्, सुधाक्षीरमित्यत्र सुधाकाण्डश्चरके वाग्भटे चदृश्यते॥३॥

अर्शोध्नीगुदगा वर्त्तिर्गुडघोषाफलोद्भवा॥४॥

ज्योत्स्निकामूलकल्केन लेपो रक्तार्शसां हितः॥

वर्तिः फलवर्त्तिः। गुडं जलेन द्रवीकृत्य घोषाफलचूर्णं प्रक्षिप्य पक्त्वा वर्त्तिः कार्य्या। ज्योत्स्निका घोषकः॥४॥

तुम्बीबीजं सोद्भिदन्तु काञ्जीपिष्टं गुडीत्रयम्।
अर्शोहरं गुदस्थं स्याद्दधि माहिषमश्नतः॥५॥

उद्भिदमुत्कारिकालवणं शाम्भरिलवणं वा॥५॥

महाबोधिप्रदेशस्य पथ्या कोषातकीरजः।
कफेन लेपतो हन्ति लिङ्गवर्त्तिमसंशयम्॥६॥

महाबोधिप्रदेशस्येति—महाबोधिर्मगधे प्रसिद्धः। पथ्या हरीतकी। कफेन श्लेष्मणा, समुद्रफेनेनेत्यन्ये, उदधिकफत्वादिति भावः। मुष्टियोगतया पूर्वव्याख्यासाध्वी। लिंगवर्तिर्लिंगार्शः॥६॥

अपामार्गाङ्घ्रिजः क्षारो हरितालेन संयुतः।
लेपनं लिङ्गसम्भूतमर्शो नाशयति ध्रुवम्॥ वातातीसारवद्भिन्नवर्चांस्यर्शांस्युपाचरेत्।
उदावर्त्तविधानेन गाढ़विट्कानि चासकृत्॥७॥

अपामार्गेत्यादि स्पष्टम्। वातातीसारवदिति वातातीसारचिकित्सावत्॥७॥

विड्विबन्धे हितं तक्रं यमानीविडसंयुतम्।
वातश्लेष्मार्शसां तक्रात् परं नास्तीह भेषजम्॥
तत् प्रयोज्यं यथादोषं सस्नेह रूक्षमेव वा।
न विरोहन्ति गुदजाः पुनस्तकसमाहताः॥८॥

विड्विबन्ध इत्यादि स्पष्टम्। वातश्लेष्मार्शसमित्यादि—चरकस्य॥८॥

त्वचं चित्रकमूलस्य पिष्ट्वाकुम्भं प्रलेपयेत्।
तक्रं वा दधि वा तत्र जातमर्शोहरं पिबेत्॥९॥

त्वचमित्यादि—तस्यैव। चित्रकमूलत्वचं पिष्ट्वा तिलोत्सेधमात्रः कुम्भगर्भेलिपो देयः॥९॥

पित्तश्लेष्मप्रशमनी कच्छूकण्डूरुजापहा।
गुदजान् नाशयत्याशु योजिता सगुडाभया॥

सगुडां पिप्पलीयुक्तामभयां घृतभर्जिताम्।
त्रिवृद्दन्तियुतां वापि भक्षयेदानुलोमिकाम्॥१०॥

गुदजानित्यत्र मासांकुरानति शेष, तेन पुलिङ्गता उपपन्ना। सगुडामित्यादिस्पष्टम्॥१०॥

तिलारुष्करसंयोगं भक्षयेदग्निवर्द्धनम्।
कुष्ठरोगहर श्रेष्ठमर्शसां नाशनं परम्।
तिलभल्लातकं पथ्या गुडश्चेति समांशिकम्।
दुर्नामकासश्वासघ्नं प्लीहपाण्डु ज्वरापहम्॥११॥

तिलारुष्करेत्यादिः—संयुज्यते प्रयुज्यतेऽयमिति संयोगः प्रयोग एव। अन्ये तुतिलारुष्करयोः संयागो यत्रेत्याहुः॥११॥

गोमूत्रव्युपितां दद्यात् सगुडां वा हरीतकीम्।
पञ्चकोलकयुक्तं वा तक्रमस्मै प्रदापयेत्॥१२॥

गोमूत्रव्युपितामित्यादि—वरकस्य। रात्रौगोमूत्रस्थितामिति चक्रः। सगुडामित्यन्त एका योगः। वाशब्दः पूर्वयोगापेक्षया, चरके हि"सगुडामभयां वाथ प्राशयेत् पौर्वभक्तकीम्” इत्यभिधायतदनन्तरमयं याग उक्तः, अता भिन्नयोगत्वेन नपोनरुक्त्यं स्यादिति। एतेन गोमूत्रव्युषितामिति प्रयोगानुरोधात् पुनरपि तन्त्रान्तरीयगुडहरीतक्यमितिभिहितेति निश्चलेनोक्रमसंगतम्, योगद्वयस्यैव चरकोत्कत्वात् इति।पक्षकोलकयुक्तमिति पञ्चकोलचूर्णयुक्तम्॥१२॥

मृल्लिप्तं शौरणं कन्दं पक्त्वाग्नौपुटपाकवत्।
अद्यात् सतैललवणं दुर्नामविनिवृत्तये॥१३॥

मुल्लिप्तमित्यादि—वाग्भटस्य। शौरणं कन्दमिति वन्यशूरणमूलम्, एवंसर्वत्रार्शसि तदभावे प्राम्योरीत्यन्ये॥१३॥

स्विन्नं वार्त्ताकुफलं घोषायाः क्षारजेन सलिलेन।
तद् घृतभृष्टं युक्तं गुडेनातृप्तितो योऽत्ति॥
पिबति च तक्र नूनं तस्याश्वेवातिवृद्धगुदजानि।
यान्ति विनाशं पुंसां सहजान्यपि सप्तरात्रेण॥१४॥

स्विन्नमित्यादि—घोषकक्षारोदकेन षड्गुणनैकविंशतिवारपरिस्त्रुतेन उत्स्वेद्यघृते भृष्ट्वा अनुरूपगुढन संयोज्य भक्षयेदिति॥१४॥

असितानां तिलानां प्राक्प्रकुञ्चंशीतवार्य्यनु।
खादतोऽर्शांसि नश्यन्ति द्विजदार्ढ्याङ्गपुष्टिदम्॥१५॥

असतानामित्यादि—तिलानां प्रकुचं पलम्, प्राक् खादतः अनु पश्चाच्छीतवारि पिबत इति योज्यम्। द्विजदार्ढ्यम् दन्तदार्ढ्यम्॥१५॥

दन्त्यारिष्टम्—दन्तीचित्रकमूलानामुभयोः पञ्चमूलयोः।
भागान् पलांशानापोथ्य जलद्रोणे विपाचयेत्।

त्रिपलं त्रिफलायाश्च दलानां तत्र दापयेत्॥

रसे चतुर्थशेषे तु पूतशीते प्रदापयेत्।
तुलां गुडस्य तत् तिष्ठेन्मासार्द्धं घृतभाजने॥

तन्मात्रया पिबेन्नित्यमर्शोभ्यो विप्रमुच्यते।

ग्रहणीपाण्डुरोगघ्नं वातवर्चोऽनुलोमनम्।

दीपनञ्चारुचिघ्नञ्चदन्त्यरिष्टिमिमं विदुः॥

पात्रेऽरिष्टादिसन्धानं धातकीलोध्रलेपिते॥१६॥

दन्तीत्यादि—चरकस्य। अन्त्र उभयोरितिवचनबलात् पञ्चमूलयोः प्रत्येकंभागाग्राह्याः, त्रिपलं त्रिफलाया इत्यत्र तु निर्देशस्य मानप्रधानत्वात् मिलितत्रिफलाया एव पलत्रयं ग्राह्यम्। मासार्द्धमिति तन्त्रातरे तु मासमित्युक्तम्, यथा—“त्रिफलादशमूलाग्निनिकुम्भानां पलं पलम्। वारिद्रोणे स्थितः पादशेषो गुडतुलायुतः। आज्यभाण्डे स्थितो मासं दन्त्यरिष्टो निषेवितः” इति, उभयमपि प्रमाणंस्मृतिद्वैधवत्॥१६॥

सनागरारुष्करवृद्धदारकं गुडेन यो मोदकमत्युदारकम्।
अशेषदुर्नामकरोगदारकं करोति वृद्धं सहसैव दारकम्।
चूर्णे चूर्णसमो ज्ञेयो मोदके द्विगुणो गुडः॥१७॥

सानगरेत्यादि—अरुष्करं भल्लातकम्। वृद्धमित्यत्र आत्मानमिति शेषः।उदारकमिति महाफलम्। अस्य योगस्य चतुःसमसंज्ञामाह भव्यदत्तः। तन्मतेसमेनैव गुडेन किञ्चिज्जज्ञं दत्त्वाग्नौविपक्वेन मोदकविधानम्। चक्रस्तु मोदकत्वात्गुडस्य द्वैगुण्यमाह। अन्य तु मोदके “मोदके द्विगुणो गुड” इति कस्यचित् अभियुक्रस्य वाक्यमनार्षमिति कृत्वा नाद्रियन्ते उक्तरीत्या समेनापि गुडेन मोदकतोपपत्तेरिति॥ १७॥

प्राणदा गुडिका।

त्रिपलं शृङ्गवेरस्य चतुर्थं मरिचस्य च।
पिप्पल्याः कुडवार्द्धञ्चचव्यस्य पलमेव च॥

तालीशपत्रस्य पलं पलार्द्धं केशरस्य च।
द्वे पले पिप्पलीमूलादर्द्धकर्षञ्च पत्रकात्॥

सूक्ष्मैलाकर्षमेकन्तु कर्षंत्वगमृणालयोः।
गुडात् पलानि तु त्रिंशच्चूर्णमेकत्र कारयेत्॥

अक्षप्रमाणा गुडिका प्राणदेति च सा स्मृता।

पूर्वं भक्ष्या तु पश्चाच्च भोजनस्य यथाबलम्।
मद्यं मांसरसं यूषं क्षीरं तोयं पिबत् तथा॥

हन्यादर्शांसि सर्वाणि सहजान्यस्रजानि च।
वातपित्तकफोत्थानि सन्निपातोद्भवानि च॥

पानात्यये मूत्रकृच्छ्रे वातरोगगलग्रहे।
विषमज्वरे च मन्देऽग्नौ पाण्डुरोगे तथैव च॥

क्रिमिहृद्रोगिणाञ्चैच गुल्मशूलार्त्तिनां तथा।
श्वासकासपरीतानामेषा स्यादमृतोपमा॥

शुण्ठ्याःस्थानेऽभया देया विड्ग्रहे पित्तपायुजे॥

प्राणदेयं सितां दत्त्वा चूर्णमानाचतुर्गुणाम्
अम्लपित्ताग्निमान्द्यादौ प्रयोज्या गुदजातुरे॥

अनुपानं प्रयोक्तव्यंव्याधौ श्लेष्मभवे पलम्।
पलद्वयन्त्वनिलजे पित्तजे तु पलत्रयम्॥१८॥

त्रिपलमित्यादि—चतुर्थं मरिचस्येति पलमेकमित्यर्थः। केशरस्य नागकेशरस्य। त्वगमृणालयोरिति त्वक् गुडत्वक्, अमृणालमुशीरम् अनयोर्मिलित्वा कर्षः।पूर्व भक्ष्या तु पश्चाशभोजनस्येति भोजनस्य पूर्वं भोजनाव्यवहितपूर्वकाले गुडिकाभक्ष्या, पश्चाशमद्यादिकं पिबेदिति योज्यम्। न तु मण्डुरादिवत् भोजनस्यपूर्वपश्चाद्भावेन भक्ष्येति कल्पनीयम्, अर्शंसि क्वचिदप्यस्य विधेरदृष्टत्वात्। मद्यंवातकफेऽनुपेयम्, मांसरसो वाते, पित्ते क्षीरं, मुद्गयूषः कफे, तोयमुष्णं वातकफे,एवमन्यत्राप्यनुपानभेदो दोषभेदेन कल्पनीयः।वाग्भटे पुनरयं योगी ग्रहणीचिकित्सिते पठ्यते, तत्र चातुर्जातमुशीरश्वप्रत्येकं कर्षमानमुक्तं, यथा—“तालीशपत्रमरिचचव्यानान्तु पलं पलम्। कृष्णातन्मूलयोर्द्वेद्वे पले शुण्ठीपलत्रयम्।चतुर्जातमुशीरश्वकर्षाशं श्लक्ष्णचूर्णितम्। गुडेन वटकं कृत्वा त्रिगुणेन सदाभजेत्। मुद्गयूषरसाविष्टमस्तुपेयापयोऽनुपः। वातश्लेष्मोल्वणां छदिं प्रहणीं पार्श्वहृदरजाम्। गुदश्वयथुपाण्डुत्वगुल्मपानात्ययार्शसाम्। प्रसेकपीनसश्वासकासानाञ्च निवृत्तये। अभयां नागरस्थाने दद्याचात्रैव विड्ग्रहे। छर्द्यादिषुपैत्तेषुचतुर्गुणसितान्विता। पक्त्वैनं गुडिका कार्य्या गुहेन सितयाप वा। परंहि वहिसम्पर्काल्लघिमानं भजन्ति ताः” इति। शुण्ठ्याःस्थान इत्यादि—चूर्णमानादिति समुदितचूर्णमानात्। केचित्तु गुडमानाच्चतुर्गुणमिति पठन्ति, तन्न,वाग्भटविरोधात्, प्रभूतशर्कराप्रसंगाच्च। अत्र दोषभेदेनानुपानमात्राभेदमाहअनुपानमित्यादि॥१८॥

काङ्कायनमोदकः।

पथ्यापञ्चपलान्येकमजाज्या मरिचस्य च।
पिप्पलीपिप्पलीमूल-चव्यचित्रकनागराः॥

पलाभिवृद्धाः क्रमशो यवक्षारपलद्वयम्।
भल्लातकपलान्यष्टौ कन्दस्तु द्विगुणो मतः॥

द्विगुणेन गुडेनैषां वटकानक्षसम्मितान्।

कृत्वैनं भक्षयेत् प्रातस्तक्रमम्भोऽनु वा पिबेत्॥
मन्दाग्निं दीपयत्येष ग्रहणीपाण्डुरोगनुत्॥

काङ्कायनेन शिष्येभ्यः शस्त्रक्षाराग्निभिर्विना।
भिषग्जितमिति प्रोक्तं श्रेष्ठमर्शोविकारिणाम्॥१६॥

पथ्येत्यादौ—मरिचस्येत्यत्राप्येकमिति सम्बध्यते। तेन मरिचस्य पलमेकमित्यर्थः। पलाभिवृद्धाः क्रमश इति यथाक्रमं पलेन वृद्धाः। कन्दस्तु द्विगुण इतिषोडशपलः। द्विगुणेन गुढेनेति समुदितचूर्णापेक्षया। अक्षसम्मितानिति कर्षसम्मितान्, व्यवहारस्तु षडष्टमाषकैरिति॥१६॥

माणिभद्रो मोदकः।

विडङ्गसारामलकाभयानां पलं पलं स्यात् त्रिवृतात्रयञ्च।
गुडस्य षड्द्वादशभागयुक्ता मासेन त्रिंशद् गुडिका विधेयाः॥

निवारणे यक्षवरेण सृष्टः स माणिभद्रः किल शाक्यभिक्षवे।

अयं हि कासक्षयकुष्ठनाशनो भगन्दरप्लीहजलोदरार्शसाम्।
यथेष्टचेष्टान्नविहारसेवी अनेन वृद्धस्तरुणो भवेच्च॥२०॥

विडगसारेत्यादौ—त्रिवृतात्रयमिति त्रिवृतायाः पलत्रयम्, गुडस्य च षट्पलानि, द्वादशभागयुक्ता इति द्वादशपलरूपविभागेन युक्ताः कृताः। मासेनेतिमासेनोपयोक्तव्यमिति शेषः। अयमर्थः—द्वादश पलानि विभज्य मासेनोपयोज्यम्।त्रिंशद्गुडिका समभागेन कुर्यात् इति तेन एकैकगुडिका षड्रक्लिकाधिकनवमाषकोपेतकर्षमाना भवति। कर्ष १, माष ९, रति ६,। व्यवहारस्तु दशभिरष्टाभिर्वा माषकैरिति। निवारण इत्यत्र गुदजानामिति शेषः। देश इत्यन्ते॥२०॥

स्वल्पशूरणमोदकः।

मरिचमहौषधचित्रकंशूरणभागा यथोत्तरं द्विगुणाः।
सर्वसमो गुडभागः सेव्योऽयं मोदकः प्रसिद्धफलः॥

ज्वलनं ज्वलयति जठरमुन्मूलयति शूलगुल्मगदान्।
निःशेषयति श्लीपदमर्शांसि नाशयत्याशु॥२१॥

स्वल्पशूरणमोदकः स्पष्टः॥२१॥

बृहच्छूरणमोदकः।

शूरणषोडशभागा वह्नेरष्टौ महौषधस्यातः।
अर्द्धेन भागयुक्तिर्मरिचस्य च ततोऽपि चार्द्धेन॥

त्रिफलाकणासमूलातालीशारुष्करक्रिमिघ्नानाम्।
भागा महौषघसमा दहनांशा तालमूली च॥

भागः शूरणतुल्यो दातव्यो वृद्धदारकस्यापि।
भृङ्गैले मरिचांशे सर्वाण्येकत्र सञ्चूर्ण्य॥

द्विगुणेन गुडेन युतः सेव्योऽयं मोदकः प्रकामधनैः।
गुरुवृष्यभोज्यरहितेष्वितरेषूपद्रवं कुर्य्यात्॥

भस्मकमनेन जनितं पूर्वमगस्त्यस्य योगराजेन।
भीमस्य मारुतेरपि येन तौ महाशनौ जातौ॥

अग्निबलवुद्धिहेतुर्न केवलं शूरणो महावीर्य्यः।
प्रभवति शस्त्राराग्निभिर्विनाप्यर्शसामेषः॥

श्वयथुश्

लीपदजिद् ग्रहणीमपि कफवातसम्भूताम्।
नाशयति वलीपलितं मेघां कुरुते वृषत्वञ्च॥

हिक्काश्वासकास सराजयक्ष्मप्रमेहांश्च।
प्लीहानञ्चाथोग्रंहन्ति च रसायनं पुंसाम्॥२२॥

शूरणषोडशभागा इत्यादौ—त्रिफलाकणासमूलातालीशारुष्करक्रिमिघ्नानां भागामहौषधसमा इति त्रिफलादीनां प्रत्येकं महौषधसमा भागाः त्रिफलायाश्च प्रत्येकम्। कणा समूला इति पिप्पल्याः फलं मूलञ्चेत्यर्थः। समूला इत्यन्न स्त्रियाःपुंवद्भाषितपुंस्कानूङ् इत्यादिना पुंवद्भावो नोद्भावनीयः। तस्योत्तरपदे स्त्रीप्रत्ययान्ते परतो विधानात्। विशेषणत्वादस्य पूर्वनिपातोऽपि नोद्भावनीयः, विवक्षावशादस्यैव विशेष्यत्वात्। दहनश्चित्रकः, मृंगैले मरिचांशे प्रत्येकम्, सृङ्गंगुढत्वक्। गुरुवृष्यभोज्य रहितेष्विति प्रकामधनप्रतियोगितया दरिद्रेषु उपद्रवमितिव्यापत्तिम्॥२२॥

शूरणपिण्डी।

चूर्णीकृताः षोडश शूरणस्य भागास्ततोऽर्द्धेन च चित्रकस्य।
महौषधाद् द्वौ मरिचस्य चैको गुडेन दुर्नामजयाय पिण्डा।
पिण्ड्यां गुडो मोदकवत् पिण्डत्वापत्तिकारकः॥२३॥

चूर्णीकृता इत्यादि—वाग्भटस्य। मोदकवदिति द्विगुण इत्यर्थः॥२३॥

व्योषाद्यं चूर्णम्।

व्योषाग्न्यरुष्करविडङ्गतिलाभयानाम्
चूर्णं गुडेन सहितन्तु सदोपयोयोज्यम्।
दुर्नामकुष्ठगरशोथशकृद्विबद्धा-
नग्नेर्जयत्यबलतां क्रिमिपाण्डुताञ्च॥२४॥

व्योषाग्नीत्यादि—अत्र गुडस्यैकभागत्वं चूर्णयोगत्वात् इति। किन्त्वयं योगोविभीतकामलकयोगात् गुडिकापि क्रियते, यदाह वाग्भटः"गुडव्योषशिवारेणु तिलारुष्करचित्रकैः। अर्शांसि हन्ति गुडिका त्वग्विकारञ्च शीलिता इति॥२४॥

समशर्करं चूर्णम्।

शुण्ठीकणामरिचनागदलत्वगेलम्

चूर्णीकृतं क्रमविवर्द्धितमूर्द्ध्वमन्त्यात्।
खादेदिदं समसितं गुदजाग्निमान्द्य-
कासारुचिश्वसनकण्ठहृदामयेषु॥२५॥

शुण्ठीत्यादि—नागं नागकेशरचूर्णम्;दलं तेजपत्रम्। क्रमविवर्द्धितमूर्ध्वमन्त्यादिति अन्तस्थितद्रव्यादारभ्य तदुपरितनद्रव्यमेकद्विंत्र्यादिक्रमेण वर्द्धयेदित्यर्थः।समसितमिति-मिलितसर्वचूर्णसमशर्करम्; श्वसनमिति श्वासः॥२५॥

लवणोत्तमाद्यं चूर्णम्।

लवणोत्तमवह्निकलिङ्गयवांश्चिरबिल्वमहापिचुमर्दयुतान्।
पिबसप्तदिनं मथितालुलितान् यदि मर्दितुमिच्छसि पायुरुहान २६॥

लवणोत्तमेत्यादि—वाग्भटस्य। लवणोत्तमं सैन्धवम्;वह्निचित्रकः; कलिङ्गयव इन्द्रयवः। चिरबिल्वः करञ्जः, तस्य मूलम् यत् पुनरस्य सुश्रुते फलग्रहणमुक्तंतच्छोधने ज्ञेयम्। महापिचुमर्दः पर्वतनिम्बः, निम्बसदृशबृहत्पन्नोवृक्षः, वार्द्धायनीतिलोकख्यातः। ग्रामनिम्ब एव पर्वतभवत्वेन पर्वतनिम्बइत्याहुरन्ये, अस्य त्वग्ग्राह्या। मथितालुलितानिति तक्रेणलोडितान्॥२६॥

नागार्जुनयोगः।

त्रिफला पञ्चलवणं कुष्ठं कटुकरोहिणी।
देवदारुविडङ्गानि पिचुमर्दफलानि च।

बला चातिबला चैव हरिद्रे द्वे सुवर्चला।
एतत् सम्भृतसम्भारं करञ्जत्वग्रसेन स॥

पिष्ट्वाच गुडिकां कृत्वा बदरास्थिसमां बुधः।
एकैकां तां समुद्धृत्य रोगे रोगे पृथक् पृथक्॥

उष्णेन वारिणा पीता शान्तमप्निं प्रदीपयेत्।
अर्शांसि हन्ति तक्रेण गुल्ममम्लेन निर्हरेत्॥

जन्तुदष्टन्तु तोयेन त्वग्दोषं खादिराम्बुना।
मूत्रकृच्छ्रन्तु तोयेन हृद्रोगं तैलसंयुता॥

इन्द्रस्वरससंयुक्ता सर्वज्वरविनाशिनी।
मातुलुङ्गरसेनाथ सद्यः शूलहरी स्मृता।

कपित्थतिन्दुकानान्तु रसेन सह मिश्रिता।
विषाणि हन्ति सर्वाणि पानाशनप्रयोगतः।

गोशकृद्रससंयुक्ता हन्यात् कुष्ठानि सर्वशः।
श्यामाकपायसहिता जलोदरविनाशिनी॥

भक्तच्छन्दं जनयति भुक्तस्योपरि भक्षिता।

अक्षिरोगेषु सर्वेषु मधुनाघृष्य चाञ्जयेत्॥
लेहमात्रेण नारीणां सद्यः प्रदरनाशिनी॥

व्यवहारे तथा द्यूते संग्रामे मृगयादिषु।
समालभ्य नरो ह्येनांक्षिप्रं विजयमाप्नुयात्॥२७॥

त्रिफलत्यादौ—अतिबला श्वेतबला; सुवर्चला सूर्य्यावर्त्तः। सम्मृतसम्भारमितिपाठः। सम्भृत्य सम्भारमिति पाठेऽपिसम्भार त्रिफलाद्यौषधजातं सम्भृत्य मेलयित्वाकरञ्जत्वग्रसेन पिष्ट्वेतियोज्यम्। पृथक् पृथक् इत्यस्य पानाशनप्रयोगत इत्यनेनवक्ष्यमाणेन सम्बन्धः। तेन रोगे रोगे पृथक् पृथक् पानाशनप्रयोगत उपयुञ्जीतेतिशेषः गुल्ममम्लेनेति काञ्जिकेन, जन्तुर्वृश्चिकादिःइन्द्रस्वरस आकाशजलम्;श्यामाकपायस्त्रिवृक्काथः; भक्तच्छन्दं भक्ताकांक्षाम्। व्यवहार इति वाग्व्यवहाररूपे वादे, समालभ्येति आलिप्य॥२७॥

विजयचूर्णम्—

त्रिकत्रयवचाहिंगुपाठाक्षारनिशाद्वयम्।
चव्यतिक्ताकलिङ्गाग्निशताह्वालवणानि च॥

ग्रन्थिविल्वाजमोदा च गणोऽष्टाविंशतिर्मतः।
एतानि समभागानि श्लक्ष्णचूर्णानि कारयेत्॥

ततो विडालपदकं पिवेदुष्णेन वारिणा।
एरण्डतैलयुक्तन्तु सदा लिह्यात् ततो नरः॥

कासं हन्यात् तथा शोथमर्शांसि च भगन्दरम्।
हच्छूलं पार्श्वशूलञ्च वातगुल्म तथोदरम्॥

हिक्काश्वासप्रमेहांश्च कामलां पाण्डुरोगताम्।

आमान्वयमुदावर्त्तमन्त्रवृद्धिं गुदं क्रिमीन्।
अन्ये च ग्रहणीदोषा ये मया परिकीर्त्तिताः॥

महाज्वरोपसृष्टानां भूतोपहतचेतसाम्।

अप्रजानान्तु नारीणां प्रजावर्द्धनमेव च।
विजयो नाम चूर्णोऽयं कृष्णात्रेयेण पूजितः॥२८॥

त्रिकत्रयमित्यादि—त्रिकटु त्रिफला निजातं त्रिकत्रयम्। ये तु त्रिजातस्थानेमुस्तविडङ्गचित्रकरूनं त्रिमदमाहुः, तन्मंत चव्यतिक्लाकलिङ्गाग्नीत्यत्राग्निशब्देनभल्लातकं ज्ञेयम्। लवणानीति पञ्च लवणानि, अन्यथा अष्टाविंशसंख्या नोपपद्यतेग्रन्थिः पिप्पलीमूलम्; अजमोदा यमानी। बिडालपदकमिति कर्षम्। श्वासमितिकेवलं श्वासम्; हिक्काश्वासेति हिक्क सहितः श्वास इत्यर्थः; अतो न पौनरुक्त्यम्।अन्ये तु श्वासमित्यत्र कासमिति पठन्ति। रोगान् जयतीति कृत्वा विजयसंज्ञा॥२८॥

श्रीवाहुशालो गुडः।

त्रिवृत् तेजोवती दन्ती श्वदंष्ट्रा चित्रकं शटी।

गवाक्षीमुस्तबिल्वाह्वाविडङ्गानि हरीतकी॥

पलोन्मितानि चैतानि पलान्यष्टावरुष्करात्।
षट्पलं वृद्धदारस्य शूरणस्य तु षोडश॥

जलद्रोणद्वये क्वाथ्यं चतुर्भागावशेषितम्।
पूतन्तु तं रसं भूयः क्वाथ्येभ्यस्त्रिगुणो गुडः।

लेहं पचेत् तु तं तावद् यावद्दर्वीप्रलेपनम्।
अवतार्य्यततः पश्चाच्चूर्णानीमानि दापयेत्।

त्रिवृत्तेजोवतीकन्दचित्रकान् द्विपलांशिकान्।
एलात्वङ्मरिचञ्चापि गजाह्वाञ्चापि षट्पलाम्।

द्वात्रिंशतं पलान्येवं चूर्णं दत्त्वा निधापयेत्।
ततो मात्रां प्रयुञ्जीत जीर्णे क्षीररसाशनः॥

पञ्च गुल्मान् प्रमेहांश्च पाण्डुरोगं हलीमकम्।
जयेदर्शांसि सर्वाणि तथा सर्वोदराणि च॥

दीपयेत् ग्रहणीं मन्दां यक्ष्माणञ्चापकर्षति।
अपीनसं प्रतिश्यायमाढ्यवातं तथैव च॥

अयं सर्वगदेष्वेव कल्याणो लेह उत्तमः।
दुर्नामारिरयञ्चाशु दृष्टो वारसहस्रशः॥

भवन्त्येनं प्रयुञ्जानाः शतवर्षंनिरामयाः।
आयुषो दैर्घ्यजननो वलीपलितनाशनः॥

रसायनवरश्चैष मेधाजनन उत्तमः।
गुडः श्रीबाहुशालोऽयं दुर्नामारिः प्रकीर्त्तितः॥

तोयपूर्णे यदा पात्रे क्षिप्तो न प्लवते गुडः।

क्षिप्तश्च निश्चलस्तिष्ठेत् पतितस्तु न शीर्य्यते।
यदा दर्वीप्रलेपः स्याद् यावद्वा तन्तुलीभवेत्॥

एष पाको गुडादीनां सर्वेषां परिकीर्त्तितः।

सुखमर्दः सुखस्पर्शो गुडः पाकमुपागतः॥
पीडितो भजते मुद्रां गन्धवर्णरसान्वितः॥२६॥

त्रिवृत् तेजोवतीत्यादि—कस्यचित् तन्त्रस्य। तेजोवती चवी; एवं सर्वत्र।यत्र पुनश्चवी तेजोवती चास्तितत्र परं तेजोवत्या ज्योतिष्मती गृह्यते, यथा गुग्गुलुपञ्चतिक्तके घृते। गवाक्षी गोरक्षकर्कटी, तस्या मूलम्; एवं सर्वत्र। न तु गवाक्षीश्वेतापराजिता, क्वापि टीकाकृद्भिरव्याख्यातत्वात्। क्वाथ्येभ्यस्त्रिगुणो गुड इतिएकचत्वारिंशत्पलक्वाथ्यापेक्षया त्रैगुण्येन गुडस्य त्रयोविंशतिपलाधिकशतपलंभवति। कन्दः शूरणः, त्रिवृदादीनां द्विपलत्वम् एलादीनाञ्च षट्पलत्वम्।यद्यपि निर्देशस्य द्रव्यप्रधानत्वादेव प्रत्येकं सिध्यति, तथापि द्वात्रिंशत्पलानीतियदुक्तं तत् क्वचित् द्रव्यप्रधाननिर्देशेऽपि प्रत्येकता नास्तीति सूचनार्थम्। तेनकैशोरकगुग्गुलौत्रिकटोश्चूर्ण पडक्षपरिमाणमित्यत्र मिलित्वैव त्रिकटुचूर्णषडक्षपरिमितता वृद्धव्यवहारसिद्धेति बोध्यम्। द्वात्रिशतं पलान्येवं पाठोऽन्यथा च्छन्दोभङ्गःस्यात् क्वचिच्च द्वात्रिंशच्च पलान्येवमिति पाठः। अपीनसमिति प्रतिश्यायभेदः।पीनसे च प्रतिश्ययिइति पाठेऽपि स एवार्थः। अत्र अनुपानमनुक्तमपि वातकफेकोष्णाम्बु, पित्ते क्षीरादिकं ज्ञेयम्। न चात्र भलातकप्रवेशादुष्णजलम् अयुक्तमितिशङ्कनीयम्, यतो भलातकस्नेह एव उष्णजलनिषेधो न भल्लातकयोगमात्रे। तथाचोक्तम्—“उष्णोदकानुपानन्तु स्नेहानामथ शस्यते। ऋते भलातकस्नेहात् तत्रतोयन्तु शीतलम्”इति। वृद्धास्तु शीततोयेन व्यवहरन्ति। तोयपूर्णे यदा पात्रइत्यादि गुडपाकलक्षणम्। वृद्धास्तु तोयपूर्णपात्रोपरि कोमलकदलीपत्रं दत्त्वा, गुडस्य मुद्रापाकं निरूपयन्ति। न प्लवते न भवति पतितः। पात्राधोगतोऽपि नशीर्य्यते न विस्तीर्णतां याति॥२९॥

गुडभल्लातकः।

भल्लातकसहस्रे द्वे जलद्रोणे विपाचयेत्।
पादशेषे रसे तस्मिन् पचेद् गुडतुलां भिषक्॥

भल्लातकसहस्रार्द्धंछित्त्वा तत्रैव दापयेत्।
सिद्धेऽस्मिंस्त्रिफलाव्योपयमानीमुस्तसैन्धवम्।

कर्पांशसम्मितं दद्यात् त्वगेलापत्रकेशरम्॥
खादेदग्निवलापेक्षी प्रातरुत्थाय मानवः॥

कुष्ठार्शः कामलामेहग्रहणीगुल्मपाण्डुताः।

हन्यात् प्लीहोदरं कासक्रिमिरोगभगन्दरान्।
गुडभल्लातको ह्येप श्रेष्टश्चार्शोविकारिणाम्॥३०॥

गुडभल्लातके भल्लातकसहस्त्रेद्वे इति भल्लातकानां सहस्रद्वयम्, एवं सर्वत्रपलादिमानविरहे, यथा सैन्धवाद्यतैले भल्लातकास्थीनि विंशतिरिति। यत्र तुपलादिश्रुतिस्तत्र तथैव व्यवहर्त्तव्यम्। यथा बाहुशालगुडे, “पलान्यष्टावरुष्करादिति।” एवं हरीतक्यादावपि ज्ञेयम्। भल्लातकसहस्रार्द्धंछित्त्वेति द्विधा कृत्वागुढसहितक्वाथ एव पक्तव्यं हरीतकीवत्। त्रिफलादीनाञ्च प्रत्येकमेव कर्षमानम्३०

अपरो गुडभल्लातकः।

दशमूलामृता भार्गी श्वदंष्ट्रा चित्रकं शटी।
भल्लातकसहस्रञ्च पलांशं क्वाथयेद् धुधः।

पादशेषेजलद्रोणे रसे तस्मिन् विपाचयेत्।
दत्त्वा गुडतुलामेकां लेहीभूतं समुद्धरेत्॥

माक्षिकं पिप्पलीं तैलमौरुवूकञ्च दापयेत्।
कुडवं कुडवञ्चात्र त्वगेला मरिचं तथा॥

अर्शःकासमुदावर्त्तं पाण्डुत्वं शोथमेव च।
नाशयेद्वह्निसादञ्च गुडभल्लातकः स्मृतः॥३१॥

द्वितीयगुडभल्लातके पलांशमिति। दशमूलादिभिः सम्बध्यते। भलातकसहस्रञ्चपूर्ववदाकृतिमानात्। क्वाथयेदिति पूर्वोक्तभल्लातकगुडसंवादात्; अत्रापि जलद्रोणेकिंवा क्वाथ्यद्रव्येभ्योऽष्टगुणे जले। माक्षिकं मधु। औरुवुकञ्चतैलमेरण्डतैलम्;एतच्च प्रथमतः क्षिप्त्वैव गुडः पक्तव्यः। सिद्धे मधुपिप्पलीचूर्णादि प्रक्षेप्यम्।एकःकुडवशब्दो माक्षिकादिभिः सम्बध्यते; अपरश्च त्वगेलादिभिः। माक्षिकैरण्डतैलयोश्च द्रवत्वात् प्रत्येकमष्टौपलानि। त्वगेलामरिचादीनान्तु कुडवं मिलित्वेतिकेचित्; प्रत्येकमित्यन्ये। एतदेव युक्तं द्रव्यप्रधानत्वात् निर्देशस्य। आयुर्वेदसारेऽप्युक्तम्—“भल्लातकसहस्रं हि शटीदहनगोक्षुरान्। दशमूल्यमराभार्गीःपलांशाःसंविपाच्य च। दत्त्वा गुडतुलां तत्र लेहनत् साधु साधयेत्। पिप्पल्या मधुनःसिद्धे तैलस्योरुवुकस्य च। प्रत्येकं कुडवं दत्त्वा त्वगेलामरिचस्य च। मिश्रितंभक्षयेन्नित्यमर्श कासोदरापहम्” इति। अतएव आयुर्वेदसारसंवादात् कुडवार्द्धश्चत्वगेलामरिचमिति पाठान्तरमपि प्रतिक्षेपणीयम्॥३१॥

चव्याद्यं घृतम्।

चव्यं त्रिकटुकं पाठां क्षारं कुस्तुम्बुरूणि च।
यमानी पिप्पलीमूलमुभे च विडसैन्धवे॥

चित्रकं बिल्वमभयां पिष्ट्वासर्पिर्विपाचयेत्।
शकद्वातानुलोम्यार्थंं जाते दध्निचतुर्गुणे॥

प्रवाहिकां गुदभ्रंशंमूत्रकृच्छ्रं परिस्रवम्।
गुदवङ्क्षणशूलञ्च घृतमेतद् व्यपोहति॥३२॥

चव्यमित्यादि—चरकस्य। कुस्तुम्बुरु धनीयकम्। जाते दध्नीति सुजाते। अत्रकेचित् “स्वरसक्षीरमाङ्गल्यैः पाको यत्रेरितः क्वचित्। चतुर्गुणं जलं तत्र वीर्य्याधनार्थमावपेत्” इत्याहुः। परिस्रवमिति गुदपरिस्रवम्॥३२॥

व्योषाद्यं घृतम्।

व्योषगर्भं पलाशस्य त्रिगुणे भस्मवारिणि।
साधितं पिबतः सर्पिः पतन्त्यर्शांस्यसंशयम्॥३३॥

व्योषाद्यंघृतं स्पष्टम्॥३३॥

उदकषट्पलं घृतम्।

सक्षारैः पञ्चकोलैस्तु पलिकैस्त्रिगुणोदके।
समक्षीरं घृतप्रस्थं ज्वरार्श प्लीहकासनुत्॥३४॥

उदकषट्पलघृतं स्पष्टम्॥३४॥

सिंह्यमृतं घृतम्।

पचेद्वारिचतुर्द्रोणेकण्टकार्य्यमृताशतम्।
तत्राग्नित्रिफलाव्योषपूतिकत्वक्कलिङ्गकैः॥

सकाश्मर्य्यविडङ्गैस्तु सिद्धं दुर्नाममेहनुत्।
घृतं सिंह्यमृतं नाम बोधिसत्त्वेन भाषितम्॥३५॥

पचेदित्यादौ—कण्टकारीगुडूच्योर्मिलित्वा शतं, निर्देशस्य मानप्रधानत्वात्।अन्ये तु द्रवभूयस्त्वदर्शनात् प्रत्येकमेव शतमाहुः। चतुर्द्रोणे द्रोणावशेषः, अतोऽत्र घृताढकं बोध्यम् चतुर्गुणेन पाकस्योत्सर्गसिद्धत्वात्। प्रस्थपक्षे तु षोडशगुणत्वमेव पाकस्य। अभिरत्र चित्रकः। पूतीकस्य करञ्जस्य त्वक्; काश्मर्य्यंगाम्भारीफलम्; कल्कस्य तु स्नेहापेक्षया पादिकत्वमेव बोधिसत्त्वेनेति योगिविशेषेण,अन्य तु लोकनाथेनेत्याहुः॥३५॥

पिप्पल्याद्यं तैलम्।

पिप्पलीं मधुकं बिल्वं शताह्वांमदनं वचाम्।
कुष्ठं शटीं पुष्कराख्यं चित्रकं देवदारु च॥

पिष्ट्वातैलं विपक्तव्यं द्विगुणक्षीरसंयुतम्।
अर्शसां मूढवातानां तच्छ्रेष्ठमनुवासनम्॥

गुदनिःसरणं शूलं मूत्रकृच्छ्रं प्रवाहिकाम्।
कट्यूरुपृष्ठदौर्बल्यमानाहं वङ्क्षणाश्रयम्॥

पिच्छास्रावं गुदे शोथं वातवर्चोविनिग्रहम्।
उत्थानं बहुदोषञ्च जयेच्चैवानुवासनात्॥३६॥

पिप्पल्यादितैले बिल्वं बिल्वशलाटुः, पुष्कराख्यमिति पुष्करमूलं, तदभावेकुष्ठमेव द्विगुणं ग्राह्यम्। अन्न द्रवान्तरस्यानिर्दिष्टत्वात् द्विगुण एव पाक इतिकेचित्। अन्ये तु चतुर्गुणपाकस्य उत्सर्गसिद्धत्वात् जलमप्यत्र द्विगुणमिच्छन्ति।अपरे तु “क्षीरदध्यारनालैस्तु पाको यत्रेरितः क्वचित्। जलं चतुर्गुणं तत्र वीर्य्याधानार्थमावपेत्” इति वचनात् जलमपि चतुर्गुणमाचक्षते, युक्तञ्चैतत्, यदाहवृद्धसुश्रुतः “शटी पुष्करकृष्णाह्वामदनामरदारुभिः। शताह्वाकुष्ठयष्ट्याह्वावचाबिल्वहुताशनैः। सुपिष्टं द्विगुणं क्षीरं तैलं ते यचतुर्गुणम्। पक्त्वा वस्तौ निधातव्यंमूढावातानुलोमनम्” इति॥३६॥

रक्तार्शश्चिकित्सा।

रक्तार्शसामुपेक्षेत रक्तमादौ स्रवद्भिषक्।
दुष्टास्रेनिगृहीते तु शूलानाहावसृग्गदाः॥३७॥

रक्तार्शसां चिकित्सामाह रक्तार्शसामित्यादि—उपेक्षेत, न तु स्तम्भयेत्।निगृहीत इति स्तम्भिते। असृग्गदाइति वीसर्पादयः॥३७॥

लाजैः पेया पीता चुक्रिकाकेशरोत्पलैः सिद्धा।
हन्त्यस्रस्रावं तथा बलापृश्निपर्णीभ्याम्॥३८॥

लाजैः पेयेत्यादि—चुक्रिका चाङ्गेरी, केशरं नागकेशरम्। तथा वलापृश्निपणभ्यामिति द्वितीयो योगः। तथेत्यनेन लाजैः पेयेत्यनुवर्त्तते॥३८॥

शक्रक्वाथः सविश्वो वा किंवा बिल्वशलाटवः।
योज्या रक्तार्शसैस्तद्वज्ज्योत्स्निकामूललेपनम्॥३६॥

शक्रक्वाथः इत्यादि—शक्रः कुटजः, उक्तं हि रत्नकोषे “वृक्षकः शक्रपर्य्यायोवत्सको गिरिमल्लिका” इति। तद्वल्कलक्वाथः, उक्तं चरके “कुटजस्वङ्निर्य्यूहःसनागरः स्निग्धो रक्तसंग्रहणः” इति। वाग्भटेऽप्युक्तं " सकफे प्रपिबेत् पाक्यंशुण्ठीकुटजवल्कलम्” इति। निश्चलस्तु इन्द्रयवक्वाथ इत्याह। सनागर ईषन्नागरः स च प्रक्षेपविधिनेति केचित्। अन्ये तु उक्तवाग्भटवचनसंवादात् शुण्ठीकुटजवल्कलयोः क्वाथ इत्याहुः। बिल्वशलाटव इत्यत्रापि सनागर इति योज्यम्। अन्येतु केवलं बिल्वं पिष्ट्वापेयमित्याहुः। ज्योत्स्निका कोषातकीघोषकभेदः॥३६॥

नवनीततिलाभ्यासात् केशरनवनीतशर्कराभ्यासात्।
दधिसरमथिताभ्यासाद् गुदजाः शाम्यन्ति रंक्तवहाः॥४०॥

नवनीततिलाभ्यासादित्यादि—योगत्रयमेतत्। अत्र केशरं पद्मकेशरं, रक्तस्तम्भकत्वात्, यदाह वाग्भटः “शर्कराम्भोजकिञ्जल्क–सहितं सह वा तिलैः। अभ्यस्तं रक्तगुदजान् नवनीतं नियच्छति” इतिआधुनिकास्तु नागकेशरेण व्यवहरन्ति। दधिसरस्य मथितं तक्रं दधिसरमथितम्, उक्तं हि जतूकर्णे “नवनीतंतिलैर्युक्तं शर्करा केशरेण वा। नवनीतं घृतं वाजं दध्नोखजितः सरः"इति॥४०॥

समङ्गोत्पलमोचाह्व-तिरीटतिलचन्दनैः।
छागक्षीरं प्रयोक्तव्यं गुदजे शोणितापहम्॥४१॥

समङ्गेत्यादि—समङ्गावराहकान्ता, उत्पलं नीलोत्पलम्; मोचकं शाल्मलीवेष्टकम्, तिरीटं पट्टिकालोध्रम्, एषां कल्कश्छागक्षीरेणालोड्यपेयः। उक्तं हि वाग्भटे"लोध्रंतिलं मोचरसं समंगां चन्दनात्पलम्। पाययित्वाजदुग्धेन शालींस्तेनैव भोजयेत्” इति। अन्ये तु क्षीरपरिभाषया छागक्षीरं पक्त्वा पेयमित्याहुः॥ ४१॥

कुटजलेहः।

कुटजत्वक्पलशतं जलद्रोणे विपाचयेत्।
अष्टभागावशिष्टन्तु कषायमवतारयेत्॥

वस्त्रपूतं पुनः क्वाथं पचेल्लेहत्वमागतम्॥

भल्लातकं विडङ्गानि त्रिकटु त्रिफलां तथा।

रसाञ्जनं चित्रकञ्च कुटजस्य फलानि च।
वचामतिविषां बिल्वं प्रत्येकञ्च पलं पलम्॥

त्रिंशत्पलानि गुडस्य चूर्णीकृत्य निधापयेत्।
मधुनः कुडवं दद्यात् घृतस्य कुडवं तथा।

एषलेहः शमयति चार्शो रक्तसमुद्भवम्।
वातिकं पैत्तिकञ्चैव लैष्मिकं सान्निपातिकम्॥

ये च दुर्नामजा रोगास्तान् सर्वान् नाशयत्यपि।
अम्लपित्तमतीसारं पाण्डुरोगमरोचकम्॥

ग्रहणीमार्दव कार्श्यंश्वयथुं कामलामपि।

अनुपानं घृतं दद्यान्मधु तक्रंजलं पयः।
रोगानीकविनाशाय कौटजो लेह उच्यते॥४२॥

कुटजत्वक्पलशतमित्यत्र केचित् पलस्थाने फलमिति पठन्ति, तन्मते कुटजत्वक्फलयोमिलित्वैव पलशतम्। चन्द्राटेऽष्टभागावशिष्टमित्यत्र चतुर्भागावशिष्टमितिपठ्यते। अत्र घृतकुडवं प्रथमं दत्त्वा लेहः पक्कव्यः, सिद्धे तस्मिन् भल्लातकादिचूर्णप्रक्षेपः। मधुनः कुठवेऽष्टौपलानि, घृतकुडवोऽप्येवम्कुडवद्वैगुण्यन्तु पूर्वमेवस्थापितमिति॥४२॥

कुटजरसक्रिया।

कुटजत्वचो विपाच्यं शतपलमार्द्रंमहेन्द्रसलिलेन।
यावत् स्यादरसं तद् द्रव्यं स रसस्ततो ग्राह्यः॥

मोचरसः समङ्गा फलिनी पलांशिभिस्त्रिभिस्तैश्च।
वत्सकबीजं तुल्यं चूर्णीकृतमत्र दातव्यम्॥

पूतोत्क्वथितः सान्द्रः सरसो दर्वीप्रलेपनो ग्राह्यः।
मात्राकालोपहिता रसक्रियैषाजयत्यसृक्स्रावम्॥

छागलीपयसा युक्ता पेया मण्डेनाथवा यथाग्निबलम्।
जीर्णौपधश्च शालीन् पयसा छागेन भुञ्जीत॥

रक्तगुदजातीसारं शूलं सासृग्रुजो निहन्त्याशु।
बलवच्चरक्तपित्तं रसक्रियैषाह्युभयभागम्॥४३॥

कुटजत्वच इत्यादि—अत्र पलशतं तुला, तेन “तुलाद्रव्ये जलद्रोण” इतिवचनात् द्रोणमात्रं जलं ग्राह्यम् तच्च “यावत् स्यादरसम्” इति वचनाश्चतुर्भागावशिष्टं कार्य्यम्; उक्तंहि “चतुर्भागजले प्रायो द्रव्यं गतरसं भवेत्” इति। अन्येनु तन्त्रान्तरीययोगान्तरे “द्रोणेऽम्भसः पलशतं विपाच्यं फुटजत्व चोऽष्टभागस्थ"इत्यष्टभागावशिष्टदर्शनात् अत्राप्यष्टभागावशेषः क्वाथोग्राह्यइत्याहुः। व्यवहारस्तुपूर्वेणैव। महेन्द्रसलिलमान्तरीक्षजलम्” तदभावे भूमिस्थजलं तदनु वारि प्राणम्।यदुक्तं—“किञ्चित्तुवरानु संतनु लघ शीतं सुगन्धि सुरसञ्च। अनभिष्यन्दि चयत् तत् क्षितिस्थमैन्द्रवज्ज्ञेयम्।” फलिनी प्रियंगुः। दर्वीप्रलेपनो ग्राह्यः इतिदर्वीप्रलेपावस्थायामवतारणीय इत्यर्थः। तेन रसक्रिया लेपरूपैव, वाग्भटेऽप्युक्तम्–“पक्त्वावलेहं लीढ्वा च तद्यथाग्निबलं पिबेत्” इत्यादि। उभयभागमितियद्यपि युगपद्दूर्ध्वाधःप्रवृत्तरक्तपित्तस्यासाध्यत्वं, तथाप्युभयभागं हन्तीत्यस्य क्रमेणोदूर्ध्वगमधोगच्चहन्तीत्यर्थः, तत्राप्यधोगस्य याप्यत्वात् तत्प्रतियापनमेव निहन्त्यादित्यस्यार्थो ज्ञयः। अन्ये तु योगशक्तेरचिन्त्यत्वादसाध्यमपि हन्तीत्यर्थमाहुः॥४३॥

कुटजाद्यं घृतम्।

कुटजफलवल्ककेशरनीलोत्पललोध्रघातकीकल्कैः।
सिद्धं घृतं विधेयं शूलरक्तार्शसां भिषजा॥४४॥

कुटजाद्यघृते कुटजस्य फलं वल्कलञ्च, वल्कशब्दो वल्कलवचनः क्वचित्तुवल्कलमिति पाठः। अत्र जलं चतुर्गुणमर्थवशात्॥४४॥

सुनिषण्णक चाङ्गेरीघृतम्।

अवाक्पुष्पी बला दार्वी पृश्निपर्णी त्रिकण्टकम्।
न्यग्रोधोड्डम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः॥

कषाय एष पेश्यास्तु जीवन्ती कटुरोहिणी।
पिप्पली पिप्पलीमूलं मरिचं देवदारु च॥

कलिङ्गं शाल्मलीपुष्पं वीरा चन्दनमञ्जनम्।
कट्फलं चित्रकं मुस्तं प्रियङ्ग्वतिविषे स्थिरा॥

पद्मोत्पलानां किञ्जल्कः समङ्गासनिदिग्धिका।
बिल्वं मोचरसं पाठा भागाः स्युः कार्षिकाः पृथक्।

चतुःप्रस्थशृतं प्रस्थं कषायमवतारयेत्।
त्रिंशत् पलानि तु प्रस्थो विज्ञेयो द्विपलाधिकः॥

सुनिषण्णक-चाङ्गेर्य्योःप्रस्थौ द्वौस्वरसस्य च।
सर्वैरेतैर्यथोद्दिष्टैर्घृतप्रस्थं विपाचयेत्॥

एतदर्शःस्वतीसारे त्रिदोषे रुधिरस्रुतौ।
प्रवाहणे गुदभ्रंशे पिच्छासु विविधासु च।

उत्थाने चातिबहुशः शोथशूलगुदामये।
मूत्रग्रहे मूढ़वाते मन्दाग्नावरुचावपि॥

प्रयोज्यं विधिवत् सर्पिर्बलवर्णाग्निवर्द्धनम्।
विविधेष्वन्नपानेषु केवलं वा निरत्ययम्॥४५॥

अवाक्पुष्पीत्यादि—अवाक्पुष्पी हेठबहली। एषाञ्चाष्टानां प्रत्येकं पलद्वयमितिमिलित्वा षोडशपलं क्वाथ्यं भवति। तथा सुनिषण्ण कचाङ्गेर्य्योर्मिलित्वा प्रस्थद्वयं,मानप्रधानत्वा न्निर्देशस्य। वीर। क्षीरकाकोली। चतुःप्रस्थशृतं प्रस्थमित्यादियद्यपि षोडशपले क्वाथो चतुःप्रस्थं जलमुत्सर्गसिद्धमेव तथा शेषोऽपि चतुर्थो भागःप्रस्थ एव भवति, तथापि यदेतच्चतुःप्रस्थश्रुतमित्यादि वचनं, तत् क्वाथ्याश्चतुर्गुणंवारीत्यादिपरिभाषायाः सूचकं ज्ञेयम्। तथा “त्रिंशत्पलानि तु प्रस्थो विज्ञेयोद्विपलाधिकः” इत्यपि वचनं द्रवद्वैगुण्यपरिभाषासूचकत्वेनैव ज्ञेयम्। एतदेव दृष्ट्वादृढयलसंस्कारेऽपि द्रवद्वैगुण्यमुक्तम्। किंवा परिभाषासिद्धमपि द्रवद्वैगुण्यं यदिहनिर्दिशति, तद् द्रवद्वैगुण्यपरिभाषा क्वचिद्वाधितापि भवतीति सूचयति। तेनकुडवप्रस्थादिकं गृहीत्वैव द्वैगुण्यं, न फूडवादर्वाक् इत्यर्थः सिद्धो भवति। अन्ये तुदार्ढ्यार्थसंशयितशिष्यबुद्धिवृद्ध्यर्थमेतद्वचनमित्याहुः। त्रिंशत्पलविशेषणतया यद्यपिद्विपलाधिकानीति निर्देशो युज्यते, तथापि प्रस्थविशेषणतया पुंलिङ्गस्य एकवचनस्यच निर्देशः समर्थनीयः। उत्थाने बहुश इति स्तोकस्तोकातिसरणे॥४५॥

क्षारः।

प्रशस्तेऽहनि नक्षत्रे कृतमङ्गलपूर्वकम्।
कालमुष्ककमाहृत्य दग्ध्वा भस्म समाहरेत्॥

आढकन्त्वेकमादाय जलद्रोणे पचेद्भिषक्।
चतुर्भागावशिष्टेन वस्त्रपूतेन वारिणा॥

शङ्खचूर्णस्य कुडवं प्रक्षिप्य विपचेत् पुनः।
शनैः शनैर्मृद्वग्नौ तु यावत् सान्द्रतनुर्भवेत्॥

सर्जिकायावशूकाभ्यां शुण्ठी मरिचपिप्पली।
वचा चातिविषा चैव हिंगुचित्रकयोस्तथा॥

एषां चूर्णानि निक्षिप्य पृथक्त्वेनाष्टमापकम्।

दर्व्यासङ्घट्टितञ्चापि स्थापयेदायसे घटे।
एष वह्निसमः क्षारः कीर्त्तितः काश्यपादिभिः॥४६॥

इदानीं क्षारपाकविधिमाह प्रशस्त इत्यादि—कालमुष्ककः कृष्णपुष्पो घण्टापारलिः; स एव श्रेष्ठगुणः, यदाह विश्वामित्रः “श्वेतपुष्पः कृष्णपुष्पो रक्तपुष्पस्तथैवच। पीतोऽन्याऽपि वरस्तेषु कृष्णपुष्पः प्रकीर्तितः” इति। तस्य च काष्ठं तिलनालैर्दग्ध्वा भस्म कर्तव्यम्, इत्यमेव सुश्रुताभिधानात्। आढकमिति भस्मनश्चतुःषष्टिपलानि। जलद्रोण इति द्वैगुण्याच्चतुःषष्टिशरावे; अन्ये तु अत्र द्वैगुण्यंनेच्छन्ति। शंखचूर्णस्य कुडवश्चतुः पलः, षोडशशिनाकृतद्वैगुण्यात्। परिस्रावितपादावशिष्टक्षारोदकाढकादिति चन्द्रिका। आगमप्रामाण्यसिद्धद्वैगुण्यपक्षे तुद्वात्रिंशांशनेति बोध्यम्। आयस इति लोहमये, एतच्च पात्रविशेषकथनं गुणोत्कर्षार्थम्, “यथा कुर्वन्ति स उपायः” इत्युक्तेः। क्षार इति प्रतिसारणीयः क्षारइत्यर्थः, प्रतिसारणीयश्च स्रक्षणीय इत्यर्थः॥४६॥

तोये कालकमुष्ककस्य विपचेद् भस्माढकं षड्गुणे
पात्रे लोहमये दृढे विपुलधीर्दर्व्या शनैर्घट्टयन्।

दग्ध्वाग्नौ बहुशङ्खनाभिशकलान् पूतावशेषे क्षिपेद्
यद्येरण्डजनालमेष ददतिक्षारो वरो वाक्शतात्॥

प्रायस्त्रिभागशिष्टेऽस्मिन्नच्छपैच्छिल्यरक्तता।
सञ्जायते तदास्राव्य क्षाराम्भोग्राह्यमिष्यते॥

तुर्य्येणाष्टमकेन षोडशभवेनांशेन संव्यूहिमो।
मध्यः श्रेष्ठ इति क्रमेण विहितः क्षारोदकाच्छङ्खकः॥

नातिसान्द्रो नातितनुः क्षारपाक उदाहृतः।
दुर्नामकादौ निर्दिष्टः क्षारोऽयं प्रतिसारणः॥

पानीयो यस्तु गुल्मादौ तं वारानेकविंशतिम्।
स्रावयेत् षड्गुणे तोये केचिदाहुश्चतुर्गुणे॥४७॥

तोये कालकमुष्ककस्येति—षड्गुण इति षडाढके व्यवहारादकृतद्विगुणे, अतएववृन्देनोक्तं—“द्वैगुण्यं नाढकेऽप्यत्र भागमान्नोपलक्षणात्” इति एतच्चान्ये दूषयन्ति, आढकादिश्रुत्या द्रवे यद्द्वैगुण्यं सर्वागमसिद्धं तत् कथं बाघनीयम्, न च क्वचित्तन्त्रे भागमात्रमुकम् येन भागमात्रोपलक्षणमिति वाच्यम्, अतएव चक्रेणास्वरसादेव द्वैगुण्यार्थं न किमपि लिखितम्। दग्ध्वाग्नौ बहुशङ्खनाभिशकलान्पूतावशेषे क्षिपेदिति त्रिभागशेषेणाच्छपैच्छित्यादिलक्षणोदये कल्कमपनीय छानयित्वा क्षाराम्बु ग्राह्यम्; ततः पुनः पचेत्, पश्चादासन्नपाके बहुशङ्खनाभिशकलानग्नौदग्ध्वा तस्य चूर्णं तुर्य्येणेत्यादि वक्ष्यमाणानुसारेण क्षिपेत्। अन्ये तु त्रिभागशेषे चतुर्भागावशेषे वा क्षारोदके वस्त्रपूते शङ्खचूर्णं दत्त्वा पुनः पक्तव्यं, यथा नातिसान्द्रं नातितरलञ्च स्यादित्याहुः। पूतावशेष इत्यत्र पूताङ्घ्रि शेषे इति केचित् पठन्ति,तन्मते च चतुर्थांशावशेषे वा क्षारोदके इत्यर्थः। सम्यक् सिद्धक्षारलक्षणमाह यद्येरण्डजनालमित्यादि—एष इति पक्कः शीतः क्षारो यदि निस्त्वचमेरण्डनालं लेपेनवाक्शताच्छोटिकशताद् दहति, तदा वरः श्रेष्ठ इत्यर्थः। पूतावशेषे इत्युक्तं, तश्चकियदवशिष्टं स्थाप्यम् इत्याह प्रायस्त्रिभाग इत्यादि। आस्नाव्येति वस्त्रेण गालयित्वा। इदानीं प्रक्षेप्यशङ्खचूर्णस्य मानभेदेन प्रतिसारणीयक्षारस्य मृद्वादिभेदमाह तुर्य्येणेत्यादि—

क्षारोदकात् इति त्रिभागावशिष्टक्षारोदकमपेक्ष्य शङ्खकःशङ्खचूर्णं यदि तुर्ये्येण चतुर्थांशेन विहितः प्रयुक्तो भवति, तदा संव्यूहिम इति मृदुक्षारो भवति। संव्यूहिम इति मृदुक्षारसंज्ञा। अष्टमकेना शेन यदि शङ्खचूर्णं दीयते, तदा मध्यः क्षारः, षोडशभवेनांशेन यदि शङ्खचूर्णते तदा श्रेष्ठःक्षारः इत्यर्थः। यद्यपि संव्यूहिमे क्षारोदकाच्चतुर्थांशेन दीयमानं शङ्खचूर्णं मध्यश्रेष्ठतारे दीयमानशङ्खचूर्णापेक्षया प्रभूतमेव, तथापि क्षारस्य मृदुत्वमेव भूयसाशङ्खचूर्णेन क्षारोदकस्य तीक्ष्णताया अभिभूतत्वात्। पानीयक्षारे तु न शङ्खचूर्णयोग इति तस्य नैते भेदाः। प्रतिसारणीयक्षारपाकलक्षणं तथा तद्विषयञ्चाहनातिसान्द्र इत्यादि—प्रतिसारण इति म्रक्षणप्रयोजकः। पातव्यक्षारोदकस्य विधानंविषयश्चाह पानीय इत्यादि—पानीय इति पातव्यो यः क्षारः, तं क्षारं षड्गुणेचतुर्गुणे वा जले पाकं विनैव एकविंशतिवारान् प्रतिस्राव्य क्षारोदकं ग्राह्यम्।अन्ये तु चतुर्गुणे जले पक्त्वा अर्द्धावशिष्टं कृत्वा कल्कमपसार्य्यचारोदकम् एकविंशतिवारान् परिस्रावयेदेव, न प्रतिसारणीयक्षारवत् अस्य पुनःपाकः इति तात्पर्य्यार्थ इत्याहुः। विश्वामित्रोऽप्याह"पानाय भावनायाथ परिस्राव्यं चतुर्गुणे।नले चार्द्धावाशष्टे च क्षाराम्भो ग्राह्यमिष्यते” इति पानाय यद्भावनं क्षारोदकविधानंतदर्थमित्यर्थः। पानीयक्षारमात्रा च पलत्रिकर्षार्द्धपलरूपा क्रमादुत्तममध्यमाधमबलानलविषया ज्ञेया॥४७॥

चारसूत्रम्।

भावितं रजनीचूर्णैः स्नुहीक्षीरे पुनः पुनः।
बन्धनात् सुदृढं सूत्रं भिनत्त्यर्शो भगन्दरम्॥

प्राग्दक्षिणं ततो वामं पृष्ठजञ्चाग्रजं क्रमात्।
पञ्चतिक्तेन सस्नेह्य दहेत् क्षारेण वह्निना॥

वातजं श्लेष्मजञ्चार्शः क्षारेणास्रजपित्तजे।
महान्ति तनुमूलानि च्छित्त्वैव बलिनो दहेत्।

चर्मकीलं तथा च्छित्त्वा दहेदन्यतरेण वा।
पक्वजम्बूपमो वर्णः क्षारदग्धः प्रशस्यते॥४८॥

क्षारसूत्रमाह भावितमित्यादि—

पुनःपुनरिति सप्ताहमित्यर्थः। प्राग्दक्षिणमित्यादि—

एतच्च क्रमोपदर्शनं मंगलार्थमस्मद्विशिष्टपुरुषगम्यं वा, एष च क्रमोयस्य चतुर्ष्वेव पार्श्वेष्वर्शांसिसन्ति तं प्रत्येव बोध्यः, यस्य पुनरेकतमपार्श्वे, तस्यतदेव दहनीयम्, एष च क्रमः क्षारे क्षारसूत्रेऽग्नौच। अप्रजमिति अण्डकोषसमीपस्थम् अस्य चदाहो वृद्धवैद्यैर्न क्रियते षाण्ढ्यभयात्। पञ्चतिक्तेनेति पञ्चतिक्तघृतेन पानादिना स्नेहयित्वेत्यर्थः। क्षारेण वह्निना च उभयमेव श्लेष्मजं वातजष्चदहेत्। रक्तजे पित्तजे पुनः क्षारणैव दहेत्। क्षारो हि सर्वत्रैवोचितः। यदाहसुश्रुतः—

“क्षारस्तु सर्वत्रवातिप्रसिद्धो नत्वग्निः” इति। अन्यतरेणेति क्षारेण वह्निना वा। क्षारेण सम्यग्दग्धस्य लक्षणमाह पक्केत्यादि—

पक्कजम्बूपमः स्निग्धकृष्णवर्ण इत्यर्थः॥४८॥

गोजीशेफालिकापत्रैरर्शः संलिख्य लेपयेत्।
क्षारेण वाक्शतं तिष्ठेद् यन्त्रद्वारं पिधाय च॥

तञ्चापनीय वीक्षेत पक्वजम्बूफलोपमम्।
यदि च स्यात् ततो भद्रं नो चेल्लिम्पेत् तथा पुनः॥

तत् तुषाम्बुप्लुतं साज्यं यष्टीकल्केन लेपयेत्।
ननिम्नं तालवर्णाभं वह्निदग्धं स्थितासृजम्॥

निर्वाप्य मधुसर्पिर्भ्यांवह्निसञ्जातवेदनाम्॥
सम्यग्दग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः॥

सामृतैः सर्पिषा युक्तैरालेपं कारयेद्भिषक्।
मुहूर्त्तमुपवेश्यासौ तोयपूर्णेऽथ भाजने।

क्षारमुष्णाम्बुना पाय्यं विबन्धे मूत्रवर्चसोः।
दाहे बस्त्यादिजे लेपः शतधौतेन सर्पिषा॥

नवान्नं माषतक्रादि सेव्यं पाकाय जानता।
पिबेद् व्रणविशुद्ध्यर्थं वराक्वाथं सगुग्गलुम्॥

जीर्णे शाल्यन्नमुद्गादि पथ्यं तिक्ताज्यसैन्धवम्।

रूढ़सर्वव्रणं वैद्यः क्षारं दत्त्वानुवासयेत्।
पिप्पल्याद्येन तैलेन सेवेद्दीपनपाचनम्॥४९॥

प्रतिसारणीयक्षारो यथोपयोज्यस्तदाह गोजात्यादि—गोजी शाखोटकः।क्षारेण लेपयेदित्यन्वयः। लघ्वक्षरोच्चारणकालो वाक्, तस्य : शतं छोटीशतं वा।यन्त्रद्वारं गुदस्थितयन्त्रस्य द्वारं पिधाय कर्पटादिना ढक्कयित्वा। पक्कजम्बूफलोपमंसम्यग्दग्धे, हीनदग्धे तु लोहितं भवति। यदाह वाग्भटः—“पक्कजम्बूनिभं शस्तंसम्यग्दग्धं विपर्य्ययात्। ताम्राभं तोदकण्ड्वाढ्यं दुर्गन्धं तत् पुनर्दहेत्। अतिदग्धे स्रवेदक्तंमूर्च्छादाहज्वरादयः। गुदे विशेषाद्विण्मूत्रसंरोधो वातिवर्त्तनम्। वातपित्तप्रशमनी शीता तत्र किया हिता” इति। तुषाम्बुकाञ्जिकम्। न निम्नमित्यादिनासम्यग्वह्निदग्धलक्षणम्। वह्निदग्धमिति वह्निना सम्यग्दग्धं, न निम्नमित्यादिलक्षणयुक्तं भवतीत्यर्थः। तालवर्णाभमिति पक्कतालसमवर्णम् तालवृन्ताभमितिपाठेऽपि पक्कतालवृन्तसमवर्णमित्यर्थः। स्थितास्रजमिति स्थितरक्तम्, एतच्च यदाअर्शश्छित्त्वा दह्यते तदा ज्ञेयम्। दाहश्च शिरासङ्कोचत्वेन रक्तस्तम्भक इति।दाहानन्तरं यद्विधेयं तदाह निर्वाप्येत्यादि—सम्यग्दग्धेऽर्शसीत्यर्थः। तुगाक्षीरीवंशलोचना, तदभावे तालक्षीरी, लक्षःपर्कटिः, तस्य वल्कलम्, अमृता गुडूची,यद्यपि गुडूची पाकादुष्णवीर्य्या तथापि स्पर्शाच्छीतैव, यथा काजिकमम्लमपिभक्षणात पित्तकरम् स्पर्शेन शीतमिति कृत्वा पित्तहरं भवति, तेन गुडूच्या निर्वापणत्वं चिन्त्यमिति केनचिदुक्तम् तदप्यपास्तम्, किं वा उष्णवीर्य्याया अपिगुडूच्या द्रव्यान्तरसंयोगमहिम्नैवात्र दाहप्रशमकत्वं ज्ञेयम्। तोयपूर्णं इति कोष्णतोयपूर्णे इत्याहुः। क्षारंमुष्णाम्बुनेति, क्षारं यवक्षारम्। वराक्वाथमिति वरा त्रिफलातिक्ताव्यं पञ्चतिक्तघृतम्। क्षारं दत्त्वेति क्षारवस्तिंदत्वा क्षारवस्तिदानानन्तरंपिप्पल्याद्येन तैलनानुवासयेदित्यर्थः॥४९॥

अग्निमुख लौहम्।

त्रिवृच्चित्रकनिर्गुण्डीस्नुहीमुण्डतिकाज्जटाः।
प्रत्येकशोऽष्टपलिका जलद्रोणे विपाचयेत्॥

पलत्रयं विडङ्गस्य व्योषात् कर्षत्रयं पृथक्।
त्रिफलायाः पञ्चपलं शिलाजतुपलं न्यसेत्।

दिव्यौषधिहतस्यापि वैकङ्कतहतस्य वा।
पलद्वादशकं देयं रुक्मलौहस्य चूर्णितम्॥

पलैश्चतुर्विंशतिभिर्मधुशर्करयोर्युतम्।
घनीभूते सुशीते च दापयेदवतारिते॥

एतदग्निमुख नाम दुर्नामान्तकरं परम्।
सममग्निंकरोत्याशु कालाग्निसमतेजसम्॥

पर्वता अपि जीर्य्यन्ति प्राशनादस्य देहिनः।
गुरुवृष्यान्नपानानि पयो मांसरसो हितः॥

दुर्नामपाण्डुश्वयथुकुष्ठप्लीहोदरापहम्।
अकालपलितञ्चैतदामवातगुदामयम्॥

न स रोगोऽस्ति यञ्चापि न निहन्यादिदं क्षणात्।

करीरकाञ्जिकादीनि ककारादीनि वर्जयेत्।
स्रवत्यतोऽन्यथा लोहं देहात् किट्टञ्च दुर्जरम्॥५०॥

प्रसिद्धफलमग्निमुखलौहमाह त्रिवृच्चित्रकेत्यादि—मुण्डतिका मुण्डिरी,अज्जटा भूम्यामलकी, अस्याः स्थाने जंटति पाठे त्रिवृदादीनां मूलमित्यर्थः। एषाञ्चजलद्रोणे क्वाथचतुर्थभागाविशिष्टः षोडशशरावरूपोऽर्थवशादेव सिद्धः। पृथगित्यनेन व्योषस्य प्रत्येकं त्रिकर्षमानत्वम्, त्रिफलायाश्च मिलित्वा पञ्च पलानि। एषाञ्चविडङ्गादिशिलाजत्वन्तचूर्णानां पाकावतारसमये प्रक्षेपः। दिव्यौषधिः स्वर्णमाक्षिकंमनःशिला वा शालिकोककनी वा, अन्यत्र तु मनःशिलाहतस्येतिपाठान्तरदर्शनान्मनःशिलेति युक्तम्। लौहमारकत्वात् तु सर्वाण्येवाविरुद्धानि। वैकङ्कुतहतस्य वेतिराढायां वह्निञ्चीति ख्यातम्, वारेन्द्र्यादिषु वयोकङ्कोलिरिति ख्यातम्। किन्तु स्वर्णमाक्षिकादिकं विना सम्यग् लैहमारणं न सिध्यति; अवश्यं तत्साधनद्वयसमुच्चयेनापि कर्तव्यम्।रुक्मलौहं कान्तव्यतिरिक्तं वज्रपाण्ड्यादिकृष्णलौहम्; तदुक्तंनिघण्टौ “तीक्ष्णमयसमुत्तराप्थपिण्डं रुक्म रुक्मकुट्टिः कृष्णलौहनामानि”। अत्रानुक्तस्यापिगव्यघृतस्य चतुर्विंशतिपलानि पाकारम्भसमय एव वृद्धवैद्यैर्दीयन्ते, घृतं विना क्वचिदपिलौहस्य पाकादर्शनात्, अन्त एव क्वचित् पलैश्चतुर्विंशत्याज्यशर्करयोरपीतिपाठान्तरं केचित् पठन्ति। मधुशर्करयोश्चतुर्विंशतिपलानि मिलित्वा, शर्कराघृताभ्यांपाके रात्रिपर्य्युषिते शीते मधुनः प्रक्षेपः, तेन शर्कराया द्वादशपलानि, मधुनोद्वादश पलानि, घृतस्य च चतुर्विंशतिपलानीति। भक्षणविधिरमृतसारलौहवत्॥४०॥

भल्लातकलौहम।

चित्रकं त्रिफला मुस्तं ग्रन्थिकं चविकाऽमृता।
हस्तिपिप्पल्यापामार्गदण्डोत्पलकुठेरकाः॥

एषां चतुष्पलान् भागान् जलद्रोणे विपाचयेत्।
भल्लातकसहस्रे द्वे छित्त्वा तत्रैव दापयेत्॥

तेन पादावशेषेण लौहपात्रे पवेद्भिषक्।
तुलार्द्धंतीक्ष्णलौहस्य घृतस्य कुडवद्वयम्॥

त्र्यूषणं त्रिफला वह्निः सैन्धवं विडमौद्भिदम्।

सौवर्चलविडङ्गानि पलिकांशानि कल्पयेत्।
कुडवं वृद्धदारस्य तालमूल्यास्तथैव च॥

शूरणस्य पलान्यष्टौ चूर्णं कृत्वा विनिक्षिपेत्।
सिद्धे शीते प्रदातव्यं मधुनः कुडवद्वयम्॥

प्रातर्भोजनकाले च ततः खादेद् यथाबलम्॥

अर्शांसि ग्रहणीदोषं पाण्डुरोगमरोचकम्।
किमिगुल्माश्मरीमेहान् शूलञ्चाशु व्यपोहति॥

करोति शुक्रोपचयं वलीपलितनाशनम्।
रसायनमिदं श्रेष्ठं सर्वरोगहर परम्॥५१॥

भलातकलौहे ठरकः पर्णाशः। भल्लातकसहस्रं द्वे इत्याकृतिमानात्। तत्रैवेति जलद्रोणे। तीक्ष्णलौ हस्येति वज्रपाण्ड्यादिलौहस्य। गव्यवृतस्य कुडवद्वयमितिद्वैगुण्यात् षोडश पलानि; एवं मधुनोऽपि; सिद्धे च त्र्यूषणादीनां प्रक्षेपः; सर्वमपरममृतसारवत्। अत्रामृतसारोक्लविधिना पुटितं यथाव्याधि प्रत्यनीकद्रव्यपुटितश्चलौहं ग्राह्यं, भक्षणादिविधरपि तथैव॥५१॥

रसगुडिका—

रसस्तु पादिकस्तुल्या विडङ्गमरिचाभ्रकाः।
गङ्गापालङ्कजरसे खल्वयित्वा पुनः पुनः॥

रक्तिमात्रा गुदार्शोघ्नी वह्नेरत्यर्थदीपनी।

वेगावरोधस्त्रीपृष्ठयानमुत्कटुकासनम्॥

यथास्वं दोषलञ्चान्नमर्शसः परिवर्जयेत्॥५२॥

रसस्तु पादिक इति विडङ्गादीना मेकतमभागापेक्षया; तेन विडङ्गमरिचाम्रकाणांप्रत्येकं त्रयो भागाः, पारदस्यैको भाग इत्यर्थः। शोधितपारद २ माषा, मारिताभ्रचूर्ण विडङ्ग मरिच, प्र ६ माषा। ग्रन्थान्तरेऽपि रसभागापेक्षया विडङ्गमरिचाभ्रकाणां प्रत्येकं भागत्रयमुक्तम्।गङ्गापालङ्केति पालङ्कसदृशपत्रं गङ्गापालकं, गाङ्गराइ,इति ख्यातम्। पुनः पुनरिति सप्ताहमात्रंकृतं नियम इत्यर्थः। रसाभ्रकशोधनश्च क्षुधावत्युक्तविधयैव विधेयम्। पृष्ठयानं हस्त्यश्वादिष्पृष्ठे गमनम्॥५२॥

इति अर्शश्चिकित्सा।

<MISSING_FIG href=”../../../../../books_images/U-IMG-170689130724020201-removebg-preview.png"/>

अथाग्निमान्द्यचिकित्सा।

समस्य रक्षणं कार्य्यं विषमे वातनिग्रहः।
तीक्ष्णे पित्तप्रतीकारो मन्दे श्लेष्मविशोधनम्॥१॥

अर्शः कार्य्यत्वात् तदनन्तरमग्निमान्द्यादिचिकित्सामाह समस्येत्यादि—रक्षणमितिपालनम्। वातनिग्रहो वातस्य प्रशमनमित्यर्थः॥१॥

हिङ्ग्वष्टकं चूर्णम्।

त्रिकटुकमजमोदा सैन्धवं जीरके द्वे
समधरणधृतानामष्टमो हिङ्गुभागः।
प्रथमकवलभुक्तं सर्पिषा चूर्णमेत-
ज्जनयति जठराग्निं वातरोगांश्च हन्यात्॥२॥

त्रिकटुकमित्यादि—वाग्भटेनायं योगो गुल्माधिकारे पठितः। अजमोदा यमानीएवं सर्वत्रान्तः परिमार्जने, वहिःसम्मार्जने पुनरजमोदैय, उक्तं हि “अन्तःसम्मार्जनेप्रायोऽजमोदा च यमानिका। बहिःसम्मार्जने ज्ञेया चाजमोदाऽजमोदिका” इति।समधरणधृतानामिति धरणं तुला, तया समं यथा स्यात् तथा धृतानाम्, अन्येतुपलदशमांशो धरणम्, समाश्च ते धरणघृताश्चेति विग्रहः। अष्टमो हिंगुभाग इतितेत्रिकट्वादीनां सप्तभागास्तदेकभागसमो द्दिंगुभाग इत्यर्थः। वातरोगांश्च हन्तीत्यत्रवाग्भटे वातगुल्मांश्चहन्तीति क्वचित् पाठः॥२॥

समयवशूकमहौषधचूर्णे लीढं घृतेन गोसर्गे।
कुरुते क्षुधां सुखोदकं पीतं विश्वौषधं वैकम्॥३॥

समेत्यादौ—यवशूको यवक्षारः। विश्वौषधं वैकमिति वाशब्दः पूर्वयोगापेक्षयाइवार्थे वाशब्दो वा। गोसर्गे गोः सूर्यकिरणस्य सर्गे मोक्षे प्रातरित्यर्थः॥३॥

अन्नमण्डं पिबेदुष्णं हिङ्गुसौवर्चलान्वितम्।
विषमोऽपि समस्तेन मन्दो दीप्येत पावकः॥४॥

अन्नमण्डमित्यादि—अन्नस्य मण्डः अन्नमण्ड इति केचित्। अन्ये तुचतुर्दशगुणाम्बुसाधित एव मण्डोऽन्नमण्डशब्देनोच्यते, अन्नपदं सुरामण्डादिनिरासार्थमित्याहुः॥४॥

अन्नमण्डगणाः।

क्षुद्बोधनो बस्तिविशोघनश्च प्राणप्रदः शोणितवर्द्धनश्च।
ज्वरापहारी कफपित्तहन्ता वायुं जयेदष्टगुणोहि मण्डः॥५॥

क्षुद्बोधन इत्यादि—अष्टगुणो हि मण्डइति सुतण्डुलानां प्रसृतद्वयञ्च तदर्द्धमुद्गःकटुकतक्रंकुस्तुम्बुरी सैन्धवहिंगुतैलम्। एभिश्च सर्वैः मण्ड इत्यस्यानन्तरमेव यद्यपि माधवकरेण द्रव्यगुण सुतण्डुलेत्यादिव वनानन्तरं क्षुद्बोधनेत्यादि पद्यंपठितं तथाप्यन्नमण्डस्यापि मण्डत्वसामान्यादेतत् गुणाष्टकं ज्ञेयम्। कुस्तुम्बुरीधन्याकं तच्च मनाग्मृष्टं ग्राह्यम्, विधिः पुनरस्य यथोक्तमानौ तण्डुलमुद्गौ तक्रजलेयुक्त्या दत्त्वा विपाच्य मण्डो ग्राह्यः।पश्चात् त्रिकटुकादिभिर्यथा संस्कारइति॥५॥

तीक्ष्णाग्निचिकित्सा।

नारीक्षीरेण संयुक्तां पिबेदौडुम्बरीं त्वचम्।
आभ्यां वापायसं सिद्धं पिबेदत्यग्निशान्तये॥

यत्किञ्चिद् गुरु मेध्यञ्च श्लेष्मकारि च भेषजम्।
सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा॥६॥

अत्यग्निचिकित्सामाह नारीक्षीरेणेत्यादि—उडुम्बरत्वचः कर्षःपायसपक्षे तुउडुम्बरत्वचः पलम्, तण्डुलं नारीक्षीरञ्चानुरूपं दत्त्वा पायसः कार्य्यः। यात्कञ्चिदित्यादि महिषीदुग्धादि॥६॥

मुहुर्मुहुरजीर्णेऽपि भोज्यमस्योपकल्पयेत्।
निरिन्धनोऽत्तरं लब्ध्वा यथन न निपातयेत्॥७॥

मुहुर्मुहुरित्यादि—तथाजीर्णेऽपि मुहुर्मुहुर्भोज्यमस्योपकल्पयेत, यथा निरिन्धनोऽग्निः, अन्तरमित्यवकाशं लब्ध्वा, एनमातुरं न निपातयत् न मारयेत्, धातुपाकादिति भावः। उक्तं हि “आहारमग्निःपचति दोषानाहारवर्जितः। धातून् क्षीणेषु दोषेषु न जीवेद् धातुसंक्षये इति॥७॥

विश्वाभयागुडूचीनां कषायेण षडूषणम्।
पिबेत् श्लेष्मणि मन्देऽग्नौ त्वक्पत्रसुरभीकृतम्॥

पञ्चकोलं समरिचं षडूपणमुदाहृतम्॥८॥

विश्वाभयेत्यादि—त्वक् गुडत्वक्, त्वक्पत्रे सुरभिमानत्वकारके देथे। पञ्चकोलं समरिचं पडूषणमिति, तदुक्तं “मरिचं पिप्पली शुण्ठी त्र्यूषणं समुदाहृतम्।पिप्पलीमूलसंयुक्तं चतुरूषणमुच्यते। साग्नि पञ्चोषणञ्चैव सचव्यञ्च षडूषणम्"इति एतच्च षडूषणं प्रक्षेपविषये ज्ञेयम्॥८॥

हरीतकी भक्ष्यमाणा नागरेण गुडेन वा।

सैन्धवोपहिता वापि सातत्येनाग्निदीपनी॥९॥

हरीतकीत्यादि—सुश्रुतस्य। योगत्रयमेतत्, शुण्ठ्या कफे, गुडेन वाते, सैन्धवेग दोषत्रयेऽपि विशेषाद्वातकफे॥६॥

सिन्धूत्थपथ्यमगधोद्भववह्निचूर्ण-
मुष्णाम्वुना पिबति यः खलु नष्टवह्निः।
तस्यामिषेण सघृतेन वरं नवान्नम्
भस्मीभवत्यशितमात्रमिह क्षणेन॥१०॥

सिन्धुत्थेत्यादि—पथ्याहरीतकी, ह्रस्वत्वमिह छान्दसत्वात्। मगधोद्भवापिप्पली अत्रापि पूर्ववद् ह्रस्वत्वम्। वरं प्रकृष्टमिति यावत्, मांसघृताभ्यामधिकमपीत्यर्थः। केचिदिह सैन्धवादीनां मानभेदार्थं नातिप्रसिद्धं हरिश्चन्द्रमतं वर्णयन्ति। तद्यथा—हरीतकी हरिहरतुल्यषड्गुणा चतुर्गुणा चतुरविना सपिप्पली।द्विचित्रकं वरवदनैकसैन्धवं रसायनं कुरु नृप वह्निदीपनम्” इति व्यवहारस्तुसमभागनेति॥१०॥

सिन्धूत्थहिंगुत्रिफलायमानीव्योषैर्गुडांशैर्गुडिकान् प्रकुर्य्यात्।
तैर्भक्षितैस्तृप्तिमवाप्नुवन् ना भुञ्जीतं मन्दाग्निरपि प्रभूतम्॥११॥

सिन्धूत्थत्यादौ—गुडांशैरिति एकद्रव्यसमोऽत्र गुडभागः, प्रायेण हि श्लेष्माधिकेऽग्निसादे श्लेष्माणि च गुडोबहुतरो न युक्त इत्याहुरेके। अन्ये तु सर्वचूर्णापेक्षया द्विगुणो गुडः, तस्माद् गुडादर्द्धं समुदितचूर्णम्, तेन गुडांशमिति, मोदकेद्विगुणो गुड इति वचनमनुगृहीतं भवतीत्याहुः। तृप्तिमनाप्नुवन्निति मन्दाग्निरपितावत् प्रभूतं भुंक्ते यावत् तृप्तिमवाप्नोति। अनाप्नुवन्निति पाठे पुनरत्यग्नित्वात्प्रभूतभोजनेऽपि न तृप्तिमाप्नोतीत्यर्थः॥११॥

विडङ्गभल्लातकचित्रकामृताः सनागरास्तुल्यगुडेन सर्पिषा।
लिहन्ति ये मन्दहुताशना नरा भवन्ति ते बाडवतुल्यवह्नयः॥१२॥

विडंगेत्यादि—तुल्यगुडेनेत्यत्र युक्ता इत्यध्याहार्य्यम् तेनैव भागसमो गुडः।केवलघृतेनैव लिहन्तीति व्याख्यानयन्ति केचित्। अन्ये तु तुल्यगुडेनेति पदं सर्पिर्विशेषणं वर्णयित्वा समुदितचूर्णापेक्षया द्विगुणेन मिलित्वा गुडसर्पिषा लेह इतिव्याचक्षते, युक्तश्चैतत् नागार्जुनोक्तवचनसंवादात्, तथा हि सञ्चुर्णिता गुडूचीविडंगभल्लातकनागरहुताशाः। ज्वलयन्ति जठराग्निंसमेन गुडसर्पिषा लीढाः"इति॥१२॥

गुडेनं शुण्ठीमथवोपकुल्यां पथ्यां तृतीयामथ दाडिमं वा।
आमेष्वजीर्णेषु गुदामयेषु वर्च्चोविबन्धेषु च नित्यमद्यात्॥१३॥

गुडेन शुण्ठीमित्यादि—पथ्या तृतीयामिति समस्तमसमस्तञ्च।तत्रं समस्तपक्षे गुडेनेति पदम्, तथा पथ्यां तृतीयामिति पदञ्चशुण्ठ्य दिषु प्रत्येकं योज्यम्,तेन गुडेन पथ्यां तृतीयां शुण्ठीमित्येको योगः। तथा गुडेन पथ्यातृतीयामुपकुल्यामिति द्वितीयः। तथा गुडेन पथ्यातृतीयं दाडिममिति लिङ्गविपरिणामेनयोज्यमिति योगत्रयं यथासंख्यमामाजीर्णदिषु रोगेषु योज्यम्। यत्तु गुडशुण्ठीभक्षणं गुडपिप्पलीभक्षणं वा, तदस्मिन् व्याख्याने प्रयोगान्तरमेव। यदा तुपथ्यां तृतीयामित्यसमस्तपाठस्तदा गुडेनेति पदं शुण्ठ्यादिषु चतुर्षु प्रत्येकं योज्यम्तेन चत्वारो योगा यथाक्रममामादिषु चतुर्षु योज्याः। अस्मिन् पक्षे तृतीयामितिपदं योगव्यवच्छेदार्थं ज्ञेयम्॥१३॥

भोजनाग्रे सदा पथ्यं जिह्वाकण्ठविशोधनम्।
अग्निसन्दीपनं हृद्यंलवणार्द्रभक्षणम्॥१४॥

भोजनाग्रेइत्यादि स्पष्टम्—इमन्तु योगं सर्वेऽप्याद्रियन्ते प्रत्यक्षफलत्वात् सहजलभ्यत्वाच्च॥१४॥

कपित्थतक्रचाङ्गेरीमरिचाजाजिचित्रकैः।
कफवातहरो ग्राही खडो दीपनपाचनः॥१५॥

कपित्थेत्यादौ—कफवातहर इत्येव पाठः, न तु कफपित्तहर इति, द्रव्यगुणपर्य्यालोचनया कपित्थादीनां वातकफहन्तृत्वात्। खड इति यूषविशेषस्य पारिभाषिकी संज्ञा, अस्य विधानाञ्चातीसाराधिकार एवोक्तम्॥१५॥

शार्दूलकाञ्जिकः।

पिप्पली शृङ्गवेरञ्च देवदारु सचित्रकम्।
चविकां बिल्वपेषीञ्चाजमोदाञ्च हरीतकीम्॥

महौषधं यमानीञ्च धान्यकं मरिचं तथा।
जीरकञ्चापि हिङ्गुञ्च काञ्जिकं साधयेद्भिषक्॥

एष शार्दूलको नाम काञ्जिकोऽग्निबलप्रदः।
सिद्धार्थतैलसम्भृष्टो दश रोगान् व्यपोहति॥

कासं श्वासमतीसारं पाण्डुरोगं सकामलम्।
आमञ्च गुल्मशूलञ्च वातगुल्मं सवेदनम्॥

अर्शांसि श्वयथुञ्चैव भुक्ते पीते च सात्म्यतः।
क्षीरपाकविधानेन काञ्जिकस्यापि साधनम्॥१६॥

पिप्पलत्यादौ—बिल्वपेशी बिल्वशलाटुः शृङ्गवेरम् आर्दकम्। पाकात् त्रिभागशेषे काञ्जिके कटुतैले सन्तलनम्, हिंगुजीरकयोश्च प्रक्षेप इत्युपदिशन्तिवृद्धाः। सात्म्यतोऽभ्यासादित्यर्थः। क्षीरपाकविधानेनेति द्रव्यादष्टगुणं क्षीरमित्यादिपरिभाषया, अतएवोक्तमन्यत्र “क्षीरमस्त्वारनालानां नास्ति पाकोऽम्भसा विना।सम्यक् पाको न गच्छत्तु तस्मात् तोयं चतुर्गणम्” इति॥१६॥

अग्निमुखं चूर्णम्।

हिङ्गुभागो भवेदेको वचा च द्विगुणा भवेत्।
पिप्पली त्रिगुणा चैव शृङ्गवेरं चतुर्गुणम्॥

यमानिका पञ्चगुणा षड्गुणा च हरीतकी।
चित्रकं सप्तगुणितं कुष्ठञ्चाष्टगुणं भवेत्॥

एतद्वातहरं चूर्णं पीतमात्रं प्रसन्नया।
पिबेद् दध्ना मस्तुना वा सुरया कोष्णवारिणा॥

सोदावर्त्तमजीर्णञ्च प्लीहानमुदरं तथा।

अङ्गानि यस्य शीर्य्यन्त विषं वा येन भक्षितम्॥

अर्शोहरं दीपनञ्च श्लेष्मघ्न गुल्मनाशनम्॥

कासं श्वासं निहन्त्याशु तथैव यक्ष्मनाशनम्॥

चूर्णमग्निमुखं नाम न क्वचित् प्रतिहन्यते॥१७॥

हिंगुभाग इत्यादौ—द्विगुणेत्याद्यभागापेक्षया एवं त्रिगुणेति। प्रसन्नयेतिसनिरुद्धवाते, दध्नेति शुद्धवाते, मस्तुनेति अल्पकफवाते, सुरया कफवाते, उष्णवारिणासामवाते कफे च॥१७॥

पानीयभक्तगुडिका।

रसोऽर्द्धभागिकस्तुल्या विडङ्गमरिचाभ्रकाः।
भक्तोदकेन सम्मर्द्य कुर्य्याद् गुञ्जानिभान् गुडान्॥

भक्तोदकानुपानैका सेव्या वह्निप्रदीपनी।
वार्य्यन्नभोजनञ्चात्र प्रयोगे सात्म्यमिष्यते॥१८॥

पानीयभक्तगुटिकायां—रसोऽर्द्धज्जभागिक इत्येकभागापेक्षया; केचिदत्र कलिकार्थ रसस्यार्द्धंगन्धकं क्षिपन्ति। विडङ्गादीनां प्रत्येकं रसापेक्षया द्विगुणो भागः।अर्शोऽधिकारोक्तरसगुटिकायान्तु विटंगादीनां रसापेक्षया प्रत्येकं त्रिगुणो भागइति भेदः। भक्तोदकेनत्यन्नभक्तपानीयेन॥१८॥

बृहदग्निमुखं चूर्णम्।

द्वौ क्षारौ चित्रकं पाठाकरञ्जलवणानि च।
सूक्ष्मैलापत्रकं भार्गी क्रिमिघ्नं हिङ्गु पौष्करम्॥

शटी दार्वी त्रिवृन्मुस्तं वचा सेन्द्रयवा तथा।
धात्रीजीरकवृक्षाम्लं श्रेयसी चोपकुञ्चिका॥

अम्लवेतसमम्लीका यमानी सुरदारु च।
अभयातिविपा श्यामा हवुपारग्वधं समम्॥

तिलमुष्ककाशग्रूणां कोकिलाक्षपलाशयोः।

क्षाराणि लौहकिट्टञ्च तप्तगोमूत्रसेचितम्॥

सर्वाणि समभागानि सूक्ष्मचूर्णानि कारयेत्।
मातुलुङ्गरसेनैव भावयेच्च दिनत्रयम्॥

दिनत्रयञ्च शुक्तेन चार्द्रकस्वरसेन च।
अत्यग्निकारकं चूर्णं प्रदीप्ताग्निसमप्रभम्॥

उपयुक्तविधानेन नाशयत्यचिराद्गदान्।
अजीर्णकमथो गुल्मं प्लीहानं गुदजानि च॥

उदराण्यन्त्रवृद्धिञ्च अष्ठीलां वातशोणितम्।
प्रणुदत्युल्वणान् रोगान् नष्टमग्निञ्च दीपयेत्॥

समस्तव्यञ्जनोपेतं भक्तं दत्त्वा सुभाजने।

दापयेदस्य चूर्णस्य बिडालपदमात्रकम्।
गोदोहमात्रात् तत् सर्वं द्रवीभवति सोष्मकम्॥१९॥

बृहदग्निमुखे—करञ्जं करञ्जमूलस्य त्वक्, यत्तु एतस्य सुश्रुतेन कोविदारपूर्वाणां फलमित्यनेन फलग्रहणमुपदिष्टम्, तच्चोधनविषयं ज्ञेयम्। लवणानिपञ्चलवणानि, वृक्षाम्लं महार्द्रकं, श्रेयसी रजपिप्पली, एवं सर्वत्राग्निदीपनयोगे,वाते परं श्रेयस्यां

रास्नागृह्यते। उपकुञ्चिका स्वल्पकृष्णजीरकम्, अम्लिकातिन्तिडी, एवं सर्वत्राग्निदीपनयोगे, पुरीष-संग्रहादौ, पुनराम्लका चांगेरी गृह्यते। श्यामा वृद्धदारकः, आरग्वधः, श्योणाकफलम् तिलशब्देनात्र तिलनालग्रहणं क्षारार्थत्वात्, मुष्ककेंः घण्टापारुली, लौहविट्टंमण्डूरम्, तच्च पुराणं ग्राह्यम्।जेज्जटस्तु किट्टं पृथगेव पार्थिवद्रव्यं मण्डूरादिति। तप्तं गोमूत्रसेचितमिति अग्निवर्णं कृत्वा सप्तधा गोमूत्रनिर्वापितमित्यर्थः, एवं सर्वत्र मण्डूरशोधनं ज्ञेयम्। शुक्लेनेतिग्रहण्युक्तसन्धानविशेषेणः, तदभावे काञ्जिकेन, एवमन्यत्रापि बोध्यम्। गोदोहमात्रात गोदोहमात्रात् गोदोहनमात्रकालात्॥१९॥

भास्करलवणम्।

पिप्पली पिप्पलीमूलं धन्याकं कृष्णजीरकम्।
सैन्धवञ्च विडञ्चैव पत्रं तालीशकेशरम्॥

एषां द्विपलिकान्भागान् पञ्च सौवर्चलस्य च।
मरिचाजाजिशुण्ठीनामेकैकस्य पलं पलम्॥

त्वगेले चार्द्धभागे च सामुद्रात् कुडवद्वयम्।
दाडिमात् कुडवञ्चैव द्वे पले चाम्लवेतसात्॥

एतच्चूर्णीकृतं श्लक्ष्णं गन्धाढ्यममृतोपमम्।
लवणं भास्करं नाम भास्करेण विनिर्मितम्॥

जगतस्तु हितार्थाय वातश्लेष्मामयापहम्।

वातगुल्मं निहन्त्येतद् वातशूलानि यानि च।
तक्रमस्तुसुरासीधुशुक्तकाञ्जिकयोजितम्॥

जाङ्गलानान्तु मांसेन रसेषुविविधेषु च।
मन्दाग्नेरश्नतः शक्तोभवेदाश्वेव पावकः॥

अर्शांसि ग्रहणीदोषंकुष्ठामयभगन्दरान्।
हृद्रोगमामदोषांश्च विविधानुदरस्थितान्॥

प्लीहानमश्मरीञ्चैवश्वासकासोदरक्रिमीन्॥

विशेषतः शर्करादीन रोगान् नानाविधांस्तथा।
पाण्डुरोगांश्च विविधान् नाशयत्यशनिर्यथा॥२०॥

भास्करलवणे—केशरं नागकेशरपुष्पम्। पञ्चसौवर्चलस्येति पञ्चपलानिसौवर्चलस्येत्यर्थः। त्वगेले चार्द्धभागिके इति पलापेक्षया, तेन त्वगेलयोः प्रत्येकमर्द्धपलमित्यर्थः। गन्धाढ्यमिति पत्रतालीशादिद्रव्ययोगादेव, न पुनरपरचातुर्जातप्रक्षेपेण॥२०॥

अग्निघृतम्—

पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली।
हिङ्गु चव्याजमोदा च पञ्चैव लवणानि च॥

द्वौ क्षारौ हवुषा चैव दद्यादर्द्धपलोन्मितान्।
दधिकाञ्जिकशुक्तानि स्नेहमात्रासमानि च॥

आर्द्रकस्वरप्रस्थं घृतप्रस्थं विपाचयेत्।
एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते॥

अर्शसां नाशनं श्रेष्ठं तथा गुल्मोदरापहम्।
ग्रन्थ्यर्वुदापचीकासकफमेदोऽनिलानपि॥

नाशयेद ग्रहणीदोषं श्वयथुं सभगन्दरम्॥

ये च वस्तिगता रोगा ये च कुक्षिसमाश्रिताः।
सर्वांस्तान् नाशयत्याशु सूर्य्यस्तम इवोदितः॥२१॥

पिप्पलीत्यादि—स्वल्पाग्निघृते हस्तीपिप्पली गजपिप्पली; अजमोदा वस्तगन्धा(वनयमानी), द्वौ क्षारौयवक्षारः सर्जिकाक्षारश्च॥२१॥

मस्तुषट्पलकं घृतम्।

पलिकैः पञ्चकोलैस्तु घृतं मस्तुचतुर्गुणम्।
सक्षारैः सिद्धमल्पाग्निकफगुल्मं विनाशयेत्॥२२॥

मस्तुषट्पलके—घृतस्य प्रस्थः, “अनिर्दिष्टप्रमाणानां स्नेहानां प्रस्थ इत्यर्थः"इत्युक्तेः। पलिकैः प्रत्येकशः, कल्कस्तु स्नेहपादिक इत्युक्तेः॥२२॥

वडवामुखचूर्णम्।

पथ्यानागरकृष्णाकरञ्जबिल्वाग्निभिः सितातुल्यैः।

वडवामुखं विजयते गुरुतरमपि भोजनं चूर्णम्॥२३॥

पथ्येत्यादि—स्पष्टम्॥ २३॥

बृहदग्निघृतम्—

भल्लातकसहस्रार्द्धं जलद्रोणे विपाचयेत्।
अष्टभागावशेषञ्च कषायमवतारयेत्॥

घृतप्रस्थं समादाय कल्कानीमानि दापयेत्।
त्र्यूषणं पिप्पलीमूलं चित्रको हस्तिपिप्पली॥

हिङ्गुचव्याजमोदा च पञ्चैव लवणानि च।
द्वौ क्षारौ हवुषा चैव दद्यार्द्धपलोन्मितान्॥

दधिकाञ्जिकशुक्तानि स्नेहमात्रासमानि च।
आर्द्रकस्वरसञ्चैव शोभाञ्जनरसं तथा॥

तत्सर्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत्।
एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते॥

अर्शसां नाशनं श्रेष्ठं मूढवातानुलोमनम्।
कफवातोद्भवे गुल्मे श्लीपदे च दकोदरे॥

शोथं पाण्ड्वामयं कासं ग्रहणीं श्वासमेव च।
एतान् विनाशयत्याशु तमः सूर्य्यं इवोदितः॥२४॥

बृहदग्निघृत—भल्लातकसहस्रार्द्धमित्याकृतिमानात्, शोभाञ्जनरसः शोभाञ्जनस्यमूलत्वचः स्वरसः॥२४॥

क्षारगुडः—

द्वे पञ्चमूले त्रिफलामर्कमूलं शतावरीम्।
दन्तीं चित्रकमास्फोतां रास्त्रां पाठां सुधांशटीम्॥

पृथग्दशपलान् भागान् दग्ध्वा भस्म समावपेत्।
त्रिःसप्तकृत्वस्तद्भस्म जलद्रोणे च गालयेत्॥

तद्रसंसाधयेदग्नौ चतुर्भागावशेषितम्।
ततो गुडतुलां दत्त्वा साधयेन्मृदुनाग्निना॥

सिद्धं गुडन्तु विज्ञाय चूर्णानीमानि दापयेत्।
वृश्चिकालीं द्विकाकोल्यौ यवक्षारं समावपेत्॥

एते पञ्चपला भागाः पृथक् पञ्च पलानि च।
हरीतकी त्रिकटुकं सर्जिकां चित्रकं वचाम्॥

हिङ्ग्वम्लवेतसाभ्याञ्च द्वे पले तत्र दापयेत्।
अक्षप्रमाणां गुडिकां कृत्वा खादेद् यथाबलम्॥

अजीर्णं जरयत्येष जीर्णे सन्दीपयत्यपि।
भुक्तं भुक्तञ्च जीर्य्येतपाण्डुत्वमपकर्षति॥

प्लीहार्शःश्वयथुञ्चैव श्लेष्मकासमरोचकम्।
मन्दाग्निविषमाग्नीनां कफे कण्ठोरसि स्थिते॥

कुष्ठानि च प्रमेहांश्च गुल्मञ्चाशु व्यपोहति।
ख्यातः क्षारगुडो ह्येप रोगयुक्ते प्रयोजयेत्॥२५॥

क्षारगुढे आस्फोता नवमल्लिका हाफरमालि इति ख्याता, सुधा स्नुही, तस्यामूलम्। त्रिःसप्तकृत्व इत्येकविंशतिवारान् वाराभिधेये कृत्वस्प्रत्ययः। वृश्चिकालीवृश्विकपत्री, काकोल्यौ काकोली क्षीरकाकोल्यौ। एते पञ्चपला भागाः पृथगिति छेदः। पञ्चपलानीत्यत्र एषामिति शेषः, तेन हरीतक्यादीनां वचान्तानां मिलियापञ्च पलानीत्यर्थः। हिंग्वम्लवेतसयोरपि मिलित्वैव द्वे पले। रोगयुक्तइति न तुस्वस्थे, सौम्यधातुक्षयभयात्॥२५॥

चित्रकगुडः।

नासारोगे विधातव्या या चित्रकहरीतकी।
विना धात्रीरसं सोऽस्मिन् प्रोक्तश्चित्रगुडोऽग्निदः॥२६॥

नासारोग इत्यादि स्पष्टम्॥२६॥

आमाजीर्णचिकित्सा।

वचालवणतोयेन वान्तिरामे प्रशस्यते॥२७॥

अग्निमान्द्याजीर्णयोः परस्परकारणत्वादग्निमान्द्यप्रकरण एवाजीर्णचिकित्सामाह वचेत्यादि—वचालवण कल्कयुक्तेनोष्णोदकेन किंवा वचया अर्द्धशृतेनोष्णोदकेनसलवणेनवा वमनम्॥२७॥

विदग्धाजीर्णचिकित्सा।

अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति।
तद्ध्यस्य शैत्येन निहन्ति पित्तमाक्लेदिभावाच्च नयत्यधस्तात्॥२८॥

विदग्धाजीर्णचिकित्सामाह अन्नमित्यादि—सुश्रुतस्य। शीताम्बुना परिपाकमेतीति यदुक्तंतदेनोपपादयति तद्ध्यस्येत्यादि—हिशब्दो हेतौ। तदिति शीताम्बुअस्याजीर्णिनः पित्तं निहन्तीत्यन्वयः। आक्लेदिभावादिति द्रवत्वात्॥२८॥

विदह्यते यस्य च भुक्तमात्रं दह्येत हृत्कोष्ठगलञ्च यस्य।
द्राक्षासितामाक्षिकसम्प्रयुक्तां लीढ्वाभयांवै स सुखं लभेत्॥

हरीतकी धान्यतुषोदसिद्धा सपिप्पली सैन्धवहिङ्गयुक्ता।
सोद्गारधूमं भृशमप्यजीर्णं विजित्य सद्यो जनयेत् क्षुधाञ्च॥२६॥

विदह्यत इत्यादि—सुश्रुतस्य। भुक्तमात्रमिति मात्रशब्दःकार्त्स्न्ये यावद्भुक्तमित्यर्थः, भुक्तसाकल्यं मात्राशब्दोवर्त्तते। किंवा भुक्तमात्रमिति भोजनानन्तरं,तत्कालमेवेत्यर्थः। अन्नं विदग्धं हि नरस्य शीघ्रम्” इत्यादि वाक्यं, तथा “विदह्यते तस्य तु भुक्तमात्रम्” इत्यादि वाक्यं, तथा “भवेदजीर्णं प्रति यस्य शङ्का"इत्यादि वक्ष्यमाणन्तु सौश्रुतवचनमनार्षमिति, अजीर्णे भेषजनिषेधस्य स्वयमेवसुश्रुतेनोक्तत्वात्, लङ्घनाद्युपदेशाच्च, ततश्च केनाप्यश्ववैद्येन घस्मरवैद्येन प्रकल्पितंयोगत्रयमिदमित्याह जेज्जटः। अपरे तु प्रचाराद् भूरिपाठदर्शनाच्च योगत्रययतदर्थं मन्यन्त एव, किन्तु स्वल्पाजीर्णे बोध्यमेतत् प्रभूताजीर्णे तु भेषजसम्बन्धं नकुर्य्यात्, अल्पाजीर्णे तु औषधं सेव्यमिति। हरीतकीत्यादौ—धान्यतुषोदं सन्धानविशेषः, तदभावे काञ्जिकं, तेन सिद्धा उत्स्विन्ना॥२९॥

विष्टब्धाजीर्णचिकित्सा।

विष्टब्धे स्वेदनं पथ्यं पेयञ्च लवणोदकम्।
रसशेषे दिवास्वप्नो लङ्घनं वातवर्जनम्॥३०॥

विष्टब्धाजीर्णांचकित्सामाह विष्टब्ध इत्यादि—लवणोदकं सैन्धवयुक्तमुष्णोदकमित्यर्थः। रसशेषे दिवास्वप्न इत्यल्पदोषापेक्षया, महति च लङ्घनमुचितम्।लङ्घनमित्युपवासः, अन्ये तु लङ्घनशब्देनात्र लाघवकरो विधिरिष्यते, तेन लध्वन्नंयथा जरणार्थं कालप्रतीक्षणं पाचनौषधं तथा स्वेदश्च प्राप्यते, न पुनर्लङ्घनमुपवासः, दोषस्याल्पत्वादित्याहुः। वातवर्जनमिति वातस्यासेवनम्॥३०॥

व्यायामप्रमदाध्ववाहनरतक्लान्तानतीसारिणः
शूलश्वासवतस्तृषापरिगतान् हिक्कामरुत्पीडितान्।
क्षीणान् क्षीणकफांश्छिशून् मदहतान् वृद्धान् रसाजीर्णिनो
रात्रौ जागरितान्नरान्निरशनान् कामं दिवा स्वापयेत्॥३१॥

व्यायामेत्यादि–रतेति भावे क्तः, रतमनुरक्तिरासक्तिरिति यावत्, तेन व्यायामादानतिरतत्वेन ये क्लान्तास्तानित्यर्थः, न तु रतं सुरतं, तस्य प्रमदाग्रहणेनैवं लब्धत्वात्।वाहनञ्च हस्त्यादियानम्। व्यायामादिक्लान्तानाञ्च धातुपुष्ट्यर्थम्। यदुक्तं “स्वप्नप्रसंगाश्च नरो वराह इव पुष्यति” इति। अतीसारे दिवास्वापः कफवर्द्धकतया स्रोतःसंरोधकतया प्रभावाद्वा हितः, स च सर्वातीसारे कफवर्जे ज्ञेयः। शूलश्वासतृष्णादिषुवातशान्त्या प्रभावाद्वा हितः। क्षीणनिति धातुक्षीणान्, तेन सुश्रुतोक्तरसादिधातुक्षयेऽपि दिवास्वापः प्राप्यते। क्षीणकफानिति स्वतन्त्रं किंवा व्यायामादिष्वपियोज्यं, तेन. व्यायामादिक्लान्तान् क्षीणकफानेव दिवा स्वापयेत्, शिशूनाञ्च निद्रासात्म्यत्वाच्च दिवानिद्रा। मदहतानिति प्रमत्तान्, तेषाञ्च मद्यजरणाथ दिवास्वापःवृद्धान् प्रति धातुपुष्ट्यर्थम्। रसाजोर्णिनो रसविशेषपाकार्थं दिवानिंद्रा रात्रावपि,निद्रितस्यैवाहारपाकस्य दृष्टत्वात्। किञ्चनिद्राणस्य स्नातःसङ्कोचादनिर्गच्छन्देहोष्मा जठरानलमुद्दीपयति, तेन शीघ्रमजर्णिस्य पाकः। न च दिवास्वप्नात् कफपित्तयोः प्रकोपोभवति, तदुक्कं चरके—“दिवास्वप्नात् श्लेष्मपित्ते प्रकुप्येते” इतितत्प्रकोपाच्चाग्न्युपघात एव कथं स्यादिति वाच्यं, यतः स्रोतःसङ्काचादुपजातजठराग्निर्जाठराजीर्णपाचक एव न तदा कफपित्तयोः प्रकोपः, प्रतिनियतशक्तिकत्वाद् भेषजानामिति। अस्तु वा कफपित्तप्रकोपस्तथापि नाभिमान्द्यं, तथाविधदोषदूष्यसंयोगाभावात्, न चायं नियमः यत् कफप्रकोपेऽवश्यमग्न्युपघात इतिकफपित्तप्रकोपजन्यतिमिरादौ सत्यपि कफपित्तप्रकोपेऽग्न्युपघातादृष्टत्वादिति। रात्रौजागरितानां जागरणजनितवातक्षोभप्रशमनार्थमेव दिवास्वप्नः, स च रात्रिजागरणकालादर्द्धः कार्य्यः, यदाह वाग्भटः—“असात्म्याज्जागरादूदूर्ध्व प्रातः सुप्यादतन्द्रितः” इति। निरशनानिति। अतएव हारीते—“भुक्त्वा स्वप्नं न सेवेत स्वस्थोऽप्यस्वस्थितो भवेत् इति॥३१॥

आलिप्य जठरं प्राज्ञो हिंगुत्र्यूपणसैन्धवैः।
दिवास्वप्नं प्रकुर्वीत सर्वाजीर्णप्रणाशनम्॥३२॥

आलिप्येत्यादि स्पष्टम्॥३२॥

धान्यनागरसिद्धन्तु तोयं दद्याद्विचक्षणः।
आमाजीर्णप्रशमनं दीपनं वस्तिशोधनम्॥३३॥

धान्यनागरेत्यादि—कर्षार्द्धं वा कणशुण्ठ्योरित्यादिवचनेन तीक्ष्णद्रव्यस्याल्पसानत्वमुक्तं,तेनेहापि तीक्ष्णातीक्ष्णयोर्धान्यनागरयोरुक्तमात्रायां पले गृह्यमाणे धान्यंसार्द्धत्रिकर्षमानं नागरन्तु कर्षार्द्धमानं ग्राह्यम्। यत्तु धान्यशुण्ठ्युपयोगे शुण्ठ्याख्यंधान्यतस्त्रयमिति केनचिदुक्तंतदनार्षत्वान्नाद्रियते। वैद्यप्रचारस्तु शुण्ठ्याः षण्माषकाः, धान्यस्य दश एवं कर्षेणेति॥३३॥

पथ्यात्रिकम्—

पथ्यापिप्पलिसंयुक्तं चूर्णं सौवर्चलं पिबेत्।
मस्तुनोष्णोदकेनाथ वुद्ध्वा दोषगतिं भिषक्॥

चतुर्विधमजीर्णञ्च मन्दानलमथारुचिम्।
आध्मानं वातगुल्मञ्च शूलञ्चाशु नियच्छति॥३४॥

पथ्येत्यादि—पथ्यादीनां त्रयाणां समो भागः, तच्च मिलित्वा कर्षप्रमाणं ग्राह्यंकर्षश्चूर्णस्य कल्कस्येत्यादिवचनात्॥३४॥

भवेदजीर्णंप्रति यस्य शङ्कास्निग्धस्य जन्तोर्बलिनोऽन्नकाले।
पूर्वं सशुण्ठीमभयामशङ्कः स प्राश्य भुञ्जीत हितं हिताशी॥३५॥

भवेदजीर्णमित्यादि—सुश्रुतस्य। रसशेषाजीर्णविषयकमिदं वाक्यम्। भोजनोपदेशात् रसशेषे हि स्वल्पदोषः, तेन तत्रौषधपूर्वकं भोजनं सम्भवतीति। पूर्वमितिप्रातःकाले, यस्य पुरुषस्याजीर्णं प्रति शङ्का भवेत् सोऽन्नकाले यस्य पुरुषस्य यःभोजनकालः तस्मिन् सशुण्ठी शुण्ठीसहिताम् अभयां सम्प्राश्य भुञ्जीतेति योजना,न तु पूर्वं सम्प्राश्येत्यनेनैव पूर्वकालस्य लब्धत्वादिति॥३५॥

किञ्चिदामेन मन्दाग्निरभयागुडनागरम्।
जग्ध्वा तक्रेण भुञ्जीत युक्तेनान्नं षडूषणैः॥३६॥

किञ्चिदित्यादि—यद्यपि गुडेन शुण्ठीत्यादि वचनं पूर्वमुक्तंतथापि तक्रषडूषणसम्बन्धाद् योगान्तरमेवैतद्बोध्यम्॥३६॥

विसूचिकाचिकित्सा।

विसूचिकायां वमितं विरिक्तं सुलङ्घितंवा मनुजं विदित्वा।
पेयादिभिर्दीपनपाचनैश्च सम्यक् क्षुधार्त्तं समुपक्रमेच्च॥३७॥

विसूचिकाचिकित्सामाह, विसूचिकायामित्यादि—सुश्रुतस्य। पेयादीनाञ्चदीपनपाचनत्वम्, दीपनपाचनधान्यपञ्चकादि—संस्कारात्॥३७॥

कुष्ठसैन्धवयोः कल्कं चुक्रतैलसमन्वितम्।
विसूच्यां मर्दनं कोष्णं खल्वीशूलनिवारणम्॥३८॥

कुष्ठेत्यादि—आतुरस्य तात्कालिकी पीडा महती, तदहे च तैलं पक्तुमशक्यम्, अतः किञ्चिच्चुक्रंतैलञ्च दत्त्वा कुष्ठसैन्धवयोः कल्केन कदुष्णेन मर्दनं कार्यमित्याहुर्वृद्धाः, तैलपाकपक्षे तु कुष्ठसैन्धवयोः कल्कः पादिकः, चुक्रञ्च चतुर्गुणम्।खल्वी हस्तादौ शिरामोटनरूपा वेदना॥३८॥

करंजनिम्बशिखरीगुडूच्यर्जकवत्सकैः।
पीतः कषायो वमनाद्धोरां हन्ति विसूचिकाम्॥३९॥

करजेत्यादि—करजस्य फलम्, शिखरी अपामार्गस्तस्य बीजम्। अर्जकःश्वेतपर्णाश इति ढल्वणः, तथा वृन्दटीकायां चन्द्राटेऽप्यर्जक इति पठ्यते तस्मात् अर्जकस्थाने अर्जुनेति प्रमादपाठः। वत्सकः कुटजः। पीतः कषायो वमनादितिवमनार्थञ्च कषायः “क्काथ्यद्रव्याञ्जलिं क्षुण्णां श्रपयित्वा जलाढके। अर्द्धभागावशेषञ्चवमनेष्ववचारयेत्” इति परिभाषया अर्द्धशृतः कार्यः। अर्द्धभागावशेषमित्यत्र चतुर्भार्गावशेष इति पाठो दृश्यते तश्च निश्चलो नानुमन्यते। वमनञ्चातीक्ष्णम्, स्तोकस्तोकवमिकारकाजीर्णनिरासार्थम्॥३९॥

व्योषं करंजस्य फलं हरिद्रां मूलं समावाप्य च मातुलुङ्ग्याः।
छायाविशुष्का गुडिकाः कृतास्ता हन्युर्विसूचीं नयनांजनेन॥४०॥

व्योषमित्यादि—सुश्रुतस्य। मातुलुङ्गी मधुकुक्कुटी। विसूचीशब्देनात्र विसूचीजनितमूर्च्छाप्रमील कशिरोरोगादयो गृह्यन्ते, कारणे कार्य्योपचारात्। किं वा अञ्जनेनप्रभावादेव विसूची हन्यते। इति सुश्रुतटीकाकृतो व्याचक्षते॥४०॥

गुडपुष्पसारशिखरितण्डुलागिरिकर्णिकाहरिद्राभिः।
अंजनगुडिका विलयति विसूचिकां त्रिकटुसनाथा॥४१॥

गुडपुष्पेत्यादि—गुडपुष्पो मधूकवृक्षः, तस्य सारो ग्राह्यः। शिखरितण्डुला अपामार्गबीजानि। गिरिकर्णिका श्वेतापराजिता तस्या मूलं ग्राह्यम्। त्रिकटुकान्तएको योगः। विलयति शमयति॥४१॥

त्वक्पत्ररास्त्नागुरुशिग्रुकुष्ठैरम्लेन पिष्टैः सवचाशताह्वैः।
उद्वर्त्तनं खल्विविसूचिकाघ्नं तैलं विपक्कञ्च तदर्थकारि॥४२॥

त्वक्पत्रेत्यादि—त्वक् गुडत्वक् पत्रं तेजःपत्रम्। अम्लपिष्टैरिति काजिक-

पिष्टैः। शताह्वाःसुल्लुफा(सोये)इति ख्याता, शताह्वैरित्यत्र जटाह्वैरित्यन्ये पठन्ति, यथा"रास्नापत्रागुरुमांसीकृष्ठ-शिग्रुत्वचो वचा। पिष्टमम्लेन तच्छ्रेष्ठं विसूच्यामङ्गमर्दनम्”।सुश्रुते तु शतपुप्पी जटामांसी चेति द्वयमपि न दृश्यते, यथा—“कुष्ठञ्चागुरुपत्रश्चरास्नाशिग्रुत्वचा वचा। पिष्टमम्लेन तच्छ्रेष्ठं विसूच्यामङ्गमर्दनम्" इति। तैलंविपक्कञ्च तदर्थकारीति, त्वक्पत्रादिभिः कल्कीकृतैः काञ्जिकेन द्रवेण चतुर्गुणेन तैलंपक्कं खल्वीविसूचिकाघ्नं भवतीत्यर्थः॥४२॥

पिपासायामनुत् क्लेशे लवङ्गस्याम्बुशस्यते।
जातीफलस्य वा शीतं शृतं भद्रघनस्य वा॥४३॥

विसूच्यामतिवृद्धायां पार्ष्ण्योर्दाहःप्रशस्यते॥४४॥

पिपासायामित्यादौ—अत्नुक्केश इत्युत्कासिका, ठिकरीति लोके ख्याता इतिनिश्चलः, अन्ये त्वनुत्क्लेश इतीषदुत्क्लिष्ट दोष इत्याहुः। लवङ्गाम्बु अर्द्धशृतशीतम्,एवं जातिफलाम्बु भद्रघनाम्बुच ज्ञेयम्। भद्रघनं भद्रमुस्तकम्, अत्रान्तरेयोगान्तरं दृष्टफलमत्र बोद्धव्यम्—“आघ्राय तद्विशेषज्ञो मातृलुङ्गफलत्वचम्।पीत्वा संद्रघनक्काथमनूत्क्लेशाद्विमुच्यते”। पार्ष्ण्योर्दाह इति पादपार्ष्णियुगदाहस्तुमूर्च्छाशान्त्यर्थम्, मूर्च्छेतरलक्षणाभावे सति सप्तशरादिशलाकया पाददाहः। स चप्रभावात् पादशेषे एव कृतो हितो भवतीति वचनादुन्नीयते। सुश्रुतेऽप्युक्तं “साध्यासुप्रशस्तं पाष्ण्योर्दहनम्” इति। चन्द्राटेऽप्युक्तं “वृद्धायां विसूच्यां पार्ष्णिदेशे चदाहः" इति। अतः पार्ष्णिदेश इत्यत्र पार्श्वदेश इति ये पठन्ति ते भ्रान्ताः। पार्ष्णिदाहस्य सर्वतन्त्रविहितत्वात्॥४३॥४४॥

वमनन्त्वलसे पूर्वं लवणेनोष्णवारिणा।
स्वेदो वर्त्तिर्लङ्घनञ्च क्रमश्चातोऽग्निवर्द्धनः॥

सरुक् चानद्धमुदरमम्लपिष्टैः प्रलेपयेत्।
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः॥

तक्रेण युक्तं यवचूर्णमुष्णं सक्षारमर्त्ति जठरे निहन्यात्।
स्वदो घटैर्वा बहुबाष्पपूर्णैरुष्णैस्तथान्यैरपि पाणितापैः॥४५॥

तीव्रार्त्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम्।
दोषाच्छन्नोऽनलो नालं पक्तुं दोषौषधाशनम्॥४६॥

अलसकचिकित्सामाह वमनमित्यादि—लवणेन सैन्धवेन। वर्त्तिरिति फलवर्तिः सा चोदावर्ते वक्ष्यमाणा। अत इति अत उर्द्ध्वमित्यर्थः। सरुगिति सशूलम्। हैमवती वचा। तक्रेणेत्यादि—चरकस्य। सक्षारमिति सहयवक्षारम्,तत्सर्वं घटे प्रक्षिप्य उदरे स्वेद इत्याह कश्चित्, तन्न, चरकेऽस्य योगस्य प्रदेहप्रकरणे पठितत्वात्। तस्माद् यवचूर्णयवक्षारौ तक्रेण पिष्ट्वा किञ्चिदुष्णं कृत्वा उदरेलेपः कार्य्यः। स्वेदो घटैर्वा बहुबाष्पपूर्णैरिति तप्तकाञ्जिकादिभिर्बाष्पपूर्णै घटैस्तथान्यैरुष्णैर्वस्त्रपुटकादिभिस्तथा हस्ततापैरपि स्वेद इति योज्यम्। तीव्रार्तिरित्यादि—वाग्भटस्य। ना पुरुषः। दोषाच्छन्न इति आमदोषाभिभूतः। नालमितिन समर्थः॥४५॥४६॥

इत्यग्निमान्द्यचिकित्साविवृतिः।

<MISSING_FIG href="../../../../../books_images/U-IMG-170689636024020202-removebg-preview.png"/>

अथ क्रिमिचिकित्सा।

पारसीकयमानीका पीता पर्य्युषितवारिणा प्रातः।
गुडपूर्वा क्रिमिजातं कोष्ठगतं पातयत्याशु॥१॥

अजीर्णात् क्रिमिसम्भव इत्यजीर्णानन्तरं क्रिमिचिकित्सामाह पारसीकेत्यादि—पारसीकयमानी खोरासनी यमानीति ख्याता गुडपूर्वेति गुडः पूर्वो यस्या इतिगुडं भक्षयित्वा मनाक् विलम्बंकृत्वा सा पातव्येत्यर्थः। पेषणमपि पर्य्युषितवारिणेति॥१॥

पारिभद्रकपत्रोत्थं रसं क्षौद्रयुतं पिबेत्।

केवुकस्य रसं वापि पत्तूरस्याथवा रसम्॥

लिह्यात् क्षौद्रेण वैडङ्गं चूर्णं क्रिमिविनाशनम्॥२॥

पारिभद्रेत्यादि—पारिभद्रकः मन्दारविशेषः। केवुकस्येति केषुकंस्य केउताडाइति ख्यातस्य तस्य मूलस्वरसं प्राह्यम्, एवं पत्तूरस्य, पत्तूरः शालिञ्चः, क्षौद्रयुतमिति पदं केवुकरसे पत्तूररसेऽपि योज्यम्। लिह्यादित्यादि स्पष्टम्॥२॥

मुस्ताखुपर्णीफलाशिग्रुदारुक्वाथः सकृष्णाक्रिमिशत्रुकल्कः।
मार्गद्वयेनापि चिरप्रवृत्तान् क्रिमीन् निहन्ति क्रिमिजांश्च रोगान्॥३॥

मुस्तेत्यादौ—आखुपर्णी मूषिकपर्णी दन्तीभेदो वा; फलशब्देनात्र त्रिफलाग्राह्या रविगुप्तसंवादात्। क्रिमिशत्रुविडङ्गसारः॥३॥

आखुपर्णीदलैः पिष्टैः पिष्टकेन च पूपिकाम्।
जग्ध्वा सौवीरकञ्चानु पिबेत् क्रिमिहरं परम्॥४॥

आखुपर्णीदलैरित्यादि—आखुपर्णी द्रवन्ती मूषकपर्णी दन्तीभेदो वा, मण्डुकपर्णीत्यन्ये, दलं कोमलदलम्। यदाह वाग्भटः"आखुपर्णोकिसलयैः सुपिष्टैःपिष्टमिश्रितैः। पक्त्वा पूपुलिकां खादेद् धान्याम्लञ्च पिबेदनु" इति। पिष्टकेनेतियवपिष्टकेन क्रिमिहरत्वादिति सुश्रुतटीकाकृतः। शालितण्डुलकेनेति निश्चलः। आखुपर्णीपत्रस्य भागत्रयंपिष्टकस्य त्वेको भाग इत्याहुः। सौवीरं काञ्जिकम्,यद्यपि सुश्रुते वाग्भटे च क्षीराणि मांसानित्यादिनाम्लामात्रस्यैव वर्जनमुक्तंतथापिविशेषवचनादत्र काञ्जिकानुपानामति न विरोधमावहति॥४॥

पलाशवीजस्वरसं पिबेद्वा क्षौद्रसंयुतम्।
पिबेत् तद्वीजकल्कं वा तक्रेण क्रिमिनाशनम्॥५॥

पलाशवीजमित्यादि—पलाशबीजस्य स्वरसः, तद्बीजकल्को वा तक्रेणेति, तण्डुलाम्बुनाप्ययं योगो ज्ञेयः। तदुक्तं सुश्रुते “पलाशबीजस्वरसं कल्कं वा तण्डुलाम्बुना” इति॥५॥

सुरसादिगणं वापि सर्वथैवोपयोजयेत्।

विडङ्गसैन्धवक्षारकम्पिल्लकहरीतकीः।
पिबेत् तक्रेण सम्पिष्यसर्वक्रिमिनिवृत्तये॥६॥

सुरसादिगणः सौश्रुतः; सर्वथैवेति कल्फपायकल्पनया विडङ्गमसैन्धवेत्यादौ—कम्पिल्लको गुण्डारोचनी कमलागुडी इति ख्याता॥६॥

विडङ्गपिप्पलीमूलशिग्रुभिर्मरिचेन च।

तक्रसिद्धा यवागूः स्यात् क्रिमिघ्नी ससुवर्चिका।
पीतंबिम्बीघृतं हन्ति पक्वामाशयगान् क्रिमीन्॥७॥

विडङ्गेत्यादि—चरकस्य। तक्रसिद्धेति तक्रमत्रार्द्धोदकं ग्राह्यम्, अन्यथात्यम्लतास्यादित्याहुः। सुवर्चिका सर्जिकाक्षारः, तं दत्त्वा भक्षयेत्। बिम्बीघृतमिति—बिम्बीघृते विपक्वबिम्बीफलस्य कल्कश्चतुर्गुणं जलम्॥७॥

त्रिफलाघृतम्—

त्रिफला त्रिवृता दन्ती वचा कम्पिल्लकं तथा।
सिद्धमेभिर्गवां मूत्रे सर्पिः क्रिमिविनाशनम्॥८॥

त्रिफलाघृते दन्ती नागदन्ती, सा च स्थूलमूलत्याहुः। तदुक्तं“त्रिवृत्कम्पिल्लकवचानागदन्तीफलत्रयैः। गोमूत्रसाधितं सर्पिः पानतः क्रिमिनाशनम्” इति॥८॥

विडङ्गघृतम्—

त्रिफलाया स्त्रयः प्रस्था विडङ्गप्रस्थ एव च।
द्विपलं दशमूलञ्च लाभतः समुपाचरेत्॥

पादशेषेजलद्रोणे शृते सर्पिर्विपाचयेत्।
प्रस्थोन्मितं सिन्धुयुतं तत्परं क्रिमिनाशनम्॥

विडङ्गघृतमेतश्च लेह्यंशर्करया सह।
सर्वान् किमीन प्रणुदति वज्रं मुक्तमित्रासुरान्॥९॥

त्रिफलाया इत्यादि, स्पष्टम्। विडङ्गघृतं क्वचित् पुस्तके, तथा वृन्दे च, तच्च टीकाकृद्भिर्न घृतं इत्यधिकमेवेति ज्ञेयम्॥९॥

रसेन्द्रेण समायुक्तो रसो धुस्तूरपत्रजः।
ताम्बूलपत्रजो वापि लेपो यूकाविनाशनः॥१०॥

रसेन्द्रेणत्यादौ—रसेन्द्रः पारदः। ताम्बूलपत्रं पर्णं। लेपनं यौकनाशनमितिपाठे यौकं यूकवृन्दम्॥१०॥

विडङ्गतैलम्।

सविडङ्गगन्धकशिलासिद्धं सुरभीजलेन कटुतैलम्।
आजन्म नयति नाशं लिक्षासहितास्तु यूकाश्च॥११॥

सविडङ्गेत्यादौ—शिला मनःशिलेति केचिदाहुः, अन्ये तु गन्धकशिला गन्धकपाषाणमेवेति वदन्ति। सुरभीजलं गोमूत्रं तच्च चतुर्गुणं ग्राह्यम्॥११॥

इति क्रिमिचिकित्साविवृतिः।

<MISSING_FIG href="../../../../../books_images/U-IMG-1706967444240200301-removebg-preview.png"/>

अथ पाण्डुरोगचिकित्सा।

साध्यन्तु पाण्ड्वामयिनं समीक्ष्यस्निग्धं घृतेनोर्द्ध्वमधश्च शुद्धम्।
सम्पादयेत् क्षौद्रघृतप्रगाढैर्हरीतकीचूर्णमयैः प्रयोगैः॥१॥

पुरीषक्रिमितः पाण्डुरोगस्य प्रादुर्भावात् किम्यनन्तरं पाण्डुरोगचिकित्सामाहसाध्यमित्यादि—सुश्रुतस्य। समीक्ष्येति अनुबन्ध्यानुबन्धरूपं तद्दोषविशेषं सम्यगुपलभ्य स्निग्धमेव, न स्विन्नं पाण्डुरोगे स्वेदनिषेधात्। उक्तं हि सुश्रुते “पाण्डुर्मेही रक्तपित्तो तृषार्त्तः क्षतक्षीणो दुर्बलोऽजीर्णभुक्तः। दकोदरी गर्भिणी पीतमद्यो नैते स्वेद्याः यश्च मत्तोऽतिसारी” इति। घृतेनेति न तु तैलादिना सर्वपाण्डुरोगाणां पित्तप्रधानत्वात् रक्तदूष्यत्वाच्च। उक्तं हि सुश्रुते “व्यायामम्लंलवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम्। निषेवमाणस्य प्रदूष्य रक्तं दोषास्त्वचंपाण्डुरतां नयन्ति” इति। पित्ते घृतस्यैव प्रधानत्वात् घृतेनैव स्नेहनं युक्तम्, घृतञ्चभेषजसंस्कृतमेव देयं बहुगुणत्वात्। उक्तंहि चरके “कल्याणकं पञ्चगव्यं महातिक्तमथापि वा। स्नेहनार्थं घृतं दद्यात् कामलापाण्डुरोगिणे” इति। उक्तं हिसुश्रुते च “केवलनैव घृतेनेत्याहुः।” ऊर्ध्वमिति वमनेन, अध इति विरेचनेन।यद्यपि पाण्डुरोगे वमनं निषिद्धम्, यदुक्तं"न वामयेत् तैमिरिकं न गुल्मिनं नचापि पाण्डुरोगपीडितम्" इति तथापि पीडितमिति वचनेन प्रवृद्धपाण्डुरोगविषयंतद्वचनं ज्ञेयम्, उपक्रमे तु कालर्त्तुदोषाद्यपेक्षया कफोद्रेकावस्थायां मृदुवमनंज्ञेयम्। तथा च हारीतः “कालर्तुदोषप्रकतिं शरीरं समीक्ष्य दद्याद्वमनं विधिज्ञः”इति। सुश्रुतेऽप्युक्तम् “एतेऽप्यजीर्णव्यथिता वम्या ये च विषातुराः। अतीवचोल्वणकफास्ते च स्युर्मधुकाम्बुना” इति। विरेचनन्तु तीक्ष्णमेव; यदुक्तं “वान्तस्यतीक्ष्णान्यनुलोमनानि कफोपदिष्टानि भिषग्विदध्यात्” इति। इदानीं संशोधनानन्तरं कृतसंसर्जनक्रमस्य दोषविशेषशमनार्थमाह सम्पादयेदित्यादि—हरीतकीचूर्णमयैः प्रयोगैर्वक्ष्यमाणैर्नवायसादिभिर्हरीतकीचूर्णबहुलै-रित्यर्थः। हरीतकीचूर्णयुतैरिति पाठान्तरम्॥१॥

पिवेद्घृतं वा रजनीविपक्वंसत्रैफलं तैल्वकमेव चापि।
विरेचनद्रव्यकृतान् पिवेद्वा योगांश्च वैरेचनिकान् घृतेन्॥२॥

रजनीविपक्कमिति हरिद्राकल्कक्वाथाभ्यां सिद्धमिति गयदासः। तन्न, कल्कक्वाथकरणस्य गणविषयत्वात् तस्मात् हरिद्राकल्कसिद्धमित्यन्ये, अन्य तु वक्ष्यमाणहरिद्राघृतमित्याहुः। तन्न, चरककृतत्वात्, इदं वाक्यं सौश्रुतमिति। त्रैफलमिति त्रिफलाक्काथकल्कसिद्धम्, त्रिफलापटोलीपचुमर्देत्यादि कुष्ठोक्तम्, वातरोगोक्तं वा ज्ञेयम्। तैल्वकमिति वातव्याघ्युक्तम्। विरेचनद्रव्यकृतमिति त्रिवृदादिद्रव्यसंस्कृतं घृतम्, इदं हि वाक्यं सौश्रुतम्। योगांश्च वैरेचनिकानितिसौश्रुतविरेचनाध्यायोक्तान् घृतेन पिबेदिति॥२॥

हेतुप्रत्यनीकचिकित्सा।

विधिः स्निग्धस्तु वातोत्थे तिक्लशीतस्तु पैत्तिके।
श्लैष्मिके कटुरूक्षोष्णः कार्य्योमिश्रस्तु मिश्रके॥३॥

हेतुप्रत्यनीकचिकित्सामाह विधिरित्यादि॥३॥

द्विशर्करं त्रिवृच्चूर्णं पलार्द्धं पैत्तिके पिवेत्।
कफपाण्डुस्तु गोमूत्रक्लिन्नयुक्तां हरीतकीम्॥

नागरं लौहचूर्णं वा कृष्णां पथ्यां तथाश्मजम्॥

गुग्गुलुं वाथ मूत्रेण कफपाण्ड्वामयी पिबेत्॥

सप्तरात्रं गवां मूत्रे भावितं वाप्ययोरजः।
पाण्डुरोगप्रशान्त्यर्थंपयसा प्रपिवेन्नरः॥४॥

द्विशर्करमित्यादि—त्रिवृच्चूर्णमेव द्विगुणशर्करं सत् पलार्द्धमानं पिबेत्, तेनशर्करा कर्ष १ मा ५ रक्ति ४। त्रिवृच्चूर्ण माषा १० रक्ति८ एवं मिलित्वा पलार्द्धमित्यर्थः, न तु त्रिवृच्चूर्णं पलार्द्धं सत् द्विशर्करं पलमेकम्, एवं मिलित्वा सार्द्धपलमेकं प्रत्यहोपयोगेऽस्या मात्र या अनर्हत्वात्। गोमूत्रक्लिन्नयुक्तमिति गोमूत्रेण क्लिन्नांपिष्टां तदनु गोमूत्रेणैव युक्तामालोडितां पिबेदित्यर्थः, वृद्धवाग्भटेऽप्युक्तं “गोमूत्रेणवा हरीतकीः कल्किताः” इत्यादि; अन्ये तु गोमूत्रेण क्लिन्नामुत्स्वेदितामित्याहुः;अन्ये तु चरकवक्ष्य माणयोगे आरग्वधरसेनेति पठित्वा आरग्वधरसेन हरीतकींपिबेदिति पूर्वेण योजयन्ति; किन्तु वाग्भटसंवादात् पूर्वपाठ एव साधुः। नागरमित्यादि–नागरलौहचूर्णाभ्यामेको योगः, कृष्णापथ्याभ्यां द्वितीय;अश्मजः शिलाजतु,अयं योगस्तृतीयः; गुग्गुलुमिति चतुर्थः, गोमूत्रेणेति सम्बध्यते सर्वत्रैव। लौहचूर्णन्तुजारितं पुटितञ्च ग्राह्यं तदभावे लौहपत्रिका ग्राह्या, सा च शालिश्चरसत्रिफलाक्वाथैःपुटपाकेन संसाधनीया, एवं सर्वत्र; तच्चमाषकमेकं, शुण्ठीचूर्णञ्च माषकचतुष्टयमित्याहुः। एवंगुणं पिप्पलीहरीतकीचूर्णं, तथा शुद्धशलाजतु माषा ३, घृतपेषितगुग्गुलुमाषा ८, सर्वत्रैव गोमूत्रेण पानम्। सप्तरात्रमित्यादि—स्पष्टम्॥४॥

फलत्रिकामृतावासातिक्ताभूनिम्बनिम्बजः।
क्वाथः क्षौद्रयुतो हन्यात् पाण्डुरोगं सकामलम्।

फलत्रिकेत्यादौ — अमृता गुडूची, तिक्ताकटुकी, भूनिम्बश्चिरता॥५॥

श्रयस्तिलत्र्यूषणकोलभागैः सर्वैः समं माक्षिकधातुचूर्णम्।
तैर्मोदकैः क्षौद्रयुतोऽनुतक्रःपाण्ड्वामये दूरगतेऽपि शस्तः॥६॥

अयस्तिलेत्यादौ—कोलं शुष्कवदरं न तु कर्षार्द्धं, यदाह सुदान्तसेनः “अन्यःकोलतिलव्योषैः समर्माक्षिकधातुना। मधुना वटकान् कृत्वा जग्ध्वा तक्रंपिबेदनु"इति। तिलोऽपि कृष्णः माक्षिकधातुः स्वर्णमाक्षिकं, तदपि शुद्धं ग्राह्यं, तच्छोधनञ्चलोहप्रदीपादौबोध्यम्। अनुतक्रंइति तक्रानुपानः॥६॥

अयोमलन्तु सन्तप्तं भूयो गोमूत्रसेचितम्।

मधुसर्पिर्युतं चूर्णं सह भक्तेन योजयेत्॥

दीपनञ्चाग्निजननं शोथपाण्ड्वामयापहम्॥७॥

अयोमलमित्यादि—अयोमलं पुराणमण्डूरं, भूयोगोमूत्रशोधितमिति सप्तवारान्। ईदृशस्य मण्डूरचूर्णस्य माषकद्वयं त्रिधा विभज्यातो दर्शनात् भोजनादिमध्यान्तेषु मधुसर्पिर्भ्यां लेह्यं, पश्चादभ्यासक्रमेण माषकं वर्द्धयेत्। अनुपानमिह तक्रंदुग्धं वा॥७॥

नवायसं लौहम्।

त्र्यूषणं त्रिफलामुस्तविडङ्गचित्रकाः समाः।

नवायोरजसो भागास्तच्चूर्णं मधुसर्पिषा

भक्षयेत् पाण्डुहृद्रोगकुष्ठार्शःकामलापहम्॥८॥

त्र्यूषणमित्यादि—एकभागापेक्षया नवगुणं मण्डूरचूर्णम् आदौ रक्तिद्वयं घृतमधुभ्यां लौहपात्रे लौहमुषलिकया विमर्द्यलिह्यात्, रक्तिद्वयं कृत्वा वृद्धिः कार्य्यामाषकद्वयं यावदिति व्यवहारः। वाग्भटे तु तक्राद्यनुपानञ्चोक्तं, यथा “व्योषाग्नित्रिफलावेल्लमुस्तैस्तुल्यमयोरजः। चूर्णितं तक्रमध्वाज्यकोष्णाम्भोभिः प्रयोजितम् “इति। एतदेव नवायसं सुश्रुते प्रमेहचिकित्सायां पठितम्॥८॥

योगराजः—

त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च॥

भागश्चित्रकमूलस्य विडङ्गानां तथैव च॥

पञ्चाश्मजतुनो भागास्तथा रूप्यमलस्य च।
माक्षिकस्य च शुद्धस्य लौहस्य रजसस्तथा॥

अष्टौ भागाः सितायाश्च तत् सर्वं श्लक्ष्णचूर्णितम्।

माक्षिकेणाप्लुतं स्थाप्यमायसे भाजने शुभे।
उडुम्बरसमां मात्रां ततः खादेद् यथाग्नि ना॥

दिने दिने प्रयोगेण जीर्णे भोज्यं यथेप्सितम्॥

वर्जयित्वा कुलत्थांश्चकाकमाचीं कपोतकान्॥

योगराज इति ख्यातो योगोऽयममृतोपमः।

रसायनमिदं श्रेष्ठं सर्वरोगहरं परम्।
पाण्डुरोग विषं कासं यक्ष्माणं विषमज्वरम्।

कुष्ठान्यजरकं मेहं श्वासं हिक्कामरोचकम्।
विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च॥९॥

त्रिफलाया इत्यादि—चरकस्य। त्रिफलायास्त्रयो भागा इति मिलित्वा त्रयोभागाः, एवं त्रिकटुकस्यापि निर्देशस्य मानप्रधानत्वात्। चित्रकविडङ्गयोरपि प्रत्येकंपलम्। शिलाजत्वादिलौहचूर्णान्तानां प्रत्येकं पञ्च पलानि, शर्करायाश्चाष्टौपलानि,शिलाजतु च शिवागुडिकोक्तविधिना ग्राह्यम्। रूप्यमलस्य चेति रूप्यस्यावध्मायमानस्य यत् किट्टंनिर्गच्छति तद्रूप्यमलं माक्षिकस्येति मारणपुटनादिना शुद्धस्यस्वर्णमाक्षिकस्य। अन्ये पञ्चाश्मजतुनो भागाः पञ्च रूप्यमलस्य चेत्यत्र तथारूप्यमलस्य इति पठन्ति, तेन रूप्यमलस्येति शिलाजतुविशेषणं, ततश्च रसायनाधिकारे राजतं कटुकं श्वेतमित्यादिना यच्छिलाजतु रूप्यमलत्वेनोक्तं तदिह गृह्यते इत्याहुः। एतत्तु न व्यवहरन्ति वृद्धाः। वाग्भटे तु लौहस्थाने रूप्यं पठितम्, यथा “ताप्याद्विजरूप्यायोमलाः पञ्चपलाः पृथक्। चित्रकत्रिफलाव्योषविडङ्गैः पलिकैः सह।शर्कराष्टपलोन्मिश्राश्चूर्णिता मधुनाप्लुताः” इति तदत्र प्रयोगे भेदाद्यविरोधः, उक्तंहि “सुवर्णमथवा रूप्यं योगे यत्र न लभ्यते। तत्र लौहेन कर्म स्याद् भिषक्कुर्य्याद्विचक्षणः” इति। पूर्वोक्तव्यवस्थापि शिलाजतुलौहमलस्वर्णमाक्षिकलौहरजोभिश्चतुर्भिरेव दृश्यते, तेन तन्त्रकारवचनयोर्न विरोध इति। उडम्बरः कर्षः।अजरकम् अजीर्णम्। यथाग्निनेत्यत्र ना पुरुषः॥९॥

विशालाकटुकामुस्तकुष्ठदारुकलिङ्गकाः।

कर्षांशा द्विपिचुर्मूर्वा कर्षार्द्धा च घुणप्रिया।
पीत्वा तच्चूर्णमम्भोभिः सुखं लिह्यात् ततो मधु॥

पाण्डुरोग ज्वरं दाहं कासं श्वासमरोचकम्।
गुल्मानाहामवातांश्च रक्तपित्तञ्च तज्जयेत्॥१०॥

विशालेत्यादि—विशाला गोरक्षकर्कटी। कर्षांशा च घुणप्रिया इत्यपपाठःकिन्तु कर्षार्द्धंशिति। उक्तं हि चरके “विशालाक्टुकामुस्तकुष्ठदारुकलिङ्गकान्।कर्षेन्मितानतिविषां कर्षार्द्धांञ्चप्रदापयेत्। कर्षौमधुरसाद् द्वौ च सर्वचूर्णं सुखाम्बुना। मृदितं तं रसं पूतं पीत्वा लिह्यात्तु माक्षिकम्” इति, अतएव वचनवलात्कल्ककषायविधानमप्यत्र योगे बोध्यम्, तेन तच्चूर्णं सुखैः कटुष्णैरम्भोभिश्चूर्णापेक्षया चतुर्गुणैर्मृदित्वा वस्त्रपूतं कृत्वा पिबेत्, अन्तरञ्च मधु लिह्यादित्यर्थः॥१०॥

लौहपात्रे शृतं क्षीरं सप्ताहं पथ्यभोजनः।
पिबेत् पाण्ड्वामयी शोथी ग्रहणीदोषपीडितः॥

कल्याणकं पञ्चगव्यं महातिक्तमथापि वा।
स्नेहनार्थं घृतं दद्यात् कामलापाण्डुरोगिणे॥

रेचनं कामलार्त्तस्य स्निग्धस्यादौ प्रयोजयेत्।
ततः प्रशमनी कार्य्या क्रिया वैद्येन जानता॥११॥

लौहपात्र इत्यादि—अत्र जलं चतुर्गुणं बोध्यं, पाकानुपपत्तेः कल्याणघृतंपञ्चगव्यघृतञ्च, उन्मादे वक्ष्यति, महातिक्तञ्चकुष्ठे, रेचनञ्च पित्तहरत्वेन॥११॥

त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसः।
प्रातर्माक्षिकसंयुक्तः शीलितः कामलापहः॥१२॥

त्रिफलाया इत्यादि—स्पष्टम्॥१२॥

अञ्जनं कामलार्त्तानां द्रोणपुष्पीरसः स्मृतः।
निशागैरिकधात्रीणां चूर्णं वा सम्प्रकल्पयेत्॥१३॥

अञ्जनमित्यादि—अजनं नेत्राञ्जनं, द्रोणपुष्पी दण्डकलस इति केचित्।निशादिभिश्चूर्णाञ्जनं कार्य्यं, तदुक्तंतन्त्रान्तरे “निशागैरिकधात्रीणां चूर्णैरत्राञ्जनंमतम्।” एतञ्च मध्वक्तशलाकया कार्य्यमित्याहुः॥ १३॥

नस्यं कर्कोटमूलं वा घ्रेयं वा जालिनीफलम्॥१४॥

नस्यमित्यादौ—कर्कोटमूलमिति कर्कोटमूलरस इत्यर्थः। जालिनी पीतघोषकः॥१४॥

अयोरजोव्योषविडङ्गचूर्णं लिहेद्धरिद्रां त्रिफलान्वितां वा।
सशर्करा कामलिनां त्रिभण्डी हिता गवाक्षी सगुडा च शुण्ठी॥१५॥

सशर्करेत्यादि—सुश्रुतस्य। त्रिभण्डी त्रिवृता, रेचनार्थमयं योगः। गवाक्षीगोरक्षकर्कटी, श्वेतापराजिता इत्यन्ये, अत्रापि सशर्करेत्यादि योज्यमित्याह निश्चलः।कार्तिकस्तु सगुडां च शुण्ठीत्यत्र चकारं भिन्नक्रमं योजयित्वा शुण्ठी सगुडेतिव्याख्याय गवाक्षीमपि सगुडामाह। एवं सुश्रुतटीकायां डल्वणोऽपि व्याख्यातवान्॥१५॥

दार्वी सत्रिफला व्योषविडङ्गान्ययसो रजः।
मधुसर्पिर्युतं लिह्यात् कामलापाण्डुरोगवान्॥१६॥

दार्वीत्यादि—चरकस्य। दार्व्यास्त्वक्॥१६॥

तुल्या अयोरजःपथ्याहरिद्राः क्षौद्रसर्पिषा।
चूर्णिताः कामली लिह्याद् गुडक्षौद्रेण वाभयाम्॥१७॥

तुल्या इत्यादि—स्पष्टम्॥१७॥

धात्रीलौहरजोव्योषनिशाक्षौद्राज्यशर्कराः।

लीढ्वा निवारयत्याशु कामलामुद्धतामपि॥१८॥

धात्रीत्यादि-स्पष्टम्॥१८॥

दग्ध्वाक्षकाष्ठैर्मलमायसन्तु गोमूत्रनिर्वापितमष्टवारान्।
विचूर्ण्यलीढं मधुनाचिरेण कुम्भाह्वयं पाण्डुगदं निहन्ति॥१९॥

दग्ध्वेत्यादि—सुश्रुतस्य। अक्षवृक्षो विभीतकवृक्षः। सुश्रुते बहुपुस्तकेषुचन्द्राटादिषु गोमूत्रनिर्वापितसप्तवारमित्येव पाठो दृश्येत, अन्ये तु गोमूत्रनिर्वापितमष्टवारमित्येव पठन्ति॥१९॥

पाण्डुरोगक्रियां सर्वां योजयेच्च हलीमके।
कामलायाञ्च या दृष्टा सापि कार्य्या भिषग्वरैः॥२०॥

पाण्डुरोगकामलाचिकित्सां हलीमकेऽप्यतिदिशति पाण्डुरोगक्रियामित्यादि—क्रियाविरेचनादिरूपा॥२०॥

विडङ्गाद्यं लौहम्।

विडङ्गमुस्तत्रिफलादेवदारुषडूपणैः।
तुल्यमात्रमयश्चूर्णं गोमूत्रेऽष्टगुणे पचेत्॥

तैरक्षमात्रां गुडिकां कृत्वा खादेद्दिने दिने।
कामलापाण्डुरोगार्त्तः सुखमापद्यतेऽचिरात्॥२१॥

विडङ्गलौहे तुल्यमात्रमयश्चूर्णमिति मिलितविडङ्गचूर्णादिसर्वचूर्णसममयश्चूर्णमित्यर्थः। अत्र लौहस्य प्राधान्यात् तदपेक्षयैवाष्टगुणगोमूत्रेण लौहचूर्णं पक्त्वावतारिते च विढगादिचूर्णस्य प्रक्षेप इति केचित्। अन्ये तु विढङ्गादिचूर्णंसहितस्यैवलौहचूर्णस्य पाकः, गोमूत्रस्याष्टगुणत्वं सर्वंचूर्णांपेक्षयैव। अत्र द्रवद्वैगुण्यं न व्यवहरन्ति वृद्धाः। पाकश्चात्र मुद्रापाकेणेत्याहुः। अक्षमात्रां गुडिकां कुर्य्यात् नतु तत्प्रमाणं खादेत्। मात्रा देहादिबलापेक्षिणी, अतएव बुद्ध्या विभज्यकर्तव्याः॥२१॥

त्र्यूषणाद्यं मण्डूरम्।

त्र्यूषणं त्रिफला मुस्तं विडङ्गं चव्यचित्रकम्।
दार्वीत्वड्याक्षिको धातुर्ग्रन्थिकं देवदारु च॥

एषां द्विपलिकान् भागांश्चूर्णं कृत्वा पृथक् पृथक्।
मण्डूरं द्विगुणं चूर्णाच्छुद्धमञ्जनसन्निभम्॥

मूत्रे चाष्टगुणे पक्त्वा तस्मिंस्तु प्रक्षिपेत् ततः।
उडुम्बरसमान् कुर्य्याद् वटकांस्तान् यथावलम्॥

उपभुञ्जीत तक्रेण सात्म्यं जीर्णे च भोजनम्।
मण्डूरवटका ह्येते प्राणदाः पाण्डुरोगिणाम्।

कुष्ठान्यजरकं शोथमूरुस्तम्भं कफामयान्।

अर्शांसि कामलामेहान् प्लीहानं शमयन्ति च॥

निर्वाप्य बहुशो सूत्रे मण्डूरं ग्राह्यमिष्यते।
ग्राहयन्त्यष्टगुणितं मूत्रं मण्डूरचूर्णतः॥२२॥

त्र्यूषणमित्यादि—चरकस्य। दार्वीत्वगिति षष्ठीसमासः, न तु दार्वी त्वक्चेति, ताप्यं दार्व्यास्त्वचं चव्यम्” इति वाग्भटवचनात्। ग्रन्थिकं पिप्पलीमूलम्।एभिश्चतुर्दशद्रव्यैः पृथग्द्विपलैरष्टाविंशतिपलानि भवन्ति। मण्डुरञ्चसमुदितचूर्णाद् द्विगुणं सत् षट्पञ्चाशत्पलमानं भवति। गोमूत्रञ्चमिलितचूर्णापेक्षयाष्टगुणम्, पल्लोल्लेखागतत्वेन द्वैगुण्यमपि नास्ति। अन्ये तु मूत्रमष्टगुणं प्रत्यासत्त्यामण्डूरापेक्षयैव वदन्ति। चक्रेणाप्यनुमतोऽयं पक्षःतो दीपकायामेव पक्षःप्रतिभातीत्युक्तम्। एतच्च न युक्तं, यदाह वाग्भटः “ताप्यं दार्व्यास्त्वचं चव्यंप्रन्थिकं देवदारु च। व्योषादिनवकञ्चैव चूर्णयेद् द्विगुणं ततः। मण्डूरञ्चाजननिभं सर्वतोऽष्टगुणे पचत्। पृथग्विपक्वेगोमूत्रे वटकीकरणक्षमे। प्रक्षिप्य वटकान् कुर्य्यात् तान् खादेत् तक्रभोजनम्” इति। वाग्भटटीकायाञ्च सर्वत इतिमण्डूरसहितचूर्णादष्टगुणं गोमूत्रमिति व्याख्यातम्। वृद्धवाग्भटेऽपि सूत्रं सर्वतोऽष्टगुणमित्युक्तम्। पृथक् पृथगिति एकपृथक्शब्दो द्विपलिकानीत्यनेन सम्बध्यते,द्वितीयपृथक्शब्दाच्च मण्डूरचूर्णमेव पृथक् कृत्वा पक्तव्यम्, तस्मिन्नासन्नपाके त्र्यूषणादिचूर्णप्रक्षेपः चूर्णबहुलत्वात्, एवं सर्वत्र बहुचूर्णप्रक्षेपविषये आसन्नपाक एवप्रक्षेपः, स्वल्पचूर्णस्य तु प्रक्षेपः सम्यक्पाके सत्येव, अतएवोक्तं “प्रायो न पाकश्चूर्णानां भूरिचूर्णस्य तेन हि। आसन्नपाके प्रक्षेपः स्वल्पस्य पाकमागते।” पाकमागते इति सम्यक् पाक इत्यर्थः। पाकलक्षणञ्च “रसो गन्धः शुभः पाके वर्तिःस्याद् गाढमर्दनात्” इति। उडुम्बरसमानिति कर्षमानान्, पञ्चषट्माषकेण प्रायेणप्रचारः। अजरेकजीर्णम्। बहुश इति सप्त वारान्। चक्रेण तु ग्राहयन्त्यगुणितं मूत्रंमण्डूरचूर्णत इत्येव पाठो लिखितः। यतो दीपिकायां मण्डूरापेक्षयैवाष्टगुणत्वम्,तेनायमेव पक्षः प्रतिभातीति वदता स्वीकृतम्, गोमूत्रं सर्वचूर्णत इति तु केनापिप्रतिसंस्कृत्य लिखितम्॥२२॥

पुनर्नवामण्डूरम्।

पुनर्नवात्रिवृच्छुण्ठी पिप्पली मरिचानि च।
विडङ्गं देवकाष्ठञ्च चित्रकं पुष्कराह्वयम्॥

त्रिफलां द्वे हरिद्रे च दन्तीञ्च चविकं तथा।
कुटजस्य फलं तिक्तापिप्पलीमूलमुस्तकम्॥

एतानि समभागानि मण्डूरं द्विगुणं ततः।

गोमूत्रेऽष्टगुणे पक्त्वा स्थापयेत् स्निग्धभाजने॥

पाण्डुशोथोदरानाहशूलार्शःक्रिमिगुल्मनुत्॥२३॥

पुनर्नवामण्डूरे गोमूत्रस्याष्टगुणत्वं मण्डुरापेक्षयैव, सन्निहितत्वात् व्यवहाराच्च, अत्रापि द्वैगुण्यं न व्यवहरन्ति॥२५॥

वज्रवटकमण्डूरम्।

पञ्चकोलं समरिचं देवदारुफलत्रिकम्।
विडङ्गमुस्तयुक्ताश्च भागास्त्रिपलसम्मिताः॥

यावन्त्येतानि चूर्णानि मण्डूरं द्विगुणं ततः।
पक्त्वा चाष्टगुणे मूत्रे घनीभूते तदुद्धरेत्॥

ततोऽक्षमात्रान् वटकान् पिबेत् तक्रेण तक्रभुक्।

पाण्डुरोगं जयत्येष मन्दाग्नित्वमरोचकम्।
अर्शांसि ग्रहणीरोगमूरुस्तम्भमथापि वा।

क्रिमिं प्लीहनमुदरं गलरोगञ्च नाशयेत्॥

मण्डूरवज्रनामायं रोगनीकविनाशनः॥२४॥

मण्डूरवज्रवटके विडंगमुस्तयुक्ताञ्च भागास्त्रिपलसम्मिता इति पञ्चकोलादिभागाविडंगमुस्तसहितास्त्रिपलसम्मिता इत्यर्थः। अत्रापि मण्डुरापेक्षयैवाष्टगुणत्वं मूत्रस्य;अद्वैगुण्यञ्च पूर्ववत्॥२४॥

धात्र्यरिष्टम्—

धात्रीफलसहस्रे द्वे पीडयित्वा रसं भिषक्।
क्षौद्राष्टभागं पिप्पल्याश्चूर्णार्द्धकुडवान्वितम्॥

शर्करार्द्धतुलोन्मिश्रंपक्वंस्निग्धघटे स्थितम्।
प्रपिबेत् पाण्डुरोगार्त्तो जीर्णे हितमिताशनः॥

कामलापाण्डुहृद्रोगवातासृग्विषमज्वरान्।
कासहिक्कारुचिश्वासानेपोऽरिष्टः प्रणाशयेत्॥२५॥

धात्रीफलेल्यादि—चरकस्य। क्षौद्राष्टभागमिति क्षौद्रस्याष्टमो भागः; तेनामलकस्वरसस्य सप्त भागा इति सिध्यति; शर्करार्द्धतुला पंचाशत् पलानि, अर्द्धपलेति लेखकदोषात् प्रमादपाठः॥२५॥

** द्राक्षाघृतम्—**

पुराणसर्पिषः प्रस्थो द्राक्षार्द्धप्रस्थसाधितः।
कामलागुल्मपाण्ड्वर्त्तिज्वरमेहोदरापहः॥२६॥

पुराणसर्पिष इति पुराणं दशवर्षस्थितं सर्पिः। जलमत्र चतुगुणमर्थात्। अन्येतु “पिष्ट्वागोस्तनिकायास्तु पलान्यष्टौ समावपेत्। पुराणसर्पिषः प्रस्थं पचेत् क्षीरचतुर्गुणम्” इति हारीतदर्शनात् क्षीरमत्र चतुर्गुणमाहुः॥२६॥

** हरिद्राघृतम्—**

हरिद्रात्रिफलानिम्बवलामधुकसाधितम्।
सक्षीरं माहिषं सर्पिः कामलाहरमुत्तमम्॥२७॥

हरिद्रेत्यादौ—क्षीरंचतुर्गुणम्॥२७॥

मूर्वाद्यं घृतम्—

मूर्वातिक्तानिशावासाकृष्णाचन्दनपर्पटैः।

त्रायन्तीवत्सभूनिम्बपटोलाम्बुददारुभिः॥

अक्षमात्रैर्घृतप्रस्थं सिद्धं क्षीरं चतुर्गुणम्।
पाण्डुताज्वरविस्फोट-शोथार्शोरक्तपित्तनुत्॥२८॥

मूर्वाघृतं वत्सकेन वत्सकफलं ग्राह्यम्॥२८॥

व्योपाद्यं घृतम्।

व्योषं बिल्वं द्विरजनी त्रिफला द्विपुनर्नवा।
मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च॥

वृश्चिकाली च भार्गी च सक्षीरैस्तैः शृतं घृतम्।
सर्वान् प्रशमयत्येतद्विकारान् मृत्तिकाकृतान्॥२९॥

व्योषमित्यादि—वाग्भटस्य। बिल्वं बिल्वशलाटुः। अयोरजोऽत्र पुटादिशोषितं ग्राह्यम्। वृश्चिकाली विछटीति ख्याता। क्षीरमत्र चतुर्गुणं बोध्यम्,अरुणस्तु क्षीरं घृतसमम्, जलन्तु चतुर्गुण मित्याह॥२९॥

इति पाण्डुरोगचिकित्साविवृतिः॥

<MISSING_FIG href=”../../../../../books_images/U-IMG-170697179524020201-removebg-preview.png”/>

रक्तपित्त-चिकित्सा।

नोद्रिक्तमादौ संग्राह्यं वलिनोऽप्यश्नतश्च यत्।
हृत्पाण्डुग्रहणीदोषप्लीहगुल्मज्वरादिकृत्।

ऊर्द्ध्वं प्रवृत्तदोषस्य पूर्वं लोहितपित्तिनः॥

अक्षिणवलमांसाग्नेःकर्त्तव्यमपतर्पणम्।

ऊर्द्ध्वगेतर्पणं पूर्वं कर्त्तव्यञ्च विरेचनम्॥

प्रागधोगमने पेया वमनञ्च यथावलम्॥१॥

पाण्डुरोगवत् रक्तपित्तस्यापि पित्तरक्तकरणत्वाव्यभिचारात पाण्डुरोगानन्तरंरक्तपित्तमाह नोद्रिकमित्यादि—नोद्रिक्तमित्यादिना सौश्रुतक्रियामाहः उद्रिक्तमतिशयेन प्रवृत्त्युन्मुखम्। अश्नत इत्यनेन सन्तर्पणोत्थितत्वं दर्शयति। आदौसंग्रहणेदोषमाह हृदित्यादि—रोगशब्दस्य हृदादिभिः सम्बन्धः, प्रत्येकमिति शेषः।ऊर्द्ध्व प्रवृत्तदोषस्येति—सुश्रुतस्य। अतिप्रवृद्धदोषस्येति पाठान्तरम् अपतर्पणंलङ्घनम्, चरके रक्तपित्ते लङ्घनकरणोपपत्तिदर्शिता, यथा “प्रायेण हितमुत् क्लिष्टंसामदोषाच्च वारिणा। वृद्धिं प्रयाति पित्तासृक् तस्मान्नानमादितः” इति। दोषनिदानापेक्षया यत् कर्त्तव्यं तदाह ऊर्द्ध्वग इत्यादि चरकः “मार्गदोषानुबन्धञ्च निदानं प्रसमक्ष्यिच। लङ्घनं रक्तपित्तादौतर्पणं वा प्रयोजयेत्"इति अस्यार्थः—यदि ऊर्द्ध्वमार्गगं सामं पित्तं कपस्थोदोषः स्निग्धोष्णन निदानंतदा लङ्घनम्, अन्यथा तर्पणम्, तर्पयतीत तर्पणमशनम्, तेन यवागूतर्पणम् ग्राह्यम्। ये तु शक्तुतर्पणे तर्पणमिति, तन्मते यवागूदानपक्षी न संगृहीतः स्यादित्याह प्रागधोवमन इति, अधोगे रक्तपित्ते प्राक् पूर्व पेयादिक्रमित्यर्थः॥१॥

तर्पणं सघृतक्षौद्रलाजचूर्णैः प्रदापयेत्।
ऊर्द्ध्वगं रक्तपित्तं तत् पीतं काले व्यपोहति।
जलं खर्जूरमृद्वीकामधुकैः सपरूषकैः।
शृतशीतं प्रयोक्तव्यं तर्पणार्थं सशर्करम्॥२॥

तर्पणमित्यादि—चरकस्य। स्पष्टम्। येन द्रवेण शक्तूनामालोढनं कार्य्यंतदाह जलमित्यादि—अथ खर्जूरादिना जलं षडङ्गविधानेन कार्य्यम्। एतच्चजलमत्यर्थं मधुरमप्यूर्द्ध्वगे कफसम्बन्धे रक्तपित्तव्याधिप्रत्यनीकतया यौगिकंज्ञेयम्॥२॥

त्रिवृता त्रिफला श्यामा पिप्पली शर्करा मधु।
मोदकः सन्निपातोर्द्ध्वरक्तपित्तज्वरापहः॥३॥

विरेचनमाह त्रिवृतत्यादि—त्रिवृतेति अरुणमूला, श्यामेति श्याममूला त्रिवृत्न तु श्यामलता वृद्धदारको वा, चरके श्यामात्रितः कल्पस्थाने पठितत्वात्। अत्र‘मोदकै द्विगुणो गुडः’ इति वचनात् शर्करायाश्चूर्णाद् द्वैगुण्यमिच्छन्ति, मधुपुनरेकद्रव्यसमं किंवा मधुशर्करे मिलित्वा चूर्णाद् द्विगुणम, उभयोरपि मोदकार्हत्वात्। अयं योगः सुश्रुतेऽपि पठ्यते, तट्टीकाकारस्तु त्रिफलायाः प्रत्येकं भागः,शर्करामाक्षिकन्तु मोदकयोग्यमाह॥३॥

शालपर्ण्यादिना सिद्धा पेया पूर्वमधोगते।
वमनं मदनोन्मिश्रोमन्थः सक्षौद्रशर्करः॥४॥

शालपर्यादिना सिद्धेति—शालपर्ण्यादि स्वल्पपञ्चमूलं तथातिसार उक्तौद्वौच स्वल्पमहद्भेदात् एवं शालपर्ण्यादित्रयमेव दोषाद्यपेक्षया देयमित्याहुः। व्यवहारस्तु प्रायःस्वल्पञ्चमूलेनेति। वमनमिति—मन्यो द्रवद्रव्यालोडिताः शक्तवः॥४॥

शालिपष्टिकनीवारकोरदूपप्रशातिकाः।
श्यामाकश्च प्रियङ्गुश्च भोजनं रक्लपित्तिनाम्॥

मसूरमुद्गचणकाः समकुष्ठाढकीफलाः।
प्रशस्ताः सूपयूपार्थं कल्पिता रक्तपित्तिनाम्॥

शाकं पटोलवेत्राग्न-तण्डलीयादिकं हितम्।
मांसं लावकपोतादिशशैणहरिणादिजम्॥५॥

शालीत्यादौ—नीवार उडिया, कोरदूषः कोद्रवः, स चेह पुरातनो ग्राह्यः, तेनकोरदूषस्य यदक्तपित्तहेतुत्वं चरके निदानस्थाने प्रोक्तं तदभिनवाभिप्रायेणेति केचित्।अन्ये तु निष्पावमाषपूपादियुक्तस्यैव कोरदूषस्य संयोगमहिम्ना रक्तपित्तहेतुत्वं निदानेप्रोक्तम्, केवलस्य तु कषायमधुरलघुत्वात् रक्तपित्तहन्तृत्वमेवाहुः। प्रशातिका रक्तशूका, रक्त उडिया इति ख्याता, सा जलमध्ये प्रायो भवति। प्रियंगुः कंगुः कायोनीति लोके। ढकी तुवरी॥५॥

विना शुण्ठीं षडङ्गेन सिद्धं तोयञ्च दापयेत्॥६॥

विना शुण्ठीमित्यादि स्पष्टम्॥६॥

क्षीणमांसवलं बालं वृद्धं शोषानुबन्धिनम्।
श्रवम्यमविरेच्यञ्च स्तम्भनैः समुपाचरेत्॥७॥

निषिद्धवमनविरेचनमाह क्षीणेत्यादि-शोषानुबन्धिनं यक्ष्मानुबन्धयुतम्॥७॥

वृषपत्राणि निष्पीड्य रसं समधुशर्करम्।
पिबेत् तेन शमं याति रक्तपित्तं सुदारुणम्॥८॥

स्तम्भनयोगःनाह वृषेत्यादि—वृषस्य पत्राणि पुटपाकविधिना उत्स्विद्य ततोरसो प्रायः। अन्यथा तंत्पत्रस्वरसो दुर्ग्रहो भवति। अयं योगः ऊर्ध्वगे वोध्यइत्याहुः। योगोऽयं मधुशर्कराव्यतिरेकेण तत्कृतकषायेणापि बोध्यः; यदाह वाग्भटः"पित्तासृक् शमयेद् पीतो निर्यासो वाटरूषजः। शकरामधुंसयुक्तः केनलो वा शृतोऽपि वा इति॥८॥

आटरूषकनिर्य्यूहेप्रियङ्गु मृत्तिकाञ्जने।
विनीय लोध्रंसक्षौद्रं रक्तपित्तहरं पिवेत्॥९॥

टरूषक निर्व्यूह इत्यादि—आरूषो वासकः, मृत्तिका सौराष्ट्री मृत्, तदभावेपङ्कपर्पटी, अञ्जनं रसाञ्जनम्, क्षौद्रान्तोऽयं योगः। उक्तञ्चवाग्भटे “वासारसेनफलिनीमृद्रसाञ्जनमाक्षिकम्। पित्तासृक् शमयेत् पीतम्” इति। विनय कल्कीकृत्य प्रक्षिप्येति वा। प्रियंग्वादीनां मिलितानां कर्ष क्षौद्रस्य च कर्ष प्रक्षिप्यपिबेत्, परिभाषाबलात्। उक्तंह्यग्निवेशेन कर्षश्चूर्णस्य कलकस्येत्यादि, तथा मात्राक्षौद्रघृतादीनामिति। अन्ये त्वाहुः—चूर्णादीनां कर्षमानत्वं स्वतन्त्रप्रयोग एवभवति। यदि पुनरत्रोक्तपरिभाषानुसारेण प्रियंग्वादीनां प्रत्येकं गृह्यते तदा भेषजभूयस्त्वं स्यात्, प्रियंग्वादीनामल्पत्वं युक्तं भवति, व्यवहारन्तु प्रियंग्वादिकल्कक्षौद्रयोः प्रत्येकं चतुःपंचमाषकप्रक्षेपेण इति॥९॥

वासाकषायोत्पलमृत्प्रियङ्गुलोध्राञ्जनाम्भोरुहकेशराणि।
पीत्वा सिताक्षौद्रयुतानि हन्यात् पित्तासृजो वेगमुदीर्णमाशु॥१०॥

वासाकषाय इत्यादि—सुश्रुतस्य। उत्पलादीनां क्षौदान्तानां प्रक्षेपः। निश्चलस्तुसितामधुनोः प्रत्येकं शाणः, उत्पलादीनां मिलित्वा शाण इत्याह॥ १०॥

तालीशचूर्णसंयुक्तः पेयः क्षौद्रेण वासकस्वरसः।
कफपित्ततमकश्वासखरभेदरक्तपित्तहरः॥११॥

तालीशेत्यादि—अत्र वासकस्वरसस्य पलम्, तालीशचूर्णस्य मापकद्वयम्,

मधु माषचतुष्टयमिति व्यवहरन्ति॥११॥

आटरूषकमृद्वीका-पथ्याक्वाथः सशर्करः।
क्षौद्राढ्यः कसनश्वासरक्तपित्तनिवर्हणः॥१२॥

आटरूषकेत्यादि—चरकस्यायं योगोऽनार्षइति जेज्जटः, दृश्यते त्वयं चन्द्राटादिषुबहुसंग्रहेष्वपीति॥१२॥

वासायां विद्यमानायामाशायां जीवितस्य च।
रक्तपित्ती क्षयी कासीकिमर्थमवसीदति॥१३॥

वासायामित्यादि स्पष्टम्॥१३॥

समाक्षिकः फल्गुफलोद्भवो वा।
पीतो रसः शोणितमाशु हन्ति॥१४॥

समाक्षिक इत्यादि—फल्गुफलं काकोडुम्बरिकाफलम्। अयं योगोऽधोगेभवति॥१४॥

सदयन्त्यङ्घ्रिजः क्वाथस्तद्वत् समधुशर्करः॥१५॥

सदयन्त्यङ्घ्रीति मदयन्ती मल्लिकभेदः, तस्या मूलम्॥१५॥

अतसीकुसुमसमङ्गावटावरोहत्वगम्भसा पीता।
प्रशमयति रक्तपित्तं यदि भुङ्क्ते मुद्गयूषेण॥१६॥

अतसीत्यादौ—वटावरोहत्वगिति वटावरोहस्य त्वक्। एतत् सर्वं पिष्ट्वा अम्भसा पेयम्॥१६॥

कषाययोगैर्विविधैर्दीप्ताग्नौनिर्जिते कफे।
रक्तपित्तं न चेच्छाम्येत् तत्र वातोल्वणे पयः॥

छागं पयोऽथवा गव्यं शृतं पञ्चगुणे जले।
अभ्यसेत् ससिताक्षौद्रं पञ्चमूलीशृतं पयः॥१७॥

क्षीरपानविषयमाह कषाययोगैरित्यादि—वाग्भटस्य। कषायाश्चूर्णकल्कादयः।पञ्चमूली स्वल्पा, क्षीरपाकविधानेनपञ्चमूलीसाधितं पयः। अत्रापि संसिताक्षौद्रमिति योज्यम्। उक्तंहि वाग्भटे “पञ्चमूलेन लघुना शृतञ्चससितामधु” इति॥१७॥

द्राक्षया पर्णिनीभिर्वा वलया मधुकेन वा।
श्वदंष्ट्रया शतावर्य्या रक्तजित् साधितं पयः॥१८॥

द्राक्षयेत्यादि—एते षड्योगाः। पर्णिनीभिरिति शालपर्णीपृश्नपर्णीमुद्गपर्णीमाषपर्णीभिरिति, एवं सर्वत्र बहुवचनान्ते, द्विवचनान्ते त्वाद्येद्वे। एते योगाविशेषण मूत्रमार्गगे रक्तपित्त ज्ञेयाः। तथा घृतस्य शर्करायाः प्रक्षेपोऽत्र बोध्यः।यदुक्तंवाग्भटे “जीवकर्षभौद्राक्षाबलामधुकगोक्षुरैः। पृथक् पृथक् शृतं क्षीरंसघृतं सितयापि वा। गोकण्टकाभीरुशृनं पर्णिनीभिस्तथा पयः। हन्त्याशु रक्तंसरुजं विशेषान्मूत्रमार्गगम्” इति। एवञ्च सजीवकं सर्षभकमित्यादि चरकेणाप्युक्तम्॥१८॥

पक्वोडुम्बरकाश्मर्य्य-पथ्याखर्जूरगोस्तनाः।
मधुना घ्नन्ति संलीढा रक्तपित्तं पृथक् पृथक्॥१९॥

पक्कोडुम्बरेत्यादि—उडुम्बरादीनां फलानि पक्कानि, ततस्तेषां चूर्णानां मधुनालेहः। कश्मर्य्यगम्भारीफलम्, खर्जूरं पिण्डखर्जूरम्, गोस्तना द्राक्षा। मधुनेत्यादेर्दैवादप्राप्तौ अनर्हत्वे वा सर्वत्र शार्करं जलं वङ्गसेनरसं कदल्यादिकुसुमसम्भवं वाग्राह्यमित्यर्थः। नासा प्रवृत्तरुधिरेऽपि पक्कोडुम्बरफलं मधुना गुडेन च दृश्यते, उक्तंहि बिन्दुसारे “उडुम्बराणि पक्कानि गुडेन मधुनापि वा उपयुक्तानि निघ्नन्तिनासारक्तंनृणां ध्रुवम्” इति॥१९॥

भद्रशाखोटकत्वग्रसविन्दुद्वितययुतो घृतद्विगुणः।
भूनिम्बकल्क ऊर्द्ध्वगपित्तास्नकासश्वासघ्नः॥२०॥

भद्रेत्यादि—भद्रस्तरुणः॥२०॥

खदिरस्य प्रियङ्गूणां कोविदारस्य शाल्मलेः।
पुष्पचूर्णन्तु मधुना लीढ्वा चारोग्यमश्नुते॥२१॥

खदिरस्येत्यादि—चरकस्य। चरके तु पुष्पचूर्णानि मधुना लिणाद्वा रक्लपित्तनुदिति पाठः, टीकाकारोऽपि चूर्णानि तस्य रक्तपित्तनुदिति विशेषणं नोपपद्यत इतिकृत्वा पुरुषविशेषणत्वमाह। संग्रहकारैश्च पुष्पचूर्णानि मधुना लीढ्वा चारोग्यमश्नुने इति प्रतिसंस्कृत्य लिखितम्। अयञ्च पुष्पचूर्णलेहोव्यस्तः, सर्वत्रविभक्त्यन्तत्वेन निर्देशादिति वृन्दटिप्पणी, किन्तु चरकटीकाकृद्भिर्न व्याख्यातोऽयमर्थः॥२१॥

अभया मधुसंयुक्ता पाचनी दीपनी मता।
श्लेष्माणं रक्लपित्तञ्च हन्ति शूलातिसारनुत्॥२२॥

अभयेत्यादि—अयं योगो यद्यपि पक्कोडुम्बरकाश्मर्य्येत्यादियोगमध्ये पठित एवतथापि फलविशेषकथनार्थमिह पुनरुक्तम्॥२२॥

वासकस्वरसे पथ्या सप्तधा परिभाविता।

कृष्णा वा मधुना लीढा रक्तपित्तं द्रुतं जयेत्।
भावनायां द्रवो देयः सम्यगार्द्रत्वकारकः॥२३॥

वासकस्वरस इत्यादि—कृष्णा च वासकस्वरसे भावितेति योज्यम्, भावनाच सप्ताहम्, उक्तं हि चन्द्राटे “दिवा दिवातपे शुष्कं रात्रौ रात्रौ च वासयेत्। शुष्कंचूर्णीकृतं द्रव्यं सप्ताहं भावनाविधिः। द्रवेण यावता द्रव्यमेकीभूयार्द्रतां व्रजेत्।तावत्प्रमाणं निर्दिष्टं भिषग्भिर्भावनाविधौ” इति॥२३॥

एलादिगुडिका।

एलापत्रत्वचोऽर्द्धाक्षाः पिप्पल्यर्द्धपलं तथा।
सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः॥

संचूर्ण्यमधुना युक्त्या गुडिका कारयेद्भिषक्।
अक्षमात्रां ततश्चैकां भक्षयेत्तु दिने दिने॥

कासं श्वासं ज्वरं हिक्कां छर्दिं मूर्च्छां मदं भ्रमम्।
रक्तनिष्ठीवनं तृष्णां पार्श्वशूलमरोचकम्।
शोथप्लीहाढ्यवातांश्च स्वरभेदं क्षतक्षयम्।
गुडिका तर्पणी वृप्या रक्तपित्तञ्च नाशयेत्॥२४॥

एलेत्यादि—क्षतक्षीणे चरकस्य। अर्द्धाक्षा इति प्रत्येकं कर्षार्द्धमानाः। एवंसितादयश्च प्रत्येकं पलोन्मिताः। युक्त्या इति यावता मधुना गुडिका भवतितावन्मानं मधु देयम्। आढ्यवातं वातरक्तम् ऊरुस्तम्भमित्यन्ये॥२४॥

लोहगन्धिनि निश्वासे चोद्गारे रक्तगन्धिनि।
पृथ्वीकां शाणमात्रान्तु खादेद् द्विगुणशर्कराम्॥२५॥

पृथ्वीकां शाणमात्रामिति पृथ्वीका कृष्णजीरकं न तु सूक्ष्मैला, टीकाकृद्धिरव्याख्यातत्वात्। शाणो मापचतुष्टयम्। कृष्णजीरकस्य तौक्ष्णत्वे उष्णत्वेऽपिद्विगुणशर्करायोगात् प्रभावाद्वा पित्तहन्तृत्वम्॥२५॥

नासाप्रवृत्तरुधिरं घृतभृष्टं श्लक्ष्णपिष्टमामलकम्।
सेतुरिव तोयवेगं रुणद्धि मूर्ध्नि प्रलेपेन॥२६॥

नासेत्यादि—आमलकं घृते मृष्ट्वा काञ्चिकेपिष्ट्वाशिरसि लेपो देयः॥२६॥

घ्राणप्रवृत्तेजलमाशु देयं सशर्करं नासिकाया पयो वा।
द्राक्षारसं क्षीरघृतं पिबेद्वा सशर्करञ्चेक्षुरसं हितं वा॥२७॥

घ्राणप्रवृत्त इत्यादि—सुश्रुतस्य। जलादयः सशर्कराः पञ्चनस्ययोगा इतिगयदासः। तथा ढल्वणोऽपि घ्राणप्रवृत्ते सशर्करं पानीयम्, पयोऽपि सशर्करम्,तथा द्राक्षारसमपि सशर्करं नासिकया पिबेत्। तथा क्षीरघृतं क्षीरमथनोद्भूतंघृतंतदासशकंरं नासिकया पिबेत् एवमिक्षुरसमपि नासिकया पिबेत्। वृन्दटिप्पण्यान्तुकेवलद्राक्षारसस्य नस्यशक्षुरसस्य च नस्यमित्युक्तम् इदमपि युक्तम्, यदाइ चरकः"द्राक्षारसस्येक्षुरसस्य नस्यंश्चेक्षुरस्य दूर्वास्वरसस्य चैव” इति। चक्रस्तु नासिकयाइत्यत्र नस्तकयेति पठित्वा नासापुटयोरिति विघृतवान्। केचित् तु मूर्ध्नि लेपेनेत्यतोमूर्ध्नि इति पदमनुवृत्य अत्र मूर्ध्नि जलं देयमित्यर्थमाहुः। तत्र, नासाप्रवृत्तरुधिरमित्यादि चरकवचनम्, घ्राणप्रवृत्त इत्यादि सौश्रुतम्, तस्मात् दुरन्वयः। हितंवेत्यत्र हिमं वेति पाठोऽपि ज्ञेयः॥२७॥

नस्यं दाडिमपुष्पोत्थो रसो दूर्वाभवोऽथवा।
आम्रास्थिजः पलाण्डोर्वा नासिकास्नुतरक्तजित्॥२८॥

नस्यमित्यादि—चत्वारो योगाः, चरकेऽप्युक्तं “द्राक्षारसस्येक्षुरसस्य नस्यंक्षीरस्य दुर्वास्वरसस्य चैव। यवासमूलानि पलाण्डुमूलं नस्यं तथा दाहिमपुष्पतोयैः” इति। एवं वाग्भटेऽप्युक्तं। केचित् तु “रसे दाडिमपुष्पस्य दूर्वारससमन्विते"इति तन्त्रान्तरप्रदर्शनादत्रापि दूर्वारस–दाडिमरसाभ्यामेक एव योग इत्याहुः॥२८॥

मेढ्रगेऽतिप्रवृत्ते तु वस्तिरुत्तरसंज्ञितः।
शृतं क्षीरं पिबेद्वापि पञ्चमूल्या तृणाह्वया।

मेढ्रग इत्यादि—पञ्चमूल्या तृणाह्वयेति तृणपञ्चमूल्या, यदुक्तंसुश्रुते कुशकाशशरेक्षुदर्भाः” इति। अत्र दुर्भा उलुघासः। चरके तु “शरेक्षुकाशदर्भाणांशालीनां मूलमेव च” इति। उभयमपि शस्तम्॥२९॥

दुर्वाद्यंघृतम्।

दूर्वा सोत्पलकिञ्जल्का मञ्जिष्ठा सैलवालुका।
सिता शीतमुशीरञ्च मुस्तं चन्दनपद्मकम्॥

विपचेत् कार्षिकैरेतैः सर्पिराजं सुखाग्निना।
तण्डुलाम्बु त्वजाक्षीरं दत्त्वा चैव चतुर्गुणम्॥

तत्पानं चमतो रक्तं नावनं नासिकागते।
कर्णाभ्यां यस्य गच्छेत्तु तस्य कर्णौ प्रपूरयेत्॥

चक्षुःस्राविणि रक्ते तु पूरयेत् तेन चक्षुषी।

मेढ्रपायुप्रवृत्ते तु वस्तिकर्मसु तद्धितम्॥

रोमकूपप्रवृत्ते तु तदभ्यङ्गे प्रयोजयेत्॥३०॥

दूर्वाघृते शीतं श्वेतचन्दनमिति वृन्दः। अन्ये तु बहुवारत्वचं रसाञ्जनं वेत्याहुःत्रयाणामेव रत्नशालादौ शीतसंज्ञकत्वेनोक्तत्वात्, व्यवहारस्तु प्रायः श्वेतचन्दनेनेति। तण्डुलाम्बु स्वजातरिञ्च प्रत्येकं चतुर्गुणम्, दत्त्वा चैवेति चकारादित्याहुः॥३०॥

** शतावरीघृतम्—**

शतावरी दाडिमतिन्तिडीकं
काकोलिमेदे मधुकं विदारीम्।
पिष्ट्वा च मूलं फलपूरकस्य
घृतं पचेत् क्षीरचतुर्गुणं ज्ञः।
कासज्वरानाहविवन्धशूलं
तद्रक्तपित्तं घृतमाशु हन्यात्॥३१॥

शतावरीत्यादि—चरकस्य। केचिदत्र दाडिमफलम् औत्तरापथिकमित्याहुः।तिन्तिडीकं महार्द्रकम्। काकोलीयुक्ते मेदे काकोलीमेदे, मध्यपदलोपी समासः।किंवा काकोली शब्दः प्रथमैकवचनान्तस्त्रीलिङ्गशब्दः, मेद इति मेदाद्वयम्, तन्त्रान्तरप्रमाणात्, उक्तं हि “काकोली मधुकं भेदे तिन्तिडीकं सदाडिमम्। शतावरीं विदारीञ्च बीजपूरजटान्विताम्। पिष्ट्वा चतुर्गुणे तोये पक्वमाज्यं ज्वरापहम्” इति॥३१॥

बृहच्छतावरीघृतम्।

शतावर्य्यास्तु मूलानां रसप्रस्थद्वयं मतम्।
तत्समञ्च भवेत् क्षीरं घृतप्रस्थं विपाचयेत्॥

जीवकर्षभकौमेदा महामेदा तथैव च।
काकोली क्षीरकाकोली मृद्वीका मधुकं तथा।

मुद्गपर्णी माषपर्णी विदारी रक्तचन्दनम्।
शर्करामधु संयुक्तं सिद्धं विस्रावयेद्विषक्।

रक्तपित्तविकारेषु वातरक्तगदेषु च।
क्षीणशुक्रेषु दातव्यं वाजीकरणमुत्तमम्॥

अङ्गदाहं शिरोदाहं ज्वरं पित्तसमुद्भवम्।
योनिशूलञ्च दाहञ्च मूत्रकृच्छ्रञ्च पैत्तिकम्॥

एतान् रोगान् निहन्त्याशु छिन्नाभ्राणीव मारुतः।
शतावरीसर्पिरिदं बलवर्णाग्निवर्द्धनम्॥

स्नेहपादः स्मृतः कल्कः कल्कवन्मधुशर्करे।
इति वाक्यबलात् स्नेहे प्रक्षेप्यं पादिकं भवेत्॥३२॥

बृहच्छतावरीघृते शर्करामधुसंयुतमिति सिद्धशीते मधुशर्करयोर्मिलित्वा पादिकःप्रक्षेपः, अतएवाह स्नेहपाद इत्यादि॥३२॥

वासाद्यं घृतम्—

वासां सशाखां सपलाशमूलां
कृत्वा कषायं कुसुमानि चास्याः।
प्रदाय कल्कं विपचेद् घृतं तत्
सक्षौद्रमाश्वेव निहन्ति रक्तम्॥

शणस्य कोविदारस्य वृषस्य ककुभस्य च।
कल्काढ्यत्वात् पुष्पकल्कं प्रस्थे पलचतुष्टयम्॥३३॥

वासामित्यादि—चरकस्य। अत्रार्द्राया विधानात् क्वाथविधाने न द्वैगुण्यम्।” नित्यमार्द्रा प्रयोक्तव्या न तासां द्विगुणो भवेत्” इति वचनात्। अत्राष्टगुणं जलंदत्त्वा अष्टांशशेष कषायः कार्य्यः। उक्तं हि वाग्भटे “समूलमस्तकं पिष्टं वृषमष्टगुणेऽम्भसि। पक्त्वाष्टांशावशेषेण घृतं तेन विपाचयेत्। तत् पुष्पगर्भं तच्छीतं सक्षौद्रंपित्तशोणितम्” इत्यादि। अत्र वासापुष्पकल्कः, अतः प्रस्थेऽपि पलचतुष्टयम्, शणस्यकोविदारस्य वृषस्येति वक्ष्यमाणपरिभाषाबलात्। “अनिर्दिष्टप्रमाणत्वात्स्नेहस्य प्रस्थ एव पक्तव्यः। अतएवोक्तम्, “अनिर्दिष्टप्रमाणानां स्नेहानां प्रस्थ इष्यते”इति। यत् पुनः “स्नेहपाकविधौ यत्र प्रमाणं नेरितं क्वचित्। स्नेहस्य कुडवं तत्रपचेत् कल्कपलेन तु” इति परिभाषया स्नेहकुडवपाकाभिधानं तत् तु नस्यविषयंज्ञेयम्। सक्षौद्रमिति कल्कवन्मधुशर्करे इति वचनेन घृतात् पादिकत्वं ज्ञेयम्।अन्ये तु कल्कवन्मधुशर्करे इत्यतिदेशयलात् कल्कस्यात्र चतुष्पलत्वात् मधुनोऽपिचतुष्पलत्वमाहुः। अत्र केचिच्चरके “कासं ज्वरं पित्तभवञ्चशूलं गुल्मं यकृतप्लीहगदांश्च हन्ति” इति फलग्रहं पठन्ति। वाग्भटेऽप्युक्तं"पित्तगुल्मयकृच्छ्वावासकासहृद्ग्रहकामलाः। तिमिरज्वरवीसर्प-स्वरभेदांश्चनाशयेत्” इति॥३३॥

कामदेवघृतम्।

अश्वगन्धापलशतं तदर्द्धं गोक्षुरस्य च।
शतावरी विदारी च शालपर्णी बला तथा॥

अश्वत्थस्य च शुङ्गानि पद्मबीजं पुनर्नवा।
काश्मरीफलमेतत्तु माषबीजं तथैव च॥

पृथग्दशपलान् भागांश्चतुर्द्रोणेऽम्भसः पचेत्।
चतुर्भागावशेषन्तु कषायमवतारयेत्॥

मृद्वीका पद्मकं कुष्ठं पिप्पली रक्तचन्दनम्।
बालकं नागपुष्पञ्च आत्मगुप्ताफलं तथा।

नीलोत्पलं शारिवे द्वे जीवनीयं विशेषतः।
पृथक् कर्षसमञ्चैव शर्करायाः पलद्वयम्॥

रसस्य पौण्ड्रकक्षूणामाढकं तत्र दापयेत्।
चतुर्गुणेन पयसा घृतप्रस्थं विपाचयेत्॥

रक्लपित्तं क्षतक्षीणं कामलां वातशोणितम्।
हलीमकं तथा शोथं स्वरभेदं बलक्षयम्।

अरोचकं मूत्रकृच्छ्रं पार्श्वशूलञ्च नाशयेत्।
एतद्राक्षां प्रयोक्तव्यं वहन्तःपुरचारिणाम्॥

स्त्रीणाञ्चैवानपत्यानां दुर्बलानाञ्च देहिनाम्।

क्लीबानामल्पशुक्राणां जीर्णानामल्परेतसाम्।
श्रेष्ठं बलकरं हृद्यं वृष्यं पेयं रसायनम्॥

ओजस्तेजस्करञ्चैव आयुः प्राणविवर्द्धनम्।
संवर्द्धयति शुक्रञ्च पुरुषं दुर्वलेन्द्रियम्॥

सर्वरोगविर्निमुक्तस्तोयसिक्तोयथा द्रुमः।
कामदेव इति स्यातः सर्वर्त्तुषु च शस्यते॥३४॥

अश्वगन्धेलादि—तदर्धमिति गोक्षुरस्य पञ्चाशत् पलानि, शतावर्य्यादीनांबलान्तानाञ्च प्रत्येकं पञ्चाशत् पलानीलर्थः,अश्वत्थशुक्तादीनाञ्च पञ्चानां पृथक्दश पलानि, ततो मिलित्वा पलशतचतुष्टये क्वाथ्ये प्रतिशतं जलद्रोणोदेयः, तुलाद्रव्ये जलद्रोणइत्युक्तेः। नागपुष्पंनागकेशरम्, आत्मगुप्तायाः शुल केन्दाःफलम्, जीवनीयमिति जीवनीयदशकम्, शर्करान्तः कल्कः। तेजस्करमुत्साहवर्द्धकम्॥३४॥

सप्तप्रस्थघृतम्।

शतावरीपयोद्राक्षा-विदारीक्ष्वामलै रसैः।
सर्पिषा सह संयुक्तैः सप्तप्रस्थं पचेद् घृतम्॥

शर्करापादसंयुक्तं रक्तपित्तहरं पिबेत्।

उरःक्षते पित्तशूले चोष्णवातेऽप्यसृग्दरे॥

वल्यमूर्जस्करं वृष्यंक्षयहृद्रोगनाशनम्॥३५॥

शतावरीत्यादि—शतावर्य्यादीनां षण्णां मिलित्वा रसप्रस्थाः षट्, घृतस्यैकः प्रस्थ इति सप्त प्रस्थाः॥३५॥

खण्डकूष्माण्डकः।

कूष्माण्डकात् पलशतं सुखिनं निष्कुलीकृतम्।
पचेत् तप्ते घृतप्रस्थे शनैस्ताम्रमये दृढे॥

यदा मधुनिभः पाकस्तदा खण्डशतं न्यसेत्।
कूष्माण्डपीडनात् तोयेनाढकेन पुनः पचेत्॥

मुक्तसर्पिर्यदा पश्येत् तदा सिद्धेऽत्र निक्षिपेत्।
पिप्पलीशृङ्गवेराभ्यां द्वे पले जीरकस्य च॥

त्वगेलापत्रमरिचधान्यकानां पलार्द्धकम्।
न्यस्येत् चूर्णीकृतं तत्र दर्व्या सङ्घट्टयेत् पुनः॥

तत् पक्वंस्थापयेद्भाण्डे दत्त्वा क्षौद्रं घृतार्द्धकम्।
तद् यथाग्निवलं खादेद् रक्तपित्ती क्षतक्षयी॥

कासश्वासतमश्छर्दितृष्णाज्चरनिपीडितः।
वृष्यं पुनर्नवकरं बलवर्णप्रसाधनम्॥

उरःसन्धानकरणं बृहणं स्वरवर्द्धनम्॥

अश्विभ्यां निर्मितं सिद्धं कूष्माण्डकरसायनम्।
खण्डामलकमानानुसारात् कूष्माण्डकद्रवात्।

पात्रं पाकाय दातव्यं यावान्वात्र रसो भवेत्।
अत्रापि मुद्रया पाको निस्त्वचं निष्कुलीकृतम्॥३६॥

कूष्माण्डकादिति—निष्कुलीकृतं निस्त्वगस्थीकृतम्, कि़ञ्चित् जलं दत्त्वा उत्स्विद्य क्षौमे निष्पीढ्य आतपे मनाक् संशोष्य पिष्ट्वाच पलशतं गृहीत्वा पक्तव्यम्।द्वे पले जीरकस्य चेति करणाशुण्ठ्योः प्रत्येकं पलद्वयम्, जीरकंस्य च द्वे पले,तन्त्रान्तरसम्मतञ्चैतत्। तद्यथा “द्विपलांशैः कणाशुण्ठीजीरकैरवचूर्णितैःइति।वैद्यप्रसारकेऽप्येवमेवोक्तम्। व्यवहारोऽपीत्थमेव। अन्ये तु पलार्द्धिकमितिपरेण सम्बन्धात् जीरकस्य पलार्द्धमित्याहुः, तन्न तन्त्रान्तरविरोधात्। त्वगेलादीनाञ्च पञ्चानां प्रत्येकं पलार्द्धम्। आयुर्वेदसारेऽप्युक्तं “कूष्माण्डकानां रूढानांस्विनं शतपलं पचेत्। प्रतप्ते हविषः प्रस्थे मधुवर्णेऽत्र वीक्षिते। खण्डाच्छतंकणांजाज्योद्विपलं नागरादपि। धान्योषणं त्रिगन्धश्च पृथगर्द्धपलांशिकम्। घृतार्द्धं माक्षिकोपेतं तत् खादेदस्रपित्तजित्” इति। घृतार्द्धमिति प्रस्थार्द्धमानमित्यर्थः।खण्डामलकमानानुसारादित्यादि—खण्डामलके कूष्माण्डतुलार्द्धेकूष्माण्डरसमलकरसयोः प्रत्येकं प्रस्थ इत्युक्तः, तेन कूष्माण्डशतपले पात्रमिति द्वैगुण्येन प्रस्थचतुष्टयंदातव्यमित्यर्थः। पक्षान्तरमाह यावान् वात्र रसो भवेदिति। स्विन्नकूष्माण्डस्यातिपीडनेन यावान् रसो भवति तावतैव पाक इत्यर्थः। व्यवहारोऽप्यनेनैव युक्तश्चायं पक्षः,उक्तं हि तन्त्रान्तरे “वृद्धं पुरातनञ्चापि कूष्माण्डं कठिनं दृढम्।त्वक्शिराभ्यां विनिर्मुक्तमन्तर्बीजैर्विवर्जितम्। स्विन्नं सुपिष्टं दृशदि वस्त्रेणैव प्रपीडितम्। विशुष्कमातपे किञ्चिद् ग्राह्यं तत् तुलया धृतम्। औडुम्बरकटाहे तु पचेत्प्रस्थे च सर्पिषः। कृत्वा क्षौद्रनिभं तस्मिन् क्षिपेत् खण्डशतं भिषक्। कूष्माण्डपाीडनात् तोयं यत् तेन विपचेत् पुनः इति। मुद्रापाक इत्यादि—अंगुलिपीडनजन्यंचिह्नं मुद्रा, तथा पाको ज्ञेयः। एतच्चोपलक्षणम्, तेनान्यदपि पक्वलक्षणं ज्ञेयम्॥३६॥

वासाखण्डकूष्माण्डकः।

पञ्चाशच्च पलं स्विन्नं कूष्माण्डात् प्रस्थमाज्यतः।
ग्राह्यं पलशतं खण्डं वासाक्वाथाढके पचेत्॥

मुस्ताधात्रीशुभाभार्गीत्रिसुगन्धैश्च कार्षिकैः।
ऐलेयविश्वधन्याक-मरिचैश्च पलांशिकैः॥

पिप्पलीकुडवञ्चैव मधुमाणीं प्रदापयेत्।
एतच्चूर्णीकृतं तत्र दर्व्यासङ्घट्टयेत् पुनः॥

तद् यथाग्निबलं खादेद् रक्तपित्ती क्षतक्षयी।
वृष्यं पुनर्नवकरं बलवर्णकरञ्च तत्॥

कासं श्वासं क्षयं हिक्कां रक्तपित्तं हलमिकम्।
हृद्रोगमम्लपित्तञ्च पीनसञ्च व्यपोहति॥३७॥

पञ्चाशच्च पलमित्यादि—अत्रापि पूर्ववत् स्विन्नम्, संस्कृतकूष्माण्डात्पञ्चाशत् पलम्। न चात्र खण्डकूष्माण्डवत् कूष्माण्डरसो प्रायः, पाकार्थं वासाक्काथस्यैवोक्तत्वात्। वासायाश्चतुःषष्टिः पलानि, जलस्यापि चतुःषष्टिः शरावाःस्थाप्यन्तु षोडशशरावरूपमाढकम्। शुभा वंशलोचना, ऐलेयम् एलवालुकम्।मधुमाणीति मधुनोऽष्टौ पलानि। अत्र केचित् माणिकायां द्वैगुण्यमिच्छन्ति,किन्तु “माणिकाकुडवौ चेति या वा संख्या पलैः कृता। आर्दद्रव्ये द्रवे चैव

न तन्त्र द्विगुणं विदुः” इति वचनाद, तथा क्षारपाणिवचने माणिकाष्टौपलान्येवेत्यवधारणादष्टावेव पलानि, न तद् द्वैगुण्यात् षोडश पलानीत्यर्थः। चरकेऽपि पूर्णं शरावमित्यत्र पूर्णपदेन शरावे द्वैगुण्याभावः सूचितः, तथाहि पूर्णपदं द्वैगुण्यप्रतिक्षेपपरम्, अन्यथा पूर्णपदं व्यर्थंस्यात्। चक्रस्तु माणिकाकुडवौचेति वचनस्य केनापि क्वचिदप्यलिखितत्वादनार्षत्वमाशङ्क्य माणिकायां द्वैगुण्यमिच्छन्चरकोक्तलशुनादिघृते माणिकया षोडशपलत्वं व्याख्यातवान्॥ ३७॥

वासाखण्डः—

तुलामादाय वासायाः पचेदष्टगुणे जले।
तेन पादावशेषेण पाचयेदाढकं भिषक्॥

चूर्णानामभयानाञ्च खण्डाच्छुद्धाच्छतं तथा।
द्वे पले पिप्पलीचूर्णात् सिद्धशीते च माक्षिकात्॥

कुडवं पलमात्रन्तु चातुर्जांतं सुचूर्णितम्।

क्षिप्त्वा विलोडितं खादेद्रक्तपित्ती क्षतक्षयी।
श्वासकासपरीतश्च यक्ष्मणा च प्रपीडितः॥३८॥

तुलामादायेत्यादि—अनार्द्रावासा, एवं सर्वत्र, निम्नादिकमपि। उक्तंहि"वासानिम्बपटलकेत किबलाकूष्माण्ढकेन्दीवरी-वर्षाभूफुटजाश्वगन्धसहिते द्वे पूतिगन्धामृते। मांस नागवला सहाचरपुरोहिड्ग्वार्द्रके नित्यशो ग्राह्यः स्वत्क्षणमेव नद्विगुणिता ये चेक्षुजाता घनाः” इति। अष्टगुणे जल इति शरावशते, नात्रद्वैगुण्यम्, “न द्वैगुण्यं तुलामाने पलोल्लेखागते तथा” इत्युक्तेः। पदशेषाञ्चपञ्चविंशतिशरावाः। चूर्णानामिति हरीतकीचूर्णानामाढकं चतुःषष्टिपलानीत्यर्थः,प्रायो न पाकश्चूर्णानामिति प्रायः शब्दात् पाकोऽप्यस्तीति सूचयति, तेन चूर्णानांपाकेऽपि न विरोधः। चातुर्जातं पलमानमिति प्रत्येकं पलमानम्, निर्देशस्यमानप्रधानत्वात्॥३८॥

खण्डकाद्यो लौहः।

शतावरी छिन्नरुहा वृषमुण्डतिका वला।
तालमूली च गायत्री त्रिफलायास्त्वचस्तथा।

भार्गी पुष्करमूलञ्च पृथक् पञ्च पलानि च।
जलद्रोणे विपक्तव्यमष्टभागावशेषितम्॥

दिव्यौषधहतस्यापि माक्षिकेण हतस्य वा।
पलद्वादशकं देयं रुक्मलौहस्य चूर्णितम्॥

खण्डतुल्यं घृतं देयं पलषोडशिकं बुधैः।
पचेत् ताम्रमये पात्रे गुडपाको यथा मतः॥

प्रस्थार्द्धंमधुनो देयं शुभाश्मजतुकत्वचः।
शृङ्गी विडङ्गं कृष्णा च शुण्ठ्यजाजी पलं पलम्॥

त्रिफला धान्यकं पत्रं द्व्यक्षं मरिचकेशरम्।
चूर्णं दत्त्वा सुमथितं स्निग्धे भाण्डे निधापयेत्॥

यथाकालं प्रयुञ्जीत विडालपदकं ततः।

गव्यक्षीरानुपानञ्च सेव्यं मांसरसं पयः।
गुरुवृष्यानुपानानि स्निग्धं मांसादि वृंहणम्॥

रक्तपित्तं क्षयं कासं पक्तिशूलं विशेषतः।
वातरक्तंप्रमेहञ्च शीतपित्तं वमिंक्रिमीन्॥

श्वयथुं पाण्डुरोगञ्च कुष्ठं प्लीहोदरं तथा।
आनाहं रक्तसंस्रावमम्लपित्तं निहन्ति च॥

आरोग्यं पुत्रदं श्रेष्ठं कामाग्निबलवर्द्धनम्।
चक्षुष्यं वृंहणं वृष्यं माङ्गल्यं प्रीतिवर्द्धनम्॥

श्रीकरं लाघवकरं खण्डकाद्यं प्रकीर्त्तितम्॥

छागं पारावतं मांसं तित्तिरिः क्रकराः शशाः।
कुरङ्गाः कृष्णसाराश्च तेषां मांसानि योजयेत्।

नारिकेलपयःपानंसुनिषण्णकवास्तुकम्।
शुष्कमूलकजीराख्यं पटोलं वृहतीफलम्॥

फलं वार्त्ताकु पक्वाम्रं खर्जूरं स्वादु दाडिमम्।
ककारपूर्वकं यच्च मांसञ्चानूपसम्भवम्॥

वर्जनीयं विशेषेण खण्डकाद्यं प्रकुर्वता।
लौहान्तरवदत्रापि पुटनादिक्रियेष्यते॥३९॥

यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम्।
रक्तपित्ते हितं तच्च क्षीणक्षतहितञ्च यत्॥४०॥

खण्डाद्यंलौहमाह शतावरीत्यादि—छिन्नरुहा गुडूची, वृषो वासकः; मुण्डतिका मुण्डीरी, गायत्री खदिरः। त्रिफलायास्त्वच इति निरस्थित्रिफला।दिव्यौषधिर्मनः शिला, कणामूलं वा, माक्षिकं स्वर्णमाक्षिकम् मनःशिलास्वर्णमाक्षिकाभ्यां प्रत्येकं मिलित्वा वा प्रलिप्य दग्ध्वा च लौहं मारणीयम्। खण्डतुल्यमिति च्छेदः, तेन खण्डस्यापि द्वादश पलानि। केचित् तु रक्तपित्तहन्तृत्वात् खण्डस्यप्रचुरतर मेवाधिकरोतीति घृतपदेन सह खण्डतुल्यमिति योजयन्ति, तत् तु नसम्यक्, लौहयोगत्वादत्र लौहप्राधान्येन तन्मानापकर्षस्यायुक्तत्वात्, रक्तपित्तप्रत्यनीकन्तु लौहस्य स्वरूपत एव महाशक्तिकत्वात् विशेषतो रक्तपित्तहरम्। तत् तुद्रव्यं पुढादिभावितत्वेन महावीर्यकतयोपपन्नम्। व्यवहारश्च लौहसमतथैव।प्रस्थार्द्धमिति षोडश पलानि। शुभा वंशलोचना, अश्मजतुकं शिलाजतु, त्वक्गुडत्वक्, शुभादीनां जीरकान्तानां प्रत्येकं पलम्, त्रिफलादीनां केशरान्तानांप्रत्येकं द्वपक्षं कर्षद्वयमित्यर्थः। विडालपदकं कर्षः, एतच्च पूर्वयुगपुरुषाभिप्रायेणमानमुक्तं, व्यवहारन्तु रक्तित्रिचतुःपञ्चकादारभ्य रक्तिद्वयवृद्ध्या माषचतुष्टयं यावत्वृद्धिः। गव्यक्षीरानुपानमिति लौहापेक्षया चतुःषष्टिगुणम्, लौहान्तरे तथा दर्शनात्। उक्तं हि “अनुपानं चतुःषष्टिगुणं प्राहुः सदा बुधाः” इति। जीराख्यमितिजीराख्यशाकं मारिषाकारं चम्पकादौजीरेति ख्यातम्। ककारपूर्वकमितिविहितान् ककरकुरङ्गकृष्णसारान् विहाय, दद्यात्।ककारपूर्वकं कपोतकककोटादितत् परित्याज्यम्। अमृतसारलौहवदत्रापि बलिमन्त्रादि ज्ञेयं मधुघृत मदनादिकञ्च।आत्र केचित् गन्धकाभ्ररससंयोगं कुर्वन्ति, एतदनुकूलञ्च वचनं पठन्ति, “न रसेनविना लौहं गन्धकष्चाभ्रकं विना” इति, तथा चपलेन विना लौहं यः करोतिपुमानिह। उदर तस्य

किट्टानिंजायन्ते नात्र संशयः” इति। एतत् तु न व्यवहारसिद्धम्। यतः रसाभ्रसहितलौहप्रयोगस्य प्रशस्तताप्रतिपादनार्थ तथाभ्रकशून्यलोहे क्रिमिकिट्टादिव्यापच्छङ्कानिवृत्यर्थमभ्रकस्यावश्यं प्रक्षेपणार्थञ्च फलातिशयप्रतिपादनार्थमिति चतुःसमलोहे वाक्यद्वयमिदं पठितम् पुमानिहेति,इहशब्दात् वचनद्वयमपि तत्रैव बोध्यं, नान्यत्र। अन्यथा सामान्यत एव परिभाषितमिदं स्यादिति॥३९॥४०॥

इति रक्तपित्त-चिकित्सा-विवृतिः।

<MISSING_FIG href=”../../../../../books_images/U-IMG-1707065973020401-removebg-preview.png”/>

अथ यक्ष्मचिकित्सा।

शालिषष्टिकगोधूमयवमुद्गादयः शुभाः।
मद्यानि जाङ्गलाः पक्षिमृगाः शस्ता विशुष्यताम्॥

शुष्यतां क्षीणमांसानां कल्पितानि विधानवित्।
दद्यात् क्रव्यादमांसानि बृंहणानि विशेषतः॥१॥

यक्ष्मरूपेपु पित्तास्रस्य चागम इति रक्तपित्तानन्तरं राजयक्ष्मचिकित्सितमुच्यते।शालीत्यादि—शाल्यादिकं संवत्सरातिक्रान्तं यदाह वाग्भटः"शालिषष्टिकगोधूमयवमुद्गंसमातीतम्” इति। ऋव्यादमांसानीति क्रन्यादा व्याघ्रगृध्रादयः।एषाञ्च मांसमतिशयेन मांसकरं भवति। उक्तंहि “मांसेनोपचिताङ्गानां मांसंमांसकरं परम्।” एतच्च भक्ष्यच्छागादिमांसव्याजेन देयम्। उक्तंहि “काकोलूकवृकद्वीपिगवाश्वन कुलोरगम्। गृध्रचाषखरोष्ट्रञ्च हितं हस्त्योतुसंहितम्” इति।सुश्रुतेऽप्युक्तं” काकानुलूकान नकुलान् बिडालान् गण्डूपदान् व्यालविलेशयाखून्।गृध्रांश्च दयाद्विविधैः प्रकारैःससैन्धवान् सर्षपतैलमृष्टान्। देयानि मांसानि च जाङ्गालानि मुद्गाढकीसूपरसाश्च हृद्याः। खरोष्ट्रनागाश्वतराश्वजानि देयानि मांसानि सुकल्पितानि। मांसोपदेशांश्च पिबेदरिष्टान् माध्वीकयुक्ता मदिराश्च सेव्याः” इति।सुकल्पितानीति सूदशास्त्रोक्तविधया उपकल्पितानि॥१॥

दोषाधिकानां वमनं शस्यते सविरेचनम्।

स्नेहस्वदोपपन्नानां सस्नेहं यन्न कर्षणम्।
शुद्धकोष्ठस्य युञ्जीत विधिंबृंहणदीपनम्।

शुक्रायत्तं बलं पुंसां मलायत्तं हि जीवितम्।
तस्माद् यत्नेन संरक्षेद् यक्ष्मिणो मलरेतसी॥२॥

दोषांधिकानामित्यादि—चरकस्य। संग्रहमीषत्स्नेहम्। यन कर्षणमित्यनेनदेचमनविरेचनयोरत्र मृदुनोरवलापापकर्षणयोः प्रयोगं दर्शयति। शुक्रेत्यादि—वाग्भटस्य। शुक्रस्य सर्वधातुसारत्वात् तदर्थानं शक्तिलक्षणं वलम्, मलायत्तं हि जीवितमिति। यद्यपि सर्वेषामेव जीवितं मलाधीनं मलस्य शरीरस्तम्भकत्वात् तथापिविशेषाद्राजय चिमणो जीवितं मलाधीनम्। उक्तं हि “तस्मिन् काल पचत्यनिर्यदन्नंकोष्ठसंश्रितम्। मलं भवति तत् प्रायः कल्पते किञ्चिदोजसे। तस्मात् पुरोषं संरक्ष्यंविशेषाद्वाजयचिमणः। सर्वधातुक्षयार्त्तस्य बलं त्यस्य हि विड्बलम्” इति॥२॥

सपिप्पलीकं सयवं सकुलत्थं सनागरम्।
दाडिमामलकोपेतं स्निग्धमाजरसं पिबेत्॥

तेन षड् विनिवर्त्तन्ते विकाराः पीनसादयः।
रसे द्रव्याम्बु पेयावत् सूदशास्त्रवशादिह॥

पलानि द्वादश प्रस्थे घनेऽथ तनुके तु षट्।
मांसस्य वटकं कुर्य्यात् पलमच्छतरे रसे॥३॥

सपिप्पलीकमित्यादि—अत्र केचित् यवकुलत्थावन्यद्रव्यापेक्षया प्रचुरौ देयोयूषयोनित्वात्, पिप्पली शुण्ठी च तावती देया यावत्या कटुत्वमात्रंस्यात्, एवमम्लत्वार्थं दाडिमामलकयोर्दानम्, एतत् सर्वं पिप्पल्यादिवव्यापेक्षया द्विगुणमांसेनसह एकीकृत्याष्टगुणजले क्वथनीयं, तत् पादस्थं घृतेन संस्कृत्य उपयोज्यमिति। वृद्धवैद्यास्तु पिप्पलीशुण्ठ्योः प्रत्येकं माषकचतुषयं यवकुलत्थयोस्तु प्रत्येकं कर्षः,दाडिमामलकयोरपि प्रत्येकं मापकचतुष्टयं ग्राह्यं समुदितद्रव्यापेक्षया मांसं द्विगुणंग्राह्यम्, सर्वमेकीकृत्याष्टगुणजले क्वथनीयं, तत्पदस्थं घृतेन संस्कृत्य उपयोज्यमित्यत्याहु। चक्रस्तु स्वमतमाह रस इत्यादि। षडङ्गपरिभाषया द्रव्यं जलञ्च गृहीत्वार्द्धशृतं कार्यं, तनार्द्धशृतक्वाथेन पलानि द्वादशप्रस्थ इत्यादि वक्ष्यमाणसूदशास्त्रोक्तपरिभाषानुसारेण परिमितं पिष्ट्वामांसं वटकीकृत्य पुनरपि पिष्ट्वा पक्त्वायूषः कार्य्य इति। व्यवहारस्तु पूर्वोक्तवृद्धोपदिष्ट एव ज्ञेयः। पीनसादय इत्यादिशब्दाच्चरकोक्तानि शिरःशूलश्वासकासस्वरक्षयपार्श्वशूलानि बोध्यानि। रसे द्रव्याम्बुपेयावदित्यादौ पेयावदित्यनेन यथा क्वाथसाध्यपेयायां षडङ्गपरिभाषया द्रवजलयोर्व्यवस्था तथा मांसरसेऽपीत्यर्थः। मांसन्तु सूदशास्त्रोक्तवचनानुसारेण ग्राह्यमित्याह पलानीत्यादि—अस्यार्थः सर्वत्रापि पिष्ट्वति शेषः। प्रस्थ द्रवे यदि घनरसः

पैत्तिके ग्राहयन्त्येके शुभया वंशलोचनम्॥१३॥

तालीशपत्रमित्यादौ—शुभेति पिप्पलीविशेषणं, न तु वंशलोचना, समानतन्त्रेहारीतादावदृष्टत्वात्। किन्तु संप्रहकाराः प्रबलपित्ते शुभायां वंशलोचना ग्राह्येतिलिखन्ति। एनमेवार्थं कश्चिंल्लिखति यथा तालीशमरिचनागरमागधिकावंशलोचनाः क्रमशः। वृद्धास्त्वेगलार्द्धं कृष्णायाः सिता भवेदष्टगुणा” इति। त्वगेले चार्द्धभागिके इति। प्रथमभागापेक्षया त्वगेलयोः प्रत्येकमर्द्धभागत्वम्, पिप्यल्यष्टगुणेतिपिप्पलीभागापेक्षया अष्टगुणा सितशर्करा।गुडिकापक्षे समं जलन शर्करापाकंकुर्वन्ति वृद्धाः॥१३॥

शृङ्ग्यर्जुनाद्यं चूर्णम्।

शृङ्ग्यर्जुनाश्वगन्धानागवलापुष्कराभयाच्छिन्नरुहाः।
तालीशादिसमेता लेह्या मधुसर्पिर्भ्यांयक्ष्महराः॥१४॥

शृंगीत्यादौ—छिन्नरुहा गुडूची। तालीशादिसंमता इत्यनेन तालीशादिद्रव्यमात्रमनुकर्षति, न तु तत्रोक्तभागवृद्धिक्रममपि, यथा वक्ष्यमाणचैतसघृते कल्याणकक्ष्यचांगेनेत्युक्त्वेऽपि कल्याणघृतोक्तकल्कद्रव्यमात्रमिति, तेनात्र शृंगयादीनां समभागतया तालीशादयोऽपि समभागा एवं ग्राह्याः॥१४॥

मधुताप्यविडङ्गाश्मजतुलौहघृताभयाः।
घ्नन्ति यक्ष्माणमत्युग्रं सेव्यमाना हिताशिना॥१५॥

मधुताप्येत्यादि—मधुघृताभ्यां लेहः। लौहमत्रायश्चूर्णं पुटादिशोधितं, न तुलौहमगुरु रसायनत्वात्। लौहमगुर्विति वृन्दटिप्पणी। ताप्यं स्वर्णमाक्षिकं, तथामृतसारवक्ष्यमाणविधिना शोधितं ग्राह्यम्। अश्मजतु शिलाजतु; तदपि वक्ष्यमाणशिवागुडिकाविधिना शोधितं ग्राह्यम्। अयोरजश्चात्रमिलितेतरचूर्णसमम्।लौहचूर्णमत्र रसायनतया श्रेष्ठत्वात् महावीर्य्यत्वाच महाव्याधिप्रशमन हेतुत्वं युज्यतइति॥१५॥

विन्ध्यवासियोगः।

व्योपं शतावरी त्रीणि फलानि द्वे वले तथा।
सर्वामयहरो योगः सोऽयं लौहरजोऽन्वितः॥

एष वक्ष क्षतं हन्ति कण्ठजांश्च गदांस्तथा।
राजयक्ष्माणमत्युग्रं बाहुस्तम्भमथार्दितम्॥१६॥

विन्ध्यवासियोगे त्रीणि फलानीति त्रिफला, द्वे चले इति नागबलावले, न तुश्वेतपीतभेदात्। अत्र लोहचूर्णं रसायनतया श्रेष्ठत्वात् यौगिकत्वात् महावीर्यत्वाच्च मिलितव्योषादिचूर्णेन समं ग्राह्यम्, अतएव व्योषादिपाठात् विच्छिद्यलौहरजोऽन्वितमिति पठितम्। चूर्णयोग एवार्थंघृतमधुनोरश्रुतस्यात्। अन्ये तु लेह एवाग्रंघृतमधुभ्यां कर्तव्यः, लेहप्रकरणविहितत्वादित्याहुः। युक्तश्चैतत्॥१६॥

रसेन्द्रगुडिका -

कर्षं शुद्धं रसेन्द्रस्य स्वरसेन जयार्द्रयोः।
शिलायां खल्वयेत् तावद् यावत् पिण्डं घनं ततः॥

जलकर्णाकाकमाचीरसाभ्यां भावयेत् पुनः।
सौगन्धिकपलं भृङ्गस्वरसेन विभावितम्॥

चूर्णितं रससंयुक्तमजाक्षीरपलद्वये।
खल्लितं घनपिण्डन्तु गुडीं स्विन्नकलायवत्॥

कृत्वादौ शिवमभ्यर्च्य द्विजातीन् परितोष्य च।
जीर्णान्नो भक्षयेदेकां क्षीरमांसरसाशनः॥

सर्वरूपं क्षयं श्वासं रक्तपित्तमरोचकम्।
अपि वैद्यशतैस्त्यक्तमम्लपित्तं नियच्छति॥१७॥

कर्षमित्यादि—रसेन्द्रः पारदस्तस्य शोधनं वक्ष्यमाणक्षुधावतीगुडिकायां वक्ष्यमाणविधिना कार्यम्। तदनुक्रमेण जयाया जयन्त्याः स्वरसेन खल्लशिलायांसम्पद्यंपिण्डाकारं कुर्यात्। तदनु जलकर्णा मोरटा तस्या रसेनाप्लाव्य प्रत्येकंसप्तधा भावयेत्, ततः सौगन्धिकं भद्रगन्धकं तदपि क्षुधावत्यां वक्ष्यमाणविधिनाशोधितं पलपरिमितं पारदेन सह घर्षणीयम्, तदनन्तरमजातीरपलद्वये खल्लशिलास्थिते खल्लितं घनपिण्डतापन्ने तु स्विन्नकलायप्रमाणां गुडिकां कुर्यात्, तदनु प्रत्यहमेकां गुडिकां जीर्णान्ने भक्षयेत्। अनुपानश्च दुग्धादिकमेव॥१७॥

एलादिमन्थः

एलाजमोदामलकाभयाक्ष-गायत्रिनिम्बासनशालसारान्।
विडङ्गभल्लातकचित्रकांश्च कटुत्रिकाम्भोदसुराष्ट्रिकाश्च।

पक्त्वा जले तेन पचत्तु सर्पिस्तस्मिन् सुसिद्धे त्ववतारिते च।
त्रिंशत्पलान्यत्र सितोपलाया दद्यात् तुगाक्षीरिपलानि षट् च॥

प्रस्थे घृतस्य द्विगुणं च दद्यात् क्षौद्रं ततो मन्थहतं निद्ध्यात्॥

पलं पलं प्रातरतो लिहेच्च पश्चात् पिबेत् क्षीरमतन्द्रितश्च।
एतद्धि मेध्यं परमं पवित्रं चक्षुष्यमायुष्यतमं तथैव॥

यक्ष्माणमाशु व्यपहन्ति शूलं पाण्ड्वामयञ्चापि भगन्दरञ्च।
न चात्र किञ्चित् परिवर्जनीयं रसायनैश्चैतदुपास्यमानः॥१८॥

एलेत्यादि—सुश्रुतस्य।अजमोदा यमानी, अक्षं विभीतकं, गायत्री खदिरः,असनः पीतशालः, गायत्र्यादीनां शालान्तानां चतुर्णां सारो ग्राह्यः। सौराष्ट्रजासुराष्ट्रभृत्। एलादीनां सौराष्ट्रान्तानां पृथगष्टौ पलानि गृह्यन्ते। जलं षोडशगुणंदत्त्वा षोडशांशं स्थापयेत्; तेन काथेन केवलेनैव घृतप्रस्थं पाचयेत्। घृतप्रस्थापेक्षया द्विगुणं मधु। मन्थो मन्थानदण्ड इत्याहुः। अन्ये तूक्रव्याख्यानुवादायवाग्भटवचनं पठन्ति, यथा “एलाजमोदात्रिफला—सौराष्ट्रीव्योषचित्रकान्।सारानरिष्टगायत्री—शालवाजकसम्भवान्। भल्लातकं विडङ्गञ्च पृथगष्टपलोन्मितम्।सलिलैःषोडशगुणैः षोडशाशं स्थितं पचेत्। पुनस्तेन घृतप्रस्थं सिद्धे चास्मिन्पलानि षट्। तुगाक्षीर्याः क्षिपेत् त्रिंशत् सिताया द्विगुणं मधु। ततस्त्रिजातत्रिपलंततो लीढं खजाहतम्। पयोऽनुपानं तत् प्राह्नेरसायनमयन्त्रणम्” इत्यादि। एतद्दर्शनात् त्रिजातकमपि बोध्यं सौगन्ध्यर्थम्, अत्र तु न पठितं तद्व्यतिरेकेणापि व्याधिहन्तृत्वात्। अन्ये त्वाहुः सुश्रुतोक्तयोगेऽस्मिन्नम्भोदपाठात् त्रिजाताभावाद्योगान्तरमेवेदम्। तदा घृतप्रस्थस्य साध्यत्वादेलादीनां सप्तदशानां मिलित्वा चतुःषष्टिःपलानि, जलस्य तु चतुःषष्टिःशरावाः, शेषाः षोडशशरावा इति॥१८॥

सर्पिर्गुडः

वला विदारी ह्रस्वा च पञ्चमूली पुनर्नवा।
पञ्चानां क्षीरिवृक्षाणां शुङ्गा मुष्ट्यंशिकाः पृथक्॥

एषां कषाये द्विक्षीरे विदार्याजरसांशिके।
जीवनीयैः पचेत् कल्कैरक्षमात्रैर्घृताढकम्॥

सितोपलानि पूते च शीते द्वात्रिंशदावपेत्।
गोधूमपिप्पलीवांशी-चूर्णं शृङ्गाटकस्य च॥

समाक्षिकं कौडविकं तत्सर्वं खजमूर्छितम्।
स्त्यानं सर्पिर्गुडान् कृत्वा भूर्जपत्रेण वेष्टयेत्॥

तान् जग्ध्वा पलिकान् क्षीरं मद्यञ्चानुपिबेत् कफे।
शोपेकासे क्षतक्षीणे श्रमस्त्रीभारकर्शिते॥

रक्तनिष्ठीचने तापे पीनसे चोरसि स्थिते।
शस्ताः पार्श्वशिरःशूले भेदे च स्वरवर्णयोः॥

क्वाथ्ये त्रयोदशपले द्रव्याल्पत्वभयाज्जलम्।

अष्टगुणं क्वाथसमौ विदार्य्याजरसौ पृथक्।
केचिद् यथोक्तक्वाथ्ये तु क्वाथं घृतसमं जगुः॥१९॥

वलेत्यादि—अयं योगश्चरके क्षतक्षीणचिकित्सिते उक्तः। क्षीरिवृक्षाः फ्लक्षवेतसोडुम्बरश्वत्थवटाः। शालाक्ये तु वेतसस्थाने मधूकं निक्षिप्य पञ्चक्षीरेवृक्षाः व्याख्याताः, यथा “उडुम्बरो वटोऽश्वत्थो मधूक : प्रक्ष एव च। पञ्चैते क्षीरिणोवृक्षाःअस्मिंतन्त्रे प्रकीर्तिताः” इति। अस्मिंस्तन्त्र इति वचनेन शालाक्याधिकार व्यतिरिक्ते स्थाने पूर्ववृक्षा उक्तायुक्ताः। अन्येतु वेतसस्थाने कपीतनमाहुः। कपीतनोगर्दभाण्डः। शुङ्गाइत्यविकसितपत्रमुकुलम्। मुष्ठ्यंशिकाः पलमानाः। अत्र बलादिक्वाथ्ये त्रयोदशपले जलद्रोणो देयस्तस्य पादावशेषादष्टाविंशत्यधिकशतपलमानम्।

द्विक्षीर इति द्विप्रकारं क्षीरं यत्रेति तथा। क्षीरद्वयञ्चात्र प्राधान्यादाजं गव्यश्चग्राह्यम्। आजरसश्छागमांसरसः। एषां चतुर्गुणमपि द्रवाणां क्वाथसमत्वमेव साहचर्य्यादिति पञ्चगुणपाकः। क्षीरानुपानञ्चपित्ते ज्ञेयम्। उक्तार्थसंवादकतन्त्रान्तरंयथा “पुनर्नवां बलां ह्रस्वांपञ्चमूलीं विदारिकाम्। उडुम्बरवटाश्वत्यप्लक्षवेतसशुंगकान्। पलिकांशान् जलद्रोणे पक्त्वा पादावशेषिते। पादांशैश्छागगोक्षीरविदार्य्याः स्वरसैःपृथक्। कर्षांशैर्जीवनीयैश्च कन्कैराज्याढकं पचेत्। कृष्णगोधूमशृंगाटवांशीक्षौद्राञ्जलिं पृथक्। सिद्धे प्रस्थौ सितायाश्च दत्त्वा खादेत् खजाहतम्। एतद् गुडीकृतंसर्पिघटे भूर्जान्विते स्थितम्। अनुपानं पिबेत् क्षीरं पित्ते मद्यं कफे हितम्। क्षतक्षयाम्लपित्तघ्नं ज्वरशोषप्रणाशनम्” इति। अत्र पादांशैरिति पादस्थक्वाथसमभागैरिति।चक्रस्त्वाहक्वाथ्ये त्रयोदशपले द्रव्याल्पत्वभयाज्जलम्। अष्टगुणं क्वाथसमौ विदार्या जरसौ पृथक्। केचिद् यथोक्तक्वाथ्ये तु क्वाथं घृतसमं जगुरिति। अस्थार्थः त्रयोदशपलेक्वाथ्येऽष्टगुणंजलं त्रयोदशशरावपरिमितं भवति, तस्य तु पादशेषात् सपादशररावत्रयं क्वाथं वदन्ति। क्वाथसमश्च विदारीरसश्छागमांसरसश्च, क्षीरच क्वाथापेक्षयाद्विगुणमिति सार्द्धषट् शरावाः; एवं घृताढके पक्तव्ये त्रिंशत्पलाधिकं द्रव्यपलशतमिहभवति। एवञ्च सति द्रवाल्पत्वं स्यादिति भयात् केचिदत्र यथोक्त एव क्वाथ्येत्रयोदशपलरूपे तथा पानीयं देयं यथा पादशेषात् क्वाथो घृतसमः स्यात, तेनात्रत्रयोदशपलऽपिक्वथ्ये जलद्रोणं दत्त्वा पादावशिष्टक्वाथस्य घृतसमत्वं कल्पनीयमिति जगुरुक्तवन्तः। अस्मिन् पक्षे क्षीरं द्विगुणं दत्त्वा विदारीमांसरसौ च मिलित्वा घृतसमाविति चतुर्गुणद्रवेण पाक उत्सर्गसिद्धो भवति, चतुर्गुणद्रवेण तु स्नेहपाकोत्सर्गत्वात्। जतूकर्णेनापि क्वाथ्यमानमनियतमेवोक्तं क्वाथस्तु तथापि स्नेहसमएव, पञ्चप्रभृति यत्र स्युरित्युक्तेः। अपि च यथा वृश्चीरं पञ्चमूलं बलां विदारी् वटादिशुंगांश्चनिक्वाथ्य द्विक्षीरे छागविदारीरसे च समे तत् जीवनीयगणकल्कैःपक्त्वा घृताढकमित्यादि। अन्ये तु “द्रव्यमापोथितं क्वाथ्यं दत्त्वा षोडशिकंजलम्। पादावशेषः कर्त्तव्य एष क्काथविधिः स्मृतः” इति कृष्णात्रेयपरिभाषानुसारेण क्वाथ्ये षोडशगुणं जलं दीयमानं षड्विंशतिशरावं भवति, पादशेषाच्च सार्द्धषट्शरावक्काथो भवति, द्विक्षीर इति क्काथापेक्षया क्षीरस्य द्वैगुण्यात् त्रयोदशशरावाः; मिलतौविदार्य्याजरसावपि कषायापेक्षया द्विगुणाविति; एवं मिलित्वासार्द्धद्वात्रिंशच्छरावद्रवैः पाक इति व्याचक्षते। व्यवहारं प्रायेणानेनैव। खजोमन्थानदण्डः। भूर्जपत्रे वेष्टनश्च शक्त्युत्कर्षार्थम्॥१६॥

च्यवनप्राशः—

बिल्वाग्निमत्थश्योनाक काश्मर्य्यपाटली बला।
पर्ण्यश्चतस्रः पिप्पल्यः भ्वदंष्ट्रा बृहतीद्वयम्॥

शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु।
अभया सामृता ऋद्धिर्जीवकर्षभकौ शटी॥

मुस्तं पुनर्नवामेदे सूक्ष्मैलोत्पलचन्दने।

विदारी वृषमूलानि काकोली काकनासिका।
एषां पलोन्मितान् भागान् शतान्यामलकस्य च॥

पञ्च दद्यात् तदैकध्यं जलद्गोणेविपाचयेत्।
ज्ञात्वा गतरसान्येतान्यौपधान्यथ तं रसम्॥

तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः।
पलद्वादशके भृष्ट्वादत्त्वा चार्द्धतुलां भिषक्॥

मत्स्यण्डिकायाः पूतायाः लेहवत् साधु साधयेत्।
षट्पलं मधुनश्चात्रसिद्धशीते प्रदापयेत्॥

चतुष्पलं तुगाक्षीर्य्याः पिप्पल्या द्विपलं तथा।
पलमेकं निदध्याच्च त्वगेलापत्रकेशरात्॥

इत्ययं च्यवनप्राशः परमुक्तोरसायनः।
कासश्वासहरश्चैव विशेषेणोपदिश्यते॥

क्षीणक्षतानां वृद्धानां बालानाञ्चाङ्गवर्द्धनम्।
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्॥

पिपासां मूत्रशुक्रस्थान् दोषांश्चैवापकर्षति।

अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान भोजनम्॥

अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत् पुनर्युवा॥

मेघां स्मृतिं कान्तिमनामयत्वं वपुःप्रकर्षंवलमिन्द्रियाणाम्
स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम्।

रसायनस्यास्य नरः प्रयोगात् लभेत जीर्णोऽपि कुटीप्रवेशात्।
जराकृतं पूर्वमपास्य रूपं विभर्ति रूपं नवयौवनस्य॥

सिता मत्स्योण्डकालोभ धात्र्याश्च मृदुभर्जनम्।
चतुर्भागजले प्रायो द्रव्यं गतरसं भवेत्॥२०॥

बिल्वेत्यादौ—पर्यश्चतस्त्र इति शालपणपृश्निपण मुद्रणमाषपर्ण्यः।तामलकी भूम्यामलकी। जीवन्ती खनामख्याता। पुनर्नवा मेदेति पुनर्नवा च मेदाच इति द्वन्द्वः न तु मेदाद्वयम्, पणिन्यः पिप्पली श्रमी मेदा तामलकी त्रुटिः"इति वाग्भटवचनात्। उत्पलं नीलोत्पलं न तु कुष्ठम्, सर्वस्मिन्नेव तन्त्रान्तर कुष्ठमिति पाठस्य तट्टीकाकाररव्याख्यातत्वात्। काकनासिका कायुयाहुँटी; जेजडस्तु रसःफलमित्याह। शतान्यामलकस्येति आकृतिमानत्वात् अमलकीफलस्म पञ्चशतानि;एतानि कर्पटे पोहली कृत्वा अपरैः काथ्यद्रव्यैः सह क्वथनीयम्। गतरसत्वचद्रव्याणां चतुर्भागावशेषेण कायेनेति स्वयमेव वक्ष्यति; अतएव पादावशेष इतिवाग्भटोक्तम्। अन्ये त्वष्टभागावशेष इत्याहुः तत्तुन व्यवहारसिद्धम्। निःकुलमिति शिरास्थिरहितम्, तच्च क्षौमादिघर्षणेन कार्य्यम्। पलद्वादशक इति मिलित्वा,निर्देशस्य मानप्रधानत्वात् एवं त्वगेलापत्रकेशरादपि मिलित्वैव पलम्। येतु समासकरणसामर्थ्यात् मिलितग्रहणमाहुः तन्मते अगस्त्यहरीतक्यादौ दशमूलस्यापि मिलित्वा द्विपलता स्यात् दशमूलीति समासनिर्देशादिति ज्ञेयम्। अत्र समयोरपि मधुसर्विषोर्द्रव्यान्तरसंयोगादेव न विरुद्धत्वं ज्ञेयम्; किंवा आमलकभर्जनेनघृतस्योपक्षीणत्वात् समत्वमेव नास्तीति। यद्यपि मत्स्यण्डिकापेक्षया शर्करा विमलातथाप्युपात्तत्वादिह सैव प्रशस्ता, तदभावे शर्करा खण्डो वा गृह्यते; चक्रेण तु शर्करैवोक्ता। च्यवनस्य मुनेः प्राश इति घञ्। योपरुन्ध्यान्न भोजनमिति या प्रथमान्नभोजनोपयुक्ता जरणेन द्वितीयान्नकाले भोजनोपरोघं न करोतीत्यर्थः; यदुक्तं“रुणद्धि नैकमाहारं या सा मात्रा जरां प्रति" इति कुटीप्रवेशदिति वातातपपरिहारेणेत्यर्थः॥२०॥

जीवन्त्याद्यं घृतम्

जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च।
शटींपुष्करमूलञ्च व्याघ्रीं गोक्षुरकं बलाम्॥

नीलोत्पलं तामलकींत्रायमाणां दुरालभाम्।
पिप्पलीञ्च समं पिष्ट्वाघृतं वैद्यो विपाचयेत्॥

एतद्व्याधिसमूहस्य रोगेशस्य समुत्थितम्।
रूपमेकादशविधं सर्पिरग्र्यंव्यपोहति॥२१॥

जीवन्तीमित्यादि।—चरकस्य। अत्र जलमेव चतुर्गुणम्। केचित्तु चरके श्वदंष्ट्राघृतानन्तरमयं योग उक्तः अतः प्रत्यासत्या पूर्वयोगोक्तंक्षीरमेवान्नापि द्रवमिच्छन्ति; किन्तु वाग्भटादपि न दुग्धमतो जलमेव युक्तम्॥२१॥

** पिप्पलीघृतम्—**

पिप्पलीगुडसंसिद्धं छागक्षीरयुतं घृतम्।
एतदग्निप्रवृद्ध्यर्थं सर्पिश्च क्षयकासिनाम्॥२२॥

पिप्पलीत्यादि—पिप्पलीगुडौ कल्कौ; छागतीरं चतुर्गुणम्॥२२॥

** पाराशरघृतम्–**

यष्टीबलागुडूच्यल्पपञ्चमूलीतुलां पचेत्।
शूर्पेऽपामष्टभागस्थे तत्र पात्रं पचेद् घृतम्॥

धात्रीविदारीक्षुरसे त्रिपात्रे पयसोऽर्मणे।

सुपिष्टैर्जीवनीयैश्च पाराशरमिदं घृतम्।
ससैन्यं राजयक्ष्माणमुन्मूलयति शीलितम्॥ २३॥

छागलाद्यं घृतम्

छागमांसतुलां गृह्य साधयेन्नल्वणेऽम्भसि।
पादशेषेण तेनैव सर्पिःप्रस्थं विपाचयेत्॥

ऋद्धिवृद्धी च मेदे द्वे जीवकर्षभकौ तथा।

काकोलीक्षीरकाकोलीकल्कैः पृथक् पलोन्मितैः॥

सम्यक् सिद्धे चावतार्य्यशीते तस्मिन् प्रदापयेत्।
शर्करायाः पलान्यष्टौ मधुनः कुडवं क्षिपेत्॥

पलं पलं पिवेत् प्रातर्यक्ष्माणं हन्ति दुर्जयम्।
क्षतक्षयञ्च कासञ्च पार्श्वशूलमरोचकम्॥

स्वरक्षयमुरोरोगं श्वासं हन्यात् सुदारुणम्।
वल्यं मांसकरं वृष्यमग्निसन्दीपनं परम्॥२४॥

यष्टीत्यादि—वाग्भटस्य। यष्ट्यादीनां मिलित्वा तुला। शूर्प इति द्रोणद्वये,उक्तं दृढबलेन “कुम्भो द्रोणद्वयं शूपं” इति, क्षारपाणिनाप्युकं"द्रोणद्वयन्तु सूर्यःस्यात् कुम्भ इत्यभिधीयते"; तस्मात् द्रोणपर्य्यायःशूर्प इति, वृन्दलिखितमतं नादरणीयम्। यद्यपि तुलाद्रव्ये एक एव जलद्रोण उचितस्तथापि निर्दष्टत्वादिह तोयंद्रोणद्वयमेव देयम्; यथा वक्ष्यमाद्वितीयच्छागलादिघृते छागमांसतुलायां जलद्रोणद्वयमिति। धात्र्यादिरसानां मिलित्वा त्रिपात्रम् पात्रमाढकम्॥२३॥

छागलाय नल्वणो द्रोणाः॥ २४॥

अपरं छागलाद्यं घृतम्

तोयद्रोणद्वितये मांसं छागलमांसस्य पलशतं पक्त्वा।
जलमष्टांशं सुकृतं तस्मिन् विपचेद् घृतं प्रस्थम्॥

कल्केन जीवनीयानां कुडवेन तु मांससर्पिरिदम्।
पित्तानिलं निहन्यात् तज्जानपि रसकयोजितं पीतम्॥

कासश्वासावुग्रौ यक्ष्माणं पार्श्वहृद्रुजां घोराम्।
अध्वव्यवायशोपंशमयति चैवापरं किञ्चित्॥२५॥

तोयेत्यादौ—जीवनीयानां दशानां कुडवेनेति मिलित्वा, तज्जानिति पित्तानिलजान् व्याधीन्। रसकयोजितमिति मांसरसवचारितमित्यर्थः॥२५॥

अजापञ्चकं घृतम्

छागशकृद्रसमूत्रक्षीरैर्दध्ना च साधितं सर्पिः।
सक्षारं यक्ष्महरं कासश्वासोपशान्तये परमम्॥२६॥

अजापञ्चकघृते सर्पिरप्यजाया एव, एवं दधि च। यवक्षारस्याप्यत्र प्रक्षेपत्वमाहुः॥२६॥

वलागर्भं घृतम्

द्विपञ्चमूलस्य पचेत् कषाये प्रस्थद्वये मांसरसस्य चैके।

कल्कं बलायाः सुनियोज्य गर्भं सिद्धं पयःप्रस्थयुतं घृतञ्च।
सर्वाभिघातोत्थितयक्ष्मशूलक्षतक्षयोत्कासहरे प्रदिष्टम्॥२७॥

द्विपञ्चमूलस्येति दशमूतस्य मिलित्वा द्वात्रिंशत्पलानि, जलस्य च द्वात्रिंशच्छरावास्ततः प्रस्थद्वयं शेषः। मांसरसस्य चैक इति छागमांसरसस्य एकस्मिन् प्रस्थइत्यर्थः। गर्भमित्यन्तः॥२७॥

नागबलाघृतम्

पादशेषे जलद्रोणे पचेन्नागबलातुलाम्।
तेन क्वाथेन तुल्यांशं घृतं क्षीरञ्च साधयेत्॥

पलार्द्धिकैश्चातिबला बलायष्टिपुनर्नवा।
प्रपौण्डरीककाश्मर्य्यपियालकपिकच्छुभिः॥

अश्वगन्धासिताभीरुमेदायुग्मत्रिकण्टकैः।
मृणालबिसशालूकशृङ्गाटककशेरुकैः॥

एतन्नागबलासर्पीरक्तपित्तक्षतक्षयम्।
हन्ति दाहं भ्रमं तृष्णां बलपुष्टिकरं परम्॥

बल्यमोजस्यमायुष्यं बलीपलितनाशनम्।
उपयुञ्जीत षण्मासान् वृद्धोऽपि तरुणायते॥२८॥

पादशेषामत्यादि।—वाग्भटस्य। पादशषमित्येव पाठः। पादशेषं यथा भवतितथा पचेदिति। अन्ये तु पादशेषे कर्तव्य इति व्याचक्षते। नागबला गोरक्षतण्डुला, अतिबला गोरक्षतण्डुलैव। मृणालावसे स्वल्पमहद्भेदात्। मृणालमुशीरंविसं पद्ममूलमित्यन्ये॥२८॥

** निर्गुण्डीघृतम–**

समूलफलपत्ताया निर्गुण्ड्याः स्वरसैर्घृतम्।
सिद्धं पीत्वा क्षतक्षीणो निर्व्याधिर्भाति देववत्॥२९॥

निर्गुण्डीघृतमकलकम्॥२९॥

बलाद्यं घृतम्

बलां श्वदंष्ट्रां बृहतीं कलसीं धावनीं स्थिराम्।
निम्बं पर्पटक मुस्त त्रायमाणां दुरालभाम्।

कृत्वा कषायं पेष्यार्थंदद्यात् तामलकींशटीम्।
द्राक्षां पुष्करमूलञ्च मेदामामलकानि च॥

घृतं पयश्च तत्सिद्धं सर्पिज्वरहरं परम्।
क्षयकासप्रशमनं शिरःपार्श्वरुजापहम्॥

चरकोदितवासाद्यघृतानन्तरमुक्तितः।
वदन्तीह घृतात् क्वाथं पयश्च द्विगुणं पृथक्॥३०॥

घलामित्यादि—चरकस्य। ज्वरचिकित्सितेऽयं योगः। कलसी पृश्निपर्णी;धावनो कण्टकारिका; स्थिरा शालपर्णी। चरकोदितेत्यादि चरके हि वासाघृतानन्तरंमयं योग उक्तः, तत्र च क्वाथः पयश्च प्रत्येकं घृताद् द्विगुणम् तत्साहचर्थ्यादिहापितथैवेति। घृतसमं क्षीरम्, क्वाथश्च त्रिगुण इत्यन्ये॥३०॥

चन्दनाद्यं तैलम्—

चन्दनाम्बुनखं वाप्यं यष्टीशैलेयपद्मकम्।
मञ्जिष्ठा सरलं दारु शट्येला पूतिकेशरम्॥

पत्रं तैलं मुरामांसी कक्कोलं वनिताम्बुदम्।
हरिद्रे शारिवे तिक्तालवङ्गागुरुकुङ्कुमम्॥

त्वग्रेणु नलिका चैभिस्तैलं मस्तुचतुर्गुणम्।
लाक्षारससमं सिद्धं ग्रहघ्नं बलवर्णकृत्॥

अपस्मारज्वरोन्मादकृत्यालक्ष्मीविनाशनम्।
आयुःपुष्टिकञ्चैव वशीकरणमुत्तमम्॥३१॥

चन्दनादितैले अम्बुबालकम्; वाप्यं कुष्ठम्; पूतिः खट्टाशी; तैलं शिलारसः,वनिता प्रियङ्गुः; तिक्तालताकस्तूरी; रेणु रेणुकम्; नलिका नालुका।लाक्षारसौ लाक्षाक्वाथः, लाक्षायाः षोडशपलम्, पाकार्थजलं षोडशशरावम्, शेषं प्रस्थैकम्॥३१॥

छागं मांस पयश्छागं छागं सर्पिः सशर्करम्।
छागोपसेवा शयनं छागमध्ये तु यक्ष्मनुत्॥३२॥

छागमित्यादि स्पष्टम्॥३२॥

उरो मत्वा क्षतं लाक्षां पयसा मधुसंयुताम्।
सद्य एव पिबेज्जीर्णे पयसाद्यात् सशर्करम्॥३३॥

उर इत्यादिना उरःक्षतचिकित्सामाह—उरःक्षतं मत्वा लाक्षां पयसा मधुसंयुतां पिबेदित्यर्थः। जीर्णे पयसा सशर्करमन्नं भुञ्जीतेत्यन्वयः॥३३॥

इक्ष्वालिकाबिसग्रन्थि पद्मकेशरचन्दनैः।
शृतं पयो मधुयुतं सन्धानार्थंपिबेत् क्षयी॥३४॥

इक्ष्वालिकेत्यादि —इक्ष्वालिका वनखागरीति ख्याता; बिसग्रन्थिः मृणालग्रन्थिः; पद्मकेशरं पद्मकिजिल्कम्। सन्धानार्थमिति क्षतोरःसन्धानार्थम्॥३४॥

बलाश्वगन्धाश्रीपर्णीबहुपुत्रीपुनर्नवाः।
पयसा नित्यमभ्यस्ताः क्षपयन्ति क्षतक्षयम्॥३५॥

बलेत्यादौ—श्रीपर्ण्या गाम्मार्य्याःफलम्; बहुपुत्री शतावरी। बलादयोव्यस्ताः समस्ता वा बोध्याः॥३५॥

बलाद्यघृतम्

घृतं बलानागबलार्जुनाम्बुसिद्धं सयष्टीमधुकल्कपादम्।
हृद्रोगशूलक्षतरक्तपित्तकासानिलासृक् शमयत्युदीर्णम्॥३६॥

इति यक्ष्मचिकित्सा।

घृतमित्यादि स्पष्टम्॥३६॥

इति यक्ष्मचिकित्साविवृतिः॥

अथ कासचिकित्सा।

वातकासचिकित्सा।

वास्तूको वायसीशाकं मूलकं सुनिषण्णकम्।
स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः॥

दध्यारनालाम्लफलं प्रसन्नापानमेव च।
शस्यते वातकासेषु स्वाद्वम्ललवणानि च॥

ग्राम्यानूपोदकैः शालियवगोधूमषष्टिकान्।
रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान्॥१॥

यक्ष्मरूपेषु कासपाठात् कासापेक्षया च यक्ष्मासम्भवात् यक्ष्मानन्तरं कासचिकित्सामाह वास्तूक इत्यादि—वायसी काकमाची॥१॥

पञ्चमूलीकृतः क्वाथः पिप्पलीचूर्णसंयुतः।
रसान्नमश्नतो नित्यं वातकासमुदस्यति॥२॥

पञ्चमूलीत्यादि—पञ्चमूली महती, उष्णवीर्य्यतया विशेषेण वातप्रत्यनीकत्वात्।अन्ये तु स्वल्पामाहुः। रसानं मांसरसापेहितमन्नम्॥२॥

अपराजितलेहः।

शटीशृङ्गीकणाभार्गीगुडवारिदयासकैः।
सतैलैर्वातकासघ्नो लेहोऽयमपराजितः॥३॥

चूर्णिता विश्वदुःस्पर्शाशृङ्गीद्राक्षाशटीसिताः।
लीढा तैलेन वातोत्थं कासं जयति दारुणम्॥४॥

भार्गीद्राक्षाशटीशृङ्गीपिप्पलीविश्वभेषजैः।
गुडतैलयुतो लेहो हितो मारुतकासिनाम्॥५॥

शटीत्यादि—योगत्रयेऽपि कटुतैलेन लेह इति वृन्दटिप्पणी, किन्तु टीकाकृद्भिर्न व्याख्यातोऽयमर्थः॥३—५॥

पित्तकासचिकित्सा।

पित्तकासे तनुकफे त्रिवृतां मधुरैर्युताम्।
दद्याद्धनकफे तिक्तैर्विरेकार्थं युतां भिषक्॥६॥

पित्तकास इत्यादि—चरकस्य। तनुकफ इत्यघनकफे। कफस्य तनुत्वं घनत्वञ्चकासरोगनिःसार्य्यमाणकफस्य दर्शनादेव ज्ञेयम्। मधुरैरिति मधुरद्रव्यैर्युक्तां त्रिवृतामिति सम्बन्धः। अन्ये तु मधुरैर्जीवनीयदशकैरित्याहुः॥६॥

मधुरैर्जाङ्गलरसैः श्यामाकयवकोद्रवाः।
मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः॥७॥

मधुरैर्जाङ्गलरसैरित्यत्र मधुरैः स्वादुभिः किंवा जीवनीयसंस्कृतैः॥७॥

बलाद्विबृहतीवासाद्राक्षाभिः क्वथितं जलम्।
पित्तकासापहं पेयं शर्करामधुयोजितम्॥८॥

बलेत्यादि स्पष्टम्॥८॥

शरादिपञ्चमूलस्य पिप्पलीद्राक्षयोस्तथा।
कषायेण शृतं क्षीरं पिबेत् समधुशर्करम्॥९॥

काकोलीबृहतीमेदायुग्मैः सवृषनागरैः।
पित्तकासे रसक्षीरयूषांश्चाप्युपकल्पयेत्॥१०॥

शरादीत्यादि—चरकस्य। शरादिपञ्चमूलन्तु शरेक्षुर्भकाशशालयस्तेषां मूलंज्ञेयम्। अत्र षडङ्गपरिभाषया अर्द्धशृतकषायेण चतुर्गुणेन दुग्धं साध्यम्। काकोलीत्यादि—अत्र युग्मैरिंति काकेल्यादिभिः सम्बध्यते इति चक्रः। अन्ये तु बृहतीमेदाभ्यां युज्यत इति, युक्तञ्चैतत्, यदाह जतूकर्णःवृषककोलीशुण्ठीमेदाबृहतीयुग्मैरिति॥९॥१०॥

द्राक्षामलकखर्जूरं पिप्पलीमरिचान्वितम्।
पित्तकासापहं ह्येतल्लिह्यान्माक्षिकसर्पिषा॥११॥

द्राक्षेत्यादि—इदं कफानुबन्धे ज्ञेयम्, पित्तोद्रेके तु मरिचस्थाने शर्करा ज्ञेया,यदाह क्षारपाणिः"पिप्पल्यामलकं द्राक्षा खर्जूरं शर्करा मधु। लेहोऽयं सधृतोलीढः वित्तक्षयजकासजित्" इति॥११॥

खर्जूरपिप्पलीद्राक्षासितालाजाः समांशिकाः।
मधुसर्पिर्युतो लेहः पित्तकासहरः परः॥१२॥

खर्जूरेत्यादि स्पष्टम्॥१२॥

शटीह्रीवेरवृहतीशर्कराविश्वभेषजम्।
पिष्ट्वारसं पिवेत् पूतं सघृतं पित्तकासनुत्॥१३॥

मधुना पद्मवीजानां चूर्णं पैत्तिककासनुत्॥१४॥

शटीत्यादि—वाग्भटस्य। तत्र शट्यादिकं जले पिष्ट्वातद्रसं वस्त्रपूतं कृत्वाघृतसम्मिश्रं पिबेत्। बृहती चात्र कण्टकारी कासहन्तृत्वात्। उक्तं हि चरके “शर्करानागरोदीच्य-कण्टकारीशटीसमम्। पिष्ट्वारसं पिबेत् पूतं वस्त्रेण घृतमूर्च्छितम्” इति॥१३॥१४॥

कफकासचिकित्सा

बलिनं वमनेनादौ शोधितं कफकासिनम्।
यवान्नैः कटुरूक्षोष्णैः कफघ्नैश्चाप्युपाचरेत्॥१५॥

पिप्पलीक्षारकैर्यूषैः कौलत्थैर्मूलकस्य च।
लघून्यन्नानि भुञ्जीत रसैर्वा कटुकान्वितैः॥१६॥

पञ्चकोलैः शृतं क्षीरं कफघ्नं लघु शस्यते।

श्वासकासज्वरहरं बलवर्णाग्निवर्द्धनम्॥१७॥

बलिनमित्यादिना कफचिकित्सामाह—

पिप्पलीक्षारकैरिति पिप्पलीयवक्षारसंस्कृतैरित्यर्थः॥१५–१७॥

पौष्करं फट्फलं भार्गीविश्वपिप्पलिसाधितम्।
पिबेत् क्वाथं कफोद्रेके कासे श्वासे च हृद्ग्रहे॥

स्वरसं शृङ्गवेरस्य माक्षिकेण समन्वितम्॥

पाययेच्छ्वासकासघ्नं प्रतिश्यायकफापहम्॥१८॥

पौष्करमित्यादि—

कफापहपर्य्यन्तं स्पष्टम्॥१८॥

नवाङ्गयूषः।

मुद्गामलाभ्यां यवदाडिमाभ्यां कर्कन्धुना मूलकशुण्ठकेन।
शुण्ठीकणाभ्याञ्च कुलत्थकेन यूषो नवाङ्गः कफरोगहन्ता॥१९॥

नवाङ्गयूषे यवामलकदाडिमकर्कन्धुमूलकशुण्ठकैः षडङ्गपरिभाषया अर्द्धशृतंकृत्वा मुद्गकुलत्यौ युक्रया प्रचुरौ दत्त्वा यूषः साध्यः, पश्चात् कटुत्वार्थं शुण्ठोपिप्पलीचूर्णदानम्, किंवा सकलमव द्रव्यं यथोचितमात्रया गृहीत्वा क्वाथविध नेन पञ्चमुष्टिकवत् यूषः कार्य्यः इत्याहुः॥१९॥

पार्श्वशूले ज्वरे कासे श्वासे श्लेष्मसमुद्भवे॥
पिप्पलीचूर्णसंयुक्तं दशमूलीजलं पिबेत्॥२०॥

