[[रसहृदयतन्त्रम् Source: EB]]
[
जयति स दैन्यगदाकुलमखिलमिदं पश्यतो जगद्यस्य ।
हृदयस्थैव गलित्वा जाता रसरूपिणी करुणा ॥ ङृह्त्_१.१ ॥
*टीका.. मुग्धावबोधिनींः
श्रीमन्महागणाधिपतये नमः ।
भवभयरक्षणदक्षं नत्वा मुग्धावबोधिनीं तनुते ।
रसहृदयसुप्रयुक्तां टीकामृजुभावगामाप्तः ॥ १.१ः१ ॥
गुणवारिधिकुरलकुले हरिहरमिश्रः प्रतीतमहिमाख्यः ।
तत्पुत्रो भुवि महितो महेश इति नामविख्यातः ॥ १.१ः२ ॥
तदन्वये भारतीभावसंयुतस्तदात्मजः प्रस्तुतवाग्भिरीश्वरः ।
चतुर्भुजो भावितभावमानसः स्वलोकजातस्य कुलानुभावतः ॥ १.१ः३ ॥
ज्येष्ठोऽभूद्भुवि पारिजातकतरुः खण्डेलवालान्वये तत्पुत्रः किल नाथबल्लवसुदः प्राणैर्यशोऽर्थान्वितः ।
तत्पुत्रेण च सावरेण पतिना बन्धस्य धर्मार्थिना गीर्वाणाशु रुगोञ्चजेन सततं तेनात्र यत्नः कृतः ॥ १.१ः४ ॥
इह शास्त्रारम्भे आचार्यश्रीमद्गोविन्दपादाः शिष्टसमयपरिपालनार्थे शास्त्रस्य देशयतो गुरुपादस्य भगवतो वस्तुनिर्देशरूपं मङ्गलमाचरन्ति जयतीत्यादि ॥ १.१ः५ ॥
मङ्गललक्षणं यथा आशीर्नमस्क्रिया वस्तुनिर्देशो मङ्गल इति ॥ १.१ः६ ॥
वस्तुनिर्देशः पञ्चधा यथास्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ॥ १.१ः७ ॥
आद्यं त्रयं ब्रह्मरूपं शक्तिरूपं ततो द्वयमिति ॥ १.१ः८ ॥
स हरो जयति सर्वोत्कर्षेण वर्तते ॥ १.१ः९ ॥
अखिलं जगत्पश्यत इति वस्तुनिर्देशाब्जयद्द्रष्टा ॥ १.१ः१० ॥
तथा च श्रुतिः अपाणिपादो जवनो ग्रहीता ॥ १.१ः११ ॥
पश्यत्यचक्षुः स शृणोत्यकर्णः ।
स वेत्ति वेद्यं न च तस्य वेत्ता तमाहुरग्र्यं पुरुषं पुराणमिति ॥ १.१ः१२ ॥
यस्य हृदयस्यैव रसरूपिणी करुणा घृणा जाता प्रादुर्भूता ॥ १.१ः१३ ॥
किंभूत्वा गलित्वाद्रवित्वा गलितस्य स्थानाच्च्युतिरिति युक्तम् ॥ १.१ः१४ ॥
एषा हृदयस्थैव ॥ १.१ः१५ ॥
एवाव्ययमन्यस्थाननिषेधवाचि ॥ १.१ः१६ ॥
रसरूपिणीति रसः पारदस्तत्स्वरूपं यस्याः सा ॥ १.१ः१७ ॥
तथा च वाक्यम् ।
रसो जलं रसो हर्षो रसः शृङ्गारपूर्वकः ।
स्वाद्वादिषु च निर्यासे पारदेऽपि रसो विषे ।
इत्यनेकार्थः ॥ १.१ः१८ ॥
सामान्यतस्तद्रूपं द्रवत्वं विशेषतो रसरूपं सर्वोपकारित्वम् ॥ १.१ः१९ ॥
तथा च वाक्यं रसरत्नाकरे ।
आजन्मपापकृतनिर्दहनैकवह्निर्दारिद्र्यदुःखगजवारणसिंहरूपः इति ॥ १.१ः२० ॥
किंभूतस्य हरस्य दैन्यगदाकुलं जगत्संसारं पश्यतः दैन्ययं च गदाश्च तैराकुलं व्याप्तं दैन्यं दीनभावो दारिद्र्यं गदा व्याधय इति ॥ १.१ः२१ ॥
अखिलमिति सर्वव्यापिपदम् ॥ १.१ः२२ ॥
यथा मञ्जर्या ।
यस्य रोगस्य यो योगस्तेनैव सह दापयेत् ।
रसेन्द्रो हरो रोगान्नरकुञ्जरवाजिनाम् ॥ १.१ः२३ ॥
इति ॥ १.१ः२४ ॥
अन्यन्मतं च ।
रसभस्म विना तत्र कथ्यते संहिताक्रमः ।
अनुक्तमपि विज्ञेयं तत्र तत्राङ्गशान्तये ॥ १.१ः२५ ॥
इति ॥ १.१ः२६ ॥
_________________________
ङृह्त्१.२
पीताम्बरोऽथ बलिजिन्नागक्षयबहलरागगरुडचरः ।
जयति स हरिरिव हरजो विदलितभवदैन्यदुःखभरः ॥ ङृह्त्_१.२ ॥
*टीका.. मुग्धावबोधिनींः
पीतेत्यादि ॥ १.२ः१ ॥
अनेन पद्येन कविर्हरजस्य हरेश्च समत्वं सूचयति ॥ १.२ः२ ॥
स पुराणकविवर्णितो हरजो जयति सर्वोत्कर्षेण वर्तते हरादीश्वराज्जातो हरजः ॥ १.२ः३ ॥
स उत्प्रेक्ष्यते हरिरिव विष्णुरिव ॥ १.२ः४ ॥
किंभूतो हरिः पीताम्बरः पीते अम्बरे वस्त्रे यस्य सः दुकूलयुग्मत्वात् ॥ १.२ः५ ॥
पुनः किम्भूतो बलिजित्बलिं बलिनामानं दैत्यविशेषं जयतीति तथोक्तः ॥ १.२ः६ ॥
पुनः किंभूतः नागक्षयेत्यादि नागानां शेषादीनां क्षयाय नाशाय बहलरागो बहुप्रीतो योऽसौ गरुडः खगेश्वरः तत्र चरति गच्छति तथोक्तः ॥ १.२ः७ ॥
पुनः किंविशिष्टः विदलितेत्यादिः विशेषणेन दलितो दूरीकृतो भवस्य संसारस्य दुःखभरो येन सः दैन्यं दारिद्र्यं दुःखं व्याधिरूपं तयोर्भरो बाहुल्यमिति ॥ १.२ः८ ॥
अधुना हरजं विशेषयति किंविशिष्टः पीताम्बरः पीताम्बरः पूर्वार्थः ॥ १.२ः९ ॥
कथं युक्तः तमर्थे स्पष्टयत्यनेन सूतराजेनापि चत्वारि वासांसि धृतानि विप्रादिवर्णभेदात् ॥ १.२ः१० ॥
रसरत्नाकरे यथा ।
श्वेतारुणहरिद्राभकृष्णा विप्रादिपारदाः इति ॥ १.२ः११ ॥
ब्राह्मणक्षत्रियवैश्यशूद्राः श्वेतरक्तपीतकृष्णवस्त्रधारिणो ज्ञातव्याः न त्वेषां स्वरूपमिति ॥ १.२ः१२ ॥
रसमञ्जर्या यथा ।
अन्तः सुनीलो बहिरुज्ज्वलो यो मध्याह्नसूर्यप्रतिमप्रकाशः इति ॥ १.२ः१३ ॥
अन्तः स्वरूपं बहिर्वासांसीति किंवदन्ती ॥ १.२ः१४ ॥
अथेति समुच्चये प्रसादः ॥ १.२ः१५ ॥
अथेति मङ्गलानन्तरारम्भप्रश्नकालस्वाधिकारप्रतिज्ञासमुच्चयेष्विति ॥ १.२ः१६ ॥
पुनः किंविशिष्टः बलिजित्बलीन् जयतीति बलिश्चर्म जराकृतम् ॥ १.२ः१७ ॥
इत्यनेकार्थः ॥ १.२ः१८ ॥
पुनः किंविशिष्टः नागक्षयेत्यादि ना पुंस्वरूपः पुनः किंविशिष्टः गम्यतेऽनेनेति गः पक्षयोर्गः गक्षये पक्षनाशे सति बहलरागो बहुरागवान् यः स रसः तेन गरुड इव चार्यते इति ॥ १.२ः१९ ॥
किं पारदः पक्षनाशे सति आकाशगमनं ददातीति तात्पर्यार्थः ॥ १.२ः२० ॥
रसरत्नाकरे यथा ।
हतो हन्ति जरामृत्युं मूर्छितो व्याधिघातकः ।
दत्ते च खे गतिं बद्धः कोऽन्यः सूतात्क्रियाकरः ॥ १.२ः२१ ॥
इति ॥ १.२ः२२ ॥
पुनः किंविशिष्टः विदलितेत्यादिः पूर्वार्थः करुणापरत्वेन दैन्यदुःखहारित्वं सूचयति ॥ १.२ः२३ ॥
____________________________________________________
ङृह्त्१.३
मूर्छित्वा हरति रुजं बन्धनमनुभूय मुक्तिदो भवति ।
अमरीकरोति सुमृतः कोऽन्यः करुणाकरः सूतात् ॥ ङृह्त्_१.३ ॥
*टीका.. मुग्धावबोधिनींः
यः पूर्वविशिष्टो हरजस्तस्मादन्यः करुणापरो दयावान् कः न कोऽपि यतो रुजं शरीरव्यथां हरति ॥ १.३ः१ ॥
किंभूत्वा मूर्छित्वा मूर्छितो भूत्वा ॥ १.३ः२ ॥
मूर्छितलक्षणं रसरत्नाकरे ।
कज्जलाभो यदा सूतो विहाय घनचापलम् ।
दृश्यतेऽसौ तदा ज्ञेयो मूर्छितः सूतराड्बुधैः ॥ १.३ः३ ॥
इति ॥ १.३ः४ ॥
पुनर्बन्धनमनुभूय धृत्वा मुक्तिदो भवति मुक्तिं ददातीति ॥ १.३ः५ ॥
मुक्तिश्चतुर्धा वर्णिता सालोक्यसारूप्यसामीप्यसायुज्यभेदात् ॥ १.३ः६ ॥
बन्धनं च मुख्यतया द्विविधमवान्तरव्यापारेण च चतुर्विधम् ॥ १.३ः७ ॥
अधुना द्विविधबन्धनोद्देशः निर्बीजबद्धो बीजबद्धश्च ॥ १.३ः८ ॥
निर्बीजबद्धो यथा रसमञ्जर्याम् ।
रसस्तु पादांशसुवर्णजीर्णः पिष्टीकृतो गन्धकयोगतश्च ।
तुल्यांशगन्धैः पुटितः क्रमेण निर्बीजनामाखिलरोगहर्ता ॥ १.३ः९ ॥
इति ॥ १.३ः१० ॥
पुनर्बीजबद्धो यथा ।
बीजीकृतैरभ्रसत्त्वहेमतारार्ककान्तैः सह साधितो यः ।
युतस्ततः षड्गुणगन्धचूर्णैः स बीजबद्धेऽप्यधिकप्रभावः ॥ १.३ः११ ॥
इति ॥ १.३ः१२ ॥
अवान्तरचतुर्विधबन्धोद्देशो यथा ।
पोटः खोटो जलौका च भस्मत्वं च चतुर्विधम् ।
बन्धश्चतुर्विधः सूते विज्ञेयो भिषगुत्तमैः ॥ १.३ः१३ ॥
इति ॥ १.३ः१४ ॥
तल्लक्षणं संकेतकलिकायाम् ।
पोटः पर्पटीबन्धः पिष्टीस्तम्भस्तु खोटकः ।
ध्मातो द्रुतो भवेत्खोटस्त्वाहतश्चूर्णतां व्रजेत् ॥ १.३ः१५ ॥
पुनर्ध्मातो द्रुतः खोट इति खोटस्य लक्षणम् ।
जलौका पाटबन्धश्च भस्म भस्मनिभं भवेत् ॥ १.३ः१६ ॥
इति ॥ १.३ः१७ ॥
पुनः सुमृतः सनमरीकरोतीति ॥ १.३ः१८ ॥
सुमृत इति सुः इति पूजायां यथा विदग्धमुखमण्डनबहिर्लापिकायाम् ।
पूजायां किं पदं प्रोक्तमस्तनं को बिभर्त्युरः ।
क आयुधतया ख्यातः प्रलम्बासुरविद्विषः ॥ १.३ः१९ ॥
सुनासीरः इति पूज्यः ॥ १.३ः२० ॥
मृत इति विशेषार्थः ॥ १.३ः२१ ॥
मृतो यथा ।
आर्द्रत्वं च घनत्वं च चापल्यं गुरुतैजसम् ।
यस्यैतानि न विद्यन्ते तं विद्यान्मृतसूतकम् ॥ १.३ः२२ ॥
इति ॥ १.३ः२३ ॥
पूज्य इति रसेन्द्रमङ्गले यथा ।
अबद्धसूतं तु हतं प्रमादात्करोति कष्टं प्रबलं रसेन्द्रः ॥ १.३ः२४ ॥
इति ॥ १.३ः२५ ॥
मूर्छनादिबन्धनपरम्परया यो मृतः स पूज्यो नान्यथा ॥ १.३ः२६ ॥
यथा च रसमञ्जर्याम् ।
अजीर्णं चाप्यबीजं च सूतकं यस्तु घातयेत् ।
ब्रह्महा स दुराचारी मम द्रोही महेश्वरि ॥ १.३ः२७ ॥
इति युक्तोऽयमर्थः ॥ १.३ः२८ ॥
करुणापरत्वं सतां स्वभाव इति ॥ १.३ः२९ ॥
यथा ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य इति ॥ १.३ः३० ॥
____________________________________________________
ङृह्त्१.४
सुरगुरुगोद्विजहिंसापापकलापोद्भवं किलासाध्यम् ।
तदपि च शमयति यस्मात्कोऽन्यस्तस्मात्पवित्रतरः ॥ ङृह्त्_१.४ ॥
*टीका.. मुग्धावबोधिनींः
सुरेत्यादि ॥ १.४ः१ ॥
तस्मात्सूतराजातन्यो द्वितीय पवित्रतर अतिशयेन पवित्रः कः किल श्रूयते न कोऽपि ॥ १.४ः२ ॥
यस्माद्धेतोः अपीति निश्चयेन असाध्यं रुजं शमयति सर्वरूपान्वितमसाध्यं दिव्यौषधिभिरपि कर्मविपाकेनापि साध्यते तच्च किंविशिष्टमसाध्यं सुरेत्यादिः सुराश्च गुरवश्च गावश्च द्विजाश्च तेषां या हिंसा हननमवमाननं वातादुत्पन्नो यः पापकलापो दुष्कृतपटल एतस्मादुद्भवतीति ॥ १.४ः३ ॥
____________________________________________________
ङृह्त्१.५
तस्य स्वयं हि स्फुरति प्रादुर्भावः स शांकरः कोऽपि ।
कथमन्यथा हि शमयति विलसन्मात्राच्च पापरुजम् ॥ ङृह्त्_१.५ ॥
*टीका.. मुग्धावबोधिनींः
तस्येत्यादि ॥ १.५ः१ ॥
कविनानेनानुमानेन लोकप्रतीतः क्रियते ॥ १.५ः२ ॥
यः पूर्वोक्तः सूतराजस्तस्य कोऽप्यनिर्वचनीयः स सर्वदेशीयत्वेन शांकरः प्रादुर्भावः शमयतीति दुःखमुपशमयतीति शं प्रसादः शं करोतीति शंकरः तस्यायं शांकरः दुःखोपशमायायं प्रादुर्भवतीति तात्पर्यार्थः ॥ १.५ः३ ॥
दुःखमाधिव्याध्यात्मकेन द्विविधं पुनराधिभौतिकाधिदैविकाध्यात्मिकभेदाच्च त्रिविधम् ॥ १.५ः४ ॥
स पुनरस्य सूतराजस्य स्वयं स्फुरति प्रकाशत इति ॥ १.५ः५ ॥
अन्यथा अन्यप्रकारेण शांकरप्रादुर्भावं विना पापरुजं कुष्ठं सुरगुरुगोद्विजहिंसापापकलापोद्भवं कथं शमयति ॥ १.५ः६ ॥
कुतः विलसन्मात्रात्दृष्टिगोचरत्वात् ॥ १.५ः७ ॥
रसेन्द्रमङ्गले यथा ।
शताश्वमेधेन कृतेन पुण्यं गोकोटिदानेन गजेन्द्रकोटिभिः ।
सुवर्णभूदानसमानधर्मे नरो लभेत्सूतकदर्शनेन इति ॥ १.५ः८ ॥
____________________________________________________
ङृह्त्१.६
रसबन्धश्च स धन्यः प्रारम्भे यस्य सततमिव करुणा ।
सिद्धे रसे करिष्ये महीमहं निर्जरामरणम् ॥ ङृह्त्_१.६ ॥
*टीका.. मुग्धावबोधिनींः
मूर्छितबद्धमृतस्यावस्थया त्रिविधं सूतराजस्य बन्धनं प्रशंसति कविः रस इत्यादि ॥ १.६ः१ ॥
भो जनाः रसबन्धः पारदबन्धनं धन्यः यस्य प्रारम्भे सततं निरन्तरं करुणा जायत इति शेषः ॥ १.६ः२ ॥
किंरूपा अहं गोविन्दनामा रसे सिद्धे सति सम्यग्बन्धनत्वं प्राप्ते सति महीं मेदिनीं निर्जरामरणं यथा तथा करिष्ये ॥ १.६ः३ ॥
अतिसामीप्याद्वर्तमान एव लट् ॥ १.६ः४ ॥
निर्जरामरणमिति क्रियाविशेषणम् ॥ १.६ः५ ॥
जरा पालित्यं मरणं प्राणत्याग आभ्यां रहितं यथा मह्यां जरामरणं न युक्तम् ॥ १.६ः६ ॥
अत्र महीपदेन महीमधिकृत्य निवसन्ति ये मनुजादयस्त एव लक्षणावृत्तित्वात् ॥ १.६ः७ ॥
पुना रसायनवशाज्जरानिषेधो भवेदिति युक्तम् ॥ १.६ः८ ॥
हितोपदेशे यथा ।
यज्जराव्याधिविध्वंसि भेषजं तद्रसायनम् ।
आद्ये वयसि मध्ये वा शुद्धकायः समाचरेद् ।
इति ॥ १.६ः९ ॥
मरणनिषेधः कथमौषधेन अन्यौषधिशक्तिह्रासतो न युक्तः रसेश्वरशक्त्याधिक्याद्युक्तः ॥ १.६ः१० ॥
रसरत्नाकरे यथा ।
मृत्योर्जराविषधरस्य च वैनतेय तुभ्यं नमामि सुरवन्दितसूतराज ।
इति ॥ १.६ः११ ॥
____________________________________________________
ङृह्त्१.७
ये चात्यक्तशरीरा हरगौरीसृष्टिजां तनुं प्राप्ताः ।
वन्द्यास्ते रससिद्धा मन्त्रगणाः किंकरा येषाम् ॥ ङृह्त्_१.७ ॥
*टीका.. मुग्धावबोधिनींः
जरामरणनिषेधत्वेन किमाधिक्यं तदाह य इत्यादि ॥ १.७ः१ ॥
ये एवंविधरससिद्धास्ते वन्द्या अभिवादनयोग्याः स्तुत्याश्च ॥ १.७ः२ ॥
वदि अभिवादनस्तुत्योः ॥ १.७ः३ ॥
किंविशिष्टा अत्यक्तशरीराः न त्यक्तं शरीरं यैस्ते जीवन्मुक्ता इत्यर्थः ॥ १.७ः४ ॥
शरीरं द्विविधं स्थूलसूक्ष्मभेदात्पृथिव्यप्तेजोवाय्वाकाशात्मकं स्थूलं कोशत्रयात्मकं सूक्ष्मम् ॥ १.७ः५ ॥
यथा सूत्रम् ।
विज्ञानमयं मनोमयं प्राणमयमेतत्कोशत्रयं मिलितं सूक्ष्मशरीरमुत्पद्यते ॥ १.७ः६ ॥
अन्ये एव सूक्ष्मशरीरम् ॥ १.७ः७ ॥
अत्यक्तशरीररससिद्धाश्च उच्यन्ते ।
मन्थानभैरवो योगी सिद्धबुद्धश्च कन्थडी ।
कोरण्टकः सुरानन्दः सिद्धपादश्च चर्पटी ॥ १.७ः८ ॥
कणेरी पूज्यपादश्च नित्यनाथो निरञ्जनः ।
कपाली बिन्दुनाथश्च काकचण्डीश्वरो गजः ॥ १.७ः९ ॥
आल्लमः प्रभुदेवश्च घोडाचोली च ठिण्ठिनी ।
भालुकिर्नागदेवश्च खण्डी कापालिकस्तथा ॥ १.७ः१० ॥
इत्यादयो महासिद्धा रसभोगप्रसादतः ।
खण्डयित्वा कालदण्डं त्रिलोक्यां विचरन्ति ते ॥ १.७ः११ ॥
इति ॥ १.७ः१२ ॥
पुनः किंविशिष्टाः तनुं प्राप्ताः शरीरं ग्रहीतारः ॥ १.७ः१३ ॥
किंविशिष्टां तनुं हरगौरीसृष्टिजां हरो महादेवः गौरी पार्वती तयोः सृष्टिः सर्जनं मैथुनसंयोगस्तज्जाता पुत्रा एवेत्यर्थः ॥ १.७ः१४ ॥
पुनर्येषां मन्त्रगणाः किंकराः मन्त्रसमूहा आज्ञाकरा इत्यर्थः ॥ १.७ः१५ ॥
____________________________________________________
ङृह्त्१.८-९
सुकृतफलं तावदिदं सुकुले यज्जन्म धीश्च तत्रापि ।
सापि च सकलमहीतलतुलनफला भूतलं च सुविधेयम् ॥ ङृह्त्_१.८ ॥
भूतलविधेयतायाः फलमर्थास्ते च विविधभोगफलाः ।
भोगाः सन्ति शरीरे तदनित्यमहो वृथा सकलम् ॥ ङृह्त्_१.९ ॥
*टीका.. मुग्धावबोधिनींः
तावदिति साकल्ये यावत्तावदित्येतौ साकल्यावधिमानवधारणेष्विति प्रसादतः ॥ १.८-९ः१ ॥
इदं सुकृतफलं सुविहितकर्मफलमिदं कियत्सुकृते शुभान्वये जन्म स्वतन्त्रा धीः स्वाधीनबुद्धिरित्यर्थः ॥ १.८-९ः२ ॥
अपीति निश्चयेन ॥ १.८-९ः३ ॥
सा बुद्धिः सकलमहीतलतुलनफला सकलस्य निरवशेषस्य महीतलस्य तुलनं फलं यस्याः सा तथोक्ता ॥ १.८-९ः४ ॥
तुलनमिति तुलया स्वतन्त्रबुद्धिरूपया सकलमहीतलस्य तुलनं भवत्येवेति युक्तं किमाकारा कियन्माना कैः श्रिता कैर्धृता च भूरिति ज्योतिषसिद्धान्तविधानाददृष्टान्ता भूर्बुद्ध्योपलक्ष्यते ॥ १.८-९ः५ ॥
पुनः सुकुलजन्मस्वतन्त्रबुद्धिभ्यां भूतलं सुविधेयं पूज्यं ज्ञातव्यम् ॥ १.८-९ः६ ॥
एकदेशग्रहणात्सर्वं ग्राह्यं महान्तस्तोका भूतलं बहु ईदृशा महान्तो यत्र तिष्ठन्ति तत्स्थानं पूज्यं वेत्तुमशक्यत्वात्सर्वमिति ॥ १.८-९ः७ ॥
सुकुलजन्मसम्बन्धो व्याख्यायते भूतलेत्यादि ॥ १.८-९ः८ ॥
भूतलविधेयतायाः भूतले पृथिवीमण्डले या विधेयता सर्वकर्मप्रवीणता तस्या अर्थाः कार्याणि कथंभूताः विविधभोगफलाः विविधाश्च ते भोगाश्च विविधभोगाः नानाभोगाः फलं येषां ते तथोक्ताः ॥ १.८-९ः९ ॥
ते फलं फलरूपाः ॥ १.८-९ः१० ॥
भोगाः शरीरे सन्ति भवन्ति ॥ १.८-९ः११ ॥
कुतः यतो वेदान्तसूत्रं प्रारब्धकर्मफलभोगायतनं शरीरमिति ॥ १.८-९ः१२ ॥
अत एव भोगानामाश्रयाः शरीरम् ॥ १.८-९ः१३ ॥
अहो इति कष्टे आश्चर्ये वा ॥ १.८-९ः१४ ॥
एतच्छरीरं तु सर्वोत्कृष्टमिति तात्पर्यार्थः ॥ १.८-९ः१५ ॥
सा मुक्तिः पिण्डपातने इति वचनात् ॥ १.८-९ः१६ ॥
____________________________________________________
ङृह्त्१.१०
इति धनशरीरभोगान्मत्वानित्यान् सदैव यतनीयम् ।
मुक्तौ सा च ज्ञानात्तच्चाभ्यासात्स च स्थिरे देहे ॥ ङृह्त्_१.१० ॥
*टीका.. मुग्धावबोधिनींः
सर्वसाधनं शरीरं मत्वाभिमतं दिशति भो जनाः सदा सर्वस्मिन् काले अहर्निशं यतनीयं किं कृत्वा धनशरीरभोगाननित्यान्नश्वरान्मत्वा यतनीयमिति ॥ १.१०ः१ ॥
किं यथा शरीरं नित्यस्थायि भवति शरीरे नित्ये सर्वं नित्यमित्यर्थः ॥ १.१०ः२ ॥
तस्य शरीरस्य नित्यस्य ज्ञानात्सर्वोत्कृष्टेनानेनैव शरीरं नित्यं भवेदित्यवबोधात्तस्यैवाभ्यासाच्च मुक्तिर्भवति ॥ १.१०ः३ ॥
क्व सति स्थिरे देहे सति ॥ १.१०ः४ ॥
मनसो धर्मैः शरीराश्रितैः षङ्किकारश्च देहास्थिरत्वमेतन्निषेधत्वं देहस्थिरत्वं मोक्षः ॥ १.१०ः५ ॥
तदेवाह रामं प्रति गुरोर्वचनम् ।
न मोक्षो नभसः पृष्ठे न पाताले न भूतले ।
सर्वाशासंक्षयश्चेतः शमो मोक्षमितीक्षते इति ॥ १.१०ः६ ॥
____________________________________________________
ङृह्त्१.११
तत्स्थैर्यं न समर्थं रसायनं किमपि मूललोहादि ।
स्वयमस्थिरस्वभावं दाह्यं क्लेद्यं च शोष्यं च ॥ ङृह्त्_१.११ ॥
*टीका.. मुग्धावबोधिनींः
तस्य देहस्य स्थैर्येण स्थिरभावेन कृत्वा रसायनं जराव्याधिनाशनं प्रति समर्थं कारकतरम् ॥ १.११ः१ ॥
अपीति निश्चयेन ॥ १.११ः२ ॥
किं सूतलोहादिः सूतः पारदः लोहाः स्वर्णादयो नवकाः कृत्रिमाकृत्रिमभेदयुक्ताः राजरीतिखर्परीघोषाः कृत्रिमाः स्वर्णतारताम्रनागवङ्गलोहा अकृत्रिमाः आदिशब्दान्महारसा उपरसाश्च ज्ञातव्याः ॥ १.११ः३ ॥
के त इमे रसावतारे यथा ।
हिङ्गूलताप्यविमलाचलसस्यकान्तवैक्रान्तपक्षिपतयश्च महारसाः स्युः ।
सौवीरगन्धकशिलालविरङ्गधातुकासीसकांक्ष्युपरसाः कथिता रसज्ञैः इति ॥ १.११ः४ ॥
अथवा स्थैर्येण समर्थे तत्देहं प्रति रसायनं किं सूतलोहादि ॥ १.११ः५ ॥
सूते यदभिव्याप्तं ग्रासमानेन लोहादि तत्तथोक्तं सूते इति अभिव्यापके ॥ १.११ः६ ॥
अधिकरणे सप्तमी ॥ १.११ः७ ॥
तद्देहं स्वयमस्थिरमस्थिरीभावत्वभावं पुनर्दाह्यं दग्धुं शक्यं पुनः क्लेद्यमार्द्रीभावेन शीर्णयितुं शक्यं पुनः शोध्यं शोषयितुमग्निजलानिलैः दाह्यं क्लेद्यं शोष्यं च शरीरमित्यर्थः ॥ १.११ः८ ॥
सूतलोहादिना देहमनित्यं नित्यं भवेतयमेव यत्न इति तात्पर्यार्थः ॥ १.११ः९ ॥
____________________________________________________
ङृह्त्१.१२-१३
<आउfल्”सुन्ग्ড়्fलन्शेन् -> अमरत्व>
काष्ठौषध्यो नागे नागं वङ्गे वङ्गमपि लीयते शुल्वे ।
शुल्वं तारे तारं कनके कनकं च लीयते सूते ॥ ङृह्त्_१.१२ ॥
परमात्मनीव नियतं लयो यत्र सर्वसत्त्वानाम् ।
एकोऽसौ रसराजः शरीरमजरामरं कुरुते ॥ ङृह्त्_१.१३ ॥
*टीका.. मुग्धावबोधिनींः
पूर्वश्लोके सूतलोहादिकमुक्तं तत्राधिव्यापकाधिकरणस्य क्रमं दर्शयति काष्ठौषध्य इत्यादि ॥ १.१२-१३ः१ ॥
काष्ठौषध्यः कुमारिकादयः नागे लीयन्ते तन्नागं वङ्गे लीयते तद्वङ्गमपि शुल्बे ताम्रे लीयते तच्छुल्बं तारे लीयते तत्तारं रूप्यं कनके सुवर्णे लीयते तत्कनकं सूते पारदे लीयते इति ॥ १.१२-१३ः२ ॥
कथं लीयते विधानत एकैकेन युक्तं समुदायेनापि च ॥ १.१२-१३ः३ ॥
धातूनामरिवर्गत्वान्महारसोपरसानामपि योगमपिशब्दाश्च ॥ १.१२-१३ः४ ॥
समुदायत्वेनोपवर्णयति परमात्मनीत्यादि ॥ १.१२-१३ः५ ॥
असौ एको धात्वाद्यन्तर्भूतो रसराजः शरीरमजरामरं जरामरणवर्जितं कुरुते ॥ १.१२-१३ः६ ॥
रसैर्महारसोपरसैरन्तर्भूतो राजते शोभते वा प्रकाशते इति रसराजः अथवा रसेषु महारसोपरसेषु अनादरीभूतेषु सत्सु राजत इति विशेषार्थः ॥ १.१२-१३ः७ ॥
तथा च सूत्रं षष्ठीसप्तम्यौ चानादरे इति अथवा रसानां महारसोपरसधातूनां राजा तेषु मुख्यत्वेनोपदिष्टः मुख्यत्वेनास्य ग्रहणमित्युपलक्षणम् ॥ १.१२-१३ः८ ॥
अनेनैव सर्वसंग्रहणं ज्ञातव्यम् ॥ १.१२-१३ः९ ॥
इवेति सादृश्ये ॥ १.१२-१३ः१० ॥
आत्मनि ब्रह्मणि नियतं निश्चितं सर्वसत्त्वानां सकलजीवानां लयो भवति लयोऽन्तर्भावः वा तस्मिन्सर्वे ॥ १.१२-१३ः११ ॥
सत्त्वा लीना एव तिष्ठन्तीत्यात्मानः तटस्थस्वरूपतैतल्लक्षणद्वयमुक्तम् ॥ १.१२-१३ः१२ ॥
तथा रसराजेऽपि दर्शयति काष्ठौषधीधातुमहारसोपरसादीनां लयो ज्ञेयः तटस्थलक्षणेन लयस्य क्रम उपदिष्टः ॥ १.१२-१३ः१३ ॥
स्वरूपलक्षणेनौषधीधातुमहारसोपरसादयः पृथक्त्वेन स्थिता अपि गुणैरन्तर्भूता एव ज्ञातव्याः यतः सर्वेषां गुणान्तर्भूतः सूतस्ततोऽनन्तगुण आचार्यैरुपवर्णितः ॥ १.१२-१३ः१४ ॥
लयविशेषादुभयोः साम्यमिति रहस्यम् ॥ १.१२-१३ः१५ ॥
____________________________________________________
ङृह्त्१.१४
अमृतत्वं हि भजन्ते हरमूर्तौ योगिनो यथा लीनाः ।
तद्वत्कवलितगगने रसराजे हेमलोहाद्याः ॥ ङृह्त्_१.१४ ॥
*टीका.. मुग्धावबोधिनींः
सर्वं समीकर्तुमाह अमृतत्वमित्यादि ॥ १.१४ः१ ॥
ते स्वात्मना आत्मना सह योगकर्तृका योगिनो यथा हरमूर्तौ महादेवशरीरे लीनाः सन्तः अमृतत्वं भजन्ते मुक्तत्वं प्राप्नुवन्ति ॥ १.१४ः२ ॥
मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतमित्यमरः ॥ १.१४ः३ ॥
तद्वत्तेनैव प्रकारेण रसराजे पारदे कवलितगगने ग्रासीकृताभ्रके सति हेमलोहाद्या लीनाः सन्त अमृतत्वं पीयूषभावं भजन्ते अमरीकरणयोग्या भवन्ति ॥ १.१४ः४ ॥
हेम च लोहश्च हेमलोहौ आद्यौ येषां वा हेमसंज्ञको लोह आद्यो येषां ते तथोक्ताः ॥ १.१४ः५ ॥
अभ्रके कवलिते सति चारणा स्यान्नान्यथेति ॥ १.१४ः६ ॥
____________________________________________________
ङृह्त्१.१५
स्थिरदेहोऽभ्यासवशात्प्राप्य ज्ञानं गुणाष्टकोपेतम् ।
प्राप्नोति ब्रह्मपदं न पुनर्भवावासदुःखेन ॥ ङृह्त्_१.१५ ॥
*टीका.. मुग्धावबोधिनींः
अधुना स्थिरदेहस्य फलं व्यनक्ति स्थिरेत्यादि ॥ १.१५ः१ ॥
पूर्वोक्तस्यैव रसराजस्याभ्यासात्सेवनाद्धेतोः स्थिरदेहः पुमान् ब्रह्मपदं प्राप्नोति ॥ १.१५ः२ ॥
ब्रह्मपदं परमानन्दस्वरूपम् ॥ १.१५ः३ ॥
किंकृत्वा ज्ञानं प्राप्य ॥ १.१५ः४ ॥
कीदृशं ज्ञानं गुणाष्टकोपेतमणिमाद्यष्टसिद्ध्युपेतम् ॥ १.१५ः५ ॥
कथं ब्रह्मपदं प्राप्नोति ॥ १.१५ः६ ॥
यथा पुनरप्रथमं भवावासदुःखे संसारनिवासनतापत्रयात्मककष्टे न पततीत्यर्थः ॥ १.१५ः७ ॥
ज्ञानं प्राप्य ब्रह्मपदं प्राप्नोति ॥ १.१५ः८ ॥
कथमृते ज्ञानान्न मुक्तिरिति ॥ १.१५ः९ ॥
अन्यच्च किं मोक्षतरोर्बीजं सम्यग्ज्ञानं क्रियासहितमिति प्रश्नोत्तररत्नमालायाम् ॥ १.१५ः१० ॥
____________________________________________________
ङृह्त्१.१६
एकांशेन जगन्ति च विष्टभ्यावस्थितं परं ज्योतिः ।
पादैस्त्रिभिस्तदमृतं सुलभं न विरक्तिमात्रेण ॥ ङृह्त्_१.१६ ॥
*टीका.. मुग्धावबोधिनींः
ज्ञानगम्यं ब्रह्मोपवर्णयत्येकांशेनेत्यादि ॥ १.१६ः१ ॥
किंविशिष्टं ब्रह्म परं ज्योतिः प्रकाशस्वरूपं तत्परं ज्योतिर्जगन्ति संसाराणि स्वर्गमृत्युपातालादीनि विष्टभ्य व्याप्य स्थितं केन एकांशेन अनेकब्रह्माण्डनायकत्वातेकैकस्मिन् ब्रह्माण्डे बहूनि संसाराणि वर्तन्ते अत एकांशेनेत्युक्तं पुनस्तत्परं ज्योतीरूपममृतं त्रिभिः पादैरभ्यासस्थिरदेहज्ञानसंज्ञकैः सुलभं सुखेन लभ्यमित्यर्थः ॥ १.१६ः२ ॥
प्रथममभ्यासोऽमृतसुलभत्वे ॥ १.१६ः३ ॥
हेतुरेकः स्थिरदेहश्च द्वितीयो हेतुर्ज्ञानं तृतीयहेतुर्मोक्षे यथावाक्यं न विरक्तिमात्रम् ॥ १.१६ः४ ॥
____________________________________________________
ङृह्त्१.१७
न हि देहेन कथंचिद्व्याधिजरामरणदुःखविधुरेण ।
क्षणभङ्गुरेण सूक्ष्मं तद्ब्रह्मोपासितुं शक्यम् ॥ ङृह्त्_१.१७ ॥
*टीका.. मुग्धावबोधिनींः
पूर्वापराभ्यामभ्यासज्ञानाभ्यां स्थिरदेहो हेतुर्गरीयानिति सूचयन्नाह नेत्यादि ॥ १.१७ः१ ॥
उभयोः साधकत्वात्तादृशदेहव्यतिरिक्तं कथंचिदपि किंचिन्न सिध्यतीत्यर्थः ॥ १.१७ः२ ॥
किंविशिष्टेन व्याधिजरामरणदुःखविधुरेण व्याधिरामयः जरा पालित्यं मरणं प्राणत्यागः दुःखं मोहशोकादिकमेतैर्विधुरं ताडितं व्यध ताडने इत्यस्य घातो रूपं विधुरमुरप्रत्ययान्तम् ॥ १.१७ः३ ॥
पुनः किंविशिष्टेन क्षणभङ्गुरेण क्षणविनाशिना देहेन तद्ब्रह्म चिद्घनानन्दस्वरूपमुपासितुं सेवितुं कथं केन प्रकारेण शक्यं कुतो यतः सूक्ष्ममिन्द्रियाग्राह्यत्वात् ॥ १.१७ः४ ॥
____________________________________________________
ङृह्त्१.१८
नामापि योगसिद्धेः को गृह्णीयाद्विना शरीरेण ।
यद्योगगम्यममलं मनसोऽपि न गोचरं तत्त्वम् ॥ ङृह्त्_१.१८ ॥
*टीका.. मुग्धावबोधिनींः
सर्वोपायेन शरीरं स्थिरं कार्यमित्याह नामेत्यादि ॥ १.१८ः१ ॥
देहसिद्धेः शरीरविभूतेः नामाप्यभिधानमपि को गृह्णीयान्न कोऽपीत्यर्थः ॥ १.१८ः२ ॥
केन विना शरीरेण शरीरमन्तरेण सिद्धिरस्तु परं तन्नाम केनापि न गृह्यते शरीरनामग्रहणमिति तात्पर्यार्थः ॥ १.१८ः३ ॥
अनश्वरं शरीरं भवतु चेत्तदमलं निरञ्जनं तत्त्वं ब्रह्मावश्यं प्राप्यते ॥ १.१८ः४ ॥
तत्तत्त्वं मनसोऽपि न गोचरं चित्तेनापि न गम्यमित्यर्थः ॥ १.१८ः५ ॥
तर्हि केन गम्यमुभयोर्मेलनमेकीकरणं योगस्तेनैव प्रकृतिपुरुषयोरेकीकरणेनेत्यर्थः ॥ १.१८ः६ ॥
____________________________________________________
ङृह्त्१.१९
यज्ञाद्दानात्तपसो वेदाध्ययनाद्दमात्सदाचारात् ।
अत्यन्तं श्रेयः किल योगवशादात्मसंवित्तिः ॥ ङृह्त्_१.१९ ॥
*टीका.. मुग्धावबोधिनींः
अधुना योगस्य सर्वकर्मभ्य उत्कृष्टत्वं दर्शयति यज्ञादित्यादि ॥ १.१९ः१ ॥
अत्यन्तं श्रेय इति अधिकतरकल्याणं सर्वोपद्रवनिवारणात्मकं भवेदित्यध्याहारः ॥ १.१९ः२ ॥
कुतः यज्ञादश्वमेधादेः न केवलं यज्ञात्पुनर्दानात्धनस्यार्पणात्पात्रेषु पुनस्तपसः कृच्छ्रातिकृच्छ्रचान्द्रायपसंचाग्नितपनादेः पुनर्वेदाध्ययनात्वेदानामृग्यजुःसामाथर्वणामध्ययनं पाठाक्रमस्ततः पुनर्दमात्वेदान्तानुसारेण दमस्तावत्बाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो मनसा निर्वर्तनं तद्व्यतिरिक्तं श्रवणादिव्यतिरिक्तं ततः पुनः सदाचारात्ब्राह्ममुहूर्तमारभ्य प्रातःसंगवमध्याह्नापराह्णसायाह्नादिषु शयनपर्यन्तं वेदबोधितो विधिः सदाचारस्तत इति समुदायः श्रेयस्करो नात्मसंवित्तिकरः पुनरात्मसंवित्तिः ब्रह्मवेदनं योगवशादेव स्यात्योगः पूर्वमुक्तः ॥ १.१९ः३ ॥
____________________________________________________
ङृह्त्१.२०
गलितानल्पविकल्पसर्वार्थविवर्जितश्चिदानन्दः ।
स्फुरितोऽप्यस्फुरिततनोः करोति किं जन्तुवर्गस्य ॥ ङृह्त्_१.२० ॥
*टीका.. मुग्धावबोधिनींः
यस्य जीवस्य योगवशात्संवित्तिर्जाता स कीदृश इत्याह गलितेत्यादि ॥ १.२०ः१ ॥
गलितानल्पविकल्प इति गलितो दूरीभूतोऽनल्पो बहुतरो विकल्पो मिथ्याज्ञानं यस्य ईदृक्स्यात् ॥ १.२०ः२ ॥
पुनः कीदृक्सर्वार्थविवर्जितः सर्वे च ते अर्थाश्च तैर्विवर्जिताः सम्यग्रहितो भवति कार्याणां स्मरणकरणयोरभाव इत्यर्थः ॥ १.२०ः३ ॥
पुनः कथंभूतः चिदानन्दश्चिदा प्रकाशेन आनन्दः सुखसम्पत्तिर्यस्य स तथोक्तः ॥ १.२०ः४ ॥
प्रकाशहेतुना आनन्दता भवेत्जडहेतुना तद्विपर्ययः ॥ १.२०ः५ ॥
ईदृक्सः स्फुरितोऽपि प्रकाशमानोऽपि अस्फुरिततनोर्जन्तुवर्गस्य अप्रकाशशरीरस्य जीवसमूहस्य किं करोति पृच्छां करोति ॥ १.२०ः६ ॥
किमिति पृच्छाजुगुप्सयोः इति प्रसादः ॥ १.२०ः७ ॥
पृच्छति च हसति च रोदिति प्रमत्तवन्मानवोऽपि तल्लीन इति ॥ १.२०ः८ ॥
____________________________________________________
ङृह्त्१.२१
भ्रूयुगमध्यगतं यच्छिखिविद्युन्निर्मलं जगद्भासि ।
केषांचित्पुण्यकृतामुन्मीलति चिन्मयं ज्योतिः ॥ ङृह्त्_१.२१ ॥
*टीका.. मुग्धावबोधिनींः
आत्मसंवित्तेर्विरलत्वं सूचयन्नाह भ्रूयुगेत्यादि ॥ १.२१ः१ ॥
यत्भ्रूयुगमध्यगतं भ्रूद्वयान्तर्गतं सत्प्रकाशते तत्र दृष्टिं निधाय योगिनः पश्यन्ति खेचर्या मुद्रया हठप्रदीपिकायां पद्यम् ।
कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ।
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ १.२१ः२ ॥
इति ॥ १.२१ः३ ॥
पुनः शिखिविद्युत्सु वह्निसौदामिनीषु निर्मलं सत्यत्प्रकाशते पुनर्यत्जगद्भासि जगत्संसारं प्रकाशते तत्चिन्मयं प्रकाशप्रचुरं ज्योतिः केषांचित्पुण्यकृतां सुविहितकर्मकर्त्ःणामुन्मीलति प्रादुर्भवति न तु सर्वेषां यतो निर्मलं प्रकाशं ध्यात्वा विपुलपुण्येन निर्मलत्वाय जायते अतः प्रकाशो युक्तः ॥ १.२१ः४ ॥
____________________________________________________
ङृह्त्१.२२
परमानन्दैकमयं परमं ज्योतिःस्वभावमविकल्पम् ।
विगलितसर्वक्लेशं ज्ञेयं शान्तं स्वयंसंवेद्यम् ॥ ङृह्त्_१.२२ ॥
*टीका.. मुग्धावबोधिनींः
पूर्ववर्णितं चिन्मयं विशेषयन्नाह परमानन्दैकमयमित्यादि ॥ १.२२ः१ ॥
तद्ब्रह्म ईदृशं ज्ञेयं परमानन्दैकमयमिति परम उत्कृष्टोऽसावानन्दः परमानन्दः स एव एकोऽद्वितीयस्तात्प्राचुर्यं यस्मिंस्तथोक्तं पुनः किंविशिष्टं परमं ज्योतिःस्वभावं परमं यज्ज्योतिः तत्स्वभावः स्वरूपं यस्य तदशरीरत्वात्स्वप्रकाशित्वाच्च पुनः अविकल्पं मिथ्याज्ञानशून्यं पुनर्विगलितसर्वक्लेशं विगलिता विशेषेण दूरीकृताः सर्वक्लेशाः दुःखानि यस्मात्तत्स्वरूपत्वात्पुनः शान्तं शममयं पुनः स्वयंवेद्यमन्येन वेदितुमशक्यमात्मनैव वेद्यं तस्मान्नापरोऽस्तीति भावात् ॥ १.२२ः२ ॥
____________________________________________________
ङृह्त्१.२३
तस्मिन्नाधाय मनः स्फुरदखिलं जगत्पश्यन् ।
उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव चाप्नोति ॥ ङृह्त्_१.२३ ॥
*टीका.. मुग्धावबोधिनींः
ज्ञेयोपदेशमाह तस्मिन्नित्यादि ॥ १.२३ः१ ॥
तस्मिन्नाधायेति पूर्वनिरूपिते तस्मिन्नेवात्मनि मन आधाय संस्थाप्य पुमानुत्सन्नकर्मबन्धो भवेत्त्यक्तकर्मपाशः स्यात् ॥ १.२३ः२ ॥
स इहैव जन्मनि ब्रह्मत्वं प्राप्नोतीति विशेषः ब्रह्मविद्ब्रह्मैव भवति इति श्रुतेः ॥ १.२३ः३ ॥
स पुमान्मन आदधाति ॥ १.२३ः४ ॥
किं कुर्वन् सनखिलं जगत्सर्वसंसारं चिन्मयं प्रकाशस्वरूपं चिद्विकारं पश्यनवलोकमानो मनश्चक्षुषा किंविशिष्टं जगत्स्फुरतध्यारोपापदेशेन देदीप्यमानम् ॥ १.२३ः५ ॥
तथा च भगवद्वचनम् ।
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १.२३ः६ ॥
इति ॥ १.२३ः७ ॥
हे पार्थ स पुमान्मनुष्येषु बुद्धिमान् ॥ १.२३ः८ ॥
अनेन सामान्यत्वमुक्तम् ॥ १.२३ः९ ॥
विशेषश्च यथा रज्जौ सर्पभ्रमो यथा शुक्तौ रजतज्ञानं यथा गन्धर्वनगरं यथा मरुस्थले वारि तथैव संसारो नासीत्नास्ति न भविष्यतीति अद्वैतवादान्मिथ्यैव ॥ १.२३ः१० ॥
____________________________________________________
ङृह्त्१.२४
अस्तं हि यान्ति विषयाः प्राणान्तःकरणसंयोगात् ।
स्फुरणं नेन्द्रियतमसां नातः स्फुरतश्च दुःखसुखे ॥ ङृह्त्_१.२४ ॥
*टीका.. मुग्धावबोधिनींः
उत्सन्नकर्मबन्धस्य विषया अस्तं यान्ति ॥ १.२४ः१ ॥
प्राणान्तःकरणसंयोगात्न इन्द्रियाणां स्फुरणं भवेत् ॥ १.२४ः२ ॥
तथा च न्यायशास्त्रे आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेनेतीन्द्रियाणां वस्तुप्राप्यप्रकाशकारित्वनियमादिति ॥ १.२४ः३ ॥
अतो हेतोश्च दुःखसुखे न स्फुरतः ॥ १.२४ः४ ॥
आत्मनः प्रकाशात्प्राणान्तःकरणानां प्रकाशः प्राणान्तःकरणानि तमेव प्रकाशं प्राप्येन्द्रियाणि प्रकाशयन्ति ॥ १.२४ः५ ॥
अत उभयोः परप्रकाशः ॥ १.२४ः६ ॥
तद्वद्गहनतम अग्राह्यमन्धकारं चिद्भिन्नं प्रकाशेन प्रकाशितं स्यादिति ॥ १.२४ः७ ॥
अभावपदार्थत्वादिन्द्रियतमसोर्जडत्वात्साम्यम् ॥ १.२४ः८ ॥
____________________________________________________
ङृह्त्१.२५
रागद्वेषविमुक्ताः सत्याचारा नरा मृषारहिताः ।
सर्वत्र निर्विशेषा भवन्ति चिद्ब्रह्मसंस्पर्शात् ॥ ङृह्त्_१.२५ ॥
*टीका.. मुग्धावबोधिनींः
अधुना अन्तःकरणानां प्रवृत्तिं दर्शयति रागेत्यादि चिद्ब्रह्मसंस्पर्शादिति चिद्ब्रह्मणि प्रकाशस्वरूपे आत्मनि यः स्पर्शः तन्निष्ठा ततो हेतोः पुरुषा रागद्वेषवियुक्ताः स्नेहशत्रुत्वविरहिताः स्युः ॥ १.२५ः१ ॥
पुनः सत्यः आचारः प्रवृत्तिधर्मो येषां ते पुनर्मृषारहिताः अत्याचाराद्यसत्यवर्जिता इत्यर्थः पुनः सर्वत्र निर्विशेषाः सर्वस्मिन्मानापमानयोः समाः तथा च भगवद्वचनम् ।
समः शत्रौ च मित्रे च तथा मानापमानयोः ॥ १.२५ः२ ॥
इत्यादि ॥ १.२५ः३ ॥
____________________________________________________
ङृह्त्१.२६
तिष्ठन्त्यणिमादियुता विलसद्देहा मुदा सदानन्दाः ।
ये ब्रह्मभावममृतं सम्प्राप्ताश्चैव कृतकृत्याः ॥ ङृह्त्_१.२६ ॥
*टीका.. मुग्धावबोधिनींः
आत्मनि स्पर्शत्वमुक्तिप्राप्तिं दर्शयन्नाह तिष्ठन्तीत्यादि ॥ १.२६ः१ ॥
ये ब्रह्मभावममृतं मुक्तिसारूप्यत्वं प्राप्तास्ते कृतकृत्याः कृतसर्वकार्याः पूर्णतां प्राप्ता इत्यर्थः पुनस्ते अणिमादियुता अणिमादिभिर्युता इह जगति तिष्ठन्तीति अणिमादयो यथा ।
अणिमा महिमा चाथ लघिमा गरिमा तथा ।
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टभूतयः ॥ १.२६ः२ ॥
इति ॥ १.२६ः३ ॥
पुनर्विलसद्देहाः तेजःप्रायशरीराः पुनः सदानन्दाः केन मुदा हर्षेण सदा सर्वस्मिन्काले आनन्दो येषां ते तथोक्ताः परमानन्दे मग्नत्वात् ॥ १.२६ः४ ॥
____________________________________________________
ङृह्त्१.२७
आयतनं विद्यानां मूलं धर्मार्थकाममोक्षाणाम् ।
श्रेयः परं किमन्यत्शरीरमजरामरं विहायैकम् ॥ ङृह्त्_१.२७ ॥
*टीका.. मुग्धावबोधिनींः
शरीरमूलं सर्वे ज्ञातव्यमित्याहायतनमित्यादि ॥ १.२७ः१ ॥
एकमजरामरं जरामरणवर्जितं शरीरं विहाय त्यक्त्वा अन्यत्परमुत्कृष्टं श्रेयः कल्याणस्वरूपं किं न किमपीत्यर्थः ॥ १.२७ः२ ॥
किंविशिष्टं शरीरमायतनं विद्यानां व्याकरणादिचतुर्दशसंख्याकाङ्गानां निवासस्थानं पुनः किंविशिष्टं मूलं धर्मार्थकाममोक्षाणां चतुर्णां पदार्थानां मूलं हेतुः धर्मादयश्चत्वारः प्रतीता एव ॥ १.२७ः३ ॥
____________________________________________________
ङृह्त्१.२८
प्रमाणतोऽपि प्रत्यक्षाद्यो न जानाति सूतकम् ।
अदृष्टविग्रहं देवं कथं ज्ञास्यति चिन्मयम् ॥ ङृह्त्_१.२८ ॥
*टीका.. मुग्धावबोधिनींः
आत्मनोऽवेक्षया सूते सुगमत्वं सूचयन्नाह प्रमाणत इत्यादि ॥ १.२८ः१ ॥
यः पुरुषः सूतकं रसेन्द्रं न जानाति कुतः प्रमाणतः प्रमाकरणं प्रमाणं प्रमितिसाधनं वा ततः किम्भूतात्प्रमाणतः प्रत्यक्षाच्चक्षुरिन्द्रियग्राह्यरूपात्स पुमान् चिन्मयमतिसूक्ष्ममात्मानं कथं ज्ञास्यति न कथमपीत्यर्थः इन्द्रियागोचरत्वात् ॥ १.२८ः२ ॥
किंविशिष्टमनादिविग्रहमादिश्च विग्रहं च आदिविग्रहे ते न विद्येते यत्र सः तमुत्पत्तिशरीरयोरभावात्स्थूलज्ञानाभाव इति तात्पर्यार्थः ॥ १.२८ः३ ॥
____________________________________________________
ङृह्त्१.२९-३०
यज्जरया जर्जरितं कासश्वासादिदुःखवशमाप्तम् ।
योग्यं तन्न समाधौ प्रतिहतबुद्धीन्द्रियप्रसरम् ॥ ङृह्त्_१.२९ ॥
बालः षोडशवर्षो विषयरसास्वादलम्पटः परतः ।
जातविवेको वृद्धो मर्त्यः कथमाप्नुयान्मुक्तिम् ॥ ङृह्त्_१.३० ॥
*टीका.. मुग्धावबोधिनींः
शरीरस्य वयोविभागेनास्थिरत्वं दर्शयन्नाह बाल इत्यादि ॥ १.२९-३०ः१ ॥
षोडशवर्ष इति षोडश वर्षाणि यस्य वयसि स षोडशाब्दो बाल इत्यर्थः ॥ १.२९-३०ः२ ॥
ग्रन्थान्तरे बालत्वेऽपि वयोभेदा वर्तन्ते ॥ १.२९-३०ः३ ॥
यथा पद्यम् ।
आ पञ्चमाच्च कौमारः पौगण्डो नवहायनः ।
आ षोडशाच्च किशोरो यौवनं च ततः परम् ॥ १.२९-३०ः४ ॥
इति ॥ १.२९-३०ः५ ॥
बालो वस्तुज्ञाने अशक्तः ॥ १.२९-३०ः६ ॥
पुनः षोडशवर्षेभ्यः परः विषयरसास्वादलम्पटो भवति विषयाः शब्दस्पर्शरूपरसगन्धा रसाः शृङ्गारहास्यकरुणरौद्रवीरभयानकबीभत्साद्भुतशान्ताः ॥ १.२९-३०ः७ ॥
केचित्शान्तं रसं न ब्रुवन्ति निर्विकारत्वातेतेषामास्वादः स्वादस्तत्र लम्पटो व्यासक्तः अथ वा विषयानन्तरं स्नेहस्तत्रेति ॥ १.२९-३०ः८ ॥
अतः परतो जातविवेको भवति उत्पन्नविचारो भवति ॥ १.२९-३०ः९ ॥
तदा वृद्धोऽक्षमः परं मनुष्यः मुक्तिं कैवल्यं कथमाप्नुयात्न कथमपीत्यर्थो वयस्युपप्लवभावात् ॥ १.२९-३०ः१० ॥
____________________________________________________
ङृह्त्१.३१
अस्मिन्नेव शरीरे येषां परमात्मनो न संवेदः ।
देहत्यागादूर्ध्वं तेषां तद्ब्रह्म दूरतरम् ॥ ङृह्त्_१.३१ ॥
*टीका.. मुग्धावबोधिनींः
पूर्वपद्याभिप्रायं विचार्य मुक्तिप्राप्तौ प्रशङ्कितः प्राहास्मिन्नित्यादि ॥ १.३१ः१ ॥
अस्मिन् शरीरे वर्तमाने क्षेत्ररूपे येषां पुंसामात्मसंवेदो न जातः ब्रह्मज्ञानं न जातं तेषां पुंसामेव देहत्यागादूर्ध्वं शरीरोत्सर्गतः पश्चात्तद्ब्रह्म दूरतरं दूराद्दूरतरमित्यर्थः ॥ १.३१ः२ ॥
____________________________________________________
ङृह्त्१.३२
ब्रह्मादयो यजन्ते यस्मिन् दिव्यां तनुं समाश्रित्य ।
जीवन्मुक्ताश्चान्ये कल्पान्तस्थायिनो मुनयः ॥ ङृह्त्_१.३२ ॥
*टीका.. मुग्धावबोधिनींः
अधुना पूर्वमतं द्रढयति ब्रह्मादय इत्यादि ॥ १.३२ः१ ॥
यस्मिन् ब्रह्मादयो विष्णुरुद्रेन्द्रादयो ब्रह्मविदो यजन्ते संगतिं कुर्वन्ति समाप्नुवन्तीत्यर्थः यज देवपूजासंगतिकरणदानेषु अत्र संगतिकरणमर्थो दर्शितः ॥ १.३२ः२ ॥
किं कृत्वा प्राप्नुवन्ति दिव्यां तनुं परमां समाश्रित्य सम्प्राप्य तेभ्यो ब्रह्मादिभ्योऽप्यन्ये अपरे मुनयो नारदादयो जीवन्मुक्ता यजन्ते संगतिं कुर्वन्ति ॥ १.३२ः३ ॥
तेऽपि किंविशिष्टाः कल्पान्तस्थायिनः प्रलयान्तेऽपि तिष्ठन्तीति भावः ॥ १.३२ः४ ॥
ब्रह्मादयस्तिष्ठन्त एव ॥ १.३२ः५ ॥
____________________________________________________
ङृह्त्१.३३
तस्माज्जीवन्मुक्तिं समीहमानेन योगिना प्रथमम् ।
दिव्या तनुर्विधेया हरगौरीसृष्टिसंयोगात् ॥ ङृह्त्_१.३३ ॥
*टीका.. मुग्धावबोधिनींः
इति बहुधा विचार्येष्टवस्तुस्तुतिमाह तस्मादित्यादि ॥ १.३३ः१ ॥
यतो ब्रह्मादयो जीवन्मुक्ताश्चान्ये दिव्यां तनुं विधाय मुक्तिं प्राप्तास्तस्माद्धेतोर्योगिना योगयुक्तेन प्रथमं दिव्या तनुर्विधेया दृढशरीरं कार्यमित्यर्थः ॥ १.३३ः२ ॥
किंविशिष्टेन योगिना जीवन्मुक्तिं समीहमानेन योगिना दिव्या तनुर्विधेया ॥ १.३३ः३ ॥
कुतः हरगौरीसृष्टिसंयोगात् ॥ १.३३ः४ ॥
उमेश्वरसृष्टो रसेन्द्रस्तस्य सेवनादित्यर्थः ॥ १.३३ः५ ॥
दृढशरीरेण वाञ्छितं साध्यते न त्वन्यथा ॥ १.३३ः६ ॥
____________________________________________________
ङृह्त्१.३४
तस्यापि साधनविधौ सुधिया प्रतिकर्मनिर्मलाः प्रथमम् ।
अष्टादशसंस्कारा विज्ञातव्याः प्रयत्नेन ॥ ङृह्त्_१.३४ ॥
*टीका.. मुग्धावबोधिनींः
दिव्यतनोर्हेतुत्वाद्रसेन्द्रस्य साधनविधौ साधनोपदेशे सुधिया पूज्यमतिना पुंसा प्रथममष्टादशसंस्काराः प्रयत्नेन ज्ञातव्याः ॥ १.३४ः१ ॥
संस्क्रियन्त इति संस्काराः ॥ १.३४ः२ ॥
पुंस्यपि गर्भाधानादयः षोडश संस्कारा वर्तन्ते अत एव संस्कारैरुभयोः साम्यं दोषाभावत्वं गुणवत्त्वं च स्यात् ॥ १.३४ः३ ॥
अतो ब्राह्मणक्षत्रियवैश्यशूद्राः स्युः ॥ १.३४ः४ ॥
किंविशिष्टाः संस्काराः प्रतिकर्मनिर्मलाः कर्म कर्म प्रति निर्दोषाः ॥ १.३४ः५ ॥
____________________________________________________
ङृह्त्२.१-२
<१८ संस्कारस्>
स्वेदनमर्दनमूर्छोत्थापनपातननिरोधनियमाश्च ।
दीपनगगनग्रासप्रमाणमथ चारणविधानं च ॥ ङृह्त्_२.१ ॥
गर्भद्रुतिबाह्यद्रुतिजारणरसरागसारणं चैव ।
क्रामणवेधौ भक्षणमष्टादशधेति रसकर्म ॥ ङृह्त्_२.२ ॥
*टीका.. मुग्धावबोधिनींः
यस्योपजीव्यते कीर्तिः सङ्गमेव सुधाभुजाम् ।
स श्रीमान् कारयामास वृत्तिं मुग्धावबोधिनीम् ॥ २.१-२ः१ ॥
आर्याद्वयेन रसाष्टादशसंस्कारोद्देशः कृतः ॥ २.१-२ः२ ॥
____________________________________________________
ङृह्त्२.३
<१. स्वेदन>
आसुरीपटुकटुकत्रयचित्रार्द्रकमूलकैः कलांशैस्तु ।
सूतस्य काञ्जिकेन त्रिदिनं मृदुवह्निना स्वेदः ॥ ङृह्त्_२.३ ॥
*टीका.. मुग्धावबोधिनींः
अधुना संस्काराणां साधने लक्षणमाह ॥ २.३ः१ ॥
तत्र प्रथमोद्दिष्टस्य स्वेदनसंस्कारस्य साधनं स्पष्टयन्नाह आसुरीत्यादि ॥ २.३ः२ ॥
सूतस्य पारदस्य त्रिदिनं दिनत्रयपरिमाणं यथा स्यात्तथा मृदुवह्निना स्वल्पाग्निना स्वेदः स्वेदनं कार्यम् ॥ २.३ः३ ॥
केन काञ्जिकेन सौवीरेण ॥ २.३ः४ ॥
कैः सह आसुरीपटुकटुकत्रयचित्रार्द्रकमूलकैः सह ॥ २.३ः५ ॥
आसुरी राजिका पटु सैन्धवं लवणविशेषः केचित्पटुशब्देन क्षारमपि व्याचक्षते कटुकत्रयं शुण्ठीमरिचपिप्पल्यः चित्रकं प्रतीतमार्द्रकं कन्दविशेषो नागरहेतुः मूलकं कन्दविशेषः प्रसिद्धः ॥ २.३ः६ ॥
किंविशिष्टैरेतैः कलांशैः षोडशांशैः षोडशांशः प्रत्येकं संयुज्यते ॥ २.३ः७ ॥
सर्वसंमतमिदं व्याख्यानाम् ॥ २.३ः८ ॥
अत्र विशेषः काञ्जिके सर्वधान्याम्लसंधानं तुषवर्ज्ये तु कारयेत् ॥ २.३ः९ ॥
उरगा त्रिफला क्रान्ता लघुपर्णी शतावरी ॥ २.३ः१० ॥
तेन युक्तं रसस्विन्नं त्रिदिनं मृदुवह्निना ॥ २.३ः११ ॥
दोलायन्त्रेण तीव्रेण मर्दयित्वा पुनः पुनः ।
इति रसेन्द्रमङ्गलात् ॥ २.३ः१२ ॥
क्षाराम्लैरोषधैर्वापि दोलायन्त्रे स्थितस्य हि ।
पाचनं स्वेदनाख्यं स्यान्मलशैथिल्यकारकम् ।
इति परिभाषा ॥ २.३ः१३ ॥
द्रवद्रव्येण भाण्डस्य पूरितार्धोदरस्य च ।
मुखस्योभयतो द्वारद्वयं कृत्वा प्रयत्नतः ॥ २.३ः१४ ॥
तस्योपरि क्षिपेद्दण्डं तन्मध्ये रसपोटलीम् ।
बद्ध्वा तु स्वेदयेदेतद्दोलायन्त्रमिति स्मृतम् ।
इति दोलायन्त्रलक्षणम् ॥ २.३ः१५ ॥
____________________________________________________
ङृह्त्२.४
<२. मर्दन>
गुडदग्धोर्णालवणैर्मन्दिरधूमेष्टकासुरीसहितैः ।
रसषोडशांशमानैः सकाञ्जिकैर्मर्दनं त्रिदिनम् ॥ ङृह्त्_२.४ ॥
*टीका.. मुग्धावबोधिनींः
द्वितीयोद्दिष्टस्य मर्दनस्य साधनं स्पष्टयन्नाह गुडेत्यादि ॥ २.४ः१ ॥
एतैरौषधैर्दिनत्रयं परिमाणं रसस्य मर्दनं कार्यम् ॥ २.४ः२ ॥
एतैः कैः गुडदग्धोर्णालवणैः गुड इक्षुविकारः प्रसिद्धः दग्धोर्णा दग्धा चासौ ऊर्णा चेति समासः ऊर्णा प्रतीता मेषरोमनिचयमित्यर्थः लवणं सैन्धवमेकं गुडदग्धोर्णारजनी इति वा पाठः तत्र हरिद्रा ग्राह्या न सैन्धवम् ॥ २.४ः३ ॥
रसषोडशांशमानैः रसात्षोडशांशप्रमाणैः ॥ २.४ः४ ॥
अंश इत्यस्य प्रत्येकं सम्बन्धः ॥ २.४ः५ ॥
विशेषश्चात्र वस्त्रैश्चतुर्गुणैर्बद्धः सूतः स्थाप्यः शुभेऽहनि ॥ २.४ः६ ॥
लोहार्काश्मजखल्वे तु तप्तेष्वेव तु मर्दयेत् ॥ २.४ः७ ॥
उद्दिष्टैरोषधैः सार्धं सर्वाम्लैः काञ्जिकैरपि ।
पेषणं मर्दनाख्यं स्यात्तद्बहिर्मलनाशनमिति परिभाषा ॥ २.४ः८ ॥
अत्र यन्त्रं तु खल्वाख्यं ज्ञेयम् ॥ २.४ः९ ॥
तल्लक्षणं तु खल्वयोग्या शिला नीला श्यामा स्निग्धा दृढा गुरुः ॥ २.४ः१० ॥
षोडशाङ्गुलिकोत्सेधा नवाङ्गुलिकविस्तरा इति ॥ २.४ः११ ॥
खल्वयोग्यशिलालक्षणं प्रसङ्गादुक्तम् ॥ २.४ः१२ ॥
उत्सेधेन नवाङ्गुलः खलु कलातुल्याङ्गुलायामवान् विस्तारेण दशाङ्गुलोऽथ मुनिभिर्निम्नस्तथैवाङ्गुलैः ॥ २.४ः१३ ॥
पाल्यां ह्यङ्गुलविस्तरश्च मसृणोऽतीवार्धचन्द्रोपमो घर्षो द्वादशकाङ्गुलश्च तदयं खल्वो मतो मर्दने इति ॥ २.४ः१४ ॥
____________________________________________________
ङृह्त्२.५-६
<३. मूर्छन>
मलशिखिविषाभिधाना रसस्य नैसर्गिकास्त्रयो दोषाः ।
मूर्छां मलेन कुरुते शिखिना दाहं विषेण मृत्युं च ॥ ङृह्त्_२.५ ॥
गृहकन्या हरति मलं त्रिफलाग्निं चित्रकश्च विषम् ।
तस्मादेभिर्मिश्रैर्वारान् संमूर्छयेत्सप्त ॥ ङृह्त्_२.६ ॥
*टीका.. मुग्धावबोधिनींः
रसस्य पारदस्य दोषास्त्रयो वर्तन्ते ॥ २.५-६ः१ ॥
किंविशिष्टाः मलशिखिविषाभिधानाः मलश्च शिखी च विषं च तान्येवाभिधानं नाम येषां ते तथोक्ताः ॥ २.५-६ः२ ॥
पुनः किंविशिष्टाः नैसर्गिकाः निसर्ग उत्पत्तिस्तत्सम्बन्धिनः सहजा इत्यर्थः ॥ २.५-६ः३ ॥
विशेषश्चात्र मलाद्याः पञ्चदोषाः स्युर्भूजाद्याः सप्तकञ्चुकाः ॥ २.५-६ः४ ॥
कुष्टानष्टौ रसान्तःस्था रसे तेऽनन्तदोषदाः इति रससंकेतकलिकायाम् ॥ २.५-६ः५ ॥
यद्यपि रसेन्द्रमङ्गले पञ्च मलादयो नैसर्गिका दोषाः कथितास्तथाप्यत्र त्रय एव अन्ये द्वे गुरुत्वचपलत्वे नैसर्गिकदोषरूपे कुतो न स्तः त्रिभिः स्वेदनमर्दनमूर्छनात्मकैः संस्कारैरनिवृत्तेः ॥ २.५-६ः६ ॥
नैसर्गिकग्रहणाद्वैकारिकाणामपि ग्रहणं स्यात् ॥ २.५-६ः७ ॥
अत्र नैसर्गिका उक्ता वैकारिकाः कुतो नोक्ताः वैकारिकाणां भावाभावात् ॥ २.५-६ः८ ॥
रसो दोषत्रयावृतः प्राश्यमानः किं करोति मलेन मलदोषेण मूर्छामिन्द्रियमोहं कुरुते शिखिना वह्निना दाहं विषेण मृत्युं मरणं चेति समुच्चये ॥ २.५-६ः९ ॥
एषामपहरणं कार्यमिति भावः ॥ २.५-६ः१० ॥
स्वरूपस्य विनाशेन पिष्टित्वापादनं हि यत् ।
विद्वद्भिर्जितसूतोऽसौ नष्टपिष्टः स उच्यते ॥ २.५-६ः११ ॥
मर्दनोद्दिष्टभैषज्यैर्नष्टपिष्टत्वकारकम् ।
तन्मूर्छनमिति प्रोक्तं दोषत्रयविनाशनमिति ॥ २.५-६ः१२ ॥
यन्त्रमत्र खल्वमेव पूर्वोक्तं यत् ॥ २.५-६ः१३ ॥
त्रिदोषापहरणं मूर्छनं चाह गृहकन्येत्यादि ॥ २.५-६ः१४ ॥
गृहकन्या गृहकुमारिका मलं प्रथमं दोषं हरति ॥ २.५-६ः१५ ॥
पुनस्त्रिफला त्रयाणां फलानां समाहारः त्रिफला अग्निं द्वितीयं दोषं हरति समाहारो यथा एका हरीतकी योज्या द्वौ च योज्यौ विभीतकौ ।
चत्वार्यामलकान्येव त्रिफलेयं प्रकीर्तिता ।
इति ॥ २.५-६ः१६ ॥
पुनश्चित्रकोऽग्निः विषं तृतीयं दोषं हरति दूरीकरोतीत्यर्थः ॥ २.५-६ः१७ ॥
तस्माद्धेतोरेभिस्त्रिभिर्गृहकन्यात्रिफलाचित्रकैर्मिश्रितैरेकीकृतै रसं सप्त वारान्मूर्छयेत्विधिवन्मूर्छनं कुर्यात् ॥ २.५-६ः१८ ॥
विशेषश्चात्र ।
मूर्छनं रसराजस्य कर्तव्यं वादिभिः सदा ।
विषैस्त्रिफलया पूर्वं बृहत्योपविषस्तथा ॥ २.५-६ः१९ ॥
कर्कोटी क्षारकन्दाभ्यां चित्रेण गृहकन्यया ।
एकेनाप्यथ संमर्द्यो याममेकं तु पारदः ॥ २.५-६ः२० ॥
किंनरयन्त्रमादाय ह्योषध्या लेपयेत्तलम् ।
नवतारयुतं सूतं यन्त्रमध्यगतं न्यसेत् ॥ २.५-६ः२१ ॥
दद्याद्रसोपरि शरावं संधिलेपं दृढं मृदा ।
लवणेन च सम्पूर्य द्वारं संरुध्य यत्नतः ॥ २.५-६ः२२ ॥
चुह्लिकोपरि संस्थाप्य दीप्ताग्निं ज्वालयेत्सुधीः ।
यामैकेन तदुत्तार्य कर्तव्यः शीतलो रसः ॥ २.५-६ः२३ ॥
यन्त्रादुद्धृत्य यत्नेन सूतमुत्थाप्य मूर्छितम् ।
अमूर्छितस्तदा देयः कलांशं मूर्छिते रसः ॥ २.५-६ः२४ ॥
सिन्धूत्थटङ्कणाभ्यां च मर्दयेन्मधुसंयुतं दोलायन्त्रे ततः स्वेद्यः क्षाराम्ललवणैः सह ।
उत्थाप्य मूर्छयेत्पश्चात्वारंवारं रसेश्वरम् ।
पुनरुत्थापितं कुर्यादेकविंशतिवारकम् ॥ २.५-६ः२५ ॥
इति रससारे ॥ २.५-६ः२६ ॥
____________________________________________________
ङृह्त्२.७
<संस्कारःः उत्थापन>
अमुना विमर्दनेन हि सुविशुद्धो नागवङ्गपरिमुक्तः ।
सूतः पातनयन्त्रे समुत्थितः काञ्जिकक्वाथात् ॥ ङृह्त्_२.७ ॥
*टीका.. मुग्धावबोधिनींः
सूतो नागवङ्गपरिमुक्तो भवति नागवङ्गाभ्यां दोषाभ्यां विरहितः पारदो भवतीत्यर्थः किंविशिष्टः सन् समुत्थितः सन् ॥ २.७ः१ ॥
पातनयन्त्रे स्थालीद्वयसम्पुटे सम्यग्विधानेनोत्थितः सन् ॥ २.७ः२ ॥
कस्मात्काञ्जिकं सौवीरं पूर्ववर्णितं तत्क्वाथसंयोगादित्यर्थः ॥ २.७ः३ ॥
हि निश्चितम् ॥ २.७ः४ ॥