पार्श्वशूल इत्यादि स्पष्टम्॥२०॥

** कट्फलादिः—**

कट्फलं कत्तृणं भांर्गी मुस्तं धान्यं वचाभया।
शृङ्गी पर्पटकं शुण्ठी सुराह्वाच जले शृतम्।

मधुहिङ्गयुतं पेयं कासे वातकफात्मके।
कण्ठरोगे क्षये शूले श्वासहिक्काज्वरेषुच॥२१॥

कट्फलमित्यादौ कत्तृणं गन्धतृणम्॥२१॥

कण्टकारीकृतः क्वाथः सकृष्णः सर्वकासहा॥२२॥

कण्टकारीत्यादि स्पष्टम्॥२२॥

विभीतकं घृताभ्यक्तं गोशकृत्परिवेष्टितम्।
स्विन्नमग्नौ हरेत् कासं ध्रुवमास्यविधारितम्॥२३॥

विभीतकमित्यादि स्पष्टम्॥२३॥

वासकस्वरसः पेयो मधुयुक्तोहिताशिना।
पित्तश्लेष्मकृते कासे रक्तपित्ते विशेषतः॥२४॥

वासकेत्यादि च स्पष्टम्॥२४॥

मधुकं पिप्पली द्राक्षा लाक्षा शृङ्गी शतावरी।
द्विगुणा च तुगाक्षीरी सिता सर्वैश्चतुर्गुणा॥

तं लिह्यान्मधुसर्पिर्भ्यांक्षतकासनिवृत्तये॥२५॥

मधुकमित्यादि- तुगातीरी वंशलोचना एकभागापेक्षया द्विगुणा, सर्वचूर्णापेक्षया चतुर्गुणा सिता॥२५॥

पिप्पली पद्मकं द्राक्षा सम्पक्वंबृहतीफलम्।
घृतक्षौद्रयुतो लेहः श्वासकासनिवर्हणः॥२६॥

पिप्पलीत्यादि स्पष्टम्॥२६॥

हरीतकीनागरमुस्तचूर्णं गुडेन तुल्यं गुडिका विधेया।
निवारयत्यास्यविधारितेयं श्वासं प्रवृद्धं प्रवलञ्च कासम्॥२७॥

हरीतकीत्यादौ—समुदितचूर्णेन तुल्यो गुडः॥२७॥

मरिचाद्यं चूर्णम्।

कर्षः कर्षार्द्धमथो पलं पलद्वयमथार्द्धकर्षश्च।
मरिचस्य पिप्पलीनां दाडिमगुडयावशूकानाम्॥

सर्वौषधैरसाध्या ये कासाः सर्ववैद्य संत्यक्ताः।
अपि पूयं छर्दयतां तेषामिदमौषधं पथ्यम्॥२८॥

कर्ष इत्यादि—मरिचकर्ष १, पिप्पली तोलक १, अम्लदाडिमबीज पल १,गुड पल २, यवक्षार तोलकं १। वाग्भटेऽप्युक्तं"गुडक्षारोषणकणा दाडिमं श्वासकासजित्। क्रमात् पलद्वयार्द्धाक्ष कर्षकार्द्धपलोन्मितम्" इति॥२८॥

समशर्करं चूर्णम्।

लवङ्गजातीफलपिप्पलीनां भागान् प्रकल्प्याक्षयुतानमीषाम्।
पलार्द्धमेकं मरिचस्य दद्यात् पलानि चत्वारि महौषधस्य ॥

सितासमं चूर्णमिदं प्रसह्य रोगानिमानाशु बलान् निहन्यात्।
कासज्वरारोचकमेहगुल्मश्वासाग्निमान्द्यग्रहणीप्रदोषान्॥२९॥

लवंगेत्यादि—पलार्द्धमेकमित्यत्र एकपदं श्लोकपूरणार्थमवोक्तम्। बलानितिअर्शादित्वादच्, बलवतो रोगानित्यर्थः। तेन प्रसह्यइत्यनेन न पौनरुक्त्यम् ॥२९॥

हरीतकीकणाशुण्ठीमरिचं गुडसंयुतम्।
कासघ्नो मोदकः प्रोक्तस्तृष्णारोचकनाशनः॥३०॥

हरीतकीत्यादि—मोदकत्वात् गुडो द्विगुणः॥३०॥

व्योषान्तिका गुडिका।

तालीशवह्निदीप्यकवचविकाम्लवेतसव्यौषै।
तुल्यै स्त्रिसुगन्धियुतैर्गुडेन गुडिका प्रकर्त्तव्या॥

कासश्वासारोचकपीनसहृत्कण्ठवाङ्निरोधेषु।
ग्रहणीगदोद्भवेषु गुडिका व्योषान्तिका नाम॥३१॥

तालीशत्यादौ—विह्निश्चित्रकः, दीप्यकं यमानी, त्रिसुगन्धियुतैरिति सर्वचूर्णा

पेक्षया चतुर्थांशेन मिलितं त्रिसुगन्धिचूर्णमित्याहुः। व्योषान्तिकेति, अत्रान्तशब्दउपान्तमाह व्योषस्यान्तस्थितत्रिसुगन्धात् पूर्वमवस्थितत्वात्। किंवा तालीशादीनांविशेषणप्रधानत्वादपेक्षयैवान्तो ज्ञेयः॥३१॥

मनःशिलालमधुकमांसीमुस्तेङ्गुदैः पिबेत्।
धूमं त्र्यहञ्चतस्यानु सगुडञ्च पयः पिबेत्।

एष कासान् पृथग्द्वन्द्वसर्वदोषसमुद्भवान्।
शतैरपि प्रयोगाणां साधयेदप्रसाधितान्॥३२॥

मनःशिलालेत्यादि—आलं हरितालम्, इंगुदं पुत्रञ्जीवफलमध्यम् फलत्वगित्यन्ये, युक्तश्चैतत्, “मनःशिलालमधुकं मांसीमुस्तेंगुदीत्वचः” इति वाग्भटवचनात्।अत्र मनःशिलादीनां पेषणं छागमूत्रेण बोध्यम्, छागलाम्बुपिष्टैरिति सुश्रुतदर्शनात्। अत्र मधुकस्थाने मरिचं केचित् पठन्ति, तन्न, शिलालेगुदयाट्याह-मांसीधूपंपिबेत त्र्यहम्” इति तन्त्रान्तरदर्शनात्। अत्र मनःशिलादिकं कल्कीकृत्य श्लक्ष्णवस्त्रखण्डं लिम्पेत्, तत आतपे शोषयित्वा वर्ति विधाय शरावसम्पुटस्थवदराङ्गारवह्नौनिक्षिप्य यथोक्तनलिकया धूमपानं कार्य्यम्, विश्राम्य किञ्चित् सगुडक्षीरं पेयम्धूमस्य तीक्ष्णत्वेनोजःक्षयादिति॥३२॥

मनःशिलालिप्तदलं वदर्य्यातपशोषितम्।
सक्षीरं धूमपानञ्च सर्वकासनिवारणम्॥३३॥

मनःशिलत्यादौ—वदर्य्यातपशोषितमिति वदर्य्याः मनःशिलालिप्तदलम्, आतपे शोषितमिति योजना। वदर्ग्यातपेति असन्धिविधेरनित्यत्वात् सन्धिः॥३३॥

अर्कच्छल्लशिले तुल्ये ततोऽर्द्धेन कटुत्रिकम्।
चूर्णितं वह्निनिक्षिप्तं पिबेद् धूमन्तु योगवित्॥

भक्षयेदथ ताम्बूलं पिबेद् दुग्धमथाम्बु वा।
कासाः पञ्चविधा यान्ति शान्तिमाशु न संशयः॥३४॥

अर्कच्छल्लेत्यादि—अर्कच्छल्लं अर्कमूलत्वक्, शिला मनःशिला, ततोऽर्द्धेनकटुत्रिकमिति तत उभयोरर्द्धेनमिलितं त्रिकटुकम्॥३४॥

मरिचशिलार्कक्षीरैर्वार्त्ताकीं त्वचमाशु भावितां शुष्काम्।
कृत्वा विधिना धूमं पिबतः कासाः शमं यान्ति॥३५॥

मरिचेत्यादि स्पष्टम्॥३५॥

** दशमूलघृतम्—**

दशमूलीकषायेण भार्गीकल्कं पचेद् घृतम्।
दक्षतित्तिरिनिर्यूहे तत्परं वातकासनुत्॥३६॥

दशमूलकषायेणेत्यादि—दक्षः कुक्कुट, दक्षतित्तिरिभ्यां मिलित्वैव क्वाथः।दशमूलकाथेन दक्षतित्तिरिक्वाथेन च मिलित्वा चातुर्गुण्यम्॥३६॥

दशमूलाद्यंघृतम्।

दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत्।
पुष्कराह्वशटीविल्वसुरसव्योषहिङ्गुभिः॥

पेयानुपानं तत् पेयं कासे वातकफाधिके।
श्वासरोगेषु सर्वेषुकफवातात्मकेषु च॥३७॥

दशमूलाढक इत्यादि—वाग्भटस्य। अत्र दशमूलस्य क्वाथ्यस्याढकमानत्वम्,तेन “क्वाथःकाथ्यसमो मतः" इति वचनात् पादावशिष्टक्वाथोऽप्याढकमानो भवति।बिल्वं बिल्वमूलम्, सुरसः पर्णासः। पेयानुपानमित्यत्र पयोऽनुपानमिति केचित्पठन्ति, किन्त्यन्न पेयैव वातकफहन्तृत्वात् युक्ता॥३७॥

दशमृलपट्पलकं घृतम्।

दशमूलीचतुःप्रस्थे रसे प्रस्थोन्मितं हविः।
सक्षारैः पञ्चकोलैस्तु कल्कितं साधु साधितम्॥

कासहृत्पार्श्वशूलघ्नं हिक्काश्वासनिवारणम्।
कल्कं षट्पलमेवात्र ग्राहयन्ति भिषग्वरा॥३८॥

दशमूलषट्पलकं घृतं स्पष्टम्॥३८॥

कण्टकारघृितम्।

कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पलाद्रसे।
प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः॥३९॥

कण्टकारीत्यादि—कण्टकारीगुडूच्योर्मिलित्वा पल ६०, जल शराव ६०,शेष १५। अन्ये तु जलोद्रोणं दत्त्वा शेषं १६ इत्याहुः॥३९॥

अपरं कण्टकारीघृतम्।

घृतं रास्नावलाव्योषश्वदंष्ट्राकल्कपाचितम्।
कण्टकारीरसे सर्पिः पञ्चकासनिषूदनम्॥४०॥

घृतमित्यादि—कण्टकारीरस इति कण्टकारीस्वरसश्चतुर्गुणः, उक्कञ्च “निदिग्धिकायाःस्वरसं ग्राहयेद्यन्त्रपीडितम्। चतुर्गुणं रसे तस्मिन् घृतप्रस्थं विपाचयेत्”इत्यादि॥४०॥

बृहत्कण्टकारीघृतम्।

समूलपत्रशाखायाः कण्टकार्य्या रसाढके।
घृतप्रस्थं बलाव्योषविडङ्गशटीचित्रकैः॥

सौवर्चलयवक्षारविल्वामलकपुष्करैः।
वृश्चीरबृहतीपथ्यायमानीदाडिमर्द्धिभिः।

द्राक्षापुनर्नवाचव्यधन्वयासाम्लवेतसैः।
शृङ्गीतामलकीभार्गीरास्नागोक्षुरकैः पचेत्॥

कल्कैस्तु सर्वकासेषु हिक्काश्वासे च शस्यते।
कण्टकारीघृतं सिद्धं कफव्याधिविनाशनम्॥४१॥

समूलेत्यादि—अयं योगश्चरके वाग्भटे च पठ्यते। अत्र श्वेतरक्तभेदात्पुनर्नवाद्वयम्॥४१॥

रास्नाद्यं घृतम्।

द्रोणेऽपां साधयेद्रास्नांदशमूलीं शतावरीम्।
पलिकां माणिकांशांस्त्रीन् कुलत्थान् वदरान् यवान्॥

तुलार्द्धं छागमांसस्य पादशेषेण तेन च।
घृताढकं समक्षीरं जीवनीयैः पलोन्मितैः॥

सिद्धं तद्दशभिः कल्कैर्नस्यापानानुवासनैः।
समीक्ष्यवातरोगेषु यथावस्थं प्रयोजयेत्॥

पञ्च कासान् क्षयं श्वासं पार्श्वशूलमरोचकम्।
सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्द्ध्वानिलं जयेत्॥

जीवकर्षभकौभेदे काकोल्यौ शूर्पपर्णिके।
जीवन्ती मधुकश्चैव दशको जीवको गणः॥४२॥

द्रोणेऽपामित्यादि—अयमपि योगश्चरके वाग्भटे च पठ्यते। पलिकामितिरास्नादित्रयेण सम्बध्यते, दशमूलमपि प्रत्येकं पलांशम्। पलिकानिति पाठे रास्नादिशतावर्य्यन्तानां पलिकान्, भागानिति सम्बन्धः। माणिकांशान् अष्टौ पलानि।अत्र रास्नादिच्छागमांसान्तक्वाथ्येद्रोणप्रमाणं जलम्, तच्च पादावशेषादाढकम्,क्षीरमप्याढकम्, अतो द्विगुणः पाकः॥४२॥

अगस्त्यहरीतकी।

दशमूलीं स्वयंगुप्तां शङ्खपुष्पीं शटीं बलाम्।
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान्॥

भार्गीपुष्करमूलञ्चद्विपलांशं यवाढकम्।
हरीतकीशतञ्चैकं जले पञ्चाढके पचेत्॥

यवैः स्विन्नैः कषायं तं पूतं तच्चाभयाशतम्।
पचेद् गुडतुलां दत्त्वा कुडवञ्च पृथग् घृतात्॥

तैलात् सपिप्पलीचूर्णात् सिद्धशीते च माक्षिकात्।
लिह्याद् द्वे चाभये नित्यमतः खादेद्रसायनात्॥

तद्वलीपलितं हन्याद्वर्णायुर्बलवर्द्धनम्॥

पञ्चकासान् क्षयं श्वासं हिक्कां सविषमज्वरान्।

हन्यात् तथा ग्रहण्यर्शोहृद्रोगारुचिपीनसान्॥

अगस्त्यविहितं घन्यमिदं श्रेष्ठं रसायनम्॥४३॥

दशमूलीत्यादि—वाग्भटचरकयोः। अत्र शूकशिम्ब्या बीजम्, तदभावमूलमपि ग्राह्यमाहुः। यवाढकमिति यवहरीतक्यौ पटे बद्ध्वा दातव्यौ। पञ्चभिराढकैरिति द्वैगुण्यादशीतिशरावा भवन्ति। दशमूल्यादिहरीतक्यन्ताः क्वाथ्या एकत्रैव पक्तव्याः यवैः स्विन्नैरित्युपलक्षणे तृतीया, तेन स्विन्नैर्यवैरुपलक्षितः कषायोयदा भवति तदा तं कषायं पूतंकृत्वा, तच्च हरीतकीशतं गुडतुलाश्च दत्त्वा पुनःपचेदिति योज्यम्। यवानाञ्च स्विन्नता चतुर्भागावशिष्टकषाय एव भवतीति कृत्वाचतुर्भागावाशिष्टमेव कषायं कुर्वन्ति। अन्येत्वष्टभागावशिष्टं कषायमेवाहुः तन्न,सुश्रुतसंवादात्। स्विन्नहरीतकीशतस्प वंशशलाकया कृतच्छिद्रस्य भर्जनार्थं घृततैलयोः कुडवे पृथक्, द्वैगुण्याच्च पृथगष्टपलमाने। भर्जनन्तु अवयवदार्ढ्यार्यम्।तन्त्रान्तरे चात्र मधुनश्च पलाष्टकमेवोक्तम् तुल्यमानत्वेऽपि घृतमधुनोर्द्रवान्तरयोगान्न विरुद्धत्वम्। अवतारणसमये पिप्पलीचूर्णकडवं प्रक्षेप्यम्। लिह्यादिति प्रकृतलेहं लिह्यात् द्वे चाभये खादेदिति योज्यम्। अत्र यद्यपि लेहस्य मानं नोक्तंतथापिसुश्रुतसंवादात् कर्षमानं बोध्यम्। धन्यमिति प्रभावात् किंवा धनार्जनहेतुः नैरुज्यसाधकत्वात्॥४३॥

व्याघ्रोहरीतकी।

समूलपुष्पच्छदकण्टकार्य्यास्तुलां जलद्रोणपरिप्लुताञ्च।
हरीतकीनाञ्च शतं निदध्यादथात्र पक्त्वा चरणावशेषम्॥

गुडस्य दत्त्वा शतमेतदग्नौ विपक्वमुत्तार्य्यततः सुशीते।
कटुत्रिकञ्चद्विपलप्रमाणं पलानि षट्पुष्परसस्य तत्र॥

क्षिपेच्चतुर्जातपलं यथाग्नि प्रयुज्यमानो विधिनावलेहः।
वातात्मकं पित्तकफात्मकञ्च द्विदोषकासानपि यांस्त्रिदोषान्॥

क्षयोद्भवञ्च क्षतजञ्च हन्यात् सपीनसश्वासमुरःक्षतञ्च।
यक्ष्माणमेकादशरूपमुग्रंभृगूपदिष्टं हि रसायनं स्यात्॥४४॥

व्याघ्रीहरीतक्यां कटुत्रिकं प्रत्येकं पल्द्वयम्।चातुर्जातमिति मिलित्वा पलम्॥४४॥

इति कासचिकित्साविवृतिः।

<MISSING_FIG href=”../../../../../books_images/U-IMG-1707120338020501-removebg-preview.png"/>

अथ हिक्काश्वासचिकित्सा।

हिक्काश्वासातुरे पूर्वं तैलाक्तेस्वेद इष्यते।

स्निग्धैर्लवणयोगैश्च मृदु वातानुलोमनम् ॥

उर्ध्वाधःशोधनं शक्तेदुर्वले शमन मतम्॥१॥

तुल्यनिदानत्वात् कासानन्तरं हिक्क श्वासचिकित्सामाह हिक्काश्वासातुर इत्यादि—तैलाक्तइति लवणसंयोगैः सह तैलाक्त इति योज्यम्, तेन सैन्धवसंयुक्तेन तैलेनाभ्यक्त इत्यर्थः। स्निग्धैरिति स्त्रिग्धैर्द्रव्यैः स्वेद इति योज्यम् वाग्भटसंवादात्। मृदुवातानुलोमनमिति ऊर्द्ध्वाधःशोधनस्य विशेषणं संवादात्, किंवा लवणयोगैरुपलक्षितं शोधनमिति योज्यम्॥ १॥

कोलमज्जाञ्जनं लाजास्तिक्ताकाञ्चनगैरिकम्।
कृष्णा धात्री सिता शुण्ठी काशीशं दधिनाम च॥

पाटल्याः सफलं पुष्पं कृष्णा खर्जूरमस्तकम्।
षडेते पादिका लेहा हिक्काघ्ना मधुसंयुताः॥२॥

शमनमाह कोलेत्यादि—कोलमज्जा वदरास्थिमज्जाः, अञ्जनमत्र सौवीरञ्जनम्तिक्ताकटुकी, काञ्चनगैरिकमिति उत्तमलोहितगैरिकम्, काशीशं धातुकाशीशम्, कांस्यमाक्षिकमित्यन्ये, दधिनाम कपित्थफलम्॥२॥

मधुकं मधुसंयुक्तं पिप्पली शर्करान्विता।
नागरं गुडसंयुक्तं हिक्काघ्नं नावनत्रयम्॥३॥

स्तन्येन मक्षिकाविष्ठानस्यं वालक्तकाम्बुना।
योज्यं हिक्काभिभूताय स्तन्यं वा चन्दनान्वितम्॥४॥

मधुसौवर्चलोपेतं मातुलुङ्गरसं पिबेत्॥५॥

हिक्कार्त्तस्य पयश्छागं हितं नागरसाधितम्॥६॥

कृष्णामलकशुण्ठीनां चूर्णं मधुसितायुतम्॥७॥

मुहुर्मुहुः प्रयोक्तव्यंहिक्काश्वासनिवर्हणम्॥८॥

हिक्काश्वासोद्भवे भार्गीं सविश्वामुष्णवारिणा।
नागरं वा सिताभार्गीसौवर्चलसमन्वितम्॥९॥

मधुकमित्यादि सौवर्चलान्तं स्पष्टम्॥३—९॥

शृङ्गीकटुत्रिकफलत्रयकण्टकारी
भार्गी सपुष्करजटा लवणानि पञ्च।
चूर्णं पिबेद्धि शिशिरेण जलेन हिक्का-
श्वासोर्द्ध्ववातकसनारुचिपीनसेषु॥१०॥

शृङ्गीत्यादौ—पुष्करजटापुष्करमूलम्॥१०॥

अभयानगरकल्कं पौष्करयवशूकमरिचकल्कं वा।
तोयेनोष्णेन पिबेत् श्वासी हिक्की च तच्छान्त्यै॥११॥

अभयेत्यादि योगद्वयं स्पष्टम्॥११॥

पर्णासपञ्चकम्।

अमृतानागरफञ्जी-व्याघ्रीपर्णाससाधितः क्वाथः।
पीतःसकणाचूर्णः कासश्वासौ निहन्त्याशु॥१२॥

अमृतेत्यादौ—फञ्जी ब्रह्मयष्टिः॥१२॥

दशमूलीकषायस्तु पुष्करेणावचूर्णितः।
कासश्वासप्रशमनः पार्श्वहृच्छूलनाशनः॥१३॥

कुलत्थनागरव्याघ्री-वासाभिः क्वथितं जलम्।
पीतं पुष्करसंयुक्तं हिक्काश्वासनिवर्हणम्॥१४॥

गुडं कटुकतैलेन मिश्रयित्वा समं लिहेत्।
त्रिसप्ताहप्रयोगेण श्वास निर्मूलतो जयेत्॥१५॥

दशमूलीकषाय इत्यादि जयेदित्यन्तं स्पष्टम्॥१३—१५॥

शृङ्गीमहौषधकणाघनपुष्कराणां चूर्णं शटीमरिचशर्करया समेतम्।
क्वाथेन पीतममृतावृषपञ्चमूल्याः श्वासं त्र्यहेण शमयेदतिदोषमुग्रम्॥

शृङ्गीत्यादि—शृंग्यादीनां चूर्णं क्काथ्यात् पादिकम्, प्रक्षेपत्वात्। अत्र पञ्चमूली महती, वातकफहन्तृत्वादित्याहुः॥१६॥

हरिद्रां मरिचं द्राक्षां गुडं रास्नांकणां शटीम्।
जह्यात् तैलेन विलिहन् श्वासान् प्राणहरानपि॥१७॥

हरिद्रामित्यादि—सुश्रुतस्य। स्पष्टमिदम्॥१७॥

हिक्कां हरति प्रबलां प्रबलं श्वासं नाशयत्याशु।
शिखिपुच्छभूतिपिप्पलीचूर्णं मधुमिश्रितं लीढम्॥१८॥

हिक्कामित्यादौ—शिखी मयूरस्तापुच्छस्य भूतिर्भस्म तथा पिप्पत्तीचूर्णञ्च समं मधुना लेयम्॥१८॥

कर्पं कलिफलचूर्णं लीढञ्चात्यन्तमधुमिश्रम्।
अचिराद्धरति श्वासं प्रबलामुद्धंसिकाञ्चैव॥१९॥

कर्षमित्यादि—कलिफलं विभीतकम्॥१९॥

हिस्राद्यं घृतम्।

हिंस्नाविडङ्गपूतीकत्रिफलाव्योषचित्रकैः।
द्विक्षीरं सर्पिषः प्रस्थं चतुर्गुणजलान्वितम्॥

कोलमात्रैः पचेत् तद्धि श्वासकासौ व्यपोहति।
अर्शांस्यरोचकं गुल्मं शकद्भेदं क्षयं तथा॥२०॥

हिंस्रेत्वादि—सुश्रुतस्य। हिंस्रा काला ओकडा, पूतिकं लाटाकरञ्जस्य मूलम्। कोलमात्रैरितियद्यपि कोलशब्देन माषकाष्टकं कर्षश्चोच्यते, यदाह क्षारपाणिः “शाण्काभ्यान्तु जानीयात् कोलं वटकद्रक्षणम्। ताभ्यां वर्षः पिचुश्चाक्षं स्वर्ण पाणितलं तथा। विडालपदकं कोलं किञ्चिच्च समुदाहृतम्” इति, तथापि कर्ष एवात्र ग्राह्यः। अन्यथा कल्कस्याल्पीयस्त्वं स्यात्। वृद्धकाश्यपेनाप्येवमुक्तम्, तस्मात् साध्वीयं व्याख्येति॥२०॥

तेजोवत्याद्यं घृतम्।

तेजावत्यभया कुष्ठं पिप्पली कटुरोहिणी।
भूतिकं पौष्करं मूलं पलाशश्चित्रकं शटी॥

सौवर्चलन्त्वामलकी सैन्धवं बिल्वपेशिका।
तालीशपत्रं जीवन्ती वचा तैरक्षसम्मितैः।

हिङ्गुपादैर्घृतप्रस्थं पचेत् तोयचतुर्गुणे।

एतद् यथाबलं पीत्वा हिक्काश्वासौ जयेन्नरः।
शोथानिलार्शोग्रहणीहृत्पार्श्वरुज एव च॥२१॥

तेजोवतीत्यादि—चरकस्य। तेजोवती चविका, भूतिकं कत्तृणम्। हिंगुपादैरित्येकभागमपेक्ष्य, तेन हिंगुनश्चत्वारो माषकाः॥२१॥

भार्गीगुडः—

शतं संगृह्य भार्ग्यास्तु दशमूल्यास्तथापरम्।

शतं हरीतकीनाञ्च पचेत् तोयचतुर्गुणे।

पादावशेषे तस्मिंस्तु रसे वस्त्रपरिस्रुते।
आलोड्यःच तुलां पूतां गुडस्य त्वभयां ततः॥

पुनः पचेत्तु मृद्वग्नौ यावल्लेहत्वमागतम्।
शीते तु मधुनश्चात्र षट् पलानि प्रदापयेत्॥

त्रिकटु त्रिसुगन्धञ्च पलिकानि पृथक् पृथक्।
कर्षद्वयं यवक्षारं सञ्चूर्ण्य प्रक्षिपेत् ततः॥

भक्षयेदभयामेकां लेहस्यार्द्धपलं लिहेत्।

श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा।
स्वरवर्णप्रदो ह्येष जठराग्नेश्च दीपनः॥

पलोल्लेखागते माने न द्वैगुण्यमिहेष्यते॥

हरीतकीशतस्यात्र प्रस्थत्वादाढकं जलम्॥२२॥

भार्गीगुडे दशमूल्यपि मिलित्वा। तोये चतुर्गुण इति अकृतद्वैगुण्यात् दशमूलीशतं भार्गीशतञ्चमिलित्वा जलस्य शरावशतं देयमित्याहुः। हरीतकीशतस्यात्र प्रस्थस्वाद ढकं जलमिति वक्ष्यति, तेन जलत्य षोडशशरावाधिकशरावशतमित्यर्थः। वृन्दस्तु हरीतकीशतैकस्य वारिप्रस्थमिहाविकमित्याह। वृद्धास्तु सम्यक्वीर्य्याधानार्थमन्त्र द्रवस्य द्वैगुण्यमिच्छन्ति, तन्मते जलशरावशतद्वयम्। अनेनैव हरीतक्या अपि पाकः। व्यवहारस्तु प्रायश्चतुर्गुणजलेनाकृतद्वैगुण्येन॥२२॥

कुलत्थगुडः—

कुलत्थं दशमूलञ्च तथैव द्विजयष्टिका।
शतं शतञ्च संगृह्य जलद्रोणेविपाचयेत्॥

पादावशेषे तस्मिंस्तु गुडस्यार्द्धतुलां क्षिपेत्।

शीतीभूते च पक्वेच मधुनोऽष्टौ पलानि च॥

षट् पलानि तुगाक्षीर्य्यापिप्पल्याश्च पलद्वयम्।
त्रिसुगन्धि सुगन्धं तत् खादेदग्निबलं प्रति॥

श्वासं कासं ज्वरं हिक्कां नाशयेत् तमकं तथा।
प्रतिशतं द्रोणनियमाज्ज्ञेयं द्रोणत्रयन्त्विह॥२३॥

कुलत्थमित्यादौ—जलद्राेण इति प्रतिशतमित्यर्थः एतत्तु चक्रमतम्, वृन्दस्त्वाह “योगसन्दर्शनादत्र वृद्धवैद्योपदेशतः। जलं चतुर्गुणं देयमल्पत्वाद् द्रोणवारिणः। मानसान्निध्यसंवादाद् द्विदलं त्रिसुगन्धिनः” इति। योगसन्दर्शनादिति समानद्रव्यप्रमाणकुलस्यगुडान्तरे चतुर्गुणजलसन्दर्शनादित्यर्थः, इदन्तु न गृह्यते द्रोणपदस्य साक्षादुपादानात् तस्य चतुर्गुणत्वकल्पने द्रोणपदस्य वैयर्थ्यं स्यात्।पिप्पलीपलद्वयसान्निध्यात् त्रिमुगन्धि च मिलित्वा पलद्वयं तथा तन्त्रान्तरसंवादाश्च, यथा एतज्जातीय कुलत्थगुडान्तरे “मधुनः कुडवं दद्यात् त्रिसुगन्धिपलद्वयम्” इति॥२३॥

इति हिक्काश्वास चिकित्सावित्रृतिः।

_____________

अथ स्वरभेदचिकित्सा।

वाते सलवणं तैलं पित्ते सर्पिः समाक्षिकम्।
कफे सक्षारकटुकं क्षौद्रं कवल इष्यते॥

गले तालुनि जिह्वायां दन्तमूलेषु चाश्रितः।
तेन निष्कृष्यते श्लेष्मा स्वरश्चास्य प्रसीदति॥१॥

प्राणोदानदुष्टिसाधर्म्यात् हिकाश्वासानन्तरं स्वरभेदचिकित्सामाह वात इत्यादि—तैलमत्रकदुष्णं कृत्वा कवलः कार्य इत्याहुः। क्षारो यवक्षारः॥१॥

आद्ये कोष्णं जलं पेयं जग्ध्वा घृतगुडौदनम्।
क्षीरानुपानं पित्तोत्थे पिबेत् सर्पिरतन्द्रितः॥

पिप्पलीं पिप्पलीमूलं मरिचं विश्वभेषजम्।
पिबेन्मूत्रेण मतिमान् कफजे खरसंक्षये॥२॥

इति वातस्वरभेद पिबेत्। सर्पिरिति यद्यपि सामान्येनैवोक्तंतथापि सुश्रुते श्वासोक्तंवासाघृतं पित्तकासोक्तंवा विदारीगन्धोत्पलशारिवेत्यादिनोक्तंज्ञेयमित्याहुः। पिप्पलीमित्यादि—पिप्पल्यादिचूर्णं गोमूत्रेण पेयम्। स्वरसंक्षय इति स्वरभेदे॥२॥

स्वरोपघाते मेदोजे कफवद्विधिरिष्यते॥३॥

क्षयजे सर्वजे चापि प्रत्याख्याय समाचरेत्॥४॥

स्वरोपघात इत्यादि—सुश्रुतस्य। कफवदिति कफजस्वरभेदवत्। क्षयजेसर्वजे चापीत्यपिशब्दबलात् मेदोजसहजयोः परिग्रहः। तन्त्रान्तरे हि अनयोरप्यसाध्यत्वमुक्तम्, यथा “क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजातः मेदस्विनः सर्वसमुद्भवश्च स्वरामयो यो न स सिद्धिमेति।” क्रिया चात्र क्षयजे क्षयकासोक्ता सर्वजे तु प्रत्येकदोषोक्तैवमिलित्वा कार्या॥३॥४॥

चव्याम्लवेत्तसकटुत्रिकतिन्तिडीकतालीशजीवकतुगादहनैः समांशैः।
चूर्णं गुडप्रमृदितं त्रिसुगन्धियुक्तं वैस्वर्य्यपीनसकफारुचिषु प्रशस्तम्॥

चव्याम्लवेतसेत्यादौ—तिन्तिडीकं महार्द्रकम्, तुगा वंशलोचना, दहनश्चित्रकः। गुडोऽत्र समुदितचूर्णसमः। त्रिसुगन्धि प्रत्येकमेकभागापेक्षया चतुर्थांशेनेति केचित्, एकभागसमं मिलितमित्यन्ये॥५॥

तैलाक्तं स्वरभेदे वा खदिरं धारयेन्मुखे।
पथ्यां वा पिप्पलीयुक्तां संयुक्तां नागरेण वा॥

अजमोदां निशां धात्रीं क्षारं वह्निंविचूर्ण्यच।
मधुसर्पिर्युतं लीढ्वा स्वरभेदं व्यपोहति॥६॥

तैलाक्तमित्यादि—श्लोकद्वयं स्पष्टम्॥६॥

कलितरुफलसिन्धुकणाचूर्णं तक्रेण लीढमपहरति।
स्वरभेदं गोपयसा पीतं वामलकचूर्णञ्च॥७॥

कलितरुफलेत्यादि—कलितरुफलं विभीतकफलम्। तक्रेणेत्यत्र चुकेणेति पाठान्तरम्॥७॥

वदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम्।
स्वरोपघाते कासे च लेहमेनं प्रयोजयेत्॥८॥

वदरीपत्रकल्कं वेत्यादि—बदरीपत्रं ससैन्धवं बहुघृते सृष्ट्वातेनैव घृतेनालोढ्यलिहेत्॥८॥

शर्करामधुमिश्राणि शृतानि मधुरैः सह।
पिबेत् पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः॥९॥

शर्करेत्यादि—सुश्रुतस्य। मधुरौरेति काकोल्यादिगणैः। पयःसाधनमिह क्षीरपाकपरिभाषया॥९॥

कण्टकारीघृतम्।

व्याघ्रीस्वरसविपक्वंरास्नावाट्यालगोक्षुरव्योषैः।
सर्पिः स्वरोपघातं हन्यात् कासञ्च पञ्चविधम्॥

शुष्कद्रव्यमुपादाय स्वरसानामसम्भवे।
वारिण्यष्टगुणे साध्यं ग्राह्यं पादावशेषितम्॥१०॥

व्याघ्रीत्यादि—यद्यपि इदं घृतं रास्नेत्यादिना कासेऽप्युक्तं तथाप्यत्र स्वरभेदहन्तृत्वप्रतिपादनार्थं पुनरप्युक्तम्। स्वरसस्याभावे क्वाथग्रहणमाह शुष्कद्रव्यमित्यादिपादस्तु चतुर्थभागः। अत्र केचित् स्वरसानुकल्पत्वादष्टावशिष्ट एव क्काथो युक्तोगुरुत्वादिति। पादशब्दस्य मूलवचनत्वेनात्रापि पादशब्दोऽयं मूलीभूतमाद्यभागमाह,तेन यद्भागापेक्षया अष्टगुणत्वं तावानेव भागः स्थापनीय इत्याहुः। अन्ये तु पादावशेषितमित्यत्र भागावशेषितमिति पठित्वा भागशब्दोऽत्राष्टमो भाग इत्याहुः। व्यवहारस्तु चतुर्थभागेनैव॥१०॥

भृङ्गराजाद्यं घृतम्।

भृङ्गराजामृतावल्लीवासकदशमूलकासमर्दरसैः।
सर्पिः सपिप्पलीकं सिद्धं स्वरभेदकासजिन्मधुना॥११॥

मृगराजेत्यादि—मृगराजादीनां क्वाथश्चतुर्गुणः, पिप्पल्याः पादिकः कल्कः,सिद्धशीते त घृतात् पादिकं मधु प्रक्षेप्यम्॥११॥

इति स्वरभेदचिकित्सा विवृतिः।

<MISSING_FIG href="../../../../../books_images/U-IMG-1707147335020401-removebg-preview.png"/>

अथारोचकचिकित्सा।

वस्ति समीरणे पित्ते विरेकं वमन कफे।
कुर्य्याद् हृद्यानुकूलानि हर्षणञ्च मनोघ्नजे॥१॥

वान्तो वचाद्भिरनिले विधिवत् पिवेत्तु
स्नेहोष्णतोयमदिरान्यतमेन चूर्णम्।
कृष्णाविडङ्गयवभस्महरेणुभार्गी-
रास्नैलहिङ्गुलवणोत्तमनागराणाम्॥२॥

अरोचकस्याप्यूदूर्ध्वगविकारत्वेन स्वरभेदानन्तरमरोचकमाह, बस्तिमित्यादि—मनोघ्रजे इति मनोवेदनहेतुशोकादितः। एतञ्चोपलक्षणं तेन कायादिजेऽपि ज्ञेयम्।वान्त इत्यादि—सुश्रुतस्य। विधिवत् वान्तः कृतवमनः विधिवदित्यनेन लाजपेयादिक्रमञ्च बोधयति तेन वन्तः सन् पेयादिक्रमेण जातवलः सन् चूर्णं पिबेन्न सहसेति। अनिल इति कारणेन कार्य्योपचारात् अनिलजे, अनिलजेऽपि वमनमिदं कफस्थानगतत्वाद्वेदितव्यम्। स्नेहस्तैलमिह वातहन्तृत्वादिति वृन्दटिप्पणी, तन्न, घृतमेवयुक्तम्, वक्ष्यमाणवाग्भटवचनात्। यवभस्म इति यवक्षारः। लवणोत्तमं सैन्धवम्।एलं एलवालुकमिति कार्तिकः, एलेत्यन्ये, युक्तश्चैतत् वाग्भटसंवादात्॥१२॥

पैत्ते गुडाम्बुमधुरैर्वमनं प्रशस्तम्
लेहः ससैन्धवसितामधुसर्पिरिष्टः।

निम्वाम्वुछर्दितवतः कफजे तु पानम्
राजद्रुमाम्बुमधुना सह दीप्यकाढ्यम्।
चूर्णं यदुक्तमथवानिलजे तदेव
सर्वैश्च सर्वकृतमेवमुपक्रमेच्च॥३॥

गुडाम्बुमधुरैरिति गुडाम्बुयोगान्मधुरैर्वमनयोगैः, अत्र मदनफलयोगोऽपि ज्ञेयः, केवलगुडोदकेन वमनस्यासम्भवाद, अन्ये तु मधुरशब्देनाष्टवर्गमाहुः अपरे तु मधुरैरित्यत्र मधुकैरिति पठन्ति। निम्बाम्बुछर्दितवत इति आगमशासनमनित्यमिति आगमाभावादत्र केवलश्छकारः, तेनन छन्दोभङ्गः। चन्द्राटस्तु निम्बाम्बुवमितवत इति पठति। राजद्रुमाम्बुमधुनेति राजद्रुम आरग्वधस्तस्य फलक्वाथो मधुना सहित इत्यर्थः, ‘कार्तिकस्तु राजद्रुमशब्देन आरग्वधादिगणमाह, कफाधिक्येऽस्यैवोचि तत्वादिति, किन्तु वाग्भटे एवं नोक्तंतेन आरग्वधादिगणग्रहणं न प्रमाणमिति। दीप्यकाढ्यमिति यमानीचूर्णमत्र प्रक्षेप्यम्। चूर्ण यदुक्तमथवेति अनिलजे यत् चूर्णमुक्तं कृष्णादिनागरान्तं तदेवेह राजद्रुमाम्बुना पिबेत्। अयञ्च विधिर्वातानुबन्धे सति ज्ञेयः। सर्वैश्चसर्वकृतमिति प्रत्येकदोषोक्तं मेलयित्वा सर्वदोषजमरोचकमुपाचरेदित्यर्थः॥३॥

कुष्ठसौवर्चलाजाजी शर्करामरिचं विडम्।
घात्र्येलापद्मकोशीपिप्पलीचन्दनोत्पलम्॥

लोध्रंतेजोवती पथ्या त्र्यूषणं सयवाग्रजम्।
आर्द्रदाडिमनिर्यासश्चाजाजीशर्करायुतः॥

सतैलमाक्षिकाश्चैते चत्वारः कवलग्रहाः।
चतुरोऽरोचकान् हन्युर्वाताद्येकजसर्वजान्॥४॥

त्वङ्मुस्तमेला धान्यानि मुस्तमामलकानि च।
त्वक् च दार्वी यमान्यश्च पिप्पल्यस्तेजोवत्यपि॥

यमानी तिन्तिडीकञ्च पञ्चैते मुखशोधनाः।
श्

लोकपादैरभिहिताः सर्वारोचकनाशनाः॥५॥

कुष्ठेत्यादि—वरकस्य। चत्वारो योगाः स्पष्टाः। स्वङ्मुस्तेत्यादि—त्वक् गुडत्वक् तेजोवती ची। एषां चूर्णेन जिह्वाघर्षणं कार्य्यमित्याहुः। मुखशोधना इति मुख गतदोषशोधनाः॥४॥५॥

अम्लीका गुडतोयञ्च त्वगेलामरिचान्वितम्।
अभक्तच्छन्दरोगेषु शस्तं कवलधारणम्॥६॥

अम्लीकेत्यादि—अम्लीका पक्वतिन्तिडीफलम्, एतञ्च पुरातनं ग्राह्यमित्याहुः। त्वगेलादीनाञ्च कटुत्व सौगन्ध्यापादकं मानम्॥६॥

कारव्यजाजीमरिचं द्राक्षावृक्षाम्लदाडिमम्।
सौवर्चलं गुडं क्षौद्रं सर्वारोचकनाशनम्॥७॥

कारवीत्यादि—कारवी कृष्णजीरकं, वृक्षाम्लं महार्द्रकम्। गुडिका पञ्चषण्माषकमाना मुखे धार्य्येत्याहुः ॥७॥

त्रीण्यूषणानि त्रिफला रजनद्वियञ्च

चूर्णीकृतानि यवशूकविमिश्रितानि।
क्षौद्रान्वितानि वितरेन्मुखधारणार्थ-
मन्यानि तिक्तकटुकानि च भेषजानि॥८॥

त्रीणीत्यादि—सुश्रुतस्य। मुखधारणार्थमिति घर्षेण मुखशोधनमिति। अन्यानि तिक्तकटुकानि च भेषजानीति त्वगेलादिसहितानि भवन्ति, यदुक्तं “त्वगेलासहितं सर्वं कटुतिक्तमरोचकी। लिह्यात् क्षौद्रेण संयुक्तमल्पमल्पं पुनः पुनः” इति॥८॥

विट्चूर्णमधुसंयुक्तो रसो दाडिमसम्भवः।
असाध्यामपि संहन्यादरुचिं वक्त्रधारितः॥९॥

चिट्चूर्णेत्यादि स्पष्टम्॥९॥

** यमानीपाडवः—**

यमानीतिन्तिडीकञ्च नागरञ्चाम्लवेतसम्।
दाडिमं वदरञ्चाम्लं कार्षिकाण्युपकल्पयेत्॥

धान्यसौवर्च्चलाजाजीवराङ्गञ्चार्द्धकार्षिकम्।
पिप्पलीनां शतञ्चैकं द्वे शते मरिचस्य च॥

शर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत्।
जिह्वाविशोधनं हृद्यं तच्चूर्णं भक्तरोचनम्॥

हृत्पीडापार्श्वशूलघ्नं विबन्धानाहनाशनम्।
कासश्वासहरं ग्राहि ग्रहण्यर्शोविकारनुत्॥१०॥

यमानीषाडवः अम्लमिति वदरविशेषणं, वराङ्गंगुडत्वक्। पिप्पलीनां शतमित्याकृतिमानात्। एवं मरिचस्यापि शतद्वयम्। एतच्चूर्णं मुख घृत्वा शनैः शनैर्गलाघःकरणीयमित्युपदिशन्ति। षाडव इति मधुराजयोगस्य संज्ञा, यमान्योपलचितः षाडवो यमानीषाडवः॥१०॥

कलहंसः।

अष्टादश शिग्रुफलानि दश मरिचानि विंशतिश्च पिप्पल्यः।
आर्द्रकपलं गुडपलं प्रस्थत्रयमारनालस्य॥

एतद्विडलवणयुतं स्वजाहतं सुरभिगन्धाढ्यम्।
व्यञ्जनसहस्रधााति ज्ञेयं कलहलकं नाम॥११॥

अष्टादशेत्यादि—शिग्रुफलानि शोभाञ्जनबीजानि। सुरभिगन्धाढ्यं चातुर्जातकाढ्यमित्यर्थः। स्वरवहानाडीशुद्धिकरणत्वेन कलवस्वरजनकत्वेनकलहंससंज्ञा॥११॥

इत्यरोचकचिकित्साविवृतिः।

<MISSING_FIG href="../../../../../books_images/U-IMG-170714832424020202-removebg-preview.png"/>

अथ छर्दिचिकित्सा।

आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात्।
प्राक्कारयेन्मारुतजां विमुच्य संशोधनं वा कफपित्तहारि॥१॥

अरोचकवत् पञ्चविधत्वात् तथा छर्द्यामयेऽप्यरुचेःसम्भवादरोचकानन्तरं छर्दिचिकित्सितमुच्यते, आमाशयेत्यादि चरकस्य। आमः आमरसः, तस्याशयः आमाशयः, तत्रोत्क्लेशः दोषाणामुदरिणं, तद्धेतुकाछर्दयः, किंवा आमाशयस्याशयावेशेषस्योत्क्लेश इति। हिशब्दोहेतो। यस्मादामाशयोत्क्लेशेन एते छर्दयः,आमाशयसमुत्य च रागे लङ्घनमुक्तं, तस्मादित्यर्थः। उत्सर्गमुक्त्वा अपवादमाह प्राक् कारयेदित्यादिना। यद्यपि वातजायामप्यामशयसम्बन्धेन कफोऽप्यस्ति लङ्घनसाध्यश्च तथापि वातस्य मह त्ययस्याशुकारिणो लङ्घनशोधनाभ्यां वृद्धिर्न ह्यत्ययकरी स्यादिति भावः। अत्र लङ्घनमल्पदोषविषयं, शोधनञ्च बहुदोषविषयमिति। संशोधनशब्देनात्र वमनविरेचनयोरेव ग्रहणम्, उत्तरस्यापि वमनस्य वक्ष्यमाणत्वात्। अन्ये त्वत्र संशोधनशब्देन प्रतिमार्गहरणतया अत्यर्थहितं विरेचनमेव वर्णयन्ति॥१॥

हन्यात् क्षीरोदकं पीतं छर्दिं पवनसम्भवाम्।
ससैन्धवं पिबेत् सर्पिर्वातच्छर्दिनिवारणम्॥२॥

हन्यादित्यादि—सुश्रुतस्य। क्षीरोदकमित्यत्र क्षीरघृतमिति डल्वणः पठति, व्याचष्टे च—क्षीरमथनादुद्भूतं घृतं क्षीरघृतं, क्षीरयुक्तं वा घृतं क्षीरघृतमिति, किन्तु वाग्भटे पीतं तुल्याम्बु वा पय इत्युक्तं, तेन क्षीरोदकमिति पाठः। ससैन्धवं पिबेत् सर्पिरित्यत्र पक्वंघृतम्॥२॥

मुद्गामलकयूषं वा ससर्पिष्कं ससैन्धवम्।
यवागूं मधुमिश्रां वा पञ्चमूलीकृतां पिबेत्॥३॥

मुद्गामलकयूषं वा ससर्पिष्कमिति सर्पिरिह यूषसन्तलनार्थम्। यवागूमित्यादिसुश्रुतस्य। पञ्चमूली स्वल्पा इति चक्रः, महतीति गयदासः, वातजायामप्यामाशयसमुत्थितत्वेनानुबन्धरूपस्य कफस्य विद्यमानत्वात्॥३॥

पित्तात्मिकायान्त्वनुलोमनार्थं द्राक्षाविदारीक्षुरसैस्त्रिवृत् स्यात्।
कफाशयस्थन्त्वतिमात्रवृद्धं पित्तं जयेत् स्वादुभिरूर्द्ध्वमेव॥४॥

शुद्धस्य काले मधुशर्कराभ्यां लाजैश्च मन्थं यदि वापि पेयाम्।
प्रदापयेन्मुद्गरसेन वापि शाल्योदनं जाङ्गलजै रसैर्वा॥५॥

पित्तत्यादि—चरकस्य। चूर्णीकृता त्रिवृदिति द्राक्षादिरसैः प्रत्येकमुपयोज्यमित्याहुः। कफाशयस्थमिति आमाशयोदूर्ध्वभागस्थम्। स्वादुभिरूद्र्ध्वमेवेति अनन्तरोक्तैर्द्राक्षादिभिरेव। ऊर्ध्वमिति वमनेन हरेदित्यर्थः, अत्रानुक्कमपि मदनफलं वमनयोग्यतया ज्ञेयम्, अन्ये तु केवलमेव, द्राक्षादिरसमाकण्ठं पीत्वा वमनं कार्य्यमित्याहुः। काल इति सम्यग्बुभुक्षाकाले। यदि वापि पेयामिति मन्दाग्निं प्रतिपेया ज्ञेया॥४॥५॥

चन्दनेनाक्षमात्रेण संयोज्यामलकीरसम्।

पिबेत् माक्षिकसंयुक्तं छुर्दिस्तेन निवर्त्तते॥६॥

चन्दनञ्चामृणालञ्च बालकं नागरं वृषम्।
सतण्डुलोदकक्षौद्रः पीतः कल्को वर्मि जयेत्॥७॥

चन्दनेत्यादि—चरकसंवादात् श्वेतचन्दनं ज्ञेयम्। चन्दनकल्कापेक्षया चामलकीरसश्चतुर्गुणः, पातव्यश्च चतुर्द्रव इत्युक्तेः। चन्दनमित्यादौ—अमृणालमुशीरम्॥६॥७॥

कषायो भृष्टमुद्गस्य सलाजमधुशर्करः।
छर्द्यतीसारतृड्दाहज्वरघ्नः सम्प्रकाशितः॥८॥

कषाय इत्यादि—मुद्गंभृष्ट्वाक्वाथविधिनःकषायः कार्य्यस्ततो लाजचूर्णादिप्रक्षेपः॥८॥

हरीतकीनां चूर्णन्तु लिह्यान्माक्षिकसंयुतम्।
अधोभागीकृते दोष छर्दिः क्षिप्रं निवर्त्तते॥९॥

हरीतकीनामित्यादि स्पष्टम्॥९॥

गुडूचीत्रिफलारिष्टपटोलैः क्वथितं पिबेत्।
क्षौद्रयुक्तं निहन्त्याशु छर्दिः पित्ताम्लसम्भवाम्॥१०॥

गुडूचीत्यादौ—पित्ताम्लसम्भवामिति अम्लपित्तसम्भवाम्॥१०॥

क्वाथः पर्पटजः पीतः सक्षौद्रश्छर्दिनाशनः॥११॥

क्वाथेत्यादि स्पष्टम्॥११॥

कफात्मिकायां वमनं प्रशस्तं सपिप्पलीसर्षपनिम्बतोयैः।
पिण्डीतकैः सैन्धवसंप्रयुक्तैश्छर्द्यां कफामाशयशोधनार्थम्॥१२॥

कफात्मिकायामित्यादौ—सपिप्पलीसर्षपनिम्बतोयैरिति निम्बवल्कलस्यार्द्धशृते क्वाथेपिप्पल्यादीनां प्रक्षेप इति वृन्दटिप्पणी, अन्ये तु तोयशब्देनात्र उष्णोदकमुच्यते, तेन पिप्पल्यादिकल्कमुष्णोदकेन पिबेदित्याहु, वाग्भटेऽप्युक्तं"कफजाय वमेन्निम्बकृष्णापिण्डीतसर्षपैः। युक्तेन कोष्णतोयेन" इति तत्रानुक्तमपि वमनयोग्यत्वेन सैन्धवं बोध्यम्। पिण्डीतका मदनफलम्। कफामाशयशोधनार्थमिति कफपूर्णामाशयशोधनार्थम्, कफस्यामाशयस्य च शोधनार्थमित्यन्ये॥१२॥

विडङ्गत्रिफलाविश्वचूर्णं मधुयुतं जयेत्।
विडङ्गप्लवशुण्ठीनामथवा श्लेष्मजां वमिम्॥१३॥

विडङ्गेस्यादौ—प्लवं कैवर्त्तमुस्तकम्॥१३॥

सजाम्बवं वा बदरस्य चूर्णं मुस्तायुतां कर्कटकस्य शृङ्गीम्।
दुरालभां वा मधुसम्प्रयुक्तां लिह्यात्कफच्छर्दिविनिग्रहार्थम्॥१४॥

सजाम्बवमित्यादि—जाम्बवं जम्बुफलास्थि। बदरस्य चूर्णमिति बदराम्लचूर्णमिति चरके पठ्यते, तन्मते अम्लवदरस्येव चूर्णम्, अभ्ये तु बदरस्य चूर्णमिति पठित्वा वदरास्थिमजचूर्णमित्याहुः। मुस्तायुतां कर्कटकस्य शृङ्गीमिति द्वितीयो योगः। दुरालभा वेति तृतीयो योगः। योगत्रयेऽपि मधु सम्बध्यते॥१४॥

तर्पणं वा मधुयुतं तिसृणामपि भेषजम्।

कृतं गुडूच्या विधिवत् कषायं हिमसंज्ञितम्॥

तिसृष्वपि भवेत् पथ्यं माक्षिकेण समायुतम्॥१५॥

तर्पणेत्यादि—तर्पणं तोयविप्लुताः शक्तवः। तिसृणामिति पृथग्वातादिजानाम् अन्यथा बहुवचनानुपपत्ति। एतेन त्रिदोषवच्छर्दिहरत्वमस्योक्तं भवति, यतः पृथग्वातादिच्छर्दिभेषजयुक्तमेव सान्निपातिकच्छर्दिभेषजं भवति, चरके तथोक्तत्वात्। कृतमित्यादि—सुश्रुतस्प । अपि पूर्ववत् व्याख्येयम्॥१५॥

द्रव्यादापोथितात् तोये प्रतप्ते निशि संस्थितात्।
कषायो योऽभिनिर्याति स शीतः समुदाहृतः॥

षड्भिः पलैश्चतुर्भिर्वा सलिलात् शीतफाण्टयोः।
आप्लुतं भेषजपलं रसाख्यायां पलद्वयम्॥१६॥

हिमसंज्ञितामति शीतकषायसंज्ञितं, तदर्थमेव कृष्णात्रयेपरिभाषामाह द्रव्यादित्यादि—व्यवहारस्तु प्रायेण भेषजार्द्धपलं जलपलद्वयमिति। रसाख्यायां पलद्वय मिति स्वरसाभावे यत्र भेषजचूर्णमुष्णोदके प्रक्षिप्य स्वरसानुकल्पः क्रियते तस्मिन् क्वाथे कर्तव्ये भेषजस्य पलद्वयं दत्वा स्वरसानुकल्पः कार्य्यः॥१६॥

श्रीफलस्य गुडूच्या वा कषायो मधुसंयुतः।
पेयश्छर्दित्रये शीतो मूर्वा वा तण्डुलाम्बुना॥१७॥

श्रीफलस्यत्यादि—श्रीफलो बिल्वं तस्य मूलं ग्राह्यं, “बिल्वमूलं मरुत् श्लेष्मच्छर्दिघ्नं न च पित्तकृत्” इति गुणपाठात्, एवमन्यत्रापि। गुडूच्या वा कषाय इति गुच्डूयाः क्काय एव शीतलः कार्थ्यः, न तु शीतकषायः, नागार्जुनसंवादे तस्यौकत्वात्, यथा—छिन्नरुहायाः क्वाथं सुशीतं यो नरः पिबेन्मधुना। छर्दि स वातपित्त श्लेष्मसमुत्थां निवारयति" इत्यादि॥१७॥

जम्ब्वाम्रपल्लवगवेधुकधान्यसेव्य-
ह्रीवेरवारि मधुना पिबताऽल्पमल्पम्।
छर्दिः प्रयाति शमनं त्रिसुगन्धियुक्ता
लीढा निहन्ति मधुनाथ दुरालभा वा॥१८॥

जाम्ब्वाम्रेत्यादि—गवेधुको गुल्मम्, धान्यं धान्यकम् सेव्यमुशीरम्, वारि शीतकषाय इत्यर्थः। पुनर्दुरालभेति श्लोकानुरोधादुक्तं त्रिसुगन्धियोगेन योगान्तरत्वाद्वा न पौनरुक्त्यम्॥१८॥

** जातीधात्री—**

जात्या रसः कपित्थस्य पिप्पलीमरिचान्वितः।
क्षौद्रेण युक्तः शमयेल्लेहोऽयं छर्दिमुल्वणम्॥१९॥

जात्या इत्यादि—जाती आमलकी, कपित्यस्येति कपित्थफलस्य। एक एवायं योगः॥१९॥

पिष्ट्वाधात्रीफलं द्राक्षां शर्कराञ्च पलोन्मिताम्।

दत्त्वा मधुपलञ्चात्र कुडवं सलिलस्य च॥

वाससा गलितं पीतं हन्ति छर्दि त्रिदोषजाम्॥२०॥

पिष्ट्वेत्यादि—इदन्तु अग्न्याद्यपेक्षया पेयम्, शेषं त्याज्यम्॥२०॥

** एलादिचूर्णम्—**

एलालवङ्गगजकेशरकोलमज्ज-
लाजाप्रियङ्गुघनचन्दनपिप्पलीनाम्।
चूर्णानि माक्षिकसितासहितानि लीढ्वा
छर्दि निहन्ति कफमारुतपित्तजाञ्च॥२१॥

एलेत्यादि स्पष्टम्॥२१॥

कोलामलकमज्जानौ मक्षिकाविट् सिता मधु।
सकृष्णातण्डुलो लेहश्छर्दिमाशु नियच्छति॥२२॥

कोलत्यादि—कोलं वदरं तदस्थिमज्जा ग्राह्या। कृष्णातण्डुलः पिप्पलीतण्डुलः॥२२॥

अश्वत्थवल्कलं शुष्कं दग्ध्वा निर्वापितं जले।
तत्तोयपानमात्रेण छर्दि जयति दुस्तराम्॥२३॥

अश्वत्थेत्यादि स्पष्टम्॥२३॥

यष्ट्याह्लंचन्दनोपेतं सम्यक् क्षीरप्रपेषितम्।
तेनैवालोड्य पातव्यं रुधिरच्छर्दिनाशनम्॥२४॥

यष्ट्याह्वामत्यादौ—तेन इति क्षीरेण॥२४॥

लाजाकपित्थमधुमागधिकोषणानाम्
क्षौद्राभयात्रिकटुधान्यकजीरकाणाम्।
पथ्यामृतामरिचमाक्षिकपिप्पलीनाम्
लेहास्त्रयः सकलवम्यरुचिप्रशान्त्यै॥२५॥

लाजत्यादौ—कपित्थस्य फलम्, ऊषणं मरिचम्, जीरकोऽजाजी॥२५॥

पद्मकाद्यंघृतम्।

पद्मकामृतानिम्बानां धान्यचन्दनयोः पचेत्।

कल्के क्वाथे च हविषःप्रस्थं छर्दिनिवारणम्॥

तृष्णारुचिप्रशमनं दाहज्वरहरं परम्॥२६॥

पद्मकघृते क्वाथःकल्कश्च पद्मकादिपञ्चवस्य॥२६॥

इति छर्दिचिकित्साविवृतिः।

<MISSING_FIG href="../../../../../books_images/U-IMG-1707149780020502-removebg-preview.png"/>

अथ तृष्णाचिकित्सा।

तृष्णायां पवनोत्थायां सगुडं दधि शस्यते।

रसाश्च वृहणाः शीता गुडूच्या रस एव च॥१॥

पञ्चाङ्गकाः पञ्चगणा य उक्तास्तेष्वम्वु सिद्धं प्रथमे गणे वा।
पिबेत् सुखोष्णं मनुजोऽल्पशों वा तृष्णोपरोधं न कदापि कुर्य्यात्॥२॥

छर्द्यास्तृष्णोपद्रवत्वाच्छर्यनन्तरं तृष्णाचिकित्सामाह, तृष्णायामित्यादि—वाग्भटस्य। सगुडं दधीति गुडं प्रक्षेप्यम्। पञ्चाङ्गका इत्यादि—सुश्रुतस्य। पञ्च अङ्गानि येषाम् एवम्भूता ये पञ्चगणाः स्वल्पबृहत्तृणवल्लीकण्टकीसंज्ञकानि पञ्चपञ्चमूलानि सुश्रुतोक्तानि तेषु। अम्बु सिद्धमिति अम्बु क्वाथोऽर्द्धशृतं वा। एते च पञ्च योगाः, प्रत्येकं क्वाथविधानात् प्रथमो गणो विदारीगन्धादि सौश्रुतः। अल्पश इति स्तोकं स्तोकम्, अन्ये तु अल्पश इति तृष्णाविशेषणं व्याख्याय अल्पशस्तृष्णायां शमनम्, महत्यां वमनमित्याहुः। तृष्णोपरोधं न कदापि वुर्य्यादिति अतोऽल्पाल्पजलदानात् तृष्णायां उपरोधं दुःखं कदापि न कुर्य्यात्, किंवा किमर्थं पुनरिदमल्पाल्पं जलं दीयते इत्याह तृष्णेत्यादि, यस्मात् तृष्णाया उपरोधे सति प्राणत्यागः स्यात् अतः पुरुषः कदापि तृष्णोपरोधं न कुर्य्यादित्यर्थः। डल्वणस्तु “पिबन् सुखोष्णं मनुजोऽचिरेण तृषो विमुच्येत हि वातजायाः” इति पठति। कश्चित्तु पिबेत् सुखोष्णंमनुजोऽल्पशस्तु जलोष्णदुग्धस्य तथैव पानमिति॥१॥२॥

पित्तोत्थितां पित्तहरैर्विपक्वम् निहन्ति तोयं पय एव वापि॥३॥

पित्तोत्थितामित्यादि—सुश्रुतस्य। पित्तहरैरिति काकोल्यादिभिः। डल्वणस्तु “पित्तघ्नवर्गैस्तु कृतः कषायः सशर्करः क्षौद्रयुतःसुशीतः। पीतस्तृषां पित्तकृतां निहन्ति क्षीरं तं वाप्यथ जीवनीयैः” इति पठति, व्याचष्टे च पित्तघ्नवर्गैत्युत्पलादिभिः काकोल्यादिभिश्चेति॥३॥

काश्मर्य्यशर्करायुक्तं चन्दनोशीरपद्मकम्।
द्राक्षामधुकसंयुक्तं पित्ततर्षे जलं पिबेत्॥४॥

काश्मर्य्यादिमधुकान्त एको योगः। शीतकषायोऽयम्। अन्ये तु एषां कल्को जलेन पेयः इत्याहुः॥४॥

पित्तजायान्तु तृष्णायां पक्वोडुम्बरजो रसः।
तत्क्वाथो वा हिमस्तद्वच्छारिवादिगणाम्बु वा॥५॥

पित्तजायामित्यादि—वाग्भटस्य। पक्वोडुम्बरज इत्यपपाठः सुश्रुतवचनात्। हिम इति शीतकषायः। तद्वदिति हिम इत्यर्थः, शारिवादिगणश्च वाग्भटोक्तः॥५॥

स्याज्जीवनीयसिद्धं क्षीरघृतं वा पित्तजे वर्षे॥६॥

स्याज्जीवनीयेत्यादि—चरकस्य। क्षीरघृतमिति क्षीरोत्थं घृतम्। वा पित्तजे तर्षं इति वातजे चेत्यर्थः, न तु संसर्गजे, तेषामसूत्रितत्वात्, किंवा असूत्रितानामपि द्वन्द्वजानां गुल्मानामभिधाने यो न्यायः स एवात्राप्यनुसारणीय इति॥६॥

तद्वद् द्राक्षाचन्दनखर्जूरोशीरमधुयुतं तोयम्॥७॥

तद्वदित्यादौ—

तोयं शीतकषायमित्याहुः, चक्रस्तु तद्वदित्यत्र पेत्त इति पठति, व्याचष्टे च पेत्त इत्यत्र तर्षइति सम्बन्ध इति॥७॥

सशारिवादौ तृणपञ्चमूले तथोत्पलादौ मधुरे गणेवा।
कुर्य्यात् कषायांश्च तथैव युक्तान् मधूकपुष्पादिषु चापरेषु॥८॥

सशारिवेत्यादि—सुश्रुतस्य। सप्तमी षष्ट्यर्थे तेन शारिवादिगणचतुष्टयस्य कषायं कुर्य्यादित्यर्थः। मधुरो गणः काकोल्यादिः मधुरो गण इत्यत्र प्रथमो गण इति डल्वणः पठित्वा विदारीगन्धादिगण इति व्याचष्टे, तज्ञ प्रामाणिकं, बहुभिरव्याख्यातत्त्वात्। अनेन गणचतुष्टयेन चत्वारः कषायाः कार्य्या इति चत्वार एव योगाः। तथैव युक्त निति शीतकषायविधिना कृतान्, सुश्रुते कषायप्रस्तावे अस्य वचनस्य पठितत्वात् डल्वणस्तु तथैव युक्तानित्यत्र यथेरितान् वेति, पूर्वोक्तविधानेन एतेन जलं दत्त्वा प्रवासे निशि वासनं कुर्यात्। मधूवपुष्पादिंषु चापरेष्विति एषाञ्च शीतकषायं कुर्यादित्यर्थः। मधूकपुष्पादीनि तु मधूकशोभाञ्जनकोविदारप्रियङ्गुपुष्पाणि चत्वारि रक्तपित्तन्नत्वेनेह पठितानि, किंवा आदिशब्दः प्रकारवाची, तेन मधूकपुष्पद्राक्षाकाश्मर्य्यखर्जूराणीति चत्वारि॥८॥

बिल्वाढकीधातकिपञ्चकोलदर्भेषु सिद्धं कफजां निहन्ति॥९॥

हितं भवेच्छर्दनमेव चात्र तप्तेन निम्बप्रसवोदकेन॥१०॥

सजीरकाण्यार्द्रकशृङ्गवेरसौवर्चलान्यर्द्धजलप्लुतानि।
मद्यानि हृद्यानि च गन्धवन्ति पीतानि सद्यः शमयन्ति तृष्णाम्॥११॥

बिल्वाढकीत्यादि—बिल्वस्य मूलम्, आढकी तुवरी।सिद्धमित्यतः परं जलमिति शेषः, जलमिति षडङ्गविधानेनेति चक्रः, अन्ये तु क्वाथमाहुः। अत्र सुश्रुतटीकाकृतो धातकीपञ्चकोलस्थाने धान्यकपञ्चमूलमिति पठन्ति, पञ्चमूलं स्वल्पमित्याहुः, सर्वासु तृष्णासु पित्तसम्भवत्वेन पञ्चकोलमनुचितमित्याहुः। दर्भ उलुकः। निम्बप्रसवोदकेनेति निम्बत्वगुद्भवक्वाथेनेति चक्रः, निम्बपुष्पक्वाथेनेत्यरुणः निम्बपल्लवक्वाथेनेति जेज्जटः, युक्तञ्चैतत् तन्त्रान्तरसंवादात्। आर्द्रक शृङ्गवेरसौवर्चलानीत्यर्श आदित्वात्। आर्द्रकशृङ्गेवरम् आर्द्रकमेव। जीरकादिकञ्च सौरभकटुत्वमात्रकारकं देयम्॥९—११॥

क्षतोत्थितां रुग्विनिवारणेन जयेद्रसानामसृजश्च पानैः॥१२॥

क्षतोत्थितामित्यादि—सार्द्धश्लोकः सुश्रुतस्य। रुग्विनिवारणेनेति व्रणवेदनानिर्वापणेन कारणोच्छेदात् तत्कार्यरूपा क्षतजा तृष्णा शाम्यतीत्यर्थः। रसानामिति मांसरसानाम्। असृजश्चपानैरिति एणादिरक्तस्य सद्यस्कस्य पानैरित्यर्थः, एतच्चात्यर्थशोणितस्रुतौ सत्यां ज्ञेयम्॥१२॥

क्षयोत्थितां क्षीरजलं निहन्यान्मांसोदकं वाथ मधूदकं वा।
गुर्वन्नजामुल्लिखनैर्जयेत्तु क्षयादृते सर्वकृताञ्च तृष्णाम्॥१३॥

क्षयोत्थितामित्यादौ। क्षीरजलामिति क्षीरमिश्रितं जलमिति,क्षीरजलमित्यत्र क्षीरघृतमिति डल्वणः पठति, व्याचष्टे च क्षीरोत्थं घृत क्षीरसहितं वा घृतमिति। मांसोदकमिति मांसरस एव, अन्ये तु माषोदकमिति पठित्वा माषयूषमिति व्याचक्षते। मधूदकं वेति मधुमिश्रितमुदकमित्यर्थः। उदकश्चात्र ऐन्द्रं; तदनुकारि भूयिष्ठमुदकं वा चरकसंवादात्। न च विरोधः, अतुल्योपयोगात्, उक्तं हि सुश्रुते मध्वम्बुनी मधुसर्पिषी मानतस्तुल्ये नाश्नीयादिति। ननु क्षयजायां बृंहणमेवोचितं मधूदकन्तु रूक्षणमिति तत् कथमत्र प्रयुक्तमिति? नैवं, क्षयजापि दोषत्रयेण जन्यते, यदुक्तं “रसक्षयाद् या क्षयसम्भवा सा तां सन्निपातादिति केचिदाहुः” इति। तत्र यद्यपि कफपित्तं वा अधिकं तदा मधूदकं देयम्। डल्बणस्तु मधूदकमेवेति पठित्वा व्याचष्टे यष्टिमधुजलमिति, तन्न युक्तं, चरकसंवादात्। उल्लिखनैरिति वमनैः। न केवलं गुर्वन्नजामेव वमनेर्जयेत्, किन्तर्हि, अन्यामपीत्याह क्षयादृते इत्यादि। क्षयोत्पन्नापि सर्वदोषारब्धा, तस्यां क्षीणधातुत्वात् वमनं न कार्य्यम्। सर्वकृतामिति सर्वदोषकृतामामजामिति कार्तिकः, अन्ये तु क्षयादृते सर्वकृतास्तु तृष्णा इति पठान्त, क्षयजां विहाय अन्याः सर्वास्तृष्णा वातपित्तकफामगुर्वन्नैः कृततृष्णा वमनैर्जयेदिति व्याख्यानयन्ति। अस्मिन् पक्षे गुर्वन्नजायाः पृथगभिधानं विशेषार्थम्॥१३॥

लाजोदकं मधुयुतं शीतं गुडविमर्दितम्।
काश्मर्य्यशर्करायुक्तं पिबेत् तृष्णार्दितो नरः॥१४॥

लाजोदकमित्यादि —लाजचूर्णभावितमुदकं शीतकषायो वा। काश्मर्य्यंगाम्भारीफलम्॥१४॥

अतिरूक्षदुर्वलानां तर्षं शमयेन्नृणामिहाशु परः।
छागो वा घृतभृष्टः शीतो मधुरो रसो हृद्यः॥१५॥

अतिरूक्षेत्यादि—मधुरगणसाधितेनात्र सम्यङ्मधुरता ज्ञेया॥१५॥

आम्रजम्बुकषायं वा पिबेन्माक्षिकसंयुतम्।
छर्दि सर्वां प्रणुदति तृष्णाञ्चैवापकर्षति॥१६॥

आम्रजम्बुकषायं वेति आम्रजम्ब्वोः फलास्थि उच्यते, पल्लवक्वाथोऽपि युज्यते, “जम्ब्वाम्रपल्लवशृतं क्षौद्रंदत्त्वा सुशीतलम्” इति पठितत्वात्॥१६॥

वटशुङ्गसितालोध्रदाडिमं मधुकं मधु।
पिबेत् तण्डुलतोयेन च्छर्दितृष्णानिवारणम्॥१७॥

वटेत्यादौ शृङ्गादीनां चूर्णम्॥१७॥

गोस्तनेक्षुरसः क्षीरयष्टीमधुमधूत्पलैः।
नियतं नस्यतः पानैस्तृष्णा शाम्यति दारुणा॥१८॥

क्षीरेक्षुरसमाध्वीकैः क्षौद्रशीधुगुडोदकैः।
वृक्षाम्लाम्लैश्च गण्डूषास्तालुशोषनिवारणाः॥१९॥

गोस्त नेत्यादि—गोस्तना द्राक्षा। एभिः प्रत्येकं नस्यम्। माहेश्वरे तु द्राक्षादित्रयं द्राक्षायष्टिमधुनीलोत्पलं कल्कीकृत्य प्रक्षिप्य मधु च प्रक्षिष्य सर्वमालोख्य पेयमिति तथा वक्ष्यमाणक्षीरादिभिः प्रत्येकं गण्डूषाः, बहुवचननिर्देशात्॥१८॥१९॥

तालुशोषे पिबेत् सर्पिघृतमण्डमथापि वा॥२०॥

तातुशेप इत्यादि—यद्यपि तालुशापे घृतं निषिद्धं, यदुक्तं “तृष्णाच्छर्दिपरीताश्चगर्भिण्यस्तालुशोषिणः। न पिबेयुर्घृतम्” इति, तथापि चरकसंवादादत्र बलवतो वृष्यान्नयुक्तं घृतपनं बोध्यम्, अतोविशिष्टविधित्वान्न विरोधः यथा बलवांश्चतालुशोषेऽपिपिबेद् घृतं वृष्यमन्नमभ्यस्येच्चेति किंवा वातोल्वणावस्थायामेतद् घृतपानं बोध्यम्। तालुशोषश्च तृष्णाप्रकार एव, तेनेह सङ्गतमस्याभिधानम्। घृतमण्डमिति घृतस्यापरिभागः, एव घृतस्योपरि त्यनो भाग इति कासचिकित्सते चक्रेणाप्युक्तः। श्रीकण्ठस्तु घृतस्योपरि छिन्नभागः घृतमण्डमित्याहुः॥२०॥

मूर्च्छाच्छर्दितृपादाहस्त्रीमद्यभृशकर्शिताः।
पिवेयुः शीतलं वारि रक्तपित्ते मदात्यये॥२१॥

मूर्च्छेत्यादि स्पष्टम्॥२१॥

धान्याम्लमास्यवैरस्यमलदौर्गन्ध्यनाशनम्।
तदेवालवणं पीतं मुखशोषहरं परम्॥२२॥

धान्याम्लमित्यादि—धान्याम्लं काञ्चिकम्॥२२॥

वैशद्यंजनयत्यास्ये सन्दधाति मुखव्रणान्।
दाहतृष्णाप्रशमनं मधुगण्डूपधारणम्॥२३॥

सन्दधाति मुख व्रणानिति रोषयतीत्यर्थः॥२३॥

कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः।
पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति॥२४॥

कोलत्यादौ—चुक्रीका चाङ्गेरी, चुक्रिकेति चुकाइ इति ख्याता। मुखालेप इति मुखकुहरे लेपः, कपोलादौलेप इति तु निश्चलः॥२४॥

वारि शीतं मधुयुतमाकण्ठाद्वा पिपासितम्।
पाययेद्वामयेच्चापि तेन तृष्णा प्रशाम्यति॥२५॥

वारि शीतमित्यादि—पित्ततृष्णायामयं योगः। आकण्ठतोयपानादनु किचित् मधुपानमित्युपदिशन्ति वृद्धाः॥२५॥

वटशुङ्गामयक्षौद्रलाजनीलोत्पलैर्दृढा।
गुडिका वदनन्यस्ता क्षिप्रं तृष्णां नियच्छति॥२६॥

चढशुङ्गेत्यादि—वटशुङ्गोवटप्ररोहः आमयः कुष्ठम्। मधु तु यावता कठिना गुडिका भवति तावन्मात्रं देयम्॥२६॥

ओदनं रक्तशालीनां शीतं माक्षिकसंयुतम्।
भोजयेत् तेन शाम्येत्तु छर्दिस्तृष्णा चिरोत्थिता॥२७॥

ओदनं रक्तशालीनां शीतमिति सद्यस्कपानयिभक्तम्॥२७॥

पूर्वाभयातुरः सन् दीनस्तृष्णार्दितो जलं याचन्।
न लभेत चेदाश्वेव मरणमाप्नोति दीर्घरोगं वा।

तृषितो मोहमायाति मोहात् प्राणान् विमुञ्चति।
तस्मात् सर्वास्ववस्थासु न क्वचिद्वारि वार्थ्यते॥२८॥

प्रसह्यतृष्णायां जलस्याप्रदाने दोषमाह पूर्वामयेत्यादि—पूर्वामयातुरःसन् ज्वररक्तपित्तादिरोगक्लिष्टः सन् । दीन इति तृष्णापीडितत्वेनैव क्लान्तमनाः। कथं म्रियत इत्याह तृषित इत्यादि॥२८॥

इति तृष्णाचिकित्सा विवृतिः।

<MISSING_FIG href=”../../../../../books_images/U-IMG-170715132324020202-removebg-preview-removebg-preview.png"/>

अथ मूर्च्छाचिकित्सा।

सेकावगाहौ मणयः सहाराः शीतः प्रदेहा व्यजनानिलश्च।
शीतानि पानानि च गन्धवन्ति सर्वासु मूर्च्छावनिवारितानि॥१॥

तृष्णायां मोहो भवतीत्यनन्तरं मोहचिकित्सामाह, सेकेत्यादि—सुश्रुतस्य। मणयो मुक्तामणिप्रभृतयः ते च सहाराः हारारोपिता इत्यर्थः। पानानि चगन्धवन्तीति कर्पूरादियोगात् सुरभीणि पानीयानीत्यर्थः। सर्वांसु मूर्च्छास्वनिवारितानीत्यनेन वातकफकृतायां मूर्च्छायामपि हेतुप्रत्यनीकचिकित्साकरणे वारणार्हता, एते शीतविधयो व्याधिप्रत्यनीकतया पित्तानुबन्धाच्च न वारणीया इति दर्शयति॥१॥

सिद्धानि वर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च।
तथा यवा लोहितशालयश्च मूर्च्छासु शस्ताश्च सतीनमुद्गाः॥२॥

वर्गे मधुर इति काकोल्यादिः। सदाडिमा इति दाडिमाम्लसहिता इत्यर्थः। सत्तीनो वर्तुलकलायः॥२॥

यथादोषं कषायाणि ज्वरघ्नानि प्रयोजयेत्।
रक्तजायान्तु मूर्च्छायां हितः शीतक्रियाविधिः॥३॥

यथादोषं कषायाणि ज्वरघ्नानि प्रयोजयेदिति वातादिमूर्च्छासु यथाक्रमं वातादिकषायाणि यानि तानि प्रयोजयेदित्यर्थः। रक्तजायामिति रक्तदर्शनजायाम्॥३॥

मद्यजायां वमेन्मद्यं निद्रां सेवेद्यथासुखम्।
विषजायां विषघ्नानि भेषजानि प्रयोजयेत्॥४॥

मद्यजायामिति मद्यसेवनजायाम्॥४॥

कोलमज्जोषणोशीरकेशरं शीतवारिणा।
पीतं मूर्च्छां जयेत् लीढ्वा कृष्णां वा मधुसंयुताम्॥५॥

कोलमज्जादौ—ऊषणं मरिचम्॥५॥

महौषधामृताक्षुद्रापौष्करग्रन्थिकोद्भवम्।
पिबेत् कणायुतं क्वाथं मूर्च्छायेषु मदेषुच॥६॥

शतावरीबलामूलद्राक्षासिद्धं पयः पिबेत्।
ससितं भ्रमनाशाय बीजं वाट्यालकस्य वा॥७॥

पिबेद् दुरालभाक्वाथं सघृतं भ्रमशान्तये।
त्रिफलायाः प्रयोगो वा प्रयोगः पयसोऽपि वा॥८॥

महौषधेत्यादी—क्षुद्रा कण्टकारी, ग्रन्थिकं पिप्पलीमूलम्। भ्रमः स्मृतिभ्रंशो मोहश्चक्रवद्भ्रान्तिश्च । प्रयोगोऽभ्यासः॥६—८॥

रसायनानां कौम्भस्य सर्पिषोवा प्रशस्यते॥९॥

मधुना हन्त्युपयुक्ता त्रिफला रात्रौ गुडार्द्रकं प्रातः।

सप्ताहात् पथ्यभुजो मदमूर्च्छाकासकामलोन्मादान्॥१०॥

कौम्भं सर्पिर्दशवर्षात्मकम्, अन्ये तु “स्थितं वर्षशतं श्रेष्ठं कौम्भं सर्पिस्तदुच्यते॥९॥१०॥

अञ्जनान्यवपीडाश्च धूमाः प्रधमानि च।
सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे॥११॥

अञ्जनानीति तीक्ष्णान्यञ्जनानि अपस्मारोवक्तानि। अवपीडाः नासिकायां निर्गुराड्यादिरसा अवपीड्यये दीयन्ते। धूमःवैरेचनधूमाः। प्रधमनं चूर्णनस्यम्। सूचीभिरित्यादी—पीठा नखान्तर इति नखमांसयोमध्य पीडनम्॥११॥

लुञ्चनं केशरोम्णाञ्च दन्तैर्दंशनमेव च।
आत्मगुप्तावधर्षश्च हितास्तस्थावबोधने॥२२॥

आत्मगुप्ता शुकशिम्बी॥१२॥

इति मूर्च्छाचिकित्साविवृतिः।

<MISSING_FIG href=”../../../../../books_images/U-IMG-1707151777020401-removebg-preview.png"/>

अथ मदात्ययचिकित्सा।

मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः।
परूषकैः सामलकैर्युक्तामद्यविकारनुत्॥१॥

मूर्च्छावन्मदात्ययस्यापि मद्यजन्यत्वात् मूर्च्छानन्तरं मदात्ययचिकित्सामाह। मदएवात्ययकारको मदात्मयः, किंवा गदशब्देनेह मदहेतुतया मद्यमुच्यते, तेन कृतोऽत्ययो मदात्ययः। मन्थ इत्यादि प्रवेणालोडिता शक्तवो मन्थाः खर्जूरादीनां प्रायः। अम्लीका तिन्तिडीफलम्। छन्दोऽनुरोधाद् हस्वः॥१॥

सतीनमुद्गमिश्रान् वा दाडिमामलकान्वितान्।

द्राक्षामलकखर्जूरपरूषकरसेन वा।
कल्पयेत् तर्पणान् यूषान् रसांश्च विविधात्मकान्॥२॥

सतीनेति–सतीनो वर्तुलकलायः। सतीनमुद्गमिश्रं वेति पाठे छागरसस्य विशेषणं चरके हि एतद्वचनात् पूर्व छागरसमित्युक्तम्॥२॥

मद्यं सौवर्च्चलव्योषयुक्तं किञ्चिज्जलान्वितम्।
जीर्णमद्याय दातव्यं वातपानात्ययापहम्॥३॥

मद्यमित्यादि—सौवर्चलव्योषन्तु लवणकटुत्वमात्रकारकं देयम्। किचिजलंमष्टभागिकमित्याहुः ॥३॥

मुद्गयूषः सितायुक्तः स्वादुर्वा पैशितो रसः।
पित्तपानात्यये योज्याः सर्वतञ्च क्रिया हिमाः॥४॥

पानात्यये कफोद्भूते लङ्घनञ्चयथाबलम्।
दीपनीयौषधोपेतं पिबेन्मद्यं समाहितः॥५॥

सर्वजे सर्वमेवेदं प्रयोक्तत्र्यचिकित्सितम्।

आभि क्रियाभिर्मिश्राभिः शान्तिं याति मदात्ययः॥

न चेन्मद्यक्रमं मुक्त्वा क्षीरमस्य प्रयोजयेत्॥६॥

मुद्गयूष इत्यादि—स्वादुरित्यनेन संस्कारार्थ कटुद्रव्योपयोगोऽत्र न कार्य इति दर्शयति ॥४—६॥

लङ्घनाद्यैः कफे क्षीणेजातदौर्बल्यलाघवे।
ओजस्तुल्यगुणं क्षीरं विपरीतञ्च मद्यतः॥७॥

यस्यामवस्थायां तीरप्रयोगः कर्त्तव्यस्तामाह लङ्घनायैरिति, आयशब्दात् शोधनादीनां ग्रहणम् ॥७॥

क्षौरप्रयोगं मद्यं वा क्रमेणाल्पाल्पमाचरेत्॥८॥

क्षीरप्रयोगमित्यादि—एतद्वचनात् पूर्व पयसा च हृते रोगे बले जाते निवतयदिति वचनयन्ति, तैनात्र क्षीरप्रयोगमित्यत्र, पूर्वोक्कन निवर्त्तयदित्यनेन सम्बन्धात् क्षीरप्रयोगं कमेण निवर्त्तयेत् मद्यश्च क्रमेणाल्पाल्पामाचरेदित्यर्थः ॥८॥

पुनर्नवाद्यं घृतम्।

पयः पुनर्नवाक्वाथयष्टीकल्कप्रसाधितम्।
घृतं पुष्टिकरं पानान्मद्यपानहतौजसः॥९॥

पयः पुनर्नवाक्काथेत्यादौ—क्षीरं घृतसमम्, काथस्त्रिगुणश्चतुर्गुणो वेत्याहुः॥९॥

अष्टाङ्गलवणम्।

सौवर्च्चलमजाज्यश्च वृक्षाम्लं साम्लवेतसम्।
त्वगेलामरिचार्द्धांशं शर्कराभागयोजितम्॥

हितं लवणमष्टाङ्गमग्निसन्दीपनं परम्।
मदात्यये कफप्राये दद्यात् स्रोतोविशोधनम्॥१०॥

सौवर्चलत्यादि—अत्र सौवर्चलादीनां समभागता, त्वगलामरिचानामे कभागापेक्षया प्रत्येकमद्धभागिकत्वम्, शर्कराभागोऽपि सौवर्चलायैकत मद्रव्यसमः॥१०॥

चव्यं सौवर्च्चलं हिङ्गु पूरकं विश्वदीप्यकम्।
चूर्ण मद्येन दातव्यं पानात्ययरुजापहम्॥११॥

चन्यमित्यादी—

पूरकं वीजपुरस्य फलस्त्रगिति निश्चलः। दीप्यकं यमानी ११

जलाप्लुतश्चन्दनरूषिताङ्गः स्रग्वी सभक्तां पिशितोपदंशाम्।
पिबन् सुरां नैव लभेत रोगान् मनोमतिघ्नञ्च मदं न याति॥१२॥

मद्यं येन प्रकारेण विकारं न जनयेत् तदाह जलेत्यादि—

सुश्रुतस्य। चन्दनेन रूषितं लिप्तमङ्गं यस्य। पिशितं मांसम् उपदंश। भक्ष्यो यस्यां सा तथा। मनोमतिघ्नमिति विशेषणात् द्वितीयादिमदं न प्रप्नोति, प्रथमन्तु मनोऽनुषघातकं लभतएवेत्यर्थः ॥१२॥

द्राक्षाकपित्थफलदाडिमपानकं यत्।
तत् पानविभ्रमहरं मधुशर्कराढ्यम्॥१३॥

द्राचेत्यादि—

सुश्रुतस्य। द्राक्षादिभिः पानकं सूदशास्त्रानुसारेण कार्य्यम् ॥ १३॥

पथ्याक्वाथेन संसिद्धं घृतं धात्रीरसेन वा।
सर्पिः कल्याणकं वापि मदमूर्च्छाहरं पिवेत् ॥१४॥

पथ्येत्यादि घृतद्वयमकल्कम् ॥१४॥

सच्छर्दिमूर्च्छातीसारं मदं पूगफलोद्भवम्।
सद्यः प्रशमयेत् पीतभातृप्तेर्वारि शीतलम् ॥१५॥

वन्यकरीपघ्राणाजलपानाल्लवणभक्षणाद्वापि।
शाम्यति पूगफलमदश्चूर्णरुजा शर्कराकवलात्॥१६॥

शङ्खचूर्णरजोघ्रागात् स्वल्पं मदमपोहति॥१७॥

अत्रैव मदत्वसामान्यात् पृथक् पृथक् चिकित्सामाह सच्छत्यादि—

वन्येत्यादि—

वनं जलं तद्भवो वन्यः शङ्ख इत्यर्थ इति केचित् करीष इति शुष्कगोमयः, अन्य तु वन्यकरीषं वनभवकरीषमाहुः। एते च वन्यकरीषादयः पृथक् प्रयोक्तव्याः। चूर्ण रुजेति अति मात्र चूर्णभक्षगो यो रसनादिदाहः। एतच सम्पूर्ण श्ठा कानुरोधाल्लिखितम्। स्वल्पं मदं पूगभक्षणजमेव ॥१५—

१७॥

कुष्माण्डकरसः सगुडः शमयति मदमाशु मदनकोद्रवजम् ॥१८॥

धौस्तूरजञ्च दुग्धं सशर्करं पानयोगेन॥१९॥

कुष्माण्ड केल्यादि—

मदनं तृणधान्यविशेषः मयनघास इति ख्यातः। धौस्तूरं धुस्तूरफलभचणजम् ॥१८—

१९॥

इति मदात्यय चिकित्सा विवृतिः॥

<MISSING_FIG href="../../../../../books_images/U-IMG-1707152949240200301.png"/>

अथ दाहचिकित्सा।

यत् पित्तज्वरदाहोक्तंदाहे तत् सर्वमिष्यते॥१॥

शतधौतघृताम्यक्तं दिह्याद्वा यवशक्तुभिः।
कोलामलकयुक्तैर्वा धान्याम्लैरपि बुद्धिमान्॥२॥

छादयेत् तस्य सर्वाङ्गमारनालार्द्रवाससा।
लामज्जेनाथ शुक्तेन चन्दनेनानुलेपयेत्॥३॥

चन्दनाम्बुकणास्यन्दितालवृन्तोपवीजितः॥४॥

सुप्याहाहार्दितोऽम्भोजकदलीदलसंस्तरे॥५॥

परिषेकावगाहेषु व्यजनानाञ्च सेवने।
शस्यते शिशिरं तोयं तृष्णादाहप्रशान्तये॥६॥

मदात्ययवद्दाहस्यापि मद्यपानजन्यत्वात् मदात्ययाधिकार एव दाहचिकित्सा।यदित्यादि—

कोलेस्यादि द्वितीयो योगः, अत्रापि दियादिति योज्यम्। लामज्जमुशीरं, शुक्लं सन्धानविशेषः, तालवृन्तं तालपत्रनिर्मितव्यजनम्॥१—

६॥

क्षीरैः क्षीरिकषायैश्च सुशीतैश्चन्दनान्वितैः।
अन्तर्दाहं प्रशमयेदेतैरन्यैश्च शीतलैः॥७॥

क्षीरिकषायो, वटोडम्बरादिक्काथः। क्षीरादिकञ्चेतत् पानपरिषेकादौ योज्यम्॥७॥

कुशाद्यं तैलं घृतश्च।

कुशादिशालपर्णीभिर्जीवकाद्येन साधितम्।
तैलं घृतं वा दाहघ्नं वातपित्तविनाशनम्॥८॥

कुशादीत्यादि-कुश। दिपञ्चमूलं तृणपश्चमूलं, तव सुश्रुतोदर्भका राडेक्षुमूलरूपम्। अत्र शालपशब्देन विदारीगन्धादिगणस्य ब्रहणमितिबृन्द टिप्पणी, अन्ये तु शालपर्यादिपञ्चमूलस्य ग्रहणमित्याहुः। निश्चलस्त्वादिशब्दभावात् शालपणीमात्रस्यैव प्रहणमित्याह। जीवकाग्रेनेति जीवकाद्यष्टवर्गेण, जीवकायष्टवर्गव जीवकर्षभकमे दामहा मेदा काकोली क्षीरकाकोलीऋद्धिवृद्धयः एवं सर्वत्रसुश्रुतयोग जीवनीयाष्टकम्। चरकयोगे पुनरेव ऋद्धिवृद्धिरहितमाषपणमुद्रपर्णीजीवन्ती—

मधुकसहितं जीवनीयदशकं ज्ञेयम्। अत्र कुशादिशालपणीभिः काथः,जीवकाद्येन कल्कः। अन्ये तु कलत्रक्काथावनिर्देश गणात् तस्मात् समावपेत्" इतिवचनात् सर्वैरेव कल्कक्काथावित्याहुः॥८॥

फलिनी लोध्रसेव्याम्बु हेमपत्रं कुटन्नटम्।
कालीयकरसोपेतं दाहे शस्तं प्रलेपनम्॥९॥

फलिनीत्यादा—

फलिनी प्रियंगुः, सेव्यमुशीरम्, अम्वु बालकं हेम नागकेशरं, पत्रं तेजःपत्रं, कुटनटं कैवर्त्तमुस्तकं, कालीयकं कालीया इति ख्यातंपतिकाष्ठं, गन्घद्रव्य विशेषः, श्वेतचन्दनमिति कचित् कालीयकक्कादश्च पेषणार्थमिति वदन्ति॥९॥

ह्रीवेरपद्मकोशीरचन्दनक्षोदवारिणा।

सम्पूर्णामवगाहेत द्रोणीं दाहार्दितो नरः॥१०॥

होवेरेत्यादौ - तोदं चूर्णम्। एषां चूर्णानि शीतलजलेन मिश्रयित्वा अवगाहनं कार्य्यम्॥१०॥

इति दाहचिकित्सा विवृतिः॥

<MISSING_FIG href="../../../../../books_images/U-IMG-1707153360020502-removebg-preview.png"/>

अथोन्मादचिकित्सा।

उन्मादे वातिके पूर्व स्नेहपानं विरेचनम्।
पित्तजे कफजे वान्तिः परो वस्त्यादिकः क्रमः॥१॥

यच्चोपदेक्ष्यते किञ्चिदपस्मारचिकित्सते।
उन्मादे तच्च कर्त्तव्यं सामान्याद्धेतुदूष्ययोः॥२॥

यद्यांप मदात्ययस्य उन्मादसदशत्वेन तथा पूर्वोकरीत्या च मदात्ययानन्तरमुन्माददाहावेव वक्तृमुचितौ, तथापि सुचिकटाइन्यायेन दाइमभिधाय उन्मादचिकित्सितमुच्यते उन्माद इत्यादि—

परो वस्त्यादिककम इति पश्चात् स्नेहवस्तिनिरूण शिरोविरेचनात्मकः कमः कार्थः। चरकेऽप्युकं “निरूहणं स्नेहवस्तिःशिरसव विरेचनम्। ततः फुर्य्याद् यथादोषं तेषां भूयस्त्वमाचरेत्” इति।सामान्या हेतुदृष्ययोरिति उन्मादापस्यारयोर्हेतुर्मन उपघातादिः दूष्यच हृदयं समानमित्यर्थः। सामान्याद्दोषदूष्ययोरिति केचित् पठन्ति॥१॥२॥

ब्राह्मीकूष्माण्डीषद्ग्रन्थाशङ्खपुष्पिकास्वरसाः।
उन्मादहृतो दृष्टाः पृथगेते कुष्ठमधुमिश्राः॥३॥

दशमूलाम्बु सघृतं युक्तं मांसरसेन वा।
ससिद्धार्थकचूर्णं वा पुराणं वैककं घृतम्॥४॥

ब्राह्मोत्यादय व्यत्वारो योगाः। कूष्माण्डीफलमत्र पुराणं प्राध्यमित्याहुः॥३॥४॥

उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम्।
लाक्षारसनिभं शीतं प्रपुराणमतः परम्॥५॥

पुराणघृतलक्षणबाह उग्रगन्धमित्यादि—

चरकस्य। चरकटीकाकृतस्तु केचित्इमं लोकमनार्थं वदन्ति, केचिदेकवर्षातीतं घृतं पुराणमिति नवते तन्त्रान्तरसंवादात्॥५॥

श्वेतोन्मत्तोत्तरदिङ्मूलसिद्धस्तु पायसः।
गुडाज्यसंयुतो हन्ति सर्वोन्मादांस्तु दोषजान्॥६॥

श्वेतेत्यादि—श्वेतोन्मत्तः श्वतधुस्तूस्तस्य उत्तरदिशि स्थितं मूलं प्रायम्।महेश्वरस्तु उत्तरदिशि स्थितं धवलधुस्तूरमूलं पिष्वा पल १ क्षुवतण्डुल पल ४,दुग्धशराव ४, पायसं साध्यं तदनुरूपे गुडघृते दत्वा खाद्यमित्याह॥६॥

उन्मादे समधुः पेयः शुद्धो वा तालशाखजः।

रसो नस्येऽभ्यञ्जने च सार्षपं तैलमिष्यते॥७॥

उन्माद इत्यादि—शुद्ध इति केवलः। तालशाखज इति छान्दसत्वाद् ह्रस्वः।रस इति छेदः, तेन कोमलतालशाखाभवो रसः मधुप्रक्षेपेण, शुद्धो वा मधुनाविनापि॥७॥

अपक्वचटकी क्षीरपीतोन्मादविनाशिनी।
वद्धं सार्षपतैलाक्तमुत्तानञ्चातपे न्यसेत्॥८॥

अपक्वचटकीति आमचटकींकल्कीकृत्य। बद्धमित्यादि—एतच्च स्रोतोविशुद्ध्यर्थमुद्वेजनार्थञ्च॥८॥

सिद्धार्थको हिङ्गु वचा करञ्जो देवदारु च।
मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक् कटुत्रिकम्॥

समांशानि प्रियङ्गश्च शिरीषो रजनीद्वयम्।
वस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम्॥

नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनं तथा।
अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापहः॥

भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते।
सर्पिरेतेन सिद्धं वा सगोमूत्रं तदर्थकृत्॥९॥

सिद्धार्थक इत्यादि—अत्र करञ्जद्वयस्य त्वगित्याहुः, श्वेता श्वेतापराजिता, कटभीलताफुटकीति ख्याता, अन्ये तु करइ इत्याहुः, शिरीषस्य फलम्। अगद इतिसंयोगविषहरः, कृत्या अभिचारः, राजद्वारे च शस्यते वशीकरणत्वात्। एतेनेतिसिद्धार्थकादीनां कल्केन॥९॥

त्र्यूषणाद्या वर्त्तिः।

त्र्यूषणं हिङ्गुलवर्ण वचा कटुकरोहिणी।
शिरीषनक्तमालानां बीजं श्वेताश्च सर्षपाः॥

गोमूत्रपिष्टैरेतैर्वा वर्त्तिर्नेत्राञ्जने हिता।
चतुर्थकमपस्मारमुन्मादञ्च नियच्छति॥१०॥

त्र्यूषणमित्यादि स्पष्टम्॥१०॥

शुद्धस्याचारविभ्रंशे तीक्ष्णे नावनमञ्जनम्।
ताडनञ्च मनोबुद्धिस्मृतिसंवेजनं हितम्॥

तर्जनं त्रासनं दानं सान्त्वनं हर्षणं भयम्।
विस्मयो विस्मृतेर्हेतोर्नयन्ति प्रकृतिं मनः॥११॥

कामशोकभयक्रोधहर्षेर्ष्यालोभसम्भवान्।
परस्परं प्रतिद्वन्द्वैरेभिरेव शमं नयेत्॥१२॥

इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते।

तस्य तत्सदृशप्राप्तैः सान्त्वाश्वासैश्च तान् जयेत्॥१३॥

प्रदेहोत्सादनाभ्यङ्गधूमाः पानञ्च सर्पिषः।
प्रयोक्तव्यं मनोवुद्धिस्मृतिसंज्ञाप्रवोधनम्॥

कल्याणकं महद्वापि दद्याद्वा चैतसं घृतम्॥

तैलं नारायणञ्चापि महानारायणं तथा॥१४॥

शुद्धस्येत्यादि—चरकस्य। शुद्धस्येति यमितस्य आचारविभ्रंशे अत्युन्मादे।संवेजनमुद्वेजनं, तर्जनं वचसा, विस्मृतेर्हेतोरिति उन्मादहेतुभयहर्षादिविस्मारकतयाप्रभावादेव मनः प्रकृतिं स्वभावं नयन्ति। परस्परप्रतिद्वन्द्वैरिति अन्योन्यप्रत्यनीकैःतस्य तत्सदृशप्रप्तैरिति भावे क्तः,तत्सदृशप्रापणैरित्यर्थः। सान्त्वाश्वासैरिति सान्त्वंसामप्रयोगः वशीभूतकरणार्थं उपायविशेषः, आश्वासः सन्तोषवचनम्। उत्सादनंचूर्णघर्षणम्। नारायणतैलं महानारायणतैलश्चवातव्याधौ वक्ष्यति॥११–१४॥

पानीयकल्याणकं घृतम्।

विशाला त्रिफला कौन्ती देवदार्वेलवालुकम्।
स्थिरा नतं रजन्यौ द्वे शारिवे द्वे प्रियङ्गुका॥

नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमकेशरम्।
तालीशपत्रं वृहती मालत्याः कुसुमं नवम्॥

विडङ्गं पृश्निपर्णी च कुष्ठं चन्दनपद्मकौ।
अष्टाविंशतिभिः कल्कैरेतैरक्षसमन्वितैः॥

चतुर्गुणं जलं दत्त्वा घृतप्रस्थं विपाचयेत्॥

अपस्मारे ज्वरे कासे शोपे मन्दानले क्षये॥

वातरक्ते प्रतिश्याये तृतीयकचतुर्थके॥

वम्यर्शोमूत्रकृच्छ्वेषु विसर्पोपहतेषु च।
कण्डूपाड्वामयोन्मादे विषमेहगरेषुच॥

भूतोपहतचित्तानां गद्गदानामरेतसाम्।
शस्तं स्त्रीणाञ्च बन्ध्यानामायुर्वर्णबलप्रदम्॥

अलक्ष्मीपापरक्षोघ्नं सर्वग्रहविनाशनम्।
कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च॥१५॥

विशालत्यादि—विशाला गोरक्षकर्कटी, कौन्ती रेणुका, एलवालुकं स्वनामख्यातं सुगन्धिद्रव्यं, स्थिरा शालपर्णी, नतं तगरपादुका, तदभावे शियली छोपरःकेशरं नागकेशरं, मालती जाती, तस्याः कुसुमं, नवमिति कुसुम विशेषणम्।अष्टाविंशतित्वं कलकानां पाठः। सिद्धं, किमर्थमुच्यते अष्टाविंशतिभिरिति? अत्रयद्यपि त्रिफलायाः प्रत्येकमेव भागो गृह्यते उत्सर्गसिद्धत्वात्, तथापि त्रिफलायाःप्रत्येकभागग्रहणदार्ढ्यार्थम् अष्टाविंशतिभिरित्युक्तम्। यद्यपि त्रिफलाशब्देन द्राक्षाकाश्मर्य्यपरूषका उच्यन्ते तथापि हरीतक्यादित्रिफलाया एवात्र ग्रहणं प्राधान्यादेव, एवमन्यत्रापि पुंसवनेष्विति पुत्रकारकयोगेषु॥१५॥

क्षीरकल्याणकं घृतम्।

द्विजलं सचतुः क्षीरं क्षीरकल्याणकन्त्विदम्।
पानीयकल्याणकक्षीरकल्याणको प्रयोगौ॥१६॥

तदेव घृतं यदा जलस्याष्टौ शरावान् क्षीरस्य षोडश शरावान् दत्त्वा पच्यते तदा क्षीरकल्याणकं भवति॥१६॥

महाकल्याणकं घृतम्।

एभ्य एव स्थिरादीनि जले पक्त्वैकविंशतिम्।
रसे तस्मिन् पचेत् सर्पिर्गृष्टिक्षीरं चतुर्गुणम्।
वीराद्विमाषकाकोलीस्वयं गुप्तर्षभर्द्धिभिः।
मेदया च समैः कल्कैस्तत् स्यात् कल्याणकं महत्॥
वृंहणीयं विशेषेण सन्निपातहरं परम्॥१७॥

एभ्य एवेति कल्याणकांक्तविशालादिभ्यः। स्थिरादीनीत्युक्तेर्विदारीगन्धादेः पञ्चमूलस्यापि ग्रहणं स्यादत आह एकविंशतिमिति, तद्गुणसंविज्ञानबहुव्रीहिशङ्कानिरासार्थं वा एकविंशतिमित्युक्तम्।गृष्टिरेकवारप्रसूता धेनुः। अत्र चतुर्गुणक्षीरस्य निर्दिष्टत्वादुत्सर्गसिद्धो द्रव एव देयः, तेनानिर्दिष्टमानक्वाथोऽत्र स्नेहसम एवेति पञ्चगुणः पाकः, युक्तञ्चैतत्, पञ्चप्रभृति यत्र स्युरित्यादिपरिभाषार्थेना- स्यार्थस्य समानन्यायत्वादिति केचित्। अन्ये तु क्षीरेणैवात्र चतुर्गुणे प्राप्तेऽयं कषायः “एकेनापि चातुर्गुण्यम् इत्यादिपरिभाषाया अविषयत्वेन “स्नेहात् तोयं चतुर्गुणम्” इति द्रवचातुर्गुण्यपरिभाषया क्षीरमानसाहचर्य्याद्वा चतुर्गुणो ज्ञेय इति वदन्ति। वीरा पृश्निपर्णी, क्षीरविदारीत्यन्ये। द्विमषेत्यनेन राजमाष—क्षेत्रमाषयोर्ग्रहणमिति केचित् अन्ये तु मुद्गपर्णीमाषपर्ण्योर्ग्रहणमित्याहुः। अपरे तु द्विशब्दस्य काकोलीत्यनेन सम्बन्धात् क्षीरकाकोल्या अपि ग्रहणमित्याहुः। तन्न, वाग्भटसंवादविरोधात्, अन्ये तु वीरार्द्रमाषेति पाठान्तरम्, आर्द्रमाषोऽशुष्कमाष इति व्याचक्षते। वीरादीन्यपरिमितगृहीतानीत्येके, वीरादीनां प्रत्येकमेकपलमिति महेश्वरः॥१७॥

चैतसं घृतम्।

पञ्चमूल्यावकाश्मर्य्यौरास्नैरण्डत्रिवृद्बला।
मूर्वा शतावरी चेति क्वाथैर्द्विपलिकैरिप्नैः


कल्याणकस्य चाङ्गेन तद्घृतं चैतसं स्मृतम्॥
सर्वचेतोविकाराणां शमनं परमं मतम्॥
घृतप्रस्थोऽत्र पक्तव्यः क्वाथो द्रोणाम्भसा घृतात्।

चतुर्गुणोऽत्र सम्पाद्यः कल्कः कल्याणकेरितः॥१८॥

पञ्चमूल्याविति दशमूली गाम्भारीरहिता। द्विपलिकैरिति एषां प्रत्येकं द्विपलम्। कल्याणकस्य चाङ्गेनेति पानीयकल्याणकोक्तकल्केन यथोक्तमानेनेत्यर्थः, अन्ये तु अत्रोक्तमानं परित्यज्य घृतात् पादिकं मानं गृह्णन्ति। यद्यपि “द्रव्यमापो स्थितं कार्य्यं दत्त्वा षोडशिकं जलम्। पादावशिष्टं कर्तव्यमेष क्वाथविधिः स्मृतः” इति कृष्णांत्रयपरिभाषया त्रिंशत्पले क्वाथ्यषष्टिः शरावा भवन्ति जलस्य, तथापि क्वाथस्य घृताचातुर्गुण्यार्थं द्रोणाम्भसेति चक्रेणोक्तम्॥१८॥

महापैशाचिकं घृतम्॥

जटिला पूतना केशी चारटी मर्कटी वचा।
त्रायमाणा जया वीरा चोरकः कटुरोहिणी॥
वयःस्था शूकरी छत्रा सातिच्छत्रा पलङ्कपा।
महापुरुपदन्ता च वयःस्था नाकुलीद्वयम्॥
कटम्भरा वृश्चिकाली स्थिरा चैव च तैर्घृतम्।
सिद्धं चतुर्थकोन्मादग्रहापस्मारनाशनम्॥
महापैशाचिकं नाम घृतमेतद् यथामृतम्।
मेधाबुद्धिस्मृतिकरं बालानाञ्चाङ्गवर्द्धनम्॥१९

महापैशाचिके जटिला मांसी, पूतना हरीतकी, केशी भूतकेशी, चारटी कुम्भारु, पद्ममृणालमित्यन्ये, ब्रह्मयष्टीत्यपरे, मर्कटी शूकशिम्बी, जया जयन्ती, वीरा क्षीरकाकोली, पृश्निपर्णीत्यपरे, चोरकश्चोरपुष्पी, वयःस्था ब्राह्मी, गुडूचीत्यन्ये, अपरेतु निर्गुण्डीत्याहुः, शूकरी वाराहिका, तदभावे चर्मकारालुकः, छत्रा मधुरिका; अतिच्छत्रा शतपुष्पा; पलङ्कषा गुग्गुलुः; महापुरुषदन्ता शतावरी; वयःस्थ शुकानना, ब्राह्मांत्यन्ये, नाकुलीद्वयं रास्नाद्वयं रास्नागन्धरास्ना च, कटम्भरा कटभी प्रसारणी वा, वृश्चिकाली वृश्चिकपत्री, विछाटीति ख्याता, स्थिरा शालपर्णी। स्वल्पपैशाचिकस्याभावात् महच्छब्दोऽयं महागुणकारकत्वादित्याहुः, अन्ये तु जटिला स्थिराम्बुभूकेशीत्य दिना स्वल्पपैशाचिकस्यापि तन्त्रान्तरे पठितत्वात् तदपेक्षयास्य महामहत्त्वमाहुः॥१६॥

हिङ्ग्वाद्यं घृतम्।

हिङ्गु सौवर्च्चलव्योषौर्द्विपलां शैर्घृताढकम्।
चतुर्गुणे गवां भूत्रे सिद्धमुन्मादनाशनम्॥२०॥

हिङ्ग्वित्यादौ—व्योषस्य प्रत्येकं द्विपलांशता॥२०॥

लशुनाद्यं घृतम्।

लशुनस्याविनष्टस्य तुलार्द्धंनिस्तुपीकृतम्।
तदर्द्धं दशमूल्यास्तु द्व्याढकेऽपां विपाचयेत्॥

पादशेषे घृतप्रस्थं लशुनस्य रसं तथा।
कोलमूलकवृक्षाम्लमातुलुङ्गार्द्रकै रसैः॥
दाडिमाम्बुसुरामस्तुकाञ्जिकाम्लैस्तदर्द्धिकैः।
साधयेत् त्रिफलादारुलवणव्योषदीप्यकैः।
यमानीचव्यहिङ्ग्वम्लवेतसैश्च पलार्द्धिकैः।
सिद्धमेतत् पिबेच्छूलगुल्मार्शोजठरापहम्॥
व्रध्नपाण्ड्वामयप्लीहयोनिदोषक्रिमिज्वरान्।
वातश्लेष्मामयांश्चान्यानुन्मादांश्चापकर्षति॥२१॥

लशुनस्यैत्यादौ—अविनष्टस्येति विशुद्धस्य, तुलार्द्धं पञ्चाशत् पलानि, तदर्द्धं दशमूलस्येति मिलित्वा दशमूलस्य पञ्चविंशतिः पलानि, पादशेष इत्याढके, लशुनस्य रसं तथति प्रस्थमेव।दाडिमाम्बु दाडिमरसः। तदर्द्धिकैरित्यत्र तच्छब्देन प्राधान्यात् प्रत्यासत्त्या च घृतपरिमाणात् कोलादिरसैः प्रत्येकमर्द्धप्रस्थैरित्यर्थः, अन्ये तु तदर्द्धिकैरित्यत्र तच्छब्देनपादावशिष्टकषायः परमिष्यते, तेन लशुनस्य रसादोनां दशानामेव शरावार्द्धिकत्वन प्रत्येकं प्रस्थमानमित्याहुः॥२१॥

सर्पिः पानादिरागन्तोर्मन्त्रादिश्चेष्यते विधिः॥
पूजाबल्युपहारेष्टिहोममन्त्राञ्जनादिभिः।
जयेदागन्तुमुन्मादं यथाविधि शुचिर्भिषक्॥२२॥

आगन्तुन्मादचिकित्सामाह सर्पिरित्यादि—सर्पिरिह भूतहरं चैतसादि। पूजेत्यादौ बलिः पूजोपकरणम्, उपहार उपढौकनम्। किंवा पूजावल्युग्हारः उपढौकनमेव। अञ्जनादिभिरिति आदिशब्दात् स्वस्त्ययनादिकं बोध्यम्, यदुक्तं “भूतानामधिपं देवमीशानं जगतः प्रभुम्। पूजयन् यत्नतो नित्यं नुदत्युन्मादजं भयम्” इति॥२२॥

कृष्णामरिचसिन्धूत्थमधुगोपित्तनिर्मितम्।
अञ्जनं सर्वभूतोत्थमहोन्मादविनाशनम्॥२३॥

कृष्णेत्यादौ—गोपित्तं गोरोचना॥२३॥

दार्वीमधुभ्यां पुष्यायां कृतञ्च गुडिकाञ्जनम्।
मरिचं वातपे मासं सपित्तं हितमञ्जनम्।
वैकृतं पश्यतः कार्य्यं दोषभूतहतस्मृतेः॥२४॥

दार्वीत्यादि स्पष्टम्। मरिचमित्यादि—मरिचं गोरोचनया आतपे मासैकं भावितमञ्जनं कर्तव्यम्। दोषभूतहतस्मृतेरिति दोषेण भूतेन वा हता स्मृतिर्यस्येत्यर्थः॥२४॥

निम्बपत्रवचाहिङ्गुसर्पनिर्मोकसर्षपैः।
डाकिन्यादिहरो धूपो भूतोन्मादविनाशनः॥२५॥

निम्बेत्यादि स्पष्टम्॥२५॥

कार्पासास्थिमयूरपिच्छबृहतीनिर्माल्यपिण्डीतकै-
स्त्वग्वांशीवृषदंशविट्तुषवचाकेशाहिनिर्मोककैः।
गोशृङ्गद्विपदन्तहिङ्गुमरिचैस्तुल्यैस्तु धूपः कृतः
स्कन्दोन्मादपिशाचराक्षससुरावेशज्वरघ्नः स्मृतः॥२६॥

कार्पासेत्यादि—कार्पासास्थि कार्पासबीजम्, निर्माल्यं शिवनिर्माल्यम्, पिण्डीतकं मदनफलम्, त्वग्वांशीति त्वगुशीरम्, वांशी वंशलोचना, अन्ये तु खग्वांशी वंशस्य त्वमित्याहुः। पृषदंशो विडालः, तस्य विट् पुरीषम्, केशी भूतकेशी, बाल इत्यपरे॥२६॥

ब्रह्मराक्षसजिन्नस्यंपक्वैन्द्रीफलमूत्रजम्।
साज्यं भूतहरं नस्यं श्वेताज्येष्ठाम्बुनिर्मितम्॥२७॥

ब्रह्मेत्यादि—पक्वैन्द्रीफलं परिणतगोरक्षकर्कटीफलं गोमूत्रेण सह योज्यं नस्यं विधेयम्। साज्यमित्यादौ श्वेता श्वेतापराजिता, ज्येष्ठाम्वु तण्डुलाम्बु॥२७॥

देवर्षिपितृगन्धर्वैरुन्मत्तस्य च बुद्धिमान्।
वर्जयेदञ्जनादीनि तीक्ष्णानि क्रूरमेव च॥२८॥
प्रसादश्चेन्द्रियार्थानां बुद्ध्यात्ममनसां तथा।
धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम्॥२९॥

देवेत्यादौ–क्रूरमिति ताडनबन्धनादिकम्। एतञ्च परिवर्जनं वैद्यातुरोपघातपरिहारार्थम्, उक्तञ्च “वैद्यातुरो विनिघ्नन्ति एवं क्रुद्धामहौजसः” इति॥२८॥२९॥

इत्युन्मादचिकित्साविवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-17080576781ab.jpg"/>

अथापस्मारचिकित्सा।

वातिकं वस्तिभिः प्रायः पैत्तं प्रायो विरेचनैः।
श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत्॥१॥

तुल्यचिकित्सतस्वादुन्मादानन्तरमपस्मारचिकित्सितमुच्यते, वातिकमित्यादिवमनप्रायैरिति वमनप्रधानैः॥१॥

सर्वतः सुविशुद्धस्य सम्यगाश्वसितस्य च।
अपस्मारविमोक्षार्थं योगान् संशमनान् शृणु॥२॥

सर्वत इत्यूर्ध्वमधश्च शुद्धस्य। आश्वसितस्येतिसंशोधनानन्तरं संसर्जनक्रमेणसञ्जातबलस्य॥२॥

मनोह्वातार्क्ष्यजञ्चैव शकृत् पारावतस्य च।
अञ्जनं हन्त्यपस्मारमुन्मादञ्च विशेषतः॥३॥

मनोह्वा मनःशिला, तार्क्ष्यजं रसाञ्जनम्॥३॥

यष्टिहिङ्गुवचावक्रशिरीषलशुनामयैः।
साजामूत्रैरपस्मारे सोन्मादे नावनाञ्जने॥४॥

यष्टीत्यादौ—वक्रं तगरम्, शिरीषं शिरीषस्य फलम्, आमयं कुष्ठम्॥४॥

पुष्योद्धृतं शुनः पित्तमपस्मारघ्नमञ्जनम्।
तदेव सर्पिषा युक्तं धूपनं परमं स्मृतम्॥५॥
नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः।
तुण्डैः पक्षैः पुरीषैश्च धूपनं कारयेद्भिषक्॥६॥

पुष्येत्यादि—पुष्यानक्षत्रे यदृच्छया मृतकुक्कुरस्य पित्तं ग्राह्यमित्याहुः, उलूकःपेचकः, कीटःपश्चिमदेशजो वृश्चिकः। एषां तुण्डादिकं यथासम्भवं ग्राह्यम्॥५॥६॥

कायस्थान् शारदान मुग्दान् मुस्तोशीरयवांस्तथा।
सव्योषान् वस्तमूत्रेण पिष्ट्वावर्त्तीःप्रकल्पयेत्॥
अपस्मारे तथोन्मादे सर्पदष्टे गरार्दिते।
विषपीते जलमृते चैताः स्युरमृतोपमाः॥७॥

कायस्थानित्यादि—कायस्थो निर्गुण्डी। शारदानिति मुद्गविशेषणं ज्येष्ठमासोद्भवमुद्गनिरासार्थम्। वर्त्तीरित्यञ्जनवर्त्तीः। विषपीते इति पीतविषे, गरः संयोगविषम्। जलमृत इति जलपानेन मृतप्राये, सर्वथा मृते हि भेषजं विफलमिति। जलमृतलक्षणं यथा “विष्टब्धपायुंमूर्द्धाक्षमाध्मातोदरमेहनम्। विद्याज्जलमृतं जन्तुं शीतपादकराननम् " इति॥७॥

अपेतराक्षसीकुष्ठपूतनाकेशिचोरकैः।
उत्सादनं मूत्रपिष्टैर्मूत्रैरेवावसेचनम्॥८॥

अपेतराक्षसीत्यादि—अपेतराक्षसी श्वेततुलसी, तस्याः स्वरस इत्यर्थः। पूतनाहरीतकी, केशी भूतकेशी, चोरश्चोरपुष्पी। चरकोक्तपूर्वयोगे वस्तमूत्रदर्शनादत्रापि वस्तमूत्रमेवेत्याहुः। किंवा प्रधानकल्पतयान्न गोमूत्रमेव मूत्रशब्दवाच्यम्॥८॥

जतुकाशकृता तद्वद्दग्धैर्वा वस्तरोमभिः।
अपस्मारहरोलेपो मूत्रसिद्धार्थशिग्रुभिः॥९॥

जतुकाशकृतेति, जतुका चर्मचटकः तस्याः पुरीषेण तद्वदित्युत्सादनम्। दग्धैरिति वस्तरोमभिरित्यनेन योज्यम्। अपस्मारित्यादौ मूत्रं गोमूत्रम्॥९॥

यः खादेत् क्षीरभक्ताशी माक्षिकेण वचारजः।
अपस्ममारं महाघोरं सुचिरोत्थं जयेद् ध्रुवम्॥१०॥

यः खादित्यादौ—माक्षिकेण मधुना॥१०॥

उल्लम्बितनरग्रीवापाशं दग्ध्वा कृता मसी।

शीताम्बुना समं पीता हन्त्यपस्मारमुद्धतम्॥११॥

उल्लम्बित उद्बन्धनमृतो नरः तस्य ग्रीवापाशं ग्रीवाबन्धनरज्जुम्॥११॥

प्रयोज्यं तैललशुनं पयसा वा शतावरी।
ब्रह्मीरसश्च मधुना सर्वापस्मारभेषजम्॥१२॥

प्रयोज्यमित्यादि योगत्रयं स्पष्टम्॥१२॥

निर्दह्यनिद्रवां कृत्वा छागिकामरनालिकाम्।
तामम्लसाधितां खादन्नपस्मारमुदस्यति॥१३॥

निर्दह्येत्यादौ—अमरनालिका अमराख्यस्थूलनाडी। अम्लसाधितामिति काञ्जिकसाधिताम्॥१३॥

हृत्कम्पोऽक्षिरुजा यस्य स्वेदो हस्तादिशीतता।
दशमूलीजलं तस्य कल्याणाज्यञ्च योजयेत्॥१४॥

हृत्कम्प इत्यादि स्पष्टम्॥१४॥

स्वल्पपञ्चगव्यं घृतम्।

गोशकृद्रसदध्यम्लक्षीरमूत्रैः समैर्घृतम्।
सिद्धं चतुर्थकोन्मादग्रहापस्मारनाशनम्॥१५॥

गोशकृदित्यादौ—दध्यम्लं परिणतदधि। समशब्दोऽत्र दध्यादिभिश्च सम्बध्यते१५

बृहत्पञ्चगव्यं घृतम्।

द्वे पञ्चमूले त्रिफलां रजन्यौ कुटजत्वचम्।
सप्तपर्णमपामार्गंनीलिनीं कटुरोहिणीम्।

शम्पाकं फल्गुमूलञ्च पौष्करं सदुरालभम्।
द्विपलानि जलद्रोणे पक्त्वा पादावशेषिते॥

भार्गीं पाठां त्रिकटुकं त्रिवृतां निचुलानि च।
श्रेयसीमाढकीं मूर्वांदन्तीं भूनिम्बचित्रकौ।

द्वे शारिवे रौहिपञ्च भूतिकं मदयन्तिकाम्।
क्षिपेत् पिष्ट्वाक्षमात्राणि तैः प्रस्थं सर्पिषः पचेत्॥

गोशकद्रसदध्यम्लक्षीरमूत्रैश्च तत्समैः।
पञ्चगव्यमिति ख्यातं महत् तदमृतोपमम्॥

अपस्मारे ज्वरे कासेश्वयथावुदरेषु च।
गुल्मार्शः पाण्डुरोगेषु कामलायां हलीमके।

अलक्ष्मीप्रहरक्षोघ्नं चतुर्थकविनाशनम्॥१६॥

द्वे पञ्चमूले इत्यादि—द्वे पञ्चमूले विदारीगन्धादिके, रजन्याविति हरिद्राद्वयम्, वाग्भटेऽपि “द्विपञ्चमूलीत्रिफलाद्विनिशाकुटजत्वचः” इत्युक्तम्। सप्तपर्णं सप्तपर्णस्य त्वक्, अपामार्गम् अपामार्गस्य मूलं, नीलिनीं स्वनामख्यातां, शम्पाकम्

आरग्वधं, फल्गु काकोडुम्बरिकाफलं, डुमुर इति लोके, पौष्करं मूलमित्यन्वयः। भार्गी भार्गीमूलं, त्रिवृतां त्रिवृतामूलं, निचुलानि इज्जलस्य फलानि; श्रेयसीं हस्तिपिप्पलीम्, आढकी तुवरी, तस्या बीजं, रौहिषं गन्धतृणभेदं, भूतिकं यमानीं, मदयन्तिकां वनमल्लिकाम्। अत्र पादावशिष्टकषायश्चतुर्गुणः, गोशकृदिति गोशकृद्रसादयश्च घृतसमाः, तेनाष्टगुणः पाकः॥१६॥

महाचैतसं घृतम्।

शणस्त्रिवृत् तथैरण्डो दशमूली शतावरी।
रास्ना मागधिका शिग्नुः क्वाथ्यं द्विपलिकं भवेत्॥

विदारी मधुकं मेदे द्वे काकोल्यौ सिता तथा।
एभिः खर्जूरमृद्वीकाभीरुयुञ्जातगोक्षुरैः।

चैतसस्य घृतस्याङ्गैः पक्तव्यं घृतमुत्तमम्।
महाचैतससंज्ञन्तु सर्वापस्मारनाशनम्॥

गरोन्मादप्रतिश्यायतृतीयकचतुर्थकान्।
पापालक्ष्म्यौ जयेदेतत् सर्वग्रहविनाशनम्॥

श्वासकासहरञ्चैव शुक्रार्त्तवविशोधनम्।
घृतमानं क्वाथविधिरिह चैतसवन्मतः॥

कल्कश्चैतसकल्कोक्तद्रव्यैः सार्द्धञ्च पादिकः।
नित्यं युञ्जातकाप्राप्तौ तालमस्तकमिष्यते॥१७॥

महाचैतसे शणस्य मूलं बीजं वा, व्यवहारस्तु बीजेनेति। मागधिका पिप्पली। क्वाथ्यं द्विपलिकं भवेदित्यन्तेन क्वाथः, क्वाथोऽपि पूर्ववत् चैतसक्वाथवत् द्रोणाम्भसा कार्य्यः। विदारीप्रभृति कल्कः। मेदे मेदे द्वे, खर्जूरं खर्जूरस्य फलम्, अभीरु शतावरी, युञ्जातम् औत्तरापथिकः कन्दः, तदभावे तालमस्तकम्। चैतसस्य घृतस्याङ्गैरिति पूर्वोक्तचैतसघृतकल्कैर्विशालात्रिफलादिभिः। चैतसस्येत्यादि कल्याणकस्याङ्गैरिति वक्तव्येऽतिदेशातिदेशकरणम् अत्रोक्तकल्कद्रव्येण सह पादिकार्थम्, अन्यथा कल्याणके तत्राक्षसमन्वितैरित्युक्त्वादत्रापि अक्षमानं प्रसज्येत अतो विशालात्रिफलत्यादिना कल्केन सह विदारीमधुकादेः कल्कस्य मिलित्वा घृतात् पादिकत्वं ज्ञेयम्, अतएव वक्ष्यति कल्कश्चैतसकल्कोक्तद्रव्यैःसार्द्धश्चपादिकमिति॥१७॥

कूष्माण्डकघृतम्।

कूष्माण्डकरसे सर्पिरष्टादशगुणे पचेत्।
यष्ट्याह्वकल्कं तत्पानमपस्मारविनाशनम्॥१८॥

कूष्माण्डकघृतं स्पष्टम्॥१८॥

ब्रह्मीघृतम्—ब्रह्मीरसे वचाकुष्ठशङ्खपुष्पीभिरेव च।
पुराणं मेध्यमुन्मादग्रहापस्मारनुत् घृतम्॥१९

ब्रह्मीघृते चतुर्गुणे ब्रह्मीरसे घृतपाकः॥१६॥

पलङ्कषाद्यं तैलम्।

पलङ्कपावचपथ्यावृश्चिकाल्यर्कसर्षपैः।
जटिलापूतनाकेशीनाकुलीहिङ्गुचोरकैः।

लशुनातिरसाचित्राकुष्ठैर्विड्भिश्च पक्षिणाम्।
मांसाशिनां यथालाभं वस्तसूत्रे चतुर्गुणे।

सिद्धमभ्यञ्जने तैलमपस्मारविनाशनम्॥२०॥

पलङ्कषेत्यादि—पलङ्कषा गुग्गुलुः, जटिला मांसी। पूतनाकेशी भूतकेशी इति केचित्, अन्ये तु पूतना हरीतकीभेदः, केशी भूतकेशीत्याहु, जतुकर्णे गोलोमी पठ्यते, न तु पूतना। नाकुली महापैशाचिका व्यवहृता। अतिरसा जलयष्टिमधु, अन्ये तु ज्योतिष्मतीत्याहुः जतुकर्णे मधुकमिति। चित्रा दन्ती। मांसाशिनां पक्षिणामिति गृध्रादीनाम्॥२०॥

अभ्यङ्गैःसार्पपं तैलं वस्तमूत्रे चतुर्गुणे।
सिद्धं स्याद्गोशकृन्मूत्रैः स्नानोत्सादनमेव च॥२१॥

अभ्यङ्ग इत्यादि—अकल्कमिदं तैलम्। गोशकृता उत्सादनमुद्वर्त्तनं गोमूत्रेण स्नानमिति यथायोग्यतयाबोध्यम्॥२१॥

इत्यपस्मारचिकित्साविवृतिः॥
<MISSING_FIG href="../../../../../books_images/U-IMG-170806280112000.jpg"/>

अथ वातव्याधिचिकित्सा।

स्वाद्वम्ललवणैः स्निग्धैराहारैर्वातरोगिणः।
अभ्यङ्गस्नेहवस्त्याद्यैःसर्वानेवोपपादयेत्॥१॥

वातविशेषस्याक्षेपकादेरपस्मारवद्वेगकर्तृत्वात् तथा प्रायस्तुल्यचिकित्सितत्वाच्चापस्मारानन्तरं वातव्याधिरुच्यते। यद्यपि वातव्याधिरित्युक्तेरविकृते वा यावति प्रसङ्गः, तथापि व्याधिपदसामानाधिकरण्याद्विकृतो दुःखकारी वातो व्याधिरित्यर्थो ज्ञेयः। ननु वातव्याधिवत् पित्तकफविकारा अपि तृषतोषतृप्त्यादयः किमिति पृथक्करणेन नोच्यन्ते? नैवम्; वायोरतिबलत्वेन गरीयस्त्वात्, तद्विकाराणामेव तु दुःसाध्यत्वात् आश्वेवात्ययकरत्वात् विशिष्टचिकित्सितत्वाच्च पृथक्करणेनाभिधानं युक्तम्। कफपित्तविकाराणान्तु यथाविधित्वात् विरेचनवमनादिकफपित्तसामान्यचिकित्सोक्तया चिकित्सोक्तेति ज्ञेया। साधारणचिकित्सामाह स्वाद्वम्लेत्यादि॥१॥

विशेषतस्तु कोष्ठस्थे वाते क्षारं पिबेन्नरः॥२॥

विशेषत इत्यादौ—क्षारं यवक्षारं किंवा ग्रहण्यध्यायनिर्दिष्टं दीपनक्षारम्॥२॥

आमाशयस्थे शुद्धस्य यथादोषहरी क्रिया॥३॥

आमाशयस्थ इत्यादि—शुद्धस्य वमनविरेचनादिना शुद्धत्य॥३॥

आमाशयगते वाते छर्दिताय यथाक्रमम्।
देयः षड्धरणो योगः सप्तरात्रं सुखाम्बुना।
चित्रकेन्द्रयवाः पाठा कटुकातिविषाभयाः।
महाव्याधिप्रशमनो योगः षड्धरणः स्मृतः
पलदशमांशो धरणं योगोऽयं सौश्रुतस्ततस्तस्य।
माषेण पञ्चगुञ्जकमानेन प्रत्यहं देयः॥४॥

आमाशयगत इयादि—सुश्रुतस्य। छर्दिताय यथाक्रममिति स्नेहस्वेदपेयादिक्रमानतिक्रमेण, वातस्यापि कफस्थानगतत्वेन। यदुक्तंस्थानात् स्थानगतं दोषं स्थानवत् समुपाचरेत् " इति। षड्धरणयोगे महाव्याधिप्रशमन इति मेदःकफानृतव्याधिः महाव्याधिः। षड्धरण इति षण्णां चित्रकादीनां प्रत्येकं धरणं पलदशमांशरूपं मानं यत्र स तथा, एतदेवाह पलदशमांशो धरणमिति। ननु पलद्रव्यव्यवस्थापि चरकसुश्रुतमतभेदेन द्विधोक्ता, तदिह चरकस्य पलस्य दशमांशो धरणम्, इत्यत आह योगोऽयमिति, अयं चित्रकेत्यादियोगः सौश्रुत इति कृत्वा तस्य सुश्रुतस्य पञ्चगुञ्जकमानेन माषेण यत् पलं भवति तस्यैव पलस्य दशमो भागः, प्रत्येकं चित्रकादीनां षण्णां प्रत्यहं सप्तदिनं यावद्देय इत्यर्थः। एवञ्च पञ्चगुञ्जकमानानुसारात् पलदशमांशेन रक्तिद्वयाधिकषण्माषका भवन्ति, षड्‌भिर्धरणैश्च मिलित्वा पञ्चरक्तिकमाषेण सरक्तिद्वयषण्माषाधिककर्षद्वयं स्यात्, एतदेव व्यवह्रियमाणेन दशरक्तिकमाषेण सरक्तिद्वयमाषत्रयाधिककर्षमानं भवति तादृङ्मानञ्च प्रत्यहमेव सप्तरात्रं यावत् देयम्। उत्सर्गतो हि कर्षश्चूर्णस्य देयो भवति, अत्र सरक्तिद्वयमाषकत्रयाधिककर्षग्रहणार्थं विशेषवचनमेवेति॥४॥

पक्वाशयगते वाते हितं स्नेहविरेचनम्।
वस्तयः शोधनीया याः प्राशाश्च लवणोत्तराः॥५॥

वस्तयः शोधनीया या इति शोधनवस्तयः, यथा “शोधनद्रव्यनिःक्वाथास्तत्कल्कस्नेहसैन्धवैः। युक्ताः खजेन मथिता वस्तयः शोधना मताः" इति। प्राशाश्च लवणोत्तरा इति लवणप्रधाना आहाराः किंवा लवणोत्तराः प्राशाः स्नेहलवणकल्याणलवणादयः॥५॥

स्नेहलवणम्। स्नुहीलवणावार्त्ताकुस्नेहांश्छन्ने घटे दहेत्।
गोमयैः स्नेहलवणं तत्परं वातनाशनम्॥६॥

तदेव स्नेहलवणमाह स्नुहीत्यादि—अत्र लवणानि पञ्च, स्नेहाश्चत्वारः, छन्न इति शरावादिपिहिते लिप्तमुखे। गोमयैरिति स्नुहीपञ्चलवणवार्त्ताकुफलानि तदनु घृततैलवसामज्जभिः स्निग्धीकृत्य घटे कृत्वा मुखमालिप्य गोमयाग्निना दग्धव्यनि, अतः कोष्ठ विभज्य उपयोज्यानि॥६॥

कार्यो बस्तिगते चापि विधिर्वस्तिविशोधनः॥७॥

त्वङ्मांसासृशिराप्राप्ते कुर्य्याच्चासृग्विमोक्षणम्॥८॥

विधिर्वस्तिविशोधन इति मूत्रावाताश्मरीचिकित्साविधिः। त्वगित्यादि—अत्र त्वङ्मांसादिगतवाते रक्तमोक्षणरूपमेकमेव चिकित्सितम् आवकरक्तव्यपगमतया बोध्यम्। अन्ये स्नेहाभ्यङ्गोपनाहांश्च मर्दनालेपनानि चेति सुश्रुतवाक्यस्य त्वङ्मांसासृक्शिराप्राप्त इत्यनेन सह सम्बन्धं विदधति। ततश्च त्वङ्मांसासृग्गतवाते स्नेहाभ्यङ्गादिकम्, रक्तगतवाते तु योग्यतया रक्तमोक्षणमेवत्याहुः॥७॥८॥

स्नेहोपनाहाग्निकर्मबन्धनोन्मर्दनानि च।
स्नायुसन्ध्यस्थिसम्प्राप्ते कुर्य्याद्वाते विचक्षणः॥९

स्नेहोपनाहत्यादिना स्नायुसन्ध्यस्थिगतवातचिकित्सामाह॥९॥

स्वेदाभ्यङ्गावगाहांश्च हृद्यञ्चान्नं त्वगाश्रिते॥१०॥
शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम्॥११॥

स्वेदाभ्यङ्गेत्यादिनारसगतानिलचिकित्सामाह। हृद्यमित्यत्र स्पष्टमिति जेज्जटःपठति, किन्त्वत्र त्वक्शब्देन त्वक्स्थत्वाद्रस उच्यते, त्वगाश्रयित्वञ्च रसस्य सर्वगत्वाद्भवति। अतएव धातुगतकुष्ठाभिधाने त्वग्गतत्वेनैव रसगतत्वमुक्तमिति कृत्वा रसगतकुष्ठलक्षणं सुश्रुतेनोक्कम्। अतो रसस्य विशेषेण हृदयाश्रितत्वात् हृद्यमेव पाठोयुक्त इत्याहुः। शीताः प्रदेहा इति शीतप्रदेहादिरूपचिकित्साकथनार्थमिह लिखितम् तेन त्वङ्मांसासृगित्यादिसुश्रुतवचनेन पूर्वोक्तेनास्य पौनरुक्त्यंनाशङ्कनीयम्॥१०—११॥

विरेको मांसमेदःस्थे निरूहाः शमनानि च॥१२॥
बाह्याभ्यन्तरतः स्नेहैरस्थिमज्जगतं जयेत्॥१३॥

मेदःस्थानिलचिकित्सामाह विरेक इत्यादि। मज्जागतानिलचिकित्सामाह बाह्येत्यादि॥१२॥१३॥

हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम्।
विबद्धमार्गंशुक्रन्तु दृष्ट्वा दद्याद्विरेचनम्॥१४॥

शुक्रस्थानिलचिकित्सामाह हर्ष इति मनसः॥१४॥

गर्भे शुष्के तु वातेन बालानाञ्चापि शुष्यताम्।
सितामधुककाश्मर्य्यैर्हितमुत्थापने पयः॥१५॥
शिरोगतेऽनिले वातशिरोरोगहरी क्रिया॥१६॥

गर्भ इत्यादौ—मधुककाश्मर्य्यफलाभ्यां दुग्धं साध्यं, सिता तु प्रक्षेपणीया, केचित् तु सितादिर्दुग्धं साध्यमित्याहुः। उत्थापने पुष्टिजनने॥१५॥१६॥

व्यादितास्ये हनुं खिन्नामङ्गुष्ठाभ्यां प्रपीड्य च।
प्रदेशिनीभ्याञ्चोन्नम्य चिबुकोन्नामनं हितम्॥१७॥
अर्दिते नवनीतेन खादेन्माषेण्डरीं नरः।
क्षीरमांसरसैर्भुक्त्वा दशमूलीरसं पिबेत्॥

स्नेहाभ्यङ्गशिरोबस्तिपाननस्यपरायणः।
अर्दितिं स जयेत् सर्पिः पिबेदौत्तरभक्तिकम्॥१८॥

व्यादितास्य इत्यादि—व्यादितास्ये विवृतास्ये प्रदेशिनी अंगुष्ठानन्तरांगुली। उन्नम्येत्यत्र चिबुकमिति शेषः। माषेण्डरी माषपिष्टकविकृतिः।माषेण्डरीभक्षणानन्तरं क्षीरमांसरसैरन्नं भुक्त्वा ततो दशमूलीजलं पिबेदित्यर्थः। औत्तरभक्तिकमिति भोजनानन्तरकालीयम्॥१७॥१८॥

पञ्चमूलीकृतः क्वाथो दशमूलीकृतोऽथवा।
रूक्षःस्वेदस्तथा नस्यं मन्यास्तम्भे प्रशस्यते॥१६॥
वाताद्वाग्धमनीदुष्टौ स्नेहगण्डूषधारणम्॥२०॥

पञ्चमूलीत्यादि स्पष्टम्। वातादित्यादौ—वाग्धमनी वाग्वाद्दिनी धमनी॥१६-२०॥

कल्याणकलेहः।

सहरिद्रा वचा कुष्ठं पिप्पली विश्वभेषजम्।
अजाजी चाजमोदा च यष्टीमधुकसैन्धवम्॥

एतानि समभागानि श्लक्ष्णचूर्णानि कारयेत्।
तच्चूर्णं सर्पिषालोड्य प्रत्यहं भक्षयेन्नरः॥

एकविंशतिरात्रेण भवेच्छ्रुतिधरो नरः।
मेघदुन्दुभिनिर्घोषो मत्तकोकिलनिस्वनः॥

जडगद्गदमूकत्वं लेहः कल्याणको जयेत्॥२१॥

सहरिद्रेत्यादौ—अजाजी कृष्णजीरकम्, अजमोदा यमानी, यष्टिमधुकशब्देन ब्रह्मयष्टीति श्रीकण्ठदत्तो व्याचष्टे, तत्तु न व्यवहारसिद्धं नापि टीकान्तरे दृष्टमिति॥२१॥

वक्षस्त्रिकस्कन्धगतं वायुं मन्यागतं तथा।
वमनं हन्ति नस्यञ्च कुशलेन प्रयोजितः॥२२॥

वक्ष इत्यादि—सुश्रुतस्य। त्रिकमिह अंसद्वयान्तरसन्धिः, स हि श्लेष्मस्थानं, तद्गत एव वाते वमनं नस्यश्चयौगिकम्। नस्यमिह शिरोविरेचनमिति। कुशलेन प्रयोजितमिति विशेषणात् प्रतिमर्षं विना चतुर्विधमप्यत्र नस्यमित्येके॥२२॥

भाषबलादिः।

माषबलाशूकशिम्बीकत्तृणरास्नाश्वगन्धोरुवूकाणाम्॥
क्वाथो नस्यनिपीतो रामठलवणान्वितः कोष्णः॥
अपहरति पक्षवातं मन्यास्तम्भं सकर्णनादरुजम्।
दुर्जयमर्दितवातं सप्ताहाज्जयति चावश्यम्॥२३॥

माषबलेत्यादि—कत्तृणं गन्धतृणम्, अश्वगन्धाया मूलम्। क्वाथमात्रा चात्र मुखेन पेयक्वाथतुल्या, यस्तु तावन्तं क्वाथं नासिकया पातुं न शक्नोति, तेनासौ

स्तोकस्त्याज्यः।रामठं हिंगु, तस्य रक्तिकाद्वयं सैन्धवस्य तु माषकद्वयं प्रक्षिपन्ति वृद्धाः। यस्मिन् पार्श्वे पीड़ा तत्पार्श्वनासापुटेन भोजनसमाप्तौसायंकाले शक्त्यनुरूपं पेयश्चायं क्वाथः॥२३॥

दशमूलीबलामाषक्वाथं तैलाज्यमिश्रितम्।
सायं भुक्त्वा पिबेन्नस्यं विश्वाच्यामववाहुके॥२४॥

दशमूलीत्यादौ—तैलाज्यमिश्रितमिति तैलाज्यं प्रक्षेपणीयम्। भुक्त्वेति भोजनानन्तरं सायकालं शक्त्यनुरूपं नासिकया पिबेत्॥२४॥

मूलं बलायास्त्वथ पारिभद्रात् तथात्मगुप्तास्वरसं पिबेद्वा।
नस्यन्तु यो मांसरसेन कुर्य्यान्मासादसौ वज्रसमानबाहुः॥२५॥

मूलमित्यादि—मूलं बलाया इत्येको योगः, पारिभद्राच्च मूलमिति द्वितीयः, अनयोः स्वरसः क्वाथो वा। आत्मगुप्तास्वरसं पिबेदिति तृतीयः, पानमेषां नासिकया। नस्यन्तु यो मांसरसेनेति चतुर्थः। अत्र तैलसैन्धवे प्रक्षिपन्ति वृद्धाः, अन्ये सैन्धवचूर्णमात्रं प्रक्षिपन्ति। नस्यन्तु यो मांसरसेनेत्यत्र तयोर्मांसरसेनेति पठित्वा विश्वाच्यवबाहुकयोरिति व्याख्यानयन्त्येके॥२५॥

माषात्मगुप्तकैरण्डवाट्यालकशृतं पिबेत्।
हिङ्गुसैन्धवसंयुक्तं पक्षाघातनिवारणम्॥२६॥

माषेत्यादि वचनं स्पष्टम्॥२६॥

बाहुशोषे पिबेत् सर्पिर्भुक्त्वा कल्याणकं महत्॥२७॥
हृदि प्रकुपिते वाते चांशुमत्याः पयो हितम्॥२८॥

बाहुशोष इत्यादौ—महत् कल्याणकम् उन्मादाधिकारोक्तम्। हृदीत्यादौ—अंशुमती शालपर्णी, तया सिद्धं पय इत्यर्थः॥२७॥२८॥

हरीतकी वचा रास्ना सैन्धवञ्चाम्लवेतसम्।
घृतमात्रासमायुक्तमपतानकनाशनम्॥२९

हरीतकीत्यादि—क्वाथेन चूर्णेन वायं योगः। क्वाथपक्षे सैन्धवपक्षे प्रक्षिपेत्, चूर्णपक्षे घृतकर्षद्वयेन चूर्णस्याष्टौमाषकाः पेया इत्यर्थः॥२९॥

स्वल्परसोनपिण्डः।

पलमर्द्धपलञ्चैव रसोनस्य सुकुद्रितम्।
हिङ्गुजीरकसिन्धूत्थैः सौवर्चलकटुत्रयैः॥

चूर्णितैर्माषकोन्मानैरवचूर्ण्य विलोडितम्।
यथाग्नि भक्षितं प्राता रुवुक्वाथानुपानतः॥

दिने दिने प्रयोक्तव्यं मासमेकं निरन्तरम्।
वातरोगं निहन्त्याशु आर्दितंसापतन्त्रकम्।

एकाङ्गरोगिणे चैव तथा सर्वाङ्गरोगिणे।

उरुस्तम्भे व गृध्रस्यां क्रिमिकोष्ठे विशेषतः।
कटीपृष्ठामयं हन्यादुदरञ्च विशेषतः॥३०॥

पलमर्द्धपलं वेति सार्द्धपलम् एवं वाशब्दो पूर्वयोगापेक्षया, इवार्थे वाशब्दो वा। पलमर्द्धपलञ्चैवेत्यपि पाठः। त्वगादिरहितपिष्टरसोनस्य किञ्चिदातपेन शुष्कस्य सार्द्धपलमेकं, माषकाष्टकं म षदशकं वा प्रतिदिनं सेवनीयम्। अनयैव मात्रया मासमेकं सेवनोपयुक्तंन स्यात् अतः पुनरपि रसोनपिण्डःकरणीयः। न च वाच्यं यावत्या मात्रया मासोपयोगो भवति तावत्येव मात्रां किमिति न दर्शितेति, यतस्तथा सति वीर्यहानिः स्यादित्याहुः॥३०॥

हन्ति प्राग्भोजनात् पीतं दध्यम्लं सवचोषणम्।
अपतानकमन्योऽपि वातव्याधिक्रमो हितः॥३१॥

हन्तीत्यादौ—सवचोषणमिति वचामरिचचूर्णसहितमित्यर्थः॥३१॥

वातघ्नैर्दशमूल्या च नवं कुब्जमुपाचरेत्।
स्नेहैर्मांसरसैर्वापि प्रवृद्धं तं विवर्जयेत्॥३२॥

वातघ्नैरिति भद्रदार्वादिगणैः, दशमूली च विख्यातैव गणत्वात्, एतैः क्वाथस्नेहोपनाहादिकं कुर्यात्। नवत्वन्तु कुब्जस्य यावत् न रुजावृद्धिरिति॥३२॥

पिप्पल्यादिरजस्तूनीप्रतितून्योः सुखाम्बुना।
पिबेद्वा स्नेहलवणं सघृतं क्षारहिङ्गु वा॥३३॥
आध्माने लङ्घनं पाणितापश्च फलवर्त्तयः।
दीपनं पाचनञ्चैव वस्तिश्चाप्यत्र शोधनः॥३४॥

पिप्पल्यादिगणः सौश्रुतः। रजश्चूर्णम्। स्नेहलवणञ्च स्नुहीलवणवार्त्ताकुस्नेहानित्यादिना पूर्वमुक्तम् इदमपि सुखाम्बुनैव पिबेदिति। सघृतं क्षारहिङ्गु वेति घृतेनैव यवक्षारहिङ्गुनोश्च पानम्। घृतस्य कर्षैकं, यवक्षारस्य चतुर्माषकं, हिंगुनः षड्रक्तिकमिति, दीपनं पाचनञ्चेति लङ्घनानन्तरं दोषशेषशमनार्थं दीपनं पाचनञ्च भेषजं देयम्॥३३॥३४॥

प्रत्याध्माने तु वमनं लङ्घनं दीपनं तथा॥३५॥
प्रत्यष्ठीलाष्ठीलिकयोरन्तर्विद्रधिगुल्मवत्॥३६॥

प्रत्याध्माने तु वमनमिति प्रत्याध्मानस्यामाशयसमुत्थत्वात्॥३५॥३६॥

दशमूलीबलारास्नागुडूचीविश्वभेषजम्।
पिबेदेरण्डतेलैन गृध्रसखिञ्जपङ्गुषु॥३७॥

दशमूलीत्यादि—दशमूल्यादीनां क्वाथे एरण्डतैलं प्रक्षेप्यम्॥३७॥

शेफालिकादलैः क्वाथो मृद्वग्निपरिसाधितः।
दुर्वारं गृध्रसीरोगं पतिमात्रं समुद्धरेत्॥३८॥

शेफालिकेत्यादि वचनं स्पष्टम्॥३८॥

पञ्चमूलीकषायन्तु रुवुतैलं त्रिवृद्घृतम्।
त्रिवृतैवाथवा युक्तं गृध्रसीगुल्मशूलनुत्॥३९॥

पञ्चमूलीत्यादि—पञ्चमूली महती॥३९॥

तैलं घृतं वार्द्रकमातुलुङ्ग्यो रसं सचुक्रंसगुडं पिबेद्वा।
कट्यूरुपृष्ठत्रिकगुल्मशूलगृध्रस्युदावर्त्तहरः प्रदिष्टः॥४०॥

तैलं घृतं वेत्यादौ—आर्द्रकरसमातुलुङ्गफलरसचुक्रगुडादीनां तुल्यो भागः तैलं घृतं वा दत्त्वा पिबेदिति। पिबेद्वेति वाशब्दः पूर्वयोगापेक्षया, किंवा तैलमेव सचुक्रगुडमित्येको योगः, तथा घृतमपि सचुक्रगुडमिति द्वितीयः, तथा मिलितार्द्रकरसःमातुलुङ्गीरसोऽपि सचुक्रगुड इति तृतीयो योगः। मातुलुङ्गी मधुकुक्कुटी॥४०॥

तैलमेरण्डजं वापि गोमूत्रेण पिबेन्नरः।
मासमेकं प्रयोगोऽयं गृध्रस्यूरुग्रहापहः॥४१॥

तैलमेरण्डजमित्यादि—योगोऽयं विरेचकत्वेनाल्पमात्रया प्रत्यहं मासं यावदुपयोज्यः। भूरिमात्रोपयोगे तु बलहानिः स्यात्, तेन गोमूत्रस्य पलंकिञ्चिन्न्यूनं वा, तथा एरण्डतैलमपि माषकाष्टकं किञ्चिन्न्यूनं वा कोष्ठाद्यपेक्षया प्रत्यहं मासं यावदुपयोज्यम्॥४१॥

गोमूत्रैरण्डतैलाभ्यां कृष्णा पीता सुचूर्णिता।
दीर्घकालोत्थितां हन्ति गृध्रसीं कफवातजाम्॥४२॥

गोमूत्रैरण्डतैलाभ्यामित्यादि—गोमूत्रैरण्डतैलयोर्मिलित्वाकर्षद्वयम्, पिप्पली चूर्णस्य माषचतुष्टयमिति व्यवहरन्ति वृद्धाः॥४२॥

अश्नाति यो नरः सिद्धामेरण्डतैलसाधिताम्।
वार्त्तकुं गृध्रसीक्षीणः पूर्वामाप्नोत्यसौ गतिम्॥४३॥

अश्नातीत्यादौ—एरण्डतैलसाधितां सम्वलितामित्यर्थः॥४३॥

पिष्ट्वैरण्डफलं क्षीरं सविश्वं वा फलं रुवोः।
पायसो भक्षितः सिद्धो गृध्रसीकटिशूलनुत्॥४४॥

पिष्ट्वेत्यादि—त्वग्रहितमेरण्डबीजं कर्षं किञ्चित्तण्डुलान् दत्त्वा क्षीरेण विरेचनार्थं पायसः साध्यः। सविश्वं वेति पूर्वयोगापेक्षया वाशब्दः, अत्रापि किञ्चित्तण्डुलादीन् दत्त्वा शुण्ठ्यैरण्डफलाभ्यां पिष्टाभ्यां कर्षार्द्धं वा कणाशुण्ठ्योरित्यादिपरिभाषया पायसः साध्यः॥४४॥

रास्नायास्तु पलञ्चैकं कर्षान् पञ्च च गुग्गुलोः।
सर्पिषा गुडिकां कृत्वा खादेद्वा गृध्रसीहराम्॥४५॥

गृध्रस्यार्त्तं नरं सम्यक् पाचनाद्यैर्विशोधितम्।
ज्ञात्वा नर प्रदीप्ताग्निं वस्तिभिः समुपाचरेत्॥४६॥

रास्नाया इत्यादि—खाश्यन्तु माषकाष्टकम्, तप्तजलमनुपानम्॥४५॥४६॥

नादौ बस्तिविधिं कुर्य्याद् यावदूर्ध्वं न शुध्यति।
स्नेहो निरर्थकस्तस्य भस्मन्येबाहुतिर्यथा॥४७॥

नादौ वास्तविधिं कुर्यादित्यादौ—यावदूर्द्धं न शुध्यतीति, ऊर्ध्वमित्यत्र पक्वाशयादिति शेषः, तेन यावद्विरेकवमनाभ्यां आमाशयो न शुध्यतीत्यर्थः॥४७॥

गृध्रस्यार्त्तस्य जङ्घायाः स्नेहस्वेदे कृते भृशम्।
पद्भ्यां निर्मर्दितायाश्च सूक्ष्ममार्गेण गृध्रसीम्॥

अवतार्य्यङ्गुलौसम्यक् कनिष्ठायां शनैः शनैः।
ज्ञात्वा समुन्नतं ग्रन्थिं कण्डरायां व्यवस्थितम्।

तं शस्त्रेण विदार्य्यांशु प्रवालाङ्कुरसन्निभम्।
समुद्धृत्याग्निना दग्ध्वा लिम्पेद् यष्ट्याह्नचन्दनैः॥

विध्येत् शिरामिन्द्रबस्तेरघस्ताच्चतुरङ्गुले।
यदि नोपशमं गच्छेद्दहेत् पादकनिष्ठिकाम्॥४८॥

गृध्रसीत्यादि—जङ्घायाः सकाशात् गृध्रसीं कनिष्ठायामंगुलौ अवतार्येति योजना। कण्डरा कनिष्ठांगुलिसंवृता स्थूलशिरा। इन्द्रवस्तिरिह गुल्फजङ्घयोर्मध्यदेशः॥४५॥

तगरस्य शिफां सार्द्रां पिष्ट्वातक्रेण यः पिबेत्।
वङ्क्षणानिलरोगार्त्तः स क्षणादेव मुच्यते॥४६॥

तगरस्येत्यादि—तगरः पिण्डतगरः॥४६॥

दशमूलीकषायेण पिबेद् वा नागराम्भसा।
कटीशूलेषु सर्वेषु तैलमेरण्डसम्भवम्॥५०॥

दशमूलीत्यादि—दशमूलीक्वाथ-नागरक्वाथौ एरण्डतैलं प्रक्षिप्य पिबेत्। नागराम्भ इति अत्यन्तसामतायां बोध्यम्॥५०॥

विश्वाच्यां खञ्जपङ्वोश्च दाहे हर्षे च पादयोः।
क्रोष्टुशीर्षे विकारे च विकारे वातकण्टके।

शिरां यथोक्तां निर्विध्य चिकित्सा वातरोगनुत्॥५१॥

शिराव्यधः पाददाहे वातकण्टकवत् क्रिया॥५२॥

शतधौतघृतोन्मिश्रैर्नागकेशरकण्टकैः।
पिष्टैः प्रलेपः सेकश्च दशमूल्यम्बुनेष्यते॥५३॥

आलिप्य नवनीतेन स्वेदो हस्तादिदाहहा।
अग्नितप्तेष्टकाखण्डं काञ्जिकैः परिषिच्य तु।

तद्बाष्पस्वेदनं कार्य्यं पादहर्षविनाशनम्॥५४॥

दशमूलस्य निर्य्यूहो हिङ्गुपुष्करसंयुतः।

शमयेत् परिपतिस्तु वातं झिञ्झिनिसंज्ञितम्॥५५॥

शिरां यथोक्तमिति शिराव्यधविध्यनतिक्रमेण वातकोपभयादल्पमल्पञ्च रक्तं स्राव्यम्। खञ्जवंग्वादौदेशो नोक्तस्तेन खञ्जादिष्वपि रक्तावृतवातवेदनायां जङ्घादिसन्धिगतैव शिरा व्यध्या भवतीति भानुमती॥५१—५५॥

गुग्गुलुं कोष्टशीर्षे च गुडूचीत्रिफलाम्भसा।
क्षीरेणैण्डतैलं वा पिबेद्वा वृद्धदारकम्॥५६॥
रक्तावसेचनं कुर्य्यादभीक्ष्णंवातकण्टके।
पिबेदेरण्डतैलं वा दहेत् सूचीभिरेव वा॥५७॥

गुग्गुलुमित्यादि—एरण्डक्वाथेन त्रिफलाक्वाथेन वा शोधयित्वा गुग्गुलुर्ग्राह्यः। अत्र एरण्डतैलेन पिष्ट्वा गुग्गुलुः प्रक्षेप्यः। क्षीरेणेत्यादि चतुर्गुणेन दुग्धेन एरण्डतैलं पेयम्, “बहुदशे विरेकार्थं जीर्णे क्षीरान्नभोजनम्” इत्यादि वाग्भटदर्शनात्। पिबेद्वा वृद्धदारकमिति अत्रापि क्षोरेणेति योज्यम्॥५६॥५७॥

कुष्ठसैन्धवयोः कल्कश्चुक्रतैलसमन्वितः।
सुखोष्णो मर्द्दने योज्यःखल्वीशूलनिवारणः॥
खल्व्यां स्निग्धाम्ललवणैः स्वेदमर्दोपनाहनम्॥५८॥

खल्व्यामित्यादौअम्लमिति काञ्जिकम्॥५८॥

आदित्यपाकगुग्गुलुवटकः।

पृथक् पलांशा त्रिफला पिप्पली चेति चूर्णितम्।
दशमूलाम्बुना भाव्यं त्वगेलार्द्धपलान्वितम्॥

दत्त्वा फलानि पञ्चैव गुग्गुलोर्वटकीकृतः।
एषमांसरसाभ्यासाद्वातरोगान् विशेषतः॥

हन्ति सन्ध्यस्थिमजस्थान् वृक्षमिन्द्राशनिर्यथा॥
भाव्यद्रव्यसमं क्वाथ्यं क्वाथोऽष्टांशस्तु तेन च।

आर्द्रं यावद्दिनं भाव्यं सप्ताहं भावनाविधिः॥५६॥

पृथगित्यादौ—त्वगेलयोर्मिलित्वार्द्धपलं बोध्यम्, अत्र त्रिफलादिगुग्गुल्वन्तं सर्वमेकीकृत्य बोध्यम्। भाव्येत्यादि क्वाथविशेषः। तेनेति अष्टांशशेषक्वाथनार्द्रंकृत्वा दिनैकं यावद्भाव्यम्, भावनावधिसमाप्तिस्तु सप्ताहादिति। इयश्च परिभाषा वाग्भटमतानुमारिणी, तेनास्या अमूलकत्वं नाशङ्कनीयम्। वृन्दस्तु “लेहवद्द्विगुणेनायलोड्य चातपे स्थितः। दशमूलाम्बुना शाच्यःसप्तवारञ्च गुग्गुलुः” इत्युक्तवान्, तत् पुनरनार्षमिति निश्चलः॥५६॥

त्रयोदशाङ्गगुग्गुलुः।

आहाश्वगन्धा हवुषा गुडूची शतावरी गोक्षुरवृद्धदारकम्।
रास्ना शताह्वासशटी यमानी सनागरा चेति समैश्च चूर्णम्॥

तुल्यं भवेत् कौशिकमत्न मध्ये देयं तथा सर्पिरतोऽर्द्धभागम्।
अर्द्धाक्षमात्रन्त्वथ तत् प्रयोगात् कृत्वानुपानं सुरयाथ यूषैः॥

मद्येन वा कोष्णजलेन वाथ क्षीरेण वा मांसरेसन वापि॥

कटीग्रहे गृध्रसिबाहुपृष्ठे हनुग्रहे जानुनि पादयुग्मे।

सन्धिस्थिते चास्थिगते च वाते मज्जाश्रिते स्नायुगते च कोष्ठे॥

रोगान् जयेद्वातकफानुविद्धान् वातेरितान् हृद्ग्रहयोनिदोषान्।

भग्नास्थिविद्धेषु च खञ्जवाते त्रयोदशाङ्गं प्रवदन्ति तज्ज्ञाः॥६०॥

त्रयोदशाङ्गगुग्गुलौ आहमिति स्वनामख्यातं वणिजद्रव्यम्। हवुषा स्वनामख्याता। समैरिति समैर्भागैरुपलक्षितम् तुल्यं भवेत् कौशिकमिति समुदितसर्वचूर्णसमो गुग्गुलुरित्यर्थः। अतोऽर्द्धभागमिति कौशिकार्द्धभागम्। भिषजस्तु यावता घृतेन गुग्गुलोः पेषणं भवति तावदेव घृतं गृह्णन्ति। सुराद्यनुपानभेदो दोषभेदापेक्षया॥६०॥

जित्वावरकमग्रे तु वाते वातहरं हितम्॥६१॥
अन्नावृते तदुल्लेखो दीपनं पावनं लघु॥६२॥

सुप्तिवाते त्वसृङ्मोक्षं कारयेद्बहुशो बुधः।
दिह्याच्च लवणागारधूमैस्तैलविमर्दितैः॥६३॥

संक्षेपादावृतवातचिकित्सामाह जित्वेति—आवरकमिति वायोरावरको यो दोषस्तम्। तदुल्लेख इति अन्नस्य॥६१—६३॥

सर्पिस्तैलवसामज्जपानाभ्यञ्जनवस्तयः।
स्वेदाः स्निग्धा निवातञ्च स्थानं प्रावरणानि च॥

रसाः पयांसि भोज्यानि स्वाद्वम्ललवणानि च।
बृंहणं यत्त तत् सर्वंकर्त्तव्यं वातरोगिणाम्॥६४॥

सर्पिरित्यादि क्रियासूत्रं चरकस्य॥६४॥

पटोलफलकैर्यूषो वृष्यो वातहरो लघुः।
वाट्यालककृतो यूषः परं वातविनाशनः॥६५॥

पटोलफलकैरित्यादौ, तथा वाट्यालककृतो युष इत्यादौ—यूषयोनित्वान्मुद्गादयोऽपि बोध्याः, अन्ये तु केवलयोरेव पटोलफलवाट्यालकयोर्यूषावेवेत्याहुः॥६५॥

बलायाः पञ्चमूलस्य दशमूलस्य वा रसे।
अजाशीर्षाम्बुजानूपक्रव्यादपिशितैः पृथक्॥

साधयित्वा रसान् स्निग्धान् दध्यम्लव्योषसंस्कृतान्।
भोजयेद्वातरोगार्त्तं तैर्व्यक्तलक्षणैर्नरम्॥६६॥

बलाया इत्यादि—बलादिभिस्त्रिभिः साधनद्रव्यैरजाशीर्षादयस्तु चत्वारः

पृथक् साध्या;, तेन द्वादश रसा भवन्ति। बलादिभिरर्द्धशृतं कृत्वा तेन मांसरसः करणीय इत्याहुः। अन्ये तु प्रस्थिकेऽम्भसि कर्षमानं बलामूलमनुरूपमजाशीर्षमांसञ्च प्रक्षिप्य पाचनीयम्, परिशिष्टे पलचतुष्टये सति वस्त्रेण छानयित्वा परिभर्जनीयम्, तदनुसैन्धवाम्लदधित्रिकटून्यनुरूपाणि दत्त्वा संस्कार्यम्। एवं बृहत्पञ्चमूलेन च साधनम्। अजाशीर्षवत् कूर्मकर्कटाद्यम्बुजानां मांसेन, तथा महिषवराहादीनामानूपानां मांसेन, तथा क्रव्यादानां मांसेन रससाधनं कुर्य्यादिति॥६६॥

पञ्चमूलीबलासिद्धं क्षीरं वातामये हितम्॥६७॥

पञ्चमूलीत्यादि—स्वल्पा पञ्चमूली॥६७॥

वाजिगन्धा बलास्तिस्रो दशमूली महौषधम् ।
द्वे गृध्रनख्यौ रास्नाच गणो मारुतनाशनः॥६८॥

वाजिगन्धेत्यादौ—बलास्तिस्र इति बला, अतिबला, नागबला चेति ख्याताः। अत्र बला पीतपुष्पा, अतिबला श्वेतपुष्पा, नागबला गोरक्षतण्डुला। गृध्रनखीद्वयं श्वेतरक्तपुष्पभेदात् गणत्वादनेन सर्वाः क्वाथादिकल्पनाःकार्य्याः॥६८॥

कोलं कुलत्थं सुरदारु रास्नामाषातसी तैलफलानि कुष्ठम्।
वचाशताह्वे यवचूर्णमम्लान्युष्णानि वातामयिनां प्रदेहः॥६६॥

कोलमित्यादि—कोलं बदरफलम्, अतसी तिसीति भाषा, तैलफलं तैलविशिष्टफलम्। एतानि समभागचूर्णानि काञ्चिकेन पिष्ट्वा तप्तीकृत्य लेपो देयः॥६६॥

आनूपवेशवारोष्णप्रदेहो वातनाशनः॥
निरस्थि पिशितं पिष्टं खिन्नं गुडघृतान्वितम्।

कृष्णामरिचसंयुक्तं वेशवार इति स्मृतः॥७०॥

अनूपवेशवार इति वराहादिमांसकृतः। तस्य पारिभाषिकींसंज्ञामाह निरस्थीत्यादि॥७०॥

शाल्वणस्वेदः।

काकोल्यादिः सवातघ्नः सर्वाम्लद्रव्यसंयुतः।
सानूपमांसः सुखिन्नः सर्वस्नेहसमावृतः।

सुखोष्णः स्पष्टलवणः शाल्वणः परिकीर्त्तितः॥
तेनोपनाहं कुर्वीत सर्वदा वातरोगिणाम्॥

वातघ्नो भद्रदार्वादिः काकोल्यादिस्तु सौश्रुतः।
मांसेनात्रौषधं तुल्यं यावताम्लेन चाम्लता।

पट्वी स्यात् स्वेदनार्थञ्च काञ्चिकाद्यम्लमिष्यते।
चतुःस्नेहोऽत्र तावान् स्यात् सुखिन्नत्वं यतो भवेत्॥

समस्तं वर्गमर्द्धंवा यथालाभमथापि वा।
प्रयुञ्जीतेति वचनं सर्वत्र गणकर्मणि॥७९॥

शाल्वणस्वेदमाह काकोल्यादिरित्यादि—काकोल्यादिरिति वाकोल्यादिगणः। वातघ्न इति भद्रदार्वादिगणस्य संज्ञा। सर्वाम्लद्रव्यं काञ्चिक-सुरा-सौवीर-तुषोदकादि। सानूपमांस इति, अनूपाश्च शूकरादयः। सर्वस्नेहाः सर्पिस्तैलवसामज्जानः। उपनाह इति उष्णबहुलप्रलेपः। उक्तमेव शाल्वणस्वेदं विवृणोति वातघ्न इत्यादि। सौश्रुत इति विशेषणेन सुश्रुतोलकाकोल्यादिगणो ग्राह्यः न पुनरष्टवर्गसंज्ञित इति। वृद्धसौश्रुते तु काकोल्यादिर्यथा “काकोल्यौ मधुकामेदे जीवकर्षभको सहे। ऋद्धिर्वृद्धिस्तुगाक्षीरी पुण्डरीकं सपद्मकम्। जीवन्ती सामृता शृङ्गी मृद्वीका चेति कुत्रचित्। काकोल्यादिरयं पित्तशोणितानिलनाशनः” इति। भद्रदार्वादिर्यथा “भद्रदारु निशे भार्गी वरुणो मेषशृङ्गिका।जटाझिण्टीचार्त्तगलो वरागोक्षुरतण्डुलाः। अर्कौ श्वदंष्ट्रा गणिका धुस्तूरश्चाश्मभेदकः। वरीस्थिरा पाटलारुक् वर्षाभूर्वसुको यवः। भद्रदार्वादिरित्येष गणो वातविनाशनः” इति। मांसेनात्रौषधं तुल्यमिति काकोल्यादि—भद्रदार्वादिगणद्वयमौषधं मांसेन तुल्यं ग्राह्यम्, यथालाभपक्षेऽपि मांसं तुल्यं देयम्, तेन वातापहम्। वृन्दस्त्वाह “अम्लादिभिश्च संस्कार्यं काकोल्यादित्रयं त्रिभिः” इति। अस्यार्थः—अम्लादिभिः अम्लस्नेहलवणरसैः संस्कारः कार्यः। संस्कारत्वादत्र त्रयं तावन्मात्रं देयंयावदम्लस्निग्धलवणत्वमात्रं स्यादित्यर्थः। काकोल्यादिस्तथा भद्रदार्वादिस्तथानूपमांसम् एतत्त्रयन्तु संस्कार्यम्। संस्कार्यत्वादस्य प्राधान्यम्, तेन त्रयमेवं संस्कार्यत्वात् प्रत्येकं तुल्यभागमिति। यावताम्लेन चाम्लता स्यादिति पटुशब्दात् ईष्प्रत्ययः स्यादिति व्यक्तिः स्यादिति। काञ्चिकादिशब्दात् सुरासौवीरतुषोदकधान्याम्लदधिमस्त्वम्लिकाकोलादीनां ग्रहणम्॥७१॥

अश्वगन्धाद्यं घृतम्।

अश्वगन्धाकषाये च कल्के क्षीरचतुगुर्णम्।
घृतं पक्वन्तु वातघ्नं वृष्यं मांसविवर्द्धनम्॥७२॥

अश्वगन्धाघृते चतुर्गुणक्षीरसाहचर्य्यादश्वगन्धाक्वाथोऽपि चतुर्गुणः। कल्कोऽप्यश्वगन्धायाएव॥७२॥

दशमूलाधं घृतम्।

दशमूलस्य निर्य्यूहे जीवनीयैः पलोन्मितैः।
क्षीरेण च घृतं पक्वं तर्पणं पवनार्त्तिजित्॥
क्वाथोऽत्र त्रिगुणः सर्पिःप्रस्थः साध्यः पयः समः॥७३॥

दशमूलघृते दशमूलक्वाथोऽपि त्रिगुणः, क्षीरन्तु स्नेहसममिति चक्रः। जेज्जटमते तु स्नेहाच्चतुर्गुणः क्वाथः क्षीरं स्नेहसममिति। अस्मिन्नर्थे परिभाषा “एकद्वित्रिद्रवैर्द्रव्यैः कुर्य्यात् स्नेहचतुर्गुणम्। क्षीरं स्नेहसमं दद्याच्चतुर्भिश्च चतुर्गुणम्” इति। अस्यार्थः—यत्रैको द्रवः तत्र तेनैव चातुर्गुण्यम्, यत्र तु द्वौ वा तत्र द्वाभ्याम्,

यत्र त्रयस्तत्र त्रिभिरिति चातुर्गुण्यं मिलित्वा, क्षीरन्तु स्नेहसमम्, चतुर्भिरपि मिलित्वैव चातुर्गुण्यम्, एवं सर्वत्र व्याख्येयम्। जीवनीयैरित्यत्र जीवनीयदशकम्, अनुक्तसंख्यत्वादनेनैव कल्कः॥७३॥

छागलाद्यं घृतम्।

आजं चर्मविनिर्मुक्तंत्यक्तशृङ्गखुरादिकम्।
पञ्चमूलीद्वयञ्चैव जलद्रोणे विपाचयेत्।

तेन पादावशेषेण घृतप्रस्थं विपाचयेत्।
जीवनीयैः सयष्ट्याह्वैः क्षीरञ्चैव शतावरीम्॥

छागलाद्यमिदं, नाम्ना सर्ववातविकारनुत्॥

आर्दितेकर्णशूले च वाधिर्य्येमूकमिन्मिने।

जडगद्गदपङ्गूनां खञ्जे गृध्रसिकुब्जयोः।
अपतानेऽपतन्त्रे च सर्पिरेतत् प्रशस्यते॥

द्रोणे द्रव्यतुलाश्रुत्या स्याच्छागदशमूलयोः।
पृथक् तुलार्द्धं यष्ट्याह्वद्वयं देयं द्विधोक्तितः॥७४॥

आज चर्मविनिर्मुक्तमित्यादि—चर्मादिहीनं तरुणच्छागमांसं द्वात्रिंशत्पलमानं गृहीत्वा दशमूलञ्च द्वात्रिंशत्पलमानं जलद्रोणे पक्तव्यमित्याह वृन्दः। चक्रस्त्वाह त्यक्तशृङ्गखुरादिकमिति ग्रहणयोग्यतादर्शनार्थम्, न पुनराकृतिमानग्रहणार्थञ्च, अतः पञ्चाशत्पलानि मांसस्य दशमूलस्य च, अतएव वक्ष्यति द्रोण इति, एवं मयूरादिषु घृतेष्वपि। वृद्धवैद्यव्यवहारस्त्वाकृतिमानेन। केचित्तु शतावर्य्याः कल्कमाहुःरसस्यानुक्तेः, तदयुक्तम्, यतः कल्कद्रव्यमध्ये नोक्तः, अतः क्षीरसाहचर्येण रसो ग्राह्यः। क्षीर-शतावरीरसौ प्रत्येकं स्नेहसमौ। यष्ट्याह्वद्वयं देयं द्विधोक्तित इति स्थलजजलजभेदेन यष्टिमधुद्वयं ग्राह्यमित्यर्थः। वृन्दस्तु “घृते तैल च योगे च यद्द्रव्यं पुनरुच्यते। तज्ज्ञातव्यमिहार्येण भागतो द्विगुणेन च” इति वचनात् यष्टिमधुनो भागद्वयं ग्राह्यमित्याहुः। व्यवहारस्तु वृन्दोक्तमतेनैव॥७४॥

एलादितैलम्।

एला मुरासरलशैलजदारुकौन्तीचण्डाशटीनलदचम्पकहेमपुष्पम्।
स्थौणेयगन्धरसपूतिदलामृणालश्रीवासकुन्दुरुनखाम्बुवराङ्गकुष्ठम्॥

कालीयकं जलदकर्कटचन्दनश्रीर्जात्याः फलं सविकसं सहकुङ्कुमञ्च।
पृक्कातुरुष्कलघु लाभतया विनीय तैलं बलाक्वथन दुग्धयुतञ्च दध्ना।

सार्द्धंपचेत्तु हितमेतदुदाहरन्ति वातामयेषु बलवर्णवयः प्रकारि॥७५॥

एलेत्यादि—कौन्ती रेणुकम्, चण्डा चोरपुष्पी, नलदं मांसी, हेमपुष्पं नागकेशरपुष्पम्, स्थौणेयं ग्रन्थिपर्णम्, गन्धरसः स्वनामख्यातः, पूतिः खट्टाशीं, दलं तेजपत्रम्, अमृणालम् उशीरम्, श्रीवासोनवनीतखोटिः, कुन्दुरुःकुन्दुरुखोटिः, नखं नखी, अम्बु बालकम् वराङ्गं गुडत्वक, कर्कटःसमुद्रकर्कटकः, चन्दनश्रीः श्वेतचन्दनम्, अन्ये तु श्रीः काष्ठखोटिरित्याहुः, जात्याःफलं जातिफलम्, सविकसमिति विकसा मञ्जिष्ठा, पृक्का पिडिकपुष्पं(पिडिं इति भाषा), तुरुष्कः सिल्हकः, लघु अगुरु। लाभतयेति यथालाभं द्रव्यं मानञ्च ग्राह्यम्, लभ्यत इति लाभः, कर्मणि घञ्, नेह भावप्रत्ययः। विनीय-कल्कीकृत्य। तैलमुत्स-र्गतः प्रस्थपरिमितम्, बलाक्वथनं बलाक्वाथः, तस्य च प्रस्थद्वयम्, दुग्धं दधि च प्रत्येकं स्नेहसमम्, एवं मिलित्वा चतुर्गुणः पाकः। अन्ये तु क्वाथश्चतुर्गुणः, दधि दुग्धं प्रत्येकं स्नेहसममित्याहुः। व्यवहारः पुनरनेनैव। इदमेव तैलम् अन्ये पाकभेदेन पठन्ति, यथा,—तिलतैल शः ४, उपेक्षार्थं तिलतैल पल ४, पाकार्थं दथि शः ४, दुग्ध शः ४, कल्कार्थं मञ्जिष्ठा कर्ष १२, इति प्रथमः पाकः। क्वाथार्थं वारियात्वा मूल पल ३२, पानीय शः ३२, शेष शः ८, कलकार्थ रेणुका चोरहुल गन्धरस गुडत्वक् शटी तेजपत्र उशीर कुड मुथा पृक्का सरल शैलज बला एषां प्रत्येकं कर्ष १, इति द्वितीयः पाकः। तृतीयपाके तु कल्कार्थं एलाचि मुरा चम्पककलिका आढकी नागेश्वर गाठियाला खट्टाशी नवनीतखोटी कुन्दरु नखी श्वेतचन्दनशोधितसमुद्रकर्कट कालीयक जातीफल कुंकुम सिल्हक अगुरु मांसी कुड एतत् सर्वं चूर्णींकृत्य गन्धोदकेन तैलसमेन तृतीयः पाकः॥७५॥

बलाशैरीयतैले।

बलानिःक्वाथकल्काभ्यां तैलं पक्वंपयोऽन्वितम्।
सर्ववातविकारघ्नमेवं शैरीयसाधितम्॥७६॥

बलातैले बलाक्वाथस्त्रिगुणः, क्षीरन्तु स्नेहसमम्। अन्ये तु बलाक्वाथश्चतुर्गुणः, दुग्धन्तु घृतसममित्याहुः। एवं शैरीयतैलम्॥७६॥

महाबलातैलम्।

बलामूलकषायस्य दशमूलीकृतस्य च।
यवकोलकुलत्थानां क्वाथस्य पयसस्तथा॥

अष्टावष्टौ शुभा भागास्तैलादेकस्तदेकतः।
पचेदावाप्य मधुरं गणं सैन्धवसंयुतम्॥

तथागुरु सर्जरसं सरलं देवदारु च।
मञ्जिष्ठां चन्दनं कुष्ठमेलां कालानुशारिवाम्।

मांसी शैलेयकं पत्रं तगरं शारिवां वचाम्।
शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम्॥

तत् साधुसिद्धं सौवर्णे राजते मृण्मयेऽपि वा।
प्रक्षिप्यकलसे सम्यक् सुनिगुप्तं निधापयेत्॥

बलातैलमिदं नाम्ना सर्ववातविकारनुत्।

यथाबलमतो मात्रां सूतिकायै प्रदापयेत्।
या च गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान्॥

क्षीणवाते मर्महतेऽभिहते मथितेऽपि वा।
भग्ने श्रमाभिपन्ने च सर्वथैवोपयोजयेत्॥

सर्वानाक्षेपकार्दीश्च वातव्याधीन् व्यपोहति।
हिक्काकासमधीमन्थं गुल्मश्वासं सुदारुणम्॥

षण्मासानुपयुज्यैतदन्त्रवृद्धिमपोहति।
प्रत्यग्रधातुः पुरुषो भवेच्च स्थिरयौवनः॥

एतद्धि राज्ञा कर्त्तव्यं राजमात्राश्च ये नराः।
सुखिनः सुकुमाराश्च धनिनश्चैव ये नराः॥७७॥

बलामूलकषायस्येत्यादि—सुश्रुतस्य। अत्र दशमूलस्य मिलित्वैव क्वाथः, यवकोलकुलत्थानाञ्च मिलित्वा अपरक्वाथश्च, एवं बलाक्वाथेन सह त्रयः क्वाथस्तथा पयश्चेति द्रवचतुष्टयम्। एषां चतुर्णां द्रवाणां प्रत्येकं तैलप्रस्थापेक्षयाष्टगुणो भागः, एवञ्च मिलित्वा तैलात् द्वात्रिंशद् गुणो द्रवो भवति। तैलञ्च मानविशेषानिर्देशात् प्रस्थपरिमितमेव ग्राह्यम्। एकत इति एकीकृत्य। आवाप्य मधुरं गणमिति काकोल्यादिगणं कल्कीकृत्य। सैन्धवसंयुतमिति सैन्धवमगुर्वादि च कल्कीकृत्य पक्तव्यम्। कालानुसारिवा तगरपादिका, तदभावे शियलीछोपडः। तगरं पिण्डतगरमूलं, शारिवा श्यामलता, पुनर्नवान्तः वल्कः।सुनिगुप्तमिति वातातपादिपरिहारेण सुष्ठु रक्षितम्। तैलमिदं सुश्रुते मुडगर्भे पठितं, तेन सूतिकायै प्रदापयेदिति विशेषणोक्तम्। अन्त्रवृद्धिमपोहतीति अप्राप्तफलकोषामन्त्रवृद्धिं व्यपोहतीति, प्राप्तफलकोषयोः पुनरसाध्यत्वात्। राजमात्रा इति राज्ञ इव मात्रा परिच्छदो येषां ते तथा॥७७॥

विष्णुतैलम्।

शालपर्णी पृश्निपर्णी बला च बहुपुत्रिका।
एरण्डस्य च मूलानि बृहत्योः पूतिकस्य च॥

गवेधुकस्य मूलानि तथा सहचरस्य च।
एषान्तु पलिकैः कल्कैस्तैलप्रस्थं विपाचयेत्॥

आजं वा यदि वा गव्यं क्षीरं दद्याच्चतुर्गुणम्।
अस्य तैलस्य पक्वस्य शृणु वीर्यमतः परम्॥

अश्वानां वातभग्नानां कुञ्जराणां तथा नृणाम्।
तैलमेतत् प्रयोक्तव्यं सर्वव्याधिनिवारणम्॥

आयुष्मांश्च नरः पीत्वा निश्चयेन दृढो भवेत्।
गर्भमश्वतरी विन्द्यात् किं पुनर्मानुषी तथा॥

हृच्छूलं पार्श्वशूलञ्च तथैवार्द्धावभेदकम्।
कामलापाण्डुरोगघ्नं शर्कराश्मरीनाशनम्॥

क्षीरोन्द्रिया नष्टशुक्रा जरया जर्जरीकृताः।
येषाञ्चैव क्षयो व्याधिरन्त्रवृद्धिश्च दारुणा॥

अर्दितं गलगण्डञ्च वातशोणितमेव च।
स्त्रियो या न प्रसूयन्ते तासाञ्चैव प्रयोजयेत्॥

एतदङ्गं वरं तैलं विष्णुना परिकीर्तितम्॥७८॥

शालपर्णीत्यादि—स्पष्टम्॥७८॥

नारायणतैलम्।

बिल्वाग्निमन्थः श्योणाकः पाटलः पारिभद्रकः।
प्रसारण्यश्वगन्धा च बृहती कण्टकारिका॥

बला चातिबला चैव श्वदंष्ट्रा सपुनर्नवा।
एषां दशपलान् भागांश्चतुर्दोणोऽम्भसः पचेत्॥

पादशेषं परिस्राव्य तैलपात्रं प्रदापयेत्।
शतपुष्पा देवदारु मांसी शैलेयकं वचा॥

चन्दनं तगरं कुष्ठमेला पर्णीचतुष्टयम्।
रास्ना तुरगगन्धा च सैन्धवं सपुर्ननवम्॥

एषां द्विपलिकान् भागान् पेषयित्वा विनिक्षिपेत्।
शतावरीरसञ्चैव तैलतुल्यं प्रदापयेत्॥

आजं वा यदि वा गव्यं क्षीरं दत्त्वा चतुर्गुणम्।
पाने वस्तौ तथाभ्यङ्गे भोज्ये चैव प्रशस्यते॥

अश्वो वा वातसंभग्नो गजो वा यदि वा नरः।
पङ्गुलः पीठसर्पी च तैलेनानेन सिध्यति॥

अधोभागेच ये वाताः शिरोमध्यगताश्च ये।
दन्तशूले हनुस्तम्भे मन्यास्तम्भे गलग्रहे॥

यस्य शुष्यति चैकाङ्गं गतिर्यस्य च विह्वला।
क्षीणेन्द्रिया नष्टशुक्रा ज्वरक्षीणाश्च ये नराः॥

बधिरा लल्लजिह्वाश्च मन्दमेघस एव च।
अल्पप्रजा च या नारी या च गर्भं न विन्दति॥

वातार्त्तौ वृषणौ येषामन्त्रवृद्धिश्च दारुणा।
एतत् तैलवरं तेषां नाम्ना नारायणं स्मृतम्॥

तगरं नतमत्र स्यादभावे शीतली जटा॥७६॥

नारायणतैले—पारिभद्रकः पालितामादार इति प्रसिद्धः, प्रसारणो गन्धभादा

लिया इति ख्याता, अतिबला गोरक्षतण्डुला, तगरं तगरपादिका, तदभावे शियलीछोपडः, पिण्डतगरमूलमित्यन्ये। आजं वा यदि वा गव्यमिति यद्यपि गव्याजपयसोः प्रायो गुणसाम्यं, तथा च गोक्षीरेण पक्वं तैलमित्यनभिष्यन्दि त्रिदोषहरञ्च भवतीति प्रत्येतव्यम्, अन्येत्वाहुः क्षीरान्तरनिवृत्त्यर्थं विशेषख्यापकमिति। नारायणसंज्ञा चास्य विष्णुनिर्मितत्वात्, शतावरीरससाधितत्वाद्वा॥७६॥

महानारायणतैलम्।

शतावरी चांशुमती पृश्निपर्णी शटी बला।
एरण्डस्य च मूलानि बृहत्योः पूतिकस्य च।

गवेधुकस्य मूलानि तथा सहचरस्य च।
एषां दशपलान् भागान् जलद्रोणे विपाचयेत्॥

पादावशेषे पूते च गर्भञ्चैनं समावपेत्।
पुनर्नवा वचा दारु शताह्वा चन्दनागुरु॥

शैलेयं तगरं कुष्ठमेला मांसी स्थिरा बला।
अश्वाह्वासैन्धवं रास्ना पलार्द्धानि च पेषयेत्॥

गव्याजपयसो प्रस्थौ द्वौ द्वावत्र प्रदापयेत्।
शतावरीरसप्रस्थं तैलप्रस्थं विपाचयेत्॥

अस्य तैलस्य सिद्धस्य शृणु वीर्य्यमतः परम्।
अश्वानां वातभग्नानां कुञ्जराणां नृणां तथा।

तैलमेतत् प्रदातव्यं सर्ववातनिवारणम्॥
आयुष्मांश्च नरः पीत्वा निश्चयेन दृढो भवेत्।

गर्भमश्वतरी विन्द्यात् किं पुनर्मानुषी तथा।
हृच्छूलं पार्श्वशूलञ्च तथैवार्द्धावभेदकम्।

अपचीं गण्डमालाञ्च वातरक्तंहनुग्रहम्।
कामलां पाण्डुरोगञ्च अश्मरीञ्चापि नाशयेत्॥

तैलमेतद् भगवता विष्णुना परिकीर्त्तितम्।
नारायणमिति ख्यातं वातान्तकरणं परम्॥८०॥

महानारायणतैले अंशुमती शालपर्णी, पूतिकस्य नाटाकरञ्च इति ख्यातस्य मूलं ग्राह्यं, गवेधुकं गोरक्षतण्डुला, सहचरोझिण्टी, शताह्वाशुल्फा(सोया) इति ख्याता, चन्दनं रक्तचन्दनं, शैलयं शैलयं, तगरं तगरपादिका, स्थिरा शालपर्णी, अश्वाह्वा अश्वगन्धा। एषां कल्कानां प्रत्येकं पलार्द्धम्, प्रस्थौ द्वौद्वाविति पृथग् द्वौ द्वौ प्रस्थौ॥८०॥

अश्वगन्धातैलम्।

शतं पक्त्वाश्वगन्धाया जलद्रोणेऽशशेषितम्।

विस्राव्य विपचेत् तैलं क्षीरं दत्त्वा चतुर्गुणम्।
कल्कमृणालशालूक-बिसकिञ्जल्कमालती-

पुष्पैर्ह्रीवेरमधुकशारिवापझकेशरैः॥
मेदापुनर्नवाद्राक्षामञ्जिष्ठाबृहतीद्वयैः।

एलैलबालुत्रिफला-मुस्तचन्दनपद्मकैः॥
पक्वं रक्ताश्रयं वातं रक्तपित्तमसृग्दरम्।

हन्यात् पुष्टिबलं कुर्य्यात् कृशानां मांसवर्द्धनम्॥
रेतोयोनिविकाराघ्नं व्रणदोषापकर्षणम्।

षण्ढानपि वृषान् कुर्य्यात् पानाभ्यङ्कानुवासनैः॥८१॥

अश्वगन्धातैले अंशशेषितमिति पादशेषितम्। मृणालं स्थूलमृणालं, विसन्तु स्वलपमृणालं, विसशब्देन मृणालनिर्गतः प्रतानः, किञ्जल्कं पद्मवराटः, पद्मकेशरस्य उक्तत्वात्, अन्ये तु उत्पलकिञ्जल्कमित्याहुः। मेदास्थाने सहेति पाठे सहा महासहा माषपर्णी॥८१॥

मूलकाद्यं तैलम्।

मूलकस्वरसं तैलं क्षीरदध्यम्लकाञ्जिकम्।
तुल्यं विपाचयेत् कल्कैर्बलाचित्रकसैन्धवैः।

पिप्पल्यतिविषारास्ना-चविकागुरुचित्रकैः।
भल्लातकवचाकुष्ठ-श्वदंष्ट्राविश्वभेषजैः॥

पुष्कराह्वशटीबिल्वशताह्वानतदारुभिः।
तत् सिद्धं पीतमत्युग्रान् हन्ति वातात्मकान् गदान्॥८२॥

मूलकेत्यादि—चरकस्य। मूलकस्वरसादीनि चत्वारि द्रवाणि तैलसमानि। बलाचित्रकसैन्धवैरित्यत्र बलाशिग्रुकसैन्धवैरित्येव पाठश्चरकेषु दृश्यते, अन्ये तु उभयत्र चित्रकदर्शनात् एकत्र चित्रकशब्देनैरण्डमूलं व्याचक्षते, तत्तु टोकाकृद्भिर्न व्याख्यातमिति॥८२॥

रसोनतैलम्।

रसोनकल्कस्वरसेन पक्वंतैलं पिबेद् यस्त्वनिलामयार्त्तः।
तस्याशु नश्यन्ति च वातरोगा ग्रन्था विशाला इव दुर्गृहीताः॥८३॥

रसोनकल्कस्वरसेन पक्वमिति रसोनक्वाथकल्काभ्यामित्यर्थः। अत्र स्वरस एव चतुर्गुणः, अन्ये तु स्वरसः स्नेहसमः, तोयं त्रिगुणमिति। तथा वातरोगाः नश्यन्ति यथा विशाला दुगृहीताः अनधिगतवाक्यार्थाःअसंस्कृताः वा ग्रन्थाः शास्त्राणि॥८३॥

केतक्याद्यं तैलम्।

केतकिनागबलातिबलानां यद्बहुलेन रसेन विपक्वम्।

तैलमनल्पतुषोदकसिद्धं मारुतमस्थिगतं विनिहन्ति॥
अनल्पवचनात् तत्र तुल्ये क्वाथतुषोदके।

अकल्कोऽपि भवेत् स्नेहो यः साध्यः केवले द्रवे॥८४॥

केतकीत्यादि—वाग्भटस्य।केतक्यादीनामतिबलान्तानां मिलितानां क्वाथः। बहुलेनेति घनेन, बहुलेनेति वचनात् अष्टभागावशिष्टत्वं क्वाथस्य, स च चतुर्गुणः। अनल्पेति वचनात् काञ्जकमपि चतुर्गुणमिति चक्रः, अतोऽष्टगुणः पाक इत्यर्थः॥८४

सैन्धवाद्यं तैलम्।

द्वे पले सैन्धवात् पञ्च शुण्ठ्या ग्रन्थिक-चित्रकात्।
द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वेतथाढके॥

आरनालात् पचेत् प्रस्थं तैलमेतैरपत्यदम्।
गृध्रस्यूरुग्रहार्शोऽर्त्तिसर्ववातविकारनुत्॥८५॥

सैन्धवाद्ये—भल्लातकास्थीनि विंशतिरित्याकृतिगणनातः॥८५॥

स्वल्पमाषतैलम्।

तैलं सङ्कुचितेऽभ्यङ्गो माषसैन्धवसाधितम्।
बाहुशीर्षगते नस्यं पानञ्चौत्तरभक्तिकम्॥

क्वाथोऽत्र माषनिष्पाद्यः सैन्धवं कल्कमेव च॥८६॥

स्वल्पमाषतैले माषसैन्धवसाधितामिति माषकस्य क्वाथः, सैन्धवस्य तु कल्क इति चक्रः। अन्ये तु केवलसैन्धवस्य कुत्रापि वल्कादर्शनान्माषसैन्धवयोः कल्कः, अनुक्तद्रत्वाज्जलं चतुर्गुणमित्याहुः॥८६॥

(१) माषतैलम्—

माषात्मगुप्तातिविषोरुवूकरास्नाशताह्वालवणैः प्रपिष्टैः।
चतुर्गुणे माषबलाकषाये तैलं कृतं हन्ति च पक्षवातम्॥८७॥

माषात्मगुप्तेत्यादौ अतिविषा मूर्वेति निश्चलः, यष्टिमध्वित्यन्ये। माषवलयोश्च मिलित्वा चतुर्गुणः क्वाथः॥८७॥

(२)मापतैलम्—माषप्रस्थं समावप्य पचेत् सम्यग्जलाढके।
पादशेषे रसे तस्मिन् क्षीरं दत्वा चतुर्गुणम्॥

प्रस्थञ्च तिलतैलस्य कल्कं दत्त्वाक्षसम्मितम्।
जीवनीयानि यान्यष्टौ शतपुष्पां ससैन्धवाम्।

रास्नात्मगुप्तामधुकं बलाव्योषं त्रिकण्टकम्॥

पक्षाघातेऽर्दिते वाते कर्णशूले सुदारुणे।

मन्दश्रुतौ चाश्रवणे तिमिरे च त्रिदोषजे॥

हस्तकम्पे शिरःकम्पे विश्वच्यामववाहुके।

शस्तं कलायखञ्जे च पानाभ्यञ्जनवस्तिभिः॥

माषतैलमिदं श्रेष्ठमूर्ध्वजत्रुगदापहम्॥८८॥

माषप्रस्थमित्यादौ—जीवनीयानि यान्यष्टाविति अष्टवर्गः॥८८॥

(३) भाषतैलम्—माषातसीयवकुरण्टककण्टकारी
गोकण्टटुण्टुकजटाकपिकच्छुतोयैः।

कार्पासकास्थिशणबीजकुलत्थकोल-
क्वाथेन वस्तपिशितस्य रसेन चापि॥

शुण्ट्या समागधिकाया शतपुष्पया च
सैरण्डमूलसपुनर्नवया सरण्या।

रास्नाबलामृतलताकटुकैर्विपक्वं
माषाख्यमेतदवबाहुरञ्च तैलम्॥

अर्द्धाङ्गशोषमपतानकमाढ्यवात-
माक्षेपकं सभुजकम्पशिरःप्रकम्पम्।

नस्येन वस्तिविधिना परिषेचनेन
हन्यात् कटीजघनजानुरुजश्च सर्वाः॥८९॥

** **माषातसीत्यादौ—अतसी वर्त्तुलकलायः, कश्चिदतिविषेत्याह, कुरुण्टको झिण्टी, गोकण्टको गोक्षुरः, टुण्टुकजटा श्योणाकमूलं, कपिकच्छुः शूकशिम्बी। माषादिकपिकच्छ्वन्तेनैकः क्वाथः, कार्पासास्थिप्रभृतीनां कोलान्तेनापरः क्वाथः, कोलञ्च शुष्कबदरम्। तथा वस्तपिशितस्य छागमांसस्य क्वाथस्तृतीयः। एवं त्रिभिर्द्रवैर्मिलित्वा चातुर्गुण्यम्, “एकद्वित्रिद्रवद्रव्यैः कुर्य्यात् स्नेहं चतुर्गुणम्" इति वचनात्। सारणी प्रसारणी, अमृतलता गुडूची, कटुकं मरिचं न तु लताकस्तूरी॥८॥

महामाषतैलम्।

माषस्यार्द्धाढकं दत्त्वा तुलार्द्धं दशमूलतः।
पलानि छागमांसस्य त्रिंशद्द्रोणेऽम्भसः पचेत्।

पूतशीते कषाये च चतुर्थांशावतारिते।
प्रस्थञ्च तिलतैलस्य पयो दत्त्वा चतुर्गुणम्।

आत्मगुप्तोरुवूकश्च शताह्वा लवणत्रयम्।
जीवनीयानि मञ्जिष्ठा चव्यचित्रककट्फलम्॥

सव्योषं पिप्पलीमूलं रास्नामधुकसैन्धवम्।
देवदार्वमृता कुष्ठं वाजिगन्धा वचा शटी।

एतैरक्षसमैः कल्कैः साधयेन्मृदुनाग्निना।
पक्षाघातार्दिते वाते वाधिर्य्ये हनुसंग्रहे।

कर्णनादे शिरःशूले तिमिरे च त्रिदोषजे॥

पाणिपादशिरोग्रीवाभ्रमणे मन्दचंक्रमे।
कलायखञ्जे पाङ्गुल्ये गृध्रस्यामवबाहुके॥

पाने वस्तौतथाभ्यङ्गे नस्यकर्णाक्षिपूरणे।
तैलमेतत् प्रशंसन्ति सर्ववातरुजापहम्॥१०॥

माषस्यार्द्धाढकमित्यादि—अर्द्धाढकं द्वात्रिंशत् पलानि। अत्रापि पूर्ववत् यष्टिमधुकस्य भागद्वयम्। लवणत्रयमिति सौवर्चलं विडं सैन्धवञ्च, पुनः सैन्धवमिति वचनात् सैन्धवस्यापि भागद्वयम्। जीवनीयानि इति जीवनीयदशकम्। पाणिपादशिरोग्रीवाभ्रमण इति पाणिपादादिकम्प इत्यर्थः॥१०॥

त्रिशतीयप्रसारणीतैलम्।

समूलपत्रशाखाञ्च जातसारां प्रसारणीम्।
कुट्रयित्वा पलशतं दशमूलशतं तथा।

अश्वगन्धापलशतं कटाहे समधिक्षिपेत्।
वारिद्रोणे पृथक् पक्त्वा पादशेषावतारितम्।

कषायाः सममात्रास्तु तैलपात्रं प्रदापयेत्॥
दध्नस्तथाढकं दत्वा द्विगुणञ्चापि काञ्जिकम्।

चतुर्गुणेन पयसा जीवनीयैः पलोन्मितैः॥
शृङ्गवेरपलान् पञ्च त्रिंशद्भल्लातकानि च॥

द्वे पले पिप्पलीमूलाच्चित्रकस्य पलद्वयम्।
यवक्षारपले द्वे च मधुकस्य पलद्वयम्।

प्रसारिणीपले द्वे च मधुकस्य पलद्वयम्।
सौवर्चलपले द्वे च मञ्जिष्ठायाः पलद्वयम्।

सर्वाण्येतानि संस्कृत्य शनैर्मृद्वग्निना पचेत्॥
एतदभ्यञ्जने श्रेष्ठं वस्तिकर्मनिरूहणे।

पाने नस्ये च दातव्यं न क्वचित् प्रतिहन्यते॥
अशीतिं वातजान् रोगांश्चत्वारिंशच्च पैत्तिकान्।

विशतिं श्लैष्मिकांश्चैव सर्वानेतान् व्यपोहति॥
गृध्रसीमास्थिभङ्गञ्च मन्दाग्नित्वमरोचकम्।

अपस्मारमथोन्मादं विभ्रमं मन्दगामिताम्॥
त्वग्गताश्चैव ये वाताः शिरासन्धिगताश्च ये।

जानुसन्धिगताश्चैव पादपृष्ठगतास्तथा॥
अश्वो वाताच्च सभग्नो गजो वा यदि वा नरः।

प्रसारयति यस्माद्धि तस्मादेषा प्रसारणी।
इन्द्रियाणां प्रजननी वृद्धानाञ्च रसायनी।

एतेनान्धकवृष्णीनां कृतं पुंसवनं महत्॥
प्रसारणीतैलमिदं बलवर्णाग्निवर्द्धनम्।

अपनयति वलीपलितमुत्पाटयति पक्षघातम्।
वातस्तम्भं सर्वाङ्गगतं वातगुल्मञ्च नाशयति।

एतदुपसेव्यमानः प्रसन्नवर्णेन्द्रियो भवति॥९

१॥

समूलेति—स्पष्टम्॥९१॥

सप्रप्रस्थमाषतैलम्।

माषक्वाथे बलाक्वाथे रास्नाया दशमूलजे।
यवकोलकुलत्थानां छागमांसभवे पृथक्॥

प्रस्थे तैलस्य च प्रस्थं क्षीरं दत्त्वा चतुर्गुणम्।
रास्नात्मगुप्तासिन्धूत्थ-शताह्वैरण्डमुस्तकैः॥

जावनीयैर्बलाव्योषैः पचेदक्षसमैर्बुधैः।
हस्तकम्पे शिरःकम्पे बाहुशोषेऽवबाहुके॥

वाधिर्य्येकर्णशूले च कर्णनादे च दारुणे।
विश्वच्यामर्दिते कुब्जे गृध्रस्यामपतानके।

वस्त्यभ्यञ्जनपानेषु नावनेषु च दापयेत्।
माषतैलमिदं श्रेष्ठमूर्द्ध्वजत्रुगदापहम्।
क्वाथे प्रस्थाः षडेवात्र विभक्त्यन्त्येन भाषिताः॥९२॥

सप्तप्रस्थमाषतैले क्वाथस्य प्रस्थस्थाप्यत्वान्माषादीनां प्रत्येकं प्रस्थो ग्राह्यः। मिलितदशमूलप्रस्थः, तथा यवकोलकुलत्थानां मिलित्वैव प्रस्थः। सर्वत्रैव चतुर्गुणं जलं देयम्, चतुर्भागोऽवशेष्यः। अतएवाह क्वाथप्रस्थाः षडेवात्रेत्यादि। जीवनीयैरिति जीवनीयदशकैः॥९२॥

महामाषतैलम्।

द्विपञ्चमूलीं निःक्वाथ्य तैलात् षोडशभिर्गुणैः।
माषाढकं साधयित्वा तं निर्य्यूहं चतुर्गुणम्॥

ग्राहयित्वा तु विपचेत् तैलप्रस्थं पयःसमम्।
कल्कार्थञ्च समावाप्य भिषग् द्रव्याणि बुद्धिमान्॥

अश्वगन्धां शटीं दारु बलां रास्नां प्रसारणीम्।
कुष्ठं परूषकं भार्गीं द्वे विदार्य्यौ पुनर्नवाम्॥

मातुलुङ्गफलाजाज्यौ रामठं शतपुष्पिकाम्।
शतावरी गोक्षुरकं पिप्पलीमूलचित्रकम्॥

जीवनीयगणं सर्वंसंहृत्यैव ससैन्धवम्।
तत् साधु सिद्धं विज्ञाय माषतैलमिदं महत्।

बस्त्यभ्यञ्जनपानेषु नावने च प्रयोजयेत्॥
पक्षाघाते हनुस्तम्भे छर्दिते सापतन्त्रके।

अवबाहुकविश्वच्योः खञ्जपङ्गुलयोरपि।
हनुमन्याग्रहे चैव अधिमन्थे च वातिके॥

शुक्रक्षये कर्णनादे कर्णशूले च दारुणे।
कलायखञ्जशमने भैषज्यमिदमादिशेत्॥

दशमूलाढकं द्रोणे निःक्वाथ्य पादिको भवेत्।
क्वाथश्चतुर्गुणस्तैलान्माषक्वाथेऽप्ययंविधिः॥९३॥

द्विपञ्चमूलीमित्यादि—अत्र माषस्य क्वाथस्याढकमानत्वमुक्तम्, तत्साहचर्य्याद्दशमूलस्यापि क्वाथस्थाढकं ज्ञेयम्। तैलात् षोडशभिर्गुणैरिति तैलप्रस्थापेक्षया षोडशगुणजलैरित्यर्थः, प्रस्थः षोडशगुणः सन् द्रोणं भवति, तेन जलद्रोणेनेत्यर्थः। माषाढकञ्च तैलात् षोडशगुणैर्जलैःसाधयित्वेति योज्यम्। तं दशमूलक्वाथं तथा माषक्वाथञ्च तैलाच्चतुर्गुणं यथा स्यात् ग्राहयित्वा तैलप्रस्थं विपचेदिति योज्यम्। पयःसममिति दुग्धं तुल्यं तेन नवगुणः पाक इति चक्रः। अतएव वक्ष्यति दशमूलाढकंद्रोण इत्यादि। अन्ये तु द्विपञ्चमूलीं माषाढञ्चैकीकृत्य जलद्रोणमात्रेण साधयेदित्याहुः। तन्मते पञ्चपुणः पाकः। अपरे तु दशमूलकषायेण तैलात् षोडशगुणेन माषाढकं साधयित्वा तेन पादावशेषेण तैलप्रस्थपाक इत्याहुः। अत्र पक्षं मिलितदशमूलपल २५६, जल शराव २५६, शेष शराव ६४, किन्तु अयं पक्षो वृद्धैर्नाद्रियते कुत्रापि एवंविधकल्पनाया अदृष्टत्वात्। द्वे विदार्य्यौ विदारीकन्दः क्षीरविदारी च, मातुलुङ्गफलं मातुलुङ्गस्य फलम्। जीवनीयगणमिति जीवनीयदशकम्॥९३॥

मज्जस्नेहः।

ग्राम्यानूपौदकानान्तु भिन्नास्थीनि पचेज्जले।
तं स्नेहं दशमूलस्य कषायेण पुनः पचेत्॥

जीवकर्षभकास्फोता विदारीकपिकच्छुभिः।
वातघ्नैर्जीवनीयैश्च कल्कैर्द्विक्षीरभागिकम्॥

तत् सिद्धं नावनाभ्यङ्गात् तथा पानानुवासनात्।
शिरापर्वास्थिकोष्ठस्थं प्रणदत्याशु मारुतम्॥

ये स्युः प्रक्षीणमज्जानः क्षीणशुक्रौजसश्च ये।
बलपुष्टिकरं तेषामेतत् स्यादमृतोपमम्॥९४॥

ग्राम्यनूपौदकानामित्यादौ—द्विगुणक्षीरसाहचर्य्याद्दशमूलीक्वाथोऽपि द्विगुण एव ग्राह्यः, अन्ये चतुर्गुणमित्याहुः। वातघ्नैरिति मधुरलवणस्कन्धाद्युक्तैर्वातहरद्रव्यैः भद्रदार्वादिगणैः। जीवकर्षभकयोः पुनः पाठो भागद्वयग्रहणार्थः। आस्फोता हाफरमालीति ख्याता॥९४॥

चतुःस्नेहः।

प्रस्थः स्यात् त्रिफलायास्तु कुलत्थकुडवद्वयम्।
कृष्णगन्धात्वगाढक्योः पृथक् पञ्चपलं भवेत्॥

रास्नाचित्रकयोर्द्वे दशमूलं पलोन्मितम्।
जलद्रोणे पचेत् पादशेषं प्रस्थोन्मितं पृथक्॥

सुरारनालदध्यम्लसौवीरकतुषोदकम्।
कोलदाडिमवृक्षाम्लरसं तैलं घृतं वसाम्॥

मज्जानञ्च पयश्चैव जीवनीयपलानि षट्।
कल्कं दत्त्वा महास्नेहं सम्यगेनं विपाचयेत्॥

शिरामज्जास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु।
वेपनाक्षेपशुलेषु तमभ्यङ्गे प्रदापयेत्॥९५॥

प्रस्थःस्यादित्यादि—अत्र त्रिफलाया मिलित्वा प्रस्थः, कृष्णगन्धा शोभञ्जनम् अस्यास्त्वक् मूलत्वक्। अन्ये तु कृष्णगन्धा शमीत्याहुः, तन्न, जतूकर्णे ‘‘त्रिफलाप्रस्थः कुलत्थार्द्धं शिप्रुत्वगाढकी " इत्यादि पाठात्। दशमूलं पलोन्मितमिति प्रत्येकम्। प्रस्थोन्मितं पृथगिति सुरादीनां पयोऽन्तानां प्रत्येकं प्रस्थ इत्यर्थः। जीवनीयपलानि षडिति मिलित्वा। महास्नेह इति चतुःस्नेहस्य संज्ञा॥९५॥

कुब्जप्रसारणीतैलम्।

प्रसारणीशतं क्षुण्णं पचेत् तोयार्मणे शुभे।
पादशेषे समं तैलं दधि दद्यात् सकाञ्जिकम्॥

द्विगुणञ्च पयो दत्त्वा कल्कान् द्विपलिकांस्तथा।
चित्रकं पिप्पलीमूलं मधुकं सैन्धवं वचाम्॥

शतपुष्पां देवदारु रास्नां वारणपिप्पलीम्।
प्रसारण्याश्च मूलानि मांसी भल्लातकानि च।

पचेन्मृद्वग्निना तैलं सर्ववातविकारनुत्॥
अशीतिं नरनारीस्थान् वातरोगान् व्यपोहति।

कुब्जस्तिमितपङ्गुत्वंगृध्रसीं खुडकार्दितम्।
हनुपृष्ठशिरोग्रीवास्तम्भं वापि नियच्छति॥९६॥

कुब्जप्रसारणीतैले सममिति पादावशिष्टक्वाथसमम् आढकमित्यर्थः। दधि दद्यात् सकाञ्जिकमिति दधिकाञ्जिके तैलसमे। तेन तैलदधिकाञ्जिकानां प्रत्येकमाढकम्, द्विगुणञ्च पय इति आढकद्वयमित्यर्थः। अन्ये तु सकाञ्जिकमिति पयोविशेषणं कृत्वा काञ्जिकस्यापि द्वैगुण्यमिच्छन्ति, व्यवहारस्तु पूर्वेणैव। खुडको ग्रन्थिवातः, अन्ये तु वातकण्टक इत्याहुः॥९६॥

त्रिशतीयप्रसारिणीतैलम्।

प्रसारण्यास्तुलामश्वगन्धाया दशमूलतः।
तुलां तुलां पृथग्वारिद्रोणे पादावशेषिते॥

तैलाढकं चतुःक्षीरं दधितुल्यं द्विकाञ्जिकम्।
द्विपलैर्ग्रन्थिकक्षारप्रसारण्यक्षसैन्धवैः।

समञ्जिष्ठाग्नियष्ट्याह्नैःपलिकैर्जीवनीयकैः।
शुण्ठ्याः पञ्चपलं दत्त्वा त्रिंशद्भल्लातकानि च।

पचेद्वस्त्यादिना वातं हन्ति सन्धिशिरास्थिगम्॥
पुंस्त्वोत्साहस्मृतिप्रज्ञाबलवर्णाग्निसिद्धये।

प्रसारणीयं त्रिशती अक्षं सौवर्चलन्त्विह॥९७॥

प्रसारण्यास्तुलामित्यादौ—दशमूलस्य मिलित्वा तुलः। पृथक् वारिद्रोण इति तिसृषु तुलासु प्रत्येकं जलद्रोणदानमित्यर्थः। सैन्धवसान्निध्यादक्षं सौवर्चलं गृह्णन्ति वृद्धाः। ग्रन्थ्यादीनां यष्ट्याह्वन्तानां प्रत्येकं द्विपलम्, जीवनीयदशकन्तु प्रत्येकं पलिकम्। त्रिंशद् भल्लातकानीत्याकृतिमानात्॥१७॥

सप्तशतिकं प्रसारणीतैलम्।

समूलपत्रामुत्पाठ्य शरत्काले प्रसारणीम्।
शतं ग्राह्यं सहचरात् शतावर्य्याःशतं तथा॥

बलात्मगुप्ताश्वगन्धा केतकीनां शतं शतम्।
पचेच्चतुर्गुणे तोये द्रवैस्तैलाढकं भिषक्।

मस्तु मांसरसं चुक्रंपयश्चाढकमाढकम्॥
दध्याढकसमायुक्तं पाचयेन्मृदुनाग्निना॥

द्रव्याणान्तु प्रदातव्या मात्रा चार्द्धपलोन्मिता।
तगरं मदनं कुष्ठं केशरं मुस्तकं त्वचम्॥

रास्ना सैन्धवपिप्पल्यौ मांसी मञ्जिष्ठयष्टिका।
तथा मेदा महामेदा जीवकर्षभकौ तथा॥

शतपुष्पा व्याघ्रनखं शुण्ठी देवाह्वमेव च।
काकोली क्षीरकाकोली वचा भल्लातकं तथा॥

पेषयित्वा समानेतान् साधनीया प्रसारणी।
नातिपक्वंन हीनञ्च सिद्धं पूतं निधापयेत्॥

यत्र यत्र प्रदातव्या तन्मे निगदतः शृणु।
कुब्जानामथ पङ्गूनां वामनानां तथैव च॥

यस्य शुष्यति चैकाङ्गं ये च भग्नास्थिसन्धयः।
वातशोणितदुष्टानां वातोपहतचेतसाम्॥

स्त्रीमद्यक्षीणशुक्राणां वाजीकरणमुत्तमम्।
बस्तौ पाने तथाभ्यङ्गे नस्ये चैव प्रदापयेत्।
प्रयुक्तं शमयत्याशु वातजान् विविधान् गदान्॥९

८॥

समूलपत्रामित्यादौ—शतं ग्राह्यमिति प्रसारण्या इत्यर्थः। तथा शब्दात् सहचराच्च शतमित्यन्वयः। केतकी केओड़ा इति ख्याता। पचेच्चतुर्गणे तोय इत्यत्र पलोल्लेखागतमानत्वाच्चतुर्गुणतोयस्य न द्वैगुण्यम्। अन्ये तु सम्यग् वीर्य्याधानार्थं द्वैगुण्यात् चतुर्गुणमष्टगुणं गृह्णन्ति, इदन्तु न व्यवहारसिद्धम्। द्रवैरिति प्रसारख्यादीनां केतक्यन्तानां पादावशिष्टक्वाथैः। चुक्रं ग्रहण्यधिकारोक्तविधिना कार्य्यमित्येके, अन्ये तु महाराजप्रसारण्यां वक्ष्माणेन विधिनेत्याहुः। द्रव्याणामित्यादि कल्कद्रव्याणाम्। अर्द्धपलांशिका इति अर्द्धपलमाना। तगरं पूर्ववद्व्याख्येयम्, केशरं नागकेशरम्, मञ्जिष्ठयष्टिका इति मञ्जिष्ठायाश्छान्दसत्वाद् ह्रस्वः, यष्टिका यष्टिमधु। व्याव्रनखं नखी, देवाह्वंदेवदारु। भल्लातकासहत्वे रक्तचन्दनं देयम्॥९८॥

एकादशशतिकं प्रसारणीतैलम्।

शाखामूलदलैः प्रसारणितुलास्तिस्रः कुरुण्टात् तुले
छिन्नायाश्च तुले तुले रुवुकतो रास्नाशिरीषात् तुलाम्।

देवाह्वाच्च सकेतकाद् घटशते निःक्वाथ्य कुम्भांशिके
तोये तैलघटं तुषाम्बु कलसौ दत्वाढकं मस्तुनः॥

शुक्लाच्छागरसादथेक्षुरसतः क्षीराच्च दत्त्वाढकम्।
पृक्काकर्कटजीवकाद्यविकसाकाकोलिकाकच्छुरा-

सूक्ष्मैलाघनसारकुन्दुसरलाकाश्मीरमांसीनखैः।
कालीयोत्पलपद्मकाह्वयनिशाकक्कोलकग्रन्थिकैः

चाम्पेयाभयचोचषूगकटुकाजातीफलाभीरुभिः॥
श्रीवासामरदारुचन्दनवचाशैलेयसिन्धूद्भवैः

तैलाम्भोदकटम्भराङ्घ्रिनलिकावृश्चीरकच्चोरकैः॥
कस्तूरीदशमूलकेतकनतध्यामाश्वगन्धाम्बुभिः

कौन्तीतार्क्ष्यजशल्लकीफललघुश्यामाशताह्वामयैः।
भल्लातत्रिफलाब्जकेशरमहाश्यामालवङ्गान्वितैः

सव्योषैस्त्रिपलैर्महीयसि पचन्मन्देन पात्रेऽग्निना॥
पानाभ्यञ्जनवस्तिनस्यविधिना तन्मारुतं नाशयेत्

सर्वार्द्धाङ्गगतं तथावयवगं सन्ध्यस्थिमज्जाश्रितम्।
श्लेष्मोत्थानथ पैत्तिकांश्च शमयेन्नानाविधानामयान्

धातून् बृंहयति स्थिरञ्च कुरुते पुंसां नवं यौवनम्॥

वृद्धस्यापि बलं करोति सुमहद्वन्ध्यासु गर्भप्रदम्
पीत्वा तैलमिदं जरत्यपि सुतं सूतेऽमुना भूरुहाः।

सिक्ताः शोषमुपागताश्च फलिनः स्निग्धा भवन्ति स्थिराः
भग्नाङ्गाः सुदृढीभवन्ति मनुजाःगावो हयाः कुञ्जराः॥९९॥

शाखामूलदलैरित्यादि—अत्र तृतीया सहार्थे विशेषण वा। कुरुण्टो नीलझि

ण्टी। रास्नाशिरीषयोर्मिलित्वा एका तुला। देवदारुकेतकयोरपि मिलित्वैव तुला। घटशत इति द्रोणशते, कुम्भांशिक इति द्रोणद्वयशेषे, तदुक्तं “द्रोणद्वयन्तु शूर्पं स्याज्ज्ञेयः कुम्भः स एव च।” अन्ये तु कुम्भो द्रोणमित्याहुः, “नल्वणार्मणोन्मानघटकुम्भकलसाः पर्य्यायाः” इति वाग्भटवचनात् कुम्भशब्दोऽत्र द्रोणपर्य्यायः। तेन कुम्भांशिके इत्यस्य द्रोणशेषे इत्यर्थः, किन्तु व्यवहारः पूर्वेणैव। अत्र द्रव्यजलयोः बहुलत्वादेकस्मिन् पात्रे क्वाथो दुष्करः तेन द्रव्यं विभज्य जलं तदनुसारेण दत्त्वा क्वथनीयम्। तैलघटं तैलद्रोणम्। तुपाम्बुकलसाविति काञ्जिकस्य द्रोणद्वयम्। शुक्तादीनाञ्च क्षीरान्तानां प्रत्येकमाढकम्। जीवकाद्यं जीवनीयदशकमष्टवर्गो वा, काकोल्या भागद्वयं जीवनीयगणेऽप्यस्याः पठितत्वाद, विकसा मञ्जिष्ठा, कच्छुरा शूकशिम्बी, दुरालभेत्यन्ये, घनसारः कर्पूरम्, कुन्दुः कुन्दुरुसंज्ञकम् सुगन्धि गन्धद्रव्यम्, कुन्दुरखोटिरिति ख्याता। सरला सरलकाष्ठम्, न तु त्रिवृता, सुगन्धिद्रव्यान्तः पठितत्वात्, एवं ग्रन्थिकमपि ग्रन्थिपर्णी, न तु पिप्पली-मूलम्, उत्पलमप्युत्पलपुष्पं न तु कुष्ठम्, तस्य वक्ष्यमाणत्वात्। चाम्पेयं चम्पककलिका, नागकेशरो वा, अभयमुशीरम्, चोचं गुडत्वक्, पूगं पूगफलम्, पूगवृक्षत्वगित्यन्ये, कटुका लताकस्तूरी, अभीरुः शतमूली, श्रीवासो नवनीतखोटिः, चन्दनं श्वेतचन्दनम्, तैलं सिल्हकम्, कटम्भरा प्रसारणी वृद्धिकपत्री वा, तस्या अङ्गिर्मूलम्, वृश्चीरः श्वेतपुनर्नवा, कप्वोरको गन्धशटी, ध्यामं गन्धतृणम्, कौन्ती रेणुका, तार्क्ष्यजं रसाञ्जनम्, फलं क्ट्फलं मदनफलं वा, लघु अगुरुः, श्यामा प्रियंगुः, महाश्यामा श्यामलता, एषां प्रत्येकं त्रिपलम्, व्योषस्य मिलित्वा त्रिपलं ग्राह्यम्। अत्र कल्कभूयस्त्वादेलादितैलवदधमैर्गन्धद्रव्यैः प्रथमः पाकः,मध्यमैस्तु द्वितीयः, उत्तमैस्तु तृतीय इति। अत्र गन्धवृद्ध्यर्थं कर्पूरकस्तूरीभ्यां पत्रकल्कः कार्य्यः पत्रकल्कलक्षणाञ्चाग्रे वाच्यम्। पत्रकलकस्य तु मानमत्र तैलानुरूपतः, सुगन्धितैलान्तरोक्तमानानुसाराद्वा ज्ञेयम्॥९९॥

अष्टादशशतिकं प्रसारणीतैलम्।

समूलदलशाखायाः प्रसारण्याः शतत्रयम्।
शतमेकं शतावर्य्या अश्वगन्धाशतं तथा॥

केतकीनां शतञ्चैकं दशमूलाच्छतं शतम्।
शतं वाट्यालकस्यापि शतं सहचरस्य च॥

जलद्रोणशतं दत्वा शतभागावशेषितम्।
तच्छेषेण कषायेण कषायद्विगुणेन च॥

सुव्यक्तेनारनालेन दधिमण्डाढकेन च।
क्षीरशुक्लेक्षुनिर्यासच्छागमांसरसाढकैः॥

तैलाद् द्रोणं समायुक्तं दृढे पात्रे निधापेयत्।
द्रव्याणि यानि पेष्याणि तानि वक्ष्याम्यतः परम्।

भल्लातकं नवं शुण्ठी पिप्पली चित्रकं शटी॥
वचा पृक्का प्रसारण्याः पिप्पल्या मूलमेव च।

देवदारु शताह्वा च सूक्ष्मैला त्वक् च बालकम्॥
कुङ्कुमं मदमञ्जिष्ठा तुरुष्कं नखिकागुरुः।

कर्पूरकुन्दुरुनिशा लवङ्गध्यामचन्दनम्॥
कक्कोलं नलिका मुस्तं कालीयोत्पलपत्रकम्।

शटीहरेणुशैलेयं श्रीवासञ्च सकेतकम्॥
त्रिफलाकच्छुराभीरुसरलापद्मकेशरम्।

प्रियङ्गूशीरनलदं जीवकाद्यं पुनर्नवा॥
दशमूल्यश्वगन्धे च नागपुष्पं रसाञ्जनम्।

कटुकाजातिपूगानां फलानि शल्लकीरसः॥
भागांस्त्रिपलिकान् दत्त्वा शनैर्मृद्वग्निना पचेत्।

विस्तीर्णे सुदृढे पात्रे पाक्यैषा तु प्रसारणी।
प्रयोगः षड्विधश्चात्र रोगार्त्तानां विधीयते॥

अभ्यङ्गात् त्वग्गतं हन्ति पानात् कोष्ठगतं तथा॥
पक्वाशयगते वस्तिर्निरूहःसार्वकायिके।

भोजनात् सूक्ष्मनाडीस्थान् नस्यादूदूर्ध्वगतं तथा॥
एतद्धि बडवाश्वानां किशोराणां यथामृतम्।

एतदेव मनुष्याणां कुञ्जराणां गवामपि॥
अनेनैव च तैलेन शुष्यमाणा महाद्रुमाः।

सिक्ताःपुनः प्ररोहन्ति भवन्ति फलशालिनः।
वृद्धोऽप्यनेन तैलेन पुनश्च तरुणायते।

न प्रसूते च या नारी सा च पीत्वाप्रसूयते।
अप्रजः पुरुषो यस्तु सोऽपि पीत्वासुतं लभेत्॥

अशीतिं वातजान्रोगान् श्लैष्मिकान् पित्तजानपि।
सन्निपातसमुत्थांश्चा नाशयेत् क्षिप्रमेव तु॥

एतेनान्धकवृष्णीनां कृतं पुंसवनं महत्।

कृत्वा विष्णोर्बलिञ्चापि तैलमेतत् प्रयोजयेत्॥
क्वाथे तुलार्द्धं रास्नायाः किलिमस्य च दीयते।

भल्लातकासहत्वे तु तत् स्थाने रक्तचन्दनम्॥
त्वक्पत्रपत्रमधुरी-कुष्ठचम्पककोरिकाः।

ग्रन्थिकोषौ मरुवकमधिकत्वेन दीयते॥
कर्पूरमददानञ्च शुक्लगन्धोदकक्रिया।

द्रव्यशुद्धिः पाकविधिर्भाविप्रसारणीसमः॥१००॥

** **समूलदलत्यादि—दशमूलाच्छतं शतमिति बिल्वादीनां दशानां प्रत्येकं शतमित्यर्थः। वृद्धा अत्र क्वाथमध्ये रास्नादेवदारुणोरपि प्रत्येकं पञ्चाशत् पलानि प्रक्षिपन्ति, अतएव चक्रोऽपि क्वाथेतुलार्द्धमित्यादि वक्ष्यति। जलन्तु यथोक्तमेव देयं नत्वधिकम् कषायद्विगुणेनारनालेन द्रोणद्वयेनेत्यर्थः। क्षीरादीनां प्रत्येकमाढकम्। समायुक्तमिति पदं कषायेणेत्यादिभिस्तृतीयान्तैर्योज्यम्। प्रसारण्या अपि मूलमित्यन्वयः। त्वक् गुडत्वक्, मदः कस्तूरी, तुरुष्कं सिल्हकः। गयदासस्तु अत्रतुरुष्कं नखचोरकमिति पठित्वा अगुरुस्थाने चोरपुष्पं लिखति। उत्पलम् उत्पलपुष्पम्, ध्यामं गन्धतृणम्, पत्रं तेजपत्रम्, शटी गन्धशटी, श्रीवासः नवनीतखोटिः। सकेतकमित्यत्र सैडगजमिति पठित्वा एडगजवीजमाह गयदासः। कच्छुराशूकशिम्बीमूलम्, सरला सरलकाष्ठम्, पद्मकेशरं पद्मकिञ्जल्कः, नलदं मांसी, जीवकाद्यं जीवनीयदशकम्, नागपुष्पं नागकेशरपुष्पचूर्णम्, कटुका लताकस्तूरी, फलानीति कटुकादिभिस्त्रिभिः सम्बध्यते। शल्लकी स्वनामख्याता, रसो गन्धरसः। अत्र त्रिफलाया मिलित्वा पलत्रयम्, एवं जीवनीयदशमूलयोरपि, प्रत्येकन्तु त्रिपलग्रहणे कल्कस्यातिबाहुल्यम् स्यादिति। अत्रापि कल्कभूयस्त्वात् पूर्ववत् अधमैः सुगन्धिद्रव्यैः प्रथमः पाकः, मध्यमैस्तु द्वितीयः, उत्तमैस्तृतीय इति। अत्रापि, तृतीयपाको गन्धोदकेन, केचित्तु द्वितीयः पाकोऽपि गन्धोदकेनेच्छन्ति। अत्रोपदेशादनुक्तमप्यधिकं गन्धद्रव्यं देयमित्याह त्वक्पत्रेत्यादि, त्वक्पत्रं तेजपत्रम्, पत्रन्तु तेजपत्रसदृशमेव सुगन्धिपत्रम्, ग्रन्थिर्ग्रन्थिपर्णम्, कोषो जातिकोषः। कर्पूरादिदानविधिमाह कर्पूरेत्यादि॥१००॥

महाराजप्रसारणीतैलम्।

शतत्रयं प्रसारण्या द्वे च पीतसहाचरात्।
अश्वगन्धैरण्डबला वरी रास्ना पुनर्नवा॥

केतकी दशमूलञ्च पृथक् त्वक् पारिभद्रतः।
प्रत्येकमेषान्तु तुला तुलार्द्धं किलिमात् तथा॥

तुलार्द्धं स्याच्छिरीषाच्च लाक्षायाः पञ्चविंशतिः।
पलानि लोध्राच्च तथा सर्वमेकत्र साधयेत्।

जलपञ्चाढकशते सपादे तत्र शेषयेत्।
द्रोणद्वयं काञ्जिकञ्च षड्विंशत्याढकोन्मितम्॥

क्षीरदध्नोः पृथक् प्रस्थान् दश मस्त्वाढकं तथा।
इक्षुरसाढकौ चैव छागमांसतुलात्रये॥

जलपञ्चचत्वारिंशत्-प्रस्थान् पक्वेतु शेषयेत्।
सप्तदश रस-प्रस्थान् मञ्जिष्ठाक्वाथ एव च।

कुडवोनाढकोन्मानो द्रवैरेतैस्तु साधयेत्।
सुशुद्धतिलतैलस्य द्रोणं प्रस्थेन संयुतम्॥

काञ्जिकं मानतो द्रोणं शुक्तेनात्र विधीयते।
आद्य एभिर्द्रवैःपाकः कल्को भल्लातकं कणा।

नागरं मरिचञ्चैव प्रत्येकं षट्पलोन्मितम्।
भल्लातकासहत्वे तु रक्तचन्दनमुच्यते॥

पथ्याक्षधात्र्याः सरलं शताह्वाःकर्कटो वचा।
चोरपुष्पी शटी मुस्तद्वयं पद्मञ्च सोत्पलम्॥

पिप्पलीमूलमञ्जिष्ठा साश्वगन्धा पुनर्नवा।
दशमूलं समुदितं चक्रमर्दो रसाञ्जनम्॥

गन्धतृणं हरिद्रा च जीवनीयगणस्तथा।
एषां त्रिपलिकैर्भागैराद्यः पाको विधीयते॥

देवपुष्पीबोलपत्रं शल्लकीरसशैलजे।
प्रियङ्गूशीरमधुरीमांसीदारुबलाचलम्॥

श्रीवासो नलिकाखोटिः सुक्ष्मैला कन्दुरुर्मुरा॥
नखीत्रयञ्च त्वक्पत्रीमपरां पूतिचम्पकम्॥

मदनं रेणुका पृक्का मरुवञ्च पलत्रयम्।
प्रत्येकं गन्धतोयेन द्वितीयः पाक इष्यते॥

गन्धोदकन्तु त्वक्पत्री पत्रकोशीरमुस्तकम्।
प्रत्येकं सबलामूलं पलानि पञ्चविंशतिः॥

कुष्ठार्द्धभागोऽत्र जलप्रस्थास्तु पञ्चविंशतिः।
अर्द्धावशिष्टाः कर्त्तव्याः पाके गन्धाम्बुकर्मणि॥

गन्धाम्बुचन्दनाम्बुभ्यां तृतीयः पाक इष्यते।
कल्कोऽत्र केशरं कुष्ठं त्वक् कालीयककुङ्कुमम्॥

भद्रश्रियं ग्रन्थिपर्णंलताकस्तूरिका तथा।
लवङ्गागुरुकक्कोलजातीकोषफलानि च॥

एला लवङ्गछल्ली च प्रत्येकं त्रिपलोन्मितम्।

कस्तूरी षट्पलं चन्द्रात् पलं सार्द्धञ्च गृह्यते॥
वेधार्थञ्च पुनश्चन्द्रमदौ देयौ तथोन्मितौ॥

महाप्रसारणी सेयं राजभोग्या प्रकीर्त्तिता॥
गुणान् प्रसारणीनान्तु वहत्येषा बलोत्तमान्।

काञ्जिकं मानतो द्रोणं शुक्तेनात्र विधीयते॥१०१॥

शतत्रयमित्यादि—दशमूलं पृथक् तुलेत्यन्वयः, तेन दशमूलस्य प्रत्येकं शतपलं ग्राह्यम्। किलिमं देवदारु। लोध्राञ्च तथेति पञ्चविंशतिः पलानीत्यर्थः। जलपञ्चाढकशते सपाद इत्याढकशतस्य पादः पञ्चविंशत्याढकास्तेन जलस्य पञ्चविंशत्याढकाधिकं पञ्चशताढकमित्यर्थः। तत्र शेषयेद् द्रोणद्वयमिति तेषु द्रोणद्वयं स्थाप्यमित्यर्थः। यद्यपि काञ्जिकस्य षड्विंशत्याढकास्तथापि काञ्जिकद्रोणमात्रेण व्यवहारः, अन्यथा काञ्जिकस्यैव गन्धः स्यादिति अतएव चक्रो वक्ष्यति काञ्जिकं मानतो द्रोणमिति। मञ्जिष्ठाक्वाथः कुडवोनाढकोन्मान इति पञ्चदशशरावपरिमितः। एभिर्द्रवैरिति क्वाथकाञ्जिकादिभिः सर्वैः। नागरं शुण्ठी। अत्र भल्लातकासहत्वे तु रक्तचन्दनं देयम्। अतएव वक्ष्यतिभल्लातकेत्यादि। अक्षं विभीतकम्, पद्मं पद्मपुष्पं, उत्पलं नीलोत्पलम् दशमूलं समुदितमिति, तेन दशमूलस्य मिलित्वा पलत्रयमित्यर्थः। चक्रमर्द एडगजबीजम्। जीवनीयो गण इति जीवनीयदशकम्। पथ्याक्षधात्र्य इत्यत्र त्रिफलायाश्च प्रत्येकमेव पलत्रयं ग्राह्यम्, इइ समुदितमिति पदाभावात्। द्वितीयपाकमाह देवपुष्पीत्यादि—देवपुष्प्यादीनां कल्कः। देवपुष्पी देवहुली, वोलो गन्धरसः। शल्लकीरसः शल्लक्या रसः, अन्ये तु शल्लकीरसशब्देन कन्दुरुमाहुः, यदुक्तंशब्दार्णवे “कुन्दुरुस्तीक्ष्णगन्धःस्यात् भीषणः शल्लकीरसः।” तन्मते भागद्वयं कुन्दुरोः। बला बालकम्, चलः सिल्हकः, खोटिः काष्ठखोटिः। नखीत्रयमिति यद्यपि पञ्चनख्यो भवन्ति यदुक्तं"नखी पञ्चविधा ज्ञेया गन्धार्थं गन्धतत्परैः। काचिद्वदरपत्राभा तथोत्पलदलाऽपरा। काचिदश्वखुराकारा गजकर्णसमाऽपरा। वराहकर्णसङ्काशा पञ्चमी परिकीर्त्तिता” इति। तथाप्यत्राद्यासु चतसृषु मध्ये नखीत्रयं ग्राह्यम्, वराहकर्णिकाया निषिद्धत्वात्यथा—“करिकर्णं तुरगखुरं नखं प्रयुञ्जीत गन्धयोगेषु। धूपेषुवदरोत्पलपत्रं न वराहकर्णमुभयत्रापि।” त्वक्पत्री तेजपत्रम्, पूतिः खट्टाशी, चम्पकं चम्पककलिका, प्रत्येकं पलत्रयमित्यन्वय,। गन्धोदके त्वक्पत्री तेजपत्रम्, पत्रन्तु सुगन्धि पत्रान्तरं तेजपत्रसदृशं वाटियापत्रमिति ख्यातम्। बलामूलं वाट्यलकस्य मूलम्। कुष्ठार्द्धभाग इति कुष्ठस्य सार्द्धद्वादशपलमित्यर्थः। गन्धाम्बु-चन्दनाम्बुभ्यामिति गन्धाम्बु गन्धोदकं तच्चोक्तमेव, चन्दनाम्बुचन्दनमात्रेणार्द्धशृतम्, अन्ये तु सुपिष्टश्रीखण्डचन्दनमिश्रं वारिमात्रं वदन्ति। जातीकोषफलानीति जातीकोषो रससारः, तथा जातीफलञ्चेत्यर्थः। भद्रश्रियं श्वेतचन्दनम्, लवङ्गछल्ली लवङ्गवल्कलम्। चन्द्रः

कर्पूरं, वेधार्थं पत्रकल्कार्थम्। अस्य तैलस्य पत्रिका लिख्यते,—कृष्णतिलतैल शः ६८, प्रतिशतं क्वाथार्थं—गन्धभादालिया पल ३००, पीतझिण्डमूल पल २००, अश्वगन्धा १०० पल, एरण्डमूल पल १००, वारियालामूल १०० पल, शतमूली १०० पल, रास्ना १०० पल, पुनर्नवा १०० पल, केतकीमूल १०० पल, दशमूल प्रत्येकं १०० पल, पालितमादार छल १०० पल, देवदारु ५० पल, शिरीषमूल ५० पल, लाक्षा २५ पल, लोध २५ पल, पाकार्थं प्रतिशत, जल ३४३ शराव, समुदायेन तु जलशराव ८४०० द्रोणमानेन तु द्रोण १३१, श १६, सेरमानेन तु २२४००, प्रतिशत शेष शः ५, पल १, तो ६, समुदाय शेष १२८ शराव, शुक्त६४ शराव, दुग्ध ४० शराव, दधि ४० शराव, दधिमस्तु १६ शराव, इक्षुरस ३२ शराव छाग मांस ३०० पल, पाकार्थं जलशराव १८० शेष ६८ शराव, मञ्जिष्ठा ६० पल, पाकार्थं जल ६० शराव, शेष शः १५। कल्कार्थं—रक्तचन्दन त्रिकटु एषां चतुर्णां प्रति पल ६, हरीतकी, बहेड़ा, आमलकी, सरल, शलुफा, समुद्रकर्कट, कांकडाशृङ्गीत्यन्ये, वच, चोरहुली, शटी, नागरमुथा, केउटामुथा, पद्मपुष्प, नीलोत्पल, पिप्पलीमूल, मञ्जिष्ठा, अश्वगन्धा, पुनर्नवा, एडञ्ची रसाञ्जन, गन्धतृण, हरिद्रा, जीवक, ऋषभक, मेदा, महामेदा, काकोली, क्षीरकाकोली, युगानी, माषाणी, जीवन्ती, यष्टिमधु एषां प्रत्येकं पल ३, दशमूल मिलित्वा पल ३, इति प्रथमः पाकः। द्वितीयपाके गन्धकल्कार्थं—देवहुली, गन्धरस, तेजपत्र, शल्लकीरस, शैलज, प्रियंगु, वीरणमूल, महुरी, जटामांसी,देवदारु, बलामूल; सिल्हक, नवनीतखोटि, नालुका, काष्ठखोटि, सूक्ष्मैला, कुन्दरु, मुरा, वदरपत्र-नखी, अश्वखुर-नखी, उत्पत्वपत्र-नखी, तेजपत्र, पोयारा, खट्टाशी, चम्पककलिका, मदनक, रेणुका, पिडिङ्गफूल, स्वल्पपत्र तुलसी, एषां प्रत्येक ३ पल। गन्धोदकार्थ—तेजपत्र, पत्रक-वाटियापत्र, वीरणमूल, मुथा, वेरेलामूल एषां प्रति पल २५ पल, कुष्ठ पल १२, तोला ४, पाकार्थजल १०० शराव, शेष ५० शराव। अनेन गन्धोदकन द्वितीयः पाकः। तृतीयापाके कल्कार्थं—नागकेशर, कुड, गुडत्वक्, कलम्बक, कुंकुम, श्वेतचन्दन, गाठियाना, लताकस्तूरी, लवङ्ग, अगुरु, कक्कोल, रसवास, जातीफल, एलाची, लवङ्गवाकल एषां प्रत्येक ३ पल, कस्तूरी पल ६, कर्पूर तोला १२। चन्दनोदकार्थं—श्वेतचन्दन ५० पल, पाकार्थं जल शराव ५०, शेष शराव २५। अथवा सुपिष्ट चन्दनं जले गोलयित्वा चन्दनोदकं कार्थ्य, द्वितीयपाकोक्तगन्धोदकं शराव २५। ततस्तृतीयपाकवेधार्थं कर्पूर तोला १२, कस्तूरी पल ६ एवं सिद्धे तैले कर्पूरादि पिष्ट्वा तच्चूर्णमल्पतैलञ्च भाजने कृत्वा मिश्रणीयं, तदनु सिद्धोष्णसकलतैलेन सम्यक् मिश्रयित्वा शरावेण पिधाय स्थापनीयमिति वेधनविधिः। गुणान् प्रसारणीनामिति पूर्वोक्तप्रसारणतिलानां ये गुणास्तानेव बलोत्तमानित्यधिकत्वेन बहुत्वेनेत्यर्थः॥१०१॥

शुक्तकरणम्।

अत्र शुक्तविधिर्मण्डः प्रस्थः पञ्चाढकोन्मितम्।
काञ्जिकं कुडवौ दध्नो गुडप्रस्थोऽम्लमूलकात्॥

पलान्यष्टौ शोधितार्द्रात् पलषोडशकं तथा।
कणाजीरकसिन्धूत्थ-हरिद्रामरिचं पृथक्॥

द्विपलं भाविते भाण्डे घृतेनाष्ट-दिनस्थितम्।
सिद्धं भवति तच्छुक्तं यदावतार्थ्य गृह्यते॥

तदा देयं चतुर्जातं पृथक्कर्षत्रयोन्मितम्॥१०२॥

काञ्जिकशब्देनात्र शुक्तं ग्राह्यमित्युक्तम् ,अत्र यथा कर्त्तव्यं तदाह अत्रेत्यादि—मण्डस्य भक्तमण्डस्य प्रस्थः। कुडवैदध्न इति द्रवद्वैगुण्याच्छरावद्वयम्। गुडस्य प्रस्थ इति षोडश पलानि। अम्लमूलकं काञ्जिकाधःस्थितभक्तक्तिन्नभाग इति व्यवहरन्ति, अन्ये तु काञ्जिकस्थं मूलककन्दमाहुः। शोधितार्द्रादिति त्वग्रहितार्द्रकात्। भाविते भाण्डे घृतेनेति घृतेन भाविते भाण्ड इत्यन्वयः। इदं सर्वं भाण्डे कृत्वा अष्टदिनं यावत् स्थितं सत्शुक्तंसिद्धं भवति, अष्ठदिनानन्तरं यदा तैले उपयुज्यते तदा चतुर्जातं दत्त्वा तैले देयम्। अन्ये तु प्रस्थं तण्डुलतोयत इत्यादिनैव शुक्तं कुर्वन्ति॥१२॥

गन्धद्रव्यशुद्धिः।

पञ्चपल्लवतोयेन गन्धानां क्षालनं तथा।
शोधनञ्चापि संस्कारो विशेषश्चात्र वक्ष्यते॥

आम्रजम्बूकपित्थानां बीजपूरकविल्वयोः।
गन्धकर्मणि सर्वत्र पत्राणि पञ्चपल्लवम्॥१०३॥

अत्रान्तरे गन्धद्रव्यशुद्ध्यर्थं प्रकरणमाहपञ्चपल्लवतोयेनेति॥१०३॥

नखीशुद्धिः।

चण्डीगोमयतोयेन यदि वा तिन्तिडीजलैः।
नखं संक्वाथयेदेभिरभावे मृण्मयेन तु॥

पुनरुद्धृत्य प्रक्षाल्य भर्जयित्वा निषेचयेत्।
गुडपथ्याम्बुना ह्येवं नखी शुध्यत्यसंशयम्॥१०४॥

नखीशुद्धिमाह चण्डीत्यादि—चण्डी महिषी, उक्तंहि “महिषी चोच्यते चण्डी सौरभीच निगद्यते” इति। अस्या गोमयं मलमित्यर्थः। महिषीमलं सलिलेनालोड्य नख्या उत्स्वेदनं कार्यमित्यर्थः, किन्तु गोमयेनाप्युत्स्वेद उक्तः। “गोविट्काञ्जिकचिञ्चाम्लसुस्विन्ना” इति तिन्तिडीजलैरिति तिन्तिडीसलिलैः। अलाभे मृण्मयेनापि कृष्णमृत्तिकामिश्रितजलेनेत्यर्थः। उक्तंहि “क्वाथयेत् करजं कृष्णमृत्तिकामिश्रितजले।” समुद्रकर्कटशुद्धिप्रकारोऽप्येवं तत्रैवोक्तम् “अनेनैव

प्रकारेणशुद्धमायाति कर्कटः”॥१०४॥

वचाशुद्धिः—गोमूत्रे चालम्बुषके पक्त्वा पञ्चदलोदके।
पुनः सुरभितोयेन बाष्पस्वेदेन स्वेदयेत्॥

गन्धोग्रा शुध्यते ह्येवं रजनी च विशेषतः॥१०५॥

वचाशुद्धिमाह गोमूत्र इत्यादि—अलम्बुषक इति अलम्बुषासहितोदके, अलम्बुषा च मुण्डिरी। सुरभितोयं गन्धोदकम्, अनेन बाष्पस्वेदः कार्य्यः। गन्धोदकं स्थाल्यां निक्षिप्य तदुपरि सच्छिद्रं स्थाल्यन्तरं दत्त्वा मृदा स्थालीद्वयावकाशमालिप्य सच्छिद्रस्थालीमध्ये वचां निक्षिप्य ततः शरावेण पिधाय अधो ज्वाला देया इति बाष्पस्वेदविधिः गन्धोग्रा वचा। रजनी च विशेषत इत्यनेन हरिद्राशुद्धिमपि वचाशुद्धिविधयैव कुर्य्यादिति बोधयति॥१०५॥

मुस्तकशुद्धिः।

मुस्तकन्तु मनाक्क्षुण्णं काञ्जिके त्रिदिनोषितम्।
पञ्चपल्लवपानीयखिन्नमातपशोषितम्॥

गुडाम्बुना सिच्यमानं भर्जयेच्चूर्णयेत् ततः।
आजशौभाञ्जनजलैर्भावयेच्चेति शुध्यति॥१०६॥

मुस्तकशुद्धिमाह मुस्तकमित्यादि—मनाक्क्षुण्णमिति दरदलितम्। किञ्चित्येषितम्, अजस्य जलं मूत्रम्॥१०६॥

शैलजशुद्धिः।

काञ्जिके क्वथितं शैलं भृष्ट्वा पथ्यागुडाम्बुना।
सिञ्चेदेवं पुनः पुष्पैर्विविधैरधिवासयेत्॥१०७॥

शैलजशुद्धिमाह काञ्जिक इत्यादि—शैलमिति शैलजं कालिके विपाच्य पञ्चपल्लवतोयेन क्षालनमित्युपदेशः॥१०७॥

खट्टाशीशुद्धिः।

यथालाभमपामार्गस्नुह्यादिक्षारलेपितम्।
बाष्पस्वेदेन संस्विद्य पूतिं निर्लोमतां नयेत्॥

दोलापक्वंपचेत् पश्चात् पञ्चपल्लववारिणि।
खलः साधुमिवोत्पीड्य ततो निःस्नेहतां नयेत्॥

आजशौभाञ्जनजलैर्भावयेच्च पुनः पुनः।
शिग्रुमूले च केतक्या पुष्पपत्रपुटे च तम्।

पचेदेवं विशुद्धः सन् मृगनाभिसमो भवेत्॥१०८॥

** **खट्टाशीशुद्धिमाह यथालाभमित्यादि—दोलापक्वमिति खाट्टशीगुडकं वस्त्रेण पोट्टलीं बद्ध्वा पञ्चपल्लवक्वाथमध्ये दोलावल्लम्बमानां पचेत्, तत आकृष्य निष्पीड्य

निःस्नेहतां नयेत्, तदनु शोभाञ्जनादि क्वाथे बहुधा भावयेत्। तदनु पिष्टशोभाञ्जनमूलकृते पिण्डे तन्निधाय तदनु केतकीपुष्पपत्रैर्वेष्टयित्वा कुशेन बद्ध्वा पङ्केनालिप्य पुटपाकेन पचेत्, तदनु जात्यादिकुसुमैरधिवासयेदित्युपदेशः॥१०८॥

तुरुष्क मधुना भाव्यं काश्मीरञ्चापि सर्पिषा॥१०९॥

सिल्हकादिशुद्धिमाहतुरुषकमित्यादि। तुरुष्कं सिल्हकम्॥१०९॥

रुधिरेणायसं प्राज्ञैर्गोमूत्रैर्ग्रन्थिपर्णकम्॥
मधूदकेन मधुरीं पत्रकं तण्डुलाम्बुना॥११०॥

रुधिरेणेति कुंकुमेन आयसमित्यगुरु भाव्यमिति सर्वत्र योज्यम्॥११०॥

ईषत् क्षारानुगन्धा तु दग्धा याति न भस्मताम्।
पीता केतकगन्धाढ्या लघुस्निग्धा मृगोत्तमा॥१११॥

इदानीं गन्धद्रव्याणां प्रशस्तानां लक्षणमाह ईषदित्यादि—ईषत् क्षारगन्धेनानुगतो मृगो मृगमदः॥१११॥

पक्वात् कर्पूरतः प्राहुरपक्वं गुणवत्तरम्।
तत्रापि स्याद्यदक्षुद्रं स्फटिकाभं तदुत्तमम्।

पक्वञ्च सदलं स्निग्धं हरितद्युति चोत्तमम्।
भङ्गे मनागपि न चेन्निपतन्ति ततः कणाः॥११२॥

मृगोशृङ्गोपमं कुष्ठं चन्दनं रक्तपीतकम्॥११३॥

रक्तपीतकमिति किञ्चिद्रक्तपीतसारम्॥११२—११३॥

काकतुण्डाकृतिः स्निग्धो गुरुश्चैवोत्तमोऽगुरुः॥११४॥
स्निग्धाल्पकेशरन्त्वस्त्रं शालिजो वृत्तमांसलः॥११५॥

अस्त्रमिति कुंकुमम्। शालिजः खट्टाशी॥११४—११५॥

मुरा पीता वरा प्रोक्तामांसी पिङ्गजटाकृतिः॥११६॥
रेणुका मुद्गसंस्थाना शस्तमानूपजं घनम्॥११७॥

जातीफलं सशब्दञ्च स्निग्धं गुरु च शस्यते॥११८॥
एला सूक्ष्मफला श्रेष्ठा प्रियङ्गुः श्यामपाण्डुरा॥११९॥

नखमश्वखुरं हस्तिकर्णञ्चैव प्रशस्यते॥१२०॥
एतेषामपरेषाञ्च नवता प्रबलो गुणः॥१२१॥

मुरेति—मांसी जटामांसी, घनं मुस्तकम्॥११९—१२१॥

महासुगन्धि-लक्ष्मीविलासतैले।

जिङ्गीचोरकदेवदारुसरलव्याघ्रीवचाचेलक-
त्वक्पत्रैः सहगन्धपत्रकशटीपथ्याक्षधात्रीघनैः।

एतैः शोधितसंस्कृतैः पलयुगेत्याख्यातया संख्यया
तैलप्रस्थमवस्थितैः स्थिरमतिः कल्कैः पचेद्गान्धिकैः॥

मांसीमुरामदनचम्पकसुन्दरीत्वग्ग्रन्थ्यम्बुरुङ्मरुवकैर्द्विपलैः सपृक्कैः॥
श्रीवासकुन्दुरुनखीनलिकामिसीनां प्रत्येकतः पलमुपार्ज्य पुनः पचेत्तु॥

एलालवङ्गचलचन्दनजातिपूतिकक्कोलकागुरुलताघुसृणैः पलार्द्धैः।
कस्तूरिकाक्षसहितामलदीप्तियुक्तैः पक्त्वा तु मन्दशिखिनैव महासुगन्धम्।

पञ्चद्विकेन वार्द्धेन मदात् कर्पूरमिष्यते॥
कर्पूरमदयोरर्द्धं पत्रकल्कादिहेष्यते॥

पक्वपूतेऽप्युष्ण एव सम्यक् पेषणवर्त्तितम्।
दीयते गन्धवृद्ध्यर्थं पत्रकल्कं तदुच्यते॥

प्रागुक्तौ शुद्धिसंस्कारौ गन्धानामिह तैः पुनः।
द्विगुणैर्लक्ष्मीविलासः स्यादयं तैलसत्तमः॥

पञ्चपत्राम्बुना चाद्यो द्वितीयो गन्धवारिणा।
तृतीयोऽपि च तेनैव पाको वा धूपिताम्बुना॥

तैलयुग्ममिदं तूर्णं विकारान् वातसम्भवान्।
क्षपयेज्जनयेत् पुष्टिं कान्तिं मेधां धृतिं धियम्॥१२२॥

जिङ्गीत्यादि—जिङ्गो मञ्जिष्ठा, व्याघ्री विहनेति ख्यातं सुगन्धिद्रव्यम्, नखीत्यन्ये। चेलकत्वक् गुवाकवृक्षस्य त्वक्, पत्रं तेजपत्रम्, गन्धपत्रं वाटियापत्रम्। पलयुगन्तु प्रत्येकम्। गान्धिकैरिति गन्धविद्भिरित्यर्थः। एतैः कल्कैः प्रथमः पाकः। द्वितीयपाकार्थं कल्कमाह मांसीत्यादि—सुन्दरी प्रियंगु, त्वक् गुडत्वक्, ग्रन्थिः ग्रन्थिपर्णम्, अम्बु बालकम्, रुक् कुष्ठम्, नलिका नालुका, मिसिः मधुरी, गुयामोहरीति लोके। एभिर्मांसीप्रभृतिभिरिष्यते द्वितीयः पाकः। तृतीयपाकार्थं कल्कमाह एलेत्यादि। चलः सिल्हकः, चन्दनं श्वेतचन्दनम्, जातिः जातिफलम्, पूतिःखट्टाशी, लता लताकस्तूरी, घुसृणं कुंकुमम्, अक्षसहिता कर्षपरिमितेत्यर्थः, अमलदीप्तः चन्द्रः तन्नामत्वात् कर्पूरमित्यर्थः। एभिस्तृतीयःपाकः। कर्पूरं कियन्मानं ग्राह्यमित्यतआह पञ्चेत्यादि—मदात् निर्दिष्टकस्तूरिका कर्षात्, पञ्चधा विभक्तात् तत्रैको भागो रक्तिकाद्वयाधिकमाषत्रयं भवति, तथा मानेन कर्पूरस्य द्वौ भागौ ग्राह्यावित्यर्थः। अतः कर्पूरस्य रतिकाचतुष्टयाधिको माषकषट्क इति पिण्डार्थः। ननु पत्रकल्के कियन्मानौ कर्पूरमदौ देयावित्यत आह कर्पूरमदयोरित्यादि—इह तैलकल्के पत्रकल्कात् पत्रकल्कमानमपेक्ष्य कर्पूरमदयोरर्द्धमिह तैले कल्कत्वेन इष्यते, तेन तैलकल्करूपतया यावन्मानौ कर्पूरमदावुक्तौपत्रकल्के तु तदपेक्षया द्विगुणौ कर्पूरमदौ देयाविति पत्रकल्कमानमपि भङ्ग्या कथितं भवति, तेन पत्रकल्के कस्तूर्य्याः कर्षद्वयम्, कर्पूरस्य तु अष्टरक्तिकाधिका द्वादश माषकाः किंवा कर्ष इति। पत्रकल्कशब्दस्यार्थमाह पक्वपूत इत्यादि पूर्वोक्तौगन्धानां शुद्धिसंस्कारावत्रापि कार्य्यौ, तथा तैः पूर्वोक्तमहासुगन्धितैलसाधनद्रव्यैः जिङ्ग्यादिभिर्द्विगुणैर्यदि तैलमेतत् साध्यते, तदा इदमेव तैलं लक्ष्मीविलाससंज्ञकञ्च भवतीत्याह प्रागुक्तावित्यादि। पाकार्थमुभयोरपि सैलयोः क्रमात् द्रवद्रव्यमाह पञ्चपत्राम्बुनेत्यादि—आम्रपत्रंजम्बूपत्रं कपित्थपत्रं बिल्वपत्रं बीजपूरकपत्रम्, एतत्सर्वमष्टगुणं जलं दत्त्वा चार्द्धभागावशेषं पचेत्। गन्धवारिणा गन्धोदकेन तच्चोक्तमेव। धूपिताम्बुनेति अगुर्वादिधूपितजलेनेत्यर्थः॥१२२॥

इति वातव्याधिचिकित्साविवृतिः।

<MISSING_FIG href=”../../../../../books_images/U-IMG-170866123112000.jpg"/>

अथ वातरक्तचिकित्सा।

बाह्यं लेपाभ्यङ्गसेकोपानाहैर्वातशोणितम्।
विरेकास्थापनस्नेहपानैर्गम्भीरमाचरेत्।

द्वयोर्मुञ्चेदसृक् शृङ्गसूच्यलाबुजलौकसा।
देशाद्देशं व्रजेत् स्राव्यं शिराभिः प्रच्छनेन वा।

अङ्गुलानौ च न स्राव्यं रूक्षे वातोत्तरे च यत्॥१॥

वातव्याधिविशेषत्वाद्वातरक्तचिकित्सामाह बाह्यमित्यादि—बाह्यमित्युत्तानं त्वङ्मांसाश्रयमित्यर्थः। गम्भीरन्तु मेदःप्रभृतिधात्वाश्रयं तथा चौक्तं"त्वङ्मांसाश्रयमुत्तानं गम्भीरन्त्वन्तराश्रयम्" इति। द्वयोरिति उत्तानगम्भीरयोः। देशाद्देशं व्रजेदिति, स्थानान्तरप्रसरणशीलम् अङ्गग्लानाविति कार्श्ये॥१॥

अमृतानागरधन्याक-कर्षत्रयेण पाचनं सिद्धम्।
जयति सरक्तं वातं सामं कुष्ठान्यशेषाणि॥२॥

अमृतेत्यादि—प्रत्येकमेकं कर्षं गृहीत्वा कर्षत्रयमित्यर्थः॥२॥

वत्सादन्युद्भवः क्वाथः पीतो गुग्गुलुसंयुतः।
समीरणसमायुक्तं शोणितं सम्प्रसाधयेत्॥३॥

वत्सादनीत्यादौ—पीतो गुग्गुलुसंयुत इति शोधनार्थं प्रायेण गुग्गुलोः कर्षः, कर्षार्द्धं वा संशमनार्थन्तु माषकचतुष्टयमिति, एवं सर्वत्र॥३॥

वासागुडूचीचतुरङ्गुलानामेरण्डतैलेन पिबेत् कषायम्।
क्रमेण सर्वाङ्गजमप्यशेषं जयेदसृग्वातभवं विकारम्॥४॥

वासेत्यादौ—चतुरङ्गुलं शोनालुफलम्। तन्त्रान्तरसंवादादेकक्वाथ्यापेक्षया द्विगुणमेवैरण्डतैलं प्रक्षेप्यमित्याहुः॥४॥

लीढ्वा मुण्डीतिकाचूर्णंं मधुसर्पिःसमायुतम्।
छिन्नाक्वाथं पिबन् हन्ति वातरक्तंसुदुस्तरम्॥५॥

लीढ्वेत्यादौ—मुण्डीतिका मुण्डिरीति ख्याता॥५॥

तिस्रोऽथवा पञ्च गुडेन पथ्या जग्ध्वा पिबेच्छिन्नरुहाकषायम्।
तद्वातरक्तंशमयत्युदीर्णमाजानुसम्भिन्नमपि ह्यवश्यम्॥६॥