अमुना विरेचनेन उक्तशोधनेन सूतः सुविशुद्धो भवेत्विशेषशुद्धो भवेदित्युत्थापनम् ॥ २.७ः५ ॥
अनेन विधिना हिङ्गुलस्थस्य सूतस्यापि उत्थापनं भवति ॥ २.७ः६ ॥
स्वेदनादिकयोगेन स्वरूपापादनं पुनः ॥ २.७ः७ ॥
तदुत्थापनमित्युक्तं मूर्छाव्यापत्तिनाशनमिति ॥ २.७ः८ ॥
उतूर्ध्वं स्थापनमुत्थापनम् ॥ २.७ः९ ॥
अत्र यन्त्रं तु ।
अष्टाङ्गुलपरीणाहमानाहेन दशाङ्गुलम् ।
चतुरङ्गुलकोत्सेधं तोयाधारोऽङ्गुलादधः ॥ २.७ः१० ॥
अधोभाण्डे मुखं च तस्य भाण्डस्योपरिवर्तिनः ।
षोडशाङ्गुलविस्तीर्णपृष्ठस्यास्ये प्रवेशयेत् ॥ २.७ः११ ॥
पार्श्वयोर्महिषीक्षीरचूर्णमण्डूरफाणितैः ॥ २.७ः१२ ॥
विलिप्य शोषयेत्संधिं जलाधारे जलं क्षिपेत् ।
चुल्ल्यामारोपयेदेतत्पातनायन्त्रमीरितम् ॥ २.७ः१३ ॥
इति ॥ २.७ः१४ ॥
____________________________________________________
ङृह्त्२.८
<संस्कारःः पातनःः ऊर्ध्वपातन>
कृत्वा तु शुल्बपिष्टिं निपात्यते नागवङ्गशङ्कातः ।
तस्मिन्दोषान्मुक्त्वा निपतति शुद्धस्तथा सूतः ॥ ङृह्त्_२.८ ॥
*टीका.. मुग्धावबोधिनींः
पञ्चमोद्दिष्टं पातनसंस्कारं स्पष्टयन्नाह कृत्वेत्यादि ॥ २.८ः१ ॥
तु पुनः उत्थितं सूतं शुल्बपिष्टिं कृत्वा शुल्बेन ताम्रेण सह तयोर्मेलनं यथा स्यात्तथा पेषणं विधाय तस्मिन् पातनयन्त्रे निपात्यते कर्मविदेति शेषः ॥ २.८ः२ ॥
कुतः नागवङ्गशङ्कातः नागवङ्गदोषग्लानितः ॥ २.८ः३ ॥
तथा उक्तविधानेन निपतति सति पातनकर्मणि कृते सति शुद्धः सूतो भवेत् ॥ २.८ः४ ॥
वारमित्यनुक्ते ग्रन्थान्तरे त्रिसप्तैकविंशतिवारं पातनकर्मणि कृते सति सम्यक्नागवङ्गशङ्का नश्यतीति भावः ॥ २.८ः५ ॥
विशेषश्चात्र पातनयन्त्रे ।
द्वौ भागौ शुद्धसूतस्य शुल्बभागैकसंयुतौ ।
विंशांशं लवणं दत्त्वा पिष्टीकुर्याच्च सुन्दरम् ॥ २.८ः६ ॥
अष्टाङ्गुलविस्तीर्णं दैर्घ्येण दशाङ्गुलं त्वधोभाण्डम् ।
कण्ठादधः समन्ताच्चतुरङ्गुलीकृतजलाधारम् ॥ २.८ः७ ॥
अन्तः प्रविष्टतलभाण्डवदनं जलमग्ननिजमुखप्रान्तम् ।
उपरिष्टाच्चिण्टिघटी देयोदरषोडशाङ्गुलविशाला ॥ २.८ः८ ॥
तस्मिन्नधोर्ध्वभाण्डे निपातितः सकलदोषनिर्मुक्तः ।
सुतरां भवति रसेन्द्रो जीर्णग्रासोऽपि पात्योऽसौ ॥ २.८ः९ ॥
अध ऊर्ध्वं तथा तिर्यक्पातस्त्रिविध उच्यते ।
यत्र तिष्ठति सूतेन्द्रो वह्निस्तत्रान्यथा जलम् ॥ २.८ः१० ॥
उक्तौषधैर्मर्दितपारदस्य यन्त्रस्थितस्योर्ध्वमधश्च तिर्यक् ।
निर्यापनं पातनसंज्ञमुक्तं वङ्गाहिसम्पर्कजकञ्चुकघ्नम् ॥ २.८ः११ ॥
इति ॥ २.८ः१२ ॥
ऊर्ध्वपाते रसस्योर्ध्वगमनं तत्राधःपात्रे वह्निः जलमूर्ध्वपात्रे अधःपाते तु रसस्याधस्ताद्गमनं भवति यन्त्रं तदेव परं तु अग्निजलयोर्व्यत्यासः जलमत्राधःपात्रे अग्निरूर्ध्वपात्रे तिर्यक्पाते तु रसस्तिर्यक्पतति तत्रैकपात्रपृष्ठे जलमन्यपात्राधो वह्निः ॥ २.८ः१३ ॥
____________________________________________________
ङृह्त्२.९-१६
<पातनयन्त्र>
अष्टाङ्गुलविस्तारं दैर्घ्येण दशाङ्गुलं त्वधोभाण्डम् ।
कण्ठादधः समुच्छ्रितं चतुरङ्गुलं कृतजलाधारम् ॥ ङृह्त्_२.९ ॥
अन्तःप्रविष्टतलभाण्डवदनं जलमग्ननिजमुखप्रान्ता ।
उपरिष्टाच्चिपिटघटी देयोदरषोडशाङ्गुलविशाला ॥ ङृह्त्_२.१० ॥
तस्मिन्नूर्ध्वभाण्डे निपातितः सकलदोषनिर्मुक्तः ।
सुतरां भवति रसेन्द्रो द्रव्ये च रसायने योग्यः ॥ ङृह्त्_२.११ ॥
<अधःपातन>
कृत्वा च नष्टपिष्टिं त्रिफलाशिखिशिग्रुराजिकापटुभिः ।
संलेप्य चोर्ध्वभाण्डे दीप्तैकपलैरधःपात्यः ॥ ङृह्त्_२.१२ ॥
अथवा दीपकयन्त्रे निपातितः सकलदोषनिर्मुक्तः ।
<तिर्यक्पातन>
तिर्यक्पातनविधिना निपात्यः सूतराजस्तु ॥ ङृह्त्_२.१३ ॥
श्लक्ष्णीकृतमभ्रदलं रसेन्द्रयुक्तं तथारनालेन ।
खल्वे दत्त्वा मृदितं यावत्तन्नष्टपिष्टतामेति ॥ ङृह्त्_२.१४ ॥
कुर्यात्तिर्यक्पातनपातितसूतं क्रमेण दृढवह्नौ ।
संस्वेद्य पात्यतेऽसौ न पतति यावद्दृढश्चाग्निः ॥ ङृह्त्_२.१५ ॥
<निरोधन>
मर्दनमूर्छनपातैः कदर्थितो भजति मन्दवीर्यत्वात् ।
सृष्ट्यम्बुजैर्निरोधाल्लब्धाप्यायो न षण्ढः स्यात् ॥ ङृह्त्_२.१६ ॥
*टीका.. मुग्धावबोधिनींः
षष्ठोद्दिष्टं निरोधनसंस्कारं स्पष्टयन्नाह मर्दनेत्यादि ॥ २.९-१६ः१ ॥
एतैर्मर्दनमूर्छनपातैः संस्कारविशेषं कृत्वा मन्दवीर्यत्वात्कदर्थितो भवति ॥ २.९-१६ः२ ॥
कुत्सितविधानेन कदर्थितो भवतीत्यर्थः पुनः सूतः सृष्ट्यम्बुजैः सह मर्दनानन्तरं निरोधात्मूषाद्वयसम्पुटे कूपिकायां वा निरोधात्रुन्धनात्लब्धाप्यायः प्राप्तबलः सन्न षण्ढः स्यात्न शुक्ररहितो भवति ॥ २.९-१६ः३ ॥
सृष्टिः मूत्रशुक्रशोणितरूपा अम्बुजं लवणं सैन्धवं कमलमिति मन्दाः ॥ २.९-१६ः४ ॥
सृष्टिर्यथा ।
गोऽजाविनरनारीणां मूत्रं शुक्रं च शोणितम् ।
सृष्टिरेषा समाख्याता षण्ढदोषविनाशिनी ।
इति शक्त्यवतारात् ॥ २.९-१६ः५ ॥
यन्त्रं यथा ।
रक्तसैन्धवखोटेन मूषाद्वंद्वं प्रकल्पयेत् ।
तत्सम्पुटे रसं क्षिप्त्वा नवसारं सनिम्बुकम् ॥ २.९-१६ः६ ॥
सम्पुटस्य प्रयत्नेन लेपयेत्संधिमुत्तमम् ।
वज्रमृत्स्नां समादाय वेष्टयेत्तत्प्रयत्नतः ॥ २.९-१६ः७ ॥
छायाशुष्कं च तत्कृत्वा भूगर्ते स्थापयेत्ततः ।
अष्टाङ्गुलप्रमाणेन मूषोर्ध्वं तत्र पूरणम् ॥ २.९-१६ः८ ॥
त्रिसप्तदिनपर्यन्तं करीषाग्निं च कारयेत् ।
दिने दिने प्रकर्तव्या मूषा सैन्धवनूतना ॥ २.९-१६ः९ ॥
स्वेदयेत्तत्प्रयत्नेन भूगर्भे स्थापयेत्ततः ।
अथवा कूपिकामध्ये सूतं सैन्धवसंयुतम् ॥ २.९-१६ः१० ॥
भूगर्भे च ततः स्थाप्यमेकविंशद्दिनावधि ।
अयं निरोधको नाम्ना महामुखकरो रसे ॥ २.९-१६ः११ ॥
इति ॥ २.९-१६ः१२ ॥
____________________________________________________
ङृह्त्२.१७
<७. नियमन>
इति लब्धवीर्यः सम्यक्चपलोऽसौ संनियम्यते तदनु ।
फणिनयनाम्बुजमार्कवकर्कोटीचिञ्चिकास्वेदात् ॥ ङृह्त्_२.१७ ॥
*टीका.. मुग्धावबोधिनींः
सप्तमोद्दिष्टसंस्कारं स्पष्टयन्नाह इतीत्यादि ॥ २.१७ः१ ॥
इति पूर्वोक्तविधानेन यन्त्रणादिना तदनु रोधनानन्तरमसौ चपलश्चञ्चलो रसो नियम्यते कर्मविदा संनियमनं क्रियते ॥ २.१७ः२ ॥
कस्मात्फणीलशुनाम्बुजमार्कवकर्कोटीचिञ्चिकास्वेदात्फणी ताम्बूलं लशुनं रसोनः अम्बुजं लवणं मार्कवः भृङ्गराजः कर्कोटीति प्रतीता वन्ध्या चिञ्चिका अम्लिका एताभिः सह यः स्वेदः यन्त्रे अग्नितापः तस्मात् ॥ २.१७ः३ ॥
किंविशिष्टः सम्यक्लब्धवीर्यः प्राप्तबलो वीर्यवान् रसः चपलत्वनिवृत्तये नियम्यत इत्यर्थः ॥ २.१७ः४ ॥
विशेषश्चात्र काचकूपीं मृदा लिप्य रसो मध्ये विमुच्यते ।
कलांशं टङ्कणं दत्त्वा मध्ये किंचित्प्रदीयते ॥ २.१७ः५ ॥
द्वारमुद्रा प्रकर्तव्या वज्रमृत्तिकया दृढा ।
भूगर्भे कूपिकां स्थाप्य सितया गर्भपूरणम् ॥ २.१७ः६ ॥
करीषाग्निः प्रकर्तव्य एकविंशद्दिनावधि ।
अयं नियामको नाम वह्निप्रत्यन्तकारकः ॥ २.१७ः७ ॥
रोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये ।
क्रियते यो रसस्वेदः प्रोक्तं नियमनं हि तत् ॥ २.१७ः८ ॥
इति ॥ २.१७ः९ ॥
यन्त्रलक्षणं तु ।
चतुःप्रस्थजलाधारं चतुरङ्गुलकाननम् ।
घटयन्त्रमिदं प्रोक्तं तदाप्यायनकं स्मृतमिति ॥ २.१७ः१० ॥
____________________________________________________
ङृह्त्२.१८
<८. दीपन>
भूखगटङ्कणमरिचैर्लवणासुरीशिग्रुकाञ्जिकैस्त्रिदिनम् ।
स्वेदेन दीपितोऽसौ ग्रासार्थी जायते सूतः ॥ ङृह्त्_२.१८ ॥
*टीका.. मुग्धावबोधिनींः
अष्टमोद्दिष्टस्य दीपनसंस्कारस्य विधिं स्पष्टयन्नाह भूखगेत्यादि ॥ २.१८ः१ ॥
असौ पूर्वसंस्कृतरस एतैरौषधैस्त्रिदिनं निरन्तरं यथा स्यात्तथा स्वेदेन दीपितः क्षुत्पीडितः सन् ग्रासार्थी कवलाभिलाषी जायते ॥ २.१८ः२ ॥
एतैरोषधैः भूखगटङ्कणमरिचैः न केवलमेतैः पुनर्लवणासुरीशिग्रुकाञ्जिकैः ॥ २.१८ः३ ॥
भूः तुवरी खगः कासीसं टङ्कणं सौभाग्यं मरिचमूषणमेतैः ॥ २.१८ः४ ॥
पुनः लवणं सैन्धवमासुरी राजिका शिग्रुः सौभाञ्जनं वृक्षविशेषः काञ्जिकं पूर्वोक्तमम्लीभूतमेतैश्चेति ॥ २.१८ः५ ॥
विशेषश्चात्र ।
स्वेदनं रसराजस्य क्षाराम्लविषमद्यकैः ।
बीजपूरं समादाय वृन्तमुत्सृज्य कारयेत् ॥ २.१८ः६ ॥
तस्य मध्ये क्षिपेत्सूतं कलांशक्षारसंयुतम् ।
द्वारं निरुध्य यत्नेन वस्त्रमध्ये निबन्धयेत् ॥ २.१८ः७ ॥
दोलास्वेदः प्रकर्तव्य एकविंशद्दिनावधि ।
दिने दिने प्रकर्तव्यं नूतनं बीजपूरकम् ॥ २.१८ः८ ॥
लेलिहानो हि धातूंश्च पीड्यमानो बुभुक्षया ।
अमुनैव प्रकर्तव्यं रसराजस्य दीपनम् ॥ २.१८ः९ ॥
त्र्यहं सप्तदिनं वाथ चतुर्दशैकविंशतिम् ।
संस्कारः सूतराजे तु क्रमात्क्रमतरं वरम् ॥ २.१८ः१० ॥
इति ॥ २.१८ः११ ॥
____________________________________________________
ङृह्त्२.१९
<चारण>
इति दीपितो विशुद्धः प्रचलितविद्युल्लतासहस्राभः ।
भवति यदा रसराजश्चार्यो सत्वादि तदा बीजम् ॥ ङृह्त्_२.१९ ॥
*टीका.. मुग्धावबोधिनींः
कृताष्टसंस्कारस्य पारदस्य संस्कारान्तरसिद्धां परीक्षामाह इतीत्यादि ॥ २.१९ः१ ॥
इति पूर्वोक्तप्रकारेण रसराजो दीपितः सन् क्षुदुत्पीडितः सन् विशुद्धो भवति ॥ २.१९ः२ ॥
यदीदृशो भवति रसराजस्तदा चार्यः चारणकर्म कार्यम् ॥ २.१९ः३ ॥
कीदृक्प्रचलितविद्युल्लतासहस्राभः प्रकर्षेण चलत्यश्चलनशीला या विद्युतस्तासां सहस्रस्येव भा दीप्तिर्यस्य स तथोक्तः ॥ २.१९ः४ ॥
किं कृत्वा चार्यः इदमग्रे वक्ष्यमाणं किंचित्धातूपरसमहारसरत्नसंज्ञकं द्वितीयं रसराजसम्बन्धिनं दत्त्वा संयोज्येत्यर्थः ॥ २.१९ः५ ॥
____________________________________________________
ङृह्त्२.२०
<चारणःः समुख, निर्मुख>
पीतक्रियासु पीतं श्वेतं तारक्रियासु मुखमादौ ।
देयं खल्वे घृष्टो दिव्यौषधिभिः स निर्मुखश्चरति ॥ ङृह्त्_२.२० ॥
इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते रसहृदयतन्त्रे रसशोधनात्मको द्वितीयोऽवबोधः ॥
*टीका.. मुग्धावबोधिनींः
किं द्वितीयमित्याशङ्क्य तं स्पष्टयन्नाह पीतेत्यादि ॥ २.२०ः१ ॥
आदौ प्रथमं मुखं विधेयमित्यध्याहारः पारदस्य मुखं कार्यमित्यर्थः ॥ २.२०ः२ ॥
ततश्चेत्पीतक्रिया भवन्ति स्वर्णसम्बन्धीनि कार्याणि भवन्ति तदा पीतं स्वर्णं देयम् ॥ २.२०ः३ ॥
श्वेतक्रियासु श्वेतं देयं श्वेतं तारमित्यर्थः ॥ २.२०ः४ ॥
स्वर्णतारादिकं खल्वे दत्तं कृतमुखो रसश्चरति ॥ २.२०ः५ ॥
पुनर्निर्मुखो रसः अकृतमुखो रसः खल्वे घृष्टो घर्षितः सन् पूर्वोक्तं चरति भक्षयति ॥ २.२०ः६ ॥
काभिः सह दिव्यौषधीभिर्वक्ष्यमाणाभिः सह ॥ २.२०ः७ ॥
यथा पद्यम् ।
सास्यो रसः स्यात्पटुशिग्रुतुत्थैः सराजिकैर्व्योषणकैस्त्रिरात्रम् ।
पिष्टस्ततः स्विन्नतनुः सुवर्णमुखानयं खादति सर्वधातून् ॥ २.२०ः८ ॥
इति ॥ २.२०ः९ ॥
निर्मुखश्च अम्लवर्गेण संयुक्तं यथालाभेन मर्दयेत् ।
अभ्रकादींश्च चरते सूतको वासनामुखः ॥ २.२०ः१० ॥
इयन्मानस्य सूतस्य भोज्यद्रव्यात्मिका मितिः ।
इयतीत्युच्यते यासौ ग्रासमानमितीरितम् ॥ २.२०ः११ ॥
इति परिभाषा ॥ २.२०ः१२ ॥
इति श्रीमत्कुरलकुलपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुजमिश्रविरचितायां मुग्धावबोधिन्यां रसहृदयटीकायां रसशोधनात्मको द्वितीयोऽवबोधः ॥ २.२०ः१३ ॥
____________________________________________________
ङृह्त्३.१
घनरहितबीजचारणसम्प्राप्तदलादिलाभकृतकृत्याः ।
कृपणाः प्राप्य समुद्रं वराटिकालाभसंतुष्टाः ॥ ङृह्त्_३.१ ॥
*टीका.. मुग्धावबोधिनींः
सुधाकरग्राससत्त्वं पद्माकरसुखावहम् ।
तथा विभूतयश्चास्य सज्जनानन्दकारकाः ॥ ३.१ः१ ॥
अनेन पद्येन ग्रन्थस्य गुणाधिक्यं संमतत्वं च वर्णयन्नाह घनेत्यादि ॥ ३.१ः२ ॥
ये एवंविधाः पुरुषास्ते कृपणा एव ॥ ३.१ः३ ॥
किंविशिष्टाः घनरहितबीजचारणसम्प्राप्तदलादिद्रव्यकृतकृत्याः घनेनाभ्रकेण रहितं वर्जितं यद्बीजचारणमन्यधात्वादीनां बीजकवलनं तेन यत्प्राप्तं दलादिद्रव्यं पत्त्ररञ्जनवर्णवृद्धितारकृष्टी मेलापकादिकं वस्तु तेन ये कृतकृत्याः पूर्णाः आत्मानं मन्यन्ते इत्यध्याहारः ॥ ३.१ः४ ॥
किंविशिष्टाः कृपणाः समुद्रं प्राप्य रत्नाकरं लब्ध्वा वराटिकालाभसंतुष्टाः कपर्दिकालाभेन संतुष्टिं प्राप्तः दरिद्रभावादिति भावः ॥ ३.१ः५ ॥
तथा एवंविधाः कृपणा इदं शास्त्रं रत्नाकररूपं बहुरत्नं प्राप्य दलादिद्रव्येण कृतकृत्याः ॥ ३.१ः६ ॥
शास्त्रसमुद्रयोर्गुणरत्नैः साम्यं वराटिकादलादिर्द्रव्ययोः साम्यं तुच्छतया यत उभावपि निकृष्टावेव ॥ ३.१ः७ ॥
यत एतच्छास्त्रं बहुप्रदं मुद्रिकावेधस्पर्शवेधधूमवेधशब्दवेधधाम्यवेधाधाम्यधातुवेधप्रदत्वात् ॥ ३.१ः८ ॥
____________________________________________________
ङृह्त्३.२
अन्ये पुनर्महान्तो लक्ष्मीकरिराजकौस्तुभादीनि ।
अवधीर्य लब्धवन्तः परामृतं चामरा जाताः ॥ ङृह्त्_३.२ ॥
*टीका.. मुग्धावबोधिनींः
पुनरत्र ग्रन्थे गुणाधिक्यशतं च वर्णयन्नाहान्ये इत्यादि ॥ ३.२ः१ ॥
पुनरित्यप्रथमविशेषणयोरिति प्रसादः ॥ ३.२ः२ ॥
अत्र पुनर्विशेषणे ॥ ३.२ः३ ॥
अन्ये पूर्वेभ्यो महान्तो वर्तन्ते ॥ ३.२ः४ ॥
किं कुर्वन्तः परामृतं लब्धवन्तः सन्त अमरा जाता मरणरहिता जीवन्मुक्ता जाता इत्यर्थः ॥ ३.२ः५ ॥
परं च तदमृतं चेति समासः मोक्षमित्यर्थः ॥ ३.२ः६ ॥
किं कृत्वा लक्ष्मीकरिराजकौस्तुभादीनि अवधीर्य अवहेलनं विधाय लक्ष्मीर्हरिप्रिया करिराज ऐरावत इन्द्रवारणः कौस्तुभो हरेर्मणिः इत्यादीनि चतुर्दशरत्नानि ॥ ३.२ः७ ॥
सतामयमेव स्वभावः दरिद्राणां कृपणानां पूर्ववत् ॥ ३.२ः८ ॥
अत एवैतच्छास्त्रं कृपणमहतां निकषरूपम् ॥ ३.२ः९ ॥
____________________________________________________
ङृह्त्३.३
क्षारौषधिपट्वम्लैः क्षुद्बोधो रागबन्धने स्वेदात् ।
न पुनः पक्षच्छेदो द्रवत्वं वा विना गगनम् ॥ ङृह्त्_३.३ ॥
*टीका.. मुग्धावबोधिनींः
सर्वोत्कृष्टत्वेन गगनग्राससाधनमाह क्षारेत्यादि ॥ ३.३ः१ ॥
क्षुद्बोधो रसराजस्य जायते इति शेषः ॥ ३.३ः२ ॥
कैः कृत्वा क्षारौषधिपट्वम्लैः क्षारौषधयोऽहिमारादयः पटु सैन्धवमम्लमम्लवेतसादि एतैः क्षुदुत्पत्तिर्भवेदित्यर्थः ॥ ३.३ः३ ॥
क्षारौषधयो यथा ।
अहिमारमपामार्गे तण्डुलीयकसंयुतम् ।
स्नुह्यर्ककरवीरं च लाङ्गलीक्षीरकन्दौ ॥ ३.३ः४ ॥
कर्कोटीं कञ्चुकीं तुम्बां पलाशं चाग्निमन्थकम् ।
करीरं चित्रकं शिग्रुं वरुणं वेतसं वटम् ॥ ३.३ः५ ॥
पटोल्यर्जुनकूष्माण्डकदलीवज्रकन्दकम् ।
अश्वत्थं सूरणं जालीं दहेत्कन्दाननेकशः ॥ ३.३ः६ ॥
अन्तर्धूमेन सर्वांश्च देवदालीं दहेत्तथा ।
औषधिक्षारनामासौ गणस्तु परिकीर्तितः ॥ ३.३ः७ ॥
इति ॥ ३.३ः८ ॥
अम्लं यथा ।
अम्लवेतसजम्बीरं लकुचं बीजपूरकम् ।
चाङ्गेरी चणकाम्लं च नारङ्गं तित्तिडी तथा ॥ ३.३ः९ ॥
अम्बष्ठा करमर्दश्च कपित्थः करणादिकः ।
पञ्चाम्लसंयुतो वा स्यादम्लवर्गः प्रकीर्तितः ॥ ३.३ः१० ॥
चणकाम्लं च सर्वेषामेकमेव प्रशस्यते ।
अम्लवेतसमेकं वा सर्वेषामुत्तमोत्तमम् ॥ ३.३ः११ ॥
इति ॥ ३.३ः१२ ॥
इत्येतैः क्षारौषधिपट्वम्लैः क्षुद्बोधो भवेत्रागबन्धने च भवेतां रागो रञ्जनं बन्धनं पूर्वमुपवर्णितम् ॥ ३.३ः१३ ॥
कुतो हेतोः एतैः पूर्वोक्तैः करणरूपैः स्वेदात् ॥ ३.३ः१४ ॥
पुनरिति विशेषणे ॥ ३.३ः१५ ॥
पक्षच्छेदः रसपक्षापकर्तनं यथा स्थिरो भवति द्रव्यत्वं गुणवत्त्वं वा गगनमभ्रकं विना न भवतीत्यर्थः ॥ ३.३ः१६ ॥
____________________________________________________
ङृह्त्३.४
अभ्रकजीर्णो बलवान् भवति रसस्तस्य चारणे प्रोक्ताः ।
संधानवासनौषधिनिर्मुखसमुखा महायोगाः ॥ ङृह्त्_३.४ ॥
*टीका.. मुग्धावबोधिनींः
द्रव्यत्वमभ्रकेणाहाभ्रकजीर्ण इत्यादि ॥ ३.४ः१ ॥
बलरहिते अतिक्षुद्बोधे षण्ढता भवेत् ॥ ३.४ः२ ॥
यथा ।
शीतत्वान्मर्दनाभावाल्लोहाशुद्धस्य जारणात् ।
विडप्रभूतदानाद्वा भुङ्क्ते जीर्णादजीर्णगः ॥ ३.४ः३ ॥
अत्यग्नितो निराहारात्क्रामणारहितस्य च ।
इत्येता विक्रिया ज्ञेया अष्टभिः षण्ढतां व्रजेत् ॥ ३.४ः४ ॥
इति ॥ ३.४ः५ ॥
अतो रसोऽष्टसंस्कारानन्तरमभ्रकजीर्णः कर्तव्यः यतोऽभ्रकजीर्णं बलवान् भवति ॥ ३.४ः६ ॥
अभ्रकजीर्णे ग्रासन्याये न जारितं यस्मिन् स तथोक्तः ॥ ३.४ः७ ॥
तस्याभ्रजारणायोग्यस्य रसस्य चारणे केवलकवलने एते प्रोक्ताः ॥ ३.४ः८ ॥
एते के संधानवासनौषधिनिर्मुखसमुखा एव महायोगाः महद्द्रव्यत्वकारकाः संधानं सर्वधान्यानामष्टौषध्यादीनां च संधानं यथा सर्वधान्यानि निक्षिप्य आरनालं तु कारयेत् ॥ ३.४ः९ ॥
सपत्त्रमूलसंयुक्ता औषधीस्तत्र निःक्षिपेत् ॥ ३.४ः१० ॥
क्षितिकासीससामुद्रसिन्धुत्र्युषणराजिकैः ।
संयुक्तं कारयेत्तत्तु सोष्मे सप्ताहसंस्थितम् ॥ ३.४ः११ ॥
तच्चारनालसंयुक्तं ताम्रभाण्डे तु संधयेत् ।
इत्यभ्रकचारणार्थं संधानम् ॥ ३.४ः१२ ॥
वासनौषध्यो यथा ।
विज्ञेयमौषधीवर्गं यथा शास्त्रैरुदाहृतम् ।
जलजं स्थलजं चैव सम्यक्ज्ञात्वा तु कारयेत् ॥ ३.४ः१३ ॥
जलजा उत्पली पद्मा स्थलजा च प्रसारिणी ।
जालिनी अभ्रचन्द्रा च चित्रपर्णी त्रिपर्णिका ।
रसचन्द्रौकसश्चैव तथा च जलमूलकः ।
समङ्गा वारिभूता च अपामार्गो जलोद्भवा ॥ ३.४ः१४ ॥
अजमारी उपाम्बुश्च कुम्भिका जलपिप्पली ।
जलपूर्वाम्बुसीता च कुमारी नागिनी तथा ॥ ३.४ः१५ ॥
सितजङ्घा स्वरश्चैव तथा सर्पः सुगन्धिका ।
वृद्धा च बृहती तद्वन्मूर्तिर्मार्जारपादिका ॥ ३.४ः१६ ॥
तथा जलचकोरी च मीनाक्षी अहिलोचना ।
जयांविच वराही च अपत्त्रा ईश्वरी तथा ॥ ३.४ः१७ ॥
कुर्कुरी हलिनी चैव बृहती वज्रकन्दकम् ।
मुसली वनमाला च विदारी मोहिनी तथा ॥ ३.४ः१८ ॥
माण्डूकी लवणा चैव उग्रा च उत्तमा तथा ।
शिखिपादी कपोती च नन्दिनी वृश्चिकालिका ।
हंसपादी शिखा चैव सारिवा वायसी तथा ।
दन्ती गोजिह्विका चैव गरुडी हेमपुष्पिका ॥ ३.४ः१९ ॥
समङ्गा जलजा चैव मांसी पाषाणभेदिका ।
अलम्बुषा मेघनादा शुकनादा कपोतिकी ॥ ३.४ः२० ॥
क्षीरिका तुलसी धान्या मेषिका च वनार्जका ।
वाराही चणकायासी तथा च अपराजिता ॥ ३.४ः२१ ॥
चतुःषष्टिगणो ह्येष औषधीनां प्रकीर्तितः ।
षष्ठाष्टकप्रयोगेन अवस्थां नैव कारयेत् ॥ ३.४ः२२ ॥
इति ॥ ३.४ः२३ ॥
अयमोषधीगणः संधानेऽपि योज्यः ॥ ३.४ः२४ ॥
संधानं च वासनौषधयश्च ताभिः कृत्वा ये निर्मुखसमुखा एव योगाः अकृतमुखकृतमुखा इत्यर्थः ॥ ३.४ः२५ ॥
____________________________________________________
ङृह्त्३.५
<अभ्रःः प्रेपरतिओन् fओर्चारण>
निश्चन्द्रिकं हि गगनं क्षाराम्लैर्भावितं तथा रुधिरैः ।
सृष्टित्रयनीरकणातुम्बरुरसमर्दितं चरति ॥ ङृह्त्_३.५ ॥
*टीका.. मुग्धावबोधिनींः
निर्मुखत्वेनाभ्रकचारणोपायमाह निश्चन्द्रिकमित्यादि ॥ ३.५ः१ ॥
हि निश्चितं यद्गगनमभ्रकं निश्चन्द्रिकं चन्द्ररहितं भवति वज्रसंज्ञकमित्यर्थः तद्गगनं रुचिरैर्निर्दोषैर्मनोरमैर्विविधैः क्षाराम्लैर्भावितं प्लावितं कार्यं क्षारा यवक्षारस्वर्जिक्षारटङ्कणक्षारादयोऽम्ला अम्लवेतसजम्बीराद्याः पूर्वोक्ताः ॥ ३.५ः२ ॥
ननु क्षारा रुचिराः कथं भवन्ति उच्यते यथा सर्जिकाचूर्णभागैकं विंशद्भागं जलस्य च ॥ ३.५ः३ ॥
तावत्क्वाथ्यं क्षिपेद्भाण्डे यावत्फेनं सितं भवेत् ॥ ३.५ः४ ॥
क्षीणे क्षीणे जलं दत्त्वा श्वेतफेनं च गृह्यते ॥ ३.५ः५ ॥
तदा तु डेकयन्त्रेण द्रावयेदग्नियोगतः ॥ ३.५ः६ ॥
त्रिःसप्तवारं कर्तव्यं द्रावणं मूत्रसंयुतम् ॥ ३.५ः७ ॥
स्वर्जिकाक्षारनामायं द्रावणे परमो मतः ॥ ३.५ः८ ॥
इति विशेषविधिः ॥ ३.५ः९ ॥
एवमत्युत्तमाः क्षाराः स्युः सम्पक्वाः हिमाः ॥ ३.५ः१० ॥
पुनः सृष्टित्रयनीरकणातुम्बरुरसमर्दितं गोऽजाविनारीणां मूत्रं शुक्रं च शोणितं सृष्टित्रयं नीरकणा जलपिप्पली पटुरिति लोके तुम्बुरु प्रतीतं जलकणा च तुम्बरुश्च अनयो रसः सृष्टित्रयं च जलकणातुम्बरुरसश्च ताभ्यां मर्दनं कार्यम् ॥ ३.५ः११ ॥
रसः पारदः निर्मुखोऽपि एवंविधं गगनं चरति ग्रासीकरोति ॥ ३.५ः१२ ॥
करणं ग्रन्थान्तरेऽस्ति ।
दुग्धत्रयं कुमार्यम्बु गङ्गापुत्रं त्रिमूत्रकम् ।
वटशुङ्गमजारक्तमेभिरभ्रं सुमर्दितम् ॥ ३.५ः१३ ॥
शतधा पुटितं चापि जायते पद्मरागवत् ।
निश्चन्द्रिकं मृतं त्वभ्रं वृद्धदेहे रसायनम् ॥ ३.५ः१४ ॥
कामिनीमददर्पघ्नं शस्तं पुंस्त्वोपघातिनाम् ।
इति ॥ ३.५ः१५ ॥
____________________________________________________
ङृह्त्३.६
<मेर्चुर्य्ःः अभ्रचारण>
यवचिञ्चिकाम्बुपुटितं तन्मूलशतावरीगदाकुलितम् ।
घनरवशिग्रुपुनर्नवरसभावितमभ्रकं चरति ॥ ङृह्त्_३.६ ॥
*टीका.. मुग्धावबोधिनींः
विधानान्तरमाह यवेत्यादि ॥ ३.६ः१ ॥
पुनरभ्रकं यवचिञ्चिकाम्बुपुटितं कार्यं यवचिञ्चिका प्रतीता यवचिञ्चिकेति लोके तस्या अम्बुद्रवः तेन पुटितमातपयोगेन भावितम् ॥ ३.६ः२ ॥
पुनस्तन्मूलशतावरीगदाकुलितं कार्यं तस्या यवचिञ्चिकाया मूलं तन्मूलं शतावरी शतपाद्गदः कुष्ठः एतैराकुलं व्याप्तं परिप्लुतम् ॥ ३.६ः३ ॥
यदा सरसौषधाभावस्तदायं विधिः यथा ।
शुष्कद्रव्यमुपादाय स्वरसानामसंभवे ।
वारिण्यष्टगुणे साध्यं ग्राह्यं पादावशेषितम् ॥ ३.६ः४ ॥
इति ॥ ३.६ः५ ॥
पुनर्घनरवशिग्रुपुनर्नवरसभावितं कार्यं घनरवस्तण्डुलीयकः शिग्रु सौभाञ्जनं सुहिजना इति लोके पुनर्नवा वर्षाभूः प्रतीता एतेषां रसेन भावितं परिप्लुतमातपयोगेन शोष्यमित्यर्थः ॥ ३.६ः६ ॥
एवंविधमभ्रं रसश्चरति ॥ ३.६ः७ ॥
निर्मुखेन भावनाशब्देन शतवारं ज्ञातव्यं ग्रन्थान्तरसाम्यात् ॥ ३.६ः८ ॥
अत्र विशेषः ॥ ३.६ः९ ॥
सोमवल्लीरसे पिष्ट्वा दापयेच्च पुटत्रयम् ।
सोमवल्लीरसेनैव सप्त वारांश्च भावयेत् ॥ ३.६ः१० ॥
दापयेन्मृन्मये भाण्डे रसेन संयुतम् ।
मूलं तु शरपुङ्खाया गव्यक्षीरेण घर्षयेत् ।
कल्केन मेलयेत्सूतं गगनं तदधऊर्ध्वगम् ॥ ३.६ः११ ॥
स्थापयेद्रवितापे तु निर्मुखो ग्रसते क्षणात् ।
जायते पिष्टिका शीघ्रं नात्र कार्या विचारणा ॥ ३.६ः१२ ॥
इति ॥ ३.६ः१३ ॥
अन्यच्च ।
तिलपर्णीरसं नीत्वा गगनं तेन भावयेत् ।
मर्दनाज्जायते पिष्टी नात्र कार्या विचारणा ॥ ३.६ः१४ ॥
इति ॥ ३.६ः१५ ॥
अन्यच्च ।
मुण्डीनिर्यासके नागं बहुशस्तु निषेचयेत् ।
तेनाभ्रकं तु संयोज्य भूयो भूयः पटे दहेत् ॥ ३.६ः१६ ॥
चित्रकार्द्रकमूलानामेकैकेन तु सप्तधा ।
प्लावितव्यं प्रयत्नेन गन्धकाभ्रकचूर्णकम् ॥ ३.६ः१७ ॥
नागमुण्डीरसाक्षिप्तं रसलुङ्गाम्लभावितम् ।
षोडशांशेन दातव्यं दोलायन्त्रे चरेद्रसः ॥ ३.६ः१८ ॥
इति निर्मुखचारणम् ॥ ३.६ः१९ ॥
____________________________________________________
ङृह्त्३.७-९
<आरनाल fओर्जारण>
सर्जीक्षितिखगटङ्कणलवणान्वितमर्कभाजने त्रिदिनम् ।
पर्युषितमारनालं गगनादिषु भावने शस्तम् ॥ ङृह्त्_३.७ ॥
तस्मिन्नागं शुद्धं प्रद्राव्य निषेचयेच्छतं वारान् ।
वङ्गं वा तारविधौ रसायने नैव तद्योज्यम् ॥ ङृह्त्_३.८ ॥
गगनरसोपरसामृतलोहरसायसादिचूर्णानि ।
सर्वमनेन ह भाव्यं यत्किंचित्चारणावस्तु ॥ ङृह्त्_३.९ ॥
*टीका.. मुग्धावबोधिनींः
समुखचारणमाह सर्जीत्यादि ॥ ३.७-९ः१ ॥
आरनालं स्वेदनसंस्कारे यदुक्तं काञ्जिकं तत् ॥ ३.७-९ः२ ॥
अर्कभाजने ताम्रपात्रे ॥ ३.७-९ः३ ॥
त्रिदिनं यावत्तावत्पर्युषितं संधानीकरणं कुर्यात् ॥ ३.७-९ः४ ॥
कीदृग्विधमारनालं सर्जीक्षितिखगटङ्कणलवणान्वितं सर्जी प्रतीता साजीति लोके क्षितिः स्फटिका खगः कासीसं टङ्कणं सौभाग्यं सोहागा इति लोके लवणं सैन्धवं तदभावे लवणाष्टकेषु यत्र यल्लभ्यं तदेव योज्यं लवणोद्देशः ।
सैन्धवं रुचकं कृष्णं विडं सामुद्रमौद्भिदम् ।
रोमकं पांशुजं चेति लवणाष्टकमुच्यते ॥ ३.७-९ः५ ॥
इति एतैरन्वितं मिलितं कुर्यात् ॥ ३.७-९ः६ ॥
तदारनालं गगनादिकभावने अभ्रकादिप्लावने शस्तं प्रधानमभ्रकादिका अग्रे वक्ष्यमाणाः ॥ ३.७-९ः७ ॥
निर्मुखा समुखा चेति द्विविधा चारणा मता निर्मुखा चारणा प्रोक्ता बीजाधानेन भागतः ॥ ३.७-९ः८ ॥
शुद्धं स्वर्णं च रूप्यं च बीजमित्यभिधीयते ॥ ३.७-९ः९ ॥
चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते ॥ ३.७-९ः१० ॥
एवं कृते रसो ग्रासलोलुपो मुखवान् भवेत् ।
कठिनान्यपि लोहानि क्षमो भवति भक्षणे ॥ ३.७-९ः११ ॥
इयं हि समुखा प्रोक्ता चारणा वरवार्त्तिकैः ।
इति ॥ ३.७-९ः१२ ॥
अभ्रकाद्यपधातूनां निर्मुखचारणं हेमादिधातूनां समुखचारणमिति विवेको ज्ञेयः ॥ ३.७-९ः१३ ॥
रसायने शरीरकार्ये नागवङ्गौ न चारणीयौ किंतु स्वर्णादिकं बीजं चारणीयमिति भावः ॥ ३.७-९ः१४ ॥
आदिशब्देन नागवङ्गयोरधिकारविशेषमाह तस्मिन्नित्यादि ॥ ३.७-९ः१५ ॥
तस्मिन् पूर्वोक्तसंधाने शुद्धं निर्मलीकृतं नागं सीसकं प्रद्राव्य जलरूपं विधाय वह्नियोगातिति शेषः निषेचयेत्निषेकः कर्तव्यः वा तत्रैव संधाने वङ्गं रङ्गं प्रद्राव्य निषेचयेत् ॥ ३.७-९ः१६ ॥
कतिवारान् शतं वारान् प्रतिशतमित्यर्थः ॥ ३.७-९ः१७ ॥
तद्वङ्गं तारविधौ रूप्यविधाने योज्यं रसेन सह मिलितं कार्यमित्यर्थः ॥ ३.७-९ः१८ ॥
आस्यामार्यायां स्वर्णाधिकारेऽनुक्तमपि नागं ग्रन्थान्तरात्समायोज्यमिति विशेषार्थः ॥ ३.७-९ः१९ ॥
तन्नागं वङ्गं च रसायने शरीरसिद्धिनिमित्तं न योज्यमिति यतो नागवङ्गप्रभवावौपाधिकौ दोषौ गलबन्धगुल्मदौ कथितौ एतन्नागं वङ्गं च ग्रासार्थे योज्यमिति युक्तं यत एतेनान्तर्गतेनान्यदपि ग्राह्यं द्रव्यं ग्रसतीति भावः ॥ ३.७-९ः२० ॥
वङ्गे विशेषः ।
खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते ।
खुरकं गुणतः श्रेष्ठं मिश्रकं न रसे हितम् ॥ ३.७-९ः२१ ॥
इति रजतकर्मणि योग्यं ग्राह्यम् ॥ ३.७-९ः२२ ॥
गगनादिक्रमं स्पष्टयन्नाह गगनेत्यादि ॥ ३.७-९ः२३ ॥
अनेन पूर्वोक्तसंधानेन सर्वं सकलं भाव्यं भावितं कुर्यात् ॥ ३.७-९ः२४ ॥
सर्वमिति किं गगनरसोपरसामृतलोहरसायसादिचूर्णानि ॥ ३.७-९ः२५ ॥
गगनमभ्रकं वज्रसंज्ञिकं रसा महारसा हिङ्गुलस्वर्णमाक्षिकरूप्यमाक्षिकशिलाजतुचपलचुम्बकवैक्रान्तखर्परगैरिकस्फटिककासीससंज्ञका अमृतं विषं वा अमृतलोहा न मृता अमृता अमृताश्च ते लोहाश्च धावत इति रसाः पूर्वोक्ताः आयसा लोहास्तेषां संयोगजानि यानि चूर्णानि कल्कानि शुल्बाभ्रादीनि ॥ ३.७-९ः२६ ॥
आदिशब्दादुपरसानामपि ग्रहणम् ॥ ३.७-९ः२७ ॥
न केवलमेतान्येव संधानेन भाव्यानि किंत्वन्यदपि यत्किंचिच्चारणावस्तु चारणयोग्यं द्रव्यरत्नादिकं तदप्येतेन संधानेन भाव्यं चारणार्थम् ॥ ३.७-९ः२८ ॥
____________________________________________________
ङृह्त्३.१०
आदौ खल्वे मृदितां पिष्टीं हेम्नश्च तां रसश्चरति ।
तारस्य तारकर्मणि दत्त्वा सूते ततो गगनम् ॥ ङृह्त्_३.१० ॥
*टीका.. मुग्धावबोधिनींः
स्वर्णरूप्ययोरधिकारविशेषमाहादावित्यादि ॥ ३.१०ः१ ॥
ततोऽनन्तरं हेम्नः स्वर्णस्य पिष्टीं खल्वे मृदितां वक्ष्यमाणेन इति शेषः ॥ ३.१०ः२ ॥
तां पिष्टीं रसश्चरति ॥ ३.१०ः३ ॥
किं कृत्वा पिष्टीं दद्यातादौ प्रथमतः सूतेश्वरे गगनमभ्रकं दत्त्वा ॥ ३.१०ः४ ॥
हेम्नोऽधिकारो दर्शितः ॥ ३.१०ः५ ॥
हेमकर्मणि हेमैव तारकर्मणि तारमेव दद्यात् ॥ ३.१०ः६ ॥
हेम्नि विशेषः ।
स्वर्णं पञ्चविधं प्रोक्तं प्राकृतं सहजाग्निजम् ।
एतत्स्वर्णत्रयं चैव योज्यं षोडशवर्णकम् ॥ ३.१०ः७ ॥
खनिजं रसवादोत्थं सुपत्त्रीकृतशोधितम् ।
तच्चतुर्दशवर्णाढ्यं मनुजानां रुजापहम् ॥ ३.१०ः८ ॥
इति ॥ ३.१०ः९ ॥
तारेऽपि विशेषः ।
कैलासे सहजं रूप्यं खनिजं कृत्रिमं तथा ।
व्युत्क्रमेण गुणैः श्रेष्ठं नागोत्तीर्णे रसे हितम् ॥ ३.१०ः१० ॥
इति ॥ ३.१०ः११ ॥
तारमपि पूर्ववर्णं चार्यम् ॥ ३.१०ः१२ ॥
____________________________________________________
ङृह्त्३.११
त्रुटिशो दत्त्वा मृदितं सारे खल्वेऽभ्रहेमलोहादि ।
चरति रसेन्द्रः क्षितिखगवेतसबीजपूराम्लैः ॥ ङृह्त्_३.११ ॥
*टीका.. मुग्धावबोधिनींः
पिष्टीमर्दने पात्रौषधान्याह त्रुटिश इत्यादि ॥ ३.११ः१ ॥
अभ्रहेमलोहादीनि अभ्रमभ्रकं प्रतीतं हेम कनकं तदेव लोहः अभ्रकं च हेमलोहश्च तावादी यस्य तत् ॥ ३.११ः२ ॥
एवंविधं द्रव्यं क्षितिखगवेतसबीजपूराम्लैः क्षितिश्च खगश्च वेतसं च बीजपूरश्च क्षितिखगबीजपूराः बीजपूरो मातुलुङ्गः तेषां त्रयाणामम्लाः तैर्मृदितं घर्षितं सत्रसेन्द्रश्चरति ॥ ३.११ः३ ॥
किं कृत्वा मृदितं त्रुटिशोऽल्पमात्रं दत्त्वा ॥ ३.११ः४ ॥
कस्मिन् सारे खल्वे ॥ ३.११ः५ ॥
सारस्य तीक्ष्णजातस्यायं सारस्तस्मिन्नेवंविधे ॥ ३.११ः६ ॥
सारे विशेषः ।
मुण्डं तीक्ष्णं तथा कान्तं भेदास्तस्य त्रयोदश ।
मृदु कुण्ठं च कडारं त्रिविधं मुण्डमुच्यते ॥ ३.११ः७ ॥
खरसारं च हन्नालं तारावर्तं विडं तथा ।
काललोहं गजाख्यं च षड्विधं तीक्ष्णमुच्यते ॥ ३.११ः८ ॥
कान्तं लोहं चतुर्धोक्तं रोमकं भ्रामकं तथा ।
चुम्बकं द्रावकं चेति गुणास्तस्योत्तरोत्तराः ॥ ३.११ः९ ॥
इति ॥ ३.११ः१० ॥
खल्वो यथा ।
खल्वोऽश्माद्यो निरुद्गारो द्विरङ्गुलकटाहकः ।
अष्टाङ्गुलावटी कार्या दीर्घा वा वर्तुला तथा ॥ ३.११ः११ ॥
द्वादशाङ्गुलदीर्घेण मर्दकश्चतुरङ्गुलः ।
मुखं वृत्तं तु कर्तव्यं दर्पणोदरसंनिभम् ॥ ३.११ः१२ ॥
इति ॥ ३.११ः१३ ॥
अश्माद्य इति अश्मलोहार्काणां ज्ञातव्यः ॥ ३.११ः१४ ॥
____________________________________________________
ङृह्त्३.१२-१३
समुखं निर्मुखमथवा तुल्यं द्विगुणं चतुर्गुणं वापि ।
अष्टगुणं षोडशगुणमथवा द्वात्रिंशतागुणितम् ॥ ङृह्त्_३.१२ ॥
इति पत्त्राभ्रकमुक्तं तेन विधानेन चारयेत्सूतम् ।
<चारण>
ग्रासः पिष्टी गर्भस्त्रिलक्षणा चारणा भवति ॥ ङृह्त्_३.१३ ॥
*टीका.. मुग्धावबोधिनींः
धात्वादीनां चारणायां परिमाणमाह समुखमित्यादि ॥ ३.१२-१३ः१ ॥
इति पूर्वोक्तं पत्त्राभ्रकमुक्तं पत्त्राभ्रकचारणमित्यर्थः ॥ ३.१२-१३ः२ ॥
समुखं मुखसहितं चारणं भवतु वाथ निर्मुखं मुखवर्जितं चारणं भवतु उभयत्रापि तुल्यं समानं सूतं चारयेत्धात्वादीनिति शेषः ॥ ३.१२-१३ः३ ॥
अत्र विकल्पो द्विगुणं सूताद्द्विगुणितं चारयेद्वा चतुर्गुणितं सूताच्चतुर्गुणितं वा अष्टगुणं सूतादष्टगुणितं वा षोडशगुणं सूतात्षोडशगुणितं वा द्वात्रिंशतागुणितं सूताद्द्वात्रिंशद्गुणितं चारयेत् ॥ ३.१२-१३ः४ ॥
तेन विधानेन पूर्वोक्तेन विधानेन त्रुटिशो दत्त्वेत्यादिना ॥ ३.१२-१३ः५ ॥
चारणा त्रिलक्षणा भवति त्रीणि लक्षणानि चिह्नानि यस्यां सा तथोक्ता ॥ ३.१२-१३ः६ ॥
कथं ग्रासः अभ्रकस्य ग्रासनं निर्मुखत्वेन समुखत्वेन वापरा पिष्टी रसेनाभ्रादेर्मेलनं पुनर्गर्भो रसस्य गर्भे रसरूपं गगनं तिष्ठतीति ॥ ३.१२-१३ः७ ॥
श्लोकद्वयान्वयसम्बन्धाद्युग्मम् ॥ ३.१२-१३ः८ ॥
____________________________________________________
ङृह्त्३.१४-१५
<wरोन्गिदेअसबोउत्जारण>
दोलनविधिना यैरपि नानाविधभङ्गसंस्कृतं गगनम् ।
चारणविधौ प्रदिष्टं दृष्टं नोद्धूयमानं तैः ॥ ङृह्त्_३.१४ ॥
अन्येऽपि तुच्छमतयो गन्धकनिष्पिष्टिशुल्बपिष्टिरजः ।
दोलनविधिनोद्धूतं रसजीर्णं तदिति मन्यन्ते ॥ ङृह्त्_३.१५ ॥
*टीका.. मुग्धावबोधिनींः
इति गगनादिग्रासप्रमाणं कथितमथ चारणाविधानमाह दोलनविधिनेत्यादि ॥ ३.१४-१५ः१ ॥
गगनमभ्रकं यैरौषधैः पिष्टं पेषितं भवति तैरेवौषधैर्नाल्पमानैर्बहुमानैर्नानाविधभङ्गसंस्कृतं कुर्यादिति शेषः ॥ ३.१४-१५ः२ ॥
नानाविधा अनेकप्रकारा ये भङ्गास्तरंगा आगमाब्धिजातास्तैः संस्कृतमुपस्कृतम् ॥ ३.१४-१५ः३ ॥
किंविशिष्टं गगनं मारणविधिना पञ्चत्वविधानेन उद्दिष्टमुद्देशितम् ।
एवंविधमपि गगनं दोलनविधिना चारणायां योज्यमिति भावः ॥ ३.१४-१५ः४ ॥
अधुनाल्पमतीनां मतमाहान्य इत्यादि ।
अन्ये महद्भ्योऽपरे तुच्छमतयस्तुच्छा स्तोका मतिर्बुद्धिर्येषां ते तथोक्ताः अल्पबुद्धय इति यावत् ॥ ३.१४-१५ः५ ॥
रसं जीर्णं जारणसंस्कारोपपन्नं रसं मन्यन्ते इति ॥ ३.१४-१५ः६ ॥
किं गन्धकनिष्पिष्टिशुल्बपिष्टिरजो गन्धकेन या निष्पिष्टिः पिष्टीभूता शुल्बेन या पिष्टिः पिष्टीभूता ताम्रपिष्टीत्यर्थः गन्धकनिष्पिष्टिश्च शुल्बपिष्टिश्च तयोर्यद्रजः पांशुः गन्धकपिष्टी यथा ।
गन्धपाषाणचूर्णं च चणकस्य रसेन तु ।
भावयेत्सप्तवारं तु स्त्रीरक्तेन च सप्तधा ॥ ३.१४-१५ः७ ॥
शुद्धसूतं पलैकं तु खर्परे दापयेत्ततः ।
भावितं गन्धकं दद्यान्नरपिण्डेन संयुतम् ॥ ३.१४-१५ः८ ॥
दोलायन्त्रेऽपि तापेन पिष्टिका भवति क्षणात् ॥ ३.१४-१५ः९ ॥
इति ॥ ३.१४-१५ः१० ॥
एव शुल्बपिष्ट्यपि जायते ॥ ३.१४-१५ः११ ॥
किम्भूतं गन्धकनिष्पिष्टिशुल्बपिष्टिरजः दोलनविधिनोद्भूतं दोलिकायन्त्रविधानेनोत्पन्नम् ॥ ३.१४-१५ः१२ ॥
इति यदुक्तं तदसमञ्जसमिति भावः ॥ ३.१४-१५ः१३ ॥
____________________________________________________
ङृह्त्३.१६
<गोलकमुख>
तैलादिकतप्तरसे हाटकतारादिगोलकमुखेन ।
चरति घनं रसराजो हेमादिभिरेति पिण्डत्वम् ॥ ङृह्त्_३.१६ ॥
*टीका.. मुग्धावबोधिनींः
समुखचारणान्तर्भूतं वासनामुखचारणं दर्शयन्नाह तैलेत्यादि ॥ ३.१६ः१ ॥
रसराजः पारदो हाटकतारादि स्वर्णरूप्यादि धातुद्रव्यं कृत्रिमाकृत्रिमात्मकनवसंख्याकं पूर्वमुक्तं चरति भक्षति ॥ ३.१६ः२ ॥
केन गोलकमुखेन ॥ ३.१६ः३ ॥
गोलकश्च मुखविशेषः तेन विडस्य गोलकेनेत्यर्थः ॥ ३.१६ः४ ॥
क्व सति तैलादिकतप्तरसे सति ॥ ३.१६ः५ ॥
तैलमादिः येषां ते तैलादिकास्तैलवसामूत्रशुक्रपुष्पाः एतैस्तप्तो यो रस उष्णत्वं नीतो योऽसौ पारदस्तस्मिन् सत्येवं घनमभ्रकं चरति रसेन्द्रः ॥ ३.१६ः६ ॥
पुनर्हेमादिभिर्नवकैर्ग्रासीकृतैः पिण्डत्वमेति निबिडत्वं प्राप्नोति ॥ ३.१६ः७ ॥
तैलानि यथा ।
कङ्गुणीतुम्बिनीघोषाकरञ्जश्रीफलोद्भवम् ।
कटुवातारिसिद्धार्थसोमराजीविभीतजम् ॥ ३.१६ः८ ॥
अतसीजं महाकालीनिम्बजं तिलजं तथा ।
अपामार्गो देवदाली दन्तीतुम्बरुविग्रहाः ॥ ३.१६ः९ ॥
अङ्कोलोन्मत्तभल्लातफलेभ्यस्तैलसम्भवः ।
इति ॥ ३.१६ः१० ॥
वसा यथा ।
अजोष्ट्रखरमेषाणां महिषस्य वसा तथा ।
इति ॥ ३.१६ः११ ॥
मूत्रपुष्पशुक्राणि यथा ।
मूत्राणि हस्तिकरभमहिषीखरवाजिनाम् ।
स्त्रियः पुंसस्तथा मूत्रं पुष्पं वीर्यं च योजयेत् ।
इति ॥ ३.१६ः१२ ॥
____________________________________________________
ङृह्त्३.१७
<मुखःः शुकपिच्छमुख>
अन्ये स्वच्छं कृत्वा शुकपिच्छमुखेन चारयन्ति घनम् ।
सिद्धोपदेशविधिना आशितग्रासे न शुष्केण ॥ ङृह्त्_३.१७ ॥
*टीका.. मुग्धावबोधिनींः
तस्मिन्नभिप्रायेऽन्यमतमाहान्य इत्यादि ॥ ३.१७ः१ ॥
एके उक्तविधानेन चारणां कुर्वन्ति अन्ये अपरे रसं पारदं स्वच्छं कृत्वा स्वेदनाद्यष्टसंस्कारोपसंस्कृतं विधाय वा हिङ्गुलोत्थं घनमभ्रकं चारयन्ति अभ्रकस्य चारणां कुर्वन्ति ॥ ३.१७ः२ ॥
केन शुकपिच्छमुखेन शुकपिच्छं संधानविशेषः मुखं विशेषो येषां संधानानां तेन ॥ ३.१७ः३ ॥
क्व सति चारयन्ति आशितग्रासे सति भुक्तकवले सति पुनश्चार्यमित्यर्थः ॥ ३.१७ः४ ॥
केन सिद्धोपदेशविधिना सिद्धा रससिद्धा नित्यनाथवीरनाथादयः पूर्वोक्ताः तेषां य उपदेशविधिस्तेन ॥ ३.१७ः५ ॥
न शुष्केण संधानेनार्द्रीभावात्नीरसतां प्राप्तेन पुनश्चारणा न स्यात् ॥ ३.१७ः६ ॥
शुकपिच्छं यथा ।
भस्मक्षारान् सुशुष्कांस्तु क्षारांश्च लवणानि च ।
आलोड्य ह्यम्लवर्गेण शुल्बभाण्डे निधापयेत् ॥ ३.१७ः७ ॥
यावच्च शुकपिच्छाभमभ्रकं तेन भावयेत् ।
ग्रसते तत्क्षणात्सूतो गोलकस्तु विधीयते ॥ ३.१७ः८ ॥
इति ॥ ३.१७ः९ ॥
____________________________________________________
ङृह्त्३.१८
<मेर्चुर्य्ःः चारण>
अथवा माक्षिकगगनं समभागं पटुयुतं पक्वम् ।
प्रक्षिप्य लोहपात्रे स्वेदान्तश्चरति कृष्णाभ्रम् ॥ ङृह्त्_३.१८ ॥
*टीका.. मुग्धावबोधिनींः
अन्यमताभिप्राये प्रकारान्तरमाहाथवेत्यादि ॥ ३.१८ः१ ॥
पूर्वोक्तं विधानं कुर्यातथवा पक्षान्तरे इदं वक्ष्यमाणं कुर्यात् ॥ ३.१८ः२ ॥
माक्षिकगगनमिति माक्षिकेन युक्तं गगनमभ्रकं समभागं द्वयं तुल्यभागं पुटितं भावितं यत्पटु सैन्धवं लवणं शास्त्रान्तरसाम्यादम्लवर्गेण पुटितं तेन युतं मिलितं सत्पक्वं वह्निपुटितं कुर्यातिति शेषः ॥ ३.१८ः३ ॥
किं कृत्वा लोहपात्रे मुण्डादिभाजने प्रक्षिप्य मध्ये स्थाप्य ॥ ३.१८ः४ ॥
एवंविधं कृष्णाभ्रं स्वेदान्तर्वह्नितापमध्ये रसः पारदश्चरति ग्रसति माक्षिकसंयोगात्क्षिप्रमिति भावः ॥ ३.१८ः५ ॥
____________________________________________________
ङृह्त्३.१९
तं प्रवक्ष्याम्युपदेशं गन्धाभ्रकसंप्रवेशनं येन ।
पक्षछिन्नश्च रसो योग्यः स्याद्रसरसायनयोः ॥ ङृह्त्_३.१९ ॥
*टीका.. मुग्धावबोधिनींः
उपदेशविधानमाह तमित्यादि ।
येनोपदेशेन गन्धाभ्रकप्रवेशनं गन्धपाषाणसंयोगाद्यदभ्रप्रवेशेन भवति अभ्रस्य पारदान्तःप्रवेशो भवति तमुपदेशमहं कविर्वक्ष्यामि कथयिष्ये ॥ ३.१९ः१ ॥
अतिसामीप्याद्वर्तमान एव लट् ॥ ३.१९ः२ ॥
तु पुनः ॥ ३.१९ः३ ॥
पक्षछिन्नश्च रसो रसरसायनयोर्योग्यः रसे ज्वरादिरोगनाशके ज्वराङ्कुशादौ रसायने च जराव्याधिनाशने प्रयोगे योग्यः समर्थः ॥ ३.१९ः४ ॥
यथा मञ्जर्याम् ।
मारितो देहशुद्ध्यर्थं मूर्छितो व्याधिनाशनः ।
रसभस्म क्वचिद्रोगे देहार्थे मूर्छितं क्वचित् ॥ ३.१९ः५ ॥
बद्धं द्वाभ्यां प्रयुञ्जीत शास्त्रदृष्टेन कर्मणा ॥ ३.१९ः६ ॥
इति ॥ ३.१९ः७ ॥
गन्धाभ्रकप्रवेशेन पक्षछिन्नोऽचलो भवेदिति भावः ॥ ३.१९ः८ ॥
____________________________________________________
ङृह्त्३.२०
<सुल्fउर्ःः स्पेचिअल्रोले इनल्छेम्य्>
रसराजरागदायी बीजानां पाकजारणसमर्थः ।
सूतकपक्षच्छेदी रसबन्धे गन्धकोऽभिहितः ॥ ङृह्त्_३.२० ॥
*टीका.. मुग्धावबोधिनींः
गन्धकं विशेषयन्नाह रसराजेत्यादि ॥ ३.२०ः१ ॥
रसबन्धने पारदबन्धने गन्धकोऽभितः लेलिनकः सर्वोत्कृष्टः ॥ ३.२०ः२ ॥
कुतो यतः सूतकपक्षच्छेदी गन्धकः सूतस्य पारदस्य पक्षौ छिनत्ति ॥ ३.२०ः३ ॥
पुनः कुतो रसराजरागदायी रसराजः पारदः तस्य रागं रञ्जनं ददातीति ॥ ३.२०ः४ ॥
पुनः कुतो बीजानां पाकजारणसमर्थः पाकश्च जारणं च पाकजारणे ॥ ३.२०ः५ ॥
____________________________________________________
ङृह्त्३.२१-२५
<मेर्चुर्य्ःः मारण, पक्षछेद>
दत्त्वा खल्वे त्रुटिशो गन्धकमादौ रसं च त्रुटिशोऽपि ।
तावच्च मर्दनीयं यावत्सा पिष्टिका भवति ॥ ङृह्त्_३.२१ ॥
तदनु च द्रुतबलिवसया समभागनियोजितं तथा गगनम् ।
त्रुटिशो रसं च दत्त्वा कुर्वीत यथेप्सितां पिष्टिम् ॥ ङृह्त्_३.२२ ॥
सापि च दीप्तैरुपलैर्निपात्यतेऽधोऽथ दीपिकायन्त्रे ।
तदनु च निर्मुक्तमलो निकृन्तपक्षोऽभ्रगन्धाभ्याम् ॥ ङृह्त्_३.२३ ॥
भस्माकारश्च रसो हेम्ना सह युज्यते स च द्वंद्वे ।
गन्धकाभ्रकाभ्यां रसपक्षापकर्तनं यथा स्यात्तथाह दत्त्वेत्यादि ॥ ३.२१-२३ः१ ॥
आदौ प्रथमं खल्वे लोहार्काश्ममये गन्धकं त्रुटिशो दत्त्वा अल्पमात्रं वारं वारं गन्धरसौ दत्त्वा तावन्मर्दनीयं यावत्सा पिष्टिका एकशरीरता भवति कज्जलिकेति व्यक्तार्थः ॥ ३.२१-२३ः२ ॥
तदनु तत्पश्चात्रसगन्धकपिष्टीकरणानन्तरं तत्र रसगन्धकपिष्ट्या गगनमभ्रकं समभागनियोजितं गन्धरसाभ्यां तुल्यांशं मिलितं कार्यमित्यर्थः ॥ ३.२१-२३ः३ ॥
कया कृत्वा द्रुतबलिवसया द्रुता द्रवीभूता या बलिवसा भेकमत्स्यकर्कटशिशुमाराणां तैलरूपा शरीरजाता तया ॥ ३.२१-२३ः४ ॥
समभागाभ्रकनियोजनानन्तरं बलिवसया मर्दनं कार्यमिति तात्पर्यार्थः ॥ ३.२१-२३ः५ ॥
बलिवसा यथा ।
भेकमत्स्यभवा या तु कर्कटस्य वसाथवा ।
भाव्यमेभिः क्रमाद्गन्धं शिशुमारवसापि वा ॥ ३.२१-२३ः६ ॥
एतास्वेका बलिवसा सम्यक्सूतस्य बन्धिनी ।
रञ्जनं चैव कुरुते मणिमूषविधिक्रमात् ॥ ३.२१-२३ः७ ॥
एषा बलिवसा नाम क्षणाद्बध्नाति सूतकम् ।
इति ॥ ३.२१-२३ः८ ॥
रसगन्धाभ्रपिष्टिं कुर्वीतेत्यर्थः ॥ ३.२१-२३ः९ ॥
सा पूर्वोक्ता रसगन्धाभ्रपिष्टिरथेत्यनन्तरं दीपिकायन्त्रेऽधःपातने रसो निर्मुक्तमलस्त्यक्तदोषो भवति ॥ ३.२१-२३ः१० ॥
तस्मिन्निर्मुक्तमले सति निकृन्तपक्षः छिन्नपक्षो भवति ॥ ३.२१-२३ः११ ॥
काभ्यामभ्रगन्धाभ्यामभ्रं च गन्धश्च अभ्रगन्धौ ताभ्यां गन्धकान्तः संयोगात्सुखं रसाभ्रपिष्टिर्भवेत्यतो गन्धको द्वंद्वमेलनसमर्थः किं पुनर्बलिवसयेति तृतीयश्लोकार्थः ॥ ३.२१-२३ः१२ ॥
कुलकमिति ॥ ३.२१-२३ः१३ ॥
पूर्वसंस्कृतरसस्याकारं कार्यान्तरसम्पत्तिं चाह भस्मेत्यादि ॥ ३.२१-२३ः१४ ॥
च पुनः ॥ ३.२१-२३ः१५ ॥
ततोऽधःपातनाद्रसो भस्माकारो भस्मसदृशो भवेत् ॥ ३.२१-२३ः१६ ॥
स च भस्माकारो रसः हेम्ना स्वर्णेन सार्धमुभयमेलने युज्यते कर्मविदा इति शेषः ॥ ३.२१-२३ः१७ ॥
अथवा समुच्चये अव्ययो रेकार्थसम्बन्धात्पक्षान्तरे च ॥ ३.२१-२३ः१८ ॥
____________________________________________________
ङृह्त्३.२४-२५
<मेर्चुर्य्ःः मारण, चोम्पोउन्द्wइथ्गोल्द्>
अथवा गन्धकपिष्टिं पक्त्वा द्रुतगन्धकस्य मध्ये तु ॥ ङृह्त्_३.२४ ॥
सा चापि हेमपिष्टिर्विपच्यते गन्धके भूयः ।
इत्थं हेम्ना सूतो मिलति द्वंद्वे तथा क्षणान्म्रियते ॥ ङृह्त्_३.२५ ॥
*टीका.. मुग्धावबोधिनींः
अथवा हेम्ना सह पूर्वरसविधानेन गन्धपिष्टिं कुर्यातथवा द्रुतगन्धकस्य द्रवीभूतगन्धकस्य मध्ये पक्त्वा वह्नियोगेन सुपक्वं कृत्वा रसं पिष्टिवत्रसहेमगन्धपिष्टिं कुर्यादित्यर्थः ॥ ३.२४-२५ः१ ॥
पूर्वोद्दिष्टस्य द्वंद्वमेलनस्य विधानमाह सेत्यादि ॥ ३.२४-२५ः२ ॥
च पुनः ॥ ३.२४-२५ः३ ॥
सा पूर्वोक्ता हेमपिष्टिः रसहेमगन्धकृतरेतसोः सम्बन्धः सदातनः ॥ ३.२४-२५ः४ ॥
हेम्ना मिलिता या पिष्टिमेलनविशेत्सा हेमपिष्टी भूयः पुनः गन्धके विपच्यते युक्त्या पाकः कार्यः पूर्ववद्गन्धके ॥ ३.२४-२५ः५ ॥
इत्थमुक्तविधानेन हेम्ना सह सूतः पारदो मिलति ग्रन्थिमेति क्व सति द्वंद्वे सति उभयसंयोगे सति ॥ ३.२४-२५ः६ ॥
तथोक्तविधानेन द्वंद्वे मिलति सति तत्कालादल्पकालतो म्रियते पञ्चत्वमुपयाति ॥ ३.२४-२५ः७ ॥
अल्पक्रियान्तरकरणान्मृतो भवतीति भावः ॥ ३.२४-२५ः८ ॥
इति पक्षच्छेदविधिः ॥ ३.२४-२५ः९ ॥
____________________________________________________
ङृह्त्३.२६
इतरे पक्षच्छेदं द्वंद्वे रसमारणं न वाञ्छन्ति ।
बीजानामपि पाकं हृष्यन्ति च तदनु तप्यन्ति ॥ ङृह्त्_३.२६ ॥
*टीका.. मुग्धावबोधिनींः
एतावता रसपक्षकर्तनेन नालं भवितव्यमित्याह इतरे इत्यादि ॥ ३.२६ः१ ॥
ये पुरुषा इति उक्तविधानेन पक्षच्छेदं रसपक्षापकर्तनं वाञ्छन्ति पुनः द्वंद्वे रसमारणं द्वंद्वेन पूर्वोक्तेन रसहेमगन्धकेन कृत्वा यद्रसमारणं तन्न वाञ्छन्ति पुनर्बीजानामपि रक्ताभ्रहेमरसकादीनामपि पाकं वह्नियोगेन सुपक्वकरणं न वाञ्छन्ति ते पुरुषाः पूर्वं पक्षच्छेदं ज्ञात्वा हृष्यन्ति हर्षयुक्ता भवन्ति पक्षच्छेदं विनान्यकार्यसिद्धिं ज्ञात्वेत्यर्थस्तदनु च कार्यासिद्धौ तप्यन्ति परितापयुक्ता भवन्ति ॥ ३.२६ः२ ॥
____________________________________________________
ङृह्त्३.२७
इत्थमनेकदोषैर्बहुश्रमैर्गगनचारणं मत्वा ।
निर्दिश्यते प्रकारः कर्मणि शास्त्रेऽपि संवादी ॥ ङृह्त्_३.२७ ॥
*टीका.. मुग्धावबोधिनींः
गगनचारणं निर्दिश्यान्यसंस्कारं स्तुवन्नाह इत्थमित्यादि ॥ ३.२७ः१ ॥
मया ग्रन्थकर्त्रा अस्मिन् शास्त्रे कर्मण्यति संवादी प्रकारः अग्रिमप्रकरणे सत्त्वनिष्कासनरूपः निर्दिश्यते निर्देशः क्रियते ॥ ३.२७ः२ ॥
संवेद्यते संस्क्रियते संस्कारविद्भिरिति संवादी ॥ ३.२७ः३ ॥
किं कृत्वा इत्थमुक्तप्रकारेण अनेकैर्दोषैः अनेककष्टैः बहुश्रमैर्बह्वायासैर्गगनचारणं मत्वा अभ्रकचारणं ज्ञात्वा ॥ ३.२७ः४ ॥
गगनचारणानन्तरमन्योत्कृष्टप्रकारो निर्दिश्यते इति भावः ॥ ३.२७ः५ ॥
____________________________________________________
ङृह्त्३.२८
अग्राह्यो निर्लेपः सूक्ष्मगतिर्व्यापकोऽक्षयो जीवः ।
यावद्विशति न योनौ तावद्बन्धं कुतो भजते ॥ ङृह्त्_३.२८ ॥
इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते रसहृदयाख्ये तन्त्रे निर्मुखवासनामुखान्तर्भूतसमुखपत्त्राभ्रकचरणात्मकस्तृतीयोऽवबोधः ॥
*टीका.. मुग्धावबोधिनींः
प्रकारान्तरं दर्शयन्नाह अग्राह्य इत्यादि ॥ ३.२८ः१ ॥
एवंविधो हरजो यावद्योनौ अभ्रके न विशति न मिलति यावद्बन्धं बन्धनं कुतो भजते प्राप्नोति न कुतोऽपि योनावप्रविशति सति न बन्धनमाप्नोतीत्यर्थः ॥ ३.२८ः२ ॥
किंविशिष्टो हरजः अग्राह्यः हरः कथमपि न गृह्यतेऽनवयवत्वाथरजस्तद्गुण एव कारणानुरूपं कार्यमिति न्यायात् ।
पुनः किंविशिष्टो निर्लेपः वैकारिकैर्दोषगुणैर्न लिप्यत इति दोषगुणनिवृत्तेः ॥ ३.२८ः३ ॥
पुनः सूक्ष्मगतिः सूक्ष्मा गतिर्गमनं प्रवर्तनं वा यस्य सः धूमरूपावलोकनत्वात् ॥ ३.२८ः४ ॥
पुनर्व्यापकः देहलोहादेर्व्यापकत्वात् ॥ ३.२८ः५ ॥
पुनरक्षयः न क्षयो यस्येत्यक्षयः सर्वदा भावरूपत्वात् ॥ ३.२८ः६ ॥
पुनर्जीवः अजीवे प्रकाशत्वाभावः स्वत्वं विहाय मलिनोपाधिकत्वान्निरुपाधावुपाधिसम्पत्तिरिति तात्पर्यार्थः ॥ ३.२८ः७ ॥
तदाश्रया तद्विषया अनाद्यविद्येति वेदान्तवचनात् ॥ ३.२८ः८ ॥
इति श्रीमत्कुरलवंशपयोधिसुधारमिश्रमहेशात्मजचतुर्भुजविरचितायां मुग्धावबोधिन्यां रसहृदयटीकायां निर्मुखवासनामुखान्तर्भूतसमुखपत्त्राध्रकचारणात्मकस्तृतीयोऽवबोधः ॥ ३.२८ः९ ॥
____________________________________________________
ङृह्त्४.१
कृष्णो रक्तः पीतो योऽभ्रः स्यात्स्थूलतारकारहितः ।
वज्री स पीतकर्मणि पातितसत्त्वो घनो योज्यः ॥ ङृह्त्_४.१ ॥
*टीका.. मुग्धावबोधिनींः
अधुनाभ्रसत्त्वचारणं तत्र पीतकर्मणि गगनवर्णभेदानाह कृष्ण इत्यादि ॥ ४.१ः१ ॥
कृष्णो घनो रक्तो घनः पीतो घनश्चेति त्रिविधः पातितसत्त्वः पातितं सत्त्वं यस्येति समासः ॥ ४.१ः२ ॥
एवंविधो वज्री पीतकर्मणि सुवर्णकार्ये योज्यः ॥ ४.१ः३ ॥
वज्रिणो लक्षणं ध्मातोऽपि हठाग्नौ संयोजितोऽपि यः स्थूलतारकारहितो भवति स्थूलाश्च तास्तारकाश्च ताभी रहितः दलसमुच्चयरूपाः स्थूलतारकाः ॥ ४.१ः४ ॥
अनुक्तोऽपि श्वेतवर्णो घनः श्वेतकर्मणि योज्यः ग्रन्थान्तरसाम्यादयमभिप्रायः ॥ ४.१ः५ ॥
यथा ग्रन्थान्तरे रक्तं पीतं कृष्णं शस्तं हेमक्रियासु गगनं हि ॥ ४.१ः६ ॥
तारक्रियासु शुक्लं रसायने सर्वमेव तु श्रेष्ठमिति ॥ ४.१ः७ ॥
अभ्रेऽपि वृत्तिकृद्विशेषमाह कदाचिद्गिरिजा देवी हरं दृष्ट्वा मनोहरम् ॥ ४.१ः८ ॥
अमोचयत्तदा वीर्यं तज्जातं श्वेतमभ्रकम् ॥ ४.१ः९ ॥
श्वेतं रक्तं तथा पीतं कृष्णं तद्भूमिसंगमात् ।
पिनाकं दर्दुरं नागं वज्राभ्रं च चतुर्विधम् ॥ ४.१ः१० ॥
ध्मातं वह्नौ दलचयं पिनाकं विसृजत्यलम् ।
फूत्कारं भुजगः कुर्याद्दर्दुरं भेकशब्दवत् ॥ ४.१ः११ ॥
चतुर्थं खेचरं वज्रं नैवाग्नौ विकृतिं भजेत् ।
तस्माद्वज्राभ्रकं श्रेष्ठं व्याधिवार्धक्यमृत्युजितिति ॥ ४.१ः१२ ॥
____________________________________________________
ङृह्त्४.२
निश्चन्द्रिकं हि गगनं वासितमपि वासनाभिरिह शतधा ।
तदपि न चरति रसेन्द्रः सत्त्वं कथमत्र यत्नतः प्रभवेत् ॥ ङृह्त्_४.२ ॥
*टीका.. मुग्धावबोधिनींः
चारणायामभ्रपत्त्रे वैषम्यं सत्त्वे च सुगमत्वं सूचयन्नाह निश्चन्द्रिकमित्यादि ॥ ४.२ः१ ॥
इहास्मिन् चारणासंस्कारे निश्चन्द्रिकं गगनं तारकारहितमभ्रं वासनाभिः पूर्वोक्ताभिर्वासनौषधिभिः शतधा शतप्रकारं वासितं मथितमपि रसेन्द्रः पारदस्तदपि बहुश्रमैः संस्कृतमप्यभ्रं न चरति ग्रासीकरोति ॥ ४.२ः२ ॥
अत्र चारणे सत्त्वं यत्नतः प्रयत्नात्कथं प्रभवेत्कथमपि समर्थीभवेत्सत्त्वं यत्नतः समर्थीभवेदित्यर्थः ॥ ४.२ः३ ॥
____________________________________________________
ङृह्त्४.३
मुक्त्वैकमभ्रसत्त्वं नान्यः पक्षापकर्तनसमर्थः ।
तेन निरुद्धप्रसरो नियम्यते बध्यते च सुखम् ॥ ङृह्त्_४.३ ॥
*टीका.. मुग्धावबोधिनींः
सुगमत्वाद्गुणाधिकत्वाच्च सत्त्वं प्रशंसति मुक्त्वेत्यादि ॥ ४.३ः१ ॥
अभ्रसत्त्वमेकं मुक्त्वा त्यक्त्वा अन्योऽपरो रसपक्षापकर्तनसमर्थो न पारदपक्षच्छेत्ता न तेन सत्त्वेन सुखं यथा स्यात्तथा रसः पारदो नियम्यते पारदस्य नियमनं भवेदित्यर्थः बध्यते च बन्धनं प्राप्यते रसो बद्धो भवतीत्यर्थः ॥ ४.३ः२ ॥
किम्भूतः सन्नियमनं बन्धनं च प्नोति निरुद्धप्रसरः सन्निरुद्ध आरुन्धित्तः प्रसरः प्रसरणं प्रकृष्टेन गमनं यस्य तादृशः सन् ॥ ४.३ः३ ॥
____________________________________________________
ङृह्त्४.४
<पक्षच्छेद>
पक्षच्छेदमकृत्वा रसबन्धं कर्तुमीहते यस्तु ।
बीजैरेव हि स जडो वाञ्छत्यजितेन्द्रियो मोक्षम् ॥ ङृह्त्_४.४ ॥
*टीका.. मुग्धावबोधिनींः
रसबन्धनेऽधिकारित्वं दर्शयन्नाह पक्षच्छेदमित्यादि ॥ ४.४ः१ ॥
यो वादी अभ्रसत्त्वग्रसनेन विना पक्षच्छेदं कृत्वा पक्षापकर्तनमविधाय रसबन्धं कर्तुं पारदबन्धनं विधातुमीहते चेष्टते स वादी न किंतु जड एवमपण्डित इति भावः ॥ ४.४ः२ ॥
कः कृत्वा रसबन्धनं कर्तुमीहते बीजैः रक्ताभ्रहेमरसकैरित्यादिभिः ॥ ४.४ः३ ॥
एवाव्ययमन्यद्रव्यव्यवच्छेदी ॥ ४.४ः४ ॥
पक्षच्छेदनं कृत्वा बन्धनं कार्यमयं विधिः अन्यथा त्वविधिः ॥ ४.४ः५ ॥
अविधेर्दृष्टान्तमाह यथा अजितेन्द्रियो लम्पटः पुमान्मोक्षं वाञ्छति ॥ ४.४ः६ ॥
अजितेन्द्रियजडयोः साम्यमिति ॥ ४.४ः७ ॥
____________________________________________________
ङृह्त्४.५
नाधः पतति न चोर्ध्वं तिष्ठति यन्त्रे भवेदनुद्गारी ।
अभ्रकजीर्णः सूतः पक्षच्छिन्नः स विज्ञेयः ॥ ङृह्त्_४.५ ॥
*टीका.. मुग्धावबोधिनींः
पक्षच्छिन्नपारदस्य लक्षणमाह नेत्यादि ॥ ४.५ः१ ॥
एवंविधः पारदः सूतो यः स पक्षच्छिन्नः पक्षौ छिन्नौ छेदितौ यस्येति समासः ॥ ४.५ः२ ॥
स कः यो नाधः पतति अधःपातने कृते ऊर्ध्वतोऽधोभागो न पतति पुनरधोभागत ऊर्ध्वपातने कृते ऊर्ध्वं न याति अनुद्गारी अचञ्चलो भवेत्यन्त्रे स्वस्थ एव तिष्ठतीत्यर्थः ॥ ४.५ः३ ॥
पुनः किंविशिष्टः अभ्रजीर्णः अभ्रकं जीर्णं निःशेषतामाप्तं यस्मिन् रस इति समासः ॥ ४.५ः४ ॥
ग्रासमात्रेण पक्षच्छेदो न जायते यावन्न चारितमभ्रकं जरतीति ध्वन्यर्थः ॥ ४.५ः५ ॥
स पक्षच्छिन्नः सूत इति ॥ ४.५ः६ ॥
____________________________________________________
ङृह्त्४.६
<अभ्रःः सुब्त्य्पेस्>
श्वेतादिचतुर्वर्णाः कथितास्ते स्थूलतारकारहिताः ।
<अभ्रःः सुब्त्य्पेस्ःः रेअच्तिओन् तो हेअतिन्ग्>
वज्री सत्वं मुञ्चत्यपरे ध्माताश्च काचतां यान्ति ॥ ङृह्त्_४.६ ॥
*टीका.. मुग्धावबोधिनींः
वज्राभ्रं विहाय पिनाकनागभेकाः सत्वमोचनेऽसमर्था इति दर्शयन्नाह श्वेतेत्यादि ॥ ४.६ः१ ॥
ये ध्माताः स्थूलतारकारहिताः पत्त्रचयेन वर्जिता रक्तपीतकृष्णाः कथिताः पूर्वं वर्णितास्ते श्वेतादिचतुर्वर्णा भवन्ति ॥ ४.६ः२ ॥
त्रयाणां रक्तपीतकृष्णवर्णाभ्राणां चेत्श्वेतवर्ण आदौ युज्यते तदा चतुर्वर्णा भवन्तीत्यर्थः ॥ ४.६ः३ ॥
तेषां चतुर्वर्णानां मध्ये यो वज्री वज्रसंज्ञको घनः स सत्वं मुञ्चति ध्मातः सन् सत्वं त्यजति नान्ये ॥ ४.६ः४ ॥
अपरे पिनाकनागभेकाह्वयाः ध्माताः सन्तः काचतां यान्ति काचाकारत्वमाप्नुवन्ति न च सत्त्वनिर्गम इति ॥ ४.६ः५ ॥
____________________________________________________
ङृह्त्४.७
<अभ्रःः सुब्त्य्पेस्ःः पोतेन्च्य्>
सितरक्तासितपीता ये केचिदुदाहृता घना लोके ।
अल्पबला निःसत्त्वा वज्री श्रेष्ठस्तु सर्वेषाम् ॥ ङृह्त्_४.७ ॥
*टीका.. मुग्धावबोधिनींः
ससत्त्वबलवत्वाभ्यामुत्कृष्टत्वाद्वज्राभ्रं पुनः प्रशंसति सितेत्यादि ॥ ४.७ः१ ॥
लोके संसारे ये केचित्घना उदाहृताः कथितास्ते अल्पबलाः अल्पं बलं येषु ते तथोक्ताः ॥ ४.७ः२ ॥
निःसत्त्वाः सत्ववर्जिताः ध्मातेषु तेषु सत्वाभाव इत्यर्थः ॥ ४.७ः३ ॥
ते के घनाः सितरक्तासितपीताः श्वेतरक्तकृष्णपीतवर्णाः नान्ये वर्णाः सन्तीति भावः ॥ ४.७ः४ ॥
सर्वेषां चतुर्वर्णानां मध्ये वज्री वज्रसंज्ञकः श्रेष्ठः प्रधानः ॥ ४.७ः५ ॥
____________________________________________________
ङृह्त्४.८
<अभ्रःः इनेदिब्ले वरिअन्त्स्>
सूतेऽपि रसायनिनां योज्यं परिकीर्तितं परं सत्वम् ।
त्रिविधं गगनमभक्ष्यं काचं किट्टं च पत्त्ररजः ॥ ङृह्त्_४.८ ॥
*टीका.. मुग्धावबोधिनींः
देयमभ्रमाह सूतेऽपीत्यादि ॥ ४.८ः१ ॥
रसायनिनां रसायनं जराव्याधिविध्वंसिभेषजं विद्यते येषां येषु वा ते रसायनिनः तेषां परं प्रधानं सत्वमभ्रसत्वं परिकीर्तितं संकथितं यथा ग्रन्थान्तरे ।
सत्वसेवी वयःस्तम्भं कृतशुद्धिर्लभेत्सुधीः ।
इति ॥ ४.८ः२ ॥
अभ्रसत्वं सूतेऽपि पारदेऽपि परममुत्कृष्टं पक्षच्छेदनसमर्थं बलदं च ॥ ४.८ः३ ॥
पुनस्त्रिविधं गगनमभक्ष्यमभोज्यं रसायनिनां सूतेऽपि ॥ ४.८ः४ ॥
किं तत्त्रिविधमेकं काचं वह्नौ धमनात्काचाकारतां नीतं द्वितीयं किट्टं यद्धमनात्किट्टस्वरूपं प्राप्तं तृतीयं पत्त्ररजः पत्राणां समाहितं यद्रजस्तदेवं त्रिविधमभक्ष्यं सदोषत्वात् ॥ ४.८ः५ ॥
____________________________________________________
ङृह्त्४.९
<अभ्रःः सत्त्व>
मुञ्चति सत्वं ध्मातस्तृणसारविकारकैर्घनः स्विन्नः ।
परिहृत्य काचकिट्टं ग्राह्यं सारं प्रयत्नेन ॥ ङृह्त्_४.९ ॥
*टीका.. मुग्धावबोधिनींः
सत्वपातनविधानं दर्शयन्नाह मुञ्चतीत्यादि ॥ ४.९ः१ ॥
घनस्तृणसारविकारकैः स्विन्नः तृणमेव सारो येषां ते तृणसाराः तेषां ये विकारका विशेषास्तैरौषधैः सूर्यावर्तकादिभिः कृत्वा स्विन्नौ वह्नौ ध्मातो घनः सत्वं मुञ्चति सत्त्वपातं विदधाति ॥ ४.९ः२ ॥
पुनः काचं किट्टं च परिहृत्य सत्त्वं पतितकाचकिट्टयुक्तं यदा भवति तदा प्रयत्नेन ग्राह्यमित्यर्थः ॥ ४.९ः३ ॥
____________________________________________________
ङृह्त्४.१०
<अभ्रःः सत्त्वःः पातन>
स्वेद्य बद्ध्वा पिण्डं माहिषदधिदुग्धमूत्रशकृदाज्यैः ।
अथ पंचगव्ययुक्तः सत्वं पातयति लोहनिभम् ॥ ङृह्त्_४.१० ॥
*टीका.. मुग्धावबोधिनींः
अधुना विशेषप्रकारान्तरमाह स्वेद्य इत्यादि ।
स्वेद्यो घनः पूर्वोक्तैस्तृणसारविकारैः स्वेदितमभ्रं स्वेदविधिरुक्तः पुनर्घनस्य पिण्डं बद्ध्वा कैः सह माहिषदधिदुग्धमूत्रशकृदाज्यैः कृत्वा महिष्या इदं माहिषमेवंभूतं यद्दधि दुग्धं मूत्रं शकृद्विष्ठा आज्यं घृतं चैतैः पिण्डं बद्ध्वा ॥ ४.१०ः१ ॥
अथेति समुच्चये ॥ ४.१०ः२ ॥
पञ्चगव्यैः गवां दुग्धदधिमूत्रशकृदाज्यैः संयुक्तः कार्यः पिण्डं बद्ध्वेत्यर्थः ॥ ४.१०ः३ ॥
एतत्पिण्डं लोहनिभं मुण्डप्रभं सत्त्वं पातयति पूर्वसंबधात्घनस्य इत्यध्याहारः ॥ ४.१०ः४ ॥
____________________________________________________
ङृह्त्४.११
<सत्त्वःः एxत्रच्त्fरों चोओल्मिनेरल्स्>
सूर्यातपपीतरसाः स्वल्पं मुञ्चन्ति धातवः सत्वम् ।
स्वस्थानस्थाः सन्तो मुञ्चन्ति त एव भूयिष्ठम् ॥ ङृह्त्_४.११ ॥
*टीका.. मुग्धावबोधिनींः
सूर्यातपपीतरसा इति सूर्यातपे सवितृघर्मे पीताः शोषिता रसा द्रवा यैः एवंविधा धातवो ध्माताः सन्तः स्वल्पमीषन्मात्रं सत्त्वं मुञ्चन्ति त्यजन्ति ॥ ४.११ः१ ॥
पुनस्त एव सूर्यातपपीतरसा धातवः स्वस्थानस्थाः स्वकीयं यत्स्थानं द्रवेण स्थानपिण्डं रूपं तस्मिन् तिष्ठन्तीति एवंविधाः सन्तो बहलं भूयिष्ठं सत्वं मुञ्चन्ति द्रवन्तीत्यर्थः ॥ ४.११ः२ ॥
सूर्यातपपीतरसा इति केषां सूर्यावर्तकदलीवन्ध्याकर्कोटक्यादीनां द्रावकौषधीनाम् ॥ ४.११ः३ ॥
____________________________________________________
ङृह्त्४.१२
बहुगम्भीरं ध्मातो वर्षति मेघः सुवर्णधाराभिः ।
देवमुखतुल्यममलं पतितं सत्वं तथा विन्द्यात् ॥ ङृह्त्_४.१२ ॥
*टीका.. मुग्धावबोधिनींः
पतितसत्त्वलक्षणमाह बहुगम्भीरमित्यादि ॥ ४.१२ः१ ॥
मेघो घनो बहुगम्भीरं यथा स्यात्तथा ध्मातः सन् सुवर्णधाराभिः शोभनवर्णधाराभिः वा सुवर्णवत्कनकवत्वर्णो यासां ताभिः निर्मलत्वात्प्रकाशकत्वाच्च वर्षति धारापातं विदधाति ॥ ४.१२ः२ ॥
कथंभूतं देवमुखतुल्यं वह्निना तुल्यं समममलं निर्मलं हरितपीतरक्तादिधूमरहितत्वात्पतितं सत्वं तथा विन्द्यात्घनस्येत्यर्थः ॥ ४.१२ः३ ॥
तथा ग्रन्थान्तरे ।
भस्त्रानलेन तीव्रेण महाज्वाले हुताशने ।
अतिदीप्ते भवेद्बुद्धा अङ्गाराः क्षयमागताः ॥ ४.१२ः४ ॥
पुनरन्या न चेन्मूर्ध्नि द्विस्त्रिर्वाराणि बुद्धिमान् ।
यदा दीप्तो भवेद्वह्निः शुद्धज्वालो महाबलः ॥ ४.१२ः५ ॥
पतितं तु तदा विन्द्यात्तत्सत्त्वं नात्र संशयः ।
पतितं तु पृथक्कार्यं किट्टाङ्गारविवर्जितम् ॥ ४.१२ः६ ॥
निर्गुणं लक्षयित्वा तु पुनर्धाम्यो यथावता ।
द्विस्त्रिरेवमशेषं तु ध्मातः सत्त्वं विमुञ्चति ॥ ४.१२ः७ ॥
____________________________________________________
ङृह्त्४.१३-१४
<अभ्रःः सत्त्वःः “एअतेन्” wइथोउत मुख>
यदि लोहनिभं पतितं जातं गगनस्य तद्रसश्चरति ।
मिलति च सर्वद्वन्द्वे ह्यौषधिभिश्चरति विनापि मुखैः ॥ ङृह्त्_४.१३ ॥
<अभ्रःः सत्त्वःः प्रोदुचेस मुख>
माक्षिकसहितं गगनं ध्मातं सत्वं मुखप्रदं भवति ।
तदनु च नागैर्वङ्गैः सहितं च मुखप्रदं सत्वम् ॥ ङृह्त्_४.१४ ॥
*टीका.. मुग्धावबोधिनींः
माक्षिकसत्वान्तरसंयोगात्सत्त्वस्य गुणाधिक्यं दर्शयन्नाह माक्षिकेत्यादि ॥ ४.१३-१४ः१ ॥
गगने भवं गगनमण्प्रत्ययान्तं णितो वा इति सूत्रेण न वृद्धिः गगनमभ्रसत्वम् ॥ ४.१३-१४ः२ ॥
माक्षिके भवं माक्षिकं माक्षिकसत्वं तेन सहितं पूर्वसत्वं चेत्ध्मातं तदुभयसत्वं मुखप्रदं भवति रसस्य इति शेषः ॥ ४.१३-१४ः३ ॥
मुखं प्रकृष्टेन ददातीति समासः ॥ ४.१३-१४ः४ ॥
तदनु च तत्पश्चाच्च नागैर्वङ्गैः सहितं पूर्वं यद्गगनमभ्रसत्वं मुखप्रदमित्यर्थः ॥ ४.१३-१४ः५ ॥
वा सुखप्रदमिति पाठः अस्मिन् योगे बहुक्लेशं विहाय सुखेन चारणं भवतीति विकल्पार्थः ॥ ४.१३-१४ः६ ॥
____________________________________________________
ङृह्त्४.१५
<अभ्रःः सत्त्वःः इन्दुच्तिओनोf गर्भद्रुति, रञ्जन अन्द्बन्धन>
माक्षिकसत्वे योगाद्घनसत्वं चरति सूतको निखिलम् ।
नियतं गर्भद्रावी स रज्यते बध्यते चैवम् ॥ ङृह्त्_४.१५ ॥
*टीका.. मुग्धावबोधिनींः
माक्षिकसत्वं मुख्यत्वेनाह माक्षिकेत्यादि ॥ ४.१५ः१ ॥
सूतकः पारदो घनसत्वमभ्रसत्वं निखिलं समस्तं चरति ॥ ४.१५ः२ ॥
कस्मात्माक्षिकसत्वे योगात्माक्षिकं स्वर्णमाक्षिकं तत्सत्वे यो योगस्तस्मात् ॥ ४.१५ः३ ॥
नियतं निश्चितम् ॥ ४.१५ः४ ॥
माक्षिकसत्त्वयोगाद्घनसत्त्वं चरति रसो गर्भद्रावी गर्भे द्रावयति सत्त्वं द्रवरूपं विधत्ते यः स तथोक्तः ॥ ४.१५ः५ ॥
सूतस्योदरे माक्षिकाभ्रसत्वं द्रुतिरूपं तिष्ठतीत्यर्थः ॥ ४.१५ः६ ॥
एवममुना विधानेन सह सूतकः पारदो रज्यते रागवान् भवति बध्यते बद्धश्च भवतीत्यर्थः ॥ ४.१५ः७ ॥
____________________________________________________
ङृह्त्४.१६
<अभ्रःः सत्त्वःः fओर्बन्धन ओf मेर्चुर्य्>
सत्वं घनस्य कान्तं तालकयुक्तं सुरुन्धितं ध्मातम् ।
वारैस्त्रिभिरिह सत्वं भवति रसेन्द्रबन्धकारि परम् ॥ ङृह्त्_४.१६ ॥
*टीका.. मुग्धावबोधिनींः
माक्षिकयोगानन्तरमपरोऽभिधीयते सत्त्वमित्यादि ॥ ४.१६ः१ ॥
घनस्याभ्रस्य सत्वं तथा कान्तं लोहविशेषं तालकयुक्तं तालकेन हरितालेन युक्तं सुरुन्धितं ध्मातं सत्त्रयमपि सत्वरूपं भवति यदैकवारधमनेन सत्वं न मिलति तथा पुनर्द्विस्त्रिवेलाभिर्धमनं कार्यम् ॥ ४.१६ः२ ॥
समभागतालकयोजनं घनसत्वमाक्षिकसत्वयोगद्रावणाद्धमितादत्यर्थं तत्सत्वं रखे पारदे बन्धकारि भवति परममुत्कृष्टं बन्धनप्रदं भवति ॥ ४.१६ः३ ॥
तत्सत्त्वस्य चारणतो रसो बन्धनमवाप्नोतीति भावः ॥ ४.१६ः४ ॥
कान्तलक्षणम् ।
पात्रे यस्मिन् प्रविशति जले तैलबिन्दुर्न सर्पेथिङ्गुर्गन्धं विसृजति निजं तिक्ततां निम्बकल्कः ।
पाके दुग्धं भवति शिखराकारतां नैव भूमौ कान्तं लोहं विदुरिति च तल्लक्षणोक्तं न चान्यत् ।
इति ॥ ४.१६ः५ ॥
____________________________________________________
ङृह्त्४.१७
<अभ्रःः सत्त्वःः इन्दुच्तिओनोf गर्भद्रुति>
लोहं चाभ्रकसत्वं तालकसमभागसारितं चरति ।
अभिषवयोगाच्चाङ्गुलिमृदितं गर्भे च तद्द्रवति ॥ ङृह्त्_४.१७ ॥
*टीका.. मुग्धावबोधिनींः
कान्ताभ्रसत्वालयोगकरणमाह लोहमित्यादि ॥ ४.१७ः१ ॥
चेति समुच्चये ॥ ४.१७ः२ ॥
लोहं पूर्वोक्तलक्षणं मुण्डादिकमभ्रसत्वं च तालकसमभागसारितं तालकस्य समभागेन पूर्वविधानेन मुखादिना यत्सारितमेकशरीरतां नीतं सृ गतावित्यस्य धातो रूपं सारितं प्रमिलितमित्यर्थः एवंविधं कान्ताभ्रसत्वालं रसश्चरति ॥ ४.१७ः३ ॥
च पुनः अङ्गुलिमृदितमङ्गुलिना मर्दितं तत्कान्ताभ्रसत्वालं गर्भे रसोदरे द्रवति तत्स्वरूपत्वेन मिलति ॥ ४.१७ः४ ॥
कस्मातभिषवयोगातभिषवः संमर्दनं तद्योगात् ॥ ४.१७ः५ ॥
लोहस्य त्रयो दशभेदानां मध्यात्केनापि भेदेन सहयोगः कार्य इति लोहशब्देन ध्वनितम् ॥ ४.१७ः६ ॥
____________________________________________________
ङृह्त्४.१८
<अभ्रःः सत्त्वःः इन्दुच्तिओनोf चारण>
वंगमथो घनसत्वं तालकषड्भागसारितं चरति ।
अभिषवयोगाच्चरति व्रजति रसो नात्र सन्देहः ॥ ङृह्त्_४.१८ ॥
*टीका.. मुग्धावबोधिनींः
लोहयोगमुक्त्वा वङ्गयोगमाह वङ्गमित्यादि ॥ ४.१८ः१ ॥
अथ लोहकथनानन्तरं वङ्गं खुरसंज्ञकमभ्रकं च एतद्द्वयं तालकषड्भागसारितं तालकस्य षडंशेन एकशरीरतां नीतं तत्स्वरूपं रसश्चरति ॥ ४.१८ः२ ॥
कस्मातभिषवयोगातभिषवः संमर्दनं तद्योगात्षुञभिषवे इत्यस्य धातो रूपमभिषवः ॥ ४.१८ः३ ॥
पुनः रसश्चरति मिलति ॥ ४.१८ः४ ॥
चारितं यत्तद्द्रवति तद्द्रुतं रसे व्रजति पृथक्त्वात्सं मिलति नात्रसन्देहः निः संदिग्धमिव ॥ ४.१८ः५ ॥
वङ्गस्य लघुद्रवित्वात्षडंशयोगस्तालकस्य युक्तः लोहजातेः काठिण्यात्समभागत्वमुदितम् ॥ ४.१८ः६ ॥
____________________________________________________
ङृह्त्४.१९-२०
<अभ्रःः सत्त्वःः इन्दुच्तिओनोf चारण>
बहलं सुवर्णवर्णं निचुलपुटैः पतति पञ्चभिः सत्वम् ।
वटकीकृतमृतगगनं निरञ्जनं किट्टरहितं च ॥ ङृह्त्_४.१९ ॥
तच्चूर्णीकृत्य ततः क्षाराम्लैर्भावितं घनं बहुशः ।
सृष्टित्रयनीरकणातुम्बुरुरसमर्दितं चरति ॥ ङृह्त्_४.२० ॥
*टीका.. मुग्धावबोधिनींः
अभ्रसत्वविधानमाह बहलमित्यादि ॥ ४.१९-२०ः१ ॥
वटकीकृतं च तन्मृतं च गगनं तथोक्तं न वटको वटकः क्रियत इति वटकीकृतमत्र अभूततद्भावे च्विःप्रत्ययः ॥ ४.१९-२०ः२ ॥
पञ्चभिर्निचुलपुटैः पञ्चसंख्याभिर्वेतसवृक्षद्रवभावनाभिर्भावितं यन्मृतगगनं मृताभ्रं वटकीकृतं सत्सत्वं पतति तद्द्रावकौषधयोगं विधाय वह्निना विधमनादिति शेषः ॥ ४.१९-२०ः३ ॥
कियन्मानं सत्वं पतति बहलं बहु अन्यविधेरधिकम् ॥ ४.१९-२०ः४ ॥
कीदृशं स्वर्णवर्णं पीतश्वेतं प्रकाशाख्यं पुनर्निरञ्जनं निर्मलं किट्टरहितं च ॥ ४.१९-२०ः५ ॥
अस्मिन् सत्वे काचकिट्टाभावः ॥ ४.१९-२०ः६ ॥
सर्वोत्कृष्टविधिरयं पूर्वमुदितात्बहलसत्वपातादित्यर्थः ॥ ४.१९-२०ः७ ॥
केवलसत्वचारणविधानमाह तदित्यादि ॥ ४.१९-२०ः८ ॥
ततस्तदभ्रसत्वपातनविधेरनन्तरं तदेवाभ्रसत्वं चूर्णीकृत्य कल्कं विधाय क्षाराम्लैर्भावितं कुर्यात्क्षाराः स्वर्जिकादयः अम्ला जम्बीरादयः तैर्बहुशो बहुवारं घर्मपुटितं कुर्यादित्यर्थः ॥ ४.१९-२०ः९ ॥
पुनः सृष्टित्रयनीरकणातुम्बुरुरसमर्दितं सृष्टिः पूर्वोक्ता तत्त्रयं मूत्रशुक्रशोणितमिति नीरकणा जलपिप्पली तुम्बरु प्रतीतमेतेषां रसेन मर्दितं कुर्यात् ॥ ४.१९-२०ः१० ॥
अभ्रसत्त्वमेवं कृतं सत्चरति ग्रसति रसः इत्यध्याहारः ॥ ४.१९-२०ः११ ॥
____________________________________________________
ङृह्त्४.२१-२२
<शुल्वाभ्रःः प्रोदुच्तिओन्>
घनसत्वशुल्बमाक्षिकसमभागनियोजितं तथा मिलितम् ।
तच्छुल्बाभ्रं कथितं चरति रसो जीर्यति क्षिप्रम् ॥ ङृह्त्_४.२१ ॥
इति ताप्यशुल्बसहितं घनसत्वं लोहखल्वके मृदितम् ।
चरति रसेन्द्रः काञ्जिकवेतसजम्बीरबीजपूराम्लैः ॥ ङृह्त्_४.२२ ॥
*टीका.. मुग्धावबोधिनींः
अथ शुल्बाभ्रमाह घनेत्यादि ॥ ४.२१-२२ः१ ॥
घनसत्वशुल्बमाक्षिकसमभागनियोजितं घनसत्वमभ्रसत्वं शुल्बं ताम्रं माक्षिकं स्वर्णमाक्षिकं समभागेन तुल्यभागेन नियोजितं प्रयुक्तं तन्मिलितं सत्शुल्बाभ्रं कथितम् ॥ ४.२१-२२ः२ ॥
अत्र शुल्बं कीदृशं प्रयोज्यं तदाह ।
द्वावर्कौ म्लेच्छनेपालौ रसे नेपाल उत्तमः ।
घनघातसहः स्निग्धो रक्तपत्रोऽमलो मृदुः ॥ ४.२१-२२ः३ ॥
म्लेच्छस्तु क्षालितः कृष्णो रूक्षस्निग्धो घनासहः ।
मिश्रितो नागलोहाभ्यां न श्रेष्ठो रसकर्मणि ।
इति अतो नेपालकं ग्राह्यमित्यर्थः ॥ ४.२१-२२ः४ ॥
तच्छुल्वाभ्रं रसः क्षिप्रं चरति पुनः क्षिप्रं शीघ्रं तच्छुल्बं जीर्यति जारणमाप्नोति ॥ ४.२१-२२ः५ ॥
अत्र माक्षिकयोगः शुल्बाभ्रसत्वमेलनार्थं रसप्रीत्येति भावः ॥ ४.२१-२२ः६ ॥
शुल्बाभ्रचारणविधानमाह इतीत्यादि ॥ ४.२१-२२ः७ ॥
इति पूर्वोक्तं ताप्यशुल्बसहितं ताप्यं स्वर्णमाक्षिकं शुल्बं ताम्रं नेपालसंज्ञकं ताभ्यां सहितं मिश्रितं घनसत्वं तप्तलोहखल्वके मृदितं कार्यं मर्दनीयं कैः कृत्वा काञ्जिकवेतसजम्बीरबीजपूराम्लैः काञ्जिकमुक्तविधानं सौवीरं वेतसं चुक्रं जम्बीरं प्रसिद्धं बीजपूरो मातुलुङ्गः एतेषामम्लैः द्रवरूपैः ॥ ४.२१-२२ः८ ॥
ततः शुल्वाभ्रं रसेन्द्रः पारदश्चरति ग्रसति ॥ ४.२१-२२ः९ ॥
लोहखल्वस्य कथनात्तप्तखल्वके मर्दनं कुर्यादिति तात्पर्यार्थः ॥ ४.२१-२२ः१० ॥
____________________________________________________
ङृह्त्४.२३
<भस्मन् (ओf दिff. मेतल्स्):: रञ्जन>
इति तीक्ष्णशुल्बनागं माक्षिकयुक्तं च तत्कृतं खोटम् ।
तद्भस्म च पुटविधिना निर्व्यूढं सत्वरञ्जकं भवति ॥ ङृह्त्_४.२३ ॥
*टीका.. मुग्धावबोधिनींः
प्रकारान्तरमाह इतीत्यादि ॥ ४.२३ः१ ॥
इति पूर्वोक्तलक्षणं तीक्ष्णशुल्बनागं तीक्ष्णं ताम्रं नागं च एतत्त्रयं माक्षिकयुक्तं स्वर्णमाक्षिकयुतं समं तुल्यभागं कुर्यात् ॥ ४.२३ः२ ॥
तत्कृतं खोटं तैः सर्वैः पिष्टीस्तम्भेन खोटभस्म कार्यम् ॥ ४.२३ः३ ॥
पुटविधिना वह्निपुटविधानेन तत्कृतं खोटं भस्म कार्यं पुनः तद्भस्म सत्वे निर्व्यूढं निर्वाहितं सत्सत्वरञ्जकं भवति खसत्वे अभ्रसत्वे रागदायि भवति रञ्जितं तत्सत्वं रसरञ्जकं भवेदिति ॥ ४.२३ः४ ॥
____________________________________________________
ङृह्त्४.२४
चार्यं यत्नेन रसे घनसत्वं तद्विधं घनं तस्य ।
संयोज्य सर्वबीजं निर्वाह्य द्वन्द्वसंकरतः ॥ ङृह्त्_४.२४ ॥
*टीका.. मुग्धावबोधिनींः
रञ्जितघनसत्वस्य चारणमाह चार्यमित्यादि ॥ ४.२४ः१ ॥
तद्विधं पूर्वरञ्जितं घनसत्वमभ्रसत्वं च घनं केवलघनोद्भवं सत्वमरञ्जितं रसे पारदे चार्यं ग्रासग्रसनमानेनैतदभ्रसत्वं रसे संयोज्यम् ॥ ४.२४ः२ ॥
वा सत्वे सर्वबीजं सर्वं रागदायि द्रव्यं संयोज्य निर्वाह्यं निर्वाहितं कुर्यात् ॥ ४.२४ः३ ॥
कुतः द्वन्द्वसंकरतः द्वन्द्वानां संकरो मेलापः सङ्करोऽवकर इत्यमरः ॥ ४.२४ः४ ॥
निर्वाह्यमिति वह प्रापणे इत्यस्य रूपं पूर्ववत् ॥ ४.२४ः५ ॥
निरव्ययं निश्चयार्थं निर्निश्चयनिषेधयोः इत्यमरः ॥ ४.२४ः६ ॥
____________________________________________________
ङृह्त्४.२५
अभ्रकचारणमादौ गर्भद्रुतिचारणं च हेम्नोऽन्ते ।
यो जानाति न वादी वृथैव सोऽर्थक्षयं कुरुते ॥ ङृह्त्_४.२५ ॥
*टीका.. मुग्धावबोधिनींः
अथ रसचारणे ज्ञेयमाह अभ्रकेत्यादि ॥ ४.२५ः१ ॥
यो वादी रसकर्ता आदौ प्रथममभ्रचारणं न जानाति यथा रसोऽभ्रकं चरति ग्रसति पुनः तत्पश्चात्गर्भद्रुतिचारणं यद्रसगर्भे द्रुतं द्रवरूपं तिष्ठत्यभ्रादिकं तस्य चारणं ग्रसनं पुनरन्ते हेम्नः स्वर्णस्य चारणं ग्रसनं न जानाति स वृथैव मिथ्यैव अर्थक्षयं धननाशं कुरुते कार्यसिद्धेरभावात् ॥ ४.२५ः२ ॥
सर्वज्ञ एव रसक्रियायां प्रवर्तेतेति भावः ॥ ४.२५ः३ ॥
____________________________________________________
ङृह्त्४.२६
<अभ्रःः सत्त्वःः ग्रासःः ओन्ल्यभ्र पर्तिस्"एअतेन्">
गगनग्रासरहस्यं वक्ष्याम्येकं घनार्कसंयोगात् ।
केवलमभ्रकसत्वं ग्रसते यत्नान्न सर्वाङ्गम् ॥ ङृह्त्_४.२६ ॥
*टीका.. मुग्धावबोधिनींः
ग्रासरहस्यमाह गगनेत्यादि ॥ ४.२६ः१ ॥
अहं श्रीमद्गोविन्दभगवत्पूज्यपादाचार्यः एकमद्वितीयं गगनग्रासरहस्यमभ्रककवलने ग्रासकौतुकं वक्ष्यामि कथयामि ॥ ४.२६ः२ ॥
कस्मात्घनार्कसंयोगात्घनमभ्रकसत्वमर्कस्ताम्रमेतयोः संयोगः तस्मातुभयसत्वकृतखोटं चार्यम् ॥ ४.२६ः३ ॥
अथशब्दः पक्षान्तरसूचकः ॥ ४.२६ः४ ॥
अभ्रसत्वस्य यस्य धातो रूपं तेन सह यस्य धातोर्वा संयोगो भवति द्वन्द्वभावात्सङ्करतः तत्संयुक्तमभिधानं भवति यथा शुल्वाभ्रं नागाभ्रं वङ्गाभ्रं माक्षिकाभ्रं हेमाभ्रमिति एवं सर्वत्र संयोगान्नामनिष्पत्तिः ॥ ४.२६ः५ ॥
ग्रस्तस्य द्रावणं गर्भे गर्भद्रुतिरुदाहृता बहिरेव द्रवीकृत्य घनसत्वादिकं खलु ।
जारणाय रसेन्द्रस्य सा बाह्यद्रुतिरुच्यते ॥ ४.२६ः६ ॥
____________________________________________________
ङृह्त्५.१
यदि घनसत्वं गर्भे न पतति नो वा द्रवन्ति बीजानि ।
न च बाह्यद्रुतियोगस्तत्कथमिह बध्यते सूतः ॥ ङृह्त्_५.१ ॥
*टीका.. मुग्धावबोधिनींः
वाचो मरीचिभिस्तप्तं तोषय जनकैरवम् ।
कुमुदानि च कासारोद्वर्तीनि चिरभासया ॥ ५.१ः१ ॥
अथ गर्भद्रुतिबाह्यद्रुतिप्रशंसनमाह यदीत्यादि ॥ ५.१ः२ ॥
यदि चेद्घनसत्वमभ्रसत्वं गर्भे पारदस्यान्तर्न पतति द्रवत्वं नाप्नोति वा बीजानि शुल्बाभ्रादीनि पारदस्योदरे नो द्रवन्ति न रसरूपा भवन्ति च पुनः बाह्यद्रुतिर्न युज्यते चेदेवं न स्यात्तर्हि इह अस्यां क्रियायां प्राप्तायां सत्यां सूतो रसः कथं बध्यते अन्यथा न कोऽप्युपायः ॥ ५.१ः३ ॥
____________________________________________________
ङृह्त्५.२
गर्भद्रुत्या रहितो ग्रासश्चीर्णोऽपि नैकतां याति ।
एकीभावेन विना न जीर्यते तेन सा कार्या ॥ ङृह्त्_५.२ ॥
*टीका.. मुग्धावबोधिनींः
गर्भद्रुतेराधिक्यं दर्शयन्नाह गर्भेत्यादि ॥ ५.२ः१ ॥
चीर्णोऽपि ग्रासः चारणतां प्राप्तोऽपि कवलः यदि गर्भद्रुत्या रहितो भवेत्रसस्योदरे रसरूपकरणवर्जितो भवेत्तदा एकतां न याति रसरूपो न भवति ॥ ५.२ः२ ॥
पुनरेकीभावेन विना ग्रासो न जीर्यते जारणत्वं नाप्नोति ॥ ५.२ः३ ॥
तेन हेतुना गर्भद्रुतिपूर्विका जारणा कार्या रसबन्धे जारणं हेतुरिति भावः ॥ ५.२ः४ ॥
____________________________________________________
ङृह्त्५.३
बीजानां संस्कारः कर्तव्यः कोऽपि तादृशः प्रथमम् ।
येन द्रवन्ति गर्भे रसराजस्याम्लवर्गेण ॥ ङृह्त्_५.३ ॥
*टीका.. मुग्धावबोधिनींः
जारणायां प्रथमं कर्तव्यमाह बीजानामित्यादि ॥ ५.३ः१ ॥
बीजानां शुल्बाभ्रादीनां कोऽप्यनिर्वचनीयः संस्कारो गर्भे द्रुतिकारकः प्रथमं कर्तव्यः संस्क्रियत इति संस्कारः ॥ ५.३ः२ ॥
किंविशिष्टः तादृशः तैः बीजैः सदृशः यथा बीजानि शक्तिमन्ति सन्ति तथा संस्कारोऽपि शक्तिमान् कर्तव्य इत्यर्थः ॥ ५.३ः३ ॥
संस्कारः केन कर्तव्यः अम्लवर्गेण जम्बीरादिना ॥ ५.३ः४ ॥
येन संस्कारेण रसराजस्य गर्भे रसोदरे बीजानि धातूपधातुजातानि शुल्बाभ्रादीनि द्रवन्तीत्यर्थः ॥ ५.३ः५ ॥
____________________________________________________
ङृह्त्५.४
<गर्भद्रुतियोग्यबीज (१)>
सममाक्षिककृतवापं सममाक्षिकसत्वसंयुतं हेम ।
गर्भे द्रवति च जरति च जरितं बध्नाति नान्यथा सूतम् ॥ ङृह्त्_५.४ ॥
*टीका.. मुग्धावबोधिनींः
हेमबीजप्रशंसनमाह समेत्यादि ॥ ५.४ः१ ॥
सममाक्षिककृतवापं समभागं तुल्यांशं हेम्ना यन्माक्षिकं तस्य कृत्वा वापो वारं वारमाक्षेपोऽग्नियोगाद्यस्मिन् तथोक्तं पुनस्तद्धेम सममाक्षिकसत्वसंयुतं हेम्ना समं तुल्यं यन्माक्षिकसत्वं तेन संयुतं कृतखोटं कुर्यात् ॥ ५.४ः२ ॥
तत्खोटरूपं हेम गर्भे पारदान्तर्द्रवति ॥ ५.४ः३ ॥
पुनस्तद्द्रावितं हेम जरति जीर्णतामाप्नोति ॥ ५.४ः४ ॥
तद्धेम जरितं सत्सूतं रसेश्वरं बध्नाति ॥ ५.४ः५ ॥
अन्यथा अन्यप्रकारेण सूतो बन्धनं नाप्नोति ॥ ५.४ः६ ॥
माक्षिकस्य वापो हेम्नो वर्णोत्कर्षप्रद इति भावः ॥ ५.४ः७ ॥
____________________________________________________
ङृह्त्५.५
<तारारिष्ट>
माक्षिकसत्वं हेम्ना पादादिकजारितं द्रुतं सूते ।
तारारिष्टं कुरुते वरकनकं पत्त्रलेपेन ॥ ङृह्त्_५.५ ॥
*टीका.. मुग्धावबोधिनींः
माक्षिकसत्वचारणाद्रसे गुणोत्कर्षमाह माक्षिकसत्वमित्यादि ॥ ५.५ः१ ॥
माक्षिकसत्वं वह्न्यौषधयोगद्रुतं यद्धेममाक्षिकसारं हेम्ना कनकेन सह सूते पारदे पूर्वं यद्गुतं पुनः पादादिकजारितं पादादिकविभागेन पादार्धसत्वेन निःशेषतामाप्तं सतयं सूतः तारारिष्टं तारं रूप्यादि अरिष्टं शुभं वरकनकं कुरुते पूर्णवर्णमित्यर्थः ॥ ५.५ः२ ॥
केन विधानेन पत्त्रलेपनेन पत्रं कण्टकभेदि तत्र योऽसौ लेपः वह्नियोगादिति शेषः तेन ॥ ५.५ः३ ॥
हेममाक्षिकसत्वजारितस्य रूप्यपत्रलेपेन कनकं स्यादिति व्यक्तार्थः ॥ ५.५ः४ ॥
____________________________________________________
ङृह्त्५.६
<गर्भद्रुतिःः तेस्त्fओर्ँ>
समरसतां यदि यातो वस्त्राद्गलितोऽधिकश्च तुलनायाम् ।
ग्रासो द्रुतः स गर्भे द्रुत्वासौ जीर्यते क्षिप्रम् ॥ ङृह्त्_५.६ ॥
*टीका.. मुग्धावबोधिनींः
गर्भद्रुतेर्लक्षणमाह समेत्यादि ॥ ५.६ः१ ॥
यदि ग्रासः समरसतां यातो भवेद्रसतुल्यरूपतां प्राप्तो भवेत्पुनर्वस्त्राद्गलितो भवेत्चतुर्गुणश्वेतवस्त्रान्निःसृतो भवेत्पुनस्तुलनायां तुलाकर्मणि यदाधिकोऽपि स्यात्तदा गर्भे पारदस्यान्तर्द्रुतो ग्रासो ज्ञातव्यः गर्भद्रुतो रसो वेदितव्य इति व्यक्तार्थः ॥ ५.६ः२ ॥
पुनरसौ रसो द्रुत्वा द्रवरूपं शीघ्रं प्राप्तो जीर्यति धातूनपि विधानेनेति शेषः ॥ ५.६ः३ ॥
____________________________________________________
ङृह्त्५.७
<ऋओल्ले वोन् ताप्यसत्त्व>
न बिडैर्नापि क्षारैर्न स्नेहैर्द्रवति हेमं तारं वा ।
माक्षिकसत्वेन विना त्रिदिनं निहितेन रक्तेन ॥ ङृह्त्_५.७ ॥
*टीका.. मुग्धावबोधिनींः
माक्षिकसत्वोत्कर्षमाह नेत्यादि ॥ ५.७ः१ ॥
माक्षिकसत्वेन विना स्वर्णमाक्षिकसारमन्तरेण हेम कनकं वा तारं रूप्यं न द्रवति ॥ ५.७ः२ ॥
कैः कृत्वा विडैः कृत्वा शङ्खचूर्णार्कक्षारादिकृतपिण्डैः कृत्वा ग्रन्थान्तरे च ।
लवणक्षारोपरसैरेभिरम्लैर्बिडो मतः ।
समे गर्भे तु संस्थाप्यो ह्यनेनैव द्रवीभवेत् ।
इति ॥ ५.७ः३ ॥
न केवलं बिडैः किंतु क्षारैरपि न क्षारैः स्वर्जिकायवक्षारटङ्कणाद्यैः ॥ ५.७ः४ ॥
न केवलं क्षारैः किंतु स्नेहैरपि न स्नेहानि यथा ।
कङ्गुणिकं विनादोषाकरञ्जश्रीफलोद्भवम् ।
कटुवातारिसिद्धार्थसोमराजीविभीतजम् ।
अतसीजं महाकालनिम्बजं तिलजं तथा ।
अपामार्गदेवदालीदन्तीतुम्बरविग्रहा ।
अङ्कोलोन्मत्तभल्लातफलेभ्यस्तैलसंभवः ।
इति ॥ ५.७ः५ ॥
तैलैरपि न द्रवति ।
पुनर्माक्षिकसत्वेन गर्भे द्रुतिर्जायते ॥ ५.७ः६ ॥
किंविशेषेण माक्षिकसत्वेन रक्तेन रक्तवर्गेण ॥ ५.७ः७ ॥
त्रिदिनं दिनत्रयं निहितेन रक्तवर्गान्तःस्थापितेन ॥ ५.७ः८ ॥
रक्तवर्गो यथा ।
दाडिमं किंशुकं चैव बन्धूकं च कुसुम्भकम् ।
समाञ्जिष्ठो हरिद्राद्यो लाक्षारससमन्वितः ।
रक्तचन्दनसंयुक्तो रक्तवर्गः प्रकीर्तितः ।
इति ॥ ५.७ः९ ॥
____________________________________________________
ङृह्त्५.८-१२
<मेर्चुर्य्ःः चारण, गर्भद्रुति>
लवणं देवीस्वरसप्लुतमहिपत्रं विचूर्णितं शिलया ।
एतत्पुटनत्रितयात्सुमृतं संस्थापयेदयःपात्रे ॥ ङृह्त्_५.८ ॥
विहितार्धांगुलनिम्ना स्फुटविकटकटोरिका मुखाधारा ।
तस्योपर्यादेया कटोरिका चाङ्गुलोत्सेधा ॥ ङृह्त्_५.९ ॥
विहितच्छिद्रत्रितया शस्ता चतुरंगुलोर्ध्वछिद्रेषु ।
लोहशलाका योज्यास्तत्रापि च हेमपत्राणि ॥ ङृह्त्_५.१० ॥
संस्थाप्य विधूप्यन्ते यन्त्राधस्तात्प्रदीपयेदग्निम् ।
धूमोपलेपमात्राद्भवन्ति कृष्णानि हेमपत्राणि ॥ ङृह्त्_५.११ ॥
तान्यग्नितापितानि च पश्चाद्यन्त्रे मृतानि धूमेन ।
पाचितहेमविधानाच्चरति रसेन्द्रो द्रवति गर्भे च ॥ ङृह्त्_५.१२ ॥
*टीका.. मुग्धावबोधिनींः
स्वर्णजारणयन्त्रविधानमाह लवणमित्यादि ॥ ५.८-१२ः१ ॥
प्रथमं लवणं सैन्धवं देवीस्वरसप्लुतं कुर्यात्ब्राह्मीस्वकीयरसेन संमिश्रं कुर्यात् ॥ ५.८-१२ः२ ॥
पुनर्ब्राह्मीरसप्लुतं लवणं च अहिपत्रं ताम्बूलिदलं तच्च द्वयं शिलया विततग्रावेण चूर्णितं पेषितं कुर्यात् ॥ ५.८-१२ः३ ॥
पुनरेतदयःपात्रे लोहभाजने संस्थापयेत् ॥ ५.८-१२ः४ ॥
एतत्स्थापितं द्रव्यं पुटत्रितयात्त्रिपुटकरणादग्निसंयोगेन सुमृतं स्यात् ॥ ५.८-१२ः५ ॥
तस्य देवीस्वरसप्लुतस्य सुमृतसैन्धवस्य मुखाधारा स्फुटविकटकटोरिका पात्री कार्या मुखमेव आधारो यस्याः सा एवंविधा स्फुटा प्रकटा विकटा विपरीता अधोमुखेत्यर्थः सा कटोरिका विहिता कार्या अयःपात्रस्य ॥ ५.८-१२ः६ ॥
तस्याः कटोरिकाया उपरि ऊर्ध्वभागे एषा कटोरिका आदेया स्थाप्या ॥ ५.८-१२ः७ ॥
किंविशिष्टा अङ्गुलोत्सेधा अङ्गुल उत्सेधः परिमाणं यस्याः सा तथोक्ता ॥ ५.८-१२ः८ ॥
पुनः किंविशिष्टा अर्धाङ्गुलनिम्ना अर्धाङ्गुलपरिमाणनिम्ना मध्यगा ॥ ५.८-१२ः९ ॥
पुनः किंविशिष्टा विहितछिद्रत्रितया विहितानि कृतानि छिद्रत्रितयानि यस्यां सा एवंविधा शस्ता च संतुलविहितछिद्रत्रितया ॥ ५.८-१२ः१० ॥
चतुरङ्गुलोर्ध्वा तदुपरिभागे कटोरिका चतुरङ्गुलिप्रमाणोन्नतेति भावः ॥ ५.८-१२ः११ ॥
पुनश्छिद्रेषु त्रिषु शलाका योज्या लोहशलाकाः क्षेप्याः पुनस्तत्रापि छिद्रेषु हेमपत्राणि कण्टकवेधीनि कनकपत्राणि योज्यानीति ॥ ५.८-१२ः१२ ॥
एवंविधे पूर्वं निर्मिते यन्त्रे हेमपत्राणि स्थाप्य विधूप्यन्ते ॥ ५.८-१२ः१३ ॥
ततोऽग्निं प्रदीपयेत्यन्त्राधस्ताद्यन्त्राधोभागे वह्निं प्रज्वालयेत्तदा तानि हेमपत्राणि कृष्णानि श्यामवर्णानि भवन्ति ॥ ५.८-१२ः१४ ॥
कस्मात्धूमोपलेपमात्रात्धूमश्चासावुपलेपश्च धूमोपलेपस्तन्मात्रात्तत्प्रमाणात् ॥ ५.८-१२ः१५ ॥
येनौषधेन धूपो निरुक्तस्तेनौषधेनोपलेपः कार्यः पत्रेष्विति ॥ ५.८-१२ः१६ ॥
पुनः किंभूतानि हेमपत्राणि रसेन्द्रो जरति अग्नितापितानि सन्ति वह्नियोगात्तप्तानि कृतानि ॥ ५.८-१२ः१७ ॥
स्वर्णजारणमिदं गदितम् ॥ ५.८-१२ः१८ ॥
इति पञ्चभिः श्लोकैः कुलकम् ॥ ५.८-१२ः१९ ॥
____________________________________________________
ङृह्त्५.१३
<सिल्वेर्ःः गर्भद्रुति (इन्मेर्चुर्य्)>
तेनैव तारपत्रं विधिना संस्वेद्य यन्त्रयोगेन ।
जायेत कृष्णवर्णं तत्तारं द्रवति गर्भे च ॥ ङृह्त्_५.१३ ॥
*टीका.. मुग्धावबोधिनींः
अथ रूप्यजारणमाह तेनेत्यादि ॥ ५.१३ः१ ॥
तेनैव विधिना पूर्वपिधानेन तारपत्रं रूप्यदलं कृष्णवर्णं श्यामलप्रभं जायते ॥ ५.१३ः२ ॥
केन संस्वेद्य यन्त्रयोगेन संस्वेदः प्रबलाग्निस्तस्येदं सम्बन्धि यद्यन्त्रं यस्य यो योगस्तेन ॥ ५.१३ः३ ॥
तत्तारपत्रं पुनः गर्भे रसोदरे द्रवति जलत्वमाप्नोति ॥ ५.१३ः४ ॥
पुनस्तस्मिन् यन्त्रे द्रवति चशब्दात्रसेन्द्रस्तत्पत्रं जरति तारकृष्णीति ॥ ५.१३ः५ ॥
____________________________________________________
ङृह्त्५.१४
<गोल्द्, सिल्वेर्ःः गर्भद्रुति (ँ)>
अथवा बलिना वङ्गं नागाभिधानेन यन्त्रयोगेन ।
हेमाह्वं तारं वा द्रवति च गर्भे न सन्देहः ॥ ङृह्त्_५.१४ ॥
*टीका.. मुग्धावबोधिनींः
अथ योगान्तरमाह अथवेत्यादि ॥ ५.१४ः१ ॥
अथवेति समुच्चये एकार्थनिष्ठत्वात् ॥ ५.१४ः२ ॥
बलिना गन्धेन सह वङ्गं यन्त्रयोगेन कृष्णं जायेत ॥ ५.१४ः३ ॥
केवलं वङ्गं पुनर्नागाभिधानेन सह नागविधानमप्येवं स्यादिति व्यक्तिः ॥ ५.१४ः४ ॥
नागाभिधानेनेति नागनाम्ना आख्याह्वे अभिधानं च नामधेयं च नाम च इत्यमरः ॥ ५.१४ः५ ॥
एवंविधं वङ्गं वा नागं वा हेमाह्वं हेमपत्रं वा तारं तारपत्रं वा एतत्सर्वं बलिना कृष्णं जायेत मृतं च सर्वं गर्भे रसान्तरे द्रवति नात्र संदेहः असंदिग्धमिदमुक्तम् ॥ ५.१४ः६ ॥
चशब्दाज्जरति निःशेषत्वमाप्नोति ॥ ५.१४ः७ ॥
____________________________________________________
ङृह्त्५.१५
<रसकःः गर्भद्रुति (ँ)>
रसकं बलिना युक्तं पूर्वोक्तविधानयोगेन ।
पक्वं चूर्णं यावद्भवति भृशं द्रवति गर्भे च ॥ ङृह्त्_५.१५ ॥
*टीका.. मुग्धावबोधिनींः
प्रयोगान्तरमाह रसकमित्यादि ॥ ५.१५ः१ ॥
रसकं खर्परिकं बलिना गन्धेन सह युक्तं सत्मिलितं सत्समभागेन इति शेषः केन कृत्वा पूर्वोक्तविधानयोगेन पूर्वोक्तं यद्विधानं यन्त्रादिकं तस्य योऽसौ योगस्तेन कृत्वा तावद्भृशमत्यर्थं पक्वं कार्यं यावदशरीरतां याति तच्चूर्णं गर्भे रसोदरे द्रवति गर्भद्रुतिर्भवति चशब्दाज्जरति च ॥ ५.१५ः२ ॥
____________________________________________________
ङृह्त्५.१६
<गोल्द्ःः गर्भद्रुति>
व्यूढोऽथ गन्धकाश्मा शतगुणसंख्यं तथोत्तमे हेम्नि ।
सूते च भवति पिष्टिर्द्रवति हि गर्भे न विस्मयः कार्यः ॥ ङृह्त्_५.१६ ॥
*टीका.. मुग्धावबोधिनींः
विध्यन्तरमाह व्यूढ इत्यादि ॥ ५.१६ः१ ॥
अथेत्यनन्तरम् ॥ ५.१६ः२ ॥
गन्धकाश्मा गन्धपाषाणः शतगुणसंख्यं यथा स्यात्तथा उत्तमे हेम्नि पूर्णवर्णे व्यूढो निर्वाह्यः तद्गन्धव्यूढं हेम सूते पारदे पिष्टिर्भवति हि निश्चितं गर्भे रसान्तर्द्रवति गर्भद्रुतिर्भवतीत्यत्रविस्मयो ॥ ५.१६ः३ ॥
____________________________________________________
ङृह्त्५.१७
<गोल्द्ःः बीज fओर्गर्भद्रुति>
अथवा शतनिर्व्यूढं रसकवरं शुद्धहेम्नि वरबीजम् ।
बीजं जरति रसेन्द्रे द्रवति च गर्भे न सन्देहः ॥ ङृह्त्_५.१७ ॥
*टीका.. मुग्धावबोधिनींः
विध्यन्तरमाह अथवेत्यादि ॥ ५.१७ः१ ॥
अथवेति समुच्चये रसकवरं श्रेष्ठं खर्परिकं शुद्धहेम्नि पूर्णवर्णे शतनिर्व्यूढं कुर्यात्शतगुणनिर्वाहः कार्यः एकगुणस्वर्णे शतगुणनिर्वाह इति युक्तमेवं कृते सति वरबीजं श्रेष्ठबीजं भवति तद्बीजं गर्भे रसोदरे द्रवति गर्भे द्रुतिर्भवति रसेन्द्रे पारदे शीघ्रमविलम्बितं जरति च निःशेषतामाप्नोति विधानेन इति शेषः अत्र द्रवणे जरणे च न सन्देहः ॥ ५.१७ः२ ॥
____________________________________________________
ङृह्त्५.१८
<गोल्द्ःः बीज fओर्गर्भद्रुति>
अथवा तालकसत्वं शिलया वा तच्च हेम्नि निर्व्यूढम् ।
शतगुणमथ मूषायां जरति रसेन्द्रो द्रवति गर्भे च ॥ ङृह्त्_५.१८ ॥
*टीका.. मुग्धावबोधिनींः
पूर्वार्थे विध्यन्तरमाह अथवेत्यादि ॥ ५.१८ः१ ॥
तालकसत्वं हरितालसारं शतगुणं शतगुणितं हेम्नि कनके निर्व्यूढमन्धमूषायां वा प्रकाशमूषायां वह्नियोगेन इति शेषः तालकसत्वस्य हेम्नि निर्वाहः कार्य इति व्यक्तिः तच्च तत्सत्त्वं केवलं वा शिलया मनःशिलया सार्धं निर्व्यूढं कार्यं तद्धेम गर्भे रसोदरे द्रवति अथ रसेन्द्रो रसराजः द्रुतं जरति विधानेनेति ॥ ५.१८ः२ ॥
____________________________________________________
ङृह्त्५.१९-२१
<लेअद्, तिन्ःः चोम्बिनेद्मारण>
रसदरदाभ्रकताप्यविमलामृतशुल्बलोहपर्पटिका ।
स्नुह्यर्कदुग्धपिष्टं कंकुष्ठशिलायुतं नागम् ॥ ङृह्त्_५.१९ ॥
अभ्रकतालकशङ्खरससहितं तत्पुनः पुनः पुटितम् ।
चिञ्चाक्षारविमिश्रं वङ्गं निर्जीवतां याति ॥ ङृह्त्_५.२० ॥
विधिनानेन च पुटितं म्रियते नागं निरुत्थतां च गतम् ।
वङ्गं च सर्वकर्मसु नियुज्यते तदपि गतजीवम् ॥ ङृह्त्_५.२१ ॥
*टीका.. मुग्धावबोधिनींः
अथ विध्यन्तरमाह रसेत्यादि ॥ ५.१९-२१ः१ ॥
रसदरदाभ्रकताप्यमिति रसः पारदः दरदो हिङ्गुलः अभ्रकं प्रतीतं ताप्यं स्वर्णमाक्षिकं विमला रुक्ममाक्षिकं मृतं यच्छुल्बं ताम्रं लोहो मुण्डादिश्च एतेषां रसादीनां रसपर्पटीवत्पर्पटिका कार्या ॥ ५.१९-२१ः२ ॥
तया युतं नागं पुनः कङ्कुष्ठशिलायुतं कङ्कुष्ठं हरितपीतवर्णो विषहरपाषाणजातिः शिला मनोह्वा ताभ्यां युतं मिश्रितं यन्नागं सीसकः स्नुह्यर्कदुग्धपिष्टं कार्यं स्नुही सेहुण्डः अर्कः प्रसिद्धो विटपी तयोर्दुग्धेन पिष्टं पांशुभूतं मृतं यन्नागं कुक्कुटपुटविधानेनेति शेषः एतदपि बीजं सिद्धं गर्भे द्रवति च पूर्वसंबन्धात् ॥ ५.१९-२१ः३ ॥
अथ वङ्गबीजविधानमाह अभ्रकेत्यादि ॥ ५.१९-२१ः४ ॥
चिञ्चाक्षारविमिश्रं यद्वङ्गमम्लिकाक्षारयुक्तं वङ्गमभ्रकतालकशङ्खरससहितमभ्रकं प्रतीतं तालकं हरितालं शङ्खं कम्बुग्रीवं रसः पारदः एतैश्चतुर्भिः सहितं यथा स्यात्तथा पुनः पुनः वारं वारं निरुत्थं यावत्तावत्पुटितं कुर्यात् ॥ ५.१९-२१ः५ ॥
एतदौषधस्यांशभागेन सह पुटनाद्वङ्गं निर्जीवतां याति पञ्चत्वमाप्नोति एतदपि बीजं सिद्धं गर्भद्रावणे जारणार्थे च पूर्वसंबन्धात् ॥ ५.१९-२१ः६ ॥
नागवङ्गयोरेतदौषधं कारणमित्याह विधिनेत्यादि ॥ ५.१९-२१ः७ ॥
अनेन विधिना उक्तविधानेन नागं सीसकं पुटितं सत्म्रियते मृतं भवतीति वामुना विधानेनैव निरुत्थतां गतमशरीरतां प्राप्तं वङ्गं सर्वकर्मसु चारणजारणभक्षणादिकार्येषु नियुज्यते रसज्ञैरिति शेषः ॥ ५.१९-२१ः८ ॥
नागवङ्गमारणमेकविधमेवोक्तमतस्तद्भक्षणादिषु परस्परं गुणाधिकयोग्यं नतु जारणादिषु ॥ ५.१९-२१ः९ ॥
____________________________________________________
ङृह्त्५.२२
<गोल्द्ःः बीज fओर्गर्भद्रुति>
मृतनागं मृतवङ्गं मृतवरशुल्वं मृतं तथा तीक्ष्णम् ।
एकैकं हेमवरे शतनिर्व्यूढं द्रवति गर्भे च ॥ ङृह्त्_५.२२ ॥
*टीका.. मुग्धावबोधिनींः
नागवङ्गशुल्वतीक्ष्णानां जारणविधानमाह मृतनागमित्यादि ॥ ५.२२ः१ ॥
मृतनागमिति मृतं निर्जीवतां गतं यन्नागं सीसकं तथानेन विधानेन मृतं वङ्गं तथा मृतं निरुत्थतां गतं वरशुल्बं ताम्रं तथा च मृतं तीक्ष्णमरिवर्गेणेति शेषः एषां मध्ये एकैकं नागं वा वङ्गं वा शुल्बं वा तीक्ष्णं वा पृथक्त्वेन हेमवरे पूर्णवर्णे स्वर्णे शतनिर्व्यूढं हेम्नः शतगुणनिर्वाहितं कुर्यात्तत्सिद्धं गर्भे रसोदरे द्रवति चशब्दाज्जरति च ॥ ५.२२ः२ ॥
____________________________________________________
ङृह्त्५.२३
<गोल्द्ःः महाबीज>
समगर्भे द्रुतिकरणं हेम्नो वक्ष्याम्यहं परं योगम् ।
भ्रामकसस्यकचूर्णं शतनिर्व्यूढं महाबीजम् ॥ ङृह्त्_५.२३ ॥
*टीका.. मुग्धावबोधिनींः
महाबीजप्रभावं दर्शयन्नाह समगर्भ इत्यादि ॥ ५.२३ः१ ॥
इहास्मिञ्शास्त्रे विधिना शास्त्रोक्तरीत्या यानि बीजान्युक्तानि तानि कर्तव्यानि सामान्येनेति भावः परं गर्भद्रुत्यर्थमयं वार्त्तिकेन्द्रो योगः वार्त्तासु कुशला वार्तिकाः शास्त्रोपदेशरहिता इत्यर्थः अत्र भावाद्यर्थे इक्प्रत्ययः तेषु वार्तिकेषु इन्द्रः प्रवरो योगः तथानेनैव प्रकारेण एकमतश्चायं शास्त्रोपदेशिकानां शास्त्रोपदेशरहितानां च अभिमत इत्यर्थः ॥ ५.२३ः२ ॥
____________________________________________________
ङृह्त्५.२४-२६
<गर्भद्रुति>
अथवा गन्धकधूमं तालकधूमं शिलाह्वरसकस्य ।
दत्त्वाधोमुखमूषां दीर्घतमां खर्परस्यार्धे ॥ ङृह्त्_५.२४ ॥
ऊर्ध्वं लग्ना पिष्टी सुदृढा च यथा तथा च कर्तव्या ।
दत्त्वा खर्परपृष्ठे दैत्येन्द्रं दाहयेत्तदनु ॥ ङृह्त्_५.२५ ॥
स्तोकं स्तोकं दत्त्वा कर्षाग्नौ ध्मापयेन्मृदा लिप्ताम् ।
गर्भे द्रवति हि बीजं म्रियते तथाधिके दाहे ॥ ङृह्त्_५.२६ ॥
*टीका.. मुग्धावबोधिनींः
रसोदरे बीजद्रावणविधानमाह अथवेत्यादि ॥ ५.२४-२६ः१ ॥
अथवेति समुच्चये ॥ ५.२४-२६ः२ ॥
ऊर्ध्वं दीर्घतममूषायन्त्रस्य तलभागे पिष्टी रसेन्द्रबीजयोर्निर्मिता पिष्टिका च पुनः सुदृढा यथा स्यात्तथा लग्ना कर्तव्या ॥ ५.२४-२६ः३ ॥
किं कृत्वा खर्परस्यार्धे मृन्मयपात्रस्य खण्डार्धे खण्डैकदेश इत्यर्थः दीर्घतमामधोभागमुखीमधोभागे मुखं यस्याः सा तथोक्ता तां दत्त्वा ॥ ५.२४-२६ः४ ॥
पुनः किं कृत्वा गन्धकधूमं दत्त्वा वा स्तोकं स्तोकमल्पमल्पं तालकधूमं दत्त्वा वा शिलाह्वरसकस्य शिलाह्वा मनःशिला रसकः खर्परः चकवद्भावसमासः तस्य धूमं दत्त्वा ॥ ५.२४-२६ः५ ॥
पुनस्तत्खर्परमधोमुखमुखां च मृदा लिप्तां मृद्वेष्टितां करीषाग्नौ ध्मापयेत्करीषवह्नावित्यर्थः ॥ ५.२४-२६ः६ ॥
एवमधोमुखां खर्परं च दत्त्वा दैत्येन्द्रं बलिनामानं प्रस्तावाद्गन्धकं तदनु तत्करणपश्चाद्दाहयेत् ॥ ५.२४-२६ः७ ॥
एवं कृते सति रसेन्द्रमिलितं यद्बीजं तद्गर्भे रसेन्द्रान्तर्द्रवति ॥ ५.२४-२६ः८ ॥
पुनर्बीजसहितो रसेन्द्रोऽधिके दाहे सति म्रियत इत्यर्थः ॥ ५.२४-२६ः९ ॥
श्लोकत्रयसंबन्धाद्विशेषकम् ॥ ५.२४-२६ः१० ॥
____________________________________________________
ङृह्त्५.२७
<विडःः प्रोदुच्तिओन्>
गन्धकतालकशैलाः सौवीरकरसकगैरिकं दरदम् ।
क्षाराम्ललवणानि विडो माक्षिकवैक्रान्तविमलसमभागैः ॥ ङृह्त्_५.२७ ॥
*टीका.. मुग्धावबोधिनींः
अथ सुवर्णजारणार्थं बिडमाह गन्धकेत्यादि ॥ ५.२७ः१ ॥
गन्धकतालकशैला इति गन्धकं प्रतीतं तालकं हरितालं शैलः शिलाजतुः द्वंद्वः समासः तेन तथोक्ताः समभागाः कार्याः ॥ ५.२७ः२ ॥
पुनः सौवीरकं शुक्लाञ्जनं रसकं खर्परिकं गैरिकं धातुगैरिकं दरदं हिङ्गुलमत्रैकवद्भावसमासः तत्तथोक्तं समभागं कार्यम् ॥ ५.२७ः३ ॥
पुनः क्षाराम्ललवणानि क्षारा यवक्षारादयः अम्लं जम्बीरादि लवणानि सैन्धवादीनि एतान्यपि समभागानि ॥ ५.२७ः४ ॥
कैः सह माक्षिकवैक्रान्तविमलसमभागैः सह माक्षिकं स्वर्णमाक्षिकं वैक्रान्तं वज्रभूमिजं रजः विमलं रुक्ममाक्षिकमेतानि समभागानि तैर्बिड उच्यते सर्वैः समभागैः सुमर्दितैर्बिडः कार्य इत्यर्थः ॥ ५.२७ः५ ॥
____________________________________________________
ङृह्त्५.२८
<विडःः fओर्गर्भद्रुति>
कृत्वा सुवर्णपिष्टीं मृदितां च सुवेष्टितामनेनैव ।
त्रिपुटैस्तप्ते खल्वे मृदिता गर्भे तथा द्रवति ॥ ङृह्त्_५.२८ ॥
*टीका.. मुग्धावबोधिनींः
बिडयोगाद्यथा बीजं गर्भे द्रवति तथाह कृत्वेत्यादि ॥ ५.२८ः१ ॥
पूर्वोक्ता या पिष्टी तामनेनैवोक्तबिडयोगेन तप्ते खल्वे तप्तसंबन्धाल्लोहमये त्रिपुटैः करीषाग्न्यात्मकैर्मृदिता घर्षिता सति अनेनैव च वेष्टिता कार्या ॥ ५.२८ः२ ॥
किं कृत्वा सुवर्णपिष्टीं कनकपिष्टीं वा अन्यस्यापि धातोः सुवर्णपिष्टीं शोभनवर्णां पिष्टीं कृत्वा ॥ ५.२८ः३ ॥
खल्वे मृदिता सती तथा तेनैव प्रकारेण नत्वन्यप्रकारेण गर्भे रसोदरे द्रवति सलिलरूपा तिष्ठति ॥ ५.२८ः४ ॥
____________________________________________________
ङृह्त्५.२९
<विडःः fओर्गर्भद्रुति>
रक्ते शतनिर्व्यूढं नेत्रहितं भस्म वैक्रान्तकं चाथ ।
विमलं शतनिर्व्यूढं ग्रसति समं द्रवति गर्भे च ॥ ङृह्त्_५.२९ ॥
*टीका.. मुग्धावबोधिनींः
अथ वैक्रान्तगर्भद्रुतिमाह रक्त इत्यादि ॥ ५.२९ः१ ॥
वैक्रान्तभस्म वज्रभूमिजं रजस्तदुद्भवं भस्म रक्ते रक्तगणे शतनिर्व्यूढं शतवारं निर्वाहितं कुर्यात् ॥ ५.२९ः२ ॥
किंविशिष्टं नेत्रहितं नेत्रहितशब्देन मणित्वं दर्शितं मणयो नेत्रहिता इति ॥ ५.२९ः३ ॥
विमलं रूप्यमाक्षिकं श्वेतवर्णं यन्माक्षिकं रक्तगणे शतनिर्व्यूढं कुर्यात् ॥ ५.२९ः४ ॥
तदुभयं वैक्रान्तं विमलं च रक्तशतनिर्व्यूढं सत्रसो ग्रासविधानं विहाय समं ग्रसति कवलयति स्तद्ग्रसितं गर्भे रसान्तर्द्रवति जरति च इति चशब्दार्थः ॥ ५.२९ः५ ॥
____________________________________________________
ङृह्त्५.३०
<विडःः fओर्गर्भद्रुतिःः इम्मेर्मित्शतनिर्वाहण>
ये केचिद्विडयोगाः क्षाराम्ललवणानि दीप्तवर्गाश्च ।
सर्वे शतनिर्व्यूढा गर्भद्रुतिकारकाः कथिताः ॥ ङृह्त्_५.३० ॥
*टीका.. मुग्धावबोधिनींः
रक्तगणाधिक्यं दर्शयन्नाह य इत्यादि ॥ ५.३०ः१ ॥
ये केचिद्विडयोगा अत्र ग्रन्थान्तरेष्वपि च कथिताः तथा क्षाराम्ललवणानि कथितानि क्षारा यवक्षारादयः अथ च वृक्षौषधिसमुद्भवाः अम्ला जम्बीरादयः अम्लवृक्षशाकसमुद्भवाश्च यान्येतानि कथितानि च पुनर्ये दीप्तवर्गाः कथिता दीप्तिकरा योगा अभिहिताः ते सर्वे बिडक्षाराम्ललवणदीप्तवर्गाः शतनिर्व्यूढा गर्भद्रुतिकारकाः गर्भे रसोदरे द्रुतं द्रवरूपं कुर्वन्ति धातुमणिरत्नादीनीति शेषः ॥ ५.३०ः२ ॥
____________________________________________________
ङृह्त्५.३१-३२
<ंेन्गे निर्वाहण => ग्रास, देरस्सिमिलिएर्त्wइर्द्>
शतनिर्व्यूढे च समं पादोनं पञ्चसप्ततिव्यूढे ।
पञ्चाशति तदर्धं पादः स्यात्पञ्चविंशतिके ॥ ङृह्त्_५.३१ ॥
अष्टांशं तु तदर्धे षोडशांशं तदर्धनिर्व्यूढे ।
तस्यार्धे द्वात्रिंशच्चतुःषष्ट्यंशं तदर्धनिर्व्यूढे ॥ ङृह्त्_५.३२ ॥
*टीका.. मुग्धावबोधिनींः
शतनिर्वाहितादौ समादिविधानमाह शतेत्यादि ॥ ५.३१-३२ः१ ॥
शतनिर्व्यूढ इति शतवारं निर्वाहिते रक्तगणे इति शेषः समं तुल्यं ग्रसति रस इति शेषः ॥ ५.३१-३२ः२ ॥
पुनः पञ्चसप्ततिव्यूढे सति पादोनं चतुर्थांशवर्जितं समग्रं ग्रसतीति ॥ ५.३१-३२ः३ ॥
पुनः पञ्चाशन्निर्व्यूढे सति तदर्धं समस्यार्धमिति ॥ ५.३१-३२ः४ ॥
पुनः पञ्चविंशतिके सति पादश्चतुर्थांशम् ॥ ५.३१-३२ः५ ॥
न्यूनाधिके निर्व्यूढे सति न्यूनाधिकांशो ज्ञेय इति विशेषार्थः ॥ ५.३१-३२ः६ ॥
अल्पनिर्व्यूढक्रममाह अष्टांशमित्यादि ॥ ५.३१-३२ः७ ॥
तु पुनस्तदर्धे सार्धद्वादशके निर्व्यूढे सति अष्टांशं तदर्धे षड्वारनिर्व्यूढे सति षोडशांशमिति पुनस्तस्यार्धे त्रिवारनिर्व्यूढे सति द्वात्रिंशदंशं तदर्धनिर्व्यूढे एकद्विवारनिर्व्यूढे सति चतुःषष्ट्यंशं रसो ग्रसतीत्यर्थः ॥ ५.३१-३२ः८ ॥