तिस्रोऽथवेति पुरुषमपेक्ष्य प्रकृतिमानात् तिस्रः पञ्च वा पथ्याः पिष्ट्वा समगुडेन खादेत्, तदनु गुडूच्याः कषायमनुपेयम्॥६॥

घृतेन वातं सगुडा विबन्धं पित्तं सिताढ्या मधुना कफञ्च।
वातासृगुग्रं रुवुतैलमिश्रा शुण्ठ्यामवातं शमयेद् गुडूची॥७॥

घृतेनेत्यादि—षड् योगाः॥७॥

गुडूच्याः स्वरसं कल्कं चूर्णं वा क्वाथमेव वा।
प्रभूतकालमासेव्य मुच्यते वातशोणितात्॥८॥

गुडूच्याःस्वरसेन क्वाथेन चूर्णेन वा॥८॥

दशमूलीशृतं क्षीरं सद्यःशुलनिवारणम्।
परिषेकोऽनिलप्राये तद्वत् कोणेन सर्पिषा॥९॥

दशमूलीत्यादौ—दशमूलीशृतं क्षीरं परिषेक इति योज्यम्, न तु पेयम्। शूलं वातरक्तप्रदेशे व्यथा। तद्वदिति परिषेकः॥९॥

पटोलकटुकाभीरुत्रिफलामृतसाधितम्।
क्वाथं पीत्वा जयेज्जन्तुः सदाहं वातशोणितम्॥१०॥

पटोलत्यादौ—कटुका कटुरोहिणी, अभीरुः शतावरी, अमृतं गुडूची। छान्दसत्वात् ह्रस्वः अयं योगः पित्तोत्तरे॥१०॥

गोधूमचूर्णाजपयो घृतञ्च सच्छागदुग्धो रुवुबीजकल्कैः।
लेपे विधेयं शतधौतसर्पिः सेके पयश्चाविकमेव शस्तम्॥११॥

गोधूमेत्यादि—गोधूमचूर्णं छागदुग्धघृताभ्यां सन्धाय कोष्णं कृत्वा वातोत्तरे लेपः, शीतं रक्तोत्तरे। वृन्दे तु अस्मिन् योगे घृतं न पठ्यते, तेन घृतं विनाप्ययं योगः।सघृतः पुनरयं चरके पठ्यते, यथा—“वाते सरक्ते सघृतः प्रदेहो गोधूमचूर्णं छगलीपयश्च” इति। उभयमपि प्रमाणं स्मृतिद्वैधवत्॥११॥

लेपः पिष्टास्तिलास्तद्वद्भृष्टाः पयसि निर्वृताः॥१२॥

लेप इत्यादौ—तिलान् दुग्धेन पिष्ट्वा ततो मृष्ट्वा पुनर्दुग्धे निर्वापयेदित्यर्थः। वृद्धवाग्भटसंवादात्, किन्तु खोलकमृष्टतिलान् दुग्ध निर्वापितान्। तेनैव दुग्धन पिष्ट्वा लेप इति व्यवहरन्ति वृद्धाः। तद्वदित्यनेन पूर्वोक्तयोगफलमतिदिश्यते॥१२॥

कटुकामृतयष्ट्याह्वशुण्ठीकल्कं समाक्षिकम्।
गोमूत्रपीतं जयति सकफं वातशोणितम्॥१३॥

कटुकेत्यादि—कटुका कटुरोहिणी। एषां चतुर्णां प्रत्येकं द्विमाषकं कल्कीकृत्य चतुर्माषकेण मधुनागोमूत्रपलार्द्धेन च पेयम्॥१३॥

धात्रीहरिद्रामुस्तानां कषायं वा कफाधिके।
कोकिलाक्षामृताक्वाथे पिबेत् कृष्णां कफाधिके॥
पथ्यभोजी त्रिसप्ताहान्मुच्यते वातशोणितात्॥१४॥

कोकिलाक्षेत्यादौ—कोकिलाक्षमूलं ग्राह्यम्॥१४॥

कफरक्तप्रशमनं कच्छुवीसर्पनाशनम्॥
वातरक्तप्रशमनं हृद्यं गुडघृतं स्मृतम्॥१५॥

कफरक्तेस्यादि—हृद्यं गुडघृतमिति आहारं विहाय गुडघृतेनैव समभागेन सौहित्यं कर्त्तव्यमित्याहुः। कच्छ्वां दृष्टफलमेतत्॥१५॥

संसर्गेषु यथोद्रेकं मिश्रं वा प्रतिकारयेत्॥१६॥
सर्वेषु सगुडां पथ्यां गुडूचीक्वाथमेव वा।

पिप्पलीवर्द्धमानं वा शीलयेत् सुसमाहितः॥१७॥

संसर्गेष्विति—संसर्गजेषु द्वन्द्वजेषु यथेद्रेकमित्येकदोषोल्वणे, मिश्रमिति समकुपिते॥

       ॥ १६॥१७॥

गुडूचीतैलम्।

गुडूचीक्वाथकल्काभ्यां पचेत् तैलं तिलस्य च।
पयसा च समं पक्त्वा भिषङ्मन्देन वह्निना॥

हन्ति वातं तथा रक्तं कुष्ठ जयति दुस्तरम्।
त्वग्दोषं व्रणवीसर्पकण्डूदद्रुविनाशनम्॥१८॥

गुडूचीत्यादि—स्पष्टम्॥१८॥

नवकार्षिकः।

त्रिफलानिम्बमञ्जिष्ठा वचा कटुकरोहिणी।
वत्सादनी दारुनिशा कषायो नवकार्षिकः।

वातरक्त तथा कुष्ठं पामानं रक्तमण्डलम्।
कुष्ठं कापालिकाकुष्ठं पानादेवापकर्षति।

पञ्चरक्तिकमाषेण कार्य्योऽयं नवकार्षिकः।
किन्त्वेवं साधिते क्वाथे योग्या मात्रात्र दीयते॥१९॥

नवकार्षिके दारुनिशा दारुहरिद्रा। पञ्चरक्तिकमाषेण मानेन त्रिफलादीनां नव कर्षान् गृहीत्वा अष्टगुणजलेन क्वाथः, किंवा व्यवहारिभिरेव नवकर्षैःक्वाथः कार्यः। परन्तु अत्र चायोग्यमात्रापेक्षया अधिकं यद्भवति तत् त्याज्यम्, एतदेवाह पञ्चरक्तिकमाषेणेत्यादि। अष्टगुणजलदानार्थञ्चवृन्देन कर्षादौ तु पलं यावदित्यादि परिभाषा लिखितैव॥१९॥

गुडूचीघृतम्।

गुडूचीक्वाथकल्काभ्यां सपयस्कं शृतं घृतम्।
हन्ति वातं तथा रक्तं कुष्ठं जयति दुस्तरम्॥२०॥

गुडूचाीघृते क्वाथश्चतुर्गुणः, क्षीरन्तु स्नेहसममिति व्यवहरन्ति॥२०॥

शतावरीघृतम्।

शतावरीकल्कगर्भं रसे तस्याश्चतुर्गुणे।

क्षीरतुल्यं घृतं पक्वं वातशोणितनाशनम्॥२१॥

एवं शतावरीघृतम्॥२१॥

अमृताद्यं घृतम्।

अमृता मधुकं द्राक्षा त्रिफला नागरं बला।
वासारग्वधवृश्वीर-देवदारुत्रिकण्टकम्॥

कटुका सवरी कृष्णा काश्मर्यस्य फलानि च।
रास्नाक्षुरकगन्धर्व-वृद्धदारघनोत्पलैः॥

कल्कैरेभिः समैःकृत्वा सर्पि प्रस्थं विपाचयेत्।
धात्रीरसं समं दत्त्वा वारित्रिगुणसंयुतम्॥

सम्यक्सिद्धन्तु विज्ञाय भोज्ये पाने च शस्यते।
बहुदोषान्वितं वातं रक्तेन सह मूर्च्छितम्।

उत्तानञ्चापि गम्भीरं त्रिकजङ्घोरुजानुजम्।
क्रोष्टुशीर्षे महाशूले चामवाते सुदारुणे।

वातरोगोपसृष्टस्य वेदनाञ्चातिदुस्तराम्
मूत्रकृच्छ्रमुदावर्त्तं प्रमेहं विषमज्वरम्॥

एतान् सर्वान् निहन्त्याशु वातपित्तकफोद्भवान्॥
सर्वकालोपयोगेन वर्णयुर्बलवर्द्धनम्।

अश्विभ्यां निर्म्मितं श्रेष्ठं घृतमेतदनुत्तमम्॥२२॥

अमृतेत्यादौ—वरी शतावरी तया सह वर्त्तमानेति सवरी। गन्धर्वः एरण्डः, उत्पलं नीलोत्पलम्॥२२॥

दशपाकबलातैलम्।

बलाकषायकल्काभ्यां तैलं क्षीरचतुर्गुणम्।
दशपाकं भवेदेतद्वातासृग्वातपित्तजित्॥

धन्यं पुंसवनञ्चैव नराणां शुक्रवर्द्धनम्।
रेतोयोनिविकारघ्नमेतद्वातविकारनुत्॥२३॥

दशपाकबलातैले बलाक्वाथश्चतुर्गुणः चतुर्गुणक्षीरसाहचर्यात्। तैलमिदं यथोक्तमानेन द्रवेण कल्केन च दश वारान् पक्तव्यम् वीर्योत्कर्षार्थम्। अनेन पाकेन स्नेहक्षयोऽप्यत्र नास्ति, क्षीरगतस्नेहेन न्यूनभागपुरणात्। अयञ्च बहुपाकोपदेशः प्रकृतिसमसमवेतव्याध्यभिप्रायेण ज्ञेयः। तेनान्यत्रापि प्रकृतिसमसमवेते व्याधौ तैलादिष्वनुक्तोऽपि बहुधा पाको वीर्योत्कर्षार्थं युज्यत एव। विकृतिविषमसमवेते तु यथोद्दिष्टमेव कार्यं संयोगशक्तेरचिन्त्यत्वात्। तस्मात् विकृतिविषमसमवेते व्याधिमहिम्नाव्याधिहरमेव भेषजं दीयत इति कृत्वा यथोद्दिष्टमेव कार्यम्, प्रकृतिसमसमवेते तु दोषक्षयादेव व्याधिक्षय इति दोषहरमेवभेषजं दीयते इति, दोषप्रत्य नीकतया अनुक्तमपि क्रियत एव। न च दोषहरमेव व्याधिहरमिति वाच्यम्, वातकारिणापि खदिरेण वातिककुष्ठानुपश्यप्रसाङ्गात्,खदिरं हि वातजनकमपि कुष्ठहरत्वं प्रभावाद्वातिकमपि कष्टमुपशमयति, न तु वातम्। किञ्च यदि दोषहरमेव व्याधिहरमिति स्वीक्रियते तदा प्रतिव्याधौ बहुप्रयोगकथनमपि मुनीनां व्यर्थं स्यात्। तत्तद्देोषप्रत्यनीकभेषजगणकथनेनैवान्यथासिद्धेः। तस्माद्व्याधिहरे संयोगस्य प्रधानत्वात् यथोक्तविध्यनुसरणमेव शरणम्। दोषहरे तु वीर्योत्कर्षार्थमुक्तोऽनुक्तो वा बहुधा पाकोऽपि दोषप्रत्यनीकतया युक्त एवेत्याहुः। किञ्च बहुवित्तव्ययायाससाध्यत्वात् वैद्यैर्नायमनुगम्यते पन्था इति॥२३॥

गुडूच्यादितैलम्।

गुडूचीक्वाथदुग्धाभ्यां तैले द्राक्षारसेन वा।
सिद्धं मधुककाश्मर्थ्यरसैर्वा वातरक्तनुत्॥२४॥

गुडूचीत्यादि—गुडचीत्यादि तैलत्रयमकल्कम्॥२४॥

खुड्डाकपद्मकतैलम्।

पद्मकोशीरयष्ट्याह्वरजनीक्वाथसाधितम्।
स्यात् पिष्टैः सर्जमञ्जिष्ठावीराकाकोलिचन्दनैः।

खुड्डाकपद्मकमिदं तैलं वातास्रदोषनुत्॥२५॥

खुड्डाकपदूकतैले वीरा क्षीरकाकोली। खुड्डाकपद्मकं श्वेतपद्मम्॥२५॥

नागबलातैलम्।

शुद्धां पचेन्नागबलातुलान्तु विस्राव्य तैलाढकमंत्र दद्यात्।
अजापयस्तुल्यविमिश्रितन्तु नतस्य यष्टीमधुकस्य कल्कम्।

पृथक् पचेत् पञ्चपलं विपक्वं तद्वातरक्तंशमयत्युदीर्णम्।
बस्तिप्रदानादिह सप्तरात्रात् पीतं दशाहात् प्रकरोत्यरोगम्।

तुलाद्रव्ये जलद्रोणो द्रोणे द्रव्यतुल्या मता॥२६॥

नागबलातैले नागबला गोरक्षचाकुलियेति ख्याता। अजापयस्तैलतुल्यं, नतं तगरपादिका॥२६॥

पिण्डतैलम्।

समधूच्छिष्टमञ्जिष्ठं ससर्जरसशारिकम्।
पिण्डतैलं तदभ्यङ्गाद्वातरक्तरुजापहम्॥२७॥

मधूच्छिष्टेत्यादि—मधूच्छिष्टं मधुसिक्थकम्, सर्जरसो धूनकः, शारिवा अनन्तमूलम्। जलञ्जात्र चतुर्गुणम्। पिण्डतैलभाषया चात्र वस्त्राद्यपूतमेवैतत् त्तैलं कर्त्तव्यमित्याहुः। वैद्यास्तु पूत्वैव व्यवहरन्ति, किन्तु चरके समधूच्छिष्टेत्यादेः पूर्वम्, “आरनालाढके तैलं पादसर्जरसं शृतम्। प्रभूते खजितं तोये ज्वरदाहार्तिनुत् परम्” इत्युक्तम्, तेन आरनालाढकसाध्यतेल एवं, सर्जरसस्थाने मधूच्छिष्टामहिषलोचनोदरवर्णो हि लोहित एव। त्रिफलाञ्च यथोक्लपरिमाणामिति प्रत्येकं प्रस्थमानाम्। छिन्नरुहा गुडूची तस्या द्वात्रिंशत् पलानि। एवं मिलित्वाषण्णवतिः पलानि क्वाथ्यानि। अत्र हि द्रवद्वैगुण्यात् उत्सर्गसिद्धं जलं दीयमानं षण्णवतिशरावपरिमितं भवति। षण्णवतिशरावैश्च षडाढका भवन्ति। एतत् सर्वमभिधाय वक्ष्यति प्रत्येकं त्रिफलाप्रस्थ इत्यादि—अन्ये त्वाहुः त्रिफलाञ्च यथोक्तपरिमाणामिति मिलित्वा प्रस्थमानां समुदायप्रधानत्वात्, निर्देशस्य। तेन गुग्गुलुप्रमृतीनि क्वाथ्यानि मिलित्वा चतुःषष्टिपलानि भवन्ति, तत्र चोत्सर्गसिद्धं जलं चतुःषष्टिशरावमेव, चतुःषष्टिशरावैश्च द्रोणो भवति, तेन तोयराशिशब्देनात्र द्रोण एव बोध्य इति। अत्र गुग्गुलुः पुटकं बध्वा अपरैः क्वाथ्यैः सह तोयराशौ क्वथनीयः। पश्चात् गुग्गुलुं विहाय क्वाथ्यं त्यक्त्वा सिद्धे तदुष्णक्वाथे पुनस्तं गुग्गुलुं सम्मिश्र्य पाचनीयं यावत् घनीभवति, दर्वीप्रलेपेऽवतार्य्य त्रिफलादिचूर्णं प्रक्षिपेदिति, ये तु गुग्गुलुं विहाय क्वाथ्यं कृत्वा पश्चात् सिद्धे कदुष्णक्वाथे गुग्गुलुं गोलयन्ति, तन्न युक्तं, गुग्गुलोः क्वाथत्वेनोक्तत्वात्। एवं वक्ष्यमाणामृताख्यगुग्गुलावपि द्रष्टव्यम्। हिमोपलप्रख्य इति हिमशिलावत् शीते। अत्र चेत्थमेव शक्त्युत्कर्षः वचनादुन्नीयते। अन्यत्र तु कोष्णे एव चूर्णानां दानं दृश्यते। अत्र त्रिफलाचूर्णार्द्धपलं मिलित्वैव युज्यते, मानप्रधानत्वात् निर्देशस्य, प्रत्येकन्तु व्यवहरन्ति। त्रिकटोश्चूर्णं षडक्षपरिमाणमिति मिलित्वा, क्रिमिरिपुर्विडङ्गः, यूपंतोयमित्यादौ वाशब्दो बोध्यः। कैशोरकं रूपमिति किशोरो यौवनोन्मुखोऽश्वशावकः॥२९॥

अमृतागुग्गुलुः।

प्रस्थमेकं गुडूच्यास्तु अर्द्धप्रस्थञ्च गुग्गुलोः।
प्रत्येकं त्रिफलायाश्च तत्प्रमाणं विनिर्द्दिशेत्॥

सर्वमेकत्र संक्षुद्य साधयेत् त्वर्म्मणेऽम्भसि।
पादशेषं परिस्राव्य पुनरग्नावधिश्रयेत्॥

तावत् पवेत् कषायं तं यावत् सान्द्रत्वमागतम्।
दन्तीव्योषविडङ्गानि गुडूचीत्रिफलात्वचः॥

ततश्चार्द्धपलं पूतं गृह्णीयाच्च प्रति प्रति।
कर्षन्तु त्रिवृतायास्तु सर्वमेकत्र कारयेत्॥

तस्मिन् सुसिद्धं विज्ञाय कवोष्णे प्रक्षिपेद् बुधः।
ततश्चाग्निबलं ज्ञात्वा तस्य मात्रां प्रदापयेत्॥

वातरक्तंतथा कुष्ठं गुदजान्यग्निसादनम्।
दुष्टव्रणप्रमेहांश्च सामवातं भगन्दरम्॥

नाड्याढ्यवातश्वयथून् सर्वानेतान् व्यपोहति।
अश्विभ्यां निर्म्मितः पूर्वममृताख्यो हि गुग्गुलुः।

अर्द्धप्रस्थं त्रिफलायाः प्रत्येकमिह गृह्यते॥३०॥

अमृताख्यगुग्गुलौ तत्प्रमाणमिति प्रस्थार्द्धम्। व्योषस्यार्द्धपलमिति प्रत्येकम्, त्रिफलात्वच इति निरस्थित्रिफलायाः प्रत्येकमर्द्धपलम्। तत्प्रमाणमिति पदस्यार्थमाह अर्द्धप्रस्थं त्रिफलाया इत्यादि॥३०॥

पुनर्नवागुग्गुलुः।

अमृतायाश्च द्विप्रस्थं प्रस्थमेकञ्च गुग्गुलोः।
प्रत्येकं त्रिफलाप्रस्थं वर्षाभूप्रस्थमेव च॥

सर्वमेतच्च संक्षुद्य क्वाथयेन्नलवणेऽम्भसि।
पुनः पचेत् पादशेषं यावत् सान्द्रत्वमागतम्।

दन्तीचित्रकमूलानां कणाविश्वफलत्रिकम्।
गुडूचीत्वग्विडङ्गानां प्रत्येकार्द्धपलोन्मितम्॥

त्रिवृताकर्षमेकन्तु सर्वमेकत्र चूर्णयेत्।
सिद्धे चोष्णे क्षिपेत् तत्र अमृतागुग्गुलोः परम्॥

यथा चाग्निबलं खादेदम्लपित्ती विशेषतः।
वातरक्तंतथा कुष्ठं गुदजान्यग्निसादनम्॥

दुष्टव्रणप्रमेहांश्च सामवातं भगन्दरम्।
नाड्याढ्यवातं श्वयथून् हन्यात् सर्वामयानयम्॥

अश्विभ्यां निर्म्मितो ह्येषोऽमृताख्यो गुग्गुलुः पुरा॥३१॥

पुनर्नवागुग्गुलौ त्वक् गुडत्वक्। अमृतागुग्गुलोः परमित्यनन्तरं मात्रामिति शेषः तेन परमित्यनन्तरममृतागुग्गुलोर्मात्रां यथावह्निबलं खादेदित्यर्थः। अमृताख्यो गुग्गुलुः पुरेति अमृतनिर्मितत्वादमृताख्यः। यद्यप्यमृतायोगादमृताख्यगुग्गुलुस्तथापि पुनर्नवायोगात् पुनर्नवागुग्गुलुरिति नामान्तरं, पूर्वोक्तामृताख्यगुग्गुलोर्व्यवच्छेदार्थं वा॥३१॥

योगसारामृतः।

शतावरी नागबला वृद्धदारकमुच्चटा।
पुनर्नवामृता कृष्णा वाजिगन्धा त्रिकण्टकम्॥

पृथग्दशपलान्येषां श्लक्ष्णचूर्णानिकारयेत्।
तदर्द्धशर्करायुक्तं चूर्णं सम्मर्द्दयेद् बुधः॥

स्थापयेत् सुदृढेभाण्डे मध्वर्द्धाढकसंयुतम्।
घृतप्रस्थेन चालोड्य त्रिसुगन्धिपलेन तु॥

तं खादेदिष्टचेष्टात्मा यथावह्निबलं नरः।
वातरक्तंक्षयं कुष्ठं कार्श्यंपित्तास्रसम्भवम्॥

वातपित्तकफोत्थांश्च रोगानन्यांश्च तद्विधान्।

हत्वा करोति पुरुषं वलीपलितवर्जितम्॥
योगसारामृतं नाम लक्ष्मीकान्तिविवर्द्धनम्॥३२॥

योगसारामृते तदर्द्धशर्करायुक्तमिति समुदितचूर्णार्द्धमाना शर्करा। त्रिसुगन्धिपलेनेति प्रत्येकम्॥३२॥

दिवास्वप्नाग्निसन्तापं व्यायामं मैथुनं तथा॥
कटूष्णगुर्वभिष्यन्दिलवणाम्लानि वर्जयेत्॥३३॥

वातरक्ते वर्ज्यान्याह—दिवास्वप्नेत्यादि॥३३॥

बृहद्गुडूचीतैलम्।

तुलां पचेज्जलद्रोणे गुडूच्या पादशेषितम्।
क्षीरद्रोणञ्च ताभ्यान्तु पचेत् तैलाढकं शनैः॥

कल्कैर्मधुकमञ्जिष्ठा जीवनीयगणस्तथा।
कुष्ठैलागुरुमृद्वीका मांसी व्याघ्रीनखं नखी॥

हरेणु श्रावणी व्योषं शताह्वाभृङ्गशारिवे।
त्वक्पत्रे वचविक्रान्ता स्थिरा चामलकी तथा॥

नतं केशरह्रीवेर-पद्मकोत्पलचन्दनैः।
सिद्धं कर्पसमैर्भागैःपानाभ्यङ्गानुवासने॥

परं वातास्रजान् हन्ति सर्वजानन्तरस्थितान्।
धन्यं पुंसवनं स्त्रीणां गर्भदं वातपित्तनुत्।

स्वेदकण्डूरुजापामा-शिरःकम्पार्दितामयान्।
हन्याद् व्रणकृतान् दोषान् गुडूचीतैलमुत्तमम्॥३४॥

बृहद्गुडूचीतैले—श्रावणी मुण्डी, विक्रान्ता विष्णुक्रान्ता, रक्तपादत्यिन्ये॥३४॥

इति वातरक्तचिकित्साविवृतिः।
<MISSING_FIG href="../../../../../books_images/U-IMG-170866639316.jpg"/>

अथोरुस्तम्भ—चिकित्सा।

श्लेष्मणः क्षपणं यत् स्यान्न च मारुतकोपनम्।
तत् सर्वंसर्वदा कार्य्यमूरुस्तम्भस्य भेषजम्॥१॥

आवृतवातजन्यत्वसामान्याद्वातरक्तानन्तरमूरुस्तम्भचिकित्सामाहश्लेष्मणइत्यादि—एवंविधञ्च भेषजमरिष्टादि॥१॥

न तस्य स्नेहनं कार्य्यं न वस्तिर्न विरेचनम्।
सर्वो रूक्षः क्रमः कार्य्यस्तत्रादौ कफनाशनः॥

पश्चाद्वातविनाशाय कृत्स्नः कार्य्यः क्रियाक्रमः॥२॥

ऊरुस्तम्भे स्नेहनादिनिषेधमाह न तस्येत्यादि—स्नेहनमिति पानाभ्यङ्गाभ्यां, किंवा स्नेहनमिति वस्तिकर्मविशेषणं, तेनानुवासनमित्यर्थः। विरेचनशब्देनात्र वमनमपि बोध्यम्, वमनस्यापि निषिद्धत्वात्॥२॥

शिलाजतुं गुग्गुलुं वा पिप्पलीमथ नागरम्।
ऊरुस्तम्भे पिबेन्मूत्रैर्दशमूलीरसेन वा॥३॥

शिलाजतुमित्यादि—शिलाजतु शोधितमेवोपयोज्यम् प्रत्येकं शिलाजत्वादीनां गोमूत्रेण दशमूलीक्वाथेन वा पानम्॥३॥

भल्लातकामृताशुण्ठीदारुपथ्यापुनर्नवाः।
पञ्चमूलीद्वयोन्मिश्रा ऊरुस्तम्भनिवर्हणाः॥४॥

भल्लातकेत्यादि—भल्लातकादिभिर्दशमूलान्तैर्मिलित्वा क्वाथ इत्याहुः॥४॥

पिप्पलीपिप्पलीभूलभल्लातक्वाथ एव वा।
कल्को वा समधुर्देय ऊरुस्तम्भनिवर्हणः॥५॥

पिप्पलीत्यादि—पिप्पल्यादीनां त्रयाणां क्वाथो वा देयः, पिप्पल्यादीनां कल्क इति चूर्णं मधुसहितं वा अवलेहरूपतया देयं, किंवा पिप्पल्यादीनां चूर्णं पानयोग्यं मधु दत्त्वा पेयम्॥५॥

त्रिफलाचव्यकटुकं ग्रन्थिकं मधुना लिहेत्।
ऊरुस्तम्भविनाशाय पुरं मूत्रेण वा पिबेत्॥६॥

त्रिफलेत्यादि—कटुकं त्रिकटुकम्। पुरं मूत्रेण पिबेदिति। यद्यप्ययं योगः शिलाजतुं गुग्गुलुं वेत्यादिना पूर्वमेवोक्तस्तथापि सम्पूर्णश्लोकानुराधात् पुनरप्यत्र लिखितः॥६॥

लिह्याद्वा त्रिफलाचूर्णं क्षौद्रेण कटुकायुतम्।
सुखाम्बुना पिबेद्वापि चूर्णं षड्धरणं नरः॥७॥

कटुकायुतमिति त्रिकटुकयुतं कटुरोहिणीयुक्तं वा। षड्धरणं वातव्याधावुक्तम्। यद्यपि षड्धरणं पिबेदित्येतावतैव सुखाम्बुना इति लभ्यते, उष्णोदकेनैव षड्धरणपानस्य पूर्वमुक्तत्वात्, तथाप्यनन्तरोक्तक्षौद्रेण पानशङ्कानिरासार्थमतदुक्तं भवति॥७॥

पिप्पलीवर्द्धमानं वा माक्षिकेण गुडेन वा।
ऊरुस्तम्भे प्रशंसन्ति गण्डीरारिष्टमेव वा॥८॥

पिप्पलीवर्द्धमानं वेति पिप्पलीवर्द्धमाननियमक्रमेण पिप्पलीं गृहीत्वा चूर्णयित्वा मधुना गुडेन वा सहोपयुञ्जीत। गण्डीरारिष्टमेवेति गण्डीरः शमठः, स तु स्थलजो ग्राह्यः तीक्ष्णत्वात्, तस्यारिष्टं सन्धानं, तच्च गण्डीरशतपलं जलद्रोणेन पक्त्वा पादावशेषे तस्मिन् गुडतुलामावाप्य घातकीलोध्रलिप्ते कुम्भे सन्धानार्थम्, ईषदम्लं यदा भवति तदोपयोज्यम्, किंवा अरिष्टो निम्बः। शमठनिम्वयोश्चूर्णमनन्तरोक्तेन मधुना गुडेन वा सहोपयोज्यम्॥८॥

चव्याभ्याग्निदारूणां समधुः स्यादूरुग्रहे।
कल्को दिहेच्च मूत्राढ्यैः करञ्जफलसर्षपैः॥९॥

चव्येत्यादि—समधुःकल्कः पेय इति येज्यम्। दिहेदित्यादि सर्षपैरित्यन्त एको योगः॥९॥

क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतं भिषक्।
गाढमुत्सादनं कुर्य्यादूरुस्तम्भे सलेपनम्॥१०॥

क्षौद्रेत्यादि—उत्सादनमुद्वर्त्तनम्॥१०॥

कफक्षयार्थं व्यायामेष्वेनं शक्येषु योजयेत्।
स्थानान्याक्रामयेत् कल्यं प्रतिस्रोतो नदीं तरेत्॥११॥

कफेत्यादि—स्थानानीत्युच्चप्रदेशान्, स्थलानीतिपाठे स एवार्थः। कल्यमिति प्रातः, नीरुजमित्यन्ये॥११॥

अष्टकट्वरं तैलम्।

पलाभ्यां पिप्पलीमूलनागरादष्टकट्वरः।
तैलप्रस्थः समो दना गृध्रस्यूरुग्रहापहः।

अष्टकट्वरतैलेऽस्मिंस्तैलं सार्षपमिष्यते॥१२॥

अष्टकट्वरतैले पलाभ्यामिति पिप्पलीमूलनागरादिति पिप्पलीमूलनागरयोः मिलित्वा पलद्वयं मानप्रधानत्वात् निर्देशस्य। चक्रेऽपि पिप्पल्यादिसमुदायात् पलाभ्यामित्याह। वृन्दटिप्पण्यामपि पिप्पलीमूलनागरयोः प्रत्येकमेकपलमित्युक्तम्, निश्चलस्तु प्रत्येकं पलद्वयम्, अन्यथा कल्कस्यात्यन्तमल्पीयस्त्वं स्यादित्याह। अष्टकट्वरमिति अष्टगुणं कट्वरं सस्नेहदधितक्रंयत्र॥१२॥

कुष्ठाद्यं तैलम्।

कुष्ठश्रीवेष्टकोदीच्यं सरलं दारु केशरम्।
अजगन्धाश्वगन्धा च तैलं तैः सार्षपं पचेत्।

सक्षौद्रं मात्रया तस्मादूरुस्तम्भार्दितः पिबेत्॥१३॥

कुष्ठेत्यादौ—चतुर्गुणजलेन पाकः।श्रीवेष्टकः नवनीतखोटिः, अजगन्धा क्षेत्रयमानी। सक्षौद्रमिति प्रक्षेपविधया, अयञ्च स्नेहविधिरवस्थाविशेषे बोध्यः उक्तं हि चरके “रूक्षाणां वातकोपश्चेन्निद्रानाशार्त्तिपूर्वकः। स्नेहस्वेदक्रमस्तत्र कार्य्यो वातामयापहः।” इति॥१२॥

सैन्धवाद्यं हितं तैलं वर्षाभ्वमृतगुग्गुलुः॥१४॥

सैन्धवाद्यमित्यादौ—सैन्धवाद्यं तैलं वातव्याधावुक्तम्, पुनर्नवागुग्गुलुरमृतागुग्गुलुश्च वातरक्तेचोक्तः॥१४॥

इत्यूरुस्तम्भचिकित्सा—विवृतिः।

<MISSING_FIG href="../../../../../books_images/U-IMG-170866748919.jpg"/>

अथामवात-चिकित्सा।

लङ्घनं स्वेदनं तिक्तंदीपनानि कटूनि च।

विरेचनं स्नेहपानं बस्तयश्चाममारुते॥
सैन्धवाद्येनानुवास्य क्षारबस्तिः प्रशस्यते॥१॥

सामवातजन्यत्व–सामान्यादूरुस्तम्भानन्तरमामवात—चिकित्सामाह लङ्घनमित्यादि—विरेचनन्तु महेश्वरपत्रिकायां विशेषेणोक्तम्, उक्तं हि—“त्रिवृत्सैन्धवशुण्ठीनामारनालेन चूर्णितम्। पीत्वा विरेचयेज्जन्तुमामवातहरं परम्। सप्ताहञ्च त्रिवृच्चूर्णं त्रिवृत्क्वाथेन भावितम्। काञ्जिकेन तु तत् पीतं रेचनञ्चामवातिनाम्” इति तत् सर्वमत्र बोध्यम्। स्नेहपानामिति लङ्घनादिभिरामक्षये जाते तदनन्तरं रूक्षस्य वायोःप्रशमनार्थं स्नेहपानं किंवा स्नेहशब्देनात्र विरेचकतया एरण्डतैलं बोध्यम्। बस्तय इति शोधनबस्तयः॥१॥

आमवाते पञ्चकोलसिद्धं पानान्नमिष्यते।
रूक्षः स्वेदः प्रकर्त्तव्यो बालुकापुटकैस्तथा॥२॥

रूक्षः स्वेद इति रूक्षस्वेदः तन्त्रान्तरोक्तःयथा “कार्पासास्थिकुलत्थिकातिलयवैरेरण्डमूलातसी-वर्षाभूशणशिप्रुकाञ्जिकयुतैरेकीकृतैर्वा पृथक्। स्वेदः स्यादथकूर्परोदशिरःस्फिक्पाणिपादांगुलिग्रीवास्कन्धकटीरुजो विजयते सामाः समस्ता रुजः” इति॥२॥

शटी शुरठ्यभया चोग्रा देवाह्वातिविषामृता।
कषायमामवातस्य पाचनं रूक्षभोजनम्॥३॥

शटीत्यादौ—उग्रा वचा॥३॥

शटीविश्वौषधीकल्कं वर्षाभूक्वाथसंयुतम्।
सप्तरात्रं पिबेज्जन्तुरामवातविनाशनम्॥४॥

शटीत्यादौ—वर्षाभूः पुनर्नवा॥४॥

रास्नादशमूलम्।

दशमूलामृतैरण्ड-रास्नानागरदारुभिः॥
क्वाथो रुवुकतैलेन सामं हन्त्यानिलं गुरुम्॥५॥

रास्ना दशमूलेत्यादौ रुवूकतैलेनेति शोधनार्थम् एरण्डतैलस्य कर्षः समधिको वा। शमनार्थं पुनः षढष्टौ माषका इति॥५॥

दशमूलीकषायेण पिबेद्वा नागराम्भसा।
कुक्षिबस्तिकटीशूले तैलमेरण्डसम्भवम्॥६॥

दशमूलीत्यादि—स्पष्टम्॥६॥

रास्नापञ्चकम्।

रास्नांगडूचीमेरण्डं देवदारुमहौषधम्।
पिबेत् सर्वाङ्गिके वाते सामे सन्ध्यस्थिमज्जगे॥७॥

रास्नापञ्चके पिबेदिति क्वाथरूपतया। अत्र योगे तथा वक्ष्यमाण-रास्नासप्तकेऽपि यदि विरेकश्चिकीर्षितो भवति, तदा एरण्डतैलं प्रक्षेप्यमिति वदन्ति॥७॥

रास्नासप्तकम्।

रास्नामृतारग्वधदेवदारुत्रिकण्टकैरण्डपुनर्नवानाम्।
क्वाथं पिबेन्नागरचूर्णमिश्रं जङ्घोरुपृष्ठत्रिकपार्श्वशूली॥८॥

रास्नासप्तके—अमृता गुडूची॥८॥

शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातर्निषेवितः।
सामवाते कटीशूले पाचनो रुक्प्रणाशनः॥९॥

शुण्ठीगोक्षुरकक्वाथ इत्यादि—अत्र शुण्ठ्या भागमेकम्, गोक्षुरस्य भागत्रयं गृह्णन्ति, कोष्ठभेदे कर्तव्ये यवक्षारमप्यत्र प्रक्षिपन्ति॥६॥

आमवाते कणायुक्तं दशमूलीजलं पिबेत्।
खादेद्वाप्यभयाविश्वं गडूचीं नागरेण वा॥१०॥

अभयाविश्वमिति हरीतकीचूर्णं मा २, शण्ठीचूर्ण मा २, पिष्ट्वाखाद्यं तप्तजलमनुपेयम्। गुडूचीं नागरेण वा इति क्वाथेन व्यवहारः। केचित्तु पिष्ट्वा उष्णोदकेन भक्षयन्ति॥१०॥

एरण्डतैलसंयुक्तां हरीतकींभक्षयेन्नरो विधिवत्।
आमानिलार्तियुक्तो गृध्रसी-वृद्ध्यर्दितो नित्यम्॥११॥

** **एरण्डेत्यादि—हरीतकीचूर्णस्यैरण्डतैलेनाबलेहः॥११॥

कर्षं नागरचूर्णस्य काञ्जिकेन पिबेत् सदा।
आमवातप्रशमनं कफवातहरं परम्॥१२॥

कर्षं नागरचूर्णस्यैत्यादि—शुण्ठीचूर्णलवणयुक्तस्य काञ्जिकस्य भक्तेन सहोपयोगः प्रचरति॥१२॥

पञ्चकोलकचूर्णञ्च पिबेदुष्णेन वारिणा।
मन्दाग्निशूलगुल्माम-कफारोचकनाशनम्॥१३॥

पञ्चकोलेत्यादि—समभागपञ्चकोलचूर्णं माषकाष्टकमुष्णजलेन पेयम्॥१३॥

अमृतानागरगोक्षुरमुण्डितिकावरुणकैः कृतं चूर्णम्।
मस्त्वारनालपीतमामानिलनाशनं ख्यातम्॥१४॥

अमृतेत्यादौ—वरुणं वरुणमूलम्॥१४॥

वैश्वानरं चूर्णम्।

माणिमन्थस्य द्वौ भागौ यमान्यास्तद्वदेव तु।
भागास्त्रयोऽजमोदायानागराद्भागपञ्चकम्॥

दश द्वौ च हरीतक्याःश्लक्ष्णचूर्णीकृताः शुभाः।
मस्त्वारनालतक्रेण सर्पिषोष्णोदकेन वा॥

पीतं जयत्यामवातं गुल्मं हृद्वस्तिजान् गदान्।
प्लीहानं हन्ति शूलादीनानाहं गुदजानि च॥

विबन्धं जाठरान् रोगांस्तथा वै हस्तपादजान्।
वातानुलोमनमिदं चूर्णं वैश्वानरं स्मृतम्॥१५॥

वैश्वानरचूर्णमाह माणिमन्थस्येत्यादि—माणिमन्यं सैन्धवम्। यमान्यास्तद्वदिति भागद्वयम्। भागास्त्रयोऽजमोदाया इति अजमोदा यमानी, तेन पञ्चभागो यमान्या एव, एके यमानी स्थाने यवक्षारं पठन्ति, केचिद्वनयमानीत्युपन्यस्य यमान्या भागद्वयं प्रयच्छन्ति, अन्ये त्वजमोदया वनयमानीं गृह्णन्ति, किन्त्वन्तःपरिमार्जने यमान्येव युक्ता। दश द्वौ चेति द्वादशभाग इत्यर्थः॥१५॥

अलम्बुषाद्यं चूर्णम्।

अलम्बुषां गोक्षुरकं गुडूचीं वृद्धदारकम्।
पिप्पलीं त्रिवृतां मुस्तं वरुणं सपुनर्नवम्॥

त्रिफलां नागरञ्चैव श्लक्ष्णचूर्णानि कारयेत्।
मस्त्वारनालतक्रेण पयोमांसरसेन वा॥

आमवातं निहन्त्याशु श्वयथुं सन्धिसंस्थितम्।
प्लीहगुल्मोदरानाहदुर्नामानि विनाशयेत्॥

अग्निञ्च कुरुते दीप्तं तेजोवृद्धिं बलं तथा।
वातरोगान् जयत्येष सन्धिमज्जगतानपि॥१६॥

अलम्बुषामित्यादि—अलम्बुषा मुण्डितिका, वृद्धदारकं वृद्धदारवमूलम्, वरुणं वरुणमूलम्॥१६॥

शतपुष्पाद्यं चूर्णम्।

शतपुष्पा विडङ्गश्च सैन्धवं मरिचं समम्।
चूर्णमुष्णाम्बुना पीतमग्निसन्दीपनं परम्॥१७॥

शतपुष्पेत्यादि स्पष्टम्॥१७॥

हिङ्ग्वाद्यं चूर्णम्।

हिङ्गु चव्यं विडं शुण्ठी कृष्णाजाजी सपौष्करम्।
भागोत्तरमिदं चूर्णं पीतं वातामजिद्भवेत्॥१८॥

हिंगुचव्यमित्यादौ—कृष्णा पिप्पली। अजाजी सितजीरकमिति निश्चलः, कृष्णाजाजी कृष्णजीरकमिति वृन्दटिप्पणी। भागोत्तरमिति यथोत्तरं एकभागपरिवृद्धम्। पीतमिति उष्णाम्बुना॥१८॥

योगराजगुग्गुलुः।

चित्रकं पिप्पलीमूलं यमानीं कारवीं तथा।
विडङ्गान्यजमोदाश्च जीरकं सुरदारु च॥

चव्यैला सैन्धवं कुष्ठं रास्नागोक्षुरधान्यकम्।

त्रिफलामुस्तकं व्योषं त्वगुशीरं यवाग्रजम्॥
तालीशपत्रं पत्रञ्च श्लक्ष्णचूर्णानि कारयेत्।

यावन्त्येतानि चूर्णानि तावन्मात्रन्तु गुग्गुलुम्॥
सम्मद्दर्थं सर्पिषा गाढं स्निग्धे भाण्डे निधापयेत्।

ततो मात्रां प्रयुञ्जीत यथेष्टाहारवानपि॥
योगराज इति ख्यातो योगोऽयममृतोपमः।

आमवाताढ्यवातादीन् क्रिमिदुष्टव्रणानपि॥
प्लीहगुल्मोदरानाह-दुर्नामानि विनाशयेत्॥

अग्निञ्च कुरुते दीप्तं तेजोवृद्धि बलं तथा।
वातरोगान् जयत्येषसन्धिमज्जगतानपि॥१९॥

योगराजगुग्गुलौकारवी कृष्णजीरकम्, अजमोदा यमानी, अन्तः परिमार्जनत्वात् एवमन्यत्रापि। सम्मर्द्य सर्पिषा गाढमिति प्रथमं तावत् घृतं दत्त्वा केवलो गुग्गुलुः पेषणीयः, पश्चादल्पमल्पं चूर्ण दत्त्वा पेषणीयः। सम्यक् चूर्णमिलने तु स्निग्धभाण्डे निधेयः। मर्दनार्थं घृतमानञ्चात्र यावता चूर्णं मिलितं भवति, अन्ये तु गुग्गुलोरर्द्धमानमित्याहुः। ततो मात्रां प्रयुञ्जति इति, षडष्टमापकरूपाम्। उष्णाम्बुकाञ्चिकाद्यनुपेयमित्याहुः॥१९॥

सिंहनादगुग्गुलुः।

पलत्रयं कषायस्य त्रिफलायाः सुचूर्णितम्।
सौगन्धिकपलञ्चैकं कौशिकस्य पलं तथा॥

कुडवं चित्रतैलस्य सर्वमादाय यत्नतः।
पाचयेत् पाकविद्वैद्यः पात्रे लौहमये दृढे॥

हन्ति वातं तथा पित्तं श्लेष्माणं खञ्जपङ्गुताम्।
श्वासं सुदुर्जयं हन्ति कासं पञ्चविधं तथा॥

कुष्ठानि वातरक्तानि गुल्मशूलोदराणि च।
आमवातं जयदेतदपि वैद्यविवर्जितम्॥

एतदभ्यासयोगेन जरापलितनाशनम्।
सर्पिस्तैलरसोपेतमश्नीयाच्छालिषष्टिकम्॥

सिंहनाद इति ख्यातो रोगवारणदर्पहा।
वह्निवृद्धिकरः पुंसां भाषितो दण्डपाणिना॥२०॥

पलत्रयमित्यादि—त्रिफलायाः क्वाथस्य पलत्रयं प्रत्येकम्। सुचूर्णितमिति सौगन्धिकपलमित्यनेन सम्बध्यते। सौगन्धिकमिति गन्धकम् ,तच्च शोधितं ग्राह्यम्। कौशिकस्येति गुग्गुलोः। चित्रकतैलमित्येरण्डतैलम्, कुडवमित्यष्टौ पलानि, अन्ये तु तैलस्य बहुलत्वेन पाको दुर्ग्रहः स्यात् इति कृत्वा अकृतद्वैगुण्यमेवात्र कुडवंगृह्णन्ति। त्रिफला प्रत्येकं पल १, कर्ष २; क्वाथार्थजल शराव ४, पल ४; शेष श १, पल १; शोधितगन्धकचूर्ण पल १; एरण्डतैल पल ८। एरण्डतैलं दत्त्वा गन्धकचूर्णेन सह गुग्गुलुः पेषणीयः, तदनु त्रिफलारसेनालोड्य लौहपात्रे पक्तव्यम्, मनाक् तैलनिःसरणे सति सम्यक् पाको ज्ञेयः।प्रथमतो माषद्वयं, अष्टौ माषकान् यावत् खाद्यम्॥२०॥

बृहत्सिंहनादगुग्गलुः।

पिण्डितां गुग्गुलोर्माणीं कटुतैलपलाष्टके।
प्रत्येकं त्रिफलाप्रस्थौ सार्द्धद्रोणे जले पचेत्॥

पादशेषे

चपूतञ्च पुनरग्नावधिश्रयेत्।
त्रिकटु त्रिफला मुस्तं विडङ्गामरदारु च॥

गुडूच्यग्नित्रिवृद्दन्तीचवीशूरणमानकम्।
पारदं गन्धकञ्चैव प्रत्येकं शुक्तिसम्मितम्॥

सहस्रकानकफलं सिद्धे सञ्चूर्ण्य निक्षिपेत्॥
ततो माषद्वयं जग्ध्वा पिबेत् तप्तजलादिकम्॥२१॥

पिण्डितामित्यादौ—कानकफलं जयपालफलम्॥२१॥

अलम्बुषाद्यं चूर्णम्।

अलम्बुषागोक्षुरक-त्रिफलानागरामृताः।
यथोत्तरं भागवृद्धया श्यामाचूर्णञ्च तत्समम्॥

पिबेन्मस्तुसुरातक्र-काञ्जिकोष्णोदकेन वा।
पीतं जयत्यामवातं सशोथं वातशोणितम्॥

त्रिकजानूरुसन्धिस्थं ज्वरारोचकनाशनम्॥
पथ्याक्षधात्र्यस्त्रिफला भागवृद्धावयं क्रमः॥२२॥

अलम्बुषाद्यचूर्णे यथोत्तरं भागवृद्ध्येतियद् यत् परं तत्तदेकभागवर्द्धितमित्यर्थः। श्यामा वृद्धदारकः, तत्सममिति मिलितचूर्णसमम्। त्रिफलाया येन क्रमेण भागवृद्धिं कुर्य्यात् तं क्रममाह पथ्याक्षधात्र्य इत्यादि—अयमेव क्रमो वृद्धवैद्यव्यवहारसिद्धो वृन्देनापि लिखितः॥२२॥

पथ्याविश्वयमानीभिस्तुल्याभिश्चूर्णितं पिबेत्।
तक्रेणोष्णोदकेनापि अथवा काञ्जिकेन वा।

आमवातं निहन्त्याशु शोथं मन्दाग्नितामपि॥२३॥

पथ्येत्यादौ—चूर्णितामिति भावे क्तः, तेन पथ्यादिभिः कृतं चूर्णं पिबेदित्यर्थः॥२३॥

बृहत् सैन्धवाद्यं तैलम्।

सैन्धवं त्रिफला रास्ना पिप्पली गजपिप्पली।
सर्जिका मरिचं कुष्ठं शुण्ठी सौवर्चलं विडम्॥

यमान्यौ पुष्कराजाजी मधुकं शतपुष्पिका।
पलार्द्धिकैः पचेदेतैः प्रस्थमेरण्डतैलतः॥

प्रस्थाम्बुशतपुष्पायाः प्रत्येकं मस्तुकाञ्जिके।
दद्याद् द्विगणिते पानवस्त्यभ्यङ्गप्रयोजितम्॥

आमवातहरं श्रेष्ठं सर्ववातघ्नमग्निदम्॥
कटीजानूरुसन्धिस्थे पार्श्वहृद्वङ्क्षणाश्रये।

शस्तं वातान्त्रवृद्धौ च सैन्धवाद्यमिदं महत्॥२४॥

सैन्धवमित्यादि—स्पष्टम्॥२४॥

अजमोदाद्यवटकः।

अजमोदामरिचपिप्पलिविडङ्गसुरदारुचित्रकशताह्वाः।
सैन्धवपिप्पलिमूलं भागा नवकस्य पलिकाः स्युः॥

शुण्ठी दशपलिका स्यात् पलानि तावन्ति वृद्धदारस्य।
पथ्यापञ्चपलानि सर्वमेकत्र कारयेच्चूर्णम्॥

समगुडवटकान् खादतश्चूर्णं वाप्युष्णवारिणा पिबतः
नश्यन्त्यामानिलजाः सर्वे रोगाः सुकष्टास्तु॥

विसूचिकाप्रतितूणीहृद्रोगाश्च गृध्रसी चोग्रा।
कटिवस्तिगदस्फुटनञ्चैवास्थिजङ्घयोस्तीव्रम्॥

श्वयथुस्तथाङ्गसन्धिषु ये चान्येऽप्यामवातसम्भूताः।
सर्वे प्रयान्ति नाशं तम इव सूर्य्यांशुविध्वस्तम्॥२५॥

अजमोदाद्यवटके अजमोदा यमानी। नवकस्येति उक्ताजमोदादिनवकस्य प्रत्येकं पलिका भागा इत्यर्थः। पलानि तावन्तीति दशपलानीत्यर्थः। समगुडवटकानिति समेनैव गुडेन किञ्चिज्जलं दत्त्वा वह्निसम्बन्धात् द्रवीकृतेन वटकाः कार्य्याः। अन्यथा वटकभावोऽस्य दुष्करः। चूर्ण वेति गुडयोगं विना॥२५॥

शुण्ठीघृतम्—नागरक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत्च।
तुर्गुणेन तेनाथ केवलेनोदकेन वा॥

वातश्लेष्मप्रशमनमग्निसन्दीपनं परम्।
नागरं घृतमित्युक्तं कट्यामशूलनाशनम्॥२६॥

शुण्ठीघृते चतुर्गुणेन तेनेति नागरक्वाथेन, केवलेनोदकेन वेति क्वाथस्थाने चतुर्गुणं जलं दत्त्वेत्यर्थः॥२६॥

गुडूचीघृतम्—अमृतायाः कषायेण कल्केन च महौषधात्।
मृद्वग्निना घृतं प्रस्थं वातरक्तहरं परम्॥

आमवाताढ्यवातादीन् क्रिमिदुष्टव्रणानपि।
अर्शांसि गुल्मांश्च तथा नाशयत्याशु योजितम्॥२७॥

अमृताया इत्यादौ—कल्केन चेति पदं महौषधादित्यनेन सम्बध्यते। आढ्यवाते ऊरुस्तम्भे॥२७॥

काञ्जिकषट्पलकं घृतम्।

हिंगु त्रिकटुकं चव्यं माणिमन्थं तथैव च।
कल्कान् कृत्वा च पलिकान् घृतप्रस्थं विपाचयेत्॥

आरनालाढकं दत्त्वा तत्सर्पिर्जठरापहम्।
शूलं विबन्धमानाहमामवातं कटीग्रहम्॥

नाशयेद् ग्रहणीदोषं मन्दाग्नेर्दीपनं परम्॥२८॥

काञ्जिकषट्पलके त्रिकटुकं प्रत्येकं पलिकम्। माणिमन्थं सैन्धवम्॥२८॥

पुष्ट्यर्थं पयसा साध्यं दध्ना विण्मूत्रसंग्रहे।
दीपनार्थं मतिमता मस्तुना च प्रकीर्त्तितम्॥२९॥

पुष्ट्यर्थमित्यादि—उक्तमेतत् काञ्जिकषट्पलकं यदि पुष्ट्यर्थं क्रियते, तदा काञ्जिकस्थाने पयो दत्त्वा साध्यं, विण्मूत्रसंग्रहे कार्य्येदध्ना साध्यं, दीपनार्थं यदि, तदा मस्तुना साध्यमित्यर्थः॥२९॥

शुण्ठीघृतम्—सर्पिर्नागरकल्केन सौवीरकचतुर्गुणम्।
सिद्धमग्निकरं श्रेष्ठमामवातहरं परम्॥३०॥

शुण्ठीघृतं स्पष्टम्॥३०॥

रसोनपिण्डम्—रसोनस्य पलशतं तिलस्य कुडवं तथा।
हिंगु त्रिकटुकं क्षारौ द्वौ पञ्चलवणानि च॥

शतपुष्पा तथा कुष्ठं पिप्पलीमूलचित्रकौ।
अजमोदा यमानी च धन्याकञ्चापि बुद्धिमान्॥

प्रत्येकन्तु पलञ्चैषां श्लक्ष्णचूर्णानि कारयेत्।
घृतभाण्डे दृढे चैतत् स्थापयेद् दिनषोडशम्॥

प्रक्षिप्य तैलमाणीञ्च प्रस्थार्द्धं काञ्जिकस्य च।
खादेत् कर्षप्रमाणन्तु तोयं मद्यं पिबेदनु॥

आमवाते तथा वाते सर्वाङ्गैकाङ्गसंश्रिते।
अपस्मारेऽनिले मन्दे कासे श्वासे गरेषु च॥

सोन्मादवातभग्ने च शूले जन्तुषु शस्यते॥३१॥

रसोनपिण्डे निस्त्वचो रसोनस्यापि पिष्टस्य, एवं तिलस्यापि। तैलस्य माणीत्यनेनाष्टौ पलानि, द्वैगुण्याभावात्। प्रस्थार्द्धमिति षोडशपलानि, जन्तुष्विति किमिषु॥३१॥

प्रसारणीसन्धानम्।

प्रसारण्याढकक्वाथे प्रस्थो गुडरसोनयोः।
पक्वःपञ्चोषणरजःपादः स्यादामवातहा॥३२॥

प्रसारण्याढकमित्यादौ—प्रसारण्याः क्वाथेआढके षोडशशरावपरिमित इत्यर्थः गुडरसोनयोश्च मिलित्वा प्रस्थः। पक्वइति कालवशात् परिणतः सज्जातरस इत्यर्थः। कालश्च सप्ताह एव वक्ष्यमाणप्रयोगदर्शनात्। पञ्चोषणरज इति मिलितपञ्चकोलचूर्णप्रस्थमपेक्ष्य पादिकं चतुःपलमित्यर्थः। गन्धभादाली ६४, पाकार्थ पानीय शराव ६४, शेष शराव १६, गुडपल ८, रसोनपल ८, सन्धानवशात् परिणते सति प्रक्षेपः मिलितपञ्चकोलचूर्ण पल ४। प्रसारणीसन्धानमेतत्॥३२॥

रसोनसुरा—वल्कलायाः सुरायास्तु सुपक्वायाः शतं घटे।

ततोऽर्द्धेन रसोनन्तु संशुद्धं-कुट्टितं क्षिपेत्॥

पिप्पली पिप्पलीमूलमजाजीकुष्ठचित्रकम्।
नागरं मरिचं चव्यं चूर्णितञ्चाक्षसम्मितम्॥

सप्ताहात् परतः पेया वातरोगामनाशिनी।
क्रिमिकुष्ठक्षयानाहगुल्मार्शःप्लीहमेहनुत्।

अग्निसन्दीपनी चैव पाण्डुरोगविनाशिनी॥३३॥

वल्कलायाः सुराया इति वल्कलीति ख्यातायाः सुरायाः। शतमिति पलशतं घटे घटमध्ये क्षिपेदित्यन्वयः। ततोऽर्द्धेन परिमितं रसोनमिति पश्चाशत्पलमित्यर्थः। संशुद्धमिति त्वक्शिरारहितम्॥३३॥

शिण्डाकी—सिद्धार्थकखलीप्रस्थं सुधौतं निस्तुषं जले।
मण्डप्रस्थं विनिक्षिप्य स्थापयेद्दिवसत्रयम्॥

धान्यराशौ ततो दद्यात् सञ्चूर्ण्य पलिकानि च।
अलम्बुषा गोक्षुरकं शतपुष्पीपुनर्नवे॥

प्रसारणी वरुणत्वक् शुण्ठी मदनमेव च।
सम्यक् पाकन्तु विज्ञाय सिद्धा तण्डुलमिश्रिता॥

भृष्ट्वा सर्षपतैलेन हिङ्गुसैन्धवसंयुता।
भक्षिता लवणोपेता जयेदामं महारुजम्।

एकजं द्वन्द्वजंसाध्यं सान्निपातिकमेव च॥
कट्यूरुवातमानाहजानुजं त्रिकमागतम्।

उदावर्त्तहरी पेया बलवर्णाग्निकारिणी॥३४॥

सिद्धार्थकखलीप्रस्थमित्यादि—सर्षपखलीं चूर्णीकृत्य जलेनालोड्य छानयित्वानिस्तुषीकृत्य आतपे संशोष्य ग्राह्यं पल १६, मण्डशराव ४ मिश्रयित्वा धान्यराशौ दिनत्रयं स्थाप्यम्। तत इति धान्यराशेराकृष्यालम्बुषादिचूर्णं प्रत्येकं पालकं दद्यात्। ततोऽम्लत्वेन सम्यक् पाकं सम्यक् परिणतमिति विज्ञाय स्थापनीयम्। ततः प्रत्यहं ग्राह्यं कर्ष २, तण्डुलचूर्ण पल १, पाकार्थं जल पल ९ यवागूः षड्गुणेऽम्भसीत्युक्तेः, भर्जनार्थं सर्षषतैलकर्ष १, हिंगु रति ५, सैन्धव माषा २, ततः पुनरपि किञ्चिल्लवणं

दत्त्वा भक्षणीयेति परिपाटी कथिता। सिद्धा तण्डुलमिश्रितेति एषा शिण्डाकी तण्डुलमिश्रिता सती सिद्धा कार्य्या पेया कार्य्येत्यर्थः। अन्ये तु पिष्टतण्डुलमिश्रणेन वटकः कार्य्यः इत्याहुः। शिण्डाकीति सन्धानविशेषस्य संज्ञा तीरभुक्तिप्रसिद्धा॥३४॥

सिध्मला—त्वगादिहीनाः संशुद्धाः प्रत्यग्राः शकुलादयः।
श्लक्ष्णचूर्णीकृतं तेषां शीते पलशतत्रयम्॥

शतेन कटुतैलस्य व्योषरामठधान्यकैः।
क्रिमिघ्नदीप्यकनिशा-चविकाग्रन्थिकार्द्रकैः॥

जीरकद्वयवृश्चीरसुरसार्जकशिग्रुकैः।
दशमूलात्मगुप्ताभ्यां मार्कवैर्लवणैस्त्रिभिः॥

चूर्णितैःपलिकैः सार्द्धमारनालपरिप्लुतैः।
विन्यसेत् स्नेहपात्रे तु धान्यराशौ पुनर्न्यसेत्॥

सप्तरात्रात् समुद्धृत्य पानभक्षणभोजनैः।
सिध्मलेयं प्रयोक्तव्या सामे वायौ विशेषतः।

भग्नरुग्णाश्च्युतहताः कम्पिनः पीठसर्पिणः।
गृध्रसीमग्निसादञ्च शूलगुल्मोदराणि च॥

वलीपलितखालित्यं हत्वा स्युरमलेन्द्रियाः॥३५॥

सिध्मलायां शीत इति शीतकाले। अर्जकः सुरसश्च पर्णासभेदः। आरनालपरिप्लुतैरिति तावन्मानमारनालं यावता परिप्लवः सम्यक् भवति स्नेहपात्रमिह कटुतैलपात्रमेव यौगिकम्। भक्षणमिति चर्वणं, भोजनमन्नादिभोजनम्॥३५॥

दधिमत्स्यगुडक्षीरपोतकीमाषपिष्टकम्।
वर्जयेदामवातार्त्तोगुर्वभिष्यन्दकारि यत्॥३६॥

माषपिष्टकमिति माषकृतं पिष्टकं, किंवा माषकं पिष्टकञ्च। अभिष्यन्दकारि दोषधातुमलक्लेदकारि॥३६॥

इत्यामवातचिकित्साविवृतिः।

<MISSING_FIG href="../../../../../books_images/U-IMG-17104117813.jpg"/>

अथ शूलचिकित्सा।

वमनं लङ्घनं स्वेदः पाचनं फलवर्त्तयः।
क्षारचूर्णानि गुडिकाःशस्यन्ते शूलशान्तये॥१॥

आमवातवत् शूलस्याप्यामजन्यत्वेन तदनन्तरं शूलचिकित्सामाह वमनमित्यादि—सुश्रुतस्य। वमनमुत्क्लिष्टकफे, लङ्घनमामपाचनार्थं, स्वेदः पित्तं विहाय। क्षार इति क्षारवस्तिः क्षारप्रयोगो वा। चूर्णगुडिके इहैव वक्ष्यमाणे॥१॥

पुंसः शूलाभिपन्नस्य स्वेद एव सुखावहः।
पायसैःकृशरैःपिष्टैः स्निग्धैर्वा पिशितोत्करैः॥२॥

पुंस इत्यादि—पुंस इत्यत्र तस्येति पाठान्तरम्। कृशरस्तिलकल्कः। पायसादिभिः पिण्डादिसम्बन्धात् स्वेदो बोध्यः। पिशितेति भेकादिमांसैः॥१॥

वातशूलचिकित्सा।

वातात्मकं हन्त्यचिरेण शूलं स्नेहेन युक्तस्तु कुलत्थयूषः।
ससैन्धवो व्योषयुतः सलावः सहिङ्गुसौवर्चलदाडिमाढ्यः॥३॥

वातात्मकमित्यादि—यूष इति फुलत्थलावमांसयोर्मिलित्वा पलं, जलं षोडशपलं, पलचतुष्टयस्थिते विमर्द्य वस्त्रेण छानयित्वा हिंगुसहितेन घृतेन भर्जनीयं, तदनन्तरं सैन्धवादीनां चूर्णं मिलित्वा कर्षः प्रक्षेपः, पश्चाद्दाडिमबीजरसो योज्यः॥३॥

बलापुनर्नवैरण्डबृहतीद्वयगोक्षुरैः।
सहिङ्गुलवणं पीतं सद्यो वातरुजापहम्॥

बलेत्यादियोगोऽयं क्वाथविधिना। हिंगु लवणञ्च प्रक्षेप्यम्। लवणमत्र सौवर्चलं, वातशुलहरत्वादित्याहुः॥४॥

शूली निरन्नकोष्ठोऽद्भिरुष्णभिश्चूर्णिताः पिबेत्।
हिङ्गुप्रतिविषाव्योषवचासौवर्चलाभयाः॥५॥

निरन्नकोष्ठ इति अभुक्त इत्यर्थः। अन्ये तु अन्नम् अजीर्णान्नं तच्छून्यकोष्ठ इत्याहुः। प्रतिविषा अतिविषा॥५॥

तुम्बुरूण्यभया हिङ्ग पौष्करं लवणत्रयम्।
पिबेद् यवाम्बुना वातशूलगुल्मापतन्त्रकी॥६॥

तुम्बुरूणीत्यादौ—तुम्बुरु स्वनामख्यातं, यवाम्बुनेति यवक्वाथेन। यवैरण्डाम्बुना पेयमिति तु पाठान्तरं, तेन द्वाभ्यामेव क्वाथः॥६॥

श्यामा विडं शिग्रुफलानि पथ्या विडङ्गकम्पिल्लकमश्यमूत्री।
कल्कं समं मद्ययुतञ्च पीत्वा शूलं निहन्यादनिलात्मकन्तु॥७॥

श्यामेत्यादि—श्यामा वृद्धदारकः, कम्पिल्लको गुण्डारोचनी, अश्वमूत्री शल्लकी, क्षारो यवक्षारः॥७॥

यमानीहिङ्गुसिन्धूत्थक्षारसौवर्चलाभयाः।
सुरामण्डेन पातव्या वातशूलनिषूदनाः॥८॥

यमानीत्यादौ—सुरामण्डनेति सुराया उपरितनस्वच्छद्रवभागेन, एवमन्यत्रापि॥८॥

विश्वमेरण्डजं मूलं क्वाथयित्वा जलं पिबेत्।
हिङ्गुसौवर्च्चलोपेतं सद्यः शूलनिवारणम्॥९॥

विश्वमित्यादि—एरण्डमूलस्य भागत्रयं शुण्ठ्याश्चैको भाग इत्यर्थः॥९॥

हिङ्गुपुष्करमूलाभ्यां हिङ्गुसौवर्च्चलेन वा।
विश्वैरण्डयवक्वाथः सद्यः शूलनिवारणः॥१०॥

तद्वद्रुवुयवक्वाथो हिङ्गुसौवर्चलान्वितः॥११॥

हिंगुपुष्करेत्यादि, हिंगुपुष्करमूलाभ्यां हिंगुसौवर्चलेन वेति उभयत्र सहार्थे तृतीया। तद्वदिति सद्यः शूलहर इत्यर्थः॥१०॥११॥

हिङ्ग्वम्लकृष्णालवणं यमानीक्षाराभयासैन्धवतुल्यभागम्।
चूर्णं पिबेद्वारुणिमण्डमिश्रं शूले प्रवृद्धेऽनिलजे शिवाय॥१२॥

हिंग्वम्लेत्यादि—अम्लोऽम्लवेतसः, कृष्णा पिप्पली, लवणमिह सौवर्चलं विशेषतः शूलहरत्वात्। क्वचित् कृष्णणामलकमिति पाठः स च निश्चलस्यासम्मतः। निश्चलस्तु कृष्णामलकमित्यत्र कृष्णलवणमिति पठति, हारीतसंवादात्। छन्दोभङ्गोऽपि नाशङ्क्यः, अनन्तत्वात् पद्यमार्गस्येति व्याचष्टे॥१२॥

नारिकेलखण्डः।

सुपक्वनारिकेलस्य शस्यं पलचतुष्टयम्।
पिष्ट्वाघृतपले भृष्ट्वा क्षिपेत् खण्डचतुःपलम्॥

नारिकेलस्य च प्रस्थे किञ्चिच्छस्यवतो जले।
धन्याकं पिप्पलीं मुस्तं द्विजीरं वंशलोचनाम्॥

शाणमानं चतुर्जातं चूर्णं शीते क्षिपेद् बुधः।
हन्त्यम्लपित्तमरुचिं रक्तपित्तं क्षयं वमिम्॥

शूलञ्च पृष्ठशूलञ्च पित्तरुग्घ्नंरसायनम्।
विशेषाद्वलकृद् वृष्यं पुष्टिमोजस्करं स्मृतम्॥१३॥

सुपक्वेत्यादि—स्पष्टम्॥१३॥

सौवर्च्चलाम्लिकाजाजीमरिचौर्द्विगुणोत्तरैः।
मातुलुङ्गरसैःपिष्ट्वागुडिकानिलशूलनुत्॥१४॥

सौवर्चलेत्यादौ—अम्लिका तिन्तिडी। द्विगुणोत्तरैरिति उत्तरोत्तरं द्विगुणैरित्यर्थः। एषा गुडिका चतुर्माषकमिता उष्णोदकानुपानेन भक्षणीया, एवं वक्ष्यमाणा गुडिकापि॥१४॥

हिङ्ग्वम्लवेतसव्योष-यमानीलवणत्रिकैः।
बीजपूररसोपेतैर्गुडिका वातशूलनुत्॥१५॥

हिंग्वित्यादौ—लवणात्रिकं सैन्धवसौवर्चलविडम्॥१५॥

बीजपूरकमूलञ्च घृतेन सह पाययेत्।
जयेद् वातभवं शूलं कर्षमेकं प्रमाणतः॥१६॥

बीजपूरकेत्यादि केवल वातजे॥१६॥

बिल्वमूलतिलैरण्डं पिष्ट्वाचाम्लतुषाम्भसा।
गुडिकां भ्रामयेदुष्णां वातशूलविनाशिनीम्॥१७॥

बिल्वमूलेत्यादि—अम्लतुषाम्भः अम्लकाञ्जिकम्॥१७॥

तिलैश्च गुडिकां कृत्वा भ्रामयेज्जठरोपरि।
गुडिका शमयत्येषा शूलञ्चैवातिदुःसहम्॥१८॥

तिलैरिति पिष्टैः। गुडिकेयं कोष्णा उदरे भ्रामयित्वा॥१८॥

नाभीलेपाज्जयेच्छूलं मदनः काञ्जिकान्वितः।
जीवन्तीमूलकल्को वा सतैलः पार्श्वशूलनुत्॥१९॥

जीवन्तीमूलकल्केनापि लेपः॥१९॥

पित्तशूलचिकित्सा।

गुडशालिर्यवाः क्षीरं सर्पिः पानं विरेचनम्।
जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम्॥२०॥

सम्प्रति पित्तशूलचिकित्सामाह गुडेत्यादि—गुडोऽत्र पुरातनः उपहतमलश्च ज्ञेयः, तस्य वातपित्तहरत्वेन यौगिकत्वात्। उक्तं हि सुश्रुते—“पितघ्नो मधुरः शुद्धो वातघ्नोऽसृक्प्रमादनः। पुराणवाधिकगुणः स्मृतः पथ्यतमो गुटः”॥२०॥

पैत्ते तु शूले वमनं पयोऽम्बुरसैस्तथेक्षोः सपटोलनिम्बैः।
शीतावगाहाःपुलिनाः सवाताः कांस्यादिपात्राणि जलप्लुतानि॥२१॥

पैत्ते तु शूले वमनमित्यादि—पित्तजेऽपि वमनमामाशयस्थपित्तहरणार्थम्। सपटोलनिम्बैरिति पटोलनिम्बकल्कयुतैः। मदनफलयोगमप्यत्र केचिदिच्छन्ति॥२१॥

विरेचनं पित्तहरञ्च शस्तं रसाश्च शस्ताः शशलावकानाम्।
सन्तर्पणं लाजमधूपपन्नं योगाःसुशीता मधुसंप्रयुक्ताः॥२२॥

विरेचनं पित्तहरमिति पित्तहरमधुरगणोपहितम्। सन्तर्पणं लाजमधूपपन्नमिति लाजशक्तुमधुभ्यां निर्मितं सन्तर्पणम्॥२२॥

छद्यौ ज्वरे पित्तभवेऽपि शूलं घोरे विदाहे त्वतितर्षिते च।
यवस्य पेयां मधुना विमिश्राम पिबेत् सुशीतां मनुजः सुखार्थे॥२३॥

छर्द्यामित्यादौ—यवस्य पेयामिति यवस्य यवागूम्॥२३॥

धात्र्या रसं विदार्य्या वा त्रायन्ती गोस्तनाम्बु वा।
पिबेत् सशर्करं सद्यः पित्तशूलनिसूदनम्॥२४॥

धात्र्या रसमित्यादि योगत्रयम्। धात्र्या स्वरसः, विदार्य्या अपि स्वरसः, त्रायन्तीगोस्तनयोः क्वाथः, शर्करा सर्वत्र प्रक्षेप्या॥२४॥

शतावरीरसं क्षौद्रयुतं प्रातः पिबेन्नरः।
दाहशूलोपशान्त्यर्थं सर्वपित्तामयापहम्॥२५॥

शतावरीरसमित्यादि स्पष्टम्॥२५॥

बृहत्यौगोक्षुरैरण्डकुशकाशेक्षुरालिकाः।
पीतः पित्तभवं शूलं सद्यो हन्युः सुदारुणम्॥२६॥

बृहत्यावित्यादि—इक्षुरालिका स्वागरभेदा॥२६॥

शतावरीसयष्ट्याह्व-वाट्यालकुशगोक्षुरैः।
शृतशीतं पिबेत् तोयं सक्षौद्रगुडशर्करम्।

पित्तासृग्दाहशूलघ्नं सद्यो दाहज्वरापहम्॥२७॥

शतावरीत्यादौ—शृतशीतमिति शृतं शाीतमेव व्यजनादिभिः, न तु. शीतकषायम्॥ २७॥

त्रिफलानिम्बयष्ट्याह्व-कटुकारग्वधैः शृतम्।
पाययेन्मधुसंमिश्रं दाहशूलोपशान्तये॥२८॥

त्रिफलेत्यादौ—यष्ट्याह्वःयष्टिमधुकः, कटुका कटुरोहिणी॥२८॥

तैलमेरण्डजं वापि मधुकक्वाथसंयुतम्।
शूलं पित्तोद्भवं हन्याद् गुल्मं पैत्तिकमेव च॥२९॥

तैलमेरण्डजमिति तैलं प्रक्षेप्यम्। अन्ये तु योगद्वयमाहुः। तन्मते एरण्डजं तैलमित्येकः, मधुकक्वाथसंयुतमेरण्डतैलमिति द्वितीयः॥२९॥

त्रिफलारग्वधक्वाथं सक्षौद्रं शर्करान्वितम्।
पाययेद्रक्तपित्तघ्नं दाहशूलनिवारणम्॥३०॥

प्रलिह्यात् पित्तशूलघ्नं धात्रीचूर्णं समाक्षिकम्॥३१॥

त्रिफलारग्वधक्वाथमित्यादि स्पष्टम्॥३०-३१॥

अपरनारिकेलखण्डः।

नारिकेलपलान्यष्टौ शर्कराप्रस्थसंयुतम्।
तज्जलं पात्रमेकन्तु सर्पिः पञ्च पलानि च॥

शुण्ठीचूर्णस्य कुडवं प्रस्थार्द्धं क्षीरमेव च।
सर्वमेकीकृतं पात्रे शनैर्मृद्वग्निना पचेत्॥

तुगात्रिकटुकं मुस्तं चतुर्जातं सधान्यकम्।
द्वे कणेकर्षयुग्मञ्च जीरकञ्च पृथक् पृथक्॥

श्लक्ष्णचूर्णंविनिक्षिप्य स्थापयेद्भाजने मृदः।
खादेत् प्रतिदिनं शाणं यथेष्टाहारवानपि॥

सर्वदोषभवं शूलमामवातं विनाशयेत्।
परिणामभवं शूलमम्लपित्तञ्च नाशयेत्॥

बलपुष्टिकरञ्चैव वाजीकरणमुत्तमम्।
रक्तपित्तहरं श्रेष्ठं छर्दिहृद्रोगनाशनम्।

अग्निसन्दीपनकरं सर्वरोगनिबर्हणम्॥३२॥

नारिकेलत्यादौ—द्वे कणे इति पिप्पली गजपिप्पली च॥३२॥

कफशूलचिकित्सा।

श्लेष्माधिके छर्दनलङ्गनानि शिरोविरेकं मधुशीधुपानम्।

मधूनि गोधूमयवानरिष्टान् सेवेत् रूक्षान् कटुकांश्च सर्वान्॥३३॥

श्लेष्मात्मक इत्यादि—मधुना कृतः शीधुर्मधुशीधुः, अरिष्टानिति सन्धानविशेषान्॥३३॥

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः।
यवागूर्दीपनीया स्याच्छूलघ्नी तोयसाधिता॥३४॥

पिप्पलीत्यादि स्पष्टम्॥३४॥

लवणत्रयसंयुक्तं पञ्चकोलं समराठम्।
सुखोष्णेनाम्बुना पीतं कफशूलविनाशनम्॥३५॥

लवणत्रययुतमिति लवणत्रयं सौवर्चलसैन्धवविडम्। समभागचूर्णादष्टमाषकमुष्णोदकपलेनालोड्य पेयम्। चूर्णविषये योगोऽयम्॥३५॥

बिल्वमूलमथैरण्डं चित्रकं विश्वभेषजम्।
हिङ्गुसैन्धवसंयुक्तं सद्यः शूलनिवारणम्॥३६॥

बिल्वमूलादिर्विश्वभेषजान्तः अयं योगः क्वाथविधिना॥३६॥

मुस्तं वचां तिक्तकरोहिणीञ्च तथाभयां निर्दहनीञ्च तुल्याम्।
पिबेत्तु गोमूत्रयुतां कफोत्थशूले तथामस्य च पाचनार्थम्॥ ३७॥

मुस्तमित्यादौ—निर्दहनी मूर्वा। मुस्तादि निर्दहन्यत एकोयोगः। मुस्तकादिकं पिष्ट्वा गोमूत्रेण पेयम्॥३७॥

वचाब्दाग्न्यभयातिक्ताचूर्णं गोमूत्रसंयुतम्।
सक्षारं वा पिबेत् क्वाथं बिल्वादेः कफशूलवान्॥३८॥

वचेत्यादौ—अग्निश्चित्रकः। सक्षारमित्यादिस्तु द्वितीयो योगः। बिल्वादेर्दशमूलस्य क्वाथं पिबेदिति॥३८॥

मातुलुङ्गरसो वापि शिग्रुक्वाथस्तथापरः।
सक्षारंमधुना पीतःपार्श्वहृद्वस्तिशूलनुत्॥३९॥

मातुलुङ्गरस इति मालुङ्गमूलक्वाथः।योगद्वयेऽपि मधुयवक्षारौ प्रक्षेप्यौ॥३९॥

आमशूले क्रिया कार्य्या कफशूलविनाशिनी।
सेव्यमामहरं सर्वंयदग्निबलवर्द्धनम्॥४०॥

आमशूल इत्यादौ आमहरं भृत्वा यदग्निवृद्धिकरं भवति पञ्चकोलादि, तत् सेव्यम् न तु घृतादि॥४०॥

हिङ्ग्वादिः—सहिङ्गुतुम्बुरुव्योषयमानीचित्रकाभयाः।

सक्षारलवणाश्चूर्णं पिबेत् प्रातः सुखाम्वुना॥

विण्मूत्रानिलशूलघ्नं पाचनं वह्निदीपनम्॥४१॥

तुम्बुरु वणिग्द्रव्यविशेषः॥४१॥

धात्रीलौहम्—षट्पलं शुद्धमण्डूरं यवस्य कुडवं तथा।
पाकाय मीरप्रस्थार्द्धं चतुर्भागावशेषितम्॥

शतमूलीरसस्याष्टावामलक्यारसस्तथा।
तथा दधिपयोभूमिकूष्माण्डस्यचतुःपलम्॥

चतुःपलं शर्कराया घृतस्य च चतुःपलम्।
प्रक्षेपं जीरकं धान्यं त्रिजातं करिपिप्पलीम्॥

मुस्तं हरीतकीञ्चैव अभ्रं लौहं कटुत्रयम्।
रेणुकं त्रिफलाञ्चैव तालीशं नागकेशरम्॥

प्रत्येकं कार्षिकं चूर्णं पेषयित्वा विनिक्षिपेत्।
भोजनादौ तथा मध्ये चान्ते चैव समाहितः॥

तोलकं भक्षयेन्नित्यमनुपानं पयोऽथ वा।
शूलमष्टविधं हन्ति साध्यासाध्यमथापि वा।

वातिकं पैत्तिकञ्चैव श्लैष्मिकं सान्निपातिकम्॥
परिणामसमुत्थांश्च अन्नद्रवसमुद्भवान्।

द्वन्द्वजान् पक्तिशूलांश्च अम्लपित्तं सुदारुणम्॥
सर्वरोगहरं श्रेष्ठं धात्रीलौहमिदं स्मृतम्॥४२॥

धात्रीलौहे—भूमिकूष्माण्डं विदारीकन्दः॥४२॥

चित्रकग्रन्थिकैरण्डशुण्ठीधान्यं जलैः शृतम्।
शूलानाहविबन्धेषु सहिह्गुविडसैन्धवम्॥४३॥

चित्रकमित्यादौ—ग्रन्थिकं पिप्पलीमूलम्। सहिंगुविडसैन्धवमित्यत्र सहिंगुविडदाडिममिति केचित् पठन्ति॥४३॥

दीप्यकं सैन्धवं पथ्या नागरञ्च चतुःपलम्।
भृशं शूलं जयत्याशु मन्दस्याग्नेश्च दीपनम्॥४४॥

दीप्यकं यमानी मन्दस्यातिमन्दस्य॥४४॥

समाक्षिकं बृहत्यादि पिबेत् पित्तानिलात्मके।
व्यामिश्रं वा विधिं कुर्याच्छूले पित्तानिलात्मके॥

पित्तजे कफजे वापि या क्रिया कथिता पृथक्।
एकीकृत्य प्रयुञ्जीत तां क्रियां कफपित्तजे॥४५॥

समाक्षिकं बृहत्यादिमिति बृहत्यौ गोक्षुरैरण्डेत्यादिना पूर्वमुक्तम्, अन्ये तु सन्निपातज्वरोक्तं बृहत्यादिकमाहुः। व्यवहारस्तु पूर्वेणैव। द्वन्द्वजशूलचिकित्सामाह व्यामिश्रमित्यादि॥४५॥

पटोलत्रिफलारिष्टक्वाथं मधुयुतं पिबेत्।
पित्तश्लेष्मज्वरच्छर्दिदाहशूलोपशान्तये॥४६॥

पटोलत्यादौ——अरिष्टो निम्बः॥४६॥

रसोनं मद्यसंमिश्रं पिबेत् प्रातः प्रकाङ्क्षितः।

वातश्लेष्मभवं शूलं निहन्तुं वह्निदीपनम्॥४७॥

रसोनमित्यादि—निस्तुषपिष्टरसोन माषा ६, मद्य पल १॥४७॥

बृहद्विश्वादिः—

विश्वोरुवूकदशमूलयवाम्भसा तु द्विक्षारहिङ्गुलवणत्रय पुष्कराणाम्।
चूर्णं पिबेद् हृदयपार्श्वकटीग्रहामपक्वाशयांसभृशरुग्ज्वरगुल्मशूली॥

क्वाथेन चूर्णपानं यत् तत्र क्वाथप्रधानता।
प्रवर्त्तते न तैनात्र चूर्णापेक्षी चतुर्द्रवः॥४८॥

विश्वोरुवूकेत्यादि—अम्भसेति क्वाथेन। अत्र हिंगुसौवर्चलमित्यादि-वक्ष्यमाणयोगे समुदितदशमूलयवयोर्द्वयोः प्रत्यकं तुल्यभागेन वृद्धानां व्यवहारदर्शनादत्रापि तथैव मानमाह श्रीकण्ठः। तेन विश्वोरुवूकदशमूलानां मिलितानामेको भागः, यवस्य चापरोभाग इति व्यवहारोऽपि इत्यमेव। द्विक्षारादयस्तु प्रक्षेपविषये प्रयोज्याः न तु “पातव्यश्च चतुर्द्रवैः” इति परिभाषया पानविषये, एवं वक्ष्यमाणेष्वपि। एतदेवाह—क्वाथेन चूर्णपानं यदित्यादि। अस्याथस्तु ज्वरातीसारचिकित्सायामेवोक्तः॥४८॥

रुचकादिः—

चूर्णं समं रुचकहिङ्गुमहौषधानाम् शुण्ठ्यम्बुना कफसमीरणसम्भवासु।
हृत्पार्श्वपृष्ठजठरार्त्तिविसूचिकासु पेयं तथा यवरसेन तु विड्विबन्धे॥

समं शुण्ठ्यम्बुनेत्येवं योजना क्रियते बुधैः।
तेनाल्पमानमेवात्र हिङ्गु सम्परिदीयते॥४९॥

चूर्णं सममित्यादि—रुचकं सौवर्चलम्। तीक्ष्णत्वेन शुण्ठ्याः कर्षार्द्धस्याल्पस्य वा क्वाथः। प्रक्षेपः सौवर्चल माषा १, शुराण्ठीचूर्ण माषा २, हिंगुरति ६। एवं यवरसेनेति यवक्वाथेन। समं शुण्ठ्यम्बुनेति, समशब्दस्य तुल्यार्थत्वे हिंगुनोऽपि रुचकमहौषधसमानत्वेन बहुमानता स्यादिति सममिति पदं सहार्थे एवेत्यर्थः॥४९॥

हिङ्गु सौवर्च्चलं पथ्याविडसैन्धवतुम्बुरुः।
पौष्करञ्च पिबेच्चूर्णं दशमूलयवाम्भसा॥

पार्श्वहृत्कटिपृष्ठांसशूले तन्द्रापतानके।
शोथे श्लेष्मप्रसेके च कर्णरोगे व शस्यते॥५०॥

हिंगु सौवर्चलमित्यादौ—दशमूलयवाम्भसेति दशमूलयवयोर्द्वयोः क्वाथेनत्याहुः तेन प्रत्येकं दशमूल १ माषा ७ रति, यवतण्डुल १ कर्षः पाकार्थंजल शराव, १, शेष पल २। भेदे विवक्षिते हिंग्वादीनां प्रक्षेपः॥५०॥

एरण्डसप्तकम्—

एरण्डबिल्वबृहतीद्वयमातुलुङ्गपाषाणभि

क्ष्रिकटुमूलकृतः कषायः।
सक्षारहिङ्गुलवणो रुवुतैलमिश्रः श्रोण्यंसमेढ्रहृदयस्तनरुक्षु पेयः॥५१॥

एरण्डेत्यादौ—मातुलुङ्गं मातुलुङ्गस्य मूलम्, पाषाणभित् पाषाणभेदी,

त्रिकण्टो गोक्षुरस्तस्य मूलम्। लवणमत्र सैन्धवम्, न तु सौवर्चलम्, सैन्धवक्षारसंयुक्तस्तैलेनैरण्डकस्येति नागार्जुनसंवादात्। अयं योग आमवाते चन्द्राटेन लिखितः। अतस्तत्रापि युज्यते॥५१॥

हिङ्गु त्रिकटुकं कुष्ठं यवक्षारोऽथ सैन्धवम्।
मातुलुङ्गरसोपेतं प्लीहशूलापहं रजः॥५२॥

हिङ्गुत्रिकटुकमित्यादौ—मातुलुङ्गरसो मातुलुङ्गमूलक्वाथः। अन्ये तु मातुलुङ्गफलरसमित्याहुः॥५२॥

दग्धमनिर्गतधूमं मृगशृङ्गं गोघृतेन सह पीतम्।
हृदयनितम्बजशूलं हरति शिखी दारुनिवहमिव॥५३॥

दग्धमित्यादि—मृगशृङ्गं हरिणशृङ्गगम्, तच्च चूर्णीकृत्यान्तर्धूमं यथा स्यात् तथा दग्धव्यमित्यर्थः॥५३॥

क्रिमिरिपुचूर्णं लीढं सहितं स्वरसेन वङ्गसेनस्य।
क्षपयत्यचिरान्नियतं लौहाजीर्णोद्भवं शूलम्॥५४॥

क्रिमिरिपुचूर्णमित्यादौ—स्वरसेनेति वङ्गसेनपत्रस्य वकपत्रस्य स्वरसेनेत्यर्थः॥५४॥

विदारीदाडिमरसः सव्योषलवणान्वितः।
क्षौद्रयुक्तो जयत्याशु शूलं दोषत्रयोद्भवम्॥५५॥

विदारीत्यादि—विदारी-पक्वदाडिमफलयोःस्वरसः, भूमिकूष्माण्डरसः पक्वदाडिमफलरसः प्रत्येकं कर्ष २ त्रिकटुसैन्धव प्र मा ११ मधु माषा ४॥५५॥

एरण्डद्वादशकम्।

एरण्डफलमूलानि बृहतीद्वयगोक्षुरम्।
पर्णिन्यः सहदेवा च सिंहपुच्छीक्षुरालिका॥

तुल्यैरेतैः शृतं तोयं यवक्षारयुतं पिबेत्।
पृथग्दोषभवं शूलं हन्यात् सर्वभवं तथा॥५६॥

एरण्डद्वाद्वशके—एरण्डस्य फलं मूलञ्च। पर्णिन्यश्चतस्रः। सहदेवा दण्डोत्पलभेदः। सिंहपुच्छी पृश्निपर्णीभेदः, सा च कलम्बुपत्रसदृशदीर्घपत्रा काटवा सिंहपुच्छीति ख्याता। इक्षुरालिका लटा वा नड इति नाम्ना ख्याता खग्गडी। डल्वणस्तु इक्षुरालिकास्थाने इक्षुरकं पठति। एवं सुश्रुतमतानुवादी चन्द्राटोऽपि॥५६॥

गोमूत्रशुद्धमण्डूरं त्रिफलाचूर्णसंयुतम्।
विलिहन् मधुसर्पिर्भ्यां शूलं हन्ति त्रिदोषजम्॥५७॥

गोमूत्रशुद्धमित्यादि—गोमूत्रे सप्तधा निर्वापणेन शुद्धं मण्डूरं मिलितत्रिफलाचूर्णसमं पञ्च- षट्-सप्तमाषकाणामन्यतममानेनोपयोज्यम्॥५७॥

शङ्खचूर्णंसलवणं सहिङ्गु व्योषसंयुतम्।
उष्णोदकेन तत् पीतं शूलं हन्ति त्रिदोषजम्॥५८॥

शंखचूर्णमित्यादि—मनाग् दग्धस्य शंखस्य चूर्णं गृह्णन्ति। अस्य माषकमेकं किञ्चिदधिकं वा, लवणव्योषयोश्च मिलित्वा माषद्वयम्, हिङ्गुनो रक्तिद्वयं त्रयं वा पिबेदित्याहुः। अन्ये तु भागानुक्तेः सर्वमेव सममिति वदन्ति। श्लेष्मोत्तरेऽयं योगः॥४८॥

तीक्ष्णायश्चूर्णसंयुक्तं त्रिफलाचूर्णमुत्तमम्।
प्रयोज्यं मधुसर्पिर्भ्यां सर्वशूलनिवारणम्॥५९॥

तीक्ष्णाय इत्यादि—मारितपुटितवज्रलौहचूर्णं कर्ष १, माषा ८, त्रिफलाचूर्णं प्रत्येकं मा ८, मिलितचूर्णाच्च ग्राह्यं रति ४। घृतमधुनी दत्वा लौहमुद्गरेगा सम्मर्द्यभक्षणीयम्। मात्रादिविधिश्चलोहान्तरवत् अन्ये तु त्रिफलाया एकभागसमं लौहचूर्णमिति वदन्ति॥५९॥

मूत्रान्तः पाचितां शुष्कां लौहचूर्णसमन्विताम्।
सगुडामभयामद्यात् सर्वशूलप्रशान्तये॥६०॥

त्रिफलाक्वाथभावितलौहपत्रिकया अयं योगो यदि क्रियते तदा द्वित्रिचतुर्माषकोपयोगः। मूत्रान्तःपाचितामिति गोमूत्रेणोत्स्विनाम्। लौहचूर्णेन सहैव मूत्रे पाचितामित्यन्ये। शुष्कामित्यातपयोगात्। लौहचूर्णसमन्वितामिति लौहचूर्णञ्च हरीतकीचूर्णसमम्। सगुडामिति चूर्णद्वयसमगुडाम्। अन्ये तु लोहचूर्णगुडहरीतकीनां प्रत्येकं समानत्वमित्याहुः॥६०॥

दाधिकं घृतम्।

पिप्पली नागरं विल्वं कारवी चव्यचित्रकम्।
हिङगुदाडिमवृक्षाम्लवचाक्षाराम्लवेतसम्॥

वर्षाभूकृष्णलवणमजाजी बीजपूरकम्।
दधि त्रिगुणितं सर्पिस्तत्सिद्धं दाधिकं घृतम्॥

गुल्मार्शःप्लीहहृत्पार्श्वशूलयोनिरुजापहम्।
दोषसंशमनं श्रेष्ठं दाधिकं परमं स्मृतम्॥

दाधिकघृते बिल्वं बिल्वस्य मूलम्, कृष्णालवणन्तु सौवर्चलभेदः। उक्तंहि न काललवणे गन्धः सौवर्चलगुणे हि सः” इति। वृक्षाम्लं महार्द्रकम्, कृष्णलवणं सौवर्चलविशेषः, बीजपूरकं बीजपूरकमूलम्। दध्ना त्रिगुणेनैव पाकः। स्वरसक्षीरमाङ्गल्यैरित्यादि परिभाषावचनन्तु चतुर्गुणजलदानार्थमुक्तम्, किन्तु प्रायो न समाद्रियते॥६१॥

कम्बलावृतगात्रस्य प्राणायामं प्रकुर्वतः।
कटुतैलाक्तशक्तूनां धूपः शूलहरः परः॥६२॥

कम्बलेत्यादि—प्राणायाममित्युच्छ्वासरोधनम्॥६२॥

व्याक्षामं मैथुनं मद्यं लवणं कटु वैदलम्।
वेगरोधं शुचं क्रोधं वर्जयेच्छूलवान् नरः॥६३॥

व्यायाममित्यादौ—कटुवैदलमित्यत्र शूलिवेदलमिति पाठे शूलं जन्यत्वेन इह अस्तीति शूलि वैदलविशेषणम्॥६३॥

इति शूलचिकित्साविवृतिः।
<MISSING_FIG href="../../../../../books_images/U-IMG-170859472416.jpg"/>

अथ परिणामशूलचिकित्सा।

वमनं तिक्तमधुरैर्विरेकश्चापि शस्यते।
वस्तयश्च हिताः शूले परिणामसमुद्भवे॥१॥

शूलविशेषत्वात् परिणामशूलमाह वमनमित्यादि—चकाराल्लङ्घनमपि बोध्यम्। तथा बस्तयाऽपि माधुतैलिकादयोऽत्र ज्ञेयाः। उक्तं हि “लङ्घनं वमनं शस्तं विरेकश्चानुवासनम्। निरूहो वाजिगन्धादिर्माधुतैलिकबस्तयः” इति। माधुतैलिकबस्तयश्च मधुतैलप्रधानाः सुश्रुतोक्ताः। उक्तं हि “यस्मान्मधु च तैलञ्च प्राधान्येन प्रदीयते। माधुतैलिकमित्येवं भिषग्भिर्वस्तिरुच्यते।” तत्रामाशयस्थे दोषे लङ्घनवमने, पच्यमानाशयस्थे तु विरेकनिरूहौ, पक्वाशयस्थे चानुवासनामिति॥१॥

विडङ्गादिमोदकः।

विडङ्गतण्डुलव्योषं त्रिवृद्दन्तीसचित्रकम्।
सर्वाण्येतानि संहृत्य श्लक्ष्णचूर्णानि कारयेत्॥

गुडेन मोदकं कृत्वा भक्षयेत् प्रातरुत्थितः।
उष्णोदकानुपानन्तु दद्यादग्निविवर्द्धनम्॥

जयेत् त्रिदोषजं शूलं परिणामसमुद्भवम्॥२॥

विडङ्गेत्यादि—विडङ्गतण्डुलं विडङ्गगस्य निस्तुषसारभागः। मोदकत्वादत्र द्विगुणो गुडः॥२॥

नागरगुडतिलकल्कं पयसा संसाध्य यः पुमानद्यात्।
उग्रं परिणामशूलं तस्यापैति सप्तरात्रेण॥३॥

नागरेत्यादि—नागरादिकल्कमुत्कारिकावत् यवागूवद् वा क्षीरेण साधयित्वा भक्षयेत्। शुण्ठीचूर्णं कर्ष १, पुरातनगुड कर्ष १, तिलचूर्ण पल १, गव्यदुग्ध शराव २॥३॥

शम्बूकजं भस्म पीतं जलेनोष्णेन तत्क्षणात्।
पक्तिजं विनिहन्त्येतच्छूलं विष्णुरिवासुरान्॥४॥

शम्बूकजमित्यादि—निर्मांसस्वल्पशम्बूकभवं भस्ममाषकमेकं द्वयं वा उष्णाम्बुना गोलयित्वा घृताभ्यक्तमुखकुहरेण पेयम्। अयं योगः कफे॥४॥

अक्षधात्र्यभयाकृष्णाचूर्णं मधुयुतं लिहेत्।
दध्नानूनसरेणाद्यात् सतीनयवशक्तुकान्॥

अचिरान्मुच्यते शूलान्नरोऽन्नपरिवर्त्तजात्॥५॥

अक्षेत्यादी—अनूनसरेणेति अखण्डितस्निग्धभागनेत्यर्थः। अलूनसरेणेति पाठे स एवार्थःसतीनो वर्त्तुलवलायः। अन्नपरिवर्तोऽन्नपरिणामः॥५॥

तिलनागरपथ्यानां भागं शम्बूकभस्मनाम्।
द्विभागगुडसंयुक्तां गुडीं कृत्वाक्षभागिकाम्।

शीताम्बुपानं पूर्वाह्णेभक्षयेत् क्षीरभोजनः।
सायाह्ने रसकं पीत्वा नरो मुच्येत दुर्जयात्।

परिणामसमुत्थाच्च शूलाच्चिरभवादपि॥६॥

तिलेत्यादि—तिलादीनां शम्बूकभस्मान्तानां समभागः। मिलितचूर्णापेक्षया च गुडस्य भागद्वयम्। रसकमिति मांसरसम्॥६॥

शम्बूकं त्र्यूषणञ्चैव पञ्चैव लवणानि च।
समांशां गुडिकां कृत्वा कलम्बुकरसेनवा॥

प्रातर्भोजनकाले वा भक्षयेत् तु यथाबलम्।
शूलाद्विमुच्यते जन्तुः सहसा परिणामजात्॥७॥

शम्बूकमित्यादौ—कलम्बुकरसेनेति वा शब्दः पूर्वयोगापेक्षया, शम्बूकादिचूर्णं कलम्बुकरसेन संयोज्य चतुर्माषिका गुडिका कार्या। अत्र केचिच्छम्बूकशब्देन शम्बूकभस्मगृह्णन्ति, युक्तश्चैतत् तथा च तन्त्रान्तरसंवादात्। “सप

ञ्चलवणव्योषचूर्णं शम्बूकभस्मभिः। गुडिका पक्तिशूलघ्नीकलम्बीस्वरसैः कृता" इति॥७॥

यः पिबति सप्तरात्रं शक्तूनेकान् कलाययूषेण।
स जयति परिणामरुजं चिरजामपि किमुत नूतनजाम्॥८॥

य इत्यादौ शक्तूनिति यवशक्तून्। एकानिति केवलान। कलाययूषः वर्त्तुलकलाययूषः। अयं योगः पित्तकफशूले युक्तः॥८॥

लौहचूर्णं वरायुक्तं विलीढं मधुसर्पिषा।
परिणामशूलं शमयेत् तन्मलं वा प्रयोजितम्॥९॥

लौहचूर्णमित्यादि—वरा त्रिफला। लौहचूर्णस्यैको भागः, त्रिफलायाश्च प्रत्येकं लौहचूर्णसमभागत्वम्। तन्मलं वेति लौहमलं, एतदपि वरायुक्तमिति बोध्यम्। लौहमलस्य तु मिलितत्रिफलातुल्यो भागः। मारितपुटितलौहचूर्णं माषा ८ त्रिफलाचूर्णं प्रत्येक माषा८। अन्ये तु लौहचूर्णस्य महावीर्यत्वात् व्याधिप्रत्यनीकत्वाच्च प्राधान्यमिति कृत्वा मिलितत्रिफलाचूर्णसमत्वमित्याहुः। तन्मते त्रिफलाचूर्णं प्र मा ८ लौहचूर्ण कर्ष १, मा ८, मिलितचूर्णात् प्रथमतो रक्तिचतुष्टयं गृहीत्वा घृतमधुभ्यां सम्मर्द्यलेह्यम्। लौहान्तरवत् क्षीरं चतुःषष्टिगुणं षष्टिगुणं वानुपेयम्। दिनत्रयानन्तरं रक्तिद्वयेन वृद्धिर्माषकद्वयं यावत्। सर्वमपरं लौहान्तरवत् क्रिया।

तथा शोधितमण्डूर पल १, मिलितत्रिफलाचूर्ण पल १, तता मिलितचूर्णात् ८माषा मधुघृताभ्यां लेह्यम्॥९॥

कृष्णाभयालौहचूर्णं गुडेन सह भक्षयेत्।
पक्तिशूलं निहन्त्येतज्जठराण्यग्निमन्दताम्॥

आमवातविकारांश्च स्थौल्यञ्चैवापकर्षति॥१०॥

कृष्णेत्यादि—प्रत्येकं समभाग इति निश्चलः। अन्ये तु मिलितसर्वचूर्णसमं लौहचूर्णमित्याहुः॥१०॥

पथ्यालोहरजःशुण्ठीचूर्णं माक्षिकसर्पिषा।
परिणामरुजं हन्ति वातपित्तकफात्मिकाम्॥११॥

पथ्येत्यादि—अत्रापि हरीतकीशुण्ठ्योर्मिलितचूर्णेन समं लौहचूर्णं ग्राह्यम्। प्रयोगश्च नवायसादिवदित्याहुः। निश्चलस्तु पथ्यादीनां त्रयाणां प्रत्येकं समभागतामाह॥

सामुद्राद्यं चूर्णम्।

सामुद्रं सैन्धवं क्षारो रुचकं रौमकं विडम्।
दन्ती लौहरजः किट्टंत्रिवृच्छूरणकं समम्॥

दधिगोमूत्रपयसा मन्दपावकपाचितम्।
तद्यथाग्निबलं चूर्णं पिबेदुष्णेन वारिणा।

जीर्णेऽजीर्णे तु भुञ्जीत मांसादि घृतसाधितम्॥

नाभिशूलं यकृच्छूलं गुल्मप्लीहकृतञ्च यत्।

विद्रध्यष्ठीलिकां हन्ति कफवातोद्भवं तथा॥

शूलानामपि सर्वेषामौषधं नास्ति तत्परम्।

परिणामसमुत्थस्य विशेषेणान्तकृन्मतम्॥१२॥

सामुद्रमित्यादि—सामुद्रंकरकचं, रुचकं सौवर्चलं, रोमकं रुमानदीभवं तदभावे साम्भरिलवणम्। लौहरजःविट्टञ्चेति मारितं पुटितं लौहचूर्णम्। किट्टञ्च गोमूत्रशोधितमण्डूरचूर्णम्। दधिगोमूत्रपयसेति दध्यादित्रयं मिलित्वा चतुर्गुणं मिलितचूर्णसमं वा दत्त्वा सर्वमेव चूर्णमेकीकृत्य पक्तव्यम् आचूर्णीभावात्। व्यवहारस्तु दध्यादिना चतुर्गुणेनैव॥१२॥

नारिकेलं सतोयञ्च लवणेन प्रपूरितम्।
विपक्वमग्निना सम्यक् परिणामजशूलनुत्॥

वातिकं पैत्तिकञ्चैव श्लैष्मिकं सान्निपातिकम्॥१३॥

नारिकेलमित्यादि—नारिकेलमिह सुपक्वम्॥१३॥

सप्तामृतं लौहम्।

मधुकं त्रिफलाचूर्णमयोरजः समं लिहन्।
मधुसर्पिर्युतं सम्यग् गव्यं क्षीरं पिबेदनु॥

छर्दि सतिमिरां शूलमम्लपित्तं ज्वरं क्लमम्।
आनाहं मूत्रसङ्गञ्च शोथञ्चैव निहन्ति सः॥१४॥

मधुकमित्यादि—अयोरजः सममिति मिलितचूर्णसमं लौहरजः। अन्ये त्वेकभागसमं लौहरजश्चाहुः। व्यवहारस्तु पूर्वेणैव॥१४॥

गुडपिप्पलीघृतम्।

सपिप्पलीगुडं सर्पिः पचेत् क्षारचतुर्गुणे।
विनिहन्त्यम्लपित्तञ्च शूलञ्च परिणामजम्॥१५॥

सपिप्पलीगुडमिति पिप्पलीगुडौ कल्कौ॥१५॥

पिप्पलीघृतम्।

क्वाथेन कल्केन च पिप्पलीनां सिद्धं घृतं माक्षिकसंप्रयुक्तम्।
क्षीरानुपानस्य निहन्त्यवश्यं शूलं प्रवृद्धं परिणामसंज्ञम्॥१६॥

क्वाथेनेत्यादौ—माक्षिकसंप्रयुक्तमिति सिद्धशीते मधु पादिकं प्रक्षेप्यम्॥१६॥

कोलादिमण्डूरम्।

कोलाग्रन्थिकशृङ्गवेरचपलाक्षारैः समं चूर्णितम्।
मण्डूरं सुरभीजलेऽष्टगुणिते पक्त्वाथ सान्द्रीकृतम्।

तं खादेदशनादिमध्यविरतौ प्रायेणदुग्धान्नभुग्-
जेतुं वातकफामयान् परिणतौ शूलञ्च शूलानि च॥१७॥

कोलेत्यादौ—कोला चवी, चपला पिप्पली, क्षारो यवक्षारः। समं चूर्णितं मण्डूरमिति सर्वचूर्णसमं मण्डूरम्। सुरभीजले गोमूत्रे। अष्टगुणित इति मण्डूरापेक्षया। आसन्नपाके कोलादिचूर्णं प्रक्षेप्यम्। समुदितचूर्णापेक्षयाष्टगुणं गोमूत्रमित्याहुरन्ये। शुलमिति सान्निपातिकं, शूलानि चेति वातजादीनि॥१७॥

भीमवटकमण्डूरम्।

कोलाग्रन्थिकसहितैर्विश्वौषधमागधीयवक्षारैः।
प्रस्थमयोरजसां पलिकांशैश्चूर्णितैर्मिश्रः॥

अष्टगुणमूत्रयुक्तं क्रमपाकात् पिण्डतां नयेत् सर्वम्।
कोलप्रमाणवटिकास्तिस्रो भोज्यादिमध्यविरतौ च॥

रससर्पिर्यूषपयोमांसैरश्नन् नरो निवारयति।
अन्नविवर्त्तनशूलं गुल्मं प्लीहाग्निसादांश्च॥१८॥

भीमवटकमण्डूरे कोलप्रमाणाइति मिलित्वा अष्टमाषकमानः।तेनाष्टमाषकैरेवेति तिस्रो वटिकाःकार्य्याः। व्यवहारस्तु द्वित्रिचतुर्माषकैरिति। अत्रापि मूत्रस्याष्टगुणत्वं पूर्ववत्। अन्नविवर्त्तनशूलं परिणामशूलम्॥१८॥

क्षीरमण्डूरम्।

लौहकिट्टपलान्यष्टौ गोमूत्रार्द्धाढके पचेत्।
क्षीरप्रस्थेन तत् सिद्धं पक्तिशूलहरं नृणाम्॥१९॥

क्षीरमण्डूरं स्पष्टम्॥१९॥

चविकादिमण्डूरम्।

लौहकिट्टपलान्यष्टौ गोमूत्रेऽष्टगुणे पचेत्।
चविकानागरक्षारपिप्पलीमूलपिप्पलीः॥

सञ्चूर्ण्य निक्षिपेत् तस्मिन् पलांशाः सान्द्रतां गते।
गुडिकाःकल्पयेत् तेन पक्तिशूलनिवारिणीः॥२०॥

लौहकिट्टेत्यादौ चविकास्थाने चपलापाठेऽपि चविकैवार्थः, हस्तिपिप्पलीत्यन्ये॥२०॥

मण्डूरं शोधितं पत्रीं लोहजां वा गुडेन तु।
भक्षयेन्मुच्यते शूलात् परिणामसमुद्भवात्॥२१॥

मण्डूरमित्यादौ—लोहजा पत्री वज्रपाण्ड्यादिजा सामान्यलोहजा वा पत्री पुटादिशोधिता ग्राह्या॥२१॥

शतावरीमण्डूरम्।

संशोध्य चूर्णितं कृत्वा मण्डूरस्य पलाष्टकम्।
शतावरीरसस्याष्टौ दध्नस्तु पयसस्तथा॥

पलान्यादाय चत्वारि तथा गव्यस्य सर्पिषः।
विपचेत् सर्वमैकध्यं यावत् पिण्डत्वमागतम्॥

सिद्धन्तु भक्षयेन्मध्ये भोजनस्याग्रतोऽपि वा।
वातात्मकं पित्तभवं शूलञ्च परिणामजम्।

निहन्त्येवहि योगोऽयं मण्डूरस्यन संशयः॥२२॥

शतावरीभण्डूरे—अग्रतोऽपि वेति वाशब्दः समुच्चये, तेन भोजनान्ते भोजनमध्ये भोजनस्याग्रतश्चभक्षयेत् इति॥२२॥

तारामण्डूरगुडः—

विडङ्गं चित्रकं चव्यं त्रिफलात्र्यूषणानि च।
नवभागानि चैतानि लौहकिट्टसमानि च॥

गोमूत्रं द्विगुणं दत्त्वा मूत्रार्द्धिकगुडान्वितम्।
शनैर्मृद्वग्निना पक्त्वा सुसिद्धं पिण्डतां गतम्॥

स्निग्धे भाण्डे विनिक्षिप्य भक्षयेत् कोलमात्रया।
प्राङ्मध्यान्तक्रमेणैव भोजनस्य प्रयोजितः॥

योगोऽयं शमयत्याशु पक्तिशूलं सुदारुणम्।
कामलां पाण्डुरोगञ्च शोथं मन्दाग्नितामपि॥

अर्शांसि ग्रहणीदोषं क्रिमिगुल्मोदराणि च।
नाशयेदम्लपित्तञ्च स्थौल्यञ्चैवापकर्षति॥

वर्जयेच्छुष्कशाकानि विदाह्यम्लकटूनि च।
पक्तिशूलान्तको ह्येष गुडो मण्डूरसंज्ञकः।

शूलार्त्तानां कृपाहेतोस्तारया परिकीर्तितः॥२३॥

तारामण्डूरे नवभागानि चैतानीति विडङ्गादीनां प्रत्येकमेकभागतया नव भागा ग्राह्याः, वृद्धव्यवहारात्, ते चासन्नपाके प्रक्षेप्याः। लौहकिट्टसमानि चेति लौहकिट्टस्यापि नवभागम्। गोमूत्रं द्विगुणमिति मिलितचूर्णात्। अत्र पलोल्लेखागतमानत्वात् तथैव व्यवहारान्न द्वैगुण्यम्। मूत्रार्द्धिकगुडान्वितमिति सर्वचूर्णसमो गुड इत्यर्थः। कोलमात्रयेति अष्टमाषकमानेन॥२३॥

राममण्डूरम्।

वशिरं श्वेतवाट्यालं मधुपर्णी मयूरकम्।
तण्डुलीयञ्च कर्षार्द्धं दत्त्वाधश्वोदूर्ध्वमेव च॥

पाक्यं सुजीर्णमण्डूरं गोमूत्रेण दिनद्वयम्॥
अन्तर्बाष्पमदग्धञ्च तथा स्थाप्यं दिनत्रयम्॥

विचूर्ण्यद्विगुणेनैव गुडेन सुविमर्द्दितम्।
भोजनस्यादिमध्यान्ते भक्ष्यं कर्षं त्रिभागतः॥

तक्रानुपानं वर्ज्यञ्च वार्क्षमम्लकमत्र तु।
अम्लपित्ते च शूले च हितमेतद् यथामृतम्॥२४॥

वशिरमित्यादि—वशिरं सूर्य्यावर्तः, मधुपर्णी गुडूची, मयूरकोऽपामार्गः। पाक्यं सुजीर्णमण्डूरमिति गोमूत्रेण दिनत्रयमिति गोमूत्रमल्पमल्पं दत्त्वा दिनद्वयं पक्तव्यं यथा मण्डूरं न दह्यते। गोमूत्रन्तु एकदैव बहुतरं न देयं तथा सत्युत्तानधारणं कर्त्तमशक्यमिति। अवतार्य्य शरावेण पिधाय दिनत्रयं स्थाप्यम्, तदनु प्रक्षात्य शोधयित्वा ग्राह्यम्। भक्ष्यं कर्षं त्रिभागत इति कर्षमेव भागत्रयं कृत्वा खाद्यम्, व्यवहारस्तु माषकचतुष्टयेन। वार्क्षमम्लकमिति बदरीतिन्तिडीकादिकम्। रामकृतत्वाद्राममण्डूरमेतत्॥२४॥

बृहच्छतावरीमण्डूरम्

शतावरीरसप्रस्थे प्रस्थे च सुरभीजले।
अजायाः पयसः प्रस्थे प्रस्थे धात्रीरसस्य च।

लौहकिट्टपलान्यष्टौ शर्करायाश्च षोडश।
दत्त्वास्य कुडवञ्चैव पचेन्मृद्वग्निना शनैः॥

सिद्धशीते घटे नीते चूर्णानीमानि दापयेत्।
विडङ्गत्रिफलाव्योषयमानीगजपिप्पली॥

द्विजीरकघनानाञ्च श्लक्ष्णाण्यक्षसमानि च।
खादेदग्निबलापेक्षी भोजनादौ विचक्षणः॥

निहन्ति पक्तिशूलञ्च अम्लपित्तं सुदारुणम्।
रक्तपित्तञ्च शूलञ्च पाण्डुरोगं हलीमकम्॥२५॥

बृहच्छतावरीमण्डूरे—सुरभीजल इति गोमूत्रे॥२५॥

रसमण्डूरम्।

कुडवं पथ्याचूर्णं द्विपलं गन्धाश्म लोहकिट्टञ्च।
शुद्धरसस्यार्द्धपलं भृङ्गस्य रसञ्च केशराजस्य।

प्रस्थोन्मितञ्च दत्त्वा लौहे पात्रेऽथ दण्डसङ्घृष्टम्।
शुष्कं घृतमधुयुक्तं मृदितं स्थाप्यञ्च भाण्डके स्निग्धे॥

उपयुक्तमेतदचिरान्निहन्ति कफपित्तजान् रोगान्।
शूलं तथाम्लपित्तं ग्रहणीञ्च कामलामुग्राम्॥२६॥

कुडवमित्यादौ—गन्धाश्म शोधितगन्धकचूर्णं द्विपलं शोधितलौहमलञ्च प्रत्येकं द्विपलमित्यर्थः। रसगन्धकौकज्जलीकृत्य हरीतकीमण्डूरचूर्णाभ्यां सह मिश्रीकृत्य भृङ्गराजस्वरसं केशराजस्वरसञ्च प्रत्येकं प्रस्थमानं दत्त्वा तावद् घर्षणीयं लौहपात्रे लौहदण्डेनैव यावच्चूर्णप्रायं भवति, अतः प्रथमतः रक्तिचतुष्टयं गृहीत्वा घृतमधुभ्यां सम्मर्द्य लेह्यम्, क्षीरादिकमनुपेयम्। व्द्यन्तरं रक्तिद्वयं कृत्वा वृद्धिर्माषकद्वयं यावत्॥२६॥

त्रिफलालौहः।

अक्षामलकशिवानां स्वरसैश्च पक्वंसुलोहजं चूर्णम्।
सगुडं यद्युपभुङ्क्ते मुञ्चति त्रिदोषजं शूलम्॥२७॥

अक्षामलकेत्यादौ—स्वरसैरिति मिलित्वा चतुर्गुणैः, प्रत्येकमित्यन्ये। व्यवहारस्तु पूर्वेणैव, स्वरसाभावे क्वाथः। सगुडमिति लौहरजःसमगुडम्। पाकश्चास्य मुद्रया। तदुक्तं—“गुडादि-प्रविशेद् यत्र तत्र पाकश्च मुद्रया।” लौहान्तरवद्विधिरत्र॥२७॥

लौहगुडिका।

लोहस्य रजसो भागस्त्रिफलायास्त्रयस्तथा।
गुडस्याष्टौ तथा भागा गुडान्मूत्रं चतुर्गुणम्॥

एतत् सर्वञ्च विपचेद् गुडपाकविधानवित्।
लिहेच्च तद् यथाशक्ति क्षये शूले च पाकजे॥२८॥

लौहस्येत्यादि—भाग इत्येको भागः, त्रिफलायास्त्रय इति मिलित्वा। लिहेच्च रक्तिचतुष्टयादिक्रमेणेत्याहुः॥२८॥

धात्रीलौहम्।

धात्रीचूर्णस्याष्टौ पलानि चत्वारि लोहचूर्णस्य।
यष्टीमधुकरजश्च द्विपलं दद्यादुपले घृष्टम्।

अमृताक्वाथेनैतच्चूर्णं भाव्यञ्च सप्ताहम्।
चण्डातपेषु शुष्कं भूयः पिष्ट्वानवे घटे स्थाप्यम्।

घृतमधुना सह युक्तं भक्तादौ मध्यतोऽन्ते च।
त्रीनपि वारान् खादेत् पथ्यं दोषानुबन्धेन॥

भक्तस्यादौ नाशयति व्याधीन् पित्तानिलोद्भवान्।
मध्येऽन्नविष्टम्भ जयति नृणां विदह्यते नान्नम्॥

पानान्नकृतान् दोषान् भक्तान्ते शीलितं जयति।
एवं जीर्य्यति चान्ने शूलं नृणां सुकष्टमपि॥

हरति सहसा युक्तो योगश्चायं जरत्पित्तम्।
चक्षुष्यः पलितघ्नः कफपित्तसमुद्भवान् जयेद्रोगान्।

प्रसादयत्यपि रक्तं पाण्डुत्वं कामलां जयति॥२९॥

धात्रीत्यादि—अमृताक्वाथनामलकीक्वाथन। अन्ये त्वमृतां गुडूचीमाहुः। व्यवहारस्तु पूर्वेणैव। जरत्पित्तमम्लपित्तम्॥२९॥

लौहामृतम्।

तनूनि लोहपत्राणि तिलोत्सेधसमानि च।
कशिकामूलकल्केन संलिप्य सर्षपेण वा।

विशोषय सूर्य्यकिरणैः पुनरेवाबलेपयेत्।
त्रिफलाया जले ध्मातं वापयेच्च पुनः पुनः।

ततः सञ्चूर्णितं कृत्वा कर्पटेन तु छानयेत्।
भक्षयेन्मधुसर्पिर्भ्यां यथाग्न्येतत् प्रयोजयेत्॥

माषकं त्रिगुणं वाथ चतुर्गुणमथापि वा।
छागस्य पयसः कुर्य्यादनुपानमभावतः॥

गवां घृतेन दुग्धेन चतुःषष्टिगुणेन च।
पक्तिशूलं निहन्त्येतन्मासेनैकेन निश्चितम्।

लौहामृतमिदं श्रेष्ठं ब्रह्मणा निर्मितं पुरा॥
ककारपूर्वकं यच्च यच्चाम्लं परिकीर्तितम्।

सेव्यं तन्न भवेदत्र मांसञ्चानूपसम्भवम्॥३०॥

तनूनीत्यादि—काशकामूलकल्केन, श्वेतार्कमूलकस्केन तथा श्वेतसर्षपकल्केन वा पुनः पुनः परिलिप्य पुनः पुनः चातपे संशोष्य, ततो दग्ध्वा त्रिफलाक्वाथे निर्वापणं तावत् कार्यं यावत् सर्वलोहस्य जारणम् भवेत्। ततः प्रक्षाल्य संशोध्य चूर्णीकृत्य रक्तिचतुष्टयादिक्रमेण नवायसादिवदस्योपयोगः। क्वचिच्च अत्र कशिकामूलकल्केनेत्यत्र श्वेतसर्षपकल्केन परिलिप्य पुनः पुनरिति पाठान्तरम्॥३०॥

खण्डामलकी।

खिन्नपीडितकूष्माण्डात् तुलार्द्धं भृष्टमाज्यतः।
प्रस्थार्द्धे खण्डतुल्यन्तु पचेदामलकीरसात्।

प्रस्थे सुखिन्नकूष्माण्डरसप्रस्थं विघट्टयन्।
दर्व्या पाकं गते तस्मिंश्चूर्णीकृत्य विनिक्षिपेत्॥

द्वे द्वे पले कणाजाजीशुण्ठीनां मरिचस्य च।
पलं तालीशधन्याकचातुर्जातकमुस्तकम्।

कर्षप्रमाणं प्रत्येकं प्रस्थार्द्धं माक्षिकस्य च॥
पक्तिशूलं निहन्त्येतद्दोषत्रयभवञ्च यत्।

छर्द्यम्लपित्तमूर्च्छाश्च कासश्वासावरोचकम्।
हृच्छूलं रक्तपित्तञ्च पृष्ठशूलञ्च नाशयेत्।

रसायनमिदं श्रेष्ठं खण्डामलकसंज्ञितम्॥३१॥

खण्डामलक्यां खण्डतुल्यमिति खण्डस्य पञ्चाशत्पलानि। मरिचस्य तु पलमित्यन्वयः। तालीशादिकञ्च प्रत्येकं कर्षमानमित्यर्थः॥३१॥

नारिकेलखण्डः।

कुडवमितमिह स्यान्नारिकेलं सुपिष्टम्
पलपरिमितसर्पिः पाचितं खण्डतुल्यम्।

निजपयसि तदेतत् प्रस्थमात्रे विपक्वम्
गुडवदथ सुशीते शाणभागान् क्षिपेच्च।

धन्याकपिप्पलिपयोदतुगाद्विजीरान्शाणं त्रिजातमिभकेशरवद्विचूर्ण्य
हन्त्यम्लपित्तमरुचिं क्षयमस्रपित्तं शूलं वमिं सकलपौरुषकारि हारि॥

कुडवमित्यादि—अत्र केचिन्नारिकेलस्यार्द्रत्वेन द्वैगुण्यमिच्छन्ति। अतएवोक्तं—“अष्टौपलानि कुडवो नारिकेले तथैव च” इति। ये च न द्वैगुण्यमिच्छन्ति तेषामयमभिप्रायो नारिकेलस्याष्टपलत्वे खण्डस्याप्यष्टपलत्वं, खण्डतुल्यमिति वचनात्। अतश्चात्र नारिकेलोदकप्रस्थस्य द्रवत्वेनोपादानात् पाकस्य द्वैगुण्यं प्रसज्येत, चतुर्गुणस्तूत्सर्गसिद्धः, किञ्च तन्त्रान्तरे चातुर्गुण्यमप्युक्तं यथा—“कुडवं नारिकेलस्य श्लक्ष्णं दृशदि पेषितम्। शुद्धखण्डस्य कुडवं सर्वमेतच्चतुर्गुणे। आलोड्य नारिकेलस्य जले मृद्वग्निना पचेत्” इति। अस्मिन् वचने शर्कराया अपि कुडवमुक्तम्, तत्र च न द्वैगुण्यं—“ग्राह्यास्तत्क्षणमेव न द्विगुणिता ये चेक्षुजाता घनाः” इत्युक्तेः। अत्र च खण्डतुल्यमिति पठ्यते। ततः नारिकेलस्य शस्यकुडवाद्द्वैगुण्येन परमनयोर्नारिकेलखण्डयोः समता स्यात्, नान्यथेति। तेन द्वैगुण्याभावपक्ष एव साधीयान्। नारिकेले तथैव चेति वाक्यं नादरणीयमार्षत्वे प्रमाणाभावादित्याहुः।

तुगा वंशलोचना। नागकेशरसहितं त्रिजातं मिलित्वा शाणमात्रं पुनः शाणमित्युक्तेः पौरुषं शुक्रम्। हारि मनोहारि॥३२॥

कलायगुडिका।

कलायचूर्णभागौ द्वौ लौहचूर्णस्य चापरः।
कारवेल्लपलाशानां रसेनैव विमर्दितः॥

कर्षमात्रां ततश्चैकां गुडिकां भयक्षयेन्नरः।
मण्डानुपानाज्जयति जरत्पित्तं सुदुर्जयम्॥३३॥

कलायेत्यादि—कलायो वर्त्तुलकलायः। लौहचूर्णस्यापर इत्येको भागः पलाशानामिति पत्राणाम्। मण्डोयवमण्डः। जरत्पित्तमम्लपित्तम्॥३३॥

लिह्याद्वा त्रैफलं चूर्णमयश्चूर्णसमन्वितम्।
यष्टिचूर्णेन वा युक्तं लिह्यात् क्षौद्रेण तद्गदे॥३४॥

लिह्यादित्यादि—मिलितत्रिफलाचूर्णस्य लौहचूर्णसमत्वम्। अन्ये तु त्रिफलायाः प्रत्येकं लौहचूर्णसमोंऽश इत्याहुः। तद्गत इति जरत्पित्ते॥३४॥

पित्तान्तं वमनं कृत्वा कफान्तञ्च विरेचनम्।
अन्नद्रवे च तत्कार्य्यं जरत्पित्ते यदीरितम्।

आमपक्वाशयेशुद्धे गच्छेदन्नद्रवः शमम्।
माषेण्डरी सतुषिका खिन्ना सर्पिर्युता हिता॥३५॥

पित्तान्तमित्यादौ—अन्नद्रव इति, “भुक्तेजीर्य्यति जीर्णे वा यच्छूलमुपजायते” इत्यादिनोक्तः शूलविशेषोऽन्नद्रवः। माषेण्डरी सतुषिकेति सतुषमाषकृता माषेण्डरी माषपिष्टकविकृतिर्भक्ष्यविशेषः॥३५॥

गोधूममण्डकं तत्र सर्पिषा गुडसंयुतम्।
ससितं शीतदुग्धेन मृदितं वा हितं मतम्॥

शालितण्डुलमण्डं वा कवोष्णं सिक्थवर्जितम्।
वाट्यं क्षीरेण संसिद्धं घृतपूरं सशर्करम्॥३६॥

गोधूममण्डको गोधूमकृतो भक्ष्यविशेषः पश्चिमदेशे प्रसिद्धः। मृदितं वा हितं मतमिति, मृदितं संयावाकृतिर्लेहः। वाट्यंयवमण्डम्। वाट्यमित्यत्र मण्डमिति पाठे शालितण्डुलकृतमण्ड इत्यर्थः । किन्तु यवस्य सर्वथा शूलघ्नत्वात् वाट्यमिति पाठ एव श्रेयान्।गोधूमचूर्णकृतः भृष्टो घृतपूरो भक्ष्यविशेषः॥३६॥

शर्करां भक्षयित्वा वा क्षीरमुत्क्वथितं पिबेत्।
पटोलपत्रयूषेण खादेच्चणकशक्तुकान्॥३७॥

पटोलेत्यादौ—यूषो मुद्गादियोगात् किंवा क्वाथः॥३७॥

अन्नद्रवे जरत्पित्ते वह्निर्मन्दो भवेद् यतः।
तस्मादत्रान्नपानानि मात्राहीनानि कल्पयेत्॥३८॥

अन्नद्रवे स्वल्पमात्रयाहारः सेव्य इत्युक्तं अन्नद्रव इत्यादि॥३८॥

इति परिणामशूलचिकित्सा–विवृतिः।
<MISSING_FIG href="../../../../../books_images/U-IMG-170859222115.jpg"/>

अथोदावर्त्त-चिकित्सा।

त्रिवृत्सुधापत्रतिलादिशाकग्राम्यौदकानूपरसैर्यवान्नम्।
अन्यैश्च सृष्टानिलमूत्रविड्भिरद्यात् प्रसन्नागुडशीधुपायी॥१॥

** ** पवनाविनाभावित्वसाधर्म्यात् शूलानन्तरमुदावर्त्तः। उदावlर्त्तेहि सर्वत्र शूलवदवश्यम्भावी वायुः। यदुक्तं सुश्रुते—सर्वष्वेतेषु विधिवदुदावर्त्तेषु कृत्स्नशः। वायोः क्रिया विधातव्या स्वमार्गप्रतिपत्तये" इति। उद्भूतेन वेगविधारणेनावृतस्य निरुद्धवायोर्वर्त्तोवर्त्तनमुदावर्त्त इति निरुक्तिरस्य। त्रिवृदित्यादि—त्रिवृत्सुधयोः पत्रम् आदिशब्दात् सप्तलादिपत्रपरिग्रहः। अन्यैरिति विण्मूत्राद्यनुलोमनैः क्षीरादिभिः। प्रसन्ना मदिराविशेषः, गुडकृतशीधुर्गडशीधुः॥१॥

आस्थापनं मारुतजे स्निग्धस्विन्नस्य शस्यते।
पुरीषजे तु कर्त्तव्यो विधिरानाहिकस्तु यः॥२॥

आस्थापनमित्यादि—सुश्रुतस्य। मारुतजे इति मारुतवेगविघातजे, एवं पुरीषज इत्यत्रापि व्याख्येयम्। विधिरानाहिक इति फलवर्त्यादिः॥२॥

क्षारवैतरणौ वस्ती युञ्ज्यात् तत्र चिकित्सकः॥३॥

** **आस्थापनं विवृणोति क्षारवैतरणावित्यादिना॥३॥

श्यामा दन्ती द्रवन्तीत्वक् महाश्यामा स्नुही त्रिवृत्।
सप्तला शङ्खिनी श्वेता राजवृक्षः सतिल्वकः॥

कम्पिल्लकः करञ्जश्च स्वर्णक्षीरी त्वयं गणः।
सर्पिस्तैलरजः क्वाथ-कल्केष्वन्यतमेन च॥
उदावर्त्तोदरानाहविषगुल्मविनाशनः॥४॥

श्यामेत्यादि—श्यामा श्याममूला त्रिवृत्। द्रवन्ती मूषिकपत्रा दन्ती, अस्यास्त्वक्, त्वगित्यत्र स्नुगिति पाठे सीजुभेदो वा, किन्तु सुश्रुते वाग्भटे च स्नुहृद्वियं न पठ्यते। महाश्यामा वृद्धदारकः त्रिवृदित्यरुण-मूला त्रिवृत्। सप्तला चर्मकषा, नीलवुह्नेत्येके। शङ्खनी श्वेतवुह्ना। ढोलकलम्बीत्यन्ये श्वेता श्वेतापराजिता कटभी वा राजवृक्षःशोणालुफलम्। तिल्वकोऽत्र सावरलोघ्नः। कम्पिल्लो गुण्डारोचनी। हेमक्षीरी कंकुष्ठः। अन्यतमेनेति सर्पिरादिकल्पमध्ये चैकतमेन कल्पेन प्रयुक्त इति॥४॥

त्रिवृत्कृष्णाहरीतक्यो द्विचतुःपञ्चभागिकाः।
गुडिका गुडतुल्यास्ता विड्विबन्धगदापहाः॥५॥

त्रिवृदित्यादौ—द्विचतुःपञ्चभागिका इति यथाक्रमम्। गुडतुल्या इति समुदितचूर्णतुल्यो गुडभागः॥५॥

हरीतकी यवक्षारः पीलुनी त्रिवृता तथा।
घृतैश्चूर्णमिदं पेयमुदावर्त्तविनाशनम्॥६॥

हरीतकीत्यादौ—पीलुनीति मूर्वा, पीलूनी इति पाठान्तरे पीलु औत्तरापथिकफलम्, इदमेव युक्तंस्रंसकत्वात्॥६॥

हिङ्गुकुष्ठवचासर्जिर्विडञ्चेति द्विरुत्तरम्।
पीतं मद्येन तच्चूर्णमुदावर्त्तविनाशनम्॥७॥

हिंग्वित्यादि—सुश्रुतस्य—सर्जिः सर्जिक्षारः। द्विरुत्तरमिति यथौत्तरं द्विगुणम्

नाराचचूर्णम्।

खण्डपलं त्रिवृता सममुपकुल्याकर्षचूर्णितं श्लक्ष्णम्।
प्राग्भोजने च समधु बिडालपदकं लिहेत् प्राज्ञः॥

एतद् गाढपुरीषे पित्ते कफे च विनियोज्यम्।
सुखादुर्नृपयोग्योऽयं चूर्णो नाराचको नाम्ना॥८॥

नाराचचूर्णे त्रिवृतासममिति त्रिवृच्चूर्णस्यापि पलम्। उपकुल्या पिप्पली। प्राग्भोजन इति भोजनपरिणामे भोजनसन्निधाने वा॥८॥

रसोनं मद्यसम्मिश्रं पिबेत् प्रातः प्रकाङ्क्षितम्।
गुल्मोदावर्त्तशुलघ्नं दीपनं बलवर्द्धनम्॥९॥

रसोनमित्यादि—यद्यप्ययं योगः शूलाधिकारे पूर्वमुक्त एव तथाप्युदावर्त्तेऽपि विहितत्वात् पुनरप्यत्र लिखितः॥९॥

हिङ्गुमाक्षिकसिन्धूत्थैः पक्त्वा वार्ति सुनिर्म्मिताम्।
घृताभ्यक्तांगुदे दद्यादुदावर्त्तविनाशिनीम्॥१०॥

हिंगुमाक्षिकेत्यादि—हिंगु माषा ४,सैन्धव कर्ष १,मधु पल १,एवं व्यवहाराद् गृहीत्वा पक्त्वा च फलवर्त्तिकुर्य्यात्। हिंगुसैन्धवे समे वर्तिकरणोचितं मधु देयमित्यन्ये। गुडपाकवदस्य पाकः, तदवस्थायामेव वर्तिः कर्त्तव्या। ततो घृतेनाभ्यव्ज्यगुदे क्षिपेत्॥१०॥

मदनं पिप्पली कुष्ठं वचा गौराश्च सर्षपाः।
गुडक्षारसमायुक्ताफलवर्त्तिः प्रशस्यते॥११॥

मदनमित्यादौ—गुडा मिलितचूर्णसमः। गुडञ्च मनाक् जलं दत्त्वा पक्त्वा च वर्त्तिःकुर्य्यादित्यर्थः॥११॥

आगारधूमसिन्धूत्थ-तैलयुक्ताम्लमूलकम्।
क्षुण्णंनिर्गुण्डिपत्रं वा खिन्ने पायौ क्षिपेद् बुधः॥१२॥

आगारधूमेत्यादि—आगारधूमोऽलन्धूमः,अम्लमूलकं काञ्जिकमूलकं अंगुष्ठनिभम् अलन्धूमसैन्धवचूर्णतैले म्रक्षयित्वा खिन्ने गुदे प्रक्षेप्तव्यम्। निर्गुण्डी सिन्धुवारः। तत्पत्रमपि चूर्णीकृत्य चागारधूमादिम्रक्षितं खिन्ने गुदे निक्षेप्यम् ॥१२॥

सौवर्च्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत्।
एलां वाप्यथ मद्येन क्षीरवारि पिबेच्च सः॥१३॥

सौवर्चलेत्यादि—सुश्रुतस्य। अत्र सिन्धूत्थजरणाद्यास्तु शाणिका चेत्यत्रादि—पदेन संगृहीतत्वात् सौवर्चलस्य माषकचतुष्टयम्; मदिरा चाहारद्रव्यत्वात् प्रचुरा ग्राह्या।व्यवहारस्तु मदिरापलद्वयेन।एलां वाप्यथ मद्येनेति एलाचूर्णस्याष्टौ माषकाः मद्यस्य च पलद्वयमित्याहुः। क्षीरवारीति समक्षीरेण मिश्रितं वारीत्यर्थः॥१३॥

दुःस्पर्शास्वरसं वापि कषायं ककुभस्य वा।
एर्वारुबीजं तोयेन पिबेद्वा लवणीकृतम्॥१४॥

दुःस्पर्शेत्यादि—सुश्रुतस्य। दुःस्पर्शो दुरालभा, दुःस्पर्शास्वरसमिति पाठे दुःस्पर्शो कण्ठकारीत्यन्ये। ककुभोऽर्जुनः। एर्वरुःग्रीष्मभवा कर्कटीति डल्वणः। अलवणीकृतमिति सैन्धवयोगादीषल्लवणीकृतमिति। एतच्चएर्वारुबीजमित्यनेनैव सम्बध्यते; न तु पूर्वेण॥१४॥

पञ्चमूलीशृतं क्षीरं द्राक्षारसमथापि वा।
सर्वथैवोपयुञ्जीत मूत्रकृच्छ्राश्मरीविधिम्॥१५॥

पञ्चमूलीति—पञ्चमूली स्वल्पा, समानतन्त्रभोजसंवादात्। यथा—“लघुना पञ्चमूलेन शृतं क्षोरं पिबेन्नरः” इति। श्रीकण्ठदत्तस्तु तृणपञ्चमूलीत्याह। सर्वथैव कार्त्स्न्येन सुश्रुतेऽपि निरवशेषित इत्युक्तम्॥१५॥

स्नेहस्वेदैरुदावर्त्तंजृम्भजं समुपाचरेत्॥१६॥
अश्रुमोक्षोऽश्रुजे कार्य्यः स्वप्नो मद्यं प्रियाः कथाः॥१७॥

स्नेहेत्यादो—जृम्भजमिति जृम्भावेगविघातजम्, एवमुत्तरत्रापि। अश्रुमोक्षोऽश्रुनिःसरणम्, तच्च तीक्ष्णाञ्जनादिविधिना॥१६—१७॥

क्षवजे क्षवपत्रेण घ्राणस्थेनानयेत् क्षवम्।
तथोर्द्ध्वजत्रुगोऽभ्यङ्गः स्वेदो धूमः सनावनः॥

हितं वातघ्नमाद्यञ्च घृतञ्चौत्तरभक्तिकम्॥१८॥

क्षवजे इत्यादि—क्षवपत्रणेति हाञ्चियापत्रेण। ऊर्द्ध्वजत्रुगोऽभ्यङ्गइति उर्द्ध्वजत्रुदेशगतोऽभ्यङ्ग कार्य्यः। आद्यंभक्ष्यम्॥१८॥

उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत्॥१९॥

उद्गारज इत्यादि—क्रमोपेतमिति स्नैहिकधूमपानोक्तक्रमयुक्तम्॥१९॥

छर्द्याघातं यथादोषं नस्यस्नेहादिभिर्जयेत्।
भुक्त्वा प्रच्छर्दनं धूमो लङ्घनं रक्तमोक्षणम्।

रूक्षान्नपानंव्यायामो विरेकश्चात्र शस्यते॥२०॥

छर्द्याघातमित्यादि—सुश्रुतस्य। छर्द्याघातमिति छर्द्यावेगविघातजं रोगं कुष्ठविसर्पादिकम्, कार्य्यकारणयोरभेदोपचारात्, एवं क्षुद्विघात इत्याद्यपि व्याख्येयम्।

यथादोषमिति यस्तत्रानुदूषको दोषच्छर्दिविघातजरोगे जातस्तद्विपरीतैर्नस्यादिभिर्जयेदित्यथः॥२०॥

बस्तिशुद्धिकरावापं चतुर्गुणजलं पयः।
आवारिनाशात् क्वथितं पीतवन्तं प्रकामतः॥

रमयेयुः प्रिया नार्य्यः शुक्रोदावर्त्तिनं नरम्।
अत्राभ्यङ्गावगाहाश्च मदिराश्चरणायुधाः।

शालिः पयोनिरूहाश्च हितं मैथुनमेव च॥२१॥

बस्तिशुद्धिकरावापमित्यादि—बस्तिशुद्धिकराणीह तृणपञ्चमूलवीरतरादीनि, आवापइति क्षीरसाधनार्थं कल्कः स यत्र तत्तथा। रमयेयुः मैथुने योजयेयुः। अवगाहोवातपित्तहरद्रव्यक्वाथे कोष्णे बोध्यः। चरणायुधाः कुक्कुटाः। निरूहाश्चेति निरूह उत्तरबस्तिर्बस्तिश्चेति चकारात्॥२१॥

क्षुद्विघाते हितं स्निग्धमुष्णमल्पञ्च भोजनम्॥२२॥
तृष्णाघाते पिबेन्मन्थं यवागूं वापि शीतलाम्॥२३॥

क्षुद्विघात इत्यादि—स्पष्टम्॥२२—२३॥

रसेनाद्यात् सुविश्रान्तः श्रमश्वासातुरो नरः॥२४॥
निद्राघाते पिबेत् क्षीरं स्वप्नः संवाहनानि च॥२५॥

रसेनेत्यादि—सुविश्रान्त इति विरतक्रियः। निद्राघात इत्यादौ—क्षीरमिह माहिषं, निद्राकरत्वादित्याहुः। अन्ये तु प्रधानकल्पनया गोक्षीरम्, अतएव तन्त्रान्तरं—“निद्राघाते पिबेत् क्षीरं गोः सुप्यादथवा नरः” इति॥२४॥२५॥

इत्युदावर्त्तचिकित्साविवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-17085936603.jpg"/>

अथानाहचिकित्सा।

उदावर्त्तक्रियानाहेसामे लङ्घनपाचनम्॥१॥

आनाहचिकित्सामाह—उदावर्त्तेत्यादि॥१॥

द्विरुत्तरा हिङ्गु वचा लकुष्ठा सुवर्च्चिका चेति विडङ्गचूर्णम्।
सुखाम्बुनानाहविसूचिकार्त्तिहृद्रोगगुल्मोर्द्ध्वसमीरणघ्नम्॥२॥

द्विरुत्तरा इत्यादि—यथोत्तरं द्विगुणा इत्यर्थः। सुखाम्बुनेत्यनन्तरं पीतमिति शेषः॥२॥

वचाभयाचित्रकयावशूकान् सपिप्पलीकातिविषान् सकुष्ठान्।
उष्णाम्बुनानाहविमूढवातान् पीत्वा जयेदाशु हितोदनाशी॥३॥

वचेत्यादौ—यावशूको यवक्षारः॥३॥

त्रिवृद्धरीतकीश्यामाः स्नुहीक्षीरेण भावयेत्।
वटिका मूत्रपीतास्ताः श्रेष्ठाश्चानाहभेदिकाः॥४॥

त्रिवृदित्यादि—त्रिवृदिस्यरुणमूला त्रिवृत्, श्यामा श्याममूला त्रिवृत्। वटिकेयंमाषकद्वयेन व्यवहृता। योगोऽयमतिक्रूरकोष्ठे॥४॥

फलञ्च मूलञ्च विरेचनोक्तं हिङ्ग्वेर्कमूलं दशमूलमग्र्यम्।
स्नुक्चित्रकौ चैव पुनर्नवा च तुल्यानि सर्वैर्लवणानि पञ्च॥

स्नेहैःसमूत्रैः सह जर्जराणि शरावसन्धौ विपचेत् सुलिप्ते।
पक्वंसुपिष्टं लवणं तदन्नैः पानैस्तथानाहरुजाघ्नमग्र्यम्॥५॥

फलञ्चेत्यादौ—विरेचनोक्तमिति दीर्घञ्जीवितीयेऽप्यमार्गतराडुलीये वा विरेचनकल्पे वा विरेचनकर्मणि यदुक्तम्। हिंगुस्थाने हिंस्रेति पाठान्तरम्। शरावसन्धाविति अन्तःस्थभेषजस्थालीशरावसन्धावित्यर्थः।विपचेदिति दहेत्। पक्वमिति दग्धम्। अप्र

थमिति श्रेष्ठम्॥५॥

राठधूमविडव्योषगुडमूत्रैर्विपाचिता।
गुदेऽङ्गुष्ठसमा वर्त्तिर्विधेयानाहशूलनुत्॥६॥

राठेत्यादि—राठो मदनफलं, धूमो गृहधूमः अलन्धूम इति यावत्। यावता गुडेन मूत्रेण च पाकाद् वर्त्तिः कर्त्तुं शक्यते तावदुभयं देयमिति॥६॥

वर्त्तिस्त्रिकटुसैन्धवसर्षपगृहधूमकुष्ठमदनफलैः।
मधुनि गुडे वा पक्त्वा पाय्वीरिता चाङ्गुष्ठपरिमाणा॥

वर्त्तिरियं दृष्टफला शनैः शनैः प्रणिहिता घृताभ्यक्ता।

आनाहोदावर्त्तप्रशमनी जठरगुल्मविनाशिनी॥७॥

** **वर्त्तिरित्यादि—मिलित्वा त्रिकट्वादीनां कर्ष १, मधुवल १, गुडकर्ष १ इत्येके। युक्त्या त्रिकटुकादिकं गृहीत्वा वर्त्तिःकर्त्तव्येत्यन्ये। गुडे वेति वाशब्दोऽपि पूर्वयोगापेक्षया समुच्चये वा द्रष्टव्यः॥७॥

शुष्कमूलकाद्यं घृतम्।

मूलकं शुष्कमार्द्रञ्चवर्षाभूमूलपञ्चकम्।
आरेवतफलञ्चापि पिष्ट्वातेन पचेद् घृतम्।

तत् पीयमानं शमयेदुदावर्त्तमसंशयम्॥८॥

मूलकमित्यादि—सुश्रुतस्य। शुष्कमिति मूलकविशेषणम्। आर्द्रमित्यार्द्रककन्दः। डल्वणस्तु शुष्कमिति मूलकार्द्रयोर्विशेषणमाह। मूलपञ्चकमिति बिल्वादिपञ्चमूलं, कफवातकृतावेबन्धहन्तृत्वादिति जेज्जटः, स्वल्पपञ्चमूलमिति भानुमति। आरेवतफलं स्वर्णालुफलम्। अकल्कमिदं घृतम्॥८॥

स्थिराद्यं घृतम्।

स्थिरादिवर्गस्य पुनर्नवायाः सम्पाकपूतीककरञ्जयोश्च।
सिद्धः कषायो द्विपलांशिकानां प्रस्थो घृतात् स्यात् प्रतिरुद्धवाते॥९॥

** **स्थिरादीत्यादि—स्थिरादिवर्गस्य शालपणर्यादिपञ्चमूलस्य। सम्पाकः शोणालुफलम्। द्विवचनबलात् पूतिकेति करञ्जफलविशेषणं, तेन लाटाकरञ्जइत्यर्थ॥९॥

इत्यानाहचिकित्साविवृतिः।
<MISSING_FIG href="../../../../../books_images/U-IMG-170806999813.jpg"/>

अथ गुल्मचिकित्सा।

लघ्वन्नंदीपनं स्निग्धमुष्णं वातानुलोमनम्।
बृंहणं यद्भवेत् सर्वंतद्धितं सर्वगुल्मिनाम्॥१॥

गुल्मेऽप्यानाहो भवतीत्यानाहानन्तरं गुल्मः॥१॥

स्निग्धस्य भिषजा स्वेदः कर्त्तव्यो गुल्मशान्तये।
स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्वणम्।

भित्त्वा विबन्धं स्निग्धस्य स्वेदो गुल्मपोहति॥२॥

गुल्मे स्नेहस्वेदविधौ हेतुमाह—स्निग्धस्येत्यादि॥२॥

कुम्भीपिण्डेष्टकास्वेदान् कारयेत् कुशलो भिषक्।
उपनाहाश्च कर्त्तव्याः सुखोष्णाः शाल्वणादयः॥३॥

कुम्भीत्यादि—सुश्रुतस्य। वातहरक्वाथादिभिः पूर्णाभिः अन्तर्बाष्पाभिः कुम्भीभिः कलसीभिः स्वेदनं, तथा उतस्विन्नमाषादिपिण्डकैर्वस्त्रबद्धैः स्वेदः पिण्डस्वेदः, इष्टकया च तप्तया वातहरक्वाथसिक्तया स्वेदः इष्टकास्वेदः।शाल्वणादय इत्यादिशब्देन वेशवारादिपरिग्रहः॥३॥

स्थानावसेको रक्तस्य बाहुमध्ये शिराव्यधः।
स्वेदोऽनुलोमनञ्चैव प्रशस्तं सर्वगुल्मिनाम्॥४॥

स्थानावसेको रक्तस्येति—स्थिरगुल्मे गुल्मस्थानाद्रक्तावसेकः। बाहुमध्ये शिराव्यध इति बाहुमध्ये सन्धेरधस्तात् स्वल्पा शिरा वेध्या, न तु मध्या न वा बृहती, तस्या मर्मत्वात्। शिराव्यधश्च यस्मिन् पार्श्वे गुल्मस्तत्पार्श्वस्थवाहौअयञ्च विधिर्दोषचिकित्सया गुल्मस्याप्रशमने स्वेदादिना च शोणितदुष्टौ सत्यां बोध्यः।स्वेद इत्यादिकञ्चार्द्धं पद्यंसम्पूर्णश्लोकानुरोधादेवोक्तम्॥४॥

पेया वातहरैः सिद्धा कौलत्था धन्वजा रसाः।
खडाःसपञ्चमूलाश्च गुल्मिनां भोजने हिताः॥५॥

आहारविधिमाह पेयेत्यादि—वातहरैर्दशमूलादिभिः। पञ्चमूलञ्चेह बिल्वादिपञ्चमूलम्, उष्णवीर्य्यतया विशेषेण वातहरत्वात्॥५॥

वातगुल्मचिकित्सा।

मातुलुङ्गरसो हिङ्गु दाडिमं विडसैन्धवम्।
सुरामण्डेन पातव्यं वातगुल्मरुजापहम्॥६॥

मातुलुङ्गेत्यादि—मातुलुङ्गरसादिकं प्रक्षिप्य सुरामण्डःपेयः। सुरामण्डश्चाहारद्रव्यतया प्रभूतो ग्राह्यः‚ न तु चूर्णञ्चतुर्गुणः, एवमन्यत्रापि सुरया भेषजपाने ज्ञेयम्॥

नागरार्द्धपलं पिष्टं द्वे पले लुञ्चितस्य च।

तिलस्यैकं गुडपलं क्षीरेणोष्णेन पाययेत्।

वातगुल्ममुदावर्तंयोनिशूलञ्च नाशयेत्॥७॥

नागरेत्यादौ—लुश्चितस्येति निस्तुषीकृतस्य।अत्र च भूरिमानौषधोपयोगो व्याधिमहिम्नैव भवतीति ज्ञेयम्। वाग्भटे पुनरेतदर्द्धमानेनायं योगः पठ्यते। यथा—“शुण्ठ्याः कर्षं गुडस्य द्वौ धौतात् कृष्णतिलात् पलम्।खादेच्चैकत्र सञ्चूणर्य कोष्णक्षीरानु योजयेत्। वातहृदोगगुल्मार्शोयोनिशूलशकृद्ग्रहान्” इति। अन्ये तु नागरार्द्धपलमिति पुरुषस्य बलाबलं बुद्ध्वा, हीनपुरुषे तु तृतीयभागेन कर्तव्यमित्याहुः॥७॥

पिबेदेरण्डतैलं वा वारुणीमण्डमिश्रितम्।
तदेव तैलं पयसा वातगुल्मी पिबेन्नरः॥८॥

पिबेदित्यादि—योगद्वयम्। पूर्वयोगः कफानुबन्धवायौ, द्वितीयस्तु पित्तानुगे। उक्तं हि चरके—“पूर्वं कफानुबन्धे च हितं पित्तानुगे परम्” इति पूर्वमिति वारुणीसंयुक्तमेरण्डतैलम्, परमिति पयःसंस्कृतमेरण्डतैलम्॥८॥

साधयेच्छुष्कशुद्धस्य रसोनस्य चतुःपलम्।
क्षीरोदकेऽष्टगुणिते क्षीरशेषञ्च पाययेत्॥

वातगुल्ममुदावर्त्तंगृध्रसीं विषमज्वरम्।
हृद्रोगं विद्रधिं शोषं नाशयत्यशु तत् पयः॥

एवन्तु साधिते क्षीरे स्तोकमप्यत्र दीयते॥९॥

साधयेदित्यादि—निस्तुषतया शुद्धः पूर्णवीर्य्यतया च शुष्ठः इत्यर्थः। क्षीरोदकेऽष्टगुणित इति क्षीरोदकयोश्च समासकरणान्मिलित्ववाष्टगुणत्वं ज्ञेयम्, भागानुक्तेश्चसमभागत्वमिति। तेन रसोनचतुःपलापेक्षया क्षीरनीरयोः प्रत्येकं चातुर्गुण्यान्मिलित्वा द्वात्रिंशत्पलानि स्युः। अनयोश्च द्रवत्वेऽपि न द्वैगुण्यम्, रसोनपलोल्लिखेनाष्टगुणत्वविधानात्।जलक्षयादवशिष्टं क्षीरम्। यद्यपि षोडशपलत्वेन बहु भवति तथापि दीप्ताग्नयो महाकाया इत्यादि वचनाद् गुल्मस्य बहुमात्राभिहिततया षोडशपलक्षीरमपि न दोषावहमिति, किंवाअग्न्युपघातभयात् स्तोकं पेयम्, अत एवोक्तम् एवन्तु साधित इत्यादिना। दुग्धरसोनयोश्चात्र न योगविरुद्धत्वमाशङ्कनीयम्, व्याधिप्रभावान्महर्षिवचनाच्चेत्यर्थः॥९॥

सर्जिकाकुष्ठसहितः क्षारः केतकिजोऽपि वा।
तैलेन पीतः शमयेद् गुल्मं पवनसम्भवम्॥१०॥

सर्जिकेत्यादि—सुश्रुतस्य। सर्जिकाया माषकद्वयम्‚एवं कुष्ठस्यापि, केतकीजटाक्षारस्य माषकचतुष्टयमिति निश्चलः। वाशब्दः पूर्वक्षारयोगापेक्षया। डल्वणस्तु क्षारो यवक्षारः। अत्र सर्जिकाकुष्ठसहितो यवक्षारस्तैलेनेत्येको योगः।केतकिजोऽपि वेत्यत्र क्षार इति सम्बध्यते, तेन केतकिजोऽपि क्षारस्तैलेनेति द्वितीयोयोगः। गौढास्तु सर्जिकाकुष्ठसहितः केतकिजक्षारस्तैलेनैकमेव योगमाहुः। तैलेनेति तिलतैलेन। अन्ये तु यौगिकत्वादेरण्डतैलमाहुः॥१०॥

वातगुल्मे कफे वृद्धे वान्तिश्चूर्णादिरिष्यते॥११॥

अवस्थायांक्रियासूत्रमाह वातगुल्म इत्यादि—गुल्मे यद्यपि “न वामयेत्" इत्यादिवचनात् वमनं निषिद्धं तथाप्यवस्थाविशेषऽप्यपवादरूपतयां तन्न दूष्यते। चूर्णादीत्यादिशब्दात् फलवर्त्तिगुडिकादयश्च॥११॥

पित्तगुल्मचिकिसा।

पित्ते तु रेचनं स्निग्धं रक्ते रक्तस्य मोक्षणम्।
स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम्॥१२॥

पित्ते इत्यादि—स्निग्धं विरेचनमित्येरण्ढतैलादिना॥१२॥

रूक्षोष्णेन तु सम्भूते सर्पिः प्रशमनं परम्।
काकोल्यादिमहातिक्तवासाद्यैः पित्तगुल्मिनम्।

स्नेहितं स्नंसयेत् पश्चाद् योजयेद्वस्तिकर्मणा॥१३॥

रूक्षोष्णेन तु सम्भूत इत्यत्रापि पैत्तिक इति शेषः।काकोल्यादिमहातिक्तवासाद्यैरित्यनन्तरं घृतैरिति शेषः। काकोल्यादिगणक्वाथकल्कसाधितं घृतं काकेल्यादिघृतम्, महातिक्वघृतञ्च कुष्ठोक्तम्, वासाद्यघृतञ्च रक्तपित्तोक्तम्। स्रंसयेदिति विरेचयेत्। वस्तिकर्मणेत्यनुवासन—निरूहाभ्याम्॥१३॥

स्निग्धोष्णजे पित्तगुल्मे काम्पिल्लं मधुना लिहेत्।
रेचनार्थी रसं वापि द्राक्षायाः सगुडं पिबेत्॥१४॥

स्निग्धोष्णज इत्यादौ—काम्पिल्लं गुण्डारोचनी॥१४॥

दाहशूलानिलक्षोभस्वप्ननाशारुचिज्वरैः।
विदह्यमानं जानीयाद् गुल्मं तमुपनाहयेत्॥१५॥

दाहेत्यादि—विदह्यमानमिति पच्यमानम्। उपनाहयेदिति व्रणशोथोक्तपाचनपिण्डैः प्रलेपयेत्। ननु सुश्रुते गुल्मस्य पाको निषिद्धः यथा “स यस्मादात्मनिचयं गच्छत्यप्स्विव बुद्बुदः। अन्तःसरति यस्माच्च न पाकमुपयात्यतः।" इति। आत्मनीति स्वावयवे गुल्मारम्भकदोषरूपे, न तु मांसरक्तदौ। चयमिति वृद्धिम्। अप्स्विव बुद्बुद इति यथा जलावरुद्धो वायुरेव जले बुद्बुदरूपो भवति, तथा कफपित्ताभ्यामवरुद्धो वायुरेव कुण्डलीभूतो गुल्म इत्यर्थः। अन्तःसरति यस्माच्च इत्यनेनापि रक्तादिरहितकोष्ठविवरमात्राश्रयत्वमस्य दर्शितम्। एतेन दोषमात्राश्रयिणि गुल्मे मांसशोणितयोः पाकाश्रययोरभावादपाकित्वमुक्तम्। तत्राहुः गुल्मो यद्यपि दोषमात्राश्रय एव, तथापि यदा कारणवशादाश्रयं मांसादिकमासाद्य कृतवास्तुपरिग्रहो भवति वातोपशमनार्थं कृतस्वेदादिभिर्वा दुष्टं रक्तंसहकारि लभते, तदा गुल्मस्यापि पाकः कथं प्रक्षेपणीयः? केवलं चरके गुल्म इत्युच्यते सुश्रुते तु विद्रधिसंज्ञयेति संज्ञामात्रे विवादः। अकृतवास्तुपरिग्रहस्तु दोषमात्राश्रयत्वान्न पच्यत इति चरकेणाप्यनुमत एवेति। अन्ये तुअपाकार्थमुक्तहेतुद्वयस्य वातिक एव संज्ञितत्वाद्वातिक एव गुल्मो न पच्यते अस्थिरत्वाद्वास्त्वभावाच्च, अन्ये तु पठन्ति भेदः पुनरयं विद्रधिगुल्मयोः, विद्रधिरचिरकालपाकश्चिरपाकश्च गुल्म इति अतएव माधवकरोऽप्याह"प्रायो न पच्यते गुल्मो वातजस्तु विशेषतः। रक्तपित्तादिवृद्धत्वात्पच्यतेऽन्यो यदृच्छया" इति॥१५॥

पक्वेतु व्रणवत् कार्य्यंव्यधशोधनरोपणम्।
स्वयमूर्ध्वमधो वापि स चेद्दोषः प्रपद्यते॥

द्वादशाहमुपेक्षेत रक्षन्नन्यानुपद्रवान्।
परन्तु शोधनं सर्पिः शुद्धे समधु तिक्तकम्॥१६॥

पक्वइत्यादौ—स्वयमित्यादि स्वयमेवान्तर्भिन्ने सति दोषः पूयरूप ऊर्द्ध्वमधो गच्छति, तदा द्वादशाहमुपेक्षेत, न शोधनरोपणादिकं कुर्य्यात्। उपद्रवान् ज्वरादीन्। उपद्रवेभ्यो ज्वरादिभ्यश्चातुरं रक्षन्नित्यर्थः। परन्तु शोधनं सर्पिरिति द्वादशाहात् परं शोधनद्रव्यसाधितं घृतं पेयम्। शुद्धे समधुतिक्तकमिति शुद्धे सति तिक्तद्रव्यसाधितं घृतं समधु मधुसहितं देयं रोपणार्थमिति शेषः॥१६॥

रोहिणी कटुका निम्बं मधुकं त्रिफलात्वचः।
कर्षाेशास्त्रायमाणा च पटोलत्रिवृतापले॥

द्विपलञ्च मसूराणां साध्यमष्टगुणे जले।
घृताच्छेषं घृतसमं सर्पिषश्च चतुःपलम्॥

पिबेत् संमूर्च्छितं तेन गुल्मः शाम्यति पैत्तिकः।
ज्वरस्तृष्णा च शूलञ्च भ्रमो मूर्च्छाऽरतिस्तथा॥१७॥

दीप्ताग्नयो महाकायाः स्नेहसात्म्या महाबलाः।
गुल्मिनः सर्पदष्टाश्च विसर्पोपहताश्च ये।

ज्येष्ठां मात्रां पिबेयुस्ते पलान्यष्टौ विशेषतः॥१८॥

रोहिणीत्यादि—रोहिणी कटुकेति कटुरोहिणी।त्रिफलात्वच इति निरस्थित्रिफलाः। एते त्रायमाणान्ता प्रत्येकं कर्षांशाः। पटोलत्रिवृतापले इति द्विवचनात् प्रत्येकं पलमेकम्।अष्टगुणे इति वृतादष्टगुण इति योज्यम्, घृतं चतुःपलमेवोक्तम्। तेन घृतं सम्मूर्च्छितमेकीकृतम्, एतेन क्वाथघृताभ्यां मिलित्वाष्टौ पलानि।इयञ्च मात्रा व्यामिमहिन्नान दोषावहेत्येतदेवाह दीप्ताग्नय इत्यादि॥१७—१८॥

कफगुल्मचिकित्सा।

लङ्घनोल्लेखने स्वेदे कृतेऽग्नौ सम्प्रधुक्षिते।
घृतं सक्षारकटुकं पातव्यं कफगुल्मिना॥

मन्दोऽग्निर्वेदना मन्दा गुरुस्तिमितकोष्ठता।
सोत्क्लेशा चारुचिर्यस्य स गुल्मी वमनोपगः॥१९॥

लङ्घनेत्यादौ—घृतं सक्षारकटुकामिति यवक्षारत्रिकटुफलकसाधितमित्यर्थः। वमनोपग इति वमनेनोपगम्यते उपचर्यते यः स वमनोपगः। पूर्वं वातिकगुल्म एवावस्थायां वमनमुक्तम् ‚ इह तु कफगुल्म इत्येवेति न पौनरुक्त्यम्॥१९॥

मन्देऽग्नावनिले मूढे ज्ञात्वा सस्नेहमाशयम्।
गुडिकाचूर्णनिर्य्यूहाः प्रयोज्याः कफगुल्मिनाम्।

क्षारारिष्टगणश्चापि दाहशेषे विधीयते॥२०॥

मूढ इत्यावृते। गुडिकादय इहैव हिग्वादिप्रभृतयो वक्तव्याः। क्षारारिष्टगज्ञइति प्रतिसारणीयक्षारस्यानुशस्त्रतया शल्यतन्त्र एव तदभिधानं ज्ञेयम्।पानीयक्षाराश्चात्रापि प्रहण्यध्यायोक्ताश्चानुसर्तव्याः।अरिष्टाश्चरक्ग्रहण्यर्शश्चिकित्सितोक्ताःज्ञेयाः। उक्तंहि—“यत एव ग्रहणीदोषे क्षारास्ते कफगुल्मनस्यम्।अरिष्टयोगाः सिद्धाश्चग्रहण्यर्शश्चिकित्सिते" इति। दाहस्तु शरलोहादिभिः। उक्तंहि—“तत्यदाहो हृते रक्ते शरलौहादिभिर्हितः” इति।दाहःशेष इति दाहस्य दारुणत्वात् क्रियान्तरासिद्धौ शेष एवकर्तव्यता युक्ता॥२०॥

पञ्चमूलीश्रृतं तोयं पुराणं वारुणीरसम्।
कफगुल्मी पिबेत् काले जीर्णंमाध्वीकमेव वा॥२१॥

पञ्चमूलीत्यादि—पञ्चमूली महती कफप्रत्यनीकत्वात्। माध्वीक मधु॥२१॥

तिलैरण्डातसीबीजसर्षपैः परिलिप्य च।
श्लेष्मगुल्मामयं पात्रैः सुखोष्णैः स्वेदयेद्भिषक्॥२२॥

स्वेदमाहतिलेत्यादि—गुल्मामयमिति गुल्मस्थानम्॥२२॥

यमानीचूर्णितं तक्रं विडेन लवणीकृतम्।
पिबेत् सन्दीपनं वातमूत्रवर्च्चोऽनुलोमनम्॥२३॥

यमानीत्यादि—स्पष्टम्॥२३॥

व्यामिश्रदोषे व्यामिश्रः सर्व एव क्रियाक्रमः।
सन्निपातोद्भवे गुल्मे त्रिदोषघ्नो विधिर्हितः।

यथोक्तेन सदा कुर्य्याद् भिषक् तत्र समाहितः॥२४॥

व्यामिश्रेत्यादौ—त्रिदोषघ्नोविधिरिति वाताद्युक्तयोगा एवं एकीकृत्य योज्याः, प्रकृतिसमसमवेतत्वात्, विकृतिविषमसमवेतस्य तु चरकेऽसाध्यतोक्तेः॥२४॥

वचाविडाभयाशुण्ठीहिङ्गुकुष्ठाग्निदीप्यकाः।
द्वित्रिषट्चतुरेकाष्टसप्तपञ्चांशिकाः क्रमात्॥

चूर्णंमद्यादिभिः पीतं गुल्मानाहोदरापहम्।
शूलार्शः श्वासकासन्घंग्रहणीदीपनं परम्॥२५॥

वचेत्यादौ—अभया हरीतकी, अग्निश्चित्रकः, दीप्यको यमानी। आदिशब्दादुष्णोदकादीनां ग्रहणम्॥२५॥

यमानीहिङ्गुसिन्धूत्थक्षारसौवर्च्चलाभयाः।
सुरामण्डेन पातव्या गुल्मशूलनिसूदनाः॥२६॥

वमानीत्यादौ—क्षारो यवक्षारः। योगोऽयमुष्णाम्बुना प्रचरति॥२६॥

हिङ्ग्वाद्यं चूर्णम्।

हिङ्गुत्रिकटुकं पाठां हवुषामभयां शटीम्।
अजमोदाजगन्धे च तिन्तिडीकाम्लवेतसौ॥

दाडिमं पौष्करं धान्यमजाजीं चित्रकं वचाम्।
द्वौ क्षारौ लवणे द्वे च चव्यञ्चैकत्र चूर्णयेत्॥

चूर्णमेतत् प्रयोक्तव्यमन्नपानेष्वनत्ययम्।
प्राग्भुक्तमथवा पेयं मद्येनोष्णोदकेन वा॥

पार्श्वहृद्वस्तिशूलेषु गुल्मे वातकफात्मके।
आनाहे मूत्रकृच्छ्रे च गुदयोनिरुजासु च।

ग्रहण्यर्शोविकारे च प्लीह्निपाण्ड्वामयेऽरुचौ।
उरोविबन्धे हिक्कायां कासे श्वासे गलग्रहे॥

भावितं मातुलुङ्गस्य चूर्णमेतद्रसेन वा।
बहुशो गुडिकाः कार्य्याः कार्म्मुकाः स्युस्ततोऽधिकम्॥२७॥

हिड्ग्वादिचूर्णे अजमोदा यमानी, अजगन्धा क्षेत्रयमानी, तिन्तिडीकं महार्द्रकं, द्वौ क्षरौ यवक्षारसर्जिकाक्षारौ, लवणे द्वे सैन्धव-सौवर्च्चले। प्रागभुक्तमिति भोजनस्य प्राक् परिणामे, भोजनाव्यवहितपूर्वकाले वा। प्रकारान्तरमाह भावितमित्यादि। बहुश इति सप्ताहं सप्ताहं भावनाविधिरित्युक्तत्वात्। मातुलुङ्गरसेन सप्तदिनान्यातपे भाव्यं, तदनु चाष्ठमाषकमिता वटिकाः कार्य्याः। एकां खादित्वा तप्तजलाद्यनुपेयमिति। कार्मुकाः कर्मकारकाः॥२७॥

पूतीकपत्रगजचिर्भिटिचव्यवह्निव्योषञ्च संस्तरचितं लवणोपधानम्।
दग्ध्वा विचूणर्य दधिमस्तुयुतं प्रयोज्यं गुल्मोदरश्वयथुपाण्डुगदोद्भवेषु॥

पूतीकपत्रेत्यादि—वाग्भटस्य पूतीको लाटाकरञ्जः, गजचिर्भिटो गोरक्षकर्कटी, वह्निश्चित्रकः, संस्तरचितमिति संस्तररूपतया विहितम्। लवणोपधानं सैन्धवगर्भम्। सैन्धवञ्चपूतीकपत्रादिकसमं ग्राह्यम्।सौश्रुतपत्रलवणविधौ टीकाकृद्भिरेवं व्याख्यातत्वात्। पूतीकपत्रादिसंस्तरे सैन्धवं दत्त्वा तदुपरि पुनः पूतीकपत्रादिकं विभज्य चान्तर्धूमं दग्धव्यम्॥२८॥

हिङ्गुपुष्करमूलानि तुम्बुरूणि हरीतकीम्।
श्यामा विडं सैन्धवञ्च यवक्षारं महौषधम्॥

यवक्वाथोदकेनैतद् घृतभृष्टन्तु पाययेत्।
तेनास्य भिद्यते गुल्मः सशूलः सपरिग्रहः॥२९॥

हिङ्ग्वित्यादौ—तुम्बुरु स्वनामख्यातं, श्यामा त्रिवृत्। हिङ्गुप्रभृतीनां चूर्ण प्रभूतं कृत्वा स्थाप्यं‚ ततो योग्यां मात्रां गृहीत्वा यवक्वाथेन प्लावयित्वा घृते परिभर्ज्य पाययेदित्यर्थः। यवक्वाथोदकेन यवक्वाथेनोप्णोदकेनेत्यर्थः। अस्मिन् प्रयोगे हि वैद्यप्रसारके उष्णोदकमेरण्डतैलष्चधिकं पठितं, तद्यथा,—“उष्णोदकेन पातव्यमेतत् सरुवुतैलकम्” इति। अन्ये तु उदकशब्दोऽयं द्रववचनः¸ तेन यवक्वाथरूपेण द्रवेणेत्याहुः। यवक्षारोदकेनेति पाठान्तरमसङ्गतम्¸ वृद्धवाग्भटे यवक्वाथस्योक्तत्वात्। भिद्यते विलीयते, न तु पक्वःसन् भेदं गच्छति। सपरिग्रह इति वास्तुपरिग्रहसहित सोपद्रव इति च॥२९॥

वचाद्यं चूर्णम्।

वचाहरीतकीहिङ्गुसैन्धवं साम्लवेतसम्।
यवक्षारं यमानीञ्च पिबेदुष्णेन वारिणा॥

एतद्धि गुल्मनिचयं सशूलं सपरिग्रहम्।
भिनत्ति सप्तरात्रेण वह्नेर्वृद्धिं करोति च॥३०॥

वचेत्यादि—हारीतस्य। इमं योगं भोजनादिमध्यावसानेष्वपि कारयन्तीति निश्चलः।तन्न, हारीते हि—“शाम्यते योगराजेन त्रिःप्रयुक्तेनयोगतः” इत्येवोक्तम् न तु भोजनादिमध्यावसानेष्वपीति॥३०॥

पिप्पलीपिप्पलीमूलचित्रकाजाजिसैन्धवैः।
युक्ता पीता सुरा हन्ति गुल्ममाशु सुदुस्तरम्॥३१॥

पिप्पलीत्यादि—अयं योगो वातश्लेष्मणि ज्ञेयः॥३१॥

नादेयीकुटजार्कशिग्रुबृहतीस्नुग्बिल्वभल्लातक-
व्याघ्रीकिंशुकपारिभद्रकजटापामार्गनीपाग्निकान्।

वासामुष्ककपाटलाः सलवणा दग्ध्वा जले पाचितम्॥
हिङ्ग्वादि प्रतिवापमेतदुदितं गुल्मोदराष्ठीलिषु॥३२॥

नादेयीत्यादि—नादेयी भूमिजम्बुका, व्याघ्री कण्टकारी, किंशुकः पलाशः, पारिभद्रकजटा पारिभद्रमूलम् अग्निश्चित्रकः। सलवणाः ससैन्धवाः, लवणा ज्योतिष्मतीत्येके।नादेयीप्रभृतीन् दग्ध्वा क्षारः कार्यः अस्याढकं पलशतं वा पानीयक्षारविधिना चतुर्गुणेन षड्गुणेन वा उदकेन पक्त्वा चतुर्भागावशेषे कल्कमपनीन, एकविंशतिवारान् परिस्राव्य स्थापयेत्। अस्य कर्षमर्द्धपलं वा हिड्ग्वादिचूर्णं पादिकं दत्त्वा मांसघृतक्षीराणामन्यतमेषु प्रक्षिप्य पिबेत्, मांसरसादिभिश्च भोक्तव्यमोजोरक्षणार्थम्। अन्ये त्वाहुः एकदा विपाच्य स्थापिते क्षारोदकेऽम्लत्वादिदोषशङ्का स्यात्, अतःकृतक्षाराद्यग्नेर्वलाद्यपेक्षयापलादिपरिमितं क्षारं गृहीत्वाप्रत्यहमनन्तरोक्तक्वाथविधिना क्षारोदकं कार्य्यमिति। हिङ्ग्वादिप्रतिवापमिति हिङ्ग्वादेःपादिकस्य प्रतिवापः प्रक्षेपो यत्र तत् तथा। एतदिति क्वाथक्षारजलम्। यस्य तन्त्रस्यायं प्रयोगस्तत्रोक्तहिङ्ग्वाद्यपरिज्ञानात् वक्ष्यमाणहिङ्ग्वादिरनन्तरपठितत्वात् संग्रहकारस्याभिमतो लक्ष्यते॥३२॥

हिङ्गूग्रगन्धाविडशुण्ठ्यजाजीहरीतकीपुष्करमूलकुष्ठम्।
भागोत्तरं चूर्णितमेतदिष्टं गुल्मोदराजीर्णविसूचिकासु॥३३॥

हिंग्वादौ—उग्रगन्धा वचा। भागोत्तरमिति उत्तरोत्तरमेकभागवृद्धम्। उष्णाम्बुनास्य पानमुपदिशन्ति॥३३॥

त्रिफलाकाञ्चनक्षीरीसप्तलानीलिनीवचाः।
त्रायन्तीहवुषातिक्तात्रिवृत्सैन्धवपिप्पलीः॥

पिबेद्विचूर्ण्य मूत्रोष्णवारिमांसरसादिभिः।
सर्वगुल्मोदरप्लीहकुष्ठार्शः शोथपीडितः॥३४॥

त्रिफलेत्यादौ—काञ्चनक्षीर्य्याअभावात् कंकुष्ठमाहुः। सप्तला चर्मकषा, नीलिनी नीलवुह्ना।विरेकार्थोऽयं योगः॥३४॥

काङ्कायनगुडिका।

शटींपुष्करमूलञ्च दन्तीं चित्रकमाढकीम्।
शृङ्गवेरं वचाञ्चैव पलिकानि समाहरेत्॥

त्रिवृतायाः पलञ्चैव कुर्य्यात् त्रीणि च हिङ्गुनः॥
यवक्षारपले द्वे च द्वे पले चाम्लवेतसात्॥

यमान्यजाजमरिचं धन्याकञ्चेति कार्षिकम्।
उपकुञ्च्यजमोदाभ्यां तथा चाष्टमिकामपि॥

मातुलुङ्गरसेनैव गुडिकाः कारयेद्भिषक्।
तासामेकां पिबेद् द्वे वा तिस्रो वापि सुखाम्बुना॥

अम्लैश्च मद्यैर्यूषैश्च घृतेन पयसाथवा।
एषा काङ्कायनेनोक्तागुडिका गुल्मनाशिनी।

अर्शोहृद्रोगशमनी क्रिमीणाञ्च विनाशिनी।
गोमूत्रयुक्ता शमयेत् कफगुल्मं चिरोत्थितम्।

क्षीरेण पित्तगुल्मञ्च मद्यैरम्लैश्च वातिकम्।
त्रिफलारसमूत्रैश्च नियच्छेत् सान्निपातिकम्।

रक्तगुल्मे च नारीणामुष्ट्रीक्षीरेण पाययेत्॥३५॥

शटीमित्यादौ—यमान्यादीनां प्रत्येकं कर्षः। उपकुञ्ची कृष्णजरिकम्¸अजमोदा यमानी, अनयोः प्रत्येकम् अष्टमिकामर्द्धपलमित्यर्थः॥३५॥

हवुषाद्यंघृतम्।

हवुषाव्योषपृथ्वीकाचव्यचित्रकसैन्धवैः।

साजाजीपिप्पलीमूलदीप्यकैर्विपचेद् घृतम्॥

सकोलमूलकरसं सक्षीरं दधि दाडिमम्।

तत् परं वातगुल्मघ्नं शूलानाहविबन्धनुत्॥

योन्यर्शाेग्रहणीदोष-श्वासकासारुचिज्वरान्।

पार्श्वहृद्वस्तिशूलञ्च घृतमेतद्व्यपोहति॥३६॥

हवुषेत्यादि—हवुषा स्वनामख्याता, पृथ्वीका कृष्णजीरकम्, हिंगुपत्रिकेत्यन्ये दीप्यको यमानी। सकोलमूलकरसमिति कोलं शुष्कवदरं तस्य क्वाथः, मूलकस्यापि शुष्कस्य क्वाथः, न पुनर्नवद्रव्यस्य स्वरसः‚ तस्य तु गुल्मेनिषिद्धत्वात्। दाडिमस्याप्यत्र स्वरसः,द्रवसाहचर्य्यात्। विश्वामित्रेणापि दाडिमरस एवेक्तः। एवं पञ्चभिर्द्रवैःप्रत्येकं स्नेहसमैः पाकः॥३६॥

पञ्चपलकं घृतम्।

पिप्पल्याः पिचुरध्यर्द्धोदाडिमाद् द्विपलं पलम्।
धान्यात् पञ्च घृताच्छुण्ट्वाःकर्षःक्षीरं चतुर्गुणम्॥

सिद्धमेतैर्घृतं सद्यो वातगुल्मं चिकित्सति।
योनिशूलं शिरःशूलमर्शांसि विषमज्वरान्॥३७॥

पिप्पल्या इत्यादि—पिचुरध्यर्द्धइति सार्द्धकर्षः।पलं धान्यादिति योज्यम्। पञ्च घृतादिति पञ्च पलानीत्यर्थः। क्षीरं चतुर्गुणमिति घृतपञ्चपलापेक्षया विंशतिः पलानि क्षीरस्येत्यर्थः॥३७॥

त्र्यूषणाद्यंघृतम्।

त्र्यूषणत्रिफलाधान्य-विडङ्गचव्यचित्रकैः।
कल्कीकृतैर्घृतं सिद्धं सक्षीरं वातगुल्मनुत्॥३८॥

त्र्यूषणादिघृते सक्षीरमिति चतुर्गुणक्षीरसहितं, द्रवान्तराभावात्॥३८॥

त्रायमाणाद्यंघृतम्।

जले दशगुणे साध्यं त्रायमाणाचतुःपलम्।
पञ्चभागस्थितं पूतं कल्कैः संयोज्य कार्षिकैः।

रोहिणीकटुकीमुस्त-त्रायमाणादुरालभाः।
कल्कैस्त्वामलकीवीराजीवन्तीचन्दनोत्पलैः॥

रसस्यामलकीनाञ्च क्षीरस्य च घृतस्य च।
पलानि पृथगष्टाष्टौ दत्वा सम्यग्विपाचयेत्॥

पित्तगुल्मं रक्तपित्तं विसर्पंपैत्तिकं ज्वरम्।
हृद्रोगं कामलां कुष्ठं हन्यादेतद् घृतोत्तमम्॥

पलोल्लखागते माने न द्वैगुण्यामिहेष्यते।
चत्वारिंशत्पलं तेन तोयं दशगुणं भवेत्॥३९॥

जल इत्यादौ—पञ्चभागस्थितमिति पञ्चभागावशिष्टं, तेन क्वाथस्याष्टौ पलानीत्यर्थः। कल्कैरित्यत्र व्यवहितैरप्यामलक्यादिभिः सम्बध्यत, न केवलमेतैः कल्कैः कटुरोहिण्यादयश्च कल्का इति योजना। कल्का इति श्लोकपादपूरणार्थमिति हरिश्चन्द्रः। वीरा क्षीरकाकोली।पलोल्लेखागतमानत्वादिह न द्वैगुण्यमित्याह पलानीत्यादि॥

द्राक्षाद्यं घृतम्।

द्राक्षामधुकखर्जूरं विदारीं सशतावरीम्।
परूषकाणि त्रिफलां साधयेत् पलसम्मिताम्॥

जलाढके पादशेषे रसमामलकस्य च।
घृतमिक्षुरसं क्षीरमभयाकल्कपादिकम्॥

साधयेत् तद्घृतं सिद्धं शर्कराक्षौद्रपादिकम्।
प्रयोगात् पित्तगुल्मघ्नं सर्वपित्तविकारनुत्।

साहचर्य्यादिह पृथग्घृतादेः क्वाथतुल्यता॥४०॥

द्राक्षेत्यादौ—मधुकं यष्टिमधु। शर्कराक्षौद्रपादिकमिति मिलित्वा। अत्र क्वाथशेषस्य प्रस्थमानस्य साहचर्याद् घृतादीनामपि प्रस्थमानत्वमित्याह साहचर्य्यादित्यादि॥४०॥.

क्षीरषट्पलकं घृतम्।

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः।
पलिकैः सयवक्षारैः सर्पिःप्रस्थं विपाचयेत्॥

क्षीरप्रस्थेन तत् सर्पिर्हन्ति गुल्मं कफात्मकम्।
ग्रहणीपाण्डुरोघ्नं प्लीहकासज्वरापहम्॥४१॥

क्षीरषट्पलके घृते क्षीरप्रस्थेनैव केवलेन घृतसमेन पाक इति ब्रुवते,अन्ये तु त्रिगुणं जलं ददति; तन्न, सर्वथा द्रवानुक्तौहि जलं द्रवं भवतीत्याह चक्रः॥४१॥

धात्रीषट्पलकं घृतम्।

धात्रीफलानां स्वरसैः षडङ्गं विपचेद् घृतम्।
शर्करासैन्धवोपेतं तद्धितं सर्वगुल्मिनाम्॥४२॥

धात्रीत्यादि—सुश्रुतस्य। धात्रीफलस्वरसश्चतुर्गुणः। षडङ्गमिति यवक्षारसहितपञ्चकोलकल्कितं प्रत्येकं पलिकम्। उक्तं हि— “पञ्चकोलैर्घृतं क्षीरैः प्रत्येकं पलिकैः पचेत्। क्षीरे धात्रीरसे वापि सितासैन्धवयोजितम्।” शर्करासैन्धवोपेतमिति शर्करासैन्धवयोर्मिलित्वा पादिकयोःप्रक्षेपः। अत्रापि शर्करापादत्रयं, सैन्धवस्यैकपाद इति वदन्ति॥४२॥

भार्गीषट्पलकं घृतम्

षड्भिः पलैर्मगधजाफलमूलचव्यविश्वौषधज्वलनयावककल्कपक्वम्।

प्रस्थं घृतस्य दशमूल्युरुवूकभार्गीक्वाथेऽप्यथो पयसि दध्नि च षट्पलाख्यम्
गुल्मोदरारुचिभगन्दरमग्निसादकासज्वरक्षयशिरोग्रहणीविकारान्।

सद्यः शमं नयति ये च कफानिलोत्था भार्ग्याख्यषट्पलमिदं प्रवदन्ति वैद्याः

** **षड्भिः पलैरित्यादि—मगधजा पिप्पली, तस्याः, फलं मूलञ्च, ज्वलनश्चित्रकः, यावको यवक्षारः।यावजेति पाठे स एवार्थः अत्र क्षीरं स्नेहसमं, “द्रवान्तरेण योगे हि क्षीरं स्नेहसमं भवेत्” इत्युक्तेः। दधिक्वाथौ तु मिलित्वा स्नेहात् त्रिगुणौ। अतः चतुर्गुणः पाकः, एकेनापि चातुर्गुण्यं त्रिभिरपि चातुर्गुण्यं चतुर्भिः सममिति वचनात्। अन्ये तु क्वाथो द्विगुणः, क्षीरं दधि च प्रत्येकं स्नेहसममित्याहुः। निश्चलस्तु क्वाथश्चतुर्गुणः, दधि च चतुर्गुणं, क्षीरन्तु स्नेहसममिति नवगुणः पाक इत्याह। अन्ये तु दधिक्वाथौमिलित्वा चतुर्गुणौ, क्षीरन्तु स्नेहसममिति पञ्चगुणः पाक इत्याहुः॥४३॥

भल्लातकं घृतम्।

भल्लातकानां द्विपलं पञ्चमूलं पलोन्मितम्।
साध्यं विदारीगन्धाढ्यमापोथ्य सलिलाढके॥

पादावशेषे पूते च पिप्पलीं नागरं वचाम्।
विडङ्गं सैन्धवं हिङ्गु यावशूकं विडं शटीम्॥

चित्रकं मधुकं रास्नांपिष्ट्वाकर्षसमान् भिषक्।
प्रस्थञ्च पयसो दत्त्वा घृतप्रस्थं विपाचयेत्॥

एतद्भल्लातकं नाम कफगुल्महरं परम्।
प्लीहपाण्ड्वामयश्वासग्रहणीकासगुल्मनुत्॥४४॥

भल्लातकघृतं द्विगुणद्रवेणैव पक्तव्यं, निर्दिष्टे तद्वदेव हि वचनात्। पञ्चमूलं स्वल्पं, तदेव विदारीगन्धाढ्यं प्रत्येकं पलोन्मितम्। भल्लातकं नामेत्यनन्तरं सर्पिरिति शेषः, चरके तु एतद्भल्लातकघृतं कफगुल्महरं परमित्येव पाठः॥४४॥

रसोनाद्यं घृतम्।

रसोनस्वरसे सर्पिः पञ्चमूलरसान्वितम्।
सुरारनालदध्यम्लमूलकस्वरसैःसह॥

व्योषदाडिमवृक्षाम्लयमानीचव्यसैन्धवैः।
हिङ्ग्वम्लवेतसाजाजीदीप्यकैश्च पलांशिकैः॥

सिद्धं गुल्मग्रहण्यर्शःश्वासोन्मादक्षयज्वरान्।
कासापस्मारमन्दाग्निप्लीहशूलानिलान् जयेत्॥४५॥

रसोनेत्यादौ—पञ्चमूलं महत् पञ्चमूलं वातकफहत्वात्‚ तस्य रसः क्वाथः। रसोनस्वरसादीनां षण्णां स्नेहसमत्वम्। दीप्यकं क्षेत्रयमानी॥४५॥

दन्तीहरीतकी।

जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः।
दन्त्याः पलानि तावन्ति चित्रकस्य तथैव च॥

तेनाष्टभागशेषेण पचेद्दन्तीसमं गुडम्।
ताश्चाभयास्त्रिवृच्चूर्णात् तैलाच्चपि चतुःपलम्॥

पलमेकं कणाशुण्ठ्योः सिद्धे लेहे च शीतले।
क्षौद्रं तैलसमं दत्त्वा चातुर्जातपलं तथा॥

ततो लेहपलं लीढ्वा जग्ध्वा चैकां हरीतकीम्।
सुखं विरिच्यते स्निग्धो दोषप्रस्थमनामयः॥

प्लीहश्वयथुगुल्मार्शो-हृत्पाण्डुग्रहणीगदाः।
शाम्यन्त्युत्क्लेशविषम–ज्वरकुष्ठान्यरोचकाः॥४६॥

जलद्रोण इत्यादौ—विंशतिः पञ्च चाभया इत्याकृतिमानात्। हरीतकीफलानि, कर्पटे पोट्टलीं वद्ध्वा अगस्त्यहरीतकीवत् क्वथनीयानि। तैलार्द्धकुडवमिति पाठे च पलचतुष्टयमित्यर्थः। तैलमुत्स्विन्नहरीतकीभर्जनार्थं, न तु त्रिवृच्चूर्णपरिभर्जनार्थं, भर्जनेन विरेचनशक्त्यपकर्षप्रसङ्गात्। पलमेकं कणाशुण्ठ्योर्मिलित्वा, एवं चातुर्जातपलमपि। प्रस्थमत्रदोषस्य सार्द्धत्रयोदशपलमानम्। उक्तं हि भोजे—“वमने च विरेके च तथा शोणितमोक्षणे। सार्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः” इति॥४६॥

वृश्चीराद्यारिष्टः।

वृश्चीरमुरुवूकञ्च वर्षाह्वं बृहतीद्वयम्।
चित्रकञ्च जलद्रोणे पचेत् पादावशेषितम्॥

मागधीचित्रकक्षौद्र-लिप्तकुम्भे निधापयेत्।
मधुनः प्रस्थमावाप्य पथ्याचूर्णार्द्धसंयुतम्॥

व्युषोषितं दशाहञ्च जीर्णभक्तः पिबेन्नरः।
अरिष्टोऽयं जयेद् गुल्ममविपाकं सुदुस्तरम्॥४७॥

वृश्चीरमित्यादि—वृश्चीरः श्वेतपुनर्नवा। वृश्वीरादीनां मिलित्वा पलशतम्, “द्रोणे द्रव्यतुला मता” इति वचनात् ‚ अन्ये त्वाढकमाहुः।मागधीपिप्पली। मधुनः प्रस्थमिति शरावचतुष्टयम्। पथ्याचूर्णार्द्धसंयुतमिति हरीतकीचूर्णप्रस्थार्द्धमष्टौ पलानि, तेन संयुतम्। व्युषोषितं तुषधान्यराशिमध्ये स्थितम्। जीर्णभक्तः परिणताहारः, लघुकोष्ठ इत्यर्थः। अस्य पलमर्द्धपलं वा प्रातरुपयोज्यम्॥४७॥

रौधिरस्य च गुल्मस्य गर्भकाले व्यतिक्रमे।
स्निग्धखिन्नशरीरायै दद्यात् स्निग्धं विरेचनम्॥४८॥

रौधिरस्येत्यादौ—गर्भकालव्यतिक्रम इति उचितगर्भकालस्य, दशमासरूपकालस्य व्यतिक्रमे। अग्रञ्च समयनियमो रक्तगुल्मस्यौषधार्हसमयप्रदर्शनार्थमेवोक्तः ज्वरे सप्तदिवसात् परतः पाचनवत्। न तुगर्भकालशङ्कानिरासार्थम्, दशमासातिक्रमेणापि गर्भावस्थादर्शनात्। उक्तं हि—“तं स्त्री प्रसूते सुचिरेण गर्भं पुष्टो यदा वर्षगणैरपि स्यात्” इति। तथा पिण्डितस्पन्दनमस्य गर्भलक्षणात् विरुद्धलक्षणमुक्तं “यः स्पन्दते पिण्डित एव नाङ्गै” इति एतेन दशमासादर्वागपि शोणितगुल्मावधारणं भवत्येव। तस्माद् व्याधिमहिम्ना अस्य दशमासातिक्रमे सत्येव सुखचिकित्स्यत्वप्रदर्शनार्थामिदमुक्तम्। अर्वाक् चिकित्सायान्तु शोणितातिस्रुतो गर्भाशयोपघातादिकं स्यादिति॥४८॥

शताह्वाचिरिविल्वत्वग्दारुभार्गीकणोद्भवः।
कल्कः पीतो हरेद् गुल्मं तिलक्वाथेन रक्तजम्॥४९॥

शताह्वेत्यादि—शताह्वादिकणान्तानां प्रक्षेपः। चिरिविल्वत्वक् लाटाकरञ्चत्वक्। तिलक्वाथेनेति तिलफलक्वाथेनेत्यर्थः, एवमुतरयोगेऽपि तिलफलस्यैव क्वाथः।केचित्तु तिलनालकक्वाथकृतक्षारोदकेनापि व्यवहरन्ति। रक्तजमित्यार्त्तवरक्तजम्॥४९॥

तिलक्वाथो गुडव्योष-हिङ्गुभार्गीयुतो भवेत्।
पानं रक्तभवे गुल्मे नष्टे पुष्पे च योषिताम्॥५०॥

तिलक्वाथ इत्यादौ—गुडादयः प्रक्षेप्याः। नष्टे पुष्पे इत्यदृष्टार्त्तवे॥५०॥

सक्षारं त्र्यूषणं मद्यं प्रपिवेदस्रगुल्मिनी।
पलाशक्षारतोयेन सिद्धं सर्पिः पिबेच्च सा॥५१॥

सक्षारेत्यादौ—क्षारो घण्टापारुल्यादिकृतः, अन्ये तु यवक्षार इत्याहुः। पलाशक्षारतोयनेत्यादि—अकल्कमिदं घृतम्। पलाशभस्माढकमुदकाढकैः संयोज्याग्नौ साधनीयम्। तत्राच्छपैच्छिल्यादिलक्षणोदये तृतीयभागेऽवशिष्टे त्रिःसप्तवारान् परिस्राव्य क्षारोदकं घृताञ्चतुर्गुणं ग्राह्यम्‚ तेन घृतस्य पाक इति चक्रः। अन्ये तु पानीयक्षारविधिना स्रावितक्षाराम्बुना घृतपाकमुपदिशन्ति। कार्त्तिकः पुनः पलाशक्षारतोयनेत्यनेन स्नेहपाकोक्तविधिना पलाशक्षारक्वाथकरणमित्याह॥५१॥

उष्णैर्वा भेदयेद्भिन्नेविधिरासृग्दरो हितः।
न प्रभिद्येत यद्येवं दद्याद् योनिविशोधनम्॥

क्षारेण युक्तं पललं सुधाक्षीरेण वा पुनः।
रुधिरेऽतिप्रवृत्ते तु रक्तपित्तहरी क्रिया॥५२॥

उष्णैर्वेति—उष्णैरित्युष्णवीर्य्यैःसुरासौवीरादिभिः। भिन्न इति भृशं स्रवति रक्ते। योनिविशोधनमिति वर्तिरूपतया योनिविरेचनमित्यर्थः। क्षारेणेत्यादि—पलाशक्षारेण सह पललं तिलचूर्णं किञ्चिज्जलं दत्त्वा वर्त्तिंविधाय योन्यभ्यन्तरे दद्यात्। अथवा पलाशादिक्षारतिलचूर्णं सीजक्षीरेण मिश्रणीयम्, तेन सूक्ष्मवस्त्रं म्रक्षयित्वा वर्त्तिःकार्य्यां, सा च योन्यभ्यन्तरे देया।रुधिर इत्यादि स्पष्टम्॥४२॥

भल्लातकात् कल्ककषायपक्वं सर्पिः पिबेच्छर्करया विमिश्रम्।
तद्रक्तगुल्मं विनिहन्ति पीतं बलासगुल्मं मधुना समेतम्॥५३॥

भल्लातकादित्यादि—अत्र पादिकशर्कराप्रक्षेपः, एवं मध्वपि, “कल्कवन्मधुशर्करे” इत्युक्तेः। वलासः कफः। कफगुल्मे शर्करास्थाने मधु देयमित्यर्थः॥५३॥

वल्लूरं मूलकं मत्स्यान् शुष्कशाकानि बैदलम्।
न खादेच्चालुकं गुल्मी मधुराणि फलानि च॥५४॥

वल्लूरमित्यादि—सुश्रुतस्य। वल्लूरं शुष्क्रमांसम्¸ शुष्कमूलकस्य वातहरत्वेन पथ्यत्वान्न निषिद्धम्। एतच्च हरितवर्गोपलक्षणं गुल्मे हरितवर्गस्याप्यहितत्वात्। वैदलं मुद्गादि, आलुकं पिण्डालुकम्। मधुराणि फलानि क्षीरिवृक्षफलानि, क्षारपाणौ न्यग्रोधादिफलवर्जनस्योक्तत्वात्। चकारात् हरीतकीवर्गोपलक्षणम्, गुल्मे हरीतकीवर्गस्याप्यहितत्वात्॥५४॥

इति गुल्मचिकित्सा-विवृतिः।

<MISSING_FIG href=”../../../../../books_images/U-IMG-17080691993.jpg"/>

अथ हृद्रोग-चिकित्सा।

वातोपसृष्टे हृदये वामयेत् स्निग्धमातुरम्।
द्विपञ्चमूलीक्वाथेन सस्नेहलवणेन च॥१॥

गुल्मस्य हृदयं स्थानमुक्तम्, अतः स्थानसाम्यात् तदनन्तरं हृदोग उच्यते। वातोपसृष्ट इत्यादि—सुश्रुतस्य। अत्रानुक्तमपि मदनफलादिचूर्णं बोध्यम्, वमनयोग्यत्वात्। वातजेऽपि वमनविधानं हृदयस्य कफस्थानत्वात्, उक्तंहि “स्थानिस्थानगतं दोषं स्थानिवत् समुपाचरेत्” इति। एवं पित्तजे वमनं बोध्यम्। चरके हृद्रोगिणो यद्यप्यवम्या उक्तास्तथापि कफोत्क्लेशे बलीयसि सर्वत्रैव वमनं ज्ञेयम्॥१॥

पिप्पल्येलावचाहिंगु यवक्षारोऽथ सैन्धवम्।
सौवर्ञ्चलमथो शुण्ठी अजमोदा च चूर्णितम्।

फलधान्याम्ल-कौलत्थ-दधिमद्यासवादिभिः।
पाययेच्छुद्धदेहञ्च स्नेहेनान्यतमेन वा॥२॥

पिप्पलीत्याद्यन्तमेन वेत्यन्तं सुश्रुतस्य।फलाम्लं मातुलुङ्गदाडिमफलादि हृद्यत्वात् तस्य रसो ग्राह्यःपानोपयोगित्वात्। वाते धान्याम्लं काञ्जिकम्। कौलत्थः कुलत्थयुषः। स्नेहेनान्यतमेन वेति घृतादीनामन्यतमेन फलधान्याम्लादिबहुद्रवोपदर्शनं सात्म्यापेक्षम्॥१॥

नागरं वा पिबेदुष्णं कषायञ्चाग्निवर्द्धनम्।
कासश्वासानिलहरं शूलहृद्रोगनाशुनम्॥३॥

नागरमित्यादि—नागरं नागरकृतकषायं पिबेत्। वाशब्दः पूर्वयोगापेक्षया॥३॥

श्रीपर्णीमधुकक्षौद्र—सितागुडजलैर्वमेत्।

पित्तोपसृष्टे हृदये सेवेत मधुरैः शृतम्॥
घृतं कषायांश्चोद्दिष्टान् पित्तज्वरविनाशनान्॥४॥

पैत्तिकचिकित्सामाइ श्रीपर्णीत्यादि—सुश्रुतस्य। श्रीपर्णीगाम्भारी तस्याः फलमत्र देयम्। जलं श्रीपर्णीमधुकयोरेव तयोरेव योग्यत्वात् जलमत्रार्द्धशृतक्वाथः। अत्र क्षौद्रसितागुडान् प्रक्षिप्य पित्तजे वमेत्। किंवा जलस्य श्रोपर्ण्यादिभिः पञ्चभिः सम्बन्धात् पञ्च योगा अमी। अत्राप्यनुक्तमपि मदनफलादि पूर्ववद् बोध्यम्। ढल्वणस्तु खितागुटजलैरित्यत्र सितोत्पलजलैरिति पठित्वा उत्सलं फुष्ठमिति व्याचष्टे\। मधुरैः शृतं घृतमिति काकोल्यादिगणक्वाथक्लकसाधितं घृतम्॥४॥

शीताः प्रदेहाःपरिपेचनानि तथा विरेको हृदि पित्तदुष्टे।
द्राक्षासिताक्षौद्ररूपकैः स्यात् शुद्धे च पित्तापहमन्नपानम्॥

पिष्ट्वापिबेद्वापि सिताजलेन यष्ट्याद्वयं तिफ्लकरोहिणीञ्च॥५॥

शीता इत्यादी—द्राक्षादिभिर्युक्तमन्नपानं मण्डयूपादिपानवमनविरेचनशुद्धे कार्य्यमित्यर्थः इति केचित्। अन्यतु—“पित्ते द्राक्षेक्षुनिर्याससिताक्षौद्रपरूषकैः। यु

क्वोनिरेको

हृद्यः स्यात्” इति तन्त्रान्तरदर्शनात् द्राक्षादिभिर्यु

को विरेक इत्याहुः। सिताजलेनेति शर्करामिश्रितजलेनत्यर्थः। सितां जलेनेति पाठोऽपि ज्ञेयः।उ

क्कं हि—वाग्भटे “यष्टीमधुककल्कय पिबेत् ससितमम्भसा " इति॥५॥

अर्जुनस्य त्वचा सिद्धं क्षीरं योज्यं हृदामये।
सितया पञ्चमूल्या वा वलया मधुकेन वा॥६॥

अर्जुनस्येत्यादि—क्षीरपरिभाषया अर्जुनत्वगादिभिः प्रत्येकं साधितं सितया पेयमिति चत्वारो योगाः। केचित्तु केवलवारिसाधितक्षीरे सिताप्रक्षेपादिति पञ्चयोगानाहुः। पञ्चमूली चात्र स्वल्पा। एते च योगा वातीपत्ते ज्ञेयाः॥६॥

घृतेन दुग्धेन गुडाम्भसा वा पियन्ति चूर्णंककुभत्वचो ये।
हृद्रोगजीर्णज्वररक्तपित्तं हत्वा भवेयुश्विरजीविनस्ते॥७॥

घृतेनेत्यादि—ककुभोऽर्जुनः॥७॥

वचा निम्वकषायाभ्यां वान्तं हृदि फफोत्थिते।
वातहृद्रोगहच्चूर्णं पिप्पल्यादि च योजयेत्॥८॥

वचेत्यादि—सुश्रुतस्य।वचाकषायेण निम्बकषायेण वा वमनम्, किंवा वचाकल्को निम्बस्य कपायः ताभ्यां मिलित्वा वमनम्।हृदीति हृद्रोगे। तात्स्थ्यात् म़ञ्चाःकोशन्तीतिवत्। वातहृद्रोगहृच्चूर्ण पिप्पल्यादि चेति। अत्रैव वातहृद्रोगे पिप्पल्यादिना यच्चूर्णमुक्तंतत् पाययेदित्यर्थः। वाग्भटेऽप्युक्तम्—“कफोऽद्भवे वमेत् स्विन्नःपिचुमदेवचाम्भसा। कुलस्थधन्वोत्थरसतीक्ष्णमद्ययवाशनः। पिबेच्चूर्णं वचाहिंगुलवणद्वयनागरान्। सैलायमानीककणा यवक्षारान् सुखम्वुना। फलधान्याम्लकौलत्थयूषमूत्रासवैस्तथा।” इति वातहृच्चूर्णं पिप्पल्यादिकं तथा पिप्पल्यादिगणं पाययेदित्याहुरन्ये॥८॥

त्रिदोषजे लङ्घनमादितः स्यादन्नञ्च सर्वेषु हितं विधेयम्।
हीनाघिमध्यत्वमवेक्ष्य चैव का्र्य्यंत्रयाणामपि कर्म शस्तम्॥९॥

त्रिदोषज इत्यादि—लङ्घनविधानं हृदयस्य कफस्थानतया।त्रिदोषजेऽपिकफ एवादी लङ्घनेन जेय इति मत्वा कृतम्।त्रिदोष

जे डल्वणःदोषतया चिकित्सासूत्रमाह हीनाधीत्यादि—अधिशब्दोऽधिकदोषहन्तृतया तत् कार्य्यमिति वाक्यार्थः९

चूर्णं पुष्करजं लिह्यान्माक्षिकेण समायुतम्।
हृच्छूलश्वासकासघ्नं क्षयहिक्कानिवारणम्॥१०॥

चूर्णमित्यादि स्पष्टम्॥१०॥

तैलाज्यगुडविप

क्वंचूर्णं गोधूमपार्थजं वापि।
पिबेति पयोऽनु च स भवेज्जितसकलहृदामयः पुरुषः॥११॥

तैलाज्यत्यादि—–तैलाज्यगुडान् मिलित्वा पादिकान् दत्त्वा गोधूमपार्थचूर्णं स्तोकमात्रेण तोयेनोत्कारिकावद्विपाच्य भक्ष्यम्। किंवा गोधूमपार्थचूर्णसमो गुडः, तैलाज्ये तु संस्कारार्थं स्तोकमात्रेण देये। पार्थोऽर्जुनवृक्षः। वाशब्दः पूर्वयोमा पेक्षया॥११॥

गोधूमककुभचूर्णं छागपयो गव्यसर्पिषा पक्कम्।
मधुशर्करासमेतं शमयति हृद्रोगमुद्धतं पुंसाम्॥१२॥

गोधूमेत्यादि—ककुभोऽर्जुनः। अत्रापि योगे सर्पिर्मधुशर्कराणां पूर्ववन्मानं हित्वा छागक्षीरणोत्कारिकावत् पाकः।मधु परं सिद्धशीते देयम्॥१२॥

मूलं नागवलायास्तु चूर्णं दुग्धेन पाययेत्।
हृद्रोगश्वासकासघ्नं ककुभस्य च वल्कलम्॥

रसायनं परं बल्यं वातजिन्मासयोजितम्।
संवत्सरप्रयोगेण जीवेद्वर्षशतं ध्रुवम्॥१३॥

मूलं नागबलाया इति, मूलं चूर्णमिति चूर्णरूपं मूलमित्यर्थः। ककुभस्य बल्कलमिति ककुभस्य त्वक्चूर्णमपि दुग्धेन पेयम्।योगद्वयमेतत्॥१३॥

हिंगूग्रगन्धाविडविश्वकृष्णा-कुष्ठाभयाचित्रकयावशूकम्।
पिबेच्च सौवर्चश्चलपुष्कराढ्यं वचाम्भसा शूलहृदामयघ्नम्॥१४॥

हिंग्वित्यादि—पुष्करस्याभावात् कुष्ठस्यै

ष भागद्वयम्।हिंग्वादिपुष्करान्तानां चूर्णं यवक्वाथे प्रति

ष्य पिबेत्॥१४॥

दशमूलीकर्षयन्तु लवणक्षारसंयुतम्।
श्वासं कासञ्च हृद्रोगं गुल्मं शूलञ्च नाशयेत्॥१५॥

दशमूलीत्यादौ—सैन्धवयवक्षारयोः प्रक्षेपः॥१५॥

पाठां वचां यवक्षारमभयां साम्लवेतसाम्।

दुरालभां चित्रकञ्च त्र्यूषणञ्च फलत्रयम्॥

शटींपुष्करमूलञ्च तिन्तिडीकं सदाडिमम्।
मातुलुङ्गस्य मूलानि श्लक्ष्णचूर्णानि कारयेत्।

सुखोदकेन मद्यैर्वा प्लुतान्येतानि पाययेत्।
अर्शःशूलञ्च हृद्रोगं गुल्माञ्चांशुव्यपोहति॥१६॥

पाठामित्यादि—स्पष्टम्॥१६॥

पुटदग्धमश्मपिष्टं हरिणविषाणन्तु सर्पिषा पिबतः।
हृत्पृष्ठशूलमुपशममुपयात्यचिरेण कष्टमपि॥१७॥

पुटेत्यादि—हरिणशृङ्गं कुशेन संवेष्टय मृदा प्रलिप्य च गोमयाग्नौनिर्धूमाङ्गारे वा दग्ध्वा शिलापिष्टं घृतेन पेयमित्यर्थः॥१७॥

क्रिमिहृद्रोगिणं स्निग्धं भोजयेत् पिशितौदनम्।
दध्ना चपललोपेतं त्र्यहं पश्चाद्विरेचयेत्॥
सुगन्धिभिः सलवणैर्योगैः साजाजिशर्करैः।
विडङ्गगाढं धान्याम्लं पायथेद्धितमुत्तमम्॥१८॥

किमीत्यादि—अतःपरमित्यन्तं सुश्रुतस्य—पिशितप्रधानमोदनं पिशितौदनम्, त

च्च दध्ना पललेन च संयुक्तं त्र्यहं भोजयेत्। पललं तिलचूर्णम्। एतच्चं पिशितौदनभोजनं क्रिमीणामुत्क्लेशार्थम्। पञ्चादिति किम्युत्क्लेशानन्तरं विरेचयेत्।कैर्विरेचयेदित्याह सुगन्धिमिरित्यादि—योगैरिति विरेचनयोगैः। कीदृशैः सुगन्धिभिः? चातुर्जातकयोगैरिति शेषः। सौगन्ध्यकराश्च वान्तिशङ्कानिरांसार्थम्। वमनश्च क्रिमिहृदोगे निषिद्धम्, क्रिमिजर्जरितहृदयत्वात्। तथा वमनेन क्रिमिभिः शिरोगतैरिन्द्रियोपघातभयाश्चति। सलवणैरित्यत्र सपललैरिति पठित्वा समृष्टतिलचूर्णैरिति व्याख्यानयन्ति केचित्। पीतविरेकस्यानुपानमाह वि

रुङ्गगाढमित्यादि—विडङ्गगाढं विडङ्गचूर्णोत्कटम्, धान्याम्लमिति काञ्जिकम्। विडङ्गगाढैरिति पाठे योगैरित्यस्य विशेषणम्

क्रिमिजे च पिबेन्मूत्रं विडङ्गामयसंयुतम्।
हृदि स्थिताः पतन्त्येवमघस्तात् क्रिमयो नृणाम्॥

यवान्नंवितरेच्चास्मै सविडंगमतः परम्॥१९

विरेचनयोगान्तरमाह क्रिमिजे चेत्यादि—विडङ्गकुष्ठचूर्णं प्रक्षिप्यगोमूत्रं वा विरेकार्थं पिबेत्। यद्यप्ययं योगः सुश्रुते नास्ति तथापि तन्त्रान्तरीय एवायंविरेचनप्रस्तावे संग्रहकारेणलिखितः। विरेचनानन्तरमग्निसन्धुक्षणार्थं परिशिष्टक्रिमिविनाशार्थचान्नसंस्कारमाह यवान्नमित्यादि—यवान्नमिति यवपेयादिकम्। सविडङ्गमिति षडङ्गविधिना विडङ्गकषायसाधितम्। अतः परमिति विरेकानन्तरमित्यर्थः॥

वल्लभघृतम्।

मुख्यं शतार्द्धश्च हरीतकीनां सौवर्च्चलस्यापि पलद्वय

क्ष।

क्वंघृतं वल्लभकेति नाम्ना हृच्छ्वासशूलोदरमारुतघ्नम्॥२०॥

वल्लभधृते—मुख्यामिति श्रेष्ठम्। हरीतकी सौवर्चल

च्चकल्कः, घृतस्य प्रस्थः, जलेन च पाकः॥२०॥

श्वदंष्ट्राद्यंघृतम्।

श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्य्यकत्तणम्।
दर्भमूलं पृथक्पर्णी पलाशर्षभकौ स्थिरा॥

पलिकान् साधयेत्तेषां रसे क्षीरे चतुर्गुणे।
कल्कैः स्वगुप्तर्षभकमेदाजीवन्तिजीवकैः॥

शतावर्य्यद्धिमृद्वीकाशर्कराश्रावणीविसैः।
प्रस्थः सिद्धो घृताद्वातपित्तहृद्रोगशूलनुत्॥

मूत्रकृच्छ्रप्रमेहार्शःश्वासकासक्षयापहः।
धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः॥२१॥

श्वदंष्ट्राधे—पलाशः किंशुकः तस्य मूलम्। अन्ये तु पलाशं शटीमाहुः। एतस्मिन्नेकादशपले क्वाथ्येऽष्टगुणं जलमेकादशशरावं दत्त्वा क्वायः का

र्य्यः।पादशेषश्च पादोनशरावत्रयम्, ततश्चतुर्गुणं क्षौरमेकादशशरावरूपमिति किष्चिदूनचतुर्गुणः पाकः। अन्ये तु एकादशपले क्वाथ्य एवाढकं जलं दत्त्वा पादशेषश्च प्रस्थ इत्याहुः। श्रतश्चतुर्गुणं क्षीरमाढकं एवं पञ्चगुणः पाक इति। व्यवहारोऽपीत्यमेव। श्रावणी मुण्डितिका। बिसं मृणालम्॥२१॥

बलाद्यं घृतम्।

घृतं चलानागवलार्जुनाम्बुसिद्धं सयष्टीमधुपादकल्कम्।
हृद्रोगशूलक्षतरक्तपित्तं कासानिलासृक् शमयत्युदीर्णम्॥२२॥

घृतमित्यादौ—बलाघृते—नागबला गोरक्षतण्डुला, अम्बुक्वाथः॥२२॥

अर्जुनघुतम्।

पार्थस्य कल्कखरसेन पक्वंशस्तं घृतं सर्वहृदामयेषु॥२३॥

अर्जुनघृतं स्पष्टम्॥२३॥

इति हृद्रोगंचिकित्साविवृतिः।
___________

अथ मूत्रकृच्छ्रचिकित्सा।

वातमूत्रकृच्छ्रे।

अभ्यञ्जनस्नेहनिरूहबस्तिस्वेदोपनाहोत्तरवस्तिसेकान्।
स्थिरादिभिर्वातहरैश्च सिद्धान् दद्याद्रसांश्चानिलमूत्रकृच्छ्रे॥१॥

सप्तोत्तरे मर्मशते त्रीणि मर्माणि शिरोहृदयवस्तयः प्रधानानि। ततो हृद्रोगचिकित्सामभिधाय वस्तिरोगचिकित्सामाहअभ्यञ्जनेत्यादि—स्थिरादिभिरिति शालपर्ण्यादिभिः पञ्चमूलैः। वातहरैरिति वातहरत्वेनोक्तैः॥१॥

अमृतानागरं धात्रीवाजिगन्धात्रिकण्टकान्।
प्रपिबेद्वातरोगार्त्तः सशूली मूत्रकृच्छ्रवान्॥२॥

अमृतत्यादि—योगोऽयं क्वाथेन॥२॥

पित्तमूत्रकृच्छ्रे—

सेकावगाहाः शिशिराः प्रदेहा ग्रैष्मो विधिर्वस्तिपयोविकाराः।
द्राक्षाविदारीक्षुरसैघृतैश्च कृच्छ्रेषु पित्तप्रभवेषु कार्य्याः॥३॥

ग्रैष्मो विधिरिति सशर्करं मन्यमित्यादि वाग्भटस्य अशीतीयोक्तः। द्राक्षाविदारीक्षुरसैघृतैश्चेति सहार्थे तृतीया॥३॥

कुशः काशः शरो दर्भ इक्षुश्चेति तृणोद्भवम्।
पितकृच्छ्रहरं पञ्चमूलं

बस्तिविशोधनम्।
एतत्सिद्धं पयः पीतं मेदूगं हन्ति शोणितम्॥४॥

कुश इत्यादौ—तृणोद्भवं पञ्चमूलमिति योज्यम्। दर्भ उलुयामूलम्॥४॥

शतावरीकाश कुशाश्वदंष्ट्राविदारिशालीक्षुकशेरुकाणाम्।
क्वाथं सुसिद्धं मधुशर्कराक्तं पिबन् जयेत् पैत्तिकमूत्रकृच्छ्रम्॥५॥

शतावरीत्यादौ—शालीति शालिधान्यमूलम्॥५॥

हरीतकीगोक्षुरराजवृक्षपाषाणभिद्धन्वयवासकानाम्।
क्वाथं पिबेन्माक्षिकसम्प्रयुक्तं कृच्छ्रे सदाहे सरुजे विवन्धे ॥६॥

हरीतकीत्यादौ—राजवृक्षःशोणालुफलम् धन्वयवासको दुरालभा॥६॥

गुडेनामलकं वृष्यं श्रमप्नं तर्पणं परम्।
पित्तासुग्दाहशूलघ्नंमूत्रकृच्छ्रविनाशनम्॥७॥

गुढेनेति गुढामलकफले तुल्यमानि॥७॥

एर्वारु

बीजं मधुकञ्च दार्वीं पैत्ते पिबेत् तण्डुलधावनेन।
दार्वींतथैवामलकीरसेन समाक्षिकां पैत्तिकमूत्रकृच्छ्रे॥८॥

एर्वारुः कर्कटी।समाक्षिकामित्यस्य दार्वीमित्यनेनैव सम्बन्धः, न तु. पूर्वेण॥८॥

कफमूत्रकृच्छ्रे—

क्षारोष्णतीक्ष्णोषणमन्नपानं स्वेदो यवान्नं वमनं निरूहाः।
तक्रंसतिक्तौषधसिद्धतैलाद्यभ्यङ्गपानं कफमूत्रकृच्छ्रे॥९

** **क्षारेत्यादि—कफकृच्छ्रभेषजं क्षारादिभिर्युक्तमन्नपानम्। ऊषणं त्रिकटुकमिति चक्रः, अतएव औषधमिति पाठोऽशुद्ध एव,वाग्भटेऽपि “कफजे वमनस्वेदौ तीक्ष्णोष्णकटुभोजनम्” इत्युक्तत्वात्॥९॥

मूत्रेण सुरया वापि कदलीस्वरसेन वा।

कफकृच्छविनाशाय श्लक्ष्णं पिष्ट्वात्रुटिं पिबेत्॥१०॥

मूत्रेणेत्यादी—त्रुटिःसूक्ष्मैला वाग्भटसंवादात्। “पिबेन्मूत्रेण सूक्ष्मैलां धात्रीफलरसेन वा। इति।” अन्ये तु एलामात्रमाहुः।कदलीस्वरसेनेति कदलीमूलस्वरसेन च॥१०॥

तक्रेण युक्तं शितिमारकस्य बीजं पिबेत् कृच्छ्रविनाशहेतोः।
पिबेत् तथा तण्डुलधावनेन प्रवालचूर्णं कफमूत्रकृच्छ्रे॥११॥

श्वदंष्ट्रा विश्वतोयं वा कफकृच्छुविनाशनम्॥१२॥

तक्रेणत्यादौ—शितिमारः शालिश्वः, प्रबालो वि

द्रुमः॥११॥१२॥

सर्वं त्रिदोषप्रभवे तु वायोः स्थानानुपूर्व्या प्रसमीक्ष्यकार्य्यम्।
त्रिभ्योऽधिके प्राग्वमनं कफे स्यात् पित्ते विरेकः पवने तु वस्तिः॥१३॥

समकुषितदाषत्रयारब्धमूत्रकृच्छ्रचिकित्सामाह सर्वमित्यादि—वातजादिमूत्रकृच्छ्रनिर्दिष्टं भेषजं सर्वं समत्रिदोषजे मूत्रकृच्छ्रे मिलितं कार्यम्। तच्च वायोः स्थानानुपूर्व्या कर्त्तव्यं, न तु त्रिदोषजज्वर इव कफस्थानानुपूर्व्या। समत्रिदोषजारब्धमूत्रकृच्छस्य वातस्थानभवत्वेन वायोरेव प्रथमं चिकित्सा कार्या, चिकित्स्यत्वादितिभावः। विषमसन्निपातकृच्छ्रचिकित्सामाह त्रिभ्य इत्यादि। त्रिभ्योऽधिक इति वाक्यं कफे पित्त वाते इत्येतैः क्रमेण सम्बध्यते। अत्र मूत्रकृच्छ्रानारम्भकमाशयान्तरस्थं कफमप्यपेक्ष्य मूत्रकृच्छ्रारम्भककफभागस्याधिक्यमस्तीति कृत्वा त्रिभ्योऽधिक इत्युक्तम्। एवं पित्तपवनयोरपि पित्तपवनान्तरापेक्षया आधिक्यं व्याख्येयम्। अन्ये त्रिभ्य इति छान्दसत्वात् षष्ट्यर्थे पञ्चमीत्याहुः। तेन त्रयाणां मध्य इत्यर्थः॥१३॥

बृहतीधावनीपाठा-यष्टीमधुकलिङ्गकाः।
पाचनीयो बृहत्यादिः कृच्छ्रदोषत्रयापहः॥१४॥

बृहतीत्यादौ—धावनी कण्टकारी।कृच्छ्रदोषत्रयापद इति कृच्छ्रजनकदोष त्रयापद इत्यर्थः॥१४॥

तथाभिघातजे कुर्य्यात् सद्योव्रणचिकित्सितम्।
मूत्रकृच्छ्रे सदा चास्य कार्य्या वातहरी क्रिया॥१५॥

वातहरी क्रियेात आनहोक्ताक्रिया॥१५॥

स्वेदचूर्णक्रियाभ्यङ्गवस्तयः स्युः पुरीषजे।
क्वाथं गोक्षुरबीजस्य यवक्षारयुतं पिबेत्।
मूत्रकृच्छ्रं शकृजञ्च पीतं शीघ्रं विनाशयेत्॥१६॥

स्वदेत्यादौ—चूर्णक्रियेति कुलवर्तिः, किंवा विरेचनद्रव्यचूर्णं दत्त्वा गुदे नलिकया फूत्करणम्॥१६॥

क्रिया हिता त्वश्मरिशर्करायां या मूत्रकृच्छ्रे कफमारुतोत्थे॥१७॥

अश्मरीशर्कराजमूत्रकृच्छ्रचिकित्सामाह क्रिया हितेत्यादि—अश्मरीशर्कराभ्यामिति चरके पाठः॥१७॥

लेह्यं शुक्रवि

बन्धोत्थे शिलाजतु समाक्षिकम्।
वृष्यैर्बृहितधातोश्च विधेयाः प्रमदोत्तमाः॥१८॥

लेह्यमित्यादौ—विधेयाः प्रमदोत्तमाः इति रमणार्थमिति शेषः॥१८॥

एलाहिङ्गुयुतं क्षीरं सर्पिर्मिश्रं पिबेन्नरः।
मूत्रदोषविशुद्धपर्थे शुक्रदोपहरञ्च तत् ॥१९॥

एलेत्यादौ—एलाहिंगुनी प्रक्षिप्य ससर्पिः क्षीरं पिबेदिस्यर्थः॥१९॥

यन्मूत्रकृछ्रे विहितन्तु पैत्ते तत् कारयेच्छोणितमूत्रकृच्छ्रे॥२०॥

शोणितमुत्रकृच्छ्रचिकित्सामाह—यदित्यादि॥२०॥

त्रिकण्टकारग्वधदर्भकाशदुरालभापर्वतभेदपथ्याः।
निघ्नन्ति पीता मधुनाश्मरीञ्च सम्प्राप्तमृत्योरपि मूत्रकृच्छ्रम्॥२१॥

त्रिकण्टकेत्यादी—पर्वतभेदः पा

षाणभेदः। एषां कषाये मधु प्रक्षप्यम्॥२१॥

कषायोऽतिबलामूल साधितोऽशेषकृच्छ्रजित्॥२२॥

कपाय इत्यादी—अतिबला श्वेतबला॥२२॥

एलाश्मभेदकशिलाजतुपिप्पलीनां चूर्णानि तण्डुलजलैर्लुलितानि पीत्वा।
यद्वा गुडेन सहितान्यवलिह्य सम्यक् आसन्नमृत्युरपि जीवति मूत्रकृच्छ्री॥

एलादिचूर्णानि तण्डुलजलेन पातव्यानि, किंवा गुडेन लेह्यानीति॥२३॥

अयोरजः श्लक्ष्णपिष्टं मधुना सह योजितम्।
मूत्रकृच्छ्रंनिहन्त्याशु त्रिभिर्लेहेर्न संशयः॥
सितातुल्यो यवक्षारः सर्वकृच्छ्रविनाशनः।
निदिग्धिकारसो वापि सक्षौद्रः कृच्छ्रनाशनः।

अय इत्यादि—मारितपुटितवजादिलोहचूर्णं रति ५ मधुमात्रेण लौहपात्रे मर्दयित्वा लेह्यं रक्तिकादिक्रमेण माषकद्वयपर्य्यन्तम्। त्रिभिर्लेहैरिति दिनत्रयेणेत्यर्थः। निदिग्धिकारस इति कण्टकारीस्वरसः। उक्तं हि वाग्भटे—“स्वरसं कण्टकार्य्या वा पाययेन्मा

त्तिकान्वितम् " इति॥२४॥

शतावरीघृतक्षीरे।

शतावरीकाशकुशभ्वदंष्टा-विदारिकेक्ष्वामलकेषुसिद्धम्।
सर्पिः पयो वा सितया विमिश्रं कृच्छ्रेषु पित्तप्रभवेषु योज्यम्॥२५॥

शतावरीत्यादौ—घृतसाधनपक्षेशतावर्य्यादीनां कल्कः, जलष्चचतुर्गुणम्, शर्करा तु प्रक्षेप्या॥२५॥

त्रिकण्टकाद्यं घृतम्।

त्रिकण्टकैरण्डकुशाद्यभीरु-कर्कारुकेक्षुस्वरसेन सिद्धम्।

सर्पिर्गुडार्द्धांशयुतं प्रपेयं कृच्छ्राश्मरीमूत्रविघातहेतोः॥२६॥

त्रिकण्टकेत्यादौ—कुशादि तृणपञ्चमूलम् अभीरुः शतावरी, कर्कारुकः कूष्माण्डभेदः कूष्माण्डाकृतिः उत्कलदेश प्रसिद्धः।त्रिकण्टकादीनां सर्वेषां स्वरसः, तदभावे कषायः।गुडार्द्धांशयुतमिति घृतापेक्षया अर्द्धशो गुड इति षोडशपल इत्यर्थः। गुडश्चप्रक्षेप्यः।अन्ये तु गुडं दत्त्वैव पाक इत्याहुः॥२६॥

सुकुमारकुमारकघृतम्।

पुनर्नवामूलतुला दशमूलं शतावरी।
बला तुरगगन्धा च तृणमूलं त्रिकण्टकम्॥

विदारिगन्धा नागाह्वागुडूच्यतिबला तथा।
पृथग्दशपलान् भागान् जलद्रोणे विपाचयेत्।
तेन पादावशेषेण घृतस्यार्द्धढकं पबेत्॥

मधुकं शृङ्गवेरञ्च द्राक्षासैन्धवपिप्पलीः।
द्विपलिकाः पृथग्दद्याद् यमान्याः कुडवं तथा॥
त्रिंशद् गुडपलान्यत्र तैलस्यैर

राडजस्य च।
प्रस्थं दत्त्वां समालोड्य सभ्यङ्मृद्वग्निना पचेत्॥
एतदीश्वरपुत्राणां प्राग्भोजनमनिन्दितम्।
राक्षां राजसमानाञ्च बहुस्त्रीपतयश्च ये।

मूत्रकृच्छ्रे कटीस्तम्भे तथा गाढपुरीषिणाम्।
मेदूवङ्क्षणशूले व योनिशूले प्रशस्यते॥

यथोक्लानाञ्च गुल्मानां वातशोणितकाश्च ये।
बल्यं रसायनं शीतं सुकुमारकुमारकम्।
पुनर्नवाशते द्रोणो देयोऽन्येषु तथाऽपरः॥२७॥

पुनर्नवेत्यादौ—दशमूलस्य मिलित्वा दशपलानि, तृणमूलं तृणपञ्चमूलम्, एतदपि मिलित्वा दशपलमानम्। विदारिगन्धा शालपर्णो, नागाह्वानागबला, गोरक्षतण्डुला इत्यर्थः। अतिबला श्वेतवला। द्रोण इति द्रव्यतुलाद्वये प्रत्येकं द्रोण इत्यर्थः। द्विपलिका इति पलद्वयमानाः। गुढमरण्डतैलञ्च दत्त्वैव पाकः। देयोऽन्येषु तथापर इति अन्येषु दशमूलादिष्वपरद्रोण इत्यर्थः। सुकुमारेति सुकुमारः सुखिनः, कुमाराः शिशवः, एतदुभयोर्हितत्वात् सुकुमारकुमारकसंज्ञा॥२७॥

इति मूत्रकृच्छचिकित्सा विवृतिः।
_________________

अथ मूत्राघात-चिकित्सा
__________

मूत्रघातान् यथादोषं मूत्रकृच्छ्रहरैर्जयेत्।
वस्तिमुत्तरवस्तिञ्च दद्यात् स्निग्धं विरेचनम्॥

कल्कमेर्वरुबीजानामक्षमात्रं ससैन्धवम्।
धान्याम्लयुक्तं पीत्वैव मूत्राघाताद्विमुच्यते॥१॥

मूत्रगतविकारसाधर्म्यादनन्तरं मूत्राघातचिकित्सारम्भः—मूत्रस्याघातो विबन्धः मूत्राघातः।मूत्राघातमूत्रकृच्छ्रयोश्चायं भेदंः—मूत्रकृच्छ्रे कृच्छ्रत्वमधिकमीषद्विबन्धः, मूत्राघतितु विबन्धो।महान् कृच्छ्रत्वल्पमिति। कल्कमित्यादि—सुश्रुतस्य।एर्वारु

र्ग्रीष्मकर्कटीति डल्वणः। धान्याम्लं काञ्जिकम्॥१॥

पाटल्या यावशूकाञ्च पारिभद्रात् तिलादपि।
क्षीरोदकेन मदिरां त्वगेलो

षणसंयुताम्।
पिबेद् गुडोपदंशान् वा लिह्यादेतान् पृथक् पृथक्॥२॥

पाटल्या इत्यादि—सुश्रुतस्य।तिलादिति तिलनालात्। इहापि वक्ष्यमाणं। पृथक् पृथगिति सम्बन्धनयिम् तेन पृथक पाटल्यादीनां क्षारस्रावोदकेन समां मदिरां त्वगेलोपणं प्रक्षिप्य पिबेत्। ऊषणं मरिचम्। अन्येतु पाटलीयावशूकयोमिलित्वा क्षारः।केवलयवक्षारस्यादृष्टत्वात् अतएव वाग्भटेआयुर्वेदसारे च “पाटलीयावशूकाभ्यामिति मिलित्वापठ्यते " इत्याहुः। अरुणदत्तोऽप्यवं वाग्भटटीकायां व्याख्यातवान्।कार्तिकस्तु मदिरामित्यस्य स्थाने मतिमानिति पाठं स्वीकृत्य चूर्णकामिति चाध्याहृत्य एवं व्याचष्टे—पाटल्यादीनां चूर्णं क्षारोदकेन मुष्ककक्षारचारिणा पिवेदिति। यदाह विश्वामित्रः “पाटलेः पारिभवाद् वा तिलाद्वापि यवाप्रजात्। कणैलात्वग् युतं चूर्णं मुष्ककक्षारवारिया।पिबेद् गुडेन मिश्रं वा लियान् मूत्रविघातजित्।” इति एतत् संवादात्।अत्र ऊपणं पिप्पली।गुडोपदंशान् वा लिह्यादेतानिति एतान् पृथक् पृथक् पाटल्यादिक्षारान् गुडोपदंशान् गुडमिश्रान् वा लि

यात्। डल्वणस्तु मतिमानित्यत्र मदिरामिति पाठं तथा गुंडन मिश्रानित्यत्र गुडोपदंशानिति पाठन्चानार्षमाह॥२॥

त्रिफलाकल्कसंयुक्तं लवणं वापि पाययेत्।
निदिग्धिकायाः स्वरसं पिबेद्वा तान्तवस्रुतम्॥३॥

त्रिफलेत्यादि—सुश्रुतस्य।अत्रापि पानंक्षारोदकेनेत्यनुवर्त्तयति कार्तिकः। अन्ये तु “अभयामलकाक्षाणां कल्कं वदरसम्मितम्। अम्भसा लवणोपेतं पिबेः न्मूत्ररुजापहम्” इति वचनं मूत्रकृच्छ्रप्रतिषेधे सुश्रुतेनोक्तम्।अतस्तद्दर्शनादत्राप्यम्भसैव पानम्, तथा मिलित्वाष्टमाषकं मानवेत्याहुः। त्रिफलाकल्क माषा ६, सैन्धवमाषा २। द्वितीययोगे तान्तवस्रुतमिति वस्त्रगालितम्। मधुयोगादप्ययं योगः पेयः। यदाइ वाग्भटः—“स्वरसं कण्टकार्य्या वा पाययेन्माक्षिकान्वितम् " इति॥३॥

जले कुङ्कुमकल्कं वा सक्षौद्रमुषितं निशि।
सतैलं पाटलाभस्म क्षारवंद्वा परिस्रुतम्॥४॥

जल इत्यादि—

पुश्रुतस्य। अत्र कुंकुमकल्कं शीतकषायविधिना जले पर्य्युषितं प्रातर्व

स्त्रत्रतं सक्षौद्रं पिबेत्।” पिबन् कुंकुमकर्षंवा मधूदकसमाप्लुतम्। रात्रिपर्युषितं प्रातस्तथा सुखमवाप्नुयात्” इति पाठान्तरं सुश्रुतटीकाकृतः पठन्ति, व्याख्यानयन्ति च—“कुंकुमकर्षं वा मधुदकाभ्यामाप्लाव्य रात्रौ स्थाप्यं ततः पातव्यम्” इति। सतैलमित्यादि द्वितीयो योगः सुश्रुतस्यैव।वाशब्दः पूर्वयोगपिंक्षया। क्षारवद्वा परिस्रुतमिति, परिस्त्रतं पाटलाभस्म किं विशिष्टं क्षारवत् यवक्षारयुक्तं पिबेदिति केचिद् व्याचक्षते। अन्ये तु क्षारवत् पानीयक्षारमिव सप्तकृत्वः परिस्रतं पाटलाभस्म तेन सहितं पिबेदित्याहुः। युक्तश्चैतत्, यदाद वाग्भटः—“सतैलं पाटलाक्षारं सप्तकृत्वोऽथवा स्रुतम्” इति। सुश्रुतेऽपि मूत्रकृच्छ्रप्रतिषेधे —“पलाशक्षारमाहृत्य सप्तकृत्वः परिस्रुतम्। पिबेन्मूत्रविकारघ्नं संसृष्टं तैलमात्रयाः।” इति पठ्यते तैलस्य मात्रया स्तोकतैलेनेत्यर्थः। इति। यथामात्रां खादेद्बुभुक्षित इति॥४॥

सुरां सौवर्च्चलवतीं मूत्राघाती पिबेन्नरः।
दाडिमाम्लयुतं मुख्यमेलाबीजं सनागरम्।
पीत्वा सुरां सलवणां मूत्राघाताद्विमुच्यते॥५॥

सुरमित्यादि।—सुश्रुतस्य।पिबेन्नर इत्यन्त एक एवायं योगः।वाग्भटेऽपि “सौवर्चलाढ्यां मदिरां पिबेन्मूत्ररुजापहाम्” इत्येवो

क्लम्। दाडिमेत्यादि नागरान्तो द्वितीयो योगः।दाडिमाम्बुयुतमिति दाडिमरसयुतम्। रसाभावे तु क्वाथः। मुख्यमित्येलाबीजविशेषणम्। पीत्वा सुरां सलवणामिति तृतीयो योगः।सलवणामिति ससैन्धवाम्।वस्तुतस्तु दाडिमाम्लयुतां मुख्यामेलाजीरकनागरैरित्यनेन सुरामिति सम्वध्यते। “पत्विा सुरां सलवणाम्” इत्येव पाठः सुश्रुते पठ्यते टीकाकारैश्व व्याख्यातः।तस्मात् दाडिमाम्लादि सलवणमित्यन्त एक एवायं योगो युक्तः। दाडिमांम्लामिति दाडिमयोगादम्लाम्।मुख्यां सुरामिति पैष्टिकीम्॥५॥

पिबेच्छिलाजतु क्वाथे गणे वीरतरादिके।
रसं दुरालभाया वा कषायं वासकस्य वा॥६॥

पिबेदित्यादौ।—वीरतरादिगणक्वाथे शिलाजतु प्रक्षिप्य पिबेदित्यर्थः। अत्र व्याघौ शिलाजतुनोऽत्यन्तयौगिकत्वेन दुरालभाक्वाथे वासकक्वाथेऽपि शिलाजतु प्रक्षिपन्ति॥६॥

त्रिकण्टकैरण्डशतावरीभिः सिद्धं पयो वा तृणपञ्चमूलैः।
गुडप्रगाढं सघृतं पयो वा रोगेषु कृच्छ्रादिषु शस्यते तत्॥७॥

त्रिकण्टकेत्यादि।—योगत्रयम्।गुडप्रगाढमिति पूर्वेण योगद्वयेन सम्बध्यते। त्रिकण्टकादिसिद्धं वा तृणपञ्चमूलसिद्धं वा पयो गुडप्रगाढं हितम्। सवृतं पय इति तृतीयो योगः॥७॥

नलकुशकाशेक्षुशिफां क्वथितां प्रातः सुशीतलां ससिताम्।
पिबतः प्रयाति नियतं मूत्रग्रह इत्युवाच कचः॥८॥

नलेत्यादौ।—शिफा मूलम्, तच्च नलादिभिः प्रत्येकं सम्बध्यते। कचः बृहस्पतेः पुत्रः॥

गोधावत्या मूलं क्वथितं घृततैलगोरसैर्मिश्रम्।
पीतं निरुद्धमचिराद्भिनत्ति मूत्रस्य सङ्घातम्॥९

गोधावत्या इत्यादि—गोधावती गोहालिया इति ख्याता। गोरसोऽत्र तक्रम्॥

जलेन खदिरीबीजं मूत्राघाताश्मरीहरम्।
मूलं रुद्रजटायाश्च तक्रपीतं तदर्थकृत्॥१०॥

जलेनेत्यादौ—खदिरीबीजमशोकबीजमित्याहुः॥१०॥

मूत्रे विबद्धे कर्पूर-चूर्णं लिङ्गे प्रवेशयेत्॥११॥

मूत्र इत्यादौ।—लिङ्गइति लिङ्गरन्ध्रे श्लक्ष्णदूर्वाकाण्डादिना च कर्पूररजः प्रक्षेपः। एवं स्त्रीयोनावपि, लिङ्गवचनस्य सामान्यवचनत्वात्॥११॥

शृतशीतपयोऽन्नाशी चन्दनं तराडुलाम्बुना।
पिबेत् सशर्करं श्रेष्ठमुष्णवाते सशोणिते॥

शीतोऽवगाह आवस्तेरुष्णवातनिवारणः।
कूष्माण्डकरसश्चापि पीतः सक्षारशर्करः॥१२॥

शृतेत्यादौ।—श्रेष्ठं चन्दनमिति योज्यम् तेन श्वेतचन्दनमित्यर्थः। शृतशीतपयसा अन्नभोजनशीलः। आवस्तरिति बस्तिभागपर्य्यन्तम्। कूष्माण्डरसः कुष्माण्डमञ्जिकाखरसः॥१२॥

स्त्रीणामतिप्रसङ्गेन शोणितं यस्य सिच्यते।
मैथुनोपरमश्चास्य बृंहणीयो हितो विधिः॥१३॥

मूत्रदोषप्रसङ्गेन मूत्रमार्गप्रवृत्तस्य रक्तस्यापि विधानमुपदिशन्नाह स्त्रोणामित्यादि।—सुश्रुतस्य। सुश्रुतेऽमुं ग्रन्थंकार्तिककुण्डो न पठति, शुक्रक्षयलिङ्गनैवो

कृत्वात्। जेजटस्तु प्रकरणान्तरत्वात् शिष्यहितैषितया पठति॥॥१३॥

स्वगुप्ताफलमृद्वीकाकृष्णेक्षुरसितारजः।
समांशमर्द्धभागानि क्षीरक्षौद्रघृतानि च॥

सर्वंसम्यग्विमथ्याक्षमानं लीढ्वा पयः पिबेत्।
हन्ति शुक्राशयोत्थांश्च दोषान् बन्ध्यासुतप्रदम्॥१४॥

स्वगुप्तेत्यादौ स्वगुप्ताफलं शुकशिम्बीबीजम्। मृद्धीका द्राक्षा।कृष्णा पिप्पली, न तु कृष्णेति इक्षुरकविशेषणम् सुश्रुते पिप्पलीपाठात्। इक्षुरकः कोकिलाक्षः तस्य बीजम्। सिता शर्करा। रजश्चूर्णम्, अर्द्धभागानि क्षौरक्षौद्रघृतानि चेति समुदितचूर्णात् क्षौरादीनि प्रत्येकमर्द्धभागानि। सुश्रुते पुनरयं योगोऽन्यथा पठ्यते—“क्षौद्रार्द्धभागः कर्त्तव्यो भागः स्यात् क्षीरसर्पिषोः। शर्करायाश्च चूर्णानि द्राक्षाचूर्णश्च तत्समम्।स्वयंगुप्ताफलश्चैव तथैवेक्षुरकस्य च।पिप्पलीनां तथा चूर्णमर्द्धभागं प्रदापयेत्। तदैकध्यं समानीय खजेनाभिप्रमथ्य च। तस्य पाणितलं चूर्ण लिह्यात्क्षीरं ततः पिबेत्”। इति॥१४॥

चित्रकाद्यं घृतम्।

चित्रकं शारिवा चैव बला कालानुशारिवा।
द्राक्षाविशालापिप्पल्यस्तथा चित्रफला भवेत्॥

तथैव मधुकं दद्याद् दद्यादामलकानि च।
घृताढ़कं पचेदेभिः कल्कैरक्षसमन्वितैः॥

क्षीरद्रोणे जलद्रोणे तत् सिद्धमवतारयेत्।
शीतं परिस्रुतञ्चैव शर्कराप्रस्थसंयुतम्॥

तुगाक्षीर्य्याश्च सर्वंमतिमान् प्रतिमिश्रयेत्।
ततो मितं पिबेत् काले यथादोषं यथाबलम्॥

वातरेताः पित्तरेताः श्लेष्मरेताश्च यो भवेत्।
रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगिताम्॥

जीवनीयञ्च वृष्यञ्च सर्पिरेतन्महाबलम्।
प्रजाहितञ्च धन्यञ्च सर्वरोगापहं शिवम्॥

सर्पिरेतत् प्रयुञ्जाना स्त्री गर्भं लभतेऽचिरात्।
असृग्दोषान् जयेच्चापि योनिदोषांश्च संहतान्।
मूत्रदोषेषु सर्वेषु कुर्य्यादेतञ्चिकित्सितम्॥१५॥

चित्रकमित्यादि।—सुश्रुतस्य। कालानुशारिवां तगरपादिका। विशाला गोरक्षकर्कटी।विशालेति पाठे काष्ठपाटला, व्यवहारस्तु विशालयैन।चित्रफला गोडुम्बाकर्कटीभेदः। तुगाक्षीर्या इत्यत्र प्रस्थसंयुतमित्येतत् समासप्रविष्टमप्याकृष्य सम्बन्धनीयम्। काले जीर्णान्नलक्षणे। यथादोषं यथाबलमिति मिलितदेहाग्निबलानुरूपम् सुश्रुते एतद् घृतात् पूर्वमंतिबलंनाम घृतमुक्तम्।तेन सर्पिरतन्महाबलमित्यपि घृतस्यास्य नामेति टीकाकृतः॥१५॥

इति मूत्राघातचिकित्साविवृतिः।
________________

अथाश्मरी-चिकित्सा।
_____________

वरुणस्य त्वचं श्रेष्ठां शुण्ठीगोक्षुरसंयुताम्।
यवाक्षारगुडं दत्त्वा क्वाथयित्वा पिबेद्धिताम्।
अश्मरीं वातजां हन्ति चिरकालानुबन्धिनीम्॥१॥

मूत्रविरोधित्वसामान्यादश्मरीचिकित्सितमुच्यते वरुणस्येत्यादि—श्रेष्ठामितिकीटाद्यनुपहताम्।यवक्षारगुडौ प्रक्षेप्यौ॥१॥

वीरतरादिगणः।

वीरतरः सहचरौ दर्भोवृक्षादनी नलः।

गुन्द्राकाशकुशावश्मभेदमोरटटुण्टुकाः॥
कुरुण्टिका च वशिरो वसुकः साग्निमन्थकः॥
इन्दीवरी श्वदंष्ट्रा च तथा कपोतवक्न्नकः॥

वीरतरादिरित्येष गणो वातविकारनुत्।
अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः॥२॥

वीरतर इत्यादौ—वीरतरः शरः, सहचरौ

झिण्टीद्वयं पीतनीलपुष्पभेदात्, दर्भ उलुयातृणं, वृक्षादनी वन्दाकः, गुन्द्रा गुलुम्चः, मोरटमिक्षुमूलं, टुण्टुकः श्योणाकः, कुरुण्टिका श्रीहस्तिनी, ब्रह्मदत्तस्तु कृष्णसूक्ष्मफला मस्तकमञ्जरी दक्षिणदेशे सितचराख्येत्याह।इन्दीवरः चुश्राकः। वशिरः सूर्यावर्तभेदः, वसुको वसुहट्टः, कपोतयक्न्नकः कडइ इति ख्यातः स चशिरीषसदृशः स्वल्पपत्रः स्वल्पविटपः। गणत्वादनेन सर्वकल्पना॥२॥

शुण्ट्याग्निमन्थपाषाणशिग्रुवरुणगोक्षुरैः।
अभयारग्वधफलैः कथं कुर्य्याद्विचक्षणः।

रामठक्षारलवणचूर्णंदत्त्वा पिबेन्नरः।
अश्मरीसूत्रकृच्छ्र

ध्नंपाचनं।दीपनं परम्।
हन्यात् फोष्ठाश्रितं वातं कट्यूरुगुदमेद्गम्॥३॥

शुण्ठीत्यादौ—पाषाणः पाषाणभेदी॥३॥

पाषाणभेदाद्यंघृतम्।

पाषाणभेदो वसुको वशिरोऽश्मन्तकन्तथा।
शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका॥

कपोतव

क्त्रार्त्तगलकाञ्चनोशीगुल्मकाः।
वृक्षादनीमल्लूकश्च वरुणः शाकजं फलम्।

यवाः कुलत्थाः कोलानि कतकस्य फलानि च।
ऊषकादिप्रतीवापमेषां क्वाथे भृतं घृतम्॥

भिनत्ति वातसम्भूतामश्मरीं क्षिप्रमेव तु।
क्षारान् यवागूः पेयानि कषायाणि पयांसि च।
भोजनानि च कुर्वीत वर्गेऽस्मिन् वातनाशने॥४॥

पाषाणभेद इत्यादि—सुश्रुतस्य। अश्मन्तकोऽम्ललोटकःकोविदारसदृशपत्रः। आर्त्तगलः आगडा इति ख्यातः।होगल इत्यन्ये । काष्चनो जलजो विटप

बीरित पत्रः।गुल्मको गुलुञ्चः।भल्लूकः श्योनाकशाकः कर्कशमसृणपृष्ठोदरपत्रः प्रायो मरुदेशे भवति तस्य फलम्। कतकं तोयप्रसादनफलं प्रायो मगधे भवति। ऊषकादिप्रतिवापमिति ऊषकादिरग्नेवक्ष्यमाणस्तरकल्कः। एषामिति पाषाणभेदादीनाम्। घृतसाधनौषधवर्गेण क्षारादयोऽपि साध्या इत्याह क्षारानिति पानीयक्षारान्। यदि

चूर्णरूपः क्षारः पीयते, तदा बस्तिशोधनद्रवेण मस्त्वादिना। क्षारोदकंपानपक्षे तु क्षारस्य कर्षद्वयं कर्षत्रयं वा षड्गुणेन जलेन बहुशः परिस्राव्य शृतं पेयम्। पेयानीति यूषरसादीनि, पेयांश्चेति पाठेऽपि यूषादीनित्यर्थः। यूषांश्चत्यपि पाठान्तरम्। पेयाश्चेति तु पाठः सुश्रुतपुस्तकेषु न दृश्यते, तट्टीकाकृद्भिश्च न व्याख्यातः। भोजनानीति विलेपीभक्तसूपलेह्यानि, यवाग्वश्व पृथुगुपादानं विशेषेण मूत्रप्रवर्तकतया प्राधान्यख्यापनार्थम्।वर्गेऽस्मिन् वातनाशन इति पाषाणभेदादिकतकान्तकाथ्यस्य द्रव्यवर्गे। ऊषकादिकन्तु प्रतीवापद्रव्यं कफहरमिति शक्तिविशेषसाधनार्थं संयोज्यमानं क्षारादिध्वेवप्रक्षेपविधया देयमित्याहुः। अयमर्थो वृन्देनाऽप्युक्तः यथा—“कुर्य्यात् क्षारादिकं क्वाथ्यैस्तऽस्मिन् क्षेपमवापकैः” इति। क्षेपमिति प्रक्षेप्यम्, अवापकैरिति आवापरूपैः कल्कद्रव्यैरित्यर्थः, छन्दोभ

ग्मानुरोधाद्ध्रस्वत्वम्। एवं वर्गेऽस्मिन् पित्तनाशन इत्यादावपि व्याख्येयम्॥४॥

ऊषकादिः।

ऊषकं सैन्धवं हिङ्गु काशीशद्वयगुग्गुलुः।
शिलाजतु तुत्थकञ्च ऊषकादिरुदाहृतः॥

ऊषकादिः कफंहन्ति गणो मेदोविशोधनः।
अश्मरीशर्करामूत्रशूलघ्नः कफगुल्मनुत्॥५॥

ऊषकादिवर्गमाह ऊषकमित्यादि—सुश्रुतस्य। ऊषकं क्षारमृत्तिका। तद्भवं त्ववणमित्यन्ये। काशीशद्वयमिति धातुकाशशिं पुष्पकाशीश

द, तन्नाद्यं भस्मसदृशं किश्चिदम्लं, लवणरसश्च, द्वितीयन्त्वीषत्पीतंकषायरसम्, तुत्थकं तूतीया इति प्रसिद्धम्॥५॥

कुशाद्यंघृतम्।

कुशः काशः शरो गुल्म उत्करो मोरटोऽश्मभित्।
दर्भोविदारी वाराही शालिमूलं त्रिकण्टकः॥

भल्लूकः पाटली पाठा पत्तूरोऽय कुरण्टकः।
पुनर्नवे शिरीषश्च कथितास्तेषु साधितम्॥

घृतं शिलाह्वमधुकबीजैरिन्दीवरस्य च।
त्रपुषैर्वारुकादीनां बीजैश्चावापितं

श्रृतम्॥

भिनत्ति पित्तसम्भूतामश्मरीं क्षिप्रमेव च।
क्षारान् यवागूः पेयाश्च कषायाणि पयांसि च।
भोजनानि प्रकुर्वीत वर्गेऽस्मिन् पित्तनाशने॥६॥

कुश इत्यादौ—सुश्रुतस्य।मोरट इक्षुमूलं, गुल्मं गुलुञ्चः, दर्भ उलुया, षाराही वाराहीकन्दः, तदभावे चर्मकारालुकं, भल्लूकः श्योनाकः, पत्तूरःशालि

वः पुनर्नवे पुनर्नवाद्वयम्। एषां सर्वेषां काथः, शिलाह्वादीनां कल्कः।शिलाह्वमधुकवीजैरित्यत्र बीजपदं समासप्रविष्टमपि इन्दोवरस्येत्यनेन सह सम्बन्धनीयं, न तु बीजो बीजकः पीतशालः, वाग्भटसंवादात्।यथा—पिष्टेन त्रपुषादीनां बाजेनेन्दीवरस्य च। मधुकेन शिलाजेन तत् पित्ताश्मारिनाशनम्” इति। इन्दीवरश्चचुं

श्चाकः। एतेन “मधुकःकृतहृस्वत्वाद् बीजो बीजक उच्यते, इत्यपि वृन्दवचनमबोधविन्यस्तमेव। अस्यार्थः—हृस्वमधुकशब्देन यष्टिमधुकमेवोच्यते, न तु मधुकतरुः, तस्य बीजेनाव्यवहारात् बीजो बीजक इति। आवापितं कल्कितम्॥६॥

वरुणाद्यं घृतम्।

गणे वरुणकादौ च गुग्गुल्वेलाहरेणुभिः।
कुष्ठमुस्ताह्वमरि

चवित्रकैः ससुराह्वयैः॥

एतैः सिद्धमजासर्पिरूपकादिगणेन च।
भिनत्ति कफसम्भूतामश्मरीं क्षिप्रमेव तु॥

क्षारान् यवागूः पेयाश्च कषायाणि पयांसि च।
भोजनानि प्रकुर्वीत वर्गेऽस्मिन् कफनाशने॥७॥

गण इत्यादि—सुश्रुतस्य। अत्र वरुणादिगणेन क्वाथः, शेषेण च कल्कः, ऊषकादिगणेन कलकरूपेण सिद्धमित्यर्थः अजासपिंरित्यत्र वाग्भटे तु घृतमित्येवो

ल्कम्॥७॥

वरुणादिगणः।

वरुणोऽर्त्तगलः शिग्नतर्कारीमधुशिग्रुका।
मेष

टङ्गीकरञ्जी च विम्ब्यग्निमन्थमोरटाः॥

शैरीयौ वशिरो दर्भोवरी वसुकचित्रकौ।
बिल्वञ्चैवाजटङ्गी च बृहतीद्वयमेव च॥

वरुणादिगणो ह्येष कफमेदोनिवारणः।
विनिहन्ति शिरःशूलं गुल्माद्यन्तरविद्रधीन्॥८॥

यथा “भिनत्तिं कफजामाशु साधितं घृतमश्मरीम्” इति वरुणादिगणे अर्तगलःखग्गडः, होगल इत्यन्ये, अर्जुन इति तु भानुमती। तर्कारी जयन्ती, तन्मूलं, मधुशिप्रः रक्तशोभाञ्जनं, करञ्जौकरञ्जलाटाकरञ्जौ, विम्बी तेलाकुचा, मोरटं इक्षुमूलम्, अङ्कोलपुष्पमिति भानुमती, इस्तिकर्णपलाश इत्यन्ये। शैरीयौ पीतनीलपुष्प

झिण्टीद्वयं, दर्भः कृशः उलूया, वरी शतावरी, वसुको वसुहट्ट इति ख्यातः,

अजश्रृष्टी आवर्तलिका॥८॥

वरुणत्वक्कषायस्तु पीतस्तु गुडसंयुतः।
अश्मरीं पातयत्याशु वस्तिशुलविनाशनः॥९

वरुणत्वगित्यादि—स्पष्टम्॥९॥

यवक्षारं गुडोपेतं पिबेत् पुष्पफलोद्भवम्।

रसं मूत्रविबन्धध्नं शर्कराश्मरिनाशनम्॥१०॥

पुष्पफलोद्भवं रसमिति पुराणकूष्माण्डरसम्॥१०॥

पिबेद्वरुणमूलत्वक् क्वाथं तत् कल्कसंयुतम्।
क्वाथश्च शिग्रुमूलोत्थः कदुष्णोऽश्मरिनाशनः।

नागरवरुणगोक्षुरपाषाणभेदकपोतव

क्त्रजः क्वाथः।
गुडयावशूकमिश्रः पीतो हन्त्यश्मरीमुग्राम्॥१२॥

वरुणत्वशिलाभेदशुराठीगोक्षुरकैः कृतः।
कषायः क्षारसंयुक्तः शर्कराञ्च भिनस्यपि॥१३॥

श्वदंष्ट्रेरण्डपत्राणि नागरं वरुणत्वचम्।
एतत् क्वाथवरं प्रातः पिबेदश्मरिभेदनम्॥१४॥

पिवेदित्यादि—पिवेदश्मरीभदनमित्यन्तं स्पष्टम्॥११-१४॥

मूलं श्वदंष्ट्रेनुरकोरुवूकात् क्षीरेण पिष्टं वृहतद्वयाञ्च ।
आलोड्य दघ्नामधुरेण पेयं दिनानि सप्ताश्मरिभेदनार्थम्॥१५॥

मूलमित्यादि बृहतीद्वयान्त एको योगः।इक्षुरकः कोकिलाक्षः। सर्वं मिलित्वा माषकचतुष्टयं दुग्धेन पिष्ट्वाअनम्लदघ्ना पेयम्॥१५॥

पक्वेक्ष्वाकुरसः क्षारः सितायुक्तोऽश्मरीहरः।
पाषाणरोगपीडां सौव

र्चलयुक्ता सुरा जयति।
तद्वन्मधुदुग्धयुक्ता त्रिरात्रं तिलनालभूतिश्च॥१६॥

पक्केत्यादौ—इक्ष्वाकुस्तिक्वालावूस्तस्या मञ्जिकास्वरसः। पाषाणरोगोऽस्मरी। तिलनालभूतिस्तिलनालक्षारः॥१६॥

एलादिः।

एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुवूकैः।
क्वाथं पिबेदश्मजतुप्रगाढं सशर्करे चाश्मरिमूत्रकृच्छ्रे॥१७॥

एलेत्यादौ—उपकुल्या पिप्पली। अत्र शोधितशिलाजतुनो माषकत्रयं चतुष्टयं वा प्रक्षेप्यमित्याहुः॥१७॥

त्रिकण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम्।
अविक्षीरेणसप्ताहं पिबेदश्मंरिनाशनम्॥१८॥

त्रिकण्टकस्येत्यादि—स्पष्टम्॥१८॥

शुक्राश्मर्थ्यान्तु सामान्यो विधिरश्मरिनाशनः॥१९

शुक्राश्मर्यान्तु सामान्योविधिरिति अश्मरीमात्रसाधारणविधिः॥१९॥

पाषाणभेदाद्यं चूर्णं घृतश्च।

पाषाणभेदो घृषकःश्वदंष्ट्रा पाठाभयाव्योषशटीनिकुम्भाः।
हिंस्नाखराश्वासितमारकणामेर्वारुकाञ्च त्रपुषाच्च बीजम्॥

उपकुञ्चिकांहिङ्गु सवेतसाम्लं स्याद् द्वे बृहत्यौ ह

नुषा बचां च।
चूर्णं पिबेदश्मरिभेदि पक्कं सर्पिश्च गोमूत्रचतुर्गुणं तैः॥२०॥

पाषाणभेद इत्यादौ—निकुम्भो दन्ती, खराश्वा अजमोदा, सितमारकः शालिखः, उपकृञ्चिका कृष्णजीरकम्। चूर्णं पिबेदिति विशेषानभिधानाज्जलेनैव। तैः पाषाणमेदादिभिरेव कल्करूपैः पक्कं सर्पिश्च पेयमित्यन्वयः॥२०॥

कुलत्थाद्यं घृतम्।

कुलत्थसिन्धूत्थविडङ्गसारं सशर्करं शीतलियावशूकम्।
बीजानि कूष्माण्डकगोक्षुराभ्यां घृतं पचेन्ना वरुणस्य तोये॥

दुःसाध्यसर्वाश्मरिसूत्रकृच्छ्रं मूत्राभिघातञ्च समूत्रबन्धम् ।
एतानि सर्वाणि निहन्ति शीघ्रं प्ररूढवृक्षानिव वज्रपातः॥२१॥

फुलत्यघृते शीतली शियलीछोपडः, तथाच रत्नकोषः “शीतली शीतकुम्भी च शुक्लपुष्पा जलोद्भवा। कालानुशरिवा तस्याः परोक्षे नतवद्गुणैः।” इति। अन्ये तु शीतलीयावशूकं शियत्तियवक्षारः, स तु स्फटिकसैन्धवसङ्काश इत्याहुः, व्यवहारस्तु पूर्वेणैष।शर्करापि कल्करूपा॥२१॥

शरादिपञ्चमूलादिघृतम्।

शरादिपञ्चमूल्या वा कषायेण पचेद घृतम्।
प्रस्थं गोक्षुरकल्केन सिद्धमद्यात् सशर्करम्॥

अश्मरीमूत्रकृच्छ्रनं रेतोमार्गरुजापहम् ॥ २२ ॥

शरादिपञ्चमूलमित्यत्र शरादीति विशेषणात् चरकोक्तं तृणपञ्चमूलं ग्राह्यं यथा,—“शरेक्षुदर्भकाशानां शालीनां मूलमेव च” इति। अत्र शर्करा प्रक्षेप्या वा शब्दः पूर्वयोगापेक्षया॥२२॥

वरुणघृतम्।

वरुणस्य तुलां क्षुराणां जलद्रोणे विपाचयेत्।
पादशेषं परिस्राव्य घृतप्रस्थं विपाचयेत्॥

वरुणं कदली विल्वं तृणजं पञ्चमूलकम्।
अमृता चाश्मजं देयं बीजञ्च त्रपुषोद्भवम्।

शतपर्वा तिलक्षारं पलाशक्षारमेव च।
यूथिकायाश्च मूलानि कार्षिकाणि समावपेत्॥

अस्य मात्रां पिबेज्जन्तुर्देशकालाद्यपेक्षया।
जीर्णे तस्मिन् पिबेत् पूर्वेगुडं जीर्णन्तु मस्तुना।
अश्मरीं शर्कराञ्चैव मूत्रकृच्छ्रञ्च नाशयेत्॥२३॥