____________________________________________________
ङृह्त्५.३३
<गर्भद्रुति>
इति गदितां गर्भद्रुतिमभिषवयोगेन चाम्लवर्गेण ।
स्वेदनविधिना ज्ञात्वा मृदितां तप्ते तु खल्वतले ॥ ङृह्त्_५.३३ ॥
*टीका.. मुग्धावबोधिनींः
गर्भद्रुतौ सत्यां कर्तव्यमाह इतीत्यादि ॥ ५.३३ः१ ॥
इत्युक्तविधानेन गदितां कथितां गर्भद्रुतिं ज्ञात्वा तप्ते खल्वतले लोहमये करीषाग्निना उष्णतां नीते मृदितां कुर्यात् ॥ ५.३३ः२ ॥
केन अभिषवयोगेन अभिषवः संमर्दनं तस्य योगेन न केवलमनेन अम्लवर्गेण च जम्बीरादिना न केवलमनेनापि स्वेदनविधिना च स्वेदनविधिः स्वेदनसंस्कारोक्तत्वान्नात्राभिहितः जारणहेतोरिति शेषः ॥ ५.३३ः३ ॥
____________________________________________________
ङृह्त्५.३४
<डुर्छ्fंह्रुन्ग्वोन् संस्कार गेमीß देन् वेर्wएन्देतेन् बीजसुस्w.>
ज्ञात्वा बीजबलाबलमर्दनयोगं कृतं च रसराजे ।
स्वेदविधानं च पुटं यन्त्रं वा विहितरसकर्म ॥ ङृह्त्_५.३४ ॥
*टीका.. मुग्धावबोधिनींः
मर्दनस्वेदनयोः पूर्वोपकरणं दर्शयन्नाह ज्ञात्वेत्यादि ॥ ५.३४ः१ ॥
बीजबलाबलमर्दनयोगं कृतं ज्ञात्वा बीजानां धातूपधातुयोगजनितानां बलाबले न्यूनाधिके योऽसौ मर्दनयोगस्तमेव कृतं ज्ञात्वा विदित्वा रसराजे स्वेदविधानं कुर्यात्वा पुटं वह्नियोगं कुर्यात्वा यन्त्रं विहितरसकर्म कुर्यात्विहितं कृतं रसस्य कर्म संस्काररूपं यत्र तथोक्तं गर्भयन्त्रादिकमित्यर्थः ॥ ५.३४ः२ ॥
____________________________________________________
ङृह्त्५.३५
सूतवरं लक्षयते बीजं नोपेक्षतां यथा याति ।
तद्वत्कार्यं विधिना सुकर्म गुरुपादनिर्दिष्टम् ॥ ङृह्त्_५.३५ ॥
*टीका.. मुग्धावबोधिनींः
सूतकर्मणो दुर्बोधत्वाद्गुरुपादं स्तुवन्नाह सूतेत्यादि ॥ ५.३५ः१ ॥
यथा येन प्रकारेण सूतवरं पारदः लक्षयते ज्ञायते कर्मकृतेति शेषः पुनर्यथा बीजमुपेक्षतां न याति सम्यक्मिलति तद्वत्तेनैव प्रकारेण गुरुपादनिर्दिष्टं कर्म आचार्यवर्यदर्शितं पूज्यं संस्काररूपं विधिना आचार्योक्तविधानेन कुर्यात् ॥ ५.३५ः२ ॥
गुरुपादलक्षणम् ।
सर्वशास्त्रविशेषज्ञः कुशलो रसकर्मणि ।
एवंलक्षणसंयुक्तो रसविद्यागुरुर्भवेत् ।
इति ॥ ५.३५ः३ ॥
इति गर्भद्रुतिजारणप्रकरणम् ॥ ५.३५ः४ ॥
____________________________________________________
ङृह्त्५.३६
<बाह्यद्रुति>
बाह्यद्रुतिरति विमला स्फुरति हि केषांचिदेव सिद्धानाम् ।
तेभ्यः सम्यक्ज्ञात्वा कलनाः कार्यास्तथा द्रुतयः ॥ ङृह्त्_५.३६ ॥
*टीका.. मुग्धावबोधिनींः
बाह्यद्रुतिं प्रशंसन्नाह बाह्यद्रुतिरित्यादि ॥ ५.३६ः१ ॥
द्रुतिर्द्विधोक्ता गर्भद्रुतिर्बाह्यद्रुतिश्चेति ॥ ५.३६ः२ ॥
गर्भद्रुतिः पूर्वमुक्ता बाह्यद्रुतिरधुनाभिधीयते ॥ ५.३६ः३ ॥
किंविशिष्टा अतिविमला निर्मलतरा ॥ ५.३६ः४ ॥
एषा च पुनः केषांचिदेव सिद्धानां स्फुरति सिद्धा रसविद्यापारगा नित्यनाथादयः तेषां ते जानन्तीति ॥ ५.३६ः५ ॥
दुष्प्राप्यत्वात्बाह्यद्रुतिरिह विरला ॥ ५.३६ः६ ॥
तेभ्यः सम्यक्ज्ञात्वा तथा तेनैव सिद्धोदेशविधानेन द्रुतयो बाह्यद्रुतयः ॥ ५.३६ः७ ॥
____________________________________________________
ङृह्त्५.३७-३८
<जारण ओf लेअद्>
वरनागं रसराजं बीजवरं सारितं तथा त्रितयम् ।
गन्धकशिलालसहितं निर्नागं दीपवर्तितो भवति ॥ ङृह्त्_५.३७ ॥
बद्ध्वा सुदृढे वस्त्रे पोटलिकायां शिखीकृतो दीपः ।
तैले मग्नं कृत्वा निर्नागं जायते क्षिप्रम् ॥ ङृह्त्_५.३८ ॥
*टीका.. मुग्धावबोधिनींः
अथ नागजारणमाह वरनागमित्यादि ॥ ५.३७-३८ः१ ॥
वरनागं श्रेष्ठजाति सीसकं जारणयोग्यं रसराजमुक्तसंस्कारैः संस्कृतं पारदं बीजवरं हेमबीजमेतत्त्रयं सारितं मिलितं कार्यं पुनर्गन्धकशिलालसहितं गन्धकं प्रतीतं शिला मनःशिला आलं हरितालं द्वन्द्वस्तानि तैः सहितं च कार्यमेतत्सर्वषट्कं दीपवर्तितः प्रज्वालितदीपवर्तियोगात्निर्नागं नागवर्जितं भवति नागं जरतीत्यर्थः ॥ ५.३७-३८ः२ ॥
यथा निर्णागं स्यात्तथा विधानमाह बद्ध्वेत्यादि ॥ ५.३७-३८ः३ ॥
तत्पूर्वोक्तं षट्कं सुदृढे वस्त्रे नूतने वस्त्रे अत्रोपश्लेषिकेऽधिकरणे सप्तमी पोटलिकायां बद्ध्वा पुनस्तैले तिलोद्भवे तत्षट्कं मग्नं निमज्जितं कृत्वा तदधः शिखीकृतो दीपोऽवधार्यः न शिखी शिखायुक्तः कृतः शिखीकृतः शिखावानित्यर्थः ॥ ५.३७-३८ः४ ॥
अनेन विधिना क्षिप्रं शीघ्रं निर्नागं स्यादिति ॥ ५.३७-३८ः५ ॥
____________________________________________________
ङृह्त्५.३९-४०
<जारण ओf लेअद्>
कृत्वात्र दीर्घमूषां सुदृढां ध्मातं तु भस्मगर्तायाम् ।
क्षिप्त्वा शिलालचूर्णं पश्चात्सूतं ततः शिलाचूर्णम् ॥ ङृह्त्_५.३९ ॥
संस्थाप्य भस्मनातो ध्मातं स्यात्स्वांगशीतलं यावत् ।
आकृष्य तत्र सूतं ज्ञात्वा नागं सुभक्षितं सकलम् ॥ ङृह्त्_५.४० ॥
*टीका.. मुग्धावबोधिनींः
निर्नागकरणे विधानमाह कृत्वेत्यादि ॥ ५.३९-४०ः१ ॥
तु पुनः दीर्घां गोस्तनाकारां सुदृढां निर्व्रणवज्रोपमां मूषां कृत्वा तां मूषां प्रति शिलालचूर्णं क्षिप्त्वा शिला मनोह्वा आलं हरितालमेतयोश्चूर्णं पश्चात्सूतं पूर्वोक्तं पारदं क्षिप्त्वा ततोऽनन्तरं शिलाचूर्णं क्षिप्त्वा तामेव रससंयुक्तां मूषां भस्मगर्तायां भस्मना युक्ता या गर्ता तस्यां ध्मातं कुर्यात्पुनस्तावद्भस्मना आच्छाद्य यावत्स्वाङ्गशीतलं स्वयमेव शीतलं स्यात् ॥ ५.३९-४०ः२ ॥
तत्र तस्यां मूषायां सकलं समस्तं नागं सुभक्षितं जीर्णतां गतं ज्ञात्वा सूतमाकृष्य उद्धार्य निर्नागकरणविधानमेतत् ॥ ५.३९-४०ः३ ॥
____________________________________________________
ङृह्त्५.४१
<बीज ओf नागजीर्णपारद>
ज्ञात्वा नागं त्रुटितं पुनरपि दद्याद्यथा भवेत्त्रिगुणम् ।
पश्चाच्छुद्धं कृत्वा बीजवरं योजयेत्तदनु ॥ ङृह्त्_५.४१ ॥
*टीका.. मुग्धावबोधिनींः
निर्नागानन्तरं यत्कर्तव्यं तदाह ज्ञात्वेत्यादि ॥ ५.४१ः१ ॥
नागं सीसकं त्रुटितं बुद्ध्वा पुनरपि नागं दह्यात्पूर्वोक्तविधानेन पारदे इति शेषः ॥ ५.४१ः२ ॥
यथा नागं त्रिगुणितं भवेत्तथैव कुर्यात् ॥ ५.४१ः३ ॥
पश्चात्सूतं शुद्धं कृत्वा पारदं निर्नागं विधाय तदनु नागजारणानन्तरं बीजवरं पूर्वोक्तं योजयेत् ॥ ५.४१ः४ ॥
____________________________________________________
ङृह्त्५.४२
<मेर्चुर्य्ःः जारण ओf तिन्>
अथवा तारं वङ्गं सूतं संसार्य वङ्गपरिहीनम् ।
तालकयोगेन तथा निर्वङ्गं यन्त्रयोगेन ॥ ङृह्त्_५.४२ ॥
*टीका.. मुग्धावबोधिनींः
अथ तारयोगमाह अथवेत्यादि ॥ ५.४२ः१ ॥
अथवेति विधानान्तरम् ॥ ५.४२ः२ ॥
तारं वङ्गं सूतमिति तारं रूप्यं वङ्गं खुरकं सूतं संस्कृतपारदमेतत्त्रितयं संसार्य मेलनं विधाय वङ्गपरिहीनं कुर्यात्तथा तेनैव विधानेन तालस्य योऽसौ योगस्तेन यन्त्रयोगेन च दीर्घमूषायोगेन च निर्वङ्गं वङ्गविवर्जितं कुर्यात् ॥ ५.४२ः३ ॥
____________________________________________________
ङृह्त्५.४३
<मेर्चुर्य्ःः जारण ओf तिन्>
अथवा वस्त्रनिबद्धं गिरिजतुसहितं सुवेष्टितं माषैः ।
पक्वं तैले वटकं निर्वङ्गं जायते नूनम् ॥ ङृह्त्_५.४३ ॥
*टीका.. मुग्धावबोधिनींः
विध्यन्तरमाह अथवेत्यादि ॥ ५.४३ः१ ॥
अथवा तारं वङ्गं वटकाकारं तैले तिलोद्भवे पक्वं कुर्यात्नूनं निश्चितं तद्वटकं तथा पक्वं कुर्याद्यथा निर्वङ्गं जायते वह्नियोगेन इति शेषः ॥ ५.४३ः२ ॥
____________________________________________________
ङृह्त्५.४४-४६
<बीजःः fओर्गर्भद्रुति>
पिष्टीस्तम्भं कृत्वा बीजवरेणैव सारितं तदनु ।
<बीजःः fओर्गर्भद्रुति>
अथवा बद्धरसेन तु सहितं बीजं सुरञ्जितं कृत्वा ॥ ङृह्त्_५.४४ ॥
गन्धकनिहितं सूतं निहितानिहितं च शृङ्खलायां तत् ।
योजितनिर्व्यूढरसे गर्भद्रुतिकारकं नूनम् ॥ ङृह्त्_५.४५ ॥
सूतकभस्मवरेण तु बीजं कृत्वा रसेन्द्रके गर्भे ।
मृदिता पिष्टी विधिना ह्यभिषवयोगाद्द्रवति गर्भे च ॥ ङृह्त्_५.४६ ॥
*टीका.. मुग्धावबोधिनींः
विधानान्तरमाह पिष्टीत्यादि ॥ ५.४४-४६ः१ ॥
बीजवरेणैव पूर्वकनकबीजेनैव सारितं मिलितं सत्पिष्टीस्तम्भं खोटस्तम्भं कृत्वा तदनु तत्पश्चातथवेति प्रकारान्तरं दर्शयति तु पुनः बद्धरसेन खोटबद्धरसेन सहितं सुरञ्जितं शोभनविधानेन वर्णवृद्धीकृतं बीजं स्वर्णबीजं संयुतं कुर्यात्योग एव कार्य इति द्विविधानमुक्तम् ॥ ५.४४-४६ः२ ॥
अन्यच्चाह गन्धकेत्यादि ॥ ५.४४-४६ः३ ॥
गन्धकनिहितं गन्धके निहितं स्थापितं सूतमूर्ध्वाधो गन्धकं दत्त्वा सूतं मध्यस्थं कुर्यादित्यर्थः ॥ ५.४४-४६ः४ ॥
च पुनरेवंविधं सूतं शृङ्खलायां शृङ्खलीकरणयोगे निहितानिहितं यन्निहितं तदनिहितमजारितं कार्यं निहितानिहितसंयोगात्शृङ्खलेयं नूनं निश्चितं योजितनिर्व्यूढरसे पूर्वं योजितं पश्चान्निर्वाहितं निर्व्यूढं यत्र तत्तस्मिन्नेवंविधरसे गर्भद्रुतिः पारदस्योदरे बीजानि द्रवन्ति ॥ ५.४४-४६ः५ ॥
पिष्टीविधिना जारणमाह सूतकेत्यादि ॥ ५.४४-४६ः६ ॥
तु पुनः रसेन्द्रके गर्भे रसेन्द्रकृतो योऽसौ गर्भस्तस्मिन् बीजं कृत्वा विधिना पिष्टीर्विधेया सा पिष्टी मृदिता कार्या कस्मातभिषवयोगात्संमर्दनयोगात्केन सह सूतकभस्मवरेण सह सूतकस्य यद्भस्मवरं तेन सा पिष्टी गर्भे द्रवति चशब्दाज्जरति च ॥ ५.४४-४६ः७ ॥
____________________________________________________
ङृह्त्५.४७-४९
<बीजःः fओर्गर्भद्रुति>
पत्राभ्रकं च सत्वं कांक्षी वा कान्तमाक्षिकं पुटितम् ।
निर्गुण्डी गृहकन्या चाङ्गेरी पलाशशाकैश्च ॥ ङृह्त्_५.४७ ॥
तावत्पुटितं कृत्वा यावत्सिन्दूरसप्रभं भवति ।
तत्पादशेषलवणं हण्डिकपाकेन पाचितं सुदृढम् ॥ ङृह्त्_५.४८ ॥
एकैकं शतव्यूढं बीजवरं जारयेद्रसेन्द्रस्य ।
गर्भे द्रवति च क्षिप्रं ह्यभिषवयोगेन मृदितमङ्गुल्या ॥ ङृह्त्_५.४९ ॥
*टीका.. मुग्धावबोधिनींः
बीजवरविधानमाह पत्राभ्रकमित्यादि ॥ ५.४७-४९ः१ ॥
पत्राभ्रकमिति अभ्रकस्य पत्राणि वाभ्रकस्य सत्वं पुनः कांक्षी सौराष्ट्री कान्तमाक्षिकं कान्तश्चुम्बकः माक्षिकं स्वर्णमाक्षिकमेतेषां द्वन्द्व एकत्वं पुनरेतत्निर्गुण्डीगृहकन्याचाङ्गेरीपलाशशाकैः पुटितं निर्गुण्डी सेफालिका गृहकन्या कुमारी चाङ्गेरी अम्लशाकः पलाशो ब्रह्मवृक्षः शाको वृक्षविशेषः एतेषां द्वन्द्वसमासः एतेषां रसं गृहीत्वा पूर्वौषधपुटितं कुर्यात्घर्मे इति शेषः ॥ ५.४७-४९ः२ ॥
तदौषधं पुटितं कृत्वा पुनस्तत्पुटितमौषधं तत्पादशेषं चतुर्थांशं लवणं सैन्धवं दत्त्वा हण्डिकापाकेन हण्डिकायां मृद्भाजने यः पाकस्तेन पाचितं वह्नौ पुटितं तावत्कुर्याद्यावत्सिन्दूरसंप्रभं सिन्दूरतुल्यवर्णं भवति ॥ ५.४७-४९ः३ ॥
कथं पाचितं कुर्यात्सुदृढं यथा स्यात्तथा एकैकं शतव्यूढमिति ॥ ५.४७-४९ः४ ॥
पूर्वोक्तानां सिन्दूरीकृतानामुपरसानामधरातेकैकमेकमेकं पृथक्त्वेन शतव्यूढं शतवारं वाहितं बीजवरं जायते कनके इति शेषः तद्बीजं रसेन्द्रस्य गर्भे द्रवति चशब्दात्क्षिप्रं शीघ्रं जरति च ॥ ५.४७-४९ः५ ॥
कथमङ्गुल्या अनामिकया योऽभिषवयोगः संमर्दनयोगस्तेनेति विशेषकम् ॥ ५.४७-४९ः६ ॥
____________________________________________________
ङृह्त्५.५०
<गोल्द्ःः बीज wइथ्लेअद्>
आवृत्तेऽप्यावर्त्यं हेमवरे क्षेप्यमुज्ज्वले नागम् ।
त्रिगुणशिलाप्रतिवापं ह्यहिबीजं तत्समुद्दिष्टम् ॥ ङृह्त्_५.५० ॥
*टीका.. मुग्धावबोधिनींः
नागेन बीजकरणमाह उज्ज्वलहेमवरे स्वर्णश्रेष्ठे आवर्त्ये सम्यग्द्रुते नागं शुद्धसीसकमावर्त्यं प्रद्राव्यं किं कृत्वा समं स्वर्णसमभागक्षेपं क्षिप्त्वा पुनर्नागोपरि त्रिगुणशिलाप्रतिवापं त्रिगुणा या शिला तस्या निर्वापं कुर्यात् ॥ ५.५०ः१ ॥
शिला मनःशिला ॥ ५.५०ः२ ॥
तत्सिद्धमहिबीजं नागयोगेन बीजं समुद्दिष्टं रसविद्भिः इति शेषः ॥ ५.५०ः३ ॥
____________________________________________________
ङृह्त्५.५१
<गोल्द्, सिल्वेर्ःः बीज wइथ्तिन्>
वङ्गं तु तेन विधिना हेमवरे क्षेप्य तालवापेन ।
तारे वा निर्व्यूढं बीजवरं त्रुटितसंयोगात् ॥ ङृह्त्_५.५१ ॥
*टीका.. मुग्धावबोधिनींः
अथ वङ्गयोगेन बीजमाह वङ्गमित्यादि ॥ ५.५१ः१ ॥
तेन पूर्वोक्तेन विधिना विधानेन तु पुनः हेमवरे पूर्ववर्णिते वङ्गं क्षेप्य तालवापेन हरितालनिक्षेपेण निर्व्यूढं कुर्यात्वा तारे आवर्त्ये वङ्गं निक्षिप्य निर्व्यूढं निर्वाहितं सद्बीजवरं भवेत् ॥ ५.५१ः२ ॥
कस्मात्त्रुटितसंयोगात्त्रुटितं भवति तथा बीजवरमिति वङ्गबीजं तत्पूर्ववत्द्रवति जरति च ॥ ५.५१ः३ ॥
____________________________________________________
ङृह्त्५.५२
<रसाङ्कुश>
यो निःसृतो भुजङ्गाद्रसकेशरीवज्रपञ्जरः स पुनः ।
फणिहेमगुणात्कुटिलो रसाङ्कुशो नाम विख्यातः ॥ ङृह्त्_५.५२ ॥
*टीका.. मुग्धावबोधिनींः
सुवर्णाभिधानबीजप्रशंसनमाह य इत्यादि ॥ ५.५२ः१ ॥
भुजङ्गात्सीसकात्निःसृतः भुजङ्गशिलावापेन क्षयं नीत्वा यः पृथग्भूतः स रसकेसरीवज्रपञ्जरः कथितः रस एव केसरी सिंहः तदर्थं वज्रपञ्जरः वज्रेण व्यधितः पञ्जरोऽतिदृढत्वात्सिंहरक्षणसमर्थ इत्यर्थः ॥ ५.५२ः२ ॥
पुनर्विशेषेणोच्यते अयं वज्रपञ्जरो न किंतु अयं रसाङ्कुशः रसो गजरूपः तस्याङ्कुशः वशीकरणसमर्थः ॥ ५.५२ः३ ॥
नाम संभावनायाम् ॥ ५.५२ः४ ॥
विख्यातः प्रकथितः ॥ ५.५२ः५ ॥
कस्मात्कुटिलात्किमपि वस्तुहरणात्कुटिलो वक्रो भवति दुष्टस्वभाव एव अनेन हेम्ना नागहरणं कृतम् ॥ ५.५२ः६ ॥
कथंभूतात्कुटिलात्फणी भुजङ्गः हेम स्वर्णं तयोर्गुणा विद्यन्ते यस्मिनेवंविधात्कुटिलादेशो युक्तः अङ्कुशोऽपि वक्रो भवतीति ॥ ५.५२ः७ ॥
अत्र भ्रान्तिमानलङ्कारः हेमबीजे वज्रपञ्जरगजाङ्कुशदर्शनाद्भ्रान्तिर्जातेति ॥ ५.५२ः८ ॥
____________________________________________________
ङृह्त्५.५३-५८
<जारण wइथोउत्प्रेचेदिन्ग्गर्भद्रुति; बाह्यद्रुति??>
एवं पक्वं विधिना बीजवरं सूतराट्तथाम्लेन ।
कर्तव्यः संस्वेद्यो यावत्पिष्टी भवेच्छ्लक्ष्णा ॥ ङृह्त्_५.५३ ॥
तैलेन तेन विधिना स्विन्ना पिष्टी भवेदखिलम् ।
अथवा श्लक्ष्णं शिलया निघृष्टबीजं भवेत्पिण्डी ॥ ङृह्त्_५.५४ ॥
पाको वटकविधिना कर्तव्यस्तैलयोगेन ।
क्रामणपिण्डे क्षिप्त्वा माषैश्च स्यात्सुदृढपिण्डत्वम् ॥ ङृह्त्_५.५५ ॥
मृद्वग्निना सुपक्वं दग्धं यावन्न भवेत्पिण्डम् ।
आकृष्य चाथ सूतं पिण्डे शेषं तथा पुनः पाच्यम् ॥ ङृह्त्_५.५६ ॥
अथवाप्यौषधपिण्डे दोलातप्ते खर्परे विधिना ।
पुनरपि पिण्डे क्षेप्यं गर्भे यावद्द्रुतिर्भवति ॥ ङृह्त्_५.५७ ॥
एवं द्रुतं हि गर्भे बीजवरं जरति रसराजे ।
गर्भद्रुत्या रहितं बिडयोगैर्जरति गर्भे च ॥ ङृह्त्_५.५८ ॥
*टीका.. मुग्धावबोधिनींः
बीजस्यास्य पिष्टीकरणमाह एवमित्यादि ॥ ५.५३-५८ः१ ॥
एवममुना प्रकारेण विधिनार्थादुपदेशेन पक्वं यद्बीजवरं तथा पूर्वसंस्कृतः सूतराट्पारदः अम्लेन जम्बीरादिना संस्वेद्यः स्वेदाख्यो विधिः कर्तव्यः ॥ ५.५३-५८ः२ ॥
अत्र किमवधिस्तत्कर्तव्यो यावत्श्लक्ष्णा स्पष्टा पिष्टी एकशरीरता भवेत्रसबीजयोरिति शेषः ॥ ५.५३-५८ः३ ॥
विध्यन्तरमाह तैलेनेत्यादिना ॥ ५.५३-५८ः४ ॥
तेन पूर्वोक्तेन विधिना वधविधानेन तिलतैलेन स्विन्ना स्वेदिता सती पिष्टिर्भवति वह्नाविति शेषः ॥ ५.५३-५८ः५ ॥
अथवेति विधानान्तरं दर्शयति ॥ ५.५३-५८ः६ ॥
शिलया दृषन्मयया निघृष्टबीजं निघृष्टं घर्षितं यद्बीजं नागाख्यं तत्सूतेनेति शेषः अखिलं समस्तं यथा स्यात्तथा पिष्टिर्भवतीति ॥ ५.५३-५८ः७ ॥
यथा वटकः पाच्यस्तथाह पाक इत्यादि ॥ ५.५३-५८ः८ ॥
वटकविधिना माषवटकविधिना तैलयोगेन पाकः कर्तव्यः वह्नौ पाचनं विधेयमित्यर्थः ॥ ५.५३-५८ः९ ॥
किं कृत्वा क्रामणपिण्डे क्षिप्त्वा बिडपिण्डमध्ये स्थाप्य च पुनर्माषैरन्नविशेषैर्दृढपिण्डत्वं स्यात्माषचूर्णवेष्टितं क्रामणपिण्डं दृढं भवेदिति व्यक्तिः ॥ ५.५३-५८ः१० ॥
तद्विधानमाह मृद्वित्यादि ॥ ५.५३-५८ः११ ॥
माषचूर्णितजातं क्रामणपिण्डं तावत्सुपक्वं कर्तव्यं यावद्दग्धं न भवेत् ॥ ५.५३-५८ः१२ ॥
केन सुपक्वं मृद्वग्निना कोमलवह्निना पुटः तत्पिण्डतः शेषं शिष्टं तं निर्मलपारदमाकृष्य गृहीत्वा पिण्डमन्यस्मिन् पिण्डे तथा पूर्वप्रकारेण पाच्यमिति ॥ ५.५३-५८ः१३ ॥
अपरं चाह अथवेत्यादि ॥ ५.५३-५८ः१४ ॥
अथवेति प्रकारान्तरे ॥ ५.५३-५८ः१५ ॥
पुनरपि पिष्टीर्दोलातप्ते औषधपिण्डे दोलयोत्तप्ते उष्णतां नीते क्रामणौषधानां पिण्डे क्षेप्य मध्ये स्थाप्य कस्योपरि खर्परे मृन्मयपात्रोपरि ॥ ५.५३-५८ः१६ ॥
केन विधिना पूर्वोक्तेन तैलेन वा अम्लेनेति ॥ ५.५३-५८ः१७ ॥
कियत्कालं यावद्गर्भे रसोदरे पिष्टी द्रवति तावद्बिडान्तरे पिण्डान्तरे क्षेप्येति तात्पर्यार्थः ॥ ५.५३-५८ः१८ ॥
अपरं चाह एवमित्यादि ॥ ५.५३-५८ः१९ ॥
एवममुना प्रकारेण गर्भे रसोदरे जरति निःशेषत्वं रसोदरे प्राप्नोति च पुनर्गर्भद्रुत्या रहितं द्रवेण वर्जितं बीजवरं बिडैर्जरति द्रुतबीजमारणसमर्थो बिड इत्यर्थः ॥ ५.५३-५८ः२० ॥
द्रुतग्रासपरिमाणो बिडयन्त्रादियोगतः ।
जारणेत्युच्यते तस्याः प्रकाराः सन्ति कोटिशः ।
प्रकारा यन्त्राणामिति शेषः ॥ ५.५३-५८ः२१ ॥
जारणभेदास्तु ।
ग्रासस्य चारणं गर्भद्रावणं जारणं तथा ।
इति त्रिरूपा निर्दिष्टा जारणा वरवार्तिकैः ।
इति ॥ ५.५३-५८ः२२ ॥
____________________________________________________
ङृह्त्६.१-७
<जारणःः मेथोद्>
ग्रासमिति चारयित्वा गर्भद्रुतिं ततो भूर्जे ।
लवणक्षाराम्लसुधासुरभीमूत्रेण कृतलेपे ॥ ङृह्त्_६.१ ॥
दृढवस्त्रबाह्यबद्धे दोलास्वेदेन जारयेद्ग्रासम् ।
सौवीरेणार्धपूर्णे कुम्भे सक्षारमूत्रकैरथवा ॥ ङृह्त्_६.२ ॥
अमुना क्रमेण दिवसैस्त्रिभिस्त्रिभिर्जारयेद्ग्रासम् ।
गर्भद्रुतिजारणमाह ग्रासमित्यादि ॥ ६.१-२ः१ ॥
पूर्वोक्तप्रकारेण ग्रासं कवलं यथासंख्यं चारयित्वा पुनर्गर्भद्रुतिं कृत्वा ततस्तदनन्तरं तद्गर्भद्रुतं सूतं भूर्जे भूर्जवृक्षत्वक्पुटके स्थापयेदित्यर्थः ॥ ६.१-२ः२ ॥
किंविशिष्टे भूर्जे लवणक्षाराम्लसुधासुरभिमूत्रेण कृतलेपे लवणानि सैन्धवादीनि क्षाराः स्वर्जिकादयः अम्लो जम्बीरादिः सुधा शुक्तिचूर्णं सुरभी धेनुस्तन्मूत्रमेतेन योगेन कृत्वा कृतो लेपो यस्मिन् ॥ ६.१-२ः३ ॥
उदरद्रुतियुक्तः सूतः स्थाप्य इत्यर्थः ॥ ६.१-२ः४ ॥
जारणविधानमाह दृढेत्यादि ॥ ६.१-२ः५ ॥
दृढवस्त्रबाह्यबद्धे इति दृढं नूतनं घनं च यद्वस्त्रं तेन बाह्ये सर्वतो बद्धे संयते पूर्वोक्तेन दोलास्वेदेन दोलायन्त्रविधिना यः स्वेदस्तं कृत्वा ग्रासं रसान्तर्द्रुतं कवलं जारयेत् ॥ ६.१-२ः६ ॥
कुत्र कुम्भे कलशे किंविशिष्टे सौवीरेणार्धपूर्णे सौवीरेण स्वेदनसंस्कारोदितकाञ्जिकेन कृत्वा अर्धपूर्णे ॥ ६.१-२ः७ ॥
अथवेति विध्यन्तरे ॥ ६.१-२ः८ ॥
सक्षारमूत्रकैः सह क्षारः स्वर्जिकादिभिः वर्तन्ते यानि मूत्राणि गोऽजाविनारीणामिति शेषः एतैः अर्धभृते कुम्भे जारयेदित्यर्थः ॥ ६.१-२ः९ ॥
अथ रसजारणे कालसंख्यामाह अमुनेत्यादि ॥ ६.१-२ः१० ॥
अमुना क्रमेणेति उक्तप्रकारेण त्रिभिस्त्रिभिर्दिवसैः त्रिभिः संख्याकैर्दिवसैः ग्रासे जाते अन्यग्रासः क्रियते गर्भद्रुतग्रासः क्रियते गर्भद्रुतग्रासः त्रिदिवसैर्जरतीति भावः ॥ ६.१-२ः११ ॥
____________________________________________________
ङृह्त्६.३-७
जीर्णस्य लक्षणमथो ज्ञेयं यन्त्रात्समुद्धृत्य ॥ ङृह्त्_६.३ ॥
<ऊन्तेर्सुछुन्ग्, ओब्जारण स्तत्त्गेfउन्देन् हत्>
उद्धृतमात्रं पात्रे प्रक्षाल्य कांजिकेनातः ।
समलं च कांजिकमतो हरणार्थं वस्त्रयोगेन ॥ ङृह्त्_६.४ ॥
तदनु सुखोष्णे पात्रे संमर्द्योऽसौ यथा न हीये ।
तावद्यावच्छुष्यति तल्लग्नं काञ्जिकं सकलम् ॥ ङृह्त्_६.५ ॥
इत्थं च शोषितजलः करमर्दनतः सुनिर्मलीभूतः ।
पीड्यः पात्रस्योपरि वस्त्रेण चतुर्गुणेनैव ॥ ङृह्त्_६.६ ॥
यदि परिगलितः सकलो वस्त्राद्ग्रासेन चैकतां यातः ।
न भवति यदि दण्डधरो जीर्णग्रासस्तदा ज्ञेयः ॥ ङृह्त्_६.७ ॥
*टीका.. मुग्धावबोधिनींः
अथेति त्रिदिनस्वेदानन्तरं जीर्णस्य रसस्य लक्षणं ज्ञेयं ग्रासो जीर्णो न वेति ज्ञातव्यः ॥ ६.३-७ः१ ॥
किं कृत्वा यन्त्राद्दोलिकाभिधानादुद्धृत्य यन्त्राद्बहिर्गृहीत्वेति ॥ ६.३-७ः२ ॥
रसमलापनयनमाह उद्धृतेत्यादि ॥ ६.३-७ः३ ॥
उद्धृतमात्रमिति यन्त्राद्बहिर्गृहीतमात्रं तत्पात्रे भाजने मृन्मये काञ्जिकेन प्रक्षाल्य ॥ ६.३-७ः४ ॥
पुनरतो रसात्समलं मलसंयुतं काञ्जिकं हरणीयं बहिः कार्यम् ॥ ६.३-७ः५ ॥
केन कृत्वा वस्त्रयोगेन वस्त्रे क्षिप्तं सत्तदेव तिष्ठति न काञ्जिकम् ॥ ६.३-७ः६ ॥
तस्यैव विधानं चाह तदन्वित्यादि ॥ ६.३-७ः७ ॥
तदनु वस्त्रयोगानन्तरं सुखोष्णे पात्रे असौ रसः संमर्द्यः ॥ ६.३-७ः८ ॥
कथं यथा न हीयते नाशं नाप्नुयातत्यौष्ण्यात्वा कांस्यताम्रनागवङ्गकनकतारपात्रात्वा दृढकरघाताद्रसो हीन एव स्याततोऽसौ पारदस्तावन् संमर्द्यो यावल्लग्नकाञ्जिकं रससंसर्गसौवीरं शुष्यति निःशेषतां यातीत्यर्थः ॥ ६.३-७ः९ ॥
तस्यैव विधानं चाह इत्थमित्यादि ॥ ६.३-७ः१० ॥
इत्थममुना प्रकारेण करमर्दनतः हस्ततलमर्दनतः सुनिर्मलीभूतो मलरहितः शोषितजलो रसश्चतुर्गुणेन वस्त्रेण कृत्वा पानस्योपरि पीड्यः ॥ ६.३-७ः११ ॥
जीर्णग्रासलक्षणमाह यदीत्यादि ॥ ६.३-७ः१२ ॥
तदा पारदो जीर्णग्रासो ज्ञेयः जीर्णो निःशेषत्वमापन्नो ग्रासो यस्मिन् स तथोक्तः ॥ ६.३-७ः१३ ॥
यदि सकलः सर्वः वस्त्रात्परिगलितः चतुर्गुणवस्त्रात्च्युतो भवति पात्रे इति शेषः ॥ ६.३-७ः१४ ॥
पुनर्यदि ग्रासेन सह एकतां यातः सन्मिलितः सन् रसो दण्डधरो न भवति स्थिररूपो न स्यात्तदा जीर्णग्रासो ज्ञातव्य इत्यर्थः ॥ ६.३-७ः१५ ॥
____________________________________________________
ङृह्त्६.८
<ग्रासाजीर्णःः त्रेअत्मेन्त्>
ग्रासादजीर्णपिष्टीं सूतादुद्धृत्य पातयेद्यन्त्रे ।
स्वस्थो भवति रसेन्द्रो ग्रासः पक्वः पुनर्जरति ॥ ङृह्त्_६.८ ॥
*टीका.. मुग्धावबोधिनींः
रसाजीर्णलक्षणमाह ग्रासादित्यादि ॥ ६.८ः१ ॥
ग्रासात्कवलसंयोगातजीर्णपिष्टीमजीर्णा अपरिपक्वा या पिष्टी पूर्वोक्तलक्षणा तां सूतात्रसात्यन्त्रे पातनकर्मोचिते पातयेत् ॥ ६.८ः२ ॥
एवं ग्रासात्पृथक्कृत्य पतितः स्वस्थो निर्मलो भवति ॥ ६.८ः३ ॥
पुनर्ग्रासः पक्वो वह्नितले दत्त्वा पक्वः कृतस्तं रसेन्द्रो जरतीति ॥ ६.८ः४ ॥
____________________________________________________
ङृह्त्६.९
दोलायां चत्वारो ग्रासा जार्या यथाक्रमेणैव ।
शेषाः कच्छपयन्त्रे यावद्द्विगुणादिकं जरति ॥ ङृह्त्_६.९ ॥
*टीका.. मुग्धावबोधिनींः
ग्रासजारणायां यन्त्रादिकरणमाह दोलायामित्यादि ॥ ६.९ः१ ॥
यथाक्रमेणैव चतुःषष्ट्यादिनैव चत्वारो ग्रासा दोलायां जार्याः शेषा ग्रासाश्चत्वारः असंख्या वा कच्छपयन्त्रे जलयन्त्रे च जार्याः ॥ ६.९ः२ ॥
शेषाश्चत्वारः कुतः यतोऽन्यशास्त्रेषु अष्टैव ग्रासाः ॥ ६.९ः३ ॥
जारणे किमवधिः यावद्द्विगुणादिकं जरति पारदाद्द्विगुणितमादिशब्देन द्विगुणान्न्यूनं न कार्यमधिकमधिकं च भवतु ॥ ६.९ः४ ॥
शक्त्यवतरेऽष्टौ बृहच्छास्त्रे क्वचिदष्टौ ग्रासा उक्ताः क्वचिद्विंशतिग्रासा इति ॥ ६.९ः५ ॥
____________________________________________________
ङृह्त्६.१०-१२
<ईउस्सेरे ंेर्क्मले देस्ःग्नछ्जारण एइनेर्बेस्त्. ंेन्गे अभ्र>
नादौ कर्तुं शक्योऽत्र ग्रासप्रमाणनियमस्तु ।
ग्रसते न हि सर्वाङ्गं गगनमतो लक्षणैर्ज्ञेयम् ॥ ङृह्त्_६.१० ॥
यदि हि चतुःषष्ट्यंशान् ग्रसति रसस्तदा धरेद्दण्डम् ।
चत्वारिंशद्भागप्रवेशतः पायसाकारः ॥ ङृह्त्_६.११ ॥
भवति जलौकाकारस्त्रिंशद्भागादविप्लुषश्च विंशत्या ।
छेदीव षोडशांशादत ऊर्ध्वं दुर्जरो ग्रासः ॥ ङृह्त्_६.१२ ॥
*टीका.. मुग्धावबोधिनींः
ग्रासेऽनिर्दिष्टसंख्यत्वं दर्शयन्नाह नेत्यादि ॥ ६.१०-१२ः१ ॥
अत्रास्मिन् शास्त्रे आदौ प्रथमं ग्रासप्रमाणनियमः कर्तुं न शक्यः ॥ ६.१०-१२ः२ ॥
यतः कारणात्गगनमभ्रं सर्वाङ्गं न ग्रसते रस इति शेषः ॥ ६.१०-१२ः३ ॥
तत्सर्वाङ्गग्रस्तं गगनमभ्रं लक्षणैरेव ज्ञातव्यमित्यर्थः ॥ ६.१०-१२ः४ ॥
चतुःषष्ट्यंशादिग्रासे रसाकारमाह यदीत्यादि ॥ ६.१०-१२ः५ ॥
यदि चेद्रसः चतुःषष्ट्यंशान् प्रमाणतो ग्रासं ग्रसति हि निश्चितं तदा दण्डं धारयेत्वस्त्रान्न क्षरतीत्यर्थः ॥ ६.१०-१२ः६ ॥
पुनश्चत्वारिंशद्भागप्रवेशतो रसोदरे इति शेषः तदा पायसाकारः क्वथितदुग्धाकारो भवेत्निबिडत्वात् ॥ ६.१०-१२ः७ ॥
तदेवाह भवतीत्यादि ॥ ६.१०-१२ः८ ॥
विंशद्भागात्त्रिंशद्भागस्य जारणतो जलौकाकारो भवेत्रस इत्यध्याहारः ॥ ६.१०-१२ः९ ॥
पुनः विंशत्या विंशद्भागजारणेन अविप्लुषो भवेदासनान्न चलति ॥ ६.१०-१२ः१० ॥
पुनः षोडशांशात्षोडशांशभागजारणतः छेदी भवेत्क्षुरिकादिभिः छेदे कृते पृथक्त्वमाप्नोति ॥ ६.१०-१२ः११ ॥
अतः षोडशभागादूर्ध्वं ग्रासो दुर्जरो भवेत् ॥ ६.१०-१२ः१२ ॥
____________________________________________________
ङृह्त्६.१३
पञ्चभिरेभिर्ग्रासैर्घनसत्वं जारयित्वादौ ।
गर्भद्रावे निपुणो जारयति बीजं कलांशेन ॥ ङृह्त्_६.१३ ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह पञ्चभिरित्यादि ॥ ६.१३ः१ ॥
एवमुक्तप्रकारेण पुनर्गर्भद्रावे निपुणः रसोदरे अभ्रधात्वादीनां द्रुतिकरणे प्रवीणः पुमान् कलांशेन ग्रासं योजयेत् ॥ ६.१३ः२ ॥
किं कृत्वा पञ्चभिः पूर्वोक्तैः ग्रासैश्चारु यथा स्यात्तथा घनसत्वमादौ जारयित्वा पञ्चभिर्ग्रासैर्घनसत्वजारणानन्तरं षोडशभागेन बीजं जारयेदित्यर्थः ॥ ६.१३ः३ ॥
____________________________________________________
ङृह्त्६.१४-१५
<Äन्देरुन्ग्वोन् फ्य्स्. Eइग्. वोन् ःग्नछ्जारण>
धूम्रश्चिटिचिटिशब्दो मण्डूकगतिस्तथा सकम्पश्च ।
निष्कम्पो भवति रसो विज्ञातव्योऽभ्रजीर्णस्तु ॥ ङृह्त्_६.१४ ॥
कपिलोऽथ निरुद्गारी विप्लुषभावं च मुञ्चते सूतः ।
निष्कम्पो गतिरहितो विज्ञातव्योऽभ्रजीर्णस्तु ॥ ङृह्त्_६.१५ ॥
*टीका.. मुग्धावबोधिनींः
अभ्रकजीर्णरसलक्षणमाह धूम्र इत्यादि ॥ ६.१४-१५ः१ ॥
अभ्रजीर्णरस एवंविधो भवति अभ्रं जीर्णं यस्मिन् स तथोक्तः ॥ ६.१४-१५ः२ ॥
वह्नियोगात्प्रथमं धूम्रो धूम्राभो भवति पुनश्चिटिचिटिशब्दो भवति ततो मण्डूकगतिर्भवति पुनस्तथा तेन प्रकारेण धृते सति सकम्पो भवति पुनर्वह्नौ निष्कम्पः स्वस्थो भवति अभ्रसत्वद्रुतस्य लक्षणमिति ॥ ६.१४-१५ः३ ॥
तदेवाह कपिल इत्यादि ॥ ६.१४-१५ः४ ॥
पुनरेवंविधो रसोऽभ्रजीर्णो विज्ञातव्यः ॥ ६.१४-१५ः५ ॥
कीदृशः कपिलः वर्णतः निरुद्गारी स्थिरभावः पुनः स रसो विप्लुषभावं चञ्चलत्वं मुञ्चते ॥ ६.१४-१५ः६ ॥
पुनर्निष्कम्पः स्वस्थः पुनर्गतिरहितः पक्षच्छिन्नः इति लक्षणान्यभ्रजीर्णस्य भवन्ति ॥ ६.१४-१५ः७ ॥
____________________________________________________
ङृह्त्६.१६-१८
<कच्छपयन्त्र>
जलपूर्णपात्रमध्ये दत्त्वा घटखर्परं सुविस्तीर्णम् ।
तदुपरि मध्यगतः सूतः स्थाप्यस्ततः कुड्ये ॥ ङृह्त्_६.१६ ॥
लघुलोहकटोरिकया कृतपटमृत्सन्धिलेपयाच्छाद्य ।
पूर्णं तद्घटखर्परमङ्गारैः करीषतुषमिश्रैः ॥ ङृह्त्_६.१७ ॥
स्वेदनतो मर्दनतः कच्छपयन्त्रस्थितो रसो जरति ।
अग्निबलेनैव ततो गर्भद्रुतिः सर्वलोहानाम् ॥ ङृह्त्_६.१८ ॥
*टीका.. मुग्धावबोधिनींः
कच्छपयन्त्रमाह जलेत्यादि ॥ ६.१६-१८ः१ ॥
जलपूर्णपात्रमध्ये इति जलपूर्णं यत्पात्रं तस्य मध्ये सुविस्तीर्णं सुन्दरायतं घटखर्परं कुम्भखण्डं दत्त्वा तदुपरि खर्परोपरि बिडमध्यगतः सूतः स्थाप्यः ॥ ६.१६-१८ः२ ॥
कुत्र कुड्ये मृदा विनिर्मिते विशालमुखे लघुलोहकटोरिकया अतिलघ्वी या लोहस्य मुण्डादेः कटोरिका पात्रविशेषः तया विडावृतं सूतमाच्छाद्य आ समन्तात्संरुध्य ॥ ६.१६-१८ः३ ॥
किंविशिष्टया कृतपटमृत्सन्धिलेपया कृतः पटमृद्भ्यां सन्धेर्लेपो रोधो यस्याः सा तया ॥ ६.१६-१८ः४ ॥
पुनस्तत्कुड्यान्तर्गतघटखर्परमङ्गारैः पूर्णं किंविशिष्टैः करीषतुषमिश्रैः करीषो गोमयस्य चूर्णं तुषाः शाल्यादेर्धान्यस्य तैर्मिश्रितैरिति ॥ ६.१६-१८ः५ ॥
कच्छपयन्त्रे यद्विहितं तदाह स्वेदनत इत्यादि ॥ ६.१६-१८ः६ ॥
कच्छपयन्त्रस्थो रसो जरति ग्रासमिति शेषः ॥ ६.१६-१८ः७ ॥
कुतः स्वेदनतः वह्नौ परितापतः ॥ ६.१६-१८ः८ ॥
न केवलं स्वेदनतो मर्दनतश्च विडादिना इत्यध्याहारः ॥ ६.१६-१८ः९ ॥
ततोऽग्निबलेनैव सर्वलोहानां स्वर्णादीनामस्मिन्नन्तराले गर्भद्रुतिर्भवति अत्राग्निबलमेव मुख्यम् ॥ ६.१६-१८ः१० ॥
____________________________________________________
ङृह्त्६.१९
एवं दत्त्वा जीर्यति न क्षयति रसो यथा तथा कार्यः ।
क्षयमेति क्षारविडैः स तूपरसैर्ग्रासमुद्गिरति ॥ ङृह्त्_६.१९ ॥
*टीका.. मुग्धावबोधिनींः
जारणायां विधिद्वयमाह एवमित्यादि ॥ ६.१९ः१ ॥
एवममुना प्रकारेण कच्छपयन्त्रे निधाय जीर्यति ग्रासं रस इति शेषः ॥ ६.१९ः२ ॥
यथा रसो न क्षयति क्षयं नाप्नोति तथा कार्यो विधिः इति शेषः ॥ ६.१९ः३ ॥
कार्यस्याश्रयरक्षणायेति भावः ॥ ६.१९ः४ ॥
पुनः क्षारबिडैः क्षयमेति नाशमाप्नोति ग्रास इत्यध्याहारः ॥ ६.१९ः५ ॥
पुनः स रस उपरसैर्गन्धादिभिः ग्रासमुत्प्रावल्येन गिरति गिलतीत्यर्थः ॥ ६.१९ः६ ॥
क्षारैरम्लैश्च गन्धाद्यैर्मूत्रैः पटुभिरेव च ।
रसग्रासस्य जीर्णार्थं बिडः स परिकीर्तितः ।
इति परिभाषा ॥ ६.१९ः७ ॥
बिडशब्देन पिण्डः ॥ ६.१९ः८ ॥
____________________________________________________
ङृह्त्७.१
<विडःः पोसितिवे एffएच्त्स्>
ग्रासं न मुञ्चति न वाञ्छति तं च भूयः कांश्चिद्गुणान्भजति भुक्तविभुक्तिमात्रात् ।
यज्जीर्यते प्रचुरकेवलवह्नियोगात्तस्माद्विडैः सुनिविडैः सह जारणा स्यात् ॥ ङृह्त्_७.१ ॥
*टीका.. मुग्धावबोधिनींः
बिडैर्जारणायाः सुगमत्वमाह ग्रासमित्यादि ॥ ७.१ः१ ॥
ग्रासं न मुञ्चति च पुनस्तमेवान्यग्रासं न वाञ्छति भूयः पुनः भुक्तविभुक्तिमात्रात्कांश्चिद्गुणान्नित्यं भजति दधाति ग्रासग्रसनमात्रात्गुणं करोतीत्यर्थः ॥ ७.१ः२ ॥
यतो हेतोर्बिडैर्वक्ष्यमाणलक्षणैः कृत्वा जीर्यते ग्रासमित्यर्थः ॥ ७.१ः३ ॥
कुतः प्रचुरकेवलवह्नियोगात्प्रचुर उदग्रो यः केवलवह्नियोगः शुद्धाग्नियोगस्तस्मात् ॥ ७.१ः४ ॥
किंविशिष्टैः सुनिबिडैः घनैः ॥ ७.१ः५ ॥
यतो बिडाः श्रेष्ठास्तस्माद्विडैरेव जारणा स्यात्सुगमत्वादिति भावः ॥ ७.१ः६ ॥
____________________________________________________
ङृह्त्७.२
<विडःः fओर्जारण ओf चोप्पेर्लेअfस्>
सौवर्चलकटुकत्रयकाक्षीकासीसगन्धकैश्च विडैः ।
शिग्रो रसशतभाव्यैस्ताम्रदलान्यपि जारयति ॥ ङृह्त्_७.२ ॥
*टीका.. मुग्धावबोधिनींः
बिडविधानमाह सौवर्चलेत्यादि ॥ ७.२ः१ ॥
ताम्रदलान्यपि जारयति बुद्धिमानिति शेषः स्वर्णबीजादीनां का कथेति भावः ॥ ७.२ः२ ॥
कैः कृत्वा बिडैः कृत्वा ॥ ७.२ः३ ॥
किंविशिष्टैर्बिडैः सौवर्चलकटुकत्रयकांक्षीकासीसगन्धकैः सौवर्चलं रुचकं कटुत्रयं शुण्ठीमरिचपिप्पल्यात्मकं काक्षी सौराष्ट्री कासीसं पुष्पकासीसं गन्धकं लेलितकमेतान्यौषधानि येषु विडेषु सन्ति ते तथोक्ताः तैः ॥ ७.२ः४ ॥
पुनः किंविशिष्टैः शिग्रो रसशतभाव्यैः शिग्रोः सौभाञ्जनस्य रसेन शतवारं भाव्याः ये बिडास्तैः एवं निष्पन्नैर्विडैर्निश्चितं जारणा स्यादिति भावः ॥ ७.२ः५ ॥
____________________________________________________
ङृह्त्७.३
<विडःः fओर्जारण ओf गोल्द्>
सर्वाङ्गदग्धमूलकभस्म प्रतिगालितं सुरभिमूत्रेण ।
शतभाव्यं बलिवसया तत्क्षणतो जार्यते हेम ॥ ङृह्त्_७.३ ॥
*टीका.. मुग्धावबोधिनींः
बिडान्तरमाह सर्वेत्यादि ॥ ७.३ः१ ॥
सर्वाङ्गदग्धमूलकभस्म प्रतिगालितमिति सर्वाङ्गेन मूलत्वक्पत्रपुष्पफलेन सह दग्धं भस्मतां प्राप्तं यन्मूलककन्दं तद्भस्म सुरभिमूत्रेण गोजलेन गालितं कार्यं क्षारो ग्राह्य इत्यर्थः ॥ ७.३ः२ ॥
पुनर्बलिवसया बलमुख्या या जलौका मण्डूकादीनां वसा यथा च ।
भेकमत्स्यवसा या तु कुक्कुटस्य वसाथवा ।
भाव्यमेभिः क्रमाद्गन्धं शिशुमारवसापि वा ॥ ७.३ः३ ॥
एका बलिवसा सम्यक्सूतस्य बन्धिनी परम् ।
रञ्जनं चैव कुरुते मणिमूषाविधिक्रमात् ।
इति ॥ ७.३ः४ ॥
बलिवसया शतं शतवारं क्षारभूतं भस्म भाव्यं पुनः तच्छतभाव्यमौषधं तत्क्षणतः तत्कालतो हेम स्वर्णं जार्यते रसो ग्रासभूतं हेम जरतीति बिडयोगादिति भावः ॥ ७.३ः५ ॥
____________________________________________________
ङृह्त्७.४-७
<विडःः fओर्जारण>
कदलीपलाशतिलनिचुलकनकसुरदालिवास्तुकैरण्डाः ।
वर्षाभूवृषमोक्षकसहिताः क्षारो यथालाभम् ॥ ङृह्त्_७.४ ॥
आनीय क्षारवृक्षान् कुसुमफलशिफात्वक्प्रवालैरुपेतान् कृत्वातः खण्डशस्तान् विपुलतरशिलापिष्टगात्रातिशुष्कान् ।
दग्ध्वा काण्डैस्तिलानां करिसुरभिहयाम्भोभिरास्राव्य वस्त्रैर्भस्म त्यक्त्वा जलं तन्मृदुशिखिनि पचेद्वंशपाकेन भूयः ॥ ङृह्त्_७.५ ॥
तच्छुष्यमाणं हि सबाष्पबुद्बुदान् यदा विधत्ते क्षणभङ्गुरान् बहून् ।
तदा क्षिपेत्त्र्यूषणहिंगुगन्धकं क्षारत्रयं षड्लवणानि भूखगौ ॥ ङृह्त्_७.६ ॥
द्रव्याणि संमिश्र्य निवृत्य भूतले व्यवस्थितं शस्त्रकटोरिकापुटे ।
संस्थापयेत्सप्तदिनानि धान्यगतं प्रयोज्यं रसजारणादिकम् ॥ ङृह्त्_७.७ ॥
*टीका.. मुग्धावबोधिनींः
अथ क्षारवृक्षगुल्मौषधिविशेषानाह कदलीत्यादि ॥ ७.४-७ः१ ॥
यथालाभं लाभमनतिक्रम्य एषां क्षारः कर्तव्यः ॥ ७.४-७ः२ ॥
ते के कदलीपलाशतिलनिचुलकनकसुरदालिवास्तुकैरण्डाः कदली रम्भा पलाशो ब्रह्मवृक्षः तिलाः प्रतीताः निचुलो वेतसवृक्षः कनको धत्तूरः सुरदाली देवदाली वास्तुकं क्षारशाकमेरण्डो वातारिः एते क्षारसंभवाः ॥ ७.४-७ः३ ॥
किंविशिष्टा एते वर्षाभूवृषमोक्षकसहिताः वर्षाभूः पुनर्नवा वृषो वासकः मोक्षको मोखावृक्ष इति प्रतीतः एतैः संयुता इत्युद्देशः ॥ ७.४-७ः४ ॥
क्षारकरणविधानमाहानीयेत्यादि ॥ ७.४-७ः५ ॥
प्रथमं क्षारवृक्षान् पूर्वोक्तानानीय वनान्तराद्गृहीत्वा ॥ ७.४-७ः६ ॥
किंविशिष्टान् कुसुमफलशिफात्वक्पलाशैरुपेतान् कुसुमानि प्रसूनानि प्रतीतानि शिफा मूलं त्वक्त्वचा प्रवाला नूतनपल्लवाः एतैः पञ्चाङ्गाह्वयैरुपेतान् संयुतान् ॥ ७.४-७ः७ ॥
खण्डशः बहुशकलान् कृत्वा ॥ ७.४-७ः८ ॥
न केवलं खण्डशः विपुलतरशिलापिष्टगात्रातिशुष्कान् कृत्वा विपुलतरा अतिविस्तीर्णा या शिला तस्यां पिष्टानि गात्राणि येषां तेऽशुष्का निरसाः तानेवंविधान् कृत्वा ॥ ७.४-७ः९ ॥
पुनस्तानेव च तिलानां काण्डैर्नालैः सह दग्ध्वा ॥ ७.४-७ः१० ॥
पुनः करिसुरभिहयाम्भोभिः हस्तिगोऽश्वानां मूत्रैरास्राव्य आप्लुत्य तद्भस्म त्यक्त्वा वस्त्रैर्जलं ग्राह्यमिति शेषः ॥ ७.४-७ः११ ॥
तज्जलं मृदुशिखिनि कोमलाग्नौ पचेत्केन वंशपाकेन वंशानां समवह्नित्वात् ॥ ७.४-७ः१२ ॥
क्षारजलपाकलक्षणमाह तदित्यादि ॥ ७.४-७ः१३ ॥
तज्जलं क्षारपानीयं शुष्यमाणं सत्निश्चितं यदा सबाष्पबुद्बुदान् विधत्ते सह बाष्पेण जलात्ययधूमेन वर्तन्ते ये बुद्बुदास्तान् तदा क्षारो निष्पन्नो ज्ञेयः ॥ ७.४-७ः१४ ॥
पुनस्तदा त्र्यूषणं शुण्ठीमरिचपिप्पल्यः हिङ्गु रामठं गन्धकं लेलीतकं पुनः क्षारत्रयं सर्जिकायवाग्रजटङ्कणाह्वयं लवणानि षट्सैन्धवादीनि भूः तुवरी खगं कासीसमेतानि क्षिपेतेतत्क्षारेणार्द्रेण सह मिश्रं कार्यमित्यर्थः ॥ ७.४-७ः१५ ॥
तथा च द्रव्याणि त्र्यूषणादीनि संमिश्र्य एकीकृत्य निवृत्य च संमर्द्य शस्त्रकटोरिकापुटे लोहमयपात्रसंपुटे व्यवस्थितं सप्तदिनानि धान्यगतं कस्यचिद्धान्यस्य मध्यगतं स्थापयेत्कुत्र भूतले पृथिव्या आस्थाने ततोऽनन्तरं तत्सिद्धं रसजारणादिकं प्रति प्रयोज्यमेतद्बिडरूपं रसजारणादिषु प्रशस्तमित्यर्थः ॥ ७.४-७ः१६ ॥
____________________________________________________
ङृह्त्७.८
<विडःः fओर्गर्भद्रुति>
जम्बीरबीजपूरकचाङ्गेरीवेतसाम्लसंयोगात् ।
क्षारा भवन्ति नितरां गर्भद्रुतिजारणे शस्ताः ॥ ङृह्त्_७.८ ॥
*टीका.. मुग्धावबोधिनींः
जारणायां क्षारविधानमाह जम्बीरेत्यादि ॥ ७.८ः१ ॥
क्षारा उक्तवृक्षोद्भवाः नितरामतिशयेन गर्भद्रुतिजारणे रसान्तर्ग्रासजारणे शस्ता उत्कृष्टा भवन्ति ॥ ७.८ः२ ॥
कुतः जम्बीरबीजपूरकचाङ्गेरीवेतसाम्लसंयोगात्जम्बीरः प्रतीतः बीजपूरको मातुलुङ्गः चाङ्गेरी अम्लपत्रिका वेतसाम्लं चुक्रकमेषां यो रसस्तस्य संयोगातेतैर्भाविताः क्षारा बिडवत्कार्यकरा इति भावः ॥ ७.८ः३ ॥
____________________________________________________
ङृह्त्७.९
<विडःः होw तो उसे>
विडमधरोत्तरमादौ दत्त्वा सूतस्य चाष्टमांशेन ।
कुर्याज्जारणमेवं क्रमक्रमाद्वर्धयेदग्निम् ॥ ङृह्त्_७.९ ॥
*टीका.. मुग्धावबोधिनींः
रसे विडयोजनमाह बिडमित्यादि ॥ ७.९ः१ ॥
आदौ प्रथमं सूतस्य रसस्याष्टमांशेन पूर्वनिर्मितं विडमधरोत्तरमध उपरिभागं च दत्त्वा एवममुना प्रकारेण जारणं कुर्यात्पुनः क्रम्यते अनेनेति क्रमो बिडरूपः तत्क्रमः परंपरा तस्मातग्निं विवर्धयेत्कर्मकृतित्यध्याहारः वारंवारं बिडसंप्रयोगादग्निर्वर्धते ॥ ७.९ः२ ॥
____________________________________________________
ङृह्त्८.१-२
<रञ्जनःः चोलोउरच्च्. तो अभ्र>
जीर्णाभ्रको रसेन्द्रो दर्शयति घनानुरूपिणीं छायाम् ।
कृष्णां रक्तां पीतां सितां तथा संकरैर्मिश्राम् ॥ ङृह्त्_८.१ ॥
कृष्णाभ्रकेण बलवदसितरागैर्युज्यते रसेन्द्रस्तु ।
श्वेतै रक्तैः पीतैर्वह्नेः खलु वर्णतो ज्ञेयः ॥ ङृह्त्_८.२ ॥
*टीका.. मुग्धावबोधिनींः
द्योतते दिवि चन्द्रोऽसौ जीर्णेऽभ्रे कान्तिमत्तया ।
तथेह तामुपाश्रित्य शालते मनुजेषु च ॥ ८.१-२ः१ ॥
सुसिद्धबिडधात्वादिजारणेन रसस्य हि ।
पीतादिरागजननं रञ्जनं परिकीर्तितम् ।
इति परिभाषा ॥ ८.१-२ः२ ॥
अभ्रस्य छायाविशेषमाह जीर्णाभ्रक इत्यादि ॥ ८.१-२ः३ ॥
रसेन्द्रो यदा जीर्णाभ्रो भवति तदा घनानुरूपिणीं जीर्णाभ्रसमवर्णां छायां दर्शयति ॥ ८.१-२ः४ ॥
कृष्णे जीर्णे कृष्णां रक्तेऽभ्रे जीर्णे रक्तां पीते पीतां तथा सिते शुभ्रे सितामेवं चतुर्विधां छायां दर्शयति ॥ ८.१-२ः५ ॥
पुनर्द्वयोस्त्रयाणां वा चतुर्णां संकरे मेलापे सति द्वित्रिचतुर्णामनुरूपिणीं छायां दर्शयतीत्यर्थः ॥ ८.१-२ः६ ॥
अभ्रयोगाद्वर्णविशेषमाह कृष्णेत्यादि ॥ ८.१-२ः७ ॥
कृष्णाभ्रकेण जीर्णेन रसो बलवान् भवेत्तु पुनः असितरागैः कृष्णरागैर्युज्यते ॥ ८.१-२ः८ ॥
तथा श्वेतेन श्वेतै रागैर्युज्यते रक्तेन रक्तैः पीतेन पीतैः कपिलाग्नेर्दिव्यस्यापि सर्वस्यादर्शनरूपं क्षयकरस्य बलैर्द्रव्याणां तादृशो वर्णो रसवर्णतो वर्णकोविदैर्ज्ञेयः ॥ ८.१-२ः९ ॥
____________________________________________________
ङृह्त्८.३
<मेर्चुर्य्त्रन्स्fएर्सोwन् चोलोउरोनोथेर्सुब्स्तन्चेस्>
अथ निजकर्मे वर्णं न जहाति यदा स रज्यते रागैः ।
क्रमशो हि वक्ष्यमाणैर्निर्णिक्तो रंजनं कुरुते ॥ ङृह्त्_८.३ ॥
*टीका.. मुग्धावबोधिनींः
रञ्जितरसप्रशंसामाह अथेत्यादि ॥ ८.३ः१ ॥
अथानन्तरं रसः रसेन्द्रो यदा वक्ष्यमाणैः श्वेतादिभिः रागैः रज्यते तदा निजकर्मे वर्णं स्वकीयमेव स्वाभाविकं रूपं न जहाति न त्यजति पुनस्तैरेव रागैः निर्णिक्तो रक्तः सन् रञ्जनं कुरुते रागदायी भवतीति ॥ ८.३ः२ ॥
तथा नो रक्तो न रञ्जनं कुरुते अविद्यमानत्वान्निषेधः ॥ ८.३ः३ ॥
____________________________________________________
ङृह्त्८.४
<(ष्तोffए, दिए वेर्स्छ्. संस्कारसिन्दुशिएरेन्)>
बलमास्तेऽभ्रकसत्वे जारणरागाः प्रतिष्ठितास्तीक्ष्णे ।
बन्धश्च सारलोहे सारकमथ नागवंगाभ्याम् ॥ ङृह्त्_८.४ ॥
*टीका.. मुग्धावबोधिनींः
अभ्रसत्वादीनां योगे रसे व्यवस्थामाह बलमित्यादि ॥ ८.४ः१ ॥
अभ्रकसत्वेऽधिकरणे बलमास्ते अभ्रसत्वसंयोगेन रसो बलमाप्नोतीत्यर्थः ॥ ८.४ः२ ॥
पुनस्तीक्ष्णे लोहभेदे जारणरागा जारणेन तीक्ष्णस्था रागाः प्रतिष्ठिता भवन्तीत्यर्थः ॥ ८.४ः३ ॥
सारणमथ नागवङ्गाभ्यामिति नागवङ्गाभ्यां दुःसरणं सारणद्रव्यं सरत इति ॥ ८.४ः४ ॥
____________________________________________________
ङृह्त्८.५
<पोतेन्च्योf तीक्ष्णलोह>
क्रामति तीक्ष्णेन रसस्तीक्ष्णेन च जीर्यते क्षणाद्ग्रासः ।
हेम्नो योनिस्तीक्ष्णं रागान् गृह्णाति तीक्ष्णेन ॥ ङृह्त्_८.५ ॥
*टीका.. मुग्धावबोधिनींः
सर्वकारणं तीक्ष्णमाह क्रामतीत्यादि ॥ ८.५ः१ ॥
तीक्ष्णेन लोहभेदेन रसः क्रामति क्रामणं विदधाति पुनस्तीक्ष्णेन कृत्वा ग्रासः क्षणादल्पकालतो जीर्यते जारणमाप्नोति पुनर्हेम्नः सुवर्णस्य योनिरुत्पत्तिस्थानं तीक्ष्णमस्ति पुनः रागान् रञ्जनभावान् तीक्ष्णेन कृत्वा रसो गृह्णाति स्वस्मिन् रागान् दधातीत्यर्थः ॥ ८.५ः२ ॥
____________________________________________________
ङृह्त्८.६
<तीक्ष्णलोहःः चारण, जारण>
तदपि च दरदेन हतं कृत्वा माक्षिकेण रविसहितम् ।
वासितमपि वासनया घनवच्चार्यं च जार्यं च ॥ ङृह्त्_८.६ ॥
*टीका.. मुग्धावबोधिनींः
तीक्ष्णस्य हिङ्गुलयोगेन गुणाधिक्यमाह तदपीत्यादि ॥ ८.६ः१ ॥
अपि निश्चयेन तत्तीक्ष्णं दरदेन हिङ्गुलेन हतं मारितं वा माक्षिकेन स्वर्णमाक्षिकेन रविसहितं ताम्रसंयुतं तीक्ष्णं हतं मारितं पुनर्वासनया वासनौषधेन वासितं परिभावितं घनवदभ्रवत्चार्यं जार्यं च सत्वाभ्रवत्नान्यथा ॥ ८.६ः२ ॥
____________________________________________________
ङृह्त्८.७
<रञ्जनःः सुइतब्ले सुब्स्तन्चेस्>
कान्तं वा तीक्ष्णं वा काञ्चीं वा वज्रसस्यकादीनाम् ।
एकतमं सर्वं वा रसरंजने संकरोऽभीष्टः ॥ ङृह्त्_८.७ ॥
*टीका.. मुग्धावबोधिनींः
तीक्ष्णवदेतानाह कान्तमित्यादि ॥ ८.७ः१ ॥
रसरञ्जने रसेन्द्रे रागकर्मणि कान्तं चुम्बकपाषाणोत्थं लोहं श्रेष्ठं वेति समुच्चये तीक्ष्णं लोहभेदो वा काञ्चीं स्वर्णमाक्षिकं वा वज्रसस्यकादीनां वज्रसस्यकावादिर्येषां ते तेषां हीरकचपलादीनामेकतमं तन्मध्यादेकतमं सर्वं वा अत्राभीष्टशब्दस्य प्रत्येकं संबन्धः हीरकादीनि रत्नानि सस्यकाद्या उपधातवः ॥ ८.७ः२ ॥
वा रसरञ्जने अयमेव संकरः सर्वेषां कान्तादीनां मेलापः सर्वत्राभीष्टः ॥ ८.७ः३ ॥
____________________________________________________
ङृह्त्८.८-९
<(छेम्. ড়ोतेन्शेन् वेर्स्छ्. ष्तोffए)>
कुटिले बलमभ्यधिकं रागस्तीक्ष्णे तु पन्नगे स्नेहः ।
रागस्नेहबलानि तु कमले शंसन्ति धातुविदः ॥ ङृह्त्_८.८ ॥
<मेर्चुर्य्ःः रञ्जन>
सर्वैरेभिर्लोहैर्माक्षिकनिहतैस्तथा द्रुतैर्गर्भे ।
विडयोगेन तु जीर्णो रसराजो रागमुपयाति ॥ ङृह्त्_८.९ ॥
*टीका.. मुग्धावबोधिनींः
स्वे स्वे विकारे वक्ष्यमाणमाह बलमित्यादि ॥ ८.८-९ः१ ॥
धातुविदो रसवैद्या इति शंसन्ति ॥ ८.८-९ः२ ॥
इति किं कुटिले बलमभ्यधिकं सर्वाधिकं पुनस्तीक्ष्णेऽभ्यधिको रागः रञ्जनं तु पुनः पन्नगे नागेऽभ्यधिकं स्नेहः स्निग्धत्वं तु पुनः रागस्नेहबलानि त्रीण्येवोक्तानि कमले ताम्रे कुटिलतीक्ष्णपन्नगानां जारणाद्रसे यथा बलरागस्नेहा भवन्ति तथैकताम्रजारणात्त्रयो भवन्तीत्यर्थः ॥ ८.८-९ः३ ॥
रसबन्धनोपायमाह सर्वैरित्यादि ॥ ८.८-९ः४ ॥
बिडयोगेन पूर्वोक्तेन जीर्णो जारणमापन्नो रसराजो बन्धमुपयाति बन्धनमादत्ते ॥ ८.८-९ः५ ॥
कैः सह जीर्णः एभिः पूर्वोक्तैः सर्वैर्लोहैर्धातुभिः ॥ ८.८-९ः६ ॥
किंविशिष्टैः माक्षिकनिहतैः स्वर्णमाक्षिकमारितैः ॥ ८.८-९ः७ ॥
पुनः किंविशिष्टैः गर्भे रसोदरे द्रुतैर्विद्रुतैरिति ॥ ८.८-९ः८ ॥
____________________________________________________
ङृह्त्८.१०-११
<मेर्चुर्य्ःः रञ्जन (wइथ कृष्टि)>
तालकदरदशिलाभिः स्नेहक्षाराम्ललवणसहिताभिः ।
समकद्विगुणत्रिगुणान् पुटो वहेद्वंगशस्त्रादीन् ॥ ङृह्त्_८.१० ॥
रक्तस्नेहनिषेकैः शेषं कुर्याद्रसस्य कृष्टिरियम् ।
चारणजारणमात्रात्कुरुते रसमिन्द्रगोपनिभम् ॥ ङृह्त्_८.११ ॥
*टीका.. मुग्धावबोधिनींः
वक्ष्यमाणधातूनां मारणविधानमाह तालकेत्यादि ॥ ८.१०-११ः१ ॥
वङ्गशस्त्रादीन् वङ्गं त्रपुषं शस्त्रं तीक्ष्णं ते आदिर्येषां ते तान् ॥ ८.१०-११ः२ ॥
काभिः सह पुटो वहेत्तालकदरदशिलाभिः तालकं हरितालं दरदं हिङ्गुलं शिला मनःशिला ताभिः ॥ ८.१०-११ः३ ॥
किंविशिष्टाभिः स्नेहक्षाराम्ललवणसहिताभिः स्नेहः तैलं कङ्गुणितुम्बिन्यादीनां क्षारः स्वर्जिकादिः अम्लं जम्बीरादि लवणानि सैन्धवादीनि एतैः सहिताभिः ॥ ८.१०-११ः४ ॥
एकधातुतो द्वादशांशादारभ्य यावत्समकद्विगुणत्रिगुणभागाः समाप्यन्ते तावत्पुटो वहेदिति व्यक्तिः ॥ ८.१०-११ः५ ॥
पुटितधातुकृत्यमाह रक्तेत्यादि ॥ ८.१०-११ः६ ॥
उक्तधातुर्गर्भितं रसं रक्तस्नेहनिषेकैः रक्तो रक्तवर्गः स्नेहः कङ्गुण्यादीनामनयोर्निषेकाः सिञ्चनानि तैः शेषं धातुवर्जितं कुर्यातियं रसस्य कृष्टिः रसस्य गुणाकर्षणं पुनरियं कृष्टिः रसेन्द्रमिन्द्रगोपनिभं कुरुते अतिरिक्तवर्णं कुरुते ॥ ८.१०-११ः७ ॥
कुतः चारणजारणमात्रात्पुनः पुटितधातूनां चारणं च जारणं जीर्णंकरणं च तन्मात्रात्वा चारणस्य द्रव्यस्य जारणं तन्मात्रातुभयोः पक्षयोरेक एवार्थः परमुक्तिविशेषः ॥ ८.१०-११ः८ ॥
____________________________________________________
ङृह्त्८.१२
<मेर्चुर्य्ःः रञ्जन>
अथवा केवलममलं कमलं दरदेन वापितं कुरुते ।
त्रिगुणं हि चीर्णजीर्णं लाक्षारससन्निभं सूतम् ॥ ङृह्त्_८.१२ ॥
*टीका.. मुग्धावबोधिनींः
मुख्यत्वेन ताम्रप्रंशसनमाह अथवेत्यादि ॥ ८.१२ः१ ॥
अथवेति विधानान्तरे केवलं शुद्धं वान्यसंयोगेन वर्जितममलं जातपूर्वशोधनं त्रिगुणं चीर्णजीर्णं कुर्यादित्यर्थः पूर्वं चीर्णं चारणमाप्तं पश्चाज्जीर्णं जारणमापन्नमेवंभूतं ताम्रं सूतं लाक्षारससन्निभमलक्तकप्रभं कुरुते ॥ ८.१२ः२ ॥
____________________________________________________
ङृह्त्८.१३
<मेर्चुर्य्ःः रञ्जन>
रक्तगणगलितपशुजलभावितताप्यगन्धकशिलानाम् ।
एकेन वापितमृतं कमलं रञ्जयति रसराजम् ॥ ङृह्त्_८.१३ ॥
*टीका.. मुग्धावबोधिनींः
विध्यन्तरमाह रक्तेत्यादि ॥ ८.१३ः१ ॥
रक्तगणेन दाडिमकिंशुकबन्धूकादिना पूर्वोक्तेन गलितं यत्पशुजलं गोमूत्रं तेन भाविता यास्ताप्यगन्धकमनःशिलास्तासां मध्यादेकेन ताप्येन स्वर्णमाक्षिकेन वा गन्धकेन वा शिलया वापितमृतं सत्कमलं ताम्रं रसं रञ्जयति रागं ददातीत्यर्थः ॥ ८.१३ः२ ॥
____________________________________________________
ङृह्त्८.१४
<दुरतिओनोf चोलोउरिन्गच्च्. तो सुब्स्तन्चे>