वरुणादिघृते—कदल्याः फलमामं मूलं वा, अश्मजं शिलाजतु, त्रपु मायाम्बुफलम् शतपर्वा वंशस्तस्य नली मूत्रं वा। तस्मिन्निति घृते, पूर्वमिति

भोजनात् पूर्वम्॥२३॥

वीरतराद्यं तैलम्।

ब्रम्नाधिकारे यत् तैलं सैन्धवाद्यं प्रकीर्त्तितम्।
तत् तैलं द्विगुणं क्षीरं पचेत् वीरतरादिना॥

क्वाथेन पूर्वकल्केन साधितन्तु भिषग्वरैः।
एतत् तैलवरं श्रेष्ठमश्मरीणां विनाशनम्॥

मूत्राघाते मूत्रकृच्छ्रे पिच्चिते मथितेऽपि वा।
भग्नेश्रमाभिपन्ने च सर्वथैव प्रशस्यते॥२४॥

ब्रघ्नाधिकार इत्यादि—तत् तैलमिति ब्रघ्नाधिकारोक्तविधिना सिद्धं तैलं पुनरपि द्विगुणं चीरं दत्त्वा वीरतरादिक्काथेन चतुर्गुणेन द्विगुणेन वा पूर्वकल्केनेति सैन्घ-वाद्यकल्केन पचेत्। अन्ये, तु केवलं तैलमेव द्विगुणक्षीरादिना पचेदिति वदन्ति, तत्तु न व्यवहारसिद्धम्। यद्यपि सैन्धवाद्यतैले तिलतैलमेरण्डतैलञ्चोक्कं तथाप्यत्र उत्तरवस्त्यादौ तिलतैलस्यैव सूक्ष्मस्रोतोऽनुसारित्वेन यागिकत्वाद् ग्रहणमित्याहुः। पिच्चित इत्यागन्तुकमव्रणविशेष, मथितं इति चूर्णिताख्यभन्ने॥२४॥

वरुणाद्यंतैलम्।

त्वक्पत्रपुष्पमूलस्य वरुणात् सत्रिकण्टकात्।
कषायेण पचेत् तैलं वस्तिनास्थापनेन च।
शर्कराश्मरिशूलघ्नं मूत्रकृच्छ्र विनाशनम्॥२५॥

त्वपत्रेत्यादि—क्वाथार्थं वरुणस्य यथालाभं त्वक्पत्रमूलपुष्पं पल ३२, गोक्षुर पल ३२, जल श ६४, शेष श १६।अकल्कमिदं तैलम्॥२५॥

शल्यवित्तामशाम्यन्तीं प्रत्याख्याय समुद्धरेत्॥२६॥
पायुक्षिप्ताङ्गुलिभ्यान्तु गुदमेढ्रान्तरीकृताम्।
सेवन्याः सव्यपार्श्वे च यवमात्रं विमुच्य तु।
व्रणंकृत्वाश्मरीमात्रं कर्षेत् तां शस्त्रकर्मवित्॥

भिन्नेऽपि वस्तौ त्वज्ञानान्मृत्युः स्यादश्मरीं विना।
निःशेषामश्मरींकुर्य्यात् वस्तौ रक्तञ्च निर्हरेत्।

हृताश्मरीकमुष्णाम्वु गाहयेद्भोजयेच्च तम्।
गुढं मूत्रविशुद्धयर्थं मध्वाज्याक्तं व्रणं ततः।

दद्यात् साज्यांत्र्यहं पेयां साधितां मूत्रशोधिभिः।
आदशाहं ततो दद्यात् पयसा मृदुभोजनम्॥

खेदयेद् यवमध्वाढ्यं कषायं क्षालयेद् व्रणम्॥
प्रपौण्डरीकमञ्जिष्ठायष्टीलोधैश्च लेपयेत्।
एतैश्च सनिशं सिद्धं घृतमभ्यञ्जने हितम्।

अप्रशान्ते तु सप्ताहाद्व्रणे दाहोऽपि चेप्यते।
दैवान्नाडे तु या लग्ना तां विपाट्याषकर्पयेत्॥२७॥

सव्यपार्श्व इति वामपार्श्वे।निःशेषमश्मरीं कुर्य्यादिति सशेषायान्तु पुनरप्यश्मवृद्धिसम्भवात्। वस्तौ रक्तञ्चनिर्हरेदिति वस्तिगतक्तमित्यर्थः। तथा सति वस्तिरसृजा न प्रपूर्य्यत इति भावः।हृताश्मरीमित्यादौ गुडं भोजयेदित्यन्वयः। मूत्रशोधिभिरिति तृणपञ्चमूलादिभिः। तत इति त्र्यहादूर्ध्वम्, आदशाहं दशाहपर्य्यन्तम्। पयसा दुग्धेन मृदु भोजनं कोमलं भक्तं दद्यात्, तथा स्वेदये

त्र, आदशाहमित्यनेन दशाहाभ्यन्तर एव स्वेदोऽप्युक्तः, उक्तं हि दशरात्रश्चैनमत्रप्रमत्तं स्वेदयेत् " इति। स च स्नेह एव स्वेदः रक्तपित्तानुगतत्वाद्वायोरिति गयदासः।भोजऽप्युक्तम् “स्नेहस्वदं विधिज्ञन्तु कुर्य्याद् बातरुजापहम्” इति यवमध्वाट्यमिति मृदुभोजनमित्यस्य विशेषणम्, यवकृतभक्ष्यप्रधानं मधुप्रधानञ्चेत्यर्थः। कषायैः क्षालयेद् व्रणमिति दशाहादूर्ध्वमेव क्षीरिवृक्षकषायैः चालनं बोध्यं भोजसंवादात्। सनिशैरित्यनेन घृतसाधनद्रव्यं सम्बध्यते, न तु लेप इति सुश्रुतसंवादात्॥२७॥

इत्यश्मरीचिकित्साविवृतिः।
____________

अथ प्रमेहचिकित्सा।

श्यामाककोद्रवो

हालगोधूमचणर्काढकी।
कुलत्थाश्च हिता भोज्ये पुराणा मेहिनां सदा।
जाङ्गलं तिक्तशाकानि यवान्नञ्च श्रमो मधु॥१॥

अश्मर्य्यनन्तरं वस्तिविकृति साम्यात् प्रमेहप्रतिकार उच्यते श्यामाकेत्यादि—उद्दालो वनकोद्रवं, आढकी तुवरी, यवान्नमिति यवशक्त्वादिकम्॥१॥

कुशावलेहः।

वीरणश्च कुशः काशः कृष्णे

चुः खागडस्तथा।
एषां दशपलान् भागान् जलद्रोणे विपाचयेत्॥

अष्टभागावशेषन्तु कषायमवतारयेत्।
अवतार्थ्य ततः पश्चाच्चूर्णर्नमानि दापयेत्।
मधुकं कर्कंटीबीजं कर्कारुं त्रपुषं तथा॥

शुभामलकपत्राणि एलात्वङ्नागकेशरम्।
वरुणामृतप्रियङ्कणां प्रत्येकञ्चाक्षसम्मितम्॥

प्रमेहान् विंशतिञ्चैव मूत्राघातं तथाश्मर्राम्।
वातिकं पैत्तिकञ्चैव श्लैष्मिकं सान्निपातिकम्।
इन्त्यरोचकमेवाग्रं तुष्टिपुष्टिकरस्तथा॥२॥

कुशावलेहे खागढस्तृणभेदः।शुभा वंशलोचना।पत्रं तेजपत्रम्॥२॥

पारिजातजयानिम्ववह्निगायत्रिणां पृथक्।
पाठायाःसागुरोः पीताद्वयस्य शारदस्य च॥

जलेक्षुमद्यसिकताशनेर्लवणपिष्टकान्।
सान्द्रमेहान् क्रमाद् घ्नन्ति चाष्टौ काथाः समाक्षिकाः।

पारिजातत्यादि—पारिजातः पारिभद्रः, जया जयन्ती, वह्निश्चित्रकः, गायत्री खदिरः, पाठायाः सागुरोरत्येकः क्वाथः।पीत द्वयं हरिद्राद्वयम्। अयमप्येकः।शारदः सप्तपर्णः। पारिभद्रेत्यादयोऽष्टौ क्काथाः। जलाद्यष्टौ महान् क्रमाद् घ्नन्तत्यिन्वयः॥३॥

दूर्वाकशेरुपूतीककुम्भीकप्लवशैबलम्।
जलेन क्वथितं पीतं शुक्रमेहहरं परम्॥४॥

दूर्वेत्यादौ—पूतिकः करञ्जः तस्य त्वक्।कुम्भीकः पा

दा, प्लवं कैवर्तमुस्तकम्।योगेऽत्र मधु प्रक्षिपन्ति वृद्धाः सुश्रुतसंवादात्॥४॥

त्रिफलारग्वधद्राक्षाकपायो मधुसंयुतः।
पीतो निहन्ति फेनाख्यं प्रमेहं नियतं नृणाम्॥५॥

त्रिफलेत्यादि स्पष्टम्॥५॥

लोध्राभयाकट्फलमुस्तकानां विडङ्गपाठार्जुनधन्वनानाम्।
कदम्बशालार्जुनदीप्यकानां विडङ्गधात्रीबहुशल्यकानाम्।
चत्वार एते मधुना कषायाः कफप्रमेहेषु निषेवणीयाः॥६॥

लोध्रत्यादि—योगद्वयं वाग्भटस्य, कदम्वेत्यादि योगद्वयं चरकस्य चक्रेण प्रतिसंस्कृत्य लिखितम्। धन्वनो धामनी, दीप्यको यमा

क्षीशल्यकः खदिरः, बहुशल्य इति खदिरसंज्ञा उक्कं हि “बहुशल्यश्चसम्प्रोक्तोयाज्ञिकः कुष्ठनाशनः " इति। तेनैकदेशोऽपि संक्षिनं गमयति यथा भीमो भीमसेनः। उक्तं हि चरके “दार्वी विडङ्गंखदिरो धवश्च ” इति। वाग्भटेऽप्युक्तं—“गायत्रीदावक्रिमिजिद्धवानम्” इति। अन्ये तु शल्यकं मदनफलमाहुः॥६॥

अश्वत्थाच्चतुरंगुलान्न्यग्रोधादेः फलत्रयात्।
सजिङ्गरक्तसाराच क्वाथाः पञ्च समाक्षिकाः॥

नीलहारिद्रशुक्लाख्यक्षारमञ्जिष्ठकाह्वयान्।
मेहान् हन्युः क्रमादेते सक्षौद्रो रक्तमेहजित्।
क्वाथः खर्जूरकाश्मर्य़्यतिन्दुकास्थ्यमृताकृतः॥७॥

पित्तमेहस्य याप्यत्वेन यापनार्थं चिकित्सामाह अश्वस्थादित्यादि—नीलादिषु पश्वासुमेहेषु क्रमेण एते पञ्च योगा वोध्याः। अत्र अश्वत्थाक्वाथेनैको योगः, चतुर

नलादिति द्वितीयः, न्यग्रोधो

दुम्वरराश्वत्थप्लक्ष मधुकककुभजम्बूद्वयपियालमधुकरोहि

ग्गीवष्जुलकदम्बवदरतिन्दुकश

ल्लकोलोध्रभल्लातकपलाशनन्दीवृक्षाश्चेति, अत्र प्लक्षःपाकडिः।ककुभोऽर्जुनः। नन्दीवृक्षो गन्धमुण्डः। अन्ये तु न्य

ग्रोधादिशब्देन पञ्चवल्कलमाहुः। फलत्रयादिति चतुर्थः। सजिङ्गीरक्तसारादिति—जिङ्गी मजिष्ठा। रक्तसारो रक्तचन्दनम्। अयन्तु पञ्चमः।इन्युरिति यापयेयुरित्यर्थः। किंवा “अनत्यन्तदुष्टमेदसि पित्तजानामपि साध्यत्वं “साध्यास्तु मेदो यदि न प्रदुष्टम्” इति चरकवचनात्। शुक्लाखमेहोऽम्लमेहः।सुश्रुते कालमेहस्थाने अम्लमेहः पठ्यते। उक्तं हि सुश्रुते निदानस्थाने “अम्लरसगन्धमम्लमेही” इति। तथा च चिकित्सास्थाने “अम्लमेहिनं न्यमोधादिकषायं वा पाययेत्” इति। रक्तमेहचिकित्सामाह सक्षाद् इत्यादिना कृत इत्यन्तेन। अत्र खर्जूरकाश्मर्य्योःफलं, तिन्दुकस्य च फलास्थि। अमृता गुडूची।सुश्रुतेऽपि “शोणितमेहिनं गुडूचीतिन्दुकास्थिकाश्मर्य्यखर्जूरकषायं मधुमधुरम् पाययेत् " इति॥७॥

लोध्रार्जुनोशीरकुचन्दनानामरिष्टसेव्यामलकाभयानाम्।
धात्र्यर्जुनारिष्टकवत्सकानां नीलोत्पलानां तिनिशार्जुनाम्॥

चत्वार एते विहिताः कपायाः पित्तप्रमेहे मधुसम्प्रयुक्ताः॥८॥

लोध्रेत्यादौ—कुचन्दनं रक्तचन्दनं, अरिष्टो निम्बः, सेव्यमुशीरं, नीलोत्पलानामित्यत्र नीलोत्प

क्षैलानाइति पाठान्तरं, किन्त्वार्षं न दृष्टं, तिनिश आहुकः॥८॥

छिन्नावह्विकपायेण पाठाकुटजरामठम्।
तिक्तांकुष्ठञ्च सञ्चूरार्य सर्पिर्मेहे पिबेन्नरः॥९

इदानीमसाध्येष्वपि वातिकमेहेषु यापनार्थं योगानाह छिन्नेत्यादि—बहि

यश्चत्रकः। पाठादिकुष्ठान्तानां चूर्णं गुडूचीचित्रककषाये प्रक्षिप्य पिबेत्॥९॥

कदरखदिरपूगक्वाथं क्षौद्राद्धये पिबेत्।
अग्निमन्थकषायन्तु वसामेहे प्रयोजयेत्॥१०॥

कदरो विट्खदिरः, खदिरस्तु तदितरः, पूगंपूगफलम्॥१०॥

पाठाशिपिदुःस्पर्शमूर्वाकिंशुकतिन्दुकम्।
कपित्थानां भिषक् क्वाथं हस्तिमेहे प्रयोजयेत्॥११॥

पाठेत्यादौ—तिन्दुककपित्थयोः फलं, तिन्दुकष्च तेन्दुफलम्। पाठादिकपित्यान्तमेकमेव पदम्। वातमेहेष्वसाध्येष्वपि चिकित्साविधानमिदं मेहानां चिरानुवन्धित्वेन किष्चिद्विशेषलाभेन यापनार्थम्। सुश्रुतेऽप्युक्तम् “अत ऊ

द्र्ध्वमसाध्येष्वपि योगान् यापनार्थं वक्ष्यामः इति॥११॥

कम्पिल्लसप्तच्छदशालजानि वैभीतरौहीतककौटजानि।
कपित्थपुष्पाणि च चूर्णितानि क्षौद्रेण लिह्यात् कफपित्तमेही॥१२॥

कम्पिल्लेत्यादौ—चूर्णानीति विशेष्यपदं द्रष्टव्यम्, एवं बैभीतकेत्यादावपीति केचित्। अन्ये तु कपित्थपुष्पाणि चेति चकारात् कम्पिल्लादीनामपि कुसुममेवग्राह्यमित्याहुः। युक्तञ्चैतत्। उक्तं हि वाग्भटे " शालसप्ताह्वकम्पिल्लवृक्षकाक्षकपित्थजम्। रोहितकं च कुसुमं मधुनायात् सशर्करम् " इति एवं वृद्धवाग्भटेऽपि शालादीनामिति कुसुममित्येवोक्तम्।कफपित्तमेहीति कफमही पित्तमही वेत्यर्थः १२

सर्वमेहहरो धात्र्या रसः क्षौद्रनिशायुतः।
कषायस्त्रिफलादारुमुस्तकैरथवा कृतः॥१३॥

सर्वमेहेत्यादि—अयं योगो वान्तिषिरेकादिशुद्धे ज्ञेयः सुश्रुतसंवादात्। धात्र्यारसः स्वरसः, स्वरस एव व्यवहारात् न तु क्वाथ इत्याहुः । कषाय इत्यादिद्वितीययोगेऽपि क्षौद्रनिशायुत इति सम्बन्धनीयम्॥१३॥

फलत्रिकं दारूनिशां विशालां मुस्तञ्च निःक्वाथ्य निशांशकल्कम्।
पिबेत् कषायं मधुसम्प्रयुक्तं सर्वप्रमेहेषु समुत्थितेषु॥१४॥

फलात्रिकमित्यादौ—दारुनिशा दारुहरिद्रा, विशाला गोरक्षकर्कटी।निशांशकल्कमिति—निशाभागकल्कं तत्सहितमेव त्रिफलादिद्रव्यं निःक्वाथ्य कषायं पिबेदित्येके। अन्ये तु अंशशब्दोऽर्द्धाभिधायी, तेन फलन्त्रिकादीनां समुदितानामेको निशायाश्वापरो भागः, एतद्भागद्वयं निःक्वाथ्य कषायं पिबेदित्यर्थः। अपरे तु निशागा अंशश्चतुर्थो भागः समुदितक्वाथ्यापेक्षया, स एव कल्वःप्रक्षेपरूपश्चूर्णो यत्र तत्तथेति व्याचक्षते। व्यवहारस्त्वनेनैव॥१४॥

कटङ्कटेरीमधुकत्रिफलाचित्रकैः समैः।
सिद्धः कषायः पातव्यः प्रमेहाणां विनाशनः॥१५॥

त्रिफलादारुदार्व्यव्दक्वाथःक्षौद्रेण मेहहा॥१६॥

कुटजाशनदार्व्यब्दफलत्रयकृतोऽथवा॥१७॥

कटङ्कटेरीत्यादौ—कटङ्कटेरी दारुहरिद्रा। कुटजाशनेत्यादावपि क्षौ

द्रेणत्यनुवर्त्तते अशनःपीतशालः।दावीं दारुहरिद्रा। श्रन्दो मुस्तकम्। निश्चलस्तु अव्दस्थाने अग्नीति पठति। व्यवहारन्तु मुस्तकेनैव॥१५–१७॥

त्रिफलालौहशिलाजतुपथ्याचूर्णञ्च लीढमेकैकम्।
मधुनामरास्वरस इव सर्वान् मेहान् निवारयति॥१८॥

त्रिफलेत्यादि—समुदितत्रिफलयैवैको योगः, तेन चत्वारो योगाः।अमरागुडूची, अयञ्चपञ्चमो योगः \। लोहञ्चमारितपुटितवज्रादिलोहचूर्णम्॥१८॥

शालमुष्कककम्पिल्लकल्कमक्षसमं पिबेत्।
धात्रीरसेन सक्षौद्रं सर्वमेहहरं परम्॥१९

शालेत्यादौ—शालस्य सारः। मुष्कको घण्टापारुली तस्या मूलम्। कम्पिल्लस्य त्वक्॥१९॥

न्यग्रोधाद्यं चूर्णम्।

न्यग्रोधोडुम्वरायश्वत्थश्योणाकारग्वधाशनम्।

आम्रजम्बूकपित्थञ्च पियालं ककुभं धवम्॥

मधूको मधुकं लोध्नंवरुणः पारिभद्रकम् ।

पटोलंमेष

टङ्गी च दन्ती चित्रकमाढकी।

करञ्जत्रिफलाशन्नभल्लातकफलानि च।
एतानि समभागनि श्लक्ष्णचूर्णानि कारयेत्।

न्यग्रोधाद्यमिदं चूर्णं मधुना सह लेहयेत्।
फलत्रयरसाञ्चानुपिबेन्मूत्रं विशुध्यति॥

एतेन विंशतिर्मेहा मूत्रकृच्छ्राणि यानि च।
प्रशमं यान्ति योगेन पिडका न च जायते।
न्यग्रोधाद्यमिदन्त्वत्र चाम्रज

म्वस्थि गृह्यते॥२०॥

न्यग्रोधादिचूर्णे—न्यग्रोधो वटः, अशनः पीतशालः। आम्रजम्बूकपित्थञ्चेति आम्रजम्बूफलास्थि कपित्थस्य तु फलमित्याहुः। ककुभोऽर्जुनः। धवः स्वनामख्यातः। मधूको मधूकसारः। आढकीतुवरी।करव्जस्य फलम्। शक्रः कुटजः॥२०॥

त्रिकण्टकाद्यं घृतं तैलं यमकञ्च।

त्रिकण्टकाश्मन्तकसोमवल्कैर्भल्लातकैः सातिविषैः सलोध्नैः।
वचापटोलार्जुननिम्वमुस्तैर्हरिद्रया दीप्यकपद्मकैश्च॥

मञ्जिष्ठपाठागुरुचन्दनैश्च सर्वैः समस्तैः कफवातजेषु।
मेहेषु तैलं विपचेद् घृतन्तु पित्तेषु मिश्रं त्रिषु लक्षणेषु॥२१॥

त्रिकण्टकेत्यादौ—अश्मन्तको मानुश्रक इति ख्यातः।सोमवल्कः खदिरः, न तु कट्फलं जतूकर्णसंवादात्। सर्वैरित्युक्तेः पृथगपि सर्वैः स्नेहसाधन स्यादत आ

हसमस्तैरिति मिलितैरित्यर्थः, यथालाभपरिहारार्थमिति वा कफजेषु वातजेषु च मेहेषु तैलम्, पैत्तिकेषु घृतम्; मिश्रं त्रिषु लक्षणष्वितिदोषत्रयलक्षणप्रादुर्भावे सति मिश्रं तेलघृतयमकं पचेदित्यर्थः। त्रिदोषजत्वञ्चकफपित्तमेहेष्वेवानुबन्ध्यानुबन्धकृतं मन्तव्यम्। किंवा सर्वेषामेव मेहानां त्रिदोषजत्वादु

दुभूतदोषाविर्भावः कदाचिद्भवतीति ज्ञेयम्॥२१॥

कफमेहहरक्वाथसिद्धं सर्पिः कफे हितम्।
पित्तमेहघ्ननिर्य्यूहसिद्धं पित्ते हितं घृतम्॥२२॥

कफमेहेत्यादौ क्वार्थनिर्यूहेति पदोपादानादकल्कत्वं बोध्यम्॥२२॥

धान्वन्तरं घृतम्।

दशमूलं करज्जौ द्वौ देवदारु हरीतकी।
वर्षाभूवरुणो दन्ती चित्रकं संपुनर्नवम्॥

सुधानपिकदम्बाश्च बिल्वभल्लातकानि च।
शटीपुष्करमूलञ्च पिप्पलीमूलमेव च॥

पृथग्दशपलान् भागान् ततस्तोयार्मणे पबेत्।
यवकोलकुलत्थानां प्रस्थं प्रस्थञ्च दापयेत्॥

तेन पादावशेषेण घृतप्रस्थं विपाचयेत्।
निचुलं त्रिफला भार्गी रोहिषं गजपिप्पली॥

शृङ्गवेरं विडङ्गानि वचा कम्पिल्लकंतथा।
गर्भेणानेन तत्सिद्धं पाययेत्त यथाबलम्॥

एतद्धान्वन्तरं नाम विख्यातं सर्पिरुत्तमम्।
कुष्ठं गुल्मप्रमेहांश्च श्वयथुं वातशोणितम्॥

प्लीहोदरं तथार्शंसि विद्रधिं पिडकाश्च याः।
अपस्मारं तथोन्मादं सर्पिरेतन्नियच्छति।

पृथक् तोयार्मणे तत्र पवेत् द्रव्याच्छतं शतम्।
शतत्रयाधिके तोयमुत्सर्गक्रमतो मतम्॥२३॥

दशमूलमित्यादौ—करञ्जयोः फलं न तु मूलम्, फलस्यैव मेहहरत्वात् यदुक्तम् “करञ्जकिंशुकारिष्टे फलं जन्तुप्रमेहनुत्” इति। सुधा स्नुही तस्या मूलम्, तन्त्रान्तरे मूलपाठात्। नीपकदम्बौ स्वल्पवृहत्कदम्बौ, किंवा कदम्बो भूकदम्वः स चालम्वुषः, तन्त्रान्तरे भूमिकदम्बपाठात्, नीपस्थाने क्वापि निम्बःपठ्यते। पृथग्दशपलान् भागानिति दशमूलमपि प्रत्येकं दशपलम्, तत्र प्रतिशतं तोयार्मणदानम्। शतत्रयाधिके द्रव्ये पुनरुत्सर्गसिद्धमष्टगुणमेव जलं देयम्। एतदेव वक्षयति “पृथक् तोयार्मणे” इत्यादि। अर्मणो द्रोणः, वृन्दस्त्वाह पाठान्तरे मतं तोयं क्वाथ्यादष्टगुणन्त्विह” इति। अस्यार्थः एतदेव घृतं तन्त्रान्तरेऽन्यथा पठ्यते तंत्र च क्वाथामष्टगुणन्तोयमुक्तम् तत्प्रामाण्यादिहाप्यष्टगुणं तोयं देयम्।तन्त्रान्तरीयपाठान्तरं यथा “दशमूल हरीतकी देवदारु करञ्जद्वय वर्षाभूद्रय दन्ती भूमिकदम्ब भ

नातक पुष्करमूलार्कमूल स्नुहीमूल वरुणमूल पिप्पलीमूलमिति प्रत्येकं दशपलोन्मितानि।यवकोलकुलत्थप्रस्थद्वयं चाष्टगुणेऽम्भसि पांदशेषं कषायमवतारयेत्” इत्यादि। अर्मणशब्दश्वेह भूरिजलोपलक्षण इति वृन्दस्याशयः। व्यवहारस्त्वधुना चक्रमतेनैव। निचुल इज्जलः, रोहिषं गन्धतृणम्॥२३॥

दाडिमाद्यं धृतम्।

दाडिमस्य फलप्रस्थं यवप्रस्थौ तथैव च।
कुलत्थकुडवञ्चापि क्वाथयित्वा यथाविधि॥

तेन पादावशेषेण घृतप्रस्थं विपाचयेत्।
चतुःषष्टिपलं क्षीरं क्षीरतुल्यं वरीरसम्॥

दत्त्वा मृद्वग्निना कल्कैरक्षमात्रायुतैः सह।

द्राक्षाखर्जूरकाकोलीदन्तीदाडिमजीरकैः॥

तथा मेदामहामेदात्रिफलादारुरेणुकैः।
विशालारजनीदारुहरिद्राविकपामयैः॥

क्रिमिघ्नभूमिकूष्माण्डश्यामैलाभिर्भिपग्वरः॥
पाने भोज्य प्रदातव्यं सर्व

त्तृषु च मात्रया॥

प्रमेहान् विंशतिञ्चैव मूत्राघातांस्तथाश्मरीम्।
कृच्छ्रं सुदारुणञ्चैव हन्यादेतद्रसायनम्॥

शूलमष्टविधं हन्ति ज्वरमष्टविधं तथा।
कामलां पाण्डुरोगांश्च हलीमकमथारुचिम्॥

श्लीपदञ्च विशेषेण घृतेनानेन नश्यति।
इदमायुष्यमोजस्यं सर्वरोगहरं परम्।
दाडिमाद्यमिदं नाम अश्विभ्यां निर्मितं महत्॥२४॥

दाडिमस्यत्यादौ—वरीरसं शतावर्याः रसम्।विकषा मञ्जिष्ठा, क्रिमिघ्नं विडङ्गम्॥

त्र्यूषणादिगुडिका।

त्रिकटुत्रिफलाचूर्णं तुल्यगुग्गुलुना युतम्।
गोक्षुरक्वाथसंयुक्तं गुडिकां कारयेद्भिषक्॥

दोषकालबलापेक्षी भक्षेयञ्चानुलोमिकीम्।
न चात्र परिहारोऽस्ति कर्म कुर्य्याद् यथेप्सितम्॥

प्रमेहान् मूत्राघातांश्च वातरोगोदरं जयेत्॥२५॥

त्रिकटुत्रिफलत्यादि—त्रिकटुत्रिफलाचूर्णेन तुल्यं गुग्गुलुं किं विशिष्टम्—युक्तं मिश्रितम्, पुनः कीदृशम्—गोक्षुरक्वाथेन सम्यग्युतं भावितम्, एवं कृत्वा गुडिकां कारयेदित्यर्थः। मिलितत्रिकटुचूर्ण पल १ मिलितत्रिफलाचूर्ण पल १, गुग्गुलु पल २, चूर्णयुक्तगुग्गुलुभावनार्थं गोक्षुर पल ४, क्वाथार्थ जल स ४, एवं सप्ताहमातपे भावयेत्, तदनु षडष्टमाषकमिता वटिकाः कार्य्या;॥२५॥

शिलाजतुप्रयोगः।

शालसारादितोयेन भावितं यच्छिलाजतु।
पिबेत् तेनैव संशुद्धदेहः पिष्टं यथायलम्॥

जाङ्गलानां रसैः सार्द्धं तस्मिन् जीर्णे च भोजनम्।
कुर्य्यादेवं तुलां यावदुपयुञ्जीत मानवः॥

मधुमेहं विहायासौ शर्करामश्मरीं तथा।
वपुर्वर्णबलोपेतः शतं जीवत्यनामयः॥२६॥

शालासारादितोयेनेत्यादि। शालसारादिः सौश्रुतो गणः तस्य तोयं, क्वाथः। तद्विघानं “तुल्यं गिरिजेन जले चतुर्गुणे भावनौषधं क्वाथ्यम्” इत्यादि रसायनचक्ष्यमाणविधिना ज्ञेयम्। तेनैवेति शालसारादितोयेनैव पिबेत्। संशुद्धदेह इति वमनादिमा। पिष्टमिति चूर्णितम्। तुलां यावदुपयुञ्जीतेति प्रतिदिनमर्द्धकर्षादि मात्रया तावानुपयोगोऽस्य यावता तुला न पूjर्य्यतेन तु पिप्पलीवर्द्धमानवत्। मधुमेहं विहायति उत्पन्नमात्रं मधुमेहं जित्वा इत्यर्थः। चिरजस्य असाध्यत्वात् किंवा महाप्रभावत्वात्। योगोऽयमसाध्यमपि मधुमेहं साधयति॥२६॥

माक्षिकं धातुमप्येवंयुञ्ज्यादस्याप्ययं गुणः॥२७॥

उक्तविधिं स्वर्णमाक्षिकेऽप्यतिदिशति माक्षिकं धातुमप्येवमिति॥२७॥

शालसारादिवर्गस्य क्वाथे तु घनतां गते।
दन्तीलोध्रशिवाकान्तलौहताम्ररजः क्षिपेत्।
घनीभूतमदग्घञ्च प्राश्य मेहान् व्यपोहति॥२८॥

शालसाररादिवर्गस्येत्यादि—शालसारादिगणस्य चतुर्थभागावशिष्टे क्वाथे पुनः पाकाद्धनीभूते दन्त्यादीनां मिलितानां चूर्णं पादिकं प्रक्षेप्यं फुटजलेहवत्।शिवा हरीतकी।कान्तेति—मारितपुटितकान्तलौहादिचूर्णम् अस्य सर्वो विधिर्लौहान्तरवत्।

व्यायामज्जातमखिलं भजन् मेहान् व्यपोहति॥

पादत्रच्छत्ररहितो भिक्षाशी मुनिवद् यतः।
योजनानां शतं गच्छेदधिकं वा निरन्तरम्॥

मेहान् जेतुं वने वापि नीवारामलकाशनः॥२९॥

व्यायामजनितमिति म

ल्लयुद्धादिजनितम्।नीवारेत्युपलक्षणम् तेन श्यामाकादिकमपि बोध्यं यदाह सुश्रुतः—“महावने वा श्यामाक-नीवारामलक-कपित्य-तिन्दुकाश्मन्तकफलमूजाहारो मृणैः सह वसेत्” इति॥२९॥

शराविकाद्याः पिडकाः साधयेच्छोथवद्भिषक्।
पक्वाश्चिकित्सेद् व्रणवत् तासां पाने प्रशस्यते।
क्वाथंवनस्पतेर्वास्तं मूत्रञ्च व्रणशोधनम्॥३०॥

प्रमेहपिडकाचिकित्सामाह शराविकाद्या इत्यादि—शोथवदिति व्रणशोधवत्। वनस्पतेरिति वटादेः, वास्तं मूत्रं छागमूत्रम्॥३०॥

एलादिकेन कुर्वीत तैलञ्च व्रणरोपणम्॥

आरग्वधादिनाकुर्य्यात् क्वाथमुद्वर्त्तनानि च।
शालसारादिसेकञ्च भोज्यादिञ्च करणादिना॥३१॥

एलादिकेनेत्यादि—एलादिगणश्चसौश्रुतः, “कलकक्वाथावनिर्देशे गणात्तस्मात् सामावपेत्” इति वचनात् एलादिगणस्य क्वाथः कल्कच।अन्ये तु एलादिगणस्य कल्को जलन्च चतुर्गुणमित्याहुः। आरग्वधादिरपि सौश्रुतो गणः। ववाथमिति पानार्थ परिषेकार्थञ्च\। भोज्यादिमित्यादि शब्दात् पानमपि बोध्यम्। करणादिनेति पिप्पल्यादिगणन सौश्रुतेन॥३१॥

क्रमवृद्धमिदं मधुप्लुतं पिडका स्थौल्यभगन्दरं जयेत्॥८॥

अमृतत्यादौ—त्रुटिःसूक्ष्मैला, बेल्लो विडङ्गः, कलिङ्ग इन्द्रयवः केचिच्छन्दोभङ्गभिया कलिपाठं कुर्वन्ति, तन्मते कलिर्विभीतकः किन्तु महेश्वरपत्रिकायामपि इन्द्रयव एव व्यख्यातः।तस्मादनन्तत्वाच्छन्दोमार्गाणामत्रछन्दोभङ्गदोषो नाशङ्कनीयः। क्रमवृद्धमिति अमृताया एको भागः, द्वौ त्रुटेरित्यादि । मधुना आलोड्य पेयम्॥८॥

नवकगुग्गुलुः।

व्योषाग्नित्रिफलामुस्तविडङ्गैर्गुग्गुलुं समम्।
खादन् सर्वान् जयेद्व्याधीन् मेदःश्लेष्मामवातजान्॥६॥

व्योषत्यादौ—अग्नि

चित्रकः॥६॥

लौहरसायनम्।

गुग्गुलुस्तालमूली च त्रिफला खदिरं वृषम्।
त्रिवृतालम्बुषा स्नुक् च निर्गुण्डी चित्रकं शटी॥

एषां दशपलान् भागांस्तोये पञ्चाढके पचेत्।
पादशेषं ततः कृत्वा कषायमवतारयेत्॥

पलं द्वादशकं देयं तीक्ष्णलौहं सुचूर्णितम्।
पुराणसर्पिषः प्रस्थं शर्कराष्टपलोन्मितम्॥

पचेत् ताम्रमये पात्रे सुशीते चावतारिते।
प्रस्थार्द्धं माक्षिकं देयं शिलाजतुपलद्वयम्॥

एलात्वचोःपलार्द्धञ्च विडङ्गानि पलत्रयम्।
मरिचञ्चाञ्जनं कृष्णा द्विपलं त्रिफलान्वितम्॥

पलद्वयन्तु काशीशं श्लक्ष्णचूर्णांकृतं बुधैः।
चूर्णं दत्वा सुमथितं स्निग्धे भाण्डे निधापयेत् ॥

ततः संशुद्धदेहस्तु भक्षयेदक्षमात्रकम्।
अनुपानं पिबेत् क्षीरं जाङ्गलानां रसं तथा।

वातश्लेष्महरं श्रेष्ठं कुष्ठमेहोदरापहम्।
कामलां पाण्डुरोगञ्च श्वयथुं सभगन्दरम्॥

मूर्च्छामोहविषोन्मादगराणि विविधानि च।
स्थूलानां कर्षणं श्रेष्ठं मेदुरे परमौषधम्॥

कर्षयेञ्चातिमात्रेण कुक्षिं पातालसन्निभम्।
बल्यं रसायनं मेध्यं बाजीकरणमुत्तमम्॥

श्रीकरं पुत्रजननं वलीपलितनाशनम्।
नाश्नीयात् कदलींकन्दं काञ्जिकं करमर्दकम्।
करीरं कारवेल्लञ्च षट्ककाराणि वर्जयेत्॥१०॥

गुग्गुलुरित्यादि। अत्र पिण्डितस्य गुग्गुलोः शोधितस्य च क्वाथकरणसमय एव क्वाथमध्ये प्रक्षेपः। अलम्बुषा मुरोडरी।पुराणं सर्पिर्दशवर्षस्थितम्, यदुक्तम्, “उम्रगन्धं पुराणं स्याद् दशवर्षस्थितं घृतम्। लाक्षारसनिभं शीतं प्रपुराणमतःपरम्” इति। एलात्वचोर्मिलित्वा पलार्द्धम्, मरिचादीनां त्रिफलान्तानां प्रत्येकं पलद्वयम्, अञ्जनं रसाञ्जनम्, शिलाजतुपलद्वयञ्चशोधितं भावितञ्च ग्राह्यम्। एषां चूर्णानां पाणिसहत्वमात्रोष्णदशायां प्रक्षेपः, मधुनस्तु दिनान्तरे।मधुनः प्रस्थार्द्धं षोडशपलानि। खण्डखायलौहवदस्य पाकः।लौहान्तरवदस्य मर्दनादिक्रिया बोध्या॥१०॥

त्रिफलाद्यं तैलम्।

त्रिफलातिविषामूर्वात्रिवृच्चित्रकवासकैः।
निम्बारग्वधषड्ग्रन्थासप्तपर्णनिशाद्वयैः

गुडूचीन्द्रसुराकृष्णाकुष्ठसर्षपनागरैः।
तैलमेभिः समं पक्वं सुरसादिरसाप्लुतम्।

पानाभ्यञ्जनगण्डूषनस्यवस्तिषु योजितम्।
स्थूलतालस्यकण्ड्वादीन् जयेत् कफकृतान् गदान्॥११॥

त्रिफलाद्यतैलं इन्द्रसुरा गोरक्षकर्कटी निर्गुण्डी वा। सुरसादिरसाप्लुतमिति सुश्रुतोक्त

वृरसादिगणस्य क्वाथश्चचतुर्गुणः॥११॥

शिरीषलामज्जकहेमलोध्रैस्त्वग्दोषसंस्खेदहरः प्रधर्षः।
पत्राम्बु लौहाभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः॥१२॥

मेदोदोषजन्ययोः स्वेददौर्गन्ध्ययोश्चिकित्सामाह, शिरीषेत्यादि—लामज्जकमुशीरम्, हेम नागकेशरचूर्णम्, पत्रं तेजपत्रं तमालपत्रमित्यन्ये, अम्बु बालकम्, लोहमगुरु, चन्दनं श्वेतचन्दनम्॥१२॥

वासादलरसो लेपाच्छङ्खचूर्णेन संयुतः।
बिल्वपत्ररसो वापि गात्रदौर्गन्ध्यनाशनः॥१३॥

वासेत्यादि—शङ्खचूर्णेन संयुत इति दग्धशङ्खचूर्णेन मिश्रितः एवं बिल्वपत्ररसोऽपि॥१

हरीतकीलोध्रमरिष्टपत्रं चूतत्वचो दाडिमवल्कलञ्च।
एषोऽङ्गरागः कथितोऽङ्गनानां जङ्घाकषायश्च नराधिपाणाम्॥१४॥

हरीतकीत्यादौ—अरिष्टपत्रं निम्बपत्रं, दाडिमवल्कलं वृक्षस्य फलस्य वा, अङ्गरागो वर्णप्रसादः। जङ्घाकषाय इति गजवाजिवाहनेन विवर्णयोर्जङ्घयोर्वर्णप्रसादनार्थं कषायो विलेपनम्। यदुक्तं, मेदिनीकरकोषे “कषायों रसभेदे च निर्य्यासे च विलेपने” इति॥१४॥

गोमूत्रपिष्टं विनिहन्ति कुष्ठं वर्णोज्ज्वलं गोपयसा च युक्तम्।
कक्षादिदौर्गन्ध्यहरं पयोभिः शस्तं वशीकृद्रजर्नाद्वयेन॥१५॥

गोमूत्रपिष्टमित्यादि—योगान्तरम्। वर्णोज्ज्वलं हरितालं गन्धक इत्यन्ये। हरितालं गोमूत्रपिष्टं सत् कुष्ठं निहन्ति। गोपयसा युक्तमिति पिष्टं तदेव दौर्गन्ध्यहरं, तथा रजनीद्वयेन सहितं तदेव हरितालं पयसा क्षीरेण पिष्टातिलकदानेन वशीकरणं भवतीत्यर्थः॥१५॥

चिञ्चापत्रस्वरसम्रक्षितं कक्षादियोजितं जयति।
पुटदग्धहरिद्रोद्व

र्त्तनमचिराद्देहदौर्गन्ध्यम्॥१६॥

चिञ्चेत्यादि—चिञ्चापत्रस्वरसेनादौभ्रक्षणं कक्षयोस्तदनन्तरं पुटदग्घहरिद्रां पिष्ट्वाउद्वर्त्तनं कार्य्यमित्यर्थः॥१६॥

दलजललघुमलयाभयविलेपनं हरति देहदौर्गन्ध्यम्।
विमलारनालसहितं पीतमिवालम्बुषाचूर्णम्॥

हस्तपादस्त्रुतौ योज्यं गुग्गुलुं पञ्चतिक्तकम्।
अथवा पञ्चतिक्ताख्यं घृतं खादेदतन्द्रितः॥१७॥

दलेत्यादि—दलं तेत्रपत्रं, जलं बालकं, लघु अगुरु, मलयजं श्वेतचन्दनं, अभयमुशीरं, अलम्बुषाभुण्डिरी॥१७॥

इति स्थौल्याधिकारः।
__________

अथोदर-चिकित्सा।

उदरे दोषसम्पूर्णे कुक्षौ मन्दो यतोऽनलः।
तस्माद्भोज्यानि योज्यानि दीपनानि लघूनि च॥१॥

रक्तशालीन यवान मु

द्द्वान् जाङ्गलांश्च मृगान् द्विजान्।
पयोमूत्रासवारिष्टमधुशीधु तथा पिबेत्॥२॥

उदरोत्सेधसाधर्म्यात् स्थौल्यानन्तरमुदरचिकित्सामाह उदर इत्यादि। उदर इति उदररोगे॥१॥२॥

वातोदरं बलवतः पूर्वं स्नेहैरुपाचरेत्।
स्निग्धाय स्वेदिताङ्गाय दद्यात् स्नेहविरेचनम्॥

हृते दोषे परिम्लानं वेष्टयेद्वाससोदरम्।
तथास्यानवकाशत्वाद्वायुर्नाध्मापयेत् पुनः॥३॥

वातोदरमित्यादि ननु “विवर्जयेत् स्नेहपानमजीणीं चोदरी” इति वचनात् वचनात् स्नेहपानं निषिद्धं, तथा” नोदरी नातिसारी च” इत्यादिना च स्वेदोऽपि निषिद्धः, तत् कथमत्र सहस्वेदोपदेश उच्यते? स्वतन्त्रयोर्निषेधो बोध्यः न तु शोधनाङ्गभूतयोः, अन्यथा दोषहरणस्य दुष्करत्वात्। परिम्लानमिति क्षीणम्। तथेति वस्त्रवेष्टनेन॥३॥

दोषातिमात्रोपचयात् स्रोतोमार्गनिरोधनात्।

सम्भवत्युदरं तस्मान्नित्यमेनं विरेचयेत्॥

विरिक्ते च यथादोषहरैः पेया शृता हिता॥४॥

उदरे पुनः पुनः शोधनायोपपत्तिमाह दोषातिमात्रेत्यादि। स्रोतोमार्गः स्रोतोमुखं, मार्गशब्दोऽत्र मुखरूपमार्गवाची। यथादोषहरैरिति—यस्मिन्नुदरे यो दोष उद्भूतस्तत्र तद्दोषप्रत्यनीकैर्दशमूल्यादिभिः॥४॥

वातोदरी पिबेत् तक्रं पिप्पलीलवणान्वितम्।
शर्करामरिचोपेतं स्वादु पित्तोदरी पिबेत्॥५॥

वातोदरीत्यादि—स्पष्टम्॥५॥

यमानीसैन्धवाजाजीव्योषयुक्तं कफोदरी।
पिबेन्मधुयुतं तक्रं व्यक्ताम्लं नातिपेलवम्॥६॥

यमानीत्यादि नातिपेत्तवमित्यन्तेनैको योगः, नातिपेलवं नातितनु। अन्ये तु कफोदरीत्यन्त एको योग एवेत्याहुः। तन्न, “यमानीसैन्धवाजाजीमधुव्याषैः कफोदरे” इति वाग्भटविरोधात्॥६॥

मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः।
युक्तं प्लीहोदरी जातं सव्योषन्तु दकोदरी॥

बद्धोदरी तु हनुषादीप्यकाजाजिसैन्धवैः।
पिबेच्छिद्रोदरीतक्रं पिप्पलीक्षौद्रसंयुतम्॥

त्र्यूषणक्षारलवणैर्युक्लन्तु निचयोदरी॥७॥

मधुतैलेत्यादौजातमिति च्छेदः, सुजातदधिभवमित्यर्थः। सव्योषन्तु दकोदरीति। दकोदरी तु सव्योषं तक्रंपिबेदित्यर्थः। दीप्यकं यमानी।निचयोदरी सन्निपातोदरी॥७॥

गौरवारोचकार्त्तानां समन्दाग्न्यतिसारिणाम्।
तक्रं वातकफार्त्तानाममृतत्वाय कल्पते॥८॥

गौरवेत्यादौ—असंस्कृतस्य केवलतक्रस्यायं गुण इति ज्ञेयम्॥८॥

वातोदरे प्रयोऽभ्यासो निरूहो दाशमूलिकः।
सोदावर्त्तेवातघ्नाम्लशृतैरण्डानुवासनः॥९

वातोदर इत्यादि—पयोऽभ्यास इति क्रमेण, बलार्थ, बलजननानन्तरं पयो निवर्तनीयम्। “निरूहो दाशमूलिक इति दशमूलक्वाथेन निरूहः कार्य इत्यर्थः। किंवा “द्विपञ्चमूलस्य रसोऽम्लयुक्तः सच्छागमांसस्य स पूर्वकल्कः।त्रिस्नेहयुक्तः प्रवरो निरूहः सर्वानिलव्याधिहरः प्रदिष्टः” इति। अयञ्च तीक्ष्णविरेचनद्रव्ययुक्तः कार्य्यः, चरकप्रामाण्यात्। सोदावर्त्तेवातोदर इस्यन्वयः। वातघ्नाम्लशृतैरण्डानुवासन इति वातघ्नैर्द्रव्यैस्तथा अम्लेश्च काञ्चिकादिभिः शृतमेरण्डमित्येरण्डतैलमनुवासनं यस्य वस्तेः स तथा इति। अनुवासनस्य स्नेहरूपत्वात् एरण्डपदेनैरण्डतैलमुच्यते॥९॥

सासुद्राद्यं चूर्णम्।

सामुद्रसौवर्च्चलसैन्धवानि क्षारं यमानीमजमोदकञ्च।
सपिप्पलीचित्रकशृङ्गवेरं हिङ्गु विडञ्चेति समानि कुर्य्यात्॥

एतानि चूर्णानि घृतप्लुतानि भुञ्जीत पूर्वं कवलं प्रशस्तम्।
वातोदरं गुल्ममजीर्णभुक्तं वायुप्रकोपं ग्रहणीञ्च दुष्टाम्।
अर्शंसि दुष्टानि च पाण्डुरोगं भगन्दरञ्चेति निहन्ति सद्यः॥१०॥

सामुद्रेत्यादि—यवानां क्षारी यवक्षारः। अस्य हिङ्ग्वष्टकवदुपयोगः।चूर्णानीत्यनन्तरं सम्मिश्रयेति शेपः॥१०॥

पित्तोदरेषु बलिनं पूर्वमेव विरेचयेत्।
अनुवास्यावलं क्षीरवस्तिशुद्धं विरेचयेत्।

पयसा सत्रिवृत्फल्केनोरुवूकशृतेन वा।
सातलात्रायमाणाभ्यां शृतेनारग्वधेन वा॥११॥

पित्तोदरेष्वित्यादि—क्षीरप्रधानो वस्तिः क्षीरवस्तिः। अत्रयलिनं पुरुषं पूर्वमिति अनुवासनमकृत्वेव विरेचयेत्। अनुवासनव्यतिरिक्तस्तु स्नेहः कर्तव्य एव। अतएवोक्तंवाग्भटे—“बलिनं स्वादुसिद्धेन पैत्ते संस्नेह्यसर्पिषा।श्यामात्रिभण्डीत्रित्रिफलाविपक्वेन विरेचयेत्” इति। अबलं पुनरादौअनुवास्य ततः

क्षोरवस्तिशुद्धं विरेचयेत्।विरेकोऽत्राग्निप्रलजननानन्तरमेव कार्य्यः। उक्तं हि वाग्भटे—“दुर्बलं त्वनुवास्यादौशोधयेत् क्षीरवस्तिभिः। जाते चाग्निबले स्निग्धे भूयो भूयो विरेचयेत्” इति। केन विरेचयेदित्याह पयसेत्यादि। अत्र तु उरुवूकस्य फलं

प्राह्यं विरेचकत्वात् एवमारग्वधस्यापि फलम्।सातला चर्मकपा। पयसेति सर्वत्र सम्बध्यते। सत्रिवृत्कल्केन पयसत्येको योगः, उरुवूकश्वतेनेति द्वितीयः, सातलादिरारग्वधान्तस्त्वपरः, जतूकर्णसंवादात्। अन्ये तु सत्रिवृत्केनोरुवूकशृतेनेत्येको योगः, तथा सत्रिवृत्कल्केन सातलारग्वधान्तेन तु द्वितीयो योग इत्याहुः॥११॥

कफादुदरियं शुद्धं कटुक्षारान्नभोजितम्।
मूत्रारिप्यायस्कृतिभिर्योजयेच्च कफापहैः॥१२॥

कफादित्यादि—शुद्धमिति वमनव्यतिरिक्तशोधनेन विशुद्धमित्यर्थः, वमनस्योदरे निषिद्धत्वात्। कटुक्षारान्नभोजनमिति कटुक्षारयुक्तैरन्नैः पेयादिभिः कृतेसंसर्जनमित्यर्थः। अयस्कृतिर्नवायसादिः, किंवा अयस्कृतयो रसायनोक्कलौहप्रयोगाश्चरको

क्ता ज्ञेयाः॥१२॥

सन्निपातोदरे सर्वा यथोक्ताः कारयेत् क्रियाः॥१३॥

सन्निपातोदर इत्यादौ—सर्वा यथोक्ताइति प्रत्येकं वातोदरादिविहिताः सर्वा एव सन्निपातोदरे कार्याः॥१३॥

प्लीहोदरे प्लीहहरं कर्मोदरहरं तथा॥१४॥

प्लीहोदर इत्यादौ—प्लीहहरं कर्म वक्ष्यमाणं तथोदरहरं कर्मेति प्लीहोदरहरम्। प्लीहोदरचिकित्सा च वाच्या॥१४॥

खिन्नाय बद्धोदरिणे मूत्रं तीक्ष्णौषधान्वितम्।
सतैलं लवणं दद्यान्निरूहं सानुवासनम्॥

परिस्रंसीणि चान्नानि तीक्ष्णञ्चैव विरेचनम्॥१५॥

स्विन्नायेत्यादि—निरूहस्य उत्सर्गत एव सतैललवणत्वे सिद्धे सतैललवणमिति पदं तैललवणयोरत्राधिकदानोपदर्शनार्थम्।

वद्धच्छिद्रदकोदराणाञ्च यद्यप्यास्थापनं निषिद्धं तथापि तदेकसाध्यायामवस्थायां निरूहदानमिह ज्ञेयम्। परिस्रंसीणीत्यनुलोमनानि॥१५॥

छिद्रोदरमृते स्वेदात् श्लेष्मोदरवदाचरेत्॥१६॥

छिदोदरमित्यादि—वाग्भटस्य।” यद्यपि प्रायो भवत्यभावाय छिद्रान्त्रञ्चोदरं नृणाम्” इत्यनेन छिद्रोदरमसाध्यमुक्तंतथापि प्रायःशब्देन तत्रासाध्यताव्यभिचारस्य दर्शितत्वात् चिकित्सितमिदं यापनार्थम्। “तथा हन्ति सर्वोदराण्येतच्चूर्णं जातोदकान्यपि” इत्यनेन सर्वोदरचिकित्सैव बोध्या।अन्ये तु सर्वोदरहन्तृत्वकथनं न पारमार्थिकं किन्तु स्तुतिरित्याहुः। ऋते स्वेदादित्यनेन स्वेदस्य छिदोदरे क्लेदयुक्तेऽत्यर्थक्लेदकरतया निषेधः॥१६॥

जातं जातं जलं स्नाव्यं शास्त्रोक्तं शस्त्रकर्म च।
जलोदरे विशेषेणद्रवसेवां विवर्जयेत्॥१७॥

जातमित्यादि—शास्त्रोक्तमिति शल्यशास्त्रोक्तम्॥१७॥

देवदारुपलाशार्कहस्तिपिप्पलिशिग्रुकैः।
साश्वगन्धैः सगोमूत्रैः प्रदिह्यादुदरं शनैः॥

मूत्राण्यष्टावुरिणां सेके पाने च योजयेत्।
स्नुहीपयोभाविवातानां पिप्पलीनां पयोऽशनः॥

सहस्रञ्च प्रयुञ्जीत शक्तितो जठरामयी॥१८॥

देवदार्वित्यादौ—पलाशः किंशुकस्तस्य फलं ग्राह्यंउदरहन्तृत्वात् । स्नुहीपय इत्यादि—भावनामत्रैकविंशतिवारान् यदाह क्षारपाणिः।व्यवहारस्तु सप्तवारभावनया। ऐतान् पिप्पलीगुडिकांस्त्रीश्चतुरः पञ्चवा कोष्ठानुरूपं प्रत्यहमेकान्तरं द्व्यन्तरं वा विरेचनार्थं क्षीरेण पिबेत्। सहस्रंन्तु प्रयुञ्जीतति उपयुक्तपिप्पलीगणनया यांवता कालेन सहस्रं पूर्य्यत इत्यर्थः। एतच्चोत्सर्गवचनम्, तेन सहस्रादर्वागपि विधिर्बोध्यः॥१८॥

शिलाजतूनां मूत्राणां गुग्गुलोस्त्रैफलस्य च।
स्नुहीक्षीरप्रयोगश्च शमयत्युदरामयम्॥१६॥

शिलाजतूनामित्यादौ—समासान्तर्गतमपि प्रयोग इति पदं चकाराच्छिलाजत्वादिभिः सह प्रत्येकं सम्बन्धनीयम्।प्रयोगोऽभ्यासः।त्रैफलस्य गुग्गुलोरिति

त्रिफलागुग्गुलोरित्यर्थः॥१६॥

स्नु

क्पयसा परिभाविततराण्डुलचूर्णैर्विनिर्मितः पूपः।
उदरमुदारं हिंस्याद् योगोऽयं सप्तरात्रेण॥२०॥

स्नुपयसेत्यादौ—पूपः पिष्टकम्, महावृक्षक्षीरेण त्रिःसप्तकृत्वः पिप्पलीर्भावयित्वा एकां द्वे तिस्रो वः प्रयच्छत् विरेकार्थमिति। उदारमिति प्रवृद्धम्॥२०॥

पिप्पलीवर्द्धमानं वा कल्पदृष्टं प्रयोजयेत्।
जठराणां विनाशाय नास्ति तेन समं भुवि॥२१॥

पिप्पलीत्यादि—कल्पदृष्टमिति चरकोक्तरसायनविधिदृष्टम् तञ्च विधिं प्लीहयकृचिकित्सिते दर्शयिष्यामः॥२१॥

पटोलाद्यंचूर्णम्।

पटोलमूलं रजनीं विडङ्गं त्रिफलात्वचम्।
कम्पिल्लकं नीलिनीञ्च त्रिवृताञ्चेति चूर्णयेत्॥

षडाद्यान् कार्पिकानन्त्यांस्त्रींश्च द्वित्रिचतुर्गुणान्।
कृत्वा चूर्णं ततो मुष्टिं गवां मूत्रेण वै पिबेत्॥

वि
रिक्तोजाङ्गलरसैर्भुञ्जीत मृदुमोदनम्।
मण्डं पेयाञ्च पीत्वा च सव्योपं पडहं पयः॥

शृतं पिबेत्तु तञ्चचूर्णं पिवेदेवं पुनः पुनः।
हन्ति सर्वोदाराण्येतच्चू

र्णं जातोदकान्यपि।
कामलां पाण्डुरोगञ्च श्वयथुञ्चापकर्षति॥२२॥

पटोलमूलमित्यादौ—त्वच इति निरस्थित्रिफलाग्रहणार्थम्। षडाद्यान् कार्षिकानिति पटोलमूलादीनां त्रिफलान्तानां पराणांप्रत्येकं कर्षभागानित्यर्थः। त्रींञ्च द्वित्रिचतुर्गुणानिति कम्पिल्लकादयस्त्रयः क्रमात्कार्षिकभागापेक्षया द्वित्रिचतुर्गणानित्यर्थः। नीलिनी नीलबु

द्दा तस्याश्चात्र फलं वृद्धवाग्भटसंवादात्। मुष्टिरिति पलम्। विरिक्तोजाङ्गलरसैरित्यादि—विरेचनदिने जीर्णे भेषजे मृद्वोदनमण्डपेयानामन्यतममग्निवलांपेक्षया उपयोक्तव्यम्। तत ऊर्द्ध्वंषडहं यथोक्लपयोवृत्तिना भवितव्यम्। ततः पुनः सप्तमेऽहनि पटोलादिचूर्णं पेयम्, एवं पुनः पुनः कार्यम्॥

नारायणचूर्णम्।

यमानीहवुपा धान्यं त्रिफला, सोपकुञ्चिका।
कारवी पिप्पलीमूलमजगन्धा शटी वचा॥

शताह्वाजीरकं व्योषं स्वर्णक्षीरी सचित्रका।
द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम्।

वि
विडङ्गञ्च समांशानि दन्त्या भागत्रयं तथा।
त्रिवृद्धिशाले द्विगुणे सातला स्याचर्तुगुणा॥

एष नारायणो नाम चूर्णो रोगगणापहः।
नैनं प्राप्याभिवर्द्धन्ते रोगा विष्णुमिवासुराः॥

तक्रेणोदरिभिः पेयो गुल्मिभिर्वदराम्बुना।
आनद्धवाते सुरया वातरोगे प्रसन्नया॥

दधिमण्डेन विट्सङ्गे दाडिमाम्बुभिरर्शसि।
परिकर्त्तेच वृक्षाम्लैरुष्णाम्बुभिरजीर्णके।

भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे।
हृद्रोगे ग्रहणीदोषे कुष्ठे मन्दानले ज्वरे॥

दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे।
यथार्हं स्निग्धकोष्ठेन पेयमेतद्विरेचनम्॥२३॥

यमानीत्यादौ—उपकुञ्चिका कृष्णजीरकः, कारवी स्वल्पप्रमाणं जीरकमीषत्कृष्णं, जीरकशब्देन च प्रसिद्धं महज्जीरकम्।अजगन्धा अजमोदा, स्वर्णक्षोरी कङ्कुष्ठः, दन्त्या भागत्रयमाद्यभागापेक्षया एवं त्रिवृद्विशालयोरप्याद्यभागापेक्षया प्रत्यकं द्वैगुण्यम्। सातला चर्मकृषा।नारायणसंज्ञानिमित्तमाह नैनमित्यादि। एतेन नारायणसधर्मत्वान्नारायणसंज्ञेत्युक्तं भवति। गरोऽविषद्रव्यसंयोगजं विषं कालान्तरफलदायि, कृत्रिमन्तु स्थावरजंगमविषसंयागादुतकृष्टशक्तिकं विषं तत्कालफलदायि। यथार्हमिति वचनादन्यैरपि दोषव्याधिविपरीतैर्द्रव्यैः पानमिति दर्शयति। यथार्हस्निग्धकोष्ठेनेति पाठे यो यस्योचितः स्नेहस्तेन निग्धकोष्ठेन पेयमिदम्॥२३॥

दन्ती वचा गवाक्षी च शङ्खिनी तिल्वकं त्रिवृत्।
गोमूत्रेण पिबेदेतत् कल्कं जठरनाशनम्॥२४॥

दन्तीत्यादौ—गवाक्षी गोरक्षकर्कटी। शङ्खिनी श्वेतवुह्ना॥२४॥

सक्षीरं माहिषं मूत्रं निराहारः पिबेन्नरः।
शाम्यत्यनेन जठरं सप्ताहादिति निश्चयः॥२५॥

सक्षीरमित्यादौ—माहिषमूत्रपलमेकं द्वयं वा पीत्वा विरेके सति गोक्षीरसेव पीत्वा स्थातव्यमित्युपदिशन्ति। वाग्भटेऽप्युकं “गव्यं मूत्रं माहिषमेव वा पिबेद्गोक्षीरभुक् स्याद्वा करभीक्षीरवर्त्तनः” इति। गोक्षीरभुगिति गोक्षीरमात्रभोजी। अतएव “माहिषं मूत्रं पीत्वा तत्क्षीराहार एव नरः” इति निश्चलेन यदुक्तं तदुपास्तम्, उक्तवाग्भटवचनविरोधात्॥२५॥

गवाक्षीशङ्खिनीदन्तीनीलिनीकल्कसंयुतम्।
सर्वोदरविनाशाय गोमूत्रं पातुमाचरेत्॥२६॥

गवाक्षीत्यादि—स्पष्टम्॥२६॥

अर्कपत्रं सलवणमन्तर्धूमंदहेत् ततः।

मस्तुना तत् पिबेत् क्षारं गुल्मप्लीहोदरापहम्॥२७॥

अर्कपत्रं सलवणमिति सैन्धवेन तुल्यं परिणतार्कपत्रं गृह्णन्ति॥२७॥

पीतः प्लीहोदरं हन्यात् पिप्पलीमरिचान्वितः।
अम्लवेतससंयुक्तः शिग्रुक्वाथःससैन्धवः॥२८॥

पीत इत्यादौ—पिप्पल्यादिद्रव्यचतुष्टयं प्रक्षेप्यम्॥२८॥

गृहीत्वा यस्य सज्ञांपाटयित्वेन्द्रवारुणीमूलम्।
प्रक्षिप्यते सुदूरे शाम्येत् प्लीहोदरं तस्य॥२९

गृहीत्वेति—स्पष्टम्॥२९॥

रोहीतकाभयाक्षोद

-भावितं मूत्रमम्बु वा।
पीतं सर्वोदरप्लीहमेहार्शःक्रिमिगुल्मनुत्॥३०॥

रोहीतकेत्यादौ—रोहीतकहरीतक्योश्चूर्णैककर्षेण पलद्वयपरिमितं गोमूत्रमम्बु वा भाव्यमिति केचित् अन्ये तु रोहीतकहरीतक्योः क्षोदैःखण्डखण्डरूपैःशिलायां किञ्चिदवक्षुराणैः सप्ताहं भावितं मूत्रमम्बु वेत्याहुःवाग्भटप्रमाण्यात, यथा, “रोहीतकलताः क्लृप्ताः खण्डशः सामयाजले।मूत्रे वा सुनुयात्त

य सप्तरात्रस्थितं पिबेत्” इति। सुनुयादिति भावयेत्॥३०॥

देवद्रुमं शिग्रुमयूरकञ्च गोमूत्रपिष्टामथवाश्वगन्धाम्।
पीत्वाशु हन्यादुदरं प्रवृद्धं क्रिमीन् सशोधानुदरञ्च दूष्यम् ३१

इदानीमुदर एवोपद्रवभूतप्रभूत

शाथसम्बन्धे सति चिकित्साविशेषमाह, देवद्रुममित्यादि—मयूरकमपामार्गमूलम्।मूत्रमत्र योगद्वयेऽपि, मूत्रेण पेषणं पानञ्चेत्याहुः वृन्दटिप्पणिकायान्तु देवद्रुमादिरश्वरगन्धान्त एको योगः, अथशब्दोऽपि पूर्वयोगापेक्षया इत्युक्तम्, व्यवहारस्तु योगद्वयेनेति॥३१॥

दशमूलदारुनागरच्छिन्नरुहापुनर्नवाभयाक्वाथः।
जयति जलोदरशोधश्लीपदगलगण्डवातरोगांश्च॥३२॥

दशमूलत्यादौ—क्वाथ इत्यत्र युक्त इति पाठे क्वाथ इति शेषः॥३३॥

हरीतकीनागरदेवदारु पुनर्नवाच्छिन्नरुहाकषायः।
सगुग्गुलुर्मूत्रयुतस्तु पेयः शोथोदराणां प्रवरः प्रयोगः॥३३॥

हरीतकीत्यादौ—प्रतिदिनोपयोगे गुग्गुलोर्मापकचतुष्टयं गोमूत्रस्यार्द्धपलं कर्षो वा प्रक्षेप्यः, विरेचने तु कर्त्तव्ये प्रचुरत्वमनयोः, अत्यन्तबद्धकोष्ठे तु गोमूत्रेणैव क्वार्थं कृत्वा गुग्गुलुमात्रं प्रक्षिप्य वृद्धा व्यवहरन्ति॥३३॥

एरण्डतैलं दशमूलमिश्रंगोमूत्रयुक्तस्त्रिफलारसो वा।
निहन्ति वातोदरशोथशूलं क्वाथः समूत्रो दशमूलजश्च॥३४॥

एरण्डैतैलमित्यादि—एरण्डतैलप्रक्षपाद्दशमूलक्वाथ इत्येको योगः, गोमूत्रप्रक्षेपात् त्रिफलाक्वाथ इति द्वितीयः, अत्यन्तबद्धकोष्ठे तु गोमूत्रेणैव त्रिफलाक्वाथः

कार्य्य इति वदन्ति। एवं गोमूत्रप्रक्षेपाद्गोमूत्रेण वा दशमूलक्वाथोऽपत्याहुः॥३४॥

पुनर्नवानिम्वपटोलशुण्ठीतिक्तामृतादार्वभयाकषायः।
सर्वाङ्गशोथोदरकासशूलश्वासान्वितं पाण्डुगदं निहन्ति॥

पुनर्नवेत्यादौ—अयं योगः पुनर्नवाष्टकनाम्ना प्रचरति॥३५॥

पुनर्नवां दार्वभयां गुडूचीं पिबेत् समूत्रां महिषाक्षयुक्ताम्।
त्वग्दोषशोथोदरपाण्डुरोगस्थौल्यप्रसेकोद्र्ध्वकफामयेषु॥३६॥

पुनर्नवामित्यादि—पुनर्नवादीनां चूर्णं गुग्गुलुसंयुक्तं गोमूत्रेण पेयम्, तथा च तन्त्रान्तरम्—गोमूत्रेणाथवा दारुवर्षाभूचेतकरिजः। पिबेद् गुग्गुलुसंयुक्कं शोथोदरविनाशनम्” इति। अत्र चेतकी हरीतकी। गुग्गुलुश्च मिलितचूर्णसम इत्याहुः। अन्ये तु पुनर्नवादीनां क्वाथं गोमूत्रं गुग्गुलुष्च प्रक्षिप्य व्यवहरन्ति॥३६॥

गोमूत्रयुक्तं महिषीपयो वा क्षीरं गवां वा त्रिफलाविमिश्रम्।
क्षीरान्नभुक् केवलमेव गव्यं मूत्रं पिबेद्वा श्वयथूदरेषु॥३७॥

क्षीरं गवां वा त्रिफलाविमिश्रमिति त्रिफलायाः क्वाथः कल्को वा। क्षीराजभुगिति क्षीरमात्रेणान्नभुक्॥३७॥

पुनर्नवा दार्वमृता पाठा बिल्वं श्वदंष्ट्रिका।
बृहत्यौ द्वे रजन्यौ द्वे पिप्पल्यश्चित्रकं वृषम्॥

समभागानि चूर्णानि गवां मूत्रेण वा पिबेत्।
बहुप्रकारं श्वयथुं सर्वगात्रविसारिणम्॥

हन्ति शोथोदराण्यष्टौ व्रणांश्चैवोद्धतानपि॥३८॥

पुनर्नवेत्यादौ—बिल्वस्य मूलम्। शोथोदराण्यष्टाविति सशोधान्यष्टावुदराणीत्यर्थः॥३८॥

पुराणं माणकं पिष्ठ्वाद्विगुणीकृततण्डलम्।
साधितं क्षीरतोयाभ्यामभ्यसेत् पायसन्तु तत्॥

हन्ति वातोदरं शोथं ग्रहणीं पाण्डुतामपि।
सिद्धो भिषग्भिराख्यातः प्रयोगोऽयं निरत्ययः॥३९॥

पुराणमित्यादि—पुराणमाणकस्य मूलं पलमात्रं दरदलिततण्डुलस्य पलद्वयं क्षीरतोयाभ्यां समाभ्यां साधयित्वा पायसः कार्य्यः। अस्योपयोगेऽपरमन्नव्यञ्जनं नाश्नीयादित्याहुः।योगोऽयं शोथमात्रेऽपि प्रभवति॥३९॥

दशमूलषट्पलकं घृतम्।

दशमूलतुलार्द्धरसे सक्षारैः पञ्चकोलकैः पलिकैः।
सिद्धं घृतार्द्धपात्रं द्विर्मस्तुकमुदरगुल्मघ्नम्॥४०॥

दशमूलषट्पलके दशमूलस्य तुलार्द्धंपश्चाशत्पलानि, तस्य क्वाथ इत्यर्थः। घृतस्यार्द्धपात्रमद्धढिकंप्रस्थद्वयमित्यर्थः। द्विर्मस्तुकमिति घृतमपेक्ष्य द्विगुणं मस्त्वित्यर्थः। चरकोक्तदशमूलषट्पलकेऽपि द्विःशब्दः प्रस्थेन तथार्द्धपलिकैरित्यनेनच योज्यः। तेन पिप्पल्यादीनां द्विगुणार्द्धपलैः षट्पलानि भवन्ति तथा प्रस्थेन च द्विःशब्दसम्बन्धात् प्रस्थद्वयं भवतीति एकवाक्यता वोध्या।ननु क्रियाभ्यावृत्तावेव सुच्प्रत्ययो दृश्यते न तु अभ्यावृत्तिमात्रेणैव, द्विरष्टसंवत्सर

बारसुन्दरीत्यादौ क्रियाभ्यावृत्ति विनापि सुच्प्रत्ययस्य दर्शनात्॥४०॥

चित्रकघृतम्।

चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात् पले।
कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत्॥४१॥

चतुर्गुण इत्यादि—अत्र सक्षारमित्यनेन यवक्षारस्यापि चित्रकवत् पलमेकं देयम् अत्रार्थेतन्त्रान्तरं यथा, “अग्निक्षारपलाभ्यां द्विमुत्रं चतुर्जलञ्चघृतप्रस्थम्” इति॥४१॥

विन्दुघृतम्।

अर्कक्षीरपले द्वे च स्तुहीक्षीरपलानि षट्।
पथ्या कम्पिल्लकं श्यामा सम्पाकंगिरिकर्णिका॥

नीलिनी त्रिवृता दन्ती श

ङ्खिनी चित्रकन्तथा।
एतेषां पलिकैर्भागैर्घृतप्रस्थं विपाचयेत्॥

अथास्य मलिने कोष्ठे विन्दुमात्रं प्रदापयेत्।
यावतोऽस्य पिबेद्विन्दुंस्तावद्वारान् विरिच्यते ॥

कुष्ठंगुल्ममुदावर्त्तंश्वयथुं सभगन्दरम्।
शमयत्युदराण्यष्टौ वृक्षमिन्द्राशनिर्यथा॥

एतद्विन्दुघृतं नाम येनाभ्यक्तोविरिच्यते॥४२॥

अर्कक्षीरेत्यादि—श्यामा श्याममूला त्रिवृत्। गिरिकर्णिका श्वेतापराजिता, नोलिनी नीलवुह्ना, शङ्खिनी श्वेतावुह्ना।अन्न पाकार्थंजलं चतुर्गुणं देयम्, अतएव क्वचित् वृन्दसंग्रह दृश्यते “स्नुयार्कयोस्तु पयसा पाकस्यानुपपत्तितः। जलं चतुर्गुण देयं पाकार्थं विन्दुसर्पिषि” इति। मात्रा तु अस्य कोष्ठानुरूपा, माषकमेकं द्वयं वा प्रचरति। मलिन इति मलवहुले॥४२॥

दधिमण्डाद्यं घृतम्।

दधिमण्डाढके सिद्धात् स्नुक्क्षीरपरिकल्कितात्।
घृतप्रस्थात् पिबेन्मात्रां तद्वज्जठरशान्तये॥

तथासिद्धं घृतप्रस्थं पयस्यष्टगुणे पबेत्।
स्नुक्क्षीरपलकल्केन त्रिवृतापट्पलेन च॥४३॥

दधिमण्डेत्वादि—तद्वदिति पूर्वोक्कप्रकारेणोत्थिताद् घृतम्। चरके हि “क्षीरद्रोणं सुधाक्षीरप्रस्थार्द्धसहितं दधि” इत्यादि। पूर्वयोगे क्षीरद्रोणे सुधाक्षीरप्रस्थार्द्धं प्रक्षिप्यदधि करणीयं, ततस्तद्दधि मथित्वा घृतं सम्पादनीयमिति प्रकारउक्त इति। तथा सिद्धमित्यादि—अत्रापि पूर्वोक्तप्रकारनिष्पादितदधिमन्थनसिद्धं घृतमिति तथाशब्दार्थः। एतयो

र्घृतयोरनुपानं तथा विरेकान्तरीयो विधिश्च चरकोक्त एवानुसरणीय इति॥४३॥

नाराचघृतम्।

स्नुक्क्षीरदन्तीत्रिफलाविडङ्गसिंहीत्रिवृञ्चित्रककल्कयुक्तम्।
घृतं विपक्वंकुडवप्रमाणं तोयेन तस्याक्षमथार्द्धकर्षम्॥

पीत्वोष्णमम्भोऽनुपिबेद्विरिक्ते पेयां सुखोष्णां वितरेद्विधिज्ञः।
नाराचमेतज्जठरामयाणां युक्त्योपयुक्तं शमनं प्रदिष्टम्॥४४॥

स्नुक्क्षीरेत्यादौ—सिंही कण्टकारी, युक्तयोपयुक्तमिति कोष्ठाद्याग्निबलापेक्षया इत्यर्थः॥
इत्युदराधिकारचिकित्साविवृतिः।
____________

अथ प्लीह-यकृच्चिकित्सा।

यमानिकाचित्रकयावशूक-षड्ग्रन्थिदन्तीमगघोद्भवानाम्।
प्लीहानमेतद्विनिहन्ति चूर्णमुष्णाम्बुना मस्तुसुरासवैर्वा॥१॥

प्लीहवृद्धय उदरस्य सम्भवादनन्तरं प्लोहचिकित्सामाह यमानिकेत्यादि—षड्ग्रन्थि पिप्पलीमुलं, उकं हि र

नकोष—“ग्रन्थिकं पिप्पलीमूलं षड्ग्रन्थि चटिकाशिरः” इति॥१॥

पिप्पलीं किंशुकक्षारभावितां सम्प्रयोजयेत्।
गुल्मप्लीहापहां वह्निदीपनीञ्च रसायनीम्॥२॥

पिप्पलीमित्यादि—किंशुकःपलाशस्तत्क्षारोदके सप्तधा भावितां पिप्पली पिप्पलीवर्द्धमानक्रमेण प्रयोजयेत् दुग्धपानमप्यत्रोपदिशन्ति वृद्धाः॥२॥

विडङ्गाज्याग्निसिन्धूत्थशक्तून् दग्ध्वा वचान्वितान्।
पिबेत् क्षीरेण सञ्चूर्य गुल्मप्लीहोदरापहान्॥३॥

विडङ्गेत्यादि—विडंगादीनां चूर्णं घृताक्तं कृत्वा अन्तर्धृमं दाहयेत्। ततः सञ्चूर्ण्यक्षीरेण सह पिबेत्। अन्ये तु कपालं कृत्वा एवमेव दहेत् न पुनरन्तर्धूममित्याहुः।व्यवहारः पूर्वेणैव॥३॥

तालपुष्पभवः क्षारःसगुड प्लीहनाशनः।
रोहीतकाभयाक्वाथः कणाक्षारसमन्वितः॥४॥

तालपुष्पेत्यादावाप्यन्तर्धूमक्षारः—सगुड इति समगुडः। क्षारस्य च माषकचतुष्टयेन व्यवहारः॥४॥

क्षारं वा विडकृष्णाभ्यां पूतिकस्याम्लनिस्रुतम्।
प्लीहयकृत्प्रशान्त्यर्थं पिबेत् प्रातर्यथाबलम्॥५॥

क्षारं वेत्यादि—पूतिकस्य लाटाकरञ्जमूलस्य क्षारम्।अम्लनिस्रतमिति अम्ले काञ्जिकेनिस्रुतं सप्तधा परिस्रतं पूर्तिकरञ्जक्षारं विड्लवणपिप्पलीचूर्णप्रक्षेपेण पिबेत्। वाग्भटेऽप्युक्तम् “अम्लस्रुतंविडकणाचूर्णा

ट्यं नक्तमालजम्” इति। वाग्भटटीकायामपि अम्लैः काञ्जिकादिभिः परिस्रतमिति व्याख्यातम्। सुश्रुतेऽपि “अम्लस्रुतं पूतिकरञ्जक्षारं विड्वणपिप्पलीप्रगाढं पाययेत्” इत्युक्तम्। तेन अम्बुनि जले निस्रुतमित्यसदर्थ एव। वाशब्दः पूर्वयोगापेक्षया॥५॥

पातव्यो युक्तितः क्षारः क्षीरेणोदाधिशुक्तिजः।
पयला वा प्रयोक्तव्याः पिप्पल्यः प्लीहशान्तये॥६॥

पातव्य इत्यादि—उदधिशुक्तिर्मुक्तास्फोटः।युकित इति वयोबलाद्यपेक्षया। पयसा वेत्यादि श्लोकार्द्धं वृन्दे पठ्यते तद्दर्शनाशकसंप्रदेऽपि केचित् पठन्ति, किन्तु वृन्दे पिप्पलीवर्द्धमानं न पठ्यते, तेन तत्र तत्पाठो युज्यत एव, इह तु अग्रे पिप्पलीवर्द्धमानं वक्तव्यमेवेति पयसा वेत्यादि श्लोकार्द्धमत्र न पठनीयमेव। अतएव निश्चलनापि नोपन्यस्तमिति॥६॥

भल्लातकाभयाजाजीगुडेन सह मोदकः।
सप्तरात्रान्निहन्त्याशु प्लीहानमतिदारुणम्॥७॥

भल्लातकेत्यादि—स्पटम्॥७॥

शोभाञ्जनकनिर्य्यूहं सैन्धवाग्निकणान्वितम्॥८॥

शोभाजनेत्यादौ—नियंहः क्वाथः, अग्निश्चित्रकः॥८॥

पलाशक्षारयुक्तं वा यवक्षारं प्रयोजयेत्॥९॥

पलाशक्षारयुक्तं वेति पलाशक्षारोदकयुक्तम्, उक्तंहि सुश्रुते “प्रस्रुतेन वा पलाशक्षारण यवक्षारम्” इति॥९॥

तिलान् सलवणंश्चैव घृतं पद्पलकं तथा॥१०॥

प्लीहोद्दिष्टां क्रियां सर्वां यकृतः सम्प्रयोजयेत्॥११॥

तिलान् सलवणानिति कृष्णतिला एव ससैन्धवा भक्ष्याः, अन्ये तु तिलनालक्षारोदकं सलवणं पेयमित्याहुः। व्यवहारस्तु पूर्वेणैव। घृतं षट्पलकमिति ज्वरोक्तम्॥१०-११॥

लशुनं पिप्पलीमूलमभयाञ्चैव भक्षयेत्।
पिबेद्गोमूत्रगण्डूषं प्लीहरोगविमुक्तये॥१२॥

लशुनमित्यादौ—गोमूत्रगण्डूषेणानुपानम्॥१२॥

प्लीहजिच्छरपुङ्खायाःकल्कस्तक्रेण सेवितः।
शरपुङ्खैव सञ्चर्व्यजग्धा पेयाभुजाथवा॥१३॥

शरपुङ्खाया इति शरपुङ्खामूलस्य॥१३॥

शार्ङ्गष्ठानिर्य्यूहः ससैन्धवस्तिन्तिडीकसम्मिश्रः।
प्लीहव्युपरमो योगः पक्वाम्ररसोऽथवा समधुः॥१४॥

शार्ङ्गष्ठा काकजङ्घा गुञ्जावा अनयोर्मूलम् तिन्तिडीकं महार्द्रकम्। पक्वाम्ररसः समधुर्वातोल्वणे॥१४॥

रोहीतकाभयाक्षोदभावितं मूत्रमम्बु वा।
पीतं सर्वोदरप्लीहमेहार्शःक्रिमिगुल्मनुत्॥१५॥

रोहीतकेत्यादौ—क्षोदश्चूर्णम्, गोमूत्रं विरेकार्थम्, अम्बु तु शमनार्थमिति व्यवस्था॥१५॥

दध्ना भुक्तवतो वामबाहुमध्ये शिरां भिषक्।
विध्येत् प्लीहविनाशाय यकृन्नाशाय दक्षिणे।
प्लीहानं मर्दयेद्गाढं दुष्टरक्तप्रवृत्तये॥१६॥

दध्नेत्यादौ—दधिभोजनं शोणितोत्क्लेशनार्थम्। वामबाहुमध्य इति कूर्परसन्धेरघस्तात्। स्नेहस्वेदावप्यत्र कार्य्यौसुश्रुतसंवादात्। प्लीहानं मर्दयेदिति शिरायां विद्धायां, तेन प्लीह्नोदुष्टरक्तं निःसरति॥१६॥

माणाद्यगुडिका।

माणमार्गामृतावासास्थिराचित्रकसैन्धवम्।
नागरं तालखण्डञ्च प्रत्यग्रन्तु त्रिकार्षिकम्॥

विडसौवर्चलक्षार-पिप्पल्यश्चापि कार्षिकाः।
एतच्चूर्णीकृतं सर्वं गोमूत्रस्याढके पचेत्॥

सान्द्रीभूते गुडीं कुर्य्याद्दत्वा त्रिपलमाक्षिकम्।
यकृत्प्लीहोदरहरो गुल्मार्शोग्रहणीहरः॥

योगः परिकरो नाम्ना अग्निसन्दीपनः परः॥१७॥

माणेत्यादी—मार्गोऽपामार्गः, स्थिरा शालपर्णी, प्रत्यप्रमित्यभिनवम्।त्रिकार्षिकमिति प्रत्येकम्। परिकरो नाम्नेति परिकरो विरेकस्तत्कारकत्वात् परिकरो योगः उक्वं हि “भवेत् परिकरः सङ्घे समारम्भविरेकयोः” इति॥१७॥

पिप्पली नागरं दन्तीं समांशं द्विगुणाभयम्।
चूर्णं पीतं विडार्द्धांशं प्लीहघ्नमुष्णवारिणा॥१८॥

पिप्पलीयादौ—द्विगुणाभया इत्येकभागापेक्षया द्वैगुण्यम्। एवं विड्लवणस्याप्येकभागापेक्षयार्द्धभागत्वं ज्ञेयम्॥१८॥

पिप्पलीवर्द्धमानानि।

क्रमवृद्धया दशाहानि दशपिप्पलिकं दिनम्।
वर्द्धयेत् पयसा सार्द्धं तथैवापनयेत् पुनः॥

जीर्णेऽजीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा।

पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनः॥

दशपैप्पलिकः श्रेष्ठो मध्यमः षट् प्रकीर्त्तितः।
पस्त्रिपिप्पलिपर्य्यन्तः प्रयोगः सोऽवरः स्मृतः॥

बृंहणं वृष्यमायुष्यं प्लीहोदरविनाशनम्।
वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम्॥

पञ्चपिप्पलिकश्चापि दृश्यते वर्द्धमानकः॥

पिष्टास्ता वलिभिः पेयाः शृता मध्यबलैर्नरैः।
शीतीकृता ह्रस्वबलैर्देहदोषामयान् प्रति॥१९

दशभिः पिप्पलीवर्द्धमानमाह क्रमत्यादि—दश पिप्पल्यः यत्र वर्द्धते तद्दिनं दशपिप्पलिकम् तेन दश पिप्पल्यः प्रत्यहं वर्द्धनीया इत्यर्थः। उक्तं हि “दशभिर्दशभिः शश्वत् पिप्पलीभिस्तु वर्द्धयेत्” इति। अतश्चोनविंशतिदिनैर्वृद्धिहानिक्रमेण एतेनैव सहस्रं पूर्ण भवति। पयसा सार्द्धमित्यनेन पयसोऽपि वृद्धिरित्याहुः। केचित्तु चूर्णीकृता इत्यत्र शीतीकृता इति पठित्वा शीतकषायीकृता इति व्याख्यानयन्ति। पिप्पलीवर्द्धमानस्य त्रैविध्यमाह दशपैप्पलिक इत्यादि। षट्प्रकीर्तित इति षड्वृद्धया आचार्य्यैरुक्तइत्यर्थः। त्रिपिप्पलीपर्यन्त इति तिस्रः पिप्पल्यः पर्य्यन्ते यस्य स तथा तेन पिप्पलोत्रयेण यत्रवृद्धिः स प्रयोग उच्यते तत्रैव प्रयोगसमाप्तौ पिप्पलीत्रयावस्थानम्। पञ्चभिः पञ्चभिः पिप्पलीभिर्वृद्धिस्तु व्यवहियते इति प्रतिपादयितुं चक्रः स्ववचनमुपन्यस्यति पञ्चपिप्पलिक इत्यादि। विदेहेऽप्युक्तम्—“दशभिर्दशभिः शश्वत् पिप्पलीभिस्तु वर्द्धयेत्” पञ्चभिः पञ्चभिर्वापि शतादवतरेत् पुनः” इति॥१९॥

पिप्पली चित्रकघृतम्।

पिप्पलीं चित्रकान्मूलं पिष्ठ्वासम्यग्विपाचयेत्।
घृतं चतुर्गुणक्षीरं यकृत्प्लीहोदरापहम्॥२०॥

पिप्पलोत्यादि—अत्र पिप्पली च चित्रक

ञ्चेति समासो न कार्य्यः, तथा सति पिप्पलीमूलस्यैव ग्रहणं स्यात्, तञ्चन व्यवहारसिद्धम्॥२०॥

लोकनाथरसः।

शुद्धसूतंद्विधा गन्धं खल्वे कुर्य्याञ्च कज्जलीम्।
सूततुल्यं जारिताभ्रंसम्मर्द्य कन्यकाम्बुना॥

गोलं कुर्य्यात् ततो लौहं ताम्रञ्च द्विगुणीकृतम्।
काकमाचीरसैःपिष्ट्वागोलं ताभ्याञ्च वेष्टयेत्॥

वराटिकाया भस्माथ रसतस्त्रिगुणं क्षिपेत्।
ततश्च सम्पुटं कृत्वा मूषामध्ये प्रकल्पयेत्॥

तन्मध्ये गोलकं कृत्वा शरावेण पिधापयेत्।

पुटेद्गजपुटे विद्वान् स्वाङ्गशीतं समुद्धरेत्॥

शिवं सम्पूज्य यत्नेन द्विजांश्च परितोषयेत्।
खादेद्रक्तिद्वयं चूर्णं मूत्रञ्चापि पिबेदनु॥

मधुना पिप्पलीचूर्णं सगुडाम्बुहरीतकीम्।
अजाजीं वा गुडेनैव भक्षयेदस्य मानतः॥

यकृद्गुल्मोदरप्लीहश्वयथुज्वरनाशनम्।
वह्निमान्द्यप्रशमनं सर्वान् व्याधीन नियच्छति॥२१॥

लोकनाथरसः—स्पष्टः॥२१॥

पिप्पलीघृतम्।

पिप्पलीकल्कसंयुक्तं घृतं क्षीरचतुर्गुणम्।
पचेत् प्लीहाग्निसादादि-यकृद्रोगहरं परम्॥२२॥

पिप्पलीघृतं स्पष्टम्॥२२॥

चित्रकघृतम्।

चित्रकस्य तुलाक्वाथे घृतप्रस्थं विपाचयेत्।
नालं तद्द्विगुणं दधिमण्डं चतुर्गुणम्॥

पञ्चकोलकतालीशक्षारैर्लवणसंयुतैः।
द्विजीरकनिशायुग्मैर्मरिचं तत्र दापयेत्॥

प्लीहगुल्मोदराध्मानपाण्डुरोगारुचिज्वरान्।
वस्तिहृत्पार्श्वकट्यरुशूलोदावर्त्तपीनसान्॥

हन्यात् पीतं तदर्शोघ्नं शोथघ्नंवह्निदीपनम्।
बलवर्णकरञ्चापि भस्मकञ्च नियच्छति॥२३॥

चित्रकघृते तुलाक्वाथ इति षष्ठीतत्पुरुषः’अरनालं तद्विगुणमिति घृतापेक्षया, एवं दधिमण्डस्यापि चातुर्गुण्यम् दधिमण्डो दधिमस्तु, क्षारो यवक्षारः, लवणं सैन्धवम्, अन्ये तु यवक्षारः साचिक्षारः, लवणं पञ्चलवणमाहुः॥२३॥

रोहीतकघृतम्।

रोहीतकत्वचः श्रेष्ठाः पालानां पञ्चविंशतिः।
कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत्॥

पलिकैः पञ्चकोलैश्च तैः सर्वेश्चापि तुल्यया।
रोहीतकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत्॥

प्लीहाभिवृद्धिंशमयेदेतदाशु प्रयोजितम्।
तथा गुल्मज्वरश्वास-क्रिमिपाण्डुत्वकामलाः॥२४॥

रोहीतकेत्यादि—वाग्भटस्य। श्रेष्ठा इत्यत्र कृत्वेति वाग्भटे पठ्यते। रोहीतको रोहड इति ख्यातस्तरुस्तस्य पञ्चविंशतिपलैःकोलप्रस्थद्वयेन मिलित्वा सप्तपश्चाशत्पलानि क्वाथ्यानि स्युः तेष्वष्टगुणं जलमुत्सर्गसिद्धं देयम्।पादशेषश्वकषायो द्विपलाधिकचतुर्दशशरावाः।वैद्यप्रसारकं तु षोडशगुणं जलमुक्तम्। अन्ये तु जलद्रोणं दत्त्वा शेषमाढकं कषायमित्याहुः। तैः सर्वैश्चापि तुल्ययेति पञ्चकोलैस्तुल्यया पञ्चपलमानया इत्यर्थः। रोहतकत्वचा पिष्टयेति योज्यम्॥२४॥

महारोहीतकघृतम्।

रोहीतकात् पलशतं क्षोदयेद्वदराढकम्।
साधयित्वा जलद्रोणे चतुर्भागावशेषिते॥

तस्मिन् दद्यादिमान् कल्कान् सर्वांस्तानक्षसम्मितान्॥

व्योपं फलत्रिकं हिङ्गु यमानीं तुम्बुरुं विडम्।
अजाजीं कृष्णलवणं दाडिमं देवदारु च॥

पुनर्नवां विशालाञ्च यवक्षारं सपौष्करम्।
विडङ्गं चित्रकञ्चैव हवुषां चविकां वचाम्॥

एतैर्घृतं विपक्वन्तु स्थापयेद्भाजने शुभे।
पाययेत् त्रिपलां मात्रां व्याधिं बलमवेक्ष्य च॥

रसकेनाथ यूपेण पयसा वापि भोजयेत्।
उपयुक्ते घृते तस्मिन् व्याधीन् हन्यादिमान बहून्॥

यकृत्प्लीहोदरञ्चैव (हृच्छूलं) पार्श्वशूलमरोचकम्।
विबन्धशूलं शमयेत् पाण्डुरोगं सकामलम्॥

छर्द्यतीसारशमनं तन्द्राज्वरविनाशनम्।
महारोहीतकं नाम्ना प्लीहघ्नन्तु विशे

षतः॥२५॥

महारोहीतकघृते वदरचूर्णस्य आढकं चतुःषष्टिपलनि, अत्र एकेनैव जलद्रोणेन वदरचूर्णाढकसहितस्य रोहीतकपलशतस्य क्वाथः करणीयः, तथैव निर्दिष्टत्वात्। तन्त्रान्तरेऽपि—“रोहीतकशतं क्षुराणं कोलचूर्णाढकान्वितम्। निःक्वाथ्य सलिलद्रोणेचतुर्भागस्थिते रसः” इति। अन्ये तु जलस्याल्पत्वमाशङ्कयद्रोणपदमावृत्त्यारोहीतकपलशतमित्यनेन तथा वदराढकमित्यनेन च प्रत्येकं योज्यम्। एतनैकेन जलद्रोणेन रोहीतकपलशतस्य क्वाथः, अपरेण वदराढकस्येत्याहुः, व्यवहारोऽप्येनैव कृष्णलवणं सौवर्चलमत्र आयुर्वेदसारे रुचकपाठात्॥२५॥

इति प्लीहयकृञ्चिकित्सा-विवृतिः।
______________

अथ शोथचिकित्सा।

शुण्ठीपुनर्नवैरण्ड-पञ्चमूलशृतं जलम्।

वातिके श्वयथौ शस्तं पानाहारपरिग्रहे।
दशमूलं सर्वथा च वातशोथे विशेषतः॥१॥

उत्सेधसाधर्म्यादनन्तरं शोयचिकित्सामाह। शुण्ठीत्यादौ—पञ्चमूलं महत् वृद्धव्यवहारात्। पानाहारपरिग्रह इति अन्नपानसंस्कारे। सर्वथेति कल्कक्वाथादिविधया॥१॥

क्षीराशनः पित्तकृतेऽथ शोधे त्रिवृद्गुडूचीत्रिफलाकषायम्।
पिबेद्गवांमूत्रविमिश्रितं वा फलत्रिकाच्चूर्णमथाज्ञमात्रम्॥२॥

क्षीरेत्यादि योगद्वयम्। गवामित्यादि द्वितीयो योगः॥२॥

पृश्निपर्णाघनोदीच्य-शुण्ठीसिद्धन्तु पैत्तिके॥३॥

पृश्निपर्णीत्यादौ—घनं मुस्तकम्।उदीच्यं बालकम्॥३॥

अभय दारु मधुकं तिक्ता दन्ती सपिप्पली।
पटोलं चन्दनं दार्वीत्रायमाणेन्द्रवारुणी॥

एषां क्वाथः ससर्पिष्कः श्वयथुज्वरदाहहा।
विसर्पतृष्णासन्ताप-सन्निपातविषापहः॥४॥

अभयेत्यादौ-सर्पिः प्रक्षेप्यम्॥४॥

शीतवीय्यैर्हिमजलैरभ्यङ्कादींश्च कारयेत्॥५॥

शीतवीर्यैरिति—शीतवीर्य्याः काकोल्यादिशारिवा

द्युत्पलादिगणाः, तत्कृतैः स्नेहादिभिरभ्यङ्गादीन् कल्पयेत्। हिमजलैरिति शीतलजलैः॥५॥

पुनर्नवाविश्वत्रिवृद्गुडूचीसम्पाकपथ्यामरदारुकल्कम्।
शोथे कफोत्थे महिषाक्षयुक्तं मूत्रं पिबेद्वासलिलं तथैषाम्॥६॥

श्लैष्मिकशोथचिकित्सामाह पुनर्नवत्यादि। पुनर्नवादीनां कल्कं गुग्गुलुयुक्तंगोमूत्रेण पिबेत्। पिबेद्वा सलिलं तथैषामिति। एषां पुनर्नवादीनां क्वाथं वा गुग्गुलुगोमूत्रे प्रक्षिप्य पिबेत्। महिषातो गुग्गुलुः॥६॥

कफे तु कृष्णासिकतापुराणपिण्याकशि

ग्रुत्वगुमाप्रलेपः।
कुलत्थशुण्ठीजलमूत्रसेकश्चण्डागुरुभ्यामनुलेपनञ्च॥७॥

कफे त्वित्यादौ—सिकता बालुका, पुराणपिण्याकः पुराणसर्षपखलिः, उमा अतसी, एभिर्मूत्रपिष्टैर्लेपः। उक्तन्च वाग्भटे “कृष्णापुराणपिण्याकशिप्रत्वक्सिंकतातसीः। प्रलेपोन्मर्दने युष्च्यात् सुखोष्णा मूत्रकलिकताः " कुलत्थशुराठीक्वाथेन तथा गोमूत्रेण च कुलत्थशुण्ठीसिद्धेन सेकः कार्यः। उक्तंहि वाग्भटे “स्नानं मूत्राम्भसि सिद्धे कुष्ठतर्कारिचित्रकैः। कुलत्थनागराभ्यां वा” इति चण्डा चोरपुष्पी। अनुलेपनं स्नानानन्तरमेव लेपनमिति चक्रः॥७॥

अजाजिपाठाघनपञ्चकोल-व्याघ्रारजन्यः सुखतोयपीताः।
शोथं त्रिदोषं चिरजं प्रवृद्धं निघ्नन्ति भूनिम्बमहौषधे च॥८॥

अजाजीत्यादि—वाग्भटस्य तेषां चूर्णमुष्णोदकेन पेयम्। एवं भूनिम्बमहौषधयोरपि। यद्यपि चरकेऽस्मिन् योगे चविकास्थाने गजपिप्पली पठ्यते, तथापि तत्र चविकैव ग्राह्या, गजपिप्पलीशब्देन चविकाया अप्यभिधानात्, यदुक्तं निर्घण्टौ “चविका कोलवल्लीच हस्तिपिप्प

ल्यपीष्यते” इति। जतूकर्णादावपि चविकैव पठ्यते, तस्मात् चव्येव युक्ता। एतेन “पिप्प

ल्यादिगजौ नाम्ना चरके पठ्यते त्वयम्। योगेऽत्र चविकास्थाने ग्राह्यामात

शपिप्पली” इति वृन्दोक्तमतमपास्तम्। ननु चरके त्रिदोषजशोथस्यासाध्यत्वेनोक्तत्वात् कथं त्रिदोषं शोधं घ्नन्तीत्युक्तम्। नैवम्। चरके अहीनमांसस्येत्यादिना ग्रन्थेनैकदोषस्य तथा नवस्य च सुखसाध्यत्वाभिधानेन द्विदोषजत्रिदोषजयोस्तथा चिरजस्य च कृच्छ्र

वाध्यत्वमेवोक्तंन पुनरसाध्यत्वमिति॥८॥

पुनर्नवानिम्बपटोलशुण्ठी-तिक्तामृतादार्वभयाकषायः।
सर्वाङ्गशोथोदरकासशुलं श्वासान्वितं पाण्दुगदं निहन्ति॥९॥

पुनर्नवेत्यादि—तिक्ताकटुकी, दारु देवदारु, वन्दे त्वयं योगः शोधोदरे पठ्यते॥

आर्द्रकस्य रसः पीतः पुराणगुडमिश्रितः।
आजाक्षीराशिनां शीघ्रं सर्वशोथहरो भवेत्॥१०॥

आर्द्रकस्येत्यादि—

स्रष्टम्॥१०॥

पुनर्नवादारुशुण्ठीक्वाथे मूत्रे च केवले।
दशमूलरसे चापि गुग्गुलुः शोथनाशनः॥११॥

पुनर्नवत्यादौ—गुग्गुलुः प्रक्षेप्यः॥११॥

विल्वपत्ररसं पूतं सोपणं श्वयथौ त्रिजे।
विट्सङ्गे चैव दुर्नाम्निविद्ध्यात् कामलास्वपि॥१२॥

बिल्वेत्यादौ—सोषणमिति समरिचम्॥१२॥

गुडपिप्पलिशुण्ठीनां चूर्णं श्वयथुनाशनम्।
आमजीर्णप्रशमनं शूलघ्नंवस्तिशोधनम्॥१३॥

गुडेत्यादौ—गुढःएकभागसमः॥१३॥

पुरो मूत्रेण सेव्येत पिप्पली वा पयोऽन्विता।
गुडेन वाभया तुल्या विश्वं वा शोथरोगिणाम्॥१४॥

पुर इत्यादि—पुरः गुग्गुलुः। पिप्पली वा पयोन्वितेति पिप्पलीवर्द्धमानन्यायेन इतरकल्कवद्वा पिप्पलीक्लकः पय

सा सेव्यः\। विश्वं वेति गुडेन तुल्यमित्यत्रापि योज्यम्॥१४॥

गुडार्द्रकं वा गुडनागरं वा गुडाभयां वा गुडपिप्पलीं वा।
कर्षाभिवृद्धघा त्रिपलप्रमाणं खादेन्नरः पक्षमथापि मासम्॥

शोथप्रतिश्यायगलास्यरोगान् सश्वासकासारुचिपीनसान्॥
जीर्णज्वरार्शेग्रहणीविकारान् हन्यात् तथान्यान् कफवातरोगान् १५

गुडार्द्रकंवेत्यादि—गुडार्द्रकादयश्चत्वारो योगा एते तुल्यभागाः सन्तः प्रति

दिनं मिलित्वा कर्षेण कर्षेण वर्द्धयितव्याः। एवं द्वादशभिर्दिनैस्त्रिपलं पूर्य्यते। ततस्त्रिपलंकृत्वा प्रत्यहं पक्षं मासं वा यावत् खादेत्। किंवा प्रथमदिने कर्षमेकं खादेत्, ततः कतिचिद्दिनानि कर्षस्यैवाभ्यासः, ततःपरमपरकर्षं वर्द्धयेत् तस्यापि पुनरभ्यासः। एवं कर्षेण कर्षेणाभिवृद्वया यथा पक्षेणमासेन वा त्रिपलं भवति तथा कार्यम्। अन्ये तु ब्रवते पक्षपुरोऽप्यथापिशब्दो मासमित्यनन्तरं ज्ञेयः, स च समुच्चयार्थः, तेन पक्षे मासञ्च व्याप्य सार्द्धमासं व्याप्येत्यर्थः। सार्द्धमासेन च त्रिपलं कर्षोपयोगात् प्रभृति प्रत्यहं माषचतुष्टयाधिकविधिना भवति। अस्मिन् व्याख्याने कर्षादारभ्य माषकचतुष्टयमेव वृद्धिर्नाधिका।व्यवहारोऽपत्यिमेव॥१५॥

स्थलपद्ममयं कल्कं पयसालोड्य पाययेत्।
प्लीहामयहरञ्चैव सर्वाङ्गैकाङ्गशोथजित्॥१६॥

स्थलपद्ममयं कल्कमिति—स्थलपद्मं माणकन्दः स च पुराणो ग्राह्यः। कल्कमिति चूर्णम्॥१६॥

दारुगुग्गुलुशुण्ठीनां कल्को मूत्रेण शोथजित्॥१७॥

वर्षाभूशृङ्गवेराभ्यां कल्को वा सर्वशोथजित्॥१८॥

दार्वित्यादौ वर्षाभिवत्यादौ च योगे गोमूत्रेणैव पानं ज्ञेयम्॥१७–१८॥

सिंहास्यामृतभण्टाकीक्वाथं कृत्वा समाक्षिकम्।
पीत्वा शोथं जयेज्जन्तुः कासं श्वासं ज्वरं वमिम्॥१९॥

सिंहास्येत्यादौ—सिंहास्यं वासकमूलम्। भण्टाकी कण्टकारी॥१९॥

भूनिम्बविश्वकल्कं जग्ध्वा पेयः पुनर्नवाक्वाथः।
अपहरति नियतमाशु शोथं सर्वाङ्गगं नृणाम्॥२०॥

भूनिम्बेत्यादौ—पेयः पुनर्नवाक्वाथ इत्यनुपानमिदम्। एतञ्च पुनर्नवामूलकर्षं निःक्वाथ्य कार्यम्। अतोऽधिकमात्रया तु करणे भूरिभेषजत्वेनाग्निवधादिदोषः स्यादिति। एवं सर्वत्र क्वाथेनानुपानं ज्ञेयम्॥२०॥

शोथनुत् कोकिलाक्षस्य भस्म मूत्रेण वाम्भसा।
क्षीरं शोथहरं दारु-वर्षाभूनागरैः शृतम्।
पेयं वा चित्रकव्योष-त्रिवृद्दारुप्रसाधितम्॥२१॥

शोधनुदित्यादि—अम्भसेत्यन्त एको योगः।मूत्रेण कफे अम्भसेति पित्ते। शृतमित्यन्तो द्वितीयः। चित्रकेत्यादिस्तृतीयः। अत्रापि क्षीरमिति योज्यम्॥२१॥

पुनर्नवामूलकपित्थदारुच्छिन्नोद्भवाचित्रकमूलसिद्धाः।
रसा यवाग्वश्च पयांसि यूषाःशोथे प्रदेया दशमूलगर्भाः॥२२॥

पुनर्नवेत्यादौ—कपित्थस्य फलम्।पुनर्नवादीनामर्द्धशृतं कृत्वा दशमूलस्यानुरूपकल्कं दत्त्वा रसादयः साध्या इत्यर्थः॥२२॥

क्षारादिगुडिका।

क्षारद्वयं स्याल्लवणानि चत्वार्य्ययोरजोव्योषफलत्रिके च ।

सपिप्पलीमूलविडङ्गसारं मुस्ताजमोदामरदारुविल्वम्॥

कलिङ्गकश्चित्रकमूल-पाठे यष्ट्याह्नंसातिविषं पलांशम्।
सहिङ्गुकर्षं तनुशुष्कचूर्णं द्रोणं तथा मूलकशुण्ठकानाम्

स्याद्भस्मनस्तत्सलिलेन साध्यमालोड्य यावद्धनमण्यदग्धम्। स्त्यानं ततः कालसमाञ्चमात्रां कृत्वा सुशुष्कां विधिना प्रयुञ्ज्यात् प्लीहोदरश्वित्रहलीमकार्शः पाण्ड्वामयारोचकशोथशोषान्।

विसूचिकागुल्मगराश्मरींश्च सश्वासकासान् प्रणुदेव सकुष्ठान्।

सौव

र्ञ्चलं सैन्धवश्च विडमौद्भिदमेव च॥
चतुलवणमत्र स्याजलमष्टगुणं भवेत्॥२३॥

क्षारेत्यादि—क्षारद्वयं यवक्षारसर्जिकाक्षारौ।लवणानि चत्वारीति सामुद्रवर्जितानि।अयोरजो लौहचूर्णं मारितपुटितं प्राह्यम्। पलांशमिति प्रत्येकम्।

ऋणुशुष्कचूर्णमिति शुष्कसूक्षमचूर्णमित्यर्थः तत्सलिलेनेति, क्षारसलिलन क्षारद्वयादिचूर्णपेक्षयाचतुर्गुणेन, अन्ये त्वष्टगुणमाहुः। अत्रमूलकभस्मद्रोणे षड्द्रोणं वाजलं दत्त्वा त्रिभागावशिष्टमर्द्धभागावशिष्टं वा कार्यम्, ततः परिस्राव्यम्, ततः क्षारद्वयादिचूर्णापेक्षया चतुर्गुणं क्षारजलं गृहीत्वा पक्तव्यम्। पाकाञ्चघनीभावे जाते क्षारद्वयादिचूर्णप्रक्षेप इत्याहुः॥२३॥

पुनर्नवाद्यं घृतम्।

पुनर्नवाचित्रकदेवदारु-पञ्चोषणक्षारहरीतकीनाम्।
कल्केन पक्वं दशमूलतोये धृतोत्तमं शोधनिसूनञ्च॥२४॥

पुनर्नवेत्यादौ—पञ्चोषणं पञ्चकोलम्॥२४॥

स्वल्पपुनर्नवाघृतम्।

पुनर्नवाक्वाथकल्कसिद्धं शोथहरं घृतम्॥२५॥

पुनर्नवेत्यादि—स्पष्टम्॥२५॥

पञ्चकोलाद्यं धृतम्।

रसे विपाचयेत् सर्पिः पञ्चकोलकुलत्थयोः।
पुनर्नवायाः कल्केन घृतं शोथविनाशनम्॥२६॥

रस इत्यादि—रसः क्वाथ इत्यर्थः। पञ्चकोलकुलत्थयोरिति द्विवचननिर्देशात् पञ्चकोलस्य मिलित्वा एको भागः, अपरश्चकुलत्थानामिति वदन्ति॥२६॥

शुण्ठीघृतम्।

विश्वौषधस्य कल्केन दशमूलजले शृतम्।
घृतं निहन्याच्छ्वयथुं ग्रहणीं पाण्डुतामयम्॥२७॥

** **शुण्ठीघृते—पाण्डतामयमिति पाण्डुरोगम्॥२७॥

सचित्रका धान्ययमानिपाठाः सदीप्यकत्र्यूषणवेतसाम्लाः।
विल्वात् फलं दाडिमयावशूकं सपिप्पलीमूलमथापि चव्यम्॥२८॥

पिष्ट्वाक्षमात्राणि जलाढकेन पक्त्वा घृतप्रस्थमथोपयुञ्ज्यात्।
अर्शांसि गुल्मं श्वयथुञ्च कृच्छ्रं निहन्ति वह्निञ्च करोति दीप्तम्॥

सचित्रकेत्यादौ—दीप्यकं जीरकमिति निश्चलः, तन्न, " यवानकं यवक्षारं यमानी पञ्चकोलकम्, इति वाग्भटवचनविरोधात्। तस्माद्दीप्यकमजमो

द। वेतसाम्लोइम्लवेतसः। बिल्वात् फलमित्यत्र बिल्वात् पलमिति न पाठः, वाग्भटे “बालबिल्बश्चकर्षांशम् " इत्युक्त्वात्॥२८॥

चित्रकघृतम्।

क्षीरं घटे चित्रककल्कलिप्ते दध्यागतं साधु विमथ्य तन।
तज्जंघृतं चित्रकमूलकल्कं तक्रेण सिद्धं श्वयथुध्नमग्रथम्॥

अर्शोऽतिसारानिलगुल्ममेहांस्तद्धन्ति संवर्द्धयते च वह्निम्॥२९॥

क्षीरमित्यादौ—दध्यागतमिति दधिभावेन परिणतम्। तेनेति यथोक्तदधिमथनजातेन तक्रेणेत्यन्वयः।तज्जं घृतमिति यथोक्तदधिभवं घृतमिति॥२९॥

माणकघृतम्।

माणकक्वाथकल्काभ्यां घृतप्रस्थंविपाचयेत्।
एकजं द्वन्द्वं शोथं त्रिदोषञ्च व्यपोहन्ति॥३०॥

माणकवृते—माणकक्वाथार्थमष्टगुणं जलं देयं न तु मृदुत्वाच्चतुर्गुणम्, तथा सति यवगूवत् क्वाथः स्यादिति। अन्ये तु तन्त्रान्तरदर्शनात् माणककन्दस्य पलशतं तोयोद्रोणेपक्त्वा गृह्णन्ति। व्यवहारस्तु पूर्वेणैव।माणकन्दं चार्द्रमेव गृह्णन्ति वृद्धाः

स्थलपद्मघृतम्।

स्थलपद्मपलान्यष्टौ त्र्यूषणस्य चतुःपलम्।
घृतप्रस्थं पचेदेभिः क्षीरं दत्वा चतुर्गुणम्।
पञ्च कासान् हरेच्छीघ्रं शोथञ्चैव सुदुस्तरम्॥३१॥

** **स्थलपद्मपृते स्थलपद्मं माणमूलमेव। त्र्यूषणस्य च मिलित्वा चतुःपलम् ३१

शैलेयाद्यं तैलम्।

शैलेयकुष्ठागुरुदारुकौन्तीत्वक्पद्मकैलाम्बुपलाशमुस्तैः।
प्रियङ्गुथौणेयकहेममांसीतालीशपत्रप्लवपत्रघान्यैः॥

श्रीवेष्टकध्यामकपिप्पलीभिः पृक्कानखैर्वापि यथोपलाभम्।
वातान्वितेऽभ्यङ्गमुशन्ति तैलं सिद्धं सुपिष्टैरपि च प्रदेहम्॥३२॥

शैलेयेत्यादौ—कौन्ती रेणुका, पलाशः

शटी, थौणेयकं प्रन्थिपर्णम्, छान्दसत्वादत्र सकारलोपः । हेम नागकेशरम्, प्लवः कैवर्तमुस्तकम्, श्रीवेष्टको नवनीतखोटी, ध्यामकं गन्धतृणम् एषां कल्कः, जलं चतुर्गुणमर्थात्। अथोपलाममिति यथालाभम्। तैलं सिद्धं सुपिष्टैरिति शैलेयादिभिः सुपिष्टैस्तैलं सिद्धमुशन्ति तथा तैरेव सुपिष्टैः प्रदेहञ्चोशन्ति कथयन्ति इच्छन्ति वा॥३२॥

शुष्कमूलकाद्यं तैलम्।

शुष्कमूलकवर्पाभू-दारुरास्नामहौषधैः।

पक्वमभ्यञ्जनात् तैलं सशूलं श्वयथुं जयेत्॥३३॥

शुष्कमूलकाद्यं तैलं—स्पष्टम्॥३३॥

पुनर्नवावलेहः।

पुनर्नवामृतादारु-दशमूलरसाढके।
आर्द्रकस्वरसप्रस्थे गुडस्य तु तुलां पचेत्॥

तत् सिद्धं व्योपपत्रेला त्वक्चव्यैः कार्षिकैः पृथक्।
चूर्णीकृतैः क्षिपेच्छीते मधुनः कुडवं लिहेत्॥

लेहः पौनर्नवो नाम शोथशलनिसूदनः।
श्वासकासारुचिहरो बलवर्णाग्निवर्द्धनः॥३४॥

पुनर्नवेत्यादौ—पुनर्नवादीनां दशमूलान्तानां मिलित्वा चतुःषष्टिपलानां जलस्य चतुःषष्टिशरावाः, शेषस्तु आढकः। व्योषोत्यादौ—सहार्थे उपलक्षणे वा तृतीया। मधुनः कुडवमष्टौपलानि।शूलशोधनिसूदन इति पाठान्तरम् आयुर्वेदसारेऽपि कफशोथविनाशन इत्युक्तः॥३४॥

दशमूलहरीतकी।

दशमूलकपायस्य कंसे पथ्याशतं पचेत्।
तुलां गुडाद् घने दद्यायोपक्षारं चतुःपलम्॥

त्रिसुगन्धं सुवर्णंशं प्रस्थार्द्धं मधुनो हिमे।
दशमूलीहरीतक्यः शोधान् हन्युःसुदारुणान्॥

ज्वरारोचकगुल्मार्शो-मेहपाण्डूदरामयान्।
प्रत्येकमेव कर्षंशं त्रिसुगन्धमितो भवेत्॥

कंसहरीतकी चैषाचरके पठ्यतेऽन्यथा।
एतन्मानेन तुल्यत्वं तेन तत्रापि वर्ण्यते॥३५॥

दशमूलेत्यादौ—कंस इत्याढकः।अत्र कषायस्य कंसमानतानिर्देशेन अनुक्तमपि क्वाथ्यजलयोर्मानमुन्मीयते, यतः क्वाथः कंसश्चतुःषष्टिपले क्वाथे जलद्रोणदानाच्चतुर्भागावशेषे सति भवति। पथ्याशतमाकृतिमानात्। व्योषक्षारचतुःपलमिति मिलित्वा, निर्देशस्य मानप्रधानत्वात्। त्रिसुगन्धन्तु प्रत्येकं सुवार्णांशकर्षांशम्, निर्देशस्य द्रव्यप्रधानत्वात्। प्रस्थार्द्धं मधुन इति षोडशपलानि। एतत्प्रयोगोक्त

मानसंवादाच्चरकोत्ककंसहरीतक्यामपि प्रक्षेप्यद्रव्यमानं कल्पनीयमित्याह प्रत्येकमित्यादि। इत इति सप्तम्यन्तात् तसि अत्रेत्यर्थः। चरके पठ्यतेऽन्यथेति एतेन पाठभेदः, परं न तु योगभेद इत्यर्थः। एतेन मानभेदाद् योगभेद इति वृन्दोक्लमपास्तम्॥३५॥

कंसहरीतकी।

द्विपञ्चमूलस्य पचेत् कषाये कंसेऽभयानाञ्च शतं गुडाच्च।
लेहे सुसिद्धे च विनीय चूर्णं व्योषत्रिसौगन्ध्यमुषास्थिते च॥

प्रस्थार्द्धमात्र मधुनः सुशीते किञ्चिच्च चूर्गादपि यावशूकात्।
एकाभयां प्राश्य ततश्च लेहाच्छुक्तिंनिहन्ति श्वयथुं प्रवृद्धम्॥

कासज्वरारोचकमेहगुल्मान् प्लीहत्रिदोषोदरपाण्डुरोगान्।
कार्श्यामवातावसृगम्लपित्तंवैवर्ण्यमूत्रानिलशुक्रदोषान्॥

अत्र व्याख्यान्तरं नोक्तंव्याख्या पूर्वैव यत् कृता॥३६॥

चरके पठ्यतेऽन्यथेत्युक्तम्, अतस्तमेव पाठभेदं दर्शयितुं चरकोक्तकंसहरीतकीमाह द्विपश्चमूलस्थेत्यादि—लेहाच शुक्तिमित्यर्द्धपलं प्राश्येति योज्यम्। व्याषत्रिसुगन्धयोर्यद्यप्यन्नमानं नोक्कम्, तथापि पूर्वोक्कदशमूलहरीतक्यनुसारेणात्रापि कल्पनीयम्। एवं यवक्षारस्यापि।किष्चिच्छब्दोऽत्राप्यल्पवचनः, तेन व्योषक्षारयोर्मिर्लित्वा चतुः पलग्रहणेऽपि व्योषभागापेक्षया यवक्षारस्य किश्चिन्यूनता कल्पनीयेत्यर्थः। वृन्दस्त्वाह—“किष्चिच्च कर्षपर्य्ययः शुक्तिरर्द्धपलं तथा। सान्निध्यान्मधुनो मानं व्योषादेर्मिलितस्य च " इति॥३६॥

लेपोऽरुष्करशोथं निहन्ति तिलदुग्धमधुनवनीतैः।
तत्तरुतलमृद्भिर्वा शालदलैर्वापि न चिरेण।
शोथे विषनिमित्ते तु विषोक्ता सम्मता क्रिया॥३७॥

लेप इत्यादि—योगत्रयम्॥३७॥

ग्राम्याब्जानूपं पिशितलवणं शुष्कशाकं नवान्नम्।
गौडं पिष्टानं दधि सकृशरं निर्जलं मद्यमम्लम्॥

धाना वल्लूरं समशनमथो गुर्वसात्म्यं विदाहि।
स्वप्नञ्चारात्रौ श्वयथुगदवान् वर्जयेन्मैथुनश्च॥३८॥

ग्राम्येत्यादौ—पिशितञ्च लत्वणञ्चेति समाहारः, तस्य विशेषणं ग्राम्याब्जानूपमिति । तत्र छागादिमांसं ग्राम्यम्, लवणञ्च यत् पाकेनाभिनिर्वृत्तं तत् ग्राम्यम्। अब्जं कच्छपादिमांसम्, लवणञ्चसामुद्रं करकचेति ख्यातं तद

न्जम्। आनूपं शूकरादिमांसम्, लवणञ्च समुद्रतीरजं साम्भरीति ख्यातम् तदप्यानूपम्। गौढंगुडविकारम्।धाना अङ्कुरितमृष्टयवाः। बल्लूरं शुष्कमांसम्। समशनं पथ्यापथ्यस्यैकत्र भोजनम्। अरात्राविति दिने॥३८॥

इति शोथाधिकार-विवृतिः।
_____________

अथ वृद्धिव्रध्नचिकित्सा।

गुग्गुलुं रुवुतैलं वा गोमूत्रेण पिबेन् नरः।
वातवृद्धिं निहन्त्याशु चिरकालानुबन्धिनीम्॥१॥

पूर्वोक्तसङ्गत्यैव शोथानन्तरं वृद्धिबध्नचिकित्सितमुच्यते। वृद्धिः कुरण्डः। गुग्गुलुमित्यादि—गोमूत्रपलद्वये एरण्डतैलपिण्डितगुग्गुलुमाषकाष्टकं प्रक्षिप्य पेयम्। तथा गोमूत्रपलद्वये एरण्डतैलकर्षमेकं प्रक्षिप्य पिबेत्। इमौयोगौ क्रमात् कफानुबन्धे वाते च योज्यावियाहुः॥१॥

सक्षीरं वा पिबेत् तैलं मासमेरण्डसम्भवम्।
पुनर्नवायास्तैलं वा तैलं नारायणं तथा।
पाने वस्तौ रुवोस्तैलं पेयं वा दशकाम्भसा॥२॥

सक्षीरमित्यादि—सुश्रुतस्य। गव्यदुग्ध पल २, एरण्डतैल कर्ष १, अयं योगः पित्तानुबन्ध इत्याहुः। पुनर्नवातैलन्तु पुनर्नवाक्वाथकल्काभ्यां साध्यमित्याहुः। पाने वस्ताविति पूर्वेण सह सम्बध्यते। रुवोस्तैलमरण्डतैलम्। दशकस्य दशमूलस्याम्भसा क्वाथेन पेयम्॥२॥

चन्दनं मधुकं पद्ममुशीरं नीलमुत्पलम्।
क्षीरपिष्टैःप्रदेहः स्याद्दाहशोथरुजापहः॥३॥

पैत्तिकवृद्धिभेषजमाह चन्दनमित्यादि—पद्मंपद्मकेशरम्॥३॥

पञ्चवल्कलकल्केन सघृतेन प्रलेपनम्॥४॥

सर्वंपित्तहरं कार्य्यं रक्तजे रक्तमोक्षणम्॥५॥

पञ्चवल्कलमित्यादि—रक्तजे रक्तमोक्षणमिति अपक्वरक्तजवृद्धौ रक्तमोक्षणं जलौकोभिः कार्य्यं, सुश्रुतसंवादात्॥४-५॥

श्लेष्मवृद्धिन्तूष्णवीय्यैर्मूत्रपिष्टैः प्रलेपयेत्।
पीतदारुकषायञ्च पिबेद्वा मत्रसंयुतम्॥६॥

श्लेष्मवृद्धिमित्यादि—उष्णनीर्य्यैरिति अजगन्धादिभिः मिश्रकोक्तैः। पतिदारु देवदारु, गोमूत्रेणैव देवदारुक्वाथः कार्य्य इत्याहुः। व्यवहारस्तु प्रक्षेपविधया।वाग्भटे तु—“गोमूत्रेण पिबेत् कल्कं श्लैष्मिके पीतदारुजम्” इत्युक्तम्॥६॥

स्विन्नंमेदःसमुत्थन्तु लेपयेत् सुरसादिना।
शिरोविरेकद्रव्यैर्वा सुखोष्णैर्मूत्रसंयुतैः॥७॥

स्विन्नमित्यादि—सुश्रुतस्य।गोमयपिण्डादिना मृदु स्विन्नम्। चरके “हृदयं वृषणौ दृष्टी स्वदेयेन्मृदु वा न वा” इत्युक्त्वात्। सुरसादिना सुरसादिगणेन। शिरोविरेचनद्रव्यैः पिप्पलीमरिचविडङ्गापामार्गादिभिः संशोधनसंशमनीयोक्तैः। मूत्रसंयुतैरिति मूत्रपिष्टैर्लैपयेदिति पूर्वेणान्वयः॥७॥

संस्वेद्य मूत्रप्रभवां वस्त्रपट्टेन वेष्टयेत्।

सीवन्याः पार्श्वतोऽधस्ताद्विध्येद् व्रीहिमुखेन वै॥८॥

मूत्रजवृद्धिचिकित्सामाह, संस्वेद्यत्यादि—सुश्रुतस्य । मूत्रप्रभवामिति मूत्रवेगसन्धारणजां संस्वेदने कर्त्तव्यं शस्त्रकर्मवेदनानिवारणार्थं त्वगादिमृदुकरणार्थष्च, वस्त्रपट्टेन घटिकाकृतिवस्त्रेण वेष्टनं कर्तव्यं, शस्त्रकर्मणः सौकर्य्यार्थंब्रीहिमुखेन शस्त्रविशेषेण वेध्यः। व्यधश्च मूत्रस्त्रावणार्थम् एतदनन्तरं यदाह सुश्रुतः—“अथात्र द्विमुखीं नाडीं दत्वा विस्रावयेद्भिषक्। मूत्रं नाडीमथोद्धृत्यस्थगिकाबन्धमाचरेत्” इति॥८॥

शङ्खोपरि च कर्णान्ते त्यक्त्वा सीवनिमादरात्।
व्यत्यासाद्वा शिरां विध्येदन्त्रवृद्धिनिवृत्तये॥९

अप्राप्तफलकोषान्त्रवृद्धिचिकित्सामाह, शङ्खेत्यादि—सुश्रुतस्य। त्यक्त्वा सेवनीमिति केशान्तसेवनीं मर्मत्वात् परित्यज्य, अतएवोक्तं वाग्भटे " षट् कूर्चा सप्तसेवन्यो मेढ्रजिह्वाशिरोगताः। शस्त्रेण ताः परिहरेत्” इति। व्यत्यासादिति वामकोषवृद्धौ दक्षिणे, दक्षिणकोषवृद्धौ तु वामे, यदि तु पुनरुभयतो वृद्धिस्तदोभयभागे वाशब्दो विध्यन्तरापेक्षया॥९॥

अङ्गुष्ठमध्ये त्वक् छित्त्वा दहेदङ्गविपर्य्यये॥१०॥

अंगुष्ठेत्यादि—सुश्रुतस्य।हस्तस्य वृद्धांगुष्ठमध्ये त्वङ्मात्रं छित्त्वा दहेत् न तु वातकफवृद्धिवत् स्नायुमपि। त्वक्शब्दस्य नपुंसकलिङ्गता समधिया छान्दसत्वात्। अङ्गविपर्य्यय इति विपर्ययार्थः पूर्ववदिति॥१०॥

रास्नायष्ट्यमृतैरण्ड-बलागोक्षुरसाधितः।
क्वाथोऽन्त्रवृद्धि हन्त्याशु रुवुतैलेन मिश्रितः॥११॥

रास्नेत्यादि—स्पष्टम्॥११॥

तैलमेरण्डजं पीत्वा बलासिद्धपयोऽन्वितम्।
आध्मानशूलोपचितामन्त्रवृद्धिं जयेन्नरः॥१२॥

तैलमित्यादि—बलासिद्धपयोऽन्वितमिति। इदं क्षीरसाधनपरिभाषया वलामूलसाधित क्षीरे एरण्डतैलं प्रक्षिप्य पेयमित्यर्थः॥१२॥

हरीतकीं मूत्रसिद्धां सतैलां लवणान्विताम्।
प्रातः प्रातश्च सेवेत कफवातामयापहाम्॥१३॥

हरीतकीमित्यादौ—तैलमेरण्डतैलमित्याहुः। अस्य योगस्य विरेचनत्वान्मूत्रेणैव पानमिच्छन्ति, अन्ये तु उष्णोदकेन पानमित्याहुः॥१३॥

गोमूत्रसिद्धां रुवुतैलभृष्टां हरीतकीं सैन्धवचूर्णयुक्लाम्।
खादेन्नरः कोष्णजलानुपानां निहन्ति वृद्धिं विरजां प्रवृद्धाम्॥१४॥

गोमूत्रेत्यादि—पूर्वयोगापेक्षया, भृष्टामिति विशेषः। कोष्णजलानुपानमिति पाठपक्षे क्रियाविशेषणम्॥१४॥

त्रिफलाक्वाथगोमूत्रं पिबेत् प्रातरतन्द्रितः।
कफवातोद्भवं हन्ति श्वयथुं वृषणोत्थितम्॥१५॥

त्रिफलेत्यादौ—गोमूत्रं प्रक्षेप्यम्॥१५॥

सरलागुरुकुष्ठानि देवदारुमहौषधम्।
मूत्रारनालसम्पिष्टं शोथघ्नं कफवातनुत्॥१६॥

सरलेत्यादौ—सरलं सरलकाष्ठं, लेपोऽयं योगः॥१६॥

भृष्टो रुवुकतैलेन कल्कः पथ्यासमुद्भवः।
कृष्णासैन्धवसंयुक्तो वृद्धिरोगहरः परः॥१७॥

भृष्ट इत्यादियोगो भक्षणविधया॥१७॥

गव्यं घृतं सैन्धवसम्प्रयुक्तं शम्बूकभाण्डे निहितं प्रयत्नात्।
सप्ताहमादित्यकरैर्विपक्वंहन्यात् कुरण्डं चिरजं प्रवृद्धम्॥१८॥

गव्यमित्यादि—शम्बूकमाण्ड इति शम्बूकरूपभाण्डे, शम्बूकभाण्डञ्च सद्यस्कं ग्राह्यं, न तु पुराणमित्याहुः। घृतात् पादिकञ्चसैन्धवमिति च वदन्ति लेपविधया योज्यमेतत्॥१८॥

ऐन्द्रीमूलभवं चूर्णं रुवुतैलेन मर्दितम्।
त्र्यहाद्गोपयसा पीतं सर्ववृद्धिनिवारणम्॥१९

ऐन्द्रीत्यादौ—ऐन्द्री गोरक्षकर्कटी॥१९॥

रुद्रजटामूललिप्ता करटव्यङ्कचर्मणा।
बद्धा वृद्धिः शमं याति चिरजापि न संशयः॥२०॥

रुद्रजटेत्यादि—रुद्रजटा रुजड इति ख्याता।आदौ रुजटामूलकल्केन लिप्वा तदनु करटवी कटा इति ख्याता नकलाकारा प्रायशो वृक्षोपरि तिष्ठति, तस्या अङ्कचर्मणा क्रोडचर्मणा वद्धा वृद्धिरित्यर्थः॥२०॥

निष्पिष्टमारनालेन रूपिकामूलवल्कलम्।
लेपो वृद्ध्यामयं हन्ति बद्धमूलमपि दृढम्॥२१॥

निष्विष्टमित्यादौ—रूपिका अर्कपर्णः॥२१॥

वचासर्षपकल्केन प्रलेपो वृद्धिनाशनः॥
लज्जागृधमलाभ्याञ्च लेपो वृद्धिहरः परः॥२२॥

वचेत्यादि—स्पष्टम्। लज्जेत्यादौ—लजा वराहक्रान्ता, गृध्रपक्षिणो मलं विट्॥

मूलं बिल्वकपित्थयोररलुकस्याग्नेर्वृहत्योर्द्वयोः
श्यामापूतिकरञ्जशिग्रुकतरोर्विश्वौषधारुष्करम्।
कृष्णाग्रन्थिकचव्यपञ्चलवणक्षाराजमोदान्वितम्
पीतं काञ्जिककोष्णतोयमथितं चूर्णांकृतं व्रध्नजित्॥२३॥

सम्प्रति व्रध्नचिकित्सामाह।व्रध्नलक्षणञ्चयद्यपि रुग्विनिश्चये नास्ति तथापि तन्त्रान्तरादनुसर्त्तव्यम्, यथा, “अत्यभिष्यन्दिगुर्वन्नसेवनान्निचयं गतः। करोति

ग्रन्थिवच्छोथं दोषो वङ्क्षणसंन्धिषु। ज्वरशूलाङ्गदाहाढ्यंतं व्रध्नमिति निर्दिशेत्” इति। व्रध्नस्तु लोके भांडुसीति नाम्ना ख्यातः।मूलमित्यादि—वाग्भटस्य। मूलमिति षष्ठ्यन्तैः सर्वैर्योज्यम्। अरलुकः श्योनाकः, अग्निश्चित्रकः, श्यामा वृद्धदारकः, पूतिकरञ्जो लाटाकरञ्जः, काञ्जिककोष्णतोयमथितानामन्यतमेन पानं प्रकृत्याद्यपेक्षया ज्ञेयम्॥२३॥

अवीक्षीरेण गोधूमकल्कं कुन्दुरुकस्य वा।
प्रलेपनं सुखोष्णं स्याद् व्रध्नशूलहरं परम्॥२४॥

अक्षक्षीरेणेत्यादि—वाग्भटस्य।अवीक्षीरेण गोधूमकुन्दुरुणी पिष्ट्वा लेपः कार्य्यःएक एवायं योगः।वाशब्दः पूर्वयोगापेक्षया। अतएव वाग्भटे वाशब्दस्थाने चकारःपठ्यते। अपरे तु योगद्वयमाहुः। कुन्दुरु स्वनामख्यातम्॥२४॥

मृतमात्रे तु वै काके विशस्ते सम्प्रवेशयेत्।
व्रध्नं मुहूर्त्तंमेधावी तत्क्षणादरुजं भवेत्॥२५॥

मृतमात्र इत्यपि वाग्भटस्य।मृतमात्र इति सद्योमारिते।विशस्त इति पाटिते काकस्य क्रोडंपाटयित्वा तत्र कोष्णेव्रध्नंप्रवेशनीयं ततो बन्धः क्वार्थः॥२५॥

अजाजी हवुषा कुष्ठं गोधूमं वदराणि च।
काञ्चिकेन समं पिष्ट्वाकुर्य्याद् व्रध्नप्रलेपनम्॥२६॥

अजाजीत्यादि—स्पष्टम्॥२६॥

बृहत् सैन्धवाद्यं तैलम्।

सैन्धवं मदनं कुष्ठं शताह्वांनिचुलं वचाम्।
ह्रीवेरं मधुकं भार्गीं देवदारु सनागरम्॥

कट्फलं पौष्करं मेदां चविकां चित्रकं शठीम्।
विडङ्गातिविषे श्यामां रेणुकां नीलिनीं स्थिराम्॥

बिल्वाजमोदे कृष्णाञ्च दन्तीरास्त्नेप्रपिष्य च।
साध्यमेरण्डजं तैलं तैलं वा कफवातनुत्॥

व्रध्नोदावर्त्तगुल्मार्शः प्लीहमेहाढ्यमारुतान्।
आनाहमश्मरीञ्चैव हन्यात् तदनुवासनात्॥२७॥

सैन्धवाद्यतेले—निचुलो वेतसः, श्यामा त्रिवृतेति वैद्यप्रसारकसंवादात्। नीलिनी नीलबुद्धा। चतुर्गुणजलेन पाकः। तैलं वेति तिलतैलं वा॥२७॥

शतपुष्पाद्यं घृतम्।

शतपुष्पामृतादारु चन्दनं रजनीद्वयम्।
जीरके द्वे वचानाग-त्रिफलागुग्गुलुत्वचः॥

मांसी कुष्ठ पत्रकैलारास्नाशृङ्गीः सचित्रकाः।
क्रिमिघ्नमश्वगन्धञ्च शैलेयं कटुरोहिणीम्॥

सैन्धवं तगरं पिष्ट्वाकुटजातिविषे समे।
एतैश्च कार्षिकैः कल्कैर्घृतप्रस्थं विपाचयेत्॥

वृषमुण्डितिकैरण्ड-निम्बपत्रभवं रसम्।
कण्टकार्य्यास्तथा क्षीरं प्रस्थं प्रस्थं विनिक्षिपेत्॥

सिद्धमेतद् घृतं पीतमन्त्रवृद्धिमपोहति।
वातवृद्धिं पित्तवृद्धिं मेदोवृद्धिञ्च दारुणाम्।

मूत्रवृद्धि श्लीपदं वा यकृत्प्लीहानमेव च।
शतपुष्पाघृतं रोगान् हन्यादेव न संशयः॥२८॥

शतपुष्पेत्यादौ—वृषो वासकः।मुण्डितिका मुण्डिरी॥२८॥

घृतं सौरेश्वरं योज्यं व्रध्नवृद्धिनिवृत्तये॥२९॥

सोरेश्वरघृतं वक्ष्यमाणम्॥२९॥

इति वृद्धिव्रघ्नाधिकारविवृतिः।
_________

अथ गलगण्डगण्डमालापचीग्रन्थ्यर्बुदचिकित्सा।

यवमुद्गपटोलानि कटु रूक्षञ्च भोजनम्।
छर्दि सरक्तमुक्तिञ्च गलगण्डे प्रयोजयेत्॥१॥

उक्तसङ्कत्यैव गलगण्डादयोऽभिधीयन्ते यवेत्यादि॥१॥

तण्डुलोदकपिष्टेन मूलेन परिलेपितः।
हस्तिकर्णपलाशस्य गलगण्डःप्रशाम्यति॥२॥

तण्डुलोदकेत्यादि—हस्तिकर्णपलाशस्य मूलेनेत्यन्वयः। सर्वेऽपि गलगण्डाः वातकफमेदोभिरारभ्यन्ते, न तु पित्तेन व्याधिस्वभावात्। अतो गलगण्डोक्तलेपाः कोष्णाएव देया इत्याहुः॥२॥

सर्षपान् शिग्रुबीजानि शणबीजातसीयवान्।
मूलकस्य च बीजानि तक्रेणाम्लेन पेषयेत्॥

गण्डानि ग्रन्थयश्चापि गलगण्डाः सुदारुणाः।
प्रलेपात् तेन शाम्यन्ति विलयं यान्ति चाचिरात्॥३॥

सर्षपानित्यादि—स्पष्टम्॥३॥

जीर्णकर्कारुकरसो विडसैन्धवसंयुतः।
नस्येन हन्ति तरुणं गलगण्डं न संशयः॥४॥

जीर्णकर्कारुःपरिणततिक्तालावुः, अन्ये तु कूष्माण्डभेद इत्याहुः, व्यवहारस्तु पूर्वेणैव।तरुणमित्यचिरजातम्॥४॥

जलकुम्भीकजं भस्म पक्कं गोमूत्रगालितम्।
पिबेत् कोद्रवभक्ताशी गलगण्डप्रशान्तये॥५॥

जलकुम्भी पाहा, तस्या भस्म पानीयक्षारविधिना गोमूत्रेण विपाच्य परिस्राव्य च पिबेत्॥५॥

सूर्य्यावर्त्तरसोनाभ्यां गलगण्डोपनाहने।
स्फोटास्रावैः शमं याति गलगण्डो न संशयः॥६॥

उपनाहनमुष्णवहललेपः।स्फोटास्रावैरुष्णोपनाहकृतैः॥६॥

तिक्तलावुफले पक्वेसप्ताहमुषितं जलम्।
मद्यं वा गलगण्डघ्नं पानात् पथ्यानुसेविनः॥७॥

तिक्तालाब्वित्यादि—स्पष्टम्॥७॥

कट्फलचूर्णान्तर्गलघर्षो गलगण्डमपहरति।
घृतमिश्रंपीतमिव श्वेतगिरिकार्णिकामूलम्॥८॥

श्वेतगिरिकार्णिका श्वेतापरराजिता॥८॥

महिषीमूत्रविमिश्रं लौहमलं संस्थितं घटे मासम्।
अन्तर्धूमविदग्धं लिह्यान्मधुनाथ गलगण्डे॥९

महिषीत्यादौ—पुराणलौहमलं महिषांमूत्रे मासं स्थापयित्वा अन्तर्धूमं दग्ध्वा मधुना लिह्यादित्यर्थः॥९॥

जिह्वायाःपार्श्वतोऽधस्ताच्छ्रिरा द्वादश कीर्त्तिताः।
तासां स्थूलशिरे कृष्णे छिन्द्याद् द्वे च शनैः शनैः॥

बडिशेनैव संगृह्य कुशपत्रेण बुद्धिमान्।
स्रुते रक्ते व्रणे तस्मिन्नद्यात् सगुडमार्द्रकम्।
भोजनञ्चनभिष्यन्दि यूषः कौलत्थ इष्यते॥१०॥

जिह्वाया इत्यादौ—कृष्णे स्थूलशिर वडिशेन शनैः शनैः संगृह्यकुशपत्रेण शस्त्रविशेषेण छिन्द्यादित्यन्वयः। तस्मिन् व्रणे स्रुतरक्ते सति सगुडमार्द्रकमद्याद्भक्षयेत्। अन्ये तु दद्यादिति पठन्ति, तन्मते भक्षणार्थमिति शेषः॥१०॥

कर्णयुग्मवहिःसन्धिमध्याभ्यासे स्थितञ्च यत्।
उपर्य्युपरि तच्छिन्द्यात् गलगण्डे शिरात्रयम्॥११॥

कर्णयुग्मवहि, सन्धिमध्याभ्यास इति—कर्णयोः पृष्ठसमीपे उपर्युपरिस्थितमित्यन्वयः॥११॥

तुम्बीतैलम्।

विडङ्गक्षारसिन्धूग्रारास्नाग्निव्योषदारुभिः।
कटुतुम्बीफलरसे कटुतैलं विपाचितम्।
चिरोत्थमपि नस्येन गलगण्डं विनाशयेत्॥१२॥

तुम्बीतैले—उग्रावचा। कटुतुम्बीफलरस इति परिणततिक्ततुम्बीफलस्य चतुर्गुण” स्वरसे इत्यर्थः। उक्तं हि वाग्भटे “रूढायास्तिक्ततुम्ब्याश्चरसे तैलाच्चतुर्गुणे” इति॥१२॥

अमृताद्यंतैलम्।

तैलं पिबेच्चामृतवल्लिनिम्ब-हंसाह्वयावृक्षकपिप्पलीभिः।
सिद्धं बलाभ्याञ्च सदेवदारु हिताय नित्यं गलगण्डरोगी॥१३॥

तैलमित्यादि—सुश्रुतस्य।अमृतवल्ली गुडूची वृक्षकः कुटजः, हंसाह्वया हंसपादी, यदाह वाग्भटः"गुडूचीनिम्बकुटजहंसपादीवलाद्वयैः।साधितं पाययत्तैलं सकृष्णादेवदारुभिः” इति। अन्य तु हिंस्राह्वयति पठित्वा कालाकडं व्याख्यानयन्ति अमृतवल्ल्यादिभिः क्वाथकलकरूपैरिति चन्द्रिका।अन्ये तु एभिः सर्वैः कल्कः जलं चतुर्गुणमित्याहुः॥१३॥

माक्षिकाढ्यः सकृत् पीतः क्वाथो वरुणमूलजः।
गण्डमालां हरत्याशु चिरकालानुबन्धिनीम्॥१४॥

अतः परं गण्डमालाचिकित्सामाह—माक्षिकाढ्य इत्यादि। सकृदित्येकवारं पीतः स्तुतिवादोऽयम्॥१४॥

पिष्ट्वाज्येष्ठाम्बुना पेयाः काञ्चनालत्वचः शुभाः।
विश्वभेषजसंयुक्ता गण्डमालाहराः पराः॥१५॥

पिष्ट्वेत्यादौ—ज्येष्ठाम्बु तण्डुलोदकम्। काञ्चनालः कान्चनः॥१५॥

आरग्वधशिफां क्षिप्रं पिष्ट्वातण्डुलवारिणा।
सम्यङ्नस्यप्रतेपाभ्यां गण्डमालां समुद्धरेत्॥१६॥

आरग्वधस्य शिफा मूलम्॥१६॥

गण्डमालामयार्त्तानां नस्यकर्मणि योजयेत्।
निर्गुण्ड्याश्च शिफां सम्यग्वारिया परिपेषिताम्॥१७॥

गण्डमालेत्यादि—स्पष्टम्॥१७॥

कोषातकीनां स्वरसेन नस्यं तुम्ब्यास्तु वा पिप्पलिसंयुतेन।
तैलेन वारिष्टभवेन कुर्याद्वचोपकुल्ये सह माक्षिकेण॥१८॥

कोषातकीत्यादि—चत्वारो योगः।पिप्पलीसंयुतेनेति पदं कोषातकीनां स्वरसेनत्यनेनापिसम्बध्यते। कोषातकी घोषकः तस्याः फलस्य स्वरसः, एवं तिक्ततुम्ब्या अपि। अरिष्टभवेन निम्बफलजेन तैलेन तृतीयो योगः।अरिष्टभवस्येतिपाठान्तरे अरिष्टफलस्येत्यर्थः। वचोपकुल्य इति—वचोपल्ये पिष्ट्वा मधुना नस्यं विधेयमित्यर्थः॥१८॥

ऐन्द्र्यावा गिरिकर्ण्या वा मूलं गोमूत्रयोगतः।
गण्डमालां हरेत् पीतं चिरकालोत्थितामपि॥१९॥

ऐन्द्रयेत्यादि—ऐन्द्री गोरक्षकर्कटी, गिरिकर्णी श्वेतापराजिता॥१९॥

अलम्बुषादलोद्भूतात् स्वरसाद् द्वे पले पिबेत्।
अपच्या गण्डमालायाः कामलायाश्च नाशनः॥२०॥

अलम्बुषेत्यादौ—अलम्बुषा मुण्डितिका अलम्बुषो वा॥२०॥

गलगण्डं गण्डमालां कुरण्डांश्च विनाशयेत्।
पिष्टं ज्येष्ठाम्बुना मूलं लेपाद् ब्राह्मणयष्टिजम्॥२१॥

गलगण्डमित्यादौ—ब्राह्मणेयष्टिः भारंगी॥२१॥

छुच्छुन्दरीतैलम्।

अभ्याङ्गान्नाशयेन्नृणां गण्डमालां सुदारुणाम्।
छुच्छुन्दर्य्या विपक्वन्तु क्षणात् तैलवरं ध्रुवम्॥२२॥

अभ्यंगादित्यादौ—छुच्छुन्दरी छुछुया इति ख्याता मूषिकाकृतिः, तस्याः कल्को जलं चतुर्गुणम्॥२२॥

शाखोटकविम्व्याद्ये तैले।

गण्डमालापहं तैल सिद्धं शाखोटकत्वचा।
विम्व्यश्वमारनिर्गुण्डी-साधितञ्चापि नावनम्॥२३॥

गण्डमालापहमित्यादि—शाखोटकत्वचा स्वरसकलकरूपया, सुश्रुतेऽप्युक्तं” शाखोटकल्कस्वरसेन सिद्धं तैलं हितं नस्यविरेचनेषु” इति। विम्बीत्यादि योगान्तरम्। विम्बी डिम्बिरिति ख्याता, तेलाकुचा इत्यन्ये। अश्वमारः करवीरः। विम्ब्यादीनां मूलस्य कलको जलं चतुर्गुणमिति गयदासः॥२३॥

निर्गुण्डीतैलम्।

निर्गुण्डीस्वरसेनाथ लाङ्गलीमूलकल्कितम्।
तैलं नस्यान्निहन्त्याशु गण्डमालां सुदारुणाम्॥२४॥

निर्गुण्डीत्यादौ—निर्गुण्डीस्वरसश्चतुर्गुणः॥२४॥

वनकार्पासिकामूलं तण्डुलैः सह योजितम्।
पक्त्वा तु पूपिकां खादेदपचीनाशनाय च॥२५॥

अपचीचिकित्सामाह वनेत्यादि—त्रयो भागास्तण्डुलानां भेषजस्यैकः॥२५॥

शोभाञ्जनं देवदारु काञ्जिकेन तु पेषितम्।
कोष्णंप्रलेपतो हन्यादपचीमतिदुस्तराम्॥२६॥

शोभाञ्जनमित्यादि—षष्टम्॥२६॥

सर्षपारिष्टपत्राणि दग्ध्वा भल्लातकैः सह।
छागमूत्रेण सम्पिष्टमपर्चाघ्नं प्रलेपनम्॥२७॥

सर्षपेत्यादी—अरिष्टपत्राणि निम्बपत्राणि॥२७॥

अश्वत्थकाष्ठं निचुलं गवां दन्तञ्च दाहयेत्।
वराहमज्जसंयुक्तं भस्म हन्त्यपचीव्रणान्॥२८॥

अश्वत्थेत्यादौ वराहमज्जयोगाल्लेपः॥२८॥

पार्ष्णिप्रति द्वादश चाङ्गुलानि मित्त्वेन्द्रबस्तिं परिवर्ज्य सम्यक।

विदार्य्य मत्स्याण्डनिभानि वैद्यो निष्कृष्ण जालान्यनलं विद्ध्यात् २९

पाष्णिंप्रतीत्यादि—सुश्रुतस्य।पार्ष्

णिर्गुल्फस्याधोदेशः, पार्ष्णिमारभ्य ऊर्द्ध्वं द्वादशांगुलानि मित्वा परिमाय इन्द्रवस्तिं हयगुलं परित्यज्य विदार्य्यजालानि मेदोजालानि मत्स्याण्डेन सदृशान्याकृप्याग्निमवचारयेदित्यर्थः। एवमपच्या मूलोच्छेदात् प्रशमः, यदाह भोजः—“वातपित्तकफा वृद्धा मदश्चापि समाचितम्। जङ्घयोः कण्डरां प्राप्य मत्स्याण्डसदृशान् बहून्। कुर्वन्तीत्यादि॥२९॥

मणिबन्धोपरिष्टाद्वा कुर्य्याद्रेखात्रयं भिषक्।
अङ्गुल्यान्तरितं सम्यगपचीनां प्रशान्तये॥३०॥

कक्षाकूर्परसन्धिगतापचीषु बहुगतमेव कर्माह, मणिबन्धेत्यादि—सुश्रुतस्य। मणिबन्धो हस्तबाहुसन्धिः, अत्र मणिबन्धादंगुलमेकं द्वयं वा परित्यज्य दाहः कार्यः

दण्डोत्पलाभवं मूलं बद्धं पुण्येऽपर्चींजयेत्।
अपामार्गस्य वा च्छिन्द्याज्जिह्रातलगते शिरे॥३१॥

दण्डोत्पलेत्यादि—दण्डोत्पला स्वनामख्याता।अपामार्गस्य वा मूलमिति योज्यम्। अपचीप्रदेश एव भेषजबन्धनम्। अत्रैव शस्त्रकर्मान्तरमाह छिन्यादित्यादि॥३१॥

व्योपाद्यं तैलम्।

व्योप विडङ्गं मधुकं सैन्धवं देवदारु च।
तैलमेभिः शृतं नस्यात् कृच्छ्रामप्यपचीं जयेत्॥३२॥

व्योषमित्यादौजतं चतुर्गुणम् ॥ ३२ ॥

चन्दनाद्यं तैलम्।

चन्दनं साभया लाक्षा वचा च कटुरोहिणी।
एभिस्तैलं शृतं पीतं समूलामपचीं जयेत्॥३३॥

चन्दनमित्यादौ—अभया हरीतकी, न तु अभयमुशीरं, “वचाहरीतकीलाक्षाकटुरोहिणीचन्दनैः। तैलं प्रसाधितं पीतं समूलामपचीं जयेत्” इति वाग्भटसंवादात्

गुञ्जाद्यं तैलम्।

गुञ्जाहयारिश्यामार्कसर्पपैमूत्रसाधितम्।
तैलन्तु दशधा पश्चात् कणालवणपञ्चकैः॥

मरिचैश्चूर्णितैर्युक्तं सर्वावस्थागतां जयेत्।
अभ्यङ्गादपर्ची नाडीं वल्मीकार्शोऽर्बुदव्रणान्॥३४॥

गुञ्जेत्यादौ—हयारिः करवीरः तस्य मूलम्। श्यामा वृद्धदारकः। अर्कस्य क्षीरम्।गोमूत्रं चतुर्गुणं दत्त्वा दशधापाकः। ततः करणापञ्चलवणचूर्णं मरिचचूर्णं प्रक्षिप्य प्रयोज्यम्। कणालवणपञ्चकमरिचैरित्येकपदम्, “घृततैलवसामज्जवेशवारपयो दधि।मांसधावनतोयाभम्” इतिवत्॥३४॥

ग्रन्थिष्वामेषु कुर्वीत भिषक् शोथप्रतिक्रियाम्।

पक्वानापाट्य संशोध्य रोपयेद् व्रणभेषजैः॥३५॥

ग्रन्थिचिकित्सामाह ग्रन्थिष्वित्यादि—शोधप्रतिक्रियामिति—व्रणशोथचिकित्सितम्, तच्च सौश्रुतद्विव्रणोयोक्तमपतर्पणादिविरेचनान्तमेकादशविधम्॥३५॥

हिंस्रा सरोहिण्यमृता च भार्गी श्योनाकबिल्वागुरुकृष्णगन्धाः।
गोपित्तपिष्टाः सह तालपर्ण्या ग्रन्थौ विधेयोऽनिलजे प्रलेपः॥३६॥

हिंस्रेत्यादि—सुश्रुतस्य।हिंसा कालाकडा।कृष्णगन्धा शोभाञ्जनः। गोपित्तपिष्टा इत्यत्र गोजीञ्चपिष्ट्वेति पाठान्तरे गोजी शाखोटकः, किन्तु गोजीपाठो युक्तः आयुर्वेदारप्रामाण्यात्तथा सुश्रुतटोकाकृद्भिर्व्याख्यातत्वाञ्च।तालपर्णी तालमूली।

जलायुकाः पित्तकृते हितास्तु क्षीरोदकाभ्यां परिषेचनञ्च।
काकोलिवर्गस्य तु शीतलानि पिबेत् कषायाणि सशर्कराणि॥३७॥

जलायुका इत्यादि विद्वानित्यन्तं सुश्रुतस्य। काकोलिवर्गस्येति काकोल्यादिगणस्य॥

द्राक्षारसेनेक्षुरसेन वापि चूर्णं पिबेद्वार्पि हरीतकीनाम्।
मधूकजम्व्वर्जुनवेतसानां त्वग्भिः प्रदेहानवतारयेञ्च॥३८॥

द्राक्षारसेनेत्यादि—स्पष्टम्॥३८॥

हृतेषु दोषेषु यथानुपूर्व्या ग्रन्थौ भिषक् श्लेष्मसमुत्थिते च।
स्विन्ने च विज्ञापनमेव कुर्य्यादङ्गष्ठवेणुदृशदीसुतैश्च॥३९॥

हृतेषु दोषेवित्यादि—वमनादिभिः तथा रक्तमोक्षणेन दोषेषु कफादिरक्तान्तेषु हृतेषु सत्सु। यथानुपूर्व्येति। स्नेहस्वेदादिकमं कृत्वेत्यर्थः दृशदीसुतः शिलापुत्रकः। अत्र छन्दोभङ्ग भयं नाशङ्कनीयम् अनन्तत्वाच्छन्दोमार्गाणाम्। क्वचित्तु सुश्रुतपुस्तके अंगुष्ठलोहोपलवेणुदराडैरिति पठ्यते, केचित्तु वेणुदृशदीपुतैरिति॥३९॥

विकङ्कतारग्वधकाकणन्तीकाकादनतिापसवृक्षमूलैः।
आलेपयेदेनमलावुभार्गीकरञ्जकालामदनैश्च विद्वान्॥४०॥

विकङ्कतेत्यादिमदनान्त एको लेप इति चन्द्रिका।विकङ्कतोवयङ्कलिरिति ख्यातः। काकणन्ती गुञ्जा अस्या मूलम्, काकादनी काकतिन्दुकः, तापसवृत्तः पुत्रञ्जीवकः, अलावु कुटुतुम्बी, काला कालाकडा मञ्जिष्ठा वा॥४०॥

दन्तीचित्रकमूलत्वक् स्नुह्यर्कपयसी गुडः।
भल्लातकास्थि काशीशं लेपो भिन्द्याच्छिलामपि॥४१॥

दन्तीत्यादौ—स्नुह्यर्कपयसीति स्नुपर्कयोःक्षीरम्। भल्लातकास्थि भल्लातक बीजम्।काशीशं धातुकाशशिम्॥४१॥

ग्रन्थ्यर्बुदादिजिल्लेपो मातृवाहककीटजः॥४२॥

ग्रन्थीत्यादि—मातृवाहककीटः सुखाशादिभवपदकीट इति ख्यातः॥४२॥

स्वर्जिकामूलकक्षारः शङ्खचूर्णसमन्वितः।
प्रलेपो विहितस्तीक्ष्णो हन्ति ग्रन्थ्यर्बुदादिकान्॥४३॥

स्वर्जिकेत्यादि—स्पष्टम्॥४३॥

ग्रन्थीनर्ममप्रभवानपक्वानुद्धृत्य वाग्निं विदधीत वैद्यः।
क्षारेण वैतान् प्रतिसारयेत्तु संलिख्य संलिख्य यथोपदेशम्॥४४॥

ग्रन्थीनित्यादि—सुश्रुतस्य। क्षारेण वेति विकल्पोदोषापेक्षया, तेन वाते वातकफेऽग्निः, पित्ते च क्षार इति। प्रतिसारयेदिति प्रलेपयेत्। यथोपदेशमिति यथाशास्रम्। एतच्चअग्निंविदधीतेत्यनेनापि सम्बध्यते, तेनाग्निकर्मविधिना प्रतिसारणीयक्षारविधिना चेत्यर्थः॥४४॥

ग्रन्थ्यर्बुदानाञ्च यतोऽविशेषः प्रदेशहेत्वाकृतिदोषदूष्यैः।
ततश्चिकित्सेद्भिपगर्वुदानि विधानविद् ग्रन्थिचिकित्सितेन॥४५॥

अर्बुदे ग्रन्थिचिकित्सितं सोपपत्तिक्रमतिदिशति ग्रन्थ्यर्बुदानामित्यादि। अविशेष इवाविशेष इह ज्ञेयः तेन सुश्रुतोक्वभेदोऽपि भवत्युक्वः। सुश्रुते हि पृथक् ग्रन्थिलक्षणमुक्त्वा अर्बुदलक्षणञ्च मात्राप्रदेश इत्यादिना पृथगेवोक्तम् तस्मात् स्तोकविशेषे सस्यपि प्रायेणाविशेषादिह ग्रन्थिचिकित्सैवातिदिश्यतेऽर्बुदे। विधानविदिति दाहादिविधिज्ञः॥४५॥

वातार्बुदे चाप्युपनाहनानि स्निग्धैश्च मांसैरथ वेशवारैः।
स्वेदं विदध्यात् कुशलस्तु नाड्या शृङ्गेण रक्तं बहुशो हरेश्च॥४६॥

वातार्बुदइत्यादौ—नाड्यति नाडीस्वेदावधिना॥४६॥

स्वेदोपनाहा मृदवस्तु पथ्याः पित्तार्बुदे कायविरेचनञ्च॥४७॥

स्वेदोपनाहा मृदव इति मृदुस्वेदो द्रवस्वेदः, मृदुरुपनाहस्तु काकोल्यादिमृदुद्रव्यकृतः। कायविरेचनमित्यत्र कायग्रहणं शिरोविरेचनव्युदासार्थम्॥४७॥

विघृष्य चोडुम्बरशाकगोजीपत्रैर्भृशं क्षौद्रयुतैः प्रलिम्पेत्।
श्लक्ष्णीकृतैः सर्जरसप्रियङ्कपत्तङ्गलोध्रार्जुनयष्टिकाह्वैः॥४८॥

विघृष्येत्यादौ—उडुम्बरः फल्गुः कर्कशपत्रत्वात्। शाको मरुजस्तरुः कर्कशपत्रः। गोजी दाविंशाकःशाखोटको वा। क्षौद्रयुतैरिति सर्जरसादिभिः सम्बध्यते।पतङ्गंरक्तचन्दनम्। अर्जुनस्थानेऽञ्जन इति पाठे अञ्जनं स्रोतोऽञ्जनम्। यष्टिकाह्वंयष्टिमधु॥

लेपनं शङ्खचूर्णेन सह मूलकभस्मना।
कफार्बुदापहं कुर्य्याद् ग्रन्थ्यादिषु विशेषतः॥४९

लेपनमित्यादि—स्पष्टम्॥४९॥

निष्पावपिण्याककुलत्थकल्कैर्मांंसैः प्रगाढैर्दधिमर्दितैश्च।
लेपं विदध्यात् क्रिमयो यथात्र मुञ्चन्त्यपत्यान्यथ मक्षिका वा॥

अल्पावशिष्टं किमिभिः प्रजग्धं लिखेत् ततोऽग्निं विदधीत पश्चात्।
यदल्पमूलं त्रपुताम्रसीसैः संवेष्ट्य पत्रैरथवायसैर्वा॥५०॥

निष्पावत्यादि—सुश्रुतस्य। निष्पावः श्वेतशिम्बिः। पिण्याकस्तिलकल्कः

किमयो यथात्रेत्यतः परम् उत्पद्यन्त इति शेषः। मुञ्चन्तीत्यत्र मूर्च्छन्तीति पाठे अपत्यान्यथ मक्षिका वेत्यतःपरं मुञ्चन्तीति शेषः। एतत्कर्मणः फलमाह, अल्पावशिष्टमित्यादि—सुश्रुतस्य। क्रिमिभिर्भक्षणादल्पावशिष्टत्वम्। लिखेदिति अल्पावशिष्टं पूतिमांसं शस्त्रेण छिन्द्यात्, अल्पावशिष्टस्य च छेदने न आतुरस्य महान् क्लेश इति तात्पर्यम्। ततोऽग्निं विदधीतेति—शस्त्रच्छेदनानन्तरञ्चावशिष्टार्बुदमूलस्य सम्यगुच्छेदाय अग्निंविदधीत तप्तशलाकया दहेत्। अग्निकर्मणि कृतेऽपि यद्यर्बुदस्यमूलं तिष्ठेत् तदा किं कर्त्तव्यमित्याह यदल्पमूलमित्यादि। अर्वुदस्य यदल्पमूलं तत् त्रप्वादिलोहान्तानामन्यतमेन रचितैः पत्रैः संवेष्ट्य स्थापयेदिति व्याख्येयम्, न तु क्षाराद्यवचरणापेक्षया त्रप्वादिपत्रसंवेष्टनस्य पूर्वभावित्वमित्याहुः। त्रप्वादिपत्रवेष्टनेन च तनुमूलस्यार्बुदस्य सङ्घर्षणात् स्वयमेवोपशमो भविष्यतीति भावः। त्रपु रङ्गः॥५०॥

क्षाराग्निशस्त्राण्यवतारयेच्चमुहुर्मुहुः प्राणमवेक्षमाणः।
यदृच्छया चोपगतानि पाकंपाकक्रमेणोपचरेद् यथोक्तम्॥५१॥

विध्यन्तरमाह क्षारग्नीत्यादि—यद्यपि सुश्रुते “सकृदेवोपहरेच्छस्त्रम्” इत्युक्तं तथापि अर्बुदस्य महामूलत्वात् न तत्र क्षारादयः सक्दवचारणीया इत्याह मुहुर्मुहुरिति। प्राणमवेक्षमाण इति यथा न बलहानिः स्यात् तथा कालविप्रकर्षं कृत्वा मुहुर्मुहुः क्षारादीनवचारयेदित्यर्थः। अपक्वस्यार्बुदस्य चिकित्सामाभधाय पक्वस्य चिकित्सामाह, यदृच्छयेति कारणाप्रतिनिगमेन अनियतमभिघातादिपाककारणं प्राप्येत्यर्थः, यत्तु निदाने “न पाकमायान्ति” इत्युक्तं तत् प्रायिकमिति ज्ञेयम्। पाकक्रमेणेति पाकोक्तपाटनशोधनादिक्रमेण॥५१॥

सशेषदोषाणि हि योऽर्बुदानि करोति तस्याशु पुनर्भवन्ति।
तस्मादशेपाणि समुद्धरेत्तु हन्युः सशेषाणि यथा विषाग्नी॥५२॥

यथोक्तमित्युपचारक्रियाविशेषणम्। सुश्रुते तु यथोक्तमित्यत्र विधिज्ञ इति पाठः। अर्बुदानि अनवशेषदोषाणि यथा स्युस्तथा चिकित्स्यानीत्याह—सशेषेत्यादि॥५२॥

उपोदिकारसाभ्यक्तास्तत्पत्रपेरिवेष्टिताः।
प्रणश्यन्त्यचिरान्नॄणां पिडकार्बुदजातयः॥५३॥

उपादिकेत्यादौ—पिडकार्बुदजातय इति पिडकार्बुदप्रकारा इत्यर्थः॥५३

उपोदिका काञ्जिकतक्रपिष्टा तयोपनाहो लवणेन मिश्रः।
दृष्टोऽर्बुदानां प्रशमाय कैश्चिद् दिने दिने रात्रिषु मर्मजानाम्॥५४॥

उपोदिकेत्यादि—स्पष्टम्॥१४॥

लेपोऽर्बुदजिद्रम्मामोचकभस्मतुषशङ्खचूर्णकृतः।
शरटरुधिरार्द्रगन्धकयवजविडङ्गनागरैर्वाथ॥५५॥

लेप इत्यादौ—रम्भामोचकः कदलकिण्डकः, तस्य भस्म क्षार इत्यर्थः। शरटः कुकलासः।यवजी यवक्षारः॥५५॥

स्नुहीगण्डीरिकास्वेदो नाशयेदर्बुदानि च।
सीसकेनाथ लवणैः पिण्डारकफलेन वा॥५६॥

स्नुहीत्यादि—चत्वारः स्वेदाः। स्नुहीगण्डीरिका स्नुहीकाण्डः।तप्तसजुदण्डेन तथा तप्तसीसकेन तथा तप्तलवणेन तथा पिण्डारकफलमुस्विद्य पोट्टलिकां बद्ध्वा स्वेदः कार्य्य इत्यर्थः॥५६॥

हरिद्रालोध्रपत्तनगृहधूममनःशिलाः।
मधुप्रगाढो लेपोऽयं मेदोऽर्बुदहरः परः॥५७॥

एतामेव क्रियां कुर्यादशेषां शर्करार्बुदे॥५८॥

हरिद्रेत्यादौ—पत्तङ्गंरक्तचन्दनम्॥५७॥५८॥

इति गलगण्डगण्डमालापचीग्रन्थ्यर्बुद-चिकित्सा-विवृतिः।
______________________

अथ श्लीपदचिकित्सा।

लङ्घनालेपनस्वेदरेचनै रक्तमोक्षणैः।
प्रायः श्लेमहरैरुपणैः श्लीपदं समुपाचरेत्॥१॥

पूर्वोक्तसंगत्यैव श्लीपदचिकित्सितमुच्यते। लङ्घनेत्यादि॥१॥

धुस्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रुसर्पपैः।
प्रलेपः श्लीपदं हन्ति चिरोत्थमतिदारुणम्॥२॥

धुस्तूरेत्यादि—स्पष्टम्॥२॥

निष्पिष्टमारनालेन रूपिकामूलवल्कलम्।
प्रलेपात् श्लीपदं हन्ति वद्धमूलमपि दृढम्॥३॥

रूपिकामूलं अर्कमूलम्॥३॥

पिण्डारकतरुसम्भववन्दाकशिफा जयति सर्पिषा पीता।
श्लीपदमुग्रं नियतं बद्धा सूत्रेण जङ्घायाम्॥४॥

पिण्डारकतरुः स्वनामख्यातः। बद्धा सूत्रेणेति अत्रापि वन्दाकशिफेति सम्बध्यते। (अयमर्थः वन्दाकशिफा मा ८ घृत तो २ पेयम् अथवा श्लीपदाश्रयजङ्घायां रक्तसूत्रेण बन्धनीया॥४॥

हितश्चालेपने नित्यं चित्रको देवदारु वा।
सिद्धार्थशिग्रुकल्को वा सुखोष्णमूत्रपेषितः॥५॥

हितश्वेत्यादि—गोमूत्रपिष्टास्त्रयो लेपा बोध्याः।सिद्धार्थः श्वेतसर्षपः॥५॥

स्नेहखेदोपनाहांश्च श्लीपदेऽनिलजे भिषक्।
कृत्वा गुल्फोपरि शिरां विध्येत्तु चतुरङ्गुले॥६॥

स्नेहेत्यादि—सुश्रुतस्य।स्नेहस्वेदाविह शिराव्यधाङ्गभूतौ न तु स्वतन्त्रतया

स्नेहो देयः सर्वश्लीपदानां कफप्रधानतया विरुक्षणीयत्वात्। अयञ्चगुल्फोपरि शिराव्यधो रक्तदुष्टौ सत्यामेव कार्यः पश्चाद्भागे॥६॥

गुल्फस्याधः शिरां विध्येत् श्लीपदे पित्तसम्भवे।
पित्तघ्नीञ्च क्रियां कुर्य्यात् पित्तार्बुदविसर्पवत्॥७॥

पैत्तिकश्लीपदचकित्सामाह, गुल्फस्याध इत्यादि—सुश्रुतस्य। पित्तघ्नीञ्चेति चकारात् कफघ्नीञ्च क्रियां कुर्यादिति ज्ञेयम्, श्लीपदानां कफप्रधानत्वात्॥७॥

मञ्जिष्ठां मधुकं रास्नांसहिस्रां सपुनर्नवाम्।
पिष्ट्वारनालैर्लेर्पोऽयं पित्तश्लीपदशान्तये॥८॥

मञ्जिष्ठामत्यादौ—हिंसा कालाकडाभेदः॥८॥

शिरां सुविदितां विध्येदङ्गुष्ठे श्लेष्मलीपदे।
मधुयुक्तानि चाभीक्ष्ण कषायाणि पिबेन्नरः॥६॥

शिरमित्यादि—सुश्रुतस्य। सुविदितामिति व्यक्ताम्। अङ्गुष्ठ इति पादाङ्गुष्ठसन्निधौ।क्षिप्रमर्मण उपरि व्द्यङ्गले शिराव्यधः कार्यः, क्षिप्रमर्मव्यधाद्धि मरणं स्यात्। तदुक्तं सुश्रुते“पादाङ्गाल्योर्मध्ये क्षिप्रं नाम मर्भ, तत्र विद्धस्यक्षिपकेण मरणम्” इति। कषायाणीति कफहरारग्वधादिगणमुष्ककादिगणकृतानि॥६॥

पिबेत् सर्षपतैलेन श्लीपदीनां निवृत्तये।
पूतीकरञ्जच्छदजं रसं वापि यथाबलम्॥१०॥

पूतीकरञ्जच्छदजमिति कण्टकीकरञ्जपत्रस्वरसं पलमानं कटुतैलाक्षं प्रक्षिप्य पिबेत्॥

अनेनैव विधानेन पुत्रञ्जीवकजं रसम्।
काञ्जिकेन पिबेच्चूर्णं मूत्रैर्वा वृद्धदारजम्॥११॥

अनेनैव विधानेनेति कटुतैलप्रक्षेपेणत्यर्थः॥११॥

रजनीं गुडसंयुक्तां गोमूत्रेण पिबेन्नरः।
वर्षोत्थं श्लीपदं हन्ति दद्रकुष्ठं विशेषतः॥१२॥

रजनीमित्यादि—स्पष्टम्॥१२॥

गन्धर्वतैलभृष्टां हरीतकीं गोजलेन यः पिबति।
श्लीपदबन्धनमुक्तोभवत्यसौ सप्तरात्रेण॥१३॥

गन्धर्वः एरण्डः। गांजलं गोमूत्रम्॥१३॥

धान्याम्लं तैलसंयुक्तं कफवातविनाशनम्।
दीपनञ्चामदोषघ्नमेतत् श्लीपदनाशनम्॥१४॥

तैलसंयुक्तमित्यक्तकटुतैलम्॥१४॥

गोधावतीमूलयुक्तांखादेन्माषेण्डरीं नरः।
जयेत् श्लीपदकोपोत्थं ज्वरं सद्यो न संशयः॥१५॥

गोधावती गोहालियालता एतन्मूलस्यैको भागः, माषकत्तायस्य तु भागत्रयम् ॥

श्लीपदघ्नो रसोऽभ्यासाद् गुडूच्यास्तैलसंयुतः॥१६॥

गुडूच्या रस इति स्वरसः क्वाथो वा। तैलमत्र कटुतैलम्॥१६॥

वृद्धदारकचूर्णम्।

त्रिकटु त्रिफला चव्यं दार्वीवरुणगोक्षुरम्।
अलम्बुषां गुडूचीञ्च समभागानि चूर्णयेत्॥

सर्वेषां चूर्णमाहृत्य वृद्धदारस्य तत्समम्।
काञ्जिकेन च तत् पेयमक्षमात्रं प्रमाणतः॥

जीर्णे चापरिहारं स्याद्भोजनं सार्वकामिकम्।
नाशयेत् श्लीपदं स्थौल्यमामवातञ्च दारुणम्।
कुष्ठगुल्मानिलहरं वातश्लेष्मज्वरापहम्॥१७॥

त्रिकट्वित्यादौ—अलम्बुषा मुण्डिरी। वृद्धदारस्य तत्सममिति—त्रिकट्वादि, सर्वचूर्णसमं वृद्धदारस्य चूर्णमित्यर्थः। सार्वकामिकमिति यथेच्छमित्यर्थः॥१७॥

पिप्पलीत्रिफलादारु-नागरं सपुनर्नवम्।
भागैर्द्विपालकैरेषां तत्समं वृद्धदारकम्॥
काञ्जिकेन पिबेच्चूर्णं कर्षमात्रं प्रमाणतः।
जीर्णे चापरिहारं स्याद्भोजनं सार्वकामिकम्॥

श्लीपदं वातरोगांश्च हन्यात् प्लीहानमेव च।
अग्निकुरुते घोरं भस्मकञ्च नियच्छति॥१८॥

पिप्पलीत्यादौ—अग्निच कुरुत इति विरेकेण पित्तहरणात्। अन्ये तु यस्मादग्निंघोरं कुरुते तो भस्मकं नियच्छति प्रयच्छ्रतीत्याहुः॥१८॥

कृष्णाद्यमोदकः।

कृष्णाचित्रकदन्तीनां कर्षमर्द्धपलं पलम्।
विंशतिश्च हरीतक्यो गुडस्य तु पलद्वयम्।
मधुना मोदकं खादेत्श्लीपदं हन्ति दुस्तरम्॥१९

कृष्णेत्यादौ—कृष्णादीनां कर्षादिमानं यथाक्रमं ज्ञेयम्। विंशतिश्च हरीतक्म इत्याकृतिमानात्। मध्वत्र मोदककरणोचितं देयम्॥१९॥

सौरेश्वरघृतम्।

सुरसो देवकाष्ठञ्च त्रिकटुत्रिफले तथा।
लवणान्यथ सर्वाणि विडङ्गान्यथ चित्रकम्॥

चविका पिप्पलीमूलं गुग्गुलुर्हबुषा वचा।
यवाग्रजञ्च पाठा च शठ्येला वृद्धदारकम्॥

कल्कैश्च कार्षिकैरेभिर्घृतप्रस्थं विपावयेत्।
दशमूलीकषायेण धान्ययूषद्रवेण च।

दधिमण्डसमायुक्तं प्रस्थं प्रस्थं पृथक् पृथक्।
पक्वंस्यादुद्धृतं कल्कात् पिबेत् कर्षद्वयं हविः॥

श्लीपदं कफवातोत्थं मांसरक्ताश्रितञ्च यत्।
मेदःश्रितञ्च पित्तोत्थं हन्यादेव न संशयः॥

अपचींगण्डमालाञ्च अन्त्रवृद्धिं तथार्बुदम्।
नाशयेद् ग्रहणीदोषं श्वयथुं गुदजानि च॥

परमग्निकरं हृद्यं कोष्ठक्रिमिविनाशनम्।
घृतं सौरेश्वरं नाम श्लीपदं हन्ति सेवितम्॥

जीवकेन कृतं ह्येतद्रोगानीकविनाशनम्॥२०॥

सौरेश्वरवृते सुरसः पर्णसःवृन्दलिखिततन्त्रान्तरसंवादात् निर्गुण्डी वा। (दशमूलीकषायस्य मिलित्वा प्रस्थम्, जलं चतुर्गुणम्, शेषं प्रस्थमेकम्।) धान्ययूपद्रवः काञ्जिकं न तु धन्याकक्वाथः, धान्याम्लेति तन्त्रान्तरपाठात् व्यवहाराभावाञ्च। ननु कयोर्द्रवयोः कियन्मानं ग्राह्यमित्याह प्रस्थमित्यादि। सौरेश्वरमिति—इन्द्राणी निर्गुण्डीपर्य्यायः, तेन सुरेश्वरा निर्गुण्डी, तत्कृतत्वात् सौरेश्वरमिति संज्ञा। जीवकेनेति जीवो बृहस्पतिः, स्वार्थे कः।अन्यत्राप्युक्तम्—“द्राक्षा दुरालभा कृष्णा तुगा कर्कटकी जया। एषां श्लक्ष्णानि चूर्णानि योजयन्मधुसर्पिषा।कासश्वासज्वरहरं विशेषात् तमकं जयेत्। निर्मितं जीवकेनेदं कुमारणां सुखावहम्” इति॥२०॥

विडङ्गाद्यतैलम्।

विडङ्गमरिचार्केषु नागरे चित्रके तथा।
भद्रदार्वेलकाख्येषु सर्वेषु लवणेषु च।
तैलं पक्वंपिबेद्वापि श्लीपदानां निवृत्तये॥२१॥

विडाङ्गाद्यतैले—भद्रदास देवदारु, एलकाख्यो होगलःएलबालुक इत्यन्ये, पेटिकेत्यपरे। विडङ्गादीनां कल्को द्रवन्तु जलं चतुर्गुणम्॥२१॥

इति श्लीपदाधिकार-विवृतिः।
_____________

अथ विद्रधि-चिकित्सा।

जलौकापातनं शस्तं सर्वस्मिन्नेव विद्रधौ।
मृदुर्विरेको लघ्वन्नं स्वेदः पित्तोद्भवं विना॥१॥

प्रागुक्तसम्बन्धादेव विद्रधिरुच्यते। मृदुर्विरेक इति—अयश्च मृदुविरेको बहुधा कार्य्यः। गम्भीरधातुगतदोषकृतत्वात् विद्रधिरिति वदन्ति॥१॥

वातघ्नमूलकल्कैस्तु वसातैलघृताप्लुतैः।
सुखोष्णो बहुलो लेपः प्रयोज्यो वातविद्रधौ॥२॥

वातघ्नेत्यादि—सुश्रुतस्य। वातघ्नमूलं दशमूलम्। वातघ्नस्थाने सुरङ्गीति पाठे सुरङ्गीशोभाञ्जनकः॥२॥

स्वेदोपनाहाः कर्त्तव्याः शिग्रुमूलसमन्विताः।
यवगोधूममुद्गैश्च सिद्धपिष्टैः प्रलेपयेत्।
विलीयते क्षणेनैवमपक्वश्चैव विद्रधिः॥३॥

स्वेदेत्यादौ—स्वेदा वेशवारादिभिः।यदाह सुश्रुतः—“वेशवारैः सकृशरैः पयोभिः पायसैस्तथा। स्वेदयेश्चापि सततम्” इति। उपनाहोऽपि तत्रेचोक्तः, यथा, “आनूपौदकमांसन्तु काकोल्यादिः सतर्पणः।स्नेहाम्लसिद्धो लवणः प्रयोज्यश्चोपनाहने " इति। सिद्धपिष्टैरिति उत्स्विन्नपिष्टैः॥३॥

पुनर्नवादारुविश्व-दशमूलाभयाम्भसा।
गुग्गुलुं रुवुतैलं वा पिबेन्मारुतविद्रधौ॥४॥

पुनर्नवेत्यादौ—अम्भसा क्वाथेन॥४॥

पैत्तिकं शर्करालाजा-मधुकैः शारिवायुतैः।
प्रदिह्यात् क्षीरपिष्टैर्वा पयस्योशीरचन्दनैः॥५॥

पैत्तिकमित्यादि—सुश्रुतस्य।योगद्वयेऽपि क्षीरं पेषणार्थम्। शारिवा अनन्तमूलम्।पयस्या क्षौरकाकोली॥५॥

पिबेद्वा त्रिफलाक्वाथं त्रिवृत्कल्काक्षसंयुतम्।
पञ्चवल्कलकल्केन घृतमिश्रेण लेपनम्॥६॥

पिबेद्वेत्यादि—स्पष्टम्॥६॥

यष्ट्याह्वशारिवादूर्वानलमूलैः सचन्दनैः।
क्षीरपिष्टैः प्रलेपस्तु पित्तविद्रधिशान्तये॥७॥

यष्ट्याह्वेत्यादौ—यष्टयाह्नंयष्टिमधु॥७॥

इष्टकासिकतालोह-गोशकृत्तपपांशुभिः।
मूत्रपिष्टैश्च सततं स्वेदयेत् श्लेष्मविद्रधिम्॥८॥

इष्टकेत्यादि—सुश्रुतस्य। अत्र मूत्रपिष्टैरिति प्रमादपाठः। किन्तु मूत्रैरुष्णैरित्येव पाठः सुश्रुते पठ्यते। उष्णैश्च मूत्रैर्द्रवस्वेद इति टीकाकृतां व्याख्या।अन्ये तु लोहं लोहचूर्णम्, गोशकृत् गोमयम् एभिरिष्टकाचूर्णादिभिर्मूत्रपिष्टैरेरण्डपत्रबद्धैः स्वेद इति व्याख्याय मूत्रपिष्टैरिति पाठमेव स्वीकुर्वन्ति॥८॥

दशमूलीकषायेण सस्नेहेन रसेन वा।
शोथं व्रणं वा कोष्णेन सशूलं परिषेचयेत्॥९॥

दशमूलीत्यादौ—सस्नेहनेति पूर्वेण परेण च सम्बध्यते। रसेनेति मांसरसेन॥९॥

त्रिफलाशिग्रुवरुण-दशमूलाम्भसा पिबेत्।
गुग्गुलुं मूत्रयुक्तं वा विद्रधौ कफसम्भवे॥१०॥

त्रिफलेत्यादि—मूत्रयुक्तमिति गोमूत्रयुक्तम्॥१०॥

पित्तविद्रधिवत् सर्वांक्रियां निरवशेषतः।
विद्रध्योः कुशलः कुर्य्याद्रक्तागन्तुनिमित्तयोः॥११॥

पित्तत्यादि—सुश्रुतस्य। विपुलवचनस्यापि सर्वशब्दस्य दृष्टत्वात् पुनर्निरवशेषत इत्युक्तं कृत्स्नलेपादिविध्यतिदेशार्थम्॥११॥

शोभाञ्जनकनिर्यूहो हिङ्गुसैन्धवसंयुतः।
अचिराद्विद्रधीन् हन्ति प्रातः प्रातर्निषेवितः॥१२॥

शोभाञ्जनकनिर्यूह इति शोभाशनत्वक् क्वाथः॥१२॥

शिग्रुमूलं जले धौतं दरपिष्टं प्रगालयेत्।
तद्सं मधुना पीत्वा हन्त्यन्तर्विद्रर्धि नरः॥१३॥

शिग्रमूलमित्यादौ—दरपिष्टमीषत्पिष्टम्॥१३॥

श्वेतवर्षाभुवो मूलं मूलं वरुणकस्य च।
जलेन क्वथितं पीतमपक्वं विद्रधिं जयेत्॥१४॥

श्वेतवर्षांभुवो इति श्वेतपुनर्नवायाः॥१४॥

वरुणादिगणक्वाथमपक्चेऽभ्यन्तरोत्थिते।
ऊषकादिप्रतीवापं पिबेत् संशमनाय वै॥१५॥

वरुणेत्यादि—सुश्रुतस्य। वरुणाद्यूषकादिगणौ सौश्रुतौ॥१५॥

शमयति पाठामूलं क्षौद्रयुतं तराडुलाम्बुना पीतम्।
अन्तर्भूतं विद्रधिमुद्धतमाश्वेव मनुजस्य॥१६॥

शमयतीत्यादि—स्पष्टम्॥१६॥

अपक्वे त्वेतदुद्दिष्टं पक्त्रे तु व्रणवत् क्रिया॥१७॥

पक्के व्रणोद्दिष्टं विधानं कार्यमित्याह—अपक्वइत्यादि॥१७॥

स्रुतेऽप्यूर्ध्वमधश्चैव मैरेयाम्लसुरासवैः।
पेयो वरुणकादिस्तु मधुशिग्रुरसोऽथ वा॥१८॥

स्रुतेऽपीत्यादि—सुश्रुतस्य। ऊर्ध्वस्रवतामपि कादाचित्की साध्यता चिकित्साभिधानादनुमन्तव्या।मधुशिग्रुद्रुम इति रक्तशोभाजनवृक्षस्य मूलम्। मैरेयं मद्यविशेषम्।अम्लं काञ्चिकम्॥१८॥

प्रियङ्गुघातकीलोध्रंकट्फलं तिनिशत्वचम्।
एतैस्तैल विपक्तव्यं विद्रधौ रोपणं परम्॥१९

प्रियङ्ग्क्त्यादि—सुश्रुतस्य। तिनिशोऽतमुक्तकः, त्वचमिति निर्देशात्त्वचशब्दोऽकारान्तो नपुंसकलिङ्गोऽप्यस्तीति गम्यते। चन्द्राटे तु तिनिशं धवमिति पाठो दृश्यते। तिनिसैन्धवमिति पाठान्तरे तिनिस्तिनिश एव। प्रियङ्ग्वादिभिः कल्कः, द्रवंजलं चतुर्गुणम्। एतच्च तैलं मज्जभवविद्रधौ सुश्रुते पठ्यते॥१९

इति विद्रधिचिकित्सा-विवृतिः।
___________

अथ व्रणशोथ-चिकित्सा।

आदौ विम्लापनं कुर्याद् द्वितीयमवसेचनम्।
तृतीयमुपनाहञ्च चतुर्थी पाटनक्रियाम्॥

पश्चमं शोधनञ्चैव षष्ठं रोपणमिष्यते।
एते क्रमा व्रणस्योक्ताःसप्तमो वैकृतापहः॥१॥

विद्रध्युक्तसंवादात् प्रायेण तुल्योपकमत्वाञ्चानन्तरं व्रणशोथ उच्यते। आदौ विम्लापनमित्यादि—सुश्रुतस्य। अनेन च वाक्येन चिकित्सितस्थानचक्ष्यमाणवष्ट्युक्रमाणामन्तर्भावेण सप्तत्वं सुखावबोधार्थं सूत्रस्थाने सुश्रुतेनोच्यते, तेन विम्लापनामह न केवलमंगुष्ठादिमर्दनमात्रे परिभाषितं ग्राह्यम्, किन्तु विम्लाप्यतेऽनेनेति व्युत्पत्त्या बहिःपरिमार्जनरूपे शमन शोधविलयनकरे प्रलेपपरिषेकाभ्यङ्गादावपि वर्त्तते। अवसेचनमपि शोधनरूपेऽन्तःपरिमार्जने वमनविरेकरक्तमोक्षणादौ वर्त्तते। उपनाहोऽपि स्वेदे पाचनपिण्डे च वर्त्तते। एवमपरेऽप्युपक्रमा शेषेषु यथायोगमन्तर्भाव्याः, किंवा षष्ट्यपक्रमेषु प्राधान्यात् सप्त विम्लापनादयः कथ्यन्ते। विम्लापनादयो भाविमव्रणविघातप्रयोजकतया व्रणस्येत्युक्तम्॥१॥

मातुलुङ्गाग्निमन्थौ च भद्रदारु महौषधम्।
अहिंसा चैव रास्नाच प्रलेपो वातशोथहा॥२॥

मातुलुङ्गेत्यादि सुश्रुतस्य—मातुलुङ्गस्य मूलम्। अहिंसा कुडकरालिः कालाकडाभेदः॥२॥

कल्कः काञ्जिकसम्पिष्टःस्निग्ध शाखोटकत्वचः।
सुपरी इव नागानां वातशोथविनाशनः॥३॥

कल्क इत्यादौ—स्निग्ध इति घृतेन॥३॥

दूर्वा च नलमूलञ्च मधुकं चन्दनं तथा।
शीतलाश्चगणाः सर्वे प्रलेपः पित्तशोथहा॥४॥

दूर्वेत्यादौ—शीतलाश्चगणा इति काकोल्याद्युत्पलादिन्यग्रोधाद्याः सौश्रुताः॥४॥

न्यग्रोघोडुम्बराश्वत्थ-प्लक्षवेतसवल्कलैः।
ससर्पिष्कैः प्रलेपः स्याच्छोथनिर्वापणः स्मृतः।
आगन्तौशोणितोत्थे च एष एव क्रियाक्रमः॥५॥

न्यग्रोधेत्यादि—शोथनिर्वापण इति शोथशमनः। एष एवेति पैत्तिकव्रणशोथविहितः

अजगन्धाश्वगन्धा च काला सरलया सह।
एकेशिकाजशृङ्गी च प्रलेपः श्लेष्मशोथहा॥६॥

अजगन्धेत्यादौ—अजगन्धा छागलगन्धेति भानुमती, अन्ये यमानिकामाहुः। काला अहिंसा कालाकडाभेदः। सरला सरल एव, एकेशिका त्रिवृदिति भानुमती, अन्ये तु सरला त्रिवृद्, एकेशिका पाठेत्याहुः।अजशृङ्गी कर्कटशृङ्गीति भानुमती चन्द्रिका च॥६॥

पुनर्नवादारुशिग्रुदशमूलमहौपधैः।
कफवातकृते शोथे लेपः कोष्णो विधीयते॥७॥

कफवातजे शोये लेप आह—पुनर्नवेत्यादि॥७॥

न रात्रौ लेपनं दद्याद्दत्तञ्च पतितं तथा।
न च पर्य्युषितं शुष्यमाणं नैवावधारयेत्॥८॥

न रात्रावित्यादि—न रात्रौलेपनं दद्यादित्यादिना निषेधमुखेन विध्युपदर्शनं रात्रौ लेपनस्य सर्वथा निषेधार्थं, प्रलेपनिषेधेन प्रदेहादिविधानं रात्रावपि सूच्यते। तेन यः प्रदेहो वातकफविषयः स रात्रावपि देयोऽविरुदत्वात, पाचनलेपस्तु पाचकत्वादेव दातव्यः। तथा पित्तजे वातपित्तजे च शतधौतघृताभ्यस्तथा क्षीरशीतजलादिसेकश्च निर्वापणतया दीयत एव। तथा व्रणकलकोऽप्यहोरात्रस्थायिबन्धविहित एव उक्तञ्च चैतरणे—“सर्वशस्तु निशां प्राप्य लेपनन्तु निवर्तयेत्। क्षीरसर्पिःप्रलेपन्तु हित्वा प्रच्छादनन्तथा” इति। रात्रौ लेपदाने पुनः सुश्रुतेन दोष उक्तः, यथा “न चालेपं रात्रौ प्रयुञ्जीत मा भूच्छैत्यापिहितोष्मणस्तदनिर्गमाद्विकारप्रवृद्धिः” इति। रात्रिस्वाभाविकशैत्यात् संवृतरोमकूपत्वाञ्च पुनरालपनेनापि व्रणोष्मा बहिरनिर्गच्छन्नवरुद्धोविवृद्धः सन्नितरां व्रणे व्रणशोथे वा दाहपाकौ कुर्य्यादिति भावः। प्रलेपप्रदेहयोस्तु भेदः सुश्रुतेन प्रदर्शितो यथा “प्रलेपः शीतस्तनुरविशोषी विशोषी च।” विशोषीति पीढयितव्ये विशोषीत्यर्थः। “प्रदहस्तूष्णः शीतो वा बहलो बहुरविशोषी च”। बहल इति आर्द्रमहिषचर्मप्रमाणोत्सेधः प्रलेपः, प्रदेहस्तु प्रलपापेक्षया बहलः। शोथे लेपश्च लोमाभिमुखं देयः। यदाह सुश्रुतः—“तत्र प्रतिलोममालिम्पेत् न चानुलोमं, प्रतिलोमे हि सम्यगौषधमवतिष्ठते अनुप्रविशति च लोमकूपैः स्वेदवाहिभिः शिरामुखैवर्य्यं प्राप्नोति” इति। प्रतिलोममिति लोमाभिमुखम्। न च नैवेति—प्रतिषेधद्वयेन अवधीरयेदवेत्यर्थः। अवधीरणञ्च दूरीकरणम्।तन्त्रान्तरेऽप्युकं,—“लेपश्चोद्धृत्य दातव्यो न यावछुष्कतां व्रजेत्।गुणवान्न भवेच्छुष्को भूयो दोषं करोति सः” इति॥८॥

शुष्यमाणमुपेक्षेते प्रदेहं पीडनं प्रति।
न चापि मुखमालिम्पेत् तेन दोषः प्रसिच्यते॥९॥

अस्यैवापवादमाह—शुष्यमाणमित्यादि—उपेक्षेतेति यावच्छुष्कतां प्रयाति तावत् न दूरीकुर्य्यादित्यर्थः। पीडनं प्रतीति व्रणपीडनमुद्दिश्य यो लेप इत्यर्थः। व्रणपीडनलेपस्तु स एव यः शुष्कः सन् व्रणमुखं पीडयित्वा पूयंस्रावयति। तेनेति

मुखेन। दोष इति पूयः॥६॥

स्थिरान् मन्दरुजः शोथान् स्नेहैर्वातकफापहैः।
अभ्यज्य स्वेदयित्वा च वेणुनाड्या ततः शनैः।
विम्लापनार्थंमृद्गीयात् तलेनाङ्गुष्ठकेन वा॥१०॥

कठिनशोथे पारिभाषिकविम्लापनमाह—स्थिरानित्यादि—सुश्रुतस्य। वेणुनाड्यावेणुदण्डेन, तलेन करतलेन॥१०॥

रक्तावसेचनं कुर्य्यादादावेव विचक्षणः।
शोथे महति संरब्धे वेदनावति च व्रणे॥

निवारणाय पाकस्य वेदनोपशमाय च।
अचिरोत्पत्तितेशोथे कार्य्यं शोणितमोक्षणम्॥११॥

रक्तावसेचनमित्यादि—आदावेवेति उत्पन्नमान्ने। सुश्रुतेऽप्युक्तं—अचिरोल्पतिते शोथेकार्य्यं शोणितमोक्षणम्” इति। शोथेइति व्रणपूर्वरूपशोथे। संरब्ध इति शोथे, एतञ्च व्रण इत्यनेन योज्यम्। शोथ इत्युक्त्वापि पुनः संरब्ध इति वचनम् एतादृशसशोथे व्रणे विशेषेण रक्तस्रावविधानार्थं, सुश्रुतेऽप्युक्तं—“सशोथे कठिने चामे सरक्तेवेदनावति। सविधे च विशेषण व्रणे विस्रावणं हितम्। अन्ये तु पच्यमानावस्थव्रणविषयकं संरब्ध इत्यादिवचनं ज्ञेयमित्याहुः॥११॥

यो न याति शमंलेपस्वदसकावतर्पणैः।
सोऽपि नाशं व्रजत्याशु शोथः शोणितमोक्षणात्॥१२॥

उपक्रमान्तरपेक्षया रक्तमोक्षणस्य प्रकर्षमाह यो न यातीत्यादि॥१२॥

एकतश्च क्रियाः सर्वा रक्तमोक्षणमेकतः।
रक्तं हि व्यम्लतां याति तच्च नास्ति न चास्ति रुक्॥१३॥

व्रणशोथचिकित्सायां रक्तमोक्षणस्य प्राधान्यं तत्प्रधान्ये च हेतुमाह एकत इत्यादि।

स चेदममुक्रान्तः शोथो न प्रशमं व्रजेत्।
तस्योपनाहैःपक्वस्य पाटनं हितमुच्यते॥१४॥

उपनाहैरिति सोष्णवहलबन्धलेपैः। पक्वस्य पाटनमिति दारणौषधैः शस्त्रैर्वा॥

तेलैन सर्पिषावापि ताभ्यां वा शक्तुपिण्डिका।
सुखोष्णाशोथपाकार्थमुपनाहः प्रशस्यते॥१५॥

तानेवोपननाहानाह तैलेनेत्यादि—तैलेन वात, कफे च सर्पिषा, पित्त रक्ते च ताभ्यां वेति तैलसर्पिर्भ्यांमिलिताभ्याम्। चर्तुष्वेवेति दोषभेदेन विकल्पो ज्ञेय इत्याहुः॥

सतिला सातसीबीजा दध्यम्ला शक्तुपिण्डिका।
सकिण्वकुष्ठलवणा शस्ता स्यादुपनाहने॥१६॥

सतिलेत्यादौ—किण्वंसुराबीजम्॥१६॥

बालवृद्धासहक्षीण-भीरूणां योषितामपि।

मर्मोपरि च जाते तु पक्वेशोथे च दारुणे॥१७॥

गवां दन्तं जले घृष्टं बिन्दुमात्रं प्रलेपनात्।
अत्यर्थकठिने वापि शोथे पाचनभेदनम्॥१८॥

शस्त्रकर्मासहिष्णूनां कृते पाचन भेदनार्थंसुगममुपायान्तरमाह—वालेत्यादि॥

कटुतैलान्वितैर्लेपात् सर्पनिर्म्मोकभस्मभिः।
चयः शाम्यति गण्डस्य प्रकोपः स्फुटति द्रुतम्॥१९॥

कटुतैलेत्यादौ—चय इत्युपचयः।गण्डस्य व्रणस्य।प्रकोप इति प्रकोपहेतुपूयरूपदोषः॥१९॥

चिरबिल्वाग्निकौ दन्ती चित्रको हयमारकः।
कपोतकङ्कगृध्राणां पुरीषाणि च दारणम्॥२०॥

क्षारद्रव्याणि वा यानि क्षारो वा दारणः परः॥२१॥

चिरबिल्वेत्यादि—सुश्रुतस्य। चिरबिल्वो बृहत्करञ्जः, अग्निको लाङ्गलकी, हयमारकः करवीरः एषां मूलं वृद्धवाग्भटसंवादात्। एते च चिरबिल्वादयो व्यस्ताः समत्ता वा योज्याः। एतत्सर्वं दारणं सुकुमारविषयत्वेनोक्तम्। असुकुमारविषयन्तु शस्त्रमेवेति, यथा—“सुप पिण्डिते शोधे पीडनैरुपपीडिते। दारणं दारणार्हस्य सुकुमारस्य चैष्यते॥ गुग्गुल्वतसिगोदन्त स्वर्णक्षीरीकपोतविट्। क्षारौषधानि क्षाराश्च हेमक्षोरी मुक्कूलकः। इत्युक्तो भेषजगणः पक्कशोथप्रभेदनः। सुकुमारस्य कृच्छ्रस्य शस्त्रन्तु परमुच्यते॥” अत्र सुकुमारस्येति पूर्वेण सम्बध्यते। कृच्छस्येत्यत्रासुकुमारस्य शस्त्रं परं भेदनमिति सम्बन्ध इति दीपिका च। तस्मात् क्षारद्रव्यं क्षारश्च सकुमारविषयेऽपि ज्ञेयः॥२०-२१॥

द्रव्याणां पिच्छिलानान्तु त्वङ् मूलानि निपीडनम्।
यवगोधूममाषाणां चूर्णानि च समासतः॥२२॥

पीडनद्रव्याण्याह द्रव्यागामित्यादि—पिच्छिलानामिति शेलुशाल्मलीप्रभृतीनाम्। इदञ्चपीडनं मर्मादिसमीपस्थसूक्ष्ममुखव्रणविषयं ज्ञेयम्। उक्तं हि वाग्भटे—“पूयगर्भानगुद्वारान् सोत्सङ्गान् मर्मगानपि। निःस्नेहैःपीडनद्रव्यैः समन्तात् परिपीडयेत् " इति॥२२॥

ततः प्रक्षालनं क्वाथः पटोलीनिस्वपत्रजः।
अविशुद्धे, विशुद्धे च न्यग्रोधादित्वगुद्भवः॥२३॥

पीडनकर्मानन्तरं व्रणप्रक्षालनार्थं क्वाथावाह तत इत्यादि—पटोलीपत्रं पटोलपत्रमेव।अविशुद्ध इति च्छेदः॥२३॥

पञ्चमूलद्वयं वाते न्यग्रोधादिश्च पैत्तिके॥२४॥

आरग्वधदिको योज्यः कफजे सर्वकर्मसु॥२५॥

पञ्चमूलद्वयमित्यादौ—न्यग्रोधादिगणः सौश्रुतः। सर्वकर्मसु प्रक्षालनलेपनादिषु।

तिलाष्टकः।

तिलकल्कः सलवणो द्वे हरिद्रे त्रिवृद् घृतम्।
मधूकं निम्बपत्राणि लेपः स्याद् व्रणशोधनः॥२६॥

तिलकल्क इत्यादि वचनं स्पष्टम्॥२६॥

निम्बपत्रं तिला दन्ती त्रिवृत्सैन्धवमाक्षिकम्।
दुष्टव्रणप्रशमनो लेपः शोधनकेशरी॥२७॥

निम्बपत्रमित्यादि—स्पष्टम्॥२७॥

एकं वा सारिवामूलं सर्वव्रणविशोधनम्॥२८॥

एकं वेत्यादौ—शारिवामूलमनन्तमूलम्॥२८॥

पटोलीतिलयष्ट्याह्वत्रिबृहन्ती निशाद्वयम्॥
निम्बपत्राणि चालेपः सपटुर्व्रणशोधनः॥२९॥

पटोली पटोलपत्रम्।पटु अत्र सैन्धवलवणम्॥२९॥

त्रिफला खदिरो दार्वी न्यग्रोधादियलाकुशाः।
निम्बकोलकपत्राणि कषायःशोधने हितः॥३०॥

त्रिफलेत्यादौ—न्यग्रोधादीति “न्यग्रोधोडुम्वरराश्वत्थ-कदम्बप्लक्ष वेतसाः। करवीरार्ककुटजःकषायाः व्रणरोपणाः” इत्यनेन शोथहरोपक्रमे चरकोक्तंग्राह्यम्, अस्य योगस्य चरकोक्तत्वाद; किंवा पञ्चवकलमेन ग्राह्यम्। निम्बकोलकपत्रणि कोमलनिम्बत्राणीत्यर्थं इति दीपिका।अन्ये तु कोलको बदर इत्याहुः युक्तमिदं वाग्भटप्रमाणात्। अन्ये तु कुलकपत्राणीति पठित्वा पटोलपत्राणीति व्याचक्षते॥३०॥

अपेतपूतिमांसानां मांसस्थानामरोहताम्।
कल्कः संरोपणः कार्यस्तिलानां मधुकान्चितः॥३१॥

अपेतेत्यादि—वाग्भटस्य।मधुकान्वितो यष्टिमधुयुक्तः। अत्र तिलजो मधुसंयुत इति पाठः सुश्रुत बहुपुस्तके च दृश्यते, वाग्भटे तु सर्वत्रैव मधुकान्वित इति, उभयमपि प्रमाणं स्मृतिद्वैधवत्॥३१॥

निम्बपत्रमधुभ्यान्तु युक्तः संशोधनः स्मृतः॥३२॥

पूर्वाभ्यां सर्पिषा वापि युक्तश्चाप्युपरोपणः॥३३॥

निम्बपत्रेत्यादि—पूर्वोक्तयष्टिमधुयुक्तस्तिलकल्क एव निम्बपत्रमधुभ्यां सर्पिषा च युक्तो रोपणः, अपिशब्दात् शोधनोऽपि भवतीत्यर्थः॥३२–३३॥

निम्बपत्रतिलैः कल्को मधुना क्षतशोधनः।
रोपणः सर्पिषा युक्तो यवकल्केऽप्ययं विधिः॥३४॥

उक्ततिलकल्कविधिं यवकल्केऽप्यतिदिशति यवकल्केऽप्ययं विधिरिति॥३४॥

निम्बपत्रघृतक्षौद्र दार्व्वीमधुकसंयुता।
वर्त्तिस्तिलानां कल्को वा शोधयेद्रोपयेद् व्रणान्॥३५॥

निम्बपत्रघृतेत्यादि—एभिव्यैर्वस्त्रमालिप्य वर्त्तिः कार्या। वर्त्तिदानविषयो व्रणः सुश्रुते यथा—“अन्तः पूयानणुमुखान् गम्भीरान् मांससंश्रितान्। शोधनद्रव्ययुक्ताभिर्वतिभिः समुपाचरेत् इति तिलानां कल्को वेति लेपविधया॥३५॥

सप्तदलदुग्धकल्कः शमयति दुष्टवणं प्रलेपेन॥३६॥

मधुयुक्ता शरपुङ्खा सर्वव्रणरोपणी कथिता॥३७॥

सप्तदलः सप्तपर्णस्तस्य क्षीरम्॥३६-३७॥

मानुषशिरः कपालं तदस्थि वा लेपनं मूत्रेण।
रोपणमिदं क्षतानां योगशतैरप्यसाध्यानाम्॥३८॥

मानुषशिरः कपालमिति पुराणं ग्राह्यमित्यर्थः। मूत्रेणेति गोमूत्रेण॥३८॥

व्रणान् विशोधयेद् वर्त्त्यासूक्ष्मास्यान् सन्धिसर्मगान्।
अभया त्रिवृता दन्ती लाङ्गलीमधुसैन्धवैः॥३९॥

व्रणानित्यादि—वाग्भटस्य।अभयेत्यस्य स्थाने कृतयेत्येव पाठो वाग्भटबहुपुस्तकेषु दृश्यते॥३९॥

सुषवीपत्र पत्तूर-कर्णमोटकुठारिकाः।
पृथगेते प्रलेपेन गम्भीरव्रणरोपणाः॥४०॥

सुषवी कारवेल्लः, पत्तूरः शालिञ्चः, कर्णमोटः स्वनामख्यातः।कुठारिका कुठारिया, कुठेरक इति पाठे कुठरकः पर्णासः॥४०॥

पञ्चवल्कलचूर्णैर्वा शुक्तिचूर्णसमायुतैः।
धातकीचूर्णलोध्रैर्वा तथा रोहन्ति ते व्रणाः॥४१॥

पञ्चवल्कलत्यादि—चरकस्य।शुक्तिर्वदरी तस्यास्त्वक्।शुक्तिचूर्णसमायुतैरिति पश्चल्कलचूर्णैरित्यस्य विशेषणम्॥४१॥

सदाहा वेदनावन्तो ये व्रणा मारुतोत्तराः।
तेषां तिलानुमांश्चैव भृष्टान् पयसि निर्वृतान्॥

तेनैव पयसा पिष्ट्वादद्यादालेपनं भिषक्॥४२॥

सदाहेत्यादौ—उमा अतसी। पयसि निर्वृतानिति दुग्धे निर्वापितान्॥४२॥

वाताभिभूतान् सास्रावान् धूपयेदुग्रवेदनान्॥
यवाज्यभूर्जमदनश्रीवेष्टकसुराह्वयैः॥४३॥

वाताभिभूतानित्यादि—वाग्भटस्य।सास्रावान् अल्पस्रावान्। भूर्जो भूर्ज्जग्रन्थिः। मदनः सिक्थक इति वृन्दटिप्पणी।श्रीवेष्टको नवनीतखोटी, सुराह्वयंदेवदारु

श्रीवासगुग्गुल्वगुरु शालनिर्यासधूपिताः।
कठिनत्वं व्रणा यान्ति नश्यन्त्यास्त्राववेदनाः॥४४॥

श्रीवासेत्यादौ—श्रीवासो नवनीतखोटी। न च पूर्वोक्तेनपौनरुक्त्यम् अस्य वचनस्य तन्त्रान्तरीयत्वात्। वृन्दटिप्पणिकायान्तु पौनरुक्त्यमाशङ्क्यपूर्वोकश्रीवेष्टकशब्देन कन्दुरुरिति व्याख्यातम्। शालनिर्यासो धूनकः॥४४॥

तिलाः पयः सिता क्षौद्रं तैलं मधुकवन्दनम्।
लेपेन शोथरुग्दाह-रक्तं निर्वापयेद् व्रणात्॥४५॥

तिला इत्यादी—पयः पेषणार्थम्। सिता शर्करा। क्षौद्रतैलाभ्यां सन्धाय लेपो देयः॥

पित्तविद्रधिवीसर्पशमनं लेपनादिकम्।
अग्निदग्धे व्रणे सम्यक् प्रयुञ्जीत चिकित्सकः॥४६॥

महाराष्ट्रीजटालेपो दग्धपिष्टावचूर्णनम्।
जीर्णगेहतृणाच्चूर्णं दग्धव्रणहरं परम्॥४७॥

इदानीं शारीरिव्रणचिकित्साममिधाय व्रणसामान्यादस्मिन्नेव व्रणाधिकार भागन्तुव्रणचिकित्साभिधानार्थं प्रकरणमारभ्यते। अत्र प्रथममग्निदग्धवणचिकित्सामाहपित्तत्यादि।महाराष्ट्रीजटा महाराष्ट्रीमूलम्। अयमेको योगः।पिष्टं पिष्टकमेव। दग्धपिष्टकचूर्णेनावचूर्णनमिति द्वितीयः॥४६॥४७॥

जीरकाद्यं घृतम्।

जीरकपक्वंपश्चात् सिक्थकसर्जरसमिश्रितं हरति।
घृतमभ्यङ्गात् पावकदग्धजदुःखं क्षणार्थेन॥४८॥

जीरकेत्यादि—जीरकस्य कल्कः, जलं चतुर्गुणम्, पश्चात् सिद्धे च सिक्थसर्जरसयोः प्रक्षेपः॥४८॥

अन्तर्दग्धकुठारको दहनजं लेपान्निहन्ति व्रणम्।
अश्वत्थस्य विशुद्धवल्कलकृतं चूर्णं तथा गुण्डनात्॥४९॥

अन्तरित्यादौ—कुठारकः कुडालिया, स च स्थातीमध्ये अन्तर्धूमं दग्धव्यः। गुण्डनादित्यवचूर्णनात्॥४९॥

अभ्यङ्गाद्विनिहन्ति तैलमखिलं गण्डूपदैः साधितम्।
पिष्ठ्वाशाल्मलितूलकैर्जलगता लेपात् तथा वालुका॥५०॥

गराहूपदैः किष्चुलुकैः कल्कः, जलं चतुर्गुणमनुकत्वादिति निश्चलः। जलं बिना चटचटावधिः पाक इत्यन्ये। शाल्मलतूलकैरिति सहार्थे तृतीया॥५०॥

सद्यःक्षतवणं वैद्यः सशूलं परिषेचयेत्।
यष्टीमधुककल्केन नातिशीतेन सर्पिषा॥५१॥

इदानीं सथ इत्यादिना सद्योव्रणचिकित्सामाह।सद्यइति सप्ताहाभ्यन्तरे। यष्टिमधुकयुक्तेनेति यष्टिमधुकं कल्कीकृत्य चतुर्गुणजलेन यथाविधि घृतं साघनीयम्। यदि पुनस्त्वरया यथाविधि घृतमिदं पक्तुं न शक्यते, तदा घृतात् पलद्वयं, जलात् चतुःपलं, यष्टिमधुकस्य कर्षद्वयं किश्चित् पक्त्वावतार्य व्रणं सेचयेदित्याहुः। नातिशीतेनेति कदुष्णनेत्यर्थः, किञ्चिदनुष्णेनति पाठान्तरम्॥५१॥

बुद्ध्वागन्तुव्रणंवैद्यो घृतक्षौद्रसमायुतम्।

शीतां क्रियां प्रयुञ्जीत पित्तरक्तोष्मनाशिनीम्॥५२॥

बुद्ध्वेत्यादिन—चन्द्राटस्य।वुद्ध्वेत्यत्र बुद्ध्वेति पाठः साधुः। बन्धो हि सद्योव्रणेषु छिन्नभिन्नादिषु सन्धानजनकतया प्रधानम्, उक्कं हि—“बन्धः प्रधानं तेन शुद्धिर्व्रणरोपणमस्थिसन्धिस्थैर्यञ्च” इति। चन्द्राटादावयमेव पाठो दृश्यते। बुद्ध्वेत्यादि पाठे घृतक्षौद्रसमायुतमित्यनन्तरं कृत्वेति शेषः, किं वा प्रयुञ्जीतेतिक्रियाविशेषणम्॥५२॥

कान्तक्रामकमेकं सुश्लक्ष्णंगव्यसर्पिषा पिष्टम्।
शमयति लेपान्नियतं व्रणमागन्तुजं न सन्देहः॥५३॥

कान्तेत्यादौ कान्तक्रामकं भद्रमुस्तकम्।घृतमत्र शतधौतमित्युपदिशन्ति एवं वक्ष्यमाणेऽपि॥५३॥

अपामार्गस्य संसिक्तं पत्रोत्थेन रसेन वा।
सद्योव्रणेषु रक्तन्तु प्रवृत्तं परितिष्ठति॥५४॥

अपामार्गस्येत्यादि—स्पष्टम्॥५४॥

कर्पूरपूरितं बद्धं सघृतं सम्प्ररोहति।
सद्यःशस्त्रक्षतं पुंसां व्यथापाकविवर्जितम्॥५५॥

कर्पूरेत्यादि—सघृतं यथा स्यात्तथा कर्पूरपूरितम् तेन कर्पूरचूर्णेन शतधौतघृतमिश्रेण खड्गादिक्षतं प्रपूर्य बघ्नीयादित्यर्थः॥५५॥

शरपुङ्खा काकजङ्घा प्रथमं महिषीसुत—
मलं लज्जा च सद्यस्कवणघ्नं पृथगेव तु॥५६॥

शरपुङ्खेत्यादि—महिषीसुतस्य मलम्। घृततैलव सामज्जवेसवारपयोदधिमांस धावनतोयाभमितिवत् अयं प्रयोगः समर्थनीयः। अभिनवजातमहिषीवत्सस्य प्रथमं मलमित्यर्थः। लज्जा लाजालु अन्ये तु वराहकान्ता इत्याहुः॥५६॥

शुनो जिह्वाकृतश्चूर्णः सद्यः क्षतविरोहणः॥५७॥

शुन इति कुक्करस्य तन्त्रान्तरसंवादात्, सर्वाङ्गकृष्णकुक्कुरीजिह्वेत्यन्ये ५७

चक्रतैलं क्षते विद्धे रोपणं परमं मतम्॥५८॥

चक्रतैलं तत्कालचक्रोद्धृतमभृष्टसर्षपतैलम्। अन्ये तु चक्रकाष्ठोद्भवं तैलमाहुः।

यवक्षारं भक्षयित्वा पिण्डं दद्याद् व्रणोपरि।
शृगालकोलिमूलेन नष्टशल्यं विनिःसरेत्॥५९

लाङ्गलीमूललेपाद्वा गवाक्षीमूलतस्तथा॥६०॥

अन्तःशल्यचिकित्सामाह यवक्षारमित्यादिना तथेत्यन्तेन।यवक्षार कर्ष १, उष्णजल पल २, आलोड्य पीत्वानष्टशल्यव्रणोपरि शृगालकोलिमूलं पिष्ट्वापिण्डो देयः। शृगालकोली शेयाकुल इति ख्यातः बदरीभेदः। एवं लाङ्गलीयामूलगोरक्षकर्कटीमूलाभ्यामपि॥५९-६०॥

क्षतोष्मणो निग्रहार्थं तत्कालं विसृतस्य च।

कशब्देन कुन्दुरुरिति व्याख्यातम्।शालनिर्यासो धूनकः॥४४॥

तिलाः पयः सिता क्षौद्रं तैलं मधुकचन्दनम्।
लेपेन शोथरुग्दाह-रक्तं निर्वापयेद् व्रणात्॥४५॥

तिला इत्यादौ—पयः पेषणार्थम्। सिता शर्करा।क्षौद्रतैलाभ्यां सन्धाय लेपो देयः॥

पित्तविद्रधिवीसर्प शमनं लेपनादिकम्।
अग्निदग्धे व्रणेसम्यक् प्रयुञ्जीत चिकित्सकः॥४६॥

महाराष्ट्रीजटालेपो दग्धपिष्टावचूर्णनम्।
जीर्णगेहतृणाच्चूर्णं दग्धव्रणहरं परम्॥४७॥

इदानीं शाररिव्रणचिकित्साममिधाय व्रणसामान्यादस्मिन्नेव व्रणाधिकारे आगन्तुव्रणचिकित्माभिधानार्थं प्रकरणमारभ्यते। अत्र प्रथममग्निदग्धव्रणचिकित्सामाह—पित्तेत्यादि।महाराष्ट्रीजटा महाराष्ट्रीमूलम्। अयमेको योगः।पिष्टं पिष्टकमेव। दग्धपिष्टकचूर्णेनावचूर्णनमिति द्वितीयः॥४६॥४७॥

जीरकाद्यं घृतम्।

जीरकपक्वंपश्चात् सिक्थकसर्जरसमिश्रितं हरति।
घृतमभ्यङ्गात् पावकदग्धजदुःख क्षणार्द्धेन॥४८॥

जीरकेत्यादि—जीरकस्य कल्कः, जलं चतुर्गुणम्, पश्चात् सिद्धे च सिक्थसर्जरसयोः प्रक्षेपः॥४८॥

अन्तर्दग्धकुठारको दहनजं लेपान्निहन्ति व्रणम्।
अश्वत्थस्य विशुद्धवल्कलकृतं चूर्णं तथा गुण्डनात्॥४९

अन्तरित्यादौ—कुठारकः कुडालिया, स च स्थालीमध्ये अन्तर्धूमं दग्धव्यः। गुण्डनादित्यवचूर्णनात्॥४९॥

अभ्यङ्गाद्विनिहन्ति तैत्तमखिलं गण्डूपदैः साधितम्।
पिष्ट्वाशाल्मलितूलकैर्जलगता लेपात् तथा वालुका॥५०॥

गण्डूपदैः किष्चुलुकैः कल्कः, जलं चतुर्गुणमनुक्तत्वादिति निश्चलः। जलं विना चटचटाबधिः पाक इत्यन्ये। शाल्मलतूलकैरिति सहार्थे तृतीया॥५०॥

सद्यःक्षतव्रणं वैद्यः सशूलं परिषेचयेत्।
यष्टीमधुककल्केन नातिशीतेन सर्पिषा॥५१॥

इदानीं सद्यइत्यादिना सद्योव्रणचिकित्सामाह।सद्य इति सप्ताहाभ्यन्तरे। यष्टिमधुकयुक्तेनेति यष्टिमधुकं कल्कीकृत्य चतुर्गुणजलेन यथाविधि घृतं साधनीयम्। यदि पुनस्त्वरया यथाविधि वृतमिदं पक्तुं न शक्यते, तदा घृतात् पलद्वयं, जलात् चतुःपलं, यष्टिमधुकस्य कर्षद्वयं किश्चित् पक्त्वावतार्य व्रणं सेचयेदित्याहुः। नातिशीतेनेति कदुष्णेनेत्यर्थः, किञ्चिदनुष्णेनति पाठान्तरम्॥५१॥

बुद्ध्वागन्तुव्रणंवैद्यो घृतक्षौद्रसमायुतम्।

शीतां क्रियां प्रयुञ्जीत पित्तरक्तोष्मनाशिनीम्॥५२॥

बुद्ध्वेत्यादि—चन्द्राटस्य।बुद्ध्वेत्यत्र बुद्ध्वेति पाठः साधुः। बन्धो हि सद्योव्रणेषु छिन्नभिन्नादिषु सन्धानजनकतया प्रधानम्, उक्कं हि—“बन्धः प्रधानं तेन शुद्धिर्व्रणरोपणमस्थिसन्धिस्थैर्यञ्च” इति। चन्द्राटादावयमेव पाठो दृश्यते। बुद्ध्वेत्यादि पाठे घृतक्षौद्रसमायुतमित्यनन्तरं कृत्वेति शेषः, किं वा प्रयुञ्जीतेतिक्रियाविशेषणम्॥५२॥

कान्तक्रामकमेकं सुश्लक्ष्णंगव्यसर्पिषा पिष्टम्।
शमयति लेपान्नियतं व्रणमागन्तुजं न सन्देहः॥५३॥

कान्तत्यादौ कान्तक्रामकं भद्रमुस्तकम्। घृतमत्र शतधौतमित्युपदिशन्ति एवं वक्ष्यमाणेऽपि॥५३॥

अपामार्गस्य संसिलं पत्रोत्थेन रसेन वा।
सद्योव्रणेषु रक्तन्तु प्रवृत्तं परितिष्ठति॥५४॥

अपामार्गस्यत्यादि—स्पष्टम्॥५४॥

कर्पूरपूरितं बद्धं सघृतं सम्प्ररोहति।
सद्यःशस्त्रक्षतं पुंसां व्यथापाकविवर्जितम्॥५५॥

कर्पूरेत्यादि—सघृतं यथा स्यात्तथा कर्पूरपूरितम् तेन कर्पूरचूर्णेन शतधौत-घृतमिश्रेण खड्गादिक्षतं प्रपूर्य बध्नीयादित्यर्थः॥५५॥

शरपुङ्खा काकजङ्घा प्रथमं महिषीसुत—
मलं लज्जा च सद्यस्कव्रणघ्नं पृथगेव तु॥५६॥

शरपुङ्खेत्यादि—महिषीसुतस्य मलम्। घृततैलवसामज्जवेसवारपयोदधिमांसधावनतोयाभमितिवत् अयं प्रयोगः समर्थनीयः।अभिनवजातमहिषीवत्सस्य प्रथमं मलमित्यर्थः। लज्जा लाजालु अन्ये तु वराहक्रान्ता इत्याहुः॥५६॥

शुनो जिह्वाकृतश्चूर्णः सद्यः क्षतविरोहणः॥५७॥

शुन इति कुक्करस्य तन्त्रान्तरसंवादात्, सर्वाङ्गकृष्णकुक्कुरीजिह्वेत्यन्ये ५७

चक्रतैलं क्षते विद्धे रोपणं परमं मतम्॥५८॥

चक्रतैलं तत्कालचक्रोदूतममृष्टसर्षपतैलम्। अन्ये तु चक्रकाष्ठोद्भवं तैलमाहुः।

यवक्षारं भक्षयित्वा पिण्डं दद्याद व्रणोपरि।
शृगालकोलिमूलेन नष्टशल्यं विनिःसरेत्॥६९॥

लाङ्गलीमूललेपाद्वा गवाक्षीमूलतस्तथा॥६०॥

अन्तःशल्यचिकित्सामाह यवक्षारमित्यादिना तथेत्यन्तेन।यवक्षार कर्ष १, उष्णजल पल २, आलोड्य पीत्वानष्टशल्यव्रणोपरि शृगालकोलिमूलं पिष्ट्वा पिण्डो देयः। शृगालकोली शेयाकुल इति ख्यातः बदरीभेदः। एवं लाङ्गलीयामूलगोरक्षकर्कटीमूलाभ्यामपि॥५९-६०॥

क्षतोष्मणो निग्रहार्थं तत्कालं विसृतस्य च।

कषायशीतमधुर-स्निग्धालेपादयोहिताः॥६१॥

क्षतेत्यादि—वाग्भटस्य।कषाय इति रसः॥६१॥

आमाशयस्थे रुधिरे वमनं पथ्यमुच्यते।
पक्वाशयस्थे देयञ्च विरेचनमसंशयम्॥६२॥

आमाशयस्थ इति—सुश्रुतस्य।आमाशयस्थमपक्वाशयस्थम्। अत्र पक्वाशयस्थं रक्कं विरेचनेन सुखेन निर्हर्त्तुं शक्यत इत्यभिप्रायेण विरेचनविधानं न तु पित्तप्रत्यनीकतमा पक्वाशयस्य वातस्थानत्वात्। अन्ये तु पक्वशब्देन पाक उच्यते न पक्वाशयः, तेन पक्वाशयस्थ इत्यन्नपच्यमानाशयस्य इत्यर्थः, तत्रैव हि पित्तस्थानत्वेन विरेचनमुपयोगिकमित्याहुः॥६२॥

क्वाथो वंशत्वगैरण्ड-श्वदंष्ट्राश्मभिदा कृतः।
सहिङ्गु सैन्धवः पतिः कोष्ठस्थं स्रावयेदसक्॥६३॥

क्वाथ इत्यादौ—वंशत्वक् वंशनीली, अश्मभित् पाषाणभेदी।हिंगुसैन्धवन्तु प्रक्षेप्यम्। अयं योगःप्रभावात् रक्तं स्रावयति॥६३॥

यवकोलकुलत्थानां निःस्नेहेन रसेन च।
भुञ्जीतान्नं यवागू वा पिबेत्सैन्धवसंयुताम्॥६४॥

यवेत्यादि—स्पष्टम्॥६४॥

अत्यर्थमस्रं स्रवति प्रायशो यत्र विक्षते।
ततो रक्तक्षयाद्वायौ कुपितेऽतिरुजाकरे॥

स्नेहपानं परीपेकं स्नेहलेपोपनाहनम्।
स्नेहवस्तिञ्चकुर्वीत वातघ्नौषधसाधितम्॥६५॥

अत्यर्थमित्यादि—वाग्भटस्य। विक्षत इति विविधक्षते छिन्नभिन्नादौ। स्नेहलेपोपनाहनमिति स्नेहयुक्तो लेपः स्नेहयुक्तमुपनाहञ्च, किन्तु वाग्भटे स्वेदलपोपनाहनमिति पाठः। तन्मते स्वेदो धान्यस्त्रेदः, उक्तञ्च सुश्रुते—“धान्यस्वेदञ्चकुर्वीत स्निग्धान्यालेपनानि च " इति। वातघ्नौषधं भद्रदार्वादि॥६५॥

इति साप्ताहिकः प्रोक्तःसद्योव्रणहितो विधिः।
सप्ताहात्परतः कुर्याच्छारीरव्रणवत् क्रियाम्॥६६॥

सद्योव्रणचिकित्सामुपसंहरति इति साप्ताहिक इत्यादि—वाग्भटस्य॥६६॥

करञ्जरिष्टनिर्गुण्डीरसो हन्याद् व्रणक्रिमीनू॥६७॥

फरजेत्यादौ—करञ्जादिपत्रस्वरसैः॥६७॥

कलायविदलीपत्र—कोशाम्रास्थि च पूरणात्।
सुरसादिरसैः सेको लेपनं सुरसेन वा॥६८॥

कलायविदली स्वनामख्याता लता, कोशाम्रः कुसुम्भ इति ख्यातः, तस्य फलास्थि, आभ्यां सम्पिष्टाभ्यां प्रत्येकं व्रणावकाशपूरणम्। सुरसादिगणः सौश्रुतः।

सुरसेनेति पर्णासेन॥६८॥

निम्बसम्पाकजात्यर्क-सप्तपर्णाश्वमारकाः।
क्रिमिघ्ना मूत्रसंयुक्ताः सेकालेपनधावनैः॥६६॥

निम्बेत्यादौ जास्याः पत्रम्, निम्बादीनान्तु त्वक्। एते च निम्बादयो यथालाभं मूत्रपिष्टाः सेकादौ प्रयोज्याः॥६६॥

प्रच्छाद्य मांसपेश्या वा क्रिमीनपहरेद् व्रणात्।
लशुनेनाथवा दद्याल्लेपनं क्रिमिनाशनम्॥७०॥

प्रच्छायेत्यादी—मांसपेशी मांसखण्डः, अत्रामिषगन्धात् क्रिमय उपर्य्युपरि सञ्चरन्ति इतिभावः॥७०॥

त्रिफलागुग्गुलुः।

ये क्लेदपाकस्नुतिगन्धवन्तो, व्रणा महान्तः सरुजाः सशोथाः।
प्रयान्ति ते गुग्गुलुमिश्रितेन पीतेन शान्ति त्रिफलारसेन॥७१॥

बहिःपरिमार्जनमुक्त्वा अन्तः परिमार्जनमाह य इत्यादि—कोष्ठानुरूपोऽत्र गुग्गुलुः प्रक्षेप्यः॥७१॥

वटिकागुग्गुलुः।

त्रिफलाचूर्णसंयुक्तेगुग्गुलुर्वटकीकृतः।
निर्यन्त्रणो विबन्धनो व्रणशोधनरोपणः॥
अमृतागुग्गुलुः शस्तो हितं तैलञ्च वज्रकम्॥७२॥

** **त्रिफलाचूर्णसंयुक्त इति त्रिफलाचूर्णेन समेन युक्तो गुग्गुलुः, घृतमनुरूपं दत्त्वा विमृश्य चूर्णञ्च प्रक्षिप्य वटकीकर्तव्या। एवं सर्वत्र वटकविधाने।यन्त्रणा आहाराचारनियञ्च।अमृतगुग्गुलुर्वातरक्कोक्तः।वज्रकतैलञ्चकुष्ठे वक्ष्यमाणम्॥७२॥

विडङ्गादिवटिकागुग्गुलुः।

विडङ्गत्रिफलाव्योष-चूर्णंगुग्गुलुना समम्।
सर्पिषा वटिकां कृत्वा खादेद्वा हितभोजनः।
दुष्टव्रणापचीमेह-कुष्ठनाडीव्रणापहः॥७३॥

वटिकागुग्गुलो गुग्गुलुना सममिति विडंगादिचूर्णसमेन॥७३॥

अमृतावटिकागुग्गुलुः।

अमृतापटोलमूल-त्रिफलात्रिकटुक्रिमिघ्नानाम्।
समभागानां चूर्णं सर्वसमो गुग्गुलोर्भागः॥

प्रतिवासरमेकैकां गुडिकां खादेच्चाक्षपरिमाणाम्।
जेतुं व्रणवातासृग्गुल्मोदरश्वयथुपाण्डुरोगांश्च॥७४॥

अमृतावटिकागुग्गुलु स्पष्टः॥७४॥

जातिकाद्यं घृतम्।

जातीनिम्बपटोलपत्रकटुकादार्वीनिशासारिवा-
मञ्जिष्ठाभयसिक्थतुत्थमधुकैर्नक्ताह्वबीजैः समैः।
सर्पिः सिद्धमनेन सूक्ष्मवदना मर्माश्रिताः स्राविणो
गम्भीराः सरुजो व्रणाः सगतिकाः शुष्यन्ति रोहन्ति च॥७५॥

जातीत्यादि—वाग्भटस्य जात्यादीनां त्रयाणां पत्रम्। दार्वीदारुहरिद्रा, निशा हरिद्रा, अभयमुशीरम्, नक्ताह्वबीजं करञ्जबीजम्। गतिर्नाडी॥७५॥

गौराद्यं घृतम्।

गौरा हरिद्रा मञ्जिष्टा मांसी मधुकमेव च।
प्रपौण्डरीकं ह्रीवेरं मद्रमुस्तं सचन्दनम्॥

जातीनिम्बपटोल करञ्जं कटुरोहिणी।
मधूच्छिष्टं मधूकञ्च महामेदा तथैव च।

पञ्चवल्कलतोयेन घृतप्रस्थं विपाचयेत्।
एषगौरो महावीर्यः सर्वव्रणविशोधनः।

आगन्तुःसहजश्चैव सुचिरोत्थाश्च ये व्रणाः।
विषमामपि नाडीञ्च शोधयेच्छीघ्रमेव च॥७६॥

गौराधे घृते—गौरा हरिद्रा प्रियद्गुर्वा। व्यवहारस्तु हरिद्रयैव।हरिद्रा दारुहरिद्रा। जातीनिम्बपटोलानां पत्रम्, करअस्य फलम्, मधूकं मधूकपुष्पम्।मधूकब्चेत्यस्य स्थाने समधुकमिति पाठे यष्टिमधुकस्य भागद्वयं द्विःपाठात्। पञ्चवल्कलस्य तो

थेन क्वाथेन। एष गौर इति भीमो भीमसेन इतिवत्, गौराद्योऽयं महावीर्य इत्यपि पाठः ७६

गौराद्यं जातिकाद्यञ्च तैलमेव प्रसाध्यते।
तैल सूक्ष्मानने दुष्टे व्रणे गम्भीर एव च॥७७॥

उक्तघृतद्वयविधिना तैलद्वयमपि साध्यमित्याह गौराद्यमित्यादि—तैलविषयमाह तैलमित्यादि॥७७॥

करञ्जाद्यं घृतम्।

नक्तमालस्य पत्राणि तरुणानि फलानि च।
सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा॥

द्वे हरिद्रे मधूच्छिष्टं मधुकं तिक्तरोहिणी।
मञ्जिष्ठा चन्दनोशीरमुत्पलं सारिवेत्रिवृत्।

एतेषां कार्षिकैर्भागघृतप्रस्थं विपाचायेत्॥
दुष्टत्रणप्रशमनं तथा नाडीविशोधनम्।

सद्यश्छिन्नव्रणानाञ्च करञ्जाद्यमिदं शुभम्॥७८॥

नक्कमालस्थेत्यादौ—तरुणानि पत्राणीत्यन्वयः।सुमना जाती, उत्पलं नीलोत्पलम् शारिवे अनन्तमूलश्यामलते॥७८॥

प्रपौण्डरीकाद्यं घृतम्।

प्रपौण्डरीकमञ्जिष्ठामधुकोशीरपद्मकैः।
सहरिद्रैः कृतः सर्पिः सक्षीरं व्रणरोपणम्॥७९॥

प्रपौण्डरीकमित्यादौ – क्षीरमेव चतुर्गुणम्॥७९॥

तिक्ककाद्यं घृतम्।

तिक्तासिक्थनिशायष्टी-नक्लाह्वफलपल्लवैः।
पटोलमालतीनिम्ब-पत्रैर्व्रण्यंघृतं स्मृतम्॥८०॥

तिक्तेत्यादौ—पत्रशब्दः त्रिभिः सम्बध्यते, जलञ्चचतुर्गुणम्॥८०॥

सिन्दूरहिङ्गविषकुष्ठरसोनचित्रवाणाङ्घ्रिलाङ्गलिककल्कविपक्ततैलम्।
प्रासादमन्त्रयुतफूत्कृतनुन्नफेनो, दुष्टव्रणप्रशमनो विपरीतमल्लः॥

खड्गाभिघातगुरुगण्डमहोपदंशनाडीव्रणवणविचर्चिककुष्ठपामाः।
एतान् निहन्ति विपरीतकमल्लनाम तैलं यथेष्टशयनासनभोजनस्य॥८१॥

तैलान्याह सिन्दूरेत्यादि—चित्रको रक्तचित्रकः, वाणाङ्घ्रिः शरपुङ्खामूलम्, न तु झिएटीमूलम्, जलं चतुर्गुणम्, तैलञ्च सार्षपं तन्त्रान्तरसंवादात्।उक्तञ्च—“सिन्दूरहिंगुषिषकुष्ठरसोनवाणपुङ्खःरुणानलहलाह्वयमूलकल्कैः। एतःचर्तुगुणजले विधिवत्सुसिद्धं सिद्धार्थतैलमिति सिद्धफलं प्रदिष्टम्” इति। प्रासादमन्त्री महेश्वरमन्त्रः, नुन्नोऽपसारितः। ॐ हांहींहैं हौंहः शिवाय स्वाहेति पठित्वा फूत्कारेण फेनमालोङ्यम्॥८१॥

अङ्गारकंतैलम्।

कुठारकात् पलशतं क्वाथयेन्नल्वणेऽम्भसि।
तेन पादावशेषेण तैलप्रस्थं विपाचयेत्॥

कल्कैः कुठारापामार्ग-प्रोष्ठिकामक्षिकायुतैः।
एतदङ्गारकं तैलं व्रणशोधनरोपणम्।
नाडीषु परमाभ्यङ्गो निजास्वागन्तुकीषु च॥८२॥

कुठारकादित्यादि — कुठारकः कुडालिया।नल्वणो द्रोणः। प्रोष्ठिका शफरीमत्स्यः पोठियानाम्ना ख्याता, विटपीत्यन्ये।मक्षिका कीटविशेषः प्रसिद्ध एव, पञ्चाखियामत्स्य इत्यन्ये॥८२॥

प्रपौण्डरीकाद्यं तैलम्।

प्रपौण्डरीकं मधुकं काकोल्यौ द्वे सचन्दने।
सिद्धमेतैः समैस्तैलं तत्परं व्रणरोपणम्॥८३॥

प्रपौण्डरीकमित्यादौ—प्रपौण्डरीकं पुण्डरीककाष्ठम्॥८३॥

दूर्वाद्यंतैलं घृतञ्च।

दुर्वास्वरससिद्धं वा तैलं कम्पिल्लकेन च।
दार्वीत्वचश्व कल्केन प्रधानं व्रणरोपणम्॥

येनैव विधिना तैलं घृतं तेनैव साधयेत्।
रक्तपित्तोत्तरं ज्ञात्वा सर्पिरेवावचारयेत्॥८४॥

दूर्वेत्यादि—योगद्वयम्।अन दूर्वैव कल्को बोध्यः, चकारद्वयात् कम्पिल्लकदार्वीत्वचोर्मिलित्वा कल्कः, पाकश्च जलेनक्षारपाणिसंवादात्। अन्ये तु दुर्वास्वरसेन अकल्कमेव तैलं साध्यम, कम्पिल्लकेन वा दार्वीकल्केन वा जलेन द्रवेणापरं तैलद्वयमित्याहुः।तैलसाधनविधिं घृतेऽप्यतिदिशति येनेत्यादि—अयञ्च सर्वतैलविघ्यतिदेशः। अन्ये तु दुर्वादितैलविध्यतिदेश इत्याहुः॥८४॥

मञ्जिष्ठाद्यं घृतम्।

मञ्जिष्ठां चन्दनं मूर्वांपिष्ट्वासर्पिर्विपाचयेत्।
सर्वेपामग्निदग्धानामेतद्रोपणमिष्यते॥८५॥

मञ्जिष्ठमित्यादौ—जलं चतुर्गुणम्॥८५॥

पाटलीतैलम्।

सिद्धं कल्ककषायाभ्यां पाटल्याः कटुतैलकम्।
दग्धव्रणरुजास्रावदाहविस्फोटनाशनम्॥८६॥

पाटलीतैलं स्पष्टम्॥८६॥

चन्दनाद्यं यमकम्।

चन्दनं वटशुङ्गञ्चमञ्जिष्ठा मधुकं तथा।
प्रपौण्डरीकं दूर्वा च पत्तङ्गं धातकी तथा॥

एभिस्तैलं विपक्तव्यं सर्पिः क्षीरसमायुतम्।
अग्निदाहव्रणे श्रेष्ठं म्रक्षणाद्रोषणं परम्॥८७॥

चन्दनाद्ययमेके तैलघृताभ्यां समाभ्यां मिलित्वा प्रस्थः। पत्तङ्गंरक्तचन्दनम्। क्षीरमेवात्र चतुर्गुणम्। तैलमिति तिलभवमेव सर्वत्र विशेषोक्तिंविना॥८७॥

मनःशिलाले मञ्जिष्ठा सलाक्षा रजनीद्वयम्।
प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परः॥८८॥

मनः शिलेत्यादिना—सावर्ण्याख्यमुपक्रममाह॥८८॥

अयोरजः सकाशीशं त्रिफलाकुसुमानि च।
प्रलेपः कुरुते कार्ष्ण्यंसद्य एव नवत्वाच॥८९॥

अयोरज इत्यादि—काशीशं धातुकाशीशम्। त्रिफलाकुसुमानि \। कुसुमाभावे फलेन व्यवहारः॥८९॥

कालीयकलताम्रास्थिहेमकालारसोत्तमैः।

लेपः सगोमयरसः सवर्णकरणः परः॥९०॥

कालीय केत्यादौ—कालीयकं कालीयाकाष्ठम्, लता प्रियंगुः, दूर्वेत्यन्ये, हेम नागकेशरचूर्णम्, काला मञ्जिष्ठा, रसोत्तमः पारदः घृतमित्यन्ये।गोमयरसः पेषणार्थम्।

चतुष्पदां हि त्वग्रोमखुरशृङ्गास्थिभस्मना।
तैलाक्ताचूर्णिता भूमिर्भवेद्रोमवती पुनः॥९१॥

चतुष्पदामित्यादि सुगमम्॥९१॥

व्रणग्रन्थिं ग्रन्थिवच्चजयेत् क्षीरेण वा भिषक्॥९२॥

व्रणग्रन्थिमिति—दुरूढतया सञ्जातं मांसग्रन्थिमित्यर्थः॥९२॥

इति व्रणशोथसद्योत्रणाधिकार विवृतिः।
_____________

अथ नाडीव्रण-चिकित्सा।

नाडीनां गतिमन्विष्य शस्त्रेणापाट्य कर्मवित्।
सर्वव्रणक्रमं कुर्य्याच्छोधनं रोपणादिकम्॥

नाडीं वातकृतां साधुपाटितां लेपयेद्भिषक्।
प्रत्यक्पुष्पीफलयुतैस्तिलैः पिष्टैः प्रलेपयेत्॥१॥

व्रणत्वसाजात्यान्नाढीव्रणचिकित्सामाह नाडीनामित्यादि—गतिमिति पूयगतिम्। आदिशब्दनोत्सादनावसादनसवर्णकरणादयो गृह्यन्ते। साधुपाटनमुपनाहपूर्वकम्। तदुक्तंवाग्भटे “उपनह्यांनिलान्नाडीं पाटितां साधु लपयेत्। प्रत्यक्पुष्पीफलयुतस्तिलैः पिष्टैः ससैन्धवैः” इति। अतएव वचनात् सैन्धवयोगादप्ययं लेपो बोध्यः। प्रत्यकुपुष्पी अपामार्गःतस्य बीजम्। लेखयेदिति क्षारेण प्रतिसारयेदित्यर्थः। एतच्च लखनयोग्यव्रणं प्रति बोध्यम्। उक्तं हि “उद्धृत्तान् स्थूलपर्यन्तानुत्सन्नान् कठिनान् व्रणान्। किलासानि सकुष्ठानि लिखेल्लेख्यानि बुद्धिमान्” इति॥१॥

पैत्तिकीं तिलमञ्जिष्ठानागदन्तीनिशाद्वयैः॥२॥

पैत्तिकीमित्यादि—नागदन्ती स्थूलमूला दन्त्येष।“पित्तजां निशिमञ्जिष्ठानागदन्तीतिलैःसमैः” इत्यायुर्वेदसारदर्शनान्निशाद्वयैरित्यत्र निशायुतैरिति केचित् पठन्ति, तन्न, विशेष्यस्याश्रवणात् निशिशब्दन हरिद्राया अनभिधानाच्च, किन्तु मिषीत्येष तत्र पाठ इति योगान्तरमेतत्। तथा वाग्भटेऽपि निशाद्वयैरित्येव पठ्यते। वृन्देऽपि तथा।सुश्रुते तु हरिद्राद्वयव्यतिरेकेणाप्ययं योगः॥२॥

श्लैष्मिकींतिलयष्ट्याह्ननिकुम्भारिष्टसैन्धवैः॥३॥

श्लैष्मिकीमित्यादौ—निकुम्भो दन्ती, अरिष्टो निम्बः, अत्र यष्ठ्याह्वस्थाने सौराष्टीयोगादप्ययं योगः।उक्तं हि वाग्भटे—“श्लैष्मिकीं तिलसौराष्ट्रीनिकुम्भारिष्टसैन्धवैः” इति॥३॥

शल्यजां तिलमध्वाज्यैर्लेपयेच्छिन्नशोधिताम्॥४॥

शल्यजामित्यादि—वाग्भटस्य।छिन्नशोधितामिति आदौछिन्नामिति पाटितां पश्चात् शल्यं निर्हृत्य शोधितामित्यर्थः। सुश्रुतेऽप्युक्तं— “नाडीन्तु शल्यप्रभवां विदार्य्यनिर्हृत्य शल्यं प्रविशोध्य मार्गम्।बन्धेद् व्रणं क्षौद्रघृतप्रगाढं दत्त्वा तिलान् शोध्यवरोपयेत्” इति॥४॥

आरग्वधनिशाकालाचूर्णाज्यक्षौद्रसंयुता।
मूत्रवर्त्तिर्व्रणे योज्या शोधनी गतिनाशिनी॥५॥

आरग्वधत्यादि—आरग्वधस्य पत्रं, काला कालाकढामूलं न तु मञ्जिष्ठा अस्यैकस्यैव दुष्टव्रणहन्तृत्वात्। मूत्रवर्तिरिति गोमूत्रकृता वर्तिः। शोनालुपात्, हलादि, कालाकडामूल एषां प्रत्येकं चूर्ण मा ८, घृत कर्ष १, मधु कर्ष १, गोमूत्र पल १, एतत् सर्वं पक्त्वा मधुसैन्धवयोवर्तिवद् वर्तिः कार्य्येत्याहुः पाकमन्तरेण वर्तिकरणस्याशक्यत्वात्। सूत्रवर्त्तिरिति पाठे एभिर्लिप्ता सूत्रवर्तिरित्यर्थः। वृद्धास्तु पूर्वेणैव व्यवहरन्ति॥५॥

घोण्टाफलत्वक्लवणं सलाक्षं पूगात् फलञ्चालवणञ्च पत्रम्।
स्नुह्यर्कदुग्धान्वित एष कल्को वर्त्तीकृतो हन्त्यचिरेण नाडीम्॥६॥

घोण्टत्यादि—सुश्रुतस्य। घोण्टा अरण्यवदरं, अस्याः फलं त्वक् च। लवणं सैन्धवम्। लाक्षा प्रसिद्धैव। पूगात् फलमिति शुष्कपूगफलम्।आलवणश्च पत्रमिति अलवगणा ज्योतिष्मती, अस्याः पत्रमालवणम्। वाग्भटेऽप्युक्कं—“घोएटाफलस्वग्लवणं सलाक्षं पूगात् फलञ्चालवणञ्च पत्रम्।स्नुह्यर्कदुग्धान्वित एष कल्को वर्त्तीकृतो हन्त्यचिरेण नाडीम्” इति। अन्ये तु लाक्षां ज्योतिष्मतीपत्रञ्चन पठन्ति, यथा— “घोण्टाफलत्वङ्मदनात् फलानि पूगस्य च त्वग्लवणच मुख्यम्। स्नुह्यर्क दुग्धेन सहैष कल्को वर्तीकृतो हन्त्यांचरेण नाडीम्” इति। एतत् सर्वं समभागं कृत्वा किञ्चित् सैन्धवं दत्त्वा स्नुहीद्दीतीशर्कक्षरजलैराप्लाव्य पक्त्वा वर्तिः कार्य्या ६

वर्त्तीकृतं माक्षिकसम्प्रयुक्तं नाडीघ्नमुक्तं लवणोत्तमं वा।
दुष्टव्रणे यद्विहितञ्च तैलं तत् सेव्यमानं गतिमाशु हन्ति॥७॥

वर्त्तीकृतमित्यादि—सुश्रुतस्य।लवणोत्तममिति सैन्धवं वर्तिकरणञ्च मधुसैन्धवयोरग्नौ पाकात्, अन्यथा बन्धो न स्यात्। दुष्टवणे यद्विहितञ्चतैलमिति सुश्रुतोक्लारग्वधादितैलादि॥७॥

जात्यर्कसम्पाककरञ्जदन्तीसिन्धूत्थसौवर्च्चलयावश्कैः।
वर्त्तिः कृता हन्त्यचिरेण नाडींस्नुक्क्षीरपिष्टा सह चित्रकेण॥८॥

जातीत्यादि—जातीपल्लवाः अर्कस्य मूलं, सम्पाक आरग्वधः तस्यापि पत्रं, करञ्जस्य बीजं, दन्ती दन्तीमूलं, अत्र स्नुहीक्षीरेणैव सह किञ्चिजलं दत्वा पक्त्वा च वर्तिः कार्य्येत्याहुः॥८॥

माहिषदधिकोद्रवान्नमिश्रं हरति चिरविरूढाञ्च।
भुक्तं कङ्गुनिकमूलचूर्णमतिदारुणां नाडीम्॥९॥

माहिषेत्यादि—कोद्रवस्तृणधान्यविशेषः, तस्य भक्तम्। कंगुनिका कायनिः एतन्मूलचूर्णं माहिषदधिकोद्रवभक्ताभ्यां मिश्रितं कृत्वा भुक्तं सदित्यर्थः॥९॥

कृशदुर्बलभीरूणां गतिर्मर्माश्रिता च या।
क्षारसूत्रेण तां छिन्द्यान्न शस्त्रेण कदाचन॥१०॥

कृशेत्यादि—सुश्रुतस्य।कृशः क्षीणमांसः, दुर्बलो होनबलः॥१०॥

एषण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम्।
सूचीं निदध्याद्गत्यन्ते चोन्नाम्य चाशु निर्हरेत्॥

सूत्रस्यान्तं समानीय गाढं बन्धनमाचरेत्।
ततः क्षारबलं वीक्ष्यसूत्रमन्यत् प्रवेशयेत्॥

क्षाराक्तंमतिमान् वैद्यो यावन्नछिद्यते गतिः।
भगन्दरेऽप्येष विधिः कार्य्योवैद्येन जानता॥

अर्बुदादिषु चोत्क्षिप्य मूले सूत्रं निधापयेत्।
सूचीभिर्यववक्त्राभिराचितं वा समन्ततः।
मूले सूत्रेण बध्नीयाच्छिन्ने चोपचरेद् व्रणम्॥११॥

क्षारसूत्रेण छेदनविधिमाह, एषण्येत्यादि—क्षारसूत्रेण सह अनुसर्त्तुंशीलं यस्या एतादृशीं सूचीमुन्नाम्य उत्क्षिप्य सूच्यग्रेण गतिप्रान्तं विदुध्वा सूच निर्हरेदिति भावः। अत्र यदि अतिदीर्घा भवति तदा द्व्यङ्गुले त्र्यङ्गुले चतुरङ्गुले वा बद्ध्वा क्रमेण छेदयेत्। न पुनरेकदैव गतिप्रमाणेन बध्वा छेदः कार्यः सूत्रच्छेदभयात् पीडातिशयजनकत्वाच्च इत्याहुः। क्षाराक्तमिति सूत्रविशेषणम्। अर्बुदादिषु बन्धविशेषमाह, अर्बुदादिष्वित्यादि—अर्बुदादिकं यदि तनुमूलं भवति तदा उत्क्षिप्यैव मूले सूत्रेण बध्नीयात्।स्थूलमूलेषु तु सूत्रस्थैर्यार्थं मूले समन्ततः सूचीभिराचितं यथा स्यात्तथा बध्नीयात्। यवक्त्राभिरिति यववन्मध्यस्थूलवक्त्राभिः, यववक्त्रत्वञ्च सूचीनां दार्ढ्यार्थम्।छिन्ने चोपचरव्रणमिति द्विव्रणीयोक्तविधिनेति शेषः॥११॥

सप्ताङ्गगुग्गुलुः।

गुग्गुलुस्त्रिफलाग्योषैः समांशैराज्ययोजितः।
नाडीदुष्टव्रणशूलभगन्दरविनाशनः॥१२॥

गुग्गुलुरित्यादौ—त्रिफलाव्योषैरिति विशेषणे तृतीया। त्रिफलादीनान्तु मिलित्वा गुग्गुलुसमत्वम्, आज्ययोजित इति घृतपिण्डितः, घृतञ्च तावद्देयं यावता षटकीभवति॥१२॥

सर्जिकाद्यं तैलम्।

सर्जिकासिन्धुदन्त्यग्निरूपिकानलनीलिका।

खरमञ्जरिबीजेषु तैलं गोमूत्रपाचितम्।
दुष्टव्रणप्रशमनं कफनाडीव्रणापहम्॥१३॥

सर्जिकेत्यादौ—अग्निश्चित्रकः, रूपिका श्वेतार्कः, नलश्च स्वनामख्यातः, नीलिका नीलीति प्रसिद्धा नीलवुह्वेत्यन्ये, खरमञ्जरी अपामार्गः, गोमूत्रं पाकार्थं चतुर्गुणम्, सुश्रुतेऽप्युक्तं “सुवर्चिकासैन्धवचित्रकेषु निकुम्भनीलीनलरूपिकासु। फलेष्वपामार्गभवेषु चैव कुर्यात् समूत्रेषु हिताय तैलम्” इति॥१३॥

कुम्भीकाद्यं तैलम्।

कुम्भीकखर्जूरकषित्थबिल्व-वनस्पतीनान्तु शलाटुवर्गैः।
कृत्वा कषायंविपचेत्तु तैलमावाप्य मुस्तासरलप्रियङ्क॥

सौगन्धिकामोचरसाहिपुष्पलोत्राणि दत्त्वा खलु धातकीञ्च।
एतेन शल्यप्रभवा हि नाडी रोहेद् व्रणो वै सुखमाशु चैव॥१४॥

कुम्भीकत्यादि—सुश्रुतस्य कुम्भीकःकुम्भाडुलता, दाडिमसमानफला स्थूलदन्तीत्यन्ये, वनस्पतयो वटादयः एषां शलाडु कोमलफलम्, सौगन्धिका अनन्तमूलम्, मोचरसः शाल्मलीनिर्यासः, अहिपुष्पं नागकेशरम्॥१४॥

भल्लातकाद्यं तैलम्।

भल्लातकार्कमरिचैर्लवणोत्तमेन सिद्धं विडङ्गरजनीद्वयचित्रकैश्च।
स्यान्मार्कवस्य च रसेन निहन्ति तैलं नाडीं कफानिलकृतामपचीं व्रणांश्च

भल्लातकेत्यादि—सुश्रुतस्य।मार्कवो मृङ्गराजस्तस्य स्वरसश्चतुर्गुणः॥१५॥

निर्गुण्डी तैलम्।

समूलपत्रां निर्गुण्डीं पीडयित्वा रसेन तु।
तेन सिद्धं समं तैलं नाडीदुष्टव्रणापहम्॥

हितं पामापचीनान्तु पानाभ्यञ्जननावनैः।
विविधेषु च स्फोटेषुतथा सर्वव्रणेषु च॥१६॥

निर्गुण्ढीतैल—सममिति सहार्थे, तेन निर्गुण्ढीस्वरसश्चतुर्गुण एव ग्राह्यः। चक्रस्तु समशब्दं तुल्यार्थमित्याह। अकल्कमिदं तैलम्॥१६॥

हंसपादीतैलम्।

हंसपाद्यरिष्टपत्रं जातीपत्रं ततो रसैः।
तत्कल्कैश्च पचेत् तैलं नाडीव्रणविशोधनम्॥१७॥

हंसपादीतैले हंसपादी स्वनामख्याता, अरिष्टपत्रं निम्बपत्रम्, तत इति तेषामित्यर्थः षष्ठ्यन्तात्तसिति, त्रयाणां रसो मिलिखा तैलाचतुर्गुणः॥१७॥

इति नाडीव्रणचिकित्सा विवृतिः।
____________

अथ भगन्दर-चिकित्सा।

गुदस्य श्वयथुं दृष्ट्वाविशोष्य शोधयेत्ततः।
रक्तावसेचनं कुर्य्याद् यथा पाकं न गच्छति॥१॥

नाडीव्रणत्वसामान्यात् संख्यासामान्याच्च भगन्दरमाह, गुदस्येत्यादि—विशोष्ये त्युपवासादिना। शोधयेदिति विरेचयेत् न शोणितमोक्षणादिभिः॥१॥

वटपत्रेष्टकाशुण्ठी गुडूच्यः सपुनर्नवाः।
सुपिष्टाः पिडकारम्भे लेपः शस्तो भगन्दरे॥
पिडकानामपक्वानामपतर्पणपूर्वकम्।
कर्म कुर्य्याद्विरेकान्तं भिन्नानां वक्ष्यते क्रिया॥२॥

वटपत्रेत्यादौ—वटस्य कोमलपत्रम्, इष्टका च पानीये चिरमुषिता ग्रह्येति वृद्धव्यवहारः।अपतर्पणपूर्वकं कर्म कुर्याद्विरेकान्तमिति अपतर्पणादयो विरेकान्ता एकादशोपक्रमा द्विव्रणीयोक्ताःकर्तव्या इत्यर्थः॥२॥

एषणीपाटनक्षार-वाह्निदाहादिकं क्रमम्।
विधाय व्रणवत् कार्य्यं यथादोषं यथाक्रमम्॥३॥

एषणी त्यादौ –– कार्थ्यमित्यत्र चिकित्सितमिति शेषः॥३॥

त्रिवृत्तिला नागदन्ती मञ्जिष्ठा सह सर्पिषा।
उत्सादनं भवेदेतत् सैन्धवक्षौद्रसंयुतम्॥४॥

त्रिवृदित्यादि—सुश्रुतस्य। नागदन्ती स्थूलमूला दन्ती, उत्पादन मिति शोधनम्, न तु निम्नव्रणोत्थापनरूपमुत्सादनमिह व्याख्येयम्, त्रिवृदादीनां तीक्ष्णद्रव्यत्वात् उत्पादनस्य तु मृदुमधुरद्रव्यसम्पाद्यत्वात् उक्लं हि चरके “स्तन्यानि जीवनीयानि बृंहणीयानि यानि च। उत्सादनार्थे निम्नानां व्रणानां तत्र कल्पयेत्” इति। अन्ये तु संयोगमहिम्ना त्रिवृदादीनामप्युत्सादनत्वमिह बोध्यमित्याहुः॥४॥

रसाञ्जनं हरिद्रे द्वे मञ्जिष्ठानिम्बपल्लवाः।
त्रिवृत् तेजोवतीदन्तीकल्को नाडीव्रणापहः॥५॥

रसाञ्जनमित्यादि—सुश्रुतस्य।तेजोवती ज्योतिष्मती अन्ये तु चवीत्याहुः। शोधनरोपणोऽयं कल्कः॥५॥

कुष्ठं त्रिवृत्तिलादन्तीमागध्यः सैन्धवं मधु।
रजनी त्रिफला तुत्थं हितं व्रणविशोधनम्॥६॥

कुष्ठमित्यादि—सुश्रुतस्य।स्पष्टम्॥६॥

स्नुह्यर्कदुग्धदार्वीभिर्वर्त्तिंकृत्वा विचक्षणः।
भगन्दरगतिं ज्ञात्वा पूरयेत्तां प्रयत्नतः।
एषा सर्वशरीरस्थां नाडीं हन्यादसंशयम्॥७॥

स्नुहोत्यादि—स्नुपर्कयोः क्षीरेण दारुहरिद्राचूर्णं पक्त्वा वर्तिः कार्येस्यर्थः॥७॥

तिलाभयालोध्रमरिष्टपत्रं निशे वचा कुष्ठमगारधूमः।
भगन्दरे नाड्युपदंशयोश्च दुष्टवणे शोधनरोपणोऽयम्॥८॥

तिलत्यादौ—कुष्ठस्थाने लोध्रपाठे लोध्रद्वयं शावरपट्टिकाख्यभेदाद् ग्राह्यम्। निशे हरिद्रे द्वे॥८॥

खरास्रपक्वभूनागचूर्णलेपो भगन्दरम्।
हन्ति दन्त्यग्न्यतिविषालेपस्तद्वच्छुनोऽस्थि वा।

त्रिफलारससंयुक्तं बिडालास्थिप्रलेपनम्।
भगन्दरं निहन्त्याशु दुष्टव्रणहरं परम्॥९

खरेत्यादौ—गर्दभरक्तपक्वगराष्ट्रपदचूर्णलेप इत्यर्थः। दन्तीत्यादिद्वितीययोगे अग्निश्चित्रकः। शुनोऽस्थि कुक्कुरस्यास्थीत्यत्र तृतीययोगे त्रिफलारसोऽपिपेषणार्थं ज्ञेयः, उक्कं हि “शुनोऽस्थि वा बिडालास्थि त्रिफलारसभावितम्” इति॥९॥

नवकार्षिकगुग्गुलुः।

त्रिफलापुरकृष्णानां त्रिपञ्चैकांशयोजितः।
गुडिका शोथगुल्मार्शोभगन्दरवतां हिता॥१०॥

नवकार्षिके त्रिपञ्चैकांशयोजिता इति अंश इहकर्षरूपो भागः, तेन त्रिफलायाः प्रत्येकं कर्षः, गुग्गुलोः पञ्चकर्षाः, कृष्णाया एकः इति नवकार्षिकत्वम्॥१०॥

सप्तविंशतिगुग्गुलुः।

त्रिकटुत्रिफलामुस्तविडङ्गामृतचित्रकम्।
शट्येलापिप्पलीमूलं हवुषा सुरदारु च॥

तुम्वुरुः पुष्करं चव्यं विशाला रजनीद्वयम्।
विडं सौवर्च्चलं क्षारौ सैन्धव गजपिप्पली॥

यावन्त्येतानि चूर्णानि तस्माद् द्विगुणगुग्गुलुः।
कोलप्रमाणां गुडिकां भक्षयेन्मधुना सह॥

कासं श्वास तथा शोथमर्शंसि च भगन्दरम्।
हृच्छूलं पार्श्वशूलञ्च कुक्षिवस्तिगुदे रुजम्॥

अश्मरीं मूत्रकृच्छ्रञ्च अन्त्रवृद्धिं तथा क्रिमीन्।
चिरज्वरोपसृष्टानां क्षयोपहतचेतसाम्॥

आनाहञ्च तथोन्मादं कुष्ठानि चोदराणि च।
नाडीदुष्टवणान् सर्वान् प्रमेहं श्लीपदं तथा।

सप्तविंशतिको ह्येष सर्वरोगनिसूदनः॥

जम्बूकमांसं यः खादेत् प्रकारैर्व्यञ्जनादिभिः।
अजीर्णवर्जी भासेन मुच्यते ना भगन्दरात्॥११॥

त्रिकट्वियादौ—क्षारौयवक्षारस्वर्जिकाक्षारौ। एतेन गुग्गुलुं बिना सप्तविंशतिद्रव्याणीति निश्चलः। ये तु सौवर्चलक्षाराविति पठन्ति, तन्मते गुग्गुलुना सहैव सप्तविंशतिरिति॥११॥

पञ्चतिक्तंघृतं शस्तं पञ्चतिक्तश्च गुग्गुलुः।
न्यग्रोधादिगणो यस्तु हितः शोधनरोपणः।
तैलं घृतं वा तत्पक्वंभगन्दर विनाशनम्॥१२॥

न्यप्रोधादीत्यादि—सुश्रुतस्य।कल्कोऽयम्। तत्पक्वमिति न्यप्रोधादेः क्वाथकल्काभ्यां पक्वम्॥१२॥

विष्यन्दनतैलम्।

चित्रकार्कौत्रिवृत्पाठे मलपूहयमारकौ।
सुधां वचां लाङ्गलिकींहरिताल सुवर्धिकाम्॥

ज्योतिष्मतीञ्च संहृत्य तैलं धीरो विपाचयेत्।
एतद्विष्यन्दनं नाम तैलं दद्याद्भगन्दरे।
शोधनं रोपणञ्चैव सवर्णकरणं तथा॥१३॥

चित्रकेत्यादि—सुश्रुतस्य। चित्रकादीनां कल्को जलं चतुर्गुणम्। मलपूकाष्ठोडुम्बरः, तस्य मूलं रक्तपित्तादौ तु फलम्।विष्यन्दयति पूयं स्रावयति।विष्यन्दनं शोधनम्॥१३॥

करवीराद्यंतैलम्।

करवीरनिशादन्तीलाङ्गलीलवणाग्निभिः।
मातुलुङ्गार्कवत्साह्रैः पचेत्तैलं भगन्दरे॥१४॥

करवीराद्य मातुलुङ्गस्य मूलम्, वत्साह्वःकुटजस्तस्य त्वक्, अन्ये तु तत्फलमाहुः।

निशाद्य तैलम्।

निशार्कक्षीरसिन्ध्वग्निपुराश्वहनवत्सकैः।
सिद्धमभ्यञ्जने तैलं भगन्दरविनाशनम्॥१५॥

निशेत्यादौ—पुरो गुग्गुलुः अश्वहनः करवीरस्तस्य मूलम्॥१५॥

व्यायामो मैथुनं युद्धं पृष्ठयानं गुरूणि च।
संवत्सरं परिहरेदुपरूढव्रणो नरः॥१६॥

उपरूढऽपि भगन्दरव्रणे व्यायामादयो वर्ज्यां इत्याह—व्यायाम इत्यादि॥१६॥

इति भगन्दराधिकार-विवृतिः।
___________

अथोपदंशचिकित्सा।

स्निग्धखिन्नशरीरस्य ध्वजमध्ये शिराव्यधः।
जलौकापातनं वा स्यादूर्ध्वाधः शोधनं तथा।
सद्यो निर्हृतदोषस्य रुक्शोथाबुपशाम्यतः।

पाको रक्ष्यः प्रयत्नेन शिश्नक्षयकरो हि सः॥१॥

स्थानप्रत्यासत्या उपदंशचिकित्सितमुच्यते। ध्वजमध्ये मेढ्रमध्ये।शिराज्यधश्च रक्तदुष्टौ महत्याम्, अल्पायान्तु जलौकया रक्तपातनम्॥१॥

पटोलानिम्बत्रिफलागुडूचीक्वाथं पिबेद्वा खदिराशनाभ्याम्।
सगुग्गुलुं वा त्रिफलायुतं वा सर्वोपदंशापहरः प्रयोगः॥२॥

पटोलेत्यादि—पटोलादिक्वाथं गुग्गुलुं त्रिफलाचूर्णं वा प्रक्षिप्य पिबेत् एवं खदिराशनक्वाथमपि, अशनः पतिशालः। अन्ये तु क्वाथद्वये यथासंख्यं गुग्गुलुत्रिफलाचूर्णयोः प्रक्षेप इत्याहुः। अपरे तु केवलक्वाथेन योगद्वयम्, तदेव गुग्गुलोस्त्रिफलाचूर्णस्य वा प्रक्षेपेणापि योगद्वयमिति वदन्ति। व्यवहारस्तु पूर्वेणव॥२॥

प्रपौण्डरीकं मधुकं रास्नांकुष्ठं पुनर्नवा।
सरलागुरुभद्राह्वैर्वातिके लेपसेचने॥३॥

प्रपौण्डरीकमित्यादि—सुश्रुतस्य।भद्राख्यं देवदारु॥३॥

गैरिकाञ्जनमञ्जिष्टामधुकोशीरपद्मकैः।
सचन्दनोत्पलैः स्निग्धैः पैत्तिकं सम्प्रलेपयेत्॥४॥

गैरिकेत्यादि च तस्यैव। स्निग्धैरिति शतधौतघृतैः॥४॥

निम्बार्जुनाश्वत्थकदम्बशालजम्बुवटोडुम्बरवेतसेषु।
प्रक्षालनालेपघृतानि कुर्य्याच्चूर्णानि पित्तास्रभवोपदंशे॥५॥

निम्बेत्यादौ—घृतसाधनपक्षे निम्बादिक्वाथकल्काभ्यामिति वदन्ति॥५॥

त्रिफलायाः कषायेण भृङ्गराजरसेन वा।
व्रणप्रक्षालनं कुर्य्यादुपदंशप्रशान्तये॥६॥

त्रिफलाया इत्यादि सुगमम्॥६॥

दहेत्कटाहे त्रिफलां सा मसी मधुसंयुता।
उपदंशे प्रलेपोऽयं सद्यो रोपयति व्रणम्॥७॥

दहेदित्यादि—स्पष्टम्॥७॥

रसाञ्जनं शिरीषेण पथ्यया वा समन्वितम्।
सक्षौद्रं वा प्रलेपेन सर्वलिङ्गगदापहम्॥८॥

रसाञ्जनमित्यादि योगत्रयम्। अत्र पथ्या गुडूची॥८॥

बब्बूलदलचूर्णेन दाडिमंत्वग्भवेन वा।
गुण्डनं न्रस्थिचूर्णेन उपदेशहरं परम्॥९॥

वब्बूलेति—वब्वूलस्य दलं पत्रं, गुण्डनमवचूर्णनं, न्रस्थीति मानुषकपालारिय, चन्द्राटेऽपि नृपकपालास्थीत्युक्तत्वात्॥९॥

लेपः पूगफलेनाश्वमारमूलेन वा तथा।
सेवेन्नित्यं यवान्नञ्च पानीयं कौपमेव च॥१०॥

लेप इत्यादौ—अश्वमारः करवीरः॥१०॥

जयाजात्यश्वमारार्क-सम्पाकानां दलैः पृथक्।
कृतं प्रक्षालने क्वाथं मेढ्रपाके प्रयोजयेत्॥११॥

जयेत्यादि—स्पष्टम्॥११॥

भूनिम्बाद्यं घृतम्।

भूनिम्बनिम्बत्रिफलापटोल-करञ्जजातीखदिराशनानाम्।
सतोयकल्कैघृतमाशु पक्वंसर्वोपदंशापहरं प्रदिष्टम्॥१२॥

भूनिम्बाद्यंघृतं स्पष्टम्॥१२॥

करञ्जाद्यं घृतम्।

करञ्जनिम्बार्जुनशालजम्बूवटादिभिः कल्ककषायसिद्धम्।
सर्पिर्निहन्यादुपदंशदोषं सदाहपाकं स्रुतिरागयुक्तम्॥१३॥

करञ्जाद्यवृते—करञ्जस्य मूलम्।वटादिभिरिति वटोडुम्बरश्वत्थप्लक्षकपतिनैः पञ्चभिः। कपीतनो गन्धमुण्डः। घृतस्यास्य पानं म्रक्षणञ्चानन कार्य्यम्॥१३॥

आगारधूमाद्यंतैलम्।

आगारधूमरजनीसुराकिरावञ्च तैत्रिभिः।
भागोत्तरैः पचेत्तैलं कण्डूशोथरुजापहम्।
शोधनं रोपणञ्चैव सवर्णकरणं परम्॥१४॥

आगार धूमेति—गारधूमोऽलन्धूमः।किण्वंसुराबीजम्। भागोत्तरैरिति तैलप्रस्थे आगारधूम पल १ कर्ष १ माषा ५ रत्ति ३।हरिद्रा पल २ कर्ष २ माषा १० रति ६। सुराबीज पल ३ कर्ष ३ माषा १५ रत्ति ६। एवं स्नेहपादिकत्वं क्ल्कस्य, पाकस्तु जलेनेव॥१४॥

अर्शसांछिन्नदग्धानां क्रिया कार्य्योपदंशवत्॥१५॥

चिकित्सासामान्यादत्रैव लिङ्गार्शसां चिकित्सामाह, अर्शसामिति लिङ्गशिसामित्यर्थः। इत्युपदंशाधिकारः।
_________________

अथ शुकदोष-चिकित्सा।

हितञ्च सर्पिषः पानं पथ्यञ्चापि विरेचनम्।
हितः शोणितमोक्षश्च यच्चापि लघुभोजनम्॥१॥

प्रागुक्तसङ्गत्यैव शूकदोषचिकित्सितमुच्यते। शूको जलशूकः सविषजन्तुः तत्कृतो दोषः शुकदोषः। हितमित्यादि सुश्रुतस्य।सर्पिष इति यथादोषं संस्कृतस्य। विरेचनमपि पथ्यं हितमित्यर्थः॥१॥

सर्षपीं लिखितां सूक्ष्मैः कषायैरवचूर्णयेत्।

तैरेवाभ्यञ्जनं तैलं साधयेद् व्रणरोपणम्॥२॥

सर्षपीमित्यादि—वाग्भटस्य।कषायैरिति रसभेदीये कषायवर्गोर्क्तैःपथ्याविभीतकशिरीषादिभिः शोधनादिगणसंग्रहोक्तन्यग्रोधादिभिः सूक्ष्मैरिति सूक्ष्मचर्णीकृतैः। सुश्रुत तु सूक्ष्मैरित्यत्र सम्यगिति पाठः। तैरेवेति पूर्वोक्तषायैः क्वाथकल्कैः॥२॥

क्रियेयमधिमन्थेऽपि रक्तं स्राव्यं तथोभयोः॥३॥

क्रियेत्यादौ—उभयोरिनि सर्षप्यधिमन्थयोः॥३॥

अष्ठीलायां हृते रक्ते श्लेष्मग्रन्थिवदाचरेत्॥४॥

अष्ठीलायामित्यादि—वाग्भटस्य।वातजायामप्यष्टीलायां शूकदूषितरक्तस्या वरकस्य निर्हरणं जलौकादिभिरुचितमेव॥४॥

कुम्भीकायां हरेद्रक्तंपक्वीयां शोधिते व्रणे।
तिन्दुकत्रिफलालोध्रैर्लेपस्तलञ्च रोपणम्॥५॥

कुम्भीकायां हरेद्रक्तमित्यामावस्थायाम्। तैलञ्चरोपणमिति उक्ततिन्दुकादिकल्कसिद्धम्। सुश्रुते तु—“कुम्भाकां पाकमापन्नां भिन्नां संशोध्य रोपयेत्। तैलेन लोध्रत्रिफलातिन्दुकाम्रकृतेनवा” इत्युक्तम्। सिन्दुकाम्रयोः फलास्थीति च तट्टीकाकृतः॥

अलज्यां हृतरक्तायामयमेव क्रियाक्रमः॥६॥

अलज्यामित्यादि—वाग्भटस्य। अयमेवेति युम्भीकोक्तः॥६॥

स्वेदयेद् ग्रथितं स्निग्धं नाडीस्वेदेन बुद्धिमान्।
सुखोष्णैरुपनाहैश्च सुस्निग्धैरुपनाहयेत्॥७॥

स्वेदयेदिति—सुश्रुतस्य। ग्रथितमिति ग्रथिताख्यं शूकदोषम्। स्निग्धमिति तैलयोगात्। स्वेदनेति स्वेदनद्रव्याणि चरकोक्तानि यथा “वीरणामृतकैरण्डशिग्रुमूलकसर्पषैः।वासावंशकरञ्चार्कपत्रैरश्मन्तत्रस्य च। शोभाञ्चनकशैरीयमालतीसुरसार्जकैः। पत्रैरुत्क्वाथ्य सलिलं नाडीस्वेदं प्रयोजयेत्” इति। सुखोष्णैरुपनाहैरिति कफहरद्रव्यकृतैः, ग्रथितस्य कफकृतत्वात्। सुस्निग्वैरिति तैलयोगात्॥७॥

उत्तमाख्यान्तु पिडकां सञ्छिद्य वडिशोद्धृताम्।
कल्कैश्चूर्णैः कषायाणां क्षौद्रयुक्तैरुपाचरेत्॥८॥

उत्तमाख्यामित्यादि—वाग्भटस्य।कषायाणामिति कषायवर्गपठितानां पथ्यादीनां उपचरेदिति प्रलेपेन॥८॥

क्रमःपित्तविसर्पोक्तःपुष्करीमूढयोर्हितः।
त्वक्पाके स्पर्शहान्याञ्चसेचयेन्मृदितं पुनः।
बलातैलेन कोष्णेन मधुरैश्चोपनाहयेत्॥९

क्रम इत्यादि—वाग्भटस्य।पुष्करीमूढयोरिति पुष्करिकासंमूढपिडकयोः। त्वक् पाके स्पर्शहान्याञ्चेति पूर्वेण सम्बध्यते। तेनैतयोरपि पित्तविसर्पोकः क्रमः कार्यः। मृदितं पुनर्वलातेलैन सेचयेदिति योज्यम्।मधुरैरिति काकोल्यादिभिः, किंवा जीवनीयगणैः, वाग्मटे जीवनीयगणस्योक्तत्वात् । बलातैलञ्च वाग्भटे वातव्याधावुक्तम् ॥

रसक्रिया विधातव्या लिखिते शतपोनके॥१०॥

रसक्रियेत्यादि—सुश्रुतस्य।रसक्रिया अवस्थां वीक्ष्य शोधनीया रोपणीया वा देया।तत्र शोधनीयायथा,—“शालसारादिसारेषु पटोलत्रिफलासु च। रसक्रिया विधातव्या शोधनी शेधनेषु च” इति। रोपणीया यथा,—“त्वक्षु न्यग्रोध वृक्षस्य त्रिफलायास्तथैव च। रसक्रियां रोपणार्थेविदधीत यथाविधि” इति॥१०॥

पृथपर्ण्यादिसिद्धञ्च तैलं देयमनन्तरम्॥११॥

पृथकपर्ण्यादीत्त्यादि—पृथक्पर्ण्यादे मिश्रकोक्तघृतसाधनद्रव्यम् तद्यथा,—पृथकपर्ण्यात्मगुप्ता च हरिद्रे मालती सिता।काकोल्यादिश्च योज्यः स्याद्भिषजा रोपणे घृते” इति। अत्रसिता शर्करेति चक्रः, श्वेतदूर्वेति तु ब्रह्मदेवः। एतच्च घृतं तैलं वा पृथक्पर्ण्यादिना क्वाथकल्करूपेण साध्यमिति वदन्ति। शर्करा तु कल्करूपेणैव देया क्वाथानर्हत्वात्। अनन्तरमिति रसक्रियादानस्थानन्तरमित्यर्थः॥

रक्तविद्रधिवच्चापि क्रिया शोणितजेऽर्बुदे।
कषायतैलसर्पीषि कल्कं चूर्णं रसक्रियाम्॥
शोधने रोपणे चैव वीक्ष्य वीक्ष्यावतारयेत्॥१२॥

रक्तविद्रधिवदित्यादौ—वीक्ष्यवीक्ष्येति द्विव्रणीयोक्तामवस्थां निरूप्य यदि शोधनं कर्तव्यं भवति तदा शोधनानि कषायादीन्यवचारयेत्, यदा तु रोपणं कर्तव्यं भवति तदा रोपणानीत्यर्थः॥१२॥

अर्बुदं मांसपाकञ्च विद्रधिंतिलकालकम्।
प्रत्याख्याय प्रकुर्वीत भिषक् तेषां प्रतिक्रियाम्॥१३॥

अर्बुदमित्यादि—असाध्यत्वेनोक्तेष्वप्यर्बुदादिषु कदाचिदसम्पूर्णलिङ्गत्वादिना साध्यता याप्यता वा सम्भवतीति प्रत्याख्याय तत्रक्रिया कार्य्येति ज्ञेयम्॥१३॥

इति शूकदोषाधिकार-विवृतिः।
______________

अथ भन्न-चिकित्सा।

आदौ भग्नं विदित्वा तु सेचयेच्छीतलाम्बुना।
पङ्केनालपनं कार्य्यं बन्धनञ्च कुशान्वितम्।
सुश्रुतोक्तञ्च भन्नेषु वीक्ष्यबन्धादिमाचरेत्॥१॥

आगन्तुजत्वसमान्याद् भन्नचिकित्सामाह, आदौ भग्नमित्यादि। कृशान्वितमित्यत्र कुशेति भग्नास्थिबन्धसाधनकदम्बादित्वचः संज्ञा, उक्तं हि वाग्भटे—“कदम्बोडुम्बराश्वत्थसर्जार्जुनपलाशजैः। वंशोद्भवैर्वा पृथुभिस्तनुभिः सुनिवेशितैः। सुश्लक्ष्णैःसुप्रतिष्टम्भैर्वल्कलैः शकलैरपि। कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत्” इति

अवनामितमुन्नह्येदुन्नतञ्चावनामयेत्।

आञ्छेदतिक्षिप्तमधोगतञ्चोपरिवर्त्तयेत्।
आलेपनार्थं मञ्जिष्ठा मधुकञ्चाम्लपोपतम्।
शतधौतघृतोन्मिश्रं शालिपिष्टञ्च लेपनम्॥२॥

अवनामितमित्यादि—सुश्रुतस्य अवनामितम् अवनतं कर्कटकं वक्रञ्च उन्नह्येत्उन्नामयेत्, उन्नतमश्वकर्णादि अवपीडयेत्। अतिक्षिप्तम् अध ऊर्द्ध्ववा अतिनिर्गतम्। आञ्छेदिति प्रसारयेत्, आछि आयमे इत्यस्य रूपम्। अधोगतमधःक्षिप्तादि उपरि वर्त्तयेत् आकर्षयेत्। अलिपनार्थमित्यादि—सुश्रुतस्य। अम्लपेषितमिति काञ्चिकपिष्टम्। शतधौतघृतोन्मिश्रमिति पूर्वेण परेण च योज्यामिति चक्रः॥२॥

सप्तरात्रात् सप्तरात्रात् सौम्येष्वृतुपु मोक्षणम्।
कर्त्तव्यं स्यात् त्रिरात्राच्च तथाग्नेयेपु जानता।
काले च समशीतोष्णे पञ्चरात्राद्विमोक्षयेत्॥३॥

सप्तरात्रादित्यादि—“सुश्रुतस्य।सौम्येष्वृतुष्विति शीते। आग्नेये ग्रीष्मे, वाग्भटेऽप्युक्तम्—“त्र्यहात्त्र्यहारतौधर्मे सप्ताहान्मोक्षयेद्धिमे। साधारणे तु पञ्चाहाद् भग्नदेषवशेन वा” इति। जानता वैद्येनेति शेषः। समशीतोष्णे काले चेति शरद्वसन्तकलि॥३॥

न्यग्रोघादिकषायञ्च सुशीतं परिपेचने।
पञ्चमूलीविपक्वन्तु क्षीरं दद्यात् सवेदने।
सुखष्णमवतार्य्यं वा चक्रतैलं विजानता॥४॥

न्यप्रोधत्यादि—सुश्रुतस्य।पञ्चमूली त्यादि—पञ्चमूली चात्र स्वल्पेति वदन्ति। एतत् पक्कच चौरं वातपित्तोत्तरे भग्ने, अत्रापि परिषेचने इति योज्यम्। चक्रतैलमिति सद्यः पीडितं तैल किंवा सुश्रुतवातव्याधिचिकित्सितोक्लतैलविधानगृहीतं तैलम्। शीतोपचारोचितेऽपि भग्ने सुखोष्णस्य विधानमनिले वलीयसीति ज्ञेयम्, अतएव विजानतेत्युतम्॥४॥

मांस मांसरसः सर्पिः क्षीरं यूपः सतीनजः।
बृंहणञ्चानपानञ्च देयं भग्ने विज्ञानता॥५॥

भग्नहितमन्नपानमाह, मांसमित्यादि—सुश्रुतस्य। क्षीरमिहाव्रणे भन्ने सन्धानीयतया हितम्। यत् पुनर्नवधान्यादिवर्गे क्षीरं निषिद्धं तद् व्रणविषय एवेति न विरोधः। अन्य तु क्षीरसर्पिरिति पठित्वा क्षीरादुत्थितं सर्पिरिति व्याचक्षते। सतीनो वर्त्तुलकलायः, स च यद्यपि वातजनकस्तथापि सन्धानीयत्वादिहोक्तइति॥५॥

गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम्।
शीतलं लाक्षया युक्तं प्रातर्भग्नः पिबेन्नरः॥६॥

गृहिक्षीरमित्यादि—सुश्रुतस्य।गृष्टिरेकचारप्रसूता धेनुः तस्याः क्षीरम्, मधुरौषधं काकोल्यादिगणः, तेन क्षीरपरिभाषासाधितम्।सर्पिर्लाक्षे प्रक्षेप्ये॥६॥

सघृतेनास्थिसंहारं लाक्षां गोधूममर्जुनम्।

सन्धियुक्तेऽस्थिभन्ने च पिबेत् क्षीरेण मानवः॥७॥

सघृतेनेत्यादिषु सघृतेन क्षीरेणास्थिसंहारादिकं व्यस्तं समस्तञ्चपिबेदित्याहुः॥७॥

रसोनमधुलाक्षाज्यसिताकल्कं समश्नताम्।
छिन्नभिन्नच्युतास्थीनां सन्धानमचिराद्भवेत्॥८॥

रसोनेत्यादि—सुगमम्॥८॥

पीतवराटिकाचूर्णं द्विगुञ्जंवा त्रिगुञ्जकम्।
अपक्वक्षीरपीतं स्यादस्थिभग्नप्ररोहणम्॥९॥

पीतबराटिकाचूर्णमिति शोधनपुटननिष्पन्नं ग्राह्यम्॥९॥

क्षीरं सलाक्षामधुकं ससर्पिः स्याजीवनीयञ्च सुखावहञ्च।
भग्नः पिबेत् त्वक्पयसार्जुनस्य गोधूमचूर्णं सघृतेन वाथ॥१०॥

क्षीरमित्यादौ—जीवनीयमिति आरोग्यहेतुत्वात् प्राणधारणम्।त्वक्पयसार्जुनस्येति—-अर्जुनस्य त्वचा साधितं पयस्त्वक्पयः, अर्जुनत्वक्पयसा सघृतेन गोधूमचूर्णं पिबेदिति योज्यम्। अन्ये तु त्वक्शब्दो नपुंसकलिङ्गोऽप्यस्तीति अर्जुनस्य त्वचं पिबेदित्याहुः॥१०॥

लाक्षागुग्गुलुः।

लाक्षास्थिसंहृत्ककुभाश्वगन्धाश्चूर्णांकृता नागबला पुरश्च।
सम्भग्नयुक्तास्थिरुजं निहन्यादङ्गानि कुर्य्यात् कुलिशोपमानि।
तत्रान्यतोऽपि दृष्टत्वात् तुल्यश्चूर्णेन गुग्गुलुः॥११॥

लाक्षेत्यादौ—अस्थिसंहृत् अस्थिसंहारः। ककुभोऽर्जुनः नागबला गोरक्षतण्डुला।पुरो गुग्गुलुः स च मिलितलाक्षादि चूर्णसमः। वक्ष्यमाणाभादिगुग्गुलौ दृष्टत्वादिति चक्रः॥११॥

आभागुग्गुलु।

आभफलत्रिकैर्व्योषैः सर्वैरेभिः समीकृतैः।
तुल्यो गुग्गुलुरायोज्यो भग्नसन्धिप्रसाधकः॥१२॥

एतदेवाह प्रभेत्यादि—आभा आहेत ख्याता॥१२॥

सव्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तरैः।
प्रतिसार्य्यकषायैश्च शेषं भग्नवदाचरेत्॥१३॥

सव्रणभग्नचिकित्सामाह, सव्रणस्येत्या—सुश्रुतस्य। प्रतिसार्य्यकषायैरिति न्यग्रोधादिकषायद्रव्यकृतकल्कैःप्रतिसार्य्यप्रलिप्य, कार्तिकस्तु कषायैरिति मधुरौषधक्वाथैः प्रतिसार्य प्रसिच्येति व्याचष्टे धातूनामनेकार्थत्वात्। शेषमित्याहारादिकम्॥

भग्नंनैति यथा पाकंप्रयतेत तथा भिषक्।
वातव्याधिविनिर्द्दिष्टान् स्नेहानत्र प्रयोजयेत्॥१४॥

भन्ने वायोः कोपभयात् वातव्याधिनिर्दिष्टानां स्नेहानामवचारणं कर्तव्यमित्याह भग्नमित्यादि॥१४॥ ·

गन्धतैलम्।

रात्रौ रात्रौ तिलान् कृष्णान् वासयेदस्थिरे जले।
दिवा दिवैच संशोष्यक्षीरेण परिभावयेत्॥

तृतीयं सप्तरात्रञ्च भावयेन्मधुकाम्बुना।
ततः क्षीरं पुनः पीतान् सुशुष्कांश्चूर्णयेद्भिषक्॥

काकोल्यादिं श्वदंष्ट्राहं मञ्जिष्ठां शारिवां तथा।
कुष्ठं सर्जरसं मांसीं सुरदारु सचन्दनम्॥

शतपुष्पाञ्च सञ्चूर्ण्यतिलचूर्णेन योजयेत्।
पीडनार्थश्च कर्त्तव्यं सर्वगन्धैः शृतं पयः।

चतुर्गुणेन पयसा तत्तैलं विपचेत् पुनः।
एलामंशुमतीं पत्रं जीरकं तगरं तथा॥

लोध्रंप्रपौण्डरीकञ्च तथा कालानुशारिवाम्।
शैलेयकं क्षीरशुक्लामनन्तां समधूलिकाम्॥

पिष्ट्वा शृङ्गाटकञ्चैव प्रागुतान्यौषधानि च।
एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुनाग्निना।

एतत्तैलं सदा पथ्यं भग्नानां सर्वकर्मसु।
आक्षेपके पक्षघाते चाङ्गशोषेतथार्दिते॥

मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे।
बाधिर्य्येतिमिरे चैव ये च स्त्रीषु क्षयं गताः।

पथ्यं पाने तथाभ्यङ्गे नस्ये वस्तिषुयोजयेत्।
ग्रीवास्कन्धोरसां वृद्धिरनेनैवोपजायते।

मुखञ्च पद्मप्रतिमं स्यात् सुगन्धसमीरणम्।
गन्धतैलमिदं नाम्ना सर्ववातविकारनुत्।

राजार्हमेतत् कर्त्तव्यं राज्ञामेव विचक्षणैः।
तिलचूर्णात् चतुर्थांशं मिलितं चूर्णमिष्यते॥१५॥

रात्रावित्यादि—सुश्रुतस्य।अस्थिरे जल इति स्रोतोजले चतुःशरावतैलोचितकृष्णतिलान् गृहीत्वा वस्त्रेण पोट्टलीं बद्ध्वा स्रातोजले प्रक्षिप्यरात्रौ स्थाप्यम्, ततो दिवसे आतपे शोषयेत, एवं सप्तदिनानि यावत्, तदनु तिलतुल्यपरिमाणगव्यक्षीरे रात्रौ तिलान् निक्षिप्य दिवा प्रसार्य्यातपे शोषयेत् एवं सप्तदिनानि यावद, तदनु “भाव्यद्रव्यसमं क्वाथ्यम्” इत्यादिवचनबलात् तिलतुल्यपरिमाणं यष्टिमधु गृहीत्वा अष्टगुणं जलं दत्त्वा पक्त्वा अष्टमभागवशिष्टजले तिलान् रात्रौ प्रक्षिप्य दिवातपे शोषयेत्, एवं सप्तदिनानि यावत्, एवं गव्यक्षीरेऽपि सप्ताहम् (पुनरपि तिलतुल्यपरिमाणे गव्यक्षीरे रात्रौ तिलान्, निक्षिप्य दिवा सूर्यातपे शोषयेत् एवं

सप्तदिनानि यावदित्यर्थः)।तदनु तिलान् निस्तुषीकृत्य चूर्णयेत्। ततश्च तेषां तिलचूर्णानां चत्वारो भागाः, भागश्चैकःकाकोल्यादिशतपुष्पान्तमिलितचूर्णस्य,वक्ष्यति च “तिलचूर्णच्चतुर्थांशम्” इत्यादि। एतस्यैव चूर्णस्य पीडनार्थमुत्स्वेदने कर्त्तव्ये आर्द्रताकरणार्थं सर्वगन्धशृतं क्षीरं तावन्मानं ग्राह्यं यावता क्षीरेण चूर्णमार्द्रभवति। सर्वगन्धैरित्येलादिगणेन, क्षीरपरिभाषयैव दुग्धं साध्यम्। एलादिगणश्च सौश्रुतः। एवमुक्तप्रकारेण गृहीततैलस्य चत्वारः शरावाः,एतत्पाकार्थञ्च गव्यदुग्धस्य षोडशशरावा ग्राह्या इत्यर्थः। अंशुमती शालपर्णी, कालानुशारिवा तगरम्, क्षीरशुक्ला क्षीरविदारी, अनन्ता अनन्तमूलं, मधूलिका मर्कटहस्ततृणं अन्ये तु गोधूमभेद इत्याहुः। प्रागुक्तानीति काकोल्यादिशतपुष्पान्तानि। एभिरिति कल्कैरित्यर्थः।श्वदंष्ट्राह्वमित्यत्र सयष्ट्याहमित्येव पाठः सुश्रुतटीकासु व्याख्यातः।अस्मिंस्तु पाठे यष्टीमधुनो भागद्वयम्, काकोल्यादिगणमध्येऽपि यष्टीमधुपाठात्॥१५॥

लवणं कटुकं क्षारमम्लं मैथुनमातपम् ।
व्यायामञ्च न सेवेत भग्नो रूक्षान्नमेव च॥१६॥

भग्नेवर्ज्यान्याह—

लवणमित्यादि॥१६॥

इति भग्नाधिकार विवृतिः।
__________

अथ कुष्ठ-चिकित्सा।

वात्तोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु।
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनञ्वाग्रम्॥

प्रच्छनमल्पे कुष्ठे महति च शस्तं शिराव्यधनम्।
बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान्॥१॥

रक्तदुष्टत्वग्गतत्वसाधर्म्यात् कुष्ठचिकित्सितमुच्यते। वातोत्तरेष्वित्यादि—सर्पिरित्युपलक्षणं तेन तैलाभ्यङ्गोऽपि बोध्यः, उक्तं हि वाग्भटे “तत्र वातोत्तरे तैलं घृतं वा साधितं हितम्” इति। अग्रमिति सर्पिरादिषु योज्यम्, तेन वातोत्तरादिषु सर्पिरादि प्रथमं कार्यम्, तदनु वक्ष्यमाणा चिकित्सा कार्येत्यर्थः। अग्र्यमिति पाठे प्रधानमित्यर्थः। बहुश इति बलरक्षार्थं स्तोकं स्तोकं दोषनिर्हरणेन पुनः पुनः शोध्यः,एकदा हि भूरिदोषहरणेन बलक्षयो महात्ययश्च स्यादिति । अतएव एतदनन्तरमुक्तं चरकेण “दोषे त्यतिमात्रकृते वायुर्हन्यादबलमाशु” इति॥१॥

पञ्चकषायः।

वचावासापटोजानां निम्बस्य फलिनत्वचः।
कषायो मधुना पोतो वान्तिकृन्मदनान्वितः॥२॥

वचेत्यादौ—वचादीनां त्रयाणां मूलम्। फलिनी प्रियङ्गुः। वमनार्थञ्चक्वाथविधौ परिभाषा यथा—“क्वाथ्यद्रव्यस्य कुडवं श्रपयित्वा जलाढके। चतुर्भागावशिष्टन्तु वमनेष्ववचारयेत्” इति॥२॥

विरेचनन्तु कर्त्तव्यं त्रिबृहन्तीफलत्रिकैः॥३॥

विरेचनमिति—त्रिफलाक्काथे त्रिवृद्दन्तीमूले प्रक्षिप्य अथवा दन्तीमूलत्रिवृतालताचूर्णं प्रतिमा२ त्रिफलाक्काथेन पेयम्॥३॥

ये लेपाः कुष्ठानां प्रयुज्यन्ते निर्गतास्रदोषाणाम्॥
संशोधिताशयानां सद्यः सिद्धिर्भवति तेषाम्॥४॥

ये लेपा इत्यादि—निर्गतोऽस्रगतोदोषो येषां ते तथा निर्गतास्रदोषाः॥४॥

मनःशिलाले मरिचानि तैलमार्कंपयः कुष्ठहरः प्रलेपः॥५॥

मनःशिलेत्यादौ—आलं हरितालम्। तैलञ्चसार्षपं कुष्ठहरत्वात्। आर्कं पयोऽर्कक्षीरम्॥५॥

करञ्जबीजैडगजः सकुष्ठो गोमूत्रपिष्टश्च वरः प्रदेहः॥६॥

करञ्जेत्यादौ —एडगजश्चक्रमर्दः॥६॥

पर्णानि पिष्ट्वाचतुरङ्गुलस्य तक्रेण पर्णान्यथ काकमाच्याः।
तैलाक्तगात्रस्य नरस्य कुष्ठान्युद्वर्त्तयेदश्वहनच्छदैश्च॥७॥

पर्णानीत्यादौ—चतुरड्गुलः श्योनालुः, अश्वहनच्छदः करवीरपत्रम्, एतदन्त एक एवं योगः।योगत्रित्वे चरकोद्वात्रिंशत् प्रदेहसंख्यावृद्धिः स्यादिति॥७॥

आरग्वधः सैडगजःकरञ्जोवासागुडूचीमदनं हरिद्रे।
श्रयाह्वःसुराह्वःखदिरो धवश्चनिम्बो विडङ्गं करवीरकत्वक्।
ग्रन्थिश्चभौर्जो लशुनः शिरीषः सलोमशो गुग्गुलुकृष्णगन्धे।
फणिज्झको वत्सकसप्तपरार्ण्यौपीलूनि कुष्ठं सुमनः प्रवालाः।
वचा हरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनञ्च।
मनःशिलाले गृहघूम एला-काशीशलोध्रार्जुनमुस्तसर्जाः।

इत्यर्द्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः।
सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णप्रदेहा भिषजा प्रयोज्याः॥

कुष्ठानि कृच्छ्राणि नवं किलासं सुरेन्द्रलुप्तं किटिमं सदद्रुम।
भगन्दरार्शांस्यपचीं सपामां हन्युः प्रयुक्ता अचिरान्नराणाम्॥८॥

आरग्वधइत्यादिना षड्भिः श्लोकार्द्धैःषड्योगाः। आरग्वधस्य पत्रम्, श्रयाह्नः नवनीतस्रोटिः, करवीरस्य त्वक्, ग्रन्थिश्चभौर्ज इति भूर्जपत्रग्रन्थिः, लोमशो धातुकाशीशं तमालपत्रं वा, कृष्णगन्धा शोभाञ्जनकः, फणिज्फकः पर्णासभेदः, पीलु औत्तरापथिकं फलम्, सुमनः प्रबाला जातीपल्लवाः, निकुम्भोदन्ती, अञ्जनं रसाञ्जनम्, अर्द्धरूपैरिति अर्द्धश्लाकैः, गोपित्तपता इति गोपित्तभावनया पीता पीतवर्णा, भावना च सप्ताहम्॥८॥

मनःशिला त्वक् कुटजात् सकुष्ठात् सलोमशः सैडगजः करञ्जः।

ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन॥

पलाशनिर्द्दाहरसेन वापि कर्षोर्द्धृतान्याढकसम्मितेन।
दर्वीप्रलेप प्रवदन्ति लेपमेतत् परं कुष्ठविनाशनाय॥६॥

मनःशिलत्यादौ—त्वक् कुटजादिति कुटजस्य त्वक्।लोमशो धातुकाशीशम्। तुषोदकं सतुषैर्यवैः सन्धानविशेषात् कृतं काञ्जिकम्।पलाशनिर्दाहरसेनति पलाशवृक्षस्य प्रधानमूलं छित्वा तदधः कुम्भं स्थापयित्वा उपरि वृक्षदाहाद् यो गलति स्वरसः स पलाशनिर्दाहरसः, अन्ये तु पलाशक्षारोदकमाहुः॥६॥

कुष्ठाद्यम्।

कुष्ठं हरिद्रे सुरसं पटोलं निम्वाश्वगन्धे सुरदारुशिग्रु।
ससर्षपं तुम्बुरुधान्यवन्यम् चण्डाञ्च दूर्वाञ्चसमानि कुर्य्यात्॥

तैस्तक्रपिष्टैःप्रथमं शरीरं तैलाक्तमुद्वर्त्तयितुं यतेत।
तथास्य कण्डूः पिडकाःसकोठाः कुष्ठानि शोथाश्च शमं प्रयान्ति ॥१०॥

कुष्ठमित्यादौ—सुरसः पर्णासः, तुम्बुरु स्वनामख्यातम्, वन्यं कैवर्त्तमुस्तकम्,चण्ढा चोरपुष्पी, प्रथमं तैलाक्तमिति योज्यम्।तैलञ्च इह सार्षपम्॥१०॥

धात्र्यक्षपथ्याक्रिमिशत्रुवह्निभल्लातकावल्गुजलौहभृङ्गैः।
भागाभिवृद्धैस्तिलतैलमिश्रैः सर्वाणि कुष्ठानि निहन्ति लेपः॥११॥

धात्रीत्यादौ—अक्षं विभीतकम्, क्रिमिशत्रुविंडङ्गःवह्निश्चित्रकः; लौह इति वज्राद्ययश्चूर्णं न त्वगुरु।मृङ्गइति भृङ्गराजस्य चूर्णं न तु गुडत्वक्, उक्तं हि विन्ध्यवासिना—“त्रिफलाथ विडङ्गानि चित्रकेऽरुष्करस्तथा। इन्दुरेखा अयश्चूर्ण भृङ्गराजरजोऽपि च। क्रमाभिवृद्धया संयुक्तं तैलेन सुपरिप्लुतम्।नवायसमिदं नाम रसायनमनुत्तमम्” इति। तथा लेप इति प्रमादपाठः किन्तु लेह इति, उक्तंहि तन्त्रान्तरे—“धात्री विभीतकं पथ्या विडङ्गाग्निमरुष्करम्। वागुजीलौहभृङ्गञ्च सञ्चूर्ण्यं क्रमवर्द्धितम्।तिलतैलान्वितं लिह्यात् श्रेष्ठमतद्रसायनम्” इति। तेनायं योगः शशाङ्कलेखेत्याद्यनन्तरं बाध्यः लेखकदोषात्तु लेपप्रकरणे पठित इति॥११॥

विडङ्गसैन्धवशिवाशशिरेखासर्षपकरञ्जरजनीभिः।
गोजलपिष्टो लेपः कुष्ठहरो दिवसनाथसमः॥१२॥

विडजेत्यादौ—शशिरेखा सोमराजबीजम्, गोजलं गोमूत्रम्, दिवसनाथः सूर्यः।

विडङ्गैडगजाकुष्ठनिशासिन्धूत्थसर्षपैः।
धान्याम्लपिष्टैर्लेपोऽयं दद्रुकुष्ठरुजापहः॥१३॥

विडङ्गेत्यादौ—धान्याम्लं काञ्चिकम्॥१३॥

दूर्वाभयासैन्धवचक्रमर्द-कुठेरकाः काञ्जिकतकपिष्टाः।
त्रिभिः प्रलेपैरपि वद्धमूलं दद्रुञ्च कराडूञ्च रुजाञ्च हन्यात्॥१४॥

दूर्वेत्यादौ— चक्रमर्द एडगजः, कुठेरकः पर्णासः। काञ्चिकतकपिष्टा इति काञ्चिकतक्रयोरन्यतरेण पिष्टा इति वदन्ति। त्रिभिः प्रलेपैरित्यनेन शीघ्रप्रशमकारितां दर्शयति, न तु नियमोऽयम्॥१४॥

तुल्यो रसः शालतरोस्तुषेण सचक्रमर्दोऽप्यमयाविमिश्रः।
पानीयभक्तेन तदम्बु पिष्टो लेपः कृतो दद्रुगजेन्द्रसिंहः॥१५॥

तुल्य इत्यादि— शालतरो रसो धूनकः, तुषेणति धान्यत्वचा, धूनकादीनां पानीयभक्तान्तानां समो भागः। तदम्बुपिष्ट इति पानीयभक्तजलेन पिष्टः॥१५॥

प्रपुन्नाडस्य बीजानि धात्रीसर्जरसस्नुहाः।
सौवीरपिष्टं दद्रूणामेतदुद्वर्त्तनं परम्॥१६॥

प्रपुन्नाडस्येति—प्रपुन्नाडःएडगजः। स्नुहायाः क्षीरमन्ये तु मूलमाहुः। सौवीरं काञ्जिकम्॥१६॥

चक्रमर्दकबीजानि जीरकञ्च समांशिकम्।
स्तोकं सुदर्शनामूलं दद्रुकुष्ठविनाशनम्॥१७॥

चक्रमर्दकेत्यादि—स्ताकं सुदर्शनामूलमिति मिलितचक्रमर्दजीरकापेक्षया पादिकमित्याहुः॥१७॥

लेपनाद्भक्षणाञ्चैवतृणकं दद्रुनाशनम्॥१८॥

तृणकं चिनाघास इति नाम्ना ख्यातम्॥१८॥

यूथीपुन्नागमूलञ्च लेपात् काञ्जिकपेषितम्।
कासमर्दकमूलञ्च सौवीरेण च पेषितम्।
दद्रुकिटिमकुष्ठानि जयेदेतत् प्रलेपनात्॥१६॥

यूथीपुन्नागमूलम् स्वनामख्यातम्। कासमर्दकः कालकासुन्दा एतन्मूलं काञ्जिकेन पिष्ट्वा रात्रौ स्थाप्य प्रातश्चाकाकरुदिते लेपो विधेय इत्युपदिशन्ति॥१६॥

शिखरिरसेन सुपिष्टं मूलकबीजं प्रलेपतः सिध्म।
क्षारेण वा कदल्या रजनीमिश्रेण नाशयति॥२०॥

शिखरिरसेन अपामार्गस्वरसेन, क्षारेण वा कदल्या इति कदलीक्षारोदकेन पिष्टमित्यर्थः, पेषणं प्रति विकल्पेनास्य प्रणयात्॥२०॥

गन्धपाषाणचूर्णेन यवक्षारेण पेषितम्।
सिध्म नाशं व्रजत्याशु कटुतैलयुतेन वा॥२१॥

गन्धपाषाणो गन्धकम्॥२१॥

कासमर्दकबीजानि मूलकानां तथैव च।
गन्धपाषाणमिश्राणि सिध्मानां परमौषधम्॥२२॥

कासमर्दकेत्यादि— मूलकानान्तथैव चेति मूलकानां बीजानीत्यर्थः॥२२॥

घात्रीरसः सर्जरसः सपाक्यः सौवीरपिष्टश्च तथा युतश्च।

भवन्ति सिध्मानि यथा न भूयस्तथैवमुद्वर्त्तनकं करोति॥२३॥

धात्रीरसः आमलकीस्वरसः, पाक्यो यवक्षारः विड्लवणमित्यन्ये। तथा युत इति सौवीरेणैव दिनत्रयं भावितः, “पूतीकृतं दिवसत्रयम्” इति योगान्तरदर्शनात्।धात्रीरसस्थाने धात्रीफलमिति चन्द्राटः पठति॥२३॥

कुष्ठेमूलकबीजं प्रियङ्गवः सर्षपास्तथा रजनी।
एतत् केशरषष्ठं निहन्ति बहुवार्षिकं सिध्म॥२४॥

कुष्ठमित्यादौ—केशरं नागकेशरम्॥२४॥

नीलकुरुण्टकपत्रं स्वरसेनालिप्य गात्रमतिबहुशः।
लिम्पेन्मूलकबीजैः पिष्टैस्तक्रेण सिध्मनाशाय॥२५॥

नीलकुरुण्टको नीलझिण्टी॥२५॥

चक्राह्वयं स्नुहीक्षीरभावितं मूत्रसंयुतम्।
रवितप्तं हिं किञ्चित्तु लेपनात् किटिमापहम्॥२६॥

चक्राह्वयमेडगजाबीजम्। “रवितप्तं सकिण्वञ्च” इत्यपि पाठान्तरम्॥२६॥

आरग्वधस्य पत्रणि आरणालेन पेषयेत्।
दद्रुकिटिमकुष्ठानि हन्ति सिध्मानमेव च॥२७॥

आरग्वधेत्यादि—स्पष्टम्॥२७॥

बीजानि वा मूलकसर्षपापणां लाक्षारजन्यौ प्रपुनाडबीजम्।
श्रीवेष्टकव्योषविडङ्गकुष्ठं पिष्ठा च मूत्रेण तु लेपने स्यात्॥

दद्रूणि सिध्मं किटिमानि पामां कपालकुष्ठं विषमञ्च हन्यात्॥२८॥

बीजानीत्यादौ— लाक्षारजन्याविति द्वन्द्वः न तु हरिद्राद्वयमित्याहुः। श्रीवेष्टको नवनतिखोटिः॥२८॥

एडगजकुष्ठसौवीर-सैन्धवसर्षपैः क्रिमिघ्नैश्च।
क्रिमिसिध्मदद्रुमण्डलकुष्ठानां नाशनो लेपः॥२६॥

एडगजेत्यादौ—सौवीरकं सौवीराञ्जनम्, अत्र विशिष्टद्रव्यस्यानुक्तत्वात् गोमूत्रमेव कुष्ठहरतया पेषणार्थं ग्राह्यमिति वदन्ति। अपरे तु सौवीरशब्दस्य काञ्जिकार्थतां परिकल्प्य तेनैव पेषणमित्याहुः॥२६॥

स्नुक्काण्डे सर्षपात् कल्कः कुकूलानलपाचितः।
लेपाद्विचर्च्चिकां हन्ति रागवेग इव त्रपाम्॥३०॥

स्नुक्काण्ड इत्यादि—वाग्भटस्य। कुकूलानलः करीषाग्निः। स्नुक्काण्डमध्ये गर्त्तं कृत्वा पिष्टश्वेतसर्षपेण तत् प्रपूर्य्यस्नुहीकाण्डान्तरेणाच्छाद्य कुशादिभिर्बद्ध्वा मृत्तिकया प्रलिप्य गोमयाग्निना दहेत्। ततः आकृष्य तेन कल्केन लेपः॥

स्नुक्काण्डे शुषिरे दग्ध्वा गृहधूमं ससैन्धवम्।
अन्तर्धूमं तैलयुक्तं लेपाद्धन्ति विचर्च्चिकाम्॥३१॥

स्नुक्काण्डशुषिर इत्यादौ— सीजुपर्व कोरयित्वा तद्विवरं गृहधूमसैन्धवचूर्णाभ्यां पूरयित्वा स्थालीमध्ये तन्निक्षिप्य उपरि शरावं दत्त्वा मृत्तिकया शरावसन्धिं पिधायान्तर्धूमं दहेत्, तदनु कटुतैलेन संमिश्र्य लेपः॥३१॥

एडगजातिलसर्षपकुष्ठ-मागधिकालवणत्रयमस्तु।
पूतिकृतं दिवसत्रयमेतद्धन्ति विचर्चिकदद्रु सकुष्ठम्॥३२॥

एडगजेत्यादौ—लवणत्रयं सौवर्चलसैन्धवबिड्लवणम्॥३२॥

उन्मत्तकस्य बीजेन माणकक्षारवारिणा।
कटुतैलं विपक्तव्यं शीघ्रं हन्याद्विपादिकाम्॥३३॥

उन्मत्तकस्येत्यादि—उन्मत्तकस्य धुस्तूरकस्य बीजंकल्कः, माणकक्षारपरिस्रुतजलं चतुर्गुणं पाकार्थम्, विपादिका पादस्फोटनम्॥३३॥

नारिकेलोदके न्यस्तस्तण्डुलः पूतिकां गतः।
लेपाद्विपादिकां हन्ति चिरकालानुबन्धिनीम्॥३४॥

नारिकेलोदक इत्यादि—नरिकेलत सजलशस्यं ग्राह्यम्॥३४॥

सर्जरससिन्धुसम्भव-गुडमधुमहिपाक्षगैरिकं सघृतम्।
सिफ्थकमेतत् पक्वंपादस्फुटनापहं सिद्धम्॥३५॥

सर्जरसेत्यादौ—सिन्धुसम्भवं सैन्धवम्। महिपाक्ष इति गुग्गुलुः। एतत् सर्वं समभागमेकीकृत्य मनाक् पक्तव्यं यथा सिक्थकाकृति भूत्वा लेपयोग्यं भवति॥३५॥

अवल्गुजं कासमर्दंचक्रमर्दंनिशायुतम्।
माणिमन्थेन तुल्यांशं मस्तुकाञ्जिकपेषितम्॥
कच्छूं कण्डूं जयत्युग्रां सिद्ध एषप्रयोगराट्॥३६॥

अवल्गुजमित्यादौ—अवल्गुजं सोमराजीबीजम्, माणिमन्थंसैन्धवम्, [मस्तुकाञ्जिकपेषितमिति मस्तुकाञ्जिकयोरन्यतरेण]॥३६॥

कोमलसिंहास्यदलं सनिशं सुरभीजलेन सम्पिष्टम्।
दिवसत्रयेण नियतं क्षपयति कच्छूंविलेपनतः॥३७॥

कोमलेत्यादौ— सिंहास्यो वासकः तस्य पत्रम्। सुरभीजलं गोमूत्रम्॥३७॥

हरिद्राकल्कसंयुक्तं गोमूत्रस्य पलद्वयम्।
पिबेन्नरः कामचारी कच्छूपामाविनाशनम्॥३८॥

हरिद्रेत्यादौ—शास्त्रयुक्त्या हरिद्राकल्ककर्षस्य प्रक्षेपः, कर्षश्चूर्णस्य कल्कस्येति वचनात्, व्यवहारस्तु हरिद्राकल्कस्याष्टौमाषकाः, गोमूत्रस्य पलमेकमिति॥३८॥

शोथपाण्ड्वामयहरी गुल्ममेहकफापहा।
कच्छुपामाहरी चैव पथ्या गोमूत्रसाधिता॥३६॥

शोथेत्यादि—गोमूत्रसाधितेति गोमूत्रोत्स्विन्ना॥३१॥

पिबति सकटुतैलं गन्धपाषाणचूर्णे

रविकिरणसुतप्तं पामलो यः पलार्द्धम्।
त्रिदिनतदनुसिक्तःक्षीरभोजी च शीघ्रं
भवति कनकदीप्त्या कामयुक्तो मनुष्यः॥४०॥

पिबतीत्यादौ—पलार्द्धमिति उत्तमबलानलं प्रति प्रात्यहिकी मात्रा किंवा पलार्द्धं त्रिदिनं यः पिबतीति योज्यं, त्रिंदिनेत्यत्रानुस्वारलोपश्छन्दसत्वात्। तेन पलार्द्धं दिनत्रयं विभज्य योज्यं, तेन किञ्चिदधिकदशमाषकाः प्रत्यहं भवन्ति। व्यवहारस्तु शोधितगन्धकचूर्णस्य माषकचतुष्टयं कटुतैलस्य तु कर्ष एक इति। तदनुसिक्त इति तेन सतैलगन्धकचूर्णेनाभ्यक्तगात्रः। क्षीरभोजीति क्षीरासहत्वे मण्डेन व्यवहारः। दिनत्रयं सप्ताहं वा प्रयोगावधि वातातपवर्जनश्चेति। कनकदीप्त्येति उपलक्षणे तृतीया कनकगौर इति च पाठः। कामयुक्तइति उपचितशुक्रधातुः कामतुल्य इत्यपि पाठः॥४०॥

निशासुधारग्वधकाकमाचीपत्रैः सदार्वीप्रपुनाडबीजैः।
तक्रेण पिष्टैः कटुतैलमिश्रैः पामादिषूद्वर्त्तनमेतदिष्टम्॥४१॥

निशेत्यादौ—निशादिचतुष्टयस्य पत्राणि, अन्ये तु निशा हरिद्रैव सुधादीनामेव पत्राणीत्याहुः॥४१॥

सिन्दूरमरिचचूर्णंमहिषीनवनीतसंयुतं बहुशः।
लेपाद्विनिहन्ति पामां तैलं करवीरसिद्धं वा॥४२॥

सिन्दूरेत्यादौ—करवीरक्वाथकल्काभ्यां सिद्धं कटुतैलमित्यर्थः॥४२॥

मांसी चन्दनसम्पाक करञ्जारिष्टसर्षपम्।
यष्टीकुटजदार्व्यब्दं हन्ति कण्डूमयं गणः॥४३॥

मांसीत्यादौ सम्पाकस्य पत्रं, करञ्जस्य फलं, अरिष्टो निम्बः तस्य पत्रं,यष्टीति यष्टीमधु। कण्डूमित्यत्र कुष्ठमिति क्वचित् पाठः। किन्तु चरकेऽप्यस्मिन् गणे दशेमानि कण्डूघ्नानीत्युक्वम्॥४३॥

भल्लातकद्वीपिसुधार्कमूलं गुञ्जाफलं त्र्यूषणशङ्खचूर्णम्।
तुत्थं सकुष्ठं लवणानि पञ्च क्षारद्वयं लाङ्गलिकाञ्च पक्त्वा।
स्नुह्यर्कदुग्धे घनमायसस्थं शलाकया तं विदधीत लेपम्।
कुष्ठे किलासे तिलकालके तु अशेषदुर्नामसु चर्मकीले॥४४॥

भल्लातकेत्यादि—वाग्भटस्य।द्वीपिः चित्रकः, अत्र भल्लातकाद्यर्कान्तानां मूलमिति केचित्, अन्ये तु भल्लातकस्य बीजं तस्यैव सर्वत्रोपयोगादित्याहुः।चित्रकादित्रयस्य मूलम्, एषां भल्लातकादिलाङ्गलिकान्तानां चूर्णं स्नुह्यर्कक्षीराभ्यां मिलित्वा चूर्णमपेक्ष्य चतुर्गुणाभ्यां लोहपात्रे लेपयोग्यता यावत् तावत् पाक इत्याहुः॥४४॥

विषवरुणहरिद्राचित्रकागारधूम-
मनलमरिचदूर्वाः क्षीरमर्कस्नुहीभ्याम्।
दहति पतितमात्रात् कुष्ठजातीरशेषाः

कुलिशमिव सरोपाच्छुकहस्ताद्विमुक्तम्॥४५॥

विषेत्यादौ— विषं स्थावरविषम् अनलं भल्लातकम्। अत्रापि पूर्वचूर्णादिमानम् अर्कस्नुहोक्षीराभ्यां पाकविधिश्चेति वदन्ति॥४५॥

शशाङ्कलेखा सविडङ्गसारा सपिप्पलीका सहुताशभूला।
सायोमला सामलका सतैला सर्वाणि कुष्ठानि निहन्ति लीढा॥४६॥

शशाङ्कलेखेत्यादि—वाग्भटस्य। शशाङ्कलेखा सोमराजी, हुताशश्चित्रकः, अयोमलं शोधितमण्डूरचूर्णम्। अस्मान्मलितचूर्णान्मापकत्रयं चतुष्टयं वा गृहीत्वा तिलतैलन लेह्यम्॥४६॥

तीव्रेण कुष्ठेन परीतदेहो यः सोमराजीं नियमेन खादेत्।
संवत्सरं कृष्णतिलद्वितीयां स सोमराजीं वपुपातिशेते॥४७॥

तीव्रेणेत्यादौ—नियमनेत्यनेन प्रात्याहिकत्वं पथ्याशित्वय गमयति। सोमराजींकृष्णतिलयोस्तु प्रत्येकं मापकत्रयं मापकचतुष्टयं वा व्यवहरन्ति। सोमराजी चन्द्रश्रेणीम्॥४७॥

घर्मसेवी कटुष्णेन वारिणा वागुजीं पिबेत्।
क्षीरभोजी त्रिसप्ताहात् कुष्ठरोगाद्विमुच्यते॥४८॥

घर्मसेवी आतपसेवी। वागुजी सोमराजीबीजम्, अस्य च मापकचतुष्टयमुष्णोदकेनालोड्य पिबेत्॥४८॥

एकस्तिलस्य भागौ द्वौ सोमराज्यास्तथैव च।
भक्ष्यमाणमिदं प्रातर्गुह्यदद्रुविनाशनम्॥४६॥

एक इत्यादावपि उष्णोदकमनुपेयम्॥४६॥

अवल्गुजाद्वीजकर्षे पीत्वा कोष्णेन वारिणा।
भोजनं सर्पिषा कार्य्ये सर्वकुष्ठप्रणाशनम्॥५०॥

अवलगुजःसोमराजी॥५०॥

नवकषायः।

त्रिफलापटोलरजनी-मञ्जिष्ठारोहिणीवचानिम्बैः।
एषकषायोऽभ्यस्तो निहन्ति कफपित्तजं कुष्ठम्॥५१॥

त्रिफलेत्यादि—स्पष्टम्॥५१॥

छिन्नायाः स्वरसो वापि सेव्यमानो यथावलम्।

जीर्णे घृतेन भुञ्जीत स्वल्पं यूपोदकेन वा।
अतिपूतिशरीरोऽपि दिव्यरूपी भवेन्नरः॥५२॥

छिन्नाया इत्यादौ—छिन्ना गुडूची॥५२॥

पटोलखदिरारिष्ट-त्रिफलाकृष्णवेत्रजम्।
तिक्ताशनः पिबेत् क्वाथं कुष्ठीकुष्ठं व्यपोहति॥५३॥

पटोलेत्यादौ–कृष्णवेत्रं कालियालतेति ख्यातम्। तिक्ताशन इति तिक्तभूयिष्ठाहारः।

सप्तसमो योगः।

तिलाज्यत्रिफलाक्षौद्र-व्योषभल्लातशर्कराः।
वृष्यः सप्तसमो मेध्यः कुष्ठहा कामचारिणः॥५३॥

तिलेत्यादौसप्तसम इति संज्ञाबलात् मिलितत्रिफलैवतिलाद्येकभागसमा एवं व्योषमपि॥५४॥

विडङ्गत्रिफलाकृष्णाचूर्णं लीढं समाक्षिकम्।
हन्ति कुष्ठं क्रिमीन् मेहान् नाडीव्रणभगन्दरान्॥५५॥

विडङ्गेत्यादि— स्पष्टम्॥५५॥

इन्द्राशनं समादाय प्रशस्तेऽहनि चोद्धृतम्।
तच्चूर्णं मधुसर्पिर्भ्योलिहेत् क्षीरघृताशनः।
हत्वा च सर्वकुष्ठानि जीवेद्वर्षशतद्वयम्॥५६॥

इन्द्राशनमित्यादौ— चूर्णमिति माषकद्वयं त्रयं वा देयम्॥५६॥

यः खादेदभयारिष्टमरिष्टामलकानि वा।
स जयेत् सर्वकुष्ठानि मासादूर्द्ध्वंन संशयः॥५७॥

यः खादेत्यादौ अरिष्टो निम्वः॥५७॥

दह्यमानाच्च्युतः कुम्भे मूलगे खदिराद् रसः।
साज्यधात्रीरसक्षौद्रो हन्यात् कुष्ठं रसायनम्॥५८॥

दह्यमानादित्यादौ खदिररसधात्रीरसौ तुल्यौ। घृतक्षैद्रे तु प्रक्षेप्ये इत्याहुः ५८

वायस्येडगजाकुष्ठ-कृष्णाभिर्गुडिका कृता।
वस्तमूत्रेण सम्पिष्टा लेपात् श्वित्रविनाशिनी॥५६॥

वायसीत्यादौ—वायसी काकमाची॥५६॥

पूतिकार्कस्नुङ्नरेन्द्रद्रुमाणां मूत्रैः पिष्टाः पल्लवाः सौमनाश्च।
लेपात् श्वित्रं घ्नन्ति दद्रुव्रणांश्च कुष्ठान्यर्शांस्युग्रनाडीव्रणांश्च॥६०॥

पूतिकेत्यादि—सुश्रुतस्य। पूतिको लाटाकरञ्जः, नरेन्द्रद्रुम् आरग्वधः, एषां पल्लवः इत्यन्वयः। तथा सोमनाश्च पल्लवा जातीपल्लवा इत्यर्थः॥६०॥

गजचित्रव्याघ्रचर्ममसीतैलविलेपनात्।
श्वित्रं नाशं व्रजेत् किंवा पूतिकीटविलेपनात्॥६१॥

गजेत्यादौ—चित्रव्याघ्रः। केवलगजचर्ममसीलेपश्च श्वित्रहरत्वेनोक्तोयथा— श्वेतजयन्त्यंघ्रिमूलं क्षीरं श्वित्रविनाशनम्। गजचर्ममसीलेपो लेपो वा पूतिकीटजः” इति। पूतिकीटः पादुकाकीटः(पादकुरा) इति लोके ख्यातः॥६१॥

कुडवोऽवल्गुजबीजाद्धरितालचतुर्थभागसंमिश्रः।
मूत्रेण गवां पिष्टः सवर्णकरणः परः श्वित्रे॥६२॥

कुडव इत्यादि योगोऽपि लेपादेव श्वित्रनाशकः॥६२॥

धात्रीखदिरयोः क्वाथं पीत्वावल्गुजसंयुतम्।
शङ्खेन्दुधवलं श्वित्रं तूर्णंहन्ति न संशयः॥६३॥

धात्रीत्यादि—धात्रीखदिरयोः क्वाथे सोमराजीबीजचूर्णं प्रक्षिप्य श्वित्री पिबेत्॥६३॥

क्षारे सुदग्धे गजलिण्डजे च गजस्य मूत्रेण बहुस्रुते च।
द्रोणप्रमाणं दशभागयुक्तं दत्त्वा पचेद्बीजमवल्गुजस्य॥

एतद् यदा चिक्कणतामुपैति तदा सुसिद्धां गुडिकां प्रयुञ्ज्यात्।
श्वित्रं विलिम्पेदथ तेन घृष्टं तदा व्रजत्याशु सवर्णभावम्॥६४॥

क्षार इत्यादि—सुश्रुतस्य। गजलिण्ढं गजपुरीपं, जलगण्डजेति पाठे जलगण्ढः शमठः। गजस्य मूत्रेण इत्यनन्तरं पक्व इति शेषः। बहुस्रत इति एकविंशतिवारं सप्तवारं वा परिस्रुते। दशभागयुक्तमिति द्रोणस्य दशमांशेन युक्तमवल्गुजमित्यर्थः। एतस्य क्रियापरिपाठी लिख्येत। प्रथमतो गजलिण्डक्षारस्य द्रोणमेकं २५६ पलं ग्राह्यम्। ततस्तत्पाकार्थं गजमूत्रं क्षारपरिभाषया षड्गुणं दीयमानं द्रवद्वैगुण्येन द्वादश द्रोणो भवति, अद्विगुणगणनया तु षड्द्रोणानि स्युः, तेन मूत्र शराव १६२ “प्रायस्त्रिभागावशेषेऽस्मिन्” इति वचनेन तृतीयभागावशेषात् द्वेगुण्येन द्रोणमेकं ग्राह्यं तच्च शराव६४। ततस्तृतीयभागावशिष्टक्षारोदकद्रोणपिक्षया दशमशिनावल्गुजबीजं पिष्ट्वा तत्र प्रक्षिप्य पचेत्। तेनावल्गुनबीजस्य किन्चिन्यूनत्रयोदशमापकाधिकैकपञ्चाशत्पलानि भवन्ति, पल ५१, तोला १ माषा ५ अन्ये तु षट्पञ्चाशदधिकपलशतद्वयरूपक्षारद्राणापेक्षया दशमांशेनावल्गुजबीजं गृह्नन्ति, तेन तन्मते अवल्गुजबीजस्य पल २५, कर्षं २, भाषा ६, रती ४ एतन्मानं भवति, किन्तु व्यवहारः पूर्वेणैव। ततोऽवतार्य्य शिलायां पिष्ट्वा चिक्कणतामुपगते सति गुडिकाः कार्य्याः। घृष्टमिति फल्गुपत्रकरीषादिना॥६४॥

श्वेतजयन्तीमूलं पिष्टं पीतञ्च गव्यपयसैव।
श्वित्रं निहन्ति नियतं रविवारे वैद्यनाथाज्ञा॥६५॥

श्वेतजयन्तीत्यादौ—गोपयसैचपिष्टं पीतञ्चेत्यर्थः॥६५॥

पञ्चनिम्बः।

पुष्पकाले च पुष्पाणि फलकाले फलानि च।
सञ्चूर्ण्य पिचुमर्दस्य त्वङ्मूलानि दलानि च।
द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत्।
त्रिफलाज्यूषणब्राह्मीश्वदंष्ट्रारुष्कराग्निकाः।
विडङ्गसारवाराहीलौहचूर्णामृताः समाः।
हरिद्राद्वयवागुजीव्याधिघाताः सशर्कराः।
कुष्ठेन्द्रयवपाठाश्च कृत्वा चूर्णे सुसंयुतम्॥
खदिराशननिभ्बानां घनक्वाथेन भावयेत्।

सप्तधा पञ्चनिम्बन्तु मार्कवस्वरसेन तु।
स्निग्धशुद्धतनुर्धीमान् योजयेच्च शुभे दिने।
मधुना तिक्तहविषा खदिराशनवारिणा।
लेह्यमुष्णाम्बुना वापि कोलवृद्ध्या पलं पिबेत्।
जीर्णे च भोजनं कार्य्यंस्निग्धं लघु हितञ्च यत्॥

विचर्च्चिकौढुम्बरपुण्डरीककपालदद्रूकिटिमालसादि।
शतारुविस्फोटविसर्पपामां कफप्रकोपं त्रिविधं किलासम्॥

भगन्दरश्लीपदवातरक्तंजातान्ध्यनाडीव्रणशीर्षरोगान्।
सर्वान् प्रमेहान् प्रदरांश्च सर्वान् दंष्ट्राविषं मूलविषं निहन्ति।
स्थूलोदरः सिंहकृशोदरश्च सुश्लिष्टसन्धिर्मधुनोपयोगात्॥

समोपयोगादपि ये दशन्ति सर्पादयो यान्ति विनाशमाशु।
जीवेच्चिरं व्याधिजराविमुक्तः शुभेरतश्चन्द्रसमानकान्तिः॥६६॥

पुष्पकाल इत्यादौ—पञ्चनिम्बानां प्रत्येकं भागद्वयं त्रिफलादीनान्तु प्रत्येकमेको भागः। त्रिफलात्र्यूषणयोरपि प्रत्येकं भागः। अग्निश्चित्रकः। वाराही वाराहीकन्दः। व्याधिघातः स्वर्णालुः। खदिराशननिम्बानां घनक्वाथेनेति खदिरादीनां प्रत्येकमष्टभागावशिष्टेन क्वाथेन भावना। अशनः पीतशालः। तिक्तहविषेति वक्ष्यमाणतिक्वषट्पलकादिना खदिराशनवारिणेति खदिराशनक्वाथेन। कोलवृद्ध्येति कोलः कर्षार्द्धम्। समोपयोगादिति वर्षोपयोगात्॥६६॥

एकविंशतिको गुग्गुलुः।

चित्रकत्रिफलाव्योषमजाजीं कारवीं वचाम्।
सैन्धवातिविषे कुष्ठं चव्यैलायावशूकजम्॥

विडङ्गान्यजमोदांश्च मुस्तान्यमरदारु च।
यावन्त्येतानि सर्वाणि तावन्मात्रन्तु गुग्गुलुम्।
सङ्क्षुद्य सर्पिषा सार्द्धंगुडिकां कारयेद्भिषक्।
प्रातर्भोजनकाले वा भक्षयेत्तुं यथाबलम्।
हन्त्यष्टादश कुष्ठानि क्रिमीन् दुष्टव्रणानपि।
ग्रहण्यर्शोविकारांश्च मुखामयगलग्रहान्॥

गृध्रसीमथ भग्नञ्च गुल्मञ्चापि नियच्छति।
व्याधीन् कोष्ठगतांश्चान्यान् जयेद्विष्णुरिवासुरान्॥६७॥

चित्रकेत्यादि स्पष्टम्॥६७॥

पञ्च भल्लातकांश्छित्त्वा साधयेद्विधिवज्जले।
कषायं तं पिबेच्छीतं घृतेनाक्लौष्ठतालुकः॥

पञ्चवृद्ध्या पिबेद् यावत् सप्ततिंह्रासयेत्ततः।
जीर्णेऽद्यादोदनं शीतं घृतक्षीरोपसंहितम्॥

एतद्रसायनं मेध्यं वलीपलितनाशनम्।
कुष्ठार्शःक्रिमिदोपघ्नं दुष्टशुक्रविशोधनम्॥६८॥

पञ्चेत्यादौ—विधिवदिति क्वाथविधिना पिप्पलीवर्द्धमानवदत्रवृद्धिह्रासौ॥६८॥

तैलं भल्लातकानाञ्च पिबेन्मासं यथाबलम्।
सर्वोपतापनिर्मुक्तोजीवेद्वर्षशतं दृढः॥६६॥

तैलमित्यादौ—भल्लातकतेलं भूयन्त्रेण ग्राह्यम्॥६६॥

प्रलेपोद्वर्त्तनस्नानपानभोजनकर्मणि।
शीलितं खादिरं वारि सर्वत्वग्दोषनाशनम्॥७०॥

प्रलेपेत्यादि-स्पष्टम्॥७०॥

तिक्तपट्पलकं घृतम्।

निम्बपटोलदार्वीदुरालभां तिक्तकरोहिणीं त्रिफलाम्।
कुर्य्यादर्द्धपलांशान् पर्पटकं त्रायमाणाञ्च॥

सलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत् पूते
चन्दनकिराततिक्तकमागधिकात्रायमाणाञ्च॥

मुस्तकवत्सकबीजं कल्कीकृतसर्द्धकार्षिकान भागान्।
नव सर्पिषश्च षट्पलमेतत् सिद्धं घृतं पेयम्॥

कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामन्यश्वयथून् हन्ति॥
पामाविसर्पपिडकाकण्डूमदगण्डनुत् सिद्धम्॥७९॥

निम्बेत्यादौ—यद्यपि “सर्पिश्चाप्यनवं हितम्” इति वचनात् पुराणसर्पिषएव सर्वत्रौपयोगिकत्वं, तथाप्यत्र योगमहिम्ना नवसर्पिष एव प्रयोजनवत्त्वमिति वचनादेवोन्नीयते। सर्पिषइति पदं षट्पलमानग्रहणार्थम्। द्वितीयन्तु घृतमिति पदं पेयत्वोपदर्शनार्थम्। तथा प्रथमं सिद्धमिति पक्वं, द्वितीयन्तु प्रसिद्धिख्यापकम्। अनेन च षट्पलाभिधानेन कुष्ठे ज्येष्ठा पट्पली स्नेहमात्रा एकाहोपयोज्या दर्शितत्याहुः॥७१॥

पञ्चतिक्कघृतम्।

निम्बं पटोलं व्याघ्रीञ्च गुहूचीॆ वासकं तथा।
कुर्याद्दशपलान् भागानेकैकस्य सुकुट्टितान्।
जलद्रोणे विपक्तव्यं यावत् पादावशेषितम्।
घृतप्रस्थं पचेत्तेन त्रिफलागर्भसयुतम्॥

पञ्चतिक्तमिदं ख्यातं सर्पिः कुष्ठविनाशनम्।
अशीतिं वातजान्रोगांश्चत्वारिंशच्चपैत्तिकानू॥
विंशतिं श्लैष्मिकांश्चैव पानादेवापकर्षति॥७२॥

पञ्चतिक्ते—चत्वारिंशच्च पैत्तिकानिति चत्वारिंशद्रोगास्तानपकर्षति कांस्तानित्याकाङ्क्षायामुक्तं पैत्तकानिति। एवं भेदयित्वा योजना कार्य्या, अन्यथा चत्वारिंशतमिति द्वितीया स्यात्॥७२॥

तिक्तकघृतम्।

त्रिफलाद्विनिशावासायासपर्पटकूलकान्।
त्रायन्तीकटुकानिम्बान् प्रत्येकं द्विपलोन्मितान्॥

क्वाथयित्वा जलद्रोणे पादशेषेण तेन तु।
घृतप्रस्थं पचेत् द्व्यक्षैः पिप्पलीघनचन्दनैः॥

त्रायन्तीशक्रभूनिम्बैस्तत् पीतं तिक्तकं घृतम्।
हन्ति कुष्ठज्वरार्शांसि श्वयथुं ग्रहणीगदम्।
पाण्डुरोगं विसर्पञ्च क्लीबानामपि शस्यते॥७३॥

त्रिफलेत्यादौ—कुलकं पटोलपत्रम्, शक्रः कुटजस्तस्य फलम्॥७३॥

महातिक्तकं घृतम्।

सप्तच्छदं प्रतिविषां सम्पाकं तिक्तरोहिणीं पाठाम्।
मुस्तमुशीरं त्रिफलां पटोलपिचुमर्द्दपर्पटकम्॥

धन्वयवासं सचन्दनमुपकुल्ये पद्मकं रजन्यौ च।
षड्ग्रन्थां सविशालां शतावरीशारिवे चोभे॥

वत्सकबीजं वासां मूर्वाममृतां किराततिक्तञ्च।
कल्कान् कुर्यान्मतिमान् यष्ट्याह्वंत्रायमाणाञ्च।
कल्कस्य चतुर्भागो जलमष्टगुणं रसोऽमृतफलानाम्।
द्विगुणो घृतात् प्रदेयस्तत् सर्पिः पाययेत्सिद्धम्॥

कुष्ठानि रक्तपित्तं प्रवलान्यर्शोसि रक्तवाहीनि।
विसर्पमम्लपित्तं वातासृफ् पाण्डुरोगञ्च
विस्फोटकान् सपामानुन्मादान् कामलां ज्वरं कण्डूम्।
हृद्रोगगुल्मपिडकामसृग्दरं गण्डमालाञ्च॥

हन्यादेतत् सद्यः पीतं काले यथावलं सर्पिः।
योगशतैरप्यजितान् महाविकारान् महातिक्तम्॥७४॥

महातिक्तके—उपकुल्येत्येकवचनपाठो न युक्तः। आयुर्वेदसारवाग्भटादौ पिप्पलीद्वयपाठात्। कल्कस्य चतुर्भाग इति घृताच्चतुर्थो भागः। एतच्च सामान्यपरिभाषासिद्धमपि स्पष्टार्थमुच्यते। षड्ग्रन्था वचा श्रीकण्ठस्तु पिप्पलीमूलमित्याह, तन्न, वाग्मटे वचापाठात्। अमृतफलानामित्यामलकफलानाम्। अत्राप्येकं सर्पिःपदं कल्कादिविभागार्थम्, द्वितीयं पेयत्वोपदर्शनार्थम्, तृतीयं महातिक्तकसंज्ञार्थम्॥७४॥

महाखदिरकं घृतम्।

खदिरस्य तुलाः पञ्च शिंशपासनयोस्तुले।
तुलार्द्धाः सर्व एवैते करञ्जारिष्टवेतसाः॥

पर्पटः कुटजश्चैव वृपः किमिहरस्तथा।
हरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत्॥

सप्तपर्णस्तु संक्षुणोदशद्रोणे च वारिणः।
अष्टभागावशेषन्तु कपायमवतारयेत्॥

घात्रीरसञ्च तुल्यांशं सर्पिपश्चाढकं पचेत्।
महातिक्तककलकैश्च यथोक्तैः पलसम्मितैः॥

निहन्ति सर्वकुष्ठानि पानाभ्यङ्गनिपेवणात्।
महाखदिरमित्येतत् परं कुष्ठविनाशनम्॥७५॥

महाखदिरघृते-शिशपा इति ख्यातस्तरुः अशनः स्वनामख्यातः, न तु पीतशाल इत्याहुः, एतयोस्तुलाद्वयं मिलित्वा। तुलार्द्धाःसर्व एवैत इति करञ्जादिसप्तपर्णान्ताः (प्रत्येकं तुलार्द्धाः) दशद्रोणे च वारिण इत्यनन्तरं पचेदिति शेषः। तुल्यांशमित्याढकमानमित्यर्थः। चक्रस्तु “धात्रीरसञ्च तुल्यांशं सर्पिषश्चाढकं पचेत्” इति प्रन्थं न पठति। तथा “यथोक्तैःपलसम्मितैः” इत्यत्र “यथोक्तैस्तैस्तु साधयेदिति” पठतिव्याचष्टे च। साधयेदित्यत्र सर्पिरिति शेषः। अत्र यद्यपि घृतमानं नोक्तंतथापि क्वाथशेषस्याढकाधिकद्रोणस्य नियतत्वात् तत्क्वाथचतुर्थांशं प्रस्थाधिकाढकमानं घृतस्यार्थापत्तितन्त्रयुक्त्या सिद्धं भवतीति। कल्कस्य स्नेहपादिकत्वं सामान्यपरिभाषासिद्धमेवेति। केचिन्महाखदिरघृतमिदमनार्पमित्याहुः॥७५॥

पञ्चतिक्त-घृतगुग्गुलुः।

निम्बामृतावृषपटोलनिदिग्धिकानां
भागान् पृथग्दशपलान् विपचेद् घटेऽपाम्।
अष्टांशशेषितजलेन सुनिःसृतेन प्रस्यं घृतस्य विपचेत् पिचुभागकल्कैः॥

पाठाविडङ्गसुरदारुगजोपकुल्याद्विक्षारनागरनिशामिपिचव्यकुष्ठैः।
तेजोवतीमरिचवत्सकदीप्यकाग्निरोहिण्यरुष्करवचाकणमूलयुक्तैः॥

मञ्जिष्ठयातिविषया वरया यमान्या संशुद्धगुग्गुलुपलैरपि पञ्चसंख्यैः।
तत् सेवितं विषमतिप्रबलं समीरं सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक्॥

नाडीव्रणार्वुदभगन्दरगण्डमालां जबूद्र्ध्वसर्वगदगल्मगुदोत्थमेहान्।
यक्ष्मारुचिश्वसनपीनसकासशोषहृत्पाण्डुरोगगलविद्रघिवातरक्तम् ७६

निम्बामृतेत्यादि— वाग्भटस्य। घट इति द्रोणे। पिचुः कर्षरूपो भागो येषां कलकानां तैः। मिषिः शतपुष्पा, न तु मधुरिका वृद्धव्यहारात्। तेजोवती ज्योतिष्मती। दीप्यकं जीरकम्। वत्सकं कुटजफलम्। अनिश्चित्रकः। कणमूलं

पिप्पलीमूलम्। वरया त्रिफलया॥७६॥

वज्रकं घृतम्।

वासागुडूचीविफलापटोलं करञ्जनिम्बाशनकृष्णवेत्रम्।
तत्क्वाथकल्केन घृतं विपक्वंतद्वज्रवत् कुष्ठहरं प्रदिष्टम्।
विशीर्णकर्णाङ्गुलिहस्तपादः क्रिम्यर्दितो भिन्नगलोऽपि मर्त्त्यः।
पौराणिकीं कान्तिमवाप्य जीवेदव्याहतो वर्षशतञ्च कुष्ठी॥७७॥

(वासेत्यादौ—कृष्णवेत्रं कालियालता।) वज्रकमिति वज्रवदव्यर्थशक्तिकत्वात्॥

आरग्वधाद्यं तैलम्।

आरग्वधं धवं कुष्ठंहरितालं मनःशिलाम्।
रजनीद्वयसंयुक्तं पचेत्तैलं विधानवित्।
एतेनाभ्यञ्जयेच्छ्वित्री क्षिप्रं श्वित्रं विनश्यति॥७८॥

आरग्वधमित्यादौ—तैलमिति सार्षपाद्यन्यतमं कुष्ठहितत्वात्, उक्तं हि चरके “तैलानि सर्षपाणां करञ्जकोषातकीङ्गुदादीनाम्। कुष्ठेषु हितान्याहुस्तैलं यच्चापि खदिरस्य” इति अन्ये तु सामान्यश्रुतौ प्रधानकल्पत्वेन तिलतैलमेव ग्राह्यम्। यत्र तु सार्षपादिविशेषोक्तिस्तत्रैव सार्षपादिग्रहणमित्याहुः। एवमन्यत्रापि एवंजातीये ज्ञेयम्॥

तृणकं तैलम्।

मञ्जिष्ठारुङ्निशाचक्रमर्दारग्वधपल्लवैः।
तृणकस्वरसे सिद्धं तैलं कुष्ठहरं कटु॥७६॥

मञ्जिष्ठेत्यादौ—रुक् कुष्ठम्, तृणकं गन्धतृणम्॥७६॥

महातृणकं तैलम्।

हरिद्रात्रिफलादारु-हयमारकचित्रकम्।
सप्तच्छदश्च निम्बत्वक्-करञ्जौ बालकं नखी।
कुष्ठमेडगजाबीजं लाङ्गली गणिकारिका।
जातीपत्रञ्च दार्वी च हरितालं मनःशिला॥

कलिङ्गतिलपत्रञ्च अर्कक्षीरञ्च गुग्गुलुः।
गुडत्वङ्मरिचञ्चैव कुङ्कुमं ग्रन्थिपर्णकम्॥

सर्जपर्णासखदिरं विडङ्गं पिप्पली वचा।
घनरेण्वमृतायष्टिकेशरं ध्यामकं विषम्॥

विश्वकट्फलमञ्जिष्ठा बोलस्तुम्बीफलं तथा।
स्नुहीसम्पाकयोः पत्रं वागुजीबीजमांसिके।

एला ज्योतिष्मतीमूलं शिरीषो गोमयाद्रसः।
चन्दने कुष्ठनिर्गुण्डीविशालामल्लिकाद्वयम्॥

वासाश्वकर्णी ब्रह्मी च श्र्याह्वचम्पककुड्मलम्।
एतैः कल्कैः पचेत्तैलं तृणकस्वरसद्रवम्।
सर्वत्वग्दोपहरणं महातृणकसंज्ञितम्॥८०॥

हरिद्रेत्यादौ—लागली विपलागलीति ख्याता, कलिङ्गइन्द्रयवः, चोरा चोरपुष्पी, ग्रन्थिपर्णं गेठेला, ध्यामकं गन्धतृणम्, वोलो गन्धरसः, तुम्बीफलं पक्वतिक्तालावुः, मल्लिकाद्वयं मल्लिका हाफरमल्लिका च, श्रयाह्वोनवनीतखोटिः, चम्पककुड्मलं चम्पककलिका। तृणकस्वरसो द्रवः पाकसाधनं जलं यस्य तत्तथा। अन्नान्तरे सोमराजीतैलं केचित् पठन्ति तत्तु न टीकासम्मतमिति॥५०॥

वज्रकतैलम्।

सप्तपर्णकरञ्जार्कमालतीकरवीरजम्।
मूलं स्नुहाशिरीषाभ्यां चित्रकास्फोतयोरपि।
करञ्जबीजं त्रिफलां त्रिकटुं रजनीद्वयम्।
सिद्धार्थकं विडङ्गञ्च प्रपुन्नाडञ्च संहरेत्॥

मूत्रपिष्टैः पचेत्तैलमेभिः कुष्ठविनाशनम्।
अभ्यङ्गाद्वज्रकंनाम नाडीदुष्टव्रणापहम्॥८१॥

सप्तपर्णेत्यादि—सुश्रुतस्य। मूत्रपिष्टैःपचैत्तैलमिति पाकोऽपि गोमूत्रेणैव। आस्फोता श्वेतार्कमूलमिति केचित्। अत्र तिलतैलमेव देयम्, “तैलं तैलं साधितं तैः समूत्रैः” इति वाग्भटसंवादात्। तैलमत्र सार्षपम्॥८१॥

मरिचाद्यं तैलम्।

मरिचालशिलाब्दार्कपयोऽश्वारिजटात्रिवृत्।
शकुदसविशालारुङ्निशायुग्दारुचन्दनैः॥

कटुतैलात् पचेत् प्रस्थं द्व्यक्षैर्विषपलान्वितैः।
सगोमूत्रं तदभ्यङ्गाहदुश्वित्रविनाशनम्॥
सर्वेष्वपि च कुष्ठेषु तैलमेतत् प्रशस्यते॥८२॥

स्वल्पमरिचाद्यतैले—आलं हरितालम्, शिला मनःशिला, अर्कपयोऽर्कक्षीरम्, अश्वारिः करवीरः, जटा जटामांसी, चन्द्राटादिपठितमरिचाद्ये मांसीदर्शनात् व्यवहाराच्च, शकृद्रसो गोमयरसः अयमपि कलकः, विशाला गोरक्षकर्कटी, रुक् कुष्ठम्, निशायुक् हरिद्राद्वयम्। प्रस्थमिति प्रस्थपरिमितं तेन सामानाधिकरण्यं न विरुध्यते। गोमूत्रमत्र चतुर्गुणं बोध्यम्॥८२॥

बृहन्मरिचाद्यं तैलम्।

मरिचं त्रिवृता दन्ती क्षीरमार्कं शकृद्रसः।
देवदारु हरिद्वे द्वे मांसी कुष्ठं सचन्दनम्॥

विशाला करवीरञ्च हरितालं मनःशिला।
चित्रको लाङ्गलाख्या च विडङ्गं चक्रमर्दकम्॥

शिरीषं कुटजो निम्बः सप्तपर्णः स्नुहामृताः।
सम्पाको नक्तमालोऽब्दः खदिरं पिप्पली वचा॥

ज्योतिष्मती च पलिका विषस्य द्विपलं भवेत्।
आढक कटुतैलस्य गोमूत्रन्तु चतुर्गुणम्॥

मृत्पात्रे लौहपात्रे वा शनैर्मृद्वग्निना पचेत्।
पक्त्वा तैलवरं ह्येतन्म्रक्षयेत् कौष्ठिकान् व्रणान्॥

पामाविचर्च्चिकादद्कण्डूविस्फोटकानि च।
वलयः पलितं छाया नीलिव्यङ्गं तथैव च॥

अभ्यङ्गेन प्रणश्यन्ति सौकुमार्य्यञ्च जायते।
प्रथमे वयसि स्त्रीणां यासां नस्यन्तु दीयते॥

परामपि जरां प्राप्य न स्तना यान्ति नम्रताम्।
बलीवर्दस्तुरङ्गो वा गजो वा वायुपीडितः।
एभिरभ्यञ्जनैर्गाढं भवेन्मारुतविक्रमः॥ ८३॥

बृहन्मरिचाद्ये—शकृद्रसः पूर्ववत्, कुटजस्य च फलमाहुः। स्नुहायास्तु क्षीरम्। प्रथमे वयर्

साति वयःसन्धौ॥८३॥

विषतैलम्—

नक्तमालं हरिद्रे द्वे अर्कं तगरमेव च।
करवीरं वचा कुष्ठमास्फोता रक्तचन्दनम्॥

मालती सप्तपर्णञ्च मञ्जिष्ठा सिन्धुवारिका।
एषामर्द्धपलान् भागान् विषस्यापि पलं भवेत्॥

चतुर्गुणे गवां मूत्रे तैलप्रस्थं विपाचयेत्।
श्वित्रविस्फोटकिटिमकीटलूताविचर्च्चिकाः॥

कण्डूकच्छूविकाराश्च ये व्रणा विषदूषिताः।
विषतैलमिदं नाम्ना सर्वव्रणविशोधनम्॥८४॥

विषतैले—नक्तमालं करञ्जबीजम्; अर्कस्य क्षीरम्; तगरं तगरपादुका; मालती जाती तस्याः पत्रम्; सिन्धुवारिका निर्गुण्डी॥८४॥

करवीराद्यं तैलम्।

श्वेतकरवीररसो गोमूत्रं चित्रकं विडङ्गञ्च।
कुष्ठेषु तैलयोगः सिद्धोऽयं सम्मतो भिषजाम्॥८५॥

श्वेतकरवीरेत्यादौ। —करवीररसगोमूत्रयोर्मिलित्वा चातुर्गुण्यम्। शेषस्य तु कल्कत्वम्॥८५॥

श्वेतकरवीराद्यं तैलम्।

श्वेतकरवीरमूलं विषांशसाधितं गवां मूत्रे।
चर्मदलसिध्मपामाविस्फोटक्रिमिकिटिमजित्तैलम्॥८६॥

श्वेतकरवीरमूलमित्यादौ - श्वेतकरवीरस्य मूलं यत्र श्वेतं करवीरस्य मूलं यत्रेति वा विगृह्य तैलविशेषणता ज्ञेया। विषांशसाधितमिति विषस्यांशश्चतुर्थो भागः, स च करवीरमूलापेक्षया इति केचित्। अन्ये तु गतविषतैले विषस्य पलमुक्तं तदपेक्षया कर्षमाहुः, तन्न तन्त्रान्तरीयवाक्यत्वात्। अन्ये पुनरंशो भागः, तेन विषकरवीरमूलयोः समभागयरिव कलकत्वं, व्यवहारोऽप्यननैव॥८६॥

सिन्दूराद्यं तैलम्।

सिन्दुरार्द्धपलात् पिष्ट्वाजीरकस्य पलं तथा।
कटुतैलं पचेन्मानीं सद्यः पामाहरं परम्॥८७॥

स्वल्पसिन्दूराद्ये मानीमित्यष्टौ पलानि। वृन्द तु “कटुतैलं पचेदाभ्यां सद्यः पामाहरं परम्” इति पठ्यते। तन्मतेऽपि वृद्धवैद्यव्यवहारादेव पलाष्टकं ग्राह्यम्॥८७॥

महासिन्दूराद्यं तैलम्।

सिन्दूरं चन्दनं मांसीविडङ्गं रजनीद्वयम्।
प्रियङ्गुपद्मकं कुष्ठं मञ्जिष्ठां खदिरं वचाम्॥

जात्यर्कत्रिवृतानिम्बकरञ्जं विषमेव च।
कृष्णवेत्रकलोध्रञ्च प्रपुन्नाडञ्च संहरेत्॥

श्लक्ष्णपिष्टानि सर्वाणि योजयेत्तैलमात्रया।
अभ्यङ्गेन प्रयुञ्जीत सर्वकुष्ठविनाशनम्॥

पामाविचर्च्चिकाकण्डूविसर्पादिविनाशनम्।
रक्तपित्तोत्थितान् हन्ति रोगानेवंविधान् बहून्॥८८॥

महासिन्दूराद्ये—जात्याः पत्रं, अर्कस्य क्षीरं, करञ्जस्य फलम्। तैलमात्रया प्रस्थरूपया॥८८॥

आदित्यपाकं तैलम्।

मञ्जिष्ठात्रिफलालाक्षानिशाशिलालगन्धकैः।
चूर्णितैस्तैलमादित्यपाकं पामाहरं परम्॥८९॥

आदित्यपाकतैले—जलं तैलसमं दत्त्वा जलशोषपर्यन्तमातपे स्थाप्यं, जलं विना पाकानुपपत्तेः। अतएव इन्द्रलुप्तोक्तादित्यपाकेऽपि गुडूचीरसमेव तैलसमं व्यवहरन्ति वृद्धाः। अन्ये तु द्रवानुक्तावद्रवमेवादित्यपाकमाहुः॥८९॥

दूर्वाद्यं तैलम्।

स्वरसेन च दूर्वायाः पचेत्तैलं चतुर्गुणम्।

कच्छूविचर्च्चिकापामा अभ्यङ्गादेव नाशयेत्॥९०॥

दुर्वातैले— चतुर्गुणं यथा स्यात्तथा दुर्वास्वरसेन पचेत्। दुर्वास्वरसेन चतुर्गुणेन तैलं पचेदित्यर्थः। वृन्देऽपि “स्वरसेऽपि च दूर्वायाः पचेत्तैलं चतुर्गुणे” इति पाठः॥

अर्कमनः शिलातैले।

अर्कपत्ररसे पक्वं कटुतैलं निशायुतम्।
मनःशिलायुतं वापि पामाकण्ड्वादिनाशनम्॥९१॥

अर्कतैले कल्कभेदात् योगद्वयं, स्वरसश्चतुर्गुणः, कल्कश्चाष्टांश एव स्वरससाध्यत्वात्॥९१॥

गण्डीरिकाद्यं तैलम्।

गण्डीरिकाचित्रकमार्कवार्ककुष्ठद्रुमत्वग्लवणैः समूत्रैः।
तैलं पचेन्मण्डलकुष्ठदद्रुदुष्टव्रणारुःकिटिमापहारि॥९२॥

गण्डीरिकेत्यादौ—गण्डीरिका स्नुही, तस्याः क्षीरं, एवमर्कस्यापि, द्रुमः स्वर्णालुस्तस्य त्वक्, लवणं सैन्धवं, यदुकुमायुर्वेदसारे “पक्वंकर्ण्यर्कसिन्धूत्यकुष्ठस्नुग्वह्रिमार्कषैः। समूत्रैस्तैलमाहन्ति दद्रूणि किटिमानि च” इति। अत्र कर्णी स्वर्णालुः तथा च द्रव्यावली “आरेवतस्तथा कर्णी कर्णिकारोऽथ वैरतः इति। अन्ये तु गण्डीरिका मजिष्ठा, द्रुमः कुटजस्तस्य त्वगित्याहुः॥९२॥

पृथ्वीसारतैलम्।

चित्रकस्याथ निर्गुण्ड्या हयमारस्य सूलतः।
नाडीचबीजाद्विषतः काञ्जिपिष्टं पलं पलम्॥

करञ्जतैलाष्टपलं काञ्जिकस्य पलं पुनः।
मिश्रितं सूर्य्यसम्पकं तैलं कुष्ठवणास्रजित्॥९३॥

चित्रकेति— अत्यन्तोत्कृष्टगुणत्वात् पृथ्वीसार इति संज्ञा॥९३॥

सोमराजीतैलम्।

सोमराजी हरिद्रे द्वे सर्षपारग्वधं गदम्।
करञ्जतैलाष्टपलं पत्रमारग्वधस्य च॥

चतुर्गुणे जलं दत्त्वा गोमूत्रप्रस्थसंयुतम्।
विपचेत् सार्षपं तैलं नाडीदुष्टव्रणापहम्।
अनेनाशु प्रणश्यन्ति कुष्ठान्यष्टादशैव तु॥

नीलिका पिप्लवो व्यङ्गा गम्भीरं वातशोणितम्।
कराडून्यच्छप्रशमनं कच्छूपामाविनाशनम्॥९४॥

सोमराजी तैले—गदं कुष्ठम्॥९४॥

पक्षात् पक्षाच्छर्दनान्यभ्युपेयान्मासान्मासात् स्रंसनञ्चाप्यधस्तात्।
व्यहात् त्र्यहान्नस्ततश्चावपीडान् मासेष्वसृङ्मोक्षयेत् षट्सु षट्सु ॥९५॥

पक्षादित्यादि—सुश्रुतस्य। स्रंसनं विरेचनम्। नस्तत इति नासापुटयोरवपीडान्नस्यविशेषान् दद्यात्। अवपीढशब्देन बहुमात्रसर्पिःप्रयोगोऽप्युच्यते तन्निरासार्थं नस्तत इत्युक्तम्॥९५॥

योषिन्मांससुरात्यागः शालिमुद्गयवादयः।
पुराणास्तिक्तशाकञ्च जाङ्गलं कुष्ठिनां हितम्॥९६॥

योषिदित्यादौ—मांसमानूपजं निषिद्धं जाङ्गलस्य विधानात्॥९६॥

इति कुष्ठाधिकारः॥
<MISSING_FIG href=”../../../../../books_images/U-IMG-1699954463Capture.JPG”/>

अथोदर्द-कोठ-शीतपित्त-चिकित्सा।

अभ्यङ्गःकटुतैलेन सेकश्चोष्णाम्बुभिस्ततः।
उदर्दे वमनं कार्य्यं पटोलारिष्टवारिणा॥१॥

प्रायस्तुल्यचिकित्सितत्वात् उदर्दादिचिकित्सितमुच्यते। अभ्यङ्ग इत्यादौ—सेक इत्यत्र स्वेद इत्यपि पाठः। अत एवोक्तमन्यत्र “अभ्यङ्गः कटुतैलेन स्वेदनं कोष्णवारिणा” इति। पटोलारिष्टवारिणेत्यत्रानुक्तमपि मदनफलकल्कं प्रक्षेप्यम्॥१॥

त्रिफलापुरकृष्णाभिर्विरेकश्चात्र शस्यते।
त्रिफलां क्षौद्रसहितां पिबेद्वा नवकार्पिकम्॥२॥

त्रिफलापुरकृष्णाभिरिति त्रिफलायाः कषायः, गुग्गुलुपिप्पल्यौप्रक्षेप्ये, प्रक्षेपश्च व्यवहाराद् गुग्गुलोर्दशमाषकाः पिप्पल्यास्तु पण्मापका इति त्रिफलाक्षौद्रसहितामिति त्रिफलायाःक्वाथः, क्षौद्रन्तु प्रक्षेप्यम्। नवकार्षिकं वातरक्तोक्तम्॥२॥

विसर्पोक्तममृतादिं भिषगत्रापि योजयेत्।
सितां मधुकसंयुक्तांगुडमामलकैः सह॥३॥

विसर्पोक्तममृतादिमिति अमृतवृषपटोलं मुस्तकमित्यादिनोक्तम्, तस्यैव शीतपित्तहन्तृत्वेनोक्तम्, न पुनरमृतवृषपटोलं निम्बकल्कैरुपेतमित्यादिकम्। सितां मधुकसंयुक्तामित्यत्र सितां कटुकया युक्तामिति केचित् पठन्ति॥३॥

सगुडं दीप्यकं यस्तु खादेत् पथ्यान्नभुङ्नरः।
तस्य नश्यति सप्ताहादुदर्दः सर्वदेहजः॥४॥

सगुडमित्यादि— दीप्यकं यमानिकाम्॥४॥

सिद्धार्थरजनीकल्कैः प्रपुन्नाडतिलैः सह।
कटुतैलेन संमिश्रमेतदुद्वर्त्तनं परम्॥५॥

सिद्धार्थत्यादौ—प्रपुन्नाडश्चक्रमर्दः॥५॥

दूर्वानिशायुतो लेपः कच्छूपामाविनाशनः।

क्रिमिदद्रुहरश्चैव शीतपित्तापहः स्मृतः॥६॥

दूर्वेत्यादि - निशा हरिद्रा॥६॥

अग्निमन्थभवं मूलं पिष्टं पतिञ्च सर्पिषा।
शीतपित्तोदर्दकोठान्सप्ताहादेव नाशयेत्॥७॥

अग्निमन्थेत्यादि—स्पष्टम्॥७॥

कुष्ठोक्तञ्च क्रमं कुर्य्यादम्लपित्तघ्नमेव च।
उदर्दोक्तांक्रियाञ्चापि कोठरोगे समासतः।
सर्पिः पीत्वा महातिक्तं कार्य्यं शोणितमोक्षणम्॥८॥

उदर्दचिकित्सां कोठरोगेऽप्यतिदिशति। उदर्देत्यादि— महातिक्तंसर्पिः कुष्ठोक्तम्॥८॥

निम्बस्य पत्राणि सदा घृतेन धात्रीविमिश्राण्यथवोपयुञ्जात्।
विस्फोटकोठक्षतशीतपित्तं कण्ड्वस्त्रपित्तं रकसां च हन्यात्॥९॥

निम्बस्येत्यादि—योगद्वयम्, अन्ये तु एकमेव योगं वदन्ति। रकसा क्षुद्रकुष्ठभेद इति श्रीकण्ठः॥९॥

क्षारसिन्धूत्थतैलैश्च गात्राभ्यङ्गं प्रयोजयेत्॥१०॥

क्षारेत्यादि - क्षारो यवक्षारः, तैलञ्चकटुतैलं वदन्ति॥१०॥

गाम्भारिकाफलं पक्वंशुष्कमुत्स्वेदितं पुनः।
क्षीरेण शीतपित्तघ्नं खादितं पथ्यसेविना॥११॥

गाम्भारिकेत्यादि – सुपक्वशुष्कगाम्भारीफलं गव्यं दुग्धं दत्त्वा उत्स्विद्य खाद्यम्।

तैलोद्वर्त्तनयोगेन योज्य एलादिको गणः॥१२॥

तैलेत्यादि—सुश्रुतोक्तएलादिको गणस्तैलयोगेन उद्वर्तनयोगेन च योज्य इत्यर्थः।

शुष्कमूलकयूषेण कौलत्थेन रसेन वा।
भोजनं सर्वदा कार्य्यंलावतित्तिरिजेन वा।
शीतलान्यन्नपानानि बुद्ध्वा दोषगतिं भिषक्।
उष्णानि वा यथाकालं शीतपित्ते प्रयोजयेत्॥१३॥

शीतपित्तादौ आहारव्यवस्थामाह—शुष्केत्यादि॥१३॥

इत्युदर्दाद्यधिकार-विवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1699956764Capture1.JPG”/>

अथाम्लपित्तचिकित्सा।

प्रागम्लपित्तरोगार्त्तंकुलकारिष्टवारिभिः।
सराठक्षौद्रसिन्धू थैर्वमनं कारयेद् भिषक॥१॥

वान्तिं कृत्वाम्लपित्ते तु विरेकं मृदु कारयेत्।
सम्यग्वान्तविरिक्तस्य सुस्निग्धस्यानुवासनम्।

आस्थापनं चिरोद्भूते देयं दोषाग्न्यपेक्षया॥२॥

उक्तसङ्गत्यैव अम्लपित्तचिकित्सितमुच्यते। वान्तिंकृत्वेति—वमनश्च अरिष्टादिभिः, अत्र तन्त्रान्तरं यथा—“प्रागम्लपित्तरोगार्त्तंकुलकारिष्टवारिभिः। सराठक्षौद्रसिन्धूत्यैर्वमनं कारयेद्भिषक्” इति। राठं मदनफलम्॥१॥२॥

क्रिया शुद्धस्य शमनी ह्यनुबन्धव्यपेक्षया।
दोषसंसर्गजे कार्य्या भेषजाहारकल्पना।
ऊर्द्ध्वगं वमनैर्धीमानधोगं रेचनैर्हरेत्॥३॥

क्रियेत्यादि—दोषसंसर्गजे अनुबन्धव्यपेक्षया अनुबन्धभूतदोषाविरोधेन शमनी संशमनरूपा भेषजाहारकल्पना क्रिया कार्येत्यर्थः। उक्तवमनविरेकयोर्विषयमाह ऊर्द्ध्वगमित्यादि। ऊर्द्ध्वगे बहुकफे वमनं अधोगे तु अम्लपित्ते सविबन्धे विरेचनम्॥

तिक्तभूयिष्ठमाहारं पानं वापि प्रकल्पयेत्।
यवगोधूमविकृतीस्तीक्ष्णसंस्कारवर्जिताः।
यथास्वं लाजशक्तून् वा सितामधुयुतान् पिबेत्॥४॥

यवगोधूमेति—यवगोधूमौहि सरत्वमधुरत्वादिना अम्लपित्तहितौ, तयोः पेयादिरूपान् विकारान्। तीक्ष्णसंस्कारवर्जिता इति कट्वम्ललवणादिसंस्कारसंयोगरहिताः। यथास्वमिति पिबेदित्यनेन योज्यम्, तेन दोषसंसर्गाद्यपेक्षया तत्तद्दोषप्रत्यनीकेन द्रवेण पिबेदित्यर्थः॥४॥

निस्तुपयववृषधात्रीक्वाथस्त्रिसुगन्धिमधुयुतः पतिः।
अपनयति चाम्लपित्तं यदि भुङ्क्ते मुद्गयूषेण॥५॥

निस्तुषेत्यादि— त्रिसुगन्धिमधुयुत इति त्रिसुगन्धि त्वगेलापत्रम्, तघ सौगन्ध्यमात्रकारकम्, मधु तु प्रक्षेपन्यायेन योज्यम्॥५॥

कफपित्तवमीकण्डू-ज्वरविस्फोटदाहहा।
पाचनो दीपनः क्वाथः शृङ्गवेरपटोलयोः॥६॥

कफेत्यादौ—शृङ्गवेरं शुण्ठी॥६॥

पटोलं नागरं धान्यं क्वाथयित्वा जलं पिबेत्।
कण्डूपामार्त्तिशूलघ्नं कफपित्ताग्निमान्द्यजित्॥७॥

पटोलमित्यादौ—धान्यमिति धान्यकम्॥७॥

पटोलविश्वामृतरोहिणीकृतं जलं पिबेत् पित्तकफोच्छये तु।
शूलभ्रमारोचकवह्निमान्द्यदाहज्वरच्छर्दिनिवारणं तत्॥८॥

पटोलत्यादौ—विश्वं शुण्ठो। अमृता गुडूची। रोहिणी कटुरोहिणी॥८॥

यवकृष्णापटोलानां क्वाथं क्षौद्रयुतं पिबेत्।
नाशयेदम्लपित्तञ्च अरुचिञ्च वमिं तथा॥१॥

यवेत्यादि—स्पष्टम्॥६॥

दशाङ्कः—वासामृतापर्पटकनिम्बभूनिम्बमार्कवैः।

त्रिफलाकुलकैः क्वाथः सक्षौद्रश्चाम्लपित्तहा॥१०॥

दशांगे—मार्कवो भृङ्गराजः, फुलकं पटोलम्॥१०॥

फलत्रिकं पटोलञ्च तिक्ताक्वाथः सितायुतः।
पीतः क्लीतकमध्वाक्तोज्वरच्छर्द्यम्लपित्तजित्॥११॥

फलत्रिकमित्यादौ— तिक्तेत्यतः परमेषामिति शेषः, तेन फलत्रिकादीनि यान्येतानि एषां क्वाथ इत्यर्थः फलति। क्लीतकं यष्टीमधु, सिताक्लीतकमधूनीह प्रक्षेप्याणि॥

पथ्याभृङ्गरजश्चूर्णं युक्तं जीर्णगुडेन तु।
जयेदम्लपित्तजन्यां छर्दिमन्नविदाहजाम्॥१२॥

पथ्येत्यादौ—भृङ्गरजश्चूर्णं मृङ्गराजस्य चूर्णम्॥१२॥

वासागुग्गुलुः।

वासानिम्वपटोलत्रिफलाशनयासयोजितो जयति।
अधिककफमम्लपित्तं प्रयोजिता गुग्गुलुः क्रमशः॥१३॥

वासेत्यादौ— अशनः पीतशालः, यासो दुरालभा, वासादीनां चूर्णं गुग्गुलुसमं गुग्गुलोःप्रधानत्वात्। क्रमश इत्यभ्यासेन॥१३॥

छिन्नाखदिरयष्ट्याह्वदार्वम्भो वा मधुद्रवम्।
सद्राक्षामभयां खादेत् सक्षौद्रां सगुडाञ्च ताम्॥१४॥

छिन्नत्यादौ—मधुद्रवमिति बहुव्रीहिः, तेनाम्भ इत्यस्य विशेषणं, मध्वत्र प्रक्षेपेण। सद्राक्षामित्यादि—योगत्रयमेतत्॥१४॥

कटुका सितावलेह्या पटोलविश्वञ्च मधुसमायुक्तम्॥१५॥

कटुका सिता चेति—कटुका कटुरोहिणी सितया लेह्येत्यर्थः। पटोलविश्वञ्च मधुसमायुक्तमिति पटोलविश्वयोःक्वाथं मधु प्रक्षिप्य पिबेदित्याहुः॥१५॥

रक्तस्रुतौ च युक्त्या खण्डं कूष्माण्डकं श्रेष्ठम्॥१६॥

रक्तस्रुतावित्यादि—कूष्माण्डखण्डकं रक्तपित्तोक्तम्॥१६॥

पटोलधन्याकमहौषधाब्दैःकृतः कषायो विनिहन्ति शीघ्रम्।
मन्दानलं पित्तबलासदाहच्छर्दिज्वरामानिलशूलरोगान्॥१७॥

छिन्नोद्भवानिम्बपटोलपत्रं फलत्रिकं सुक्वथितं सुशीतम्।
क्षौद्रान्वितं पीतमनेकरूपं सुदारुणं हन्ति तदम्लपित्तम्॥१८॥

तन्त्रान्तरे पटोलधान्याकेत्यादियागस्तथा छिन्नाद्भवानिम्बेत्यादियोगश्च क्वचित् पुस्तके दृश्यते, तौ च निश्चलेन वृन्देन च धृतौ॥१७–१८॥

पटोलत्रिफलानिम्बशृतं मधुयुतं पिबेत्।
पित्तश्लेष्मज्वरच्छर्दिदाहशूलोपशान्तये॥१६॥

पटोलत्रिफलत्यादौ— अरिष्टो निम्बः॥१६॥

सिंहास्यामृतभण्टाकीक्वाथं पीत्वा समाक्षिकम्।

अम्लपित्तं जयेज्जन्तुः कास श्वासं ज्वरं वमिम्॥२०॥

सिंहास्येत्यादौ—सिंहास्यो वासकः, भण्टाकीकण्टकारी॥२०॥

वासाघृतं तिक्तघृतं पिप्पलीघृतमेव च।
अम्लपित्ते प्रयोक्तव्यं गुडकूष्माण्डकं तथा।
पक्तिशूलापहा योगास्तथा खण्डामलक्यपि
पिप्पलीमधुसंयुक्ता चाम्लपित्तविनाशिनी॥२१॥

वासाघृतं रक्तपित्तोक्तम्। तिक्तवृतं कुष्टोक्तमहातिक्तकं तत्रैव अम्लपित्तहरत्वश्रुतेः। पिप्पलीघृतन्तु परिणामशूलोक्तम्, एतच्चयद्यपि “पक्तिशूलापहा योगाः” इत्यनेनैव लभ्यते तथापि विशेषार्थमुक्तं, यथा खण्डामलकीपिप्पलीमधुमयुक्तेति अवलेहविधया॥२१॥

जम्बीरस्वरसः पीतः सायं हन्त्यम्लपित्तकम्॥

गुडपिप्पलिपथ्याभिस्तुल्याभिर्मोदकीकृतः।
पित्तश्लेष्मापहः प्रोक्तोमन्दमग्निञ्च दीपयेत्॥२२॥

जम्बीरेत्यादौ—पक्वजम्बीरफलस्वरसः, अयन योगोवातोल्वणेऽम्लपित्त इत्याहुः

हिङ्गु च कतकफलानि चिञ्चात्वचो घृतञ्च पुटदग्धम्।
शमयति तदम्लपित्तमम्लभुजो यदि यथोत्तरं द्विगुणम्॥२३॥

हिङ्ग्वित्यादौ—कतकफलं जलप्रसादनफलं प्राये। मगधे भयति। यथोत्तरं द्विगुणमिति हिङ्ग्वपेक्षया कतकफलं द्विगुणं, कतकफलापेक्षया तिन्तिचीतरुत्वग्द्विगुणा, तिन्तिढीतरुत्यगपेक्षया च वृतं द्विगुणमिति। एतत् सर्वं स्थालीमध्ये निक्षिप्य शरावेण विधायान्तर्धूमं दग्ध्वा मापकचतुष्टयमुपयोज्यं, तप्तजलशानुपेयं, तन्त्रान्तरसंवादात्॥२३॥

कान्तपात्रे वराकल्को व्युषितोऽभ्यासयोगतः।
सिताक्षौद्रसमायुक्तःकफपित्तहरः स्मृतः॥२४॥

कान्तपात्र इति कान्ताख्यलोहविशेषपात्रे प्रक्षिप्य स्थापितत्रिफलाकल्क इत्यर्थः। शर्करामधुनी प्रक्षेप्ये॥२४॥

एकोंऽशः पञ्चनिम्बानां द्विगुणो वृद्धदारकः।
शक्तुर्दशगुणो देयः शर्करामधुरीकृतः॥

शीतेन वारिणा पीतः शूलं पित्तकफोत्थितम्।
निहन्ति चूर्णंसक्षौद्रमम्लपित्तं सुदारुणम्॥२५॥

एकोंऽश इत्यादौ—पञ्चनिम्बानामिति निम्बस्य त्वक्पत्रपुष्पफलमूलानां पञ्चानां मिलितानामेको भागः। शक्तुर्दशगुण इति निम्बभागापेक्षया, मात्रास्य पलमर्द्धपलं वा आहारद्रव्यशक्तुबाहुल्यात्॥२५॥

अभ्रशुद्धिः—आशुभक्तोदकैः पिष्टमभ्रकं तत्र संस्थितम्।

कन्दमणिस्थिसंहारखण्डकर्णरसैरथ॥

तण्डुलीयकशालिञ्च कालमारिषजेन च।
वृश्चीरबृहतीभृङ्गलक्षणाकेशराजकैः॥

पेषणं भावनं कुर्य्यात् पुटञ्चानेकशो भिषक्।
यावन्निश्चन्द्रकं तत् स्याच्छुद्धिरेवं विहायसः॥२६॥

सम्प्रति क्षुधावती वाच्या। तत्र प्रथममाशुभक्तेत्यादिना अभ्रकशुद्धिमाह। आशुर्धन्यभेदः। अत्राभ्रकं कृष्णाभ्रकं ग्राह्यंश्रेष्ठत्वात्। तच्चैकपत्रीकृत्य उदूखलादिषु सञ्चूर्ण्य आशुभक्तकाञ्जिके अहोरात्रं स्थापयित्वा तेनैव काञ्जिकेन पेषणीयम्। ततः कन्दादीनां व्यस्तसमस्तानां स्वरसेन पुनः पेषणं भावनं पुटनश्च बहुधा कुर्वीत यावन्निश्चन्द्रिकत्वमभ्रस्यं स्यादित्यर्थः। तत्र कन्दो वन्य ओलः खण्डकर्णः खाण्डकानः(खारकोनः) इति ख्यातः। तण्डुलीयकालमारिषयोः स्वल्पपत्रवृहत्पत्रभेदन भेदः। वृश्चीरः पुनर्नवा, भृङ्गो भृङ्गराजः, लक्षणा स्वनामख्याता। विहायस इत्यभ्रकस्य॥२६॥

लौहशुद्धिः—

“स्वर्णमाक्षिकशालिञ्चध्मातं निर्वापितं जले।
त्रैफलेऽथ विचूर्ण्यैवं लोहं कान्तादिकं पुनः॥

बृहत्पत्रकरीकर्णत्रिफलावृद्धदारकैः।
माणकन्दास्थिसंहारशृङ्गवेरभवै रसैः॥

दशमूलीमुण्डितिकातालमूलीसमुद्भवः।
पुटितं साधु यत्नेन शुद्धिमेवमयो व्रजेत्॥२७॥

लौहशुद्धिमाह स्वर्णमाक्षिकेत्यादि। पिष्टाभ्यां स्वर्णमाक्षिकशालिञ्चाभ्यां कान्तादिलौहं लिप्त्वा ततो भस्त्रया वह्नौघ्मातं ततोऽमृतसारवक्ष्यमाणविधिकथितत्रिफलाक्वाथे निर्वापितमित्यर्थः। त्रैफले जल इति त्रिफलाक्वाथ इत्यर्थः। तदेव निरुत्थमारितलौहचूर्णं प्रक्षालयन् भानुपाकादिशोधितं बृहत्पत्रकरिकर्णपलाशादिस्वरसैः पुटितं कुर्य्यादित्याह बृहत्पत्रेत्यादि। बृहत्पत्रो वडवड इति ख्यातः अत्र बृहत्पत्रकरिकर्णाद्येकादशपुटनद्रव्येषु मध्ये येषां स्वरसप्राप्तिस्तेषां स्वरसो ग्राह्यः। येषान्तु स्वरसो न लभ्यते तेषां पुटनीयलौहसमानामष्टगुणं ल दत्त्वा अष्टभागावशेषक्वाथेन पुटनं कर्तव्यमिति॥२७॥॥

मण्डूरशुद्धिः—

वशिरं श्वेतवाट्यालं मधुपर्णीमयूरकम्।
तण्डुलीयञ्च वर्षाभूं दत्त्वाधश्चोर्द्ध्वमेव च॥

पाक्यं सुजीर्णमण्डूरं गोमूत्रेण दिनत्रयम्।
अन्तर्बाष्पमदग्धञ्च तथा स्थाप्यं दिनत्रयम्।
विचूर्णितं शुद्धिरियं लौहकिट्टस्य दर्शिता॥२८॥.

वशिरमित्यादिना लौहमलशुद्धिमाह। वशिरः श्वेतसूर्य्यावर्त्तः। मधुपर्णी गुडूची।

मयूरकोऽपामार्गः। तण्डुलीयः क्षुद्रमारिषः। वर्षाभूः पुनर्नवा। सुजीर्णमण्डूरं पुराणमण्डूरम्। वशिरादीनां मूलत्वक्पत्रपल्लवान् स्थालीमध्ये पातयित्वा तदुपरि जीर्णमण्डूरं दत्त्वा तैरेव पल्लवादिभिराच्छाय गोमूत्रं दत्त्वा दिवसत्रयं व्याप्य सुदग्धं यथा स्यात्तथा पाको विधेयः। तदनु शरावेण पिधायान्तर्बाष्पंयथा स्यत्तथा दिवसन्नर्थंस्थाप्यम्। तदनु प्रक्षाल्यातपे शोषयित्वा चूर्णयेदिति मण्डूरशुद्धिः॥२८॥

रसशुद्धिः।

जयन्त्या वर्द्धमानस्य आर्द्रकस्य रसेन च।
वायस्याश्चानुपूर्व्यैवं मर्दनं रसशोधनम्॥२६॥

अथ रसशुद्धिमाह, जयन्त्या इत्यादि-वर्द्धमान एरण्डः। वायसी काकमाची।

गन्धकशुद्धिः।

गन्धकं नवनीताख्यंक्षुद्रितं लौहभाजने।
त्रिधा चण्डातपे शुष्कं भृङ्गराजरसाप्लुतम्॥

ततो वह्नौ द्रवीभूतं त्वरितं वस्त्रगालितम्।
यत्नाद भृङ्गरसे क्षिप्तं पुनः शुष्कं विशुध्यति॥३०॥

गन्धकशुद्धिमाह, गन्धकमित्याद—क्षुद्रितमिति तण्डुलकणपरिमाणं कृत्वा लौहभाजने स्थापयित्वा मृङ्गराजस्वरसेनाप्लाव्य चण्डातपे शोषयेत् एवमपरवारद्वयमपि। तदनु प्रक्षाल्यातपे संशोष्य लोहपात्रमध्ये स्थापयित्वा ज्वलद्वदराद्वारोपरि दत्त्वा दण्डिकयासञ्चाल्य यदा तैलवद् द्रवीभवति तदा भृङ्गराजस्वरपरिपूरितपात्रे घृताकसूक्ष्मवस्त्रेण पिहितमुखं गन्धकं त्वरया ढालयित्वा पात्रान्तरेण पिदध्यात्। तदनु प्रक्षालय आतपे शोषयित्वा चूर्णयेदिति गन्धकशुद्धिः॥३०॥

क्षुधावती गुडिका।

गगनाद् द्विपलं चूर्णं लौहस्य पलमात्रकम्।
लोहकिट्टपलार्द्धञ्च सर्वमेकत्र संस्थितम्॥

मण्डूकपर्णीवशिर-तालमूलीरसैः पुनः।
वरीभृङ्गकेशराज-कालमारिपजैरथ॥

त्रिफलाभद्रमुस्ताभिः स्थालीपाकाद्विचूर्णितम्।
रसगन्धकयोः कर्पौप्रत्येकं ग्राह्यमेकतः॥

तन्मनाक् च शिखाखल्ले यत्नतः कज्जलीकृतम्।
वचा चव्यं यमानी च जीरके शतपुष्पिका॥

व्योषं मुस्तं विडङ्गञ्च ग्रन्थिकं खरमञ्जरी।
त्रिवृता चित्रको दन्ती सूर्य्यावर्त्तः सितस्तथा॥

भृङ्गमाणककन्दौ च खण्डकर्णक एव च।
दन्तोत्पला केशराज-कालावकडकोऽपि च॥

एषामर्द्धपलं ग्राह्यं पटघृष्टं सुचूर्णितम्।

प्रत्येकं त्रिफलायाश्च पलार्द्धंपलमेव च।
एतत् सर्वंसमालोड्य लौहपात्रे तु भावयेत्।
आतपे दण्डसंघृष्टमार्द्रकस्य रसैस्त्रिधा॥

तद्रसेन शिलापिष्टां गुडिकां कारयेद्भिषक्।
बदरास्थिनिभां शुष्कां सुनिगुप्तां निघापयेत्॥

तत् प्रातर्भोजनादौ च सेवितं गुडिकात्रयम्।
अम्लोदकानुपानञ्च हितं मधुरवर्जितम्॥

दुग्धञ्च नारिकेलञ्च वर्जनीयं विशेषतः।
भोज्यं यथेष्टमिष्टञ्च वारिभक्ताम्लकाञ्जिकम्॥

हन्त्यम्लपित्तं विविधं शूलञ्च परिणामजम्।
पाण्डुरोगञ्च सर्वञ्चशोथोदरगुदामयान्॥

यक्ष्माणं पञ्च कासांश्च मन्दाग्नित्वमरोचकम्।
प्लीहानं श्वासमानाहमामवातं सुदारुणम्।
गुडी क्षुधावती सेयं विख्याता रोगनाशिनी॥३१॥

अथ शोधिताम्रकलौहलौहमलचूर्णानां मिलित्वा स्थालीपाकमाह, गगनादित्यादि—गगनादित्यभ्रकात्। मण्डूकपर्ण्यांदितालमूल्यन्तस्य रसेनाभ्रकलौहतन्मलमिलितचूर्णसमेनैकः स्थालीपाकः। वरीति शतावरी। ततः शतावर्य्यादिकालमारिषान्तरसेन च द्वितीयः स्थालीपाकः। तदनु त्रिफलाभद्रमुस्ताभिरप्यनन्तरोक्तक्वाथविधिकृतक्वाथेन तथैव तृतीयः स्थालीपाक इति। निश्चलस्तु मण्डूकपर्ण्यादितालमूल्यन्तरसेन पुटदानमाह। तत्तु न सम्यक् पुटदानाश्रुतेः, पूर्वंपुटदानस्य तु रसशोधनादिग्रन्थेन व्यवधानाच्चेति। स्थालीपाकाद्विचूर्णितमिति। स्थालीपाकानन्तरं पुनर्लोहशिलायां चूर्णीकर्त्तव्यमित्यर्थः। एतदनन्तरं यद्विधेयं तदाह, रसगन्धकयोः कर्षावित्यादि। रसगन्धकयोः कर्षौप्रत्येकमिति च्छेदः। तन्मिलितरसगन्धककर्षचतुष्टयमेकत इत्येकीकृत्य कज्जलीकृतं ग्राह्यमिति योज्यम्। वचा चव्यमित्यादिना प्रक्षेप्यचूर्णद्रव्याण्याह। खरमञ्जरी अपामार्गः। सूर्यावर्त्तो जामातृसूर्यावर्त्तः स च श्वेतः। माणककन्दो माणकन्दः। एषाञ्च वचादीनां चूर्णं प्रत्येकमर्द्धपलम् त्रिफलाया मिलित्वा सार्द्धपलमेकम्। तेन त्रिफलाया प्रत्येकमर्द्धपलमिति फलति। बदरास्थिमिता इति अनोपदेशात् कलायपरिमाणा इत्याहुः। अत्र क्षीरादिवर्जनं वारिभक्ताम्लकाञ्जिकादिविधानञ्चप्रयोगसात्म्यत्वात्। अचिन्त्या हि योगशक्तिरिति॥३१॥

जरिकाद्यं घृतम्।

पिष्ट्वाजाजीं सधन्याकं घृतप्रस्थं विपाचयेत्।
कफपित्तारुचिहरं मन्दानलवमिं जयेत्॥३२॥

पिष्ट्वेत्यादौ—जलं चतुर्गुणम्॥३२॥

पटोलशुण्ठीघृते।

पटोलशुण्ठ्योः कल्काभ्यां केवलं कुलकेन वा।
घृतप्रस्थं विपक्तव्यं कफपित्तहरं परम्॥३३॥

पटोलेत्यादावपि जलं चतुर्गुणम्॥३३॥

पिप्पलीघृतम्।

पिप्पलीक्वाथकल्केन घृतं सिद्धं मधुप्लुतम्।
पिबेच्च प्रातरुत्थाय अम्लपित्तनिवृत्तये॥३४॥

पिप्पलीघृते मधुप्लुतमिति सिद्धे घृते घृतपादिकमधुयुक्तम्॥३४॥

द्राक्षाद्यं घृतम्।

द्राक्षामृताशकपटोलपत्रैः सोशीरधात्रीघनचन्दनैश्च।
आयन्तिकापद्मकिरातघान्यैः कल्कैः पचेत् सर्पिरुपेतमेभिः॥

युञ्जीत मात्रां सह भोजनेन सर्वत्र पानेऽपि भिषग्विदध्यात्।
बलासपित्तं ग्रहणीं प्रवृद्धां कासाग्निसादज्वरमम्लपित्तम्।
सर्वे निहन्याद् घृतमेतदाशु सम्यक् प्रयुक्तं ह्यमृतोपमञ्च॥३५॥

दाक्षेत्यादौ—शक्रःफुटजः, तस्य फलमिति वदन्ति। पद्मं पद्मकाष्टम्॥३५\।\।

शतावरीघृतम्।

शतावरीमूलकल्कं घृतप्रस्थं पयः समम्।
पचेन्मृद्वग्रिना सम्यक् क्षीरं दत्त्वा चतुर्गुणम्॥

नाशयेदम्लपित्तञ्च वातपित्तोत्तरान् गद्दान्।
रक्तपित्तं तृषांमूर्च्छां श्वाससन्तापमेव च॥३६॥

शतावरीघृत पयः सममिति पयः शब्दनेह पयःसाधर्म्यात् शतावर्य्या रसो ग्राह्यः, न तु क्षीरं, तस्य पृथगुपात्तत्वात्। सममिति घृतेन सह तुल्यम्॥३६॥

इत्यम्लपित्ताधिकारः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1699975583Capture.JPG”/>

अथ विसर्प-विस्फोट-चिकित्सा।

विरेकवमनालेपसेचनासृग्विमोक्षणैः।
उपाचरेद् यथादोषं विसर्पानविदाहिभिः॥१॥

अम्लपित्तवद्विसर्पेऽपि पित्तसम्बन्धस्यावश्यम्भावात् प्रायस्तुल्यचिकित्स्यत्वाचाम्लपित्तानन्तरं विसर्पचिकित्सितमुच्यते। अविदाहिभिरित्यत्रान्नपानैरिति शेषः॥१॥

पटोलपिचुमर्दाभ्यां पिप्पल्या मदनेन च।
विसर्पेवमनं शस्तं तथैवेन्द्रयवैः सह॥२॥

पटोलेत्यादि— पटोलपिचुमर्दाभ्यामित्येको योगः। पिप्पल्या मदनेन चेति द्वितीयः। इन्द्रयवस्तु योगद्वयेऽपि सम्बध्यते इति केचित्। अन्ये तु पटोलनिम्बयोः क्वाथः पिप्पल्यादित्रयं प्रक्षेप्यामित्येकं योगमाहुः। व्यवहारःपुनरनेनैव॥२॥

त्रिफलारससंयुक्तं सर्पिस्त्रिवृतया सह।
प्रयोक्तव्यं विरेकार्थं विसर्पज्वरशान्तये॥
रसमामलकानां वा घृतमिश्रं प्रदापयेत्॥३॥

त्रिफलेत्यादि— त्रिफलाक्वाथः सर्पिस्त्रिवृते प्रक्षिप्य पेयः। रसमित्यादावपि विरेकार्थमिति सम्बध्यते॥३॥

तृणवर्जंप्रयोक्तव्यं पञ्चमूलचतुष्टयम्।
प्रदेहसेकसर्पिर्भिर्विसर्पे वातसम्भवे॥४॥

तृणवर्जमिति तृणपञ्चमूलं वर्जयित्वा पञ्चमूलचतुष्टयम्। तत्र स्वल्पमहत्पञ्च मूलद्वयं प्रसिद्धमेव। कण्टाकिपञ्चमूलं वल्लीपञ्चमूलञ्च यथा—“मेषशृङ्गी हरिद्रा च विदारी शारिवाऽमृता। वल्ल्याख्यं कण्टक्याख्यन्तु श्वदंष्ट्राऽभीरुशैर्य्यकैः। अहिंसाकरमर्दैश्चसर्वदोषहराश्चते।” अत्र अभीरुः शतमूली, शैर्थ्यको झिण्टी, आहिंस्राकालाकडः, करमर्दः स्वल्पमधुरफलः क्षीरीति लोके इति सुश्रुतटीका। तृणपञ्चमूलस्य वर्जनमिह पित्तहरत्वेन वातेऽयौगिकत्वात्॥४॥

कुष्ठं शताह्वासुरदारुमुस्तावाराहिकुस्तुम्बुरुकृष्णगन्धाः।
वातेऽर्कवंशार्त्तगलाश्च योज्याः सेकेषु लेपेषु तथा घृतेषु॥५॥

कुष्ठमित्यादि सुश्रुतस्य—वाराही वाराहीकन्दः, एतदभावे चर्मकारालुकः। कुस्तुम्बुरु धनीयकम् कृष्णगन्धा शोभाञ्जनमूलं (अन्येतु बीजं) अर्कोऽर्कमूलं, वंशो वंशनाली, आर्तगलः अण्डामूलं अर्जुनवल्कलं वा॥५॥

प्रपौण्डरीकमञ्जिष्ठापद्मकोशीरचन्दनैः।
सयष्टीन्दीवरैः पित्ते क्षीरपिष्टैः प्रलेपनम्॥६॥

प्रपौण्डरीकेत्यादौ—इन्दीवरं नीलोत्पलम्॥६॥

कशेरुशृङ्गाटकपद्मगुन्द्राः सशैवलाः सोत्पलकर्दमाश्च।
वस्त्रान्तराः पित्तकृते विसर्पे लेपा विधेयाः सघृताः सुशीताः॥७॥

कशेर्वित्यादि—सुश्रुतस्य। पद्मं पद्मकाष्ठं, गुन्द्रा गुलुखः, उत्पलं नीलोत्पलं, कर्दमः पद्मिनीस्थानगतकर्दमः, वस्त्रान्तरा वस्त्रेणान्तरिताः, एवं सति पित्तविसर्पेऽतिमृदौ त्वगाद्युपघातो न स्यात्, लेपः स्फोटनञ्च सुकरं भवतीति। लेपा इति बहुवचननिर्देशदिकैकशोऽप्येते लेपा योज्या इति वदन्ति॥७॥

प्रदेहाः परिषेकाश्चशस्यन्ते पञ्चवल्कलैः।
पद्मकोशीरमधुकचन्दनैर्वा प्रशस्यते॥८॥

प्रदेहा इत्यादौ—पञ्चवल्कलैरिति कपातैनवटाश्वत्थप्लक्षाडुम्वरवल्कलैः। प्रशस्यत इत्यत्रवचनपरिणामेन प्रदेह इति योज्यम्॥८॥

पित्ते तु पद्मिनीपङ्कं पिष्टं वा शङ्खशैवलम्।
गुन्द्रामूलन्तु शुक्तिर्वा गैरिकं वा घृतान्वितम्॥६॥

पित्ते त्वित्यादि—श्लोकपादैश्चत्वारो योगाः, शंखञ्च शैवलञ्चेति समाहारः। गुन्द्रा गुलुञ्चः, शुक्तिर्मुक्तोत्पत्तिभाण्डं (शीतवीर्य्यत्वात् मौक्तिकमपीति केचित्)। घृतान्वितमिति योगचतुष्टयेऽपि योज्यम्॥६॥

न्यग्रोधपादा गुन्द्रा च कदलीगर्भ एव च।
विसग्रन्थिश्च लेपः स्याच्छतधौतघृताप्लुतः॥१०॥

न्यग्रोधेत्यादि—वाग्भटस्य। न्यग्रोधस्य पादाः प्ररोहा अन्ये तु मूलानीत्याहुः। तरुणा इत्यभिनवाः। तरुणा इत्यत्र गुन्द्रेति न पाठः वाग्भटे चरके च तरुणा इति पाठात्। कदलीगर्भो गर्भस्था कदलीमञ्जरी, विसग्रन्थिमृणालग्रन्थिः॥

हरेणवो मसूराश्च मुद्गाश्चैव सशालयः।
पृथक् पृथक् प्रदेहाः स्युः सर्वैर्वा सर्पिषा सह॥११॥

हरेणवो वर्त्तुलकलायाः॥११॥

द्राक्षारग्वधकाश्मर्य्यत्रिफलामण्डपीलुभिः।
त्रिवृद्धरीतकीभिश्च विसर्पे शोधनं हितम्॥१२॥

द्राक्षैत्यादौ— आरग्वधस्य फलम्, अमण्डः एरण्डस्तस्य बीजं विरेकत्वात्, पीलु औत्तरापथिकं फलम्। क्वाथेन कल्केन वा योगद्वयमिदम्। तत्र पल्विन्त एकः, हरीतक्यन्तश्च द्वितीय इति॥१२॥

गायत्रीसप्तपर्णाब्दवासारग्वधदारुभिः।
कुटन्नटैर्भवेल्लेपो विसर्पे श्लेष्मसम्भवे॥१३॥

गायत्रीत्यादौ— अत्रआरग्वधस्य पत्रं, कुटन्नटं कैवर्तमुस्तकम्। अयं योगो सावास्थाने धवस्य कुटन्नटस्थाने कुरुण्टकस्य प्रक्षेपादीप बोध्यः। यदाह चरकः— “खदिरं सप्तपर्णश्च मुस्तमारग्वधं धवम्। कुरुण्टकं देवदारु दद्यादालेपनं भिषक्” इति

अजाश्वगन्धा शरणाथ काला सैकेशिका वाप्यथवाजशृङ्गी।
गोमूत्रपिष्टो विहिमः प्रदेहो हन्याद्विसर्पे कफजं सुशीघ्रम्॥१४॥

अजेत्यादि सुश्रुतस्य—अजगन्धा फोकान्धी, अश्वगन्धा ख्यातैव। सरणा त्रिवृत्, काला कालाकडः, एकेशिका पाठा, अजशृङ्गी मेषशृङ्गी कर्कटशृङ्गी वा। अजगन्धादिरजशृङ्ग्यन्त एको योगः। उक्तंहि वाग्भटे—“कालाजशृङ्गी सरणा बस्तगन्धा हयाह्वया। एकेशिका च लेपः स्यात् श्वयथावकगात्रजे”। विहिम इति हिमविपरीतः कोष्ण इत्यर्थः॥१४॥

मदनं मधुकं निम्बं वत्सकस्य फलानि च।
वमनञ्च विधातव्यं विसर्पे कफसम्भवे॥१५॥

मदनमित्यादौ—वत्सकस्येति कुटजस्य॥१५॥

त्रिफलापद्मकोशीरसमङ्गाकरवीरकम्
नलमूलमनन्ता च लेपः श्लेष्मविसर्पहा॥१६॥

त्रिफलेत्यादि— वाग्भटस्य। समङ्गा वराहकान्ता, करवीरकमित्यत्र करवीरजमिति पाठे मूलम्। अनन्ता अनन्तमूलम्। अयं लेपस्तथा वक्ष्यमाणोऽप्यारग्वधादिः स्वल्पघृतयोगेन स्निग्धः कार्यः एतदनन्तरं प्रदेहाः सर्वत्रैव एते देयाः। स्वल्पघृताप्लुत इति चरकेणोक्तत्वात्॥१६॥

आरग्वधस्य पत्राणि त्वचः श्लेष्मातकोद्भवाः।
शिरीषपुष्पं कामाची हिता लेपावचूर्णनैः॥१७॥

आरग्वधस्येत्यादौ—श्लेष्मातको यहुवारः। कामाची काकमाची॥१७॥

मुस्तारिष्टपटोलानां क्वाथः सर्वविसर्पनुत्।
धात्रीपटोलमुद्गानामथवा घृतसंप्लुतः॥१८॥

मुस्तेत्यादि—सर्वविसर्पनुदिति प्रत्येकदोषजसर्वविसर्पनुत् सन्निपातविसर्पस्यासाध्यत्वात्॥१८॥

नवकषायगुग्गुलुः।

अमृतवृषपटोलं निम्बकल्कैरुपेतं
त्रिफलखदिरसारं व्याधिघातञ्च तुल्यम्।
क्वथितमिदमशेषं गुग्गुलोर्भागयुक्तं
जयति विषविसर्पान् कुष्ठामष्टादशाख्यम्॥१६॥

अमृतेत्यादौ—त्रिफलं त्रिफला, व्याधिघातं स्वर्णालुफलम्। गुग्गुलोर्भागयुक्तमिति प्रत्यहोपयोगे प्रक्षेपपरिभाषयैव देयम्। विरेके कर्त्तव्ये प्रक्षेपमानापेक्षया द्वैगुण्येनेत्याहुः॥१६॥

अमृतादिः—

अमृतवृषपटोलं मुस्तकं सप्तपर्णं
खदिरमसितवेत्रं निम्बपत्रं हरिद्रे।
विविधविषविसर्पान् कुष्ठविस्फोटकण्डू-
रपनयति मसूरीं शीतपित्तं ज्वरञ्च॥२०॥

अमृतेत्यादौ— असितवेत्रं कालियालतामूलम् अत्रापि विरेके कर्त्तव्ये गुग्गुलुं प्रक्षिपन्ति वृद्धाः॥२०॥

पटोलामृतभूनिम्बवासकारिष्टपर्पटैः।
खदिराब्दयुतैः क्वाथो बिस्फोटार्त्तिज्वरापहः॥२१॥

पटोलत्यादिना विस्फोटचिकित्सामाह॥२१॥

पटोलत्रिफलारिष्टगुडूचीमुस्तचन्दनैः।
समूर्वा रोहिणी पाठा रजनी सदुरालभा।

कषायं पाययेदेतत् पित्तश्लेष्मज्वरापहम्।
कण्डूत्वग्दोषविस्फोटविषवीसर्पनाशनम्॥२२॥

पटोलत्रिफलेत्यादौ—समूर्वा रोहिणी पाठा रजनीं सदुरालभेत्यतःपरम् एभिरिति शेषः, तेन एभिः कृतं कषायं पाययेदित्यर्थसङ्गतिः कार्या॥२२॥

भूनिम्बवासाकटुकापटोलफलत्रिकाचन्दननिम्बसिद्धः।
विसर्पदाहज्वरवक्त्रशोषविस्फोटतृष्णावमिनुत् कषायः॥२३॥

भूनिम्बेत्यादौ—भूनिम्बःकिराततिक्तः॥२३॥

सकफे पित्तयुक्ते तु त्रिफलां योजयेत् पुरैः॥२४॥

सकफ इत्यादि—त्रिफलां योजयत् पुरैरिति त्रिफलाक्वाथे गुग्गुलुः प्रक्षेप्य इत्यर्थः॥

दुरालभां पर्पटकं पटोलं कटुकां तथा।
सोष्णं गुग्गुलुसंयुक्तं पिबेद्वा खदिराष्टकम्॥२५॥

दुरालभामित्यादावपि दुरालभादीनां क्वाथो गुग्गुलुप्रक्षेपसहितः। सोष्णमिति सहशब्दः ईषदर्थे। खदिराष्टकं मसूर्यां वक्ष्यमाणम् इदमपि गुग्गुलुयुक्तमव पिबेत्॥

कुण्डलीपिचुमर्दाम्बुखदिरेन्द्रयवाम्बु वा।
विस्फोटान् नाशयत्याशु वायुर्जलधरानिव॥२६॥

कुण्डलीत्यादि— योगद्वयम्। कुण्डली गुडूची, अम्बु क्वाथः॥२६॥

चन्दनं नागपुष्पञ्च तण्डुलीयकशारिवे।
शिरीषवल्कलं जाती लेपः स्याद्वाहनाशनः॥२७॥

चन्दनमित्यादौशारिवा अनन्तमूलं, जात्यास्तु पत्रम्॥२७॥

शुकतरुनते व मांसी रजनी पद्मा च तुल्यानि।
पिष्टानि शीततोयेन लेपःस्यात् सर्वविस्फोटे॥२८॥

शुकतर्वित्यादि—वाग्भटस्य। शुकतरुः शिरीषः, नतं तगरपादिका। पद्मा ब्राह्मणयष्टिका। वाग्भटे तु “शुकतरुनते च मांसी” इत्यत्र “शुकतरुनतमाचीका” इति पाठः, माचीकञ्च देवदार्विति तट्टीका, तेन संग्रहे मांसीति पाठोलेखकदोषात्॥

शिरीषमूलमञ्जिष्ठाचव्यामलकयष्टिकाः।
सजातीपल्लवक्षौद्रा विस्फोटे कवडग्रहाः॥२६॥

शिरीषेत्यादौ— शिरीषमूलेत्यत्र शिरीषपूगेति पाठे पूगस्य फलम्। अत्र बहुवचननिर्देशात् प्रत्येकमप्येते कवडे योज्या इति वदन्ति। जातीपत्रक्षौद्रयोगश्च सर्वत्र विज्ञेयः॥२६॥

शिरीषोडुम्बरौ जम्बुः सेकालेपनयोर्हिताः।
श्लेष्मातकत्वचो वापि प्रलेपाश्च्योतने हिताः॥३०॥

शिरीषेत्यादि— आश्च्योतनं सर्वत्र चक्षुषि द्रवौषधिदानम्॥३०॥

दशाङ्गः।

शिरीषयष्टीनतचन्दनैलामांसीहरिद्राद्वयकुष्ठबालैः।

लेपो दशाङ्गः सघृतः प्रदिष्टो विसर्पकण्डूज्वरशोथहारी॥३१॥

शिरीषेत्यादौ—यष्टी यष्टीमधु, बालं ह्रीवेरम्॥३१॥

चतुःसमम्।

शिरीषोशीरनागाह्वहिंस्राभिर्लेपनाद् द्रुतम्।
विसर्पविषविस्फोटाः प्रशाम्यन्ति न संशयः॥३२॥

शिरीषेत्यादी— नागाह्वंनागकेशरचूर्णम्, हिंस्राकालाकडः॥३२॥

वृषाद्यं घृतम्।

वृषखदिरपटोलपत्रनिम्बत्वगमृतामलकीकषायकल्कैः।
घृतमभिनवमेतदाशु पक्वंजयति विसर्पगदान् सकुष्ठगुल्मान्॥३३॥

वृषाद्यघृते—निम्बत्वगमृतामलकीकषायकल्कैरित्यस्य स्थाने छन्दः पूरणार्थं निम्बत्वगभृताधात्रीकषायकल्कयुक्तमिति केचित् पठन्ति। अन्ये तु त्वगमृतकामलकीति पठन्ति, क्वचित्तु तामलकीति पाठः, तन्न, व्यवहाराभावात्॥३३॥

पञ्चतिक्तघृतम्।

पटोलसप्तच्छदनिम्बवासाफलत्रिकच्छिन्नरुहाविपक्वम्।
तत् पञ्चतिक्तं घृतमाशु हन्ति त्रिदोषविस्फोटविसर्पकण्डूः॥३४॥

पञ्चतिक्तघृते त्रिफलायाः कल्कः, शेषाणाञ्च कषाय इति व्यवहरन्ति वृद्धवैद्याः॥

महापद्मकघृतम्।

पद्मकं मधुकं लोध्रंनागपुष्पस्य केशरम्।
द्वे हरिद्रे विडङ्गानि सूक्ष्मैला तगरं तथा॥

कुष्ठं लाक्षा पत्रकञ्च सिक्थकं तुत्थमेव च।
बहुवारः शिरीषश्च कपित्थफलमेव च॥

तोयेनालोड्य तत् सर्वं घृतप्रस्थं विपाचयेत्।
यांश्च रोगान् निहन्त्याशु तान्निबोध महामुने!॥

सर्पकीटाखुदष्टेषु लूतामूत्रकृतेषु च।
विविधेषु स्फोटकेषु तथा दुष्टविसर्पिषु॥

नाडीषु गण्डमालासु प्रभिन्नासु विशेषतः।
अगस्त्यविहितं धन्यं पद्मकन्तु महाघृतम्॥३५॥

पद्मकघृते— नागपुष्पस्य केशरमिति नागकेशरचूर्णमित्यर्थः॥३५॥

स्नायुकचिकित्सा।

रोगस्तु स्नायुकाख्यो यः क्रिया तत्र विसर्पवत्।
गव्यं सर्पिस्त्र्यहं पीत्वा निर्गुण्डीस्वरसं त्र्यहम्॥
पिबन् स्नायुकमत्युग्रं हन्त्यवश्यं न संशयः॥३६॥

स्नायुकरोगचिकित्सामाह, रोगस्त्वित्यादि। स्नायुकरोगो नारुया नाम्ना पश्चिमदेशे ख्यातः। अयञ्च रोगो रुग्विनिश्चये नोक्तः।वृन्देन पुनरुक्तः, यथा— “शाखासु कुपितो वायुः शोथं कृत्वा विसर्पवत्। भित्त्वैवतं क्षते तत्र सोष्मा मांसं विशोष्य च कुर्य्यात्तन्तुनिभं सूत्रं तत् पिण्डैस्तक्राशक्तुजैः। लिप्तं शनैः क्षतादेति छेदात्तत् कोपमावंहत्। तत्पाताच्छोथशान्तिः स्यात् पुनः स्थानान्तरे भवेत्। रोगः स स्नायुको नाम्ना तन्तुकश्चप्रकीर्तितः” इति। शाखास्विति जद्वादिषु, तदिति सूत्रम्, तक्रशक्तुजैः पिण्डैर्लिप्तं सत् क्षतदिति निःसरति। कदाचिदभिघातादिना सूत्रच्छेदात्। तलातादिति तस्य सूत्रस्य स्वयमेव पातनात्। पियन्नित्यत्र पीतइति पाठेकर्तरि क्तः॥३६॥

शोभाञ्जनमूलदलैः काञ्जिकपिष्टैः सलवणैर्लेपः।
हन्ति स्नायुफरोगं यद्वा मोचत्वचो लेपः॥३७॥

शोभाजनेत्यादौ-मोचत्वचोलेप इति मोचं कदलीफलं कोण्टकं वा तस्य त्वक्।
इति विसर्पविस्फोटाधिकारविवृतिः।

<MISSING_FIG href=”../../../../../books_images/U-IMG-1700647992Capture.JPG”/>

अथ मसूरिकाचिकित्सा।

सर्वासां चमनं पथ्यं पटोलारिष्टवासकैः।
कषायैश्च वचावत्सयष्ट्याह्वफलकल्कितैः॥१॥

विस्फोटभेदत्वात् प्रायस्तुल्यचिकित्सितत्वाच्च मसूरीचिकित्सामाह, सर्वासामित्यादि। वासकैरित्यत्र कृतैरिति शेषः। तेन कषायैरित्यनेन सामानाधिकरण्यं न विरुध्यते। वत्स इन्द्रयवः। फलं मदनफलम्॥१॥

सक्षौद्रं पाययेद् ब्रह्म्या रसं वा हैलमोचिकम्।
वान्तस्य रेचनं देयं शमनञ्चावले नरे॥२॥

सक्षौद्रमित्यादि—रसमिति स्वरसम्, एतच्च वामकं विरेचकञ्च॥२॥

सुपवीपत्रनिर्यासं हरिद्वाचूर्णसंयुतम्।
रोमान्तीज्वरविस्फोटमसूरीशान्तये पिबेत्॥३॥

सुषवी कारवेल्लकः, एतदसोऽप्युभयभागदोषहरः॥३॥

उभाभ्यां हृतदोषस्य विशुध्यन्ति मसूरिकाः।
निर्विकाराचाल्पपूयाः पच्यन्ते चाल्पवेदनाः॥४॥

उभाभ्यामिति वमनविरेचनाभ्याम्॥४॥.

कण्टाकुम्भाडुमूलं क्वथनविधिकृतं हिङ्गुमाषैकयुक्तं।
पीतं बीजं जयाया सघृतमुषितवाः पीतमङ्घ्रिः शिकट्याः।

मध्यां मूलं शिफा वा मदनकुसुमजा सोषणा वाथ पूति-

योगा वास्याम्बुनैते प्रथममघगदे दृश्यमाने प्रयोज्याः॥५॥

मुष्टियोगमाह। कण्टाकुम्भाडुमूलमित्यादि कण्टाकुम्भाडुलता स्वनामख्याता। हिगुमाषैकयुक्तं पीतामति पूर्वेणैव सम्बध्यते। बीजं जयायाः सघृतभुषितवाः पीतमिति द्वितीयो योगः। जया जयन्ती, अस्याश्च बीजमुपदेशादेकाधिकषड्गण्डकं सघृतं पर्य्युषितजलेन पीतमित्याहुः। ये तु उषितवाः पीतमिति पदं जयाबीजमित्यनेन सह न योजयन्ति, तन्मते पीतमिति नपुंसकलिङ्गनिर्देशो नोपपद्यत इति, सामान्यविशेषभावेन योजनापि कष्टकल्पनैवेति। अंघ्रिः शिकट्या इति तृतीयो योगः। अत्राप्युषितवाः पीतमिति लिङ्गविपरिणामेन सम्वध्यते। अंघ्रिरिति मूलम्। शिकटी स्वनामख्यातैव। मध्या अपि तथैव च (मघी गुवाकस्तस्य मूलम्)। सोषणा समरिचा। एतच्च पूतिरित्यनेनैव सम्बध्यते। पूतिः खट्टाशिकाण्डम्। अन्ये तु मदनकुसुमजा शिफा सोषणा, पूतिर्नाटाकरञ्जोऽपि सोषण इति वदन्ति। अत्रापि मरिचमेकाधिकषड्गण्डकमित्युपदिशन्ति अघगदः पापरोगो मसूरी पर्य्याय एव॥४॥

उद्धृत्य मुष्टिनाच्छाद्य भेषजं यत् प्रयुज्यते।
तन्मुष्टियोगमित्याहुर्मुष्टियोगपरायणाः॥६॥

उष्ट्रकण्टकमूलं वाप्यनन्तामूलमेव वा।
विधिगृहीतं ज्येष्ठाम्बुपीतं हन्ति मसूरिकाम्।
तद्वच्छृगालकण्टकमूलञ्च व्युषिताम्भसा॥७॥

मुष्टियोगस्वरूपमाह उद्धृतेत्यादि। उष्ट्रकण्टकं स्वनामख्यातम्। (डंखुर इति केचित्) अनन्तामूलमनन्तमूलम्, ज्येष्ठाम्बु तण्डुलोदकम्। शृगालकण्टकमपि स्वनामख्यातम्॥६-७॥

मसूरीं मूर्च्छितो हन्ति गन्धकार्द्धस्तु पारदः।
निशाचिञ्चाच्छदे शीतवारिपीते तथैव तु॥८॥

मूर्च्छित इति कज्जलीकृतः। शोधितगन्धक कर्ष १, शोधितरस मा ८, कज्जलीकर्त्तव्या, अतो माषकचतुष्टयं षट्कं वा पर्णो कृत्वा खाद्यमिति व्यवहारः। ‘रुद्राक्षं मरिचैर्युक्तम्” इत्यादियोगः संग्रहे नास्ति॥निशेत्यादौ। छदः पत्रं छदशब्दस्य नपुंसकलिंगता छान्दसत्वात्, किंवा निशाचिञ्चाच्छदाविति पाठः, द्विवचनदर्शनात् पत्रद्वयं ग्राह्यमित्यन्ये॥८॥

यावत्संख्या मसूर्य्यङ्गे तावद्भिः शेलुजैर्दलैः।
छिन्नैरातुरनाम्ना तु गुडी व्येति न वर्द्धते॥६॥

यावदित्यादौ—शेलुर्बहुवारः, मसूरिकां गणयित्वा तावत्संख्यया आतुरनाम्ना पत्राणि छिन्द्यादित्यर्थः। गुडी मसूरिकेत्यर्थः॥६॥

व्युषितं वारि सक्षौद्रं पीतं दाहगुडीहरम्।
शेलुत्वकृतशीताम्भः सेकं वा कायशोषणे॥१०॥

शेलुत्वमित्यादि—शीताम्भः शीतकषायः, कायशोषण इति उच्छूनगात्रप्रदेशशोषणनिमित्तमित्याहुः। कायशोधनमिति पाठे शरीरमलक्तेदनिरासार्थमित्यर्थः, किंवा कायशब्देनोपचारान्मसूरिके वोच्यते॥१०॥

उग्राज्यवंशनीलि यववृषकर्षासकीकसब्रह्मी।
सुरसमयूरकलाक्षाधूपो रोमान्तिकादिहरः॥११॥

उग्रेत्यादौ—उग्रा वचा, आज्यं घृतं वृषस्य वासकस्य मूलं, कर्पासकीकसं कर्पासास्थि, सुरसः पर्णाशः, मयूरकोऽपामार्गः॥११॥

तर्पणं वातजायां प्राग् लाजचूर्णैः सशर्करैः॥
भोजनं तिक्तयूपैश्च प्रतुदानां रसेन वा॥१२॥

तर्पणमिति द्रवेणालोदिताः शक्तवः। तिक्तयूषैरिति तिष्ठद्रव्यकृतयूषैः। प्रतुदा पारावतादयः॥१२॥

द्विपञ्चमूलं रास्नाच दार्व्व्युशीरं दुरालभा।
सामृतं धान्यकं मुस्तं जयेद्वातसमुत्थिताम्।
गुडूचीमधुकं रास्नां पञ्चमूलं कनिष्ठकम्।
चन्दनं काश्मर्य्यफलं बलामूलं विकङ्कतम्॥

पाककाले मसूर्य्यान्तु वातजायां प्रयोजयेत्॥१३॥

द्विपञ्चमूलमित्यादियोगः क्वाथेन, एवं गुहूबीत्यादिकमपि॥१३॥

द्राक्षाकाश्मर्य्यखर्जूर-पटोलारिष्ट्रवासकैः।
लाजामलकदुःस्पर्शैः सितायुक्तैश्च पैत्तिके॥१४॥

द्राक्षेत्यादौ—सितायुक्तमित्यनन्तरं कषायमिति शेषः॥१४॥

शिरीषोदडुम्बराश्वत्थ-शेलुन्यग्रोधवल्कलैः।
प्रलेपः सघृतः शीघ्रं व्रणविस्फोटदाहहा॥१५॥

शिरीषेत्यादौशलुर्बहुवारः॥१५॥

दुरालभां पर्पटकं भूनिम्बंकटुरोहिणीम्।
श्लैष्मिक्यां पित्तजायां वा पाने निःक्वाथ्य दापयेत्॥१६॥

दुरालभामित्यादि—स्पष्टम्॥१६॥

निम्बादिः।

निम्बंपर्पटकं पाठां पटोलं कटुरोहिणीम्।
वासां दुरालभां धात्रीमुशीरं चन्दनद्वयम्॥

एषनिम्बादिकः ख्यातः पीतः शर्करया युतः।
हन्तिं त्रिदोषमसूरीं ज्वरविसर्पसम्भवाम्॥

उत्थिता प्रविशेद् या तु पुनस्तां वाह्यतो नयेत्॥१७॥

निम्बादिरपि क्वाथविधया देयः॥१७॥

पटोलकुण्डलीमुस्तवृषधन्वयवासकैः।
भूनिम्बनिम्बकटुका-पर्पटैश्च शृतं जलम्।
मसूरींशमयेदामां पक्वाञ्चैव विशोषयेत्।
नातः परतरं किञ्चिद्विस्फोटज्वरशान्तये॥१८॥

पटोलत्यादौ— कुण्डली गुडूची॥१८॥

पटोलमूलारुणतण्डुलीयकं पिबेद्धरिद्रामलकल्कसंयुतम्।
मसूरिविस्फोटविदाहशान्तये तदेव रोमान्तिवमिज्वरापहम्॥१६॥

पटोलमूलेत्यादि—क्वाथे हरिद्रामलकचूर्णं प्रक्षिप्य अनुलोमनार्थं पिबेत्॥१६॥

पटोलमूलारुणतण्डुलीयकं तथैव धात्रीखदिरेण संयुतम्।
पिबेज्जलं सुक्वथितं सुशीतं मसूरिकारोगविनाशनं परम्॥ २०॥

पटोलमूलेत्यादि—अरुणं लोहितं तण्डुलीयकम्। घात्रीखदिरेण संयुतमिति घात्रीखदिरावपि पटोलमूलारुणतण्डुलीयकाभ्यां सह क्वथनीयौ॥२०॥

खदिसष्टकः।

खदिरत्रिफलारिष्ट-पटोलामृतवासकैः।
क्वाथोऽष्टकाख्यो जयति रोमान्तिकमसूरिकाः।
कुष्ठवीसर्पविस्फोट कण्ड्वादीनपि पानतः॥२१॥

खदिरेत्यादौ—अष्टकाख्य इति खदिराष्टकसंज्ञः। अत्र शोधने कर्तव्ये गुग्गुलुमपि प्रक्षिपन्ति॥२१॥

अमृतादिकषायस्तु जयेत् पित्तकफात्मिकाम्॥२२॥

अमृतादिकषायो विसर्पोक्तोदशद्रव्यस्तस्यैव मसूरीहरत्वश्रुतेः, न तु ज्वराधिकारोक्तोऽमृतादिरिति॥२२॥

सौवीरेण तु सम्पिष्टं मातुलुङ्गस्य केशरम्।
प्रलेपात् पातयत्याशु दाहञ्चाशु नियच्छति॥२३॥

सौवीरेणेति काञ्जिकेन॥२३॥

पाददाहं प्रकुरुते पिडका पादसम्भवा।
तत्र सेकं प्रशंसन्ति बहुशस्तण्डुलाम्बुना॥२४॥

पाददाहमित्यादि—स्पष्टम्॥२४॥

पाककाले तु सर्वास्ता विशोषयति मारुतः।
तस्मात् संबृंहणं कार्य्यं न तु पथ्यं विशोषणम्॥२५॥

पाककाले वायुप्रशमनार्थं वृहणाहारमाह पाकेत्यादि—विशोषणेन पाकोन्मुखस्य दोषस्यान्तःप्रवेशाद्रुजाधिक्यं स्यादिति भावः॥२५॥

गुडूचीं मधुकं द्राक्षां मोरटं दाडिमैः सह।

पाककाले तु दातव्यं भेषजं गुडसंयुतम्।
तेन पाकंव्रजत्याशु न च वायुः प्रकुप्यति॥२६॥

गुडूचीमित्यादौ—मोरटभिक्षुमूलम्। एषां क्वाथः। गुडस्तु प्रक्षेप्यः॥२६॥

लिहेद्वा बादरं चूर्णंपाचनार्थंगुडेन तु।
अनेनाशु विपच्यन्ते वातपित्तकफात्मिकाः॥२७॥

लिहेद्वेत्यादि—स्पष्टम्॥२७॥

शूलाध्मानपरीतस्य कम्पमानस्य वायुना।
धन्वमांसरसाः शस्ता ईपत्सैन्धवसंयुताः॥२८॥

धन्वमांसरसा इति जाङ्गलपक्षिमांसरसाः॥२८॥

दाडिमाम्लरसैर्युक्तायूषाःस्युररुचौ हिताः।
पिबेदम्भस्तप्तशीतं भावितं खदिरासनैः॥२६॥

पिबेदम्भस्तप्तशीतमित्यर्द्धशृतं शीतञ्च, एवं वक्ष्यमाणयोगेऽपि। भावितं खदिरासनैरिति खदिरासनैः साधितं क्वाथमित्यर्थः। असनः पीतशालः, अशन एव इत्यन्ये॥२६॥

शौचेवारि प्रयुञ्जीत गायत्रीवहुवारजम्॥३०॥

शौच इत्यादौ—गायत्री खदिरः॥३०॥

जातीपत्रं समञ्जिष्ठं दार्वीपूगफलं शमीम्।
धात्रीफलं समधुकं क्वथितं मधुसंयुतम्।
मुखरोगे कण्ठरोगे गण्डूषार्थंप्रशस्यते॥३१॥

मुखान्तः संजातायां मसूरिकायां गण्डूषमाह—जातीपत्रमित्यादि॥३१॥

अक्ष्णोः सेकं प्रशंसन्ति गवेधुमधुकाम्बुना॥३२॥

अक्ष्णोरित्यादि— गवेधुमधुकाम्बुनेति—गवेधुको गुलुष्चः। अनयोः कल्कंकर्पटे बद्ध्वा प्रपीठ्याक्षिसेक कार्य्यः॥३२॥

मधुकं त्रिफला मूवा दार्वीत्वङ्नलिमुत्पलम्।
उशीरलोध्रमञ्जिष्ठाः प्रलेपाश्च्योतने हिताः।
नश्यन्त्यनेन दृग्जाता मसूर्य्यो न द्रवन्ति च॥३३॥

मधुकमित्यादौ—हिता इति बहुवचननिर्देशात व्यस्तैः समस्तैर्मधुकादिभिः प्रलेपः। अर्द्धशृतैश्च तैराश्च्योतनमित्याहुः। अश्च्योतनं परिषेकः॥३३॥

पञ्चवल्कलचूर्णेन क्लेदिनीमवचूर्णयेत्।
भस्मना केचिदिच्छन्ति केचिद्गोमयरेणुना॥३४॥

पञ्चवल्कलेत्यादौ— क्तेदिनींक्तेदयुक्तां मसूरीम्। भस्मनेति शुष्कगोमयभस्मना। गोमयरेणुनेति गोमयचूर्णेन वस्त्रच्छानितेन॥३४॥

क्रिमिपातभयाद्योऽपि धूपयेत् सरलादिना।
वेदनादाहशान्त्यर्थंस्रुतानाञ्च विशुद्धये॥३५॥

क्रिमीत्यादौ—सरलादिभिरिति सरलागुरुगुग्गुलुप्रभृतिभिः॥३५॥

सगुग्गुलुं वराक्वाथं युञ्ज्याद्वा खदिराष्टकम्।
कृष्णाभयारजो लिह्यान्मधुना कण्ठशुद्धये॥३६॥

सगुग्गुलुमित्यादि— सगुग्गुलुमित्युभयत्रापि सम्बन्ध्यते॥३६॥

अथाष्टाङ्गावलेहो वा कवडश्वार्द्रकादिभिः।
पञ्चतिक्तं प्रयुञ्जीत पानाभ्यञ्जनभोजनैः॥३७॥

अष्टांगावलेहार्द्रकादिकवडौज्वराधिकारोक्तौ। पञ्चतिक्तकघृतं कुष्ठोक्तम्॥३७॥

कुर्य्याद् व्रणविधानञ्च तैलादीन् वर्जयेच्चिरम्।
विषघ्नैः सिद्धमन्त्रैश्च प्रमृज्यात्तु पुनः पुनः।
तथा शोणितसंसृष्टाः काश्चिच्छोणितमोक्षणैः॥३८॥

कुर्यादित्यादौ—व्रणविधानं सुश्रुतोक्तम्॥३८॥

निशाद्वयोशीरशिरीषमुस्तकैः सलोध्रभद्रश्रियनागकेशरैः।
सस्वेदविस्फोटविसर्पकुष्ठ-दौर्गन्ध्यरोमान्तिहरः प्रदेहः॥३६॥

निशाद्वयेत्यादौ— भद्रश्रियं श्वेतचन्दनम्॥३३॥

विम्व्यतिमुक्तकाशोक-प्लक्षवेतसपल्लवैः।
निशि पर्युषितः क्वाथो मसूरीभयनाशनः॥४०॥

बिम्बीत्यादि—बिम्बी डुमरीति श्रीकण्ठः। अतिमुक्तको माधवीलता। योगोऽयमनागतमसूरीनिवारणार्थं चैत्रे मासि पेयः॥४०॥

मसूरीस्फोटयोरन्ते कूर्परे मणिबन्धके।
मुखांशफलके शोथो जायते यः सुदारुणः॥

व्रणशोथहरैर्योगैर्वातघ्नैश्च जलौकसा।
हर्त्तव्यस्तैलभृष्टस्य वृश्चिकस्य विलेपनैः॥४१॥

मसूरीत्यादि—स्पष्टम्॥४१॥

चैत्रासितभूतदिने रक्तपताकान्विता स्नुही भवने।
धवलितकलसन्यस्ता पापरुजो दूरतो धत्ते॥४२॥

चैत्रासितभूतदिन इति चैत्रकृष्णचतुर्दश्याम्॥४२॥

इति मसूरीचिकित्साविवृतिः।

<MISSING_FIG href=”../../../../../books_images/U-IMG-1700663761Capture.JPG”/>

अथ क्षुद्ररोगचिकित्सा।

तत्राजगल्लिकामामां जलौकाभिरुपाचरेत्।
शुक्तिसौराष्ट्रिकाक्षार-कल्कैश्चालेपयेन्मुहुः॥१॥

विसर्पादीनामक्षुद्रहेतुलक्षणचिकित्सितानामभिधानेन क्षुद्रहेतुलक्षणचिकित्सितानांरोगाणां पारिशेध्यात् क्षुद्ररोगचिकित्सितमुक्तम्। ननु यदि क्षुद्रत्वमेषां हेतुलक्षणचिकित्सिताल्पत्वेन तर्हि अग्निरोहिणीवल्मीकादीनां त्रिदोषजत्वेन हेत्वादिबाहुल्यात् तत् कथं क्षुद्रत्वम्? नैवं, वाहुल्येनतच्छब्दात् छत्रिणो गच्छन्तीतिवत्, किंवा अवान्तरभेदविरहत्वं क्षुद्रत्वं, येनात्र वक्तव्यानामजगल्लिकादीनां न दोषदूष्यादिकृतभूरिसंख्याभेदेन व्रणजादिवन्निर्देशः, किन्तु प्रत्येकं स्तोकसंख्ययाभिधानं तेषाम्। अजगल्लिका आंचलीतिलोकोआमामित्यपक्वां,वाग्भटेऽपि अपक्वमित्युक्तम्। शुक्तीत्यादिशुक्तिर्मुक्तोत्पत्तिभाण्डं, सौराष्ट्रिका सौराष्ट्रमृत, सुश्रुते तु सौराष्ट्रीस्थाने श्रुघ्निका पठ्यते, श्रुघ्निका सर्जिक्षारः। क्षारो यवक्षार इति॥१॥

नवीना कण्टकार्यास्तु कण्टकैर्वेधमात्रतः।
किमाश्चर्य्यंविपच्याशु प्रशाम्यत्यजगल्लिका॥२॥

नवीनेत्यादि— नवीना इति अजगल्लिका इत्यस्या विशेषणम्॥२॥

कठिनां क्षारयोगैश्च द्रावयेदजगल्लिकाम्।
श्लेष्मविद्रधिकल्केन जयेदनुशयीं भिषक्॥३॥

कठिनामित्यादि—क्षारयोगैरिति घण्टापारुल्यादियोगैः॥३॥

विवृतामिन्द्रवृद्धाञ्च गर्दभीं जालगर्दभम्।
इरिवेल्लिं गन्धमालां जयेत् पित्तविसर्पवत्॥
मधुरौपधसिद्धेन सर्पिषा शमयेद् व्रणान्॥४॥

मधुरौषधं काकोल्यादिगणः। व्रणानिति विवृतादीनेव गन्धमालान्तान् पाकेन मधुरौषधसिद्धेन सर्पिषा शमयदित्यर्थः। सुश्रुतेऽप्युक्तं—विवृतामिन्द्रवृद्धां गर्दभिकां जालगर्दभमिरिवेल्लिकां गन्धमालां विस्फोटकञ्च पित्तविसर्पविधानेनोपाचरेत्। पक्वाश्च मधुरौषधसिद्धेन सर्पिषा” इति॥४॥

रक्तावसेकैर्बहुभिः स्वेदनैरपतर्पणैः॥
जयेद्विदारिकां लेपैः शिग्रुदेवद्रुमोद्भवैः॥५॥

रक्तावसेकैरित्यादिना विदारिकाचिकित्सा॥५॥

पनसिकां कच्छपिकामनेन विधिना भिषक्॥
अन्त्रालजी कच्छपिकां तथा पापाणगर्दभम्।
साधयेत् कठिनानन्यान् शोथान् दोषसमुद्भवान्॥

सुरदारुशिलाकुष्ठैः स्वेदयित्वा प्रलेपयेत्।
कफमारुतशोथघ्नो लेपः पाषाणगर्द्दभे॥६॥

अनेन विधानेनेति विदारिकोक्तेन। अन्यान् शोथानिति पाषाणगर्दमादीन्। दोषसम्भवानिति योग्यतया कफवातजान् साधयेत्। पाषाणगर्दभो “गाण्ठाहुया” इति ख्यातः॥६॥

शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसाधयेत्॥७॥

वल्मीकचिकित्सामाह—शस्त्रेणेत्यादिना॥७॥

मनःशिलालभल्लातसूक्ष्मैलागुरुचन्दनैः।

जातीपल्लवकल्कैश्च निम्बतैलं विपाचयेत्।
वल्मीकं नाशयेत् तद्धि बहुच्छिद्रं बहुस्रवम्॥८॥

मनःशिलेत्यादौ— आलं हरितालम्। निम्बतैलमिति निम्बबीजभवतैलम्। बहुस्रवमिति बहुस्रावम्। सुश्रुते आलस्थाने पिप्पलीयोगादप्ययं योगः पठितः॥८॥

पाददारीषु च शिरां व्यधयेत्तलशोधनीम्।
स्नेहस्वेदोपपन्नौ तु पादौ चालेपयेन्मुहुः॥
मधूच्छिष्टवसामज्ज-घृतक्षारैर्विमिश्रितैः॥६॥

पाददारीष्वित्यादि— तलशोधनीमिति पादतलगामिनीम्। स्नेहस्वेदोपपन्नावित्यनन्तरं कृत्वेति शेषः। अन्ये तु शिराव्यधाङ्गीभूतस्नेहस्वेदौकृत्वा शिरां व्यधयेदिति बोध्यम्। एवमन्तरेण शिराव्यधस्यापवृत्तौ स्नेहस्वेदोपपन्नावित्यादिना तु पश्चात् कर्मोपदेशः दोषक्षयार्थं रक्ताकृष्टिजनितवातक्षयार्थं वेति। आलेपयेन्मधूच्छिष्टादिभिरित्यन्वयः। अत्र क्षीरविमिश्रितैरित्यपपाठः, सुश्रुते यवक्षारैरिति पाठात्॥

सर्जाख्यसिन्धूद्भवयोश्चूर्णं मधुघृताप्लुतम्।
निर्मथ्य कटुतैलाक्तंहितं पादप्रमार्जनम्॥१०॥

सर्जेत्यादि—सर्जो घूनकः। कटुतैलाक्तमिति कटुतैलयुक्तं यथा स्यात् तथा पादप्रमार्जनार्थं किंवा चूर्णावशेषणम्॥ १०॥

उपोदिकाक्षारतैलम्।

उपोदिकासर्षपनिम्बमोचकर्कारुकैर्वारुकभस्मतोये।
तैलं विपक्वं लवणांशयुक्तं तत् पाददारींविनिहन्ति लेपात्॥११॥

उपोदिकेत्यादि—उपोदिकानालं ग्राह्यम्। मोचकः कदलीकण्टः। कर्कारुः कूष्माण्डभेदः, एर्वारुः कर्कटी, अनयोर्नाडी। एषां क्षारोदके चतुर्गुणे सैन्धवकल्केन तैलं पक्तव्यम्। लेपादित्यतिघनत्वात्॥११॥

अलसेऽम्लैश्चिरं सिक्तौचरणौ परिलेपयेत्।
पटोलारिष्टकाशीशत्रिफलाभिर्मुहुर्मुहुः॥१२॥

अलसः’पाकोआना’इति ख्यातः। अम्लैरिति काञ्जिकैः। अरिष्टो निम्बः॥१२॥

करञ्जबीजं रजनी काशीशं मधुकं मधु।
रोचना हरितालञ्च लेपोऽयमलसे हितः॥१३॥

करञ्जेत्यादौ—रजनी हरिद्वा॥१३॥

लाक्षाभयारसालेपः कार्य्यं वा रक्तमोक्षणम्।
जातीपत्रञ्च सम्मर्द्य दद्यादलसके भिषक्॥१४॥

लाक्षेत्यादौ—रसो गन्धरसः॥ १४॥

बृहतीस्ससिद्धेन तैलेनाभ्यज्य बुद्धिमान्।
शिलारोचनकाशीशचूर्णैर्वा प्रतिसारयेत्॥१५॥

बृहतीत्यादि— बृहती कण्टकारी तस्याः स्वरसः तैलञ्चसार्षपं, सुश्रुतसंवादात्। प्रतिसारयेदिति घर्षयेत्॥१५॥

दहेत् कदरमुद्धृत्य तैलेन दहनेन वा॥१६॥

दहेदित्यादि—कदरं शस्त्रेणोद्धृत्य तप्ततैलन दहनेन वा दहेदित्यर्थः। दहनेनेत्यत्र मदनेनेति पाठे मदनःसिक्थकः तेनापि तप्तेन॥१६॥

चिष्पमुष्णाम्बुना खिन्नमुद्धृत्याभ्यज्य तं व्रणम्।
दत्त्वा सर्जरसं चूर्णं बद्ध्वा व्रणवदाचरेत्॥१७॥

चिष्पमिति—चिष्पमिह कुनखमभिप्रेतं न त्वंगुलीवेष्टनम्, उक्तरूपचिकित्सा

यास्तत्रानर्हत्वादिति केचित्। उष्णाम्बुना स्वेदनमिह मार्दवजननार्थं, मृदुत्वे सत्येव कुनखोत्कर्त्तनं कर्तृ शक्यमिति। यद्ध्वेति व्रणोक्तवन्धनविधिना, व्रणवदाचरेदिति व्रणहितैराचारादिभिरित्यर्थः॥१७॥

स्वरसेन हरिद्रायाः पात्रे कृष्णायसेऽभयाम्।
घृष्ट्वातज्जेन कल्केन लिम्पेच्चिम्पं पुनः पुनः॥१८॥

स्वरसनेत्यादौ—कृष्णायसे कान्तलौहपात्रे॥१८॥

चिप्पे सटङ्कणास्फोतामूललेपो नखप्रदः।
निम्बोदकेन वमनं पद्मिनीकण्टके हितम्॥१६॥

चिप्प इत्यादौ— आस्फोता हाफरमाली। योगोऽयं व्यस्तसमस्ततया व्यवह्रियते वृद्धैः। निम्बोदकेन निम्बक्वाथेन मदनफलादियुक्तेनेत्याहुः॥१६॥

निम्बोदककृतं सर्पिः सक्षौद्रं पानमिष्यते।
पद्मनालकृतः क्षारः पद्मिनीं हन्ति लेपतः॥२०॥

निम्बोदककृतमिति निम्बक्वाथसाधितम्॥२०॥

निम्बारग्वधकल्कैर्वा मुहुरुद्वर्त्तनं हितम्।
नीलीपटोलमूलाभ्यां साज्याभ्यां लेपनं हितम्॥
जालगर्दभरोगे तु सद्यो हन्ति चवेदनाम्॥२१॥

निम्बेत्यादि—निम्बारग्वधकषायञ्चोत्सादन इति यत् सुश्रुतेनोक्तम् अत्रापि कषायशब्दस्य कल्क एवार्थः। नीली नीलवुहा॥२१॥

अहिपूतनके धात्र्याः पूर्वं स्तन्यं विशोधयेत्।
त्रिफलाखदिरक्वाथैर्व्रणानां धावनं सदा॥२२॥

स्तन्यं विशोधयेदिति। पित्तश्लेष्महरैः स्तन्यशोधनद्रव्यैरित्यर्थः उक्तं हि— “तत्र धात्र्याः पयः शोध्यं पित्तश्लेष्महरौषधैः” इति॥२२॥

करञ्जात्रिफलातिक्तैःसर्पिः सिद्धं शिशोर्हितम्।
रसाञ्जनं विशेषेण पानालेपनयोर्हितम्॥२३॥

करञ्जेत्यादौ—तिक्तश्चरकोक्तस्तिक्तकगणः। अन्ये तु पटोलपत्रमाहुः॥२३॥

गुदभ्रंशे गुदं स्नेहैरभ्यज्याशु प्रवेशयेत्।
प्रविष्टे स्वेदयेच्चापि बद्धं गोष्फणया दृढम्॥२४॥

गुदभ्रंश इत्यादौ— स्नेहैरिति बहुवचनात् चतुर्भिरेव स्नेहैरित्यर्थः, किंवा गव्यवसया म्रक्षयेदिति वक्ष्यमाणयोगदर्शनादत्रापि स्नेहशब्देन गव्यवसैव ग्राह्या। गोष्फणा बन्धविशेषः, स हि सुश्रुते व्रणलेपबन्धबिधौ व्यक्तः। उक्तं हि “वर्चोगमनार्थ सच्छिद्रेण चर्मणास्य कौपीनबन्धः कार्य्यः” इति॥२४॥

कोमलं पद्मिनीपत्रं यः खादेच्छर्करान्वितम्।
एतन्निश्चित्य निर्दिष्टं न तस्य गुदनिर्गमः॥२५॥

कोमलमित्यादि—स्पष्टम्॥२५॥

वृक्षाम्लानलचाङ्गेरीबिल्वपाठायवाग्रजम्
तक्रेण शीलयेत् पायुभ्रंशार्त्तोऽनलदीपनम्॥२६॥

वृक्षाम्लं महार्द्रकम्। अनलश्चित्रकः। एषां कल्कं तक्रेण पिबेत्॥२६॥

गुदञ्च गव्यवसया म्रक्षयेदविशङ्कितः।
दुष्प्रवेशो विशत्याशु गुदभ्रंशो न संशयः॥२७॥

गुदमित्यादि—स्पष्टम्॥२७॥

मूषिकाणां वसाभिर्वा गुदे सम्यक् प्रलेपनम्।
स्विन्नमूषिकमांसेन चाथवा स्वेदयेद् गुदम्॥२८॥

स्विन्नमूषिकामांसेनेत्यत्र काञ्जिकेन स्विन्नं घृतेन मृष्टमित्याहुः॥२८॥

चाङ्गेरीघृतम्।

चाङ्गेरीकोलदध्यम्लनागरक्षारसंयुतम्।
घृतमुत्क्वथितं पेयं गुदभ्रंशरुजापहम्॥
शुण्ठीक्षारावत्र कल्कौ शिष्टन्तु द्रवमिष्यते॥२६॥

चाङ्गेरीघृते चाङ्गेर्य्याः स्वरसः, कोलस्य शुष्कबदरस्य क्वाथः, अम्लं दधि दध्यम्लम्। एभिस्त्रिभिर्द्रवैर्मिलित्वा चातुर्गुण्यम्। किंवा चाङ्गेरस्विरसः स्नेहसमः, स्वरसे क्षीरवद्विधिरिति वचनात्, दधिकोलरसौ तु मिलित्वा त्रिगुणौ, पूर्वेण व्यवहारः। नागरक्षारौ कल्को॥२६॥

मूषिकाद्यं तैलम्।

क्षीरे महत् पञ्चमूलं मूषिकामन्त्रवर्जिताम्।
पक्त्वा तस्मिन् पचेत्तैलं वातघ्नौषधसाघितम्॥
गुदभ्रंशमिदं तैलं पानाभ्यङ्गात् प्रसाधयेत्॥३०॥

क्षीर इत्यादौ—मूषिकागुडकमेकं ग्राह्यम्, पञ्चमूलस्य मिलित्वा प्रस्थ एकः क्षीरस्यापि एकः, तोयस्य प्रस्थद्वयम्। निःक्वाथ्य शेषः क्षीरप्रस्थःस्थाप्यः, अनेन तैलकुडवः साध्य इति कश्चित्। अन्ये तु “द्रव्यादष्टर्गुणं क्षीरं साधयित्वा चतुर्गुणम्।” क्षीरमित्यादिपरिभाषया क्षीरं साधयित्वा चतुर्गुणन तैलकुडवःसाध्य इत्याहुः। चक्रस्त्वाह अन्त्रवर्जितामिति ग्रहणयोग्यतोपदर्शनार्थम् तेन मूषिकामांसस्य पलान्यष्टौ, पञ्चमूलस्यापि क्षीरस्य प्रस्थः, तोयस्य प्रस्थत्रयम् शेषःक्षीरप्रस्थः तेन कुडवः साध्यः, एयमन्यत्रापि, पक्तेन क्षीरेण स्नेहसाधने एषैव व्यवस्थेति। व्यवहारः प्रायः प्रथमव्याख्ययैव। वातघ्नौषधं भद्रदार्वादिगणः स च कल्कः॥३०॥

स्वेदोपनाहौपरिवर्त्तिकायां कृत्वा समभ्यज्य घृतेन पश्चात्।
प्रवेशयेच्चर्म शनैः प्रविष्टैर्मांसैःसुखोष्णैरुपनाहयेच्च॥३१॥

स्वेदेत्यादौ—परिकार्तिकायां सर्पिषाअभ्यज्य अनन्तरं वातघ्नैर्माषादिभिः स्वेदं कृत्वा शाल्वणादिना च उपनाहनं कृत्वा च परिवर्त्तितं चर्म यथोक्तस्वेदादिना मृदूभूतं प्रवेशयेत् सम्यगानयेदित्यर्थः। प्रविष्टे च सुखोष्णैर्मासैरुपनाहयेत्। सुश्रुतेऽप्येवमेवोक्तम्॥३१॥

स्नेहस्वेदैस्तथैवैनां चिकित्सेदवपाटिकाम्॥३२॥

स्नेदेत्यादि— तथैवैनामित्यनेनावपाटिकायामप्युपनाहं चर्मानयनमातिदिशति॥३२॥

निरुद्धप्रकशे नाडींद्विमुखीं कनकादिजाम्।
क्षिप्त्वाभ्यक्त्वा चुल्लकादिस्नेहेन परिपेचयेत्।
तैलेन वा वचादारुकल्कैः सिद्धेन व त्र्यहात्॥
पुनः स्थूलतरा नाडी देया स्रोतोविशुद्धये॥३३॥

निरुद्धेत्यादौ— कनकादीत्यादिना शस्त्रपूतप्रभृतीनां प्रणम्। चुल्लको शुशू इति ख्यातो जलजन्तुः। आदिशब्दात् वराहादयः। त्र्यहादित्यत्र वीप्सा बोध्या, तेन त्र्यहात् त्र्यहात् प्रागुक्तनाध्यपेक्षया पुनः पुनः स्थूलतरा नाडीदेया। स्रोतोविशुद्धय इत्यत्र स्रोतोषिवृद्धय इति पाठः। यदाह सुश्रुतः एवमस्य स्रोतोद्वारं वर्द्धयेदिति ३३

शस्त्रेण सेवनीं त्यक्त्वा भित्त्वा व्रणवदाचरेत्।
स्निग्धञ्च भोजनं वद्धगुदेऽप्येष क्रियाक्रमः॥३४॥

शस्त्रेणेत्यादौ—व्रणवदिति सद्योव्रणवत्। स्निग्धञ्चभोजनमाचरेदित्यनेन सम्बध्यते। सुश्रुतेऽपि “निरुद्धप्रकशे स्निग्धञ्चाहारमुपसेवते।” इत्युक्तम्। एप क्रम इति निरुद्धप्रकशोक्तविधिः॥३४॥

चर्मकीलं जतुमणिं मशकांस्तिलकालकान्।
उद्धृत्यं शस्त्रेण दहेत् क्षाराग्निभ्यामशेषतः॥३५॥

जतुमणिजंरुडः। क्षाराग्निभ्यामिति अनवगाढक्षारेण, अवगढित्वग्निना॥३५॥

रुवुनालस्य चूर्णेन घर्षो मशकनाशनः।
निर्मोकभस्मघर्षाद्वा मशः शान्तिं व्रजेत् सदा॥२६॥

रुवुररण्डस्तस्य नालेन गृहीतं यच्चूर्णमिति शङ्खचूर्णम्, तेन घर्षो घर्षणमित्यर्थः। निर्मोक इति कृष्णसर्पनिर्मोकः॥३६॥

युवानपिडकान्यच्छनीलिकाव्यङ्गशर्कराः।
शिराव्यधैः प्रलेपैश्च जयेदभ्यञ्जनैस्तथा॥३७॥

पिडका यूनामाननपिडका युवानपिडका वर्णागम इत्यादि निरुक्तविधिना वर्णलोपः॥

लोध्रधान्यवचालेपस्तारुण्यपिडकापहः।
तद्वद्गोरोचनायुक्तं मरिचं मुखलेपनात्॥३८॥

लोध्रेत्यादौ— धान्यं धनीयकम्॥३८॥

सिद्धार्थकवचालोध्रसैन्धवैश्च प्रलेपनम्।
वमनञ्च निहन्त्याशु पिडकां यौवनोद्भवाम्॥३६॥

सिद्धार्थकेत्यादौ— सिद्धार्थकःगौरसर्षपः॥३९॥

व्यङ्गेषु चार्जुनत्वग्वा मञ्जिष्ठा वा समाक्षिका।
लेपः सनवनतो वा श्वेताश्वखुरजा मसी॥४०॥

व्यङ्गेष्वित्यादि—वाग्भटस्य। समाक्षिकेति अर्जुनत्वक् चापि सम्बध्यते। अर्जुनत्वक् वृक्षसम्बन्धादेव स्वयं शुष्का ग्राह्या। श्वेता श्वेतापराजिता, अश्वखुरः अश्वस्य धोटकस्य खुरः तयोर्मसी भस्म, अन्ये तु धवलघोटकखुरमसीत्याहुः॥४०॥

रक्तचन्दनमञ्जिष्ठा कुष्ठलोध्रप्रियङ्गवः।
वटाङ्कुरमसूराश्च व्यङ्गघ्ना मुखकान्तिदाः॥
व्यङ्गिनां लेपनं शस्तं रुधिरेण शशस्य च॥४१॥

रक्तचन्दनेत्यादौ— बहुवचनात् व्यस्तसमस्तमिति वदन्ति। वटांकुरा अभिनवपत्रमुकुलाः॥४१॥

केवलान् पयसा पिष्ट्वातीक्ष्णान् शाल्मलिकण्टकान्।
आलिप्तंत्र्यहमेतेन भवेत् पद्मोपमं मुखम्॥४२॥

केवलानित्यादौ—तीक्ष्णानित्यभिन्नान्॥४२॥

मसूरैः सर्पिषा पिष्टैर्लिप्तमास्यं पयोऽन्वितैः।
सप्तरात्राद्भवेद्वक्त्रं पुण्डरीकदलोपमम्॥४३॥

मसूरैरित्यादौ— सर्पिषेति विशेषणे तृतीया। पिष्टैरित्यर्थात् पयसैव पिष्टैरित्यर्थः। पिष्टैरित्यत्र भृष्टैरित्यपि केचित् पठन्ति। वाग्भटेऽप्युक्तं “क्षीरपिष्टा घृतक्षौद्रयुक्ता वा भृष्टनिस्तृषा मसूराः” इति॥४३

मातुलुङ्गजटा सर्पिः शिला गोशकृतो रसः।
मुखकान्तिकरो लेपः पिडकातिलकालाजत्॥४४॥

मातुलुङ्गस्य जटा मूलम्, शिला मनःशिला॥४४॥

नवनीतगुडक्षौद्र-कोलमज्जप्रलेपनम्।
व्यङ्गजिद्वरुणत्वग्वा छागीक्षीरप्रपेषिता॥४५॥

नवनीतेत्यादौ—कोलमज्जा वदरमज्जा। वरुणत्वग् वेति द्वितीयो योगः॥४५॥

जातीफलकल्कलेपो नीलीव्यङ्गादिनाशनः।
सायञ्च कटुतैलेनाभ्यङ्गो वक्त्रप्रसादनः॥४६॥

जातीफलेत्यादि— स्पष्टम्॥४६॥

कालीयकोत्पलामयदधिसरवदरास्थिमंध्यफलिनीभिः।
लिप्तं भवति च वदनं शशिप्रभं सप्तरात्रेण॥४७॥

कालीयकेत्यादौ— उत्पलं नीलोत्पलम्, आमयः कुष्ठम्,वदरास्थिमध्यं मज्जा,

फलिनी प्रियंगुः॥४७॥

तुषरहितमसृण्यवचूर्णसयष्टीमधुकलोध्रलेपेन।
भवति मुखं परिनिर्जितचामीकरचारुसौभाग्यम्॥४८॥

तुषेत्यादौ— चामीकरं सुवर्णम्॥४८॥

रक्षोघ्नशर्वरीद्वयं मञ्जिष्ठागैरिकाज्यवस्तपयः।
सिद्धेन लिप्तमाननमुद्यद्विधुबिम्बवद्विभाति॥४६॥

रक्षोघ्नः श्वेतसर्षपः, आज्यं घृतम् \। वस्तपयःसिद्धेनेति समासपदम्, रक्षोघ्नादिसिद्धेन लेपेनेत्यर्थः॥४६॥

परिणतदधिशरपुङ्खैः कुवलयदलकुष्ठचन्दनोशीरैः।
मुखकमलकान्तिकारी भ्रुकुटीतिलकालकान् जयति॥५०॥

परिणतेत्यादि—परिणतदधिप्रभृतिभिर्लेपः\। भ्रुकुटौललाटेवलीरूपा॥५०॥

हरिद्राद्यं तैलम्।

हरिद्राद्वययष्ट्याह-कालीयककुचन्दनैः।
प्रपौण्डरीकमञ्जिष्ठा-पद्मपद्मककुङ्कुमैः॥

कपित्थतिन्दुकप्लक्ष-वटपत्रैः पयोऽन्वितैः।
लेपयेत् कल्कितैरेभिस्तैलं वाभ्यञ्जनं चरेत्॥

पिप्लवं नीलिकाव्यङ्गांस्तिलकान् मुखदूषिकान \।
नित्यसेवी जयेत् क्षिप्रं मुखं कुर्य्यान्मनोरमम्॥५१॥

हरिद्रादौ—कुचन्दनं चन्दनभेदः, पद्मं पद्मपुष्पम्। पत्रशब्दःकपित्यादिभिः प्रत्यकं सम्बध्यते। लेपपक्षे पयसैव पेषणम्। तैलपाकपक्षं हरिद्रादीनां कल्कः, क्षीरन्तु चतुर्गुणम्। पिप्लवमिति जटुलम्॥५१॥

कनकतैलम्।

मधुकस्य कषायेण तैलस्य कुडवं पचेत्।
कल्कैः प्रियङ्गमञ्जिष्ठा-चन्दनोत्पलकेशरैः।
कनकं नाम तत्तैलं मुखकान्तिकरं परम्।
अभीरुनीलिकाव्यङ्गशोधनं परमर्चितम्॥५२॥

मधुकस्येत्यादौ—केशरं नागकेशरम्।अभीरु जटुलम्॥४२॥

मञ्जिष्ठाद्यं तैलम्।

मञ्जिष्ठा मधुकं लाक्षा मातुलुङ्गं सयष्टिकम्।
कर्षप्रमाणैरेतैस्तु तैलस्य कुडवं तथा॥

आजं पयस्तद्द्विगुणं शनैर्मृद्वग्निना पचेत्।
नीलिकापिडकाव्यङ्गानभ्यङ्गादेव नाशयेत्॥

मुखं प्रसन्नोपचितं बलीपलितवर्जितम्।
सप्तरात्रप्रयोगेण भवेत् कनकसन्निभम्॥५३॥

मञ्जिष्ठेत्यादौ—मातुलुङ्गस्य मूलम्। मधुकं सयष्टिकमिति पदद्वयोपादानात् जलस्थलभेदेन यष्टिमधुद्वयमिह ग्रहणमिति ज्ञेयम्॥५३॥

कुङ्कुमाद्यं तैलम्।

कुङ्कुमं चन्दनं लाक्षा मञ्जिष्ठा मधुयष्टिका।
कालीयकमुशीरञ्च पद्मकं नीलमुत्पलम्।
न्यग्रोधपादाः प्लक्षस्य शुङ्गाः पद्मस्य केशरम्।
द्विपञ्चमूलसहितैः कषायैः पलिकैः पृथक्॥

जलाढकं विपक्तव्यं पादशेषमथोद्धरेत्।
मञ्जिष्ठा मधुकं, लाक्षा पत्तङ्गं मधुयष्टिका॥

कर्षप्रमाणैरेतैस्तु तैलस्य कुडवं पचेत्।
अजाक्षीरं तद्द्विगुणं शनैर्मृद्वग्निना पचेत्॥

सम्यक् पक्वंपरं ह्येतन्मुखवर्णप्रसादनम्।
नीलिकापिडकाव्यङ्गानभ्यङ्गादेव नाशयेत्॥

सप्तरात्रप्रयोगेण भवेत् काञ्चनसन्निभम्।
कुङ्कुमाद्यमिदं तैलमश्विभ्यां निर्मितं पुरा॥५४॥

कुंकुममित्यादौ—न्यग्रोधस्य वटस्य पादाः शुङ्गाः, प्लक्षः पाकुडी। कषायैरिति कषायसाधनैः कुंकुमरक्तचन्दनादिभिः पञ्चवल्कलैरित्यन्ये। पत्तङ्गं रक्तचन्दनम्। द्विपञ्चमूलसहितैरित्यत्र पद्मकिञ्जल्कसहितैरिति केचित् पठन्ति;वाग्भटेऽपि दशमूलं विना योगोऽयं दृश्यते, एवं चन्द्राटेऽपि, तेनापि योगान्तरत्वम्॥४४॥

कुङ्कुमाद्यंतैलम्।

कुङ्कुमं चन्दनं लाक्षा मञ्जिष्ठा मधुयष्टिका।
कर्षप्रमाणैरेतैस्तु तैलस्य कुडवं पचेत्।
अजाक्षीरं तद्द्विगुणं शनैर्मृद्वग्निना पचेत्॥

सम्यक् पक्वंपरं ह्येतन्मुखकान्तिप्रसादनम्।
नीलिकापिडकाव्यङ्गानभ्यङ्गादेव नाशनम्॥

सप्तरात्रप्रयोगेण भवेत् काञ्चनसन्निभम्॥५५॥

द्वितीयकुङ्कुमाद्यं तैलमाह कुङ्कुममित्यादि—स्पष्टम्॥५५॥

कुङ्कुमाद्यं तैलम्।

कुक्कुमं किंशुकं लाक्षा मञ्जिष्ठा रक्तचन्दनम्।
कालीयकं पद्मकञ्च मातुलुङ्गं सकेशरम्॥

कुसुम्भं मधुयष्टीकं फलिनी मदयन्तिका।
निशे द्वे रोचनापद्ममुत्पलञ्च मनःशिला॥

काकोल्यादिसमायुक्तैरेतैरक्षसमैर्भिषक्।
लाक्षारसपयोभ्याञ्च तैलप्रस्थं विपाचयेत्॥

कुङ्कुमाद्यमिदं तैलञ्चाभ्यङ्गात् काञ्चनोपमम्।
करोति वदनं सम्यक् पुष्टिलावण्यकान्तिदम्॥

सौभाग्यलक्ष्मीजननं वशीकरणमुत्तमम्॥५६॥

तृतीयकुङ्कुमाद्यतैलं किंशुकः पलाशस्तस्य पुष्पं ग्राह्यम्। मातुलुङ्गं सकेशरमिति मातुलुङ्स् मूलं केशरञ्चेत्याहुः। मदयन्ती मल्लिकाभेदः। काकोल्यादिः सौश्रुतगणः, अष्टवर्ग इत्यन्ये। लाक्षारसपयसी मिलित्वा तैलाच्चतुर्गुणे॥५६॥

वर्णकं घृतम्।

मधुकं चन्दनं कङ्गुःसर्षपं पद्मकं तथा।
कालेयकं हरिद्रा च लोध्रमेभिश्च कल्कितैः।
विपचेद्धि घृतं वैद्यस्तत्पक्वंवस्त्रगालितम्।
पादांशं कुंकुमं सिक्थं क्षिप्त्वा मन्दानले पचेत्॥

तत् सिद्धं शिशिरे नीरे प्रक्षिप्याकर्षयेत्ततः।
तदेतद्वर्णकं नाम घृतं वर्णप्रसादनम्॥

अनेनाभ्यासलिप्तं हि वलीपलितनाशनम्।
निष्कलङ्केन्दुबिम्बाभं स्वाद्विलासवतीमुखम्॥५७॥

मधुकमित्यादौ—कंगुः कायोनीसंज्ञकं तृणधान्यम्। वस्त्रगालितमिति किञ्चिज्जलसम्बन्धे सत्येव वस्त्रेण गालनीयम् ततो मिलित्वा घृतात् पादांशं कुंकुमं सिक्थकञ्च कल्कं प्रक्षिप्य मृदग्निना पुनरप्यवधानेन जलक्षयपर्य्यन्तं पक्तव्यं यथा सिक्थदाहो न स्यात्, सिद्धे च तद्घृतपात्रं शीतलजले निक्षिप्य शीतीभूते आकर्षयेत् तथा सति सिक्थकस्य दाहो न स्यादिति भावः॥५७॥

अरुंषिकायां रुधिरेऽवसिक्तेशिराव्यधेनाथ जलौकसा वा।
निम्बाम्बुसिक्तेशिरसि प्रलेपो देयोऽश्ववर्चो रससैन्धवाभ्याम्॥५८\।\।

अरुंषिकायामित्यादौ—निम्बाम्बुअर्द्धश्वतो निम्बक्वाथः॥५८॥

पुराणमपि पिण्याकं पुरीषं कुक्कुटस्य वा।
मूत्रपिष्टं प्रलेपोऽयं शीघ्रं हन्यादरुंषिकाम्॥
अरुंषिघ्नं भृष्टकुष्ठचूर्णंंतैलेन संयुतम्॥५६॥

पुराणमित्यादि—योगद्वयम्, अतएव वाशब्दः। पिण्याकस्तिलखली, एकयोगताप्यायुर्वेदसंवादात्। भृष्टकुष्ठचूर्णमिति कपाले भृष्ट्वा दग्ध्वा चूर्णं कर्त्तव्यमित्यर्थः॥

हरिद्राद्यं तैलम्।

हरिद्राद्वयभूनिम्ब-त्रिफलारिष्टचन्दनैः।
एतत् तैलमरुंषीणां सिद्धमभ्यञ्जने हितम्॥६०॥

हरिद्वाद्ये तैले—हरिद्राद्वयं हरिद्रा, दारुहरिद्रा च। भूनिम्बःकिराततिक्तः॥६०

दारणे तु शिरां विध्येत् स्निग्धां स्विन्नां ललाटजाम्।
अवपीडा शिरोवस्तीनभ्यङ्गांश्चावचारयेत्॥६१॥

दारण इति उक्थिकायाम्। अवपीडा नस्यभेदः। शिरोवस्तिश्च द्विहरिद्रातैलन देय इत्याहुः॥ ६३॥

कोद्रवाणां तृणक्षार पानीयं परिधावने।
कार्य्योदारणके मूर्ध्नि प्रलेपो मधुसंयुतः॥६२॥

कोद्रवाणामित्यादि—स्पष्टम्॥६२॥

पियालबीजमधुक–कुष्ठमिश्रैः ससैन्धवैः।
काञ्जिकस्थाःत्रिसप्ताहं माषा दारणकापहाः॥६३॥

पियालबीजमधुककुष्ठानि मिश्राणि चेति विग्रहं कृत्वा समाधेयम्, मिश्रैरित्यत्र स्थाने माषैरित्यपि पाठान्तरम्॥६३॥

सह नीलोत्पलकेशरयष्टीमधुकतिलैः सदृशमामलकम्।
चिरजातमपि च शीर्षे दारणरोगं शमं नयति॥६४॥

सहेत्यादौ—नीलोत्पलस्य केशरं किञ्जल्कः। सदृशमिति तुल्यम्॥६४॥

त्रिफलाद्यं तैलम्।

त्रिफलाया रजो मांसी मार्कवोत्पलशारिवैः।
ससैन्धवैः पचेतै्तलमभ्यङ्गादुक्थिकां जयेत्॥६५॥

त्रिफलाया इत्यादौ—मार्कवो मृङ्गराजः, उत्पलशारिवा अनन्तमूलम् छान्दसत्वाद्ध्रस्वः, अन्येतु उत्पलं नीलोत्पलं शारिवा च इत्याहुः॥६५॥

चित्रकाद्यं तैलम्।

चित्रकं दन्तिमूलञ्च कोषातकीसमन्वितम्।
कल्कं पिष्ट्वापचेत्तैलं केशदद्रुविनाशनम्॥६६॥

चित्रकमित्यादौ—कोषातकी घोषकः॥६६॥

गुञ्जाद्यं तैलम्—गुञ्जाफलैः शृतं तैलं भृङ्गराजरसेन तु।

कण्डूदारणहृत् कुष्ठ-कपालव्याधिनाशनम्॥६७॥

भृङ्गराजरसेनेति चतुर्गुणेनत्यर्थः॥६७॥

भृङ्गराजतैलम्।

भृङ्गरजत्रिफलोत्पलशारि-लौहपुरीषसमन्वितकारि।
तैलमिदं पच दारणहारि कुञ्चितकेशघनस्थिरकारि॥६८॥

भृङ्गरज इत्यादौ—भृङ्गरजा भृङ्गराजस्तस्य रसश्चतुर्गुणः, पाकार्थत्वात्। भृङ्गरजः शब्दोऽप्यस्ति, यथा “ये माषमेकं स्वरसं पिबन्ति दिने दिने भृङ्गरजः समुत्थम्” इति त्रिफलादीनां कल्कः। उत्पलं नीलोत्पलम्, शारि शारिवा अनन्तमूलम्, समन्वितकारः सहकारः समन्वितशब्दस्य सहार्थत्वात् अस्य च फलमध्यं ग्राह्यं केश्यत्वात् कृष्णीकरणत्वाच्च। भृङ्गराजादिसमन्वितकारान्तं द्रव्यमस्मिन्नस्तीति इन् तैलविशेषणमेतत्। अन्ये तु भृङ्गराजादि सर्वं द्रव्यं कल्कं जलेन पाकः, उत्पलशारिवा अनन्तमूलम्, भृङ्गरजः समन्वयं कर्त्तुं शीलमस्येति तैलविशेषणमिति। व्यवहारस्तु पूर्वव्याख्ययैव। कुञ्चितकेशघनस्थिरकारीति केशस्य कुञ्चितत्वघनत्वकारीत्यर्थः। कुञ्चितशब्दः पूर्वनिपातश्छन्दसत्वात्॥६८॥

प्रपौण्डरीकाद्यं तैलम्

प्रपौण्डरीकमधुक-पिप्पलीचन्दनोत्पलैः।
कार्षिकैस्तैलकुडवं तैर्द्विरामलकीरसः।
साध्यः सप्रतिमर्षः स्यात् सर्वशीर्षगदापहः॥६६॥॥

प्रपौण्डरीकेत्यादौ—तैलापेक्षया द्विगुणेनामलकरसेनैव पाकः। प्रतिमर्षो नस्यभेदः। सप्रतिमर्ष इति प्रतिमर्षविधिना उपयुक्त इत्यर्थः॥६६॥

मालत्याद्यं तैलम्।

मालतीकरवीराग्नि-नक्तमालविपाचितम्।
तैलमभ्यञ्जने शस्तमिन्द्रलुप्तापहं परम्।
इदं हि त्वरितं हन्ति दारणं नियतं नृणाम्॥७०॥

मालतीत्यादि—मालती जाती, अग्निश्चित्रकः। अत्र गोमूत्रेण पाक इति श्रीकण्ठः॥७०॥

धात्र्याम्रमज्जलेपात् स्यात् स्थिरता स्निग्धकेशता॥७१॥

धात्रीत्यादौ—मज्जशब्देनाम्रेणैव सम्बन्धः, आम्रमजा तु बालाम्नास्थि॥७१॥

इन्द्रलुप्ते शिरां विद्ध्वा शिलाकाशीशतुत्थकैः॥

लेपयेत् परितः क़ल्कैस्तैलञ्चाभ्यञ्जने हितम्।
कुटन्नटं शिखीजातीकरञ्जकरवीरजैः॥७२॥

इन्द्रलुप्त इत्यादौ—शिरामिंति इन्द्रलुप्तसन्निहितां शिराम्। तैलञ्चाभ्यञ्जने हितमिति। कुटन्नटादिकरवीरान्तैः कल्कैः सिद्धं तैलमित्यर्थः। कुटन्नटमिति कुटन्नटं कैवर्त्तमुस्तकम्, शिखी चित्रकः। अन्ये तु कुटन्नटमिति छेदः, विच्छेदपाठात् कुटन्नटं विनापि चित्रकादिद्रव्यचतुष्टयेन तैलसाधनं सूचयन्ति, व्याख्यानयन्ति च शिखीति दीर्घपाठश्छान्दसत्वात् समर्थनीयः। अन्ये तु कुटन्नटादिभिरपि लेप एव, तैलन्तु पूर्वोक्तमालतीकरवीरादिसिद्धमेव बोध्यमित्याहुः॥७२॥

अवगाढपदञ्चैवप्रच्छयित्वा पुनः पुनः।
गुञ्जाफलैश्चिरं लिम्पेत् केशभूमिं समन्ततः॥७३॥

अवगाढेत्यादि—अवगाढपदमिति गम्भीरपदं यथा स्यात् तथा सूचीनखरञ्जन्यादिभिः प्रच्छयित्वा रक्तगुञ्जलाफलैः पुनः पुनर्लिम्पेत्॥७३॥

हस्तिदन्तमसीं कृत्वा मुख्यञ्चैव रसाञ्जनम्।
लोमान्यनेन जायन्ते नृणां पाणितलेष्वपि॥७४॥

हस्तिदन्तेत्यादौ। मुख्यमित्यकृत्रिमम्—तेन दार्वीक्वाथोद्भवरसाञ्जननिषेधः। अत्र जलेन पेषणं बोध्यं द्रव्यान्तरस्यानुक्तेः। अतएव वक्ष्यमाणेन छागीक्षीररसाञ्जेनेत्यादिना अस्य न पौरुरुक्त्यम्॥७४॥

भल्लातकबृहतीफलगुञ्जामूलफलेभ्य एकेन।
मधुसहितेन विलिप्तं सुरपतिलुप्तं शमं याति॥७५॥

भल्लातकेत्यादौ—भल्लातकबृहतीफलयो रमः। उक्तं हि वाग्भटे “सक्षौद्रक्षुद्रवार्ताकुस्वरसेन रसेन वा। धुस्तूरस्य च पत्राणां भल्लातकरसेन वा” इति॥७५॥

बृहतीफलरसपिष्टं गुञ्जाफलमूलञ्चेन्द्रलुप्तस्य।
कनकनिघृष्टस्य सतो दातव्यं प्रच्छितस्य सदा॥७६॥

बृहतीत्यादौ—पक्वबृहतीफलरसस्तेन पिष्टं गुञ्जाया मूलं फलं वा। कनकनिघृष्टस्येति कनकं सुवर्णं धुस्तूरस्य मूलं वा। प्रच्छितस्येति नखरञ्जन्यादिना विलिखितस्य॥७६॥

घृष्टस्य कर्कशैःपत्रैरिन्द्रलुप्तस्य गुण्डनम्।
चूर्णितैर्मरिचैः कार्य्यमिन्द्रलुप्तविनाशनम्॥७७॥

घृष्टस्येत्यादौ—गुण्डनमित्यवचूर्णनम्॥७७॥

छागक्षीररसाञ्जनपुटदग्धगजेन्द्रदन्तमसीलिप्ताः।
जायन्ते सप्तरात्रात् खल्ल्यामपि कुञ्चिताश्चिकुराः॥७८॥

छागक्षीरेत्यादि—स्पष्टम्॥७८॥

मधुकेन्दीवरमूर्वातिलाज्यगोक्षीरभृङ्गलेपेन।
अचिराद्भवन्ति केशा घनदृढमूलायतानृजवः॥७९॥

मधुकेत्यादौ— इन्दीवरं नीलोत्पलम्, भृंगो भृंगराजः। अनृजवः कुटिलाः॥७९॥

स्नुह्याद्यं तैलम्।

स्नुहीपयः पयोऽर्कस्य मार्कवो लाङ्गलीविषम्।

मूत्रमाजं सगोमूत्रं रक्तिका सेन्द्रवारुणी॥
सिद्धार्थंतीक्ष्णतैलञ्च गर्भं दत्त्वा विपाचितम्।
वह्निना मृदुना पक्वंतैलं खालित्यनाशनम्।
कूर्मपृष्ठसमानापि रूक्षा या रोमतस्करी।
दिग्धा सानेन जायेत ऋक्षशारीव लोमशी॥७६॥

स्नुहीत्यादौ— मार्कवो भृंगराजः, लांगलीविषं विषलांगलियामूलाख्यं विषं किंवा लांगली च विषञ्चेति द्रव्यद्वयम्। रक्तिका गुञ्जिका, तस्या मूलं, फलमित्यन्ये। इन्द्रवारुणी गोरक्षकर्कटी, सिद्धार्थं श्वेतसर्षपः, तीक्ष्णतैलं, सार्षपतैलं, ज्योतिष्मतीमूलं फलमित्यन्ये। सिद्धार्थतीक्ष्णतैलमिति समस्तपाठपक्षे तीक्ष्णमिति तैलविशेषणम्। अभर्जितस्य सर्षपस्य तैलं ज्ञेयम्। अजामूत्रगोमूत्रे मिलित्वा चतुर्गुणे, शेषः कल्कः। दिग्धा इति म्रक्षिता। ऋक्षस्य भल्लूकस्य शारी पोथिका इव॥७९॥ क॥

आदित्यपाकगुडूचीतैलम्।

वटावरोहकेशिन्योश्चूर्णेनादित्यपाचितम्।
गुडूचीस्वरसे तैलञ्चाभ्यङ्गात् केशरोपणम्॥५०॥

वटावरोहेत्यादौ—केशिनी भूतकेशी मांसी वा एतयोश्चूर्णं तैलात् पादिकं कल्कत्वात्, गुडूचीरसस्तु तैलसमः आदित्यपाकत्वात्॥८०॥

चन्दनाद्यं तैलम्।

चन्दनं मधुकं मूर्वा त्रिफला नीलमुत्पलम्।
कान्ता वटावरोहश्च गुडूची विसमेव च॥

लौहचूर्णं तथा केशी शारिवे द्वे तथैव च।
मार्कवस्वरसेनैव तैलं मृद्वग्निना पचेत्॥

शिरस्युत्पतिता केशा जायन्ते घनकुञ्चिताः।
दृढमूलाश्च स्निग्धाश्च तथा भ्रमरसन्निभाः॥

नस्येनाकालपलितं निहन्यात्तैलमुत्तमम्॥८१॥

चन्दनमित्यादौ— कान्ता प्रियंगुः, विसं मृणालं, केशी भूतकेशी, मार्कवरसश्चतुर्गुणः

तैलं सयष्टिमधुकैः क्षीरे धात्रीफलैः शृतम्।
नस्ये दत्तं जयनति केशान् श्मश्रूणि चाप्यथ॥८२॥

तैलमित्यादौ— क्षीरमेव चतुर्गुणं द्रवान्तराभावात्॥८२॥

त्रिफला नीलिनीपत्रं लौहभृङ्गरजः समम्।
अविमूत्रेण संयुक्तं कृष्णीकरणमुत्तमम्॥८३॥

त्रिफलेत्यादौ— नीलिनी लतावेणीति प्रसिद्धा, तस्याः पत्रं, लौहभृङ्गरजसोश्चूर्णमित्यर्थः। अविमूत्रेण संयुक्तमिति भावितम् शिरोलेपोऽयं प्रहरौत्रीन्वा धार्यः, एवमन्यत्रापि शिरोलेपनधारणम्॥८३॥

त्रिफलाचूर्णसंयुक्तं लौहचूर्णंविनिक्षिपेत्।
ईषत्पक्वेनारिकेले भृङ्गराजरसान्विते॥

मासमेकन्तु निक्षिप्य सम्यग्गर्भात् समुद्धरेत्।
ततः शिरो मुण्डयित्वा लेपं दद्याद्भिषग्वरः॥

संवेष्ट्य कदलीपत्रैर्मोचयेत् सप्तमे दिने।
क्षालयेत् त्रिफलाक्वाथैः क्षीरमांसरसाशिनः।
कपालरञ्जनञ्चैतत् कृष्णीकरणमुत्तमम्॥८४॥

त्रिफलेत्यादौ—गर्भादिति नारिकेलोदरात्। गर्त्तादिति च पाठे स एवार्थः॥८४॥

उत्पलं पयसा सार्द्धं मासं भूमौ निधापयेत्।
केशानां कृष्णकरणं स्नेहनञ्च विधीयते॥८५॥

उत्पलमित्यादौ— उत्पलं नीलोत्पलं, मासं भूमौ निधापयेदिति लौहपात्रे कृत्वा भूम्यधः स्थापयेदित्यर्थः॥८५॥

भृङ्गपुष्पं जवापुष्पं मेषीदुग्धप्रपेषितम्।
तेनैवालोडितं लौहपात्रस्थं भूम्यधः कृतम्॥

सप्ताहादुद्धृतं पश्चाद् भृङ्गराजरसेन तु।
आलोड्याभ्यज्य च शिरो वेष्टयित्वा वसेन्निशाम्॥

प्रातस्तु क्षालनं कार्यमेवं स्यान्मूर्द्धरञ्जनम्।
एवं सिन्दूरबालाम्रशङ्खभृङ्गरसैः क्रिया॥८६॥

अभ्यज्येति भृङ्गराजरसालोडितेन भृङ्गराजपुष्पादिना प्रक्षयित्वेत्यर्थः, वेष्टयित्वा इति कदलीपत्रेणेति शेषः। शिरःप्रक्षालनञ्च त्रिफलाक्वाथेन वदन्ति। बालाम्रं बालाम्रबीजं, शङ्खः शङ्खनाभि एवमित्यनेन सिन्दूरादित्रयेऽपि पूर्ववन्मेषदुग्धपेषणादिकमतिदिशन्ति। भृंगरसैरिति भृंगराजरसोऽपि आलोडनार्थम्, एवं तच्च यद्यपि एवमित्यतिदेशेनैव लभ्यते तथापि स्पष्टार्थमुक्तम्॥८६॥

नरदुग्धशङ्खचूर्णं काञ्जिकसिक्तंहि सीसकं घृष्ट्वा।
लेपात् कचानर्कदलावनद्धान् शुभ्रान् करोति नलितरान्॥८७॥

नरेत्यादि— अत्र किश्चित् पारदं गृहीत्वा आवर्त्यमाने सीसके प्रक्षिपेत् ततस्तेन सह एकीभूतं सीसकं दृष्ट्वा शिरसि लेपो देय इत्युपदिशन्ति वृद्याः। अर्कदलावनद्धमित्यर्कपत्रेण पिधाय बन्धनमित्यर्थः॥८७॥

लोहमलामलकल्कैः सजवाकुसुमैर्नरः सदा स्नायी।
पलितानीह न पश्यति गङ्गास्नायीव नरकानि॥८८॥

लौहमलेत्यादौ— आमलकं धात्रीफलं, जवाकसुमं ओड्रपुष्पम्॥८८॥

निम्बस्य बीजानि हि भावितानि भृङ्गस्य तोयेन तथाशनस्य।
तैलन्तु तेषां विनिहन्ति नस्याद् दुग्धान्नभोक्तुः पलितं समूलम्॥६॥

निम्बस्येत्यादि—अशनः पीतशालः। भावना च प्रत्येकं सप्ताहम्॥८६॥

निम्बस्य तैलं प्रकृतिस्थमेव नस्ते निषिक्तंविधिना यथावत्।
मासेन गोक्षीरभुजो नरस्य जराग्रभूतं पलितं निहन्ति॥१०॥

निम्बतैलं निम्ब

वीजस्य तैलं, प्रकृतिस्थमेवेति भृङ्गराजरसादिभावनारहितम्। विधिनेति नस्योक्तविधिना। जराग्रभूतमिति जरागमनसूचकम्॥१०॥

क्षीरात् समार्कवरसाद् द्विप्रस्थे मधुकात् पले।
तैलस्य कुड

वं पक्वंतन्नस्यं पलितापहम्॥११॥

क्षीरादित्यादि—क्षीरभृंगराजरसयोर्मिलित्वा प्रस्थद्वयम्, निर्देशस्य मानप्रधानत्वात्। मधुकात् पले इति सप्तम्येकवचनम्, न तु प्रथमाया द्विवचनं, जतूकर्णसंवादात्॥११॥

महानीलतैलम्।

आदित्यवल्ल्या मूलानि कृष्णशैरीयकस्य च।
सुरसस्य च पत्राणि फलं कृष्णशणस्य च॥

मार्कवं काकमाची च मधुकं देवदारु च।
पृथग्दशपलांशानि पिप्पल्यस्त्रिफलाञ्जनम्॥

प्रपौण्डरीकं मञ्जिष्ठालोध्रंकृष्णागुरूत्पलम्।
आम्रास्थिकर्दमः कृष्णो मृणाली रक्तचन्दनम्॥

नीली भल्लातकास्थीनि काशीशं मदयन्तिका
सोमराज्यशनः शस्त्रं कृष्णौ पिण्डीतचित्रकौ॥

पुष्पाण्यर्जुनकाश्मर्य्योश्चाम्रजम्बूफलानि च।
पृथक् पञ्चपलैर्भागैः सुपिष्टैराढकं पचेत्॥

वैभतिकस्य तैलस्य धात्रीरसचतुर्गुणम्।
कुर्य्यादादित्यपाकं वा यावच्छुष्को भवेद्रसः॥

लौहपात्रे ततः पूतं संशुद्धमुपयोजयेत्।
पाने नस्तक्रियायाञ्च शिरोऽभ्यङ्गे तथैव च॥

एतच्चक्षुष्यमायुष्यं शिरसः सर्वरोगनुत्।
महानीलमिति ख्यात पलितघ्नमनुत्तमम्॥१२॥

महानीलतैले—आदित्यवल्ली सूर्यावर्त्तः, आदित्यपर्णीति पाठे स एवार्थः। कृष्णशैरीयको नील

झिण्टी, सुरसः पर्णासः, अञ्जनं रसाञ्जनं, कृष्णाकर्दमो नलिनीमूलस्थितकर्दमः सुश्रुतेऽपि “पङ्केन नलिनभिवेन” इत्युक्तम्। नीली नेलीति ख्याता लता, अशनः पीतशालः, शस्त्रं काललौहचूर्ण, पिण्डीतो मदनः कृष्णाविति कृष्णपुष्पौ। पुष्पाण्यर्जुनकाशमर्य्याणीति अर्जुनकाश्मरीभवानि पुष्पाणि, अर्जुनकाश्मर्य्योरित्यपि पाठः। ‘लौहपात्रेऽग्निना पचेदादित्यपाकं वा कुर्य्यादिति योग्यम्।

आदित्यपाकस्तु आदित्यरश्मिसम्बन्धादेव द्रवशेषविधिः। अत्र भागैरिति बहुवचनादेव पृथग्भागे लब्धे पृथगिति पदं न्यायसिद्धस्यापि त्रिफलायाः पृथग्भागस्य द्योतकार्थं, कल्कभूयस्त्वञ्च वचनादेव भवन्न विकल्पनीयम्॥१२॥

भृङ्गराजघृतम्।

भृङ्गराजरसे पक्वंशिखिपित्तेन कल्कितम्।
घृतं नस्येन पलितं हन्यात् सप्ताहयोगतः॥१३॥

भृंगराजेत्यादौ— शिखी मयूरः। घृतन्तु कुडवमानमत्र नस्ययोगत्वात्॥६३॥

काञ्जीपिष्टशेलुफलमज्ज्ञि सच्छिद्रलोहगे।
यदर्कतापात् पतति तैलं तन्नस्यम्रक्षणात्॥

केशा नीलालिसङ्काशाः सद्यः स्निग्धा भवन्ति च।
नयनश्रवणग्रीवादन्तरोगांश्च हन्त्यदः॥१४॥

काञ्जीत्यादौ—शेलुर्बहुवारः सच्छिद्रलौहग इति बहुच्छिद्रलौहपात्रस्थे। नीलालिसङ्काशा इति नीलपदं

मिंगलभ्रमरनिरासार्थम्॥१४॥

काशीशरोचनातुल्यं हरितालं रसाञ्जनैः।
अम्लपिष्टैः प्रलेपोऽयं वृषकच्छ्वहिपूतयोः॥१५॥

काशीशमित्यादै—एतैरिति शेषः। काशीशरोचनातुल्यहरितालरसाञ्जनैरित्यपि पाठः॥६५॥

पटोलाद्यं घृतम्।

पटोलपत्रत्रिफलारसाञ्जनविपाचितम्।
पीतं घृतं निहन्त्याशु कृच्छ्रामप्यहिपूतनाम्॥१६॥

पटोलपत्रेत्यादि— स्पष्टम्॥१६॥

रजनीमार्कवमूलं पिष्टं शीतेन वारिणा तुल्यम्।
हन्ति विसर्पं लेपाद्वराहदशनाह्वयं घोरम्॥१७॥

रजनीत्यादौ—वराहदशनाह्वयमिति वराहदन्तमिति प्रसिद्धम्॥१७॥

नागकेशरचूर्णं वा शतधौतेन सर्पिषा।
पिष्ट्वालेपो विधातव्यो दाहे हर्षे च पादयोः॥१८॥

नागकेशरचूर्णमित्यादि—स्पष्टम्॥१८॥

इति क्षुद्ररोगचिकित्साविवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1700731650Capture.JPG”/>

अथ मुखरोगचिकित्सा।

ओष्ठरोगचिकित्सा।

श्रोष्टप्रकोपे वातोत्थे शाल्वणेनोपनाहनम्।

मस्तिष्के चैव नस्ये च तैलं वातहरैः शृतम्॥
स्वेदोऽभ्यङ्गः स्नेहपानं रसायनमिहेष्यते॥१॥

क्षुद्ररोगास्तु चतुश्चत्वारिंशत्, मुखरोगास्तु पञ्चषष्टिः, अतो रोगगणत्वसामान्यात् क्षुद्ररोगचिकि

त्सितप्रसंगान्मुखरोगचिकित्सितमुच्यते। ओष्टेत्यादि–सुश्रुतस्य। मस्तिष्क चैवति। मस्तिष्कः शिरोवस्तिः स्नेहाक्तपिचुधारणं वा। वातहरैरिति भद्रदार्वादिभिः रसायनमिहेप्यत इति रसायनं च्यवनप्राशादि॥१॥

श्रीवेष्टकं सर्जरसं गुग्गुलुं सुरदारु च।
यष्टीमधुकचूर्णञ्च विदध्यात् प्रतिसारणम्॥२॥

श्रीवेष्टकमित्यादि—सुश्रुतस्य। श्रीवेष्टकं नवनीतखोटिः। प्रतिसारणं घर्षणम्। वाग्भटे तु श्रीवेष्टकस्थाने मधूच्छिष्टं पठ्यते॥२॥

वेधं शिराणां वमनं विरेकं तिक्तस्य पानं रसभोजनञ्च।
शीतान् प्रलेपान् परिषेचनञ्च पित्तोपसृष्टेष्वधरेषु कुर्य्यात्॥३॥

वेधमित्यादि—शिरा च ओष्ठसमीपगता बोध्या। तिक्तस्येत्यत्र सर्पिष इति शेषः।

पित्तरक्ताभिघातोत्थान् जलौकोभिरुपाचयेत्।
पित्तविद्रधिवच्चापि क्रियां कुर्य्यादशेषतः॥४॥

पित्तेत्यादौ—जलौकोभिरुपाचरेदिति रक्तनिर्हरणेन॥४॥

शिरोविरेचनं धूमः स्वेदः कवडधारणम्।
हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके॥५॥

शिर इत्यादि—सुश्रुतस्य। धूमोऽत्र वैरेचनिकः कफयोग्यत्वात् एवं कवलधारणमिति कफहरद्रव्यकृतं, वाग्भटऽप्युक्तं “धूमस्वदनगण्डूषाः प्रयोज्यशश्च कफच्छिदाः” इति॥५॥

त्रिकटुः सर्जिकाक्षारः क्षारश्च यावशूकजः।
क्षौद्रयुक्तं विधातव्यमेत

च्च प्रतिसारणम्॥६॥

त्रिकटुरित्यादि—स्पष्टम्॥६॥

मेदोजे स्वेदिते भिन्ने शोधिते ज्वलनो हितः।
प्रियङ्गुत्रिफलालोध्रंसक्षौद्रं प्रतिसारणम्॥
हितञ्च त्रिफलाचूर्णं मधुयुक्तं प्रलेपनम्॥७॥

मेदोज इत्यादि—सुश्रुतस्य। शोधित इति मेदोहरणेन विशुद्धे ज्वलन इति अग्निकर्म॥७॥

सर्जरसकनकगैरिकधन्याकतैलघृतसिन्धुसंयुक्तम्।
सिद्धं सिक्थकमधरे स्फुटितोच्चटिते व्रणं हरति॥८॥

सर्जेत्यादौ—कनकगैरिकम् उत्कृष्टगैरिकमित्यर्थः। एतच्च सर्जरसादिचूर्णं सिक्थकान्तं खोलके किञ्चिदग्नावुष्णीकृत्य प्रलेपयोग्यं पक्त्वा अवतार्यं अधरेधारणीयम्॥८॥

इत्योष्ठरोगचिकित्साविवृतिः।

अथ दन्तरोगचिकित्सा।

शीतादे हृतरक्तेतु तोये नागरसर्षपान्।
निःक्वाथ्य त्रिफलाञ्चापि कुर्य्याद्गण्डूषधारणम्।
प्रियङ्गवश्च मुस्ता च त्रिफला च प्रलेपनम्॥१॥

दन्तरोगचिकित्सामाह शीताद इत्यादि—सुश्रुतस्य। नागरादित्रिफलान्त एको योगः॥१॥

कुष्ठं धात्री लोध्रमब्दं समङ्गा पाठा तिक्ता तेजनी पीतिका च।
चूर्णं शस्तं घर्षणं तद् द्विजानां रक्तस्रावं हन्ति कण्डूंरुजाञ्च॥२॥

कुष्ठमित्यादि—तेजनी चवी।पीतिका हरिद्रा॥२॥

चलदन्तस्थिरकरं कुर्य्याद्वकुलचर्वणम्।
आर्त्तगलदलक्वाथगण्डूषो दन्तचालनुत्॥३॥

चलेत्यादौ— वकुलस्य फलं दन्तस्थिरकरत्वात्। आर्त्तगलःहागडा इति ख्याता॥

दन्तचाले हितं श्रेष्ठं तिलोग्राचर्वणं सदा॥४॥

दन्तचाल इत्यादौ—उग्रा वचा॥४॥

दन्तपुप्पुटके कार्य्यं तरुणे रक्तमोक्षणम्॥

सपञ्चलवणक्षारः सक्षौद्रः प्रतिसारणम्।
दन्तानां तोदहर्षे च वातघ्नाः कवडा हिताः॥५॥

दन्तपुप्पुटक इत्यादि—सुश्रुतस्य। तरुण इत्युपपन्नमात्रे, रक्तमोक्षणञ्च प्रच्छनेन। क्षारो यवक्षारः। वातघ्नाः कवडा इति उष्णतैलघृतसस्नेहदशमूलक्वाथादयः॥५॥

दन्तचाले तु गण्डूषो वकुलत्वक्कुतो हितः॥६॥

दन्तचाल इत्यादि—स्पष्टम्॥६॥

माक्षिकं पिप्पलीसर्पिर्मिश्रितं धारयेन्मुखे।
दन्तशुलहरं प्रोक्तंप्रधानमिदमौषधम्॥७॥

माक्षिकमित्यादौ—पिप्पलीवृतापेक्षया मधु तु बहुमात्रं देयमिति वदन्ति, मधुनः कर्षमेकम्, गव्यघृतं माष्टकाष्टकम्, पिप्पलीचूर्णं माषकचतुष्टयम्, आलोड्य मुखे धार्य्यम्॥७॥

विस्राविते दन्तवेष्टे व्रणन्तु प्रतिसारयेत्।
लोध्रपत्तङ्गमधुकलाक्षाचूर्णैर्मधूतरैः।
गण्डूषे क्षीरिणो योज्याः सक्षौद्रघृतशर्कराः॥८॥

विस्त्रावित इत्यादि— जलौकाप्रच्छनादिना रक्तेहृते। व्रणमिति जलौकाप्रच्छनादिजं क्षतम्। पत्तंगं रक्तचन्दनम्। क्षीरिण इति वटोदुम्बरादयः एषां क्वाथः, क्षौद्रघृतशर्कराःप्रक्षेपणीयाः॥८॥

शैशिरे हृतरक्ते तु लोध्रमुस्तारसाञ्जनैः।

सक्षौद्रैःशस्यते लेपो गण्डूषे क्षीरिणो हिताः॥६॥

शैशिर इति दन्तरोगविशेषे एवं परिदरेऽपि॥६॥

क्रियां परिदरे कुर्य्याच्छीतादोक्तांविचक्षणः।
संशोध्योभयतः कायं शिरश्चोपकुशे ततः॥१०॥

काकोडुम्बरिकागोजीपत्रैर्विस्रावयेद्भिषक्।
क्षौद्रयुक्तैश्च लवणैः सव्योपैः प्रतिशोधयेत्॥११॥

क्रियामित्यादि—सुश्रुतस्य। कायमुभयतः संशोध्येति कायं शरीरम्, उभयत इति वमनविरेचनाभ्यां शिरश्च विशोध्येत्यन्वयः। शिरःशोधनञ्च शिरोविरेचनेनैव। संशोध्य उभयतः कायं शिरश्चेति ग्रन्थं परिदो उपकुशे च योजयन्ति, युक्तञ्चैतत्, यतः परिदरो रक्तकफजः अतएव कफप्रत्यनीकं वमनं पित्तप्रत्यनीकञ्च विरेचनं हितमेच, शिरोविरेचने युक्ते एव हि। कायमित्यत्र कार्य्यमिति पाठे शीता दोक्तां क्रियां परिदरे कुर्य्यात्। उपकुशे तु वक्ष्यमाणरक्तस्रा

बादि कार्य्यमिति ज्ञेयम् गो

नी शाखोटकः। लवणैरिति पञ्चभिः॥१०-११॥

पिप्पल्यः सर्षपाः श्वेता नागरं नैचुलं फलम्।
सुखोदकेन संगृह्य कवडं तस्य योजयेत्॥१२॥

पिप्पल्य इत्यादौ—निचुलफलं हिज्जलफम्। एते च व्यस्ताः समस्ताश्च कवले योज्याः॥१२॥

शस्त्रेण दन्तवैदर्भे दन्तमूलानि शोधयेत्।
ततः क्षारं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः॥१३॥

शस्त्रेणेत्यादौ—शोधयेदिति दन्तमूलानि शोधयेत्। अभिघातजेऽपि दन्तवैदर्भे शस्त्रेण दन्तमूलमांसच्छेदनम् अभिघातदुष्टरक्तकृपाकेन शीर्णमांसस्यापगमनार्थम्। ‘क्षारप्रयोगोऽ

पीहाशोधितशेषपूतिमांसदूरीकरणार्थं तदनन्तरञ्च शीतक्रियाः क्षारकुपितपित्तरक्तनिर्वापणार्थं ताश्च नस्यगण्डूषादयः। उक्तं हि वाग्भटे” क्षारं दद्यात्ततो नस्यं गण्डूषादि च शीतलम्” इति॥१३॥

उद्धृत्याधिकदन्तन्तु ततोऽग्निमवाचरेत्।
क्रिमिदन्तकवचात्र विधिः कार्यो विजानता॥१४॥

उद्धृत्येत्यादि—सुश्रुतस्य। अग्निदाहोऽत्र रक्तादिस्रुतिनिषेधार्थम्। क्रिमिदन्तो द्विविधः अचलश्चलश्च, तत्र यश्चलः स उद्धार्य्यस्तद्विधिरेवात्रातिदिश्यते उद्धार्य्यत्वेन समानत्वात् न त्वचलस्य, तस्यानुद्धार्य्यत्वात् स एव क्रिमिदन्ते उद्धरणदाहौ युक्तौ। अधिदन्ते पुनरचलेऽपि तद्विधानार्थमिह क्रिमिदन्तकवि

ध्यतिदेशलब्धयोरप्युद्धरणदाहयोरभिधानम्॥१४॥

छित्त्वाधिमांसं सक्षौद्रैरेतैश्चूर्णैरुपाचरेत्।
पाठावचातेजोवती-सर्जिकायावशूकजैः॥

क्षौद्रद्वितीयाः पिप्पल्यः कवलश्चात्र कीर्त्तितः॥१५॥

छित्त्वेत्यादि—सुश्रुतस्य। तेजोवती चवी कवडग्रहोऽयम्। क्षौद्रद्वितीया पिप्पल्य इति क्षौद्रोलोडितपिप्पलीकवलः॥१५॥

पटोलनिम्बत्रिफलाकषायश्चात्र धावने।
शिरोविरेकश्च हितो धूमो वैरेचनश्च यः॥१६॥

नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत्।
यं दन्तमधिजायते नाडी तं दन्तमुद्धरेत्।
छित्त्वाधिमांसं शस्त्रेण यदि नोपरिजो भवेत्।
शोधयित्वा दहेच्चापि क्षारेण ज्वलनेन वा॥१७॥

पटोलत्यादि— वैरेचनिकधूमसाहचर्य्यात् शिरोविरेकोऽपि तीक्ष्णोऽत्र बोध्यः। यस्य दन्तस्य समीपे नाडी स्यात् तं दन्तं चलमचलं वा शस्त्रेण दन्तावरकमांस छित्त्वा उद्धरेत्। यदि नोपरिजो भवेदित्युद्धरणस्यापवादः॥१६-१७॥

गतिर्हिनस्ति हन्वस्थि दशने समुपेक्षिते।
तस्मात् समूलं दशनमुद्धरेत् भग्नमस्थि च॥१८॥

अधोगतदन्तानुद्धरणे दोषमाह गतिरित्यादि— गतिर्नाडी हन्वस्थिकपोलसमीपास्थि दारयति। दशने समुपेक्षिते सत्यनुद्धृते सतीत्यर्थः। किंवा गतिर्हिनस्ति हन्वस्थिदशने समुपेक्षिते इति पाठान्तरे दन्ते गतिरुपेक्षितेत्यर्थः। भग्नमस्थि चेति असभ्यगुद्धृतदन्तस्य भग्नशे

त्रमस्थि चेत्यर्थः। किंवा गतिविशोधितहन्वस्थि भग्नास्थीत्युच्यते॥१८॥

उद्धृते तूत्तरे दन्ते शोणितं सम्प्रसिच्यते।
रक्ताभियोगात् पूर्वोक्ताघोरा रोगा भवन्ति च॥
चलमप्युत्तरं दन्तमतो नापहरेद्भिषक्॥१६॥

उपरिजदन्तानुद्धरणे हेतुमाह उद्धृत इत्यादि—उत्तर इत्युपरिजाते, सम्प्रसिच्यते अतिस्रवतीत्यर्थः। पूर्वोक्ताइति शोणितवर्णनीयोक्ताआक्षेपकादयः॥१६॥

कषायं जातीमदनकटुकास्वादुकण्टकैः।
लोध्रखदिरमञ्जिष्ठायष्ट्याह्वैश्चापि यत् कृतम्।
तैलं संशोधनं तद्धि हन्याद्दन्तगतां गतिम्॥

कषायं परतः कृत्वा पिष्ट्वालोध्रादिकल्कितम्।
कण्टकी मदनो योज्यः स्वादुकण्टो विकङ्कतः॥२०॥

कषायमित्यादि—सुश्रुतस्य। जात्याः पत्रम्, मदनं मदनकण्टकम, कटुका कटुरोहिणी, स्वादुकण्टकः विकङ्कतः। एतैः कृतः कषायः मुखधारणरूपः क्वाथः दन्तगतां गतिं हन्यात् तथा लोध्रादिभिश्चयष्ठ्याह्वान्तैः कल्करूपैर्यत् कृतं तैलं तदपि दन्तगतिं हन्यादित्यर्थः। अन्ये तु कषायमित्यतः परं कृत्वेति शेषः, तेनजात्यादिभिः कषायं कृत्वा लोध्रादिकल्केन च कृतं यत् तैलमिति व्याचक्षते। वृन्देनाप्यनुमतोऽयमर्थः व्यवहारेऽप्यनेनैव धावनम्। जातीमदनस्वादुकण्टकखदिरमित्यधिकं श्लोकार्द्धं पठित्वा तदनन्तरमेव कषायं जातीमदन इत्यादिकं पठति व्याचष्टे च। कषायमिति पदं धावनमित्यनेन सम्बध्यते तेन जात्यादिद्रव्यचतुष्टयकषायेण धावनं परेण तु जातीमदनकादिद्रव्याष्टकेन कल्केन तैलं साधनीयमिति अतएव तन्मतानुयायिवाग्भटेऽपि धावनं जातीमदनखदिरस्वादुकण्टकैरित्युक्त्वात्। अन्ये तु कषायशब्दं समासे विभक्तिरहितं पठन्ति तेषां मते कषायमामपूगफलम्, विस्राव्याध्ययोक्तशङ्गिन्यादिशोधनकषायद्रव्यं वा, अस्मिन् पक्षे कषायद्रव्यादिभिः यष्ट्याह्वान्तैस्तैलपाकः कषायद्रव्यान्तर्गताया अपि जात्याःपृथगभिधानं भागद्वयग्रहणार्थमित्यपि वदन्ति॥२०॥

सुखोष्णः स्नेहकवडाः सर्पिषस्त्रैवृतस्य वा।
निर्य्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्द्वनाः।
स्नैहिकश्च हितो धूमो नस्यं स्नैहिकमेव च॥२१॥

दन्तमूलगतचिकित्सितमभिधाय दन्तगतव्याधिचिकित्सामाह सुखोष्णा इत्यादि सुश्रुतस्य। स्नेहाः सर्पिस्तैलवसामज्जानस्तेषां व्यस्तानां समस्तानाञ्च, कवला गण्डूषाः। सर्पिषस्त्रैवृतस्य वेति त्रैवृतसर्पिरपतानकचिकित्सायां सुश्रुतेनोक्तम्। अनिलघ्नानामिति भद्रदार्वादिदशमूलादीनां निर्यूहः क्वाथः॥२१॥

अहिंसन् दन्तमूलानि शर्करामुद्धरेद्भिषक्।
लाक्षाचूर्णैर्मधुयुतैस्ततस्तां प्रतिसारयेत्॥

दन्तहर्षक्रियाञ्चापि कुर्य्यान्निरवशेषतः।
कपालिकाः कृच्छ्रसाध्यास्तत्राप्येषा क्रिया हिता॥२२॥

अहिंसन्नित्यादि—सुश्रुतस्य। दन्तमूलहिंसया हि अभिघातजा दन्तनाडी दन्तघातश्च स्यात्। कृच्छ्रसाध्येत्यनेन कपालिकायाः शीघ्रप्रतिकर्त्तव्यतां सूचयति। एषां क्रियेति दन्तहर्षोक्ताकपालिकाया अपि वातजत्वात् शर्करोक्तेत्यन्ये॥२२॥

जयेद्विस्रावणैः स्विन्नमचलं क्रिमिदन्तकम्।
तथावपीडैर्वातघ्नैः स्नेहगण्डूषधारणैः।
भद्रदार्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः॥२३॥

जयेद् विस्रावणैरिति विस्रावणं क्रिमिदूषितरक्तस्य। अवपीडो नस्यभेदः। वातघ्नैरिति वातघ्नद्रव्यकृतैरपीति चक्रः। अन्ये तु अवपीडो गद्यपि वातहरस्तथापि स्थानानुरोधात् क्रियते, विस्रावणादिकुपितरक्तशान्त्यर्थं वातहरं कर्म कर्त्तव्यमिति दर्शयितुं वातघ्नैरितिस्नेहगण्डूषादिविशेषणं कृतम्, वाग्भटेऽप्येवमेवोक्तम्॥२३॥

हिङ्गु सोष्णन्तु मतिमान् क्रिमिदन्तेषु दापयेत्॥२४॥

हिंग्वित्यादौ— सोष्णमिति ईषदुष्णम्॥२४॥

वृहतीभूमिकदम्बकपञ्चाङ्गुलकण्टकारिकाक्वाथः।
गण्डूषस्तैलयुतः क्रिमिदन्तकवेदनाशमनः॥२५॥

बृहतीत्यादौ—भूमिकदम्बोऽलम्बुषः, पञ्चांगुल एरण्डः॥२५॥

नीलीवायसजङ्घास्नुग्दुग्धानान्तु मूलमेकैकम्।
सञ्चर्व्यदशनविधृतं दशनक्रिमिपातनं प्राहुः॥२६॥

नीलीत्यादौ—स्नुक् स्नुही, दुग्धी क्षीराइ॥२६॥

चलमुद्धृत्य वा स्थानं दहेत्तु शुषिरस्य वा॥२७॥

चलमित्यादि—सुश्रुतस्य। वाशब्दोऽवधारणे। स्थानमिति उद्धृतदन्तस्य समवस्थानम्। शुषिरस्येति क्रिमिकृतच्छिद्रस्य यावन्मात्रं स्थानं तावदेव दहेत्। स्थानशब्दोऽत्रापि योजनीयः। भूरिदेशदुष्टौ समग्रस्यैव दन्तस्थानस्य दाहः, एकस्थानदुष्टौ च शुषिरस्थानमात्रदाह इति॥२७॥

विदार्य्यादितैलम्।

ततो विदारीयष्ट्याह्व-शृङ्गाटककशेरुभिः।
तैलं दशगुणं क्षीरं सिद्धं नस्ये तु योजयेत्॥२८॥

तत इत्यादि—स्पष्टम्॥२८॥

हनुमोक्षे समुद्दिष्टा कार्य्या चार्द्दितवत् क्रिया॥२६॥

हनुमोक्ष इत्यादौ— समुद्दिष्टा इति पदम् अर्दितोक्तसमस्तविध्यर्थमाहुः॥२६॥

फलान्यम्लानि शीताम्बु रुक्षान्नं दन्तधावनम्।
तथातिकठिनान् भक्ष्यान् दन्तरोगी विवर्जयेत्॥३०॥

फलानित्यादौ—दन्तधावनं दन्तकाष्ठम्॥३०॥

सप्तच्छदार्कदुग्धाभ्यां पूरणं क्रिमिदन्तनुत्।
जीवनीयेन दुग्धेन क्रिमिरन्ध्रप्ररणम्॥३१॥

सप्तच्छदेत्यादि—स्पष्टम्॥३१॥

द्रोणपुष्पद्रवः फेनमधुतैलसमायुतः।
क्रिमिदन्तविनाशाय कार्य्यं कर्णस्य पूरणम्॥३२॥

द्रोणपुष्पद्रव इत्यादौ—फेनः समुद्रफेनः॥३२॥

पटोलकटुकाव्योष–पाठासैन्धवभार्गिकैः।
चूर्णैर्मधुयुतो लेपः कवडो मधुतैलकैः॥

जिह्वारोगेषु कर्त्तव्यं विधानमिदमौषधम्॥३३॥

पटोलत्यादौ—मधुतैल कैरिति मधुतैलसमायुक्तैः॥३३॥

मुस्तामधुकनिर्गुण्डी-खदिरोशीरदारुभिः।
समञ्जिष्ठाविडङ्गैश्च सिद्धं तैलं हरेत् किमीन्॥३४॥

मुस्तेत्यादि—स्पष्टम्॥३४॥

इति दन्तरोगचिकित्साविवृतिः।

अथ जिह्वारोगचिकित्सा।

ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक् चिकित्सितम्।
कण्टकेष्वनिलोत्थेपु तत् कार्य्यं भिषजा खलु॥१॥

जिह्वारोगचिकित्सामाह ओष्ठेत्यादि—सुश्रुतस्य। कण्टको जारीति ख्यातो रोगः१

पित्तजेषु निघृष्टेषु निःस्रुते दुष्टशोणिते।
प्रतिसारणगण्डूषनस्यञ्च मधुरं हितम्॥२॥

निघृष्टेष्विति शास्त्रोटकादिपत्रैः। मधुरमिति मधुरेण काकोल्यादिगणेनैव कृतं नस्यादित्रयमित्याहुः॥२॥

कण्टकेषु कफोत्थेपु लिखितेष्वसृजः क्षये।
पिप्पल्यादिर्मधुयुतः कार्य्यन्तु प्रतिसारणम्॥३॥

लिखितेष्विति मण्डलाग्रादिना असृजः क्षये अवस्थानविराम इत्यर्थः। पिप्पल्यादिरिति पिप्पल्यादिगणः॥३॥

गृह्णीयात् कवलान् वापि गौरसर्षपसैन्धवैः।
पटोलनिम्बवार्त्ताकु-क्षारयूषैश्च भोजयेत्॥४॥

श्वेतसर्षपसैन्धवाभ्याश्च कवल उष्णोदकेन कार्य्यः। पटोलादिभिर्भोजयेत्, तथा क्षारयूषैश्च भोजयेदिति। क्षारप्रधानकुलत्थादियूषः क्षारयूषः। तदुक्तं—“शुष्कमूलकुलत्यादियूषाः क्षारोत्तर हिताः। कुलकं बिल्वपत्रञ्चवार्ताकुश्चाशने हितम्” इति।

जिह्वाजाड्यं चिरजं माणकभस्मलवणतैलघर्षणं हन्ति।
ईषत् स्नुक्क्षीराक्तंजम्बीराद्यम्लचर्वणं वापि॥५॥

जिह्वाजाड्यंजीन्तिसंज्ञकमिति लोके। ईषत्स्नुक्क्षीरेण युक्तं म्रक्षितं यज्जम्वीरादिकेशरचर्वणम्। चर्वणमित्यत्र घर्षणमित्यपि पाठः॥५॥

कर्कटांघ्रिक्षीरपक्व-घृताभ्यङ्गेन नश्यति।
दन्तशब्दः कर्कटांघ्रिलेपाद्वा दन्तयोजितात्॥६॥

कर्कटेत्यादौ—क्षीरसाधनपरिभाषया कर्कटपादेन साधितं यत् क्षीरं तत्पक्वघृताभ्यङ्गेनेत्यर्थः। अभ्यङ्गश्च दशनप्रदेश म्रक्षणमित्याहुः। अन्ये तु कर्कटपादकल्कक्षीराभ्यां साधितं यद्धृतं तेनाभ्यङ्ग इत्याहुः। दन्तशब्दो दन्तकडकडध्वनिः॥६॥

उपजिह्वान्तु संलिख्य क्षारेण प्रतिसारयेत्।
शिरोविरेकगण्डूष धूमैश्चैनामुपाचरेत्।
व्योषक्षाराभयावह्नि-चूर्णमेतत् प्रघर्षणम्।
उपजिह्वाप्रशान्त्यर्थमेतैस्तैलं विपाचयेत्॥७॥

उपजिह्वामित्यादि—सुश्रुतस्य। संलिख्येति शाखोटकादिपत्रेण। क्षारेणेति यवक्षारेण। उक्तं हि वाग्भटे—उपजिह्वां परिस्राव्य यवक्षारेण घर्षयेत्।” अन्ये तु प्रतिसारणीयक्षारेणेत्याहुः। एभिस्तैलमिति व्योषादिभिः कल्करूपैरित्यर्थः।

जलं चतुर्गुणम्॥७॥

छिन्नां घर्षेद्गलशुण्डीं व्योषोग्राक्षौद्रसिन्धुजैः।
कुष्ठोषणवचासिन्धु-कणापाठाप्लवैरपि।
सक्षौद्रैर्भिषजा कार्य्यं गलशुण्ड्या विघर्षणम्॥८॥

छिन्नामित्यादौ—उग्रा वचा। कुष्ठोषणेत्यादौ—ऊषणं मरिच, मनः कैवर्त्तंमुस्तकः। सिन्धुकणेत्यत्र सिन्ध्वरुणेति केचित् पठन्ति। अरुणा अतिविषा। वाग्भटेऽप्युक्तं— “मरिचातिविषा पाठा वचाकुष्ठकुटन्नटम्। छिन्नायां सपटुक्षौद्रै र्घर्षणम्” इति, एवं सुश्रुतेऽप्यायुर्वेदसारेऽपि॥८॥

उपनासाव्यधो हन्ति गलशुराडीमशेषतः।
गलशुण्डीहरं तद्वच्छेफालीमूलचर्वणम्॥६॥

उपनासाव्यध इति—नासासमीपवर्ती शिराव्यध इत्यर्थः। नासायां शिराश्चतुर्विंशतिः, तन्मध्ये नासिकाया अतिसन्निहिताश्चतस्रः परिहार्य्याः। उक्तंहि सुश्रुते– द्विर्द्वादश नासायां तासामौपनासिक्यश्चतस्रः परिहार्याः” इति॥६॥

वचामतिविषां पाठां रास्नां कटुकरोहिणीम्।
निःक्वाथ्य पिचुमद्देञ्च कवलञ्च प्रयोजयेत्।
क्षारसिद्धेषु मुद्गेषु यूषाश्चाप्यशने हिताः॥१०॥

वचामित्यादि—सुश्रुतस्य। पिचुमर्दो निम्बः। क्षारसिद्धेष्विति शुष्कापामार्गदिक्षारोदकसिद्धेषु॥१०॥

इति जिह्वारोगचिकित्साविवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1700754677Capture.JPG”/>

अथ कण्ठरोगचिकित्सा।

तुण्डिकेर्य्यध्रुषे कूर्मे सङ्घाते तालुपुप्पुटे।
एष एव विधिः कार्य्योविशेषः शस्त्रकर्मणि॥१॥

तुण्डिकेर्यध्रुष इत्यादि—सुश्रुतस्य। कूर्म इति कच्छपरोगे। एष एवेति गलशुण्ड्योक्तविधिविशेषः। शस्त्रकर्मणीति तुण्डीकेरीतालुपुप्पुटौ भेद्यौ, अपरे छेद्या इति शेषः॥१॥

तालुपाके तु कर्त्तव्यं विधानं पित्तनाशनम्।
स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः॥२॥

पित्तनाशनं पित्तव्रणनाशनमित्यर्थः॥२॥

साध्यानां रोहिणीनान्तु हितं शोणितमोक्षणम्।
छु

र्द्वनं धूमपानञ्च गण्डूषो नस्तकर्म च॥३॥

साध्यानामित्यादि—सुश्रुतस्य। साध्यानामित्यादिना सन्निपातजाया असाष्याया व्यवच्छेदः॥३॥

वातिकीन्तु हृते रक्ते लवणैः प्रतिसारयेत्।

सुखोष्णान् स्नेहकवडान् धारयेच्चाप्यभीक्ष्णशः॥४॥

वातिकीमित्यादौ—लवणैरिति पञ्चभिः॥४॥

पत्तङ्गशर्कराक्षौद्रैः पैत्तिकींप्रतिसारयेत्।
द्राक्षापरूषकक्वाथो हितश्च कवलग्रहे॥५॥

पत्तङ्गं रक्तचन्दनम्॥५॥

आगारधूमकटुकैः कफजां प्रतिसारयेत्।
श्वेताचिडङ्गदन्तीषु सिद्धं तैलं ससैन्धवम्।
नस्तकर्मणि दातव्यं कवलञ्च कफोच्छ्रये॥५॥(क)

आगारधूमेत्यादौ—श्वेता कटभी अपराजिता वा। श्वेतादिसैन्धवान्तः कल्कः कवल

ञ्चेति श्वेतादिसैन्धवान्तसिद्धं तैलमेव कवडमपीत्यर्थः॥५॥(क)

पित्तवत् साधयेद्वैद्यो रोहिणीं रक्तसम्भवाम्॥६॥

पित्तवदिति पित्तरोहिणीवदित्यर्थः॥६॥

विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत्।
एककालं यवान्नञ्च भुञ्जीत स्निग्धमल्पशः॥७॥

विस्राव्येत्यत्र रक्तमिति शेषः। एत

च्च पूर्वेण सम्बध्यते। साधयेत् तुण्डिकेरिवदिति तुण्डिकेर्य्यामपि गलशुण्डिकाविध्यतिदेशात् साधयेत् गलशुण्डिवदिति वाच्ये तुण्डिकेरीविध्यतिदेशो निःशेषच्छेदनार्थः, गलशुण्डोवदत्र त्रिभागच्छेदो न कार्यइति बोधयति॥७॥

उपजिह्विकवच्चापि साधयेदधिजिह्विकाम्।
उन्नाम्य जिह्वामाकृष्य वडिशेनाधिजिह्विकाम्।
छेदयेन्मण्डलाग्रेण तीक्ष्णोष्णैर्लवणादिभिः॥८॥

अधिजिह्विकाचिकित्सामाह—उपजिह्विकेत्यादि। छेदयेदित्यादि—वाग्भटस्य। तीक्ष्णोष्णैर्लवणादिभिरित्यत्र उपाचरेदिति शेषः। आदिशब्दात् कवडादिपरिग्रहः॥

एकवृन्दन्तु विस्राव्य विधिं शोधनमाचरेत्।
गिलायुश्चापि यो व्याधिस्तञ्च शस्त्रेण साधयेत्॥६॥

एकवृन्दमित्यादि—सुश्रुतस्य। विस्राव्येति जलौकादिभी रक्तं विस्राव्यमित्यर्थः। शोधनमिति गलगतदोषशोधनं प्रतिसारणशिरोविरेककवलादिकं, तथा कायशोधनञ्च वमनादिकं, तस्यापि कायशोधनेन शिरोगतदोषस्यापि शोधकत्वात् तञ्च शस्त्रेण साधयेदिति कठिनमल्पवेदनमपक्वंगिलायुं छेदयेत्। पक्वन्तु भेदयेत्। पूयनिः-सारणार्थं ततो द्विव्रणीयोक्तविधिना शोधनादिरत्रापि लभ्यते॥६॥

अमर्मस्थं सुपक्वञ्च भेदयेद्गलविद्रधिम्।
कण्ठरोगेष्वसृङ्मोक्षस्तीक्ष्णनस्यादिकर्म च।
क्वाथपानन्तु दार्वीत्वङ्निम्बतार्क्षकलिङ्गजम्।

हरीतकीकषायो वा पेयो माक्षिकसंयुतः॥१०॥

असर्मस्थमित्यादि—सुश्रुते। गलविद्रधिरयं त्रिदोषविद्रधितुल्यत्वेनोक्तोऽपि चिकित्सितोपदेशात् साध्य इति ज्ञेयः। अन्ये तु गलविद्रधेस्त्रिदोषविद्रधितुल्यत्वेनोक्तत्वेऽपि चिकित्साविधानं कृच्छ्रसाध्यत्वे ज्ञेयम्। अयञ्च सर्वंगलं व्याप्यसमुत्थितो य इत्यभिधानेन मर्मव्यापकोऽपि गलगतमर्मणि मूलास्पदविरहादमर्मज इत्युच्यते। किंवा अमर्मंस्थमिति क्रियाविशेषणम्। अगम्भीरत्वेन मर्माभ्यन्तरास्पर्शीयं यथा स्यात् तथा भेदयेदित्यर्थः। सामान्यकण्ठरोगचिकित्सामाह कण्ठरोगेष्वित्यादि। वाग्भटस्य। वाग्भटे ‘क्वाथः पाने तु दार्वीत्वङ्निम्बतार्क्षकलिङ्गजः’ इति पाठः। दार्व्यास्त्वक्’ तार्क्षं रसाञ्जनम्॥१०॥

कटुकातिविषादारुपाठामुस्तकलिङ्गकाः।
गोमूत्रक्वथिताः पेयाः कण्ठरोगविनाशनाः॥११॥

कटुकेत्यादौ—जलस्थाने गोमूत्रं दत्त्वा क्वाथः कार्यः॥११॥

कालकचूर्णम्।

गृहधूमो यवक्षारः पाठाव्योषरसाञ्जनम्।
तेजोह्वात्रिफलालौहचित्रकञ्चेति चूर्णितम्॥

सक्षौद्रं धारयेदेतद् गलरोगविनाशनम्।
कालकं नाम तच्चूर्णं दन्तजिह्वास्यरोगनुत्॥१२॥

कालकचूर्णे तेजोह्वाचवी, लौहं काललौहचूर्णम् अगुरु वा। व्यवहारस्तु पूर्वेणैव। लौहस्थाने लोध्रमिति केचित् पठन्ति। अस्य योगस्य लौहचूर्णरसाञ्जनचूर्णयोगात् कृष्णत्वेन कालक इति संज्ञा, एवं वक्ष्यमाणपीतकचूर्णेऽपि मनःशिलादियोगात् पतित्वेन पीतकसंज्ञा विधेया॥१२॥

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः।
सर्जिकाक्षारतुल्यांशैश्चूर्णोऽयं गण्डरोगनुत्॥१३॥

पिप्पलीत्यादि—स्पष्टम्॥१३॥

पीतकचूर्णम्।

मनःशिला यवक्षारो हरिताल ससैन्धवम्।
दार्वीत्वक् चेति तच्चूर्णं माक्षिकेण समायुतम्॥
मूर्च्छितं घृतमण्डेन कण्ठरोगेषु धारयेत्।
मुखरोगेषु च श्रेष्ठं पतिकं नाम कीर्त्तितम्॥१४॥