बाह्यो गन्धकरागो विलुलितरागे मनःशिलाताले ।
माक्षिकसत्वरसकौ द्वावेव हि रञ्जने शस्तौ ॥ ङृह्त्_८.१४ ॥
*टीका.. मुग्धावबोधिनींः
रागाधिकारिगन्धकादीनाह ॥ ८.१४ः१ ॥
तत्र गन्धकः कीदृशं रागं ददाति तत्स्वरूपमाह बाह्य इत्यादि ॥ ८.१४ः२ ॥
गन्धकरागो बाह्यो बहिर्भवः पुनर्मनःशिलाताले मनःशिला मनोह्वा तालं हरितालं तावुभे विलुलितरागे चञ्चलरागे पुनर्माक्षिकसत्वरसकौ स्वर्णमाक्षिकसत्वखर्परिकौ द्वावेव रञ्जने रसरागे शस्तौ गन्धकमनःशिलातालेभ्यः प्रधानौ अत्यधिकावित्यर्थः ॥ ८.१४ः३ ॥
____________________________________________________
ङृह्त्८.१५
<रसरञ्जक्(१५)>
क्रमवृत्तौ रविरसकौ संशुद्धौ मूकमूषिकाध्मातौ ।
त्रिगुणं चीर्णो जीर्णो हेमाभो जायते सूतः ॥ ङृह्त्_८.१५ ॥
*टीका.. मुग्धावबोधिनींः
प्रधानयोस्ताम्रखर्परयोः कृत्यमाह क्रमवृत्तावित्यादि ॥ ८.१५ः१ ॥
क्रमवृत्तौ रविरसकौ संशुद्धौ विशेषविधानेन शोधितौ वा उत्तमजातीयौ मूकमूषिकाध्मातौ अन्धमूषायां ध्मातौ वह्नियोगीकृतौ कार्यौ एतत्त्रिगुणं यथा स्यात्तथा चीर्णो जीर्णश्च सूतः हेमनिभो जायते एतेन चारणमापन्नः पश्चात्तेनैव जारणामापन्नो रसः स्वर्णप्रभो भवेदित्यर्थः ॥ ८.१५ः२ ॥
____________________________________________________
ङृह्त्८.१६
<रसरञ्जक्(१६)>
अथ कृष्णाभ्रकचूर्णं पुटितं रक्तं भवेत्तथा सकलम् ।
त्रिगुणं चीर्णो जीर्णो हेमद्रुतिसन्निभः सूतः ॥ ङृह्त्_८.१६ ॥
*टीका.. मुग्धावबोधिनींः
अभ्रकयोगमाह अथेत्यादि ॥ ८.१६ः१ ॥
अथ रसकयोगानन्तरं कृष्णवर्णाभ्रकचूर्णं श्यामवर्णाभ्रकरजः तथा रविरसकविधानेन खर्परकेण सहितं पुटितं सत्सकलं समस्तं रक्तं भवेत्तद्रक्तभूतमभ्रं त्रिगुणं यथा स्यात्तथा चीर्णः चारणमापन्नस्ततो जीर्णो जारणमापन्नश्च सन् सूतो हेमद्रुतिसन्निभः स्वर्णद्रवसदृशो भवेदित्यर्थः ॥ ८.१६ः२ ॥
____________________________________________________
ङृह्त्८.१७-१८
<मेर्चुर्य्ःः रञ्जन>
त्रिगुणेन माक्षिकेण तु कनकं च मृतं रसकतालयुतम् ।
पटुसहितं तत्पक्वं हण्डिकया यावदिन्द्रगोपनिभम् ॥ ङृह्त्_८.१७ ॥
तच्चूर्णं सूतवरे त्रिगुणं चीर्णं हि जीर्णं तु ।
द्रुतहेमनिभः सूतो रञ्जति लोहानि सर्वाणि ॥ ङृह्त्_८.१८ ॥
*टीका.. मुग्धावबोधिनींः
अथ स्वर्णमारणमाह त्रिगुणेनेत्यादि ॥ ८.१७-१८ः१ ॥
तु पुनः त्रिगुणेन माक्षिकेण स्वर्णत्रिगुणितेन ताप्येन यत्कनकं मृतं तत्कनकमिन्द्रगोपको वर्षाकालीनो रक्तवर्णो जीवविशेषः तद्वन्निभा दीप्तिर्यस्य तदिन्द्रगोपनिभं भवतीति शेषः ॥ ८.१७-१८ः२ ॥
किंविशिष्टं कनकं मृतं रसकतालयुतं रसकं खर्परं तालं हरितालं ताभ्यां युतं मिश्रितं सत्यन्मृतं पञ्चत्वमाप्तमित्यर्थः ॥ ८.१७-१८ः३ ॥
पुनः पटुसहितं लवणमिश्रितं पुनर्हण्डिकया भाजनेन पक्वं वह्निपुटितं तदपि पूर्ववत् ॥ ८.१७-१८ः४ ॥
मृतकनकचूर्णं सूतवरे पारदे त्रिगुणं चीर्णं जीर्णं चारितं जारितं च सत्सूतो द्रुतहेमनिभो भवेत्गलितस्वर्णप्रभ इत्यर्थः ॥ ८.१७-१८ः५ ॥
एवं रञ्जितो रसः सर्वलोहानि धातूनि कृत्रिमाकृत्रिमानि नवविधानि रञ्जति स्वर्णरूपाणि करोतीत्यर्थः ॥ ८.१७-१८ः६ ॥
____________________________________________________
ङृह्त्८.१९
<बीज्जारण्का महत्त्व्>
पत्रादष्टगुणं सत्वं सत्वादष्टगुणा द्रुतिः ।
द्रुतेरष्टगुणं बीजं तस्माद्बीजं तु जारयेत् ॥ ङृह्त्_८.१९ ॥
*टीका.. मुग्धावबोधिनींः
सर्वेषां धातुरसानामुत्तरोत्तरं विशेषत्वमाह पत्रादित्यादि ॥ ८.१९ः१ ॥
पत्रादष्टगुणं सत्वमभ्रपत्रे जीर्णे सति रसे यो गुणस्तस्मादष्टगुणो गुणस्तत्सत्वे इत्यर्थः पुनः सत्त्वात्द्रुतिस्तद्द्रवरूपा अष्टगुणा पुनर्द्रुतेर्बीजं धातूपरससंयोगजनितं पूर्वोपवर्णितं तदष्टगुणं ततः सर्वोत्कृष्टत्वाद्बीजं जारयेन्नत्वन्यत् ॥ ८.१९ः२ ॥
____________________________________________________
ङृह्त्९.१
<बीज (डेfइनितिओन्)>
इति रक्तोऽपि रसेन्द्रो बीजेन विना न कर्मकृद्भवति ।
द्विविधं तत्पीतसितं नियुज्यते सिद्धमेवैतत् ॥ ङृह्त्_९.१ ॥
*टीका.. मुग्धावबोधिनींः
हिमांशुरिव दीप्त्यासौ चण्डांशुरिव तेजसा ।
निशाह्नोरिव कर्ता च दुर्जनैः सहनालयः ॥ ९.१ः१ ॥
निर्वापणविशेषेण तद्वद्वर्णं भवेद्यदा ।
मृदुलं चित्रसंस्कारं तद्बीजमिति कथ्यते ॥ ९.१ः२ ॥
इति परिभाषा ॥ ९.१ः३ ॥
बीजप्रशंसनमाह इतीत्यादि ॥ ९.१ः४ ॥
इत्युक्तविधानेन रक्तोऽपि रसेन्द्रो बीजेन विना कर्मकृन्न भवति बीजेनैव कर्मकारी स्यादित्यर्थः ॥ ९.१ः५ ॥
तद्बीजं द्विविधं द्विप्रकारं पीतसितमेकं पीतमपरं सितं श्वेतं स्वर्णरूप्यक्रियायोग्यमित्यर्थः ॥ ९.१ः६ ॥
तद्बीजं सिद्धं सर्वलक्षणोपेतं रसे पारदे नियोज्यं नासिद्धमिति ॥ ९.१ः७ ॥
____________________________________________________
ङृह्त्९.२
<बीजःः शोधन नेचेस्सर्य्>
तस्य विशुद्धिर्बहुधा गगनरसोपरसलोहचूर्णैश्च ।
द्विविधं बीजं तैरपि नाशुद्धैः शुध्यते वै तत् ॥ ङृह्त्_९.२ ॥
*टीका.. मुग्धावबोधिनींः
तस्येत्यादि ॥ ९.२ः१ ॥
तस्य बीजस्य विशुद्धिः शोधनं बहुधा बहुप्रकारैः कृत्वा रसोपरसधातूनां बहुविधत्वात् ॥ ९.२ः२ ॥
कैः कृत्वा गगनरसलोहचूर्णैः गगनमभ्रं रसा वैक्रान्तादयोऽष्टौ वक्ष्यमाणाः उपरसा गन्धकादयः लोहा धातवः तेषां चूर्णानि तैः ॥ ९.२ः३ ॥
च पुनः तैर्गगनरसोपरसलोहचूर्णैरशुद्धैः शुद्धिवर्जितैस्तद्बीजं न शुध्यते शुद्धिहीनं स्यात्कारणानुरूपं कार्यमितिन्यायात् ॥ ९.२ः४ ॥
____________________________________________________
ङृह्त्९.३
यः पुनरेतैः कुरुते कर्माशुद्धैर्भवेद्रसस्तस्य ।
अव्यापकः पतंगी न रसे रसायने योग्यः ॥ ङृह्त्_९.३ ॥
*टीका.. मुग्धावबोधिनींः
अशुद्धबीजप्रभावमाह य इत्यादि ॥ ९.३ः१ ॥
पुनर्विशेषेण यः संस्कारकृदेतैर्गगनाद्यैरशुद्धैः कृत्वा रसस्य कर्म कुरुते तस्य पुरुषस्य रसः पारदोऽव्यापकोऽसरणशीलो भवेत्पतङ्गी ऊर्ध्वगामी च भवेत्यन्त्रस्याधोभागे न तिष्ठतीत्यर्थः ॥ ९.३ः२ ॥
____________________________________________________
ङृह्त्९.४
<महारस>
वैक्रान्तकान्तसस्यकमाक्षिकविमलाद्रिदरदरसकाश्च ।
अष्टौ रसास्तथैषां सत्त्वानि रसायनानि स्युः ॥ ङृह्त्_९.४ ॥
*टीका.. मुग्धावबोधिनींः
एते वक्ष्यमाणा अष्टौ रसाः रससंज्ञकाः स्युः ॥ ९.४ः१ ॥
एते के वैक्रान्तकान्तसस्यकमाक्षिकविमलाद्रिदरदरसकाश्चेति वैक्रान्तं वज्रभूमिजं रजः कान्तं चुम्बकोत्थं सस्यकं चपलं माक्षिकं ताप्यं विमला रौप्यमाक्षिकमद्रि शिलाजतु दरदं हिङ्गुलं रसकः खर्परिकः एते रससंज्ञिका ज्ञेयाः ॥ ९.४ः२ ॥
तथा एषां सत्वानि साराणि रसायनानि जराव्याधिनाशनानि स्युरिति ॥ ९.४ः३ ॥
____________________________________________________
ङृह्त्९.५-६
<उपरस>
गन्धकगैरिकशिलालक्षितिखेचरमञ्जनं च कंकुष्ठम् ।
उपरससंज्ञकानाह गन्धकेत्यादि ॥ ९.४ः१ ॥
इदं वक्ष्यमाणमुपरससंज्ञकं स्यात् ॥ ९.४ः२ ॥
किमिदं गन्धकगैरिकशिलालक्षितिखेचरमिति गन्धकं प्रतीतं गैरिकं धातुगैरिकं शिला मनोह्वा आलं हरितालं क्षितिः स्फटिका खेचरं कासीसमेतत्सर्वमिति च पुनः अञ्जनं नीलाञ्जनं पुनः कङ्कुष्ठं विरङ्गमित्यष्टौ उपरससंज्ञका इत्यर्थः ॥ ९.४ः३ ॥
____________________________________________________
ङृह्त्९.५-६
<सारलोह>
उपरससंज्ञकमिदं स्यात्शिखिशशिनौ सारलोहाख्यौ ॥ ङृह्त्_९.५ ॥
<पूतिलोह>
ताम्रारतीक्ष्णकान्ताभ्रसत्त्वलोहानि वङ्गनागौ च ।
कथितास्तु पूतिसंज्ञास्तेषां संशोधनं कार्यम् ॥ ङृह्त्_९.६ ॥
*टीका.. मुग्धावबोधिनींः
शिखिशशिनौ स्वर्णतारकौ सारलोहाख्यौ सारलोहसंज्ञकावित्यर्थः ॥ ९.५-६ः१ ॥
पूतिलोहसंज्ञानाह ताम्रेत्यादि ॥ ९.५-६ः२ ॥
ताम्रारतीक्ष्णकान्ताभ्रसत्वलोहानीति ताम्रं नेपालकमारं राजरीतिः तीक्ष्णं सारं कान्तं चुम्बकोद्भवमभ्रसत्वं गगनसारं लोहं मुण्डमेतानीति पुनर्वङ्गनागौ एते पूतिसंज्ञकाः कथिताः ॥ ९.५-६ः३ ॥
तेषां पूतिलोहसंज्ञकानां शोधनं सम्यङ्मलापनयनं कार्यमिति ॥ ९.५-६ः४ ॥
____________________________________________________
ङृह्त्९.७
<षड्लवण>
सौवर्चलसैन्धवकचूलिकसामुद्ररोमकबिडानि ।
लवणक्षारसंज्ञे आह सौवर्चलेत्यादि ॥ ९.६ः१ ॥
एतानि वक्ष्यमाणानि लवणसंज्ञान्याहुः आचार्याः इति शेषः ॥ ९.६ः२ ॥
कानि सौवर्चलसैन्धवकचूलिकसामुद्ररोमकबिडानीति सौवर्चलं रुचकं सैन्धवं मणिकमन्थाह्वयं चूलिकं काचलवणं सामुद्रं क्षाराब्धिजं रोमकं प्रतीतं बिडं लवणविशेषः एतानीति ॥ ९.६ः३ ॥
____________________________________________________
ङृह्त्९.७
<त्रिक्षार>
षट्लवणान्येतानि तु स्वर्जीटङ्कणयवक्षाराः ॥ ङृह्त्_९.७ ॥
*टीका.. मुग्धावबोधिनींः
पुनः स्वर्जी सर्जिका टङ्कणं सौभाग्यं यवक्षारः प्रतीतः एते क्षाराः क्षारसंज्ञिकाः रसकर्मणि इत्यध्याहारः ॥ ९.७ः१ ॥
____________________________________________________
ङृह्त्९.८-९
<उपरसःः शोधन, सत्त्वपातन>
सूर्यावर्तः कदली वन्ध्या कोशातकी च सुरदाली ।
शिग्रुश्च वज्रकन्दो नीरकणा काकमाची च ॥ ङृह्त्_९.८ ॥
आसामेकरसेन तु लवणक्षाराम्लभाविता बहुशः ।
शुध्यन्ति रसोपरसा ध्माताः सत्त्वानि मुञ्चन्ति ॥ ङृह्त्_९.९ ॥
*टीका.. मुग्धावबोधिनींः
सद्रावकं शोधकगणमाह सूर्यावर्त इत्यादि ॥ ९.८-९ः१ ॥
सूर्यं प्रति आवर्तको भ्रमणं यस्येत्येवंविधः कदली रम्भा वन्ध्या फलरहिता कर्कोटी कोशातकी जालिनी सुरदाली देवदाली शिग्रुः सौभाञ्जनं वज्रकन्दो वदसूरणकन्दः नीरकणा जलपिप्पली काकमाची वायसी इति गणः शोधनद्रावणयोग्य इति ॥ ९.८-९ः२ ॥
शोधनद्रावकाणां शोधनद्रावणविधानमाह आसामित्यादि ॥ ९.८-९ः३ ॥
आसां पूर्वौषधीनां मध्यातेकरसेन एकस्या रसेन रसोपरसा वैक्रान्तादयोऽष्टौ रसाः गन्धकादयोऽष्टावुपरसाः बहुशोऽनेकवारं भाविता घर्मपुटिताः कार्याः पुनर्लवणक्षाराम्लभाविताश्च लवणानि सौवर्चलादीनि षट्क्षाराः स्वर्जिकादयः अम्ला जम्बीरादयः तैर्बहुवारं भावितास्तीव्रघर्मपुटिता रसोपरसाः शुध्यन्ति दोषवर्जिता भवन्ति पुनस्ते ध्माताः सन्तः सत्वानि स्वीयसाराणि मुञ्चन्ति त्यजन्तीति ॥ ९.८-९ः४ ॥
____________________________________________________
ङृह्त्९.१०-११
<वैक्रान्तःः शोधन>
स्विन्नं सक्षाराम्लैर्ध्मातं वैक्रान्तकं हठाद्द्रवति ।
रसानां क्रमेण शोधनमाह स्विन्नमित्यादि ॥ ९.९ः१ ॥
सक्षाराम्लैर्वैक्रान्तकं स्विन्नं दोलाभिधानेन स्वेदितं कुर्यात्तत्स्विन्नं वैक्रान्तं हठात्प्राबल्यात्ध्मातं सत्द्रवति सारं मुञ्चति द्रुतमात्रं सत्वनिर्गममात्रमेव शुध्यति पूर्वसंबन्धात्द्रवति ॥ ९.९ः२ ॥
____________________________________________________
ङृह्त्९.१०-११
<कान्त (= चुम्बक):: शोधन>
तद्द्रुतमात्रं शुध्यति कान्तं शशरक्तभावनया ॥ ङृह्त्_९.१० ॥
<सस्यकःः शोधन>
सस्यकमपि रक्तगणैः सुभावितं स्नेहरागसंसिक्तम् ।
शुध्यति वारैः सप्तभिरतः परं युज्यते कार्ये ॥ ङृह्त्_९.११ ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह सस्यकमित्यादि ॥ ९.१०-११ः१ ॥
सस्यकमपि चपलमपि रक्तगणैर्दाडिमकिंशुकबन्धूकादिभिः सुभावितं कुर्यात् ॥ ९.१०-११ः२ ॥
किंविशिष्टं स्नेहरागसंसिक्तं स्नेहः कङ्गुणितुम्बुन्यादीनां रागो रक्तवर्णद्रवः ताभ्यां वह्नौ तप्तं सस्यकं संसिक्तं सेचितमिति घृतैः संसिक्तं कोमलं भावनायोग्यं स्यात् ॥ ९.१०-११ः३ ॥
कतिभिर्वारैः सुभावितं कुर्यात्सप्तभिः सप्तसंख्याकैः ॥ ९.१०-११ः४ ॥
अतः परं कार्ये बीजादिके युज्यते ॥ ९.१०-११ः५ ॥
____________________________________________________
ङृह्त्९.१२
<विमल, रसक, दरद, माक्षिकःः शोधन>
क्षारैः स्नेहैरादौ पश्चादम्लेन भावितं विमलम् ।
शुध्यति तथा च रसकं दरदं माक्षिकमप्येवम् ॥ ङृह्त्_९.१२ ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह क्षारैरित्यादि ॥ ९.१२ः१ ॥
विमलं रौप्यमाक्षिकमादौ प्रथमं क्षारैः स्वर्जिकादिभिः स्नेहैस्तैलैः कङ्गुण्यादीनां भावितं कुर्यात्पश्चादम्लेन जम्बीरादिना भावितं कुर्यातेवंविधं कृतं सत्शुध्यति ॥ ९.१२ः२ ॥
तथा तेनैव विधिना रसकं खर्परकं शुध्यति दरदं हिङ्गुलं चैवं माक्षिकमप्येव शुध्यति ॥ ९.१२ः३ ॥
____________________________________________________
ङृह्त्९.१३
<चोप्पेर्ःः रञ्जन, शोधन>
तनुरपि पत्रं लिप्तं लवणक्षाराम्लरविस्नुहिक्षीरैः ।
ध्मातं निर्गुण्डीरससंसिक्तं बहुशो भवेद्धि रक्तं च ॥ ङृह्त्_९.१३ ॥
*टीका.. मुग्धावबोधिनींः
स्वर्णरूप्ययोः शोधनमाह तनुरित्यादि ॥ ९.१३ः१ ॥
लवणेत्यादि ॥ ९.१३ः२ ॥
लवणानि सौवर्चलादीनि क्षाराः स्वर्जिकादयः अम्लाः जम्बीरादयः रविरर्कः स्नुही सुधा तयोः क्षीराणि एतैः तनुरपि सूक्ष्ममपि पत्रं दलं सारलोहाख्ययोः इति शेषः लिप्तं ध्मातं सत्बहुशोऽनेकवारं निर्गुण्डीरसे संसिक्तं शेफालीद्रवे सिञ्चितं कुर्यात् ॥ ९.१३ः३ ॥
तर्हि स्वर्णं रूप्यं च रक्तमारक्तछवियुतं भवेदित्यर्थः चशब्दाच्छुध्यति ॥ ९.१३ः४ ॥
____________________________________________________
ङृह्त्९.१४
<लेअद्, तिन्, ब्रोन्शे, चोप्पेर्ःः शोधन>
शुध्यति नागो वंगो घोषो रविणा च वारमपि मुनिभिः ।
निर्गुण्डीरससेकैस्तन्मूलरजः प्रवापैश्च ॥ ङृह्त्_९.१४ ॥
*टीका.. मुग्धावबोधिनींः
लोहशोधनमाह शुध्यतीत्यादि ॥ ९.१४ः१ ॥
नागः सीसकः निर्गुण्डीरससेकैः शेफालीरसंसेचनैः शुध्यति निर्दोषो भवति वङ्गश्च शुध्यति ॥ ९.१४ः२ ॥
एवं रविणा ताम्रेण सह घोषोऽपि कांस्यमपि शुध्यति ॥ ९.१४ः३ ॥
कतिवारं सेचनैः मुनिभिः सप्तसंख्याकैः तन्मूलरजः निर्गुण्डीशिफाचूर्णं तत्प्रवापैः गलितेषु नागवङ्गरविघोषेषु रजो निक्षेपणैश्च चत्वारः शुध्यन्तीति ॥ ९.१४ः४ ॥
____________________________________________________
ङृह्त्९.१५
<तीक्ष्णलोहःः रञ्जन>
रक्तगणगलितपशुजलभावितपुटितं हि रज्यते तीक्ष्णम् ।
<तीक्ष्णलोहःः शोधन>
शुध्यति कदलीशिखिरसभावितपुटितं त्रिभिर्वारैः ॥ ङृह्त्_९.१५ ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह रक्तगणेत्यादि ॥ ९.१५ः१ ॥
तीक्ष्णं साराख्यं रक्तगणगलितपशुजलभावितं पुटितं सत्रक्तगणेन सह गलितं मिलितं यत्पशुजलं गोमूत्रं तेन भावितं ततो वह्निपुटितं सत्रज्यते रागमाप्नोति ॥ ९.१५ः२ ॥
पुनस्तीक्ष्णं कदलीशिखिरसभावितपुटितं वा रम्भाचित्रकरसभावितं घर्मपुटितं ततो वह्निपुटितं च सत्त्रिभिर्वारैः शुध्यतीत्यर्थः ॥ ९.१५ः३ ॥
____________________________________________________
ङृह्त्९.१६
<मेतल्स्ःः शोधन>
सर्वं शुध्यति लोहो रज्यति सुरगोपसन्निभो वापात् ।
माक्षिकदरदेन भृशं शुल्वं वा गन्धकेन मृतम् ॥ ङृह्त्_९.१६ ॥
*टीका.. मुग्धावबोधिनींः
सामान्येन सर्वलोहानां शोधनमारणमाह सर्व इत्यादि ॥ ९.१६ः१ ॥
सर्वो लोहो धातुवर्गः शुध्यति मृतश्च भवति पुनः रज्यति च ॥ ९.१६ः२ ॥
केन भृशमत्यर्थं यथा स्यात्तथा माक्षिकदरदेन ताप्यहिङ्गुलेन कृत्वा यो वापः गलितेषु लोहेषु माक्षिकदरदप्रक्षेपणं तस्मात्सुरगोपसंनिभ इन्द्रगोपसदृशः सर्वो लोहो भवेत् ॥ ९.१६ः३ ॥
वा शुल्बं ताम्रं माक्षिकदरदवापेन सुरगोपसन्निभं स्यात्वा गन्धेन गन्धकवापेन मृतमप्येव स्यादित्यर्थः ॥ ९.१६ः४ ॥
____________________________________________________
ङृह्त्१०.१
अथ सत्वनिर्गममभिधास्यते ।
<सत्त्वःः इम्पोर्तन्चे ओf ँ>
वैक्रान्तकान्तसस्यकमाक्षिकविमलादयो विना सत्वम् ।
शुद्धा अपि नो द्वन्द्वे मिलन्ति न च तान् रसो ग्रसति ॥ ङृह्त्_१०.१ ॥
*टीका.. मुग्धावबोधिनींः
दत्तवान्सततं सौख्यं शुद्धेभ्यश्च खलं तथा ।
दुःखमृत्यप्यमात्मानः कोपस्य समकारकम् ॥ १०.१ः१ ॥
वैक्रान्तादीनां रससंज्ञिकानां सत्त्वप्रशंसनमाह वैक्रान्तमित्यादि ॥ १०.१ः२ ॥
वैक्रान्तकान्तसस्यकमाक्षिकविमलादयः शुद्धा अपि द्वन्द्वे न मिलन्ति ॥ १०.१ः३ ॥
वैक्रान्तं वज्रभूमिजं रजः कान्तं चुम्बकं सस्यकश्चपलः माक्षिकं ताप्यं विमला रौप्यमाक्षिकमित्यादयो गन्धकादयश्चोपरसंज्ञका न मिलन्ति एकशरीरतां नाप्नुवन्ति ॥ १०.१ः४ ॥
क्व द्वन्द्वे उभयमेलापे ॥ १०.१ः५ ॥
पुनस्तान् शुद्धानपि रसः सूतो न ग्रसति ॥ १०.१ः६ ॥
____________________________________________________
ङृह्त्१०.२-३
<??>
नागनासिकाभिधानं चन्द्रोदकममृतमाप्तकाठिन्यम् ।
रसवैक्रान्तकमेवं बध्नाति रसं स्वसत्त्वेन ॥ ङृह्त्_१०.२ ॥
<शैलोदक>
नानाविधसंस्थानं निर्जरशिखरिशिखरसम्भूतम् ।
धारोदम्भसि श्रेष्ठं तदश्म शैलोदकं प्राप्य ॥ ङृह्त्_१०.३ ॥
*टीका.. मुग्धावबोधिनींः
वैक्रान्तप्राधान्यमाह नागेत्यादि ॥ १०.२-३ः१ ॥
एवंलक्षणं वैक्रान्तकं ज्ञातव्यम् ॥ १०.२-३ः२ ॥
किंविशिष्टं नागनासिकाभिधानं नागानां फणिनां नासिका एव अभिधानं संज्ञा यस्य तत् ॥ १०.२-३ः३ ॥
पुनः किंविशिष्टं चन्द्रोदकं चन्द्रमसः सम्बन्धि यदुदकं बलं तस्मादेवामृतम् ॥ १०.२-३ः४ ॥
आप्तकाठिन्यं प्राप्तं काठिन्यं येन पूर्वमेतच्च मृदूत्पन्नमित्यर्थः ॥ १०.२-३ः५ ॥
एवंविधं रसवैक्रान्तं रससंज्ञकं वैक्रान्तं रसं सूतं बध्नाति ॥ १०.२-३ः६ ॥
केन स्वसत्वेन स्वीयसारेणेति ॥ १०.२-३ः७ ॥
वैक्रान्तप्रकारमाह नानेत्यादि ॥ १०.२-३ः८ ॥
पूर्वमुपवर्णितं वैक्रान्तं नानाविधसंस्थानमस्ति नानाविधमनेकप्रकारं संस्थानं लक्षणं यस्य तत्संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृतिः इति माधवनिदानं सितासितरक्तपीतवर्णत्वान्नानाविधसंस्थानमित्यर्थः ॥ १०.२-३ः९ ॥
पुनर्निर्जरशिखरिशिखरसम्भूतं निर्जराणां देवानां यः शिखरी पर्वतस्तस्य शिखरं शृङ्गं तत्र सम्भूतमुत्पन्नम् ॥ १०.२-३ः१० ॥
नानाविधसंस्थानं कुतः धारोदम्भसि धाराभिरुदन्त उन्मत्तमम्भो यत्र समये तस्मिन् वर्षाकाले शैलोदकं शिलासंबन्धि यदुदकं जलं तत्प्राप्य श्रेष्ठं तदश्म वैक्रान्ताभिधानं नानावर्णं भवति यतः शिलोदकस्य नानाविधत्वम् ॥ १०.२-३ः११ ॥
____________________________________________________
ङृह्त्१०.४-५
<वैक्रान्तःः सत्त्वःः पातन>
भस्त्राद्वयेन हठतो ध्मातव्यं पञ्चमाहिषसुबद्धम् ।
दत्त्वा दशांशस्वर्जिकपटुटंकणगुञ्जिकाक्षारान् ॥ ङृह्त्_१०.४ ॥
तद्गच्छति कठिनत्वं मुञ्चति सत्वं स्फुलिङ्गकाकारम् ।
मुक्तानिकरप्रायं ग्राह्यं तत्काचमधिवर्ज्य ॥ ङृह्त्_१०.५ ॥
*टीका.. मुग्धावबोधिनींः
वैक्रान्तसत्वपातनमाह भस्त्रेत्यादि ॥ १०.४-५ः१ ॥
तद्वैक्रान्तं पञ्चमाहिषसुबद्धं दधिदुग्धाज्यमूत्रशकृद्भिः पञ्चसंख्याकैर्माहिषैः सह सुबद्धं पिण्डाकृति कृतं सत्भस्त्राद्वयेन खल्लयुग्मेन हठतो बलात्ध्मातव्यम् ॥ १०.४-५ः२ ॥
किं कृत्वा दशांशसर्जिकपटुटङ्कणगुञ्जिकाक्षारान् दत्त्वा दशांशविभागेन सर्जिकालवणसौभाग्यरक्तिकायवक्षारान् पिष्टवैक्रान्ते क्षेप्येत्यर्थः ॥ १०.४-५ः३ ॥
ध्मातं सत्किं स्यात्तदाह तदित्यादि ॥ १०.४-५ः४ ॥
स्फुलिङ्गकाकारं वह्निकणनिभं सत्वं सारं मुञ्चति ॥ १०.४-५ः५ ॥
पुनस्तत्सत्वं कठिनत्वं गच्छति कठिनं स्यादित्यर्थः ॥ १०.४-५ः६ ॥
तत्सत्वमाकारतो मुक्तानिकरप्रायं मौक्तिकराशिसदृशं स्यातेवंविधं सत्वं काचमधिवर्ज्य दूरीकृत्य तत्निर्मलं ग्राह्यमित्यर्थः ॥ १०.४-५ः७ ॥
युग्मम् ॥ १०.४-५ः८ ॥
____________________________________________________
ङृह्त्१०.६
<वैक्रान्तःः बन्धन ओf मेर्चुर्य्>
रसवैक्रान्तकमेवं मिलति द्वन्द्वान्वितं समं हेम्ना ।
निर्व्यूढं घनसत्वं तेन रसो बन्धमुपयाति ॥ ङृह्त्_१०.६ ॥
*टीका.. मुग्धावबोधिनींः
वैक्रान्तसत्वयोगमाह रसेत्यादि ॥ १०.६ः१ ॥
तद्रसवैक्रान्तकं सत्त्वं हेम्ना समं स्वर्णेन समभागं द्वन्द्वान्वितं सत्द्वन्द्वमेलापकौषधसहितं सतेवममुना विधानेन मिलति रसे इति शेषः ॥ १०.६ः२ ॥
पुनस्तेन सत्वेन सह घनसत्वमभ्रसारं निर्व्यूढं निर्वाहितं सत्तेनोभयसत्वसंयोगेन रसः सूतो बन्धमुपयाति बन्धनमाप्नोति ॥ १०.६ः३ ॥
____________________________________________________
ङृह्त्१०.७
<मिनेरल्स्ःः सत्त्वपातन>
वज्राभ्रकान्तसस्यकमाक्षिकप्रभृतिसकलधातूनाम् ।
पातयति सत्वमेषां पिण्डी ध्माता दृढाङ्गारैः ॥ ङृह्त्_१०.७ ॥
*टीका.. मुग्धावबोधिनींः
सत्वपातनविधानमाह वज्रेत्यादि ॥ १०.७ः१ ॥
दृढाङ्गारैरिति दृढकथनात्खदिरादीनां पूर्वोक्तत्वाद्भस्त्राद्वयेन च ध्माता सती वज्राभ्रकान्तसस्यकमाक्षिकप्रभृतिसकलधातूनां वज्रसंज्ञकं यदभ्रं तद्वज्राभ्रं कान्तं चुम्बकं सस्यकं चपला माक्षिकं स्वर्णमाक्षिकमितिप्रभृतयः सकलधातवः सर्वोपरसास्तेषां पिण्डी सत्वं पातयति ॥ १०.७ः२ ॥
____________________________________________________
ङृह्त्१०.८
<माक्षिकःः सत्त्वःः स्पेचिअलल्छेम्. पोतेन्च्य्>
हित्वा माक्षिकसत्वं नान्येषां शक्तिरस्ति लोहघ्नी ।
न पतति तावत्सत्वं भस्त्रान्ते न यावदाह्रियेत् ॥ ङृह्त्_१०.८ ॥
*टीका.. मुग्धावबोधिनींः
शक्तिमत्त्वेन माक्षिकसत्वप्रशंसनमाह हित्वेत्यादि ॥ १०.८ः१ ॥
माक्षिकसत्वं ताप्यसारं हित्वा त्यक्त्वा अन्येषां रसोपरसानां शक्तिः सामर्थ्यं नास्ति ॥ १०.८ः२ ॥
किंभूता शक्तिः लोहघ्नीति लोहान् हन्तीति विग्रहः ॥ १०.८ः३ ॥
पुनस्तावत्सत्त्वं न पतति यावद्भस्त्रा अन्ते सत्वसमीपे न आह्रीयेत न प्राप्येत तस्मादल्पेनाग्निना सत्वाप्रवृत्तिरित्यर्थः ॥ १०.८ः४ ॥
____________________________________________________
ङृह्त्१०.९
<माक्षिकःः सत्त्वःः फ्य्स्. प्रोपेर्तिएस्>
रक्तं मृदु नागसमं सत्वं यस्माद्धि माक्षिकात्पतितम् ।
गन्धाश्मनोऽपि तद्वत्कार्यं यत्नेन मृदुभावम् ॥ ङृह्त्_१०.९ ॥
*टीका.. मुग्धावबोधिनींः
माक्षिकसत्वमुदास्यान्यसत्वप्रवृत्तिमाह रक्तमित्यादि ॥ १०.९ः१ ॥
रक्तं लोहितं नागसमं सीसकतुल्यं मृदु कोमलमेवंविधं सत्वं यस्माद्धेतोर्माक्षिकात्पतति ताप्यात्निर्गच्छति तद्वत्तस्माद्धेतोर्वा तस्माद्विधानतः गन्धाश्मनो गन्धकस्य यत्नेन मृदुभावं कार्यं यथा गन्धकोऽपि मृदुर्भवतीत्यर्थः ॥ १०.९ः२ ॥
____________________________________________________
ङृह्त्१०.१०
<माक्षिकःः सत्त्वःः पातन>
लवणाम्लेन सुपुटितं माक्षिकमम्लेन मर्दितं विधिना ।
मुञ्चति सोष्णे ग्रासमायसपात्रे तु पिष्टिका भवति ॥ ङृह्त्_१०.१० ॥
*टीका.. मुग्धावबोधिनींः
माक्षिकसत्वविधानमाह लवणेत्यादि ॥ १०.१०ः१ ॥
माक्षिकं ताप्यं लवणाम्लेन लवणं मुख्यत्वात्ग्रन्थान्तरसाम्याच्च सैन्धवमम्लो जम्बीरादिः तेन मर्दितं पुनरम्लेन जम्बीरादिना विधिना उक्तरीत्या पुटितं वह्नौ प्रतापितं सत्मुञ्चति पूर्वश्लोकसंबन्धात्सत्त्वमिति शेषः ॥ १०.१०ः२ ॥
इत्थं पतितं सत्वं ग्राह्यम् ॥ १०.१०ः३ ॥
लवणाम्लेन गन्धकमपि मृदु स्यात् ॥ १०.१०ः४ ॥
तु पुनः सोष्णे आयसपात्रे वह्नौ तापिते लोहपात्रे पिष्टिका भवति रक्तवर्णरजोरूपेत्यर्थः ॥ १०.१०ः५ ॥
____________________________________________________
ङृह्त्१०.११
<सत्त्वःः चोलोउरोf दिff. ँ>
तुत्थाद्धि ताप्यजसमं समसृष्टं पतति वै सत्वम् ।
अभ्रवैक्रान्तकान्तप्रभृतीनां तत्र लोहनिभम् ॥ ङृह्त्_१०.११ ॥
*टीका.. मुग्धावबोधिनींः
तुत्थादीनां सत्वपातनमाह तुत्थादित्यादि ॥ १०.११ः१ ॥
तुत्थात्तुत्थं शिखिग्रीवं तस्मात्ताप्यजसममिति माक्षिकसत्ववत्माक्षिकसत्वविधानेनास्य सत्वपात इत्यर्थः ॥ १०.११ः२ ॥
समसृष्टं समं ताप्येन तुल्यं वर्णमार्दवाभ्यां सृष्टं कथितमित्यर्थः ॥ १०.११ः३ ॥
एवंविधं तुत्थकसत्वं पतति ॥ १०.११ः४ ॥
अभ्रकेत्यादि अभ्रकं प्रतीतं वैक्रान्तं रसवैक्रान्तं कान्तं चुम्बकमितिप्रभृतीनामित्यादीनां तत्त्वं पत्रसत्वपातनयोगे लोहनिभं मुण्डवर्णमित्यर्थः ॥ १०.११ः५ ॥
____________________________________________________
ङृह्त्१०.१२
<स्वर्णमाक्षिक (?):: सत्त्वपातन (?)>
स्त्रीवज्रीदुग्धभावितमेरण्डस्नेहभावितं शतं ध्मातम् ।
एवं त्रिभिरिह वारैः शुल्वसमं भवति रञ्जकं हैमम् ॥ ङृह्त्_१०.१२ ॥
*टीका.. मुग्धावबोधिनींः
पुनर्माक्षिकविधानान्तरमाह स्त्रीत्यादि ।
ताप्यं स्त्रीवज्रीदुग्धभावितं स्त्री नारी वज्री सेहुण्डः तयोर्दुग्धं तेन भावितं घर्मपुटितं कुर्यात् ॥ १०.१२ः१ ॥
पुनरेरण्डस्नेहेन शतं शतवारं भावितं च कुर्यात् ॥ १०.१२ः२ ॥
ततो वारैस्त्रिभिरेव ध्मातं सथैमं स्वर्णमाक्षिकं तस्येदं हैमं सत्वं शुल्बसमं ताम्रनिभं भवति रञ्जकं रसे रागदायी स्यात्कनकेऽपि च ॥ १०.१२ः३ ॥
____________________________________________________
ङृह्त्१०.१३
<माक्षिक, रसकःः सत्त्वःः पातन>
कदलीरसशतभावितमध्वैरण्डतैलपरिपक्वम् ।
ताप्यं मुञ्चति सत्वं रसकं चैवं त्रिसन्तापैः ॥ ङृह्त्_१०.१३ ॥
*टीका.. मुग्धावबोधिनींः
विध्यन्तरमाह कदलीत्यादि ॥ १०.१३ः१ ॥
ताप्यं माक्षिकं कदलीरसशतभावितमध्वैरण्डतैलपरिपक्वमिति प्रथमं रम्भाद्रवेण शतवारं भावितं पश्चात्मध्वैरण्डतैलाभ्यां सह परिपक्वं सम्यक्पाचितं सत्सत्वं मुञ्चति ॥ १०.१३ः२ ॥
कैः कृत्वा त्रिसंतापैः त्रिवारं धमनैः ॥ १०.१३ः३ ॥
एवं रसकं खर्परकमपि सत्वं मुञ्चतीति ॥ १०.१३ः४ ॥
____________________________________________________
ङृह्त्१०.१४
<मिनेरल्स्ःः सत्त्वःः पातन>
ऊर्णाटङ्कणगुडपुरलाक्षासर्जरसैः सर्वधातुभिः पिष्टैः ।
छागीक्षीरेण कृता पिण्डी शस्ता हि सत्वविधौ ॥ ङृह्त्_१०.१४ ॥
*टीका.. मुग्धावबोधिनींः
सत्वपातने पिण्डीमाह ऊर्णेत्यादि ॥ १०.१४ः१ ॥
ऊर्णा इति ऊर्णा मेषरोम टङ्कणं सौभाग्यं गुडः प्रतीतः पुरो गुग्गुलुः लाक्षा जतु सर्जरसो रालः एतैः किंविशिष्टैः सर्वधातुभिः रसोपरसैर्वा स्वर्णादिभिः सह पिष्टैः पेषितैः पुनः छागीक्षीरेण अजापयसा कृता या पिण्डी सा सत्वविधौ सत्वपातनकर्मणि शस्ता प्रधाना ॥ १०.१४ः२ ॥
धातुरसोपरसानां सत्वं पातयत्येवेति ॥ १०.१४ः३ ॥
____________________________________________________
ङृह्त्१०.१५-१७
<मिनेरल्स्ःः सत्त्वःः पातन>
चूर्णितसत्वसम्भारं त्रिंशत्पलमादरेण संगृह्य ।
टंकणपलसप्तयुतं गुंजापलत्रितययोजितं चैव ॥ ङृह्त्_१०.१५ ॥
तिलचूर्णककिट्टपलैर्मत्स्यैरालोड्य द्विरंशयुक्तैश्च ।
गोधूमबद्धपिण्डी गोपञ्चकभाविता बहुशः ॥ ङृह्त्_१०.१६ ॥
कोष्ठकधमनविधिना तीव्रं भस्त्रानलेन तत्पतति ।
संद्रवति चाभ्रसत्त्वं तथैव सर्वाणि सत्वानि ॥ ङृह्त्_१०.१७ ॥
*टीका.. मुग्धावबोधिनींः
विध्यन्तरमाह चूर्णितेत्यादि ॥ १०.१५-१७ः१ ॥
चूर्णितसत्वसमानं चूर्णितं पिष्टं यत्सत्वं सारं तत्समानं विशुद्धत्वात्सत्वसमानं धातुरसोपरसचूर्णमिति शेषः ॥ १०.१५-१७ः२ ॥
एवंविधं विशुद्धं चूर्णमादरेण प्रीत्या आदौ संगृह्य टङ्कणपलसप्तयुतं कुर्यात्सौभाग्यस्य पलैः सप्तसंख्याकैः सहितं कुर्यादित्यर्थः ॥ १०.१५-१७ः३ ॥
विशुद्धे चूर्णे त्रिंशत्पले सप्तपलं सौभाग्यं योज्यमेवं टङ्कणविधानेन च पुनः गुञ्जापलत्रितयेन रक्तिकापलत्रितयपरिमाणेन योजितं कुर्यादिति ॥ १०.१५-१७ः४ ॥
तिलचूर्णककिट्टपलैः तिलं प्रतीतं तेषां चूर्णकं किट्टं मुण्डादीनां मलं तयोः पलैः पलमानैर्गोधूमबद्धपिण्डी बहुशो बहुवारं गोपञ्चकभावितं गवां क्षीराज्यदधिमूत्रविट्केन भाविता किं कृत्वा मत्स्यैरालोड्य मत्स्यैः क्षुद्रजलचरैरालोड्य संमिश्र्येत्यर्थः ॥ १०.१५-१७ः५ ॥
कोष्ठके कोष्ठिकायन्त्रे धमनविधिना उत्क्षिप्योत्क्षिप्य धमनेन भस्त्रानलेन तत्सत्वं पतति पूर्वसंबन्धात्ताप्यादीनामिति शेषः ॥ १०.१५-१७ः६ ॥
च पुनरभ्रसत्वमभ्रकात्सारं संद्रवति ॥ १०.१५-१७ः७ ॥
तथैवोक्तविधानेन सर्वाणि समस्तानि सत्वानि साराणि पतन्ति अनुक्तानामिति शेषः ॥ १०.१५-१७ः८ ॥
____________________________________________________
ङृह्त्११.१-२
अथ बीजनिर्वाहणमारभ्यते ।
<स्वर्णमाक्षिकःः fओर्प्रोदुच्तिओनोf गोल्द्(?)>
स्वीकृत्य सर्वसरितो गङ्गा जलधौ यथा तथा हैमम् ।
प्रविशति रसे गृहीत्वा संमिलिति सर्वलोहगुणान् ॥ ङृह्त्_११.१ ॥
जीर्यति मिलति च शुल्बे तत्सत्वं किट्टतां याति ।
सुवृत्तः सद्रृतारम्भः सुज्ञः संज्ञानदर्शकः ।
अभूच्च धनधर्मज्ञो हारी कुञ्जनसंपदाम् ॥ ११.१ः१ ॥
आदौ हैमप्रशंसामाह स्वीकृत्येत्यादि ॥ ११.१ः२ ॥
हैमं स्वर्णमाक्षिकसत्वं संमिलिति किंकृत्वा सर्वलोहगुणान् सर्वलोहेषु समस्तधातुषु संमिलिता मिश्रिताः ये गुणास्तान् गृहीत्वा तथा रसे प्रविशति यथा गङ्गा सर्वा नद्यः सरितः स्वीकृत्य अङ्गीकृत्य जलधौ समुद्रे प्रविशति ॥ ११.१ः३ ॥
ताप्यसत्वाधिकारमाह जीर्यतीत्यादि ॥ ११.१ः४ ॥
तथैमं ताप्यसत्वं शुल्बे ताम्रे मिलति सति सत्त्वं जीर्यति जारणत्वमाप्नोति रसे इति शेषः ॥ ११.१ः५ ॥
तस्मिन् सत्वे शुल्बे मिलति सति किट्टतां याति लोहमलसदृशं स्यात् ॥ ११.१ः६ ॥
____________________________________________________
ङृह्त्११.२
<पस्सेन्दे ष्तोffए f?र्स्वर्ण-, तारक्रिया>
हेमक्रियासु करिणा त्रपुणा तारक्रियासु निर्व्यूढम् ॥ ङृह्त्_११.२ ॥
*टीका.. मुग्धावबोधिनींः
प्रथमं तत्सत्वं करिणा नागेन सह हेमक्रियासु स्वर्णकार्येषु निर्व्यूढं रसे निर्वाहितं कुर्यादित्यर्थः ॥ ११.२ः१ ॥
पुनस्त्रपुणा वङ्गेन सह तारक्रियासु रूप्यकार्येषु निर्व्यूढं कुर्यात्नागवङ्गौ सर्वत्र पीतसितकार्येषु प्रशस्तावित्यर्थः ॥ ११.२ः२ ॥
____________________________________________________
ङृह्त्११.३
<ःेर्स्तेल्लुन्गेइनेस्बीजस्>
घनसत्वं खलु रविणा रसायने द्वंद्वकं योज्यम् ।
रक्तगणपातभावितगिरिजतुमाक्षिकगैरिकदरदैः ॥ ङृह्त्_११.३ ॥
*टीका.. मुग्धावबोधिनींः
अभ्रसत्वयोगमाह घनसत्वमित्यादि ॥ ११.३ः१ ॥
खलु निश्चये वाक्यालङ्कारे वा घनसत्वमभ्रसारं रविणा ताम्रेण सह रसायने जराव्याधिनाशने द्वंद्वकं घनसत्वताम्रं योज्यं पुनः रक्तगणपातभावितगिरिजतुमाक्षिकगैरिकदरदैः रक्तगणस्य यः पातः पातनं निक्षेपो वा तेन भावितानि घर्मपुटितानि गिरिजतुमाक्षिकगैरिकदरदानि गिरिजतु शिलाजतु माक्षिकं प्रतीतं दरदं हिङ्गुलमेतैर्बीजशेषं कुर्यादित्यागामिश्लोकाज्ज्ञेयम् ॥ ११.३ः२ ॥
____________________________________________________
ङृह्त्११.४
<गोल्द्ःः बीज>
मृदुलताम्रकान्तघनसत्वं मृतनागतीक्ष्णकनकं च ।
कुर्वीत बीजशेषं दरदशिलातालमाक्षिकैर्वापात् ॥ ङृह्त्_११.४ ॥
*टीका.. मुग्धावबोधिनींः
विध्यन्तरमाह मृदुलेत्यादि ॥ ११.४ः१ ॥
मृदुलं नेपालसंज्ञिकं ताम्रं कान्तं लोहजाति घनसत्वमभ्रसारं पुनर्मृतं नागं सीसकं तीक्ष्णं लोहजाति कनकं हेम एतत्त्रयं बीजं शुल्बादित्रयं च बीजसंज्ञकं दरदशिलातालमाक्षिकैर्वापात्दरदं हिङ्गुलं शिला मनोह्वा तालं हरितालमेतैः कृत्वा वापः वह्नितप्ते परिक्षेपः तस्मात्बीजशेषं कुर्वीत उभयोर्बीजे अभ्रसत्वहेम्नः शेषे कुर्यादित्यर्थः वा एवं कृते यच्छेषं तिष्ठति तद्बीजमिति ॥ ११.४ः२ ॥
____________________________________________________
ङृह्त्११.५
<गोल्द्, सिल्वेर्ःः बीज>
मृतनागं वङ्गं वा शुल्वं घनसत्वतारकनकं वा ।
ध्मातं तदेव सर्वं गिरिणाधिकशोधनैर्वापात् ॥ ङृह्त्_११.५ ॥
*टीका.. मुग्धावबोधिनींः
विध्यन्तरमाह मृतं नागमित्यादि ॥ ११.५ः१ ॥
मयन्नागं सीसकं तन्मृतनागं च मृतं यद्वङ्गं रक्तगणावापमृतं च यच्छुल्वं वा घनसत्वतारकनकं घनसत्वमभ्रसारं तारं रूप्यं कनकं हेम एतन्नदुगणसर्वं वा प्रत्येकं पृथक्गिरिणा शिलाजतुना सह ध्मातं कुर्यातधिकशोधनैः दरदशिलातालैर्वापात्बीजशेषं कुर्यादिति पूर्वसंबन्धः ॥ ११.५ः२ ॥
____________________________________________________
ङृह्त्११.६-७
<गोल्द्ःः बिज (?)>
रक्तगणं पीतं वा माक्षिकराजावर्तमथो विमलम् ।
एकतमं वा गैरिककुनटीक्षितिगन्धकखगैर्वा ॥ ङृह्त्_११.६ ॥
निर्व्यूढैरेव रसो रागादि गृह्णाति बन्धमुपयाति ।
मृतलोहोपरसाद्यैर्निर्व्यूढं भवति शृङ्खलाबीजम् ॥ ङृह्त्_११.७ ॥
*टीका.. मुग्धावबोधिनींः
रक्तगणं दाडिमकिंशुकादिकं वा पीतगणं यथा ।
किंशुकः कर्णिकारश्च हरिद्राद्वितयं तथा ।
पीतवर्गोऽयमुद्दिष्टो रसराजस्य कर्मणि इति ॥ ११.६-७ः१ ॥
वा माक्षिकं ताप्यं वा राजावर्तं राजवर्तो लाजवरद इति भाषायामथ विमलं तारमाक्षिकमित्येकतमं सर्वमेव वा गैरिककुनटीक्षितिगन्धकखगैः गैरिकं प्रतीतं कुनटी मनोह्वा क्षितिः स्फटकी गन्धकः प्रतीतः खगः कासीसमेतैरिति ॥ ११.६-७ः२ ॥
एतैः पूर्वोक्तैरेव रसे निर्व्यूढे रसो रागादि रञ्जनादि गृह्णाति आदिशब्दात्सारणं च विज्ञेयं पुनर्बन्धमुपयाति बन्धनमाप्नोति पुनः मृतलोहोपरसाद्यैः मृताश्च ते लोहाश्च धातवश्च त एव उपरसा गन्धकाद्याः आद्यशब्दात्रसा अपि तैर्निर्व्यूढैः कृत्वा शृङ्खलाबीजमुत्तरोत्तरं रञ्जकं भवतीत्यर्थः ॥ ११.६-७ः३ ॥
____________________________________________________
ङृह्त्११.८
<बीज fओर्रञ्जन अन्द्बन्धन ओf मेर्चुर्य्>
आयसशलाकिकाभ्यामद्वन्द्वाख्यैश्च सङ्कराख्यैश्च ।
निर्व्यूढं रसलोहैर्जारणकर्मोचितं भवति ॥ ङृह्त्_११.८ ॥
*टीका.. मुग्धावबोधिनींः
रसलोहैरिति रसा वैक्रान्तादयो लोहा धातवः प्रतीतास्तैर्निर्व्यूढं किंविशिष्टैः अद्वन्द्वाख्यैः एकात्मैः संकरैर्वा सर्वैः संकरोऽवकरे इत्यमरः एवं निष्पन्ने बीजं जारणयोग्यं सदित्यर्थः ॥ ११.८ः१ ॥
____________________________________________________
ङृह्त्११.९
बीजमिदं रक्तगणे निषेचितं तेन कृतवापम् ।
चारितजारितमात्रं सूतं रञ्जयति बध्नाति ॥ ङृह्त्_११.९ ॥
*टीका.. मुग्धावबोधिनींः
विशेषविध्यन्तरमाह बीजमित्यादि ॥ ११.९ः१ ॥
इदं निष्पन्नबीजं रक्तगणे निषेचितं कुर्यात् ॥ ११.९ः२ ॥
पुनस्तेन रक्तगणेन कृतवापं कृतो वापो यस्मिन् तत् ॥ ११.९ः३ ॥
पुनस्तद्बीजं चारितजारितमात्रं पूर्वं च पश्चात्जारितं सन्तं सूतं रञ्जयति रागं प्रापयति बध्नाति चेति ॥ ११.९ः४ ॥
____________________________________________________
ङृह्त्११.१०
<बीजःः fउर्थेर्प्रोचेस्सिन्ग्>
रक्तस्नेहविशोधितमृतलोहरसादिभिस्तु सर्वेषाम् ।
बीजानां कुरु वापं रक्तस्नेहे निषेकं च ॥ ङृह्त्_११.१० ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह रक्तेत्यादि ॥ ११.१०ः१ ॥
रक्तस्नेह इति रक्तगणो दाडिमकिंशुकादिकः स्नेहः कङ्गुण्यादीनामेतैर्विशोधिताः पश्चान्मृता ये धातवो रसादयश्च रसोपरसास्तैः सर्वेषां बीजानां पूर्वोक्तानां वापं कुरु रसे इति शेषः वा रक्ते रक्तवर्णे स्नेहे स्नेहवर्गे निषेकं च विधानद्वयमिदम् ॥ ११.१०ः२ ॥
____________________________________________________
ङृह्त्११.११
<सिल्वेर्ःः बीजस्>
वङ्गाभ्रमभ्रतारं सितशैलमलाहतौ च सितवङ्गौ ।
रक्तं सितताप्यहतं रमति निर्व्यूढवङ्गाभ्रम् ॥ ङृह्त्_११.११ ॥
*टीका.. मुग्धावबोधिनींः
पीतक्रियायां बीजान्युक्तानि अथ श्वेतक्रियायां बीजान्याह वङ्गेत्यादि ॥ ११.११ः१ ॥
वङ्गाभ्रमिति वङ्गं रङ्गमभ्रं गगनमेते बीजहेतवे इति शेषः ॥ ११.११ः२ ॥
पुनरभ्रतारमभ्रं गगनं तारं रूप्यमिति च सितं श्वेतं यच्छैलमलं शिलाजतु तेन आहतौ सम्यक्मृतौ सितवङ्गौ ताररङ्गौ कार्यौ पुनः रक्तं हेम सितं तारं ताप्यं माक्षिकं ताभ्यां हतं मारितं कुर्यात् ॥ ११.११ः३ ॥
पुनस्तारं रूप्यं निर्व्यूढं वङ्गं चाभ्रं च यत्र तदेवंविधं कुर्यात् ॥ ११.११ः४ ॥
एतत्सर्वं रसे तारक्रियासु योज्यमित्यर्थः ॥ ११.११ः५ ॥
____________________________________________________
ङृह्त्११.१२
निर्वाहणविधिरेषः प्रकाशितोऽशेषदोषशमनाय ।
बीजानामप्येवं घनसत्वं युज्यते प्रथमम् ॥ ङृह्त्_११.१२ ॥
*टीका.. मुग्धावबोधिनींः
बीजेऽभ्रसत्वं प्रधानमाह निर्वाहणेत्यादि ॥ ११.१२ः१ ॥
एषः किमर्थः अशेषदोषशमनाय धात्वादीनां समस्तदोषनाशनायेत्यर्थः ॥ ११.१२ः२ ॥
एवममुना प्रकारेण यथा धातुनिर्वाहणविधिस्तथा बीजानां रसे निर्वाहणं कुर्यात्सर्वबीजनिर्वाहणे अभ्रकसत्वं प्रथमं निर्वाह्यमिति ज्ञेयम् ॥ ११.१२ः३ ॥
____________________________________________________
ङृह्त्११.१३
<च्रुचिब्ले fओर्बीजनिर्वाहण>
छागास्थिभस्मनिर्मितमूषां कृत्वैव मल्लकाकाराम् ।
दलयोगे घनरन्ध्रां टङ्कणविषगुञ्जाकृतलेपाम् ॥ ङृह्त्_११.१३ ॥
*टीका.. मुग्धावबोधिनींः
निर्वाहणविधानमाह छागेत्यादि ॥ ११.१३ः१ ॥
एवंविधां मूषां कृत्वा धातुनिर्वाहणं कुर्यातिति शेषः ॥ ११.१३ः२ ॥
किंभूतां छागास्थिभस्मनिर्मितमूषामिति छागो बस्तस्तस्यास्थीनि तद्भस्मना निर्मिता कृता या मूषा ताम् ॥ ११.१३ः३ ॥
पुनः किंभूतां मल्लकाकारां गोस्तनसदृशीम् ॥ ११.१३ः४ ॥
पुनः किंविशिष्टां घनरन्ध्रां निबिडछिद्राम् ॥ ११.१३ः५ ॥
पुनः टङ्कणविषगुञ्जाकृतलेपां टङ्कणं सौभाग्यं विषं सक्तुकं गुञ्जा रक्तिका ताभिः कृतो लेपो यस्यां सा ताम् ॥ ११.१३ः६ ॥
एवंभूता मूषा दलयोगे पत्रमेलने कार्येत्यर्थः ॥ ११.१३ः७ ॥
____________________________________________________
ङृह्त्१२.१
अथ द्वन्द्वमेलनमभिधास्यते ।
<ंोतिवतिओन् f?र्द्वन्द्वमेलन>
यावन्नाङ्गाङ्गतया न मिलन्ति लोहानि सर्वसत्त्वेषु ।
तावत्सर्वाङ्गं न च चरति रसो द्वन्द्वयोगेन ॥ ङृह्त्_१२.१ ॥
*टीका.. मुग्धावबोधिनींः
वाचां विलासेन सुधानुकारी नु जगत्करोति ।
किंचित्स्वयं यत्पुरुषत्वमेव सुधाद्विजिह्वाश्रितमित्यदोषः ॥ १२.१ः१ ॥
अथ द्वन्द्वयोगप्रकारमाह यावदित्यादि ॥ १२.१ः२ ॥
यावदित्यवधौ ॥ १२.१ः३ ॥
लोहानि हेमादीनि नागाङ्गतया भुजङ्गशरीरतया न मिलन्ति सुगमत्वेन एकशरीरतां नाप्नुवन्ति ॥ १२.१ः४ ॥
केषु सर्वसत्त्वेषु अभ्रादीनां सारेषु सत्त्वस्य काठिन्याद्विनोपायं नैकतां यान्ति लोहानि ॥ १२.१ः५ ॥
अतस्तावद्रसः सर्वाङ्गं न चरति ॥ १२.१ः६ ॥
केन कृत्वा सत्वेषु लोहानि मिलन्ति द्वन्द्वयोगेन दरदादिना वा गुडपुरटङ्कणादिनेति ॥ १२.१ः७ ॥
____________________________________________________
ङृह्त्१२.२
<मेतल्स्ःः प्रेपरतिओन् fओर्द्व्.ँ>
माक्षीकरसकसस्यकदरदान्यतमेन वापितं लोहम् ।
संत्यजति निबिडभावं सत्वे संमिलति सुध्मातम् ॥ ङृह्त्_१२.२ ॥
*टीका.. मुग्धावबोधिनींः
सत्त्वमेलनविधानमाह माक्षिकेत्यादि ॥ १२.२ः१ ॥
लोहं स्वर्णादि ॥ १२.२ः२ ॥
माक्षिकं ताप्यं रसकं खर्परिकं सस्यकं चपला दरदं हिङ्गुलमेतेन चतुष्केण वा एभ्योऽन्यतमेनोक्तरसोपरसेन वापितं सुध्मातं शोभनयुक्त्या ध्मातं च सत्निविडभावं संत्यजति सत्त्वे संमिलति च ॥ १२.२ः३ ॥
____________________________________________________
ङृह्त्१२.३
<द्वन्द्वमेलापकःः प्रेपरतिओन्>
गुडपुरटङ्कणलाक्षासर्जरसैर्धातकीसमायुक्तैः ।
स्त्रीस्तन्येन तु पिष्टैः रसायने द्वंद्वितं योज्यम् ॥ ङृह्त्_१२.३ ॥
*टीका.. मुग्धावबोधिनींः
विध्यन्तरमाह गुडेत्यादि ॥ १२.३ः१ ॥
इदं द्वंद्वितं द्वंद्वीकृतं लोहं सत्त्वेन मिलितं रसायने जराव्याधिनाशने योज्यम् ॥ १२.३ः२ ॥
कैर्द्वन्द्वमेलापकैः कृत्वा द्वंद्वितमित्याह गुडेत्यादि ॥ १२.३ः३ ॥
गुडः प्रतीतः पुरो गुग्गुलुः टङ्कणं सौभाग्यं लाक्षा जतु सर्जरसो राला एतैः धातकीसमायुक्तैः धातकी प्रतीता तत्समायुक्तैः पुनः स्त्रीस्तन्येन नारीदुग्धेन पिष्टैर्मर्दितैः एतैर्द्वन्द्वमेलापकैः कृत्वा ॥ १२.३ः४ ॥
____________________________________________________
ङृह्त्१२.४
<द्वन्द्वमेलापक>
ऊर्णाटङ्कणगिरिजतुकर्णाक्षिमलेन्द्रगोपकर्कटकैः ।
नारीपयसा पिष्टैः सर्वे द्वन्द्वेषु हि मिलन्ति ॥ ङृह्त्_१२.४ ॥
*टीका.. मुग्धावबोधिनींः
सर्वे द्वन्द्वेषु सत्वं प्रति द्वन्द्वेषु मिलन्ति एकीभवन्ति लोहानि इति शेषः ॥ १२.४ः१ ॥
एतैः कैः ऊर्णादिभिः ॥ १२.४ः२ ॥
ऊर्णा प्रतीता टङ्कणं सौभाग्यं गिरिजतु शिलाजतु कर्णाक्षिमलं मनुष्यस्य इन्द्रगोपको जीवविशेषः कर्कटकश्चकुलीरः स्यात्कुलीरः कर्कटकः इत्यमरः एतैः ॥ १२.४ः३ ॥
किंविशिष्टैः नारीपयसा स्त्रीदुग्धेन पिष्टैः कल्कितैः त्रयोऽपि द्वन्द्वमेलापकयोगा इति ॥ १२.४ः४ ॥
____________________________________________________
ङृह्त्१२.५
<द्व.ँ ओf रसवैक्रान्त अन्द्गोल्द्=> बन्धन ओf मेर्चुर्य्>
रसवैक्रान्तकमेवं मिलति द्वन्द्वान्वितं समं हेम्ना ।
निर्व्यूढं तत्सत्वं तेन रसो बन्धमुपयाति ॥ ङृह्त्_१२.५ ॥
*टीका.. मुग्धावबोधिनींः
विध्यन्तरमाह रसेत्यादि ॥ १२.५ः१ ॥
एवमुक्तविधानेन रसवैक्रान्तकं द्वन्द्वान्वितं स्वकीयद्वन्द्वसहितं मिलति पृथग्भावं त्यजति ॥ १२.५ः२ ॥
केन समं हेम्ना सह ॥ १२.५ः३ ॥
तद्रसवैक्रान्तसत्त्वं हेम्ना सह निर्व्यूढं कुर्यात्तेन रसवैक्रान्तसत्त्वहेमयोगेन रसो बन्धमुपयाति बद्धो भवतीति ॥ १२.५ः४ ॥
____________________________________________________
ङृह्त्१२.६
<द्वन्द्वमेलापक>
शस्तं सर्वद्वन्द्वे गिरिजतुलेलीतकेन्द्रगोपाद्यैः ।
महिषीकर्णमलाद्यैः स्याद्बीजं टङ्कणालविषैः ॥ ङृह्त्_१२.६ ॥
*टीका.. मुग्धावबोधिनींः
अथ विशेषविध्यन्तरमाह शस्तमित्यादि ॥ १२.६ः१ ॥
एवंविधं बीजं शस्तं क्व सर्वद्वन्द्वे ॥ १२.६ः२ ॥
पुनरेतैः कृत्वा बीजं शस्तं स्यात् ॥ १२.६ः३ ॥
कैः गिरिजतुलेलीतकेन्द्रगोपाद्यैः गिरिजतु शिलाजतु लेलीतको गन्धकः इन्द्रगोपः सुरेन्द्रगोपो जीवविशेषः एते आद्या येषां तैः ॥ १२.६ः४ ॥
न केवलमेतैर्महिषीकर्णमलाद्यैश्च महिष्याः कर्णयोर्मल आद्यो येषां ते आद्यशब्दान्नासाक्षिमलं च ॥ १२.६ः५ ॥
पुनष्टङ्कणालविषैः टङ्कणं सौभाग्यमालं हरितालं विषं कन्दजमेतैः पिष्टैर्द्वन्द्वमेलापः स्यादिति पुनः संबन्धः ॥ १२.६ः६ ॥
____________________________________________________
ङृह्त्१२.७
<द्वन्द्वमेलापक>
मधुसहितैरप्येतैस्ताराभ्रं मिलति ताप्यकनकं च ।
एरण्डतैलटङ्कणकंकुष्ठशिलेन्द्रगोपैस्तु ॥ ङृह्त्_१२.७ ॥
*टीका.. मुग्धावबोधिनींः
विध्यन्तरमाह मध्वित्यादि ॥ १२.७ः१ ॥
एतैः पूर्वोक्तैर्योगैः मधुसहितैः क्षौद्रयुतैः ताराभ्रं रूप्यगगनं मिलति ॥ १२.७ः२ ॥
च पुनस्ताप्यकनकं माक्षिकस्वर्णमिदं द्वन्द्वं च मिलति ॥ १२.७ः३ ॥
न केवलं पूर्वोक्तयोगैर्मिलति पुनरेतैरेरण्डतैलटङ्कणकङ्कुष्ठशिलेन्द्रगोपैश्च एरण्डतैलं वातारिस्नेहः टङ्कणं सौभाग्यं कङ्कुष्ठं विरङ्गं शिला मनोह्वा इन्द्रगोपको जीवविशेषः एतैश्च मधुसहितैः कृत्वा द्वन्द्वं मिलतीत्यवश्यम् ॥ १२.७ः४ ॥
____________________________________________________
ङृह्त्१२.८
<मेलापन ओf मेर्चुर्य्, गोल्द्, अन्दभ्र>
सूतेन शुद्धकनकं निष्पिष्य समाभ्रयोजितं कृत्वा ।
पादेन तु पूर्वोक्तद्वन्द्वान्यतमकं कल्प्यम् ॥ ङृह्त्_१२.८ ॥
*टीका.. मुग्धावबोधिनींः
तद्विधानमाह सूतेनेत्यादि ॥ १२.८ः१ ॥
प्रथमं सूतेन रसेन सह शुद्धकनकं निष्पिष्य संमर्द्य पुनः समाभ्रयोजितं कृत्वा समं च तदभ्रं च तेन योजितं कृत्वा पश्चात्पादेन चतुर्थांशविभागेन पूर्वोक्तद्वन्द्वान्यतमकं कल्प्यं पूर्वोक्तद्वन्द्वमेरण्डतैलादिकं गिरिजत्वादिकं च तेभ्योऽन्यतमकं द्वन्द्वं योज्यमिति ॥ १२.८ः२ ॥
____________________________________________________
ङृह्त्१२.९-१०
<मेलापन ओf गोल्दन्दभ्र>
रसोपरसस्य हेम्नो द्विगुणं शुद्धमाक्षिकं दत्त्वा ।
स्वरसेन काकमाच्या रम्भाकन्देन मृद्नीयात् ॥ ङृह्त्_१२.९ ॥
कृतमित्येतत्पिण्डं हेमाभ्रं मिलति वज्रमूषायाम् ।
विध्यन्तरमाह रसेत्यादि ॥ १२.९ः१ ॥
रसोपरसस्य वैक्रान्तगन्धकादेर्मध्ये शुद्धमाक्षिकं निर्दोषं ताप्यं हेम्नो द्विगुणं कनकाद्द्विगुणितं दत्त्वा द्विगुणमाक्षिकयुतं हेम दत्त्वेत्यर्थः ॥ १२.९ः२ ॥
एतद्रसोपरसादिकं काकमाच्या वायस्याः स्वरसेन मृद्नीयात्मर्दनं कुर्यात् ॥ १२.९ः३ ॥
रम्भाकन्देन च कदलीकन्देनापीत्यर्थः ॥ १२.९ः४ ॥
एतत्पूर्वौषधं पिण्डं गोलाकारं कुर्यात् ॥ १२.९ः५ ॥
इतिविधानेन हेमाभ्रं मिलति हेमताप्यं चेति ॥ १२.९ः६ ॥
क्व वज्रमूषायाम् ॥ १२.९ः७ ॥
तथाह ।
मृदस्त्रिभागाः शणलद्दिभागौ भागश्च निर्दग्धतुषोपलादेः ।
किट्टार्धभागं परिखण्ड्य वज्रमूषां विदध्यात्खलु सत्वपाते ।
इति ॥ १२.९ः८ ॥
____________________________________________________
ङृह्त्१२.१०
<मेलापन ओf अभ्रसत्त्व wइथ्दिff. सुब्स्तन्चेस्>
रविशशितीक्ष्णैरेवं मिलन्ति गगनादिसत्वानि ॥ ङृह्त्_१२.१० ॥
*टीका.. मुग्धावबोधिनींः
एवममुना विधिना रविशशितीक्ष्णैः सह रविस्ताम्रं शशी रूप्यं तीक्ष्णं लोहजातिः एतैः सार्धं गगनादिसत्वानि अभ्रादीनां साराणि मिलन्तीति युग्मम् ॥ १२.१०ः१ ॥
____________________________________________________
ङृह्त्१२.११
<मेलापन fओर्सङ्करबीजस्>
सङ्करबीजानामपि विधानमित्यादि गगनसत्वयोगेन ।
माक्षीकयोगादन्यं योज्यमवश्यं तु सर्वत्र ॥ ङृह्त्_१२.११ ॥
*टीका.. मुग्धावबोधिनींः
अभ्रसत्वस्याधिकारमाह संकरेत्यादि ॥ १२.११ः१ ॥
सङ्करबीजानामपि विधानं कर्तव्यार्थोपदेश इति यावत् ॥ १२.११ः२ ॥
इत्यादि पूर्वोक्तं तु पुनः गगनसत्वयोगेन अभ्रकसत्त्वेन सार्धं माक्षीकयोगादन्यं योज्यमभ्रसत्वेन सह माक्षीकं न स्यादिति व्यक्तिः ॥ १२.११ः३ ॥
____________________________________________________
ङृह्त्१२.१२
कान्तमुखं सर्वेषां सत्त्वानां मेलकं प्रथमम् ।
पूर्वोक्तकल्कसहितं माक्षीकमृतनागतालशिलम् ॥ ङृह्त्_१२.१२ ॥
इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते रसहृदयतन्त्रे द्वन्द्वाधिकारात्मको द्वादशोऽवबोधः ॥
*टीका.. मुग्धावबोधिनींः
कान्तेत्यादि ॥ १२.१२ः१ ॥
माक्षिकेण मृतं यन्नागं तालं हरितालं शिला मनोह्वा च तत्तथा पूर्वोक्तकल्कसहितं यत्कल्कं रसोपरसादीनां तेन सहितं युक्तं कान्तमुखं यथा ।
अभावेऽभ्रकसत्त्वस्य कान्तसत्त्वं प्रदापयेत् ।
कान्तसत्वस्य वाभावे तीक्ष्णलोहं तु दापयेत् ।
इति ॥ १२.१२ः२ ॥
____________________________________________________
ङृह्त्१३.१
माक्षीककान्ततीक्ष्णं तीक्ष्णं माक्षीकमभ्रकं बीजम् ।
माक्षीककान्तशुल्बं तीक्ष्णाभ्रकं महाबीजम् ॥ ङृह्त्_१३.१ ॥
*टीका.. मुग्धावबोधिनींः
मधुनि माधव एव मधुव्रतः प्रकुरुते मुदितो मधुरं रवम् ।
वररवोऽपि सतां च समागमं शबलता किमुपैति न चारुताम् ॥ १३.१ः१ ॥
संकरबीजानां मध्ये महाबीजसंज्ञान्याह माक्षिकेत्यादि ॥ १३.१ः२ ॥