पीतकचूर्णे दा

र्वीश्वगिति षष्ठीसमासः। मूर्च्छितमित्यालोडितम्। एतच्चूर्णं तथा कालकचूर्णं सर्वस्मिन्नेव मुखरोगे धार्यम्। अत एवोक्तंचरके—“योगराजत्रयः प्रोक्तावातपित्तकफापहाः, इति। प्रत्येकमेव कालकादयस्त्रिदोषहरा इति चक्रव्याख्या॥

यवाग्रजं तेजोवतीं सपाठां रसाञ्जनं दारुनिशां सकृष्णाम्।

क्षौद्रेण कुर्य्याद् गुडिकां मुखेन तां धारयेत् सर्वगलामयेषु॥१५॥

यवाग्रजमिति—तेजावती ज्योतिष्मती, चवी इत्यन्ये। दारुनिशा दारु हरिद्रा॥

दशमूलं पिबेदुष्णं यूषं मूलकुलत्थयोः॥१६॥

दशमूलमित्यादौ—मूलं मूलकशुण्ठकम्॥१६॥

क्षीरेक्षुरसगोमूत्रदधिमस्त्वम्लकाञ्जिकैः।
विध्यात् कवलान् वीक्ष्य दोषं तैलघृतैरपि॥१७॥

क्षीरेत्यादि—सुश्रुतस्य। क्षीरादिभिः प्रत्येकं यथादोषं कवडाः कार्य्याः, एवं तैलघृतैरपि॥१७॥

क्षारगुडिका।

पञ्चकोलकतालीशपत्रैलामरिचत्वचः।
पलाशमुष्ककक्षारयवक्षाराश्च चूर्णिताः॥

गुडे पुराणे क्वथिते द्विगुणे गुडिकाः कृताः।
कर्कन्धुमात्राः सप्ताहं स्थिता मुष्ककभस्मनि॥
कण्ठरोगेषु सर्वेषु धार्य्याःस्युरमृतोपमाः॥१८॥

पञ्चकोलकेत्यादौ— पत्रं तेजपत्रं, त्वक् गुडत्वक्। मुष्कको घण्टापारुली। अत्र समुदितचूर्णात् द्विगुणो गुडः। क्वथित इति वह्निसंयोगात् द्रवीभूते कर्कन्धुमात्राः श्रष्टमाषकमानाः॥१८॥

मूत्रस्विन्नां शिवां तुल्यां मधुरीकुष्ठवालकैः।
अभ्यस्य मुखरोगांस्तु जयेद्विरसतामपि॥१६॥

मूत्रेत्यादौ— शिवा हरीतकी, मधुरी मधुरिकैव। अभ्यस्यन्निति भक्षणविधया। विरसता वैरस्यम्॥१६॥

वातात् सर्वसरं चूर्णैर्लावणैः प्रतिसारयेत्।
तैलं वातहरैः सिद्धं हितं कवडनस्ययोः॥२०॥

वातादित्यादि—सुश्रुतस्य सर्वसरो मुखपाकः। लावणैश्चूर्णैरिति सैन्धवचूर्णैः अन्ये तु लवणा ज्योतिष्मती तद्भवं लावणमित्याहुः। निश्चलस्तु पञ्चलवणचूर्णैरित्याह। वातहरैःसिद्धमिति भद्रदार्वादिभिः तु कल्कक्वाथरूपैः॥२०॥

पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः।
सर्वपित्तहरः कार्य्योविधिर्मधुरशीतलः॥२१॥

शुद्धकायस्येति विरेकेण वमनेनापि, कफस्थानगतत्वेन पित्तस्यापि वमनार्हत्वात्। मधुरशीतल इति विशेषणार्थमुक्तः॥२१॥

प्रतिसारणगण्डूषान् धूमं संशोधनानि च।
कफात्मके सर्वसरे क्रमं कुर्य्यात् कफापहम्॥२२॥

प्रतिसारण इत्यादिना कफजसर्वसरचिकित्सामाह क्रमं कुर्य्यात् कफापहमिति। अनुक्तकफापहमिति अनुक्तकफहरविधिसंग्रहार्थमुक्तम्॥२२॥

मुखपाके शिराभेदः शिरःकायविरेचनम्।
कार्य्यन्तु बहुधा नित्यं जातीपत्रस्य चर्वणम्॥२३॥

मुखपाके शिराभेद इति। शिराभेदस्तु तालुनि अधोजिह्विकायां वा कार्य्यः। शिरोविरेचनञ्च बहुधा कार्य्यमिति योज्यम्। नित्यमिति तु परेण सम्बध्यते॥२३॥

जातीपत्रामृताद्राक्षायासदार्वीफलत्रिकैः।
क्वाथः क्षौद्रयुतः शीतो गण्डूषो सुखपाकनुत्॥२४॥

जातीपत्रेति जाती मालती, तस्याः पत्रम्, अमृता गुडूची, यासो दुरालभा, दार्वी दारुहरिद्रा। यासस्थाने पाठेति केचित् पठन्ति॥२४॥

कृष्णजीरककुष्ठेन्द्रयवाणां चूर्णतस्त्र्यहात्
मुखपाकव्रणक्लेददौर्गन्ध्यमुपशाम्यति॥२५॥

कृष्णजीरकेत्यादि—स्पष्टम्॥२५॥

रसाञ्जनं लोध्रमथामयञ्च मनःशिला नागरगैरिकञ्च।
पाठा हरिद्रा गजपिप्पली च स्याद्धारणं क्षौद्रयुतं मुखस्य॥२६॥

रसाञ्जनमित्यादि-स्पष्टम्॥२६॥

पटोलनिम्बजम्ब्वाम्रमालतीनवपल्लवाः।
पञ्चपल्लवजः श्रेष्ठः कषायो मुखधावने॥२७॥

पटोलेत्यादि—पटोलादीनां पल्लवाः॥२७॥

पञ्चवल्ककषायो वा त्रिफलाक्वाथ एव वा।
मुखपाकेषु सक्षौद्रः प्रयोज्यो मुखधावने॥२८॥

पञ्चवल्केत्यादौ—सक्षौद्रइत्युभयत्रापि सम्बध्यते॥२८॥

स्वरसः क्वथितो दार्व्याघनीभूतो रसक्रिया।
सक्षौद्रा मुखरोगासृग्दोषनाडीव्रणापहा॥२६।\।

स्वरस इत्यादि—अयं योग आस्ये धार्य्यः। वाग्भटे तु गैरिकमप्यत्र योगे पठ्यते, यथा— स्वरसः क्वथितो दार्व्या घनीभूतः सैगरिकः। आस्यस्यः समधुर्वक्त्रपाकनाडीव्रणापहः” इति॥२६॥

सप्तच्छदोशीरपटोलमुस्त-हरीतकीतिक्तकरोहिणीभिः।
यष्ट्याह्वराजद्रुमचन्दनैश्च क्वाथं पिबेत् पाकहरं मुखस्य॥३०॥

सप्तच्छदेति सप्तच्छदः शारदी तिक्तरोहिणी कटुकी, राजद्रुम आरम्बधः॥३०॥

पटोलशुण्ठीत्रिफलाविशाला-त्रायन्तितिक्ताद्विनिशानतानाम्।
पीतः कषायो मधुना निहन्ति मुखे स्थितश्चास्यगदानशेषान् ३१

पटोलेत्यादौ—विशाला गोरक्षकर्कटी। नतं तगरम्॥३१॥

क्वथितास्त्रिफलापाठामृद्वीकाजातिपल्लवाः।

निषेव्या भक्षणीया वा त्रिफला मुखपाकहा॥३२॥

क्वथिता इत्यादौनिषेव्या इति पानगण्डूषाभ्यामुपयोज्या इत्यर्थः। भक्षणायेति परेण सम्बध्यते, तेन लेहादिविधया त्रिफला भक्षणीया वेत्यर्थः॥३२॥

तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च।
सक्षौद्रा दग्धवक्त्रस्य गण्डूषो दाहपाकनुत्॥३३॥

तिला इत्यादि—एतैर्गण्डूष इत्यर्थः। सक्षौद्राइति प्रत्येकममी सक्षौद्रा योगा इति निश्चलः। दग्धवक्त्रस्येति शम्बूकशङ्खचूर्णादिनेत्यर्थः॥३३॥

तैलेन काञ्जिकेनाथ गण्डूषश्चूर्णदाहहा॥३४॥

तैलेनेत्यादौ-चूर्णदाहहेति सुधाभक्षणजनितदाहहेत्यर्थः॥३४॥

घनकुष्ठैलाधान्यक-यष्टीमध्वेलवालुकाकवडः।
वदनेऽतिपूतिगन्धं हरति सुरालशुनगन्धञ्च॥३५॥

घनकुष्ठैलेत्यादि योगमत्र केचित् पठन्ति, तदयुक्तम् वृष्याधिकारे अस्य योगस्य वक्ष्यमाणत्वात्। निश्चलेन तु भ्रमादुभयत्रायं योगः पठितो व्याख्यातश्च॥३५॥

महासहचरतैलम्।

तुलां धृतां नीलसहाचरस्य द्रोणेऽम्भसः संश्रपयेद् यथावत्।
पूत्वा चतुर्भागरसे तु तैलं पचेच्छनैरर्द्धपलप्रयुक्तैः॥

कल्कैरनन्ताखदिरेरिमेदजम्ब्वाम्रयष्टीमधुकोत्पलानाम्।
तत् तैलमाश्वेव धृतं मुखेन स्थैर्य्यं द्विजानां विदधाति सद्यः॥३६॥

तुलामित्यादि—नीलसहाचरो नील

फिण्टी। चतुर्भागरस इति चतुर्थभागरसे। अनन्ता अनन्तमूलम्, इरिभेद विट्खदिरः, तदभावे

खदिरमेव द्विगुणं गृह्णन्ति॥

इरिमेदाद्यं तैलम्।

इरिमेदत्वक्पलशतमभिनवमापोथ्य खण्डशः कृत्वा।
तोयाढकैश्चतुर्भिर्निःक्वाथ्य चतुर्थशेषेण॥

क्वाथेन तेन मतिमांस्तैलस्यार्द्धाढकं शनैर्विपचेत्।
कल्कैरक्षसमांशैर्मञ्जिष्ठालोध्रमधुकानाम्॥

इरिमेदखदिरकट्फललाक्षान्यग्रोधमुस्तसूक्ष्मैला-
कर्पूरागुरुपद्मक-लवङ्गकक्कोलजातीफलानाम्॥

पत्तङ्गगैरिकवराङ्गगजकुसुमधातकीनाञ्च।
सिद्धं भिषग्विदध्यादिदं मुखोत्थेषु रोगेषु॥

परिशीर्णदन्तविद्राधि-शैशिरशीताददन्तहर्षेषु।
क्रिमिदन्तदालनचलितप्रहृष्टमांसावशीर्णेषु।
मुखदौर्गन्ध्ये कार्य्यं प्रागुक्तेष्वामयेषु तैलमिदम्॥३७॥

इरिमेदत्वगित्यादौ। पद्मेति पद्मकाष्ठम्, जाती जाताकोषः, फलं जातीफलम्

पत्तंगं रक्तचन्दनम्, वरांगं गुडत्वक्, गजकुसुमं नागकेशरम्। परिशीर्णदन्तो दन्तरोगभेदः। विद्रधिर्गलविद्रधिः। दालनो दालनवव्द्यपायोगात्। ग्रहृष्टमांसोऽधिमांसः। अवशीर्णोऽवशीर्णमांसः॥३७॥

लाक्षाद्यं तैलम्।

तैलं लाक्षारसं क्षीरं पृथक् प्रस्थं समं पचेत्।
चतुर्गुणेरिमक्वाथे द्रव्यैश्च पलसम्मितैः॥

लोध्रकट्फलमञ्जिष्ठा-पद्मकेशरपद्मकैः।
चन्दनोत्पलयष्ट्याह्वैस्तैलं गण्डूषधारणम्॥

दालनं दन्तचालञ्च हनुमोक्षं कपालिकाम्।
शीतादं पूतिवक्त्रञ्च अरुचिं विरसास्यताम्॥
हन्यादास्यगदानेतान् कुर्य्या

हन्तानपि स्थिरान्॥३८॥

तैलमित्यादौ—लाक्षाया रसः क्वाथः, इरिमक्वाथ इति इरिमेदक्वाथः, षड्गुणोऽयं पाकः। हनुमोक्षो दन्तरोगविशेषः, उक्तं हि सुश्रुते— “वातेन तैस्तैर्भावैस्तु हनुसन्धौ विवट्टिते। हनुमोक्ष इति ज्ञेयो व्याधिवर्द्धितलक्षणः” इति। अयञ्च दन्तदेशसामीप्यात् दन्तपीडाजनकत्वाच्य दन्तरोगमध्ये सुश्रुतेन पठितः। चन्द्राटे हनुमोक्ष इत्यपपाठः॥३८॥

बकुलाद्यं तैलम्।

बकुलस्य फलं लोध्रं वज्रवल्ली कुरुण्टकम्।
चतुरङ्गुलवब्बोल-वाजिकर्णेरिमाशनम्॥
एषां कषायकल्काभ्यां तैलं पक्वं मुखे धृतम्।
स्थैर्य्यं करोति चलतां दन्तानां धावनेन च॥३१॥

वकुलाद्ये वज्रवल्ली अस्थिसंहारः, कुरुण्टको नील

झिण्टी, चतुरंगुलः आरग्वधः,

बब्बोलः तुलसी बवुइ इति ख्यातः, वाजिकर्णःशालभेदः, अशनः पीतशालः, चलतामिति षष्ठीबहुवचनम्॥३९॥

सहकारगुडिका।

एलालतालवनिकाफलशीतकोषकोलद्विकानि खदिरस्य कृते कषाये।
तुल्यांशकानि दशभागमितं निधाय प्रोद्भिन्नकैतकपुटे पुटवद्विपाच्य॥
प्रागंशतुल्यशशिनाथ तदेकसंस्थं पिष्ट्वानवेन सहकाररसेन हस्तौ।

लिप्त्वा यथाभिलषितां गुडिकां विदध्यात्-
स्त्रीपुंसयोर्वदनसौरभबन्धुभूताम्॥४०॥

एलेत्यादि—लताकस्तूरी, लवनिका लवङ्गः, फलं जातीफलम्, शीतं कर्पूरम्, कोषो जातीकोषः, कोलं कक्कोलम् द्विकमगुरु। एलादीनां तुल्यांशः, एषां मिलितानां एकभागापेक्षया दशभागपरिमिते खदिरक्वाथ इत्यर्थः। प्रोद्भिन्नकैतकपुट

इति विकसितकेतकपत्रकृतपुटके खदिरक्वाथालोडितमेलादिचूर्णं निधाय पुटविधिना मनाक् विपाच्य ततः शीतीकृत्य प्रथमगृहीतकर्पूरमनावदपर

ञ्चतद्गृहीत्वा तेन पक्वचूर्णपिण्डेन सह एकीकृत्य पिष्ट्वैकत्र स्थाप्यम्। ततोऽभिनवच्युतवृन्तनिर्यासेन इस्तौ लिप्त्वा यथेष्टं गुडिका कार्या इति॥४०॥

स्वल्पखदिरवटिका।

खदिरस्य तुलां सम्यग् जलद्रोणे विपाचयेत्।
शेषेऽष्टभागे तत्रैव प्रतिवापं प्रदापयेत्॥

जातीकर्पूरपूगाणि कक्कोलकफलानि च।
इत्येषा गुडिका कार्य्या मुखसौभाग्यवर्द्धिनी।
दन्तौष्ठमुखरोगेपु जिह्वाताल्वामयेषु च॥४१॥

खदिरस्येत्यादौ—जाती जातिकोषः, पूर्ग पूगफलम् फलानि जातीफलानि एषां चूर्णानां प्रत्येकं पलम् वक्ष्यमाणखदिरवटिकायां पलांशिकानीतिदर्शनात्। अन्ये तु वक्ष्यमाणखदिरवटिकायां तुलात्रयनिष्पाद्यक्वाथे यावच्चूर्णमुक्तंतावतो मिलितचूर्णात् तृतीयभागेनैषां मिलितानां ग्राह्यम् एतत्क्वाथस्य तुलैकनिष्पाद्यत्वादियाहुः॥४१॥

वृहत् खदिरवटिका।

गायत्रीसारतुलयेरिमवल्कलानां सार्द्धंतुलायुगलमम्बुधटैश्चतुर्भिः।
निःक्वाथ्य पादमवशिष्टसुवस्त्रपूतं भूयः पचेदथ शनैर्मृदुपावकेन॥

तस्मिन् घनत्वमुपगच्छति चूर्णमेषां श्लक्ष्णं क्षिपेच्च कवडग्रहभागिकाणाम्
एलामृणालसितचन्दनचन्दनाम्बुश्यामातमालविक

पाधनलोहयष्टी-
लज्जाफलत्रयरसाञ्जनघातकीभश्रीपुष्पगैरिककटङ्कटकट्फलानाम्।
पद्माह्वलोध्रवटरोहयवासकानां मांसीनिशासुरभिवल्कलसंयुतानाम्।
कक्कोलजातिफलकोपलवङ्गकानि चूर्णीकृतानि विदधीत पलांशिकानि।
शीतेऽवत्तार्य्य घनसारचतुःपलञ्च क्षिप्त्वा कलायसदृशीर्वटिका प्रकुर्य्यात्

शुष्का मुखे विनिहता विनिवारयन्ति
रोगान् गलौष्ठरसनाद्विजतालुजातान्।
कुर्य्युर्मुखे सुरभितामरुचिञ्च हन्युः
स्थैर्य्यं परं दशनगं वदनापटुत्वम्॥४२॥

गायत्रीत्यादौ-गायत्रीसारः खदिरसारः तस्य तुलया सार्द्धम् इरिमेदवल्कलानां विट्खदिरत्वचां तुलायुगलमित्यर्थः घटो द्रोणः। कवडग्रहभागिकाणामिति प्रत्येकं कर्पमानानाम्। अमृणालमुशीरम् चन्दनं रक्तचन्दनम्, अम्बु बालकम्, श्यामा प्रियंगुः तमालंतमालपत्रम्, विकषा मञ्जिष्ठा, घनं मुस्तकम्, लौहमगुरु,

यष्टि,यष्टिमधु, लज्जा विराहक्रान्ता, इभो नागकेशरम्, श्रीपुष्पं पुण्डरीकम्, कटङ्कटो

दारुहरिद्रा, पद्माह्वंपद्मकाष्ठम् सुरभिः शल्लकी। वेष्टकं कुन्दुरिति ख्यातम्, रास्नेत्यन्ये, मूर्वेत्यपरे। वल्कमिति पाठे वल्कलं गुडत्वक्। जातीफलकोष इति जातीफलं जातीकोषञ्च घनसारं कर्पूरम्। अपटुत्वं जाड्यराहित्यम्॥४२॥

इति मुखरोग-चिकित्सा-विवृतिः॥
<MISSING_FIG href=”../../../../../books_images/U-IMG-1700889030Capture.JPG”/>

अथ कर्णरोग-चिकित्सा।

कपित्थमातुलुङ्गाम्ल-शृङ्गवेररसैः शुभैः।
सुखोष्णैः पूरयेत् कर्णं कर्णशूलोपशान्तये॥१॥

मुखरोगेषु जिह्वाश्रयरोगा उक्ताः, जिह्वा चेन्द्रियाधिष्ठानमत इन्द्रियाधिष्ठानगतरोगचिकित्साप्रसंगात् कर्णरोगचिकित्सितसुच्यते। कपित्थेत्यादि—सुश्रुतस्य। कपित्थस्य फलम्, एवं मातुलुंगस्यापि, अम्लेति विशेषणात् सुपक्वफलं ग्राह्यम्। वाशब्दस्य कपित्थादिभिरन्वयः। एते च त्रयो योगाः॥१॥

शृङ्गवेरञ्च मधु च सैन्धवं तैलमेव च।
कदुष्णं कर्णयोर्देयमेतद्वा वेदनापहम्॥२॥

शृङ्गवेरमित्यादि—शृङ्गवेरस्वरसमाषकचतुष्टयम्, मधुनो माषकद्वयम्, सैन्धवरक्तिकामेकाम्, तैलम् तिलजं, माषकद्वयं गृहीत्वा सर्वमालोड्य कदुष्णं कृत्वा कर्णे पूरयेत्॥२॥

लशुनार्द्रशिग्रूणां सुरङ्ग्या मूलकस्य च।
कदल्याः स्वरसः श्रेष्ठः कटुष्णः कर्णपूरणे।
समुद्रफेनचूर्णेन युक्त्या वाप्यवचूर्णयेत्॥३॥

लशुनेत्यादि—सुश्रुतस्य। सुरङ्गी रक्तशोभाञ्जनम्, कदली कदलीवागुडा, तस्याः स्वरसः। एते च लशुनस्वरसादयो व्यस्ताः समस्ता वा बोध्याः। पूर्वोक्तस्याप्यार्द्रकरसस्यापि पुनरुपादानं समस्तपक्षे सप्रयोजनमेव। युक्त्येति प्रथमं तैलेन कर्णं भ्रक्षयित्वा ततोऽवचूर्णनमिति युक्त्यर्थ इति केचित्। अन्ये तु शुक्तेन कर्णौ पूरयित्वा ततो समुद्रफेनेनावचूर्णनमिति युक्त्यर्थमाहुः; युक्तञ्चैतत्, यदाह वाग्भटः शुक्तेन पूरयित्वा सिन्धुफेनेन वावचूर्णयेत्।” अतएव समुद्रफेनयुक्तेनेति पाठान्तरं सुश्रुते केचित् पठन्ति, तन्मते समुद्रफेनयुक्तेनेति पदं पूर्वोक्तशुक्तविशेषणम्, सुश्रुते हि एतस्मात् पूर्वं “कर्णो कोष्णेन शुक्तेनपूरयेत् कर्णशूलिनः” इत्युक्तम्। अस्मिन् पक्षे युक्त्येति अस्य मात्रया इत्यर्थः॥ ३॥

आर्द्रकसूर्य्यावर्त्त-शोभाञ्जनमूलकस्वरसाः।
मधुतैलसैन्धवयुताः पृथगुक्ताः कर्णशूलहराः॥४॥

आर्द्रकेत्यादौ— शोभाञ्जनं शोभाञ्जनमूलम् मूलकन्तु मूलककन्दम्। एते

कदुष्णीकृत्योपयोज्याः।अतएव पृथगुक्ता इत्यत्र पृथगुष्णा इति पाठान्तरं केचित् पठन्ति॥४॥

शोभाञ्जनकनिर्य्यासस्तिलैतैलेन संयुतः।
व्यक्तोष्णः पूरणः कर्णे कर्णशूलोपशान्तये॥५॥

शोभाञ्जनेत्यादि—शोभाञ्जननिर्यासः शोभाञ्जनस्वरसः॥५॥

अष्टानामपि मूत्राणां मूत्रेणान्यतमेन च।
कोष्णेन पूरयत् कर्णौ कर्णशूलोपशान्तये॥६॥

अष्टानामिति—मूत्राष्टकं यथा—सैरिभाजाविकरभगोखरद्विपवाजिनाम्। मूत्राणेति॥

अश्वत्थपत्रखल्वं वा विधाय बहुपत्रकम्।
तैलाक्तमङ्गारपूर्णं विदध्यात् श्रवणोपरि॥

यत् तैलं च्यवते तस्मात् खल्वादङ्गारतापितात्।
तत् प्राप्तं श्रवणस्रोतः सद्यो गृह्णाति वेदनाम्॥७॥

अश्वत्थेत्यादि—सुश्रुतस्य। अश्वत्थपत्रैबहुभिस्तैला

प्तैश्चुल्लिकां कृत्वा सरन्ध्रां कृत्वा तदुपरि ज्वलदङ्गारं विन्यस्य कर्णयोरुपरि धारयेत् ततः पतिततैलेन कर्णपूरणम्। पित्तानुबन्धे तु सर्पिर्देयं तैलस्थाने, विदेहसंवादात्॥ ७॥

अर्कपत्रपुटे दग्धस्नुहीपत्रभवो रसः।
कदुष्णः पूरणादेव कर्णशूलनिवारिणः॥८॥

अर्कपत्रेत्यादि—स्नुहीपत्रमर्कपत्रेण वेष्टयित्वा तदनु स्नुहीपत्रं दग्ध्वा क्षौदयित्वा तद्रसेन कर्णयोः पूरणमित्युपदेशः॥८॥

दीपिकातैलम्।

महतः पञ्चमूलस्य काण्डान्यष्टांगुलानि च।
क्षौमेणावेष्ट्य संसिच्य तैलेनादीपयेत्ततः॥
यत् तैलं च्यवते तेभ्यः सुखोष्णं सम्प्रयोजयेत्॥
ज्ञेयं तद्दीपिकातैलं सद्यो गृह्णाति वेदनाम्॥
एवं कुर्य्याद्भद्रकाष्ठे कुष्ठे काष्ठे च सारले।
मतिमान् दीपिकातैलं कर्णशूलनिवारणम्॥६॥

महत इत्यादि— सुश्रुतस्य। पञ्चमूलस्येति विल्वादीनामन्यतमस्य। अष्टांगुलानीति अप्रभागे अष्टांगुलानि व्याप्य क्षौमेण वेष्टनं कार्य्यमित्यर्थः। तेन तत्काष्ठमष्टांगुलाधिकं कार्य्यम्। वृद्धास्तु अष्टादशांगुलमिति पञ्चमूलकाष्ठं गृहीत्वा तस्याग्रभागेऽष्टांगुलं व्याप्य तैलाक्तं वस्त्रं बद्ध्वा प्रज्ज्वाल्य ततो गलिततैलेन कर्णपूरणं कुर्वन्ति। स्वल्पवाग्भटे तु अष्टांगुलादिपरिमाणं नोक्तम् यथा—“महतः पञ्चमूलस्य काष्ठात् क्षौमेण वेष्टितात्। तैलसिक्तात् प्रदीपाग्रात् स्नेहः सद्योरुजाहरः” इति

अर्कस्य पत्रं परिणामपीतमाज्येन लिप्तं शिखिनावतप्तम्।

आपीड्य तोयं श्रवणे निषिक्तंनिहन्ति शूलं बहुवेदनञ्च॥१०॥

अर्कस्येत्यादौ—परिणामपीतमिति। कालप्रकर्षेण पाकवशात् पतिवर्णं शिखिना वह्निना अवतप्तं स्विन्नमित्यर्थः। तोयमिति रसः बहुवेदनमिति नानाविधतोदभेदादिवेदनासहितम्॥१०॥

तीब्रशूलान्विते कर्णे सशब्दे क्लेदवाहिनि।
वस्तमूत्रं क्षिपेत् कोष्णं सैन्धवेनावचूर्णितम्॥११॥

तीव्रेत्यादि—स्पष्टम्॥११॥

वंशावलेखसंयुक्ते मूत्रे वाजाविके भिषक्।
तैलं पचेत् तेन कर्णं पूरयेत् कर्णशूलिनः॥१२॥

वंशेत्यादि— सुश्रुतस्य। वंशावलेखो वंशावलेखनी, तस्याः कल्कम्, मूत्रे चाजाविक इति आजे वा आविके वा मूत्रे पचेदित्यर्थः। यदाह—“वंशावलेखकल्केन मूत्र आजे तथाविके। पचेत् तैलं रुजः शान्त्यै कणयोः पूरणं भिषक्” इति बिदेहवचनात् घृतमप्यनेन विधिना पक्तव्यम्॥१२॥

हिंगुतुम्वुरुशुण्ठीभिः साध्यं तैलन्तु सार्षपम्।
कर्णशूले प्रधानन्तु पूरणं हितमुच्यते॥१३॥

हिंग्वित्यादौ—साध्यमिति जलं न चतुर्गुणेन॥१३॥

क्षारतैलम्।

वालमूलकशुण्ठीनां क्षारो हिंगु सनागरम्।
शतपुष्पा वचा कुष्ठं दारु शिग्रु रसाञ्जनम्॥

सौवर्चलं यवक्षारः सर्जिकोद्भिदसैन्धवम्।
भूर्जग्रन्थिविडं मुस्तं मधुशुक्तंचतुर्गुणम्॥

मातुलुङ्गरसश्चैव कदल्या रस एव च।
तैलमेभिर्विपक्तव्यं कर्णशूलहरं परम्॥

बाधिर्य्यं कर्णनादश्च पूयास्त्रावश्च दारुणः।
पूरणादस्य तैलस्य क्रिमयः कर्णसंश्रिताः॥

क्षिप्रं विनाशं गच्छन्ति कृष्णात्रेयस्य शासनात्।
क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम्॥

मधुप्रधानं शुक्तन्तु मधुशुक्तं तथापरम्।
जम्बीरस्य फलरसं पिप्पलीमूलसंयुतम्॥

मधुभाण्डे विनिक्षिप्य धन्यराशौ निधापयेत्।
मासेन तज्जातरसं मधुशुक्तमुदाहृतम्॥१४॥

पालमूलकेत्यादौ—मधुशुक्तं चतुर्गुणमिति मधूपलक्षितं शुक्तं मधुशुक्तम्। एतेन प्रस्थं तण्डुलतोय इत्युक्तस्य मधुरहितशुक्तस्य निषेधः। ग्रहणन्तु यन्मस्त्वादि शुचौ

भाण्ड इत्यादिनोक्तस्य, तथा जम्बीरस्य फलमित्यादिना अनन्तरमेव वक्ष्यमाणस्य वा ज्ञेयम्। एतदेवं मधुप्रधानं शुक्तमित्यादिना वक्ष्यति। अन्ये तु मध्विति छेदः, तेन मधुनः कल्कत्वम्, शुक्तस्य चतुर्गुणत्यञ्चेत्यर्थःअपरे तु मधु चतुर्गुणं शुक्तञ्च चतुर्गुणमिति व्याचक्षते। एतन्मतद्वयमपि नोपपद्यते, समानतन्त्रे जतूकर्णेतु मधुनोऽप्यपाठत्वात्। मातृलुंगकदलीवागुरास्वरसौ तु तैलसमौ, जतूकर्ण

सेवादात्, अतः

षड्गुणः पाकः। अन्ये तु वाग्भटसंवादात् मातुलुंगकदलीस्वरसयोः प्रत्येकं चतुर्गुणत्वमाहुः, अतो हि मधुशुक्तं चतुर्गुणं मातुलुंगरसश्च तद्वत् कदलीरसश्चेत्युक्तम्। उभयमपि प्रभाणं स्मृतिद्वैधवत्। व्यवहारस्तु पूर्वेणैव। जम्बीरस्येति जम्बीरफलरसस्य द्वात्रिंशत्पलानि, पिप्पलीमूलस्य चत्वारि, मधुनोऽष्टौ पलानि इति वृद्धवैद्योपदेशात् मानक्रमः॥१४॥

कर्णनादे कर्णक्ष्वेडे कटुतैलेन पूरणम्।
नादवाधिर्य्ययोः कुर्य्याद्वातशूलोक्तमौषधम्॥१५॥

कर्णनाद इत्यादौ—कटुतैलं सार्षपतैलम्॥१५॥

अपामार्गक्षारतैलम्।

मार्गक्षारजले तत्कृतकल्केन साधितं तिलजम्।
अपहरति कर्णनादं वाधिर्य्यञ्चापि पूरणतः॥१६॥

मार्गेत्यादि—मार्गोऽपामार्गः। अपामार्गक्षारपलानि षोडश द्रवद्वैगुण्यात् जलस्य चतुर्विंशतिशरावाः, एकविंशतिवारान् परिस्राव्य अतः क्षारजलात् षोडश शरावा ग्राह्याः। तत्कृतकल्केनेति अपामार्गकृतक्षारकल्केन। स च तैलशेषभयाज्जतेनालोड्य तैले देयः। यदा तु पिण्डीभूतात् कल्कं तैलं सम्यक् पृथग्भूतं दृश्यते, तदैव तैलं पात्रान्तरे कृत्वा ग्राह्यम्, न तु कतको गालनीयः, क्षारमिश्रितभयात्। अन्ये तु समासान्तर्भूतमपि मार्गपदं तच्छब्देन समाकृष्य अपामार्गमूलमेव कल्कमाहुः

सर्जिकाक्षारतैलम्।

सर्जिका मूलकं शुष्कं हिङ्गु कृष्णा महौषधम्।
शतपुष्पा च तैस्तैलं पक्वंशुक्तचतुर्गुणम्।
प्रणादशूलवाधिर्य्यं स्रावञ्चाशु व्यपोहति॥१७॥

सर्जिकेत्यादि—सुगमम्॥१७॥

दशमूलीतैलम्।

दशमूलीकपायेण तैलप्रस्थं विपाचयेत्।
एतत् कल्कं प्रदायैव वा

धिर्य्ये परमौषधम्॥१८॥

दशमूलीत्यादि—स्पष्टम्॥१८॥

बिल्वतैलम्।

फलं बिल्वस्य मूत्रेण पिष्ट्वातैलं विपाचयेत्।
साजाक्षीरं तद्धि हरेद्वाधिर्य्यं कर्णपूरणे॥१६॥

फलमित्यादौ— मूत्रेणत्यस्य पिष्ट्वेत्यनेन तथा पाचयेदित्यनेन सम्बन्धः। पाचयेदित्यनेनैव वा तदुक्तं तन्त्रान्तरे “विल्वगर्भं पचेत् तैलं गोमूत्राजपयोऽन्वितम्। वाधिर्य्येपूरयेत् तेन कर्णौ सकफवातजौ” इति। अत्राजाक्षीरं तैलसमं गोमूत्रं त्रिगुणं चतुर्गुणं वेत्याहुः॥१६॥

एष एवविधिः कार्य्यः प्रणादे नस्यपूर्वकः।
गुडनागरतोयेन नस्यं स्यादुभयोरपि॥२०॥

एष एवेति—विधिर्बाधिर्यहरः। उभयोरपि बाधिर्य्यकर्णनादयोः॥ २०॥

चूर्णं पञ्चकषायाणां कपित्थरससंयुतम्।
कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह॥२१॥

कर्णस्रावचिकित्सामाह चूर्णमित्यादि—सुश्रुतस्य। पञ्चकषायाणां पञ्चवल्कलानां चूर्णम्। उक्तं हि वाग्भटे—“पञ्चवल्कलचूर्णञ्च कपि

त्णस्वरसान्वितम्। मधुना योजितं हन्यात् कर्णास्रावं प्रपूरयत्” इति। अन्ये तु पञ्चकषायशब्देन सौश्रुतमेव कर्णस्रावोक्तं तिन्दुकादिपञ्चकमुच्यते, यथा—“तिन्दुकान्यभया लोध्रं समङ्गामलकं तथा। पूरणञ्चात्र पथ्यं स्यात् कपित्थरसयोजितम्” इति। न च तयोरपि बचनयाः सौश्रुतत्वेन पौनरुक्त्यमिति वाच्यं, मधुयोगात् योगद्वौविध्यादित्याहुः॥

मालतिदलरसमधुना पूरितमथवा गवां मूत्रैः।
दूरेण परित्यज्यते च श्रवणयुगलं पूतिरोगेण॥२२॥

मालतिदलेति छन्दोऽनुरोधात् ह्रस्वत्वम्॥२२॥

हरितालं सगोमूत्रं पूरणं पूतिकर्णजित्॥२३॥

हरितालमित्यादि—स्पष्टम्॥२३॥

सर्जत्वक्चूर्णसंयुक्तः कार्पासीफलजो रसः।
मधुना संयुतः साधुः कर्णस्रावे प्रशस्यते॥२४॥

सर्जेत्यादि—सुश्रुतस्य। सर्जः शालः, कार्पासी वनकार्पासी, ग्रामकार्पासी वा। अत्र कार्पासीफलरसमपेक्ष्य अर्द्धं मधु, मध्यपेक्षया च सर्जत्वक्चूर्णमर्द्धमिति वृद्धोपदेशः। साध्विति कार्पासीफलरसविशेषणं तेन कीटाद्यजग्धकार्पासीफलरसो ग्राह्य इति॥२४॥

जम्ब्वाद्यं तलम्।

जम्ब्वाम्रपत्रं तरुणं समांशं कपित्थकार्पास फलञ्च सार्द्रम्।
क्षुत्वा रसं तन्मधुना विमिश्रं स्रावापहं सम्प्रवदन्ति तज्ज्ञाः॥
एतैः शृतं निम्बकरञ्जतैलं ससार्षपं स्रावहरं प्रदिष्टम्॥२५॥

जम्बाम्रेत्यादौ—सार्द्रमिति समन्तादार्द्रमित्यर्थः। क्षुत्त्वेति संक्षुद्येत्यर्थः। एतैरिति जम्ब्वाम्रपत्रादिभिः कल्करूपैरित्यर्थः, जलञ्चात्रार्थाचतुर्गुणम्। अन्ये तु जम्बूपत्रादिरसैरित्यर्थइत्याहुः। एतन्मते त्वकल्क एवायं पाक इति, पाकोत्तरकालञ्च मधुप्रक्षेप इत्याहुः। निम्बबीजकर

डाबीजभवं तैलं सार्षपतैलञ्च संमिश्रय पक्तव्यम्। प्रथगव तैलत्रयं पक्तव्यमित्यन्ये॥२५॥

पुटपाकविधिस्विन्नहस्तिविड्जातगोण्डकः।
रसः सतैलसिन्धूत्थः कर्णस्रावहरः परः॥२६॥

पुटपाकेत्यादौ—हस्तिविड्जातगोण्डको हस्तिलण्डोद्भूतच्छत्रकः। रस इत्यत्र तस्येति शेषः, तेन हस्तिलण्डोद्भूतच्छत्रकरस इत्यर्थः। अन्ये तु कोण्टज इति पठन्ति। अपरे तु कोण्टकरस इति समस्तमेव पठन्ति ‘वेशवारपयोदधि। मांसधावनतोयाभम्’ इतिवत्॥२६॥

शम्बूकाद्यं तैलम्।

शम्बूकस्य तु मांसेन कटुतैलं विपाचयेत्।
तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति॥२७॥

शम्बूकस्यस्यादि—शम्बूकमांसस्य कल्कः, जलं चतुर्गुणमिति॥२७॥

धुस्तूराद्यं तैलम्।

निशागन्धपले पक्वंकटुतैलं पलाटकम्।
धुस्तूरपत्रजरसे कर्णनाडीजिदुत्तमम्॥२८॥

निशेत्यादि—निशा हरिद्रा। निशागन्धयोर्मिलित्वा पलमेकं तथा धुस्तूरंपत्रस्वरसश्च तैलसमः। उक्तं हि ‘गन्धकशिलारजनीभवेन मुष्टंपशिकेन कटुतैलपलाष्टकञ्च धुस्तूरपत्ररसतुल्यमिदन्तु सिद्धं नाडीं जयेच्चिरभवामपि कर्णजाताम्’ इति। कटुतैलस्थाने केचित् रुवुतैलं पठन्ति॥२८॥

अथ कर्णप्रतीनाहे स्नेहस्वेदौ प्रयोजयेत्।
ततो विरिक्तशिरसः क्रियां प्राप्तां समाचरेत्।
कर्णपाक

स्याभैषज्यं कुर्य्यात् क्षतविसर्पवत्॥२६॥

अथेत्यादि—सुश्रुतस्य। क्रियां प्राप्तामिति दोषानुरूपाम्॥२६॥

नाडीखेदोऽथ वमनं धूमो मूर्द्धविरेचनम्॥
विधिश्चकफहा सर्वः कर्णकण्डूं व्यपोहति॥३०॥

नाडीस्वेद इत्यादौस्नेहस्वेद इति पाठे कफकृतायामपि कर्णनाड्यां स्नेहो वमनाङ्गतया बोध्यः॥३०॥

क्लेदयित्वा तु तैलेन स्वेदेन प्रविलाप्य च।
शोधयेत् कर्णगूथन्तु भिषक् सम्यक् शलाकया॥३१॥

क्तेदयित्वेत्यादि—स्पष्टम्॥३१॥

निर्गुण्डीस्वरसस्तैलं सिन्धुधूमरजो गुडः।
पूरणात् पूतिकर्णस्य शमनो मधुसंयुतः॥३२॥

निर्गुण्डीत्यादि—निर्गुण्डीस्वरसतिलतैलयोः प्रत्येकं माषकचतुष्टयं, गृहधूमचूर्णगुडयोस्तु प्रत्येकन्तु माषकद्वयं, मधुनस्तु माषकद्वयं, सैन्धवस्य रक्तिपञ्चकमिति व्यवहरन्ति॥३२॥

जातीपत्ररसे तैलं विपक्वंपूतिकर्णजित्।
वरुणार्ककपित्थाम्रजम्बूपल्लवसाधितम्
पूतिकर्णापहं तैलं जातीपत्ररसेन वा॥३३॥

वरुणेत्यादि—वरुणादिपल्लवानां कल्कः॥३३॥

सूर्य्यावर्त्तकस्वरसं सिन्धुवाररसं तथा।
लाङ्गलीमूलजरसं त्र्यूषणेनावचूर्णितम्।
पूरयेत् क्रिमिकर्णन्तु जन्तूनां नाशनं परम्॥३४॥

सूर्यावर्त्तकादिषु त्रिषु योगेषु व्योषचूर्णं प्रक्षेप्यम्॥३४॥

क्रिमिकर्णकनाशार्थं क्रिमिघ्नं योजयेद्विधम्।
वार्त्ताकुधूमश्च हितः सार्षपस्नेह एव च॥३५॥

क्रिमिकर्णकेत्यादि— वार्ताकुधूम इति परिणतवार्त्ताकुफलचूर्णम् अङ्गारसम्पुटे दत्त्वा नलिकया धूमो देयः। वार्त्ताकुबीजेन धूमः कार्य इति मध्यवाग्भटः॥३५\।\।

हलिसूर्य्यावर्त्तव्योषस्वरसेनातिपूरिते।
कर्णे पतन्ति सहसा सर्वास्तु क्रिमिजातयः॥ ३६॥

हलीत्यादि—हली लाङ्गलीयामूलं हलीसूर्यावर्त्तयेर्व्योषयुक्तरसेन कर्णपूरणमित्यर्थः॥

नीलवुह्नारसस्तैलसिन्धुकाञ्जिकसंयुतः।
कदुष्णः पूरणात् कर्णे निःशेषकिमिपातनः॥३७॥

नीलवु

ह्नेत्यादि—नील

भिण्टीरसे तैलं, सैन्धवं काञ्जिकं च निक्षिप्य कोष्णं कृत्वा कर्णे देयम्॥३७॥

धूपनः कर्णदौर्गन्ध्ये गुग्गुलुः श्रेष्ठ उच्यते॥३८॥

धूपन इत्यादि—स्पष्टम्॥३८॥

राजवृक्षादितोयेन सुरसादिजलेन वा।
कर्णप्रक्षालनं कुर्य्याच्चूर्णैरेतैः प्रपूरणम्॥३१॥

राजवृक्षेति—राजवृक्षादिगणः आरग्वधादिगणः। सुरसादिः सुरसादिगणाः। चूर्णैरेतैरिति आरग्वधादिसुरसादिजैः॥३३॥

घृष्टं रसाञ्जनं नार्य्याः क्षीरेण क्षौद्रसंयुतम्।
प्रशस्यते चिरोत्थेऽपि सास्रावे पूतिकर्णके॥४०॥

घृष्टमित्यादि—सुगमम्॥४०॥

कुष्ठाद्यं तैलम्।

कुष्ठहिङ्गुवचादारुशताह्वाविश्वसैन्धवैः।
पूतिकर्णापहं तैलं वस्तमूत्रेण साधितम्॥४१॥

कुष्ठेत्यादि—कुष्ठादीनां कल्कम्॥४१॥

विद्रधौ चापि कुर्वीत विद्रध्युक्तं हि भेषजम्॥४२॥

विद्रध्युक्तमित्यन्तर्विद्रध्युक्तमिति श्रीकण्ठः॥४२॥

शतावरी वाजिगन्धा पयस्यैरण्डबीजकैः।
तैलं विपक्वंसक्षीरं पालीनां पुष्टिकृत् परम्॥४३॥

शतावरीत्यादि—सुश्रुतस्य। पयस्या क्षीरकाकोली, विदारीगन्धेत्यन्ये। एरण्डस्य बीजकं, न तु बीजकः पीतशालः तस्य रुक्षत्वादिति। बोजकैरिस्यत्र जीरकैरित्येव पाठ इति निश्चलः॥४३॥

गुञ्जाचूर्णयुते जाते माहिषे क्षीर उद्गतम्।
नवनीतं तदभ्यङ्गात् कर्णपालिविवर्द्धनम्॥४४॥

गु

डोत्यादि—गु

जाचूर्णं क्षीरापेक्षया अष्टमांशमित्याहुः। जात इत्यत्र दध्नीति शेषः। अष्टमांशगु

झाचूर्णयुते महिपीक्षीरे जातस्य दध्नो नवनीतमित्यर्थः॥४४॥

विपगर्भं तिक्ततुम्बी-तैलमष्टगुणे खरात्।
मूत्रे पक्वंतदभ्यङ्गात् कर्णपालिविवर्द्धनम्॥४५॥

विषगर्भमित्यादि—विषस्य कल्कम्। तिक्ततुम्बीबीजभवं तैल तिक्ततुम्बीतैलम्। खरस्य गर्दभस्य मूत्रे खरमूत्रे॥ ४५॥

जीवनीयाद्यं तैलम्।

कल्केन जीवनीयेन तैलं पयसि साधितम्।
आनूपमांसक्वाथेन पालीपोपणवर्द्धनम्॥४६॥

कल्केनेत्यादि—वाग्भटस्य। जीवनीयेति जीवनीयदशकेन अष्टवर्गेण वेत्यन्ये। दुग्धमत्र स्नेहसमम्, आनूपमांसक्वाथन्तु त्रिगुणः। पोषणं परिणाहेन वर्द्धनम्, अन्ये तु दैर्घ्येण॥४६॥

माहिपनवनीतयुक्तं सप्ताहं धान्यराशिपरिवासितम्।
नवमूषलिकन्दचूर्णम्वृद्धिकरं कर्णपालीनाम्॥४७॥

माहिषेत्यादौ—सप्ताहं धान्यराशौपरिवस्तुं शीलमस्येति तत् तथा। नवमूषलीकन्दचूर्णमिति तत्क्षणानीतशुष्कतालमूलीकन्दचूर्णं पल २ माहिषनवनीतपल १, संमर्द्य सप्ताहं धान्यराशौ स्थाप्यमित्यर्थः॥४७॥

कर्णस्य दुर्व्यधे भूते संरम्भो वेदना भवेत्।
तत्र दुर्व्यधरोहार्थंलेपो मध्वाज्यसंयुतैः।
मधूकयवमञ्जिष्ठारुवुमूलैः समन्ततः॥४८॥

दुर्विद्धकर्णचिकित्सामाहकर्णस्येत्यादि— रुवुमूलमेरण्डमूलम्। उक्तं हि तन्त्रान्तरे— “यवैरण्डजटासर्पिर्मधूकमधुसंयुतम्। विकषाधवचूर्णं वा केवलं रोपणं हितम्” इति। अतएव रुवुमूलस्थाने रुवुतैलमित्यपपाठः॥४८॥

अनेकधा तु छिन्नस्य सन्धिः कर्णस्य वै भिषक्॥
यो यथा विनिविष्टः स्यात् तं तथा विनियोजयेत्॥

धान्याम्लोष्णोदकाभ्यान्तु सेको वातेन दूषिते।
रक्तपित्तेन पयसा श्लेष्मणा तूष्णवारिणा।
ततः सीव्य स्थिरं कुर्य्यात् सन्धिं बन्धेन वा पुनः॥

मध्वाज्येन ततोऽभ्यज्य पिचुना सन्धिवेष्टकम्।
कपालचूर्णेन ततश्चूर्णयेत् पथ्ययाथवा॥४६॥

छिन्नकर्णपालिसन्धानार्थ विधिमाह अनेकधेत्यादि—कर्णपालिच्छेदो हि हेतुद्वयेन भवति, उक्तं हि सुश्रुते—“एवं विवर्द्धितः कर्णश्चिद्यते तद्द्विधा नृणाम्। दोषतश्चाभिघाताद्वा” इति। दोषत इति वातादिकोपात्। छिन्नस्य कर्णस्येति छिन्नकर्णयोः कर्णलतिकयोः। अथ स्थूलह्रस्वदीर्घऋजुतिर्यगादिभेदेन अनेक विधत्वात् सन्धिरपि अनेकधा भवति, तत्र सन्धिर्यथा येन प्रकारेण विनिविष्टः सुसम्बद्धः स्यात् तं सन्धिं तथा तेन प्रवारेण योजयेत्, सन्धानार्थं योजयेदित्यर्थः। तत्र सुश्रुते पञ्चदश छिन्नकर्णवन्धप्रकारा आकृतिभेदेनोक्ताः ते च तत्रैव कुव्यधसन्धिविज्ञानीयाध्याये चानुसन्धेयाः। तत्र दोषानुरूपं प्रक्षालनमाह धान्याम्लेत्यादि पयसेति दुग्धेन, शीतोदकेनेति वा। उक्तं हि सुश्रुते—“पित्तदुष्ट शीतोदकपयोभ्याम्” इति। तत इत्यादि— तत इति सन्धिद्वयसंयोगानन्तरम्। सीव्येत्यत्र क्षौमसूत्रेणेति शेषः। सन्धिं कर्णपालिद्वयसन्धिं सीव्य स्थिरं कुर्य्यात्, तथा बन्धेन स्थिरं कुर्य्यात्। सन्धिस्थिरीकरणानन्तरं मधावृताभ्यां सन्धिमभ्यज्य पिचुना तूलकपिण्डेन सन्धिवेष्टनं कुर्य्यात्। सन्धिवेष्टनानन्तरच सूत्रेणातिगाढं नातिशिथिलञ्च बन्धनं बोध्यम्, वाग्भटसंवादात्। कपालो मृत्पात्रकपालः॥४६॥

इते कर्णरोगचिकित्सा-विवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1700900599Capture.JPG”/>

अथ नासारोग-चिकित्सा।

पञ्चमूलीशृतं क्षीरं स्याच्चित्रकहरीतकी।
सर्पिर्गुडःषडङ्गश्च यूषः पीनसशान्तये॥१॥

उक्तसंगत्यैव कर्णरोगचिकित्सानन्तरं नासारोगचिकित्सितमुच्यते। पञ्चमूलीत्यादि—पञ्चमूली स्वल्पेति निश्चलः। महतीत्यन्ये। चित्रकहरीतकीअत्रैवाधिकारे वाच्या सर्पिर्गुडषडङ्गयूषौ यक्ष्मोक्तौ। इदन्तु क्रियासूत्रं पीनसे बोध्यम्॥१॥

व्योषादिचूर्णम्।

व्योषचित्रकतालीश-तिन्तिडी चाम्लवेतसम्।
सचव्याजाजितुल्यांशमेलात्वक्पत्रपादिकम्॥

व्योषादिकं चूर्णमिदं पुराणगुडसंयुतम्।
पीनसश्वासकासघ्नं रुचिस्वरकरं परम्॥२॥

व्योषादिचूर्णे—व्योषस्त्रिकटुः, तिन्तिडी महार्द्रकम्, अजाजी जीरकम्, एलात्वक्पत्रपादिकमिति एलात्वक्पत्रादि प्रत्येकमेकभागापेक्षया पादिकम्, गुडन्तु सर्वचूर्णसममिति निश्चलः। किन्तु “तालीशचित्रकव्योपतिन्ति

क्षीकाम्लवेतसम्। सचव्याजाजीद्विपलमेलात्वक्पत्रपादिकम्। जीर्णगुडतुलार्द्धेन पाकेन वटकीकृतम्। पीनसश्वासकासघ्नं रुचिस्वरकरं परम्” इति वाग्भट सार्द्धोनविंशतिपलचूर्णैस्तुलार्द्धस्योक्तत्वात् गुडस्य सर्वसमत्वं नोपपद्यत इति॥२॥

पाठादितैलम्।

पाठाद्विरजनीमूर्वापिप्पलीजातिपल्लवैः।
दन्त्या च तैलं संसिद्धं नस्यं सम्यगपीनसे॥३॥

पाठेत्यादि—पाठादीनां कल्को जलं चतुर्मुणमिति॥३॥

व्याघ्रीतैलम्।

व्याघ्रीदन्तीवचाशिग्रुसुरसव्योपसैन्धवैः।
पाचितं नावनं तैलं पूतिनासागदं जयेत्॥४॥

व्याघ्रीत्यादौ—सुरसःसिन्धुवारः, पर्णास इत्यन्ये॥४॥

त्रिकटुविडङ्गसैन्धववृहतीफलशिग्रुसुरसदन्तीभिः।
तैलं गोजलसिद्धं नस्यं स्यात् पूतिनस्यस्य॥५॥

त्रिकट्वित्यादि—अत्रापि सुरसः सिन्धुवारः, पर्णास इत्यन्य। अत्र शिग्रुबीजं दन्तीबीजं ग्राह्यम्, तथा बृहतीफलस्यापि बीजम्। उक्तंहि वाग्भटे “शिग्रुसिंहीनिकुम्भानां वीजैः सव्योषसैन्धवैः। सरेणुसुरसैस्तैलं मूत्रसिद्धन्तु नावनम्” इति ५

कलिङ्गहिङ्गुमरिच-लाक्षासुरसकट्फलैः।
कुष्ठोग्राशिग्रजन्तुघ्नैरवपीडः प्रशस्यते॥

तैरेव मूत्रसंयुक्तैः कटुतैलं विपाचयेत्।
अपीनसे पूतिनस्यं शमनं कीर्त्तितं परम्॥६॥

कलिङ्गत्यादौ—सुरसः पर्णासः, उग्रा वचाः, क्रिमिघ्नो विडङ्गः। अत्रापि वक्ष्यमाणमूत्रसंयुक्तैरित्यत्र सम्बन्धं कृत्वा अवपीडमपि मूत्रेण पिष्ट्वाकुर्य्यात्। तैलपाके तु गोमूत्रमेव चतुर्गुणमिति॥६॥

नासापाके पित्तहरं विधानं कार्य्यंसर्वं वाह्यमाभ्यन्तरञ्च।

हरेद्रक्तंक्षीरिवृक्षत्वचश्च योज्याः सेके सघृताश्च प्रदेहाः॥
पूयास्ररक्तपित्तघ्नाः कषाया नावनानि च॥७॥

नासापाके पित्तहरं विधानमित्यत्र पित्तहृत् सन्धारणमिति पाठो रत्नप्रभासम्भवः। हरेद्रक्तमित्यत्र हृत्वा रक्तमित्यपि तथा। बाह्यमाभ्यन्तरञ्चेति बाह्यं लेपादि, आभ्यन्तरं स्नेहपानादि। क्षीरिवृक्षा वटोडुम्बरादयः पञ्च॥७॥

शुण्ठीकुष्ठकणाबिल्व-द्राक्षाकल्क कषायवत्।
साधितं तैलमाज्यं वा नस्यं क्षवथुरुक्प्रणुत्॥८॥

शुण्ठीत्यादि—वाग्भटस्य। बिल्वं बिल्वस्य मूलम्। क्षवथुपुटनुदित्येव पाठो वाग्भटे तु दृश्यते, टीकायाञ्चैवमेवोक्तम्, अस्यार्थमबुद्ध्वैव क्षवथुरुक्प्रणुदिति पाठमज्ञाः कुर्वन्ति। क्षवथुः क्षवः, पुटोऽपि नासारोगविशेषः। उक्तं हि वाग्भटे— “पित्तश्लेष्मावरुद्धोऽन्तर्नासायां शोषयेन्मरुत्। कफं संशुष्कपुटतां प्राप्नोति पुटकं हि तत्” इति॥८॥

दीप्ते रोगे पैत्तिकेसंविधानं सर्वं कुर्य्यान्मधुरं शीतलञ्च।
नासानाहे स्नेहपानं प्रधानं स्निग्धा धूमा मूर्ध्नि वस्तिश्च नित्यम्॥६॥

दीप्त इत्यादि—सुश्रुतस्य। दीप्ते रोगे पैत्तिकसन्धानमिति पाठः सुश्रुते दृश्यते॥

वातिके तु प्रतिश्याये पिबेत् सर्पिर्यथाक्रमम्।
पञ्चभिर्लवणैः सिद्धं प्रथमेन गणेन च॥
नस्यादिषु विधिं कृत्स्नमवेक्षेतार्दितेरितम्॥१०॥

वातिक इत्यादि—सुश्रुतस्य। पञ्चभिर्लवणैरिति कल्करूपैः सिद्धं सर्पिः पिबेत् यथाक्रममिति स्नेहो यौगिकाध्यायोक्तवि

ध्यनतिक्रमेण। प्रथमेन गणेनेति विदारीगन्धादिगणेन वा क्वाथकल्करूपेण सिद्धं सर्पिः पिबेदित्यर्थः। तथा नस्यादिकर्मसु कर्त्तव्येषु अर्दितोक्तविधिन् अवेक्षेत जानीयात्। वाग्भटेऽप्युक्तं—पिबेद् वातप्रतिश्याये सर्पिर्वातप्रसाधितम्। पटुपञ्चकसिद्धं वा विदार्यादिगणेन वा। स्वेदनस्यादिकं कुर्यात् चिकित्साञ्चार्दितेरिताम्” इति। अन्ये त्वाहुः प्रथमेन गणेन सिद्धं सर्पिर्नस्योपनासशिरोवस्त्यादिषु योज्यमिति, एतत्तु वाग्भटविरोधादुपेक्षणीयमिति॥१०॥

पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम्।
परिषेकान् प्रदेहांश्च कुर्य्यादपि च शीतलान्॥११॥

पित्तेत्यादि—सुश्रुतस्य। पित्तरक्तोत्थयोः प्रतिश्याययोरिति शेषः। मधुरकैः शृतमिति काकोल्यादिभिर्विपक्वम्। शीतलानिति न्यग्रोधाद्युत्पलादिगणाः शीतलास्तैः कृतान्॥११॥

कफजे सर्पिषा स्निग्धं तिलमाषविपक्वया।
यवाग्वा वामयित्वा वा कफघ्नं क्रममाचरेत्॥१२॥

कफज इत्यादौ—तिलमाषौ कल्करूपौ, अत्र मदनफलमपि बोध्यं, वमनयोगात्।

फफघ्नं क्रममिति कफहद्रव्यकृतपेयादिक्रमम्॥१२॥

दार्वीगुदीनिकुम्भैश्च किणिह्या सुरसेन च।
वर्त्तयोऽत्र कृता योज्या धूमपाने यथाविधि॥१३॥

दार्वीत्यादि—सुश्रुतस्य। दार्वी दारुहरिद्रा, इङ्गुदो पुत्रजीवकः। निकुम्भो दन्ती तस्या बीजं मूलं वा। किणिही कटभीबीजम्, अपामार्ग इत्यन्ये। सुरसेनेत्यत्र सरलेनेति सुश्रुते पठ्यते, तन्मते सरलं सरलकाष्ठमेवे। सुरसः पर्णासः, निर्गुण्डी वा यथाविधीति वैरेचनिकधूमवर्तिविधानक्रमेण॥१३॥

अथवा सघृतान् शक्तून्कृत्वा मल्लिकसम्पुटे।
नवप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत्॥१४॥

अथवेत्यादौ—यवशक्तून सघृतान् शरावस्थिताङ्गारे दत्त्वा तदुपरि कृतच्छिद्रेण शरावान्तरेण पिधाय तस्मिन्नेव छिद्रे नलिकां दत्त्वा धूमं पिबेदित्यर्थः॥१४॥

यः पिबति शयनकाले शयनारूढः सुशीतलं भूरि।
सलिलं पीनसयुक्तः स मुच्यते तेन रोगेण॥१५॥

यः पिबतीत्यादि— योगोऽयं वातपित्तोतरे प्रतिश्याये बोध्यः॥१५॥

पुटपक्वंजयापत्रं सिन्धुतैलसमन्वितम्।
प्रतिश्याये

षु सर्वे

षु शीलितं परमौषधम्॥१६॥

पुटेत्यादौ— जया जयन्ती॥१६॥

सोषणं गुडसंयुक्तं स्निग्धदध्यम्लभोजनम्।
नवप्रतिश्यायहरं विशेषात् कफपाचनम्॥१७॥

सोषणमित्यादि— ऊषणं मरिचम्। योगोऽयं वातिके इत्याहुः॥१७॥

प्रतिश्याये नवे शस्तो यूपश्चिञ्चादलोद्भुवः।
ततः पक्वं कफं ज्ञात्वा हरेच्छी

र्पविरेचनैः॥१८॥

प्रतिश्याय इत्यादि— चिञ्चातिन्तिडी तस्याश्छदः पत्रम्। यूपः क्वाथः। अत्र हिंगुमरिचचूर्णं मात्रानुरूपं प्रक्षिपन्ति वृद्धाः॥१८॥

शिरसोऽभ्यञ्जनस्वेद-नस्यकट्वम्लभोजनैः।
वमनैर्घृतपानैश्च तान् यथास्वमुपाचरेत्॥११॥

शिरस इत्यादौ— यथास्वमिति पक्वेशिरोऽभ्यङ्गस्वेदनस्य घृतपानादिशेषपक्वे स्वेदञ्चइति॥१६॥

भक्षयति भुक्तमात्रे सलवणमुत्स्विन्नमाषमत्युष्णम्।
स जयति सर्वसमुत्थं चिरजातञ्च प्रतिश्यायम्॥२०॥

भक्षयतीत्यादि। —योगोऽयं वातोत्तरे बोध्यः॥२०॥

पिप्पल्यः शिग्रुबीजानि विडङ्गमरिचानि च।
अवपीडःप्रशस्तोऽयं प्रतिश्यायनिवारणः॥२१॥

पिप्पल्य इत्यादि—स्पष्टम्॥२१॥

समूत्रपिष्टास्तद्दिष्टाः क्रियाः क्रिमिषु योजयेत्।
नावनार्थंक्रिमिघ्नानि भेषजानि च बुद्धिमान्।
शेषाणान्तु विकाराणां यथास्वं स्याच्चिकित्सितम्॥२२॥

समूत्रेत्यादि।—सुश्रुतस्य। समूत्रं यथा स्यात् तथा पिष्टाः कर्मधारयो वा। तद्दिष्टा इति सुश्रुतेऽनन्तरोक्ताः सर्वाः क्रियाः मूत्रपिष्टाः प्रतिश्याये क्रिमिसम्बन्धे सति योजयेदित्यर्थः। अन्ये तु क्रिमिषु याः क्रिया उक्तास्तास्ताश्च सर्वा मूत्रपिष्टा योजयेदित्याहुः। क्रिमिघ्नानि भेषजानीति सुरसादिगणप्रभृतीनि। शेषाणान्तु विकाराणामिति नासार्बुदना

प्तार्शःप्रभृतीनाम्। यथास्वमिति यत् यत् स्वं यथास्वमिति वीप्सायामव्ययीभावः॥२२॥

करवीराद्यं तैलम्।

रक्तकरवीरपुष्पं जात्यशनमल्लिकायाश्च।
एतैः समन्तु तैलं नासार्शोनाशनं श्रेष्ठम्॥२३॥

रक्तकरवीरेत्यादौ—जाती मालती तस्या अपि पुष्पम्, अशनमल्लिका हाफरमल्लिका। जात्यशनेति संहिताऽनिर्देशोऽसिद्धविधेरनित्यत्वात्। एतैः

सममिति एतैः कल्करूपैः। पाकार्थन्तु जलं चतुर्गुणमिति ज्ञेयम्॥२३॥

शिखरितैलम्।

गृहधूमकणादारु-क्षारनक्ताह्वसैन्धवैः।
सिद्धं शिखरिबीजैश्च तैलं नासार्शसां हितम्॥२४॥

गृहधूमेत्यादौ—क्षारो यवक्षारः, नक्ताह्वःकरञ्जबीजं शिखरिबीजमपामार्गबीजतण्डुलम्। अत्रापि जलं चतुर्गुणं देयम्॥२४॥

चित्रकतैलम्।

चित्रकचविकादीप्यक-निदिग्धिकाकरञ्जलवणार्कैः।
गोमूत्रयुक्तं सिद्धं तैलं नासार्शसां विहितम्॥२५॥

चित्रकेत्यादौ—दीप्यकं यमानी, लवणं सैन्धवम्, अर्कमर्कक्षीरम्॥२५॥

चित्रकहरीतकी।

चित्रकस्यामलक्याश्च गुडूच्या दशमूलजम्।
शतं शतं रसं दत्त्वा पथ्याचूर्णाढकं गुडात्।

शतं पचेद्धनीभूते पलं द्वादशकं क्षिपेत्।
व्योषत्रिजातयोः क्षारात् पलार्द्धमपरेऽहनि॥

प्रस्थार्द्धं मधुनो दत्त्वा यथाग्न्यद्यादतन्द्रितः।
वृद्धयेऽग्नेः क्षयं कासं पीनसं दुस्तरं किमान्।

गुल्मोदावर्त्तदुर्नामश्वासान् हन्ति रसायनम्॥२६॥

चित्रकहरीतक्यां चित्रकस्य पञ्चाशत् पलानि जलशरावाः पञ्चाशत् स्थाप्यास्तु सार्द्धद्वादश शरावाः एवं चित्रकस्य क्वाथस्य पलशतं भवति। आमलकीस्वरसस्यापि पलशतं स्वरसाभावे

त्ययमेव स्वरसविधिः। एवं गुहूच्याः मिलितदशमूलस्य च क्वाथविधिः। व्योपत्रिजातयोर्मिलित्वा पलद्वादश। पलार्द्धमिति क्षारादित्यनेनैव सम्बध्यते। अपरेऽहनीति परेण सम्बध्यते॥२६॥

इति नासरोगचिकित्साविवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1700929974Capture.JPG”/>

अथ नेत्ररोग-चिकित्सा।

लङ्घनालेपनस्वेद-शिराव्यधविरेचनैः।
उपाचरेदभिष्यन्दानञ्जनाश्च्योतनादिभिः॥१॥

उक्तसंवादादेव नेत्ररोगचिकित्मामाह—अत्राभिष्यन्दस्य निखिलनेनरोगमूलत्वेन प्राधान्यात् प्रथमतोऽभिष्यन्दप्रतिकारमाहलङ्घनेत्यादि। लङ्घनमन लघ्वन्न मुपवासा वा उक्तं हि “प्रागेवाक्ष्यामये भुक्तं त्रिरात्रमगुरुस्थितम्। उपवासत्र्यहं वा स्यात्” इति। किन्तु उपवासो वातजादन्यत्र विधेयः वाग्भटसंवादात्। स्वेदोऽपे पित्तजं विना नयनोपान्ते मृदुर्योघ्यः। यदुक्तं “हृदयं वृषणो दृष्टिं स्वेदयेत् मृदु वा न वा” इति। शिराज्यधो रक्तदुष्टौस

त्यांशिराव्यधनम्। विरेचनं शिरसः कायस्य च। शिरोविरेचनन्तु नवे, कायविरेचनञ्च जीर्णे ज्ञेयम्। आदिशब्देन तर्पणपुटपाकक्वाथादिपरिप्रहः॥१॥

श्रीवासातिविपालोध्रैश्चूर्णितैरल्पसैन्धवैः।
अव्यक्तेऽक्षिगदे कार्य्यं प्रोतस्थैर्गुण्डनं यहिः॥२॥

श्रीवासेत्यादि— श्रीवासो देवदारु। अल्पसैन्धवैरिति एकभागापेक्षया चतुर्भागत्वं सैन्धवस्येत्याहुः। अव्यक्त इति पूर्वरूपे। प्रोतस्थैरिति कर्पटबन्धैः गुण्डनम् अवचूर्णनम्, एत

च्च मुकुलिते चक्षुःपत्रे न तु विस्तारिते॥२॥

अक्षिकुक्षिभवा रोगाः प्रतिश्यायव्रणज्वराः।
पञ्चैते पञ्चरात्रेण प्रशमं यान्ति लङ्घनात्॥३॥

अक्षिकुक्षिभवा इत्यादि—कुक्षिभवा अतीसारविलम्बिकादयः। पञ्चरात्रेणेत्यु पलक्षणं तेन त्र्यहमपि बोध्यम्। यदाइ विदेहः “उपवासरत्र्यहं वा स्यात्” इति। अयञ्च मतभेदो दोषप्रकोपतारतम्यान्न विरोधमावहति॥३॥

स्वेदः प्रलेपस्तिक्तान्नं सेको दिनचतुष्टयम्।
लङ्घनञ्चाक्षिरोगाणामामानां पाचनानि षट्।
अञ्जनं पूरणं क्वाथपानमामे न शस्यते॥४॥

स्वेद इत्यादौ—सेको वत्सकादिक्वाथादिना चक्षुःसेचनमाश्च्योतनशब्दवाच्यं

न तु पूरणं तस्यामे निषेधात्। आश्च्योतनं पुनरामे क्रियत एव यदुक्तं सर्वेषामक्षिरोगाणामादावाश्च्योतनं हितम्” इति। दिनचतुष्टयमिति दिनचतुष्टयं स्वरूपत एव ज्वराष्ट्राहवदिति। आमे नेत्ररोगे अञ्जनादिकं न कार्यमित्याह अञ्जनमित्यादि—पूरणमाश्च्योतनम्॥४॥

धात्रीफलनिर्य्यासे नवदृक्कोपं निहन्ति पूरणतः।
सक्षौद्रसैन्धवो वा शिग्रूद्भवपत्ररससेकः॥५॥

धात्रीत्यादौ— पुरणशब्देनाश्च्योतनं वाच्यम्। सक्षौद्रसैन्धवो शोभाञ्जनपत्रस्वरसमाषकचतुष्टयम्। मधु माषैकम्, सैन्धवं रक्तिद्वयम्॥५॥

दार्वीरसाञ्जनञ्चापि स्तन्यदुग्धं प्रपूरणम्।
निहन्ति शीघ्रं दाहाश्रुवेदनाः स्यन्दसम्भवाः॥६॥

दार्वीत्यादि—दार्वीरसाञ्जनं दारुहरिद्राक्वाथघृतं रसाञ्जनम्।स्यन्दसम्भवा इत्यभिष्यन्दसम्भवाः॥६॥

करवीरतरुणकिशलयच्छेदोद्भवबहुलसलिलसम्पूर्णम्।
नयनयुगं भवति दृढं सहसैव तत्क्षणात् कुपितम्॥७॥

करवीरेत्यादौ—तरुणमभिनवं यत् किशलयम्, तस्य छेदात् यो रसो निर्गच्छति, तेन पूरणमित्यर्थः॥७॥

शिखरिमूलं ताम्रभाजने स्तोकसैन्धवोन्मिश्रम्।
मस्तुनिघृष्टं भरणाद्धरति नवं लोचनोत्कोपम्॥८॥

शिखरीत्यादौ—शिखरिः अपामार्गः। स्तोकं सैन्धवं रक्तिद्वयं त्रयं वा सैन्धवमित्यर्थः॥८॥

सैन्धवदारुहरिद्रा-गैरिकपथ्यारसाञ्जनैः पिष्टैः।
दत्तो बहिः प्रलेपो भवत्यशेषाक्षिरोगहरः॥६॥

सैन्धवेत्यादि—एतैः स्तोकसैन्धवसहितैः समभागपिष्टैः श्लक्ष्णवस्त्रोपरि निमीलितचक्षुषि लेपो देयः॥६॥

तथा शावरकं लोध्रंघृतभृष्टं विडालकः।
कार्य्योहरीतकी तद्वद् घृतभृष्टं विडालकः॥

शालाक्येऽक्ष्णेर्बहिर्लैपो विडालक उदाहृतः॥१०॥

तथेत्यादि— शावरकं लोध्रमिति श्वेतलोध्रम्। विडालकशब्दार्थमाह शालाक्य इत्यादि—शालाक्ये शालाक्यग्रन्थे सुश्रुत इति यावत्॥१०॥

गरिमृञ्चन्दननागरखटिकांशयोजितो बहिर्लेपः।
कुरुते वचया मिश्रो लोचनमगदं न सन्देहः॥११॥

गिरिमृदित्यादौ—अंशो भागः। एतैः समभागपिष्टैश्चक्षुःसमीपे लेपः कार्य इत्याहुः॥

भूम्यामलकी घृष्टा सैन्धवगृहवारियोजिता ताम्रे।
याता घनत्वमक्ष्णोर्जयति बहिर्लोपतः

पडिाम्॥१२॥

भूम्यामलकीत्यादौ—गृहवारि का

शिकम्॥१२॥

आश्च्योतनं मारुतजे क्वाथो बिल्वादिभिर्हितः।
कोष्णः सैरण्डवृहतीतर्कारीमधुशिग्रुभिः॥१३॥

आश्च्योतनमित्यादि—आश्च्योतनमक्षिसेकः। बिल्वादि महत् पञ्चमूलम्। तर्कारी जयन्ती। मधुशिग्रु रक्तशोभाञ्जनम्, बिल्वादिभिरित्यस्य सैरण्डेत्यादिविशेषणम् एक एवायं योगः, यदाह जतूकर्णः— महत्पञ्चमूलरुबुकशिग्रुतर्कारीसिंहीक्वाथः” इति। किन्तु तन्त्रान्तरे केवलबिल्वादिक्वाथेनाप्ययं योगो दृश्यते, यथा—पूरणं तीव्रशूलघ्नं तथा बिल्वादिजाम्भसा” इति। किन्तु योगद्वयपक्षे सैरण्डेति, बृहतीविशेषणम्, न तु बिल्वादिविशेषणम्, एकयोगत्वाप्रसङ्गात्॥१३॥

एरण्डपल्लवे मूले त्वचि चाजं पयः शृतम्।
कण्टकार्य्याश्च मूलेषु सुखोष्णं सेचने हितम्॥१४॥

एरण्डेत्यादि—सुश्रुतस्य। एरण्डपल्लवादिकण्टकार्य्यन्त एक एवायं योगः विदेहसंवादात्। यथा— “कण्टकारीशिफैरण्डमूलत्वपत्रसाधितम्। क्षीरमाजं हितं सेके चक्षुःस्यन्दाधिमन्थयोः” इति। आजं पयोऽत्र क्षीरपरिभाषयैव साध्यम्। अन्ये त्वाहुः— एतद्योगानन्तरं सुश्रुते “सैन्धवोदीच्ययष्ठ्याह्वपिप्पलीभिः शृतं पयः। हितमर्द्धोदकं सेके इति पठ्यते, एतद्वचनान्तः सर्वमाश्च्योतनक्षीरसाधनार्थं परिभाषास्थानीयम् तेनात्रापि अर्द्धोदकं क्षीरं साध्यमिति। किन्त्वत्र विशेषानुक्त्या क्षीरपरिभाषयैव साधनमिति युक्तमुत्पश्यामः। व्यवहारोऽपि क्षीरपरिभाषयैवेति १४

सम्पक्वेऽक्षिगदे कार्य्यञ्चाञ्जनादिकमिष्यते॥१५॥

अञ्जनादिविधानस्य समयमाह सम्पक्व इत्यादि॥१५॥

प्रशस्तवर्त्मता चाक्ष्णोः संरम्भाश्रुप्रशान्तता।
मन्दवेदनता कण्डूः पक्वाक्षिगदलक्षणम्॥१६॥

पक्वाक्षिरोगलक्षणमाह प्रशस्तेत्यादि—प्रशस्तवर्त्मता दोषानभिभूतवर्त्मता संरम्भः शोथः। एतच्च लक्षणं प्रायस्त्र्यहादुपरि ज्ञेयम्, यदाह चरकः—सम्पक्वे चाञ्जनं त्र्यहात् इति॥१६॥

अञ्जनादिविधिश्चाग्रे निखिलेनाभिघास्यते॥१७॥

अञ्जनादिविधिरित्यादि—अग्र इति आश्च्योतनाद्यधिकार॥१७॥

वृहत्यैरण्डमूलत्वक् शिग्रोर्मूलं ससैन्धवम्।
अजाक्षीरेण पिष्टं स्याद्वर्त्तिर्वाताक्षिरोगनुत्॥१८॥

बृहतीत्यादि— स्पष्टम्॥१८॥

हरिद्रे मधुकं द्राक्षां देवदारु च पेषयेत्॥
आजेन पयसा श्रेष्ठममिष्यन्दे तदञ्जनम्॥१६॥

हरिद्रे इत्यादि—सुश्रुतस्य। तत्र द्राक्षा स्थाने पथ्येति केचित् पठन्ति॥१६॥

गैरिकं सैन्धवं कृष्णा नागरञ्च यथोत्तरम्।
पिष्टं द्विरंशतोऽद्भिर्वा गुडिकाञ्जनमिष्यते॥२०॥

गैरिकमित्यादि—सुश्रुतस्य। तत्र तगरस्थाने नागरमिति निश्चलः पठति। यथोत्तरं द्विरंशत इति यथोत्तरभागतो द्विगुणमित्यर्थः। तेन गैरिकमाषा १, सैन्धवमाषा २, पिप्पली माषा ४, तगर माषा ८। अद्भिर्वेति वाशब्दाच्छागीक्षीरमपि बोध्यम्॥ २॥

प्रपौण्डरीकयष्ट्याह्व-निशामलकपद्मकैः।
शीतैर्मधुसमायुक्तैः सेकः पित्ताक्षिरोगनुत्॥२१॥

प्रपौण्डरीकमित्यादौ—शीतैरिति प्रपौण्डरीकादीनां कषायैः शीतलैरित्यर्थः। समायुक्तैरित्यत्र सितायुक्तैरिति केचित् पठन्ति। सितायुक्तैरिति पाठे मधुवत् सिता प्रक्षेप्येत्यर्थः॥२१॥

द्राक्षामधुकमञ्जिष्ठा-जीवनीयैः शृतं पयः।
प्रातराश्च्योतनं पथ्यं शोथशूलाक्षिरोगिणाम्॥२२॥

द्राक्षेत्यादौ— जीवनीयशब्देन जीवनीयाष्टवर्ग गृह्नन्ति॥२२॥

निम्बस्य पत्रैः परिलिप्य लोधं खेदाशिना चूर्णमथापि कल्कम्।
आश्च्योतनं मानुषदुग्धमिश्रं पित्तास्रवातापहम

भ्यमुक्तम्॥२३॥

निम्बस्यत्यादि—निम्बपत्रं पिष्ट्वा तत्पिण्डमध्ये लोध्रकल्कं चूर्णं वा प्रक्षिप्य पत्रेण वेष्टयित्वा अङ्गारैरुत्स्विद्य नारीक्षीरेण संमिश्रय वस्त्रेण गालयित्वा चक्षुःसेको विधेय इति॥२३॥

कफजे लङ्घनं स्वेदो नस्यं तिक्तान्नभोजनम्।
तीक्ष्णैः प्रधमनं कुर्य्यात् तीक्ष्णैश्चैवोपनाहनम्॥२४॥

कफजे क्रियाक्रममाह— कफज इत्यादि॥२४॥

फणि

ज्झकास्फोतकपीतबिल्व-पत्तूरपीलूसुरसार्जभङ्गैः।
स्वेदं विदध्यादथवा प्रलेपं वर्हिष्ठशुण्ठीसुरदारुकुष्ठैः॥२५॥

फणि

ज्झकः पर्णासभेदः, निर्गुण्डीत्यन्ये। आस्फोता हाफरमल्लिका छान्दसत्वाद्ध्रस्वत्वम्। पत्तूरः शालिञ्चाशाकः। पीलुः औत्तरपथिकतरुः, अतएव निर्देशात् पीलुशब्दो दीर्घोकारान्तोऽपि ज्ञेयः। सुरसार्जावपि पर्णासभेदौ। एषां भङ्गैः पल्लवैर्व्यस्तसमस्तैरङ्गारतापितैश्चक्षुषोर्मुदुस्वेदः कार्यः। बर्हिष्ठं बालकम्। अत्रैव तन्त्रान्तरदर्शनात् अर्जस्थाने अर्कः इति केचित् पठन्ति। तन्त्रान्तरे यथा— “कपित्थसुरसास्फोतपीलुपत्तूररूपिका। फणि

ज्झबिल्वच्छदनैः स्वेदः स्यन्दाधि-

ग्रन्थयोः

।” रूपिका अर्कः॥२५॥

शुण्ठीनिम्बदलैः पिण्डः सुखोष्णैः स्वल्पसैन्धवैः।
घार्य्यश्चक्षुषि सङ्क्षेपाच्छोथकण्डूव्यथापहः॥२६॥

शुण्ठीत्यादौ—निम्बपत्रापेक्षया शुण्ठी स्वल्पा देया, सैन्धवमपि चतुःपञ्च

सलवणकटुतैलं काञ्जिकं कांस्यपात्रे धनितमुपलघृष्टं धू

पितं गोमयाग्नौ। सपवनकफकोपं छागदुग्धावसिक्तं जयति नयनशूलं स्रावशोथं सरागम्

सलवणेत्यादौ—सैन्धवस्य रक्तिद्वयं कटुतैलस्य बिन्दुचतुष्टयं काञ्जिकस्य माषकचतुष्टयम्। उपलं प्रस्तरखण्डस्तेन घृष्टं, किंवा उपलशब्देन पत्रचक्षुष्यत्वात् रसाञ्जनांदशिलैव ग्राह्या। चूद्धास्तु वराटिकयैव व्यवहरन्ति॥३७॥

तरुस्थविद्धामलकरेसः सर्वाक्षिरोगनुत्॥३८॥

तरुस्थेत्यादि—तरुस्थस्यैवामलकीफलस्य सूच्यादिभिर्विद्धस्य यो रसो निर्गच्छतीत्यर्थः॥३८॥

पुराणं सर्वथा सर्पिः सर्वनेत्रामयापहम्॥३६॥

पुराणसर्पिर्दशवर्षस्थितं, तदभावे संवत्सरातीतमपि पुराणं ग्राह्यमित्याहुः। उक्तंहि— “अल्पाभिष्यन्दि मधुरं यच्च संवत्सरोषितम्। अनुत्क्लेदञ्च दोषाणां पुराणं तत् प्रकीर्तितम्” इति। सर्वयेति पाननस्याञ्जनैरित्यर्थः॥३१॥

अयमेव विधिः सर्वो मन्थादिष्वपि शस्यते।
अशान्तौ सर्वथा मन्थे भ्रुवोरुपरि दाहयेत्॥४०॥

अयमेव विधिरित्यादि—वाग्भटस्य। अयमभिष्यन्दोक्तः। आदिशब्दात् अन्यतोवातादयः॥४०॥

जलौकःपातनं शस्तं नेत्रपाके विरेचनम्।
शिराव्यधं वा कुर्वीतं सेकालेपांश्च शुक्रवत्॥४१॥

नेत्रपाकचिकित्सामाह जलौक इत्यादि—स्पटम्॥४१॥

षडङ्गगुगुग्लुः।

विभतिकशिव धात्रपिटोलारिष्टवासकैः।
क्वाथो गुग्गुलुना पेयः शोथपाकाक्षिशूलनुत्।
पिल्लञ्च सव्रणं शुक्रं रागादींश्चापि नाशयेत्॥
एतैश्चापि घृतं पक्वं रोगांस्तांश्च व्यपोहति॥४२॥

विभीतकेत्यादौ—पिल्लं पञ्चोजिका, किंवा “प्रक्षालिते यथा मुष्टे आनाह्येत पुनः पुनः। अपरिक्लिन्नवर्त्मानं तं पिल्लमिति निर्दिशेत्” इत्युक्तलक्षणैः। अत्र घृतपाकपक्षे तु विभीतकादीनां क्वाथो गुग्गुलुं गृहीत्वा घृतेन पिष्ट्वावटिका कुर्यादित्युपदिशन्ति वृद्धाः॥४२॥

वासकादि—आटरूषाभयानिम्बधात्रीमुस्ताक्षकूलकैः।
रक्तस्रावं कफं हन्ति चक्षुष्यं वासकादिकम्॥४३॥

आटरूषेत्यादि—आटरू

षकं वासकम्। एतैः कृतक्वाथेन चक्षुःसेचनं, तथा गुग्गुलुं प्रक्षिप्य विरेचनमप्युपदिशन्ति वृद्धः। ४३॥

पथ्यास्तिस्रो विभीतक्यः षड् धात्र्यो द्वादशैव तु।

प्रस्थार्द्धेसलिले क्वाथमष्टभागावशेषितम्॥

पीत्वाभिष्यन्दमास्रावं रागञ्च तिमिरं जयेत्।
संरम्भरागशूलाश्रुनाशनं दृक्प्रसादनम्॥४४॥

पथ्या इत्यादौ—प्रस्थार्द्ध इति द्रवद्वैगुण्यात्शरावद्वये। पीत्वेति सायमित्याहुः

नेत्रे त्वभिहते कुर्य्याच्छीतमाश्च्योतनादिकम्॥४५॥

आगन्तुनेत्ररोगचिकित्सामाह नत्र इत्यादि—आदिशब्दादस्य लेपादीनां ग्रहणम् ४५ दृष्टिप्रसादजननं विधिमाशु कुर्य्यात् स्निग्धैर्हिमैश्च मधुरैश्च तथा प्रयोगैः। स्वेदाग्निधूमभयशोकरुजाभितापैरभ्याहतामपि तथैव भिषक् चिकित्सेत्

दृष्टीत्यादि—सुश्रुतस्य। दृष्टप्रसादजननं नयनावरकदोषनाशनम्। कैर्दृष्टिप्रसादनं कार्य्यमित्याह स्निग्धैरित्यादि। स्वेदादिकृता रुजा एव उपतापो रोगो रोगजनकत्वादुच्यते। अभ्याहतमित्यनन्तरं दृष्टिमिति शेषः। तथैवेत्यनन्तरोक्तस्निग्धहिमादिविधिना॥४६॥

आगन्तुदोषं प्रसमीक्ष्य कार्य्यं वस्त्रोष्मणा स्वेदितमादितस्तु।
आश्च्योतनं स्त्रीपयसा च सद्यो यच्चापि पित्तक्षतजापहं स्यात्॥४७॥

आगन्त्वित्यादि—आगन्तुदोषं

घुलाद्यभिघातम्। वस्त्रोष्मा च वस्त्रपुटो ग्राह्यः। यच्चापि पित्तक्षतजापहं स्यादिति पित्ताभिष्यन्दे रक्ताभिष्यन्दे च यदुक्तं तदपि हितम्॥

सूर्य्योपरागानलविद्यदादिविलोकनेनोपहतेक्षणस्य।
सन्तर्पणं स्निग्धहिमादि कार्य्यं सायं निषेव्यास्त्रिफलाप्रयोगाः॥४८॥

सूर्येत्यादि— त्रिफलाप्रयोगा इति त्रिफलाक्वाथेन चक्षुःसेकादयः॥४५॥

निशाब्दत्रिफलादार्वीसितामधुकसंयुतम्।
अभिघाताक्षिशूलघ्नं नारीक्षीरेण पूरणम्।
इत्कटाङ्कुरजस्तद्वत् स्वरसो नेत्रपूरणम्॥४६॥

निशेत्यादि—एषां चूर्णं नारीक्षीरे प्रक्षिप्य पूरणम्। तद्वदिति अभिघाताक्षिशूलघ्न इत्यर्थः॥४६॥

आजं घृतं क्षीरं क्षीरपात्रं मधुकञ्चोत्पलानि च।
जीवकर्षभकौ चापि पिष्ट्वासर्पिर्विपाचयेत्।
सर्वनेत्राभिघातेषु सर्पिरेतत् प्रशस्यते॥५०॥

आजमित्यादि—आजं घृतमिह प्रस्थमानम्। क्षीरपात्रमिति पात्रञ्चाढकम्, द्रवद्वैगुण्यात् षोडशशरावाः। क्षीरञ्चेह गव्यमेव, विशेषाभावात्। अन्ये तु घृतसाहचर्य्यात् क्षीरमप्याजमाहुः। सर्पिषो द्विरुच्चारणमिह नस्ये तर्पणे च हितत्वप्रतिपादनार्थमिति वदन्ति। जेज्जस्तु आजघृतस्य कल्कत्वमेवाह, तेन तन्मते द्वितीयसर्पिःपदस्य गव्यवृतमेवार्थ इति॥५०॥

सैन्धवं दारु शुण्ठी च मातुलुङ्गरसो घृतम्।
स्तन्योदकाभ्यां कर्त्तव्यं शुष्कपाके तदञ्जनम्॥५१॥

शुष्काक्षिपाकरोगचिकित्सामाहसैन्धवमित्यादि—सुश्रुतस्य। स्तन्योदकाभ्यामिति उपलक्षणे सहार्थे वा तृतीया। सैन्धवदारुशुण्ठीनांमिलित्वा पादिकः कल्कः कार्य्यः। पादिकत्वञ्च मिलितमातुलुङ्गरसादिद्रवचतुष्टयमपेक्ष्य। सैन्धवं मापकद्वयम् देवदारुशुण्ठ्योस्तु प्रत्येकं मापकचतुष्टयम्, मातुलुङ्गरसादीनां चतुर्णां प्रत्येकं द्वादशमापकाः सर्वमेकीकृत्य मृद्वग्निना पक्तव्यं यावत् घनीभवति। ततोऽञ्जनं कार्य्यम्। रसक्रियेयम्। अन्ये तु स्तन्योदकानामिति पठित्वा

सीक्षीरजलयोर्मिलित्या समुदयार्द्धमानम्। सैन्धवदारुशुण्ठीमातुलुङ्गरसघृतानां समभागः। सैन्धवदारुशुण्ठीनां कल्कम्। मातुलुङ्गरसादिद्रवचतुष्टयेनाप्लाव्या

डानं कार्य्यम्। रसक्रियेयमिति। अन्ये
तु स्तन्योदकार्द्धमिति व्याचक्षते॥५१॥

वाताभिष्यन्दवच्चान्यद्वाते मारुतपर्य्यये।
पूर्वभक्तं हितं सर्पिः क्षीरञ्चाप्यथ भोजने॥५२॥

वातादिचिकित्सामाह, वातेत्यादि—पूर्वभक्तमिति भक्तात् पूर्वमिति। अन्यतो वाते वातपय्यय च क्षीरपानम्, अनयोः पित्तरक्ताबद्धत्वात्॥५२॥

वृक्षादन्यां कपित्थे च पञ्चमूले महत्यपि।
सक्षीरं कर्कटरसे सिद्धञ्चापि पिबेद् घृतम्॥५३॥

वृक्षादन्यामित्यादि—वृक्षादनी वन्दा। वृक्षादन्यादिभिः कल्कः, क्षीरं स्नेहसमम्, कर्कटरसस्तु त्रिगुणः, एवं घृतं साध्यमिति श्रीकण्ठः। गयदासस्तु वृक्षादन्यादीनां पञ्चमूलान्तानां मिलित्वा द्विगुणः क्वाथः क्षीरकर्कटरसयोस्तु प्रत्येकं स्नेहसमः क्वाथः, एवं क्षीरकर्कटरसावपि इति पञ्चगुणः पाक इत्याहुः॥५३॥

अभिष्यन्दमधीमन्थं रक्तोत्थमथवार्जुनम्।
शिरोत्पातं शिराहर्षमन्यांश्चाक्षिभवान् गदान्॥
स्निग्धस्याज्येन कौम्भेन शिराव्याधैः शमं नयेत्॥५४॥

अभिष्यन्दमित्यादौ—अन्यांश्चेति श॒क्रादीन्। कौम्भं सर्पिर्दशवर्षस्थितम्॥४॥

अम्लाध्युपितशान्त्यर्थे कुर्य्याल्लेपान् सुशीतलान्॥

तैन्दुकं त्रैफलं सर्पिर्जीर्णं वा केवलं हितम्।
शिराव्यधं विना कार्यः पित्तस्यन्दहरो विधिः॥५५॥

अम्ला

ध्युषितमित्यादौ

– तैन्दुकं सर्पिर्वातव्याधौसुश्रुतेनोक्तम्। त्रैफलं त्रिफलाक्वाधकल्काभ्यां सिद्धम्। केवलमित्यसंस्कृतम्॥५५॥

सर्पिः क्षौद्राञ्जनञ्च स्याच्छिरोत्पातस्य भेषजम्।
तद्वत् सैन्धवकाशीशं स्तन्यपिष्टञ्च पूजितम्॥५६॥

सर्पिरित्यादि—सुश्रुतस्य। अञ्जनं सौवीराञ्जनम्। घृतमधुभ्यां सौवीराञ्जनं

पिष्ट्वा वर्त्तिः कार्या। भेषजमित्यञ्जनरूपम्। तद्वदिति शिरोत्पातभेषजमित्यर्थः। काशीशं पुष्पकाशीशम्, धातुकाशीशमित्यन्ये, व्यवहारस्तु पूर्वेण॥२६॥

शिराहर्षेऽञ्जनं कुर्य्यात् फाणितं मधुसंयुतम्।
मधुना तार्क्ष्यशैलं वा काशीशं वा समाक्षिकम्॥५७॥

शिराहष इत्यादौ—फाणितं द्रवगुडः। तार्क्ष्यशैलं रसाञ्जनम्॥५७॥

व्रणशुक्रप्रशान्त्यर्थं षडङ्गं गुग्गुलुं पिबेत्॥
कतकस्य फलं शङ्खं तिन्दुकं रूप्यमेव च।
कांस्ये निघृष्टं स्तन्येन क्षतशुक्रार्त्तिरागजित्॥५८॥

कतकस्येत्यादि— कतकं तोयप्रसादफलं प्रायो मगधे भवति। शङ्खं नाभिशङ्खम्, तिन्दुकं तिन्दुकफलास्थि, रूप्यं रूप्यचूर्णम्। एषां समभागं गृहीत्वा। कांस्यपात्रे स्तन्येन घर्षणीयम्। क्षतशुक्रं व्रणशुक्रम्॥५८॥

चन्दनं गैरिकं लाक्षा मालतीकलिका समा।
व्रणशुक्रहरा वर्त्तिः शोणितस्य प्रसादनी॥५६॥

चन्दनमित्यादौ— गैरिकं स्वर्णगैरिकम् तच्चात्यन्तरक्तंमृदु च यद्गैरिकमिति। पेषणन्तु जलेन, वृद्धा गगनजलेन व्यवहरन्ति, तदभावे तद्गुणेन वा। एवमन्यत्रापि द्रवानुक्तस्थाने बोध्यम्। तथा छायाशोषणं, मधुना घृष्ट्वा चाञ्जनमित्यपि विशेषाभावस्थाने व्यवहारो वृद्धानाम्॥५६॥

शिरया वा हरेद्रक्तं जलौकोभिश्च लोचनात्।
अक्षमज्जाञ्जनं सायं स्तन्येन शुक्रनाशनम्॥६०॥

अक्षेत्यादौ—स्तन्येनेत्यत्र मध्वपि बोध्यं सुश्रुतसंवादात्॥६०॥

एकं वा पुण्डरीकञ्च छागीक्षीरावसेचितम्।
रागाश्रुवेदनां हन्यात् क्षतपाकात्ययाजकाः॥६१॥

एकमित्यादि—एकं श्रेष्ठमिति वा तच्च उत्तरापथजं पुण्डरीकं पुण्डरीकाष्टं पिष्ट्वा वस्त्रेण पोट्टलीं बद्ध्वा छागीक्षीरे स्थाप्यम्, यदा पीतवर्णं दग्धं भवति, तदा चक्षुषि दग्धं देयम्। प्रबलरक्तदुष्टौ योगोऽयम्॥६१॥

तुत्थकं वारिणा युक्तं शुक्रं हन्त्यक्षिपूरणात्॥६२॥

तुत्थकमित्यादि— अत्र मध्वपि बोध्यं सुश्रुतसंवादात्॥६२॥

समुद्रफेनदक्षाण्डत्वक् सिन्धूत्थैः समाक्षिकैः।
शिग्रुबीजयुतैर्वर्त्तिः शुक्रघ्नी शिग्रुवारिया॥६३॥

समुद्रेत्यादौ— दक्षाण्डत्वक्, कुक्कुटाण्डकपालम्। समाक्षिकैरिति स्वर्णमाक्षिकसहितैरिति केचित् अन्ये तु मधु वदन्ति। समाक्षिकैरित्यत्र सशङ्खकैरिति पाठे शङ्खकः शङ्खनाभिः। शिग्रुवारिणेति शोभाञ्जनरसेन पिष्ट्वावर्त्तिः कार्या॥६३॥

धात्रीफलं निम्बकपित्थपत्रं यष्ट्याह्वलोध्रं खदिरं तिलाश्च।

क्वाथो सुशीतो नयने निषिक्तः सर्वप्रकारं विनिहन्ति शुक्रम्॥६४॥

धात्रीत्यादौ—निम्बस्य कपित्थस्य च पत्रम्। क्वाथ इत्यत्र एषामिति शेषः। सर्वप्रकारमिति सव्रणमव्रणञ्च॥६४॥

क्षुराणपुन्नागपत्रेण परिभावितवारिणा।
श्यामाक्वाथाम्बुना वाथ सेवनं कुसुमापहम्॥६५॥

क्षुराणेत्यादि—क्षुराणं शिलायां जर्जरीकृतं पुन्नागस्य नागकेशरस्य यत् पत्रम्, तेन भावितं यद्वारि, तेन। श्यामा श्यामालता, तस्याः क्वाथरूपमम्बु। कुसुमापहमिति शङ्खेन्दुकुन्दवर्णं शुक्रमेवं कुसुमं तन्नाशनम्॥६५॥

दक्षाण्डत्वक्शिलाशङ्ख-काचचन्दनगैरिकैः।
तुल्यैरञ्जनयोगोऽयं पुष्पार्मादिविलेखनः॥६६॥

दक्षेत्यादि— दक्षः कुक्कुटः, गोष्टकुक्कुट इत्यन्ये, शिला मनःशिला, शङ्खः शङ्खनाभिः, एवं सर्वत्र, काचः स्वनामख्यातः॥६६॥

शिरीषबीजमरिच-पिप्पलीसैन्धवैरपि।
शुक्रे प्रघर्षणं कार्य्यमथवा सैन्धवेन च॥६७॥

शिरीषेत्यादि—शिरीषादिचूर्णैर्मध्वाक्तशलाकास्थितैर्घर्षणं कार्यम्। सैन्धवेनेति केवलसैन्धवचूर्णेन, अन्ये तु मसृणसैन्धवखण्डेनेत्याहुः॥६७॥

बहुशः पलाशकुसुमस्वरसैः परिभाविता जयत्यचिरात्।
नक्ताह्वबीजवर्त्तिःकुसुमचयं दृक्षु चिरजमपि॥६८॥

बहुश इत्यादि—बहुशःसप्ताहम्। नक्ताह्व

बीजेति करञ्जबीजस्य चूर्णं कृत्वा पलाशकुसुमस्वरसेन वर्तिः कार्या॥६८॥

सैन्धवत्रिफलाकृष्णा-कटुकाशङ्खनाभयः।
सताम्ररजसो वर्त्तिःपिष्टशुक्रविनाशिनी॥६६॥

सैन्धवेत्यादौ—कटुका कटुरोहिणी, त म्ररजस्तु मारितताम्रचूर्णम्। पिष्टशुक्रविनाशिनीति पिष्टाख्यनेत्ररोग, “बिन्दुभिः पिष्टधवलैरुत्स्विन्नैः पिष्टकं वदेत्” इत्युक्तलक्षणैः॥६६॥

चन्दनं सैन्धवं पथ्या पलाशतरुशोणितम्।
क्रमवृद्धमिदं चूर्णं शुकार्मादिविलेखनम्॥७०॥

चन्दनमित्यादौ—पलाशतरुशोणितं किंशुकवृक्षवेष्टकम्। रक्तचन्दनस्य माषकः सैन्धवस्य द्वौ पथ्यायास्त्रय इति वृद्धिकमः। एतच्चूर्णाञ्जनं मध्वाक्तशज्ञाकया चक्षुषि देयम्, एवं सर्वत्र चूर्णाञ्जने॥७०॥

दन्तवर्त्तिः।

दन्तैर्हस्तिवराहोष्ट्रगवाश्वाजखरोद्भवैः।
सशृङ्गमौक्तिका

म्भघि-फेनैर्मरिचपादिकैः॥

क्षतशुक्रमपि व्याधिं दन्तवर्त्तिर्निवर्त्तयेत्॥७१॥

दन्तैरित्यादि—वाग्भटस्य। मरिचपादिकैरिति समुदितचूर्णपेक्षया मरिचस्य चतुर्थो भागः। पेषणञ्चात्र जलेन वाग्भटसंवादात्॥७१॥

शङ्खस्य भागाश्चत्वारस्ततोऽर्द्धेन मनःशिला।
मनःशिलार्द्धं मरिचं मरिचार्द्धेन सैन्धवम्।
एतच्चूर्णाञ्जनं श्रेष्ठं शुक्रयोस्तिमिरेषु च।
पिच्चिटे मधुना योज्यमर्बुदे मस्तुना तथा॥७२॥

शङ्खेत्यादि—शङ्खः शङ्खनाभिः। नाभिशङ्ख मा ४, मनःशिला मा २, मरिच मा १, सैन्धव र ५। चूर्णाञ्जनमिति मध्वाक्तशलाकया संगृह्य शुक्रदेशं घर्षयेत्। ततः त्रिफलाक्वाथेन प्रक्षालनं कार्यमिति। शुक्रयोरिति सव्रणाव्रणशुक्रयोः॥७२॥

ताप्यं मधुकसारो वा बीजञ्चाक्षस्य सैन्धवम्।
मधुनाञ्जयोगाः स्युश्चत्वारः शुक्रशान्तये॥७३॥

ताप्यमित्यादि— ताप्यं स्वर्णमाक्षिकम्, अक्षस्य बीजं

विभीतकास्थिमज्जा॥७३॥

वटक्षीरेण संयुक्तं श्लक्ष्णं कर्पूरजं रजः।
क्षिप्रमञ्जनतो हन्ति शुक्रञ्चापि घनोन्नतम्॥७४॥

वटक्षीरेणेत्यादि—स्पष्टम्॥७४॥

त्रिफलामज्जमङ्गल्यामधुकं रक्तचन्दनम्।
पूरणं मधुसंमिश्रं क्षतशुक्राजकाश्रुजित्॥७५॥

त्रिफलेल्यादौ— मङ्गल्या गोरोचना, मधुकं यष्टिमधु। एतैः समभागैर्मधुना पूरणं कार्यम्॥७५॥

तालस्य नारिकेलस्य तथैवारुष्करस्य च
करीरस्य च वंशानां कृत्वा क्षारं परिस्रुतम्॥

करभास्थिकृतं चूर्णं क्षारेण परिभावितम्।
सप्तकृत्वोऽष्टकृत्वोवा श्लक्ष्णं चूर्णन्तु कारयेत्॥

एतच्छुक्लेष्वसाध्येषु कृष्णीकरणमुत्तमम्।
यानि शुक्राणि साध्यानि तेषां परममञ्जनम्॥७६॥

तालस्येत्यादि— तालस्य जटाः, नारिकेलस्य फलास्थि, अरुष्करो भल्लातः, तस्य फलं, वंशकरीरस्य तु पाखरी। एतत् सर्वं तिलनालाग्निनादग्ध्वा भस्म ग्राह्यं, तच्च भाव्यद्रव्यसमं गृहीत्वा अष्टगुणोदके षोडशगुणोदके वा निःक्वाथ्य अर्द्धावशेषं पादशेषं वैकविंशतिबारान् सावयेत्। अन्ये तु क्वाथमकृत्वा चतुर्गुणेन षोडशगुणेन वा जलमात्रेण स्रावणमाहुः वाग्भटसंवादात्। अपरे तु भाव्यद्रव्यसमं भस्म चतुर्गुणेन षोडशगुणेन वा अम्बुना निःक्वाथ्य अर्द्धावशेषेण विस्रावणं वदन्ति। व्यवहारस्तु पूर्वेणैव। परिस्राव्य च गृहीतेन स्वच्छेन क्षारोदकेन सप्ताष्टौ वासरान् करभास्थिचूर्ण

भाव्यम्। करभ उष्ट्रः। एतच्च प्रतिभावनमेव चूर्णीकर्तव्यं, तच्चूर्णं मध्वाक्तशलाकया संगृह्य शुक्तदेशं घर्षयेत्। ततश्च त्रिफलाक्वाथेनाक्षिप्रक्षालनमिति क्रियापरिपाटी क्षारेणेति क्षारोदकेन। एतच्छुक्तेष्वसाध्येष्विति अनेन शु

क्तस्यासाध्यस्य वैवर्ण्यनाशनं परं क्रियते, न पुनः शुक्रनाशनमिति दर्शयति। यानि शुक्तानि साध्यानीत्यादिः पाठो युक्तः, न तु शु

क्लन्यसाध्यानीति। “नारिकेलास्थिभल्लाततालवंशकरीरजम्। भस्माद्भिः स्रावयेत् ताभिर्भावयेत् करभास्थिजम्। चूर्ण शुक्लष्वसाध्येषु तद वैवर्ण्यघ्नमञ्चनम्। साध्येषु साधनीयमिदमेव। निश्चलेन पुनरसाध्यानीति पठित्वा एतच्च न कदाचिदपि साध्यशुक्लगोचरतया प्रयोक्तव्यमिति यद्व्याख्यातं तदपास्तम्, उक्तवाग्भटवचनविरोधादेव

पटोलाद्यं घृतम्।

पटोलं कटुकां दार्वींनिम्बं वासां फलत्रिकम्।
दुरालभां पर्पटकं त्रायन्तीञ्च पलोन्मिताम्॥

प्रस्थमामलकानाञ्च क्वाथयेन्नल्वणेऽम्भसि।
पादशेषे रसे तस्मिन् घृतप्रस्थं विपाचयेत्॥

कल्कैर्भूनिम्बकुटजमुस्तयष्ट्याह्वचन्दनैः।
सपिप्पलीकैस्तत् सिद्ध चक्षुष्यं शुक्रयोर्हितम्॥

घ्राणकर्णाक्षिवर्त्मत्व

ङ्मुखरोगव्रणापहम्।
कामलाज्वरवीसर्पगण्डमालाहरं परम्॥७७॥

पटोलमित्यादि— पटोलं पटोलस्य फलम्। कुटज इन्द्रयवः, तन्त्रान्तरे “षष्टिकलिङ्गभूनिम्बपिप्पलीघनचन्दनैःकल्कैर्मुष्ठ्यंशिकैराज्यं प्रस्थमात्रप्रसाधितम्” इत्युक्त्वात्। अतएव वचनात् भूनिम्बादीनां पलमानता च बोध्या॥७७॥

कृष्णाद्यं तैलम्।

कृष्णाविडङ्गमधुयष्टिकसिन्धुजन्मविश्वौषधैः पयसि सिद्धमिदं छुगल्याः
तैलं नृणां तिमिरशुक्रशिरोऽक्षिशूलपाकात्ययान् जयति नस्यविधौ प्रयुक्तम्

कृष्णेत्यादि—कृष्णा पिप्पली॥ अक्षिशब्दस्य शूलपाकात्ययाभ्यां सम्बन्धः॥

आजकांपार्श्वतो विद्ध्वा सूच्या विस्राव्य चोदकम्।
व्रणं गोमयचूर्णेन पूरयेत् सर्पिषा सह॥७६॥

अजकामित्यादि—सुश्रुतस्य। गोमयचूर्णेनेति पाठो लेखकदोषात्, सुश्रुते वाग्भेट च तत्तदाकारपुस्तकेषु बहुषु गोमांसचूर्णेनेत्येव हि पाठो दृश्यते, टीकाकारैश्चव्याख्यात इति॥७६॥

सैन्धवं वाजिपादञ्च गोरोचनसमन्वितम्।
शेलुत्वग्रससंयुक्तं पूरणञ्चाजकापहम्॥८०॥

सैन्धवमित्यादौ—वाजिपादोऽश्वखुरः, अश्वगन्धामूलमिति केचित्, व्यवहारस्तु पू

र्वेणैव। शे

लुर्बहुवारः॥५०॥

शशकघृतम्—शशकस्य शिरःकल्के शेषाङ्गक्वथिते जले।
घृतस्य कुडवं पक्वंपूरणञ्चाजकापहम्॥८१॥

शशकस्येत्यादि— शशकमस्तकमात्रं कल्कः, शेषाङ्गस्यान्त्राद्विहीनस्य क्वाथः। एतत् क्वाथार्थञ्च जलस्य षोडश शरावाः, स्थाप्याश्चत्वारः शरावा इति। घृतस्य कुडवोऽष्टौ पलानि॥८१॥

द्वितीयं शशकाद्यं घृतम्।

शशकस्य कषाये च सर्पिषः कुडवं पचेत्।
यष्टीप्रपौण्डरीकस्य कल्केन पयसा समम्॥

छगल्याः पूरणाच्छुक्रक्षतपाकात्ययाजकाः।
हन्ति भ्रूशङ्खशूलञ्च दाहरोगानशेषतः॥८२॥

शशकस्य कषाये चेत्यादि—आकृतिमानात् शशकगुडकमेकम्। अत्रापि पूर्ववदेव क्वाथकरणं, पयसा समं तुल्यम्, अतः पञ्चगुणः पाकः, अन्ये तु चतुर्गुण माहुः। एतन्मते क्वाथार्थजलस्य द्वादश शरावाः, स्थाप्यास्तु त्रय इति। इति कृष्णजेषु॥८२॥

त्रिफलाघृतं मधुयवाः पादाभ्यङ्गः शतावरी मुद्गाः।
चक्षुष्यः संक्षेपाद्वर्गः कथितो भिषम्भिरयम्॥८३॥

त्रिफलेत्यादौ—त्रिफलेति छेदः, सापि क्वाथचूर्णादिविषयोपयोज्या। घृतञ्च यदि सामान्यत एव चक्षुष्यं तथापि पुराणमतिशयेन बोध्यम्, सुश्रुते— “घृतं पुराणं त्रिफलां शतावरी पटालमुद्गामलकान् यवानपि। निषेव्यमाणस्य जनस्य यत्नतो भयं सुधोरात् तिमिरान्न विद्यते” इति॥८३॥

लिह्यात् सदा वा त्रिफलां सुचूर्णितां घृतप्रगाढां तिमिरेऽथ पित्तजे।
समीरजे तैलयुतां कफात्मके मधुप्रगाढां विदधीत युक्तितः॥८४॥

लिह्यादित्यादि—सुश्रुतस्य। युक्तित इति मात्रया॥८४॥

कल्कः क्वाथोऽथवा चूर्णं त्रिफलाया निषेवितम्।
मधुना हविषा वापि समस्ततिमिरान्तकृत्॥

यस्त्रैफलं चूर्णमपथ्यवर्जी सायं समश्नाति ह॒विर्मधुभ्याम्।
स मुच्यते नेत्रगतैर्विकारैर्भृत्यैयथा क्षीणधनो मनुष्यः॥
सघृतं वा वराक्वाथं शीलयेत् तिमिरामयी॥८५॥

कल्क इत्यादि— अत्र यस्त्रैफलं चूर्णमित्यादेरनन्तरं स

मृतं वा वराक्बाथं शीलयेत् तिमिरामयीति पाठो न युक्तः, कल्कः क्वाथोऽथवा चूर्णमित्यादिनैवोक्तार्थत्वात्॥

जाता रोगा विनश्यन्ति न भवन्ति कदाचन।
त्रिफलायाः कषायेण प्रातर्नयनधावनात्॥८६॥

जाता इत्यादौ—धावनादिति प्रक्षालनात्॥८६॥

जलगण्डूषैः प्रातर्बहुशोऽम्भोभिः प्रपूर्य्य मुखरन्ध्रम्।
निर्दयमुक्षन्नक्षि क्षपयति तिमिराणि ना सद्यः॥८७॥

जलेत्यादि—निर्दयमुक्षन्निति अवगाढं सि

झन्, ना इति पुरुषः॥८७॥

भुक्त्वा पाणितलं घृष्ट्वा चक्षुपोर्यत् प्रदीयते।
अचिरेणैव तद्वारि तिमिराणि व्यपोहति॥८८॥

भुक्त्वेत्यादौ—पाणितलमित्यनन्तरमाचान्तवारिपरिप्लुतमिति शेषः॥८८॥

सुखावती वर्तिः।

कतकस्य फलं शङ्खं

व्यूषणं सैन्धवं सिता।
फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला।
कुक्कुटाण्डकपालानि वर्तिरेपा व्यपोहति।
तिमिरं पटलं काचमर्म शुक्रं तथैव च।
कण्डूक्लेदार्बुदं हन्ति मलञ्चाशु सुखावती॥२६॥

कतकस्यत्यादि—कतकस्य फलं जलप्रसादफलं, शङ्खं शङ्खनाभिः, सिता शर्करा, फेनः समुद्रफेनः। क्षौद्रमत्राञ्जनार्थं, पेपणञ्च जलेन। इयञ्च वर्तिः पित्ताश्रिते तिमिरे भद्रा॥८६॥

चन्द्रोदया वर्त्तिः।

हरीतकी वचा कुष्ठं पिप्पली मरिचानि च।
विभीतकस्य मज्जा च शङ्खनाभिर्मनःशिला।
सर्वमेतत् समं कृत्वा छागीक्षीरेण पेषयेत्।
नाशयेत् तिमिरं कण्डूं पटलान्यर्बुदानि च।
अधिकानि च मांसानि येन रात्रौ न दृश्यते।
अपि द्विवार्षिकं पुष्पं मासेनैकेन साधयेत्॥
वर्त्तिश्चन्द्रोदया नाम नृणां दृष्टिप्रसादनी॥३०॥

चन्द्रोदयवर्त्तिस्तु फफतिमिरेप्रशस्ता। जलेन चाञ्चनमिति श्रीकण्ठः; त

त्रिद्धत्वा

ञ्चक्षुष्यत्वाच्च मधुनापि व्यवहरन्ति वृद्धाः॥१०॥

हरीतकी हरिद्रा च पिप्पल्यो लवणानि च।
कण्डूतिमिरजिद्वर्त्तिर्न क्वचित् प्रतिहन्यते॥३१॥

हरीतकीत्यादौ—लवणशब्दः सैन्धववचनः चक्षुष्यत्वात् तव प्रथमभागापेक्षया चतुर्थांशमित्याहुः। इयमपि कफे हिता। न क्वचित् प्रतिहन्यत इति पित्तजेष्वपि न वार्य्यत इत्यर्थः॥११॥

कुमारिका वर्त्तिः।

अशीतिस्तिलपुष्पाणि पष्टिः पिप्पलितण्डुलाः।
जातीकुसुमपञ्चाशन्मरिचानि च षोडश।

एषा कुमारिका वर्त्तिर्गतं चक्षुर्निवर्त्तयेत्॥९२॥

एषा कुमारिका वर्तिरित्यत्र कुसुमिका वर्तिरिति वृन्दे पठ्यते॥१२॥

त्रिफलाद्यवर्त्तिः।

त्रिफलाकुक्कुटाण्डत्वक् काशीशमयसो रजः।
नीलोत्पलं विडङ्गानि फेनञ्च सरितां पतेः॥
आजेन पयसा पिष्ट्वाभावयेत् ताम्रभाजने।
सप्तरात्रं स्थितं भूयः पिष्ट्वा क्षीरेण वर्त्तयेत्॥
एषा दृष्टिप्रदा वर्त्तिरन्धस्याभिन्नचक्षुषः॥९३॥

त्रिफलेत्यादौ—काशीशं धातुकाशीशम्, अयसो मारितपुटितस्य रजः। भावयेदिति स्थापयेत् लेपयेदिति वा। क्षीरेणेति आजेनैवेत्याहुः। वर्त्तयेदिति वर्ति कुर्य्यात्। अभिन्नचक्षुष इति अनष्टतारकस्य॥१३॥

चन्दनाद्यवर्त्तिः।

चन्दन त्रिफलापूगपलाशतरुशोणितैः।
जलपिष्टैरियं वर्त्तिरशेषतिमिरापहा॥९४॥

चन्दनेत्यादौ— पूगं गुवाकफलम्, पलाशतरुशोणितं किंशुकवेष्टकम्, पलाशपुष्पस्वरस इत्यन्ये॥९४॥

निशाद्यमञ्जनम्।

निशाद्वयाभयामांसी कुष्ठकृष्णा विचूर्णिताः।
सर्वनेत्रानयान् हन्यादेतत् सौगतमञ्जनम्॥९५॥

निशत्यादौ—सुगतो बुद्धस्तन्निर्मितत्वात् सौगतम्॥९५॥

व्योषोत्पलाभयाकुष्ठ-तार्क्षैर्वर्त्तिःकृता हरेत्।
अर्बुदं पटलं काचं तिमिरार्माश्रुनिःस्रुतिम्॥९६॥

व्योषेत्यादौ—तार्क्ष्यं रसाञ्जनम्॥९६॥

त्र्यूषणाद्यवर्त्तिः।

त्र्यूषणं त्रिफला वक्त्रं सैन्धवालमनःशिला॥
क्लेदोपदेहकण्डूघ्नीवर्त्तिः शस्ता कफापहा॥९७॥

त्र्यूषणेत्यादौ—वक्त्रं तगरपादुका, आलं हरितालम्॥९७॥

नयनसुखावर्त्तिः।

एकगुणा मागधिका द्विगुणा च हरीतकी सलिलपिष्टा।
वर्त्तिरियं नयनसुखा तिमिरार्मपटलकाचाश्रुहरी॥९८॥

एकगुणेत्यादौ—अत्र अर्मतिमिरपटलाश्रुकाचहरीति पठनीयम्, अन्यथा छन्दोभङ्गः स्यात्॥९८॥

चन्द्रप्रभावर्त्तिः।

अञ्जनं श्वेतमरिचं पिप्पली मधुयष्टिका
विभीतकस्य मध्यन्तु शङ्खनाभिर्मनःशिला।
एतानि समभागानि अजाक्षीरेण पेषयेत्।
छायाशुष्कां कृतां वर्त्ति नेत्रेषु च प्रयोजयेत्॥
अर्वुदं पटलं काचं तिमिरं रक्तराजिकाम्।
अधिमांसं मलञ्चैव यश्च रात्रौ न पश्यति॥
वर्त्तिश्चन्द्रप्रभा नाम जातान्ध्यमपि शोधयेत्॥९९॥

अञ्जनमित्यादि—अञ्जनं रसाञ्जनम्, श्वेतमरिचं शोभाञ्जनबीजम्, एवं सर्वत्र।

श्रीनागार्जुनावर्त्तिः।

त्रिफलाव्योषसिन्धूत्थ-यष्टीतुत्थरसाञ्जनम्।
प्रपौण्डरीकं जन्तुघ्नं लोध्रंताम्रं चतुर्दश॥

द्रव्याण्येतानि सञ्चूर्ण्यवर्त्तिः कार्य्या नभोऽम्बुना।
नागार्जुनेन लिखिता स्तम्भे पाटलिपुत्रके॥

नाशिनी तिमिराणाञ्च पटलानां तथैव च।
सद्यः प्रकोपं स्तन्येन स्त्रिया विजयते ध्रुवम्॥

किंशुकस्वरसेनाथ पिल्लवपुष्पकरक्तताः।
अञ्जनाल्लोध्रतोयेन चासन्नतिमिरं जयेत्।
चिरमाच्छादिते नेत्रे वस्तमूत्रेण संयुता।
उन्मीलयत्यकृच्छ्रेण प्रसादञ्चाधिगच्छति॥१००॥

त्रिफलेत्यादौ—जन्तुघ्नं विडङ्गम्, ताम्रञ्च मारितं ग्राह्यम्। चतुर्दशेति संख्याकथनेन अस्या वर्तेश्चतुर्दशाङ्गीति नामान्तरमपि सूचितम्, वाग्भटवचनात्। स्तम्भे शिलास्तम्भे। किंशुकपुष्पस्वरसेनेति किंशुकपुष्पस्वरसेन॥१००॥

पिप्पल्याद्यवर्त्तिः।

पिप्पलीं सतगरोत्पलपत्रां वर्त्तयेत् समधुकां सहरिद्राम्।
एतया सततमञ्जयितव्यं यः सुपर्णसममिच्छति चक्षुः॥१०१॥

पिप्पलीमित्यादौ—उत्पलपत्रम् उत्पलपुष्पस्य पत्रम्। वर्त्तयेदिति वर्तिकारयेत्।

कोकिला वर्त्तिका।

व्योषायश्चूर्णसिन्धूत्थ-त्रिफलाञ्जनसंयुता।
गुडिका जलपिष्टेयं कोकिला तिमिरापहा॥१०२॥

व्योषेत्यादौ—अञ्जनं सौवीराञ्जनम्। कोकिलवत् कृष्णवर्णत्वात् कोकिलेति वर्तेः संज्ञा॥१०२॥

त्रीणि कटूनि करञ्जफलानि द्वे रजनी सह सैन्धवकञ्च।
बिल्वतरोर्वरुणस्य च मूलं वारिचरं दशमं प्रवदन्ति॥
हन्ति तमस्तिमिरं पटलञ्च पिच्चिटशुक्रमथार्जुनकञ्च।
अञ्जनकं जनररञ्जनकञ्च दृक् च न नश्यति वर्षशतञ्च॥१०३॥

त्रीणीत्यादौ—द्वे रजनीति स्त्रीलिङ्गनिर्देशात् स्त्रीलिङ्गे ह्रस्वकारान्तोऽपि रजनीशब्दोऽस्तीति ज्ञेयम्। वारिचरः शङ्खनाभिः, वारिधर इति पाठे वारिधरो मुस्तकम्। हन्ति तमस्तिमिरमिति अन्धकारत्वसाधर्म्यात् तमःसदृशं तिमिरं हन्तीति। अञ्जनकमिति संज्ञायां स्वार्थे कः। जनरञ्जकं जनानुरागकारीत्यर्थः। दोषकाख्यच्छन्दः॥

नीलोत्पलं विडङ्गानि पिप्पली रक्तचन्दनम्।
अञ्जनं सैन्धवञ्चैव सद्यस्तिमिरनाशनम्॥१०४॥

नीलोत्पलमित्यादौ— अञ्जनं रसाञ्जनम्, एवं वक्ष्यमाणेऽपि॥१०४॥

पत्रगैरिक कर्पूर-यष्टीनीलोत्पलाञ्जनम्।
नागकेशरसंयुक्तमशेषतिमिरापहम्॥१०५॥

पत्रेत्यादि—पत्रं तेजपत्रम्, गैरिकं स्वर्णगैरिकम्॥१०४॥

शङ्खस्य चतुरो भागास्तदर्द्धेन मनःशिला।
मनःशिलार्द्धं मरिचं मरिचार्द्धेन पिप्पली॥

वारिणा तिमिरं हन्ति अर्बुदं हन्ति मस्तुना।
पिच्चिटं मधुना हन्ति स्त्रीक्षीरेण तदुत्तमम्॥१०६॥

शङ्खस्येत्यादौ—चतुरा भागा इति छान्दसत्वात्। एतैर्जलपिष्टैः वर्त्तिः कार्याः। स्त्रीक्षीरेण तदुत्तममिति उत्कृष्टशक्तिकमित्यर्थः॥१०६॥

हरिद्रा निम्बपत्राणि पिप्पल्यो मरिचानि च।
भद्रमुस्तं विडङ्गानि सप्तमं विश्वभेषजम्।
गोमूत्रेण गुडी कार्य्या छागमूत्रेण चाञ्जनम्॥
ज्वरांश्च निखिलान् हन्ति भूतावेशं तथैव च॥

वारिणा तिमिरं हन्ति मधुना पटलं तथा।
नक्तान्ध्यं भृङ्गराजेन नारीक्षीरेण पुष्पकम्॥
शिशिरेण परिस्रावमध्रुषं पिच्चिटं तथा॥१०७॥

हरिद्रेत्यादौ— भद्रमुस्तं कान्तक्रामकः। भृङ्गराजेनेति भृङ्गराजस्वरसेन। शिशिरेणेत्यवश्यायजलेन। अध्रुषं मुखरोगविशेषः, प्रभावादेव हन्ति ज्वरांश्च निखिलान् हन्ति इति निश्चलस्तु आयुर्वेदे पठति॥१०७॥

संगृह्योपरतानलक्तकरसेनामृज्य गण्डूपदान्।
लाक्षारञ्जिततूलवर्त्तिनिहितान् यष्टीमधून्मिश्रितान्।
प्रज्वाल्योत्तमसर्पिषानलशिखासन्तापजं कज्जलं

दूरासन्ननिशान्ध्यसर्वतिमिरप्रध्वंसकृच्चोदितम्॥१०८॥

संगृह्येत्यादौ—उपरतानिति मृतान् आमृज्याला

क्तकरसेन भावयित्वा इत्यर्थः। लाक्षारञ्जितं तूलमलक्तकम् उत्तमसर्पिषा गव्यघृतेन मृतगण्डूपदान् अल

क्तरसं दत्त्वा आतपे शोषयेत्, तदनु

चूर्णींकर्त्तव्यं तदनु तत् गण्डूपदचूर्णं यष्टिमधुचूर्णेन सह अल

क्तपत्रमध्ये कृत्वा सूत्रेण संवेष्ट्य वर्त्तिः कार्या; तथा वर्त्त्या गव्य

धूतमिश्रितया दीपं प्रज्वाल्य तद्दीपशिखोपरि निर्मलकाचादिपात्रं धृत्वा कज्जलपातनं कर्त्तव्यं, तेन कज्जलेन कदुष्णेनाञ्जनं कर्त्तव्यमिति क्रियामार्गः। आन्ध्यशब्दो दूरादिभिः सम्बध्यते। प्रत्येकं तयोरिति दूरासन्नान्ध्ययोर्निशान्ध्यदिवान्ध्ययोरिति॥१०८॥

भूमौ निघृष्टयांगुल्या अञ्जनं शमनं तयोः।
तिमिरकाचार्महरं धूमिकायाश्च नाशनम्॥१०६॥

भूमावित्यादौ—धूमिका धूमिकावलोकनम्॥१०६॥

त्रिफलाभृङ्गमहौषधमध्वाज्यच्छागपयसि गोमूत्रे।
नागं सप्तनिपिक्तंकरोति गरुडोपमं चक्षुः॥११॥

त्रिफलेत्यादि— त्रिफलायाः क्वाथः, भृङ्गराजस्य स्वरसः, महौषधं शुण्ठी, तस्याः क्वाथः, नागं सीसकम्। एत

च्चाग्नावावर्त्त्यत्रिफलाक्वाथादविकैकस्मिन् तत् सीसकं सप्तधा निर्बाप्य तेन सीसकेन शलाका कर्त्तव्या, तथा तिमिराञ्जनलिप्तया केवलया वा प्रस्तरादिघृष्टया अञ्जनं कार्यमिति परिपाटी भाविप्रयोगदर्शनात्॥११०॥

त्रिफलसलिलयोगे भृङ्गराजद्रवे च
हविषि च विपकल्के क्षीर आजे मधूग्रे।
प्रतिदिनमथ तप्तं सप्त वा सीसमेकम्।
प्रणिहितमथ पश्चात् कारयेत् तच्छलाकाम्॥

सवितुरुदयकाले साञ्जना व्यञ्जना वा
करकरिकसमेतानर्मपैच्चिट्यरोगान्।
असितसितसमुत्थान् सन्धिवर्त्माभिजातान्
हरति नयनरोगान् सेव्यमाना शलाका॥१११॥

त्रिफलेल्यादौ—हविपि च विपकल्क इति विषं मारकद्रव्यं कल्करूपं तत्र तादृशि हविषि अतएव चन्द्राटे “हविषि च विषमिश्रे " इत्युक्तम्। वाग्भटेऽपि “सविषाज्यमजापयः” इत्युक्तम्। मधूग्र इति प्रचुरे मधुनि, अन्ये तु मधुशब्देन यष्टिमधु वदन्ति। उक्तं हि वाग्भटे—“वराजलं भृङ्गजलं सविषाज्यमजापयः। यष्टीरसश्च यत् सीसं सप्तकृत्वः पृथक् पृथक्” इति। साञ्जना तिमिराञ्जनेन सहिता, व्यञ्जना तद्रहिता करकरिका बालुकाभिभूतनेत्रवेदनावत् वेदना॥१११॥

चिञ्चापत्ररसं निधाय विमले चौडुम्बरे भाजने
मूलं तत्र निघृष्टसैन्धवयुतं गौञ्जं विशोष्यातपे।

तच्चूर्णं विमलाञ्जनेन सहितं नेत्राञ्जने शस्यते
काचार्मार्जुनपिच्चिटे सतिमिरे स्रावञ्च निर्वापयेत्॥११२॥

चिञ्चेत्यादौ— औडुम्बरे भाजने ताम्रादिपात्रे। गौञ्जंमूलं काकणन्तिकामूलम्। विमलाञ्जनं सौवीराञ्जनम्॥११२॥

चित्राषष्ठीयोगे सैन्धवममलं विचूर्ण्यतेनाक्षि।
सममञ्जनेन तिमिरं गच्छति वर्षादसाध्यमपि॥११३॥

चित्रेत्यादि—चित्राषष्ठीयोग इति चित्रानक्षत्रयुक्तषष्ठ्याम्॥११३॥

दद्यादुशीरनिर्य्यूहे चूर्णितं कणसैन्धवम्।
तत् स्रुतं सघृतं भूयः पचेत् क्षौद्रं क्षिपेद् घने॥
शीते तस्मिन् हितमिदं सर्वजे तिमिरेऽञ्जनम्॥११४॥

दद्यादित्यादि— वाग्भटस्य। कणेति पिप्पली, छान्दसत्वात् ह्रस्वत्वम्। स्रुत इति वस्त्रपरिस्रुते, एतञ्चोशीरनिर्यूहविशेषणम्। उशीरमूलस्य क्वाथः, कणासैन्धवघृतानि मिलित्वा पादिकानि अष्टमांशानि वा दत्त्वा, पाकात् घनः कार्य्यः। शीते चास्मिन् पादिकं प्रक्षेप्यम्। वैद्यप्रसारके त्वस्या विवरणं यथा—” उशीरस्य पलद्वयं, जलस्य चत्वारः शरावाः, स्थाप्यस्तु शराव एकः पूते तस्मिन् प्रक्षेपार्थं कणासैन्धवयोः प्रत्येकमष्टमाषकं, घृतस्य च कर्षः, पुनः पाकेन घनीभूतेन शीते च मधुनः कर्षः॥१४॥

धात्रीरसाञ्जनक्षौद्र-सर्पिर्भिस्तु रसक्रिया।
पित्तानिलाक्षिरोगघ्नो तैमिर्य्यपटलापहा॥११५॥

धात्रीत्यादि—धात्रीक्वाथे रसाञ्जनचूर्णं घृतञ्च प्रक्षिप्य पुनः पाकात् रसक्रिया साध्या। रसक्रियेति घनीभूतक्वाथस्य संज्ञा। शीते च मधु प्रक्षेप्यम्। मानमेषां सर्वेषां पूर्ववदिति॥११५॥

शृङ्गवेरं भृगराजं यष्टीतैलेन मिश्रितम्।
नस्यमेतेन दातव्यं महापटलनाशनम्॥११६॥

शृङ्गवेरमित्यादि— यष्टिमधुसाधितेन तैलेन मिश्रितं शृङ्गवेरभृङ्गराजचूर्ण नस्यं किंवा भृङ्गराजस्वरसे तैलमिश्रिते शृंगवेरयष्टिमधुचूर्णं प्रक्षिप्य नस्य कार्य्यम् ११६

लिङ्गनाशे कफोद्भूते यथावद्विधिपूर्वकम्।
विध्वा दैवकृते छिद्रे नेत्रं स्तन्येन पूरयेत्॥

ततो दृष्टेषु रूपेषु शलाकामाहरेच्छनैः।
नयनं सर्पिषाभ्यज्य वस्त्रपट्टेन वेष्टयेत्॥

ततो गृहे निराबाधे शयीतोत्तान एव च।
उद्गारकासक्षवथुष्ठीवनोत्कम्पनानि च॥

तत्कालं नाचरेदूदूर्ध्वं यन्त्रणा स्नेहपीतवत्।

त्र्यहात् त्र्यहाद्धारयेत्तु कषायैरनिलापहैः॥

वायोर्भयात् त्र्यहादूर्द्ध्वं स्वेदयेदक्षि पूर्ववत्।
दशरात्रान्तु संयम्य हितं दृष्टिप्रसादनम्॥
पश्चात् कर्म च सेवेत लध्वन्नञ्चापि मात्रया॥११७॥

लिंगनाश इत्यादि—लिंग्यते ज्ञायतेऽऽनेनेति लिंगं दृष्टिस्तस्य नाशो लिंगनाशः। कफोद्भूत इत्यनेन वातजः पित्तजश्च विद्धोन सिध्यतीति दर्शयति यथावद्विधिपूर्वकमिति विधिश्च विदेह-सुश्रुताद्यक्तः तत्रानुसन्धेयः, स च विस्तारभयान्न लिखितः। दैवकृते छिद इति अपांगभागवर्तिनः शुक्तभागस्य मध्ये यद्दैवकृतं छिद्रमस्ति, तस्मिन्। तदुक्तंसुश्रुते—“मतिमान् शुक्तभागौद्वौकृष्णान्मुक्तो ह्यपांगतः। उन्मील्य नयने सम्यक् छिद्रे दैवकृते ततः। शलाकया ताम्रमय्या व्यधयेत्” इत्यादि। कृष्णात् कृष्णमण्डलात् प्रभृति द्वौ शुक्तभागौत्यक्त्वा मध्ये दैवकृतं छिद्रं यदस्ति तस्मिन् विध्येदिति। व्यधश्च तथा कर्त्तव्यो यथा एकैव परं त्वग्भिद्यते। सम्यग्व्यधलिंगञ्च सुश्रुतेनोक्तं, यथा—“वारिगमे सम्यक्शब्दश्च व्यधनेभवेत्। असम्यगग्विद्धे तु शोणितागमात्” इति। पट्टवस्त्रेण वेष्ठयेदिति। सद्यःक्षतरोपणं लोध्ररक्तचन्दनं त्रिफलाचूर्णं दत्त्वा वस्त्रेण वेष्टनम्, अन्ये तु धुस्तूरपिण्ढंदत्त्वा वस्त्रेण वेष्टयन्ति। निराबाध इति धूमातपादिरहितस्थाने। शयीतोत्तान एवेति एतच्च चक्षुर्द्वयोर्व्यधेज्ञेयम्, एकतरस्य व्यधे तु विद्ध्वा चक्षुषोऽन्येन पार्श्वेन शयनं ज्ञेयम्। वाग्भटेऽप्येवमेवोक्तम्। उद्गारेत्यादौ—उत्कम्पनं कम्पनमेव। तत्कालमिति सप्ताहम्। उक्तं हि वाग्भटे—क्षवधुकासमुद्गार सप्ताहं नाचरेत्” इति। उर्द्ध्वमिति उत्तानशयनात् परम् उद्गारादीनि सप्ताहं परिहरेदित्यर्थः। यन्त्रणा स्नेहपीतवदिति स्नेहपीतस्येव आहाराचारादिनियमःपूर्ववत् इति वस्त्रेणाच्छाद्य। कियन्तं कालमयं विधिःकार्य इत्याह दशाहमेवमित्यादि—संयम्येति एवमुत्तानशयनादिना आत्मानं नियम्य अनन्तरं दृष्टिप्रसादनादि हितं पश्चाल्लध्वन्नञ्चापि कर्म सेवेतेत्यर्थः। दृष्टिप्रसादनमञ्जनादि ल

ध्वन्नञ्चापीति चकाराद्दशाहाभ्यन्तरेऽपि लध्वन्नविधि समुच्चिनोति॥११७॥

रागश्चोषोऽर्बुदं शोथो बुद्बुदं केकराक्षिता॥

अधिमन्थादयश्चान्ये रोगाः स्युर्दुष्टवेधजाः।
अहिताचारतो वापि यथास्वं तानुपाचरेत्॥११८॥

राग इत्यादि—सुश्रुतस्य। चोष उपतापः, चोषणवत् पीडा वा अर्बुदम् अर्बुदाकारशोथः बुद्बुदं बुद्बुदाकारशोथः। केकराक्षिता वक्रदृष्टिता, टेरनेत्रमिति यावत्। शूकराक्षितेति पाठान्तरे शूकरत्येवाधोदृष्टितेत्यर्थः। यथास्वमिति वातादिप्रत्यनीकादिभिः॥११८॥

रुजा

यामक्षिरोगे वा भूयो योगान् निबोध मे।

कल्किताः सघृता दूर्व-यवगैरिकशारिवाः।
सुखालेपाः प्रयोक्तव्या रुजारागोपशान्तये॥११६॥

रुजायामिति चोषादिरूपपीडायाम्॥ कल्किता इत्यादि—वाग्भटस्य। सुखालेपा इति एतैः समभागैश्चक्षुःसमीपे प्रलेप इति। रागोऽक्षिलौहित्यम्॥११६॥

पयस्याशारिवापत्र-मञ्जिष्ठामधुकैरपि।
अजाक्षीरान्वितैर्लेपः सुखोष्णः पथ्य उज्यते॥१२०॥

पयस्येत्यादि—वाग्भटस्य। पयस्या क्षीरकाकोली, पत्रं तेजपत्रम्। वाग्भटे सुखोष्णः पथ्य उच्यत इत्यत्र सुखोष्णः शर्मकृत् पर इति पाठः॥१२०॥

वातघ्नसिद्धे पयसि सिद्धं सर्पिश्चतुर्गुणे।
काकोल्यादिप्रतीवापं प्रयुञ्ज्यात् सर्वकर्मसु॥१२१॥

वातघ्नेत्यादि—सुश्रुतस्य। वातघ्नो भद्रदार्वादिः, तेन क्षीरसाधनपरिभाषया सिद्धे पयसि चतुर्गुण। सर्वकर्म

स्थिति नस्यपानादिषु॥१२१॥

शाम्यत्येवं न चेच्छूलं स्निग्धस्विन्नस्य मोक्षयेत्।
ततः शिरां दहेच्चापि मतिमान् कीर्त्तितां यथा॥१२२॥

शाम्यतीत्यादि—सुश्रुतस्य। शिरामिति ललाटस्थां शिरां मोक्षयेत् दहेच्चापीत्यन्वयः॥१२२॥

दृष्टेरतः प्रसादार्थमञ्जने शृणु मे शुभे।
मेषशृङ्गस्य पत्राणि शिरीषधवयोरपि।
मालत्याश्चापि तुल्यानि मुक्तावैदूर्य्यमेव च।
अजाक्षीरेण सम्पिष्य ताम्रे सप्ताहमावपेत्।
प्रणिधाय तु तद्वर्त्तिं योजयेदञ्जने भिषक्॥१२३॥

दृष्टेरिस्यादि—सुश्रुतस्य। अत इति शिराव्यधदाहानन्तरम्। व्यधदाहाभ्यां दोषशेषेण वा कलुषिताया दृष्टेः प्रसादनाय अञ्जनम्। अञ्जने इति अञ्जनद्वयम्। मेष मेषशृंङ्गो, पुत्रञ्जीववृक्ष इत्यन्य। आवपेदिति आलिप्य स्थापयेत्॥१२३॥

स्रोतोजं विद्रुमं फेनं सागरस्थ मनःशिला।
मरिचानि च तद्वर्त्तिंकारयेत् पूर्ववद्भिषक्॥१२४॥

स्रोतोजमित्यादि—सुश्रुतस्य। स्रोतोजं रसाञ्जनम्। पूर्ववदिति छागीक्षीरेण पिष्ट्वा ताम्रपात्रेसप्ताहं स्थापयेदित्यर्थः॥१२४॥

रसाञ्जनं घृतं क्षौद्रं तालीशं स्वर्णगैरिकम्।
गोशकृद्रससंयुक्तं पित्तोपहतदृष्टये॥१२५॥

रसाञ्जनमित्यादौ—गाशकृद्रेसेन वर्त्तिः कार्या॥१२५॥

नलिनोत्पलकिञ्जल्कं गोशकृद्रससंयुतम्।
गुडिकाञ्जनमेतत् स्याद्दिनरात्र्यन्धयोर्हितम्॥१२६॥

नलिनेत्यादि—नलिनं पद्मम्, उत्पलं

नीलोत्पलम्, द्वयोः कि

ष्जलकःगेशकृद्रसेति गोशकृद्रसेन गुडिकाःकार्या इत्याहुः॥१२६॥

नदीजशङ्खत्रिकटून्यथाञ्जनं म

गःशिला द्वे च निशे गवां यकृत्।
सचन्दनेयं गुडिकाथ चाञ्जने प्रशस्यते रात्रिदिनेष्वपश्यताम्॥१२७॥

नदीजेत्यादि—सुश्रुतस्य। नदीजं सैन्धवम् शङ्खं शंखनाभिः शंखस्थाने शिम्बीति पाठे शि

म्बीहरितमुद्गः, श्रष्जनं रसाब्जनम्। गवां यकृत् वुक्काग्रं शकृदित्यपि पाठान्तरम्॥१२७॥

कणाच्छागयकृन्मध्ये पक्वा तद्रसपेपिता।
अचिराद्धन्ति नक्तान्ध्यं तद्वत् सक्षौद्रभूषणम्॥१२८॥

कणेत्यादि—छागयकृत् विदार्य्य तन्मध्ये पिप्प

लीं स्थापयित्वा उत्स्वेदयेत्। पक्वाउत्स्वि

म्ना। तद्रसपेषितेति उत्स्वेदाम्बुनापिष्ट्वा वर्त्तिःका

र्य्य्रेत्यर्थः। तद्वत् सक्षौद्रभूषणमिति। ऊषणं मरिचम्। पूर्ववत् छागयकृत्पिण्डं विदार्य्यतन्मध्येमरिनं स्थापयित्वा उतस्वंदयेत् तत आकृष्य उत्स्वेदावशिष्टजलेन तन्मरिचे सम्पिप्य वर्त्तिःकार्य्येत्यर्थः॥१२८॥

पवेत्तु गौधं हि यकृत् प्रकल्पितं प्रपूरितं मागधिकाभिरग्निना।
निषेवितं तद् यकृदञ्जनेन च निहन्ति नक्तान्ध्यमसंशयं खलु॥१२९॥

पचेत्यादि—पचे

द्रुत्स्वेदयेत्। गौधं गोधाभवं यकृत्, पिप्पलीपूरणार्थं प्रकल्पितमिति पठितम्। अग्निनेत्यत्र अम्बुनेति पाठान्तरे अम्बुना स्वेदनं बोध्यम्। अत्र गोधायकृ

रर्द्धपाचितमित्यपि पाठः। निषेवितं यकृदिति, तथाभूतं यकृत् खादितमित्यर्थः, पिप्पली त्व

ज्जनविधिना देयेति कश्चित्। अन्य तु उत्स्विन्नकणासहितंयकृत् भक्षणविधिना अ

ब्जनविधया च विहितं न

क्वान्ध्यं हन्तांत्याहुः। अपरे तु उत्स्विन्नकणासहितं यकृत् अ

ब्जनविधया निषे

वितं सन्ना

क्रान्ध्यं हन्तीति व्याचक्षते।खलुशब्द एवार्थे, असंशयमेवेत्यर्थः॥१२९॥

दध्नानिघृ

ष्टं मरिचं रात्र्यन्ध्याञ्जनमुत्तमम्।
ताम्बूलयुक्तं खद्योतभक्षणञ्च तदर्थकृत्॥१३०॥

दध्नेत्यादि योगः स्पष्टः॥१३०॥

शफरीमत्स्यक्षारो नक्तान्ध्यमञ्जनतो निहन्ति।
तद्वद्रामठटङ्कणकर्णमलञ्चैकशोऽञ्जनान्मधुना॥१३१॥

शफरीत्यादि—शफरीमत्स्यमन्तर्धूमं दग्ध्वा मधुना सन्ध्यायामञ्जनं कार्यम्॥

केशराजान्वितं सिद्धं मत्स्याण्डं हन्ति भक्षितम्।
नक्तान्ध्यं नियतं नृृणां सप्ताहात् पथ्यसेविनाम्॥१३२॥

केशराजेत्यादि—रोहितमत्स्यादीनाम

ण्डं केशराजं दत्त्वा उपदेशात् का

ञ्जिछेन पक्त्वा भक्ष्यम्। इतः परं घृतान्युच्यन्ते॥१३२॥

त्रिफलाघृतम्।

त्रिफलाक्वाथकल्काभ्यां सपयस्कं शृतं घृतम्।
तिमिराण्यचिराद्धन्यात् पीतमेतन्निशामुखे॥१३३॥

त्रिफलेत्यादौ—चतुर्गुणेन त्रिफलाक्वाथेन व्यवहरन्ति। सपयस्कमिति क्षीरं स्नेहसमम्॥१३३॥

महात्रिफलाद्यं घृतम्।

त्रिफलाया रसप्रस्थं प्रस्थं भृङ्गरसस्य च।
वृषस्य च रसप्रस्थं शतावर्य्याश्च तत्समम्।
अजाक्षीरं गुडूच्याश्च आमलक्या रसं तथा।
प्रस्थं प्रस्थं समाहृत्य सर्वैरेभिर्घृतं पचेत्॥

कल्कः कणा सिता द्राक्षा त्रिफला नीलमुत्पलम्।
मधुकं क्षीरकाकोली मधुपर्णी निदिग्धिका॥

तत् साधुसिद्धं विज्ञाय शुभे भाण्डे निधापयेत्।
ऊर्ध्वपानमधःपानं मध्ये पानञ्च शस्यते।
यावन्तो नेत्ररोगास्तान् पानादेवापकर्षति।

क्लान्ध्ये तिमिरे क

विनीलिकापटलार्बुदे॥

अभिष्यन्देऽधिमन्थे च पक्ष्मकोपे सुदारुणे।
नेत्ररोगेषु सर्वेषु वातपित्तकफेषु च॥

अदृष्टिं मन्ददृष्टिञ्च कफवातप्रदूषिताम्।
स्रवतो वातपित्ताभ्यां सकराड्वासन्नदूरदृक्॥

गृध्रदृष्टिकरं सद्यो वलवर्णाग्निवर्द्धनम्।
सर्वनेत्रामयं हन्यात् त्रिफलाद्यं महद् घृतम्॥१३४॥

महात्रिफलाघृते—वृषस्येति वासकस्य पत्ररसः प्रस्थः। मधुपर्णी गुडूची। ऊर्ध्वपानादिविधिर्भोजनापेक्षया ज्ञेयः। वातपित्तकफष्विति वातपित्तकफोद्भूतेषु नेत्ररोगेषु तथा कफवातप्रदूषणात् जातामदृष्टिं मन्ददृष्टि

व्चापकर्षतीत्यर्थः। तथा वातपित्ताभ्यां स्रवतश्चक्षुषः पथ्यमिति शेषः। तथा सकण्ड्वासन्नदूरदृक् यः तस्यापि गृध्रतुल्यदृष्टिकारकमिति सोपस्करं व्याख्येयम्। पुनः सर्वनेत्रामयं हरत्येव कथनं सर्वनेत्रामयहरणस्यावश्यकत्वोपपादनार्थमिति ज्ञेयम्॥१३४॥

त्रैफलं घृतम्।

त्रिफला त्र्यूषणं द्राक्षा मधुकं कटुरोहिणी।
प्रपौण्डरीकं सूक्ष्मैला विडङ्गं नागकेशरम्॥

नीलोत्पलं शारिवे द्वे चन्दनं रजनीद्वयम्।

कार्षिकैः पयसा तुल्यं त्रिगुणं त्रिफलारसम्॥

घृतप्रस्थं पचेदेतत् सर्वनेत्ररुजापहम्।
तिमिरं दोषमास्रावं कामलां काचमर्वुदम्॥

विसर्पं प्रदरं कण्डूं रक्तं श्वयथुमेव च।
खालित्यं पलितञ्चैव केशानां पतनं तथा।
विषमज्वरमर्माणि शुक्रञ्चाशु व्यपोहति।
अन्ये च बहवो रोगा नेत्रजा ये च वर्त्मजाः।
तान् सर्वान् नाशयत्याशु भास्करस्तिमिरं यथा।
न चैवास्मात् परं किञ्चिदृषिभिः काश्यपादिभिः॥
दृष्टिप्रसादनं दृष्टं यथा स्यात् त्रैफलं घृतम्॥१३५॥

त्रिफलेत्यादि—त्रिगुणं त्रिफलारसमिति घृतप्रस्थविशेषणम्। विषमज्वरमर्माणीति विषमज्वरं तथा मर्माणीति विश्लेषः॥१३५॥

फलत्रिकाभीरुकषायसिद्धं कल्केन यष्टीमधुकस्य युक्तम्।
सर्पिः समं क्षौद्रचतुर्थभागं हन्यात् त्रिदोषं तिमिरं प्रवृद्धम्॥१३६॥

फलत्रिकेत्यादौ—अभीरुः शतमूली। तत्र फलत्रिकस्य क्वाथः, शतमूल्यास्तु स्वरस इत्यर्थः। सममिति साध्वित्यर्थः। उक्तंहि मेदिनीकरकोपे—“सर्वसाधुसमानेषु समं स्यादमि

धेयवत्” इति अन्ये तु सममिति सहार्थे, यथोक्तकषायादिनासह सिद्धमित्यर्थः इत्याहुः॥१३६॥

भृङ्गराजाद्यं तैलम्।

भृङ्गराजरसप्रस्थे पष्टीमधुपलेन च।
तैलस्य कुडवं पक्वं सद्यो दृष्टिं प्रसादयेत्।
नस्याद्वलीपलितघ्नं मासेनैतन्न संशयः॥१३७॥

भृगराजाद्यंतैलं—स्पष्टम्॥१३७॥

गवां शकृत्क्वाथविपक्वमुत्तमं हितञ्च तैलं तिमिरेषु नस्ततः।
घृतं हितं केवलमेव पैत्तिके तथाश्वतैलं पचनासृगुत्थयोः॥१३८॥

गवामित्यादि—सुश्रुतस्य। गवां शकृत् क्वाथविपक्वमिति गोशकृतः क्वाथोऽत्राष्टगुणाम्बुना कार्यः, मृदोश्चतुर्गुणं देयमिति परिभाषा व्यवहारवाधिता। घृतं हि केवलमिति केवलमित्यसंस्कृतम्। नस्तत इति इहापि सम्बध्यते। अश्वतैलञ्चसुश्रुते वातव्याध वुक्तम्। कस्मिंश्चित् सुश्रुतपुस्तके"घृतं हितं केवलमेव पैतिके” इत्यस्यानन्तरम् “अजाविकं यन्मधुरैर्विपाचित तैलं स्थिरादौ मधुरे च यद्गणे"इति पाठो दृश्यते, स च पाटस्तथाविधाकारपुस्तकेषु न दृश्यते, टीकाकद्भिश्च न प्रामाणिकैर्लिखित इति कृत्वा अनार्ष इति ज्ञेयम्॥१३८॥

नृपवल्लभं तैलं घृतञ्च।

जीवकर्षभकौमेदे द्राक्षांशुमती निदग्धिका वृहती।
मधुकं बला विडंगं मञ्जिष्ठा शर्करा रास्न।
नीलोत्पलं श्वदंष्ट्रा प्रपौण्डरीकं पुनर्नवा लवणन्।
पिप्पल्यः सर्वेषां भागैरक्षांशिकैः पिष्टैः॥

तैलं यदि वा सर्पिर्दत्त्वा क्षीरं चतुर्गुणं पक्वम्।
आत्रेयनिर्मितमिदं तैलं नृपवल्लभं सिद्धम्।
तिमिरं पटलं काचं नक्तान्ध्यमर्बुदं तथान्ध्यञ्च।
श्वेतञ्च लिङ्गनाशं नाशयति च नीलिकां व्यङ्गम्॥

मुखनासादौर्गन्ध्यं पलितञ्चाकालजं हनुस्तम्भम्।
कासं श्वासं शोषं हिक्कां स्तम्भं तथात्ययं नेत्रे।
मुखजैह्म्यमर्द्धभेदं रोगं बाहुग्रञ्च शिरःस्तम्भम्।
रोगानथोद्र्ध्वजत्रोः सर्वानचिरेणैतद्विनाशयति॥

पक्तव्यं कुडवं तैलं नस्यार्थ नृपवल्लभे।
अक्षांशैः शाणिकैः कल्कैरन्ये भृङ्गादितैलवत्॥१३६॥

जीव केत्यादौ—अंशुमती शालपर्णी। अक्षांशिकैरिति अक्षः कर्षस्तस्यांशश्चतुर्थोभागः माषकचतुष्टयं, तेन शाणिकैरित्यर्थः। तेन सर्वे मिलित्वा द्वादशमाषकाधिकंपलं भवति, अनेन तैलकुडवःसाध्यः, नस्यार्थं तैलकुडवः पच्यत इति सम्प्रदायः।कुडवश्चाष्टौ पलनि। न च कल्कस्तु स्नेहपादिक इत्यनेन विरोधः, कल्कपलेनापितैलकुडवपाकदर्शनात्, तथा पूर्वोक्तभृङ्गराजतैले, तथा वक्ष्यमाणेऽभिजितनाम्नि तैलेच। किंवा अक्षांशिकैरिति कार्षिकैः, अस्मिन् पक्षे कल्कस्य बहुत्वात् तैलप्रस्थःसाध्यः। व्यवहारस्तु पूर्वेणैव। यदि वा सर्पिरिति पैत्तिक तिमिरे सर्पिः पक्तव्यम्। दृष्टिजष्विति दृष्टिमण्डलरोगेषु॥१३६॥

अभिजितं तैलम्।

तैलस्य पचेत् कुडवं मधुकस्य पलेन कल्कपिष्टेन।
आमलकरप्रस्थं क्षीरप्रस्थेन संयुक्तम्॥

कृत्वाभिजितं नाम्ना तैलं तिमिरं हन्यान्मुनिप्रोक्तम्।
विमलां कुरुते दृष्टिं नष्टामप्यानयेत्तथा॥१४०॥

अभिजितं तैलं—स्पष्टम्॥१४॥

अर्मतु छेदनीयं स्यात् कृष्णप्राप्तं भवेद् यदा।
वडिशविद्धमुन्नभ्य त्रिभागञ्चात्र वर्जयेत्॥१४१॥

अर्मत्वित्यादि—अर्म आमा इति ख्यातोऽक्षिरोगविशेषः। अर्म छेदनीयमिति मण्डलाग्रेणेति शेषः। समुन्नम्येति सूच्यप्रेणेति शेषः। सूच्यप्रेण समुन्नम्य उत्तोल्य

अनन्तरं वडिशेन विद्ध्वा मण्ढलाग्रेण छेदयेदित्यर्थः। त्रिभागमिति तृतीयभागंकनीनिकां वर्जयेदित्यर्थः। उक्तं हि “रक्षन् कनीनिकां छिःद्या

श्चतुर्भागावशेषितम्” इति॥

पिप्पलीत्रिफलालाक्षालौहचूर्णं ससैन्धवम्।
भृङ्गराजरसे पिष्टं गुडिकाञ्जनमिप्यते॥

अर्म सतिमिरं काचं कण्डूं शुकं तदर्जुनम्।
अजकां नेत्ररोगांश्च हन्यान्निरवशेषतः॥१४२॥

** ** पिप्पलीत्यादि—भृङ्गराजरसेनैव पेपणमव्जनशेत्याहुः। गुढिकाव्जनं वर्त्तिरित्यर्थः। अजका अक्षिरोगभेदः॥१४२॥

पुष्पाख्यतार्क्ष्यजसितोदधिफेनशङ्खसिन्धूत्थगैरिकशिलामरिचैःसमांशैः
पिष्टैश्च माक्षिकरसेन रसक्रियेयं हन्त्यर्मकाचतिमिरार्जुनवर्त्मरोगान्॥

पुष्पाख्येत्यादि—पुप्पाख्यं पुष्पकाशोशं, तार्क्ष्यजं रसाव्जन, सिता शर्करा,शंखःशंखनाभिः, गैरिकशिला गैरिकमेवेति श्रीकण्ठः। माक्षिकरसेनेति मधुरूपद्रवेण। रसक्रियेयमिति एतत् सर्वं चूर्णं प्रचुरतरमधुना समालो

ज्य वंशनलिकायां
स्थाप्यमेतत् रसक्रियाविधानं वदन्ति। अतएव पिष्टं क्षौद्रेण चालो

प्य इत्यादिवचनमपि पठन्ति॥१४३॥

कौम्भस्य सर्पिपः पानैर्विरेकालेपसेचनैः।
स्वादुशीतैः प्रशमयेच्छुक्तिकामञ्जनैस्ततः॥१४४॥

** **कौम्भस्यत्यादि—कौम्भं सर्पिदशवर्षस्थितं घृतम्॥१४४॥

प्रवालमुक्तावैदूर्य्य शङ्खस्फटिकचन्दनम्।
सुवर्णरजतं क्षौद्रमञ्जनं शुक्तिकापहम्॥१४५॥

** **प्रयालेत्यादि—क्षौद्रेण पेपणमञ्जनञ्च॥१४५॥

शङ्खः क्षौद्रेण संयुक्तः कतकः सैन्धवेन वा।
सितयार्णवफेनो वा पृथगञ्जनमर्जुने॥१४६॥

** ** शङ्ख इत्यादि—त्रयो योगाः॥१४६॥

पैत्तं विधिमशेषेण कुर्य्यादर्जुनशान्तये॥१४७॥

पैत्तं विधिमिति पित्ताभिष्यन्दोक्तविधिम्। उक्तंहि “पित्ताभिष्यन्दशमनोविधिरर्जुनशान्तिकृत्” इति॥१४७॥

वैदेहीसितमरिचं सैन्धवं नागरं समम्॥
मातुलुङ्गरसैःपिटमञ्जनं पिष्टकापहम्॥१४८॥

** ** वैदेहीत्यादि—वैदही पिप्पली, सितमरिचं शोभाञ्जनव

जम्। इति शु

क्लजेषु॥

भित्त्वोपनाहं कफजं पिप्पलीमधुसैन्धवैः।
विलिखेन्मण्डलाग्रेण प्रच्छयेद्वा समन्ततः॥१४९॥

** **भित्त्वेत्यादि—सुश्रुतस्य। भित्त्वेति व्रीहिमुखेणेति शेषः। यद्यप्युपनाहःकेवलं

कफज एव, तथापि कफजमिति स्वरूपपरं ज्ञेयम्। पिप्पलमधुसैन्धवैरित्यनन्तरं प्रतिसारणमिति शेषः। अत्र लेखनानन्तरं प्रतिसारणं ज्ञेयम्। उक्तं हि वाग्भटे—“उपनाहं भिषक्

स्विन्नं भिन्नं व्रीहिमुखेन तु। लेखयेत् मण्डलाग्रेण ततश्च प्रतिसारयेत्” इति। अन्ये तु भेदनप्रतिसारणाभ्यामप्रशमे लेखनं प्रच्छनञ्च देयमित्याहुः

पथ्याक्षधात्रीफलमध्यबजैस्त्रिद्व्येकभागैर्विदधीत वर्त्तिम्॥
तयाञ्जयेदश्रुमतिप्रगाढमक्ष्णोर्हरेत् कष्टमपि प्रकोपम्॥१५०॥

पथ्येत्यादौ—फलमध्यबीजपदं पथ्यादिभिः प्रत्येकं सम्बव्यते। त्रिद्व्येकभगैरिति पथ्याबीजादिषु यथाक्रमं योज्यम्, अत्र पानीयेन पेषणम्। मधुना त्वञ्जनमिति व्यवहरन्ति॥१५०॥

स्रावेषु त्रिफलाक्वाथं यथादोषं प्रयोजयेत्।
क्षौद्रेणाज्येन पिप्पल्या मिश्रं विध्येच्छिरां तथा॥१५१॥

स्रावेष्वित्यादौ—प्रयोजयेदिति पिबेत्। यथादोषमिति क्षौद्रेण पित्तरक्ते,आज्येन वाते पित्तेरक्ते च, पिप्पल्या तु कफे। एभिरप्रशमे शिराव्यध इति॥१५१॥

त्रिफलामूत्रकाशीश-सैन्धवैः सरसाञ्जनैः।
रसक्रियाक्रिमिग्रन्थौ भिन्ने स्यात् प्रतिसारणम्॥१५२॥

त्रिफलत्यादि—सुश्रुतस्य। त्रिफलाक्वाथगोमूत्र मिलित्वा पलचतुष्टये काशीशसैन्धवरसाञ्जनं पलमानं प्रक्षिप्य पुनः पाकेन घनतामापाद्य रसक्रिया विधेया। किन्तु काशीशरसाञ्जनापेक्षया सैन्धवमल्पमानं व्यवहरन्ति वृद्धाः। मूत्रस्थाने तुल्येतिनिश्चलःपठति। तन्मते त्रिफलाक्वाथस्यैव पलचतुष्टयम्। किन्तु सुश्रुते बहुपुस्तकेषु च मूत्रपाठ एव दृश्यते। भिन्ने स्यात् प्रतिसारणमिति रसाञ्जनचूर्णमधुभ्यामेवप्रतिसारणं ज्ञेयम्॥१५२॥

स्वि

न्नां भित्त्वा विनिष्पीड्य भिन्नामञ्जननामिकाम्।
शिलैलानतसिन्धूत्थैः सक्षौद्रैः प्रतिसारयेत्॥
रसाञ्जनमधुभ्याञ्च भिन्नां वा शस्त्रकर्मवित्॥१५३॥

स्विन्नामित्यादि—स्पष्टम्॥१५३॥

प्रतिसार्य्याञ्जनैर्युञ्ज्यादुष्णैर्दीपशिखोद्भवैः॥
स्वेदयेद् घृष्टयाङ्गुल्या हरेद्रक्तंजलौकसा॥१५४॥

प्रतिसार्य्याञ्जनैरिति अञ्जनैः कज्जलैः॥१५४॥

रोचनाक्षारतुत्थानि पिप्पल्यः क्षौद्रमेव च।
प्रतिसारणमेकैकं भिन्ने लगण इष्यते॥१५५॥

रोचनेत्यादि—सुश्रुतस्य क्षारो यवक्षारः। रोचनादिषु प्रत्येकं क्षौद्रयोगः। प्रतिसारणमिह व्रणमुखे दानम्, न तु घर्षणम्॥१५५॥

निमेषे नासया पेयं सर्पिस्तेन च पूरणम्॥१५६॥

निमेष इत्यादी—सर्पिस्त्रिफलासिद्धमिति केचित्। अन्ये त्वपक्वमित्याहुः।पूरणमिति तेन सर्पि

षा चक्षुःपूरणमित्यर्थः॥१५६॥

स्वेदयित्वा विसग्रन्थिं छिद्राण्यस्य निराश्रयम्।
पक्वंभित्त्वा तु शस्त्रेण सैन्धवेनावचूर्णयेत्॥१५७॥

स्वेदयित्वेत्यादौ—विसग्रन्थिमिति विसवर्त्माख्याक्षिरोगम्। निराश्रयमितिआश्रयः स्फोटकः निरवशिष्टं यथा स्यात् तथा भित्वेत्यर्थः। अल्पेऽप्याश्रये सतिव्याधेरस्य पुनः सम्भवात्। उक्तं हि—“विसग्रन्धिं तथा भिन्द्याद् यथा स्यान्नाश्रयः क्वचित्। पुनः प्रवर्द्धते यस्मादल्पेऽप्यस्याश्रये स्थिते” इति॥१५७॥

वर्त्मावलेखं बहुशस्तद्वच्छोणितमोक्षणम्।
पुनः पुनर्विरेकञ्च पिल्लरोगातुरो भजेत्॥१५८॥

वर्मेत्यादिना पिल्लरोगचिकित्सामाह, वर्त्मावलेखमिति—

कर्कशशाखोटकादिपत्रेण वर्त्मघर्षणम्। पिल्ललक्षण

म् पूर्वमेवोक्तम्। वाग्भटेन तु

फुकूणकादीनामष्टादशानां पिल्लाख्या कृता। यथा—“एतेऽष्टादश पिल्लाख्यादीर्घकालानुवन्धिनः” इति॥

पिल्ली स्निग्धो वमेत् पूर्व शिराव्यधं स्रुतेऽसृजि।
शिलारसाञ्जनव्योपगोपित्तैश्चक्षुरञ्जयेत्॥१५९॥

पिल्लीत्यादौ—स्वेदोऽपि योध्यो वमनाङ्गत्वात्। शिरो लालाटी। शिलेत्यादौगोपित्तस्याप्राप्तै गोरोचनतया सर्वत्र व्यवहारः॥१५९॥

हरितालवचादारुसुरसारसपेषितम्।
अभयारसपिष्टं वा तगरं पिल्लनाशनम्॥१६०॥

हरितांलत्यादौ—सुरसारसपेषितमिति सुरसा पर्णसभेदः सुरहिम

ल्लीति लोके।प्रतिसारणमेतत्। अभयेत्यादौ—तगरं तगरपादुका॥१६०॥

भावितं वस्तमूत्रेण सस्नेहं देवदारु च।
काकमाचीफलैकेन घृतयुक्तेन बुद्धिमान्।
धूपयेत् पिल्लरोगार्त्तं पतन्ति किमयोऽचिरात्॥१६१॥

भावितमित्यादौ—स्नेहो घृतं चक्षुष्यत्वात्। एतदपि प्रतिसारणम्। काकमाचीत्यादौ—फलमकमेव घृतलिप्तं धूपार्थम्। धूपनं चक्षुर्वाससाच्छाद्य कार्य्यम्। अन्ये तु एकेन केवलेन भावनादिरहितेन धूपनमित्याहुः॥१६१॥

रसाञ्जनं सर्जरसो जातीपुष्पं मनःशिला।
समुद्रफेनो लवणं गौरकं मरिचानि च।
एतत् समांशं मधुना पिष्टं प्रक्लि

न्नवर्त्मनि।
अञ्जनं क्लेदकण्डूघ्नं पक्ष्मणाञ्च प्ररोहणम्॥१६२॥

रसाञ्जनमित्यादौ—ग़र्जरसो यक्षधूपः। अत्र पेषणं मधुनैव॥१६२॥

मस्तकास्थि चुलुक्यास्तु तुपोदलवणान्वितम्।

ताम्रपात्रेऽञ्जनं घृष्टं पिल्ले प्रक्लिन्नवर्त्मनि॥१६३॥

मस्तकास्थीत्यादौ—चुलुकी शिशुमारः, तस्य मस्तकास्थि, तुषोदकं काजिकम्।

ताम्रपात्रे गुहामूलं सिन्धूत्थं मरिचान्वितम्।
आरनालेन संघृष्टमञ्जनं पिल्लनाशनम्॥१६४॥

ताम्रेत्यादी—गुहा पृ

श्रिपर्णी, तस्या मूलं ताम्रपात्रे सप्ताहं घर्षयेदिति ज्ञेयम्।अन्ये तु गुहास्थाने स्नुहति पठित्वास्नुहीमूलमाहुः। तच्च प्रक्षालनेन क्षीररहितंकृत्वा अञ्जनविधौ प्रयोज्यमिति वदन्ति। व्यवहारस्तु पूर्वेणैव॥१६४॥

हरिद्रे त्रिफला लोध्रंमधुकं रक्तचन्दनम्।
भृङ्गराजरसे पिष्ट्वाघर्षयेल्लौहभाजेन॥

तथा ताम्रे च सप्ताहं कृत्वा वर्त्ति रजोऽथवा।
पिच्चिटी धूमदर्शी च तिमिरोपहतेक्षणः।
प्रतिनिश्यञ्जयेन्नित्यं सर्वनेत्रामयापहम्॥१६५॥

हरिद्रेत्यादौ—तथेत्यनेन ताम्रपात्रे सप्ताहं घर्षयेदिति योज्यम्। अन्ये तुतथा ताम्रे चेति विकल्पार्थमेतद्वचनम्, न समुच्चयार्थः, तेन लौहभाजने ताम्रे भाजनेवा घर्षयेदित्याहुः। रजोऽथवेति एतेन चूर्णाञ्जनमप्युपदिशन्ति॥१६५॥

चूर्णाञ्जनम्।

मञ्जिष्ठामधुकोत्पलोदधिकफत्वक्सेव्यगोरोचना-
मांसीचन्दनशङ्खपत्रगिरिमृत्तालीशपुष्पाञ्जनैः।
सर्वैरेव समांशमञ्जनमिदं शस्तं सदा चक्षुषोः
कण्डूक्लेदमलाश्रुशोणितरुजापिल्लार्मशुक्रापहम्॥१६६॥

मञ्जिष्ठेत्यादौ—उदधिकफः समुद्रफेनः, सेव्यमुशीरम्, पत्रं तमा

ऩपत्रम्, तेजपत्रमित्यन्ये, पुष्पं पुष्पकाशीशम्, अञ्जनं रसाञ्जनम्। तालीशपत्राजनैरित्यपि पाठः।वर्तिरियं चूर्णांञ्जनं वा॥१६६॥

तुत्थकस्य पलं श्वेतमरिचानि च विंशतिः।
त्रिंशता काञ्जिकपलैः पिष्ट्वाताम्रे निधापयेत्॥

पिल्लानपिल्लान् कुरुते बहुवर्षोत्थितानपि।
तत्सेकेनोपदेहाश्रुकण्डूशोथांश्च नाशयेत्॥१६७॥

तुत्थकस्येत्यादि—वाग्भटस्य। श्वेतमरिचानि शोभाञ्जनबीजानि विंशतिरित्याकृतिमानात्। उपदेहः पि

ञ्चोडिका॥१६७॥

याप्यः पक्ष्मोपरोधश्च रोमोद्धरणलक्षणैः।
वर्त्मन्युपक्षितं लेख्यं स्राव्यमुत्क्लिष्टशोणितम्॥१६८॥

याप्य इत्यादौ—रोमोद्धरणलक्षणैरित्यनन्तरं कर्मभिरिति शेषः। पक्ष्मोपरोधो रोमोद्धरणलक्षणैः कर्मभिर्याप्यः यापनीयः। लक्षणरित्यत्र लेखनैरित्यपि पाठान्तरम्। वर्त्मन्युपचितमिति पदमलोमेतिशेषः॥१६८॥

प्रवृद्धान्तर्मुखं रोम सहिष्णोरुद्धरच्छनैः।
सन्दंशेनोद्धरेद् दृष्ट्यां पक्ष्मरोमाणि बुद्धिमान्।
रक्ष

न्नति दहेत् पक्ष्मा तप्तहेमशलाकया।
पक्ष्मरोगे पुनर्नैवं कदाचिद्रोमसम्भवः॥१६९॥

केनप्रकारेणोद्धरेदित्याह सन्देशनेत्यादि—दृष्ट्यां पक्ष्मरोमाणीत्यत्र दृष्टापक्ष्मरोमाणीत्यपि पाठान्तरम्। रक्षन्नित्यादौ—पक्ष्मेति पक्ष्मस्थानम्। उक्तंहि"पक्ष्मरोगे

हृते लोम्नि दाहं तत्स्थानके भिषक्। तप्तया हेमसूच्या तु यु

ष्ज्याद्वाप्यभयाष्टकम्” इति॥१६९॥

उत्सङ्गिनी बहुलकर्दमवर्त्मनी च श्यावञ्च यच्च पठितन्त्विह यद्धवर्त्म।
क्लिन्नञ्च पोथकियुतन्त्विह वर्त्म यञ्च कुम्भीकिनी

व सह शर्करयावलेख्याः

श्लेष्मोपनाहलगणौ च विसञ्च भेद्यो
ग्रन्थिश्च यः किमिकृतोऽञ्जननामिका च॥१७०॥

इदानीं नेत्ररेगिषु मध्ये ये च लेख्या ये च भेद्यास्तानाह उत्सङ्गिनीत्यादि—सुश्रुतस्य। बहुलकर्दमवर्त्मनी चेति बहुलवर्त्म कर्दमवर्त्म

श्वेत्यर्थः। श्याव

ञ्चेतिश्याववर्त्म, तथा

क्लिन्नञ्च क्लिम्नवर्त्म। विसमिति विसग्रन्थिः॥१७०॥

घृतसैन्धवचूर्णेन कफानाहं पुनः पुनः।
विलिखेन्मण्डलाग्रेण प्रच्छयेद्वा समन्ततः॥१७१॥

घृतेत्यादि—घृतमिश्रसैन्धवचूर्णेन विलिखेत् प्रतिसारयेत्। मण्डलाग्रेणं तु प्रच्छयेदित्यर्थः॥१७१॥

पटोलामलकक्वाथैराश्च्योतनविधिर्हितः।
फणिज्झकरसोनस्य रसैः पोथकिनाशनः॥१७२॥

पोथकीचिकित्सामाह—पटोलत्यादि—फणिज्झकः पर्णासः। रसैरित्यनन्तरंपिष्ट इति शेषः। फणिज्झकपत्रं रसोनस्य रसैः पिष्टमाश्च्योतनमित्यर्थः॥१७२॥

आनाहपिडकां स्विम्नां तिर्य्यग्भित्त्वाग्निना दहेत्॥१७३॥

आनाहपिडकामित्यादौ—दहेदिति च्छेदः॥१७३॥

अर्शस्तथा वर्त्म नाम्ना शुष्कार्शोऽर्वुदमेव च।
मण्डलाग्रेण तीक्ष्णेन मूले छिन्द्याद्भिषक् शनैः॥१७४॥

अर्शःप्रभृतीनान्तु छिन्द्यादित्यनेनान्वयः॥१७४॥

सिन्धूत्थपिप्पलीकुष्ठपर्णिनीत्रिफलारसैः।
सुरामण्डेन वर्तिः स्यात् श्लेष्माभिष्यन्दनाशिनी।
पोथकीवर्त्मोपरोधक्रिमिग्रन्थिकुकूणके॥१७५॥

सिन्धूत्थादीनां प्रत्येकं समं चूर्णं गृहीत्वा त्रिफलारसेन भावयित्वा सुरामण्डेनवर्त्तिः कार्येत्यर्थः॥१७५॥ इति नेत्ररोग चिकित्साविवृतिः।

अथ शिरोरोगचिकित्सा।

वातिके शिरसो रोगे स्नेहस्वेदान् सनावनान्।
पानान्नमुपनाहांश्च कुर्य्याद्वातामयापहान्॥१॥

शिरः संश्रितकर्णनासानयनगतरोगाणां चिकित्सितमुक्त्वा सम्प्रति तदाश्रयस्य शिरसो रोगाणां चिकित्सामाह वातिक इत्यादि—स्वेदोऽत्र वातहरद्रव्यकृतस्वरसादिभिः। उपनाहः स्वेदविशेषः। अन्ये तूपनाहं शिरोवस्तिभेदमाहुः येन मस्तिष्क उच्यते। तन्त्रान्तरे हि मस्तिष्क उपनाहः शिरोवस्ति विशेषत्वेनोक्वः। यथा—“मस्तिष्केऽष्टांगुलं पट्टं वस्तौ तु द्वादशांगुलम्” इति॥१॥

कुष्ठमेरण्डमूलञ्च लेपात् काञ्जिकपेषितम्।
शिरोऽर्ति नाशयत्याशु पुष्पं वा मुचुकुन्दजम्॥२॥

मुचुकुन्दः स्नेहसिद्ध इति निश्चलः, किन्तु पश्चिमे स्वनामख्यात एव॥२॥

पञ्चमूलीशृतं क्षीरं नस्यं दद्याच्छिरोगदे॥३॥

पञ्चमूली वातपैत्तिक स्वल्पा, वातकफे तु महती॥३॥

आशिरो व्यायतं चर्म कृत्वाष्टाङ्गुलमुच्छ्रितम्॥

तेनावेष्ट्य शिरोऽधस्तान्माषकल्केन लेपयेत्।
निश्चलस्योपविष्टस्य तैलैरुष्णैःप्रपूरयेत्।
धारयेदारुजः शान्तेर्यामं यामार्द्धमेव वा।
शिरोवस्तिर्जयत्येषा शिरोरोगं मरुद्भवम्॥

हनुमन्याक्षिकर्णार्त्तिमर्दितं मस्तकम्पनम्।
तैलेनापूर्य्य मूर्द्धानं पञ्चमात्राशतानि च॥

तिष्ठेत् श्लेष्मणि पित्तेऽष्टौ दश वाते शिरोगदी।
एष एव विधिः कार्य्यस्तथा कर्णाक्षिपूरणे॥४॥

आशिरोव्यायतमिति—यावता चर्मणा शिरोवेष्टनं भवति तावन्मानं चर्म ग्राह्यमित्यर्थः। तैलैरिति यथाविधिसाधितैः पूरयेदित्यंगुलोच्छ्रयेण। घृतमिति तन्त्रान्तरे दर्शनात्। आरुजः शान्तः धारयेदिति वाते यामं, पैत्तिक यामार्द्धम्। कफे वक्ष्यमाणपञ्चमात्राशतानीत्यादि वचनं भिन्नकर्तृकत्वान्मतभेदाविरुद्धं बोध्यम्। मात्रात्र निमेषोन्मेषादिः। उक्तं हि—“निमेषोन्मेषणे पुंसा स्फोटनं वापि चांगुलेः। अक्षरस्य लघोर्वापि मात्रासूञ्चारणं भवेत्” इति। व्यवहारस्तु छुटिकयेति। कफजे तु शिरोवस्तिर्नस्यादिभिरजिते कफे वातस्य चानुबन्धे सति ज्ञेयः। केवलकफे तस्यानौ चित्यात्। विधिरिति मात्रारूपः॥४॥

पैत्ते घृतं पयः सेकाः शीता लेपाः सनावनाः।
जीवनीयानि सर्पीषि पानान्नञ्चापि पित्तनुत्॥५॥

पैत्त इत्यादौ—शीता इति सेकलेपयोर्विशेषणम्। जीवनीयानि सर्पीषीदि जीवनीयदशकफाथकत्कसाधितानि॥५॥

पित्तात्मके शिरोरोगे स्निग्धं सम्यग्विरेचयेत्।
मृद्धीकात्रिफलेक्ष्रूणां रसैः क्षीरैर्घृतैरपि॥६॥

मृद्धीकेत्यादि—मृद्धीकेक्षुरसौ त्रिवृच्चूर्णप्रक्षेपाद् विरेककारकौ ज्ञेयौ त्रिफलाक्काथस्तु स्वत एवेत्याहुः। क्षीरघृते चापि त्रिवृदादिसिद्धे विरेके॥६॥

शतधौतधृताभ्यङ्गः शीतवातादिसेवनम्।
शीतस्पर्शाश्च संसेव्याः सदा दाहार्त्तिशान्तये॥७॥

शतधौतधृताभ्यङ्गः इति—शतधौतेन घृतेन शिरसोऽभ्यङ्गो ज्ञेयः। उकं हि—“सर्पिषः शतधौतस्य शिरसि धारणं हितम्” इति। शीतस्पर्शा इत्यादि। शीतस्पर्शाः कुमुदोत्पलपद्मादयः॥७॥

चन्दनोशीरयष्ट्याढवलाव्याघ्रनखोत्पलैः।
क्षीरपिष्टैः प्रदेहः स्यात् शृतैर्वा परिपेचनम्॥८॥

चन्दनेत्यादौ—व्याघ्रनखो नखीभेदः। शृतैरिति चन्दनादिकाथैः, अन्ये तु चन्दनादिशृतैः क्षीरैरित्याहुः॥८॥

मृणालविसशालूकचन्दनोत्पलकेशरैः।
स्निग्धशीतैः शिरो दिह्यात् तद्वदामलकोत्पलैः॥९॥

मृणालेत्यादौ—विसं वालमृणालम्, उत्पलकेशरं किन्जल्कः। स्निग्धशीतैः स्निग्धत्वं घृतयोगात्। तद्वदित्यनेन घृतयोगात् स्निग्धत्वमतिदिशन्ति॥९॥

यष्ट्याहवन्दनानन्ताक्षीरसिद्धं घृतं हितम्।
नावनं शर्कराद्राक्षामधुकैर्वापि पित्तजे॥१०॥

यष्टय हत्यादौ—अनन्ता अनन्तमूलम्, एषां कल्केन चतुर्गुणक्षीरेण घृतं

पव्यम्। एवं शर्करा द्राक्षा-यष्टिमधुकल्केन चतुर्गुणक्षीरेण घृतान्तरं

पलव्यमित्यर्थः॥

त्वक्पतत्रशर्करारास्ना नावनं तण्डुलाम्बुना।
क्षीरसर्पिर्हितं नस्यं रसा वा जाङ्गलाः शुभाः॥११॥

त्वक्पत्रेत्यादि—त्वक्पत्रं तेजपत्रम्। क्षीरसर्पिरित्यादि—सुश्रुतस्य। क्षीरोत्थं सर्पिः क्षीरसर्पिः। शुभा इति सद्यस्काः। जाङ्गला शुभा इत्यत्र जामलाण्डजा इति पाठान्तरं तन्त्रान्तरे, तथाविधाकारसुश्रुतादि पुस्तकेष्वदर्शनात् उपेक्षणीयमिति॥११॥

रक्तजे पित्तवत् सर्वे भोजनालेपसेचनम्।
शीतोष्णयोश्च व्यत्यासो विशेपो रक्तमोक्षणम्॥१२॥

रक्वज इत्यादौ—शीतोष्णयोश्च व्यत्यास इति। शीतां क्रियां कृत्वा उष्णा, उष्णाञ्च कृत्वा शीतेत्यर्थः। रक्तजऽप्येतदुष्णक्रियाविधानं यद्यपि हेतुप्रत्यनीकं न भवति, तथापि व्याधिप्रभावात् व्याधिप्रत्यनीकत्वमस्य बोध्यम्॥१२॥

कफजे लङ्घनं स्वेदो रूक्षोष्णैः पाचनात्मकैः।
तीक्ष्णावपीडा धूमाश्च तीक्ष्णोष्णकवडा हिताः॥१३॥

कफज इत्यादौ—पाचनात्मकैरिति आमकफपाचनस्वभावैर्भेषजैर्दशमूलादिभिः॥

स्वच्छञ्च पाययेत् सर्पिः पुराणं स्वेदयेत्ततः।
मधूकसारेण शिरः स्विन्नञ्चास्य विरेचयेत्॥१४॥

स्वच्छश्चेत्यादि—पाययेत् सर्पिः पुराणमिति पुराणस्य सर्पिषः कालप्रकर्षकृतसंस्कारात् कफहरत्व बोध्यम्। किंवा कफजे पुराणे वातानुबन्धे विधेयम्। मधूकसारेण मधूककाष्ठसारचूर्णेन उष्णोदकेनालोडितेन अवपीडः कार्यः॥१४॥

कृष्णाव्दशुण्ठीमधुकशताह्वोत्पलपाकलैः।
जलपिष्टैः शिरोलेपः सद्यः शूलनिवारणः॥१५॥

कृष्णेत्यादौ—पाफलं कुष्ठम्॥१५॥

देवदारु नतं कुष्ठं नलदं विश्वभेषजम्।
लेपः काञ्जिकसम्पिष्टस्तैलयुक्तः शिरोऽर्त्तिनुत्॥१६॥

देवदार्वित्यादौ—नलदं मांसी॥१६॥

सन्निपातभवे कार्य्या दोषत्रयहरी क्रिया।
सर्पिः पानं विशेषेण पुराणन्त्वादिशन्ति हि॥१७॥

सन्निपातेत्यादि—सर्पिःपानं पुरातनमिति पयिते इति पानं, कर्मणि अनट् तदेव पुराणमिति विशेषणं गृह्णते॥१७॥

त्रिकटुकपुष्कररजनजीवकतुरङ्गगन्धानाम्।
क्वाथः शिरोऽर्त्तिजालं नासापीतो निवारयति॥१८॥

त्रिकटुकेत्यादौ—जीवकः पीतशालः। शिरोऽर्तिजालमिति नानादोषजं शिरोरोगम्। द्रव्याणां तीक्ष्ण वीर्य्यत्वात् पित्तजं विहाय योज्योऽयं योग इत्येके॥१८॥

नागरकल्कमिश्रं क्षीरं नस्येन योजितं पुंसाम्।
नानादोषोद्भूतां शिरोरुजां हन्ति तीव्रतराम्॥१९॥

नागरेत्यादौ—गव्यदुग्धं पलैकं, शुण्ठीचूर्णं माषकत्रयं प्रक्षिप्य, नासया पेयमिति वृद्धाः॥१९॥

नतोत्पलं चन्दनकुष्ठयुक्तं शिरोरुजायां सघृतं प्रदेहः।
प्रपौण्डरीकं सुरदारु कुष्ठं यष्ट्याह्वमेला कमलोत्पले च॥
शिरोरुजायां सघृतः प्रदेहो लौहैरकापद्मकचोरकैश्च॥२०॥

नतेत्यादि—नतं तगरपादिका, तदभावे शियलीछोपरः। प्रपौण्डरीकेत्यादौ—लोहमगुरुः, एरका होगलः, चोरकं चोरपुष्पी। प्रपौण्डरीकादिश्चोरकान्त एको योगः। निश्चलस्तु उत्पलान्त एको योगः, लोहेत्याद्यपर इत्याह, तन्न, द्वात्रिंशत् प्रदेहापेक्षया प्रदेहाधिकप्रसङ्गात्॥२०॥

शताह्वाद्यं तैलम्।

शताह्वैरण्डमूलोग्रावक्त्रव्याघ्रीफलैः शृतम्।
तैलं नस्यं मरुत् श्लेष्मतिमिरोर्द्ध्वगदापहम्॥२१॥

शताह्वेत्यादौ—उप्रा वचा, वक्त्रं तगरपादिका, व्याघ्री कण्टकारी, तस्याः फलम्। फलमिति मदनफलमित्यन्ये॥२१॥

जीवकाद्यं तैलम्।

जीवकर्षभकद्राक्षासितायष्टीवलोत्पलः।
तैलं नस्यं पयःपक्कं वातपित्तशिरोगदे॥२२॥

जीवकाद्यतैले—पयःपक्वमिति चतुर्गुणे दुग्धे सिद्धम्॥२२॥

बृहज्जीवकाद्यं तैलम्।

जीवकर्षभकौ द्राक्षा मधूकं मधुकं वला।
नीलोत्पलं चन्दनञ्च विदारी शर्करा तथा॥

तैलप्रस्थं पचेदेभिः शनैः पयसि षड्गुणे।
जांगलस्य तु मांसस्य तुलार्द्धस्य रसेन तु।
सिद्धमेतद्भवेन्नस्यं तैलमर्द्धावभेदकम्।
वाघिर्य्यं कर्णशुलञ्च तिमिरं गलशुण्डिकाम्॥

वातिकं पैष्ठिकञ्चैध शीर्षरोगं नियच्छति।
दन्तचालं शिरःशूलमर्दितञ्चापकर्पति॥२३॥

बृहज्जीवकाद्यतैले—मधूकं मधूकस्य पुष्पं फलं वा जाङ्गलमांसं हरियादिमांसम्, तस्य तुलार्द्धस्य रसेनेति तुलाद्रव्ये जलद्रोण इति वचनात् तुलार्द्धे मांसेऽर्द्धद्रोणजलंदत्वा पादशषो रसः प्रस्थद्वयमानो भवति। मृदोश्चतुर्गुणं देयमिति परिभाषया क्वाथविधिरित्यन्ये। व्यवहारस्तु पूर्वव्याख्यया॥२३॥

षड्बिन्दुतैलम्।

एरण्डमूलं तगरं शताह्वा जीवन्ति रास्ना सह सैन्धवञ्च।
भृङ्गं विडङ्गं मधुयष्टिका च विश्वौषधं कृष्णतिलस्य तैलम्॥

आजं पयस्तैलविमिश्रतञ्च चतुर्गुणे भृङ्गरसे विपक्कम्।
षड्बिन्दवो नासिकया विधेयाः शीघ्रं निहन्युः शिरसो विकारान्
च्युतांश्च केशान् पलितांश्च दन्तान् दुर्बद्धमूलांश्च दृढीकरोति।
सुपर्णदृष्टिप्रतिमञ्च चक्षुर्वाह्वोर्वलञ्चाभ्यधिकं ददाति॥२४॥

षड्‌बिन्दुतैले तगरं पिण्डतगरमूलम्, भृङ्ग गुढत्वक्। प्रजाक्षीरन्तु तैलसममिति, किन्तु सामान्यतस्तिलतैलगोक्षीरेणापि योगोऽयम्, तन्त्रान्तरसंवादात्॥२४॥

क्षयजे क्षयमासाद्य कर्त्तव्यो वृंहणो विधिः।
पाने नस्ये च सर्पिः स्याद्वातघ्नैर्मधुरैः शृतम्॥२५॥

क्षयजे क्षयमासाद्येति—यस्य रक्तादेः क्षयेण शिरोरोगो जातस्तस्य क्षयं बुद्ध्वा तत्प्रत्यनीको वृंहणो विधिः कार्य इत्यर्थः। वातघ्नमधुरैः शृतमिति वातघ्नो भद्रदार्वादिः, मधुरः काकोल्यादिः, तत्र वातघ्नस्य क्वाथः, मधुरगणस्य तु कल्कः। यदाह विदेहः—“सिद्धं वातहरक्वाथे कल्के मधुरके घृतम्। पाने नस्ये विधातव्यंशिरोरोगे क्षयोद्भवे” इति॥२५॥

क्रिमिजे व्योषनक्ताह्व-शिग्रबीजैश्च नावनम्।
अजामूत्रयुतं नस्यं क्रिमिजे क्रिमिजित् परम्॥२६॥

क्रिमिज इत्यादौ—नक्वाह्वशिग्रबीजैरिति नक्वाह्वः करञ्ज,बीजपदमुभयत्रापि सम्बध्यते। अजामूत्रयुतमित्यादि—क्रिमिजे शिरोरोग यन्नस्यमुक्तं तदजामूत्रयुक्तं क्रिमिजित् स्यादित्यर्थः। उक्तं हि—“मूत्रपिष्टा समुद्दिष्टा क्रिया क्रिमिषु योजयेत्” इति। किंवा

क्रिमिजिद्वि ङ्गम् अजामूत्रयुक्तं नस्यं परम् उत्कृष्टं स्यादित्यर्थः॥

अपामार्गतैलम्।

अपामार्गफलव्योष-निशाक्षवकरामठैः।
सविडङ्गं शृतं मूत्रे तैलं नस्यं क्रिमिं जयेत्॥२७॥

अपामार्गफलमिति षष्ठीसमासः। क्षवकी

हान्चिया लोकनाथ इति लोके। रामठं हिंगु। मूत्रं चतुर्गुणम्॥२७॥

नावनं सगुडं विश्वं पिप्पली वा ससैन्धवा।
भुजस्तम्भादिरोगेषु सर्वेषूर्द्ध्वगदेषु च॥२८॥

नावनमित्यादौ—गुडमाषकाण्यष्टौ शुण्ठीचूर्णं माषकद्वयम्, उष्णोदकपलैकेन गोलयित्वा वस्त्रपूतं कृत्वा नस्यं कार्यम्। अयं योगो वातानुबन्धे। तथा पिप्पलीचूर्णंमाषकद्वयम्, उष्णोदकं कषैकम्, पूर्ववन्नस्यं कफानुबन्धे॥२८॥

सूर्य्यावर्त्ते विधातव्यं नस्यकर्मादि भेषजम्।
पाययेत् सगुडं सर्पिर्घृतपूरांश्च भक्षयेत्॥२९॥

इत्यादि—सुश्रुतस्य। नस्यकर्मादीति हेतुभूतदोषविपरीतं नस्यं परिषेकः शिरोविरेकादिकम्। पाययेदित्यादि—वातप्रवले घृतपलैके गुडमाषकाष्टकं प्रक्षिप्य पाययेदिति। घृतपूरो भक्ष्यविशेषः। यथा—“मर्दितां समितां क्षीरनारिकेलघृतादिभिः। अवगाह्य घृते पक्त्वा घृतपूरोऽयमुच्यते " इति॥२९॥

सूर्य्यावर्त्तेशिरावेधो नावनं क्षीरसर्पिषा।
हितः क्षीरघृताभ्यासस्ताभ्याञ्चैव विरेचनम्॥३०॥

सूर्यावर्त इत्यादि—सूर्यावर्ते यथोक्तक्रियाभिः पुनरप्रशमे शिराव्यधः कार्य इत्याहुः। क्षीरसर्पिषेति क्षीरोत्थसर्पिषा।क्षीरघृताभ्यास इति क्षीरघृतयोरभ्यासः।

ताभ्यामिति क्षीरघृताभ्यां विरेचकद्रव्यसहिताभ्यां विरेचनम्, किंवा विरेचनमिह शिरोविरेचनम्॥३०॥

क्षीरपिष्टैस्तिलैः स्वेदो जीवनीयैश्च शस्यते॥३१॥

जोवनीयैश्च क्षीरपिष्टैरित्यन्वयः॥३१॥

सशर्करं कुङ्कुममाज्यभृष्टं नस्यं विधेयं पवनासृगुत्थे।
भ्रूशङ्खकर्णाक्षिशिरोऽर्द्धशूले दिनाभिवृद्धिप्रभवे च रोगे॥३२॥

सशर्करमित्यादि—सशर्करं कुंकुमं घृते भृष्ट्वा घृतेनैव पिष्ट्वा समालोख्य नस्यं किञ्चित्अस्य पत्री—घृत तो ४, शर्करा मा ४, कुंकुम मा ४, आलोख्याग्ने किञ्चित् तप्तीकृत्य नस्यं देयम्। दिनाभिवृद्धिभवो रोगः सूर्यावर्त्त इत्यर्थः॥३२॥

कृतमालपल्लवरसे खरमञ्जरिकल्कसिद्धं नवनीतम्।
नस्येन जयति नियतं सूर्य्यावर्त्तं सुदुर्वारम्॥३३॥

कृतमालत्यादि। कृतमालः सोनालुः, तस्य पल्लवस्वरसः प्रस्थ एकः, अपामार्गबीजस्य पलद्वयं, नवनीतस्याष्टौ पलानीत्याहुः॥३३॥

दशमूलीकषायन्तु सर्पिः सैन्धवसंयुतम्।
नस्यमर्द्धावभेदघ्नं सूर्य्यावर्त्तशिरोऽर्त्तिनुत्॥३४॥

दशमूलीत्यादि—दशमूलीक्काय पल १, प्रक्षेपघृत मा ७, सैन्धव मा १, नासया पेयम्॥३४॥

शिरीपमूलकफलैरवपीडञ्च योजयेत्।
अवपीडो हितो वा स्याद् वचापिप्पलिभिः शृतः॥३५॥

शिरीषेत्यादि—शिरीषवल्कलमूलकबीजयोः प्रत्येक मा ४, पिष्ट्वा वस्त्रेण निष्पीढ्यनस्यं विधेयम्, एवं वचापिप्पलीभ्यामिति। एतच्चावपीडद्वयमतितीक्ष्णत्वात् यद्यपि सूर्यावर्त्ते वातपित्तोत्तरे न युज्यते तथापि व्याधिप्रत्यनीकत्वात् स्थानिकफक्षयार्थं वा ज्ञेयमिदम्। अन्ये तु सूर्यावर्त्तविपर्यये योगद्वयमित्याहुः।सूर्यावर्त्तविपरीतश्च प्रत्यूषे सायञ्च महान्, मध्ये तु मन्द इति॥३५॥

जाङ्गलानि च मांसानि कारयेदुपनाहनम्।
तेनास्य शाम्यति व्याधिः सूर्य्यावर्त्तः सुदारुणः॥३६॥

जांगलानीति—अत्र वृद्धवैद्योपदेशात् वातहरद्रव्यैर्मासमुत्स्विद्य सैन्धवं तैलञ्च उष्णलेपः कार्य्यः॥३६॥

एष एव विधिः कृत्स्नः कार्य्याश्चार्द्धावभेदके।
शारिवोत्पलकुष्ठानि मधुकञ्चाम्लपेषितम्।
सर्पिस्तैलयुतो लेपः सूर्य्यावर्त्तार्द्धभेदयोः॥३७॥

एष इत्यादौ—अम्लपेषितमिति काञ्चिकपेषितम्॥३७॥

पिबेत् सशर्करं क्षीरं नीरं वा नारिकेलजम्।

सुशीतं वापि पानीयं सर्पिर्वा नस्ततस्तयोः॥३८॥

पिवेदित्यादि—योगचतुष्टयं सशर्करमित्यनुवर्त्तयितुं युज्यत इति निश्चलः। तयोरिति सूर्य्यावर्त्तार्द्धभेदकयोः॥३८॥

अनन्तवाते कर्त्तव्यः सूर्य्यावर्त्तहितो विधिः।
शिरावेधश्च कर्त्तव्योऽनन्तवातप्रशान्तये॥३९॥

अनन्तवात इत्यादि—सुश्रुतस्य॥३९॥

आहाराश्च विधातव्यो वातपित्तविनाशनः।
मधुमस्तक-संयाव-हविःपूरैश्च यः क्रमः॥४०॥

आहारश्चेत्यादि—मधुमस्तकेति मधुमस्तकादयो भक्ष्यविशेषाः सूदशास्त्रेऽनुसन्धेयाः। मधुमस्तः पोनिकाकरो मधुगर्भः सितावेष्टितो भक्ष्यविशेष इति वकुलः, मधुन ऊर्द्ध्वमिति चक्रः। संयावो—यथा “पचेद्घृतोत्तरे भाण्डे क्षिपेद् भाण्डेन वै ततः। संयावोऽसौ सिताचूर्णैः खण्डैलामरिचार्द्रकैः " इति। हविःपूरो भक्ष्यविशेषः घृतपूरेति लोके। यथा मण्डितः ससितापिण्डः क्षीरेणैव विलोडितः। अवगाह्य घृते पक्को घृतेपूरोऽयमुत्तमः " इति। क्रम इत्याह क्रम इति॥४०॥

सूर्य्यावर्त्ते हितं यत् तच्छङ्खके स्वेदवर्जितम्।
क्षीरसर्पिः प्रशंसन्ति नस्तपानञ्च शङ्खके॥४१॥

सूर्यावर्त्त इत्यादि—क्षीरोत्थं सर्पिः क्षीरसर्पिः, नस्तपानं नासिकया पानं, किंवा नस्यं पानञ्च।उक्तश्च सुश्रुते—“क्षीरसर्पिः प्रशंसन्ति नस्ये पाने च शङ्खके” इति।

शतावरीं कृष्णतिलान् मधुकं नीलमुत्पलम्।
दूर्वां पुनर्नवाञ्चापि लेपं साध्ववचारयेत्॥४२॥

शतावरीमित्यादि—स्पष्टम्॥४२॥

शीततोयावसेकांश्च क्षीरसेकांश्च शीतलान्।
कल्कैश्च क्षीरिवृक्षाणां शङ्खकस्य प्रलेपनम्॥४३॥

क्षीरिवृक्षेति क्षीरिवृक्षा वटादयः॥४३॥

क्रौञ्चकादम्बहंसानां शरार्य्याः कच्छपस्य च।
रसैः संबृंहितस्याथ तस्य शङ्ककसन्धिजाः।
ऊर्द्ध्वं तिस्रः शिराः प्राज्ञो भिन्द्यादेव न ताडयेत्॥४४॥

क्रौञ्चेत्यादि—संबृंहितस्येति प्राप्तमांसोपचयस्य।सन्धिजाः शिरा भिन्द्यादित्यत्र सूच्येति शेषः। न ताढयेदिति कुठारिकयेति शेषः, सन्धिभङ्गभयादिति च शेषः॥

शिरः कम्पेऽमृतारास्नावलास्नेहसुगन्धिभिः।
स्नेहस्वेदादि वातघ्नं शिरोबस्तिश्च शस्यते॥४५॥

शिरःकम्प इत्यादौ—स्नेहो घृतादिः। सुगन्धिरगुर्वादिः। सुगन्धिरित्यनन्तरं लेप इति शेषः। शिरोबस्तिविधिः पूर्वमुक्त एव॥४२॥

यष्ट्याद्यं घृतम्।

यष्टीमधुबलारास्नादशमूलाम्बुसाधितम्।
मधुरैश्च घृतं सिद्धमूर्द्ध्वजत्रुगदापहम्॥४६॥

यष्टिमध्वित्यादि—घृतं प्रस्थेकं, काथार्थ यष्ट्यादिदशमूलान्तानां मिलित्वा चतुःषष्टिपलं, जलैद्रोणैकं शेषं शरावपोढश, कल्कार्थ काकोलीयष्टिमधुकाकडाशृङ्गमेदाजीवक ऋषभकपुण्डरीककाष्ठ द्राक्षा-ऋद्धि वृद्धि वंशरोचना मुगानी मापाणी चोरकाकोली पद्मकाष्ठ गुहूची प्र क २ पक्तव्यम्॥४६॥

मयूराद्यं घृतम्।

दशमूलबलारास्नामधुकैस्त्रिपलैः सह।
मयूरं पक्षपित्तान्त्रशकृत्पादास्यवर्जितम्॥

जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत्।
मधुरैः कार्षिकैः कल्कैः शिरोरोगार्दितापहम्॥

कर्णनासातिजिह्वास्यगलरोगविनाशनम्।
मयूराद्यमिदं ख्यातमूर्द्ध्वजत्रुगदापहम्॥

आखुभिः कुक्कुटैर्हंसशशैश्चापि हि बुद्धिमान्।
कल्केनानेन विपचेत् सर्पिरूर्द्ध्वगदापहम्।
दशमूलादिना तुल्यो मयूर इह गृह्यते।
अन्ये त्वाकृतिमानेन मयूरग्रहणं विदुः॥४७॥

दशमूलेत्यादि—दशमूलस्य प्रत्येकं पलत्रयम् एवं बलादीनां त्रयाणामपि तेन मिलित्वा ऊनचत्वारिंशत्पलानि भवन्ति। तथा मयूरमांसमपि पक्षपादादिरहितम् ऊनचत्वारिंशत्पलं ग्राह्यम्। एवं मिलित्वा यावत् क्वाथ्यं भवति, तत्र “क्वाथ्याचतुर्गुणं वारि " इत्यादि परिभाषया जलादिव्यवस्था एतदेवाह दशमूल्यादिना तुल्यो मयूर इत्यादि—अन्येतु दशमूलादिभिः प्रत्येकं त्रिपलमानैः सह तरुणमयूरगुडकमेकं पक्षादिवर्जितं जलद्रोण एव पचेत्, जलद्रोणोऽत्र पादशेषः, स च पचनीयघृतापेक्षया चतुर्गुणो भवतीत्याहुः। एतदेवाह, “अन्ये त्वाकृतिमानेन मयूरग्रहणं ऊनचत्वारिंशत्पलंरस्त्वनेनैव। मधुरैरिति जीवनीयदशकैः, जीवनीयानि च मधुरत्वमधुरविपाकत्व प्रकर्षान्मधुरशब्देनोच्यन्ते। एतन्मयूरघृतं तथा

अक्षमानस्यमधुरस्थानेमूषिकादीन् दत्त्वापि कार्य्यमित्याहुः।

आस्युना तथा मयूरापेक्षया अल्पगुणेनापि तत्रैकेन स्नेहसाधनं कर्त्तव्यमित्याहुः॥४७॥

प्रपौण्डरीकाद्यं तैलम्।

प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः।
सिद्धं धात्रीरसे तैलं नस्येनाभ्यञ्जनेन वा।
सर्वानूर्द्ध्व गदान् हन्तिपलितानि च शीलितम्॥४८॥

प्रपौण्डरीकेत्यादि—वाग्भटस्य।चन्दनोत्पलैरित्यत्र कल्कैरिति शेषः। धात्रीरसश्चात्र तैलापेक्षया चतुर्गुणः॥४८॥

मायूरं घृतम्।

शतं मयूरमांसस्य दशमूलबलातुलाम्।
द्रोणेऽम्भसः पचेत् क्षुत्त्वा तस्मिन् पादस्थिते ततः॥

निषिच्य पयसो द्रोणं पचेत्तत्र घृताढकम्।
प्रपौण्डरीकवर्गोक्लैर्जीवनीयैश्च भेषजैः॥

मेधाबुद्धिस्मृतिकरमूर्द्ध्वजत्रुगदापहम्।
मायूरमेतन्निर्दिष्टं सर्वानिलहरं परम्॥

मन्याकर्णशिरोनेत्ररुजापस्मारनाशनम्।
विषवातामयश्वासविषमज्वरकासनुत्॥४९॥

शतमित्यादौ—दशमूलबलामूलयोर्मिलित्वा तुला। द्रोण इति पदमावृत्यउभयत्रापि योज्यं, तेन मयूरमांसशतपले एको जलद्रोणः, दशमूलबलातुलायाश्चापर इति द्रोणद्वयमम्भसः। पयसो दुग्धस्य द्रोणं निषिच्य दत्त्वा पचेदिति। एतेन षड्गुणः पाकः। प्रपौण्डरीकचर्गोक्तैरिति प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैरित्यर्थः। जीवनीयैरिति जीवनीयदशकैः। ततोऽत्र यष्टिमधुकस्य भागद्वयं ग्राह्यम्॥४९॥

इति शिरोरोगचिकित्साविवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1701801669Screenshot(104”/>.png)

अथासृग्दरचिकित्सा।

दध्ना सौवर्चलाजाजीमधुकं नीलमुत्पलम्।
पिबेत् क्षौद्रयुतं नारी वातासृग्दरपीडिता॥१॥

स्त्रीपुंसां साधारणव्याधीनां तथा पुंप्रतिनियतानामप्युपदंशादीनां चिकित्सोक्ता, सम्प्रति स्त्रीनियतनां प्रदरादीनां चिकित्सितमभिधातुमुपक्रमते। दध्नेत्यादि—दध्नःकर्षंत्रयं, सौवर्चलस्य माषकमकम्, अजाज्यादीनां प्रत्येकं माषकद्वयं, मधुनस्तु, माषकचतुष्टयमित्याहुः॥१॥

पिबेदैणेयकं रक्तं शर्करामधुसंयुतम्।
वासकस्वरसं पैत्ते गुडूच्या रसमेव वा॥२॥

अतिबहुस्त्रुतशोणितानां चिकित्सामाह पिबेदित्यादि—एणस्येदम् ऐणेयं, स्वार्थे कः। एणस्य रक्तं दशमूलयोगेन मर्दयित्वा पेयं, तेन स्त्यानता न स्यादित्याहुः। शर्करामधुयोजितमिति पदं वासकस्वरस-गुडूचीस्वरसयोरपि योज्यं हारीत संवादात्।

रोहीतकान्मूलकल्कं पाण्डुरेऽसृग्दरे पिबेत्।

जलेनामलकाद्वीजकल्कं वा ससितामधु॥३॥

रोहीतकादित्यत्रापि ससिता मध्विति योज्यम्॥३॥

धातक्याश्चाक्षमात्रं वा आमलक्या मधुद्रवम्॥
काकजानुकमूलं वा मूलं कार्पासमेव वा।
पाण्डुप्रदरशान्त्यर्थं पिबेत्तण्डुलवारिणा॥४॥

धातक्या इत्यादि—धातक्या कल्कमक्षमात्रं मधुद्रवं, तथामलक्या वा कल्कमक्षमात्रं मधुद्रवं पिबेत्। मधुद्रवो यत्र कल्के तत् मधुद्रवम्। काकजानुकः काकजङ्घा॥

अशोकवल्कलक्वाथशृतं दुग्धं सुशीलितम्।
यथाबलं पिबेत् प्रातस्तीबासुग्दरनाशनम्॥५॥

अशोकेत्यादौ—षडङ्गपरिभाषयार्द्धशृतमशोकवल्कलक्वाथं गृहीत्वा तेन चतुर्गुणेन क्षीरं साध्यमित्यर्थः।वृद्धास्तु क्वाथमकृत्वैव क्षीरसाधनपरिभाषया व्यवहरन्ति।

दार्वीरसाञ्जनवृषाब्दकिरातबील्वभल्लातकैरवकृतो मधुना कषायः।
पीतो जयत्यतिबलं प्रदरं सशूलं पीतासितारुणविलोहितनीलशुक्लम्॥

दार्वीत्यादौ—वृषो वासकः, बिल्वं शुष्कबिल्वशलाटुः, कैरवं कुमुदम्। “भल्लातकासहत्वे तु रक्तचन्दनमिष्यते” अनेन व्यवहरन्ति॥६॥

रसाञ्जनं तराहुलीयस्य मूलं क्षौद्रान्वितं तण्डुलतोयपतिम्।
असृग्दरं सर्वभवं निहन्ति श्वासञ्च भार्गी सह नागरेण॥७॥

रसाञ्जनमित्यादौ—तण्डुलीयस्यमूलं लोहिततण्डुलीयस्य मूलं गृह्यते। भेषजद्वयमिदं प्रत्येकं, मिलितञ्च बोध्यं, सिद्धसारहारीत संवादात्। सर्वभवमिति वाताद्येकदोषभवं सर्वं; न तु सान्निपातिकं तस्यासाध्यत्वात्। उक्तं हि—“सक्षौद्रसर्पिर्हरितालवर्णं मज्जप्रकाशं कुणपं त्रिदोषात्। तच्चाप्यसाध्यं प्रवदन्ति तज्ज्ञा न तत्र कुर्वीत भिषक् चिकित्साम्” इति। श्वासञ्च भार्गी सह नागरेणेति तु श्लोकानुरोधाल्लिखितम्॥७॥

कुशमूलं समुद्धृत्य पेषयेत्तण्डुलाम्भुना।
एतत् पीत्वा त्र्यहान्नारी प्रदरात् परिमुच्यते॥८॥

कुशमूलमित्यादि—स्पष्टम्॥८॥

क्षौद्रयुक्तं फलरसं काष्ठोडुम्बरजं पिबेत्।
असृग्दरविनाशाय सशर्करपयोऽन्नभुक्॥९॥

क्षौद्रेत्यादि—काष्ठोडुम्बरजंफलरसमिति काष्ठोडुम्बरफलस्य रसम्॥९॥

प्रदरं हन्ति बलाया मूलं दुग्धेन मधुयुतं पतिम्॥१०॥

प्रदरमित्यादि—सुगमम्॥१०॥

कुशवाट्यालकमूलं तण्डुलसलिलेन हरति रक्ताख्यम्।
शमयति मदिरापानं तदुभयमपि रक्तसंज्ञशुक्लाख्यौ॥११॥

रक्तरूपमिति रक्तप्रदरम्। मदिरापानमिति मदिरया पीयते कर्मणि ल्युट्, तेन मदिरापीतमित्यर्थः। तदुभयमिति कुशवाट्यालकयोर्मूलम्॥११॥

गुडेन वदरीचूर्णं मोचमामं तथा पयः।
पीता लाक्षा च सघृता पृथक् प्रदरनाशनाः॥१२॥

गुडेनेत्यादि—योगचतुष्टयम्। वदरीचूर्णमिति वातकफे। मोचमाममोचम्, अपक्वकदलीफलचूर्णस्य कर्ष एकः, एवञ्च कफपित्ते॥१२॥

रक्तपित्तविधानेन प्रदरांश्चाप्युपाचरेत्।
असृग्दरे विशेषेण कुटजाष्टकमाचरेत्॥१३॥

रक्तपित्तविधानेनेति अधोगतरक्तपित्तविधानेन॥१३॥

पुष्यानुगं चूर्णम्।

**पाठाजम्ब्वाम्रयोर्मध्यं शिलाभेदरसाञ्चनम्।
अम्बष्ठकीमोचरस समङ्गापद्मकेशरान्॥

वाह्लीकातिविविषामुस्तं बिल्वं लोध्नं सगैरिकम्।
त्रिफलां मरिचं शुण्ठीं-मृद्विकां रक्तचन्दनम्॥

कट्वङ्गवत्सकानन्ता-धातकीमधुकार्जुनम्।
पुष्येणोद्धृत्य तुल्यानि सूक्ष्मचूर्णानि कारयेत्।

तानि क्षौद्रेण संयुज्य पाययेत् तण्डुलाम्बुना।
असृग्दरातिसारेषु रक्तं यच्चोपवेश्यते॥

दोषागन्तुकृता ये च बालानां तांश्च नाशयेत्।
योनिदोषं रजोदोषं श्वेतं नीलं सपीतकम्॥

स्त्रीणां श्यावारुणं यच्च तत् प्रसह्य निवर्त्तयेत्।
चूर्णं पुण्यानुगं नाम हितमात्रेयपूजितम्।
अम्बष्ठा दक्षिणे ख्याता गृह्णन्त्यन्ये तु लक्षणाम्॥१४॥**

पुष्यानुगचूर्णे जम्ब्वाम्रयोर्मध्यं जम्ब्वाम्रयोरस्थि। वाग्भटेऽपि जम्ब्वाम्रयोरस्थीत्युक्तम्। अम्बष्ठकी दक्षिणापथे ख्याता, तदभावे पाठामेव द्विगुणां गृह्णन्ति, लक्षणामित्यन्ये। पद्मकेशरं पद्मकिञ्जल्कम्, वह्लीकं कुंकुमम्, बिल्वं बिल्वशलाटुः। पुष्येणेति पुष्यानक्षत्रेण॥१४॥

मुद्गाद्यं घृतम्।

मुद्गमाषस्य निर्य्यूहे रास्नाचित्रकनागरैः।
सिद्धं सपिप्पलीविल्बैः सर्पिः श्रेष्ठमसृग्दरे॥१५॥

मुद्गेत्यादौ—मुद्गमाषाभ्यां निर्य्यूहः क्वाथः। रास्नादिपञ्चकस्य कल्कः। बिल्वं बिल्वुशुण्ठकम्॥१५॥

शीतकल्याणकं घृतम्।

कुमुदं पद्मकोशीरं गोधूमो रक्तशालयः।
मुद्गपर्णी पयस्या च काश्मरी मधुयष्टिका॥

बलातिबलयोर्मूलमुत्पलं तालमस्तकम्।
विदारी शतमूली च शालपर्णी सजीवका।

फलं त्रपु

पबीजानि प्रत्यग्रं कदलीफलम्।
एषामर्द्धपलान् भागान् गव्यं क्षीरं चतुर्गुणम्॥

पानीयं द्विगुणं दत्त्वा घृतप्रस्थं विपाचयेत्।
प्रदरे रक्तगुल्मे च रक्तपित्ते हलीमके॥

बहुरूपञ्च यत् पित्तं कामलावातशोणिते।
अरोचके ज्वरे जीर्णे पाण्ढुरोगे मदे भ्रमे॥

तरुणी चाल्पपुष्पा च या च गर्भं न विन्दति।
अहन्यहनि च स्त्रीणां भवति प्रीतिवर्द्धनम्।
शीतकल्याणकं नाम परमुक्तं रसायनम्॥१६॥

कुमुदमित्यादि—कुमुदं क

हारपुष्पम्, पद्मकं पद्मकाष्ठम्, रक्तशालेस्तु मूलम्,पयस्या क्षीरकाकोली, काश्मरी गाम्भारी, तस्याः फलम् अतिबला गोरक्षतण्डुला,जीवकं जीवनीयगणमध्ये पठितं वणिग्द्रव्यम्, फलं त्रिफला, त्रपुषं मायाम्बुफलम्

बीजमित्यन्ये। प्रत्यप्रमित्यभिनवम्, अपक्वमित्यर्थः॥१६॥

वृहच्छतावरीघृतम्।

शतावरीरसप्रस्थं क्षोदयित्वावपीडयेत्।
घृतप्रस्थसमायुक्तं क्षीरं द्विगुणितं भिषक्॥

अत्र कल्कानिमान् दद्यात् स्थूलोदुम्बरसम्मितान्।
जीवनीयानि यान्यष्टौ यष्टीचन्दनपद्मकैः॥

श्वदंष्ट्रा चात्मगुप्ता च वला नागबला तथा।
शालिपर्णी पृश्निपर्णी विदारी शारिवाद्वयम्॥

शर्करा च समा देया काश्मर्य्याश्च फलानि च।
सम्यक् सिद्धन्तु विज्ञाय तद्घृतञ्चावतारयेत्॥

रक्तपित्तविकारेषु वातपित्तकृतेषु च।
वातरक्तंक्षयं श्वासं हिक्कां कासञ्च दुस्तरम्॥

अङ्गदाहं शिरोदाहं रक्तपित्तसमुद्भवम्।
असृग्दरं सर्वभवं मूत्रकृच्छ्रं सुदारुणम्।
एतान् रोगान् शमयति भास्करस्तिमिरं यथा॥१७॥

वृहच्छतावरीघृते—शतावरीं क्षोदयित्वा रसप्र

स्थमवपीडयेत्, अवपीड्यगृ

ह्रीयादित्यर्थः। स्थूलोडुम्बरसम्मितान् इति प्रत्येकं कर्षसम्मितानित्यर्थः। जीवनीयान्यष्टाविति अष्टवर्गः। जीवकर्षभकौमेदामहामेदाका-कोलीक्षीरकाकोलीऋद्धिवृद्धय इति। असृग्दरं सर्वभवमिति पूर्ववत् व्याख्येयम्॥१७॥

इत्यसृग्दररोगचिकित्सा विवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1701803901Screenshot(105”/>.png)

अथ योनिव्यापच्चिकित्सा।

योनिव्यापत्सु भूयिष्ठं शस्यते कर्म वातजित्।
वस्त्यभ्यङ्गपरीषेक प्रलेपाः पिचुधारणम्॥१॥

प्रदरोऽपि योनिव्यापद्विशेष इति योनिव्यापत्त्वसामान्यादनन्तरं योनिव्यापच्चिकित्सितमुच्यते, योनिव्यापत्स्वित्यादि—कर्म वातजिदिति वस्तिरुत्तरवस्तिश्च॥१॥

वचोपकुञ्चिकाजाजी कृष्णावृषकसैन्धवम्।
अजमोदां यवक्षारं चित्रकं शर्करान्वितम्॥

पिष्ट्वाप्रसन्नयालोड्य खादेत् तद् घृतभर्जितम्।
योनिपार्श्वार्त्तिहृद्रोग-गुल्मार्शोविनिवृत्तये॥२॥

वचेत्यादि—वाग्भटस्य। उपकुञ्चिका कृष्णजीरकम्, वृषको वासकमूलम्,प्रसन्ना मदिराया उपरिस्थःफेनभागः। ऐभ्यो वचादिभ्यः समभागपिष्टेभ्यः तो २,प्रसन्ना पल २, आलोड्यघृतकर्षेण सन्तोल्य पेयम्॥२॥

गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचनम्॥३॥

गुडूचीत्यादौ—दन्ती दन्तीमूलम्॥३॥

नतवार्त्ताकिनीकुष्ठ-सैन्धवामरदारुभिः।
तैलात् प्रसाधिताद्धार्य्यः पिचुर्योनौ रुजापहः॥४॥

नतेत्यादि—वाग्भटस्य। वार्त्ताकिनी भूकण्टकारी, गोष्ठावार्ताकुरित्यन्ये। अमरदारु देवदारु। एभि

र्नतादिभिः कलकैः तैलं साध्यम्, जलञ्च चतुर्गुणमिति। पिचुरिति भेषजसाधितस्नेहाप्लुतत्वं पिचुः॥४॥

पित्तलानान्तु योनीनां सेकाभ्यङ्गपिचुक्रियाः।
शीताः पित्तहराः कार्याः स्नेहनार्थं घृतानि च॥५॥

पैत्तिके योनिव्यापदि क्रियामाह—पित्तलानामित्यादि॥५॥

योन्यां बलासदुष्टायां सर्वं रूक्षोष्णमौषधम्।
पिप्पल्या मरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः।
वर्त्तिस्तुल्या प्रदेशिन्या धार्या योनिविशोधनी॥६॥

योन्यामित्यादौ—तुल्येति परिणाहेन दैर्घ्येण च वर्त्तिरिति वस्त्रेण वस्त्रंविना वा॥

हिंस्राकल्कन्तु वातार्त्ता कोष्णामभ्यज्य धारयेत्।
पञ्चवल्कस्य पित्तार्त्ता श्यामादीनां कफोत्तरा॥७॥

हिंस्रेत्यादि—हिंस्रा कालाकडामूलम्। पञ्चवल्कलस्य वटोडुम्बराश्वत्थप्लक्षवेतसस्य। श्यामादीनामिति कफरोगभिषग्जितीये श्यामा त्रिवृत् चतुरंगुलेत्यादिनाउक्तानाम्॥७॥

मूषिकमांससंयुक्तं तैलमातपभावितम्।
अभ्यङ्गाद्धन्ति योन्यर्शःस्वेदस्तन्मांससैन्धवैः॥८॥

मूषिकेत्यादि—मूषिकाणां मांसं तैलात् पादिकम्, नात्र द्रवयोगः कार्य्यः।आतपभावितमिति सप्ताहम्, तन्मांसं मूषिकमांसं सैन्धवचूर्णवचूर्णितमेरण्डादिपत्रेकृत्वा योनिं स्वेदयेत्॥८॥

गोपित्ते मत्स्यपित्ते वा क्षौमं त्रिःसप्तभावितम्।
मधुना किण्वचूर्णं वा दद्यादचरणापहम्।
स्रोतसां शोधनं कण्डूक्लेदशोथहरञ्च तत्॥६॥

गोपित्त इत्यादौ—क्षोमं सूक्ष्ममसृणवस्त्रम्। किण्वं सुराबीजम्, मधुना किण्वचूर्णमिति तृतीयो योगः। अचरणानाम योनिव्यापत्॥१॥

वामिन्यां पूतियोन्याञ्च कर्त्तव्यः स्वेदनो विधिः।
क्रमः कार्यस्ततः स्नेहपिचुभिस्तर्पणं भवेत्॥१०॥

वामिन्यामित्यादौ—पूतियानिशब्देन उपप्लुता परिप्लुता चोच्यते॥१०॥

शल्लकीजिङ्गिनीजम्वूधवत्वक्पञ्चवल्कलैः।
कषायैः साधितः स्नेहः पिचुः स्याद्विप्लुतापहः॥११॥

शल्लकीत्यादि—शल्लकीजिङ्गिन्यौ स्वनामख्याते। त्वक्शब्दः शल्लक्यादिभिः प्रत्येकं सम्बध्यते। अत्र कषायश्चतुर्गुणः। अकल्क एवायं स्नेहः। पिचुरिति एतत्तैलाप्लुतः पिचुः॥११॥

कर्णिन्यां वर्त्तिका कुष्ठपिप्पल्यर्काग्रसैन्धवैः।
वस्तमूत्रकृता धार्या सर्वञ्च श्लेष्मनुद्धितम्॥१२॥

कर्णिन्यामित्यादौ—कुष्ठादिभिर्वर्त्तिः कार्य्या इति योज्यम्। अर्काग्रमर्कपल्लवः १२

त्रैवृतं स्नेहनं स्वेद उदावर्त्तानिलार्त्तिषु।
तदेव च महायोन्यां स्रस्तायाञ्च विधीयते॥१३॥

त्रैवृतं स्नेहनमिति सर्पिस्तैलवसारूपस्नेहः। उदावर्त्ताख्या योनिव्यापत्। अनिलार्त्तिः वातिकी योनिव्यापदित्यर्थः। तदेवेति त्रैवृतं त्रहम्। विधीयत इति अनु वासनोत्तरवस्तिविधयेत्यर्थःचरकसंवादात्॥१३॥

आखोर्मांसं सपदि बहुधा खण्डखण्डीकृतं यत्
तैले पाच्यंद्रवति नियतं यावदेतन्न सम्यक्।
ततैलाक्तंवसनमनिशं योनिभागे दधाना।
हन्ति व्रीडाकरभगफलं नात्र सन्देहबुद्धिः॥१४॥

आखोरित्यादौ—सपदीति सद्यस्कमांसग्रहणार्थम्। एतन्मांसं यावदिति खरत्वमासाद्य न द्रवति द्रवतां न गच्छति तावदेव गालनीयमित्यर्थः। भगफलं कन्दरोगम्॥

शतपुष्पातैललेपाद्वदरीदलजात्तथा।
पेटिकामूललेपाञ्च योनिर्भिन्ना प्रशाम्यति॥१५॥

शतपुष्पत्यादि—योगत्रयम्। तैलपिष्टशतपुष्पया लेप इत्यर्थः। पेटिका झापीदु

परीति ख्याता। भिन्नेति विदीर्णा॥१५॥

सुषवीमूललेपेन प्रविष्टान्तर्वहिर्भवेत्।
योनिर्मूषवसाभ्यङ्गान्निसृता प्रविशेदपि॥१६॥

सुषवीत्यादि—सुषवीमूललेपेन कारवेल्लमूललेपनेत्यर्थः। प्रविष्टेति अन्तःप्रविष्टाअन्तर्मुखा योनिर्वहिर्भवतीत्यर्थः। योनिरित्यादौ—मूषो मूषिकस्तस्य वसा मांसस्नेहः। निःसृतेति बहिर्निःसृता। इयमेव प्रस्रंसिनीत्युच्यते॥१६॥

लोध्रतुम्बीफलालेपो योनिदार्ढ्यंकरोति च॥१७॥

लोध्रेत्यादौ—तुम्बी अलावुः, तस्याः फलम्॥१७॥

वेतसमूलनिःक्वाथ-क्षालनेन तथैव च।
मूषिकावागुलिवसाम्रक्षणं योनिदार्ढ्यम्॥१८॥

वेतसत्यादौ—तथैव चेति दार्ढ्यकृदित्यर्थः। मूषिकेत्यादौ। वागुली वादुर इतिख्यातो दिवान्धः पक्षो॥१८॥

वचा नीलोत्पलं कुष्ठं मरिचानि तथैव च।
अश्वगन्धा हरिद्रा च गाढीकरणमुत्तमम्॥१९॥

वचेत्यादि—वचादि हरिद्रान्त एको योगः। वचादिहरिद्रान्तैर्लेपोऽवचूर्णनं वा १९

मदफलमधुककर्पूरपूरितं भवति कामिनीजनस्य।
चिरगलितयौवनस्य वराङ्गमतिगाढं सुकुमारम्॥२०॥

मेदत्यादि—मदः कस्तूरी, फलं जातीफलम्, किंवा मदफलं मदनफलमेव।एतैर्मधुना पिष्टैर्योनिप्रपूरणम्॥२०॥

पञ्चपल्लवयष्ट्याह-मालतीकुसुमैर्घृतम्।
रविपक्वमन्यथा वा योनिगन्धविनाशनम्॥२१॥

पञ्चपल्लवत्यादि—पञ्चानाम् आम्रजम्बूकपित्थबीजपूरकबिल्वानां पल्लवाः।एषां कल्कः। रावपक्वमितिद्रवं विनैव, अन्यथा चेत्यग्निपक्वम्, अस्मिन् पक्षे जलंचतुर्गुणम्॥२१॥

इक्ष्वाकुबीजदन्ती चपलागुडमदनकिण्वयष्ट्याह्वैः।
सस्नुक्क्षीरवर्त्तिर्योनिगता कुसुमसञ्जननी॥२२॥

इदानीमार्त्तवनाशे सति प्रतिवोत्पादनविधिमाह इक्ष्वाकुबीजेत्यादि—इक्ष्वाकुस्तिक्तलावुः, चपला पिप्पली। एषां प्र मा ८, स्नुहीक्षीर मा ८ अग्नौ पक्त्वावर्त्तिःकार्य्यां। कुसुमं रक्तम्, तज्जननी कुसुमसब्जननी॥२२॥

सकाञ्जिकं जवापुष्पं भृष्टं ज्योतिष्मतीदलम्।

दूर्वायाः पिष्टकं प्राश्य वनिता त्वार्तवं लभेत्॥२३॥

सकाञ्जिकेत्यादि—योगत्रयम्। ज्योतिष्मतीदलमपि मृष्टं बोध्यम्। दूर्वायाःपिष्टकमिति दूर्वातण्डुलाभ्यां कृतं पिष्टकम्। योगत्रयमेतत्॥२३॥

धात्र्यञ्जनामयाचूर्णं तोयपीतं रजो हरेत्।
शेलुच्छदमिश्रपिष्टं भक्षणञ्च तदर्थकृत्॥२४॥

इदानीमार्त्तवहरयागानाह धात्रीत्यादि—धात्र्यादीनां मिलितचूर्णानां तोल

कैकंबोध्यम्। शेलुच्छदेति शेलुपत्रतण्डुलाभ्यां कृतं पिष्टकमित्यर्थः॥२४॥

पुष्योद्घृतं लक्षणायाश्चकाङ्कायास्तु कन्यया।
पिष्टं मूलं दुग्धघृतपीतमृतौ तु पुत्रदम्॥२५॥

इदानीमार्तवे पुत्रप्रदयोगानाह पुष्येत्यादि—चक्रा

ङ्काया इति लक्षणाया विशेषणम्, तत्पत्रस्य चक्राङ्कितत्वात्। दुग्धघृतपीतमिति दुग्धेन घृतेन वा ऋतुस्नानानन्तरं दिनत्रयं पिबेत्। अथवा नासापुटेन बिन्दुचतुष्टयं पिबेदित्यर्थः। अन्ये तुलक्षणाया मूलं मा २, दुग्ध तो २, घृत तो २, ऋतुस्नानानन्तरं दिनत्रयं पिबेदित्याहुः॥

क्वाथेन हयगन्धायाः साधितं सघृतं पयः।
ऋतुस्नाता वला पीत्वा धत्ते गर्भं न संशयः॥२६॥

क्वाथेनत्यादि—हयगन्धा अश्वगन्धा, तस्या मूलम्, षडङ्गपरिभाषया जलाधिकंदत्त्वा अर्द्धशृतं क्षीराश्चतुर्गुणं दत्त्वा पक्त्वा घृतं प्रक्षिप्य पिबत्। अथवा अश्वगन्धामूल मा ८, जल पल ४, शेष पल २, घृत मा ८, वृद्धास्तु क्षीरसाधनपरिभाषयाव्यवहरन्ति॥२६॥

पिप्पल्यः शृङ्गवेरञ्च मरिचं केशरं तथा।
घृतेन सह पातव्यं वन्ध्यापि लभते सुतम्॥२७॥

पिप्पलीत्यादौ—शृङ्गेवरं शुण्ठी॥२७॥

स्वर्णस्य रूप्यकस्य च चूर्णे ताम्रस्य चाज्यसंमिश्रे।
पीते शुद्धे क्षेत्रे भेषजयोगाद्भवेद्गर्भः॥२८॥

सुवर्णस्येत्यादौ—आज्यसंमिश्र इति सर्वत्र योज्यम्। मारितसुवर्णचूर्णस्यमाषैकं गव्यघृतस्य कर्षद्वयम् आलो

ड्य पेयम्। एवं रजतताम्रयोरपि। तद्भेषजयोगात्शुद्धे क्षेत्र इति योज्यम्। केचित्तु सुवर्णादित्रयं एकत्रावर्त्त्यततो योनिमध्ये लेपयेदिति। तत्पानश्चोपदिशन्ति। उक्तं हि—“हेम रूप्यं वरं ताम्रमेकत्रावर्त्त्य सर्पिषा।घृष्ट्वान्तर्लेपयेद्योनिं शोधनार्थं पिबेदपि, इति॥२८॥

कृत्वा शुद्धौ स्नानं विलङ्घ्य दिवसान्तरे ततः प्रातः।
स्नात्वा द्विजाय दत्त्वा भक्त्या सम्पूज्य लोकनाथेशम्।
श्वेतबलाड़्घिकयष्टिं कर्षे कर्षे पलन्तु शर्करायाः।
पिष्टैकवर्णजीवद्वत्साया गोस्तु दुग्धेन॥
समधिकघृतेन पीतं नात्र दिने देयमन्नमन्यञ्च।

क्षुधिते सदुग्धमन्नं दद्यादापुरुषसन्निधेस्तस्याः।
समदिवसे शुभयोगे दक्षिणपार्श्वावलम्बिनीधीरा।
व्यक्तस्त्र्यन्तरसङ्ग प्रहृष्टमनसोऽतिवृद्धधातोश्च।
पुरुषस्य सङ्गमात्राल्लभते पुत्रं ततो नियतम्॥२९॥

कृत्वेत्यादौ—विलङध्येतियस्मिन् दिने शुद्धिस्नानं तस्मिन् दिने उपोष्येत्यर्थः।श्वेतवलायाः अंघ्रि मूलम् । समधिकघृतेनेति दुग्धापेक्षया घृतभागो अधिको देयइत्यर्थः। यस्मिन् दिने भेषजमिदमुपयुज्यते तस्मिन्नेव दिनेऽपरमन्नं नोपयोज्यम्।दिनान्तरे तु क्षुधायां सत्यां क्षीरसहितमन्नं दद्यात्। समदिवस इति युग्म दिने॥२९॥

गोष्ठजातवटस्य प्रागुत्तरशाखजे शुभे शुङ्गे।
माषौ द्वौ च तथा गौरसर्षपौ दधियोजितौ॥
पुष्यापीतौ द्रुतापन्नगर्भायाः पुत्रकारकौ॥३०॥

गोष्ठेत्यादि—गोष्ठः पर्वतः, उपवनं वेति केचित्। भाषाविते माषकलायौ द्वौ चरके धान्यमाषाभ्यामित्युक्तम्। तथा गौरसर्षपौ द्वाविति। दधियोजिताविति दधिप्रक्षिप्तावित्यर्थः। द्रुतापन्नगर्भाया इति यावत् स्त्रीत्वं पुंस्त्वं वा गर्भस्य न व्यक्तीभूतमस्ति तावदेवं इदं कर्म कुर्य्यात्। अङ्गाभिव्यक्तिस्तु तृतीये मासे भवतीति मासद्वयं यावत् पुंसवनकर्म कुर्य्यादिति भावः। इदं कर्म लिङ्गपरावृत्तिकारकं भवतीति ज्ञापनार्थंद्रुतापन्नगर्भाया इत्युक्तम्॥३०॥

कानकान् राजतान् वापि लौहान् पुरुषकानणून्॥
ध्माताग्निवर्णान् पयसो दध्नो वाप्युदकस्य वा।
क्षिप्त्वाञ्जलौ पिबेत् पुष्ये गर्भे पुत्रत्वकारकान्॥३१॥

पुरुषकानणूनिति अणुपरिमाणान् पुरुषाकृतीन्। अञ्जलावित्यस्य पयस इत्यादिभिः सम्बन्धः। एतञ्च दुग्धादि निःशेषं पेयं चरकसंवादात्॥३१॥

फलघृतं प्रथमम्।

मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला।
मेदा पयस्या काकोली मूलञ्चैवाश्वगन्धजम्॥
अजमोदा हरिद्रे द्वे हिङ्गुकं कटुरोहिणी।
उत्पलं कुमुदं द्राक्षा काकोल्यौ चन्दनद्वयम्॥
एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत्।
शतावरीरसक्षीरं घृताद्देयं चतुर्गुणम्॥
सर्पिरेतन्नरः पीत्वा नित्यं स्त्रीषु वृषायते।
पुत्रान् जनयते नारी मेधाढ्यान् प्रियदर्शनान्॥
या चैवास्थिरगर्भा स्याद् या वा जनयते मृतम्।

**अल्पायुषं वा जनयेद् या च कन्यां प्रसूयते॥

योनिदोषे रजोदोषे परिस्राचे च शस्यते।
प्रजावर्द्धनमायुष्यं सर्वग्रहनिवारणम्॥

नाम्ना फलघृतं ह्येतदश्विभ्यां परिकीर्तितम्।
अनुक्तं लक्ष्मणामूलं क्षिपन्त्यत्र चिकित्सकाः॥

जीवद्वत्सैकवर्णाया घृतमत्र प्रशस्यते।
आरण्यगोमयेनापि वह्निज्वाला प्रदयीते॥३२॥**

मञ्जिष्ठेदौ। पयस्या क्षीरविदारी।द्राक्षाकाकोल्याविति द्वन्द्वः, काकोल्यत्र क्षीरकाकोली, काकोलीत्युपात्तत्वात्। शतावरीरसक्षीरयोः प्रत्येकं चातुर्गुण्यम्। अत्र वृद्धोपदेशं संग्रहल्लिखति अनुक्तमित्यादि॥३२॥

फलघृतं द्वितीयम्।

**सहचरे द्वे त्रिफलां गुडूवीं सपुनर्नवाम्।
शुकनासां हरिद्रे द्वे रास्नां मेदां शतावरीम्।
कल्कीकृत्य घृतप्रस्थं पचेत् क्षीरं चतुर्गुणम्।
तसिद्धं प्रपिबेन्नारी योनिशूलनिपीडिता॥

पिण्डिता चलिता या च निःसृता विकृता च या।
पित्तयोनिश्च विस्रस्ता पणढयोनिश्च स्मृता॥

प्रपद्यन्ते तु ताः स्थानं गर्भं गृह्णन्ति चासकृत्।
एतत् फलघृतं नाम योनिदोषहरं परम्॥३३॥**

सहचरे इत्यादि—सहचर द्वे इति सितपातभेदेन पिण्डीद्वयम्। शुकनासाचर्मकारपुटकः। पिण्डितेत्यत्र योनिरिति शेषः॥३३॥

नीलोत्पलाद्यं घृतम्।

नीलोत्पलोशीरमधूकयाष्टिद्राक्षाविदारीकुशपञ्चमूलैः।
स्याज्जीवनीयैश्च घृतं विपक्कं शतावरीकारसदुग्धमिश्रम्॥

तच्छर्करापादयुत प्रशस्तमसृग्दरे मारुतरक्तपित्ते।
क्षीणे बले रेतसि सम्प्रनष्टे कृच्छ्रे च पित्तप्रभवे च गुल्मे॥३४॥

नोलोत्पलमित्यादौ—मधूकस्य पुष्पं फलं वा। कुशपञ्चमूलं तृणपञ्चमूलम्। जीवनीयैरिति जीवनीयदशकैः। शतावरीरसस्य त्रयः प्रस्थाः, दुग्धस्य चैकः। अन्ये तु शतावरीरसस्य चत्वार : प्रस्था इत्याहुः। घृतप्रस्थापेक्षया शर्करायाः पादोऽष्टौ पलानि॥३४॥

बृहच्छतावरीघृतम्।

शतावरीमूलतुलाश्चतस्रः सम्प्रपीडयेत्।
रसेन क्षीरतुल्येन पचेत्तेन घृताढकम्॥

**जीवनीयैः शतावर्य्या मृद्धीकाभिः परुषकैः।
पिष्टैः पियालैश्चाक्षांशैर्द्वियष्टिमधुकैर्भिषक्॥

सिद्धशीते च मधुनः पिप्पल्याश्च पलाष्टकम्।
दत्त्वा दशपलञ्चात्र सितायास्तद्विमिश्रितम्॥

ब्राह्मणान् प्राशयेत् पूर्व लिह्यात् पाणितलं ततः।
योग्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनञ्च तत्।
क्षतक्षयं रक्तपित्तं कासं श्वासं हलीमकम्।
कामलां वातरक्तञ्च विसर्पं हृच्छिरोग्रहम्।
उन्मादादीनपस्मारान् वातपित्तात्मकान् जयेत्॥३५॥**

शतावरीमूलेत्यादि—चरकस्य। जीवनीयैरिति जीवनीयदशकैः, न पुनरष्टवर्गैः, चरकोक्तत्वात्। द्वियष्टिमधुकैरिति एकश्च मधुकभागो जीवनीयगणपठितः, अपरोऽपी मधुकस्यैको भागो देय इति द्वितीययष्टिमधुकेन। किंवा स्थलनलभेदान्मधुकद्वययुक्तैः। वाग्भटे तु द्वियष्टिमधुकैरित्यत्र द्विवलामधुकैरिति पठ्यते॥३५॥

दग्ध्वा शङ्खं क्षिपेद्रम्भास्वर से तत्तु पेषितम्।
तुल्यालं लेपतो हन्ति रोम गुह्यादेसम्भवम्॥३६॥

योनौ लोमबाहुल्येन वैरस्याद्रतिर्न स्यादित्यतो लोमशातनमाह दग्ध्वेत्यादि—रम्भास्वरसे कदलीवा गुडास्वरसे। तुल्यालमिति समहरितालम्॥३६॥

रक्ताञ्जनापुच्छचूर्णयुक्तं तैलन्तु सार्षपम्।
सप्ताहं व्युषितं हन्ति मूलाद्रोमाण्यसंशयम्॥३७॥

रक्ताञ्जनेति रक्ताजन। लोहितवर्णाञ्जनामिका आरजिला इति लोके। तत् पुच्छं रौद्रे शोषयित्वा चूर्णं कुर्यात्। तच्च सार्षपतैलेऽनुरूपे प्रक्षिप्य सप्ताहं स्थाप्यमित्यर्थः॥३७॥

कुसुम्भतैलाभ्यङ्गो वा रोम्णामुत्पाटितेऽन्तकृत्॥३८॥

कुसुम्भेत्यादौ—उत्पाटित इत्यनन्तरं लोम्नीति शेषः। लोम्नी उत्पाटिते सति कुसुम्भबीजतैलाभ्यंगो लोम्नामन्तक्तद्भवतीत्यर्थः॥३८॥

आरग्वधाद्यं तैलम्।

**आरग्वधमूलपलं कर्षद्वितयं शङ्खचूर्णस्य।
हरितालस्य च खरजे मूत्रप्रस्थं तु कटुतैलम्॥

पकं तैलं तदथ शङ्खहरितालचूर्णितं लेपात्।
निर्मूलयति च रोमारायन्येषां सम्भवो नैव॥३६॥**

आरग्वधेत्यादौ—कर्षद्वितयमिति हीरतालस्य चत्यनेनापि सम्वध्यते। कटुतैलास्यात्राष्टौ पलानि। अथ इत्यानन्तर्ये, तेलपाकानन्तरं शङ्खचूर्णं हरितालचूर्णं मिलित्वा तैलात् पादिकं प्रक्षिप्य लेपो देय इत्यर्थः। किंवा शङ्खचूर्णहरितालचूर्ण

योरनियतमानेन तैलं सम्पिष्य लेपो देय इति॥३६॥

कर्पूरभल्लातकशङ्खचूर्णं क्षारो यवानाञ्च मनःशिला च।
तैलं विपक्वं हरितालमिश्रं रोमाणि निर्मूलयति क्षणेन॥४०॥

कर्पूरेत्यादि—कर्पूरादीनां कल्कः। क्षारो यवक्षारः। तैलमिति कटुतैलम्। हरितालमिश्रितमिति पूर्ववत् व्याख्येयम्॥४०॥

क्षारतैलम्।

**शुक्लिशम्बूकशङ्खानां दीर्घवृन्तात् समुष्ककात्।
दग्ध्वा क्षारं समादाय खरमूत्रेण गालयेत्॥

क्षाराष्टभागं विपचेत् तैलञ्च सार्पपं बुधः।
इदमन्तःपुरे देयं तैलमात्रेयपूजितम्॥

बिन्दुरेकः एतेद् यत्र तत्र रोमापुनर्भवः।
मदनादिव्रणे देयमश्विभ्यामेव निर्मितम्॥

अर्शसां कुष्ठरोगाणां पामादद्रुविचर्चिनाम्।
क्षारतैलमिदं श्रेष्ठं सर्वक्लेदहरं परम्॥४१॥**

क्षारतैले—शुक्तिः शुक्तिरेव मुक्तास्फोटो वा दीर्घवृन्तः श्योनाकः, मुष्कको घण्टापारुली।एतानि समभागानि दग्ध्वा चतुर्विंशतिपलक्षारो ग्राह्यः, अस्य स्त्रावणार्थं गर्दभमूत्रं षड्गुणम् अष्टादशशरावपरिमितं गृहीत्वा एकविंशतिवारान् परिस्राव्य क्षारोदकस्य षोडश शरावा ग्राह्याः। कटतैलन्तु शरावचतुष्टयम्। तैलापेक्षयाऽष्टभागः क्षारस्य कलकत्वेन प्रदेय इत्यर्थः, तेन क्षारस्य पलचतुष्टयं कल्क इत्यर्थः। अन्ये तु क्षारोदकं तेलापेक्षयाऽष्टगुणमित्याहु। मदनादिव्रण इत्युपदंशादौ॥ ४१॥

इति योनिव्यायचिकित्सा।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1701855196Screenshot(106”/>.png)

अथ स्त्रीरोगचिकित्सा।

**मधुकं शाकबीजञ्च पयस्या सुरदारु च।
अश्मन्तकः कृष्णतिलास्ताम्रवल्ली शतावरी॥

वृक्षादनी पयस्या च तथैवोत्पलशारिवा।
अनन्तशारिवा रास्ना पद्मा मधुकमेव च॥

वृहतीद्वयकाश्मर्य्यक्षीरिशुङ्गास्त्वचो विषम्।
पृथक्पर्णी वला शिग्रु श्वदंष्ट्रा मधुयष्टिका॥

शृङ्गाटकं बिसं द्राक्षा कशेरु मधुकं सिता।
मासेषु सप्त योगाः स्युरर्द्धश्लोकास्तु सप्तसु।
यथाक्रमं प्रयोक्तव्या गर्भस्रावे पयोयुताः॥१॥**

अवशिष्ट स्त्रीरोग चिकित्साभिधानार्थं स्त्रीरोगचिकित्सामाह मधुकमित्यादि—सुश्रुतस्य। शाको मरुजस्तरुस्तस्य बीजं, पयस्या क्षीरकाकोली, अश्मन्तकोऽम्ललोटकः मालुया वा, ताम्रवल्ली मञ्जिष्ठा, वृक्षादनी वन्दाकः। तथैवोत्पलशारिवेत्यत्रतथातिलताशारिवे इति पाठः सुश्रुते वाग्भटे च, तट्टीकाकृतोऽतिलता दूर्वाप्रियंगुर्वेति व्याख्यानयन्ति। उत्पलशारिवा अनन्तमूलम्। अनन्तः अनन्तमूलं, शारिवा श्यामालता, पद्मा ब्रह्मयष्टिः, काश्मर्यं गम्भारीफलं, क्षीरिणां वटादीनां शुंगास्त्वचश्चेति। विसं मृणालम्। एते च सप्त योगाः कल्कविषये उपयोज्याः। अपरे तु क्षीरसाधनपरिभाषयेत्याहुः॥१॥

कपित्थबिल्ववृहतीपटोलेक्षुनिदिग्धिकाः।
मूलानि क्षीरसिद्धानि दापयेद्भिषगष्टमे॥२॥

कपित्थेत्यादि—सुश्रुतस्य। कपित्थादीनां सर्वेषां मूलम्। निश्चलस्तु कपित्थस्य फलं पटोलस्य फलं पत्रं वा, अन्येषान्च मूलमित्याह, किन्तु सुश्रुतवाग्भटटीकाकृद्भिर्न व्याख्यातोऽयमर्थः॥२॥

नवमे मधुकानन्तापयस्याशारिवाः पिबेत्॥३॥

नवन इत्यादौ—क्षीरसिद्धानीति पदं लिंगविपरिमाणेनात्रापि सम्बध्यते, डल्वणेनव्याख्यातोऽयमर्थः। अन्ये मधुकानन्तेति योगश्च क्वाथेन किंवा मधुकादीनां कल्कं क्षीरेण पिबेदित्यर्थ इत्याहुः॥३॥

**पयस्तु दशमे शुण्ठ्या शृतशीतं प्रशस्यते॥

सक्षीरा वा हिता शुण्ठी मधुकं देवदारु च।
एवमाप्यायते गर्भस्तीव्रा रुक् चोपशाम्यति॥४॥**

पयस्त्वित्यादि—सुश्रुतस्य। डल्वणस्तु “क्षीरं शुण्ठीपयस्याभ्यां सिद्धं स्याद्दशमेहितम्” इति पठति, व्याचष्टे च—व्याचष्टे शुण्ठ्याः क्षीरं विदार्या वा क्षीरपाककल्पनया सिद्धं क्षीरं दशमे हितमिति। वाग्भटेऽप्युक्तं—“योजयेद्दशमे मासि क्षीरं सिद्धं पयस्यया। अथवा यष्टिमधुकनागरामरदारुभिः” इति। एतद्वचनसंवादादेव सक्षीरा वा हिता शुण्ठीत्यादावपि शुण्ठीमधुकदेवदारुभिः सिद्धं क्षीरं दशमे मासि प्रशस्यते इत्यर्थो ज्ञेयः॥४॥

कुशकाशोरुवूकाणां मूलैर्गोक्षुरकस्य च।
शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलनुत् परम्॥५॥

कुशेत्यादि—स्पष्टम्॥५॥

कशेरुशृङ्गाटकजीवनीयपद्मोत्पलैरण्डशतावरीभिः।
सिद्धं पयः शर्करया विमिश्रं संस्थापयेद् गर्भमुदीर्णशूलम्॥६॥

कशेर्वित्यादौ—जीवनीयो जीवनीयदशकम्, शर्करया विमिश्रमिति शर्करा प्रक्षेप्या॥६॥

कशेरुशृङ्गाटकपद्मकोत्पलं समुद्रयष्टीमधुकं सर्शकरम्।

सशूलगर्भस्रुतिपीडिताङ्गना पयो विमिश्रं पयसान्नभुक् पिबेत्॥७॥

कशेविंत्यादौ—पद्मकं पद्मकेशरमित्याहुः। उत्पलं नीलोत्पलम्। समुद्गयष्टिमधुकमिति मुद्गो मुद्रपर्णी। समुद्गयष्टिमधुकमित्यत्र समुद्गपर्णीमधुकमित्यपि पाठान्तरम्॥

गर्भे शुष्के तु वातेन वालानाञ्चापि शुष्यताम्।
सितामधुककाश्मर्यैर्हितमुत्थापने पयः।
गर्भशोष त्वामगर्भा प्रसहाश्च सदा हिताः॥८॥

गर्भेशुष्के तु वातेनेत्यादि—पूर्वं वातव्याध वेव पठितमिति नेह पठनीयम्। आमगर्भाइति हंसकूर्मादीनामण्डानि, प्रसहाः कुक्कुटादयः॥८॥

पाठालाङ्गलिसिंहास्यमयूरकजटैः पृथक्।
नाभिवस्तिभगालेपात् सुखं नारी प्रसूयते॥९॥

पाठेत्यादौ—श्रीकण्ठो लाङ्गलीस्थानं सुरसां पठति व्याचष्टे च—सुरसानिर्गुण्डी। सिंहास्यो वासकः, मयूरकोऽपामार्गः। एषां जटा मूलं हस्वत्वं छान्दसत्वात्॥९॥

परूषकस्थिरामूललेपस्तद्वत् पृथक् पृथक्॥१०॥

परुषेकत्यादौ—स्थिरा शालपर्णी॥१०॥

वासामूले ध्रुवं तद्वत् कटिवद्धे सूते द्रुतम्॥११॥

वासामूल इत्यादि—स्पष्टम्॥११॥

पाठायास्तु शिफा योनौ या नारी सम्प्रधारयेत्।
उरः प्रसवकाले तु सा सुखेन प्रसूयते॥१२॥

पाठाया इत्यादौ—शिफा मूलम्॥१२॥

तुपाम्बुपरिपिष्टेन मूलेन परिलेपयेत्।
लाङ्गल्याश्चरणौ सूते क्षिप्रमेतेन गर्भिणी॥१३॥

तुषाम्व्वित्यादौ—तुषाम्बुकाञ्जिकम्, काशिकापिष्टेन लागलीमूलेन आसन्नप्रसवायाः पादौ परिलेपयेत्॥१३॥

आटरूषकमूलेन नाभिवस्तिभगालेपः।
गृहाम्बुना गेहधूमपानं गर्भापकर्षणम्॥१४॥

गृहाम्बु काञ्जिकं गृहघूमम् अलन्धुकः॥१४॥

मातुलुङ्गस्य मूलानि मधुकं मधुसंयुतम्।
घृतेन सह पातव्यं सुखं नारी प्रसूयते॥१५॥

मातुलुङ्गेत्यादौ—मधुकं यष्टिमधु एतदुभयमपि मधुसंयुक्तं घृतेन सह पातव्यमित्यर्थः।

पुटदग्धसर्पकञ्चुकमसृणमसीकुसुमसारसहिताञ्जिताक्षी।
झटिति विशल्या जायेत गर्भवती मूढगर्भापि॥१६॥

पुटेत्यादि—पुटपाकविधया दग्ध्वा सर्पनिर्मोकमसी, तया मधुसहितया अञ्जितलोचना सती विगर्भा भवेदित्यर्थः॥१६॥

गृहाम्बुना हिङ्गुसिन्धुपानं गर्भापकर्षणम्॥१७॥

गृहाम्बुनेत्यादौ—सिन्धु सैन्धवम्॥१७॥

इहामृतञ्च सोमश्च चित्रभानुश्च भामिनि !।
उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते।
इदममृतमपां समुधृतं वै भवलघुगर्भमिमं विमुञ्चतु स्त्री।
तदनलपवनार्कवासवास्ते सहलवणाम्बुधरैर्दिशन्तु शान्तिम्॥

मुक्ताःपाशा विपाशाश्च मुक्ताः सूर्येण रश्मयः।
मुक्तःसर्पभयाद्गर्भ एह्येहि मारिच स्वाहा॥

जलं च्यवनमन्त्रेण सप्तवाराभिमन्त्रितम्।
पीत्वा प्रसूयते नारी दृष्ट्वाचोभयत्रिंशकम्॥

तथोभयपञ्चदशदर्शनं सुखसूतिकृत्।
नारी ऋतुवसुभिः सह पक्षदिगष्टादशभिरेव च।
अर्कभुवनाब्धिसहितैरुभयत्रिंशकमिदमाश्चर्य्यम्॥

वसुगुणाब्ध्येकबाणनवषट्सप्तयुगैः क्रमात्।
सर्वं पञ्चदशद्विस्तु त्रिंशकं नवकोष्ठके॥१८॥

इहेत्यादि-स्वाहान्तोऽयं मन्त्रश्च सुश्रुतस्य। अयमेव गर्भच्यवनमन्त्रः। जलं च्यवनमन्त्रेण सप्तवाराभिमन्त्रितं पीत्वेति वृद्धवैद्यव्यवहारः संप्रहकृद्भिर्लिख्यते, न तुसुश्रुतेन, सुश्रुतेन तु च्यवनमन्त्रेण गर्भिणीं स्रावयेदित्युक्तम्। उभयपञ्चदशकमुभयत्रिंशकञ्चाह वास्वत्यादि—वसवोऽष्टौ गुणस्त्रयः, अब्धयश्चत्वारः, बाणाः पञ्च, युगंद्वयम्। एतद्द्वैगुण्यादुभयत्रिंशकं भवति, एते नच कोष्ठान् कृत्वा तदभ्यन्तरेलेख्याः। वृन्दे तु उभयत्रिंशकमप्युक्तम्। एतंद्द्वयं शरावमध्ये लिखित्वा सम्पूज्यदर्शयितव्यम्॥१८॥

कटुतुम्व्यहिनिर्मोककृतवेधनसर्षपैः।
कटुतैलान्वितो धूमो योनेः पातयतेऽमराम्॥१९॥

कटुतुर्म्बत्यादि—कटुतुम्बी तिक्तालाबु

फलं, कृतवेधनं घोषकभेदः तस्य फलं,सर्षपः श्वेतसर्षपः। एतैर्धूमं कृत्वा योनिमुखे दद्यात्। उक्तं हि सुश्रुते—“योनिमुखं धूपयेत्” इति॥१९॥

कचवेष्टितयाङ्गुल्या घृष्टे कण्ठे सुखं पतत्यमरा॥२०॥

कचवेष्टितयति केशवेष्टितया॥२०॥

“एरण्डस्य वने काको गङ्गातीरमुपागतः।
इतः पिबति पानीयं विशल्या गर्भिणी भवेत्॥”
अनेन सप्तधामन्त्र्य जलं देयं विशल्यकम्॥२१॥

एरण्डस्येत्यादि—भवेदित्यन्तेन मन्त्रेण—जलं सप्तधामन्त्र्य गर्भिण्यैदद्यात्॥

मूलेन लाङ्गलिक्याः संलिप्ते पाणिपादे च।
अमारापातनं मद्यैः पिप्पल्यादिरजः पिबेत्॥
शालिमूलाक्षमात्रं वा मूत्रेणाम्लेन वान्वितम्॥२२॥

अमरापातनमित्यादौ—पिप्पल्यादिरज इति सुश्रुतस्य पिप्पल्यादिगणचूर्णम्।अम्लेन काञ्जिकेन, मद्येनेत्यन्ये॥२२॥

उपकुञ्चिका पिप्पलीञ्च मदिरां लाभतः पिबेत्।
सौवर्च्चलेन संयुक्तां योनिशूलनिवारणीम्॥२३॥

उपकुञ्चिका कृष्णजीरकम्। पिप्पलीमित्यन्तरं प्रक्षिप्येति शेषः॥२३॥

सूताया हृच्छिरोवस्तिशूलं मक्कल्लसंज्ञितम्॥
यवक्षारं पिवेत्तत्र सर्पिपोष्णोदकेन वा।
पिप्पल्यादिगणक्वाथं पिवेद्वा लवणान्वितम्॥२४॥

सूताया इत्यादि—सुश्रुतेऽप्युक्तं—प्रसूतायास्तु वस्त्युदरशिरोयोनिशूलं रक्तंसंरुध्य वायुः करोति, स मक्कलसंज्ञितः॥२४॥

पारावतशकृत् पीतं शालितण्डुलवारिया।
गर्भपातान्तरोत्थं तु रक्तस्नावनिवारणम्॥२५॥

गर्भपातजनिते रक्तस्रावे चिकित्सामाह—पारावेतत्यादि॥२५॥

जलपिष्टवरुणपत्रैः सघृतैरुद्वर्त्तनालेपौ।
किक्किशरोगं हरतो गोमयघर्पादथो विहितौ॥२६॥

जलपिष्टेत्यादौ—किक्किशरोगो गर्भोत्पीडनेन वस्त्यादिदेशे मनाक् चर्मविदरणम्। अथो अनन्तरं गोमयघर्षणानन्तरं विहितावित्यर्थः॥२६॥

ह्रीवेरारलुरक्तचन्दनवलाधन्याकवत्सादनी-
मुस्तोशीरयवासपर्पटधिषा

क्वाथं पिवेद्गर्भिणी।
नानादोषयुतातिसारकगदे रक्तस्रुतौ वा ज्वरे
योगोऽयं मुनिभिः पुरा निगदितः सूत्यामये शस्यते॥२७॥

ह्रीबेरेत्यादौ—अरलुः श्योनालुः, वत्सादनी गुडूची। विषा अतिविषा॥२७॥

अमृतानागरसहचरभद्रेत्कटपञ्चमूलजलदजलशीतम्।
मधुसंयुक्तं निवारयति सज्वरं सूतिकातङ्कम्॥२८॥

अमृतेत्यादौ—भद्रेत्कटोभादखेड इति राढायां ख्यातस्तरुः। अन्ये तु भद्रंभद्रमुस्तकम्, इत्कटःइकर इति ख्यातस्य मूलमित्याहुः। पञ्चमूलं स्वल्पपञ्चमूलं,जलदं मुस्तकम्, जलं क्वाथः॥२८॥

सहचरपुष्करचेतसमूलं विकङ्कतदारुकुलत्थसमम्।
जलमत्रसैन्ध

वहिङ्गुयुतं सद्यो ज्वरसूतिकरोगहरम्॥२९॥

सहचरेत्यादौ—विकङ्कतः वैखर इति लोके, तस्य मूलम्। कुलत्थः समो यत्र

तत् तथा कुलत्थसमम्। जलं क्वाथः॥२९॥

दशमूलीकृतः क्वाथः सद्यः सूतिरुजापहः॥३०॥

दशमूलीत्यादि—आमशूलादिपीडायां पुनर्धान्यशुण्ट्या युक्तस्य धान्यपञ्चकयुक्तस्य क्वथमुपदिशन्ति वृद्धाः॥३०॥

वज्रकाञ्जिकम्।

पिप्पली पिप्पलीमूलं चव्यं शुण्ठी यमानिका।
जीरके द्वे हरिद्रे द्वे विडसौवर्च्चलं तथा।
एतैरेवौषधैःपिष्टैरारणालं विपावितम्।
आमवातहरं वृष्यं कफघ्नं वह्निदीपनम्॥

काञ्जिकं वज्रकं नाम स्त्रीणामग्निवर्द्धनम्।
मक्कल्लशूलशमनं परं क्षीराभिवर्द्धनम्।
क्षीरपाकविधानेन काञ्जिकस्यापि साधनम्॥३१॥

वज्रकाञ्जिके पिप्पल्यादिद्रव्यस्य मिलित्वा वर्षत्रयं, काञ्जिकस्य शराव एकः,पानीयमप्यल्पम् एवमेव प्रायशा व्यवहरन्ति वृद्धाः, सकल्ककाञ्जिकपानमुपदिशन्ति च। चक्रस्त्वाह क्षीरपाकविधानेन काञ्जिकस्यापि साधनमिति॥३१॥

पञ्चजीरकगुडः।

जीरकं हवुषा धान्यं शताह्वाबदराणि च।
यमानी क्रुष्टिका हिङ्गुपत्रिका कासमर्दकम्॥

पिप्पली पिप्पलीमूलमजामोदाथ वाष्पिका।
वित्रकञ्च पलांशानि तथान्यच्चचतुःपलम्॥

कशेरुकं नागरञ्च कुष्ठं दीप्यकमेव च।
गुडस्य च शतं दद्याद् घृतप्रस्थं तथैव च।
क्षीरद्विप्रस्थसंयुक्तं शनैर्मृदग्निना पचेत्।
पञ्चजीरक इत्येष सूतिकानां प्रशस्यते॥

गर्भार्थिनीनां नारीणां वृहणीये समारुते।
विंशतिव्यापदो योनेःकासं श्वासं ज्वरं क्षयम्।
हलीमकं पाण्डुरोगं दौर्गन्ध्यं मूत्रकृच्छ्रताम्।
घ्नन्ति पीनोन्नतकुचाः पद्मपत्रायतेक्षणाः।
उपयोगात् स्त्रियो नित्यमलक्ष्मीमलवर्जिताः॥३२॥

पञ्चजीरकगुडं—जोरकं सूक्ष्ममुखकृष्णजीरकं गुर्जरप्रसिद्धं, ऋष्टिको राजिका,हिंगुपत्रिका वंशपत्रिका, अजमोदा वनयमानी, अन्तःपरिमार्जनत्वात् यमान्या एवभागद्वयम्। वाष्पिका क्षुद्रराजिका। तथा च्चान्यच्चतुःपलमिति वक्ष्यमाणवशेरुकादिचतुष्टयं प्रत्येकं चतुःपलमित्यर्थः। दीप्यकं स्थूलजीरकम्। आदौ गुडघृतंक्षोरेण पक्त्वा सिद्धे सति जोरकादिचूर्णप्रक्षेपः। पञ्चपलजीरकयोगात् पञ्चजीरकइति संज्ञा। समारुत इत्यत्र गर्भ इति शेषः, कुपितमारुतयोगात् क्षीयमाण इत्यर्थः॥

वनकार्पासिकेक्षूणां मूलं सौवीरकेण वा।
विदारिकन्दं सुरया पिबेद्वा स्तन्यवर्द्धनम्॥३३॥

सम्प्रति स्तन्यवर्द्धनयोगानाह वनकार्पासिकेत्यादि—सौवीरकेण काञ्जिकेन।विदारीकन्दं भूमिंकूष्माण्डम्॥३३॥

दुग्धेन शालितण्डुलचूर्णपानं विवर्द्धयेत्।
स्तन्यं सप्ताहतः क्षीरसेविन्यास्तु न संशयः॥३४॥

दुग्धेनेत्यादि—स्पष्टम्॥३४॥

हरिद्रादिं वचादिं वा पिबेत् स्तन्यस्य वृद्धये॥३५॥

हरिद्रादिमित्याद—हरिद्रादि-वचादिगणौ सौश्रुतौ। यथा—“हरिद्रादारुहरिद्राकलसीकुटजबीजानि मधुकञ्च” इति। कलसी पृश्निपर्णी।“वचामुस्तातिविषाभद्रदारुनागरशतमूली अनन्तमूलञ्च” इति। भद्रदारु देवदारु॥३५॥

तत्र वातात्मके स्तन्ये दशमूलोजलं पिबेत्॥३६॥

तत्रेत्यादि—स्पष्टम्॥३६॥

पित्तदुष्टेऽमृताभीरुपटोलं निम्बचन्दनम्।
धात्री कुमारश्च पिबेत् क्वाथयित्वा सशारिवम्॥३७॥

पित्तदुष्ट इत्यादि—अभीरुः शतावरी, शारिवा अनन्तमूलम्। सशारिवमित्यत्रसशर्करमिति पाठान्तरम्। अमृतादिशारिवान्तस्य क्वाथः॥३७॥

कफे वा त्रिफलां मुस्तं भूनिम्बं कटुरोहिणीम्।
धात्रीस्तन्यविशुद्ध्यर्थं मुद्गयूषरसाशिनी।
भार्गीदारुवचापाठाः पिबेत् सातिविषाः शृताः॥३८॥

स्तन्यशोधनाय क्वाथमाह—धात्रीत्यादि॥३८॥

कुक्कुरमेञ्चुकमूलं चर्वितमास्ये विधारितं जयति।
सप्ताहात् स्तनकीलं स्तन्यञ्चैकान्ततः कुरुते॥३९॥

स्तनविद्रधिचिकित्सामाह कुक्कुरेत्यादि—कुक्करमेञ्चुको गोरक्षतण्डुला। स्तनकलिं स्तनविद्रधिः॥३९॥

शोथं स्तनोत्थितमवेक्ष्य भिषग्विदध्याद्
यद्विद्रघावभिहितन्त्विह भेषजं तत्।
आमे विदह्यति तथैव गते च पाकं।
तस्याः स्तनौ सततमेव च निर्दुहीत॥४०॥

शोथमित्यादि—स्पष्टम्॥४०॥

विशालामूललेपस्तु हन्ति पीडां स्तनोत्थिताम्।
निशाकनकफलाभ्यां लेपश्चापि स्तनार्त्तिहा॥४१॥

विशालेत्यादौ—विशाला गोरक्षकर्कटी। निशेत्यादौ—कनकफलं धुस्तूरफलम्॥

मूषिकवसया शूकरगजमहिषमांसचूर्णसंयुतया।
अभ्यङ्गमर्दनाभ्यां कठिनपीनस्तनौ भवतः॥४२॥

स्तनशोषचिकित्सामाह—मूषिकवसायां शूकरादिमांसचूर्णं प्रक्षिप्य स्तनयोरभ्यङ्गमर्दनम् आद्यपुष्पोत्सवे॥४२॥

महिषीभवनवनीतं व्याधिवलोग्रा तथैव नागबला।
पिष्ट्वामर्दनयोगात् पीनं कठिनं स्तनं कुरुते॥४३॥

महिषीत्यादौ—व्याधिः कुष्ठम्, उग्रा वचा॥४३॥

श्रीपर्णीतैलम्।

श्रीपर्णीरसकल्काभ्यां सिद्धं तैलं तिलोद्भवम्।
तूलकेनैव तत्तैलं स्तनस्योपरि धारयेत्।
पतितावुत्थितौ स्त्रीणां भवेयातां पयोधरौ॥४४॥

श्रीपर्णी गाम्भारी, तस्यास्त्वचो रसः स्वरसः। स्तनस्योपरि कुचाग्रे॥४४॥

काशीशाद्यं तैलम्।

काशीशतुरगगन्धाशावरीगजपिप्पलीविपक्वेन।
तैलेन यान्ति वृद्धिं स्तनकर्णवराङ्गलिङ्गानि॥४५॥

काशीशेत्यादि—काशीशं धातुकाशीशम्, शावरी लोध्रम्। एषां कल्कः। जलंचतुर्गुणम्। कर्णः कर्णपाली, वराङ्गं स्त्रीगुह्यम्॥४५॥

प्रथमर्त्तौ तण्डुलाम्भो नस्यं कुर्य्यात् स्तनौ स्थिरौ॥४६॥

प्रथमर्त्तौ पुष्पोत्सवे॥४६॥

गोमहिषीघृतसहितं तैलं श्यामाकृताञ्जलिवचाभिः।
सत्रिकटुनिशाभिः सिद्धं नस्यं स्तनोत्थापनं परम्॥४७॥

गोमहिषीत्यादौ—गोमहिषीघृतयोर्मिलित्व एको भागः, अपरश्च तैलस्य।श्यामा प्रियंगुः, कृताञ्जलिः सूर्य्यभक्ताअञ्जलिकारिकेति ख्याता, लाजालुया इत्यन्येलज्जावतीति कुत्रचित्। कटुका कटुरोहिणी एषां कल्कः। जलं चतुर्गुणम्॥४७॥

सुतनूकरोति मध्यं पीतं मथितेन माघवीमूलम्।
स्याच्छिथिलापि च गाढा सुरगोपाज्याभ्यङ्गतो योनिः॥४८॥

सूतनूकरोतीत्यादौ—मध्यं स्त्रिया मध्यदेशः, मथितेन घोलेन, माधवीमूलंमाधवीलतामूलम्। सुरगोप इति इन्द्रगोपाख्यः कीटःसिन्दुरियापोका इति लोके, आज्यं घृतम्, अनयोरभ्यङ्गात्॥४८॥

शववहनस्थितवन्धनरज्ज्वा सन्ताडनाद्धि दयितेन।

नश्यत्यवलाद्वेषः पत्यौ सहजः कृतोऽथवा योगैः॥४९॥

शववहनेत्यादि—शवो मृतः, तद्वहनाय स्थिता या वन्धनरज्जुस्तया। दयितेन भ

र्त्त्रा॥४९॥

दत्त्वेव दुग्धभक्तं विप्रायोत्पाट्यं सितवलामूलम्।
पुष्ये कन्यापिष्टं दत्तमनिच्छाहरं भक्ष्ये॥५०॥

दत्त्वेत्यादि—विप्राय दुग्धभक्तं दत्त्वेति पूर्वेण योज्यम्। भक्ष्ये भक्तादौ॥२०॥

इति स्त्रीरोगचिकित्सा-विवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1701932201Screenshot(107”/>.png)

अथ बालरोगचिकित्सा।

कुष्ठवचाभयाव्रह्मीकनकं क्षौद्रसर्पिपा।
वर्णायुःकान्तिजननं लेहं बालस्य दापयेत्॥१॥

दुष्टस्तन्यपानादिना बालानां रोगसम्भवादनन्तरं बालरो

गाधकारः। तत्र बालरोगाधिकारे वक्तव्ये प्रथमतः बालस्य सुस्थवृत्तमाह कुष्ठमित्यादि—कनकं मारितजारितस्वर्णचूर्णम्। तत्र सुवर्णमारणविधिर्यथा—कण्टकवेध्यसुवर्णपत्रं जम्बीरस्वरसेन स्थापयित्वा सुवर्णकफलस्थितगुडप्रायस्नेहमागेन लिप्त्वा गोरक्षकर्कटीमूलपिण्डमध-ऊर्द्ध्वञ्च दत्त्वा शरावसम्पुटे निक्षिप्य प्रलिप्य च गोमयाग्नौवारद्वयंत्रयंवा प्रपुटेत्, ततश्चूर्णयित्वा दृढघनवस्त्रेण छानयेदिति। लेहोऽयं जातदिनेतदुपरि च प्रचरति। तत्रान्तरे च ‘स्वर्णादिलेहान्तरस्य संवत्सरोयावदुपयोग’ इति

स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिबेत्॥२॥

स्तन्याभाव इत्यादि—तद्गुणमिति संस्काराल्लघूकृतम्॥२॥

तर्क्वघो गुडिकां तप्तां निर्वाप्य कटुतैलके।
तत्तैलं पानतो हन्ति बालानामुल्वमुद्धतम्॥३॥

तर्क्वध इति तर्कः टाकुया इति ख्याता, तस्या अधोगु

डिका वाटुनीति ख्याता। उल्वं बालकस्य कण्टगतश्लेष्मा॥३॥

व्योषशिवोग्रारजनीकल्कं वा पीतमथ पयसा।
उल्वं निःशेषं कुरुते पटुतां बालस्य चात्यन्तम्॥४॥

व्योषेत्यादौ—शिवा हरीतकी, उग्रा वचा। पयसति स्तन्येन नारीक्षीरेणेत्यर्थः।वाशब्दोऽत्र पूर्वयोगापेक्षया॥४॥

मृत्पिण्डेनाग्नितप्तेन क्षीरसिक्तेन सोष्मणा।
स्वेदयेदुत्थितां नाभिं शोथस्तेनोपशाम्यति॥५॥

नाभिशोथे स्वेदमाह—मृदित्यादि॥५॥

नाभिपाके निशालोध्रप्रियंगुमधुकैः शृतम्।
तैलमभ्यञ्जने शस्तमेभिर्वाप्यचूर्णनम्॥६॥

नाभीत्यादौ—मधुकं यष्टिमधुकम्॥६॥

सोमग्रहणे विधिवत् केकिशिखामूलमुद्धृतं वद्धम्।
जघनेऽथ कन्धरायां क्षपयत्यहितुण्डिकां नियतम्॥७॥

सोमग्रहण इत्यादौ—विधिवत् उद्धत इत्यन्वयः, विधिश्च मुक्तकचशिखेनपुंसा उद्धरणम्। केकिशिखा मयूरशिखा। उद्धृत्य वद्धेति पाठे आमूलमुद्धृत्येतियोज्यम्। अत्र भिक्षुप्रार्थितकपर्दककुहरे पारदं पूरयित्वा सिक्थकेन संरुध्य कुमारीधत्ते इत्युपदिशन्ति वृद्धाः॥७॥

सप्तदलपुष्पमरिचं पिष्टं गोरोचनासहितम्।
पीतं तद्वत् तण्डुलभक्तकृतो दग्धपिष्टकप्राशः॥८॥

सप्तदलेत्यादि—सप्तदलः सप्तच्छदः, तस्य पुष्पम्। पीतमित्यत्र जलेनेति शेषः।तद्वदिति अहितुण्डिकां क्षपयतीति शेषः। तण्डुलेत्यादि योगान्तरम्। भक्तसहिततण्डुलान् पिष्ट्वा पत्रणावेष्ठ्यकुशेन बद्ध्वाअङ्गारैर्दग्ध्वा भक्षणीयमित्यर्थः॥८॥

जम्बूकनासा वायसजि

ह्वा नाभिर्वराहसम्भूता।
कांस्यं रसोऽथ गरलं प्रावृड्भेकस्य वामजङ्घास्थि॥
इत्येकशोऽथ मिलितं विधृतं ग्रीवादिकटिदेशे।
अहितुण्डिकाप्रशमनमभ्यङ्गो नातिपथ्यविधिः॥९॥

जम्बूकेत्यादि—जम्बूकः शृगालस्तस्य नासा, वायसः काकस्तस्य जिह्वा, रसःपारदः, गरलं विषम्। प्रावृड्भेकः वर्षाकालजमण्डूकः, स च पीतच्छविः सोनावेङ्इति ख्यातः, तस्य वामपदास्थि। एतत् सर्वं प्रत्येकं मिलित्वा वा ग्रीवायां कट्यां वाधारणीयम्। नातिपथ्यविधिरिति व्याधिप्रभावादेवायम्॥९॥

अनामके घुर्घुरिकाबुक्कामरिचरोचनाः।
नवनीतञ्च सम्मिश्र्य खादेत् तद्रोगनाशनम्॥१०॥

अनामक इति निर्नामरोग इति ख्यातः, केचिच्च पुञ्जिकारोग इति ख्यातः।घुर्घुरिका कीटविशेषः, तस्य बुक्का बुक्कभाग इत्यर्थः॥१०॥

तैलाक्तशिरस्तालुनि सप्तदलार्कस्नुहीभवं क्षीरम्।
दत्त्वा रजनीचूर्णं दत्ते नश्येदनामकाख्यः॥११॥

तैलाक्तेत्यादौ—तैलाभ्यक्तस्तालुनि सप्तदलार्कस्नुहीक्षीरं दत्त्वा तदुपरि हरिद्राचूर्णं दद्यादित्यर्थः॥११॥

लेहयेच्च शुना बालं नवनीतेन लेपितम्।
स्फुटकपत्रजरसेनोद्वर्त्तनञ्च तद्धितम्॥१२॥

लेहयेदित्यादौ—नवनीताक्तगात्रं शिशुं कृत्वा शुना कुक्कुरेण लहयेत्, ततःपुटकीस्वरसेनोद्वर्त्तयेत्॥१२॥

तैलस्य भागमेकं मूत्रस्य द्वौ च शिम्बीदलरसस्य।

गव्यं पयश्चतुर्गुणमेवं दत्त्वा पचेत्तैलम्।
तेनाभ्यङ्गः सततं रोगमनामाख्यमुपहरति॥१३॥

तैलस्येत्यादौ—शिम्बीदलं शिम्बीपत्रम्॥१३॥

आर्कंतूलकमाविकरोमाण्यादाय केशराजस्य।
स्वरसेनाक्ते वस्त्रे कृत्वा वर्त्तिञ्चतैलाक्ताम्॥
तज्जातकज्जलाञ्चितलोचनयुगलोऽप्यलङ्कृतो बालः।
कष्टमनामकरोग क्षपयति भूतादिकञ्चापि॥१४॥

आर्कमित्यादि—अर्कस्य तूलकम् आविकरोमाणि मेषरोमाणि चेति भागद्वयंकेशराजस्वरसरञ्जितव

स्त्रैरावेष्ट्य तैला

क्तंज्वालयेत्। तच्छिखोपरि पात्रं धृत्वा पतितकज्जलेन चक्षुषोरञ्जनं कार्यम्॥१४॥

चालनिकातलसंस्थितपोतं संप्लाव्य गव्यसूत्रेण।
ओकोदशालिकायां रजकक्षारोदकस्नानम्॥१५॥

चालनिकेत्यादि—ओकोदशालिकायां चालनिकातले संस्थितबालकं चालनिकारन्ध्रपतितगोमूत्रेण स्रावयित्वा रजकक्षारजलेन स्नापयेत्॥१५॥

दासक्रयणश्रावणवटिका रसेन्द्रपूरिता घृता कण्ठे।
नलिनीदले च शयनं सुकष्टमनामकाख्यरोगघ्नम्॥१६॥

दासेत्यादौ—श्रावणः पाषण्डविशेषः भिक्षुवेशधारी योगीति लोके, तस्यवटिका वराटिका कपर्दिकेति यावत् दासेन दासद्वारा क्रयणं यस्याः स तथा, ततःकर्मधारयः॥ रसेन्द्रेण पारदेन पूरिता स कण्ठे घृतेत्यर्थः। नलिनीदलं पद्मपत्रम्॥

भैषज्यं पूर्वमुद्दिष्टं नराणां यज्ज्वरादिषु।
देयं तदेव बालानां मात्रा तस्य कनीयसी॥१७॥

भैषज्यमित्यादि—कनीयसी अत्यल्पा॥१७॥

प्रथमे मासि जातस्य शिशोर्भेषजरक्तिका।
अवलेह्या तु कर्त्तव्या मधुक्षीरसिताघृतैः।
एकैकां वर्धयेत्तावद् यावत् संवत्सरो भवेत्।
तदूर्ध्वं माषवृद्धिः स्याद् यावदाषोडशाब्दिकः॥१८॥

मात्रा चात्र कनीयसीति यदुक्तम् अतस्तामेव मात्रां प्रतिपादयितुं परिभाषामाह प्रथम इत्यादि—मध्विति मध्वादिविकल्पो दोषप्रकृत्यादिभेदात्। एकैकामितिमासि मासि एकैकां रक्तिकां कृत्वा वर्द्धयेदित्यर्थः। तदूदूर्ध्वमिति वर्षादूदूर्ध्वं वर्षे वर्षेमाषेण माषेण वृद्धिर्माषवृद्धिः। एतत्परिभाषाशेषो यथा—“प्रतिमासं प्रयोक्तव्या वृद्धिरेषा भिषग्वरैः। मानमेतत् प्रयोक्तव्यं सर्वमानविधावपि। षोडशाब्दाद्भवेदूर्द्ध्वयावदासप्ततेरिति। एष एव विभागोऽयं तदूर्द्ध्वं बालवत् क्रिया” इति॥१८॥

हरिद्रादिः।

हरिद्राद्वययष्ट्याह्व-सिंहीशक्रयवैः कृतः।
शिशोर्ज्वरातिसारघ्नः कषायः स्तन्यदोषजित्॥१६॥

हरिद्रेत्यादौ—सिंही पृश्निपर्णी। यत्र हरिद्रादिगण एवायं श्लोकन निबद्धः,तत्र च कनसीति पठिता, निश्चलस्तु सिंही वासक इत्याह। यस्तु क्षीरपो बालःकषायं पातुमसमर्थस्तस्य धात्रीम् पाययेत्। सुश्रुतेन कषायोक्तद्रव्यकल्केन लिप्तयोःस्तनयोः पानमपि दर्शितम्॥१६॥

बाल चातुर्भद्रिका।

घनकृष्णारुणाशृङ्गीचूर्णं क्षौद्रेण संयुतम्।
शिशोर्ज्वरातिसारघ्नं कासश्वासवमीहरम्॥२०॥

घनेत्यादि—घनं मुस्तकम्, अरुणा अतिविषा॥२०॥

धातक्यादिः।

घातकीबिल्वधन्याकलोध्रेन्द्रयवबालकैः।
लेहः क्षौद्रेण बालानां ज्वरातीसारवान्तिनुत्॥२१॥

घातक्यादिः—स्पष्टः॥२१॥

रजनीदारुसरल श्रेयसीवृहतीद्वयम्।
पृश्रिपर्णी शताह्वाच लीढं माक्षिकसर्पिषा।
ग्रहणीदीपनं हन्ति मारुतार्ति सकामलाम्।
ज्वरातीसारपाण्डुघ्नं बालानां सर्वशोथनुत्॥२२॥

रजनीत्यादि—वाग्भटस्य। श्रेयसी गजपिप्पली। बालानां सर्वरोगनुदित्यत्रबालानां सर्वशोथनुदित्यपि पाठो वाग्भटे चन्द्राटेऽपि दृश्यते॥२२॥

मिषीकृष्णाञ्जनं लाजाशृङ्गीमरिचमाक्षिकैः।
लेहः शिशोर्विधातव्यश्छर्दिकासज्वरापहः॥२३॥

मिषीत्यादि—मिषी मधुरिका, कृष्णा पिप्पली, अञ्जनं रसाजनं, शृङ्गी कर्कटशृङ्गी॥

भृङ्ग्यादिः।

शृङ्गीं समुस्तातिविषां विचूर्ण्यलेहं विदध्यान्मधुना शिशूनाम्।
कासज्वरच्छर्दिभिरर्दितानां समाक्षिकाञ्चातिविषां तथैकाम्॥२४॥

शृङ्गीत्यादि—स्पष्टम्॥२४॥

पीतं पीतं वमेद् यस्तु स्तन्यं तन्मधुसर्पिषा।
द्विवार्त्ताकीफलरसं पञ्चकोलञ्च लेहयेत्॥२५॥

पतिमित्यादि—वाग्भटस्य। द्विवार्ताकी वृहतीद्वयम्। फलरसमिति वार्त्ताकीफलरसम्। योगोऽयमेक इति श्रीकण्ठः। निश्चलस्तु चशब्दो विकल्पे, अतो योगद्वयं;यदुक्तमायुर्वेदसारे—“पीत्वायो वमति स्तन्यं भृशं यो मधुसर्पिषा। कोलीफलरसं

यद्वा पञ्चकोलं प्रलेहयेत् ” इति। अयञ्च व्यवस्थितो विकल्पः, तेन पित्तोत्तरे कफे वृहतीद्वयफलरसं, वातश्लेष्मणि च पञ्चकोलमित्याह॥२५॥

आम्रास्थिलाजसिन्धूत्थैर्लेहः क्षौद्रेण छर्दिनुत्॥२६॥

आम्रेत्यादौ—आम्रफलास्थिमज्जा ग्राह्या॥२६॥

पिप्पलीमरिचानान्तु चूर्णं समधुशर्करम्।
रसेन मातुलुङ्गस्य हिक्काच्छर्दिनिवारणम्॥२७॥

पिप्पलीत्यादौ—रसेन मातुलुङ्गस्येत्यत्र लिह्यादिति शेषः॥२७॥

पेटीपाठामूलाज्जम्ब्वाः सहकारवल्कतः कल्कः।
इत्येकशश्च पिण्डो विधृतो हन्नाभिमध्यताल्वादौ॥

छर्द्यतीसारजवेगं प्रबलं धत्ते तदेव च नियमेन॥२८॥

पेटीत्यादि—पेटारीति ख्याता,

भांपीटुपरीति लोके। चकाराम्मिलित्वा, प्रत्येकञ्च योगः॥२८॥

बिल्वञ्च पुष्पाणि च घातकीनां जलं सलोध्रं गजपिप्पली च।
क्वाथावलेहौ मधुना विमिश्रौ बालेषु योज्यावतिसारितेषु॥२९॥

बिल्वेत्यादौ—जलं बालकम् । क्वाथावलेहाविति क्वाथो वा अवलेहो वेत्यर्थः। अवलेहपक्षे सर्वं सञ्चूर्ण्य अनुरूपमधुना लेह्यम्॥२९॥

समङ्गाघातकीलोघ्रशारिवाभिः शृतं जलम्॥
दुर्द्धरेऽपि शिशोर्देयमतीसारे समाक्षिकम्॥३०॥

समङ्गेत्यादि—समङ्गा वराहक्रान्ता॥३०॥

नागरातिविषामुस्तं बालकेन्द्रयवैः शृतम्।
कुमारं पाययेत् प्रातः सर्वातीसारनाशनम्॥३१॥

नागरेत्यादि—स्पष्टम्॥३१॥

समङ्गा घातकी पद्मं वयःस्था कच्छुरा तथा।
पिष्टैरेतैर्यवागूः स्यादतीसारविनाशिनी॥३२॥

समंगेत्यादि—पद्मं पद्मकेशरं, वयःस्था गुडूची, कच्छुरा शूकशिम्बीमूलम्। कल्कसाध्या इयम्॥३२॥

बिल्वचूतकषायेण लाजाश्चैव सशर्कराः।
आलोड्य पाययेद्वालं छर्द्यतीसारनाशनीः॥३३॥

बिल्वेत्यादौ—कषायोऽर्द्धशृतः। अतएव निर्देशात् लाजाशब्दः स्त्रीलिङ्गोऽप्यस्तीति। योगोऽयं छर्द्यतीसारनाशनो बोध्य इति शेषः॥३३॥

कल्कः प्रियङ्गुकोलास्थि-मध्यमुस्तरलाञ्जनैः।
क्षौद्रलीढः कुमारस्य च्छर्दितृष्णातिसारनुत्॥३४॥

कल्क इत्यादौ—कोलास्थिमध्यं वदरास्थिमज्जा॥३४॥

मोचरसः समङ्गाच धातकी पद्मकेशरम्।
पिष्टैरेतैर्यवागूः स्याद्रक्तातीसारनाशिनी॥३५॥

मोचरस इत्यादि—मोचं शाल्मलीवेष्टकः॥३५॥

लेहस्तैलसिताक्षौद्र तिलयष्ट्याह्वकल्कितः।
बालस्य रुघ्न्यान्नियतं रक्तस्त्रावप्रवाहिकाम्॥३६॥

लेह इत्यादौ—रक्तस्रावप्रवाहिकामिति प्रवाहिकायामेव यत्र रक्तस्रतिस्तत्रायं योगः, न तु केवलरक्तस्रावे, तैलतिलयोरुष्णवीर्यत्वेन तत्रानर्हत्वात्॥३६॥

लाजा सयष्टिमधुकं शर्कराक्षौद्रमेव च।
तण्डुलोदकसंयुक्तं क्षिप्रं हन्ति प्रवाहिकाम्॥३७॥

लाजा इत्यादौ—संयुक्तमित्यनन्तरं पीतमिति शेषः। लाजादिचूर्णं यथायोग्यं गृहीत्वा तण्डुलोदकेन पेयम्॥३७॥

अङ्कोठमूलमथवा तण्डुलसलिलेन वटजमूलं वा।
पीतं हन्त्यतीसारं ग्रहगीरोगञ्च सुदुर्वारम्॥३८॥

अङ्केठित्यादि—अङ्कोठःअङ्कोडःइति ख्यातस्तरुः। योगद्वये तण्डुलोदकं सम्बध्यते। वटजमूलं वटजातमूलं मूलाकारं ह्रस्वप्रमाणं ‘व’ इति ख्यातम्, अत एवोक्तं वटजमुलमिति, न तु वटमूलम्॥३८॥

सितजीरकसर्जचूर्णं बिल्वदलोत्थास्वुमिश्रितं पीतम्।
हन्त्यामरक्तशूलं गुडसहितः श्वेतसर्जो वा॥३९॥

सितेत्यादौ—बिल्वदलोत्थाम्बु बिल्वपत्रस्वरसः॥३९॥

मरिचमहौषधकुटजं द्विगुणीकृतमुत्तरोत्तरं क्रमशः।
गुडतक्रयुक्तमेतद् ग्रहणीरोगं निहन्त्याशु॥४०॥

मरिचेत्यादौ—गुडेन मधुरीकृतं तक्रं गुडतक्रम्॥४०॥

बिल्वशक्राम्बुमोचाब्दसिद्धमाजं पयः शिशोः।
सरक्तां ग्रहणीं पीतं हन्यादेव त्रिरात्रतः॥४१॥

बिल्वेत्यादौ—शक्रमिन्द्रयवम्, अम्बु वालकम्, मोचः शाल्मलीवैष्टकः। सिद्धमिति क्षीरपरिभाषया पाकः॥४१॥

तद्वदजाक्षीरसमो जम्बूत्वगुद्भवो रसः॥४२॥

तद्विदिति—सरक्तग्रहणीनाशकः॥४२॥

गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम्।
रसाञ्जनं विशेषेण पानालेपनयोर्हितम्॥४३॥

गुदपाकचिकित्सामाह—गुदपाक इत्यादि॥४३॥

कणोषणसिताक्षौद्र-सूक्ष्मैलासैन्धवै कृतः।
मूत्रग्रहे प्रयोक्तव्यः शिशूनां लेह उत्तमः॥४४॥

कणेत्यादि—कणा पिप्पली, ऊषणं मरिचम्॥४४॥

घृतेन सिन्धुबिल्वैला-हिंगुभार्गीरजो लिहन्।
नाहं वातिकं शूलं जयेत्तोयेन वा शिशुः॥४५॥

घृतेनेत्यादौ—सिन्धु सैन्धवम्। एषां चूर्णं घृतेन लेह्यम्। तोयेन वेत्यनन्तरं पिबन्निति शेषः। तेन तोयेन कोष्णजलेन वा पिबेदित्यर्थः॥४५॥

हरीतकीवचाकुष्ठं कल्कं माक्षिकसंयुतम्।
पीत्वा कुमारः स्तन्येन मुच्यते तालुपातनात्॥४६॥

हरीतकीत्यादि—वाग्भटस्य। तालुपातनं तालुप्रदेशस्य निम्नता। तालुकण्टकादित्यपि पाठः॥४६॥

मुखपाके तु बालानां साम्रसारमयोरजः।
गैरिकं क्षौद्रसंयुक्तं भेषजं सरसाञ्जनम्॥४७॥

मुखपाक इत्यादौ—आम्रसारः आम्रसदृशपत्रः स्वनामख्यातो राढायामिति केचित्, अन्ये तु आम्रसारः आम्रफलास्थिमज्जेत्याहुः। आम्रसारादि-रसाञ्जनान्तम् एक एव प्रलेपः॥४७॥

अश्वत्थत्वग्दलक्षौद्रैर्मुखपाके प्रलेपनम्।
दार्वीयष्ट्यभयाजातीपत्रक्षौद्रैस्तथापरम्॥४८॥

अश्वत्थेत्यादि—अश्वत्थस्य त्वक् पत्रञ्च। अपरमित्यत्र प्रलेपनमित्यन्वयः॥४८॥

सहजम्बीररसेन स्नुग्दलरसघर्षणं सद्यः।
कृतमुपहन्ति हि पाकं मुखजं बालस्य चाश्वेव॥४९॥

सहेत्यादौ—जम्बीरः पर्णाशभेदः। स्नुग्दलं स्नुद्दीपत्रम्, तस्य स्वरसः पुटपाकविधिनैव ग्रहीतुं शक्यते॥४९॥

लावतित्तिरिवल्लूररजः पुष्परसान्वितम्।
द्रुतं करोति बालानां दन्तकेशरवन्मुखम्॥५०॥

लावेत्यादि—वाग्भटस्य। लावतित्तिर्य्योर्ववल्लूरं शुष्कमांसम्, पुष्परसो मधु। एतन्मांसचूर्णं मधुना लेह्यमिति केचित्। अन्ये तु मधुनैतच्चूर्णेन दन्तपालिं प्रतिसारयेदित्याहुः। किन्त्वयं योगो वाग्भटे प्रतिसारणप्रकरणे पठितः। दन्तकेशरमिति दन्ता एब केशरं सुकुमारत्वात्॥५०॥

दन्तोद्भेदोत्थरोगेषु न बालमतियन्त्रयेत्।
स्वयमप्युपशाम्यन्ति जातदन्तस्य ते गदाः॥५१॥

दन्तोद्भेदेत्यादि—वाग्भटस्य। दन्तोद्भेदो दन्तभेदः। “दन्तोद्भेदश्च रोगाणां सर्वेषामपि कारणम्। विशेषज्ज्वरविड्भेदःकासच्छर्दिशिरोरुजाम्” इत्यादि। न बालमतियन्त्रयेदिति आहाराचारनियमेनेत्यर्थः॥५१॥

पञ्चमूलीकषायेण सघृतेन पयः शृतम्।
सशृङ्गवेरं सगुडं शीतं हिक्कार्दितः पिबेत्॥५२॥

पञ्चमूलीत्यादि—पञ्चमूली महती वातकफप्रधानहिक्काहरत्वात्। अत्र क्वाथात् पादिकं घृतम् अष्टमांशं वा, दुग्धाश्चतुर्गुणः क्वाथः। एतत्सर्वमेकीकृत्य पक्त्वाक्वाथ शोषयित्वा सघृतं दुग्धं स्थाप्यम्, तत्र शुण्ठीचूर्णं गुडञ्चानुरूपं प्रक्षिप्य यथार्हं पिबेदित्याहुः। अन्ये तु घृतस्यापि पानकाले प्रक्षेप्यत्वमिति वदन्ति॥५२॥

सुवर्ण-गैरिकस्यापि चूर्णानि मधुना सह।
लीढ्वा सुखमवाप्नोति क्षिप्रं हिक्कार्दितः शिशुः॥५३॥

सुवर्णगौरिकस्य अत्यन्तलोहितगैरिकस्य॥५३॥

चित्रकं शृङ्गवेरञ्च तथा दन्ती गवाक्ष्यपि।
चूर्णं कृत्वा तु सर्वेषां सुखोष्णेनाम्बुना पिबेत्।
श्वासं कासमथो हिक्कां कुमाराणां प्रणाशयेत्॥५४॥

चित्रकमित्यादौ—गवाक्षी गोरक्षकर्कटी। सविबन्धे वाते कफेऽयं योगः॥५४॥

द्राक्षायासाभयाकृष्णचूर्णं सक्षौद्रसर्पिषा।
लीढं श्वासं निहन्त्याशु कासञ्च तमकं तथा॥५५॥

द्राक्षैत्यादि—कफपित्ते। यासो दुरालभा

शमकं श्वासमित्यर्थः॥५५॥

पुष्करातिविषाशृङ्गीमागधीधन्वयासुकम्।
चूर्णितं मधुना लीढं शिशूनां पञ्चकासनुत्॥५६॥

पुष्करेत्यादौ—मागधी पिप्पली, धन्वयासो दुरालभा॥५६॥

दाडिमस्य च बीजानि जीरकं नागकेशरम्।
चूर्णितं शर्कराक्षौद्रलीढं तृष्णानिवारणम्॥५७॥

दाडिमस्येत्यादौ—चूर्णितमित्यत्र कृष्णा चेति पाठान्तरम्॥५७॥

मायूरपक्षभस्मव्युषितजलं तेन भावितं पेयम्।
तृष्णाघ्नं वटकाष्ठजभस्मजलं वक्त्रशोषजिद्घृतं वक्त्रे॥५८॥

मायूरेत्यादौ—मयूरपक्षभस्मस्रावितजलेन व्युषितेन भावितवटकाष्ठभस्मस्रावितजलेन पेयमित्यर्थः। मयूरपक्षभस्म पल १, जल पल ६, एतद्बहुधा वस्त्रपरिस्राव्य गृहीतजले व्युषिते षष्ठांशेन वटकाष्ठभस्म प्रक्षिप्य बहुधा परिस्राव्य यथार्हं पिबेत्॥५८॥

पिष्टैश्छागेन पयसा दार्वीमुस्तकगैरिकैः।
बहिरालेपनं शस्तं शिशोर्नेत्रामयापहम्॥५९॥

नेत्ररोगे विडालकमाह—पिष्टैरित्यादि॥५९॥

मनःशिला शङ्खनाभिः पिप्पल्योऽथ रसाञ्जनम्।
वर्त्तिः क्षौद्रेण संयुक्ता बाले सर्वाक्षिरोगनुत्॥६०॥

मनःशिलेत्यादौ—क्षौद्रेण संयुक्ता संघृष्टेत्यर्थः॥६०॥

मातुः स्तन्यकटुस्नेह-काञ्जिकैर्भाषितो जयेत्।

स्वेदाद्दीपशिखोत्तप्तो नेत्रामयमलक्तकः॥६१॥

मातुःस्तन्येत्यादौ—कटुस्नेहं कटुतैलम्। एतैर्मातुः स्तन्यादिभिः प्रत्येकशः सप्ताहं भावितोऽलक्तकरसः अनन्तरं दीपशिख तप्तः सन् स्वेदविधिना नेत्रामयं जयेदित्यर्थः॥

शुण्ठीभृङ्गनिशाकल्कः पुटपाकः ससैन्धवः।
कुकूणकेऽक्षिरोगेषुभद्रमाश्च्योतनं हितम्॥६२॥

शुण्ठीत्यादौ—भृङ्गो भृङ्गराजः। शुण्ठ्यादीनां पिष्टानां प्रत्येकं माषद्वयम्, सैन्धवं रक्लिपञ्चकम्। एतत् सर्वं पुटपाकविधिना पक्त्वा तत आकृष्य वस्त्रे पोट्टलीं बद्ध्वा चक्षुषि आश्च्योतनं कार्य्यम्। कुकूलक इति पाठे कुकूलकस्तुषाग्निः एतस्मिन् पुटपाक इत्यन्वयः। उक्तं हि वाग्भटे—“शृङ्गवेरं निशा भृङ्गं कल्कितं वटपल्लवैः। बद्ध्वा गोशकृता लिप्तं कुकूलैः स्वेदयेत् ततः। रसेन लिम्पेत् ताल्वास्यंनेत्रे च परिषेचयेत्” इति॥६२॥

क्रिमिघ्नालशिलादार्वी-लाक्षाकाञ्चनगैरिकैः।
चूर्णाञ्जनं कुकूणे स्याच्छिशूनां पोथकीषु च॥६३॥

क्रिमिघ्नेत्यादौ—आलं हरितालम्, शिला मनःशिला, काञ्चनगैरिकं स्वर्णगैरिकम्। चूर्णाञ्जनमिति मधुम्रक्षितशलाकया चूर्णाञ्जनं कार्य्यम्॥६३॥

सुदर्शनामूलचूर्णादञ्जनं स्यात् कुकूणके॥६४॥

सुदर्शनेति सुदर्शना त्रिशुरीति ख्याता जीवपत्रेति च ख्याता॥६४॥

गृहधूमनिशाकुष्ठराजिकेन्द्रयवैः शिशोः।
लेपस्तक्रेण हन्त्याशु सिध्मपामाविचर्च्चिकाः॥६५॥

गृहधूमेत्यादि—स्पष्टम्॥६५॥

अश्वगन्धाघृतम्।

पादकल्केऽश्वगन्धायाः क्षीरे दशगुणे पचेत्।
घृतं पेयं कुमाराणां पुष्टिकृद्बलवर्द्धनम्॥६६॥

पादकल्क इत्यादौ—पेयं कुमाराणामिति कुमारैः पेयमित्यर्थः। वा कर्तरि कृत्यैरिति षष्ठी॥६६॥

बालचाङ्गेरीघुतम्।

**चाङ्गेरीस्वरसे सर्पिश्छागक्षीरसमे पचेत्।
कपित्थव्योषसिन्धूत्थसमङ्गोत्पलबालकैः॥

सबिल्वघातकीमोचैः सिद्धं सर्वातिसारनुत्।
ग्रहणीं दुस्तरां हन्ति बालानान्तु विशेषतः॥६७॥**

चाङ्गेरीत्यादौ—अजाक्षीरचाङ्गेरीस्वरसौ घृताद् द्विगुणौ, पाकसाधनत्वेन चतुर्गुणद्रवस्योत्सर्गसिद्धत्वात्॥६७॥

कुमारकल्याणकं घृतम्।

शङ्खपुष्पी वचा ब्रह्मी कुष्ठं त्रिफलया सह।

**द्राक्षा सशर्करा शुण्ठी जीवन्ती जीवकं बला॥

शटी दुरालभा बिल्वं दाडिमं सुरसः स्थिरा।
मुस्तं पुष्करमूलञ्च सूक्ष्मैला गजपिप्पली॥

एषां कर्षसमैर्भागैर्घृतप्रस्थं विपावयेत्।
कषाये कण्टकार्य्याश्च क्षीरे तस्मिंश्चतुर्गुणे॥

एतत् कुमारकल्याणं धृतरत्नं सुखप्रदम्।
बलवर्णकरं धन्यमग्निपुष्टिविवर्द्धनम्॥

छायासर्वग्रहालक्ष्मी क्रिमिदन्तगदापहम्।
सर्वबालामयहरं दन्तोद्भेदं विशेषतः॥६८॥**

शङ्खपुष्पीत्यादौ—जीवकं जीवनीयवर्गमध्ये पठितद्रव्यम्।सुरसः पर्णाशः। कण्टकारीस्वरसः क्षीरश्च प्रत्येकं घृताच्चतुर्गुणम्। भूतादिकृतं मुखादिवैवर्ण्यं छाया॥६८॥

अष्टमङ्गलघृतम्।

वचा कुष्ठं तथा ब्रह्मी सिद्धार्थकमथापि च।
शारिवा सैन्धवञ्चापि पिप्पली वृतमष्टमम्॥

मेध्यं घृतमिदं सिद्धं पातव्यञ्च दिने दिने।
दृढस्मृतिः क्षिप्रमेधाः

कुरो बुद्धिमान् भवेत्॥

न पिशाचा न रक्षांसि न भूता न च मातरः।
प्रभवन्ति कुमाराणां पिबतामष्टमङ्गलम्॥६९॥

वचेत्यादि—वचादीनां कलकः, जलं चतुर्गुणमिति॥६९॥

लाक्षादितैलम्।

लाक्षारससमं सिद्धं तैलं मस्तुचतुर्गुणम्।
रास्नाचन्दनकृष्णाब्द-वाजिगन्धानिशायुगैः॥

शताह्वादारुयष्ट्याह्व-भूर्वातिक्ताहरेणुभिः।
बालानां ज्वररक्षोघ्नमभ्यङ्गाद्वलवर्णकृत्॥७०॥

लाक्षातैले—कुष्ठाब्दचन्दनैरित्येव पाठा वाग्भटपुस्तकेषु दृश्यते, न तु कृष्णाब्दचन्दनैरिति। तिक्ता कटुरोहिणी, न तु लताकस्तूरी, “सभूर्वारोहिणीरास्नाशताह्वामधुकैः समैः” इति सिद्धसारदर्शनात्॥७०॥

सहामुण्डितिकोदीच्यक्वाथस्नानं ग्रहापहम्।
सप्तच्छदनिशाकुष्ठ-चन्दनैश्चानुलेपनम्॥७१॥

सहेत्यादि—सहा माषपर्णी। क्वाथोऽत्रार्द्धशृतः॥७१॥

सर्पत्वक् लशुनं भूर्वासर्षपारिष्टपल्लवाः।
वैडालविडजालोम मेषशृङ्गी वचा मधु।
धूपः शिशोर्ज्वरघ्नोऽयमशेषग्रहनाशनः॥७२॥

सर्पेत्यादि—सर्पत्वक् निर्भोकः, अरिष्टो निम्बः, सर्षपः, श्वेतसर्षपः मेषशृंग्याः पत्रम्। मेषशृङ्गमिति पाठे मषस्य गडरस्य शृङ्गम्॥७२॥

बलिशान्तीष्टकर्माणि कार्य्याणि ग्रहशान्तये।
मन्त्रश्वायं प्रयोक्तव्यस्तत्रादौ सार्वकामिकः॥

ओं नमो भगवते गरुडाय त्र्यम्बकाय सद्यस्तव स्तुतः स्वाहा। ओं कं पं र्ट श वैनतेयाय नमः। ओं ह्रीं हूं क्षः॥७३॥

बलीत्यादौ—तत्रादावित्यत्र मन्त्रादाविति पाठान्तरे कुमारस्य हस्तकट्यादिसूत्रबन्धनइत्यर्थः।ओं इत्यादिस्वाहान्त एको मन्त्रः। ओंइत्यादिबीजाक्षरात्मको द्वितीयः। एवं ओं इत्यादि क्ष इत्यन्तस्तृतीयः। किंवा मिलित्वा एक एव बलिदानमन्त्रः॥

बालदेहप्रमाणेन पुष्पमालान्तु सर्वतः।
प्रगृह्य मुच्छिकाभक्तबलिर्देयस्तु शान्तिकः।
“ओं कारी सुवर्णपक्षी बालकं रक्ष रक्ष स्वाहा”॥७४॥

बालदेहेत्यादौ—पुष्पमाला शुक्ला।सर्वत इति सर्वासु दिक्षु। भक्तं शरावस्थोपरिस्थभक्तं चतुष्पार्श्वस्थभक्तं वा।मुच्छिकाः स्वल्पशरावाः यत्र मतस्यमांसव्यञ्जनधूपदीपदानमप्युपदिशन्ति वृद्धाः। अयं गरुडबलिः सन्ध्यायां दिनत्रयं दीयत इति वृद्धेः।बालकरक्षामन्त्रमाह ओंकारीत्यादिस्वाहान्तः॥७४॥

** ओं नारायणाय नमः। प्रथमे दिवसे मासे वर्षे वा गृह्णाति नन्दा नाम मातृका। तथा गृहीतमात्रेण प्रथमं भवति ज्वरः। अशुभं शब्दं मुञ्चति, आत्कारञ्च करोति स्तन्यं न गृह्णाति।**

बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम्।

नद्युभयतटमृत्तिकां गृहीत्वा पुत्तलिकां कृत्वा शुक्लौदनं, शुक्लपुष्पंशुक्लसप्तध्वजाः, सप्त प्रदीपाः, सप्त स्वस्तिकाः, सप्त घटकाः, सप्त, शक्लुलिकाः, जम्बुलिकाः, सप्त मुस्तकाः, गन्धं, पुष्पं, ताम्बूलं,
मत्स्यं, मांसं, सुराग्रभक्तञ्च—पूर्वस्यां दिशि चतुष्पदे मध्याह्ने बलिर्दातिव्यः। ततः अश्वत्थपत्रं जलकुम्भे निक्षिप्य शान्त्युदकेन स्नापयेत्, रसोनसिद्धार्थकमेपशृङ्गनिम्बपत्रशिवनिर्माल्यैर्वालकं धूपयेत्। “ओं नमो रावणाय अमुकस्य व्याधिं हन हन मुञ्च मुञ्च ह्रीं फट् स्वाहा” एवं दिनत्रयं बलिं दत्त्वा चतुर्थे दिवसे ब्राह्मणं भोजयेत्। ततः सम्पद्यते शुभम्॥७५॥

इदानीं प्रसिद्धफलं रावणकृतकुमारतन्त्रमाह ओं नारायणाय नम इत्यादि—प्रथमे मासि वर्षे वेत्यादि कथम्, यतो वक्ष्यमाणद्वितीयदिवसादिना प्रथममासस्य बाधितत्वात्, एवं प्रथमवर्षस्यापि द्वितीयतृतीयमासादिद्वादशमासान्ते परिभूतत्वादिति। अत्रोच्यते द्वादशदिनात् परतोऽस्त्येव प्रथममासस्यावकाशः, एवं वर्षस्यापि

तथाहि । यदि कुमारो माघे जातस्तदा माघादिगणनया पौषमासि द्वादशमासाः भवन्ति। प्रथमद्वितीय दिवसविधिरेव, तत ऊर्ध्वं द्वादशमासि वर्षवृद्धिदिनं यावत् प्रथमसंवत्सरविधिर्विधेय इति युक्तमुत्पश्यामः। मासेन गणनया, न तु चन्द्रादित्यगत्वा दिनविभागं कृत्वा मासादिगणना कार्या, इह द्वादशमासवर्षयोर्विषयत्वाभावप्रसङ्गात्किंवा आदित्यगत्यादिगणनयापि जन्मदिन एव प्रथमवर्षविधेश्चारितार्थत्वमिति। नन्दादिनामकीर्त्तनञ्चतदुद्देशेन बलिदानार्थम्, यथा—अमुकस्य व्याधिं हन हन मुञ्च मुञ्च स्वाहा नन्दायै नम इति बलिदानम्। अशुभशब्दमङ्गलवाक्यं मुञ्चति विरौति। आत्कारश्छर्दि। स्वस्तिका वेदिकाः। जम्बुलिका उत्स्विमाषाः। अश्वत्थपत्रं जलकुम्भे प्रक्षिप्य गायत्रीं पठित्वा द्विजेन शान्त्युदकं कर्तव्यम्, किंवा बलिदानमन्त्रेणैव भिषजा कार्यमित्याहुर्वृद्धाः। मेषस्य गढरस्य शृङ्गः। यत्र धूपो नोक्तस्तत्रायमेव धूपो विधेयः। यत्र शान्त्युदकं नोक्तं तत्र इदमेव शान्त्युदकमुपदिशन्ति। ओं नम इत्यादि।—मन्त्रोधुवः, येऽविशेषास्ते प्रतिमातृकं वाच्याः कुमारस्य नामोच्चारणपूर्वकं पठनीयाः, यथा—अमुकस्य व्याधि हन हन मुञ्च मुञ्च इति॥

** द्वितीये दिवसे मासे वर्षे वा गृह्णाति सुनन्दा नाम मातृका। तथा गृहीतमात्रेण प्रथमं भवति ज्वरः। चक्षुः उन्मीलयति, गात्रमुद्वेजयति, न शेते, कन्दति, स्तन्यं न गृह्णाति, आत्कारश्च भवति।**

बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम्।

** तण्डुलं हस्तपृष्ठैकं गृहीत्वा दधि गुडघृतञ्च मिश्रितं शरावकं, गन्धताम्बूलं, पीतपुष्पं, पीतसप्तध्वजाः, चत्वारः प्रदीपाः, दश ‘स्वस्तिका, मत्स्यमांससुराग्रभक्ततिलचूर्णानि—पश्चिमायां दिशि चतुष्पथे बलिर्दातव्यः दिनानि त्रीणि सन्ध्यायां, ततः शान्त्युदकेन स्नापयेत् शिवनिर्माल्य-सिद्धार्थमार्जाररोमोशीर-बालक-घृतैः धूपं दद्यात्। “ओं नमो रावणाय अमुकस्य व्याधिं हन हन मुञ्च मुञ्च ह्रीं फट् स्वाहा”। चतुर्थे दिवसे ब्राह्मणं भोजयेत्। ततः सम्पद्यते शुभम्॥७६॥**

द्वितीय इत्यादौ—उन्मीलयति उपरि भृशमुत्क्षिपति। हस्तपृष्ठैकमिति एकवारपरिमितहस्तपृष्ठं तण्डुलान् गृहीत्येत्यर्थः। अग्रभक्तमिति ओदनपूर्णस्थालीमध्यात्प्रथममाकृष्यते भक्तं तदग्रभक्तम्। शान्त्युदकेनेति शान्त्युदकमिदं कुशेन कार्यम् एवं सर्वत्र विशेषोक्तिं विना॥७६॥

तृतीये दिवसे मासे वर्षे वा गृह्णाति पूतना नाम मातृका। तथा गृहीत मात्रेण प्रथमं भवति ज्वरः। गात्रमुद्वेजयति, स्तन्यं न गृह्णाति, मुष्टिं बध्नाति, कन्दति, ऊर्ध्व निरीक्षते।

बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम्।

नद्युभयतठमृत्तिकां गृहीत्वा पुत्तलिकां कृत्वा रक्तचन्दनं, गन्धताम्बूलं, रक्तसप्तध्वजाः, सप्त प्रदीपाः, सप्त स्वस्तिकाः पक्षिमांससुराग्रभक्तञ्च—दक्षिणस्यां दिशि अपराह्ने चतुष्पथे बलिर्दातव्यः।शिवनिर्माल्यगुग्गुलुसर्पपनिम्बपत्रमेषशृङ्गैर्दिनत्रयं धूपयेत्। “ओंनमो रावणाय अमुकस्य व्याधिं हन हन मुञ्च मुञ्च ह्रासय ह्रासयस्वाहा।” एवं दिनत्रयं कार्यम्। चतुर्थे दिवसे ब्राह्मणान् भोजयेत्।ततः सम्पद्यते शुभम्॥७७॥

तृतीय इत्यादौ—अग्रभक्तमिति ओदनपूर्णस्थालीमध्यात् यत् प्रथममाकृष्यते तत् अग्रभक्तम्॥७७॥

चतुर्थे दिवसे मासे वर्षे वा गृह्णाति मुखमुण्डिका नाम मातृका। तथा गृहीतमात्रेण प्रथमं भवति ज्वरः। ग्रीवां नामयति, चक्षुरुन्मीलयति, स्तन्यं न गृह्णाति, रोदिति, स्वपिति, मुष्टिं बध्नाति।

बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम्।

नद्युभयतटमृत्तिकां गृहीत्वा पुत्तलिकां कृत्वा उत्पलपुष्पं, गन्धं, ताम्बूलं, दश ध्वजाः, दीपाश्चत्वारः, त्रयोदश स्वस्तिकाः, मत्स्यमांससुराग्रभक्तञ्च—उत्तरस्यां दिशि अपराह्ने बलिर्देयश्चतुष्पथे। “ओं
नमो रावणाय अमुकस्य व्याधिं हन हन मुञ्च मुञ्च स्वाहा।” चतुर्थे दिवसे ब्राह्मणान् भोजयेत्। ततः सम्पद्यते शुभम्॥७८॥

चतुर्थ इत्यादौ—दशध्वजा इति शुक्लाः, विशेषाभावात्॥७८॥

** पञ्चमे दिवसे मासे वर्षे वा गृह्णाति कटपूतना नाम मातृका। तथा गृहीतमात्रेण प्रथमं भवति ज्वरः। गात्रमुद्वेजयति, स्तन्यं न गृह्णाति, मुष्टिं बध्नाति।**

बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम्।

कुम्भकारचक्रस्य मृत्तिकां गृहीत्वा पुत्तलिकां विधाय गन्धताम्बूलं, शुक्लपुष्पं, शुक्लौदनं, पञ्चध्वजाः, पञ्च प्रदीपाः, पञ्च वटकाः, ऐशान्यां दिशि बलिर्दातव्यः, शान्त्युदकेन स्नापयेत्; शिवनिर्माल्य
सर्पनिर्मोकगुग्गुलुनिम्बपत्रबालक-घृतैर्धूपं दद्यात्। “ओं नमो रावणाय अमुकस्य व्याधिं चूर्णय चूर्णय हन हन स्वाहा।” चतुर्थदिवसे ब्राह्मणान् भोजयेत्। ततः सम्पद्यते शुभम्॥७६॥

पञ्चम इत्यादौ—कुम्भकारचक्रमृत्तिका कुम्भकारचक्रसंलग्नमृत्तिका॥७६॥

** षष्ठे दिवसे मासे वर्षे वा गृह्णाति शकुनिका नाम मातृका। तथा गृहीतमात्रेण प्रथमं भवति ज्वरः। गात्रभेदञ्च दर्शयति, मुष्टिं बध्नाति दिवारात्रावुत्थानं भवति, ऊर्ध्वं निरीक्षते।**

बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम्।

** पिष्टकेन पुत्तलिकां कृत्वा शुक्लौदनं, पीतपुष्पं, रक्तपुष्पं गन्धताम्बूलं, दश दीपाः, दश पतिध्वजाः, दश स्वस्तिका, दश वटकाः, क्षीरजम्बूलिकाः, मत्स्यमांससुराः-आग्नेय्यां दिशि निष्क्रान्ते मध्याह्ने
बलिर्दातव्यः। शान्त्युदकेन स्नापयेत्। शिवनिर्माल्यरसोनगुग्गुलुसर्पनिर्मोकनिम्बपत्रघृतैर्धूपं दद्यात्। ओं नमो रावणाय अमुकस्य व्याधिं चूर्णय चूर्णय हन हन स्वाहा।” चतुर्थे दिवसे ब्राह्मणान् भोजयेत्। ततः सम्पद्यते शुभम्॥८०॥**

षष्ठ इत्यादौ—क्षीरजम्बूलिकाः क्षोरसहितस्विन्नमाषाः॥८०॥

** सप्तमे दिवसे मासे वर्षे वा यदा गृह्णाति शुष्करेवती नाम मातृका। तथा गृहीतमात्रेण प्रथमं भवति ज्वरः। गात्रमुद्वेजयति, मुष्टिं बध्नाति, रोदिति।**

बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम्।

** रक्तपुष्पं, शुक्लपुष्पं, गन्धताम्बूलं, रक्लौदनं, कृशराः, त्रयोदश स्वस्तिकाः, त्रयोदश शष्कुलिकाः, जम्बुलिकाः, मत्स्यमांससुराः, त्रयोदश ध्वजाः, पञ्च प्रदीपाः—पश्चिमायां दिशि ग्रामनिष्काशेऽपराह्ने वृक्षमाश्रित्य बलिर्दातव्यः; शान्त्युदकेन स्नापयेत्, गुग्गुलुमेषशृङ्गसर्षपोशीरबालकघृतैर्धूपं दद्यात्। “ओं नमो रावणाय दीप्ततेजसे हन हन मुञ्च मुञ्च स्वाहा।” चतुर्थे दिवसे ब्राह्मणान् भोजयेत्। ततः सम्पद्यते शुभम्॥८१॥**

सप्तमे इत्यादौ—रक्तौदनं शाल्यादिभक्तम्, अलक्तकादिरञ्जितभक्तं वा। कृशरातिलतण्डुलनिर्मितयवागूः।ग्रामनिष्काश ग्रामप्रान्ते॥८१॥

** अष्टमे दिवसे मासे वर्षे वा गृह्णाति अर्य्यका नाम मातृका। तया गृहीतमात्रेण प्रथमं भवति ज्वरः। गृध्रगन्धः पूतिगन्धश्च जायते, आहारं न गृह्णाति, गात्राणि उद्वेजयति।**

बलिं तस्य प्रवक्ष्यामि यतः सम्पद्यते शुभम्।

** रक्तपतिध्वजाः, चन्दनं पीतपुष्पं, शाष्कुल्यः, पर्पटिकाः, मत्स्यमांससुराः, जम्बूलिकाः—प्रत्यूषे बलिं दद्यात्। “ओं नमो रावणाय त्रैलोक्यविद्रावणाय चतुर्दिशमोक्षणाय व्याधिं हन हन मुञ्च मुञ्च दह दह ओं ह्रीं फट् स्वाहा।” चतुर्थे दिवसे ब्राह्मणान् भोजयेत्। ततः सम्पद्यते शुभम्॥८२॥**

** नवमे दिवसे मासे वर्षे वा गृह्णाति, सूतिका नाम मातृका। तथा गृहीतमात्रेण प्रथमं भवति ज्वरः। नित्यं छर्दयति, गात्रभेदं दर्शयति, मुष्टिं बध्नाति, निद्रातितरा स्यात्।**

बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम्।

नद्युभयतटमृत्तिकां गृहीत्वा पुत्तलिकां निर्माय शुक्लवस्त्रेण वेष्टयेत्। शुक्लपुष्पं, शुक्लौदनं, गन्धताम्बूलं, शुक्लत्रयोदशध्वजाः त्रयोदश प्रदीपाः, त्रयोदश स्वस्तिकाः, त्रयोदश पुत्तलिकाः, मत्स्यमांससुराः—उत्तरदिग्विभागे ग्रामनिष्काशे बलिं दापयेत्; शान्त्युदकेन स्नापयेत्; गुग्गुलुनिम्बपत्रगोधूमगोशृङ्गश्वेतसर्षपघृतैर्धूपं दद्यात्। “ओं नमो रावणाय चतुर्भुजाय हन हन मुञ्च मुञ्च स्वाहा” चतुर्थे दिवसे ब्राह्मणान् भोजयेत्। ततः सम्यद्यते शुभम्॥८३॥

दशमे दिवसे मासे वर्षे वा गृह्णाति निर्ऋता नाम मातृका। तथा गृहीतमात्रेण प्रथमं भवति ज्वरः। गात्रमुद्वेजयति, आत्कारं करोति, रोदिति, मुष्टिं बध्नाति, मूत्रं पुरीषञ्च भवति।

बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम्।

पारावारमृत्तिकां गृहीत्वा, पुत्तलिकां कृत्वा, गन्धताम्बूलं, रक्तपुष्पं, रक्तचन्दनं, पञ्चवर्णपञ्चध्वजाः, पञ्च प्रदीपाः, पञ्च स्वस्तिकाः, पञ्च पुत्तलिकाः, मत्स्यमांससुराः—वायव्यां दिशि बलिं दद्यात्; काकविष्ठागोमांसगोशृङ्गरसोनमार्जार-रोमनिम्बपत्रघृतैर्धूपयेत्।“ओं नमो रावणाय चूर्णितहस्ताय हन हन मुञ्च मुञ्च स्वाहा” चतुर्थे दिवसे ब्राह्मणान् भोजयेत्। ततः सम्पद्यते शुभम्॥८४॥

एकादशे दिवसे मासे वर्षे वा यदा गृह्णाति पिलिपिच्छका नाम मातृका; तथा गृहीतमात्रेण प्रथमं भवति ज्वरः। आहारं न गृह्णाति, ऊर्ध्वदृष्टिर्भवति, गात्रभङ्ग आत्कारश्च भवति।

बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम्।

पिष्टकेन पुत्तलिकां कृत्वा रक्तचन्दनं रक्तपुष्पञ्च तस्या मुखं दुग्धेन सिञ्चेत्। पीतपुष्पं, गन्धताम्बूलं, सप्त पीतध्वजाः, सप्त प्रदीपाः, अष्टौ वटकाः, अष्टौ शष्कुलिकाः, अष्टौ पूपिकाः, मत्स्यमांससुराः— पूर्वस्यां दिशि बलिर्दातव्यः; शान्त्युदकेन स्नापयेत्; शिवनिर्माल्यगुग्गुलुगोशृङ्गसर्पनिर्मोकघृतैर्धूपयेत्।

** “ओं नमो रावणाय मुञ्च मुञ्च स्वाहा।” चतुर्थे दिवसे विप्रान् भोजयेत्। ततः सुस्थो भवति बालकः। तेन सम्पद्यते शुभम्॥८५॥**

अष्टमनवमदशमैकादशस्फुटाः॥८२-८५॥

द्वादशे दिवसे मासे वर्षे वा यदा गृह्णाति कालिका नाम मातृका; तयागृहीतमात्रेण प्रथमं भवति ज्वरः। विहस्य वादयति, करेण तर्जयति, गृह्णाति, क्रामति, निश्वसिति, मुहुर्मुहुश्छर्दयति,

आहारं न करोति।

बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम्।

** क्षीरेण पुत्तलिकां कृत्वा शुक्लकुसुमं, गन्धताम्बूलं, शुक्लसप्तध्वजाः, सप्त शष्कुलिकाः, सप्त प्रदीपाः—करम्भकेण सर्वकर्मबलिं दद्यात्; शान्त्युदकेन स्नापयेत्। श्वेतसर्षपगुग्गुलुशिवनिर्माल्यघृतैर्धूपयेत्। “ओं नमो रावणाय मुञ्च मुञ्च हन हन स्वाहा।” चतुर्थे दिवसे विप्रान् भोजयेत्॥८६॥**

द्वादशे—वादयतीति सम्भाषते। रोदितीति पाठान्तरम्। क्षीरेणेति पाकात् पिण्डीभूतेन क्षीरेणेत्यर्थः, करम्भकेण दधिमिश्रितभक्तेन॥८६॥

इति बालरोगचिकित्साविवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1702101760Screenshot(109”/>.png)

अथ विष-चिकित्सा।

अरिष्टाबन्धनं मन्त्रप्रयोगश्च विषापहः।
दंशनं दंशकस्याहेः फलस्य मृदुनोऽपि वा॥१॥

इदानीमातुरहितचिकित्सापारिशेष्यात् विषचिकित्सामाह अरिष्टेत्यादि—अरिष्टाबन्धनं धमनीबन्धः, स च दंशदेशादूर्द्ध्वं चतुरंगुले। यदाह वाग्भटः—दंशस्योपरि बध्नीयादरिष्टां चतुरंगुले। क्षौमादिभिर्वल्कलैर्वा सिद्धमन्त्रैश्च मन्त्रयेत्” इति। दंशकस्याहेरिति दंशकर्त्तुः सर्पस्य दंशनं दन्तपंक्तिद्वयेनातिपीडनम्। एवं मृदुफलस्यापि। एतच्च सुकुमारद्रव्योपलक्षणं, तेन रम्भामृणालकाण्डाद्यपि बोध्यम्। तत्र सर्वत्र विषसंक्रमणं भवतीति भावः। यदुक्तं वृन्दे—“धर्त्तुं दंशविधौ न भोगिनमसौ प्राप्नोति दष्टो यदा रम्भाखण्डमृणालकोमलफलं दन्तैर्दशत्याशु यत्। गच्छेत् तत्क्षणमेव तस्य गरलं तद्दष्टवस्त्वन्तरं दंशे नीरसतां नयेच्च बहुधा सम्बध्य हस्तेन वै” इति।

मूलं तण्डुलवारिणा पिबति यः प्रत्यङ्गिरासम्भवम्
निष्पिष्टं शुचिभद्रयोगदिवसे तस्याहिभीतिः कुतः।
दर्पादेव फणी यदा दशति तं मोहान्वितो मूलपम्
स्थाने तत्र स एव याति नियतं वक्त्रं यमस्याचिरात्॥२॥

मूलमित्यादौ—प्रत्यङ्गिरा कण्टकीशिरीषः। शुचिराषाढस्तस्य भद्रयोगदिवसे शुभयोगनक्षत्रादियुक्ते दिने पुष्यानक्षत्रादियुक्त दिने इत्यन्वयः॥२॥

मसूरं निम्बपत्राभ्यां खादेन्मेषगते रवौ।
अब्दमेकं न भीतिः स्याद्विषात् तस्य न संशयः॥३॥

मसूरमित्यादि—मसूरगुडकमेकं, निम्बस्य द्वे पत्रे, तृतीया सहार्थे। मेषगते रवौ वैशाखे॥३॥

धवलपुनर्नवजटया तण्डुलजलपीतया च पुष्यर्क्षे।

अपहरति विषधरविषोपद्रवमासंवत्सरं पुंसाम्॥४॥

धवलेत्यादि—स्पष्टम्॥४॥

गृहधूमो हरिद्रे द्वे समूलं तण्डुलीयकम्।
अपि वासुकिना दष्टः पिबेद्दधिघृताप्लुतम्॥५॥

गृहधूम इत्यादौ—तण्डुलीयकमिति केवलतण्डुलीयकमूलमपि बोष्यम्। तदुक्तं विन्दुसारे—“तण्डुलीयकमूलन्तु पीतं तण्डुलवारिणा। तक्षकेणापि संदष्टं निर्विषं कुरुते नरम्” इति॥५॥

कुलिकामूलनस्येन कालदष्टोऽपि जीवति॥६॥

कुलिकेत्यादि—कुलिकः कालाक्डभेदः स्वल्पफलः कुडकराणि इति ख्यातः। उपदेशात् तण्डुलोदकेन नस्यं कार्यं, केचित् पानं वदन्ति॥६॥

श्लेष्मणः कर्णगूथस्य वामानामिकया कृतः।
लेपो हन्याद्विषं घोरं नृमूत्रसेवनं तथा॥७॥

श्लेष्मण इत्यादि—योगत्रयम्। मुखस्थितश्लेष्मण इत्येकः, कर्णगूथस्येति द्वितीयः। वामानामिकया कृत इति कनिष्टांगुलीसमीपे वा अंगुली, सा अनामिकेत्युच्यते। वामहस्तस्य अनामिकांगुल्या कृत इत्यर्थः। नृमूत्रसेचनं दंशदेशे स्वीयमूत्रसेकः। उक्तं हि—“सर्पदष्टप्रदेशे तु स्वयमेव विचक्षणः। मूत्रयेत्तत्क्षणादेव निर्विषत्वमवाप्नुयात्” इति। अयं तृतीयः योगः॥७॥

शिरीषपुष्पस्वरसे भावितं श्वेतसर्षपम्।
सप्ताहं सर्पदष्टानां नस्यपानाञ्जने हितम्॥८॥

शिरीषेत्यादि—वाग्भटस्य।श्वेतसर्षपमित्यत्र मरिचानतमिति पाठे मरिचं श्वेतमरिचं शोभाञ्जनबीजम्। अयमेव पाठश्चन्द्राटादौ दृश्यते। अतः श्वेतसर्षपमिति पाठान्तरमुक्तम्॥८॥

द्विपलं नतकुष्ठाभ्यां घृतक्षौद्रं चतुःपलम्।
अपि तक्षकदष्टानां पानमेतत् सुखावहम्॥९॥

द्विपलमित्यादि—वाग्भटस्य। षट्पलीयं मात्रा सर्पदष्टविषये विशेषविहितत्वात् न दोषावहेति॥९॥

वन्ध्याकर्कोटजं मूलं छागमूत्रेण भावितम्।
नस्यं काञ्जिकसंयुक्तं विषोपहतचेतसः॥ १० ॥

वन्ध्येत्यादि—वन्ध्यः फलरहितः॥१०॥

त्रिवृद्धिशल्या मधुकं हरिद्रे मञ्जिष्ठवर्गो लवणञ्च सर्वम्।
कटुत्रिकञ्चैव विचूर्णितानि शृङ्ग निदध्यान्मधुसंयुतानि॥

एषोऽगदो हन्त्युपयुज्यमानः पानाञ्जनाभ्यञ्जननस्ययोगैः।
अवार्य्यवीर्य्यो विषवगहन्ता महागदो नाम महाप्रभावः॥११॥

त्रिवृदित्यादि—सुश्रुतस्य। विशल्या दन्ती, काष्ठपाटला वा, विशालेति पाठे

गोरक्षकर्कटी। मञ्जिष्ठावर्गो मञ्जिष्ठासहितोऽयमेव त्रिवृदादिवर्ग इत्यर्थः। अन्ये तु मञ्जिष्ठावर्गं पृथगेव पठन्ति। तच्च टीकाकारैर्न व्याख्यातम्। डल्वणस्तु “त्रीवृद्विशल्ये मधुकं हरिद्रे रक्ता नरेन्द्रो लवणश्च वर्गः” इति व्याचष्टे च—विशल्या दन्ती, काष्ठपाटला वा, रक्ता मञ्जिष्ठा, नरेन्द्रः स्वर्णालुः, लवणवर्गो लवणपञ्चकमिति।शृङ्गे इति गोशृङ्गे निदध्यादिति पक्षमेकं स्थापयेत्। एतच्च गोशृङ्गे स्थापनं सौश्रुतवक्ष्यमाणयोगे तथा दर्शनात्। यथा—“श्रृंगे गवीशृङ्गमयेण चैवं प्रच्छादितः पक्षमुपेक्षितश्च”॥११॥

पीते विषे स्याद्वमनञ्च त्वक्स्थे प्रदेहसेकादि सुशीतलञ्च॥१२॥

पीत इत्यादौ—वमनमिति गोमयस्वरसेन मधुयुक्तेन वान्तिः कार्या। उक्तं हि—“समधुर्विषपीतस्य वमनं गोमयाद्रसः” इति। त्वक्स्थे तु विषे शीतलं प्रदेहसेकादि कार्यम्॥१२॥

कपित्थमांसं ससिताक्षौद्रं कण्ठगते विषे।
लिह्यादामाशयगते ताभ्यां चूर्णपलं नतात्॥१३॥

कपित्थेत्यादि—कपित्थस्य मांसं त्वगस्थ्यादिरहितं मध्यम्। लिह्यादित्यादौ ताभ्यामिति सिताक्षौद्राभ्याम्, नतादिति तगरपादिकातः॥१३॥

विषे पक्काशयगते पिप्पली रजनीद्वयम्।
मञ्जिष्ठाञ्च समं पिष्ट्वा गोपित्तेन नरः पिबेत्॥१४॥

विष इत्यादौ—पिप्पलीद्वयं रजनीद्वयञ्च। सममिति समभागं जलेन पेषणं पानश्चेत्याहुः॥१४॥

रजनीसैन्धवक्षौद्रसंयुक्तं घृतमुत्तमम्॥
पानं मूलविषार्त्तस्य दिग्धविद्धस्य चेष्यते॥१५॥

रजनीत्यादौ—उत्तमं घृतं गव्यघृतं। दिग्धा विषाक्तशरः। तेन विद्धस्य॥१५॥

सितामधुयुतं चूर्णं ताम्रस्य कनकस्य वा।
लेहः प्रशमयत्युग्रं सर्वसंयोगजं विषम्॥१६॥

सितेत्यादि—कनकस्य चेति मारितस्य ताम्रस्य तथा मारितस्य सुवर्णस्येत्यर्थः।

अङ्कोठमूलनिःक्वाथं फाणितं सघृतं लिहेत्।
तैलाक्तः स्विन्नसर्वाङ्गो गरदोषविषापहः॥१७॥

अङ्कोठेत्यादि—मूलक्वाथमेव पुनः पाकात् फाणिताकारं कुर्य्यात्॥१७॥

कटभ्यर्जुनशैरीय-शैलुक्षीरिद्रुमत्वचः।
कषायकल्कचूर्णाः स्युः कीटलूताव्रणापहाः॥१८॥

इदानीं कीटादिविषचिकित्सामाह कटभीत्यादि—शैरीयो झिण्टी, शैलुर्बहुवारः, क्षीरिद्रुमा वटोडुम्बरादयः॥१८॥

आगारधूममञ्जिष्ठा-रजनीलवणोत्तमैः।

लेपो जयत्यास्रुविषं कर्णिकायाश्च पातनम्॥१९॥

** **आगारधूमेत्यादौ—कर्णिकाकीटवक्त्रशुंगः॥१९॥

यः कासमर्दनेत्रं वदने निक्षिप्य कर्णे फूत्कारम्।
मनुजो दधाति शीघ्रं जयति विषं वृश्चिकानां सः॥२०॥

य इत्यादौ—नेत्रं मूलम्, निक्षिप्य सञ्चव्यं॥२०॥

दंशे भ्रामणविधिना वृश्चिकविषहृत् कुठेरपादगुडिका।
पुरधूपपूर्वमर्कच्छदमिव पिष्ट्वा कृतो लेपः॥२१॥

दंश इत्यादि—दंशेवृश्चिकदंशे।कुठरपादगु़डिका पर्णाशमूलकृतगुडिका। पुरधूपपूर्वमिति गुग्गुलुना पूर्वं धूपयित्वा अर्कपत्रकृतो लेपः॥२१॥

जीरकस्य कृतः कल्को घृतसैन्धवसंयुतः।
सुखोष्णो वृश्चिकार्त्तानां सुलेपो चेदनापहः॥२२॥

जीरकस्येत्यादि—सुगमम्॥२२॥

कुङ्कुमकुनटीकर्कटपलहरितालैः कुसुम्भसम्मिलितैः।
कृतगुडिकाभ्रामणतो विदष्टगोधाशरटादिविषजित्॥२३॥

गीघादिविषचिकित्सामाह कुंकुमेत्यादि—कुनटी मनःशिला, कर्कटकस्य पललं मांसम्, कुसुम्भं कुसुम्भपुष्पम्। शरटादीत्यादि-शब्दादञ्जननामिकाज्येष्ठीप्रभृतीनां ग्रहणम्॥२३॥

अङ्कोठपत्रधूमो मीनविषं झटिति विघट्टेयच्छृङ्गी।
गोधावरटीविषमिवालेपेन कूढकराणिजटा॥२४॥

अङ्कोठेत्यादि—कूढकराणि इति राढायां प्रसिद्धः कालाकडा भेदः।तस्य जटा मूलम्॥

कनकोडुम्बरफलमिव तण्डुलजलपिष्टं पीतमपहरति।
कनकदलद्रवघृतगुडदुग्धपलैकं शुनां गरलम्॥२५॥

कुक्कुरविषचिकित्सामाह कनकेत्यादि—कनको धुस्तूरः, उडुम्बरं यज्ञोडुम्बरम्, तयोः फलम्। कनकदलेत्यादि योगान्तरम्। कनकदलद्रवो धुस्तूरपत्ररसः। एषां पलं मिलित्वा॥२५॥

लेप इव भेकगरलं शिरीषबीजैः स्नुहीपयःसिक्तैः।
हरति गरलं त्र्यहमशिताङ्कोठजटा कुष्ठसम्मिलिता॥२६॥

भेकविषचिकित्सामाह लेप इत्यादि। अशिता भक्षिता। क्वाथविधया कल्कविधया वा योज्यमेतत्॥२६॥

मरिचमहौषधबालकनागाह्वैर्मक्षिकाविषे लेपः।
लालाविषमपनयतो मूले मिलिते पटोलनीलिकयोः॥२७॥

लालाविषमिति लालैवं विषं लालाविषम्॥२७॥

सोमवल्काऽश्वकर्णश्च गोजिह्वा हंसपाद्यपि।

रजन्यौ गैरिकं लेपो नखदन्तविषापहः॥२८॥

सोमवल्कःकट्फलम्, अश्वकर्णः शालभेदः, गर्दभाण्डो वा॥२८॥

वचाहिङ्गुविडङ्गानि सैन्धवं गजपिप्पली।
पाठा प्रतिविषा व्योषं काश्यपेन विनिर्मितम्॥

दशाङ्गमगदं पीत्वा सर्वकीटविषं जयेत्।
कीटदष्टक्रियाः सर्वाः समानाः स्युर्जलौकसाम्॥२९॥

वचेत्यादि—पीत्वेति क्वाथविधया कल्कविधया वा योज्यम्। अतिदेशेन जलौकश्चिकित्सामाह कीटदष्टेत्यादि॥२९॥

मृतसञ्जीवनोऽगदः।

पृक्काप्लवस्थौणेयकांक्षीशैलेयरोचनातगरम्।
ध्यामकं कुङ्कुमं मांसी सुरसाग्रैलालकुष्ठघ्नम्॥

वृहतीशिरीषपुष्प-श्रीवेष्टकपद्मचारटीविशालाः।
सुरदारुपद्मकेशर-शावरकमनः शिलाकौन्त्यः॥

जात्यर्कपुष्पसर्षप-रजनीद्वयहिङ्गुपिप्पलीलाक्षाः।
जलमुद्गपर्णीमधूकमदनकफलसिन्धुवाराश्च॥

शम्पाकलोध्रमयूरकगन्धफलीलाङ्गलीविडङ्गाश्च।
पुष्येणोद्धृत्य समं पिष्टा गुडिका विधेयाः स्युः॥

जन्तुविषघ्नो जयकृद् विषमृतसञ्जीवनो ज्वरनिहन्ता।
घ्रेयविलेपनधारणधूमग्रहणैर्ग्रहस्थश्च॥

भूतविजयन्त्वलक्ष्मीकार्मणमन्त्राग्न्यशन्यरीन् हन्यात्।
दुःस्वप्नस्त्रीदोषानकालमरणाम्बुचोरभयम्॥

धनधान्यकार्य्यसिद्धिश्रीपुष्ट्यायुर्विवर्धनो धन्यः।
मृतसञ्जीवन एष प्रागमृताद् ब्रह्मणाभिहितः॥३०॥

पृक्कत्यादौ—स्थौणेयं ग्रन्थपर्णम्, कांक्षी सौराष्ट्रमृत्तिका, ध्यामं गन्धतृणम्,सुरस्नाग्रंनिर्गुण्डीमञ्जरी, आलं हरितालम्, कुष्ठघ्नमेडगजः, श्रीवेष्टको नवनीतखोटी,पद्मचारटी कुम्भारुलता, पद्मस्य केशरं किञ्जल्कः, शावरको लोध्रः, कौन्ती रेणुका।जात्यर्कपुष्पमिति जात्यर्कयोः पुष्पम्, जलं बालकम्, निर्गुण्ड्याकारः शुक्लपुष्पः सिन्धुवारः, शम्पाक आरग्वधस्तस्य फलं ग्राह्यम्। लोध्रंलोहितलोध्रम्, मयूरोऽपामार्गः, गन्धफली प्रियंगुः, नाकुली रास्ना। पुष्ये पुष्यानक्षत्रयुक्तकाले। जन्तवःक्रिमयः, कार्मणं परद्रोहोपायः, मन्त्रोऽभिचारमन्त्रः। अशनिर्वज्रम्, स्त्रीदोषाः सौभाग्यार्थकृतगरादिदोषाः॥३०॥

इति विषचिकित्साविवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1701962097Screenshot(108”/>.png)

अथ रसायनाधिकारः।

यज्जराव्याधिविध्वंसि भेषजं तद्रसायनम्॥१॥

भेषजं तावद् द्विविधम्—आतुरहितं सुस्थाहितञ्च। सुस्थहितमपि द्विविधं रसायन-वाजीकरणभेदात्। अत्रातुरहितं तावदुक्तमेव सम्प्रति सुस्थहितं वाच्यम्, तत्रापिवाजीकरणपेक्षया रसायनस्य वर्षसहस्रायुष्ट्वात् महाफलत्वाच्च प्रथमतो रसायनमाहयदित्यादि। जराविध्वंसि जरारूपव्याध्युत्पत्तिप्रतिबन्धकम्। एतेन विशिष्टरसजनकत्वे सति जरानिवर्त्तकत्वं रसायनत्वमिति लक्षणं सूचितम्। अत्र रसशब्देन रसकार्य्यत्वात् सप्तानामेव धातूनां ग्रहणम्, अत्राद्यविशेषणसंन्निवेशात् कपालरञ्जनादिषु नातिव्याप्तिः। वृद्धो न रसायनाधिकारी, वक्ष्यति-पूर्वे वयसीत्यादि। अन्यत्रा प्युक्तं “जरापक्वशरीरस्य व्यर्थमेव रसायनम्” इति। तत् कथं जराप्रशमकत्वं रसायनमिति ? नैवं जराशब्देनात्र अकालपलितं कालिकञ्च भाविपलितमुच्यते, अतोनोक्तोदोषः। यत्तु च्यवनप्राशादौ सुवृद्धोऽभूत् पुनर्युवेति, तत्र न वृद्धस्यापि रसायनप्रयोगात् जराप्रशमनमुक्तम्, तत् तपः प्रभावेणानुगृहीतस्य फलम्, न रसायनमात्रस्येति। सुदान्तस्त्वाह—“रसायनञ्च सुस्थातुरविषयम्। जरा च व्याधिश्चतद्विध्वंसितुं शीलं यस्य तद्रसायनम्। जरा हि मृदुत्वेन, न पूर्वापरविरोधःअकालजराहरत्वाद्रसायनस्य। भेषजपदेन ध्यानमन्त्रादिकं व्यवच्छिनत्ति। जरेति ज्वरातिसारादिभेषजं वाजीकरणं व्यवच्छिनत्ति। व्याधीति कपालरञ्जनकृष्णीकरणादिकञ्चव्यवच्छिनत्तीति”॥१॥

पूर्वे वयसि मध्ये वा शुद्धकायः समाचरेत्॥२॥

पूर्व इत्यादि—पूर्व इति यौवनप्रवेश एव। मध्य इति यौवनशेष। बालवृद्धौतु रसायनाविषयौ भेषजवीर्य्यासहत्वात् जरापक्वशरीरत्वाच्च। शुद्धकाय इति वमनविरेचनाभ्यां शुद्धशरीरः॥२॥

नाविशुद्धशरीरस्य युक्तो रासायनो विधिः।
न भाति वाससि म्लिष्टे रङ्गयोग इवार्पितः॥३॥

अविशुद्धे तथा फलं नास्तीति मत्वाह अविशुद्धशरीस्येत्यादि—सुश्रुतस्य।युक्तं इति प्रयुक्तः। म्लिष्ट इति मलिने॥३॥

गुडेन मधुना शुष्ठ्या कृष्णया लवणेन वा।
द्वे द्वे खादन् सदा पथ्ये जीवेद्वर्षशतं सुखी॥४॥

गुडेनेत्यादि—स्पष्टम्॥४॥

सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैःक्रमात्।
वर्षादिष्वभया सेव्या रसायनगुणैषिणा॥५॥

प्रथमतः हरीतकीरसायनमाह सिन्धूत्थेत्यादि—वर्षासु हरीतकी मा ६, सैन्धव मा २ गिलनीया। शरदि हरीतकी मा ५, शर्करा मा ४ खाद्यम्,शीतलजलं

पेयम्। हेमन्ते हरीतकी मा ३ शुण्ठी मा २, तप्तं जलं पेयम्। शिशिरे हरीतकीमा ३, पिप्पली मा २, तप्तजलं पेयमिति॥५॥

त्रैफलेनायसीं पत्रीं कल्केनालेपयेन्नवाम्।
तमहोरात्रिकं लेपं पिवेत् क्षौद्रोदकाप्लुतम्॥

प्रभूतस्नेहमशनं जीर्णे तस्मिन् प्रयोजयेत्।
अजरोऽरुक् समाभ्यासाज्जीवेच्चापि समाः शतम्॥६॥

त्रैफलेनेत्यादौ—आयसीं पत्रीमिति कान्तादिलौहपत्रीम्, नवामित्यनेन निर्मलत्वमपि सूच्यते। कल्केनेति कर्षमितेन। अम्लपित्ते त्विदं क्रियत इत्याहुर्वृद्धाः। केचित् उदकस्थाने घृतमिति पठन्ति॥६॥

पञ्चाष्टौसप्त दश वा पिप्पल्यः क्षौद्रसर्पिषा।
रसायनगुणान्वेषी समामेकां प्रयोजयेत्॥७॥

पञ्चाष्टावित्यादि—सप्तेति छेदः। संख्याव्यतिक्रमेण नानुक्तपिप्पलीनामुपयोगंसूचयतीति चक्रः। यद्यपि त्रीणि द्रव्याणि नात्युपयुञ्जीत पिप्पली क्षारं लवणमिति,तथापि इह द्रव्यान्तरसंयुक्तानां पिप्पली नामभ्यासो न विरुद्धः, किंवा उक्तपिप्पल्यभ्यासव्यतिरेकेण उत्सर्गापवादन्यायनिषेधो ज्ञेयः। रसायनगुणाश्चरकोक्तबृंहणत्वादयः॥

तिस्रस्तिस्त्रस्तु पूर्वाह्णेभुक्त्वाग्रे भोजनस्य च।
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः॥

प्रयोज्या मधुसम्मिश्रा रसायनगुणैषिणा।
जेतुं कासं क्षयं शोषं श्वासं हिक्कां गलामयम्॥

अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम्।
वैस्वर्य्यंपीनसं शोथं गुल्मं वातवलासकम्॥८॥

तिस्र इत्यादौ—किंशुकः पलाशः। क्षारमिति क्षारोदकम्। भावित इति सप्ताहम्॥

जरणान्तेऽभयामेकां प्राग्भक्ताद् द्वे विभीतके।
भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्य्यामलकानि च॥

प्रयोजयेत् समामेकां त्रिफलाया रसायनम्।
जीवेद्वर्षशतं पूर्णमजरोऽव्याधिरेव च॥९॥

जरणान्त इति प्रातः। प्राग्भक्तादिति भोजनादौ। मधुसर्पिर्भ्यामित्यभयादिभिस्रिभिरेव सम्बध्यते॥९॥

मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्।
रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः॥

आयुः प्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्द्धनानि।
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी॥१०॥

मण्डूकपर्ण्यां इत्यादिना शङ्खपुष्प्या इत्यन्तेन चतुरो योगानाह। समूलपुष्प्या

इति गुडूच्या शंखपुष्प्या वा विशेषणम्॥१०॥

पीताश्वगन्धा पयसार्द्धमाजं घृतेन तैलेन सुखाम्बुना वा।
कृशस्य पुष्टिं वपुषो विधत्ते बालस्य शस्यस्य यथाम्बुवृष्टिः॥११॥

पीतेत्यादि—वाग्भटस्य। अश्वगन्धायाश्चूर्णं पयसा पित्ते, घृतेन वातपित्ते,तैलेन वाते, उष्णोदकेन वातकफ इत्याहुः॥११॥

धात्रीतिलान् भृङ्गरजोविमिश्रान् ये भक्षयेयुर्मनुजाः क्रमेण।
ते कृष्णकेशा विमलेन्द्रियाश्च निर्व्याधयो वर्षशतं भवेयुः॥१२॥

धात्रीत्यादौ—तिलाश्च कृष्णाःप्रशस्ताः। भृङ्गरज इति निर्देशात् सान्तो भृंगरजःशब्दो मृंगराजवचन उन्नीयते। क्रमेणेति रसायनक्रमेण॥१२॥

वृद्धदारकमूलानि श्लक्ष्णचूर्णानि कारयेत्।
शतावर्य्यारसेनैव सप्तरात्राणि भावयेत्॥

श्रक्षमात्रन्तु तच्चूर्णं सर्पिषा सह भोजयेत्।
मासमात्रोपयोगेन मतिमान् जायते नरः।
मेधावी स्मृतिमांश्चैष वलीपलितवजितः॥१३॥

वृद्धदारकेत्यादि—स्पष्टम्॥१३॥

हस्तिकर्णरजः खादेत् प्रातरुत्थाय सर्पिषा।
यथेष्टाहाराचारोऽपि सहस्रायुर्भवेन्नरः।
मेधावी बलवान् कामी स्त्रीशतानि व्रजत्यसौ।
मधुनात्युग्रवेगः स्याद् बलिष्ठः स्त्रीसहस्रगः।
मन्त्रश्चाय प्रयोक्तव्यो भिषजा चाभिमन्त्रणे॥

“ओं नमो महाविनायकाय अमृतं रक्ष रक्ष मम फलसिद्धिंदेहि रुद्रवचनेन स्वाहा”॥१४॥

हस्तिकर्णेति—हस्तिकर्णोहस्तिकर्णपलाशमूलम्। ओं नम इत्यादिमन्त्रोहस्तिकर्णेत्यादियोगस्यैवाभिमन्त्रणाय॥१४॥

धात्रीचूर्णस्य कंसं स्वरसपरिगतं क्षौद्रसर्पिः समांशम्
कृष्णामानीसिताष्टप्रसृतयुतमिदं स्थापितं भस्मराशौ।
वर्षान्ते तत् समश्नन् भवति विपलितो रूपवर्णप्रभावै-
र्निर्व्याधिर्बुद्धिमेधास्मृतिवलवचनस्थैर्य्यसत्त्वैरुपेतः॥१५॥

धात्रीत्यादौ—कंसः चतुःषष्टिपलानि। स्वरसपरिगतमिति आमलकफलसहस्ररसेन भावितम्। भावना च एकविंशतिवारम्। क्षौद्रसर्पिः समांशमितिं धात्रीचूर्णापेक्षया प्रत्येकं समभागमित्यर्थः। तेन मधुघृतयोः प्रत्येकं चतुःषष्टिपलानि। मानीत्यष्टोपलानि। सितायाः शर्कराया अष्टौ प्रसृतानि षोडशपलानीत्यर्थः। स्थापितं भस्मराशाविति प्रावृडारम्भ इति शेषः। वर्षान्ते प्र वृट्कालान्ते शरदीत्यर्थः॥१५॥

गुडूच्यपामार्गविडङ्गशङ्खिनीवचाभयाकुष्ठशतावरी समा।
घृतेन लीढा प्रकरोति मानवं त्रिभिर्दिनैः श्लोकसहस्रधारिणम्॥१६॥

गुडूचीत्यादौ—शङ्खिनी शङ्खपुष्पी। क्वचित् वचास्थाने वृषेति पठ्यते, किन्तुवाग्भटे वचैव पठिता॥१६॥

ब्रह्मीघृतम्।

समूलपत्रामादायं ब्रह्मीं प्रक्षाल्य वारिणा।
उदूखले क्षोदयित्वा रसं वस्त्रेण गालयेत्॥

रसे चतुर्गुणे तस्मिन् घृतप्रस्थं विपाचयेत्।
औषधानि तु पेप्याणि तानीमानि प्रदापयेत्॥

हरिद्रा मालती कुष्ठं त्रिवृता सहरीतकी।
एतेषां पलिकान् भागान्शेषाणि कार्षिकाणि तु॥

पिप्पल्योऽथ विडङ्गानि सैन्धवं शर्करा वचा।
सर्वमेतत् समालोड्य शनैर्मृद्वग्निना पचेत्॥

एतत् प्राशितमात्रेण वाग्विशुद्धिश्च जायते।
सप्तरात्रप्रयोगेण किन्नरैः सह गीयते॥

अर्द्धमासप्रयोगेण सोमराजीवपुर्भवेत्।
मासमात्रप्रयोगेण श्रुतमात्रन्तु धारयेत्॥

हन्त्यष्टादश कुष्ठानि अर्शांसि विविधानि च।
पञ्च गुल्मान् प्रमेहांश्च कासं पञ्चविधं जयेत्॥

बन्ध्यानाञ्चैव नारीणां नराणामल्परेतसाम्।
घृतं सारस्वतं नाम बलवर्णाग्निवर्द्धनम्॥१७॥

ब्रह्मीघृतं स्पष्टम्॥१७॥

कासश्वासातिसारज्वरपिडककटीकुष्ठकोठप्रकारान्
मूत्राघातोदरार्शःश्वयथुगलशिरःकर्णशूलाक्षिरोगान्।
ये चान्ये वातपित्तक्षतजकफकृता व्याधयः सन्ति जन्तो-
स्तांस्तानभ्यासयोगादपनयति पयः पीतमन्ते निशायाः॥१८॥

कासेत्यादौ—पिडकः पिडका। पय इति दुग्धं पानीयं वा, सुश्रुते प्रातः क्षीरपानस्य जलपानस्यापि दर्शितत्वात्। “शीतोदकं पयः क्षौद्रं सर्पिरित्येकशो द्विशः। त्रिशःसमस्तमथवा प्राक्कृतं स्थापयेद्वयः।” प्रागिति प्रातः। अत्र चतुर्गुणजलशृतगव्यदुग्धस्य धारोष्णस्य वात्र द्वित्रिकर्षपलादि षोडशपलं यावदित्यर्थः॥१८॥

व्यङ्गवलीपलितघ्नं पीनसवैस्वर्य्यकासशोथघ्नम्।
रजनीक्षयेऽम्बु नस्यं रसायनं दृष्टिजननञ्च॥१९॥

व्यंगेत्यादौ—रजनीक्षय इति प्रातः॥१९॥

साध्यसाधनपरिमाणम्।

नागार्जुनो मुनीन्द्रः शशास यल्लोहशास्त्रमतिगहनम्।
तस्यार्थस्य स्मृतये वयमेतद्विशदाक्षरैर्व्रूमः॥

मेने मुनिः स्वतन्त्रे यः पाकं न पलपच्चकादर्वाक्।
सुबहुप्रयोगदोषादूद्र्ध्वञ्च पलत्रयोदशकात्॥२०॥

यद्यपि सर्वंरसायनश्रेष्टत्वात् प्रथममेवामृतसारलौहाभिधानमुचितं तथापि सूचीकटाहन्यायेन रसायनान्तराण्यभिधाय बहुप्रपञ्चतया सम्प्रत्यमृतसारलौहमाह नागार्जुनइत्यादि—तत्र मारणादिविधेरप्रशस्तत्वेन प्रथमं तदभिधानं वक्तुमुचितं तथापिदुरूहप्रमेयत्वेन साध्यसाधनपरिमाणविधिवक्तव्यः। तत्र कियन्मानलौहः पक्तव्यइत्याह मेने मुनिरित्यादि—पलपञ्चकादर्वागित्यत्र संस्कारस्याल्पकालव्यापकतयाबहुगुणत्वं न स्यादित्येव हेतुरुन्नेयः। ननु पञ्चपलादर्वाङ् न पक्तव्यः उक्तञ्चापिपलाष्टकादिति यागरत्नाकरेऽभिहितमित्यत आह स्वतन्त्र इति। स्वतन्त्रे स्वीयशस्त्रएव नान्यत्र, तेनाशक्तौ न्यूनमानमपि शास्त्रन्तरोक्तंन विरोधमावहतीति भावः॥२०॥

तत्रायसि पचनीये पञ्चपलादौ त्रयोदशपलकान्ते॥
लोहात् त्रिगुणा त्रिफला ग्राह्या षड्भिः पलैरधिका।
मारणपुटनस्थालीपाकास्त्रिफलैकभागसम्पाद्याः॥
त्रिफलाया भागद्वितयं ग्रहणीयं लौहपाकार्थम्॥२१॥

लोहसंस्कारसाधनार्थं क्वाथपरिभाषामाह तत्रायसीत्यादि—पचनीयेऽयसीतिपञ्चपलादित्रयोदशपलान्तलौहे यावत्परिमाणं लौहं पक्तुं शक्यं तावत्परिमितलोहापेक्षया मिलिता त्रिगुणा षट्पलैरधिका ग्राह्या, तेन पञ्चपले लौहे साध्ये लौहापेक्षयात्रैगुण्यनेन त्रिफलायाः पञ्चदशपलानि ध्रुवषट्पलेन सह मिलित्वा एकविंशतिपलानिभवन्ति। एवं सप्तपलादिष्वपि बोध्यम्। ननु लौहस्य तावन्मारणस्थालीपाकपुटपाकनिष्पत्तिपाकाः सन्ति, ततश्च कुत्र कियत् त्रिफलापरिमाणं इत्यतो विभज्यत्रिफलापरिमाणं दर्शयति मारणपुटनेत्यादि–लौहमपेक्ष्य कृतत्रिगुणत्रिफलाद्रव्यंध्रुवषट्पलसहितमेव त्रिभागं कृत्वा भागद्वयंप्रधाननिष्पत्तिपाकार्थमवस्थाप्यम्,अपरैकभागेन लौहमारणस्थालीपाकपुटनानि कर्त्तव्यानीत्यर्थः॥२१॥

सर्वत्रायःपुटनाद्यर्थैकांशे शरावसंख्यातम्।
प्रतिपलमेव त्रिगुणं पाथः क्वाथार्थमादेयम्॥२२॥

तदिह लौहमारणपुटनस्थालीपाकार्थगृहीतैकभागत्रिफलाक्वाथार्थं कियज्जलंदेयमित्याह सर्वत्रेत्यादि—आदिशब्दान्मारणस्थालीपाकौग्राह्यौ। सर्वत्रेति पञ्चपलादित्रयादशपलान्तनिखिलमाने। पुटनाद्यर्थैकांशं इति पुटनमारणस्थालीपाकार्थगृहीतत्रिफलैकभागे प्रतिपलं शरावैरेव त्रिगुणं वारि देयामित्यर्थः। तत्र पञ्चपललौहपुटादित्रयार्थस्थापितत्रिफलैकभागः सप्तपलो भवति, तत्र जलैकविंशतिशरावा

इत्यर्थः। एवं षट्पलादिलौहेऽपि त्रिफलैकभागा अष्टौ पलादयः, तत्र जलस्यापिचतुर्विंशतिशरावादय उन्नेयाः॥२२॥

सप्तपलादौ भागे पञ्चदशान्तेऽस्मसां शरावैश्च।
त्र्याद्यैकादशकान्तैरधिकं तद्वारि कर्त्तव्यम्॥
तत्राष्टमो भागः शेषः क्वाथस्य यत्नतः स्थाप्यः।
तेन हि मारणपुटनस्थालीपाका भविष्यन्ति॥२३॥

किन्तु त्रिगुणतया अधिकमपि जलं देयं तदर्थमाह सप्तपलादावित्यादि—अस्यार्थः—पचनीयपञ्चपलादिलौहमारभ्य त्रयोदशपलान्तलौहापेक्षया त्रैगुण्येन ध्रुवषट्पलाधिकतया फलत्रयस्यैकविंशतिपलरूपं चतुर्विंशतिपलरूपं मानं वा तस्य तृतीयभागैः पुटनादिकर्मत्रयार्थस्थापितैः सप्तपलाष्टपलादिक्रमगणनया लौहत्रयोदशपलान्तेन त्रिफलायाः पञ्चदशपलानि भवन्ति, तेषां क्वाथं प्रतिशरावसंख्यया यत् त्रिगुणंवारि देयं तत् त्रिफलासप्तपलादारभ्य पञ्चदशपलपर्य्यन्तं क्रमेण जलशरावत्रयमारभ्य एकादशपर्य्यन्तं जलशरावैरधिकं विधेयमित्यन्वयः। तेन सप्तपले त्रिफलाद्रव्येजलशरावत्रयमधिकम् अष्टपले च शरावचतुष्टयम्, एवं क्रमेण त्रयोदशपलान्तंज्ञेयम्। एतद्वचनं स्पष्टीकरणार्थं पत्रिका लिख्यते। लौहपल ५, मारणादिकर्मत्रयार्थस्थापितत्रिफलैकभाग पल ७, पाथ श २१, अधिक श ३, मिलित्वा श २४।एवं षट्पललौहमारणादिकर्मत्रयार्थस्थापितत्रिफलैकभाग पल ८, पाथः श २४,अधिक श ४, मिलित्वा श २८। सप्तपललौहमारणादिकर्मत्रयार्थस्थापितत्रिफलैकभाग पल ९, पाथः श २७, अधिक श ५, मिलित्वा श ३२। अष्टपललौहेत्रिफलैकभाग पल १०, पाथ श ३०, अधिक श ६, मिलित्वा श ३६। नवपललौहे त्रिफलैकभाग पल ११, पाथ श ३३, अधिक श ७, मिलित्वा श ४०।दशपललौहे त्रिफलैकभाग पल १२, पाश श ३६, अधिक श ८, मिलित्वा श४४। एकादशपललौहे त्रिफलैकभाग पल १३, पाथ श ३६, अधिक श ९, मिलित्वाश ४८। द्वादशपललौहे त्रिफलैकभाग पल १४, पाथ श ४२, अधिक श १०,मिलित्वा श ५२। त्रयोदशपललोहै त्रिफलैकभाग पल १५, पाथ श ४५, अधिकश ११, मिलित्वा श ५६। इदानीमेतज्जलं क्वाथ्यमानं कियदवशिष्टमित्याहतत्रेत्यादि—तत्रेति त्रिफलैकभागस्य क्वाथार्थजले। तेन पञ्चपललौहे त्रिफलैकभागक्वाथार्थं जलशराव २३, शेष श ३। एव षट्पललौहे त्रिफलाकाथार्थं जलश २८, शेषं सार्द्धशरावत्रयमित्यादि ज्ञेयम्। यत्नत इति—तृणधन्यादिनिवारणार्थं न्यूनाधिकतापरिहारार्थञ्च। उक्तं हि योगरत्नाकरे—क्वाथेन मन्दपकेन वह्निमान्द्यं भवेद् ध्रुवम्। क्वाथस्याधिकपाकस्य मन्दमाचक्षते फलम्” इति। हि हेतौ,मारणपुटनादि महत् कर्मत्रयं तेन क्वाथेन कर्त्तव्यमस्ति, तेन तत्र यत्नतः कर्तव्यइत्यर्थः। ननु एकस्मिन् दिने मारणादिकर्मत्रयं कर्तुमशक्यम्, यदि पुनरेकस्मिन्

दिने मारणम्, अपरैर्दिनैःपुटनादिकं क्रियते, तदा क्वाथस्य पर्य्युषितत्वेनाम्लत्वंस्यात्, सत्यं, प्रत्यहं तत्क्वाथस्य उष्णीकरणात् नाम्लता। यद्यपि तापादल्पक्षयितंतदपि सूक्ष्मत्वात् संक्रन्ताधिकत्वाच्चतेन दोषमावहति। एवमेव वृद्धा अपि व्यवहरन्ति। लौहशास्त्रऽप्युक्तं “पथ्याभिर्कटुकाश्मभिर्माक्षिकलेपो निहन्त्ययः सुतराम्।पर्य्युषितः परिशोषाद् ग्राह्यः पटाद् गलितः” इति। भव्यदत्तदेवस्तु त्रिफलायास्तृतीयभागमपि त्रिधा समभागेन विभज्य मारणपुटनस्थालीपाकरूपकर्मत्रयार्थक्वाथः प्रत्यहमेव कार्य्य इत्याह॥२३॥

पाकार्थे तु त्रिफलाभागद्वितये शरावसंख्यातम्।
प्रतिपलमम्बुसमं स्यादधिकं द्वाभ्यां शरावाभ्याम्॥
तत्र चतुर्थो भागः शेषो निपुणैः प्रयत्नतोग्राह्यः।
अयसः पाकार्थत्वात् स च सर्वस्मात् प्रधानतमः॥२४॥

इदानीं प्रधाननिष्पत्तिपाकार्थस्थापितत्रिफलाभागद्वयस्य क्वाथविधिमाह पाकार्थेत्वित्यादि—पाकार्थ इति प्रधाननिष्पत्तिपाकार्थे, त्रिफलाभागद्वितय इति पूर्वोक्तरीत्यालौहपञ्चपलादौ त्रयोदशपलान्ते क्रमेण त्रिफलाया भागद्वयं चतुर्दशपलषोडशपलाष्टादशपलादयस्त्रिंशत्पलान्ता भवन्ति। तत्र त्रिफलायाः प्रतिपलम् एकशरावंजलं दातव्यम्, किन्तु सर्वत्रैव शरावद्वयमधिकं ध्रुवत्वेन देयम् तेन त्रिफलायाश्चतुर्दशपले षोडश वारिशरावाः क्वाथार्थं देयाः, षोडशपले अष्टादशजलशरावाइत्यादिक्रमेण बोद्धव्याः। स च क्वाथः कियदवशिष्टः स्थाप्य इत्याह तत्रेत्यादि—प्रयत्नतो ग्राह्य इत्यत्र हेतुमाह अयस इत्यादि—चतुर्थावशिष्टक्वाथस्य निखिलकर्मप्रधाननिष्पत्तिपाकार्थत्वादित्यर्थः। स चेति निष्पत्तिपाकः। सर्वस्मादिति मारणपुटनादेः॥२४॥

पाकार्थमश्मसारे पञ्चपलादौ त्रयोदश पलान्ते।
दुग्धशरावद्वितयं पादैरेकादिकैरधिकम्॥२५॥

प्रधाननिष्पत्तिपाकार्थं हि लौहे यथा त्रिफलाक्वाथो दीयते तथा दुग्धमपि, तच्चदुग्धं पञ्चपलादित्रयोदशपलान्तलौहेषु कियन्मानं देयमित्याह पाकार्थमित्यादि—अत्र एक आदिर्येषां पादानां शरावचतुर्थांशानां ते पादद्वयत्रयादयः एकादिकाःपादाः, तैरधिकं दुग्धशरावद्वयं पुटनान्तेऽश्मसारे लौहचूर्णे पञ्चपलादित्रयोदशपलान्ते यथाक्रमं पक्तव्यमित्यर्थः। तेन पञ्चपललौहे पक्तव्ये सति सपाददुग्धशरावद्वयम्। षट्पले तु पादद्वयाधिकं दुग्धशरावद्वयम्, सप्तपले पादत्रयाधिकं दुग्धशरावद्वयमित्यादिक्रमेण त्रयोदशपलपर्य्यन्तमुन्नेयमिति॥२५॥

पञ्चपलादिमात्रा तदभावे तदुनुसारतो ग्राह्यम्।
चतुरादिकमेकान्तं शक्तावधिकं त्रयोदशकात्॥२६॥

अथ लौहस्य पञ्चपलादिमात्राकरणे यदि शक्तिर्नास्ति तदा पञ्चपलादर्वागपिएकपलादिचतुःपलपर्यन्तं लौहपाकः कर्त्तव्यः, तथा यथाशक्तिसम्भवः त्रयोदशपलादुपर्यपि चतुर्दशपलादिलौहस्य पाकः कर्त्तव्य इत्यर्थमाह पञ्चपलादीत्यादि चतुरादिक्रमेकान्तमिति चतुस्त्रिद्व्येकम्। नन्वेवं सत्यकपलादिचतुःपलान्ते लौहे तथा त्रयोदशपलादूर्द्ध्वञ्च चतुर्दशपलादौलौहे जारणादिकर्मत्रयार्थम्, तथा प्रधाननिष्पत्तिपाकार्थञ्च कीदृशं क्वाथ्यत्रिफलाया मानं ग्रहणम्, एतत्क्वाथार्थं जलदानं वा कीदृशम्, स्थाप्यः शेषो वा कीदृशः, प्रधाननिष्पत्तिपाकार्थं दुग्धदानं वा कीदृशं—तदर्थमाह तदनुसारतो ग्राह्या इति पञ्चपलादिलौहमारणाद्यक्तक्वाथादिदानानुसारत इत्यर्थः। इदानीं तदनुसारत इत्यस्य विवरणाय पत्री लिख्यतेः—तत्रैकपले लौहे मारणादिकर्मत्रयार्थं ध्रुवषट्पलसहितत्रिफलायास्तृतीयभागे पलत्रयं भवति, प्रतिपलञ्च जलशरावत्रयवृद्धिरुक्ता, ततस्तदनुसारात् प्रतिपलञ्च जलशरावत्रैगुण्यात् नव जलशरावा भवन्ति। तथा सप्तपलादौभाग इत्यनेन त्र्यादिशरावैरधिकत्वमुक्तम् अतस्तदनुसारात् पञ्चपलादर्वागपि क्रमेण पादद्वयं ह्रासयेत्। तेनैकपललौहस्य मारणादिकर्मत्रयार्थं गृहीतत्रिफलायास्तृतीयभागे अपरोऽपि जलशराव एको ध्रुवत्वेन देयो भवति, अतः पूर्वोक्तनवजलशरावैर्मिलित्वा दश शरावा इति। तथा द्विपललौहे कर्मत्रयार्थं ध्रुवषट्पलसहितत्रिफलायास्तृतीयो भागः पलचतुष्टयो भवति। प्रतिपलञ्च शरावत्रैगुण्यात् द्वादश जलशरावाः, तथा सप्तपलादौ भाग इति वचनानुसारेणापरोऽपि पादद्वयाधिकजलशराव एको ध्रुवत्वेन देयो भवति, अतो मिलित्वा सार्द्धत्रयोदश जलशरावा भवन्ति। एवं त्रिपललौहे कर्मत्रयार्थं ध्रुवषट्पलसहितत्रिफलायास्तृतीयभागे पञ्च पलानि भवन्ति, प्रतिपलञ्च जलशरावत्रैगुण्यात् पञ्चदश जलशरावाः, सप्तपलादौ भाग इति वचनानुसारादपरमपि जलशरावद्वयमधिकं ध्रुवत्वेन देयम्, तेन मिलित्वा सप्तदश शरावाः। चतुःपललौहेऽपि कर्मत्रयार्थं ध्रुवषट्पलसहितत्रिफलायास्तृतीयभागे पलषट्कम्, प्रतिपलञ्च जलशरावत्रैगुण्यादष्टादश जलशरावाः, सप्तपलादौ भाग इत्यनुसारादपरमपि पादद्वयाधिकजलशरावद्वयं ध्रुवत्वेन देयं भवति, तेन मिलित्वा जलस्य सार्द्धविंशतिशरावा भवन्ति। पञ्चपलादिलोह यत् क्वाथादिमानं तत् पूर्वमेव विवृतम्। त्रयोदशपलादुपरि चतुर्दशपलादौ त्र्याद्यैकादशकान्तैरित्यनुसारात् पूर्वापेक्षया शरावेणैव जलस्य वृद्धिः कर्त्तव्या, क्वाथस्याष्टमांशः शेषः, एवं सर्वत्रैव। प्रधाननिष्पत्तिपाकार्थमपि एकपललौहे च त्रिफलाया भागद्वये षट्पलानि, प्रतिपलमम्बुसमं स्यादित्युक्तेश्च त्रिफलायाः क्वाथार्थम्, जलस्य षट् शरावाः, ते च द्वाभ्यां शरावाभ्यामधिकाः कर्त्तव्या इति मिलित्वा अष्टौजलशरावाः, चतुर्थभागावशेषादत्र स्थाप्यं शरावद्वयम् पञ्चपललौहस्य प्रधानपाके तु सपाददुग्धशरावद्वयोक्तेश्च एकपले तु लौहे क्रमात् पादह्रासेन सपाददुग्धशराव एको भवति। प्रधानपाकार्थं घृतमपि द्विगुणं त्रिगुणं चतुर्गुणं लौहापेक्षया, यथाप्रकृतिदोषभेदेन, तेन वातप्रकृतौघृतं लौहाच्चतुर्गुणम्, पित्तप्रकृता त्रिगुणम्, श्लेष्मप्रकृतौ द्विगुणमिति। एवं द्विपले लौहे। द्विपललौहस्य प्रधानपाके त्रिफलाया

भागद्वयेऽष्टौ पलानि, प्रतिपलमम्बुसमम् स्यादित्युक्तेश्च जलस्याष्टौशरावाःते च द्वाभ्यां शरावाभ्यामधिकाः कर्त्तव्या इति मिलित्वा दश जलशरावाः, चतुर्थभागावशेषात्, स्थाप्यं सार्द्धशरावद्वयम् पञ्चपललौहस्य प्रधानपाके तु सपाददुग्धशरावद्वयोक्तेश्चद्विपले तु क्रमात् पादहासेन दुग्धव्य सार्द्धशरावैकं भवति, घृतञ्च प्रकृत्याद्यपेक्षया पूर्ववदेव ज्ञेयम्। त्रिपललौहस्य प्रधानपाके तु त्रिफलाया दश पलानि, प्रतिपलमम्बुपमं स्यादित्युक्तेश्च जलस्य दश शरावाः, ते च द्वाभ्यां शरावाभ्यामधिकाःकर्त्तव्या इति मिलित्वा द्वादश जलशरावाः, चतुर्थभागावशेषात् स्थाप्यं शरावत्रयम्, दुग्धञ्च पादोनशरावद्वयम्,घृतञ्च प्रकृत्याद्यपेक्षया पूर्ववदेव ज्ञेयम्। चतुःपललौहस्य प्रधानपाके तु त्रिफलाया द्वादश पलानि, प्रतिपलमम्बु पमं स्यादित्युक्तश्च जलस्य द्वादश शरावाः, ते च द्वाभ्यां शरावाभ्यामधिकाः कर्त्तव्या इति मिलित्वा चतुर्दश शरावाः, चतुर्थभागावशेषात् स्थाप्यन्तु सार्द्धशरावत्रयम्, दुग्धञ्च शरावद्वयम्, घृतञ्च पूर्ववदिति। त्रयोदशपलादुपरि चतुर्दशपललौहस्य प्रधानपाकं स्थापितत्रिफलाया भागद्वये पूर्ववदेव जलं देयम्, स्थाप्यञ्च चतुर्थभागम्, पूर्वपूर्वापेक्षया दुग्धस्य एकैकशरावपादवृद्धि स्पष्टतरैव घृतमपि प्रकृत्याद्यपेक्षया द्विगुणत्रिगुणादिकमेवेति। तदनुसारत इति ग्रन्था विवृतः॥२६॥

त्रिफलात्रिकटुकचित्रककान्तक्रामकविडङ्गचूर्णानि।
जातीफलजातीकोपैलाकक्कोललवङ्गानाम्।
सितकृष्णजीरयोरपि चूर्णान्ययसा समानि स्युः॥२७॥

पक्त्वावतारितामात्रे लौहे प्रक्षेपार्थं चूर्णमाह त्रिफलेत्यादि—कान्तक्रामकं काञ्जिकामुस्तकम्। सितकृष्णेति द्वय जीरकविशेषणम्। अयसा समानीति यावल्लौहचूर्णम्, तावदेव मिलित्वा त्रिफलादिचूर्णमित्यर्थः॥२७॥

त्रिफलात्रिकटुविडङ्गा नियता अन्ये यथाप्रकृति॥
कालायसदोषहृते जातीफलादेर्लवङ्गान्तस्य।
क्षेपप्राप्त्यनुरूपः सर्वस्योनस्य चैकाद्यैः॥
कान्तक्रामकमेकं निःशेषं दोषमपहरत्ययसः॥२८॥

इदानीमेतेषु त्रिफलादिषु मध्ये यदवश्यं प्रक्षेप्यं तदाह त्रिफलेत्यादि—कालायसदोषहृत इति छेदः। अन्य इति जातीफलादयः। उक्तत्रिफलादिसप्तकस्य नियतत्वे हेतुमाह कालायसदोषहृत इत्यादि—कालायसं वज्राण्य्यादिलौह एव,कालात्वञ्चास्य प्रशस्तत्वेन वीर्त्त्यते यदुक्तंपातञ्जले—“कज्जलाभाः शिरोजास्ते रसायनविधौ मताः” इति, पतितदानवाशरसि जाता इत्यर्थः। उक्तंहि पातञ्जल—“कफपित्तानिलप्राया देहास्तत्र महीतले। पतिता दानवास्तत्र प्रदेशाश्चापि तादृशाः। गिरिसारास्ततो जाता उत्तमाधममध्यमाः। कफक्षेत्रे शिरःस्थानं हृदयं पित्तमण्डलम्। वायोर्नाभेरधःक्षेत्रमिति देहविदो विदुः। वक्षोजा व्याधिनाशार्थं

कटिजा वाजिकर्मणि। शिरोजा देहसिद्ध्यर्थमित्येव त्रिविधा मताः” इत्यादि। द्व्ययोभयो दोषः आयसः, स चाकारदृष्टिवशात् तस्याकृतिहरणं प्रशम इति यावत्। यद्यपि कान्तक्रामकस्यापि लौहदोषहरणत्वेनावश्यप्रक्षेप्यत्वोपवर्णनमिहैव युज्यते, तथापि तस्यैकस्यापि निःशेषदोषहरणत्वकरणार्थं पृथाभिधानं कान्तक्रामकमित्यादिनाग्रे करिष्यति, तथा कान्तक्रामकस्यापि नियतं प्रक्षेप्यत्वमिति ज्ञेयम्। जातीफलादीनां प्राप्त्यनुरूपं प्रक्षेप्यत्वमाह जातीफलादेरित्यादि—प्राप्त्यनुरूप इत्यस्यार्थमाह सर्वस्योनस्य चैकाद्यैरिति यद्युक्तं जातीफलादिलवङ्गान्तं यदा सर्वमेव प्राप्यते तदा सर्वस्यैव प्रक्षेपः, यदा सर्वं न लभ्यते तदा एकद्वित्र्यादिभिर्जातीफलादिद्रव्यैरूनस्यापि प्रक्षेपः। कान्तक्रामकस्यापि अवश्यप्रक्षेप्यत्वमाह कान्तक्रामकमेकमित्यादि॥२८॥

द्विगुणत्रिगुणचतुर्गुणमाज्यं ग्राह्यं यथाप्रकृति॥२९॥

किन्तु यदा लौहस्य निष्पत्तिपाकः कर्त्तव्यः, तदा प्रथमतो घृतं देयम्, ततो लौहचूर्णम्, ततस्त्रिफलाक्वाथः, ततो दुग्धम्, तत एकीकृत्य लौहः पच्यते। घृतव्यतिरेकेण च सर्वत्र लौहपाकानुपलम्भ इति स्थितिः, अतः परिमाणपूर्वकं घृतमाह द्विगुणेत्यादि—द्विगुणत्वादिकञ्च लौहमपेक्ष्य यथाप्रकृतीति कफपित्तवातप्रकृतिषु यथाक्रमं द्विगुणत्वादि बोद्धव्यमिति, द्वन्द्वप्रकृतौ च मिश्रविधिः, समप्रकृतौ च मध्यविधिः, तेन त्रिगुणमित्यन्वयः॥२९॥

यदि भेषजभूयस्त्वं स्तोकत्वं वा तथापि चूर्णानाम्।
अयसा साम्यं संख्या भूयोऽल्पत्वेन भूयोऽल्पा॥३०॥

ननु त्रिफलादि लवङ्गान्तसमग्रभेषजप्राप्तिर्यदि भवति, तदा प्रक्षेप्यचूर्णस्य भूयस्त्वम्, यदि समग्रं न लभ्यते, तदाल्पीयस्त्वम्, अतः कथमयसा साम्यमित्याह यदीत्यादि—भूयोऽल्पसंख्येति सम्बन्धः, भूयसी अल्पा वा संख्या प्रक्षेप्यचूर्णानां भूयस्त्वेऽल्पत्वे वा न प्रयोजिकेति शेषः। तेन यदा भेषजानां समग्रेण प्राप्तौ संख्याकृतभूयस्त्वं तदा भागह्रासेन मिलितचूर्णानां लौहचूर्णेन समत्वम्। सम्यगप्राप्तौ च संख्याकृतस्तोकत्वं स्यात् तदा भागवृद्ध्या मिलितचूर्णानां लौहचूर्णेन समत्वं विधेयमिति भावः। यद्यपि नानाचारैस्तेषु लौहप्रयोगेषु प्रक्षेप्यचूर्णानां लौहसमत्वम्, तदर्द्धमानत्वम्, तच्चतुर्थमानत्वञ्चाभिहितं तथाप्यमृतसारलौहे प्रक्षेप्यचूर्णानां मिलित्वा लौहंचूर्णंसमत्वमेवेति वचनादेवावसीयते॥३०॥

एवं धात्वनुसारात् तत्तत् कथितौषधस्य बाधेन।
सर्वत्रैव विधेयस्तत्तत् कथितस्यौषधस्योहः॥३१॥

इदानीमुक्तौषधमध्ये यद् यहोषाद्यननुरूपं तदपनीयम्, यत् तत्रोचितं तदपि विधेयमित्याह एवमित्यादि—पूर्वन्तु तत्तद्वचनव्याख्यानाभिव्यक्तिनिमित्तं स्थाने स्थाने पत्रिकाक्रमो लिखितः। इदानीं तत्सर्वमेकीकृत्य एकपलादित्रयोदशपलपर्यन्तं

पत्रिकाक्रमेण लिख्यते। तत्र एकपललौहे मारणादि कर्मत्रयार्थं मिलित्वा त्रिफला पल ६, पाथ श १, शेष श १ पल २ तथा निष्पत्तिपाकार्थं मिलित्वा त्रिफला पल ६, पाथ श ८, शेष श २, दुग्ध श १ पल २, घृतञ्च यथाप्रकृत्यैव चूर्णमानन्तु स्पष्टमेव। अथ द्विपललौहे मारणादिर्मत्रयार्थं त्रिफला मिलित्वा पल ४, पाथ श १३ पल ४, शेष श १ पल ५, कर्ष २, निष्पत्तिपाकार्थं त्रिफला मिलित्वा पल ८, पाथ श १०, शेष श २ पल ४, दुग्ध श १ पल ४ घृतञ्च यथाप्रकृत्यैव, चूर्णमानन्तु स्पष्टमेव। अथ त्रिपललौहे मारणादिककर्मत्रयार्थं मिलित्वा त्रिफला पल ५, पाथ श १७ शेष श २ पल १, निष्पत्तिपाकार्थं त्रिफला पल १०, पाथ श १२, शेष श ३, दुग्ध श १ पल ६, घृतं चूर्णमानञ्च स्पष्टमेव। चतुःपललौहे जारणादिकर्मत्रयार्थं त्रिफला पल ६, पाथ श २० पल ४, शेष श २ पल ४ कर्ष २, प्रधानपाकार्थं त्रिफला मिलित्वा पल १२, पाथ श १४, शेष श ३ पल ४, दुग्ध श २, घृतं चूर्णमानञ्च स्पष्टमेव। पञ्चपललौहे मारणादिकर्मत्रयार्थंत्रिफला पल ७, पाथ श २४, शेष श ३ प्रधानपाकार्थं त्रिफलापल १४, पाथ श १६, शेष श ४, दुग्ध श २ पल २, घृतादि स्पष्टमेव।षट्पललौहे जारणादिकर्मत्रयार्थं त्रिफला पल ८, पाथ श २८, शेप श ३ पल ४, प्रधानपाकार्थं त्रिफला पल १६, पाथ श १८, शेष श ४ पल ४, दुग्ध श २ पल ४, घृतं चूर्णमानञ्च स्पष्टमेव। सप्तपललौहे जारणादिकर्मत्रयार्थं त्रिफला पल ६, पाथ श ३२, शेष श ४, प्रधानपाकार्थं त्रिफला पल १८ पाथ श २०, शेष श ५, दुग्ध श २ पल ६, घृतं चूर्णमानञ्च स्पष्टम् । अष्टपललौहे जारणादिकर्मत्रयार्थं त्रिफला पल १०, पाथ श ३६, शेष श ४ पल ४, प्रधानपाकार्थं त्रिफला पल २०, पाथ श २२, शेप श ५ पल ४, दुग्ध श ३, घृतं चूर्णमानञ्च स्पष्टम्। नवपललौहे जारणादिकर्मत्रयार्थं त्रिफला पल ११ पाथ श ४०, शेष श ४, प्रधानपाकार्थं त्रिफला पल २२, पाथ श २४, शेष श ६, दुग्ध श ३ पल २, चूर्णमानञ्च स्पष्टम्। दशपललौहे जारणादिकर्मत्रयार्थं त्रिफला पल १२, पाथ श ४४, शेष श ५ पल ४, प्रधानपाकार्थं त्रिफला पल २४, पाथ श २६, शेष श ६ पल ४, दुग्ध श ३ पल ४, घृतं चूर्णमानञ्च स्पष्टम्। एकादशपललौहे जारणादिकर्मत्रयार्थं त्रिफला पल १३, पाथ श ४८ शेष श ६, प्रधानपाकार्थं त्रिफला पल २६, पाथ श २८, शेष श ७, दुग्ध श ४, घृतं चूर्णमानञ्च स्पष्टम्। द्वादशपतलौहे जारणादिकर्मत्रयार्थं त्रिफला पल १४, पाथ श ५२, शेष श ६ पल ४, प्रधानपाकार्थं त्रिफला पल २८, पाथ श ३०, शेष श ७ पल ४, दुग्ध श ४ पल २, घृतं चूर्णमानञ्च स्पष्टम्। त्रयोदशपललौहे जारणादिकर्मत्रयार्थं त्रिफला पल १५, पाथ श ५६, शेष श ७, प्रधानपाकार्थं त्रिफला पल ३०, पाथ श ३२, शेष श ८ दुग्ध श ४ पल ४। तदेव एकादित्रयोदशपलान्तलौद्दस्य

साध्यसाधनपरिमाणविधौ पत्रिका लिखिता, एवमुक्तरीत्या च चतुर्दशपलादिलौहेऽपि साध्यसाधनपरिमाणमुन्नेयमिति।साध्यसाधनपरिमाणविधिरिति साध्यं लौहं, साधनं त्रिफलादि, तयोः परिमाणविधिरित्यर्थः॥३१॥

इति साध्यसाधनपरिमाणविधिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1702140384Screenshot2023-12-0910.15.57PM.png”/>

लौहमारणविधिः।

कान्तादिलौहमारणविधानसर्वस्वमुच्यते तावत्॥३२॥

इदानीं लौहजारणविधिमाह कान्तादीत्यादि—आदिशब्दात् पाण्डिवज्रादयोऽपि गृह्यन्ते, एषां लक्षणानि प्रदीपस्य चतुर्थपरिच्छेदेऽनुसन्धेयानि।लौहमारणविधानमेव सर्वस्वं तदधीनत्वात् पुटादिकर्मणां, किन्तु सुमृतमेव लौहं गुणकृतं, तदुक्तं—“सुमृतञ्चयतो लौहमभृतेन समं नृणाम्। दुर्मृतं शूलविष्टम्भौ शरीरस्थितिसंशयम्। भवेदयोवधं तस्माद् यत्नं कुर्य्याद्भिषग्वरः”॥३२॥

यस्य कृते तल्लौहं पक्तव्यं तस्य शुभदिवसे।
समृदङ्गारकरालितनतभूभागे शिवं समभ्यर्च्य।
वैदिकविधिना वह्निं निधाय हुत्वाहुतीस्तत्र॥३३॥

यस्य कृत इति यस्यातुरस्य निमित्तम्। लौहमारणाय भूमिसंस्कारपूर्वकमिति कर्तव्यतामाह समृदित्यादि—मृदा सह अङ्गारमेकीकृत्य सञ्चूर्ण्य तेन करालिते दन्तुरिते लिप्त इति यावत्, एतेनातितापान्मृत्तिका न गलति, नतभूभागे मध्यनिम्नभूभागे। शिवमित्युपलक्षणं, तदुक्तं—“अर्चयित्वा विधानेन हेरम्बं गुरुभास्करौ। लोकपालान् ग्रहाश्चैव क्षेत्रपालानथौषधम्। आदित्यदेवताश्चेष्ट्वा धन्वन्तरिपतञ्जली। दद्यात् बलिञ्च सर्वेभ्यो नानाभक्ष्योपचारतः” इति। वह्निमिति वन्यदिव्यानलं, तदभावे दारुद्वयसङ्घट्टनजमग्निम्। यदाह पतञ्जलिः—“दिव्यं दावं समादाय लौहकर्म समाचरेत्। यदि दिव्यानलाभावस्ततो घर्षणसम्भवः। आरोप्य कर्मशालायामग्नि यत्नेन पूजयेत्” इति॥३३॥

धर्मात् सिध्यति सर्वं श्रेयस्तद्धर्मसिद्धये किमपि।
शक्त्यनुरूपं दद्याद् द्विजाय सन्तोषिणे गुणिने॥
सन्तोष्य कर्मकारं प्रसादपूगादिदानसम्मानैः।
आदौ तदश्मसारं निर्मलमेकान्ततः कुर्य्यात्॥३४॥

यद्यपि दृष्टादृष्टरूपेण कार्य्यचक्रेण कार्यं सिध्यति तथा दृष्टमप्यदृष्टवशादेव उपतिष्ठते। इत्यदृष्टस्यैव रमणीयत्वं मन्यमान आह धर्मादित्यादि श्रेय इत्यभिमतप्रशस्तफलम्। किमपीति धान्यहरिण्याद्यदानाद्यन्यतमं यथाशक्ति दद्यादित्यर्थः। मारणार्थं लौहसंस्कारमा आदावित्यादि—अश्मसारं लौहं निर्मलमिति शोधनविधिना कार्य्यं तद् यथा प्रथमं लौहं शिलादिना निर्मलीकृत्य पत्तलं कार्य्यं, तदनु चाङ्गेरी

मातुलुङ्गाम्लवेतसेनाम्लयित्वा सप्तवारं प्रत्येकन आतपे संशोध्य ततः काञ्जिकादौ दिनद्वयं त्रयं वा स्थाप्यम्, एवमम्लभावनां विधाय तदनु गोमूत्रपिष्टत्रिफलाकल्केनालिप्य आतपे शोषणीयम्, ततश्च मनःशिलावल्मीकमृत्तिकाकुठारिकामूलचाङ्गेरीश्वेतदूर्वासैन्धवैश्च जलपिष्टैः क्रमेण प्रक्षिप्य आतपे शोषणीयम्। ततश्च “पत्तनं निर्मलं कृत्वा लौहमम्लीकृतं पुनः। मूत्रपिष्टत्रिफलया वारिपिष्टमनोह्वया। भावितं भावयेत् तच्च वल्मीकामलकेऽपि च। परशुच्छिन्ना चाङ्गेरी गण्डदूर्वा ससैन्धवा। अभिलिप्तं यथाप्राप्ति शोष्यं सूर्य्यातपे क्रमात्॥” गण्डदूर्वा श्वेतदूर्वेति नाम। तदेवं भावनां विधाय तदनु भस्त्रया वह्निं ध्मापयित्वा नातितप्तं कृत्वा लौहापेक्षया द्विगुणेषु गव्यदुग्धकाञ्जिकगोमूत्रत्रिफलाक्वाथेषु वारत्रयं कृत्वा निर्वापणीयम्। उक्तं हि “क्षीरारणालगोमूत्रत्रिफलाक्वाथवारिणि। प्रतिद्रव्यं निषेक्तव्यं त्रिधा त्रिधा विधानतः” इति। निषेकमात्रा च—“लौहपत्रं मनाक्तप्तं द्विगुणे तद्रसे क्षिपेत्। निषेक एष निर्दिष्टो निषेकार्थैकवादिभिः” इति। निषेकार्थं त्रिफलाक्वाथविधानञ्च यथा—“सिद्धार्थं त्रिफला लौहात् कर्तव्या द्विगुणा सदा। चतुर्गुणं फलात् तोयमर्द्धगावशेषितम्” इति। दोषविशेषे च निषेकविशेषो यथा”—विशेषतः कफे तीक्ष्णैः कटुतिक्तकषायकैः। वाते तु मधुरस्निग्धैः पित्ते मधुरशतिलैः। निषेकः शस्यते नित्यं सर्वदोषापनायकः। “तदेवमुक्तक्रमेण निषेकं विधाय रात्रिमेकां विश्राम्य लौहमारणादिषु योजयेत्। उक्तं हि—“विश्राम्य रजनीमेकां ततः कर्म समावपेत्” इति ३४

तदनुकुठारच्छिन्नात्रिफलागिरिकर्णिकास्थिसंहारैः॥
करिकर्णच्छदमूलशतावरीकेशराजाख्यैः॥

शालिञ्चमूलकाशीमूलप्रावृड्जभृङ्गराजैश्च।
लिप्त्वा दग्धव्यं तद्दृष्टक्रियलोहकारेण॥३५॥

इदानीं लौहमारणार्थं भेषजान्याह तदन्वित्यादि—तदन्विति शोधनानन्तरं किन्तु लौहजारणसमीपकाले पुनरपि स्वच्छकाञ्जिकमात्रे लौहस्य निषेकं कृत्वैव मारणं कर्तव्यम्। उक्तं हि पातञ्जले—“क्वाथं पर्य्युषितं कृत्वा बलिं दत्त्वा चतुर्दश। अपरोऽपि च दातव्यो निषेको व्यधसन्निधौ। अम्लस्वच्छारणाले च ततो व्यधमुपक्रमेत्।’ कुठारच्छिन्ना कुठारिका, गिरिकर्णी श्वेतापराजिता, अस्थिसंहारो हारञ्चः, करिकर्णच्छदमूलं हस्तिकर्णपलाशमूलम्, काशी स्वनामख्याता। प्रावृड्जा वर्षाभूः, पुनर्नवेति यावत्। यद्यपि एतैरेव भेषजराजैर्लिप्त्वा सुदग्धे सति नियतमेव लौहस्य मारणं भवति तथापि वृद्धा लोहार्द्धभागपरिमितम्, लोहापेक्षया षोडशांशेन परिमितं वा शोधितस्वर्णमाक्षिकचूर्णं त्रिफलाक्वाथेनालोड्य तेन लौहं लिप्त्वा तदनन्तरम् उक्तकुठारच्छिन्नादिभेषजैर्लोहापेक्षया षोडशांशैरालिप्य ततोऽस्य ध्मापनमुपदिशन्ति। उक्तार्थे पतञ्जलिवाक्यं यथा—” एतदर्द्धेन विख्यातः प्रलपो माक्षिकेण च।माक्षिकार्द्धगुणा प्रेक्ता कुनटी चाम्लपेषिता। मारकद्रव्यसंयुक्तं षोडशांशेन ध्मायते।”

केचिन्माक्षिकस्यापि षोडशांशमाहुः यथा—“त्रिफलावाडिवीहिंगुभवपादरजोऽन्वितम्।” तत्र वाडिवीहिंगुभवं स्वर्णमाक्षिकम्, पादाश्च षोडशांश इति व्याख्यानयन्ति। तथा ह्यत्रापि “लौहं लौहार्द्धमानेन षोडशांशेन वा पुनः। त्रिफलाक्वाथपिष्टेन माक्षिकेण प्रलेपयेत्। लौहाच्चतुर्थांशकुनट्यया वाम्लपिष्टया " इति। कुनटी मनःशिला। अत्र लौहजारणाङ्गीभूतस्वर्णमाक्षिकस्य शोधनं लक्षणञ्च लिख्यते—“भङ्गे सुवर्णसङ्काशो मनाक् कृष्णच्छविर्वहिः। बृहद्वर्णं इति ख्यातो माक्षिकोऽत्र प्रशस्यते।” एवंविधमाक्षिकचूर्णं क्षुद्रमारिषशालिञ्चक्वाथमध्ये पत्तनिकायां स्थापयेत्। पत्तनिकास्थापितक्वाथे तत्र स्वर्णमाक्षिकचूर्णं वस्त्रे पोट्टलिकां बद्ध्वा निक्षिप्य दोलापाकक्रमेण पचेत्। पत्तनिकाभ्यन्तरे क्वाथमध्ये पोट्टलिकायां यत् तोयवद् गलति तद् ग्राह्यम्। तदुक्तं—“स्वर्णमाक्षिकचूर्णञ्च वस्त्रबद्धं विपाचयेत्। कालमारिषशालिञ्च क्वाथे दोलाविधानतः। तदधः पतितं ग्राह्यमेवं शुध्यति माक्षिकम्” इति॥३५॥

चिरजलभावितनिर्मलशालाङ्गारेण परित आच्छाद्य।
कुशलाध्मापितभस्त्रानवरतमुक्तेन पवनेन।
वह्नेर्वाह्यज्वाला बोद्धव्या जातु नैव कुञ्चिकया।
मृल्लवणसलिलभाजा किन्तु स्वच्छाम्बुसंप्लुतया॥
द्रव्यान्तरसंयोगात् स्वां शक्ति भेषजानि मुञ्चन्ति।
मलधूलिमत् सर्वं सर्वत्र विवर्जयेत् तस्मात्॥३६॥

इदानीं तत्पाकाय यादृशोऽङ्गारो प्राह्यस्तमाह चिरेत्यादि—चिरं पक्षमासादिकम्, भावितं स्थापितम्, निर्मलं तृणधान्यादिविरहात्। कुशलोऽत्र स्थिरोऽनलसश्च। कुञ्चिका वंशशाखा कुञ्चीति ख्याता। विपक्षे दोषमाह द्रव्यान्तरेत्यादि—मृदादिसंसर्गे सति यस्मल्लौहसंसृष्टभेषजानि हीनशक्तिकानि भवन्ति, तस्मात् मृदादिकर्वुरितसलिलयुक्तकुञ्चिकया वह्निज्वाला न बोद्धव्या, किन्तु निर्मलजलयुक्तकुञ्चिकयैवेत्यर्थः॥३६॥

सन्दंशेन गृहीत्वान्तःप्रज्वलिताग्निमध्यमुपनीय।
गलति यथायथमग्रे तथैव मृदु वर्द्धयेन्निपुणः।
तलनिहितोर्द्ध्वमुखांकुशलग्नं त्रिफलाजले विनिक्षिप्य।
निर्वापयेदशेषं शेषं त्रिफलाम्बु रक्षेच्च॥३७॥

इदानीं तल्लोहं येन प्रकारेण वह्निमध्ये प्रवेशनीयं तदाह सन्दंशेनेत्यादि—सन्दंशः सांडाशीति ख्यातः। मृदु वर्द्धयेदिति क्रमशस्तल्लौहखण्डं वह्निमध्ये प्रवेशयेदित्यर्थः। गलितश्चयथा तथा त्रिफलाक्वाथे देयं तदाह तलेत्यादि—पाकेन यथायथं गलति तथा तलनिहितोर्द्ध्वमुखाङ्कुशेन जतुल्लग्नंविहितं समुद्धृत्य सन्दंशेन पीडयित्वा यथोक्तत्रिफलाजले शनैः शनैर्निर्वापयेत्। शेषं त्रिफलाम्बु रक्षञ्चेति पुटपाकार्थं स्थालीपाकार्थं स्थापितत्रिफलाक्वाथभागद्वयमेव शेषशब्दवाच्यम्

उक्तार्थे पातञ्जले यथा—“हस्तिकर्णसमीरेण अङ्गाराध्मापितं मृशम्। उत्तोलितं त्रिधा लीनं स्फुलिङ्गैः परिवर्जितम्। ततोऽङ्कुशमुखे लग्नं सन्देशपीडितं यथा। उद्धृत्य त्रिफलातोये प्रक्षेप्तव्यं शनैः शनैः” इति॥३७॥

यल्लौहं न मृतं तत् पुनरपि पक्तव्यमुक्तमार्गेण।
यन्न मृतं तथापि तत् त्यक्तव्यमलौहमेव हि तत्॥३८॥

त्रिचतुर्वारमङ्गारक्षयात् तावत् सर्वमेव लौहं म्रियते, तथापि यक्ष मृतं तत् किंकर्तव्यम्, तदाह याल्लौहमित्यादि—उक्तमार्गेणेति उक्तभेषजलेपादिक्रिया वर्तनीया। तथापि यन्न मृतं तत् त्याज्यमेवेत्याह यन्न मृतमित्यादि। तथापीति सप्तभिङ्गारैः सप्तवारपाकेनापीत्यर्थः। उक्तं हि—“सप्तवारान् तथा लौहं पूर्ववत् पूर्वभेषजैः। ध्मात्वा ध्मात्वा समुत्थाप्य निक्षिपेत् त्रिफलाम्भसि। एवं नामात्र यो लौहो न मृतस्त्याज्य एव सः” इति। अमरणे हेतुमाइ अलोहमित्यादि—उक्तौषधलीप्तानेकवारध्मातमरणव्याप्तं हि सुलौहत्वम्। तन्मरणं निवृत्तिमानं सुव्याप्तं लौहशास्त्रो दितसुतोहत्वमादायैव निवर्त्तत इति भावः। मृतलौहलक्षणञ्च यथा—लौहगूथसमाकारस्पर्शप्राह्यः प्रतीयते। यदा लौहस्तदा ज्ञयः सुमृतो वैद्यसत्तमैः इति॥३५॥

तदनु घनलौहपात्रे कालायसमुद्गरेण सञ्चूर्ण्य।
दत्त्वा बहुशः सलिलं प्रक्षाल्याङ्गारमुद्धृत्य।
तदयः केवलमग्नौ शुष्कीकृत्याथवातपे पश्चात्।
लौहशिलायां पिंष्यादसितेऽश्मनि वा तदप्राप्तौ॥३९॥

इदानीं जारणानन्तरं प्रक्षालनञ्च तथा त्रिफलाक्वाथावसिक्तस्य सूर्यातपे शोषणरूपो भानुपाकश्च यथा कर्तव्यस्तदाह तदन्वित्यादि—घनं दृढं छिद्राद्यभावयुक्तम्। लौहपात्र इति लौहोदूखलादावित्यर्थः। कालायसमुद्गरं तीक्ष्णलौहमुद्गरम्।एतदुभयमप्युपलक्षणं, तेन दृढदृशदादिकञ्च बोध्यम्। सञ्चूर्णेत्यत्र मुद्गनिभमिति शेषः। सलिलमित्युपलक्षणं, तेन त्रिफलाबवाथोऽपि बोध्यः। शुष्कीकृत्येति त्रिफलाक्वाथे नैव सप्तधा सूर्यातपे संशोध्येत्यर्थः। उक्कार्थे पातञ्जले यथा—“अयोघनेन तत् पिष्टं शिलया दृढया यथा। अयोमलसमं पिण्डं कृत्वा मुद्रसमं पुनः। त्रिफलावारिणा घौतं विशुष्कं चूर्णितं पुनः।” इत्यादि। योगरत्नाकरेऽप्युक्तं—“मृतश्चोदूखले लौहे मूषलेनापि तादृशा। सञ्चूर्ण्य त्रिफलाम्भोभिः सप्तधा सूर्यपाचितम्। एवं पुटविधौ योग्यो विज्ञेयो भिषजां वरैः।” इत्यादि। अत्र लौहप्रक्षालनार्थं भानुपाकार्थञ्च त्रिफलाक्वाथ विधिर्यथा योगरत्नाकरे—शुद्ध्यर्थं त्रिफला लौहात् कर्त्तव्या त्रिगुणा सदा।चतुर्गुणफलात् तोयमर्द्धभागावशेषितम्। एष एव विधिर्नित्यं क्षालनेऽपि च शस्यते।’ इति तथा—“भानुपाकार्थमिच्छन्ति त्रिफलामयसा समम्। सलिलं द्विगुणं तत्र चतुर्भागावशेषितम् ।” इति॥३९॥

इति मारणविधिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1702113673Screenshot2023-12-092.49.07PM.png”/>

स्थालीपाकविधिः।

अथ कृत्वायोभाण्डे दत्वा त्रिफलाम्बुशेषमन्यद्वा।
प्रथमं स्थालीपाकं दद्यादातत्क्षयात् तद्नु॥
गजकर्णपत्रमूलशतावरीभृङ्गकेशराजरसैः।
प्राग्वत् स्थालीपाकं कुर्य्यात् प्रत्येकमेकं वा॥४०॥

स्थालीपाकमाह अथेत्यादि—अयोभाण्डे लौहपत्तनिकायाम्। शेषं त्रिफलाम्बुत्रिफलैकभागकृतक्वाथस्य ध्मातात् निर्वापणावशिष्टम्।अथ यदि कथमपि तद्विनष्टं स्यात् तदा का गतिरित्याह अन्यद्वति तत्प्रक्रिययैव क्वाथान्तरं कार्य्यमिति भावः। प्रथमं स्थालीपाकं दद्यादिति प्रथमं स्थाल्यां लौहचूर्णं त्रिफलाक्वाथेनालोड्य वह्निना पाकं विधाय त्रिफलाक्वाथक्षयः कर्त्तव्यः। इत्येष स्थालीविधानक्रमः आतत्क्षयादिति त्रिफलाक्वाथशेषपर्यन्तम्। तदन्विति प्रथमं त्रिफलाक्वाथेन स्थालीपाकं विधाय अनन्तरं हस्तिकर्णपलाशादीनां व्यस्तानां समस्तानां वा स्वरसैरपि पूर्ववत् स्थालीपाकः कार्य्य इत्याह गजकर्णेत्यादि—गजकर्णे हस्तिकर्णपलाशः। प्राग्वदित्यनेनैव यावतीयत्रिफलाक्वाथस्य स्थालीपाके मात्रा द्रवक्षयानन्तरञ्च पाकस्तथा गजकर्णादिस्वरसादावित्यर्थः। किन्तु तत्र व्याध्यनुरूपस्थालीपाकीयद्रव्याणामन्तरे यदि स्वरसप्राप्तिर्नास्ति तत्र स्थालीपाकार्थं त्रिफलाक्वाथानुसारेणैव क्वाथ्यजलादिकं दत्त्वा क्वाथं विधाय स्थालीपाको विधेय इति॥४०॥

इति स्थालीपाकविधिः॥

<MISSING_FIG href=”../../../../../books_images/U-IMG-1702223223Screenshot2023-12-109.16.39PM.png”/>

पुटपाकविधिः।

हस्तप्रमाणवदनं श्वभ्रं हस्तैकखातिसममध्यम्।
कृत्वा कटाहसदृशं तत्र करीषं तुषञ्च काष्ठञ्च॥
अन्तर्धनतरमर्द्धं शुषिरं परिपूर्य्य दहनमायोज्यम्।
पश्चादयसश्चूर्णंश्लक्ष्णं पङ्कोपमं कुर्य्यात्॥
त्रिफलाम्बुभृङ्गकेशरशतावरीकन्दमाणसहजरसः।
भल्लातककरिकर्णच्छदमूलपुनर्नवास्वरसैः॥
क्षिप्त्वाथ लौहपात्रे मार्दे वा लौहमार्दपात्राभ्याम्।
तुल्याभ्यां पृष्ठेनाच्छाद्यान्ते रन्ध्रमालिप्य॥
तत्पुटपात्रं तत्र श्वभ्रज्वलने निधाय भूयोभिः।
काष्ठकरीषतुषैस्तत् सञ्छाद्यहर्निशं दहेत् प्राज्ञः॥४१॥

पुटपाकविधिमाह हस्तप्रमाणेत्यादि। श्वभ्रं खातम् हस्तैकखातिसममध्यमिति हस्तैकप्रमाणा खातिः खननं यस्य, सर्वतो हस्तैकमात्रपरिमाणमित्यर्थः। समोऽनिम्नो मध्योऽभ्यन्तरभागो यस्य तत् सममध्यम्।कटाहसदृशमित्यनेनैव वर्त्तुलाकारत्वमुक्तं, तेन चतुष्कोणं न कार्यमित्यर्थः। तत्र श्वभ्रे अन्तरिति मध्ये घनतरं बहुतरं निविडतरमिति यावत्। अर्द्धशुषिरं परिपूर्व्येति करीषादिभिः श्वभ्रस्यार्द्धभागं परिपूर्य्येत्यर्थः। कैर्द्रवैः पङ्कोपमं कुर्य्यादित्याह त्रिफलेत्यादि—त्रिफलाम्बु त्रिफलाक्वाथः; मृगकेशरौ भृङ्गराजकेशराजौ, कन्दः शूरणाः। एषां मृगादीनां सहजरसः स्वरसः। भल्लातकस्य पुनः क्वाथ एव, स च भल्लातकसहत्वे सत्येव बोध्यः। अयश्चूर्णंत्रिफलाक्याथादिभिः। पङ्कोपमं कृत्वा किं कर्त्तव्यं तदाह क्षिप्त्वेत्यादि। मार्द इति कृष्णमृत्तिकाभवपात्रे, एतच्चमृत्पात्रं सर्वथा लौहपात्राभावे हि बोध्यं;किन्तु दक्षिणराढायां सममसृणेमृत्सम्पुटे लौहं कृत्वा वस्त्रमृत्तिकाभिरालिप्य पुटपाको दीयते इति व्यवहारः। अयञ्च पक्षः साधीयान् भवति, यतो लोहसम्पुटमध्येऽधमलौहघटितसम्पुटमात्रस्यापि पुटपाकौषधसंसर्गजीर्णतया तदीयरजसोऽनुप्रवेशो दुर्निवार इति। पृष्ठेनाच्छाद्येति—यत्र पात्रान्तरे पङ्कोपमं लौहचूर्णमस्ति तन्मुखमपरतत्तुल्यपात्रस्य कटीभागे निधायेत्यर्थः।अन्ते रन्ध्रमालिप्येति कुट्टितमृद्वस्त्रादिभिरिति शेषः भूयोभिरिति प्रचुरैः। इदञ्च काष्ठादिकं पुटमात्रोपदर्शकार्थम्, यतो न पौनरुक्त्यम्। भूयोभिरित्यनेन गर्त्तपूरणं कृत्वा तदुपर्यपि करीषसमुच्छ्रयः कार्य इति दर्शयति। अहर्निशमित्यनेन दिवसे रात्रौ वा पुटो देय इति दर्शयति। अन्ये तु पुटपाकस्याष्टप्रहरव्यापनार्थमहर्निशमिति वचनमाहुः, तन्न, पुटपाकस्य चतुःप्रहरसम्पाद्यत्वात्। उक्तं हि पतञ्जलौ—“चतुर्भिः प्रहरैर्ज्ञेयः पुटपाकक्षणो बुधैः।” तया योगरत्नाकरसमुच्चयेपि—“चतुर्भिः प्रहरैरेव पुटपाकः प्रकीर्तितः। पुटपाकक्षणादूर्द्ध्वं स्थितो भवति भस्मसात्। अधस्तादपकृष्टस्तु मन्दो भवति वीर्यतः। कुण्डस्थो भस्मनाच्छन्नआकृष्टव्य सुशीतलः। समाकृष्टस्य तप्तस्य गुणहानिः प्रजायते।” इति। तत्र संक्षेपात् पुटपाकपरिपाटी लिख्यते। त्रिफलाक्वाथादिभिः पङ्कोपमं लौहं विधाय सम्पुटाकृतिलौहपात्रस्थं कृत्वा वस्त्रादिभिरवगुण्ठ्य कुट्टितवस्त्रमृत्तिकया पात्रयोरवकाशमालिप्य इस्तमात्रपरिमितसमतलभूगर्ते करीषतुषै शुष्कगोमयमात्रेण वा खातस्यार्द्धं प्रपूर्य तत्र तल्लौहसम्पुटं निधाय वह्निं नियोज्य तदुपरि अपरकरीषादिभिः शुष्कगोमयमात्रेण वा श्वभ्रं परिपूरयेत्; एव चतुर्भिः प्रहरैरेवपुटो देयः शीतीभूतमाक्रष्टव्यम्॥४१॥

एवं नवभिरमीभिर्भेषजराजैः पचेत्तु पुटपाकम्।
प्रत्येकमेकमेभिर्मिलितैर्वा त्रिचतुरान् वारान्॥
प्रतिपुटनं तत् पिंष्यात् स्थालीपाकं विधाय तथैव तत्।
तादृशि दृशदि न पिंष्याद् विगलद्रजसा तु युज्यते यत्र॥
तदयश्चूर्णं पिष्टं घृष्टं घनसूक्ष्मवाससि श्लक्ष्णम्।
यदि रजसा सदृशं स्यात् केतक्यास्तर्हि तद्भद्रम्॥
पुटेन स्थालीपाकेऽधिकृतपुरुषे स्वभावरुगधिगमात्।

कथितमपि हेयमौषधमुचितमुपादेयमन्यदपि॥४२॥

इदानीमुक्तैस्त्रिफलादिभिः पुनर्नवास्वरसान्तैः प्रत्येकं, मिलित्वा वा पुटो देय इत्याह एवमित्यादि—नवभिरिति इह त्रिफला एकत्वेनैव गणनीया, तेन न संख्यातिरेकः। त्रिफलेत्यनेन त्रिफलादिगणमिच्छन्ति केचित् तद्यथा—“त्रिफला त्रिवृता दन्तीत्रिकटुतालमूलिकाः। वृद्धदारश्च वृश्चीरवृषपत्रकचित्रकाः। शृङ्गवेरविडङ्गौ च भृङ्गभल्लातकौषधम्। दाडिमस्य च पत्राणि शतपुत्री पुनर्नवा। कुठारक्रामकौ कन्दस्तन्त्री भेकस्य पर्णिका। हस्तिकर्णपलाशश्च कुलिशः केशराजकः। माणः खण्डितकर्णश्च गोजिह्वा लौहमारकः। गिरिसन्तानकः प्रोक्तस्त्रिफलादिरयं गणः। सामान्यपुटपाकार्थमेतानिच्छन्ति सूरयः।” इति दोषभेदे तु गणविशेषा विस्तारभयान्न लिखिताः। ते च लौहप्रदीपे प्रथमपरिच्छेदस्यान्तेऽनुसन्धेया इति। किञ्च यस्मिन्व्याधौ ये ये योगा हितास्तस्मिन् व्याधौ तत्तत्क्वाथैरपि पूटो देयः। उक्तं हि—“ये ये यत्र गदे योगास्तेषां तेषाञ्च वारिणा। विधिनाध्माय तेनैव पुटो रोगे च सम्मतः।” इति। विधिनेति साध्यसाधनपरिमाणोक्तपुटपाकार्थत्रिफलाक्वाथविधिना, अथवा यत्र त्रिफलाव्यतिरिक्तक्वाथ्यद्रव्यान्तराण्यनुक्तमानानि सन्ति, देयजलमानं शेषजलमानञ्च नोपात्ते तत्र योगरत्नाकरोक्तव्यवस्थैवानुसर्त्तव्या। यदुक्तं क्वाथविधौ तत्रैव—“अन्यानि यानि व्यक्तानि योक्तव्यानि पुटादिषु। तानि लौहसमान्येव जलं प्रागेव कीर्तितम्। लभ्यते स्वरसा येषां तेषां क्वाथस्तु नेष्यते। त्रिफलाव्यतिरिक्वेन मतमेतत् पतञ्जलेः।” इति। जलं प्रागेव कीर्तितमिति मृदौ क्वाथार्थं चतुर्गुणं जलं देयं, स्थाप्यश्चतुर्थो भागः। मध्यद्रव्येऽष्टगुणं जलं देयं, स्थाप्यश्चाष्टमो भागः। कठोरद्रव्ये षोडशगुणं जलं देयं, स्थाप्यश्च षोडशो भाग इति। ननु पुटेन किमत्र क्रियते? उच्यते, दोषनाशगुणोदय इति। यदुक्तं—“पुटाद्दोषविनाशः स्यात् पुटादेव गुणोदयः। म्रियते हि पुटाल्लौहः पुटांस्तस्मात् समाचरेत्। यथा यथा प्रदीयन्ते पुटा सुबहवो यदि। तथा तथाभिवर्द्धन्ते गुणा एव सहस्रशः। तावल्लोहं पुटेद्वैद्यो यावच्चूर्णीकृतं जले। निस्तरङ्गे लघुत्वेन समुत्तरति हंसवत्। तावञ्च चूर्णयेदेनं यावत् कज्जलसन्निभम्। करोति विहिते नेत्रे नैव पीडां मनागपि।” इति। पुटानां कर्मभेदेन संख्याभेदो यथा—“शतादिस्तु सहस्रान्तः पुटो देयो रसायने। दशादिशतपर्यन्तो गदे पुटविधिर्मतः। वाजिकर्मणि विज्ञेयः पुटः पञ्चशताधिकः। दशोत्तरशतान्तस्तु पुटः पुरविचक्षणैः।” यदा तु क्षुद्रितमात्रेलौहे पुटा देयास्तदा एतावद् भूयः सख्यका अपि पुटा दीयन्ते। यदा तुप्रतिपुटान्ते पेषणं वस्त्रपूतञ्च तदा सप्ताष्टावेव विशिष्टफलदा भवन्तीत्युपदिशन्तिवृद्धाः। प्रतिपुटम् पेषणमाह प्रतीति— एतेन पेषणवक्ष्यमाणवस्त्रपूतत्वाभ्यां भस्मीभूतपुटार्थदत्तभेषजनिरासोऽपरदेयभेषजद्रव्यसंस्काराधानञ्चेति भावः। कोमलशिलासु पेषणं न कार्यमिति भावः। पिष्ट्वा च वस्त्रपूतं कार्यमित्याह तदय इत्यादि—घनं निविडं, सूक्ष्मञ्च यद्वासः, यत्र घ्रष्टव्यं पूतमित्यर्थः। इदानीमातुरस्य प्रकृत्यादिकं निरूप्य उक्तभेषजेषु यदनुचितं तस्यापकर्षः कार्यः। अनुक्तस्याप्युचितस्यादानं कार्यमित्याह पुटन इत्यादि। अधिकृतेति अधिकृतपुरुषश्चिकित्स्यत्वेन प्राकृत इत्यर्थः॥४२॥

इति पुटपाकविधिः॥
<MISSING_FIG href=”../../../../../books_images/U-IMG-1702323886Screenshot2023-12-121.14.26AM.png”/>

पाकविधिः।

अभ्यस्तकर्मविधिभिर्वालकुशाग्रीयबुद्धिभिरलक्ष्यम्।
लोहस्य पाकमधुना नागार्जुनशिष्टमभिदध्मः॥४३॥

इदानीं लौहस्य प्रधाननिष्पत्तिपाकमाह अभ्यस्तैत्यादि—अभ्यस्तकर्मविधिभिः दृष्टकृतलौहपाकैः। बालकुशाप्रमिति तीक्ष्णं सूक्ष्मंच्च तेन कुशाग्रमिव तीक्ष्णा सूक्ष्मा च बुद्धिर्येषां, दुरूहस्यार्थस्य तीक्ष्णसूक्ष्मबुद्धिग्राह्यत्वात् तैरप्यलक्ष्यं ज्ञातुमशक्यम्। नागार्जुनशिष्टं नागार्जुनेन कथितम्। लौहपाकारम्भेऽपि मङ्गलं कार्य्यम्। उक्तं हि पातञ्जले—“मातृकांपूजयेत् सर्वां नायिकाञ्च विनायकम्। अन्यत् स्वस्त्ययनं कुर्य्यात् सदा हितमनाः सुधीः। पक्ष एव भवेदेव त्रिवर्गफलदो नृणाम्” इति ४३

लोहारकूटताम्म्रकटाहे दृढमृण्मये प्रणम्य शिवम्।
तदयः पचेदचपलः काष्ठेन्धनेन वह्निना मृदुना॥
निक्षिप्य त्रिफलाजलमुदितं यत् तद् घृतञ्च दुग्धञ्च।
सञ्चाल्य लौहमय्या दर्व्या लग्नं समुत्पाठ्य॥४४॥

लौहपाकार्थं पात्रमाह लोहेत्यादि—आरकूटः पित्तलम् काष्ठेन्धनेनेति काष्ठपदं तृणतुषादिव्युदासार्थम्। वह्निनेत्यधोवह्निना। उक्तं हि—“मृदुनाधौ हुताशेन पक्तव्यमवधानतः” इति। स्थापितत्रिफलाद्वयकृतक्वाथादिप्रक्षेपार्थमाह निक्षिप्येत्यादि—उदितमित्युक्तपरिमाणम्। घृतादिदानक्रमश्च भोजराजेनोक्तः, यथा—“घृतेन लौहमालोड्यक्षीरेण समनन्तरम्। ततः क्वाथेन संयोज्य मन्देऽग्नौ शनकैः पचेत्। ततः सञ्चालयेल्लौहं लौहदर्व्यातिदीधेया” इति॥४४॥

मृदुमध्यखरभावैः पाकस्त्रिविधोऽत्र वक्ष्यते पुंसाम्।
पित्तसमीरणश्लेष्मप्रकृतीनां मध्यमस्तु समः।
अभ्यक्तदर्विलौहं सुखदुःखस्खलनयोगि मृदु मध्यम्।
उज्झितदर्विखरं परिभाषन्ते केचिदाचार्य्याः॥
अन्ये विहीनदर्वीप्रलेपमाखूत्कराकृतिं ब्रुवते।
मृदु मध्यमर्द्धचूर्णं सिकतापुञ्जोपमन्तु खरम्॥४५॥

इदानीं पित्तवातकफप्रकृतिषु क्रमात् पाकत्रयमाह मृद्वित्यादि—मध्यमपाको वातप्रकृतौहित एव, किन्तु प्रकृत्यन्तरेऽपि योज्य इत्याह मध्यमस्तु सम इति। सर्वप्रकृति सेव्यत्वेन सर्वास्वेव प्रकृतिषु उचित इत्यर्थः। अमोघोऽप्याह—“दर्वीमाश्लिष्यते यत्तु तच्च स्खलति वा न वा। मृदुपाकं विजानीयात् पित्तेतु विहितं सदा। सितापुञ्जोपमं यत्तु मूषिकोत्करसन्निभम्। तदयः खरपाकं स्यात् श्लष्मण्येव प्रकीर्त्तितम्। एकैकं गुणयोगित्वान्न तमिच्छन्ति तद्विदः। सर्वप्रकृतिसेव्यत्वान्मध्यमं बहुपूजितम्” इति। एकीयमते मृदुमध्यखरपाकाणां क्रमाल्लक्षणमाह अभ्यक्तेत्यादि अभ्यक्ता घनपङ्कवत् संश्लिष्टा दर्वी येन ईदृशं लौहं मृद्विति मृदुपाकं ब्रुवते। अभ्यक्तदर्वीत्यपि पाकः तथा सुखदुःखस्खलनयोगी—कदाचित् दर्वी त्यजति कदाचित् न त्यजति इत्यर्थः। एतादृशं यल्लौहं तन्मध्यममिति मध्यमपाकं ब्रुवते। तथा उज्झितदर्वीति यल्लौहं कदाचिदपि दर्व्या सन्त्यज्यते, तत् खरपाकं ब्रुवते इति। तथा अन्यतममतमाह अन्य इत्यादि—विशेषेण विहीनस्त्यक्तो दर्वीप्रलेपो येन ईदृशं, यथा आखूत्कराकृति इन्दुरमृत्तिकासदृशश्चयल्लौहं तन्मृद्विति मृदुपाकं ब्रुवते। तथा अर्द्धचूर्णलौहं मध्यमिति मध्यपाकं ब्रुवते अद्धचूर्णमिति अर्द्धं चूर्णम् अपरमर्द्धञ्च आखूत्कराकारमित्यर्थः। तथा सिकतापुञ्जोपमं बालुकाराशिसदृशं यल्लौहं चक्षुष्यं गृह्यते न तु स्पर्शेन, तत् खरपाकं ब्रुवते। पातञ्जले तु स्पर्शादिनापि पाकज्ञानमुक्तं—“तावल्लौहं पचेद्वैद्यो यावद्वस्त्रेण पीडितम्। समग्रं जायते व्यक्तं न निःसरति सन्धिभिः। अंगुलिभ्यां निघृष्टन्तु यदा चूर्णत्वमागतम्। तदा सिद्धं विजानीयालौहं लौहविशारदः। वर्त्तितो वर्त्तितो वर्त्तिस्वरूपत्वं व्रजेदिति। ताभ्यामेव शनैर्वृष्टं सिद्धं विद्याच्चिकित्सकः। मन्द माहुस्तथा लौहमलब्धाखिललक्षणम्। अतिपाकेन तज्ज्ञेयं खरमुज्झितलक्षणम्” इति। जीवनाख्योप्याह—“अञ्जनाभं घनं स्निग्धं श्लथमूलमथोद्धरेत्। अक्लिन्नमम्मसि क्षिप्तं सम्यक् पाकस्य लक्षणम्” इति॥४५॥

त्रिविधोऽपि पाक ईदृक् सर्वेषां गुणकृदेव न तु विफलः।
प्रकृतिविशेषे सूक्ष्मौ गुणदोषौ जनयत्यल्पम्॥
विज्ञाय पाकमेव द्रागवतार्य्य क्षितौ क्षणान् कियतः।
विश्राम्य तत्र लौहे त्रिफलादेः प्रक्षिपेच्चूर्णम्॥४६॥

त्रिविधोऽप्ययं पाको न विफल इत्याह त्रिविध इत्यादि—लौहपाकानन्तरं त्रिफलादिचूर्णप्रक्षेपमाह विज्ञायेत्यादि—द्राक् शीघ्रं, क्षितौ, नाकाशे। कियतः क्षेणान् विश्राम्येत्यनेन सर्वथा निवृत्तिर्न प्रतिपाद्यते, किन्तर्हि, मनाक् तप्तत्वम्, यदाह पतञ्जलिः—‘अवतार्य मनाक् तप्ते’ इति। इति कर्त्तव्यता त्विह योगरत्नाकरसमुच्चयोक्तानुसर्त्तव्या। यदुक्तं तत्रैव—“अवतार्यततो दर्व्या परिघट्ट्यपुनः पुनः। यदा पाणिसहो भूतो निक्षिपदौषधं तदा। स्तोकं स्तोकं च दातव्यं परिघट्ट्य निरन्तरम् इति॥४६॥

यदि कर्पूरप्राप्तिर्भवति ततो विगलिते तदुष्णत्वे।

चूर्णीकृतमनुरूपं क्षिपेन्न वा न यदि तल्लाभः॥
पक्वं तदश्मसारं सुचिरघृतस्थित्यभाविरूक्षत्वे।
गोदोहनादिभाण्डे लौहभाण्डाभावे सति स्थाप्यम्॥४७॥

लाभे सति सौगन्ध्यार्थं कान्तक्रामकीयदोषहरणार्थञ्च कर्पूरप्रक्षेपमाह यदीत्यादि—विगलित इति अपगते। अनुरूप इत्यनेन यावतानुत्कटगन्धस्वादूपलम्भो भवति तावन्मानमित्यर्थः। न वा न यदि तल्लाभ इति। यदि कर्पूरलाभो न स्यात् तदा न वा क्षिपेदित्यन्वयः। पक्वलौहं दिनान्तरे वारत्रयमिति श्लक्ष्णं पेष्टव्यम्। उक्तं हि योगरत्नाकरे—“विश्राम्य रजनीमेकां पेष्टव्यः शीतलीकृतः। त्रिधा शिलातले श्लेक्ष्णे शिलापुत्रेण तादृशा” इति। अथ सिद्धस्य लौहस्य स्थापनार्थं पात्रमाह पक्वमित्यादि—सुचिरकालं घृतस्थित्या अभावि रुक्षत्वं यस्य तादृशे, बहुदिनं व्याप्य घृतभावितं यत् पात्रम् तस्मिन्नित्यर्थः। गोदोहनादिभाण्डे दधिदुग्धादिभाविते, लौहभाण्डाभाव इति कान्तादिलौहपात्राभावे, तदुक्तं—“कान्तादिलौहभाण्डे तु तद्वत् ताम्रमये शुभे। चिराज्यभाविते मार्दे लौहताम्राद्यसम्भवे” इति॥४७॥

यदि तु परिप्लुतिहेतोर्घृतमीक्षेताधिकं ततोऽन्यस्मिन्।
भाण्डे निधाय रक्षेद्भाव्युपयोगो ह्यनेन महान्॥
अयसि विरूक्षीभूते स्नेहस्त्रिफलाघृतेन सम्पाद्यः।
एतत् ततो गुणोत्तरमित्यमुना स्नेहनीयं तत्।
अत्यन्तकफप्रकृतेर्भक्षणमयसोऽमुनैव शंसन्ति।
केवलमपीदमशितं जनयत्यसौ गुणान् कियतः॥४८॥

इदानीमयःपाकार्थं दत्तं घृतमधिकं यद्युपलभ्यते, तदा तदाकृष्यभाविलौहरूक्षत्वनिवृत्त्यर्थं पात्रान्तरे स्थाप्यमित्याह यदि त्वित्यादि—घृतस्याधिक्यमेव कथं ज्ञातव्यमित्याह परिप्लुतिहेतोरिति—परिप्लुतिः पात्रादुच्छलित्वम्। ईक्षेत उपलभेत। किमर्थं तद्घृतं रक्षणीयमित्याह भाव्युपयोग इत्यादि। हि यतोऽनेन लौहमात्रोच्छलितघृतेन महान् उपयोगो महत् प्रयोजनं भावि वर्त्तते, स च रूक्षीभूतलौहस्नेहनादिरूपः उक्तंहि—“भवेद् यदि क्वचिल्लौहेभवनादधिकं हविः। पृथक्पात्रेऽपि तत् स्थाप्यं स्रोहनार्थं विरूक्षिते। अथवा मर्दनं लौहे यन्मधुसर्पिषेष्यते। तदनेनैव कर्त्तव्यमिति केचिद्व्यवस्थिताः।” यदि पुनर्लोहपाकोच्छलिते घृतं न लभ्यते, तदा त्रिफलाक्वाथकल्काभ्यामन्यद् घृतं पक्त्वा रुक्षितलौहस्य स्नेहनं कार्यमित्याह अयसीत्यादि। किन्तु उक्तत्रिफलाघृतात् लौहपाकोच्छलितं घृतमेवोत्कृष्टगुणमित्याह एतदित्यादि—एतदिति लौहपात्रोच्छलितं घृतम्। तत इति त्रिफलाघृतात् गुणोत्तरमुत्कृष्टगुणमिति। अमुना घृतेन तदयः, स्नेहनीयमिति। तस्यैव घृतस्य प्रयोजनान्तरमाह अत्यन्तेत्यादि—अमुनैवेति लौहपात्रोच्छलितघृतेनेत्यर्थः। लौहोच्छलितघृतस्योत्कृष्टगुणत्वमप्याह केवलमित्यादि—केवलं लौहपात्रोच्छलितघृतम्। जनयत्यसौ गुणान् कियत इति लौहसम्बन्धेन लौहगुणानुविधानादिति भावः॥४८॥

अथवा वक्तव्यविधिसंस्कृतकृष्णाभ्रकचूर्णमादाय।
लौहचतुर्थार्द्धसमद्वित्रिचतुःपञ्चगुणभागम्॥
प्रक्षिप्यायः प्राग्वत् पचेदुभाभ्यां भवेद्रजो यावत्॥
तावन्मानानुस्मृतेः स्यात् त्रिफलादिद्रव्यपरिमाणम्।
इदमाप्यायकमिदमतिपित्तनुदिदमेव कान्तिवलजननम्।
स्तभ्नाति तृट्क्षुधौ परमधिकाधिकमात्रया क्षिप्तम्॥४९॥

इदानीं पित्तदृष्टिं प्रति अत्रैव लौहे चतुर्थर्द्धसमादिमानतोऽभ्रकप्रवेशेन लौहाभ्रकं पक्तुंविधिमाह अथवेत्यादि—वक्तव्यविधिनेति कृष्णाभ्रकमभेकवपुरित्यादिना ग्रन्थेन योऽभ्रकसस्कारस्य विधिरविधिश्च वक्तव्यस्तेन विधिना संस्कृतमभ्रकचूर्णं निश्चन्द्रीकृतमादाय अयो लौहचूर्णं प्रक्षिप्य पचेदिति। कियन्मानम् अभ्रकचूर्णं ग्राह्यमिति जिज्ञासायामभ्रस्यैव भागक्रममाह लौहचतुर्थेत्यादि। लौहचूर्णमपेक्ष्य निश्चन्द्रीकृताभ्रचूर्णस्य चतुर्थो भागः पादिकः इत्यर्थः। तथा पचनीयैकपलादित्रयोदशपलान्तलौहचूर्णस्य द्वयन्तु अभ्रस्य पुनरेको भागः, तेन लौहस्य भागद्वयम्, अभ्रस्य तदर्द्धमेको भाग इति अभ्रस्यार्द्धभागत्वम्। तथा एको भागो लौहस्य अपरएको भागोऽभ्रस्येति लौहसमत्वमभ्रस्येति। एवमेको भागो लौहस्य, द्वयन्तु अभ्रस्येति द्विगुणत्वम्। तथा एवमेको भागो लौहस्य, अस्य भागत्रयमिति अभ्रस्येति त्रिगुणत्वम्। लोहस्यैकोभागःभागचतुष्टयन्तु अभ्रस्य तथा एको भागो लौहस्य, पञ्चभागस्तु अभ्रस्येति ज्ञेयम्। एव क्रमेण लौहाभ्रकाभ्यां मिलित्वा एकपलादित्रयोदशपलान्तमानव्यवस्थया पाकः कार्य्यः इत्याह प्राग्वदिदित्यादि। एवञ्च सति अभ्रकप्रवेशेन प्रधाननिष्पत्तिपाकार्थं त्रिफलाक्वाथदुग्धघृतप्रक्षेप्यचूर्णपरिमाणं कीदृशमिति निर्णयार्थमाह उभाभ्यां भवेदित्यादि—अयमर्थः उभाभ्यां लौहाभ्रकाभ्यां मिलित्वा यावद्रजो भवेत् तावदेव लोहमानं परिकल्प्य तन्मानानुसारेण त्रिफलादिमानं कल्पनीयम्। पूर्वं केवललौहपाके त्रिफलादीनां यावन्मानमुक्तम् इदानीं मिलितलौहाभ्रकेऽपि तावदेवेत्यर्थः। अतएव लाहरसाभ्रकयोगमपेक्ष्य योगरत्नाकरेऽप्यभिहितं—“यावल्लौहरजस्तस्मात् भवेदर्द्धेन पारदः। तदर्द्धेन घनं प्रोक्तं मतमेतत्पतञ्जलेः। मानेन त्रितयस्यास्य नित्यं ग्राह्यं पलत्रयम्” इति। ननु किमर्थं पुनरुत्तरोत्तरमधिकाधिकमात्रया लौहे क्षिप्तमभ्रकमित्यत आह इदमित्यादि। इदमभ्रकं लौहे, अधिकाधिकमात्रया समुपयुक्तं सद्विधिना आप्यायकत्वादिगुणविशिष्टं भवतीत्यर्थः। आप्यायकरणम् अमृतसिक्तमिव पुरुषं बलोत्कर्षं करोतीत्यर्थः। स्तभ्नाति तृट्क्षुधाविति तृट्क्षुधौ पुरुषस्य बाधां न जनयत इत्यर्थः। किंवा आहारजातमविकलमखिलं

परिणमत्येव एषा बुभुक्षा च न पुरुषमरणं करोतीत्यर्थः॥४९॥

इति पाकविधिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1702289786Screenshot(110”/>.png)

अभ्रकविधिः।

कृष्णाभ्रमभेकवपुर्वज्राख्यञ्चैकपत्रकं कृत्वा।
काष्ठमयोदूखलके चूर्णं मुसलेन कुर्वीत॥

भूयो दृशदि च पिष्टं वासः सूक्ष्मावकाशतलगलितम्।
मण्डूकपर्णिकायाः प्रचुररसे स्थापयेत् त्रिदिनम्॥

उद्धृत्य तद्रसादथ र्पिप्याद्धैमन्तिकधान्यभक्तस्य।
अक्षोदात्यन्ताम्लस्वच्छजलेन प्रयत्नेन॥

मण्डूकपर्णिकायाःपूर्वरसेनैव लोडनं कुर्य्यात्॥
स्थालीपाकं पुटनञ्चाद्यैरपि भृङ्गराजाद्यैः॥५०॥

वक्तव्यविधिसंस्कृतकृष्णाभ्रकचूर्णमित्युक्तम्, अतस्तामेवाभ्रकशुद्धिमाह कृष्णाभ्रमित्यादि। अभेकवपुरिति भेकस्य वपुः हरितपीतादिवर्णं भवति तेन यदाधिकं वर्णेन भेकस्य वपुरिव एकदेशेऽपि न भवति तदेव च वज्राख्यं वज्रीति तस्य प्रसिद्धिः। तदुक्तं योगरत्नाकरे—“अप्रशस्तं कठोराङ्गं गुरु कज्जलसन्निभम्। यन्न शब्दायते वह्नौनैवोच्छूनं भवेदपि। सदाकरसमुद्भूतं वज्रीति प्रथितं घनम्” इति। तदभ्रकं नखादिभिरेकपत्रं कर्त्तव्यं, भूयः पुनः दृशदि शिलायां पिष्टं चूर्णीकृत्य घनतरवाससा छानयित्वाऽधो यद्गलितं तद्ग्राह्यम्। मण्डूकपर्णीथानकुनीति ख्याता, तद्रसादिति मण्डूकपर्णीस्वरसात्। अक्षोदेति क्षोदोऽत्र शीर्णभक्तसिक्थकम्, अक्षोद‍ञ्च तद्विरहात्। पेषणानन्तरं यत् कर्त्तव्यं तदाह मण्डूकपर्णिकाया इत्यादि। पूर्वरसेनेति यत्रैव मण्डूकपर्णी रसे दिनत्रयं स्थापितमासीत् तेनैव रसेन विसृज्य मोदकाकारं कुर्य्यात् मोदयतीति मोदन इति मोदनशब्दोऽपि मोदकार्थे द्रष्टव्यः। क्वचित्तु मोदकमिति पाठः। स च तत्तदाकारपुस्तकेषु न दृश्यते। मोदकाकारञ्च कृत्वा दिनैकं स्थापयित्वा शुष्कीकुर्य्यादित्युपदेशो बोद्धव्यः। अयमभ्रकशोधनप्रकारः अघोराचार्य्यमतानुसारेण निवद्धः। तत्र मण्डूकपर्णीरसेन यद्यपि पुनर्मोदककरणं नास्ति तथापि षट्कर्मणा प्रतिसंस्कृत्योपदेशादिदं लिखितमिति बोध्यम्। तदनु चास्य अभ्रस्य चूर्णीकृतस्य स्थालीपाकपुटपाके कर्तव्ये तदर्थं द्रव्याण्याह स्थालीपाकमित्यादि—आद्यैर्भृङ्गराजाद्यैरिति लौहपुटनविधौ भृङ्गराजकेशराजशतावरीकन्दमाणादिरसैरित्यर्थः। आद्यैरित्यत्र अन्यैरपि पाठः। किन्तु पूर्वपाठ एव र्टाकाकारसम्मतः॥

ताडादिपत्रमध्ये कृत्वा पिण्डं निधाय भस्राग्नौ।
तावद्दहेन्न यावन्नीलोऽग्निर्दृश्यते सुचिरम्।
निर्वापयेच्च दुग्धेन दुग्धं प्रक्षाल्य वारिणा तदनु।

पिष्ट्वाघृष्ट्वा वस्त्रे चूर्णं निश्चन्द्रकं कुर्य्यात्॥५१॥

एवं पुटादिशोधितस्याभ्रस्य वह्नौध्मापनं कार्य, ततस्तद्विधिमाह ताडादिपत्रेत्यादि—ताडा स्वनामख्याता, आदिशब्दात् केवुकादिपत्रं बोध्यम्। किन्त्विदानींताडादिपत्रपिहितस्याभ्रस्य ध्मापनं व्यवहरन्ति। पिण्डीकरणञ्च मृङ्गराजादिद्रवालोढनादधिगन्तव्यम्। दुग्धं प्रक्षाल्येति दुग्धनिर्वापितोत्थापिताभ्रकसंलग्नं यद् दुग्धम्। यद्यपीदानीं ताडादिपत्रपिहितस्य ध्मापनमभ्रस्य न व्यवहरन्ति, किन्तु पुटैरेवास्य निश्चन्द्रकत्वं क्रियते, तथाप्यस्मात् बहुधा कृतत्वात् आ सम्यक् निश्चन्द्रकत्वमनेनास्य भवत्येव। ध्मापितं यतोऽभ्रस्य निश्चन्द्रीकरणमेव यथोक्तगुणकरणे प्रयोजकमिति, तच्च येन केनापि भेषजेन भवतु।अपरापरेऽभ्रमारणप्रकारा नानाचार्योक्ताः सन्ति, ते च योगरत्नाकरसमुच्चयादधिगन्तव्याः। तत्रैकं प्रसिद्धमतं यथा—आशु भक्तोदकैः पिष्टमभ्रकं तत्र संस्थितम्। कन्दमाणास्थिसंहारखण्डकर्णरसैरथ। वृद्धदारकपिण्डेन कालमारिषजेन च॥ वृश्चीरवृहतीमृङ्गलक्षणाकेशराजजैः। पेषणं भावनं कुर्य्यात् पुटपाकमनेकधा। यावन्निश्चन्द्रकत्वं स्यात् ततो मोचरसेन च। कालमारिषजेनापि स्थालीपाकं प्रदापयेत्। यावद् भस्मत्वमायाति शुद्धिरेवं विहायसः” अत्र वृश्चीरं श्वेतपुनर्नवा; लक्षणा खनामख्याता; मोचा रम्भा; व्यक्तमन्यत्। किन्त्वयं वृद्धवैद्यैः प्रायः क्रियते॥५१॥

इत्यभ्रकविधिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1702291709Screenshot(111”/>.png)

लौहभक्षणविधिः।

नानाविधरुक्शान्त्यै पुष्ट्यै कान्त्यै शिवं समभ्यर्च्य।
सुविशुद्धेऽहनि पुण्ये तदमृतमादाय लौहाख्यम्॥

दशकृष्णलपरिमाणं शक्तिवयोभेदमाकलय्य पुनः।
इयधिकं तदधिकतरामियदेव न मातृमोदकवत्॥५२॥

इदानीं निष्पन्नलौहस्य भक्षणविधिमाह नानेत्यादि—नानाविधव्याधयः पुराणज्वरातीसारग्रहणीरक्तपित्तराजयक्ष्मप्रभृतयः। अमृतमिति अमृतमिवामृतम्। तच्च कियन्मानमुपयोज्यं तत्राह दशेत्यादि—कृष्णला रक्तिः, तेन चरकमानमाषकमित्यर्थः अयञ्च दशरक्तिपरिमाणारम्भः उत्तमपुरुषबलवयोऽभिहितः, तेन मध्यमाधमपुरुषशक्तिवयोऽपेक्षया इदं दशरक्तिपरिमाणं यथाक्रमं मध्यमाधमयोरधिकमधिकतरञ्च भवतीति। बलाद्यपेक्षया उक्तपरिमाणादल्पाल्पतरपरिमाणेनाप्यारम्भः। वर्द्धने कर्त्तव्ये नपुनर्दशराक्तिपरिमाणं युक्तमिति कृत्वा तावत्परिमाणमेवकर्त्तव्यमिति मातृमोदकवन्निबन्धो न कार्य इत्यर्थः। तेन “आरम्भो वर्द्धनञ्चापि पञ्चद्वित्र्येकगुञ्जया।” तथापि पञ्चसप्तनवरक्तिकाः प्रथमदिने, तथा—“रक्तिमेकामुपक्रम्य यावत् स्युर्नव रक्तिकाः” इत्यादि यत् तन्त्रान्तरे उक्तं, सर्वमनेन तत् संगृहीतम्॥

सममसृणामलपात्रे लौहे लौहेन मर्दयेद्गाढम्।
भूयोभूयः दत्त्वा मध्वनुरूपं तदनु घृतं योजयेदधिकम्।
वन्धं गृह्णाति यथा मध्वपृथक्त्वेन पङ्कमविशिंषत्॥५३॥

लौहमर्दनार्थं पात्रमाह समेत्यादि। उत्तानवामकरतलस्थापनार्थं तत् पात्रं भाजनाकारं करणीयम्। लौहेनेति लौहदण्डेन। मधु तदुचितं दत्वा, अधिकमिति मध्वपेक्षया किञ्चिदधिकं घृतं मिश्रणीयम्। मर्दनविध्यर्थं लक्षणमाह बन्धमित्यादि—अविशिंषदिति स्वतन्त्रं मधु अपृथक्त्वेन एकत्वेनाविशिषत् विशेषमकुर्वत् अतएव पङ्कमिति॥५३॥

इदमिह दृष्टोपकरणमेतद् दृष्टन्तु मन्त्रेण।
स्वाहान्तेन विमर्दो भवति फडन्तेन लोहवलरक्षा।
सनमस्कारेण बलिर्भक्षणमयसो हूमन्तेन।

ओंअमृतोद्भवाय स्वाहा। “ओं अमृते हूंफट्” “ओं नमश्चण्डवज्रपाण्ये महायक्षसेनाधिपतये सुरगुरुविद्यामहावलाय स्वाहा” “ओं अमृते हूम्॥५४॥

दृष्टादृष्टाभ्यां हि कार्य्यसिद्धिरिति दृष्टमुक्त्वा मन्त्रजमस्यादृष्टार्थमाह इदमित्यादि। तत्र प्रथमं लौहरक्षणमन्त्रमाह ओं अमृतोद्भवायेत्यादि। अयं स्वाहान्तो मर्दनमन्त्रः। लौहरक्षणमन्त्रमाह ओं अमृते हूं फट् इति। बलिदानमन्त्रमाह ओं नम इत्यादि। भक्षणमन्त्रमाह ओं अमृते हूमिति॥५४॥

जग्ध्वा तदमृतसारं नीरं वा क्षीरमेवानुपिबेत्।
कान्तक्रामकममलं सञ्चर्व्यं रसं पिबेद्विने न तु तत्।
आचम्य च ताम्बूलं लाभे घनसारसहितमुपयोज्यम्॥५५॥

लोढभेषजपाकार्थमनुपानमाह जग्ध्वेत्यादि—नीरञ्चामलम् आकाशगुणत्रयभूयिष्टभूभागाश्रयं, क्षीरं च गव्यं सर्वत्र, उक्तञ्च—“सर्वत्र गव्यमेवेति मतमाह पातञ्जलिः इति। अनुपानञ्च लौहापेक्षया चतुःषष्टिगुणम् तदुक्तंयोगरत्नाकरे—“अनुपानं चतुःषष्टिगुणं प्राहुः सदा बुधाः” तथा अन्यत्रोक्तम्अनुपानं प्रयोक्तव्यं लौहात् पञ्चगुणं पयः” इति। अनुपानं कृत्वा लौहदोषनिरासाय निस्त्वचः कान्तक्रामकस्य स्वरसमात्रं पेयमित्याह कान्तक्रामकमित्यादि। आचम्येति। आचमनञ्च शृतशीतजलेन हंसोदकेन वा। यदुक्तं—“कृत्वानुपानमाचम्य शृतशीतजलेन वा। यद्वा हंसोदकेनैव” इत्यादि॥५५॥

नात्युपविष्टो नाप्यतिभाषी नातिस्थितस्तिष्ठेत्।
अत्यन्तवातशीतातपयानस्नानवेगरोघादीन्॥

जह्याच्च दिवानिद्रामहितञ्चाकालभुक्तञ्च।
वातकृतः पित्तकृतः सर्वान् कट्वम्लतिक्तकषायान्।
तत्क्षणविनाशहेतून् मैथुनकोपश्रमान् दूरे॥५६॥

अनुपानादिकं कृत्वा यथा स्थातव्यं तदाह नात्युपविष्ट इत्यादि–नातिस्थित इति तुङ्गीभूतः दण्डायमानः सन् अति न तिष्ठेत् चिरं न तिष्ठेदित्यर्थः। अपरं परिवर्जनीयमाह अत्यन्तेत्यादि—अत्यन्तेति वातादिभिः सम्बध्यते, यानमश्वादियानम्, आदिशब्दादीर्ष्याचिन्ताविषण्णाङ्गन्यासादीनां ग्रहणम्। अकालभुक्तम् अजीर्णादौ भोजनमावर्जनीयरसानाह वातकृत इत्यादि—वातकृत इत्यादिकं हेतुगर्भमेव विशेषणं, किंवा वातकृतः पित्तकृत इत्यनन कट्वम्लतिककषायाः पिप्पल्यामलकगुडूचीहरीतक्यादयो वातपित्ते न कुर्वन्ति, तेषामुपयोगो न विरुध्यत इति दर्शयति विशेषेण वर्जनीयविधानमाह तत्क्षणेत्यादि—अत्रापि जह्यादिति पूर्वोक्तं सम्बध्यत॥५६॥

अशितं तदयः पश्चात् पततु न वा पाटवं छडु प्रथताम्।
आर्त्तिर्भवतु न वान्त्रे कूजति भोक्तव्यमव्याजकम्॥५७॥

प्रातरुपयुक्तं लौहञ्चेत् अतः कस्यामवस्थायां भोक्तव्यमित्याह अशितमित्यादि। अशितं तदयः पश्चादिति गुदेन पततु प्रवर्त्ततां, न वा, तथा आर्तिरिति बुभुक्षा पीडा भवतु वा न वा, तथापि पाटवम् आलस्यादिराहित्यं छडु भवतु तथा लौहसम्भावित देहे सम्यग् वायोः सञ्चरणेनात्र कूजनञ्च छडु भवतु तदैव अव्याजं निःशङ्कं भोक्तव्यं छडु इत्यङ्गीकारविश्रामे। एतेन पाटवमन्त्रकूजनमतदुभयमेव भोजनं प्रति प्रयोजकमित्यर्थः॥५७॥

प्रथमं पीत्वा दुग्धं शाल्यन्नं विशदसिद्धमक्लिन्नम्।
घृतसंप्लुतमश्नीयान्मांसैर्वैहङ्गमैः प्रायः॥

उत्तममूषरभूचरविष्किरमांसं तथाजमैणादिकम्।
अन्यदपि जलचराणां पृथुरोमापेक्षया ज्यायः॥

मांसालाभे मत्स्या अदोषलाः स्थूलसद्गुणा ग्राह्याः।
मद्गुररोहितशकुला दग्धास्तु पललान्मनाङ्न्यूनाः॥

शृङ्गाटकफलकशेरुकदलीफलतालनारिकेलादि।
अन्यदपि यच्च वृष्यं मधुरं पनसादिकं ज्यायः॥

केवुकताडकरीरान् वार्त्ताकुपटोलफलदलसमठान्।
मुद्गमसुरेक्षुरसान् शंसन्ति निरामिषेष्वेतान्॥५८॥

इदानीं भोजनं येन विधिना कर्तव्यं तदाह प्रथममित्यादि—विशदं शुभ्रम्, अक्लिन्नमिति नान्योन्यसंलग्नम्। दुग्धमिति जीवद्वत्सशुक्लायाः कृष्णायाः वा प्रवृद्धवत्साया वा ग्राह्यम्। वैहङ्गमैरिति तित्तिरादिविहंगमसम्भूतैः। प्रायःशब्दादाजैणादिकं बोद्धव्यम्। एतदेवाह उत्तममित्यादि—ऊषरभूचरजांगलदेशचराः लावतित्तिरिशशकादयः, विष्किराः कुक्कुटादयः एषां मांसमुत्तममिति बालस्थविरव्याधितादिवर्जितानाम्। आदिशब्दात् कृष्णसारगोधादयः अन्यदपीति विष्किरादिव्यतिरिक्तमित्यर्थः।

जलचरा हंसादयः। पृथुरोमापेक्षया ज्याय इति मत्स्यापेक्षया श्रेष्ठमित्यर्थः। अन्ये तु पृथुरोमा शकुल्यमित्याहुः। मांसाप्राप्तो मत्स्यविशेषोपयोगमाह मांसालाभ इत्यादि। के ते सद्गुणा इत्याह मद्गुरेत्यादि—एतेन मद्गुरादयो दग्धाः सन्तः पललादिति मांसात् मनाङ् न्यूनाः किञ्चिद्धीना इत्यर्थः। इदानीमत्रोचितं फलकन्दमाह शृङ्गाटकेत्यादि—आदिशब्दादाम्रखर्जूरादिकम्। निरामिषव्यञ्जनार्थमाह केवुकेत्यादि—ताडकरीरास्ताडकांकुराः। फलदलेति पटोलस्य फलदलम्॥५८॥

शाकं प्रहेयमखिलं स्तोकं रुचये तु वास्तुकं दद्यात्।
विहितनिषिद्धादन्यन्मध्यमकोटिस्थितं विद्यात्॥५९॥

शाकं पुनःसकलमेव वर्जनीयमित्याह शाकमित्यादि—प्रहेयमित्यवश्यत्याज्यम्, रुच्यर्थं पुनर्वास्तूकमेवाल्पप्रमाणं दद्यात्। विहितनिषिद्धव्यतिरिक्तं यद्वाच्यं तत् साधारणं ज्ञयमित्याह विहितेत्यादि॥५९॥

तप्तदुग्धानुपानं प्रायः सारयति बद्धकोष्ठस्य।
अनुपीतमम्बुयद्वा कोमलशस्यनारिकेलस्य॥

यस्य न तथा सरति सयवक्षारं जलं पिबेत् कोष्णम्।
कोष्णं त्रिफलाक्वाथं सनाथं क्षारं ततोऽप्यधिकम्॥६०॥

इदानीं बद्धकोष्ठं प्रति अनुपानविशेषमाह तप्तेत्यादि—तप्तक्षीरानुपानेन व्यवहरन्ति वृद्धाः। नारिकेलोदकञ्च प्रचरति। एवमपि कृते यदा न प्रवृत्तिस्तदा तस्य किं कर्तव्यमित्याह यस्येत्यादि। उष्णजले कोष्ठानुरूपं यवक्षारं प्रक्षिप्य पिबेदित्यर्थः। प्रयोगान्तरमाह त्रिफलेत्यादि—क्षारं यवक्षारं सनाथमिति सहितमित्यर्थः। यवक्षारप्रक्षेपश्च “प्रक्षेपःपादिकः क्वाथ्यात्” इति परिभाषयैव। तत इत्युक्तयोगात्॥६०॥

त्रीणि दिनानि समं स्यादह्नि चतुर्थे तु वर्द्धयेत् क्रमशः।
यावच्चाष्टममाषं न वर्द्धयेत् पुनरितोऽप्यधिकम्॥

आदौ रक्तिद्वितयं द्वितीयवृद्धौ तु रक्तिकात्रितयम्।
रक्तिपञ्चकं पञ्चकमत ऊर्द्ध्वंवर्द्धयेन्नियतम्॥६१॥

लौहप्रमाणवृद्धिर्हि क्रमणैव कार्या अतस्तमेव वृद्धिक्रमं दर्शयति त्रीणि दिनानीत्यादि—येन परिमाणेन लौहभक्षणारम्भः कृतः, तेनैव परिमाणेन दिनत्रयं कार्यम्,चतुर्थदिनादारभ्य पुनरपि दिनत्रयं यावत् समवृद्धौ वर्द्धयेत् त्रीणि दिनानि समं स्यादित्युक्तेः ततोऽपि सप्तमदिने या रक्तिवृद्धिः कृता तयैव वृद्ध्या पुनरपि दिनत्रयं यावत् वर्द्धयेत् त्रीणि दिनानि समं स्यादित्युक्तेरित्यादि बोध्यम्। एवं क्रमेणाष्टमाषकपर्यन्तं वृद्धिः कार्या, इतोऽधिकवृद्धिन कार्येत्याह यावदष्टममाषामत्यादि—क्रमशो वर्द्धयेदित्युक्तमतस्तमेव क्रममाह आरावित्यादि—आदौलौहप्रयोगारम्भे रक्तिद्वयं कृत्वा त्र्यहमुपयोज्यम्, ततः प्रथमवृद्धौ चतुर्थदिनमारभ्य रक्तिद्वयं कृत्वा त्र्यहं वृद्धिः कार्या, तेन द्वितीयत्र्यहे प्रतिदिनं रक्तिकाचतुष्टयं भवति, ततो द्वितीयवृद्धौरक्तित्रयं कृत्वा त्र्यहं वृद्धिः, तेन तृतीयत्र्यहे प्रतिदिनं सप्तरक्तिका भवन्ति, अत ऊर्द्ध्व चतुर्थपञ्चमादित्र्यहेषु त्रीणि दिनानि समं स्यादित्युक्तरीत्या क्रमेण रक्तिपञ्चमं कृत्वा अष्टमाषकं यावद् वर्द्धयेत्। तेन चतुर्थत्र्यहे द्वादशरक्तिःपञ्चमत्र्यहे सप्तदशरक्तिः, षष्ठे द्वाविंशतिरित्यादि ज्ञेयम्, तेन पञ्चदिनादधिकं सप्तसप्ताहे दंशरक्तिकमाषेण द्विरक्तिकाधिका अष्टौ माषका भवन्ति, अत्र च तत्र चतूरक्तिकावृद्धिं त्यक्त्वा यथोक्तवृद्धौ वृद्धास्तथा कुर्वन्तीत्येव सिद्धान्तः॥६१॥

वात्सरिककल्पपक्षे दिनानि यावन्ति वर्द्धितं प्रथमम्।
तावन्ति वर्षशेषे प्रतिलोमं ह्रासयेत् तदयः॥

तेष्वष्टमाषकेषु प्रातर्माषकत्रयमश्नीयात्।
सायञ्च तावदह्नो मध्ये माषद्वयं शेषम्॥६२॥

इदानीं सवेत्सरं यावद् यदि कर्त्तव्यमिदं रसायनं स्यात् तदा वर्षावशेषदिनानि यावन्ति भवन्ति तावन्त्येव प्रतिलोमं रक्तिकादिक्रमेण ह्रासः कार्य इत्याह वात्सरिकेत्यादि—इदानीं पञ्चदिनाधिकसप्तसप्ताहैरष्टमाषकप्रमाणे सञ्जाते सति वत्सराभ्यन्तर एव केन प्रकारेण तल्लौहमुपयोज्यमित्याह तेष्वित्यादि—अष्टमाषकेषु मध्ये माषकत्रयं प्रातः। तावदिति माषकत्रयं सायाह्ने, अह्नोमध्ये भोजनसमये शेषं माषकद्वयम्। अन्यत्राप्युक्तं—“प्रातर्माषत्रयं कार्यं मध्याह्ने माषकद्वयम्। माषत्रयं दिवाशेषे माषकाष्टकभक्षणम्” इति। इदानीन्तु रक्तिकाद्वयमारभ्य योगिनं प्रति रक्तिकाद्वयवृद्ध्यैव त्रिसप्ताहपञ्चसप्ताहादिभिः किञ्चिदधिकमाषकद्वयं यावत् वृद्धिः ततो द्विसप्ताहादिभिः रक्तिकाद्वयेनैव ह्रास इति प्रायो व्यवहरन्ति वृद्धाः। उत्तरक्रिया चात्र द्विगुणा कार्या, तदुक्तं पातञ्जले—“इति मुख्यक्रियायाः स्याद् द्विगुणाचोत्तरक्रिया।” उत्तरक्रियात्र नात्युपविष्टो नात्यतिभाषी नातिस्थितस्तिष्ठेदित्यादिना उक्तैव॥६२॥

इति भक्षणविधिः॥
<MISSING_FIG href=”../../../../../books_images/U-IMG-1702630442Screenshot(112”/>.png)

एवं तदमृतमश्नन् कान्तिं लभते चिरस्थिरं देहम्।
सप्ताहत्रयमात्रात् सर्वरुजो हन्ति किं बहुना॥

आर्य्याभिरिह नवत्या सप्तविधीनां यथावदाख्यातम्।
अमतिविपर्य्ययसंशयशून्यमनुष्ठानमुन्नीतम्॥

मुनिरचितशास्त्रपारं गत्वा सारं ततः समुद्धृत्य।
निबबन्ध बान्धवानामुपकृतये कोऽपि षट्कर्मा॥६३॥

इदानीमस्य लौहस्य फलमाह एवमित्यादि—उपसंहरति आर्य्याभिरित्यादिना। सप्तविधयश्च—साध्यसाधनपरिमाणविधिः, स्थालीपाकविधिः, पुटनविधिः, प्रधाननिष्पत्तिः, पाकविधिरभ्रविधिर्भक्षणविधिश्चेति। एषामनुष्ठानं नवत्या आर्य्याभिः कोऽपीष्टकर्मा अमतिविपर्य्ययसंशयशून्यं यथा स्यात् तथा निबबन्ध इत्यर्थः। कोऽपीत्यनिर्दिष्टनामधेयः पुरुषः उत्कृष्टरूपः। षट्कर्मा श्रोत्रियः उक्तं हि—“याजनं यजनं दानं ग्रहाच्चैव परिग्रहः। अध्यापनमध्ययनं श्रोत्रियः षड्भिरेव च’, इति। अमतिः सर्वथा ज्ञानाज्ञानराहित्यं अतस्मिस्तद्बुद्धिर्भ्रमः स च द्विधा—एककोटिकोऽनेककोटिकश्च, तत्राद्या विपर्य्ययः, द्वितीयश्च संशय इति। अनुष्ठीयत इत्यनुष्ठानं ग्रन्थसन्दर्भ एव। यथावदाख्यातमित्यत्र पूर्वाचार्य्यैरिति शेषः। उन्नोतमिति गुरुपरम्परया उपदेशपूर्वकं कथितमित्यर्थः। मुनिरचितेत्यत्र मुनिर्नागार्जुनः।बान्धवानामिति मनुष्याणाम्। एषा चतुर्द्धाश्रयत्वेनावश्योपकर्त्तव्यता च बन्धुत्वम्, एतेनास्य निषन्धस्य अमतिविपर्य्ययसंशयनिरासः संक्षपश्चेति गुणद्वयमुहम्॥६३॥

अमृतसारलौहं समाप्तम्।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1702632020Screenshot(113”/>.png)

दासरसायनलौहम्।

यत्र तत्रोद्भवं लौहं निःशेषं मारितं यदि।
त्रिफलाव्योपसंयुक्तं भक्षयेद् वलिनाशनम्॥६४॥

इदानींनागार्जुनोक्तंदासरसायनलौहमाह यत्र तत्रेत्यादि—यत्र तत्र भवमिति ओड्रकलिङ्गादियत्किञ्चिद्देशभवं वज्रपाण्डयादिकमेव निःशेषमिति सर्वथैव मृतम्। निःशेषमित्यत्र निरुत्थमिति पाठे टङ्गणादियोगेनापि वह्नौ ध्मापनात् यदुपतिष्ठते पुनर्लौहभावं नापद्यत इत्यर्थः। त्रिफलेत्यादि—व्योषं त्रिकटु। त्रिफलात्रिकटुचूर्णञ्च मिलित्वा लौहसमं बोध्यम्। संयुक्तं सम्यक् युक्तम्, तेन मधुघृताभ्यां लौहपात्रे लौहदण्डेन विमर्द्यभक्षणीयम्। रक्तिकादिक्रमेणेति वदन्ति वृद्धाः। अन्ये त्वादौमाषकमेकमुपयोज्यमित्याहुः। वृद्धौ मध्ये वा अग्निबलमपेक्ष्य यथाशक्ति कुर्वन् सार्द्धसंवत्सरात् बलीं नाशयेदिति दासरसायनवटिकायामुक्तम्॥६४॥

सामान्याद् द्विगुणञ्चौड्रंकलिङ्गोऽष्टगुणस्ततः।
तस्माच्छतगुणं भद्रं भद्राद्वज्रं सहस्रधा॥

वज्रात् षष्टिगुणः पाण्डिर्निरविर्दशभिर्गुणैः।
ततः कोटिसहस्रं वा अयस्कान्तं महागुणम्॥६५॥

लौहानां गुणमाह सामान्यादित्यादि—दण्डभक्तिपर्य्यन्तदेशदक्षिणोत्तरदिक्सम्भवं लौहं सामान्यम्, द्विगुणमिति सामान्यलौहात् द्विगुणगुणकारकम्। औड्रमिति ओड्रदेशोद्भवम्, भद्रमिति भद्रदेशोद्भवम्। एषाञ्च भक्षणलक्षणञ्च टीकायामनुसन्धेयम्, इह तु विस्तारभयान्न लिखितम्॥६५॥

ताम्रयोगः।

रसतस्ताम्रं द्विगुणं ताम्रात् कृष्णाभ्रकं द्विगुणम्।
पृथगेवैषां शुद्धिस्ताम्रशुद्धिस्ततो द्विविधा॥

पत्रीकृतस्य गन्धकयोगाद्वा मारणं तथा लवणैः।

अक्ते ध्मापितताम्रे निर्गुण्डीकल्काकाञ्जिकमग्ने॥
यत् पतति गैरिकाभं तत्पिष्टमर्द्धगन्धकं तदनु।
पुटपाकेन विशुद्धं शुद्धं स्यादभ्रकन्तु पुनः॥
हिलमोचिमूलपिण्डे क्षिप्तंं तदनु मार्दसम्पुटे लिप्ते।
तीक्ष्णं दग्धं पिष्टमम्लाम्भसा साधु चन्द्रिकारहितम्।
रेचितताम्रेण रसः खल्वशिलायां धृष्टः पिण्डिका कार्य्या।
उत्स्वेद्य गृहसलिलेन निर्गुण्डीकल्केऽसकृच्छुद्धौ।
एतत् सिद्धं त्रितयं चूर्णितताम्रार्द्धिकैः पृथग् युक्तम्॥
पिप्पलीविडङ्गमरिचैः श्लक्ष्णं द्वित्रिमाषिकं भक्ष्यम्।
शूलाम्लपित्तश्वयथुग्रहणीयक्ष्मादिकुक्षिरोगेषु।
रसायनं महदेतत् परिहारो नियमतो नात्र॥६६॥

सम्प्रति ताम्रयोगमाह रक्त इत्यादि—शोधितात् पारदात् ताम्रं वक्ष्यमाणक्रमेण मारितचूर्णावस्थं द्विगुणं ग्राह्यम्, कृष्णाभ्रञ्च वक्ष्यमाणरीत्या शोधितं चूर्णावस्थं ताम्राद् द्विगुणं ग्राह्यम्। कृष्णेति अभ्रकविशेषणात् भेकवपुषो निरासः। एषां रसादीनां पृथगेव शुद्धिः। तत इति तेषु मध्ये ताम्रशुद्धिं द्विधा आह। किं तत्प्रकारद्वयमित्याह पत्रीकृतस्येत्यादि—मारणमिति छेदः। एतञ्च तनुपत्रीकृतम्। द्वितीयां शुद्धिमाह तथा लवणैरित्यादि—लवणैः सैन्धवादिभिः पञ्चभिरेव। आक्त इति लिप्ते निर्गुण्डी निसुन्दारः, तदीयमूलपत्रकल्कयुक्तकाञ्चिकमग्न इत्यर्थः। अतो द्रुतरूपं यत् ताम्रं पतति तद्गैरिकवल्लोहितमित्यर्थः। ताम्रादर्द्धं गन्धकं दत्त्वा तावदेकीकृत्य पेष्टव्यं, ततः स्थाल्यामारोग्य तुषभृत्तिकया लिप्त्वा लौहवत् पुटा देयः। अभ्रकशुद्धिमाह अभ्रकन्त्वित्यादि—अम्लाम्भसा काञ्जिकेन पिष्टं सत् हिलमोचिकापिण्डे कृत्वा एकमृत्पात्रे निधाय अपरेण विधाय तीक्ष्णमिति बहुलं यथा स्यात् तथा दग्धं पुटितं सत् चन्द्रिकारहितं भवति, तदनु पुटादाकृष्य शिलायां पिष्ट्वा चूर्णीकृत्य तत् ग्राह्यमित्यर्थः। अथ जारितताम्रचूर्णमिलितस्य रसस्य शुद्धिप्रकारमाह रेचितेत्यादि—रेचितताम्रेण सह रसः खल्वशिलायां मेलयित्वा धृष्ट्वा पिण्डिका कार्या। तदनु निर्गुण्डीकल्कमिश्रिते गृहसलिले काञ्जिके सा पिण्डिका असकृदित्यनेकवारमुत्स्वेद्य, शुद्धाविति शुद्ध्यर्थम्। उत्स्वेदनप्रकारश्चायं सूतनियामकभार्ग्यादिगणान्यतमद्रवे रसपिण्डतं मिलितरसताम्रचूर्णं दोलापाकेन निर्गुण्डीकल्केन मिश्रितकाञ्जिकेनाधो ज्वालया ताप्यमानेन उत्स्वेदनीयमसकृदित्यर्थः। सूतनियामकश्च भार्ग्यादिगणो योगरत्नाकरे यथा—“भार्गी शरपुङ्खा कुठारच्छिन्ना ब्रह्मी मूषिकपर्णिका पुनर्नवा अपराजिता अवाक्पुष्पी भेकाह्लारुदन्ती मयूरशिखा चेति। भार्ग्यादिरेव विख्यातः गणः सूतनियामकः।” इति। अग्नितापेनापि रसं क्वचिदपि न नीतं न ददातीत्यर्थः। सूतनियामकौषधमध्यगं रसं सकाञ्जिकदोलायन्त्रे पचेत्।

तदनु त्रितयमिदं रसाभ्रताम्रचूर्णं पिप्पल्यादित्रयञ्च प्रत्येकं ताम्रचूर्णादर्द्धमानं गृहीत्वा संयोजनीयं, तत एकीकृत्य अग्निबलाद्यपेक्षया द्वित्रिमाषकादिकमुपयोज्यम्। आदिशब्देन दशप्रभृतयः। कुक्षिरोगेष्विति अग्निमान्द्यादिष्वपीत्यर्थः॥६६॥

ताम्रयोगः।

तनुपत्रीकृतं ताम्रं नैपालं गन्धकं समम्।
दत्त्वा चोर्द्ध्वमधो मध्ये स्थालिकामध्यसंस्थितम्॥
कृत्वा स्वल्पशरावेण स्थालिमध्ये पिधाय च।
शर्कराभक्तलेपेन लिप्त्वा सन्धिं तदूर्द्ध्वतः॥
वालुकापूरितस्थाल्यां पिहितायां पुनस्तथा।
सुलिप्तायाञ्च यामैकमधोज्वालां प्रदापयेत्॥
तत आकृष्टताम्रस्य मृतस्य त्विह योजना।
अथ कर्पं गन्धकस्य वह्निस्थलौहपात्रगम्॥
शिलापुत्रेण सम्मर्द्य द्रुतं घृष्टं पुनः पुनः।
कृत्वा देयं मृतं ताम्रं कर्षमानं ततः पुनः॥
रसोऽम्लमथितः शुद्धस्तावन्मात्रः प्रदीयते।
ततस्तथैवं संमर्द्य पुनराज्यं प्रदापयेत्॥
अष्टविन्दुकमात्रञ्च मर्दयेन्मूर्छितं तथा॥
सर्वं स्यात् तत् आकृष्य शिलापुत्रादिसङ्गतम्॥
संहृत्यालम्बुपरसप्रसृतेनविलोडितम्।
पुनस्तथैव वह्निस्थलौहपात्रे विमर्दयेत्॥
याद्द्रवक्षयं पश्चादाकृष्य सम्प्रपेषितम्।
अलम्बुपरसैनैव गुडकं सम्प्रकल्पयेत्॥
तत्पिण्डं वस्त्रविस्तीर्णं पिण्डे त्रिकटुजे पुनः।
वसनान्तरिते दत्त्वा पोट्टलीं कारयेद् बुधः॥
ततस्तां पोट्टलीमाज्यमग्नां कृत्वा विधारिताम्।
सूत्रेण दण्डसंलग्नां पाचयेत् कुशलो भिषक्॥
यदा निष्फेनता चाज्ये पुटिका च दृढा भवेत्।
तदा पक्वं तमाकृष्य पञ्चगुञ्जातुलाधृतम्॥
त्रिकटुत्रिफलाचूर्णं तुल्यं प्रातः प्रयोजयेत्।
तक्रं स्यादनुपानन्तु अम्लपित्तोच्छ्रये पुनः॥
त्रिफलैव समा देया कोष्णं वारि पिबेदनु।
सप्तमे दिवसे रक्तिवृद्धिस्ताम्रात्तु माषकम्॥
यावत् प्रयोगश्च तथैवापकर्षः पुर्नभेवत्।

योगोऽयं ग्रहणीयक्ष्मपित्तशूलाम्लपित्तहा॥
रसायनञ्चैतदिष्टं गुदकीलादिनाशनम्।
न चात्र परिहारोऽस्ति विहाराहारकर्मणि॥६७॥

ताम्रयोगान्तरमाद्द तनुपत्रीकृतमित्यादि—नैपालमिति नैपालदेशोद्भवं ताम्रम्। तनुपत्रीकृतमिति पत्तनं यथा स्यात् तथा पत्रीकृतम्, पत्तनता कण्डकवेध्यावस्थोपादानेन लभ्यत इति। तानि च तनूनि ताम्रपत्राणि अनेकानि कृत्वा जम्बीराम्लरसेन सम्मर्द्य प्रक्षाल्य संशोध्य, तदनु ताम्रसममेव शोधितगन्धकं सञ्चूर्ण्यं, तदनन्तरं स्थालिकायां कियदपि गन्धकचूर्णं दत्त्वा तदुपरि कियदपि ताम्रपत्रं निवेश्य पुनस्तदुपरि गन्धकचूर्णं देयमित्येवंक्रमेण सर्वाणि ताम्रपत्राणि गन्धकचूर्णसहितानि उपर्यधोभावेन निवश्य, ततोऽल्पशरावेण स्थाल्यन्तरनिवेशयोगेन तत्ताम्रपत्रं पिधाय, तच्छरावप्रान्तञ्च शर्करासहितभक्तलेपेन लिप्त्वा तस्य शरावस्योपरिभागे बालुकापूर्णं तत् स्थालीपात्रं कृत्वा शरावेण तस्याः स्थाल्या मुखं पिधाय तत्रैव भक्तलपेन लिप्त्वा प्रहरमेवमविच्छेदेनाधो ज्वालां प्रदापयेत्। इति ताम्रमारणम्। ततस्तत् मृतताम्रं स्थाल्याः समाकृष्य चूर्णयित्वा शोधितगन्धकादिभिः सह योजनीयमित्याह तत इत्यादि। कथं योजना कर्त्तव्येत्याह अथेत्यादि—अथ ताम्रमारणानन्तरं शोधितगन्धकस्यापरचूर्णकर्षमकं ज्वलदङ्गारस्थलौहपात्रे कृत्वा शिलापुत्रेण सम्मर्द्य पौनःपुन्येन घृष्ट्वा द्रवीभूते तस्मिन् मृतताम्रचूर्णं कर्षमानं दत्त्वा तथैव शिलापुत्रेण घर्षणीयम्। ततः पुनरिति ततोऽनन्तरं अग्नितापद्रुत एव अस्मिन् रसः पारदोऽपि तावन्मानः कर्षमान एव देयः। पुनस्तेनैव मर्दनीयः, किंतु श्लिष्टो रसः अम्लमथितः सन् शुद्धः। चाङ्गेरीजम्बीराद्यम्लरसमथनाच्च शुद्धः। तदनु अष्टबिन्दुपरिमितं घृतं दत्त्वा पुनर्मर्दयेत् शिलापुत्रेणैव। तथा तेन प्रकारण सर्वं गन्धकताम्रादिकं संमूर्च्छितमेकीभूतं स्यात्। ततस्तस्माल्लौहपात्रात् निःशेषमाकृष्य तथा शिलापुत्रादिसङ्गतं शिलापुत्रादिग्रथितं सुदृढमपि भूतं संहृत्य पलद्वयेनालम्बुषरसेन विलोड्य रसक्षयपर्य्यन्तं पुनर्वह्निस्थलौहपात्रे मर्दयेत्, तत आकृष्य अलम्बुषरसेनैव शिलायां पिष्ट्वा गुडिकां कल्पयेत्। तदनन्तरं किं विधेयमित्याह तत् पिण्डमित्यादि। ततः कतिपयांगुलवस्त्रखण्डे पिण्डानुरूपं त्रिकटुकं दत्त्वा विस्तार्य्य तदुपरि अपरविततातिनिर्मलवस्त्रखण्डे तं ताम्रौषधगुडकं निधाय ततो दृढां पोट्टलिकां बद्ध्वा, घृतपूर्णस्थालीपात्रे सूत्रेण दण्डसंलग्नतया दोलापाकविधिना तां पोट्टली तत्रारोप्य घृतनिमग्नां कृत्वा पचेत्। पाकज्ञानार्थमाह यदेत्यादि—पुटिका च दृढा भवेदिति पुटिका पोट्टलिका, तस्या दृढता च दण्डिकयाताड्य ज्ञेया। त्रिकटुत्रिफलयोश्च मिलित्वैव पञ्चगुञ्जेति ताम्रतुल्यं, प्रातरित्यर्द्धप्रह। अनुपानमाह तक्रमित्यादि। अम्लपित्ते तु त्रिकटुचूर्णं परित्यज्य त्रिफलैव ताम्रतुल्या देया तथा तक्रञ्च परित्यज्य उष्णजलमेवानुपेयमित्याह अम्लपित्तोच्छ्रय इत्यादि—त्रिफलैव समा देया त्रिफलैव

ताम्रतुल्या देयेत्यर्थः। तथा कोष्णजलम् अनुपिबेदिति। वृद्धिक्रममाह सप्तम इत्यादि—सप्तम इत्यत्र वीप्सा ज्ञेया, तेन सप्तमे सप्तमे दिवसे रक्तिकाप्रमाणेन वृद्धिः कार्य्या, माषकमानं यावदयं प्रयोगः कार्य्यः। तेन माषकादूर्द्ध्वं वृद्धिर्न कर्त्तव्येत्यर्थः। येनैव क्रमेण वृद्धिः कार्य्या तेनैव ह्रासोऽपीत्याह तथैवापकर्षः पुनर्भवेदिति। केचिञ्च वृद्धवैद्यास्त्रिफलाव्यतिरिक्तेन द्वित्रिरक्तिकमिदमौषधं मधुना समालोख्य ददति। तेनैव महान् विशेषो दृश्यते। गुदकीलादिनाशनमित्यादिशब्दात् पाण्डुरोगादयः॥६७॥

इति ताम्रयोगः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1702472319Screenshot2023-12-136.28.21PM.png”/>

शिलाजतुप्रयोगः।

हेमाद्याः सूर्य्यसन्तप्ताः स्रवन्ति गिरिधातवः।
जत्वाभं मृदुमृत्स्नाच्छं यन्मलं तच्छिलाजतु॥
अनम्लञ्चाकषायञ्च कटुपाकि शिलाजतु।
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः॥
हेम्नोऽथ रजतात् ताम्राद्वरं कृष्णायसादपि॥
मधुर असतिक्तञ्च जवापुष्पनिभञ्च यत्।
विपाके कटु तिक्तञ्च तत् सुवर्णस्य निःस्रवम्॥
राजतं कटुकं श्वेतं स्वादु शीतं विपच्यते॥
ताम्राद्वर्हिणकण्ठाभं तीक्ष्णोष्णं पच्यते कटु॥
यत्तु गुग्गुलुसङ्काशं तिक्तकं लवणान्वितम्।
विपाके कटु शीतञ्च सर्वश्रेष्ठं तदायसम्॥
गोमूत्रगन्धः सर्वेषां सर्वकर्मसु यौगिकः॥
रसायनप्रयोगेषु पश्चिमन्तु विशिष्यते।
यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु॥
विशेषेण प्रशस्यन्ते भला हेमादिधातुजाः॥६८॥

इदानीं चरकोक्तशिलाजतुरसायनमाह हेमाद्या इत्यादि—गिरिगता धातवो गिरिधातवः, हेमाद्या इति तद्विशेषणम्। आद्यशब्दात् लौहरूप्यताम्रसीसकगैरिकमनः शिलादीनामपि ग्रहणम्। अतएवोक्तं हारीते—‘सुवर्णरूप्यत्रपुसीसताम्रम्’ इत्यादि। अत्रानम्लमित्यादि विशिष्टप्रतिषेधस्य शेषाद्यनुज्ञाफलकम्, तस्माद्रसचतुष्टयस्यात्र विधिः। धातुभ्यश्चतुर्भ्यइति रसायनाधिक्यात् तेन सुवर्णरूप्यत्रपुसीसेत्यादिना हारीतेन यदेवं विविधधातुसम्भवत्वमुक्तं तेन समं न विरोधः। नात्युष्णशीतमितिशीतोष्णयोर्बलवत्त्वं निषिध्यते, तेन किञ्चिदुष्णं किञ्चिच्छीतं शिलाजतु भवतीति। ते के चत्वारो धातव इत्याह हेम्न इत्यादि। क्रमेण हेमादिसम्भवानां चतुर्णांलक्षणमाह मधुरमित्यादि। चकारात् स्निग्धत्वाधिकं बोध्यम्। यदाह हारतिः

“स्निग्धं घनं काञ्चनगैरिकाभं सतिक्तशीतं मधुरं सुवर्णात्” इति। अत्र शिलाजतुसामान्यगुणकथने अम्लकषायव्यतिरिक्तरसचतुष्टयमुक्तम्, तथा कटुपाकीत्यप्युक्तम्, तेन विशेषगुणकथने पुनर्यो रसोऽभिधीयते तत्रोत्कर्षवानिति ज्ञेयः, सामान्यगुणोक्तरसोऽनुक्तोऽपि लभ्यते एव। यस्तु रौप्यभवे कटुपाकविरुद्धो मधुरक उक्तः, स उत्सर्गापवादन्यायेन समर्थनीयः। अन्ये तत्तु समधुरविरुद्धं पच्यत इत्याहुः, अतएव हारीते विदाहित्वमस्य यदुक्तं तदप्युपद्यते, यधा—“रौप्याकरोत्थन्तु मृणालवर्णं सक्षारकं तत् कटुकं विदाहि” इति युक्तिमुपवर्णयन्ति। अत्र वीर्यं ताम्रभवस्योष्णमुक्तम्, तथात्रायसानाञ्च शीतमुक्तम्, तेन नात्युष्णशीतवीर्यतगोः सामन्यगुणोक्तयोरवकाशा नास्तीति केचिदाहुः, तन्न युक्तम्, यतो नात्युष्णशीतत्वं विधीयते, किन्तु शीतोष्णयोर्बलवत्त्वमात्रं निषिध्यते, तेन किञ्चिच्छिलाजतुशीतम्, उष्णञ्च किञ्चिच्छिलाजतु भवतीति प्रागेव व्याख्यातम्। ताम्रभवशिलाजतुगुणकथने तिक्तोष्णमित्यत्र तीक्ष्णोष्णमिति केचित् पठन्ति, तन्मते ताम्रजे यद्यपि रसो नोक्तस्तथापि सामान्योक्वचतूरसत्वमेव सानुभवरसभावेन ज्ञेयमित्यर्थमाहुः। पश्चिममित्यायसम्। यथाक्रममिति वातपित्ते सौवर्णम्, श्लेष्मपित्ते रौप्यजम्, कफे ताम्रजम् त्रिदोषज लौहजमित्यर्थः॥६६॥

लौहकिट्टायते वह्नौ विधूमं दह्यतेऽम्भसि।
तृणात्यग्रे कृतं सर्वमधो गलति तन्तुवत्॥६७॥

श्रेष्ठशिलाजतुतो लक्षणमाह लौहकिट्टायत इत्यादि—यत् शिलाजतु वह्नौ विगतधूमं सत् दह्यते लौहमलवच्च भवति तच्छ्रेष्ठम्।परीक्षान्तरमाह अम्भसीति। अम्भसि अग्ने कृतं जले क्षिप्तं सत् प्रथमतः स्तृणाति प्लवते, तन्तुवत् गलति अधस्तात् तन्तुवल्लम्बते, तत् शिलाजतु श्रेष्ठमित्यर्थः॥६७॥

मलिनं यद्भवेत् तच्च क्षालयेत् केवलाम्भसा।
लौहपात्रेषु विधिना उर्द्ध्वीभूतञ्च संहरेत्॥६८॥

शिलाजतुशोधनमाह मलिनमित्यादि—अम्भसा उष्णोदकेन, लौहपात्रेषु विधिनेति हारीतोक्तशिलाजतुशोधनविधिना।ऊर्द्ध्वीभूतं यत् तत् संहरेत् संगृह्णीयात्, काचादिनिर्मलपात्रे स्थापयेदित्यर्थः। तत्रायं शोधनविधिः। प्रथमं केवलं शिलाजतुजले धौतं कृत्वा तदनु कीटादिदुष्टौषधिदोषविनाशाय अगुरुतुवरीनिम्बपत्रयवगुडूचीघृतैर्धूपयित्वा, तदनु शुष्कं चूर्णीकृत्य तदनु भाजनाकारलौहपात्रे कृत्वा दशमूलकषायं त्रिफलाक्वाथं वा केवलोष्णोदकं वा प्रक्षिप्य विमर्द्य लौहमूषलिकया तरलीकृत्य प्रचण्डातपे स्थापनीयम्। अत्र च प्रचण्डातपावस्थानेन सरवदूर्द्ध्वं यदुत्तिष्ठति तत् पुनर्गृहीत्वा काचादिनिर्मलपात्रे स्थाप्यम्, एवं शिलाजतु भावनायां योज्यम्, उक्तं हि हारीते—“तद्ग्राहयित्वा क्रमशो विभज्य देशे शुचौ मङ्गलसिद्धियुक्ते। तिथौ च पुण्ये सुदिने च युक्ते नक्षत्रयोगेण शिवेन चापि। लौहा-

ताः शुष्का नवकुम्भे जातीपुष्पाधिवासिते स्थाप्याः॥
तासामेका काले भक्ष्या पेयापि वा सततम्॥
क्षीररसदाडिमरसाः सुरासवं मधु च शिशिरतोयानि।
आलोडनानि तासामनुपाने वा प्रशस्यन्ते॥
जीर्णे लघ्वन्नपयोजाङ्गलनिर्य्यूहयूषभोजी स्यात्।
सप्ताहं यावदतः परं भवेत् सर्वं सामान्यम्॥
भुक्त्वापि भक्षितेयं यदृच्छया नावहेद्भयं किञ्चित्।
निरुपद्रवा प्रयुक्ता सुकुमारकः कामिभिश्चैव।
संवत्सरप्रयुक्ता हन्त्येपा वातशोणितं प्रवलम्।
बहुवार्षिकमपि गाढं यक्ष्माणञ्चाढ्यवातञ्च॥
ज्वरयोनिशुक्रदोषप्लीहार्शः पाण्डुग्रहणीरोगान्।
व्रध्नवमिगुल्मपीनसहिक्काकासारुचिश्वासान्॥
जठरं श्वित्रं कुष्ठं पाण्ड्यं क्लैब्यं मदं क्षयं शोषम्।
उन्मादापस्मारौ वदनाक्षिशिरोगदान् सर्वान्।
आनाहमतीसारं सासृग्दरं कामलाप्रमेहांश्च।
यकृदर्बुदानि विद्रधिभगन्दरं रक्तपित्तञ्च॥
आतिकार्श्यमतिस्थौल्यं स्वेदमथ श्लीपदञ्च विनिहन्ति।
दंष्ट्राविषं समौलं गराणि बहुप्रकाराणि॥

मन्त्रौषधियोगान् विप्रयुक्तान् भीतिकांस्तथा भावान्।
पापालक्ष्म्यौ चेयं शमयेद्गुडिका शिवा नाम्ना॥
वल्या वृष्या धन्या कान्तियशःश्रीप्रजाकरी चेयम्।
दद्यान्नृपवल्लभतां जयं विवाद मुखस्था च।
श्रीमान् प्रकृष्टमेधःस्मृतिबुद्धिबलान्वितोऽतुलशरीरः।
पुष्ट्योजोऽतिविमलेन्द्रियतेजोबलसम्पदुपेतः॥
वलिपलितरोगरहितो जीवेच्छरदां शतद्वयं पुरुषः।
संवत्सरप्रयोगाद् द्वाभ्यां शतानि चत्वारि।
सर्वामयजित् कथितं मुनिगणभक्ष्यं रसायनरहस्यम्॥
समुद्वभूवामृतमन्थनोत्थः स्वेदः शिलाभ्योऽमृतवद्गिरेः प्राक्।
यो मन्दरस्यात्मभुवा हिताय न्यस्तः स शैलेपु शिलाजरूपी॥
शिवागुडिकेति रसायनमुक्तं गिरीशेन गणपतये।
शिववदनविनिर्गता यस्मान्नाम्ना तस्माच्छिवा गुडिका॥७५॥

चरकोक्तशिलाजतुविधिमभिधाय शैवतन्त्रोक्तप्रसिद्धशिलाजतुप्रयोगं शिवागुडिकामाह काल इत्यादि—रवितापाढ्ये इति विशेषणाद् ग्रीष्म इति यावत्, अन्ये

तु शरदमप्याहुः। शिलाजतुनोऽत्र षोडशपलमात्रा, वक्ष्यति च पलानि दश षट् चेति। तन्मानसमं मिलितत्रिफलाद्रव्यं क्वाथयित्वा गृहीत्वा त्र्यहं भावना कर्त्तव्येत्याह त्रिफलेत्यादि—अत्रतुल्यं गिरिजेन जलमित्यादि—पूर्वोक्तवचनानुसारेण त्रिफलाक्वाथं कृत्वा त्र्यहं भावना कार्येत्यर्थः। एवं दशमूलक्वाथादिभिर्गोमूत्रान्तैरपि त्र्यहं त्र्यहं क्रमेण भावयेदित्यर्थः। क्षीरेण पुनरेकाहं परमिति क्षीरेण एकाहमेव भावयेदित्यर्थः। वक्ष्यमाण काकोल्यादिक्वाथेन पुनः सप्ताहं भावना कर्त्तव्येत्याह सप्ताहं भाव्यं स्यादिति। एषामिति वक्ष्यमाणकाकोल्यादीनाम्। यथालाभमिति वचनात् इन्द्रयवकटुरोहिण्यादिव्यतिरेकेणापि। विदारीयुग्ममिति विदारीक्षीरविदार्यौ। क्षीरविदार्याश्च लक्षणं—“क्षीरशुक्ला दीर्घकन्दा चातिमधुरा क्षीरविदारी इति भग्नचिकित्सोलगन्धतैलव्याख्यायां गदाधरेणोक्तम्। ऋद्धियुगं ऋद्धिवृद्धी। वीरा मांसीति त्रिविक्रमः। जलजशाकमिति रत्नप्रभा। जीरके इत्यादि। कृष्णशुक्लजीरके, अंशुमत्यौ शालपर्णीपृश्निपर्ण्यौ, इभकणा गजपिप्पत्ती, कटुकी कटुरोहिणी, एतान्यष्टाविंशतिद्रव्याणि लिखितानि।वाग्भटे तु रसायनतन्त्रपठितशिवगुडिकापाठे ऋद्धि-ऋषभकादिषड्द्रव्याणि पठ्यन्ते तद् यथा—ऋद्धि ऋषभको मुण्डिरीन्द्रयवौ कटुरोहिणी कर्कटशृङ्गीे चेति। तदेवमुभयाचार्यप्रामाण्यादुभयथैव प्रयोगसङ्गतिरभ्युपेया। अस्याः पिप्पल्यादिवत् गणत्वविवक्षाया यथालाभवचनादेतानिषोडशद्रव्याणि न गृह्यन्तेऽपीति केचित्। एषाञ्चष्टविंशतिद्रव्याणां प्रत्येकं पलिकानां क्वथनार्थदेयजलद्रोणसाधित शेषक्वाथशरावैः सतथा विभक्तैः ऊप्तदिनानि भावनाःसप्त कर्तव्याः।कीन्तु सप्तदिनैः क्वाथस्याम्लता भवति। ततश्चषामष्टाविंशतिद्वव्याणां प्रत्येकं पलिकानां सप्तदिनविभागेन पलचतुष्टयं मिलित्वा ग्राह्यं तेन प्रतिदिनंपल चतुष्टयविभागेन काकोल्यादीनां प्रत्येकं माषा ९, रक्तिका २ ग्राह्यम्, एवं जलद्रोणस्यापि सप्तदिनविभागेन देयजलशराव ६, पल १ माषा ६, रति १ अस्यपादावशिष्टतया स्याप्यं जलं श २, कर्ष १, माषा २, अस्मिन् क्वाथे पुतोष्णेप्रतिदिनं शिलाजतुभावना, एवं सप्ताहं कर्तव्यम्। दश षट् चति षोडशेत्यर्थः।यद्यपि निर्देशस्य मानप्रधानत्वात् विश्वादीनां मरिचान्तानां मिलित्वैव पलद्वयंयुज्यते तथापि वाग्भटप्रामाण्यात् प्रत्येकमेव द्विपलं ग्राह्यम्। पञ्चानामिति त्वक् क्षीर्याद्येलान्तानां प्रत्येकमर्द्धपलं वाग्भटदर्शनादेव। त्वक्क्षीरी वंशलोचनागिरिजस्य षोडशपलैमिश्रयित्वेति योज्यम्। इह सर्वेष्वेव शिलाजतुप्रयोगेषु कर्तव्येषुप्रथमं शोधनं विधाय तिक्तकघृतं द्वथई व्यहं वापि वलानुरूपप्रमाणं दातव्यं यथा स्निग्धो भवति तदुक्तं तन्त्रप्रदीपे—“संशुद्धकायो विमलेन्द्रियश्च प्रशस्तनक्षत्र

मुहूर्त्तयोगे। पिबेद् घृतं तिलकषायसिद्धं द्व्यहं त्र्यहं वापि बलानुरूपम्” इति। अक्षसमा चात्युत्तममात्रा, अतस्तदनुसारेणमध्यमाधमपुरुषापेक्षया मात्रोह्या।यदृच्छया इत्यनियमेन तेन कदाचित् भुक्तापि भक्षिता सती विकारं न जनयेदित्यर्थः। आढ्यवात ऊरुस्तम्भः, सहजहेतुजक्लैव्यद्वयपरिग्रहार्थं षाण्ड्यं

क्लैव्यमित्यु

भयपदोपादानं बोध्यम्। यद्यपि बीजदोषोत्पन्नसहजक्तैत्र्यमसाध्यत्वेनोक्तम्, तथापि भूतकृताःहात्म्यसूचनार्थमिदमुक्तम्। गराणि संयोगविषाणि, भौतिकान् भावानिति भूतकृताः पीडाः।संवत्सरप्रयोगादिति पूर्वेण सम्बध्यते, द्वाभ्यामिति संवत्सरद्वयेनेत्यर्थः। शिलाजतुनः प्रागुत्पत्तिमाह समुद्वभूवेत्यादि—अमृतमन्थनोत्थ इति अमृतमन्थनसमयजः।हितायेत्यादि—हितायेत्यत्र नगतामिति शेषः॥७५॥

इति शैवसिद्धान्तोक्ता शिवागुडिका। इति शिलाजतुविधानम्।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1702371674Screenshot2023-12-122.30.56PM.png”/>

अमृतभल्लातकी।

सुपक्वभल्लातफलानि सम्यगद्विधा विदार्य्याढकसम्मितानि।
विपाच्य तोयेन चतुर्गुणेन चतुर्थशषे व्यपनीय तानि॥
पुन पचेत् क्षीरचतुर्गुणेन घृतांशयुक्तेन घनं यथा स्यात्।
सितोपलाषोडशभिः पलैस्तु विमिश्रय संस्थाप्य दिनानि सप्त॥
ततः प्रयोज्याग्निबलेन मात्रां जयेद्गदोत्थानखिलान् विकारान्।
कचान् सुनीलान् घनकुञ्चिताग्रान् सुपर्णदृष्टिं सुकुमारताञ्च॥
जवं हयानाञ्च मतङ्गजं बलं स्वरं मयूरस्य हुताशदीप्तिम्।
स्त्रीवल्लभत्वं लभते प्रजाञ्च नीरोगमब्दद्विशतानि चायुः॥
न चान्नपाने परिहार्य्यमस्ति न चातपे चाध्वनि मैथुने च।
प्रयोगकाले सकलामयानां राजा ह्ययं सर्वरसायनानाम्॥
भललातकशुद्धिरिह प्रागिष्टचूर्णगुण्डनात्।
घृताश्चतुर्गुणं क्षीरं घृतस्य प्रस्थ इष्यते॥७६॥

अमृतभल्लातमाह सुपक्वेत्यादि—भल्लातकान्यत्र हारीतोक्तामृतभल्लातकीघृतोक्तरोत्या ग्राह्याणि, यथा—“भल्लातकानां पवनोद्धतानां वृन्तच्युतानामिह चाटकं स्यात्। तच्चेष्टकाचूर्णकणैर्विघृष्य प्रक्षाल्य घीरो विधिवत् प्रवति। शुष्कं पुनस्तद्द्विदलीकृतञ्च ततः पचेदप्सु चतुर्गुणासु।पादावशिष्टं परिपूतशीतं घृतेन तुल्येन पचेत् सुशीतम्। तदर्द्धया शर्करयावकीर्ण ततः खजेनोन्मथितं विधाय। भाण्डे विशुद्धे त्वथ धान्यराशौ संस्थापयेत् सप्त दिनानि चेति। तत्सप्तरात्रात् परिजातवीर्य्यम्” इत्यादि। अत्र भल्लातकानां चतुःषष्टिपलानि, तदपेक्षया चतुर्गुणं जलं ग्राह्यमानं द्रवद्वैगुण्याञ्चतुःषष्टिशरावपरिमितं यद्यपि, तथापि वक्ष्यमाणतन्त्रान्तरीयवाक्यैकतानुरोधात् आढके पलविवक्षां विधाय पलोल्लेखगतत्वेन द्वैगुण्यं न विधेयम्, तथा क्वचित् पलोल्लेखविधानेऽपि तन्त्रान्तरीयवाक्यैकतानुरोधात् पलोल्लेखगते द्रव्येऽपि कुडवादिविवक्षायां द्वैगुण्यं भवति। तथापि चरके क्षतक्षीणचिकित्सिते मधुकाष्टपलं द्राक्षाप्रस्थक्वाथ इत्यादिना यः प्रयोग उक्तः स जतूकर्णे द्राक्षाप्रस्थः मधुकार्द्धप्रस्थ इत्यादि ग्रन्थेन पठितः, तेन जतूकर्णे मधुकस्यार्द्धप्रस्थोल्लेखपाठात् कृतद्वैगुण्यमेव

जलं भवति, तत्प्रत्ययाच्चरकेऽपि मधुकाष्टपलोल्लेखविहितेऽपि क्काथ्ये कुडवद्वयविवक्षयाकृतद्वैगुण्यमेव जलं दीयते। तद्वदत्रापि तन्त्रान्तरीयवाक्य यथा—“भल्लातकाढकं चुराणं जलाढकद्वये शृतम्। पादशेषे रसे तस्मिन् घृतप्रस्थसमन्विते। क्षीराढकं ततो दत्त्वा सितायाः प्रस्थमेवच। तावञ्च साधयेद्धीमान् यावल्लेहत्वमागतम्। अर्शसां नाशनं श्रेष्ठ दीपनं कुष्ठनाशनम्।अम्लपित्तापदं प्रोक्तं वाजीकरणमुत्तमम्। अभिवृद्धिकरञ्चैव बलकृत् पुष्टिवर्द्धनम्” इति। केचित्तु क्षीराढकं ततो दतत्त्वेत्यत्र क्षीरप्रस्थमिति पठित्वा अस्य प्रयोगस्य योगान्तरत्वं मन्यमानाः सुपक्वभल्लातकेत्यात्यादिचक्रसंग्रहोक्तयोगे जलस्य द्वैगुण्यमिच्छन्ति, किन्तु परमेश्वररक्षितादिसंग्रहे क्षीराढकमित्येव पाठो दृश्यते एकवाक्यता च तदैव सङ्गच्छते। वृद्धवैद्यव्यवहारश्चाद्वैगुण्येन दृश्यते तेनायमव पाठः साधीयान्। हारीतमतन्तु मतान्तरमेवेति न्याय्यम्, यतस्तत्र परिमाणे इति कर्त्तव्यतायाञ्च महदेवान्तरम्। घृतांशमिति घृतप्रस्थम्। चतुर्भागावशिष्टं क्वाथमपेक्ष्य घृतस्यार्द्धांशताम्, उक्तेन क्वाथेन घृतस्यार्द्धांशं पचेदिति योज्यम्। क्षीरस्य चातुर्गुण्यं घृतापेक्षया अतएव वक्ष्यति घृताच्चतुर्गुणं क्षीरमित्यादि। क्षीरचतुर्गुणेनेति चतुर्गुणेन क्षीरेणेत्यर्थः।पूर्वनिपातं प्रत्यनियमात् ततश्च युक्तेनेति न पाठः, सम्बन्धाभावात् । ततश्च घृतं पक्त्वा च पूत्वा च शर्कराप्रक्षेप इत्यर्थः। किन्तु लेहोऽपि पच्यते; तदा क्वाथशर्करादिकमेकीकृत्य पक्तव्यम्।

इत्यमृतभल्लातकी।

इति रसायनाधिकारः।

<MISSING_FIG href=”../../../../../books_images/U-IMG-1702385012Screenshot2023-12-123.52.09PM.png”/>

अथ वृष्याधिकारः।

पिप्पलीलवणोपेतौ बस्ताण्डौ क्षीरसर्पिषा।
साधितौ भक्षयेद् यस्तु स गच्छेत् प्रमदाशतम्॥१॥

सुस्थस्यौजस्करसामान्याद्रसायनानन्तरं वाजीकरणमुच्यते वाजीकरणशब्दार्थस्तु चरकेणोक्ता यथा—“येन नारीषु सामर्थ्यं वाजिवल्लभते नरः। व्रजेच्चाभ्यधिकं येन वाजीकरणमेव तत् " इति। व्रजेच्चाभ्यधिकमिति पुनः पुनर्गच्छेत्। व्यज्यत इति पाठे नारीषु पुंस्त्वं येन व्यज्यत इत्यर्थः। शब्दसिद्धिस्तु पृषोदरादित्वात्। अन्ये तु वाजः, शुक्रं सोऽस्यास्तीति वाजी, अवाजी वाजी क्रियते येन तद्वाजीकरणमित्याहुः। किंवा वाजी मैथुनम् उक्तं हि हारीते—” वाजो नाम प्रकाशत्वात् तच्च मैथुनसंज्ञितम्।वाजीकरणसंज्ञाभिः पुंस्त्वमेव प्रचक्षते।” तच्च त्रिधा; यदुक्तं चरके—“शुक्रस्रुतिकरं किञ्चित् किञ्चिच्छुक्रविवर्द्धनम्। स्रुति वृद्धिकरं किञ्चित् त्रिविधं वृष्यमुच्यते। यथा—कामिनीस्पर्शादिकं स्रुतिकरम्, क्षीरादिवृद्धिकरम्, माषादि स्रुतिवृद्धिकरमिति। वृष्ययोगानाह पिप्पलत्यादि—सुश्रुतस्य। तत्र पिप्पली

लवणयोः संस्कारत्वादल्पमानता। बस्ताण्डौ छागाण्डकोषौ। क्षीरसर्पिषा क्षीरोत्थसर्पिषा, न तु क्षीरञ्च घृतेञ्चेत्येकवद्भावः, क्षीरपक्वलवणस्य संयोगविरुद्धत्वात्। प्रमदाशतमिति वनितावहुत्वोपलक्षणम्। भक्षणप्रकारो यथा—छागाण्डद्वयं जलं दत्वा उत्स्विद्य क्षीरोत्थघृतेन भर्जयित्वा अनुरूपसैन्धवपिप्पलीचूर्णाभ्यां संस्कार्यउपयोज्यम्॥१॥

वस्ताण्डसिद्धे पयसि भावितानसकृत् तिलान्।
यः खादेत् स नरो गच्छेत् स्त्रीणां शतमपूर्ववत्॥२॥

वस्ताण्डसिद्ध इत्यादि—क्षीरपरिभाषया वस्ताण्टेन क्षीरसाधनम्, तेन भावितान्।यद्यपि उक्वाधिकमांसेत्यादिना वस्तमांसस्य क्षीरेण सह विरोधो दर्शितस्तथापि तत्सामान्यवचनम् इदं पुनरपवादरूपं विशिष्टवस्ताण्डविषयतया न विरोधमावहति। असकृदिति सप्तधा पूर्ववदिति अकृतपूर्वस्त्रीमङ्गमवत्॥२॥

चूर्णं विदार्य्याः सुकृतं स्वरसेनैव भावितम्।
सर्पिः क्षौद्रयुतं लीढ्या शतं गच्छेद्वराङ्गनाः॥३॥

चूर्णमित्यादि—सुश्रुतस्य। स्वरसोऽपि विदार्य्या एव॥३॥

एवमामलकं चूर्णं स्वरसेनैव भावितम्।
शर्करामधुसर्पिर्भिर्युक्तंलीढ्यापयः पिबेत्।
एतेनाशीतिवर्षोऽपि युवेव परिहृष्यते॥४॥

एवमित्यादि—अत्र स्वरसभावितस्याप्युक्तत्वात् एवमित्यतिदेशस्य वैशद्यं वैयार्थ्यं स्यात्, तेन विदारीचूर्णवत् क्षौद्रघृताभ्यामामलकस्य तत्स्वरसभावितस्य प्रयोग इति कश्चित्; तेन आमलकचूर्णस्य द्विधा प्रयोगः; एकः घृतक्षौद्राभ्याम्, अन्यश्च शर्करामधुघृतपयोऽनुपानैश्चेति। अन्ये तु एवमित्यतिदेशः सुकृतत्वविधानार्थमित्याहुः॥४॥

विदारीकन्दकल्कन्तु घृतेन पयसा नरः।
उडुम्बरसमं खादन् वृद्धोऽपि तरुणायते॥५॥

विदारीत्यादि—सुश्रुतस्य। अत्र घृतेनेत्यत्र शृतेनेति पाठे केवलं जलशृतेनेत्यर्थः॥५॥

स्वयंगुप्तेक्षुरकयोर्बीजचूर्णं सशर्करम्।
धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत्॥६॥

स्वयंगुप्तेत्यादि—सुश्रुतस्य॥६॥

उच्चटाचूर्णमण्येवं क्षीरेणोत्तममुच्यते॥७॥

उच्चटेत्याद्यपि तस्यैव॥७॥

शतावर्य्युच्चटाचूर्णं पेयमेवं सुखार्थिना॥८॥

शतावरीत्यादि—सुखार्थिनेत्यत्र बलार्थिनेति सुश्रुते पठ्यते। एवमित्यनेन पयसेति बुध्यते॥८॥

कर्षं मधुकचूर्णस्य घृतक्षौद्रसमन्वितम्।
पयोऽनुपानं यो लिह्यान्नित्यवेगः स ना भवेत्॥९॥

कर्वमित्यादि—चरकस्य। मधुकं यष्टिमधु।नित्यवेग इति नित्यशुक्रवेगाभिभूतः॥

गोक्षुरकः क्षुरकः शतमूलीवानरिनागबलातिबला च।
चूर्णमिदं पयसा निशि पेयं यस्य गृहे प्रमदाशतमस्ति॥१०॥

गोक्षुरक इत्यादौ—क्षुरकः कोकिलाक्षः, वानरी शुकशिम्बी।शतमूली च वानरी चेति समाहारद्वन्द्वः, वानरी अत्र षष्ठीबहुवचनान्तः पाठ एव साधुः। एवां क्षुरकगोक्षुरवानरीणां फलबीजं ग्राह्यम्। यदुक्तममृतवल्ल्यां—“गोकण्ठक्षुरककपिकच्छुफलवरीकुशीबलाचूर्णशृतेन। पयसा रात्रिसमये” इत्यादि—अत्र कुशी गोरक्षतण्डुला॥१०॥

घृतभृष्टो दुग्धमाषपायसो वृष्य उत्तमः॥११॥

घृतेत्यादौ—माषपायसो माषविदलैर्दुग्धेन कृतः पायसः, स च भृष्टो घृतेन सन्तलितः॥११॥

दध्नः सरं शरच्चन्द्रसन्निभं दोषवर्जितम्।
शर्कराक्षौद्रमरिचैस्तुगाक्षीर्य्या च बुद्धिमान्॥

युक्त्या युक्तं ससूक्ष्मैलं नवे कुम्भे शुचौ पटे।
मार्जिते प्रक्षिपच्छीते घृताढ्यं षष्टिकौदनम्॥

ततोऽद्यादुपरिष्टाच्च रसालं मात्रया पिबेत्।
वर्णस्वरबलोपेतः पुमांस्तेन वृषायते॥१२॥

दध्न इत्यादि—चरकस्य। दोषवर्जितमिति मलिनत्वादिदोषवर्जितम्। युक्त्या युक्तमिति यथातिमाधुर्यं न स्यात्, कटुत्वञ्चाधिकं न भवति, तथा शर्करामरिचादि योज्यमित्यर्थः। मार्जितमिति पाठे पढे घृष्टं, तमिति षष्टिकौदनम्। निश्चलैस्तु मार्जिते प्रक्षिपेच्छीते घृताढ्यं षष्टिकौदनमिति पठ्यते। तस्मिन् मार्जिते पूते रस इत्यर्थात् ततोऽत्र शीत शीतवीर्य्ये षष्टिकभक्तं प्रक्षिपेत्। ततोऽद्यादिति—उपरिष्टादिति भुक्त्वेत्यर्थः। रसालालक्षणं यथा—“सचतुर्जातकाजाजीसगुडार्द्रकनागरम्। रसालास्याच्छिखरिणी सुघृष्टं ससरं दधि” इति। अन्यत्र यथा—अर्द्धाढकं सुचिरपर्य्युषितस्य दध्नः खण्डस्य षोडश पलानि शशिप्रभस्य। सर्पिःपलं मधुपलं मरिचार्द्धकर्षंशुण्ठ्यास्तथार्द्धपलमर्द्धपलं चतुर्णाम्। शुक्ले पटे ललनया मृदुपाणिघृष्टा कर्पूरगन्धसुरभिर्नवभाण्डसंस्था। एषा वृकोदरकृता सुरसा रसाला यास्वादिता भगवता मधुसूदनेन”॥१२॥

आर्द्राणि मत्स्यमांसानि शफरीञ्चाज्यभर्जिताम्।
तप्ते सर्पिषि यः खादेत् स गच्छेत् स्त्रीषु न क्षयम्॥१३॥

आर्द्राणीत्यादि—चरकस्य।आर्द्राणि सद्यस्कानीत्यर्थः। मत्स्योऽत्र प्रधानकल्पतया रोहितः॥१३॥

नारसिंहचूर्णम्।

शतावरीरजाप्रस्थं प्रस्थं गोक्षुरकस्य च।
वाराह्या विंशतिपलं गुडूच्याः पञ्चविंशतिः॥
भल्लातकानां द्वात्रिंशचित्रकस्य दशैव तु।
तिलानां शोधितानाञ्च प्रस्थं दद्यात् सुचूर्णितम्॥
त्र्यूषणस्य पलान्यष्टौ शर्करायाश्च सप्ततिः।
माक्षिकं शर्करार्द्धेन माक्षिकार्द्धेन वै घृतम्॥
शतावरीसमं देयं विदारीकन्दजं रजः।
एतदेकीकृतं चूर्णं स्निग्धे भाण्डे निधापयेत्॥
पलार्द्धमुपयुञ्जीत यथेष्टञ्चापि भोजनम्।
मासैकमुपयोगेन जरां हन्ति रुजामपि॥
बलीपलितखालित्यमेहपाण्ड्वाद्यपीनसान्।
हन्त्यष्टादशकुष्ठानि तथाष्टावुदराणि च॥
भगन्दरं सूत्रकृच्छ्रं गृध्रसीं सहलीमकम्।
क्षयञ्चैव महाश्वासान् पञ्च कासान् सुदारुणान्।
अशीतिं वातजान् रोगांश्चत्वारिंशच्च पैत्तिकान्।
विंशतिं श्लैष्मिकांश्चैव संसृष्टान् सान्निपातिकान्॥
सर्वानर्शोगदान् हन्ति वृक्षमिन्द्राशनिर्यथा॥
स काञ्चनाभो मृगराजविक्रमस्तुरङ्गमञ्चाप्यनुयाति वेगतः।
स्त्रीणां शतं गच्छति सोऽतिरेकं प्रकृष्टदृष्टिश्च यथा विहङ्गः॥
पुत्रान् सञ्जनयेद्वीरान् नरसिंहनिभांस्तथा।
नारसिंहमिदं चूर्णं सर्वरोगहरं नृणाम्॥
वाराहीकन्दसंज्ञस्तु चर्मकारालुको मतः।
पश्चिमे गृष्टिशब्दाख्यो वराहलाभवोनिव॥१४॥

शतावरीत्यादि—चन्द्राटस्य। वाराह्या इति वराहकन्दस्य। तल्लक्षणं यथा “ताम्बूलसदृशैः पत्रैर्ग्रन्थिभिः समलंकृतम्। सजीर्जुननिभैः पुष्पैः शोभते च सुगन्धिभिः। वराहच्छविवर्णेन पिच्छिलेन सुवर्चसा। कन्देन कटुतिक्तेन नीलोत्पलसुगन्धिना। जायते सा गिरौ रम्ये विन्ध्ये श्रीपर्वते तथा। वृन्दे तु—“वराहमूर्द्धवत् कन्दो वाराहीकन्दसंज्ञितः। भिषजां तदलाभे च चर्मकारालुको मतः” इत्युक्तम्। किन्तु वाराहीकन्दापेक्षया चर्मकारलुकस्यातिहीनगुणत्वेन नास्य तत्प्रतिनिधित्वं युक्तम्। गुडूच्याः पञ्चविंशतिरित्यपपाठः। तन्त्रान्तरे—“भल्लातकप्रस्थयुग्मं तत् सप्तपलोनं गुडूच्याश्च " इत्युक्त्वात् यतः प्रस्थयुगमेव सप्तपलोनं सत्पञ्चविंशतिपलानि भवन्ति। त्र्यूषणस्य मिलित्वा पलान्यष्टौ। विदारी भूमिकूष्मा

ण्डः। पलार्द्धमिति पूर्वयुगाभिप्रायेण, इदानीमष्टमाषकेण व्यवहारः।आढ्य इति आढ्यमारुतः; यथा भीमो भीमसेनः। वाराहीकन्दस्य दुर्लभतया चर्मकारालुकमेव गौडीयैर्वाराहीकन्दसंज्ञया गृह्यते। वस्तुतस्तु वराहकन्दकाच्चर्मकारालुके द्रव्यान्तरं तल्लक्षणाभावात्॥१४॥

गोधूमाद्यं घृतम्।

गोधूमाञ्च पलशतं निःक्वाथ्य सलिलाढके।
पादावशेषे पूते च द्रव्याणीमानि दापयेत्॥
गोधूमं मुञ्जातफलं माषद्राक्षापरूषकम्।
काकोली क्षीरकाकोली जीवन्ती सशतावरी॥
अश्वगन्धा सखर्जूरं मधुकं त्र्यूषणं सिता।
भल्लातकमात्मगुप्ता समभागानि कारयेत्॥
घृतप्रस्थं पचेदेकं क्षीरं दत्वा चतुर्गुणम्।
मृद्वग्निना व संसिद्धे द्रव्याण्येतानि निक्षिपेत्॥
त्वगेलापिप्पलीधान्यकर्पूरं नागकेशरम्।
यथालाभं विनिक्षिप्य सिताक्षौद्रपलाष्टकम्॥
दग्धेक्षुदण्डेनालोड्य विधिवद्विनियोजयेत्।
शाल्योदनेन भुञ्जीत पिबेन्मांसरसेन वा॥
केवलस्य पिबेदस्य पलमात्रां प्रमाणतः।
न तस्य लिङ्गशैथिल्यं न च शुक्रक्षयो भवेत्॥
बल्यं परं वातहरं शुक्रसञ्जननं परम्।
भूत्रकृच्छ्रप्रशमनं वृद्धानाञ्चापि शस्यते॥

पलद्वयं तदश्रीयाद्दशरात्रमतन्द्रितः।
स्त्रीणां शतञ्च भजते पीत्वा चानुपिबेत् पयः॥
अश्विभ्यां निर्मितञ्चैतद्गोधूमाद्यं रसायनम्।
जलद्रोणे तु गोधूमक्वाथे तच्छेषमाढकम्॥
मुञ्जातकस्य स्थाने तु तद्गुणं तालमस्तकम्॥
कल्कद्रव्यसमं मानं त्वगादेः साहचर्यतः॥१५॥

गोधूमादित्यादि—गोधूमो धवलसारो प्रायं उत्कृष्टत्वात्। सलिलाढके पादावशेष इति योज्यम्, तो गाधूमशतपले जलद्रोणो देय इति चक्रः। वकुलस्तु निःक्वाथेत्यनेनैव सम्बध्यते, तथैव निर्दिष्टत्वात् पादशेषश्च प्रस्थ इति व्याचषे। किन्तु चक्रपक्ष एव प्रचरति। मुञ्जातकफलं औत्तरपपिकम्। तदप्राप्ता तालमस्तकम्

हारावल्यान्तु तालमस्तकमित्येवास्ति। परुषकं फलं, खर्जूरं पिण्डगर्जूरं, मधूकं यष्टिमधु, अन्ये तु मधूकमिति पठित्वा मधुकस्य फलमाहुः। सिता शर्करा।

आत्मगुप्ताया मूलमिति निश्चलः, फलमित्यन्ये। संसिद्ध इत्यनन्तरं पूते चेति शेषः। त्वगादीनाञ्च मानं कल्कतुल्यं वक्ष्यति। ततः शीतोभूते शर्करामधुनोर्मिलित्वाऽष्टौ पलानि। पूर्वं पलमात्रां पिबेदिति यदुक्तं सत् प्रथमतः, अनन्तरं सात्म्यभावे सति पलद्वयं, न पुनरितोऽधिकमिति॥१५॥