एतत्त्रिकं महाबीजं किमेतत्माक्षीककान्ततीक्ष्णं माक्षीककान्तशुल्बं तीक्ष्णाभ्रकं च माक्षीकं ताप्यं कान्तं चुम्बकं शुल्बं ताम्रं तीक्ष्णं लोहजातिरभ्रकं गगनमेतत्त्रितयं बीजं महाबीजमेतत्त्रित्रिमुखं प्रत्येकं महासंज्ञम् ॥ १३.१ः३ ॥
विशेषोऽत्र ।
बीजपाकं प्रवक्ष्यामि जारणार्थं रसस्य तु ।
सूत्रक्रमोऽयं बीजेन समजीर्णेन शुध्यति ।
इति ॥ १३.१ः४ ॥
अवान्तरत्वेन च प्रत्येकं द्रव्यं बीजसंज्ञाभिमतम् ॥ १३.१ः५ ॥
____________________________________________________
ङृह्त्१३.२
माक्षीककान्तशुल्बं शुल्बाभ्रकमाक्षिकं चापि ।
कान्ताभ्रकमाक्षीकं ताप्यकशुल्बाभ्रकं महाबीजम् ॥ ङृह्त्_१३.२ ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह माक्षीकेत्यादि ॥ १३.२ः१ ॥
माक्षीककान्तशुल्बं माक्षीकं ताप्यं कान्तं चुम्बकं शुल्बं ताम्रमेतदपि महाबीजं ज्ञेयम् ॥ १३.२ः२ ॥
पुनः शुल्बाभ्रकमाक्षीकं पुनः कान्ताभ्रकमाक्षीकं कान्तं कान्तपाषाणमभ्रकं गगनं माक्षीकं ताप्यं तथा ताप्यकशुल्बाभ्रकमेतदपि च महाबीजं ज्ञेयमिति ॥ १३.२ः३ ॥
____________________________________________________
ङृह्त्१३.३
माक्षीकतीक्ष्णशुल्बं तीक्ष्णशुल्बाभ्रकं महाबीजम् ।
माक्षीककान्तकनकं कनकारुणमाक्षिकं महाबीजम् ॥ ङृह्त्_१३.३ ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह माक्षीकेत्यादि ॥ १३.३ः१ ॥
माक्षीकतीक्ष्णशुल्बं माक्षिकं ताप्यं तीक्ष्णं सारलोहजातिः शुल्बं ताम्रम् ॥ १३.३ः२ ॥
पुनस्तीक्ष्णशुल्बाभ्रकं तीक्ष्णं सारं शुल्बं ताम्रमभ्रकं गगनम् ॥ १३.३ः३ ॥
पुनर्माक्षीककान्तकनकं माक्षीकं ताप्यं कान्तं कान्तपाषाणं कनकं स्वर्णम् ॥ १३.३ः४ ॥
पुनः कनकारुणमाक्षिकं कनकं स्वर्णमरुणं ताम्रं माक्षिकं स्वर्णमाक्षिकं चेति चतुष्टयं महाबीजं प्रवरबीजमित्यर्थः ॥ १३.३ः५ ॥
चतुर्णां प्रत्येकं महाबीजसंज्ञेति ॥ १३.३ः६ ॥
____________________________________________________
ङृह्त्१३.४
माक्षीकतीक्ष्णतारं तारारुणमाक्षिकं चैवम् ।
कान्तं तु शुल्बताप्यं शुल्बाभ्रताप्यकांचनं चापि ॥ ङृह्त्_१३.४ ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह माक्षीकतीक्ष्णतारमिति ॥ १३.४ः१ ॥
माक्षीकं ताप्यं तीक्ष्णं सारं तारं रूप्यम् ॥ १३.४ः२ ॥
पुनस्तारारुणमाक्षिकमेवमुक्तविधानेन इदमपि तारं रूप्यमरुणं ताम्रं माक्षीकं ताप्यम् ॥ १३.४ः३ ॥
पुनः कान्ते चुम्बकेऽभिव्यापके अधिकरणे शुल्बं ताम्रं ताप्यं स्वर्णमाक्षिकं यत्प्रयुक्तम् ॥ १३.४ः४ ॥
अपीति निश्चयेन ॥ १३.४ः५ ॥
शुल्बाभ्रताप्यकाञ्चनं वा शुल्बं ताम्रमभ्रं गगनं ताप्यं स्वर्णमाक्षिकं काञ्चनं हेम एतच्चतुष्टयमपि महाबीजं ज्ञेयम् ॥ १३.४ः६ ॥
महाबीजसंबन्धः प्रत्येकमिति व्यक्तिः ॥ १३.४ः७ ॥
____________________________________________________
ङृह्त्१३.५
कान्तेन्दुसस्यताप्यं कान्ताभ्रकतीक्ष्णमाक्षिकं चैव ।
हेमाभ्रशुल्बताप्यं हेमाभ्रकशुल्बमाक्षिकं वापि ॥ ङृह्त्_१३.५ ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह कान्तेन्दुसस्यताप्यमिति ॥ १३.५ः१ ॥
कान्तं कान्तपाषाणमिन्दुस्तारं सस्यं चपला ताप्यं स्वर्णमाक्षिकं चेति ॥ १३.५ः२ ॥
पुनः कान्ताभ्रकतीक्ष्णमाक्षिकं तथा हेमाभ्रशुल्बताप्यं पुनर्हेमाभ्रकशुल्बमाक्षिकं वा हेम कनकमभ्रकं गगनं शुल्बं ताम्रं माक्षीकं ताप्यमेतच्चतुष्टयमपि महाबीजं ज्ञेयम् ॥ १३.५ः३ ॥
प्रत्येकद्रव्ये बीजसंज्ञा चेति ध्वन्यर्थः ॥ १३.५ः४ ॥
____________________________________________________
ङृह्त्१३.६
कान्ताभ्रशुल्बताप्यं सङ्करबीजं चतुःषष्टिः ॥ ङृह्त्_१३.६ ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह कान्तेत्यादि ॥ १३.६ः१ ॥
कान्ताभ्रशुल्बताप्यं कान्तं चुम्बकमभ्रकं गगनं शुल्बं ताम्रं ताप्यं माक्षिकमित्यपि महाबीजम् ॥ १३.६ः२ ॥
एतेषां महाबीजानां चेत्संकरबीजं प्रत्येकं द्रव्यस्य बीजसंज्ञा सा तर्हि चतुःषष्टिप्रमाणा स्यादित्यर्थः ॥ १३.६ः३ ॥
___________________
ङृह्त्१३.७
<महाबीजःः प्रोदुच्तिओन्>
सर्वेषां बीजानामादौ कृत्वा यथोक्तसंयोगम् ।
शतवाप्यं यद्वह्नौ द्रावितं हि बीजं विशुद्धमिदम् ॥ ङृह्त्_१३.७ ॥
*टीका.. मुग्धावबोधिनींः
बीजविधानमाह सर्वेषामित्यादि ॥ १३.७ः१ ॥
आदौ प्रथमं सर्वेषां बीजानां यथोक्तं संयोगं चतुःषष्टीनामुक्तसंज्ञानां द्रव्याणां संयोगमेकत्रीकरणं कृत्वा यदेकत्रीकृतं वह्नौ द्रावितं भवति तत्सर्वं शतवाप्यं बीजं सिद्धं प्रयत्नेन स्यादिति शब्दार्थः ॥ १३.७ः२ ॥
___________________
ङृह्त्१३.८
<चारण, गर्भ- अन्द्बाह्यद्रुति नेचेस्सर्य्fओर्बन्धन>
न पतति यदि घनसत्वं गर्भे नो वा द्रवन्ति बीजानि ।
न च बाह्यद्रुतियोगस्तत्कथमिह बध्यते सूतः ॥ ङृह्त्_१३.८ ॥
*टीका.. मुग्धावबोधिनींः
सूतबन्धने हेतूनाह नेत्यादि ॥ १३.८ः१ ॥
यदि गर्भे रसोदरे घनसत्त्वमभ्रकसारं न पतति न प्राप्नोति वा गर्भे बीजानि अस्मिन्नध्याये अभिहितानि माक्षिककान्तशुल्बादीनि यावन्नो द्रवन्ति च पुनर्बाह्यद्रुतिस्तस्या योगो रसे द्रुतिमेलनं न स्यात्तत्तस्माद्धेतोः सूत इहास्यां क्रियायामसत्यां कथं बध्यते घनत्वं धत्ते ॥ १३.८ः२ ॥
गर्भद्रुतिबाह्यद्रुतिभ्यां सूतो बध्यते नियतमित्यभिप्रायः ॥ १३.८ः३ ॥
____________________________________________________
ङृह्त्१४.१
<प्रोदुच्तिओनोf गोल्द्ःः प्रेपरिन्ग्थे मेर्चुर्य्>
समादधि च यज्जीर्णं बीजं तेनैव चावर्तता कार्या ।
कर्तव्यं तत्करणं यस्मात्खलु जायते हेम ॥ ङृह्त्_१४.१ ॥
*टीका.. मुग्धावबोधिनींः
शरदि शारदमेघो वर्षति वर्षासु वार्षिको वार्दः ।
मधुसमये परपुष्टः प्रवरजवः शोभते सततम् ॥ १४.१ः१ ॥
बीजजारणात्किं भवति तदाह समादीत्यादि ॥ १४.१ः२ ॥
समं सूततुल्यमधिशब्दादपरिमितं समादधिकं यज्जीर्णं जारणमाप्तं बीजं निष्पन्नबीजं तेनैव जीर्णेन बीजेन सह आवर्तता कार्या आवर्त इति आवर्तः ॥ १४.१ः३ ॥
किं तत्यस्माद्विधानाद्धेम कनकं जायते खलु निश्चयेन तत्करणं तस्य विधानस्य करणम् ॥ १४.१ः४ ॥
समादिजीर्णस्य सूतस्य रूप्यादिषु प्रयोगात्कनकं भवेदिति व्यक्तिः ॥ १४.१ः५ ॥
____________________________________________________
ङृह्त्१४.२-९
<रसबीजःः प्रोदुच्तिओन्>
प्रद्राव्य शस्त्रपात्रे गन्धपादेन सूतकं दद्यात् ।
स्वरसेन चौषधीनां वटिकां निष्पिष्य कुर्वीत ॥ ङृह्त्_१४.२ ॥
संस्थाप्य लोहफलके छायाशुष्कां तु तां वटिकाम् ।
लघुलोहकटोरिकया स्थगयित्वा लेपयेत्सुदृढम् ॥ ङृह्त्_१४.३ ॥
लवणार्द्रमृदा लिप्तां सुदृढं कुर्वीत धूम्ररोधाय ।
दत्त्वा सुदृढांगारान् भस्त्राद्वयवह्निनैव निर्धूमे ॥ ङृह्त्_१४.४ ॥
तावद्यावद्ध्माता रक्ताभा खोटिका भवति ।
अपनीय ततोऽङ्गारान् स्वभावशीतां कटोरिकां मत्वा ॥ ङृह्त्_१४.५ ॥
उत्खन्योत्खन्य ततः कटोरिकाया रसो ग्राह्यः ।
एषः मृतसूतराजो गोलकवद्भवति च स सुखाध्मातः ॥ ङृह्त्_१४.६ ॥
शिखिगलतामेकरसोऽतिध्मातः काचटंकणतः ।
त्रिगुणं वङ्गं दद्यात्क्रमेण नागमल्पाल्पदानेन ॥ ङृह्त्_१४.७ ॥
पश्चाद्धेम्ना योज्यं रसबीजं सूतबन्धकरम् ।
सूतमारणविधानमाह प्रद्राव्येत्यादि ॥ १४.२-७ः१ ॥
शस्त्रपात्रे तीक्ष्णमयपात्रे औपश्लेषिकेऽधिकरणे सप्तमी ॥ १४.२-७ः२ ॥
गन्धपादेन गन्धस्य तुर्यांशविभागेन सूतकं दद्यात्तत्पात्रोपरिभागे दत्तं प्रद्राव्य वह्निना इति शेषः ॥ १४.२-७ः३ ॥
पुनः ओषधीनां स्वरसेन औषध्यो ग्रन्थान्तरे यथा ।
मृद्नीयात्खलु तावत्पिष्टमञ्जनसदृशं भवेद्यावत् ।
तदनु च नियामकानां शतावरीकन्दुकीसुधादीनाम् ।
इति ॥ १४.२-७ः४ ॥
शतावर्यादीनां स्वकीयरसेन निष्पिष्य प्रमर्द्य वटिकां बदराकरां कुर्वीतेति ॥ १४.२-७ः५ ॥
तच्चाह संस्थाप्येत्यादि ॥ १४.२-७ः६ ॥
तां पूर्वोक्तां वटिकां छायाशुष्कां लोहफलके शस्त्रपात्रे संस्थाप्य पुनः लघुलोहकटोरिकया पूर्वोक्तलोहफलकात्लघ्वी या लोहकटोरिका तया स्थगयित्वा आच्छाद्य दृढं गाढं यथा स्यात्तथा लेपयेत्वक्ष्यमाणेनेति शेषः ॥ १४.२-७ः७ ॥
तच्चाह लवणेत्यादि ॥ १४.२-७ः८ ॥
तां पूर्वोदितां लघुलोहकटोरिकां सुदृढं यथा स्यात्तथा लवणार्द्रमृदा लवणेन सैन्धवादिना युता या आर्द्रा जलसिक्ता मृत्तया लिप्तां कुर्वीत ॥ १४.२-७ः९ ॥
किमर्थं धूम्ररोधाय यथा यन्त्राद्बहिर्धूमोद्गमो न स्यात् ॥ १४.२-७ः१० ॥
पुनः सुदृढाङ्गारान् खदिरादीनां दत्त्वा भस्त्राद्वयवह्निना खलु द्वयाग्निना धम्यादिति अग्रिमश्लोकसंबन्धात् ॥ १४.२-७ः११ ॥
क्व सति निर्धूमे सति रसे धूमनिःसरणवर्जिते सति ॥ १४.२-७ः१२ ॥
तच्चाह तावदित्यादि ॥ १४.२-७ः१३ ॥
सन्धिलिप्ता पूर्वोक्ता लोहशराविका तावदवधौ ध्माता कार्या यावत्कालप्रमाणं रक्ताभा रक्तद्युतियुक्ता खोटिका भवति खोटस्येव आकृतिर्यस्याः सा खोटिका ॥ १४.२-७ः१४ ॥
ततोऽनन्तरं कटोरिकां स्वभावशीतलां स्वतो हिमां मत्वा ज्ञात्वा पुनरङ्गारानपनीय अपसार्य कटोरिकामुत्खन्य रसो ग्राह्य इति शेषः आगमिश्लोकसंबन्धात् ॥ १४.२-७ः१५ ॥
तच्चाह उत्खन्येत्यादि ॥ १४.२-७ः१६ ॥
ततोऽनन्तरं लघुलोहकटोरिकां पूर्ववर्णितामुत्खन्योत्खन्य प्रबलत्वेनोत्पाट्य रसः सूतो ग्राह्यः ॥ १४.२-७ः१७ ॥
उत्खन्योत्खन्येति कठिनतरत्वाद्वा अत्यादरेण वीप्सा ॥ १४.२-७ः१८ ॥
कुतः कटोरिकासकाशातेष इत्थमुत्पन्नो मृतसूतराजो ज्ञेयः ॥ १४.२-७ः१९ ॥
स च सुखाध्मातः सन् गोलकवद्भवति वज्रमूषायामिति शेषः ॥ १४.२-७ः२० ॥
काचः प्रतीतः टङ्कणं सौभाग्यं ततः रसोऽति मर्यादामतिक्रम्य ध्मातः सनेकरसो भवति समरस इत्यर्थः ॥ १४.२-७ः२१ ॥
केषां शिखिगलतां शिखिनि गलन्तीति विग्रहः शिखिगलतां धातूनामेवं गलिते रसे त्रिगुणं वङ्गं रङ्गं दद्यात्ततो वङ्गदानानन्तरं क्रमेण अल्पमल्पदानेन नागं सीसकं च दद्यादिति ॥ १४.२-७ः२२ ॥
तच्चाह पश्चादित्यादि ॥ १४.२-७ः२३ ॥
पश्चात्त्रिगुणसीसकदानानन्तरं हेम्ना कनकेन सह रसबीजं महाबीजं योज्यं हेम्ना सार्धं महाबीजं कीदृग्भवति ॥ १४.२-७ः२४ ॥
____________________________________________________
ङृह्त्१४.८-९
<मेर्चुर्य्ःः मारण>
तालकसूतेनापि च कृत्वा वटिकां नियामकौषधिभिः ॥ ङृह्त्_१४.८ ॥
एवं निगृह्य धूमं सुधिया रसमारणं कार्यम् ।
रसबन्धकरं पारदबन्धप्रदं च पुनः तालकं हरितालं सूतो रसः तेनापि नियामकौषधिभिश्च शतावर्यादिभिः पूर्वोक्ताभिर्गुटिकां कृत्वा निगृह्य धूमं रुन्धितधूमं यथा स्यात्तथा सुधिया मतिमता रसज्ञेन एवममुना विधिना रसमारणं कार्यं पारदबन्धः कार्य इत्यर्थः ॥ १४.८ः१ ॥
____________________________________________________
ङृह्त्१४.९
<मेर्चुर्य्ःः मारण>
अथवा शिलया सूतो माक्षिकयोगेन वा सिद्धः ।
जायेत शुक्लवर्णो धूमरोधेन ताभ्यां वा ॥ ङृह्त्_१४.९ ॥
*टीका.. मुग्धावबोधिनींः
अन्यच्चाह अथवेत्यादि ॥ १४.९ः१ ॥
अथवा विध्यन्तरे शिलया मनोह्वया कृत्वा वा माक्षिकयोगेन ताप्यसंयोगं कृत्वा साधितस्तालकयोगवत्सूतो रसः शुक्लवर्णो जयेत ॥ १४.९ः२ ॥
केन धूमरोधेन सैन्धवार्द्रमृदा लेपेन वा ताभ्यां शिलामाक्षिकाभ्यामुभाभ्यां तालकयोगवत्साधितः सन् सूतः शुक्लवर्णो भवेदिति ॥ १४.९ः३ ॥
____________________________________________________
ङृह्त्१४.१०
<मेर्चुर्य्ःः मृतःः मेदिच्. उसे>
मृतशुल्वताप्यचूर्णं कान्तयुतं तेन रञ्जयेत्खोटम् ।
निर्व्यूढं घनसत्वहेमयुतं तद्रसायने योज्यम् ॥ ङृह्त्_१४.१० ॥
*टीका.. मुग्धावबोधिनींः
अन्यच्चाह मृतेत्यादि ॥ १४.१०ः१ ॥
मृतशुल्बताप्यचूर्णं मृतं च यत्शुल्बं ताम्रं ताप्यं स्वर्णमाक्षिकं च तच्चूर्णं किंविशिष्टं कान्तयुतं चुम्बकमिश्रितं तेन मृतशुल्बताप्यचूर्णेन कान्तयुतेन पूर्वं निष्पन्नं खोटं रञ्जयेत् ॥ १४.१०ः२ ॥
किंविशिष्टं घनसत्त्वहेमयुतमभ्रसत्वस्वर्णमिश्रितम् ॥ १४.१०ः३ ॥
एवंविधं तत्खोटं रसायने जराव्याधिनाशने योज्यम् ॥ १४.१०ः४ ॥
____________________________________________________
ङृह्त्१४.११-१२
<??>
बलिना त्रिगुणेन रसात्पर्पटिकयुतेन मर्दितं सूतम् ।
नियामकदिव्यौषधिभिश्छायाशुष्का कृता वटिका ॥ ङृह्त्_१४.११ ॥
<??>
मूषाधृतपर्पटिकामध्ये संछाद्य निगूढसुदृढेन ।
ध्मातं गच्छति खोटं हेमयुतं सूतबन्धकरम् ॥ ङृह्त्_१४.१२ ॥
*टीका.. मुग्धावबोधिनींः
अन्यच्चाह बलिनेत्यादि ॥ १४.११-१२ः१ ॥
त्रिगुणेन बलिना गन्धकेन सह रसं सूतं सुदृढं यथा स्यात्तथा मर्दितं कुर्यातित्यध्याहारः ॥ १४.११-१२ः२ ॥
किंविशिष्टेन बलिना पर्पटिकयुतेन पर्पटिको लोहपर्पटिकः प्रतीतस्तेन युतेन मिलितेन नियमसंस्कारोक्ताः नियमकाः दिव्यौषधयः शतावरीप्रमुखास्ताभिः ततो वटिका छायाशुष्का कार्या छायाघर्मरूपा शुष्का नीरसा तथा कार्या इति ॥ १४.११-१२ः३ ॥
अन्यच्चाह मूषेत्यादि ॥ १४.११-१२ः४ ॥
मूषाधृतपर्पटिका मूषायां या पर्पटिका पूर्वोक्तलोहपर्पटिका सा निगूढसुदृढेन निगूढश्चासौ सुदृढश्च तेन मूलकादिक्षारबिडेन कृत्वा मध्ये स्वान्तः आच्छाद्य ध्मातं क्रियते पुनस्तदूध्मातं सत्खोटं गच्छति खोटत्वमाप्नोति ॥ १४.११-१२ः५ ॥
तत्खोटं हेमयुतं स्वर्णमिलितं सूतबन्धकरं स्यात्रसबन्धनप्रदमित्यर्थः ॥ १४.११-१२ः६ ॥
____________________________________________________
ङृह्त्१४.१३-१४
<मेर्चुर्य्ःः मारण, खोट>
बलियुक्ता पर्पटिका मृदिता स्नुह्यर्कभाविता गुटिका ।
मध्ये गर्ता कार्या सूतभृताच्छादिता तदनु ॥ ङृह्त्_१४.१३ ॥
बाह्ये दत्त्वा निगडं सुलिप्तमूषोदरे दृढं न्यस्तम् ।
सूतः पुटितो म्रियते ध्मातः खोटं भवत्येव ॥ ङृह्त्_१४.१४ ॥
*टीका.. मुग्धावबोधिनींः
विध्यन्तरमाह बलीत्यादि ॥ १४.१३-१४ः१ ॥
पूर्वोक्ता या पर्पटिका लोहपर्पटिका बलियुक्ता गन्धकमिश्रिता स्नुह्यर्कभाविता च स्नुही वज्री अर्को मन्दारस्ताभ्यां भाविता प्लुता एतयोः पयसेति भावः मृदिता च घर्षिता च एवं कृतविधाना पर्पटिका सति गुटिका वटिका कार्या मध्ये गुटिकान्तः गर्ता कार्या सा गर्ता ततः सूतभृता सूतपूरिता सती तदनु गर्तकरणानन्तरमाच्छादिता कार्या पर्पटिकयेति भावः ॥ १४.१३-१४ः२ ॥
तच्चाह बाह्य इत्यादि ॥ १४.१३-१४ः३ ॥
बाह्ये सूतोदरगुटिकोपरि निगडं दत्त्वा सुलिप्तमूषोदरे सुलिप्ता सारणकर्माभिहितौषधीरिति शेषः एवंविधा या मूषा तस्या यदुदरं तस्मिन्दृढं यथा स्यात्तथा निगडं न्यस्तं स्थापितं कुर्यादिति शेषः ॥ १४.१३-१४ः४ ॥
मूषोदरगुटिकान्तस्थः सूतः पुटितो वह्नियोगात्म्रियते पञ्चत्वमाप्नोति ॥ १४.१३-१४ः५ ॥
पुनः ध्मातः सन् खोटो भवति ॥ १४.१३-१४ः६ ॥
एवाव्ययमन्यनिषेधवाचि ॥ १४.१३-१४ः७ ॥
____________________________________________________
ङृह्त्१४.१५
<मेर्चुर्य्ःः मारण, खोट>
एवं तालशिलाभ्यां माक्षिकरसकैश्च दरदशिखिसहितैः ।
म्रियते पुटसंयोगाद्ध्मातं खोटं कृतं विमलम् ॥ ङृह्त्_१४.१५ ॥
*टीका.. मुग्धावबोधिनींः
अन्यच्चाह एवमित्यादि ॥ १४.१५ः१ ॥
एवं लोहपर्पटिकाविधानेन तालशिलाभ्यां ध्मातं सत्युतं यत्खोटं तद्विमलं मलवर्जितं स्यात् ॥ १४.१५ः२ ॥
च पुनः माक्षिकरसकैस्ताप्यखर्परिकैः दरदशिखिसहितैश्च हिङ्गुलशिखिमिलितैश्च करणरूपैर्विमलं च पुनः पुटयोगाद्वह्निसंपर्कात्ध्मातं म्रियते ॥ १४.१५ः३ ॥
आदौ मललक्षणमुक्तम् ॥ १४.१५ः४ ॥
____________________________________________________
ङृह्त्१४.१६
<मेर्चुर्य्ःः मारण>
किट्टकपुरसंयोगाद्ध्मातैः किट्टस्तु किट्टतः सत्वम् ।
निपतति सत्वं रससाकं जनयति तद्भस्म तस्यापि ॥ ङृह्त्_१४.१६ ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह किट्टपुरसंयोगात् ॥ १४.१६ः१ ॥
किट्टं लोहमलं पुरो गुग्गुलुः तयोः संयोगात्ध्मातैः माक्षिकरसदरदरूपैः पूर्वोक्तैः किट्टो भवेत्पुनः किट्टतो रससाकं सूतमिश्रितं सत्त्वं सारं निपतति तत्सत्त्वं भस्म जनयति उत्पादयति ॥ १४.१६ः२ ॥
तस्यापि भस्मनः सत्त्वं च निपततीत्यर्थः ॥ १४.१६ः३ ॥
____________________________________________________
ङृह्त्१४.१७
<रञ्जन wइथ्स्मोके अन्द्wइथोउत्मेर्चुर्य्(????)>
वङ्गरसगन्धतालं खटिकाया योगतः सुपर्पटिका ।
रञ्जयति सत्वतालं धूमेन विनापि सूतम् ॥ ङृह्त्_१४.१७ ॥
*टीका.. मुग्धावबोधिनींः
विध्यन्तरमाह वङ्गरसगन्धतालमिति ॥ १४.१७ः१ ॥
वङ्गं त्रपु रसः सूतः गन्धको बलिः तालं हरितालमेतच्चतुष्टयं खटिकाया योगतः खटिका चित्रकरजस्तस्या योगतः सुपर्पटिकां पूर्वोक्तां लोहपर्पटिकां रञ्जयति सूतेन विनापि किमुत रसमिलितेन तालसत्त्वेनेति व्यक्तिः ॥ १४.१७ः२ ॥
____________________________________________________
ङृह्त्१४.१८
<बीजःः fओर्रञ्जन>
एवं खोटं बीजं कृत्वा रञ्जनविधिना सुरञ्जनं कार्यम् ।
त्रिगुणं रसस्य हेम संयोज्यं तस्य वरबीजम् ॥ ङृह्त्_१४.१८ ॥
*टीका.. मुग्धावबोधिनींः
महाबीजानां बीजानां च विशेषविधानमाह एवमित्यादि ॥ १४.१८ः१ ॥
एवमुक्तविधानेन बीजं विधाय रञ्जनविधिना रञ्जनविधानेन सुरञ्जनं कार्यम् ॥ १४.१८ः२ ॥
तत्कार्ये रसस्य सूतस्य त्रिगुणं हेम संयोज्यं पुनस्तस्य हेम्नः त्रिगुणं वरबीजं योज्यमिति विशेषविधिः ॥ १४.१८ः३ ॥
____________________________________________________
ङृह्त्१५.१
<अभ्रःः सत्त्वःः द्रुतिःः चौसेस्बन्धन ओf मेर्चुर्य्>
वक्ष्ये त्वभ्रकसत्वाद्विमलद्रुतिमखिलगुणगणाधाराम् ।
सा हि निबध्नाति रसं संमिलिता मिलति च सुखेन ॥ ङृह्त्_१५.१ ॥
*टीका.. मुग्धावबोधिनींः
भारती भरतखण्डमण्डिता पचरेमानन्दमञ्जरी ।
कस्तया न रसमलं कुतो जया वक्रपद्ममधिस्थया सदा ॥ १५.१ः१ ॥
बाह्यद्रुतिप्रशंसामाह वक्ष्य इत्यादि ॥ १५.१ः२ ॥
अहं कविः अभ्रकसत्त्वाद्गगनसारतो विमलद्रुतिं पक्षे विमला चासौ द्रुतिश्चेति विग्रहः ॥ १५.१ः३ ॥
किंविशिष्टामखिलगुणगणाधारामखिलाश्च ते गुणगणाश्च गुणपटलाश्च तेषां या आधारा तां बहवो गुणास्तिष्ठन्त्यस्यामिति व्यक्तिः ॥ १५.१ः४ ॥
सा रसभूता द्रुतिः रसं सूतां निबध्नाति निश्चयेन बध्नातीत्यर्थः ॥ १५.१ः५ ॥
किंभूता सती ॥ १५.१ः६ ॥
मिलिता सती तुल्यमिश्रिता सती पुनः द्रुतिः सुखेन मिलति पत्रादेर्दुर्मिलापत्वात् ॥ १५.१ः७ ॥
____________________________________________________
ङृह्त्१५.२
<अभ्रःः सत्त्वःः द्रुतिःः प्रोदुच्तिओन्>
वज्रवल्ल्याः स्वरसेन गगनं सौवर्चलान्वितं पिष्टम् ।
परिपक्वं निचुलपुटैर्निर्लेपं भवति रसरूपम् ॥ ङृह्त्_१५.२ ॥
*टीका.. मुग्धावबोधिनींः
द्रुतिविधानमाह वज्रवल्ल्या इत्यादि ॥ १५.२ः१ ॥
वज्रवल्ल्याः स्वरसेन स्वकीयेन रसेन गगनमभ्रसत्त्वं सौवर्चलान्वितं रुचकसहितं पिष्टं कुर्यातिति शेषः ॥ १५.२ः२ ॥
किंविशिष्टं गगनं निचुलपुटैर्वेतसद्रवभावनाभिः पक्वं वह्निपुटितं तत्पक्वं सन्निर्लेपं संपर्कवर्जितं रसरूपं भवति पारदस्य रूपमित्यर्थः ॥ १५.२ः३ ॥
____________________________________________________
ङृह्त्१५.३
<अभ्रःः सत्त्वःः द्रुतिःः प्रोदुच्तिओन्>
अजजलशतपरिप्लावितकपितिन्दुकचूर्णवापमात्रेण ।
द्रुतजातमभ्रकसत्वं मूषायां रसनिभं भवति ॥ ङृह्त्_१५.३ ॥
*टीका.. मुग्धावबोधिनींः
विध्यन्तरमाह अजेत्यादि ॥ १५.३ः१ ॥
द्रुजातरभ्रकसत्त्वमभ्रकसत्वं गगनसारं मूषायां वज्रसंज्ञायां द्रुतं सत्रससंनिभं भवति पारदभूतमित्यर्थः ॥ १५.३ः२ ॥
केन अजजलशतपरिभावितकपितिन्दुकचूर्णवापमात्रेण अजः छागस्तस्य जलेन मूत्रेण शतं शतवारं परिभावितं घर्मपुटितं यत्कपितिन्दुकचूर्णं तस्य वापमात्रेण द्रुतेऽभ्रसत्त्वे वापे ॥ १५.३ः३ ॥
____________________________________________________
ङृह्त्१५.४
<अभ्रःः सत्त्वःः द्रुतिःः प्रोदुच्तिओन्>
निजरसशतप्लावितकञ्चुकिकन्दोत्थचूर्णकृतपरिवापम् ।
द्रुतमास्तेऽभ्रकसत्त्वं तद्वत्सर्वाणि लोहानि ॥ ङृह्त्_१५.४ ॥
*टीका.. मुग्धावबोधिनींः
अभ्रकसत्त्वं वह्नियोगेन द्रुतमास्ते द्रवरूपमेवावतिष्ठते ॥ १५.४ः१ ॥
किंविशिष्टं सत्त्वं निजरसशतपरिभावितेत्यादि निजरसेन स्वकीयद्रवेण परिभावितं यत्कञ्चुकिकन्दोत्थचूर्णं तस्य आवापेन यथा शतभावितकञ्चुकिकन्दोत्थचूर्णेन सत्त्वं द्रुतमास्ते तद्वत्सर्वाणि लोहानि द्रुतानि तिष्ठन्ति ॥ १५.४ः२ ॥
____________________________________________________
ङृह्त्१५.५
<अभ्रःः सत्त्वःः द्रुतिःः प्रोदुच्तिओन्>
गगनं चिकुरतैलघृष्टं गोमयलिप्तं च कुलिशमूषायाम् ।
सुध्मातमत्र सत्त्वं प्लवति जलाकारमचिरेण ॥ ङृह्त्_१५.५ ॥
*टीका.. मुग्धावबोधिनींः
अन्यच्चाह गगनेत्यादि ॥ १५.५ः१ ॥
गगनमभ्रसारं चिकुरतैलघृष्टं चिकुरतैलं केशतैलं प्रतीतं ग्रन्थेषु तेन घृष्टं मर्दितं गोमयलिप्तं गोमयेन लिप्तं यथा स्यात्तथा कुलिशमूषायां वज्राभिधानायां सुध्मातं सतचिरेणाल्पकालेन जलाकारं भवतीत्यन्वयः ॥ १५.५ः२ ॥
____________________________________________________
ङृह्त्१५.६
<अभ्रःः सत्त्वःः द्रुतिःः गेनेरल्रुले>
गगनद्रुतिरिह सत्वे ज्ञेयो हि रसस्य सम्प्रदायोऽयम् ।
प्रथमं निपात्य सत्वं देयो वापो द्रुते तस्मिन् ॥ ङृह्त्_१५.६ ॥
*टीका.. मुग्धावबोधिनींः
सामान्येनाभ्रद्रुतिविधानमाह गगनेत्यादि ॥ १५.६ः१ ॥
इहास्मिन् शास्त्रे सत्त्वे गगनसारे जाते साङ्गतया गगनद्रुतिः भवतीत्यध्याहार्यम् ॥ १५.६ः२ ॥
अयं प्रत्यक्षान्तर्गतः हि निश्चितं रसस्य सूतस्य संप्रदायो ज्ञेयः ॥ १५.६ः३ ॥
पुनः प्रथमादौ सत्त्वमभ्रसारं निपात्य तस्मिन्द्रुते सत्त्वे वह्निना द्रवरूपे सति वापः कार्यः कथितौषधीनामिति शेषः ॥ १५.६ः४ ॥
____________________________________________________
ङृह्त्१५.७
<गोल्द्ःः द्रुति>
सुरगोपकदेहरजः सुरदालिफलैः समांशकैर्देयः ।
वापो द्रुते सुवर्णे द्रुतमास्ते तद्रसप्रख्यम् ॥ ङृह्त्_१५.७ ॥
*टीका.. मुग्धावबोधिनींः
अथ सुवर्णद्रुतिविधानमाह सुरगोपकदेहरज इति ॥ १५.७ः१ ॥
इन्द्रगोपशरीरचूर्णं सुरदालीफलैः समांशकैः सुरगोपचूर्णतुल्यभागैः कृत्वा वापो देयः द्रुते सत्युपरिक्षेप इति सुवर्णे वापे कृते सुवर्णं द्रुतमास्ते किंविशिष्टं रसप्रख्यं जलतुल्यमित्यर्थः ॥ १५.७ः२ ॥
____________________________________________________
ङृह्त्१५.८
<गोल्द्ःः द्रुति>
अथ निजरसपरिभावितसुरदालीचूर्णवापमात्रेण ।
द्रुतमेवास्ते कनकं लभते भूयो न कठिनत्वम् ॥ ङृह्त्_१५.८ ॥
*टीका.. मुग्धावबोधिनींः
अन्यच्चाह अथेत्यादि ॥ १५.८ः१ ॥
अथेन्द्रगोपदेवदालीयोगकथनानन्तरं कनकं हेम निजरसपरिभावितं यत्सुरदालीचूर्णं तस्य वापमात्रेण गलिते हेम्नि क्षेपमात्रेण द्रुतमेवास्ते गलितमेवावतिष्ठतीत्यर्थः पुनः कनकं काठिन्यं स्थिरत्वं न लभते इति चिरकालप्रयोजनम् ॥ १५.८ः२ ॥
____________________________________________________
ङृह्त्१५.९
<तीक्ष्णलोहःः द्रुति>
सुरदालीभस्म गलितं त्रिःसप्तकृत्वाथ गोजलं शुष्कम् ।
वापेन सलिलसदृशं कुरुते मूषागतं तीक्ष्णम् ॥ ङृह्त्_१५.९ ॥
*टीका.. मुग्धावबोधिनींः
अथ तीक्ष्णविधानमाह सुरदालीत्यादि ॥ १५.९ः१ ॥
सुरदालीभस्मगलितं सुरदाली देवदाली तस्याः भस्म दाहसम्भूतं तेन गलितं त्रिसप्तकृत्वा एकविंशतिवारं गोजलं सुरभिमूत्रं भावितं कुर्यादित्यध्याहारः ॥ १५.९ः२ ॥
अथ मूषागतं वज्रसंज्ञायां स्थितं तीक्ष्णं सारं वापेन निक्षेपणेन जलसदृशं जलतुल्यं कुरुते कर्मविदिति शेषः ॥ १५.९ः३ ॥
____________________________________________________
ङृह्त्१५.१०
<माक्षिकसत्त्वद्रुति>
कूर्मास्थिशिलाजतुकमेषीमृगगोऽस्थिवापिता काञ्ची ।
जलसदृशी भवति सदा वापो देयो द्रुतायां तु ॥ ङृह्त्_१५.१० ॥
*टीका.. मुग्धावबोधिनींः
अथ माक्षिकद्रुतिविधानमाह कूर्मेत्यादि ॥ १५.१०ः१ ॥
कूर्मास्थि शिलाजतुकं प्रतीतं मेषी मेषपत्नी मृगो हरिणः गौः प्रतीता प्रतीतो वा तेषां यान्यस्थीनि तैर्निर्वापिता या काञ्ची स्वर्णमाक्षिकं सा जलसदृशी भवति कियत्कालपरिमाणं सदा नित्यं पुनः द्रुतायां गलितायां वापो देयः वापो निक्षेपणम् ॥ १५.१०ः२ ॥
____________________________________________________
ङृह्त्१५.११
<अभ्रःः द्रुतिःः अल्छेम्. प्रोपेर्तिएस्>
अभ्रकद्रुतिरविशेषा निर्लेपा योजिता समासात्तु ।
आरोटं रसराजं बध्नाति हि द्वन्द्वयोगेन ॥ ङृह्त्_१५.११ ॥
*टीका.. मुग्धावबोधिनींः
सामान्याभ्रद्रुतेरधिकारमाह अभ्रद्रुतिरित्यादि ॥ १५.११ः१ ॥
गगनद्रवः अविशेषा सामान्यापि विधानेन कृता निर्लेपा अस्पर्शा समा सूततुल्यभागयोजिता सती आरोटं रसनजं पूर्वसंस्कारैः संस्कृतं सूतं बध्नाति केन द्वन्द्वयोगेन उभयमेलापकौषधेन ॥ १५.११ः२ ॥
हिशब्दो युक्तार्थ इति ॥ १५.११ः३ ॥
____________________________________________________
ङृह्त्१५.१२
<रेचेइपे fओर्द्वन्द्वन ओf द्रुति अन्द्मेर्चुर्य्>
कृष्णागरुनाभिसितै रसोनसितरामठैरिमा द्रुतयः ।
सोष्णे मिलन्ति रसेन मृदिताः स्त्रीकुसुमपलाशबीजरसैः ॥ ङृह्त्_१५.१२ ॥
*टीका.. मुग्धावबोधिनींः
पूर्वोक्तानां मेलनमाह कृष्णेत्यादि ॥ १५.१२ः१ ॥
इमा द्रुतयः सोष्णतुषकरीषादिना तापिते खल्वे मृदिताः सत्यो मिलन्ति रसेन सह तथा कार्यम् ॥ १५.१२ः२ ॥
कैः कृत्वा कृष्णागरुनाभिसितैः ॥ १५.१२ः३ ॥
कृष्णागरुकस्तूरिकाघनसारैः कृत्वा न केवलमेतैः रसोनसितरामठैश्च लशुनशर्कराहिङ्गुभिः पुनः स्त्रीकुसुमपलाशबीजरसैः स्त्रीकुसुमं च पलाशस्य बीजानि च रसश्चेति द्वंद्वः एतैस्त्रिभिर्योगैः पृथग्भूतैर्मिलन्ति सर्वैश्चेति ॥ १५.१२ः४ ॥
____________________________________________________
ङृह्त्१५.१३
<मेर्चुर्य्ःः बद्धःः चौसेस्लोन्गेवित्य्>
इति बद्धो रसराजो गुञ्जामात्रोपयोजितो नित्यम् ।
एकेनैव पलेन तु कल्पायुतजीवितं कुरुते ॥ ङृह्त्_१५.१३ ॥
*टीका.. मुग्धावबोधिनींः
इत्थं बद्धरसराजस्य माहात्म्यमाह इतीत्यादि ॥ १५.१३ः१ ॥
इति पूर्वोक्तेन द्रुतिविधानेन बद्धो रसराजः सूतः एकेन पलेन षोडशिकया कल्पायुतं जीवितं कुरुते कल्पानामयुतं सहस्रपरिमाणं जीवितमिति ॥ १५.१३ः२ ॥
कस्मात्नित्यं यथा स्यात्तथा गुञ्जामात्रोपयोगतः दिनं दिनं प्रति रक्तिकापरिमाणस्य रसस्य योऽसौ उपयोगस्तेन ॥ १५.१३ः३ ॥
____________________________________________________
ङृह्त्१५.१४
अथ पूर्वोक्तग्रासक्रमाज्जरते रसो विधिवत् ।
एताः पूर्वद्रुतयो भवन्ति रसराजफलदाश्च ॥ ङृह्त्_१५.१४ ॥
*टीका.. मुग्धावबोधिनींः
विधिना ग्रासजारितो रसो गुणवानित्याह अथेत्यादि ॥ १५.१४ः१ ॥
अथ द्रुतियोगानन्तरं रसः सूतः पूर्वोक्तग्रासक्रमात्योजितकवलक्रमात्विधिवत्शास्त्रोक्तविधानेन बिडादिना जरते च पुनरेताः पूर्वोक्तद्रुतयो रसराजफलदा भवन्ति सूते प्रयुक्ताः फलदाः स्युरित्यर्थः ॥ १५.१४ः२ ॥
____________________________________________________
ङृह्त्१५.१५
<द्रुतिजारण => वेध पोतेन्च्य्>
समजीर्णः शतवेधी द्विगुणेन रसः सहस्रवेधी च ।
क्रमशो हि कोटिवेधी द्विगुणद्विगुणद्रुतेश्चरणात् ॥ ङृह्त्_१५.१५ ॥
*टीका.. मुग्धावबोधिनींः
अधिकद्रुतेर्जारणादधिकगुणे रसो भवतीत्याह समजीर्ण इति ॥ १५.१५ः१ ॥
इति समा तुल्यभागा द्रुतिर्जीर्णा यस्मिन्निति ॥ १५.१५ः२ ॥
द्रुते द्विगुणा या द्रुतिः तस्याश्चरणात्क्रमशः कोटिवेधी कोट्यंशेन वेधकः स्यात् ॥ १५.१५ः३ ॥
द्रुतिभागो वृद्धौ ह्यधिकः स्यादिति व्यक्तिः ॥ १५.१५ः४ ॥
____________________________________________________
ङृह्त्१५.१६
षोडश वा द्वात्रिंशद्वा ग्रासा जीर्णाश्चतुःषष्टिः ।
विध्यति तदा रसेन्द्रो लोहं धूमावलोकनतः ॥ ङृह्त्_१५.१६ ॥
*टीका.. मुग्धावबोधिनींः
ग्रासवृद्ध्या गुणानाह षोडशेत्यादि ॥ १५.१६ः१ ॥
यदा षोडशग्रासा वा द्वात्रिंशद्ग्रासा वा चतुःषष्टिग्रासा जीर्णा जारणमापन्ना भवन्ति तदा रसेन्द्रः सूतः लोहं धातुसंज्ञकं विध्यति वेधं करोति कुतः धूमावलोकनतः धूमस्य यदवलोकनं दर्शनम् ॥ १५.१६ः२ ॥
____________________________________________________
ङृह्त्१६.१
<सारणःः मोतिवतिओन्>
इति रक्तोऽपि रसेन्द्रो जारितबीजोऽपि सारणारहितः ।
व्यापी न भवति देहे लोहेष्वप्यथवापि हि षण्ढतां याति ॥ ङृह्त्_१६.१ ॥
*टीका.. मुग्धावबोधिनींः
मनो मनीषायतमायतात्मना समाचरेत्कर्म परोपकारी ।
अर्चीव शोभां लभते परात्परां परापवादादपि संनिवृत्तः ॥ १६.१ः१ ॥
सूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं च यत् ।
वेधाधिक्यकरं लोहे सारणं तत्प्रकीर्तितम् ।
इति परिभाषा ॥ १६.१ः२ ॥
सारणमुत्कृष्टं मत्वा स्तुवन्नाह इतीत्यादि ॥ १६.१ः३ ॥
इति पूर्वोक्तेन विधानेन रक्तोऽपि रागवानपि रसेन्द्रः सूतः जरितबीजोऽपि जारितानि बीजानि यस्मिन्निति सारणरहितः सारणा वक्ष्यमाणसंस्कारस्तेन वर्जितः व्यापी न भवति देहे लोहे च व्यापको न स्याथि निश्चितमथवापि सारणारहितो रसेन्द्रः षण्ढतां याति निर्वीर्यत्वमाप्नोति ॥ १६.१ः४ ॥
____________________________________________________
ङृह्त्१६.२-५
<सारणातैल>
मण्डूकमत्स्यकच्छपमेषजलौकाहिसूकरादीनाम् ।
संयोज्यैकस्य वसां ततः पचेत्सारणातैलम् ॥ ङृह्त्_१६.२ ॥
ज्योतिष्मतीविभीतककरञ्जकटुतुम्बीतैलमेकस्मात् ।
द्विगुणितरक्तकषायं क्षीरेण चतुर्गुणेन पचेत् ॥ ङृह्त्_१६.३ ॥
<रक्तवर्ग>
दाडिमपलाशबन्धुककुसुमरजनीभिररुणसहिताभिश्च ।
मञ्जिष्ठालाक्षारसचन्दनसहितोऽपि रक्तवर्गोऽयम् ॥ ङृह्त्_१६.४ ॥
विद्रुमभूनागमलं विण्मक्षिकाध्वाङ्क्षशलभानां च ।
कर्णमलं महिषीणां क्रमेण कल्कं कलांशेन ॥ ङृह्त्_१६.५ ॥
*टीका.. मुग्धावबोधिनींः
सारणाय वसातैलमाह मण्डूकेत्यादि ॥ १६.२-५ः१ ॥
मण्डूको भेकः मत्स्यो जलचरविशेषः कच्छपः कमठः प्रतीतः जलौकाः प्रतीताः अहिः सर्पः सूकरो वराहः आदिशब्दाद्गोमहिषगजोष्ट्रखरनरकर्कटशिशुमारा अपि ग्राह्याः ॥ १६.२-५ः२ ॥
अथ तेषां मध्ये एकैकस्य पृथक्त्वेन वसां संयोज्य सारणं तैलं सारणमेव तैलं तत्पचेदिति वह्निना इति शेषः ॥ १६.२-५ः३ ॥
सारणतैलविशेषमाह ज्योतिष्मतीत्यादि ॥ १६.२-५ः४ ॥
ज्योतिष्मतीविभीतककरञ्जकटुतुम्बीतैलं ज्योतिष्मती कङ्गुणी विभीतकः कलिद्रुमः करञ्जः प्रतीतः कटुतुम्बी कटुका या तुम्बी एतासां तैलमेकमतो द्विगुणितो यो रक्तकषायः रक्तगणस्य क्वाथः तं नियोज्य पूर्वसंबन्धात् ॥ १६.२-५ः५ ॥
केन सह चतुर्गुणवसया तथा तैलतः चतुर्गुणितेन दुग्धेन सह पचेत्पाकं कुर्यादिति ॥ १६.२-५ः६ ॥
सारणतैलविधानाय रक्तवर्गमाह दाडिमेत्यादि ॥ १६.२-५ः७ ॥
दाडिमं प्रतीतं पलाशो ब्रह्मवृक्षः बन्धूकपुष्पं मध्याह्नविकाशिकुसुमं रजनी हरिद्रा एताभिः अरुणसहिताभिः अरुणमारक्तं यद्द्रव्यं कार्पासकुसुमादिकं तत्सहिताभिः ॥ १६.२-५ः८ ॥
किंविशिष्टोऽयं रक्तवर्गः मञ्जिष्ठालाक्षारसचन्दनसहितः मञ्जिष्ठा प्रतीता लाक्षारसः अलक्तकः चन्दनं रक्तचन्दनम् ॥ १६.२-५ः९ ॥
सारणतैले कल्कमाह विद्रुमेत्यादि ॥ १६.२-५ः१० ॥
विद्रुमं लतामणिर्भूनागमलं गण्डूपदपुरीषं मक्षिकाध्वाङ्क्षशलभानां मक्षिका जीवविशेषः ध्वाङ्क्षाः काकाः शलभः पतङ्गः इति हैमः तेषां विट्शकृत्पुनर्महिषीणां कर्णमलं क्रमेण कलांशेन षोडशांशेन कल्कं प्रतिवापं दत्त्वा पूर्वतैलमुत्तारयेत् ॥ १६.२-५ः११ ॥
____________________________________________________
ङृह्त्१६.६-८
<सारण>
पटगालितं गृहीत्वा सूतं सम्पूर्णदीर्घमूषायाम् ।
तदनु खलु तप्ततैले प्रद्राव्य समं क्षिपेद्बीजम् ॥ ङृह्त्_१६.६ ॥
मूषावक्त्रं स्थगयेल्लताद्वयप्रोतविततनद्धेन ।
तैलार्द्रपटेन ततो बीजं प्रक्षिप्य समकालम् ॥ ङृह्त्_१६.७ ॥
पिशितानुगुणं बीजैः सारणविधिना नियोजितः सूतः ।
अक्षीयमाणो मिलति च बीजैर्बद्धो भवत्येव ॥ ङृह्त्_१६.८ ॥
*टीका.. मुग्धावबोधिनींः
सिद्धतैलकृत्यमाह पटेत्यादि ॥ १६.६-८ः१ ॥
तत्सिद्धतैलं पटगालितं वस्त्रपूतं गृहीत्वा तदनु तत्पश्चात् ॥ १६.६-८ः२ ॥
सम्पूर्णदीर्घमूषायां गोस्तनाकारायां तप्ततैले कोष्णसारणतैले सूतं क्षिपेत् ॥ १६.६-८ः३ ॥
किं कृत्वा बीजं समं समभागं रसतुल्यं यद्भाव्यं महाबीजं तत्भावितं कृत्वेत्यर्थः ॥ १६.६-८ः४ ॥
सारणयन्त्रस्य विधानमाह मूषेत्यादि ।
समकालमेककालं यथा स्यात्तथा बीजं मूषान्तर्निक्षिप्य ततोऽनन्तरं मूषावक्त्रं स्थगयेताच्छादयेत् ॥ १६.६-८ः५ ॥
केन तैलार्द्रपटेन सारणतैलार्द्रवस्त्रेण ॥ १६.६-८ः६ ॥
किंविशिष्टेन लताद्वयेन वस्त्रचीरद्वयेन प्रोतं च तद्विततं विस्तीर्णं च तत्नद्धं बद्धं तेन ॥ १६.६-८ः७ ॥
अक्षीयमाणो मिलति न क्षीयत इत्यर्थः ॥ १६.६-८ः८ ॥
सूते मिलति बद्धो ज्ञेयः बीजैः सह मिलितो बद्धो भवतीत्यर्थः ॥ १६.६-८ः९ ॥
पीतादिवर्णकथनेनापि कर्तुं सूचितम् ॥ १६.६-८ः१० ॥
____________________________________________________
ङृह्त्१६.९
<मेर्चुर्य्ःः प्रतिसारण>
तद्वद्गभीरमूषे सारणतैलार्द्रमेव रसराजम् ।
सूताद्द्विगुणं कनकं दत्त्वा प्रतिसारयेत्तदनु ॥ ङृह्त्_१६.९ ॥
*टीका.. मुग्धावबोधिनींः
सूतबीजसारणानन्तरं कनकसारणमाह तद्वदित्यादि ॥ १६.९ः१ ॥
तद्वत्पूर्वविधानेन गभीरमूषे दीर्घमूषायां सारणतैलार्द्रं सारणतैलाप्लुतमेव निश्चयेन रसराजं कुर्यादिति शेषः ॥ १६.९ः२ ॥
तदनु तत्पश्चात्सूताद्द्विगुणं यत्कनकं हेम तदत्र दत्त्वा प्रतिसारयेत्सारणं कुर्यात्पूर्ववत् ॥ १६.९ः३ ॥
____________________________________________________
ङृह्त्१६.१०
<मेर्चुर्य्ःः अनुसारण>
बीजेन त्रिगुणेन तु सूतकमनुसारयेत्प्रकाशस्थम् ।
विध्यन्तरमाह बीजेनेत्यादि ॥ १६.९ः१ ॥
प्रकाशस्थं प्रकाशमूषागतं सूतं त्रिगुणेन बीजेन अनुसारयेत्प्रतिसारयेत् ॥ १६.९ः२ ॥
____________________________________________________
ङृह्त्१६.१०
ईषन्नागं देयं त्रिविधायां सारणायां तु ॥ ङृह्त्_१६.१० ॥
*टीका.. मुग्धावबोधिनींः
किं कृत्वा ईषदल्पं नागं दत्त्वा त्रिविधायां सारणायामेवं विधेयमिति ॥ १६.१०ः१ ॥
____________________________________________________
ङृह्त्१६.११-१२
<सारणायन्त्र>
कृत्वा मूषां दीर्घां बन्धितत्रिभागप्रणालिकां तां च ।
तस्याग्रे प्रकटमूषा सच्छिद्रा सुदृढमृत्तिकालिप्ता ॥ ङृह्त्_१६.११ ॥
तस्मिन्प्रक्षिप्य रसं सारणतैलान्वितं तप्ते ।
प्रद्राव्य तुल्यकनकं क्षिप्तेऽस्मिन्मिलति रसराजः ॥ ङृह्त्_१६.१२ ॥
*टीका.. मुग्धावबोधिनींः
सारणयन्त्रमाह कृत्वेत्यादि ॥ १६.११-१२ः१ ॥
प्रथमं दीर्घां मूषां कृत्वा च पुनः तां बन्धितत्रिभागप्रणालिकां बन्धिता त्रिभागे प्रणालिका यस्याः सा तां च कृत्वा तस्याग्रे यन्त्रस्याग्रे प्रणालिकायां मूषान्तरित्यर्थः ॥ १६.११-१२ः२ ॥
सुदृढमृत्तिकालिप्ता सच्छिद्रा रन्ध्रसहिता प्रकटमूषा प्रकाशमूषा कार्येति यन्त्रम् ॥ १६.११-१२ः३ ॥
तस्मिन्यन्त्रे सारणतैलान्वितं रसं प्रक्षिप्य ततोऽनन्तरं तुल्यं कनकं प्रद्राव्य गालयित्वा तस्मिन्नेव तप्ते यन्त्रे क्षिप्ते सति रसो मिलति एकतां याति ॥ १६.११-१२ः४ ॥
____________________________________________________
ङृह्त्१६.१३-१६
<सारणायन्त्र>
कृत्वा नलिकां दीर्घां षडंगुलां धूर्तकुसुमसंकाशाम् ।
मूषाप्यधो विलग्ना कर्तव्या वै मृदा लेप्या ॥ ङृह्त्_१६.१३ ॥
अपरा सूक्ष्मा नलिका कार्या सप्तांगुला सुदृढा ।
मध्ये प्रविशति च यथा तद्वत्कार्या च दृढमुखा ॥ ङृह्त्_१६.१४ ॥
तस्मिन्सूतः क्षिप्तः सारणतैलान्वितो मदनरुद्धमुखः ।
तदनु बृहत्तमया हेम प्रद्राव्य हेमकोष्ठिकया ॥ ङृह्त्_१६.१५ ॥
तस्मिन्मध्ये क्षिप्त्वा नलिकाग्रमधोमुखीं कुर्यात् ।
अन्तरूर्ध्वं भाराक्रान्तां सरति रसो नात्र संदेहः ॥ ङृह्त्_१६.१६ ॥
*टीका.. मुग्धावबोधिनींः
अन्यद्यन्त्रमाह कृत्वेत्यादि ॥ १६.१३-१६ः१ ॥
पूर्ववद्दीर्घां धूर्तकुसुमसंकाशां धत्तूरपुष्पसंकाशां पूर्वयन्त्रनलिकायाः स्थाने एवंविधां षडङ्गुलां नलिकां कुर्यादिति व्यक्तिः ॥ १६.१३-१६ः२ ॥
मूषापि अधो विलग्ना नलिकायास्तलभागे मूषा विलग्ना संलग्ना कार्या ॥ १६.१३-१६ः३ ॥
सा च मृदा मृत्स्नया लेप्या ॥ १६.१३-१६ः४ ॥
पुनरपि अपरा सूक्ष्मा नालिका सप्ताङ्गुला सप्ताङ्गुलपरिमाणा सुदृढा मनोहरकठिना कार्या यथा मध्ये षडङ्गुलनालिकान्तः प्रविशति तद्वत्तथा कार्या ॥ १६.१३-१६ः५ ॥
किंभूता दृढमुखा दृढं मुखं यस्याः सा एवंरूपा तस्मिन् संसिद्धे यन्त्रे सारणतैलान्वितः सूतः क्षिप्तः सन्मदनरुद्धमुखः कार्यः मदनेन सिक्थकेन रुद्धं मुद्रितं मुखं यस्य सः ॥ १६.१३-१६ः६ ॥
तदनु तत्पश्चाथेमकोष्ठिकया हेम्नो या कोष्ठी एव कोष्ठिका तया हेम स्वर्णं प्रद्राव्य द्रावयित्वा तत्र क्षिपेतित्यध्याहार्यम् ॥ १६.१३-१६ः७ ॥
तस्मिन्यन्त्रे मध्येऽन्तः नलिकाग्रं नलिकायाः सप्ताङ्गुलाया अग्रभागं क्षिप्त्वा अधोमुखीं कुर्यात्पुनरूर्ध्वं भाराक्रान्तां कुर्यात् ॥ १६.१३-१६ः८ ॥
इति कृते सति रसः सरति हेम्ना मिलति न संदेहः नियतमित्यर्थः ॥ १६.१३-१६ः९ ॥
____________________________________________________
ङृह्त्१६.१७-१८
<सारणायन्त्र>
कृत्वाष्टांगुलमूषां धूर्तकुसुमोपमां दृढां श्लक्ष्णाम् ।
अपरा मध्यगतापि च सच्छिद्रा च सप्तांगुला कार्या ॥ ङृह्त्_१६.१७ ॥
निरुद्धतां च कृत्वा सूतं प्रक्षिप्य तैलसंयुक्तम् ।
निर्धूमं कर्षाग्नौ स्थाप्य मूषां सुसंधितां कृत्वा ॥ ङृह्त्_१६.१८ ॥
*टीका.. मुग्धावबोधिनींः
अन्यद्यन्त्रविधानमाह कृत्वेत्यादि ॥ १६.१७-१८ः१ ॥
अष्टाङ्गुलमूषामष्टाङ्गुलपरिमाणदीर्घां धूर्तकुसुमोपमां कनकपुष्पसदृशां दृढां कठिनां श्लक्ष्णां मसृणामेवंविधां मूषां कृत्वा अपरा द्वितीया सप्ताङ्गुला सप्ताङ्गुलपरिमाणदीर्घा सच्छिद्रा रन्ध्रयुक्ता सा मध्यगता अन्तःप्रविष्टा कार्या अपीत्यवश्यमिति मूषाद्वययन्त्रं सिद्धम् ॥ १६.१७-१८ः२ ॥
तच्चाह पूर्वोक्तायामन्तःप्रविष्टायां सप्ताङ्गुलायां सूतं तैलसंयुक्तं सारणतैलसहितं प्रक्षिप्य निरुद्धतां च कृत्वा निर्धूमं यथा स्यात्तथा कर्षाग्नौ मूषां स्थाप्य पुनः किं कृत्वा सुसंधितां सन्धिमुद्रितां कृत्वा पूर्ववत्सारयेदित्यर्थः ॥ १६.१७-१८ः३ ॥
____________________________________________________
ङृह्त्१६.१९-२१
<सारणायन्त्र>
वितस्तिमात्रनलिकापि कार्या सुदृढे तदग्रतो मूषे ।
उत्तानैका कार्या निश्छिद्रा छिद्रमुद्रिता च तनौ ॥ ङृह्त्_१६.१९ ॥
दत्त्वा सूतं पूर्वं सारणतैलान्वितं निधाप्य भुवि ।
उत्तानायां मूषायां तस्यां बीजं समावृत्य ॥ ङृह्त्_१६.२० ॥
स्वच्छं ज्ञात्वा च ततस्तद्बीजं छिद्रसंस्थितं कुर्यात् ।
बीजं सूतस्योपरि निपतति बध्नात्यसंदेहम् ॥ ङृह्त्_१६.२१ ॥
*टीका.. मुग्धावबोधिनींः
अन्ययन्त्रविधानमाह मूषे कार्ये ॥ १६.१९-२१ः१ ॥
किंविशिष्टे तदग्रतो वितस्तिमात्रनलिके वितस्तिपरिमाणे नलिके ययोस्ते एवंविधे सुदृढे उभे कार्ये इत्यभिप्रायः ॥ १६.१९-२१ः२ ॥
तयोर्मध्ये एका मूषा उत्ताना कार्या अपरा निम्नेति भावः ॥ १६.१९-२१ः३ ॥
उत्ताना किंविशिष्टा निश्छिद्रा निर्व्रणा छिद्रमुद्रिता छिद्रं मुद्रितं यस्यां तनौ मूषाशरीरे इति ॥ १६.१९-२१ः४ ॥
तच्चाह पूर्वं प्रथमं सूतं यन्त्रे पूर्वोक्ते सारणतैलान्वितं दत्त्वा भुवि निधाप्य तस्यामुक्तायामुत्तानायां मूषायां बीजं महाबीजं समावृत्य द्रवीकृत्य दत्त्वेत्यर्थः ॥ १६.१९-२१ः५ ॥
ततोऽनन्तरं बीजं स्वच्छममलं द्रवरूपं ज्ञात्वा छिद्रसंस्थितं कुर्यात्छिद्रान्तः क्षिपेदित्यभिप्रायः छिद्रान्तःक्षेपणात्बीजं रसस्योपरि पतति सति सूतमसंदेहं यथा स्यात्तथा बध्नाति बीजे छिद्रान्तःक्षेपणानन्तरं छिद्रमच्छिद्रं स्यादित्यर्थः ॥ १६.१९-२१ः६ ॥
____________________________________________________
ङृह्त्१६.२२-२३
<सारणा (६)>
सा च प्रकाशमूषा न्युब्जा कार्यार्धाङ्गुलसंनिविष्टा ।
नलिका कार्या विधिना ऊर्ध्वे सूतस्त्वधो बीजम् ॥ ङृह्त्_१६.२२ ॥
मूषां निरुध्य विधिना ध्माता कोष्ठे द्रुतं बीजम् ।
ज्ञात्वा परिवर्त्य ततो निबध्नाति सूतराजं च ॥ ङृह्त्_१६.२३ ॥
*टीका.. मुग्धावबोधिनींः
सेत्यादि ॥ १६.२२-२३ः१ ॥
पुनः सा वितस्तिमात्रनलिका प्रकाशमूषा अर्धाङ्गुलसुनिविष्टा मूषान्तः प्रविष्टा न्युब्जा अधोमुखी कार्या तस्याः प्रकाशमूषायाः नलिका प्रणालिका विधिना शास्त्रवार्तिकसंप्रदायेन कार्या यथोर्ध्वे सूतो भवेदधो बीजमित्यर्थः मूषामित्यादि ॥ १६.२२-२३ः२ ॥
मूषां निरुध्य रन्ध्रं दूरीकृत्य विधिना कोष्ठे कोष्ठीयन्त्रे सा मूषा ध्माता कार्या द्रुतं द्रवरूपं कृतं बीजं ज्ञात्वा परिवर्त्य च मूषायां बीजस्य परिवर्तनं कृत्वा ततो बीजं सूतराजं बध्नातीति ॥ १६.२२-२३ः३ ॥
____________________________________________________
ङृह्त्१६.२४
<सारणाःः wइथ्डमरुयन्त्र>
अथवा डमरुकयन्त्रे सारणविधिना नियोजितः सूतः ।
सरति रसेन्द्रो विधिना ज्ञात्वा तत्कर्मकौशल्यम् ॥ ङृह्त्_१६.२४ ॥
*टीका.. मुग्धावबोधिनींः
अथान्यद्यन्त्रमाह अथवेत्यादि ॥ १६.२४ः१ ॥
विधिना सारणविधानेन डमरुकयन्त्रे उक्तलक्षणपातनकरणोचिते यन्त्रे सूतो नियोजितः सन् सरति बीजेन मिलति ॥ १६.२४ः२ ॥
____________________________________________________
ङृह्त्१६.२५
<जारणा अfतेर्सारणा => वेध पोतेन्च्य्>
तत्सारितं रसेन्द्रं ग्रासविधानेन जारयेत्तदनु ।
पुनरपि सारितसूतो विध्यति कोट्यंशतः शुल्बम् ॥ ङृह्त्_१६.२५ ॥
*टीका.. मुग्धावबोधिनींः
किं कृत्वा रसेन्द्रो नियोजितः ज्ञात्वा तत्कर्मकौशल्यं रसेन्द्रकर्मप्रावीण्यं ज्ञात्वेति ॥ १६.२५ः१ ॥
____________________________________________________
ङृह्त्१६.२६
<सारणाःः wइथ्क्रामणावसा>
क्रामणवसादियोगाद्विधिना सूतः सरत्येव ।
चपलत्वातिलघुत्वाद्बीजं यतोऽथ विप्लुषः कार्यः ॥ ङृह्त्_१६.२६ ॥
*टीका.. मुग्धावबोधिनींः
पूर्वोक्तं दृढीकर्तुमाह क्रामणेत्यादि ॥ १६.२६ः१ ॥
सूतो विधिनोक्तविधानेन क्रामणोचिता या वसा मण्डूकादीनां ता एव आदयो येषां तेषां योगात्सरति सारणा स्यात्पुनर्बीजयुतोऽपि सूतः चपलत्वातिलघुत्वात्चपलत्वं चञ्चलत्वं च अतिलघुत्वं च तस्माद्धेतोः अविप्लुषः स्थिरः कार्यः ॥ १६.२६ः२ ॥
____________________________________________________
ङृह्त्१६.२७
<सारण, क्रामणःः wइथ्लेअदेत्च्.>
सरति सुखेन च सूतो दहति मुखं नैव हस्तपादादि ।
क्रमति रसः फणियोगान्माक्षिकयुतहेमगैरिकया ॥ ङृह्त्_१६.२७ ॥
*टीका.. मुग्धावबोधिनींः
पूर्वोक्तगुणानाह सरतीत्यादि ॥ १६.२७ः१ ॥
पूर्वविधाना सूतः सरति सारितः सूतो मुखं न दहति हस्तपादादि च अङ्गविभागं नैव दहति ॥ १६.२७ः२ ॥
पुनः फणियोगात्नागसंयोगतः माक्षिकयुतहेमगैरिकया सह ताप्यमिलितस्वर्णगैरिकया सार्धं क्रामति ॥ १६.२७ः३ ॥
____________________________________________________
ङृह्त्१६.२८
<द्रुति, सारणा>
माक्षीकसत्त्वयोगात्फणियोगान्नागवद्द्रवति शीघ्रम् ।
द्रवति च कनके सूतः संसार्यते विधिना ॥ ङृह्त्_१६.२८ ॥
*टीका.. मुग्धावबोधिनींः
सुखेन सारणविधानमाह माक्षिकेत्यादि ॥ १६.२८ः१ ॥
कनकं हेम माक्षिकसत्त्वयोगात्फणिसंयोगान्नागसंयोगाच्च शीघ्रं द्रवति कनके द्रवति सति विधिना सारणतैलादिना संसार्यते सारणा क्रियत इति ॥ १६.२८ः२ ॥
____________________________________________________
ङृह्त्१६.२९
<मेर्चुर्य्ःः प्रेपरतिओन् fओर्वेध>
तस्माद्द्रव्यविधायी सूतो बीजेन सारितो लघुना ।
समसारितः सुबद्धो मूषायां स्यात्समावर्तः ॥ ङृह्त्_१६.२९ ॥
*टीका.. मुग्धावबोधिनींः
सारणया पारदगुणानाह तस्मादित्यादि ॥ १६.२९ः१ ॥
तस्माद्धेतोः सूतो द्रव्यविधायी स्यातिति शेषः द्रव्यकर्तेत्यर्थ ॥ १६.२९ः२ ॥
अलघुना बीजेन अनल्पपरिमाणेन महाबीजेन सारितः सन् समसारितः सन् बद्धो भवेतित्यध्याहारः ॥ १६.२९ः३ ॥
मूषायां समावर्तो द्रवणं स्यात्वह्निधमनातिति शेषः ॥ १६.२९ः४ ॥
____________________________________________________
ङृह्त्१६.३०
<(प्रति-, अनु-)सारणा>
सारितवर्तितसूतः समानबीजेन मिलति यः सार्यः ।
द्विगुणेन प्रतिसार्यः स चानुसार्यश्च त्रिगुणेन ॥ ङृह्त्_१६.३० ॥
*टीका.. मुग्धावबोधिनींः
सारणक्रममाह सरित्यादि ॥ १६.३०ः१ ॥
सारितवर्तितसूतः सारितश्चासौ वर्तितश्चेति विग्रहः ॥ १६.३०ः२ ॥
यः समानबीजेन तुल्यमहाबीजेन मिलति स सार्यः यो द्विगुणेन मिलति सः प्रतिसार्यः यश्च त्रिगुणेन सोऽनुसार्य इति सारणाक्रमो दर्शितः ॥ १६.३०ः३ ॥
____________________________________________________
ङृह्त्१६.३१
<सारण <=> वेध पोतेन्च्य्>
शतवेधी सार्यः प्रतिसारितः स्यात्सहस्रवेधी च ।
अनुसारितोऽयुतेन च विधिनापि बलाबलं ज्ञात्वा ॥ ङृह्त्_१६.३१ ॥
*टीका.. मुग्धावबोधिनींः
सारणक्रमस्य गुणानाह शतेत्यादि ॥ १६.३१ः१ ॥
यः सार्यः समसारितः स शतवेधी स्यादित्यभिप्रायः ॥ १६.३१ः२ ॥
पुनः प्रतिसारितः द्विगुणबीजेन सारितो यः सूतः स सहस्रवेधी स्यात् ॥ १६.३१ः३ ॥
च पुनः अनुसारितः त्रिगुणबीजेन सारितः स अयुतेन अयुतवेधी स्यादिति व्यक्तिः ॥ १६.३१ः४ ॥
विधिना इत्युक्तविधानेन ॥ १६.३१ः५ ॥
बलाबलं ज्ञात्वा न्यूनाधिक्यं मत्वा विधिना युक्त इति शेषः ॥ १६.३१ः६ ॥
____________________________________________________
ङृह्त्१६.३२
अनुसारितेन तु समः स्वच्छः सूतः सारितस्तदनु ।
स भवति लक्षवेधी प्रतिसारितः प्रयुतवेधी च ॥ ङृह्त्_१६.३२ ॥
*टीका.. मुग्धावबोधिनींः
सारितप्रतिसारितादनुसारितस्य विशेषमाह अन्वित्यादि ॥ १६.३२ः१ ॥
तु पुनः स्वच्छः प्रधानसंस्कारैः संस्कृतः सूतः अनुसारितेन समः त्रिगुणबीजेन सारितोऽनुसारितस्तेन तुल्यो यदि स्यात्स च लक्षवेधी स्यात् ॥ १६.३२ः२ ॥
एवं प्रतिसारितः सूतः समेन सारितोऽयुतवेधी स्यात् ॥ १६.३२ः३ ॥
एवं स्वेच्छातिस्वच्छवृद्धौ वेधस्यापि वृद्धिः स्यादिति रहस्यम् ॥ १६.३२ः४ ॥
____________________________________________________
ङृह्त्१६.३३
कोटिं विध्यति सूतोऽप्यनुसारितः सरति बीजेन ।
प्रतिसारितोऽनुसारितो दशकोटिं विध्यते सूतः ॥ ङृह्त्_१६.३३ ॥
*टीका.. मुग्धावबोधिनींः
तथोत्तरसत्त्वेन गुणाधिक्यमाह कोटिमित्यादि ॥ १६.३३ः१ ॥