शतावरीघृतम्।

घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत्।
शर्करापिप्पलीक्षौद्रयुक्तं तद् वृष्यमुच्यते॥१६॥

घृतमित्यादि—चरकस्य। विशदसिद्धे “प्रक्षेपः पादिकः क्वाथ्यात् स्नेहे कल्कसमो ततः” इत्युक्तेः शर्करापिप्पलीक्षौद्राणां कल्कत्वं ज्ञेयम्॥१६॥

गुडकूष्माण्डकम्।

कूष्माण्डकात् पलशतं सुस्विन्नं निष्कुलीकृतम्।
प्रस्थं घृतस्य तैलस्य तस्मिंस्तप्ते प्रदापयेत्॥
त्वक्पत्रधान्यकव्योष-जीरकैलाद्वयानलम्।
ग्रन्थिकं चव्यमातङ्गपिप्पलीविश्वभेषजम्॥
शृङ्गाटकं कशेरुञ्च प्रलम्बं तालमस्तकम्।
चूर्णीकृतं पलांशञ्च गुडस्य च तुलां पचेत्॥
शीतीभूते पलान्यौ मधुनः सम्प्रदापयेत्।
कफपित्तानिलहरं मन्दाग्नीनाञ्च शस्यते॥
कृशानां वृंहणं श्रेष्ठं वाजीकरणमुत्तमम्।
प्रमदासु प्रसक्तानां ये च स्युः क्षीणरेतसः॥
क्षयेण च गृहीतानां परमेतद्भिषग्जितम्।
कासं श्वासं ज्वरं हिक्कां हन्ति छर्दिमरोचकम्॥
गुडकूष्माण्डकं ख्यातमश्विभ्यां समुदाहृतम्।
खण्डकूष्माण्डवत् पात्रं खिन्नकूष्माण्डकद्रवः॥१७॥

कूष्माण्डकादित्यादि—घृततैलयोर्मिलित्वा प्रस्थम्। अत्र खण्डकूष्माण्डवत् त्वत्वग्बीजादिवर्जितसुस्विन्नगालितपिण्डकूष्माण्डभर्जनं कार्यं यावन्मधुनिभः पाको भवति। ततो द्रवार्थमेव गालितपिण्डकूष्माण्डद्रव्यमेव प्रस्थचतुष्टयं गृहीत्वा तेन द्रवेण पुराणगुडपलशतमेकीकृत्य पूत्वा कूष्माण्डं पंचेत्। ततोऽवतारिते कोष्णे त्वक्पत्रादिचूर्णप्रक्षपः। जीरकैलाद्वयेति जीरकद्वयमेलाद्वयश्चेति। मातङ्गपिप्पली गजपिप्पली। प्रलम्बं तालांकरः, ताललण्ड इत्यन्ये, आद्य एव पक्षो युक्तः वृष्यत्वात् । मन्दाग्नीनामल्पमात्रयेति शेषः। प्रमदासु प्रसक्तानां वाजीकरणमित्यन्वयः। तथा ये क्षीणरेतसस्तेषामुत्तमं तद्भिषग्जितमिति योज्यम्। पात्रमित्याढकं खण्डकूष्माण्डकञ्च रक्तपित्तोक्तं गुडकूष्माण्डके द्रव इति पाठे द्रवः स्विन्नकूष्माण्डस्यैव ज्ञेयः॥१७॥

यत्किञ्चिन्मधुरं स्निग्धं जीवनं वृंहणं गुरु।
हर्षणं मनसश्चैव सर्वं तद् वृष्यमुच्यते॥१८॥

अनुक्तवाजीकरणसंप्रहार्थमा यत्किञ्चिदित्यादि॥१८॥

भल्लातकवृहतीफलदाडिमफलवल्कलसाधितं कुरुते।
लिङ्गं मर्दनविधिना कटुतैलं वाजिलिङ्गाभम्॥१९॥

इदानीं लिङ्गमूलत्वादपत्यस्य तद्वृद्धियोगानाह भल्लातकेत्यादि—अयं योगो भल्लातकासहाय न देयः। जलञ्चात्र चतुर्गुणं बोध्यम्॥१९॥

कनकरसमसृणवर्त्तितहयगन्धामूलमिश्वपर्य्युषितम्।
माहिषमिह नवनीतं गतबीजे तच्च फलमध्ये॥

गोमयगाढोद्वर्त्तितपूर्वं पश्चादनेन संलिप्तम्॥
भवति हयलिङ्गसदृशं लिङ्गं कठिनाङ्गनादयितम्॥२०॥

कनकेत्यादि—कनकं धुस्तूरं, तस्य पत्रस्वरसः। तत्फलमिति धुस्तूरमेव। गोमयेन सद्यस्केन लिङ्गे गाढमुद्वर्त्तनं कृत्वा ततोऽनेन लेप इति। कठिनाङ्गना इति कठिनाङ्गनाः प्रायेण द्राविडनाटमालवदेशजाः। तास्तु प्रायशो बहुतरसुरतेनैव तुष्यन्तीति कठिनत्वम्॥२०॥

अश्वगन्धातैलम्।

अश्वगन्धावरीकुष्ठं मांसीसिंहीफलान्वितम्।
चतुर्गुणेन दुग्धेन तिलतैलं विपाचयेत्॥

स्तनलिङ्गकर्णपालिवर्द्धनं म्रक्षणादिदम्॥२१॥

अश्वगन्धातैले फलं वृहत्तीफलम्। कर्णपालिः कर्णनालिका॥२१॥

मेदसा क्षौद्रयुक्तेन वराहस्य प्रलेपितम्।
सम्यक् स्निग्धं रतान्तेऽपि स्तब्धतां न विमुञ्चति॥२२॥

मेदसेत्यादि—स्पष्टम्॥२२॥

बीजं वृहत्करञ्जस्य कृतमन्तः सपादरम्।
हेम्ना सुवेष्टितं न्यस्तं वदने वीजधृङ्मतम्॥२३॥

बीजमित्यादि—वृहत्करञ्जस्यबीजं अन्तः कोरयित्वा पारदेन प्रपूर्य हेम्नः पत्रेण संवेष्ट्य मुखे धारणीयम्॥२३॥

आजन्तूष्ट्रीक्षीरं गव्यक्षीरं चरणयुगलेपेन।
स्तम्भयति पुरुषबीजं योगोऽयं यामिनीं सकलाम्॥२४॥

आजमित्यादित्यादि सुगमम्॥२४॥

भल्लातकवृहतीफलनलिनीदलसिन्धुजन्मजलशूकैः।
माहिषनवनीतेन करम्बितैः सप्तदिनमुषितैः॥
मूले हयगन्धाया माहिषीमलमथितं पूर्वमथ लिप्तम्।
भवति लघुकृतरासभलिङ्गं ध्रुवं पुंसाम्॥२५॥

भल्लातकेत्यादौ। करम्बिताःमिश्रितस्तैः। अनन्तरं हयगन्धाया मूले विवरं कृत्वा सप्तदिन-मुषितैर्भल्लातकादिभिर्लिप्तं लिङ्गमित्यन्वयः। कीदृशं लिङ्गम् ? महिषीमलेन मथितं पूर्वं मर्दितं पूर्वम्। एतेनादौमहिषीमलेन लिंगं सम्मर्द्यपश्चात्भल्लातकादिभिर्लिप्तं लिङ्गंलघुकृतगर्दभलिङ्गं भवतीति॥२५॥

नीलोत्पलसितपङ्कजकेशरमधुशर्करावलिप्तेन।
सुरते सुचिरं रमते दृढलिङ्गो नातिविवरेण॥२६॥

इदानी वाजीकरणप्रसङ्गात् वीर्यस्तम्भनमाह नीलोत्पलेत्यादि—नीलोत्पलश्वेतपद्मयोः केशरम्। एभिः सर्वैः पिष्टैर्नाभिंलिप्त्वा चिरकालं कामुको रमत इत्यर्थः।नातिविवरेण अतिक्रान्तच्छिद्रेण॥२६॥

सिद्धं कुसुम्भतैलं भूमिलताचूर्णमिश्रितं कुरुते।
चरणाभ्यङ्गेन रतेर्वीजस्तम्भाद् दृढं लिङ्गम्॥२७॥

सिद्धमित्यादौ—भूमिलता किन्चुलुकः तथा मिश्रितं कुसुम्भबॆजस्य तैलंसिद्धमिति पक्वमित्यर्थः॥२७॥

सप्ताहं छागसलिलसंस्थं करभवारुणीमूलम्।
गाढोद्वर्त्तनावधिना लिङ्गस्तम्भं रते कुरुते॥२८॥

सप्ताहमित्यादि—छागभवसतिलं छागमूत्रं, करभवारुणी उष्ट्रकराटकः, गङ्गापालङ्केति केचित्॥२८॥

गोरेकोन्नत शृङ्गत्वग्भवचूर्णेन धूपितं वस्त्रम्।
परिधाय भजन्ललनां नैकाण्डो भवति हर्पार्त्तः॥२६॥

इदानीं कुप्रयोगकृतध्वजभङ्गचिकित्सामाह गोरित्यादि—यस्या धेनोरेकं शृङ्गमुन्नतं भवति तत्त्वक्चूर्णेन धूपितवस्त्रं परिधायेत्यर्थः। यः पुरुषो नियमेन एकस्त्रीगामी स्त्र्यन्तरगमने तु ध्वजोत्थानं न भवति स एकाण्ड उच्यते॥२३॥

समतिलगोक्षुरचूर्णं छागीक्षीरेण साधितं समधु।
भुक्तं क्षपयति षाण्ड्यं यज्जनितं कुप्रयोगेण॥३०॥

समेत्याद—अत्र निस्तुषतिलगोक्षुरबीजचूर्णच्छागदुग्धैरुत्कारिकांसाधयित्वाशीते मधु दत्त्वा भक्षयेत्। षाण्ड्यंलिङ्गानुत्थानम्॥३०॥

योगजवराङ्गबद्धं मथितेन क्षालितं हरति।
उन्मुखगोशृङ्गोद्भवलेपो योगध्वजभङ्गहरः॥३१॥

कुप्रयोगेण लिङ्गानुत्थानं यत् तच्चिकित्सामाह योगजेत्याद—मथितेन घोलन।उन्मुखेत्यादि—ऊर्ध्वं मुखं यद्धनोः शृङ्गम्, न तु बलीवर्दस्य। ऊर्ध्वमुखस्त्रीगोशृङ्गेणलेपनं लिङ्गस्य॥३१॥

कुष्ठैलवालुकैलामुस्तकधन्याकमधुककृतः कवलः।
अपहरति पूतिगन्धं रसोनमदिरादिजं गन्धम्॥३२॥

कुष्ठेत्यादौ—मधुकं यष्टिमधु। यदुक्तं लोकव्यवहाराख्यकामशास्त्रे—“कुष्ठैलवालुकैलामुस्तकधन्याक-यष्टिमधुकबलः। हरति मुखपूतिगन्धं रसोनमदिरादिगन्धञ्च।दम्पत्योरन्यतरस्य मुखपूतिगन्धेन भोगभङ्गप्रसङ्गःस्यादतस्तद् गन्धापनयनद्वारस्ययोगस्य वृष्यार्द्धत्वं ज्ञेयम्। एवं वक्ष्यमाणयोगेऽपि बोध्यम्॥३२॥

क्षौद्रेण बीजपूरत्वग्लीढाघोवातगन्धनुत्॥३३॥

क्षणेत्यादौ—बीजपूरो मौखर इति ख्यातः। अन्यञ्चलेहः शयनसमयेबोध्यः।अधोवातः गुदवायुः।बीजपूरपत्रलेहस्तु अघोवातनिरोधं जनयति। यदुक्तंतत्रैव—“यो लेढि शयनकाले मधुमिथं बीजपूरदलचूर्णम्। स व्रीडाकरवातप्रवरावरोधात् सुखं स्वपिति” इति॥३३॥

इति वृष्याधिकारः।

<MISSING_FIG href=”../../../../../books_images/U-IMG-1700379907image8.jpg”/>

अथ स्नेहाधिकारः।

सर्पिस्तैलं वसा मज्जा लेहेषु प्रवरं मतम्।
तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्त्तनात्॥१॥

रसायनवामीकरणे पञ्चकर्मविशुद्धौकर्तव्यं अतः पञ्चकर्माणि वाच्यानि।पञ्चकर्मणाञ्चस्वेदपूर्वकत्वात्, पुनः स्वेदस्य स्नेहपूर्वकत्वत्प्रथमं स्नेहविधिमाह सर्पिरित्यादि—वाग्भटस्य।एतत् सर्पिरादिचतुष्टयं स्नेहेषु स्नेहकारकद्रव्येषु दधिक्षीरादिषुमध्ये प्रवरं श्रेष्ठं स्नेहनप्रकर्षादित्यर्थः। तत्रापीति तेष्वपि सर्पिरादिषु मध्ये सर्पिरुत्तमंश्रेष्ठम्। संस्कारो गुणान्तरारोपणमिति यस्यानुवर्तनमनुविधानम्।तैलादयो हिद्रव्यान्तरसंस्कृताः सन्तः स्वगुणं विहायैव संस्कारवद्रव्यगुणान् वहन्ति।सर्पिस्तुस्वगुणान् संस्कारद्रव्यगुणांश्च वहति अतएवोक्तं—“नान्यः स्नेहस्तथा कश्चित्संस्कारमनुवर्तते। यथा सर्पिरतः सर्पिःसर्वस्नेहोत्तमं मतम्” इति। अत्र संस्कारद्रव्यचित्रकादेर्गुणाधानेऽपि सर्पिर्न स्वगुणात् स्नेहशैत्यादीन् जहाति, किन्तु स्वगुणांस्तद्गुणांश्चवहति।’ यतोऽनुशब्देन पश्चाद्वाचिना स्वगुणवर्तनस्य पश्चात् संस्कारकगुणवर्त्तनमुच्यते। “स्नेहाद्वातं शमयति पित्तं माधुर्यशैत्यतः। घृतं तुल्यगुणं दोषंसंस्कारात् तु जयेत् कफम्॥” न च वाच्यं रुक्षोष्णचित्रकादिसंस्कारात्रूक्षोष्णंसर्पिर्भवति ततश्चसर्पिषः स्नेहशैत्ये तद्विरुद्धे कथमत्र तिष्ठत इति, यतः सर्पिःसम्बन्धचित्रकावयवानुगतं हि रूक्षोष्णत्वं, सर्पिगते च सहशैत्येइति भिन्नाश्रयत्वान्नविरोधः। इदमेव च सर्पिषः संस्कारानुवर्त्तनं यत् स्वगुणविरुद्धस्यापि गुणानुपघातेनधारणमित्यादि व्याख्यान्तरमस्मदीयचरकतत्त्वप्रदीपिकायामेवानुसन्धेयम्। केचित्तु संस्कारः स्वीयगुणः शीतत्वादिः, अनुशब्दः सहार्थे, तेन विरुद्धवीर्याणामौषधानांसंयोगेऽपि संस्कारोऽनुवर्त्तते, तैलादीनान्तु दाहज्बरे चन्दनादितैलोपदेशात् तैलस्योष्णत्वं शीतवीर्यचन्दनादि-द्रव्ययोगान्निवर्त्तते नैतद्रूपंघृतस्येत्याहुः॥१॥

केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम्।
देयं बहुकफे चापि व्योषक्षारसमायुतम्॥
तथा धीस्मृतिमेधाग्निकाङ्क्षिणां शस्यते घृतम्॥२॥

घृतविषयमाह केवलमित्यादि—केवलं द्रव्यान्तरसंयोगरहितम्॥२॥

ग्रन्थिनाडीक्रिमिश्लेष्ममेदोमारुतरोगिषु।
तैलं लाघवदार्ढ्यार्थंक्रूरकोष्ठेषु देहिषु॥३॥

तैलविषयमाह ग्रन्थीत्यादि—वाग्भटस्य॥३॥

वातातपाध्वभारस्त्रीव्यायामक्षीणघातुषु।
रूक्षक्लेशसहात्यग्निवातावृतपथेषु च॥
शेषौ वसा तु सन्ध्यस्थिमर्मकोष्ठरुजासु च।
तथा दग्धाहतभ्रष्टयोनिकर्णशिरोरुजि॥४॥

वसामज्जाविषयमाह वातातपेत्यादि—वाग्भटस्य। शेषाविति छेदः।वातादिभिः क्षीणा धातवा येषां ते तथा। क्लेशसहः क्लेशक्षमः, क्लेशसह इत्यत्र क्लेशक्षयेति पाठो लेखकदोषात्। वातवृतपथेष्विति वातावृतस्त्रोतःसु। शेषाविति वसामज्जानौ।वसायास्त्वन्यदपि विषयान्तरमाह वसा त्वित्यादि। रुजाशब्दः सन्ध्यादिभिःसम्बध्यते। आहतः शस्त्रेण।भ्रष्टयोनिः स्वस्थानाच्च प्रच्युतयोनिः॥४॥

तैलं प्रावृषि वर्षान्ते सर्पिरन्त्यौ तु माघवे।
साधारणऋतौ स्नेहं पिबेत् कार्य्यवशादिह॥५॥

इदानीं स्नेहानामुपयोगकालमाह तैलमित्यादि—वाग्भटस्य। साधारणऋतौस्नेहं पिबेदित्युपसर्गः। साधारणञ्चप्रावृट्शरद्वसन्ताख्यं शोधनमधिकृत्योक्तमृतुत्रयम्। यदाह दृढबलः—“प्रत्युष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमाः। तदन्तरेप्रावृडाद्याज्ञेयाः साधारण्स्त्रयः। प्रावृट्शुक्रनभौ ज्ञेयो शरदूर्जसहौपुनः। तपस्यश्चमधुश्चैव वसन्तं शोधनं प्रति” इति। अत्र साधारणा इत्यनुद्भूतोष्णशीतवर्षाइत्यर्थः। शुक्रनभावित्याषाढ़श्रावणौ प्रावृडित्युक्तम्, अतएव निर्देशात् शुक्रशब्दआषाढवचनोऽपि ज्ञेयः। किंवा शुचिर्नभाविति पाठः। ऊर्जसहौ कार्तिकमार्गशीषौ,तपस्यः फाल्गुनः, मधुश्चैत्र इति। वर्षान्त इति शरदि। अन्त्यो वसामज्जानौ। माघव इति वैशाखो न साधारणऋतुमध्ये पठितः किन्तु फाल्गुनचैत्ररूपो वसन्तएव, तथापि प्रभूतकफतया स्नेहपानविषयत्वेनात्र नोक्तः, वैशाखस्तु बलक्षयधातुक्षय.कारक इति। अत्र बल्यो धातुकारकः वसामज्जप्रयोगो युक्त एवेत्यर्थः। अन्त्यावित्यपिपाठः। कुतः पुनरुक्तसमय एव स्नेहं पिबेदित्यत आहकार्य्यवशात् तु तदिति संशोघनरूपप्रयोजनवशात्। संशोधनं साधारण ऋतौ उत्सर्गतो विधीयते, तेन तदंगविशेषं स्नेहं पिबेदित्यर्थः॥५॥

वातपित्ताघिको रात्रावुष्णे वापि पिबेन्नरः।
श्लेष्माधिको दिवा शीते पिबेच्चामलभास्करे॥६॥

इदानीमात्ययिकातङ्कगृहीतेनात्युष्णशीतेऽपि यथा स्नेहपानं विधेयं तथा दोषविशेषे च यथा स्नेहपानं तदाह वातपित्ताधिकः इत्यादि। वातश्च पित्तश्च वातपित्तंतदधिको वातपित्ताधिकः।रात्राविति सायम्, उष्णेग्रीष्मेश्लेष्माधिकग्रहणमित्यत्र’शीतविकारवसामज्जगृहीपुरुषोपलक्षणं, तेन वातश्लेष्माधिकः श्लेष्माधिकश्चगृह्यते। अतएव सुश्रुतेऽप्युक्तम्—

“वातपित्ताधिको रात्रौवातश्लेष्माधिको दिवा” इति। केवलवाताधिकस्य तथा पित्ताधिकस्य तथा श्लेष्माधिकस्य साधारणे च शरदादौ कालेउत्सर्गसिद्ध एव। पानकालो वक्ष्यमाणः।वक्ष्यति हि—पिबेत् संशमनं स्नेहमन्नकाले प्रकाङ्क्षित इत्यादि—व्याख्यान्तरञ्चअस्मदीयचरकतत्त्वप्रदीपिकायामनुसन्धेयम्। अमलभास्कर इति दुर्दिनव्युदासार्थं मध्याह्नग्रहणार्थं वा॥६॥

स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचिन्तकाः।
वृद्धा बाला बलकृशा रूक्षक्षीणास्ररेतसः॥
वातार्त्तस्यन्दतिमिर-दारुणप्रतिरोधिनः।
स्नेह्या न त्वतिमन्दाग्नि-तीक्ष्णाग्निस्थूलदुर्बलाः॥
ऊरुस्तम्भातिसाराम-गलरोगगरोदरैः।
मूर्च्छाच्छर्द्यरुचिश्लेष्मतृष्णामद्यैश्च पीडिताः।
आमप्रसूता युक्ते च नस्ये वस्तौ विरेचने॥७॥

इदानीं स्नेहार्हानाह स्वेद्येत्यादि—

वाग्भटस्य।स्नेह्या इति छेदः। स्वेद्याइति स्वेदार्हः।एवं संशोध्या इति वमनादिसंशोधनयोग्या, मद्या इति मद्यादिष्वासक्ताः,चिन्तकाश्चिन्ताबहलाः।अबल इत्यकृशोऽपि यो बलरहितः। कृश इति मांसोपचयहीनः। क्षीणास्ररेतसः, क्षीणे रक्तशुक्रे येषां ते क्षीणास्ररेतसः, वातार्ता वातरोगिणः। स्यन्दोऽभिष्यन्दः स च पुराणोऽभिप्रेतः।दारुणो दुःसाध्यः प्रतिबोधोजागरणम् अत्यन्तजागरणाशील इत्यर्थः। अन्ये तु कृच्छ्रोन्मीलनयुक्त इत्यर्थः। अस्नेह्यानाह न त्वित्यादि—

प्रतिशब्दो, दुर्बलान्तेषु प्रत्येकं योज्यः। अतएवाल्पबला स्नेह्या न त्वतिदुर्बला इति न पूर्वापरविरोधः। आमप्रसूता इत्यपरिणतगर्भस्रावयुक्ता इत्यर्थः, वाग्भटे त्वपप्रसूतेत्यरुणः पठति व्याचष्टे च स्रुतगर्भेति,सुश्रुतेन अकाले च प्रसूता स्त्रीत्युक्तम्।युक्त इति तत्कालप्रयुक्ते॥७॥

स्नेहसात्म्यः क्लेशसहो दृढः काले च शीतले।
अच्छमेव पिबेत् स्नेहमच्छपानं हि शोभनम्॥८॥

अच्छस्नेहपानविषयमाह स्नेहेत्यादि—

सुश्रुतस्य। दृढ इतिबलवान्, कालेच शीतल इति यद्यपि पूर्वोक्तसाधारणकाल एव स्नेहविषयस्तथाप्यात्यायिकविकारवशात् यदि शीतले काले स्नेहोपयोगः कर्तव्यः स्यात्, तदाच्छमेव पिबेदित्यर्थः।

अन्ये तु दृढ इति पदं दूरीकृत्य काले चानतिशीतल इति पठन्ति। अच्छ इत्यादिनास्य सम्बन्धः॥८॥

पिबेत् संशमनं स्नेहमन्नकाले प्रकाङ्क्षितः।
शुद्ध्यर्थं पुनराहारे नैशे जीर्णे पिबेन्नरः॥६॥

सम्प्रति संशमनस्नेहस्य संशोधनार्थस्नेहस्य च पानकालमाह पिबेदित्यादि—

संशमनमिति न शाघयति यद्दोषान् तथा संशोधनमिति संशोधयति यद्दोषानित्यायुक्तलक्षणम्। अन्नकाले द्विप्रहरादिक्षणे तत्र बुभुक्षा कदाचिन्न स्यादिति तदर्थं प्रकाङ्क्षित इति विशेषणम्। शुद्ध्यर्थन्तु स्नेहं विन्दुघृतादिकम् नैशंनिशान्तरकृते चाहारे जीर्णे सति प्रातरेव पिबेदित्यर्थः। अयमत्राभिसन्धिः, संशमनार्थः स्नेहोयदि जरणान्ते प्रातरेव क्रियते तदा कोष्ठोपलेपकदोषस्याक्षयात् तेन दोषेण सह स्नेहउत्क्लेशं कुर्यात्, न तु दोषसंशमनम् अतएव संशमनोऽन्नकालेऽभिहितः।संशोधनार्थस्तु स्नेहो दोषात्क्लेशकर एवापेक्षित इति दोषशेषावस्थायामेव प्रातःकालेतत्पानं युक्तमिति। एतच्च कालकथनमुत्सर्गतः, तेन वातपित्ताधिको रात्रावित्यपवादविषयव्यतिरिक्त एवास्य विषयो ज्ञेयः॥६॥

अहोरात्रमहःकृत्स्नं दिनार्द्धञ्च प्रतीक्षते।
उत्तमा मध्यमा ह्रस्वास्नेहमात्रा जरां प्रति॥१०॥
उत्तमस्य पलं मात्रा त्रिभिष्वाक्षैश्च मध्यमे।
जघन्यस्य पलार्द्धेन स्नेहकाथ्यौषधेषुच॥११॥

स्नेहमात्रायास्त्रैविध्यमाह—अहारात्रमित्यष्टप्रहरोपलक्षणम्, एवमहः कृत्स्रमितितत्प्रहरचतुष्टयं दिनार्द्धमिति तत् प्रहरद्वयमुपलक्षयति, अतएवोक्तंवाग्भटे “द्वाभ्यांचतुर्भिरष्टाभिर्यामैर्जीर्यन्ति याः क्रमात्” इत्यादि। तेन प्रहराद्यतीतेऽपि दिने मात्रापीता यथोक्तप्रहरादिकालप्राप्त्या दिनान्तरे रात्रौ वा जीर्यमाणा मन्तव्या यदापुनरहोरात्रपरिणामिनी मात्रा क्रियते तदहराहारा न कार्यः। अतएव चरकेउत्तममात्रा स्नेहपानविषयपुरुषमभिप्रेत्योक्ताक्षुत्पिपासाहाइति। अनया तुचरकपरिभाषया प्रायो न व्यवहरन्ति वृद्धाः। तेन उत्तमादिपुरुषाणां स्नेहमात्रां प्रतिवृद्धव्यवहारसिद्धमतमाह उत्तमस्येत्यादि॥१० - ११॥

जलमुष्णं घृते पेयं यूषस्तैलेऽनुशस्यते।
वसामज्जोस्तु मण्डः स्यात् सर्वेषूष्णमथाम्बुवा॥
भल्लाते तौवरे स्नेहे शीतमेव जलं पिबेत्॥१२॥

अनुपानमाह जलमित्यादि—अन्विति अनुपाने। सर्वेषूष्णमथाम्बुवेति यदुक्तंतदपवादमाह भल्लातेत्यादि—

भल्लाततुवरयोः स्नेह इति विग्रहः। तुवरो वृक्षविशेषः तरफलभवन्नेह इत्यर्थः उक्तंहि सुश्रुते—

“पत्रैस्तु केशराकारैः फलैः सर्षपसन्निभैः। वृक्षस्तुवरको नाम पश्चिमार्णवतीरजः” इति॥१२॥

स्नेहपीतस्तु तृष्णायां पिबेदुष्णोदकं नरः॥

एवञ्चानुप्रशाम्यन्त्यां स्नेहमुष्णाम्बुनोद्धरेत्॥१३॥

पीतस्नेहेयदि तृष्णा स्यात् तदा तत्र प्रतीकारमाह स्नेहपीत इत्यादि्—

पीतस्नेहइत्यर्थः। उद्धरेदिति वमेत्॥१३॥

मिथ्याचाराद्बहुत्वाद्वा यस्य स्नेहो न जीर्य्यति।
विष्टभ्य वापि जी र्तंय्येत्तं वारिणोष्णेन वामयेत्॥१४॥

अविधिपीतस्नेहव्यापदः प्रतिकारमाह मिथ्याचारादित्यादि—

सुश्रुतस्य।मिथ्याचारादिति शीततोयादि-सेवनाद्यथाविध्यनुपयोगाद् बहुत्वादित्यतिमात्रत्वात्विष्टभ्य मलादिरोधं कृत्वा॥१४॥

ततः स्नेहं पुनर्दद्याल्लघुकोष्ठाय देहिने।
जीर्णाजीर्णविशङ्कायां पिबेदुष्णोदकं नरः॥
तेनोद्गारो भवेच्छुद्धो रुचिश्चान्नं भवेत् प्रति॥१५॥

तत इत्यादि—जीर्णाजीर्णशङ्का चाल्पस्नेहावशेषेण ज्ञेया॥१५॥

भोज्योऽन्नं मात्रया पास्यन् श्वः पिबन् पीतवानपि।
द्रवोष्णमनभिष्यन्दि नातिस्निग्धमसङ्करम्॥१६॥

इदानीं स्नेहमपेक्ष्य कालत्रयहितमाहारमाह भोज्य इत्यादि—

वाग्भटस्य। अत्र स्नेहमिति शेषः। श्व इत्यागामिदिने स्नेहं पास्यन् तथा तस्मिन्नेव दिनेस्नेहं पिबन्, तथा पीतवानपि यः पुरुषः स मात्रया अन्नं भोज्यः भोजयितव्यइति। कीदृशमन्नं भोजयितव्यमित्याह द्रवोष्णमित्यादि—

अनभिष्यन्दीति न स्रोतोऽवरोधकं, असङ्करमिति न संयोगविरुद्धम्। निश्चलस्तु पास्यन्नित्यत्र पाय्यमितिपठित्वा पाययितव्यं स्नेहमिति शेष इत्याह, किन्तु चरके—

“द्रवोष्णमनभिष्यन्दिभोज्यमन्नं प्रमाणतः। नातिस्निग्धं न सङ्कीर्णं सस्नेहं पातुमिच्छति” इति। तथावाग्भटपुस्तकेष्वपि बहुशोऽपास्यन्नित्येव पाठः टीकाकृद्भिश्चव्याख्यात इति॥१६॥

त्र्यहावरं सप्तदिनं परन्तु स्निग्धो नरः स्वेदयितव्य इष्टः।
नातः परं स्नेहनमादिशन्ति सात्म्यीभवेत्सप्तदिनात् परन्तु॥१७॥

पञ्चकर्माङ्गस्नेहप्रयोगावधिकालमाह त्र्यहावरमित्यादि—

त्र्यहेण त्र्यहं व्याप्यक्रियमाणस्नेहनेनावरम् अधमं यथा स्यात् तथा स्निग्धो नरः स्वेदयितव्यो भवति।एतञ्चमृदुकोष्ठविषयकम्, उक्तञ्च—

मृदुकोष्ठस्त्रिरात्रेण स्निह्यतीति। तथा सप्तदिनंव्याप्य परं सप्तदिनरूपं वा अपरमुत्कृष्टं यथा स्यात् तथा स्निग्धो नरः स्वेदयितव्यः।एतञ्चकरकोष्ठविषयकम्, उक्तञ्च—

स्निह्यतिकरकोष्ठस्तु सप्तरात्रेण मानवइति। मध्यकोष्ठं प्रति तु स्नेहनप्रकर्षकालो यद्यपि नोक्तस्तथापि चतुरहादिना मध्यकोष्ठस्य स्नेहनं ज्ञेयम्। यदाह सुश्रुतः—

“पिबेत् त्र्यहं चतुरहं पञ्चाहंवा” इति।उक्तसप्तदिनरूपस्नेहनकालानतिक्रमं सोपपत्तिकमाह नातःपरमिति सप्तदिनात् परम्,कुतो नोपदिशन्तीत्यत आह सात्म्यीभवेदिति। सुश्रुतेऽप्युक्तं—“सप्तरात्रात्परं सहः सात्म्यभावाय कल्प्यते” इति।सप्तरात्रात् परेण क्रियमाणः स्नेहः सप्तरात्रप्रयोगेण सात्म्यीभूतत्वात् न स्रेहनमधिकं करोतीत्यर्थः। तेन यावन्मात्रस्नेहप्रयोगेणसप्ताहोपयुक्तेन स्नेहनं न भूतं मात्रयाल्पत्वात्, सा मात्रा सप्तदिनात् परं न प्रयोक्तव्यैव तस्याः स्नेहमात्रयाः सात्म्यीभूतत्वात् न स्नेहनमात्रयाः सात्म्यीभूतत्वात्। यापुनिरधिका मात्रा सात्म्यतां न गता सा सप्ताहात् परमपि स्नेहनार्थं कर्तव्यैव।वृद्धास्तु यदि सप्तरात्रेणापि पुरुषः स्निग्धो न भवति तदा किञ्चित् विश्रामं कृत्वापुनरधिकमात्रया स्नेहंप्रयुञ्जते। ननु यदि करकोष्ठः सप्तरात्रेण स्निह्यतीतिव्यवस्था तत् कथमिहनातःपरं स्नेहनमादिशन्तीत्यनेन सप्तररात्रेणाप्यस्नेहनमुच्यतइति ? ब्रूमः।करकोष्ठःसप्त-रात्रेणेव स्निह्यति, परन्तु करकोष्ठतामपेक्ष्यकृतया स्नेहमात्रया स्निह्यति, यदा तु हीनमात्रा प्रयुज्यते तदा सप्तरात्रेणापि न स्निह्यतीति।यत् तु तन्त्रान्तरे—

तत् त्रिंशन्नवरात्राणांस्नेहपानं विधीयते” इत्यनेन सप्तरात्राददूर्ध्वमपि स्नेहनं विहितम्. तदपि सात्म्यीभूतहीनमात्रापेक्षयैवाधिकमात्राभिप्रायेणज्ञेयम्। अत्र सप्तरात्राद्दूर्ध्वं स्नेहप्रयोगस्य निषेधात् त्र्यहादर्वाक्प्रयोगस्य चानिषेधात् सद्यःस्नेहप्रयोगे एकदिनेनापि स्नेहनमनुजानाति। यस्तु कश्चिन्मृदुकोष्ठंप्रति त्र्यहाद्दूर्ध्वं नस्नेहनं कर्तव्यं सात्म्यीभावादिति चार्थोऽत्र लभत इति, यद्व्याख्यानयन्ति तन्न, यतः सात्म्यीभावः सप्तदिन-निर्वर्त्यतयैवाचार्येणोक्तः तेनाल्पमात्र-प्रयुक्तेन स्नेहनं त्र्यहाद् यदि न स्निह्यति मृदुकोष्ठस्तदाधिक-दिनान्यपि तत्र स्नेहःकर्तव्य एवेत्यर्थः॥१७॥

मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसेवया॥
स्निह्यति करकोष्ठस्तु सप्तरात्रेण मानवः॥१८॥

मृदुकोष्ठादिलक्षणमाह मृदुकोष्ठेत्यादि—

यस्त्रिरात्रेण स्निह्यति स मृदुकोष्ठइत्यादि व्याख्येयम्। मध्यकोष्ठलक्षणन्तु यद्यपि नोक्तं तथापि मध्यविधया चतुरहादिना यः स्निह्यति स मध्यकोष्ठ इति ज्ञेयः। इदानीं संशोधनस्नेहपाने कर्तव्ये यद्विधेयंतदाह स्निग्धेत्यादि—

वाग्भटस्य।स्निग्धस्त्र्यहंस्थित इति स्निधो भूत्वा त्रिदिनं परित्यक्तस्नेहपानः सन् विरेकं कुर्य्यात् विरेचनौषधं पिबेदित्यर्थः। एकाहमित्यत्रापिस्थित इति योज्यं तेन स्निग्धो भूत्वा एकाहंस्थित इति परित्यक्तस्नेहपानः सन्दिनान्तरञ्चकफकरैर्प्राम्यानूप-रसादिभिःकफमुत्क्लेश्य प्रवृत्त्युन्मुखं कारयित्वा वमनंकुर्य्यादित्यर्थः॥८॥

स्निग्धद्रवोष्णधन्वोत्थरसभुक् स्नेहमाचरन्।
स्निग्धस्त्र्यहं स्थितः कुर्य्याद्विरेकं वमनं पुनः।
एकाहं दिनमन्यञ्च कफमुत्क्लेश्य तत्करैः॥१६॥

इदानीं स्नेहोपरमस्त्रिरात्र एव यद्विधेयस्तदाह स्निग्धद्रवोष्णेत्यादि—

स्नेहमाचरन्नित्यत्र स्वेदमारभन्नित्यपि पाठः।स्नेहोपरमस्त्रिरात्रे स्नेहपाननिषेधस्योक्तत्वात्, चरकेऽप्युक्तं—

“स्नेहात्प्रस्कन्दनो जन्तुस्त्रिरात्रोपरतः पिबेत्। स्नेहञ्च

द्रवमुष्णञ्चत्र्यहं भुक्त्वा रसौदनम्। एकाहःपरतस्तद्वद् भुक्त्वा प्रच्छर्दनं पिबेत्’ इति॥

वातानुलोम्यं दीप्ताग्निर्वर्चःस्निग्धमसंहतम्।
स्नेहोद्वेगः क्लमः सम्यक् स्निग्धे रूक्षे विपर्य्ययः।
अतिस्निग्धेतु पाण्डुत्वं प्राणवक्त्रगुदस्रवाः॥२०॥

सम्यक्स्निग्धस्य तथा रूक्षस्य तथातिस्निग्धस्य च लक्षणान्याह वातानुलोम्यमित्यादि—वाग्भटस्य।असंहतमित्यकठिनम्।स्नेहोद्वेगोऽनिच्छा, क्लमो ग्लानिः।सुश्रुत—ग्लानिः सदनमज्ञानामित्युलम्॥२०॥

रूक्षस्य स्नेहनं कार्य्यमतिस्निग्धस्य रूक्षणम्


श्यामाककोरदूषान्न-तक्रपिण्याकशक्तुभिः॥२१॥

रूक्षातिस्निग्धयोश्चिकित्सामाह—

रूक्षस्येत्यादि—

रूक्षणं श्यामाकादिभिरित्यन्वयः॥२१॥

बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु।
योगानिमाननुद्वेगान् सद्यःस्नेहान् प्रयोजयेत्॥२२॥

इदानीं विषयाभिधानपूर्वकं सद्यःस्नेहयोगानाह वालेत्यादि—

वाग्भटस्य।अनुद्वेगानित्यवैराग्य-जनकानित्यर्थः॥२२॥

भ्रष्टे मांसरसे स्निग्धा यवागूःस्वल्पतण्डुला।
सक्षौद्रा सेव्यमाना तु सद्यः स्नेहनमुच्यते॥२३॥

भृष्ट इत्यादि—

सुश्रुतस्य। भृष्ट इति सन्तलिते, मांसरस इत्यनन्तरं सिद्धा इतिशेषः। स्वल्पतण्डुलेत्यत्र सुकल्पितति पाठान्तरम्॥२३॥

सर्पिस्तैलवसामज्जतण्डुलप्रसृतैः शृता।
पाञ्चप्रसृतिकी पेया पेया स्नेहनमिच्छता॥२४॥

सर्पिरित्यादि—

प्रसृतं पलद्वयं, पेयेति पातव्या॥२४॥

सर्पिष्मती बहुतिला तथैव स्वल्पतण्डुला।
सुखोष्णासेव्यमाना तु सद्यःस्नेहनमुच्यते॥२५॥

सर्पिष्मतीत्यादि—

सुश्रुतस्य। बहुतिलेत्यनेन निस्तुषतिलानां त्रयो भागाः,एकस्तण्डुलानामिति।इयञ्च सुखोष्णा योज्या, सुश्रुते तथैवोक्तत्वात् चक्रेण प्रतिसंस्कृत्य लिखितमेतत्। तत्र हि तथैवेत्यत्र यवागूरिति पठ्यते॥२५॥

शर्कराघृतसंसृष्टे दुह्याद्गांकलसेऽथवा।
पाययेद्रूक्षमेतद्धि सद्यःस्नेहनमुच्यते॥२६॥

शर्करेत्यादि–सुश्रुतस्य।रूक्षमिति पुरुषविशेषणम्॥२६॥

ग्राम्यानूपौदकं मांस गुडं दघि पयस्तिलान्।
कुष्ठी शोथी प्रमेही च स्नेहने न प्रयोजयेत्॥२७॥

येषु व्याधिषु स्नेहनार्थं यानि द्रव्याणि न प्रयोज्यानि तान्याह ग्राम्येत्यादि—

स्नेहन इति स्नेहनिमित्तम्॥२७॥

स्नेहैर्यथास्वं तान् सिद्धैः स्नेहयेदविकारिभिः।

पिप्पलीभिर्हरीतक्या सिद्धैस्त्रिफलया सह॥२८॥

तर्हि तैः कैः स्नेह्याइत्याह स्नेहैरित्यादि—

यथास्वमिति यो यत्र स्नेहो युज्यतेसर्पिरादिः, सिद्धैरिति तत्तव्याधिहरत्वेन प्रसिद्धैः,सिद्धेरिति पदं पिप्पल्यादिभिःप्रत्येकं योज्यम्, पिप्पल्यादिसिद्धाः स्नेहाः कुष्ठादिषु यथासङ्ख्यमिति केचित्,तन्न, वाग्भटेऽप्यतिक्रमेणाभिधानात यथा—

“गुडानूपामिषक्षीर-तिलमाषसुरादधि।कुष्ठशोथप्रमेहेषु स्नेहनार्थं न कल्पयेत्। त्रिफलापिप्पलीपथ्यागुग्गुल्वादिविपाचितान्। स्नेहान् यथास्वमेतेषां योजयेदविकारिणं” इति॥२८॥

स्नेहमग्रप्रयुञ्जीत ततः स्वेदनमन्तरम्।
स्नेहस्वेदोपपन्नस्य संशोधनमथान्तरम्॥२६॥

स्नेहादिषुस्नेहस्य प्राग्भावमाह स्नेहमित्यादि—स्पष्टम्॥२६॥

इति स्नेहाधिकारः॥

<MISSING_FIG href=”../../../../../books_images/U-IMG-1700380227image10.jpg”/>

अथ स्वेदाधिकारः।

घातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते।
स्निग्धरूक्षस्तथा स्निग्धो रूक्षश्चाप्युपकल्पितः॥१॥

स्नेहमग्रेप्रयुञ्जीत ततः स्वेदनमन्तरमित्युक्तेः स्नेहानन्तरं स्वेदमाह—तत्रदोषविशेषापेक्षया स्वेदस्य कल्पनाभेदमाह वातेत्यादि—अत्र यथासंख्यमन्वयः।स्निग्धरूक्षइति स्निग्धरूक्षव्यकृतत्वात्॥१॥

व्याधौ शीते शरीरे च महान् स्वेदो महावले।
दुर्बले दुर्बलः स्वेदो मध्यमे मध्यमो मतः॥२॥

रोगाद्यपेक्षयापि स्वेदस्य कल्पनाभेदमाह व्याधावित्यादि—व्याधौ महावलेमहाशीते शीतलकृते महाशीतले तथा शरीरे च महाबले महानिति मृदुमध्यस्वेदापेक्षया प्रचण्डतापत्वेन कालबाहुल्येन च एवं दुर्बल इति मध्यम इति चव्याख्येयम्॥२॥

आमाशयगतेवाते कफे पक्वाशयाश्रये।
रूक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च॥

वाते स्निग्धः कफे रूक्ष इति यदुक्तंतस्य देशविशेषापेक्षया व्यभिचारमाहआमाशयेत्यादि—वाग्भटस्य।आमाशय इति कफस्थानोपलक्षणम्, अत्रापि यथा

सङ्ख्यमन्वयः, तेन कफस्थानापेक्षया पूर्वं रूक्षस्वेदं कृत्वा पश्चाद्वातापेक्षः स्निग्धस्वेदः कार्य्यः।यदुक्तं स्थानं जयेद्धि पूर्वमिति। एवं पक्वाशयगते स्नेहपूर्व इतिव्याख्येयम्॥३॥

वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु वा न वा।
मध्यमं वङ्क्षणौशेषमङ्गावयवमिष्टतः॥४॥

अस्वेद्यदेशानाह वृषणावित्यादि—यदि वृषणे स्वेदः क्रियते तदा तत्र प्रत्यासन्नशुक्रवहस्रोतस उपघातात् क्लीबत्वं स्यात्। हृदयस्याप्योजःक्षयप्रसङ्गात्। दृष्ट्यांतर्पणश्लेष्मक्षयात् तिमिरमान्ध्यं वा भवेदेति। मृदु वा न वेति स्वेदैकसाध्ये वृषणादिगते व्याघौ मृदु स्वेदयेत्। स्वेदव्यतिरिक्तोपायान्तरसम्भवे तु न वेति बोध्यः।इष्टत इत्यातुरेच्छातो वैद्येच्छातश्च।इष्टत इति भावे क्तः॥४॥

न स्वेदयेदतिस्थूलरूक्षदुर्बलमूर्च्छितान्।
स्तम्भनीयक्षतक्षीणविषमद्यविकारिणः॥
तिमिरोदरवीसर्पकुष्ठशोषाढ्यरोगिणः।
पीतदुग्धदधिस्नेहमधून् कृतविरेचनान्॥
भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान्।
क्षुत्तृष्णाकामलापाण्डुमेहिनः पित्तपीडितान्।
गर्भिणींपुष्पितां सूतां मृदुर्वात्ययिके गदे॥५॥

अस्वेद्यानाह न स्वेदयेदित्यादि—वाग्भटस्य। प्रतिस्थूलरूक्षदुर्बलक्षीणानांस्वेदासहत्वात् प्राणोपरोधः, मूर्च्छितानां पित्तवृद्ध्यामूर्च्छैव भवति। स्तम्भनीयावम्यतिसारपीडितादयः एषां स्वेदात् पित्तवृद्ध्यारोगवृद्धिः स्यात्। क्षतस्य स्वेदाद्रक्तातिप्रवृत्तिः विषमद्यविकारिणामपि पित्तवृद्ध्यातयोरपि महान् वेगः, तिमिरेतर्पकश्लेष्मक्षयः, उदरे अत्युष्णादिनिदानत्वेन तद्वृद्धिरेव, विसर्पकुष्ठयो रक्तदुष्टिःएवमाढ्यरोगे आढ्यरोगो वातरक्तं, शोषे रसादिक्षयः। पीतदुग्धादौ उत्क्लेशादयः। कृतविरेके पित्तवृद्ध्या तदतियोगः, भ्रष्टगुदो गुदभ्रंशी दग्धगुदः क्षाराग्न्यादिभिःगुदभ्रंशदाहयोः पित्तवृद्ध्या सरत्वेन क्रमेण तयोरेव वृद्धिः,क्षुधायां वह्निवृद्ध्याधातुपाकः तृष्णायां पित्तवृद्धिः, कामलापाण्ड्वोश्च पित्तवृद्ध्या तद्वृद्धिः, गर्भिण्याःगर्भव्यापत्तिः पुष्पितायां रजोऽतियोगः। सूतामित्यपसूतां प्रस्नुतगर्भामिति यावत्।अस्यान्तु स्वेदात् रक्तातिप्रवृत्तिः स्यादिति भावः। सम्यक्प्रसूतायास्तु स्वेदविधानमग्रे वक्ष्यति। एषु च मेदसादिषु यदि स्वेदैकसाध्यःसन्न्यासादिर्भवति तदामहाप्रत्यवायभयादल्पप्रत्यवायमुपेक्ष्यापि मृदुस्वेदो विधेय इत्याह मृदुर्वात्यायिकेगद इति॥५॥

स्वेदो हितस्त्वनाग्नेयो वाते मेदः कफावृते॥६॥

अनाग्नेयस्वेदस्य विषयमाह स्वेदो हित इत्यादि—

वाग्भटस्य॥६॥

निर्वातं गृहमायासो गुरुप्रावरणं भयम्॥
उपनाहाहवक्रोघभूरिपानक्षुधातपाः।
स्वेदयन्ति दशैतानि नरमग्निगुणाहते॥७॥

अनाग्नेयस्वेदानाह निवातमित्यादि—वाग्भटस्य। उपनाहो बहलो लेपः सहि बहुलत्वेन शरीरोष्मरोधं कृत्वा स्वेदयति। भूरिपानं मद्यस्य॥७॥

शीतशूलव्युपरमे स्तम्भगौरवनिग्रहे।
सञ्जाते मार्दवे स्वेदे स्वेदनाद्विरतिर्मता॥८॥

स्वेदस्य सम्यग्योगलक्षणमाह शीतेत्यादि—

स्वेदे धर्मे, स्वेदनादिति प्रस्वेदद्रव्यात्। अत्रशीताद्यपहारस्य स्वेदस्य सम्यग्योगलक्षणत्वेन शीतादेरर्थतोऽनुपरमस्य स्वेदासम्यग्योगलक्षणत्वमुक्तं भवति। सुश्रुतेऽप्युक्तं—

“स्वेदस्नावोव्याधिहानिर्लघुत्वं शीतादीनां मार्दवश्चातुरस्य।सम्यक्स्विन्ने लक्षणं प्राहुरेतत् मिथ्यास्विन्नेव्यत्ययेन भवेत्तत्” इति॥८॥

स्फोटोत्पत्तिः पित्तरक्तप्रकोपो मदो मूर्च्छा भ्रमदाहौ क्लमश्च।
अतिस्वेदे सन्धिपीडा तृपा च क्रियाः शीतास्तत्र कुर्य्याद्विधिशः॥९॥

स्वेदातियोगलक्षणं चिकित्सितञ्चाहस्फोटेत्यादि-्—

सुश्रुतस्य॥९॥

सर्वान् स्वेदान् निघाते तु जीर्णान्ने चावचारयेत्॥१०॥

स्वेदा यत्र यथा प्रयोज्यास्तानाहसर्वानित्यादि—

सुश्रुतस्य।जीर्णेऽन्न इत्युत्सर्गस्तेन विष्टव्याजीर्णादौयत् स्वदविधानं विष्टव्येस्वेदनं कार्य्यमित्यादिनोक्तंतदपवादतया न दुष्यतीति॥१०॥

येषां नस्यं विधातव्यं वस्तिश्चापि हि देहिनाम्।
शोधनीयास्तु ये केचित् पूर्वं स्वेद्यास्तु ते मताः॥
पश्चात् स्वेद्या हृते शल्ये मूढगर्भानुपद्रवाः।
सम्यक् प्रजाताः काले च पश्चात् स्वेद्या विजानता॥
स्वेद्याः पश्चाच्चपूर्वञ्च भगन्दर्य्यर्शसस्तथा॥११॥

इदानीं ये च स्वेदविषायास्तथा पश्चाद् ये स्वेदावषया ये कालद्वयेऽपि स्वेदविषयास्तान् क्रमेणाह येषामित्यादि—

सुश्रुतस्य।शल्य इति गर्भरूपशल्ये अनुपद्रवा गर्भस्रावाद्युपद्रवादिरहिता। सम्यक्प्रजाता सम्यक्प्रसूता। स्वेद्या इतिभगन्दरेऽर्शसि च पूर्वं स्वेदस्तप्तलौहशलाकया दाहरूपः, पश्चात्स्वेदस्तु दाहानन्तरमुष्णोदकोपवेशनरूपो ज्ञेयः॥११॥

तप्तैः सैकतपाणिकांस्यवसनैः स्वेदोऽथवाङ्गारकै-
र्लेपाद्वातहरैःसहाम्ललवणस्नेहैःसुखोष्णैर्भवेत्।
एवं तप्तपयोऽम्बुवातशमनक्वाथादिसेकादिभि-
स्तप्तैस्तोयनिषेचनोद्भववृहद्बाष्पैःशिलाद्यैः क्रमात्॥१२॥

सुश्रुते तापबाष्पोपनाहद्रवभेदेन चतुर्विधस्वेद उक्तस्तानाह—तप्तैरित्यादिना अङ्गारैरित्यन्तेन तापस्वेदः। सिकतैव सैकतम्।सुश्रुतेऽप्युक्तं “तत्र तापस्वेदो नामयः पाणिकांस्यकन्दकपालवालुका-वस्त्रैः प्रयुज्यते शयानस्य चाङ्गतापो बहुशः खादिराङ्गारैः” इति। लेपेत्यादिना सुखोष्णैरित्यन्तेन उपनाहस्वेदः। वातहरैर्वराहमांसैर्भद्रदार्वादिभिश्चकाशिकादियुक्तैः सुखोष्णैर्लेपात् यस्वेदः उक्तः स उपनाह इत्यर्थः।एवमित्यादि—

स्वेदादिभिरित्यन्तेन द्रवस्वेदः, पयो दुग्धम्। सुश्रुतेऽपि “द्रवस्वेदस्तु

वातहरद्रव्यक्वाथपूर्णं कोष्णकटाहंद्रोण्यां वावगाह्य स्वेदयेत्। एवं पयोमांसरसयूषतैलघान्याम्लघृत-वसामूत्रेष्ववगाहेत सुखोष्णैः कषायैः परिषिञ्चेदिति। तप्तैरित्यादिनाशिलाद्यैरित्यन्तेन बाष्पस्वेदः। शिलाद्यैरित्याद्यशब्दात् कपालेष्टकालोहपिण्डादीनांप्रहणम् अस्यैव विशेषणं तोयेत्यादि। सुश्रुते तु बाष्पस्वेदस्तु कपालपाषाणेष्टकालोहपिण्डानग्निवर्णानद्भिरासिञ्चेदित्याद्युक्तम्॥१२॥

तापोपनाहद्रवबाष्पपूर्वाः स्वेदास्ततोऽन्त्यप्रथमौ कफे स्तः।
वायौ द्वितीयः पवने कफे व पित्तोपसृष्टे विहितस्तृतीयः॥१३॥

एषां स्वेदानां विषयमाह तापेत्यादि—

तत इति सप्तम्यन्तात् तसिः। तेषु स्वेदेषु मध्ये आद्यन्तस्वेदो बाष्पस्वेद-तापस्वेदौकफे स्तः। द्वितीय इत्युपनाहो वायो,तृतीय इति द्रवस्वेदः, पित्तोपसृष्टे वाते कफे च भवति। सुश्रुतेऽप्युक्तं “तत्र तापोष्मस्वेदौ विशेषतः श्लेष्मघ्नौउपनाहस्वेदो वातङ्गःअन्यतरस्मिन् पित्तसंसृष्टेद्रवस्वेदः” इति। ननु पित्तोपसृष्टेकथं स्वेदो वातश्लेष्मणिवाते वेत्यनेनैव विरोधात् ?उच्यते, पित्तयुक्तेऽपि द्रवस्वेदविधानात् वातश्लेष्मणीत्यादिवचनं प्रायिकं ज्ञेयमिति॥१३॥

इति स्वेदाधिकार-विवृतिः।

<MISSING_FIG href=”../../../../../books_images/U-IMG-1700381908image10.jpg”/>

अथ वमनाधिकारः।

स्निग्धस्विन्नंकफे सम्यक् संयोगे वा कफोल्बणे।
श्वोन्वम्यमुत्क्लिष्टकफंमत्स्यमांसतिलादिभिः॥
यथाविकारं विहितां मधुसैन्धवसंयुताम्।
कोष्ठं विभज्य भैषज्यमात्रां मन्त्राभिमन्त्रिताम्।
“ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलामलाः।
ऋषयः सौषधिग्रामा भूतसङ्घास्तु पान्तु ते॥
रसायनमिवर्षीणां देवानाममृतं यथा।
सुघेवोत्तमनागानां भैषज्यमिदमस्तु ते॥”
पूर्वाह्णेपाययेत् पीतो जानुतुल्यासने स्थितः।
तन्मना जातहृल्लासप्रसेकश्छर्दयेत्ततः॥
अङ्गुलीभ्यामनायस्तनालेन मृदुनाथवा॥१॥

इदानीं स्नेहस्वेदानन्तरीयत्वात् पञ्चकर्माणि वक्तृव्यानि। तत्र यद्यपि पञ्चकर्मसु वस्तेरेव प्राधान्यं, यदुक्तम्—

“उपक्रमाणां सर्वेषां साग्रणीः” इति तथापिपञ्चकर्मणामौत्सर्गिकप्रवृत्तौवमनविरेचनपूर्विकैव बस्तिप्रवृत्तिर्भवतीति कृत्वा वमनविरेचने एव प्रथममभिघातव्ये, तत्रापि वमनपूर्वकत्वात् विरेचनस्य विरेचनात् प्राक् वमनमाह स्निग्धेत्यादि—

सम्यस्निग्धस्विन्नं पुरुषं भैषज्यमात्रांपूर्वाह्नेपाययेदिति

वक्ष्यमाणेनान्वयः।वमनस्य विषयमाह कफ इन्यादि—

कफे केवलकफे, कफोल्बणइति कफप्रधाने। श्वोवम्यमित्यादि—

श्वइत्यागामिदिवसे। यदि पुरुषो वम्योवमनार्होभवति, तदा तत्पूर्वदिवसे मत्स्यादिभिः कफ उत्क्लेशनीय इत्यर्थः। उत्क्लिष्टकफाय दीयमानं वमनं न दुःखमावहति, उक्तं हि— “कफे उच्छर्दयति ह्यदुःखम्” इति। मात्रामित्यनपायिपरिमाणम्। मधुसैन्धवसंयुतामित्यनेन सर्वस्मिन्नेववमनयोगे मधुसैन्धवयोर्देयतां बोधयति । कोष्ठं विभज्येति कोष्ठाद्यपेक्षया मधुसैन्धवञ्चस्तोकं बहु वा देयमित्यर्थः। मन्त्राभिमन्त्रितमित्युक्तमतो मन्त्रमाहब्रह्मेत्यादि—

वमनौषधपानानन्तरीयविधिमाह पीत इत्यादि। तन्मना इति वान्तमनाः। अंगुलीभ्यामित्यत्र परिकर्तितनखाभ्यां कण्ठमभिस्पृशन्निति शेषः।चरकेऽपि सुपरिलिखितनखाभ्यां कंठमभिस्पृशन्नित्युक्तम्। अनायस्वेति ऋजु-मृदुनानालेनेत्युत्पलनालेन॥११॥

कृष्णेन्द्रयवसिन्धूत्थवचाकल्कयुतं पिबेत्।
यष्टीकपायं सक्षौद्रं तेन साधु वमत्यलम्॥
क्वाथ्यद्रव्यस्य कुडवं श्रपयित्वा जलाढके।
चतुर्भागावशिष्टन्तु वमनेष्ववचारयेत्॥२॥

वमनविधिमभिधाय वमनयोगानाह कृष्णेत्यादि—

अत्र कृष्णादीनां मिलित्वाकर्षः।यष्टिकषायंयष्टिमधुकपायम्। कषायञ्चक्वाथ्यद्रव्यस्य कुडवं श्रपयित्वाजलाढके चतुर्भागावशिष्टन्तु वमनेष्ववचारयेदिति परिभाषया कार्यः।नत्वत्रचतुर्भागावशिष्टः कषायः प्रस्थमात्रोभवति, चरके तु पूर्णं शरावं पिबेदित्युक्तम्, अतोविरोधः, नैवं चरके तु पूर्णं शरावमिति यदुक्तं तदेकशरावपानाभिप्रायेण तेनेहप्रस्थमात्रेकषाये शरावमेकं पीत्वा शेषकषायभागो रक्षणीयोऽयोगे सति पुनःपानार्थमित्यभिप्रायः। एतञ्चमात्राकथनं मन्दयुद्धेरनष्ववसायस्य स्यादित्येवं कथंक्रियते इति वस्तुतस्तु कोष्ठाद्यपेक्षयैव मात्रा कल्पनीयेति सिद्धान्तः। अतएव कोष्ठंविभज्य मात्रामित्युक्तम्। सर्वत्रैव वमनयोगेउष्णीकरणं मधुसैन्धवं ज्ञेयम्। नचोष्णे मधु विरुष्यत इति वाच्यं, वमनस्यापक्वस्यैव ऊर्ध्वगमनात्, जठराग्निपाकेहि विरोधो भवति। वृद्धवैद्यास्तु प्रयोगेकदाचि्त्सम्भावनया न प्रक्षिपन्त्येव॥२॥

तण्डुलसलिलनिष्पिष्टं यः पीत्वा वमति पूर्वाह्णे।
फलिनीवल्कलमुष्णं हरति गरं सकफपित्तरुजम्॥३॥

तण्डुलसलिलेत्यादौ—

पानमपि तण्डुलजलेनैव। फलिनी प्रियङ्गुः,तद्वल्कलंकर्षमानं मधुसैन्धवे अपि कर्षमाने। एतच्चदिङ्मात्रं, तेन कोष्ठाद्यपेक्षया स्तोकं बहुवा क्रियते। पानार्थं तण्डुलसलिलमपि शरावमात्रंपूर्णं शरावमित्युक्तेः॥३॥

क्षौद्रलीढं ताम्ररजो वमनं गरदोषनुत्॥४॥

क्षौद्रित्यादौ—

रसायनाधिकारोकृताम्रयोगवन्मारितपुटितनैपालताम्रचूर्णं रक्तिपञ्चकं मधुना संमर्द्यलेह्यम्। अस्य ताम्रयोगस्य वमनकारकत्वं वमनौषधभावितत्वादेवेति ज्ञेयम्॥४॥

पञ्चकषायः।

अटरूषं वचा निम्बं पटोलं फलिनीत्वचम्।
क्वाथयित्वा पिबेत्तोयं वान्तिकृन्मदनान्वितम्॥५॥

अटरूषमित्यादावपि पूर्वोक्तपरिभाषयैव क्वाथः करणीयः। मदनफलन्तु कर्षमात्रं प्रक्षेप्यमित्याहुः पञ्चकषायः॥५॥

निम्बकषायोपेतं फलिनीगदमदनमधुकसिन्धूत्थम्।
मधुयुतमेतद्वमनं कफपूर्णाशये शस्तम्॥६॥

निम्बकषायोपेतमित्यादौ—

गदः कुष्ठम्। फलिनीकुष्ठमधुकानां मिलित्वाकर्षः, मदनफलस्य च कर्षः, सैन्धवस्य माषकचतुष्टयं, मधुनोष्टौ माषकाइति प्रक्षेपव्यवस्था इत्याहुः॥६॥

फलजीमूतकेक्ष्वाकुकुटजाः कृतवेधनः।
घामार्गवश्च संयोज्याः सर्वथा वमनेष्वमी॥७॥

वमनयोगेषु यौगिकद्रव्याण्याह फलमित्यादि—

फलं मदनफल, जीमूतको देवदाली, घोषकभेदः, इक्ष्वाकुस्तिक्वतुम्बी, कृतवधनः ज्योत्स्निका, धामार्गवः पीतघोषःएषां जीमूतादीनाञ्चफलम्। एते च दोषाद्यपेक्षया कल्कक्वाथादिकल्पनया वमनयोगेषु योज्या इत्यर्थः॥७॥

क्रमात् कफः पित्तमथानिलश्च यस्यैति सम्यग्वमितः स इष्टः।
हत्पार्श्वमूर्द्धेन्द्रियमार्गशुद्धौ तनोर्लघुत्वेऽपि च लक्ष्यमाणे॥८॥

इदानींवमनस्य सम्यग्योगलक्षणमाह क्रमादित्यादि—

क्रमादिति वचनेन यथोक्त

क्रमलक्षणेन कफाद्यागमनं सम्यग्योगलक्षणमिति बोधयति। यतः कफादूर्ध्वं यदा पित्तं गतं स्यात् तदा तत्पित्तागमनेऽपि सति न शुद्धिः। किन्तु यदैवामाशयाधोभागगतं पित्तं वमनमानयति तदैव शुद्धिः। तच्च पित्तानयनं कफानयनानन्तरमेवभवति। इयमेदात्यन्तिकीशुद्धिरव्यभिचारिणी। हृत्पार्श्वेत्यादिना वमनस्य नैसर्गिकशुद्धिमाह।सम्यग्वमित इष्ट इत्यन्वयः॥८॥

दुश्छर्दिते स्फोटककोठकण्डूहृत्खाविशुद्धिर्गुरुगात्रता च॥६॥

दुश्छर्दितइत्यादिना अर्द्धश्लोकेनायोगकृतवमनलक्षणमाह। हृत्खाविशुद्धिरितिहृदयस्य तथा खानामिन्द्रियाणां स्रोतसामशुद्धिरित्यर्थः॥६॥

तृण्मोहमूर्छानिलकोपनिद्राबलादिहानिर्वमितेऽतिविद्यात्॥१०॥

तृणमोहेत्यादिना प्रतियोगलक्षणमाह—

प्रतिवमित इत्यन्त्रयः। आदिशब्देनैव वर्णस्वरादिग्रहणं, बलातिहानिरित्यपि पाठः॥१०॥

ततः सायं प्रभाते वा क्षुद्वान् पेयादिकं भजेत्॥११॥

एतदनन्तरं किं पथ्यं देयं न वेति तानाह तत इत्यादि—यस्य सम्यग्योगः।क्षुधाच स्यात् तदा सायम्, अन्यथा तु प्रातः पेयादिकं भजेदित्यर्थः। मेलऽप्युक्तं—

“वमितं लङ्घयेत् सम्यक् शुद्धिलिङ्गान्यलक्षयन्।तानि दृष्ट्वा तु पेयादिक्रमं कुर्य्यान्नलङ्घयेत्” इति॥११॥

पेयां विलेपीमकृतं कृतञ्च यूषंरसं त्रिद्विरथैकशश्च।
क्रमेण सेवेत विशुद्धकायः प्रधानमध्यावरशुद्धिशुद्धः॥१२॥

तमेव पेयादिक्रममाह पेयामित्यादि—

पेयादिलक्षणञ्चज्वराधिकार एवोक्तंव्याख्यातञ्च।विलिप्तशब्दो विलेपविचनः। प्रकृतौयूषः स्नेहाद्यसंस्कृतः, कृतस्तुस्नेहलवणादिसंस्कृतः, एवं रसेऽपि कृताकृतव्यवस्था।उक्तञ्चसूदशास्त्रे—

“अस्नेहलवणं सर्वमकृतं कटुकैर्विना।विज्ञेयं लवणस्नेहकटुकैः संस्कृतं कृतम्” इति।अस्नेहलवणमितीपत्स्नेहलवणयुक्तम्। अतएवोपकल्पनीये तनुना तनुस्नेहलवणोपपन्नेनमुद्गयूषेणेत्युक्तम्। संस्कृतमिति वचनाच्चसमप्रसाधनं यावता भवतितावदेव लक्षणादिकं कृतं देयमिति बोधयति। अकृतकृतयोर्मध्य अकृतोलघुर्भवति, उक्तंहि—“अकृताख्यो लघुस्तत्र तनु विष्ट्रयते स हि” इति। अकृतं कृतञ्चेति चकारोऽयमन्वाचयशिष्टः तेन कृतस्यानैयत्यं बोधयति।ततश्चाकृतावैव यूषरसौ लाघवादग्निसन्धुक्षणार्थं देयौकृतौ पुनरवस्थाविशेषादिति। अतएवोपकल्पनीये तनुना तनुस्नेहलवणोपपजनेत्यनेन औदकलावणिकेत्यनेनच प्रकृतयोरेव यूषरसयोर्दानं साक्षादुक्तं, कृतौपुनरवस्थाविशेषनियतत्वान्नसाक्षादुक्तौ। त्रिरित्यन्नकालद्वयम् द्विरित्यन्नकालद्वयम्; एकश इत्येकान्नकालम्।एतच्च त्रिरित्यादि प्रत्येकं पेयादिभिः सम्बध्यते। त्रिरित्यादि पक्षत्रयञ्चप्रधानशुद्धपादिशुद्धेषु त्रिषु यथाक्रमं, तेन प्रधानशुद्धिशुद्धेपेयादिक्रमः प्रत्येकं त्रिःकर्तव्यः, तेनान्नकालत्रये पेया, ततः परेणान्नकालत्रये विलेपी, ततः परेणान्नकालत्रयेकृताकृतयूषयोरन्यतरेण सहितमन्नं, ततोऽपि च परेणान्नकालत्रये कृताकृतरसयोरन्यतरेण सहितमन्नं, देयमिति। द्वादशभिरन्नकालैर्वमनदिनसायाहात् प्रभृतिसप्तरात्रेण पेयादिक्रमः समाप्यते। अन्नकालस्तु उत्सर्गसिद्धः सायं प्रातश्चेति। अयमेव च क्रम उपकल्पनीयेऽपि, ततः सायाह्नेलोहितशालि-तण्डुलानामित्यादिनायावद् द्वादशे चान्नकाल इत्यनेनोक्तः। एवं मध्यशुद्धिशुद्धे द्विःपेयादिक्रमः।अवरशुद्धिशुद्धे चैकशःपेयादिक्रमो व्याख्येयः। एवञ्चमध्यशुद्धिशुद्धेऽष्टान्नकालिकः,अवरशुद्धिशुद्धेतु चतुरन्नकालिकः क्रमो भवतीति व्याख्यान्तरञ्चअस्मदीयचरकतत्त्वप्रदीपिकायामनुसन्धेयम्। यद्यपि प्रधानशुद्ध्यानिःशेषदेोषहरणादुदर्य्यः पावकोनिरपवाद एव भवति तथापि तत्र भूरिदोषनिर्हरणेन तावत्कालिकाशयक्षोभादग्निमान्द्यंमहदेव सम्भवतीति तेनात्र पेयादिक्रमस्ग्चिरंक्रियत इति ज्ञेयम्॥१२॥

जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने पडष्टौ।
दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा द्वित्रिचतुर्गुणश्च॥१३॥

इदानीं प्रधानशुद्ध्यादिज्ञानार्थं तल्लक्षणमाह जघन्येत्यादि—

जघन्यमध्यप्रवरे

वमने यथाक्रमं चत्वारः षडष्टौवेगा उक्ताः, तेन चतुर्भिर्वैगैर्यच्च वमनं तज्जघन्यम्,यत् तु षड्भिस्तन्मध्यमम्, यत् त्वष्टाभिस्तत्प्रवरम्। तथा विरेकेऽपि जघन्ये दशवेगाः।मध्ये तु विरेचने द्विगुणा दशविंशतिरित्यर्थः। प्रवरे तु विरेचने त्रिगुणादशत्रिंशदित्यर्थः। वेगसंख्याभेदेन जघन्यादिभेदमभिधाय दोषमानभेदेनापि विरेचनस्य जघन्यमध्यप्रवरतां क्रमेणाह प्रस्थस्तथेति। जघन्येविरेके द्विगुणः प्रस्थः, मध्येतु त्रिगुणः प्रवरेच चतुर्गुण इति॥१३॥

पित्तान्तमिष्टं वमनं विरेकादर्द्धंकफान्तञ्च विरेकमाहुः॥१४॥

पित्तान्तमित्यादिना वमनविरेचनयोर्दोषप्रवृत्त्यन्तोषलक्षितामात्यन्तिको शुद्धिंतथा वमनस्य तु दोषमानभेदोपलक्षितां मानिकीं शुद्धिमाह—पित्तप्रवृत्तिरन्ते यस्यतत् पित्तान्तम्, एवं कफान्तमपि ज्ञेयम्। विरेकार्द्धमित्यनेन वमनस्य दोषप्रमाणोपलक्षितात्यन्तिकी शुद्धिरुक्ता। जघन्यमध्यप्रवरे विरेके प्रस्थस्तथेत्यादिना यद्दोषमुक्तं तदपया नमनेऽर्द्धमित्यर्थः। तेन वमने जघन्ये प्रस्थ एकः, मध्ये तु सार्द्धप्रस्थः,प्रवरं तु द्वौप्रस्थाविति। एतेन वैगिकी मानिकी चात्यन्तिकी चेति शुद्धित्रयमुक्तम्,हृत्पार्श्वेत्यादिना चाङ्गिकी शुद्धिः पूर्वमेवोक्ता। तेन चतुर्विधशुद्धिश्चरकेणोक्ता, प्रपञ्चस्त्वस्य वचनस्य चरकतत्त्वप्रदीपिकायामनुसन्धेय इति॥१४॥

द्वित्रान् सविट्कानपनीय वेगान् मेयं विरेके वमने तु पीतम्॥१५॥

वमने विरेचने च यथा दोषमानं कार्य्यंतदाह द्वित्रानित्यादि—द्वौ वा त्रयो वापरिमाणमेषां द्वित्राः। द्वित्रानित्यव्यवस्थितपरिभाषया मलभागस्य मेयतां, दर्शयति।वमने तु पीतमिति वमने पीतमौषधं वर्जयित्वा शेषो मेयः॥१५॥

वमने च विरेके च तथा शोणितमोक्षणे।
सार्द्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः॥१६॥

पूर्वन्तु विरेके प्रस्थ इत्युक्तम् अतस्तस्वरूपमाहवमने चेत्यादि॥१६॥

अयोगेलङ्घनं कार्य्यंपुनर्वापि विशोधनम्।
अतिवान्तं घृताभ्यक्तमवगाह्य हिमे जले॥
उपाचरेत् सिताक्षौद्रमिश्रैर्लेहैश्चिकित्सकः।
वमनेऽतिप्रवृत्तं तु हृद्यं कार्य्यंविरेचनम्॥१७॥

क्रमेण वमनयोगातियोगचिकित्सामाह अयोग इत्यादि—विशोधनं वमनं विरेचनञ्च। लेहैरिति शक्तूनां मन्यैः। अतिवान्तौ च विरेचनं प्रतिमार्गहरणरूपत्वात्॥१७॥

न वामयेत्तैमिरिकं न गुल्मिनं चापि पाण्डूदररोगपीडितम्।
स्थूलक्षतक्षीणकृशातिवृद्धानर्शोऽर्दिताक्षेपकपीडितांश्च॥
रूक्षे प्रमेहे तरुणे च गर्भे गच्छत्यर्थोद्र्ध्वंं रुधिरे च तीव्रे।
दुष्टे च कोष्ठे किंमिभिर्मनुष्यं न वामयेद्वर्चसि चातिबद्धे॥१८॥

अवम्यानाह न वामयेदित्यादि॥१८॥

एतेऽप्यजीर्णव्यथिता वाम्या ये च विषातुराः।

अत्युल्बणकफा ये च ते च स्युर्मधुकाम्बुना॥१६॥

अवाम्यत्वेनोक्तानामप्यात्ययिकव्याधौवमनमाह एतेऽपीत्यादि॥१६॥

इति वमनाधिकार-विवृतिः।

<MISSING_FIG href=”../../../../../books_images/U-IMG-1700654527image10.jpg"/>

अथ विरेचनाधिकारः।

स्निग्धस्विन्नाय वान्ताय दातव्यन्तु विरेचनम्।
अन्यथा योजितं ह्येतद् ग्रहणीगदकृन्मतम्॥१॥

वमनानन्तरं विरेचनस्य विधानाद्वमनमभिधाय विरेचनमाह स्रिग्धेत्यादि—

स्निग्धस्विन्नायेति वमनानन्तरमपि स्निग्धस्विन्नाय। तदुक्तं—“कर्मणां वमनादीनामन्तरेत्यन्तरे पुनः। स्नेहस्वेदौ प्रयुञ्जीत संशोधनमनन्तरम्” इति। अन्यथेति वमनं विनासुश्रुतेऽप्युक्तम्—“अवान्तस्य हि सामग्नी रिक्तस्यापि सतोऽघःस्तम्भं श्लेष्माप्रहणींक्लेदयेत्" इति। अयच्चविरेचनयोगः पूर्वाह्नमतिक्रम्यैव देयः। उक्तंहिवाग्भटे—“श्लष्मकाले गते ज्ञात्वा कोष्ठंसम्यग्विरेचयेत्” इति॥१॥

पित्तेन मृदुकोष्ठः स्यात् क्रूरो वातकफाश्रयात्।
मध्यमः समदोषत्वाद् योज्या मात्रानुरूपतः॥२॥

मात्राविष्यर्थं कोष्ठक्रममाहपित्तेनेत्यादि—मात्रा योज्यानुरूपत इति मृद्वौमृद्वीक्रूरे तीक्ष्णा, मध्यमे मध्यमेत्यर्थः॥२॥

शर्कराक्षौद्रसंयुक्तं त्रिवृच्चूर्णावचूर्णितम्।
रेचनं सुकुमाराणां त्वक्पत्रमरिचांशिकम्॥३॥

शर्करेत्यादि—सुश्रुतस्य।त्रिवृशश्रेष्ठत्वादरुणामूला ग्राह्या, एवमन्यन्त्रापि।यदाह सुश्रुतः—“अरुणाभं त्रिवृन्मूलं श्रेष्ठमाहुर्विरेचने” इति। अत्र शर्करा त्रिवृच्चूर्णसमा, त्रिऋच्चूर्णमपि कोष्ठाद्यपेक्षया ग्राह्यम्, लेहत्वमात्रकारकं क्षौद्रम्।त्वक्पत्रमरिचांशिकमिति चूर्णापेक्षया त्वक्पत्रादि मिलित्वा पादिकमित्यर्थः। त्वक्पत्रसुरभीकृतमिति पाठान्तरे यावता सौरभ्यं स्यात् तावदेव त्वक्पत्रं देयमिति।त्रिवृच्चूर्णं मा ८, शर्करा मा ८, गुडत्वक्तेजपत्रमरिच प्र र ७ ॥३॥

त्रिवृच्चूर्णं सितायुक्तं पिबेच्छ्रेष्ठं विरेचनम्॥४॥

त्रिवृदित्यादि—चरकस्य।पूर्ववदेवात्रापि त्रिवृन्मानं ज्ञेयम्॥४॥

छित्त्वा द्विधेक्षुंपरिलिप्यकल्कैस्त्रिभण्डिजातैः परिवेष्ट्य रज्ज्वा।
पक्वन्तु सम्यक् पुटपाकयुक्त्या खादेत्तुतं पित्तगदी सुशीतम्॥५॥

छित्त्वेत्यादि—चरकस्य।त्रिभण्डीत्रिवृताभेदः। पुटपाकयुक्त्येति काश्मर्य्यादिपत्राच्छादनकुशवेष्टन-मृदावलेपननिर्धूमाङ्गारप्लोषणादिना॥५॥

पिप्पलीनागरक्षारं श्यामा त्रिवृतया सह।
लेहयेन्मधुना सार्द्धं कफव्याधौविरेचनम्॥६॥

पिप्पलीत्यादि—क्षारो यवक्षारः, श्यामेति श्याममूला त्रिवृत्। त्रिंवृदित्यरूणमूला। अत्र पिप्पली-नागरयोः कटुत्वमात्रकारिका मात्रा, तेन पिप्पलीचूर्णं माषा२, शुण्ठीचूर्णं माषा २, क्षारादित्रयस्य प्रत्येकं माषकचतुष्टयम्, ततो मिलित्वाकर्षो लेह्यः, एवमन्यत्राप्युक्तमित्याहुः॥६॥

हरीतकीविडङ्गानि सैन्धवं नागरं त्रिवृत्।
मरिचानि च तत् सर्वंगोमूत्रेण विरेचनम्॥७॥

हरीतकीत्यादि—

एषां चूर्णं गोमूत्रेण पेयमित्यर्थः। हरीतकी मा ४, विडङ्गादित्रयस्य प्र मा २, त्रिवृत् मा ५, मरिच मा १, एवं मिलित्वा कर्षमात्रं गोमूत्रपलेनालोड्यपेयमित्यर्थः॥७॥

त्रिवृच्छाणत्रयसमा त्रिफला तत्समानि च।
क्षीरकृष्णाविडङ्गानि तच्चूर्णं मधुसर्पिषा।
लिह्याद्गुडेन गुडिकां कृत्वा चाप्युपयोजयेत्॥
कफवातकृतान् गुल्मान् प्लीहोदरभगन्दरान्।
हन्त्यन्यानपि चाप्येतन्निरपायं विरेचनम्॥८॥

त्रिवृच्छाणत्रयेत्यादि—त्रिवृताचूर्णं मा १२, त्रिफलाचूर्णं प्र मा ४, यवक्षारादीनाथ प्र मा ५, मिलितचूर्णात् कर्षमेकं गृहीत्वा घृतमधुभ्यां लेह्यम्।गुडिकापक्षे तु पुराणगुड तो ९एतत्त्त्रिवृतादिचूर्णेन समं विमर्द्यकर्षमाना गुडिका कार्या,तप्तोदकमनुपेयम्॥८॥

अभयाद्योमोदकः।

अभय पिप्पलीमूलं मरिचं नागरं तथा।
त्वक्पत्रपिप्पलीमुस्त-विडङ्गामलकानि च॥
कर्षः प्रत्येकमेषान्तु दन्त्याः कर्षत्रयं तथा।
षट्कर्षाश्च सितायास्तु द्विपलं त्रिवृता भवेत्॥
सर्वं सुचूर्णितं कृत्वा मधुना मोदकं कृतम्।
खादेत् प्रतिदिनञ्चैकं शीतञ्चानुपिबेज्जलम्।
तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते।
पाण्डुरोगं विषं कासं जङ्घापार्श्वरुजां तथा॥
पृष्ठार्त्तिमूत्रकृच्छ्रञ्च दुर्नाम सभगन्दरम्।
अश्मरीमेहकुष्ठञ्च दाहशोथोदराणि च॥
यक्ष्माणं चक्षुषो रोगं क्रमं वैद्येन जानता।
योजितोऽयं निहन्त्याशु अभयाद्योहि मोदकः॥६॥

अभयेत्यादि—स्पष्टम्॥६॥

एरण्डतैलं त्रिफलाक्वाथेन द्विगुणेन च।
युक्तं पीत्वा पयोभिर्वा न चिरेण विरिच्यते॥१०॥

एरण्डतैलमित्यादि—स्पष्टम्॥१०॥

स्रोतोविशुद्धीन्द्रियसम्प्रसादौ लघुत्वमूर्जोऽग्निरनामयत्वम्।
प्राप्तिश्च विट्पित्तकफानिलानां सम्यग्विरिक्तस्य भवेत् क्रमेण॥११॥

विरेकसम्यग्योगलक्षणाह स्रोतोविशुद्धीत्यादि—चरकस्य। ऊर्जोऽभिरिति।बलवानग्निरित्यर्थः। अनामयत्वमिति विरेचनजेतव्यदोषजनितविकारव्यपगमः।क्रमेण विट्पित्तादीनां प्राप्तिः प्रवृत्तिरित्यर्थः। अत्रापि यथोक्तक्रमलक्षणेन विट्पित्तादिप्रवर्तनेन सम्यग्विरिक्तलक्षणं भवतीति पूर्ववदेव ज्ञेयम्। अत्रापि पूर्वार्थेन विरेकस्यलैङ्गिकी शुद्धिः, द्वितीयार्द्धेन पुनरात्यन्तिद्कीशुद्धिरिति ज्ञेयम्॥११॥

स्यात् श्लेष्मपित्तानिलसम्प्रकोपः सादस्तथाग्नेर्गुरुता प्रतिश्या।
तन्द्रा तथा छर्दिररोचकश्च वातानुलोम्यं न च दुर्विरिक्ते॥१२॥

स्यादित्यादिना पद्येनायोगाकृतलक्षणमाह न च वातानुलोम्यमित्यादि—वातविबद्ध इत्यर्थः। गुरुतेति कोष्ठस्य गात्रस्य च॥१२॥

कफास्त्रपित्तक्षयजानिलोत्थाः सुप्त्यङ्गमर्दक्लमेवपनाद्याः।
निद्रावलाभावतमःप्रवेशाः सोन्मादहिक्वाश्च विरेचितेऽति॥१३॥

कफेत्यादिना विरेचनातियोगलक्षणमाह—क्षयशब्दः कफादिभिः प्रत्येकं सम्बध्यते अभावशब्दोऽपि निद्रावलाभ्यामिति। अतिविरचित इत्यन्वयः॥१३॥

मन्दाग्निमक्षीणमसद्विरिक्तं न पाययेत् तहिवसे यवागूम्।
विपर्यये तद्दिवसे तु सायं पेयाक्रमो वान्तवदिप्यते तु॥१४॥

अत्रैव यद्यग्निमान्द्यादिकं स्यात् तदा तस्मिन् दिवसे लङ्घनमन्यथा तु सायंयवागूर्देयेत्याहमन्दाग्निमित्यादि—सुश्रुतस्य। विपर्यय इत्यग्निमान्द्याद्यभावे पेयाक्रमइति पेयां विलेपीमकृतमित्यादिनोक्तः॥१४॥

यथाणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण।
महान् स्थिरः सर्वसहस्तथैव शुद्धस्य पेयादिभिरन्तराग्निः॥१५॥

उक्तपेयाक्रमस्य फलमाह यथेत्यादि॥१५॥

कषायमधुरैः पित्ते विरेकः कटुकैः कफे।
स्निग्धोष्णलवणैर्वायोरप्रवृत्ते च पाययेत्॥
उष्णाम्बुस्वेदयेच्चास्य पाणितापेन चोदरम्॥१६॥

इदानींदोषभेदाद्विरेकमाहकषायेत्यादि—वाग्भटस्य। वायोरिति छेदः।अप्रवृत्तेतु पुरीषादौउष्णाम्बुपाययेदिति योज्यम्॥१६॥

उत्थानेऽल्पे दिने तस्मिन् भुक्त्वान्येद्युः पुनः पिबेत्॥१७॥

अत्यन्ताल्पप्रवृत्तदोषं अपरस्मिन्नहनि विरेकमाथउत्थान इत्यादि—उत्थानंमलप्रवर्त्तनम्। पुनः पिबेदित्यत्र विरेचनमिति शेषः॥१७॥

अदृढस्नेहकोष्ठस्तु पिबेदूद्र्ध्वं दशाहतः॥
भूयोऽप्युपस्कृततनुः स्नेहस्वेदैर्विरेचनम्।

यौगिकं सम्यगालोड्य स्मरन् पूर्वमनुक्रमम्॥१८॥

यदि पुनरसम्यक्स्निग्धकोष्ठो भवति पुमान् तदा दशाहाद्दूर्ध्वं विरेचनं पिबेदित्याह अदृढस्नेहकोष्ठ इत्यादि—अदृढस्नेहकोष्ठ इति असम्यक्स्निग्धकोष्ठ इत्यर्थः।स्मरन् पूर्वमनुक्रममिति येन मात्राभियोगेन पूर्वमयोगोऽभूत् तत् स्मृत्वा परिहर्तव्यः॥

दुर्वलः शोधितः पूर्वमल्पदोषः कृशो नरः।
अपरिज्ञातकोष्ठस्तु पिबेन्मृद्वल्पमौषधम्॥१९॥

दुर्बलादिषु यादृशरेचनं प्रयोक्तव्यं तदाह दुर्बल इत्यादि—दुर्बलोऽन्तःशक्तिहीनःकृशः क्षीणमांसः। मृद्विति मृदुवीर्यम्॥१९॥

रूक्षबह्वनिलक्रूर-कोष्ठव्यायाम सेविनाम्।
दीप्ताग्नीनाञ्च भैषज्यमविरेच्यैव जीर्य्यति॥
तेभ्यो वस्तिं पुरा दद्यात् ततः स्निग्धं विरेचनम्॥२०॥

अत्यन्तवातविष्टब्धकोष्ठादौ यथा विरेचनं कार्यं तदाह रूक्षेत्यादि—रूक्षादयःकोष्ठेन सा सम्बध्यन्ते। अविरिच्यैवेति विरेकमकृत्वा। वस्तिनिरूह इति केचित्।अन्ये तु निरूहापेक्षया स्नेहबस्तिर्वातप्रशमकत्वेनानुवासनमत्रवस्तिशब्दार्थ इत्याहुः।अन्ये तूभयमपीत्याहुः॥२०॥

अस्निग्धेरेवनं स्निग्धं रूक्षं स्निग्धेऽति शस्यते।
विरूक्ष्यस्नेहसात्म्यन्तु भूयः स्निग्धं विरेचयेत्॥२१॥

इदानीं यद्यस्मिन् प्रयोज्यं तदाह अस्निग्धेत्यांदि—अस्निग्ध इतीषत्स्निग्धेरूक्षं स्निग्घेति शस्यत इत्यादि स्निग्धे रूक्षं रेचनं शस्यत इत्यर्थः॥२१॥

पद्मकोशीरनागाह्वचन्दनानि प्रयोजयेत्।
अतियोगे विरेकस्य पानालेपनसैचनैः॥
सौवीरपिष्टाम्रवल्कलाभिलेपोऽतिसारहा॥२२॥

इदानीं रेचनातियोगचिकित्सामाह पद्मकेत्यादि—ननु अयोगातियोगवत् विरेकमिथ्यायोगचिकित्सा फुतो नोक्ता? सत्यं, दोषाणां हि प्रवृत्तौ चतुर्विधैव गतिर्भवतिसम्यक्प्रवृत्तिरतिप्रवृत्तिरप्रवृत्तिरल्प-प्रवृत्तिश्चेति। अत्राल्पप्रवृत्त्यप्रवृत्तिश्चेति त्वयोगगृहीतेएव।या प्रातिलोम्येन प्रवृत्तिमिथ्यायोगत्वेन वाच्या साग्निमपेक्षितस्य दोषस्याप्रवृत्तिकत्वादयोगान्तर्भूतैव। अत एवोक्तं चरके—“अयोगप्रातिलोम्येन न चाल्पं वाप्रवर्त्तनम्” इति। अतो वमनविरेचनं मिथ्यायोगं नेच्छन्तीति कृत्वा मिथ्यायोगचिकित्सितस्येत्यनुपादानं बोध्यम्॥२२॥

अविरेच्या बालवृद्धश्रान्तभीतनवज्वराः।
अल्पाग्न्यधोगपित्तास्रक्षतपाय्वतिसारिणः॥
सशल्यास्थापितक्रूरकोष्ठातिस्निग्धशोषिणः।

गर्भिणी नवसूताच तृष्णार्त्तोऽजीर्णवानपि॥२३॥

निषिद्धविरेकानाह अविरेच्या इति। यास्थापितो निरूढः। अयञ्चनिरूहान्तरंविरेकनिषेध औत्सर्गिकः, तेन तेभ्यो वस्ति पुरा दद्यादित्यादिविशेषविधिनातदपवादो युज्यते एव। किंवा निरूहानन्तरं हि विरेकनिषेधः सप्ताहाभ्यन्तर एवज्ञेयः, सप्ताहादूर्ध्वन्तु विरेको विहित एवेति विधिनिषेधयोः कालभेदेन न विरोधः।उक्तं हि चरके—“नवो विरिक्तस्तु निरूढदानं विवर्जयेत् सप्तदिनान्यवश्यम्। शुद्धेनिरूहेण विरेचनञ्च” इति वदन्ति। अन्ये त्वेतद्विरोधभियैव तेभ्यो वस्तिशब्दस्यानुवासनार्थमाहुरिति प्रागेवोक्तम्॥२३॥

इति विरेचनाधिकारविवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1700725493image11.jpg"/>

अथानुवासनाधिकारः।

वातोल्बणेषु दोषेषु वाते वा वस्तिरिष्यते।
यथोचितात् पादहीनं भोजयित्वानुवासयेत्॥१॥

विरेचनात् सप्तरात्रे गले वातवलाय वैकृताहाराय सायाह्नेसम्यग्देयोऽनुवासनइत्यनेनानुवासनस्य विरेचनीयानन्तरयित्वमुक्तम् अतो विरेचनाधिकारमनु स्नेहवस्तिविचारःप्रस्तूयते। अनुवसन्नपि न दुष्यति अनुदिवसं वा दीयत इत्यनुवासननिरुक्तिःसुश्रुतोक्ताज्ञेयाप्यत्रसामान्यतो वस्तिविषयमाहवातेत्यादि—वाग्भटस्य। यद्यपि सुश्रुते— “वस्तिर्वाते च पित्ते च कफे रक्ते च शस्यते” इत्यनेन पित्तकफरक्तानामपि वस्तिविषयत्वमुक्तं तथापि वस्तिर्वातहरणमिति वचनात् प्रधान्येन वायोरेव वस्तिविषयत्वं, पित्तकफयोस्तु वातस्थानगतयोस्तथा स्वस्थानस्थितयोर्वातानुबन्धयोर्वा वस्तिविषयता। यदाह चरकः—“पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत्। स्रंसनंविरामलान् वस्तिः पक्वाशयगतान् जयेत्” इति। तथा—“एकोऽपकर्षत्यनिलं स्वमार्गात् पित्तं द्वितीयस्तु कफंतृतीयः॥” रक्तमपि दुष्टं रक्तप्रसादनद्रव्यैर्दत्तवस्तिःप्रसादयति दोषहरणेनानुलोमयति। अत्रनिरुहाङ्गस्यानवासनस्य विधानं तदाहयथेत्यदि—

उचितादभ्यस्तात् पादहीनं चतुर्भागहीनम्। वस्तिर्हि द्विविधा अनुवासननिरूहभेदात्। स्नेहवस्तिरनुवासनं, कषायवस्तिर्निरूहः। तत्र निरूहाङ्गस्यानुवासनस्य विधानम्॥१॥

न चाभुक्लवते स्नेहः प्रणिधेयः कथनञ्च।
सूक्ष्मत्वाच्छून्यकोष्ठस्य क्षिप्रमूर्द्ध्वंमथोत्पतेत्॥२॥

अभुक्तवतेऽनुवासनवस्तिर्न देय इत्याहन चेत्यादि—

स्नेहइति स्नेहवस्तिः। अत्रैवउप-पत्तिमाहसूक्ष्मवत्वादित्यादि। विदग्धान्नेतु वस्तिर्न देयः, उक्तंहि—“सदानुवासयेच्चापि भोजयित्वार्द्रपाणिनम्। ज्वरं विदग्धभुक्तस्य कुर्यात् स्नेहःप्रयोजितः” इति॥२॥

षट्पली च भवेच्छ्रेष्ठा मध्यमा त्रिपला भवेत्।
कनीयसी सार्द्धपला त्रिधा मात्रानुवासने॥३॥

उत्तममध्यमाघमनरापेक्षया त्रिविधानुवासनमात्रामाह षट्पलीत्यादि—अप्यर्द्धपक्षेतिसार्द्ध-पलमेकमित्यर्थः॥३॥

प्राग्देयमाद्ये द्विपलं पलार्द्धवृद्धिर्द्वितीये पलमक्षवृद्धिः।
कर्षद्वयं वा वसुभाषवृद्धिर्वस्तौ तृतीये क्रम एष उक्तः॥४॥

एतञ्चषट्पलादिमात्राविधानं क्रमेणैव विधेयम्। न त्वेकदिन एवेत्याह प्रागित्यादि—

आद्येषट्पलस्नेहे गुरुमात्रारूपे प्रथमं पक्तस्नेहस्य द्विपलम्, ततो दिनैकंविश्राम्य पलार्द्धेन वृद्धिः, एवं क्रमेण नवभिःस्नेहदानदिनैः षट् पलानि स्युः।[अन्तरालदिवसाश्चाष्टावतो मिलित्वा सप्तदश वासरा भवन्ति। द्वितीये मध्यमे त्रिपलइति यावत्। तत् पलमादौ देयम्, तत एकैकदिनं विश्राम्य अक्षेण कर्षेण वृद्धिः। अत्रापिनवभिः स्नेहपानदिवसैः पतत्रयं पूर्यम्।तृतीये कनीयसि सार्द्धपले आदौकर्षद्वयम्, तथैव एकैकदिनं विश्राम्य वसुपरिमितैरित्यष्टाभिर्माषकैर्वृद्धिः कार्या। अत्रापितावद्भिरेव स्नेहदानदिवसैः सार्द्धपलमानं पूर्यते। इयमेव कनीयसी मात्रानिरपाया सार्वलौकिकी सार्वकालिकी वृद्धव्यवहारसिद्धा च। उक्तंहि चरके—“धर्मव्यायामभाराध्वयानस्त्रीकर्षितेषु च। दुर्बले वातमग्नेच मात्रावस्तिः सदा हितःहासायाःस्नेहमात्राया मात्रावस्तिः समो भवेत्॥” हासायाः स्नेहमात्राया योजितोवस्तिर्मात्रा-वस्तिरित्यर्थः। एतानि स्नेहदानदिनानि नवेत्युत्सर्गः। तेन नवदिनादर्वागपि यदि स्नेहलक्षणं भवतिदिनत्रयेण चतुष्टयेन वा तदा तावतैवानुवासनंसमाप्यते अनुवासनानन्तरञ्चन दीयते॥४॥

स तु सैन्धवचूर्णेन शताह्वेन च संयुतः।
भवेत् सुखोष्णश्च तथा निरेति सहसा सुखम्॥५॥

न च स्नेहः केवलो देयः तदा केनाप्युपहित इत्याह स त्वित्यादि—सुश्रुतस्य।चूर्णमानञ्चवृन्देन लिखितं यथा—

“चूर्णमाषः पले स्नेहे सिन्धुजन्मशताह्वयोः"इति। चकस्तु भानुमत्यां सैन्धवशताह्वयोः प्रत्येकमंगुलीत्रयाग्रसन्दंशग्राह्यंमानमित्याह। सहसेति—

यद्यपि स्नेहस्य शीघ्रागमनं दोषायैव, यदुक्तं “योज्यः शीघ्रनिवृत्तेऽन्यः स्नेहस्तिष्ठन्न कार्यकृत्” इति, तथापि वक्ष्यमाणस्नेहनिर्गमनकालाधिककाल-निरासार्थं सहसेत्युक्तम्। तेन सहसेत्यस्य यामत्रयान्तरमेवेत्यर्थः॥५॥

विरिक्तश्चानुवास्यश्चेत् सप्तरात्रात् परं तदा॥६॥

विरेचनानन्तरं कियद्भिरहोभिरनुवास्य इत्याह विरिक्त इत्यादि॥६॥

सुवर्णरूप्यत्रपुताम्ररीतिकांस्यायसास्थिद्रुमवेणुदन्तैः।
नलैर्विषाणैर्मणिभिश्च तैस्तैः कार्य्याणि नेत्राणि सुकर्णिकानि॥७॥

इदानीं वस्तिस्तनलिका यैर्द्रव्यैर्विधेया तान्याह सुवर्णेत्यादि—

चरकस्य। त्रपुसीसकः। रीतिः पित्तलम्, अस्थि हस्त्यादीनाम्, दन्तश्च हस्तिनः, विषाणैर्महिषादिशृङ्गैः, मणिभिर्गोमेदकादिभिः। सुकर्णिकानीत्यत्र त्रिकर्णिकानीति केचित्पठन्ति, त्रिकर्णिकत्वञ्चाग्रेवक्ष्यति। एवं नलिकावस्तिगतस्नेहकषायादिद्रव्यनेतृत्वान्नेत्रमितिसंज्ञा॥७॥

षड्द्वादशाष्टाङ्गुलसम्मितानि षड्शतिद्वादशवर्षजानाम् ।
स्युर्मुद्रकर्कन्धुसतीनवाहिच्छिद्राणि वर्त्त्यापिहितानि चापि॥
यथावयोङ्गुष्ठकनिष्ठिकाभ्यां मूलाग्रयोः स्युः परिणाहवन्ति।
ऋजूनि गोपुच्छसमाकृतीनि श्लक्ष्णानि च स्युर्गुडिकामुखानि॥
स्यात् कर्णिकैकाग्रचतुर्थभागे मूलाश्रितेवस्तिनिबन्धने द्वे।
जारद्रवो माहिपहारिणौ वा स्याच्छौकरो वस्तिरजस्य वापि॥
दृढस्तनुर्नष्टशिरो विगन्धः कषायरक्तःसुमृदुः सुशुद्धः।
नृणां वयो वीक्ष्ययथानुरूपं नेत्रेषु योज्यस्तु सुवद्धसूत्रः॥८॥

इदानीं तन्नेत्रप्रमाणं वयोभेदाद्भिन्नमाह षडित्यादि—षड्वर्षपालस्य स्वांगुलेनषडंगुलं नेत्रं कार्य्यम्, एवं विंशतिवर्षस्य द्वादशांगुलम्, तथाद्वादशवर्षस्याष्टांगुलमिति यथासंख्यमन्वयः। ननु एकवर्षादारभ्य पञ्चवर्षान्तम् तथा षड्वर्षाद्दूर्ध्वमेकादशवर्षम्, तथा द्वादशवर्षाद्दूर्ध्वंविंशतिवर्षम्, ततोऽपि सप्ततिं यावत्कियन्मानं नेत्रं कार्य्यम् अत्राह एकवर्षात् प्रभृति षड्वर्षं यावत्षडंगुलमेवनेत्रम्,तथा सप्तवर्षाद्दूर्ध्वमेकोनविंशतिवर्षप्रभृति अष्टांगुलं नेत्रम् एवं विंशतिवर्षाद्दूर्ध्वंद्वादशांगुलमेव नेत्रं कार्य्यम्, सप्ततिवर्षं यावदिति, अयमर्थः व्युत्क्रमाभिधानसामर्थ्यादेव लभ्यते। यतः षट्संख्यां निवेश्याष्टसंख्यानिवेशो युज्यतेततो द्वादश संख्येति,अतो व्युत्क्रमाभिधानबलादेव तदास्योपलम्भ इति। अस्मादेव व्युत्क्रमाभिधानात्षड्वर्षाद्दूर्ध्वमेकादशवर्षं यावत्, तथा द्वादशवर्षाद्दूर्ध्वंविंशतिवर्षं यावत् नेत्रप्रमाणंप्रति विकल्पोऽस्त्यवेति निदर्शयति, तेन सप्तवर्षादौप्रतिवर्षमेवांगुलतृतीय-भागवृद्ध्याद्वादशवर्षादष्टांगुलं भवति, तथा द्वादशवर्षाद्दूर्ध्वमपि प्रतिवर्षमर्द्धांगुलवृद्ध्याविंशतिवर्षे द्वादशांगुलं भवतीति ज्ञेयम्। वाग्भटेऽप्युकं—“वीक्ष्यवर्षान्तरेषु। वयेत्वबलशरीराणि प्रमाणमभिवर्द्धयेत्” इति। वर्षन्तरेष्विति षड्द्वादशादिवर्षान्तरालस्थितेषु सप्तमाष्टमादिवर्षेष्वित्यर्थः। सुश्रुतं तु सांवत्सरिकाष्टद्विरष्टवर्षाणां षडष्टदशांगुलंनेत्रमानमुक्तं पञ्चविंशतिवर्षाद्दूर्ध्वंद्वादशांगुलमित्यनेन, तथा वाग्भटेऽपि—“ऊनेऽब्दे पञ्चपूर्णेऽस्मिन्नासप्तभ्योऽङ्गुलानि षट्। सप्तमे सत तान्यष्टौ द्वादशे षोडशे नव’इत्यनेन च यो नेत्रमानभेद उक्तः सोऽप्यदूरान्तरत्वान्न विरोधमावहतीति। एषाचनेत्राग्ररन्ध्रं कीदृशं कार्य्यमित्याह स्युर्मुद्गेत्यादि—षड्द्वादशाष्टांगुलानि यथासंख्यंमुद्रकर्कन्धुसतीनवाहिच्छिद्राणि कार्याणि स्युः। कर्कन्धुशब्देनेह तदस्थि गृह्यते।उक्तं हि सुश्रुते—कोलास्थिमात्रच्छिद्रमिति।कर्कन्धुश्चशृगाल-कोलिः। वृहद्वदरास्थिग्रहणे तु कनिष्ठाप्रमाणाग्रेतद्वहनं नार्चति। अन्येतु एवं विरोधं पश्यन्तो वदरास्थिमज्जानमिह कर्कन्धुशब्देन ग्राहयन्ति। सतीनो वर्तुलकलायः। वर्त्त्यापिहितानीति द्रव्यान्तरप्रवेशवस्तिद्रव्यनिर्गमननिरासार्थं वस्त्रादीनां वर्त्त्यापिहितमुखानिकार्य्याणि।यथावय इति यस्मिन् वयसि यन्नेत्रंविहितं तद्वयःस्थस्यैव वृद्धांगुष्ठकनिष्ठाभ्यां यथासंख्यं मूले चाग्रेतुल्यपरिमाणार्हंनेत्रं कर्तव्यमित्यर्थः। अंगुष्ठं वृद्धांगुष्ठम्। ऋजूनीत्यादिना नेत्रःकृतिमाह।गोपुच्छाकृतित्वञ्चैषा मूलस्थौल्यादग्रेतनुत्वादिति। श्लक्ष्णानीत्यकर्कशानि, गुहिकामुखानीति गुडिकाकारवर्त्तुलं मुखं येषाम्, तेवर्तुलमुखतया अतीक्षणमुखानि। सुकर्णिकानीति पूर्वमुक्तम् अतः कणिकाव्यवस्थामाह स्यादित्यादि —नेत्रस्याग्रदेशे यश्चतुर्थो भागस्तत्र एका कर्णिका कर्तव्या नेत्रस्थातिप्रवेशनिरासार्थमिति भावः। मूलाश्रितेबस्तिनिबन्धने द्वे इति, नेत्रस्यमूले तु चर्मपुटकबन्धनार्थं कणिकाद्वयं कार्य्यमित्यर्थः। वस्त्यर्थं येषां मूत्रपुटकं ग्राह्यंतदाह जारद्गव इत्यादि—जारद्गवइति वृद्धगोभववस्तिरिति। बस्तिरिति मूत्रपुटकंकोषावरकचर्मेति केचित्।नष्टशिर इति समुद्घृतशिरासन्ततिः कषायरक्त इतित्रिफलादिकषायद्रव्यभावनया रञ्जितः, अतएव विगन्धः विगतपूतिगन्धः। वयोवीक्ष्य यथानुरूपमिति वयोभेदेन वत्सरादिरूपेण यथोक्तेनयथा वस्तिर्यस्यानुरूपस्ततुप्रमाणो भवति स तस्य नेत्रे बन्धनीयः, सुबद्धसूत्र इति सुदृढबन्धनसूत्र इत्यर्थः।

निरूहमात्रा प्रथमे प्रकुञ्चो वत्सरे परलू।
प्रकुञ्चवृद्धिः प्रत्यब्दंयावत् षट् प्रसृतास्ततः॥
प्रसृतं वर्द्धयेदूर्द्ध्वंद्वादशाष्टादशस्य तु।
आसप्ततेरिदं मानं दशैव प्रसृताः परम्॥६॥

यद्यपि षट्पली तु भवेज्ज्येष्ठेत्यादिना अनुवासनमात्रा उक्तैव तथाप्यनुवक्तव्यविशेषार्थं पुनरप्यनु-वासनमात्रा वक्तव्या, सा च निरूहमात्रातिदेशेन वाच्या अतोऽनुवासनाधिकार एव प्रथमं निरूह-मात्रामाह निरूहमात्रेत्यादि—वाग्भटस्य।प्रथमेवत्सरे निरूहमात्रा प्रकुञ्चः पलमित्यर्थः। परमिति वत्सरात् परिमिति,प्रत्यब्दं प्रक्रुञ्चेन पलेन वृद्धिः कार्येति यावत्। षट्प्रसृता द्वादश पलानि भवन्तीत्यर्थः। प्रसृतन्तु पलद्वयमिति। एतेन प्रत्यब्दं प्रकुञ्चवृद्ध्या द्वादशभिर्वर्षैः षट्प्रसृता भवतीत्यर्थः। द्वादशेति छेदः। तत इति द्वादशवर्षाद्दूर्ध्वं प्रत्यब्दमेकैकंप्रसृतं कृत्वा वर्द्धयेत् यावद् द्वादश प्रसृता भवन्ति, एतेन द्वादशवर्षानन्तरं त्रयोदशवर्षमारभ्य अष्टादशवर्षपर्यन्तं प्रतिवर्षमेकैकं प्रसृतवृद्ध्या द्वादशप्रसृतपूरणं भवति।अष्टादशस्यत्यष्टादशवर्षदेशीयस्य पुंसः, आसप्ततरिति सप्ततिवर्षं यावत् इदं द्वादशप्रसृतस्वरूपमेव मानं ज्ञेयमित्यर्थः। दशैव प्रसृताः परमिति प्रत्यब्दं प्रसृतवृद्ध्याअष्टादशस्य अष्टादशवर्षस्य द्वादश प्रसृता भवन्ति, अतः सप्ततिवर्षपर्यन्तं द्वादशप्रसृता एव, परं सप्ततिवर्षाद्दूर्ध्वं दश प्रसृता एवेत्यर्थः। इदानीं पुनरर्धमात्रिकेणव्यवहारः, तेन महत्यपि पुंसि षट् प्रसृता एव दीयन्ते वृद्धवैद्यैरिति ज्ञेयम्॥६॥

यथायथं निरूहस्य पादो मात्रानुवासने।
कृतचङ्क्रमणं मुक्तविण्मूत्रं शयने सुखे॥
नात्युच्छ्विते न चोच्छीर्षे संविष्टं वामपार्श्वतः।
सङ्कोच्य दक्षिणं सक्थि प्रसार्य्यच ततोऽपरम्॥
वस्तिं सव्ये करे कृत्वा दक्षिणेनावपीडयेत्।
तथास्य नेत्रं प्रणयेत् स्निग्धे स्निग्धमुखं गुदे॥
उच्छ्वास्य वस्तेर्वदनं वद्ध्वा हस्तमकम्पयन्।
पृष्ठवंशं प्रति ततो नातिद्रुतविलम्बितम्॥
नातिवेगं न वा मन्दं सकृदेव प्रपीडयेत्।
सावशेषं प्रकुर्वीत वायुः शेषे हि तिष्ठति॥१०॥

इदानीमुक्तनिरूहमात्रातिदेशेन प्रकृतानुवासनमात्रामाह यथायथमित्यादि—अस्मिन् वयसि यन्निरूहमानमुक्तंतस्मिन् वयसि अनुवासनमानं तन्निरूहाचतुर्थांशमित्यर्थः। एतेन प्रथमवर्षीयस्य बालस्य उत्कृष्टं निरूहमानं पलमुक्म् तस्य चतुर्थांशः कर्षोऽनुवासनार्थमित्यर्थः। एवं द्वित्रिवार्षिक-बालादौ द्वित्रिवार्षिकं बोध्यम्।ननु षट्पलीतु भवेज्ज्येष्ठेत्यादिना पूर्वं त्रिविधानुवासनमात्रोक्ता, अत्रपुनरन्यथैवेतिविरोधः ? उच्यते, अष्टादशवर्षं यावत् द्वादशप्रसृतो निरूह उक्तः, तस्य चतुर्थोंऽशःषट् पलएव, तथा द्वादशवर्षं प्रति षट् प्रसृता उक्ताः एषां चतुर्थो भागस्त्रिपलएव, तथा षड्वर्षस्य षट्पलमित्यस्य पादः सार्द्धपलमिति, अत्रान्तरे एकद्वित्रिवर्षादौचतुर्दशवर्षादौ च ये मानभेदाः सन्ति तेषाञ्चोक्तमानानुसारेणोहःकार्य इत्येकवाक्यतयान पूर्वापरवचनविरोधः। किञ्चषट्पलीत्यादि वाक्यमुत्तममध्यमाधमबलाबलशरीरभेदभिन्नमुत्सर्गसिद्धं त्रिविधं मानमाश्रित्योक्तंतेन तत्रैकवर्षादिवयोभेदभिन्नमानाभिधानान्न न्यूनतादोषं इति ज्ञेयम्। इदानीं किम्भूतस्य तदनुवासनं देयमित्याहकृतेत्यादि—वाग्भटस्य।शयन इति शय्यायाम्। वामपार्श्वत इति वामपार्थेन,संविष्टं सुप्तम्। वामपार्श्वशयनप्रयोजनञ्चचरकेणोक्तं यथा—“वामाश्रयोऽग्निग्रहणी-गुदञ्चतत्पार्श्वसंस्थस्य सुखोपलब्धिः।लीयन्त एवं वलयश्च तस्मात् सव्यं शयानोऽर्हति वस्तिदानम्” इति।सक्थीति जङ्घा, अपरमिति वामम्। सव्य इति वामेवस्तिमिति बद्धचर्मपुटाहितस्नेहयुक्तं नेत्रमेव। दक्षिणेनेति हस्तेन उच्छ्वास्ययस्तेर्वेदनं बद्ध्वेति बस्तेश्चर्मपुटस्य मुखम्।उच्छ्वास्य उद्धाव्य पश्चात् बद्ध्वेत्यर्थःवस्तिमुखाच्छ्वासनश्च द्रवाभिघातजनितवातस्यस्य निर्गमनार्थम्। उच्छ्वास्यवस्तेर्वदने बद्ध इति पाठः।पृष्ठवंशं प्रतीति पृष्ठवंशं लक्षीकृत्य, तेन पृष्ठवंशानुसारेणऋजु यथा स्यात् तथा नेत्रं प्रणयेदित्यर्थः। चरकेऽपि ऋजुषु पृष्ठवंशमित्युकम्सकृदित्येकवारमेव। वस्तिपुटकान्तर्गतद्रव्यभागस्तु न निःशेषो देय इत्याह सावशेषमित्यादिः—चायुः शेषे हि तिष्ठतीति निःशेषदाने हि पुटान्तर्गतो वायुर्गुदं

प्रविश्य वस्तिमाध्मापयेदिति भावः॥ १०॥

निरूहदानेऽपि विधिरयमेव समीरितः॥११॥

इदानीमुक्तानुवासनदानविधिं निरूहेऽप्यतिदिशति निरूहदानेऽपीत्यादि॥११॥

ततः प्रणिहिते स्नेहे उत्तानो वाक्शतं भवेत्॥
प्रसारितैः सर्वगात्रैस्तथा वीर्य्यंप्रसर्पति।
आकुञ्चयेच्छनैस्त्रिस्त्रिः सक्थिबाहू ततः परम्॥
ताडयेत्तलयोरेनं त्रींस्त्रीन्वारान् शनैः शनैः।
स्फिचोश्चैनं ततः श्रोणिं शय्यां त्रिरुत्क्षिपेच्छनैः॥
एवं प्रणिहिते वस्तौ मन्दायासोऽथ मन्दवाक्।
आस्तीर्णेशयने काममासीदाचारिके रतः॥
योज्य्ःशीघ्रं निवृत्तेऽन्यः स्नेहोऽतिष्ठन्न कार्य्यकृत्॥१२॥

दत्ते च स्नेहे यादृशेनस्थातव्यं यच्च कर्त्तव्यं तदाह तत इत्यादि—सुश्रुतस्य।वाक् लध्वक्षरं, तदुच्चारणं शतधा यावत्क्षणेन भवति तावत्क्षणमुत्तानो भूत्वातिष्ठेदित्यर्थः। अन्ये तु वाक्शतं छोटिकाशतमित्याहुः। प्रसारितैः सर्वगात्रैर्बाहुजङ्घादिभिरित्युपलक्षणे तृतीया। एवं कृते किं स्यादित्याह तथेति।—आकुञ्चयेदित्यादि सक्थिद्वयं, तथा बाहू च त्रिराकुञ्चयेद्वैद्य इति शेष। आकुञ्चनान्यथानुप-पत्यैवप्रसारणमपि लभ्यते। तेन पादवृद्धांगुष्ठद्वयं पादतलं वा विधृत्य ततः सङ्कोच्य शनैःप्रसारयेदित्यर्थः। उक्तं हि चरके—“ईषच्च पादांगुलियुग्ममाञ्छेत्” इति। अच्छेत्प्रसारयेदित्यर्थः। तत्र तु प्रसारणान्यथानुपपत्तावाकुञ्चनं लभ्यत इत्येकवाक्यता चज्ञेया। ततः परं बाहू च तदंगुष्ठद्वयश्च विधृत्य ततः सङ्कोच्य प्रसारयेदिति। चरके तुबाहुसङ्कोचप्रसारणे नोक्ते इति शेषः। ताडयेदित्यादि— स्फिचोश्चैनमिति छेदः।एनमातुरम्।तलयोः पादतलकरतलयोस्तथा स्फिचोश्चत्रींस्त्रीन् वारान् शनैःशनैस्ताडयेदिति मुष्टिना हन्यादिति। एतच्च ताडनम् अनुवासनस्नेहस्य शीघ्रनिःसरणंयथा न भूयादित्येतदर्थं क्रियते। यदाह दृढवलः—दत्त्वा स्फिचौ पाणितलेनहन्यात्स्नेहस्य शीघ्रागमरक्षणार्थम्” इति। ततः श्रोणीं शय्यां त्रिरुत्क्षिपेत्, ततइति शय्यामित्यनन्तरं प्रतीति शेषः, तेन शय्यां प्रति श्रोणीं त्रिरुत्क्षिपेदित्यर्थ इति श्रीकण्ठः। वयन्तु शय्यामित्यनन्तरं तत्पार्ष्णिभ्यामिति शेषः, तेन तत्पार्ष्णिभ्याम्आतुरपार्ष्णिभ्यां शय्यां ताडयेदिति योज्यम्, उक्तंहि—“दत्ते तूत्तानदेहस्य पाणिना ताडयेत् स्फिचौ। तत्पार्श्णिभ्यां तथा शय्यां पादतश्च त्रिरुत्क्षिपेत् इतिव्याचक्षते। श्रोणीं त्रिरुत्क्षिपेदित्यर्थः। एतदपि पार्ष्णिभ्यां शय्याताडनं स्नेहशीघ्रागमनरक्षणार्थमेव ज्ञेयम्। एतञ्चशीघ्रगमनरक्षणार्थं कर्म यद्यपि पश्चादुक्तंतथापि स्नेहशीघ्रागमनेन वस्तेर्निष्प्रयोजनता स्यादिति कृत्वा प्रथममेव कार्यम्। अतएव भानुमत्यां चक्रोऽप्याह स्फिचश्चैनमित्येतदपि पश्चादुक्तंतथाप्यभिधानक्रमतन्त्रत्वमकृत्वा

प्रथममेव ज्ञेयमिति। मन्दायस इति अत्यल्पप्रत्यवायकरविक्षेपणादिशरीरचेष्टः।काममासीदित्यनेन दृढवलोक्तगात्रमर्दनांगुलीस्फोटादिकमिच्छतः कार्यमिति सूच्यते,उक्तंहि—“स्नेहेन पार्ष्ण्यंगुलिपिण्डिकाश्चये चास्य गात्रावयवारुजार्ताः। तांश्चावमृद्गीत सुखं ततश्चनिद्रामुपासीत कृतोपघानः” इति। आचारिके रत इति क्रोधादिवर्जनाद्याचारतत्परः। यदि तु स्नेहो दत्तमात्र एवातिमात्रत्वादिदोषेण निःसरति तदाकिं कार्य्यमित्याह योज्य इत्यादि।—

वाग्भटस्य।शीघ्रमिति त्रियामादर्वाक्। अत्रद्वितीयस्नेहदानमल्पमात्रयैव विधेयं, प्रथमस्नेहदानेनैव कोष्ठावलेपसिद्धत्वात्, सुश्रुतेऽप्युक्तं तत्रान्योऽल्पतरो देय इति, पूर्वदत्तस्नेहादल्पतरइति॥१२॥

सानिलः सपुरीपश्चस्नेहः प्रत्येति यस्य वै।
विना पीडां त्रियामस्थः स सम्यगनुवासितः॥१३॥

सानिल इत्यादिना सौश्रुतानुवासनसम्यग्योगलक्षणमाह। विना पीडांत्रियामस्थ इत्यत्र उपाचो्पौविना शीघ्रमितिपाठे उपा दाहः, चोपा पिपासा, शीघ्रमितियामत्रयानन्तरमेवेत्यर्थः॥१३॥

क्वाथार्द्धमात्रया प्रातर्घान्यशुण्ठीजलं पिबेत्।
पित्तोत्तरे कटुष्णाम्भस्तावन्मात्रं पिबेदनु॥
तेनास्य दीप्यतेवह्निर्भक्ताकाङ्क्षा च जायते॥१४॥

कोष्ठावलेपनपाकार्थमाह क्वाथार्द्धमानयेत्यादि। —

यस्य पुरुषस्याग्न्याद्यपेक्षयायावान् संशमनः क्वाथः समर्हति तस्यार्द्धंधान्यशुण्ठीजलं षढङ्गविधिना कर्तव्यमितिचक्रः; ततश्च धान्यस्य द्वादश मापकाः, शुण्ठ्याश्च षट् चत्वारो वेति मिलित्वा कर्षमानत्वं ज्ञेयम्। एतञ्चधान्यशुण्ठीजलं न प्रत्यहं देयं किन्त्वेकान्तरमिति।—

तदुकं"एकान्तरोपयोगेन धान्यशुण्ठीजलं पिबेत्” इति। उत्सर्गतस्तावदेकान्तरमेवानुवासनदानं, यस्मिन् दिवसे अनुवासनं न दीयते तस्मिन्नेवदिने धान्यशुण्ठीजलं देयम्,अनुवासनदिने तु न देयम्। यदाह चरकः—

“युक्तन्नेहंद्रवोष्णञ्च लघुपथ्योपसेवनम्।भुक्तवान् मात्रया भोज्यमनुवास्यस्त्र्यहात्त्र्यहात्। धान्यनागरसंसिद्धं तोयं दद्याद्विचक्षणः।व्युषिताय निशां कल्यमुष्णं वा केवलं जलम्” इति व्युषितायेतिअनुवासनस्नेहं दत्त्वा निशां व्युषितायेत्यर्थः। एतेन यस्मिन् दिने अनुवासनस्नेहो नदीयते तस्मिन्नेव दिने धान्यनागरसिद्धं जलं देयमिति बोधयतीति। कल्यमितिप्रातः। पित्तोल्बणेतु दोषेधान्यशुण्ठीजलं हित्वा कोष्णजलं देयमित्याह पित्तोत्तरइत्यादि—तावन्मात्रमिति क्वाथप्रमाणम्॥१४॥

अहोरात्रादपि स्नेहः प्रत्यागच्छन् न दुष्यति।
कुर्य्याद्वस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत्॥१५॥

त्रियामस्थस्नेहस्य सम्यगनुवासनलिप्तत्वं यदुक्तं तदपवादमाह अहोरात्रादित्यादि—

सुश्रुतस्य।अहोरात्रादिति वस्तिप्रणिधानदिनरात्र्यभिप्रायेण तेन यामत्रयात्परतोऽपि याममेकमनागच्छन्नपि स्नेहो न दुष्यति न व्यापदं करोतीत्यर्थः। वस्तिगुणानिति स्नेहनबृंहणादीन्। जीर्ण इति परिणतः, अल्पगुण इति वाय्वग्निभ्यामभिभूय पाकंनीत्वा न सम्यक्स्नेहनादिकं करोति। वीर्य्येण देहं भावयित्वा प्रत्यागच्छन्नेव स्नेहो यथोक्तगुणकारक इति भावः। पक्वाशयस्थस्यापि स्नेहस्य पाकोऽग्निप्रत्यासत्त्या देहतेजसा च सङ्गच्छत एव। अतएवोक्तंचरके— “एवमाशु जरां स्नेहोयात्यम्बुसिकतास्विव। एभ्यो्ऽन्येषां त्र्यहात् प्रायःस्नेहं पचति पावकः” इति १५

यस्य नोपद्रवं कुर्य्यात् स्नेहवस्तिरनिःसृतः।
सर्वोऽल्पो वावृतो रौक्ष्यादुपेक्ष्यः संविजानता॥१६॥

इदानीं यः स्नेहः सर्वथानिःसृतः समुदायेनैकदेशेन वा यदि व्यापदं न करोतितदा तदप्रवर्त्तनाय यत्नो न विधेय इत्याह यस्येत्यादि—दृढवलस्य।अनिःसृतोऽपिस्तम्भरूपादिकमुपद्रवं न कुर्य्यादिति। अल्पो वा सृत इति स्तोकनिःसृतः स्तोकश्चावृत इत्यर्थः। आवृतस्यापि स्तम्भायुपद्रवकरणे हेतुमाह रौक्ष्यादित्यादि—शरीरस्याल्परूक्षतया तिष्ठन्नपि स्नेहो रूक्षशरीरं भावयन्नेव न व्यापदं करोतीत्यर्थः।अन्येतु सर्वोऽल्पो वा घृत इति पठन्ति, रौक्ष्याच्छरीरोद्भूतवायुनावृतः प्रतिबद्धःस्नेहोऽनिःसृतोऽपि व्यापदजनकत्वादुपेक्ष्य इत्याहुः। उपेक्ष्य इति न तत्रवाताद्यावृतस्नेहप्रवर्त्तनी चिकित्सा कार्य्येत्यर्थः॥१६॥

अनायान्तमहोरात्रात् स्नेहं सोपद्रवं हरेत्।
स्नेहवस्तावनायाते नान्यः स्नेहो विधीयते॥१७॥

अनायान्तमित्यादि—सुश्रुतस्य। हरेदिति शोधनवस्तिभिरिति शेषः, अतएवाह स्नेहवस्तावित्यादि—सुश्रुतस्य। नान्यः स्नेहो विधीयत इति स्नेहातियोगभयात्। शोधनवस्तिस्तु दीयत एवेत्यर्थः॥१७॥

अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः।
तदाङ्गसदनाध्मानशूलाः श्वासश्च जायते।
पक्वाशयगुरुत्वञ्च तत्र दद्यान्निरूहणम्॥
तीक्ष्णं तीक्ष्णौषधैरेव सिद्धञ्चाप्यनुवासनम्॥१८॥

सचिकित्सितं व्यापदमाह अशुद्धस्थेत्यादि—अशुद्धस्येति वमनेन विरेचनेनवा। तीक्ष्णमित्यनुवासन-विशेषणम्, अन्ये तु निरुहणमित्यस्यविशेषणमित्याहुः १८

स्नेहवस्तिर्विधेयस्तु नाविशुद्धस्य देहिनः।
स्नेहवीरय्यंतथादत्ते स्नेहे नानुविसर्पति॥१९॥

वमनविरेकाभ्यां शुद्धस्यैव स्नेहवस्तिदेयो न पुनरविशुद्धस्येत्याह स्नेहवस्तिरित्यादि। कुतो न विधेय इत्याह स्नेहवीर्य्यमित्यादि—तथा दत्ते स्नेहेअविशुद्धदेहप्रयुक्ते स्नेहे सति स्नेहवीर्य्यं यस्मान्नानुविसर्पति। देहमिति शेषः। स्नेहमित्यत्रदेहमिति पाठे तथा दत्त इत्यत्र स्नेहवस्ताविति शेषो बोध्यः॥१९॥

अशुद्धमपि वातेन केवलेनाभिपीडितम्।
अहोरात्रस्य कालेषुसर्वेष्वेवानुवासयेत्॥२०॥

अशुद्धस्य स्नेहवस्तिर्न देय इति यदुक्तं तदपवादमाह अशुद्धमपीत्यादि—

केवलेनति। निरावरणेन अहोरात्रस्य कालेष्विति अहोरात्रैर्वा ये कालाः पूर्वाह्नपूर्वरात्रादयस्तेष्वित्यर्थः॥२०॥

अनुवासयेत् तृतीयेऽह्नि पञ्चमे वा पुनश्च तम्।
यथा वा स्नेहपक्तिः स्यादतोऽप्युल्बणमारुतान्।
व्यायामनित्यान् दीप्ताग्नीन्रूक्षांश्चप्रतिवासरम्॥२१॥

एकमनुवासनं दत्त्वा कियता कालेनानुवासनं देयमित्याह अनुवासयेदित्यादि—

वाग्भटस्य। स्नेहपक्तिः स्यादिति छेदः।तमिति प्रथममनुवासितं तृतीये पश्चमेवाहनि अनुवासयेत्, अत्र सति वृद्धवाते त्र्येहऽनुवासनं देयं, मन्दाग्नौवृद्धकफपित्तेतु पञ्चमदिनेऽनुवासनमिति व्यवस्था।यथा वा स्नेहपक्तिः स्यादित्यनेनाग्न्यपेक्षयाउक्तकालातिक्रमोऽपि कार्य्यइति बोधयति। उल्बणवातादीन् प्रति तु प्रत्यहमेवानुवासनं देयमित्याहअतोऽपीत्यादि—

अतोऽपीतित्र्यहादिदयानुवासनापेक्षयापीत्यर्थः।हारीतोऽप्याह—

“दृष्ट्वातिवृद्धं पवनस्य रूपं दिन दिने वस्तिमुदाहरन्ति” इति।सुश्रुतेऽप्युक्तं—

“रूक्षस्य बहुवातस्य स्नेहवस्तिं दिने दिने। दद्याद्वेद्यस्ततोऽन्येषामग्न्यारोधभयात् त्र्यहात्” इति। अनयैवोक्तरीत्या निरूहानन्तरमनुवासनकालोऽप्यूहनीयः॥ यदाह दृढवलः—

“त्र्यहेत्र्यहचाप्यथपञ्चमेवा दद्यान्निरूहादनुवासनञ्च"इति। एवं यस्मिन् दोषे यावन्त्यनुवासनानि देयानि तदपि चरकादावेवानुसर्तव्यानि।

इति स्नेहैस्त्रिचतुरैः स्निग्धे स्रोतोविशुद्धये।
निरूहं शोधनं युञ्ज्यादस्निग्धे स्नेहनं तनोः॥२२॥

कियन्तः स्नेहवस्तयः प्रयोज्या इत्याह इतीत्यादि—

वाग्भटस्य।

ननु त्रिचतुर्भिःस्नेहैरित्यनेन चतुःसङ्ख्यवस्तिदानं विधीयते, तथा च विरोधः, उक्तंहि चरके “वस्तीन्युग्मान् कुशलो विदध्यात्” इति, युग्मवस्तिदानञ्चप्रभावादेवात्रोपकारीति महर्षिवचनादुन्नीयते, यथा युग्मेष्वहःसुपुत्रकामौ संवसेतामिति,अयुग्मदानोपपत्तिश्चात्रातिप्रसङ्गेत्यनुकथिता आचार्येण सत्यम्, अत्र त्रिचतुरैरित्यनेन युग्मवस्तिदानमुक्तं यत् तन्निरूहाङ्गतया स्नेहनार्थक्रियमाणानुवासनविषयम्,अयुग्मवस्तिदानन्तु स्वतन्त्रक्रियमाणानुवासनविषयम् अतो, भिन्नविषयतया नविरोधः।किंवा चरके अयुग्मानित्यस्य सान्तरानित्यर्थः, तेन यत्रादृत्यानुवासनं देयंतदयुग्मकं निरूहान्तरितं कर्तव्यम्, तेन नवसु एकादशसु वानुवासनेषु दत्तेषु यदिवायुर्न शाम्यति तदा तस्य मार्गावरणनिवृत्त्यर्थं निरूहं दत्त्वा पुनर्यथोक्तसंख्ययानुवासनं देयमित्यर्थः। स्निग्ध इत्यत्रदेय इति शेषः। एवमस्निग्ध इत्यत्रापि।शोधनमिति निरूहविशेषणम्, स्नेहनमित्यनुवासनम्॥२२॥

विष्टन्धानिलविण्मूत्रः स्नेहो हीनेऽनुवासने।

दाहज्वरपिपासार्त्तिकरश्चात्यनुवासने॥२३॥

अनुवासनयोगातियोगलक्षणमाह विष्टब्धेत्यादि—

सुश्रुतस्य। विष्टब्धान्यनिलविण्मूत्राणि यस्मात् स्नेहात् स तथा अनिलादिस्तम्भकर इत्यर्थः॥२३॥

स्नेहवस्तिं निरूहं वा नैकमेवातिशीलयेत्।
स्नेहात् पित्तकफोत्क्लेदो निरूहात् पवनाद्भयम्॥२४॥

निरूहानुवासनयाः परस्पराव्यवधानेन दोषमाह स्नेहवस्तिमित्यादि। चरकस्यएकमेवेति परम्परान्तरितम्।उत्क्लेदः पित्तकफोत्क्लेशः, केचित्तु स्नेहात् पित्तकफोत्क्लेश इति पठन्ति। निरूहात् पवनाद्भयमिति निरन्तरनिरूहेण शरीरस्य शोधनातियोगात् पवनाद्वयं स्यादिति भावः अनुवासनार्थञ्चतैलं पक्कमेव ग्राह्यम्, नापक्वम्।यदाह दृढबलः—

“न चामं प्रणयेत् स्नेहं यदभिष्यन्दयेद् गुदम्” इति। अनुवासनार्थञ्च तैलं यद्यप्यस्मिन् प्रकरणे नोक्तं तथापि वातव्याघ्युक्तमेव नारायण- तैलादिकमिहाप्यनुवासनोयम्॥२४॥

अनास्थाप्या येऽभिधेया नानुवास्याश्च ते मताः।
विशेषतस्त्वमी पाण्डुकामलामेहपीनसाः॥
निरन्नप्लीहविड्भेदी गुरुकोष्ठकफोदराः।
अभिष्यन्दभृशस्थूलक्रिमिकोष्ठाढ्यमारुतः।
पीते विषे गरेऽपच्यां श्लीपदी गलगण्डवान्॥२५॥

येषामनुवासनं न देयं तानाहअनास्थाप्या इत्यादि। आस्थापनं निरूहणम्, अनास्थाप्याअनिरूह्या इत्यर्थः। अतिदेशेनाननुवासनीयानभिधाय विशेषतोयेनानुवासनीयास्तानाह विशेषत इत्यादि—

वाग्भटस्य। कृताहारोऽप्यनास्थाप्यत्वेनवक्तव्यः ततश्च"अनास्थाप्या येऽभिधेया नानुवास्याश्च ते मताः” इत्युक्तेः कृताहारस्याननुवास्यत्वं स्यादतस्तन्निरासार्थमत्रनिरूह उक्तः। आढ्यमारुत ऊरुस्तम्भः।एषाञ्चपाण्ड्वादीनामनुवासनेन ये दोषास्ते चरके पञ्चकर्मीयसिद्धावनुसन्धेयाः, इहतु विस्तरभयान्नाक्ताः॥२५॥

अनास्थाप्यास्त्वतिस्निग्धः क्षतोरस्को भृशं कृशः।
आमातिसारो वमिमान् संशुद्धो दत्तनावनः॥
श्वासकासप्रसेकार्शोहिक्काध्मानाल्पवह्नयः।
शूलपायुः कृताहारो बद्धच्छिद्रदकोदरी॥
कुष्ठी च मधुमेही च मासान् सप्त च गर्भिणी॥२६॥

अनास्थाप्यानाहअनास्थाप्या इत्यादि—

वाग्भटस्य। अत्राप्यतिस्निग्धादीनामास्थापनदोषास्तत्रैवानु-सन्धेयाः। मासान् सप्त च गर्भिणीत्यत्यन्तसंयोगे द्वितीया।तेनैकमासात् प्रभृति सप्तमासपर्यन्तं वस्तिनिषेध इति॥२६॥

न चैकान्ते न निर्दिष्टेऽप्यत्राभिनिविशेद् वुघः।
भवेत् कदाचित् कार्य्यापि विरुद्धापि मता क्रिया॥

छर्दिहृद्रोगगुल्मार्त्तेवमनं स्वे चिकित्सते।
अवस्थां प्राप्य निर्दिष्टं कुष्ठिनां वस्तिकर्म च॥२७॥

इदानीं वमनविरेचनवस्त्यधिकारेवमनाद्यविधेयत्वेन तथा वमनादिविषयत्वेनप्रतिपादितेषुवमनादिनिवृत्तिप्रवृत्तिनिश्चयं निषेधयान्नाहन चैकान्तेनेत्यादि—

दृढवलस्य।निर्दिष्टेऽप्यर्थे एकान्तेन नाभिनिविशेद् यथोक्तएवार्थः कार्य इति निर्बन्धंन कुर्यादित्यर्थः। अथ किमर्थं यथोक्तार्थस्यैवार्थस्यावधारणं न क्रियत इत्याह भवेदित्यादि—

यतो विरुद्धत्वेन शास्त्राभिमतापि क्रिया कदाचिदवस्थावशेन कार्याभवेत्। चरकेऽप्युक्तम्—

“उत्पाद्यते हि स्रावस्था देशकालबलं प्रति यस्यां कार्यमकार्यं स्यात् कर्म कार्यञ्चवर्जितम्” इति। इदानीं निषिद्धमप्यवस्थावशेन क्रियतइत्युदाहरणमुपन्यस्य दर्शयति छर्दिहृद्रोगेत्यादि—

वाग्भटस्य। अवाम्यादीनामपि छर्द्यादीनां वमनं स्वे चिकित्सिते छर्द्यादिचिकित्साध्याये अवस्थां प्राप्य निर्दिष्टमित्यर्थः। अवस्थां प्राप्य निर्दिष्टमित्यनेनावस्थाविशेष एव निषिद्धविधानम्, सामान्यतस्त्वनिषेध इति। उत्सर्गापवादतया निषेधनिषिद्धकरणयोरविरोध इति दर्शयति, एवमन्यत्रापि निषेधविषये वमनादिविधानमवस्थाविशेष-परतया समाधयम्॥२७॥

इत्यनुवासनाधिकार-विवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1700743240image11.jpg”/>

अथ निरूहाधिकारः।

अनुवास्य स्निग्धतनुं तृतीयेऽह्निनिरूद्दयेत्।
मध्याह्नेकिञ्चिदावृत्ते प्रयुक्ते वलिमङ्गले।
अभ्यक्तस्वेदितोत्सृष्टमलं नातिबुभुक्षितम्॥१॥

अनुवासनेन स्निग्धस्य निरूहविधानादनुवासनाधिकारमनु निरूहमाह अनुवास्येत्यादि—

तृतीयेऽह्नीति अनुवासनमारभ्य तृतीयदिन इत्यर्थः। तृतीयेऽह्नीति प्रायिकंज्ञेयं पञ्चमे तद्विधानात्, यदाह वाग्भटः—

“पञ्चमेऽथ तृतीये वा दिवसे साधकेशुभे।” निरूहनिरुक्तिश्चसुश्रुते—

“यथा दोषनिर्हरणाच्छरीररोहणाद्वा निरूहः"इति। शरीररोहणन्तु वयःस्थापनेन शरीरपुनर्नवीकरणम् अतएवास्थापनमपिनिरूहस्य संज्ञान्तरं वयःस्थापनादायुःस्थापनाद्वेति। निरूहदानसमयमाह मध्याह्नइत्यादि—

वाग्भटस्य।किञ्चिदावृत्त इत्यल्पस्खलिते।अभ्यक्तस्वेदितोत्सृष्टमलमितिअभ्यक्तेत्यनेन अभ्यङ्गविषयेऽपि स्नेहप्रयोगं कर्तव्यतया वा अनुजानाति। स्वेदोयद्यपि पञ्चकर्मपूर्वकतयानुक्तोऽपि गम्यत एव, यदुक्तम् “अनुपस्थितदोषाणां स्नेहस्वेदोपपादनैः। पञ्चकर्माणि कुर्वीत” इति तथाप्यभ्यङ्गक्रियमाणस्नेहसहचरत्वेऽपिस्वेदविधानार्थं स्वेदितेत्युक्तम्। उत्सृष्टमलमिति व्यक्तपूर्वपुरीषम्। नातिबुभुक्षितमितिबुभुक्षितस्य हि निरूहोऽतियोगायोदूर्ध्वगमनाय च स्यादिति भावः॥१॥

मधुस्नेहनकल्काढ्यकपायावापतः क्रमात्।

त्रीणि षड् द्वे दश त्रीणि पलान्यनिलरोगिषु॥
पित्ते चत्वारि चत्वारि द्वे द्विपञ्च चतुष्टयम्।
षट् त्रीणि द्वे दश त्रीणि कफे चापि निरूहणम्॥२॥

निरूहोऽपिपञ्चाङ्गो भवति। अतो मध्वादेरङ्गपञ्चकस्य दोषभेदेन मानभेदार्थं परिभाषामाह मध्वित्यादि—

स्नेहनं पक्वतैलम्, आमस्य निषिद्धत्वात्, किंवा स्नेहशब्देनात्र मज्जानं वर्जयित्वा स्नेहत्रयस्य प्रहणम्, यदुक्तं—

विज्ञेयस्त्रिविधः स्नेहोवस्त्यर्थं मज्जवर्जित इति। मदनफलशतपुष्पादीनां कल्कः। आवापशब्देन तु मधुस्नेहकल्कक्वाथव्यतिरिक्तक्षीरमूत्रकाञ्चिकजम्बीरमांसरसादि द्रव्यमुच्यते घृतादौ पुनरावापशब्देन प्रक्षेपः, “कल्को वाप्यभिधीयते” इति। अनिलरोगेषु क्रमात् यथासंख्यं मधुनस्त्रीणि पलानि, स्नेहस्य षट्, कल्कस्य द्वे, कषायस्य दश, त्रीणिचावापस्येति एवं मिलित्वा द्वादशप्रसृतो निरूहो भवति, प्रसृतन्तु पलद्वयमिति।एवं पित्तश्लेष्मणि च व्याख्येयम्। द्विपञ्चेति दश इत्यर्थः। इदन्तु यद्द्वादशप्रसृतमानं निरूहस्योक्तं तदष्टादशवर्षमारभ्य सप्ततिवर्षपर्यन्तं बोध्यम्, तेन वयोभेदेननिरूहमात्राभेदश्चरकादावनुसरणीयः। तेन यत्र द्वादशप्रसृतापेक्षया हीनमात्रोनिरूहः कर्तव्यो भवति तत्र मधुस्नेहादीनामुक्तमात्रानुसारेण मात्रा कल्पनीया।द्वादशप्रसृताधिकमात्रा च न कर्त्तव्यैव, उक्तं हि चरके द्वादश परं स्युरिति, परंशब्दोऽवधारणे, द्वादशैवं प्रसृताः स्युरित्यर्थः। एतच्च चरकवचनं परमतप्रक्षेपणार्थं ज्ञेयम्, तेन सुश्रुते “द्वादशप्रसृतं किञ्चित् त्रिंशत्पलमथापरे” इत्यनेन यदेकीय-मतमुपन्यस्तं तत् प्रतिक्षिपति, द्वादशप्रसृताधिकमानस्य महात्ययत्वादिति। हारीतेऽप्युक्तम्—

अर्द्धाढकं परमतप्रमाणमिति॥२॥

दत्त्वादौ सैन्धवस्याक्षं मधुनः प्रसृतद्वयम्।
विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतद्वयम्।
एकीभूते ततः स्नेहे कल्कस्य प्रसृतं क्षिपेत्।
सम्मूर्च्छितं कषायं तं पञ्चप्रसृतसम्मितम्।
वितरेत्तु यथावापमन्ते द्विप्रसृतोन्मितम्।
वस्त्रपूतं तथोष्णाम्बु कुम्भबाष्पेण तापितः।
एवं प्रकल्पितो बस्तिर्द्वादशप्रसृती भवेत्॥३॥

निरूहे द्रव्यसंयोजनाक्रममाह दत्त्वेत्यादि—

सुश्रुतस्य। प्रथमं शिलादिखरमसृणभाजने तथोक्तमानं मधुसैन्धवचूर्णच्ञ्चस्थापयित्वा चिरं घर्षणं कार्यं यावदेकीभवति, तदनु स्नेहप्रसृतद्वयमपि मधुना सार्द्धंमथ्नीयात् यावदेकीभवति, एकीभूतेच स्नेहे कल्कस्य प्रसृतं कषायस्य पञ्च प्रसृतानि दत्त्वा आलोडयेत्, तदनुप्रसृतद्वयमावापं वितरेदित्यर्थः। अयञ्चनिरूहद्रव्यसंयोजनक्रमः पित्ते चत्वारिचत्वारीत्याद्युक्तक्तमानसंवादात् पित्तोक्तनिरूहमानमधिकृत्य यद्यप्युक्तस्तथापि एकत्रोक्तौ

विधिरन्यत्राप्युपतिष्ठत इति न्यायात् कफवातोक्तनिरूहेऽपि ज्ञेयः। द्वादशप्रसृतइति यद्यप्यत्र सैन्धवाक्षमधिकमपि भवति तथाप्यल्पवादविगणनयोक्तं द्वादशप्रसृत इति ३

न धावत्यौषधं पाणिं न तिष्ठत्यवलिप्य च।

न करोति चसीमन्तं स निरूहः सुयोजितः॥४॥

इदानीं सम्पग्योजितस्य निरूहस्य लक्षणमाह न धावतीत्यादि—

औषधंमिलितमधुस्नेहकषाय-कल्करूपं निरुद्दौषधं पाणिं न धावति तनुतया प्रक्षालितप्रायंहस्तं न करोतीत्यर्थः। तथातिघनतथा पाणिश्चावलिप्य यदौषधं न तिष्ठति तथातदौषधं सीमन्तं तैलादिरेखां न करोति न दर्शयति। सुयोजित इति सम्यग्योजितः४

पूर्वोक्तेनविधानेन गुदवस्तिं निघापयेत्।
त्रिंशन्मात्रास्थितो वस्तिस्तस्तूत्कटुको भवेत्॥५॥

औषधयोजनानन्तरं यद्विधेयं तदाह पूर्वोक्तेनेत्यादि—

पूर्वोक्तेनेत्यनुवासनोक्तेन।वस्तिमिति निरुहम्। स च वस्तिः क्यिन्तं कालं गुदे स्थाप्य इत्याहत्रिंशन्मात्रेत्यादि—मात्रास्वरूपश्चाग्निवेशेनोक्तं यथा—

“यावत् पथ्येति हस्ताग्रंदक्षिणं जानुमण्डलम्। निमेषोन्मेषकालो या सा मात्रा परिकीर्तिता” इति। उत्कटुक उकडीति लोके। एतञ्चत्रिशन्मात्रोस्थापनं मृदुकोष्ठंवेगवन्तम्प्रति बोध्यम्॥५॥

जानुमण्डलमावेष्ट्य दत्तं दक्षिणपाणिना।
कृष्टनेत्रश्छटाशब्दशतं तिष्टेदवेगवान्॥
द्वितीयं वा तृतीयं वा चतुर्थं वा यथार्थतः॥६॥

अवेगवन्तं करकोष्ठम्प्रति यद्विधयं तदाह जानुमण्डलेत्यादि—

कृष्टनेत्र इत्याकृष्टनलिकः।दत्तं छटाशब्दमित्यन्वयः छटा तुरीति लोके। कियतीछटा देयेत्याहद्वितीयमिस्यादि—

अत्र दद्यादिति शेषः। चतुर्थं वा यथार्थत इति निरूहसाध्यप्रयोजनानुरोधात् चतुर्थमपि पुटकं दद्यादित्यर्थः। ननु दृढवलेन चतुर्थवस्तिदानं नमन्यते, यथा—

“स्निग्धोष्णं एकःपवने समांसौद्वौस्वादुशीतौपयसा च पित्ते।त्रयःसमूत्राःकटुकोष्णतीक्ष्णाःकफे निरूहा न परं विधेयाः॥” तथा वाग्भटेऽप्युकं—

“त्रिभ्यः परं वस्तिमतो नेच्छन्त्यन्ये चिकित्सकाः। न हि दोषश्चतुर्थोस्ति पुनदीयेत यत्प्रत” इति। नैवम् निषिद्धेऽपि बहुपुस्तकविषयतया प्रायिकम्, चतुर्थपुटकदानन्तु क्वचित् करकोष्ठे बलीयसि मृदुदोषे च पुरुष इति भिन्नत्वविषयतया न विरोधः। अतएव यथोक्त इत्युक्तम्॥६॥

सम्यङ्निरूहलिङ्गेतु प्राप्ते वस्तिं निवारयेत्॥७॥

वस्तिनिवारणविधिमाह सम्यगित्यादि॥७॥

प्रसृष्टविण्मूत्रसमीरणत्वं रुच्यग्निवृद्ध्याशयलाघवानि।
रोगोपशान्तिः प्रकृतिस्थता च बलञ्च तत् स्यात् सुनिरूढलिङ्गम् ८

तेदव सम्यग्लिङ्गमाहप्रसृष्टेत्यादि—

दृढवलस्य। प्रसृष्टं सम्यक् प्रवृत्तम्।

आशयलाघवानीत्यत्र आमयलाघवानीति पाठेरोगोपशान्तिरित्यनन्तरं वा शब्दोज्ञेयः। तेन निरूहसाध्यानां विकाराणां लाघवमुपशान्तिर्वा भवतीत्यर्थः। रोगोपशान्तिरिति वचनं रोगविषयम्, प्रकृतिस्पतेति तु सुस्थविषयम् तेनात्र पौनरुक्त्यंनाशङ्कनीयम्॥८॥

प्रयोगश्चातियोगश्च निरूहस्य विरिक्तवत्॥९॥

अनुवासनयोगातियोगलक्षणं निरूहेऽप्यतिदिशति अयोगश्चेत्यादि॥९॥

स्निग्धोष्णएकः पवने समांसो द्वौ स्वादुशीतौ पयसा च पित्ते।
त्रयः समूत्रा कटुकोष्णरूक्षाः कफे निरूहा न परं विधेया॥१०॥

इदानीं दोषभेदेन वस्तिपुटकसंख्या नियमयन्नाह स्निग्धोष्णाइत्यादि। एकइत्येक्पुटकः, समांस इति मांसरससहितः। उक्तं हि वाग्भटे—

“वस्तिरेकोऽनिलेस्निग्धः स्वाद्वम्लोष्णो रसान्वितः” इति। वातेस्निग्धोष्णस्तथा एक एव निरूहपुटको देयो न त्वधिकः। समांस इत्यत्र निरूह इति केचित् पठन्ति निरूहोऽत्रपुटकाभिधायी।पयसा चेत्युपलक्षणे तृतीया, पयसा युक्तावित्यर्थः। कटूष्णतीक्ष्णत्वञ्चकटुकादिद्रव्ययोगादेव ज्ञेयम् नपरं विधेया इत्यनेन सुश्रुतोऽत्र चतुर्वस्तिदानमत्यर्थशरीरहिंसकं निषेधयति। वाग्भटेऽप्युक्तं—

“त्रिभ्यः परं वस्तिमतो नेच्छन्त्यन्ये चिकित्सकाः। न हि दोषश्चतुर्थोऽस्ति पुनर्दीयेत यं प्रति” इति॥१०॥

एकोऽपकर्षत्यनिलं स्वमार्गात् पित्तं द्वितीयस्तु कफंतृतीयः॥ ११॥

अस्यैव दोषभेदेनोक्तस्य वस्तिपुटकसंख्याभेदस्य फलमाह एकोऽपकर्षतीत्यादि—

स्वमार्गादिति स्वस्थानात्, एतच्चानिलादि सर्वत्रैव योज्यम्।अनिलस्य हि पाकाशयः स्थानम्, तस्य प्रत्यासन्नत्वादेकपुटकोऽप्यनिलमपकर्षति, द्वितीया दिपुटकदानंतत्र निष्फलमिति भावः। एवं पित्ते तृतीयपुटकदानम्, कफे चतुर्थपुटकदानं नकार्यम्, फलाभावात्। पक्वाशयापेक्षया पित्ताशयस्य व्यवहितत्वात् द्वितीयं पित्तंस्वाशयादपकर्षति ततोऽपि कफाशयस्य व्यवहितत्वात् तृतीयपुटकः कफमपकर्षति। स्वमार्गादित्यनेन यदि दोषाः स्वस्थानस्था भवन्ति तदैवायं नियम इतिबोधयति, तेन यदि पित्तकफौ पक्काशयस्थौ भवतः तदा प्रथमपुटकोऽपि तत्स्थानगतपित्तकफप्रशमनं करोति, तथा द्वितीयतृतीयावपि पित्तकफस्थानगतवायुपशमनंकुरुत इति ज्ञेयम्। पित्तकफयोस्तु यद्यपि मुख्यं चिकित्सितं वस्तिदानं न भवतिवातावरके वातानुबन्धं वा पित्तकफे चैतद्वस्तिदानं ज्ञेयम् । तदुक्तं सुश्रुते —

“वस्तिर्वाते च पित्ते च कफेरक्ते च शस्यते” इति। वस्तिस्तु प्राधान्यतो वस्तिगतदोष-हरकत्वमेवौत्सर्गिकम्, तेनपित्तादिस्थाने विशेषवस्तिविधानसामर्थ्यात् पित्तादिस्थानगतदोष-हरणमप्यपवादरूपतया न विरुध्यते॥११॥

अनायान्तं मुहूर्त्तान्तं निरूहं शोधनैर्हरेत्।

निरूहैरेव मतिमान् क्षारमूत्राम्लसंयुतैः॥१२॥

यद्युक्तलक्षणान्निरूहो न प्रवर्त्तते तदा किं कर्त्तव्यं तदाह अनायान्तमित्यादि—सुश्रुतस्य।मुहूर्तो नाडिका। शोधनैरिति, शोधनद्रव्यकृतैः। निरूहस्य चिरस्थानगतदोषहरणमप्यपवादरूपतया न विरुध्येत॥१२॥

विगुणानिलविष्टब्धंचिरं तिष्ठन्निरूहणम्।
शूलारतिज्वराटोपान् मरणं वा प्रयच्छति॥१३॥

मुहूर्त्तानन्तरमनिर्गच्छतो निरूहस्य दोषमाह—विगुणेत्यादि॥१३॥

न तु भुक्तवते देयमास्थापनमिति स्थितिः।
श्रमं तद्धि हरेद्भक्तंछर्दि दोषांश्च कोपयेत्॥१४॥

भुक्तवतो निरूहदाननिषेधमाह न त्वित्यादि—स्थितिरित्यायुवदनिश्चयः। हरेदित्यधो हरेत्, छर्दिमित्यूदूर्ध्वं जनयेदिति शेषः॥१४॥

आवस्थिकः क्रमश्चापि मत्वा कार्य्योनिरूहणे॥१५॥

अवस्थावशेनयथोक्तक्रमव्यभिचारं दर्शयन्नाह आवस्थिक इत्यादि—तस्यैव। मत्वेत्यवस्थां बुद्ध्वा, निरूहणं आवस्थिकइत्यवस्थोचितः क्रमः कार्य्यः,तेनावस्थाविशेषे निषिद्धनिरूहेऽपि प्रतिकारं चिन्तयित्वा निरूहो देय एवेत्यर्थः।यथा भुक्तवतो निषिद्धोऽपि निरूहोत्यर्थशूलवेदनायां वैतरणवस्तिरूपो दीयते तथाउदरादिषु निषिद्धो निरूहोऽवस्थायां किमिति निरूह एव क्रियते चिकित्सान्तरमेवकथं न क्रियते इति वाच्यम्, वस्तिगतदोषे हि मलावृते वस्तिरूपं प्रधानं चिकित्सितंमलापहरणेन दोषान् क्षपयति, न तत्र चिकित्सान्तरं प्रभवति, अतस्तस्यामवस्था-यामनर्हनिरूहाणामपि दोषमलहरो निरूहो देय एवेति॥१५॥

अतिप्रपीडितो वस्तिरतिक्रम्याशयं ततः।
वातेरितो नासिकाभ्यां मुखतो वा प्रपद्यते॥
छर्दिहल्लासमूर्च्छादीन् प्रकुर्य्याद्दाहमेव च॥१६॥

वस्तेरतिपीडनेन दोषमाह अतिप्रपीडित इत्यादि।—सुश्रुतस्य। आशयमितिपक्वाशयादिकम्। नासिकाभ्यामिति नासापुटाभ्याम्।आदिशब्दादाध्मानादयः॥१६॥

तत्र चूर्णंगलापीडं कुर्य्याच्चाप्यवधूननम्।
शिरःकायविरेकौ च तीक्ष्णौ सेकांश्च शीतलान्॥१७॥

अत्र यत् प्रतिविधेयं तदाह तत्रेत्यादि—गलपीठमिति गलपीडनम् एतच्चतथा कार्य्यं यथा न म्रियते। उक्तं हि—“वस्त्रपाणिग्रहैः कण्ठं रुन्ध्यान्न म्रियतेयथा” इति। अवधूननमित्यत्र केशेष्वाकृष्येति शेषः। उक्तं हि—“केशेष्वालम्ब्यवा केशे धुनुयात्” इति। एतञ्चवस्तिव्यापचिकित्सितं लेशत एवोक्तम् ; विस्तरस्तुचरकादावनुसन्धेय इति॥१७॥

सुनिरूढमथोष्णाम्बुस्नातं भुक्तरसौदनम्।

यथोक्तेन विधानेन योजयेत् स्नेहवस्तिना॥१८॥

निरूहसम्यग्योगानन्तरं यद्विधेयं तदाह सुनिरूढमित्यादि—

सुश्रुतस्य।उष्णाम्बुस्नानमिति शिरो विहाय ज्ञेयम्, शिरसि तु शीतलजलंवेति वृद्धा व्यवहरन्ति। अत्र केचित् षडंगविधिना नागरसाधितमुष्णोदकं पानार्थमुपदिशन्ति। यदुक्तं—

ततःप्रत्यागतेवस्तौ वार्य्युष्णं नागरैः शृतम्। पाययेत् कृतशौचञ्च स्नापयेदुष्णवारिणा"इति। स्नेहवस्तिनेति—स्नेहवस्तिदानन्तु दृढबलोक्तंयथा —

“प्रत्यागते कोष्णजलाभिषिक्तःशाल्यन्नमद्यत्तनुलावणेन। जीर्णे तु सायं लघु चाल्पमात्रं भुक्त्वानुवास्यः परिवृंहणार्थम्।निरुपादांशसमेन तैलेनाम्लानि लध्वौषधसाधितेन"इति। निरूहपादांशसमेनेति निरूपादप्रमाणेन, चतुर्विंशतिपलं षट्पलेनस्नेहेनेत्यर्थः। इयञ्चोत्तममात्रानु-वासनस्य उक्तं च—

“उत्तमा षट्पली मात्रा मध्यमात्रिपली भवेत्। कनीयसी त्वर्द्धपला त्रिधा मात्रानुवासने” इति। एषाच षट्पलीमात्रा प्रबलाग्निंप्रत्यव बोध्या। अन्ये त्वाहुः निरूहदानदिने यः स्नेहवस्तिर्दीयतेसोऽल्पमात्र एव, न तु षट्पलः, निरूहव्याकुलिताग्नित्वात् अतएवाह भोजः—

“सम्यङ् निरूढं तैलाक्तं जलनोष्णेन सेचितम्।योजयेदल्पमात्रेण तत्क्षणं स्नेहवस्तिना” इति। अत्र तत्क्षणमिति तद्दिनोपलक्षणमाह तेन सायं दीयते स्नेहवस्तिः।तस्मादत्र सार्द्धपलरूपा वरमात्रा स्नेहस्य ज्ञेया। न चैवं चरकविरोधः, चतुर्विंशतिपलस्य निरूहस्य पादः षट् पलं तस्यांशचतुर्थो भागः सार्द्धैकपलं तत्समं तैलमतिहि तदर्थः। वृद्धास्तु सार्द्धपलेन स्नेहेनानुवासनं कुर्वन्ति निरूहस्य मन्दाग्नित्वात् १८

तदहस्तस्य पवनाद्भयं बलवदिष्यते।
रसौदनस्तेन शस्तस्तदहश्चानुवासनम्॥१९॥

कुतो मांसरसः स्नेहवस्तिश्च तत्रोपदिश्यत इत्यत आह तदहरित्यादि—

निरूढ

कृतमलदोषस्य रूक्षत्वेन वातात् भीतिरिति भावः॥१६॥

अर्द्धमात्रिकः।

दशमूलीकषायेण शताह्वाक्षं प्रयोजयेत्।
सैन्धवाक्षञ्चमधुनो द्विपलं द्विपलं तथा॥
तैलस्य पलमेकन्तु फलस्यैकत्र योजयेत्।
अर्द्धमात्रिकसंज्ञोऽयं वस्तिर्देयो निरूहवत्॥
न च स्नेहो न च स्वेदः परिहारविधिर्न च।
आत्रेयानुमतो ह्येष सर्वरोगनिवारणः॥
यक्ष्मघ्नश्च शूलघ्नश्च किमिघ्नश्च विशेषतः।
शुक्रसञ्जननो ह्येष वातशोणितनाशनः।
बलवर्णकरो वृष्यो वस्तिः पुंसवनः परः॥२०॥

इदानीं निरूहयोगा वाच्याः। तत्र प्रथमं प्रसिद्धत्वादर्द्धमात्रिकवस्तिमाह दशमूलीत्यादि—

चन्द्रालोकः तन्त्रान्तरस्य।उत्सर्गसिद्धचतुर्विंशतिपलनिरूहापेक्षयामात्रार्द्धमस्येति कृत्वा द्वादशपलोऽयं निरूहो ज्ञेयः अर्द्धमात्रिक इत्युक्तेः। अतएवमधुस्नेहक्वाथ्येत्यादिपरिभाषया यद् द्रव्यमानमुक्तं तदर्द्धमानमेवात्र ज्ञेयम्। तेनद्वादशभिः पलैरेकः पुटकः, एवं त्रयः पुटका देयाः।अन्नपुटत्रयार्थं दशमूलस्यप्रत्येकं कर्षत्रयम्, अतः सार्द्धसप्तपलानि, तत्र क्वाथपरिभाषया जलस्यापि सार्द्धसप्तशरावाः, एभिश्च षष्टिपलानि भवन्तीति एषांचतुर्थांशशेषात् पञ्चदश पलानिदशमूलकषायस्य भवन्ति। तत्रैकपुटकार्थं पञ्चपलानि ग्राह्याणि, अपरपुटकयोर्द्वयोरपि दशपलं विभज्य देयम्। शताहा शतपुष्पा, तस्या अक्षः कर्षः। एतत्पेषणमपिदशमूलक्वाथेनैव विधेयम्। वृद्धास्तु जलेनापि पेषणं कुर्वन्ति। एतञ्चाक्षमानमेकैकपुटकं प्रत्येव बोध्यम्, एवं सैन्धवाक्षादिकमप्येकस्मिन्नेकस्मिन् पुटके देयम्। तैलस्यापि द्विपलमित्यर्थः। फलस्येति मदनफलस्य, फलमेकमाकृतिमानात्। संयोजनपरिपाटी च दत्त्वादौसैन्धवस्याक्षमित्यादि वावयनैकोक्ता,एवं सर्वत्र। सर्वत्रैवनिरूहे अनुक्तगोमूत्रकाशिकादिद्रव्यदानार्थं स्नेहगुडमिति परिभाषानन्तरमेव वक्ष्यतितेषाञ्चद्रव्याणां माननिर्णयार्थं वृद्धवचनमेवानुस्मर्तव्यम्, तद्यथा—

“कर्षं सिन्धुजरजसो द्विपलं मधुनः पलद्वयं तैलात्। करतलमथितं पात्रे गूढस्नेहं भवेद् यावत्।दशमूलस्य कषायंदत्त्वा पलपक्षकं मदनमेकम्।गुडशतपुष्पाम्लीनां कर्षंकर्षंतथाकर्षम्। माषकपञ्चसहितं पूरकजम्बीरमांसपयसाम्।तुषजलगोजलयोरपि प्रत्येकञ्चैवपुटमाह” इत्यादि। आम्लीति पक्वतिन्तिडीफलं तदपि सास्थि ग्राह्यमित्युपदेशः। पूरकजम्बीरादीनां मापकपञ्चसहितं कर्षमित्यर्थः। पूरको मातुलुङ्गम्, अस्य पक्वफलरसो गृह्यते। एवं जम्बीरस्यापि मापकपञ्चसहितम्। क्षीरकर्षन्तु उष्णीकृतस्य मिलितनिरूहस्य चर्मपुटकप्रवेशसमये प्रक्षेप्तव्यम् ;अन्यथा न धावत्यौषधं पाणिमित्यादिलक्षणं न स्यादित्याहुर्वृद्धवैद्याः। अनेन प्रकारेण पुटकत्रयमुत्सर्गः। एतेन पुटकद्वयेनापि सम्यग्निरूहलक्षणं तत्र तावन्मात्रमेवेति। सुखप्रहणार्थमर्द्धमात्राधिकवस्तेःपत्रिका लिख्यते—

पुटकत्रयार्थं दशमूल प्र क ३, पाथ श ७ पल ४, शेषपल१५, भागत्रयं कृत्वा एकपुटकार्थं दशमूलकषायं पल ५, प्रक्षेपार्थं सुपिष्टशोधकशलुफा क १, सैन्धव क १, मधु प २, पक्वतैल प १, पिष्टमदनफल गौ१, पुराणगुड क १, आठीसहितसुपक्वतिन्तिडाफल क १, सुपक्वमातुलुङ्गरस—

जम्बीररसमांसरस काञ्चीगोमूत्र प्र क १ मा ५, एतत् सर्वं पूर्वोक्तसंयोजनपरिपाट्यः मेलयित्वा वस्त्रं धृष्ट्वा बाष्पस्वेदन कदुष्णीकृत्य ग्राह्यम्, तदनु गव्यदुग्ध क १ मा ५,प्रक्षिप्यालोड्यचर्मपुटके प्रक्षेप्यमिति। एतदेव विधानं द्वितीये तृतीयेऽपि ज्ञेयम्।
( इत्यर्द्धमात्रिकः)॥२०॥

स्नेहं गुडं मांसरसं पयश्च अम्लानि मूत्रं मधुसैन्धवे च।

एतान्यनुक्तानि च दापयेच्च निरूहयोगे मदनात् फलञ्च॥२१॥

इदानीं सर्वेष्वेव निरूहेषु चानुक्तान्यन्यद्रव्याणि अवश्यप्रक्षेप्याणि तानि दापयितुं हारीतवचनमुपन्यस्यति स्नेहं गुडमित्यादि। सुश्रुतस्त्वेतदधिकमप्याह—

“क्षीराण्यम्लानि मूत्राणि स्नेहाः क्वाथा रसास्तथा। लवणानि फलं क्षौद्रं शताह्वासर्षपा वचा। एला त्रिकटुकं रास्ना सरलं देवदारु च। रजनी मधुकं हिंगु कुष्ठं संशोधनानिच। निरूहेषु यथालाभ एष वर्गो विधीयत” इति॥२१॥

लवणं कार्षिकं दद्यात् फलमेकन्तु मादनम्॥२२॥

सैन्धवमदनफलयोर्मिलितनियतमानमाह लवणमित्यादि—

फलमेकमित्याकृतिमानात्॥२२॥

वाते गुडः सिता पित्ते कफे सिद्धार्थकादयः॥२३॥

दोषभेदेन गुडादीनां प्रक्षेप्यत्वमाह वात इत्यादि—

आदिशब्दात् सुश्रुतोक्तवचात्रिकटुकादीनां ग्रहणम्। अत्रान्तरे चरकोक्तएरण्डवस्तिर्दृष्टफलो बोध्यः।सोऽप्यर्द्धमात्रिकोक्तकल्पनानुसारेणार्द्ध-मात्रिकयैव वृद्धैः प्रयुज्यते। स चात्र विस्तरभयान्नविवृत इति तत्रैवानुसन्धेयः॥२३॥

अथ क्षारवस्तिः।

सैन्धवाक्षं समादाय शताह्वाक्षं तथैव च।
गोमूत्रस्य पलान्यष्टवम्लिकायाः पलक्ष्यम्॥
गुडस्य द्वे पले चैव सर्वमालोड्य यत्नतः।
वस्त्रपूतं सुखोष्णञ्च वस्तिं दद्याद्विचक्षणः॥
शूलं विट्सङ्गमानाहं मूत्रकृच्छ्रञ्च दारुणम्।
किम्युदावर्त्तगुल्मादीन् सद्यो हन्यान्निषेवितः॥२४॥

क्षारवस्तिमाह सैन्धवाक्षमित्यादि—

वस्तिरयमेतावन्मात्र एव दीयते, इयञ्चमात्रा एकपुटकस्य। अम्लिकायाइति सास्थितिन्तिडीफलस्य।निरूहयोगे मदनात्फलञ्चेत्युक्त्वात् एवं मदनफलमप्यत्र वृद्धैर्दीयते। अतएव चन्द्राटोऽप्याह—

“गोमूत्रस्य पलान्यष्टौ द्वे गुडाम्लिकयोःपले।कर्षणञ्चशतपुष्पायास्तथाक्षं सैन्धवस्यच। मदनस्य फलञ्चैकं खजेन सुविलोडितम्। वस्त्रपूतं सुखोष्णञ्च वस्ति दद्याद्विचक्षणः। वातविट्सङ्गमानाहं मूत्रकृच्छ्रञ्चदारुणम्। शूलोदावर्त्तगुल्मादीन् सद्योहन्यात् प्रयोजितः। गोमूत्रवस्तिरित्येष विज्ञेयः शोधनः परः। हितः साधारणे रूक्षःशुद्धे तु तैलसंयुतः।बलवर्णकरः पुंसामग्निसन्दीपनः परम्” इति। अस्मादेववचनात् गोमूत्रवस्तिरित्यपि संज्ञान्तरमस्य बोध्यम्। तथा निरावरणे तुतैलमपिदेयं तैलञ्चपलमानं बोध्यम्। तदुक्तमायुर्वेदसारे—

“अष्टौपलानि मूत्रस्य गुडस्यतु पलद्वयम्। तद्वदम्लीफलं दत्त्वा मिष्यक्षंसैन्धवस्य च। रूक्षं सामेऽनिलेयुञ्याच्छुद्धे तैलपलान्वितम्। क्षारबस्तिमिमं सिद्धं वातोदावर्त्तनाशनम्” इति।

इदानीं क्षारवस्तेः पत्रिका लिख्यते, सैन्धवचूर्णंक १, शलुफाकल्क क १, गोमूत्रपल ८, सुपिष्टास्थिसहितपक्वतिन्तिडीफल पल २, पुराणगुडपल २, सुपक्वमदनगो १, निरामवाते पक्वतैल पल १। एतत् सर्वंपूर्ववन्मर्दयित्वा वस्त्रपूतं कृत्वाकदुष्णीकृत्य देयम्। (इति क्षारवस्तिः)॥२४॥

अथ वैतरणवस्तिः।

पलशुक्लिकर्षकुडवैरम्लीगुडसिन्धुजन्मगोमूत्रैः।
तैलयुतोऽयं वस्तिः शूलानाहामवातहरः॥
वैतरणः क्षारवस्तिर्भुक्ते चापि प्रदीयते॥२५॥

वैतरणवस्तिमाह पलशुक्लिरित्यादि—शुक्लिरर्द्धपलम्।अम्लीति तिन्तिडीफलम्।पलादि-मानञ्चकमात् अम्लीगुडादिषुयोज्यम्। कुडवेऽत्रद्रवद्वैगुण्यादष्टौपलानि,ईषत्तैलपलमिति व्यवहरन्ति वृद्धाः। यत्रापि मदनफलमेकं देयमित्याहुः। इयमपिवैतरणोक्तमात्रा एकपुटकस्यैव ज्ञेया। अत्यन्तशुलपीडायांवस्तिद्वयमिदं भुक्तेऽपिदीयते इत्याहवैतरण इत्यादि—

अत्यन्त-शूलावस्थायांपीठायामावस्थिकमिदं विधानंबोध्यं न तु सार्वकालिकं भुक्ते निरूहस्यातिशेषलत्वात्। किन्तु भुक्तेक्षारवस्तिर्नप्रचरति, वैतरणस्तु चरत्येव।एतदपि दुर्बलविषयमेव ज्ञेयं, तदुक्तं—

“भोजयित्वाय सायाह्नेदुर्बलस्य प्रशस्यते। अथ चेद्बलवान्जन्तुभुक्त्वापि तदा क्वचित्इति। (इति वैतरणवस्तिः)॥२५॥

अथ पिच्छिलवस्तिः।

वदर्य्यैरावतीशेलुशाल्मलीधन्वनाङ्कुराः।
क्षीरसिद्धाः सुसिद्धाः स्युः सास्राः पिच्छिलसंशिताः॥२६॥

पिच्छिलवस्तिमाह बदरीत्यादि—

सुश्रुतस्य।ऐरावती नागबला, शेलुर्बहुवारः,धन्वनो धामनीरिति प्रसिद्धस्तरुः। एषामङ्कुराःअभिनवपल्लवाः। अत्र दुग्धस्याप्यंकोभागः।त्रयो भागा जलस्त्याहुः।सास्राःसरक्ताः॥२६॥

वाराहमाहिपौरभ्रवैडालैणेयकौफ्कुटम्।
सद्यस्कमसृगाजं वा देयं पिच्छिलवस्तिषु॥२७॥

रक्तञ्चयेषां ग्राह्यंतानाह वाराहित्यादि—

एतच्चशोणितं मृदित्वेव वस्तो देयं,सद्यस्कैमृदितैर्वस्तिरिति चरकवचनात्। अयञ्चवस्तिर्यथोक्तद्रव्यमानेनैव कार्यः।मात्रा चास्यार्द्ध-मात्रिकवस्तिवत्, माधुतैलिकवस्तिवद्वेत्याहुः। (इति पिच्छिलवस्तिः)॥

चरकादौ समुद्दिष्टा वस्तयो ये सहस्रशः।
व्यवहारो न तैः प्रायो निबद्धा नात्र तेन ते॥२८॥

इदानीं चरकाद्युक्तानामन्येषां वस्तीनामनभिधानेउपपत्तिमाह चरकादावित्यादि—प्राय इति वचनात् तेऽप्यवस्थायां प्रयोज्या इति सूचयति॥२८॥

वस्तिर्वयःस्थापयिता सुस्नायुर्बलाग्निमेधास्वरवर्णकृच्च।

सर्वार्थकारी शिशुवृद्धयूनां निरत्ययः सर्वगदांपहश्च॥२६॥

वस्तिसामान्यगुणानाहवस्तिरित्यादि—

सर्वगदापहइति मिलितसर्वदोषापहःकिं वा त्रैदोषिकव्याधि-हर इति चरकव्याख्या अन्यथाव्याख्याने तु श्लेष्मपित्तानिलाकर्षीत्यनेन, तथा सर्वान् विकारान् शमयेदित्यनेन च न पौनरुक्त्यं स्यात्। इदमप्यत्रसुश्रुतवचनं बोध्यं—

“नरस्योत्तमसत्त्वस्य तीक्ष्णवस्तिं प्रयोजयेत्। मध्यं मध्यमसत्त्वस्य हीनसत्त्वस्य वै मृदुम्।अपि हीनक्रमं कुर्यान्न तु कुर्यादतिक्रमम्। विशेषात्सुकुमाराणां हीन एव क्रमो हित” इति॥२६॥

इति निरूहाधिकारविवृतिः॥
<MISSING_FIG href=”../../../../../books_images/U-IMG-1700798346image7.jpg”/>

अथ नस्याधिकारः।

प्रतिमर्षोऽवपीडश्च नस्यं प्रधमनं तथा।
शिरोविरेचनश्चेति नस्तः कर्म च पञ्चधा॥१॥

पञ्चकर्मपारिशेष्यान्नस्यमाह प्रतिमर्ष इत्यादि॥१॥

ईषदुच्छिङ्घनात् स्नेहो यावान् वक्त्रं प्रपद्यते।
नस्तो निषिक्तस्तं विद्यात् प्रतिमर्षं प्रमाणतः॥२॥

प्रतिमर्षलक्षणमाहईषदित्यादि—

सुश्रुतस्य।ईषदुच्छिङ्घनादिति ऊर्ध्वश्वासक्षेपणात्। ननु चरके न चोच्छिङ्घेदित्युक्तम्, अत्र तु ईषदुच्छिङ्घनम्, उक्तमतोविरोधः? अत्र केचिदीषदुच्छिङ्घनमनु-च्छिङ्घनमेवेति समादधति, अन्येतु चरकोक्तप्रतिमर्षः स्वल्पप्रमाणोऽनुच्छिङ्घनः सार्वकालिको ज्ञेयः, अतएव तत्र प्रातर्निशि चसर्वदेत्युक्तम्, यस्तु सुश्रुतोक्तःस भूरिमात्रोनासौ सार्वकालिक इत्यभिधेयः प्रतिमर्षंईषदुच्छिङ्घन इत्याहुः। नस्तो निषिक्त इति नासापुटद्वये निषिक्तःप्रमाणत इतिपरिमाणतः परिमाणद्वारकमेतल्लक्षणमित्यर्थः॥२॥

प्रतिमर्षन्तु नस्यार्थं करोति न च दोषवान्॥३॥

प्रतिमर्षकर्माह प्रतिमर्षस्त्वित्यादि—

चरकस्य। नस्यार्थमिति नस्यस्य स्नेहनशोधनरूपप्रयोजनद्वयम्।उक्तं हि—

“स्नेहनं शोधनञ्चैव द्विविधं नस्यमुच्यते।”न च दोषवानिति व्यापत्तिकृत्॥३॥

नस्तः स्नेहांगुलिं दद्यात् प्रातर्निशि च सर्वदा॥
न चोच्छिङ्घेदरोगाणां प्रतिमर्षः स दार्ढ्यकृत्॥४॥

प्रकारान्तरेणापि प्रतिमर्षमात्रामाह नस्तःस्नेहाङ्गुलीमित्यादि—

चरकस्य।नस्त इति नासायां स्नेहाङ्गुलीमिति स्नेहपूरिताङ्गुलीं दद्यात्, एतेन स्नेहमग्नाङ्गुलीतो यावान् स्नेहः पतति सैव प्रतिमर्षमात्रा। सर्वदेति सर्वष्वेव ऋतुषु। न चनावनादिवदत्रोच्छिङ्घनं कर्तव्यमित्याह नवोच्छिङ्घेदित्यादि—

अरोगाणामित्यनेनसुस्थविषयत्वमस्योक्तम्। दार्ढ्यकृदिति दन्तशिरःकपालादिदार्ढ्यकृत्॥४॥

निशाहर्भुक्तवान्ताह स्वप्नाध्वश्रमरेतसाम्।
शिरोऽभ्यञ्जनगण्डूष-प्रस्रावाञ्जनवर्धसाम्॥
दन्तकाष्ठस्य हास्यस्य योज्योऽन्तेऽसौ द्विबिन्दुकः॥५॥

सर्वदेत्यस्यार्थमाह निशत्यादि—

वाग्भटस्य। असौ प्रतिमर्षः बिन्दुद्वयपरिमितो निशादीनामन्तेसमाप्तौवैद्येनयाज्यः।निशान्त इति प्रातः, अर्द्धोन्त इति सायम्। सुश्रुतेऽपि कल्योत्थित इत्यनेन प्रातःकाल उक्तः। अध्वति पथादिश्रमः। श्रमशब्दनाध्वव्यतिरिक्तोव्यायाम उच्यत। सुश्रुतेऽपि व्यायामाध्वपरिश्रान्तेनेत्युक्तम्। रेतःशब्देन रेतःसरणापलक्षितव्यायाम उच्यते। प्रस्राव इति मूत्रात्सर्गः, वर्चः पुरीषोत्सर्गः। एषु पञ्चदशसु कालेषु प्रतिमर्षदानप्रयोजनं वाग्भटेनैवोक्तमनुसर्तव्यं तद्यथा—

“निशाहर्भुक्तवान्ताहः स्वप्नाप्वश्रमरेतसाम्।

शिरोऽभ्यञ्जनगण्डूषप्रस्रावाञ्जनवर्चसाम्।दन्तकाष्ठस्य हास्यस्य योज्याऽन्तेऽसौ द्विबिन्दुकः। पञ्चसु स्रोतसां शुद्धिःक्लमनाशस्त्रिषुक्रमात्। दृग्बलं पञ्चसु ततो दन्तदार्ढ्यंमरुच्छमः॥” निशाहर्भुक्तवान्ताहःस्वप्नेषु पञ्चषु प्रतिमर्षदानात्स्रोतसां शुद्धिर्भवति। त्रिष्विति अध्वश्रमरेतः—

सुक्लमनाशःस्यात्। शिरोभ्यञ्जनादिषुवर्चोऽन्तेषु तु प्रतिमर्षदानात् दृग्बलंस्यात्,ततोऽनन्तरं दन्तकाष्ठस्य हास्यस्य चान्तेयोजितः प्रतिमर्षः क्रमात् दन्तदार्ढ्यंमरुतोवायोः प्रशमनं करोतीत्यर्थः॥५॥

शोधनः स्तम्भनश्च स्यादवपीडो द्विधा मतः।
अवपीड्यदीयते यस्मादवपीडस्ततस्तु सः॥६॥

अवपीडमाह शोधन इत्यादि—

चरकस्य। अत्र संशमनमित्यवपीडस्य कर्मेच्छन्ति, तत् पुनरिह स्तम्भन एवान्तर्भवति॥६॥

स्नेहार्थंशुन्यशिरसां ग्रीवास्कन्धोरसां तथा।
बलार्थं दीयते स्नेहो नस्तशब्दोऽत्र वर्त्तते॥७॥

नस्यमाह स्नेहार्थमित्यादि—

ग्रीवास्कन्धोरसां रक्षणार्थमित्यन्वयः।नस्तशब्दोनस्यपर्य्यायः, नासाभ्यां दीयत इति नस्यम्, नासाशब्दान्न शरीरावयवत्वात् यत्प्रत्यनेन। अतएवाह सुश्रुत—

“औषधमौषध-पक्वोवा स्नेहो नासिकाभ्यां दीयतइति नस्यम्।” अनया च निरुक्त्या यद्यपि सामान्यवचन एवायं नस्यशब्दस्तथापिनस्तशब्दोऽत्र वर्तत इत्यभिधानात् विशेषवृत्तितामपि नस्यशब्दस्य बोधयति।एतेन यथा निदानशब्दो निदानपञ्चके तथा निदानविशेषेच वर्त्तते, तथायं नस्यशब्दोऽपि नस्यशिरोविरचनप्रतिमर्षावपीडाप्रघमनेषु तथा नस्यविशेषे च स्नेहार्थं शून्यशिरसामित्यादिनोक्तेवर्तते। सुश्रुतेनापि “ततो नस्यशब्दः पञ्चधा निपातितः” इत्यादिनायमर्थ उक्तः। एतेन नासास्रोतसि दोषोपशमनार्थं यद्दीयते तन्नस्यमितिनस्यादिपञ्चोक्तसामान्यलक्षणम्, तथा प्रतिमर्षादिभिन्नत्वे सति स्नेहनार्थं यद्दीयतेतन्नस्यमिति तु नस्यविशेषलक्षणं बोध्यमित्याहुः॥७॥

नस्यस्य स्नैहिकस्याथ देयास्त्वष्टौ तु बिन्दवः।
प्रत्येकशो नस्तकयोर्नृणामिति विनिश्चयः॥८॥

स्नैहिकनस्यार्थं स्नेहस्य मानमाहनस्यस्येत्यादि—

स्नेहाप्लुतप्रदेशिनीपर्वद्वयात्यावान् स्नेहः स्रवति तावान् स्नेहो बिन्दुरित्युच्यते।उक्तं हि वाग्भटे—

“प्रदेशिन्यङ्गुलीपर्वद्वयान्मनसमुद्धृतात्। यावत् पतत्यसौ बिन्दुः” इति। नस्तकयोरितिनासापुटयोः एषा प्रथममात्रा॥८॥

शुक्लिश्च पाणिशुक्लिश्च मात्रास्तिस्त्रः प्रकीर्त्तिताः।
द्वात्रिंशद्बिन्दवश्चात्र शुक्तिरित्यभिधीयते॥
द्वे शुक्ती पाणिशुक्तिश्च देयात्र कुशलैर्नरैः॥६॥

द्वितीयां तृतीयाश्च मात्रामाह शुक्तिश्चपाणिशुक्तिश्चेति—

शुक्तिद्वितीया, पाणिशुक्तिस्तृतीयेत्यर्थः। एताश्चतिस्रा मात्रा यथाबलं प्रयोज्या इति। सुश्रुतेऽप्युक्तं—

“तस्याः प्रमाणमष्टौबिन्दवः प्रदेशिनीपर्वद्वय- निःसृताः प्रथमा मात्रा, द्वितीयाशुक्तिस्तृतीया पाणिशुक्तिरित्यतास्तिस्रो मात्रा यथावसं प्रयोज्याः इति। शुक्तिपाणिशुक्तिशब्दयोरर्थमाह द्वात्रिंशद्बिन्दव इति। द्वे शुक्तीइति चतुःषष्टिबिन्दव इत्यर्थः।इदञ्चशुक्ति-पाणिशुक्त्याख्यमात्राद्वयं मिलित्वैव नासापुटाभ्यां प्रयोज्यम्, न तुप्रथममात्रावत्प्रत्येकश इत्याहुः। एतच्च स्नेहनस्यन गिलेत् किन्तु त्यजेदेव।उक्तं हि सुश्रुते—

“स्नेहनस्यं न चोपगिलेत् कथञ्चिदपि” इति॥६॥

तैलं कफे च वाते च केवले पवने वसाम्।
दद्यान्नस्तः सदा पित्ते सर्पिर्मज्जा समारुते॥१०॥

इदानीं तस्मिन् दोष यः स्नेहः प्रयोज्यस्तमाह तैलमित्यादि—

चकारात् वातकफसंसर्गे च तैलं देयमित्यर्थः। केवल इति निवारणे वाते, मज्जा तु समावृते वाते॥१०॥

ध्मापनं रेचनश्चूर्णो युञ्ज्यात्तं मुखवायुना।
षडङ्गुलद्विमुखया नाड्या भेषजगर्भया।
स हि भूरितरं दोषं चूर्णत्वादपकर्षति॥११॥

प्रधमनमाह धमापनमित्यादि—

वाग्भटस्य।रेचन इति शिरोविरेचनद्रव्यकृतःकिंवा देहस्रोतोविशोधन इत्यर्थः। स इतिचूर्णः। चूर्णत्वादिति सूक्ष्मस्रोतोऽनुसारित्वादित्यभिसन्धिः। एतञ्चप्रधमनं चूर्णं प्रतनुवस्त्रं बद्ध्वा जिंघ्रदित्यपि वृद्धव्यवहारसिद्धो विधिर्बोध्यः॥११॥

शिरोविरेचनद्रव्यैः स्नेहैर्वा तैः प्रसाधितैः।
शिरोविरेचनं दद्याद् रोगेषु तेषु बुद्धिमान्॥
गौरवे शिरसःशूले जाड्ये स्यन्देगलामये।
शोथगण्डक्रिमिग्रन्थि-कुष्ठापस्मारपीनसे॥१२॥

शिरोविरेचनमाह शिरोविरेचनेत्यादि।—

शिरोविरेचनद्रव्यैरिति अपामार्गबीजादिभिस्तैः कल्कीकृतैर्द्रव्यमिश्रितैरेतत्साधितैः स्नेहैर्वा इत्यर्थः। अस्य च मात्रार्थं सिद्धसारो यथा—

“चत्वारो बिन्दवः षड् वा तथाष्टौवा यथाबलम्।शिरोविरेचने योज्याऊर्ध्वजत्रुविकारिणाम्” इति। जाड्यंप्रीवादिस्तम्भः; स्यन्दोऽभिष्यन्दरोगःपीनसइति पुराणपीनसे॥१२॥

स्निग्धस्विन्नोत्तमाङ्गस्य प्राक्कृतावश्यकस्य च।
निवातशयनस्थस्य जत्रूदूर्ध्वं स्वेदयेत् पुनः॥
अथोत्तानोदूर्ध्वदेहस्य पाणिपादे प्रसारिते।
किञ्चिदुन्नतपादस्य किञ्चिन्मूर्धनि नामिते॥
नासापुटं पिधायैकं पर्य्यायेण निषेचयेत्।
उष्णाम्बुतप्तं भैषज्यं प्रणाड्या पिचुना तथा॥
दत्ते पादतलस्कन्धहस्तकर्णादि मर्दयेत्।
शनैरुच्छिङ्घ्य निष्ठीवेत् पार्श्वयोरुभयोस्ततः।
आ भेषजक्षयादेवं द्वित्रिर्वा नस्यमाचरेत्॥१३॥

येन विधिना तच्छिशेविरेचनं कर्तव्यं तदाह स्निग्धेत्यादि।—

वाग्भटस्य। प्राक्कृतावश्यकस्य चेति प्राक् पूर्वं कृतमावश्यकम् अवश्यकरणीयं मलमूत्रविसर्गमुखधावनादिकं येन तस्य। जत्रूदूर्ध्वमिति ग्रीवामूलादिकं स्वेदयेत्, पुनरित्यनेन उत्सर्गसिद्धपञ्चकर्माङ्गभूतखेदापेक्षया भिन्न एव नस्याव्यवहितपूर्वकाले पुनः स्वेदः कर्तव्य इतिबोधयति। किश्चिदुन्नतपादस्येति चरकेऽपिपादोन्नतस्येत्युक्तम्। पर्य्यायेणेति क्रमेण नत्वेकदा। उष्णाम्बुतप्तमिति उष्णम्युयोगादुष्णाम्बुबाष्पेण वा तप्तम्। प्रणष्येतिनस्यनलिकया, पिचुनेति तूलकेन। आदिशब्दात्ग्रीवाननादीनां प्रहणम्। पार्श्वयोरिति वामदक्षिणनासापुटयोः, आभषजक्षयादिति छेदः, भेषजनिःसरणपर्य्यन्तं शनैरुच्छिङ्घ्य निष्ठीवेदित्यर्थः। एवमुक्तपरिपाट्या वारद्वयं त्रयंवा दोषापेक्षयाअधिकमपि नस्यं कुर्यादित्यर्थः। नस्ये क्रियमाणे यदि नस्यस्य सम्यक्प्रयोगेण मूर्च्छास्यात् तदा शिरः परित्यज्य शीततोयेन सेचनं कार्यम्। अतएवैतदनन्तरं वाग्भटेयथा—

“मूर्च्छायां शीततोयेन सिञ्चेत् परिहरन् शिरः” इति॥१३॥

स्नेहं विरेचनस्यान्ते दद्याद्दोषाद्यपेक्षया।
त्र्यहात् त्र्यहाच्चसप्ताहं स्नेहकर्म समाचरेत्॥
एकाहान्तरितं कुर्य्याद्रेचनं शिरसस्तथा॥१४॥

शिरोविरेचनस्यानन्तरीयेविधिमाह स्नेहमित्यादि—

वाग्भटस्य स्नेहमिति स्नेहनस्यम्। स्नेहनस्यं रेचननस्यञ्चकियन्तं कालं कयापरिपाट्या कुर्यादित्याह त्र्यहात् त्र्यहादित्यादि—

एकैकदिनमन्तरीकृत्य सप्ताहमन्तरितदिनानि वर्जयित्वा स्नेहनस्यम्,शिरसो विरेचनन्तु एकाहानन्तरितं कुर्यात्। तेन यस्मिन् यस्मिन् दिने स्नेहनस्यंन दीयते तस्मिन् तस्मिन्नेव दिने रेचननस्यं देयमित्यर्थः। एतेनैकस्मिन् दिने

स्नेहम्, अपरस्मिन् दिने शिरोविरेचनमेव, अपरत्वापरत्वे सति शिरोविरेचनानन्तरंस्नेहनस्यं भवति। एकाहान्तरितः शिरोविरेकः कार्य इत्युत्सर्गस्तेन अन्तरमपिज्ञेयम्, तथा सप्ताहमित्युपलक्षणं तेन त्र्यहादिकमपि दोषाद्यपेक्षया ज्ञेयम्।उक्तंहि—

“एकान्तरं व्द्यन्तरं वा नस्यं दद्याद्विचक्षणः। सप्ताहन्तु परं ज्ञेयं विश्रान्तस्यपुनः पुनः। त्र्यहं पञ्चाहमथवा सप्ताहं वा सुयन्त्रितम्। परं नवाहमूदुर्ध्वन्तुनवाहात् सात्म्यतां व्रजेत्” इति॥१४॥

सम्यक्स्त्रिग्धे मुखोच्छ्वास-स्वप्नबोधाक्षिपाटवम्॥१५॥

सम्यक्निग्धलक्षणमाह सम्यगित्यादि—

वाग्भटस्य। सुखशब्दःउच्छ्वासादिना वोघान्तेन सम्बध्यते। अक्षीतीन्द्रियोपलक्षणम्, अक्षपाटवमिति वा पाठः,तन्त्रान्तरे प्रसादश्चेन्द्रियाणामित्युक्तम्॥१५॥

रूक्षेक्षिस्तब्धता शोषो नासास्ये मूर्द्धशून्यता॥१६॥

असम्यक्निग्धलक्षणमाह रूक्ष इत्यादि—

वाग्भटस्य।रूक्ष इत्यसम्यक्निग्धे॥

स्निग्धेऽतिकण्डूर्गुरुता प्रसेकारुचिपीनसाः॥१७॥

अतिस्निग्धलक्षणमाह स्निग्ध इत्यादि—

वाग्भटस्य। अतिस्निग्ध इत्यन्वयः।प्रसेक इति कफप्रसेकः॥१७॥

सुविरिक्तेऽक्षिलघुतावक्त्रस्वरविशुद्धयः।
दुर्विरिक्ते गदोद्रेकः क्षामतातिविरेचिते॥१८॥

स्नैहिकनस्यस्य सम्यग्योगादीनभिघाय रेचननस्यस्यापि तानाह सुविरिक्तइत्यादि—

वाग्भटस्य। क्षामता शुष्कद्रवधातुता॥१८॥

तोयमद्यनरस्नेहपीतानां पातुमिच्छताम्।
भुक्तभक्तशिरःस्नातस्नातुकामस्रुतासृजाम्॥
नवपीनसरोगार्त्त-सूतिकाश्वासकासिनाम्।
शुद्धानां दत्तवस्तीनां तथानार्त्तवदुर्दिने।
अन्यत्रात्ययिके व्याधौ नैषां नस्यं प्रयोजयेत्॥१६॥

येषां नस्यं न विधेयं तानाह तोयेत्यादि—

वाग्भटस्य।तोयादिकं पीतं यैस्तेतथेति आहिताग्न्यादित्वात् परनिपातः। अनार्त्तवदुर्दिने हेमन्तशिशिरयोर्मेधव्याप्तेऽह्नि। अन्यत्रात्ययिके व्याधाविति आत्ययिके च व्याधौ नस्यैकसाध्ये निषिद्धनस्यानामपि नस्यं विधेयमेवेत्यर्थः। नैषां नस्यं प्रयोजयेदिति श्लोकपादश्चक्रेण प्रतिसंस्कृत्य दत्तः॥१६॥

न नस्यमूनसप्ताब्दे नातीताशीतिवत्सरे।
न चोनद्वादशे धूमः कवलो नोनपञ्चमे॥
न शुद्धिरूनदशमे न चातिकान्तसप्ततौ।
आजन्ममरणं शस्तः प्रतिमर्षस्तु वस्तिवत्॥२०॥

इदानीं यस्मिन् वयसि नस्यं न विधेयं तदाह न नस्यमित्यादि—

वाग्भटस्य।ऊनसप्ताब्द इति एकवर्षमारभ्य षष्ठवर्षपर्य्यन्तम् इति प्रतिवर्षव्यतिरिक्तं नस्यं नप्रयोज्यं सप्तमवर्षात् प्रभृति तु विधेयमेवेत्यर्थः। उक्तं हि कृष्णात्रेयेण—

“सप्तवर्षमुपादाय नस्यकर्म चतुर्विधम्” इति। अतीताशीतिवत्सर इति एकाशीतीत्यादौनिषेध्यं, प्रस्तावात् निषेध्यधूमकवलादीनप्याह न चोनद्वादश इत्यादि—

ऊनद्वादशइति एकवर्षमारभ्य एकादशवर्षपर्य्यन्तम्, एवं वक्ष्यमाणेऽपि ज्ञेयम्। शुद्धिरितिवमनविरेचने । प्रतिमर्षस्तथा वस्तिरितिसर्वकालमेव विधेय इत्याह आजन्मेत्यादि।

इति नस्याधिकार-विवृतिः।
समाप्ता च पञ्चकर्माधिकार-विवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1700818690image11.jpg”/>

अथ धूमपानाधिकारः।

प्रायोगिकः स्नैहिकश्चधूमो वैरेचनस्तथा।
कासहरो वामनश्च धूमः पञ्चविधो मतः॥१॥

नस्यवन्नासाप्रयोज्यत्वसाधर्म्यात् पञ्चसंख्यासामान्याच्च नस्यानन्तरविधेयत्वाच्चनस्यानन्तरं धूममाह प्रायोगिक इत्यादि—

प्रायोगिक इति नित्यपेयधूमस्य संज्ञा।प्रयोगःसतताभ्यासः, तद्विषयको धूमः प्रायोगिकः। स्नेहाय प्रभवतीति स्नैहिकः।दोषविरेचनाद्वैरेचनिकः।कासं हरतीति कासहरः। वामयतीति वामनः। यद्यपिचरके प्रायोगिकस्नैहिकवैरेचनिकभेदात् त्रिविध एव धूम उक्तस्तथापि प्रायोगिककासहरम्, वैरेचनिके च वामनयिमन्तर्भाव्य चरकसुश्रुतयोर्विरोधः परिहरणीयः॥१॥

ऋजुत्रिकोपफलितं कोलास्थ्यग्रप्रमाणितम्।
वस्तिनेत्रसमद्रव्यं धूमनेत्रे प्रशस्यते॥२॥

धूमपानार्थं नलिकाविधानमाहॠज्वेत्यादि—

चरकस्य।त्रिकोषफलितमितित्रिभिः पर्वभिर्मित्रैःसमन्वितः किंवा त्रिकोषस्त्रिभङ्गः, तेन यस्मिन् नेत्रे स्थानत्रयेभङ्गः कार्य्यः, स च नलिकात्रयेण घटनीय इत्याहुः। कोलास्थ्यग्रप्रमाणितमितिअस्य नेत्रस्याग्रंकोलास्थिप्रवेशयोग्यं कार्य्यमित्यर्थः। मूलञ्चास्यांगुष्ठप्रवेशयोग्यम्।यदाह वाग्भटः—“मूलाग्रेऽङ्गुष्ठकोलास्थिप्रवेशं धूमनेत्रत्रम्” इति। वस्तिनेत्रसममिति वस्तिनेत्रण समं तुल्यं यद् द्रव्यं सुवर्णरूप्यताम्रादिकम्॥२॥

सार्द्धस्त्र्यंशयुतः पूर्णो हस्तः प्रायोगिकादिषु।
नेत्रे कासहरे त्र्यंशहीनः शेषे दशाङ्गुलः॥३॥

धूमभेदेन नेत्रमानभेदमाह सार्द्धंइत्यादि—हस्तोऽत्र चतुर्विंशत्यंगुलपरिमितःतेन प्रायोगिके धूमे सार्द्धोहस्तः षट्त्रिंशदंगुलः।त्र्यंशयुत इति चतुर्विंशत्यंगुलस्यतृतीयोंऽशोऽष्टांगुलम्, तेन संयुक्तो हस्त इत्यर्थः, एतेन स्नैहिके द्वात्रिंशदंगुलं नेत्रमित्यर्थः। वैरेचने तु पूर्णो हस्तचतुर्विंशत्यंगुलमित्यर्थः। कासहरे धूमे त्र्यंशहीनो

हस्तः षोडशांगुलमित्यर्थः। शेष इति वामके॥३॥

औषधैर्वर्त्तिकांकृत्वा शरीगर्भोविशोषिताम् ।
विगर्भामग्निसंप्लुष्टां कृत्वा धूमं पिबेन्नरः॥४॥

इदानीं धूमपानार्थं नांलकामभिधाय धूमपानं यथा विधेयं तदाह औषधैरित्यादि।औषधैरिति गन्धैरकुष्ठतगरैरित्यादिना वक्ष्यमाणैरौषधैर्वर्त्तिकां कृत्वा धूमं पिबेत्।वर्तिकाकरणप्रकारमाह शरीगर्भामित्यादि। शरी शरपुष्पस्य नालिका सा गर्भेअभ्यन्तरे यस्याः ताम्, एतेन पिष्टैर्भेषजैः शरीं प्रलिप्य वर्त्तिःकार्येत्यर्थः।विगर्भामिति तां वर्त्तिंविशोष्य ततः शरीमाकृष्य विगर्भां कुर्यादित्यर्थः। अग्निसंप्लुष्टामिति तां विगर्भां वर्त्तिंनेत्राग्रेसमारोप्य अग्निसंप्लुष्टां कृत्वा धूमंपिबेदित्यर्थः। एषां वर्त्तिरष्टाङ्गुला यववन्मध्यस्थूला परिणाहेनाङ्गुष्ठसम्मिता कर्तव्याउक्तञ्च—

“पिष्ट्वा लिम्पेच्छरेषीकां तां वर्त्तिंयवसन्निभाम्। स्थूलाञ्चाङ्गुष्ठिकां कुर्यादष्टाङ्गुलसमां भिषक्” इति॥४॥

वक्त्रेणैव वमेद्धूमं नस्तो वक्त्रेण वा पिबन्।
उरःकण्ठगते दोषे वक्त्रेण धूममापिबेत्॥
नासया तु पिबेहोषे शिरोघ्राणाक्षिसंश्रये॥५॥

धूमं पीत्वा धूमं कथं वमेदित्याह वक्त्रेणेत्यादि—

नस्त इति नासिकया सार्वविभक्तिकस्वासः। एवं प्रकारेण नासिका निषिध्यते, वक्त्रेणैव धूमं वमेत् न तुनासयेत्यर्थः। अत्र हेतुश्चरकेणोक्तांयथा —

“प्रतिलोमंगतो ह्याशु धूमो हिंस्याद्धिचक्षुषि” इति। वक्त्रधूमपान-नासाधूमपानयोर्विषयावाह उर इत्यादि॥५॥

गन्धैरकुष्ठतगरैर्वर्त्तिःप्रायोगिके मता।
स्नैहिके तु मधूच्छिष्ट-स्नेहगुग्गुलुसर्जकैः॥
शिरोविरेचनद्रव्यैर्वर्त्तिर्वैरेचने मता।
कासघ्नैरेव कासघ्नीवामनैर्वामनी मता॥६॥

औषधैर्वर्त्तिकांकृत्वेत्युक्तम्, अतो वर्त्त्यर्थमौषधान्याह गन्धैरियादि—

गन्धैरित्यगुर्वादिसुगन्धिद्रव्यैः। अकुष्ठतगरैरिति कुष्ठतगरवर्जितैः। कुष्ठतगरथोरतितीक्ष्णत्वेन मस्तुलुङ्गस्रावकत्वात्। उक्तञ्च शालाक्ये —

“नतकुष्ठे, स्रावयतो धूमवर्त्तिप्रयोजिते। मस्तुलुङ्गं विशेषण तस्मात् ते नैव योजयेत्” इति। मधूच्छिष्टंसिक्थकं, स्नेहोऽत्र घृतं वसा च वसाघृतमधूच्छिष्ठैरिति वचनात्। शिरोविरेचनैर्द्रव्यैरिति श्वेताज्योतिष्मत्यादिभिश्चरकोक्तैः। कासघ्नैरिति वृहतीकण्टकारीकटुकासमर्दादिभिः सुश्रुतोक्तैः। वामनैरिति स्नायुचर्मखुरशृङ्गादिभिः सुश्रुतोक्तैः॥६॥

योज्या न पित्तरक्तार्त्ति-विरिक्तोदरमेहिषु।
तिमिरोदूर्ध्वानिलाध्मान-रोहिणीदत्तवस्तिषु॥
मत्स्यमद्यदधिक्षीर-क्षौद्रलेहविषाशिषु।

शिरस्यभिहते पाण्डुरोगे जागरिते निशि॥७॥

येषु धूमो न विधेयस्तानाह योज्या इत्यादि—

वाग्भटस्य।दत्तवस्तिष्विति कृतनिरूहेषु॥७॥

रक्तपित्तान्ध्यवाधिर्य्य-तृणमूर्छामदमोहकृत्।
धूमोऽकालेऽतिपीतो वा तत्र शीतो विधिर्हितः।
एतद्धूमविधानन्तु लेशतः सम्प्रकाशितम्॥८॥

अकालातिपीतधूमयोर्दोषमाहरक्तपित्तेत्यादि—

अत्र पीतो बेति छेदः।धूमपानविधिश्चरक-सुश्रुतादावतिप्रपञ्चः, इह तु प्रन्थगौरवभयात् संक्षेपेणैवोक्तइत्याहएतदित्यादि॥८॥

इति धूमपानाधिकारविवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1700903762image10.jpg”/>

अथ कवलगण्डूषाधिकारः।

स्निग्धोष्णैःस्नैहिको वाते, स्वादुशीतैः प्रसादनः।
पित्ते, कट्वम्ललवणै रूक्षैः संशोधनः कफे॥
कषायस्वादुतिक्तैश्च कवलो रोपणो व्रणे॥१॥

ऊर्ध्वगतदोषहरत्वसामान्यात् धूमाधिकारानन्तरं कवलगण्डूषाधिकारः प्रारभ्यते। तन्न कवलश्चतुर्विधोभवति यदाहसुश्रुतः—

“चतुर्द्धाकम्लः स्नेही प्रसादीशोधिरोपणौ” इति। अतस्तेषां स्वरूपं विषयञ्चाह स्निग्धोष्णैरित्यादि—

सुश्रुतस्य।यद्यपि तन्त्रान्तरे वैरेचनस्तम्भनाभ्यां सह षड्विधत्वमेवोक्तंतथाप्यत्र संशोधने वैरेचनस्य ;प्रसादने च स्तम्भनस्यान्तर्भावान्न विरोधः। वाग्भटे तु कवलगण्डूषयोरवलम्ब्य चतुर्विधत्वमुक्तं, यथा—

“चतुःप्रकाशे गण्डूषःसिद्वः शमनशोधनौ।रोपणश्च त्रयस्तत्र त्रिषुयोज्याश्चलादिषु। अन्तो व्रणघ्नः” इति॥१॥

सुखं सञ्चार्य्यते या तु सा मात्रा कवले हिता।
असञ्चार्य्यातु या मात्रा गण्डूषेसा प्रकीर्त्तिता॥२॥

मात्राभेदेन कवलगण्डूषयोर्भेदानाह सुखमित्यादि—

सुश्रुतस्य॥२॥

तावच्च धारणीयोऽयं यावद्दोषप्रवर्तनम्।
पुनश्चान्योऽपि दातव्यस्तथा क्षौद्रघृतादिभिः॥३॥

असौकवलः कियन्तं कालं मुखे धारणीय इत्याहतावदित्यादि—

अत्र क्षौद्रंकफे कफपित्तेच।आदिशब्देन दुग्धादिकम्। यदाहसुश्रुतः—

“एवं स्नेहपयः क्षौद्ररसमूत्राम्लसंयुताः। कषायोष्णोदकाभ्याञ्चकवला दोषतो हिताः” इति॥३॥

व्याघेरपचयस्तुष्टिर्वैशद्यंवक्त्रलाघवम्।
इन्द्रियाणां प्रसादस्ग्चकवले शुद्धिलक्षणम्॥४॥

कवलस्य सम्यक्योगलक्षणमाह व्याधेरित्यादि—

सुश्रुतस्य। प्रयोगातियोगल-

आश्च्योतनाञ्जनतर्पणपुटपाकाधिकारः।

अमित्यतोऽनन्तरं यथा—

“हीने जाड्यकफोत्क्लेशावरसंज्ञानमेव च। प्रतियोगान्मुखे पाकःशोषस्तृष्णारुचिक्लमाः” इति। एतञ्चसामान्ययोगातियोगलक्षणं शोधनकवलस्येति भानुमतीप्रभृतयः। चक्रेण सम्यग्योगातियोगलक्षणविपर्य्ययेणैवअसम्यग्योगलक्षणं सुधीभिरूहनीयमित्यभिप्रायेण प्रयोगातियोगलक्षणं नोक्तमिति॥४॥

दाहतृष्णाव्रणान् हन्ति मधुगण्डूडूषधारणम्।
धान्याम्लमास्यवैरस्यमलदौर्गन्ध्यनाशनम्॥
तदीषल्लवणं शीतं मुखशोषहरं परम्।
आशु क्षाराम्बुगण्डूषो भिनत्ति श्लेष्मणश्चयम्।
सुस्थे हितं वातहरं तैलगण्डूषधारणम्॥५॥

दाहेत्यादि—

वाग्भटस्य।आशु शीघ्रम्।क्षाराम्बु यवक्षारजलम्। तैलमितितिलतैलम्॥५॥

इति कवलगण्डूषाधिकारविवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1700905069image10.jpg”/>

अथाश्च्योतनाञ्जन-तर्पण-पुटपाकाधिकारः।

सर्वेषामक्षिरोगाणामादावाश्च्योतनं हितम्।
रुक्तोदकण्डूघर्षास्त्रदाहरागनिवर्हणम्॥१॥

पूर्वोक्तसङ्गत्यैवाश्च्योतनाधिकारमाह सर्वेषामित्यादि॥१॥

उष्णं वाते कफे चोष्णं तच्छीतं रक्तपित्तयोः॥२॥

दोषभेदेन तदाह उष्णमित्यादि—

वाग्भटस्य।उष्णमितीषदुष्णम् ॥२॥

निवातस्थस्य वामेन पाणिनोन्मील्य लोचनम्।
शुक्तौप्रलम्बयान्येन पिचुवर्त्या कनीनिके।
दश द्वादश वा बिन्दून् ह्यङ्गुलादवसेचयेत्॥
ततः प्रमृज्य मृदुना चैलेन कफवातयोः।
अन्येन कोष्णपानीयप्लुतेन स्वेदयेन्मृदु॥३॥

निवातस्थस्येत्यादौ—शुक्लाविति निर्मलपात्रोपलक्षणम् अन्येनेति दक्षिणपागिना। प्रलम्बयेति लम्बमानयेत्यर्थः। पिचुवर्त्या तूलकवर्त्या।कनीनिके नासिकादेशसन्निहितचक्षुषः कोणे। द्व्यङ्गुलादिति नैत्रकनीनिकस्योपरि।पिचुवर्त्तिद्व्यंगुलमुत्तोल्य निवातप्रदेशस्थातुरस्य वैद्यो वामेन पाणिना लोचनमुन्मील्य मृदु यथाभवति तथा लोचनं स्वदयेत्। कफवातयोरिति वातकफयोः॥३॥

अत्युष्णतीक्ष्णंरुग्रागदृङ्नाशायाक्षिसेचनम्।
आतशीतन्तु कुरुते निस्तोदस्तम्भवेदनाः।
कषायवर्त्मतां घर्षं कृच्छ्रादुन्मेषणं बहु।
विकारवृद्धिमत्यल्पं संरम्भमपरिस्रुतम्॥४॥

अत्युष्णतीक्ष्णाश्च्योतनस्य तथा अतिशीतस्य च दोषमाह अत्युष्णेत्यादि।इदानीं बहुमात्रस्य तथाल्पमात्रस्य तथा वस्त्रापूनाश्चपोतनस्य दोषमाह कषायेत्यादि—वाग्भटस्य।कषायवर्त्मतां रूक्षवर्त्मतां वा। घर्षमिति करकरिकाम्। बहुइति बहुपरिमाणाश्च्योतनं कषायवर्ततादिकं कुरुत इति शेषः। अत्यल्पमाश्च्योतनंविकारवृद्धिं कुरुत। तथा अपरिस्रुतमित्यपूतमाश्च्योतनं संरम्भं शोथंकुरुते।यद्यपि सुश्रुते अश्च्योतनवत् सेकेऽप्युक्तः, यथा—

“तर्पणः पुटपाकश्चसेकश्चाश्च्योतनाञ्जनम्” इति। तथापि वाग्भटमतेआश्च्योतन एव सेकस्यान्तर्भावादविरोधः॥

अथाञ्जनंशुद्धतनोर्नेत्रमात्रस्थिते मले।
पक्वलिङ्गेऽल्पशोथार्त्तिकण्डूषैच्छिल्यलक्षिते॥
मन्दघर्षास्नुरागेऽक्ष्णिप्रयोज्यं धनदूषिके॥५॥

अश्च्योतनानन्तरमञ्जनमाहअथेत्यादि—अथेत्यानन्तर्य्ये। शुद्धतनोरिति कायशिरोविरेकाभ्याम्।नेत्रमात्रस्थिते मल इति नेत्र एव स्थिते दोष इत्यर्थः। एतेन प्रदेशन्तरस्थदोषाहन्तृत्वमञ्जनस्योक्तम्।नेत्रावस्थिते दोषप्राप्तमञ्जनमाचरेदिति। तथा पक्वलिङ्गेपक्वाक्षरोगलक्षणं सत्येवाञ्जनं प्रयोज्यम्। तदेव पक्वलक्षणं कथं ज्ञातव्यमित्यत आहअल्पशोथेत्यादि—

अल्पशब्दस्य शोथादिभिः प्रत्येकमन्वयः, एवं मन्दशब्दस्यापि घर्षादिभिः।लक्षित इति ज्ञापिते। दूषिका नेत्रपिडीढका॥५॥

लेखनं रोपणं दृष्टिप्रसादनमिति त्रिधा।
अञ्जनं लेखनं तत्र कषायाम्लपट्टपणैः॥
रोपणं तिक्तकैर्द्रव्यैः स्वादुशीतैः प्रसादनम्॥६॥

अञ्जनस्य त्रैविध्यमाह लेखनमित्यादि—वाग्भटस्य। अञ्जनमिति शेषः। एषांस्वरूपमाह लेखनम् तत्रेत्यादि—तत्रेति त्रिषु लेखनादिषु मध्ये, पटु लवणं, पटुपिप्पल्यम्लादिकषायादिभिर्द्रव्यैर्यदञ्जनं तल्लेखनमित्यर्थः॥६॥

दशाङ्गुला तनुर्मध्ये शलाका मुकुलानना॥७॥

अञ्जनदानार्थं शलाकामाह दशाङ्गुलेत्यादि—

तस्यैव। मुकुलानना कुन्दजातीमल्लिकामुकुलमुखी॥७॥

प्रशस्ता लेखने ताम्री रोपणे काललोहजा।
अङ्गुलीवसुवर्णोत्था रूप्यजा च प्रसादने॥८॥

अञ्जनभेदेन शलाकाभेदमाह प्रशस्तेत्यादि—

काललोहः पाराढ्यादिः। प्रसादनेतु अंगुल्येव शरीरशलाका, तथा सुवर्णजा रूप्यजा च शलाका प्रशस्तेत्यर्थः॥८॥

पिण्डो रसक्रिया चूर्णं त्रिधैवाञ्जनकल्पना।
गुरो मध्ये लघौ दोषे तां क्रमेण प्रयोजयेत्॥९॥

कल्पनाभेदेनाञ्जनत्रैविध्यमाह—

पिण्ड इत्यादि॥९॥

अथानुन्मीलयन् दृष्टीं अन्तः सञ्चारयेच्छनैः।

अञ्जिते वर्त्मनीकिञ्चिच्चालयेच्चैवमञ्जनम्।
अपेतौषधसम्बन्धं निर्वृतं नयनं यदा।
व्याधिदोषर्त्तुयोग्याभिरद्भिः प्रक्षालयेत्तदा॥
दक्षिणाङ्गुष्ठकेनाक्षि ततो वामं सवाससा।
ऊर्द्ध्वेवर्त्मनि संगृह्य शोध्यं वामेन चेतरत्॥१०॥

अञ्जनानन्तरं यत्कर्तव्यं तदाह—

अञ्जित इत्यादि सुगमम्॥१०॥

निशि स्वप्नेन मध्याह्ने पानान्नोष्णगभस्तिभिः।
अक्षिरोगाय दोषाः स्युर्वर्द्धितोत्पीडितद्रुताः॥
प्रातः सायञ्च तच्छान्त्यै व्यभ्रेऽर्केऽतोऽञ्जयेत् सदा॥११॥

निशीत्यादि—

ननु विरेकदुर्बलं चक्षुरादित्यं प्राप्य सीदतीति तत् कथं सर्वदेत्युक्तम् ? नैवं, यतः विरेकं दुर्बलं चक्षुरादित्यं प्राप्य सीदतीत्युच्यते सुस्थाभिप्रायादिदं वाक्यं, किंवा अत्युद्रिक्तकफापेक्षया दिवाञ्जनं बोध्यम्, उक्तं हि—

“अत्युद्रिक्तवलासे तु लेखनीयेऽथवा गदे। काममह्न्यपि नात्युष्णेतीक्ष्णाञ्जनंप्रयोजयेत्”इति। लेखनीये गद इति लेखनीयशुक्लार्मादौ। ननु विरेकदुर्बलं चक्षुरादित्यं प्राप्य सीदतीति वचनमनुपपन्नंयतो नेत्रस्य तैजसत्वादादित्यं प्राप्य तेजोवृद्धिरेवयुक्त्या तेजसःसामान्यवृद्धिकारणमिति सिद्धान्तः ? नैवं कालस्यौष्ण्यादञ्जनस्य चतीक्ष्णत्वादतियोगेन दृष्ट्युपघातःस्यादिति॥११॥

कण्डूजाड्येऽञ्जनं तीक्ष्णं धूमं वा योजयेत् पुनः॥१२॥

अञ्जनेदत्तेऽपि यदि कण्डूजाड्यादिकं तिष्ठति तदा पुनरपि तीक्ष्णमञ्जनं घूमंवा योजयेदित्यत आह कण्डूजाढ्यइत्यादि—

वाग्भटस्य॥१२॥

तीक्ष्णाञ्जनाभितप्ते तु तूर्णं प्रत्यञ्जनं हिमम्॥१३॥

यदि पुनस्तीक्ष्णाञ्जविधानेन दाहः स्यात् तदादृष्टिप्रसादमञ्जनं कार्यमित्याह तीक्ष्णाञ्जनेत्यादि—

अस्यैव अभितप्त इति सदाहे। प्रत्यञ्जनमिति तीक्ष्णाञ्जनप्रत्यनीकमञ्जनं मृदुशीतलस्निग्धमित्यर्थः॥१३॥

नाञ्जयेद्भीतवमित-विरिक्ताशितवेगिते।
क्रद्धज्वरितवान्ताक्ष-शिरोरुक्शोषजागरे॥
अदृष्टेऽर्केशिरःस्नातेपीतयोर्धूममद्ययोः।
अजीर्णेऽप्यर्कसन्तप्ते दिवास्वप्ने पिपासिते॥१४॥

अञ्जनंयेषु नविधेयं तानाह नाञ्जयेदित्यादि—

वाग्भटस्य।अशिते सद्योभुक्तेवेगित इति दोषवेगोदये। सुश्रुतेऽप्युक्तं—

“दोषवेगोदयेऽप्युक्तं कुर्यात् तांस्तानुपद्रवान्” इति। ज्वरिते नवज्वरित। तान्ताक्ष इति सूक्ष्मभास्वरादिरूपवर्णदर्शनात्तान्ते अक्षिणी यस्य तस्मिन्। अदृष्टेऽर्क इत्यनुदिते जलादिच्छन्न इत्याहुः सुश्रुतेऽप्येवमेवोक्तम्॥१४॥

निर्वाते तर्पणं योज्यं शुद्धयोर्मूर्द्धकाययोः।
काले साधारणेप्रातः सायं वोत्तानशायिनः॥
यवमाषमयींपालीं नेत्रकोणाद्बहिः समाम्।
द्व्यङ्गुलोच्चां दृढां कृत्वा यथास्वं सिद्धमावपेत्॥
सर्पिर्निमीलिते नेत्रे तप्ताम्बुप्रविलायितम्॥१५॥

एकाश्रयत्वादस्मिन्नधिकारे तर्पणमाह निवात इत्यादि—

वाग्भटस्य।पालीमित्यालवालम्। द्व्यङ्गुलोच्छ्रयां दृढामिति द्व्यङ्गुलोच्छ्रयां दृढां निविडां यथा स्नेहो नस्रवतीत्यर्थः। यथास्वं सिद्ध सर्पिरिति तत्तदोषप्रत्यनीकद्रव्यपक्वमित्यर्थः। पात्रस्थंघृतं तप्तजलस्योपरि स्थापयित्वा प्रविलायितं द्रवीकृतमित्यर्थः। आवपेत् पूरयेत् १५

नक्तान्ध्यवाततिमिर-कृच्छ्ररोधादिके वसाम्॥१६॥

व्याधिविशेषेस्नेहविशेषमाह नक्तान्ध्येत्यादि—

वाग्भटस्य। अत्रापियथास्वंसिद्धमित्यादि योज्यमित्यरुणः॥१६॥

आपक्ष्माग्राथोन्मेषं शनकैस्तस्य कुर्वतः।
मात्रां विगणयेत्तत्र वर्त्मसन्धिसितासिते॥
दृष्टौच क्रमशो व्याधौ शतं त्रीणि च पञ्चच।
शतानि सप्त चाष्टौ च दश मन्थेऽनिले दश।
पित्ते षट् सुस्थवृत्ते च वलासे पञ्च धारयेत्॥
कृत्वापाङ्गे ततो द्वारं स्नेहं पात्रे निगालयेत्॥
पिबेच्चधूमं नेक्षेत व्योम रूपञ्च भास्वरम्॥
इत्थं प्रतिदिनं वाते पित्तेत्वेकान्तरं कफे।
सुस्थे च द्व्यन्तरं दद्यादातृप्तेरिति योजयेत्॥१७॥

पूरणविधिमाह आपक्ष्माग्रपर्य्यन्तं पूरयेदित्यर्थः। अथ स्नेहेन चक्षुः पूरयित्वाकियन्तं कालं व्याप्य सस्नेहं स्थातव्यमिति जिज्ञासायामाह अथेत्यादि—

अथ घृनावपनानन्तरं शनकैरुन्मेषं कुर्वतस्तस्य आवर्त्तस्य मात्रां विगणयेत्। मात्रा च लध्वक्षरोच्चारणम्। तत्र वर्त्मस्थे व्याधौशतमात्रां धारयेत् लध्वक्षरशतोच्चारणकालसमकालं व्याप्य स्नेहं धारयेत्। सन्धिगते तु व्याधौत्रीणि शतानि। शुक्लमण्डलगते पञ्च शतानि। कृष्णमण्डलगते तु सप्त शतानि।दृष्टिमण्डले चाष्टौ। मन्थेइत्यधिमन्थे दश, इत्यादिक्रमेण धारयेत्। धारणानन्तरञ्चयत् कार्य्यं तदाह कृत्वेत्यादि। द्वारमित्यालवाले छिद्रं कृत्वा। व्योमेत्याकाशं नेक्षेत।भास्वरं रूपममग्न्यादिः। अयञ्चक्रमा यस्मिन् दोषेयावद्दिनं कार्य्यस्तदाह इत्यामित्यादि—

अयञ्चदिनक्रमः चक्षुस्तृप्तिपर्य्यन्तं योज्य इत्याह आतृप्तेरिति॥१७॥

प्रकाशक्षमता स्वास्थ्यं विशदं लघु लोचनम्।
तृप्ते विपर्य्ययोऽतृप्ते तृप्तेऽतिश्लेष्मजा रुजः॥१८॥

आश्च्योतनाञ्जनतर्पणपुटपाकाधिकारः।

तृप्तातृप्तातितृप्तयोर्लक्षणमाह—

प्रकाशेत्यादि—

विपर्य्यय इति। विपर्य्ययः प्रकाशक्षमतादि-वैपरीत्यम्। अतितृप्ते तु श्लेष्मजा रुजः कण्डूवैच्छिल्यादयः॥१८॥

पुटपाकं प्रयुञ्जीत पूर्वोक्तेष्वेव पक्ष्मसु॥१९॥

पुटपाकमाहपुटपाकमित्यादि—

वागभटस्य।पूर्वोक्तेष्विति तर्पणोक्तेषु रोगेष्वित्यर्थः।

सवाते स्नेहनः श्लेष्मसहिते लेखनो मतः।
दृग्दौर्बल्येऽनिले पित्तेरक्ते स्वस्थ प्रसादनः॥२०॥

स्नेहादिभेदेन त्रिविधस्य पुटपाकस्य पृथक् पृथक् विषयमाह सवात इत्यादि—

स इति पुटपाकः स्नेहनो वाते हितः। श्लेष्मसहिते तु वातेलेखनः पुटपाको हितइति। दृग्दौर्बल्यादौ प्रसादनः पुटपाको हित इत्यर्थः। इदञ्चपुटपाकत्रयं यैद्रव्यैर्विधेयं ताद्वाग्भटेनोक्तम् इह तु ग्रन्थविस्तारभयाच्चक्रेण न लिखितम्, किन्तूपयुक्तमिति, मया लिख्यते यथा—

“भूयशः प्रसहानूपमेदोमज्जवसामिषैः। स्नेहनं पयसापिष्टैर्जीवनीयैश्च कल्पयेत्। मृगपक्षियकृन्मांसमुक्तायस्ताम्रसैन्धवैः। स्रोतोजशङ्खकदलैर्लेखनो मस्तुकल्पितैः। मृगपक्षियकृन्मज्जवसान्त्रहृदयामिषैः। मधुरैः सधृतैः स्तन्यक्षीरपिष्टैः प्रसादन इति॥२०॥

बिल्वमात्रं पृथक् पिण्डं मांसभेषजकल्कयोः।
उरुवूकवटाम्भोजपत्रैः स्निग्धादिषु क्रमात्॥
वेष्टयित्वा मृदा लिप्तं धवधन्वनगोमयैः।
पक्षेत् प्रदीप्तैरग्न्याभं पक्वंनिष्पीड्य तद्रसम्॥
नेत्रे तर्पणवद्युञ्ज्याच्छतं द्वे त्रीणि धारयेत्।
लेखनस्नेहनान्त्येषुकोष्णौ पूर्वौहिमोऽपरः॥
धूमपोऽन्ते तयोरेव योगास्तत्र च तृप्तिवत्॥२१॥

पुटपाकत्रयस्य कल्पनामाह बिल्वेत्यादि—

मांसयुक्तं भेषजञ्चानन्तरोक्तजीवनीयादिकं तयोः कल्करूपयोः पिण्डः। पृथग्बिल्वमात्रमिति पलमात्रम्। एरण्डादिपत्रैःक्रमेण स्निग्धादिषु स्नेहादिपुट-पाकेषु वेष्टवित्वा अनन्तरं मृदा लिप्तं प्रदीप्तैर्घवधन्वनगोमयैः पचेत्। क्रमादिति धवधन्वन-गोमयैरित्यत्रापि योजयन्ति केचित्। तेनस्नेहपुटपाके एरण्डपत्रेण वेष्टनम्, धवकाष्ठाद्वारेण च पाकः। लेखने वटपत्रेणवेष्टनम् धन्वनकाष्ठाद्वारेण च पाकः।प्रसादने तु अम्भोजपत्रैर्वेष्टनम्, गोमयाग्निना च पाक इति। अग्न्याभमित्यग्निवर्णम् एतञ्चसम्यक्पाकज्ञानार्थमुक्तम्।तर्पणवद् युञ्ज्यादित्यनेन निर्वाते तर्पणोक्तविधिमत्राप्यतिदिशति। एतद्रसञ्च कियन्तंकालं नेत्रे धारयेदित्याह शतं द्वे त्रीणि धारयेत् लेखनस्नेहनान्त्येष्विति। एतञ्चयथाक्रमं योज्यम्, तेन लेखनपुटपाके शतमिति मात्राशतं धारयेत्। स्नेहने तु द्वेमात्राशते, अन्त्य इति प्रसादने त्रीणि मात्राशतानि धारयेदित्यर्थः। पूर्वौस्नेहलेखनौ कोष्णौ, अपर इति प्रसादनो हिमः शीतलो योज्यः। धूमपोऽन्ते तयोरेवेतिपूर्वयोः स्नेहलेखनयोरेव अन्ते धूमपः स्यात्, न तु प्रसादनान्त इत्येशब्दार्थः।योगास्तत्र च तृप्तवदिति तर्पणवदित्यर्थः॥२१॥

तर्पणं पुटपाकञ्च नस्यानर्हंन योजयेत्।
यावन्त्यहानि युञ्जीत द्विगुणो हितभाग्भवेत्॥२२॥

तर्पणपुटपाकौयेषां न कार्यो तानाह तर्पणमित्यादि—

नस्यामर्हइति निषिद्धनस्यपुरुषे।इदानीं तर्पणपुटपाकविधानानन्तरं यावन्ति दिनानि हितसेवनं कर्तव्यंतदाह यावन्तीत्यादि—

यावन्ति दिनानि व्याप्य तर्पण पुटपाकविधिः कृतः तद्विगुणानि दिनानि हितसेवी भूत्वा तिष्ठेदित्यर्थः॥२२॥

इत्याश्च्योतनाञ्जनतर्पण-पुटपाकाधिकार-विवृतिः।

<MISSING_FIG href=”../../../../../books_images/U-IMG-1700379787image7.jpg”/>

अथ शिराव्यधाधिकारः।

अथ स्निग्धतनुः स्निग्धरसान्नप्रतिभोजितः।
प्रत्यादित्यमुखं खिन्नो जानूच्चासनसंस्थितः॥
मृदुपट्टात्तकेशान्तो जानुस्थापितकूर्परः।
अंगुष्ठगर्भमुष्टिभ्यां मन्ये गाढं निपीडयेत्॥
दन्तसम्पीडनोत्कास-गण्डाध्मानानि चाचरेत्।
पृष्ठतो यन्त्रयेच्चैनं वस्त्रमावेष्टयेन्नरः॥
कन्धरायां परिक्षिप्य न्यस्यान्तर्वामतर्जनीम्।
एवमुत्थाप्य विधिना शिरां विध्येच्छिरोगताम्॥१॥

पूर्वन्तु नेत्ररोगे स्निग्धस्याज्येन कॉम्भेन शिराव्यधैःशमं नयेदित्युकम्, अत आश्च्योतनादिवत् शिराव्यधस्यापि नेत्ररोगहरत्वादनन्तरं शिराव्यधविधिर्वाच्यः।तत्र प्राधान्यात् प्रथमं शिरोगतशिराव्यधे कर्तव्ये शिरोत्थापनप्रकारमाह अथेत्यादि—

वाग्भटस्य।आदित्याभिमुखं लक्ष्यीकृत्य, जानूच्चासन-संस्थित इति उपविष्ट इत्यर्थः।मृदुना पट्टेनात्तो गृहीतो बद्ध इति यावत् केशान्तो यस्य स तथा। जानुनि स्थापितंकूर्परं कफोणिद्वयं येन स तथा। मुष्टिभ्यां मन्ये प्रीवाधमन्यौप्रपीडयेत् तथा दन्तसम्पीडनादीनामन्यतममाचरेत् आत्तंइति शेषः। दन्तैर्दन्तानां पीढनं दन्तपीडनम्, उत्कासः कास एव, गण्डाध्मानं वायुना मुखपूरणं, सुश्रुतेऽप्युक्तं—“कर्म पुरुषश्च वायुना मुखं पूरयेत्” इति। तथा नरः परिचारकजनः पृष्ठ्त इति पृष्ठदेशेस्थित्वा एनमातुरं यन्त्रयेत्। किं कुर्वन् यन्त्रयेदित्याह—

वस्त्रंकन्धरायां ग्रीवायांपरिक्षिप्य तस्य मध्ये स्वकीयवामतर्जनीं न्यस्यारोप्य वस्त्रमावेष्टयन् पीडयेदिति॥१॥

विध्येद्धस्तशिरां वाहावनाकृञ्चितकूर्परे।
बद्ध्वा सुखोपविष्टस्य मुष्टिमङ्गुष्ठगर्भिणम्।

ऊर्द्ध्वंवेध्यप्रदेशाच्चपट्टिकां चतुरङ्गुले॥२॥

विध्येदित्यादि—वाग्भटस्य। अनाकुञ्चितःकूर्परः कफोणिर्यस्य।किं कृत्वाविध्येदित्याह—

सुखापविष्टस्यातुरस्य अङ्गुष्ठगर्भिणं मुष्टिं बद्ध्वा बन्धयित्वा। पुनःकिं कृत्वा ?—

वेध्यप्रदेशादुपरि चतुरंगले यन्त्रपट्टिकंशिरायन्त्रणार्थ पट्टिकां वस्त्रादिपट्टीं बद्ध्वा॥२॥

पादे तु सुस्थितेऽधस्तात् जानुसन्धेर्निपीडिते।
गाढं कराभ्यामागुल्फंचरणे तस्य चोपरि।
द्वितीये कुञ्चिते किञ्चिदारूढे हस्तवत्ततः।
बद्ध्वा विध्येच्छिरामित्थमनुक्लेष्वपि कल्पयेत्॥
तेषु तेषु प्रदेशेषु तत्तद्यन्त्रमुपायवित्।
ततो व्रीहिमुखं व्यध्यप्रदेशे न्यस्य पीडयेत्।
अङ्गुष्ठतर्जनीभ्यान्तु तलप्रच्छादितं भिषक्॥३॥

पादगतशिराव्यधप्रकारमाह पादे त्वित्याद—

वाग्भटस्य।सुस्थित इत्यनेनविषमपादन्यासं निरस्यति। किंविशिष्टे पादे ?—

जानुसन्धेरधस्तात् वैद्यस्य कराभ्यामागुलफंगुल्फपर्यन्तं गाढं निपीडित इत्यर्थः। द्वितीये तु चरणे तस्य सुस्थितपादस्योपरि आरूढ सति। किंविशिष्टेद्वितीयेचरणे ?—

किञ्चित् कुञ्चिते। हस्तवत् ततो बद्ध्वेति। यथा हस्ते यन्त्रादिकं वद् वा शिरां विध्येत् तथात्रापीत्यर्थः। एवमुक्तरीत्या अनुक्तप्रदेशविषयेऽपि यन्त्रं स्वबुद्ध्या कल्पयेदित्याह इत्थमित्यादि। व्रीहिमुखादिशस्त्रेण यथा शिरव्यधो विधेयस्तदाह तत इत्यादि। न्यस्यारोप्य अंगुष्ठतर्जनीभ्यां पीडयेदित्यन्वयः। करतल-प्रच्छादितिमिति पीडनक्रियाविशेषणम्,एतेन रक्तधारा नोदूर्ध्वमुत्तिष्ठति इत्यभिसन्धिः॥३॥

वामहस्तेन विन्यस्य कुठारीमितरेण तु॥
ताडयेन्मध्यमाङ्गुल्याङ्गुष्ठाविष्टब्धमुक्त्या॥४॥

कुठारिकया वैधनप्रकारमाह वामहस्तेनेत्यादि—

इतरेण दक्षिणहस्तेन ताडयेदित्याह मध्यमांगुल्येति। अंगुष्ठविष्टब्धमुक्तयेति आदौ वृद्धांगुष्ठेन विष्टभ्यमुक्तयेत्यर्थः॥४॥

मांसले निक्षिपेद्देशे व्रीह्यास्यं व्रीहिमात्रकम्।
यवार्द्धमस्यामुपरि शिरां विध्यन् कुठारिकाम्॥५॥

इदानीमुक्तशस्त्रद्वयं यस्मिन् प्रदेशे योज्यं तदाह मांसल इत्यादि—

मांसलेप्रदेशे शिरां विध्येदिति योज्यम्। व्रीह्यास्यमिति व्रीहिमुखं शस्त्रम् एकतव्रीहिमात्रकंनिक्षिपेत् प्रवेशयेत्। अस्थ्नामुपरि शिरां विध्यन् कुठारिकां यवार्द्धमात्रां निक्षिपेदित्यर्थः॥५॥

असम्यगस्त्रेस्रवति बिल्वव्योषनिशानतैः।

सागारधूमलवणतैलैर्दिह्याच्छिरामुखम्॥६॥

अयोगे चिकित्सामाहअसम्यगित्यादि—

स्पष्टम्॥६॥

सम्यक् प्रवृत्ते कोष्णेनतैलेन लवणेन च॥७॥

सम्यायोगे कर्तव्यमाह—

सम्यगित्यादि॥७॥

अशुद्धौ वलिनोऽप्यस्नं न प्रस्थात् स्नावयेत् परम्।
अतिस्रुतौ हि मृत्युः स्याद्दारुणा वानिलामयाः॥
तत्राभ्यङ्गरसक्षीररक्तपानानि भेषजम्॥८॥

अशुद्धाविति असम्यक् शुद्धौ। प्रस्थादिति प्रस्थोऽत्र सार्द्धत्रयोदशपलम्।परमित्यूर्ध्वम्। अत्रैव हेतुमाहतिस्रुतावित्यादि तत्रेति रक्तातिस्रुतौ।रसःमांसरसः॥८॥

स्रुतेरक्तेशनैर्यन्त्रमपनीय हिमाम्वुना।
प्रक्षाल्यतैलप्रोताक्तंबन्धनीयं शिरामुखम्॥
अशुद्धं स्रावयेद् भूयः सायमह्न्यपरेऽपि वा॥९॥

स्रुते रक्तेकर्तव्यं कर्माह—

स्रुत इत्यादि—

प्रक्षाल्येति शिरामुखमित्यन्वयः।तैलप्रोताक्तमिति तैलाप्लुतवस्त्रमित्यर्थः॥९॥

रक्ते त्वतिष्ठति क्षिप्रं स्तम्भनीमाचरेत् क्रियाम्॥
लोध्नप्रियङ्गुपत्तङ्ग-माषयष्ट्याह्वगैरिकैः।
मृत्कपालाञ्जनक्षौममसीक्षीरित्वगङ्कुरैः॥
विचूर्णयेद् व्रणमुखं पद्मकादि हिमं पिबेत्॥१०॥

अतिष्ठति रक्तेचिकित्सामाह रक्त इत्यादि—

स्तम्भनीमिति वदयमाणाम्।तामेव रक्षणींक्रियामाह लोध्रत्यादि—

पतङ्गंरक्तचन्दनम्, अञ्जनंरसाञ्जनम्, क्षौममसी दग्घवस्त्रभस्म, क्षीरिणो वटोडुम्बरादयः, तेषां त्वक् अंकुरश्च।पद्मकादिपद्मकादिगणम्। हिममिति शीतकषायं पिबेदिति॥१०॥

तामेव वा शिरां विध्येद्वयघात्तस्मादनन्तरम्।
शिरामुखं वा त्वरितं दहेत्तप्तशलाकया॥११॥

तामेवेत्यादि—

तामिति पूर्वविद्धाम्। व्यघात् तस्मादनन्तरमिति पूर्वव्यधसमीपोदूर्ध्वभागे। शिरामुखमिति विद्धशिराव्रणमुखम्॥११॥

सशेषमप्यसृग्घार्य्यं न चातिस्रुतिमाचरेत्।
हरेच्छृङ्गादिना शेषं प्रसादमथवा नयेत्॥१२॥

दुष्टमपि रक्तं न निःशेषं स्रावयेदित्याह सशेषमपीत्यादि—

सशेषमिति दुष्टशोणितशेषम्। प्रसादमथवा नयेदिति प्रसादनलेपनादिना॥१२॥

मर्महीने यथासन्नप्रदेशे व्यधयेच्छिराम्॥१३॥

शिरा हि दुष्टा एव वेध्याः,उक्तं हि—

“अदुष्टा न वेध्याः” इति, यत्र प्रदेशे

तु वेध्यशिरा न दृश्यते कथं तत्र शिराव्यधः कार्य इत्याह मर्महीन इत्यादि—वाग्मटस्य।अत्र व्यध्यशिराणामदर्शन इति शेषः। अतएवैतस्मात् पूर्वं वाग्भटेयथोक्तानामदर्शन इत्युक्तम्।यथासन्नदेश इति यत्र देश व्यध्यशिरा न दृश्यतेतत्र समीपदेशे वा अन्याः शिरा या दृश्यन्ते ता एव वेध्या इत्यर्थः। मर्महीन इति मर्मवर्जिते॥१३॥

न तूनषोडशातीत-सप्तत्यन्दस्नुतासृजाम्।
अस्निग्धास्वेदितात्यर्थस्वेदितानिलरोगिणाम्॥
गर्भिणी-सूतिकाजीर्ण-पित्तास्रश्वासकासिनाम्।
स्नेहपीते प्रयुक्तेषु तथा पञ्चसु कर्मसु॥
नायन्त्रितां शिरां विध्येन्न तिर्य्यङ्नाप्यनुत्थिताम्।
नातिशीतोष्णवाताभ्रेष्वन्यत्रात्ययिकाद्वदात्॥१४॥

येषां शिराव्यधोन कार्य्स्तानाह न त्वित्यादि —

वाग्भटस्य। अन्यत्रात्ययिकाद्गदादिति आत्यायिके तु व्याधौएष्वपि कालेषु शिरा व्यध्यैवेत्यर्थः॥१४॥

नात्युष्णशीतं लघु दीपनीयं रक्तेऽपनीते हितमन्नपानम्।
तदा शरीरं ह्यनवस्थितासृग्वह्निर्विशेषेण च रक्षणीयः।
नरो हिताहारविहारसेवी मासं भवेदाबललाभतो वा॥१५॥

रक्तस्त्रावानन्तरं यद्विधेयं तदाह नात्युष्णेत्यादि—

अनवस्थितासृगिति प्रचुररक्तम्॥

प्रसन्नवर्णेन्द्रियमिन्द्रियार्थानिच्छन्तमव्याहतशक्तिवेगम्।

सुखान्वितं पुष्टिबलोपपन्नं विशुद्धरक्तंपुरुषं वदन्ति॥१६॥

इदानीं शोणितादर्शनेऽपि विशुद्धरक्तज्ञानार्थं लक्षणमाह प्रसन्नेत्यादि—

वेगःपुरीषादीनाम्॥१६॥

इति शिराव्यधाधिकार-विवृतिः।
<MISSING_FIG href=”../../../../../books_images/U-IMG-1701074869image7.jpg”/>

अथ सुस्थाधिकारः।

दिनाचारविधिः।

ब्राह्म मुहूर्त्तेउत्तिष्ठेत् सुस्थो रक्षार्थमायुषः।
शरीरचिन्तां निर्वर्त्य कृतशौचविधिस्ततः॥
प्रातर्भुक्त्वा च मृद्वग्रं कषायकटुतिक्तकम्।
भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्॥
नाद्यादजीर्णवमथुश्वासकासज्वरार्दितः।
तृष्णास्यपाकक्षेत्र-शिरःकर्णामयी च तत्॥१॥

इदानीमातुरहितचिकित्सामभिधाय सुस्थवृत्तमाह ब्राह्म इत्यादि—ब्राह्मो मुहूर्तोरात्रेःपश्चिमयामस्य शेषनाडिकाद्वयम्। शरीरचिन्तां मूत्रपुरीषोत्सर्गादिकरूपाम्।

तत इति शौचविधेरनन्तरं दन्तपवनं भक्षयेदिति। दन्ताः पूयन्ते अनेनेति दन्तपवनं दन्तकाष्ठम्, भुक्त्वा चेति भोजनानन्तरमपीत्यर्थः। दन्तकाष्ठं यैर्न विधेयं तदाहनाद्यादिति। दन्तपवनमित्यन्वयः॥१॥

सौवीरमञ्जनं नित्यं हितमक्ष्णोःप्रयोजयेत्।
पञ्चरात्रेऽष्टरात्रे वा स्रावणार्थं रसाञ्जनम्॥२॥

सौवीरमित्यादि—

सुवीरा नाम नदी तद्भवमञ्जनं सौवीराञ्जनम्। तल्लक्षणंयथा—“वल्मीक-शिखराकारं भग्नंनीलोत्पलद्युति। सोवीराञ्जनमिच्छन्ति आयुर्वेदार्थचिन्तकाः” इति।नित्यं प्रत्यहम्। अत्र पद्मरात्राष्टरात्रग्रहणमदूरान्तरकालेनियमदर्शनार्थम्, तेन दोषकालमपेक्ष्य अर्वाङ्मध्ये ऊर्ध्वञ्चकर्तव्यं स्रावणाञ्जनमिति। रसाञ्जनमिति दार्वीक्वाथसमुद्भव इत्यरुणः॥२॥

ततो नावनगराडूपधूमताम्बूलभाग्भवेत्॥३॥

तत इत्यादि—

स्पष्टम्॥३॥

ताम्बूलं क्षतपित्तास्र-रूक्षोत्कुपितचक्षुषाम्।
विषमूर्च्छामदार्त्तानामपथ्यञ्चापि शोषिणाम्॥४॥

निषिद्धताम्बूलानाह ताम्बूलमित्यादि॥४॥

अभ्यङ्गमाचरेन्नित्यं स जराश्रमवातहा।
शिरःश्रवणपादेषु तं विशेषेण शीलयेत्॥
वाह्याभ्यङ्गः कफग्रस्तकृतसंशुद्ध्यजीर्णिभिः॥५॥

अभ्यङ्गमित्यादी—

तांमत्यभ्यङ्गम्॥५॥

शरीरचेष्टा या चेष्टा स्थैर्य्यर्थाबलवर्द्धनी।
देहव्यायामसंख्याता मात्रया तां समाचरेत्॥६॥

शरीरेत्यादौ—

देहत्यनेन मनोव्यायामं मनश्चिन्तनादिकं निरस्यति। संख्याताइति संज्ञिताया च चेष्टाभिमता ; एतेन भारवहनाद्या अनिष्टादिकार्य्यवशात् क्रियमाणा चेष्टा निरस्यति। मात्रया तां समाचरेदिति मात्रा चार्द्धशक्तिः। यदाहवाग्भटः—

अर्द्धशक्त्या निषेव्यस्तु वलिभिः स्निग्धभोजिभिः” इति। अर्द्धशक्तिलक्षणं यथा—

“कक्षे ललाटे ग्रीवायां स्कन्धे नासाङ्गसन्धिषु। स्वेदः तज्जायते यत्रवलार्द्धंतं विनिर्दिशत्॥६॥

वातपित्तामयी वालो वृद्धोऽजीर्णी च तां त्यजेत्॥७॥

निषिद्धव्यायामानाहवातेत्यादि॥७॥

उद्वर्त्तनं तथा कर्य्यं ततः स्नानं समाचरेत्।
उष्णाम्बुनाधःकायस्य परिषेको बलावहः।
तेनैव तूत्तमाङ्गल्य बलहृत् केशचक्षुषोः॥८॥

उद्वर्त्तनमित्यादि—

तेनैवेति उष्णम्बुना उत्तमाङ्गस्य मस्तकस्य सेकः केशचक्षुषोर्बलं हरतीति बलहृत्॥८॥

स्नानमर्दितनेत्रास्य-कर्णरोगातिसारिषु।
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम्॥६॥

निषिद्धस्नानानह—

स्नानमित्यादि॥६॥

नीचरोमनखश्मश्रु·निर्मलाङ्घ्रिमलायनः।
स्नानशीलः ससुरभिः सुवेशो निर्मलाम्बरः॥१०॥

नीचेत्यादौ—अंघ्रीपादौ, मलायनानि गुदोपस्थानि, तानि निर्मलानि यस्य।निर्मलाम्बर इत्यत्र अनुल्बणोज्ज्वल इति वाग्भटे पठ्यते, अनुल्बणोऽनुद्धत इत्यर्थः।

धारयेत् सततं रत्नंसिद्धमन्त्रमहौषधीः।
सातपत्रपदत्राणो विचरेद्युगमात्रदृक्॥११॥

धारयेदित्यादि—

युगं हस्तचतुष्टयम्॥११॥

निशि चात्ययिके कार्ये दण्डीमौली सहायवान्॥१२॥

निशीत्यादि—

आत्ययिक इत्यवश्यकर्तव्ये॥१२॥

जीर्णे हितं मितञ्चाद्यान्न वेगानीरयेद्वलात्।
न वेगितोऽन्यकार्य्यः स्यान्नाजित्वा साध्यमामयम्॥१३॥

जीर्ण इत्यादि—

वेगानिति मूत्रपुरीषवेगान्, ईरयेदित्युदीरयेत्। वेगित इतिसञ्जातमूत्रपुरीषादिवेगः॥१३॥

दशघापापकर्माणि कायवाह्मानसैस्त्यजेत्।
काले हितं मितं ब्रूयादविसंवादि पेशलम्॥१४॥

दशघापापकर्माणीति। उक्तञ्च—

“अदत्तानामुपादानं हिंसा चैवाविधानतः।परदारोपसेवा च कायिकं त्रिविधं स्मृतम्। पारुष्यमनृतञ्चैव पैशुन्यश्चापि सर्वशः। असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुष्टयम्।परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम्।वितथाभिनिवेशश्चमानसं त्रिविधं स्मृतम्” इति । अविसंवादीति न पूर्वापरविरुद्धम्, पेशलं मधुरम्, काल इति यथोचितसमये॥१४॥

आत्मवत् सततं पश्येदपि कीटपिपीलिकम्॥
आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥१५॥

आत्मन इत्यादी—

परेषां न समाचरेदिति परेषां प्रतिकूलानि अनिष्टानि नसमाचरेत्। कुतो न आचरेदित्याहआत्मन इत्यादि—

आत्मनः प्राणमृतामेव आत्मसम्बन्धादित्यर्थः। किंवा आत्मनो यानि प्रतिकूलानि अनिष्टानि तानि परेषा

मपि नाचरेदिति॥१५॥

नक्तन्दिनानि मे यान्ति कथम्भूतस्य सम्प्रति।
दुःखभाङ् न भवत्येवं नित्यं सन्निहितस्मृतिः॥१६॥

नक्तमित्यादि—कथम्भूतस्य कीदृशस्य मम पापं कुर्वतः पुण्यं कुर्वतो वा द्वयं

परिहरतो वा सम्प्रति नक्तं दिनानि यान्ति एवं नित्यं सन्निहितस्मृतिर्यः पुरुषोभवति स दुःखभाक् न स्यात्, यस्मादेवं सर्वदा स्मरन् पुरुषो दुःखहेतुतया दुष्कृतंत्यजति, सुखहेतुतया च सुकृतमन्विच्छति इत्यर्थः॥१६॥

इति दिनाचारविधि-विवृतिः।

ऋतुचर्य्या।

मासैर्द्विसंख्यैर्माघाद्यैः क्रमात् षडृतवः स्मृताः।
शिशिरश्च वसन्तश्च ग्रीष्म-वर्षा-शरद्धिमाः॥१७॥

पारिशेष्यादृतुचर्यारूपं सुस्थहितमाह मासैरित्यादि—

षडृतव इति शिशिरवसन्तग्रीष्मवर्षा शरद्धेमन्ता इत्यर्थः॥१७॥

वलिनः शीतसंरोधाद्धेमन्ते प्रबलोऽनलः।
सेवेतातो हिमे स्निग्धस्वाद्वम्ललवणान् रसान्॥
गोधूमपिष्टमापेक्षु-क्षीरोत्थविकृतीः सुराः।
नवमन्नं वसां तैलं शौचकार्ये सुस्रोदकम्॥
युक्त्यार्ककिरणान् स्वेदं पादत्राणञ्च सर्वदा।॥१८॥

यद्यपि शिशिरादिऋतुत्रयमुत्तरायणत्वेन प्रशस्तत्वादग्रेचोद्दिष्टं तथापि मलवृद्धिप्रकर्षत्वेन प्राशस्त्यात् प्रथमं हेमन्तविधिमाह वलिन इत्यादि —वलिन इत्यनेनप्राणिबलस्याग्निबलहेतुत्वं दर्शयति। उक्तंहि पालकाप्ये—‘अव्याहतादभिप्रायात् प्रीतः प्रीतेर्बलं वलात्। अग्निरग्नेश्चधातूनां नाश्यं नाशस्तततो रुजाम्” इति।किंवा वलिन इत्युपचयवतः। शीतसंरोधादिति कुम्भकारपयनपढलेपन्यायात् शीतेनबहिरनिर्गच्छच्छरीरोष्मणो रोधात्। रसानिति औदकानूरमांसरसान्। कीदृशान्?स्वाद्वम्ललवणद्रव्यसंस्कारात् स्वाद्वम्ललवणान्। उक्तंहि चरके—“तस्मात् तुषारसमये स्वाद्वम्ललवणान् रसान्। औदकानूपमांसानांमेध्यानामुपयोजयेत्” इति।माषस्थानेमांसेति पाठो वाग्भटपुस्तके नास्ति टीकायाञ्चन व्याख्यात इति॥१८॥

प्रावाराजिनकौपेय-प्रवेणीरौरवास्तृतम्।
उष्णस्वभावैर्लघुभिः प्रावृतः शयनं भजेत्॥
अङ्गारतापसन्तप्त-गर्भभूवेश्मनि प्रियाम्।
पीवरोरुस्तनश्रोणीमालिङ्ग्यागुरुचर्चिताम्॥१६॥

प्रावारेत्यादि—वाग्भटस्य।प्रावारोगुरुप्रावरणं कम्वलादि अन्ये तु प्रावारःकार्पासलोमवदुत्तरीयम्। अजिनं सुखस्पर्शलोमशं चर्म। कौषेयं क्रिमिकोषोद्भवस्त्रम्। प्रवेणी गोपी, अन्येतु प्रवेणी सूचीवरणाख्यो वस्त्रविशेष इत्याहुः। रौरवोवस्त्रभेद इति केचित्, अन्ये तु कार्पासवस्त्रमेवेत्याहुः, चरके रोरवेस्थाने कुथकेतिपठ्यते,“कुथकस्तु चित्रकम्बलः। उष्णस्वभावैर्लघुभिरिति नेपालकम्बलप्रचुर-तूलकपट्टादिभिः। किं कृत्वा शयनं भजेदित्याह अङ्गारेत्यादि—अङ्गारतापेन संतप्तं यत्

गर्भगृहं गृहकोष्ठकं तथा भूगृहञ्च। चरकेऽप्युक्तं—

“सेवेत भूगृहञ्जोष्णमुष्णं गर्भगृहंतथा” इति॥१६॥

अयमेव विधिः कार्य्यः शिशिरेऽपि विशेषतः।
तदा हि शीतमधिकं रौद्यञ्चादानकालजम्॥२०॥

उक्तविधिं शिशिरेऽतिदिशति अयमेवेत्यादि—अत्रैव हेतुमाह तदेत्यादि॥२०॥

कफश्चितो हि शिशिरे वसन्तेऽकौशुतापितः।
हत्वाग्निं कुरुते रोगांस्ततस्तत्र प्रयोजयेत्॥
तीक्ष्णं वमननस्यादि कवलग्रहमञ्जनम्।
व्यायामोद्वर्त्तनं धूमं शौचकार्ये सुखोदकम्॥
स्नातोऽनुलिप्तः कर्पूरचन्दनागुरुकुङ्कुमैः।
पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुक्॥
प्रपिवेदासवारिष्टसीधुमाध्वीकमाघवान्।
वसन्तेऽनुभवेत् स्त्रीणां काननानाञ्च यौवनम्॥
गुरुष्णस्निग्धमधुरं दिवास्वप्नञ्च वर्जयेत्॥२१॥

वसन्तविधिमाह कफ इत्यादि—शूल्यं भटित्रं शूलपाचितमित्यर्थः। आसवारिष्टं सुराकृतसन्धानम्, सीधु गुडासवः।माध्वीकं मधुकृतं मद्यम्, अरुणस्तुमाध्वीकेति पठित्वा मृद्वीकारसोद्भवं मद्यमिति व्याचष्टे। माधवो मधुरीकृत आसवः।अनुभवेदित्यनेन श्लेष्मक्षयार्थं स्तोकं मैथुनमनुजानति, वसन्तस्यादानमध्यत्वादितिभावः। गुर्वित्यादौ—अम्लस्थाने उष्णेत्यपपाठः॥२१॥

मयूखैर्जगतः स्नेहं ग्रीष्मे पेपीयते रविः।
स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम्॥
शीतं सशर्करं मन्थं जाङ्गलान् मृगपक्षिणः।
घृतं पयःसशाल्यन्नं भजन्ग्रीष्मे न सीदति॥
मद्यमल्पं न वा पेयमथवा सुबहूदकम्।
मध्याह्नेचन्दनार्द्राङ्गः स्वप्याद्धारागृहे निशि॥
निशाकरकराकीर्णंप्रवाते सौधमस्तके।
निवृत्तकामो व्यजनैः पाणिस्पर्शैः सचन्दनैः।
सेव्यमानो भजेतास्यां मुक्तामणिविभूषितः।
लवणाम्लकटूष्णानि व्यायामञ्चात्र वर्जयेत्॥२२॥

ग्रीष्मविधिमाह मयूखैरित्यादि—

मयूखैरितिकरणैःस्नेहःपेपीयतेअत्यर्थं पिबति। ग्रीष्मेऽम्लत्वादुष्णत्वाच्चमद्यं न पेयमित्युत्सर्गः। यद्यपि सात्म्यानान्तु—त्यागेन सात्म्यत्यागजा रोग भवन्ति अत्र किं प्रतिविधेयामित्याह अल्पं वा सुबहूदकं वा पेयमिति। मध्याह्न इत्यादि—धारागृह इति छेदः।निशीति परेण सम्बध्यते।वर्जनीयमाह लवणेत्यादि॥२२॥

भूबाष्पान्मेघनिष्यन्दात् पाकादम्लाज्जलस्व च।
वर्षास्वग्निबले क्षीणे कुप्यन्ति पवनादयः॥
भजेत् साधारणं सर्वमुष्मणस्तेजनञ्च यत्।
आस्थापनं शुद्धतनुजीर्णंधान्यं कृतान् रसान्॥
जाङ्गलं पिशितं यूपान् मध्वरिष्टं चिरन्तनम्।
दिव्यं कौप शृतं वाम्मो भोजनन्त्वतिदुर्दिने॥
व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु।
नदीजलोदमन्धाहःस्वमप्नायासातपांस्त्यजेत्॥२३॥

वर्षाविधिमाह भूबाष्पादित्यादि—भूबाष्पंप्रभावादेव दोषत्रयकोपनम्। अन्येतु पित्तस्य इत्याहुः। मेघनिष्यन्दः शैत्याद्वात-कफजनकः, अम्लापाकताच स्वभावतः पित्तकरी। अग्निबलेक्षीणइत्यनेन अग्निमान्द्यमपि त्रिदोषकोपनमिति दर्शयति।अग्निमान्द्यम् अपाकाम्लपाकाभ्यां कफपित्तकारिधातुपोषकरसानुत्पादनाच्चधातुक्षयंवातकारि। एतेन वर्षासु अग्निमान्द्येनवातादिकोपः, वातादिकोपेन च वह्निमान्द्यंदर्शितम्। उक्तं हि वाग्भटे—

“भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा। वह्निनैवच मन्देन तेषु” इत्यन्योन्यं दुष्यति। पवनादय इति पवनप्रधानाः। साधारणमितित्रिदोषघ्नमग्निसन्दीपनञ्च।आस्थापनं निरुहणम्,कृतान् रसानिति संस्कृतमांसरसान, मध्वरिष्टं मधुकृतमरिष्टं, चिरन्तनं पुरातनम्।दिव्यमित्याकाशजलम् भोजनमित्यादि परेण सम्बध्यते। संशुष्कमितिनातिद्रवम्। क्षौद्रवदिति मधुयुक्तम्। एतञ्चवार्षिकदेहक्लेशेशोधनार्थं ज्ञेयम्। वर्जनीयमाहनदीत्यादि—

उदकमन्धः उदकप्रधानोमन्थः, अहःस्वप्नःदिवास्वप्नः॥२३॥

वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः।
तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति॥
तज्जयाय घृतं तिक्तंविरेको रक्तमोक्षणम्।
तिक्तंस्वादु कषायञ्च क्षुधितोऽन्नं भजेल्लघु॥
इक्षवः शालयो मुद्गाःसरोऽम्भः क्वथितं पयः।
शरद्येतानि पथ्यानि प्रदोषे चेन्दुरसमयः॥

शास्त्रानिचबाल्यानिमनिस्संविमलानि च।
तुषारक्षारसौहित्य-दधितैलरसातपान॥
तीक्ष्णमद्यदिवास्वप्न-

+++++++पांस्त्यजेत्॥२४॥

शरद्विधिमाहवर्षेत्यादि—

उचितं समवेतम्, तच्चसमवाये इत्यस्य रूपम्। समवायोऽत्र सतताभ्यासरूपः सम्बन्धः, तेन शीतसमवेतज्ञानमित्यर्थः। सहसा

]