सूते सरितो बीजेन ग्रासन्यायं विहाय समेन बीजेनानुसारितो यः स कोटिसंख्यां धातूनामिति शेषः सूतो विध्यति ॥ १६.३३ः२ ॥
यथोक्तसारिते सूते दशगुणवृद्धिः सर्वत्रैवेति वेदितव्यम् ॥ १६.३३ः३ ॥
____________________________________________________
ङृह्त्१६.३४
प्रतिसारितस्तथाब्जं त्वनुसारितः खर्ववेधी च ।
एवं सारणयोगात्कुरुते वेधं यथेप्सितं विधिना ॥ ङृह्त्_१६.३४ ॥
*टीका.. मुग्धावबोधिनींः
विशेषमाह प्रतीत्यादि ॥ १६.३४ः१ ॥
प्रतिसारितः सूतो द्विगुणबीजेन वारैकेन सारितो रसः अब्जसंख्यां विध्यति ॥ १६.३४ः२ ॥
तु पुनरनुसारितः त्रिगुणेन बीजेन वारैकेन सारितः सूतः खर्ववेधी स्यात्खर्वसंख्याके द्रव्यसंबन्धं करोतीत्यभिप्रायः ॥ १६.३४ः३ ॥
एवमुक्तप्रकारेण विधिना शास्त्रज्ञवार्तिकसंप्रदायेन सारणयोगात्यथेप्सितं वेधं कुरुते यथावाञ्छितमित्यर्थः ॥ १६.३४ः४ ॥
____________________________________________________
ङृह्त्१६.३५
अनुसारितेन सारितो विध्यति शुल्बं निखर्वसंख्याकम् ।
प्रतिसारितस्तु विध्यति पद्मं स्वनुसारितः शङ्खम् ॥ ङृह्त्_१६.३५ ॥
*टीका.. मुग्धावबोधिनींः
पुनर्विशेषमाह अन्वित्यादि ॥ १६.३५ः१ ॥
अनुसारितेन त्रिगुणप्रथमग्रासन्यायेन बीजेन सारितः सूतो निखर्वसंख्याकं शुल्बं विध्यति तु पुनः प्रतिसारितः षड्गुणप्रथमग्रासन्यायेन सारितः सूतः पद्मसंख्याकं विध्यति ॥ १६.३५ः२ ॥
पुनरनुसारितो नवगुणग्रासन्यायेन बीजेन सारितः सूतः शङ्खसंख्यां विध्यतीति ॥ १६.३५ः३ ॥
____________________________________________________
ङृह्त्१६.३६
<लेअद्(?):: वेध (?)>
विध्येद्द्विगुणं द्रव्यं नागं दत्त्वानुवाहयेच्छनकैः ।
तावद्यावत्कनकं दिव्यं प्रोन्मीलयेत्सकलम् ॥ ङृह्त्_१६.३६ ॥
इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते रसहृदयतन्त्रे सारणात्मकः षोडशोऽवबोधः ॥
*टीका.. मुग्धावबोधिनींः
पुनर्विशेषमाह विध्येदित्यादि ॥ १६.३६ः१ ॥
कनकं हेम दत्त्वा शनकैर्नीचैस्तावदनुवाहयेत्यावद्दिव्यं प्रवरं कनकं भवेदिति शेषः ॥ १६.३६ः२ ॥
पुनर्यावत्सकलं समस्तं नागं प्रोन्मीलयेन्निःशेषं कुर्यादित्यभिप्रायः ॥ १६.३६ः३ ॥
पुनस्तत्कनकं द्विगुणं स्वतो द्रव्यं विध्येत्वा सूतकेन सारितं सत्द्रव्यं कनकं शतसहस्रादिसंख्यातो द्विगुणसंख्याकं द्रव्यं शुल्बादिकं विध्येदिति रहस्यम् ॥ १६.३६ः४ ॥
____________________________________________________
ङृह्त्१७.१
इति कृतसारणविधिरपि बलवानपि सूतराट्क्रियायोगात् ।
संवेष्ट्य तिष्ठति लोहं नो विशति क्रामणारहितः ॥ ङृह्त्_१७.१ ॥
*टीका.. मुग्धावबोधिनींः
सुसंस्कृता मुखान्तःस्था विशदाश्च हितार्थकाः ।
तथा परोचिताः पूता भवन्त्यमरजा गिरः ॥ १७.१ः१ ॥
अथ क्रामणप्रशंसामाह इतीत्यादि ॥ १७.१ः२ ॥
उक्तविधानेन कृतः सारणस्य विधिर्यस्मिन् सूतराजे एवंविधिः सूतराट्बलवान् भवेदिति शेषः ॥ १७.१ः३ ॥
कुतः क्रियायोगात्कृत्यकरणात् ॥ १७.१ः४ ॥
यादृक्कृत्यं क्रियते तादृक्बलवान् स्यादित्यभिप्रायः ॥ १७.१ः५ ॥
एवंविधोऽपि क्रामणारहितः क्रामणवर्जितो लोहं न विशति लोहान्तःप्रवेशं न करोति ततो हेतोर्लोहं धातुं संवेष्ट्य परिवेष्टनं कृत्वा तिष्ठति बाह्यरागदायी स्यादिति ॥ १७.१ः६ ॥
____________________________________________________
ङृह्त्१७.२
अन्नं वा द्रव्यं वा यथानुपानेन धातुषु क्रमते ।
एवं क्रामणयोगाद्रसराजो विशति लोहेषु ॥ ङृह्त्_१७.२ ॥
*टीका.. मुग्धावबोधिनींः
देहलोहयोः सादृश्यमाह अन्नमित्यादि ॥ १७.२ः१ ॥
यथेति सादृश्ये ॥ १७.२ः२ ॥
अन्नं गोधूमादिकं वा द्रव्यमौषधमनुपानेन सह जलादिना सार्धं धातुषु मांसादिषु सप्तसु क्रमते व्याप्नोति तथा अमुना वक्ष्यमाणविधानेन क्रामणयोगात्क्रामणाय योगः कुनटीमाक्षिकविषादिस्ततः सूतराजो लोहरूप्यादिषु विशति बाह्याभ्यन्तरं विध्यतीत्यर्थः ॥ १७.२ः३ ॥
____________________________________________________
ङृह्त्१७.३-५
<क्रामणयोग (१)>
कान्तविषरसकदरदै रक्तैलेन्द्रगोपिकाद्यैश्च ।
क्रामणमेतच्छ्रेष्ठं लेपे क्षेपे सदा योज्यम् ॥ ङृह्त्_१७.३ ॥
<क्रामणयोग (२)>
कुनटीमाक्षिकविषं नररुधिरं वायसस्य विष्ठा च ।
महिषीणां कर्णमलं स्त्रीक्षीरं क्रामणे बलकृत् ॥ ङृह्त्_१७.४ ॥
<क्रामणयोग (३)>
टङ्कणकुनटीरामठभूमिलतासंयुतं महारुधिरम् ।
क्रामणमेतत्कथितं लेपे क्षेपे सदा योज्यम् ॥ ङृह्त्_१७.५ ॥
*टीका.. मुग्धावबोधिनींः
क्रामणयोगमाह कान्तविषेत्यादि ॥ १७.३-५ः१ ॥
कान्तं चुम्बकं विषं कन्दजं विषं कन्दविषाणि कालकूटादीनि त्रयोदश दरदं हिङ्गुलं तैः च पुनः रक्ततैलेन्द्रगोपाद्यैः रक्तो रक्तकवर्गः तैलं कङ्गुण्यादेः इन्द्रगोपो जीवविशेषः इत्याद्याः क्रामणोचितास्तच्च ॥ १७.३-५ः२ ॥
एतत्श्रेष्ठं सर्वोत्तमं क्रामणमनेन सूतः क्रामति विशति लोहेष्विति व्याप्तिः तत्क्रामणं कथितम् ॥ १७.३-५ः३ ॥
तल्लेपे क्षेपे च योज्यमित्यर्थः ॥ १७.३-५ः४ ॥
____________________________________________________
ङृह्त्१७.६
<क्रामणयोग (४): f?र्ङोल्द्-।षिल्बेर्हेर्स्तेल्लुन्ग्>
शिलया निहतो नागो वङ्गं वा तालकेन शुद्धेन ।
क्रमशः पीते शुक्ले क्रामणमेतत्समुद्दिष्टम् ॥ ङृह्त्_१७.६ ॥
*टीका.. मुग्धावबोधिनींः
अन्यच्चाह शिलयेत्यादि ॥ १७.६ः१ ॥
नागः सीसकः शिलया मनोह्वया निहतो मारितः पुनः वङ्गं शुद्धेन दोषवर्जितेन तालेन निहतं क्रमशः क्रमेण पीते हेमकर्मणि शुक्ले रूप्यकर्मणि एतत्क्रामणं समुद्दिष्टं सम्यक्प्रकाशितं पीतकर्मणि नागः शुक्लकर्मणि वङ्गं च नियोजितव्यमित्यर्थः ॥ १७.६ः२ ॥
____________________________________________________
ङृह्त्१७.७
<क्रामण>
तीक्ष्णं दरदेन हतं शुल्बं वा ताप्यमारितं विधिना ।
क्रामणमेतत्कथितं कान्तमुखं माक्षिकैर्वापि ॥ ङृह्त्_१७.७ ॥
*टीका.. मुग्धावबोधिनींः
अन्यच्चाह तीक्ष्णमित्यादि ॥ १७.७ः१ ॥
दरदेन हिङ्गुलेन हतं मारितं तीक्ष्णं सारो विधिना अरिवर्गविधानेन ताप्येन स्वर्णमाक्षिकेन मारितं शुल्बं ताम्रमेतदपि क्रामणं कथितं वा कान्तमुखं कान्तं लोहजाति उक्तं ग्रन्थादौ तत्मुखं प्रधानं यस्य तत्माक्षिकैर्वा मारितं नियोज्यमिति शेषः ॥ १७.७ः२ ॥
____________________________________________________
ङृह्त्१७.८
माक्षिकसत्त्वं नागं विहाय न क्रामणं किमप्यस्ति ।
दलसिद्धे रससिद्धे विधावसौ भवति खलु सफलः ॥ ङृह्त्_१७.८ ॥
*टीका.. मुग्धावबोधिनींः
विशेषविधानमाह माक्षिकसत्त्वमित्यादि ॥ १७.८ः१ ॥
माक्षिकसत्त्वं ताप्यसारं नागः सीसकः तं विहाय नान्यत्किमप्यस्ति क्रामणं न क्रामणमिति भावः ॥ १७.८ः२ ॥
खल्विति जिज्ञासायाम् ॥ १७.८ः३ ॥
दलसिद्धे विधौ संस्कारैः पूर्णतां नीते सति असौ विधिः सफलः ॥ १७.८ः४ ॥
____________________________________________________
ङृह्त्१८.१
<वेधमहत्त्व>
अनया खलु सारणया क्रामणेन च विशति योजितो विधिवत् ।
असति वेधविधौ न रसः स्वगुणान्प्रकाशयति ॥ ङृह्त्_१८.१ ॥
*टीका.. मुग्धावबोधिनींः
व्यवायिभेषजोपेते द्रव्ये क्षिप्तो रसः खलु ।
वेध इत्युच्यते तज्ज्ञैः स च नैकविधः स्मृतः ।
इति परिभाषा ॥ १८.१ः१ ॥
क्रामणसंस्काराधिकारमाह अनयेत्यादि ॥ १८.१ः२ ॥
अनया उक्तया सारणया सह क्रामणसंस्कारे कृते सति रसो विशति क्रामति पुनर्वेधविधौ कृते सति रसः स्वगुणान् प्रकाशयतीति वेदितव्यम् ॥ १८.१ः३ ॥
____________________________________________________
ङृह्त्१८.२
<हेमकृष्टि>
रसदरदताप्यगन्धकमनःशिलाराजवर्त्तकं विमलम् ।
पुटमृतशुल्बं तारे निर्व्यूढं हेमकृष्टिरियम् ॥ ङृह्त्_१८.२ ॥
*टीका.. मुग्धावबोधिनींः
वेधविधानमाह रसेत्यादि ॥ १८.२ः१ ॥
रसः सूतः दरदं हिङ्गुलं ताप्यं माक्षिकं गन्धकः प्रतीतः मनःशिला मनोह्वा राजवर्त्तकं राजावर्तं विमलं रौप्यमाक्षिकमेकवद्भावद्वन्द्वः ॥ १८.२ः२ ॥
पुटमृतशुल्बं रसादीनां पुटेन मृतमित्यर्थः ॥ १८.२ः३ ॥
एवंविधं शुल्बं तारे निर्वाहितमियं हेमकृष्टिः स्वर्णकरणमित्यर्थः ॥ १८.२ः४ ॥
____________________________________________________
ङृह्त्१८.३
<शतांशविधि।-वेध (१)>
अष्टानवतिर्भागास्तारस्त्वेकोऽपि कनकभागः स्यात् ।
सूतस्यैको भागः शतांशविधिरेष विख्यातः ॥ ङृह्त्_१८.३ ॥
*टीका.. मुग्धावबोधिनींः
वेधविधानमाह अष्टानवतिरित्यादि ॥ १८.३ः१ ॥
एष रसदरदेत्यादिशतांशवेधविधिः कथमत्र शतांशे अष्टानवतिर्भागास्तारस्य रूप्यस्य पुनरिह कनकभागः स्यातेक एवेति पुनः सूतस्य दरदादिमिलितरसस्यैको भागः एकांशः इति सर्वे शतांशाः शतांशेन वेध इति ॥ १८.३ः२ ॥
____________________________________________________
ङृह्त्१८.४
<शतांशविधि (२)>
एकोनपञ्चाशद्भागास्तारस्येह तथैव शुल्वस्य ।
कनकस्यैको भागो वेधश्चैकेन सूतस्य ॥ ङृह्त्_१८.४ ॥
*टीका.. मुग्धावबोधिनींः
अन्यच्चाह एकोनपञ्चाशदित्यादि ॥ १८.४ः१ ॥
एकोनपञ्चाशद्भागाः तारस्य रूप्यस्य कार्याः तथैव शुल्वस्य ताम्रस्य एकोनपञ्चाशद्भागाश्च कार्याः पुनः कनकस्य हेम्नश्च एको भागः कार्यः सूतस्य च एकेन भागेन वेध इति एषोऽपि शतांशविधिः ॥ १८.४ः२ ॥
____________________________________________________
ङृह्त्१८.५
<डेfइनितिओन् सहस्रवेधिनुन्ध्ण्हेर्>
एवं सहस्रवेधी नियुज्यते कोटिवेधी च ।
जारणबीजवशेन तु सूतस्य बलाबलं ज्ञात्वा ॥ ङृह्त्_१८.५ ॥
*टीका.. मुग्धावबोधिनींः
पूर्वोक्तविधेर्विशेषमाह एवमित्यादि ॥ १८.५ः१ ॥
एवं शतांशवेधन्यायेन दशवृद्धिविभागेन सहस्रवेधी स्यात् ॥ १८.५ः२ ॥
एवं च जारणबीजवशेन जारणायां यद्बीजं कियद्गुणजारितमिति भावः तद्वशेन कोटिवेधी च स्यात् ॥ १८.५ः३ ॥
किं कृत्वा तेनैव जारणबीजवशेन यत्तस्य बलाबलं न्यूनाधिक्यं तत्ज्ञात्वेत्यभिप्रायः ॥ १८.५ः४ ॥
____________________________________________________
ङृह्त्१८.६
<कुन्तवेध>
दत्त्वादौ प्रतिवापं लाक्षामत्स्यादिपित्तभावनया ।
तारे वा शुल्बे वा तारारिष्टे तथा कृष्टौ ॥ ङृह्त्_१८.६ ॥
*टीका.. मुग्धावबोधिनींः
विशेषेण वेधविधानमाह दत्त्वेत्यादि ॥ १८.६ः१ ॥
आदौ प्रथमं लाक्षामत्स्यादिपित्तभावनया लाक्षा प्रतीता मत्स्यादिपित्तानि मत्स्यमाहिषमयूराजसूकरसंभवानि पित्तानि तेषां भावनया कृत्वा प्रतिवापं गलिते निक्षेपं तत्तारे दत्त्वा अथवा शुल्बे प्रतिवापं कुर्यातथवा कृष्टौ हेमकरणे वापं दत्त्वा नियुञ्ज्यादिति शेषः ॥ १८.६ः२ ॥
____________________________________________________
ङृह्त्१८.७
तदनु क्रामणमृदिते तत्कल्केनापि पिण्डितरसेन ।
अतिविद्रुते च तस्मिन् वेधोऽसौ कुन्तवेधेन ॥ ङृह्त्_१८.७ ॥
*टीका.. मुग्धावबोधिनींः
विशेषाच्चाह तदन्वित्यादि ॥ १८.७ः१ ॥
तदनु लाक्षामत्स्यादिपित्तभावनाया अनन्तरं तस्मिन् लाक्षादिकल्के क्रामणमृदिते कान्तरसकदरदरक्ततैलेन्द्रगोपाद्यैर्मृदिते सति पुनस्तत्कल्केन तच्चूर्णेनापि पिण्डितरसेन वेधः कर्तव्य इति शेषः ॥ १८.७ः२ ॥
कस्मिन् तारे वा शुल्बे वा विद्रुते जलरूपे कार्य इत्यर्थः ॥ १८.७ः३ ॥
____________________________________________________
ङृह्त्१८.८
<क्रामण (?)>
तत्तैलार्द्रपटेन स्थगयेत्पललेन भस्मना वापि ।
विधिवद्वेध्यं द्रव्यं रसराजक्रामणार्थं हि ॥ ङृह्त्_१८.८ ॥
*टीका.. मुग्धावबोधिनींः
विशेषमाह तदित्यादि ॥ १८.८ः१ ॥
वेध्यं वेधोचितं द्रव्यं रसराजक्रामणार्थं यथा रसो विशति तदर्थं तं तैलार्द्रपटेन सारणतैलार्द्रवस्त्रेण स्थगयेताच्छादयेत्वा पललेन केनचिन्मांसेन वा भस्मना आच्छादयेदित्यर्थः ॥ १८.८ः२ ॥
____________________________________________________
ङृह्त्१८.९
इति सारितस्य कथितं रसस्य वेधादि क्रामणं कर्म ।
विशेषमाह इतीत्यादि ॥ १८.८ः१ ॥
सारितस्य उक्तविधानेन सारणाकृतस्य वेधादि क्रामणं कर्म वेधविधानोदितक्रामणं कर्म कथितम् ॥ १८.८ः२ ॥
____________________________________________________
ङृह्त्१८.९
<लेपवेध्पत्त्ररञ्जन>
पादादिजीर्णबीजो युज्यते पत्रलेपेन ॥ ङृह्त्_१८.९ ॥
*टीका.. मुग्धावबोधिनींः
पादादिजीर्णबीजः पादादिना पादार्धेन समतो न्यूनेन च जीर्णं बीजं यस्मिन् सः पत्रलेपेन युज्यते अतः पत्ररञ्जनं स्यादित्यभिप्रायः ॥ १८.९ः१ ॥
____________________________________________________
ङृह्त्१८.१०
<पत्त्ररञ्जन (२) दुर्छ्लेप>
अम्लाद्युद्वर्तिततारारिष्टादिपत्रमतिशुद्धम् ।
आलिप्य रसेन ततः क्रामणलिप्ते पुटेषु विश्रान्तम् ॥ ङृह्त्_१८.१० ॥
*टीका.. मुग्धावबोधिनींः
अतिशुद्धं निर्मलमम्लाद्युद्वर्तितं तारारिष्टशब्दात्सितं स्वर्णं ग्राह्यं ततः रसेनालिप्य ततः क्रमणालिप्ते क्रामणपिण्डेन लेपे कृते सति पुटेषु उत्पलाग्नौ विश्रान्तं स्थापितं कुर्यात् ॥ १८.१०ः१ ॥
पत्ररञ्जनविधिरयम् ॥ १८.१०ः२ ॥
____________________________________________________
ङृह्त्१८.११
<ॡएइतेर्वेरर्बेइतुन्ग्देस्पत्त्रस्; वर्णपुट>
अर्धेन मिश्रयित्वा हेम्ना ज्येष्ठेन तद्दलं पुटितम् ।
क्षितिखगपटुरक्तमृदा वर्णपुटोऽयं ततो देयः ॥ ङृह्त्_१८.११ ॥
*टीका.. मुग्धावबोधिनींः
अथ स्वर्णविधानमाह अर्धेनेत्यादि ॥ १८.११ः१ ॥
अर्धेन अर्धविभागेन रञ्जितदलादित इति ज्ञेयम् ॥ १८.११ः२ ॥
ज्येष्ठेन हेम्ना प्रवरकनकेन तद्दलं रञ्जितपत्रं मिश्रयित्वा पुटितं कुर्यात्यथा मिलति ॥ १८.११ः३ ॥
पुनः क्षितिखगपटुरक्तमृदा कृत्वा क्षितिः स्फटिकः खगः पीतकासीसं पटु सैन्धवं लवणं रक्तमृत्गैरिकमेकवद्भावद्वन्द्वः तेन क्षित्यादिनोपरि लिप्तं दलं प्रति अयं पुटो देयः वनोपलैरिति शेषः ॥ १८.११ः४ ॥
____________________________________________________
ङृह्त्१८.१२
<वेधःः wहिते गोल्द्=> रेद्गोल्द्>
भूपतिवर्तकचूर्णं शिरीषपुष्परसभावितं बहुशः ।
सद्यः करोति रक्तं सितकनकमशीतिभागेन ॥ ङृह्त्_१८.१२ ॥
*टीका.. मुग्धावबोधिनींः
वर्णविधानमाह भूपतीत्यादि ॥ १८.१२ः१ ॥
भूपतिवर्तकचूर्णं राजावर्तरजः बहुशो बहुवारं शिरीषपुष्परसभावितं कुर्यातित्यध्याहार्यम् ॥ १८.१२ः२ ॥
भावितं घर्मपुटितमिति विधानवितिति शेषः ॥ १८.१२ः३ ॥
____________________________________________________
ङृह्त्१८.१३
<वेधःः सिल्वेर्=> गोल्द्>
रसदरदविमलताप्यं पटुशिलामाक्षीकनृपाश्चैव ।
प्रवालकंकुष्ठटङ्कणगैरिकप्रतिवापितं सितं कनकम् ॥ ङृह्त्_१८.१३ ॥
*टीका.. मुग्धावबोधिनींः
अन्यच्चाह रसेत्यादि ।
रसः सूतः दरदं हिङ्गुलः विमलं ताप्यभेदः पटु सैंधवं शिला मनोह्वा माक्षिकं प्रतीतं वणिग्द्रव्यं नृपो राजावर्तः प्रवालं विद्रुमं कङ्कुष्ठं विरङ्गं टङ्कणं सौभाग्यं गैरिकं प्रतीतमेतैः प्रतिवापितं सितद्रव्यं कनकं भवेतित्यध्याहार्यम् ॥ १८.१३ः१ ॥
____________________________________________________
ङृह्त्१८.१४
<चोलोउरिन्गोf गोल्द्>
तापीभवनृपावर्तबीजपूररसार्दितम् ।
करोति पुटपाकेन हेम सिन्दूरसन्निभम् ॥ ङृह्त्_१८.१४ ॥
*टीका.. मुग्धावबोधिनींः
अन्यच्चाह तापीभवेत्यादि ॥ १८.१४ः१ ॥
तापीभवं माक्षिकसत्त्वं नृपावर्तं राजावर्तकमेतद्द्वयं बीजपूररसार्दितं मातुलुङ्गरसमर्दितं कुर्यातेतदुभयोर्योगात्कनकं पुटपाकेन वह्निविधानेन कनकं पूर्वोक्तं यत्कनकं वा हीनवर्णकनकं सिन्दूरसन्निभं करोति ॥ १८.१४ः२ ॥
सिन्दूरवन्निभा यस्येति समासः ॥ १८.१४ः३ ॥
____________________________________________________
ङृह्त्१८.१५
<सिल्वेर्ःः इम्प्रोवेमेन्तोf चोलोउर्>
वङ्गाभ्रं सितमाक्षीकं शैलं वा वाहयेत्सिते ।
तत्तारं च दशांशेन तारोत्कर्षं करोति हि ॥ ङृह्त्_१८.१५ ॥
*टीका.. मुग्धावबोधिनींः
अथ तारवर्णविधानमाह वङ्गेत्यादि ॥ १८.१५ः१ ॥
वङ्गाभ्रमिति वङ्गं त्रपु अभ्रं श्वेताभ्रं पुनः सितमाक्षीकं विमलं शैलं श्वेतशिलाजतु वा सिते तारे वाहयेत् ॥ १८.१५ः२ ॥
पुनर्दशांशेन एतदौषधनिचयं तारतो दशमविभागेन कृत्वा हि निश्चितं तारोत्कर्षं करोति हीनवर्णत उत्तमं करोतीत्यभिप्रायः ॥ १८.१५ः३ ॥
____________________________________________________
ङृह्त्१८.१६
<निर्वाहण ओf दिff. सुब्स्तन्चेस्=> फ्य्स्. रेसुल्त्स्>
नागः करोति मृदुतां निर्व्यूढस्तां च रक्ततां च रविः ।
तां पीततां च तीक्ष्णं काचस्तत्कालिकविनाशं च ॥ ङृह्त्_१८.१६ ॥
*टीका.. मुग्धावबोधिनींः
तारे विशेषमाह नाग इत्यादि ॥ १८.१६ः१ ॥
नागः सीसकस्तारे निर्व्यूढो मृदुतां कोमलत्वं करोति ॥ १८.१६ः२ ॥
पुनः रविस्ताम्रं निर्व्यूढं सत्तां मृदुतां च पुनः रक्ततां लोहितनिभां करोति ॥ १८.१६ः३ ॥
च पुनस्तीक्ष्णं तारनिर्व्यूढं तां रक्ततां पीततां च करोति ॥ १८.१६ः४ ॥
पुनः काचः प्रतीतो लोके स कालिकविनाशं करोतीति तारे निर्व्यूढ इति संबन्धः ॥ १८.१६ः५ ॥
____________________________________________________
ङृह्त्१८.१७
<गोल्द्ःः इम्प्रोवेमेन्त्>
कनकारुणसममाक्षिककरञ्जतैलाप्लुतो ध्मातः ।
पाते पाते दश दश विन्दति यावद्धि कोटिमपि ॥ ङृह्त्_१८.१७ ॥
*टीका.. मुग्धावबोधिनींः
हेम्नो विशेषमाह कनकारुणेत्यादि ॥ १८.१७ः१ ॥
कनकं हेम अरुणं ताम्रं समं तुल्यभागं माक्षिकं ताप्यमयं गणः करञ्जतैलप्लुतो ध्मातः कार्यः ॥ १८.१७ः२ ॥
पुनः पाते पाते वारंवारं निक्षेपे सति दश दश गुणोत्कर्षं विदन्ति ध्मात इत्यध्याहारः ॥ १८.१७ः३ ॥
हि निश्चितम् ॥ १८.१७ः४ ॥
कियत्कालं यावत्कोटिसंख्यां विन्दति ॥ १८.१७ः५ ॥
____________________________________________________
ङृह्त्१८.१८
<गोल्द्ःः बीज fओरिम्प्रोवेमेन्तोf चोलोउर्>
स चायमतिविलीनः कंगुणीतैलसेचितो बहुशः ।
माक्षीकरविनिवापं विध्यति कनकं शतांशेन ॥ ङृह्त्_१८.१८ ॥
*टीका.. मुग्धावबोधिनींः
विशेषमाह स इत्यादि ॥ १८.१८ः१ ॥
सः करञ्जतैलप्लुतो योगो बहुशो वारंवारं कङ्गुणीतैलेन सेचितो यथा स्यात्तथायमति विलीनः सन्माक्षिकरविनिवापां पुनः कार्य एवंविधं च कनकं शतांशेन शतविभागेन विध्यति सितकनकमिति ॥ १८.१८ः२ ॥
____________________________________________________
ङृह्त्१८.१९
<गोल्द्ःः बीज fओरिम्प्रोवेमेन्त्(?)>
शुल्बहतं रसगन्धाहतखगपीतं दशांशेन ।
विध्यति कनकं कुरुते तन्निर्व्यूढं मर्दितं सुदृढम् ॥ ङृह्त्_१८.१९ ॥
*टीका.. मुग्धावबोधिनींः
विशेषमाह शुल्बेत्यादि ॥ १८.१९ः१ ॥
शुल्बहतं शुल्बेन सह हतं रसगन्धं सूतगन्धं तेन आहतं पञ्चत्वमापन्नं यत्खगपीतं पीतकासीसमेतदौषधसमुच्चयं सुदृढं यथा स्यात्तथा मर्दितं कुर्यात्पुनस्तत्निर्व्यूढं दशांशेन विध्यति सितकनकं कुरुते स्वर्णमिति विशेषः ॥ १८.१९ः२ ॥
____________________________________________________
ङृह्त्१८.२०
<वेध>
रसकसमं सुध्मातं कनकं भुक्त्वा ततोऽर्कचन्द्रलेपेन ।
माक्षिकसत्त्वं हेम्ना करोति जीर्णो रसः शतांशेन ॥ ङृह्त्_१८.२० ॥
*टीका.. मुग्धावबोधिनींः
अन्यच्चाह रसकेत्यादि ॥ १८.२०ः१ ॥
ततोऽनन्तरमर्कचन्द्रलेपेन कनकं रसकसमं ध्मातं कुर्यात्पुनरेतदौषधं भुक्त्वा कनकं स्यात्पुनर्माक्षिकसत्त्वं हेम्ना सह जीर्णं रसं शतांशेन विध्यतीत्यर्थः ॥ १८.२०ः२ ॥
____________________________________________________
ङृह्त्१८.२१
<वेध; सिल्वेर्=> गोल्द्>
अष्टगुणं मृतशुल्बं कलधौतेन मूकमूषया लिप्तम् ।
तत्षोडशांशजीर्णं विध्यति तारं शतार्धेन ॥ ङृह्त्_१८.२१ ॥
*टीका.. मुग्धावबोधिनींः
अन्यच्चाह अष्टगुणेत्यादि ॥ १८.२१ः१ ॥
अष्टगुणं मृतशुल्बमरिवर्गेण सह हतं यत्शुल्बं ताम्रं ततः कलधौतेन षोडशांशेन जीर्णं शतार्धेन पञ्चाशद्विभागेन तारं विध्यति कनकं करोतीत्यर्थः ॥ १८.२१ः२ ॥
____________________________________________________
ङृह्त्१८.२२
<वेधःः दशांशँ; सिल्वेर्=> गोल्द्>
आवृत्य कनककरिणौ शिलया प्रतिवापितौ ततो भुक्त्वा ।
दोलायन्त्रे गन्धकजीर्णस्तारे दशांशवेधी स्यात् ॥ ङृह्त्_१८.२२ ॥
*टीका.. मुग्धावबोधिनींः
अन्यच्चाह आवृत्येत्यादि ॥ १८.२२ः१ ॥
कनककरिणौ समहेमनागौ आवृत्य गालयित्वा शिलया मनोह्वया प्रतिवापितौ ततोऽनन्तरं दोलायन्त्रे कनककरिणौ भुक्त्वा गन्धकजीर्णो यो रसः स तारे दशांशवेधी स्यात्दशांशेन विध्यतीत्यर्थः ॥ १८.२२ः२ ॥
____________________________________________________
ङृह्त्१८.२३
<वेधःः शतांश; ब्रोन्शे => गोल्द्>
रिपुनिहतलोहषट्कं जीर्णो धान्यस्थितश्चतुर्मासम् ।
सहितः पुरसुराभ्यां विध्यति घोषं शतांशेन ॥ ङृह्त्_१८.२३ ॥
*टीका.. मुग्धावबोधिनींः
अन्यच्चाह रिपुनिहतेत्यादि ॥ १८.२३ः१ ॥
रिपुनिहतलोहषट्कं रिपुभिररिवर्गैर्निहतं मारितं यत्लोहषट्कं स्वर्णतारताम्रनागवङ्गलोहाभिधानं तत्चतुर्मासं यथा स्यात्तथा धान्यस्थितोऽन्नकोष्ठीधृतो रसो जीर्णः ॥ १८.२३ः२ ॥
किंविशिष्टो धान्यस्थितः पुरसुराभ्यां गुग्गुलुमदिराभ्यां सहितो मिलितः शतांशेन घोषं कांस्यं विध्यति कनकं करोतीत्यर्थः ॥ १८.२३ः३ ॥
____________________________________________________
ङृह्त्१८.२४
वक्ष्ये सम्प्रति सम्यग्यद्बीजं समरसे जीर्णम् ।
पिष्टिस्तम्भादिविधिं प्रकाश्यमानं बुधाः शृणुत ॥ ङृह्त्_१८.२४ ॥
*टीका.. मुग्धावबोधिनींः
विशेषमाह वक्ष्य इत्यादि ॥ १८.२४ः१ ॥
भो बुधाः मया प्रकाश्यमानं सत्शृणुत सावधाना इत्यध्याहार्यम् ॥ १८.२४ः२ ॥
तत्किं संप्रति यद्बीजं समरसे तुल्यसूते सम्यक्जीर्णं जारणमापन्नं तदहं गोविन्दनामा वक्ष्ये कथयामि ॥ १८.२४ः३ ॥
पुनः पिष्टिस्तम्भादिविधिं पिष्टिस्तम्भ आदिर्यस्य विधेस्तं विधिं पाटखोटजलौकाख्यं च वक्ष्ये ॥ १८.२४ः४ ॥
____________________________________________________
ङृह्त्१८.२५-४०
<वेध; घोषाकृष्ट => गोल्द्>
राजावर्तकविमलपीताभ्रगन्धताप्यरसकैश्च ।
कांक्षीकासीसशिलादरदैश्च समन्वितं नागम् ॥ ङृह्त्_१८.२५ ॥
अहिमाररसैः पुटितं मारय नागं निरुत्थकं यावत् ।
तदनु च तस्य हि मध्ये शुल्बं गन्धं च लवणकंकुष्ठम् ॥ ङृह्त्_१८.२६ ॥
तत्सर्वं शतवारान् भावय पक्वार्कपत्रसलिलैश्च ।
घोषाकृष्टे शुल्बे चूर्णं निर्वाहयेच्छतशः ॥ ङृह्त्_१८.२७ ॥
शुल्बेन तेन हि समं रसकपीताभ्रसत्वविमलं च ।
गैरिकमाक्षिकसत्त्वं टङ्कणनागं च तीक्ष्णयुतम् ॥ ङृह्त्_१८.२८ ॥
एतैर्द्वन्द्वं कृत्वा माक्षिकवापेन रञ्जयेच्छुल्वम् ।
वारांश्च विंशतिरपि गलितं सेचयेत्तदनु ॥ ङृह्त्_१८.२९ ॥
निर्गुण्डीकाकमाचीकन्यारसमेलनं कृत्वा ।
वारान् सप्त च विधिना तदपि च निर्वापयेद्धेम्नि ॥ ङृह्त्_१८.३० ॥
यावच्चतुर्विंशतिगुणं बीजवरं रञ्जयेत्तच्च ।
पक्वं माक्षिकमेव हि तेन च विधिना तदपि चतुर्विंशतिगुणम् ॥ ङृह्त्_१८.३१ ॥
तद्बीजं लघुमात्रं रसराजे संस्कृते पूर्वम् ।
मूषायां खलु दत्त्वा दशगुणं च गन्धकं दाह्यम् ॥ ङृह्त्_१८.३२ ॥
अथवा वालुकयन्त्रे सुदृढे चतुर्दशांगुलमूषायाम् ।
मध्ये सूतं मुक्त्वा लघुतरपुटयोगतः पिहिता ॥ ङृह्त्_१८.३३ ॥
तेन समं बीजवरे पिष्टिः पादांशतः कार्या ।
अंगुलिनवपरिमाणे मूषामध्ये च पिष्टिकां दत्त्वा ॥ ङृह्त्_१८.३४ ॥
निर्गुण्डीकाकमाचीगोजिह्वादुग्धिकारक्ता ।
गृहकन्यामधुसैन्धवपिण्डैरपि समन्ततश्छाद्या ॥ ङृह्त्_१८.३५ ॥
तावत्कार्यः पुटयोगो यावद्दृढतां समायाति ।
षड्गुणगन्धकतालककांक्षीकासीसलवणक्षारम् ॥ ङृह्त्_१८.३६ ॥
ताप्यं तत्सर्वसमं देयं बाह्ये तदौषधिपिण्डम् ।
षड्गुणषड्गुणसहितं पिष्टीं यन्त्रेऽथ कच्छपे दत्त्वा ॥ ङृह्त्_१८.३७ ॥
स्वेद्यं पुटयोगेन तु त्रिदिनं घटिकात्रयं यावत् ।
उद्धृत्य ततो यत्नात्पिष्ट्वा सुचूर्णितां कृत्वा ॥ ङृह्त्_१८.३८ ॥
समबीजेन तु सार्यो नागं त्रिगुणं ततः समुत्तार्य ।
प्रतिसारणा च कार्या जारितसूतेन बीजयुक्तेन ॥ ङृह्त्_१८.३९ ॥
अनुसारणा च पश्चात्त्रिगुणं बीजं भवेद्यत्र ।
प्रागुक्तं तस्योपरि मृतनागं शतगुणं वाह्यम् ।
तेन च घोषाकृष्टे शुल्बे वेधोऽथ सप्तशतैः ॥ ङृह्त्_१८.४० ॥
*टीका.. मुग्धावबोधिनींः
अथ नागमाह राजावर्तकेत्यादि ॥ १८.२५-४०ः१ ॥
राजावर्तकं प्रसिद्धं विमलं श्वेतमाक्षिकं पीताभ्रं पीतवर्णं यदभ्रं गन्धो गन्धकः ताप्यं स्वर्णमाक्षिकं रसकं खर्परिकमेतैः पुनरेतैः काङ्क्षी काहीति लोके कासीसं पीतकासीसं शिला मनोह्वा दरदं हिङ्गुलं तैश्च समन्वितं मिलितं नागं कुर्यादित्यर्थः ॥ १८.२५-४०ः२ ॥
तच्चाह अहीत्यादि ॥ १८.२५-४०ः३ ॥
पूर्वौषधसंयुतं नागमहिमाररसैः करवीरद्रावैः पुटितं कुर्यात् ॥ १८.२५-४०ः४ ॥
नागं सीसकं तावन्मारय यावन्निरुत्थकं यथा पुनरुत्थितं न स्यात् ॥ १८.२५-४०ः५ ॥
तदनु तत्पश्चात्तस्य नागस्य मध्ये शुल्बं ताम्रं गन्धं प्रतीतं लवणं सैन्धवं कङ्कुष्ठं विरङ्गमेतत्सर्वं मिश्रितं कुर्यातित्यध्याहार्यम् ॥ १८.२५-४०ः६ ॥
____________________________________________________
ङृह्त्१८.४१-४६
<क्षेपवेध>
क्रामणमेतत्प्रागपि माक्षिकदरदगन्धकशिलाभिः ।
राजावर्तकविमलप्रवालकङ्कुष्ठतुत्थविषैः ॥ ङृह्त्_१८.४१ ॥
कान्तगैरिकटंकणभूमिलतारुधिरशक्रगोपरसैः ।
महिषीणां कर्णमलैर्मृतलोहं वायसस्य विष्ठा च ॥ ङृह्त्_१८.४२ ॥
पारावतस्य विष्ठा स्त्रीपयः सर्वमेकतः कृत्वा ।
क्रामणकल्कं चैतच्छतवारान् रक्तपीतगणैः ॥ ङृह्त्_१८.४३ ॥
भाव्यं कंगुणितैले क्रौञ्चीपित्तभावनाः सप्त ।
कल्केनानेन पचेत्सारितपिष्टिं च हण्डिकायां हि ॥ ङृह्त्_१८.४४ ॥
यावद्रक्ता भवति हि गच्छति नागं समुत्तार्य ।
तावत्क्षेपं च क्षिपेत्सर्वस्मिन्सारणादौ च ॥ ङृह्त्_१८.४५ ॥
एवं हि कोटिवेधी रसराजः क्रामितो भूत्वा ।
पुंस्त्वादेरुच्छ्रायप्रदो भूत्वा भोगान्दत्ते ॥ ङृह्त्_१८.४६ ॥
*टीका.. मुग्धावबोधिनींः
क्रामणमाह क्रामणमित्यादि ॥ १८.४१-४६ः१ ॥
प्रागपीति पूर्वाध्यायेऽपि प्रोक्तमिति शेषः ॥ १८.४१-४६ः२ ॥
पुनरेतद्वक्ष्यमाणं क्रामणगुणं कुर्यादित्यध्याहारः ॥ १८.४१-४६ः३ ॥
स कथं तदाह माक्षिकेत्यादि ॥ १८.४१-४६ः४ ॥
माक्षिकं ताप्यं दरदं हिङ्गुलं गन्धकः प्रतीतः शिला मनोह्वा ताभिः ॥ १८.४१-४६ः५ ॥
पुनः राजावर्तकेत्यादि ॥ १८.४१-४६ः६ ॥
राजावर्तकं लाजवरद इति भाषायां विमलं सितमाक्षिकं प्रवालं विद्रुमं कङ्कुष्ठं विरङ्गं तुत्थकं शिखिग्रीवं विषं सक्तुकादिकन्दजमेतैश्च ॥ १८.४१-४६ः७ ॥
कान्तेत्यादि कान्तं चुम्बकं गैरिकं प्रतीतं टङ्कणं सौभाग्यं भूमिलता भूनागः रुधिरं शक्रगोपः रसो विषं पुनरुक्ताद्विषमत्र द्विगुणं तैः ॥ १८.४१-४६ः८ ॥
च पुनर्महिषीणां कर्णमलैर्हयारिपत्नीनां श्रवणयोर्मलानि तैः सह मृतलोहं मृतं च तल्लोहं चेति वायसस्य काकस्य विष्ठा शकृत् ॥ १८.४१-४६ः९ ॥
पारावतस्य विष्ठा कपोतशकृत्स्त्रीपयो नारीक्षीरमेतत्सर्वं माक्षिकादिस्त्रीक्षीरान्तमेकतः कृत्वा मिश्रितं विधाय च पुनरेतत्क्रामणकल्कं रक्तपीतगणैः किंशुकादिहरिद्राद्यैः शतवारान् भावयेदित्यागामिश्लोकसंबन्धात् ॥ १८.४१-४६ः१० ॥
सारणकल्कविधानमाह भाव्यमित्यादि ॥ १८.४१-४६ः११ ॥
पूर्वोक्तसारणकल्कं कङ्गुणीतैले ज्योतिष्मतीस्नेहे भाव्यं ततः क्रौञ्चीपित्तभावनाः सप्त देयाः दातव्याः ॥ १८.४१-४६ः१२ ॥
पुनः सारितपिष्टिं सारिता या रसेन्द्रबीजपिष्टिस्तामनेन कल्केन हण्डिकायां पचेत्वह्निना पाकः कर्तव्यः ॥ १८.४१-४६ः१३ ॥
सारणकल्कपाचनमाह यावदित्यादि ॥ १८.४१-४६ः१४ ॥
पूर्वकल्कसंयुतां पिष्टिं कियत्कालं पचेत्यावद्रक्ता भवति नागं च गच्छति नागनाशः स्यात्नागे गच्छति सति समुत्तार्य पुनस्तावत्सर्वस्मिन्सारणादौ च क्षेपक्रमेण क्षेपं क्षिपेत् ॥ १८.४१-४६ः१५ ॥
पुंस्त्वाद्यानाकाशगमनपर्यन्तान् भोगान् ददातीत्यभिप्रायः ॥ १८.४१-४६ः१६ ॥
____________________________________________________
ङृह्त्१८.४७-४८
<सिल्वेर्=> गोल्द्>
अभ्रकमाक्षिककनकं नागयुतं मिलितं विधिना ।
सूते पिष्टिः कार्या दिव्यौषधियोगतः पुटिता ॥ ङृह्त्_१८.४७ ॥
षड्गुणगन्धकदाहः शिलया नागं समुत्तार्य ।
तारे हेमाकृष्टिर्मिलिता स्यात्षोडशांशेन ॥ ङृह्त्_१८.४८ ॥
*टीका.. मुग्धावबोधिनींः
पिष्टिविध्यन्तरमाह अभ्रकमित्यादि ॥ १८.४७-४८ः१ ॥
अभ्रकं प्रतीतं माक्षिकं ताप्यं कनकं हेम नागयुतं नागेन सीसकेन युतं सहितं विधिना कर्तव्योपदेशेन एतत्सर्वं सूते मिलितं सत्पिष्टिः कार्या दिव्यौषधियोगतः पुटिता पिष्टिः कार्या इति ॥ १८.४७-४८ः२ ॥
तारे हेमाकृष्टिमाह षडित्यादि ॥ १८.४७-४८ः३ ॥
पूर्वोक्तायां पिष्ट्यां षड्गुणगन्धकदाहः कार्यः पुनः षड्गुणशिलया कृत्वा नागं समुत्तार्य सीसकमपहाय सा निष्पन्ना पिष्टी षोडशांशेन तारे रूप्ये मिलिता सती हेमाकृष्टिः स्यात्कनकोद्धारणं भवेत्ताम्रनागादिषु धातुषु हेम स्थितमेव तत आकृष्टिशब्दो युक्तः ॥ १८.४७-४८ः४ ॥
____________________________________________________
ङृह्त्१८.४९-५०
<सिल्वेर्=> गोल्द्>
माक्षिकनिहतं शुल्बं शिलया निहतं च नागतुल्यांशम् ।
पुटितं जम्बीररसैः सैन्धवसहितं पचेत्स्थाल्याम् ॥ ङृह्त्_१८.४९ ॥
तच्चूर्णं घृतमधुकटङ्कणसहितं च गुप्तमूषायाम् ।
तारे त्रिगुणं व्यूढं हेमाकृष्टिर्भवेद्दिव्या ॥ ङृह्त्_१८.५० ॥
*टीका.. मुग्धावबोधिनींः
नागमारणविधानमाह माक्षिकेत्यादि ॥ १८.४९-५०ः१ ॥
माक्षिकेण निहतं मारितं यत्शुल्वं शिलया मनःशिलया नागं च निहतं मारितमुभयं तुल्यांशं समभागं कार्यं पुनर्जम्बीररसैः जम्बीरद्रावैः सैन्धवसहितमुभयं पुटितं भावितं सत्पचेद्वह्निना पक्वं कुर्यात् ॥ १८.४९-५०ः२ ॥
क्व स्थाल्यां मृद्भाजने इत्यर्थः ॥ १८.४९-५०ः३ ॥
____________________________________________________
ङृह्त्१८.५१-५२
<चोप्पेर्+ सिल्वेर्=> गोल्द्>
शुल्बं बलिना निहतं तीक्ष्णं दरदेन निहतसमभागम् ।
एकीकृत्वा पुटयेत्पचेन्मातारसेनैव ॥ ङृह्त्_१८.५१ ॥
तारे व्यूढं त्रिगुणं मार्जाराक्षनिभं भवेत्तच्च ।
लिप्तं रसेन पुटितं हेमार्धेन मात्रया तुल्यम् ॥ ङृह्त्_१८.५२ ॥
*टीका.. मुग्धावबोधिनींः
नागे तारे हेमाकृष्टिमाह शुल्वमित्यादि ॥ १८.५१-५२ः१ ॥
बलिना गन्धकेन निहतं सत्समभागं तुल्यांशं कुर्यातिति शेषः ॥ १८.५१-५२ः२ ॥
उभयमेकीकृत्य संमिश्र्य मातारसेनैव नारीक्षीरेण पुटयेत्पचेदिति श्लोकार्थः ॥ १८.५१-५२ः३ ॥
हेमाकृष्टेर्विधानमाह तारे इत्यादि ॥ १८.५१-५२ः४ ॥
पूर्वोक्तं चूर्णं शुल्बजं तीक्ष्णजं वा तारे त्रिगुणं व्यूढं वाहितं सत्मार्जाराक्षसंनिभ ओतुनेत्राभं तारं भवेत् ॥ १८.५१-५२ः५ ॥
हेमार्धेन मात्रया तारार्धभागेन परिमाणेन हेम्ना तुल्यमन्यूनाधिकं रसेन पयसा ॥ १८.५१-५२ः६ ॥
____________________________________________________
ङृह्त्१८.५३-५५
<लेअद्=> गोल्द्>
लिप्तं तदनु पुटितं नागं हि रसेन पादयुक्तेन ।
खर्परकस्थं कृत्वा कार्यं विधिना दृढं ताप्यम् ॥ ङृह्त्_१८.५३ ॥
निर्गुण्डीरसभावितपुटितं शिलया वर्तितं श्लक्ष्णम् ।
तावन्मृदितपुटितं निरुत्थभावं व्रजेद्यावत् ॥ ङृह्त्_१८.५४ ॥
तारे तन्निर्व्यूढं यावत्पीतं भवेद्रुचिरम् ।
हेमसमेन च मिलितं मात्रातुल्यं भवेत्कनकम् ॥ ङृह्त्_१८.५५ ॥
*टीका.. मुग्धावबोधिनींः
पुनर्नागविधानमाह लिप्तमित्यादि ॥ १८.५३-५५ः१ ॥
त्रिगुणं यथा स्यात्तथा पादयुक्तेन रसेन चतुर्थांशसहितसूतेन सह नागं सीसकं खर्परकस्थं मृद्भाजनखण्डस्थितं कृत्वा विधिना रसज्ञोपदेशेन दृढं ताप्यं वह्नियुतं सत्निहतं कुर्यादिति वाक्यार्थः ॥ १८.५३-५५ः२ ॥
तच्चाह निर्गुण्डीत्यादि ॥ १८.५३-५५ः३ ॥
पक्वं नागचूर्णं श्लक्ष्णं श्रेष्ठविधानं यथा स्यात्तथा शिलया वर्तितं सन्निर्गुण्डीरसभावितपुटितं पूर्णं भावितं घर्मपुटितं पश्चात्पुटितं वह्निपुटितं कुर्यात् ॥ १८.५३-५५ः४ ॥
पुनर्यावन्निरुत्थभावमशीरत्वं व्रजेत्तावन्मृदितपुटितं मर्दितपाचितं कुर्यादित्यर्थः ॥ १८.५३-५५ः५ ॥
तच्चाह तारे इत्यादि ॥ १८.५३-५५ः६ ॥
तन्निरुत्थनागचूर्णं यावत्पीतं पीतवर्णं तारं भवेत्तावद्वारं निर्व्यूढं कुर्यात् ॥ १८.५३-५५ः७ ॥
पुनर्हेमसमेन कनकतुल्यांशेन मात्रातुल्यं मिलितं सत्रुचिरं मनोरमं कनकं सर्वं भवेदित्यर्थः ॥ १८.५३-५५ः८ ॥
____________________________________________________
ङृह्त्१८.५६-६३
<स्वर्णमाक्षिक => गोल्द्>
ताप्यं चांगुलिसंज्ञं चूर्णं कृत्वा तदन्तरे दत्त्वा ।
शुल्बस्य गुप्तमूषा कार्या पुटिताप्यथ च ध्माता ॥ ङृह्त्_१८.५६ ॥
हेम्ना मिलितं विधिना मात्रातुल्यं भवत्येव ।
ताप्यविधानमाह ताप्यमित्यादि ॥ १८.५६ः१ ॥
अङ्गुलिसंज्ञं ताप्यं स्वर्णमाक्षिकं चूर्णं कृत्वा तदन्तरे तच्चूर्णमन्तरे मध्ये दत्त्वा शुल्बस्य ताम्रस्य गुप्तमूषा अन्धमूषा कार्या तत्र नले इत्यभिप्रायः ॥ १८.५६ः२ ॥
सा मूषा पुटिता ध्माता कार्येति विधानमुक्तम् ॥ १८.५६ः३ ॥
तच्चाह हेम्नेत्यादि ॥ १८.५६ः४ ॥
पक्वं यन्माक्षिकचूर्णं तद्धेम्ना कृत्वा ॥ १८.५६ः५ ॥
____________________________________________________
ङृह्त्१८.५७-६३
<गोल्द्ःः रञ्जन (??)>
पादादिजीर्णसूते लिह्यात्पत्राणि हेमकृष्टीनाम् ॥ ङृह्त्_१८.५७ ॥
क्रामणयोगेन ततो विलिप्य विधिना निधाय तुल्याधः ।
पश्चाद्धेम्ना सहितं ध्मातं मूषोदरे समावर्त्य ॥ ङृह्त्_१८.५८ ॥
यन्त्रं हण्ड्यां पक्वं पञ्चमृदावाप्य पुटपक्वम् ।
पादादिजीर्णसूते पादादिना पादार्धसमानदिना जीर्णो योऽसौ सूतः तस्मिन् हेमकृष्टीनां पत्राणि कलुषकनकानां पत्राणि लिह्यात्क्रामणयोगेन लेपयेदित्यागामिश्लोकात् ॥ १८.५७-५८ः१ ॥
तच्चाह क्रामणेत्यादि ॥ १८.५७-५८ः२ ॥
ततो रसलेपानन्तरं क्रामणयोगेन कुनटीमाक्षिकविषमित्यादिनोक्तेन विलिप्य तुल्याधः तुल्यं यथा स्यात्तथा अधोभागे निधाय मूषोदरे ध्मातं कुर्यात् ॥ १८.५७-५८ः३ ॥
पुनः पश्चाद्धेम्ना कनकेन सहितमावर्त्य ध्मातं कुर्यात् ॥ १८.५७-५८ः४ ॥
____________________________________________________
ङृह्त्१८.५९-६३
<गोल्द्ःः प्रोदुच्तिओन् (?)>
वक्ष्यामि चालेपविधिं क्रमति च सूतो यथा हि पत्रेषु ।
रञ्जति येन विधिना समासतः सूतराजस्तु ॥ ङृह्त्_१८.५९ ॥
कृत्वालक्तकवस्त्रं लिप्तमनुस्नेहमुपरि चूर्णेन ।
अवचूर्णितं तु कृत्वा गन्धकशिलया विधानेन ॥ ङृह्त्_१८.६० ॥
तदुपरि शृतं च दत्त्वा गन्धकशिलाचूर्णं च सूतवरे ।
पश्चाद्वर्तिः कार्या पात्रे धृत्वायसे च समे ॥ ङृह्त्_१८.६१ ॥
दीपं प्रतिबोध्य ततस्तैलं दत्त्वा ततः स्तोकम् ।
पाकं यामस्यार्धं स्वाङ्गे शीतं ततः कार्यम् ॥ ङृह्त्_१८.६२ ॥
गृह्णीयादथ सूतकृष्टीं लिप्ता ततस्तेन ।
क्रामणयोगैर्लिप्त्वा पुटिता सा हेम्नि निर्ध्माता ॥ ङृह्त्_१८.६३ ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह यन्त्रमित्यादि ॥ १८.५९-६३ः१ ॥
वा यन्त्रं पञ्चमृदा वल्मीकमृत्गैरिकं खटिका सैन्धवमिष्टिका चेति पञ्चमृदः तया कृत्वा हण्ड्यां स्थाल्यां पक्वं कार्यम् ॥ १८.५९-६३ः२ ॥
अथ पुटपक्वं गजपुटादिना पाच्यमित्यर्थः ॥ १८.५९-६३ः३ ॥
लेपनविधिं वक्ष्यामि यथा पत्रेषु लेपः कार्यः पुनर्यथा पत्रेषु क्रमति स्वगुणान् प्रकाशयति पुनर्येन विधिना रञ्जनं रागं ददाति समासतः संक्षेपतः विधिना विधानतः सूतराज एवंविधो भवेत्तमुपायं वक्ष्यामीति ॥ १८.५९-६३ः४ ॥
अथ लेपक्रामणं रञ्जनविधानमाह कृत्वालक्तकवस्त्रमित्यादि ॥ १८.५९-६३ः५ ॥
प्रथममालक्तकं वस्त्रमलक्तेन रञ्जितं यद्वस्त्रं तदालक्तकमनु पश्चात्स्नेहं कङ्गुण्यादीनां तैलं लिप्तं कार्यं तत्तैललिप्तवस्त्रोपरि वक्ष्यमाणौषधानां चूर्णेन अवचूर्णनं कुर्यात्तैललिप्तवस्त्रं गन्धकशिलया अवचूर्णितं कृत्वा तदुपरि दातव्यं दर्शयति ॥ १८.५९-६३ः६ ॥
पुनस्तदुपरि गन्धकशिलाचूर्णोपरि शृतं दत्त्वा पुनर्गन्धकशिलाचूर्णं सूतवरे सूतराजोपरि दत्त्वा पश्चात्तत्करणानन्तरं वर्तिः कार्या सा वर्तिरायसे लोहमये समे समभूमौ पात्रे धृत्वा तत्रोपरि कार्या ॥ १८.५९-६३ः७ ॥
विध्यन्तरं दर्शयति दीपमित्यादि ॥ १८.५९-६३ः८ ॥
ततो वर्तेः पात्रोपरि करणानन्तरं दीपं प्रतिबोध्य प्रज्वाल्य ततो वारंवारं स्तोकमल्पं तैलं दत्त्वा यावद्यामस्य प्रहरस्य अर्धं स्यात्तावत्पाकं कुर्यातिति शेषः ॥ १८.५९-६३ः९ ॥
ततोऽनन्तरं तत्पतितं तैलं स्वाङ्गशीतं कार्यमङ्गे तैलद्रवरूपे शरीरे यथास्वं स्वयमेव शीतं यथा स्यात्तथा कार्यम् ॥ १८.५९-६३ः१० ॥
तच्चाह गृह्णीयादित्यादि ॥ १८.५९-६३ः११ ॥
अथ शीतकरणानन्तरम् ॥ १८.५९-६३ः१२ ॥
सूतकृष्टीं च गृह्णीयात्कर्मवितिति शेषः ॥ १८.५९-६३ः१३ ॥
ततोऽनन्तरं सा सूतकृष्टी तेन पत्रेण लिप्ता सती क्रामणयोगैर्लिप्त्वा हेम्नि सुवर्णे निर्ध्माता कार्येति ॥ १८.५९-६३ः१४ ॥
____________________________________________________
ङृह्त्१८.६४-६७
<गोल्द्ःः प्रोदुच्तिओन्>
अथवा दरदशिलालैर्गन्धकमाक्षीकपक्वमृतनागैः ।
कंकुष्ठप्रवालसहितैः पिष्टैश्च कङ्गुणीतैले ॥ ङृह्त्_१८.६४ ॥
मध्ये सूतो युक्तो मृदितः खल्वे तथायसे विधिना ।
संस्वेद्य वंशनलिकां दोलायन्त्रेण स्वेदितं त्रिदिनम् ॥ ङृह्त्_१८.६५ ॥
एतैर्लिप्त्वा कृष्णैः पत्रं पूर्वोक्तविधानेन ।
नागं दत्त्वा प्रकटं स्तोकं स्तोकं क्रमेणैव ॥ ङृह्त्_१८.६६ ॥
भवति हि कनकं दिव्यमक्षीणं देवयोग्यं च ।
एवं जारितसूते सकलाः खलु हण्डिकाः सर्वाः ॥ ङृह्त्_१८.६७ ॥
*टीका.. मुग्धावबोधिनींः
विध्यन्तरमाह अथवेत्यादि ॥ १८.६४-६७ः१ ॥
दरदो हिङ्गुलः शिला मनोह्वा आलं हरितालं तैः गन्धकः प्रतीतः माक्षिकं यत्पक्वं सिन्दूरीकृतं मृतनागश्च तैः ॥ १८.६४-६७ः२ ॥
पुनः कङ्कुष्ठप्रवालसहितैः कङ्कुष्ठं विरङ्गं प्रवालं विद्रुमं ताभ्यां सहितैः ॥ १८.६४-६७ः३ ॥
पुनरेतैः कङ्गुणीतैले ज्योतिष्मतीतैले पिष्टैश्चूर्णीकृतैः मध्ये सूतो युक्तः कार्य इत्यग्रिमश्लोकसंबन्धात् ॥ १८.६४-६७ः४ ॥
तच्चाह मध्ये इत्यादि ॥ १८.६४-६७ः५ ॥
पूर्वोक्तैरौषधैः कृत्वा मध्ये औषधान्तः सूतो युक्तः कार्यः ॥ १८.६४-६७ः६ ॥
पुनर्मर्दयित्वा वंशनलिकां रिक्तोदरां प्रति संवेद्य दिनत्रयं दोलायन्त्रेण स्वेदितं कुर्यादित्यर्थः ॥ १८.६४-६७ः७ ॥
तच्चाह लिप्त्वेत्यादि ॥ १८.६४-६७ः८ ॥
एतानि स्वेदितौषधानि संयुक्तानि तैः कृष्णैः कृष्णलवणैः पूर्वोक्तविधानेन सूतकृष्टीविधानेन पत्रं लिप्त्वा पुनः प्रकटं यथा स्यात्तथा स्तोकमल्पमल्पं क्रमेण नागं दत्त्वा कनकं जायते इत्यग्रिमश्लोकसंबन्धः ॥ १८.६४-६७ः९ ॥
एवं कृते सति अक्षीणमक्षयं दिव्यं प्रवरं देवयोग्यं देवा इन्द्रादयस्तद्योग्यं कनकं भवति ॥ १८.६४-६७ः१० ॥
युक्तोऽयमर्थः ॥ १८.६४-६७ः११ ॥
एवं जारितसूते जारितकर्मकृते रसे खलु निश्चितं सर्वा हण्डिकाः सर्वे धात्वाद्याः सकलाः सप्रसवाः स्युरित्यर्थः ॥ १८.६४-६७ः१२ ॥
____________________________________________________
ङृह्त्१८.६८
<रेलतिओन् बेत्wएएन् बीज अन्द्गोल्द्(?)>
निर्बीजं समजीर्णे पादैकेनैव षोडशांशेन ।
अर्धेन पादयोगं पादेनैकेन तुल्यकनकं च ॥ ङृह्त्_१८.६८ ॥
*टीका.. मुग्धावबोधिनींः
विशेषमाह निर्बीजमित्यादि ॥ १८.६८ः१ ॥
निर्बीजं यथा स्यात्तथा समजीर्णं पादेन तुर्यांशेन फलं ददाति तथा अर्धेन जीर्णेन षोडशांशेन फलं ददाति च पुनस्तदर्धेन जीर्णेन तत्पादयोगं तत्पादेन एकेन तत्पादयोगं फलं ददातीति सर्वत्र वाच्यम् ॥ १८.६८ः२ ॥
तुल्यकनकं च जीर्णं पूर्णं फलं ददातीति ॥ १८.६८ः३ ॥
____________________________________________________
ङृह्त्१८.६९
<ताराकृष्टि>
ताराकृष्टिं वक्ष्ये मृतवङ्गं तालकेन तुल्यांशम् ।
लम्बितमथ निर्ध्मातं ताम्रं तारछविं वहति ॥ ङृह्त्_१८.६९ ॥
*टीका.. मुग्धावबोधिनींः
हेमाकृष्ट्यनन्तरं ताराकृष्टिं वक्ष्ये अहं कविः कथयामि मृतवङ्गं मारितं वङ्गं तालकेन हरितालेनेति ॥ १८.६९ः१ ॥
अथ ताम्रं तुल्यांशं लम्बितं विस्तीर्णं यथा स्यात्तथा निर्ध्मातं सत्तारछविं वहति रूप्यद्युतिं प्राप्नोतीत्यर्थः ॥ १८.६९ः२ ॥
____________________________________________________
ङृह्त्१८.७०
पश्चान्नागं देयं प्रकाशमूषासु निर्मलं यावत् ।
तावद्ध्मातं विधिना सुनिर्मलं निस्तरङ्गं तु ॥ ङृह्त्_१८.७० ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह पश्चादित्यादि ॥ १८.७०ः१ ॥
पश्चाद्वङ्गताम्रयोगानन्तरं प्रकाशमूषासु यावत्निर्मलं मलवर्जितं स्यात्तावन्नागं देयं पुनर्यावन्निर्मलमुज्ज्वलं निस्तरङ्गं नागोर्मिवर्जितं स्यात्तावद्विधिना ध्मातं कुर्यादित्यर्थः ॥ १८.७०ः२ ॥
____________________________________________________
ङृह्त्१८.७१-७२
<??>
तालशिलासर्जिकाभिः सैन्धवलवणेन नयनहितसहितैः ।
एकैकं सहितं वा वेधं दत्त्वा पुनः शुल्बे ॥ ङृह्त्_१८.७१ ॥
छगणं माहिषतक्रं स्नुहीक्षीरेण सर्पिषा क्रमशः ।
सगुडदुग्धमधुविमिश्रैः क्रमशो वेधे निषेकश्च ॥ ङृह्त्_१८.७२ ॥
*टीका.. मुग्धावबोधिनींः
विशेषमाह तालेत्यादि ॥ १८.७१-७२ः१ ॥
तालं हरितालं शिला मनोह्वा सर्जिका प्रतीता ताभिः सैन्धवं च तत्लवणं च तेन नयनहितसहितैः एतैः कृत्वा एकैकं पृथक्त्वेन वा सहितमेकत्वेन पुनः शुल्वे ताम्रे वेधं प्रतिदध्यादिति ॥ १८.७१-७२ः२ ॥
तारवेधनिषेकान्याह छगणमित्यादि ॥ १८.७१-७२ः३ ॥
छगणं वनोत्पन्नं माहिषं तक्रं महिष्याः इदं माहिषं स्नुहिक्षीरेण सेहुण्डदुग्धेन सह पुनः सर्पिषा घृतेन सह गुडदुग्धमधुभिर्मिश्रैः मिलितं कृत्वा क्रमशो वेधकर्मणि निषेकः कार्यः ॥ १८.७१-७२ः४ ॥
____________________________________________________
ङृह्त्१८.७३
<तारकृष्टी; चोप्पेर्=> सिल्वेर्>
काञ्ची ब्राह्मी कुटिलं तालकं समभागयोजितं ध्मातम् ।
शुल्बं विद्धमनेन तु ताराकृष्टिर्भवेद्दिव्या ॥ ङृह्त्_१८.७३ ॥
*टीका.. मुग्धावबोधिनींः
ताराकृष्टिमाह काञ्चीत्यादि ॥ १८.७३ः१ ॥
काञ्ची स्वर्णमाक्षिकं ब्राह्मी सोमाह्वा कुटिलं सीसं तालकं प्रतीतमेतत्समयोजितं समांशमेलितं सत्ध्मातं कुर्यात्पुनरनेन काञ्च्यादिगणेन विद्धं शुल्बं दिव्या मनोरमा ताराकृष्टिर्भवेत् ॥ १८.७३ः२ ॥
____________________________________________________
ङृह्त्१८.७४-७५
<सिल्वेर्ःः ओप्तिमिशतिओन्>
एवं ताराकृष्टिर्लिप्त्वा विद्धा रसेन सारितेन ।
तारं करोति विमलं लेपं वा पादजीर्णादि ॥ ङृह्त्_१८.७४ ॥
इति मिश्रीकृतविद्धं क्रमितं त्वथ मातृकातुल्यम् ।
तारदलं भवति छेदनताडननिकषैश्च निर्दोषम् ॥ ङृह्त्_१८.७५ ॥
*टीका.. मुग्धावबोधिनींः
ताराकृष्टिमाह एवमित्यादि ॥ १८.७४-७५ः१ ॥
एवमुक्तविधानेन सारितेन सारणाकर्मकृतेन लिप्त्वा विद्धा सती ताराकृष्टिर्भवेत् ॥ १८.७४-७५ः२ ॥
पुनरियं ताराकृष्टिः तारं विमलं मलवर्जितं करोति वा पादजीर्णादि पादेन जीर्णं यस्मिनादिशब्दादर्धसमग्रहणं कार्यं तत्लेपमिति ॥ १८.७४-७५ः३ ॥
विशेषमाह इतीत्यादि ॥ १८.७४-७५ः४ ॥
इति पूर्वोक्तविधानेन मिश्रीकृतं मिलितं विद्धं क्रमितं मातृकातुल्यं समांशं सत्तारदलं रूप्यपत्रं भवति तद्रूप्यदलं छेदनताडननिकषैः छेदनं खण्डनं ताडनं घनघातः निकषं शिलोपरि परीक्षणं तैरिति तापैश्च निर्दोषं तद्भवति ॥ १८.७४-७५ः५ ॥
____________________________________________________
ङृह्त्१८.७६
एवं वेधविधानं शास्त्रविधिज्ञेन कर्मकुशलेन ।
ज्ञात्वा गुरूपदेशं कर्तव्यं कर्मनिपुणेन ॥ ङृह्त्_१८.७६ ॥
*टीका.. मुग्धावबोधिनींः
एवममुना प्रकारेण शास्त्रविधिज्ञेन शास्त्रस्य विधिं जानातीति सः तेन कर्मनिपुणेन संस्कारप्रवीणेन कुशलेन कर्त्रा गुरूपदेशं गुरुरुक्तलक्षणो ग्रन्थादौ तस्य उपदेशं ज्ञात्वा वेधविधानं कर्तव्यमित्यर्थः ॥ १८.७६ः१ ॥
____________________________________________________
ङृह्त्१९.१
इति रसराजस्य विधौ वेधविधानं प्रसंगतः प्रोक्तम् ।
अधुना प्रोक्तानपि वक्ष्यामि रसायने योगान् ॥ ङृह्त्_१९.१ ॥
*टीका.. मुग्धावबोधिनींः
अथ भक्षणविधानमाह इतीत्यादि ॥ १९.१ः१ ॥
रसराजस्य विधौ रसेन्द्रकर्मविधाने वेधविधानं प्रसङ्गतः प्रस्तावतः प्रोक्तं न तु स्वप्रज्ञासमम् ॥ १९.१ः२ ॥
अधुना प्रोक्तानपि अपि शब्दादनुभूतानपि रसायने जराव्याधिनाशनविधौ योगान् द्रव्यसमुदायात्कान् वक्ष्यामि कथयामीत्यर्थः ॥ १९.१ः३ ॥
____________________________________________________
ङृह्त्१९.२-४
<क्षेत्रीकरण (शरीरशोधन)>
आदौ प्रातः प्रातः सैन्धवयुक्तं घृतं पिबेत्त्रिदिनम् ।
तदनु क्वाथं त्रिदिनं युञ्जीयात्केतकीतनुजम् ॥ ङृह्त्_१९.२ ॥
विधिना स्वेद्यो देहः कर्तव्यो वार्तिकेन्द्रेण ।
क्वथितं कटुरोहिण्याः संशोधनमनुप्रयुञ्जीत ॥ ङृह्त्_१९.३ ॥
तदनु च शुद्धादूर्ध्वं श्लेष्मान्ते रेचिते सकलम् ।
यावकपथ्यं त्रिदिनं घृतसहितं तत्प्रयुञ्जीत ॥ ङृह्त्_१९.४ ॥
*टीका.. मुग्धावबोधिनींः
कायशोधनमाह आदावित्यादि ॥ १९.२-४ः१ ॥
प्रथमं प्रातः प्रातः प्रत्यूषे त्रिदिनं सैन्धवमिलितं घृतमाज्यं पिबेत् ॥ १९.२-४ः२ ॥
अन्यसंयोगमाह तदनु घृतसैन्धवानन्तरं केतकीतनुजं क्वाथं केतक्याः तनुः शरीरं तस्माज्जातं केतकीमूलसंभवमित्यर्थः अङ्गेऽप्यनुक्ते विहितं तु मूलमिति न्यायात्त्रिदिनं प्रयुञ्जीयादित्यर्थः ॥ १९.२-४ः३ ॥
विध्यन्तरमाह विधिनेत्यादि ॥ १९.२-४ः४ ॥
ततो विधिना स्वेदविधानेन देहः शरीरं वार्तिकेन्द्रेण रससंप्रदायविदा स्वेद्यः स्विन्नः कर्तव्यः ॥ १९.२-४ः५ ॥
अन्यत्किं कटुरोहिण्याः तिक्तायाः क्वथितं प्रसाधितं सम्यक्शुद्धिकरणमनुप्रयुञ्जीत स्वेदानन्तरमित्यभिप्रायः ॥ १९.२-४ः६ ॥
विध्यन्तरमाह तदित्यादि ॥ १९.२-४ः७ ॥
तदनु कटुकरोहिणीसेवनानन्तरं शुद्धादूर्ध्वं यथा स्यात्तथा श्लेष्मान्तरेचिते सति यथा श्लेष्मणोऽन्तः स्यात्तथा रेचिते सति त्रिदिनपरिमाणं यावकपथ्यं घृतसहितं प्रयुञ्जीतेति ॥ १९.२-४ः८ ॥
____________________________________________________
ङृह्त्१९.५-७
पुनरपि च पानयोगं वक्ष्यामि च सकलभुवनहितकृतये ।
पीत्वा प्रथमे यामे चोष्णोदकसममिदं चूर्णम् ॥ ङृह्त्_१९.५ ॥
पथ्यासैन्धवधात्रीमरिचवचागुडविडङ्गरजनीनाम् ।
शुण्ठीपिप्पल्योरपि चूर्णं त्रिदिनं प्रयुञ्जीत ॥ ङृह्त्_१९.६ ॥
अमुना शुद्धशरीरः परिहतसंसर्गदोषबली ।
पीत्वा पयसा सहितं यावकममुना भवेच्छुद्धः ॥ ङृह्त्_१९.७ ॥
*टीका.. मुग्धावबोधिनींः
विध्यन्तरमाह पुनरपीत्यादि ॥ १९.५-७ः१ ॥
पुनरपीति यावकपथ्ययोगानन्तरं च पुनः पानयोगं वक्ष्यामि किमर्थं सकलभुवनहितकृतये समस्तसंसारहितकरणाय इदं वक्ष्यमाणं चूर्णं पथ्याद्यमुष्णोदकसमं तप्तजलेन सह प्रथमयामे प्रथमप्रहरान्तः पीत्वा शुद्धशरीरो भवेदित्यागामिश्लोकसंबन्धात् ॥ १९.५-७ः२ ॥
शोधनाय चूर्णमाह पथ्येत्यादि ॥ १९.५-७ः३ ॥
पथ्या हरीतकी सैन्धवं प्रतीतं धात्री आमलकं मरीचमूषणं वचा उग्रगन्धा गुडः प्रतीतः विडङ्गं कृमिघ्नं रजनी हरिद्रा शुण्ठीपिप्पल्योरपीति शुण्ठी नागरं पिप्पली मागधी आसामौषधीनां चूर्णं त्रिदिनं प्रयुञ्जीत ॥ १९.५-७ः४ ॥
उष्णजलसममिति ज्ञेयम् ॥ १९.५-७ः५ ॥
अमुनेत्यादि ।
अमुना वक्ष्यमाणविरेचनेन यावकादिना शुद्धशरीरः सन् परिहतसंसर्गदोषबली भवति संसर्गेण ये दोषाः शरीराभ्यन्तरास्ते संसर्गदोषाः ते परिहता जिता येन सः परिहतसंसर्गदोषः तेन बली बलयुक्तः दोषनिवृत्तौ गुणप्रवृत्तिरित्यवश्यम् ॥ १९.५-७ः६ ॥
किं कृत्वा परिहतदोषः अमुना पयसा उष्णोदकेन यावकमलक्तं पीत्वा शुद्धो भवेदित्यर्थः ॥ १९.५-७ः७ ॥
____________________________________________________
ङृह्त्१९.८
अकृतक्षेत्रीकरणे रसायनं यो नरः प्रयुञ्जीत ।
तस्य क्रामति न रसः स रसः सर्वाङ्गदोषकृद्भवति ॥ ङृह्त्_१९.८ ॥
*टीका.. मुग्धावबोधिनींः
संशोधनस्याकरणे दोषमाह अकृतेत्यादि ॥ १९.८ः१ ॥
यो नरः पुमानकृतक्षेत्रीकरणे देहे इति शेषः न कृतमकृतं क्षेत्रीकरणं यस्मिन् तस्मिन्सति रसायनं जराव्याधिविनाशनौषधं प्रयुञ्जीत तस्य पुंसो रसो न क्रामति स्वगुणान्न प्रकाशयति तर्हि किं सर्वाङ्गदोषकृद्भवति बाहुचरणादिषु षट्स्वङ्गेषु विकारकृत्स्यात् ॥ १९.८ः२ ॥
____________________________________________________
ङृह्त्१९.९
इति शुद्धो जातबलः शाल्योदनयावकाख्यमुद्गरसः ।
क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं विधिवत् ॥ ङृह्त्_१९.९ ॥
*टीका.. मुग्धावबोधिनींः
रसायनाधिकारत्वमाह इतीत्यादि ॥ १९.९ः१ ॥
पूर्वोक्तविधानेन शुद्धः सन् यो जातबलो भवति स क्षेत्रीकृतनिजदेहः अक्षेत्रं क्षेत्रं क्रियत इति क्षेत्रीकृतो निजदेहः शरीरं येन सः मतिमान् रसायनं विधिवत्प्रकुर्वीत ॥ १९.९ः२ ॥
कैः जातबलः शाल्योदनं च यावकाख्यं च मुद्गाश्च तैः ॥ १९.९ः३ ॥
____________________________________________________
ङृह्त्१९.१०-११
सुरतरुतैलघृतमधुधात्रीरसपयांसि निर्मथ्य ।
पीत्वा विशुद्धकोष्ठो भवति पुमानन्तरितशुद्धः ॥ ङृह्त्_१९.१० ॥
मासेन कान्तिमेधे द्वाभ्यां प्रशमयति दोषनिकरं च ।
मासत्रितयेन पुनः स्वादमरवपुर्महातेजाः ॥ ङृह्त्_१९.११ ॥
*टीका.. मुग्धावबोधिनींः
विध्यन्तरमाह सुरतर्वित्यादि ॥ १९.१०-११ः१ ॥
अन्तरितशुद्धः अन्तरितं शुद्धं यस्य सः ग्रहणीरोगादिवर्जित इत्यर्थः एतानि औषधानि निर्मथ्य पीत्वा विशुद्धकोष्ठो भवति विशुद्धं मलवर्जितं कोष्ठमुदरं कस्येत्येवंविधो भवति ॥ १९.१०-११ः२ ॥
तानि कानि सुरतरुतैलेत्यादीनि सुरतरुर्देववृक्षः तत्तैलपेषणं तैलमित्यर्थः घृतमाज्यं मधु क्षौद्रं धात्रीरसः आमलकीसलिलं पयो दुग्धमेतानि सर्वाणि निर्मथ्य एकीकृत्येत्यर्थः ॥ १९.१०-११ः३ ॥
एतदौषधभक्षणगुणं मासक्रमेणाह मासेनेत्यादि ॥ १९.१०-११ः४ ॥
अस्य औषधस्य मासेन मासप्रमाणेन भक्षणात्कान्तिर्भवति मेधा चेति द्वाभ्यां द्विमासाभ्यां दोषनिकरं गदसमुदायं प्रशमयति शान्तिं नयति पुनर्मासत्रितयेन त्रिमासप्रमाणेन स्वात्स्वसामान्यशरीरातमरवपुर्देवशरीरो महातेजाः दीप्तिमान् स्यादित्यर्थः ॥ १९.१०-११ः५ ॥
____________________________________________________
ङृह्त्१९.१२
सुरदारुतैलमाज्यं त्रिफलारससंयुतं च समभागम् ।
पीतं तत्सप्ताहान्नयनविकारं शमं नयति ॥ ङृह्त्_१९.१२ ॥
*टीका.. मुग्धावबोधिनींः
योगान्तरमाह सुरदार्वित्यादि ॥ १९.१२ः१ ॥
सुरदारुतैलं देवदारुतैलमाज्यं घृतं त्रिफलारससंयुतं त्रिफलाया रसेन द्रवेण संयुतं सहितं च पुनः समभागं तुल्यांशं तत्पीतं सत्सप्ताहात्सप्तदिनप्रमाणतः नयनविकारं नेत्रसंभवं रोगं शमं नयति शान्तिं प्रापयति ॥ १९.१२ः२ ॥
____________________________________________________
ङृह्त्१९.१३
सुरतरुतैलं सघृतं पीत्वा शाल्योदनं च सक्षीरम् ।
जीर्णाहारे भुक्त्वा हरति हि सकुष्ठान् पीनसादींश्च ॥ ङृह्त्_१९.१३ ॥
*टीका.. मुग्धावबोधिनींः
योगान्तरमाह सुरतरुतैलमित्यादि ॥ १९.१३ः१ ॥
देवदारुतैलं सघृतं साज्यमेतदुभयं पीत्वा सक्षीरं शाल्योदनं भुक्त्वा षष्टिकौदनमित्यभिप्रायः पुनर्जीर्णाहारे प्रतिदिनं दिनान्तवीरद्वये वेदितव्यम् ॥ १९.१३ः२ ॥
च पुनः सकुष्ठान् कुष्ठैः सह वर्तन्ते एवंविधान् पीनसादीन् रोगान् हरति दूरीकरोति ॥ १९.१३ः३ ॥
____________________________________________________
ङृह्त्१९.१४
घृतसहितः पित्तकृतान्तैलयुक्तो वातसंभवान् रोगान् ।
गुडसहितो मधुना वा कफजान् हन्त्यमरदारुरसः ॥ ङृह्त्_१९.१४ ॥
*टीका.. मुग्धावबोधिनींः
योगान्तरमाह घृतसहित इत्यादि ॥ १९.१४ः१ ॥
अमरदारुरसो देवदारुजलं घृतसहितमाज्यमिश्रितः पित्तकृतान् रोगान् हरति नाशयति ॥ १९.१४ः२ ॥
पुनस्तैलयुतस्तैलेन मिश्रितो देवदारुरसः वातसंभवान् रोगान् हन्ति ॥ १९.१४ः३ ॥
पुनर्गुडसहितः वा मधुना क्षौद्रेण सहितो देवदारुरसः वातसंभवान् रोगान् हन्ति ॥ १९.१४ः४ ॥
पुनर्गुडसहितः वा मधुना क्षौद्रेण सहितो देवदारुरसः कफजान् रोगान् हन्तीति वाक्यार्थः ॥ १९.१४ः५ ॥
____________________________________________________
ङृह्त्१९.१५
वर्जितकांजिकशाकं पयसा शाल्योदनं च युञ्जीत ।
द्विचतुःषट्पलमानं मात्राधममध्यमज्येष्ठाः ॥ ङृह्त्_१९.१५ ॥
*टीका.. मुग्धावबोधिनींः
रसायने भोज्याभोज्यमाह वर्जितेत्यादि ॥ १९.१५ः१ ॥
वर्जितकाञ्जिकशाकं वर्जितं काञ्जिकं सौवीरं शाकं वास्तुकादि च यस्मिन् तत्तथा पयसा क्षीरेण सह शाल्योदनं भुञ्जीत ॥ १९.१५ः२ ॥
पुनः शाल्योदनं कियन्मानं द्विचतुःषट्पलमानम् ॥ १९.१५ः३ ॥
अत्र मात्राधममध्यमज्येष्ठा द्विचतुःषट्पलप्रमाणा अधममध्यमोत्तमबलेषु प्रयोज्येत्यर्थः ॥ १९.१५ः४ ॥
____________________________________________________
ङृह्त्१९.१६-१९
तदनु पातनशुद्धं सूतकमारोटमश्नीयात् ।
स्वेदनमूर्च्छोत्थापनपातनरोधाश्च नियमश्च ॥ ङृह्त्_१९.१६ ॥
अभ्रकसहितः पात्यो विधिना यावत्स्थिरो भवति ।
अथवा माक्षिकसहितः पात्यः सूतो विधानेन ॥ ङृह्त्_१९.१७ ॥
इत्यारोटः सूतः क्षेत्रीकरणे नियुज्यते प्रथमम् ।
अथ रसयोगमाह तदित्यादि ॥ १९.१६-१८ १ ॥
तदनु पथ्यमात्रोपयोगानन्तरं पातनशुद्धं पातनेन शुद्धं सूतकमारोटमेव सामान्यमेवाश्नीयात्भक्षयेत् ॥ १९.१६-१८ २ ॥
च पुनः स्वेदनमूर्छोत्थापनरोधाश्च स्वेदनं च मूर्छा च उत्थापनं च पातनानि च निरोधश्चेति द्वन्द्वः एते यद्यपि सन्ति नियमश्च यद्यप्यस्ति तथाप्यारोटः पातनेन स्यादित्यर्थः ॥ १९.१६-१८ ३ ॥
प्रसङ्गतः पातनमाह अभ्रकेत्यादि ॥ १९.१६-१८ ४ ॥
सूतः अभ्रकसहितः गगनमिलितः सन् पात्यः ॥ १९.१६-१८ ५ ॥
केन विधानेन डमरुकयन्त्रादिना ॥ १९.१६-१८ ६ ॥
पुनस्तावद्यावत्स्थिरो भवति ॥ १९.१६-१८ ७ ॥
अथवा विध्यन्तरे सूतो माक्षिकसहितः पात्यो विधानेन अयमपि यावत्स्थिरो भवति ॥ १९.१६-१८ ८ ॥
रसायने सूतस्य आरोटादिविधानमाह इतीत्यादि ॥ १९.१६-१८ ९ ॥
आरोट इति पूर्वोक्तेन पातनकर्मणा ऊर्ध्वाधस्तिर्यग्भवेन साधित आरोटः सः प्रथमं यथा स्यात्तथा रसायने जराव्याधिनाशने नियुज्यते इति ॥ १९.१६-१८ १० ॥
अथवा कल्कयोगेन रसादिसम्भूतेन रसो भस्म कृत्वा ॥ १९.१७ः१ ॥
____________________________________________________
ङृह्त्१९.१८-१९
अथवा भस्म च कृत्वा बद्धो वा कल्कयोगेन ॥ ङृह्त्_१९.१८ ॥
माक्षिकशिलाजतुलोहचूर्णपथ्याक्षविडङ्गघृतमधुभिः ।
संयुक्तं रसमादौ क्षेत्रीकरणाय युञ्जीत ॥ ङृह्त्_१९.१९ ॥
*टीका.. मुग्धावबोधिनींः
द्विविधं भस्म ऊर्ध्वगं तलभस्म च वर्णभेदेन षड्विधं श्वेतं भस्म पीतं भस्म हरितं भस्म रक्तं भस्म कृष्णं भस्म कर्बुरं भस्म इति षड्विधं तत्कृत्वा क्षेत्रीकरणे नियुज्यते प्रथमम् ॥ १९.१८ द्-१९ः१ ॥
रसयोगमाह माक्षिकेत्यादि ॥ १९.१८ द्-१९ः२ ॥
माक्षिकं ताप्यं शिलाजतु प्रसिद्धं लोहचूर्णं मारितमुण्डस्य रजः पथ्या हरीतकी अक्षो विभीतकः विडङ्गं कृमिघ्नं घृतमाज्यं मधु क्षौद्रमेतैः सम्प्रयुक्तं रसं क्षेत्रीकरणाय प्रयुञ्जीतेति वाक्यार्थः ॥ १९.१८ द्-१९ः३ ॥
____________________________________________________
ङृह्त्१९.२०
इति कल्कीकृतसूतं घनकान्तमधुघृतादिसंयुक्तम् ।
भुक्त्वामरतां गच्छेत्क्षेत्रीकरणं प्रधानमिदम् ॥ ङृह्त्_१९.२० ॥
*टीका.. मुग्धावबोधिनींः
इत्युक्तविधानेन कल्कीकृतं सूतं भुक्त्वा अमरतां देवत्वं गच्छेत् ॥ १९.२०ः१ ॥
इति किं घनकान्तमधुघृतादिसंयुक्तं घनोऽभ्रकः कान्तं लोहजाति मधु क्षौद्रं घृतमाज्यमादिशब्दात्सिता ग्राह्या एतैः संयुक्तं सत्कल्कीकृतमिदं च प्रधानं क्षेत्रीकरणं क्षेत्री क्रियतेऽनेनेति ॥ १९.२०ः२ ॥
इत्यारोटक्रिया ॥ १९.२०ः३ ॥
____________________________________________________
ङृह्त्१९.२१
अथ कृष्णं वा पीतं वा संयोज्यं घनं शिखिप्रभं बहुशः ।
सुरभीक्षीरनिषिक्तं गतगिरिदोषं रसायने योज्यम् ॥ ङृह्त्_१९.२१ ॥
*टीका.. मुग्धावबोधिनींः
अथ पत्राभ्रक्रिया ॥ १९.२१ः१ ॥
कृष्णं श्यामवर्णं घनमभ्रं पीतं पीतवर्णं घनं वा बहुशो नैकवारं शिखिप्रभमग्निप्रभं सत्सुरभीक्षीरनिषिक्तं सेचितं कार्यं पुनर्गतगिरिदोषं यथा स्यात्तथा गता गिरिजा दोषा महीधरसंभवा दोषा यस्मात्तदेवं संशोधयित्वा तत्घनं रसायने जराव्याधिविनाशकरणे योज्यम् ॥ १९.२१ः२ ॥
____________________________________________________
ङृह्त्१९.२२
निश्चन्द्रिकमपि शुद्धं विडंगत्रिफलाज्यमधुसमायुक्तम् ।
प्रतिदिवसं पलमेकं भुक्त्वा क्षीराशनो विधिना ॥ ङृह्त्_१९.२२ ॥
*टीका.. मुग्धावबोधिनींः
अभ्रकयोगमाह निश्चन्द्रिकमित्यादि ॥ १९.२२ः१ ॥
घनं निश्चन्द्रिकमपि शुद्धं चन्द्रिकारहितमपि निर्दोषं विडङ्गत्रिफलाज्यमधुरसमायुक्तं कृमिघ्नहरीतकीविभीतकामलकघृतक्षौद्रमिलितं प्रतिदिवसं प्रतिदिनमेकपलप्रमाणं सर्वं भुक्त्वा विधिना शुद्धशरीरविधानेन क्षीराशनो भवेत्क्षीरेण सह शाल्योदनाशनं समाचरेदित्यर्थः ॥ १९.२२ः२ ॥
____________________________________________________
ङृह्त्१९.२३
त्रिकटुकविडङ्गत्रिफलामाक्षिकशिलाजतुयुतं व्योम ।
क्षीरौदनमश्नीयाज्जीवति जन्तुः शतं वर्षम् ॥ ङृह्त्_१९.२३ ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह त्रिकटुकेत्यादि ॥ १९.२३ः१ ॥
व्योम अभ्रकं त्रिकटुकविडङ्गत्रिफलामाक्षिकशिलाजतुयुतं पिप्पलीमरिचनागरहरीतकीविभीतकामलकक्षौद्रशिलाजतुमिलितमश्नीयाद्भक्षयेत् ॥ १९.२३ः२ ॥
पुनः क्षीरौदनं पथ्यमश्नीयात् ॥ १९.२३ः३ ॥
एव कृते सति जन्तुः शतं जीवति जन्तुजन्युशरीरिणः इत्यमरः ॥ १९.२३ः४ ॥
इति पत्राभ्रकप्रक्रिया ॥ १९.२३ः५ ॥
____________________________________________________
ङृह्त्१९.२४
इत्येवमादयोऽन्ये काञ्जिकयुक्ताश्च कीर्तिता बहुशः ।
पत्राभ्रकप्रयोगा वर्ज्या निर्युक्तिकास्ते हि ॥ ङृह्त्_१९.२४ ॥
*टीका.. मुग्धावबोधिनींः
अभ्रकस्योत्तरोत्तरं दर्शयन्नाह इतीत्यादि ॥ १९.२४ः१ ॥
इत्येवमादयः इति पूर्वोक्ता योगा आदयो येषां ते अन्ये काञ्जिकयुक्ताश्च काञ्जिकेनारनालेन युक्ताः योगीकृताः ग्रन्थान्तरे रसावतारादौ बहुशः कीर्तिताः कथिताः ते पत्राभ्रकयोगाः निर्युक्तिकाः निर्युक्ते भवा इक्प्रत्ययान्तास्ते वर्ज्याः सेवनेऽयोग्या इत्यर्थः ॥ १९.२४ः२ ॥
____________________________________________________
ङृह्त्१९.२५
ये पत्राभ्रकयोगा रसायनार्थं कीर्तिता विधिना ।
अज्ञातद्रव्यगुणैस्तैरुपदिष्टो जरामृत्युः ॥ ङृह्त्_१९.२५ ॥
*टीका.. मुग्धावबोधिनींः
अविधिना पत्राभ्रकयोगो विकारायेत्यत आह य इत्यादि ॥ १९.२५ः१ ॥
ये अज्ञातद्रव्यगुणैः अज्ञाता द्रव्याणामभ्रादिनां गुणा यैस्तैरेवंविधैः पुंभिः विधिना सामान्यविधानेन पत्राभ्रकयोगाः रसायनार्थं कीर्तितास्तैरेव जरा मृत्युश्च उपदिष्टः जरा पालित्यं मृत्युर्व्याधिः ॥ १९.२५ः२ ॥
____________________________________________________
ङृह्त्१९.२६
अप्राप्तलोकभावं घनोऽस्य जठराग्निमुपशमं नयति ।
अग्निं विनापि नश्यति परिभूतो विविधरोगगणैः ॥ ङृह्त्_१९.२६ ॥
*टीका.. मुग्धावबोधिनींः
जरामृत्योरुपदेशे हेतुमाह अप्राप्तेत्यादि अप्राप्तलोकभवं यथा स्यात्तथा अस्य कर्तुः घनः ॥ १९.२६ः१ ॥
जठराग्निं विनापि पुमान्नश्यति नाशं प्राप्नोति ॥ १९.२६ः२ ॥
किंभूतः सन् विविधरोगगणैः नानारोगसमूहैः परिभूतो विजितः सनिति वाक्यार्थः ॥ १९.२६ः३ ॥
काष्ठे स्थितमपि घनपटलमध्येऽपि अभ्रेऽभ्रसत्त्वं स्थितं तदाह अभ्रसत्वं घनसारं घनपटले स्थितमपि निजकार्यं स्वकीयकृत्यं तथा न कुरुते वह्निरग्निः ॥ १९.२६ः४ ॥
काष्ठे दारुणि स्थितः सन्निजकार्यं न कुरुते तु पुनः यथा घृतं पयसि दुग्धे स्थितं सत्स्वीकार्यं न कुरुते चाग्रहिरिव धनस्थमिव मध्ये स्थितं कार्यं कुरुतेऽतिनिःसृतं सत्पृथग्भूतं सत्निजकार्यं कुरुत इति भावः ॥ १९.२६ः५ ॥
____________________________________________________
ङृह्त्१९.२७
<अभ्रःः इनेदिब्ले>
अभ्रस्य रसायनिनां भक्ष्यमिह कीर्तितं परं सत्वम् ।
त्रिविधं गगनमभक्ष्यं काचः किट्टं च पत्त्ररजः ॥ ङृह्त्_१९.२७ ॥
*टीका.. मुग्धावबोधिनींः
भक्ष्याभक्ष्यमभ्रमाह अभ्रस्येत्यादि ॥ १९.२७ः१ ॥
अभ्रकसत्वमिह क्षेत्रीकरणे रसायनिनां जराव्याधिविनाशेच्छूनां परमुत्कृष्टं भक्ष्यमशनयोग्यं कीर्तितम् ॥ १९.२७ः२ ॥
पुनस्त्रिविधं त्रिप्रकारं गगनमभ्रमभक्ष्यमभोज्यम् ॥ १९.२७ः३ ॥
किं तत्काचः काचरूपं किट्टं मलरूपं पत्त्ररजः सामान्याभ्रचूर्णं चेति त्रिविधमित्यर्थः ॥ १९.२७ः४ ॥
____________________________________________________
ङृह्त्१९.२८-३३
आदौ घनलोहरजस्त्रिफलारसभावनैश्च निर्घृष्टम् ।
कुर्वीताञ्जनसदृशं स्थगितवस्त्रेण सूर्यकरैः ॥ ङृह्त्_१९.२८ ॥
इत्थं श्लक्ष्णं कृत्वा विविधकान्तलोहचूर्णसमम् ।
लोहघनं च तदेवं भृङ्गेण च साधयेद्बहुशः ॥ ङृह्त्_१९.२९ ॥
त्रिफलाघृतमधुमिश्रितममृतमिदं मासस्थितं धान्ये ।
शस्त्रकटोरिकसम्पुटमध्यगतं पूजितं मन्त्रैः ॥ ङृह्त्_१९.३० ॥
मासेन तु तदुद्धृत्य ज्ञात्वा बलं तत्प्रयुञ्जीत ।
कान्तं विनाथ गगनं गगनं विना तथा च कान्तम् ॥ ङृह्त्_१९.३१ ॥
स्थौल्यं पटलं काचं तिमिरार्बुदकर्णनादशूलानि ।
हन्त्यर्शांसि भगन्दरमेहप्लीहादि पालित्यम् ॥ ङृह्त्_१९.३२ ॥
एतत्कुर्वन्मतिमान् गोरसमस्तुप्रधानमश्नीयात् ।
जाङ्गलमुद्गाज्यपयः शाल्योदनं ब्रह्मचर्येण ॥ ङृह्त्_१९.३३ ॥
*टीका.. मुग्धावबोधिनींः
अधुना घनसत्त्वलोहसाधनमाह आदावित्यादि ॥ १९.२८-३३ः१ ॥
आदौ प्रथमं घनलोहरजः घनमभ्रसत्वं लोहरजः कान्तचूर्णं त्रिफलारसभावनैः हरीतकीविभीतकामलकद्रवपुटनैर्निर्घृष्टं सतञ्जनसदृशं सौवीराञ्जनतुल्यं कुर्वीत कैः कृत्वा सूर्यकरैः केन स्थगितवस्त्रेण आच्छादितपटेन वस्त्रेणाच्छाद्य सूर्यकरसन्निधौ धार्यमित्यर्थः ॥ १९.२८-३३ः२ ॥
इत्थमित्यादि ॥ १९.२८-३३ः३ ॥
इत्थममुना प्रकारेण श्लक्ष्णमञ्जनसन्निभं यथा स्यात्तथा घनसत्वकान्तं कृत्वा पुनर्लोहघनं लोहं मुण्डादि घनमभ्रसत्वमेतदुभयं विविधकान्तलोहचूर्णसमं विविधा नानाजातयः अयस्कान्तभेदाः तेषां चूर्णं तत्समं कृत्वा भृङ्गेण च बहुशोऽनेकवारं साधयेद्भावयेदित्यर्थः ॥ १९.२८-३३ः४ ॥
तच्चाह त्रिफलेत्यादि ॥ १९.२८-३३ः५ ॥
तद्भृङ्गराजेन बहुशो भावितं घनसत्वकान्तमिदममृतं सुधासमं न मृतममृतं तत्त्रिफलामधुघृतमिश्रितं हरीतकीविभीतकामलकघृतक्षौद्रमिलितं धान्ये कस्यचिदन्नस्यान्तः मासस्थितं कुर्यात्मासैकपरिमाणं तत्र विधातव्यमिति व्यक्तिः ॥ १९.२८-३३ः६ ॥
किंविशिष्टं मन्त्रैश्च सम्पूजितम् ॥ १९.२८-३३ः७ ॥
तथा मन्त्रस्तु ।
मन्दारमालाकुलितालकायै कपालमालाङ्कितशेखराय ।
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ।
इत्यादिभिः ॥ १९.२८-३३ः८ ॥
तच्चाह मासेनेत्यादि ॥ १९.२८-३३ः९ ॥
धान्यान्मासेन मासैकपरिमाणेनोद्धृत्य बहिर्नीत्वा पुनरपि बलं ज्ञात्वा प्रयुञ्जीत भोक्त्रे दद्यातथ विशेषं दर्शयति कान्तं विना अभ्रकसत्वमेव कृत्वा प्रयुञ्जीत च पुनर्गगनं विना कान्तं केवलं पूर्वविधानेन साधयित्वा प्रयुञ्जीतेत्यर्थः ॥ १९.२८-३३ः१० ॥
फलमाह स्थौल्यमित्यादि ॥ १९.२८-३३ः११ ॥
स्थौल्यमिति मेदोरोगः पटलकाचतिमिराणि नेत्ररोगाः अर्बुदं ग्रन्थिविशेषः कर्णनादः प्रतीतः शूलमष्टविधमेतानि हन्ति अर्शांसि गुदजानि भगन्दरमेहप्लीहादि भगन्दरः गुदव्रणं मेहः प्रमेहः बीजविकारः प्लीहा प्लीहरोगः एते रोगा आदिर्यस्य तथन्ति पालित्यं जरां च नाशयतीत्यर्थः ॥ १९.२८-३३ः१२ ॥
पथ्यमाह एतदित्यादि ॥ १९.२८-३३ः१३ ॥
एतन्निष्पन्नौषधभक्षणं कुर्वन्मतिमान् पुरुषः गोरसमस्तुप्रधानं गोरसो गोदुग्धं मस्तु दधिमस्तु एवंप्रधानमन्नमश्नीयात्भुञ्जीत ॥ १९.२८-३३ः१४ ॥
पुनर्जाङ्गलमुद्गाज्यपयोऽश्नीयात्जाङ्गलस्येदं जाङ्गलं स्वल्पाम्बुशाखीदेशः जाङ्गलः मुद्गः प्रतीतोऽन्नविशेषः आज्यं घृतं पयो दुग्धं वा सलिलं यन्मुद्गाज्यपयः तच्चाश्नीयात् ॥ १९.२८-३३ः१५ ॥
च पुनः शाल्योदनमश्नीयात् ॥ १९.२८-३३ः१६ ॥
एतत्सर्वं ब्रह्मचर्येण कर्तव्यमित्यर्थः ॥ १९.२८-३३ः१७ ॥
इति सत्वाभ्रक्रिया ॥ १९.२८-३३ः१८ ॥
____________________________________________________
ङृह्त्१९.३४
घनसत्वपादजीर्णः कान्तजीर्णो यत्तीक्ष्णसमजीर्णः ।
क्षेत्रीकरणः परमः प्रयुज्यतेऽपि पुनरारोटः ॥ ङृह्त्_१९.३४ ॥
*टीका.. मुग्धावबोधिनींः
अथ जीर्णरसस्याधिक्यं दर्शयन्नाह घनेत्यादि ॥ १९.३४ः१ ॥
घनसत्वं पादप्रमाणं जीर्णं यस्मिन् सः ॥ १९.३४ः२ ॥
कान्तजीर्ण इति पादप्रमाणकान्तजीर्ण इत्यर्थः ॥ १९.३४ः३ ॥
पुनस्तीक्ष्णं समं जीर्णं यस्मिन्नेवंविधो रसः ॥ १९.३४ः४ ॥
क्षेत्रीकरणं प्रधानं सर्वत्रेत्यर्थः ।
बद्धो यः खोटतां यातो ध्मातो ध्मातः क्षयं व्रजेत् ।
खोटो बन्धः स विज्ञेयः शीघ्रं सर्वगदापहः ।
इति ग्रन्थान्तरे ॥ १९.३४ः५ ॥
____________________________________________________
ङृह्त्१९.३५
घनसत्वकान्तसूतं मृतहेम शतावरीरसोपेतम् ।
घृतमधुलीढं वर्षान्निहन्ति मृत्युं जरां चैव ॥ ङृह्त्_१९.३५ ॥
*टीका.. मुग्धावबोधिनींः
घनसत्वमभ्रसारः कान्तं चुम्बकोत्थं सूतो रसः एकवद्भावो द्वन्द्वसमासात्तथा मृतं हेम पञ्चत्वमाप्तं कनकं च एतच्चतुष्कं शतावरीरसोपेतं शतमूलीद्रवभावितं पुनर्घृतमधुलीढं घृतमधुभ्यां लीढमास्वादितं सत्वर्षाद्वर्षपरिमाणात्मृत्युव्याधिं जरां च हन्ति नाशयतीत्यर्थः ॥ १९.३५ः१ ॥
____________________________________________________
ङृह्त्१९.३६
एषामेकं योगं क्षेत्रीकरणार्थमादितः कृत्वा ।
संवत्सरमयनं वा निःश्रेयससिद्धये योज्यम् ॥ ङृह्त्_१९.३६ ॥
*टीका.. मुग्धावबोधिनींः
विशेषमाह एषामित्यादि ॥ १९.३६ः१ ॥
एषां पूर्वोक्तानां योगानां मध्ये आदित आरम्भतः एकं योगं कृत्वा निःश्रेयसो मोक्षः तत्सिद्धये निष्पत्तये संवत्सरं वर्षपरिमाणमयनं षण्मासपर्यन्तं योज्यं भोक्तृषु इति शेषः ॥ १९.३६ः२ ॥
मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतमित्यमरः ॥ १९.३६ः३ ॥
____________________________________________________
ङृह्त्१९.३७-३८
अभ्रकसस्यकमाक्षिकरसकदरदविमलवज्रगिरिजतुभिः ।
वैक्रान्तकान्ततीक्ष्णैर्हाटकतारारताम्रैश्च ॥ ङृह्त्_१९.३७ ॥
संयुक्तैर्व्यस्तैर्वा द्वित्रिचतुर्भिर्यथालाभम् ।
जीर्णहतो रसेन्द्रो रसायने शस्यते सद्भिः ॥ ङृह्त्_१९.३८ ॥
*टीका.. मुग्धावबोधिनींः
बहून्निर्दिशन् विशेषमाह अभ्रकेत्यादि ॥ १९.३७-३८ः१ ॥
अभ्रकः प्रसिद्धः सस्यकश्चपलः माक्षिकं ताप्यं रसकं खर्परं दरदं हिङ्गुलं विमलं सितमाक्षिकं वज्रकं हीरकं गिरिजतु शिलाजतु एतैः ॥ १९.३७-३८ः२ ॥
पुनर्वैक्रान्तेत्यादि वैक्रान्तं वज्रभूमिजं रजः कान्तं लोहजाति तीक्ष्णं सारः एतैश्च ॥ १९.३७-३८ः३ ॥
हाटकतारारताम्रैश्च हाटकं हेम तारं रूप्यमारं राजरीतिः ताम्रं शुल्बमेतैश्च एतैरुद्दिष्टैः अभ्रकादिताम्रान्तैः समस्तैरेकत्रीकृतैर्व्यस्तैर्वा पृथक्कृतैर्वा यथालाभं लाभमनतिक्रम्य भवतीति यथालाभं द्वित्रिचतुर्भिर्वा अभ्राद्यैर्जीर्णहतो रसेन्द्रो जीर्णाभ्रादीनां हतिर्यस्मिन् स तथोक्तः रसायने जराव्याधिविनाशने रसशास्त्रमर्मज्ञैः शस्यते अभ्रादयः प्रशस्ता उक्ता इत्यर्थः ॥ १९.३७-३८ः४ ॥
युग्मम् ॥ १९.३७-३८ः५ ॥
वज्रादिभिर्हतः सूतो हतसूतसमोऽपरः ।
शृङ्खलाबद्धनामा स्याद्देहलोहविधायकः ।
अस्य प्रभावाद्वेगेन व्याप्तिर्भवति निश्चितम् ।
इति ग्रन्थान्तरे ॥ १९.३७-३८ः६ ॥
____________________________________________________
ङृह्त्१९.३९
विषनागवङ्गबद्धो भुक्तो हि रसः करोति कुष्ठादीन् ।
उपरसबद्धे तु रसे स्फुटन्ति भुक्ते तथाङ्गानि ॥ ङृह्त्_१९.३९ ॥
*टीका.. मुग्धावबोधिनींः
कुत्सितविधानं दर्शयन्नाह विषेत्यादि ॥ १९.३९ः१ ॥
विषनागवङ्गबद्धो रसः विषं सक्तुकादिकं नागः सीसकः वङ्गं त्रपु एतैर्बद्धो बन्धनमाप्तः स भुक्तः सन् हि निश्चितं कुष्ठादीन् कुष्ठज्वरक्षयादीन् ॥ १९.३९ः२ ॥
उपरसबद्धे रसे उपरसैर्गन्धादिभिः अष्टभिः बद्धो बन्धनमापन्नो योऽसौ रसः तस्मिन् भुक्ते सति भोक्तुरङ्गानि हस्तपादादीनि स्फुटन्ति ॥ १९.३९ः३ ॥
____________________________________________________
ङृह्त्१९.४०-४१
घनसत्त्वकान्तकाञ्चीभास्करतीक्ष्णैश्च चीर्णजीर्णस्य ।
सूतस्य गुञ्जामात्रा माषकमेकं परा मात्रा ॥ ङृह्त्_१९.४० ॥
शतवेधिनो द्विगुञ्जा तथा सहस्रैकवेधिनो गुञ्जा ।
अर्धा च लक्षवेधिनः सिद्धार्थः कोटिवेधिनः सूतात् ॥ ङृह्त्_१९.४१ ॥
*टीका.. मुग्धावबोधिनींः
जीर्णरसस्य मात्रामाह घनेत्यादि ॥ १९.४०-४१ः१ ॥
एतैश्चीर्णजीर्णं पूर्वं चीर्णं कवलितं पश्चाज्जीर्णं जारणमापन्नं तस्य सूतस्य गुञ्जा मात्रा भक्षणाय गुञ्जा यथा ।
षट्सर्षपैर्यवस्त्वेको गुञ्जैका तु यवैस्त्रिभिः ।
इति ॥ १९.४०-४१ः२ ॥
परा अन्या मात्रा अन्यजीर्णसूतस्य मात्रा माषमेकं माषको यथा ।
गुञ्जाभिर्दशभिः प्रोक्तो माषको ब्रह्मणा पुरा ।
इति ॥ १९.४०-४१ः३ ॥
एतैः कैः घनसत्त्वकान्तकाञ्चीभास्करतीक्ष्णैः अभ्रकसत्त्वचुम्बकताप्यताम्रसारैरिति ॥ १९.४०-४१ः४ ॥
अथ वेधविशेषेण परिमाणमाह शतेत्यादि ॥ १९.४०-४१ः५ ॥
शतवेधिनः सूतस्य गुञ्जाप्रमाणा मात्रा ज्ञेया तथा तेन प्रकारेण सहस्रैकवेधिनः सूतस्यापि गुञ्जामानमेव लक्षवेधिनः सूतातर्धा रक्तिका पुनः कोटिवेधिनः सूतात्सिद्धार्थः सर्षपमाना ॥ १९.४०-४१ः६ ॥
शतांशेन वेधो विद्यते यस्मिन् स शतवेधी तस्य शतवेधिनः ॥ १९.४०-४१ः७ ॥
एवं सर्वत्र ज्ञेयम् ॥ १९.४०-४१ः८ ॥
____________________________________________________
ङृह्त्१९.४२
हेमनियोजितसूतं कान्तमणिं विविधगुटिकाश्च ।
जपहोमदेवतार्चननिरतः पुमानिति धारयेत् ॥ ङृह्त्_१९.४२ ॥
*टीका.. मुग्धावबोधिनींः
जपः अघोरादिजपः होमस्तद्दशांशेन हवनं देवतार्चनं देवतानां गणेशविष्णुरविशिवचण्डीनामर्चनमेतेषु निरतः सक्तः एवंविधिः पुमान् ॥ १९.४२ः१ ॥
इति किं हेमनियोजितसूतं धारयेथेम्ना सह नियोजितो मिश्रितो यः सूतः तं कान्तमणिः कान्तश्चासौ मणिश्च वा कान्तमणिः कान्तसंज्ञको मणिः च पुनः विविधगुटिकाः विविधाश्च ता गुटिकाश्चेति ॥ १९.४२ः२ ॥
____________________________________________________
ङृह्त्१९.४३-४४
शालेस्तु पिष्टकोद्भवभोजनमाज्यं च मुद्गमांसरसैः ।
यवगोधूमान्नानि च गोक्षीरं मस्तु च विशेषात् ॥ ङृह्त्_१९.४३ ॥
पाने जलमक्षारं मधुराणि यानि कानि शस्तानि ।
पेयं चातुर्जातकर्पूरामोदमुदितमुखम् ॥ ङृह्त्_१९.४४ ॥
*टीका.. मुग्धावबोधिनींः
अथ पथ्यानाह शालेरित्यादि ॥ १९.४३-४४ः१ ॥
शालेः षष्टिकादेः पिष्टोद्भवभोजनं पिष्टकोत्पन्नं च तद्भोजनं चेति ॥ १९.४३-४४ः२ ॥
आज्यं घृतम् ॥ १९.४३-४४ः३ ॥
कैः सह मुद्गमांसरसैः सह मुद्गाः प्रतीताः अत्र विशेषात्मांसानि भोज्यानि गोक्षीरं च भोज्यं पुनर्मस्तु गोरससंभवं विशेषात्भोज्यम् ॥ १९.४३-४४ः४ ॥
पाने अक्षारं जलं मिष्टजलं प्रयोज्यं पुनः यानि कानि मिष्टानि द्रव्याणि अत्रानुक्ततमानि प्रशस्तानि श्रेष्ठानि पुनः चतुर्जातककर्पूरामोदमुदितमुखं यथा स्यात्तथा द्रव्यं पेयं पातव्यं चतुर्जातकं त्वक्पत्रैलानागकेसरं कर्पूरं घनसारमेषामामोदेन परिमलेन मुदितं यन्मुखं वासितमुखमित्यर्थः ॥ १९.४३-४४ः५ ॥
युवत्या जल्पनं कार्यं युवत्या चाङ्गमर्दनम् ।
तस्याः स्पर्शनमात्रेण देहे क्रमति सूतकः ।
इति विशेषो ग्रन्थान्तरात् ॥ १९.४३-४४ः६ ॥
____________________________________________________
ङृह्त्१९.४५
मद्यारनालपानं तैलं दधि वा रसे नेष्टम् ।
कटुतैलेनाभ्यङ्गं वपुषि न कुर्याद्रसायने मतिमान् ॥ ङृह्त्_१९.४५ ॥
*टीका.. मुग्धावबोधिनींः
अपथ्यान्याह मद्येत्यादि ॥ १९.४५ः१ ॥
मद्यारनालेत्यादि मद्यं सुरा आरनालं काञ्जिकं तयोः पानं नेष्टं न प्रशस्तं वा तैलं दधि न नेष्टं तैलं तिलोद्भवं दधि दुग्धविकारः एतयोरपि पानं न प्रशस्तं कटुतैलेन सर्षपतैलेन वपुषि अभ्यङ्गं मर्दनं न कुर्यात् ॥ १९.४५ः२ ॥
मतिमान् रसायने अधिकरणे इत्यर्थः ॥ १९.४५ः३ ॥
____________________________________________________
ङृह्त्१९.४६
दग्धमपक्वममधुरमुष्णं क्षीरं न नष्टमांसं तु ।
पर्युषितं फलमूलं भक्ष्यं नैवात्र निर्दिष्टम् ॥ ङृह्त्_१९.४६ ॥
*टीका.. मुग्धावबोधिनींः
दग्धं द्रव्यं रसायने नेष्टमपक्वं च नेष्टममधुरं कटुतिक्तकषायाम्ललवणं च नेष्टमुष्णं वह्नितप्तमिति तु पुनः नष्टमांसं निन्दितमांसं नेष्टं पुनः पर्युषितं संधानीकृतमेवंविधं फलमूलं फलं मूलं च अत्र रसायने भक्ष्यं न निर्दिष्टं कथितम् ।
कूष्माण्डं कर्कटी चैव कलिङ्गं कारवेल्लकम् ।
कुसुम्भिका च कर्कोटी कदली काकमाचिका ।
ककाराष्टकमेतद्धि वर्जयेद्रसभक्षकः ।
इति ग्रन्थान्तरे ॥ १९.४६ः१ ॥
____________________________________________________
ङृह्त्१९.४७
अथ लङ्घनं न कार्यं यामाधो भोजनं नैव ।
इत्यपनीय निषिद्धं रसराजे धीमता कार्यम् ॥ ङृह्त्_१९.४७ ॥
*टीका.. मुग्धावबोधिनींः
अस्मिन् रसायने लङ्घनं न कार्यं पुनर्यामाधः प्रहरमध्ये भोजनं न कार्यमित्यर्थः ॥ १९.४७ः१ ॥
____________________________________________________
ङृह्त्१९.४८
वर्जितचिन्ताकोपः कुर्याच्च सुखाम्बुना स्नानम् ।
नोच्चाटयेद्ग्रहज्वरराक्षसभूतानि मातृदेवींश्च ॥ ङृह्त्_१९.४८ ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह वर्जितेत्यादि ॥ १९.४८ः१ ॥
वर्जितचिन्ताकोप इति चिन्ता च कोपश्चेति चिन्ताकोपौ तौ वर्जितौ येन सः एवंविधः सन् सुखाम्बुना सुखोष्णाम्बुना स्नानं कुर्यात् ॥ १९.४८ः२ ॥
ग्रहराक्षसभूतानि नोच्चाटयेत्ग्रहणाद्ग्रहाः पिशाचादयः ज्वरो रोगराजः राक्षसाः क्रव्यादाः भूतानि देवयोनयः एतानि नोच्चाटयेत्स्वस्थानान्न चालयेत् ॥ १९.४८ः३ ॥
पुनर्मातृदेवींश्च मातरः सप्तमातरः देव्यो दक्षिण्यादयः ता अपि नोच्चाटयेत् ॥ १९.४८ः४ ॥
____________________________________________________
ङृह्त्१९.४९
परमे ब्रह्मणि लीनः प्रशान्तचित्तः समत्वमापन्नः ।
आश्वासयन् त्रिवर्गं विजित्य रसानन्दपरितृप्तः ॥ ङृह्त्_१९.४९ ॥
*टीका.. मुग्धावबोधिनींः
चिन्ताकोपनिरोधे हेतुमाह परमे इत्यादि ॥ १९.४९ः१ ॥
रसायनकर्ता परमे ब्रह्मणि चित्स्वरूपे लीनः तन्मयतां प्राप्तो भवेत्प्रशान्तचित्तश्च विषयेभ्यो निवृत्तमना भवेत्समत्वमापन्नः स्वसुते शत्रौ च निर्वैरो यथा स्यात्तथा त्रिवर्गं धर्मार्थकामरूपं विजित्य रसानन्दपरितृप्तो भवेथर्षपरिपूरित इत्यर्थः ॥ १९.४९ः२ ॥
____________________________________________________
ङृह्त्१९.५०
यस्त्यक्त्वा शास्त्रविधिं प्रवर्तते स्वेच्छया रसे मूढः ।
तस्य विरुद्धाचारादजीर्णमुत्पद्यते नितराम् ॥ ङृह्त्_१९.५० ॥
*टीका.. मुग्धावबोधिनींः
विधेर्नियतत्वं दर्शयन्नाह य इत्यादि ॥ १९.५०ः१ ॥
यः पुमान् शास्त्रविधिं त्यक्त्वा स्वेच्छया उच्छृङ्खलमनसा रसे सूते प्रवर्तते स मूढः ज्ञानशून्यः तस्य पुंसः विरुद्धाचारात्नितरामतिशयेन अजीर्णमुत्पद्यते तद्रसाजीर्णमिति ॥ १९.५०ः२ ॥
____________________________________________________
ङृह्त्१९.५१
सम्भवतीहाजीर्णे निद्रालस्यं ज्वरस्तमो दाहः ।
नाभितलशूलमल्पं जडतारुचिरङ्गभङ्गश्च ॥ ङृह्त्_१९.५१ ॥
*टीका.. मुग्धावबोधिनींः
रसाजीर्णलक्षणमाह सम्भवतीत्यादि ॥ १९.५१ः१ ॥
इह रसायने अजीर्णं यदा सम्भवति उत्पद्यते तदा एतानि लक्षणानि स्युः ॥ १९.५१ः२ ॥
निद्रा अतिशयेन निद्रा आलस्यमङ्गाङ्गशैथिल्यं ज्वरः प्रसिद्धः तमो मूर्छा दाह ऊष्मा पुनर्नाभितले बस्तौ अल्पमल्पं शूलं जडतास्यस्य अरुचिः निरभिलापिता भङ्गोऽङ्गस्य अङ्गमर्दनं भोक्तुरेतानि लक्षणानि रसाजीर्णे स्युरित्यर्थः ॥ १९.५१ः३ ॥
____________________________________________________
ङृह्त्१९.५२
ज्ञात्वेत्येवमजीर्णमस्य प्रच्छादनाय योगोऽयम् ।
कार्यो दिवसत्रितयं संत्यज्य रसायनं सुधिया ॥ ङृह्त्_१९.५२ ॥
*टीका.. मुग्धावबोधिनींः
अजीर्णेऽप्युपायमाह ज्ञात्वेत्यादि ॥ १९.५२ः१ ॥
इत्येवमुक्तप्रकारेण निद्रादिलक्षणेनाजीर्णं ज्ञात्वा धीमता पुंसा अस्याजीर्णस्य प्रच्छादनाय विनाशाय रसायनं संत्यज्य दिवसत्रितयं योगः कार्यः ॥ १९.५२ः२ ॥
____________________________________________________
ङृह्त्१९.५३
कर्कोटीमूलरसं कषायमथ सिन्धुना पिबेत्त्रिदिनम् ।
सौवर्चलसहितं वा गोजलसहितं रसाजीर्णे ॥ ङृह्त्_१९.५३ ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह कर्कोटीत्यादि ॥ १९.५३ः१ ॥
कर्कोटीमूलरसं कर्कोटी या वल्ली तस्याः मूलरसं त्रिदिनं पिबेत्वाथ कषायं कथं सिन्धुना सैन्धवेन सहितं पिबेत्वा तत्क्वाथं गोजलसहितं गोमूत्रमिलितं रसाजीर्णे पिबेत्सौवर्चलसहितमिति सौवर्चलस्य प्रतिवापं कर्कोटीरसे निक्षिप्य पिबेत्त्रिदिनं सर्वत्रेत्यर्थः ॥ १९.५३ः२ ॥
____________________________________________________
ङृह्त्१९.५४
पिष्ट्वाथ मातुलुङ्गीं पिबति रसं शुण्ठिसैन्धवं प्रातः ।
क्वथितं गोसलिलेन तु रक्षति सम्यक्रसाजीर्णम् ॥ ङृह्त्_१९.५४ ॥
*टीका.. मुग्धावबोधिनींः
अन्यच्चाह पिष्ट्वेत्यादि ॥ १९.५४ः१ ॥
मातुलुङ्गस्येयं जटा मातुलुङ्गी तां पिष्ट्वा तस्या रसं शुण्ठी सैन्धवं च यः पुमान् प्रातः पिबति तु पुनः क्वथितं तस्याः कषायं गोसलिलेन यः पिबति रसाजीर्णे तं पुरुषं रक्षति न विनाशयतीत्यर्थः ॥ १९.५४ः२ ॥
____________________________________________________
ङृह्त्१९.५५
कथमपि यच्चाज्ञानात्नागादिकलङ्कितो रसो भुक्तः ।
तन्नोदनाय च पिबेत्गोजलकटुकारवल्लिशिफाः ॥ ङृह्त्_१९.५५ ॥
*टीका.. मुग्धावबोधिनींः
नागादियुक्तरसभुक्तोपायमाह कथमपीत्यादि ॥ १९.५५ः१ ॥
च पुनः यत्यस्मात्नागादिकलङ्कितो रसः नागवङ्गसहितो रसोऽज्ञानात्कथमपि भुक्तः तन्नोदनाय तस्य नागवङ्गाङ्कितरसस्य नोदनाय गोजलकटुकारवल्लिशिफाः गोजलं गोमूत्रं कटुतिक्ता कारवल्लीशिफा कारवल्लीलतायाः शिफा जटा एतदौषधं पिबेत्तेन नागवङ्गादिदोषो विनश्यति ॥ १९.५५ः२ ॥
____________________________________________________
ङृह्त्१९.५६
शरपुंखासुरदालीपटोलबिम्बीश्च काकमाची च ।
एकतमा चेदुदिता शृतामजीर्णे हि सेवेत ॥ ङृह्त्_१९.५६ ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह शरपुङ्खेत्यादि ॥ १९.५६ः१ ॥
आसामौषधीनां मध्ये एकतमा या उदिता कथिता शृता क्वथिता तां हि निश्चितमजीर्णे सेवेत तेन अजीर्णं नश्यतीति भावः ॥ १९.५६ः२ ॥
ताः का औषध्यः शरपुङ्खा प्रसिद्धा सुरदाली देवदाली पटोलं प्रतीतं नाम बिम्बी गोला काकमाची प्रसिद्धा एता इत्यर्थः ॥ १९.५६ः३ ॥
____________________________________________________
ङृह्त्१९.५७
अत्यम्ललवणकटुकै रससंस्रावो जरो भवति ।
अतिमधुरैश्च विनश्यति जठरवह्निः सततभुक्तैश्च ॥ ङृह्त्_१९.५७ ॥
*टीका.. मुग्धावबोधिनींः
तच्चाह अत्यम्लेत्यादि ॥ १९.५७ः१ ॥
अत्यम्लं चुक्रादि अतिलवणं क्षारादि अतिकटुकं निम्बकटुकीत्यादि एतै रससंस्रावो जरो जारणकरो भवति जरतीति जरः ॥ १९.५७ः२ ॥
पुनरपि मधुरैः इक्षुरसादिभिः सततभुक्तैः जठरवह्निः कोष्ठाग्निः विनश्यति अभ्याश्रयो विनश्यतीत्यभिप्रायः ॥ १९.५७ः३ ॥
____________________________________________________
ङृह्त्१९.५८
यः पुनरेवं सततं करोति मूढः समाहारम् ।
तस्य विनश्यत्यग्निर्न खलु क्रामति रसो भवेद्व्याधिः ॥ ङृह्त्_१९.५८ ॥
*टीका.. मुग्धावबोधिनींः
तद्विशेषमाह य इत्यादि ॥ १९.५८ः१ ॥
यः पुनर्मूढो मूर्खोऽजीर्णानन्तरमत्यम्ललवणकटुकाहारं सततं निरन्तरं करोति तस्याग्निः कोष्ठाग्निर्विनश्यति रसश्च न क्रामति स्वगुणान्न प्रकाशयति ॥ १९.५८ः२ ॥
तर्हि किं भवेदित्याह व्याधिर्भवेदित्यर्थः ॥ १९.५८ः३ ॥
____________________________________________________
ङृह्त्१९.५९
यस्तु महाग्निसहत्वाद्रसाच्छतसहस्रलक्षवेधीशः ।
अनया क्रियया सिध्यति स यत्नाद्रसक्रियायोगात् ॥ ङृह्त्_१९.५९ ॥
*टीका.. मुग्धावबोधिनींः
रसाच्छतसहस्रलक्षवेधी भवेत्स यत्नातनया पूर्वोक्तक्रियया सिध्यति ॥ १९.५९ः१ ॥
____________________________________________________
ङृह्त्१९.६०
शतसहस्रलक्षवेधी कोटिरथार्बुदनिर्बुदं वापि ।
पिष्टं भुञ्जीत रसं बलिसहितं सिद्धिदो भवति ॥ ङृह्त्_१९.६० ॥
*टीका.. मुग्धावबोधिनींः
अथोत्तरविधानेन लक्षणमाह शतेत्यादि ॥ १९.६०ः१ ॥
शतसहस्रलक्षवेधी रसः ॥ १९.६०ः२ ॥
बलिसहितं पिष्टं रसं भुञ्जीत बलिना गन्धकेन सहितं शतादारभ्य सहस्रलक्षकोट्यर्बुदानां क्रमेण दशगुणोत्तरं संख्या ज्ञातव्या ॥ १९.६०ः३ ॥
एवं कृतः सन् रसः सिद्धिदो यथोक्तगुणकृद्भवतीत्यर्थः ॥ १९.६०ः४ ॥
____________________________________________________
ङृह्त्१९.६१-६४
क्रामति ततो हि सूतो जनयति पुत्रांश्च देवगर्भाभान् ।
स्त्रीषु च निश्चलकामो भवति वलीपलितनिर्मुक्तः ॥ ङृह्त्_१९.६१ ॥
बुद्धिर्बलं प्रभावः सह चायुषा वर्धते रसायनिनः ।
प्राप्तस्य दिव्यबुद्धिं दिव्याश्च गुणाः प्रवर्धन्ते ॥ ङृह्त्_१९.६२ ॥
एवं रससंसिद्धो दुःखजरामरणवर्जितो गुणवान् ।
खेगमनेन च नित्यं संचरते सकलभुवनेषु ॥ ङृह्त्_१९.६३ ॥
दाता भुवनत्रितये स्रष्टा सोऽपीह पद्मयोनिरिव ।
भर्ता विष्णुरिव स्यात्संहर्ता रुद्रवद्भवति ॥ ङृह्त्_१९.६४ ॥
*टीका.. मुग्धावबोधिनींः
पूर्वविधानं प्रशंसयन्नाह क्रामतीत्यादि ॥ १९.६१-६४ः१ ॥
ततः पूर्वविधानतः सूतः क्रामति स्वगुणान् प्रकाशयति सूते क्रामति सति देवगर्भाभान् पुत्रान् जनयति देवगर्भवताभा कान्तिर्येषां ते तान् पुनः स्त्रीषु निश्चलः सदास्थायी कामो रत्यभिलाषो वा मदनो यस्य स तथोक्तः पुनर्वलीपलितनिर्मुक्तः वल्यश्च पलितानि च तैर्निर्मुक्तो विवर्जितः वलिश्चर्म जराकृतमित्यमरः पलितं केशश्वेतत्वमेवंविधो भवति पुमानिति शेषः ॥ १९.६१-६४ः२ ॥
पुनः किं स्यादित्याह बुद्धिरित्यादि ॥ १९.६१-६४ः३ ॥
रसायनिनः रसायनं प्राप्तस्य हि पुंसः बुद्धिर्वर्धते बलं च वर्धते केन सह आयुषा जीवितकालेन सह पुनर्दिव्यबुद्धिं प्राप्तस्य रसायनिनः दिव्याः प्रकरणाद्गुणा मेधादयः प्रवर्धन्ते प्रकाशन्त इत्यर्थः ॥ १९.६१-६४ः४ ॥
तच्चाह एवमित्यादि ॥ १९.६१-६४ः५ ॥
एवममुना प्रकारेण रससंसिद्धः पुरुषः रसः पारदः संसिद्धः सम्यक्सिद्धो यस्य वा रसेन संसिद्धः जरामरणवर्जितो भवति वृद्धत्वव्याधिरहित इत्यर्थः गुणवांश्च भवति गुणा मेधादयः ॥ १९.६१-६४ः६ ॥
पुनः खेगमनेन आकाशगमनेन नित्यं सकलभुवनेषु समस्तलोकेषु संचरते इत्यर्थः ॥ १९.६१-६४ः७ ॥
दाता भुवनत्रितये स्वर्गमृत्युपाताले भवति सर्वाधिक इत्यभिप्रायः ॥ १९.६१-६४ः८ ॥
सोऽपि पुमानिह भुवनत्रितये स्वर्गमृत्युपाताले स्रष्टा सर्जको भवति ॥ १९.६१-६४ः९ ॥
क इव पद्मयोनिरिव ब्रह्मेव ॥ १९.६१-६४ः१० ॥
पुनः भर्ता पालनार्थं त्रिकस्य विष्णुरिव च भवति ॥ १९.६१-६४ः११ ॥
पुनः संहर्ता रुद्रवत्भवति सृष्टिस्थितिविनाशेषु ब्रह्मादीनां त्रयीव स्यादित्यर्थः ॥ १९.६१-६४ः१२ ॥
____________________________________________________
ङृह्त्१९.६५-६६
<अमरसुन्दरीगुटिका>
कान्ताभ्रसत्त्वहेमतारं चार्कः समांशतः संख्या ।
बद्धं सूतसमांशं ध्मातं गोलं कृतं खोटम् ॥ ङृह्त्_१९.६५ ॥
बाह्ये रसेन लिप्तं वदनगतं शस्त्रवारकं रोगान् ।
हन्ति हि शरीरसंस्थान्नाम्नामरसुन्दरी गुटिका ॥ ङृह्त्_१९.६६ ॥
*टीका.. मुग्धावबोधिनींः
अमरसुन्दरीगुटिकाविधानं गुणांश्चाह कान्तेत्यादि ॥ १९.६५-६६ः१ ॥
कान्तं चुम्बकमभ्रं युग्मम् ॥ १९.६५-६६ः२ ॥
अभ्रकसत्त्वं प्रतीतं हेम कनकं तारं च ततेकवद्भावो द्वन्द्वत्वात्पुनरर्कः ताम्रमेषां कान्तादीनां संख्या गणना समांशतः समभागतो ज्ञेया ॥ १९.६५-६६ः३ ॥
पुनः सूतसमांशं पारदेन तुल्यभागं ध्मातं कुर्यातन्धमूषायामिति शेषः ॥ १९.६५-६६ः४ ॥
किंकृतं सत्बाह्ये बद्धगोलोपरि रसेन मारणायामुक्तद्रवेण लिप्तं सत्ध्मातं कुर्यात् ॥ १९.६५-६६ः५ ॥
इत्थं कृतं खोटं पिष्टिस्तम्भः गोलाकारं भवति ॥ १९.६५-६६ः६ ॥
तत्वदनगतं मुखान्तःस्थितं शस्त्रवारकं स्यातस्मिंश्च वदनं गते सति शरीरे खड्गादीनां प्रहारो न लगति ॥ १९.६५-६६ः७ ॥
गुटिरियं नाम्ना अभिधानेन अमरसुन्दरीगुटिका ज्ञेया ॥ १९.६५-६६ः८ ॥
इयं शरीरस्था मुखे अन्यस्थले वा स्थिता सती शरीरस्थान् रोगान् हन्ति विनाशयति ॥ १९.६५-६६ः९ ॥
अनुक्तमपि मानं पञ्चनिष्कप्रमाणं ज्ञेयमित्यर्थः ॥ १९.६५-६६ः१० ॥
इत्यमरसुन्दरी गुटिका ॥ १९.६५-६६ः११ ॥
हेम्ना वा रजतेन वापि सहितो ध्मातो व्रजत्येकतामक्षीणो निविडो गुडश्च गुटिकाः करोति दीर्घोज्ज्वलाः ॥ १९.६५-६६ः१२ ॥
चूर्णं तत्पटुवत्प्रयाति विहितघृष्टो न मुञ्चेन्मलं निर्गन्धो द्रवति क्षणात्स हि मतो बद्धाभिधानो रसः ।
इति ग्रन्थान्तरे ॥ १९.६५-६६ः१३ ॥
____________________________________________________
ङृह्त्१९.६७-७२
<मृतसंजीवनीगुटिका>
यः पूर्वोक्तः सूतो लक्षादूर्ध्वं च वेधते लोहान् ।
बद्धे सारणयोगैर्मुखास्थे च जारयेद्रत्नम् ॥ ङृह्त्_१९.६७ ॥
युक्तः समांशनागैः सुरलोहायस्कान्तताप्यसत्त्वैश्च ।
अभ्रकसत्त्वसमेता गुटिका मृतसंजीवनी नाम ॥ ङृह्त्_१९.६८ ॥
हेमयुता गुलुच्छके मुकुटे वा कण्ठसूत्रकर्णे वा ।
मृत्युभयशोकरोगविषशस्त्रजरासततदुःखसङ्घातम् ॥ ङृह्त्_१९.६९ ॥
यस्याङ्गे निहितेयं गुटिका मृतसंजीवनी नाम ।
सोऽसुरयक्षकिन्नरपूज्यतमः सिद्धयोगीन्द्रैः ॥ ङृह्त्_१९.७० ॥
प्रक्षाल्य तोयमध्ये गुटिका घटिकाद्वयं ततः क्षिप्त्वा ।
तच्चेयं वदनगता मृतकस्योत्थापनं कुरुते ॥ ङृह्त्_१९.७१ ॥
तोयं तदेव पिबति स्वस्थं पथ्यान्वितस्ततः पुरुषः ।
लभते दिव्यं स वपुर्मृत्युजरावर्जितः सुदृढम् ॥ ङृह्त्_१९.७२ ॥
*टीका.. मुग्धावबोधिनींः
मृतसंजीवनीगुटिकाविधानं गुणांश्चाह य इत्यादि ॥ १९.६७-७२ः१ ॥
यः पूर्वोक्तः सूतो लक्षादूर्ध्वं कोट्यर्बुदादि लोहान् रूप्यादीन् वेधते तस्मिन्बद्धे सूते मुखस्थे प्रकाशमुखयन्त्रे स्थापिते सारणयोगैः सारणतैलादिभिः रत्नं वज्रादिकं जारयेत् ॥ १९.६७-७२ः२ ॥
पुनः समांशनागैस्तुल्यांशसीसकैः सूतो युक्तः कार्यः सुरलोहायस्कान्तताप्यसत्त्वैश्च युक्तः कार्यः सुरलोहं कनकमयस्कान्तः कान्तलोहं ताप्यसत्त्वं माक्षिकसारमेतैः अभ्रकसत्त्वसमेता सती मृतसंजीवनी नाम गुटिका भवति पुनस्तत्र मूषायामियं हेमयुता कार्या ॥ १९.६७-७२ः३ ॥
पुनरियं गुटिका नित्यं यस्य गुलुच्छके निहिता भवति वा मुकुटे किरीटे वा कण्ठसूत्रकर्णे कण्ठसूत्रं च कर्णश्च कण्ठसूत्रकर्णं तस्मिन् वा अङ्गे हस्तपादादौ तस्य मृत्युभयशोकरोगशस्त्रजरासततदुःखसंघातं नश्यति इत्यध्याहारः ॥ १९.६७-७२ः४ ॥
एतेषु स्थानेषु यस्येयं निहिता स्थापिता भवति स असुरयक्षकिन्नरपूज्यतमः असुरा दैत्याः यक्षा देवयोनयः किन्नराः तुरङ्गवक्त्राः तेषां पूज्यतमो भवति अतिशयेन पूज्यः पूज्यतमः ॥ १९.६७-७२ः५ ॥
सिद्धयोगीन्द्रैः पूज्यतमः सिद्धा देवविशेषाः योगीन्द्रा नागार्जुनादयः ततोऽनन्तरं मृतजीवनी जलमध्ये क्षिप्त्वा प्रक्षाल्य घटिकाद्वयं वदनगता सती मृतकस्य पुरुषस्योत्थापनं प्रबोधनं कुरुते यः पुमान् पुरुषः तदेव तोयं गुटिकाक्षालनं स्वच्छं निर्मलं पिबति किंविशिष्टः पथ्यान्वितो हितावहद्रव्यभक्षणयुक्तः स पुरुषो दिव्यं वपुः देवशरीरं लभते किंविशिष्टं दिव्यं पुनः मृत्युजरावर्जितं व्याधिपालित्यरहितं पुनः सुदृढं वज्रवद्गुटिकापरिमाणं पाकविधानं च पूर्ववदित्यर्थः ॥ १९.६७-७२ः६ ॥
इति मृतजीवनीगुटिका ॥ १९.६७-७२ः७ ॥
____________________________________________________
ङृह्त्१९.७३-७४
<वज्रिणीगुटिका>
कान्तघनसत्त्वकमलं हेम च तारं यथा कृतद्वन्द्वम् ।
समजीर्णं बीजवरं वज्रयुतं वज्रिणी गुटिका ॥ ङृह्त्_१९.७३ ॥
एषा मुखकुहरगता कुरुते नवनागतुल्यबलम् ।
तद्वपुरपि दुर्भेद्यं मृत्युजरारोगनिर्मुक्तम् ॥ ङृह्त्_१९.७४ ॥
*टीका.. मुग्धावबोधिनींः
वज्रिणीगुटिकाविधानं गुणांश्चाह कान्तेत्यादि ॥ १९.७३-७४ः१ ॥
कान्तं च घनं च अनयोः सत्त्वं कान्तघनसत्त्वं कान्तसत्त्वं चुम्बकसत्त्वं घनसत्त्वमभ्रकसारं कमलं चेति कमलं ताम्रं च पुनर्हेम स्वर्णं तारं च रूप्यं पूर्ववत्यथा येन विधानेन कृतद्वन्द्वं कृतं च तत्द्वन्द्वं चेति बीजवरं समजीर्णं कार्यं किंविशिष्टं बीजवरं वज्रयुतं हीरकयुतमियं गुटिका नामतो वज्रिणी पुनरेषा वज्रिणीगुटिका मुखकुहरगता सती मुखान्तःप्राप्ता सती नवनागतुल्यबलं नवसंख्याका नागाः हस्तिनस्तैस्तुल्यं तत्समं यद्बलं तत्कुरुते तद्वपुस्तस्य मुखे गुटिकाधारिणो वपुः शरीरं दुर्भेद्यं दुःखेन भेत्तुं शक्यं पुनर्मृत्युजराव्याधिभिर्निर्मुक्तमित्यर्थः ॥ १९.७३-७४ः२ ॥
इति वज्रिणी गुटिका ॥ १९.७३-७४ः३ ॥
____________________________________________________
ङृह्त्१९.७५-७६
<खेचरीगुटिका>
धूमावलोकितरसे पञ्चमहारत्नजारिते सारिते ।
बीजेन गगनसत्त्वे माक्षिककान्तप्रयुक्तेन ॥ ङृह्त्_१९.७५ ॥
खेचरसंज्ञा गुटिका पतति मुखे क्षिप्तमात्रेण ।
देवासुरसिद्धगणैः पूज्यतमो भवति चेन्द्राद्यैः ॥ ङृह्त्_१९.७६ ॥
*टीका.. मुग्धावबोधिनींः
खेचरीगुटिकाविधानं गुणांश्चाह धूमेत्यादि ॥ १९.७५-७६ः१ ॥
धूमावलोकिते धूमवेधिनि रसे सूते पञ्चमहारत्नजारिते पञ्चसंख्याकैर्महारत्नैर्वज्रादिभिः तथा च ।
वज्रं च मौक्तिकं चैव माणिक्यं नीलमेव च ।
मरकतं च विज्ञेयं महारत्नानि पञ्चधा ।
इति ॥ १९.७५-७६ः२ ॥
पुनर्माक्षिककान्तप्रयुक्तेन ताप्यचुम्बकमिलितेन बीजेन रसे गगनसत्त्वे सारिते सति खेचरसंज्ञा गुटिका भवति ॥ १९.७५-७६ः३ ॥
तस्मिन् गुटिकारूपे रसे क्षिप्तमात्रेण मुखे पतति सति इन्द्राद्यैः देवासुरसिद्धगणैश्च पूज्यतमो भवति इन्द्रो मघवा आद्यो येषां ते तैः ॥ १९.७५-७६ः४ ॥
देवा अमराः असुराः दैत्याः सिद्धा देवविशेषाः तेषां ये गणाः समूहाः तैः कृत्वा अतिशयेन पूज्यो भवतीत्यर्थः ॥ १९.७५-७६ः५ ॥
इति खेचरसंज्ञागुटिका ॥ १९.७५-७६ः६ ॥
____________________________________________________
ङृह्त्१९.७७
रसवादोऽनन्तगुणो द्रवगोलककल्कभेदेन ।
कलितः प्रधानसिद्धैर्यैर्दृष्टस्ते जयन्ति नराः ॥ ङृह्त्_१९.७७ ॥
*टीका.. मुग्धावबोधिनींः
रसवादस्यानन्तत्वं सूचयन्नाह रसेत्यादि ॥ १९.७७ः१ ॥
रसवादोऽनन्तगुणः अनन्ता गुणा यस्य स तथोक्तः ॥ १९.७७ः२ ॥
अनन्ता अपरिमिताः ॥ १९.७७ः३ ॥
केन कृत्वा रसवादोऽनन्तः द्रवगोलककल्कानां प्रत्येकमनन्तत्वात्रसवादोऽप्यनन्तः ॥ १९.७७ः४ ॥
किंभूतः प्रधानसिद्धैः नित्यनाथादिभिः कलितः रचितः ॥ १९.७७ः५ ॥
यैर्महद्भिः सिद्धैः रसवादो दृष्टस्ते नरा जयन्ति सर्वोत्कर्षेण वर्तन्ते ॥ १९.७७ः६ ॥
____________________________________________________
ङृह्त्१९.७८-७९
शीतांशुवंशसम्भवहैहयकुलजन्मजनितगुणमहिमा ।
स जयति श्रीमदनश्च किरातनाथो रसाचार्यः ॥ ङृह्त्_१९.७८ ॥
यस्य स्वयमवतीर्णा रसविद्या सकलमङ्गलाधारा ।
परमश्रेयसहेतुः श्रेयः परमेष्ठिनः पूर्वम् ॥ ङृह्त्_१९.७९ ॥
*टीका.. मुग्धावबोधिनींः
अथ ग्रन्थकारयितुर्वंशवर्णनमाह शीतांशुवंशेत्यादि ॥ १९.७८-७९ः१ ॥
श्रीमदनो मदनाभिधो राजा जयति सर्वोत्कर्षेण वर्तते ॥ १९.७८-७९ः२ ॥
किंविशिष्टः किरातनाथः किराताः भिल्लास्तेषां स्वामी ॥ १९.७८-७९ः३ ॥
पुनः किंविशिष्टः शीतांशुवंशसंभवहैहयकुलजन्मजनितगुणमहिमा शीतांशुवंशे चन्द्रवंशे संभव उत्पत्तिर्यस्य ततेवंविधं यथैहयकुलं तत्र कुले जन्मना उद्भवेन जनितो गुणानां महिमा येन स तथोक्तः ॥ १९.७८-७९ः४ ॥
पुनः किंविशिष्टो मदनः रसाचार्यः रसविद्याजनक इत्यर्थः ॥ १९.७८-७९ः५ ॥
अथ चास्य कारयितुर्गुणवर्णनमाह यस्येत्यादि ॥ १९.७८-७९ः६ ॥
यस्य कारयितुः श्रीमदनसंज्ञस्य रसविद्या स्वयं स्वरूपत्वेनावतीर्णा प्रादुर्भूता ॥ १९.७८-७९ः७ ॥
किंविशिष्टा रसविद्या सकलमङ्गलाधारा सकलानि च तानि मङ्गलानि उत्तमरूपाणि तेषामाधारः आश्रयो यस्यां सा ॥ १९.७८-७९ः८ ॥
एषा रसविद्या शरीरमजरामरणमजरामरं कुरुते शरीरं च धर्मार्थकाममोक्षाणां मूलमतः सकलमङ्गलाधारेति युक्तम् ॥ १९.७८-७९ः९ ॥
पुनः रसविद्या श्रेयसे मुक्तौ परम उत्कृष्टो हेतुः कारणम् ॥ १९.७८-७९ः१० ॥
अनयैव रसविद्यया परमेष्ठिनो ब्रह्मणः पूर्वं प्रथमं श्रेयोऽजरामरणरूपं संजातम् ॥ १९.७८-७९ः११ ॥
____________________________________________________
ङृह्त्१९.८०
तस्मात्किरातनृपतेर्बहुमानमवाप्य रसकर्मनिरतः ।
रसहृदयाख्यं तन्त्रं विरचितवान् भिक्षुगोविन्दः ॥ ङृह्त्_१९.८० ॥
*टीका.. मुग्धावबोधिनींः
कर्ता स्वनाममहत्त्वं सूचयन्नाह तस्मादित्यादि ॥ १९.८०ः१ ॥
इदं रसतन्त्रं शास्त्रं विरचितवान् कृतवानिति भावः ॥ १९.८०ः२ ॥
किंविशिष्टमिदं तन्त्रं रसहृदयाख्यं किं कृत्वा तस्मादित्यादि ॥ १९.८०ः३ ॥
\Z
]